Library
Aagaashe Ispupaahai Gran'tha 5
Front matter
TIGHT BINDING BOOK
UNIVERSAL
LIBRARY
OU_184008
LIBRARY
UNIVERSAL
No text on this page.
OSMANIA UNIVERSITY LIBRARY
S
Accession No
Call No. 181.4
Author V96 I
Title
دور و ورونا رو on ون این ون بود این ت
last marked below.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
MS
AIIMini.
ग्रन्थाङ्कः ५
ईशावास्योपनिषत्सटीकशांकरभाष्योपेता
रत्नागिरिनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायैः आगाशे इत्पुपाढे.
लिशास्त्रिभिः संशोधिता।
ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यम् ।
शंकरानन्दकृतशावास्यदीपिका ।
मचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः ।
एतस्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
उवटार्यकृतमीशावास्यभाष्यम् ।
आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् ।
अनन्ताचार्यकृतमीशावास्यभाष्यम् ।
इदं पुस्तकत्रयं मुंबापुरीनिवासिभिर्वदशास्त्रज्ञैर्महामहोपाध्यायै.
बोडस इत्युपाढे राजारामशास्त्रिभिः संशोधितं च ।
एतानि
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये"
आयसाक्षरैर्मुद्रयिका
प्रकाशितानि ।
तृतीयेयमङ्कनावृत्तिः ।
शालिवाहनशकाब्दाः १८३४
खिस्ताब्दाः १९१२
अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यम् ०१४ आणकाः।
No text on this page.
अथेशावास्योपनिषद्भूमिका । भो भोः सुधियो विद्वांसो विदितमेवैतत्तत्रभवतां, यत्किल संप्रत्यस्मिञ्जगति विभिन्नेषु द्वीपेषु विभिन्नेषु देशेषु च ये ये धर्मास्तत्प्रतिपादका ग्रन्थाश्चोपलभ्यन्ते । तेषु वैदिकधर्मस्य वैदिकपन्यानां चातिप्राचीनत्वं मूलभूतत्वं च निर्विवादमेव सर्वैराद्रियते । यद्यपि स्वस्वधर्मा. भिमानग्रहगृहीताः केचन वेदस्य प्राचीनत्वे विवदन्तो दृश्यन्ते । ते तथैव विवदन्तु नाम । तथाऽपि निर्मत्सराः समधियो विवेकिनो नात्र विप्रतिपद्यन्ते । त इमे आर्याणां चतुर्विधपु. रुषार्थसाधनभूताश्चतुर्दशविद्यानां चतुःषष्टिकलानां च मूलभूता वेदा भगवता जगत्कारणेन परमात्मनाऽऽदिकवये ब्रह्मणे हृदैवोपदिष्टाः । स च ब्रह्मा तानितरेभ्यः प्रकाशयामास । तद्यथा- समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विमाव्यते ॥ ततोऽभूत्रिवृदोकारो योऽव्यक्तमभवः स्वराट् । स्वधानो ब्रह्मणः साक्षाद्वाचकः परमात्मनः ।। स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम्। . तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगदह ॥ धार्यन्ते यैस्त्रयो मावा गुणनामार्थवृत्तयः । ततोऽक्षरसमानायमसृजद्भगवानजः ॥ अन्तस्थोष्मस्वरस्पर्शतस्वदीर्घादिलक्षणम् । तेनासौ चतुरो वेदांश्चतुभिर्वदनैर्षिभुः ॥ सव्याहृतिकान्सोंकारांश्चातुर्होत्रविवक्षया । पुत्रानध्यापयत्तांस्तु ब्रह्मर्षान्ब्रह्मकोविदान् ॥ ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् । ते परम्परया प्राप्तास्तत्तच्छिष्यैधृतवतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः । इति । एवं ब्रह्मणः सकाशात्तत्पुत्रा ये मरीच्यादयस्तेभ्यः शिष्यप्रशिष्यादिपरम्परया वेदाः प्रसृता बभूवुः । द्वापरादिषु वेदविस्तरकारोऽन्ये वेदव्यासा आसन् । अस्मिन्नप्यन्तरे- पराशरात्सत्यवत्यामंशांशकलया विमुः। अवतीर्णो महामाग वेदं चक्रे चतुर्विधम् ।।
(२) ऋगर्वयजुस्सोम्नां राशीनुद्धृत्य वर्गशः । चतस्रः संहिताश्चके मन्त्रैर्मणिगणा इव ॥ इति । ताश्च ऋग्यजुःसामाथाख्याश्चतस्रः संहिताः पैलवैशंपायन मिनिसुमन्तुसंज्ञकैश्चतुर्भिः स्वशिध्यैहियामास भगवान्पाराशर्यो वेदव्यासः । ते च पैलादयः स्वस्वशिष्यानध्यापया- मासुः स्वां स्वां संहिताम् । तत्र यजुर्वेदधरस्य वैशंपायनत्य याज्ञवल्क्यप्रभृतयो बहवः शिष्या आसन् । अथ कदाचिद्भगवान्वैशंपायनो ब्रह्महत्यां बालहत्यां स्वस्त्रीयहत्यां चावाप्तवानाकस्मि- केन दैवयोगेन । तदुक्तं विष्णुपुराणे- ऋषिर्योऽद्य महामेरौ समाजे नाऽऽगमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः समयोऽभूत्कृतो द्विज । वैशंपायन एवैकस्तं व्यतिक्रान्तवांस्तदा ॥ स्वतीयं बालकं सोऽथ पदा स्पृष्टमघातयत् । इति । एवमृषिकृतसमयानुसारेण मेरुपर्वत ऋषिसमानेऽगमनाद्धह्महत्यामनिच्छ्याऽपि पदा स्पृष्टस्य बालस्य मरणात्स्वस्रीयहत्यां बालहत्यां च लब्धवतो वैशंपायनस्य शिष्या गुरोनिदे. शेन तत्पापशान्तय उग्रं तपश्चरुः । अतस्तेषां चरकाध्वर्यव इति प्रथाऽऽसीत् । एवं तपश्चर- तोन्यान्सहाध्यायिनोऽवजानन्निव- याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ।। सतीर्थ्यानधिक्षिपता याज्ञस्येन- इत्युक्तो गुरुरप्याह कुँपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाऽऽश्चिति ॥ सोऽपि प्रभाववादिशप्यो याज्ञवल्क्यो गुरोर्वेशंपायनादधीतं यजुषां गणं छर्दित्वा तद- न्तिकानिर्गतः । अथ तच्छर्दितान्यजुर्गणान्वीक्ष्य वेदलोलुपा ऋषयश्चर्दितस्य विप्ररूपेणाऽऽ. दानमनुचितमिति विचार्य तित्तिरसंज्ञकपक्षिरूपेण याज्ञवल्क्यस्यक्तान्यजुर्गणानाददुः । ततश्च सा तैत्तिरीयेति प्रसिद्धा शाखाऽभवत् । अथ याज्ञवल्क्यो गुरोर्वैशंपायनादप्यधिकानि यजूंषि गवेषयन्भगवन्तमर्क चतुर्णी वेदा. नामीश्वरमुपतस्थे । तथा च श्रुतिः- ऋग्भिः पूर्वाह्न दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदेरशून्यस्त्रिभिरेति सूर्यः ॥ इति ।
(३) तस्य भक्त्या तुष्टो भगवानादित्यो वानिरूपधरो भूत्वा- यजूंष्ययातयामानि मुनयेऽदात्मसादितः । इति । एवं याज्ञवल्योऽर्काद्वेदमधीत्य कण्वमध्यंदिनप्रभृतीस्वशिष्यानध्यापयामास । ते च रविणाऽश्वरूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा वाजसनी. संज्ञास्तासां ग्रहणाद्वाजसनेयिन इत्याचक्षते । तदेवं यजुर्वेदस्य द्वौ भेदौ । वैशंपायनेन महर्वेदव्यासादधीता चरकाध्वर्यवादीस्वशि- प्यानध्यापिता संहिता कृष्णयजुःसंहितेत्यभिधीयते । याज्ञवल्क्येन वाजिरूपधरात्सूर्या. दधीता कण्वमध्यंदिनादीनध्यापिता संहिता शुक्लयजु:संहितेत्याचक्षते । शुक्लयजुर्वेदस्य पञ्चदश शाखाः । तदुक्तं होलीरभाप्ये- " आदित्यनाधायित्वादादित्यान्युच्यन्ते । वाज इत्यन्नस्य नामधेयम् । 'अन्नं वैवाज' इति श्रुतेः । वाजस्य सनिर्दानं यस्य महर्परस्ति सोऽयं वाजसनिः । तस्य पुत्रो वाजसनेयः। तस्य याज्ञवल्क्य इति नामधेयम् । तेन याज्ञवल्क्येन तानि यजूंषि महर्षिभ्यः पञ्चदश समर्पितानि"। केषांचिन्मते सप्तदश भेदाः । तदेवं शाखाभेदेऽपि न संहिताभेदः। केवलं पाठभेद एव । सेयं शुक्लयजुः संहिता काण्डद्वयाल्मिका । "ऋग्भिःस्तुवन्ति यजुर्मियजन्ति " इत्यभि- धानाद्यजनात्मिकायामस्यां संहितायां प्रथमाध्यायस्य प्रथममन्त्रमारभ्यैकोनचत्वारिंशाध्या- यसमाप्तिपर्यन्तं दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डं प्रतिपादितम् । अन्तिमे चत्वारिंशेऽध्या. येऽष्टादशभिर्मन्त्रैर्ज्ञानकाण्डं प्रतिपादितम् । तस्य च ज्ञानकाण्डप्रतिपादकत्वाद्ब्रह्मविद्यापराणां सहेतोः संसारस्यात्यन्तोच्छेदकत्वाद्ब्रह्मविद्योपनिषदित्यभिधीयते । उपनिषदिति 'षद्ल विशरणे ' इत्यस्यान्तर्भावितण्यर्थस्य विशरणार्थस्य धातोः विपि रूपम्। उपनितरां सादयति संसारहेतुभूतामविद्यां नाशयतीत्युपनिषद्ब्रह्मविद्या । तदर्थप्रतिपादकग्रन्थोऽप्युपचारादुपनिष- दित्यभिधानवान्भवति । यथाऽऽहुराचार्याः- "उपनीयेममात्मानं ब्रह्मापास्तद्वयं ततः। निहन्त्यविद्यां तज्जं च तस्मादुपनिषन्मता" ॥ इति । सेयं संहितोपनिषदिति ईशावास्यमित्यादिमं मन्त्रमुपनीठोशावास्योपनिषदिति चामि. - धीयते ।
(४) ननु-"ईशावास्यादयो मन्त्राः कर्मस्वविनियुक्ताः । तेषामकर्मशेषस्याऽऽत्मनो याथा. स्म्यप्रकाशकत्वात् " इत्येतेषां मन्त्राणां कर्मस्वविनियोगे कारणमुक्तम् । तत्र प्रथमाध्याय- पारम्यैकोनचत्वारिंशत्तमाध्यायपर्यन्तं तेषां तेषां मन्त्राणां तेषु तेषु दर्शपूर्णमासाद्यश्वमेधान्तेषु यथा विनियोगस्तथैव कर्मप्रतिपादकत्वाभावेऽपि 'सहस्रशीर्षे ' त्यादिवदीशावास्यादीनामपि मन्त्राणां कर्मसु यथाकथंचन विनियोगः किं न स्यात्-इति चेत् । मैवम् । ऋचा पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणे- नाभिष्टौति । 'सहस्रशीर्षा पुरुष' इत्यनेन षोडशर्चेन" ॥ इत्यादिवस्कर्मसु प्रमाणतो विनियोगाभावात्कर्मप्रतिपादकत्वाभावाच्च । तर्हि यागकल्पना कुतो न क्रियत-इति चेत् । न । विशेष परिहृत्यैव सा कल्पना भविष्यति । अत एवं श्रीमदाचार्यभगवत्पादैः " विरोधादेवाविनियोगस्तेषां मन्त्राणां कर्मणि" इति प्रतिपादितम् । तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्वरूप- प्रकाशनेन शोकमोहादिसाधनाज्ञाननिवृत्तिपूर्वकमात्मस्वरूपं दर्शयतीत्यभिधेयसंबन्धप्रयोजन- वानयमीशावास्यादिमन्त्रसमूहः । सेयमुपनिषद्भाप्यटीकादीपिकारहस्यादिसंवलिता सर्वसुलभा भवत्विति विचार्याऽऽनन्दा- श्रमाधिपतिना स्वकीयग्रन्थावल्यां संगृहीता । इयं च कलिकाताराजधान्यां वङ्गदेशीयास्या- तिकसामानानुमत्यां शंकरभाष्यानन्दगिरिकृतटीकासहिता मुद्रिताऽऽसीत् । सा चाधुना दुष्प्राप्या संवृत्ता । किंच तत्रोवटादिभाष्यत्रयरहस्यदीपिकादिसंग्रहाभावान्न सा विदुषां प्रीतयेऽलमितीयं पुनर्मुद्रिता । अस्यां च- १ आनन्दज्ञानविरचितटीकासनाथमीशावास्यशांकरभाष्यम् । २ उवटार्याथवोवटाचार्यकृतमीशावास्यभाष्यम् । ३ ब्रह्मानन्दकृतमीशावास्यरहस्यम् । ४ शंकरानन्दकृतशावास्यदीपिका । ५ रामचन्द्रपण्डितकृतशावास्यरहस्यविवृतिः । ६ आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम् । ७ अनन्ताचार्यकृतमथवाऽऽनन्ताचार्यकृतमीशावास्यभाष्यम् । केषुचित्पुस्तकेषु ' आनन्दज्ञान' इतिकेषु चित्पुस्तकेषु 'आनन्दगिरि 'रति चोपलभ्यते तथाऽपि तत्र न कश्चिद्भेदः । नामदयमेकस्यैवेति विदुषां मतम् ।
(५) एतानि सस संगृहीतानि सन्ति । तत्रोक्टार्यानन्दभट्टोपाध्यायानन्ताचार्यकृतं भाष्यप्रयं न केवलमस्या उपनिषद एव, अपि तु समनाया अपि शुक्लयजुःसंहिताया भाष्याणि तैः कृतानीत्यन्तिमवाक्यात्प्रतीयते । आनन्दभट्टोपाध्यायोऽनन्ताचार्यश्च काण्वावेवेति प्रतीयते । उवटार्यस्तु माध्यंदिनः । तेन तच्छाखापाठमाश्रित्यैव व्याख्यातम् । ' रहस्यविवृति ' स्तु स्वतन्त्रैव । न सा ब्रह्मानन्दकृतरहस्यविकृतिः । तेन तु प्रथमं श्लोकरूपेण संक्षेपतो रहस्य विरच्य तस्यैव विधृतिः कृतेति प्रतीमः । शुक्लयजुःसंहितायां सायणमाधवाचार्यकृतं मही- धरकृतं च भाष्यद्वयं वर्तते । शार्मण्यदेशमुद्रितपुस्तके टिप्पणीरूपेण द्वयमपि संगृहीतम् । कालिकातामुद्रितपुस्तके महीधरभाष्यमेकमेव वर्तते । भाष्यद्वयमपीदं प्रसिद्धत्वान्मुद्रितत्वा- संप्रत्यपि सुलभत्वाच्च नास्माभिः संगृहीतम् । स एष प्रयत्नो विदुषां मोदमावहन्सर्वत्र विनयतामित्याशास्ते- तत्रमवदन्तेवासी- वामनशास्त्रिशर्मा, मुंबई,-गिरगांव मार्गशीर्ष । शुक्लप्रतिपत् १८१०
No text on this page.
आदर्शपुस्तकोल्लेखपत्रिका । ईशावास्योपनिषद आदर्शपुस्तकानि शुद्धीकरणा) येषां मिलितानि तेषां संज्ञा नामानि च प्रदर्श्यन्ते । (क.) इति संक्षितम्-ईशावास्यं सभाष्यं सटीक बिब्लोथिकास्थं मुद्रित कैलासवासिनां वे० शा० संपन्नदेवोपाबबालशा. स्त्रिणां तदधिकारिभिर्दत्तम् । (ख.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीकं काश्यां शिसामुद्रितं रा० रा० महादेव चिमणाजी आपटे इत्येतेषाम् । मुद्रणकालः संवत् १९२९. (ग.) इति संज्ञितम्-ईशावास्यभाष्यं पुण्यपत्तनवासिभिः श्रीयुतैः रा० रा० तात्यासाहेब खासगीवाले इत्येतैर्दत्तम् । (घ.) इति संज्ञितम्-ईशावास्यं समाध्यं सटीकं वटोदरनिवासिभिः श्रीयुतैः पटवर्धनोपाद्वैः रा० रा० कृष्णरावभीमा- शंकरैर्दत्तम् । (ङ.) इति संज्ञितम्-ईशावास्यं समाष्यं सटीक इन्दूरपूरनिवासिभिः किबे इत्युपाद्वैः श्रीयुतैः रा० रा० भाऊसाहेब बाळासाहेब इत्येतैर्दत्तम् । (च.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीकं विंचूरपुरनिवासिभिः श्रीयुतैः रा० रा० रावसाहेब अण्णासाहेब इत्येतै- दत्तम् । लेखनकालः शके १७३८. (छ.) इति संज्ञितम्-ईशावास्यं समाष्यं सटीकं मुम्बापुरनिवासिनां वे० शा० संपन्नजयकृष्णमहाराजानां तदधिकारिभि- दत्तम् । (ज.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीक बडलीग्रामनिवासिभिः वे. शा० संपन्नैश्चिदम्बरदीक्षितकुलोत्पन्नमार्तण्ड- दीक्षितैर्दत्तम् । (स.) इति संज्ञितम्-ईशावास्यं समाष्यं सटीकं करवीरपुरनिवासिभिः श्रीयुतैः बे० शा० संपन्नैर्गुरुमहाराजैर्दत्तम् । लेखन कालः संवत् १८७५.
(२) (त्र.) इति संज्ञितम्-ईशावास्यं समाष्यं करवीरपुरनिवासिभिः श्रीयुतैः वे० शा० संपन्नैर्गुरुमहाराजैर्दत्तम् । (ट.) इति संज्ञितम्-ईशावास्यं समाष्यं करवीरपुरनिवासिभिः वे० शा० संपन्नैर्द्रविडोपाद्वैर्नानाशास्त्रिमिदत्तम् । (ट.) इति संज्ञितम्-ईशावास्यं समाष्यं सटीकं अष्टेग्रामनिवासिभि- लिमये इत्युपाद्वैः रा. रा. गोविन्दशर्माभि- दत्तम् । (ड.) इति संज्ञित्तम्-ईशावास्यं समाष्यं सटीकं उज्जयिनीक्षेत्रनिवा- सिभिः वेदशास्त्रज्ञैः सोरटीबुवा इति प्रसिद्धैर्द- त्तम् । (क.) इति संज्ञितम्-ईशावास्यं पुण्यपत्तननिवासिभिः श्रीयुतैः रा० रा० भाऊसाहेब नगरकर इति प्रसिद्धैर्दत्तम् । (ख.) इति संज्ञितम्-ईशावास्यं सासवडग्रामनिवासिभिः श्रीमद्भिःपुर- न्दरे इत्युपाकैः रा० रा० मल्हारराव इत्याख्यैर्द- त्तम् । लेखनकालः शके १७६५. (क.) इति संज्ञितम्-उवटार्यकृतमीशावास्यभाष्यं समूलं विंचूरग्राम- निवासिभिः श्रीमद्भिः रा० रा० रावसाहेब इत्ये- तैर्दत्तम् । (ख.) इति संज्ञितम्-उवटार्यकृतमीशावास्यमाष्यं वटोदरनिवासिभिः पटवर्धनोपाद्वैः श्रीमद्भिः रा० रा० कृष्णराव भीमाशंकरैर्दत्तम् । (क.ख.) इति संज्ञिते-ब्रह्मानन्दसरस्वतीकृतेशावास्यरहस्ये समूले वटो- दरनिवासिभिः पटवर्धनोपाद्वैः श्रीमद्भिः रा० रा० कृष्णराव भीमाशंकरैर्दत्ते । लेखनकाल: शके १७७१. (ग.) इति संज्ञितम् ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समूलं कर- वीरपुरनिवासिभिः वे० शा० संपन्नः श्रीमद्भिर्गुरु: महाराजैदत्तम् । (घ.) इति सज्ञितम् ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समूलं रा० रा० आपटे इत्युपाद्वैर्महादेव चिमणाजी इत्ये- तेषाम् ।
(३) (क.) इति संज्ञिता-शंकरानन्दकृतेशावास्यदीपिका विंचूरग्रामनिवा- सिमिः श्रीमद्धिः रा. रा. रावसाहेब इत्या- ख्यैर्दत्ता। (ख.) इतिं सांज्ञिता-शंकरानन्दकृतेशावास्यदीपिका मुम्बापुरनिवानि- वासिनां वे० शा० संपन्नजयकृष्णमहाराजानाम- धिकारिभिर्दत्ता। (ग. ग.) इति संज्ञिता-शंकरानन्दकृतेशावास्यदीपिका वटोदरनिवा- सिभिः पटवर्धनोपाद्वैः श्रीमद्भिः रा० रा० कृष्ण- रावभीमाशंकराभिधैर्दत्ता। (घ.) इति संज्ञिता-शंकरानन्दकृतेशावास्यदीपिका त्रुटिता श्रीमद्भिः रा० रा० भाऊसाहेब नगरकर इत्येतैर्दत्ता। ( क.) इति संज्ञिता-रामचंद्रपण्डितकृतेशावास्यरहस्यविवृत्तिः समूला करवीरपुरनिवासिभिः वे० शा० संपन्नैः श्रीयुतैर्गु- रुमहाराजैर्दत्ता। ( क.) इति संज्ञितम्-आनन्दमट्टोपाध्यायकृतमीशावास्यमाष्यं समूलं बडलीग्रामनिवासिभिः वे० शा० संपन्नैर्तिण्डदी- क्षितैर्दत्तम् । लेखनकालः शके १७९० (क.) इति संज्ञितम्-अनन्ताचार्यकृतमीशावास्यभाष्यं समूलं बडली. ग्रामनिवासिभिः वे० शा० संपन्नैर्मार्तण्डदीक्षि- तैर्दत्तम् । समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।
No text on this page.
ईशावास्योपनिषत्सटीकभाष्योपेता। ॐ तत्सद्ब्रह्मणे नमः। ।। अथ शांकरभाष्यम् ॥ ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याss- स्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चाऽऽत्मनः शुद्धत्वापापविद्ध- स्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुभ्ये. तेति युक्त एवैषां कर्मस्वविनियोगः। नोवलक्षणमात्मनो याथात्म्यमुत्पाद्य ॥ आनन्दगिरिटीका ॥ येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः । सोऽहं देहवयीसाक्षी वर्जितो देहतद्गुणैः ॥ १ ॥ ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुभगवान्भाप्यकारस्तेषां कर्मशेषत्वशङ्कां तावदव्युद- स्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्र- त्वाविशेषादिषे त्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह- ईशा वास्यमित्यादय इति । कर्मस्वविनियुक्ता इति । इपे त्वेति शासो छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्चेत्यर्थः । श्रौतविनियोगामावेऽपि बर्हिर्देवसदनं दामीत्यस्य बहिर्लवनप्रकाशनसामर्थ्यावहिलवने यथा विनियोगस्तथा कर्मशेषा- स्मप्रकाशनसामर्थेन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह-तेषामिति । शुद्धादिवि शेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तयाथात्म्यं न केवलं कर्मामुपयोगि किंतु कर्मणा विरुध्यते चेत्याह-याथात्म्यं चेति । शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन कटाक्षेणापि कर्म वीक्षते । किंवापातप्रतिपत्तिरप्येताटशी निरुणद्धयेव कर्मप्रवृत्तिमित्यर्थः । किंच यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यों ब्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्त. यति । तथाऽऽत्मयाथात्म्यं कर्तृ भोक्तृ च न भवति । येन ममेदं समीहितसा- धनं ततो मया कर्तव्यमित्यहंकारान्वयपुर सरः कन्वयः स्यादित्याह-नो. वमिति । ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शनांन्नास्त्यवैतादृश- - १ घ. 6. छ. ज. मातत्र क° । २ च. ज. शुद्धत्वादि । ३ क. ख. अ. तो न तु के ४ घ, ङ, छ. त्याधिकारा'। ५ क. ख. स. 'नान निरूप्यमेवैता।
२ । ईशावास्योपनिषत- शा० भा० विकार्यमाप्यं संस्कार्य कर्तृमोक्तृरूपं वा पेन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्। गीतानां मोक्ष- धर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वमोक्तृत्वादि चाशु- द्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्ध कर्माणि विहितानि । आ० टी० मात्मयाथात्म्यं तत्राऽऽह-सर्वासामिति । यत्परः शब्दः स शब्दार्थ इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न अपोपयोगि- त्वमुपनिषदां शक्यं वक्तुम् । तथाहि ईशा वास्यमित्युपक्रम्य स पर्यगाच्छु- क्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनाननदेवा आप्नुवन्नित्यपूर्व. तासंकीर्तनात्को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासंकीर्तनास्कुर्वन्नेवे- हेति मिनीविषोर्मेंददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्दयैकात्म्यदर्श. नस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दौतीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्य दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभासापूर्व. ताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि बिकल्पेन समुच्चयेन चास्मा. भिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते । किंच प्रत्ययसंवादोऽपि बलवैत्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनाव. गम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्भविरोधेनापलपनीयम् । यथेन्द्रियान्तरेणान- वगम्यमानमपि रूपं चक्षुपाऽवगम्यमानं नापनूयते तथैकात्म्यमपि नापहवाहमि. त्याह--गीतानामिति । ' समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व. विनश्यन्तं यः पश्यति स पश्यति ' इत्यादिगीतानाम् । 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ' इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः । यद्यतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमु. च्छिद्यतेत्यपि नाऽऽशङ्कनीयमित्याह-तस्मादिति । औपनिषदात्मयाथात्म्यवि. ज्ञानवत इप्यत एव कर्मकाण्डाप्रामाण्यम् । यथा न हिंस्यात्सर्वा भूतानीति निषे. धशास्त्रार्थनिश्चयवत इष्यत एव श्येनादिविध्यप्रामाण्यम् । यथा च तीव्रक्रोधाका. न्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामा- ण्यमित्यर्थः । अत्र जैमिनिप्रभृतीनां संमतिमाह-यो हीत्यादिना । अर्थि- स्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च * घ. इ. सर्वभूतानीत्यत्र बहुपुस्तके सर्वा भूतानीत्येव पाठो दृश्यते स श्रुतिमलक इत्य. नमीयते सर्वो इति सर्वाणोत्सर्थकमेव'ऽऽर्षत्वादिति शेयम् । १ क ख तीत्यभिधायिन्याश्चास्या झ. °तीतियुक्त्यभिधायिन्याश्वास्या । . क. स. झ. वत्कार 13 क. ख. झ. 'धेनोपलम्भनी । क, ख, पहनुक्ते ।
सटीकभाष्योपेता। ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। ईशा वास्यमिद सर्वं यत्किंच जगत्यां जगत् । शा० भा० यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिनाऽदृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयं स्वाभाविकमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिवि- ज्ञानमुत्पादयन्ति । इत्येवमुक्ताधिकार्यभिधेयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः ॥ ईशा वास्यमित्यादि । ईशा ईष्ट इतीद् तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीटे सर्वजन्तूनामात्मा सेन्प्रत्यगात्म- तया तेन स्वेन रूपेणाऽऽत्मनेशा वास्यमाच्छादनीयम् । किम् । इदं सर्व यत्किंच यत्किंचिज्जगत्यां पृथिव्यां जगत्तत्सर्वं स्वेनाऽऽत्मने- मा० टी० मिथ्याज्ञाननिदानम् । न हि नभोवन्निक्रियस्य स्वत एव दुःखासंसर्गिणः परमान- न्दस्वभावस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरीरेन्द्रियसामर्थेन च समर्थोऽ. हमित्यभिमानित्वं मिथ्याज्ञानं विना संभवतीत्यर्थः । यस्मादात्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह–तस्मादेत इति । व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे-ईशेति। ईश ऐश्वर्येऽस्य धातोः क्विपि लुप्ते कृदन्तरूपमीट्तस्य तृतीयैकवचनमीशेति । ननु कर्तरि क्विब्विधानात्परमात्मनश्चाविक्रियत्वात्कथं क्विबन्तशब्दवाच्यतेति तत्राऽऽ. ह-ईशितेति । मायोपाधेरीशनकर्तृत्वसंभवाविवन्तशब्दवाच्यता न विरुध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः । ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्कयाऽऽह-सर्वजन्तूनामात्मा सन्निति । यथाऽऽदर्शादिषु प्रति- बिम्बानामात्मा सन्बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशित- व्यभावसंभवान्न वास्तवभेदानुमानं संभवतीत्यर्थः । वस आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्व भ्रान्त्या यदनीश्वररूण गृहीतं तत्सर्वमीश्वर १ क. ख. ग. ककर्मविज्ञा । २ क ख अ. ज. ट. सन्, तेन स्नाऽऽम° । ३ क. ख. म. म. त्मनाक, ख. झ.रमेश्वरस्य च कि ईशावास्योपनिषत्- तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥ शा० भा० शेन प्रत्यगात्मतयाऽहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्व चराचरमाच्छादनीयं स्वेन परमात्मना । यथा चन्दनागर्वादेरु- दकादिसंबन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाss- च्छाद्यते स्वेन पारमार्थिकेन गन्धेन तद्वदेव हि स्वात्मन्यध्यस्त म्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगहतरूपं जगत्यां पृथिव्या जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं पर- मार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्रायेषणात्रयसंन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागे- नेत्यर्थः । न हि त्यक्तो मृतः पुत्रो वा मृत्यो वाऽऽत्मसंब- न्धिताया अमावादात्मानं पालयत्यतस्त्यागेनेत्ययमेव वेदार्थः । मुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः, गृधि- भा० टी० एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वो- पदेशश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः । 'ब्रह्मैव सर्वमात्मैव सत्प्रकाशविशेषतः । हयोपादेयभावोऽयं न सन्स्वप्नवीयते' । उक्तं च-'न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः । नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः' इति । यस्यौ. पदशिकज्ञानमात्रेणानृतदृष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिरस्क्रियेतेत्यभिप्रेत्य दृष्टान्तमाह-यथेति । चन्दनागर्वादेरुदकादि. संबन्धादाीभावादिना जातं यद्दर्गिन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिघर्षणा- भिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारीदेः स्वरूपसद्भावान्मिथ्या. बुद्धे धकत्वं संभवतीत्याह-तद्वदेव हीति । स्वभावोऽनादिरविद्या तत्कार्य स्वाभाविकमित्यादिबाधयोग्यत्वप्रदर्शनार्थ विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृ- तदृष्टितिरस्कारसंभावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायाम धिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात् । त्यजतैव हि तज्ज्ञेयं त्यक्तः प्रत्य- स्परं पमित्यन्यत्राप्युक्तत्वात्पुत्रायेषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाच्चेत्यभिप्रे- त्याऽऽह-एवमीश्वरात्मेति । चिकीर्षितं संन्यासं स्तौति-तेन त्यक्तेनेति । स्यागेनाऽऽस्मा रक्षितः स्यानिष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः । संन्यासिनः शरीरसंधारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तेऽपि कथंचिद- व्यपरिग्रहे रागश्चेत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधित्वादित्य. भिप्रेल्य नियमविधिमाह-एवं त्यक्तैषण इति। स्विदिति निपातस्य सामान्यार्थ- क. ख. ग. स. म. ट, मेवार्थः । २ घ. इ. ठ. °रादेव वस्तुवलम। च. छ. ज. सद. बस्तुषल। ३ घ, ङ, छ. ज. ठ. विविस्सितं ।
सटीकभाष्योपेता। कुर्वन्नेवेह कर्माणि जिजीविषेच्छत५ समाः। शा० भा० माकाङ्क्षा मा कार्धिनविषयाम् । कस्यस्विद्धनं कस्यचित्प- रस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः। अथवा मा गृधः । कस्मात् । कस्यस्विद्धनमित्याक्षेपार्थो न कस्य- चिद्धनमस्ति यद्गृध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्व त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधि मा कार्षीरित्यर्थः ॥ १॥ एवमात्मविदः पुत्रायेपणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येप वेदार्थः । अथेतरम्यानात्मज्ञतयाऽऽत्मग्रहणांयाशक्त- स्येदमुपदिशति मन्त्रः-कुर्वन्नेवेति । कुर्वन्नेवेह निवर्तयन्नेव कर्माण्य- ग्रिहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसंख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुनिरूपित, । तथा च प्राप्तानु- वादेन यजिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवमेवंप्रकारेण त्वयि जिजीविषति नरे नरमात्राभिमानिनीत एतस्मा- दग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्मकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः। अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् । कथं पुनरिदमवगम्यते । पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेत्युच्यते । ज्ञानकर्मणोविरोधं पर्वतवद- आ० टी० त्वेऽपि कस्यस्विदिति वितर्वार्थत्वमन्यत्र प्रसिद्ध तदिह न गृह्यत इत्यनर्थकमित्यु- क्तम् । व्यवहारदृष्टयाऽप्यात्मन एवंदं सर्व शेषभूतं जडस्य चित्परतन्त्रत्वादतोऽ. प्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या । परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥ १॥ आद्यमन्त्रस्य पूर्वार्धन तत्त्वोपदेशः कृतस् तीयपादेनापरिपक्वज्ञानस्य संन्यासविधिरु- क्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्या- र्थमनुवदत्युत्तरस्य संबन्धाभिधित्सया-एवमात्मविद इत्यादिना । पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्य मन्त्रद्वयस्येत्येकदेशी शङ्कामुद्भावयति-कथं पुनरिति । शुद्धब्रह्मज्ञानकर्म- णोरेकाधिकारे विरुद्धत्वाहतुगमनत्रिदण्डिधर्मवदस्त्येव तत्रापि क्रमेणैककर्तृकत्वमिति चेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चोक्तं ज्ञानकर्मणोर्वेदविहितत्वेन .क. ख. इ म. णःश । २ क, ख. स. न. ट. युरुचितम् । ३ क. ख. ज. इ. ट.म् यथा प्राक. ख. अ. अ. ट. रे वा ५ क. ख. ग. प्यस इ०।६ क. ख. च. इ. °दतः प्रा। - ईशावास्योपनिषत्- एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ शा० भा० कम्प्यं यथोक्तं न स्मरसि किम् । इहाप्युक्तं यो हि जिजीविषेत्स कर्म कुर्वन् । ईशा वास्यमिदं सर्वं तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनमिति च । न जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च पदम् । ततो न पुनरियादिति संन्यासशासनात् । उभयोः फल- भेदं च वक्ष्यति । इमो द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रिया- पथश्चैव पुरस्तात्संन्यासश्चोत्तरेण निवृत्तिमार्गेणेषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयति ।न्यास एवात्यरेचयदिति च तैत्तिरी- यके।द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः। प्रवृत्तिलक्षणो धर्मो भा० टी० शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमननिदण्डिधर्मयोरप्यविरोधप्रस- ङ्गात् । तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया नानुध्यायावहून्छब्दानित्यादिप्रतिषेधस्तुल्यः । केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चयविधेरद्या. प्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्य मन्त्रद्वयस्येत्याह-ज्ञानकर्मणोर्विरो- धमिति । कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति संबन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः । मन्त्रलिङ्गादपि तयोभिन्नाधिकारत्वं प्रतीयत इत्याह--इहा- प्युक्तमिति । जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किंच धनसंपन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धना- काङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः । निजीविषा हि कर्माधिका. रिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह-न जीवित इति । अरण्यं स्त्रीजनासंकीर्णमाश्रममियाद्च्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षिता- संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिनीविषादिरहितस्य संन्यासविधानादित्यर्थः । इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह-उभयोरिति । को मोहः कः शोक एकत्वमनुपश्यत इति सनिदा. नानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेने- त्यर्थः । नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति-हमाद्वावेवेति । १ क. ख. ध्यायेद।
सरीकभाष्योपेता। ७ शा. भा. असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः। तास्ते प्रत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३ ॥ निवृत्तश्च विभावित इत्यादि पुत्राय विचार्य निश्चितमुक्तं म्यासेन वेदाचार्यण भगवता । विमागं चानयोर्दर्शयिष्यामः ॥२॥ अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते-असुर्याः परमात्म- भावमद्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्या नाम । नामशब्दोऽनर्थको निपातः। ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते मुज्यन्त इति जन्मानि । अन्धेनादर्शनात्मकेनाज्ञानेन तम- साऽऽवृता आच्छादितास्तान्स्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिग. च्छन्ति यथाकर्म यथाश्रुतम् । ये के चाऽऽत्महनः । आत्मानं नन्ती- त्यात्महनः । के ते जना येऽविद्वांसः। कथं त आत्मानं नित्यं हिंसन्ति। अविद्यादोषेण विद्यमानस्याऽऽत्मनस्तिरस्करणात् । विद्य. मानस्याऽऽत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृताविद्वांसो जना आत्महन उच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥ ३॥ मा० टी० पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्थः । व्यासवाक्यमपि संवादकमाह-द्वाविमाविति ॥ २ ॥ आद्यमन्त्रार्थ प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह-अथेति। ते लोका इति तच्छब्दो यच्छब्दार्थे । यथाश्रुतमिति । येन यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमाप्नोतीत्यर्थः । आत्महन्तृत्वस्यो- दरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह-कथं त इति। उदरभेदिनोऽ. ध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह- अविद्यादोषेणेति । यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापिस्वाद्यध्यासोऽपि हिंसैवेत्यर्थः । अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्य तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह- विद्यमानस्येति । अस्याऽऽत्मघातस्य प्रायश्चित्तविधानादर्शनासंसरणमेव फेल. मित्याह-तेन हीति ॥ ३ ॥ १ क. ख. वृत्तौ च वि । घ. ङ. च. ट. . वृत्तिश्च विभाषित । म. म. वृत्तौ चैव भाषित १ ग. 'न्ति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसर्पन्ति य। ३ ज. इति शइते-क। ख. घ. ज. °नो मात्मा । ५ घ. स. प. ज ठ, फलितमि । ।
ईशावास्योपनिषत्- अनेजदेकं मनसो जवीयो नैनद्देषा आप्नुवन्पूर्वमर्षत् । शा० भा० यस्याऽऽत्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नाऽऽत्महनः । तत्कीदृशमात्मतत्त्वमित्युच्यते-अनेज- दिति । अनेजत् , न-एजत् । एज़ कम्पने । कम्पनं चलनं स्वावस्था- प्रच्युतिस्तद्वर्जितं सर्वदेकरूपमित्यर्थः । तच्चैकं सर्वभूतेषु । मनसः संकल्पादिलक्षणाजवीयो जववत्तरम् । कथं विरुद्धमुच्यते धुवं निश्चलमिदं मनसो जवीय इति च । नैष दोषः। निरुपाध्युपाधिम- त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यतेऽनेजदेकमिति । मनसोऽन्तःकरणस्य संकल्पविकल्पलक्षणस्योपाधेरनुवर्तनादिह देह. स्थस्य मनसो ब्रह्मलोकादिदूरंगमनं संकल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन्द्रुतं गच्छति सति प्रथमं प्राप्त इवाऽऽत्मचैतन्यावभासो गृह्यतेऽतो मनसो जवीय इत्याह । नैनदेवा धोतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृत- मात्मतत्त्वं नाऽऽप्नुवन्न प्राप्तवन्तः । तेभ्यो मनो जवीयो मनोव्यापार- व्यवहितत्वात् । आमासमात्रमप्यात्मनो नैव देवानां विषयी भवति। यस्माजवनान्मनसोऽपि पूर्वमर्पत्पूर्वमेव गतम् । व्योमवद्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरू- पेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवती. वाविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्ये- तदाह-तद्धावतो द्रुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागि- मा० टी० उत्तरमन्त्रमवतारयति-यस्याऽऽत्मन इत्यादिना। अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिणः केचन नरकगामिण इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽऽह-मनस इत्यादिना । उपाधेरैनुवर्तनात् । विक्रियादिव्यवहाराश्रयत्वमिति शेपः । ननु मनसो देहान्तःस्थत्वाबहिर्गमनायोग्य- स्वात्कथं वेगवत्त्वमित्याशङ्कयाऽऽह-देहस्थस्येति। नवीयस्त्वादश्वादिवत्तर्हि चक्षु- रादिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह-नैनद्देवा इति । चक्षुरादिप्रवृत्तेर्मनोव्यापार. पूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न संभवतीत्यर्थः । मनसो वा कथं न विषय आत्मेत्यत आह-यस्मादिति। यथा मनस्थं परिमाणं मनसो न विषयोऽ. १ घ. रु. छ. मर्शत् । २ क. ख. °न स्थिरत्वप्र मत्त्वोप। ४ ज. °धिकः स्वे। ५ क. ख. ग. घ. ङ, च. ड. प्रस्थसंकल्पनं क्ष। ६ घ. मर्शत् । ७ ज. ठ. इत्यत आह । ८ ठ, रनिय । क. ख. झ नुवर्तमाना। ९ घ, ङ, च. छ. ठ.त् । कि। ३ क.ख. ग. उ.न. छ. झ.ठ. .
