Bharti Bhawan Library Allahabad
Wedarth Sangrah
Front matter
REPRINT FROM TIE PANDIT. वेदार्थसंग्रहः। वेदान्तप्रकरणग्रन्थः। श्रीभाष्यकारेण श्रीक्षमता भगवद्रा- मानुजाचार्येण प्रणीतः। सत्संप्रदायाचार्यपण्डितखामिश्रीराममिश्रशास्त्रि। वेदव्यासापरनामधेयश्री ६ सुदर्शनसूरिप्रणांत- तात्पर्यदीपिकाख्यव्याख्यया संवलितः। स. सं. पं. स्वा. श्रीराममिश्रशास्त्रिणा संशोध्य मुद्रितः । VEDARTHA SAMGRAHA WITH THE GLOSS CALLED TATPARY ADIPIK A BY SUNDARSANASURI BY S. SOM, P. S. RAMA MISRA SASTRI PROFESSOR, SANSKRIT COLLEGE, BENARES. PUBLISHER: DR. JAGANNATH PRASAD M. B. B. S. PROPRIETOR E. J. LAZARUS & CO." BOOKSELLERS AND PUBLISHERS. 52, Benares Cantt. PRINTER-SHIVA RAMA PROPRIETOR THE NATIONAL PRESS 52, BEN AKES CANTT. SECOND EDITION 1924 ALL RIGHTS RESERVED. काश्याम्। दी नेशनल प्रेस-नामकमुद्रालये मुद्रयित्वा प्रकाशितः।
。 भूमिका। ॥ श्रीमते रामानुजाय नमः॥ सगुणविद्येव विद्या, देशविशेषाविच्छिन्नः श्रीपतिरेव प्राप्यःप्राप- कश्च, तत्प्रपत्तिरेव परमोपायस्सा च ज्ञानसाध्या, तच्च ज्ञानं भक्त्यु- पासनादिपदव्यपदेश्यं सगुणविद्यास्वरूपमेव, सर्वास्वप्युपनिषत्सु विदिनोपक्रम्योपासिनोपसंहारदर्शनाटुपासिनोपक्रम्य विदिना चोपसं- हरणात् । न च विद्यनुरोधादुपासिरेव विद्यर्थ इति वाच्यम् उपास- नाया विशेषज्ञानरूपतया तदनुरोधेन सामान्यार्थकस्य विदेरेव तदर्थ- कतायाः समुचितत्वात् । एतत्तत्त्वं चान्तः प्रविश्य विवेचितमस्माभिः स्वीयब्रह्मसूत्रवृत्ताविति ततो द्रष्टव्यम् । भक्तिश्च-वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ईत्युक्तरीत्या न संन्यासनियता, नापि यत्किञ्चिदेकवर्णनियता, किन्तु स्वस्ववर्णाश्रमनियता कर्माङ्गक ज्ञानमेव ज्ञानं न तु नैष्कर्म्य, नापि ज्ञानकर्मणोः समसमुच्चयः इत्याद्यर्थजातनिरूपणपरां ब्रह्मसूत्रचतुरध्यायीं व्याख्यातृदोषदूषितामुपलभ्य सूत्राक्षरार्थनिरूपणपराः टङ्क-द्रमिड-मारु- चिप्रभृतयः पूर्वोक्तार्थप्रतिपादनैदम्पर्येण वाक्य-भाष्यादिग्रन्थान रचया- चक्रुर्बोधायनीयवृत्तिमनुसरन्तः। निरास्र्थश्च शतधा सहस्रधा श्रुत्या युक्त्या च निर्विशेषब्रह्मवाद, नैष्कर्म्यवाद, जगन्मिथ्यात्ववाद, भक्ति- निरपेक्षज्ञानमात्रान्मोक्षवाद, विश्वसृजोऽपारकल्याणगुणाफरस्य स्वा- भाविकज्ञान-क्रिया-बलैश्वर्यसंपन्नस्य नैर्गुण्यवाद, सर्वात्मैक्यवाद, देवतात्मैक्यवादं, त्रिकैश्यवाद, त्रिकतुल्यतावादमित्येवमादिमोक्ष- प्रतिद्वन्द्विवादजातम् , अपूपुषश्च प्रतिपिपादयिषितं वैदिकमर्थजात- * विद्ययोः परापरविभागस्तु ब्रह्ममापकत्व-तदप्राकत्वाभ्यामिति, सर्बवेदान्तार्थनिष्कर्षणमुखेन प्रत्य पीपदाम ब्रह्मसूत्रवृत्तिषु । + कौषीतज्युपनिषदि सुस्पष्टमिदम् । + स्वभ्यस्तगीतार्याः अञ्जसा श्रद्दधते । यथाहुराचार्याः ब्रह्मप्राप्न्युपायपूच शास्त्राधिमततत्त्वज्ञान- र्वकस्वकर्मानुगृहीतभक्तिनिष्ठा-साध्यानधिकातिशयप्रियविशदतमन- त्यक्षतापनानुध्यानरूपपरभक्तिरेवेति ।।
२ भूमिका। मिति न किंचिदवशिष्टं विशिष्टं येन ग्रन्थारम्भः सफलस्सम्भा- व्येतापि । मोक्षस्य घण्टापथस्वरूपो भक्तिमार्गस्तु स्ववर्णनियता- चरणप्रदर्शनपुरस्कारेण सभ्यावगमितो बकुला* भरणमुनिभिः । ते हि युगहासानुरूप्येण चतुर्थवर्णे स्वजनिमवलम्य (शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे) इति सनन्सुजातीये विदुरोक्त रीत्या कार्य- विशेषप्रसाधनाय स्वपरिगृहीताहिजयोन्यनुसारेण .. वेदाक्षराण्य संगिरमाणा दध्नोघृतमित्र सस्मृतीतिहासपुराणानां सशिरस्कवेदानां भवान्तराधिगतज्ञानतया वा भगवदवतारतया वा, प्रातिभप्रतिमान- भासितार्थतया वा सारभुन्मथ्य सुप्राचीनद्राविडभाषयैवोपनिववन्धुः । ता हि भवभयाभितप्ताः सारमादित्समानाः सुखमासेवन्ते, अभिदधते चन्द्राविडोपनिषदः इति ताभिरमूभिभिर्वेदार्थनिष्कर्षणमुखेन जिज्ञासवो द्विजाः, अद्विजाश्चोपकारमुपयापिताः । तथाऽपि बोधायनी- यवृत्तेरतिविस्तरेण पिलोपात्-टङ्काचार्यनिर्मितवाक्यग्रन्थस्याविरतर- तया, द्रमिडाचार्यभाप्ये चाधुनिकीनां शङ्कराचार्य-यादवाचार्य--भा- स्कराचार्यादिभिः स्वमत्युत्प्रेक्षितानामनल्पसार युक्तीनामनिराकरणाद् द्राविडोपनिषदां चातिप्राचीनभाषानिबद्धतया सर्वानुपकारकत्वाद् वेदार्थसंग्रहं नाम ग्रन्थं जग्रन्थुराचार्याः। तदिदं ग्रन्थरत्नं प्रथमतो- निर्माय आचार्यास्तस्य याथार्थ्यनिर्णयाय वेङ्कटाद्रिनाथं भगवन्तं विष्णुमर्पयाञ्चक्रुः यथोक्तं टीकातैव-श्रीभाष्यकृदुपन्यस्तो यः श्रीशैलपतेः पुरः। वेदार्थसंग्रहस्यास्य कुर्मस्तात्पर्यदीपिकाम् ॥ इति, स च भगवानस्थ ग्रन्थरत्नस्य साक्ष्ये प्रत्यक्षतामाप इत्यलौकिकममुं षकुलाभर वापदेन श्रीशठकोपाचार्याविवक्ष्यन्ते, तेहि भगवत श्रीकृष्णस्यतेना गुण पात्रेण श्रीनिवासेन साम्प्रतम् । शोधामि रहितं लोकं पाप्मना कलिनेक्षितम्-इति श्रीभागवतोक्तोल्या भगवत्पाद- परिवङ्गविमुखे पृथ्वीपरिष्य के जाने दशादिमान्यतीत्यसमुत्पेदिरे रचयाचश्च सहमगीती: सर्वशास्त्रार्थसारगर्भा अतिप्राचीनतामिल- पदवाच्यषभाषयेति। मिडभाष्यं तु सुप्राचीन मेतेभ्यः अत एव शारोपनिषद्भी- व्ये सूत्रभाष्येऽपि च तन्मतमनुरणितम् * इदमनपसारस्वाभिधानं माघामपेक्षग।
३ भूमिका। व्यापारमवलोक्य तदानीन्तनरमत्सरैराचार्यः श्रीदरामानुजाचार्याः ब्रह्म- सूत्रेषु भाष्यनिर्माणाय भृशमभ्यार्थिवत । तेऽपि चासेतुहिमाचलमचञ्च- लस्वप्रचारानवरुद्धसर्वदिङमण्डलानुपाधिबाद-मायावाद ब्रह्माज्ञानवा- दान वितताहनकुहनाकषायदुथुक्तिमान् बहुशाखप्रशाखा बौद्धा- द्विपक्षनिराकरणपराणां* श्वश्रूभिक्षाप्रतिक्षेपप्रायाननन्यनिरसनीयानवधृ- त्याचार्याणां प्रार्थितार्थसिद्धये प्रसेदुः। स्फुटमिदमेतेन यदयं वेदार्थसंग्रहः श्रीमाप्यात्पूर्वमेव प्रन्थित इति । श्रीभाष्ये तत्र तत्र वेदार्थसंग्रहनामोल्लेखानुल्लेखाच वेदार्थसंग्रह श्रीभाष्यनानोऽपि चायमर्थः सिध्यति । यद्यपि वेदार्थसंग्रहप्रतिपाद्या प्रतिक्षेप्याश्चार्था भगवद्भिर्यामुना- चार्यपादैः सिद्धिात्रयेऽभिहिताः प्रतिक्षिप्ताश्च, तथाऽपि तत्रास्ति ताद- शोऽर्थसंक्षेपो येन तत्र परमनिपुणानामेवोपकारसंभवोनेतरेषामिति न तेनोप्यस्य गतार्थतेत्यालोच्य जिज्ञासुजनसौकर्याय अस्यापूर्वव्युत्पाद- कस्य ग्रन्थस्य प्रकाशने प्रवृत्तिस्साधीयसीति । आशासे च कलावपि बलादेतेन भगवति समुत्पन्नभक्तिशेमुषीका जनाः सहसा संसारतापान जारिति॥ सततकलहप्रिये प्रास्ता केचित् श्वभू-स्नुषे तयोरादिमा गृह- म पहाय गृहान्तरं गता तदानीमेव कश्चन भिक्षुर्भिक्षार्थी स्नुषया भिक्षां न दास्यानि याहीति प्रत्युक्तः, तेन भिक्षुणा मार्ग संमिलिता श्वभूर्लब्धभिक्षोऽसीति पृष्टपती स तु बिनीतो नेत्युवाच, तं वसा भायाहि गृहमित्युदितपती स तु समुत्पन्नाधिकतृष्णस्तदभ्यर्थनया तया साकमेव पुनगुहमायातस्तदा पा श्वश्रूः स्नुषो प्रहरं यावद विक्षिप्त- बत्ती का भवती यया हस्त मायातया गृहस्वाम्यकामया मयि ध्रिय- माणायामेव भिक्षुः केवलं कणान् कामुकोविमुखीकृत इत्यादिदुर्वाद- जातं सरोपहङ्कारमवादीत् इदं सर्वम व लोका समुत्पन्नाधिकभिक्षाशो भिक्षुश्चिरं तस्थौ, न च सा तं किम प्युक्तवतीति स स्वयमेव मातरई प्रतीक्षे यावदाज्ञां भवत्या इति व्याजहार । तं चैवं वदन्तं सा परम- कार्पण्या चण्डी साधो प्रभो भिक्षुषर गादि याहि क्षमस्व स्थरस्थ मा विलम्बस्व नाहं भवन्तं भिक्षां दातुं प्रत्यार्तितवती कालविलम्ब क्लेशं चापबीभवं, किन्तु परम कृपणप्रकृतिमनभिजातां दरिद्रोदर.
