Charan Sahitya Shodh Sansthan, Ajmer

Kavya Mala (iii)

Krishnath Pandurang Parab · 2010/05

PDF Proofread

Front matter

I Registerau micrording to al III of 1807.)
(All rights resersed by the publisher.)
1

॥ श्रीः॥ काव्यमाला नाम नानाविधमाचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । पञ्चमो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। मुम्बयां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १८८८ (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यमेको रूप्यकः।

अनुक्रमाणिका।
१. मूककविळता पञ्चशती
२. क्षेमेन्द्रकृतश्चतुर्वर्गसंग्रहः
३. वीरेश्वरकतमन्योक्तिशतकम्
८९
४. शिवरामत्रिपाठिप्रणीता नक्षत्रमाला (सटीका)
१०५
५. नीलकण्ठदीक्षितविरचितं कलिविडम्बनम्....
११५
६. सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी (सटीका) १२४
७. नारायणभष्टपादविरचितं कोटिविरहम्
१४२
८. राजानकरुय्यकप्रणीता सहृदयलीला.
१५७

काव्यमाला। महाकविश्रीमूककृता पञ्चशती। 400 - ५ * कटाक्षशतकम् । मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । श्रीकाञ्चिदेशशिशिरीकृतिजागरूका- नकामनाथतरुणीकरुणावलोकान् ॥ १ ॥ मातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । १. अयं द्रविडदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमतिप्राचीन इति भाति. काश्चीपुराधिष्ठात्र्याः कामाक्ष्याः स्तुतिरूपेय पञ्चशती विरलप्रचारैवास्ति. जीवानन्दभट्टाचार्येणेय कलिकातानगरे मुद्रयितुमुपक्रान्ता. पर तेन च कथमप्यशुद्ध शतकचतुष्टय मुद्रयित्वा पञ्चम शतकमलभमानेन संख्यापूरणाय तत्र महिषशतक मुद्रि- तम्. अन्येन तु केनचन नावाप्यय ग्रन्थः प्राकाश्य नीत इत्यस्माक मुद्रणारम्भः. पुस्त- कचतुष्टयाधारेण चास्माक पुस्तकशोधनोपक्रम . तत्र प्रथम पजावदेशान्तर्वतिन्यमृतसरो- नानि नगरे वर्तमानानां काश्मीराभिजनानां श्रीरामचन्द्रपण्डितानां प्रलपुस्तकात्प्रति- रूपकं गृहीतं नातिशुद्धं क-चिहितम्. द्वितीय जयपुरमहाराजाश्रिताना पण्डितश्री- सरयूप्रसादशर्मणां पुस्तक प्राय. शुद्धं नवीन ख-चिहितम्. तृतीयं केरलीयसदाशिवशं- करशास्त्रिणां कश्मीरलिखितं नवीनं शुद्ध ग-चिहितम्. चतुर्थे जयपुरीयजैनपाठशालाध्याप. कद्रविडकाशिनाथशानिणां प्राचीनमिवोपलक्ष्यमाण नातिशुद्ध घ-चिदितम्.अस्मिन्पुस्त- कचतुष्केऽप्यशुद्धतामपहाय भूयान्पाठभेदो नास्ति. केवलं शतकोपन्यासभेदो वर्तते. तत्र क-ख-पुस्तकयोः (१) मन्दस्मितशतकम् , (२) पादारविन्दशतकम्, (३) आर्याशतकम्, (४) कटाक्षशतकम्, (५) स्तुतिशतकम्, अयं क्रमोऽस्ति. ग-पुस्तके (१) पादारविन्द०. (२) आर्या०, (३) कटाक्षः, (४) मन्दस्मित०, (५) स्तुति०, अय क्रम.. घ-पुस्तके (१) कटाक्ष०, (२) मन्दस्मित०, (३) पादारविन्द०, (४) आर्या, (५) स्तुति०, अ. यमस्मद्नुसृतः क्रमोऽस्ति. २. एकाम्रनाथः काश्चीपुराधिष्ठाता महेश्वरः.

काव्यमाला। कामाक्षि कल्पितजगत्रयरक्षणानि त्वहीक्षणानि वरदानविचक्षणानि ॥ २ ॥ आनङ्गतश्रविधिदर्शितकौशलाना- मानन्दमन्दपरिघूर्णनमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीनां कामाथि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥ कल्लोलितेन करुणारसवेल्लितेन कल्मापितेन कमनीयमृदुस्मितेन । मामचितेन तव किंचन कुवितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥ साहाय्यकं गतवती मुहुरैर्जुनस्य मन्दस्मितेन परितोपितभीमचेताः । कामाक्षि पाण्डवचमूरिव तावकीना कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५॥ अस्तं क्षणान्नयतु मे परितापसूर्य- मानन्दचन्द्रमसमानयतां प्रकाशम् । कालान्धकारसुपमां केलयन्दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६ ॥ ताटङ्गमौक्तिकरुगकरदन्तकान्तिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतगजेन्द्रः ॥ ७ ॥ छायाभरेण जगतां परितापहारी ताटङ्करत्नमणिपल्लवतल्लजश्रीः । १. 'परिघर्णित' इति क-ख-पुस्तकपाठः. २. अर्जुनस्य शील्लयस्य मध्यमपाण्डवस्य च. ३. भीमः शिवो भीमसेनश्च. ४. कर्णान्तिक श्रवणसमोपं राधेयाभ्यर्ण च, ५. 'कलयेत्' इति ग-पाठः. ६. कारुण्यमेव हस्तिपकश्रेष्ठस्तेनाधिस्टः.

पञ्चशती। -- - कारुण्यनाम विकिरन्मकरन्दजालं कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८ ॥ सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदकाननमाननीया । यान्ती तव स्मरहराननकान्तिसिन्धुं कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९ ॥ प्रामोति यं सुकृतिनं तव पक्षपाता- कामाक्षि वीक्षणविलासकलापुरंध्री। सद्यस्तमेव किल मुक्तिवधूवृणीते तस्मानितान्तमनयोरिदमैकमत्यम् ॥ १० ॥ यान्ती सदैव मैरुतामनुकूलभावं भ्रूवल्लिशक्रधनुरुल्लसिता रसार्दा । कामाक्षि कौतुकतरङ्गितनीलेकण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥ गङ्गाम्भसि स्मितमये तपनात्मजेव गङ्गाधरोरसि नवोत्पलमालिकेव । वक्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥ संस्कारतः किमपि कन्दलितान्रसज्ञ- केदारसीम्नि सुधियामुँपभोगभाग्यान् । कल्याणसूक्तिलहरीकलमाडरान्नः कामाक्षि कन्दलयतु त्वदपाङ्गमेघः ॥ १३ ॥ चाचल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रुतिपथाक्रमजागरूकः । १. सूरि-आश्रय-; सूर्य-आश्रय. २. मरुतां वायूना देवाना च. शिवो मयूरश्च. ४. 'उपभोगयोग्यान्' इति ग-पाठ, ३. नीलकण्ठः - २० काव्यमाला। कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥ नीलोऽपि रागमधिकं जनयन्पुरारे- लोलोऽपि भक्तिमधिकां द्रढयन्नराणाम् । वकोऽपि देवि नमतां समतां वितन्व- कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥ कामद्रुहो हृदययन्त्रणजागरूका कामाक्षि चालगञ्चलमेखला ते । आश्चर्यमम्ब भजतां झटिति स्वकीय- संपर्क एव विधुनोति समस्तवन्धान ॥ १७ ॥ कुण्ठीकरोतु विपदं मम कुचितभू- चापाश्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयजगत्यां कामाक्षि राम इव करुणाकटाक्षः ॥ १८ ॥ श्रीकामकोटि शिवलोचनशोपितस्य शृङ्गारवीजविभवस्य पुनः प्ररोहे । प्रेमाम्भसामचिरात्प्रचुरेण शो केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥ माहात्म्यशेवधिरसौ तव दुर्विलच- संसारविन्ध्यगिरिकुण्ठनकेलिचुचुः । ते -- २. विदेहभवा सीता. ३. रक्षारुपमुपकारम्; १. "चित्रमयते' इति ग-पाठः, (पक्षे) रक्षसामपकारम्.

पञ्चशती। ६ धैर्याम्बुधि पशुपतेश्चलकीकरोति कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २० ॥ पीयूषवर्षशिशिरा स्फुरदुङसच्छ्री- मैत्री निसर्गमधुरा कृततारकाप्तिः । कामाक्षि संश्रितवती वपुरष्टमूर्ते- ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१ ॥ अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ- मम्भोजकाननमिवाञ्चितकण्टकाभम् । भृङ्गीव चुम्बति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥ केशप्रभापटलनीलवितानजाले कामाक्षि कुण्डलमषिच्छविदीपशोभे । कने कटाक्षरुचिरङ्गतले कृपाख्या शैलूषकी नटति शंकरवल्लभे ते ॥ २३ ॥ अत्यन्तशीतलमतन्द्रयतु क्षणार्ध- मस्तोकविभ्रममनङ्गविलासकन्दम् । अल्पस्मिताहतमपारकृपाप्रवाह- मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥ मन्दाक्षरागतरलीकृतिपारतन्त्र्या- कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् । आरुह्य मन्दमतिकौतुकशालि चक्षु- रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥ त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि- रङ्ग विहारसरसी करुणाप्रवाहः । १. अगस्त्यः. २. शिवस्य. ३. नटी. ४. 'तरलीकृत' इति ग-पाठ.. ५. मन्दमिति क्रियाविशेषणम्. ६. त्रयम्बकमहं हर्म्यभूमिरित्यन्वयः. ७. 'करुणाकटाक्ष इति घ-पाठः.

काव्यमाला। दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥ वागीश्वरी सहचरी नियमेन लक्ष्मी- भूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब नेपां कामाक्षि येपु तव वीक्षणपारतन्त्री ॥ २७ ॥ माहेश्वरं झटिति मानसमीनमन्त्र कामाक्षि धैर्यजलधौ नितरां निमग्नम् । जालेन शृङ्खलयति त्वदपागनाना विस्तारितेन विपमायुधदाशकोऽसौ ॥ २८ ॥ उन्मथ्य वोधकमलाकरमन्त्र जाड्य- स्तम्वेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुप्व तरसा कुटिलाग्रसीना कामाक्षि तावककटाक्षमहानुशेन ॥ २९ ॥ उद्देल्लितस्तवकितैललितैर्विलासै- रुत्थाय देवि तव गाढकटाक्षकुम्नात् । दूरं पलाययतु मोहमृगीकुलं में कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥ स्नेहाहतां विदलितोत्पलकान्तिचोरां जैतारमेव जगदीश्वरि जेतुकामः । मानोडतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षरूपाणवल्लीम् ॥ ३१ ॥ श्रौती व्रजन्नपि सदा सरणिं मुनीनां कामाति संततमपि स्मृतिमार्गगामी । कौटिल्यमम्ब कथमस्थिरतां च धत्ते चौर्य च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥ १. शिवमेव. . Rad पञ्चशती। नित्यं श्रुतेः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षि किं नु तव कालिमसंप्रदायम् ॥ ३३ ॥ भ्रान्त्वा मुहुः स्तवकितस्मितफेनराशी कामाक्षि वक्ररुचिसंचयवारिराशौ । आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी- रालम्ब्य देवि तव मन्दमपागसेतुम् ॥ ३४ ॥ श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥ कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कान्त्या । निःशेषनेत्रसुलमं जगतीषु पूर्व- मन्यत्रिनेत्रसुलभ तुहिनाद्रिकन्ये ॥ ३६ ॥ धूमाकुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ॥ आरम्भलेशसमये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिस्वयंवरणमाल्यवती वणीते ॥ ३८ ॥ १. गुरुः. २. 'तु' इति घ-पाठ , ३. श्यामवर्णा, रात्रिश्च. ४. कीतिरेव स्वय- वरणमाल्यं तद्वती सर्वज्ञता.

८ . काव्यमाला। कालाम्बुवाह इव ते परितापहारी कामाक्षि पुष्करमधः कुरुते कटाक्षः । पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु संततरुचिं प्रकटीकरोति ॥ ३९ ॥ सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे । संसारपङ्कनिचये न पतत्यमुं ते कामाक्षि गाढमवलम्व्य कटाक्षयष्टिम् ॥ ४० ॥ कामाक्षि संततमसौ हरिनीलरत- स्तम्भे कटाक्षरुचिपुग्नमये भवत्याः । वद्धोऽपि भक्तिनिगडैमम चित्तहस्ती स्तम्भं च वन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥ कामाक्षि कार्यमपि संततमञ्जनं च बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनञ्जनतां च भूयः स्थैर्य च भक्तहृदयाय कथं ददाति ॥ ४२ ॥ मन्दस्मितस्तबकितं मणिकुण्डलांशु- स्तोमप्रवालरुचिरं शिशिरीरुताशम् । कामाक्षि राजति कटाक्षरुचेः कदम्ब- मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ १३ ॥ कामाक्षि तावककटाक्षमहेन्द्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमङ्गलविधौ मणिकुण्डलश्री- नीराजनोत्सवतरङ्गितदीपमाला ॥ १४ ॥ १. कमल तिरस्करोति, मेघश्च पुष्कर जलमधः पातयति. २. विद्युता; (पक्षे) क्षणमात्रस्थायिन्या कान्या.

पञ्चशती। . मातः क्षणं नपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करण श्रेयस्करण मधुपातितस्करेण ॥ ४५ ॥ प्रेमापगापयसि मजनमारचय्य युक्तः स्मितांशुलतभस्मविलेपनेन । कामाक्षि कुण्डलमणिद्युतिभिर्जटालः श्रीकण्ठमेव भजते तव दृष्टिपातः ।। ४६ ॥ कैवल्यदाय करुणारसकिंकराय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवंकराय मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकततोरणमाल्यशोमे । कामेश्वरि प्रचलदुत्पलवैजयन्ती- चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥ मार्गेण मञ्जुकचकान्तितमोत्तेन मन्दायमानगमना मदनातुरासौ । कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ।। ४९ ॥ ब्रीडानुत्तिरमणीकतिसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । कामाक्षि कान्तिसरसीं त्वदपागलक्ष्मी- मन्दं समाश्रयति मज्जनखेलनाय ॥ १० ॥ १. 'मन्देक्षितेन' इति ग-पाठः. २. 'प्रचुरमुत्पल' इति ग-पाठः, ३. 'तमोद्यतेन' इति पुस्तकेषु पाठः. २ १० काव्यमाला। कापायमंशुकमिव प्रकटं दधानो माणिक्यकुण्डलरुचिं ममताविरोधी । श्रुत्यन्तसीमनि रतः सुतरां चकास्ति कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ११ ॥ पापाण एव हरिनीलमणिर्दिनेषु प्रम्लानतां कुवलयं प्रकटीकरोति । नैमित्तिको जलदमेचकिमा ततस्ते कामाक्षि शून्यमुपमानमपागलक्ष्म्याः ॥ १२ ॥ शृङ्गारविभ्रमवती सुतरां सलज्जा नासाग्रमौक्तिकरुचा कृतमन्दहासा । श्यामा कटाक्षसुपमा तव युक्तमेत- कामाक्षि चुम्बति दिगम्बरवक्रविम्बम् ।। ५३ ।। नीलोत्पलेन मधुपेन च दृष्टिपातः कामाक्षि तुल्य इति ते कथमामनन्ति । शैत्येन निन्दति यदन्वहमिन्दुपादा- पाथोरुहेण यदसौ कलहायते च ॥ १४ ॥ ओष्ठप्रभापटलविद्रुममुद्रिते ते भ्रूवालिवीचिसुभगे मुखकान्तिसिन्धौ । कामाक्षि वारिभरपूरणलम्बमान- कालाम्वुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥ मन्दस्मितैर्धवलिता मणिकुण्डलांशु- संपर्कलोहितरुचिस्त्वदपागधारा । कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला || ५६ ॥ कामाक्षि शीतलपारसनिझराम्भ:- संपर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला । - पञ्चशती। ११ गोभिः सदा पुररिपोरोभिलण्यमाणा दूर्वाकदम्बकविडम्बनमातनोति ॥ १७ ॥ हृत्पङ्कजं मम विकासयतु प्रमुष्ण- त्रुल्लासमुत्पलरुचेस्तमसां निरोद्धा । दोषानुषङ्गजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ १८ ॥ चक्षुर्विमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥ १९ ॥ कामाक्षि वीक्षणरुचा युधि निजितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणावतंस- व्याजेन नूनमैभयार्थनमातनोति ॥ ६० ॥ आश्चर्यमम्ब वदनाभ्युदयावलम्बी कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते । धैर्य विधूय तनुते हृदि रागवन्धं शंभोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ।। जन्तोः सकृत्प्रणमतो जगदीज्यतां च तेजस्वितां च निशितां च मति सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरी च लक्ष्मी च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ।। कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुररीकुरुते न पद्मम् । १. 'दृष्टिमिः; (पक्षे) धेनुमिः. २. 'अभिलक्ष्यमाणा' इति क-ख-ग-पाठः. ३. 'अभ- यार्थित' इति घ-पाठः. ४. जगत्पूज्यताम्. ५, मधुधारामिव वाणीम्.

१२ काव्यमाला। किं वा कलिन्दतनया सहते न गङ्गां कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ।। ६३ ।। काकोलपावकतृणीकरणेऽपि देक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥ कार्पण्यपूररसवर्धितमम्ब मोह- कन्दोद्गतं भवमयं विपपादपं मे। तुङ्ग छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिपक्प्रसादात् । तत्रापि देवि लभते सुरूती कदाचि- दत्यन्तदुर्लभमपाङ्गमहौपधं ते ॥ १६ ॥ कामाक्षि देशिककृपाङ्करमाश्रयन्तो नानातपोनियमनाशितपाशवन्धाः । वासालयं तव कटाक्षममुं महान्तो लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥ साकूतसङपितगर्भितमुग्धहासं ब्रीडानुरागसहचारिविलोकनं ते । कामाक्षि कामपरिपन्थिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥ कामाक्षि विभ्रमवलैकनिधिविधाय भ्रवल्लिचापकुटिलीरुतिमेव चित्रम् । 'स्वाधीनतां तव निनाय शशाङ्कमौले- रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥ १. विषामिनिवारणे. २. 'दक्ष' इति पुस्तकेषु पाठः, ३. शिवस्य.

पञ्चशती। १३ कामाकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददाति कामान् । रोगान्वितः स्वयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥ कालाम्बुवाहनिवहैः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः । चित्रं तथापि नितराममुमेव दृष्ट्या सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ।। कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । दुष्कर्मकक्षुकिकुलं कवलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२ ॥ कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् । प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ।। मूको विरिञ्चति परं पुरुषः कुरूपः कंदर्पति त्रिदशराजति किंपचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ।। नीलालका मधुकरन्ति मनोज्ञनासा- मुक्तारुचः प्रकटरूढविसाङ्करन्ति । कारुण्यमम्ब मकरन्दति कामकोटि मन्ये ततः कमलमेव विलोकनं ते ॥ ७९ ॥ + १. 'प्रददातु' इति ग-पाठः. २. 'मार्गान्वितः' इति घ-पाठः, ३. 'विलोचन' इति कन्ग-घ-पाठः.

१४ काव्यमाला। 1 आकाहचमाणफलदानविचक्षणायाः कामाक्षि तावककटाक्षककामधेनोः। संपर्क एव कथमम्ब विमुक्तपाश- वन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ।। ७६ ॥ संसारधर्मपरितापजुपां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति धनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिपेचनन्ति ॥ ७७ ॥ प्रेमाम्बुराशिसततस्नपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयन्ति मुहुरिन्धनराशिरीत्या मारQहो मनसि मन्मथचित्रभानुम् ।। ७८ ॥ कालाजनप्रतिमटं कमनीयकान्या कंदर्पतन्त्रकलया कलितानुभावम् । काचीविहाररसिके कलुपार्तिचोरं कल्लोलयख मयि ते करुणाकटाक्षम् ॥ ७९ ॥ क्रान्तेन मन्मथमदेन विमोद्यमान- स्वान्तेन चुततरुमूलगतस्य पुंसः । कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काचिपुरीविभूपे ॥ ८० ॥ कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे कण्ठेन कन्दलितकालिमसंप्रदायाः । उत्तंसकल्पितचकोरकुटम्बपोपा नक्तंदिवप्रसवभूनयना भवन्ति ॥ ८१ ॥ नीलोत्पलप्रसवकान्तिनिदर्शनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । १. कामानिम्. २. एकामनाथस्य. ३. सूर्यचन्द्रनेत्राः. ४. शिवत्वं यान्तीत्यर्थः. । . 1 P पञ्चशती। १६ कामाक्षि कर्मजलधेः कलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥ अत्यन्तचञ्चलमकत्रिममञ्जनं किं झंकारभङ्गिरहिता किमु भृङ्गमाला । धूमाङ्कुरः किमु हुताशनसङ्गहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥ कामाक्षि नित्यमयमचलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कंदर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि ढगश्चलाय ।। ८४ ॥ दोङ्कुरो मकरकेतनविभ्रमाणां निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् । दीपाङ्कुरो भवतमिस्त्रकदम्बकानां कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ५ ॥ कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिर्झरपयःकतमज्जनेभ्यः । कामाक्षि किकरितशंकरमानसेभ्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ।। अल्पीय एव नवमुत्पलमम्बहीना मीनस्य सा सरणिरम्बुरुहां च किं वा । दूरे मृगी तदसमञ्जसमञ्जनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥ मिश्रीभवद्गरलपङ्किलशांकरोरः- सीमाङ्गणे किमपि रिहणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८ ॥ १. अंगस्त्येन. ----- . 1 १६ 'काव्यमाला॥ प्रौढीकरोति विदुषां नवसूक्तिधाटी- चूताटवीपु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९॥ कूलंकपं वितनुते करुणाम्बुवी सारस्वतं सुरुतिनः सुलभं प्रवाहम् । तुच्छोकरोति यमुनाम्बुतरङ्गभङ्गी कामाक्षि किं तव कटाक्षमहाम्वुवाहः ॥ ९० ॥ जागति देवि करुणा शुकसुन्दरी ते ताटङ्करतरुचिदाडिमखण्डशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ।। कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसी तव दृष्टिपातः । किं च स्फुटं कुटिलतां प्रकटीकरोति भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥ एपा तवालिसुषमा विपमायुधस्य नाराचवर्पलहरी नगराजकन्ये । शङ्के करोति शतधा हृदि धैर्यमुद्रां पीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३ ॥ बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरेण । कोणेन कोमलहशस्तव कामकोटि शोणेन शोपय शिवे मम शोकसिन्धुम् ॥ ९४ ॥ मारग्रहो मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिष्णुः । १. शुकी.

पञ्चशती। १७ - ४ - कामाक्षि कोपरभसाइलमानमीन- संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सितश्रवणचामरचातुरीकः स्तम्भ निरन्तरमपाङ्गमये भवत्या वद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६ ॥ यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिविम्बमम्ब- संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ।। कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनलिनस्य च कान्तिसंप- सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥ अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि नैव तव काङ्गति दृष्टिपातः ॥ ९९ ॥ अत्यन्तशीतलमनर्गलकर्मपाक- काकोलहारि सुलभं सुमनोमिरेतत् । पीयूषमेव तव वीक्षणमम्ब किं तु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम् । मन्दस्मितशतकम् । बधीमो वयमञ्जलिं प्रतिदिनं वन्धच्छिदे देहिनां कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे । १. 'स्मित' इति क-खना-पाठ.. २. 'अप्राप्यसत्य' इति क-खना-पाठ ३ १८ काव्यगाला। . . कामाक्ष्या धनसारपुखरजसे कामगृहश्चक्षुपां मन्दारस्तवकप्रभामदजुपे मन्दस्मितज्योतिपे ॥ १॥ संधीचे नवमछिकासुमनसां नासायमुक्तामणे- राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विपे । खर्धन्या सहयुध्वने हिमरुचेरर्धासनाध्यासिने कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥ कर्पूरद्युतिचातुरीमतितरामल्पीयसी कुर्वती दौर्भाग्योदयमेव संविदधती दोपाकरीणां विपाम् । क्षुडानेव मनोज्ञमल्लिनिकरान्फुल्छानपि व्यग्नती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रमूरस्तु मे ॥ ३ ॥ या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकान्तिततिपु ज्योत्स्नाप्ररोहायते । या सौन्दर्यधुनीतरङ्गततिपु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥ ४ ॥ येषां गच्छति पूर्वपक्षसरणि कौमुंहतः श्वेतिमा येपां संततमारुरुक्षति तुलाकक्षां शरच्चन्द्रमाः । येपामिच्छति कम्बुरप्यसुलभामन्तेवसत्मकियां कामाक्ष्या ममतां हरन्तु मम ते हासत्विपामङ्कुराः ॥ ५ ॥ आशासीमसु संततं विदधती नैशाकरी व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाविभ्रती ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मप- क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिपाम् ॥ ६ ॥ आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः । १. सध्रीचे', 'आचायीय', इत्यादिपदानि तुल्यता लक्षयन्ति. २. 'कोमुदतश्चेतिमा' इति खग-पाठः.

. पञ्चशती। १९ यस्याश्चामरचातुरी कलयते रश्मिच्छटाचञ्चला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥७॥ शंभोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि- गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम् । कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनी कामाक्ष्याः स्मितकन्दली भवतु सा कल्याणसंदोहिनी ॥ ८ ॥ जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं गन्तुं निर्मलतामिव द्विगुणितां मना कृपास्त्रोतसि । वक्तुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती मञ्जुस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि मे ॥९॥ श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा । खाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गति कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥१०॥ वक्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते कालिन्ना दधती कटाक्षजनुषा माधुव्रती व्याप्टतिम् । निर्निद्रामलपुण्डरीकहनापाण्डित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनःकातर्यमुन्मूलयेत् ॥ ११ ॥ नित्यं वाघितबन्धुजीवमधरं मैत्रीजुषं पैलवैः शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा ॥ १२ ॥ द्वान्ती तमसे मुहुः कुमुदिनीसाहाय्यमाविभ्रती यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेक्षणम् । १. 'मे' इति ग-पाठ . २ गङ्गेव. ३. कुहना दम्भचर्या. ४. वन्धना जीवः; (पक्षे) वन्धुजीवो वन्धकापरपर्यायो रक्तपुष्पविशेष , ५. विटै ; (पक्षे) किसलयै . ६. ब्राह्म-, णसमूहस्य; (पक्षे) दन्तप... r २० काव्यमाला। + ज्ञानाम्भोनिधिवीचिका सुमनसां कूलंकपां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥ १३ ॥ काश्मीरद्रवधातुकर्दमरुचा कल्मापतां विभ्रती हसौपरिव कुर्वती परिचिति हारीकृतैर्मोक्तिकैः । वक्षोजन्मतुपारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥ कम्बोवंशपरम्परा इव कपासंतानवल्लीभुवः संफुल्लस्तबका इव प्रसमरा मूर्ताः प्रसादा इव । वाक्पीयूपकणा इव त्रिपथगा पर्यायभेदा इव भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५ ॥ वक्षोजे धनसारपत्ररचनामङ्गीसपत्नायिता कणे वन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता । ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेसत्प्रसूनायिता कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥ येषां विन्दुरिवोपरिप्रचलितो नासायमुक्तामणि- यैपां दीन इवाधिकण्ठमयते हारः करालम्बनम् । येपां वन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाकुराः ॥ १७ ॥ या जाड्याम्बुनिधि क्षिणोति भजतां वैरायते कैरवै- नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् । विम्वं चान्द्रमसं च वञ्चयति या गर्वेण सा तादशी कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥ १८॥ आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् । ओष्ठं वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं तां वन्दे मृदुहासपूरसुपमामेकाम्रनाथप्रिये ॥ १९ ॥ १. 'धामकर्दम' इति ग-पाठः.

पञ्चशती। २१ वक्रेन्दोस्तव चन्द्रिका स्मितरुचिर्वल्गु स्फुरन्ती सतां स्याच्चेद्युक्तमिदं चकोरमनसां कामाक्षि कौतूहलम् । एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते विम्बोष्ठधुमणिप्रभावपि च यद्विब्बोकमालम्बते ॥ २० ॥ साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षि मन्दस्मितं शोभामोष्ठरुचा च विद्मभवामेतद्भिदां ब्रूमहे । एतस्माद्बुदितां पुरा किल पपौ शर्वः पुराणः पुमा- नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥ उतुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका- पत्रश्रीजुषि चञ्चला स्मितरुचः कामाक्षि ते कोमलाः । संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥ क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मअलैः । किं चेयं तु भिदास्ति दोहनवशादेतत्तु संजायते कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोदुह्यते ॥ २३ ॥ कपूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै- मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् । श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै- स्तत्ताडड् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥ मध्ये गर्भितम वाक्यलहरीमाध्वीझरीशीतला मन्दारस्तवकायते जननि ते मन्दस्मितांशुच्छटा । यस्या वर्धयितुं मुहुविकसनं कामाक्ष कामद्रुहो वल्गुवक्षिणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥ बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।

- २२ काव्यमाला। . . फुल्छन्मछिपिनद्धहल्लकमयी मालेव या पेशला श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥ विभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् । आश्चर्य शिशिरीकरोति जगतीमालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥ प्रेसमौढकटाक्षकुञ्जकुहरेप्वत्यच्छगुच्छायितं वकेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् । नैरन्तर्यविजृम्भितस्तनतटे नैचोलपहायितं कल्मापं कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥ पीयूपं तव मन्थरस्मितमिति व्यथैव सापप्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी- मिन्दं निन्दति कीर्तिते च कलशीपाथोधिमाायते ॥ २९ ॥ विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम् । आः किं जातमनेन हाससुपुमामालोक्य कामाक्षि ते कालवीमवलम्वते खलु दशां कल्मापहीनोऽप्यसौ ॥ ३० ॥ चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु चरच्चन्द्रातपोपक्रमाः। संसाराख्यसरोरुहाकरखेलीकारे तुपारोत्कराः कामाक्षि स्मरकीतिबीजनिकरास्त्वन्मन्दहासाकुराः ॥ ३१॥ कौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिपां त्रिभुवनक्षेमंकरानडरान् । ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह- द्वेपोदोपणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२ ॥ १. 'ईपायति' इति ग-पाठः. २. 'खिलीकारे' इति ग-पाठः, - .

. पञ्चशती। २३ कुर्युनः कुलशैलराजतनये कूलंकषं मङ्गल कुन्दस्पर्धनचुच्चवस्तव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥ ३३ ॥ कम्रेण स्नपयख कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा । कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुचुना कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥ त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे विम्वः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किं च क्षीरपयोनिधिः प्रतिनिधिः वाहिनीवीचिका- विब्बोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः॥ ३५ ॥, दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल- त्पy शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये। अम्ब त्वन्मृदुलस्मितामृतरसे मड्क्त्वा विधूय व्यथा- मानन्दोदयसौधशृङ्गपदवीमारोहुमाकाइति ॥ ३६ ॥ नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाक्षि वरया विपत्प्रशमने कारुण्यधाराः किरन् । आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥ कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसू- मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्विषम् । यं द्रष्टुं विहिते करग्रह उमे शंभुस्वपामीलितः स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तेण्डुना ॥ ३८ ॥ क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः । १. 'लक्ष्मीजुषा' इति ख-पाठ.. २. तण्डुः शिवस्य कश्चिद्गण.. - २४ CC काव्यमाला। 4 मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुपो मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९॥ ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं हंसैरेव शरद्विकाससमये व्याकोचमम्भोरुहम् । स्वच्छैरेव विकखरैरुडुगणैः कामाक्षि विम्व दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४० ॥ मानग्रन्थिविधुतुदेन रभसादाखाद्यमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य स्मितचन्द्रिकां मुहुरिमामुन्मीलनं जग्मुपी चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥ कामाक्षि स्मितमञ्जरी तव भजे यस्यास्त्विपामथुरा- नापीनस्तनपानलालसतया निःशङ्कम शयः । उर्व वीक्ष्य विकर्पति प्रसुमरानुद्दामया शुण्डया सूनुस्ते विसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥ गाढापविमर्दसंभ्रमवशादुद्दाममुक्तागुण- प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विपो वक्षसि । या सख्येन पिनाति प्रचुरया मासा तदीयां दशां सा मे खेलतु कामकोटि हृदये स्वच्छा स्मितांशुच्छटा ॥ ४३ ॥ मन्दारे तव मन्थरस्मितरुचो मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते । चान्द्रीपु द्युतिमञ्जरीपु च महान्द्वेपारो दृश्यते शुद्धानां कथमीदृशी गिरिसतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते । १. 'साधु, स्मितांशु' इति ग-पाठः. २. 'दोषाकरो दृश्यते' इति ग-पाठ.

पञ्चशती। २५ . . . शीतांशुः परिभूयते च तमसा तस्मादियं तादशी कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लद्धते ॥ १५ ॥ आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका- मेकानेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वैक्षोजाम्बुरुहे न ते रहयतः कांचिद्दशां कौडली- मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ ४६ ॥ आस्तीर्णाधरकान्तिपछवचये पातं मुहुर्जग्मुषी कामद्रोहिणि मांसलस्मरशरज्वालावलिं व्यञ्जती । निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते कामाक्षि स्मितचातुरी विरहिणीरीति जगाहेतराम् ॥ १७ ॥ सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तमः- संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी । निर्यान्ती वदनारविन्दकुहरान्निधूतजाड्या नृणां श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ १८ ॥ कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनी श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाकुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्वरम् ॥ ४९ ॥ प्रेक्षन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो नीलाम्भोधरनैपुणी तत इतो निन्द्रियन्त्यञ्जसा ॥ ५० ॥ व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं करेण सततं वागूमिकल्लोलिता । १. 'तस्मादनेतादृशी' इति क-ख-पाठ. २. 'वक्षोजाम्बुरुही' इति ग-पाठः. ३. 'दोषाड्र' इति क-पाठः. ४. 'मनोमन्थिनी' इति क-ख-पाठ. . 7 २६ काव्यमाला। उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ११ ॥ कर्पूरद्युतितस्करेण महसा कल्मापयत्याननं श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते । आलिङ्गत्यतिपीवरां स्तनतटी विम्वाधरं चुम्बति प्रौढं रागभरं व्यनक्ति मनसो धैर्य धुनीतेतराम् ॥ ५२ ॥ वैशयेन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने । कामाक्षि स्मितकन्दलैस्तव तुलामारोढमुद्योगिनी ज्योत्स्नासौ जलराशिपोपणतया दूण्यां प्रपन्ना दशाम् ॥१३॥ लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगहिप- ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यबीजाकरैः। आनन्दामृतसिन्धुवीचिष्टपतैरास्यान्नहंसैस्तव श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मपम् ॥ ५४ ॥ उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा- चञ्चच्छोणिमपुखमध्यसरणि मातः परिप्कुर्वती । या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत- वापीपयसः स्मितातिरसौ कामाक्षि ते मञ्जुला ॥ ५५ ॥ सन्नामैकजुपा जनेन सुलभं संसूचयन्ती शनै- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकखरा कुसुमवत्प्रागल्भ्यमभ्येयुपी कामाक्षि.स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥ १६ ॥ धानुष्काग्रसरस्य लोलकुटिलभूलेखया विभ्रतो लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीपुषः । जेतुं मन्मथमर्दिनं जननि ते मन्दस्मितप्रक्रमो वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥ १. 'पयसां' इति ग-पाठः. -- . ३ . .

पञ्चशती। २७ । . 22 नि यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् । चेतो यत्प्रेसमं स्मरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तव स्मितांशुकणिकाहेलाभवं प्राभवम् ॥ १८ ॥ संमिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिश्रेव शशाङ्कदीप्तिलहरी नीलैमहानीरदैः । कामाक्षि स्फुरिता तव स्मितरुचिः कालाजनस्पर्धिना कालिम्रा कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥ १९ ॥ जानीमो जगदीश्वरि प्रणमतां त्वन्मन्दहासप्रभा श्रीकामाक्षि कुमुद्रतीमभिनवामेषा यतः सर्वदा । आस्येन्दोरवलोकने पशुपतेरभ्येति संफुल्लतां तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६॥ यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमै- र्भान्ती बालगभस्तिमालिकिरणमघावली शारदी। विम्वोष्ठद्युतिपुञ्जचुम्बनकला शोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकासति ।। ६१ ॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं नेत्रानन्दकर तथा हिमकरो गच्छेद्यथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं श्वेतं किं च तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥१२॥ त्वन्मन्दस्मितमञ्जरी प्रसृमरां कामाक्षि चन्द्रातपं सन्तः संततमामनन्त्यमलता तल्लक्षणं लक्ष्यते । येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस- ध्वान्तं तत्खलु दुःखिनो वयममी केनेति जानीमहे ।। ६३ ॥ L . १. 'प्रभवस्थिरज्वरशिखिज्वालेन' इति ग-पाठः. २. 'स्मितदीधिति. स्मरदशा' इति ग-पाठः. , २८ काव्यमाला। नभ्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो- मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो वहीयसी तां रुचि बिम्बोष्ठस्य रुचिनिरस्य हसितज्योत्स्ना वयस्यायते ॥ ६४ ॥ मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिप्पादिनी भूयो दूरत एव धूतमनसस्तत्पालनं तन्वती । उद्भूतस्य जलान्तरादविरतं तद्रूरतां जग्मुपी कामाक्षि स्मितमजरी तव कथं कम्बोस्तुलामनुते ॥६५॥ श्रीकामाक्षि तव स्मितातिझरीवैदग्ध्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं चिरमस्तु वस्तुविभवो मन्दारचन्द्रादयः ।। ६६ ॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिदिदां ब्रूमहे । एकस्मै पुरुपाय देवि स ददौ लक्ष्मी कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी च वागीश्वरीम् ॥६७॥ श्रीकाचीपुररमदीपकलिके नान्यानि विश्वान्तरे 'चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे । कम्पातीरकुटुम्बचमकलाचुनि चर्पुटै- नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥ शैत्यप्रक्रममाश्रितोऽपि नमतां जाज्यप्रथां धूनय- नागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन् । लीलालापपुरःसरोऽपि सततं वाचंयमान्प्रीणय- कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ १९॥ १. 'बहीयसी' इति क-ख-पाठः. २. 'विरहय्य' इति क-ख-पाठः, ३. 'तान्येव' इति क-ख-पाठः.