-- सटीकमाष्योपेता। ९ - सद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधा- ति ॥ ४ ॥ तदेजति तन्नैजति तदूरे तद्वन्तिके । तद- न्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ शा० भा० न्द्रियप्रभृतीनत्येत्यतीत्य गच्छतीव । देवार्थ स्वयमेव दर्शयति- तिष्ठदिति। स्वयमविक्रियमेव सदित्यर्थः। तस्मिन्नात्मतस्वे सति नित्य- चैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृक्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टालक्षणानि । अग्न्यादित्य- पर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि दधाति विभ- जतीत्यर्थः । धारयतीति वा । भीषाऽस्माद्वातः पषत इत्यादिश्रु- तिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥४॥ न मन्त्राणां जामिताऽस्तीति पूर्वमन्त्रोक्तमप्यथं पुनराह-तदेज. तीति । तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतोऽचलमेव सञ्चलतीवेत्यर्थः । किंच तदूरे वर्षकोटि- शतैरप्यविदुषामप्राप्यत्वाद्दूर इव । तत् उ अन्तिक इति च्छेदः । तद्वन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरेऽन्तिके च । तदन्तरभ्यन्तरेऽस्य सर्वस्य । य आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदु अपि सर्वस्यास्य बाह्यतो व्यापकत्वादाकाशवनिरतिशयसूक्ष्मत्वादन्तः । प्रज्ञानघन एवेति च शासनान्निरन्तरं च ॥५॥ भा० टी० त्यन्ताव्यवधानात्तथाऽऽत्माऽप्यत्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापकत्वाचे. त्यर्थः । उक्तात्मसंभावनायोपपत्तिमाह-तस्मिन्नात्मतत्त्वे सतीति । श्रौतानि कर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः संपाद्यन्त इति संबन्धाल्लाक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाम्चाग्निमित्तत्वप्रसिद्धः । कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः । ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः संभाव्यत इत्युक्तमिदानी मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यमाह-सर्वा हीति ॥४॥ जामिताऽऽलस्यं ज्यापित्वाहाह्मतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निर. न्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह-प्रज्ञानघन एवेति ॥५॥ १ घ... च. ठ. इममर्थे । २ ज. ठ. र्यकार' । ३.प. . र्यकर'। ४५. रिकि । ५क.स.स. प्राणिचे।
- १० ईशावास्योपनिपत- यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ॥ ६ ॥ यस्मिन्सर्वाणि भूतान्यात्मवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥ शा० भा० यस्तु । यः परिवाइमुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थाव- रान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्व- भूतेषु च तेप्वेव चाऽऽत्मानं तेपामपि भूतानां स्वमात्मानमात्मत्वेन यथाऽस्य देहस्य कार्यकारणसंघातस्याऽऽत्माऽहं सर्वप्रत्ययसाक्षिभूतश्चे. तयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामह- मेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं निर्विशेष यस्त्वनुपश्यति स ततस्त- स्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यै- वानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यदुष्टं पश्यतो भवत्या- स्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरम- स्तीति प्राप्तमेव । ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मन्त्र आह-यस्मिन्सर्वाणि भूतानि । यस्मि- न्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्श- नादात्मैवाभूदात्मैव संवृत्तः परमार्थवस्तु विजानतस्तत्र तस्मिन्काले तत्राऽऽत्मनि वा को मोहः कः शोकः । शोकश्च मोहश्च कामैकर्मबी- जमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपेणासंभवप्रदर्श नात्सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ॥ मा० ट• उक्तात्मज्ञानस्य फलं विधिनिषेधातीतनीवन्मुक्तस्वरूपणावस्थानमित्याह- यस्त्विति ॥६॥ निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीन्कामयते तदर्थ देवता. राधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाम्यां शोकादेरविद्या- कार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विव. क्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह-शोकश्च मोहश्चेत्यादिना॥७॥ १५. म. मनेवा । २ विचिकित्सतीत्ययं पाठ उवटभाष्यपुस्तकस्थः । ३ क. ख. घ... छ ठ. इ. 'मबीजमज्ञान । ४ च. °मज्ञानवतो । ५ घ. उ. च. छ. 'कमोहयोरित्या ।
-- सटीकमाष्योपेता। ११ स पर्यगाच्छुकमकायमव्रणमनाविर शुद्धमपाप- विद्धम् । कविर्मनीषी परितः स्वयंभूर्याथातथ्य- तोऽर्थान्व्यदधाच्छाश्वतीयः समाश्यः ॥ ८॥ *अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । शा. भा• योऽयमतीतैर्मन्त्ररुक्त आत्मा स स्वन रूपेण किंलक्षण इत्याहायं मन्त्र:-स पर्यगात्स यथोक्त आत्मा पर्यगात्परि समन्तादगाद्तवा. नाकाशवद्यापीत्यर्थः । शुक्र शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः । अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः । अत्रणमक्षतम् । अनाविरं सावाः शिरा यस्मिन्न विद्यन्त इत्यनाविरम् । अवण- मनाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलर- हितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपाप- वर्जितम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भवतीति परिभूः। स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरो याथातथ्यतः सर्वज्ञत्वाद्यथातथा भावो याथातथ्य तस्माद्यथाभूतकर्मफलसाधनतोऽर्थान्कर्तव्यपदार्थान्व्यदधाद्विहितवा- न्यथानुरूपं व्यमजदित्यर्थः। शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्स- राख्यभ्यः प्रजापतिभ्य इत्यर्थः ॥८॥ अत्राऽऽद्यन मन्त्रेण सर्वेषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः। आ० टी० योऽयमिति । स्वप्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः क्रान्त. मतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी ॥ ८ ॥ प्रकरणविभागं दिदर्शयिषुवृत्तमनुवदति-अत्राऽऽद्येनेति । यदुक्तं भास्करण * उवटभाष्येशावास्यरहस्येशावास्यविवृतिषु तु नवमदशमयोमन्त्रयोद्वादशत्रयोदशयोश्च य. थासंख्यं वैपरीत्यं तथा चतुर्दशैकादशयोर्वैपरीत्यं तथाऽमे नयेति मन्त्रः षोडशः । तथा वायुरनिल. मिति पश्चदशः । किंच वायुरनिलमित्यस्योत्तरार्धस्थाने ॐ क्रतो स्मर क्लिबे स्मर कृतर स्मरेति सथा हिरण्मयेनेति सप्तदशः। किंच हिरण्मयेनेत्यस्योत्तरार्धस्थाने योऽसावादित्ये पुरुषः सोऽसावहम् ॥१७॥ ॐ ब्रह्मेति तथा पूषनेकर्षइति मन्त्रो नास्त्येव तथाऽमुर्या नामेतिमन्त्रान्तर्गतप्रेत्याभिग. छन्तीत्यस्य स्थाने प्रेत्यापि गच्छन्तीति पाठस्तथा षष्ठमन्त्रस्थविजुगप्सत इत्यस्य स्थाने विचिकि- सतीति पाठः। किंच दशममन्त्रस्य पूर्वार्धस्य स्थाने 'अन्यदेवाहुविद्याया अन्यदाहुरविद्यायाः' एवं पाठ इति ज्ञेयम् । १ क... ज. ईशिता।
ईशावास्योपनिषत- ततो भूय इव ते तमो य उ विद्याया५ रताः ॥९॥ धा० भा० ईशावास्यमिदं सर्व मा गृधः कस्य स्विद्धनमित्यज्ञानां जिजी- विषूणां ज्ञाननिष्ठासंभवे कुर्वन्नेवेह कर्माणि जिजीविषेदिति कर्मनि. ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयो- बृहदारण्यकेऽपि प्रदर्शितः सोऽकामयत जाया मे स्यादित्यादिना । अज्ञस्य कामिनः कर्माणीति मन एवास्याऽऽत्मा वाग्जायेत्यादिवच- नात् । अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तानसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपावस्थानं जायाोषणा- यसंन्यासेन चाऽऽत्मविदा कर्मनिष्ठापातिकूल्येनाऽऽत्मस्वरूप- निष्ठैव दर्शिता किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक आ० टी० सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचितमिति । तदसत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्गमिति वाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाद्याकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्नि- होत्रादिप्रकरणं भिन्नमेवेष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्ना. धिकारत्वात्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यते । मन्त्रार्थे ब्राह्मणसंमति दर्शयितुमुपक्रमते-अनयोश्चेत्यादिना। तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽऽह-मन एवेति । जाया स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न संपद्यते तदाऽध्यात्म- जायादिसंपत्तिं दर्शयति—एतच्चाज्ञत्वलिङ्गं मनआदिप्वात्मत्वाद्यभिमानस्याज्ञान- कार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः । तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शित. मित्याह-तथा चेति । एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि पश्चर्थमेकं तत्पय इति सप्तान्नसर्गो दर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यादिना । एव बिहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्पारम्पर्याभ्यां जनकत्वास्पितोच्यते । तेषु च सृष्टेष्वन्नेषु तस्य पितुरह. मिदं ममेदमित्यात्मत्वाध्यासेन मनआदिष्वितरेषु च संबन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः। एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसंमतिं दयित्वा प्रकरणविभागं च, स्पिनिषत्स्वेकं । २ क. इ. °त् स्वेना । ३ ज. तेन भास्करेणापि । ४ घ. र. ल. नस्यापकान्तत्वा ५ छ. ज. प्रकान्तत्वा । ६ क. अ. 'ध्यात्म जा"। ७ घ.. च. ज.ठ, त्रीणि स्वस्य। ८ ज.. त्रैको मे अत्रैकैको यजमान सटीकमाष्योपेता। १२ शा० भा० इत्यादिना । ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्योऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मना याथात्म्यं स पर्यगादित्येतद. न्तैमन्त्रैरुपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेता. श्वतराणां मन्त्रोपनिषदि अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्य. गृषिसंघजुष्टमित्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते-अन्धं तम इत्यादि । कथं पुनरेवमवगम्यते न तु सर्वेषामित्युच्यते-अकामिनः साध्यसाधनभेदो- पमर्दैन यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति यदात्मैकत्वविज्ञानं तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीपति । इह तु समुच्चिचीषयाऽवि. द्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः संभवति न्यायतः शास्त्रतो वा तदिहोच्यते । यदैवं वित्तं देवताविषयं ज्ञानं कर्मसंब- आ० टी०-दर्शयति-ये तु ज्ञाननिष्ठा इत्यादिना । अत्याश्रमिभ्य इति । उत्त. माश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमद्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धनोत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समुच्चिचीषयाऽविद्वदादिनिन्दा दृश्यते । ततः किमित्यत आह-तत्र च यस्येति । कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः संभवतीत्यत आह-यदैवं वित्तमिति । यच्चोक्तं भास्करणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वा. त्तस्या एव समुच्चिचीपया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता संन. ध्यते किं तु संवन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दक- त्वान्नास्ति कर्मसंबन्धयोग्यता । किंच यस्मिन्निप्पन्नेऽपि फलस्य व्यवधानं संभा. व्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेरिह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किंचास्या मन्त्रोपनिषदो ब्राह्मणे ब्राह्मणा विवि. दिषन्ति यज्ञेनेत्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रती- यते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया संबन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसंबन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यन- पेक्षेतिसूत्रविरोधश्च॑ समुच्चयश्च परेणापि नेष्यते । विरोधेनें च परिनहे तस्मात्कर्मा- विरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलाति- १च. ते यथा द। २ स. °देरिवेह । ३ घ, ङ. ज. ठ. किं च ब्राह्मगा वि°17 प.ज. व अमीन्धनोपलक्षितकर्मसमस । ५ ग. च. छ. ज. न चापाचके त°10. छ, न बापाच. क्रमे त।
ईशावास्योपनिषत्- अन्यदेवाहुविद्ययाऽन्यदाहुरविद्यया। इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥ विद्यां चाविद्यां च यस्तद्वेदोभय सह । शा० भा० न्धित्वेनोपन्यस्तं न परमात्मज्ञानम् । विद्यया देवलोक इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुचिची- पया न निन्दापरैवैकैकस्य पृथक्फलश्रवणात् । विद्यया तदारोहन्ति । विद्यया देवलोकः । न तत्र दक्षिणा यन्ति । कर्मणा पितृलोक इति । नहि शास्त्रविहितं किंचिदकर्तव्यतामियात् । तत्रान्धं तमोऽदर्शना. त्मकं तमः प्रविशन्ति । के। येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्रिहोत्रादिल- क्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । तत- स्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के, कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञान एव रता आभिरताः । तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवदफलवतोः संनिहितयोरङ्गाङ्गितैव स्यादित्यर्थः ॥९॥ अन्यदेवेत्यादि । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्व- दन्ति विद्यया देवलोको विद्यया तदारोहन्तीतिश्रुतेः । अन्यदाहुर- विद्यया कर्मणा क्रियते कर्मणा पितृलोक इति श्रुतेः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पार- म्पर्यागत इत्यर्थः ॥१०॥ यत एवमतो विद्यां चाविद्यां च देवताज्ञानं कर्म चेन्यर्थः । यस्तदेतदुमयं भा० टी० रिक्तफलभावात्समुच्चयो न संभवतीत्यत आह–विद्ययेति । ननु समुच्चिची. षया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादपर्यवसानानुपपत्तेर्दे. वलोकादिप्राप्तेः फलाभासत्वात्प्रहाणार्थंव निन्दा किं नेष्यते तत्राऽऽह-तयोर्जा- नकर्मणोरिति । न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहित फल. व्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ ९ ॥ १०॥ ११ ॥ . विद्याया अन्य । २ विद्यायाः । । उवटभाष्यस्थाविमौ पाठी । ३. म. ट. गोऽविद्याविरोधाभावात् । ग. घ... च. छ. ज. ठ. एतेष्विदं नास्त्येव । ४ क. स. पतिया जामिते । ग.स. अ. ट. 'हिताया जामित । ५ ज. "त्वाकर्मणो निन्दा मुण्डकादिषु श्रूयते पदा प्रेते अहढा यज्ञरूपाः प्रहा।६ म. °पि वाश्छितस।
सटीकमाष्योपेता। अविद्यया मृत्यु तीर्खा विद्ययाऽमृतमश्नुते ॥ ११ ॥ अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्या रताः ॥ १२ ॥ अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् ।। इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ शा० भा० सहकेन पुरुषेणानुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवैकपुरुषा. र्थसंबन्धः क्रमेण स्यादित्युच्यते-अविद्यया कर्मणाऽग्निहोत्रा दिना मृत्यु स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयं तीर्वाऽति- क्रम्य विद्यया देवताज्ञानेनामृतं देवतात्ममावमश्नुते प्रामोति । तद्धयमृतमुच्यते यद्देवतात्मगमनम् ॥ ११ ॥ अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीपया प्रत्येकं निन्दो. ध्यते-अन्धं तमः प्रविशन्ति येऽसंभूत्तिं संभवनं संभूतिःसा यस्य कार्यस्य सा संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः कारणमविद्याऽव्याकृताख्या तामसंभूतिमव्याकृताख्यां प्रकृति कारणमविद्या कामकर्मबीजभूताम. दर्शनात्मिकामुपासते ये ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं प्रवि. शन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति य उ संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाये रताः ॥ १२ ॥ अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह-अन्य- देवेति । अन्यदेव पृथगेवाऽऽहुः फलं संमवात्संभूतः कार्यबह्मोपास- नादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः । तथा चान्यदाहुर- संभवादसंभूतेरव्याकृतादव्याकृतोपासनाद्यदुक्तमन्धं तमः प्रविशन्तीति प्रकृतिलय इति च पौराणिकैरुच्यत इत्येवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ।। ॥ १३॥ भा० टी० चित्तन्त्रा माया परमेश्वरस्योपाधिः । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर. मित्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासंभूतिशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षा. प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो नडत्वात्प्र. कृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥ १२ ॥१३॥१४॥ क. ख. तितत्रत्वा।
A । २१ ईशावास्योपनिषत् संभूति च विनाशं च यस्तद्वेदोभयः सह । विनाशेन मृत्युं तीर्खा संभूत्याऽमृतमश्नुते ॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ शा० मा० यत एवमतः समुच्चयः संभूत्यसंभूत्युपासनयोर्युक्त एवैकपुरुषा- र्थत्वाञ्चत्याह-संभूतिं च विनाशं च यस्तद्वेदोमय५ सह । विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाऽभेदेनोच्यते विनाश इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं ती हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युम. तीत्यासंभूत्याऽव्याकृतोपासनयाऽमृतं प्रकृतिलयलक्षणमश्नुते। संभूति च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः । प्रकृतिलयफलश्रुत्य. नुरोधात् ॥ १४ ॥ मानुषदेववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् । एतावती संसारगतिः । अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्ममाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिल- क्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधि- प्रतिषेधलक्षणस्य कृत्नस्य प्रकाशने प्रवर्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊध्वं बृहदारण्यकमुपयुक्तं तत्र निषेकादिश्मशानान्तं कर्म कुर्वञ्जिजीविषेद्यो विद्यया सहापरब्रह्म- विषयया तदुक्तं विद्यां चाविद्यां च यस्तद्वेदोमय सह । अविद्यया मृत्युं तीर्वा विद्ययाऽमृतमश्नुत इति । तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष एतदुमयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकृच्च यः सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं यांचते हिरण्मयेन पात्रेण । हिरण्मयमिव हिरण्मयं ज्योतिर्मयमित्ये- तत् । तेन पात्रेणेवापिधानभूतेन सत्यस्यैवाऽऽदित्यमण्डलस्थस्य ब्रह्म- णोऽपिहितमाच्छादितं मुखं द्वारं तत्त्वं हे पूषन्नपावृण्वपसारय सत्य- मा० टी० विस्तरेणोक्तमर्थनातं संक्षिप्योपसंहरति-मानुषदेववित्तसाध्यमित्यादिना । शरीरपाटवं गोभूहिरण्याविसाधनसंपत्तिश्च मानुषं वित्तम् । दैवं वित्तं देवताज्ञान सटीकमायोपेता। पुषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह । तेजो यत्ते रूपं कल्याणतमं तत् पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ वायुरनिलममतमदं भस्मान्त शरीरम् । मा० भा० धर्माय तव सत्यस्योपासनात्सत्यं धर्मों यस्य मम सोऽहं सत्य- धर्मा तस्मै मह्यमथवा यथाभूतस्य धर्मस्यानुष्ठात्रे दृष्टये तब सस्या- स्मन उपलब्धये ॥१५॥ पूषन्निति । हे पूषन् । जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छतीत्येकर्षिः । हे एकर्षे । तथा सर्वस्य संयमनाद्यमः । हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः । हे सूर्य । प्रजा- पतेरपत्यं प्राजापत्यः । हे प्राजापत्य । ट्यूह विगमय रश्मीन्स्वान् । समूह, एकी कुरु, उपसंहर ते तेजस्तापकं ज्योतिः । यत्ते तव रूपं कल्याणतममत्यन्तशोभनं तसे तवाऽऽत्मनः प्रसादात्पश्यामि। किंचाहं न तु त्वां मृत्यवद्याचे योऽसावादित्यमण्डलस्थो ध्याहृत्यवपर्वः पुरुषः पुरुषाकारत्वात्पूर्ण वाऽनेन पाणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सोऽहमस्मि भवामि ॥ १६ ॥ वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेद हित्वाऽधिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रात्मानं प्रतिपद्यता. मिति वाक्यशेषः । लिङ्ग चेदं ज्ञानकर्मसंस्कृतमुस्कामत्विति द्रष्टव्यम् । भा० टी० मुत्तरग्रन्थस्य संबन्धाभिधित्सयाऽर्थविशेषमनुवदति-तत्र निषेकादीत्या. दिना । तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपक्षिकामृतत्वं फलमि. स्युक्तमस्भाभिरिति ॥ १५॥ व्याहृत्यवयव इति । तस्य भूरिति शिरः मुवै इति बाहुः सुषरिति प्रतिष्ठा पादावित्यर्थः ॥ १६ ॥ १७ ॥ च सत्यधर्मस्तस्मै । यद्यप्यवमेव पाठी मूलानुसारेण समीचीन इति भाति तथाऽपि चव्य. तिरिक्तपुस्तकेषु सत्यधर्मा तस्मै, इत्येव पाठ उपलब्धः । अतः स एव शंकराचार्याभिप्रेत इति गम्यते । कुत इति चेदुच्यते--मुले सत्यधर्मायेति पदं वर्तते तत्तु भाषायां पैयाकरणरीला न सिध्यति के तहि धर्मादनिच्केवलादिति पाणिनिसूत्रेण समासान्तानिच्प्रत्यवेन भाध्यं तथा च सत्य- धर्मण इति स्यादत आचायः सत्यधर्मायेत्यस्याऽऽर्षत्वप्रदर्शनार्थ भाष्येऽनिजन्तसत्यधर्मशब्दस्प प्रथमैकवचनस्य प्रदर्शितत्वादिति ज्ञेयम् । २ ज. वः परोक्षोऽसौ शारूदरपा प्रत्यक्षः पु।। परिति बाहुः सु।
१८ ईशावास्योपनिषत्- ॐ क्रतो स्मर कृत स्मर को स्मर कृत५ स्मर ॥१७॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । शा० भा० मायाचनसामर्थ्यात् । अथेदं शरीरममौ हुतं भस्मान्तं भूयात् । ओमिति यथोपासनमोंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदे. नोच्यते । हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितोऽतः स्मरेतावन्तं कालं भावितं कृतमग्ने स्मर यन्मया बाल्यप्रमृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वच. नमादरार्थम् ॥ १७॥ पुनरन्येन मन्त्रेण मार्ग याचते-अग्ने नयेति । हेऽने नय गमय सुपथा शोमनेन मार्गेण । सुपथेति विशेषणं इक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुन- र्गमनागमनजितेन शोमनेन पथा नय । राये धनाय कर्मफलभोगा. येत्यर्थः । अस्मान्यथोक्तधर्मफलविशिष्टान्विश्वानि सर्वाणि हे देव वयुनानि कर्माणि प्रज्ञानानि वा विद्वानानन् । किं च युयोधि वियो. जय विनाशयास्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् । ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः । किंतु वयमि. दानीं ते न शक्नुम परिचयाँ कर्तुं भूयिष्ठां बहुतराम् । ते तुभ्यं नम- उक्तिं नमस्कारवचन विधेम नमस्कारेण परिचरेमेत्यर्थः । अविद्यया मृत्युं तीर्वा विद्ययाऽमृतमश्नुते। विनाशेन मृत्यु ती संभूत्याऽमृतम- श्नुत इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निराकरणा) संक्षेपतो विचारणां करिष्यामः। तत्र तावत्किंनिमित्तःसंशय इत्युच्यते। विद्याश- छदेन मुख्या परमात्मविद्यैव कस्मान्न गृह्यतेऽमृतत्वं च। ननूक्तायाः पर- मात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः। सत्यम् । विरोधस्तु नावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाऽविद्यानुष्ठान विद्योपासनं च शास्त्राप्रमाणकं तथा तद्विरोधाविरोधावपि । यथा च न हिंस्यात्सर्वा भूतानीति शास्त्रादवगतं पुनः शास्त्रणव बाध्यतेऽ. आ० टी०मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते -अविद्यया मृत्यु तीवेत्या- दिना । अमृतत्वं चेति । अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति संबन्धः। शास्त्रीययोर्ज्ञानकर्मणोविरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोके १५. अ. च. छ. ठ °कम । २ ग. ब्रह्मव ओवित्युच्य । ३ क. ४. ग. 'मन स्म'। कब.ग. म ट. स्तनिर्धार । ५ प. म. ट ड. स्यात्सर्वभू । एतदन्यपुस्तकेषु सर्वा, इत्येव पाठो दृश्यते । अतः सर्घाणीत्यर्थकसर्वा, इतिपदघटितवक्यस्य श्रुतिस्थत्वमनुमीयते ।
