Asr,melkote

Bhagavatha Gudartha Dipika Vol.1

Suri,dhanapati · 2006/02/3

PDF Proofread

Front matter

No text on this page.

BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT TORKS EDITED BY THE PANDITS OF THIC BENARES SANSKRIT COLLEGE, UND ICR THE SUPERINTENDENCE OF RTH. (RIFFITH, MA,C.LE AND G THIBAUT, Ph. D. No 131. 17 at 1067 -I'S RESERVED. I श्रीमद्भागवतदशमस्कन्धस्थरासपञ्चाध्यायीव्याख्या। गूढार्थदीपिका। पण्डितवर-श्रीधनपतिसूरिकृता । श्रीमदाचार्यश्रीवल्लभाधीश्वर-श्रीविठ्ठलनाथदीक्षितशुद्धाद्वैत- संप्रदायविदुषा रत्नगोपालभट्टेन परिशोधिता । GUDHARTHADIPIKA, A Commentary on Rasa Panchadhyâyî of the Tenth Chapter of Srimad Bhagawata, BY Pandit DHANAPATI SŪRI EDITED BY RATNA GOPÂL BHATTA, Fascuulus I BENARES: Published by the Propructures dIe»?'s, Rru) B. Das & Co. AND SOLD BY HD GUPTA, Secretary, Chowl.hımı Sanskrit: Book D-pot. Printed at the Vidya Vilâs Press, BENARES. 1907.

O Voor o ou सूची पत्रम् । रू०आपा गणपाठः गोलप्रकाश, गंगालहरी गुरसारणी जातकतत्त्वम् तत्त्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः ( शिला ) धातुरूपावली परिभाषापाठ. ६ पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् ( प्रश्न विचार का बहुत उत्तम प्रन्थ) बीजगणितम् (म०म० पं० सुधाकर कृतटिप्पणीसहित) १ मनारमा शब्दरत्नसहिता ( टाइप) लघुकीमुदी टिप्पणीहिता लघुकौमुदीभाषाटीका (पं० मथुराप्रसाद मिश्र कृत) (टिप्पणीसहित) लक्षणावली लीलावती ( म०म० पं० सुधाकरर्ताटप्पणीसहित) १ वसिष्ठसिद्धान्तः ६ विष्णु सहस्रनाम ૨ or * . कादरूपावला १ १ १ ३ शृङ्गार सप्तशती समासचक्रम् ममासचन्द्रिका मरस्वतीकण्ठाभरणम् माजन्यचन्द्रिका टिप्पणीमहिता मिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपमर्गवृत्ति क्षेत्रकौमुदी क्षेत्रमंहिता ३ ३ १ ६ ૨

श्रीकृष्णाय नमः।
श्रीमद्भागवतदशमस्कन्धस्थरासपञ्चाध्यायीव्याख्या ।
गूढार्थदीपिका।
श्रीधनपतिसूरिकृता ।
गोपाङ्गनागुणाऽऽकृष्टचेता वेत्ताऽखिलस्य यः ।।
तस्य कृष्णस्य पादाब्जमाश्रयेऽभीष्टसिद्धये ॥ १॥
नुमः श्रीबालगोपालतीर्थान् व्यासमुखान मुनीन
विघ्नहर्तन गणेशादीन् पण्डितांश्च विमत्सरान् ॥ २ ॥
अथ पञ्चभिरध्यायै रासक्रीडामहोत्सवः ॥
वर्ण्यते मुनिना सम्यक् सदगुणाकृष्टचेतसा ॥ ३ ॥
उनत्रिशे कलं वेणोः श्रुत्वा गत्वा व्रजस्त्रियः ।।
वनं वादादिकं प्रापुः कान्तेनेति निगद्यते ॥४॥
इन्द्रवरुणादिविजये किं चित्रं, ब्रह्मादिजयसंरूढदर्पः कामो-
ऽपि भगवता पराजित इति ख्यापनाय क्रमप्राप्तां भगवत्कृतां
रासक्रीडा वर्णयितुमुपक्रमते ।
श्रीशुक उवाच ।
भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ॥
वीक्ष्य रन्तुं मनश्चके योगमायामुपाश्रितः ॥ १ ॥

रासपञ्चाध्यायीव्याख्यायाम् । भगवानपीति ॥ कामकृतो हि ब्रह्मादिपराजयः प्रसिद्धः । तदुक्तम्-अहल्यायां जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासी- दभजत गुरोरिन्दुरवलाम् * इति प्रायः को वा न पदमपथेऽकार्यत मया श्रमो मबाणानां क इत्र भुवनान्माथविधिष्विति । ये तु ज्यादिकं विहाय तपश्चर्यायां रता, न तैः कामः पराजितः, कि- न्तु तस्मात् पलाय्य ते गताः ।श्रीकृष्णस्तु शतकोटियूथगोपाङ्गना- रूपसैन्यवता कामेन युद्धयमानोऽपि आत्मन्यवरुद्ध सौरतत्वाद् विजनवानियनेन ग्रन्थेन रूपाप्यते । योगमायामुपाश्रितः, आ- त्मारामोऽप्यरीरमतू, साक्षान्मन्मथमन्मथः, आत्मन्यवरुद्धमौरत इसा- दिषु स्वातन्त्र्याभिधानात् । रासलीलोत्सवश्च नववर्षवयस्त्वे ससा- ऽऽश्विनपूर्णिमायाम् । यतः सप्तवर्षे वयसि वर्तमाने भगवति कुमा- रिकाणां व्रतचर्या । ततः सप्तमवर्षोत्तरकार्तिकस्यामावास्यायाम इन्द्रमखभङ्गः । तच्छुक्लपतिपदि गोवर्द्धनमखोत्सवः । द्वितीया- यां भ्रातृभोजनोत्सवः तृतीयामभूति इन्द्रकृतोपद्रवमवलोक्य नवमी- पर्यन्तं गोवर्द्धनधारणम् । दशम्यां गोपानां विस्मयकथाबाहुल्यम् । एकादश्यां गोविन्दाभिषेकः । द्वादश्यां वरुणलोकगमनादि । पौर्णमास्यां नन्दादीनां ब्रह्महूदनयनादि । ततश्च शरदः समाप्ति- रिति । शुक उवाचेसनेन कोमलालापवच्छुकोक्तिरूपमिदं भागव- सं कोमलचित्ततयैव श्रोतव्यं चित्ताकर्षकं च । तत्रापि रासक्रीडो- त्सववर्णनं सर्वस्यापि श्रीमद्भागवतस्य सारभूतमिति ध्वनितम् । परमहंसशिरोमणिना श्रीशुकेन परमप्रेम्णा वर्णितोऽयं रास- क्रीडोत्सवोऽतः परमहंसैरप्यादरेण श्रोतव्य इसपि सूचितम् । भगवानपि, ऐशर्य्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ज्ञानवैरा- ग्ययोश्चैव षण्णां भगइतीङ्गनेत्युक्तषविधैश्वर्यवानपि रन्तुं मनश्चक्रे श्रृङ्गाररसालम्बनशिरोमणिभूतानां शतकोटियूथविलासिनीनां सौ.

3 . गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। स्वर्यसौकुमार्यसौन्दर्याऽधराऽमृतसौरभ्याणि परमशोभनानि स्त्री- यश्रोत्रादीन्द्रियैरनुभवितुं स्वायानि तानि तदीयश्रोत्रादिभिस्ता अनुभावयितुमिच्छितवान् । एतावन्तं कालं गोप्य एव वर्द्धमानानु- रागचलचित्तनया रन्तुं मनश्चक्रिरे । भगवाँस्तु वयोविशेष प्र. तीक्षमाणो न चक्रे, संप्रति प्राप्तवयास्ताः, मयेमा रंस्यथ क्षपा इति पूर्वप्रतिज्ञाता रात्रीश्च वीक्ष्य भगवानपि रन्तुं मनश्चक्र इ. त्यपेरर्थः। पूर्णाऽपि ता रात्रीरुद्दीपनत्वेनानुभूय किमुत गोपी- क्ष्यिति तासां सौन्दर्यप्रेमाद्यतिशयो व्यज्यते । यद्रा ता इति प्रसिद्धार्थकतत्पदप्रयोगान्नानागुणवतरिति तासामुत्कर्षों बोधि- तः । ता इति बहुवचननिर्देशाद्, ब्रह्मरात्र उपावृत्त इति वक्ष्यमाणत्वाचैकस्यामपि राज्यां तादृशविलासानुकूलपसंख्यात- रात्री स्वसंकल्पिता वीक्ष्येति बोषितम् । तथाच तादृशरमणा- ऽनुकूलाः कोटिकोटिरात्रीः स्वसंकल्पिता वीक्ष्ये सेव तत्त्वम् । अन्यथा (पूर्णाया) राकारात्रेश्चन्द्रात् पूर्वमप्रवेशाच्चन्द्रोदयस्य च वीक्षणानन्तरं वर्ण्यमानत्वाद वीक्ष्येत्युक्तिरसंगता स्यात् । अथ वृन्दावनशोभामप्युद्दीपिकामाह ॥ शरदिति ॥ शरदा हेतु- भूतया । यद्वा शरदति टाबन्तत्वात् । शरदायामपि उत्फुल्ला मल्लिका यासु । उत्फुल्लाश्च ता मल्लिकाश्चेति वा । एतद्राक्या- द, कुन्दसूजः कुलपतरिह वाति गन्धः, रेमे तत्तरलानन्दिकमला- मोदवायुनति वक्ष्यमाणत्वाच्च वृन्दावनमाहात्म्यात् सर्वकाले सर्वपुष्पविकासो बोधितः । रन्तुं मनश्चक्रे इत्युक्त्या आ- न्तरमिदं रमणं, न तु बाह्यं नरविडम्बनमानमिति सूचितम् । अ- न्यथा, रेमे, रन्तुमारेभे इति वा ब्रूयात्। तत्रापि, चक्र इत्यात्मनेपदप्र- योगात् तदपि न गोपिकानुरोधेन तदर्थमेवापि तु स्वस्य मुखार्थमपी. तिसूचयतिीयथा, आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे*कुर्व- ।

४ रासपश्चाध्यायीव्याख्यायाम् । न्सहैतुकी भक्तिमित्थंभूतगुणो हरिरिसत्रात्मारामाणामपि मुनीनां चित्ताकर्षणसामर्थ्यवद् गुणाकृष्टचेतसां भगवद्गुणेषुरमणमुक्तम् । तद्वद्गोपाङ्गनानांतादृशगुणाकृष्टचेतसोभगवतोऽपितासु रमणमुक्त- म् । ननु खल्पकाले कथमनल्पकालसमावेशः, कथञ्च स्वल्पदेशे सावयूथगोपाङ्गनाक्रीडनसंभवः, कथञ्चकस्याऽसंख्यातगोपिकाभि- रभिरमणसम्भवः, कथश्च अमनस्कभगवतस्तद्रमणासक्तमनस्त्वमि- सादिशङ्काजालं, तन्निरासायाह ॥योगमायामुपाश्रित इति|अघटि- तघटनापटीयसी, मायां तु प्रकृति विद्यात, मम मायादुरसयेसा- दिनोक्तां योगमायाम् उपाश्रितः । स्वाश्रितां तां कर्तव्यलीलोप- करणसाधनत्वेनाश्रितवान् । यद्वा योगः स्वन गोपीनां संयोग- स्तदर्थं मायां कृपाम् उप आधिक्येनाश्रितः।यद्वा स्वस्मिन् वात्सल्य- रसाक्रान्तचेतसां नन्दादीनां तया तया लीलया आनन्दसागरे निमज्जितवान् । पुनश्च ब्रह्महदप्रवेशादिना स्वस्वरूपानन्दमाप्तिप- यन्तामप्यवस्थां दर्शितवान् । यास्तु सखीभावमाश्रिय चिरका- लमारभ्य स्वेन रमणोत्कटोत्कण्ठावत्यस्तासां गोपङ्गनानां मनोरथ- पूर्ति कथं कृतवानित्यपेक्षायामाह॥भवानपीति ॥ यद्यप्यासौ पूर्ण- कामस्तथापि पूर्वकोटिजन्मखऽस्मिँश्चजन्मनि उपाश्रितो रमणार्थमेव सम्यगाराधितो यस्ताभिः स, तास्तासामभिलषितवितरणानुरूपा रात्रीश्चक्रे, एकस्यां रजन्यामसंख्यातरजनीमदर्शनसङ्कल्पं कृतवान्। कथंभूताः? शरदोत्फुल्लमल्लिकाः । यासु शरदोत्फुल्लमल्लिकाश्च चक्रे इति वा । मल्लिकेति पुष्पान्तराणामप्युपलक्षणम् । तथा अमना आप भगवान् रमणानुरूपं मनोऽपि चक्रे । इदञ्च सर्वम् अघटित घटनापटीयस्या स्वयोगमायाशक्त्या सम्पादितवानित्या- शयेनाह । योगमायां वीक्ष्य सर्वसम्पादनाय कटाक्षेणोद्बोध्य । मम योगमायाशक्त्या एतासां मनोरथपूर्तिर्भविष्यति, तत्र मम गूढार्थदीपिकायाम् । १ अध्यायः। (२९)। का हानिरित्याशयेन ता वीक्ष्येति वा । यद्वा तासां योगार्थ मायाँ वीक्ष्य । तथाच मायिकेन संयोगेन नास्ति मम पूर्णकामत्वादिस्व- रूपहानिरिति भावः । यद्वा भगवानपि योगमायामुपाश्रितो योग- मायाम् अधिष्ठाय प्रकटीकृतनन्दनविग्रहस्ताः स्वस्मिन्नासक्तस्वा- न्ता गोपीक्ष्यिालोच्य तन्मनोरथपूर्त्यर्थं राज्यादिकं चक्र इत्यर्थः। यद्वा ता रात्रीर्वीक्ष्य तासां मनश्चक्रे रन्तुं योगमायामधिष्ठा- य स्थितः । योगमायया. कृष्णेन साई सम्यग्रमणं कृतवत्यो वयमिति तासां मनस्सु दृढतरां प्रतीतिमुत्पादयितुं प्रवृत्त इत्यर्थः पञ्चाध्याय्यात्मकोऽयं सर्वशास्त्रसारसर्वस्वभूतो ग्रन्थ इति सूचयितुं मङ्गलाचरणार्थमादौ भगवानिति पदं प्रयुक्तम् । अत्र भक्तिशान्ति- रसप्रधान श्रीमद्भागवते पारमहस्यां संहितायां प्रसङ्गात् परशा. स्वार्थशृङ्गाररसमनुवदता मुनीन्द्रेण स्वासद्धान्तोऽपि गूढतया नि- दिष्टः । अत एव शृङ्गारकथापदेशेन विशेषतो निवृत्तिपरय पञ्चा ध्यायीति श्रीधरस्वामिभिरप्युक्तम् । निवृत्तिमार्गसंभक्तचेतसां विदुषां मुदे । व्यक्तीकरोम्यहं पक्षामिमं कृष्णप्रसादतः ॥ सविशेषसुखं निखिलमपि दुःखसंभिन्नमेव । ये हि संस्पर्शजा भोगा दुःखयोनय एव ते * आधवन्तः कौन्तेय न तेषु रमते बुध इति भगवद्वाक्यादतो विवेकवता निर्विशेषब्रह्मानन्दाविर्भावाभिलाषुकेण तत्पतिपित्सानिवृत्तिरेव सर्वोपायैः संपाद्यति ब्रह्मराम्यवच्छिन्न- कालपर्यन्तं तुच्छीकृतकोटिकन्दपविग्रहेण भगवताऽपि रममाणानां गोपाङ्गनानां दुःखनिवृत्तिस्तृप्तिश्च न संपन्नेति वर्णयता भगवता मुनिना सूचितम्।तदुक्तं-न जातु कामः कामानामुपभोगेन शा- म्यति * हविषा कृष्णवर्मेव भूय एवाभिवर्द्धत इति । एवंविध- विवेकोत्पत्तियोग्ये इह जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्तनपुर:- ६ रासपश्चाध्यायीव्याख्यायाम् । सरनित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन नितान्तनिर्मले स्वा- ऽनुग्रहपात्रेऽन्तःकरणे श्रुतिरूपस्वकान्ताभिरभिरन्तुं भगवानपि मनश्चक्रे । यमेवैष वृणुते तेन लभ्य इत्यादिश्रुत्या भगवदनुग्रहादेव श्रुसविचारे प्रवृत्तिर्भवति, नान्यथेति भावः । भगवदनुग्रहपात्र. ताबोधनायाह । ता रात्रीरसख्यातजीवजन्मसु अनुभूता अहंकार- चित्तमनोबुद्धिरूपा अन्तःकरणवृत्ती रात्रीरज्ञानरूपतमोव्याप्तत्वाद् आत्मतत्त्वाऽऽवरणरूपत्वाद् रात्रिमशाः संप्रति शरदोत्फुल्ल- मल्लिकाः शरत्स्थानापन्नेन भगवदाराधनलक्षणेन निष्कामकर्म- णा अन्तःकरणशुद्धिसाधनेन फुल्ला विकसिता मालसादिपुष्प- स्थानापन्नाः शान्सादयो यासु ता वीक्ष्य । शान्तो दान्त उपरत- स्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्यदिति श्रुतेः । ननु निर्गुणस्य जातगुणादिशब्दप्रतिनिमित्तरहितस्य श्रुतिप्रतिपाद्यत्वासम्भवात् कथं ब्रह्मणि तासां रमणमिसाशमाह। योगमायामुपाश्रित इति ॥ तथाचातन्निरसनेन निर्विशेषब्रह्मोप- लब्धिलक्षणमेव तासां रमणमिति भावः ॥ १ ॥ तदैव चन्द्रमा अपि भगवद्भावमुद्दीपयन्नुदगादिसाह । तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः ॥ स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥ तदेति ॥ तस्मिन्नेव क्षणे स प्रसिद्ध उडूनां नक्षत्राणां राजा चन्द्र उदगादुदयं प्राप्तः । उडुपदेन नक्षत्राणामपि तत्परिवारत्वेन उदयः सूचितः । किञ्च, मनसापि न गन्तव्याः परदाराः कदा.

गूढार्थदीपिकायाम् । १. अध्यायः । (२९)। चनेति निषेधमनुसंधाय महत्समक्षे लज्जया वा रमणाच्चेतसः प- रात्तिमपि निराकरोदिसाशयेनाह ॥ ककुभ इति॥ प्राच्या इन्द्रा. ऽधिष्ठिताया दिशो मुखं शतमैः परमसुखकरैः करैः किरणलक्षणह- स्तै तेनारुणेनोदयरागेण विलिम्पनरुणीकुर्वनातथाचानया प्रवृत्त्या कृष्णमेवमुपदिशति स्म भगवाँश्चन्द्रः-भो यदुकुलावतंस, अपेतदोष- शङ्क आरमणाचिनं मा निवर्त्तय, मटुंश्यत्वात् । यथाऽहं तवकुला- दिपुरुषो द्विजराजस्तत्रापि पुरातनस्तत्रापि राजयक्ष्माऽऽक्रान्तस्त- त्रापि परमसुन्दरानेकस्त्रीपतिः प्राच्या दिशः परस्त्रिया मुखं स्पृ- शन्नेव स्वयं तस्यामनुरक्तस्तामप्यनुरागवतीं करोमि तद्वत् त्वमपि मद्रंश्यस्तत्रापि नववयास्तत्राप्यविवाहितत्वात् स्वभार्यारहितस्तत्रा- पि सर्वदोषविनिर्मुक्तपरमसुन्दरविग्रहस्तत्रापि सम्प्रति गोपजाति- निविष्टो यथेष्टं गोपाङ्गनाभिरभिरमगं कुरु, नास्ति तव दोष- गन्धोऽपि । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः * स यत् प्रमाणं कुरुते लोकस्तदनुर्वतत इति न्यायात्तु, तेजीयसो न दोषायेत्युक्तत्वा- देतावता नास्ति मम दोषसंपर्कस्तव त्वतितेजस्वित्वात् सुतरामित्यपि स एव बोधितवानिसाशयेनाह ॥ चर्षणीनामिति ॥ अर्यम्णा मा- तृकापत्नी तयोश्चर्षणयः सुताः * यत्र वै मानुषी जातिर्ब्रह्मणा परिकल्पितेति षष्ठस्कन्धोक्तमानुषजातीनां शुचः शरदर्कजसं- तापदुःखानि मृजन अपनयन् । तथाच समस्तजनतापनिवर्तकस्य नास्ति तादृशदोषजनिततापावाप्तिसम्भावनेति भावः । तत्रानुकूलं दृष्टान्तमाह ॥ प्रिय इति ॥ दीर्घकालेन दर्शनं यस्य स प्रियः स्व- रमणः प्रियायाः स्वरमण्या मुखम् अरुणेनानुरागेण स्वकरधृतेन कुङ्कुमेन च यथा लिम्पति तद्वत् । यद्वा मनःकरणसमकालमेव चन्द्रोऽपि तादृशाऽसंख्यातराव्यनुकूल एवोत्पादित इत्याह ।। तदोति ॥ तदा तस्मिन्नेव क्षणे स्वसंकल्पितश्चन्द्र उदगात् । स च

रासपश्चाध्यायीव्याख्यायाम् ।
किञ्चिद्विज्ञापयन्निवोदगादित्याशयेनाह ॥ ककुभ इति ॥ तथाच,
चन्द्रमा मनसो जात इति श्रुतेस्त्वत्त उत्पन्नस्य त्वत्प्रसादलब्ध.
प्रतापस्य ममापि नास्त्येवंविधकर्मलेपः । तव तु सर्वेश्वरस्य कुत-
स्त्योऽतः स्वभक्तानामासां मनोरथं पूरयेति बोधयन्निवेति भावः ।
किञ्च, सर्वसन्तापनिवृत्त्यर्थं प्रवृत्तौ लोकदृष्टया प्रतीयमानोऽपि
दोषो न संस्पृश्यत इत्यपि विज्ञापयन्नित्याशयेनाह॥ चर्षणीनामि-
ति ॥ यद्वा यथा मम पाच्याः ककुभः सम्बन्धः परदारसंपर्कवत्
प्रतिभाति, न तु वस्तुतस्तत्सम्पर्कः, किन्तु सर्वजनतापनित्यर्थं
भाच्यां दिशि समुदयमात्रं, तथा भगवतोऽपि स्वजनसन्तापनिरासा-
ऽथ कृतावतारस्य तत्तल्लीलया भक्तसुखसंपादकमवृत्तौ मूढजनानां
लौकिकरमणादिमतीतावपि नास्ति किश्चिद बायकमिति विज्ञाप-
यन्निवोदगाादयाशयेनाह ॥ ककुभ इति ॥
निवृत्तिपक्षे-तदा भगवत्प्रसादोदयक्षण एवोडूनां तत्स्थाना-
पन्नानां शुभवृत्तीनां राजा विवेकाख्यश्चन्द्र उदगात् । किं कुर्व-
नित्यपेक्षायामाह । ककुभ इति ॥ प्राच्या अनेकजन्मप्रवृत्ताया
अविवेकदशाया मुखं जाड्यलक्षणं करस्थानापन्नस्तत्तद्विचारैः
संपादितनारुणेन तत्वंपदार्थावबोधलक्षणेन रागेणलिम्पन् तिरोहितं
कुर्वन् । अत एव चर्षणीनामधिकारिजनानां तत्तद्वस्तुविषयकान
मृजन अपनयन् । तत्र दृष्टान्तमाह ॥ प्रिय इति ॥ २॥
तथा विज्ञापयन्तं चन्द्रमवलोक्य यत् कृतवाँस्तदाह ।।
दृष्ट्वा कुमुदन्तमखण्डमण्डलं
रमाननाभं नवकुङ्कुमारुणम् ॥
वनं च तत्कोमलगोभिरञ्जितं
जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥

गूढार्थदीपिकायाम् | १ अध्यायः । (२९)। ९ दृष्ट्वेति ॥ कुमुदेऽपि कुमुत् मोक्तमिति विश्वात् कुमुद कुमुदं वि- कासनीयत्वेन विद्यतेऽस्यति । यथा स्वभक्ताः कुमुदिन्यः समुदयं माप्तेन मया विकास प्रापितास्तथा स्वभक्ता गोप्यस्त्वयाऽपि वि- कासनीयाः । उदयन्नेव सविता पझेष्वर्पयति श्रियम् * विभावयन् समृद्धीनां फलं सुहृदनुग्रहामित्युक्तेरिति विज्ञापयन्तमिव । पुनश्चा- ऽखण्डं मण्डलं बिम्बं यस्य तम् । परोकारशीलस्य काऽपि हानि भवतीति सूचयन्तमिव । अनेन राकेति ध्वनितम् । पुनश्च रमाया लक्ष्म्या आननाऽऽभावदः आभा कान्तिर्यस्य। तभ्रातृत्वात् । त- थाच लक्ष्म्याः स्मारकत्वेन रमणेच्छामुद्दीपयन्तमिव । स्वभार्याभ्रा- तृत्वाच्छयालकस्य मम सन्निधौ संकोचो न विधेय इति वा सूच- यन्तमिव । यद्वा, सर्वलक्ष्मीः सर्वकान्तिः सर्वसंमोहिनी परा * इ- ति स्मृतेः, रमा श्रीराधा । रमन्ते रमयन्तीति वा रमा गोप्यश्च तासामाननस्याभेवामा यस्य तम् । स्वदर्शनेन ताः स्मृतिपथमा- रोहयन्तमिव । तथा उदयरागव्याप्तत्वान्नवकुङ्कुमापेण्डवदरुणं विवाहसमये यल्लक्षम्यादिमुखं तत्तुल्यत्वान्नूतनकाममुद्दीपयन्तमि- व । वनं च तस्य तथाभूतस्य चन्द्रस्य कोमलैर्गोभिः किरणैरभि- रजितं, गोभिः अअितं व्याप्तमिति वा। यद्वा भावेक्तः। तत्कोमल- गोभिररमिअनं यत्र । किरणानां सुधादोग्धृत्वं, वन एव पाल्यमा- नवं च ज्ञापयितुं गोपदम् । तत्रापि शीतबाधाकरत्वनिरासाय कोमलपदम् । तथाच यथोक्तविशेषणविशिष्टं चन्द्र रमणयोग्यं वनं च दृष्ट्वा, कलं जगौ॥ अत्र विशेष्यस्याऽनुक्सा आत्मा मुखं वापि विशेष्यं ज्ञातव्यम् । अस्मिन् पक्षे, कोः पृथिव्या अपि मुत् क- तव्यत्वेन विद्यते यस्य तमात्मानम् । मुखपक्षे कुमुद्रदिति लिङ्ग- विपरिणामः । अनेन भूचरमुखार्थं कृतावतारेण मया मदासक्त- मानसा गोप्योऽपि मयाऽभिरमणेन सुखिन्यो विधेया इति ध्वनि- ૨ १० रासपञ्चाध्यायीव्याख्यायाम् । तम् । पुनश्चाखण्डमन्यूनानतिरिक्तं मण्डलं नासाकर्णाद्यङ्गचक्रं य- स्मिन् । अनेन गोप्यर्थमेव तुच्छीकृतकोटिकन्दर्पविग्रहस्य पादुष्क- तत्वात् ता अवश्यं रमयितव्या इति सूचितम्। पुनश्च रमाणां ता- सामाननानामामा यस्मिन् । अनेन स्वस्मिंस्तासां खचितत्व- दर्शनेन तत्फलप्रदानस्यावश्यकत्वं सूचितम् । पुनश्च ताभिलिप्तेन नवकुङ्कुमेनारुणम् । यद्वा, अत एव तन्मुखलिप्तेन नवकुङ्कुमेन प्रतिविम्बितेनारुणम् । अनेन स्वविग्रहस्य तद्विग्रहगतरागरञ्जितत्व दर्शनेन तन्मनोगतरागेण स्वमनसोऽपि रञ्जितत्वमावश्यकमिति ध्वनितम् । तद्विकसितकुमुपायलङ्कृतम् । पुनश्च स्वस्य स्वमुखस्य वा कोमलगोभिरभिरञ्जितम् । एवमुद्दीपनालम्बनविभावौ दृष्ट्वा, कलम्, अव्यक्तमधुराक्षरं यथा स्यात् तथा, जगौ गानं कृतवान् । तदपि वेणुनेति ज्ञातव्यम्। कलपदाऽमृतवेणुगीतेति वक्ष्यमाणात् । तत्र मधुरमिति मनोहरणशक्तिमत् । अव्यक्तमिति सर्वासां स्व- वाह्वानज्ञानोत्पादकमन्येषां तदाबानानिश्चायकं चेति बोधितम्। मधुरत्वात् सर्वाकर्षणं वारयति ॥ वामेति ॥ वामा मनोहरा दृशः कटाक्षा यासां, वामं सुन्दरं दृग् दर्शनं यासामिति वा । तासा युवतीनां सौन्दर्यादिगुणगणालंकृतानामेव मनोहरं यथा स्यात् तथा । गायन्तं स्त्रियः कामयन्त इति श्रुतेः।वामाः स्वस्मिन् कुटि- ला दृशो यासां तामां मनोहरामिति श्लेषेण सर्वदा स्वस्मिन् कुटिलमेव पश्यन्तीनां सर्वेन्द्रियप्रवर्तकमनस आकर्षणेन तथा दर्शनाभावाय चेसपि द्रष्टव्यम् । कलं वामदृशामिसत्र श्लेषान्तरण कामविजं, क्लीम्- इसाकारकं जगाविसपि ज्ञेयम् । तथाहि । कलं ककारलकारौ । वामदृशेति टाबन्तम्। वामदृशा ईकारः । मन्त्रशास्त्रे वामागेति चतुर्थस्वरस्य संज्ञाईकारश्च म् च वामदृशामिति समा- हारद्वन्द्वे अमो लुकि रूपम्। तथाच ईमिति च तेन क्लीमिति सिद्धस् गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। ११ निवृत्तिपक्षे, अथ भगवत्कृतमनुग्रहान्तरं दर्शयति ॥ दृष्ट्वेति ॥ कुत्सिता अनिसाऽशुचिविषयप्राप्तिजन्या मुत् कुमुद्, नकुमुद् अकु- मुत् = तदभावः कर्तव्यत्वेन विद्यते यस्य विवेकलक्षणचन्द्रस्य तम् । तत्राप्यखण्डं मण्डलं वैराग्यशान्सादिसाधनसमूहो यस्य तं पूर्ण वैरा- ग्यादियुक्तम् । यतो, रमाननाभं रमायाः संपत्पम्दादिरूपेण परिण- ताया आनने मुखे अभा अदीप्तिर्यस्मात् तम् । विषयमात्रसौन्द- र्यबुद्धिनिवर्तकम् । पुनश्च, नवकुङ्कुमारूणम् । पूर्वं हि अनात्मव- र्ग एवानुरागः स्थितः। संप्रति नवीनेन कुङ्कुमस्थानापन्नेनात्मा. ऽनुरागेणाऽरुणं वनं कामक्रोधाद्यनेककण्टकदुमाधाक्रान्तत्वात तत्स्थानापन्नमन्तःकरणं, संपति, तत्कोमलगोऽभिरञ्जितं तस्य विवेकलक्षणचन्द्रस्य कोमलैः सर्वसुखकरैस्तत्तद्विचार दलक्षणैः किरणैरभिरञ्जितम् यद्वा तदन्तःकरणलक्षणं वनं कोमलैस्याग्रह- भावैः शास्त्रश्रवणसत्पादस्पर्शभगवन्मूर्तिसज्जनदर्शनभगवन्नैवेद्या- स्वादनभगवच्चरणारविन्दार्पिततुलस्याघ्राणभगवन्नामस्मरणार्चना- दिपरैर्गोभिरिन्द्रियैस्तज्जन्याभित्तिभिरभिरजितं शोभितं च दृष्ट्वा कलम् अनेकार्थसूचकं मधुराक्षरम्, अयाऽतो ब्रह्मजिज्ञासा, जन्मा- ऽऽद्यस्य यतः, शास्त्रयोनित्वाव, तत्तु समन्वयादियादिसूत्रजातं कृष्णद्वैपायनात्मनाऽऽविर्भूय जगौ । कथं भूतं कलं, वामदृशां वा- मस्य परमसुन्दरस्य परमात्मनो दृग् ज्ञानं याभ्यस्ता उपनिषदः। तं त्वौपनिषदं पुरुषं कुच्छामीति श्रुतेस्तासां परब्रह्मणि तात्पर्याऽव- धारणकारणम् । वामा सुन्दरा दृग् ज्ञानं यासा तासामिति वा । यद्वा कुटिला दृशो यासामस्पष्टब्रह्मलिङ्गभेदाद्यनुवादिकाना, मनो- हरं प्रत्यगभिन्ने ब्रह्मणि तात्पर्यापहरणपरम् । यद्वा कुटिलज्ञाना- नां वादिनां मनोहरं तदभिप्रेतार्थनिरासकरम्। यद्वा वामदृशां शोभन- ज्ञानवतां विवकिनां वेदान्तशास्त्राधिकारिणां सतां मनोहरं मनो- रामपञ्चाध्यायीव्याख्यायाम् । ज्ञम्, अमनोज्ञं तु विषयासक्तचेतसाम् । यद्वा, आत्मा वा अरे द्र- व्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, सोऽन्वेष्टव्यः स विजिज्ञामितव्य इसादिरूपं कलं जगौ । कीदृशं ? वामदृशामनात्म- पदपदार्थविषयाणां कुटिलत्तीनां मनोहरम् । तत्कारणभूता- ऽनात्मप्रवणमनस उपशामकम् । यद्वा यथोक्तविवेकिनां मनोज- मिसर्थः ॥ ३ ॥ अथ तादृशगानानन्तरं यद वृत्तं तदाह निशम्य गीतं तदनङ्गवर्धनं ब्रजस्त्रियः कृष्णगृहीतमानसाः ॥ आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥ निशम्येति॥तद्गीतमनङ्गस्य कामस्य वर्द्धनम् अङ्कुरितस्य कामस्य सर्वाङ्गसंपूर्णतापादकमाएतेन तस्याऽमृतसेकरूपत्वं सूचित- म् । यद्वा । तद् गीतमनङ्गस्य सर्वाङ्गरहितस्यानङ्कुरितस्यापि कामस्य वर्द्धनं = तत्क्षणमेवोत्पाद्य अभिद्धिपर्यन्तं नयनसमर्थम् । तास्तु व्रजस्त्रियश्चिरकालमारभ्य तद्विषयककामाविष्टस्वान्तास्तादृशं गीतं निशम्याऽऽकर्ण्य कलगीतलक्षणसूत्रगुम्फिताः पाञ्चालिका इ- वाऽऽजग्मुः । जग्मुरिति वक्तव्ये स्वस्य कृष्णसन्निधानावेशादा- ऽऽजग्मुरित्युक्तम्।ननु किं सर्वा अपि व्रजस्त्रिय आजग्मुस्तत्राप्यन्यो- न्यमऽलक्षितगमनविरोधइतिचेत्तत्राह|कृष्णगृहीतमानसाः॥कृष्णेनैव पूर्वमेव गृहीतं मानसं मनोयासां तास्तत्राप्यन्योन्यमलक्षितो भगवतः पतित्वेन स्वीकारलक्षण उद्यमो यासां ताः । प्रसकमेव भगवन्तं पतित्वेनाङ्गीकृतवसः । संभ्रमः स्नेहमाख्यातीत्युक्तत्वात् स्नेह- गूढार्थदीपिकायाम् । १ अध्यायः। (२१)। १३ ख्यापकं तासां संभ्रममाह ॥ जवेन लोले सकम्पे कुण्डले यास ताः । अनेन कर्णव्यथानुसंधानाभावः सुचितः । यद्वा, मां ग- च्छन्तीमालक्ष्येयमपि यास्यतीति सापत्नभयात् कृष्णगृहीतमानस- त्वेन विचाराऽस्फूर्तेर्वा अन्योऽन्यमलक्षितगमनोद्योगाः । अत एव जवेन चञ्चलकर्णाभरणाः । कुत्रेसत आह ॥ सः पूर्वमुपागतः कान्तो यत्र स्थितस्तत्र । यद्वा चोरचक्रवर्तिना श्रीकृष्णेन गृहीतानि मानसानि तत्सम्बन्धीनि, धृतिस्मृतिविवेकलज्जाभीतिमलादीनि च यासां ता आजग्मुः । अनेन कृष्णो हि महाचौराधिराजो वेणुगी- ताख्यस्वभृसमहाचोरं व्रजे प्रेषितवाँस्तेन च वजाङ्गनानां वितक- द्वारेण अन्तःकरणं कोशागारंपविश्य धैर्यादिमहारत्नपूरितमनोम- जूषामपहृस झटिसेवानीय स्वस्वामिने दत्तां तां कृष्णात् प्रायितु- मिवेति सूचितम् । अत एव महाचोरं धर्तुं व्यग्रत्वात् सूचकमनआ- देरपहृतत्वाद्वा अन्योऽन्यमलक्षितोधमाः । अत एव जबलोलकुण्ड- लाः। कुण्डलेति कङ्कणकिङ्किण्यादेरप्युपलक्षणम् । अनेन बाहहस्था- नापन्नस्थूलदेहस्थधान्यादिस्थानीयभूषणान्यल्पत्वबुद्धया ।चैरेण- तेन नापहृतानीति ध्वनितम् ॥ नितिपक्षे एवं भगवदनुगृहीनस्य विवेकवैराग्यादिसाधन- संपन्नस्यान्तःकरणे परब्रह्मणा श्रुतिरूपकान्तानामभिरमणं सर्वतो वृत्तिनिरोधनं च संपन्न मिसाह॥निशम्येति।तद्यथोक्तं गीतं व्रजस्त्रियः श्रुतीनां गवामवस्थितिस्थानं वेदो ब्रजशब्देनाभिधीयते।तत्संबन्धि- न्यः स्त्रियः श्रुतयः श्रुत्वा स कान्तः कमनीयः परमपुरुषार्थभूतः परमात्मा यत्र विवेक्यन्तःकरणलक्षणे वने वर्तते तत्र आजग्मुः । ब्रह्मप्रतिपादकत्वेन स्फूर्ति गताः । तेषामेवानुकम्पार्थमहमज्ञानजे समः * नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वतेति भगवद्वा- क्यात् स्वभक्तान्तःकरणस्थितः श्रुतिभी रममाणस्तदज्ञानं नाश- रासपश्चाध्यायीव्याख्यायाम् । यतीति विज्ञायत इयर्थः । आजग्मुरित्युक्त्या स्वान्तःकरणवर्तिपर- मात्मन्येवाजग्मुरिति सूचयति । गीतं विशिनष्टि ॥ अनङ्गवर्द्धनम् ॥ अथात आदेशो नेति नेतीत्युक्तस्य मूर्तामूर्तलक्षणाङ्गविनिर्मुक्तस्य निर्विशेषस्य ब्रह्मणो वर्द्धनमज्ञानातस्य तस्याज्ञाननिवर्तनेनावि- र्भावकर, यद्वा अङ्गानां देहानां वर्द्धनमसंख्यातदेहोत्पत्तिकारण- मज्ञानमङ्गवर्द्धनं तद्विरोध्यनङ्गवर्द्धनम् । कथम्भूता व्रजस्त्रियः ? कृष्णेन सदानन्दस्वरूपेण परमात्मना गृहीतं मानसं तात्पर्य यासां ताः कृष्णे तात्पर्येण समन्विताः । पुनश्चान्योन्यमलक्षित उद्यमः परमात्मप्रतिपादनरूपो यामां ताः । परस्पराकाङ्क्षारहिताः । - सेकं स्वत एव प्रमाणभूता इति यावत् । पुनश्च जवेन लो- लानि चलानि झटिति नाशोन्मुखानि कुण्डलानि आशादिरूपाः पाशा याभ्यस्ताःविचारिताःसस आशु जीवात्मपाशनिवर्तिका इति यावत् । कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि चेति मेदिनी । मनसो वृत्तयोऽपि इन्द्रियलक्षणगवां वासस्थानत्वादेहोब्रजशब्देनो- च्यते । तदन्तरवस्थानाद् व्रजस्त्रियः, कृष्णेन गृहीतं कारणभृतं मानसं यासां ताः कृष्णासक्तमनःसम्बन्धिन्यः । यद्वा कृष्णेन गृ. हीतः स्वीयत्वेनाङ्गीकृतः कृष्णानुगृहीतो विवेकादिसाधनसंपन्नस्तस्य मानसा मनासम्बन्धिन्यो, न त्वनधिकारिणः । परस्परं निरपेक्ष- व्यापारवसस्तत्तदिन्द्रियद्वारा निःसृस स्वस्वविषयप्रकाशने स्वत- न्त्राः, स कान्तो यत्र वर्तते तत्र आजग्मुः । बहिर्मुखतां विहा- याऽन्तर्मुखतां प्राप्तास्तदानी जवेन झटिति लोलानि कम्पितानि कुण्डलानि पाशा याभ्यस्ताः । समानमन्यत् ॥ ४॥ आजग्मुरित्युक्तावपि प्रतिबन्धकानां तत्तदव्यापाराणां स- त्वात् कथं स्वस्वगृहात् तासां निःसरणमिसपेक्षायां प्रेष्टमूचक- शब्दश्रवणमात्रेण तत्पवणमानमानां तत्क्षणमेव त्रैवर्गिकक मनि- - गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। १५ वृत्तिर्जातेति सूचयँस्तासां निर्गमनप्रकारमाह ।। दुहन्त्योऽभिययुः काश्चिद्दोहं हि हित्वा समुत्सुकाः ॥ पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः॥५॥ परिवषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ॥ शुश्रूषन्त्यः पतीन् काश्चिदश्चन्त्योऽपास्य भोजनम्।।६॥ लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने॥ व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः॥७॥ दुहन्त्य इति ॥ दुहन्यो दोहयन्त्यस्तक्रियामध्ये एव दोहं दोहनं हित्वा काश्चिद् अभिययुः वेणुगीतकृतप्रेष्ठाभिमुखं ययुः । यद्वा दोहनपात्रं गृहीत्वा काश्चित् स्थितास्तत्समये गीते श्रुते तत्पात्रं विहायाभिययुः । यद्वा दोहनानन्तरं दुग्धपात्रं गृहीत्वा काश्चित स्थितास्तत्क्षणे वेणुगीते श्रुते तत् त्यक्त्वाऽभिययुः । काश्चित स्थालीस्थं पयश्चुल्लयामधिश्रित्य तत्क्वाथार्थं तदधिसेचननिहत्त्य- थं च तत्सन्निधौस्थितास्तत्समये वेणुगीतमन्तःप्रविष्ट, ततस्तत्ववाथ- मप्रतीक्षमाणास्तद्रक्षणं विहायाभिययुः । अपराः संयावं पक्वं गो- धूमकणान्नमनुद्रास्य तन्नाशमप्यननुसन्धायाभिययुः । यतः समुत्सु- का उत्कटोत्कण्ठावत्यस्तद्विलम्बसहनासमर्थाः । एतेन स्वजाति- धर्मं विहायाभिययुरित्युक्तम् ॥ ॥ अथ स्त्रीमात्रधर्मत्यागमाह । परिवेषयन्त्यो बन्धुभृत्याद्यग्रे परिवेषणं कुर्वत्यस्तत्परिवेषणं विहाय काश्चिदभिययुः । अतिस्निग्धान् शिशून् पयो दुग्धं स्तन्यमितरद् वा पाययन्त्यस्तत्पायनं हित्वा काश्चिदभिययुः । पतीन् सर्वथा सेवनीयान् शुश्रूषन्त्यः पादप्रक्षालनादिसेवां पा रामपञ्चाध्यायीव्याख्यायाम् । . कुर्वत्यस्ता सेवां विहायाभिययुः । काश्चिद् भोजनं कुर्वसो भोजनं सक्त्वा अनाचान्ता एवाभिमुखं ययुः। कृष्णान्तिकं य- युरित्युत्तरत्र चान्वयः । एतेन बन्धुभृसत्यागः, अतिस्निग्धत्यागः, स्वधर्मत्यागः, स्वदेहपोषणयागश्चोक्तः ॥ काश्चिञ्चन्दनकुङ्कुमादिना भगवदङ्गसङ्गसम्भावनयाङ्गराग कुत्रयोऽप्युत्कण्ठया तल्लेपनं हित्वा आकर्षकस्य मेष्ठस्य समीपं ययुः । अन्याः प्रमृजन्त्यः अङ्गोद्वर्तनादिकं कुर्वत्यः । गृहं वा लिम्पन्त्यः प्रमृजन्त्य इति वा पात्रभूषणादि वा प्रमृजन्त्यः । का- श्चिल्लोचने अञ्जनेन शोभिते कुर्वसः । अनेनावश्यकदेहवेषादि- त्याग उक्तः । कासाञ्चिद् गमनत्वरावेशवशाद् देहावयवविशेषा- ऽनुसन्धानाभावमाह ॥ व्यसस्तेति ॥ स्थानतः स्वरूपतश्चोर्ध्वाधो. धारणेन विपर्यय प्राप्तानि वस्त्राभरणानि यासांताः विल्लभप्राप्ति- वेलायां मदनावेशसंभ्रमाव * विभ्रमो हारमाल्यादिभूषास्थानविप. र्यय इत्युक्तो विभ्रमाख्योऽनुभावोऽयम् । अनेन भगवत्तुष्टयर्थं कर्म तदासक्तचेतमामन्यथाकृतमपि फलत्येवेति ध्वनितम् ॥ निवृत्तिपक्षे आगमनप्रकाराकाङ्क्षायामादौ, तमेतं वेदानुवचनेन ब्राह्मणा विविदिन्ति यज्ञेन दानेन तपसा नाशकेन, सर्वापेक्षा च यज्ञादिश्रुतेरिति श्रुतिसूत्राभ्यां सर्वकर्मणामिव संयोगपृथक्त्वन्या- येन तत्प्रतिपादकश्रुतीनामपि परमात्माभिमुख्यमाह । दुहन्त्य इति । जुहुयाद् यजेद्दद्यादित्यादिश्रुतयस्तत्तत्कर्मफलमाप्ति प्रतिपादयन्सो दोहं तत्फलं हित्वा तत्प्रतिपादने मुख्यं तात्पर्य विहायाभिययुः । ब्रह्मणिसमन्वयं गन्तुं प्रवृत्ताः। सर्वे वेदा यत्पदमामनन्तीत्यादिश्रु- तेः। काश्चित्तु समुत्सुकाः, यथा पुष्करपलाश आपो न श्लिष्य. न्त एवमेवंविदि पापकर्म न लिष्यते तद्यथेषीकातूलमग्नौ प्रोतं प्र- द्यत एवं हास्य सर्वे पाप्मानः प्रदूयन्त इत्याद्याः श्रुतयः। पयः- गूढार्थदीपिकायाम् । १ अध्यायः । ( २९ )। स्थानीयं क्रियमाणं सञ्चितं च कर्माधिश्रित्य तत्परिपाकं तद्भो- गपर्यन्तप्रतीक्षानिरासं प्रतिपाद्याभिययुः । तस्य तावदेव चिरं या- वन विमोक्षे अथ संपत्स्य इत्याद्या, अपराः परिपक्वगोधूमकणान- स्थानीयं प्रारब्धकर्म अनुदास्य भोग विना तत्क्षयाभाव प्रतिपा- ध, अपरा-सूर्याय जुष्टं निर्वपामि अग्नये जुष्टं निर्वपामीत्याद्या- स्तत्तद्धविः परिवेषयन्सस्तत्र तात्पर्य हित्वा, तथा अपरा-अक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवति, अपाम सोमममृता अभूमेत्या- द्याः, शिशून अज्ञान, पयःस्थानीयं कर्मफलमक्षयत्वेन प्रतिपाद- यन्त्यस्तत्र तात्पर्य हित्वा । यद्वा, सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस इत्याद्याः, परिवेषयन्त्यः, ऋतं पिबन्तौ सुकृतस्य लोके इत्याद्याः पय स्थानीयं सुकृतफलपानं चेतनकर्तृकं प्रतिपादन्त्यः, काश्चितू, स होवाच प्राणोऽहमस्मि प्रज्ञात्मानं मामायुरमृतमित्यु- पास्वत्याद्या पतीन् स्वर्गादिपतीन् इन्द्रादीन प्रतिपादयन्त्यस्तत्म- तिपादनतात्पर्य हित्वा, काश्चित्तु, यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः मृत्युर्यस्योपतेचनं क इत्था वेद यत्र स इत्याद्या अन्या- दिकर्तृकाऽशनं प्रतिपादयन्त्यो भोजनं मृत्वादिरूपमपास्य तत्पति- पादनं विहाय, तथा अन्याः, यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीत्याद्याः, लिम्प- त्यो लेपनमध्यारोपं प्रतिपादयन्त्यः । अन्या, अथात आदेशो नेति नेति, नेह नानास्ति किञ्चन, अस्थूलमनवित्याद्याः प्रमृज- न्त्यः प्रकर्षण माजनमपवादं प्रतिपादयन्त्यः। काश्चन, अनीशया शोचति मुह्यमानः, यः सर्वज्ञः सर्ववित् सर्वस्य वशी सर्वस्येशान इत्याद्या, लोचनस्थानीये जीवेशचैतन्ये अअयन्त्य उपाधिमत्तया प्रतिपादन्त्यः । काश्चित्तु, त्वं वा अहमस्मि भगवो देवते, अहं वै स्वमसि, तत्त्वमनि, अहं ब्रह्मास्मीत्याद्याः, व्यत्यस्तवस्त्राऽऽभरणाः रासपञ्चाध्यायीव्याख्यायाम् । स्वस्वरूपाच्छादकम्-अहं कर्तेत्यादिप्रतीत्यापादकं जीवत्वं वस्त्र- स्थानीयम् । ऐश्वर्याद्यलकृतिप्रतीसापादकमीश्वरत्वमाभरणस्था- नीयम् । व्यसस्त व्यतिहारेण प्रतिपादित वस्त्राभरणे याभिस्ताः । यदा व्यसस्तौ सम्यकपरिक्षिप्तौ वस्त्राभरणस्थानीयौ आवरणवि- क्षेपौ याभिस्ताः । वृत्तयोऽपि वहिर्मुखतां विहायान्तर्मुखा जाता इसपि द्रष्टव्यम् ॥ ५॥ ६॥७॥ ननु, रक्षेत् कन्यां पिता विन्नां पतिः पुत्रस्तु वार्द्धके *. अ- भावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित स्त्रिय, इत्युक्तानां रक्षका- णां विघ्नभूतानां सत्त्वे कथं कृष्णान्तिकं ययुरियाशय, त्वया- ऽभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्द्धसु प्रभो * इत्यु- क्तत्वात् कृष्णाकृष्टचेतसां न विनाः प्रभवन्तीसाशयेनाह । ता वार्यमाणाः पितृभिः पतिभिर्धातृबन्धुभिः ॥ गोविन्दापहनात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥ .. ता इति ॥ तत्र चतुविधा गोप्यः पद्मपुराणेऽभिहिताः। तत्र गोपकन्याः काश्चिन्निससिद्धाः । काश्चित्साधनसिद्धाः। तत्र निससिद्धा ल्हादिनीशक्तिरूपाः । आनन्दचिन्मय- रसप्रतिभाविताभिस्ताभिरिति * ब्रह्मसंहितायामुक्तत्वात् । ह्लादिनी या महाशक्तिरिति * बृहदगौतमीयाच्च । तथाच सच्चिदानन्द- घनः परमात्मा गोपालरूपमसंख्यातगोपालिकारूपं चादाय क्री- डार्थ प्रकाटत गोलोके क्रीडति । स चात्र ताभिः सार्द्धमवतीर्णस्त- तस्तासां निससिद्धत्वादिकमुच्यते। द्वितीयास्तु काश्चिद् गोपीजन- वल्लभोपासनया प्राप्तगोपीभावा गोलोकं प्राप्य भगवता लब्धक्री- डा अत्रावतीर्णाः । काश्चित् सम्पति गोकुले एव प्राप्तगोपीभावा- गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। १२ स्ताः पूर्वोपासनकासायिनीव्रताचरणादिसाधनसिद्धत्वात् साधन- सिद्धाः । श्रुखादयस्तु सर्वा अपि साधनसिद्धा एव । साधनं च प्रार्थनादि । तदुक्तं बृहद्वामनपुराण । कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः * कामिनीभावमासाद्य स्मरक्षुब्धान्यमंशयः * यथा त्वल्लोकवासिन्यः कामतत्त्वेन गोपिकाः * भजन्ति रमणं मत्वा चिकीर्षाऽजनिता तथेति ऋषीणां श्रीमद्रामचन्द्रप्रसादाद् गोपिकाजन्मप्राप्तिरुक्ता । पामोत्तरखण्डे, पुरा महर्षयः सर्वे दण्ड- कारण्यवासिनः * दृष्ट्वा रामं हरितत्र भोक्तुमैच्छन् स्वविग्रहम् * ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुल * हरिं सम्प्राप्य का- मेन ततो मुक्ता भवार्णवादिति । श्रीमद्राममवलोक्य स्वोपास्यगोपा- लविग्रहं हार स्मृत्वा तमेव भोक्तुमिच्छावतां लज्जया तदतवतां कल्पतरोरिवादत्तापि श्रीरामादभीष्टसिद्धिर्जालेयर्थः । सम्भवन्तु मुरास्त्रिय * इति प्राग्भवीयभगवदाराधनलब्धब्रह्माज्ञयावतीर्णत्वाद् देवाङ्गनानां साधनसिद्धता । तत्र, नते मुरेशा ऋषयो नचैत * इत्युक्तत्वात् सुराणामृषीणां च गोपालादिरूपेणावतीर्णत्वाद्देवाङ्ग- नानां स्वपतिभिर्देवौर्विवाहादिकम् । ऋषिचरीणां तु ऋषीणां द- म्पतीरूपेणावतीणत्वात् स्वस्वरूपभूतैरेव पतिभिर्विवाहादिकम् । श्रुतीनां कासाञ्चित्तु तत्तत्प्रतिपाद्याथैः प्राप्तगोपालरूपैः । भगव- प्रतिपादिकानां निससिद्धगोपीनां च स्वममानमायामयविग्रहाणां गौपैर्मायया प्रकटीकृतैर्गोपैर्वा विवाहादिकं सातम् । तत्र ऋषि- चर्यो भगवत्प्रतिपादिकाः श्रुतयश्च सर्वा अप्यभिज्ञाः, साधनसिद्ध- गोपीनां देवकन्यानां च मध्ये काश्चिदभिज्ञाः, काश्चिदनभिज्ञा- श्च । निससिद्धानां मध्ये भगवत्सङ्कल्पानुसारेण नरनाट्यमवलम्ब्य काश्चिन्मानिन्यः, काश्चिदक्षिणाः । भगवत्स्वरूपप्रतिपादकश्रुतीनां मध्येऽपि अतन्निरसनाऽखण्डार्था गृहीलमानिनीस्वरूपाः। अन्या- रासपश्चाध्यायीव्याख्यायाम् । स्तु गृहीतदक्षिणारूपाः । तत्रैवंभूतानां गोपाङ्गनानां मध्ये का. श्चित पितृभिः, काश्चित् पतिभिः, काश्चिद् भ्रातृभिः, काश्चिद् बन्धु भिः, काश्चित् पुत्रैरियपि द्रष्टव्यम् । वार्यमाणा अपि न न्यवर्तन्त यतो गोविन्देन वेदोद्धारकेण गोलोकविहारिणा गवेन्द्रेण प्रेष्टेन भगवता अपहृत आत्मा अन्तःकरणं यासां ताः । तथाचान्तःकर- णाऽऽरूढेन भगवताऽपहनान्तःकरणानां श्रौत्रं निवारणमकिञ्चि- करम् । प्रवाहपनितनौकायां स्थितस्य तिष्ठतिष्ठेति निवारणं यथा । ननु भयात् स्वधर्माद्वा ताः स्वान्तःकरणं निरुद्धय किमिति न निवृत्ता इसाशङ्ख्याह ॥ मोहिता इति ॥ भगवत्स्वरूपासक्त्युत्कट- दशया भयाघनुसन्धाननिवर्तकं व्यामोहं गताः । ननु तैः पित्रा- दिभिः सर्वथा किर्मिति न निवारिता इति वाऽऽशङ्याह ॥ मो- हिता इति ॥ तथाच मूच्छी मृत्यु वा गन्तुं प्रवृत्ता अतस्तैस्तन्मू- जमरणादिभयान्न प्रसह्य बारिता इति भावः ॥ निवृत्तिपक्षे ताः श्रुतयः पितृपयादिस्थानीयवैदिकत्वाभिमा- निभिर्वादिभिर्वार्यमाणाः । गोविन्देन वेदैकगम्येन परमात्मना अपहृतात्मानः स्वीकृताभिप्रायाः, न न्यवर्तन्त । यतो मया - प्रमयाप्रमायै वा अहिनाः। वृत्तयोऽपि पित्रादिभिर्विषयैर्वार्यमाणा अपि गोविन्द निलीनस्वरूपाः, मया प्रमया अहिता अनुकूलतर्क- वसो न न्यवर्तन्त विषयाभिमुख्यं न प्राप्ताः ॥८॥ अथ जन्मान्तरेषु मोक्षाभिकाङ्या कृतया गोपीजनवल्लभो- पासनया लब्धगोपीभावानामवस्थामाह ।। अन्तहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ॥ कृष्णं तद्भावनायुक्ता दध्युमीलितलोचनाः ॥ ९॥ अन्तरितिकाश्चिद गोप्यो मोक्षपदभमवत्सङ्कल्पानुसारेणपतिभिर्दा :

गूढार्थदीपिकायाम् । १ अध्यायः । ( २१)। राणांमुद्रितत्वादन्तहगता अलब्धविनिर्गमाः कृष्णं दध्युःमरणदशो. पस्थितौ तमेव भेष्टं दध्यायनो यस्य सर्वदा भावना भवति नदेवान्त- काले ध्यानपथमारोहति । ताश्च सर्वदा कृष्णभावनायुक्ता आस- निसाशयेनाह॥तद्भावनायुक्ताः ।। नेत्रद्वारान्यत्र चित्तवृत्तिगमनम- यान्मीलितानि लोचनानि यासां ताः । ध्यानावेशेन मुद्रितनेत्रा इति वा। यद्वा मीलितानि लोजनानीतरज्ञानानि यासां ताः केचि. तु-काश्चिन्निसांसद्धादिगोपीसङ्गभाग्याभावादलब्धप्रेमवाददग्ध- कषाया गोपैन्यूढा गोपोपभुक्ता अपत्यवसो बभूवुःताः खलु तदन- न्तरमेव निससिद्धादिगोपीसङ्गभूम्ना कृष्णमङ्गम्नेहोरेकात् तासां कृपापात्रीभवन्सोऽपि कृष्णाङ्गसङ्गायोग्यदेहत्वेन योगमायया सा. हाय्यकरणात् पतिभिर्वारिताः कृष्णमभिमर्तुमक्षमा महाविपदन- स्ताः पतिभ्रातृपुत्रादीन स्वप्राणचौरत्वेन पश्यन्यो मरणदशाया- मुपस्थितायां सखां, यथाऽन्या मात्रादिस्वबन्धुजनं स्मरन्ति तथैव स्वप्राणकवन्धुं कृष्णं सस्मरुरिति वर्णयन्ति । नितिपक्षे. स एष रमानां रसतमः परमः पराद्धर्योऽष्टमो यदुद्गीथ इसाद्या उद्गीथादिरूपान्तहगता अपि काश्चिद् गोपस्य भगवतः सम्बन्धिन्यः, अलब्धो विशेषेण निर्गमः प्रतिपादनं या- भिस्तास्तस्य परमात्मनो भावनायामुपासनायां युक्ता नियुक्ताः कृष्णं दध्युः परमात्मध्यानं विदधुः । यतोऽविचारेण मुद्रितयथा- श्रुतार्थप्रकाशाः। तथाचोद्गीथादिस्तुतिपरतायां निरुद्धा अपि तत्र न तस्थुरियर्थः । वृत्तयोऽपि काश्चिदसन्तप्रियवस्तुरूपगृहान्तर्गता अलब्धविनिर्गमा अपि तत्र कृष्णभावनायुक्ताः कृष्णं दध्युर्मु- द्रितविषयप्रकाशा इति ॥ १॥ तथाच वर्तमानकालीनविरहध्यानाभ्यां पूर्वोपामन या लब्धा- भ्यां स्वाभिसन्धितं फलं प्रापुरित्याह ।

२२ रासपश्चाध्यायीव्याख्यायाम् । दुःसहप्रेष्टविरहतीव्रतापधुताऽशुभाः ॥ ध्यानप्राप्ताच्युताश्लेषनिवृत्या क्षीणमङ्गलाः ॥ १० ॥ दुःसहेति ॥ दुःसहो यः प्रेष्टविरहो महानग्निस्तेन यस्तीव्र- स्तापः = कोटिब्रह्मकल्पेषु कुम्भीपाकादिनरकेषु यावद दुःखं भवेत् ततोऽप्यधिकं भगवद्विरहक्षणमात्रेण जातं दुःखं, तेन धुतानि निर्धू- तानि भस्मसात्कृतानि अशुभानि यासाम् । तथाच सर्वपापफलभो. गसमाप्तिः । पुण्यक्षयप्रकारमाह । ध्यानेन प्राप्तो योऽच्युतस्य स- दैकरसस्य परमात्मन आश्लेषः सम्यगालिङ्गनम् । तदानीं न जारत्वेन आश्लेषः, किन्तु परमात्मत्वेनेति बोधयितुमच्युतपदम् । तेन या निर्वृतिः = सुखं-कोटिब्रह्मकल्पेषु स्वर्गादौ यावत्सुखं भवेत् ततोऽप्यधिकभगवत्संश्लेष क्षणमात्रेणानुभूतं, तया क्षीणानि मङ्गलानि पुण्यानि यासाम् । तथाचैवं पुण्यस्यापि क्षयः संपन्नः के- चित्तु-दुःसहेन प्रेष्टविरहेण यस्तीवस्तापस्तेन धुतानि कम्पितानि अशुभानि याभिस्ताः । यासां प्रियविरहतापस्य तीव्रतां वीक्ष्य कोटिब्रह्माण्डस्थवाडवानलमहाकालकूटादिरूपाणि परःसहस्रा- ण्यपि अशुभानि स्वतीव्रताहङ्कारं परिसत्य पराजयबुद्धया चक- म्पिर इत्यर्थः । ध्यानेन प्राप्त आगतो योऽच्युतस्तेन तदैवोद्भू- तस्य प्रेमपूर्णचिन्मयस्य तादृशस्वभावदिमतोदेवस्य य आश्लेषस्तेन या नितिस्तया क्षीणानि कृषीकृतानि मङ्गलाान प्राकृतानि यासां ताः । यासां स्फूर्तिप्राप्तेष्टा श्लेषोत्थमुखं वीक्ष्य कोटिब्रह्माण्डगत- विषयसुखानविषयब्रह्माऽनुभवमुखसहस्राणि मङ्गलशब्दवाच्यानि क्षीणानि । यदपक्षया निकृष्टानि बभूवुरित्यर्थ इति वर्णयन्ति । तत्र परमपुरुषार्थत्वेन प्रतिपादितस्य निरतिशयस्य ब्रह्मानुभवानन्दस्य क्षीणत्ववर्णनं, यं लब्ब्बा चापरं लाभं मन्यते नाधिकं तत * इ.

गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। २३ त्यादिशास्त्राज्ञानविजृम्भितमिति ॥ नित्तिपक्षे-दुःसहो यः प्रेष्टस्य परमात्मनो विरहः-अत्र परमात्मोपासना नास्तीति केनचिन्निरूप्यमाणस्तेन जातो यस्तीत्र- तापस्तेन धुतानि अशुभानि याभिस्ताः । तथा ध्यानेन परमात्मो- पाम्त्या योऽच्युताश्लेपस्तेन केनचिद्विदुषा वर्णितेन या निर्दृति- स्तया हेतुभूतया क्षीणानि क्रोडीकारितानि मङ्गलानि याभिः । यद्वा अक्षीणानि न नाशिनानि च मङ्गलानि याभिस्ताः। वृत्तिपक्षे स्पष्टोऽर्थः ॥ १० ॥ तमव परमात्मानं जारबुद्धयापि सङ्गताः ॥ जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥ यत एवमतः सद्यः प्रक्षीणबन्धनाः ॥ तत्क्षण एव प्रकर्षण क्षीणं प्रारब्धकर्मकृतं बन्धनं यासां तास्तथाभूताः सयो गुणमयं देहं जहुः। त्रिगुणमयं स्थूलसूक्ष्मकारणाख्यशरीरत्रयं जहुर्विमुक्ता इसर्थः । ननु प्रसगभिन्नब्रह्मसाक्षात्काराभावात् कथं तासां मुक्ति- रिसपेक्षायामाह ॥ जारबुद्धयेति ॥ यद्यपि तासां भगवति जार- बुद्धिरासीत् तथापि वस्तुमाहात्म्याद्भगवत्प्रसादो जातः । न हि वस्तुशक्तिबुद्धिमपेक्षते । अन्यथा बुद्धयापि पीतममृतं यथा । जाते तु भगवत्प्रसादे तमेव प्रसगाभिन्नपरमात्मानं सङ्गतास्तत्प्रसाद- लब्धप्साक्षात्कारेण तदाभिन्नतां प्राप्ता इयर्थः । अपिशब्दस्तद्- बुद्धिनिन्धत्वाभिव्यञ्जनद्वारा वस्तुमहिम्ना तदतिप्राशस्त्यमभिव्य- नक्ति । यथा प्रथमं जारबुद्ध्यापि भगवता सङ्गताः पश्चाद्विरह- दशायां ध्यानादिना भगवत्स्वरूपं ज्ञात्वा ततः प्रक्षीणबन्धना: सयो विमुक्ता इसर्थः। तथाच सर्वमपि निकृष्टमुत्कृष्टसम्बन्धादुत्कृ- रासपञ्चाध्यायीव्याख्यायाम् । एं भवति । यथा भगवत्सम्बन्धागोपा ब्रह्मादीनामपि दर्शनीयता भाप्ताः । तत्कृतं चौर्य कर्म स्मरणादिनाऽप्यनेकांशुभनाशकरम् । तत्सम्बन्धाद्गोवर्द्धनस्येन्द्रादेरप्युत्कर्षः । शान्तिरसादतिनिकृष्टस्य शृङ्गाररसस्य तत्राप्यौपपस्यसम्बन्धिनः सर्वपरमहंसचूडामणिशुक- मुखन गीयमानत्वम्। गुजागैरिकशिखिपिच्छादेब्रह्मादिभिः स्तूय- मानव सारथ्यादः परमश्रियेक्षणीयत्वं चेति भावः ॥ निवृत्तिपक्षेतमेव, रसो वै सः रस ह्येवाऽयं लब्ध्वाऽऽन- न्दी भवतीसादिश्रुतिप्रतिपादितं परमरसरूपं जारबुद्ध्या ततच्छृति- तौ या उपाप्तनाबुद्धिस्ताद्विधायकतयाऽपि सङ्गतास्तस्मिन् स- अतिमसः । अत एव सद्यो विचारक्षण एव प्रक्षीणं बन्धनं श्रूय- माणार्थबन्धनकारणं यासां ताः। गुणमयम् उद्गीथादिगुणस्तु- तिमयं देहं तत्परत्वं जहुः। तिपक्षे जारबुद्धयापि सङ्गता गुणमयं दहं यदा जहुस्तदा किमु वक्तव्यं प्रेष्टबुद्धथा सङ्गता विवक्य- ऽन्तःकरणवृत्तय इति योज्यम् ॥ ११ ॥ ननु तमेव विदित्वाऽतिमृत्युमति नान्यः पन्था विद्यतेऽयना- य, यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः* तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति, ऋते ज्ञानान्न मोक्षइसादिश्रुया ज्ञानस्यैव मोक्षसाधनवाभिधानम् । तच ज्ञानमहं ब्रह्मास्मीयादिरूप, स्वा. स्मानमात्मात्मतया विचक्षते*इत्युक्तत्वात् तत्त्वमस्यहं ब्रह्मास्मीसादि- श्रुतश्च । तत्साधनं च भक्तियोगः । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ * तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः, यमेवैष वणुत तेन लभ्यः, मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् * कथयन्तश्च मां निसं तुष्यन्ति च रमन्ति च * तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयान्ति ते * भक्सा मामभिजानाति यावान् यश्चास्मि तत्त्वतः * पुरे ह भूमन् गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। बहवोऽपि योगिनस्त्वदर्पितेहा निजकमलब्धया * विबुद्धय भक्सा कथयोपनीतया प्रपेदिरेऽओऽच्युत ते गति परामियादिशास्त्रात् । सथाच कृष्णे ब्रह्मबुद्धयभाववतीनां जारबुद्धया कथं मोक्षः । न हि पतिपुत्रादीनां वस्तुतो ब्रह्मभूतानामाप भजनेन मोक्षो भव- सीति शङ्कानिवृत्त्यर्थ राजा पृच्छति ॥ राजोवाच । कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ॥ गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥ कृष्णमिति ॥ कृष्णं परं केवलं कान्तं कमनीयं पति वा जारं वा विदुः । यद्वा परं परपुरुष कान्तं स्वरमणं विदुः । न तु ब्रह्मरूपं विदुः । अतो गुणधियां गुणकार्यविषयाक्रान्तबुद्धीनां गुणमवाहस्य संसारस्योपरमो मोक्षः कथम् । मुनिर्भवानेतन्निर्णय कर्तुं समर्थोऽसीति सूचयन संबोधयति । हे मुन इति ॥ विषय- बुयापि मोक्षसिद्धौ श्रवणमननादेर्वैयर्थ्यं स्यादिति वा सं- बोधनाशयः॥ नितिपक्षे कृष्णं सदानन्दरूपं परं कान्तं परमरस ब्रह्म- सया गुणबुद्धया न विदुः नावेदयन्ति। अतो गुणमात्रधियां तासां श्रुतीनाम् उद्गीथादिगुणवर्णने यो प्रवाहस्तस्योपरमः कथम् । वृत्तयोऽपि याः कृष्णं ब्रह्मतया न विदुस्तासां गुणप्रवाहोपरमः कथम् । न हि ब्रह्माकारतां विना गुणप्रवाहोपरमो भवतीति भावः ॥ १२ ॥ अहो एवंविधरसवत्यां कथायां प्रतिबन्धकमात्रम् उक्कोचरं प्रश्नं करोतीत्यभिप्रेत्य सामर्षमाह श्रीशुकः ॥