पञ्चशती । .. २९ श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् । यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयत्यजसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नमस्कुर्महे ॥ ७० ॥ श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि । चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका गगा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥ ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति विना वन्मदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । संतापोऽपि निवार्यते नववचःप्राचुर्यमयते सौन्दर्य परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥ वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुसते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपेद्यते । स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितेविंशदिमा नैसर्गिका भासते॥ ७३ ॥ प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यदीत्येव निलीयते हिमकरो मेघोदरे शुक्लिका- गर्भ मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥७४॥ हेरम्बे च गुहे च हर्षभरितं वात्सल्यमद्दूरय- न्मारद्रोहिणि पुरुषे सहभुवं प्रेमाङ्करं व्यञ्चयन् । आननेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालय- कामाक्षि स्मितमजरी(१) तव कथंकारं मया कथ्यते ॥७५ ॥ - . १. 'सधुक्ष्यते' इति ग-पाठः. २. 'संपाद्यते' इति सर्वेषु पुस्तकेषु पाठ, ३. "विली. यते' इति ग-पाठः. :

३० काव्यमाला। . - संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगम वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्य वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रति श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्यन्दताम् ॥७६॥ श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्करप्रक्रम नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्ताडक्तव मन्दहाससुपमा मातः कथं मानितां तन्मूर्धा सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥ ये माधुर्यविहारमण्डपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेपसुभगास्ते मन्दहासाकुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ कामाक्ष्या मृदुलस्मितांशुनिकरा दाक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्ष मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥ जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिपाम् । एनःपकपरम्परामलिनतामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिपणां प्रक्षालयन्तु क्षणात् ॥ ८ ॥ अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मदहासाकुरैः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे । इन्दुं नाकधुनी च शेखरयते मालां च धत्ते नवै- वैकुण्ठैरवगुण्ठनं च कुरुते धूलीचयै स्मनः ॥ ८ ॥ श्रीकाश्चीपुरदेवते मृदुवचःसौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । १. दक्षान्तकः शिवस्तत्सवन्धिनि. २. 'गुण' इति क-ख-पाठः ३. वाणीपु. . .

१ पञ्चशती। - मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लेषणे फुल्ठति ॥ ८२ ॥ किं त्रैःस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थ नवं पीयूषस्य समस्ततापहरणं कि वा द्वितीयं वपुः । किंखिन्नैकटिक गिरो मधुरिमाभ्यासाय नव्यं पयः' श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥ भूषा वक्रसरोरुहस्य सहना वाचां सखी शाश्वती नौवी विभ्रमसंततेः पशुपतेः सौधी दशां पारणा । जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४ ॥ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५॥ उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी । श्रीकामाक्षि तव स्मिततिततिविम्वोष्ठकान्त्यकुरै- श्चित्रां विद्रुममुद्रिका वितनुते मौक्ती वितानश्रियम् ॥ ८६ ॥ जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं विभ्रतः । श्रीकामाक्षि विसत्वरा इव करा हासाङ्कुरास्ते हठा- दालोकेन निर्हेन्युरन्धसमसस्तोमस्य मे संतेतिम् ॥ ८७ ॥ खाभाव्यात्तव वक्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरश्चितस्मितरुचः पाण्डित्यपात्रीकृतम् । १. नीवी मूलधमम्. २. 'मूर्ध्वसीन्नि च' इति क-ख-पाठः. ३. 'मुक्तावितान- श्रियम्' इति क-पाठ.. ४. 'निहन्तु' इति ग-पाठ.. ५. 'संततम्' इति ग-पाठ..

३२ काव्यमाला। . अम्भोज खत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीडग्विधं भ्राजते ॥ ८ ॥ पुंमिर्निर्मलमानसैविदधते मैत्रीरसं निर्मल कत कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् । सूक्ति पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका- स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥८९॥ आकर्पन्नयनानि नाकिसदसां शैत्येन संस्तम्भय- निन्, किं च विमोहयन्पशुपति विश्वातिमुच्चाटयन् । हिंसन्संसृतिडम्बरं तव शिवे हासाह्रयो मान्त्रिकः श्रीकामाक्षि मदार्तितापतमसो विद्वेपणे चेष्टताम् ॥ ९० ॥ क्षेपीयः क्षपयन्तु कल्मपभयान्यस्माकमल्पस्मित- ज्योतिर्मण्डलचक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मधर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्पणसुधास्रोतस्विनीशीकराः ॥९१ ॥ श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिस्फूर्जति प्रौढ्यं वारिधिचातुरी कलयते भक्तात्मनां प्रातिभम् दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाविभ्रते किं किं कैरवसोहचर्यपदवीरीत्यां न धत्ते पदम् ॥ ९२ ॥ मन्दारादिपु मन्मथारिमहिपि प्राकाश्यरीति निजां कादाचित्कतया विशङ्कय वहुशो वैशद्यमुद्रागुणः । श्रीकामानि तदीयसंगमकलामन्दीभवत्कौतुकः सातत्येन तव स्मिते वितनुते खैरासनावासनाम् ॥ ९३ ॥ इन्धाने भववीतिहोत्रनिवहे कर्मोघचण्डानिल- प्रौढिम्ना बहुलीकते निपतितं संतापचिन्ताकुलम् । १. 'प्रोटिं' इति ग-पाठः. २. 'हासचर्यपदवी' इति ग-पाठः. - पञ्चशती। मातमी परिषिञ्च किंचिदमलैः पीयूपरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशियलीलाकरैः ॥ ९४ ॥ भाषाया रसनानखेलनजुषः शृङ्गारमुद्रासखी लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मने । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥ संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते । नैरन्तर्यमुपेत्य मन्मथमैरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिविम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥ चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल- क्षोभंव्याप्टतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् । खादं खादमुदीतकौतुकरसं नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ ९७ ॥ आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेड्डन्मारुतघनप्रचलितादानन्ददुग्धाम्बुधः । काचिद्वीचिरुदञ्चति प्रतिनवा संवित्मरोहात्मका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥९८ ॥ सूक्तिः शीलयते किमद्रितनये मन्दस्मितांत्ते मुहु- र्माधुर्यागमसंप्रदायमथवा सूक्तस्तु मन्दस्मितम् । इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमी श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्ती निधत्ते पदम् ॥ ९९ ॥ क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे । १. 'देशीयलीलाकणे' इति ग पाठ २. 'रसनाग्रलेखन' इति ग-पाठः. ३. 'म- सल्लीलेषु' इति क-ख-पाठ.. ४. 'क्षोभात्संप्रतिसभवा' इति क-ख-पाठः, ------ ३४ काव्यमाला। निर्वाणावरसार्वभौमपदवीसिंहासनेम्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः॥१०॥ इति श्रीमूककविसार्वभौमकृती पञ्चशत्यां मन्दस्मितशतक द्वितीयम् । पादारविन्दशतकम् । महिम्नः पन्थानं मैदनपरिपन्थिप्रणयिनि प्रभुनिणेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिपु जैल्पाकयत्ति माम् ॥ १ ॥ गैलग्राही पौरंदरपुरवनीपछवरुचां धृतप्राथम्यानामरुणमहसामादिमगुरुः । समिन्धे बन्धूकस्तबकसहयुवा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥ मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणन्यतिकरसुरोद्यानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्टहयते ॥ ३॥ वहन्ती सैन्दूरी सरणिमवनभ्रामरपुरी- पुरंध्रीसीमन्ते कविकमलबालार्कसुपमा । त्रयीसीमन्तिन्या स्तनतटनिचोलारुणपटी विमान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४ ॥ प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारातेश्रूडावियति गृहमेधी हिमकरः । ययोः सांध्यां कान्ति वहति सुपमाभिश्चरणयो- स्तयोम कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५॥ १. हे कामारिदयिते. २. वाचालयति. मुखरीकरोतीत्यर्थः. ३. तिरस्कारकः, ४. नन्दनवनतरुकिसलयानाम्. ५. तरुणरविकिरणानाम्. ६. देदीप्यते. ४. 'पु- रारातः' इति ग-पाठः.

पञ्चशती। ययोः पठिायन्ते विबुधमुकुटीनां पटलिका ययोः सौधायन्ते खयमुदयभाजो भणितयः । ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो- स्तयोमें कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६ ॥ नयन्ती संकोचं सरसिजरुचं दिक्परिसरे सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता । कवीन्द्राणां हत्कैरवविकसनोद्योगजननी स्फुरन्ती कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७ ॥ विरावैर्मानारैः किमपि कथयन्तीव मधुरं पुरस्तादानने पुरविजयिनि स्मेरवदने । वयस्येव प्रौदा शिथिलयति या प्रेमकलह- प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥ सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः । भृतं कान्त्यम्भोभिर्विसुमरमरन्दैः सरसिजै- विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९ ॥ रजःसंसर्गेऽपि स्थितमजरसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्कैकशरणम् । अलभ्यं मन्दानां दधदपि सदा मन्दगतितां विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥ जटाला मजीरस्फुरदरुणरत्नांशुनिकरै- निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् । परित्राणं कर्तुं जननि मम कामाक्षि नियतं तपश्चर्या धत्ते तव चरणपाथोजयुगली ॥ ११ ॥ तुलाकोटिद्वन्द्वक्वणितभणिताभीतिवचसो- विननं कामाक्ष्या विस्मरमहःपाटलितयोः । .

काव्यमाला। क्षणं विन्यासेन क्षपिततमसोमै ललितयोः पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥ भवानि द्रुह्येतां भवनिविडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोलाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा- कुटीरा शोणावं वहति वपुरेणाइकलिका ॥ १३ ॥ पवित्रीकुर्युनः पदतलभुवः पाटलरुचः परागास्ते पापप्रशमनधुरीणास्तव शिवे । कर्ण लब्धं येपां निजशिरसि कामाक्षि नियत वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥ वलाकामालाभिनखरुचिमयीभिः परिश्ते विनम्रवारीविकचकचकालाम्बुदकुले । स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद- स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥ १५ ॥ सरागः सद्धेपः प्रसमररजस्कः प्रतिदिन निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपद्मस्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥ जपालक्ष्मीशोणो जननि परमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा । मनःपूर्वादि नस्तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७ ॥ नमस्कुर्मः प्रेद्धन्मणिकटकनीलोपलमहः- पयोधी रिवद्भिर्नखकिरणफेनैर्धवलिते । स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा- वितर्क कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८ ॥ १. चरणरूपसूर्यः.

पञ्चशती। ७ शिव पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९॥ निषक्तं श्रुत्यन्ते नयनमिव सत्तरुचिरैः समैजष्टं शुद्धैरधरमिव रम्यढिजगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ।। २० ।। नमस्यासंसज्जनमुचिपरिपन्थिप्रणयिनी- निसर्गप्रेढोलत्कुँरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रकटयति पादान्जसुषमा ॥ २१ ॥ कदा दूरीकर्तु कटुदुरितकाकोलजनितं महान्तं संतापं मदनपरिपन्थिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥ ययोः सांध्यं रोचिः सततमरुणिने स्टहयते ययोश्चान्द्री कान्तिः परितपति दृष्ट्वा नखरुचिम् । ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं म्रदिनः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥ जगन्नेदं नेदं परमिति परित्यज्य यतिभिः कुशाग्रीयस्वान्तः कुशलधिपणैः शास्त्रसरणी। गवेष्यं कामाक्षि ध्रुवमझतकानां गिरिसुते गिरामैदंपर्य तव चरणमाहात्म्यगरिमा ॥ २४ ॥ १. 'निषिक्त' इति क-ख-पाठः. २. शची. ३. केशकलापः. ४. 'क्षण ते' इति क-ख-पाठ..

काव्यमाला। कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशा कलितरसमानन्दसुधया । अलंकारं भूमर्मुनिजनमनश्चिन्मयमहा- पयोघेरन्तःस्थं तव चरणरत्नं विजयते ॥ २५ ॥ मनोगेहे मोहोद्भवतिमिरपूणे मम मुहु- देरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः । विधत्तां कामाक्षि प्रसमरतमोवञ्चनचणः क्षणार्ध सांनिध्यं चरणमणिदीपो जननि ते ॥ २६ ॥ कवीनां चेतोवनखररुचिसंपर्कि विवुध- स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं मदन्तः कामाक्ष्याः स्फुरतु पदप रुहयुगम् ।। २७ ॥ सदा किं संपैकै प्रकृतिकठिनैर्नाकिमुकुटै- स्तटैींहारा।रधिकमणुना योगिमनसा । "विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा- मदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥ पवित्राभ्यामम्ब प्रकृतिमृदुलाम्यां तव शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः । प्रवालैरम्भोजैरपि च वनवासव्रतदशाः सदैवारस्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥ मरालीनां पादाहतिमदनिशं हंसनिवहै- नमस्य निर्जाब्यं नियतजलमध्यैकशरणम् । अदोपव्यासङ्गं सततमपि दोपाप्तिमलिनं पयो कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥३०॥ १. नखा एव नखरास्तत्कान्तियुक्तम्; (पक्षे) न खररुचिसंपर्क. २. हंसकः पादक. टकः; (पक्षे) हंसा एव हंसकाः. ३. 'सपर्कात्' इति सर्वपुस्तकपाठः. ४. 'विभ' इति ग-पाठः, 'विभन्ने' इति क-ख-पाठः. ५. 'पादयुगली' इति ग-पाठः, पञ्चशती। ३९ ? . सुराणामानन्दप्रवलनतया मण्डनतया नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया । पयोजश्रीद्वेषव्रतरततया त्वचरणयो- विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥३१॥ सितिना कान्तीनां नखरजनुषां पादनलिन- च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने । लभन्ते मन्दारग्रथितनववन्धूककुसुम- स्त्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२ ॥ नख श्रीसंनद्धस्तवकनिचितः खैश्च किरणैः पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः । सतां गम्यः शङ्के सकलफलदाता सुरतरु- स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥ स्फुरन्मध्ये शुद्धे नखकिरणदुग्धान्धिपयसां वहन्नब्जं चक्रं दरमपि च लेखात्मकतया । श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमा त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४ ॥ वषटकुर्वन्माजीरजकलकलैः कर्मलहरी- हवींषि प्रोद्दण्डं ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां मनोवेद्यां मातस्तव चरणयज्वा मम सदा ॥ ३५ ॥ महामन्त्रं काञ्चीमणिकटकनादैरिव जय- क्षिपन्दिक्षु खच्छं नखरुचिमयं मास्मनरजः । नतानां कामाक्षि प्रतिपटुरुच्चाव्य ममता- पिशाची पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ।।३६ ।। १. 'मण्डिततया' इति ग-पाठः. २. 'रेखात्मक' इति ग-पाठः. ३. विष्णु..

४० काव्यमाला। उदीते बोधेन्दौ तमास नितरां जग्मुपि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्याङ्गं नखरुचिपटेनादियुगली- पुरंध्री ते मातः खयमभिसरत्वेव हृदयम् ॥ ३७ ॥ दिनारम्भः सभ्यतलिनविपिनानामभिनवो विकासो वासन्तः सुकविपिकलोकस्य नियतम् । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥ धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां वोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातङ्गी परिकलयते पर्वतसुते ॥ ३९ ॥ शनैस्तीा मोहाम्बुधिमथ सेंमारोढुमनसः श्रमात्कैवल्याख्यां सुकृतिमुलभा सौघवलभीम् । लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥ प्रचण्डार्तिक्षोभप्रमथनकते प्रातिभसरि- त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्टहयति जनोऽयं जननि ते ॥ ४१ ॥ मरुद्भिः संसेव्या सततमपि चाश्चल्यरहिता सदारुण्यं यान्ती परिणतिदरिद्राणसुपमा । गुणोत्कन्मिञ्जीरजकलकलैस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति सा पादयुगली॥ ४२॥ १. 'च दधतो' इति ग-पाठः. २. 'सरत्येव' इति ग-पाठ.. ३. 'परिचिति द- धान' इति ग-पाठः.' ४. 'समारूढमनसः' इति क-ख-पाठः, ५. 'सुकृत' इति ग. पाठ. ६. 'प्रचण्डाचि.' इति क-ख-पाठः.

पञ्चशती। ४१ जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः॥४३॥ गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग- त्परित्राणी शोणौ मुनिहृदयनीडैकनिपुणौ । नखैः स्मेरौ सारौ निगमवचसां खण्डितभव- ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ।। ४४ ॥ अविश्रान्तं पङ्घ यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् । तुलाकोटिद्वन्द्वं दधदपि च गच्छन्नतुलतां गिरां मार्ग पादो गिरिवरसुते लड्डयति ते ॥ १५ ॥ प्रवालं सवीडं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपमधिकवालं दधति या । रुचि सांध्यां वन्ध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ।। किरज्योत्स्नारीति नखमणिरुचा हंसमनसां वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः । प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रीति शशिशकलचूडप्रियतमे ॥ ४७ नखाङ्करस्मेरद्युतिविमलगङ्गाम्भसि सुखं कृतनानं ज्ञानामृतममलमाखाद्य नियतम् । उदञ्चन्माजीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहम्य विहरताम् ॥ १८ ॥ भवाम्भोधौ नौका जडिमविपिने पावकशिखां प्रणनेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । १. 'विषति' इति क-ख-पाठः.

४२ काव्यमाला। जगत्तापज्योत्स्नामकृतकवचःपञ्जरपुटे शुकस्त्री कामाक्ष्या मनसि कलये पादयुगलीम् ॥ १९ ॥ परात्मप्राकाश्यप्रतिफलनचुचुः प्रणमतां मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमधुरां शोभनदशां विधातुं चेष्टन्ते वैलरिपुवधूटीकुचभराः ॥ ५० ॥ अविश्रान्तं तिष्ठन्नरूतकवचःकंदरपुटी- कुटीरान्तः प्रौढां नखरुचिसटाली प्रकटयन् । प्रचण्डं खण्डवं नयतु मम कामाक्षि तरसा तैमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥ ११ ॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः । नख श्रीभिः स्मेरा बहु वितनुते नुपुररवै- श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥ १२ ॥ सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा निपिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः । स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्री पथिकसुभगां पादयुगली ॥ १३ ॥ नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमजीरनिनदः ॥ १४ ॥ वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते । १. शची. २. अज्ञानरूपं गजेन्द्रम्. ३. चरणरूपो मृगेन्द्राधिपः. ४. 'स्मेर' इति क-ख-पाठः. ५. क-ख-पुस्तकयोरस्मिलोके पूर्वोत्तरार्धयोर्व्यत्ययोऽस्ति. . , पञ्चशती। ४३ - पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं इशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५ ॥ प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका- विलोलद्रोलम्वप्रकरमयधूमप्रचुरिमा । प्रदीप्तः पादाब्जातिविततिपाटल्यलहरी- कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥ १६ ॥ वलक्षश्रीक्षाधिपशिशुसहक्षा तव नखै- जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे। क्षणान्मे कामाति क्षपितभवसंक्षोभगरिमा वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ॥ १७ ॥ समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा- ननन्ताभिर्भाभिर्दिवमनु दिगन्तान्विरचयन् । अहंताया हन्ता मम जडिमदन्तावलरिपु- विभिन्तां संतापं तव चरणचिन्तामणिरसौ ॥ १८ ॥ दधानो भास्वत्ताममृतनिलयो लोहितवपु- विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥ नयन्ती दासत्वं नलिनभवमुख्यानसुलभ- प्रदानां दीनानाममरतरुदौर्भाग्यजननीम् । जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो- धुरीणामीष्टे कस्तव भणितुमाहोपुरुषिकाम् ॥ १० ॥ जनोऽयं संतप्तो जननि भवचण्डांशुकिरणै- लब्ध्वैकं शीतं कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते ।। ६१ ॥ १. 'रलब्ध्वा किं त्वेकं' इति ग-पुस्तके, रलव्धैः कं शीत' इति च ख-पुस्तके पाठ..

काव्यमाला। . जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं विभ्राणे सुरमुकुटसंघमसुणे । निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२ ॥ प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमन्द्रीन्द्रतनये । सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥ महाभाष्यव्याख्यापटुशयनमारोपयति वा स्मरव्यापारापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वा निवसतिं प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥ विवेकाम्भःस्रोतःस्नपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्पणवशात् । सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो महासवित्सस्यप्रकरवरवीजं गिरिसुते ॥ १५ ॥ दधानो मन्दारस्तवकपरिपाटी नखरुचा वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् । अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते शर्वदयिते ॥ ६६ ॥ नखांशुप्राचुर्यप्रसूमरमरालीधवलितः स्फुरन्मजीरोद्यन्मरकतमहः शैवैलयुतः । भवत्याः कामाक्षि स्कुटचरणपाटल्यकपटो नदः शोणाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥ १. विष्णुशिवब्रह्मरूपान्करोतीति भावः. २. 'मरालालिघवलः' इति क-ख-पाठः. ३. 'शैवललघुः इति ग-पाठः.

पञ्चशती। ४५ धुनानं पकौघं परमसुलभं कण्टककुलै- विकासव्यासङ्गं विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा- मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८ ॥ करीन्द्राय गृह्यत्यलसगतिलीलासु विमलैः पयोर्मात्सर्य प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं मुनीनां शान्तानां कथमनिशमस्मै स्टहयते ॥ ६९ ॥ निरस्ता शोणिना चरणकिरणानां तव शिवे समिन्धानासंध्यारुचिरचलराजन्यतनये । असामर्थ्यादेतत्परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥ उपादिक्षदाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शङ्के मसणगतिलालित्यसरणौ । अतस्ते निस्तन्द्रं नियतममुना सख्यपदवी प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥ ७१ ॥ दधानः संसर्ग प्रकृतिमलिनैः षट्पदकुलै- हिनाधीशलाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमित्रैः प.नियतमपि कामाक्षि पदयो- विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥ कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ विपन्नानां श्रीमन्नलिनमसूणौ शोणकिरणौ । मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणी मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥ परस्मात्सर्वस्मादपि च परयोमुक्तिकरयो- नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयोः । १. 'पुनानं' इति ग-पाटः. १. 'करीन्द्राणा' इति ख-पाठ. .

४६ काव्यमाला । निलीये कामाक्ष्या निगमनुतयो किनतयो- निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥ स्वभावादन्योन्यं किसलयमपीदं तव पदं म्रदिना शोणिम्ना भगवति दधाते सदृशताम् । वने पूर्वस्येच्छा सततमवने किं तु जगतां परस्येत्यं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥७५ ॥ कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दाान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीपानर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥ चलत्तृष्णावीचीपरिचलनपर्याकुलतया मुहुर्धान्त्वा तान्तः परमशिववामाक्षि परवान् । तितीर्घः कामाक्षि प्रचुरतरकर्माम्बुधिममुं कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीप्मसमय- प्रभावेण क्षीणे सति मम मनः केकिनि शुचा । त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ।। विनम्राणां चेतोभवनवलभीसीम्नि चरण- प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि । असीमा कामाक्षि खयमलघुदुष्कर्मलहरी विघूर्णन्ती शान्ति शलभपरिपाटीव भजते ॥ ७९ ॥ विराजन्ती शुक्तिर्नखकिरणमुक्तामणितते विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् । त्वदीयः कामाक्षि ध्रुवमलैधुवाहर्भववने मुनीनां ज्ञानाग्नेररणिरयमभिर्वि जयते ॥ ८० ॥ १. 'विलीये' इति क-ख-पाठः. २. 'लमुदावो भववने' इति क-ख-पाठः, पञ्चशती। समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः । भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो- बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१॥ वसन्तं भक्तानामपि मनसि नित्यं परिलस- द्वनच्छायापूर्ण शुचिमपि नृणां पापशमनम् । नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥ ८२ ॥ कवीन्द्राणां नानाभणितिगुणचित्रीरुतवच:- प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः । अधःकुर्वन्नन्नं सनकमृगमुख्मुनिर्जनै- नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ।। भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसन्ने निःशेष प्रतिफलति विश्वं गिरिसुते ॥ ८४ ॥ तव त्रस्तं पादाकिसलयमरण्यान्तरमगा- त्परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ।। ८५ ॥ गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा- कटाक्षार्कज्योतिःशमितममताबन्धतमसः । यतन्ते कामाक्षि प्रतिदिवसमन्तढयितुं त्वदीयं पादानं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥ जडानामप्यम्ब स्मरणसमये त्वचरणयो- भ्रमन्मन्थक्ष्मामृद्धमधुमितसिन्धुप्रतिभटाः । 1. 'मेवाथयमगात् इति ग-पाठः, --- ४ काव्यमाला। प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकला विभान्ति स्वच्छन्दं प्रकृतिपरिपक्का भणितयः ॥ ८७ ॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ तमेवाधः कर्तु किमिव यतते केलिगमने । भवस्यैवानन्दं विदधदपि कामाक्षि चरणो भवत्यास्तद्दोहं भगवति किमेवं वितनुते ॥ ८ ॥ यदत्यन्तं ताम्यत्यलसगतिवात खपि शिवे तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् । किरीटैः संघटं कथमिव सुरौघस्य सहते मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥ मनोरङ्गे मत्के विबुधजनसंमोदजननी सरागव्यासङ्ग सरसमृदुसंचारसुभगा । मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं चलन्मजीरा ते चरणयुगली नर्तकवधूः ॥ १० ॥ परिष्कुर्वन्मातः पशुपतिकपर्द चरणराट पराचां हृत्पद्मं परमभाणितीनां च मुकुटम् । भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥ ९१ ॥ प्रसूनैः संपर्कादमरतरुणीकुन्तलभवै- रभीष्टानां दानादनिशमपि कामाक्षि नमताम् । स्वसङ्गात्कङ्केल्लिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वातौ सुरभिरिति पादो गिरिसुते ॥ ९२ ॥ महामोहस्तेनव्यतिकरभयात्पालयति यो विनिक्षिप्तं खस्मिन्निजजनमनोरत्नमनिशम् । स रागस्योद्रेकात्सततमपि कामाविरुचिरां किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३ ॥ १. 'प्रपन्नाः' इति क-ख-पाठः.

पञ्चशती। सदा स्वाइंकारं विषयलहरीशालिकणिका समाखाद्य श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा- गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥ धुनानं कामाक्षि स्मरणलवमात्रेण जडिम- ज्वरमौढिं गूढस्थितिनिगमनकुञ्जकुहरे । अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन- श्चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५ ॥ रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा । निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥ यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रन्थि शिथिलयति किं किं न कुरुते प्रेपन्ने कामाक्ष्याः प्रैणतिपरिपाटी चरणयोः ॥ ९७ ॥ मनीषां माहेन्द्री ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥ सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते चिराल्लभ्ये भत्त्या शमधनजनानां परिषदा । मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९९ ॥ १. 'हृदयसुकपोत' इति ख-पाठः. २. 'प्रसन्ने' इति क-ख-पाठः ३. 'प्रकृति' ४. क-ग-पुस्तकयो. 'सुरागे' इत्यादि, 'पदद्वन्द्व' इत्यादि च पद्यं ग-पाठ.. त.

५०
काव्यमाला।
पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे ।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १० ॥
इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाहादजनकम् ।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलक-
श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१ ॥
इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतक तृतीयम् ।
आयशतकम्।
कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥
च न काञ्चीतिलकं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरननं कैवल्यानन्दकन्दमवलम्वे ॥ २ ॥
चिन्तितफलपरिपोपणचिन्तामणिरेव काञ्चिनिलया मे।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुधाधारा ॥ ३ ॥
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ।
परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥
ऐश्वर्यमिन्दुमालेरेकात्म्यप्रकृति काश्चिमध्यगतम् ।
ऐन्दकिशोरशेखरमैदंपर्य चकास्ति निगमानाम् ॥ ५॥
तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काश्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ ६ ॥
मधुरधनुषा महीधरजनुषा नन्दामि सुरभिवाणजुषा ।
चिहपुपा काञ्चिपुरे केलिजुपा बन्धुजीवकान्तिमुपा ॥ ७ ॥
कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।
कुरुते विहृति काच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ८ ॥

पञ्चशती। ५१ पश्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । काञ्चीसीनि कुमारी काचन मोहयति कामतारम् ॥ ९ ॥ श्रितकम्पासीमानं शिथिलितपरमेशधैर्यमहिमानम् । कलये पाटलिमान कंचन कञ्चकितभुवनभूमानम् ॥ १० ॥ आइतकाचीनिलयामाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दली वन्दे ॥ ११ ॥ काचरित्नविभूषां कामपि कंदर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ १२ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १३ ॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १४ ॥ अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥ अङ्कितशंकरदेहामङ्कुरितोरोजकशाणाश्लेषैः । अधिकाचि नित्यतरुणीमद्राक्ष कांचिदद्भुतां बालाम् ॥ १६ ॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकाश्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥ धरणिमयीं तरणिमयी पवनमयीं गगनदहनहोतृमयीम् । अम्बुमयीमिन्दुमयीमम्बामैनुकम्पमादिमामीक्षे ॥ १८ ।। लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥ 'श्वेता मन्थरहसिते शाता मध्ये च वाड्मनोतीता। शीता लोचनपाते स्फीता कुचसीनि शाश्वती माता ॥ २० ॥ पुरतः कदा नु करवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ १. 'परमशिवधैर्य' इति ख-ग-घ-पाठः. २. कम्पानदीसमीपे. ३. कृगा.

५२ काव्यमाला। पुण्या कापि पुरंध्री पुहितकंदर्पसंपदा वपुषा । पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥ तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥ पौष्टिककर्मविपाकं पौष्पशरं सविधसीन्नि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं किंचिदर्धशशिमौलेः ॥ २४ ॥ संश्रितकाचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । संविन्मये विलीये सारखतपुरुषकारसाम्राज्ये ॥ २५ ॥ मोदितमधुकरविशिखं खादिमसमुदायसारकोदण्डम् । आइतकाचीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥ उररीकतकाचिपुरीमुपनिपदरविन्दकुहरमधुधाराम् । उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥ एणशिशुदीर्घलोचनमेनः परिपन्थि संततं नमताम् । एकामनाथजीवितमेवंपददूरमेकमवलम्बे ॥ २८ ॥ स्मयमानमुखं काञ्चीमयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मनाः ॥ २९ ॥ कुतुकजुपि काचिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते जनो मनोऽयं कुलगिरिपरिवृढकुलैकमणिदीपे ॥ ३० ॥ वीक्षेमहि काश्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । विट्ठमसहचरदेहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥ कुरुविन्दगोत्रगात्रं कूलचरं किमपि नौमि कम्पायाः । कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥ कुङ्मलितकुचकिशोरैः कुर्वाणैः काश्चिदेशसौहार्दम् । कुडमशोणनिचितं कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥ अङ्कितकुचेन केनचिदन्धंकरणौपधेन कमलानाम् । अन्तःपुरेण शंभोरलंक्रिया कापि कल्प्यते काच्याः ॥ ३४ ॥ १. 'सौधसीनि' इति क-ख-ग-पाठः, - पञ्चशती ।' ५३ उररीकरोमि संततमूष्मलफालेन लालितं पुंसा । उपकम्पमुचितखेलनमुधिरवंशसंपदुन्मेषम् ॥ ३५ ॥ अङ्कुरितस्तनकोरकमकालंकारमेकचूतपतेः । आलोकेमहि कोमलमागमसल्लापसारयाथार्थ्यम् ॥ ३६ ॥ पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥ लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेह्यमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥ मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीरैमङ्गलकन्दैमास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षोवामाङ्कत्तलीवशवदीभूता । पुरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥ बाधाकरी भवाब्धेराधाराद्यम्वुजेषु विचरन्तीम् । आधारीकतकाची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाम्यन्तः शशधरकलयाङ्कितमौलिममलचिरलयाम् । अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥ शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वाय समय॑ते हृदयम् ॥ ४३ ।। समया सांध्यमयूखैः समया वुद्ध्या सदैव शीलितया । उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥ ४ ॥ जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भःसु वम्भ्रमीति शिला ॥४५॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारणि गुह्ये गुरुमूर्तं त्वां नमामि कामाक्षि ॥ ४६ ॥ १. 'पिञ्जरित' इति पुस्तकचतुष्टयेऽपि छन्दोभद्गदूषितः पाठ. २. 'शीलतया इति क-ख-पुस्तकयोः, 'शीतलया' इति च ग-पुस्तके पाठः. ३. 'गुहारिणि' इति क-ख-ग-पाठः.

OC काव्यमाला। . अभिदारुतिभिदाकतिरचिदाकतिरपि चिदाकृतिर्मातः । अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिविम्बोष्ठम् ॥ १८ ॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥ १९ ॥ मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चण्डकरशनकार्मुकचन्द्रसमामां नमामि कामाक्षीम् ॥ ५० ॥ अधिकाची केलिलोलैरखिलागमयन्त्रतन्त्रमन्त्रमयैः । अतिशीतं मम हृदयं विमशरद्रोहिनीवनोपायैः ॥ ११ ॥ नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं काञ्चीम् । इन्दुरविमण्डलकुचा विन्दुवियन्नादपरिणता तरुणी ॥ ५२ ।। शम्पालतासवर्ण संपादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ १४ ॥ ऐक्षिपि पाशाङ्कुशधरहस्तान्तं विस्मयाहवत्तान्तम् । अधिकाश्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ १६ ॥ मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुलोकोत्तरकीतिरेव कामाक्षि ॥ १७ ॥ पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् । पञ्चशरीयं शंभोर्वञ्चनवैदग्ध्यमूलमवलम्वे ॥ १८ ॥ १. 'रचिदाकृतिश्चिदाकृतिश्च मात:' इति क-ख-ग-पाठः. २. 'असमशर' इति कन्ख-ग-पाठ..

पञ्चशती। ५६ परिणतवती चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् । पञ्चाशदर्णकल्पितपदशिल्पां तां नमामि कामाक्षीम् ॥ ५९ ॥ आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् । खादिष्टचापदण्डां नेदिष्टामेव कामपीठगताम् ॥ ६० ॥ तुष्यामि हर्षितस्मरशासनया काञ्चिपुरि कृतासनया । खासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥ प्रेमवती कम्पायां स्थमवती यतिमनःसु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥ कौतुकिना कम्पायां कौमुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुंङ्मलमुद्रां धुनोतु नः प्रतिभा ॥ १३ ॥ केनापि मिलितदेहा यूना स्वाहासहायतिलकेन । सहकारमूलदेशे सविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥ कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ १५ ॥ दग्धषडध्वारण्यं दरदलितकुसुम्भसंभृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीन्नि किमपि कारुण्यम् ॥ ६६ ॥ अधिकाचि वर्धमानानतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥ कि वा फलति ममान्यैर्विम्वाधरचुम्बिमन्दहासमुखी । संवाधकरी तमसामम्वा जागर्ति मनसि कामाक्षी ॥ ६९॥ मच्चे सदाशिवमये परशिवमयललितपौष्पपर्यते । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥ १. 'पञ्चाशद्वर्ण' इति क-ख-ग-पाठः, २ आदिक्षत् उपदिष्टवान्, ३. इक्षुधनुर्धा- रिणीम. ४. स्थैर्यवती. ५. ऐश्वर्यवती. ६. संकोचम्.

५६ काव्यमाला । लक्ष्योऽस्मि कामपीठीलासिकया घनरूपाम्बुराशिकया । श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ १ ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काशीशरणे नतार्तिसंहरणे ॥ ७२ ।। मूर्तिमयि मुक्तिबीजे मूर्ति स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिपास्माकम् ।। ७३ ॥ वेदमयीं नादमयीं विन्दुमयी परपदोद्यदिन्दुमयीम् । मन्त्रमयी तन्त्रमयी प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७ ॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७९ ॥ कुटिलं चटुलं एथलं मृदुलं कचनयनजघनचरणेषु । अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ।। ७६ ॥ प्रत्यङ्मुख्या दृष्टया प्रसाददीपाकुरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥ विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले । भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ।।७८॥ मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षकोलिनि ते । शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥७९॥ देशिक इति किं शङ्के तत्ताडक्तव नु तरुणिमोन्मेपः कामाक्षि शूलपाणेः कामागमतेन्त्रयज्ञदीक्षायाम् ॥ ८ ॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरातमध्याय । कुङ्कुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१ ॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाश्चि कांचिदद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२॥ १. 'मुमुदुषा' इति क-ख-ग-पाठः. २. 'निस्तुललये' इति क-ख-ग-पाठः. ३. 'विपक्षहालिनि' इति क-ख-ग-पाठः. ४. 'इति नु किमेपः शङ्के' इति घ-पाठः. ५. 'तन्त्रयन्त्र' इति घ-पाठः. ६. 'कुमरुचये' इति क-ख-घ-पाठः, पञ्चशती। ५७ परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमगलाभरणम् ॥ ८३ ॥ दग्धमदनस्य शंभोः प्रथीयसी ब्रह्मचर्यवैदग्धीम् । तव देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥ ८४ ॥ मदजलतमालपत्रा वसनितपत्रा कराहतखनित्रा। विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी अवसि शङ्खकुण्डलिनी ॥६॥ प्रेणतजनतापवर्गा कतरणसर्गा ससिंहसंसर्गा। कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥ श्रवणचलद्वेतण्डा समरोद्दण्डा (तामुरशिखण्डा । देवि कलितान्त्रखण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८ ॥ उधिरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिंचनाति खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९॥ ताडितरिपुपरिपीडनभयहरणनिपुणहलमुसला । क्रोडपतिमीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९० ॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥ विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपश्ची विभासि वैरश्ची ॥ ९२ ॥ कुङ्कुमरुचिपिङ्गमसुक्पङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपभेदं जपपटपुस्तकवराभयाव्जकरम् ॥ ९३ ॥ कनकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् । कामाक्षि शीलये वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥ १. 'भैरवि' इति क-ख-ग-पाठ . २. प्रणतजनताया मोक्षरूपा. ३. 'धृता' इति क-ख-ग-पाठः. ४. सर्वेषु पुस्तकेष्वयमेव दुष्ट पाठोऽस्ति. ५. 'कमलघुटो' इति घ- पाठः, ६. 'जपवट' इति घ-पाठ:. ७. सर्वेषु पुस्तकेष्वयमेव छन्दोभनयुक्तः पाठः.

६८ काव्यमाला। लोहितिमपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते । वदनं तव कुचयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥ जलधिद्विगुणितहुतवहदशदिनेशकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तमं त्वं करन्ध्रधृतनलिनम् ।। ९६ ॥ सत्कृतदेशिकचरणा सवीजनिर्बीजयोगनिश्रेण्या । अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥ अन्तरपि वहिरपि त्वं जन्तुततेरन्तकान्तकदहते । चिन्तितसंतानकला संततमपि संतनुष्व महिमानम् ॥ ९८ ॥ जय जय जगदम्ब शिव जय जय कामाक्षि जयजयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ ९९ ॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निःसरति वदनकमलाद्वाणी पीयूपधोरणी दिव्या ॥ १०० ॥ इति श्रीमूककविसार्वभौमकृतौ पश्चशत्यामार्याशतकं चतुर्थम् । स्तुतिशतकम्। पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरश्चान्यपि गुम्फनानि विगलद्गाणि शर्वाणि ते । स्तोतुं त्वां परिफुल्लनीलनलिन श्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १ ॥ तापिच्छस्तवकत्विषे तनुभृतां दारिद्यमुद्राद्विपे संसाराख्यतमोमुपे पुररिपोर्वामायसीमाजुपे । कम्पातीरमुपेयुपे कवयतां जिह्वाकुटी जग्मुपे विश्वत्राणपुपे नमोऽस्तु सततं तस्मै परज्योतिपे ॥ २ ॥ ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भक सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे । १. 'कुञ्जमध्ये' इति ग-पाठः. २. किमपि' इति क-ख-ग-पाठः. ३. इयमार्यापि च्छन्दोभगदूषितैव. ४. 'सर्वोत्तर' इति घ-पाठः. ५. 'सतानवता' इति घ-पाठः, ६. इयमार्या घ-पुस्तके नास्ति.