सटीकमाष्योपेता। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ १८ ॥ इत्युपनिषद् ॥ इति वाजसनेयसंहितोपनिषत्संपूर्णा ।। ॐ पूर्णमदः शिष्यते । ॐ शान्तिः शान्तिः शान्तिः ॥ शा० भा० ध्वरे पशुं हिंस्यादिति । एवं विद्याविद्ययोरपि स्यात् । विद्या- कर्मणोश्च समुच्चयो न दूरमेते विपरीते विषूची अविद्या या च विद्य- तिश्रुतेः । विद्यां चाविद्यां चेतिवचनादविरोध इति चेन्न । हेतुस्वरू- पफलविरोधात् । विद्याविद्याविरोधाविरोधयोपिकल्पासंभवात्समुच्च. यविधानादविरोध एवेति चेन्न । सहसंभवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविये इति चेन्न । विद्योत्पत्तावविद्याया ह्यस्तत्वात्तदा- श्रयेऽविद्यानुपपत्तेः। न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मि- नाश्रये तदुत्पन्नं तस्मिन्नेवाऽऽश्रये शीतोऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्वि- जानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति शोकमोहा- द्यसंमवश्रुतेः । अविद्यासंभवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवो- आ० टी० सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह-न दूरमेते इति। विषूची नानागती विद्याविये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः । सहसंभवानुपपत्तेरिति । काऽनुपपत्तिः । काठके विरोधश्रवणात् । तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह स्वविरोधश्रवणादविरोधो भविष्यतीति न च वाच्यम् । विरोधाविरोधयोः सिद्धस्वेन विकलासंभवादुदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तीविरोध एवास्तु समुच्चयविधिबलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययो. रिव सहसंभवानुपपत्तेः समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तहलादविरोधाव. गमोऽविरोधावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसंभवानु. पपत्तावपि क्रमेणैकाश्रये विद्याविये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्यति क्रमस्तहीष्यत एव यदि पश्चात्तीसंभव इत्याह-न विद्योत्पत्ताविति । पूर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासंभवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः । विद्योत्पत्तौ मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाऽऽह-अविद्या- संभवादिति । चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं १ घ. इ. च. छ. ज द. इ. "ति ज्ञातेति श्रु। २ ग घ. च. म. ट, म विरोधादि । ।
ईशावास्योपनिषस्सटीकमाष्योपेता। शा• भा० चाम । अमृतमश्नुत इत्यापेक्षिकममृतं विद्याशब्देन परमात्मा विद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात्त. स्मोदुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथाऽस्माभिा- ख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥ १८॥ इति श्रीगोविन्दमगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजका- चार्यस्य श्रीशंकरभगवतः कृतौ वाजसनेयसंहितोप- निषद्भाष्यं संपूर्णम् ॥ ॥ॐ तत्सत् ॥ मा० टी० ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना संभवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । — अकामिनः क्रिया काचिदृश्यते नेह कस्य चित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ' इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रय. कर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि, न कर्म, चोदनाभावास्किंतु यावत्प्राणश- रीरसंयोगमावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असंभवान्नैव किंचित्करोमीति प्रत्ययाचेति भावः । यदुक्तममृतशब्देन मुख्यमेवामृ- तत्वं किं न गृह्यते । विद्याशब्देन च परमात्मविद्येति तत्राऽऽह-अमृतमिति। मुख्यामृतत्वग्नहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राणा उत्क्रामन्त्यत्र ब्रह्म समश्नुत इत्यादिश्रुतेः । ततो मुख्यार्थबाधाद्गौणार्थग्रहणं युक्तमित्यर्थः । यस्मादर्थान्तरं न संगच्छते तस्मादित्युपसंहारः ॥ १८ ॥ ईशाप्रभृतिभाष्यस्य शांकरस्य परात्मनः । मन्दोपकृतिसिद्धयर्थ प्रणीतं टिप्पणं स्फुटम् । इति श्रीपरमहंसपरित्राजकाचार्यश्नीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्द- ज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता ॥ तत्सत् ॥ क. स. ग. झ. म. ट. स्माद्यथोपा । घ. क. ज. ट. ते किंचितत्त। ३ घ... ज. ड.: । अतो मुख्यायें बा ।
* ॥ अथेशावास्यभाष्यमुवटार्यक्रतम् ॥ ॐ । समाप्तं कर्मकाण्डं ज्ञानकाण्डमिदानी प्रस्तूयते । ईशा वास्प तिस्रोऽनुष्टुभः । दध्यङथर्वण ऋषिः स्वं शिष्यं पुत्रं वा गर्भाधाना- दिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्त्यनुष्ठितय- ज्ञमपापं निःस्पृहं यमनियमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसन्नं शिक्षयन्नाह-ईशा वास्यमिद सर्वमिति । ईश ऐश्वर्य विपि तृतीयान्त. स्यैतदूपं यदीशाऽनेन वास्यं वासनीयं ममेदमित्यनया भावनयाऽऽच्छा. दनीयमिदं सर्वमिति प्रत्यक्षतो निर्दिशति यत्किंच यत्किंचशदो भिन्न- क्रमः किंच यजगत्यां पृथिव्यां जगजङ्गमादि स्वस्वामिसंबन्धालिङ्गिन स्यात्तेनानेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन मोगान्मुञ्जीथा अनुभवेः । मा गृधः । गृधु अभिकाङ्क्षायामिति माऽभिकाङ्क्षय मा कृथा ममेदमिति । किं कारणं कस्य स्विद्धनं स्विदिति निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यर्थ इत्यभिप्रायः । सण्ययथार्थानि हि द्रव्याण्युत्पद्यन्ते । तद्यथा स्त्रियं पतिरन्यथा मुझेऽन्यथा पुत्रोऽन्यथा प्राघूर्णकः । तथा च कटककेयूरकुण्डलादीन्य- लंकरणान्यन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यः स्वस्वामिसंबन्धो ममेदमिति बुद्धिः सा त्वविद्या । निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ॥ १ ॥ निस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाह- कुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानीह लोके जिजीविषेजिजीविषे. रिति पुरुषव्यत्ययः प्रत्यक्षकृतत्वान्मन्त्रस्य जीवितुमिच्छेः पथ्यहितमि. तभक्षणेन शतं समा इत्युपलक्षणार्थम् । एवं त्वयि तवेति विमक्तिव्य- त्ययः । मुक्तिरस्तीति शेषः । नान्यथेतोऽस्तीतः प्रकारादन्यथा मुक्ति- नास्ति । एतदुक्तं भवति-यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावित्यर्थः । ननु कर्मणः फलेन भवितव्यम् । अथ कथं मुक्तेः प्राप्तिरित्येतदाशङ्कयाऽऽह-न कर्म लिप्यते नरे । न हि मुक्त्यर्थ कर्म क्रियमाणं नरे मनुष्ये संबध्यते मुक्तिदानेनोपक्षीणशक्तित्वात् । तथा च बृहदारण्यकम्-तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण - १ क, 'वार्था । २ क. प्राघुणिकः । ३ क. त्यक्षं कृत्वा मन्त्र।
२ उवटार्यकृतम्- तपसा श्रद्धया यज्ञेनानाशकेन चेति । विविदिपन्ति घेदितुमिच्छन्ति । अनेनैतदर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥२॥ इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्द्यन्ते- असुर्या नाम । असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुराणां स्वभूता एवंसंज्ञकास्ते लोकाः । अन्धेन तमसाऽज्ञानलक्षणेन तमसाऽऽवृताः संवृतास्ताल्लोकांस्ते जनाः प्रेत्य मृत्वाऽपि गच्छन्ति । ये के चाऽऽत्महनो जनाः । ये जना आत्मानं निघ्नन्ति ये स्वर्गप्राप्तिहेतु. भूतानि हि नूनं कर्माणि कुर्वन्ति ते हि जनित्वा नियन्ते मृत्वा जायन्त एवं महतीं विनष्टिं प्राप्नुवन्ति ॥३॥ इदानीं यमनियमवतां मुमुक्षूणां यथामूतं परं ब्रह्म, आत्मत्वेनोपास्य तदाह-उक्तं च-'अहं ब्रह्मास्मि संबुध्य इदं सर्वं च मन्मयम् । मयि विद्या समुद्दिष्टा विमुक्तिर्यन्निबन्धनी' इति।अनेजदेकम् । त्रिष्टुब्यदनेजदचलत्त स्वमस्ति एकमद्वितीय विज्ञानघनरूपेण मनसो जवीयः।मनस्तावच्छीघ्र मवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् । नचैतत्तत्वं देवा अपि प्राप्तुं शक्ताः सूक्ष्मत्वात् । पूर्वमर्शत् । रिशतिहिंसाकर्मा पूर्व पूर्वमपि विद्यमानं सदर्शद्रिशतीति रिशन्न रिशदर्शत् । धातोरिकारलो- पश्छान्दसः। इकारलोपे कृतेऽर्शद्भवत्यविनश्यदास्तेऽनादिनिधनमित्यर्थः। तद्धावतस्तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतोऽन्यान्पुरुषा- दीनत्येत्यतिक्रम्य गच्छति तथा तिष्ठत्सर्वत्र स्थितं सर्वगतत्वं सर्वशक्ति त्वमनेन व्याख्यायते । तस्मिन्नपः । यस्मिंश्चापः कर्माणि मातरिश्वा वायुर्दधाति स्थापयति सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजु- षि वायौ स्थाप्यन्ते स्वाहा वातेधा इति वायुप्रतिष्ठत्वाभिधानात् । समष्टि- व्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति यागहोमदा- नानां परमं निधानमित्यर्थः॥४॥ एवं कारणरूपमात्मानमुद्दिश्याथेदानी कार्यरूपेणोद्दिशति-तदेजति। अनुष्टुमस्तिसः । तदेव सर्वरूपेणावस्थितं सदेजति कम्पवद्भवति क्रियावद्भवति तदेव नैजति न चलति स्थावररूपावस्थितं तद्दूरे तदेव दूर आदित्यनक्षत्रादिरूपेण । तद्वन्तिके तदेव चान्तिके पृथिव्यादिरूपेण सवं खल्विदं ब्रह्मेत्येतदर्शनार्थो ग्रन्थः । तदन्तरस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणान्तर्मयत आस्ते तदु सर्वस्यास्य बाह्यतः । तदेव १क. म । इति वि।
। ईशावास्यभाष्यम् । सर्वस्यास्य प्राणिजातस्य बाह्यतो जडरूपेण व्यवस्थितमास्ते चेतनाचे. तनरूपमनन्तं सर्वगतं ब्रह्मेत्यर्थः । अस्या उपासनाया चिरादिचिन्तनं नास्तीति केचिदाहुरिहैव ब्रह्मप्राप्तेः ॥ ५॥ यस्तु । तुशब्दो विशेषणार्थः। यः पुनः सर्वाणि भूतानि चेतनाचेत. मान्यात्मन्नात्मन्येवानुपश्यति मय्येव सर्वाणि भूतान्यवस्थितानि न मय- तिरिक्तान्यहमेव परं ब्रह्म सर्वभूतेषु चाऽऽत्मानमवस्थितमव्यतिरिक्त पश्यति ततो न विचिकित्सति । एवं पश्यतो योगिनो हि सर्वाणि भूतानि परब्रह्मरूपाण्यात्मसंस्थितानि भवन्ति विज्ञानघनानन्दैकत्वादित्यतो विचारो निवर्तते ॥ ६॥ किंच-यस्मिन्सर्वाणि। यस्मिन्नवस्थाविशेषे सर्वाणि भूतानि चेतना- चेतनान्यात्मैवाभूत्संभवति विजानत आत्मैवेदं सर्वम् । सर्वं खल्विदं ब्रह्मे. त्येवमादिवाक्यविचारणावधृतविज्ञानस्य कृतचेतसोऽवस्थाविशेपे तत्र तस्यामवस्थायां योगिनः को मोहः कः शोको न कश्चिदपीत्यभिप्रायः। शोकमोहावपरिज्ञाततत्त्वस्य भवतो नैकत्वमनुपश्यतो ध्यायतः ॥ ७ ॥ स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्र शुक्लं विज्ञानानन्दस्वभावमचिन्त्यशक्तिमकायं न विद्यते कायः शरीरं यस्य स तथोक्तोऽवणं कायरहितत्वादेवानाविरं स्नायुरहितमका. यत्वादेव शुद्धमनुपहतं सत्त्वरजस्तमोमिरपापविद्धं क्लेशकर्मविपाकाश- यैरसंस्पृष्टमकायमवणमनाविरमिति पुनरुक्तान्यभ्यासे मूर्यासमर्थ मन्यन्त इत्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते । अथाऽऽत्मोपासनायुक्तस्य फल- माह—यश्च कविः कान्तदर्शनो मनीषी मेधावी परिमः सर्वतो मविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्ब्रह्मरूपेण मविता याथातथ्यतोऽ- र्थान्व्यदधायथास्वरूपमर्थान्विहितवान् । त्यक्तस्वस्वामिसंबन्धैरथै श्वेत. नाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः समाभ्योऽर्थायानन्त- वर्षप्राप्तये च कर्म कृतवान् । ननु कर्मजाड्याल्लोकः कर्मवानेव भवति । सत्यमात्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात्तस्मात्सोऽपि गच्छति शुक्रमकायं ब्रह्म ॥८॥ इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते--अन्धं तमः । पडनुष्टुभो लोका. यतिकाः प्रस्तूय निन्द्यन्ते येषामेतद्दर्शनं जलबुबुदवज्जीवा मदशक्तिव- द्विज्ञानमित्यन्धं तमः प्रविशन्ति । ये चासंभूतिमुपासते मृतस्य सतःपुन: संभवो नास्त्यतः शरीरग्रहणादस्माकं मुक्तिरेव न हि विज्ञानारमा कश्चिः । उवटार्यकृतम्- बनुच्छित्तिधर्माऽस्ति यो यमनियमैः संबन्ध्यते । एवं येऽध्यानमुपासते तेऽज्ञानलक्षणं तमः प्रविशन्ति । ततोऽपि भूयो बहुतरमिवामर्थकमन्धं तमः प्रविशन्ति । ये उ उकारः कर्मोपग्रहणार्थाय ये संभूत्यामेव रता आत्मैवास्ति नान्यत्किंचिदस्तीत्यभिप्रायः। कर्मपराङ्मुखा यत्कर्मकाण्ड- ज्ञानकाण्डयोरसंबन्ध इत्पभिप्रायः । स्वबुद्धिफल्गुता विभावयन्त आत्म- ज्ञानमात्र एवं रताः॥९॥ अन्यदेव । अन्यदेव फलमाहुः संभवात्संभवपरिज्ञानावन्यवाहुः फलमसंमवादसंभवपरिज्ञानात् । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां वासि ये धीरा नोऽस्माकं तद्ब्रह्म विचचक्षिरे व्याख्यातवन्तः ॥१०॥ संभूतिं च । समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म विनाशं च विनाशि च शरीरं यो योगी तदुभयमेव वेद जानाति सहकीभूतं शरी- एग्रहणेन ज्ञानोत्पत्तिहेतूनि कर्माणि करोति स विनाशेन विनाशिना शरीरेण मृत्यु तीर्वोत्तीर्य सेभूत्याऽऽत्मज्ञानेन विज्ञानेनामृतमश्नुतेऽमृतत्वं प्राप्नोति ॥११॥ अन्धं तमः प्रविशन्ति । अज्ञानलक्षणं तमः प्रविशन्ति येऽविद्या स्वर्गार्थानि कर्माण्युपासतेऽनुतिष्ठन्ति ततोऽपि ते भूय इव बहुतरं तमः प्रविशन्ति । ये पुनर्विद्यायामेव रता आत्मज्ञान एव त्यक्तकर्माणो रताः॥१२॥ अन्यदेव । अन्यदेव फलमाहुर्विद्याया आत्मज्ञानादन्यञ्चाऽऽहुरवि. धायाः कर्मण इति शुश्रुमेत्यादि व्याख्यातम् ॥ १३॥ विद्यां च । आत्मज्ञानं चाविद्या कर्म च यस्तदुमयं वेद जानाति सहै. कीभूतं कर्मकाण्ड ज्ञानकाण्डस्य गुणभूतमथ कर्मकाण्डं ज्ञानकाण्ड चैकीकृत्याविद्यया कर्मकाण्डेन मृत्यु तीर्वोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥१४॥ इदानींमित्थं कृतब्रह्मोपासनस्य योगिनः शरीरपातोसरकाले यद्भवति सदाह-वापुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पश्च जीवात्मैक एवं सप्तदशकलिङ्गोपलक्षणार्थं वायुः प्राणोऽनिलं स्वकीयां प्रकृतिमापद्यतेऽस्तं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूल- शरीरं कीदृशं तदा मवति मस्मैव भवति कृतप्रयोजनकत्वात् । इदानी योगिन आलम्बनभूतमक्षरं कथ्यते-ॐ नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर । योऽमिब्रह्मचर्या- क. 'च्छिमध।
ईशावास्यभाष्यम् । पारम्य परिचरितः स मैनःश्वासरूपेणावस्थितः संबोध्यते ।हेकतोमा स्मरेदानीसुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । ऋतुर्वा पश: संबोध्यते । क्रतो स्मर क्लिवे स्मर क्लताय लोकाय स्मर कृतं स्मर मया पत्कृतं तत्स्मर ॥१५॥ अमे नय । हेऽमे नय सुपथा देवयानेन मार्गेण रापे मुक्तिलक्षणाव धनायास्मान्विश्वानि सर्वाणि देव दानादिगुणयुक्त वयुनानि प्रज्ञा मानि विद्वामानानो पुयोधि पृथक्कुरु च प्रतिबन्धकमेनः । यतो बहुतरी तब नमस्कारोक्तिं कुर्मो व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥१६॥ इदानीमादित्योपासनमाह-हिरण्मयेन पात्रेण । यद्यपि हिरण्मय- रूपेण पात्रेण पिबन्त्यस्मिन्नवस्थितानसाचश्मय इति पानं मात मण्डलेन सत्यस्याविनाशिनः पुरुषस्थापिहितमन्तर्हितं मुखं शरीरं तथाऽपि पोऽसावादिस्ये पुरुषो योगिभिरुपलभ्यते सोऽसावहमस्मि । इत्वं चोपा. सनां कुर्यात् । ॐ खं ब्रह्म । ओमिति नामनिर्देशः । समिति रुपनि. देशः । आकाशरूपं ब्रह्म ध्यायेत् । आस्मत्वेनं मनोमूरचेतन जाकाश. सनस्त्वारमा तयषा विज्ञानघनानन्दं ब्रह्म तत्राऽऽनन्दप्रतिपाएकं वाचं तथा स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रम्याथ ये शतं प्रजा. पतिलोक आनन्दाः स एको ब्रह्मलोक आनन्द इत्यन्तम् । तथा सर्व- नियन्तृत्वं दर्शयति एतस्य वा अक्षरस्य प्रशासने गार्गीस्खुपक्रम्प द्यावापृथिवी विधृते तिष्ठत इति । तथा सर्वज्ञस्वं दर्शयति-तद्यथा एतदक्षरं गार्यदृष्टं द्रष्ट्रित्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः भूयन्ते सत्यसंकल्पः सत्यधृतिरित्यादयः । एवं तहि एतद्वै तदक्षरं गार्गि पस्मि. माकाश ओतश्च प्रोतश्चेति सामान्याद्याकाशशमेनैवेतदूपं ब्रह्मामि हितं स्यादित्ययमेव ब्रह्मविसिद्धान्तः ॥१७॥ इति श्रीमहब्रटमट्टोपाध्यायात्मजसकलनिगमविपूडामणिभीम- दुवटमहार्यविरचिते श्रीयजुर्वेदस्य वाजसनेयपञ्चदशमेदा- बान्तरमापंदिनशाखासंहितामधार्थप्रकाशमाष्ये चत्वारिंशत्तमोऽध्यायः ॥४०॥ समातमिदमुवटार्यमाष्यम् ॥ *काबोतवा। १. मनसि वासनारूणावस्थितिः सं। १ क. "सं सुषिरं ।। क. भतपुर ।
No text on this page.
1-
अथ महानन्दकतमीशावास्यरहस्यम् ॥
ॐ येनाऽऽत्मना परेणेशा व्याप्तं विश्वं चराचरम् ।
सत्यज्ञानस्वरूपेण तदेवाहं सदात्मकम् ॥१॥
ईशावास्यादयो मन्त्रा न कर्मप्रतिपादकाः।
अखण्डैकरसे शुद्धे ब्रह्मण्येव समन्विताः ॥२॥
कर्मसंबोधका वेदा न च ते ब्रह्मबोधकाः।
इति मीमांसकाः प्राहुस्तन्न सत्यं कथंचन ॥३॥
अकर्मशेषमात्मानं निर्गुणं प्रकृतेः परम् ।
अशरीरं सदा मुक्तं नित्यं शुद्धस्वभावकम् ॥४॥
सत्यं ज्ञानमनन्तं च निष्कलं निष्क्रियं ध्रुवम् ।
बोधयन्ति यतः सत्यं सर्वे वेदाः षडङ्गकाः॥५॥
अत एव हि ते मन्त्रा ब्रह्मतत्त्वप्रबोधकाः।
ईशा ईशेन संव्याप्तं त्रैलोक्यं सचराचरम् ॥ ६॥
वासितं मुवनं सर्व सत्यमेवं श्रुतिर्जगी ।
यत्किंचित्सर्वमेवेदं जगत्यामुपलक्षणम् ॥ ७॥
जगद्ब्रह्मैव परमं ब्रह्मैवेदमिति श्रुतेः ।
यस्माद्ब्रह्मात्मकं सर्वं तस्मात्त्यक्तेन सर्वदा ॥८॥
पालयेथाः स्वमात्मानं स्वस्वरूपं निरञ्जनम् ।
त्यागशब्देन चाप्यत्र संन्यासः परिकीर्तितः ॥९॥
संन्यस्य सर्वकर्माणि ब्रह्मैवास्मीति भावयन् ।
रक्षणीयः स्वयं चाऽऽत्मा संसारादज्ञकल्पितात् ॥ १० ॥
आत्मैवेदं जगत्सवं धनं नैवास्ति कस्यचित् ।
गृधिं वै धनविषयां मा कार्षीस्त्वं कथंचन ॥ ११ ॥
स्विदित्यनर्थको वाऽत्र चाऽऽक्षेपो वा भविष्यति ।
आत्ममिन्नं परं स्वं किं कस्यचिद्विद्यते धनम् ॥ १२ ॥
सुगन्धचन्दनेनैव दुर्गन्धश्छाद्यते यथा ।
नामरूपात्मकं विश्वमात्मनाऽऽच्छादित तथा ॥ १३ ॥
तस्मादात्मैव द्रष्टव्यः श्रोतव्यः सर्वदेव हि ।
इत्येष एव वेदार्थः प्रथमो वै निरूपितः ॥ १४ ॥
ईशावास्परहस्यम् ।
॥ इत्येको मन्त्रो व्याख्यातः ।
सर्वकर्माणि संन्यस्य मन्तव्यः परमेश्वरः ।
सदशक्तस्य कर्माणि कर्तव्यानि श्रुतिर्जगौ॥१॥
अग्निहोत्रादिकर्माणि व्यवहारान्सदा नरः ।
कुर्वनीवितुमिच्छेबै शतं संवत्सरान्स्वयम् ॥२॥
तावद्धि पुरुषस्याऽऽयुः शतायुरिति च श्रुतेः ।
एवंप्रकारे तु वयि नरमात्राभिमानिनि ॥३॥
प्रकारान्तरं नैवास्ति न कर्म लिप्यते पथा।
ईश्वरार्पणबुद्धशा तु कर्म कुर्वन्न लिप्यते ॥४॥
प्रसीदति परो ह्यारमा शुद्धान्तःकरणे स्वयम् ।
इति द्वितीयमन्त्रार्थः सम्यगेव निरूपितः ॥५॥
॥ इति द्वितीयो मन्त्रो व्याख्यातः ॥
अविवेकात्तु संसारो विवेकानव विद्यते ।
अविवेकनिवृत्यर्थ मन्त्रोऽयं संप्रवर्तते ॥१॥
आत्मज्ञानमुपेक्ष्याथं देवा ये मोगलम्पटाः ।
असुरा एव ते ज्ञेया आत्मधर्मबहिष्कृताः ॥२॥
ऽन्यथा सन्तमात्मानमकर्तारं स्वयंप्रभम् ।
कर्ता मोक्तेति मन्यन्ते. त एवाऽऽत्महनो जनाः ॥३॥
स्वात्मनः स्वस्वरूपस्य तिरस्करणहेतुतः।
अदर्शनात्मकेनैव चान्धेन तमसाऽऽवृताः ॥४॥
प्रेत्य देहं परित्यज्य संसरन्ति पुनः पुनः ।
ये के च परमात्मानं न जानन्ति परात्परम् ॥ ५॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणाऽऽत्मापहारिणा ॥६॥
इति वाक्यं श्रुतिः शास्ति सत्यमेतन्न संशयः ।
अपि गच्छन्ति पाठे तु ज्ञानाभावे न चान्यथा ॥७॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।
स्वात्मानं परमं ज्ञात्वा मुच्यते जन्मबन्धनात् ।। ८॥
॥ इति तृतीयो मन्त्रो व्याख्यातः ॥
कीदृशं तत्परं तत्त्वं पूर्वमन्त्रेण कीर्तितम् ।
तदर्थप्रतिपत्यर्थ चतुर्थोऽयं प्रवर्तते ॥१॥
. ईशावास्यास्यम् । अमेजत्परमं तत्वं स्वतश्चलनवर्जितम् । एज़ कम्पन इति च धात्वर्थोऽपि तथाविधः ॥ २॥ अचलं सत्परं ब्रह्म नित्यमुक्तस्वमावकम् । एकमेवाद्वितीयं च सत्यज्ञानस्वरूपकम् ॥ ३ ॥ संकल्पलक्षणाचास्मान्मनसो वेगवत्तरम् । मैनत्तत्त्वं प्राप्तवन्तो देवा ये चक्षुरादयः ॥ ४॥ पूर्वमेव हि संख्या व्योमवनिर्मलं परम् । तद्धावतोऽन्यान्वेगेन सर्वान्व्याप्यैव तिक्षति ॥५॥ तस्मिस्तिहति पूर्णेऽस्मिन्परे ब्रह्मणि केवले । अपः कर्माणि सर्वाणि मातरिश्वा दधाति च ॥६॥ अन्तरिक्ष स्वयं याति सूत्रात्मा पवनः स्वयम् । कर्म चैतत्फलं चैव धारयत्येव सर्वदा ॥७॥ इति संक्षेपतो मन्त्रश्चतुर्थोऽपि समापितः । प्रसीदतु परो देवः सर्वभूतगृहाशयः ॥८॥ इति चतुर्थो मन्त्रो व्याख्यातः॥ न मन्त्राणां जामितादिदोषः कश्चन विद्यते । उक्तमेव वदत्यर्थं ब्रह्मतत्त्वप्रकाशकम् ॥१॥ दुर्विज्ञेयं परं ब्रह्म सत्यज्ञानमनन्तकम् । निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम् ॥२॥ अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् । इति वाक्यं यतः शास्ति ब्रह्म सत्यं पुनातु माम् ॥३॥ तदेजति परं ब्रह्म ब्रह्मविष्णुशिवाल्मकम् । साकारं मायया माति निराकारं तु वास्तवम् ॥४॥ उपाधिचलनेनैव चलनं तु विमाव्यते । तन्नैजति परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥५॥ तच दूरे परं ब्रह्म सर्वदेवाविवेकिनाम् । अप्राप्यत्वात्परं ब्रह्म वर्षकोटिशतैरपि ॥६॥ तदेव ह्यन्तिके ब्रह्म स्वात्मरूपं विवेकिनाम् । सद्वाह्याभ्यन्तरे ब्रह्म कार्यकारणवस्तुनः ॥७॥ ग. क्षेश्वसितीति । २. स्वपितीति । ३ घ. निकम्म नि।
४ ईशावास्यरहस्यम् । वेश्वातीतं परं ब्रह्म विश्वस्याम्यन्तरे स्थितम् । तीरूपं सर्वगं ज्ञात्वा मुच्यते जन्मवन्धनात् ॥८॥ इति पञ्चममन्त्रोऽयं समासेन निरूपितः। मायातीतं परं शुद्धं रहस्यं च प्रकीर्तितम् ॥९॥ इति पञ्चमो मन्त्रो व्याख्यातः ॥ तद्ब्रह्म परमं शुद्धं कर्मणा नैव लभ्यते । कर्मत्यागी परं ब्रह्म प्राप्य सम्यक्पमुच्यते ॥१॥ कर्मणा लभ्यते ब्रह्म ज्ञानान्नैव तदाप्यते । इति मीमांसकाः प्राहुस्तेषां पक्षो निरस्यते ॥२॥ यस्तु सर्वाणि भूतानि परिवादस्वयमेव हि । तानि सर्वाणि भूतानि स्वस्मिन्नेव प्रपश्यति ॥३॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतगृहाशयम् । तस्मादेव तु विज्ञानान्न चैव विचिकित्सति ॥४॥ स्वस्वरूपपरिज्ञानात्संदेहं न करोत्ययम् । माध्यंदिनस्य पाठे तु व्याख्याने परिकीर्तितम् ॥५॥ घृणा दया जुगुप्सा वा जायते भेददर्शिनः । न तु निर्भेदमद्वैतमात्मैकत्वं प्रपश्यतः ॥६॥ इति षष्ठोऽपि मन्त्रोऽयं समासेन मयोदितः । अनेन प्रीयतां देवः सर्वभूतगुहाशयः ॥ ७॥ ॥ इति षष्ठो मन्त्रो व्याख्यातः॥ परिवाडेव तद्वेत्ति स्वात्मानं प्रकृतेः परम् । इति प्रदर्शनार्थं तु सप्तमोऽयं प्रवर्तते ॥१॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम् । इति शङ्कानिवृत्त्यर्थं तुशब्दोऽयं प्रवर्तते ॥२॥ यस्मिन्ब्रह्मस्वरूपे तु निर्विकल्पे परेऽव्यये । सर्वाण्यात्मैव संवृत्तं ब्रह्मतत्त्वं विजानतः ॥३॥ ब्रह्मैव सकलं विश्वमहमस्मीति तत्पदम् । पद्यते गम्यते नित्यं स्वस्वरूपं स्वयंप्रमम् ॥४॥ शोकमोहादिसंबन्धस्तस्मिन्नैव तु विद्यते । अपाणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥५॥ १ग. मठैन चला ईशावास्यरहस्यम् । अविद्याकार्यनिर्मुक्ते संविद्रूपे परात्मनि । शोकमोहादिसंबन्धः कथं ब्रह्मणि माव्यते ॥६॥ इत्ययं सप्तमो मन्त्रः स्वरूपप्रतिपादकः । सोऽहमस्मि स एवाहं ब्रह्मैवास्मीति वाक्यतः ॥७॥ ॥ इति सप्तमो मन्त्रो व्याख्यातः॥ ब्रह्माऽऽत्मा सकलं विश्व तस्मिन्विश्वं प्रतिष्ठितम् । जीवाज्ञानवशादेव चाष्टमोऽयं प्रवर्तते ॥१॥ आत्मानं सर्वगं शुद्धं निरूपयितुमसा । आप्नोति सकलं कार्य तस्मादात्मेति गीयते ॥२॥ स पर्यगात्परो ह्यात्मा सर्व व्याप्य व्यवस्थितः। यच्च किंचिजगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥३॥ अन्तर्षहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । इति मन्त्रो यतः शास्ति तस्माद्भेदो न विद्यते ॥४॥ निर्विभागः स्वयंज्योतिरात्मैव सकलं जगत् । शुक्लज्योतिःस्वभावोऽयं नित्यचिन्मानविग्रहः ॥५॥ लिङ्गन्देहविनिर्मुक्तः सर्वमूतगुहाशयः । एकीमूतः स्वयं चाऽऽत्मा सर्व व्याप्य प्रतिष्ठितः ॥६॥ तमात्मानं परं शान्तं देहत्रयविवर्जितम् । निरिन्द्रियं परं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ७॥ मायापाशविनिर्मुक्तं धर्माधर्मविवर्जितम् । मनसोऽपि नियन्तारं सर्वसाक्षिणमव्ययम् ॥ ८॥ उपर्युपरि सर्वेषां मवितारं स्वयंमुवम् । विभुं सर्वात्मकं ज्ञात्वा मुक्त एव भवत्यसौ ॥९॥ अथ वा स परो देवः सर्वव्यापी निरञ्जनः । सर्वगः सकलं व्याप्य स्वयमेव व्यवस्थितः ॥१०॥ व्यवहारेऽपि शुद्धोऽसौ देहद्वयविवर्जितः । बीजधर्मविनिर्मुक्तो नियन्ता सर्वदेहिनाम् ॥ ११॥ परिमवति कार्याणि परिभूः स्वयमेव हि । स्वातन्त्र्येण भवतीति स्वयंमूः पारविश्वहक ॥१२॥ ...कामस। २क. ग. शुक्रं ज्यों।
ईशावास्यरहस्यम् । ग्रार्थातथ्यत एवायं कर्तव्यार्थान्स्वयं प्रभुः । शाश्वतीभ्यः समाभ्यश्च प्रजापतिभ्य एव हि ॥१३॥ प्रजाम्यश्च विमज्यैव दत्तवान्परमेश्वरः । तदेवं परमात्मानं नित्यमुक्तस्वभावकम् ॥ १४ ॥ सोऽहमस्मीति विज्ञाय मुक्त एव भवस्ययम् । इत्येवमष्टमो मन्त्रः सम्यगर्थनिरूपकः ॥ १५॥ समाप्तः सर्वगो ह्यात्मा नित्यं सर्वस्वभावकः । सोऽहमस्मीति विज्ञाय सुपते सर्वतोमयात् ॥ १६ ॥ ॥ इत्यष्टमो मन्त्रो व्याख्यातः ॥ संन्यस्य सर्वकर्माणि ज्ञातव्यः परमेश्वरः । इति प्रथमो वेदार्थः सम्यगेव प्रदर्शितः ॥१॥ अमिहोत्रादिकर्माणि तदशक्तेन सर्वदा । कर्तव्यानि द्वितीयोऽपि वेदार्थोऽयं प्रदर्शितः ॥२॥ विरोध दर्शयित्वा तु तयोरेव हि मन्त्रयोः । बृहदारण्यके शास्त्रे व्यवहारोऽपि दर्शितः ॥३॥ कामुकस्य तु संसारो निष्कामस्य परा गतिः । इति प्रदर्शनार्थस्तु नवमोऽयं प्रवर्तते ॥४॥ अन्धं मूढे तमो यान्ति ये मायां समुपासते । विरक्ता अपि संसारान्नैष्काम्यं ये विदुराः ॥५॥ असंभूतिषचसाऽत्र मायातत्त्वं प्रकथ्यते । मायातत्त्वात्तु संसारो जायते सर्वदेहिमाम् ॥ ६॥ भूयः पुनस्तमो यान्ति संभूत्यां ये रता नराः। संमवनं च संमूतिर्लिङ्ग सप्तदशास्मकम् ॥ ७ ॥ मायावीजस्य कार्य तत्सूत्रात्मानं प्रचक्षते । कार्यकारणनिर्मुक्तं ज्ञात्वाऽऽस्मानं विमुच्यते ॥ ८॥ नवमोऽपि समाप्तोऽयं संक्षेपार्थप्रदर्शकः । समुच्चयधिकीर्षार्थ दशमोऽपि प्रवर्तते ॥९॥ इति मषमो मन्त्रो व्याख्यातः॥ संमवादन्यदेवाऽऽहुः फलं कार्यस्य चिन्तनात् । कारणाहीजरूपस्य चिन्तनादन्यदेव हि ॥१॥ ..