२६ रासपञ्चाध्यायीव्याख्यायाम् । श्रीशुक उवाच । उक्तं पुरस्तादेतत् ते चैद्यः सिद्धिं यथा गतः ॥ द्विषन्नाप हृषीकेशं किमुताऽधोक्षजप्रियाः ॥ १३ ॥ उक्तमिति ॥ पुरस्तात् सप्तमस्कन्धे उक्तमप्यमुमर्थं पृष्टत्वात् करुणया पुनः स्मारयति ।चैद्यः शिशुपालो हृषीकेशं भगवन्तं द्वि- पपिसिद्धिं गतः। हृषीकाणामिन्द्रियाणामीशं नियन्तारमित्यनेन यथाधिकारं द्वेषादिकं भगवत्प्रेरणयैव भवतीति भूचितम् । यद्वा- जानैश्वर्यं द्विषन्नित्यनेनावृतब्रह्मभावानां जीवानां परस्परं द्वेषा- दिना सिद्धयभावेऽपि कृष्णेऽनाइनब्रह्मभावे यथाकथञ्चिन्मनःप्रवेशे सिद्धिभवतीति ध्वनितम् । यथैवं तथा पुरस्तान्मयोक्तम् । तथाच कृष्णे विरोधिवृत्त्यापि यदि सिद्धिर्भवति तर्हि परमानुकूलत्या- सक्त वेनसां गोपीनां सिद्धिप्राप्तौ किं चित्रमियाह ॥ किमुतति ।। अघोऽसजः प्रियो यास ताः अधोक्षजस्य प्रियाइति वा। अधः अक्षजन्यं ज्ञानं यस्मादित्यर्थकेनाधोऽक्षजपदेन, अशब्दमस्पर्शमरूप- मव्ययमित्यादिश्रुत्या सर्वगुणातीतम् आवरणविनिर्मुक्तं परमात्मानं जारबुद्धयापि सेवन्तीनां या बुद्धयस्ता वस्तुमाहात्म्याद ब्रह्मबुद्धय एव, न गुणबुद्धय इति ध्वनितम् । मप्तमस्कन्धे चेत्थमभि- हितम् । तस्म.द्वैरानुबन्धेन नि.रेण भयेन वा * स्नेहात कामेन पुण्यात् कथञ्चिन्नेक्षते पृथक् * कामाद नेपाद्भयात् स्नेहाद्यथा- भत्त्येश्वरे मनः * आवेश्य तदधं हित्वा बहवस्तद्गतिं गताः * गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृप * संबन्धाद वृष्णयः स्नेहाद यूयं भत्त्या वयं विभारिति । यद्वा पूर्व, ब्रह्मन् ! परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् * यो ऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यतामिति पृष्टवतस्तवैतदुत्तरं तदुत्तरकथनेन मया वै गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। २० उक्तम् । सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः । * इतरेऽपत्य. वित्ताद्यास्तद्वल्लभनयव हि * कृष्णमेनमवैहि स्वमात्मानमखि- लात्मनाम् * जगद्धिनाय सोऽप्यत्र देहीवाभाति माययेत्यादिना । किञ्च । सप्तमेऽप्यभिहितमित्याह यथा वा ॥ चैद्य इति ॥ नित्तिपक्षेऽपि गमानमिदं पञ्चश्लोकात्मकं प्रकरणम् ॥ १३ ॥ भक्तितत्त्वज्ञानानधिकारिणोऽप्युद्धर्नव्या इतीच्छयैव भगवद- ऽवतरणमतो यदर्थं भगवदवतारस्तस्मिन्नेवार्थे भवतः शङ्का न यु- ज्यत इसाशयेनाह। नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।। अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥ नृगामिति ॥ भगवतः षड्गुणैश्वय्यसंपन्नस्याभिव्यक्तिकार- गरहितस्याभिव्यक्तिः प्रादुर्भावो नृणामविशेषेण सर्वेषां निःश्रेय- सार्थाय साक्षात्परम्परया वा मोक्षरूपपरमपुरुषार्थलाभायैव, नतुभू- भारभूतकंसादिवधाय । रूविजृम्भमात्रेणानन्तकोटिब्रह्माण्डसंहार- समर्थस्य क्वचित्लहारकशक्तिलेशमात्रावतारेणाऽपि तस्य मुकर- त्वात् । न च नृगांनिःश्रेयसमन्यथा सुकरम्। भक्तितत्त्वज्ञानयार- धिकारिणोऽन्त्यतदुर्लभत्वात् । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये * यततामपि सिद्धानां कश्चिन्मां वत्ति तत्त्वत इत्यादिवा- क्यात् । न च भगवदिच्छया तत्सुकरम् । तस्या अपि जीव- कर्मसापेक्षत्वात् । अन्यथा वैषम्य पृण्यापातात् । तस्मात् करुणासागरो भगवान् संसारानले पापच्यमानाजीवाना- लोच्यावतरतीति भावः । यथा नृपरूपेण भगवतोऽवतरणं नृणां पालनाय, तद्वदिति सम्बोधनाशयः । अनेन जीवनात्मनाऽनुम- २८ रासपञ्चाध्यायीव्याख्यायाम् । विश्य नामरूपे व्याकरवाणीति श्रुत्या परमात्मनो जीवरूपेण प्रवेशो नामरूपात्मकसंसारविस्तारायोक्तः । प्रविष्टस्य तिरोहितस्य परमात्मनः पतिपुत्रादिरूपेण स्थितस्य संमृतिचक्रारूढस्य स्नेहादि- संबन्धेन संमृतिचक्रे भ्रमणातिशय एव, न तु तन्नित्तिः । भगवतस्तु अभिव्यक्तिरित्युक्तमतो यत्स्वरूपसाक्षात्कारेण मोक्ष: श्रुतिमस्तकेष्वभिहितस्तत् स्वरूपं भगवति अभिव्यक्तमेवास्तीसाशयेन भगवन्तं विशिनष्टि ॥ अव्ययस्येसादि ॥ अव्ययस्यापक्षयरहितस्य ससस्य यतोऽप्रमेयस्य प्रसक्षादिप्रमाणजन्यवृत्तिप्रतिफलितचैतन्या- ऽविषयस्याऽदृश्यस्य दृग्रूपस्य, तत्रापि हेतुमाह, निर्गुणस्याप्रसक्षा- दिप्रवृत्तिहेतुगुणविनिर्मुक्तस्य, सत्यं ज्ञानमनन्तं विज्ञानमानन्दं ब्रह्म विज्ञातारम् अरे केन विजानीयात, यत्र त्वस्य सर्वमात्मैवाभूत तत् केन कं पश्येत्, यत्साक्षादपरोक्षाद् ब्रह्म, साक्षी चेता केवलो निर्गुणश्चेसादिश्रुतेः । तथाच सयज्ञानानन्दात्मकस्यानातस्य पर- ब्रह्मणो नन्दनन्दनादिरूपेणाभिव्यक्तिर्न तु जीवस्येव जडदेहाव- भिमानेन तिरोधानम्।तस्माद्विषबुद्धयापि पीतममृतं यथा अमरत्वा- यैवावकल्पते तथा जारत्वादिबुद्धयाप्याराधितो भगवान्मोक्षायै- वावकल्पते इति, न कोऽपि विरोधः। ननु यथोक्तस्य निर्गुणस्य परमात्मनो महावाक्यजन्याखण्डार्थवृत्त्या आवरणभङ्गमात्रं सम्पा- द्यते । स तु स्वयंप्रकाशत्वात् स्वयमेव प्रकाशते । तस्मात् कथं चक्षुरादीन्द्रियजन्यत्तिविषयाकारणाभिव्यक्तिः। न हि दृश्य- मानघटपटाद्याकारं ब्रह्माभिव्यक्तमित्युच्यते । अतो भगवद्विग्रहस्य दृश्यमानत्वमभिव्यक्तब्रह्मरूपत्वं चेखेतदुभयं विरुद्धमितिचेत् तत्रा- ह ॥ गुणात्मन इति ॥ गुणानां सत्त्वरजस्तमसां वदात्मिकाया महामायादिशब्दप्रतिपाद्यायाः प्रकृतेरात्मनो नियन्तुः सचास्फूर्ति- पदस्याधिष्ठानचैतन्यस्य। तथाच सचिदानन्दरूपे परब्रह्माणिसर्वथा- गूढार्थदीपिकायाम् । ' अध्यायः । ( २९)। २९ ऽघटितमप्यज्ञानाहङ्कारादिकं यथा प्रतीयते, तथा साधकाऽनुग्रहा- थै भगवतस्तत्तद्विग्रहरूपेण भानमपि न विरुद्धयते । तत्राज्ञानादी- नां संसारकारणत्वात् तद्भानं संसारापादकम् । भगवद्विग्रहस्य तु मोक्षार्थ प्रकटितत्वात् तदर्शनादिकं मोक्षकरमिति विशेषः । प्र. कृति स्वामधिष्ठाय सम्भवाम्यात्ममायया * माया ह्येषा मया स- या यन्मां पश्यसि नारदेसादिशास्त्रात्स्वेच्छोबोधिततद्विग्रहभाना, नुकूलमायाशत्त्या तथाभूते परमात्मनि तत्तदाकृतिभानमिति सर्व- मनवद्यम् ॥ १४ ॥ अतो यथाकथञ्चित् तदासक्तिर्मुक्तिकारणत्वात् सम्पा. घेखाह ॥ कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वा ॥ नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥१५॥ कामं प्रेममयं रिरंसामयं वा । गोप्यादयः । क्रोधं द्वेष शिशु- पालादयः । भयं कंसादयः । स्नेहं पाण्डवादयः । ऐक्यं सम्बन्धं वृष्ण्यादयः । सौहृदं भक्ति नारदादयः । ऐक्यमभेदमात्मारामा इति व्याख्यानं तु सम्बन्धाद वृष्णय इति पूर्वोक्तविरोधादस्य यथा- थत्वेन यथाकथञ्चिद्रूपत्वाभावात् स्वामिभिर्न कृतम् । निसं हरौ बन्धहरणायावतीर्णे भगवति विदधतः कुर्वाणा येते तन्मयतां म- च्चिदानन्दस्वरूपभगवत्स्वरूपतां यान्ति । एवकारेण प्रयेकं स- म्बन्धित्वेन कामादीनां मध्येऽन्यतमस्य यथाधिकारमवश्यकर्नव्यता बोधयति । वाकारेण कामादीनां तन्मयताप्राप्तौ प्रसेकं स्वातन्त्र्यं ज्ञापयति । एवकारस्य यान्तीसनेनापि सम्बन्धः। तथाच यान्ये- वेसैकान्यं बोधितम् । निसमिसनेन शूर्पणखादिवद् व्यभिचरि- बकामादिव्यावृत्तिः । यान्तीति वर्तमानापदेशेनेदानीमप्येनं विद- रासपञ्चाध्यायीव्याख्यायाम् । धतो यान्सवेति द्योतयति ॥ १५ ॥ ननूक्तेऽप्यर्थ विस्मयाच्छिष्येण पुनः प्रश्नः क्रियतेऽतः कि- मिति सामर्ष भवद्भिरुत्तरं दत्तमिति चेदप्रसिद्ध ह्ययं उक्तऽपि क- दाचिद्विस्मयवशात् पुनः प्रश्नो भवेदनेकवारमनुभूते समस्तशास्त्रे- घु प्रसिद्ध परमात्ममुखात् सम्यक्श्रुते समनस्कस्य विस्मयोऽपि कर्तुमयोग्य इसाशयेनाह ॥ नचैवं विस्मयः कार्यों भवता भगवत्यजे ॥ योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ १६ ॥ नचेति ॥ गुणप्रवाहेत्रमसम्भावनालक्षणो विस्मयो, भवता तु गर्भवासकालादारभ्यैतावत्कालपर्यन्तं भगवन्नाहात्म्यमनुभूनवता, अबारितमपि ब्रह्मास्त्रं यो वारितबॉस्तस्य सेन निवर्तनीयसंसार- निवर्तने कः परिश्रन इति सर्वविस्मयनिवारकजन्नता जन्मकाले अनौ मद्रक्षक इति परीक्षणेन परीक्षदिति न.मवता न च कार्य: कदापि न कर्तव्यः । एवम्भूनो विस्मयस्त्वज्ञानामश्रद्धधानानां सं- शयाविष्टचेतसांवा भवति, न तद्विलक्षणानां भवादृशानाम् । अज्ञत्वा- दिकं तु सर्वानर्थकारणत्वाद् दूरतः परिहणीयम्। तदुक्तम्-अज्ञ- श्वाश्रयानश्च संशयात्मा विनश्यति * नायं लोकोऽस्ति न परो न मुखं संशयात्मन * इति । तत्रापि भगवति पइगुणैश्वर्यम- म्पन्ने, येन तस्योद्धारो यद्विषयकाङ्या वा तस्य प्रतिबन्धस्तदावि- भीवेन तदाकाङ्क्षापूर्या वा मोचनसमर्थे । अत एवाऽजे जन्महेत्र ऽविद्याकामकर्मवासनादिविनिर्मुकत्वाजन्मशून्ये, लोकानुप्रहाया- विर्भूतत्वादिव्यजन्मादिसत्त्वऽपि नास्यजत्वादिव्याघात इति भावः। किञ्च, योगेश्वरेश्वरे॥योगेश्वरा ब्रह्मादयस्तेषामपीश्वरे आदिकारणे नियन्तरि स्वाजत्वमहेश्वरत्वादिज्ञानवतोऽपि मुक्तिपदे । तदुक्तम्- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। अहमादिहि देवानां महर्षीणां च सर्वशः * यो मामजमनादि च वेत्ति लोकमहेश्वरम् * अमम्मूढः, स मर्येषु सर्वपापैः प्रमुच्यत इति। यद्वा, यत्प्रसादाद्योगेश्वरा अपि मोक्षदानक्षमास्तेषामीश्वरे को वि- स्मयः । एवं त्रिभिः पर्मोचनसामर्थ्यमभिधाय, किञ्च मुक्तपाप्यो- ऽपि स एवेसाह ॥ कृष्णे सदानन्दस्वरूपे यतो येन केनापि प्र. कारणाश्रितादेतच्चराचरं सर्वमाप विमुच्यते । तथाच लुप्तश्वर्थे, प्रादुर्भूतजन्माद्यनर्थसमूहे, स्वस्यापि मो- क्षोपाय योगादिशून्ये, आततदानन्दस्वरूपे, अनृतजडदुःखदेहादि- तादात्म्यापने जीवेऽस्त्वे विस्मयो, न तु यथोक्ते परमात्मनि, तत्रापि भवत इति भावः ॥ १६ ॥ अहो बडूक्तम्, इतः परम् अलं प्रश्नोत्तराभ्यां लोकोत्तरमुखाया भगवद्रासक्रीडाकयाया विच्छेदकाभ्यामिति बनयन स्वयमेव प्र. कृतमनुसरति । ता दृष्ट्वाऽन्तिकमायाता भगवान् ब्रजयोषितः ॥ अबदद् वदनां श्रेष्ठो वाचः पेशैविमोहयन् ॥ १७ ॥ ता इति ॥ ताः स्वयं कलगीतेनाहूताः, अतो ब्रजयोषितो व्रज एवं वासयोग्या अपि झटिति स्वतमीपमागता उपलभ्य । यद्वा ता ब्रजयोषितः सर्वदा ब्रज एवोपलब्धास्तदानीं स्वस्य वने स्थितस्यान्तिकमायाना दृष्ट्वा, वाचः पेशर्विलासैः स्वचित्तानुसारेण निषेधार्थनार्थ नीतिजनकैः पूर्व कलगीतेन मोहिताः पुनर्विशेषेण मोहयन अभाषत । यतो वदतां सर्वेषां वक्तृणां मध्ये श्रेष्ठः । यतो भगवान् । इदं च व्यामोहोत्पादनं विशेषरसोद्भवाय । तथाच याः स्वात्मानं धैर्याभावाद् बहिपि प्रार्थयन्ति तामां प्रेम्ण उपे- क्षावाक्यैरवोद्दीपनं भवति । यास्त्वन्तरतः प्रार्थनावसोऽपि धैर्यव- :

रासपञ्चाध्यायीव्याख्यायाम् । शान्मानवसो बहिर्नेति नेतीखेव वदन्ति तासां प्रेम्णःप्रार्थनावाक्यै- रेसतस्तन्त्रेणोमयार्थवाक्यान्यभिहितवान् । पृथग् यथोक्तार्थवा- क्यप्रयोगस्य परस्परकलहापादकत्वेन रसाभासकत्वात् । यद्वा सर्वत्रापिशब्दान्तर्भावनेत्थं व्याख्येयम् । ब्रजयोषितः साहजिक- प्रेमवयोऽपि, ताः प्रेममयकामविकारं प्राप्ता अपि, अन्तिकमायाता अपि, साक्षाद दृष्ट्वापि, स्वयं भगवाँस्तासां भावज्ञोऽपि, कपटवाक्यै- ामोहयन वैकल्यं प्रापयन्नवदत् । यतो नर्मोक्तिवादिषु श्रेष्ठः । तथाच नर्मविशेषार्थमेवमभाषतेत्यर्थः । निवृत्तिपक्षे भगवानेव वदतां श्रेष्ठस्तत्तद्वादिरूपेण वदतामग्र- गण्यः सन् वाचः पेशैरापातरम्यविलासैः, विमया विरुद्धमम- पा विपरीतसिद्धान्तेन ता अहस्तर्कयन्नुवाचेत्यर्थः । मोहितान मन्दमतीन् विशेषण मोहयन्निति वा ॥ १७ ॥ यदवदव तदुदाहरति । स्वागतं वो महाभागाः प्रियं किं करवाणि वः ॥ ब्रजस्यानामयं कच्चिद बतागमनकारणम् ॥ १८ ॥ स्वागतमिति॥ तत्र त्रिविधां गोप्यास्वावतारं विज्ञाय रमणा- भिलाषवत्योऽभिज्ञाः प्रथमाः । जारबुद्ध्या तद्वत्योऽनभिज्ञा द्विती- याः । स्वप्रेमातिरेकेण वशीकृतपेष्टा मानवत्यस्तृतीयाः । तत्राभि- ज्ञापले, वो युष्माकं स्वागतं मुष्ठु शोभनमागमनं जातम् । प्रेष्टस- निधावागमनमात्रस्याप्यसन्तशोभनत्वात् । यद्वा, स्वागतमिति कुशलपश्नः । अतः परमप्रेम्णा समागतानां युष्माकं प्रसन्नोऽहं किं प्रियं करवाणि । युष्मन्मनोऽभिलषितप्रियकरस्तेन भवतीनां सन्तोषस्य सम्पादनीयत्वात् । अहो रमणेच्छयाऽऽराधनपराणाम- स्माकं मन्दभाग्यवादद्यापि सर्ववेनाप्यभिप्रायो न बुदो यत एवं गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। पृच्छति । यद्वा । अस्मत्प्रेमभरतामालोच्यैवं वदति तस्मादतः परं किं वक्तव्यमिति विचार्य खिन्नचित्ता आलक्ष्याऽऽश्वासयति । हे महाभागाः । महद्भाग्यं भवतीनाम् । यतो ब्रह्मादिभिरपि प्रार्थनी- यं मत्लानिधानं लब्धवसः । यद्वा, महान भागो भजनं यासाम् । मत्प्रेमातिरेकविनिर्मुक्तानां कथं मत्सम्बन्ध इति भावः । एवमु. क्ता अपि वक्तुमशक्ता बजाभिमुख्यः स्थिता दृष्टा पुनराह ।। बजस्येति ॥बजस्थसम्बन्धिजनस्योपद्रवोपस्थितौ भवतीनामागमनं जातं स्यादिति मया ज्ञातमतः पृच्छामि । बजस्य कचिदनामय- मुपद्रवाभावः संप्रति वर्तते । एवं श्रुत्वा अहो सर्वज्ञोऽपि भगवान् अज्ञवत् पृच्छतीति नरनाट्यमालक्ष्य विस्मयेन मन्दस्मितवतीरुप- लभ्य स्वयमपि मन्दहसितालंकृतमुखसरोरुह आह ॥ ब्रूतेति ॥ आगमनकारणं बन । किमिह तूष्णीमवस्थानेन सन्देहापादकेन । स्वाभिप्रेतप्रियप्रार्थनप्रतिबन्धकलज्जाभिभवकारणप्रेमातिरेकसंपाद- नार्थ भगवता ताः प्रसेवमुक्तम् । अनभिज्ञापले, स्वस्मिन्नासक्तचि- ता अस्मत्कलगीतश्रवणसमकालमेव बजाद बहिनिःसृस स्वसन्नि- धौ समागता, अत एव तासामन्तःकरणस्थो भावोऽपि बहिनिःसा- रणीय इसाशयेन दाक्षिण्य लक्षणनायकस्वभावं ता ग्राहयितुमव- हित्थालक्षणनायिकास्वभावमङ्गीकृस आह ॥ स्वागतमिति ॥व: शोभनमागमनं भवतु । युष्मदागमनं स्वस्य शुभसूचकमहं लक्षये । यतो, हे महाभागा महद्भाग्यलब्धो महान भागः स्वपतिभजनं यासा ताः पतिव्रता तथाच महाभागानां युष्माकमागमनं महद्भाग्यं सूच- यतीति भावः । अत आज्ञापयन्तु भवसो, वः प्रियं किं करवाणि। केन प्रियाचरणेन स्वात्मानं कृतार्थ करोमीयर्थः। एवं विपरीतमा- कोद्विग्नमानमाः शुष्यन्मुखारविन्दा, अहो तथैव धजात सहसा निःसृयात्र समागता इति पश्चात्तापेन ब्रजाभिमुखीरुपलभ्याह ।। ५ ३४ रासपञ्चाध्यायीव्याख्यायाम् । बजस्येति।यदि ब्रजस्य कश्चिद उपद्रव उपस्थितस्तच्छान्सा च यु- ष्मप्रियं भवति तर्हि वक्तव्यम । झटिसेव तच्छान्ति करोमीति भावः । ननु भोः, चतुरशिरोमणे, तथा सति गोपा आगताः स्यु- रितिचेत् तत्राह ॥ ब्रूतेति ॥ युष्मदागमनेन तत्रसस्त्रीणामेव कश्चि- दुपद्रव उपस्थित इति तर्कवशान्मयैवमुच्यतेऽतः स्वमुखादपि झटिति तत्कारणं ब्रूत । अहो एतत्स्वरूपासक्तचित्ताभिरस्माभिर्बजस्य दत्तं जलाअलि जानन्नपि फलकाले किमस्मासु ब्रजासक्तचित्ततामारो- प्यैवं वदतीति स्वमुखारविन्दाभिमुखीरलोक्याह-ब्रूतेति, वा। तिष्ठतु मदुक्तस्तर्कः, स्वयं वक्तुमुद्यता यूयं स्वमुखादेव स्वागमन- प्रयोजनं चूनसर्थः । यद्रा, ससम्भ्रममाह ॥ स्वागतम् ॥ यतो भव- सः पतिपुत्रादिसकलसम्पत्सम्पन्नत्वेन महाभागाः। तथाभूताना- मागमनावकाशरहितानामत्रागमनेन महान ममातिविस्मयो जात इति भावः । तस्माद युष्माकं किञ्चित्प्रियाचरणे मम महत्युत्कण्ठा जातेखाशयेनाहाप्रियमिति॥यत्मियं भवसः प्रार्थयन्ति तदहं क- रवाणीसा एवमुक्तानर्मोक्तिमबुद्ध्वा लज्जया स्वाभिलषितं प्रियं पार्थयितुमशक्ता बजाभिमुखीरवलोक्याह-ज्ञातं मया, श्चिदुपद्रव उपस्थितः स्याद् यद्भयात् पलाय्य स्वत्राणार्थ मदन्ति- कमागता अतः पृच्छामीयाशयेनाह ॥ ब्रजस्येति ॥ तथाच तत्र स- म्भावितोपद्रवशान्तिरूपं प्रियं किं करवाणीति भावः । एवमुक्ता अहो अस्य धूर्ताधिराजस्याधापूर्वोऽयं वाग्विलासो द्रष्टव्य इति तर्कयन्तीः सस्मितं परस्परं विलोकयन्तीरालक्ष्याह ॥ तेति ॥ अहो भवतीनां मौनेन मिथः सस्मितनिरीक्षणेन चोपद्रवाभावो- ऽस्तीति मया ज्ञातमतः स्वमुखादेवागमनप्रयोजनं ब्रूतेसर्थः । मा. निनीपले, ता दुर्लभदर्शनसंभाषणाः स्वान्तिकमायाता दृष्ट्वा अतिवि- स्मितस्वान्तः सोत्कण्ठमाह ॥ स्वागतमिति ॥ अहो वो युष्माभिः व्रजेक- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। मुष्ठ समीचीनमागमनं कृतम् । एतादृशचन्द्रकराभिरभिते स- मस्तोद्दीपनसामग्रीविशिष्टे वने युष्मदागमनाकाङ्कया मदवस्थाना- द । ननु किमिसेवं ब्रवीषि, मन्दभाग्यप्रेरिता वयमत्र समागता इति कदापि न वाच्यमिसाह ॥ हे महाभागाः । एवंविषयौवना- दिवतीनामेवंविधे बने एवंविधेन प्रियेण समागमो महना भाग्येन लभ्यतेऽतो नाल्पस्य तपसः फलमिति भावः । अहो नाऽयङ्कोप- कालः, किन्तु कोपौदासामीन्यादिकं विहाय रमणस्य समयोऽतो येन प्रियाचरणेन भवत्यः प्रसन्ना भवन्ति तकि वर्तते तदहं करोमीति दैन्यं व्यज्यते । यदा, किमेवंमुद्रयाऽस्थिता, ययुष्माकं मनसः प्रियं तदहं जानामि, तदेव च ममापि प्रियं, तद्वः प्रियं देश- कालानुकूल्ये सति किं करवाणि । भवतीनामनुज्ञा वर्तते किमिति ससंभ्रमोक्तिः । एवमुक्ता बजाभिमुखीरवलोक्य तासां पलायन संभाव्याह । व्रजस्येति ॥ अहो पियाः ! प्रियाचरणानुज्ञा कि- मिति न दीयते, किमर्थं वा विकसितमुखपद्मा भवसः पुनव्रजमव- लोकयन्सऽतोऽहं पृच्छामि । व्रजस्य तु कच्चिदनामयम् । एवमु- ताः किञ्चिद्विकसितवदना ईषत्कटाक्षवतीरवलोक्य सस्मितमाह ॥ ब्रूतेति ॥ आगमनप्रयोजनं झटिति ब्रूत । प्रार्थनायां लोट् । किंवा वदिष्यन्तीति भयान्मद्भयकम्पमपाकुरुतेति दैन्यं व्यज्यते । स- म्प्रयभीप्सितकार्यनाशकरी लज्जां विहाय कथयतेति भावः ॥ निवृत्तिपक्षे, आस्तिको भूत्वा वदति ॥ स्वागतमिति ॥ व: श्रुतीनां सुष्टु आगतम् आगमनं भवति । यतो भवसो महाभागाः प्रमाणमूर्द्धभूता अतो युष्माकं किं प्रियं करवाणि । अभिधेयं किं धर्मः, किं वा ब्रह्म । तदपि किं सविशेषमुत निर्विशेषम्, ए. कमनेकं, कर्ममाप्यमुपासनापाप्यमुभयप्राप्यं केवलज्ञानप्राप्यं, क- मसमुच्चितज्ञानप्राप्यं वा प्रतिपादयामि । ननु यथाकथञ्चिद्य- रासपश्चाध्यायीव्याख्यायाम् । , त्किञ्चित्मतिपादने को दोष इसाशल्याह ॥ ब्रजस्यापौरुषेयस्य वेदस्यानामयं कच्चित् । दोषगन्धोअप न सम्भाव्यते । पौरुषेय. वाक्येषु तथा चेदस्तु नामेति भावः । नन्वागता एव परब्रह्मणि षयमतः किमिसेवं पृच्छसीसाशङ्याह ॥ ब्रूतेति ॥ स्वागमनवती. नां युष्माकमागनकारणं विनाऽऽगमनं नोचितमिति कृत्वा तस्य कारणं जातिगुणसज्ञान्यतमं ब्रूतसर्थः ॥ १८॥ एवमुक्ता, लज्जाविष्टमानसाः किञ्चिदपि वक्तुमक्षमा अव- लोक्य प्रेमोद्दीपनार्थमीपत्कर्णकठोरं वाक्यमाह ॥ रजन्येषा घोररूपा घोरसत्त्वनिषेविता ॥ प्रतियात व्रजं नेह स्थयंस्त्रीभिः सुमध्यमा॥१९॥ रजन्येषेति ॥ युष्माकं मौन्येन कारणाभावो मया ज्ञातः । अकारणं चागमनमुन्मत्तचेष्टितसमम् । तस्माद् वृथाऽऽगमनवदत्रा- वस्थानस्यानुचितत्वादिह वने न स्थेयम् । यज्जातं तत्तु जा- तमिति माऽस्तु वृथा चेष्टितमिति भावः । तर्हि किं चेष्टितमिसपे. क्षायामाह ॥ जं प्रति यात गच्छत । गत्वा गृहकृसपरता सम्पाये. ति भावः । व्रजमिसनेनावागमनवदन्यत्र गमनस्यापि निष्फलत्वं सूचितम् । ननु भवतु क्षणमात्रं स्थित्वा गमिष्याम इतिचेत् त- त्राह ॥ रजनीति ॥एषा उपलभ्यमाना । तथाच सम्यग् नेत्राण्यु- मील्य द्रष्टव्या, एषा रजनी वर्तते, न तु दिनम् । दिनादौ विल- म्बेऽपि कृते उत्तरोत्तरप्रकाशबाहुल्यसम्भवान्नास्ति बाधा, रजन्यां तूत्तरोत्तरान्धकारबाहुल्यसम्भवाद्विलम्बो नोचित इति भावः । किञ्च ज्योत्स्नाबहुलाऽपि घोररूपा रात्रित्वादेव । तथाच महा- निशीथाऽऽगमे गमनमत्रावस्थानं च दुर्घटें भविष्यतीति भावः । ननु भवत्वेवं तथाप्यकस्मादागताः फलमूलादिकं किञ्चिदादाय गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। यास्याम इति चेत् तत्राह ॥ घोरसत्त्वाघ्रसर्पदृश्चिकादिभिनि- विता । कालसम्बन्धाद् दृन्दावनेऽपि घोरसत्त्वसम्भावनयात्राव- स्थानं विहरणं वा नोचितमिति भावः । नन्वेवं तर्हि भवताऽपि किमर्थमत्रावस्थीयते, व्रज एव चलनीयमितिचेत् तत्राह ॥ स्त्रीभि- रिति ॥ तत्रापि हेतुः ।। मुमध्यमाः ॥ सुकुमारमध्यभागा भयोप- स्थितौ पलायनादावसमर्थाः । अत एव कोमलचित्तत्वाद् घोरस- त्वं द्रष्टुमप्यक्षमाः। एतेन तव सन्निधौ नास्यस्माकं किञ्चिद् दुःखमिति शङ्कापि निरस्ता । अनभिज्ञापक्षे एतच्छ्रुत्वा, अहो द्र- ष्टव्यं धूर्ताधिराजस्य वाग्विलासचातुर्य, लोकोत्तरसौन्दर्यक्रीडा- दिकं दयित्वा धैर्यकुललज्जादिकं नाशयित्वा सम्प्रति कल- गीतेन स्वयमाहूय कारणं पृच्छतीत्यपाङ्गचालनैरेव परस्परमाच- क्षाणासु तासु अहो मया बुद्धं, देवपूजोपयोगिपुष्पाद्याहरणाय भव- बः स्वागनाः स्युरतस्तथाचेच्च गुतसाह ॥ रजन्येषेति ॥ भोः, चतुर- शिरोमणे! किमेवमागमनकारणं पृच्छसि । भवानिव वयमपि क्री. डार्थ वने समागता इति छमनाऽवस्थानपरा आलक्ष्याह ॥ रज- न्येषा घोररूपेति ॥ भो विशालनेत्रा, नेदं दिनम् । अत एवंवि- धायां रजन्यां कुलवधूनां युष्माकं प्रासाद एव क्रीडोचिता, न तु बहिरागस बने । ननु घोररूपायां रजन्यां प्रासादेऽपि क्रीडा कथं स्यादितिचेत् तत्राह ॥ इह, बने एव घोररूपा, न तु व्रजे। सहाय- बाहुल्यादिति । ननु भोः कमलनयन ! एवंविधज्योत्स्नावत्त्वेन उपलभ्यमाना रजनी किमिति घोररूपेत्युच्यते त्वयेतिचेत् तत्राह॥ घोरसत्त्वनिषेविता ॥ अतो व्रजं प्रतियात । अहो भवतु, क्ष- णमानं विश्रम्य यास्याम इतिचेत् तत्राह ॥ नेति ॥ अवश्यकर्त- व्ये विलम्बो न युक्त इति भावः । ननु भवता कथं स्थीयते इतिचेत् तत्राह ॥ स्त्रीभिरिति ॥ ननु बहीनामस्माकं तव सन्निधौ " ३८ रासपञ्चाध्यायीव्याख्यायाम् । स्थितानां का भयसम्भावनतिचेत् तत्राह|सुमध्यमा इति ॥ यद्वा, ननु त्वमेव भीरुरसि, न तु वयम् । वनमपि साधारणं, न तु तव पित्रा पितामहादिभिर्वा मौल्येन क्रीतम् । अतो वयमत्रैव विहरि- प्याम इति चेत् तत्राह ॥ नेति ॥ भवतु, यथेष्टं विहरन्तु भवसः, परन्तु रहो मत्पार्वे न स्थेयम् । आबालब्रह्मचारिणा मया स्त्रीस- ङ्गस्य परिहतत्वात् । तत्रापि बालद्धाभिः सहावस्थाने नास्ति दोषः । यूयं तु युवतयः सुन्दर्यश्चातो दूरतः परिहरणीया इसाशयेनाह ॥ मुमध्यमा इति ॥ तथाच सुन्दरीणां युवतीनां मु. न्दरेण मया रात्रौ निर्जने वने सहावस्थानं नोचितम् । यद्यपि यूयं परमपतिव्रता, अहं च ब्रह्मचार्यग्रगण्यो जितेन्द्रिय एवाऽतः सहावस्थानेऽपि नास्ति विकारशङ्का, तथापि मनसोऽविश्वसनीय- त्वादपकीयुद्भवाच्च नेदमुचितमिति भावः । यद्वा । अत्रागमने भ- वतीनां प्रयोजनमहं न पश्यामि । पृष्टेऽपि तूष्णीम्भावाद् भवसो- ऽपि न पश्यन्सतो यद् ब्रवीमि तत् कुरुध्वमिसाशयेनाह ॥ रजनी- ति ॥ सम्प्रति जं प्रतियात । यत एषा, दिवा तत्तव्यापार- वशादलब्धावसरयोर्दम्पयोः सुखजनकत्वन बहुशोऽनुभूयमाना रजनी रजनकरी वर्तते । ननु यद्येवं तथापि रजन्यां गन्तुमशक्ता इतिचेत् तत्राह ॥ अघोररूपा ॥ शरत्पूर्णचन्द्रचन्द्रिकया व्याप्त- त्वाद् दिनसादृश्यमापन्ना । अतो नास्ति भयसम्भावनाऽपीयर्थः । ननु रात्रौ निर्जन वने व्याघ्रादयो यदि स्युस्तर्हि किं कुर्म इति चेत् तत्राहाऽघोरसत्त्वैर्भमरकोकिलादिभिरेव निषेविता, वृन्दा- वनमाहात्म्यान तु घोरसत्वैाघ्रादिभिरियर्थः । किञ्च पति- भिः सार्द्धमत्र स्थितौ नास्ति क्षतिरिसाह ॥ नेति ॥ स्त्रीभिः पति- विरहिताभिरिह निर्जने वने तत्रापि मत्पावें केवलानामत्र पर- पुरुषसन्निधाववस्थानस्य मुखहान्यपकीर्यादिकरत्वात् । मम त्व- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। ऽविवाहितस्य पुरुषस्य यत्र कुत्रापि स्थितौ नास्ति काचित् क्ष- तिरिसपि, स्त्रीभिरिखनेन ध्वनितम् । ननु एकस्यां रजन्यां वि- युक्ता एव स्थास्यामस्त्वं कस्मादस्मान् दृष्ट्वा ग्लायस इति चेत् तत्राह ॥ हे सुमध्यमा इति ॥ अहो क्षणान्तरे को वेद किं भविष्यति, एवंविधं सौकुमार्यादिक वृथा नक्षपणीयम् । ममापि भवतीनां सौन्दर्य्यादेवृथा नाशसम्भाव- नया दया ग्लानिर्भवतीति भावः । मानिनीपले, अथैवमुक्ता जं मति गन्तुमुद्यता आलक्ष्याह ।। रजनीति ।। अहो आगमनकारणं लज्जादिना नोच्यते चेत् तर्हि मा ब्रूत तथापि जं प्रति तु न यात । अत्रापि प्रार्थनायां लोट् । कुत इसत आह ॥ एषाऽनुभूय- माना रजनी रजनकरी । एवंविधा पुनर्मिलिष्यति न वेति भावः। यतो ज्योत्स्नाव्याप्तत्वादघोररूपा । पुनश्च क्रीडोपकरणभूतैरघोरै- भृङ्गमृगादिभिनितरां सेविता । यद्वा घोरं सत्त्वं बलं यस्य तेन मया निषेविता । अतो नास्ति भयसम्भावनाऽपीति भावः । यद्वा पित्राद्यागमनभयाविष्टमानसा वयं कथं न याम इतिचेत् तत्राह ॥ घोररूपा ॥ रात्रित्वात् । पुनश्च घोरसत्त्वनिषेविता, तस्मादत्र कोऽपि नायास्यतीति भावः । अतः सर्वशङ्का विहायेह मत्पार्चे स्थेयम् । यतः, स्त्रीभिः । स्त्रीणां एवंविधे देशे काले चैवंविध- रमणसंनिधाववस्थानं बहुयोग्यमिति भावः । तत्रापि न स्त्रीमात्रस्य अपि तु युष्मद्विधानामिसाशयेनाह ॥ हे सुमध्यमा इति ॥ निवृत्तिपक्षे, बतागमनकारणमित्युपक्षिप्य कारणाभावमुपपा- दयति ॥ रजनीति ॥ एषा अद्वैतवाद्यभिमता निर्विशेषा चित्, रजनी रात्रितुल्या। सर्वस्यापि तत्राध्यासात् । अत एव घोरं सर्व- विशेषविनिर्मुक्तत्वादयन्तशून्यारण्यवदसर्यभयङ्करं रूपं यस्याः सा । अत एव घोरं स्वपरात्यन्तदुःखकर सत्त्वं बलमन्तःकरणं रासपश्चाध्यायीव्याख्यायाम् । वा येषां सर्वनिषेधप्रतिपादनपराणां तैनितरां सेविता । अतो ब्रज प्रति यात बहुवेदवाक्यानुसरणं कुरुत । इह निर्विशेषचिति प्रति- पादकतया न स्थेयं, स्त्रीस्थानापबाभिः श्रुतिभिः । यतो हे सुम- ध्यमाः! शोभनार्थप्रतिपादनेन सुन्दर्यः । अयं भावः । ब्रह्माणि वेदान्ता न प्रमाणम् । तत्र तत्प्रामाण्यस्याशक्यनिरूपणत्वात् । तथाहि । ब्रह्म मानान्तरगम्यं न भवति, किं वा भवति । नायः। मानान्तरविषयलयोग्य एव सिद्धे शब्दप्रवृत्तिदर्शनात् । न द्वि- तीयः । वेदान्तप्रतिपाद्ये ब्रह्मणि मानान्तरानुपलब्धेः । ननु लोकेऽपि न वाक्यार्थे मानान्तरापेक्षा । वाक्यार्थस्य सर्वत्रापूर्व- त्वात् । सिद्धबोधि वाक्यमपि न स्वार्थप्रमितौ तदभावशङ्कानिट- चये वा मानान्तरमपेक्षते, किन्तु वाक्यस्य वक्तृदोषप्रवृत्तामामा- ण्यशङ्कानिदृत्तये ब्रह्म त्वऽपौरुषेयवेदान्तलक्ष्यमखण्डसद्वाक्यार्थ एवातस्तल्लक्षकवेदान्तानां न मानान्तरापेक्षा । अतः कथं ब्रह्मणि वेदान्तानामप्रामाण्यमितिचेन्न । अखण्डार्थत्वस्य लोकवेदयोरसि- द्धत्वात् । न हि नानापदार्थसंसर्गविषयस्य वाक्यस्यैकमातिपदि- कार्थविषयत्वं सम्भवति । वाक्य हि अभियां, गौणी, लक्षणां वा वृत्तिमादाय स्वार्थ बोधयतीति प्रसिद्धम् । नचास्वन्यतमयापि वृत्या वेदान्ता अखण्डमर्थ बोधयन्ति । मुख्यवृत्त्या पदानामे कार्यत्तित्वानुपपत्तेः स्पष्टवात् । गौणीलक्षणयोः स्वीकारे- ऽप्यन्यतरपदवाच्याल्लिक्ष्याद्वा अधिकालक्ष्यमाणगुणान्यतर- पदवाच्यार्ययोः सत्चाद्वाक्पार्थस्यैकपदार्थमात्रवृत्चित्वासिद्धिः । ननु पदद्वयेऽपि लक्षणाङ्गीकाराल्लक्षणापक्षे नास्ति दोष इति चेन्न । अर्थभेदाभावे पदानां पर्यायत्वादाकाङ्क्षादेरभावाद्वाक्यत्वभङ्गापत्ते- क्यिवैय्यापत्तेश्च । ननु वाच्यार्थभेदान्न पर्यायता । वाक्यस्य पदानतिरिक्तत्वेऽपि ममितिजनकत्वेनार्थववाद । नापि वाक्य- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। वैय्यामति चेन्न । वेदान्तानामनुदितानस्तमितचैतन्यमात्रस्वरूप- परब्रह्मविषयममितिजनकत्वाङ्गीकारेऽविषयसिद्धान्तभङ्गापत्तेः । प्र- माणवैफल्याच । तस्मान्न श्रुतिमस्तकप्रतिपाद्यत्वविवाद इति॥१९॥ ननुभवत्माप्तीच्छया समागतानां भवद्गीतादिनोद्दीपितस्मराणां विलम्बसहनाक्षमाणां स्वभक्तानामस्माकं सागो नोचित इति चेत् तत्राह॥ मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ॥ विचिन्वन्ति ह्यपश्यन्तो मा कृध्वं बन्धुसाध्वसम्॥२०॥ मातर इति ॥ कासाश्चिन्मातरः, कासाञ्चित् पितरः, कासाञ्चित पुत्राः कासाश्चिद भ्रातरः, कासाञ्चित् पतयः सर्वे गृहे अपश्यन्तो विचिन्वन्ति मृगयन्ते, न त्वन्वेषणानिवृत्ता अतो मात्रादिष्वेकोऽपि यद्यागस मत्पार्वे युष्मान् पश्येत् तदोभयेषां भयलज्जेस्यातामतो- ऽत्र स्थिया बन्धुभ्यः स्वस्य भयं, बन्धूनां मम चाऽपकीर्तिभयं च माकुरुताऽतो बन्धूनां साध्वसपरिहाराय ब्रजं प्रति यात, अन्यत्र वा चलत । तथाच संपसस्ति भवतीनां प्रतिबन्धकमतो मम को दोष इति भावः। अनभिज्ञापले, ननु नास्त्यस्माकंकिञ्चिदपि भयं समुदायनिविष्टत्वा- द् भवत्समीपस्थत्वाच्च । नाप्यपकीर्तिभयम् । संघश आगतत्वाद- अज्ञातस्थाने स्थितत्वाच्चेति चेत् तत्राह ॥ मातर इति ॥ भवतीनां नियामिका युष्मान् गृहेष्वदृष्ट्वा विचिन्वन्ति । अतस्तासां साध्वसं मा कृध्वम् । ननु ता अप्येवंविधा एवातः स्त्रीत्वाद्वा नागमिष्यन्ती- तिचेत् तत्राह॥ पितर इति ॥ ते स्वकुले कलङ्कपातशङ्कया विचि- न्वन्त आगमिष्यन्तीसर्थः। ननु ते ऽपि नागमिष्यन्ति, संघश आ- गतास्वस्मासु शङ्कानुत्थानात् । स्त्रीस्वभावस्य तैरपि ज्ञातत्वाचेति- चेत् तत्राह । पुत्रा इति । पुत्राणां रक्षणाग्रहे महती लज्जा वर्तते ws रासपञ्चाध्यायीव्याख्यायाम् । इति भावः । ननु ते बाला इति चेत् तबाह ॥ भ्रातर इति ॥ ते झन्वषणे समर्था लज्जावन्तश्चातस्ते अदृष्ट्वा लज्जया कदाचिच्छ- रीरमपि सजेयुरिति भावः । ननु तरुणास्ते वयं च तरुण्योऽतो लज्जयान्वेषणार्थ नागमिष्यन्तीति चेत् तत्राह ॥ पतय इति ॥ य- द्वा, ननु रात्रौ पतिसन्निधौ स्थितिसम्भवानया तेऽन्वेषणाय न प्र- वर्तन्त इति चेत् तत्राह ॥ पतय इति ॥ते रात्रौ भोगापेक्षा भवन्य- तोऽदृष्ट्वा अन्वेषयन्तोऽत्रागमिष्यन्ति । तस्मात् तदीयो रसोऽन्य. स्मै न देयः । भोगसिद्धेस्तत एव मुकरत्वादिति भावः । नन्वेवं सहि ते यदा आगमिष्यन्ति तदा तैः सार्द्धमेव गमिष्यामोऽतस्ताव- स् त्वमस्मत्समीपे तिष्ठेति शङ्कानिरामाय, विचिन्वन्तीत्युक्तम् । सथाच गृहानिर्गता मध्ये स्फुटितैर्माान्तरैगताः सन्तो विचिन्व- न्येवानोऽत्रागमनं तेषां दुर्घटमतो विचिन्वन्तोऽतिखदं मरणं वापा- प्नुयुरिसर्थः । नन्वस्तु, किमस्माकं तैरितिचेत् तत्राह ॥मेति ॥ तैः सार्द्धमेवावस्थानयोग्यानां कुलाङ्गनानां युष्माकंतत्साध्वसोत्पादि- का प्रत्तिनोंचितेति भावः । मानिनीपक्षे, ननु किमिसेवं निर्ल- जः सन् बहुपरिवाररक्षिता लज्जावतीरस्मान् प्रति ब्रवीषि, वय- मत्र क्षणमात्रमप्यवस्थातुं न शक्नुमः । यतः परमप्रेमास्पदा अ- स्मानऽपश्यन्तोऽस्मन्मात्रादयोऽन्वेषणाय निःसृताः स्युरतस्तेषां म- ध्ये यधेकोऽप्यत्रागस वाऽस्मान् पश्येत् तर्हि महाननर्थो भवेत् तस्मा- त् तदागमनात् पूर्वमेव झटिसेवास्माभिर्गन्तव्यमिति चेत् तत्रा- ह॥ मातर इति ॥ बन्धुभ्यः साध्वसं मा कृध्वम् । यतस्ते मात्राद- योऽपश्यन्तः सन्तो विचिन्वन्त्येव, न तु गहनेऽस्मिन् वने तेषा- मागमनं सम्भाव्यत इति भावः। यद्वा, विचिन्वन्ति, न त्वत्रायान्ति, नाप्यायास्यन्ति। हि यतोऽपश्यन्तो न द्रक्ष्यन्त्येव वनस्यास्याति- निविडत्वान्मया तामस्या विद्यया एतत्स्थानस्याच्छादितत्वाच्च । ॥

गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। ४३ अतस्तद्भयं विहाय मया साई यथेष्टं रमतेति भावः ।। निवृत्तिपक्षे, ननु निर्विशेषमखण्डं ब्रह्म यथोक्तरात्रिकल्पमि. वया कथं ज्ञातमियाशङ्ख्या बहुविद्वत्सम्प्रतिपत्तेरित्याह ॥ मातर इति ॥ ये मात्रादिस्थानापन्नाः सांख्याध्वरमीमांसकादयो विचि- न्वन्ति, यथोक्तं ब्रह्म श्रुतिप्रमाणकमस्ति ? न वेति ? विचारय- न्ति तथापि न पश्यन्येव । तथा च यदि स्यात् तर्हि परमविच- क्षणैरन्वेष्यमाणमवश्यमुपलभ्येत, नोपलभ्यते । स्फीतालोकवर्ति- घटानुपलब्ध्या घटाभाववत् तदभावो निश्चीयत इति भावः । त- स्माद् यथोक्तरात्रिकल्पत्वत्राणाय परमोद्योगवत्वादेते वो बन्धव- स्तेषां साध्वसं तन्मताननुमोदनेन वेदबाह्यत्वप्राप्तिभयं मा कृथ्व- म् । स्वरक्षकस्य रक्षणमेवोचितं, न तु भयप्रदानमिति भावः ॥२०॥ एवमुक्ता अहो भगवदनुग्रहालाभान्निष्फलमेवास्माकमागमनं जातमिति विचार्य खिन्नचित्ता आश्वासयति । दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ॥ यमुनाऽनिललीलैजत्तरुपल्लवशोभितम् ॥ २१ ॥ दृष्टमिति ॥ युष्माभिरत्रागत्य वनं दृष्टमेव । नन्वेवं चेत् तर्हि कल- गीतेन किमर्थमत्र वयमाहूता इसाशङ्कापि अरिहृता । वनं दृष्ट्वाम- या विचारितमहो इदं वनं स्वभक्ताभ्योऽपि प्रदर्शनीयमिखाशयेन कलगीतेन मयाऽऽहूता इति भावः । ननु का वाऽत्र दर्शनीयतेति चेत् तत्राह । कुसुमितमिति ॥ ननु कुसुमितवनमेव यद्यस्माकं प्रदर्शयितव्यं तवाभीप्सितं स्थितं तदा दिने एव वयं कुतो ना. कारिता इतिचेत् तत्राह ॥ राकेशः पूर्णचन्द्रस्तस्य करैः किरणै रञ्जितम् । तथाच दिने राज्यन्तरे वा नास्त्येवंविधा शामति भावः । किञ्च, वायुरप्येवंविध समयान्तरदुर्लभ इसाशयेनाह !

४४ रासपञ्चाध्यायीव्याख्यायाम् । यमुनास्पर्शिनोऽनिलस्य वायोलीला मन्दगतिस्तयाराजन्तः कम्प- मानास्तरूणां पल्लवास्तैः शोभितम् । तस्मानास्यागमनवैय्यर्थ्य- मिति भावः ॥ अनभिज्ञापले, ननु भवतु, तव निकटे न स्थीयते । अन्यप्रदेशे गत्वा स्थास्याम इसभिमायवतीरालक्ष्याह ॥ दृष्ट- मिति ॥ एवंविधप्रदेशान्तरं नास्ति । अयं च प्रदेशो दृष्ट एव भवतीभिरतोऽलं वृथा कालक्षेपेणेति भावः । यद्वा, किमे- वं मात्रादिबन्धुभयं प्रदर्श्यते, तत् त्वऽस्माकं दत्तजलाञ्जलि- प्रायमेवान्यथा ज्ञान परियज्य रात्रौ बहिरागमनं कथं भवेत् । वं विभेषि चेत् त्वमेवेतो गच्छेति प्रणयकोपवतीरालक्ष्याह ॥ दृष्ट- म् ॥ अहो मयापि ज्ञायते, निर्दोषाणां नास्ति कुतो भयम् । त- थापि बुद्धिमतीनां वृथा गृहान्निःसरणस्यायुक्तात्वाद्वनशोभेक्षणा- र्थमागताः स्युस्तच्च सम्पन्नमितो वृथाऽत्र न स्थेयमिति भावः । यद्वा, तच्छ्रुत्वा लज्जयेतस्ततो विलोकयन्तीरवलोक्याह ॥ दृष्ट- मिति ॥ अहो ज्ञातं मया, साध्वीनां भवतीनां गृहानिर्गमनं वने- क्षणाय, तच्च जातमतो गन्तव्यमिति भावः । ननु प्रसङ्गादत्राग- ताः फलानि गृहीत्वा यास्याम इतिचेत् तत्राह ॥ कुसुमितम् ॥ न तु फलितम् । एतच्छ्रुत्वोर्ध्वदृष्टीरालोक्याह॥राकेशकररञ्जि- तम् ॥ अतः शरत्पूर्णचन्द्रचन्द्रिकाशोभेक्षणाय भवसः समागताः स्युस्तदपि जातमिति भावः । यमुनाभिमुखीरालोक्याह ॥ यमुने- ति॥मानिनीपक्षे, ननु तथापि गृहाबहिरस्माकं मनो न रमतेऽतः कथमत्र तिष्ठाम इतिचेत् तत्राह ॥ दृष्टमिति ॥ कुसुमितमिदं वनं भवतीभिदृष्टम् । तथाच नास्ति गृहेष्वेवंविधकुसुमशोभाऽतोऽत्र क- स्य मनो न रमते । प्रसक्षोपलब्धस्यापलापो न युक्त इति भावः । किञ्चैवंविधं राकेशकररञ्जनं यमुनानिललीलैजत्तरुपल्लवशोभा च गृहेषु क्वास्ति । तस्मादेतत् सर्वमवलोक्यैव प्रेयस्यो भवसो मया गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। स्मृताः । स्मृत्वा कलगीतेनाता भवसोऽप्यागस तथैव दृष्टवयो- ऽतो गमनाग्रहं विहायेह स्थेयम् । गोष्ठं प्रति मा यातेति परेणा- ऽन्वयः॥ निवृत्तिपक्षे, ननु भवन्तो विवेकचन्द्रानुदयाद्वैराग्यादिरहिता अस्मदभिप्रायं न जानन्ति । विवेकादिसाधनसम्पन्नान्तःकरणास्तु जानन्तीसाशयाह ।। दृष्टमिति ॥ राकेशस्य विवेकचन्द्रस्य करै- विचारभेदै रञ्जितं शान्यादिलक्षणकुसुमशोभितमन्तःकरणलक्षणं वनं दृष्टमित्युपहासः । नाममात्र श्रुसर्थाभासा ये विवेकादिमन्त इति भावः । यतो यमुनास्थानीयाऽविद्यासम्बन्धिनोऽनिलस्य तत्स्थानीयस्य विक्षेपस्य लीलया तत्तद्विषयलालसया एजन्तस्तरु- स्थानीयस्य वैराग्यस्य पल्लवास्तत्स्थानीया अविचारोत्था वैरा- ग्यभेदास्तैः शोभितम् । यद्वा, यथोक्तयमुनानिललीलया विलासेन एजन्तश्चलन्तः प्रवेपिताः संसारवृक्षस्य पल्लवा विषयप्रवालास्तः शोभितम् । तथाच श्रुतवेदान्तानामपि यथापूर्वसंसारोपलम्भे तेषां विवेकाद्याभासमवलोक्य तन्मतानुसरणं नोचितमिति भावः॥२१॥ अहो नाद्यापि भगवतस्तोषोऽस्मासु जातो वर्ततेऽतस्तदर्थ क- मुपायमनुतिष्ठाम इति चिन्तयन्तीाकुलचित्ता अवलोक्य, वर्णा- श्रमाचारवता पुरुषेण परः पुमान् * विष्णुराराध्यते पन्था ना- न्यस्तत्तोषकारणमित्युक्तत्वात् स्वधर्माचरणमेव मम तोषोपायोऽत- स्तत्रैवाभ्यास उचित इसाशयेनाह ॥ तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ॥ क्रन्दन्ति वत्सा बालाश्व तान् पाययत दुह्यत ॥२२॥ तद् यातेति॥ यस्मादत्रावस्थानं निष्फलं, तत्र गमनं च स्व- धर्माचरणेन मम तोषकरत्वात् सफलं तत् तस्माद् गोष्ठं यात ।

रासपञ्चाध्यायीव्याख्यायाम् । तत्रापि, मा चिरं शुभकार्ये विलम्बो नोचित इति भावः । तत्र मत्वा पतीन सेवध्वम् । यतो, हे मसः ! पतिव्रतानांयुष्माकमिदमे- वानुष्ठेयमिति भावः । यद्वा, सतीः पतिव्रताः श्ववाद्याः स्त्री सेक- ध्वम् । संसर्गजा गुणदोषा भवन्तीति न्यायाद् गुणवतीनां सेवनेन भवसोऽपि तथाविधा भविष्यन्तीति भावः । ननु स्वधर्माचरणस्य भवञ्चरणाभिमुख्यमेव फलं, तस्य जातत्वात् ततो नित्तिरेवाधुना श्रेयसी । आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते * योगारूदम्य तस्यैव शमः कारणमुच्यत* इसादिशास्त्रादतस्त्वदाभिमुख्यमसह- मानास्ते कथं सेवनीयाः । ततस्तादृशं पातिव्रसं त्वदाधिपाथोरुह- यो राजनीकृस दूरतस्यक्तमस्माभिरित्याशय, दयया सर्वभू- तेष्विति दयाया मदाराधनाङ्गत्वात् सा त्ववश्यमपेक्षितेसाशयेना- ऽऽह || क्रन्दन्तीति ॥ अतस्तान् गत्वा दुग्धं पाययत, तदर्थ माश्च दुह्यत ॥ अनभिज्ञापले, एवंव्याजेनोद्दीपयित्वा निषेधेनासासक्तिमु- त्पादयति ॥ तदिति ॥ हि यद् यस्मादत्रावस्थाने फलं किञ्चि- दपि नास्ति तत् तस्माद गोष्ठं यात । तत्रापि मा चिरं, यतः पतिशुश्रूषासपयो वर्तते इयाशयेनाह ॥ शुश्रूषध्वं पतीन् ॥ यतो हे ससः, अतः क्षणमात्रमपि परपुरुषस्य मम पार्थेऽवस्थानं पति- व्रतानां युष्माकं नोचितमिति भावः । यद्रा, कथं भूतान् पतीन, सती।एते युष्मत्पतयः पूर्वजन्मनि पतिव्रताः स्त्रियः स्थिताः पुरुष- भावनया पुरुषत्वं प्राप्ता, भवसस्तु पूर्व पुरुषाः स्थिताः स्त्रीषु आ- सक्तचित्तत्वात् स्त्रीत्वं प्राप्ता, अतः पुनर्वैपरीसाथ पतीन् शुश्रूष- ध्वमिसाशयः । किञ्च, करुणाऽपि स्त्रीणां स्वाभाविकी भवति । अतः करुणावतीनां युष्माकं बाला वत्साश्च क्रन्दन्तीसतो गत्वा तान् पाययत, दुद्यत ॥ मानिनीपक्षे यद् यस्माद बन्धुभयं नास्ति, वनशोभादिरूपा रमणसामग्री चैतादृशी ततः शीघ्रं मा यात, कि- ।