, भूमिका। हारीताऽन्वयसंभवस्य श्रीदकेशवसोमयाजिनो द्राविडब्राह्मणस्य सुतः श्रीदकान्तिमतीगर्भसंभवः श्रीमानयमस्मदीयो मुमुक्षजनजीवातुः परमाचार्य श्रीरामानुजाचार्यः-मेषेचैत्र शुक्लपक्षे पञ्चम्यां गुरुवासरे। मध्याह्न कर्कटे लग्नानक्षत्रे रुद्रदैवते ॥ इति रुद्रदैवते पुनर्वसौ मद्रास- प्रान्ते भूतपुर्या वेदार्थसमुद्धरणाय जनि लेभे । आसीदसावविकलःशेष इति कृतसुकृतसहस्राः परिमृषमतयः श्रद्दधते । आचार्याणां मातुला:श्रीरामायणार्थोपदेष्टारो गुरवश्च श्रीशैलपूर्णा- चार्याः । महापूर्णाः समाश्रयणगुरवः। गोष्ठीपूर्णा रहस्यार्थोपदेशाचा- र्याः । अमीषां सर्वेषामपि गुरवोभगवन्तो यामुनाचार्याः, तदाचार्याः श्रीराममिश्राचार्याः । तदाचार्याः श्रीदपुण्डरीकाक्षाः । श्रीरामानुजा- चार्यप्रणीता ग्रन्थाः-श्रीभाप्यं, वेदार्थसंग्रहः, वेदान्तसारग्रन्थः, वेदा. न्तदीपः, गीताभाप्यं, नित्याराधनविधिः । श्रीगद्यम्, शरणागतिगद्यम्, वृहद्गद्यमिन्येते ज्ञायन्ते। श्रीरामानुजाचार्याः कदाऽवतेरुः किमकार्षुः कस्मादपाठिषुः, के कति च तेषां शिष्या अभूवन्निति, कियन्तमनेहसम- वात्सुः कुत्र चेति । कियन्तं कालं गार्हस्थ्यमवालम्विषत, कस्य हेतोः कदा च संन्यास्थनित्यादि सर्व निरूपितमस्माभिराचार्यपरिचर्याया- मिति तत्र द्रष्टव्यम्। दरीसम्भवामेना गृहस्थाम्यकामा स्नुषां दर्शयितु निजाधिकारवैभवं, यद् भर्तृगृहे कर्तुमकर्तुमन्यथा वा कर्तुमहमेव मभवामि न भवतीति । कथमसावनपनीतीद्वाहमङ्गलकङ्कणा कं चिद् भिक्षुमपि भिक्षायै नेति वदेत् नेत्यपि वदेयं चेदहं सा गृहस्वामिनीति । इदं श्वश्रूभिक्षाप्रतिक्षे. पन्याय शरीर, तदन बौद्ध पक्षप्रतिक्षेपकृतपरिकरैः कैश्चिदाचार्यवर- यमेव न्यायाझेऽन्वकारि । बौद्धषु योगाचारा:-इदं बाहां जगज्जातं क्षणिकविज्ञानात्मन्येव प्रविष्टं नेतोऽतिरिक्तो नाम कश्चनानुभव- नीयोऽनुभव एव तु रूपविशेषापन्नोऽनुभवनीयतामापेत्यातिष्ठन्ते तदिदं योगाचारमतंब्रह्मसूत्रेषु प्रतिक्षिप्तं तदेव च कैश्चिदमोभिर्वैदिकवेषैर्दू ष्टि सृष्टिवादं इस्तयहिठादवलम्बितमिति परिह सन्ति सन्तः । तत्साधु समर्थितं रवधूभिक्षाप्रतिक्षेपप्रायान् वादानिति । सर्वथा निर्विशेषब्रह्म- वादश्च यथा माध्यमिकमर्ममनीषितमर्थजालमनुकरोति तथा मत्स्य- पीपदाम ब्रह्ममीमांसासूचेष्विति तत्रैव द्रष्टव्यम् । * आत्मसिद्धिः, संविसिद्धिः, स्वप्रकाशसिद्धिरिति त्रयी सिद्धीनाम् ।
भूमिका। श्रीभाष्यस्यातिगहनगभीरार्थगर्भतया तदर्थेषु बुद्ध्यवत- रणार्थ लोकसौकर्यार्थं च वेदार्थसंग्रहमुद्रणेऽपि अव्याख्यस्यास्य मुद्रणे नोद्देश्यसिद्धिर्जनानामेतदुदितार्थातिवैदूशिकत्वादित्यनुसन्धाय विधाय च मतिपशूनां स्वलनसम्भवस्थलेषु वैशद्यमियं तानपर्थ. दीपिका स्नेहपूर्तिपूर्णा जनाज्ञानतमस्तिरस्करणाय विष्णवे समर्पिता । एतस्यास्तात्पर्यदीपिकाख्यव्याख्याया रचयिता च सुप्रौढ- पाण्डित्योऽतिविस्टत्वरस्वकीर्तिकिरणधवलीकृतसर्वदिङमण्डलो वेद- व्यासापरनामधेयः श्रीदसुदर्शनसूरिः काञ्चीनिवास्तव्यो द्राविडब्रा- हणः-अयं च श्रीभाष्यकृतामाचार्याणां भागिनेयस्य वात्स्यकुलोद्भवस्य श्रीसुदर्शनगुरोः पौत्रस्य नाना श्रीवरदाचार्यस्य शिष्यः। अयं च परमकृतज्ञोऽत्रेदमेव पर्याप्तमुदाहरणं यदसौ सर्व- तन्त्रस्वतन्त्रप्रज्ञोऽपि श्रीभाष्ये श्रुतप्रकाशिकां नाम व्याख्या- मकार्षीत्-गुरुभ्योऽर्थो यो मया श्रुतस्तमर्थ धारयितुमेष मे प्रयत्नो न*तु वाग्वैभवख्यापनार्थ वा तर्ककार्कश्यक्रोडीकृतसर्वविपक्षपक्षदमनक्षम- ताप्रदर्शनार्थं वेति सन्दर्शयन् अतिप्रयासरचनीयामप्यमू टीकां श्रुत- प्रकाशिकां तेने, मेने च तत्त्वतस्तया, अस्ति चाल्पविस्तरा श्रुतप्रदीपि- कानामैतन्निमिव श्रीभाष्यव्याख्या परा। तत्त्वसारनाम्नाऽपि च अन्थोऽनेन निरमापि, श्रीसम्प्रदायार्थनिरूप- णपरः। * गुरुभ्योऽर्थः श्रुतः शब्देस्तत्प्रयुक्तैश्च योजितः । सौकर्याय बुभूत्सूनां संकलव्य प्रकाश्यते ॥ इति तेषां ग्रन्थः । न केवलमेषा विनीतिरीतिः श्रुतप्रकाशिकाचार्याणां परं भार- तवर्षीयाणामुदारचेतसां सर्वेषामपि विदुषां यथाऽऽहुरद्वैतसिद्धिकारा मधुसूदनसरस्वतीसूरयः सिद्धान्त विन्दौ-यदत्र सौष्ठवं किञ्चित्तद्गरोरेव मे न हि ॥ यदबासौष्ठवं किञ्चित्तन्म मैव गुरोर्न हि ॥ इति । सदर्यस्तु टीकाकृता श्रीनारायणतीर्थविदुषैवमुपवर्णित:-अत्र गन्ये सौष्ठवं गुणवत्त्वं सर्वार्थसंग्राहकत्वादिरूपं गुरोरेव न ममेत्यर्थः श्रुत्य- यतदनुकूलतर्काणां श्रीमदाचार्य परम्परामालगुरुमूलकत्त्वादिति भावः। अंसौष्ठवं भाध्यभामतीविवरणाद्यपेक्षयाऽपि कठिनत्त्वरूपं तन्ममैव न गुरोरित्यर्थः । अखिल विद्यामधीणतार्किकशिरोमणिभट्टाचार्यरीत्व - सरणादिति भावः ॥ इति ॥
६ , भूमिका। एतस्य कालस्तु श्रीवेदान्ताचार्याणां समान एव यतोऽस्त्येषा प्रसिद्धिः-कदाचिदनुपनीतमतिमात्रबालं स्वभागिनेयं वेदान्ताचार्य समादाय काञ्चीपुरपुरन्दरस्य विष्णोर्दर्शनार्थमायाता बालस्य मातुला विद्यागुरवोवादिहसाबुदाचार्यास्तदानीं श्रुतप्रकाशिकाचार्याः शिष्या- नुपदिशन्तः श्रीभाष्यार्थमासन् सन्निहिता.मन्दिरे, ते च तदभ्युत्थानस- मादरव्यापृतास्तत्रय विससर्जुरध्यापनकार्य, कुशलप्रश्नादिना कालव्य- धाने च समुत्पन्ने कुत्राद्य भाप्यपाठः समापित इति शिष्यानप्राक्षुः-- ततश्च तेभ्यः पूर्वमयममलमतिस्सुरगुरुर्वेदान्ताचार्यः--अयमसौ विषयो यत्र भाष्यपाठावसानमिति विषयविशेष सहसैव निरदिशत् तदाकर्ण्य जातपुलकाः श्रीश्रुतप्रकाशिकाचार्या आशीभिरमुं समयूयुजन्नपूपुजैश्चै- तदीयां सुमेधसो मेधां प्रतिभां च, मेनिरे च तेन बालेन भाविगुरुणा सनातनाविच्छिन्नसम्प्रदायसमृद्धिमिति किंवदन्ती। तेन वेदान्ताचा- र्याणां समय एवैषां समय इति विभावयामः अयं श्रीमान् वेदान्ताचा- योऽनन्तसूरिसूनुः श्रीमतोतारम्मागर्भजो विष्णुकाञ्च्यां दीपिकेश्वरसं- निधौ तूपलनामकजनवासे न्युवास वैक्रमत्रयोदशशतके इत्यादि सुस्पष्टमस्ति। निर्ममे च षड्विंशत्युत्तरैकशतं ग्रन्थरत्नानामिति । विशेषस्त्वत्रत्यो मदीयाचार्यपरिचर्यायामनुसन्धेयः ।। एतस्य ग्रन्थस्य शोधनसमये मद्रासप्रान्तादायातमेकं द्राविडाक्षर- पुस्तकमपरं च देवाक्षरपुस्तकडयमवलम्बितं, तत्रैकं सत्यसरस्वतीपुस्त- कालयस्थमपरं च ब्रह्मामृतवर्षिणीपुस्तकालयस्थमिति त्रितयम् । आशासे चामुष्य सर्वस्य प्रयत्नस्य साफल्यं दरदराजकृपया अम- त्सरेषु निरूपकेविति। पौषशुक्लकादश्यां सत्सम्प्रदायाचार्यः वृहस्पती पण्डितखामिराममिश्रशास्त्री, वाराणसीनिवासनिबद्धप्रवृद्धसमादरः॥ सं.१६५०। काश्यां दशाश्वमेधे अगस्त्यमुन्याश्रमाश्रमः। सन्तु नः शुभाशिषः पूर्वाचार्या इति प्रणिहितमना भृशमभ्यर्थयते ।
श्रीमते रामानुजाय नमः। सटीकस्य वेदार्थसंग्रहस्य विषयसूचनिकापत्तम् । 4.० ७० .. ००० ००० ००० .. .... मङ्गलं, मङ्गलश्लोकार्थनिरूपणं, प्रसङ्गतोयादव-भास्कर- शाङ्करमतव्यावृत्तिप्रदर्शनम् ॥ पृष्ट । पंक्ती स्वपक्षसंक्षेपः। तत्रान्तराले जीव-तदन्तर्याम्युभयस्वरूपनिरूपणम् । शाङ्करपक्षसंक्षेपः। १२। २ भास्करपक्षसंक्षेपः। यादवपक्षसंक्षेपः। शाङ्कर*पक्षप्रतिक्षेपः। तत्र जीवात्मनोब्रह्मशरीरत्वाभिधानम् ।... शरीरशरीरिभावेन जगतोब्रह्मात्मकत्वव्यवस्थापनम् । सर्वशब्दानां ब्रह्माभिधायकत्वव्यवस्थापनम् । ब्रह्मणोनिविशेषस्वरूपत्वानुपपत्तिप्रदर्शनम् । शब्दस्य निर्विशेषवस्तुबोधकत्वानुपपत्तिप्रदर्शनम् । ज्ञानस्वरूपस्य ब्रह्मणः स्वतःसिद्धयङ्गीकारेऽध्यासानुपपत्ति- व्यवस्थापनम् । निर्विकल्पकप्रत्यक्षस्यापि सविशेषसाधकत्वव्यवस्थापनम् । भेदाभेदव्युदासः। ५०। ६ वेदान्तवाक्यानामितरविशेषव्यावृत्तिपरत्वानुपपत्तिप्रदर्शनम् । ५२ । १३ एकाद्वितीयैवकारपदानां सार्थक्यप्रदर्शनम् । असत्कार्यवादनिरासश्रुतीनां माध्यमिकपक्षप्रतिक्षेपपर- त्वानुपपत्तिप्रदर्शनम्। ६०। २ परमते अधिष्ठानापारमार्थेऽपि भ्रमसमर्थनम् । ब्रह्मणः सविशेषत्वनिषेधकत्वेन प्रतिभासमानानां श्रुति- सूत्राणामर्थकथनम्। ६२ । १८ • श्रीयामुनाचार्य सिद्धिधयेऽभिहितः । ... ... ... D... ...