ईशावास्यरहस्यम् । इत्याहुर्वेदविद्वांसः फलमेदं विचक्षणाः । श्रुतवन्तो वयं पूर्वमाचार्याणां महात्मनाम् ॥ २॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवस्तत्त्वदर्शिनः। तेषामेव हि तद्वाक्यं फलभेदप्रदर्शकम् ॥३॥ मतिभेदात्तु भेदोऽयं दर्शितो न तु वस्तुतः । धीराणां परमं वाक्यं ब्रह्मतत्त्वप्रदर्शकम् ॥४॥ सत्यं ज्ञानमनन्तं च ब्रह्मैव परमं ध्रुवम् । इत्थं दशममन्त्रोऽपि समासेन समापितः॥५॥ ॥ इति दशमो मन्त्रो व्याख्यातः । संभूति कार्यरूपं च विनाशं कारणात्मकम् । एकादशोऽपि मन्त्रोऽयं तयोरेकत्वदर्शकः ॥१॥ कार्यकारणयोरैक्यं यो वेद सततं नरः । विनाशेन मृत्युं तीर्खा संभूत्याऽमृतमश्नुते ॥२॥ यस्मिन्विनश्यति कार्य-विनाशं कारणं परम् । मायाबीजं च तत्प्रोक्तं चैतन्यकवलीकृतम् ॥ ३॥ तयोपासनया मृत्यु तीर्वा स्वाभाविकं तमः । हिरण्यगर्भोपासनया संभूत्या मुच्यते बुधः ॥ ४ ॥ आत्मविद्यावधिः सोऽथ परं कारणमुच्यते । साक्षी चेता जगदीजमन्तर्यामीति च श्रुतौ ॥५॥ कार्यकारणरूपं च ब्रह्मेव केवलं शिवम् । कार्यकारणनिर्मुक्तं परं ज्ञात्वा विमुच्यते ॥ ६ ॥ इत्येकादशमन्त्रोऽपि समाप्तस्तत्त्वबोधकः । ब्रह्मैव परमं शुद्धं ब्रवाहं सदद्वयम् ॥ ७ ॥ ॥ इत्येकादशो मन्त्रो व्याख्यातः ॥ कर्मणा बध्यते जन्तुविद्यया च विमुच्यते । इति प्रदर्शनार्थे तु द्वादशोऽयं प्रवर्तते ॥१॥ अन्धं मूढं तमो यान्ति केवलं कर्मचिन्तकाः । देवतोपासका ये च तेऽपि यान्ति पुनस्तमः ॥२ एकैकोपासनां भिन्नां निन्दयित्वा पुनः पुनः। एकेनैव द्वयं सेव्यं श्रुतिराह पुनः स्वयम् ॥ ३॥ १ ख. सदाऽ। ५ ईशावास्यरहस्यम् । इति द्वादशमन्त्रोऽपि समासार्थप्रदर्शकः। समापितः स्वयं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ४॥ ॥ इति द्वादशो मन्त्रो व्याख्यातः ॥ एकत्वं तु न चैवास्ति रविशावरयोरिव । पृथगेव दर्शयितुं कर्मविज्ञानजं फलम् ॥१॥ प्रयोदशोऽपि मन्त्रोऽयं स्वयमेव प्रवर्तते । विद्याया अन्यदेवाऽऽहुः पृथगेव फलं बुधाः ॥२॥ अविद्याया अन्यदाहुरग्निहोत्रादिकर्मणः। भ्रतवन्तो वयं वाक्यं धीराणां तत्त्वदर्शिनाम् ॥ ३॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवो ब्रह्मतत्पराः। तेषां पाक्यं ब्रह्मतत्त्वबोधकं परमं ध्रुवम् ॥ ४ ॥ इति त्रयोदशो मन्त्रः पृथगर्थप्रदर्शकः। बोधको ब्रह्मतत्त्वस्य समासेन निरूपितः ॥५॥ ॥ इति त्रयोदशो मन्त्रो व्याख्यातः॥ पृथक्फलं विद्यते चेदमिहोत्रादिकर्मणाम् । उपासनफलं चैव कथं वा क्रियते तदा ॥१॥ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । फलं सम्यक्प्रवक्तव्यं कैवल्यप्रतिपत्तये ॥२॥ अग्निहोत्रं च विद्यां च देवतोपासनं परम् । एकीकृत्य चिन्तितं चेत्कैवल्यं लभते पदम् ॥ ३॥ पद्यते गम्यते चेति स्वस्वरूपं निरञ्जनम् । द्विविधं तत्परं ब्रह्म सगुणं निर्गुणात्मकम् ॥ ४ ॥ निर्गुणं वास्तवं ब्रह्म सगुणं परिकल्पितम् । कर्म विद्या चैकीकृत्य यस्तद्वेदोमयं बुधः॥५॥ मृत्युं तीवा कर्मणा तु विद्ययाऽमृतमश्नुते । हिरण्यगर्ममात्मानं ब्रह्मलोकनिवासिनम् ॥ ६ ॥ सं प्राप्य तेन साधं तु परं ब्रह्माधिगच्छति । इत्थं चतुर्दशो मन्त्रः संक्षेपेण निरूपितः ॥७॥ ॥ इति चतुर्दशो मन्त्रो व्याख्यातः ॥
ईशावास्यरहस्यम् । उपासकफलं वक्तुं मन्त्रः पश्चदशः स्वयम् । शाश्वतं कार्यरूपं च कृपया तत्परं पुनः ॥१॥ तत्रैवोपासकः साक्षाद्वायु प्रार्थयते स्वयम् । सूत्रात्मानं परं दिव्यममृतं शिवमव्ययम् ॥२॥ प्राणो गच्छतु मे शीघं लयं गच्छतु निश्चलम् । शाश्वतं शिवमव्यक्तं ब्रह्मैवाहं सनातनम् ॥३॥ अथेदानीं शरीरं मे मस्मी भवतु वै ध्रुवम् । अमृतात्मस्वरूपस्य ब्रह्मीमूतस्य केवलम् ॥ ४॥ कतो स्मर निर्बीजाय कृतं कर्म शुभाशुभम् । द्विरावृत्तिरादरार्था क्रतो संकल्प हे स्मर ॥५॥ कृतमुपासनं कर्म फलं दातुं च शाश्वतम् । सत्यं तत्परमं ब्रह्म नित्यमव्ययमेत्ययम् । इति पञ्चदशो मन्त्रः समाप्तः स्वार्थसाधकः॥६॥ ॥ इति पञ्चदशो मन्त्रो व्याख्यातः ।। उपासकेन गन्तव्यं केन मार्गेण सांप्रतम् । इति प्रदर्शनार्थं तु षोडशोऽयं प्रवर्तते ॥१॥ मन्त्री मार्ग दर्शयितुं ब्रह्मलोकगति प्रति । अग्ने प्रकाशरूपोऽसि शोमनेन पथा नय ॥२॥ प्रापयास्मान्महामाग ब्रह्मलोकमनामयम् । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ॥३॥ विद्वानानासि सर्वज्ञ प्रसीद घरदो भव । वियोजय जुहूराणं कौटिल्यं पातकं मम ॥४॥ अन्तकाले चरीकर्तुमशक्तास्ते परेश्वर । नमउक्ति विधेम त्वं प्रसीद परमेश्वर ॥५॥ षोडशोऽपि च मन्त्रोऽयं संक्षेपेण समापितः। निष्कलं ब्रह्म परमं तदेवाहं सदोमिति ॥ ६ ॥ ॥ इति षोडशो मन्त्रो व्याख्यातः॥ द्वारं विना कथं गन्तुं शक्यते ब्रह्म तत्परम् । सत्यलोकस्य चाऽऽत्मानं सूत्रभूतं सनातनम् ॥ १॥ १ ग. सनफ।
१० ईशावास्यरहस्यम् । तत्माप्तिसाधनद्वारं मन्त्रः सप्तदश स्वयम् । प्रवर्तते प्रार्थयितुमादित्यं सर्वरूपकम् ॥२॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणो मुखम् । तीक्ष्णेन ज्योतिषा व्याप्तं गन्तुं नैव तु शक्यते ॥३॥ रश्मिजालं निराकृत्य द्वारं मे देहि भास्कर । सत्यलोकस्य सत्याख्यं ब्रह्म गन्तुं च मे प्रभो ॥४॥ भृत्यवत्त्वां नैव याचे स्वरूपोऽहं तवाच्युत । अहं ब्रह्मैव परमं भवान्ब्रह्मैव केवलम् ॥ ५॥ आवयोरेकता नित्यं सत्यमेतद्वीम्यहम् । पूर्णत्वात्पुरुषश्चायं योऽसावादित्यमण्डले ॥ ६ ॥ देहेन्द्रियधियां साक्षी सोऽसावहमिति स्वयम् । ब्रह्म वै परमं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ७ ॥ संपूर्णो निखिलस्यास्य कार्यकारणवस्तुनः । पुरुषोऽयं भवेदात्मा पूर्णत्वाद्योऽद्वयात्मकः ॥ ८॥ इति वाक्यं यतः शास्ति सत्यं ब्रह्मैव केवलम् । ब्रह्म सत्यं परं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥९॥ इति सप्तदशो मन्त्रः समासेन निरूपितः। सत्यस्य परमं सत्यं ब्रह्म सत्यं च पातु माम् ॥१०॥ ईशावास्यरहस्यं तु ब्रह्मानन्दविनिर्मितम् । ब्रह्मानन्दमयं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ११ ॥ ब्रह्मैव सत्यं परमं विशुद्धं सर्वान्तरस्थं सदसद्विहीनम् । निरञ्जनं निष्कलमद्वितीयं तदेव चाहं सततं विमुक्तः ॥१२॥ ॥ इति सप्तदशो मन्त्रो व्याख्यातः॥ ईशावास्यरहस्यं च शुक्लतीर्थोत्तमे शुभे । रामानन्दसरस्वत्या लिखितं स्वात्मलब्धये ॥ इति श्रीब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समाप्तम् ॥
अथ शंकरानन्दकृतेशावास्यदीपिका ॥ ॐ ईशावास्यादयो मन्त्रा विनियुक्ता न कर्मणि । प्रमाणामावतस्तेषां कुर्वे व्याख्यामकर्मगाम् ॥१॥ ईशा ईष्ट इतीट् ईश्वर आनन्दात्मा तेन वास्यमाच्छादनीयं निवास- योग्यं वेदं विविधप्रत्ययगम्यं सर्वं निखिलम् । सर्वशब्दार्थमाह-यत्किंच यत्किंचिद्भूतभौतिकं जगत्यां ब्रह्माण्डकटाहभूमौ जगञ्चेतनात्मकमीश्वर एवेदमिति बुद्धिः करणीयेत्यर्थः । तबुद्ध्युत्पादे साधनमाह-तेन जगता त्यक्तेन तद्बुद्ध्या गृहीतेन भुञ्जीथा ईश्वरतत्त्वसाक्षात्कारल- क्षणं मोजनं कुर्याः । जगबुद्धेरनुत्पादे सर्वसङ्गपरित्यागलक्षणमुपाय- माह-मा गृधः, माऽभिलापं कार्षीः । अभिलापो हि विषयघटितो विषयाश्चानेके तेषामन्यतमपरित्याग उपायो मा भूदित्येतदर्थमाह- कः स्विल्लोकद्वयस्यापि तत्र हेतुर्धनमभिलाषस्य विषयो यः कश्चन धर्मोऽपि धनरूपः । धनं च हिरण्यादिकं सर्वक्लेशबीजं प्रसिद्धम् ॥ १॥ पस्त्वमुमुक्षुर्धनाभिलाषी नास्य त्यागेऽधिकार इति तं प्रति सकरुणा मातेव श्रुतिराह-कुर्वन्नेवेति । स्पष्टम् । इहास्मिन्कर्माधिकारे लोके कर्माणि नित्यान्यग्निहोत्रादीन्यन्यानि च जिजीविषेज्जीवितुमिच्छेच्छतं समाः । धने वैराग्यामावे यावदायुः शतसंवत्सरं न्यूनमधिकं वा । कर्मणां करणे कारणमाह-एवं शतसंवत्सरं यथोक्तकर्मानुष्ठानवति त्वय्यधिकारिणि वर्तमाने धनविषयेऽपि वैराग्यं भविष्यतीति शेषः । ननु यथा मुमुक्षोः कर्मपरित्यागेनैव पुरुषार्थसिद्धिस्तथाऽन्यस्यापि स्यादि- त्यत आह-नान्यथेतोऽस्ति । इतः स्ववर्णाश्रमोचितयथोक्तानुष्ठानाद- न्यप्रकारेण मुमुक्षोरिव पुरुषार्थो नास्ति । नानुतिष्ठामि विपरीतेनानुति- छामीत्यध्यासेन प्रसभमुपचीयमानदुरितत्वात्तदनुष्ठाने च तन्न भवती- त्याह-न कर्म विपरीतानुष्ठानरूपं लिप्यते न संबध्यते । कस्मिन्नरे यथो- क्तकर्भानुष्ठानवति त्रैवर्णिकेऽधिकारिणि त्वयि । सूत्रभूतावेतौ मन्त्री। शिष्टमेतयोरेव व्याख्यानम् ॥२॥ मा गृध इत्यादेाख्यानमनेन मन्त्रेण धनाभिलाषवतां कष्टसंसार- प्राप्तिरुच्यते-असुर्या नामासुरसंबन्धिनः प्रसिद्धास्ते धनाभिलाषवतामा- १ ग. मगाम् ।
२ . शंकरानन्दकृता- त्मज्ञानशून्यानां ये श्वसूकरादिदेहरूपास्ते लोकाः कर्मफलरूपा देहवि. शेषा अन्धेन तमसा क्लेशचतुष्टयानुविद्धन पञ्चमेनान्धतामिस्रणाममा. मिनिवेशरूपेणाऽऽवृताः संवृताः । तानुक्ताँल्लोकांस्ते धनाभिलाषेणेश्वर- ज्ञानशून्याः प्रेत्येदमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः प्राप्नुवन्ति । तच्छब्दार्थमाह-ये के चाऽऽत्महन आत्मानमीशं सर्वतः परिपूर्ण चिदानन्दं परेण धनरूपेण नन्ति तिरस्कुर्वन्ति ये त आत्महन इदं सर्वमहमेवेति ज्ञानशून्या इत्यर्थः । जनाः संसारचक्रे पुनः पुनः प्रादुर्भाववन्तः ॥३॥ ईशब्दार्थमाह-अनेजत् । कम्पनमकुर्वदनेन वायुपाणी निराकृतौ । एक देहादिभेदेन मेदशून्यम् । इदमित्थं चेत्स्यान्मनसा प्राप्यमित्यत आह-मनसोजवीयो मनसोऽपि वेगवत्तरम् । मनसा साक्षादनाप्यानामपि रूपादीनां चक्षुरादिमिराप्यत्वदर्शनादिदमपि तथाऽस्त्वित्यत आह- नैनदिति । नैनदीश्वरस्वरूपं देवाश्चक्षुरादय आप्नुवन्नधिगतवन्तो मनसे- न्द्रियैश्चानाप्यत्वेन । परिच्छेदशङ्क प्राप्तां वारयति-पूर्व प्रथममर्शद्दतव- सर्वतो गतमित्यर्थः । सर्वतोगतत्वे हेतुः-तदीश्वरस्वरूपं धावतो गति कुर्वतोऽन्यान्कालवाय्वादीनत्येत्यतीत्य गच्छति । तद्देष्वेव किंचिदतिवे- गवदित्यत आह-तिष्ठद्गतिमकुर्वत् । इदानीमसाधारणलक्षणभाह-तस्मि- न्सर्वगत एकस्मिन्मनसेन्द्रियैश्चाप्राप्ये सर्वाधिक गतिशून्ये निश्चलेऽप: कर्माण्यध्यात्माद्याश्रयाणि शरीरारम्मादिकारणानि मातरिश्वा मातर्या- काशेऽव्याकृते श्वसिति सत्तां प्राप्नोति सूत्रात्मा स जीवसंघो यः स मातरिश्वा प्रथमं कार्य ज्ञानक्रियाशक्तिरित्यर्थः । दधाति विधारयति सूत्रात्मजनकत्वेन जगत्कारणं भवतीत्यर्थः ॥४॥ एवं मूर्तामूर्तविलक्षणमीशशब्दार्थमुक्त्वा प्रथमपादार्थमाह-तदीश- स्वरूपमेजति मूर्तरूपेण कम्पते तदीश्वरस्वरूपं नैजति नैजत्याकाशा- दिरूपेण तदीशस्वरूपं दूर एकस्य मूर्तस्यापेक्षया मूर्तान्तरेण रूपेण तदु ईश्वरस्वरूपमेवान्तिके सर्वस्यापि समीपे । तदीश्वरस्वरूपमन्तर्म- ध्येऽस्य जगतः सर्वस्य निखिलस्य तदु सर्वस्यास्य व्याख्यातं बाह्यतो बहिरपि ॥५॥ तृतीयपादार्थमाह-यस्तु । तुशब्दोजगदृष्टिनिवारणार्थः। यो विरक्तो मुमुक्षुः सर्वाणि भूतानि स्पष्टम् । आत्मन्येवास्मिन्नीशस्वरूप आनन्दात्मनि १ क. वसों यः। २ क, ख. फिमित्य ३ ईशावास्यदीपिका। स्वयंज्योतिष्येव । आत्मेश्वरयोर्मेदनिवारणार्थ एवकारोऽनुपश्यतीशाषा- स्यमित्यादिश्रवणानन्तरं मय्येवाध्यस्तानि सर्षाणि भूतानीमानीति साक्षा- स्करोति । मूतान्यध्यस्तानि निरात्मकान्यात्मनोऽत्यन्तमिन्नानीति शङ्का वारयति-सर्वभूतेषु चाऽऽत्मानमारमानमपि सर्वेषु भूतेषु वस्तुतस्त्वहमे- वैतेषु भूतेष्ववस्थितो न मत्तोऽन्यान्येतानि मूतानीत्यर्थः । चकारोऽनुपश्य- तीति क्रियासमुच्चयार्थः। तदर्शनफलमाह-तत आनन्दात्मा चिदेकरसोड, हमस्मि सर्वाभिन्न इति विज्ञानानन्तरं न विजुगुप्सते किमपि न निन्दति स्तुतिनिन्दाशून्यो भवतीत्यर्थः ॥ ६॥ अत्रोपपत्तिमाह-यस्मिन्नीश्वरस्वरूप आनन्दात्मनि सर्वाणि भूतानि । स्पष्टम् । आत्मैवामूत्स्वं स्वं रूपं परित्यज्य कल्पितमकल्पितमानन्दात्म- स्वरूपमेवाभूत् । भूतानामानन्दात्मभवने कारणमाह-विजानत ईडात्म- कमिदमहमस्मीति विज्ञानवतस्तत्रेडात्मविज्ञातृस्वरूपे देशकालवस्तुपरि- च्छेदशून्ये । क आक्षेपे । द्वैतभावो मोह आत्मावरणरूपः क आक्षेपे पूर्ववत् । शोको विक्षेपरूपो दुःखवृक्षस्य बीजस्वरूपः सोऽपि क आवर. णविक्षेपयोरमाबे स्तुतिनिन्दादिकं दुरापास्तमित्यर्थः । विजानत इतिश. ब्दार्थमाह-एकत्वमनुपश्यतः । स्पष्टम् । ईश्वरस्वरूपमिदं सर्वमहम स्मीति विजानतः ॥७॥ आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्न ईश्वरस्याप्यात्मत्वा- ज्जीववच्छरीरादिसंबन्धः स्यादित्याशङ्कय दृष्टान्ते साध्यवैकल्यं साध्य. समत्वं चाऽऽह-स ईश्वरस्वरूपाभिन्न आत्मा पर्यगात्परितः समन्तादधि- गतवान् । शुक्रं दीप्तिमदीट्रस्वरूपमहमस्मीति। शुक्रविशेषणानि-अकार्य कायः सूक्ष्मदेहो न विद्यते यस्य तदकायं तत्र हेतुरवणं व्रणश्छिद्रं भेद इत्यर्थः । न विद्यते व्रणो यस्य तवणम् । स्थूले सति सूक्ष्मस्यापि सुसंपाद्यत्वमित्यत आह-अनाविरं नावानि शिरा न विद्यन्ते यस्य तद- साविरं स्थूलशरीररहितमित्यर्थः। स्थूलशरीरराहित्ये हेतुः शुद्धं पुण्यपा- पादिरहितं पुण्यपापादिराहित्ये हेतुरपापविद्धं पापं दुःखहेतुरविद्या न तेन विद्धमपापविद्धं यस्मादेतादृशं शुक्रमहमस्मीति स जीवः पर्यगात्त- स्मात्सोऽप्येवंविशेषणो न तदृष्टान्तेनेश्वरस्य संसारित्वमित्यर्थः । अने. जदादिरूपं यदुक्तमीट्रस्वरूपं तदेवायं जीवोऽधिगन्ता पुंलिङ्गत्वेनोक्तोऽ- तस्तल्लिङ्गमुररीकृत्याऽऽह-कविः कान्तदर्यहं ब्रह्मात्माऽपेतसमस्तावि. द्योऽस्मीतिज्ञानयानित्यर्थः । मनीषी सर्वस्य हृदि सत्त्वेन मनसो निय. .