गूढार्थदीपिकायाम् । १ अध्यायः। (२९)। न्तु रासानन्तरं राळ्यन्ते यास्यथेसर्थः । ननु पतिशुश्रूषणादिबहु- व्यापारस्योर्वरितत्वान्नास्यस्माकं चिरतरकालमवस्थानाऽवकाश इति चेत् तत्राह ॥ पतीन मा शुश्रूषध्वम् । सतीः श्वश्रूप्रमुखा मा शुश्रूपध्वम् । सतीपदवीं वा मा सेवध्वम् । नन्वस्माकं बाला वत्साश्च क्रन्दन्यतः कथमत्र स्थेयमिसाशय क्षणं नेत्रे निमील्य सकैतवं ध्यात्वाऽऽह ॥ वत्सा बालाश्च मा क्रन्दन्ति ॥ अहमत्र स्थित एव सिंहकलया जानामि-ते सुखेन वर्तन्ते, न त्वाक्रोशन्ति तस्मान्मा पाययत । दासादिभिः पायितत्वात् तु, मा दुह्यत । तैरेव दोहनस्यापि कृतत्वादिसर्थः॥ निवृत्तिपक्षे, यस्मान्निर्विशेषब्रह्मप्रतिपादनं न, तव तस्मादाशु गोष्ठं क्रियार्थकश्रुतिसमुदायं यात, स्वसमुदायनिविष्टा भवत, क्रि- यामेव प्रतिपादयत । तदुक्तम्-आम्नायस्य क्रियार्थत्वादानर्थ- क्यमतदर्थानामिति । ब्रह्मणः परिनिष्ठितरूपत्वात् परिनिष्ठिते वस्तुनि च प्रसक्षादीनामपि प्रवृत्तिसम्भवात् तैरंसवोद प्रामा- ण्यस्य दुर्लभत्वात् सार्थक्याय क्रियामेव प्रतिपादयतेखाशयः । ननु पौरुषेयवाक्यानि प्रामाणान्तरापेक्षत्वात् संवादविसंवादाभ्यां प्रामाण्यमप्रामाण्यं वा लभन्ते । अपौरुषेयाणां वेदवाक्यानां तु प्रमाणान्तरानधिगम्यविषयतया चक्षुरादिवदनपेक्षमेव प्रामाण्य- मिति चेत् । ससम् । तथापि अनपेक्षाप्रामाण्ययोरपि चक्षुःस्पर्शन- योरर्थे विसंवादाद् यथाऽन्यतरस्याप्रामाण्यं तथा ब्रह्मैकत्वश्रुतीना- महं मनुष्य इसादिप्रसक्षस्य च परस्परव्याघाताच्छब्दस्यामामा- ण्यम् । तस्मात् तत्रैव स्थित्वा पतीनिन्द्रचन्द्रादिरूपान्, तत्कर्मप्रति- पादनेन शुश्रूषत्रम् । यतो, हे ससः ! स्वाध्यायविध्युपात्तत्वाद- प्रामाण्यशङ्काकलङ्काऽयोग्याः । किञ्च, सर्वमिथ्यात्वसिद्धान्तमा- कर्ण्य वत्सबालस्थानीयकर्माधिकारिणः सर्वेऽपि क्रन्दन्ति, अत- रासपश्चाध्यायीव्याख्यायाम् । स्तान पाययत दुयत । तत्कर्मफलं ससमिति प्रतिपादनेन तत्स- न्तोषं सम्पादयतेसर्थः ॥ २२ ॥ एतच्छ्रुत्वाऽसन्तखिन्नचित्ता आलक्ष्य, अथवा नास्त्रि भवती- नां वनशोभेक्षणेच्छा, नापि मदपेक्षयाधिकं पुत्रादौ स्नेहोऽतो मदर्थमत्र समागता इसाह ॥ अथवा मदभिस्नेहाद् भवन्त्यो यन्त्रिताशयाः ॥ आगता ह्युपपन्नं तत् प्रीयन्ते मपि जन्तवः ॥ २३ ॥ अथवेति ॥ मयि यः स्नेहस्तेन यन्त्रिताशया वशीकृतचित्ता: सयो, मदर्शनार्थं यूयमागता इति स्यात् । तदेतदुपपन्नमुपपति- युक्तम् । न त्वयुक्तः पक्षः। हि यतः सर्वेऽपि जन्तवो मयि पीता भवन्ति । यद्वा उपपन्नं सिद्धम् । यतो मयि दृष्टे जन्तवः प्रीयन्ते अतो भवसो मद्दर्शनेन प्रसन्नाः ससो गच्छतेति भावः ॥ अनभिज्ञापले, एवं श्रुत्वा संरम्भक्षुभितदृष्टीरालक्ष्य ततोऽप्यधि- कक्षोभमुत्पादयति ॥ अथवा, वनादिकं द्रष्टुं नागताः, ते पक्षा वृथैव मया कल्पिताः। भवत्यस्तु माययो योजितः स्नेहः स्वाभा- विकी प्रीतिर्न तु कामायुपाधिका, तेन यन्त्रिताशया आगतास्त- दुपपन्नम् । अयमेव पक्ष उपपन्नः । हि यतः सर्वे प्राणिनो मयि पीयन्ते । तथाच सामान्यपीसतिशयवसो मद्दर्शनार्थमागताः । तस्यापि जातत्वाद् गन्तव्यमिति भावः । अथवा, यतो माये ज- न्तवः प्रीयन्ते अतो मत्स्नेहाद् भवसोऽपि यन्त्रिताशयास्तदेतदु- पन्नम् । यत आगताः ॥ मानिनीपक्षे, पूर्व यद्यपि प्रयोजनान्तरार्थ- मागता भवसस्तथापि मन्मनोरथपूर्त्यर्थमत्र तिष्ठतेत्युक्तमिदानी भवतीनां मयि स्नेहातिशयो वर्तते इति चिरकालान्मया बुद्धयते।ततः किमर्थं तत्तिरोधानं क्रियत इसाशयेनाह ॥ अथवा मदभिस्नेहाद गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। भवन्सो यन्त्रिताशया यत आगताः। भवसस्तु योग्या एव । म यि तु सर्वेऽपि जन्तवः पीयन्तेऽतो मत्स्नेहाकृष्टचेतसामत्रागमन- मुपपन्नम् । बहुयोग्यं जातम् । अतोऽत्र स्थिसा तत्फलं सम्पाद्य- मिति भावः। निवृत्तिपक्षे पूर्व श्रुतीनां समस्तानां क्रियापरत्वमुक्तमातत्र ब्रह्म- प्रतिपादकश्रुतीनां क्रियापरत्वासंभवादानर्थक्यं, हुंफडादिवज्जपमा- वोपयोगित्वं वाऽस्त्विति सूचितम् । इदानीमध्ययनविध्युपात्तानांवे- दान्तानामानर्थक्यायोगं, प्रतीयमानार्थस्य प्रत्याख्यानासम्भवं चा- भिप्रेत्याऽस्तु वा कर्मापेक्षितकर्तृस्वरूपदेवतादिप्रकाशनेन क्रिया- विधिशेषत्वमुपनिषदामिति पक्षान्तरमाह ॥ अथवा मयि अस्म- पसयगोचर आत्मनि अभिस्नेहाद प्रतिपादनपरत्वाद्, यन्त्रिता- शया आनर्थक्यं जपोपयोगित्वं वा गमयितुमशक्यास्तार्ह, उपपन्न कर्मणा सम्बद्धं कर्तृदेवतादिरूपमात्मानमागतास्तत्स्वरूपप्रकाशने सङ्गताः। एवं रीसा प्रतिपाद्यमाने मयि आत्मनि सति जन्तवः सर्वेऽपि लोकाः प्रसन्ना भवन्तीयर्थः ॥ २३ ॥ यद्यपि भवसो मयि स्नेहातिशयवसो मद्दर्शनार्थमत्रागता इसहं जानामि, तथापि श्रुतिस्मृतिबोधितस्वधर्मत्यागोऽयमनिष्ट इ- त्याशयेनाह। भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ॥ तबन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥२४॥ भर्तुरिति ॥ भर्तुः शुश्रूषणं स्त्रीणां पर उत्कृष्टो धर्मः । स्त्री- णामिति विशेषणेन, एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृ- तः * भक्तियोगो भगवति तन्नामग्रहणादिभिरित्यादिशावाद ५० रासपञ्चाध्यायीव्याख्यायाम् । पुरुषाणां साक्षान्मद्भजनमभिहितम् । स्त्रीणां तु स्वपतिरूपस्य ममाराधनमुक्तम् । नैव यज्ञक्रिया काचिन्न श्राद्धं नोपवासकम् * पा तु भर्तरि शुश्रूषा तया स्वर्ग जयत्युतेसादिशास्त्राद। तत्राप्य- ऽमायया कपटराहित्येन । तस्य बन्धूनां स्वश्ववादीनांच शुश्रूषा, मजानां पुत्रादीनां चानुपोषणं स्तनादिदानेन पित्रादिभिः पोष्य- माणानां तदनु स्वेन पोषणमिति वा। हिशब्दो यथोक्तधर्मस्य लोक- वेदप्रसिद्धिं द्योतयति । श्रुतिस्मृती ममैवाज्ञे तदुल्लङ्घय प्रवर्तते * आज्ञाभङ्गी मम द्वेषी मद्भक्तोऽपि न वैष्णव * इसादिशास्त्रात् स्व- धमाविरोधेन मे सेवामार्गः कल्याणकर इति सम्बोधनाशयः ॥ अनभिज्ञापले, ननु मत्स्नेहाकृष्टमानसा मदर्थमागता इति यदि जा- नासि तर्हि प्रतियात व्रजं, तद् यातेति किमिति निष्ठुरं ब्रवीषि । न हि परमस्निग्धानामियं रीतिरिसाशक्य, पापान्निवारयति यो- जयते हिताय * इति मित्रलक्षणस्याभिहितत्वाल्लोकद्वयहितार्थ- मिदं मदीयं वाक्यमतिकोमलमिसाशयेनाह ॥ भर्तुरिति ॥ एतेन स्वाय स्निग्धत्वात् स्वच्छुश्रूषणमधुना कर्तुं प्रवृत्ता अतो भवता- ऽपि तदनुमोदनं कर्तव्यमिति शङ्कापि निरस्ता । यथायोग्यस्नेहस्य शुश्रूषणस्य च युक्तत्वात् । तथाच भरि कर्तव्यं स्नेहादिकमन्यत्र न कार्यमतो मय्यपि यथा जन्तवः प्रीयन्ते तथा प्रीतिः कर्तव्येति भावः । भवतीनां सर्वेऽपि सन्तीति सम्बोधनाशयः॥मानिनीपले, नचात्राऽधर्मः शक्यो, ममैव युष्मद्भर्तृत्वे मत्सेवनस्य परमधर्मत्वा- दियाशयेनाह ॥ अमायया भर्तुर्बालभावादारभ्य निष्कपटतया भर्तृत्वेन तृतस्य मम शुश्रूषणं परो धर्मो, न तु बन्धुभिर्बलात्कारे- णापादितस्य । भीष्मेणाऽम्बायाः परिसागेन बलापादितस्य धर्मतो भर्तृत्वासिद्धिज्ञापनायैतत्।तस्मात् कपटागतभर्तृतद्वन्ध्वादिसेवादिकं विहाय, मम मद्वन्ध्वादिसेवनादिकमेव भवतीनां धर्मतोऽपि प्राप्त- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। स्वादावश्यकमिसर्थः । एवं कृते नास्ति कदाप्यकल्याणमिति सं- बोधनाशयः॥ निवृत्तिपक्षे, तस्माद् भर्तृस्थानीयस्य प्रतिपाद्यार्थस्य सेवन तत्परत्वमेव स्वीस्थानापन्नानां श्रुतीनां धर्मः शत्त्यादिलक्षणः । ननु तात्पर्येणान्यपरत्वेऽपि स्वार्थपरता न हीयते इति चेत् तत्रा- ह ॥ अमाययेति ॥ यत्परः शब्दः स शब्दार्थ इति न्यायात् । त- थाच निर्व्याजेन स्वार्थपरत्वं परमो धर्मः । उभयपरत्वे वाक्यमे- दादेकपरत्वमावश्यकम् । सम्भवति स्वार्थपरत्वेऽन्यपरता न न्या- व्येति भावः । क्वचिच्छक्यार्थासम्भवे, तद्वन्धूनां शक्यार्थसम्ब- न्धिनां सेवा प्रतिपादनमपि धर्मः । प्रजानां तत्स्थानीयानां मता- नां विद्वद्भाविततः, पुष्टानामनुपोषणं, तत्रैव प्रमाणतयोपस्थितत- या पुनरतिपुष्टत्वसम्पादनं च । यतो हे कल्याण्यः सर्वकल्याण- कृत्पत्तिनिवृत्तिबोधनपरशास्त्ररूपाः । अन्यथा शास्त्रपदप्रतिपाय- त्वमेव भवतीनां न स्यात् । मतिर्वा निवृत्तिर्वा निसेन कृतकेन वा * पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते * इति शास्त्रलक्ष- णाभिधात् ॥ २४ ॥ यतः पतिरेव स्त्रियः परमं दैवतं, तदाराधनं च परमो धर्मः, तेनैव च लोकद्वयविजय इति लोके शास्त्रे च घण्टाघोषस्तस्माद् दुःशीलत्वाधनेकदोषयुक्तोऽपि न साज्यः। किमुत दोषविनिर्मुक्त इसाशयेनाह। दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा। पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥२५॥ दुःशील इति ॥ दुष्टं शीलं घूतादिव्यसनं यस्य सः। दुर्भगो मन्दभाग्यः । वृद्धो जराजर्जरीभूताऽङ्गः। जडो मूर्खः । रोगी म- रासपश्चाध्यायीव्याख्यायाम् । हारोगग्रस्तः । अधनः स्वोदरपूरणेऽप्यसमर्थः । एवमुक्तदोषेष्वेकै- कदोषवान, किं वा सकलदोषयुक्तोऽपि पतिर्लोकद्धयविजयेच्छा- वतीभिः स्त्रीभिर्न हातव्यो नैव साज्यः। पातकी तु यावत् पातकं तावद्धातव्यः । पति त्वपतितं भजेत् * आशुद्धः सम्पतीक्ष्यो वै महापातकदृषित * इत्यादिवचनात् । अनभिज्ञापले, ननु अ- स्माकं पतयो नास्मदनुकूला अनुरूपाश्चातस्यक्ता एवातः किं त- सेवाद्युपदेशेनेति चेत् तबाह ॥ दुःशील इति ॥ षड्विधैश्वर्यययु- क्तमपि परपुरुषमवलोक्य षविधदोषयुक्तोऽपि स्वपतिनं हात- व्यः । ब्रजवासी तु सर्वसद्गुणयुतो निष्पापश्चातः कथं साज्यो भवेदिसाशयः। मानिनीपले- तस्माद बलात्कारेणाहृतयाऽप्य- ऽम्बया स्वमनसा वृतः पतिर्न सक्तो, यथा च सावित्र्या पितुर्वा- क्यात सत्यवान्न सक्तस्तथान्याभियुष्मदादिभिः स्त्रीभिर्मनसा वृतः पतिर्न हातव्यः । तत्रापि षड्विधैश्वर्यसम्पन्नोऽहं, न तु दुःशील- त्वादियुक्तः। वस्तुतः सर्वदोषयुक्तोऽपिन साज्यः। पतिरियेकवच- नाद, स्त्रीभिरिति बहुवचनात् स्वस्यैव सर्वासां पतित्वं दृढीकृत- म् । तथाच तेषां वस्तुतः पतित्वाभावान्न तत्त्यागे कश्चिद्दोष इति भावः ॥ निवृत्ति पक्षे तत्र दृष्टान्तमाह ॥ दुःशील इति ॥ वाशब्द इ. पार्थे । तथाच यथा पतिसम्पृक्तत्वं पतिव्रतायाः स्त्रियास्तथा वाचो- ऽपि स्वार्थसम्पृक्तत्वमिति भावः ॥ २५ ॥ ननु परमेश्वर आसक्तचेतसामस्माकं नास्ति जारपरमनसा- मिव पतियागादिकृतो दोष इसाशय मोक्षार्थ तथा चेदस्तु तथा, रमणेच्छया तु मय्यप्यासक्तानां स्वपतियागे दोष एवेसाशयेनाह । अस्वय॑मयशस्यं च फल्गु कृच्छू भयावहम् ॥

गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥ अस्वय॑मिति ॥ कुलस्त्रियः सर्वत्र सर्वस्मिन्नपि पुरुषे औप- पसम् अस्वयं परलोकनाशकम् । अयशस्यमेतल्लोकनाशकम् । तत्रापि फल्गु अतिक्षुद्रम् । तथाभूतमपि कृच्छ्रे महाप्रयाससाध्यम् । किञ्च, सम्भोगकालेऽपि भयजनकम् । पुनः साधुकर्मणि प्रवृत्ता- वपि जुगुप्सितं निन्दितम् । चकाराभ्यां नरकपातजातिबहिष्का- रादिसंग्रहः । तस्मान्मदाराधने यदि युष्माकमाग्रहस्तर्हि भगवद्बु- या तदनुष्ठेयं, न तुपपतिबुद्धयति भावः । अनभिज्ञापले, विपक्षे दोषमाह ।। अस्वय॑म् ॥ ननु नास्माकं स्वर्गापेक्षेति चेत् तत्राह॥ अयशस्यम् ॥ ननु तदपि नापेक्षितं, यद्वा रहसि नास्ति तन्नाश इति चेत् तत्राह ॥ फल्गु ॥ क्षणिकत्वात् । ननु मिथ्या ब्रवीषि, खया सह तस्यानन्तसुखजनकत्वनिश्चयादिति चेत् तत्राह ॥ कृ. च्छ्रम् ॥ पसादिवारणाद् दुःसाध्यम् । ननु निर्जनवने निवारक- स्यादर्शनान्नास्ति दुःसाध्यम, अस्तु वा, तथापि, वामता दुर्लभत्वं च स्त्रीणां या च निवारणाव * तदेव पञ्चबाणस्य मन्ये परममायु- धमियादिवचनाद् दुःसाध्यता प्रत्युतासत्त्यतिशयहेतुरितिचेत् त- त्राह ॥ भयावहम् ॥ लोकशास्त्रनिषिद्धत्वाद् यमराजादिदण्डजनि- तभयमापकम् । ननु त्वदधरसुधालोभाव सर्वमपि भयमस्माभि- स्यक्तम् । यद्वा, यत्र निषेधविशेषो दुर्लभत्वं च यन्मृगाक्षीणाम् * तत्रैव नागरीणां निर्भरमासाते हृदयमिति रसशास्त्रोक्तेर्भयमपि प्रत्युत रसाधायकमेवेति चेत् तत्राह ॥ सर्वत्र स्वपरदेशयोर्व्यवहार- परमार्थयोश्च निन्दितं तत्रौपपसं सौख्यम् । ननु स्वाभीष्टसिद्धौ निन्दाऽस्माभिः सद्यत इति चेत् तबाह ॥ कुलस्त्रियः ॥ कुलस्त्री- भिरेवं न वक्तव्यमिति भावः । अनेन यद्यप्यासक्तचित्तत्वाद्भव- रासपञ्चाध्यायीच्याख्यायाम् । तीभिः किमपि न गण्यते, तथाऽप्युत्तमवंशोद्भवेन मया कुलस्त्रियो नैव कलङ्कनीया इसपि ध्वनितम् । हे कुलस्त्रिय इति सम्बोधन वा ॥ मानिनीपले, पूर्वोक्तरीखाहमेव मुख्यः पतिस्त एवोपपतय इति तत्सङ्गमसुखमेवाऽस्वादिरूपम् । यद्वोत्लेक्षितानि स्मृति- वाक्यानि । अस्माभिस्तु भर्तृसेवादिः परो महानधर्म इत्युच्यते । स्वस्मिन्नासक्तचित्तस्य प्रेष्टस्य दुःखजनकत्वात् । तथा अपात- क्यपि दुःशीलत्वादिदोषविशिष्टः किं न हातव्योऽपि तु हातव्य एव । स्वस्य दुःखजनकत्वात् । तथाचैवंविधपत्युः सामीप्यमस्व- यादिदोषयुक्तमेवेति नर्मव्यअनपरत्वेन श्लोकत्रयं व्याख्येयम् । यद्वा मदासक्तचित्तत्वाद्भर्तृसेवादौ नास्ति भवतीनामधिकार इसाह ॥ भर्तुरिति ॥ अमायया निष्कपटतया, न तु भवतीनाम- न्यासक्तमानसत्वेन मायावतीनाम् ॥ तथा पतित्यागनिषेधेऽपि नास्ति भवतीनामधिकारो, मय्यनुरक्ततया लोकद्वयाभिलाषरहित- त्वादिसाह ॥ दुःशील इति । किञ्चापातकी चेन हातव्यो, यु- ष्मदभारस्तु पातकिन एव । जन्तुमात्रप्रीतिपात्रे जन्मप्रभृतिरक्षा- परायणे मयीव्वत्त्वेन साधुद्वेषपरत्वात् कृतघ्नत्वाच्च । कृतघ्ना- श्वातिपातकित्वेनोक्ताः । तदुक्तं, ब्रह्मघ्ने च सुरापे च चौरे भग्न- व्रते तथा * निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिरि- ति । ननु तत्सेवादावनधिकारेऽप्यौपपसस्य निषिद्धत्वात् तदङ्गी- कारे स्वर्गादिबाधस्त्ववश्यम्भावीति चेत् तत्राह ॥ अस्वय॑मिति ॥ कुलस्य ब्राह्मणाद्युत्कृष्टकुलस्य स्त्रियस्तदस्वादिदोषावहं, न तु गोपाङ्गनानां युष्माकम् । तथाच तनिषेधवाक्यानि तत्पराणीति भावः॥ निवृत्तिपक्षे यथा कुलस्त्रिय औपपत्यं दोषावहं तथा श्रुतमर्थं प- रित्यज्याश्रुतार्थपरत्वं श्रुतहान्यश्रुतकल्पनादिदोषावहमित्यर्थः॥२६ गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। नन्वेतत् सर्व लोकदृष्टया भगवतोक्तम् । वयं तु पुरुषोत्तम त्वय्यासक्ता अतो नास्माकं स्वधर्मत्यागप्रयुक्तो दोषो, भगवदारा- धनस्य सर्वोत्तमधर्मत्वादित्याशङ्कथैवं तर्हि न लौकिकस्नेहस्योपायो विधेयः । कामशेषस्य लौकिकस्य हीनत्वादिशयनाह ॥ श्रवणाद दर्शनाद् ध्यानान्मयि भावोऽनुकीर्तनात् ॥ न तथा सन्निकर्षण प्रतियात ततो गृहान् ॥ २७ ॥ श्रवणादिति॥आदौ श्रवणं भगवत्मतिपादकवाक्यादीनां भगवति शक्तितात्पर्यावधारणम् । पश्चात् तेषामनुकीर्तनम् । अवधारितार्थस्य स्थिरीकरणायाभ्यासो मननमिति यावत् । ततो ध्यानं श्रुते मते- ऽर्थे चित्तस्य स्थिरीकरणं निदिध्यासनम् । ततो दर्शनं तदर्थ- स्यानुभवः । भगवत्कृपया साक्षात्कारस्तस्माद् यो मयि भाव: परमीतिलक्षणो यथा भवति न तथा सन्निकर्षेण भावो भवति । लौकिकसङ्गेन लौकिक एव कामशेषभूतो भावो भवतीसर्थः । ततस्तस्माच्छ्रवणाद्यर्थं गृहान प्रति यात । यता, न वयं सम्भो- गार्थिन्योऽपि तु मलक्षणभक्तिमात्रेच्छावसोऽतः सर्वं विहायात्राग- ता, अतस्तदर्थं भवत्सन्निकृष्टतया स्थास्याम इतिचेत् तत्राह ॥श्र. वणादिति ॥ स च मयि भावः श्रवणादिना यथा भवति, न तथा सन्निकर्षण । ततस्तदर्थं गृहान प्रति यात। यद्वा अहो भगव- सान्निधाववस्थानेऽपि वयमयोग्या इति खिन्नचित्ता आलक्ष्याह ।। श्रवणादिति ॥ मन्मुख्यभक्ताः सामीप्यसालोक्यादिकमाप न का- मयन्ते, किन्तु श्रवणकीर्तनादिभिरेव रमन्ते तेऽतो युष्माभिरपि श्रवणादिभिर्निरुपाधिको मायि भावः सम्पाद्यः, किंसन्निकर्षमार्थ- नयेति भावः। अनभिज्ञापले, अहो दैव, यस्मिन् वयमनुरक्तचित्ताः रासपञ्चाध्यायीव्याख्यायाम् । प्रेमाभिकामाः कदापि वियोक्तुमयोग्यास्ताभ्यः स्वाङ्गसङ्गंन प्रयच्छ- ति स्वसन्निधाववस्थानमपि निषेधत्यतः किं कुर्मः क गच्छाम इति व्याकुलमानसा लिखितचित्रवदवस्थिता दृष्ट्वा तासां पूर्णभावमा- लक्ष्य तस्य परमदाळसिद्धयर्थमाह ॥ श्रवणादिति ॥ परिपाकपर्य- न्तं सम्पादनीयो भावो यथा श्रवणादिना भवति न तथा सनि- कर्षेण । सन्निकर्षस्योत्कण्ठाशथिल्यकरत्वादपक्वे भावे त्वङ्गसङ्गो न रसावहस्तस्मात् तत्परिपाकहेतूत्कण्ठाद्धयर्थं गृहान प्रतियाते- त्यर्थः । यद्वा, अथवा मदभिस्नेहादिसनेन मयि साधारणप्रीतिमयो भवस इत्युक्त्वा कामोपाधिकमीतौ भर्तुरिसादिकमुद्भावितवान् अथेदानीं तस्याभिवृद्धावुपायमाह ॥ श्रवणादिति । यद्यपि वर्त- मानकाले कुलस्त्रीणां युष्माकं निषिद्धो भावो नास्तीसहं सम्यग् जानामि तथापि शुद्धभावे दोषप्रवेशभयात् तत्र दोषोद्भावनं मया कृतम् । शुद्धभावश्च श्रवणादिना यथा पूर्णतां गच्छति, न तथा सन्निकर्षेण प्रत्युत सन्निकर्षण सन्निकटस्थिया मालिन्यं भजते । तोन्नन्दायुत्थानेन निवर्तत च । तस्मात् तदर्थं गृहगमनमेव युष्मा- कमुचितं, न त्वत्रावस्थानमिति भावः । यद्वा,कृष्णाङ्गसङ्गमोत्क- टोत्कण्ठायुतानां कोटिब्रह्मकल्पपर्यन्तकुम्भीपाकादिनरकपाताद- प्यभीतानां सक्तलोकद्वयानामस्माकमाशयमविज्ञाय किममनेन प्रलाप आरब्ध इति कोपेनव्याकुलस्वान्ता आलक्ष्य तत्कोपमन्यथा पक- ल्प्याह॥ श्रवणादिति ॥ अहो भतृशुश्रूषादिधर्मनिधिभूतासु यथो- क्तदोषगन्धेनापि विमुक्तास्वस्मासु दोषमारोप्यायं प्रलपतीति को- पो न कार्यः । उक्तवाक्यस्य प्रासङ्गिकत्वात् । युष्मदाभिप्रेतस्तु भावः शुद्ध एवेसहं सम्यग् जानामि । स च मपि यथा श्रवणा- दिना तिं लभते, न तथा सन्निकर्षणः। ततो गृहान् प्रतियातेस- र्थः । मानिनीपले, ननु किमेवं कल्प्यते,सद्भावगृहीतोऽहमेव भव- गूढार्थदीपिकायाम् । १ अध्यायः । (२९ )। लीनां भर्ता,न तु पित्रादिदत्ता गोपा इति । सद्भावस्यापि सम्पति सनिकृष्टेषु तेष्वेव सत्त्वादुत्पन्नस्याप्यऽसन्निकृष्टे त्वयि सम्पति नि- वृत्त्वादितिचेत् तत्राह ॥ श्रवणादिति ॥ यथा श्रवणादिना मयि भावो युष्मदन्तःकरणेषु वर्तते तथा सनिकर्षेण पतिम्मन्येषु तेषु नास्तीत्यहं सम्यग् जानामीत्यतः किमिति स्वभावतिरोधाने भ- चत्यः प्रवृत्तास्तस्माद् गृहान् प्रति न यातेति नमोऽनुषङ्गः। यद्वा, ततो गृहानिसबाऽकारमश्लेषे, अभावे न ह्या नो ना च * इस- मराद, अयात, न प्रतियातेसर्थः । यद्वा, ननु मदभिस्नेहाद्भवन्यो यन्त्रिताशया इति भवता कथं ज्ञातमितिचेत् तत्राह ॥ श्रवणादि- ति ।। अहर्निशं मच्छ्रवणादिना तथा सन्निकर्षण मनिकटागमनेन भवतीनां मयि भावो वर्तत इति मया ज्ञायते, ततः कपटेन पतिसेवा- द्यर्थं गृहान् प्रति न यातेसर्थः । यद्वा, ननु पसादिसन्निधावेव स- र्वदा स्थास्यामस्तत्सन्निकर्षेण च तत्र भावोऽपि भविष्यति, तत्पू- वकतत्सेवनादिना धर्मादिकमपि सेत्स्यतीति तत्राह ॥ श्रवणा- दिति ॥ तत्सन्निधाववस्थितानामपि युष्माकं यथा मयि भावो भविष्यति मच्छ्रवणादिपरत्वाद, न तथा पत्यादिषु तदभावादाततो गृहानियादि पूर्ववत् । एतेन किमिसेव स्वपसादिषु भाववतीनाम- स्माकं धर्माधिकाराभावं वदसीत्युपालम्भोऽपि निरस्तः ॥ निवृत्तिपक्षे, एवं वेदवचसा भूतेऽर्थे प्रामाण्यं नास्यतो वेदान्त- वाक्यानामपि क्रत्वर्थकादिप्रतिपादनपरत्वमभिहितमधुना तूपनि- षदां ब्रह्मणि मामाण्यं, तथापि स्वप्रकरणगतमनोव्यापारविधिशे- पतयैव । तथाच यथा यूपाहवनीयादीनि अलौकिकान्यपि शास्त्रेण समर्प्यन्ते तद्वद्विधिशेषतयैवोपनिषद्भिर्ब्रह्म समर्प्यत इसाशयेनाह ॥ श्रवणादिति ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः, आत्मा अपहतपाप्मा, सोऽन्वेष्टव्यः स विजिज्ञासित- रासपञ्चाध्यायीव्याख्यायाम् । व्यः, आत्मत्येवोपासीत, आत्मानमेव लोकमुपासीत, ब्रह्म वेद ब्र- ह्मैव भवतीयादिना विहिताच्छ्वणाद्दर्शनान्निदिध्यासनान्मननाद यथा मयि आत्मनि भावः कार्यान्वितस्वार्थपरत्वविधया तत्परता प्रामाण्यं भवति, न तथा सन्निकर्षण = तत्त्वमस्याधभेदमात्रबोधनेन सिद्धार्थकथनमात्रेण प्रामाण्यं भवति । तथाच यथोक्तविधानेषु सत्सु, कोऽसावात्मा किं ब्रह्मेत्याकाङ्क्षायां, निसः सर्वज्ञः सर्वगतो निसतृप्तो निसशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दमिसेवमादितत्स्व- रूपसमर्पणेन सर्वा उपनिषद उपयुक्ताः । तदुपासनाच्च शास्त्रदृष्टो मोक्षः फलं भविष्यति । कर्तव्यविध्यननुप्रवेशे वस्तुमात्रकथने हानोपादानासम्भवातू,--सप्तदीपा बमुमती, राजाऽसौ गच्छतीसा- दिवाक्यवदुपनिषद्वाक्यनामानर्थक्यमेव स्यादिति भावः । तस्माद् गृहान कार्यसंसृष्टरूपान् यात गच्छत। तद् युष्माकं न्याय्यमि- सर्थः॥२७॥ एवं भगवद्वाक्यान्युदाहृय ततः किं वृत्तमिसपेक्षायां गोपिका- चाक्यान्युदाहाँ श्रीशुक उवाच ॥ श्रीशुक उवाच ॥ इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ॥ विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥ इति यथोक्तप्रकारमत एव विगतं प्रियं यस्मात् तद्विप्रियम् । नच प्रियवचनेऽपि विप्रियत्वभ्रमः। यतो भाषितम् ।भाष व्यक्तायां वाचीति स्मरणाद् व्यक्तं-प्रतियात व्रजमिसादि स्पष्टनिषेधरूपम् । ननु यथावदश्रवणे, स्पष्टार्थकमपि वाक्यमन्यथा प्रतीयत इसाश- डानिरासायाह ॥ आकर्ण्य ॥ समन्तान्मनो दत्वा अक्षरशः श्रुत्वा गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। तत्रापि तात्पर्यावधारणपर्यन्तं श्रुत्वा । एतेन तद्वाक्यपरीक्षार्थत्व- मपि वारितम् । तत्रापि गोविन्दस्य, गां वेदादिरूपां वाणी वि. न्दतीति गोविन्दस्तस्य वेदार्थसम्प्रदायप्रवर्तकस्य सर्वज्ञस्य परमा- सस्य भाषितम् । प्रतारकभाषिते हि संशयो भवति-किमभिप्रा- येणानेन प्रयुक्तमिदं वाक्यम् इति, न तु परमाप्तभाषित इति भावः । एताश्च गोप्यः स्वीयत्वात् प्रतारणाऽयोग्यास्तस्माद्यथार्थ गमनमेव वदतीति तद्वाक्यानिश्चिस । अहो गृहादिकं सक्त्वा वयं समागता वान्ताशनमिव पुनस्तद् ग्रहीतुमशक्ता भगवद्वाक्योल्लङ्घने चाऽक्षमा इति विचार्योभयविरोधे शरीरपरियाग एवं कर्तव्य इति निश्चिस, विषण्णा = विषादम् इतिकर्तव्यतायां मूढतां गताः। यतो भग्नः सङ्कल्पो भगवत्सङ्कमानन्दविषयको यासां ताः । दुर- सयां जन्मान्तरेऽप्यनिवाँ चिन्ताम्-अहो अगवता किमिदमु- तं, परं किं भविष्यतीसेवमादिरूपां प्रापुः ॥ अनभिज्ञापक्षे, इति यथोक्तं गोविन्दस्य भाषितं प्रियार्थकमप्युत्कण्ठास्वभावादमियमेव मिर्धार्य। गोवर्द्धनधारणादिना सर्वदा रक्षापरायणस्य महात्मनः स्वामिन इदं वाक्यमतो नानृतमिति तासां चित्ते प्रतीतिर्जातनि. बोधयितुं गोविन्दपदम् । नैपुण्यराहिलेन यथाश्रुनार्थमात्रग्रहणस- मर्था इति द्योतनाय गोप्य इत्युक्तम् । ततो विषण्णाः परमखिन्ना, यतो भग्नस्तद्रतिविषयः सङ्कल्पो मनोरथो यासां ता दुरसयामनन्ता- चिन्तामापुः । अहो कलगीतमाकाह्वानभ्रमात् कुलधर्मधैर्य- भयलज्जादिकं विहाय वृथैवात्र ममागताः, प्रेमाऽप्ययमम्मदभा- ग्येन कठोरतां गतः, किं वाऽस्मत्परीक्षार्थं दाक्षिण्यं विहाय वामता- मङ्गीकृतवान, किं वाऽस्य मनसि प्रेमलेशोऽपि नासीद्, भ्रमादेव जन्मप्रभृति एतस्मिन् वयम् अनुरक्ताः, किंवाऽस्मदीयं कञ्चिदप- राधमनुसन्धाय तद्दण्डदानायोद्यतस्ततः किममुं नसादिभिरनुनयामः, .