२ ... ... ... ८२।१ ... ८८।६ सटीकस्य वेदार्थसंग्रहस्य विषयसूचनिकापत्तम् । पृष्ठे । एक्तो निर्विशेषाद्वैतस्य युक्तिविरुद्धत्वोपदर्शनम् । स्वमते ज्ञानसंकोचविकास समर्थनम् । ... अविद्याया दोषरूपत्वानुपपत्तिप्रदर्शनम् । एकजीववाद-तन्निराकरणे । ७८.१२. अविद्याया निवर्तकानुपपत्तिनिवृत्त्यनुपपत्तिश्च । ७8 । १० कतकरजोनिवृत्तिन्यायेनाविद्यानिवृत्त्यनुपपत्तिसमर्थनं पञ्चमप्रकाराविद्यानिवृत्तिपक्षप्रतिक्षेपश्च । ज्ञात्रनुपपत्तिप्रदर्शनम्। भेदनिवर्त कैक्यज्ञानसामग्रीसंवलनासंभवव्यवस्थापनम् । शास्त्रस्य जगन्मिथ्यात्वप्रमापकत्वानुपपत्तिप्रदर्शनम् । ... भास्करपक्षप्रतिक्षेपसंक्षेपः। यादवप्रकाशपक्षप्रतिक्षेपसंक्षेपः । ६४।२६ भास्कर-यादवयोः परस्परविशेषनिरूपणं च । सामान्यतो वस्तुमात्रे भिन्नाभिन्नत्वानुपपत्तिनिरूपणम् । १७।१६ प्रकारीभूतजात्यादेरेव भेदव्यवहारहेतुत्वसमर्थनम् । भेदाभेदबोधकश्रुतीनां निर्गलितार्थकथनम् । तत्-त्वम्पदयोर्मुख्यवृत्तत्वाभिधानम् । मतान्तरेऽर्थासंगत्यभिधानम् । एकविज्ञानेन सर्वविज्ञानप्रतिनानुगुण्यसंरक्षणार्थ सर्वस्य चिदचिद्वस्तुनोब्रह्मप्रकारत्वसमर्थनम् । १०६ । २५ ब्रह्मणः सर्वप्रपञ्चोपादानत्वेऽप्यपरिणामित्वसर्वात्मकत्व- समर्थनम् । ११४। १ सृष्टिप्रलयशब्दार्थनिरूणं तत्र प्रमाणं च । ११६ । १३ परमात्मनोमुख्यकारणत्वं शब्दानां च तत्र मुख्यवृत्तत्वम् । आत्मशरीरभावनिरूपणं परमात्मनः सर्वशब्दवाच्यत्वं- तत्र प्रमाणंच। ११६ । १६ स्वोक्तार्थसंक्षेपमुखेन वेदान्तार्थनिरूपणम् । १२४।१६ ब्रह्मस्वरूपनिरूपणं तस्य सविशेषत्वाख्यानम् । तत्र प्रमा- णोपन्यासश्च । १३०। १ आपाततोविरुद्धार्थानां श्रुतीनों वस्तुतोऽर्थनिरूपणेन mv ... १०६ । २२ कलहप्रशमः।
सटीकस्य वेदार्थसंग्रहस्थ विषयसूचनिकापत्तम् । ३ पृष्ठ । पंक्तौ मन्दधियामर्थानममसौकर्याय श्रुतिपसिद्धभेदवादाभेदवा- द-भेदाभेदवादानां स्वरूपनिर्देशः ।... १३६ । २३ मोक्षहेतुभूतात्मैक्यज्ञाननिरूपणं श्रुतिसामअस्यरक्षणं च । स्वोक्तार्थे श्रद्धातिशयाय अतिप्राचां टकुद्रभिडादीनां वा- क्योपन्यासस्तदर्थनिरूपणं च । १४३। २ परमात्मनोऽन्तर्यामित्वेऽपि विधिनिषेधशास्त्राणां साफ- ल्यं तत्र प्रमाणेच सिद्धोपायाश्रिता हि भागवता इत्युपायस्वरूपविशदीकरणम् । १४७ । ३ भगवद्बोधायनोक्तरीत्या कर्मसंवलितज्ञानस्य मोक्षहेतुत्व- व्यवस्थापनं तत्र परमगुरूणां भगवद्यामुनाचार्यपा- दानां संमतिप्रदर्शनं तदर्थस्य श्रुत्युपष्टम्भेन प्रामा- णिकत्वव्यवस्थापनं च । १४८।२० भक्ति--ज्ञानशब्दार्थनिरूपणं, भक्ति--ज्ञानयोः कार्यकारणभाव- प्रदर्शनं वर्णाश्रमधर्माणां मोक्षनिर्वाहकत्वव्यवस्थापनंच । १५२। १ निर्विशेषवाक्यार्थज्ञानानात्मकभक्तरेव मोक्षोपायत्वं तत्र भगवद्वोधायनादिसंमतिप्रदर्शनं च । खव्यवस्थापितार्थविपरीतार्थाभिधायिनामनादेयत्वं तत्र प्रमाणं प्रसङ्गतोराजसादिशास्त्रनिरूपणं च । १५३ । २१ पुराणोक्तार्थानां ब्रह्मणोपदिष्टत्वं परस्परविरोधे पुनरर्थ- व्यवस्थापनप्रकारश्च। १५८। १२ कारण वाक्यस्थत्रझरुद्रेन्दादिपदेष्वर्थनिर्णयाभिधानम्।... १५६।१४ कारणवाक्यस्येन्द्रादिपदानां शास्त्रदृष्टयोपदेशसमर्थन। तदर्थसमर्थनार्थ श्रीरामायणमहाभारताडुपन्यासश्च । १८३ । २० देवतात्रयसाम्यशङ्कानिरासः। १६६।१८ ब्रह्मादीनां कर्मवश्यत्वाभिधानं भगवतोवासुदेवस्य तु स्वेच्छयाऽवतारमात्रं न तु कर्मवश्यत्वमप्राकृत- देहसम्बन्धश्च । सिद्धोपायस्वरूपवादिनां भागवतानां सिद्धार्थे व्युत्प- त्यभावपक्ष आक्षेप्य इति मीमांसकमतोपन्यास. तन्निराकरणे।
- 20 ... २२४ । २७ सटीकस्य वेदार्थसंग्रहस्य विषयसूचनिकापत्तम् । पृष्ठे। पंक्तौ प्रौढिन्ना सिद्धार्थे व्युत्पत्त्यभावपक्षेऽपि क्षत्यभामओपपादलम् । २०७ । १६ कार्यवाश्चार्थवादिमीमांसकमतप्रक्षेपः। २०६ । २३ पराभ्युपेतशेषशेषित्वनिरुक्तिनिराकरणम् । २१७। ३ शेषशेषित्वनिरुक्तिस्तत्समन्वयचोदाहरणेषु । २१८। ३ स्वर्गकामादिपदानां प्रामाकराभिमतनियोज्यविशेषार्थ- कत्वपक्षव्युदासः। अपूर्वादिकल्पनामुदस्य नारायणस्यैव कर्मफलप्रदत्वं- तत्र द्रमिडाचार्यवचननोपन्यास-तदर्थकथनम् २२२। १ लिङर्थविशदीकरणम्। आराध्यदेवतायाः फलप्रदत्वसमर्थनम्... २२५। १७ कौषीतक्याद्युपनिषत्सुप्रसिद्धनित्यविभूतिसमर्थनम् । २३०। ८ प्रसङ्गतः स्तोत्र-शस्त्राद्यभिधानम् । २३४। २६ देशविशेषावच्छिन्नस्य भगवतः प्राप्यत्वसमर्थनम् । २३६ । १५ प्रसङ्गतोवेदप्रामाण्यव्यवस्थापनम् । २५२। १८ पौरुषेयापौरुषेयवाक्यविभागस्तत्स्वरूपनिरूपणं च । २५४।२४ अन्थार्थसंग्रहव्याजेन अनन्तकल्याणगुणाकरस्य भगवतः सर्ववेदान्तवेद्यत्वाभिधानम् । २५६ । २२ मन्दधियामनुस्मरणार्थ भगवद्भक्तेरुपायत्वान्याख्यानम् । २५६ । १८ भगवत्पारंतन्त्र्यलक्षणमोक्षस्य शरीरात्माभिमानिनाम- निष्टत्वेऽपि आत्मज्ञानां तस्यैवेष्टतमत्वसमर्थनम् । २६२। १० शास्त्रस्योपायप्रतिपादनप्रावण्याद् भक्त श्वासाधारणो- पायत्वाद् भक्तयात्मकोपायप्रतिपादनमुखेन प्रक- रणसमाप्तिः। खनिर्मितप्रकरणस्य प्रमाणतन्त्रेषु साफल्याशंसनम् । २६३ । २३ टीकाकर्तुमिजाहङ्कारनिरासपूर्वकं गुरुगौरवावेदनम् । २६७।१८ श्रियै नमः। श्रियै नमः। श्रियै नमः। ... m- ...
श्रियै नमः। श्रीपतये नमः । श्रीमते रामानुजाय नमः। नमोनमो यामुनाय यामुनाय नमोनमः। नमानमो यामुनाय यामुनाय नमोनमः।। यस्मिंश्चिरन्तनगिरामिह तत्परत्व- तत्तत्प्रलम्भनविमूर्छितशोकहानम् । आयत्तमस्ति भववारिधिपोतपादो रामानुजार्यमुनिरेष जयत्यजत्रम् ॥
No text on this page.
श्रियै नमः श्रीपतये नमः । पूर्वाचार्येभ्योनमः । नमो वेदान्तविशदीकरणदीक्षाय परमगुरवे बोधायनमहर्षये ॥ श्रीमते रामानुजाय नमः । भगवद्भाष्यकारेण तात्पर्य दीपिकायुक्तो कृत्तीवेदार्थसंग्रहः। जीयात्सुमनसा मुदे ॥ अशेषचिदचिद्वस्तुशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥१॥ श्रीमते रामानुजाय नमः । श्रीमते हयग्रीवाय नमः। श्रीश्रीनिवासमहागुरवे नमः । पूर्वाचार्येभ्यो नमः । वरदं द्विरदाद्रिशेखरं कमलाया दयितं दयानिधिम् । सकलार्थिजनार्थितप्रदं प्रणमामि प्रणतातिहारिणम् ॥१॥ कृत्वा नवयं निगमान्तभाष्यं निराकृतं येन भयं श्रुतीनाम् । प्रतारितानामवहुश्रुतस्तं रामानुजं योगिनमाश्रयामः ॥२॥ श्रीभाष्यकृदुपन्यस्तो य:श्रीशैलपतेः पुरः। वेदार्थसंग्रहस्यास्य कुर्मस्तात्पर्यदीपिकाम् ॥ ३ ॥ अशेषेत्यादिश्लोकद्वयेन प्रारिप्सितप्रकरणा(१)विघ्नपरि. समाप्त्यर्थं श्रोतणां तत्प्रसिद्ध्यर्थं च स्मृत्याचारप्राप्तं श्रुत्या मङ्गलमाचरति श्रोतृबुद्धिसमाधानार्थमार्थः (२)प्रतिपाद्यसंक्षेपश्च क्रियते तत्रेष्टदेवतोपासनारूपमङ्गलाचारः स्वपक्षस्थापनरूप: (१) शास्मैकदेशसम्बद्धं शास्त्र कार्यान्तरे स्थितम् । माहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः॥ इति पराशरोपपुराणोक्तलक्षणलक्षितःसन्दर्भशेष प्रकरणपदेनेह विषयते॥ (२) समाधानार्थमादौ इति पा० । (244 २ तात्पर्य दीपिकायुक्तः प्रतिपाद्यसंक्षेपश्च श्रोत आर्थश्च क्रियते प्रथमश्लोकेन, स्पपक्ष च प्रतिपाद्यमुपायोपेयात्मकं तत्र सिदुवस्तुस्वरूपमुपेयं चतुर्य- न्तैः पदैरुच्यते, नमः शब्देनोपाय: सूच्यते, तत्रापेयस्य ब्रह्मण उभयविभूतिवैशिष्ट्य पूर्वार्दुनाध्यते, निर्मलेत्यादिपदेनोमय- लिङ्गत्वमुच्यते, तम्र विप्रतिपत्तिविषयस्य तत्त्वमसीति(१) वाक्य- स्यार्थनिष्कर्षणमुखेन लीलाविभूतिविशिष्टत्वमुच्यते, अशेषचि- दचिदस्तुशेषिण इति प्रथमपदेन जगह्मणे : सामानाधिकरण्यं शरीरशरीरिभावनिबन्धनं, शरीरत्वं च चेतनं प्रत्यनन्याहशेष- त्वम्, एवं सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वे सति हि भेदश्रुतिभिर्घटकश्रुतिभिश्चास्य वाक्यस्याविरोधः । अशेषपदं चेतनबहुत्वं दर्शयति कतिपयचेतननियन्तृ ताव्या- वृत्तिश्चानेन सिवयति, वस्तु-शब्देन परमार्थत्वं विवक्षितम्,अ- शेषवस्तुशेषिण इत्येतावताऽलं किमर्थं चिदचिच्छब्दप्रयोग इति चेदुच्यते-यादवप्रकाशमते सर्वमपि चेतनमेव तत्र घटादेश्चैत- न्यानभिव्यक्तिमात्रमेवेति न चिदचिद्विभाग इति तव्यावृत्ति- श्चिदचिच्छब्दाभ्याम्। किञ्च मायिमते जीवब्रह्मास्सामानाधि करण्यं स्वरूपै क्यनिबन्धनम्, अचिद्ब्रह्मणास्तु बाधार्थमिति- सामानाधिकरण्यस्य नैकरूपोऽर्थ इति तद्व्यावृत्तिश्चाभिप्रेता। किञ्च भास्करमते जीवब्रह्मणाभेदश्रुतय औपाधिकभेदविषघाः, अचिव्रह्मणाझेदश्रुनयः स्वाभाविकभेदविषया इति भेदश्रुत्यो नैकरूपोऽभ्युपगत इति तद्व्यावृत्तिश्चाभिता ॥ निःशेष इति वक्तव्ये अकारस्य मङ्गलार्थत्वादशेषेत्युक्तम् । एवं लोलाविभूतिविशिष्टत्वमुक्तं भवति, नित्यविभूतियोगमाह शेषशायिन इति, शेषशब्दः पत्नीपरिजनादेः प्रदर्शनार्थः ताच्छी- त्यार्थप्रत्ययान्तत्वात भोगविभूतिसंबन्धस्य स्वाभाविकतया नित्यत्वसभिप्रेतम् । एवमुभय विभूतिविशिष्टत्वमुक्तम् । प्रधाभ- यलिङ्गत्वमाह निर्मलानन्तकल्याण निधय इति' निर्मलश्चान- न्तश्च कल्याणनिधिश्चेति निर्मलानन्त कल्याण निधिः । (२) नि- गुणं निरञ्जनं । निरवद्यम् अपहत(३)पाप्मा । समस्तहेयरहितं ਭੈਣਾ ष्णपाख्य परं पदम् (४) इत्यादिषु ब्रह्मविशेषणत्वेन निर्दोष- (१) तत्त्वमस्यादिवाक्यस्येपि पा०। (३) प्रात्मा७ उ०२ । (२) वृह० उ० । ६२ । २१ । (४) वि० पु० १ । २२ । ५३ । S RAMA AatanAmAtes वेदार्थसंग्रहः। ३ त्यादिवाधिपदानांप्रयोगात् नैर्मल्यं हेयप्रत्यनीकत्वं निर्मलत्वम- नुकूलत्वं च परिच्छिन्नेषु केषुचित्प्राकृतवस्तुष्वप्यस्तीति तया- वृत्त्यर्थं सकलेतर(१)परित्यागपूर्व कप्राप्यत्वादिसिद्धयर्थ तदुपयो ग्यानन्त्यमाह अनन्तशब्देन, अनेन वाङ्मनमनिवृत्तिरूपार्थगु णनिषेधपरिहारश्चाभिप्रेतः॥ कल्याण शब्दोऽनुकूलषामित्वादत्रानन्दाभिधायी, न हि प्रतिकूलोपेक्ष्येषु कल्याणशब्दप्रयोगः । यद्वा अनुकूलवेदनीय त्वात्सर्वे गुणाः कल्याणशब्दवाच्याः निर्मलकल्याणशब्दाभ्यां सामान्य विशेषाभ्यां गावलीवर्दन्यायोऽभिप्रेतः, निधिशब्देन गुणगुणिमावो विवक्षितः, अनेना(२)नंन्दोब्रह्मेत्यादिष्वान न्दशब्दस्थानन्दिवाचित्वं सिद्धमित्यभिप्रेतम्, आनन्दं(३)ब्रह्म- णाविद्वानिति व्यतिरेकनिर्देशात् । एवं हेयप्रत्यनीकत्वकल्या. णगुणाकरत्वरूपाभयलिङ्गत्वं ब्रह्मण उक्त, विष्णुशब्दोधर्मिनि- देशकः अनेन शोषित्वमन्तर्यामित्वपर्यन्तमिति स्फोरितं रूया देवताविशेषनिर्णयश्च । एवं चतुर्यन्तैः पदैरुपेयवस्तु निरू- पितम् । अथोपायं सूचयति नम इति, मन्मना(४) भवमद्भक्तो- मद्याजी मां नमस्कुर्वित्यत्र मद्भक्त शब्दस्य प्रतिपदमन्वयेन नम- स्याया भक्त्यन्तर्भावात्, ध्यानार्चनप्रणामादिरिति हि वक्ष्यते । एवं देवतापासनारूपमङ्गलाचारः श्रोतः कृतः प्रतिपाद्यस्वपक्ष- स्थापनसंक्षेपश्चार्थतः कृतः ॥ १ ॥ परं ब्रह्मैवाझं भ्रमपरिगतं संसरति त- त्परोपाध्यालीढं विवशमशुभस्यास्पदमिति । श्रुतिन्यायापेतं जगति विततं मोहनमिद- न्तमा येनापास्तं स हि विजयते यामुनमुनिः ॥ २ ॥ अथ द्वितीयेनागुरूपासन रूपमङ्गलाचारः श्रोतः क्रियते, आर्थः प्रतिपाद्ये परपक्षनिरामसंक्षेपश्च क्रियते, तब पूर्वाद्धन परपक्षोपन्याससंक्षेपः उत्ताराद्धेन तन्निराससंक्षेपः । पर ब्रह्मैवे- त्यादि, परं हेयप्रत्यनीकत्वकल्याणगुणाकरत्वाभ्यां सर्वविल- (१) सकलचेतनाचेतनेति पा० (२) तै०. उ० भ० ६२ । (३) तै० ३० आन०४८। (४) अ०१८। ६५ ।
४ तात्पर्यदीपिकायुक्तः। क्षणम् । एवकारोविरोधं स्फोरयति-संश्रितदुरितापहरत्वेन तदिष्टफलप्रदत्वेन च यदाश्रयणीयं तदेवाज्ञानपरवशं चेत्को- न्या रक्षक इति भावः । अज्ञम्-अविद्यातिरोहितस्वरूपम्, अत एव भ्रमपरिगतं-विविधभेददर्शनशालि, संसरति-भेददर्श नरुतजन्मजरामरणादिसांसारिकदुःखभागीत्यर्थः । एवं शङ्करम- तमुपन्यस्तम् । अथ भास्करमतमुपन्यस्यते-तत्परोपाध्यालीढ- मिति, परशब्देनोपाध्यन्तरनिरपेक्षं स्वत एव प्रस्तुतब्रह्मव्यति- रिक्तत्वमुच्यते पराभ्युपगतमिथ्याभूताविद्यान्यत्वं च विवक्षि- तम्, आलोढं-संबद्ध, विवशं-कर्म परवशम् । अथ यादव- प्रकाशमतम्-अशुभस्यास्पदमिति, अचिद्गतपरिणामाहतारू पाशुभस्य चिद्ग(१)तापुरुषार्थान्वयरूपाशुपास्य चास्यदमित्यर्थः। जीवब्रह्माभैदस्य स्वाभाविकत्वाभ्युपगमान्न ब्रह्मण्यपुरुषार्था- न्धय इति वैषम्य दुर्वचम्, अभेदस्यापि स्वाभाविकत्वाभ्यु- पगमेनापुरुषार्थान्वयादिति भावः । अचिब्रह्मणा दाभेदौस्वा- भाषिको चिद्विह्मणास्त्वभेद एव स्वाभाविकः । भेदस्त्वौपा- धिकः । मुक्तावभेदवचनादिति भास्करमतं, चिह्मणारपि भेदा- भेदौ स्वाभाविको मुक्तौ भेदस्यापि निर्देशादिति यादवप्र- काशमतं, तस्मादुक्त एवार्थः । तत्राशुभस्यास्पदमिति न यादव- प्रकाशमतोपन्यासः । परं ब्रह्मेत्यादिपदेन शङ्करमतोपन्यासः । तत्परोपाध्यालीढमित्यादिपदेन भास्करमतापन्यासः । इत- रदर्थसिद्धमिति केचित् । तदानीमशुमस्यास्पदमित्यचिद्गता- शुभास्पदत्वमुच्यते । ततोऽपि पक्षत्रयोपन्यास इति निर्वाहा वरं कस्यचिन्मतस्यार्थसिद्धत्वादध्यवान्तरविभागस्य कल्यत्वा- पपत्तेः । इति-शब्दः पक्ष त्रयस्वरूपपरः । अथ तन्निराप्तसंक्षेपः-श्रुतिन्यायापेतमिति । श्रुति:-प्रमाण, तदनुग्राहकस्तोन्यायः तन्मतसाधकं तानुगृहीतं प्रमाणं ना- स्तीत्यर्थः । यद्वा श्रुतिन्यायापेतं तन्मतं प्रमाणतर्कविरुद्ध बाध- कतर्कानुगृहीतं प्रमाण मस्तीति भावः । तन्निरासे किङ्कारणमित्य- श्राह-जगति बिततमिति । श्रुतिन्यायापेतमिति प्रसिद्धत्वान्न त- निरासे यत्नः कार्य इति चेत्तत्राह-मोहनमिदंतम इति । तमाय- थार्थज्ञानावरणं, मोहनम् अपर(२)माथै सम्यगर्थधीहेतुः। अपास्तं (१) चिद्गतापुरुषार्थयोग्यतारूपाशुभस्येति पाo1 (२)धपार्थे इति पा०। - - -- ५ - वेदार्थसंग्रहः। दूरत उत्सा रितमित्यर्थःपरमनिरासः । स होत्यादिना गुरूपा- सनमुक्त जयत्यतिबलोराम(१) इतिवत् स हि विज़यत इत्युक्तम् । अनेन प्राकरणिकार्थस्य साम्प्रदायिकत्वमुक्तं भवति । एवमार्थ स्वपक्षस्थापनं पर पक्षप्रतिक्षेपसंक्षेपं कुर्वता देवतागुरूपासनरूपो- भयविधंमङ्गलं श्रौतमाचरितं भवति तथा पूर्वैरनुष्ठितं नमस्कृत्य हृषीकेशं,(२)नमोमगवते तस्मैव्यासाये(३)त्यादिषु तथा च श्रुतिः यस्य देव (४) इत्यादि। अथ प्रथमश्लोकार्थमीषद्विस्तरेण वदन् ग्रा- करणिकमर्थं सप्रमाणकं प्रतिजानीते अशेष जगदित्यादिना ॥२॥ स्वपक्षसंक्षेपः । नशेषजगद्धितानुशासनश्रुतिनिकरशिरसिस- मधिगतोऽयमर्थः । जीवपरमात्मयाथात्म्यज्ञानपूर्वकव श्रमधम्मॆतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्च- नप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलः ॥ श्रयते नित्यमिति व्युत्पत्तिमिद्धन श्रुतिशब्देन वेदस्या:- पौरुषेयत्वान्नित्यनिदोषत्वमभिप्रेतं, निकर शब्देनाभिधीयमान- कृत्स्नशाखार्थपर्या लोचनं विवक्षितं, तत्राप्यनंन्यपरपरभागसिद्ध इति दर्शतितुं शिरः शब्दः। वक्ष्यमाणाभिप्रायेणायमर्थ इत्युक्तं, समधिगतः-सम्यगधिगतः अनधीतशाखान्तरार्थप्रतिपादकेति- हासपुराणादिभिस्महाधिगत इत्यर्थः । जगता मिथ्यात्वान्न अष. दभिमतापायोपेयपराः श्रुतयः, अपि तु निर्विशेषवस्तु ज्ञानस्यैव मोक्षोपायत्वप्रतिपादन परा इति शङ्कां व्युदस्यति अशेषजगद्धि- तानुशासनेति । जगद्धितानुशासनेति-जगद्वितज्ञापनप्रवृत्तस्य वेदस्य पूर्वमेव भ्रान्ते जगति प्रत्यक्षाद्यनवगतभ्रमान्तरोत्पाद- कत्वमनुपपन्न मित्यभिप्रायः । हितमुपायो पेयात्मकम् । अनुशा- सनं विविच्यज्ञापनम्, अनुपूर्वः शासिर्विविच्यज्ञापना दृष्ट, इति हि शाब्दाः । अशेषजगच्छब्देन सर्वाधिकारिण उच्यन्ते । हितानुशासनपरो वेदः कथं स्वर्गाद्यपुरुषार्थ पुरुषार्थ बोधयती- तिचेत् तत्तदधिकारिविशेषापेक्षया पुरुषार्थत्वमस्तीति तद्वग्ध- नं । तर्हि श्येनेनाभिचरन् यजेते(५)ति कथं पापतममत्यन्ताहितं- (१) राम० षु० स० ४२ । ३३ । (२) भार० १।१।२६। (6) भार० १ | १।३। (४) श्वेता० उ० ५। ३२ ५। (५) छा० उ।६।८। ।
६ तात्पर्य दीपिकायुक्तः । कर्म विदधातीति चेत् उच्यते तच भक्ष्यविशेषैबालानिय शठान् वशीकर्तुम् । यदा देवब्राह्मणहिंसकादिदुष्टनिग्रहार्थत्वेन तस्य हिततमत्वमिति । यद्वा अभिचारादिकमाराध्यत्वतत्तत्फलप्र दत्वरूपभगवदैश्वर्यविशेषज्ञापनेन तदभिधायिशास्त्रस्य हितप- रत्वमिति । प्रथमश्लोके उपायस्यातिसंक्षेपेण सूचित्तत्वात्तं विस्त- रेण वदन् प्रतिज्ञातस्यार्थस्यशरीरमाह-जीवेत्यादिना, यद्वा याथात्म्यशब्देन तत्त्वमसीति वाक्ये त्वम्पदस्य चेतनद्वयगर्भत्वं सूचितम् । ऐतदात्म्यमिदं सर्व तत्सत्यमिति परमात्मात्मकत्वं मत्यमुक्तं, तस्माद्याथात्म्य शब्दस्यायमेवाभिप्रायः । ज्ञानपूर्वकश ब्देन वाक्यार्थ ज्ञानमात्रस्यानुपायत्वं सूचितं । वर्णाश्रमधम्मतिक- र्तव्यताकशब्देन कर्मणो विविदिषासाधनत्वं समुच्च यवादश्च व्यावर्तितः । परमपुरुषपदेन ध्येयस्य हेयप्रत्यनीकत्वकल्याण- गुणाकारत्वाभ्यां सर्वविलक्षणत्वं देवताविशेषत्वं चोक्तं, तमेवं वि- द्वान्नान्यः पन्था इति श्री पुरुषसूक्तानुरोधात चरणयुगल शब्देन स्वामिनि दास्थानुगुणास्थितिर्दर्शिता, सर्वदाचरणद्वन्दं व्रजा- मीत्यादिवचनानुगुणं यात । ध्यानार्चनप्रणामादिरित्यत्रादि श- ब्देन सततङ्कीर्तयन्तोमामित्यायुक्तकीर्तन य जनादयो विव- क्षिताः, ध्यानार्चनप्रणामादयः सर्वे उपासनशरीरान्तर्गता वर्णा श्रमधमाः प्रयाजादिस्यानीयाः। आग्नेयादिषट्कस्थाने ध्या- नार्चनप्रणामादिः । ध्यानं मानसम् । नामसङ्कीर्तनं वाचिकम् । अर्चनादि कायिकं च कर्म।