शंकरानन्दकृता- न्तृत्वात्तदीयामिप्रायोऽस्यास्तीति मनीषी । परिमूः परितः सम. म्ताद्भवति विविधै रूपैरविद्यावशादिति परिभूरविद्यां वा परिमाव- पतीति परिभूः स्वयंमूः कारणान्तरनिरपेक्षः स्वयमेव भवतीति स्वयं- मूरविद्यादशायां याथातथ्यतः साध्यसाधनादिप्रतिनियतस्वरूपेणार्थांश्चे. तनाचेतनात्मकविविधपदार्थान्व्यदधाद्विविधं कल्पितवान् । ज्योतिष्टोमे- नैव स्वर्गो न कृष्यादिनेत्यादिना शाश्वतीभ्यः समाभ्यः संवत्सराभिधा. भ्योऽस्मिन्नस्मिन्काल इदमिदं भविष्यतीत्यादिनेत्यर्थः॥८॥ इदानीं यस्तूक्तमात्मतत्त्वं न जानाति न च संन्यासेऽधिकारी संसारे चनात्यन्तं प्रीतिमास्तमुररीकृत्य द्वितीयं मन्त्रं चार्थाद्याकर्तुमाह-अन्धं तमः। अहंममाभिमानरूपं प्रविशन्ति प्रकर्षणाधिगच्छन्ति । के, ये धना- भिलाषिणः प्रसिद्धा द्वितीये मन्त्रेऽधिकारिणोऽविद्यां कर्मविधिनि- पायं ज्योतिष्टोमादि उपासते तदेकनिष्ठाः सन्तो विद्यामनुतिष्ठन्ति । ननु तर्हि त्याज्यं कर्मोपास्याश्च देवता अथवाऽहं ब्रह्मास्मीति वक्तव्य- मित्यत आह-ततस्तस्मादुक्ताद्भूय इवाधिकमिव ते देवतोपासका मुखतो ब्रह्मवादिनो वाऽनुत्पन्नसाक्षात्काराः कर्मत्यागिनस्तमोऽहंममाभिमानरूपं प्रविशन्तीत्यनुपङ्गः। य उ ये तु विद्यायां देवताज्ञाने केवल आत्मज्ञाने वा रतास्तदेकनिष्ठाः ॥९॥ ननूमयोनिन्दायामुभयमप्यफलमित्यत आह-अन्यदेव । कर्मणः फला. पितृयाणलक्षणात्पृथगेव देवयानलक्षणमात्मप्राप्तिलक्षणं वा । अन्य- च्छब्देन सफलत्वमेवशब्देनाङ्गाङ्गिभावनिषेध आहुः कथयन्ति । विद्यया देवताज्ञानेनाऽऽत्मज्ञानेन वाऽन्यद्विद्याफलात्पृथग्भूतम् । अत्रैवकाराभा- वादात्मज्ञानोत्पादकत्वमपि कर्मणामवगम्यते । आहुः कथयन्त्यविद्यया द्वितीयमन्त्रोक्तेन कर्मणेत्यस्ति विद्याकर्मणोः फलम् । नचात्राङ्गाङ्गिमा- वोऽपि शङ्कनीयः । अन्यदन्यच्च तदित्यनेन प्रकारेण शुश्रुम श्रुतवन्तः। मन्त्रद्रष्टुरिदं वाक्यम् । धीराणां पूर्वोत्तरतन्त्रन्यायकुशलानां वेदविदाम् । तानाह-ये गुरवो नोऽस्मभ्यमेतद्ब्रह्म कर्मसहितं विचचक्षिरे व्याख्यात. वन्तः ॥१०॥ एवं पक्षद्वयं च वैधत्वादिना सफलं चामिधायेदानी देवताज्ञानस्य शाब्दस्य वा ब्रह्मज्ञानस्य कर्मणा सह समुच्चयमाह-विद्यां च देवता- १ क. पक्षं द्वयं च द्विविधं विदित्वा स ।
५ ईशावास्यदीपिका। ज्ञानं कोमलं ब्रह्मज्ञानं वा । अविद्यां च द्वितीयमन्त्रोक्तानि कर्माणि । चकारावुपायोपेयमावेन समुच्चयार्थौ । यः संजातवैराग्यः कर्म परित्य- कुमशक्तोऽन्तरालावस्थस्तत्कर्म ज्ञानं च वेद जानाति । उभयमुक्तमुपा. योपेयमावेन सह कर्मोपायो ब्रह्मज्ञानमुपेयमिति मिलितम् । एवमुपायो- पेयज्ञानवतः फलमाह-अविद्यया द्वितीयमन्त्रोक्तेन कर्मज्ञानेन संयोग- प्रथक्त्वन्यायेन मृत्युमात्मज्ञानोत्पादप्रतिबन्धकं स्वाभाविकं कर्म ज्ञानं च दुःखकारणं तीर्वाऽऽत्मज्ञानोत्पादेनातिक्रम्य विद्ययाऽहं ब्रह्मास्मीति साक्षात्कारेणामृतं ब्रह्मात्मत्वमश्नुते व्याप्नोति स एव भवतीत्यर्थः । यदा तु ज्ञानकर्मणोरेव समुच्चयो न तु तज्ज्ञानयोस्तदोपायोपेयशब्दौ विहा- याऽऽत्मज्ञानशब्दस्थले च देवताज्ञानमिति शब्दं पठित्वा-आभूतसं- प्लवं स्थानममृतत्वं हि भाष्यत इति न्यायेनामृतं ब्रह्मलोकमिति व्याकु- र्यात् ॥ ११॥ इदानीं व्याकृताव्याकृतयोरुपासनस्य समुच्चयार्थमाह-अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्यां रताः । अन्यदेवाऽऽहुः० अश्नुते । असंभूतिम् । संभूतिः सम्यग्भवनमुत्प. त्तिर्यस्य तत्कार्य संभूतिः । तद्व्यतिरिक्तामव्याकृतरूपामसंभूति कारणं संभूत्यां कार्ये व्याकृते संभवाद्याकृतोपासनादसंभवादव्याकृतोपासना- संभूतिमव्याकृतं विनाशेन विनाशवतः कार्यस्योपासनेन संभूत्या सम्यग्भवति यस्मात्कार्य तत्कारणमव्याकृतं संभूतिस्तदुपासनेन शेष कर्म देवताज्ञानसमुच्चयवन्मन्नत्रयेऽपि व्याख्येयम् ॥१२॥१३॥१४॥ कार्यकारणात्मादित्यमण्डलस्थः पुरुषः समुच्चयद्वयेनापि संप्राप्योऽत- स्तत्प्रार्थनामन्त्रा:-हिरण्मयेन । सुवर्णविकारेणेव ज्योतिर्मण्डलेन पात्रेण शरावसहशेन घटस्येव सत्यस्य बाधरहितस्यापिहितमाच्छा- दितं मुखं प्रतीकं प्रधानभूतं तद्धिरण्मयं पात्रं त्वं कार्यकारणात्मा पूषन्हे पुष्टिकारिन्नपावृण्वपसारय । अपसारणे कारणमाह-सत्यधर्मा. यावितथभावाय भवते दृष्टये दर्शनार्थं तव दर्शनार्थमित्यर्थः ॥ १५ ॥ इदानीं तत्संबोधनानि कार्यान्तरार्थं पूषन्हे पूषन्नेकर्ष एकश्चासाव- षिश्चैकर्षिस्तत्संबोधनमेकर्ष एकाकित्वेन गन्तः । यम हे नियन्तः । सूर्य हे सुष्टुगमन प्राजापत्य हे प्रजापतेरपत्यभूत । इदानीं कार्यमाह- व्यूह, उपसंहर रश्मीन्किरणान्समूह सम्यक्स्वात्ममात्रं कुरु तेजश्चन्द्रम- ६ शंकरानन्दकृतेशावास्यदीपिका । ण्डलम् । तत्रापि प्रयोजनमाह-यत्मसिद्धं ते तव रूपं स्वयंज्योति:- स्वमावं कल्याणतममतिशयेन कल्याणमानन्दात्मरूपं तदुक्तं ते तव पुनस्तेशब्द उपचारनिवारणार्थः । पश्यामि साक्षात्करोमि । द्रष्ट्टदृश्य- प्रयुक्तं भेदं वारयति-यः प्रसिद्धोऽसावादित्यमण्डलस्थः परोक्षोऽसौ शानदृष्टया प्रत्यक्षः पुरुषः परिपूर्णः स उक्तो यः: प्रसिद्धः स एवाहम- स्मत्प्रत्ययालम्बनोऽस्मि भवामि ॥ १६ ॥ एते मन्त्रा हिरण्मयेनेत्यारभ्य पठिताः समुच्चयानुष्ठायिनाऽसकृन्नित्यं पठनीयाः । अन्तकाले तु सर्वार्थानुसंधानपुरःसरमात्मानमादित्यरूपं ध्यात्वा वायुः प्राणरूपोऽनिलं बाह्यवायुं यात्विति शेषः । अमृतमान- न्दात्मरूपं सोऽहमस्मीति पूर्वेण संबन्धः । अथ वायुनिर्गमनानन्तरमिदं प्रत्यक्षं मस्मान्तम् । मस्मान्ते यस्मात्तद्भस्मान्तं शरीरं स्थूलं पार्थिवं पृथिवीं यात्विति शेषः । ॐ ॐकाराभिधेयेशाभिन्नाऽऽत्मन्नादित्य कतो संकल्पात्मन्स्मर मां त्वदुपासकं स्मर कृतं मयाऽनुष्ठितं ज्ञानं कर्म च स्मर । स्पष्टम् । क्रत आदित्याभिन्न संकल्पात्मन् । हे जीवाऽऽत्मानं स्मर स्पष्टम् । आत्मना कृतं स्मर ॥ १७ ॥ उपास्यां देवतां संप्रार्थ्य कर्मसाधनभूतां देवतां प्रार्थयते-अग्ने हेऽने नय प्रापय सुपथा सम्पङ्मार्गेण राये सुवर्णार्थं कर्मफलभूतायेत्यर्थः । अस्मान्समुच्चयानुष्ठातून्विश्वानि सर्वाणि देव हे देव वयुनानि ज्ञानानि विद्वानानन्युयोधि वियोजयास्मदुपासकेभ्यो जुहुराणं कुटिलमेनः पापं भूयिष्ठामतिशयेनाधिका ते तुभ्यं नमउक्तिं नमस्कारोक्तिं विधेम विधा- स्यामः सर्वदा कुर्म इत्यर्थः ॥ १० ॥ इति श्रीशंकरानन्दकृतेशावास्यदीपिका संपूर्णा ॥
अथ रामचन्द्रपण्डितहतेशावास्यरहस्यविवृतिः। ॐ सत्यं ज्ञानमनन्तमीशमखिलस्यान्तर्बहिश्च स्थितं यदूरे निकटे च यच्च सकलं यत्स्वप्रभं तद्विदः । अक्षागोचरमक्षचालकमहो येनेदमाच्छादितं स्वात्माभिन्नमुपासते विजयते रामाभिधं तन्महः ॥१॥ संसारबीजान्धतमिस्रनाशसर्वात्मताबोधजितारिषद्कम् । आनन्ददं सर्वसुहृत्तमं तं सिद्धेश्वरं सद्गुरुवर्यमीडे ॥२॥ श्रीमच्छंकरमाष्यकृद्गुरुवरश्रीपादयुग्मं सदा ध्यात्वा हृत्कमले यथास्वमति तत्सिद्धान्तसूक्तीस्तथा । टीका नेकविधा विचार्य कुरुते रामोऽथ माध्यंदिन- स्थेशाख्योपनिषद्रहस्यविवृति श्रीसिद्धसूनुः कृती ॥३॥ इह खलु सर्वेषां वेदानामद्वैते ब्रह्मणि पर्यवसानमिति राद्धान्तस्तच ब्रह्म यथोक्ताधिकारिणे कथनीयम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेतेति मुण्डको. पनिषाक्तत्वात् । प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्त- कारिणे । गुणान्वितायानुगताय नित्यं प्रदेयमेतत्सततं मुमुक्षवे । इति वचनाच । स चाधिकारश्चित्तशुद्धिं विना नोत्पद्यते । चित्तशुद्धिश्च स्ववर्णाश्रमोचितकर्माचरणेनेति प्रथम कर्मकाण्डमेकोनचत्वारिंशदध्यायः प्रतिपादितम् । अथेदानी चित्तशुद्धयादियथोक्तगुणवन्तमधिकारिणमु. पदेष्टुं ज्ञानकाण्डमेतेन घरमेणाध्यापेनाऽऽरभ्यते । सेयमीशावास्योपनि- पद्ब्रह्मविद्यापराणां सहेतोः संसारस्वात्यन्तोच्छेदाब्रह्मविद्योपनिषच्छद- वाच्या । उपनीयेममात्मानं ब्रह्मापास्तद्वयं पुनः । निहन्त्यविद्या तज्जं च तस्मादुपनिषन्मतेतिवचनाच । अन्तर्मावितण्यर्थस्य विशरणार्थस्य सद्धातोः विपि रूपम् । उप नितरां सादयति संसारहेतुभूतामविद्या नाशयति । गत्यर्थस्य वा ब्रह्म प्रापयतीति । तदर्थप्रतिपादकग्रन्थोऽप्यु- पचारादुपनिषत्केवलस्य वा सदेरुपाऽऽत्मनः समीपे निषीदति प्रतिपाद. कत्वेनेत्यात्मयाथात्म्यप्रतिपादक इति । एषां च मन्त्राणां कर्मसु न विनि- योगः । आत्मयाथात्म्यप्रतिपादकत्वात् । तच्च कर्मणा विरुध्यते । न हि वक्ष्यमाणलक्षणविशिष्ट आत्मा संस्कार्यः कर्ता मोक्ता वा । यो हि - २ रामचन्द्रपण्डितकृता- यथोक्ताधिकारवानहं ममेदमिष्टसाधनं दृष्टं ब्रह्मवर्चसायदृष्टं स्वर्गादिच फलमाप्नुयामिति मन्यते स कर्मण्यधिक्रियते । न हि स्वभावशुद्ध एकोऽशरीर्याकाशवन्निर्लेपोऽहमिति शास्त्रत आपातज्ञानवानपि कर्मणि प्रवृत्तो दृश्यते । किमुतापरोक्षज्ञानवानत एषां मन्त्राणामैकात्म्यतात्पर्य- फत्वम् । ईशा वास्यमित्युपक्रम्य सोऽसावहमित्युपसंहारः । अनेजत्तदे. जतीत्यभ्यासः। नैनद्देवा आप्नुवन्नित्यपूर्वता । तत्र को मोह इति फलम् । असुर्या नाम त इति भेददृष्टीनां कर्मकारिणां निन्दयैकात्म्यदर्शनस्तुति- रथवा स पर्यगादित्यादिनैकात्म्यदर्शिन ऐश्वर्यवर्णनं सदर्थवादः। तस्मि- न्नपो मातरिश्वा दधातीत्युपपत्तिश्चेति पण्णां तात्पर्यलिङ्गानां दर्शनात् । तस्मादेते मन्त्रा भेदं निवर्तयन्तः संसारोच्छित्तिसाधनमात्मैकत्वविज्ञा. नमुत्पादयन्ति । अत्र दुःखहेतुस्वाज्ञाननिवर्तनेच्छुरधिकारी । आत्मनो याथात्म्यमभिधेयं विषयः । याथात्म्यस्य तद्वाचकशब्दानां च प्रतिपा- द्यप्रतिपादकभावः संबन्धः । स्वगताज्ञाननिवृत्त्या सत्स्वरूपानन्दावि- मावःप्रयोजनमित्यनुबन्धचतुष्टयम् । अथ मन्त्रान्संक्षेपतोव्याख्यास्यामः- ईशा वास्यमिति । ईष्ट इतीट् ईश ऐश्वर्ये क्किए । तृतीयान्तमीशेति । ईश्वरेणेदं प्रत्यक्षं सर्वं भूतजातं वास्यं वासयोग्यमधिष्ठानेनाऽऽच्छादनीयं वा निवासार्थकाद्वसे हुलकादधिकरणे ण्यत् । आच्छादनार्थस्य वा वसे रूपं कृत्यानां कर्तरि वेति षष्ठीविकल्पात्पक्षे तृतीया यच्छब्दो भिन्नक्रमः । चस्त्वर्थे यथोक्तानुभवसाधनमाह । किंतु यजगत्यामित्यु- पलक्षणं ब्रह्माण्डे जगत्स्थावरजङ्गमात्मकं तेन भूतजातेन त्यक्तेन न ममेति त्यक्तस्वीयत्वसंबन्धेन संन्यासेन यत आच्छादनीयमतो यत्किंच यावज्जगत्यां जगत्तेन त्यक्तेन नामरूपत्यागेन तबुद्धया गृहीतेनेति वा भुञ्जीथाः पूर्वोक्तमात्मानमनुभवेः । वा यदृच्छाप्राप्तभोगाननुभवः । स्वात्मानं जननमरणादिदुःखात्पालयेथा वा स्वसुखमनुभवोरिति वा । एतमेव प्रवाजिनो लोकमीप्सन्तः प्रवजन्तीतिश्रुतेस्त्यागेनैके अमृतत्व- मानशुः परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्तीतिश्रुतेश्च संन्यस्य श्रवणं कुर्यादित्युक्तेश्च । यदा मनसि वैराग्यं जायते सर्ववस्तुषु । तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ इत्युक्तत्वादधिकारं विना संन्यासे कृते प्रत्यवायापत्तिरित्यभिप्राये.
ईशावास्यरहस्यविवृतिः। णाऽऽह--मा गृधो माऽभिकाङ्क्षीः। सिदित्यनर्थकोऽप्यर्थको वा । कस्यापि स्वस्य परस्य वा धनं भोग्यविषयजात बाह्मणाः पुत्रैषणा. याश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षीयं चरन्तीति त्यतैषणस्यैव संन्यासेऽधिकारात् । यद्वा स्विदिति वित. लोके कस्येदं धनं न कस्यापि न हि लोके नियतस्वामिकं किंचिदपि विषय- जातं दृश्यते । प्रश्ने वा । अधिष्ठानेनाध्यस्तस्य स्वस्वामिभागयोगात्क- स्येदं धनमित्यर्थः । अतो माऽभिकाङ्क्षीः । केवलेच्छयैव विषयाणाम- वश्यप्राप्त्यभावान्ममेदमिति रक्षितानांच स्थैर्याभावाद्विनाशे दुःखप्राप्तेश्च विषयेच्छात्यागपूर्वकसंन्यासिना ब्रह्मणः सर्वान्तरस्थत्वं ज्ञेयमिति भावः। अथवा स्वात्मना विभुनाऽधिष्ठानेन ज्ञातेन रज्ज्वादिनाऽध्यस्तसदि. भासवदध्यस्तजगद्भास आच्छादिते दूरीकृते सति स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्तेः स्वात्मनैव स्वसुखमनुभवनीयमिति तात्प- र्यम् । आत्मक्रीड आत्मरतिः क्रियावानेप ब्रह्मविदां वरिष्ठ इति श्रुतेः । वासिष्ठे समाध्युत्थितस्य कचस्य-किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं सर्वं महाकल्पाम्बुना यथेति वाक्याच्च॥१॥ अत्रायं संग्राहकः श्लोकः- छाद्यं मयेशेन समस्तमेतज्ज्ञात्वेति संन्यस्य सुखं हि भोग्यम् । धनस्य गृद्धिं न कुरु त्वमन्यत्स्वतोऽस्ति किं कस्य धनं त्रिलोक्याम् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । संपूर्णः प्रथमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ त्यक्तैपणस्य संन्यासेऽधिकार इति श्रुत्वेषणात्यागसाधनं प्रष्टुकामस्य श्रोतुः प्रश्नात्पूर्वमेव सर्वज्ञा श्रुतिश्चित्तशुद्धिरीषणात्यागोपाय इत्यभिप्रा. येण चित्तशुद्धयर्थं त्वया तावत्कर्माणि कर्तव्यानीत्युपदिशति।अथवाऽऽ- स्मतत्त्वमुपक्रम्य स्वानुभवप्रदर्शनेन श्रोतारमभिमुखीकृत्य प्रष्टुमिच्छन्तं तमुपदेष्टुकामा श्रुतिः शुद्धचित्तस्यैव श्रवणेऽधिकारादधिकारसिद्धये पूर्व तत्साधनमुपदिशति--कुर्वन्निति । एवशब्दो भिन्नक्रमः । इह नृलोके कर्माण्येव केवलानि न तु फलेच्छां कुर्वन् । कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति भगवतोक्तत्वात् । फलेच्छेव बन्धनकर्तीति भावः । त्वं जिजीविषेजिजीविषेः पुरुषव्यत्ययश्छान्दसः । भवाञ्जिजीविषेदिति बा। शतं समा इत्युपलक्षणं सर्वस्य पुरुषायुषस्य यावदायुरित्यर्थः । - € रामचन्द्रपण्डितकृता- अनेन मनुष्यस्यैव कर्माद्यधिकार इति सूचितम् । जीवनेच्छोक्त्या संन्यासाधिकाराभावो न जीविते मरणे वा गृधिं कुर्यादरण्यमियादिति श्रीभगवत्पादैरिच्छारहितस्यैव संन्यासेऽधिकारस्योक्तत्वादरण्यं श्रीजना- संकीर्णमाश्रमं संन्यासमित्यर्थः । ननु यदि फलेच्छाया अमावस्तदे- टसाधनताज्ञानं विना प्रवृत्त्यनुपपत्त्या कर्मणि प्रवृत्तिरेव न स्यादिति चेत्सत्यं भगवदधीनोऽहं तस्मादसक्तः सततं कार्य कर्म समाचरेति गीतायामुक्तत्वात्तदाज्ञोल्लङ्घने प्रत्यवायोत्पत्त्या ममानिष्टं स्यादतोऽवश्य मया कर्माणि कर्तव्यानीत्येवं निश्चयेन नित्यनैमित्तिकादिकाम्यकर्मसु प्रवृत्तेः सूपपन्नत्वात् । ननु कर्मणा बन्धः स्यादिति चेन्न । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष इति भगवतोक्तत्वान्निष्कामकर्मणा मुक्तिरेवेत्यभिप्रायेणाऽऽह-एवं निष्कामकर्माणि कुर्वतस्त्वयि तव विभक्तिव्यत्ययश्छान्दसः । वृक्षे शाखेतिवदधिकरणत्वविवक्षया वा सप्तमी । नरे नृदेहधारिणि कर्म न लिप्यते । कर्मफललेपो न स्यात् । किंतु चित्तशुद्धिद्वाराऽधिकारसंपत्त्या ज्ञानसिद्ध्या मुक्तिरेव स्यादिति भावः । अनेन मनुष्यस्यैव कर्मफलसंबन्ध इति बोधितम् । अधिकार- संपादकचित्तशुद्धः कर्मातिरिक्तसाधनासिद्धत्वं दर्शयति-इतो निष्काम- कर्माचरणादन्यथा प्रकारान्तरं तव मुमुक्षोर्नास्ति येन त्वं शुद्धचित्तः सन्नधिकारी भविष्यसीत्यर्थः । आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानस इति श्रीरामगीतायामुक्तत्वात् । स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयमिति भगव- त्पादोक्तेश्च । यावदिच्छा तावत्कर्मस्वधिकार इति तात्पर्यम् । तावत्क- माणि कुर्वीत न निविद्येत यावतेति भागवतात् ॥२॥ अवायं संग्रा- हकः श्लोकः- निष्कामकर्माणि तु यावदायुस्त्वमिच्छ कतुं खलु यन्मुमुक्षुः । एवं तव स्यान्न फलेन लेपो न चित्तशुद्धावितरः प्रकारः ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्री द्वितीयः संपूर्णः प्रीयतां तेन राघवः ॥२॥ साधकस्य निष्कामकर्मस्वधिकार इत्युक्तमर्थं काम्यकर्मपराणा बल- वदनिष्टफलकथनव्याजेन काम्यकर्मनिन्दया प्रबलयति--असुर्या इति । असुर्या असुषु प्राणेषु रमन्त इत्यमुराः प्राणपोषका ज्ञानहीनाः केवल. प्राणपोषिणो देवा अप्यमुरा एव । अन्येष्वपि दृश्यत इत्यत्रापिशब्दस्य ..
ईशावास्यरहस्यविवृतिः। सर्वोपाधिव्यभिचारार्थत्वात्-रमधातोरपि डः । तेषामिमेऽसुर्याः । तद्धिता इति बहुवचनस्यानुक्तसंग्रहार्थत्वादिदमर्थे यत् । नामप्रसिद्धाः। ते यच्छब्दस्थाने तच्छब्दः । ये लोका लोक्यतेऽनुभूयते कर्मफलं येषु ते लोका जन्मानि स्थानानि वा तिर्यगादीनि नरकादीनि चान्धेन तमसा विचारशून्यस्वात्स्वामाविकेनाज्ञानेनान्धतामिस्रण वाऽऽवृता आच्छादितज्ञाना निरिन्द्रियप्रचारा वा तान्पूर्वोक्तोमयविधेष्वन्य- तरान्स्वकर्मानुसारेण तत्रोत्पद्य ते जना नराः प्रेत्यापि मरणं प्राप्य पुनरपि गच्छन्ति प्राप्नुवन्ति । तच्छब्दोक्तान्निर्दिशति-ये के च । अनेन जातिगुणादिनिरपेक्षत्वं सूच्यते । आत्महनो यथा गुरूणामव- ज्ञाकारी गुरुघातीत्युच्यते तथाऽतिपूज्यस्य सर्वप्रकाशकस्याप्यात्मनो देह एवाहं नाऽऽत्मा कश्चनास्तीत्यवज्ञाकारिण आत्मघातिनस्ते । अनेन देहान्तरप्राप्तिरपि नरदेहकृतसंचितकर्मबीजनिबन्धनेति सूचयति । प्लवा होते अहढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिन- न्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥१॥ नाकस्य पृष्ठे सुकृतेऽनु. भूत्वेमं लोकं हीनतरं वा विशन्तीति च मुण्डकोपनिषद्युक्तत्वात् । तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुमानासुरी- ज्वेव योनिषु ॥१॥ आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥२ ॥ इति भगवद्वा. क्याच । प्राणपोषणार्थ नानाविधकाम्यकर्मपराणां पुनः पुनः संसरणेन मुक्तिर्नास्तीति तात्पर्यम् ॥३॥ अनायं संग्राहकः श्लोकः- स्वात्मानभिज्ञा निजघातिनस्ते प्रमीय मा असुपोषिभोग्यान् । विचारशून्यानतिदुःखयुक्तान्प्रयान्ति देहान्खरनारकादीन् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्रस्तृतीयः संपूर्णः प्रीयतां तेन राघवः ॥२॥ कीहशः स आत्मा यस्याज्ञानेन जनाः संसरन्तीत्याकाक्षायामाह । अथवा येनेश्वरेण सफलमाच्छादितं तस्य स्वरूपमाह । यद्वाऽनुभवसा- धनं प्रदोपक्रान्तमात्मस्वरूपमुपसंहरति । अथवाऽन्ययव्यतिरेकाभ्यां निष्कामकर्मणः श्रवणाधिकारसाधनत्वं प्रदर्य श्रोतव्यमात्मतत्त्वमुपदि- शति-अनेजदिति । जति चलति तदनेजस्वावस्थापच्युतिश्चलनं तवर्जितम् । अनेन बाल्यादीनां जायदादीनां चामावः । बाल्याविष्वपि ६ रामचन्द्रपण्डितकृता- जाग्रदादिषु तथा सर्वास्ववस्थास्वपि ध्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा स्वात्मानं प्रकटी करोतीति भगवत्पादैरुक्तत्वात् । एकम- द्वितीयम् । एकमेवाद्वितीयं ब्रह्मेति श्रुतेः । अथवेकं सर्वदैकरूपं वृद्धय. पक्षयविपरिणामशून्यं मनसो जवीयः संकल्पलक्षणादतिचश्चलान्म- नसोऽपि जवीयो वेगवत्तरम् । अपाणिपादो जवनो ग्रहीतेतिश्रुतेः । देहस्थस्यापि मनसः क्षणाद्ब्रह्मलोकगमने व्यापकत्वात्तत्र पूर्वगतमि. वास्ति । परं त्वचिन्त्यत्वान्मनसा प्राप्तुमशक्यं न तु चक्षुरादिविषयव. न्मनसा साक्षादनाप्यं यत एनदात्मस्वरूपं देवा द्योतनात्मकानि चक्षुरा- दीन्द्रियाणि नाऽऽप्नुवन्न प्राप्तवन्तः । अव्यपदेश्यत्वादिन्द्रियागोचर- मित्यर्थः । अथवा मनोव्यापारपूर्वकत्वादिन्द्रियप्रवृत्तेर्यन्मनसोऽगोचरं तदिन्द्रियाणां सुतरामगोचरम् । यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धीत्यादिना मनःप्राणेन्द्रियाप्राप्यत्वस्य केनोपनिषद्यु- क्तत्वात् । पूर्वमनादि जन्मरहितमर्शत् । रिश हिंसायामित्यस्य शत्र. न्तस्य रूपं न रिशदविनाशि धातोरिकारलोपश्छान्दसः । तदादिमध्या. न्तविहीनमेकमिति श्रुतेः । तद्ब्रह्म तिष्ठद्यापकत्वेन सर्वत्र स्थितिमत्स- द्धावतो द्रुतं गच्छतोऽन्यान्कालवाय्वादीनत्येत्यतिक्रम्य गच्छतीव तेषां गत्याऽप्राप्यमित्यर्थः । आसीनो दूरं ब्रजति शयानो याति सर्वत इति श्रुतेः । मातरिश्वा देहान्तर्गता वायुस्तस्मिन्देहान्तर्विद्यमाने सत्यप आप्यन्ते प्राणादिसंज्ञा याभिस्ता आप आप्नोतेर्हस्वश्चेति करणे किप्ताः क्रियाः प्राणनादिचेष्टा दधाति धारयति । अथवा समिष्टयजुपि बातेधा इति सर्वकर्मणां वायुस्थत्वोक्तेरपः श्रद्धा वा आप इति श्रुतेः श्रद्धाज- न्यत्वादापः कर्माणि स्वस्थानि तानि वायुस्तत्र बह्मणि दधाति स्थाप- यति कर्मणां परमं निधानमित्यर्थः । अथवा तत्रान्तर्यामिणि सतिवायुः सूत्रात्मा तपनवारिदादीनां कर्माणि तपनवर्षणादीनि । वायुना हि गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः क्रियाशक्तिमत्त्वाद्दधाति विभज्य धारयति । अन्तर्यामि. तया तस्यैव सर्वेशत्वादन्तर्यामिबाह्मणे सर्वान्तर्यामित्वेन यः पृथिव्यां तिष्ठन्नित्यादिना तस्यैव सर्वनियामकत्वोक्तेर्मीषाऽस्माद्वातः पवत इत्या- दितैत्तिरीयश्रुतेश्च स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्या- धिपतिः सर्वमिदं प्रशास्ति यदिदं किंचेति स सेतुर्विधरण एषां लोका. नामसंमेदामेति शारीरबाह्मण उक्तत्वाचाचिन्त्यमव्यपदेश्यं षड्माववि- ईशावास्थरहस्यविवृतिः। काररहित सर्वदैकरूपं सर्वान्तर्यामि सचालकं ब्रह्मेत्यर्थः ॥ ४ ॥ अबा संग्राहकः श्लोकः-- अकम्पमेकं मनसस्तरस्वि न देवता आपुरनाशि पूर्वम् । तिष्ठत्तदत्यस्यपि धावतोऽन्यान्वायुर्हि कर्माणि दधाति तत्र ।।१ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्रश्चतुर्थः संपूर्णः प्रीयतां तेन राघवः ॥२॥ उक्तमर्थमन्योऽपि मन्त्री बदति । अथवाऽऽस्मतस्वस्यातीतमन्त्रोक्त. सुष्पापत्वान्तर्यामित्वव्यापकत्वानुवादेन तस्यैव सर्वात्मकवं सुखप्राप्यत्वं च श्रुतिरुपपादयति । नात्र पुनरुक्तिर्न मन्त्राणां जामितादोष इति मग- बत्पादाक्तत्वात् । जामिताऽऽलस्यम् । रहस्यं सकृदुक्तं चित्ते नाऽऽया. तीत्यनलसा श्रुतिः सकरुणा मातेव पुनः पुनरुपदिशति-तदेजतीति । तस्पकृतमात्मतत्वमेजति चलति जङ्गमं तन्नजति न चलति स्थावरम् । पुरुष एवेदं सर्व यद्भूतं यच्च भव्यमिति श्रुतेः। तदात्मतत्त्वं दूरे विष. कृष्टे तदु उ एवार्थे यदूरस्थं तदेवान्तिके समीपे समीपस्थमपि तदेव दूरस्थमन्तिकस्थं ब्रह्मैव सर्वगत्वात् । अथवा सर्वरूपस्वादूरस्थमः स्तिकस्थं च ब्रह्मैव । अथवाऽज्ञानिनां वर्षकोटिभिरप्यप्राप्यस्वा. दूर इव स्थितम् । आत्मज्ञानिनां तु समीप एवाऽऽस्मत्वेन हृत्स्थत्वा. सुपापं तब्रह्मास्य प्रत्यक्षस्य सर्वस्य भूतजातस्यान्तरभ्यन्तरेऽन्तर्यामित्वे. नास्ति । तदु तदेव सर्षस्यास्य बाह्यतो बाह्यप्रदेश उत्तमपुरुषत्वेन सार्व- विभक्तिकस्तसिः। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः । बहिरन्तश्च मूतानामचरं परमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थ चान्तिके च तदिति । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत इति च गीतावाक्याञ्च ॥५॥ अत्रायं संग्राहकः श्लोकः- ब्रह्मैव तत्स्थावरजङ्गमात्म स्वाज्ञानिनां दूर इवाप्रकाशम् । तज्ज्ञानिना माति सदा समीपे विश्वस्य चान्तश्च बहिस्थितं तत्॥१॥ ईशावास्यस्य विवृती कृतायो रामशर्मणा। संपूर्णः पश्चमो मन्त्रः प्रीयता सेन राघवः ॥२॥ उक्तात्मज्ञानस्य फलमाह-यस्त्विति । यस्तु तुशब्दो पैलक्षण्ययोः तको यः पुनर्लोकविलक्षणदृष्टिः सर्वाणि भूतान्यव्यक्तादिस्थावरान्ता पात्मन्नास्मनि सुपां सुलुगिति डेढुंगधिष्ठानरूप एवानु गुरूपदेशान- ।