. २॥ है पञ्चशती। ५९ पुण्यं ये परिपक्वयन्ति भंजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३॥ कामाडम्बरपूणया शशिरुचा कम्रस्मितानां त्विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती । कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥ कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दशा श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा । वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि कैरुणा कम्पातटिन्यास्तटे ॥ ५ ॥ श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी । मारारातिमनोविमोहनविधौ काचित्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥ प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्करं दर्शय- ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्र समुद्भावयन् । कालिन्दीलहरीदृशां प्रकटयन्कम्रां नमस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७ ॥ तत्राभूततमालनीलसुषमैस्तारुण्यलीलागृहै- स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः । मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिधमैः कम्पातीरचरैर्धनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८ ॥ नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधि पुष्णती तेजःसंचयपाटवेन किरणानुष्णद्युतेर्मुष्णती । - १. 'वसतां' इति घ-पाठः. २. 'रुचा' इति क-ख-ग-पाठः, ३. 'तरुणी' इति क-ख-ग-पाठः, ४. पुस्तकचतुष्टयेऽप्यशुद्ध एवायं श्लोक .

६० काव्यमाला । 1 काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिच्चित्रमिह स्मृतापि मनसो निर्वापिका दीपिका ॥ ९॥ कान्तैः केशरुचां चयैभ्रमरितं मन्दस्मितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुहयोनेत्रत्विषा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काश्चीमध्यमहामणिविजयते काचित्छपाकन्दली ॥ १० ॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता- मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी । आश्चर्य बहुखेलनं वितनुते नैश्चल्यमाविभ्रती कम्पायास्तटसीनि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥ ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके रेखा यत्कचसीनि शेखरदशां नैशाकरी गाहते । औन्नत्यं मुहुरेति येन स महान्मनासखः सानुमा- न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥ अक्ष्णोश्च स्तनयोः श्रिया श्रवणयो होश्च मूलं स्टश- नुत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । माधुर्यण गिरां गतेन मृदुना हंसाङ्गनां हृपय- न्काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥ खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं कालायश्छवितस्करी तनुरुचिं करेंजपे लोचने । । । १. 'अहो' इति घ-पाठः. २. हिमालयः. ३. 'मूलस्पृशो' इति सर्वपुस्तकपाठः.

पञ्चशती। ६१ तारुण्योमनखंपचस्तनभरं जडास्टशं कुन्तलं भाग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥ तन्वानं जनकलिसौधसरणि नैसर्गिकोणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवश्चनचुम्लु किंचन भजे काञ्चीपुरीमण्डन पर्यायच्छवि पाकशासनमणेः पौप्पेपवं पौरुपम् ॥ १६ ॥ आलोके मुखपङ्कजे च दधती सौधाकरी चातुरी चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया । मुग्धस्मेरमुखी घनस्तनतटी मूर्छालमध्याञ्चिता काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७ ॥ यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योत्स्नासंस्त्रपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् । द्राक्षामाक्षिकमाधुरीमदभरब्रीडाकरी खैरी कामाक्षि स्वयमातनोत्यभिसृति वामेक्षणेव क्षणात् ॥ १८ ॥ कालिन्दीजलकान्तयः स्मितरुचिवाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहालौहित्यसंध्योदये । माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९ ॥ कलकलरणत्काञ्ची काचीविभूषणमालिका कचभरलसच्चन्द्रा चन्द्रावतंससर्मिणी । कविकुलगिरः श्रावं श्रावं मिलत्पुलकाङ्कुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २० ॥ सरसवचसा वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिमूर्तिमनोभवजित्वरी । १. 'स्तनतट' इति क-ख-ग-पाठः. २. इन्द्रनीलप्रभमिति भाव.. ३. 'एव' इति क-ख-पाठः. ४. 'देहिनाम्' इति क-ख-पाठ.. ५. वाणी.

६२ काव्यमाला । जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूपे कटाक्षतरङ्गितम् ॥ २१ ॥ भ्रमरितसरित्पूरे नीलोत्पलप्रभया भया- नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥ मधुरवचसो मन्दस्मेरा मतङ्गजगामिन- स्तरुणिमजुषस्तापिच्छामास्तमःपरिपन्थिनः । कुचभरनताः कुर्युभद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३ ॥ कमलसुपमाकक्षारोहे विचक्षणवीक्षणाः कुमुदमुकतक्रीडाचूडालकुन्तलवन्धुराः । रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥ कलितरतयः काञ्चीलीलाविधौ कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः । कुशलविधये भूयासुम कुरङ्गविलोचनाः कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥ कवलिततमःखण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसंतानानामरुंतुदशेखराः । नयनसरणे दीयांसः कदा न भवन्ति मे तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥ २६ ॥ अचरममिपुं दीनं मनिध्वजस्य मुखश्रिया सरसिजभवो यानं म्लानं गतेन च मञ्जना । त्रिदेशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥ १. मीनध्वजस्य प्रथम वाणमरविन्दरूप मुखश्रिया दीन वितन्वतीत्यन्वयः. २. हंसम्. ३. पीयूषम्.

पञ्चशती। ६३ जननि भुवने चकम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः। तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥ मुनिजनमनःपेटीरलं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९॥ मुनिजनमनोधाने धाम्ने वचोमयजाह्नवी- हिमगिरितटाग्भारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधागणाय नमोनमः ॥ ३० ॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा- ममृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं काञ्चीभाजो जनस्य पचेलिम हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ।। ३१ ।। प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदञ्चितः। प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वती नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥ शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला । फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥ १. 'प्राग्भागाय' इति क-ख-ग-पाठः. २. 'अचिराय' इति घ-पाठः. ३. 'समु- चति' इति ख-ग-पाठः, ४ 'तन्द्रामुद्रा' इति घ-पाठः. ५. 'कुन्तली' इति ख-घ पाठः. २. हिमालयसुता. * -- - .

CC काव्यमाला। - मम तु धिपणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुपमामैत्रीपात्रीवतंसितकुन्तलाम् । जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणी ॥ ३४ ॥ परिमलपरीपाकोद्रेकं पयोमुचि काश्चने शिखरिणि पुनद्वैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कम्बोर्लक्ष्मीमनम्वुनि कोऽप्यसौ कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥ पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकविताभाजां काञ्चीपुरोदरसीमया । तटपरिसरैर्नीहारादेवचोभिरकृत्रिमैः किमिव न तुलामस्मञ्चेतो महेश्वरि गाहते ॥ ३६ ॥ नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमक्रियाम् । मरकतरुचो देहे माहेश्वराः स्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरंधराः ॥ ३७ ॥ मनसिजयशःपारम्पर्यै मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनीपिमनोहरं पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥ शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्फालां श्रीकामकोटिमुपास्महे । करधृतलसच्छूलां कामारिचित्तमनोहरां मनसिजकपालीलां लोलालकामलिकेक्षणाम् ॥ ३९ ॥ कलालीलाशाला कविकुलवचाकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुलाध्यमुकुटी । १. 'कालारि' इति क-ख-ग-पाठः, --- पञ्चशती। पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्ग कनकगिरिधानुष्कमहिषी ॥ ४० ॥ नमः स्ताननेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडामरणममृतस्यन्दशिशिरम् । सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ॥ ॥४१॥ असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी- कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम काञ्चीनिलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥ अनाद्यन्ता काचित्सुजननयनानन्दजननी निरुन्धाना कान्ति निजरुचिविलासैजलमुचाम् । स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ ४३ ॥ सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानम्रा स्तवकयतु मे कासिततलं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४ ॥ कृपाधाराद्रोणी कपणधिषणानां प्रणमतां निहन्त्री संतापं निगममुकुटोत्तंसकलिका । परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥ १५ ॥ कवित्वश्रीकन्दा सुकतपरिपाटी हिमगिरे- विधात्री विश्वेषां विषमशरवीरध्वजपटी। १. कनकगिरिणा मेरुणा धानुष्को धनुष्मान् शिवः तस्य महिषी. २. 'तिपते' इति घ-पाठः. ३. मूलधनम् ९ काव्यमाला। सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ १६ ॥ दरिद्राणा मध्ये दरदलिततापिच्छसुपमाः स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः । हराधीना नानाविवुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥ वरीवर्तु स्थमा त्वयि मम गिरां देवि मनसो नरीनतु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जैडिमा नः परजने सरीसर्तु खैरं जननि मयि कामाक्षि करुणा ॥ १८ ॥ क्षणं ते कामाक्षि भ्रमरसुपमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनतु खैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ १९ ॥ पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः । इमां याच्यामूरीकुरु सपदि दूरीकुरु तमः- परीपार्क मत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥ उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् । उपादत्ते मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ११ ॥ श्रियं विद्यां दद्याजननि नमतां कीर्तिममितां गा। १. क्षीणाः. २. 'जडिमान' इति क-ख-ग-पाठः. ३. शत्रुजने. ४. 'मूक' इति क-ख-ग-पाठ..

पञ्चशती। ६७ त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ १२ ॥ मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् । गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपते- ईशां भोग्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥ घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा- न्वशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥ नतानां मन्दानां भवनिगडवन्धाकुलधियां सदान्ध्यं रुन्धानामभिलषितसंतानलतिकाम् । चरन्ती कम्पायास्तटभुवि सवित्री त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥ परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरंदरपुरी- मृगाक्षी कामाक्षी कैमलतरलाक्षी नयतु मे ॥ १६ ॥ अहंताख्या मत्कं कवलयति हा हन्त हरिणी हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौं । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै- रिमामुच्चैरुच्चाटय अटिति कामाक्षि कृपया ।। ५७ ।। बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदैपटिमा । १. 'महान्ध्यं' इति क-ख-ग-पाठः. २. कमलो हरिणविशेषः. ३. 'क्षोम' इति क-खना-पाठः .

६८ काव्यमाला । कथंकारं नास्मै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥ प्रतीची पश्यामः प्रकटरुचिनीवारकोणिश- प्रभासध्रीचीनां प्रदलितपडाधारकमलाम् । चरन्तीं सौपुम्णे पथि परपदेन्दुप्रविगल- सुधाी कामाक्षी परिणतपरज्योतिरुदयाम् ॥ ५९॥ जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्वाचां कविजनकृतान्खैरमारामयन्ती । शम्पालक्ष्मी मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिपदां जृम्भते भाग्यसीमा ॥ ६० ॥ चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां कुन्दस्मेरां कुचभरनतां कुन्तलोद्भूतभृङ्गाम् । मारारातेदनशिखिनं मांसलं दीपयन्ती कामाक्षी तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥ कालाम्भोदप्रकरसुपमा कान्तिभिस्तर्जयन्ती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् । कंदपीरेः प्रियसहचरी कल्मपाणां निहन्त्री काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥ ऊरीकुर्वन्चरसिजतटे चातुरी भूधराणां पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् । कम्पातीरे विहरति रुचा मोघयन्मेघशैली कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥ काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मी- जोड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः। माकन्दश्रीमधुरकविताचातुरीकोकिलानां मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४ ॥ १. इन्द्राद्याः कथ न नमस्कुर्युः. २. 'नीयारकमणि' इति घ-पाठः.

पञ्चशती। सेतुर्मातर्मरकतमयो भक्तिभानां भवाब्धी लीलालोला कुवलयमयी मान्मथी वैजयन्ती । काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली मत्कं दुःखं शिथिलयतु ते मञ्जलापागमाला ॥ ६५ ॥ व्यावृण्वानाः कुवलयदलप्रक्रियावरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् । काञ्चीलीलाविहतिरसिके काहितं नः क्रियासु- वन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ।। कालाम्भोदे शशिरुचि दलं कैतक दर्शयन्ती मध्येसौदामनि मधुलिहां मालिकां राजयन्ती । हंसारावं विकचकमले मञ्जमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥ चित्रं चित्रं निजमृदुतया भर्सयन्पल्लवाली पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान तु जलनिधेः स्वैरसंचारशीली काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिम ॥ ६८ ॥ ताम्राम्भोज जलदनिकटे तत्र वन्धूकपुप्पं तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् । व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या- मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥ आहारांशं त्रिदशसदसामाश्रये चातकाना- मौकाशोपर्यपि च कलयन्नालयं तुङ्गमेपाम् । कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥ १. चन्द्रकला. २ चातकानामाश्रये मेघे, अर्थाकेशपाशे. ३. आकाशशश्न मध्य. भागो लक्ष्यते. तदुपरि एषां त्रिदशानां तुङ्गमालयं मेरुम्. अर्थात्स्तनद्वन्द्वम्, ७० काव्यमाला। आर्दीमूतैरविरलकपैरात्तलीलाविलासै- रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः । कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कवलयतु सा कामकोटी कटाक्षैः ॥ ७१ ।। आधुन्वन्त्यै तरलनयनैराङ्गजी वैजयन्ती- मानन्दिन्यै निजपदजुपामात्तकाञ्चीपुरायै । आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चै- राराध्यायै स्टहयतितरामादिमायै जनन्यै ॥ ७२ ।। दूरं वाचां त्रिदशसदसा दुःखसिन्धोस्तरित्रं मोहक्ष्वेडक्षितिरुहवने तीक्ष्णधारं कुठारम् । कम्पातीरे प्रणयिकविभिर्वर्णितोद्यच्चरित्रं शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ॥ खण्डीकत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुपां शून्यतन्द्रं दिशन्ती । तुण्डीराख्ये महति विपये स्वर्णवृष्टिप्रदात्री चण्डी देवी कलयति रति चन्द्रचूडालचूली ॥ ७४ ॥ येन ख्यातो भवति स गृही पूरुपो मेरुधन्वा यदृक्कोणे मदननिगमप्राभवं वोभवीति । यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेपः ॥ ७९ ॥ धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं निन्द्यां भिन्द्यात्सपदि जडतां कल्मपादुन्मिपन्तीम् । साध्वी माध्वीरसमधुरताभञ्जनी मञ्जरीति- वाणीवेणी झटिति तृणुतात्स्वर्धनीस्पर्धिनी माम् ॥ ७६ ॥ १. शौण्डीर्यम्. शौर्यमिति यावत्. २. चन्द्रेण चूटाला सशेखरा चूली केशपाशो . यस्याः, पञ्चशती। ७१ यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः । यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्कासितानि ॥ ७७ ॥ एका माता सकलजगतामीयुषी ध्यानमुद्रा- मेकाम्राधीश्वरचरणयोरेकताना समिन्धे । ताटकोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकितरुचा तापसी कापि वाला ॥ ७८ ॥ दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयान- मन्दाराणां मदपरिणति मथ्नती मन्दहासैः । अङ्कराभ्यां मैनासजतरोरङ्कितोराः कुचाभ्या- मन्तःकाश्चि स्फुरति जगतामादिमा कापि माता ॥ ७९ ॥ त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवी भारतीम् । मतगकुलनायिका महिषमर्दिनी मातृकां भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥ ८ ॥ महामुनिमनोनटी महितरम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥ जैडाः प्रकृतिनिर्धना जनविलोचनारुंतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते । वचःसु मधुमाधुरी प्रकटयन्ति पौरंदरी- विभूतिषु विडम्बनां वपुषि भान्मथीं प्रक्रियाम् ॥ ८२ ॥ १. 'श्रुतिचरदरोमौलि' इति क-ख-पाठ . २ 'मनसिजरिपो' इति क-ग-घ-पाठ . ३. 'जनाः' इति घ-पाठः. ४. 'मन्मथप्रक्रियाम्' इति क-ख-पाठ..

७२ काव्यमाला। । घनस्तनतटस्फुटस्फुरितकञ्जुली चञ्चली- कृतत्रिपुरशासना सुजनशीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३॥ कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी । मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न यामहे । स्थिरां तनुमहे तरां मनसि किं च काञ्चीरत- स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥ ८५ ॥ सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्विनीकुचतटी च केलीगिरिः । गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥ पवित्रय जगत्रयीविबुधवोधजीवातुभिः पुरत्रयविमर्दिनः पुलककचुलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै- निरक्षरशिरोमणि करुणयैव कामाक्षि माम् ॥ १७ ॥ कदा कालितखेलनाः करुणयैव काञ्चीपुरे कैलायमुकुलत्विषः शुभकदम्बपूर्वाकुराः । पयोधरभरालसाः कविजनेषु ते वन्धुराः पचेलिमकपारसाः परिपतन्ति मार्ग दशोः ॥ ८८|| १. 'मदिने' इति क-ख-पाठः. २. 'निरीक्षणशिरोमणे' इति घ-पाठः. ३. क- लायो धान्यविशेषः, तत्पुप्प नीलवर्ण भवति. 'कलापिमुकुटत्विषः शुभकदम्बपूर्णाहुगः' इति घ-पाठः पञ्चशती। ७३ अशोध्यमचलोद्भवं हृदयनन्दनं देहिना- मनर्घमधिकाञ्चि तत्किमपि रनमुद्दयोतते । अनेन समलंकता जयति शंकराङ्कस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥ परामृतमराल्लता जगति नित्यमन्तश्चरी नृणामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ १० ॥ त्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । त्वमेव किल शांभवी त्वमपि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ।। ९१ ॥ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वति । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥ मनोमधुकरोत्सवं विदधती मनीषाजुपां वयंप्रभववैखरीविपिनवेदिकालम्बिनी । अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चरति कापि चिन्मञ्जरी ॥ ९३ ॥ कलावति कलाभृतो मुकुटसीम्नि लीलावति स्टहावति महेश्वरे भुवनमोहने भावति । प्रभावति रमे सदा महितरूपशोभावति वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९४ ॥ १. वेदारण्यविहारिणी. १० ७४ काव्यमाला। वयैव जगदम्बया भुवनमण्डली सूयते त्वयैव करुणाया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके हूयते त्वयैव किल नित्यया जगति संततं स्थीयते ॥ ९५ ॥ चराचरजगन्मयीं सकलहृन्मयों चिन्मयों गुणत्रयमयी जगत्रयमयी त्रिधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयों परां सततसन्मयी परमचिन्मयी शीलये ॥ ९६ ।। जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा जितशरदम्बुजे धनविडम्बिनि केशरुचा । परमवलम्बनं कुरु सदा पैररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९७ ॥ भुवनजननि भूषाभूतचन्द्रे नमस्ते कलुषशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८॥ मैनोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे। कटाक्षनिगडैडेढं हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥ क्वणत्काञ्ची काचीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः । घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १० ॥ १. 'करुणानिधे इति घ-पाठः. २. 'सुररूप' इति घ-पाठः, ३. अयमप्रिमश्च श्लोकः क-घ-पुस्तकयोनास्ति.

चतुर्वर्गसंग्रहः। ७५ इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नम्बिका जपैरलमलं मखैरधिकदेहसंशोषणैः ॥ १०१ ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्या स्तुतिशतकम् । (समाप्तेयं मूकपञ्चशती।) महाकविश्रीक्षेमेन्द्रकृतः चतुर्वर्गसंग्रहः । प्रथमः परिच्छेद। सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः क्षान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः । भूयात्सत्वप्रसवविलसत्पल्लवः पुण्यभाजां धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥ १ ॥ उपदेशाय शिष्याणां संतोषाय मनीषिणाम् । क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥ धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः सर्वापत्नशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मों बन्धुरबान्धवे एथुपथे धर्मः सुहृन्निश्चलः संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः ॥ ३ ॥ कणे धर्मकथा मुखे परिचितं धर्माभिरामं वच- श्चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः । काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये कल्पापायपदेऽप्युपप्लवलवैरस्पष्टवेलाफलः ॥ ४ ॥ निन्धं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीन बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्यचेष्टः पशूनाम् ।

७६. काव्यमाला। बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस्तत्त्वचर्चाविचारे पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्लेशमेव ॥ ५ ॥ . पाण्डित्यं यन्मदान्धानां परोत्कर्पविनाशनम् । मात्सर्यपांसुपूरेण मातङ्गस्नानमेव तत् ॥ ६ ॥ तत्प्राज्ञत्वं हरति विमलं येन शीलं न काम- स्तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि । तद्वैदग्ध्यं भुवनजयिनी वञ्च्यते येन माया तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन ॥ ७ ॥ अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः । मृतः स एवास्ति यशो न यस्य धमै न धीर्यस्य स एव शोच्यः॥८॥ हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् । यस्मिन्दिने निष्फलतां प्रयातमायुः स कालः परिदेवनस्य ॥ ९ ॥ न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति । न शीलतुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥ १० ॥ सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी पाणौ दानविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ संसक्ता हृदये दयैव दयिता काये परार्थोद्यमो यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्यजीवाः परे ॥ ११ ॥ परप्राणत्राणप्रणिहितधियां धर्मजननी दयैवैका लोके सकलजनताजीवितसुधा । असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयनै- रहिंसा संसारे स्वपरकुशललाध्यसरणिः ॥ १२ ॥ प्राणानां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिनां प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् । १. 'श्रुतिवर्जितः' इति पाठः. २. 'दानविमुक्तता जनमन:-' इति पाठः. ३. 'काले' इति पाठ.. 7 ७७ चतुर्वर्गसंग्रहः। पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा- प्राणानामभयं ददाति सुकृती तेषामहिंसाव्रतः ॥ १३ ॥ स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः । मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरखती ॥ १४ ॥ क्लिन्नं कोषनिषण्णमर्थिविफलं शल्यायते यत्परं वित्तं केशनिमित्तमेव मलिनं यातु स्वयं तत्क्षयम् । यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः स्वार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ॥ १५ ॥ वन्द्यः स पुंसां त्रिदशाभिवन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १६ ॥ परद्रविणनिस्टहः परकलत्रनिष्कौतुकः परप्रणयवत्सलः परनिकारवद्धक्षमः। परस्तुतिविशारदः परगुणापवादोज्झितः परार्तिहरणोद्यतो भवति भूरिपुण्यैर्नरः ॥ १७ ॥ पद्मानामिव सा सतां सगुणता या संश्रयार्हा श्रियः सा श्रीभद्रगजेन्द्रमूर्तिरिव या दानेन विभ्राजते । तदानं नवचन्द्रवद्यदनिशं मानेन संपूर्यते मानोऽसौ तृणवन्न यः परिचयम्लानः शनैः शुष्यति ॥ १८ ॥ लक्ष्मीर्दानफला श्रुतं शमफलं पाणिः सुरारीफल- श्चेष्टा धर्मफला परातिहरणक्रीडाफलं जीवितम् । वाणी सत्यफला जगत्सुखफलस्फीता प्रभावोन्नति- भव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्येव धीः ॥ १९ ॥ शीलं शीलयतां कुलं कलयतां सद्भावमभ्यस्यतां व्यानं वर्जयतां गुणं गणयतां धर्म धियं वधताम् । शान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुति शृण्वतां संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २० ॥ १. 'चयः क्रियामिः' इति पाठः.

काव्यमाला। तीर्थानि दीर्घाध्वपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि । तपांसि मुक्त्वा तनुशोषणानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥ यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी मन्त्री विद्वानवनिवनिताभूषणं भूमिपालः । धर्मोद्याने सुरूतसलिलासारसंसिच्यमाने पूर्णः सोऽयं कृतयुगतरो विनो वीजवापः ॥ २२ ॥ दम्भेन शीलवतमस्टहत्वं विरक्तता श्रोत्रियता मूदुत्वम् । एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥ २३ ॥ यावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति । तत्पुण्यमेकत्र विभाति सर्व महाहमेकत्र च निःस्टहत्वम् ॥ २४ ॥ सतामदैन्यं वदनस्य शोभा निर्लोभतान्तर्वचसामयाच्या । कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥ मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥ २६ ॥ तप्तैस्तीव्रव्रतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा किं दूरैस्तीर्थसारैर्यदि शमविमलं मानसं सत्यपूतम् । यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः किं मोक्षोपाययोगैर्यदि शुचिमनसामच्युते भक्तिरस्ति ॥ २७ ॥ इति धर्मप्रशसा नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः। प्रधानधाम्नां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्नात् । यदाशया निर्गुणभूपतीनामग्रे गुणान्पण्यदशां नयन्ति ॥ १ ॥ दानादिधर्मः क्रियते धनेन धनेन धन्या धनमाप्नुवन्ति । धनविना कामकथापि नास्ति त्रिवर्गमूलं धनमेव नान्यत् ॥ २ ॥ यत्कीर्भटकुक्कुटोत्कटरणक्रीडा समादिश्यते यन्मूखैः सुखलीलया कविशुकालापश्चिरं चय॑ते । -

-
॥
चतुर्वर्गसंग्रहः ।
७९
नीचैरुच्चतरश्च सेवकहयः खाम्येन यहाह्यते
तद्वित्तस्य विलासनृत्तवसतेरुदृत्तसत्तायितम् ॥ ३ ॥
पूजा धनेनैव न सत्कुलेन कीर्तिर्धनेनैव न विक्रमेण ।
रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ ४ ॥
वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्र जयति जीवेति सदा वदन्ति ॥ ५ ॥
ऋझ्या युतं निश्चलपक्ष्मनेत्रं मौनान्वितं देवमिवाकुलीनम् ।
दीनः कुलीनः प्रणमन्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥ ६ ॥
तस्मादलब्धद्रविणस्य लाभे लब्धस्य रक्षानियमे यतेत ।
संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसगै ॥ ७ ॥ (युग्मम्)
धर्माधानोऽशशिशुचियमः प्रेयसीमित्रबन्धु-
स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ ।
लाध्ये देहप्रशमसमये निर्विवादे विभागे
वित्तत्यागे न भवति सतां ग्रन्थिवन्धानुवन्धः ॥ ८ ॥
गोष्ठीविटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः।
स्पर्धा सुवेर्निजत्तिलना प्रधानमेतन्निधनं धनानाम् ॥ ९ ॥
जाया शीलविवर्जिता व्ययवती मायानिकायः सुह-
दुष्पूरो गुरुरर्यभोगनिचयैर्वन्धुर्दरिद्रः शठः ।
दासश्चौर्यपरोऽसलश्च कुपदे पुत्रः खलैः पातितः
सोऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥ १० ॥
दाक्ष्यं वित्तस्य मूलं सुनयपरिचयः संपदुद्यानसेक.
प्रागल्भ्यं रत्नवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।
श्रीरक्षा मनगुप्तिर्विपदुपशमनं वर्जनं दुर्जनाना-
मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥ ११ ॥
हिमासहवं रवितापभीतिः कथामतिर्मार्गजनप्रतीक्षा ।
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विघ्नाः ॥ १२ ॥

: A वेषः परिक्लेशविशेषचिन्ता परोपरोधः ववशावलेपः। नदीफलानामिव शीघ्रगानां हानिधनानां ग्रहणे विलम्बः ॥ १३ ॥ गुरुगणकैरबुधानां क्षयचतुरैश्चौरम्पकैर्वणिजाम् । कायस्थगायनगणैर्भूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥ दारिद्येण कुलं मदेन कुशलं देपेण विद्याफलं शीलं दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः । आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति- र्याच्यादैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥ १५ ॥ मौग्ध्यान्मृगार्थी रघुनन्दनोऽपि बाणः प्रमादाद्वलिरार्जवेन । नलः कुसङ्गेन ययातिजश्च क्लेशासहत्वाद्व्यसनान्यवापुः ॥ १६ ॥ मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः क्लेशभीरुता । पञ्च संकोचदा दोषाः पद्मिन्या इव संपदः ॥ १७ ॥ कुभूपकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् । असंहतैरिन्द्रियनामधेयैः पुंसां पयांसीव परिस्रवन्ति ॥ १८ ॥ सारखादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं दीपे रूपरताः प्रयान्ति सततापातात्पतङ्गाः क्षयम् । गीतेनैव मृगाः पतन्ति करिणीस्पर्शन नीता गजा- स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपतिका ॥ १९ ॥ कुलं कुवृच्या कलुषीकृतं तैः कृतो गुणौघस्तुणतुल्यमूल्यः । मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं यैः ॥ २० ॥ जातः सत्कुलजः स नीचविनयी सेवावमानैरध- स्तस्योग्रं पतितः स्वमानयशसोद्रोहेण शापानलः । तेनास्वस्तिमता स्वहस्तनिहितं याच्याविषं भाक्षितं वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितुम् ॥ २१ ॥ धावन्सेवितुमेति साधुरधमं वन्ध्यस्ततो यात्यसौ नीता मूल्यतुलां गुणाश्च गुणिभिः कश्चिन्न गृह्णाति तान् ।

t याच्या मानमहाशनिर्धनकता प्राप्तं न किंचित्तया किं किंवा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥२२॥ विद्याकलापरिचयः क्षितिपालसेवा दिग्द्वीपमार्गगिरिसंभ्रमणप्रयासः । युद्धक्रियाश्च भुवि भोजनलाभलोभा- त्तद्वित्तलभ्यमिति वित्तवतां प्रवादः ॥ २३ ॥ तावद्धर्मकथा मनोमवरुचिर्मोक्षस्टहा जायते यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् । प्राप्ते भोजनचिन्तनस्य समये वित्तं निमित्तं विना धर्मे कस्य धियः स्मरं स्मरति कः केनेक्ष्यते मोक्षभूः।। २४ ॥ अर्थाष्टिं विधातुं कटुरटनपटुम्भिकः श्रीजडानां जानात्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाठेवलज्जः । आर्यः कुर्यान्न सेवां कुलविनयगुणैस्तेन मूकोऽर्थनायां तीक्ष्णानां मार्गणानां भवति हि पुरतः मापतेर्लक्षलाभः ॥ २५ ॥ इत्यर्थप्रशसा नाम द्वितीयः परिच्छेदः । तृतीयः परिच्छेदः । ललितललनालीलोदश्चद्विलोलविलोचनो- पलवनरुचां चञ्चन्तीनां चयैरिव चर्चिता । सुरभिसुहृदः पक्षच्छायावृतेव च षट्पदैः कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १ ॥ भ्रमझमरकेतकीविकसदेकपत्रप्रभाः सनीलमणिनायका इव विमुक्तमुक्तालताः । दशः शशिकला इव प्रचितपक्ष्मलेशासिता जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥ ऋतुं धनानां फलमयमाहुः फलं ऋतूनामविवादि पुण्यम् । पुण्यस्य पूर्ण फलमिन्द्रलोको द्विरष्टवर्पाः स्त्रिय एव नाकः ॥ ३ ॥ ११ -- ८२ काव्यमाला । एताः सन्ति वविलासकुटिला भ्रूकार्मुकश्रेणयः कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेपवः । निर्दग्धोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा- त्संरम्भादविचार्य केवलमसौ मिथ्या तपस्वी स्मरः ॥ ४ ॥ लज्जावको मनसिजधनुर्भूविलासेन तन्व्या- श्चिन्तापाण्डुः स्टशति कृशतां वक्रकान्त्या शशाङ्कः । यात्येवाधः प्रहासितरुचिर्दोलताभ्यां मृणाली क्लीवं धत्ते कुवलयकुलं कालिमानं कटाक्षैः ॥ ६ ॥ अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः । सोढानि यैः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ।। ६ ॥ कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवोः शशिशतमयी वक्रे गाने मृणाललतामयी। मलयजमयी स्पर्शे तन्वी तुषारमयी स्मिते दिशति विषमं स्मृत्या तापं किमनिमयीव सा ॥ ७ ॥ स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां कुरव इव कटाक्षाः प्रौढशल्या मनांसि । भुवनजनजिगीपोत्साहयोगाय येपा- मधिचपलतराणां निश्चला कर्णमैत्री ॥ ८॥ स्तनस्थली हारिणि सुन्दरीणां नितम्वविम्बे रशनासनाथे। धत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९ ॥ कान्ताया विलसद्विलासहसितस्वच्छांशवश्चामरं संसक्तावभिपेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ । यत्कार्तिस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्ताम नासादितानि वनवासदृढव्रतेन तुम् ॥ २१ ॥ चित्राणि नेत्रचरितानि मृगैर्मगा। कश्चिन्न गृह्णाति तान् । -- तत्कान्तिरुज्ज्वलरुचिव्यसनादहो नु हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥ अभिनवपयोधरोद्गतिविषमस्थितिहारहंसमुखपतिता। शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥ नेयं तरुण्यास्त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः । स्नात्वा गतोऽस्यां स्मरकेलिवाप्यां कलङ्कलेखामपहाय चन्द्रः ॥१३॥ कणे कोकिलकामिनीकलरवः संतप्तसूचीचयः फुल्लाशोकपलाशचम्पकवनाशुद्दामदावानलः तन्वङ्गया विरहे वसन्तसमयः कालः किमन्यन्नृणां देहोचाटनमेव षट्पदघटाघ्राणातिथिर्मन्मथः ॥ १४ ॥ आपाण्डुता मदनकीर्तिसखी मुखेन्दौ प्रौढि विभर्ति विरहे हरिणायताक्ष्याः । अच्छिन्नबाष्पविसरारुणनेत्रकोण- लीनप्रतापमिव मन्मथमुद्रहन्त्याः ॥ १५ ॥ वियोगे तन्वङ्गया हृदयदमने दैन्यसदने घने भर्तृस्नेहान्मदनदहने धैर्यचलने । समासन्ने चिन्ताव्यसनशमने प्राणगमने तनुस्तापम्लाने वलति नलिनीपत्रशयने ॥ १६ ॥ दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि । एतैः संभ्रमकातरे किमधुना मिथ्यासमाश्वासनैः संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥ १७ ।। समायांते पत्यौ बहुतरदिनप्राप्य पदवीं समुलवयाविनागमनचतुरं चारुनयना । यिते मरुस्थलमुवामुवीक्ष्य दुर्लङ्ग्यता तन्वद्या परितोषवाप्पतरला. क्रतुं धनानां फलेग पीलुशमोकरीरकवल स्वेनाञ्चलेनादरादुन्मृष्ट करभस्य केसर- पुण्यस्य पूर्ण फलमिन्द्र- समायाते' इत्यादिक्षमन्द्रश्लोकस्त्वस्य च्छायारुपः. नफुल्लकवेरय श्लोक. सुभाषितावलि-सूक्तिमुक्तावलि-शाघ- . ११ काव्यमाला। . .. स्वयं हषीद्वाप्पा हरति तुरगस्यादरवती रजः स्कन्धालीनं निजवसनकोणावहननैः ॥ १८ ॥ वासः कम्पविशृङ्खलं वितिलकं स्वेदोद्मादाननं संदष्टोऽधरपल्लवः कलयति श्वासोष्मणा म्लानताम् । दूति त्वद्वचने शठस्य कठिनस्याग्रे गते कुण्ठतां मत्स्नेहाद्विहितस्त्वया कुपितया क्लेशप्रवेशः कियान् ॥१९॥ व्याप्तास्वशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु । रुद्वासु जालैर्वनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥ २० ॥ विकसति सहकारे दुःसहे कर्णिकारे मधुकरपरिहारे सस्मिते सिन्धुवारे । अहह विरहभीत्या कामिनी कण्ठलग्नां त्यजति नववसन्ते हन्त कापालिकः कः ॥ २१ ॥ तन्वङ्गया नवसंगमे व्यवसिते कान्ते बलान्मेखलां मोक्तुं श्वासविकासकम्पविकलाः कण्ठे लुठन्त्यः सुधाम् । मीलत्पानिपीडितालिरणिता क्लीवाः(१) किरन्ति क्षणं धन्यानां नननेति निःसहतया हुंकारगर्भा गिरः ॥ २२ ॥ गाढालिङ्गननिश्चलाङ्गलतिका कान्तेन रुहा बला- दालम्ब्यालकवल्लरी विदधता वाम्बुने चुम्बनम् । कम्पप्रस्फुरितारुणाधरदला वाला निमील्याक्षिणी मन्ये मानसजन्मजीवजननं जप्यं समभ्यस्यति ॥ २३ ॥ केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी- मौनोन्माथष्टथुप्रथा विरहिणीनिःश्वासपक्षानिलाः । सह्यन्ते रतिवल्लभस्य लटमानेत्रान्ततीक्ष्णानना संदष्टाधरपल्लवाग्रतरुणीसीत्कारशूत्कारिणः ।। २४ ॥ आयुर्दीर्घतरं तनोतु नयनद्वन्दं कुरङ्गीदृशां कीर्ति ते स्मितसंततिः स्तनतटोणी विशालश्रियम् ।

८५ चतुर्वर्गसंग्रहः । देवस्य त्रिजगज्जयाय पटहे दत्ते मृगाक्षीगुरो- रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥ २५ ॥ इति कामप्रशसा नाम तृतीयः परिच्छेदः । चतुर्थः परिच्छेदः । भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं काम काममकामधामसमयं योगं वियोगानुगम् । रोगोगारविकारपाकविषमं निर्मूल्यनेत्रव्यथाः सेकं मोक्षफलस्य संशयतरोरेकं विवेकं नुमः ॥ १ ॥ उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा कस्येदं न सुखाधिकं सुखसखी प्रीतिं परां वर्षति । किं त्वेतत्खलसङ्गसर्परसनामातङ्गकर्णाचल- प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २ ॥ वाल्यं दुःसहमोहसंहतिहतं रागोल्वणं यौवनं वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम् । वैराग्येण विना विनष्टविमलालोकं सशोकं सदा संसारे सरतां पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥ दृष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् । सापि गता सोऽपि गतस्तदपि गतं स्वप्नमायेयम् ॥ ४ ॥ पुनःपुनर्जन्मसहस्रहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः । पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥ ५ ॥ आक्रान्तं पिशुनैनरेन्द्रभवनं विद्यागृहं मत्सरै- रायासैद्रविणं कुलं कुतनयैर्नानावियोगैः सुखम् । साधुत्वं खलवञ्चनापरिभवैश्चिन्तासहस्रर्मन- स्तन्नास्त्येव न यत्सरोषकलुषं निर्दोष एकः शमः ॥ ६ ॥ भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं दास्ये खामिभयं गुणे खलभयं वंशे कुयोपिद्भयम् ।

काव्यमाला। माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं सर्व नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ।। ७ ॥ कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः परं भवपराभवोद्धरणधीरधुन ते । भजन्ति जननीजतप्रसृतदुग्धधाराधन- स्तनप्रणयि तत्पुनर्दशनशून्यमास्यं नराः ॥ ८ ॥ उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि । अहो नु मानानि धनानि पुंसां धनानि निद्रासुखसाधनानि ॥ ९॥ विवेकस्वाधीने विजनगमने जन्मशमने विकारे संसारे व्यसनपरिहारेऽपि सुकरे । परं लज्जा साधोः प्रसवसमये शोणितमये पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥ १० ॥ आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनाम्नि च्युताः । चित्तं नास्ति सचेतसामपि निजाक विमर्षः क्षणं रत्यन्येषु पराङ्मुखत्वमनिशं प्राप्नोति नायं जनः ॥ ११ ॥ केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते । कायश्मशाने रमतेऽङ्गनानां कामाकुलः कामुककाकलोकः ॥ १२॥ अहो तृष्णा वेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ १३ ।। वाल्यं कुलीरजननीजनकप्रमोहं तद्यौवनं कुलटमासुभगोपयोगम् । वृद्धत्वमप्युपचितं कुकलत्रपुत्रैः सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४ ॥ १. 'दक्षैः समतरलहारैः' इति पाठः.