रासपञ्चाध्यायीव्याख्यायाम् । किं वा प्रतिवचनेन व्रज प्रति निवृत्त्या वैतदाशयं निर्धारयेम, एत- दाज्ञापालनं वा करवाम । एतदादिष्ट वान्ताशनसमं पत्याराधनं तु कथं कतु प्रभवाम । किञ्चैतत्समक्षे यमुनामवेशादिना सद्यः प्राणा- स्सजेम । एवं चेत् पुनरेतन्मुखसरोजं कथं पश्याम, एतदनुज्ञां विनाऽत्रापि स्थातुं कथं प्रभवाम । अहोऽतिकष्टं, किं कुर्मः, क्व गच्छाम इत्येवमादिरूपां चिन्तां प्राप्तवसः ॥ मानिनीपले, इति विशेषेण प्रियं गोविन्दभाषितमाकर्ण्य विषण्णा भग्नसङ्कल्पा इव दुरसयां चिन्तां प्रापुरङ्गीकृतवत्यः ।। नित्तिपक्षे, इसे विगतं प्रियं गोविन्दस्य वेदबाह्येभ्यो वेद- त्राणाय स्वीकृततत्तद्वादिविग्रहस्य भाषितमाकर्ण्य विषादं प्राप्ताः। यतो भग्नः प्रयुगभिन्नब्रह्मपतिपादनसङ्कल्पो यासां ता. । गोप्य: परमात्मसम्बन्धिन्यः श्रुतयो दुरत्ययां चिन्ताम्, आस्तिका अप्य- स्मन्नाशाय प्रवृत्ता, अहो कथं भविष्यतीसेंवरूपां प्रापुरिसर्थः॥२८ चिन्ताप्राप्तौ सत्यामवस्थानमाह ।। कृत्वा मुखान्यवशुचः श्वसनेन शुष्यद्- बिम्बाधराणि चरणेन भुवं लिखन्त्यः अजैरुपात्तमसिभिः कुचकुङ्कुमानि तस्थुम॒जन्त्य उरुदुःखभराः स्म तूष्णीम् ॥२९॥ कृत्वेति ॥ अवशुचः प्राप्तशोकाः श्वसनेन शुष्यबिम्बाध. राणि मुखानि कृत्वा । यद्वा मुखानि अव अवाञ्चि अधो मुखानि कृत्वा मुखानां तथा करणं च कासाश्चिदहोऽस्माकं नास्त्यद्या- पि प्रेमोद्रेको, नो चेत् तेन वशीकृतो भगवान्नै ब्रूयादित्यभिप्रा- येण १ कासाश्चिदहो परमप्रेमास्पदेन भगवतैवमनङ्गीकृतानामस्मा- गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। कमूलमधो वा काप्यवस्थातुं योग्यता नास्तीसाशयेन २ कासा- चिदहो सर्वगुणगणालङ्कृतविग्रहस्य करुणासागरस्य सर्वज्ञस्य भगवत एवंविधोक्तिर्मन्दभाग्याऽस्मल्ललाटदर्शनजन्याऽतः स्वल- लाटमस्मै न प्रदर्शनीयमित्यभिप्रायेण ३ कासाश्चिदहोऽस्मदीयं क- चिदपराधं स्मृत्वा भगवानेवं वदतीत्यतो नम्रीभूय क्षमापनीय इ- साशयेन ४ कासाश्चिदहोऽस्माकं बनभूभौ निकृष्टजनवदागमन निष्फलमेव सम्पन्नमियाशयेन ५ । अधः कृतानि मुखानि वि- शिनष्टि ॥ शुचः शोकादुद्भूतेन शोकसम्बन्धिना वा श्वासवायुना शुष्यन्तः शोषं गच्छन्तो विम्बफलतुल्या अधरा येषु। शोकानल- ज्वालाव्याप्तवासेन शुष्यन्तः शुचः शुचेराघटस्य श्वसनेन वायुना शुष्यविम्बसदृशा अधरा येष्षिति वा । एवंभूतश्वसनेनाधरा- दिसमस्तशरीरं शोषयित्वा दीपयिष्याम इसाशयः । चरणेन वाम- पादाङ्गुष्ठै वं लिखन्यः । काश्चिदहो श्रसादिरूपं तिरोधाय भूमौ गोपाङ्गनाविग्रहो वृथैव अस्माभिराश्रित इति पश्चात्तापं सूचयन्स इव । अहो किं भूमिभारभूता अस्मानेव निश्चियानेन प्रकारेणास्मन्नाशायाऽयमवतीर्ण इति। काश्चिदहो भगवती सीता- मिवास्मानपि भूमि प्रवेशयितुं प्रवृत्तोऽसीति । तथा व्याप्तकज्ज- लैरश्रुभिः स्तनकुङ्कुमानि क्षालयन्यः । अहो नास्तीदानी नेत्र- स्थकज्जलस्य स्तनस्थलकुङ्कुमस्य च किमपि प्रयोजनमतः क्षा- लनीयमुभयम् । तत्क्षालनं चास्मिन् समयेऽन्यजलालाभादश्रुज- लैरेव कार्यम् । कुचेषु च इतः परं मषीलेपो विधेय इति सूचयन्स इव । मृजन्स इति वर्तमानापदेशेन मार्जनाय प्रवृत्ताभिरपि, यमा- ऽनुजाप्रवाहतुल्याभिरश्रुधाराभिस्तन्मार्जनं न सम्पन्नमेवादवानलम- तापसन्तापशोष्यमाणत्वादिति ध्वनितम् । उरुभरपदाभ्यां दुःख- स्य पराकाष्ठोच्यते । महादुःखातिशयवसो दुःख नागरनिमग्नाः रासपश्चाध्यायीव्याख्यायाम् । ससः किञ्चिदपि वक्तुमशक्तत्वात तूष्णीं तस्थुः स्मामुखस्यावाक्- त्वेन भगवदाभिमुख्यस्य, शोकेनाऽन्तःकरणस्य, बिम्बाधरशोषण कामरसस्य, पदाभूमिलेखने शरीरस्य, अनैरिन्द्रियाणां, कुङ्कु- माभावेन कान्तः, उरुदुःखभरेणानन्दस्य, तूष्णींस्थिया चैतन्यस्य च तिरोभावाभिधानात् । श्वसनेनेति प्राणपीडाकथनान्मूच्छिताः केवलं स्थाणुरिव स्थिता इयर्थः । अनभिज्ञापले-मुखानामधः- करणं कासाञ्चिदहो वयमत्रागताः सम्मानार्दा अप्येतेन न स- म्मानिताः, प्रत्युत, प्रति यातेखादिवाक्यैरेव मानिता इति लज्जा- सागरनिमग्नहृदयत्वेन। कासाश्चिदहो पसादिकं विहायैवंविधं कर्म कर्तुं प्रवृत्तानामप्यस्माकं प्रवृत्तिनिष्फला जाता, इतः परं किं करिष्याम इति लज्जाव्याकुलचित्तत्वेन । कासाञ्चिदहो एतेना- ऽनाहूता वंशीशब्दमाकाहानभ्रमेणैव समागता, अतोऽस्माकं मौर्ण्यमेव प्रकटितमिति लज्जया । कासाश्चिदहो एवंविधां दशां प्राप्ता, इतः परं व्रजं गताः कथं तत्र सखीजनेभ्यो मुखं प्रदर्शयि- ध्याम इति लज्जया । कासाञ्चिदहो विनाऽऽह्वानमागता, इतः परं दृष्टो भवदीयसौभाग्यदर्प इति वदतोऽस्य कृष्णस्य समक्षे मुखं कथं करिष्याम इति लज्जया । कासाश्चिदहो सर्वालङ्कारालकृ- तमप्यस्मदीयं मुखमस्मै न रोचते, एतत्समक्षस्थापनाऽयोग्यामिति लज्जया । कासाश्चिदहोऽस्मन्मुखमवलोक्याऽस्य महानानन्दो भ- विष्यतीत्याशया समागतानां परं विपरीतं जातमिति लज्जया । कासाश्चिदहोऽस्मदन्तःकरणनिविष्टोमातिशयमनवबुद्धयैतेनैवमुक्त- मतोऽनभिज्ञसमीपे एवमागमनम् अनुचितं जातमिति लज्जया। कासाश्चिदहो नास्त्यय कान्तानां सर्वथा नेतिनेतीयेव वदन्तीनां स्वभाव एवम्भूताऽनर्थकरो योऽस्माभिरङ्गीकृतोऽतस्ताभिरुपहास्या भविष्याम इति लज्जाविष्टचित्तत्वेन । कासाश्चिदहो इयं मां किंव- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। ६३ दिष्यतीयं मां किं कथयिष्यतीति परस्परप्राप्तलज्जया । कासा- चिदहो एतन्मुखनिःसृतैवविधोक्त्यनलज्वालया वृथाऽस्मन्मुख- दाहो मा भवत्विसाशयेन । कासाश्चिदहो यद्यप्ययमेवमस्मद्दुः- खायायुक्तस्तथाऽपि प्रज्ज्वलिताऽस्मदन्तःकरणान्मुखनेत्रादिद्वारा निःसृताभिरतिप्रचण्डज्वालामालाभिः सन्तापं न प्राप्नुयादिसा- शयेन । कासाश्चिदहो पूर्व प्रसन्नतस्तया वने विहरणपरो वंशी- वादनिरतोऽप्यस्मन्मुखं दृष्टैवविध क्षोभं गतोऽतोऽस्मै क्षोभकरं स्वमुखं न प्रदर्शनीयमियभिप्रायेण । कासाश्चिदहो नेत्रद्वारा का- चिन्मोहनशक्तिमस्मदन्तःकरणे प्रवेश्याऽस्मान् व्यामोहयतीत्येत- नेत्रसमक्षे स्वनेत्रस्थापनं न कार्यमिति भावेन । कासाञ्चिदहो शोकाक्रान्तमस्मन्मुखमवलोक्य कोपाक्रान्तमेतदीयं मुखमिति भ्रा- न्सेतोऽप्यधिकमस्यौदासीन्यं मा गच्छत्विसाशयेन । कासाञ्चित तथाभूनोक्तिजन्यशोकोदभूतममुद्रकल्पाश्रुजलप्रवाहभाराक्रान्तशि- रस ऊर्ध्वस्थापनाऽशत्त्या। कासाञ्चिदेवम्भूतमप्यस्मदीयं मुख- मस्य प्रीतिकरं न भवति, किमुताश्रुधारासम्पर्कमलिनीकृतमतः शोकोद्भूताश्रुप्रवाहोऽधः पातनीय इति प्रेष्टचेतसि प्रीत्युत्पत्त्याश- या। कासाञ्चिदहो धिक् स्त्रीचाञ्चल्यं, येन प्रीतिलेशेनापि हीन- स्य पाषाणवदतिकठिनस्वान्तस्य समीपेऽतिरभसा समागता, अतः परं त्वस्य स्वयमाहूयैवं वक्तुं प्रवृत्तस्य कृतनस्य मुखमपि नाव- लोकनीयमिसाशयेन । कासाञ्चिदहो विधातरऽतिकठोरान्तःकरण! परगुःखानभिज्ञ! दुःखपात्रभूता अस्मान् विनिश्चियाऽतिदुःखं दातुं प्रवृत्तोऽसि, भवतु, शपथोऽस्ति तक, यदि यावत्सामर्थ्य दुःखं न प्रदास्यसि, तस्मादितोऽप्यधिकं दुःखं यद्यस्ति तव समीपे तर्हि तदप्यस्मभ्यं प्रयच्छ, विलम्ब मा गच्छेदं शिरस्तवाग्रेऽस्माभिः स्थापितमिति विधातरि कोपावेशेन । कासाश्चिदहो परस्परनेत्रसं- रासपश्चाध्यायीव्याख्यायाम् । योगवशाद परस्परभावविपर्ययो जात:-एतस्य कान्तस्य दाक्षिण्य- रूपः स्वभावोऽस्मन्चेतसि प्रविष्टः, कान्तानामस्माकमवहित्थालक्ष. णः स्वभावोऽस्य मनस्यऽतस्तथा मा भवत्तिसाशयेन । कासाञ्चिद् अहो बहूक्तं त्वया, भवत्वन्यदाप यद वक्तव्यं तद वदस्व, इदं शिरस्तवाग्रे स्थापितमिसभिप्रायेण । कासाञ्चिदहो एवंविधोक्ति- नाराचधारया पुनः पुनः किमर्थमस्मद्वेधने प्रवृत्तोऽसि, यदि मार- णीया एवं वयं तर्हि सकृदेव तीक्ष्णाऽसिना ग्रीवोपरि निपातितेना- ऽस्माकं शिरांसि छिन्धीसाशयेन । कासाश्चिदहो कृतम एवंविध- व्याहारप्रयासेन, तं विनैव नवसौन्दर्यशस्त्रोन्मूलितगवद्रुमाणा- मस्माकं सर्वदेव नम्रीभावोऽस्तीति भावेन। कासाश्चिदहो विधात: त्वया किमेवंविधमस्मदीयं मुखं रचितं, यदस्य गोपालबालस्या- पि पीसजनकत्वात् तत्समक्षे स्थापयितुमयोग्यमिति पश्चात्तापेन । कासाञ्चिदहो मानलेशेनापि विनिर्मुक्तानामेतासां धिक् स्त्रीत्वमिति विमानस्थदेवाङ्गनादिकृताऽवज्ञानभयेन । कासाच्चिदहोऽयं चोर- चक्रवर्ती वंशीवेणस्वभृसेनास्मदीयमनोरत्नमञ्जूषामपट्टस परम- साधुवदेवं वदतीयतोऽस्माद्विभेतव्यमिति भावेन । कासाश्चिदहो किमस्मानेवमुपदिशसि, न वयमुपदेशार्थ तव समीपमागताः, स्वय- मेव उपदिशसि चेत् सर्हि विषसम्पृक्तमिष्टान्नवत् तथाभूतोपदेशे कृते, त्वन्मुखं नावलोकनीयमियभिप्रायेण कासाश्चिदहो निरर्थ- कोऽयमुपदेशः, त्वत्सम्बन्धेनाऽधोगमनस्याप्यस्माकमिष्टत्वादिति योतनाय । कासाञ्चिदहो गोवर्द्धनाधस्तात् स्वहस्तेन वधार्थमेव किं वय रक्षिता इति सूचनाय । कासाञ्चिदहो सबै त्वत्तोऽधोभूतमेव ज्ञात्वा वयमागता, अतः किमर्थमेवं बहु भाषसे इति ज्ञापनाय । तथा शुचः शोकादुद्भूतेन श्वसनेनोष्णश्वासेन शुष्यन्तः, सूर्या- तपेन शोषे सति विगतस्थौल्यैः स्पष्टवालिमद्भिर्बिम्बफलैः सदृशा , गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। अधरा येषु । अस्मदधराऽमृतं प्रियो धास्यतीसाशया समागतानां तदाशाभङ्गोत्थशोकानलस्तच्छोषणे प्रवृत्त इति भावः । पुनश्चरणेन वामपादाङ्गुष्ठेन भुवं लिखन्यः । काश्चिदहो नास्ति तवापराधः, किन्त्वस्माकमेव । यतो यस्मिन् काले, याताऽबला बजे सिद्धा मयेमा रंस्यथ क्षपा* इति त्वयोक्तं, तदा, कुहकशिरोमणेस्तव व- चसि कृतविश्वासाभिरस्माभिलेखापयित्वा न स्थापितमतोऽधुना किं कुर्मोऽस्मन्मौर्यमेवास्माकमनर्थकरं सम्पन्नमिति ध्वनयन्स इव । काश्चिन्मद्वचनसाक्षी कोऽपि नास्तीति निर्भयता नोचिता, किन्तु सर्वाधारभूता भगवती वसुन्धरा साक्षिभूना विद्यत एवेस- स्या एव विभेतव्यमिति सूचयन्स इव । काश्चिद भुवनैकसुन्दरेण जारेण गृहीतचेतसां नास्यस्माकं तथाविधं पातित्रयं किमर्थमेवं वक्तुं प्रवृतोऽसीति बोधनाय जारवतीलक्षणं स्वस्मिन् दर्शयन्स इव । काश्चिदहो तथैव मुखाद्यलंक्रियाऽतः परं मृदमुत्पाद्य तया सर्वाण्यङ्गानि लेपनीयानीति शोकोद्भूतमुत्कटवैराग्यं बोधयन्स इव । काश्चिदहो भूमिरपीयमस्मदपेक्षया वरा, यस्यामस्मत्प्रेष्टपा- दारविन्दसंस्पर्श. सदैवास्तीति ज्ञापयन्स इव । काश्चिदहो यादृशं दुःखमनेनास्मभ्यं दत्तं तादृशं दुःखमस्मै प्रदेयं, तचाऽस्मदङ्गसंस्प- देवास्य भविष्यतीसत्युग्रं तपः सम्पाय भूमिभावं प्राप्य स्वा. ङ्गसंस्पर्शनेनाऽयं पीडनीय इति ध्वनयन्स इव । काश्चिदहोऽस्या- मस्मद्ब्रजभूमावेवं विधातिकठोरचित्तः कोऽपि नास्यऽतोऽयमी- दृशः कथमत्र जात इति सूचयन्स इव । काश्चिदहो किमेवंविधम् अन्यायं कर्तुं प्रवृत्तोऽमि, किं भूशर्कराद्यपेक्षयाऽप्यस्मदीयानि स्तनाद्यङ्गानि कर्कशानि यत्संस्पर्शजन्मदुःखभयादेवं जल्पसीति सूचयन्स इव । काश्चिदहोऽस्मद्दुःखाय यत् त्वयाऽऽचरितुमार- ब्धं तदस्माभिलिखित्वा स्थाप्यतेऽस्मिञ्जन्मनि जन्मान्तरे वाऽस्य रासपश्चाध्यायीव्याख्यायाम् । प्रतीकारं करिष्याम इति ज्ञापयन्स इव । काश्चिदहोऽसाश्चर्य्यमेवं- विधमिथ्याप्रतिज्ञमियं भूमिर्धारयस्खेतदाधारण विदीर्णा न भवतीति सूचयन्स इव । काश्चिदहो मातर्वसुधे! नास्यस्मत्साहाय्यकृत् क- श्चिदऽतस्त्वयैवाऽयं बोधनीयोऽस्य त्वयिमीसतिशयस्य दर्शनादि- तिभूमि प्रार्थयन्स इव । काश्चिदहोऽस्य पाषाणवदन्तःकरणमति- कठिनमऽस्मत्प्रेमाद्रेकातिरेकं भूमिर्न जानायत एवंविधदुःखम् अव- लोक्यापि न द्रवतीति ध्वनयन्स इव । काश्चिदहोऽस्य हृदयं पा- पाणादाप कठोरं, यत एवम्भूतातिकष्टे सत्यपि न विशीर्यत इति म्हचयन्त्य इव । काश्चिदहो नास्तीतः परं जीवनकृत्यमतो, भो मातर्वसुन्धरे कृपयानिशीर्णा भव, त्वयि प्रावेशाम इति भूमिप्रवेशा- ऽऽभिभुख्यं बोधयन्स इव । पुनश्चोपात्तमषिभिः कज्जलाक्तैरनैः कुबकुङ्कुमानि मृजन्यः । अहो नेत्रस्थश्यामनैवानर्थकरी, यया- ऽतिनिष्ठुरान्तःकरणे कृष्णे स्नेहमुन्पायेवंविधां दशां वयं नीताः। आओ मस्या सह माऽपि निःमारणीया। यत एवंविधचक्षुष्मत्ता- ऽपेक्षयाऽन्यतवास्माकं श्रेयस्करीसाशयः । अनेन त्वत्प्राप्याशानि- वृत्त्या काष्ठभूतेष्वस्मच्छरीरेषु निःमीमतापक्रकचेन विदारणाय विरहतक्षकृतं श्याममूत्ररेखाद्यमियपि ध्वनयन्स इव । अझैरिति बहुवचनेन तत्प्रवाहधारा बोधिता । मृजन्स इति वर्तमानापदेशेन नयनोत्थयमुनाद्रयकल्पाऽश्रुधाराद्रियस्य कुङ्कुममार्जनायुयुक्तस्य हृदयोत्थसंतापानलस्य तच्छोपणोद्युक्तस्य विवादे कस्याऽपि जयो वा, पराजयो वा न संवृत्त इति घोतितम् । उरुदुःखस्य भ- रा भारो यासां नाः। भागसहिष्णुतयैवं चेतनापगमाव तूष्णीं पा- चालिका इव तस्थुरियर्थः ॥ मानिनीपले. मुखानाम् अधः करणं कामाञ्चित् परपुरुषमुखावलोकनमप्यस्मभ्यं न रोचते इति सूचना- ऽर्थम् । कासाञ्चिदऽस्मन्मुखावलोकनमपि तवाऽतिदुर्लभम्, अ- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। न्यत्तु दूरनिरस्तमिसतिदर्पख्यापनार्थम् । कासाश्चिदहो न वयं व्यभिचारिण्यः, किन्तु कुलाङ्गनास्तल्लक्षणस्यास्यामु सत्त्वादिति ज्ञापनाय । कासाश्चिदहो कृष्ण! त्वं त्वतिधूर्ताऽसि, परदाराने. वं प्रार्थयन् लज्जालेशेनापि विनिर्मुक्तोऽसि । वयं तु लज्जासागरे निमग्ना इति स्वस्य लज्जावतीत्वबोधनाय । कासाश्चिदहो अयो. गतिसम्पादकनौपपयं धर्मशास्त्राभिज्ञानानस्माकं सर्वथा परिहर- णीयमिति स्वस्य परलोकभयाविष्टताख्यापनाय । कासाश्चिदहो वयं लोकमर्यादाऽभिज्ञा अधे मुखनापादक कर्म कर्तुं नार्हाः, कि- मर्थमेवं बहु जल्पसीति स्वस्थापकीर्तिभयाविष्टताख्यापनाय । का- साञ्चिदन्तःकरणस्थामुन्कण्ठां मुखादिविकासमवलोक्यायं माऽव- गच्छत्विसाशयेन । अहो स्वपतिविरहजनिनशोकोद्भनौष्ण्यव्याप्त एतासां श्वास इति प्रतीतिजनकेन श्वमनेन, यद्यप्यस्मदधरपाना- ऽऽशा तव महती वर्तते तथापि तसिद्धिः स्वप्नेऽपि दुर्घटा, प्रबलेन त्वया बलात्कारेणाऽबलानामस्माकमऽधराऽमृतपाने क्रि- यमाणे तत्स्थं पीयूषं तु न लप्स्यसि, नस्य शोष्यमाणत्वादिसा- शयः ॥ चरणेन भुवं लिखन्यः ॥ काश्चिदस्मत्पादरजोऽपि तव दुर्लभतरम्, इतरत्तु दूरगतमिति ध्वनयन्स इव । काश्चिद् भूमिप्र- वशं करिष्यामस्तव वशीभूतास्तु न भविष्याम इति सूचयन्य इव । काश्चिद् बलात्कारेण स्पर्शादिकं करिष्यास चेत् तहि भूमि- पतये नन्दाय, कंसाय वा गत्वा कथयिष्याम इति द्योतयन्य, इव । अहो बलात्कारेणाऽयमस्मान् ग्रहीष्यतीति भयादिन मृषा- ऽश्रुभिस्त्वदर्थमस्माभिनेत्रेषु मपिर्न धृता, तब तथा भ्रमश्चेन्निसा- यते इसाशयेनोपात्तमषिभिः कुचकुङ्कुमानि सृजन्यः । न त्व- दर्थं कुचेषु कुङ्कुमान्यऽस्माभिरुपलिप्तानि, तव तथा भ्रमश्चेव तर्हि तानि प्रक्षाल्य तेषु मषिलेपोऽस्माभिः क्रियते इति सूचयू- रासपञ्चाध्यायीव्याख्यायाम् । . न्स इव । मार्जनादेरकृतत्वान्मृजन्स इत्युक्तम् । उरुदुःखभरा इव तूष्णीं तस्थुः स्म ॥ निवृत्तिपक्षे, यथोक्तवाद्युक्तयुक्तिभिः श्रुतीनां महती पीडा जातेखाशयेनाह ॥ कृत्वेति ॥ चरणेन मूलरूपेण भुवं स्वाग्रुत्प- त्तिस्थानं परमात्मानं लिखन्यस्तत्प्रतिपादने मुख्यतात्पर्यवसः सर्वाः श्रुतयः, अवशुचः प्राप्तशोकाः ससः, श्रुसन्तभागलक्षणानि मुखानि, वाद्युक्तस्वार्थलक्षणेन श्वसनेन शुष्यदाबिम्बाधरस्थानीया मोक्षप्रतिपादनभागा येषु तथाभूतानि कृत्वा, अझैः स्वरुधिरास्त्र- भूतै क्षारसैरुपात्तमषिभिस्तत्तद्वादिकरस्थलेखिन्यारूदैः, कुच- स्थानीयानां सन्दिग्धकठिनभागानां समीचीनाऽर्थलक्षणानि कुड- मानि मृजन्य उरुदुःखभरास्तूष्णीं तस्थुः स्म । उपरुद्धा जाता इत्यर्थः ॥ २९ ॥ ततो विनिवृत्तमूर्छ स्तूष्णी स्थितं भगवन्तमालक्ष्य किञ्चिद् विज्ञापयामासुरिसाह । प्रेष्टं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः ॥ नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्- संरम्भगद्गदगिरोऽब्रुवताऽनुरक्ताः ॥ ३० ॥ प्रेष्टमिति ॥ गोप्यो रुदितोपहते नेत्रेविमृज्य, अहो यद्भवितव्यं तद्भविष्यसेव, संपति भगवद्दर्शनं तु सम्यक् कर्तव्यमित्याशयः । कृष्णमब्रुवत स्म । भगवतः सदानन्दरूपत्वात् तदाभिमुख्यमेव सदानन्दाविर्भावकरमतः सर्वानर्थकरं तद्वैमुख्यं कथमपि नोचित- मिति भावः ॥ प्रेष्टं परप्रेमास्पदत्वादात्मानं, मियेतरमिवाऽना- गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। स्मवत् प्रतिभाषमाणं प्रसाचक्षाणम् । अहो सर्वात्मा सन् किमर्थ- मेवं वदतीति किंचित्संरम्भेण प्रणयकोपेन गद्गदा अस्फुटस्ख- लिताऽक्षरा गीर्याप्सां ताः । ननु भगवति ईषत्संरम्भोऽप्यनुचितः, तासां मुखाद् भगवद्वाक्यप्रत्युत्तररूपा वाणी च कथं निःसृता इ- तिचेत् तत्राह ।। अनुरक्ता इति ॥ स्वल्पस्यापि रागस्य भयनिव- तकत्वात् परमानुरागवतीनां तासां का भयप्तम्भावनेति भावः । यतः, तदर्थविनिवर्तितसर्वकामा: ॥ तदर्थ भगवदर्थ विशेषेण त- द्वासनासाहित्येन निवर्तिताः सर्वे कामा याभिस्ताः। तथाच भ- गवदतिरिक्तसर्वकामस्य तदिच्छायाश्च सक्तत्वाद्भगवद्विषयक- कामस्य च मोक्षकामवदकामरूपत्वात् तन्मात्रनिष्ठानां तदनुरक्तचेत- सां नास्ति किञ्चिदपि भयमिति भावः ॥ अनभिज्ञापले, तथाभूतां दशां प्राप्ता अपि ताः, अहो किमिसेवमरण्यरोदनं कर्तुं प्रवृत्ताः, स्वस्थाः प्रसन्नमुखाः ससः स्वस्वगृहं तूर्ण किं न गच्छत इसेवं प्रहसन् यदोचैरुवाच तदा तानि वाक्यानि तासां कर्णाऽध्वना- ऽन्तःप्रविष्टानि । ततश्च तैरेवोबोधितास्तत्सजातीयवाक्यैर्भगवद्वा- क्यानां प्रत्युत्तरं वक्तुमारेभिर इत्याशयेनाह ॥ प्रेष्टमिति ॥ बहु- कालमारभ्य परप्रेमास्पदत्वेन निश्चितमिदानी, प्रियेतरमिव, यथा प्रियेतरः शत्रुर्वदति तथा-प्रतियातेयादिवज्रादप्यतिकठोरं प्र. साख्यानरूपं वाक्यं भाषमाणम् । प्रियेतरमिव आमियवाक्यसदृशं वाक्यामिति वा । तत्रापि, कृष्णं सम्प्रत्यपि वेणुनादेन चित्तरत्नं मञ्जूषाया आकृष्य सौचित्येन स्थितम् । अत एव, तदर्थं विनि- वर्तितसर्वकामाः रुदितोपहते अन्धीभूते नेत्रे विमृज्य, अहो मरणसमयोऽयमस्माकमागतस्तस्मात् सकृदपि प्रेष्टस्य मुखपद्ममव- लोक्य मरिष्याम इसाकाङ्क्षयेति भावः । अहो प्रकृष्टत्वेनाश्रितो- ऽयं विनाऽपराधं कथमेवंविधप्राणान्तदण्डं दातुमुद्यत इति संर- रासपञ्चाध्यायीव्याख्यायाम् । म्भः । स्वस्मिस्तदङ्गसङ्गायोग्यतां विचार्य तच्छैथिल्यमियतः किञ्चित्संरम्भेणेत्युक्तम्।ननु सर्वथाऽपि प्रेमशून्येन तेनालं भाषणा- दिनेति चेत् तत्राह ॥ अनुरक्ता इति ॥ अनुरागादन्यविचाररहि- तत्वात्मयाख्याता अपि पुनस्तत्रैवानुरज्यन्त इति भावः । मानिनी- पक्षे, वस्तुतः परममियं प्रियेतरमिव प्रतीयमानं वाक्यं प्रतिभा- षमाणं कृष्णमत्रुवत स्म । अहो कथमस्मानू परदारानित्थं वदसी- ति कोपेनाऽन्तःकरणस्थोत्कटोत्कण्ठया शिथिलीकृतत्वात् स्वल्पेन गद्गदभूता गिरो यासां ताः । यथोक्तं प्रार्थनारूपं वाक्यमाकर्ण्य ततोऽप्यधिकमनुरक्ताः॥ निवृत्तिपक्षे॥ प्रेष्टम् ॥ सर्वे वेदा यत्पदमामनन्ति वेदैश्वसर्वे- रहमेव वेद्य इसादिश्रुतिस्मृतिभ्यो वेद्यत्वेनात्यर्थमभिमतम् । तत्तद्वा- दिरूपेण श्रुतीनां ब्रह्मणि प्रामाण्यं नास्तीसेवमादिरूपं प्रियेतरमिव प्रतिभाषमाणं प्रसाचक्षाणं कृष्णं फलरूपं सदानन्दात्मकं परमात्मानं तदर्थं परमात्मप्राप्यर्थं विशेषेण निवर्तिता अधिकारिणां सर्वे कामा याभिः । तथाच श्रुतिः- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः * तदा मोऽमृतो भवसत्र ब्रह्म समश्नुत इसाद्याः। रुदितेन स्वार्थानभिज्ञवाद्यभिहिततकृतेन रुदितेनोपहते नेत्रे यथा- भूतार्थप्रकाशनसमर्थे शक्तिलक्षणालक्षणे विमृज्य किञ्चित्संरम्भेण, अहो आस्तिकरूपेण स्थितोऽपि भगवानित्थं वदतीति ईष. कोपेन गद्गदाश्छन्दसां गिरो यासां ताः । किञ्च, तस्मिन्नेवा- ऽनुरक्ताः॥ ३० ॥ ॥ तदुदाहरति । गोप्य ऊचुः ॥ मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयाँस्तव पादमूलम् ॥

गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। ७१ भक्ता भजस्व दुरवग्रह मा त्यजाऽस्मान् देवो यथादिपुरुषो भजते मुमुक्षुन् ॥ ३१ ॥ मैवमिति ॥ यद्यपि वयं निकृष्टास्तथापि सर्वोत्तमो भवान षविधेश्वर्यसम्पन्नः, प्रतियात सेवंरूपं नृशंसं क्रूरमस्मत्प्राणापहर- णसमर्थत्वाद् घातकम् । नृशंसमिति किञ्चित्संरम्भाविष्कारः। यद्य- पि भगवना प्रथम, स्वागतमिलादिना स्तुनास्तथाप्यऽग्रे,प्रतियाते- ति प्रतिगमनाभिधानात् तदपि नास्माकं प्रेमातिरेकवर्णनाभिप्रा- यकमपि तु व्यङ्गयोत्पत्त्योपहामपरमतस्तदपि नृशंसमेव । परिच्छि- नस्य परकीयान्तःकरणहत्त्यनभिज्ञस्यैवंविधोक्तिः कदाचिद घटते, न तु विभोर्व्यापकस्य सर्वाऽन्तरवस्थितत्वात् सर्वान्तःकरणत्ति- साक्षिण इसाशयेन सम्बोधयति ॥ विभो इति ॥ अत एव ब्रज- स्याऽनामयं कच्चिदिति प्रश्नोऽपि न संगच्छते । तत्कुशलाकुश- लयोरुदासीनभूताऽस्मदनःकरणत्तिज्ञत्वादिसाशयेनाहुः ॥ सं- सज्येति ।। ब्रजस्य का कथा, अस्माभिः शब्दस्पर्शादयः सर्वेन्द्रि- याणामपि विषयाः सम्यग्वासनोच्छेदपर्यन्तं सक्ताः । संसज्य च पाद मूलं भक्ताः । तत्त्यागस्तव पादमूलभजनार्थमेव, न तु फला- ऽन्तरमनाकमपेक्षितमिवर्थः । मर्वविषयानिसनेन त्वद्विषयकः का- मः कामो न भवतीति ध्वनयन्ति । अस्मदन्तःकरणात् सर्वे वि- षया यदि निस्सृता न स्युस्तव पादमूलभक्तिः कथं तत्राविर्भवेत तथाच मैव तत्त्यागताक्षिणीयप्यनेन द्योतितम् । यच्च भगवतो- तं पियं किं करवाणि वः, नागमनकारणमिति तत्राप्याहुः ।। भजस्वेति ॥ तथाच भवद्भक्तानामस्माकं स्वीयत्वेन ग्रहणमेवास्म- प्रिय भगवता कर्तव्यम्, एनदतिरिक्तं किमप्यस्माकं मियं नास्येतदे- वास्मदागमनप्रयोजनमतस्तदेव संपादयेसाशयः । तस्मात् प्रतिया- Trumsra रासपश्चाध्यायीव्याख्यायाम् । त बज, नेह स्थयमिति सागाग्रहो भगवतो नोचित इसाहुः ॥ हे दुरवग्रह, मा सजास्मान् । मद्भजनं न कर्तव्यमिसेवमाग्रहो दुष्टो भ- वति । सः कर्तव्यं भगवद्भजनं, न कार्यमिति दुष्ट आग्रहो जीवा- नां वर्तते । परमेश्वरस्याऽप्युक्त आग्रहश्चेत् तर्हि कथं जीवानामु- द्धारः । तस्मादस्माकमेव केवलमभाग्यवशादुक्त आग्रहो भगवता आश्रित इति सम्बोधनाशयः । ननु न मया स्वभजनं निषिद्धय- ते, किन्तु कामोपाधिकं तदिति चेत् तत्राहुः ॥ देव इति ॥ यथा, देव आदिपुरुषः = अवतारिपुरुषो, ये यथा मां प्रपद्यन्ते ताँस्तथै- व भजाम्यहमिति * प्रतिज्ञावान भगवान् यथा मुमुक्षून भजते तत्त- फलप्रदानेनाश्रयते स्वस्मिन्नेव स्थापयति, न तु पुनस्तेषां पूर्वाव- स्थां सम्पादयति तद्वदस्मदाद्यर्थं तदवतारभूतस्त्वमेवमप्यस्माँ- स्त्वदङ्गमङ्गोत्कण्ठाकाङ्क्षावतीर्मा त्यज, अपि त्वस्मदभिलषितफल- प्रदानेनाश्रय । तथाचमोक्षोपाधिकमपि भगवद्भजनं यथा मुमुक्षूणां भगवता शुद्धत्वेनैवाङ्गीक्रियते तथा त्वदङ्गसङ्गोपाधिकमपि तच्छु- द्धत्वेनैवाङ्गीकर्तुं योग्योऽसीति भावः । स्वसन्निधित्यागो न कर्तव्य इति वक्तुं स्वभक्तसागं च कर्तुं भवान्नाईति, नाऽपि स उपदेशः सफलो भविष्यतीयप्यनेन ध्वनितम्॥अनभिज्ञापले, भो विभो समर्थ एवं गदितुमपि भवान्न, आचरितुं नाहतीति किमु वक्तव्यमियर्थः । यद्यपि परमैश्वर्यवास्तथापि परमधार्मिकत्वेन प्रख्यातस्य श्रीनन्द- रायस्य पुत्रः स्वयं च रसाई इति सूचनाय भवानित्युक्तम् । नृशं- सं साक्षान्मारकम् ।तथाचास्मदुपदेशाय प्रवृत्तेन त्वयावाङ्नाराच- कृताऽसंख्यातस्त्रीवधजनितपातकोत्पत्तिन विचारितेति भावः । अथवा, हे विभो! अस्मत्प्राणनाथातथाच स्वनाथाऽस्मत्प्राणरक्षण- मेव तवोचितं, न तु तन्नाशनमिति भावः । तत्रापि भवान्, मये- मा रंस्यथ क्षपा * इति कृतप्रतिज्ञः । प्रतिज्ञाय करोमीति कर्तव्यं गूढार्थदीपिकायाम् । १ अध्यायः । ( २९ )। ७३ तदकुर्वतः * मिथ्यावचनदग्धस्य इष्टापूर्त विनश्यतीसादिशास्त्र. ज्ञो भवान् । तथाचास्मदोषोद्धाटनाय प्रवृत्तस्त्वं स्वप्रतिज्ञानाशादि- बृहद्दोषान्न पश्यसि । तदुक्तं शकुन्तलया-राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि * आत्मनो विल्वमात्राणि पश्यन्नपि न प- श्यसीति भावः । ननु, स्वागतं वो महाभागा इति परमकोमलमपि प्रथमं मयैवोक्तं तकिमर्थं विस्मयंत इति चेन्न । तस्याप्यलंकृत्य शिरश्छेदनवनिवर्तनार्थतया नृशंस एवान्तर्भावात् । भवतु भव. न्मुखचापनिःस्मृतवागस्त्रजालेन दग्धप्राणा वयमितः परं परलोक- मेव यामो, न तु व्रज, त्वं त्वसंख्याता अस्मान् हत्वा किं पदं प्रा. प्स्यसीति न विद्म इत्याशयेनाहुः । संसज्येति ॥ वान्ताशनवद पुनर्ग्रहणायास्माभिः सर्वविषया न सक्ता इति द्योतनाय समित्यु- क्तम् । तथाच, ब्रजस्यानामयम् * रजन्येषेखादिवाक्यजातं निर- र्थकमेवेति भावः । ननु किमिसेवमत्युपालम्भं दातुं प्रवृत्ताः। प्रियं किङ्करवाणि वः * ब्रूतागमनकारणमिति मदुक्तं श्रुत्वा तू- णी स्थिता भवतीदृष्ट्वा पुनर्गन्तुकामा निष्कामाश्चालक्ष्य, रजन्ये- पेसायुक्तं मया। ततोमाऽस्तु कोपो, यत् प्रार्थनीयं तन्निःशङ्कमा- र्थ्यतामितिचेत् तत्राहुः ॥ अस्मान् त्वदतिरिक्तविषयकाङ्खारहिता भजस्व स्वीयत्वेन समाश्रयस्व। सन्सज्येसादिना, ननु कथं गोप- गृहिणीर्वोऽहं भजामीति शङ्काऽपि निराकृता। तब पादमूलं भक्ता इसनेन, न वयं वनशोभादिनिरीक्षणार्थमागता इति-दृष्टं वनमिया- धुक्तं समाहितम् । पादे, पद्मत्वानुक्त्या किञ्चित्संरम्भेण नृशंसवा- क्यपादयोः काठिन्यं व्यञ्जयन्ति । ननु युष्माभिः सबै यथार्थमे- वाभिधीयते, तथापि नाहं भवतीर्भजामि, स्वतन्त्रत्वादितिचेत् त- वाहुः ॥ हे दुरवग्रहेति ॥ अयमाग्रहो दुष्टो भवति । स्वतन्त्रस्यापि तवैवविध आग्रहो नोचितः । चतुरशिरोमणित्वात् । दुराग्रहो हि रासपश्चाध्यायीव्याख्यायाम् । मूढधर्म इति भावः । अतोऽनन्यगतीरस्मान् मा सज, सागस्यानि- वांच्यदोषोत्पादकत्वाव । नन्वस्तु दोषस्तेन मम का हानिरिसाश- झ्याहुः । अहो किमेवंविधगर्वगिरिशृङ्गमारूढोऽसि । किमाप्तकामा- दात्मारामात् परमेश्वरादप्याधिक्यं प्राप्तोऽसि, यतः सोऽप्येवं न करोतीयाशयेनाहुः ।। देव इति ॥ यथा धर्माद्यनपेक्षः सर्वलोकसं- हारकृत् पापाऽसम्पृष्टः सकलैश्वर्यसम्पन्नः स्वयम्प्रकाशो ब्रह्मा- दिकारणभूतः स्वभक्तान मुमुक्षून भजते तत्पदानेन सेवते, तथा लं स्वतन्त्रोऽप्यस्मन्मनोरथपूर्ति कर्तु योग्योऽसीत्यर्थः । मुमुक्षूनि- सनेन ते मुमुक्षयो, न तु तदेकेप्सव इति तेषां स्वतो निकृष्टतां सूचय- न्ति । यद्धा, अमुमुक्षून् मोक्षाद्यनिच्छ्न् । यद्वा, मुमुक्षून तदन्यद सर्व सक्तुमिच्छन् शरणागनान् । दुरवग्रह इसनेन, हे विषमात्रव- पकमेघेसप्युक्तम् । अवग्रहो दृष्टिप्रतिबन्ध इति पाणिनिस्मरणात् । दुष्टः-- अवग्रहो यस्मिन् स प्रतिषिद्धष्टिर्मेधः । तस्य दुष्टत्वं च ऊष्मवायुवर्षकत्वात् । तथाचेतरजलस्थानीयस्वपयभिकाङ्क्षाविनि- मुक्ता मेघस्थानीयत्वदेकशरणाश्चातकीकल्पा वयं त्वदधराऽमृत- पानार्थमागतास्त्वं त्वस्मदभाग्योदयात् सम्प्रति विषं वर्षसि । भवतु, विषमेव पीत्वा मरिष्यामो, न तु व्रज यास्यामः । चातकी- स्वभावत्वात् । तस्माद् अस्मान् मा यज । कृतज्ञस्य तव च नेद- मुचितामात भावः । ननु चातकीसमानां भवतीनां मरणेन मम चातक्यपेक्षारहितमेधकल्पस्य का हानिरिति चद, नत्वं केवलं जड- मेघसदृशः, किन्तु परमाभिज्ञदुःखमोचकमात्रकचेतनरूपपरमात्मस- दृशोऽपीसाशयेनाहुः ॥ देव इति ॥ यद्वा, भक्ता अस्मान् भजस्व दुराग्रहम् आसमन्तात् यज । बुद्धः फलमनाग्रह * इत्युक्तत्वात परमबुद्धिमतस्तबाग्रह एव नोचितो, दुराग्रहस्तु दूरनिरस्त इति भावः ॥ मानिनीपले, एवं = प्रियं किं करवाणीत्यादिरूपं, नृशसं गढार्थदीपिकायाम् । १ अध्यायः । ( २९)। क्रूरं गदितुं नाहसीति । यद्यपि भवान् सौन्दादिगुणसागर- स्तत्रापि विभुः परमसमर्थस्तथापि परदारा एवं न वक्तव्या इति भावः । यदि परदारेरेव तव रमणेच्छा तर्हि याः सर्वविषयान् संसज्य तव पादमूलं भक्तास्ना दुरवग्रहं स्वच्छन्दं यथा स्यात् तथा भजस्व । अस्मान् आसमन्तात् सर्वप्रकारेण सज । यद्रा अस्मान् दुःमाध्याः प्रति दुराग्रह सज । प्रभवोऽपि भजमानमेव भजन्त इसाशयेनाहुः ॥ देव इति ॥ आदिपुरुषो देवो, यदपेक्षया- ऽपिकप्रभुत्वविशिष्टः कोऽपि नास्ति, स यथेयर्थः ।। नित्तिपक्षे, एवं प्रतिरुद्धाः श्रुतयः साक्रोशमाहुः ॥ मैवमि- ति ॥ एवं ब्रह्मणि श्रुतीनां प्रामाण्यं नास्तीत्येवमादिरूपं नृशसं सर्वधातुकं गदितुं भवान् नार्हति । ननु नाहं ब्रवीमि, किन्तु शास्त्र- तत्त्वाऽनभिज्ञास्ते से वादिन एवं जल्पन्सऽतो नाऽहमुपालम्भविषय इति चेत् तत्राहुः॥ हे विभो! व्यापक । तथाच, अनेन जीवनात्मना- ऽनुपविश्य नामरूपे व्याकरवाणीति श्रुत्या नामरूपात्मकसंसार- विस्तराय तादृशजीवात्मना त्वमेव ब्रवीषीति भावः। यतः, संस- ज्य सर्वविषयाँस्तव पादमूलं भक्ता अस्मान भजस्व ! दुरवग्रहम् आसजानायं मोक्षमार्गः, किन्तु परमानाऽमद्भावप्रापकः । अस- नेव स भवति असद् ब्रह्मेति चेकैदेत्यादिश्रुतेः । तस्माद् यथा मुमुक्षूणां माक्षः स्यात् तथा करुणो विधेयखाशयेनाहुः ॥ देव इति ॥ यथा आदिपुरुषो देवो भवान् मुमुक्षून् भजते मोक्षदाता भवेत् तथाऽस्मान् भजस्व । तथाच परमपुरुषार्थमोक्षलाभाय ब्रह्म- ण्यस्मत्प्रामाण्यमवश्यमास्थयमित्यर्थः । अयमाशयः। सर्वान् वि- षयान् प्रतिपाद्यान् सम्यक् परियज्य ब्रह्मणि समन्वितानां श्रु- तीनामन्यपरत्वाभिधानं साहसमात्रम् । तत्र श्रुतिवाक्यानां द्विविधा ब्रह्मणि प्रवृत्तिः । एका ब्रह्मात्मनोरेकत्वविषया, अपरा ससज्ञाना- - रासपञ्चाध्यायीव्याख्यायाम् । दिलक्षणब्रह्मविषया । तत्राद्या यथा, सोऽयं देवदत्त इति पदत्र- यस्यैकस्मिन् देवदत्ते पर्यवसानं तद्वत् । तथाहि । यथोक्तवाक्यं, सोऽयमिति विशिष्टाभिधायिभ्यां पदाभ्यां स्वार्थैकदेशव्यक्तिमा. त्रलक्ष्यपरम् । तथा, तत्त्वमसिवाक्यमपि विशिष्टाभिधायिभ्यां पदाभ्यां स्वार्थैकदेशचैतन्यव्यक्तिमात्रपरम् । ननु पूर्वतन्त्रे पदा- र्थानां संसर्गः, संसृष्टाः पदपदार्था वाक्यमिति वाक्यार्थलक्षणमु- क्तम् । तच्च द्विविधमप्यखण्डाथ न सम्भवति । ततः कथं वाक्या- र्थलक्षणशून्यमखण्डं ब्रह्म वाक्यार्थः स्यादितिचेन्न । वेदान्तशास्त्रा- ऽचार्यश्रीबादरायणानुयायिभिः, संसो वा विशिष्टो वाचाक्यार्थों नात्र संमतः * अखण्डैकरसत्वेन वाक्यार्थो विदुषां मत इति वद- द्भिरखण्डस्य वाक्यार्थत्वाभिधानात् । नचैवं सत्युक्तलक्षणस्य त- त्राव्याप्तिः । सामान्यलक्षणस्यैव यावद्विशेषव्याप्तिनियमाद् विशे- पलक्षणयोरेतयोः परस्पराव्याप्तेरदूषकत्वात् । सामान्यलक्षणं तु वाक्यप्रमेयत्वमत्राप्यस्येव । नचाखण्डवाक्यार्थस्य विशेषलक्षणा- भावः। अपर्यायानेकपदैरेकमातिपदिकार्थमात्रपरत्वस्यैव तल्लक्ष- णत्वात् । ननु तत्त्वम्पदलक्षितरूपे भिन्ने ? किं वा न?। आधे ऐक्यप्रमियसम्भवः । द्वितीये पदार्थवाक्यार्थयोरेकत्वापत्तिरिति चेन्न । द्वितीयपक्षोक्तदोषस्येष्टापत्तिग्रस्तत्वात् । नच पदद्वयवैय्य- र्थ्यम् । लक्षणयैकार्थबोधनार्थत्वात् । त्वम्पदस्य वाच्यार्थपरिसा- गेन चिल्लक्षकत्वं तत्पदसामानाधिकरण्ये सति घटते । तथा तत्- पदस्यापि वाच्यार्थपरियागेन चिल्लक्षकत्वं त्वम्पदसामानाधि- करण्य इति न पदद्वयवयर्थ्यम् । एवं सत्यज्ञानाद्यवान्तरवाक्ये- ऽखण्डार्थत्वम् । यथा केन चित् पृष्टोऽस्मिञ्ज्योतिर्मण्डले कश्चन्द्रो नामेति ?। तस्य प्रतिवचनं-प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्य । अत्र प्रकृष्टशब्दान चन्द्रप्रातिपदिकार्थसिद्धिः।प्रकृष्टं तम इति - गूढार्थदीपिकायाम् ! १ अध्यायः । ( २९)। कृष्टशब्दस्य प्रकृष्टसन्तमसेऽपि प्रयोगदर्शनात् । तथा प्रकाशशब्दा- दपि न तसिद्धिः । खद्योतादावपि तत्प्रयोगदर्शनात् । तस्माद्वा- च्यार्थपरित्यागेनाऽप्रकर्षाऽप्रकाशविरोधी चन्द्रप्रातिपदिकार्थः पद- द्वयेन प्रतिपाद्यत इस खण्डार्थत्वसिद्धिः । अन्यथा चन्द्रप्रातिपदि- कार्थमात्रप्रष्णोत्तरतया विशिष्टमर्थ बोधयतो वक्तुरनवधेयवचनता स्यात् । तथा, विमतम् अखण्डार्थम् । लक्षणवाक्यत्वात् । प्रकृष्ट- प्रकाशश्चन्द्र इति वाक्यवदिांत सिद्धम् । यद्यपि प्रमाणान्तराभा- वाद् ब्रह्मण्युपनिषदां प्रामाण्यमुक्तं, किमवाधलक्षणप्रामाण्यं, किं वा प्रमाणान्तरसम्भिन्नार्थविषयत्वात् पौरुषेयं वेसाक्षेपे प्रामाण्यं, किं वा प्रमाणान्तरयोग्यार्थविषयत्वात् तत्सिद्धयर्थानुवादरूपमप्रा- माण्यम् । नायः। गृहीतमङ्गतिकस्य पुंसः सत्यादिवाक्यश्रवणे अबाधितानधिगतार्थप्रमितिदर्शनात् । प्रमाणेन हि प्रमीयमाण- स्यार्थस्य प्रमाणान्तरासंवादो न मिथ्यात्वापादकः । सर्वप्रमा- णानामनधिगतार्थगन्तृत्वात् । अन्यथा चक्षुषा गृह्यमाणस्य रूपस्य त्वचाऽग्रहणान्मिथ्यत्वाशङ्का स्यात् । न द्वितीयः। प्रमाणान्तरम- म्भिन्नार्थवाभावात् । पौरुषेयवचनप्रयुक्तत्वे हि सम्भेदस्य भूता- र्थपयुक्तत्वे प्रसक्षादीनामपि सम्भेदः स्यात् । नापि तृतीयः। स्पर्श- ज्ञानयोग्यद्रव्यविषयस्य चक्षुषोऽनुवादकत्वादर्शनात् । एवं सिद्ध उपनिषदां ब्रह्मणि प्रामाण्ये तद्गतानां पदौनामर्थान्तरकल्पना न युक्ता । श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । नच तेषां कर्तृस्वरूपप्रति- पादनपरता वक्तुं शक्या। तत् केन कं पश्येत्, एकमेवाद्वितीयमि- त्यादिना क्रियाकारकफलादनिराकृतत्वात् । नापि ब्रह्मण उपा- सनाविधिशेषत्वं सम्भवति । एतेन हेयोपादेयशून्यत्वेन क्रिया- कारकादिद्वैतविज्ञानोपमोपपत्तेः । यद्यप्यन्यत्र वेदवाक्यानां वि- घिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टं, तथापि ब्रह्मात्मविज्ञानस्य रासपञ्चाध्यायीव्याख्यायाम् । फलपर्यन्तत्वात् तत्तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रसाख्यातु- म् । हितशासनाच्चोपनिषदां शास्त्रत्वमिति सङ्क्षपः । एतेन, स्वा- गतामियाद्याक्षेपो निरस्तः। यत्तु- रजन्येषेखादि, तत्तु यथार्थमेव । तत्र निद्रितानामज्ञानामपेक्षया ब्रह्मणोनिशातुल्यत्वात् । तदुक्तं- या निशा सर्वभूतानां तस्यां जागर्ति संयमी* इत्यादि । यत्तु-मातर इत्यादि, तदपि तु. असन्नेव स भवति असद् ब्रह्मेति चेद्वेदेसादिना मात्रादितुल्यत्वाभिमानिनामास्तिकम्मन्यानामसवामिधानेन तेषां भयोत्पादनस्य समुचितत्वात् । योऽपि- दृष्टवनमियादिनोपहा- सः, सोऽपि साहसनिबन्धनः। अन्तःकरणतद्धर्माणां ह्यसंवेद्यत्वा- द । अधिकार्यभावे, निचाय्य लोकान् कर्मचितान ब्राह्मणो नि- वेदमायान्नास्यकृतः कृतेनेसादिश्रुतीनां निरालम्बनतापत्तेश्चेति दिक् ॥ ३१॥ यदप्युक्तं, तद् यात मा चिरं गोष्टं शुभूपध्वं पतीनू सनी, भर्तु शुश्रूषणं स्त्रीणां परो धर्मो ह्यमाययेत्यादि तत्राप्याहुः यत् पत्यपत्यसुहृदामनुवृत्तिरङ्ग ! स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ॥ अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्टो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥ यदिति ।। यत्पत्यपसमुहृदामनुत्तिः स्त्रीस्वधर्म इति धर्मविदा त्वयोक्तमेतदुपदेशपदे त्वय्येवमेवाऽस्तु । अङ्ग ? हे भगवन्निति कोमलामन्त्रणेन, न वयं प्रतिकूलं वदाम इति सूचयन्ति । त्वं हि उपदेशविषयः । त्वबुद्धयैव पसादिसेवनम् उत्कृष्टफलप्रदमतः साक्षाद्भगवति सनि कि परम्परयेति भावः । यत, ईशे, विविदिषा- %3D गूढार्थदीपिकायाम् । १ अध्यायः। ( २९)। वाक्येत सर्वोपदेशानामीशपरत्वावगमादिति भावः । यद्वा, ईशे अन्तर्यामिणि । जीवो हि यत्रान्तर्यामिरूपेण त्वया प्रेर्यते तत्रैव प्रवर्तते । अतः स्वमङ्गमार्थ त्वयैव प्रेरिता वयं त्वदाराधनं समीहा- महे । तस्मादन्तर्यामिरूपेण स्वाराधने प्रेरणं, श्रेष्टरूपेण पसा- धाराधने इसस्मव्याकुलताऽऽपादिका प्रवृत्तिर्भगवतो नोचिता। अन्तर्यामिकृतप्रेरणस्यैव प्रबलत्वादिति भावः। किञ्च, उपदेश- नियोज्य उपदेशविषयश्च त्वमेवातस्त्वदाराधने नास्ति किमपि बायकमियाशयेनाहुः । श्रेष्टः परमप्रेमास्पदम् । अत एवात्मा, परमप्रेमास्पदस्यैवात्मत्वात् । स च तनुभृतां सर्वेषां तनुन तु यस्य कस्य चित् । अतः सर्वेषां बन्धुरूपो भवानेव यः सम्प्रसऽस्मदनु- ग्रहार्थं नन्दनन्दनविग्रहस्तस्मादुपदेशकर्तृतदनुष्ठातृतद्विषयात्मनस्त- वाराधनमेव मुख्यं सर्वाराधनमिति भावः। यद्वा, त्वय्युपदेशपदे धर्मोपदेशकर्तरि सति अस्मासु धर्म जिज्ञासमानासु सतीषु एतत् त्व- योक्तमेवमस्तु । न तु वयं तथा, नापि भवान, किन्तु भवानात्मे- ति । अथवा, एतदुक्तमुपदेशपदे पुरुषेऽस्तु नाम, त्वयि तु ईशे स्वामिनि सति एवं क, नैवमिसर्थः । यद्वा, उपदेशपदे उपदेशेन न निवर्तनीये लौकिकयुरुषे आसक्तचित्तत्वे एतदेवमस्तु, ईश्वरे त्वयि तु नैवनिसर्थः । यतस्तनुभृतां त्वमात्मा फलरूपः । अथवा एवमे- तत् त्वय्येवाऽस्तु । कुतः । उपदेशपदे आराधनीयत्वेनोपदिश्य- मानाना पसादीनां पदे अधिष्ठाने । यतः, ईशे। न हीश्वरमधि- ठानम् ऋते कोऽपि पतिपुत्रादिर्नाम । अध्यस्तस्याधिष्ठानान- तिरेकात् । तस्मान्न वयमनुचिते कर्मणि प्रत्ता इति भावः । यद्वा, यत् त्वयोक्तमेतदेवम् आदावुपदेशकर्तरि आचार्ये त्वय्य- ऽस्तु । आचार्यसेवनपूर्वकस्यैवं धर्मानुष्ठानस्य सफलत्वप्रतिपाद- नात । तत्रापि ईशे परमेश्वरे । एवमप्याचार्यः स्यात् तर्हि किमु रासपञ्चाध्यायीव्याख्यायाम् । वक्तव्यम् । ईश्वरत्वादेव तनुभृतामात्मा । तत एव प्रष्टस्तत एवं बन्धुः सुहृत् । सात्मकानामेव पसादीनां सेवनं दृश्यते, न तु मृ- तानां तेषाम् । तदाहविधानात् । अतोऽस्मद्भाग्यवशात् सदानन्दा- ऽऽत्मैव प्रकटितस्तस्मात्त्वत्सेवने प्रवृत्तानामस्माकं किं तैरिति भावः। अनभिज्ञापक्षे, अधिकारमबुद्ध्वैव धर्ममुपदेष्टुं प्रवृत्तोऽसि । निव- गुण्ये पथि विचरतां को विधिः को निषध *इत्युक्तत्वाद ब्रह्मज्ञा- नामस्माकं विधिनिषेधाधिकाराभावादियाशयेनाहुः ॥ यदिति ।। इति यद्धर्मविदा वयोक्तमेतदुपदेशास्पदे तदेकस्वभाव एवमस्तु क्रियताम् एवमुपदेशो, न वयं निवारयामः। परन्तु स्वाधिकाराभा- वान्न तं गृह्णीम इति भावः ॥ धर्मविदेति ॥ धर्मस्वरूपमा वेत्सि, न तु तदुपदेशाधिकारम् । यद्वा, अथापि धर्मविदास, न तु ब्रह्म- वित् । अत एव ब्रवीषीति सोपहासं व्यङ्ग्यम् । यद्यपि निवारण- मुचितमधिकारं विनाऽरण्यरोदनप्रायस्योपदेशस्य निषिद्धत्वात् । तथापीश्वरत्वात् तव नास्यस्माकं निवारण सामर्थ्यमिसाशयेनाहुः ।। ईश इति ॥ यदा, अधिकारं विनोपदेशकर्तृत्वमनुचितमपि प्रभु- सानो विरुद्धयते । ननु, वामैव विभुतेत्युक्तत्वेन विभुतायाः कुटि- लप्रवृत्तिजनकत्वावगमाद् अधिकाराऽभावसाधकमात्मानुभवमावेद- यन्ति ॥ प्रेष्ट इति ॥ अस्मन्प्रेष्टो भवानेव । सर्वेषां तनुभृतां बन्धु- हितैपी परमात्मा आत्माचीयद्वा, सर्वेषां परप्रेमास्पदभूतोय आत्मा यश्च सुहृत् परमेश्वरः स, तत्त्वमसिवाक्ये तत्त्वम्पदोपलक्षितो भवानेव । तथाचाखण्डवाक्यार्थबोधवतीनां कुतस्त्वदुक्तधर्मेऽधि- कारः, कुतश्वाऽशुभसम्बन्धः । पश्यतः सर्वभूतानि सर्वावस्थामु सर्वदा * ब्रह्मभूतस्य संयोगो नाऽशुभस्योपपद्यत इसादिशास्त्रादि- ति भावः । ब्रह्मज्ञम्मन्यानां पक्षमवलम्ब्येयमुक्तिद्रष्टव्या । तेषां तदभिमानेन यथेष्टाचरणे प्रवृत्तिदर्शनात् । तदुदाहरणन्तु-ब्रह्मैव गदार्थदीपिकायाम् । १ अध्यायः । (२९ )। सर्वमिति वेदविदो वदन्ति तस्मान्न मे सखि पराऽपरभेदबुद्धि: * जारेऽथवा निजवरे सदृशोऽनुरागो व्यर्थ किमर्थमसतीति कदर्थ- यन्तीयादि । यद्वा, स्त्रीणां स्वधर्म इति यत् त्वयोक्तमेतदुपदेशपदे त्वय्यस्तु । एतदुपदेशविषयो भवानेवाऽतो न वयमुपदेशनीयाः । ननु मम कुत उपदेशविषयत्पमियाशङ्का सौन्दर्यमाधुर्यादिगुण- गणालङ्कृतस्यास्मच्चित्तकर्षक स्य तवैवंविधत्वमेवास्मद्धर्मनाशे प्र- योजकमिति भावः । यद्रा, इति यत् त्वयोक्तं तदस्माकं मनसि न प्रविशति । यतस्त्वं धर्मविन्न तु तदनुष्ठाता । यो यस्य धर्मस्यानु- ष्ठाता न भवति, केवलं धर्म जानाति, न तद्वाक्यात कस्यचिव तस्मिन् धर्मे प्रवृत्तिर्भवति । अतः काचिन्महाभागा पातिव्रस- धर्मानुष्ठानपरा योपिद्वीराऽस्मानुपदिशेच्चेत् तस्मन्मनसि तद्- वाक्यं प्रविशेदतः किमर्थं जल्पसीति भावः । अस्मद्वाक्यमेतासां हृदि प्रविशत्तिति यदि तवाग्रहस्तषेतदुपदेशपदे गुरौ त्वय्यस्तु। तथा- च विष्णुना यथा मोहिनीरूपं धृतं तथा त्वमपि स्त्रीरूपमादाय स्त्रीधमाचर, ततोऽस्मानुपदिशति गुर्वनुष्ठिते कर्मणि शिष्यभूताना- मस्माकमपि प्रवृत्तिः साकय्र्येण भविष्यतीति भावः । नन्वनुष्ठा- याऽप्यहं दर्शयामि, परन्तु किं कर्तव्यं !! स्त्रीत्वं नास्ति ममतिचे तत्राहुः ॥ ईश इति ॥ सर्वकलासमर्थे त्वयि स्वीभावोऽपि न दुर्घट इति भावः ।। ननु कपटेन गृहीतस्त्रीभावस्य मम पाणिग्रहीतुरल- भ्यत्वात् कथं पातिव्रसधर्मानुष्ठानमिति चेत् तत्राहुः ॥ प्रेष्टो भ- वान् ॥ स्वभावत एव पियो मनोहरात्मा च । तथाच यथा मोहिन्या जानन्नपि कपटस्त्रीभावं, स्वाभाविकस्त्रीभावां परमप्रियामुमां विहाय सन्दग्धकामः परमजितेन्द्रियोऽपि श्रीरुद्रस्तद्ग्रहणायाधावत्, तथा लोकोत्तरसौन्दर्य्यवति त्वयि कपटेनापि गृहीतस्त्रीभावे जानन्तोऽपि कोटिशः स्वस्खदारान् परित्यज्य वदग्रहणाय धाविष्यन्सऽतो न रासपञ्चाध्यायीव्याख्यायाम् । पतिदौर्लभ्यमिति भावः । अनेनाहो विधात्रा धर्मविनाशायैव त्वं रचितोऽसि । पुरुषत्वे स्त्रीणां धर्म नाशयसि, गृहीतस्त्रीभावे पुरु- पाणां तन्नाशयिष्यत्ति धर्ममनुष्ठातुं तु त्वं कदापि न समर्थोऽसि । यथेदानी पुरुषधर्ममेकपनीतलक्षणमनुष्ठातुमशक्तो, बहीनां स्व- स्मिन्नासक्तत्वात् । तथा गृहीतस्त्रीभावेऽप्यसंख्यातपुरुषाणामा- सक्तिजनकत्वात् । तस्मादनुष्ठाय उपदेष्टुमशक्तस्त्वं किमर्थं वृथा कण्ठशोषणाय प्रवृत्तोऽसीसपि ध्वनितम् । यद्वा धर्मविदा त्वया इति यदुत्वमेतदुपदेशपदे त्वयि एवमस्तु, त्वदनेष्वेव जीर्ण भवतु । ग्राहकाभावात् । अहो ज्ञातमस्माभिनवीनं धर्मवित्वं त्वया सम्पा- दितमतः शिष्याः सम्पादनीयाः । यथोक्तधर्मश्चोपदेष्टव्य हात तव महत्युत्कण्ठा वर्तते । ततोऽस्मानेवमुपदेष्टुं प्रवृत्तोऽसि । परन्तु न वयं त्वां गुरुं कर्तुं नमागता, अतः किमर्थमपात्रदानात् स्वधनं ना. शयसि । अप्रतिपित्सितमर्थं प्रतिपादयन्ननवधेयवचनो भवति । त- थाच धर्मविद् यद्यपि जातोऽसि, तथाप्यधिकारानधिकारविवेकले- शेनापि विधुरोऽस्यऽतः सम्प्रत्येतत् त्वयि तिष्ठतु। गुरोः सकाशाद् यथोक्तविवेकमपि लब्ध्वैतदधिकारलाभे मुत्वेनोपदेशं करिष्यसीति भावः । यतस्त्वमीशः ॥ यथोक्तोपदेशधारणेऽधिकारस्वीकारेऽधि- कारिसम्पादने च समर्थः । भवसस्तहि किमर्थमागता इतिचेत् त- बाहुः ॥ तनुभृतां सर्वेषां चतुर्दशभुवनस्थानां मौन्दर्यादिविशिष्ट- विग्रहवनां मध्ये भवान् मनोहरस्वरूपोऽतोऽस्माकं प्रेष्टः । तथाच त्वयि रमणबुद्धया समागता वयमतो न यथोक्तोपदेशार्हा इति भावः ॥ मानिनीपले, पत्याअनुत्तिलक्षणःस्त्रीणां स्वधर्म इति त्व- योक्तम् एतदुपदेशकर्तरि समर्थे त्वय्येवमस्तु । सर्वदैवमेव त्वया वयमुपदेशनीयाः। धर्मविदेयनेन अहो ज्ञातम् अद्यास्माभिः- वं धर्मविद पीति भूचितम् । योग्यं चैवमुपदेशकर्तृत्वं तब, यतः स्व- गूढार्थदीपिकायाम् ! ! अध्यायः । (२९)। GAIN स्मिन् प्रेमकृतः शुभपथ्येव प्रवर्सन्ने सज्जनैरिसाशयेनाडुः ॥ प्रेष्ट इति ॥ भवान् प्रेमविषयो यतो बन्धुः । यथाक्तोपदेशकर्तृत्वाद् हितैषी । अत आत्मा स्वात्मतुल्यः । तथाच, कः सखभर्ता, श्रुश्रूष- णीयः क., को वा कपटभर्नेयादिविवेकवतीनाम् अस्माकमग्रे स्व- पाण्डिसं नोद्घाटनीयमिति भावः । यद्वा इति यत् त्वयोक्तमेतदेव- मुपदेशपदे त्वय्यऽस्तु । त्वमपि स्वधर्ममाश्रिय तिष्ठ, न त्वस्माकं स्वस्य च धर्म नाशयति भावः । यतस्त्वमीशो नाशसंरक्षणयोः समर्थः । यदि तुमदभिस्नेहवतीनई नः स धर्मः, कपटपूर्वकृत्वादिति तत्राहुः ॥ प्रेष्ट इति ॥ तनुभृतां सर्वेषां प्राणिनां भवान् आत्मवद प्रेष्टः । यतः सर्वेषां हितैषी । तथाच सर्वेषां तनुभृतां यथा त्वयि. प्रीतिस्तथाऽस्माकमप्यतो विशेषप्रीतिभ्रमादस्मासु दोषमारोप्या- ऽस्मद्धम नाशायितुमयोग्योऽसीति भावः ।। नितिपक्षे, एवं साक्षाद्ब्रह्मप्रतिपादकश्रुतिभिः स्वस्य ब्रह्म- णि समन्वयोऽभिहित इदानीम्, इन्द्रो यातोऽसितस्य राजा, अ- ग्निर्मूर्द्धा दिव इसादिका श्रुतयः स्वाभिप्रायं ब्रह्मण्यावेदयन्ति । यदिति ॥ यत् स्त्रीमधर्भिकाणां श्रुतीनामिन्द्रादिप्रतिपादिकानाम- स्माकमिन्द्राद्यनुवृत्तिस्तात्पर्येण तत्र प्रवृत्तिः स्वधर्म इति धर्मविदा स्वयोक्तम्, एतदेवं त्वय्यस्तु । यत उपदिश्यमानानामिन्द्रादीनां पदे अधिष्ठाने, यत ईश्वरे सर्वकारणभूते । यतश्च भवान् प्रेष्टत्वात तनुभृतां सर्वेषामिन्द्रादीनामात्मा तद्वन्धुस्तत्सम्बन्धीन्द्रादिविग्रह- रूपश्च । तथाच किमपि विकारजातं प्रतिपादयन्यः श्रुतयः सर्वा- धिष्ठानभूतं सर्वात्मानं सर्वस्वरूपं परमात्मानं तमेव प्रतिपादयन्ति । सर्वे वेदा यत् पदमामनन्तीसादिश्रुतेरिति भावः ॥ ३२ ॥ सन्मार्गे प्रवत्ता वयं प्रशंस्या, न तूपालम्भयोग्या इत्याशयेन, सदाचारं प्रदर्शयन्ति ॥

रामपञ्चाध्यायीव्याख्यायाम् ।। कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्म- नित्यप्रिये पतिसुतादिभिरातिदैः किम् ॥ तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या- दाशां धृतां त्वयि चिरादरविन्दनेत्र ! ॥ ३३ ॥ कुर्वन्तीति ॥ कुशलाः कर्तव्याकर्तव्यादिविवेकवन्तः, किं प्रजया करिष्यामो येषां नोऽयमात्मा लोक इसादिशास्त्रतत्त्वविदः पुरुषधौरेया नारदादयो, योषिद्वरा गार्गीसुलभाद्याश्च त्वयि रति कुर्वन्ति । यतः, स्वे स्वस्वरूपभूने आत्मनि, अत एव निसपिये। अन्यत् सर्वं यदा स्वात्माऽनुकूलं भवति तदा प्रियं भवति, न तु सर्वदा । स्वात्मा तु सर्वदैव प्रियः । तथाचैवम्भूते त्वय्येव रतिरुचि- ता। तत्संस्थोऽमृतत्वमेति, यदात्मरतिरेव स्यादात्मतृप्तश्च मानवः * आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते * इसादिशा- स्वात् । अतः पतिमुनादिभिः किं मोक्षप्रतिबन्धकः, कि प्रयोज- नम् । बन्धवो दृढबन्धनम् * इत्युक्तत्वात् । प्रत्युतातिदैः सम्पति वियोगादिना जन्मादिसंमृतिचक्रानिक्षेपणादिना चाऽऽतिमदाय- कैः । ये हि संस्पर्शजा भोगा दुःखयोनय एव ते * इत्यादिशा- स्वाद । एवं यथोक्तनिर्देष्ट्रत्वमुपपाद्य पूर्वदिस्थाः प्रार्थयन्ते । तदिति ॥ यस्मात् पतिपुत्राद्यनुवृत्तिर्निन्दिता, त्वदनुत्तिर्विहिता सदाचारप्राप्ता चाऽतोऽस्माभिर्योग्यमेव कृतम् । तस्मानोऽस्मान प्रति प्रसीद । ननु मयि प्रसन्ने किं भवतीति चेत् तत्राहुः ॥ हे परमेश्वर! ब्रह्माद्यधीश्वरे त्वयि प्रसन्ने पुरुषार्थचतुष्टयमपि सिद्धय- ति । अकामः सर्वकामो वा मोक्षकाम उदारधी *तीत्रेण भक्ति- योगेन मजेत पुरुषं परम् * इत्युक्तत्वात् । ननु भवतु, प्रसन्नोऽहं गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। युष्मभ्यं मोक्षं ददामीति चेद्, न वयं सम्पति मोक्षकामा इसाशयेन आहुः ॥ मा स्मेति ॥ चिराद् रामाऽवतारादाराभ्य त्वयि धृताम् अस्माभिः सह रमणं करिष्यतीसेवं रूपाम् आशां भवान् माच्छि. न्यात् । आशापूर्तिरेव प्रभुभिः क्रियते, न तु तच्छेद इति प्रसिद्धि- योतनाथ- स्मेति ॥ ननु सर्वात्मभावं जानतीनां युष्माकं स्व. पतिरूपेण मया रमणेन सन्तोषःकिमिति न भवतीतिचेत् तत्राहुः ।। हे अरविन्दनेत्र ॥ अनावृतब्रह्मात्मभावेन तुच्छीकृतकोटिकाम- विग्रहेण पुण्डरीकाक्षेण भगवता त्वया रमणाभिकाङ्क्षावसो वयं, न वास्तब्रह्मात्मभावैर्मलमूत्रादिविग्रहैः स्वपतिभिः । अत एत- स्वरूपेणैवास्मदाशापूर्तिर्विधेयेति भावः। यद्वा, अरविन्दनेत्र !श्री. रामचन्द्रविग्रहदर्शनजन्यैतद्विग्रहसङ्गमाऽऽशापूर्तिमेतद्विग्रहेणैव कर्तुं योग्योऽसीति सम्बोधनाशयः ॥वरदेश्वर इति पाठे वरदानामी- श्वरः । श्रीरामचन्द्रात्मना बने स्थितस्य तव दर्शनमात्रेणैव वर- स्य लब्धत्वादिदानी तत्साफल्यमपेक्षितमिति भावः ॥ अनभिज्ञा- पक्षे, यथोक्तात्मज्ञपक्षमवलम्ब्य यदुक्तं तत्र सदाचारंप्रमाणमाहुः॥ कुर्वन्तीति ॥ कुशला मनीषिणो निसप्रिये स्वात्मभूते त्वय्येव रतिं कुर्वन्ति, पतिपुत्रादिभिरातिदैः किमिति विचार्य, तत् त- स्मानः प्रसीद । यतस्त्वं परमसमर्थः, त्वत्प्रसादो न निष्फल इति भावः । वरदेश्वर इति पाठे, मयेमा रंस्यथ क्षपा* इति त्वया वरो दत्तस्तं सार्थकं कर्तुं समर्थ इति भावः । तस्मादाशाच्छेदोऽसन्त- निषिद्ध इसाहुः ॥ मा स्मेति ॥ चिराद्, बालभावमारभ्य त्वयि धृतामाशां भवान् मा च्छिन्द्यात् । हे अरविन्दनेत्र ! परमसुन्दर । तथाच लोकोत्तरसौन्दर्यादिविशिष्टो भवानेव अस्मदन्तःकरणे प्रविश्याऽऽशामुत्पादितवान् । अतः स्वेनोत्पादितां स्वगुणैर्वद्धितां स्वेनैव परयितुं योग्यामाशालक्षणां लता फलकाले कर्णकठोरो- रामपञ्चाध्यायीव्याख्यायाम् । सयादिकुठारेण च्छेत्तुं नाईसि । यतो, विषक्षोऽपि संवर्य स्वयं छेत्तुमसाम्प्रतम् * इति न्यायं जानास्येवेति भावः । स्वस्मिन्नात्म- ज्ञत्वोच्छेषेण यदि त्वं भूतिकामस्तीशापूर्तिरूपमस्मत्पूजनमवश्यं कुरु । आत्मज्ञमर्चयेद् भूतिकाम इति श्रुतेरिति ध्वनितम् । यद्वा, य एतस्मिन् महाभागा* इसादिग!क्तिमनुस्मृसाहुः ॥ कु- वन्तीति ।कुशला महद्भाग्यलबसारासारविवेकास्त्वयि ति कुर्व- न्ति । यतः स्वीये आत्मनि अन्तःकरणे नियप्रिये, यद्वा नित्य- प्रिये स्वस्मिन् परस्मिंश्च नित्यप्रिये त्वयि । अतस्तद्विपरीतः स्वीये आत्मनि चार्तिदैर्दुःखपदैः पयादिभिरस्माकमपि कुशलानां कि प्रयोजनम् । तत् तस्मान्नः प्रसीद । त्वयि चिराद् धृतामाशां भ- वान् मा च्छिन्द्यात् । सर्व परियज्य त्वदाशया जीवामः । तदु- च्छेदे त्ववलम्बनाभावात् सद्य एव मरिष्याम इति भावः । ननु भवतीनां नाद्यापि तथाविधप्रेमातिरेको दृश्यत इसत एवं ब्रवी- मीति चेत् तत्राहुः ॥ हे अरविन्दनेत्र ! अहो ज्ञातमस्माभिः, भोः सखे! रजनीयं, भवाँश्चारविन्दनेत्रः । अतो मुकुलितनेत्रकमल- वादस्माकं प्रेम्णः परां काष्ठां न पश्यसीति सनर्म व्यङ्ग्यम् ॥ मानिनीपक्षे, ननु सर्वेषां प्राणिनामहं प्रेष्ट इति यदि भवत्यो जा- नन्ति तर्हि स्वाधिकारानुरूपां रतिं कुतो न कुर्वन्तीसाशयाहुः ।। कुर्वन्तीति ।। कुशलाः स्वधर्मनिपुणाः साध्व्यः, आतिदैः-दो अवखण्डने। दुःखच्छेदकैः पसादिभिहेतुभूतैः स्वीये गृहादौ आत्म- नि च नित्यप्रिये सति, त्वयि रति रमणबुद्धिं कुर्वान्त किम् । अपि तु न कुर्वन्तीत्यर्थः । तत् तस्मान्नः प्रसीद । हे परमेश्वर ! बजाधीश्वरपुत्र! त्वां त्वत्प्रसादं प्रार्थयाम इति भावः। पाठान्तरे, वाञ्छितमद । प्रसादमेवाहुः ॥ चिराद् वयमत्र, मा आस्म = न तिष्ठाम लिटि रूपं छान्दसम् । शीघ्रं गृहान गन्तुमनुजानीहीयर्थः ।