- रामचन्द्रपण्डितकृता- 'तरं पश्यत्यवलोकयति च परं सर्वभूतेषु तेष्वात्मानमनु कारणात्मनाऽनु- 'गतं पश्यत्यनुभवति । तत ऐकात्म्यज्ञानात्स पुरुषो न विचिकित्सति संशयं न प्रामोति । संशय उमयकोटिकं ज्ञानं द्वैतं पश्यतो मवति नत्वैकात्म्यज्ञस्येति मावः । यदैतमनुपश्यत्यात्मानं देवमासा । ईशानं मूतमव्यस्य न तदा विचिकित्सतीति बृहदारण्यकश्रुतेः । सर्वभूतस्थमा- स्मानं सर्वभूतानि चाऽऽत्मनि। संपश्यन्ब्रह्म परमं याति नान्येन हेतुनेति कैवल्यश्रुतेश्च । अस्या एव श्रुतेरुत्तरार्धं गीतायाम्-ईक्षते योंगयुक्तात्मा सर्वत्र समदर्शन इति । छिद्यन्ते सर्वसंशयास्तस्मिन्दृष्टे परावर इति मुण्डकश्रुतेश्च ॥ ६ ॥ अत्रायं संग्राहकः श्लोकः- यः पश्यतीत्थं सकलानि भूतान्यात्मन्यथाऽऽत्मानमपीह विद्वान् । सर्वेषु भूतेषु स तत्त्ववेत्ता निःसंशयः स्यात्सकलैरनिन्द्यः ॥ १ ॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । मन्त्रः षष्ठोऽपि संपूर्णः प्रीयतां तेन राघवः ॥२॥ अधुनाऽऽत्मज्ञस्य स्थितिमाह-यस्मिन्निति । यस्मिन्काले विजानत आत्मानं साक्षात्कुर्वतः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि न मद्य- तिरिक्तं किंचिदस्त्यहमेव सर्वरूप इत्यात्मैवाभूत्संवृत्तः। तत्र तस्मिन्काल एकत्वममैकात्म्यमन्वनुस्यूतं पश्यतोऽनुभवतो मोह आवरणरूपः कः किंनिमित्तकः शोकश्च विक्षेपरूपः कः किंनिमित्तक आत्मज्ञानेनावि. घाया निरस्तत्वात्स्वरूपं जानतः समूलाविद्योच्छेदादावरणविक्षेपयोर- मावेन कामाद्यनुयाज्जीवन्मुक्तिस्थित्या तूष्णीभूत आस्त इत्यर्थः । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तस्य निष्क्रियत्वाभिधा- नात् । आत्मन्येव च संतुष्टस्तस्य कार्य न . विद्यत. इति भगवद्वा- क्याच॥७॥ अत्रायं संग्राहकः श्लोकः- सर्वाणि भूतानि मदात्मकानीत्येवंविदोऽभूत्सकलं यदात्मा । सकतां पश्यत आत्मरूपे मोहश्च शोकश्च भवेत्कथंस्वित् ॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा। संपूर्णः सप्तमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ आत्मज्ञस्थितिमुक्त्वा पुनरात्मस्वरूपं लोकोत्तरैश्वर्यप्रदर्शनेनोपसंह वर्णयति-स पर्यगादिति । अत्र स इत्युत्तरार्धे च कविरित्यादिशब्दैः पुंलिङ्गत्वेन निर्देशाच्छुक्रमित्यादीनि विशेषणानि पुंलिङ्गत्वेन विपरि- भ्यान्यथवा स इति शब्दो मिन्नक्रम उत्तरार्धन संबध्यते । यत्तदोनि- ॥
ईशावास्यरहस्यविवृतिः। त्यसंबन्धात् । यद्ब्रह्म पर्यगात्परिः सर्वतोमावे सर्वतो जगद्याप्याऽऽसीता शुक्र शुद्धं दीप्तिमत्स्वप्रकाशम् । तमेव मान्तमनुमाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतेः । अकायं सूक्ष्मदेहरहितमवणं प्रणः क्षतं तद्रहितमनाविरं नाविराः शिरा न सन्ति यस्य तन्निरवयवत्वावणम- नाविरमिति विशेषणद्वयेन स्थूलशरीरनिरासः। अशरीरं शरीरेष्वनवस्थे. प्ववस्थितमिति श्रुतेः। शुद्धं मायासंबन्धरहितं विरजः पर आकाशादिति श्रुतेस्तमसः परमुच्यत इति गीतावाक्याच्च । अपापविद्धं पुण्यमपि पुनरावृत्तिहेतुत्वात्पापमेव तेनोमयात्मकेनाविद्धमसंबद्धं स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानिति श्रुतेः । नाऽऽदत्ते कस्यचि- त्पापं न चैव सुकृतं विभुरिति भगवद्वाक्याच्च । स एतादृशं ब्रह्मैव स्वशक्तिमादायेश्वरो भूत्वा कविरतीतानागतज्ञः । वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानीति गीतायामुक्तत्वात् । मनीषी मनीषा जगत्सर्जनेच्छा तद्वान् । सोऽकामयत बहु स्यां प्रजाये येति श्रुतेः । अथवा मनोनियन्ता मनसो ये मनो विदुरिति श्रुतेः। परिभूः परिरुपर्यर्थकः परि सर्वेषामुपरि श्रेष्ठत्वेन भवत्यस्तीति परिभूः । पुरुषान्न परं किंचित्सा काठा सा परा गतिरिति श्रुतेः । स्वयंभूः स्वयमेव भवति न तु कारणान्तरेणेत्यर्थः । अथवा येषामुपरि यश्वोपरि तत्सर्व स्वयमेव भवतीति सर्वरूपः। याथातथ्य तो यथातथाभावो याथातथ्यं तेनेति याथातथ्यतः साध्यसाधनादिप्रतिनियतस्वरूपेणार्थाचे. तनाचेतनरूपपदार्थान्व्यदधाद्विभज्य दत्तवान् । शाश्वतीभ्यो नित्या- भ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो यो वै स संवत्सरः प्रजा. पतिः षोडशकल इति श्रुतेरचिन्त्यशक्तिमद्ब्रह्मेति भावः । अत्रार्थे श्लोकयोजना-यद्यापकं शुद्धमपापविद्धं देहद्वयातीतमलिप्रकाशम् । कविः स धीमान्प्रवरः स्वयंभूः प्रजापतिभ्यो व्यदधाद्यथाथान् ॥१॥ अथवा यथोक्तात्मज्ञस्योक्तानुवादपूर्वकमैश्चर्यमाह-सशब्द उत्तरार्धे- नैव संबध्यते यः शुक्रमित्यादि यथोक्तविशेषणविशिष्टं ब्रह्म पर्यगात्स- र्वमावेन ज्ञानवान् । गत्यर्थानां बुद्धयर्थत्वात्स ब्रह्मज्ञः कविः कान्त- दी। मनीषी द्वैतासंबन्धेन प्रशस्तबुद्धिमान्परितः सर्वमपि स्वयमेव भवतीति परिभूः सकलात्मकः । स्वयंभूर्बह्मरूपो यथास्वरूपं तेन तेन रूपेणार्थान्पदार्थान्भोग्यविषयान् । शाश्वतीभ्यः समाभ्यस्तादर्थे चतु. र्थ्यनन्तवर्षोपमोगाय व्यदधात्स्वयमेव कृतवान् । यस्यानुवित्तः प्रति- १० रामचन्द्रपण्डितकृता- आत्माऽस्मिन्संदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्तेति श्रुतेर्बह्मविब्रह्मैव भवतीति भावः ॥ ८॥ अत्रायं संग्राहकः श्लोक:- यो ज्ञातवाञ्शुद्धमपापविद्धं देहद्वयातीतमतिप्रकाशम् । कविः स धीमान्सकलः स्वयंमूर्यधाद्यथास्वं बहुकालमर्थान् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । संपूर्णश्चाष्टमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ उपक्रान्तमात्मतत्त्वमुपसंहृत्य यस्तूक्ततत्त्वानमिज्ञ ईषणात्यागामावेन संन्यासे च नाधिकारी संसारे च नात्यन्तं सक्तस्तं प्रति चित्तकायार्थ- मुपासनासमुच्चयं कथयिष्यन्प्रत्येकमुपासना फलकथनव्याजेन निन्दति । अथवोक्तात्मज्ञानस्याखिल श्रेष्ठत्वं तद्यतिरिक्तानां संसरणहेतुत्वप्रदर्शनेन बढयति-अन्धं तम इति।ये नरा असंभूतिं सम्यग्मवनं भूतिरुत्पत्तिर्यस्य कार्यस्य तद्भिन्ना कारणरूपामव्याकृताख्यां प्रकृतिमुपासते चिन्तयन्ति तेऽन्धं तमोऽदर्शनात्मिको प्रकृति प्रविशन्ति प्रकर्षेण विशन्ति पौराणि- कोक्तं प्रकृतिलयं प्राप्नुवन्ति । तं यथा यथोपासते तदेव भवतीति श्रुतेः। व उ । ये तु संभूत्यां प्रकृतिकार्ये हिरण्यगर्माख्ये रता आसक्तास्तदुपा- सका इत्यर्थः । ते ततः प्रकृतिलयाद्भूय इवाधिकमिव स्वरूपाज्ञानेन संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदायं प्रविशन्ति प्राप्नुवन्ति ॥९॥ अवार्य संग्राहकः श्लोकः- अव्याकृतं हेतुमुपासते ये संप्राप्नुवन्ति प्रकृतौ लयं ते । प्रजापति कार्यमुपासते ये ते प्राप्नुवन्ति हणिमादिसिद्धीः ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा। संपूर्णो नवमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ व्याकृताव्याकृतोपासनयोभिन्नफलत्वे श्रुतिरार्यवचः प्रमाणयति- अन्यदेवेति। संभवात्संभूतिरूपकार्यप्रजापत्युपासनादन्यदेव भिन्नमेवाणि- मादिसिद्धिरूपं फलं तत्त्वज्ञा आहुर्वदन्ति तथाऽसंमवादसंभूतिरूपकार- पाव्याकृताख्यप्रकृत्युपासनादन्यत्प्रकृतिलयाख्यं फलमाहुः कथयन्त्युपा- स्योपासनयोरभेदविवक्षया संभवादसंभवादित्युक्तं ये ज्ञानिनो नोऽस्मभ्यं माध्यमतेऽन्वर्थसंज्ञाविज्ञानाभावात्संप्रदानत्वम् । अस्मान्वा । अक- चितं चेति व्यापरद्वयार्थत्वाद्वा द्विकर्मवं तदुपासनाद्वयतत्त्वं विचचक्षिरे व्याख्यातवन्तस्तेषां धीराणां दाक्यमिति शेषः । अथवा प्रसिद्धवावा- - - ईशावास्यरहस्यविवृतिः। क्यमिति कर्मणोऽप्रयोग आख्यातोपयोग इत्यपादानत्वस्याविवक्षया शेषे षष्ठी धीरेभ्य इत्यर्थः । इति पूर्वार्धोक्तप्रकारेण वयं शुश्रुम श्रुतवन्तः ॥ १० ॥ अत्रायं संग्राहकः श्लोकः- अन्यत्फलं कार्यमुपासता स्यादुपासतो कारणमन्यदेव । एतस्य तत्त्वं विबुधा य ऊचुस्तेषां पुरा वाक्यमिति श्रुतं नः ॥१॥ ईशावास्यस्य विवृतौ कृताया रामशर्मणा । संपूर्णो दशमो मन्त्रः प्रीयतां तेन राघवः ॥२॥ यत एवमत उभयोः समुच्चयो युक्त हत्याह-संभूतिमिति । यः पुमा. संमूर्ति चावर्णलोपः पृषोदरादित्वात् । असंभूतिं प्रकृतिमथवा सम्प- ग्मवस्यस्याः कार्यमिति संभूतिः कारणं पूर्वापरसंदर्मानुसारेण वक्तुर- भिप्रायस्यामिधानियामकत्वात्प्रकृतिस्तां च परं विनाशं च । चेत्यर्थे । बिनाशोऽस्यास्तीति विनाशं कार्यम् । अर्शआद्यच् । तदुभयं कार्यका- रणोपासनाद्वयं सह समुचितं फलदमिति वेद जानाति स बिनाशेन हिरण्यगर्माख्यकार्योपासनेन । मृत्युमनैश्वर्यादिदुःखजातं तोऽतिक- म्पासंमूत्या । अथवा पूर्वोक्तप्रकारेण संभूत्याऽव्याकृताख्यकारणोपास- नेन । यथाऽस्मदपेक्षयाऽधिकजीवनेन देवा अमरास्तथाऽऽपेक्षिकममृतं प्रकृतिलयमश्नुते प्रामोति ॥ ११ ॥ अवार्य संग्राहकः श्लोक:- उपासने कार्यनिदानयोस्ते समाश्रिते वेद परस्परं यः । तत्राऽऽयया प्राप्य स ईश्वरत्वं द्वितीयया याति लयं प्रकृत्याम्॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्ण एकादशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ अधुना कर्मणोपासनां समुच्चिचीषन्प्रत्येकमुभयं फलं प्रदर्य निन्दति । अथवा व्याकृताव्याकृतोपासनयोः फलं प्रदर्य कर्मणां देवतान्तरोपा- सनानां च फलं दर्शयति-अन्धं तम इति। ये नरा अविद्या विद्या ज्ञानं तद्भिन्नाऽविद्या तां कर्म केवलमुपासते तत्पराः सन्तोऽनुतिष्ठन्ति नेऽन्धं तमो जन्ममरणरूपं प्रविशन्ति प्राप्नुवन्ति व उ ये त्वशुद्धचिचा अपि कर्म न कुर्वन्ति किंतु केवलायां विद्यायां देवतोपासना स्वा आसक्तास्ने कर्माधिकारे सत्यपि कर्मत्यागेन प्रत्यवायरूपदोषयुका सम्तस्ततः कर्मानुष्ठातृभ्यो भूय इवाधिकमिव तमः संसरणलक्षणं पति- - १२ रामचन्द्रपण्डितकृता- शन्ति प्राप्नुवन्त्युपासनाफलं नाश्नुवते । किंतु संसरन्तीति भावः॥१२॥ अवार्य संग्राहकः श्लोकः- उपासते केवलकर्मजालं ये संसरन्तीह पुनः पुनस्ते । तेभ्योऽधिकं यान्ति गतागतं ते उपासते केवलदेवतानि ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । संपूर्णो द्वादशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ उक्तार्थे श्रुतिर्विद्वद्वचः प्रमाणयति--अन्यदेवेति । विद्याया देवतो. पासनायाः फलमन्यदेव । विद्यया देवलोक इति श्रुतेर्देवलोकप्राप्तिल- क्षणं प्राज्ञा आहुः । तथाऽविद्यायाः कर्मणोऽन्यत्कर्मणा पितृलोक इति वचनास्पितृलोकप्राप्तिलक्षणमाहुर्दूरमेते विपरीते विधूची अविद्या या च विद्येति श्रुतेश्च । एवंप्रकारेणोभयतत्त्वव्याख्यातृभ्यः पूर्वमस्माभिः श्रुतमस्तीति तात्पर्य पदव्याख्या तु व्याकृताब्याकृतोपासनावन्मन्त्र कृता ॥ १३ ॥ अत्रायं संग्राहकः श्लोकः- बुधाः फलं कर्मण आहुरन्यत्स्याद्देवतोपास्तिफलं तथाऽन्यत् । ये तस्य तत्त्वं गुरवो न ऊचुस्तेभ्यः पुराऽस्माभिरिति श्रुतं हि ॥१॥ ईशावास्यस्य विवृतो कृतायां रामशर्मणा । पूर्णत्रयोदशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ उमयोः समुच्चये फलमाह-विद्यां चेति । विद्यां च देवतोपासनाम- विद्यां च कर्म तदुभयं सह समुचितं फलदात्रिति यः पुमान्वेद सोऽवि- चया कर्मणा मृत्यु स्वाभाविकमज्ञानं विस्मरणलक्षणं तीर्वा दूरीकृत्य विद्यया देवतोपासनेनामृतं देवतात्मभावमश्नुते प्राप्नोति तद्धयमृतमुच्यते यद्देवतात्मगमन मिति श्रुतेः । अवार्थे श्लोकयोजना-यो देवतोपा- स्तिमथापि कर्म एकेन कार्य पुरुषेण वेद । स्वकर्मणा मृत्युमतीत्य विद्वा- न्स विद्ययाऽऽमोति हि देवतात्वम् ॥ १॥ अथवा कर्मणामुपासनानां च फलं प्रदाऽऽत्मज्ञानेनेव कृतकृत्यतेति श्रुतिरुपपादयति वक्तृतात्पर्य स्यामिधानियामकत्वात् । विद्यामात्मज्ञानं च परमविद्यां च कर्मेत्युमयं पाठक्रमादर्थक्रमो बलीयानिति कर्माऽऽत्मज्ञानं च पूर्वापराधिकारमेदेन सहकपुरुषकर्तव्यत्वेन समुचितं यो वेद सोऽविद्यया कर्मणोपासनाऽपि मानसं कर्मैव मृत्युं स्वरूपाविस्मरणहेतुं चित्तमलमनकाम्यं तीत्वाऽतिक म्य विद्ययाऽऽत्मज्ञानेनामृतं मोक्षमश्नुते । तमेव विदित्वाऽति मृत्युमेति ईशावास्यरहस्यविवृतिः। १३ मान्यः पन्था विद्यतेऽयनायेति श्रुतेः ॥१४॥ अनार्य संग्राहकः श्लोकः- कर्माऽऽस्मविज्ञानमपि क्रमेण संपाद्यमेकेन नरेण वेद । यः फर्मणा चिवषिशुद्धिमाप्य स विद्ययाऽऽनोत्यमृतं हि विदान॥१॥ ईशावास्यस्य विवृतौ कृत्तायां रामशर्मणा । पूर्णश्चतुर्दशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ प्रथमपाख्यायामुक्तोपासनावान्योगी देवतामन्ते प्रार्थयते-वायुर- निलमिति । द्वितीयव्याख्यायां त्वात्मज्ञस्याऽऽतकामत्वेन देहान्तेऽन्यत्र गमनं नास्त्याप्तकामो भवति । न तस्य पाणा उत्क्रामन्त्यत्रैव समवनी. यन्ते ब्रह्मव सन्ब्रह्माप्येतीति श्रुतेः । न च प्राय देवतान्तरं य एवं वेदाह ब्रह्मास्मीति स इदं सर्व मवतीतिश्रुतेस्तस्य सर्वात्मकत्वादसंकल्पत्वाच। तमक्रतुः पश्यति वीतशोक इत्युक्तत्वात् । अत आस्मज्ञवन्नान्यस्यात्रैव कृतकृत्यतेति निदर्शयितुं सिंहावलोकनन्यायेन पूर्वोक्तव्याकृताव्याकृतो. पासनावान्देवतान्तरोपासनावांश्च लोकान्तरगमनयोग्यो योगी देवतामन्ते पार्थयेतेति श्रुतिरुपदिशति--वायुरिति । मम वायुः शरीरस्थः प्राणः प्राणोपलक्षितं लिङ्गशरीरमुत्क्रान्तं सदमृतं मृत्युनाऽनातं तानि मृत्युः श्रमो भूत्वोपयेम इति प्रक्रम्याथेममेव नाऽऽमोद्योऽयं मध्यमः प्राण इति श्रुतेः। अनिलं सूत्रात्मानं प्राप्नोत्विति शेषः । यदा वै पुरुषोऽस्माल्लोकात्पैती- त्यादिना वायोरेव परलोकप्रापकत्वोक्तेः । अथेदं स्थूलं शरीरं मस्मान्तं भस्मैवान्तः परिणामो यस्य तादृशं पृथिव्यंशवादत्रैव तिष्ठस्विति तात्प- यम् । ओमिति ब्रह्मनाम । अवति प्राप्नोति सर्वान्पदार्थानथवाऽवति रक्षति सर्व भूतजातम् । अथवाऽवति दीप्यत इति स्वयंप्रकाशं ब्रह्म । ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत इति गीतावाक्यात् । तद्रूप कतो क्रतुर्यज्ञः । तद्धेतुत्वात्संकल्पोऽपि क्रतुः । यथा ऋतुर्भवति तस्कर्म कुरुत इति श्रुतेः । हे संकल्प स्मर । यन्ममेष्टं तत्स्मर ।यं यं वाऽपि स्मर- भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावमावित इति भगवद्वाक्याक्लिबे कल्पते प्राप्तुं योग्यो भवतीति क्लिक्विबिमागम- छान्दसस्तस्मै कि जशादेशोऽयस्मयादित्वेन पदत्वात् । मया प्रातुं योग्याय लोकाय क्रियार्थोपपदस्येति कर्मणि चतुर्थी तं दातुं स्मर स्मरणविषयं कुरु कृतं यन्मया पाल्यप्रभृत्यनुष्ठितं तत्स्मर स्मरेत्यस्य निरावृत्तिः संभ्रमेण प्रवृत्तत्वात ॥ १५॥ अनायं संग्राहकः श्लोक:- १४ रामचन्द्रपण्डितकृता- सूत्र मरुधातु वार्ममेदं भस्मान्तमुवी प्रणयात्मकस्त्वम् । संकल्प्य पत्कर्म कृतं मयेष्ठं प्राप्यं च लोकं मम संस्मराय ॥१॥ ईशावास्यस्य षिवृत्तौ कृताया रामशर्मणा । पूर्णः पञ्चदशो मन्त्रः पीयतां तेन राघवः ॥२॥ अथ कर्मकृत्सर्वाप्रमेषु परिचरितमग्निं प्रार्थयते-अग्ने नयेति । हे देव दीव्यति दीप्यते इति देवो द्योतनात्मकाग्नेऽस्मास्त्वदुपासकान्सुपथा गतागतरहितेन मार्गेण राये भोग्याय फलाय मुक्तिसपाय तादर्थं चतुर्थी तदर्थ नय प्रापय । यतो मवान्विश्वानि सर्वाणि वयुनानि ज्ञानानि कर्माणि षा विद्वानानन् । किंच जुहुराणं हुईः सनो लुक्छलोपश्चेति सिद्धं कौटिल्यं वञ्चनात्मक व्यवहारार्थमाचरितमेनः पापमस्मदस्मत्तो युयो- ध्यमिश्रितं कुरु नाशयेत्यर्थः । अमिश्रणार्थकाधुधातोरादादिकादपि बहुलं छन्दसीति श्लुरङितश्चेति हेधिर्वा छन्दसीत्यपित्त्वविकल्पानिक- स्वामावेन गुणः । निष्पापत्वे मुक्तियोग्यत्वं स्यादिति भावः। यतोऽधुना वर्य नमस्कारमपि कर्तुमशक्ताः शरीरापाटवास्किमुतान्यपरिचर्यामतस्ते तव भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेमोत्तमपुरुष आशी- लिङो बहुवचनं छन्दस्युमयथेति सार्वधातुकत्वमङ्ङालोपः क्रियाम । नमस्कारेण बै खल्वपीति वचनान्नमोऽस्तु नमोऽस्त्विति धूम एतावतेव त्वं प्रसन्नो मवेति तात्पर्यम् ॥ १६ ॥ अनायं संग्राहकः श्लोकः- ज्ञानानि सर्वाणि विदस्त्वमग्ने संपापयाम्मान्सुपथा विमुक्तिम् ॥ कौटिल्यमेनः कुरु नः पृथक्त्वा कुर्मो नमोऽन्ते बहुधा स्ववाचा ॥१॥ ईशावास्यस्य विवृती कृतायां रामशर्मणा । संपूर्णः षोडशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ अथ पुनरादित्यान्तर्यामिपुरुषोपासनामभेदेन वर्णयन्नैकात्म्यमुपसंह- रति-हिरण्मयेनेति । हिरण्मयेन हिरण्यस्य विकारो हिरण्मयं तदिव प्रकाशात्मकं तेन पात्रेण पिबन्ति रश्मयो रसान्यत्र स्थितास्तेन बिम्बेन सत्यस्य । सत्यस्य सत्यमिति श्रुतेर्बह्मणो मुसं मुखमिव मुखं प्रधान रूपमपिहितमाच्छादितं सर्वजनैरज्ञातमस्ति । तथाऽपि यः प्रसिद्धोऽसी पाकृतजनानां परोक्ष आदित्ये सूर्यमण्डले स्वयंप्रकाशः सकलशक्त्याषा- रमूतः पुरुषः स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इति श्रुतेः । अन्त. र्याम्यस्ति स पुनरसाविस्यनेनावधारणं स एव । अथवेतच्छदार्थोऽव:- - १५ ईशावास्यरहस्यविवृतिः। शब्दः । एष सर्वसमीपतरोऽहमिति प्रत्यक्षतः स्वानुमवं श्रुतिरधि- कारिणे प्रदर्शयति। स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुतेः। ॐ ॐकारवाच्यं खमाकाशमिव व्यापकं ब्रह्माहमस्मीति भावः । एवमेव स्वमपि ब्रह्मरूपोऽसीति तात्पर्यम् ॥ १७॥ अत्रायं संग्राहक: श्लोकः- तेजोमयेनापिहितं स्वरूपं सत्यस्य विम्बेन सदा परं तु । मानावसी यः पुरुषोऽस्ति सोऽहं ज्ञेयं विमु ब्रह्म सदोस्वरूपम् ॥१॥ ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । पूर्णः सप्तदशो मन्त्रः प्रीयतां तेन राघवः ॥२॥ माध्यंदिनेशोपनिषदहस्यप्रकाशकं श्लोकसमूहमेतम् । कृत्वाऽर्पितं श्रीगुरुपादपद्मे पठत्यजस्रं स विमुक्तिमीयात् ॥१॥ ईशाख्योपनिषदहस्यविवृतिं श्रीरामशर्माऽकृत श्रीकृष्णात्रिकुलोद्भवः कविवरः श्रीसिद्धराजात्मजः । शाके खेटगुणाचलावनि १७३९ मिते यामीश्वरेऽब्वे मधौ सेयं श्रीरघुवीरपादकमले भक्त्याऽपिता श्रीमति ॥२॥ इति श्रीमद्विद्वन्मुकुटालंकारहीरश्रीराजयोगिवरिष्ठश्रीसिद्धेश्वरसू- रिसूनुना श्रीरामचन्द्रपण्डितेन विरचिता श्रीमाध्यंदिनीये- शावास्योपनिषदहस्यविवृतिः समाप्तिमगमत् ॥ ॥ ॐ तत्सत् ॥
No text on this page.