७ चतुर्वर्गसंग्रहः । न कस्य कुर्वन्ति शमोपदेशं स्वप्नोपमानि प्रियसंगतानि । जरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥ १५ ॥ चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः किं तैर्याति विशालकालकलनामीलत्कथाकौतुकैः। गण्यन्तां खडशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः स्मर्यताम् ॥ १६ ॥ यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी यदा खप्नोन्मेषा तनुघनतडिद्यौवनरुचिः यदा कालः कामं जनजलजकिञ्जल्कमधुप- स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥ संतोषाम्भः पिवति निभृतवच्छमिच्छामयूरी भ्रान्ता चान्तःकरणहरिणो याति विश्रान्तिमन्तः । लीनश्चायं शमतरुजले शीतले तापतान्ति मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥ १८ ॥ याते भोगे स्मरणपदवीं सक्तनानावियोगे शोकः स्तोकं स्टशति न मनः सर्वथा निर्व्यथानाम् । काले काले किल कलयतामन्तवत्सर्वमन्तः प्रायः कायक्षयपरिचये निश्चये निर्मरं नः ॥ १९ ॥ यातु व्यक्तिं कुसुमसमयः संचयः सौरभानां खे खेलन्तो मलयनिलयाः संततं वान्तु वाताः। कामः कामं क्षपयतु धृति पक्ष्मलाक्षीकटाक्षः शान्तिश्चित्ते स्थिरसुखसखी निर्विकारे ममास्तु ॥ २० ॥ जरानिगीणे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने । धनावदाने शिथिलाभिमाने धृतिनिधाने प्रशमाभिधाने ॥ २१ ॥ रागेण साधं वयसि प्रयाते गतेषु भोगेषु सह स्टहाभिः । देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥ १. 'सतताः' इति पाठ..

८८ काव्यमाला। चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहवन्धचपलं पुप्पस्मितं यौवनम् । स्वप्नं वन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपा नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥ २३ ॥ अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः समावज्ञामानः सशसुखदुःखव्यतिकरः । न मौनी नामौनी वनजलसमानासनमना न दैन्यं नादैन्यं स्टशति गुणनैगुण्यविरतः ॥ २४ ॥ सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता नो कान्ताकुचमण्डलस्य सुलभा चन्द्रे दरिद्रे कुतः । गीते संगतिरेव नास्ति समता तस्यां न सिद्धामधो- नैराश्ये सहसैव चेतसि कृते या प्रीतिरुज्जृम्भते ॥ २५ ॥ लब्धावधिः सत्यसुखामृतस्य नवप्रमोदाबुतपूर्णकामः । भारावतारादिव निर्वतोऽहं त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥ धनार्जनविचिन्तनं हृदयरोपिताशावनं वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननं विहाय गृहमन्जनं व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥ नास्ति स्वस्तिकरः परः परिभवो धर्मात्मनां प्राणिना- मापत्तापशमक्षमं धनसमं नान्यत्क्रियाजीवितम् । संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना- सर्वक्लेशविनाशनिर्वृतिरसः को नाम मोक्षात्परः ॥ २८ ॥ चतुर्वर्गोपदेशेन क्षेमेन्द्रेण यदर्जितम् । पुण्यं तेनास्तु लोकोऽयं चतुर्वर्गस्य भाजनम् ॥ २९ ॥ इति मोक्षप्रशसा नाम चतुर्थः परिच्छेदः । समाप्तोऽयं चतुर्वर्गसंग्रहः। १. 'वातविलासिपांसुसदृशं वित्तम्' इति पाठः, २. 'गेहदीपचपलम्' इति पाठः. -

अन्योक्तिशतकम् ।
८९
भट्टवीरेश्वरकृतम्
अन्योक्तिशतकम् ।
प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुह्य-
न्गङ्गासंपातजातभ्रमभरविवशो विक्षिपल्लोचनानि ।
आकर्षन्मौक्तिकाली गिरिवरदुहितुः कण्ठसीमात उच्चैः
प्रातः श्रीहैमवत्या तदनु विहसितो लज्जितः पातु शंभुः ॥ १ ॥
पत्रं मुग्धतरं फलं सुमधुरं सौरभ्यमभ्युन्नतं
चञ्चत्काञ्चनजित्वरं पुनरहो लत्केसरं सुन्दरम् ।
लावण्यं पुनरुत्तमं किमपरं किं तु स्फुरत्कण्टक-
व्यग्रं नालमिदं सरोरुह परं तेनातियामहे ॥ २ ॥
यस्मिन्स्फीतमहो निपीतमधुना दिव्यं मधु खेच्छया
नीतान्येव दिनानि केलिभिरहो संयापिता शर्वरी ।
तस्मिञ्शीतनिपातजातविकले मल्लीकुले किं वृथा
हा हा हन्त कृशो मधुव्रत हशोरेवंविधोऽनुग्रहः ॥ ३ ॥
सर्वाङ्ग ब्रणितं मुहुविलुलितं सूचीदलैलोचनं
धूलीमिः कलितो द्विरेफ भवता लब्धो रसः केतके ।
अद्यापि स्फुटमेव गुञ्जसि परं नो वुद्ध्यसे तत्कथं
त्वां वच्मि प्रसभं ततो विलुठितो भूमौ परं ज्ञास्यसि ॥ ४ ॥
व्याघूर्णन्नवकुम्भिकुम्भयुगलं व्यालम्ब्य गुञ्जस्यलं
दानादानधिया मदोन्मदतनुर्युक्तं किमेतद्वद ।
नो जानासि दुरन्तदन्तविदलत्मोद्दण्डशुण्डाभर-
व्याघातोत्पतदङ्गभङ्गविकलः प्रौढव्यथां भृङ्ग हे ॥ ५ ॥
पेयं पङ्कजकोरके मधु नवं नेयं दिनं निर्भर
केलीभिनिभृतं सुखेन सहसा मंयापनीया क्षपा ।
कि तु प्रेमपिनद्धमुग्धविदलत्सौरभ्यभव्योदयो
नो हेयो नितरां मधुव्रत सुधासङ्गी लवङ्गीरसः ॥ ६ ॥

९० काव्यमाला। A माध्वीकं परिपीय पङ्कजवने विभ्रष्टबुद्धिः परं वारंवारमहो विचाररहितो भूयश्चिरं गुञ्जसि । नो जानासि सुगन्धवन्धुरदलां लावण्यलीलाकुलां स्निग्धान्तःकरणां मधुव्रत मनाङ्मल्लीमतल्ली पुनः ॥ ७ ॥ प्रोद्दामातुलचण्डधामबहलज्वालाकलापाकुले शून्ये सप्रति निर्जले पुनरहो निर्वीरुदुर्वीतले । एतस्मिन्समुपागतो गजपति वेत्तदा निर्भर धाराभिर्धरणीतलं यदि मनाग्धाराधरः सिञ्चति ॥ ८॥ यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा- नोदेति प्रसभं तमांसि विदलन्सानन्दमुच्चैस्तराम् । तावद्धोरघनान्धकारमिलितो झिल्लीरवाहादितो विद्युत्पुञ्जविजृम्भितोऽम्बरतलं खद्योत विद्योतय ॥ ९ ॥ फुल्लत्कैरवकोषनिर्गतसुधासंसक्तभृङ्गाङ्गना- मक्षुध्वानधुरीणशीतकिरणे जागर्ति मुग्धाम्बरे । मन्येऽहं निविडान्धकारपटलीसंलीनसर्वाकृतेः खद्योतस्य हतप्रमस्य कियती शक्तिः समुन्मीलति ॥ १० ॥ खच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः कुन्दे चापि तथा द्विरेफ कुमुदेऽथानन्दमङ्गीकुरु । किं वेतस्य कदापि केतकतरोर्मा गाः समक्ष यतो धूलीभिर्घनकण्टकैश्च नितरां संवर्धितो वर्तते ॥ ११ ॥ नासौ पश्यति मालती नहि मनाक्प्रेमाणमालम्बते चञ्चच्चम्पककोरकेपु कुरुते मोदं न मल्लीकुले । स्मारं स्मारमुदारकेसरलतां नालोकते पद्मिनी क्षामः किं तु मधुव्रतोऽयमधुना गुञ्जन्मुहुर्भ्राम्यति ॥ १२ ॥ नैवालोकि सरोजिनी नहि मनाग्गुञ्जारवैस्तोषिता जातिः किं च गलन्मरन्दमधुना नालिङ्गिता मालती ।

अन्योक्तिशतकम्।
९१
-
चित्रं किं तु मधुव्रतेन सहसा संपादिता सांप्रतं
भिन्ना रीतिरियं लवङ्गमुकुलान्यालोक्य मन्यामहे ॥ १३ ॥
कोपं मा कुरु कुन्दवल्लि सहसा मा दैन्यमङ्गीकुरु
स्थाता कत्यपि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।
किं वातः परमस्य पश्य विदलन्माध्वीसमृद्धिः स्फुर-
न्मन्दस्यन्दसुगन्धितुन्दिलदला जाता लवङ्गीलता ॥ १४ ॥
सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनो
केयं निर्भरदीनता व मधुरव्याहारतारध्वनिः ।
एक सेवय सौरभं परिमलप्रोद्भिन्नमन्दानिलं (2)
यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५ ॥
लावण्यं वचनातिगं पुनरहो सौरभ्यमुच्चैस्तरां
शैत्यं शीतलभानुविद्रवकरं किं वापरं पश्य रे ।
उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो
भ्रातर्मुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥ १६ ॥
वं चेच्चम्पककोरके न कुरुपे प्रेमाणमेतावता
का हानिनहि तस्य कृत्यमपि रे किंचित्पुनस्यते ।
तेनैवास्य तु वैभवं मधुप हे यदूषयन्ति स्फुटं
केलीमन्दिरदेहलीपरिसरे कर्णेषु वामभ्रवः ॥ १७ ॥
स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोषक:
पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभव्योदयः ।
किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्मादशा-
मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥
सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चैस्तरां
यद्यप्यस्ति नवीनशैत्यसुषमासंपत्तिरन्याशी ।
सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे
फूत्काराकुलभोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥ १९ ॥

" काव्यमाला। or । एकस्मिन्मलयाचले निवसता क्रूराशयेनामुना भिल्लेन त्वमिहादतो यदि न चेत्का हानिरेतावता । भ्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः ॥ २० ॥ मा संतापमुरीकुरुष्व कठिनो लोकप्रकारोऽधुना मना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम् । मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः स्निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥ २१ ॥ शेफालीरुचिरप्रफुल्लकलिकामाध्वी पिव त्वं मुदा वारंवारमुदारकुन्दविदलत्पीयूषमाखादय । सानन्दं विहरारविन्दविपिने किं तु प्रभूतोदयो भ्रातर्भूङ्ग लवङ्गसङ्गजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥ नो पत्राणि चलानि हन्त कुरुषे गुजारवं नो मना- ग्धत्से नैव पुनः वयं चलसि रे किं तु स्फुटं सर्वतः । सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं तत्कि कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर ॥२३॥ हित्वा सौरमसारसुन्दरदलां माध्वीकमुग्धप्रभा मल्ली मालतिकां मदालसतया भ्रान्त्या मुहः संभ्रमन् । गुञ्जन्गन्तुमुरीकरोषि मधुप त्वं पङ्कजानां वने नो जानासि विमुद्रिते कमलिनीवन्धौ पुनर्वन्धनम् ॥ २४ ॥ मन्दं मन्दमहो मधुव्रतवचोविन्यासमञ्जूक्तिभिः सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी । सोऽयं कर्णविकारकर्मकुशलैः कारण्डवानां रवै- रुन्निद्रः सहसा करैः कमलिनीमुन्मूलितुं वाञ्छति ॥ २५ ॥ मुक्तानामसि नायकस्त्रिजगतामानन्दकन्दस्थली ज्योत्स्नानाथजनिर्जनैकशरणं मन्दाकिनीवल्लभः ।

अन्योक्तिशतकम् ।
९३
'किं वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः
क्षारं यत्तव जीवनं प्रतिदिनं तेनैव यामहे ॥ २६ ॥
सूते हन्त हलाहलं जलनिधि ल्पन्ति ये मानवा-
स्ते जल्पन्तु परं तु नैव कृतिनामेतेन कापि क्षतिः ।
सत्येवं गुणसंनिधौ क्वचिदहो तेनैव ते गौरवं
यत्त्वां वन्यकुरङ्गसुन्दरदृशो जल्पन्ति रत्नाकरम् ॥ २७ ॥
स्फारोत्तुङ्गतरङ्गपीवरकरैराकृण्य रत्नोत्तमं
यत्वं जीवनमध्यतः क्षिपसि रे दूरे धरित्रीतले ।
युक्तं तज्जलनाथ नाथ कलय प्रोच्चैः प्रसादात्त्वया
लब्ध हन्त जगत्रयेऽपि सकले रत्नाकरत्वं पदम् ॥ २८ ॥
उत्पत्तिर्जलधौ सुधासहचरी ज्योत्नाभिरामा तनुः
स्थानं व्योम कुमुदतीपरिढश्चन्द्रेति नाम स्फुटम् ।
सर्व चारु तथापि हन्त कठिना यत्त्वां कलकाङ्कितं
जल्पन्ति प्रतिवासरं सुरगणास्तेनातियामहे ॥ २९ ॥
ज्योत्स्नाविभ्रमभारसाररुचिरे पद्मालयावान्धवे
लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये ।
मुग्धाकोमलमुग्धवक्रकमलस्पर्धाकरे पद्मिनि
त्वं चेच्छीतकरे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ३० ॥
फुल्लत्कैरविणीपरागरुचिरा दिमण्डली श्रूयते
कोकानामपि मानसं कलुषितं किचिद्विजानीमहे ।
मन्दं पश्चिमपर्वताञ्चलपुटे श्रीमान्गतो भानुमा-
स्तत्सत्यं रजनीपतेः समुदयो जातः पर मन्महे ॥ ३१ ॥
शेते रङ्कुरयं सुखेन निभृतं पीयूपमश्नन्मुदा
मत्वैवं सहसा चकोरशिशुना संसेवितं सादरम् ।
को जानातु कुमुद्वतीपतिरसौ पीत्वा भृशं वारुणी
हा हा हन्त धनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥

९४ काव्यमाला। ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूपगभैः करै- रामोदं कुमुदे दधासि बहुशः संजीवयस्यौपधीः । सर्वं तत्सुखदं परं तु नितरामेतेन दूयामहे नीहारैः कवलीकरोषि लवलीटन्दानि शीतयुते ॥ ३३ ॥ सानन्दं धनगह्वराणि सहसा संगाहसे निर्भर भूयः सौरभजातमप्यनुदिनं गृह्णासि यत्तद्वरम् । किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना- ग्यत्त्वं तत्र करोषि नैव सदसवयक्तेविवेकक्रियाम् ॥ ३४ ॥ शुष्काः संप्रति निम्नगास्तत इतो नालोक्यते जीवनं भूयः कापि न वापिकापि नितरां जाताविलं पल्वलम् । ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे मन्दं संचल भेकशाव समभूत्कालः करालो महान् ॥ ३५ ॥ एषा सीदति सुन्दराम्बुजवनी गुजहिरेफाङ्किता चञ्चत्केसरनिर्यदुग्रवहलव्यामोदमेदखिनी । स्फारोत्तुङ्गकरीन्द्रदुर्वहकरप्रौढाभिघातैः परं विध्वस्ता परितो विभाति पुरतो विभ्रष्टपत्राम्बरा ॥ ३६ ॥ प्रोन्मीलन्सुरनिम्नगापरिपतहीचीचयव्याहत- व्याधूतानिलसंचलजलमिलद्गात्रोऽप्यसौ षट्पदः । स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित- प्रोत्तुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७ ॥ हन्तासीत्परितो नवीनजलदप्रोत्तुङ्गधाराजलैः पूर्णानेकसहस्त्रपङ्कजदलैः कीर्णा नदीयं पुरा । सेयं संप्रति चण्डभानुविलसच्चण्डातपप्रोच्छल- ज्ज्वालाजालविलुप्तजीवनभरा हा हन्त संताम्यति ॥ ३८ ॥ नोच्चैजेल्प मनाग्यतस्व सहसा कुछे निलीय क्षणं गन्तुं कीर वदामि मास्तु मधुरव्याहारतारध्वनिः ।

अन्योक्तिशतकम् । ९६ काकोलादपि दारुणैरनुचितारम्भाग्रणीभिः परं रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥ ३९ ।। प्रोद्यत्प्रौढमहीमहेन्द्रभवने प्रोतुङ्गसौधाङ्गणे गत्वा काक वराक किं कलयसे साम्यं मरालैः समम् । छिन्द्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः सम्यक्पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४० ॥ लोके दृष्टमिदं मया बहुतरं हंहो न सन्त्येव ते ये विन्दन्ति सखायमुत्तमगुणं मित्रकचित्ते रतम् । शम्बूकैः कलयन्ति केलिकुतुकं वापीपु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ४१ ॥ क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी शीतांशोभगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः । एकैकं वचनातिगं जलधिजे सर्व विजानीमहे चाचल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥ ४२ ॥ दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा- पातैरेव महोक्ष गर्नसि मुधा किं गजितेनामुना । तावत्संचर यावदाशु न मनागादाय सीरं हठा- त्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥ त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो हित्वा कत्यपि काननानि दिवसप्रान्ते द्विरेफो युवा । त्वं त्वेनं समुदीक्ष्य पत्रनिकरानाकुच्य यद्गोपनं वक्रत्याशु करोषि पद्मिनि न तद्युक्तं प्रतीमो वयम् ॥ १४ ॥ दूरे तिष्ठति काननं नहि मनाडीरं समालोक्यते क्रूरः संप्रति वालुकापरिकरश्चण्डांशुरत्युन्नतः । भूरेषा मरुरेव संप्रति कथं गन्तव्यमेकाकिना मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्भुनीते शिरः ॥ ४५ ॥ N . ९६ काव्यमाला । - 11 दिक्चक्रं करिशाव दावदहनैर्दग्धं पुरो दृश्यते छाया क्षीणतरा क्षमापि समभूद्दूरे न नीरं क्वचित् । चित्रं चण्डचलत्प्रचण्डकिरणज्वालाकुलाङ्गो मुधा मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ १६ ॥ शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तरं भूरुहां कुचं किं च समाश्रयन्ति हरिणा लीना वराहाः क्वचित् । उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७॥ उच्चैश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी पश्चाद्धोरदवाग्निगर्वगरिमोद्रिक्ता धरित्री पुरः । कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति- मत्वैवं हरिणीविलोकनघनीभूतोऽभवत्कुण्ठितः ॥ १८ ॥ कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया भुक्त्वा पङ्कजकोरकांश्च परितो भृङ्गैः समावेष्टितः । यावद्याति करेणुकाकटतटीकण्डूयने केवलं तावत्तीव्रहरीन्द्रदुर्वहकरैः क्षुण्णोऽभवत्कुञ्जरः ॥ ४९ ॥ यः पूर्व नवदानदर्पिततनुर्दन्तेन दन्तावलां- चूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि । क्रीडन्नेव समागतो विधिहतो हा हन्त नीराशये पङ्के मनकलेवरः करिवरः सोऽयं शनैस्ताम्यति ॥ ५० ॥ अन्यं काननमाशु गच्छ तरसा वन्यं फलं भक्ष्व रे धन्यं धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु । एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥ ११ ॥ निद्रामुद्रितलोचनः प्रतिपदं छायातले भूरुहां प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्रिक्तरक्तारुणः । - अन्योक्तिशतकम् । सिंही जानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी निद्राति प्रतिवासरं मुखमिति ध्यायन्करी कम्पते ॥ १२ ॥ शून्यं काननमा निरीक्ष्य तरसा चीत्कृत्य गाढं हठा- न्मातङ्गाधिप मानसे वत वृथा गर्वोद्गमं मा कृथाः। जानीमो वयमद्य कुञ्जरघटाविक्षोभकारी पुनः पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वै भयम् ।। ५३॥ कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय त्वं मुदा । हेलाखण्डितकुम्भिकुम्भविगलद्वकारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान्स्थाता तदा मन्महे ॥ १४ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं प्रेक्ष्यातुरां पद्मिनी राकाशारदशीतरश्मिकिरणैराबद्धमुग्धाननाम् । कि तु त्वं भ्रमसि विरेफ विदलन्माध्वीकधाराधरे सानन्दं नवमल्लिवल्लिनिकरे गत्वाद्य तृप्ति भज ॥ ५५ ॥ मन्दं पश्चिमशैलमौलिमुकुटालंकारभूतो रविः संध्याकर्वरितं नमः कलुषिता ध्वान्तः परं दिक्तटी । एका पङ्कजिनी सुधाकरकरैर्भीता परं मुद्रिता तत्कि संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ।। ५६ ॥ भृङ्गाणां नवनीरजानि विदलत्सौरभ्यलोभ्यान्यलं मल्लीकेसरचम्पकानि नितरां तिष्ठन्ति पुष्पाकरे । एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर- प्रस्यन्दन्मकरन्दतुन्दिलदलो माकन्दभूमीरुहः ॥ १७ ॥ धैर्य वायस धार्यतां समुचितो नोद्वेगभारस्त्वयि प्राणान्मुञ्चसि किं वृथा पिकसुतैः पुत्रत्वमायाति रे । जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा परं हित्वा नीरनिधि लसन्ति निधयो वापीषु काचित्स्वपि ॥२८॥ १३ .

काव्यमाला । शैत्यं शारदशीतरश्मिकिरणादप्युत्तमं तादृशं सौरभ्यं वचनातिगं जगति ते श्रीखण्ड सर्वं वरम् । किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा- दुन्मूल्याशु करैः करोति तरसा शुष्कन्धनं लीलया ॥ १९ ॥ आस्ते नो सुपमा न चापि कुसुमामोदो हि नो वा मना- क्चातुर्य मकरन्ददानविषये किं चातुरीयं पुनः । यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुजारवै- माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ६ ॥ क्षिप्रं मुञ्च कुरङ्ग काननमिदं रे ताण्डवं मा कृथाः किं ते वैभवविभ्रमेण तरसा गात्राणि संरक्षय । आस्तां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं क्षीणाङ्गः क्षितिमण्डलोपरि पुननों चेत्क्षयं यास्यसि ॥ ६१ ॥ त्वामाधाय निजोदरे कमलिनी चक्रे न माध्वीरसै- नित्यं कोमलकेसरैस्तव पुनः किं किं मनोवाञ्छितम् । त्वं त्वेतां कलकूजितैरपि मनाङ् नो भावयस्यातुरां तत्कि साहजिकं मधुव्रत मनाक्त्यक्तुं रसं वाञ्छसि ॥ ६२ ॥ जाता नैव तृपा कशा न समभूत्तापापकर्षक्रिया नो वा लोचनपङ्कजैरपि मनागालोकि किं चाधिकम् । क्षुभ्यदोरतरारवैः प्रतिदिश झञ्झानिलैीविता सेयं नीरदमण्डलीति कलयश्चञ्चत्यलं चातकः ॥ ६३ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं हित्वा मनाम्यूथिका स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य धैर्य हृदि । आयाते खलु माधवे प्रविदलत्सौरभ्यलोभास्पदे नूनं ते शरणं स एव भविता माकन्दभूमीरुहः ॥ ६४ ॥ साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे कां कीर्ति कथयामि ते त्रिभुवने जागर्ति ते संस्तवः ।

अन्योक्तिशतकम् ।
९९
किं वा पुण्यमितस्तवास्ति विमलं पीयूषधारामरं
चन्द्रे पासि निरन्तरं कमलिनीढग्गोचरेऽपि स्फुटम् ॥ १५ ॥
आध्माताः प्रतिदिङ्मुखं सरमसं गर्जन्त्यमी वारिदाः
प्रौढध्वानधुरंधराः प्रतिपदं चञ्चन्ति विद्युच्छटाः ।
भूयो मत्तमहामयूरनिकराः कूजन्ति केकारवै-
स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो वासरः ॥ १६ ॥
भूयो निर्भरसर्वगर्वगरिमा मुग्धाङ्गनानां मुदा
चञ्चञ्चम्पककोषचम्वितमना वात्यद्य मन्दानिलः ।
नो युक्तं सहसान्यतः प्रचलितं हे पान्थ चित्तव्यथा
मा कार्षीः किमु पञ्चवाणनृपतौ जागति चिन्ता तव ॥ ६७ ॥
शैत्यं तापहरं तवास्ति न मुधा मन्ये सुधानायक
प्रोदश्चत्सुपमा समृद्धिरपि ते जागर्ति लोकत्रये ।
सर्व चारु मनाक्तथापि यदि चेत्प्राप्तोऽसि मुग्धाङ्गना-
ववेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥ ६८ ॥
आयाता रजनी भविष्यति महाविश्लेषदावानलो
नोद्वेगः सहसा कशाङ्गि मनसा कार्यों रथाङ्गाह्वयः ।
इत्थं वाष्पनिरुद्धगद्गदतया संभाप्य कोकी चिरं
चिन्तापूर्णमना विनोदविमुखो हंहो विधि निन्दति ॥ ६९॥
सौन्दर्य दलितं दवानलबलैर्मन्दं मरन्दोऽप्यसौ
स्वच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा ।
शीर्णा पर्णपरम्परा विगलिता सेयं लता तत्कथं
हंहो मन्द मिलिन्द कुन्दविपिनं नो हातुमाकाहसे ।। ७० ॥
रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः कि पुन-
मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुप्पाण्यपि ।
सर्व हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर-
चण्डांशुज्वलिते मरौ तदखिलध्यानैर्मनो मुह्यति ॥ ७१ ॥

१०० काव्यमाला। यसंसर्गवशादसाधुचरिता एते पुनः कोटिशो निम्बाशोककपित्थविल्ववकुलाः सौगन्ध्यमापुः परम् । धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः संसारे नियतं स कोऽपि सदृशो युष्मादृशां वर्तते ॥ ७२ ॥ सानन्दं सुरनिम्नगाप्रविलसत्कूलेऽनुकूले पुन- मन्दं मन्दमहो कलिन्दतनयातीरे विहारं कुरु । अस्मिन्कि तु मरालबाल सरसीकुल्ले न याहि क्षणं यस्मादत्र पतत्रिपातरसिका भिल्लयः स्वनं कुर्वते ॥ ७३ ।। तृष्णाजरिताकतिः कवलितो धर्मांशुधोरैः करै- |दश्चितचचुरद्य कलयंस्त्वत्तः परं जीवनम् । हहो चातकशावकोऽयमधुना त्वां वीक्षते केवलं त्वं चेदम्बु ददासि नाम्बुद भवेदस्याश्रयः कस्तदा ॥ ७ ॥ आ प्रातर्घनतृष्णया कवलितं प्रोद्दण्डचण्डातपै- र्दग्धं जीवनहानितः कलुषितं चिन्तामरैः कीलितम् । प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागति जानीमहे ॥ ७९ ॥ चश्चच्चातकचक्षुकोरकपुटीं नो पूरयस्यन्वहं दिक्तापं नवनीरसीकरभरैनौं वा मनाग्लुम्पसि । क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमाप्लावय- न्यद्गवै कुरुषे पयोद भवतस्तत्कि नयो दृश्यते ॥ ७६ ॥ चञ्चच्चण्डमरीचिमण्डलकरज्वालाकलापैरहो न स्याच्चातकपोतकः कवलितो यावत्ततो विह्वलः । भ्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्मरं तावद्धीरतरं धरातलमिदं धाराभिरासिञ्चय ॥ ७७ ॥ नो गत्वा गगनाङ्गणेऽनुसरति प्रोच्चैनै जल्पत्यहो नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि ।

अन्योक्तिशतकम् ।
१०१
चित्रं भूमिगतं तथापि निभृतं धाराजलैनिर्मलैः
सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ॥ ७८ ॥
तापं तूर्णमपाकरोषि नितरां पाटीरवाटी पुनः
प्रेम्णा पल्लवयस्यलं वितनुषे मुक्ताफलं शुक्तिपु ।
धाराभिर्धरणिं धुनोषि परितो धाराधर त्वं यथा
भ्रातश्चातकशावकं बत तथा संभावयाम्भोभरैः ॥ ७९ ॥
भूमेस्तापमपाकरोषि नितरां भूमीरुहो वर्धय-
स्यानन्दं विदधासि किं च तनुषे सस्ये प्रशस्यं मुदा ।
किं किं वारिद ते गुणोत्करमहं जल्पामि धन्योऽसि रे
धाराभिश्चिरखिन्नचातकशिशुं यजीवयस्यातुरम् ॥ ८०॥
मोदन्ते करिशाक्कास्तत इतः क्रीडन्ति कोलाः सुखं
कृत्वाङ्के तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति ।
हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं
द्वित्रैरेव दिनैभविष्यति परं वन्याभिरन्यादृशम् ॥ ८१ ॥
तूर्णं यात मृगाः पलायत वृका यूयं पुनः सर्वथा
कोलाः क्वापि निलीयत प्रसुमराः कोलाहलं मुञ्चत ।
हप्यदानदुरूहदारुणदलद्दन्तावलग्रामणी-
गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ॥ ८२॥
प्रौढोक्षिप्तमहामहीध्रशिखरं कुत्रापि नीराशये
दृष्ट्वैव प्रतिविम्बितं सचकितं खाल्लुत्य गाढं हठात् ।
पातुं वाञ्छति नो जलं करिवरस्याशङ्कया किं त्वयं
दौड्तशिरा धुनोति नयने क्रोधोद्धरः केसरी ॥ ८३ ॥
सक्रोधं करिणां मदैरुपहितामालोक्य विश्वंभरां
भूयः कोपकषायितालियुगलं पन्यां धरां दारयन् ।
बाहुभ्यां सहसा विकृप्य तिमिरं भूमौ मुहुः पातय-
भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ॥ ८४ ॥

१०२ काव्यमाला। यः सावेशमशेषवारणघटासंघट्टविद्रावणो मुक्ताजालमयानि हन्त नितरां चक्रे वनानि स्फुटम् । दृप्यद्दारुदुरूहपञ्जरगतो हा हा हतो वेधसा सोऽयं मानधनो धुनोति नयने क्रोधोद्धरः केसरी ।। ८५ ॥ यस्य त्रासवशाहने करिवराः स्पन्दन्ति नो वामनाः कोलाः केऽपि न निःसरन्ति महिषा व्यग्राः पतन्ति क्षितौ सोऽयं लोहदुरूहनव्यनिगडानहाभियुग्मो मुहुः स्मारं स्मारमुदारवन्यचरितं कण्ठीरवस्ताम्यति ।। ८६ ॥ मन्दं मन्दमहो मरन्दनिचयः पेयोऽमुना सादरं नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः । इत्यालोच्य समागतं खलु मया सायं नवे कैरवे को जानाति निशापतिः पुनरसावस्ताचलं यास्यति ॥ ८७ ॥ त्वं चेद्गुञ्जसि निर्भरं भ्रमर हे पीत्वापि कौन्दं मधु स्वच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता । उन्मीलन्मकरन्दतुन्दिलदलत्पुष्पाकरास्वादनं माकन्दस्य परं स एव सुलती जानाति किंचित्पिकः ॥८॥ आ बाल्यं भवता समीर कतिधा साधै मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरम् । चेतान्दोलनलालनैर्मुगदृशां वक्षःस्थलास्फालन- भूयः संप्रति मां विना तव मनो रन्तुं कथं मोदते ॥ ८९ ॥ गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गजा लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः । युष्मच्चीत्कृतिभीरुतारनिनदप्रध्वस्तनिद्राभर- व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोद्धरः केसरी ॥ ९० ॥ कृत्वा हन्त निरन्तरं कमलिनीकोषे सुधावैभवं हित्वा संप्रति तां हिमैरुपहितां धत्से क्वचिन्मानसम् । -

अन्योक्तिशतकम् ।
१०३
तत्कि त्वां कथयामि हे मधुकर ब्रीडाकरं भाषितं
धिग्धिप्रेम भवादशां न करुणालेशोऽपि संदृश्यते ॥ ९१ ॥
शेते हन्त मृगाङ्गना निजशिशुं कृत्वा निकुञ्जोदरे
भूयः कुण्डलनां विधाय विवरे निद्राति साङ्गना ।
शीतार्ताः किल नैव पङ्कजदलं जिघ्रन्ति माध्वीलिहो
दृष्ट्वा हन्त हिमागमं नहि मनाङ्नीडं त्यजन्ति द्विजाः॥१२॥
सानन्दं मकरन्द तुन्दिलदलां मुग्धप्रभां पद्मिनी
यावच्चुम्बति केसरारुणतनुर्मत्तद्विरेको युवा ।
तावत्तीव्रकरीन्द्रदुर्वहकरव्याघातसंचूर्णितो
हा हा हन्त मधुव्रतोऽयमधुना भूमौ पुनस्ताम्यति ॥ ९३ ॥
चच्या नव्यसमीरधीरसरसीतीरं विलोक्योत्सुको
धीरं धीरमहो महोन्नतिपरस्तृष्णाङ्कुशाकर्शितः ।
पातुं यावदहो करोति विमलं नीरं मरालः कृती
मण्डूकध्वनिजर्जरीसततनुस्तावच्छनैस्ताम्यति ॥ ९४ ॥
लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नैवोपकारव्यथा
विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोपं स्फुटम् ।
शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा
नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ९५ ॥
आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः
पश्चास्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः ।
दानोन्मत्तदुरन्तवारणकटीसंघटनैः केवलं
सोऽयं चूर्णित एव दैववशतो माकन्दभूमीरुहः ॥ ९ ॥
चञ्चत्पत्रविचित्रितां मधुकरस्फूर्जत्फलालम्बिनी
मन्दं मुग्धमरन्दम पुलकां कान्तिप्रभूतोदयाम् ।
प्रोन्मीलत्कुसुमां प्रकीर्णसुषमा हा हा चलत्कण्टकां
को हेतुः कलधौतकेतकलतां त्यक्तुं समुत्कण्ठसे ॥ ९७ ॥

१०४ काव्यमाला। भुक्त्वा मीनमहो नवीनमधुना पीतं जलं निर्मलं नीतः केलिभरेण वासरगणो किं तु त्वयाद्यावधि । गन्तव्यं खलु कुत्रचिद्धक वने चेञ्चण्डचण्डातपै- स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥ ९८ ॥ अग्रे तिष्ठति दारुणाकतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः । किं कुर्मः सहसा विहाय कलभानेतान्द्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥ ९९ ॥ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् । किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त लिम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्कि ब्रुवे ॥१०॥ त्वत्तः श्रीरजनि स्फुटं समभवत्कल्पद्रुमः सादरं जातास्ते निधयः पुनः किमपरं जज्ञे सुधादीधितिः । किं ब्रूमस्तव वैभवं जलनिधे त्वामप्यहोऽहो तथा यद्भूयस्तृषिता प्रयाति जनता तत्कि ब्रुवे त्वद्गुणान् ॥ १०१॥ भेकाः कूपजलं पिबन्तु नितरां वापीषु कारण्डवाः साकूतं सरसीषु हन्त नितरां तुङ्गाः कुरङ्गादयः । तृष्णाव्याकुलितस्य चातकशिशोः किं तेन यावद्धरां धन्याभिः परिपूरयन्ननुदिनं नोदेति धाराधरः ॥ १०२ ॥ तावद्भीष्मगभीरतापनिवहाः संसारमुच्चैस्तरां यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः । यावत्सौरभभव्यनव्यविदलन्मल्लीमतल्लीदल- प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः ॥ १०३ ॥ चन्द्रो हन्त कलङ्कशङ्किततनुः क्षारान्वितः सागरो हंहो कल्पतरुस्तरुः पुनरहो मेरुः खयं पर्वतः ।