८७ गूढार्थदीपिकायाम् । १ अध्यायः । (२९)। ननु चिरकालमारभ्य ममाऽऽशा वर्ततेऽत एवं न वाच्यमिति चेत् तबाहुः ।। आशामिति ॥ चिरात् त्वयि धृतां स्थिताम् । धृङ् अ. वस्थाने अस्मत्सङ्गाशाम्, अतः परं भवान् छिन्द्यात् । यतो, हे अरविन्दनेत्र ! ॥ कमलवाद्विशालनेत्रस्य प्रसहमस्माकं स्वधर्मनि- ठतां पश्यतोऽसन्ताऽसाध्येऽर्थे प्रार्थना नोचितेति भावः । यदा कुशलाः स्वीये आत्मवन्निसप्रियेऽपि त्वयि पसादिभिःखनिवा- रकैहेतुभूतै रतिं कुर्वन्ति किम्। अपि तु न कुर्वन्ति । समानमन्यत् । यद्वा, साध्वी बलयुता भ्रातृमती भर्तृप्रिया बहु * असाध्या सा भवेन्नारी वर्जनीयाऽपमृत्युदेत्युक्तमसाध्यालक्षणं स्वास्मिन् सूचयन्स आहुः ॥ कुर्वन्तीति । अहो कुशला अस्मदाद्याः पत्यादिभिः खीये आत्मनि देहादौ नियप्रिये तत्करणीयप्रीतिविषये सति रतिं कुर्वन्ति किम् । तत्रापि आर्तिदैः॥पापसम्भावनयापि परम- पीडापदैः । समानमन्यत् । यद्वा, तिष्ठतु पतित्वविचारः, प्रीतिवि- चारश्च । अस्माकं तु सर्वतो विरक्ति सम्पाद्यात्मरतिः कर्तव्यति सतां प्रत्तिदर्शनेन सम्प्रति मनीषा वर्तत इत्याशयेनाहुः ।। कुर्व- न्तीति ॥ तु अयि इति च्छेदः । अयि, हे सौम्य ! हि प्रसिद्धम् । कुशलास्तु खे वस्तुतः स्वरूपभूते आत्मनि निसाप्रिये तिं कुर्व- न्ति, न तु तद्विपरीते देहादौ । नोऽस्माकम् आर्तिदैरपसादिभिः किं प्रयोजनमिति विचार्य कथं तिं कुर्वन्तीसपेक्षायामाहुः ।। तदिति ॥ यतः सर्व दुःखस्वरूपं तस्माद, हे परमेश्वर ! त्वं प्रसीद । प्रसन्नो भूत्वा वयं विषयाऽऽशया त्वयि मा आस्म ! त्वदन्यभूता वयं न स्थितास्तामाशां, हे अरविन्दनेत्र ! भवान छिन्द्यात् । हे ईश्वर परब्रह्मविषया मा प्रमा छिन्द्यादिति वा । यद्वा, हे अरविन्दनेत्र ! परमेश्वरविषयिणी मा ममा चिराव काल- मारभ्य धृतां स्वीकृतां विषयाशां छिन्द्यात् । ततस्त्वयि, आस्म स्व- रासपश्चाध्यायीव्याख्यायाम् । दनन्या भवामेत्येवम्प्रकारेण रतिं कुर्वन्तीत्यर्थः । यद्वा, भोः चतुरशिरोमणे, नेयं परदारेषु रत्याशा शोभना । कुशलास्तु स्व- पतिमार्यादावपि रतिं विहाय स्वात्मन्येव रति कुर्वन्तीत्याशयेना- ॥ कुर्वन्तीति ॥ तस्मात् त्वमपि प्रसीद, किमर्थं ग्लायसीति भावः । प्रसादे सर्वदुःखानां हानिरस्योपजायते * इति प्रसिद्ध्या प्रसादे सति, हे परम ! हे अरविन्दनेत्र ! ईश्वर ! परमा चिराव त्वयि अवस्थितां सर्वदुःखनिदानभूतामाशां छिन्द्यादित्यर्थः ।। निवृत्तिपक्षे, प्लवा ह्येते अढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म * एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति * पुरुष एवंदं विश्वं कर्म तपो ब्रह्म पराऽमृतम् * एतद्यो वेद निहितं गुहायां सोऽविद्याग्रथिं विकिरतीह सोम्य * तद्वि- ज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति * भिद्यते हृदयग्रन्थिरियायाःश्रुतयो वैराग्यादिसाधनसम्पन्नास्त्वय्येवात्मनि परमात्मस्वस्वरूप प्रत्यगभिन्ने, यतो निसपिये रति, आतिपदैः पसादिभिर्नः किं प्रयोजनमिति विचार्य, तस्माद् हे परमेश्वर ! चिरादनादिकालादारभ्य त्वयि धृतामाशामभिप्रायं कश्चिदपि मा च्छिन्द्यात् ।छेदनपरः परमेश्वरेण त्वया दण्डनीय इति सम्बोधना- ऽऽशयः । यद्वा, तदन्तःस्थितेन त्वया तच्छेदनाय स न प्रेरणीय इसाशयेनाडुः॥हे अरविन्दनेत्र! सर्वहृत्कमलप्रकाशन ! इति ॥३३॥ यदपि वनदर्शनार्थमागतास्तस्य च जातवादितः परं पति- यातेत्युक्तं तत्राऽऽप्याहुः। चित्तं सुखेन भवताऽपहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये ॥ पादौ पदं न चलतस्तव पादमूलाद् गूढार्थदीपिकायाम् । १. अध्यायः । (२९)। यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥ चित्तमिति ॥ ग्रहादिषु यश्चित्तं सुखेन निर्विशति तत् त्वयाऽपहृ- तम् । एवमग्रेऽपि । यदा, तदपहारे न भगवतः प्रयास इसाशयेन आहुः॥ मुखेनाऽऽनन्दस्वरूपेण । तथाच साक्षादानन्दस्वरूपे त्वयि लब्धावस्थानं चित्तं गृहेऽपि न निर्विशति दृरेवनदर्शनादौ तत्प्रवे- शः। तथा करावपि गृहोचितऋत्ये न निर्विशनः । दुरे पुष्पफला- ग्रुपचयः। न हि तस्करहतः कस्मिंश्चित कणि केनचिनियुज्य- त इति भावः। तथाच तव पादमूलात् तत्समीपात् पादौ पदं न चलतः । नाऽन्यत्र गच्छतः । तव पादमूलादिसनेन स्वत्पादसा- हिसं चेत् तदा सर्वत्र गन्तुं शक्ताविति सूचितम् । अतो गमन- साधनाभावादब्रजंकथंयामः । ननु भवतीनां पद्भ्यां गमनसामर्थ्य नास्ति चेत् तर्हि शकटादिना भेषयिष्यामीति चेत् तत्राहुः ॥ कर- वायति । अथो अथ तत्र गत्वा किं करवाम तत्तव्यापार- साधनचित्तादेस्त्वयाऽपहृतत्वादिति भावः ।। अनभिज्ञापले, न वयं वनशोभाऽऽशादिदर्शनार्थमागता, नापि तव सङ्गमार्थमपि तु चोरितं स्वचित्तं ग्रहीतुमागता इति नर्म व्यञ्जयन्स आहुः ।। चित्तमस्माकमपहृतम् ॥ केनेति चेत् तत्राहुः ॥ भवता ॥ चोर- चक्रवतिना। ननु भवयोऽसन्तं मिथ्यावादिन्यः। वनस्थेन हि मया तदायासरहितेन कथमपहृतमिति चेत् तत्राहुः ॥ मुखेनाऽना- यासेन । वेणुवादिभ्ससद्भावे तदपहरणे को वा तव प्रयास इति भावः । न चेदं स्वल्पम्, एदपहारेण सर्वस्यापि गृहादेर्लुण्ठितत्वाद् इखाशयेनाहुः ॥ यश्चित्तं गृहेषु सर्वेषु बायेषु इन्द्रियरूपेषु च निर्विशेषेण विशति तदपहृतमित्यर्थः । अतः करावपि यो गृहकृ- त्येषु निर्विशतः । उत्तेत्यनेन नेत्रादीनामाप संग्रहः । ननु संपति ૧૨ रासपञ्चाध्यायीव्याख्यायाम् । गच्छत, श्वः परश्वो वा दास्यामीति चेत् तत्राहुः ॥ पादौ तद्विना तव पादमूलात् पदं न चलतः । धृतस्य चोरस्य त्यागो न न्याय्य इत्यपि ध्वनितम् । अथा अनो कथं याम, गत्वा च कर- वाम । सर्वसाधनचित्तरूपधनाभावादिसर्थः। यद्वा, किं वा करवा- म । चित्तादः सर्वस्यापहारात् । चौरं भवन्तं प्राप्यापि तदादातुं, खां ग्रहीतुं, नेतुं, राजाधग्रे, आक्रोशनार्थं गन्तुं चाशक्तत्वात् । स्त- म्भनादिमन्त्रज्ञेऽलौकिकचौरे किंकरवामेति भावः। यद्वा, मुखरूपे- ण भवता चित्तादेरपहृतन्वाद् गृहादीनि ज्वलन्तु, समृद्धयन्तु, कि- मस्माकं तैरतस्तन्नामाप्यसादग्रे नोच्चारणीयमितिभावः।मानिनी- पक्षे, ननु तिष्ठतु वादः, संप्रत्येव भवत्यः समागता रात्रावत्र विश्रम्य प्रातर्गमिष्यथेति चेत् तत्राहुः ॥ चित्तमिति ॥ सत्यमुक्तं त्वया, तथापि गृहेषु भवता जायमानेन मुखेन चित्तमस्माकमपट्ट- तम् । यद्यस्माद्गृहकृत्येषु निर्विशति, करावपि तत्र निविंशतः। ननु भवतु तथाप्यतिमुकुनारत्वात् पदमपि गन्तुमशक्ताभ्यां पद्भ्यां कथं गमिष्यथोति चेत्तत्राहुः ।। पादौ तव पादमूलात् कथं पदं न चलतः, किन्तु चलत एव । ततः कथं वजं न याम । अत्र स्थि- त्वा च किं करवाम । यद्वा, यद्यपि पादौ पदमपि गन्तुं न शक्ती, तथापि तव पादमूलात् कथञ्चिद् ब्रजमेव शनैः शनैर्याम । अ- न्यथाऽत्र स्थित्वा किं करवामेत्यर्थः॥ निवृत्तिपक्षे, ननु सर्वामां श्रुतीनां ब्रह्मपरत्वे कर्मणस्तत्तात्प- विपयत्वात्तदनुष्ठानादेर्वैयर्थं प्राप्तमिसाशय, तत्त्वज्ञानात् पूर्व तद्वैयर्यमाशङ्यते ? तदुत्तरं वा ? नाद्यः । यत्र तु द्वैतमिव भवति तदितर इतरं पश्यतीसादिना संसारदशायां क्रियाकारकादेः स- द्भावाभिधानात् तद्वैयर्थ्याऽनवगमात् । न द्वितीयः। यत्र त्वस्य सर्वम् आत्मैवाभूत तत् केन कं पश्येदिसादिना तदुत्तरं तद्वैय- ? ?

गूढार्थदीपिकायाम् । १ अध्यायः । ( २९ )। र्थ्यस्येष्टत्वादियाशयेनाहुः ॥ चित्तमिति ॥ सुखरूपेण भवता चित्तं यदाऽपहृतं सच्चिदानन्दघने प्रसगभिन्ने परमात्मनि चित्तं यदा लीनं तदा गृहेषु बाह्येष्वभ्यन्तरेषु च न निर्विशति । अत एव करावपि गृह्य कृसे न निर्विशतः । पादौ पदमपि न चलतः । तथाच सर्वेन्द्रियव्यापारनिवृत्त्या तत्त्वविदः कर्माधिकाराभावाद तदपेक्षया कर्मानुष्ठानार्वैयर्थे नास्ति दोषः । नैव तस्य कृतेना- ऽर्थो नाकृतेनेह कश्चन * नचास्य सर्वभूतेषु कश्चिदर्थव्यपाश्र. य * इत्यादिशास्त्रादिति भावः । अतस्तव पादमूलाद् वयं व्रजं. कथं यामः । कर्मकाण्डश्रुसानुगुण्यं कथं भजामः । तासामप्यस्म- दतुयायित्वात् । गत्वा च किं करवाम । क्रियाकारकादिप्रतिषेध- बोधिकानामस्माकं तदानुगुण्यासम्भवादिति भावः ॥ ३४ ॥ एवं दक्षिणदिग्गता उक्ताः प्रार्थयन्ते ॥ सिञ्चाङ्ग ! नस्त्वधराऽमृतपूरकेण हासाबलोककलगीतजहृच्छयाग्निम् ।। नो चेद् वयं विरहाजाग्न्युपयुक्तदेहा ध्यानेन याम पदवीं पदयोः सख ! त ॥ ३५ ॥ सिञ्चेति । अङ्ग ! हे भगवन! अस्मदहृच्छयानिसिञ्च, न तु निर्वापय त्वद्विषयकामस्य परमसुखरूपत्वात् । यतस्त्वयैवोत्पादित इसाहुः ॥ हासेति ॥ तव योऽयं हासपूर्वकोऽत्रलोकः कलगीतं च ताभ्यां जातो यो हृच्छयः कामः स एवाग्निः । तत्र हासः काम- जनकः, अवलोकः सन्धुक्षणकर्ता, गीतं वायुरिव । तत्रापि कल- गीतं सर्वतो वायुः । सिञ्चनं च न वा घृतादिना, स्वर्गस्थाऽमृ- तेन, चन्द्रस्थसुधया वा सम्भवति । तेपां यथाकथञ्चिदुदरप्रवेश- ९२ रासपञ्चाध्यायीव्याख्यायाम् । योग्यानामप्यनभिलपितत्वेन हृदये प्रवेशायोगादित्याशयेनाहुः ।। त्वदधराऽमृतपूरकेण ॥ अलौकिकेन पूरकेणाऽपि सिञ्चनोत्तया यथोक्ताग्नेः परममहत्त्वं सूचितम् । सिञ्चनप्रार्थनया भगवद्विषयः काम एवास्पज्जीवनं जठराग्निवदिति ध्वनितम् । अन्यथा स्वस्य यदनुष्ठेयं, तदावेदयन्ति । नो चेदिति॥ सिञ्चनेन यदि न जीवयसि तर्हि विरहजाग्निना उपयुक्तदेहा दग्धशरीरास्ते पदयोः पदवीम् । अन्तिकं योगिवद् याम प्राप्नुयाम । उपयुक्तपदेन, त्वयोपभोग्य- देहानां यथोक्ताग्निनोपयुक्तलमयुक्तमिति ध्वनितम् । ननु सिञ्च. नेनातिप्रवृद्धःकामाग्निर्दाहको भविष्यतीत्याशङ्कानिरासाय विरहा- ऽग्निनेत्युक्तम् । तथाचाऽतिप्रद्धोऽपि जाठराग्निर्यथेष्टभोजन- लाभे सति न दहति, अनशनादिना तदलाभात्तु दहति। तथा हृ- च्छयाग्निरपि स्वभोग्यालामे तदाशानिवृत्त्या विरहाग्निरूपेण परिणतो दहतीति भावः । यद्यपि तव प्राप्तौ नास्यस्माकं कि. चिदपि प्रतिबन्धकं तथापि भगवदुपभुक्तदेहानां भगवत्माप्तिरभि- लषिता, तद्विपर्यये महद्दुःखमतः सखिरूपेणावतीर्णस्य तव यथा- ऽस्मन्मनोरथपूर्तिर्भवेत् तथाऽनुष्ठानं योग्यमिति सूचयन्यः सम्बो- धयन्ति ॥ हे सखे इति ॥ अथवा यद्यप्यस्मन्मरणे तव नास्ति का- चिद्धानिस्तथापि सखित्वात् पश्चात्तापस्तुभविष्यसेवेति सम्बोधना- ऽऽशयः॥अनभिज्ञापले, अनेन निर्वस्त्राङ्गदर्शनार्थं यथा वस्त्राहरण- लीलाऽऽरब्धा, तथा निर्लज्जवचनश्रवणामियं लीला समा- रब्धति विज्ञाय विस्पष्टं प्रार्थयन्ते । सिञ्चति ॥ आदौ क्रियापद- प्रयोगेणोत्कण्ठाधिक्यं सूचयन्ति । अङ्ग ! हे प्रिय ! नः कामाऽग्नि सिञ्च। निर्वापय। यतस्तव हासा- ऽवलोककलगीताभ्यां जातश्चोद्दीप्तः । तथाच अस्मदहृदयशयमेव कामाग्निं हासावलोकाभ्यां कलगीतलक्षणेन मन्थानदण्डेन प्रबोध्य गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। hd वाचः पेशैः प्रदीप्य तत्रास्मान् अस्मत्पाणान दग्धुमवक्रान्तोऽसि । नेदमुचितमतस्तज्जनितपापाद विभेषि चेत् तर्हि तं निर्वापय। येनै- वाऽग्निः प्रदीप्यते तेनैव पश्चात्तापेन झटिति यदि निर्वाप्यते तर्हि तदैव तत्पापं निवर्तते इति भावः । ननु सम्प्रति ममान्तिके जल- पूर्णभाजनाभावात् कथं सिञ्चामि तथा चेद् भवतीनामाग्रहस्तर्हि यमुनासन्निधौ चलनीयमिति सोपहासमाशङ्कयाहुः ॥ अमृतेन, स- त्राप्यग्नेः परममहत्वात् नत्पूरकेण । स्वार्थे कन् । ननु जलमपि यत्र दुर्लभं तत्राऽमृतं कुतस्यं तदबिन्दोरपि दुर्लभत्वात् तत्पूरः कुत इयाशङ्कय कथमस्मज्जीवनसाधनं गोपायसि !! प्रत्यक्षोप- लभ्यमानस्य गोपनाऽयोगादिसाशयेनाहुः ॥ त्वदधरेति ॥ अहो नाल्नाऽमृतसमुद्रेणापि तच्छान्तिरतोऽस्तु तद्दौलभ्यं, येनाऽमृतेन तच्छान्तिस्तत् तव मुखचन्द्र एवास्य ऽतो नास्ति सब कोऽप्यायास इति भावः । अनेन ज्वालनोपशमनयोरुभयोरपि स्वायत्तत्वादुम- यविधा क्रीडोचिता, न त्वेकविधा । दुर्लीलाकर्तृषु राजकुमारेष्वपि तथा दर्शनादिसपि ध्वनितम् । हृच्छयाग्निरियनेनान्तरोऽयं दाहा- स्मको रोगविशेषस्त्वदधराख्यपात्रविशेषं मुखे निधाय पीतेना- ऽन्तःप्रवेशसमर्थेन तत्रस्थाऽमृतपूरकेणौवोपशान्ति गमिष्यति, न तु अन्यैः कोटिभिरभ्युपायैरिति ध्वनितम् । ननु मम स्वाभाविकै- हासादिभिर्यदि युवसो ज्वलेयुस्तहि कुत्र कति वा स्वाधराऽमृत- दानेन चिकित्स्या इति चेत् तत्राहुः ॥ नो चेदिति ॥ यदि न सिञ्चसि तबयमेकोऽग्निस्तेन शोषितदेहास्तथा विरहजाग्निना दग्ध- शरीरास्ते पदयोः पदवीं सान्निध्यमधुनैव ध्यानेन प्राप्नुयाम । अन्ते मतिःसागतिरिति न्यायात प्राणान् विहायाऽपि मेष्टसन्निधान संपाद्यमिति स्वप्राणेभ्योऽपि स्नेहाधिक्यं सूचयन्त्यः संबाधय- न्ति ॥ हे सखे इति ॥ यद्वा, पूर्वजन्मन्यऽकृततपस्का वयमतो वि- रासपश्चाध्यायीव्याख्यायाम् । रहाग्निना प्राणान् जुहुमः । ततस्तत्र पादयोः पदवी मार्ग प्राप्नुया- मस्तद्रूपा भविष्यामः । ततोऽनिच्छतोऽपि तव पादौ अस्मत्स्त ने वेव पतता, न तु भूमौ । ततश्च त्वत्पादभारेणैवोपशान्तहृच्छ- याग्नयो वयं सिद्धमनोरथा भविष्यामः । त्वं चानिच्छन्नप्यस्मत- कुचस्पर्श मुखं प्राप्नुवन्नपि स्त्रीवधानुतापमेव भूयांसं प्राप्स्यसि । तथाच सखीरस्मास्त्वमेव संतापयसि चेत् तर्हि वयम् अपि त्वां सखायमेवं कथं नानुतापयामः । परन्तु प्रेमहतकस्तदनुतापदुःखम- पि कोटिगुणीकृस अस्मभ्यमेव दास्यते इति जानीमः । किं कु. मोऽस्माकं दग्धललाटमेवंविधमेव विधात्रा सृष्टम् । तस्माद भोः ! पारेणामादर्शन कृपासागर स्वानुतापवल्लीबीजं किमर्थं वपसि, कथं वा फलभोगाभागिनीरस्माँश्च करोषि । मुक्त्वाऽसदाग्रहम- ऽङ्गीकुरु अस्मानित्याशयः । यद्रा, अकर्तव्यप्रार्थनामाकर्यापि विमुखमालक्ष्याहुः ॥ नो चेद्द्वयामिति ॥ नन्वतावत्पर्यन्तं कामा- ऽग्निना कथं न दग्धा इसाशङ्कय तसिञ्चनाऽऽशया संजीविता वयमितः परं तन्नित्या सोऽग्निविरहाजाऽग्निश्चेसग्निद्रयसत्त्वे जीवनं दुर्लभमिति भावः । नन्वस्तु, तेन मम का हानिरिति चेत् तत्राहुः ॥ ध्यानेनेति । तथाच निरवधि दुःखं दातुं प्रवृत्तोऽसि । तादृशं दुःखं तुभ्यं दातुं नास्माकं सामर्थ्यम् । अस्मद्विरहेण तक दुःखानुदयात् । संयोगस्य तादृशदुःखजनकत्वेऽप्यस्मिान्मनि तस्य दुर्लभत्वादिदं शरीरं दग्ध्वा तव पादयोर्गिभावं याम। तेन च सर्वदा स्वसंयोगेनैवंविधं तव दुःखं दास्याम इति भावः । त. थापि परस्परदुःखप्रदानं न सख्यधर्म इसाशयेनाहुः ॥ हे सखे इति ॥ यद्वा, नन्विदानीमिदं दुर्घटं जन्मान्तरे स्यादिसाशङ्कयाहुः ।। नो चेद,इदं दुर्घटमेवेति चेत् तर्हि ध्यानेऽपि ते पदयोः सान्निध्यं न याम । यतो विरहजाग्नरेवोपयुक्ता उचिता, न तु संयोगाऽमृत- ९५ गूढार्थदीपिकायाम् । १ अध्यायः । ( २९)। योग्या देहा यासां ताः । अधुनेव जन्मान्तरेऽपि विरहस्यैव नि- श्चयादिति भावः। तस्माचया सम्पादितं सख्यं वृथैव सम्पन्नमिति सम्बोधनाशयः ॥ मानिनीपले, अङ्ग हे लम्पट ! नोऽस्माकं सह- जेन हासादिना जातो यस्तव कामानलस्तं त्वदधराऽमृतपूरकेणैव सिञ्च । तादृशाग्न्युपशामकतादृशाऽमृतदानयोग्यायाः कस्याश्चिद- स्पास्वभावात् । इष्टे मधुरादिवस्तुनि दुर्मिले दृष्टे सति स्वोष्टपुटी लोके यथा लिखते तद्वदिति नर्मव्यञ्जनम् । यद्वा, नोऽस्मत्तस्त्व- ऽन्यासामेत्राधाराऽमृतपूरकेणेत्यर्थः । वलात्कारमालक्ष्याहुः ॥ नो चेद्, बलादस्मदधराऽमृतपानाय प्रवयंसे चेत् तर्हि वयं स्वपति- विरहजाग्न्युपयुक्तदेहा भवेम, म्रियेमहि । तथापि ध्याने चिन्तने- ऽपि ते पदयोर्मार्गमपि, न याम = न यास्याम । आलक्षसख्याद- ऽस्मत्स्वभावं जानासीति सम्बोधनाशयः ॥ निवृत्तिपक्षे, तरति शोकमात्मवित, ब्रह्मविदाप्नोति परं, नाऽन्यः पन्था विद्यतेऽयनाय इत्यादिश्रुसा परमपुरुषार्थाऽनन्यसाधनतत्त्व- ज्ञानस्यास्मदवलोकनादिना यथाकथञ्चिदपि जातस्य करुणाऽमृत- धारयाभिषिञ्चनेन वर्द्धनम् उचितमिति प्रार्थयन्ते ॥ सिञ्चेति ॥ अङ्ग हे परमात्मन् ! नोऽस्माकं श्रुतीनां हासपूर्वकं प्रसन्नतापूर्वकम- ऽवलोकनं = श्रवणपूर्वकं मननम् । कलयति सर्वतश्चित्तवृत्तीराकर्षती- ति कलं, तच्च तद् गीतं गानं = निदिध्यासनं च, ताभ्यां जातो यो हृच्छयस्य सवासनस्य कामादेर्दाहकत्वादग्निस्तं ज्ञानाग्नि त्व- दोष्टपुटनिःमृतवाङ्मयाऽमृतपूरकेण कृष्णद्वैपायनाद्यात्मना त्वं सिच वर्द्धय । यथा यथोक्ताग्निस्तत्तद्वादिकल्पितकुतर्कजलप्रवाहै- नोपशाम्येत तथा कुर्विसभिप्रायः । कृष्णाद्यात्मनाऽवतीर्णस्य भ- गवतो वचनाऽमृतत्वमुक्तम् । प्रपन्नपारिजाताय तोववेकपाणये * ज्ञानमुद्राय कृष्णाय गीताऽमृतदुहे नमः * । जयति पराशरसूनुः रासपञ्चाध्यायीव्याख्यायाम् । ससवतीहृदयनन्दनो व्यासः * यस्यास्यकमलगलितं वाङ्मय. ममृतं जगत् पिबतीत्यादिना ज्ञानस्याग्निरूपत्वमुक्तं भगवता। यथै- धांसि समिद्धोऽग्निर्भस्मसात् कुरुते तथा * ज्ञानाग्निः सर्वकर्मा- णि भस्मसात कुरुतेऽर्जुन * यस्य सर्वे समारम्भाः कामसङ्कल्प- वर्जिताः * ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः * इसा- दिना तत्सेचनं तेनैव कृतम्। न हि ज्ञानेन सदृशं पवितमिह विद्य- ते * तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते * उदाराः सर्व एवैते ज्ञानी त्वात्मव मे मतामयादिना । विपक्षे दोषमाहुः॥ नो चेद, न सिञ्चसि चेत्, तर्हि वयं, तत्तद्वादिप्रतिपादितेन- श्रुतिषु प्रसगभिन्नपरमात्मनिरूपणं नास्तीत्यादिरूपेण तव विरहलक्षणा- ऽग्निनोपयुक्तदेहा भक्षितस्वरूपा नष्टा भवेम । तथापि ते पदयोः पदवीं तत्त्वं, ध्यानेन याम = लत्राभिप्रावयसो भविष्यामः। वस्त्व- ऽन्यथाभावस्य वादिसहस्त्रैरपि कर्तुमशक्यत्वादिति भावः । यस्मा- द् वागर्थयोः सख्यं वर्ततेऽतस्तो कदापि न वियुक्तौ भवत इति सम्बोधनाशयः ॥ ३५॥ ननु यद्यपि निःसीम प्रेमवसो भवसस्तथापि मर्यादापालनार्थ पसादिसन्निधौ स्थित्वैव मदाराधनं कर्तव्यमिति चेत् तत्राहुः यमुम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य ॥ अस्पाक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग ! (१) स्थातुं त्वयाऽभिरमिता बत पारयामः ॥ ३६ ॥ यहाँति ॥ हे अम्बुजाक्ष ! यहि यत्प्रभृति तव पादतलं वयम् (१) अञ्ज इति पाठान्तरम् ।

विज्ञापनम् । बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली। इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैा- हकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य कृते ॥ मूल्यं प्रापणव्ययश्च :) देयः । अन्यैर्म- हाशययः कानिचित् खण्डानिसंग्राह्याणि तैश्च प्रत्येक खण्डाना कृते १, मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। १ or सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्पिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाध्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ६ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्डानि ३ । द्वितीयभागः तृतीयाका- छडम् हेलाराजटीकासहित खण्डानि ३) ६ रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शन किरणावलीटीकासंबलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ ५ नष्कर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाध्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ ૨ २ २ ४ २ नत्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) स्व०८ वदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुपटीका खण्डानि ४ থানন্তহীনমার্গাহালালাবরuসনালি ও व्याकरण मिताक्षरा । श्रीमदनभट्टप्रणीता खण्डानि १० १० रसमञ्जरी । व्यङ्गयार्थकोमुद्या प्रकाशेन च सहिता ख० ३ ३ भदधिक्कारः व्याख्यासहित. श्रीमदप्पयदीक्षितत उपक्रम पराक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिष्यदिवाकरकृत टीकया म० ख०१० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्द भगवद्विचिता खण्डे २ २ देवक्षकामधेनु. अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाध्यप्रकाशाख्य. व्याख्या समेतम् खण्डानि १५ तत्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः । तथा-नत्वप्रयचुलुक. संग्रहः । कुमारवंदान्नाचार्यश्रीमद्वरदगुरुविचितः। श्रीभाष्यवार्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैतसिद्धान्तप्र- तिपादनपरम् । भूढार्थदीपिका । श्रीमद्भागवतदशमस्कन्धस्थरासपश्चाध्यायी ३ ब्रजभूषण दास और कम्पनी चाइनीचोक के उत्तर नई सडक बनारस सिटी

No text on this page.

Bhagavatha Gudartha Dipika Vol.1

Author
Suri,dhanapati
Other authors
Bhatta,ratna Gopala (ed.)
Title
Bhaagavata Gud'haar^thadiipika Vol.1
File name
Bhagavatha Gudartha Dipika Vol.1
Text
OCR done
Citation
1907
Published
2006/02/3
Publisher
Chowkambha Sanskrit Book Depot,banares,vidya Vilasa Press
Language
Sanskrit
Pages
102
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Indological study on Vishnu or Krishna
DLI number
495470
Barcode
1990020084874.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Copyright Permitted
VMLT id
eDzvthB93f4
Download PDF

Bhagavatha Gudartha Dipika Vol.1