यद्यपि तत्र ध्यानस्य प्राधान्यमित रापेक्षया तथाऽपि तद्विपाकरूपपरमभक्त्यपेक्ष याऽर्चनादितुल्य- व्यवहारः,एवं त्रिविधमुपासनं यथा “मन्मनाभव मद्भक्तो मद्याजी मांनमस्करु, सततं कीर्तयन्तो मां यजन्तश्च दृढव्रताः । श्रवणं कीर्तनं विष्णोः स्मरणं पादवसेनम् । अर्चनं वन्दनं दास्यं सख्य- मात्मनिवेदनम् । इतिपुंसार्पिताविष्णा भक्तिश्चेन्नवलक्षणे" त्यादि मद्याजी मदर्चन परः, वेदनध्यानादिशब्दैरन्यतमोक्ताव- प्यर्चनप्रणामादिसहितध्यानस्योपायत्वं न्यायस्मृत्यनुगृहीतश्रृंति- सिद्धम् । तत्र सामान्यविशेषवन्यायावदनादिशब्दानां ध्यानादि- परत्वसिद्विवत स्मृत्यनुगृहीतत्वात् अर्चनप्रणामादिसहितध्या- नपरत्वसिद्धिरित्यर्थः । तस्माद् ध्यानार्चनप्रणामादिः सर्वोऽप्यु- पेयविरोधिनिरासकः । अत्यर्थप्रिय इति, ध्यानार्चनप्रणामादिः वेदार्थसंग्रहः । - सर्वोऽपि अत्यर्थप्रीतिपूर्वकः कार्यः, मन्मना भवेत्यादिवचने मद्ध- क्तोमन्मनासव, मद्भक्तोमद्याजीभवेति प्रतिपदं मद्भक्त पदान्व- यादिति भावः । एवं प्रथमश्लाकसंक्षिप्तमुपायस्वरूपंविस्तृतम् ॥ अस्य जीवात्मनोऽनाद्यविद्यासंचितपुण्यपापरूप- कर्मप्रवाहहेतुकब्रह्मादिसुरनर रनरतिर्यकस्थाबरात्मकचतुर्वि- धदेहप्रवेशकृततत्तदात्माऽभिमानजनितावर्जनीयभवभ- यविध्वंसनाय देहातिरिक्तात्मस्वरूप-तत्स्वभाव-तदन्त- र्यामिपरमात्मस्वरूप-तत्स्वभाव-तदुपासन-तत्फलभू- तात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानु- भवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम् । उपेयमाह तत्प्राप्तिफल इति, अयमर्थइत्यर्थ-शब्दस्य विशेषणत्वात्पुँल्लिङ्गता पूर्वमुपायस्यातिसंक्षिप्तत्वेन तद्विवरण- परत्वादस्मिन् ग्रन्थे उपाय प्रधान निदेशः । उपेयं निर्विशेषज्ञ- प्तिमात्रं, निवत्यै मिथ्यारूपमविद्यादिकम् । उपाया-वाक्यार्थ. ज्ञानमात्रं, न हि मिथ्यासो गरुडध्याननिवर्त्यः, अपि तु नायं सर्प इति ज्ञानमात्रनिवयस्तस्मान्न भवदुक्तस्योपायतेत्यत्राह अस्येति । परमात्मैक्यानुपपत्तयेतद्विरुद्धस्वभावतया प्रत्यक्षसि. दुत्वमुच्यते अस्येति पदेन, अनादिशब्देनान्योन्याश्रयः परि- हृतः, "श्रूयतां चाप्यपिद्यायाः स्वरूपं कुलनन्दन । अनात्मन्या- त्मबुद्विर्या अस्वे स्वमितिघा मति"कित्युक्तप्रकाराऽत्राविद्याऽभि- प्रेता । तया सञ्चितम् अविद्यासञ्चितम् । “अविद्यासञ्चित्तं कम्मै"ति हि स्मृतिः। उत्क्षेपणादिव्यावृत्त्यर्थं पुण्यपापशब्दः। कथं पुण्यस्याविद्यासजिचतत्वं, तद्धि देहाद्यतिरिक्तात्मज्ञानव- ताऽनुष्ठीयते उच्यते यथात्मनोदेहादिविलक्षणत्वादेहात्मज्ञा- नमविद्या तद्वता च पापंक्रियते एवमात्मनो अगवच्छे षत्वात्स्व- तन्त्रात्मज्ञानमप्यविद्या तन्मलं स्वर्गादिफलदकानुष्ठानमिति पुण्यस्याविद्यासञ्चितत्वोपपत्तिरिति । देहात्माभिमानिभिरज- डत्वादिधर्म के आत्मनि जडत्वाध्यारोपवद्भगवदात्मक प्रात्म- - " तात्पर्यदीपिकायुक्तः। नि स्वनिष्टत्वारोपणं भ्रान्तिरेवेति अविद्यैव हि सा एवंविधक- र्मप्रवाह हेतुकश्चतुर्विधदेहप्रवेश तत्कृतस्तत्तदेहेष्वात्माभिमा- नः अनात्मन्यस्वे चात्मात्मीयधिया कर्म कर्मणा शरीरप्रवेश: तच्छरीरसम्बन्धेनाविद्येति प्रधाहनादिः तेनावर्जनीयं भवभयं जन्मजरामरणादिमयं मिथ्येति सहस्रकृत्व उद्घोषेणापि निवर्त- यितुमशक्यमित्यभिप्रायेणावर्जनीयमित्युक्तम्, तद्विध्वंसनायेति, एवं निधर्त्य मुक्तम्, अत्र जन्यजनकभावोपपादनेन प्रतीतिमात्र- सिद्धत्वाभावाददृष्टद्वारानिवतर्यमिति सिद्धम् । देहातिरिक्तात्म- स्वरूपतत्स्वभावेति । स्वरूपं ज्ञानानन्दैकलक्षणं स्वभावो भ- गवच्छेषत्वम् उपासकत्वानुगुणौ स्वरूपस्वभावो जीवस्योक्तौ । तदन्तर्यामिपरमात्मस्वरूपतत्स्वमावेति, तदन्तर्यामि-शब्देन जीवस्य परमात्मपर्यन्तत्वेन तद्वाचि शब्दस्य परमात्मपर्यन्तत्व- मिति सिद्ध परमात्मस्वरूपम्-ईशितृत्वं स्वभावः-प्रणतसौल- भ्यम् उपास्यत्वानुगुणौ स्वरूपस्वभावावीश्वरस्योक्ती एवं सिद्ध रूपमुपेयमुक्तम् । तदुपासनशब्देनोपाय उक्तः । स पूर्व विस्तृत इति नात्र विस्तृत उपेयस्य प्राप्तिप्रकार उच्यते तत्फलभूतेत्या- दिना, ज्ञापन इति । ज्ञापन-शब्देन पूर्वोक्तानुशासनशब्दस्य स्प- ष्टार्थः, वेदान्तवाक्यजातशब्देनैकवाक्यमात्र पर्या लोचनं व्यावृत्त, ब्रह्मानुभवज्ञापन इति निर्देशेन वेदान्तवाक्यानामुपासनारूप- कार्यप्रधानत्वशङ्का व्यावृत्ता। तत्त्वमसि(१)। अयमात्मा ब्रह्म(२)। यनात्मनितिष्ठ- नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं या- त्मानमन्तरी यमर्यात स त शात्मान्तर्याम्यमृतः(३) । एष सर्वभतान्तरात्माऽपहतपाप्मा दिव्यो देव एका नारा- यणः(४)। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति य- जेन दानेन तपसाऽनाशकेन(५)।ब्रह्मविदाप्नोति परम्(६)। (१) छा० उ०६।८।४ । (२) वृ० उ०६ । ४ । ५। (३) भा० ३२६ । माध्य० वृ० उ० ५। ७ । (8) सु० उ००। (१) वृ० उ०६।४।२२ ॥ (६) तै० उ० प्राना। ।
वेदार्थसंग्रहः। तमेवं विद्वानमृत(१) इह भवति नान्यः पन्या अयनाय विद्यत इत्यादिकम् । उक्तार्थविषयाणि तानि वाक्यान्याह तत्त्वमसीति, पडि- धतात्पर्य लिङ्गोपेतत्वात् तत्प्रथममुक्तम् । तत्र जीवविशेषस्य ब्रह्मतादात्म्यं प्रतिपन्नमिति जीवमात्रस्य ब्रह्मात्मकस्वपरं वा- क्यमाह अयमात्मा ब्रह्मेति, अथ घटकश्रुतिमाह य श्रात्मनीति, देवताविशेषनिर्णयार्थमाह एष इति, उपासनस्य वर्णाश्रमधम्म- तिकर्तव्यताकत्वे प्रमाण माह तमेतमिति, उपासनमेवोपाय इ- त्यत्र प्रमाणमाह ब्रह्मविदिति, ब्रह्मवित्-परमपुरुषोपासकः । उपायान्तरनिषेधमाह तमेवमिति, आदि-शब्देनेापासनशब्दा- न्वितवाक्यानि भेदश्रुतयश्च विवक्षिताः । एषु वाक्येषु जीवप- रयोः स्वरूपं कथं प्रतिपन्नमित्याकाकायामुपवृंहणानुगृहीतश्रु- तिप्रतिपन्नं तयोः स्वरूपं विवृण्वन् प्रथमं जीवस्वरुपमाह- जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणाम- विशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं तस्यैतस्य कर्मकृतदेवादिभेदे विध्वस्ते(१)स्वरूपभेदो वाचामगो- चर: स्वसंवेद्यः ज्ञानस्वरूपमित्येतावदेव निर्देश्यम् । तच्च सर्वेषामात्मनां समानम् । जीवात्मेति, "तथास्मा प्रकतेस्सङ्गादहं मानादिदूषितः। भजते प्राकृतान्धर्मानन्यस्तेभ्योऽपि सो ऽव्ययः ॥ पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनय' इत्यादिषु प्रकृतिसङ्गा वादिशरीरसङ्गादप्यनेकरूपत्वदर्शनात् तदुभयवाक्यैक कण्ठ्य दर्शयन्नाह देवमनुष्यादिप्रकृतिपरिणाम- विशेषरूपेति, प्रकृतिपरिणामनिबन्धनो विशेषः प्रकृतिपरिणा- विशेषरूपः तद्पः नानाविध-शब्देन बाद्यो देवमनुष्यादिष्व. बान्तरभेदः आन्तरः सुखित्वदुःखित्वाद्यवान्तर भेदश्च विवक्षितः। (१) पु० सू० (२) भेदेऽपश्वस्ते इति पा० । - २ १० तात्पर्यदीपिकायुक्तः । ज्ञानानन्दैकगुणमित्यनेन "निर्वाणमय एवायमात्मा ज्ञानमयो- मिलः । दुखाशानमला धाः प्रकृतेस्तेनचात्मनः(१)"॥ इत्यस्या- योऽमिप्रेतः ज्ञानानन्दविशेषगुणक, ज्ञानत्वानन्दत्वादिगुणकं बा न तु ज्ञानमात्र स्वरूपम् । ननु कथं देवादिभेदराहित्यं प्रत्यक्षानु- मानागमः, तथाहि प्रतिपत्तिरिति शङ्कायां प्रत्यक्षादीनि शरीर- विस्पृष्टात्मविषयाणि निष्कृष्ठात्मविषयवाक्यानि तु भेदराहित्यं वदन्तीत्यादि बदनभेदशङ्कां च परिहरति तस्यैतस्येति, अत्रा द्वैतभ्रमास्पदानि कानिचिद्वचांति व्याख्यातानि भवन्ति तस्येति ज्ञानानन्दैकस्वरूपत्वं विविक्षितम्, एतस्येति शरीरसंबन्धोऽमि. प्रेतः कर्मकृतदेवादिभेदे विध्वस्त इत्यनेन "एकस्वरूपभेदोहि बाह्य कर्मावृतिप्रजः । देवादिभेदैविध्वस्ते नास्त्येवावरणो हि सः ॥ इत्यस्याओं विवृतो भवति । स्वरूपोदो वाचामगोचरः स्वसंवेद्य इत्यनेन प्रत्यस्तमितभेदमित्यादिवचनं व्याख्यातं भवति । एकस्वरूपेति ग्रन्थस्यायमर्थःज्ञानानन्दैकस्वरूपस्यात्मनो बुद्धिसुखाद्यान्तरभेदः संसारहेतुकर्मजन्यशरीराख्यावरणहेतुकः देवादिशरीरभेदे विनष्टे सति मात्मनोभेद आवरणो हि सः । स हि देवादिशरीरभेद प्रावरणः। तस्मात्तनाशे तत्कृतभेदो नात्मनि विद्यत इत्यर्थः नात्मनावरण इति पाठान्तरेऽर्थः स्पष्टः । प्रत्यस्त मितेत्यादिग्रन्थस्यायमेवार्थः। प्रत्यस्तमितदेवमनुष्यादिभेदं सत्ता- मात्रं न तु जन्मादिविकारास्पदम्, अत एवागोचरं वचसा देवा- दिभेदवचसा जायत इत्यादिवचसाम् अगोचरम्। तुच्छत्वव्याव- त्यर्थमाहात्मसंवेद्यमिति, तच्च स्वरूपतो धर्मतश्चज्ञानं तच्च ब्रह्मशब्दामिलच्यमित्यर्थः संसारदशायां योव्यवहारः स्तदगो- चर चेत् जानामीत्यपि तदानी व्यवहारात ज्ञानस्वरूपमित्य- पि न वक्तुं शक्यम् यदि शक्यम् तर्हि देवादिव्यवहारश्च शक्य इत्यत्राह ज्ञानस्वरूपमित्येतावदेव निदेश्यमिति, न ह्यौपाधि- काकारभेदे विध्वस्ते तद्वाचिशब्दागोचरत्वमिवस्वाभाविकरू- पवाचिशब्दागोचरत्वमित्यर्थः, सर्वशब्दागोचरं चेदचसामगोच- रमित्यपि न शक्यते वक्तु मिति माधः। तच्च सर्वेषामात्मनां (१) प्रकृतेरते तु नात्मन इति पा० ।