नक्षत्रमाला। १०५ कामं कामगवी पुनः पशुरहो किं वा वहु महे संसारे भवतस्तुलां कलयितुं को वा समयों भवेत् ॥ १०४ ॥ योऽभूहाविडचक्रवर्तिमुकुटालंकारभूतस्य रे मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्गतसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा- देपा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥ १०५ ॥ इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशतक समाप्तम् । - त्रिपाठिश्रीशिवरामप्रणीता नक्षत्रमाला। 'सटीका। राजत्रयसमानीतां मुनित्रयपरिष्कृताम् । जाहवीं शब्दविद्यां च चिन्तयामीष्टसिद्धये ॥ विनविघाताय कृत मङ्गलं शिष्यशिक्षार्थ निबध्नाति- धरात्मजारम्यमुखारविन्दमरन्दरोलम्ब उदारकीर्तिः । शेषाख्यसंयोगविशेषशोभो देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥ धरेति । धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य मरन्दो मकरन्दस्तस्य रोलम्बो भ्रमरः । उदारकीर्तिः । शेषाल्यस्य सयोगेन विशेषशोभ. । शेपस्य भूपणत्वा- दिति भावः । एतादृशो देवः शिवः स प्रसिद्धो रामो वो मुदेऽस्तु । पक्षे-धराया आ- मजा सीता। शेषाख्येण लक्ष्मणेन विशेषशोभा सौभारत्वात् । नेपालकार:-'वाच्यभे- देन भिन्ना यद्युगपद्भाषणस्पृश. । श्लेषोऽसौ' इति लक्षणात् । वृत्त्यनुप्रास--वर्णसाम्य- मनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥' इति लक्ष- णात् । यमकालकारः--'अर्थे सत्यर्थमिन्नानां वर्णाना सा पुनः श्रुतिः । यमक पादतद्भा- गवृत्ति तद्यात्यनेकताम् ॥” इति लक्षणात् । सभोगशृङ्गार:-'अनुकूलौ निषेवेते यत्रा- न्योन्य विलासिनौ । दर्शनस्पर्शनादीनि स सभोगो मुदान्वितौ ।। इति लक्षणात् । अ- १. अय शिवरामत्रिपाठी निस्तसवत्सरीयाष्टादशशतकपूर्वाधसमुत्पन्नानागेशभट्टाद- प्यर्वाचीनः, यतोऽयमचैव टीकाया तत्कृतपरिभापेन्दुशेखरस्मरण करोति. एतत्कृतग्र- न्थास्तु स्वयमेवानेनात्रैव टीकासमाप्तौ गणिताः सन्ति. तेष्वस्माभिः (१) कादम्बरीटी- का, (२) दशकुमारचरितटीका, (३) नक्षत्रमाला सटीका, (४) रसरलहारः सटीकः, (५) वासवदत्ताटीका, एतद्वन्यपञ्चकमद्यावधि समुपलब्धमस्ति. १४ - १०६ काव्यमाला। नुकूलो नायक:-'अनुकूलस्त्वेकनायिकः' इति दशरूपकात् । उपजातिवृत्तम्-'अन- न्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति तल्लक्षणात् ।। गोत्रस्खलनेन मानवतीं प्रत्याह- गोत्रस्खलने भ्रान्ति मानिनि जानीहि केवलां मेऽत्र । व्याख्यानतो विशेपप्रतिपत्तिः पाणिनीय इव ॥ २॥ गोनेति । हे मानिनि, गोत्रस्खलने गोत्र नाम तस्य स्खलने च्यवने मे मम केवला भ्रान्ति जानीहि । ननु गोत्रस्खलनं त्वदुक्तिः । मया भ्रान्त्या तन्नामग्रहण कृत न त्वह- निश तस्यामासक्तरित्यपि त्वदुक्तिरेव । तत्र व प्रामाण्यमुररीकर्तव्यम् । तत्राह-व्या- ख्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य प्रतिपत्तिाधः। किमत्रमानंतत्रोपमारीत्याह- पाणिनीय इव । पाणिनीये तत्प्रोक्तशास्त्रे । एवं हि तत्रोक्तिः-लण्अइटणसूत्रयोर्णका- रस्यैवोपादानेन अण्इण्ग्रहणेषु संदेहः । तत्राह-व्याख्यानतो विशेषप्रतिपत्तिर्न हि सदेहादलक्षणम्' । व्याख्यानाच्छिष्टकृताद्विशेषस्यान्यतरार्थस्य प्रतिपत्तिनिश्चयः । हि यतः सदेहाच्छास्त्रमननुष्ठापक न । 'अणुदित्-' इत्यत्रैव परेण णकारेणाणप्रत्याहारः । इण् तु सर्वत्र परेण । यदत्र परिभापेन्दुशेखरे दूपणं तदस्मत्कृते विद्याविलासे द्रष्टव्यम् । अत्र श्लेपालंकारः-'श्लेषः स एकवाक्येऽस्मिन्यत्रानेकार्थता भवेत्' इति लक्षणात् । अत्र प्रमाणालंकारेषु शब्दप्रमाणालंकार । श्रौती पूर्णोपमा-'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च सानिमा । श्रोत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥' इति लक्षणात् । काव्यादर्श तु दण्डिनेयं धर्मोपमेति व्यवहृता-'इति धर्मोपमा साक्षात्तुल्यधर्मनिदर्श- नात्' । मानवत्यत्र नायिका । मानश्चात्रेया॑जन्यः- पत्युरन्यप्रियासने दृष्टेऽथानुमिते श्रुते । ईOमानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ॥' इति रसरलहारः । स च म. ध्यमः-'मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्रीदर्शनोत्यो गोत्रस्खलन- जस्तथा।अन्यत्रीसगजनितः क्रमेण त्रिविधो भवेत् ॥ इत्यपि तत्रैव। पथ्यार्या छन्दः- 'विष्वशकेषु पादो दलयोरायेषु दृश्यते यस्याः। पथ्येति नाम तस्याः प्रकीर्तित नागरा- जेन ॥' इति लक्षणात् ॥ अन्यसंभोगदुःखितां प्रति सभुक्तसख्येवाह- नौष्ठव्रणान्मामपरामिव त्वमवेहि तामेव निजैकदासीम् । न चैकदेशे विकृतरुपति भिन्नत्वमज्ञे सखि कोऽपि लोके ॥ ३ ॥ नौठेति । ओष्ठे व्रणोऽधरपानजस्तस्मान्मामपरां सपलीमिव मा अवैहि । अज्ञे सखि, एकदेशे विकृतविकारान्न कोऽपि भिन्नत्वमुपैति प्राप्नोति । नहि छिन्नपुच्छे शुनि मार्जारव्यवहारो लोके । 'लोकन्यायसिद्धयम्' इति व्याकरणेऽप्युक्तम् । इय ज्ञाप- कसिद्धापि । 'प्राग्दीव्यतोऽण्' इति सूत्र भाप्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरण- मिदमित्युक्त्वा किमर्थ विकृतनिर्देशः । एतदेव ज्ञापयत्याचार्यः-भवत्येषा परिभाषा- नक्षत्रमाला। १०७ - 'एकदेशविकृतमनन्यवत्' इति । तेन निर्जरशब्दे जरसादेशः फलम् । अत्र- त्यमपि दूषण विद्याविलासे द्रष्टव्यम् । काव्यलिङ्गमलकार:-'समर्थनीयस्यार्थस्य का- व्यलिङ्ग समर्थनम्' इति लक्षणात् ॥ पूर्वमीया॑मानेऽनुनीतां पुनः प्रणयमानिनी प्रत्याह- अनुनीता पुना रोषं भेजे तामाह मानिनीम् । एकस्यां लक्षणं व्यक्तौ सकदेव प्रवर्तते ॥ ४ ॥ अनुनीतेति । या पूर्वमनुनीता पुना रोपं भेजे । अत्र 'रो रि' इति लोपे कृते 'ट्र- लोपे-' इति दीर्घः । तामाह नायकः एकस्या व्यक्तौ एक लक्षणं सकृदेव एकवार- मेव प्रवर्तते । पुन. कोपो न योग्य इति भावः । प्रणयमानिनीयम् । 'लक्ष्ये लक्षणं सकृदेव प्रवर्तते । अत्र ज्ञापक 'समः सुटि' इति सूत्रम् । 'समो वा लोपमेके' इति भाष्येण लोपस्यापि रुप्रकरणस्थत्वान्मकारलोपे एकसकारके पुनस्तत्र सकारद्वित्वे द्वि- सकारके पुनः सकारद्वित्वे त्रिसकारकरूपसिद्धौ किं सूत्रेणेति तदेव ज्ञापकम् । फल तु- सुध्युपास्य इत्यत्र धकारद्वित्वे पुनर्धकारद्वित्वं न । युग्मविपुला च च्छन्दः-'यस्या लः सप्तमो युग्मे सा युग्मविपुला' इति लक्षणात् ॥ सख्युपभोगेन साशङ्का नायिका गौणमुख्यन्याय मनसि निधाय दासी धृष्टस्य सेवने योजयामासेति वर्णयति- मुख्य कार्यस्य विज्ञानादासी धृष्टस्य सेवने । नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥ मुख्य इति । मुख्ये प्रधाने कार्यस्य विधेयस्य विज्ञानाहासी धृष्टस्य प्रगल्भस्य सेवने नियोजयामास । सा तयो रतिं ज्ञात्वा चुकोप सरोषा बभूव । परकीयान्यसभोगदुः- खिता नायिका। नन्वेवमपि महद्भूतश्चन्द्रमा इत्यत्र 'आन्महतः' इत्यात्त्वापत्तिरत आह- 'गौणमुख्ययोर्मुख्य कार्यसप्रत्ययः' । गुणादागतो गौणः । यथा गोशब्दस्य जाड्यादिगुण- निमित्तोऽर्थों वाहीक. । अप्रसिद्धश्च सज्ञादिरपि तद्गुणारोपादेव बुध्यते । मुखमिव प्रधा- नत्वान्मुख्यः । प्रधान इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुख्यार्थारोपेण प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्व चात्र गौणत्वम् । तेन प्रियत्रयाणामित्यादौ त्रया- देशो भवत्येव । तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तरूपगौणत्वाभावात् । अन्ये तु 'प- रिवेविषीध्वमित्यत्र ढत्वव्यावृत्तये क्रियमाणात् 'इणः पीध्व-' इत्यत्राङ्गग्रहणादर्थव- त्परिभाषानित्या । तन्मूलकमिदम्' इत्याहुः ॥ दासी नायिकायाः सान्त्वनं करोति- यदागमास्तद्गुणास्ते गृह्यन्ते तनहाद्धिते । अतस्त्वय्यावद्धभावो मामैक्षत स सादरम् ॥ ६ ॥ यदागमा इति । यत्सकाशादागमो येषा ते यदागमाः, तस्य यत्सकाशादागमस्तद्गुणी- ,१०६ काव्यमाला॥ भूता अद्गमूतास्तद्रहात्ते गृह्यन्ते । अतस्त्वय्यावद्धभावः स नायको मां सादरमैक्षत । ननु प्रणिदापयतीत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापर्न स्यादत आह-'यदागमा. स्तद्गुणीभूतास्तद्हणेन गृह्यन्ते । यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदव- यवत्वेन बोधितोऽतस्तद्रहणेन तदाहकेण तद्वोधन शब्देन गृह्यते बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो वीजकथनम् । लोकेऽपि देवदत्तस्यागाधिक्ये तद्विशिष्टस्यैव देवदत्त- ग्रहणेन ग्रहणं दृश्यते । यमुद्दिश्य विहित इत्युक्ते. । प्रनिदारयतीत्यादौ न दारित्यस्य घु- त्वम् । आने मुग्विधानसामर्थ्यादेषानित्या । अन्यथा पचमान इत्यादावकारस्य मुक्य- नया परिभाषया विशिष्टस्य सवर्णदोघे तद्वैयर्थ्य स्पष्टमेव । तेन दिदीपे इत्यादौ यणा- दिक न । जहारेत्यादौ 'आत औ णलः' इति न । रतान्त वर्णयति-मृष्टाधरेति युग्मेन । मृष्टाधरालक्तमनञ्जनाक्षं पत्रावलीशेषविशेषशोभम् । रतान्त आसेचनकं निपीय कान्ताननं कान्त उवाच कान्ताम् ॥७॥ कृतेऽङ्गकार्य पुनरङ्गकार्य न जायते मुन्दरि दर्शनेऽपि । ततो तथैषोऽस्ति परिश्रमस्ते प्रसाधनाथै करभोपमोरु ॥८॥ (युग्मम्) मृष्टोऽधरालक्तको यस्याः। अधरपानादित्यर्थः । अनञ्जने अक्षिणी यस्य । चुम्बनात्। 'बहुव्रीही सक्थ्यक्ष्णोः स्वाहात्वच्' इति पच् । विधेयत्वाभावादविमृष्टविधेयांशदोषा- भावः । पत्रावल्याः पत्ररचनायाः शेषेण शोभा यस्य । पत्ररचनाच्युतिस्तु विपरीतसुरते स्वेदोगमादित्यर्थः। आसेचनकम् । 'तदासेचनकं तप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । कान्ताननं निपीय सादर दृष्ट्वा प्रसाधनोद्यतां नायिका प्रत्याह । करभोपमावूरू यस्या- स्तत्सबोधनम् । 'करस्य करभो बहिः' इत्यमरः । 'उरुत्तरपदादौपम्ये' इत्यू तु न । उपमाशब्देन व्यवधानात् । एतेन 'धात्री कराभ्यां करभोपमोरुः' इति कालिदासप्रयो- गोऽपि व्याख्यातः । हे सुन्दरि, अङ्गकार्ये अङ्गानां कार्य प्रसाधने कृते पुनरङ्गकार्य प्र- साधनं नास्ति । अहस्य कार्ये कृते पुनरङ्गस्य कार्य न भवति । यथात्रैव सुन्दरीत्यत्र संयुद्धौ ‘अम्बार्थनद्योर्हस्वः' इति ह्रस्वे कृते 'हस्वस्य गुणः' इति गुणो न भवति । न चात्र लक्षणप्रतिपदोक्तपरिभाषया निवाहः । हे चित्रगोग्रमित्यनेन विरोधापत्तेः । अत्र ते प्रसाधनार्थे परिश्रमो वृथैव । ननु रतान्ते प्रसाधनवर्णन न कविसप्रदाय इति, तन । 'शान्ते मन्मथसंगरे रणकृतां सत्कारमातन्वती वासोऽदाजघनस्य पीनकुचयोर्हार श्रुतेः कुण्डलम् । विम्बोष्ठस्य च वीटिका सुनयना पाण्यो रणत्कङ्कणे पश्चालम्बिनि केशपाश- निचये युक्तो हि वन्धक्रमः ॥ इति दर्शनात् । यत्तु तत्त्वबोधिन्याम् 'हस्वविधानसा- मागुणो न प्रवर्तते अन्यथा 'अम्बार्थनद्योर्गुणः' इति ब्रूयात्', तन्न । सति गुणग्रहणे इक्परिभाषोपस्थितेः अम्बाथै दोषः । अथाम्बार्थग्रहणसामर्थ्यात्तत्रानिक्यपि प्रवृत्तिरिति चेन्न । उभयत्र सामर्थ्यकल्पनापेक्षया अन्यार्थया परिभाषया निर्वाहस्य सुगमत्वात् । तत्रैवान्ये तु कृते ह्रस्वे 'यदि गुण इष्टरतार्ह अम्बार्थानां ह्रस्वो नदीहस्वयोर्गुणः' इत्येव . .

नक्षत्रमाला। १०९ । ब्रूयात् । तदपि न । 'जसि च' इति सूत्रे एकदेशानुवृत्तिकल्पनापत्तेः । अस्यां परिभा- षायां ज्ञापक 'ज्ञाजनोर्जा' इति जादेशविधानम् , 'ज्यादादीयसः' इत्यत्राकारविधान च । जकारादेशे कृते जानातीत्यत्र 'अतो दी? यनि' इति ज्यायान् इत्यादौ 'अकृत्सार्व- इति दीर्घे इष्टसिद्धौ किं दीर्घविधानेन । 'तयोर्खावचि-' इति निर्देशादनित्यैषा परि- भाषा । समास आर्थी धर्मलुप्तोपमा। काव्यादर्श त्वियं वस्तूपमेति व्यवहृता-'इति प्रतीयमानैकधर्मा वस्तूपमैव सा' इति लक्षणात् । क्रमेणाधरचुम्बनाद्युत्कर्पदर्शनात्सारा- लंकारः-'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते' इति तल्लक्षणात् ॥ कश्चन मानिनी दूती निराकरोति सनियोगशिष्टन्यायेन- निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः । द्वयोर्मानोदये इत्यास्तदनित्यत्वमुत्तरम् ॥ ९ ॥ निवृत्तिरिति । 'सनियोगशिष्टानां सह वा प्रवृत्ति. सह वा निवृत्ति.' इति संनियोग- शिष्टन्यायः । तत्सनियोगेनागता व तस्या निवृत्ती व कथ न निवर्तसे । द्वयेर्मानोदये । दूत्या तदनित्यत्वमुत्तरम् । ननु पञ्चन्द्राण्यो देवता अस्य पश्चन्द्र इत्यादौ 'द्विगोर्ख' इत्यणो लुकि 'लुक् तद्धित-' इति स्त्रीप्रत्ययलुकि आनुकः श्रवणापत्तिरत आह–'स- नियोगशिष्टाना सह वा प्रवृत्तिः सह वा निवृत्तिः । एवार्थों वाशब्द. । अत्र 'बिल्व- कादिभ्यश्छस्य लुक्' इति सूत्रस्थछग्रहण ज्ञापकम् । तद्धि छमात्रस्य लुग्योधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्यर्थम् । कृतकुगागमा नडाद्यन्तर्गणा बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन । समुच्चयार्थचशब्दयोगेन विधेययोरेककालिकत्वैकदेशत्व- नियमाय न्यायसिद्धापीय 'णाविष्टवत्-' इत्यनेन पुवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथा एनीमाचष्टे, एतयतीत्यादौ टिलोपेनैव डीनिवृत्तौ सनियोगशिष्टपरिभाषया नस्यापि निवृत्तौ पुंवत्त्वस्यानावश्यकत्वात् । 'ज्ञापकसिद्ध न सर्वत्र' इति ज्ञापकसिद्धे- यमनित्येति वा । अत्र परिभाषेन्दुशेखरे यहूषणं तद्विद्याविलासे स्फुटम् ॥ दूती नायक भर्त्सयन्त्याह- कारोः शङ्खश्वेतकीर्तेयुत्पत्तिस्तव कुत्रचित् । अव्युत्पत्ती रसे तेऽस्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥ कारोरिति । कारोः शिल्पिनः । 'कृवापा-' इत्युण् । शङ्खवत्कम्बुवच्छेता कीर्तिर्यस्य तादृशस्य । 'शमेः खः' अत्र सति व्युत्पत्तौ खस्येनादेशः स्यात् । इति हेतोरव्युत्पत्ति- पक्षोऽपि । उणादयो व्युत्पन्नाः अव्युत्पन्नाश्च कुत्रचितं शिल्पादिविषये । रसे ते अ. व्युत्पत्तिः । ततस्त्वमुणादिवदसि । अव्युत्पत्ती रस इत्यत्र 'रोरि' इति लोपे 'दलोपे- इति दीर्घः । यथा सख्यालकारः । 'यथासंल्य क्रमेणैव क्रमिकाणां समन्वये' इति त- लक्षणात् । तद्धिते आर्थी लुप्तोपमा ॥

-- - ११० काव्यमाला। निर्दिश्यमानस्यादेशाः संभवन्ति सुनो यतः । अतः प्रत्यादेशपात्रं रोषात्सैव न दूतिका ॥ ११ ॥ निर्दिश्यमानस्येति । हे सुनः सुनासिक, यतो निर्दिश्यमानस्यादेशाः संभवन्ति अत: प्रत्यादेशस्य निराकरणस्य । 'प्रत्यादेशो निराकृतिः' इत्यमरः । पात्रं सैव दूतिका । प्रकृते-सुन इत्यत्र 'पद्दन्-' इति सूत्रे निर्दिश्यमानस्य नासिकाशब्दस्य नसादेशः । न तु “पदाङ्गाधिकारे' इति प्राप्तः सुनासिकाशब्दस्य नसादेशः । यद्वा समासान्तविधेर- नित्यत्वेन 'अन्नासिकाया.-' इत्यजभावेऽपि संनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेण नसादेशः । नन्वेवमुदस्थादित्यादौ 'उद.स्थास्तम्भोः-' इति पूर्वसवर्णापत्तिरत आह- 'निर्दिश्यमानस्यादेशा भवन्ति' । 'पष्ठी स्थानेयोगा' इति सूत्रमावर्तते । तत्र द्वितीय- स्यायमर्थः । षष्ठयन्तं निर्दिश्यमानमुच्चार्यमाणसजातोयमेव निर्दिश्यमानावयवरूपमेव वा स्थानेन स्थाननिरूपितसबन्धेन युज्यते न प्रतीयमानमित्यर्थः । तेनेदं सिद्धम् । अत्रत्य दूषणं विद्याविलासे द्रष्टव्यम् ॥ नायिकाया मानबीजमाह- आगमानित्यता शब्दे उणाद्यादौ मनोहरा । मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥ आगमेति । उणाद्यादौ शब्दे आगमानां डमुडादीनामनित्यता मनोहरा । ते आगम- स्यागतस्यानित्यता न मनोहरा । अतस्तनित्यत्वमर्थये । यथा 'उणादयो बहुलम्' इत्यत्र डमुडागमोऽनित्यत्वान्न नैव तया आगमो युक्तः। आगमशास्त्रमनित्यम्' इति परिभाषा- खण्डनोद्धारोऽपि विद्याविलासे द्रष्टव्यः ॥ वेश्या वर्णयति- अर्थवग्रहणे यस्मान्नानर्थकपरिग्रहः । सुरूपधनिनोवैश्या गृह्णाति धनिनं ततः ॥ १३ ॥ अर्थवदिति । अर्थवतः सार्थस्य ग्रहणेऽनर्थकस्य व्यर्थस्य यतः परिग्रहो नास्ति ततो हेतोः सुरूपधनिनोर्मध्ये वेश्या धनिनो ग्रहण करोति । अर्थवत्त्वादिति भावः । ननु प्रोढवानित्यत्र 'प्रादूहोढ-' इति वृद्धिः स्यादत आह–'अर्थवद्हणे नानर्थकस्य । विशिष्टरूपोपादाने उपस्थितार्थस्य विशेषणतयान्वयसभवे त्यागे मानाभावोऽस्या मूलम् । 'व्रश्च-' इति सूत्रे राजेः पृथग्भ्राजिग्रहणमस्यां हि ज्ञापकम् ॥ काचन दूती नायकस्य समीपे गता, नायकस्य गोत्रस्खलनं जातम्, तदनुकरणमागत्य नायिकायाः समीपे कृतममुं प्रसङ्गं वर्णयति- गोत्रस्खलनानुकतौ दृष्टारुणचक्षुषा दूती । इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥ - ।

- - नक्षत्रमाला। १११ गोत्रेति । दूत्यग्रे नायककृतस्य गोत्रस्खलनस्यानुकृतावनुकरणे अरुणे चक्षुषी यस्या- स्तया । कोपारुणचक्षुपेत्यर्थः । दूती दृष्टा । अस्या आशयमाह-अनुकरण प्रकृतिवद्भ- वतीति । यथा नायकोपरि कोपस्तथा मय्यपि शास्त्रप्राप्तः । ननु 'क्षियः-' इत्यादी इयड् कथमत आह-'प्रकृतिवदनुकरण भवति । क्षिय इति इयनिर्देशोऽस्या ज्ञापकः। तत्रैव प्रातिपदिकत्वनिबन्धनविभक्तिकरणादनित्या चेयम् । उपगीतिच्छन्दः ॥ नायको दूतीमुखागोत्रस्खलनश्रवणेन मानिनी प्रत्याह- नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि । तस्माद्यथापराधं दण्ड्यो वध्यस्तु नैवाहम् ॥ १५ ॥ नास्तीति । संज्ञा नाम, तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्यापराधिनो- ऽन्तो नाशस्तस्य ग्रहणं नास्ति । हि यस्मात् । 'संज्ञा स्याचेतना नाम हस्ताद्यैश्वार्थ- सूचना', 'प्रत्ययोऽधीनशपथज्ञानविश्वासवस्तुपु', 'अन्तो नाशो द्वयोर्मृत्युः' इति त्रि. ध्वमरः । तस्मादपराधमनतिक्रम्य यथापराधमह दण्ड्यः, वध्यस्तु नैव । 'अन्यथावाद- शपथाद्यपनेयस्तु मध्यमः' इति । 'मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्री- दर्शनोत्यो गोत्रस्खलनजस्तथा । अपरस्त्रीसंगमोत्यः क्रमेण त्रिविधो भवेत् ॥ इति रसरलहारः । नन्वेव 'तरप्तमपौ घः' इत्यादिना तरवन्तादेः संज्ञा स्यादत आह- 'सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' । 'सुप्तिडन्त' इत्यन्तग्रहणमस्या ज्ञापकम् । गीतिच्छन्द.॥ पुनस्तामाह- अनुदात्तेवप्रथितं युवति निवोधात्मनेपदमनित्यम् । उदयति सविता चन्द्रो न निर्गतं यौवनं हि तथा ॥ १६ ॥ अनुदात्तेति । हे युवति, अनुदात्ते मम हृदि ईत्व लक्ष्मीव यत्र तादृशत्वात्प्रथित ख्यातमात्मने स्वस्मै पद स्थानमनित्यं निबोध जानीहि । लक्ष्म्यपेक्षेय सुरूपति पदप्रा- तिरनित्येत्यर्थ. । हि यस्मानिर्गतः सविता चन्द्रश्चोदयति निर्गत यौवन तथा न । 'उदात्तो दातमहतो.' इति विश्वप्रकाशः। 'अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिडो डित्करणाज्ज्ञापकात्' । तेन प्रकृते उदयतीत्यत्रात्मनेपदं न । अत्रत्यपरिभापेन्दुशेखर- दूषणोद्धारो विद्याविलासे स्फुटः। काव्यलिगमलंकारः-'काव्यलिङ्गं हेतोर्वाक्यप- दार्थता' इति तल्लक्षणात् । परिकरालकारोपि-'अलंकारः परिकरः साभिप्राय विशे- षणे' इति लक्षणात् । उपगीतिच्छन्दः॥ सर्वद्वन्द्वैकवद्भावः पाणिनीये विकल्पितः । विहाय मामिति सखी काप्याह प्रेमगर्विता ॥ १७ ॥ सर्वेति। सर्वश्चासौ द्वन्द्वश्च । 'चार्थे द्वन्द्वः' इति विहित समास तस्यैकवद्भावः पाणि- नीये विकल्पितः । 'सर्वो द्वन्द्वो विभापैकवद्भवति' । द्वन्द्वसामान्येन स्वमिथुनप्राप्त परि- .

"
-
-
.
।
११२
काव्यमाला।
हरति-मां विहाय । त्यक्त्वेत्यर्थः । 'स्त्रीपुंसौमिथुनं द्वन्द्वम्' इत्यमरः । कापि प्रेमग-
विता सखी प्रत्याह । घटपट घटपटौ इत्यादि सिद्धये आह-सर्वद्वन्द्वो विभाषेकव-
द्भवति', 'द्वन्द्वश्च प्राणि-' इत्यादि प्रकरणाविषयः । सर्वो द्वन्द्व इत्यर्थः । 'चार्थे
द्वन्द्व.' इति सूत्रेण समाहारेतरेतरयोगयोरविशेषेण द्वन्द्वविधानान्यायसिद्धेयम् । परिसं-
ख्यालकारोऽत्र-'परिसंख्या निषिध्यैकमेकस्मिन्वस्तु यन्त्रणम्' इति तल्लक्षणात् ॥
तुल्ये वयसि रूपे च मयि मज्जति यन्मनः ।
पत्युस्तत्कारणं ब्रूहि सख्यूचे भेदका गुणाः ॥ १८ ॥
तुल्य इति । वयसि रूपे च तुल्ये सति मम सपत्न्याश्च । पत्युमनो यन्मयि निम-
ज्जति तत्कारणं ब्रूहि इति नायिकाप्रश्नः । गुणा दाक्षिण्यादयः । भेदका व्यावर्तकाः ।
उत्कर्षजनका इत्यर्थः । इति सख्या उत्तरम् । हेत्वलंकारोऽत्र-हेतोर्हेतुमता सार्ध
वर्णन हेतुरुच्यते' इति लक्षणात् ॥
प्रेमगर्विता मानभाजो दूषयति-
कृतमपि कार्य केचिन्निवर्तयन्तीह शास्त्रवत्प्रेम ।
प्रायस्त एव पूज्या ये न प्रागेव कुर्वन्ति ॥ १९ ॥
कृतमिति । केचित्कृतमपि प्रेम कार्य शास्त्रवनिवर्तयन्ति । तेभ्यस्त एव पूज्या ये
प्रागेव न कुर्वन्ति । 'अकृतव्यूहाः पाणिनीयाः' इति द्वयोर्मध्ये अकृतव्यूहा इति श्रेष्ठम् ।
'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं. वरम्' इति न्यायात् ।।
इत्युपभोगकामः कश्चन निवारयन्ती दूती प्रत्याह-
स संनिपातलक्षणो विधिर्विधूपमानने ।
न मन्यतेऽधुना मया धुनोषि किं कराम्बुजम् ॥ २०॥
सेति । है विधूपममानन यस्याः, स सनिपातलक्षणो विधिरधुना मया न मन्यते ।
त्व कराम्बुजं किं धुनौषि । तस्या अनित्यत्वात् । उपजीव्यविरोधोऽस्या मूलम् । 'क
टाय क्रमणे' इति निर्देशादनित्या । उपमालकारः । प्रमाणिकावृत्तम्-'प्रमाणिका
जरौ लगौ' इति लक्षणात् । क्वचिन्नगस्वरूपिणीत्यस्याः संज्ञा ॥
आकारयन्कामपि ना दृष्टः स्वप्रिययावदत् ।
यत्संज्ञापूर्वकविधेरनित्यत्वमवेहि तत् ॥ २१ ॥
आकारयन्निति । कोऽपि ना कामपि परस्त्रिय सज्ञया हस्तचेष्ट्या । 'सज्ञा स्याच्चैतना
नाम हस्ताद्यैश्चार्थसूचना' इत्यमरः । आकारयन्स्वप्रियया दृष्टः सनित्यवदत् । यत्सज्ञा-
पूर्वकविघेरनित्यत्वं तदवेहि । 'ओर्गुणः' इत्यत्र 'ओरोत्' इति वक्तव्ये गुणोक्तिः सज्ञापू-
वकविधेनित्यत्व ज्ञापयति । तेन स्वायंभुवमिति सिद्धम् ॥
स्थिरो न रागो दयिताजनस्य श्रुत्वेति वाचं दयितस्य नूनम् ।
पर्जन्यवल्लक्षणसंप्रवृत्त्या स्वस्यामपीमं गुरुदोषमूहे ॥ २२ ॥

नक्षत्रमाला। ११३ . , - - . - स्थिरेति । नायिकायाः सखी प्रत्युक्तिः । दयिताजनस्य रागः स्थिरो न इति दयि- तस्य प्रियस्य वाच श्रुत्वा पर्जन्यवलक्षणसंप्रवृच्या स्वस्यामपीम गुरुदोपमूहे । लिट उत्त- मपुरुषैकवचनम् । 'पर्जन्यो मेघशक्रयोः' इति लक्ष्मीनिवास. । लोकसिद्धेयं परिभाषा ॥ ननु तथा सति को दोष इति चेदाशयः सख्यास्तनिराकरणायाह- पूर्व ह्यपवादोऽभिनिविशते पश्चाद्भवति किलोत्सर्गः । इति मत्वा मम चेतः खिन्ते नित्यं सखि क्षणशः॥ २३ ॥ पूर्वमिति । पूर्वमपवादोऽपवादशास्त्रमभिनिविशते । 'अभिनिविशश्च' इति कर्मसज्ञा, 'नर्विशः' इत्यात्मनेपदम् । पश्चादुत्सर्गशास्त्रम् । पक्षऽपवादो निन्दा । 'अवर्णाक्षेपनिर्वा- दपरीवादापवादवत्' इत्यमरः । उत्सर्गस्त्याग । हे सखि, इति मत्वा मम चेतः क्षणशो नित्यं खिन्ते खिद्यते । ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाद- दादेशो न स्यादिति तद्वैयर्थ्यापत्तिरत आह–'पूर्व ह्यपवादा अभिनिविशन्ते पश्चादु- त्सर्गाः।' लक्षणैकचक्षुष्को हि अपवादविषय पर्यालोच्य तद्विषयत्वानिश्चये उत्सर्गेण तत्तल्लक्षणं सस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः। अभिनिविशन्त इत्यस्य बुद्ध्या- रूढा भवन्तीत्यर्थः । 'अपवादो यद्यन्यत्र' इति न्यायस्य तु नात्र प्राप्तिः । अन्तादेशा- प्राप्तिविषये चारितार्थ्याभावात् । आर्याच्छन्दः॥ सखी तां सान्त्वयति- गणकार्यमनित्यं स्यादिति किं न श्रुत त्वया । अनार्जवमतश्चित्तादपाकुरु कृपां कुरु ॥ २४ ॥ गणेति । गणकार्य भ्वादिधातुगणकार्यमनित्यमिति त्वया न श्रुतम् । पक्षे गणस्य समुदायस्य कार्यम् । अतश्चित्तादनार्जवं कौटिल्यमपाकुरु कृपां कुरु । तनादित्वादेव सिद्ध कृग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि. सिद्धम् ॥ वार्णादाङ्गं वलीयः स्यादिति मत्वा विलासिनी । नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥ वार्णेति । वार्णाद्वर्णमयात्संतोषापादनादाङ्ग वलवदिति मत्वा सा न किंचिदुवाच । किं तु मुदा आलिङ्गनं अदात् । पक्षे-वार्णाद्वर्णसंबन्धिकार्यादाङ्गमगाधिकारीयकार्ये बलवत् । नन्वेवमियायेत्यादौ द्वित्ते कृतेऽन्तरगत्वात्सवर्णदीर्घते तदसिद्धिरत आह- 'वार्णादाङ्गं बलीयो भवति । तेनान्तरङ्गमपि सवर्णदीर्घ बाधित्वा वृद्धिरिति तत्सिद्धिः। 'अभ्यासस्यासवर्णे' इतीयविधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम् । तद्धीयतुरि. त्यादावियव्यावृत्यर्यम् ॥ यान्तं निशम्य कान्तं तद्गृहसविधेऽस्मि साशङ्का । एता प्रतारयति सा ज्ञापकसिद्धं न सर्वत्र ॥ २६ ॥ - . १५ । - ११४ काव्यमाला। यान्तमिति । तस्याः सपत्न्या गृहसविधे तत्समीपे । 'सदेशाभ्याशसविधसमर्यादस- देशवत्' इत्यमरः । साशङ्कास्मि । एनां प्रतारयति सा दूती-ज्ञापकसिद्धं सर्वत्र न भ. वति । स्पष्टमेव पठितव्येऽनुमानाद्वोधनमसार्वत्रिकत्वार्थम् ॥ काचिनायिका सपन्यासक्त पति ज्ञात्वा कांचित्कार्मणकारिणी प्रत्याह- योगविभागादृष्टा सिद्धिः स्वेष्टस्य पाणिनीयेऽपि । तस्मात्तयोस्तमाचर मत्सौख्यं तावतैवाय ॥ २७ ॥ योगेति । योगः सूत्रं तस्य विभागाद्विमजनात्स्वेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणि- नीयेऽपि दृष्टा । पक्षे योगः सगतिः । 'योगः संनहनोपायध्यानसगतियुक्तिषु' इत्यमरः । तस्या विभागस्तस्माद्योगविभागादिष्टसिद्धर्हेतोस्तयोः पतिसपल्योस्तं योगविभागमाचर। हे आर्ये हे पूज्ये, तावतैव मत्सौख्यम् । 'क्वचिद्योगविभागादिष्टसिद्धिः' । आर्याछन्दः । वर्णाश्रये प्रत्ययलक्षणं न रागोदये वन्धनमस्य पुंसः । अभेदका अस्य गुणाः सुवाणि त्वया मया चापि किमत्र वाच्यम् ॥ २८॥ वर्णाश्रयेति । अस्य पुसो वर्णाश्रये वर्णो गौरादिः स आश्रयो यस्य तादृशो रागो- दयो रागस्य प्रीतेरुदयस्तस्मिन्प्रत्ययलक्षणं शपथलक्षणम् । 'प्रत्ययोऽधीनशपथ-' इत्य-, मरः । बन्धनं न । हे सुवाणि, अस्य पुसो गुणा अभेदकाः, न भेदकर्तारः । अत्रास्मि- न्विषये त्वयापि किं वाच्यम्,मयापि किं वाच्यम्। ननु गवे हितं गोहितमित्यादौ प्रत्ययल- क्षणनावादेशाद्यापत्तिरत आह-'वर्णाश्रये नास्ति प्रत्ययलक्षणम्' । वर्णप्राधान्यविषयमे- तत् । तत्त्व च 'प्रत्ययलोपे-' इति सूत्रे स्थानिवदित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतर्राविशेषणत्वरूपं यत्र प्राधान्य तत्रैव प्रवृत्त्यर्थमेतत्सिद्धम् । उपजातिवृत्तम् ॥ काचिती नायिकान्तराद्रुष्ट नायकं स्वनायिकासमीपे नेतुं वदति- एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहि । तस्यां रोषसमाप्तिर्जातानुसर मत्सखी धीर ॥ २९ ॥ एकस्या इति । एकस्या आकृतेश्चरितः कृतः प्रयोगो न द्वितीयस्याः । पक्षे-ए- कस्या गवायुदाहरणव्यक्तेश्चरितः प्रयोगो द्वितीयादेर्न । अतस्तस्यां रोषसमाप्तिर्जाता । हे धीर, त्वं मत्सखीमनुसर । ननु गोषु चाश्वेषु च स्वामीत्यादिवद्गोष्वश्वानां च स्वामी- त्यपि स्यात्। 'स्वामीश्वरा-' इति सूत्रेण षष्ठीसप्तम्योर्विधानादाह-'एकस्या आकृतेश्व- रितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति' । यत्रान्याकृतिकरणे भिन्नत्वसं- भावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः । आर्याछन्दः॥ द्विजराजो यथा भाति कण्ठे नक्षत्रमालया। द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ॥ ३० ॥ द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्परया यथा 1 1 कलिविडम्बनम् । ११५ भाति शोभते, तथा द्विजराजो द्विजश्रेष्ठः पण्डितः कण्ठे नक्षत्रमालया नक्षत्रमालाख्येन प्रन्येन भातु । 'कण्ठो गले गलध्वाने समीपे च' इति विश्वप्रकाशः ॥ त्रिलोकचन्द्रात्मजकृष्णरामसूनोः कृतिः श्रीशिवरामनाम्नः ! नक्षत्रमालेयमनल्पशोमां तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥ त्रिलोकचन्द्रेति । त्रिलोकचन्द्रस्यात्मजः पुत्रः । 'आत्मजस्तनयः सूनुः' इत्यमरः । यः कृष्णरामः कृष्णरामाभिधस्तस्य सूनो श्रीशिवरामनानः कृतिरियं नक्षत्रमाला । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । सूरे. पण्डितस्य । 'धीमान्सुरिः कृती कृष्टिः' इत्यमरः । अनल्पशोमां तनोतु । दिक्षु प्रथिता प्रसिद्धा अस्तु ।। परिश्रमो व्याकरणे काव्यादावपि यः कृतः । दिगियं दर्शिता तस्य शिवरामेण सन्मुदे ।। लक्ष्मीकीर्ती रसामध्ये शिवरामप्रसादतः । कुरुतां वसतिं शक्रतुल्यभूपालपालिते ॥ अन्यान्मया विरचितान्परिशीलयन्तु शीलान्विताः सुमनसो मनसो मुदे ते। यद्वहिशोधितमनल्परुचा समेतं जाम्बूनदं [तदिह] मौल्यविशेषलभ्यम् ॥ काव्यानि पञ्च तनुतेऽपि च पञ्चसंख्याष्टीकास्तु सप्तदश चैक उणादिकोषः । भूपालभूषणमथो रसरलहारो विद्याविलास इनपूर्वशरत्फलाद्याः ।। व्याख्या लक्ष्मीविलासाल्या लक्ष्मीप्रीत्यैव निर्मिता। 'यावन्नक्षत्रमालास्ति तावत्तिष्ठतु भूतले ॥ इति श्रीत्रिलोकचन्द्रात्मजकृष्णरामसूनुशिवरामत्रिपाठिकृता लक्ष्मीविलासाख्यटीका- समेता नक्षत्रमाला समाप्ता । श्रीनीलकण्ठदीक्षितविरचितं कलिविडम्बनम् । . न भेतव्यं न वोद्धव्यं न श्राव्यं वादिनो वचः । झटिति प्रतिवक्तव्यं समासु विजिगीषुभिः ॥ १ ॥ असंभ्रमो विलज्जत्वमवज्ञा प्रतिवादिनि । हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ॥ २ ॥ उच्चैरुद्धोय जेतव्यं मध्यस्थश्चेदपण्डितः । पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३ ॥ १. 'उद्धृष्य' इति पाठः . - ११६ काव्यमाला । . लामो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षों निगमनमनुमानेष्वयं विधिः ॥ ४ ॥ अलभ्यं लप्स्यमानेन तत्वं जिज्ञासुना चिरम् । जिगीषुणा हियं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५॥ पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । ऐवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥ ७ ॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वैतते ॥ ८ ॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता। त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यनाः ॥९॥ यदि न क्वापि विद्यायां सर्वथा क्रमते मतिः । मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥ १० ॥ अविलम्बे कत्यसिद्धौ मान्त्रिकैराप्यते यशः। विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११ ॥ सुखं मुखिषु दुःखं च जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकाः ॥ १२ ॥ यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥ १३ ॥ चारान्विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेषामावश्यकं यतः ॥ १४ ॥ पुत्र इत्येव पितरि कन्यकेत्येव मातरि। गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ।। १५ ।। १. 'अभ्यास्यं लप्स्यमानेन' इति, 'अलभ्य लज्जमानेन' इति च पाठः.२. एव सतस्तु' इति पाठः.३. वर्तताम्' इति पाठः. ४. 'भाग्यत' इति पाठः. ५. अविलम्बेन ससिद्धौ' इति पाठः. ६. 'दुःखेऽपि' इति पाठः. ७. 'भूभृता' इति पाठः, . A .