आनन्दसट्टोपाध्यायठतमीशावास्यभाष्यम् । ॐ दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डं समाप्तमथेदानी जानकाण्डं प्रस्तूयते-ईशा बास्यमिति । ईशा वास्यमित्यादीनां मन्त्राणामपि यथाकथंचन कर्मसु विनियोगः किं न स्यादिति केनचित्पृष्ट प्रय पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्यनेन षोडशर्चेनेत्यादि । सत ईशा वास्य- मित्यादिमन्त्राणां कर्मसु प्रमाणतोऽविनियोगात् । यागकल्पनायां तु विशेष परिहृत्यैव यागकल्पना सा भवति नेतरेति श्रीमगवच्छंकरा- चार्यो विरोधादेवाविनियोगस्तेषां मन्त्राणां कर्मणीति प्रतिपादयति- ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेपामकर्मशेषस्याऽऽ. स्मनो याथात्म्यप्रकाशकत्वादिति । तमेवं सविस्तरं प्रतिपादयति-याथा- त्म्यमात्मनः शुद्धत्वापापविद्धत्वाशरीरत्वादि वक्ष्यमाणं कर्मणा विरु. ध्यत इत्यतो युक्तस्तेषां कर्मस्व विनियोगः । न चैवलक्षणत्वं याथात्म्य- मुत्पाद्यं संस्कार्यं कर्तृत्वं भोक्तृत्वं येन कर्मशेषता स्यात् । सर्वासामुपनिषदा- मात्मयाथात्म्यनिरूपणेनैवोपयोगाद्गीतानां मोक्षधर्माणां चैतत्परत्वात् । तस्मादात्मनोऽपृथक्त्वाकर्तृत्वादि शुक्लत्वादि नोपादाय तस्य लोकबुद्धि- सिद्धानि कर्माणि विहितानि । यो हि दृष्टेन कर्मफलेन ब्रह्मवर्चसा वाऽदृष्टेन स्वर्गादिना वाऽनुमीयते तत्र च द्विजातिरहं लक्षणायधि. कारधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्वित्यधिकारविदो वन्दति । तस्मादेते मन्त्रा यात्मनो याथात्म्यप्रकासनेनाऽऽत्मविषयाः स्वात्मविकाराज्ञानं निवर्तयन्तः शोकमोहादिसंसारविच्छित्तिसाधनमा- स्मैकत्वादिविज्ञानमुत्पादयन्ति । एवमुक्तविषयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः । अस्य कृत्स्नस्याध्यायस्य वृध्यङ्गङाथर्वण ऋषिः । आत्मा देवता प्रतिमन्त्रं चेशावास्यं कुर्वन्नेवासुर्यानामेति तिम्रोऽनुष्टुम आत्मदेवत्या दध्यङाथर्वण ऋषिः । अत्र च कंचन पुत्रं शिष्यं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्र- मिह जन्मनि जन्मान्तरे वा यथाशक्त्यनुष्ठितयज्ञादिना क्षपिवकल्मषं नित्यानित्यवस्तुविवेकवन्तं दैववशात्कथंचिदिहामुत्रार्थफलभोगविराग- युक्तं शमदमादिसंपन्नं मुमुधुं शिक्षयति । स्वयमाचार्यस्वरूपा सती श्रुतिराह-ईशावास्यमिति। ईश ऐश्वर्येऽस्य किबन्तं तृतीयान्तं रूप मीशे- १ आनन्दमट्टोपाध्यायकृतम्- सीप्ट इतीः तेनेशेशिवेशा तेन परमेश्वरेण परमात्मना सर्वजन्तूनामात्म- भूतेन स्वेनाऽऽत्मनेशा वास्यं वसनिवासे वास्यं निवसनीयं किमितीदं प्रत्यक्षादिभिः प्रतीयमानं साक्षिदृश्यं चेदमात्मव्यतिरिक्तं सर्वमिदमीशा पास्यं सर्वेषु स्वकार्येषु स्वकारणभूते निवास्यम् । जगति पृथिव्यां जगत्यां जगत्युपलक्षिते जगति किंचेति चकारो भिन्नक्रमः । जगति व्यक्तं च लोकप्रसिद्धं वस्तुजातं तत्सर्वमीशा वास्यं निवास्यं स्वेनाऽऽत्मना निवा- स्कम् । किंच वस आच्छादनेऽहमेवेदं सर्वमिति परमसत्यरूपेणेशा पर- मात्मनाऽनृतमिदं सर्व वास्यं छादनीयमाच्छादनीयं कार्यस्य कारणस- साप्रकाशव्यतिरेकेणाऽऽरोपितस्याधिष्ठानप्रकाशव्यतिरेकेण पृथक्सत्ता- प्रकाशनामावादेवेदं सर्वं जगदीशा वास्यम् । यतः प्रत्यगात्मनः सच्चि- दानन्दलक्षणपुरुषार्थरूपं स्वत एव सिद्धम् । तेन स्वस्मिन्नारोपितस्याह- मिदं ममेदमित्येवमनात्मकस्य सर्वस्यानर्थभूतस्य जगतस्त्यक्तेन त्यागेन सर्वाधिष्ठानभूतस्वस्वरूपयाथात्म्यानुभवसामर्थ्यसिद्धेन त्यक्तेन त्यागे. नाऽऽत्मानं भुञ्जीथाः । भुजोऽनवन इत्यस्य रूपम् । पालनेऽपि च्छन्द- स्यात्मनेपदं मवत्यत आत्मानं भुञ्जीथाः पालयेथाः कृतं कृत्यं प्राप्त प्रापणीयम् । आत्मलाभान्न परं विद्यत इति श्रुतेः । एवं त्यक्तेषणस्त्वं मा गृधः कस्यस्विद्धनम् । गृधु अभिकाङ्क्षायाम् । कस्यस्वित्परस्य धनं मा गृधः । अभिकाङ्क्षा मा कार्षीर्धनविषयाभिकाङ्क्षा मा कार्षीरित्यर्थः । स्विदिति निपातो वितर्कवचनः । अस्य संपूर्णकामत्वादे- वान्यार्थविषयाकाङ्क्षा किंनु कर्तव्या न कर्तव्येत्यर्थः। विचार्यमाणे तथा- विधस्यार्थस्याभावादेवाथवा मा गृधः कस्यचिद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यद्ध्येत । आत्मैव सर्वमितीश्वरमावनया सर्व द्वैत. मात्रं त्यक्तमत आत्मन एवेदमात्मन एव तु सर्वं परस्य कस्यचित्संब- धित्वेन प्रतीयमानस्य स्वयं संबधित्वमापादयितुमभिकाङ्क्षामा कार्षीः स्वव्यतिरेकेणातो मिथ्याविषयं ग्रहं मा कापीरित्यर्थः । एवमात्मविदः पुत्राधेषणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येष घेदार्थः॥१॥ अर्थतस्यार्थस्य ग्रहणस्य तु साधनत्वेनेदमुपदिशति-कुर्वन्नेवेहेति । इह कर्मभूमौ शतं समाः शतं वर्षाणि जिजीविषेद्यदि भवाञ्जीवितुमि. च्छेत्तर्हि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव भवाञ्जिजीविषेच्छतं समा इति जीवतः पुरुषस्य जीवितं परमायुरनूय कुर्वन्कर्माणीत्यवधीयते । एवं ईशावास्यभाष्यम् । स्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे नराभिमानिनि त्वयि । एवं जीवति सति कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः । नान्यथेतोऽस्ति । इतोऽस्माद्यथोक्तप्रकारादन्यथा प्रकारान्तरं नास्ति । एको ज्ञानमार्गो ज्ञानमार्गो द्वितीयः कर्ममार्ग एवं प्रकारद्वयादन्यत्म- कारान्तरं नास्तीत्यर्थः । देवताभक्तिरप्युभयात्मिकैव । अतो न विरोधः । एवं चेदशुभं कर्म न लिप्यते । केचिदेवं योजयन्ति- इह लोके कर्माणि यज्ञेन दानेनेत्यादिना मुक्तिसाधनत्वेन विहितानि कर्माणि कुर्वन्नेव शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः । एवमिहेवं त्वयि वर्तमाने सति तव मुक्तिरस्त्विति शेषः। नान्यथेतोऽस्ति। इतः प्रकारादन्यथा मुक्तिर्नास्तीत्येतदुक्तं भवति । यथा स्वर्गप्राप्ते ना- भूता विशेषास्तथा मुक्तेर्न मार्गभेदोऽस्त्यपि त्वेक एव मार्गो ज्ञानलक्षण: कर्म लिप्यते नास्ति येन प्रकारान्तरेण विद्यमानेन कर्म लिप्यते तथा प्रकारान्तरं नास्तीत्यर्थः । अतः शास्त्रविहितान्यग्निहोत्रादीनि कर्माणि कुर्वन्नेव जिजीविषेदिति । कथं पुनरिदमवगम्यत आयेन मन्त्रण ससंन्यासज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ज्ञानकर्मणो- विशेषोपरोधं पर्वतसर्पपवदेवोक्तं न स्मरसि किमित्यायुक्तम् । यो जिजीविषेत्स कर्म कुर्वन्नेवेति । ईशा वास्यमिद५ सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनमिति । तेन जीविते मरणे वा गृधिं मा कुर्पित्यरण्यमियादिति पदमतो न पुनरिया. दिति व्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः । क्रियापथश्चैव पुरस्तात्संन्यासपथश्च तयोास एवात्यरेचयदिति तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च सुभाषित इत्यादि पुत्राय विचार्य निश्चितमुक्तं श्रीवेदव्यासेन वेदाचार्येण । श्रीभगवता- लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनामिति । विभागं चानयोर्दर्शयिष्यामः ॥२॥ अथेदानीमविद्वन्निन्दाऽऽरभ्यते विद्वत्पशंसार्थम्-असुर्या नाम त इति। परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसरा असुषु रमन्त इति । तेषां संभूता लोका असुर्या नामशब्दः प्रसिद्धवचनस्ते लोकाः कर्मफलानि जन्मानि येषु लोक्यन्ते दृश्यन्ते भुज्यन्त इति । अन्धेनादर्शनात्मकेन तमसाऽज्ञानलक्षणेनान्धकारेणाऽऽवृता आच्छादितास्तान्स्थावरांस्ताँ- ४ आनन्दमट्टोपाध्यायकृतम्- लोकांस्ते प्रेत्य मृत्वेमं देहं परित्यज्याभिगच्छन्ति । यथाकर्म यथाश्रुतं ते तान्गच्छन्ति । ते क इति तानाह-ये के चाऽऽत्महनो जना इति । आत्मानं घ्नन्तीत्यात्महननमात्मभेददर्शनं तत्कुर्वन्ति ते केऽविद्वांसः स्वस्वरूपाविदस्तद्विपर्ययेण विद्वांसो मुच्यन्ते न त्वात्महनः ॥३॥ तहि तत्कीहशमात्मतत्त्वमिति तदाह-अनेजदेकमिति । आत्मदे- वत्या त्रिष्टुप् । अतिवेगवान्वायुः प्रसिद्धस्ततो हि वेगवत्तरं मनस्ततोs- प्यतिवेगवत्तरमात्मतत्त्वं कथं विरुद्धमिदमुच्यते निश्चलं जवीय इति । नैष दोषो निरुपाध्युपाधिमत्त्वोपपत्तेः । तत्र निरुपाधिस्वरूपेणोच्यते- अनेजदेकमिति । सोपाधिस्वरूपेणोच्यते-मनसो जवीय इति । मनसो जवेनान्तःकरणस्य संकल्पादिलक्षणस्योपाधेरनुवर्तमानात्तत्र प्रवृत्तिश्च व्यर्थ पुरतः पुरतश्चाऽऽत्मतत्त्वं प्रकाशत इति ज्योतिर्बाह्मणे प्रसिद्धम् । इहैव दुःस्थस्य मनसो ब्रह्मलोकादिदूरसंकल्पनं नानागमनं क्षणमात्रा- दित्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकाद्वि- ई गच्छति प्रथमं प्राप्त इवाऽऽत्मचैतन्याभासो गृह्यते । अतो मनसो जवीय इत्याह-किंच नैनद्देवा आप्नुवन्निति । एतदात्मतत्त्वं देवा द्योतनसाधनत्वात्सर्वथाऽपि तदात्मतत्त्वं चक्षुरादीन्द्रियाणि देवा नाऽऽ- प्नुवन्न प्राप्नुवन्न विषयीकुर्वन्निति । प्रकाशविषयीकतुं वा श्रम एव ततस्तेभ्यो मनो जवीयः । मनोव्यवहारो व्यवहितत्वात् । नाऽऽमासमा- त्रमप्यात्मनो नैव देवतानां विषयो भवति यत्स्यान्मनसोऽपि पूर्वमर्पत्यू. र्वमेव गतं व्योमवद्यापित्वात् । सर्वथाऽपि तदात्मतत्त्वं सर्वसंसारधर्मव- जितं स्वेन नीरूपेणाविक्रियं सदुपाधिकृताः सर्वाः संसारविक्रिया अनु- भवतीवाविवकिनां मूढानामेकमनेकमिव प्रतिदेहं प्रत्याचक्षते स्वत इत्येतदाह-तद्धावत इति । तद्यत्प्रसिद्धमात्मतत्त्वं तद्धावतो दूरं गच्छ- तोऽन्यान्मनोवागिन्द्रियप्रभृतीनात्मविलक्षणानत्येत्यतीत्य गच्छतीव । इवार्थं स्वयमेव दर्शयति-तिष्ठदिति । तिष्ठत्स्वयं सदित्यर्थः । तस्मिन्ना- त्मतत्त्वे सति चैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्वयत इति मातरिश्वा सर्वप्राणभृक्रियात्मकः । यदा सर्वाणि कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपोऽप इति कर्मनाम । अपः कर्माणि प्राणिनां चेष्टालक्ष- णान्यग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशवर्षादिलक्षणानि यज्ञ- दानहोमादीनि दधाति स्थापयति विभजतीत्यर्थः । समष्टिव्यष्टिरूपो ५ ईशावास्यमाप्यम् । ह्यसौ वायुरियतीति वा । मीषाऽस्माद्वातः पवत इत्यादिश्रुतिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वस्याऽऽदि- भूते सत्येव मवन्तीत्यर्थः। न मन्त्राणां जामिताऽस्तीति पूर्वोक्तोऽर्थः॥४॥ कंचिद्विशेषं दर्शयन्नाह-तदेजति । यस्तु सर्वाणि भूतानि यस्मिन्स- ििण भूतानीत्यात्मदेवतास्तिस्रोऽनुष्टमः । तदेजति । तद्यत्प्रकृतमात्मतत्त्वं तदेजत्युपाधित एजति चलति । सन्नजति । तदेव त्वात्मतत्त्वमतो नजति नैव चलति । अचलमेव सच्चलतीव भवतीत्यर्थः। तदूरे। वर्षकोटिशतै- रप्यविदुषामप्राप्यत्वात्तदूर एव । तत् उ एव अन्तिकेऽतिसमीपे विदु. पामात्मत्वात्तदन्तिक एव । अत्यन्तसमीप एव न केवलं दूरेऽन्तिके तद- न्तोऽस्य सर्वस्य जगतोऽन्तरात्मैव । एष त आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदेव सर्वस्य बाह्यतो व्यापित्वादाकाशवनिरतिशयसूक्ष्मत्वादतो ज्ञानधन एवेति शासना. निरन्तरम् ॥५॥ यस्तु शोधिततत्त्वंपदार्थों मुमुक्षुः सर्वाणि भूतान्यव्यक्तानि स्थावरा- न्तानि चेतनाचेतनान्यात्मानं त्वामन्वन्वेति सदा पश्यत्यात्मव्यतिरि- तानि न प्रपश्यति । अपि त्वात्मन्यात्मत्वेन पश्यतीत्यर्थः । सर्वभूतेषु चाऽऽत्मानं तेषु सर्वेषु भूतेषु चाऽऽत्मानमनुपश्यति तेषामपि मूतानामात्मा. नमात्मतत्त्वं न पश्यति यथाऽस्य कार्यकरणसंघातरूपमात्मानं सर्वप्रत्यय. साक्षिभूतं सत्यं केवलम् । निर्गुणोऽनेनैव स्वरूपेणाव्यक्तानां स्थावरा- तानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं यस्तु पश्यति । ततस्तस्माद्द- र्शनान्न विजुगुप्सते जुगुप्सां घृणां न करोति गुपू रक्षणे देहादिकं गोतुं न गच्छतीति वा । ज्ञानप्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽ- न्यद्रष्टव्यं पश्यतो मवति। आत्मानमेव त्वनन्तेषु विशुद्ध निरन्तरं पश्यतो न प्राणादिनिमित्तमस्तीति प्राप्तमेव ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मन्त्र आह । सर्वासां श्रुतीनामत्रैव तात्पर्यमिति प्रदर्शयितुम्-यस्मिन्सर्वाणि भूतानीति । यस्मिन्यथोक्त आत्मनि सर्वाणि भूतानि तान्येव भूतानि परमार्थदर्शनादात्मैवाभूदात्मैव संवृत्तः। परमार्थतो विजानत एवमात्मतत्त्वं विजानत एतत्तस्मिन्काले तस्मि. नवस्थाविशेषे तत्र चाऽऽत्मनि को मोहः । मुह वैचित्ये को मोहः कः शोकः कः संसार एकत्वमनुपश्यतः । शोकमोही कामबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक ६ आनन्दमट्टोपाध्यायकृतम्- इति । शोकमोहपोरविद्याकार्ययोः संसारमसंसारमित्यज्ञानयोराक्षेपेण संप्रदर्शनासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति॥७॥ योऽयमतीतेन मन्त्रेणोक्त आत्मा किंलक्षण इत्यपेक्षायामयं मन्त्रः प्रवर्तते-स पर्यगादिति । आत्मदेवत्या जगती । स यथोक्त आत्मा पर्य- गात्परितः समन्तादगात्परितो गच्छति सर्वमवगच्छति व्याप्नोति च । आकाशवद्यापी शुक्र शुच दीप्ती शुचिमद्दीप्तिमदित्यर्थः।अकायमशरीरं लिङ्गशरीरवर्जितमवणमहतम् । अस्माविरं नावाः शिरा न विद्यन्ते यस्य तदनाविरं कविः कान्तदर्शी नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषामुपरि भवतीति परिभूः । स्वयमेव भवतीति स्वयंभूः । येषामुपरि भवति यश्चोपरि भवति स स्वयमेव सर्वो भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरः । याथातथ्यतो यथातथा माधो याथातथ्यं यथाश्रुतकर्मफलसाधनतोऽर्था- कर्तव्यपदार्थान्व्यदधादकरोद्विहितवान्यथानुरूपं व्यधादित्यर्थः । शाश्व- तीभ्यः समाभ्यः संवत्सरात्मभ्यः प्रजापतिभ्य इत्यर्थः । अत्राऽऽद्यन मन्त्रेण सर्वेषणापरित्यागाज्ज्ञाननिष्ठोक्ता । प्रथमो वेदार्थः। ईशा वास्य. मित्यादिना मा गृधः कस्यस्विद्धनमिति । अज्ञानिनां जिजीविषूणां ज्ञाननिष्ठासंभवे सति कुर्वन्नेव कर्माणि जिजीविषेजिजीविषेरिति कर्म- निष्ठा । द्वितीयो दार्थः । अनयोश्चिरंतनयोर्मन्त्रः प्रदर्शितः-सोऽका- मयत जाया मे स्यादिति तस्याज्ञानिनः कर्माणि । मन एवास्याऽऽस्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च निश्चितमवगम्यते । तथा- चाऽऽत्मस्वरूपावस्थानं जायाोषणासंन्यासेनाऽऽत्मविदा कर्मनिष्ठापा- तिकूल्येनाऽऽस्मस्वरूपनिष्ठेव दर्शनात् । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यादिना यज्ज्ञाननिष्ठासंन्यासिनस्तेऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनः स पर्यगादिति वदतो मन्त्रैरुपा- दिष्टो ! यत्र तत्राधिकृता न कामिन इति । यथा च श्वेताश्वतराणां मन्त्रोपनिषदि-अत्याश्रमिभ्यः परमं पवित्रं प्रोबाच सम्यगृषिसंघजु- टमित्यादि विमज्योक्तम् । ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीवि- षषस्तेभ्य इदमुच्यते-अन्धं तम इत्यादिना । कथं पुनरिदमवगम्यते साध्यसाधनभेदोपमर्शनम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । सत्र को मोहः कः शोक एकत्वमनुपश्यतः । यदात्मैकत्वविज्ञानं तत्र केनचिदपि कर्मणा ज्ञानान्तरेण वा स मूढः समुच्चिचीपति । मक्तु ईशावास्यमाग्यम् । समुशिचीपवाऽविद्वन्निन्दा।तत्र च यस्य येन समुपपः संभवति मारत: शास्त्रतो वा तदिहोच्यते । देवं वित्तं देवताविज्ञानं कर्मसंबधित्वेनो. पन्यस्तेन परमात्मविज्ञानं विद्यया देवलोक इति पृथक्फलाषणात्ततो ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुचिवीषया निम्दापरेकैकस्प पृष- क्फलाश्रयणाद्विद्यया तदारोहन्ति विद्यया देवलोकात्र दक्षिणा पन्ति कर्मणा पितृलोक इति । न हि शास्त्रविहितं किंचिदकर्तव्यतामिवात् ॥८॥ अन्धं तमः प्रविशन्ति।पउनुष्टुम आत्मदेवत्याः।अन्धं तमोऽदर्शनात्मक समः प्रविशन्ति । के येऽविद्यामविद्या कर्मत्यर्थः। अविद्यामग्रिहोत्रादिलक्ष- यामेव केवलामुपासते।तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः। सतोमूय इप ते तमः । ततस्तस्मादन्धात्मकाद्य एव बहुतरमेव तमः प्रविशन्ति ते क इति । य उ विद्यायां रता ये तु कर्म हित्वा य उ एव विद्यायामेव रता ज्ञान एष रतास्ततो बहुतरमेव तमः प्रविशन्ति । अनन्दा मामले लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रत्याभिगच्छन्ति अविद्वांसोऽनुषा जना इति श्रुतेः ॥९॥ अमावान्तरफलभेदं विद्याकर्मणोः समुच्चये कारणमाहान्यथा फले. वदफलवतोः संनिहितयोरङ्गाङ्गिन्तैव स्यादिति-अन्यदेवाऽऽहुरिति । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुः । अन्यदेवाऽऽहुरविद्यया कर्मणाऽन्यदेव फलं क्रियत इत्याहुर्वेदाः कर्मणा पितृलोको विद्यया देवलोक इत्यादयः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमता वचनं शुश्रुम । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्या. तवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १०॥ यत एवं विद्यां चाविद्या चेति देवताज्ञानं कर्म घेत्यर्थः । वस्तद्वेद तदुभयं ज्ञानं कर्म प सहेकेन रूपेणानुष्ठेयं यो वेद तस्यैव समुच्चयका. रिण एकपुरुषार्थसंबन्धक्रमेण किं स्यादित्युच्यते-अविद्यया मृत्यु तीवेति । अविद्यया कर्मणाऽग्निहोत्रादिना मृत्यु स्वाभाविकं रागत: क्रियमाणं कर्म ज्ञानं च मृत्युशब्दवाच्यं तदुमयं तीर्वाऽतिक्रम्य विद्यया वेदान्तज्ञानेनामृतं देवतात्ममावमश्नुते ध्यानोति । तदत्रामृतमश्नुते यद्देवतात्मगमनम् ॥११॥ अधुना व्याकृताच्याकृतोपासनयोः समुश्चिवीषया प्रत्येकं निन्दो. ज्यते-- आनन्दमट्टोपाध्यायकृतम्- अन्धं तम इति । अन्धं तमः प्रविशन्ति के येऽसंभूति संभवनं संमूतिः सा. संस्य.कार्यस्य संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः प्रक्रियते कार्य यया प्रकृतिः कारणमध्याकृताख्यां तामसंभूतिमव्याकृताख्यां प्रकृतिका. रणमविद्या.. कामकर्मबीजभूतामदर्शनामिकामुपासते ते तदनुरूपमेव फलं तमोऽदर्शनात्मकं प्रविशन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति । के ये उ एव संभूत्यां रताः संभूत्यां कार्यब्रह्मणि हिरण्य- गर्माख्य एव रतास्ते ततो भूय इव तमः प्रविशन्ति ॥ १२ ॥ अथाधुनोपासनयोः समुच्चयकरणायावयवफलभेदमाह-अन्यदे- वाऽऽहुरिति । अन्यदेव पृथगेवाऽऽहुः फलं संभवात्संभूतेः कार्यब्रह्मोपा. सनादणिमाद्यैश्वर्यलक्षणं फलमाहुर्वेदाः । तथाऽन्यदादुरसंभवादसंभूते- रव्याकृताव्याकृतोपासनादन्यदेव फलमाहुः । अन्धं तमः प्रविश- तीति शुश्रुम श्रुतवन्तो वयं धीरा ये नस्तद्विचचक्षिरे । य आचार्य धाराणां वचनं विचचक्षिरे व्याकृताव्याकृतोपासनाफलवचनं व्याख्या- तवन्त इत्यर्थः ॥ १३॥ यत एवमतः समुच्चयः संभूत्योर्युक्त एवैकपुरुषार्थत्वादित्याह- संभूतिं च विनाशं च यस्तद्वेदोमय ५ सह विनाशेन मृत्युनाशो धर्मों यस्य स तेन विनाशधर्मणा हिरण्यगर्भोपासनेनैश्वर्यप्राप्तिद्वाराऽनैश्वर्य- धर्मकामादिदोषजातं च मृत्यु तीवा संभूत्या । अत्राकारलोपश्छान्दसः। असंमूत्याऽसंमूत्युपासनयाऽव्याकृतोपासनेनामृतं प्रकृतिलयलक्षणं कार- णत्वप्राप्तिलक्षणममृतमश्नुत इति ततश्च पुनः संसारो भवतीत्येवमपर विद्याकर्मसमुच्चये फलमभिहितम् । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति । स्वतन्त्रस्य सर्वकर्मसंन्यासपूर्वस्य सम्यग्ज्ञा- तस्य फलमभिहितमेवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोs- नेन प्रकाशितः । प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने विद्यामुपासत इति । तत ऊवं बृहदारण्यकं तत्रापि प्राणादिविषयोपासनं न परं किंचिदन्यन्निर्गुणब्रह्मपरमिति विमज्य दर्श नीयम् । कार्य सगुणब्रह्मोपासनावाक्यजातं चान्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिषण्मन्त्रप्रकाशितार्थस्य प्रकाशन उपयुक्तमितर. सर्व निर्गुणतत्त्वैकनिष्ठमिति । विद्यां चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्यु तीर्वा विद्ययाऽमृतमश्नुत इति यदुक्तं तत्र केन मार्गे णामृतत्वमश्नुत इत्यचिरादिमार्गेणेत्युच्यते ॥ १४ ॥ .
ईशावास्यमाष्यम् । एवं यथोक्तोपासनं कुर्वन्नुपासकः स्वदेहस्यान्तकाले प्राप्त आत्म- नोऽमृतत्वप्राप्तिद्वारभूतमादित्यं याचते-हिरण्मयेन पात्रेणेति । आदि- त्यदेवत्याऽनुष्टुव्हे पूषन्हे सूर्यास्मत्पोषक हिरण्मयेन ज्योतिर्मयेन पात्रे- णाऽऽधारभूतेन सत्यस्याऽऽदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितं मुखं द्वार- मपिहितम् । हिरण्मयेन पात्रेण द्वारस्यापिधानं कृतम् । अतस्तत्त्वं पूष. नपावृणु पूषस्तत्पिधानं त्वमपावृण्वपगमय । सत्यधर्माय सत्यस्य तवो- पासनादहमपि सत्यधर्मो जातः । सत्यं धर्मो यस्य स सत्यधर्मा तस्मै सत्यधर्माय मह्यं तदपावृणु । यद्वा व्यत्ययः । सत्यधर्माय सत्यधर्मस्य तदृष्टये ॥ १५॥ पूषन्नेकर्ष इति। सूर्यदेवत्या त्रिष्टुप्पोषणात्पूषा रविस्तत्संबोधन हे एक त्वया सर्वस्य संयमनाद्यमो हे यम सूर्य सुष्ट्वीरणात्सूर्यस्तत्संबोधनं प्रजाप. तेरपत्यं प्राजापत्यस्तत्संबोधनं हे प्राजापत्य । एवं संस्तूय प्रार्थयते-व्यूह रश्मीनिति। रश्मीन्व्यूह विगमय समूह तेजस्तेजस्तापकं यज्ज्योतिस्तज्ज्यो- तिस्तत्समूहमेकी कुरु। यत्ते रूपं कल्याणतमं तत्ते पश्यामि । ते तव यत्कल्या- णतम मङ्गलतमं रूपम् । तत्ते तव प्रसादात्तपमहं पश्यामि । किंच योऽसा- वसौ पुरुषः सोऽहमस्मि । योऽसौ मण्डलस्थो व्याकृतावयवो यः पुरुषः पुरुषा आहुः पूर्णत्वाद्वा पुरुषः सोऽहमस्मीत्यादित्यमेकीकृत्य पश्या- मीति ॥ १६ ॥ एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्भवति तदाह- वायुरनिलमिति । लिङ्गोक्तदेवत्यं यजुर्वायुः प्राणोऽनिलं सूर्यात्मममा तमधिदैवतं स्वप्रकृतिं हिरण्यगर्भाख्यं प्राणं प्रतिपद्यते । अथानन्त- रमिदं प्रतीयमानं शरीरमग्री हुतं भस्मान्तं भवति । कृतमयोजन- त्वात् । इदानी योगिनो बलभूतं प्रभूतं सर्ववेदसारं सर्ववेदमयमक्षरं कथ्यते-ओमिति। अवतेरापोतेर्वा । ओमिति परमाक्षरस्य योगिनो बल- भूतस्य परस्य ब्रह्मणः प्रणवाख्यस्य स्थूलादिगुणयुक्तस्य . बह्मा ऋषि- श्छन्दो गायत्रं परमात्मा देवता । शब्दब्रह्मारम्भे विनियोगः । अपि च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येऽवपि काम्यनैमित्तिकादिष्वपि सर्वेष्वस्योंकारस्य विनियोगः । ओमिति परब्रह्मणो नामनिर्देशः । ओं तब्रह्मेत्यादिश्रुतेः । ब्रह्मविष्णुशिवपरब्रह्मात्मकोऽकारोकारमकारार्धमा- त्रात्मकोऽयमोंकार एवान्त्यकाल उत्तारक इति दर्शयति आत्मरूपश्च १० आनन्दमट्टोपाध्यायकृतमीशावास्यमाष्यम् । ॐकारस्ततस्तेन ततम् । इदानी कृतं स्मारयति-कृतं स्मर इति । लिङ्गोक्तदेवत्यं यजुः । क्रतो क्रतुः संकल्पोऽनेन संकल्पविषयो योगि- मिलक्ष्यते । हे क्रतो हे श्रीमगवन्नग्ने स्मर कृतं ब्रह्मचर्ये मया कृतं तत्स्मर न विस्मर्तव्यम् । हे क्रतो गार्हस्थ्ये मया यत्कृतं तच स्मर । पुनश्च यत्साधु कृतं तत्सर्वं कृतं स्मर कृतं स्मरेति । आदरार्थं पुनर्वच- नम् । अथवा क्रतुशब्देन यज्ञः संबोध्यते हे कतो हे यज्ञ । यज्ञशब्दोपल. क्षितो यज्ञाध्यक्षो यज्ञहविर्मागमुश्रीमगवान्विष्णुः संबोध्यते श्रीम. गवन्विष्णो कृतं स्मर मया कृतं त्वया कारितं स्मर कृतं स्मर कृतं स्मरेति ॥ १७॥ मार्ग याचते-अग्ने नयेति । आमेयी त्रिष्टुप् । हे श्रीमगवन्नने हे सर्वज्ञ नय सुपथा दक्षिणमार्गनिवृत्त्यर्थ सुशब्दः शोमनेन मार्गेण देव- यानेनास्मात्रय प्रापय । राये धनाय कर्मज्ञानफलोपभोगाय वा। भस्मान्यथोक्तज्ञानकर्मकारिणो नयेति संबन्धः । हे देव विश्वानि सर्वाणि कर्माणि वयुनानि कर्माणि प्रज्ञानानि तदनुचितानि च विद्वा- मानवास्त्वं सुपथा नयेति संबन्धः । किंच-युयोध्यस्मज्जुहुराणमेनः । अस्मदस्मत्तः सकाशाज्जुहुराणं कुटिलं कुटिलवञ्चनात्मकमेनस्तत्कृतं पैनः पापं युयोधि योधय पृथक्कुरु । तसे विशुद्धाः सन्त इष्टं फलं प्राप्नुयामेत्यभिप्रायः । किंतु वयमिदानी किमपि कर्तुं न शक्नुमः । अपि तु भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं ते तुभ्यं विधेम कुर्मः। केवलनमस्कारवचनेन परिचरेमेत्यर्थः ॥१८॥ वन्देऽहं मङ्गलात्मानं मास्वन्तं वेदविग्रहम् । याज्ञवल्क्यं मुनिश्रेष्ठं कृष्णं हरिहरं प्रभुम् ॥१॥ इति श्रीमत्परमहंसपरिवाजकाचार्यवर्यश्रीवासुदेवपुरीपूज्यपादपर- मकारुण्यासादितश्रीकृष्णमक्तिसाम्राज्यस्य श्रीमज्जातवेद. महोपाध्यायस्य सनुना चतुर्वेदिश्रीमदानन्दमट्टोपाध्या- पेन विरचिते काग्ववेदमन्त्रमाष्यसंग्रहे चत्वारि- शोऽध्यायः॥४०॥ ॥ॐ तत्सत् ॥
अथानन्ताचार्यकतमीशावास्पभाष्यम् ॥
सर्ववेदैकसंवेद्यं हरिं देवशिखामणिम् ।
देशतः कालतश्चैव गणतोऽनन्तमाश्रये ॥१॥
चत्वारिंशे विहाध्याये परमात्मनिरूपणम् ।
क्रियते शोकमोहादिवर्जितैः परलक्षणः ॥२॥
ईशावास्यमित्यस्याध्यायस्य कर्मसु विनियोगो नास्ति।किंतु शुद्ध-
स्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादकत्वम् ।
तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्वरूपप्रकाशनेन
शोकमाहादिसाधनमज्ञानं निवर्त्य स्वरूपं दर्शयतीत्यभिधेयसंबन्धप्रयो.
जनवानिति व्याख्यायते । ईशा वास्यमात्मदेवत्योऽनुष्टुप्छन्दस्कोऽध्यायो
दध्यङाथर्वण ऋषिष्टा । गर्माधाना.. संस्कारसंस्कृतमधीतवेदं जनि.
तसुतं यथाशक्तिकृतयज्ञं निष्पापं निस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं
शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह-ईशेति । ईश ऐश्वर्ये क्विवन्त ईष्ट
इतीट् । सर्वस्येशिता परमेश्वरः । स हि सर्वजन्तूनामात्मत्वात्सर्वमीष्टे ।
तेनाऽऽत्मनेशा परमेश्वरेणेदं सर्वं प्रत्यक्षप्रमाणसिद्धं विश्वं वास्यम् ।
वस आच्छादने । ऋहलोर्यदिति ण्यत्प्रत्ययो णित्त्वात्स्वरितः । आच्छा-
दनीयं सर्व तेन व्याप्तमित्यथः । स एवाधस्तात्स एवोपरिष्टात् । अन्त-
बहिश्च तत्सव व्याप्य नारायणः स्थित इत्यादिश्रुतेः । इयद्वा इदं सर्व-
मीशा परब्रह्मणा वास्यं वस निवासे वासितमुत्पादितं स्थापितं निय-
मितं च । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति ।
यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यादिश्रुतेः। न केवलं प्रत्यक्षगम्यमीशा
वास्यमपि तु सावरणं ब्रह्माण्डमित्याह-यदिति । यत्किंचिच्छ्रुतिप्रमा-
णसिद्धं जगत्यां जगत् स्थावरजङ्गमात्मकं शेषं विश्वमीशेनोत्पादित
स्थापितं नियमितं चेत्यर्थः । अतः कारणात्तेनेशा त्यक्तेन विसृष्टेन दत्तेन
स्वादृष्टानुसारिणा विषयेण भुञ्जीथा भोगाननुभवः । इतोऽधिकं मा
गृधो गृधु अमिकाक्षायां मा काङ्क्षीः । इतो ममाधिकं मवत्विति
धियं त्यजेत्यर्थः । परमात्माधीनत्वेन त्वदिच्छाया ध्याहत्वादिति भावः।
एवं सद्धनं कस्यस्विस्विदिति निपातो वितकें न कस्यापीत्यर्थः । स
एष सर्वस्य वशी सर्वस्येशानः सर्वमिदं प्रशास्ति यदिदं किंचेत्यादिश्रुते.