वेदार्थसंग्रहः। समानमित्य नेम पुमानेको व्यवस्थित इत्यादिष्वेकशब्दोव्याख्याता भवति तन्मनस्समतालम्बिकार्य साम्यं हि मुक्तये निहि- समं ब्रह्मत्यादिवचनात् ॥ एवं विचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिमलय- संसारनिवर्त्तनैकहेतुभूतः समस्त हेयप्रत्य नीकतयाऽनन्तक- ल्याणकतानतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपेोऽ- नवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्म- परज्योतिः परतत्त्वपरमात्मसदादिशब्दभेदैनिखिलवेदा- न्तवेद्योभगवानारायणः पुरुषोत्तम इत्यन्तर्यामिस्वरूपम् । (१)स्यैव च वैभवप्रतिपादनपराः श्रुतयः। स्वेतरसमस्त- चिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्ति- तदंश-तद्विभूति-तद्रूप लच्छरीर-तत्तनुप्रभूतिभिः शब्दस्त- सामानाधिकरण्येन च प्रतिपादयन्ति । अथान्तर्यामिस्वरूपमाह एवंबिधेति, जीवस्वरूपस्य देवा- दिशरीरस्य च प्रस्तुतत्वादेवंविधेत्युक्तम् । यद्वा प्रत्यक्षादिन- माणप्रसिद्धतयोक्तम् उद्भवेत्यादिना जगत्कारणत्वाक्षप्रदत्वे. उक्त, स्वेतरवैल क्षण्यं तृणादेरप्यस्तीति तद्व्यावृत्त्यर्थं शोधक- वाक्योक्तोभयलिङ्गत्वेन वैलक्षणय मुच्यते समस्तेत्यादिना, कल्या- णशब्द आनन्दवाची समस्तवस्तुविलक्षण स्वरूप इत्यत्र स्वरूप- शब्देन विशेष्यांशोऽभिप्रेतः। उपास्यत्वमाप्यत्वोपयोगिगुणजा- ताभिप्रायेणाह अनवधिकातिशयासकेयकल्याणगुणगण इति- सद्ब्रह्मात्मादिसाधारणशब्दर्भगवन्नारायणपुरुषोत्तमाद्यसाधार- णशब्दैश्चैक एवाभिधीयते इत्याह सर्वात्मेत्यादिना, अमवच्छ- देन हेयत्यनीकत्वं कल्याणगुणास्पदत्वं च विवक्षितं नारा- (१) तस्य चेति पा० ।
१२ तात्पर्यदीपिकायुक्तः। यणशब्देनाभयविभूतिमत्वं पुरुषोत्तमशब्देन विभूतिभूतचिदधि, चिद्वैलक्षण्यमित्यन्तर्यामिस्वरूपमित्युक्तं भवति इत्यर्थः । अय भेदश्रुतेरर्थः तक्तः, अयं चाभेदश्रुतिविरुद्ध इति शङ्कायां तदैका- यमुच्यते अस्य चेत्यादिना अस्य-भेदश्रुतिप्रतिपन्नस्य वैभव- प्रतिपादनपराः श्रुतय इति भेदश्रुत्यानुगुण्याहटकश्रुत्यैकार्थ्या- सामानाधिकरण्यस्वाभाव्याचाभेदश्रुतयोऽपि तद्वैभवप्रतिपा- दिका इत्यभिप्रायः। सामानाधिकरण्यवाक्यस्य तदैभवप्रति- पादकत्वं कथमित्यत्राह स्वेतरेत्यादिना, अन्तयामिणः परमा- स्मनः सदेकनियाम्यत्वेन कृत्स्नस्य शरीरत्वातद्वाचिनःशब्दाः शरीरिपर्यन्तमभिदधतीति समानाधिकरणवाक्यै भिन्नप्रवृत्तिनि- मित्तपदैयधिकरणवाक्यैश्च तद्वैभवमेव प्रतिपाद्यत इति सर्व श्रुतीनामैकार्यमित्यर्थः तन्नि यमनं प्रतिपादयन्तीत्यन्वयः परस्य ब्रह्मणःशक्तिस्तथेदमखिलं जगद्विष्णारंशो द्विजोत्तम विष्णा- रेता विभूतयः परस्य ब्रह्मणे। रूपं जगत्सवं शरीरं ते तत्सर्व हरेस्तनुः तानि सर्वाणि तद्वपुरित्यादिषु शक्त्यं शादिशब्दानां प्रयोगो द्रष्टव्यः तच्छक्तितदंश इत्यादिना प्रतिपदं तच्छब्दप्र- योगावृत्तिरेकैकस्य निरपेक्षहेतुत्वाभिप्रायेण । यद्वायं परमा; स्मानं प्रति यदेतज्जगच्छरीरमुच्यते तमेव प्रति तदेवेदं जग- उछक्तिरंश इतिचोच्यते, अत एव पितृत्वपुत्रत्ववत्प्रतिसम्बन्धि भेदादविरोधेो दुर्वचः । अत एव शरीरादिशब्दानामेकार्थपर- त्वेनाविरोधे बाध्ये शरीरशब्दानुगुणं शक्त्यादिशब्दानां वर्ण- मीयः। अन्तरो यमयतीति लक्षणपूर्वकं शरीरशरीरिभावस्य मुख्यतयाक्तत्वात्कार्योपयोगिविशेषत्वाच्छक्तिः विशिष्टे ब्रह्म- णि विशेषणतयैकदेशत्वादशः नियाम्यतया विभूतिः व्यायत्वे सति नियाम्यत्वात शरीरम् । अतस्सर्वेषामैकार्थ्यमित्यभिप्राय: शरीरतनुशब्दोपादानं दृष्टान्ताभिप्रायेण कृतं, शरीरतनुशब्द- योरिव शक्त्यादिशब्दानामविरोधी वर्णनीय इति भावः । एव प्रथमश्लोकार्थ ईषद्विवृतः । शाङ्करपक्षसंक्षेपः । तस्य वैभवप्रतिपादनपराणामेषां मांमा- नाधिकरण्यादीनां विववरणे प्रवृत्ताः केचन निर्विशेष. ।
वेदार्थसंग्रहः । १३ ज्ञानमात्रमेवब्रह्म, तच्च नित्यमुक्तस्वप्रकाशस्वभावमपित त्वमस्यादिसामानाधिकरण्यावगतजीवैक्यं ब्रह्मेवाझं व- ध्यते मुच्यते च निर्विशेषचिन्मात्रातिरेकीशेशितव्याद्य- नन्तविकल्प स्वरूपं कृत्स्नं जगन्मिथ्या, कश्चिबद्धः क- श्चिन्मुक्त इतीयं व्यवस्था न विद्यते, इतः पूर्व केचन मुक्ता इत्ययमों मिथ्या, एकमेव शरीरं जीववत् नि- र्जीवानीतराणि शरीराणि, तच्छरीरं किमिति न व्यव- स्थितम् । आचर्यो ज्ञानोपदेष्टा मिथ्या, शास्त्रच मि- थ्या, शास्त्रग्रमाता च मिथ्या, शास्त्रजन्यं ज्ञानं च मिथ्या, एतत्सर्व मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति । अथ द्वितीयश्लोकस्य पूर्वार्द्धस्य परपक्षत्रयोपन्यासपरस्या- थं क्रमाद्विवरिष्यन्प्रथमं मायि(१)मतसंग्रहं विवृणोति तस्य वै- भवेत्यादि तस्यैषामिति पदद्वयस्थमयमभिप्रायः। तस्यभेद. श्रुतिभिः समस्तचिवस्तुविलक्षणतया प्रतिपन्नस्य ब्रह्मणः एषां भेदश्रुत्यानुगुण्यात्सामानाधिकरण्यस्वाभाव्यात घटकश्रुत्यैका- र्थ्याच्च तद्वैमवप्रतिपादन पराणामिति भावः । आदिशब्देन घ. टकश्रुतयो विवक्षिताः भेदनिषेधश्रुतयो वा एषां विवरणे प्रय- त्ताः केचनेत्यनेन विरोधः स्यादिति विरोधः स्फोरितः । केचन वर्ण यन्ति इत्यन्वयः । निर्विशेषज्ञानमात्रमेव ब्रह्मति मात्रशब्देन क्वचिदंशे जहत्वव्यावृत्तिर्वा कात्स्न्यन ज्ञानमित्यर्थः । स यथा सैन्धवघन इति श्रुतिवाभ्योऽत्राभिप्रेतः । यद्वा निर्विशेषशङदेन औतनिषेधोऽभिप्रेतः तेन ज्ञातृशेयस्वरूपविशेषा गुणरूपविशे- षाश्च निषिद्वा भवन्ति । ज्ञानशब्देन ज्ञानस्वरूपतोक्तिरूपार्थगुण- निषेधो भिप्रेत: ज्ञानरूपस्यैव ज्ञातृत्वं ज्ञेयत्वं च सिद्धान्ति नोड. (१) शाङ्करमतेति पा० । ।
। १४ तात्पर्य दीपिकायुक्तः भिमतम् । अतस्तव्यावृत्त्यर्थं न दृष्ट ईष्टारं यस्थामतमित्याद्युक्त- ज्ञातृत्वज्ञेयत्वनिषेधाभिप्रायो मात्रशब्दः । एवकारेण सविशेष त्व प्रतिपादकवाक्याजामतत्त्वावेदकत्वमभिप्रेतं, स्वयाथात्म्या- ज्ञानपूर्वको बन्धः स्वप्रकाशे वस्तुनि न सम्भवति इति ब्रह्म- नित्यमुक्तमेवेत्यात्राह नित्येति, वस्तुतो नित्यमुक्तस्वप्रकाशभपि जीवैक्यस्य सामानाधिकरणयवाक्यावगतत्वात्, ब्रह्मैवाविद्या- तिरोहितं भेदनममनुभवतीति कल्प्य मत एव बन्धश्च मोक्षश्च- उपपन्न इत्यर्थः । कोवैक्यं श्रुतिसिद्धमभ्युपगत चेच्छु लिसिद्ध- श्वरेशितव्यादिभेदोग्भ्युपगन्तव्य इत्यत्राह निर्विशेषेति, अद्वै- तवाक्यबलेन तेषां वाक्यानां मिथ्याविषयत्वमाश्रयणीयमित्यर्थः। बद्धमुक्तव्यवस्थासिद्ध्यर्थमात्मभेदोऽभ्युपगन्तव्य इत्यात्राह क- शिवदिति, बद्धमुक्तव्यवस्था श्रुतिसिद्धत्वादङ्गोकार्याशुकादयो हि मुक्ता इत्यत्राह इतः पूर्वमिति, चेष्टादिभिः सर्व शरीराणामात्मव- त्वं सिद्वम् तथा सति सुखदुःखादिव्यवस्थायां धात्मनि भेदेन मोक्षबन्धव्यवस्था स्यादित्यत्राह एकमेव शरीरमिति, जीवैक्ये सर्वशरीराणां सजीवत्वाभावात्सुखादिप्रतिसन्धानामाव इत्यर्थः । एकस्य सजीवत्वंचै क्योपदेशबलात्स्वीकृतम् । एकमेव शरीर सजीवं. चेत्तच्छरीर को जीवः अश्वगमनमादिभिर्बुद्धाद्वैतज्ञान: स्यादिति बन्योन स्यादित्यत्राह तच्छरीरं किमिति न व्यवस्थि- तमिति, इदं शरीरं सजीवम् एतच्छरीरको जीवे ज्ञानवानिति निश्चेतुमशक्यमित्यर्थः । शिष्याचार्य व्यवस्थायामात्मबहुत्वं स्यात् शास्त्रस्य च प्रामाण्याव्यतिरिक्तं सत्यं स्यादित्यत्राह प्राचार्य इति, प्रमाता श्रोता विवक्षितः एकैकमेव निरपेक्षं दूष- णमिति ज्ञापनाय मिथ्याशदावृत्तिः । इति वर्ण यन्तीति, नशब्देन ग्रन्थप्रपञ्चोऽर्थदौस्स्थ्यञ्च विवक्षितम् ॥ भास्कर पक्षसंक्षेपः। अपरेऽपहतपाप्मत्वादिसमस्तकल्याणो(१) पेतमपि ब्रह्मतेनैवैक्यावबोधेन केनचिदुपाधिविशेषेण सं- बद्ध वध्यते मुच्यते च नानाविधमलरूपपरिणामास्पद चेति व्यवस्थिताः। (१) कल्याणणो इति पाठस्तुभ्रम मूलकः ॥ ।