कलिविडम्बनम् । ११७. आयुः प्रश्ने दीर्घमायुर्वाच्य मौहूर्तिकर्जनैः । जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६ ॥ सर्व कोटिद्वयोपेतं सर्व कालद्वयावधि । सर्व व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥ १७॥ निधनानां धनावाप्ति धनिनामधिकं धनम् । वाणाः सर्वथा ग्राह्या लोकैज्यौतिषिका जनाः ॥ १८ ॥ शतस्य लाभे ताम्बूलं सहस्त्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९ ॥ अपि सागरपर्यन्ता विचेतव्या वसुंधरा । देशो रित्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥ वारान्केचिद्ग्रहान्केचित्केचिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१ ॥ नैमित्तिकाः स्वप्नहशो देवतोपासका इति । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ २२ ॥ स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किंचन । कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवः ॥ २३॥ नातिधैर्य प्रदातव्यं नातिभीतिश्च रोगिणे । नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥ . मैंपज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतः ॥ २६॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सदने स्त्रियः ॥ २६ ॥ जुम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैयुत्पद्यन्ते चिकित्सकाः ॥ २७ ॥ १. 'सर्वदा' इति पाठः. २. 'नित्य' इति पाठः.३. 'प्रादेशमात्रोऽपि इति पाठः. ४. 'रोगिणि' इति पाठः, ५. 'भिषज्य तु' इति-पाठः. ६. 'वनपथ्यत.' इति पाठः, ॥ . . - 4 ११८ काव्यमाला। प्रवर्तनार्थमारम्मे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकाः ॥ २८ ॥ लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः संप्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥ २९ ॥ रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः । शनैरनादरः शान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥ . दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्रयकारकः ॥ ३२ ॥ कातय दुर्विनीतत्वं कार्पण्यमविवेकता । सवै मानन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ३३ ॥ न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः। किंचिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ ३४ ॥ स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनः । कोटः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ ३५ ॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥ शब्दाख्यमपरं ब्रह्म संदर्भण परिष्कृतम् । विक्रीयते कतिपयैवयान्यैर्विनियुज्यते ॥ ३७॥ वर्णयन्ति नरामासान्वाणी-लब्ध्वापि ये जनाः । लव्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥ प्रशंसन्तो नरामासान्प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९ ॥ १. 'लुप्यमानेषु' इति पाठः. २. 'शाकिनीमुष्टि-' इति पाठः. ३. 'घुरघुरायते' इति पाठः.

1 कलिविडम्बनम् । ११९ यत्संदर्भ यदुल्लेखे यद्वयङ्गये निभृतं मनः। समाधेरपि तज्ज्यायः शंकरो यदि वर्ण्यते ॥ ४० ॥ गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१ ॥ जामातरो भागिनेया मातुला दारवान्धवाः । अज्ञाता एव गृहिणां भक्षयन्त्याखुवद्गृहे ॥ ४२ ॥ मातुलस्य वलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेवलम् ॥ ४३ ॥ जामातुर्वक्रता तावद्यावछ्यालस्य वालता । प्रबुद्धमात्रे सारल्यं प्रबुद्धेऽस्मिन्पलायनम् ॥ ४४ ॥ भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी । श्वशुरस्तु प्रवासी च जामातुर्भाग्यकारणम् ॥ ४५ ॥ भूषणैर्वसनैः पात्रैः पुत्राणामुपलालनैः । सकदागत्य गच्छन्ती कन्या निर्माष्टि मन्दिरम् ॥ ४६॥ गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु वहाशान्क्षीरपांस्तस्करानपि ॥ १७ ॥ भायें दे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ १८ ॥ भायें वे बहवः पुत्रा दारिद्र्य रोगसंभवः । जीर्णौ च मातापितरावेकैकं नरकाधिकम् ॥ ४९ ॥ स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥ ५० ॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ११ ॥ १. 'प्रबुध्यमाने' इति पाठः. २. 'प्रवासोति' इति पाठः. ३. 'भाग्यधोरणी' इति पाठः.

१ 1 . . १२०. काव्यमाला। न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्चले। उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ १२ ॥ शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्योर्मृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ १३ ॥ शक्ति करोति संचारे शीतोष्णे मर्षयत्यपि। दीपयत्युदरे वह्नि दारिद्र्यं परमौषधम् ॥ १४ ॥ गिरं स्खलन्ती मीलन्ती दृष्टिं पादौ विसंस्फुलौ । प्रोत्साहयति याच्चायां राजाज्ञेव दरिद्रता ॥ १५ ॥ जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिंचन्यवलान्यानामन्ततोऽश्मापि जीर्यति ॥ १६ ॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुद्ध्यते ॥ १७ ॥ प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांलक्ष्मीः किंचिदुपस्थिता ॥ ५८ विडम्बयन्ति ये नित्यं विदग्धान्धनिनो जनान् । त एव तु विडम्ब्यन्ते श्रिया किंचिदुपेक्षिताः ॥ ५९॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६ ॥ शृण्वन्त एव एच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ ६१ ॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । स्वैरं हसन्ति पार्श्वस्था वालोन्मत्तपिशाचवत् ॥ ६२॥ स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते । न विमेति न जिह्वेति तथापि धनिको जनः ॥६३ ॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६ ॥ १. 'विबुध्यते' इति पाठः. ३ . ६ 1 1 " ४ . कलिविडम्बनम् । श्रीर्मासमर्धमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं लशुनगन्धवत् ॥६५॥ कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥६६ ॥ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मादः प्रवर्तताम् । कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथम् ॥ ६७ ॥ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥६८॥ विमर्तु भृत्यान्धनिको दत्तां वा देयमर्थिषु । यावद्याचकसाधम्य तावल्लोको न मृण्यति ॥ ६९ ॥ धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघूकर्तुं यतन्तेऽपरथा स्वतः ।। ७० ।। श्रमानुरूपं पिशुने किमुपक्रियते नृपैः । द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥ ७१ ॥ गोकर्णे भद्रकणे च जपो दुष्कर्मनाशनः । राजकणे जपः सद्यः सर्वकर्मविनाशनः ॥ ७३ ।। .. न स्वार्थ किंचिदिच्छन्ति न प्रेर्यन्ते च केनचित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ॥ : कालान्तरे ह्यनय गृध्रो गेहोपरि स्थितः। खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ॥७४ ॥ शुष्कोपवासो धर्मेषु भैषज्येषु च लवनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ ७५ ॥ किं वक्ष्यतीति धनिको यावदुद्विजते मनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततः ॥ ७६ ॥ सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोमिनः । मिक्षाकवलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥ १. 'वापि' इति पाठः. २. 'धनिकात्' इति पाठः, " . १६ . १२२ काव्यमाला। धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कस्मैचन दित्सति ॥ ७ ॥ दातारोऽर्थिमिरर्थ्यन्ते दातृभिः पुनरर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ ७९ ॥ स्वस्मिन्नसति नार्थस्य रक्षकः समवेदिति । निश्चित्यैव स्वयमपि मुझे लुब्धः कथंचन ॥ ८० ॥ प्रेस्थास्यमानः प्रविशत्प्रतिष्ठेत्तु दिने दिने । विचित्रानुलिखेहिनांस्तिष्ठासुरतिथिश्चिरम् ॥ ८१ ॥ प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहस्र दाम्भिके लोके श्रोत्रिये तु न किंचन ॥ ८२ ॥ घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । यावदर्थाः प्रसिद्धयन्ति यावच्चापलमारतम् ॥ ८३ ॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वरा ॥ ८ ॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणान् । 'विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ २५ ॥ कौपीनं भसितालेपो दर्शा रुद्राक्षमालिका। मौनमेकासनं चेति मूर्खसंजीवनानि पट् ॥ ८६ ॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः। अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७॥ मन्त्रभ्रंशे संप्रदायः प्रयोगश्युतसंस्कृतौ। देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८ ॥ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्म चरेत्सर्वं न वृथा धर्ममाचरेत् ॥ ८९ ॥ सदा जैपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्व ब्रह्मेति वादश्च सद्यः प्रत्ययहेतवः ॥ ९० ॥ १. 'उपागते' इति पाठः. २. 'प्रस्याप्यमानः' इति पाठः. ३. वाहटो वाग्भटः अष्टाङ्गहृदयकर्ता. ४. 'जपस्रग्घस्ते च' इति पाठः. . . .

कलिविडम्बनम् । १२३ आ मध्याहं नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्चेत्येतद्दम्मस्य जीवितम् ॥ ९१ ॥. तावद्दीधै नित्यकर्म यावत्स्यादृष्टुमेलनम् । तावत्संक्षिप्यते सर्व यावद्दष्टा न विद्यते ॥ ९ ॥ आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ । किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥ ९३ ॥ दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ॥ ९४ ॥ अदानमीषदानं च किंचित्कोपाय दुर्धियाम् । संपूर्णदानं प्रकृतिविरामो वैरकारणम् ॥ ९५ ॥ ज्यायानसंस्तवो दुष्टैरीया॑यै संस्तवः किल । अपत्यसंवन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तदिशेऽपि नमो नमः॥९॥ परच्छिद्रेषु हृदयं परवार्तासु च श्रवः । परमर्मणिं वाचं च खलानामसृजद्विधिः ॥ ९८ ॥ विपेण पुच्छलग्नेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९ ॥ यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र स्वप्रतिभा मान तस्मै श्रीकलये नमः ॥१०॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालप्रपन्नानां कालः किं नः करिष्यति ।। १०१ ॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥ इति श्रीनीलकण्ठदीक्षितविरचित कलिविडम्बनम् । १. 'पुनः' इति पाठः. २. 'मर्मसु' इति पाठः ३. कालकालः शिव... - ..

१२१ काव्यमाला। श्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी। सुखबोधिकया वृत्त्या समेता। " . . श्रीपार्श्वनाथं प्रणिपत्य भक्त्या पुरि स्थितं श्रीफलवधिकायाम् । शृङ्गारवैराग्यतरङ्गिणी या व्याख्यानतो व्याक्रियते मया सा ॥ श्रीसोमप्रभाचार्या वैराग्यवासनया शृङ्गारं दूपयन्तः शृङ्गारवैराग्यतरद्गिणीनामानं अन्यं कर्तुकामाः स्त्रीरूप निन्द्यमिति प्रतिपादयन्त उचः- धर्मारामदवामिधूमलहरीलावण्यलीलाजुष- * स्तन्वङ्गया यमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे । व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमा- न्मत्वा दूरममून्विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥ १ ॥ अहो इत्याश्चर्ये । तन्वङ्गयाः । तनुः सूक्ष्ममहं यस्याः सा तन्वगी । तस्याः स्त्रिया य. मितान्बद्धान्वालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्ठां करोपि। कथंभूतान्या- लान् । धर्मारामदवामिधूमलहरीलावण्यलीलाजुषः । धर्म एवारामो वनं तत्र यो दवा- निर्दावानलस्तस्य या धूमलहरी धूमश्रेणितस्या यल्लावण्य श्यामत्वं तस्य लीलां जुपन्ते सेवन्त इति लीलाजुषस्तान् । जुपी प्रीतिसेवनयोर्धातुः । दवाग्निधूमपटिसदृशानित्यर्थः । अथ वैराग्यरसेन शृङ्गारं दूषयति–रे मनुष्य, यदि त्वमात्मन: स्वस्य कुशलं क- ल्याणं वाञ्छसि तदामून्वालान्च्यालान्सन्मित्वा । कृष्णवर्णत्वालम्बायमानत्वाच्च सर्प- सादृश्य वालानां युक्तमेव । दूर विमुश्च । दूरतस्त्यजेत्यर्थः । सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूरं पलायस्वेत्यर्थः । किंभूतान्वालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानवि- नक्षमान् । मुक्तिरेव नगरं तत्र यत्प्रस्थानं गमनं तत्र विघ्नाय विघ्नं कर्तुं क्षमाः समर्था- स्तान् । सर्पस्य दर्शनादेव गमने विनसमुत्पत्तिरिति शकुनशास्त्रे प्रसिद्धम् । तन्वद्गया यमितान्वालान्व्यालाक्षानीहि । तथाहि । श्लेषार्थोऽयम्-यकार इताः प्राप्ताः संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालाना व्यालत्वम् । इदं शार्दूलविक्रीडितं नाम च्छन्दः । इति प्रथमपद्यार्थसंकोचः ॥ ये केशा लसिताः सरोरुहटशां चारित्रचन्द्रप्रभा- भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः । १. श्वेताम्वरजैनोऽयं सोमप्रभाचार्यः. नास्य देशकालौ ज्ञायते. २. 'विलोंकितुमहो' इति मूलपुस्तकपाठः. ३. 'विमुक्तिनगर' इति मूलपुस्तकपाठ..

1 शृङ्गारवैराग्यतरङ्गिणी। १२९ क्छेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे- नी चेत्कष्टपरम्परापरिचितः शोच्यां दशामप्यसि ॥ २ ॥ है सखे, सरोरुहशा सरोरुहाणि कमलानीव दृशो नेत्राणि यासा ताः सरोरुहश. स्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशास्तव चेतश्चमत्कारिणश्चित्तप्रसत्तिकारिणः । वर्तन्त इति शेषः । किंभूताः केशाः । चारित्रचन्द्रप्रभाभ्रशाम्भोदसहोदराः । चारित्र- मेव चन्द्रप्रभा ज्योत्ला तस्या भ्रशे नाशने अम्भोदो मेघस्तस्य सहोदराः सदृक्षाः । केशानां श्यामत्वादम्भोदसदृशत्वम् । तान्केशान्मूर्तिमतश्चक्षुरिन्द्रियगम्यान्क्लेशान् । नियतं निश्चयेनावगम्य बुद्धा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः । नो चेदिति ' यदि न त्य- जसि तदा त्व शोच्यां शोचनीयां दशामवस्थामेष्यसि प्राप्स्यसि । किंभूतस्त्वम् । कष्ट- परम्परापरिचितः कष्टानां या परम्परा श्रेणिस्तया परिचितो युक्त. । स्त्रीणां केशा- न्क्लेशाज्ञात्वा त्यजेत्ययः । केशाः क्लेशाः कथं स्युरिति प्रश्ने । लसिताः लेन लकारेण सिता बद्धाः केशाः क्लेशा भवन्तीत्यर्थः।। ये शुद्धबोधशशिखण्डनराहुचण्डा- श्चित्तं हरन्ति तव वक्रकचाः कशाङ्गयाः। ते निश्चितं सुकृतमर्त्य विवेकदेह- निर्दारणे ननु नवक्रकचाः स्फुरन्ति ॥ ३ ॥ हे पुमन्, कृशाद्याः कृश सूक्ष्ममङ्गं यस्याः सा तस्या ये वक्रकचा वक्रकेशास्तव चित्तं हरन्ति । तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः । कथंभूता वक्रकचाः। शुद्धबोधश- शिखण्डनराहुचण्डाः। शुद्धोधो निर्मलज्ञानं स एव शशी तस्य खण्डनेऽर्थात्कवलने राहु- रिव चण्डाः क्रूरा. शुद्धबोधशशिखण्डनराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र ग्रा- सीकरोति तथा एते वक्रकचा ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते वक्रकचा सुकृतम- यविवेकदेहनिरिणे । सुकृतमेव मय॑स्तस्य यो विवेक एव देहस्तस्य निर्दारणे नवक्र- कचाः । नवाश्च ते'क्रकचाश्च नवक्रकचाः । नूतनकरपत्राणि । 'क्रकचं पुनपुसकम् । करपत्रं च' इति नामकोषः । स्फुरन्ति स्फुरद्रूपा वर्तन्ते इत्यर्थः । अत्र क्रकचाः नव- क्रकचा इति भिन्नश्लेप एव चमत्कारः । वसन्ततिलकाछन्दः॥ अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् । वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥ अस्या नायिकायाः कुन्तलभारं बद्धकेशसमूहम् । 'कुन्तलाः सयता ये स्यः' इति कोपः । विलोक्य लोकः प्रमोदं हर्षे कुरुते । कथंभूतं कुन्तलभारम् । अलकृत पुप्पा- दिना संस्कृतम् । अमु कुन्तलमारं कुन्तभारम् । 'कुन्तः प्रासोऽथ मुद्गरः' इति नाम- १. 'अवगत्य नियतं दूरे च' इति मूलपुस्तकपाठः, . ३ - - - १२६ काव्यमाला। कोपः । किं न पश्यसि । कथंभूतं कुन्तभारम् । वैराग्यमेव वीरः सुभटस्तस्य छिदुर- श्श्छेदनशीलस्तम्। पुनः कथंभूत कुन्तभारम् ।दुरन्तम् । दुष्टमन्त प्रान्तं यस्य तम् । अन्ते तीक्ष्णत्वाद्दुःसहमित्यर्थः । कुन्तलभारः कुन्तभारः कथ स्यात् । न विद्यते लः ल. कारो यस्य सोऽलस्तं अल कृत विहितम् । लकाररहितः कुन्तलभारः कुन्तभारः स्यादेवेत्यर्थः । उपेन्द्रवज्रानाम च्छन्दः ।। कस्तूरिकातिलकितं तुलिताष्टमीन्दु चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् । वामभ्रुवां यदलिकं तदहो अलीक- मित्याख्ययैव परया प्रवदन्ति रूपम् ॥ ५ ॥ वामभ्रुवा स्त्रीणां यदलिक ललाटमेकमद्वितीय सौख्यनिमित्तं सुखकारण चित्ते विचिन्तयसि । कथभूतमलिकम् । कस्तूरिकातिलकितम् । तिलक जातं यस्य तत्तिल- कितम् । कस्तूरिकया तिलकितम् । पुनः कथभूतमलिकम् । तुलिताष्टमीन्दु । तुलितो- ऽष्टम्या इन्दुयेन तत् । अष्टमीचन्द्रसदृशमित्यर्थः । अहो इत्याश्चर्ये । तदलिकं परया अन्यया आख्यया नाना अलोकमिति रूपं वदन्ति बुधा. । 'गोधिर्ललाटालिके चा- लीक श्रवणमस्त्रियाम्' इति नामकोषः । अलिकं अलीकमित्युभय नाम ललाटस्य । अलीकं मृषावचः । अलिकं अलीकं मिथ्या जानीहीत्यर्थ. ॥ न भूरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् । भूः किं त्वसौ साधुतरा प्रसूते निवन्धनं मोहविषद्रुमस्य ॥ ६ ॥ पङ्कजलोचनायाः कमलाक्ष्या इयं भ्रून चकास्ति न शोभते । कथंभूता भ्रूः । शृङ्गा- ररसैकपात्रं शृङ्गाररसस्य एकमद्वितीय पात्र स्थानम् । अजहल्लिङ्गत्वानपुंसकत्वम् । किं त्वसौ भ्रूः साधुतरा अतिशयेन साध्वी साधुतरा । तरतमेति पुवद्भावः । श्रेष्ठतरा भूः भूमिः सा मोहविपद्रुमस्य मोह एव विपद्रुमस्तस्य निवन्धनं आविर्भाव प्रसूते उत्पादयति । भ्रूभूः कथमिति प्रश्ने सा प्रसिद्धा भ्रः । धुतरा। धुतो गतो रो रेफो यस्या ईदृशी भ्रूभूर्भवतीत्यर्थः । इन्द्रवज्रानाम च्छन्दः ॥ नैवकुवलयदामश्यामलान्दृष्टिपाता- न्कृतपरमदनाशान्विक्षिपत्यायताक्षी इति वहसि मुदं किं मोहराजप्रयुक्ता- न्प्रशमभटवधाथै विद्ध्यमून्दृष्टिपातान् ॥ ७ ॥ १. 'वदति स्वरूपम्' इति मूलपुस्तकपाठः. २. 'निर्बन्धन' इति मूलपुस्तकपाठः. ३. 'मयि कुवलय' इति मूलपुस्तकपाठः । .

शृङ्गारवैराग्यतरङ्गिणी। १२७ • आयताक्षी । आयते विस्तीर्णे अक्षिणी यस्याः सा एवविधा मामुद्दिश्य दृष्टिपाता- कटाक्षान्विक्षिपति प्रयुके। किंविशिष्टान्दृष्टिपातान् । नवकुवलयदामश्यामलान् । न- वानि यानि कुवलयानि तेषा दाम माला तद्वच्छयामलाः कृष्णास्तानश्यामलान् । पुनः किंविशिष्टान्दृष्टिपातान् । कृतपरमदनाशान्कृतः परमदस्य नाशो यैस्तान् । इति मुद हर्षे किं वहसि प्राप्नोषि । अमून्दृष्टिपातान्प्रशमभटवधार्थे प्रशमः शान्तिभावः स एव भटस्तस्य वधार्थम् । मोहराजप्रयुक्तान् । मोह एव राजा मोहराज.राजाहःसखिभ्य- टच् समासान्तः । तेन प्रयुक्तान् ऋष्टिपातान् तरवारिपातान् । 'तरवारिरपि द्वौ च ऋष्टि- रिष्टी अखण्डको' इति नामकोषः । विद्धि जानीहि । दृष्टिपातान् ऋष्टिपातान् जानीहि । तत्कयम् । कृतपरमदनाशान् । कृतः परमः सर्वात्मना दस्य दकारस्य नाशो यत्र ते कृत- परमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्यादेव । मालिनीनाम च्छन्दः॥ तस्याः कोपपदं यदाननमहोरात्रं स्मरन्नात्मनः संतापं वितनोपि काननमहो ज्ञात्वा सखे तत्त्यजेः । एतस्मिन्वसता मनोभवमहासर्पण दष्टः पुमा- न्कार्याकार्यविवेकशून्यहृदयः केस्को न संजायते ॥ ८ ॥ हे सखे, तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं स्मरन् स्मृतिविषय कुर्वन् त्वं आ- त्मन. स्वस्य संताप वितनोपि विस्तारयसि । कथंभूत आननम् । कोपपदं कोपस्य पदं स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञात्वा व त्यजेः । एतस्मिन्कानने वसता स्थिति कुर्वता मनोभवमहासर्पण मनोभवः काम. स एव महासर्पस्तेन पुमान् दष्टः सन् कस्कः । 'सर्वस्य द्वे' इति द्वित्वम् । कस्कादित्वात्सत्वम् । कार्याकार्यविवेकशून्यहृदयः । कार्य चाकार्य च कार्याकार्ये तयोविवेकस्तेन शून्यं हृदयं यस्य स तथा न सजायते । सर्पविषेण मूच्छितः पुमान् शून्यहृदयो भवति । अयं तु महासर्पण दष्टस्तस्य किं वाच्यम् । आननं काननं कथमिति प्रश्ने । आनन कोपपद कः ककार उपपद यस्य तदा कानन स्यादेवेत्यर्थः । साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि । इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ ९ ॥ है मुग्धबुद्धे, मुग्धा बुद्धिर्यस्य तत्संबोधनम् । तरुण्या मुखं आलोक्य किं मुदं हर्षे आदधासि धारयसि। कथभूतं मुखम् । साकारम् । आकारेण सह वर्तमानं साकारम् ।सु- न्दरमित्यर्थः । हि निश्चित इदं मुखं विचक्षणैर्विद्वद्भिः चित्तभ्रमनाटकस्य चित्तश्रम एव १. 'येनास्मिन्' इति मूलपुस्तकपाठः. २. 'कः कोऽत्र नो जायते' इति मूल- पुस्तकपाठ.. .

. . १२८ काव्यमाला। नाटकस्तस्य आमुखमाद्यारम्भ आचचक्षे इत्यत्र कर्मणि लिट् । मुखम् । आमुख वि. त्यम्-साकार आकारेण सह वर्तमानं मुखं आमुखं स्यादित्यर्थः ॥ कामज्वरातुरमते तवं सर्वदास्य वामभुवां यदि कथंचिदवाप्तुमिच्छा। यत्नं विनाप्यखिलजन्मपरम्परासु तज्जातमेव भवतो ननु सर्वदास्यम् ॥ १० ॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे कामज्वरातुर- मते। सर्वदा सर्वस्मिन्काले यदि तव वामभुवां स्त्रीणां आस्य मुखं कथंचित्केनापि प्रकारेण अवाप्तुं प्राप्तुमिच्छा वर्तते तदा ननु निश्चितं यलं विनापि अखिलजन्मपरम्परासु।जन्मनः परम्पराः श्रेणयः।अखिला या जन्मपरम्परास्तासु भवतस्तव' सर्वदास्यम्। दासस्य भावो दास्य सर्वेषां भूत्यत्वं जातमेव । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव । अत्र पद्ये उभयत्र सर्वदास्यमिति पदस्य भिन्नार्थत्वमेव चित्रम् । वसन्ततिलका नाम च्छन्दः॥ तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यनसा मुक्त्वा मुक्तिपथं हहा प्रविशति भ्रान्त्या सदुगै वनम् । तच्चात्यन्तमचारुबद्धवसतियेनात्र रागादिभि- श्ौरैधर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥ ११ ॥ यः पुमान् तस्याः स्त्रिया वदन मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अञ्जसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे । मुक्तिपथं मुक्तिमार्गे मुक्त्वा श्रान्त्या प्रमेण दुर्ग दुःखेन गमनाई वनं प्रविशति । तद्वनं अत्यन्त अन्तमतिक्रान्तम् । अप्रमाणमित्यर्थः। कथंभूतः सः। अचारबद्धवसतिः। न चारुरचारः बद्धा वसतिर्येन सः।येन वन प्रविशता पुरुषेण अत्र वने कष्टं किं न प्राप्यते । कस्मात् । रागादिभिश्चौरैर्धर्मधनापहारकरणात् । धर्म एव धनं धर्मधनं तस्यापहारः हरणं तस्य करण.तस्मात् । चौरा हि धनमपहृत्य वन प्रविशन्ति तदा कष्टं स्पष्टमेव । तत्र वदन कथं वनमिति प्रश्न।यः साधुः अद न विद्यते। दकारो यस्मिन् तत् अदम् । दकाररहित वदनं वनं स्यादेव ॥ यियाससि भवोदधेर्यदि तटं तदेणीदशा- महीनमघर धरं परिहरेः परं दूरतः । A । १. 'वित्रपरम्परासु' इति मूलपुस्तकपाठः. २. 'यत्रात्यन्त इति मूलपुस्तकपाठ:. ३. 'प्रापित.' इति मूलपुस्तकपाठ..

। शृङ्गारवैराग्यतरङ्गिणी। १२९ इहास्फलनतोऽन्यथा विशदवासनानौस्तव व्रजिष्यति विशीर्णतां न भविता ततो वाञ्छितम् ॥ १२ ॥ हे पुमन् , यदि त्वं भवोदधेः ससारसमुद्रस्य तट पार यियाससि यातुमिच्छसि । यातेः सन्नन्तान्मध्यमपुरुषैकवचनरूपम् । तदा एणीदृशां एणी हरिणी तस्या दृश इव दृशो यासां तास्तासां अधरं धरं पर्वत दूरतो दूरात्पर त्व परिहरेः । किंभूतमधरम् । अहीनं परिपूर्ण अमृतादिना । अन्यथा यदि न परिहरसि तर्हि इह पर्वते आस्फलनतः सघटनात् तव विशदवासना निर्मलवासना सैव नौ विशीर्णतां भगतां व्रजिष्यति । तत- स्त्वद्वाञ्छितं न भविता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनानावि भन्नाया वाञ्छितं न भवेत्तथेत्यर्थः । अधर धरं कथमिति प्रश्न उत्तरम् । अहीन एन अकारेण हीन अधरं धर स्यादेव । 'सानुमान्पर्वतो धरः' । 'धरः शैलस्तथोदय.' इति कोषः । पृथ्वीनाम च्छन्दः ॥ न भातीदं भ्रातः स्फुरदरुणरत्लौघकिरण- प्रतानं तन्वङ्गयास्तरलतरलं कुण्डलयुगम् । दमं दुग्धं पुंसामिह विरहसंयोगदशयो- वलच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् ॥ १३ ॥ है भ्रातः, तन्वद्गयाः कृशागया इद कुण्डलयुगं कुण्डलस्य कर्णाभरणस्य युगं न भाति न शोभते । कथभूत कुण्डलयुगम् । स्फुरदरुणरलौघकिरणप्रतान स्फुरन्तो देदीप्यमाना ये अरुणरलौघा रक्तरलसमूहास्तेषा ये किरणास्तेषां प्रतान समूहो यस्मिंस्तत् । पुनः कयभूत कुण्डलयुगम् । तरलतरलम् । तरलाचञ्चलात्तरल चञ्चलम् । चञ्चलतरमित्यर्थ । कथभूत कुण्डलयुगलम् । विरहसयोगदशयोः । स्त्रीपुसयोः सयोगाभावाद्विरहोत्पत्तिः । विरहश्च संयोगश्च विरहसंयोगौ तयोर्दशे अवस्थे तयोः। शोकानगज्वलनयुक् । शोकश्चा- नगज्वलनश्च शोकानगज्वलनौ ताभ्यां युक् । विरहे शोकाविर्भाव , सयोगे कामानेरा- विर्भाव इत्यर्थ । कुण्डलयुगल किं कुर्वत् । इहं ससारे पुसा पुरुषाणां दममुपशम दुग्धं पय । ज्वलत्कुण्डलयुगं कुण्टयुगल कथ तत्रोच्यते। तरलतरलश्चञ्चलतरो लो लकारो य- स्मिन् । कुण्डशब्दालकारे कुण्डलयुगस्य चञ्चलत्वात् युगशब्दात्परतः स्थिते सति कु- ण्डयुगलं स्यादित्यर्थः । शिखरिणी नाम च्छन्दः । ताडकं सस्टहं तस्याः पश्यन्मूढः परे भवे । नरो नरकपालेभ्यस्ताडं कं न सहिष्यते ॥ १४ ॥ १ 'इह स्खलनतो' इति मूलपुस्तकपाठ.. २. 'दग्धु' इति मूलपुस्तकपाठ एवं समीचीनः. टीकाकारस्वशुद्धमेव व्याख्यातवान् ३. 'सभोग' इति मूलपुस्तकपाठ.. ४. 'गुगद' इति मूलपुस्तकपाठ.. . । है . १३० काव्यमाला। मूढो नरस्तस्याः स्त्रियाः सस्पृह सामिलाप यथा स्यात्तथा ताटक कर्णभूषणं पश्यन् परे भवे आगामिभवे नरकपालेभ्यः नरकान् पालयन्ति ते नरकपालास्तेभ्यः परमाधा- मिकेभ्यः कं ताडं ताडनं ताट आघातस्त क न सहिप्यते, अपि तु सर्व सहिप्यते । अनुष्टुप् च्छन्दः॥ सारं गलं यमरविन्दविलोचनाना- मालोक्य चेतसि मुदं कलयन्ति मूढाः । हा निश्चितं रचितमुक्तिपुरप्रवेश- व्यासेधमर्गलममुं न विचारयन्ति ॥ १५ ॥ मूढा मूर्खा नरा अरविन्दविलोचनानां कमलनयनानां स्त्रीणां य सार श्रेष्ट गल नि- गरणं विलोक्य । चेतसि मुदं हर्षे कलयन्ति प्राप्नुवन्ति । हा इति खेद । निश्रितं नि- यमेन अमुं गलं अर्गल न विचारयन्ति । कथंभूत अर्गलम् । रचितमुक्तिपुरप्रवेशव्यासंघ रचितो विहितो मुक्तिनगरप्रवेशस्य व्यासेधो निषेधो येन स त रचितमुक्तियुगप्रवेश- व्यासेधम् । गल अर्गलं वित्यम् । सार अरा अपशब्देन सह वर्तते यः स सारस्तं सारम् । असंहितो गलः अर्गलः स्यादित्यर्थः।। अलं प्राप्य स्पर्श कुचकलशयोः पङ्कजहां परां प्रीति भ्रातः कलयसि सुधामन इव किम् । अवस्कन्दं धर्मतितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुपरटेन स्पशमिमम् ॥ १६ ॥ पङ्कजशा कमलनयनाना स्त्रीणा कुचकलशयोः स्तनयोः अलं अत्यय स्पर्श प्राप्य हे भ्रातः, किं परामुत्कृष्ट प्रीति कलयसि प्राप्नोपि। क इव। मुधाममा इव अमृते कृतम. ज्जन इव। इम स्पर्श कलुपवरटेन कलुष पाप तदेव वरटो भिल्लस्तेन प्रयुक्तं प्रेरितं पश हेरिक त्वं जानीयाः । कथभूतेन कलुपवरटेन । धर्मक्षितिपकटके धर्म एव क्षितिपो राजा तस्य कटके सैन्ये अवस्कन्द प्रहरणं दातुमनसा । प्रहरण कर्तुमनसेन्यर्थः । स्पर्श स्पर्श कथमिति । अल रलयोश्चैकत्वस्मरणात् अरं नास्ति रो रेफो यत्र त अरम् । रेफर- हितस्पर्श स्पर्श स्यादित्यर्थः ।। पीनोन्नतं स्तनतटं मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् । १. 'यदरविन्द' इति मूलपुस्तकपाठः. २. 'तनिश्चित' इति मूलपुस्तकपाठ. ३. 'अर' इति मूलपुस्तक पाठः. ४. 'चरटेन' इति मूलपुस्तकपाठः. ५. 'पीनोनत नरहित यदपूर्वमेतदालोकसे'स्तनतटं मृगलोचनायाः' इति मूलपुस्तकपाठः.

शृङ्गारवैराग्यतरङ्गिणी। १३१ ग -- मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः ॥ १७ ॥ यत् मृगलोचनायाः हरिणाझ्या. स्त्रियाः एतत् स्तनतट कुचद्वन्द्वं पीनोन्नत पीनं च तदुन्नतं च पीनोन्नतम्, पुनः नरहित नरेभ्यो हितम्, पुनः अपूर्वम् । प्रतिक्षणं चमत्कार- हेतुत्वात् । त्वं आलोकसे पश्यसि, तत्स्तनतट विवेकभानो विवेकसूर्यस्य अस्ततट व विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभूतस्य विवेकमानोः । मोहान्धकार- निकरक्षयकारणस्य मोह एवान्धकारस्तस्य यो निकरः समूहस्तस्य क्षयकारण तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतटमिति विशेषणद्वयेन अस्ततट साधयति- नरहितं नेन नकारेण रहितम्, पुनः अपूर्व अः अकारः पूर्वो यस्य तत् अपूर्व एतादृशं स्तनतटं अस्ततट स्यादेवेत्यर्थः ।। कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा स्म भूः । किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां हस्तोऽयं सुकृतस्य तस्य सहसादायीति संचिन्तयेः ॥ १८॥ मया मृगाक्ष्याः स्त्रियाः कुचद्वन्द्वे स्तनयुग्मे हस्तो न्यस्तः करः स्थापितः । कथ- भूते कुचद्वन्द्वे । कदर्पद्विपकुम्भचारुणि कदर्प एव द्विपस्तस्य कुम्भो गण्डस्थलं तद्वच्चारु मनोज्ञ तस्मिन्कदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमादमदिरामाद्यन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया माद्यन्मनो यस्य स एतादृशस्त्व मा स्म भूः । 'माडि लुट' इति लुड् । 'न माड्योगे' इत्यहागमाभावः। किं तु बहुविधां तपोनुष्ठानादिरूपां कष्ट- क्रिया कष्टसाध्या क्रिया कष्टक्रिया ता कष्टक्रियाम् अभ्यस्य अभ्यास कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्य यत्सुकृतमर्जित तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः । यथा कस्य आजिगमिपोः हस्तप्रदान सज्ञया निषेधयति तथा हस्तदानेन सुकृतं निषिद्ध इति त्व सचिन्तयेः विचारयेरित्यर्थः । अत्र पद्ये हस्तो न्यस्तः सुकृतस्य हस्तो- ऽदायीति चित्रकृत् ॥ कण्ठोपकण्ठे लुलितं विभावयेkनं युवत्या भुजगं गराजितम् । एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ १९॥ १. मूलपुस्तकेऽस्मात्पद्यादनन्तर 'एतस्या युवते. पयोधरयुगं वल्गन्महात्मनिर्द चक्रे योधयुग विरचिरपर विश्वापकारोद्यतः। कुर्ववर्मगुणेष्वयोगमनतिक्रामनिजां स्त- व्धतां यहूरादपि कल्पयत्युपशमप्राणापनोद नृणाम् ॥' अय श्लोकोऽधिकोऽस्ति. अत्र अपरमन्यत्पयोधरयुगम्, अन्यत्र पकार-रेफरहित पयोधरयुग योधयुगं भवति. वर्म- गुणेति धनुर्जीवावाणेषु योग सबन्ध न करोतोत्यर्थ..