मुख्यदाता परमेश्वरो न स्वामिसंबन्धालिङ्गिन्तमन्यत्माणिजातमिति
बराग्येण भवितव्यमिति तात्पर्यम् ॥१॥
२ अनन्ताचार्यकृतम्- - इदानीं चित्तशुद्धयर्थं विहितमवश्यमनुष्ठेयमित्याह-कुर्वन्नेवेति । कर्माण्यग्निहोत्रादीनि निष्कामाणि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः प्रकरणात् । त्वं जिजीविषेर्जीवितुमिच्छेः । भवाञ्जिजीविषेदिति वा । पुरुषायुषस्य शतवर्षमितत्वाच्छतग्रहणं कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यावच्छक्ति कर्तव्यं न कदापि त्याज्यमिति । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणीति । ब्रह्म- ण्याधाय कर्माणि सङ्गं त्यक्त्वा मनीषिणः। लिप्यते न स पापेन पनपत्रमिवाम्भसेति भगवद्वचनात् । त्वयीति विभक्तिव्यत्ययस्तवैवं कर्म कुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारा• न्तरेण मुक्तिर्नास्तीत्ययमभिप्रायः स्वर्गादिप्राभौ यथा नानोपायाः सन्ति न तथा मुक्तावित्यर्थः। ब्रह्मार्पणबुद्धया कृतकर्मणा शुद्धान्तःकरणस्यैव मुक्तिरिति भावः । ननु कर्मणोऽवश्यं फलेन माव्यं कथं मुक्तिरित्याह- न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये त्वयि न लिप्यते न बध्यते । स्वोचितेनासंकल्पितफलेन कर्मणा भगवन्तमाराधयन्तं नरमपि त्वां न प्रागुत्तरकर्म बाधत इत्यर्थः । मुक्तिकारणान्तःकरणशुद्ध्यापाद- कत्वेनोपक्षीणशक्तित्वात् । उक्तं हि-द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभाषित इति ॥२॥ अथ काम्यपरान्निन्दति-असुर्या इति । ये के च ये केचिज्जना आत्महन आत्मानं नन्ति संसारे संबन्धयन्तीत्यात्महनोऽविद्वांसः काम्य- कर्मपरा आत्महन्तारस्ते प्रेत्य मृत्वा ताल्लोकानभिगछन्ति । अभिराभि- मुख्ये ते के ये लोका असुर्या असुराणामिमेऽसुर्या असुषु प्राणेष्वेव रमन्त इत्यसुराः प्राणपोषणमात्रपरा अज्ञानिनः केवलविषयासक्तास्तैः प्राप्या असुर्याः। कीदृशा अन्धेन तमसाऽज्ञानात्मकेन तमसाऽऽवृता आच्छादिता अज्ञानाधिक्यकारिणोऽनात्मज्ञाः पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । उक्त हि भगवता श्रीगीतायाम्-कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति । अनेकचि- तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरके:- शुचाविति । तस्माद्यथायोगं वर्णाश्रमविहितकर्मणा मगवन्तमाराधयं. स्तत्प्रसादेन निवृत्तस्वान्तःकलुषो जातवैराग्य आत्मविन्मुक्तो भवतीति प्रघट्टकार्थः ॥३॥ ब्रह्मविदामोति परं तमेवं विद्वानसुत इह भवति नान्यः पन्था अय- ईशावास्यमाध्यम् । माय विद्यते । एवं त्वयि नान्यथेतोऽस्तीत्यादिश्रुतिमिब्रह्मज्ञानमेष मोक्ष- साधनमित्युक्तम् । तद्ब्रह्म किंविधमित्यत आह- अनेजदिति । त्रिष्टुप्छन्दस्कयमृक् । तद्ब्रह्मानेजत् । एज़ कम्पने नैज- तीत्वनेजत् । अकम्पमानोऽमयमचलदिति केचित्तथात्वेन मनसो जवीय इत्युत्तरविरोधोऽजरोऽमृतोऽमयो ब्रह्मेति श्रुतेश्च । एकं समाधिकरहितम् । न तत्समश्चाभ्यधिकश्च दृश्यत इति श्वेताश्वतरोक्तेः । यहा सर्वभूतेषु विज्ञानघनरूपेणैकम् । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्त- रात्मतिश्रुतेः । मनसो जवीयो मनो हि वेगवत्मसिद्धं ततोऽपि जवीयो वेगवत्तरं जवोऽस्यास्तीति जववदत्यन्तं जववदिति जवीय ईयसुनि कृते विन्मतोलुंगिात मतुपो लुग्देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनसो वेगवत्तरत्वं तस्याप्यगम्यत्वाद्ब्रह्म मनसो जवीय इत्युपपद्यते । किंच देवा ब्रह्माद्या अप्येनद्ब्रह्म नाऽऽनुवन्कात्स्न्य। नाजानन् । देवा योतमानाश्चक्षुरादयोऽप्येनन्नाऽऽप्नुवन्न गोचरी कुर्व. न्तीति केचित् । तत्तु मनोगम्यत्वादेषापीह स्थितम् । पूर्व सर्वजगत्का. रणम् । यतो वा इमानि भूतानि जायन्त इति श्रुतेः । अर्षत् ऋष गतो, अर्पतीत्यर्षज्ज्ञानस्वरूपं सत्यं ज्ञानमनन्तं ब्रह्मति श्रुतेः। किंच लोकवि- लक्षणं लक्षणान्तरमाह-तिष्ठदिति । तिष्ठतीति तिष्ठत्स्वस्थाने स्थितमपि सर्वगतत्वाद्धावतो दुतं गच्छतोऽन्यान्मनआदीनत्ये तिक्रम्य तिष्ठत्यचिन्त्यशक्तिकमित्यर्थः। किंच मातरिश्वा मातर्यन्तरिक्षे श्वयति वर्धत इति मातरिश्वा वायुः । दुओश्चि गतिवृद्धयोरितिधातुः । तस्मि- न्ब्रह्मण्यपः कर्माणि दधाति धारयति । अप इति कर्मनाम कार्यकारण- जातानि यस्मिन्नोतानि प्रोतानि यश्च सूत्रसंज्ञः सवस्य जगतो विधार- यिता सर्वप्राणभृच्चष्टकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि कर्माणि तस्मिन्ब्रह्मणि स्वाधिष्ठाने सति दधाति सर्वचेष्टको वायुस्तस्यापि चेत- यितृ ब्रह्मेत्यर्थः । भीषाऽस्माद्वातः पवत इत्यादिश्रुतेः । यद्वा मातरिश्वा वायुरपः कर्माण्याप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता अपः कर्माणि । आमोतेह्रस्वश्चति क्विप् धातोईस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन्दधाति स्थापयति । सर्वप्राणिकर्माणि समर्पयतीत्यर्थः । देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं नो देवदेवेषु यज्ञरस्वाहा वाचि स्वाहा वातेधा इति समिष्टयजुर्मन्त्रे वायुस्थत्वोक्तेः सर्वकमाणि तावद्वायौ स्थाप्यन्ते समष्टिव्यष्टिरूपोऽसौ वायुरपि तानि सर्वाणि ४ अमन्ताचार्यकृतम्- सस्मिन्दधात्यतो पागहोमादीनां कर्मणां परमास्पदत्वं ब्रह्मलक्षण- मित्यर्थः॥४॥ रहस्यं सकृदुक्तं न चित्तमारोहतीति पूर्वमन्त्रोक्तमपि पुनर्वदति- सदिति । अनुष्टुप् । तस्मकृतमात्मतत्त्वमेजति चलति तदेव नैजति च। स्वतो नैव विभेति । अमयमेव सन्मूढदृष्ट्या बिभेति च यद्वैजतिरन्त वि. तण्यर्थः । तदेजयति दुष्टांस्तदेव नैजयति सदाचारानिति शेषः । परि- प्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युग इति स्मृतेः । किंच तटूरे दूरदेशेऽस्ति तदु तदेवान्तिके समी. पेऽप्यस्ति सर्वगतत्वात् । यद्वा तदूरेऽविदुषामब्दकोट्याऽप्यप्राप्यत्वादूर इवेत्यर्थः । तद्वन्तिके विदुषां हृद्यवभासमानत्वादन्तिक इव न केवलं दूरऽन्तिकेऽस्ति । किंत्वस्य सर्वस्य नामरूपक्रियात्मकस्य जगतोऽन्तर भ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि तदु तदेवास्त्याकाश- वद्यापकत्वात् । अन्तबंहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः। यद्वाऽस्य मन्त्रस्यार्थान्तरम् । पूर्व कारणरूपमुक्तमिदानी कार्यरूपमुदि. शति--तदिति । तदात्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सचलति तदेव नेजति स्थावररूपावस्थं न चलति तदूर आदित्यनक्षत्ररूपेण स्थितत्वात् । तदु अन्तिके धरादिरूपेण स्थितत्वात् । अस्य सर्वस्य प्राणिजातस्यान्तमध्येऽन्तर्यामिरूपेण स्थितं तदेव यो विज्ञाने तिष्ठन्वि. ज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयतीति श्रुतेः । अस्य सर्वस्य जगतो बाह्यतस्तदु तदेव कालरूपेण विद्यमानत्वात् । अन्तर्बहिः पुरुषः कालरूप इति स्मृतेः । चेतनातन- रूपमनन्तं ब्रह्मैवेत्यर्थः। एवमुपासितुरचिरादिमार्गेण गमनं नास्ति । इहैव ब्रह्मप्राप्तिः। न तस्य प्राणा उत्कामन्त्यत्रैव समवलीयन्ते । ब्रह्मैव सन्त्र- झाप्येतीत्यादिश्रुतेः। तदन्तिक इस्यत्र उकारोऽपृक्तोऽस्पर्शादिति प्राति- शारयन संधिः ॥ ५॥ अथोपासनाप्रकारमाह-यस्स्विति ।अनुष्टुप् । यः पुनरधिकारी सर्वाणि भूतान्यव्यक्तादिस्थावरान्तानि चेतनाचेतनान्यात्मन्सप्तम्या लुगात्मन्ये. पानुपश्यति । ब्रह्मण्येव सर्वाणि भूतानि स्थितानीति जानाति । आत्मानं च सर्वभूतेष्वनुपश्यति । ततस्तस्माद्दर्शनान्न विजुगुप्सते । जुगुप्सां नाऽऽमोति मुक्तो भवतीत्यर्थः । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे । गुप्धातोर्गुप्तिकिम्यः सन्निति स्वार्थे सन्प्रत्ययः । ।
ईशावास्यभाष्यम् । यो मां पश्यति सर्वत्र सर्वच मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीतिभगवद्वचनसमानार्थको मन्त्रोऽयम् ॥ ६ ॥ इममेवा) द्वितीयो मन्त्रो वदतीत्याह-यस्मिन्निति । अनुष्टुप् । यस्मिन्नवस्थाविशेषे विजानतः सर्वाणि भूतान्यात्मनि सन्ति । आत्मा च सर्वभूतेष्वस्तीति विशेषेण ज्ञानवतः पुरुषस्य सर्वस्य खल्विदं ब्रह्मेत्यादिवाक्यार्थविचारेण सर्वाणि भूतान्यात्मैवाभूत , भवन्ति सर्वभूतेष्ववस्थित आत्मैक एवेति ज्ञानं भवति । सर्वभूतस्थितं यो मां मजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तत इति भगवदुक्तेः । तत्रावस्थाविशेष एकत्वमात्मैकत्वमनुपश्यत. स्तस्य को मोहः कः शोकश्चाविद्याकार्ययोः शोकमोहयोः सर्वथाऽसं. मवासकारणकस्य संसारस्यात्यन्तमुच्छेद इति भावः । भिद्यते हृदय. ग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर इति श्रुतेः ॥७॥ एवंभूतात्मज्ञानिनः फलमाह-स इति । जगती । योऽधिकारी पूर्वो- कप्रकारेणाऽऽत्मानं पश्यति स ईदशमात्मानं पर्यगात्मानोति । छन्दसि लुङ्लङलिट इति सूत्राद्वर्तमाने लुङ् । कीदृशं शुक्र शुक्लं शुद्धं रलयो- रभेदाद्विज्ञानानन्दस्वभावम् । अकायं न विद्यते भोगार्थ कायः शरीरं यस्य सः । तमकायत्वादेवावणमच्छिद्रं पूर्णमित्यर्थः । अनाविरं न विद्यन्ते नावाः शिरा यस्य सोऽनाविरस्तम् । अकायमित्यनेन लिङ्गश. रीरनिषेधः । अनाविरमिति मावोपलक्षितधातुमयस्थूलशरीरनिषेध इत्यपुनरुक्तिः । अत्रैव हेतुगर्मविशेषणमाह-शुद्धमनुपहतं सत्त्वरजस्त- मोमिः। एतदेव स्पष्टयति-अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाश- पैरस्पृष्टमीदृशमात्मानं ज्ञानी पर्यगादित्यन्वयः। कायादिरहितोऽपि पर. मात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह-कविरिति । ज्ञानी यं पर्येति स आत्मा शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु विमक्तिव्य. त्ययः । याथातथ्यतो यथातथामावो याथातथ्यं याथाय तेन यथा- र्थस्वरूपानर्थान्पदार्थान्व्यदधाद्विदधाति । कीदृशः स कविः कान्त- दर्शी सर्वज्ञो मनीषी मेधावी ज्ञानस्वरूपः परिमूः परिमवति सर्व वशी करोतीति परिभूः । स्वयंमूः स्वयमेवान्यदनपेक्ष्य भवतीति स्वयंमूः स्वतन्त्रः। कविरित्युत्तरार्धमुपासितुः फलकथनपरमिति केचिद्वयाचक्षते तस्मक्रममङ्गगदुपेक्ष्यम् ॥ ८॥ - अनन्ताचार्यकृतम्- इदानीं पूर्वोक्तप्रकारेणानात्मविदः कर्मनिष्ठाः सन्तः कर्म कुर्वन्त एव ये जिजीविषन्ति तान्प्रत्युच्यते- अन्धं तम इति । षडनुष्टुमः । विद्याविद्ययोः समुच्चिचीपया प्रत्येक निन्दोच्यते । ये जना अविद्या विद्याया अन्याऽविद्या कर्म तां केवला. मुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्तीत्यर्थः । अवि. घेत्यत्र तदन्यार्थे नत्रबाह्मण इतिवत् । ते प्राणिनोऽन्धमदर्शनात्मक तमोऽज्ञानं प्रविशन्ति संसारपरम्परामनुमवन्तीत्यर्थः । ततस्तस्मादन्धा. मकात्तमसः संसाराभूय इव । इव एवार्थः। बहुतरमेव तमस्ते प्रविशन्ति । ते के य उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञान एव रताः कर्म हित्वा विहितकर्माननुष्ठानेन प्रत्यवाये सत्यन्तःकरणशुद्धयमावेन ज्ञानानुद. पादिति भावः । अन्येऽमुं मन्त्रमन्यथा व्याकुर्वन्ति । यथा-आत्म- याथार्यज्ञानस्यैवान्यथाज्ञाननिन्दयाऽऽवश्यकत्वोपपादनायान्यथाज्ञान- स्त्रोक्तममुर्यलोकसाधनत्वमनूद्यान्यथाज्ञानानिन्दनस्य ततोऽप्यधिकान- र्थसाधनत्वमन्येन मन्त्रेणोच्यते । न तु केवलकर्मनिन्दनं तदभावे विद्याया अध्यवसायत्वामावात्केवलकर्मणामप्रसक्तेः । कुर्वन्नेवेह कर्माणि जिजी. विषेदित्येवकरणं कर्मात्यन्तायोगव्यवच्छेदार्थेन केवलकर्मकरणविधाना. भावाच्च । अत्रैवं योजना-येऽविद्यामन्यथाज्ञानमुपासते तेऽन्धं तमो नाम नरकं प्रविशन्ति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेदिति श्रुतेः । अथ ये जना विद्यायामु आत्मयाथार्थ्यज्ञान एव रता न त्वन्ध. तमःसाधनान्यथाज्ञाननिन्दने ते ततोऽन्यथाज्ञानं प्राप्य तमसः सका- शाद्भय इव बहुतरमेवान्धं तमः प्रविशन्तीति ॥९॥ ज्ञानकेवलकर्मणोः फलभेदमाह-अन्यदेवेति । विद्ययाऽऽत्मज्ञाने- नान्यदेव फलममृतरूपमाहुब्रह्मवादिनः । अविद्यया केवलकर्मणा साध्य- मन्यदेव फलं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानार श्रेष्ठस्तस्माद्विद्यां प्रशसन्तीत्यादि- श्रुतेः । कथमेतदवगतमित्यत आह-इतीति । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपालतो विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्या- गत इति मावः । द्वितीयपक्षे तु विद्ययाऽऽत्मयाथार्थ्यज्ञानेनान्यदेव मोक्षकदेशलक्षणं फलं प्राप्यमाहुवृद्धा अविद्ययाऽन्यथाज्ञाननिन्द- ईशावास्यम.व्यम् । याऽन्यदेव मोक्षकदेशफलरूपं फलमाहुरिति धीराणां वचनं शुश्रुम ये धीरा नोऽस्मान्प्रति तन्मोक्षसाधनं विचचक्षिरे व्याचचक्षिरे तस्मादु- पपन्नः समुच्चय इति ।। १० ॥ समुच्चयमाह-विद्यामिति । विद्याऽऽत्मज्ञानमविद्या कर्मान्यथाज्ञा. ननिन्दनं वा चद्वयं परस्परसमुच्चयार्थं तदुभयं सह ये पुरुषार्थहेतुत्वेन यो वेद, एकेनैव पुरुषेणानुष्ठेयमिति जानाति । सोऽविद्ययेश्वरार्पणबु. द्धयाऽकृताग्निहोत्रकर्मणां मृत्यु मारकमन्तःकरणमलं तीवोऽन्तःशुद्धया कृतकृत्यो मूत्वा विद्ययाऽऽत्मज्ञानेनामृतं भावप्रधानो निर्देशः । अमृतत्वं मोक्षमश्नुते प्राप्नोति । उक्तं हि श्रीगीतायां मगवता-यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यतीति । सांख्ययोगशब्दो ज्ञानकर्मपरौ ॥ ११ ॥ उक्तमेवमुत्तरमन्त्रत्रयेण समर्थ्यते-अन्धं तम इति । येऽवि. धामुपासते तेऽन्धं तमः प्रविशन्तीत्युक्तम् । तत्राविद्यास्वरूपमुच्य- तेऽसंभूतिमिति । ये प्राणिनोऽसंभूतिं नास्ति संभूतिर्जगत उत्प- त्यादिर्यस्मात्सोऽसंभूतिस्तं संभूतेरुपलक्षणत्वात् । परमेश्वरो न जग- दुत्पत्त्यादिकर्ताऽपि तु स्वभावत एवोत्पद्यतेऽवतिष्ठने नश्यतीत्यात्मा- नमुपासते तेऽन्धं तमः प्रविशन्तीत्यर्थः । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तीत्यादिश्रुतेः । यत्मयन्त्यभिसंविशन्ती- त्यादिश्रुतिविरुद्धत्वात् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपर- स्परसंभूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्प- बुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः । आसुरी योनिमा- पन्ना मूढा जन्मनि जन्मनि । मामप्राप्येव कौन्तेय ततो यान्त्यधमा गतिमिति भगवदुक्तेश्च । अन्यत्पूर्ववत् । यद्वा यमनियमादिसंबन्धवा- विज्ञानात्मा कश्चिन्नास्ति । जलबुबुदवज्जीवाः । मदशक्तिवद्विज्ञान- मित्यादिदुर्वादिनो बौद्धा अनेन निन्यन्ते । ये नरा असंभूतिं न संभूतिरसंभूतिस्तां मृतस्य पुनः संभवो नास्ति । अतः शरीरान्तेऽस्माकं मुक्तिरेवेति य उपासते सिद्धान्तयन्ति तेऽन्धं तमः प्रविशन्ति । तथा य उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिः परदेवता तत्रैवाss- सक्ताः कर्मपराङ्मुखाः स्वबुद्धिमालिन्यमजानाना आत्मज्ञानमात्र एव रता आत्मैवास्ति नान्यत्कर्मान्यदिति कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः। ते नरास्ततोऽन्धात्तमसो भूय इव इवशब्दो - ८ अनन्ताचार्यकृतम्- निपातो बह्वर्थो बहुतरं तमो विशन्ति । यद्वा व्याकृताव्याकृतोपास- नयोः समुञ्चिचीषया प्रत्येकं निन्दोच्यते तेन यथासंभवनं संभूति: कार्यस्योत्पत्तिस्तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यं प्रकृतिकारणम्। अविद्याकामकर्मबीजभूतामद- र्शनामिका य उपासते ते तदनुरूपमेवान्धं तमः प्रविशन्ति संसारमेव प्राप्नुवन्ति । ये तु संभूत्यां कार्यबह्मणि हिरण्यगर्मादावेव रतास्ते ततस्त. स्मादपि भूयो बहुतरमेव तमः प्रविशन्ति ॥ १२ ॥ अथोमयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह-अन्य- देवेति । संभवात्संभूतेः कार्यब्रह्मोपासनादन्यदेव पृथगेवाणिमाद्यैश्वर्य- लक्षणं फलमाहुः कथयन्ति धीराः। तथाऽसंभवादसंभूतेरव्याकृतो. पासनादन्यदेव फलमुक्तमन्धं तमः प्रविशन्तीत्याहुः । केशोऽधिकतर- स्तेषामव्यक्तासक्तचेतसामिति मगवदुक्तेः । इत्येवंविधं धीराणां धीमतां पचः शुश्रुम वयं श्रुतवन्तो ये धीरा नोऽस्माकं तत्पूर्व संभूत्यसंभूत्यु: पासनफलं विचचक्षिरे व्याख्यातवन्तः ॥ १३ ॥ उक्तं सर्वमुपसंहरति-संभूतिं चेति । संमूर्ति सकलजगत्संभवैकहेतुं परब्रह्म विनाशं विनाशोऽस्यास्तीति विनाशम् । अर्शआदिभ्योऽजित्यच्य- त्ययः । विनाशधर्मकं शरीरादिसंसारं तदुमयं शरीरिशरीररूपं द्वयं यो योगी सहैकीभूतं वेद जानाति । नित्यानित्यं वस्तु विवेचयतीत्यर्थः । देहमिन्नोऽहं देहीवाऽऽसं कर्मनिमित्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्ति- कराणि निष्कामकर्माणि कृत्वेश्वरेऽर्पयतीति भावः । स ज्ञानी विना- शेन विनाशवता शरीरेण सात्त्विककर्मानुष्ठानद्वारा मृत्युं तीर्वाऽन्त:- करणशुद्धिं संपाद्य संभूत्याऽऽत्मज्ञानेनामृतत्वमश्नुते मुक्तिं प्रामोति । यद्वाऽस्या अर्थान्तरम् । यथा-संभूत्यसंभूत्युपासनयोरेकपुरुषार्थत्वात्स- मुच्चय एव युक्त इत्याह-संभूतिं चेति । अत्र विनाशं विनाशेनेतिशब्द- द्वयेऽवर्णलोपो द्रष्टव्यः पृषोदरादित्वात्साधुरन्यदाहुरसंभवादिति प्रक- रणात् । संभूतिं विनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेदोमय- मुपास्त इत्यर्थः । स योग्यविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्म- कामादिदोषजातं च तीवोऽतिक्रम्य संभूत्या हिरण्यगर्भोपासननामृतं प्रकृतिलक्षणमश्नुते प्राप्नोति । यद्वा संभूत्या संभवतीति संभृतिर्हिरण्य- गर्मादिदेवता तया संभूत्या संभूत्युपासनया मृत्युमन्तःकरणमलादिरूपं तीवाऽतिक्रम्याविनाशेन विनाश उपलक्षणमुत्पत्तिविनाशादिदोषरहि- ईशावास्यमाष्यम् । तेन परात्मना तज्ज्ञानेनामृतं मोक्षमश्नुते । इति मिन्नक्रमेण पदयो, व्याख्यानम् ॥ १४ ॥ एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारों मोक्षसाधनमित्यतीतग्रन्थेनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादि. मात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण किंतु भगवदनुग्रहा. देव । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामिति श्रुतेः । अतोऽ. नुष्ठितश्रवणमननादिकेनापि साक्षात्कारार्थं प्राप्तसाक्षात्कारेणापि चं मोक्षार्थ यथा भगवत्मार्थनं कार्य तत्पकारप्रदर्शनार्था हिरण्मयेन पावे. णेत्याधुत्तरमन्त्राः । तत्राऽऽदित्यरूपोपासनमाह-हिरण्मयेन पात्रेणेति । अनुष्टुप् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिति पात्रं सूर्यमण्डलं तेन तेजोमयेन मण्डलेन सत्यस्याऽऽदित्यमण्डलस्थस्याविनाशिनः पुरुषोत्तमस्य श्रीमगवतो मुख मुखमिति सर्वविग्रहोपलक्षणम् । लीलाविग्रहस्वरूपमपिहितमाच्छादित वर्तते यत्तन्मुखं हे पूषन्पुष्णातीति पूषा तत्संबोधनं हे भक्तपोषक परमा- मंस्त्वमपावृण्वपावृतमनाग्छादितं कुरु । किमर्थ, सत्यधर्माय दृष्टये । सत्यं सत्यज्ञानानन्दात्मकं त्वदूपं धारयति हृदये चिन्तयतीति सत्यधर्मा तस्मै चतुर्थी षष्ठयर्थे सत्यधर्मस्य मदादिमक्तजनस्य दृष्टये दर्शनाय साक्षा. काराय शिरप्रेक्षणेऽस्माद्भावे क्तिन्प्रत्ययः। विश्वभ्रस्जसृजमृजयजराज- भ्राजच्छशां ष इति शस्य पत्वं टुना टुरिति ष्टुत्वमित्यृषिप्रार्थनम् ॥१५॥ एतदेव स्पष्टीकृत्य षिर्याचते-पूषन्निति । उष्णिग्यजुरन्तोष्णि- त्रिपदाऽन्त्यो द्वादशक इति वचनात् । हे पूषन्हे एकर्षे । एकश्वासा- वृषिश्चकर्षिः । ऋष ज्ञाचे हे मुख्यज्ञान हे यम यमयति सर्वमिति समो योऽन्तरो यमयतीति श्रुतेः । हे सूर्य । मूरिभिर्जेयत्वात्स सूर्यः मूरिशस्दा- तद्धितो यत् । यस्येति चेतीकारलोपः । हे प्राजापत्य । प्रजानां पतिः प्रजापतिहिरण्यगर्भस्तस्य वेदोपदेतृत्वेन प्रिय यो ब्रह्माणं विदधाति पूर्व तस्मै वेदांश्च प्रहिणोति सर्वानिति श्वेताश्वश्रुतेः । मदीयात्रश्मीन्य, काशयन्व्यूह तेजासमूहं च स्वरूपं बाह्यं च मदीयं ज्ञानं विस्तारयेत्यर्थः। तथा यत्ते रूपं कल्याणतमं परममङ्गलं मङ्गलानां च मङ्गलमिति स्मृतेरस्ति तत्ते तव प्रसादादहं पश्यामि । यद्वा हे पूषन्नेकर्षे यम सूर्य प्राजापत्य प्रजापतेधर्मस्थापत्य नरनारायणात्मनश्मीन्मनक्षष १० अनन्ताचार्यकृतम्- उपघातकान्स्वान्रश्मीन्व्यूह विगमय । तेज आत्मीयं ज्योतिःसमूह- मुपसंहर मदर्शनयोग्यं कुरु । अन्यत्समानम् । केन प्रकारेण पश्यसी- त्यत आह-य इति । योऽसौ पूरुषः पूर्षु शेतेऽसौ पुरुषोऽसौ मण्डला. न्तस्थो यः पुरुषोऽसौ तदितरप्रतीकस्थितश्च पुरुषः सोऽहमस्मि भवामि सूर्यमण्डलादिप्रतीकस्थो मद्धृद्यन्तस्थो ज्योतीरूपश्चैक एवेति प्रकारेण ते रूपं पश्यामीत्यर्थः । एतादृशक्यज्ञानस्यैव मोक्षसाधनत्वा. दिति मावः । अत्रासौ च शाकटायन इति प्रातिशाख्ये न यवयोः पदान्तयोः स्वरमध्ये लोप इति प्राप्तलोपप्रतिषेधादसावसाविति द्रष्टव्यम् ॥ १६॥ इदानी मरिष्यतो ,मम वायुरध्यात्मपरिच्छेदं हित्वाऽधिदैवतात्मान. मनिलं प्रविशत्विति प्रार्थयते-वायुरनिलमिति । वायुरनिलं यजुषी। ओमितिपरमाक्षरस्य योगिनामालम्बनभूतस्य परस्य ब्रह्मणः प्रणवा- ख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता शब्दब्रह्मारम्भविरामे च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येषु विनियोगोऽस्य कृतः। त्रिभिर्यज्ञान्योगी स्मारयतीत्यनुक्रमणी। हे परमा- स्मन्मरिष्यतो मम वायुः प्राणो वायुग्रहणं सप्तदशलिङ्गोपलक्षणार्थम् । तथा च सदप्तशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवत- रूपं सर्वात्मममृतं सूत्रात्मानमनिलं मुख्यप्राणं प्रतिपद्यतामिति वाक्य. शेषः । वायुर्वै गौतम तत्सूत्रेण वायुना हि गौतम तत्सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संहब्धानि भवन्तीति श्रुतेः । ज्ञान- कर्मसंस्कृतं लिङ्गमुत्क्रमयत्वित्यर्थः । अथानन्तरमिदं स्थूलशरीरमनौ हुतं सद्भस्मान्तं भस्मैवान्तो यस्य तद्भस्मान्तं भस्मावसानं भूयात्कृतम- योजनत्वात् । ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते ॐ हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्यायं कालः समुप- स्थितोऽतः स्मर यस्त्वं ब्रह्मचर्ये गार्हस्थ्ये च मया परिचरितस्तत्स्मर । तथा कृतं यन्मया बाल्यप्रभृत्यद्य यावदनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् । यद्वा प्रत्यक्षत एव देहस्य भस्मा- न्तत्वदर्शनादेहनाशे च तदन्तर्गतस्य ब्रह्मणो जीववन्मरणाद्यवश्यंभावा- दित्याशङ्कायामिदमुच्यते । अत्रायमर्थो यद्यपीदं शरीरं भस्मान्तं दृश्यते तथाऽपि तदन्तर्वर्तिनः परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुतो व्यत्य- पादनिलमनिलो वायुर्यदाऽमृतममृतोऽथ तदा ब्रह्मामृतमिति किं वक्तव्यं ईशावास्यभाष्यम् । ११ तदमृतत्वस्य कैमुत्यसिद्धत्वादिति । ननु संसारिणो वायोः कथममृतत्वं संभवति यदुपचारेण तीश्वरस्यापि तथाविधममृतत्वं स्यादित्याशङ्कय वायोदेहनाशेऽपि तत्कार्यविज्ञानतिरोभावाभावोऽस्त्येव । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संहब्धानि मवान्त । म्लेच्छन्ति ह्यन्या देवता न वायुः सैषाऽनस्तमिता देवता यद्वायुरिति बृहदारण्यकश्रुतेः। अथ प्रणवप्रतीकं प्रार्थयते-ओमिति । ॐ ओतत्वादिगुणयुक्त हे क्रतो ज्ञानरूप मां स्मर । मया कृतं ध्यानादिकं च स्मर । अभ्यासस्तात्पर्यार्थः । अभ्यासेनार्थविशेषं मन्यत इति यास्कोक्तेः परमात्मकर्तृकं स्मरणं भक्तानुग्रहोन्मुखं त्वमेव । अवती- त्योम् । अव रक्षण इत्यस्माद्धातोरन्येभ्योऽपि दृश्यन्त इति मनिन् । ततोऽवतेष्टिलोपश्चेति पञ्चमीनिर्देशादवतेः परस्य मनिनाष्टिलोपे कृते ज्वरत्वरस्रिव्यविमवामुपधायाश्चेति धातोरकरिवकारयोरूठी तयोः सव- र्णदीर्घ सति सार्वधातुकेति गुण रूपसिद्धिर्धातोरन्तत्वादुदात्तत्वं त्रिमा. त्रत्वं प्रातिशाख्यात् ॥ १७ ॥ साक्षात्कारप्रार्थनानन्तरमग्निप्रतीकं भगवन्तं मोक्षं प्रार्थयते-अग्ने नयेति । अगस्त्यदृष्टाऽऽग्नेयदेवत्या? अन्ते यज्ञानयोगी स्मारपतीति कात्यायनस्मरणात् । हे देव क्रीडादिगुणविशिष्ट हेऽग्नेऽग्निप्रतीक भगव. नस्मान्सुपथा शोभनेन मार्गेण देवयानलक्षणेन नय गमय । सुपथेति विशेषणं दक्षिणायनमार्गनिवृत्त्यर्थम् । यतो गतागतलक्षणेन दक्षिणाय- नमार्गेण निर्विण्णा वयं यतोऽग्ने त्वां याचामहे । पुनर्गमनागमनवर्जि- तेन शोभनमार्गेणास्मान्कर्मफलविशिष्टान्नय । सुपथेत्यत्र ऋक्पूरब्धः- पथामानक्ष इति अप्रत्ययो नानित्यत्वात्समासान्तविधेः । वृद्धिरादेच् इतिवत् । किमर्थं राये धनाय मुक्तिलक्षणाय । कीदृशस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन्किंच जुहुराणं हुर्छा कौटिल्ये । शानच्, जुहोत्यादित्वेन द्वित्वादी सति रूपम् । कुटिलं प्रतिबन्धकवचनात्मकमेनः पापमस्मदस्मत्तः सकाशाद्युयोधि पृथक्कुरु वियोजय नाशयेत्यर्थः । यु मिश्रणामिश्रणयोरदादित्वाच्छब्लो- पद्वित्वे छान्दसं हेधित्वम् । ततो विशुद्धाय ते तुभ्यम् । अनुदात्तत्वा- शुष्मदादेशः । भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेम कुर्याम । ईदृशामीष्टसाधकस्य तव प्रतिकरणं नमस्कारपरम्परैव नत्वन्यत्मत्युपक- रणमस्तीति मावः । यद्वा हे देवानेऽस्मान्मुपथा पुनरावृत्तिवर्जितेनार्षि १२ अनन्ताचार्यकृतमीशावास्यमाष्यम् । रादिमार्गेण राये मोक्षाख्यवित्ताय नय मुक्तिदो भव। कुतो हे देव आसंसा- रमस्मदनुष्ठितानि विश्वानि पूर्णानि मोक्षाय पूर्वाप्तानि वयुनानि सत्क- र्माणि । वयुनमिति कर्मनामेति निघण्टुक्तेः । यद्वा वयुनानि श्रवण मनननिदिध्यासरूपाणि ज्ञानानि मवान्वेद त्वहत्तया वयुनयेति मागवते बपुनशब्दस्य ज्ञानार्थकत्वात् । ननु प्रारब्धकर्मभिर्बद्धस्य तव कथं मोक्ष इस्पत आह-अस्माञ्जुहुराणमल्पान्कुर्वत् । संसारे परिवर्तयदित्यर्थः । र चलन इति धातुः । छान्दसत्वेन हादिरीहशमेनः पापमनिष्ट कर्म. त्यर्थः । तदस्मदस्मत्तो युयोधि वियोजय वयं च ते तुभ्यं भूयिष्ठां नम. उक्ति विधेम । नच प्रकारान्तरेण प्रतिकर्तुं शक्नुम इत्यर्थः ॥१८॥ इति चत्वारिंश एक एवानुवाकः। इति श्रीमन्नागदेवमहात्मजेन प्रथमशाखिना श्रीमदनन्ता. चार्येण विद्वज्जनकृपापात्र भूतेन विरचितायां वेदा. र्थदीपिकायां काण्वशाखीयसंहितामाष्ये चत्वारिंशोऽध्यायः॥ ॐ तत्सत् ॥ -
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.