वेदार्थसंग्रहः । १५ अथ द्वितीयश्लोक पूर्वार्द्धस्थभास्करमतोपन्याससंग्रहं च विवृणोति अपर इत्यादिना, विवरणे प्रवृत्ता इत्यनुवर्तते, अ- पर व्यवस्थिता इत्यन्वयः। प्रमाण सिद्धस्य बाधायोगात्सगुणत्वं तैरभ्युपगतमित्याह अपहतपाप्मत्वादीति, । स्वतोऽपहतपाप्म- स्वादियुक्तमपि ऐक्यौपदेशान्यथाऽनुपपत्त्या उपाधिसम्बन्धोऽभ्यु- पगत इत्याह तेनैवेति, ऐक्यावबोधेन व्यवस्थिता इत्यन्धयः । केनचिवमनुष्याधुपाधिध्वन्यतमेन । तथा सति बन्धमाक्षव्य- वस्थाऽप्युपपद्यत इत्याह वध्यते मुच्यते चेति, बध्यते-संसरति, एवं जीवत्वं ब्रह्मण उक्तम् । अथाचिद्रूपपरिणाममाह नानावि- घेति, मलरूपशब्ददोषरूपत्वपरः। यादवपक्षसंक्षेपः । अन्ये पुनरै क्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुर- नरतिर्यस्थावरनारकिस्वर्गापवर्गिचेतनैकस्वभावं स्वभा- वताविलक्षणमविलक्षणं च वियदादिनानाविधमलरूपप- रिणामास्पदं चेति प्रत्यवतिष्ठन्ते । अथ यादवप्रकाशमतसंग्रहं विवृणोति अन्ये पुनरित्या दिभा, ऐक्याववोधेति याथात्म्यं वर्ण पन्त इत्युपालम्मः । यथा- चिबह्मणो र्जीवब्रह्मणाश्चै क्य मेकरूपं प्रतिपन्नं, तथाभेदाप्ये. करूपः प्रतिबन्न इति अचिवलणादस्य स्वाभाविकत्वं, जीव. ब्रह्मणेभ दस्बौधाधिकत्वं च न वाच्य मुलयत्रभेदः, स्वाभाविक इति वर्णयन्त इत्यभिप्रायः। तत्रापि सगुणत्वाङ्गीकारमाह स्वा- भाविकेति, अपरिमितत्वम् असंख्येयत्वम्, नदार उत्कृष्टः, प्रश- स्यः तादृशो गुणसागरी गुणगणो यस्येति बहुव्रीहिः. जीवग- ताचिङ्ग ताशु मास्पदत्वमाह सुरनरेति, स्पष्टं । तत्रेत्यादिना द्वि- तीयश्लोकोत्तराडोक्तपर पक्षप्रतिक्ष विवृणोति श्रुत्यर्थपोलो- चनपरा इति, पर्यालोचनं परित आलोचनम्, अभेदोदघटकस- मानाधिकरणश्रुत्तितत्पौर्वापर्याद्यालोधनपराः । न त्वकवाक्य- उदाहरन्ति भगव(१)द्यामुनाचार्या इति शेषः ॥ (१) सिद्धित्रये मात्रतृप्ता इत्यर्थः ।
तात्पर्यदीपिकायुक्तः। तत्र प्रथमपक्षस्य श्रुत्यर्थपालोचनपरा दुष्परि- हरान् दोषान् उदाहरन्ति तथा हि प्रकृतपरामर्शितच्छ- ब्दावगतस्य ब्रह्मणः स्वसंकल्पकृतजगदुदयविभवविल- यादयः तदैक्षत बहुस्यां प्रजायेयेत्यारभ्य सन्मूलाः सो- म्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादिताः। तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञता-सर्वशक्तित्व--सर्वेश्वरत्वसर्वप्रकारत्व--समाभ्य- धिकनिवृत्ति-सत्यकामत्व-सत्यसंकल्पत्व सर्वावभासक- त्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपा- प्मेत्यायनेकवाक्यावगतनिरस्त निखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते। तत्र प्रथमं तत्त्वमसीति वाक्यस्य मिर्विशेषपरत्वे अनेक- दूषणानि विषक्षन् पूर्व तच्छब्दावगतगुणजातमाह(१) प्रकृतेत्या- दिना, प्रकृत्तपरामर्शीति पदं हेतुगर्भ, तच्छन्दो गुणविशिष्टवाची प्रकृतपरामर्शित्वादित्यर्थः । कथं गुणानां प्रकृतत्वमित्यात्राह स्वसंकल्पेति, आदिशब्देनानुप्रवेशनामरुपव्याकरणादयोगृह्य- न्ते जगदुदयविप्लवधिल यादय एव तत्तद्वाक्य प्रतिपन्नतया विशे- ज्यन्ते । तदेक्षतेत्यादिभिः पदैः प्रतिपादिता इत्यन्तेन तत्प्रक- रणाधीतगुणा उक्ताः । सर्वशाखाप्रत्ययन्यायेन प्रकरणान्तराक- ष्टान् गुणानाह तत्सबन्धितयेति, कारणवस्तुसंबन्धितया प्रक- रणान्तरोक्तागुणा गण्यन्ते सर्वज्ञतेत्यादिना, यस्सर्वज्ञस्सर्व- वित(२) पराऽस्य(३)शक्तिर्विविधैव श्रूयते ईशनाय स ईशो(४) - (२) गुणबाधमाहेति पा०। (२) यस्मर्वज्जसविन्-मु० उ० ॥ १।१।१० (३) श्वे० उ० ६।६। (४) श्वे० ३०५।४ वेदार्थसंग्रहः। ऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यते ईशनाय न तत्समश्चा (१)भ्यधिकश्च दृश्यते सत्यकामः(२) सत्यसंकल्पः तस्य भासा(३) सर्वमिदं विभाति इत्यादिवाक्येष्यमी सर्वज्ञतादिगुणा द्रष्ट- व्याः। एकैकमनवधिकातिशयाः कल्याणगुणा असंख्येया इत्या- ह अनवधिकेति, हेयप्रत्यनीकत्वमाह अपहतपाप्मेति, अमी गुणास्त सृष्ट्य पयोगित्वेन प्रकरणान्तरोक्ता आकष्टा भवन्ति समाभ्यधिकनिवृत्ती सत्यां तदेककारणत्वसिद्धिः सर्वावासक- त्वं च । सृष्ट जगस्थित्युपयोगित्वेन कारणत्वापेक्षितं हेयप्रत्य. नीकत्वं च सर्गाद्युपयोगिहेयास्पदत्वे कर्मवश्यत्वेन स्वात- न्यादिभङ्गप्रसङ्गात् ते सर्वे तच्छब्दावगता विहन्यन्त इत्यर्थः । अथ स्यात् उपक्रमेऽप्येकविज्ञानेन सर्वविज्ञान- मुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूत- स्यैव सत्यतां विकारजातस्य चासत्यतां यित्वा सत्यभतस्यैव ब्रह्मणः सदेव सोम्येदमग्रमासीदेक- मेवाद्वितीयमिति सजातीयविजातीयनिखिलभेदनिरस- नेन निर्विशेषतैव प्रतिपादिता, एतच्छोधकानि प्रकार- णान्तरगतवाक्यान्यपि सत्यं ज्ञामनन्तं ब्रह्म निष्कलं- निष्क्रियं निर्गुणं निरञ्जनं विज्ञानमानन्दमित्यादीनि सर्वविशेषप्रत्यनीकाकारतां बोधयन्ति, अथं स्थादित्यादि, उपक्रमशब्देनोपक्रमेापक्रमो विवक्षित: तत्त्वमसीति वाक्यापेक्षया तदेक्षतेति वाक्यस्योपक्रमत्वेऽपि त्वेकविज्ञानेन सर्बविज्ञानप्रतिज्ञावाक्यं तस्याप्युपक्रमभूतमित्य- भिप्रायः । एकविज्ञानेन सर्वविज्ञान प्रतिज्ञामुखेन' कारणस्यैव सत्यतां प्रतिज्ञायेति, एकवि ज्ञानेन सर्वविज्ञानद्वारा एकधिज्ञा- मृदृष्टान्तेनदर्श- (२) १० उ० ६।७।। (१) छ० उ०।८।१ (३) क० उ० ॥ २५॥ १५ ॥ ३ १६ तात्पर्यदीपिकायुक्तः। नेन सर्वविज्ञानप्रतिज्ञया कारणस्यैव सत्यत्वं फलितमित्यर्थः । कारणस्यैव सत्यत्वं दृष्टान्तवाक्ये काठोक्तमित्याह तस्येति, दाष्टान्तिकवाक्येऽपि निर्विशेषपरत्वमुक्तमित्याह सत्यभूतस्ये- ति, निखिलभेदशब्देन स्वगतभेदो ऽविवक्षितः विजातीयभे- दान्तर्गतत्वात्स्वगतभेदस्य । शोधकवाक्यानामपि निर्विशेष पर- त्वमाह एतदिति, एतच्छोधकानि कारणवाक्यावगतस्य शोध- कत्वात् तदैकाश्येन निर्विशेषपराणीत्यर्थः । सामानाधिकरण्य- स्वामाव्यात(१)निर्गुणमित्यादिशोधकवाक्यान्तरैकार्थ्याच्च सत्यं (२)जानविज्ञानमानन्दमित्यादीनि शोधकवाक्यानि । निर्विशेष. पराणीत्यभिप्रायेणाह सत्यं ज्ञानमिति, सत्यादिपदानां निर्वि- शेषपरत्वेप्रवृत्तिनिमित्तभेदाभावात सामानाधिकरण्यलक्षणहा- निरित्यत्राह सर्वविशेषप्रत्यनीकेति,। न चैकाकारताऽवबोधे पदानां पायता एकत्वे- ऽपि वस्तुनः सर्वविशेषप्रत्यनीकाकारत्वोपस्थापनेनसर्व- पदानामर्थवत्त्वादिति। नैतदेवम् एकविज्ञानेनसर्ववि- ज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्य- ति सत्यमिथ्यात्वयारेकताप्रसक्तिवा, अपि त्वेकविज्ञाने- न सर्वविज्ञानप्रतिज्ञा सर्वस्य तदात्मकत्वेनैवसत्यत्वे- सिद्ध्यति, प्रतियोगिविशेषा:(३)प्रवृत्तिनिमित्तानीत्यर्थः। तर्हि तद्व्या- वृत्तिरूपधर्मः स्यादित्यत्राह एकाकारतामिति, आकारशब्दः स्वरूपाचीस्वरूपमेव व्यावृत्तिरितिभावः । निर्विशेषवस्तुप- रत्वे पदानां पर्यायता(४) स्यादिति पर्यायत्वशङ्कां परिहरति न चेति, । कुत इत्यत्राहएकत्वेऽपीति । अर्थवश्वात-प्रयो- जनवत्त्वात् । अथ सिद्धान्त(५)माह नैतदेवमिति, एक विज्ञान (१) छा० उ० । ६।२।१। (२) तै० श्राए।१।३ (३) प्रति- योगिभेदाइ ति पा० । (४) समानशक्यताछेदककत्वे सति विभिन्न शक्ततावच्छेदककत्वं पर्यायत्वम् । (५) सिद्धान्त्याहेति पा० ।
।
वेदार्थसंग्रहः।
सर्वविज्ञानं च किमेकं ज्ञानम् । उत शानद्वयम् ? । एकत्वपक्षे
किमेकविज्ञानेन सर्वविज्ञानं सर्वस्याभावादुच्यते, उतैकस्यसर्व-
स्य च तादात्मादिति विकल्पमभिप्रेत्य प्रथमं दूषयति एकेति,
एकेत्यादि स्पष्ट न सेत्स्यति इति सर्व-शब्दस्य सर्वाताववा-
चित्वाभावादिति भावः । द्वितीयं दूषयति, सत्येति, सत्यमि-
थ्यात्वयारकताप्रसक्तिति जगतः सत्यत्वं ब्रह्मणो मिथ्यात्वं
वेत्यर्थः । द्वितीय(१)पक्षे च एकविज्ञानेनसर्वविज्ञानं स्यालीपु-
लाकन्यायेन सर्वस्यैकसाधाद्यदि स्यात तत त्वमते नयुक्त
कार्यस्या(२)सत्यत्वात् एकवैधाद्वा स्यात् देवदसमाधान्य-
जानेनेतरेषामप्रधातया ज्ञातत्ववत् तदानीं त्वन्मते मिथ्यात्वे-
नेत्यध्याहारः स्यात् । ज्ञातव्या(३)भावेन निवृत्तिलक्षणा वा
स्यात् ज्ञानद्वयवरूप्यादस्वारस्यं चेत्यभिप्रायः । अपि तिव-
ति । न हि घटपयोः सत्यत्वेऽपि घटज्ञानेन पटो ज्ञाता
भवतीति तद्व्यावृत्त्यर्थमाह सर्वस्य तदात्मकत्वेनैव सत्यत्व
इति, ब्रह्मात्मकत्वेनैव सत्यत्व इत्यर्थः । न हि कारणावस्थे
ब्रह्मणि ज्ञाते कार्यावस्था ज्ञाता भवतीति चेदुच्यते न हि
विशेषणान्तरविशिष्टाकारण विशेषणान्तरान्वयः अपि त्वेक-
स्मिन्धर्मिणि विशेषणद्वयान्वयो विवक्षितः तस्मानज्ञातत्व-
विशिष्टाकारेण सर्वत्वं सर्वत्वविशिष्टाकारेण ज्ञातता वा किंतु
सर्वत्वं ज्ञातत्वं चैकायवर्तिनी बुति, प्रवस्थानवगमेऽपि ध.