१३२ काव्यमाला। कण्ठोपकण्ठे लुलितं कण्ठस्य गलस्य समीपे कण्ठोपकण्ठे लुलितं वलितं युवत्याः स्त्रिया भुजं बाहु भुजगं सर्प त्वं विभावयेर्जानीयाः । कथभूतं भुजगम् । गराजित गरेण विपेण अजितो गराजितस्तम् । एतस्य भुजगस्य संस्पर्शवशात् स्पर्शमात्रेणापि अशेष स- मस्त चैतन्यं चेतनाया भावः क्षणात संक्षयं नाशं उपैति प्रामोति । यथा भुजगस्पर्शा. चैतन्यं याति तथा युवत्या भुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कथ स्यादिति प्रश्ने भुजं गराजितं गेन गकारेण राजित भुजं भुजग स्यादित्यर्थः । इन्द्रवंशा नाम च्छन्दः ॥ कण्ठावसक्के कुपिते नवाही वरं वहिःप्राणहरे प्रमोदः । विध्वस्तधर्मान्तरजीविते ः स्त्रैणे न वाही विदुपां स युक्तः ॥ २० ॥ नुः पुरुषस्य नवाही नवश्वासावहिश्च नवाहिस्तस्मिनवीनसर्प कण्ठायसक्त कण्ठस्था- पिते वरं श्रेष्ठम् । कथभूते नवाही। कुपिते कुद्धे । पुनः कथंभूते नवाही । यहिःप्राणहरे पहिःप्राणान्हरतीति बहिःप्राणहरस्तस्मिन्यायप्राणनाशके । तेणे स्त्रीणामयं नैणस्त- स्मिन् । 'स्त्रीपुंसाभ्यां नलजी' इति नञ्प्रत्यये आदिवृद्धौ णत्वे स्त्रैणशब्दसिद्धिः । याही भुजे कण्ठावसक्ते सति यः प्रमोदो हर्षः स विदुषां पण्डितानां युक्तो न । कयंभूते बाही। विध्वस्तधर्मान्तरजीविते विध्वस्तं नाशित धर्म एव अन्तरजीवितं येन तस्मिन् । अन्त. रमाणनाशक इत्यर्थः । अहिस्तु कण्ठावसक्तः सन् अहिःप्राणानाशयति, स्त्रीणां याहुः क- ण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते । अतः सादप्यधिकतरदुःखदं वीकृनालिङ्गन- मित्यर्थः । अत्र नवाहावित्युभयत्र चित्रकृत् । वश्योरभेदस्तु आलंकारिकरिष्ट एव ।। कोऽयं विवेकस्तव यन्नतभ्रुवां दोपावगूढः प्रमदं विगाहसे । येतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् ॥२१ है साधो, अय तव को विवेकः यत् नत वां नते नम्रीमते ध्रुवी यासां ता नतभ्र. वस्तासा स्त्रीणां दोपा बाहुनावगूढ आलिहितः सन् त्व प्रमदं प्रकृष्टमद विगाहसे प्रा- मोपीत्यर्थः । यतो यस्मात् स्मरातङ्कपरीतचेतसां स्मरः कामः स एव आतो रोगस्तेन परीतं व्याप्त चेतो येषां तेषां पुरुषाणां सुन्दरासुन्दरयोः समीचीनासमीचीनयोः किं वि- वेचनम् । अपस्मारादिरोगग्रस्ताना शुभाशुभे विवेको न भवतीति युक्तमेव । पक्षे दो. पैरवगूढो दोपावगूढः । विवेकदोपयुक्त इत्यर्थः ॥ हंहो विलोक्य परमङ्गदमङ्गनाना- मानन्दमुद्वहसि किं मदनान्धबुद्धे । सत्यं विवेकनिधनैकनिमित्तमेत- न्मेधाविनो हि परमं गदमुगुणन्ति ॥ २२ ॥ १. 'तु' इति मूलपुस्तकपाठः. २. 'यद्वा' इति मूलपुस्तकपाठः, ३ 'एन' इति मूल- पुस्तकपाठ:.

शृङ्गारवैराग्यतरङ्गिणी। हहो इति संबोधने । हे मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धिर्यस्य तस्य सबो- धने । अङ्गनानां प्रधानमन यास तासामङ्गनाना परमुत्कृष्टं अगद केयूरं विलोक्य दृष्ट्वा आनन्द किमुद्वहसि प्रामोषि । मेधाविनः पण्डिता एतत् अङ्गद परममुत्कृष्टं गद रो- गमदृणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूत गदम् । विवेकनिधनैकनिमित्त विवेको ज्ञान तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्त कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पद्ये उभयत्र परमगदमिति पद भिन्नार्थत्वाच्चित्रकृत् ॥ अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिशः । ने बुध्यते सुकतचमू जिगीषतः समुद्यतं बलभरमेनमेनसः ॥ २३ ॥ अयं प्रत्यक्षगतो पालिशो मूल् जनो मृगीदृशां स्त्रीणां वलयभरं वलयानां भरस्त अधिभुजवल्लि भुजावेव वल्लिस्तस्यामिति अधिभुजवल्लि। विभक्त्यर्थेऽव्ययीभावः । भुजल- तायामित्यर्थः । विलोकते पश्यति । एन वलयभर एनसः पापस्य समुद्यतं सावधानीभूतं वलभरं सेनासमूहं न बुध्यते । कथंभूतस्य एनस । सुकृतचमू सुकृतस्य शीलादे. चमू. सेना ता जिगीषत जेतुमिच्छत. । कथ वलयभर बलभरमिति तत्रोच्यते-कथभूत व- लयभरम् । अय न विद्यते यो यकारो यस्मिन् सः अयस्तमयम् । यकाररहितमित्यर्थः । रुचिरा नाम च्छन्दः॥ ये हक्पथे तव पतन्ति नितम्विनीनां कान्ताः करा जडिमपल्लवनप्रवीणाः । नो वेत्सि तान्किमपवर्गपुरप्रयाण- प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥ तव दृक्पथे दृष्टिमार्गे नितम्बिनीनां स्त्रीणा कान्ता मनोज्ञा. करा हस्ताः । नितम्बि- नीनामिति संबन्धे बहुत्वात् करा इति बहुत्वम् । पतन्ति अवलोकनतां गच्छन्ति । क- थभूताः कराः । जडिमपल्लवनप्रवीणाः जडिनो जडताया यत्पल्लवनं प्रकटीकरण तत्र प्रवीणाश्चतुराः। तान् करान् अवश्य निश्चयेन करकान् घनोपलान् किं नो वेत्सि न जा- नासि । कया । अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्ष. स एव पुर नगरं त- स्मिन् प्रयाणं गमन तत्र यः प्रत्यूहो विनस्तत्र यत्कारण निदान तस्य भावस्तत्ता तया अपवर्गपुरप्रयाणप्रत्यूहकारणतया । गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विनकारण प्र- सिद्धमेव । उक्त च वसन्तराजशाकुने–'क्षीणचन्द्रतिथि दुःसहानलं दूषितं धरणिक- म्पनादिना । पूर्ववज्जलदसकुलाम्बर वर्जयेच्छकुनदर्शने दिनम्' इति । अकालवृष्टिगमने निषिद्धा । करकपतन ववश्य वयमेव । करान् करकान् कथमिति प्रश्नोत्तरम् । कथं- भूताः कराः । कान्ताः ककारान्ता इत्यर्थः । तादृशाः करा करका भवन्त्येवेत्यर्थः ।। १. 'जिगीषतः सुकृतचमू समुद्यत न बुध्यते' इति मलपुस्तकपाठः १३४ काव्यमाला । नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेपि । विवेकपङ्केरुहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणक्षणाया हरिणस्य ईक्षणमिवेक्षण यस्यास्तस्याः यं हार वीक्ष्य त्वं हृदि हृ- दये हर्षे प्रमोदं एषि प्राप्नोषि । कथभूतं हारम् । नीव्याप्तं नीवी वसनप्रन्थि आप्त प्राप्तं नी. व्याप्तम् । नीवीपर्यन्त लम्बायमानमित्यर्थः ।बुधाः त हारमेव विवेकपङ्करुहकाननस्य विवेक एव पड्केरुह कमल तस्य काननं वन तस्य नीहार हिमं उदाहरन्ति कथयन्ति । नीहारो यथा कमलकाननस्य दाहकस्तथायं हारः । हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हार कथं नीहारमिति प्रश्न तत्रोच्यते-कथभूत हारम् । नीव्याप्तं नीशब्देन व्याप्त नीव्याप्त एतादृशं हार नीहार स्यात् ॥ विलोक्य किं सुन्दरमङ्गनोदरं करोपि मोहं मदनज्वरातुर । नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥ २६ ॥ हे मदनज्वरातुर, मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य सबोधनम् । सुन्दरं द- शनाई अगनोदरं अद्गनाया उदर विलोक्य त्वं किं मोहं करोपि । अनेत्यामन्त्रणे । भ. वान्तरे आगामि भवे भाविन भवनशील दरं भय किं नो ईक्षसे न विचारयासि । कयभूतं दरम् । दुर्गतिपातसंभव दुर्गतिर्नरकादिस्तस्यां यः पातः पतन तस्मिन् सभव उत्पत्तिर्य- स्य तम् । अत्र पूर्व अगनोदरमिति समस्त पदम् । परन अङ्ग नो दरमिति पदविभागे- नार्थव्युत्पादनं चित्रम् ॥ स्फूर्जन्मनोभवभुजंगमपाशनाभी नाभी कुरङ्गकदृशां दृशि यस्य लग्ना। नाभीमयं जगदशेपमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥ यस्य पुरुषस्य दृशि ने । कुरङ्गकदृशां मृगनेत्राणां स्त्रीणां नाभी शरीरावयवविशेषः लग्ना । कथभूता नाभी। स्फूर्जन्मनोभवभुजंगमपाशनाभी स्फूर्जन देदीप्यमानो यो मनो- भवः कामः स एव भुजगमः सर्पस्तस्य पाशार्थे नाभी। कामसर्पस्थानमित्यर्थः । असो पुमानशेष समस्त जगत् नाभीमयं अभीमय निर्भय न ईक्षते । न निर्भय जगदीक्षत इ. त्यर्थः । यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मय तद्रूपमेव पश्यति। नाभी दृशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रम् । नाभीनाभीनयमिति चित्रकृत् ॥ जैडोपयुक्तं जघनं मृगाक्ष्याः समीक्ष्य किं तोपभरं तनोपि । अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ २८ ॥ १. 'किमीक्षसे दुर्गनिपात' इति मूलपुस्तकपाठः. २. 'स' इति मूलपुस्तकपाठः. ३. 'जलोपयुक्त' इति मूलपुस्तकपाठः. ४. 'संवीक्ष्य' इति मूलपुस्तकपाठः. . - ।

. मृगाक्ष्याः स्त्रिया जघन समीक्ष्य दृष्ट्वा किं तोषभर हर्षभर तनोघि विस्तारयसि । क- थभूत जघनम् । जडोपयुक्त जडानां मूर्खाणा उपयुक्त योग्य अमु जघन घन मेघमेव विद्या जानीयाः । कथभूत जघनम् । विशुद्धाध्यवसायहसप्रवासहेतुम् । विशुद्धो निर्मलो यः अध्यवसायः चित्ताभिप्रायः स एव हसः तस्य यः प्रवास तस्य हेतु कारण तं वि- शुद्धाध्यवसायहसप्रवासहेतुम् । धनागमे हसा मानसे गच्छन्तीति प्रसिद्धम् । जघन घन कथ तत्राह । जडोपयुक्त डलयोश्चैकत्वस्मरणात् जलोपयुक्तम् । जस्य जकारस्य लोपो नाशस्तेन युक्त जकार विना जघन घनं स्यात् ॥ नितम्बमुल्लासिततापनोदं दिक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥२९॥ कमलेक्षणानां कमलनयनाना य नितम्ब पृष्ठभाग दिदृक्षसे द्रष्टुमिच्छसि । कथंभूत नितम्बम्। उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरण येन स तम् । त नितम्ब नि- म्बमेव रिष्टं विदित्वा दूरतोऽपि त्यज । कथंभूत निम्बम् । सर्वात्मना पत्रफलपुष्पसमू- हेन । अत्यन्तकटु अतिकटुकम् । नितम्ब कथ निम्बमिति प्रश्न तत्रोच्यते-कथभूत निम्बम् । उल्लासिततापनोदम् उल्लासितस्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तम् । तकारनाशे नितम्बो निम्बः स्यादेवेत्यर्थः ।। नूनं नूपुरमेतदायतहशो रागादिविद्वेषिणां क्रीडाथै पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् । येनास्मिन्मुखमात्रचङ्गिमगुणैराकृण्य तैरुल्बणै- वैद्धस्य प्रसमं चिरादपि सखे मुक्तिर्मवित्री न ते ॥ ३० ॥ नून निश्चित आयतदृश आयते विस्तीर्णे दृशौ यस्यातस्या विशालनयनाया एत- नूपुरं चरणभूषणं रागादिविद्वेषिणां रागादिशत्रूणां क्रीडा विनोदार्थ पुर नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीय न द्रष्टव्यम् । शत्रुपुर श्रेयो- ऽयिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मु- खमात्रचङ्गिमगुणैः मुखमात्रे ये चह्निमाः श्रेष्ठा गुणास्तैरुल्बणैरुदारैराकृष्य प्रसभ बलात्कारेण बद्धस्य ते तव चिरादपि चिरकालेनापि मुक्तिर्मोचनं न भवित्री । नूपुर पुर कथमिति प्रश्ने । तत्र कथंभूत नूपुरम् । नूनम् । नूशब्देन उन नून नूशब्दरहित नूपुरं पुर भवतीति ॥ या स्त्रीति नाम्ना विभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां सा । एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभटं भिनत्ति ॥ ३१ ॥ या स्त्रीति नाम्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्ध निमि शमादावुप- १. 'किं कमले-' इति मूलपुस्तकपाठः. ।

- १३६ काव्यमाला। शमादिकर्मणि शस्त्री अमुक्तायुधम् । अमुक्त शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोष. । अवयुध्यतां ज्ञायताम् । यतो यस्मात् अनद्गभट: कामसुभटः जगति ससारे एनां स्त्रीरूपां शस्त्री पुरस्कृत्य अमे कृत्वा पुण्यभट धर्मसुभटं भिनत्ति भेदनं क- रोति । सुभटेन प्रतिसुभट शख्या भेदन विधीयत एव । स्त्रीति शस्त्री कथ तत्रोच्यते । शमादी या स्त्री शशकारमादी विभृते तदा स्त्री शस्त्री स्यादेवेत्यर्थः ।। येय वधूरवसिता हृदये प्रमोद- संपादनव्यतिकरैकनिवन्धनं ते । सा दुर्गदुर्गतिपथेन जगन्निनीपो- धूरेव मन्मथरथस्य विभावनीया ॥ ३२ ॥ या इय वधूः ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिवन्धनम् । हृदये यः प्रमोद- स्तस्य संपादनमुत्पादन तस्य यो व्यतिकरः समूहः तस्य निबन्धनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारण वधूरिति त्वया मन्यत इत्यर्थः । सा वधूः मन्मथरथस्य धू- रेव युगमेव विभावनीया ज्ञातव्या। कयंभूतस्य मन्मथरथस्य । जगत्कर्मतापन दुर्गदुर्गति- पथेन दुर्गतेनरकादिगतेः पन्थाः दुर्गतिपयः । 'अक्पूरब्धूःपथामानक्षे' इति अप्रत्ययः । दुर्गो यो दुर्गतिपथस्तेन । निनोपोनॆतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धूरस्ति न वधूरित्यर्थः । वधूः धू' कथं तत्रोच्यते-वेन वकारेण सिता बद्धा वसिता। न वसिता अवसिता वकाररहिता वधूधूरेव स्यादित्यर्थः ।। प्रीति तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहात्या कनकनिभया द्योतिताशा विवेकिन् । सत्यं तासामनलसदृशां संयमारामराज्यां मा भूः पाश्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः ॥ ३३ ॥ हे विवेकिन, या एतास्तरुण्यो नार्यः तव प्रीति हर्प तन्वन्ति विस्तारयन्ति । कथं- भूतास्तरुण्यः । अनलसदृश. न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अ- नलसदृशः । उन्निद्रनेत्रा इत्यर्थः । पुनः किंविशिष्टास्तरुण्यः । कनकनिभया स्वर्णतुल्यया देहात्या शरीरकान्त्या द्योतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः । सयमारामराज्यां सयमश्चारित्र स एव आरामस्तस्य राजी परम्परा तस्यां विषये तास स्त्रीणां अनलसदृशा अग्नितुल्यानाम् । सत्य स्त्रीसपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्व शिवावाप्तये मोक्षप्राप्त्यै बद्धबुद्धिः बद्धा बुद्धिर्येन स तादृशोऽसि तदा तासां पार्श्व- • ऽपि समीपेऽपि मा भूः। अत्र पद्ये अनलसदृशत्वम् एकत्र वर्णवेन अपरत्र दाहकशक्ति- खेनोपादान चित्रकृत् ॥ १. 'यपा' इति मूलपुस्तकपाठः. २. 'हृदयप्रमोद' इति मूलपुस्तकपाठः. . -- है . क इह विषयभोगं पुण्यकर्मायशून्यं स्टहयति विषभोगं भावयेस्तत्त्वतस्त्वम् । स्मरति न करणीयं मूर्छितो येन जन्तुः पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥ ३४ ॥ इहास्मिन् ससारे क. पुरुषो विषयभोग पश्चेन्द्रियसुख स्पृहयति वाञ्छति । कयभूत विषयभोगम् । पुण्यकर्मायशून्यम् । पुण्यकर्मण' आयो लाभस्तेन शून्यम् । तत्त्वतस्त्व विष- भोगं भावयेः जानीहि । विषयभोग विषभक्षणतुल्यं जानीहीत्यर्थ.। तदेव स्पष्टयति-येन विषयभोगेन मूर्छितो मोह प्राप्तो जन्तुः प्राणी करणीय करणार्ह न स्मरति । पुनः मोक्षमार्ग न ईक्षते । कुगतिगर्ते पतति । विषभक्षणस्य स्मरणादिभ्रशकत्वं प्रकटमेव । विषयभोगो विपभोगो भवतीत्यर्थः ॥ सखे सुखं वैषयिकं यदेतदाभासते तैन्नर कान्तमन्तः । सत्यं तदुत्सर्पदघप्रवन्धनिवन्धनत्वान्नरकान्तमेव ॥ ३५ ॥ हे सखे, हे नर, एतत् वैषयिक विषयेभ्यो भव वैषयिक सुखं ते तव अन्त चेतसि कान्तं मनोज्ञ यत् आभासते तत्सत्यम् । मिथ्या नेत्यर्थः । उत्सर्पदघप्रबन्धनिवन्धनत्वात् । उत्सर्पन्प्रसर्पन यः अघस्य पापस्य प्रबन्ध परम्परा तस्य निबन्धन कारण तस्य भाव- स्तत्त्वं तस्मात् । नरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तम् । नरकप्रापकमि- त्यर्थ । अत्र पये पूर्वत्र नर कान्तमिति भिन्न पदम्, परत्र नरकान्तमिति समेस्तं पद- मिति चित्रकृत् ॥ स्मरक्रीडावाप्यां वदनकमले पक्ष्मलहशां दृढासक्तिर्येपामधरमधुपानं विदधताम् । अदूरस्था वन्धव्यसनघटना क्लेशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ॥ ३६ ॥ स्मरक्रीडावाप्या स्मरक्रीडाथै वापी तस्या येषा मनुष्याणा पक्ष्मलदृशा स्त्रीणां वदन- कमले वदनमेव कमलं तत्र दृढासक्ति दृढा आसक्तिः तन्मयता वर्तते इति शेषः । किं कुर्वता येषाम् । अधरमधुपान विदधताम् । अधरमेव मधु पुष्परस तस्य पान तत् कुर्व- ताम् । तेषा नृणा इह वदनकमले मधुकराणा भ्रमराणामिव बन्धव्यसनघटना बन्धन बन्धनेन यद्व्यसन कष्ट तस्य घटना रचना अदूरस्था समीपर्तिनी भवति । कथभूतानां १. 'भावयस्तत्त्वतस्तम्' इति मूलपुस्तकपाठ . २ 'स्मरति न'करणीय नेक्षते मोक्ष- मार्ग पतति कुतिगर्त मच्छितो येन जन्तु.' इति मूलपुस्तकपाठ . ३. 'यनर कान्त- मेव' इति मूलपुस्तकपाठ.. ४. मूलपुस्तके तृतीयतुरीयचरणयोर्व्यत्ययोऽस्ति.

. १३८ काव्यमाला। मधुकराणाम् । नृणां च विमुग्धानां मोहदशां प्राप्तानाम् । कथभूता बन्धव्यसनघटना। क्लेशमहती क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपान कुर्वता दृढास- क्तिबन्धनकष्टदायिनी, तथा नृणा स्त्रीमुखकमले अधररसपान कुर्वतां वधबन्धनादि कष्ट भवतीत्यर्थः॥ सखे संतोपाम्भः पिव चपलतामुत्सृन निजां शमाराम कामं विरचय रुचि चित्तहरिण । हरन्त्येतास्तृष्णां न युवतिनितम्वस्थलभुवो विमुक्ता नीरागैर्विपमशरसंपातविपमाः ॥ ३७ ॥ हे सखे हे चित्तहरिण, चित्तमेव हरिणो मृगस्तस्य सबोधनम् । चित्तस्य चाश्चल्या- न्मृगसादृश्यम् । त्वं सतोपाम्भः पिय संतोप एव अम्भो जलं त्वं पित्र । निजा स्वकीयां चपलतां चापलमुत्सृज त्यज । काममत्यर्थ शमारामे शम एव आरामस्तस्मिन् उपशम- वने रुचिं तुष्टि विरचय कुरु। मृगस्य वनेऽधिकरुचित्वात् इष्टोपदेशः। एता युव- तिनितम्वस्थलमुवः । युवतीनां नितम्याः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां कृपां न हरन्ति न. दूरीकुर्वन्ति । स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः । कथभूता युवति- नितम्बस्थलभुवः । नीरागविमुक्ताः । नीराणि च अगाश्च नीरागास्तैः जलवृक्षविमुक्ताः । जलेन वृक्षच्छायया च तपाहानिर्भवति । पुनः कथभूता युवतिनितम्बस्थलमुवः । वि- पमशरसंपातविषमाः । विषमा असह्या ये 'शरसपाता बाणपातास्तर्विषमा दुष्टाः । अस्यां भुवि व्याधादिमिर्वाणपातो विधीयते, तेन तव मरण भविष्यति, न तु तप्णाहानिरित्यर्थः । पक्षे कथंभूता युवतिनितम्बस्थलभुवः । नीरागैः रागरहितैर्विमुक्तास्त्यक्ताः । विषमशरः कामस्तस्य सपातेन विपमा अमनोज्ञाः । एतेन युवतिनितम्बवाञ्छां मा कुरु इति चित्तं प्रत्युपदेशः। चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीडशो दृष्ट्वा कुन्तलराजिमजनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य में प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥ हे चेतः, व कुरङ्गीदृशो मृगाक्ष्याः कुन्तलराजि शिरोरुहश्रेणि दृष्ट्या चापलमाकलय्य चाश्चल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोपि । कथंभूता कुन्तलगजिम् । कुंटिलाकाराम् । कुटिलो वक्र आकारो यस्यास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अञ्जनघनश्यामाम् । अञ्जनं कजल घनो मेघस्तद्वत् श्यामां कृष्णाम् । केशानां कृष्णत्वं १. 'प्राणान' इति मूलपुस्तकपाठः, तृतीयचतुर्थचरणव्यत्ययश्च. २. 'ते' इति मूल- पुस्तकपाठ.. ૨ - १३९ , शृङ्गारवैराग्यतरङ्गिणी। यौवने । तयुक्तां स्त्रियं दृष्ट्वा चित्तचलन न्याय्यम् । उक्तं च-'पुष्पं दृष्ट्वा फल दृष्ट्वा दृष्ट्वा च नवयौवनाम् । द्रविणं पतित दृष्ट्वा कस्य नो चलते मनः ॥' इति । मे मम प्रत्यूहार्थे विघ्नाथै अधुना इदानी उपस्थिता प्राप्ता इय उरगश्रेणी सर्पपरम्परा इति व संचिन्तयः जानीयाः । कथभूतस्य मे । धर्मध्यानमहानिधानं स्वीकर्तुकामस्य अङ्गीकुर्वतः धर्म- ध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किचित्कार्यकरणोद्यतस्य सर्पदर्शन नि- षिद्धम् । निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः । कुन्तलस्य सर्पोपमानत्व कविसमतमेव ॥ यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुञ्चेर्दूरमिमामनङ्गकैलभक्रीडाविहारोचिताम् । नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण- क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् ॥ ३९ ॥ हे पुमन् , यदि तुभ्य शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा व इमारामानि- तम्बस्थली-स्त्रीनितम्बभूमि दूर दूरतो मुञ्चे ।कथभूता रामानितम्बस्थलीम् । अनङ्गकल- भक्रीडाविहारोचिताम् । अनङ्ग काम स एव कलभः गजशिशुः तस्य क्रीडाथै विहारो विहरण तत्रोचिता योग्याम् । चेदिमा दूर न मुञ्चसि तदा किं भविष्यति तदाह-नो चेदिति । त्वं जन्माटवीं ससाराटवीं प्राणोषि । कथभूतस्त्वम् । यौवनचण्डवातविततव्या- । मोहधूलीकणक्लाम्यदृष्टि. । यौवनमेव चण्डवातस्तेन वितत विस्तारित व्यामोहो वै- चित्य स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिय॑स्य तथाविध. । अत एव अ- दृष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्था मार्गो येन सः । रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ।। शमधनमपहर्तु कामचौरप्रचार विरचयति निकामं कामिनीयामिनीयम् । सपदि विदधती या मोहनिद्रासमुद्रां जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ ४० ॥ इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्त कामचौरप्रचार काम एव चौरस्तस्य प्रचार विहरणशीलत्व विरचयति प्रकटीकुरुते । किं कर्तुम् । शमधनमपहर्तुं शम उपशम एव धन तद्रहीतुम् ।यामिन्या धनाहरणार्थ चौरप्रचारो भवति । या यामिनी जन मनुष्य अन्त.सर्वचैतन्यशून्य अन्तरिति अन्तःकरणे सर्वे च तत् चैतन्य च तेन शून्यं रहित १. 'अनुरज्यसे' इति मूलपुस्तकपाठ २ 'हरिणक्रीडा-' इति मूलपुस्तकपाठः 'प्राप्तासि' इति मूलपुस्तकपाठः. ४. 'निद्राममद्रा' इति मूलपुस्तकपाठः. 2 १ १४० काव्यमाला। । । जनयति करोति । यामिनी कि कुर्वती । सपदि तत्काल मोहनिद्रासमुद्रां मोहो मूळ एव निद्रा तस्याः समुद्रां समृद्धि विदधती ॥ मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमतामतीत्या । यद्वाहुवल्लीभिरनङ्गभिल्लो वैड्डा नरांल्लम्भयते न मुक्तिम् ।। ४१ ।। नून निश्चित असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री । भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथभूता भीमाटवी असीमान विद्यते सीमा मयादी यस्याः । पुनः कथभूता । बुद्धिमतां विदुपां अतीत्यातिक्रमणीया यद्वाहुवल्लीभिः यस्या मृगेक्षणाया बाहू एव वल्ल्यो लतास्ताभिः अनन एव भिल्लस्तस्करः नगन् मनुष्यान् बद्धा मुक्ति न लम्भयते न कारयति । यथा अटव्यां तस्करः पथिकान् लताभित्रद्धा स- र्वस्व गृह्णाति, तथा मृगेक्षणापि कण्टग्रहण कृत्वा नरान्मुक्तिप्राप्ति न कारयतीति भा- - वार्थः ।। . इयं वारंवारं द्युतितुलितरोलम्बवलयं न वक्रं भ्रूचक्र चलयति मंगाक्षी मम पुरः । कुँधीकारागारापसरणमति मां मेखलयितुं प्रपञ्चत्पञ्चेपोर्वहति निविडं लोहनिगडम् ॥ ४२ ॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात वक्र भ्रूचक्र वारंवारं अनुवेल न चलयति । कथभूत भ्रूचक्रम् । युतितुलितरोलम्बवलयम्। युत्या कान्त्या तुलितः समानी- कृतो रोलम्बाना भ्रमराणां वलयो वृत्तता येन । किमेतत्तदाह-मां स्खलयितुं गमनामाव कर्तु पञ्चपोः पञ्च इपवो बाणा यस्य तादृशस्य कामस्य निबिड दुःसहं लोह निगढ़ व- हति धारयति । किभूत लोहनिगटम् । प्रपञ्चत् प्रपञ्चयुक्तम् । कथभूतं माम् । कुधोकारागा- रापसरणमतिम् । कुत्सिता धी: कुधीः सैव कारागारो पन्दिस्थान तस्मादपसरणे दूर- गमने मतिर्यस्य तम् । यथा चौरस्य लोहनिगडं क्षित्वा कारागारे क्षिप्यते, तथा मामपि वशीकर्तुं भ्रूचेक कामस्य निगडं धत्ते इत्यर्थः ॥ यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाशकास्ति । नाभीरन्ध्रे विहितवसतियोंऽस्ति कंदर्पसर्प- स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निर्मोकपटः ॥ ४३ ।। १. 'अतीव' इति मूलपुस्तकपाटः. २. 'यद्धान्' इति मलपुम्नकपाठः. ३. 'च- : लाक्षी' इति मूलपुस्तकपाट.. ४. 'ऋधा' इति मुलपुस्तकपाठ ५. 'छलयितु प्रप- श्रात्' इति मूलपुस्तकपाट.. - .

. - । शृङ्गारवैराग्यतरङ्गिणी। १४२ हे मित्र, वयं इतोऽस्मात् । अन्यत्र द्रुततर अतिशीघ्रं यामो गच्छामः। चकितहरिणी- लोचनाया. । चकिता हरिणी तस्या लोचने इव लोचने यस्यास्तस्याः । कण्ठपीठे यत् चकास्ति शोभते अय हारो नास्ति किंतु यः कदर्पसर्प कदर्प काम स एव सर्प- स्तन्मुक्तस्तेन सर्पण मुक्तस्तन्मुक्त' 1 अय रुचिरो मनोजः निर्मोकपट्ट कञ्चकः स्फु. राति चकास्ति । कथभूतः कदर्पसर्प । नाभीरन्ध्रे विहितवसति. । नाभीरन्ध्रे नाभीकुहरे विहिता कृता वसतिर्वासो येन स नाभीरन्ध्रे विहितवसति.। अयमेवान्यत्र गमने हेतुः । सर्पकञ्चकदर्शनमपि भयावहम् । नाभी सर्पविल हार सर्पकञ्चक तद्रुझ्या पलायन युक्तमेवेत्यर्थ. ॥ यः कामकामलविलुप्तविवेकचक्षुः स्वर्गापवर्गपुरमार्गमवीक्षमाणः । ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिष्यति स भीमभवान्धकूपे ॥ ४४ ॥ यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाञ्जनं प्रति निरादरतामुपैति निरादर करोति । कयंभू- तो यः । कामकामलविलुप्तविवेकचक्षुः । कामः स्मरः स एव कामलो नेत्ररोगस्तेन वि- लुप्त विवेक एव चक्षुर्यस्य स कामकामलविलुप्तविवेकचक्षु । अत एव स्वर्गापवर्ग- पुरमार्गमवीक्षमाण । स्वर्गो देवलोकोऽपवर्गो मोक्ष , तावेव पुरे नगरे तयोर्मार्गस्तमवीक्ष- माण अदर्शकः एवविध स पुरुष हे भ्रातः, भीमभवान्धकूपे । भीमो भयानक भवः संसार स एव अन्धकपः तस्मिन् पतिष्यति यः कामलारोगग्रस्तचक्षुरजनं प्रत्यादर न करोति सोऽन्धकूपे पतत्येवेति ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानी मा कार्कीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येपां प्रथयति महामोहमचिरा- दयं जन्तुर्यस्मात्पदमपि न गन्तु प्रभवति ॥ ४५ ॥ हे पुमन् , भवारण्य ससाराटवी मुक्त्वा यदि मुक्तिनगरी शिवपुरी जिगमिषु. गन्तु- मिच्छुरसि तदानीं विषयविषवृक्षेषु विषया एव विषवृक्षास्तेषु वसति रति त्व मा कार्षीः मा कुर्याः । यतो यस्मात् कारणात् एषा वृक्षाणा छायापि महामोह अचिरात् शीघ्र प्रथयति विस्तारयति । विषयविषच्छायास्पर्शोऽपि वैचित्यकारको भवतीत्यर्थ कारणात् अयं जन्तु प्राणी पदमपि पादमात्रमपि गन्तु गमनाय न प्रभवति न समर्थः भवति । यथारण्य मुक्त्वा नगरौं गन्तुकांमो नरो विषवृक्षाधो वसन् मत्तो भवति तदा . । अतः १. 'अवेक्ष्यमाणः' इति मूलपुस्तकपाठ. .

१४२ काव्यमाला । - । पदमात्रमपि न गन्तुं शक्नोति । तद्वत् संसारं मुक्त्वा मुक्तिममिलपता पुंसा विषयसेवायां मतिर्न कार्येति तात्पर्यम् ॥ सोमप्रभा चार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमुष्मिन्नुपदेशलेशे निशम्यमाने निशमेति नाशम् ॥ १६ ॥ सोमप्रभा चन्द्रकान्तिः च पुन. अर्यममा अर्यम्णः सूर्यस्य कान्तिः यत्पुंसां मनुप्या- णां तमःपकमज्ञानान्धकारसमूह न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकार- मपि अमुष्मिनुपदेशलेशेऽल्पोपदेशे निगम्यमाने श्रूयमाणे सति अनिय निरन्तरं नाशमेति नाशं प्राप्नोति । चन्द्रसूर्यप्रभयाज्ञानान्धकार दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्त- गतान्धकारमपि दूरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अत्र पद्ये ग्रन्थका सो- मप्रभाचार्य इति स्वनाम गोपित चातुर्येणेति बोध्यम् ॥ संवत्स(च्छोरद्विपमुनीन्दु(१७७५)मितस्य मासे मार्ग त्रयोदशमिते दिवसे भृगौ च । स्वल्पा तरी विरचिता सुखबोधिकाख्या श्लेपाघदुस्तरतरनिणिकासुशास्त्रे ॥ आगगनानि नगरे नन्दलालेन धीमता। दानविशालशिष्यानुरोधेन कृपया गुरोः ॥ (युग्मम्) सोमप्रभाचार्यकृति सुदुर्गमा विकृण्वता स्वल्पधिया मयात्र यत् । न्यूनाधिकोहङ्कनमल्पबुद्धित. कृत विशोध्यं कृतिभिः कृपालुभिः ।। श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्य विनति । अशेषमनुजयन्दनतपादाम्बुजद्वये ॥ इति सुखबोधिकानाच्या वृत्या समेता श्रीशैतार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी समाप्ता। 4 महाकविश्रीनारायणभट्टपादविरचित कोटिचिरहम् । भङ्गया निजाङ्गकानामगजमपि मानहीनमाकलयन् । संगीतकेतुनामा धीमानासीहिजोत्तमः श्रीमान् ॥ १ ॥ १. 'समुपैति' इति मूलपुस्तकपाठः. २. 'शताथिसोमप्रभाचार्यकृता' इति मूलपु- स्तकपाठः. ३. कवेर्देशकालौ काव्यमालाया एकविंशेऽङ्के 'स्वाहासुधाकर'प्रारम्भटिप्पणे इष्टव्यो. कोटिविरहाख्योऽय ग्रन्थ उत्तरमलबार(केरल)देशान्तर्वार्त'कटयनद'राजेन श्री. मुदुदयवर्मणा केरलीयलिपितो देवनागराक्षरैर्विलिख्यास्मभ्यं प्रेषित इति महदुपकृत भूभृता. ४. केरलीयाः सदाशिवशास्त्रिणस्तु 'कोडिअविरहम्', इति ग्रन्थनाम वदन्ति, 'कोडिअ'शब्दः केरलभाषायां नतनवाचक इति तदर्थे च. . .

- . कोटिविरहम् । १४३ कलाभिरपि पूर्णात्मा कुमुदामोदमावहन् । सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुमेतराम् ॥ २ ॥ तस्मिन्नेव समये संकेतभूमिः सुकुमारतायाः संगीतसाहित्यसरोमराली । शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव वाला ॥ ३ ॥ अधिककुतुकदात्री पश्यतां सा समेषा- ममृतकिरणलेखेवान्वहं वर्धमाना । अभजत वयसस्तामत्युदारामवस्था- मतुलितमपदानं तन्वतीमङ्गयोनेः ॥ ४ ॥ यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः । तथा तथावर्धत कामुकानां विलोकने कापि कुतूहलश्रीः ॥ ५ ॥ आकर्णयन्तावनधान्गुणोधानानेज्यमानाननिशं जनौधैः । आकाश्रितान्योन्यविलोकनौ तावास्ताममन्दप्रणयौ युवानौ ॥ ६ ॥ हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुकार्द्रयोः । अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७ ॥ आकल्पजालसविशेषमनोहरश्रीः साकं वयस्यनिवहश्च समानवेषैः । सोऽयं विवेश गिरिजाभवनं विलासी तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ।। ८ ।। आकासितार्थजननीमभिवन्द्य गौरी- मालोकयन्नभिनवानयमत्सुनौ(मुत्सवौ)घान् । अन्यूनकौतुकभरैः सहितो वयस्यै- रध्यारुरोह ललितामथ रत्नवेदीम् ॥ ९॥ आलीवृन्दैरधिकनिपुणैरात्मना निर्विशेषैः केलीशीलैः सततवशगैराता च स्वकान्तः । १. हंसी. २. 'साखिलानां' इत्यपि पाठ.. .

+ १४४ काव्यमाला। नानाभूपामणिगणरुचा भासयन्ती दिगन्तं सा च प्रांगादुदितकुतुका द्रष्टुमेवोत्सवं तम् ॥ १० ॥ नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् । प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो- रत्रानन्दप्रसरमपरां(8) वेदिकामारुरोह ॥ ११ ॥ विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् । सा कोऽयमित्यन्तरुदीतचिन्ता वाला क्षणं व्याकुलतामवाप ॥ १२ ॥ •, स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे । हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥ स इति सेति च तौ परिवोधितौ सवयसा शनकैः श्रवणान्तिके । अतनुतां परिरम्भणमञ्चलैनयनयोनवविभ्रमचञ्चलैः ॥ १४ ॥ उद्भिद्यमानपुलको निटिलप्ररोह- दाकम्रधर्मकणसुन्दरवक्रबिम्बौ । धन्याविमौ विगलितान्यसखौ युवाना- वन्योन्यदर्शनमहोत्सवमन्वभूताम् ॥ १५ ॥ अत्यायतैर्गुणगणैनिविडं निबद्धा- वाकृष्यतामभिमुखौ तरसा विधाय । अव्याजावक्रमघनो विललास संध्ये(१) सव्यापसव्यमिपुभिर्विकिरन्मनोभूः ॥ १६ ॥ तदनु कतिपयानां नाडिकानां विरामे विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः । विततकुतुकभाजोरेतयोनेत्रकोण- व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥ अपयत्सु जनेषु तावतृप्ताववरूढौ गमनाय वेदिकायाः । मृदुहाससुधानुलिप्तवत्रौ मितमाटच्छच यथागतं प्रयातौ ॥ १८ ॥ . 7 4 . 1 . ३.

. १४५ -- 3 - कोटिविरहम् । किमपि किमपि सख्याः श्रोत्रमूले वदन्ती वलितवदनमेनं वीक्षमाणा युवानम् । कपटकृतविलम्बा कामिनी सा कथंचि- 'निजनिलयमयासीन्निद्भुतानङ्गपीडा ॥ १९ ॥ सेयं सायं प्राप्य गेहं नताङ्गी भेजे तल्पं कल्पितं तत्सखीभिः । अत्यारूढां चित्तजन्मव्यथां तामध्वश्रान्तिव्याजतो गूहमाना ॥२०॥ पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ नश्यद्धैर्या नयनकमलादश्रुधारां किरन्ती । विस्वस्ताङ्गी विदलितमनाः सायकैर्मीनकेतो- रवस्था सा समजनि मनोमोहना मुग्धगात्री ॥ २१ ॥ विदितविगतिमूलैः सा सखीनां निकायैः सततमथ वचोभिः सम्यगाश्वास्यमाना । कथमपि धृतशोका वासरान्वत्सराभा- परिचितधृति निन्ये पञ्चषानञ्चिताङ्गी ॥ २२ ॥ स्फुटमिव कथयन्तीमन्तरुज्जृम्भमाणां कुसुमविशिखपीडां मुग्धपातैः कटाक्षः। स च मधुरमुखी तां वीक्षमाणः प्रयान्ती युगपदाभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥ चतुरवचनभेदव्यञ्जितातीतवृत्त- स्तदनु सह वयस्यैरेष मन्दं जगाम । गलदतिगुरुकैश्यं गन्धमातङ्गमन्दं गमनमनघगान्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥ गत्वा गेहं प्रियसहचरैः साकमारूढमूलं मारात मनसि सततं गृहमानोऽपि धीमान् । तामेवान्तस्तरलनयनां कल्पयन्नल्पधैर्य क्षामक्षामः समजनि दिनैः पञ्चषैरेप कामी ॥ २५ ॥ . १.कामव्यथाम्. १९ १४६ काव्यमाला। न 4 . - व तदुद्गतमनोहरमन्दहासं वक्षोरुहावपि च तौ क्रमवर्धमानौ । विस्तारितं जघनमित्यनुवेलमस्य चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६ ॥ तस्मिन्ननुक्षणमिति प्रविज़म्ममाणे मारामये स तु कदाचिदुदारधामा । व्याजेन केनचिदनन्यगतिः खगेहा- देकः प्रियामवलुलोकयिपुः प्रतस्थे ॥ २७ ॥ असे वहन्नधिककोमलमङ्गनानां चिल्लीविलासचतुरं मधुरं शरासम् । अध्वानमन्तिकचरं कथयन्नवक्रं साहाय्यमस्य विदधे सहकारवाणः ॥ २८ ॥ स्फुरद्रागोन्मेपे चरमगिरिसौधाग्रवलभी नभोमध्यादद्धा विशति नलिनीजीवितसमे । असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥ तदनु मुदितचेताः प्राप्य वापीमदूरे विमलसलिलपूरस्पर्शवीताध्वखदः । अधिकसुभगपातैः सेवितो वातपोतैः .सकुतुकमभिपेदे मन्दिरं सुन्दरामयाः ॥ ३० ॥ आवृण्वानामुरसिजभरोत्सेधमेकेन दोष्णा विन्यस्यन्ती तदितरकरे वक्रमापाण्डुगण्डम् । अङ्के सख्या निहितचरणामध्वनि न्यस्तनेत्रा- मद्रासीत्तां मृदुनि तेलिमे मुग्धगात्री शयानाम् ॥ ३१ ॥ तदनु मदनपीडां मानसे देहकान्त्या स्फुटमिव कलयन्ती प्रेक्ष्य कान्तामदूरे । १. भ्रूभइमनोहरम्. २. धनुः. ३. कामः. ४. मन्दवायुभि., ५. तल्पे, . . । 1 कोटिविरहम् । १४७ कुतुकभरमनोजातऋमिश्रीकृतात्मा हृतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥ अभ्यर्थ्यमानमनिशं मनसा पुरस्ता- दभ्यागतं समवलोक्य युवानमेनम् । सा खागतोक्तिमकरोदमृतद्रवाई- मन्दारकान्तिलहरीसुहृदा स्मितेन ॥ ३३ ॥ ततः श्रान्ते कान्ते सविधभुवि सख्या चतुरया समानीतं नव्यं तृणकटमलकुर्वति शनैः । न्यषीदत्सा चौरान्मितमधुरवाणीविलसितै- हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४ ॥ लपन्तावन्योन्यं किमपि समुदाचारसरसं दिशन्तौ ताम्बूलं परिमिलितकर्पूरशकलम् । वदन्तावाकासामधिकचतुरैरसिवलनै- युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३५ ॥ वाल्मात्रेण प्रतिष्ठासुमप्रतिष्ठासुमात्मना । कामिनी कामुकं प्राह यामिनीकामुकानना ॥ ३६ ॥ यातप्रायमिदं दिनं कमलिनी दीनेयमालोक्यतां नीरन्ध्रश्च पयोधरः स च शशी दूरेऽधुना वर्तते । विप्रागारमिदं तटाकसविधे स्वायत्तमेतच्च ते गेहं तत्तपय क्षपामिह महान्कार्यातिपातो न चेत् ।। ३७ ॥ अध्वा निर्मल एव नापि सहसा संवर्धते वा तमो विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् । मुग्धापानि पयोधरः परमसौ संध्यागमे सांप्रतं प्रस्थानोद्यममुन्नमरिगलद्धारो रुणङ्ख्येव मे ॥ ३८ ॥ १. आरात्समीपे सा च न्यषीदत. २. चन्द्रानना. ३. स्तनो मेघश्च. ४. परिगलतू- हारः; (पक्षे) परिगलतू-धारः. .

१४८ काव्यमाला। . वदतोरिति मुग्धहासमाध्वमिधुरं व्यजितमञ्जुरागवन्धम् । अरुणं तैरणेरवाप विम्ब वरुणाशातरुणीवतंसभावम् ॥ ३९ ॥ अथ स विहितसंध्यावन्दनाद्यः समीपे कथितधरणिदेवस्यालये तन्नियोगात् । सकुतुकरुचि भुक्त्वा खादुसंपन्नमन्नं त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ १० ॥ स्नातानुलिप्ततनुरागमनं तदीयं सा च प्रगाढकुतुका परिपालयन्ती । मुग्धेक्षणा निजमसेवत वासगेहं मुद्रादरिद्रमदनद्युतिमुग्धगात्री ॥ ४१ ॥ उन्निकान्तिलहरीमहनीयगात्रीं संनाहिनी सरसिजायुधसंप्रहारे । तां पश्यतः क्षितिसुरस्य समुज्जजृम्भे पूर्वाधिका मनसि कापि कुतूहलश्रीः ॥ ४२ ॥ तल्पोपान्ते तदनु च मिथः संनिविष्टौ दिशन्तो कर्पूरैलामिलनसुभगां शुभ्रताम्बूलवीटीम् । सख्या साकं चतुरवचसा सूचितान्योन्यभावै- र्वक्रालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ।। पश्यन्ती पुनरनयोरिङ्गितभेदैरनङ्गपरिपीडाम् । नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ॥ ४४ ।। बहिः खल्पं तल्पं तदनु स तया दीपकरया समादिष्टं भेजे मदनपरिदूनेन वपुषा । हृदा तु प्रत्यग्रं प्रसवशरकेलीगृहगतं तदीयप्रत्यन्तं परिहसितपर्वेन्दुसुपमम् ॥ ४५ ॥ तदनु शशिमुखी सा प्राप्य शय्यानिकेतं निजमभजत तल्पं निर्भरानगपीडा । १. सूर्यस्य. २. पश्चिमा दिक्. ३. मदनयुद्धे सनद्धाम्. ४. कामः.

१ कोटिविरहम् । १४९ किमपि जनितकम्पैरङ्गकङ्गमाला- वचन(चरण)चलितमळीवल्लरीतुल्यकुल्यैः ॥ ४६॥ मनसा सदृशानुरागभाजी मुहुरुयुक्तपरस्सराभिसारौ । अवमानभयेन जातचिन्ताववलन्तौ वपुषा च तावभूताम् ॥ १७ ॥ तत्पादनल्परसमुच्चलितोऽथ तत्त्वा- त्पुष्पायुधेन बलिना परिणुद्यमानः । सोऽयं विवेश शनकैः शेफरेक्षणायाः शय्याग्रहं शमितकल्पमणिप्रदीपम् ॥ ४८ ॥ बद्धोद्यमा तदभिसारविधौ विसोढुं तत्तादृशं मदनतापमपारयन्ती । मुग्धा विहाय शयनं स्वयमुत्थिता च न्यस्तं च तेन विवरे कुचयोः करानम् ॥ ४९ ॥ पुलकिततनुवल्ली सा ततः प्रीतिवेगा- न्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् । अधिककुतुकमारादानमय्योदसीयं वदनमधरबिम्बं चुम्बति स्म प्रकामम् ॥ १० ॥ अनुदिवसमयोगे चेतसा काह्नितं य- द्यदपि मदननाम्ना देशिकेनोपदिष्टम् । स्फुरितमभवदन्तर्यत्तदात्वे च यूनोः सुरतमननुभूतं संबभूवाभिरामम् ॥ ११ ॥ मिथुनमिदमुदारखेदलेशानुविद्धं पुलकि गलितधैर्य पुण्यदानन्दभारम् । दृढमभजत जाग्रत्वप्नयोर्मध्यसंस्थां मदनरससमुत्थामत्युदारामवस्थाम् ॥ ५२ ॥ अथ सुरतविरामे विस्मृतान्योन्यभेदं कृतघनपरिरम्भं कोमलाभ्यां कराभ्याम्(भुजाभ्याम्)। १. मोनलोचनाया.. २. एतदीयम् ३ गुरुणा. ४. तस्मिन्काले.

१५० काव्यगाया। मिलितवदनधिम्म मिश्रितोरुपकार्ट शयनममनतां ती श्रान्तिभानी युवानी ॥ ५३ ॥ नाराचवाण(पात)'रुपे चरणायुधानां नादे ततः सरति नर्णयमान्तगालम् । गाढं कुलान्तरगतं परिरभ्य कान्तं बान्ताशुविन्द कमनी यननं नमागे ॥ १४ ॥ आनाल्यादपि कान्त कर्णपिार प्रनिम्नदायगंग- रासक्तं त्वयि मानसं हिगणितं नातं रामायेनान । प्राप्तोऽरयय पुनर्मनीगमुतस्तन्यामनन्गाश्रयां त्यगलायब न गाहि पाहि मानावनदनानिमाम ॥ ५९॥ तन्या तया निगदितं पण मनः । प्रत्यवान प्रसन्नात्मा गकाणी मोगना ॥६९ } अनर्थनीयमतिरागनपा मया ग. न्मुग लाया गति तदिदं तगापि । एतावद्ध कायामि गर्ग बनाया. माभ्याममं ननगहि त दाए । १७ ।। इति लतममयोऽमा फल्गमभाग गया চিনামায়ণগান। विहितमकलकत्यो मृष्टमारतारा नाम मपदि मृवित गताः प्राकान्तानोतम ॥१८॥ मा न लानाधमिलमनिमन निक पत्यः प्रत्यागगनपदीयमाना। भयोमयः किमपि स्मनीरत्ता मानी पुप्पागोदात्पुलकिततनः सग्मागादासम्दे ॥ ५९॥ आयातेन गगं प्रियेण नृमुगी सा प्राप्य गामा स्वच्छप्रच्छदभाजि कलितालिम रानी गयाना ममाम् । १.नायिका. " Prammam Pawan - mam कोटिविरहम् । १५१ अन्यूनप्रणयप्रवाहसुभगैराकासितश्चेतसा तैस्तैर्नमभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ॥ ६० ॥ क्षणादस्तं याते दिनकति शनैर्वाति पवने समादायामोदं दरदलितजातीसुमनसाम् । समारूढे चेन्दी गगनममृतस्यन्दिकिरणे स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥ गतनिजपरभावं गाढगाढमहारं मणितभारतगेहं मनुभूषाविरावम् । सुरतमधिकमासीदुद्धतं चित्तरङ्गे सति मदनविलासे कामिनां का व्यवस्था ॥ ६२॥ समदिवसनिशीथं क्रीडतोरेवमेव क्षणवदविदितांशा वत्सराः केऽपि याताः। न च सुरतसुखे तो वीततृष्णावभूतां न खलु विषयसङ्गः शीलनेनैति शान्तिम् ॥ ६३ ।। इत्थं निवसतोः खैरं नित्यं प्रत्यग्रयोस्तयोः । कदाचित्वगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥ शय्योत्यायमर्थकदा प्रियतमे याते प्रभातागमे निद्राशेषनिमीलिताक्षिकमला तन्वी शयाना क्षणम् । दुर्वारं खलु दैवदुर्विलसितं स्वप्ने स्वयं सा विलो- क्यान्यासङ्गिनमात्मवल्लभमतिकुडा विबुद्धाभवत् ।। ६५ ॥ निद्राविरामसमयेऽपि रुषा स्फुरन्त्या मुद्रादरिद्रतरया परिवृत्तचेताः । स्वमानुभूतमपि वस्तु तदस्तधैर्या तन्वी चिराय परमार्थतयैव मेने ॥ ६६ ॥ सा भामिनी परुषरोपनिवीतचित्ता नैवोच्चचाल शयनादतिदूयमाना । १. प्रत्यहं नूतनयोः -- - . .

- १९२ काव्यमाला। सौमोपधानममलं 'नयनान्तवान्तै- रातन्वती मलिनमश्रुभिरचनाक्तैः ॥ ६७ ॥ यथापुरमुपस्थितः स तु विलोकयन्प्रेयसी विकारमयथापुरं विधृतमानमासेदुषीम् । विषादभरविह्वलः किमिति चिन्तयन्नन्धधी- रुवाच कलितादरं सरसया गिरा सान्त्वयन् ॥ ६८ ॥ किमेतदयि वल्लभे कथय किं न जानासि मा- ममुं तव पदाश्रयं किमिति मानमालम्बसे । अकारणसमुद्गमामपनयाशु दूरे रुषं विषादभरिताशये मयि विधेहि दासे दयाम् ॥ ६९ ॥ गलितचिकुरवन्धं गण्डसंसक्तबाष्पं . विचलदधरविम्बं विश्लथन्मुग्धगात्रम् । शयनमिदमकाण्डे व्यायतश्वासवातं चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७० ॥ मुञ्च मानमनिदानमिदानीमञ्चिताक्षि हृदि संचिनु मोदम् । सिश्च वाङ्मयसुधामिरधीरं पञ्चसायकहतं जनमेनम् ॥ ७१ ॥ इति विविधतराभिः सान्त्व्यमानापि वाग्भिः प्रतिवचनमुदश्रुः सा यदा न न्यगादीत् । अधिकुचतटमस्याः कातराक्ष्यास्तदासौ मृदु, निजकरपझं न्यस्तवानस्तधैर्यम् ॥ ७२ ॥ कितव शठ किमेतन्मा स्टशेत्यात्तभावा निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् । तरुणमरुणिताभ्यामनुपूर्णान्तराभ्यां नयनसरसिजाभ्यां वीक्ष्य रूक्ष वभाषे ॥ ७३ ॥ अपसर शठवुद्धे मामकीनान्निकेता- दलमतिनयवाचां विस्तरैः कृत्रिमैस्ते १. निष्कारणम्. . . HA कोटिविरहम् । १५३ ऋजुमतिरहमेवं त्वय्युपारूढरागा ध्रुवर्मवमतिपात्रं हन्त जाता जनानाम् ॥ ७४ ॥ तामेव नूतनां याहि कि मया यातयामया। सति सूने दरोत्फुल्ले कस्य इन्तश्लथे स्टहा ॥ ७९ ॥ का सा कामिनि कथ्यतां तव सदा या मानसे वर्तते सा चेञ्चण्डि ......"त्वमेव समये यातं तदैतद्गते । अद्याप्येवमिदं शपे चरणयोईष्ट विवादैरलं खमः किं न्वयमम्बुजाक्षि सकलं खमोपमं दृश्यते ॥ ७६ ॥ परिचयवशादस्या रागः श्वथः किमु सांप्रतं धृतरुचिरभूदन्यस्मिन्वा न वेनि नवे जने । किमु तमुपभोगोद्रेकान्मे गतं किमु शून्यतां () न पुनरधुना मानस्थानं मनागपि लक्षये ॥ ७७ ॥ गतधृतिरिति तत्तत्तयन्कर्कशेन स्मरपरिभवशोकेनाकुलीभूतचेताः । क्षणमथ धृतमौनं यत्नसंस्तम्भितास्त्रं नतवदनमतिष्ठत्संनिधौ संनताङ्गयाः ॥ ७८ ॥ तथा विषीदन्तमनन्यसंश्रयं न किंचिदेषा निजगाद भामिनी । अतिप्रमाणारुणितेन केवलं दिधक्षतीवैक्षत चक्षुषा रुषा ॥ ७९ ॥ आरोपितागसमनागसि मय्यकस्मा- न्मानोबुरामनुनयोक्तिभिरप्यसाध्याम् । एनां त्यजाम्यहमिति क्षणजातबुद्धिः क्रुध्यन्नसौ कृतघनश्वसितं प्रतस्थे ॥ ८० ॥ अथ विलम्ब्य विलम्ब्य शनैः शनैः प्रियतमानुगति प्रतिपालयन् । नियतिमेव मुहुः परिगर्हयन्निजमवाप चिरेण निकेतनम् ॥ ८१ ॥ १. अवमानभाजनम्. २. मुक्तप्रायया. ३. शिथिलबन्धने. म्लान इति यावद. . निरपराधे मयि समारोपितापराधाम्. २० . १५४ काव्यमाला। चिराइष्टैरिष्टैविदितनिखिलात्मीयचरितै- वसन्गेहे साकं सुमधुरवचोभिः सहचरैः । स्मरन्मानाक्रान्तां मनसि दयितामेव सततं कथावन्धैस्तस्याः कथमपि स कालं क्षपितवान् ॥ ८२ ।। निर्धूतधैर्यविभवे हृदि नित्यमित्यं निध्यायतः प्रियतमा प्रतिपन्नदैन्यम् । अल्पीयसैव समयेन समुजजृम्मे पुष्पायुधार्तिरतिमात्रमसह्यतापा ॥ ८३ ॥ उरसि निहितं मुक्ताहारं क्षिपन्नहिशङ्कया मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् । वपुषि सहसा जातवेदो हिमाम्बुनिषेचने शिवशिव वभूवायं सायं क्रमात्सुहृदामसौ ॥ ८४ ॥ गमिष्याम्येवाहं गतदुरभिमानः परिसरं प्रियाया हीही मां पुनरपहसेयुर्ननु जनाः । कथं वा सोढव्यो मदनपरितापः स्थितमिदं न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी ॥ ८५ ॥ इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तु- याते च कोपविवशे दयिते खगेहा- हाते(?)च चेतसि मनागनुतापलेशे । सा भागिनी तदैनुनीतिधृताग्रहापि सौभाग्यलोभचकिता न चचाल तल्पात् ॥ ८६ ॥ उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी तल्पादनल्पतरसाध्वसनुद्यमाना । मत्वा वहिस्तमनिरीक्ष्य युवानमारा- दुद्वेलशोकविवशीकृतमानसाभूत् ॥ ८७ ॥ १. अनुनीतिरनुनयः. .

कोटिविरहम् । १५५ अपश्यन्ती कान्तं किमिदमिति चिन्तापरवशा विनिन्दन्ती दैवं मुहुरधिकदूनेन मनसा । क्षिपन्ती बाप्पाम्भःप्रसरकलुषे दिक्षु नयने क्षणं तस्थौ तन्वी कुचनिहितवाहासरसिजा ॥ ८८ ॥ स्थित्वा किंचन वञ्चितास्मि विधिनेत्युत्कम्पमानान्तरा पश्यन्ती व्रजतः पदानि कमितुस्तन्वी वहिः प्राङ्गणे । भूयः स्वीयमुपेत्य वासभवनं मानस्मरार्तित्रपा- शोकव्याकुलिता पपात शयने लूनेव मल्लीलता ॥ ८९॥ इतः प्राडियूंढाः प्रणयपरिपाटीसुरमिला रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये । इदानी मामीपत्कलहकलुषीभूतहृदया- मनाप्टच्छयाकाण्डे यदसि चलितस्तत्किमुचितम् ॥१०॥ यन्निमित्तं परित्यक्ता पूर्व प्राणसमा मया । तन्निमित्तं परित्याज्याः प्राणाश्चाद्य न संशयः ॥ ९१ ॥ तत्तच्चिन्ताशवलहृदयां श्रान्तगात्रीं शयानां तन्वीमित्थं तपनकिरणालीढवल्लीसकुल्याम् । प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा चोतन्माली (१) सरसवचना सान्त्वपूर्व वभाषे ॥ १२ ॥ प्रियसखि वदनं ते किं गलद्वाष्पमेत- द्वहति तुहिनसिक्केनाम्बुजेनाद्य मैत्रीम् । अयि कथय निदानं संविभक्तं हि दुःखं ननु भवति जनानां सह्यपीडातिरेकम् ।। ९३ ॥ क ते यातः प्रेयान्प्रहसितहिमांशु कुमुदिनी गतच्छाया भूयत्सनु(?)रनुकरोतीयमधुना । शुचा दीनो मौनं भजति च निकामं परिजनः किमेतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ ९४ ॥ १. करकमला. बाहाशब्दस्तु भुजावाचक एवं प्रसिद्धः १५६ काव्यमाला। इति पृष्टा तया तन्वी कृतनिःश्वसितं शनैः । आदितो दुरवस्थां तामातुरा संन्यवेदयत् ॥ ९५ ॥ श्रुत्वा वृत्तमुवाच सा च युवयोरस्मिन्नवस्थान्तरे नागः किंचन विद्यते हतविधेरेतद्विलासान्तरम् । आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधि खिन्नधीः सौभाग्यं तव तादृशं प्रणयिता तस्यापि ताग्विधा ।। ९६ ॥ विरहानलेन तव मानसं यथा प्रियमानसं च परितप्यते ध्रुवम् । युवयोः परस्परविमेलना ततः सुकरा भवेत्सुरभिबाणशिल्पिनः ॥९७॥ सततमिति वचोभिः स्निग्धया केलिसख्या विदितहृदयपीडोदन्तया सान्त्व्यमाना । समधिकपरितापक्षीयमाणाङ्गवल्ली समयमनयदेषा संस्मरन्ती तमेव ॥ ९८ ॥ इत्थं दैवादधिगतवतोरप्रियं विप्रयोगं रोषप्रेमव्यतिकरजुषोः सीदतोर्जातखेदम् । यूनोरासीत्सपदि पुरतो वौरिदानामनेहा मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ।। चातकीमनसि मोदमावहन्केतकीकुसुमसौरभं वहन् । धूतनूतनघनः समाययौ चूतसायकसखा समीरणः ॥ १० ॥ सह मदनधनानिःस्वनेनोज्जजम्भे वियति विततिभाजामारवो नीरदानाम् । अपतदवनिष्टष्ठे नूतना तोयधारा सह च विरहभाजां विश्ठथैरश्रुपूरैः ॥ १०१ ॥ इत्थं प्रवृत्ते समये धनानामुढेलमुडूलितसूनरेणुः । उच्छूनमानं मिथुनं तदुच्चैरुच्चाटयामास मनोजमन्त्री ॥१०२ ॥ विरहमसहमानौ वीतनिःशेषमानौ तदनु रहसि दीनौ नुद्यमानौ स्मरेण । १. न अपराधः. २. मदनशिल्पिन:. ३. प्रावृट्समयः. ४ कामदेवसुहृत्.

सहृदयलीला। १५७ निबिडतमसि घोरे जृम्भमाणे निशीथे निजनिजनिलयात्तौ निःसृतौ निःसहायौ ॥ १०३ ॥ शृण्वन्तौ श्रुतिकट निःस्वनं घनानां पन्थानं पदयुगलेन वीक्षमाणौ । कुर्वाणौ हृदि च मनोरथाननेकान्दुर्वारस्मरविवशौ विचरतुस्तौ ॥ १०४ ॥ स्निग्धश्यामैस्तमालैरविरलदलसंघातनीरन्ध्रशाखै- राक्रान्ते भ्रान्तभृङ्गीकुलविततगरुन्मण्डलीमण्डितान्ते । स्फायदोरान्धकारस्थगितदिशि निशीथान्तरे तत्र कुत्रा- प्यारामे मारपीडाभरपरिलुलितैरङ्गकैः संगतौ तौ ॥ १०५ ॥ आबद्धमानौ निभृतं चरन्तावा[कस्मि]कस्पर्शविकम्पिताङ्गौ । आवेदयामास परस्परं तावानन्दचन्द्रः वयमभ्युदञ्चन् ॥ १०६ ॥ आमनाङ्गममन्दरागमधुरं तावाश्लिषन्तावुभा- वस्त्राम्भोविसरैरतीव शिशिरैरासिच्यमानाङ्गको । आमोदादगलगिरावभिनवीभूताविवात्युत्सुका- वानन्दामृतवारिधावकुरुतामव्याजमामज्जनम् ॥ १०७ ॥ इति महाकविश्रीनारायणभट्टपादविरचितं कोटिविरहम् । श्रीराजानकरुय्यकमणीता सहृदयलीला। श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः ॥ यु- १. उद्भटविवेकाख्यग्रन्थप्रणेतराजानकातिलकसूनू रुचकापरनामा राजानकरुय्यक कश्मीरेषु ख्रिस्ताव्दीयद्वादशशतकपूर्वार्ध आसीत्. अयमेव मझुकविना श्रीकण्ठचरित. यान्तिम सगै स्वगुरुत्वेन वर्णित.. अद्यावधि ज्ञाता एतत्प्रणीता ग्रन्थास्त्वेते-(१) अल- कारसर्वस्वम्, (२) अलकारानुसारिणीनाम्नी जहणकविप्रणीतसोमपालविलासकाव्यस्य का, (३) काव्यप्रकाशसकेतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्य- मासा, (७) हर्षचरितवार्तिकम्, इति सप्त. एतेषु सहृदयलीलायाः पुस्तकद्वय भा- हारकरोपाहश्रीमद्रामकृष्णनामशालिभिः पण्डितधुरीणैः पुण्यपत्तनस्थराजकीयसंग्रहा- स्मभ्यं प्रहितम्. तत्रैकं नागराक्षरलिखितं पत्रत्रयात्मकं नातिशुद्धं नवीन क-चिहितम्. पर शारदाक्षरालिखितमलकारशेखरेण सह सबद्ध प्रायः शुद्ध प्राचीन पत्रत्रयात्मक -चिह्नितम्. पुस्तकद्वयमपि कश्मीरलिखितमस्ति. तदाधारेणैतन्मुद्रणमारभ्यते. पाठा- तराणि चात्र लेखककृत प्रमादमपहायैव गृहीतानि सन्तीति नेयम्.

१५८ काव्यमाला। वत्यादीनामुत्कर्षों देहे' गुणालंकारजीवितपरिकरेभ्यः ॥ तत्र शोमावि- धायिनो धर्मा गुणाः ॥ रूपं वर्णः प्रभा राग आभिजात्यं विलासिता । लावण्यं लक्षणं छाया सौभाग्यं चेसमी गुणाः ।। अवयवानां रेखास्पाष्टयं रूपम् ॥ गौरतादिधर्मविशेषो वर्णः ॥ का- चकाच्यरूपा रविवत्कान्तिः प्रभा ॥ नैसर्गिकस्मेरत्वमुखप्रसादादिः सर्वे- पामेव चक्षुर्वन्धको धर्मों रागः ॥ कुसुमधर्मा मार्दवादिालनादिरूपः स्प- शविशेषः पेशलताख्य आभिजात्यम् ॥ अङ्गोपाङ्गानां यौवनोद्भेदी मन्म- थवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो विलासिता ॥ तर- निद्रवखभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्करेकसार इव पूर्णेन्दुवदाहादको धर्मः संस्थानमुग्धिमव्यङ्गयो लावण्यम् ॥ अङ्गोपाङ्गा- नामसाधारणशोभाप्राशस्त्यहेतुरौचित्यात्मा स्थायी धर्मों लक्षणम् ॥ त- स्य युक्तप्रमाणतादोषस्पर्शस्निग्धवक्रनियतलोमाङ्गसुश्लिष्टसंधानतानाहपरि- णाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिहागपूर्णतादोषवैकल्यधर्म- सौन्दर्यप्रमाणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड्डेदाः ॥ अग्राम्यतया वक्रिमत्वख्यापिनी ताम्बूलपरिधाननृत्तभणितिगमनादिस्थान- केषु सूक्ष्मा भगिश्लोया ॥ स्फुरलयुपभोगपरिमलादिगम्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश्च सौभाग्यम् ॥ तत्राये स्मर- मदपुलकादयो भेदाः । अन्त्ये तु मणितरूपपरिभोगाधराखादसौरभादि- भिर्युगपद्रसवत्वात्पञ्चेन्द्रियसुखलाभः ।। इति श्रीराजानकरुय्यकविरचिताया सहृदयलीलायां गुणोल्लेखः प्रथमः । रत्नं हेमांशुके माल्यं मण्डनद्रव्ययोजने । प्रकीर्ण चेसलंकाराः सप्तवेते मया मताः ॥ १ 'देहगुणा-' इति क-पाठः. २. 'काचकच्य' इति ख-पाठः. ३. 'नैसर्गिकः' इति ख पाठः.४. 'प्रमाणोचित्याख्या लोकाप्रसिद्धा विशिष्टा-' इति क-पाठः.५. 'छा- यास्मरलक्ष्मी.' इति क-पाठः. ६. 'उपभोगपरिगम्योन्तस्मारो रञ्जक-' इति क-पाठः. ७. 'परिभोगधाराकुसुमसौरभादिमि-' इति क-पाठ.. ८. 'पञ्चेन्द्रियों' इति ख-पाठः, .

सहृदयलीला । १५९ तत्र वजमुक्तापद्मरागमरकतेन्द्रनीलवैदूर्यपुष्परागकैतनपैलकरुधिरा- क्षभीष्मस्फटिकवालरूपाणि त्रयोदश रत्नानि ॥ हेम नवधा । जाम्बून- दशातकौम्भहाटकवैणवशृङ्गीशुक्तिजजातरूपरसविद्धाकरोद्गतभेदात् ॥ च- तुर्धा रत्नहेममयः ।। आवेष्यनिवन्धनीयप्रक्षेप्यारोप्यभेदात् ॥ तत्र ता- डीकुण्डलश्रवणवालिकादिरावेध्यः । अङ्गदश्रोणीसूत्रमूर्धमणिशिखादृढि- कादिनिवन्धनीयः। ऊर्मिकाकटकमनीरसहशः प्रक्षेप्यः। पालम्बमालिका- हारनक्षत्रमालाप्रभृतिरारोप्यः ॥ चतुर्थांशुकमयः । त्वक्फलक्रिमिरोमज- त्वात्क्रमेण क्षौमकार्पासकौशेयराङ्कवादिभेदात् ॥ पुनस्त्रिधा । निवन्धनीय- प्रक्षेप्यारोप्यवैचित्र्यात् ॥ तत्र निवन्धनीयः शिरःशाटकजघनवसनादिः । प्रक्षेप्यः कञ्चलिकादिः । आरोप्य उत्तरीयपटादिः ॥ सर्वस्यास्यानेकवि- धत्वं वर्णविच्छित्तिनानात्वात् ॥ ग्रथिताग्रथितवंशाहिविधः सन्नष्टधा मा- ल्यमयः ॥ वेष्टितविततसंघाच्यग्रन्थिमदवलम्बमुक्तकमञ्जरीस्तवकलक्षणमा- ल्यभेदेन ॥ तत्रोद्वर्तितं वेष्टितम् । पार्श्वतो विस्तारितं विततम् । वहुभिः पुष्पैः समूहेन रचितं संघाँध्यम् । अन्तरान्तरा विषमं ग्रन्थिमत् । स्पष्टो- म्भितमवलम्बम् । केवलं मुक्तकः । अनेकपुष्पमयी लता मञ्जरी । कुसुम- गुलुच्छं स्तबकः ॥ तस्यावेध्यादयोऽपि चत्वारो भेदाः ॥ कस्तूरीकु- • डमचन्दनरागुरुकुलकदन्तसमपटवाससहकारतैलताम्बूलालक्तकाञ्जन- गोरोचनादिनिवृत्तो मण्डनद्रव्यमयः ॥ भ्रूघटनालकरचनाधम्मिल्लवन्धादि- १. 'कर्केतक' इति ख-पुस्तके, 'कत्केतन' इति च क-पुस्तके पाठ. २. 'पुलकः प्रस्तरभेदे' इति मेदिनी. रुधिराख्यो मणिभेद. तल्लक्षण गरुडपुराणेऽष्टसप्ततिमितेऽध्याये द्रष्टव्यम्. भीष्ममपि रत्नभेदः 'भीष्मरलम्, हिमालयोत्तरदेशजातशुक्लवर्णप्रस्तरवि- शेष' इति शब्दार्थचिन्तामणि.. 'वजेन्द्रनीलमरकतकर्केतनपद्मरागरुधिराख्याः । वैदू- यपुलकविषमकराजमणिस्फोटेकशशिकान्ता. ॥' इति रलगणनायां वराहमिहिरः (बृ. हत्सहिता ८०४) 'विषमक' इत्यस्य स्थाने 'विमलक' इति पाठ क्वचिदृश्यते. 'भी- प्मक' इति पाठोऽपि सभाव्यते. ३. 'विद्रुमरूपाणि' इति क-पाठः. ४. 'शुक्तिजात- रूप्य' इति क-पाठ . ५. 'भेदेन' इति ख-पाठ . ६. 'ताडी' इति क-पुस्तके नास्ति. ७. प्रलम्ब' इति ख-पाठ. ८. 'भेद ' इति क-पाठ. ९. 'रोप्यभेदात्' इति क-पाठः, १०. 'तत्र' इति ख-पुस्तके नास्ति. ११. 'वशात्पुनाविधः' इति क-पाठः. १२. स- घात्य' इति ख-पाठ.. १३. 'तत्र' इति ख-पुस्तके नास्ति १४. 'सघात्यम्' इति ख- पाठः. १५. 'प्रन्थिमद्विपमम्' इति क-पाठः १६ 'कर्पूरागुरुपदवास' इति क-पाठः. 8 १६० काव्यमाला । योजनामयः ॥ द्विधा प्रकीर्णमयः ॥ जन्यनिवेश्यभेदेन ॥ श्रमजलमधुम- दादिर्जन्यः । दूर्वाशोकपल्लवयवाङ्कुररजतत्रपुशङ्खतालदलदन्तपत्रिकाम- णालवलयकरक्रीडनकादिनिवेश्यः ॥ एतत्समवायो वेषः । स च देशका- लपकत्यवस्थासात्म्येन । एतेषां विच्छिच्या यथास्थाननिवेशनपरभागला- भाद्रामणीयकवृद्धिः॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायामलकारोल्लेखो द्वितीयः । शोभाया अनुप्राणकं यौवनाख्यं जीवितम् ॥ बॉल्यानन्तरं गात्राणां वैपुल्यसौष्ठवविभक्तताविधायी स्फुटितदाडिमोपमः स्मरवसतिरवस्थाभेदो यौवनम् ॥ तस्य वयःसंधिरारम्भः ॥ मध्यं तु प्रौढिकालः ॥ प्रथमे ध- म्मिल्लरचनालकभङ्गनीविनहनदन्तपरिकर्मपरिष्करणदर्पणेक्षणपुष्पोच्चयमा- ल्योम्भनजलक्रीडाद्यूताश्लीलच्छेकभणित्यनिमित्तलज्जानुभावशृङ्गारशिक्षा- दय आवर्तमानाश्चेष्टाः ॥ अन्त्ये तु शृङ्गारानुभावतारतम्यं श्रेयः॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः । शोभाया आरादुपकारकत्वाद्यञ्जकः परिकरः॥ तस्य चेतनाचेतनयोः स्थाणुचलयोः प्रत्येकं श्लिष्टसंनिहितमात्ररूपत्वेनाष्टविधत्वम् ॥ उत्सङ्गो- पासीनकान्तहयपरिवारवातायनविताननौछत्रादीनि दर्शनानि ॥ तानि द्वि- धा । व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपकानुप्राणकन्या- काः क्रमाद्गुणालंकारजीवितपरिकराः ॥ एवं परस्परोपकरकत्वादितरेतरा- नुग्राहकत्वं सिद्धम् ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चतुर्थः । समाप्तेयं सहृदयलीला । १. 'वेश.' इति पुस्तकद्वयेऽपि. २. 'इति सहृदय-' इति क-पाठः; 'सहृदय-' इति ख-पाठः. 'श्रीराजानक-' इत्यादि पुस्तकद्वयेऽपि नास्ति. ३. 'बाल्यान्तर' इति ख- पाठः. ४. "विधायी सदस्फुटो दाडिमोपमः' इति क-पाठः. ५. 'अत्रापि पूर्वोल्लेखस- माप्तिवदव पुस्तकद्वये वर्तते. ६. 'मात्रत्वेन' इति क-पाठः. ७. 'सहृदयलीलायां' इत्येव ख-पाठः. ८. 'समाप्तेयं सहृदयचमत्कारिणी सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजा- नकतिलकात्मजश्रीमदालंकारिकसमाजाग्रगण्यश्रीराजानकरुय्यकस्य राजानकरुचका. परनानोऽलंकारसर्वस्वकृतः' इति ख- मित. क-पुस्तके तु सहृदयचमत्कारिणी' इति विशेषण नास्ति. . साहित्य शाम कारण परि, सं... सस्पा

No text on this page.

Kavya Mala (iii)

Author
Krishnath Pandurang Parab
Title
Kavya Mala (iii)
File name
Kavya Mala (iii)
Text
OCR done
Citation
1888
Published
2010/05
Publisher
Narniya Sagar Printing Press Mubai
Language
Sanskrit
Pages
164
Library
Charan Sahitya Shodh Sansthan, Ajmer
DLI number
327336
Barcode
99999990002823.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
eJplhyLoTxf
Download PDF

Kavya Mala (iii)