मिण ऐक्येन जाततया प्रयोगो मुख्य एष दृष्टः सेाऽयं देवदत्तः
पूर्वमेव मयाऽयं ज्ञात इत्यादिषु, न हि तत्र वर्तमानकालधि-
शिष्टत्वेन पूर्व ज्ञातः तस्मात्परिषद्दर्शनेनामी पुरुषा दृष्टा इति-
बदिदमुपपन्नम् । एकस्य सत्यत्वज्ञानेन व्यतिरिक्तं मिथ्यात्वेन
ज्ञातं भवतीति चेन्न येनाश्रुतं(४)श्रुतं भवतीत्यादिषु वाक्येषु मि-
थ्यात्वेनेत्यध्याहारः एकविज्ञानस्य सर्वविज्ञानस्य च वैरूप्यम्
अमुख्यत्वं घ.ज्ञात्रभावात, न हि सर्व मिथ्यात्वेन जानन् क्वचित
कश्चिज् ज्ञाताऽस्ति तस्मात्सर्वविज्ञान शब्देन सर्वज्ञाननिवृत्ति-
लक्षणा स्यादिति एकविज्ञानेन सर्वविज्ञान प्रतिज्ञावाक्यं कि
(१) द्वित्वपक्षे चेति पा७ । (२) कायस्यासामान्यादिति पा० ।
(३) ज्ञातृ भावेनेति पा०। (४) याउ०।६।१ ॥२॥
२० तात्पर्यदीपिकायुक्तः । तदात्मकत्वेनैव सत्यत्वं कथं तथा सति कथं प्रतिज्ञोपपत्तिः उपक्रमवाक्यं सत्यत्वपक्षानुगुणमपि तदुपसंहारापेक्षया प्रबलं न तु महावाक्यस्वारस्यापेक्षया, महावाक्यं च मिथ्यात्वपक्षा. नुगुणं तत्त्वमसि मृत्तिकेत्येव सत्यं सदेवैकमेवेत्यादिषु तथा प्र- तीतेरिति शङ्कायामाह अयमर्थ इति, प्रतिज्ञावाक्योपक्रमभूतं स्तब्धोऽसीति वाक्यमारभ्य व्याख्यातुं स्तब्धोऽसीति अयमाण- ध्यमपुरुषार्थदा(१)मोर्थमाह श्वेतकेतुं प्रत्याहेति, अयमर्थः श्वेतकेतं प्रत्याह स्तब्धोऽस्युत तमादे. शममाक्ष्य इति परिपूर्ण इव लक्ष्यसे तानाचार्यान्प्रति तमप्यादेशं पृष्टवानसीति आदिश्यतेऽनेनेत्यादेशः मा- देश:-प्रशासनम्, एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्या- चन्द्रमसौ विधृतौ तिष्ठत इत्यादिभिरैकार्थ्यात्, स्तब्धोऽसीत्यादिश्रुतिवाक्योपादानं तत्र वाक्ये स्तब्धा. उसीत्यस्वार्थमाह परिपूर्ण इव लक्ष्यस इति, प्रच्छ इति धातुर्द्धि- कर्मकः वक्तकर्मकः वाच्यकर्मकश्चेति सत्रादेशशब्दाभिहितं वाध्यं कम्र्मेति दर्शयितुं तानाचार्यान् प्रतीति वक्त कर्म व्या. हृतं न वै नूनं भगवन्तस्त एतदवेदिषुर्य घेतदवेदिष्यकथं मे ना. वत्य निति तच्छब्दनिर्दिष्टा आचार्या अत्र स्मारिताः, तानिति बहुवनेन तमादेशमिति तच्छब्दस्याचार्यविषयत्वशङ्काब्युदासः। तमपीति श्रोतुदुर्खभमित्यपि- शब्दाभिप्रायः । कर्मादि श्रोत- व्यान्तरसमुच्ययो वा अभिप्रेत इतिश्वेतकेतुं प्रत्याहेत्यन्वयः । श्रादेशशब्दं व्याचष्टे आदिश्यत इत्यादिना, आदिश्यतेग्नेने. त्यादेश इति प्रत्ययार्थब्याख्यानम् । आदेश:-प्रशासन मिति प्रकृत्यर्थब्याख्यानं, तत्र अकर्तरि च कारके संज्ञायामिति घनः कर्तृव्यतिरिक्तकारके विहितत्वाद् ब्रह्मणश्च प्रशासने कर्तृत्वादु- पदेशकमत्वोपपत्तेश्च प्रकृत्यर्थः उपदेशः प्रत्ययार्थः कर्म चेति परैर्याख्यातं तत्र प्रकृत्यास्वारस्यं, प्रत्ययार्थस्वारस्यम्, अस्म- त्पक्षे प्रत्यर्थस्वारस्यं प्रत्ययार्थास्वारस्य कर्तृ व्यतिरिक्तकार- कविषयस्य घनः कथं कर्थत्वं विवक्षात: कारकाणि भव- (२) स्पाटयार्थमाहेति पा०।
वेदार्थसंग्रहः। २१ न्तीति न्यायेन कर्तुरेव करणान्तरनिरपेक्षत्वलक्षणेन करणसा- धर्म्यरूपेण साधकतमत्वेन करणत्वविवक्षया घञ्प्रत्यय उप- पद्यते, एतदभिप्रायेण हि आदिश्यतेऽनेनेत्युक्तं न स्वादिश तीति, विवक्षया कारकप्रवृत्तिश्चेदकर्तरीति विधानस्य किं प्रयोजनं स्वतः प्राप्तस्य(९) कर्तृव्यतिरिक्तकारकस्य कर्तरि करणादिविवक्षया कर्बर्थत्वमस्वरसमिति विभागः प्रयोजन सूत्रस्य प्रयोजनवत्त्वेऽपि स्वारस्यमस्वारस्यं च तुल्यं चेत् किमनेन- योजनान्तरेणेति चेत् उच्यते परपक्षे प्रत्ययार्थस्यैव स्वारस्य. मस्मत्यक्षे तु स्वारस्यद्वयमस्ति अर्थस्वारस्यं शब्दस्वारस्यं चेति प्रकृत्यर्थस्वारस्यं तावत् सिद्ध विवक्षितविशेषणस्यासाधा- रणाकाराभिधानं स्वतः प्राप्तं सर्वप्रशासितृत्वं ब्रह्मासाधारण- धर्मः, उपदेश्यत्वं तु कर्मस्वरूपादेः साधारणं किंचापेक्षि- तविधेरनपेक्षितविधानं दुर्बलमिति न्यायादत्रावश्यापेक्षितप्रशा- सितत्वज्ञापनमेव युक्तं नानपेक्षितपदेश्यत्वज्ञापनं तस्माच्छब्द- स्वारस्यमर्थस्वारस्यं चेति स्वारस्यद्वयविभवादयमेवार्थः। ब्रह्मणः कृस्नप्रशासितृत्वे सिद्ध हि तदत्रासाधारणाकारतया वक्तव्यं तत्र किं प्रमाणमित्यत्राह एतस्य वा इति, । तथा च मानवं वचः प्रशासितारं सर्वेषा(२)मि- त्यादि, अत्राप्येकमेवेति जगदुपादानतां प्रतिपाद्य अ- द्वितीयपदेनाधिष्ठात्रन्तरनिवारणादस्यैवाधिष्ठातृत्वमपि प्रतिपाद्यते, अतस्तं प्रशासितारं जगदुपादानभूतमपि पृष्टवानसि येन श्रुतेन मतेन विज्ञानाश्रुतममतमवि- ज्ञातं श्रुतं मतं विज्ञानं भवति इत्युक्तं स्यात्, निखिल- जगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्व-सत्यकाम- त्व-सत्यसंकल्पत्वाद्यपरिमितीदारगुणसागरं किं ब्रह्म त्वया श्रुतमिति हार्दो भावः, (१) स्वत: मातत्वमिति पा० । (२) मनुस्मृ० । १२ । १२२ ॥
। तात्पर्यदीपिकायुक्तः । स्मृतिमाह प्रशासित्तारमिति, न केवलं अत्यन्तरेष्वेव प्रशासितृत्वप्रसिद्धिः अस्मिन्प्रकरणेऽपि सिद्धमित्याह अत्रा- पीति, अधिष्ठातृत्वं हि प्रेरकत्वं तच्च प्रशासितृत्वमिति तत्फ- लितमित्यर्थः, एवमादेशशब्दार्थ उक्तः । अथ तच्छब्दं च विव- पवन्वाक्यार्थं च योजयति अत इति, येन विज्ञातं भवति तं पृष्ठवानसीत्यन्वयः । येन श्रुतेन मतेन विज्ञातेनेत्यध्याहारेण योजमायाः को हेतुः उच्यते, न हि ब्रह्मणः सत्तया कृत्स्नं ज्ञातं भवति अपि तु तद्विज्ञानेनैव विज्ञातं भवतीति वस्तुसामर्थ्यात् । किंच दृष्टान्तेऽपि न हि मृत्पिण्डसत्तया घटादिर्विज्ञातो भवति अपि तु तद्विज्ञानेनेति दृष्टान्तसामर्थ्यात् । किंच आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विज्ञातं स्यात् कस्मिन् नु भग- वाविज्ञाते सर्वमिदं विज्ञातं भवति इत्यादिश्रुत्या च, एवं दृष्टा- न्तसामर्थ्यात् दार्शन्तिकसामर्थ्याच्च श्रुत्यन्तरकण्ठोक्त्या चैवं व्याख्यातमित्युक्तं स्यादिति कण्ठोक्त्या चाभिप्रेततया चाय- मेवास्याः श्रुतेरर्थ इत्यभिप्रायः । नन्वस्मिन्धाक्य उपादानत्व हि न कराठोक्तं कि तु फलितं कारणत्वं ज्ञातत्वं च न कराठो. क्तम् अत्र जगत्कारणत्वाद्यभिप्रायस्य किं प्रयोजनमित्यपेक्षाया. माह निखिलजगदिति, श्रुत्यन्तरेषु यता वा इमामि इत्यादि- वाक्येषु जगत्कारणत्वलक्षणकं ब्रह्मावगतं तस्मादत्र जगत्कारण- त्वगर्भ बदतः पितुस्त्वया किं ब्रह्म श्रुतमित्यभिप्राय इत्यर्थः । तस्य निखिलकारणतया कारणमेव नानासंस्थान- वियेषसंस्थित कार्यमित्युच्यत इति कारणभूतसूक्ष्मचि दचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्यभूतमखिलं जगद्वि- ज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यादिति पुत्र प्रति पृष्टवान् पिता, तदेतत् सकलस्य वस्तुजातस्यैककारणत्वं पितृ- हृदि निहितमजानन्पुत्र: परस्परविलक्षणेषुवस्तुष्व- न्यस्य विज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा वेदार्थसंग्रहः । अप्राक्ष्य इति प्रश्नोक्तिः तत्पूर्वक वर्णोभिप्रायेणेल्या- शयवानाह त्वया श्रुतमिति, नात्र ब्रह्म ति कण्ठोक्त, तस्मात जगत्कारणत्वान्तर्भावप्रयोजनब्रह्मश्रवणप्रश्नः कृताभवतीति स- र्वज्ञत्वादिगुणाःकारणत्वोपयोगितयोक्ताः सृष्टयादयः परिपूर्ण- स्यैव लीलाः, अतस्सत्यकामत्वस्य कारणत्वोपयोगः । हार्दी- भाव:-हदि निहितं तात्पर्यमित्यर्थः । कारणत्वे सत्यप्येकवि- ज्ञानेन सर्वविज्ञानं नोपपद्यते कारणात्कार्यस्य द्रव्यान्तरत्वात्कार- णत्वं च नोपपद्यते तथा सति ब्रह्मणेाहेयास्पदत्वप्रसङ्गात्कारण. त्वोपपत्तावप्येकविज्ञानेन सर्वविज्ञानं नापपद्यते नानाजातीय- कार्याणां नानजातीयकारणकत्वदर्शनादित्यत्राह तस्येति, तस्य. निखिल कारणतया कार्यभूतमखिलं जगद्विज्ञातं भवतीत्यन्वयः । कारणात्कार्यस्यानन्यत्वमाह कारणमेवेति, नानासंस्थानविशेष- संस्थितं-संस्थानविशेषविशिष्टमित्यर्थः । सूधमचिदचिदस्तुशरी. रशब्देन ब्रह्मणाहेयास्पदत्वप्रसङ्गः परिहृतः। निर्वेदादुपसन्नाय वक्तव्यमर्थ स्वयमेव कथं वदतीत्यत्राह पुत्रं प्रति पृष्टवान् पितेति, पुत्रव्यतिरिक्तानां शुश्रूषाद्यपेक्षा पुत्रस्य तु पुत्रत्वमेव ब्रह्मोपदे- शहेतुरिति शास्त्रार्थः सूचितः । पुत्रपितृशब्दाभ्यामुद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच तं ह पितोवाचेति श्रुतिवाक्यं स्मारितम्, अनन्तरमिदं वाक्यं कथं नु भगवस्स आदेश इति इदं किं प्रश्नरूपम् ? उत चोद्यरूपमिति संशये चौद्यपरमिति व्याचष्टे तदेतदित्यादिना, प्रतिवचनप्रकारे प्रश्नार्थोविज्ञा- यते प्रतिवचने यथा साम्य केनेत्यादिना दृष्टान्तैरुपपादनादिदं- चोद्यरूपमित्यभिप्राय: । परिचोदयति इति-विवक्षितविशेष- कण्ठोक्तिमकुर्वत सामान्येन चौदथतीत्यर्थः । परिचादयति कयं नु भगवः स आदेश इति परिचादितः पुनस्तदेव हृदि निहितं ज्ञानानन्दामलत्वकस्वरूपमपरि- च्छेद्यमाहात्म्यं सत्यसंकल्पत्वमित्रैरनवधिकातिशयासं- ख्येयकल्याणगुणगणैर्जुष्टमविकारस्वरूपं परं ब्रह्मैव नाम- रूपविभागानहसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलयैव स्वसं- २४ - तात्पर्यदीपिकायुक्तः। कल्पेनानन्त-विचित्र-स्थिरत्र-चराचरस्वरूपजगत्संस्थानं स्वांशेनावस्थितमिति तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवन् लेाकदृष्टं कार्यकारणयोरनन्यत्वं दर्शयितुंदृष्टा- न्तमाह। वाक्यमुपादत्ते कथं न्विति, अथ पिता ब्रह्मणो जगत्कार- गत्वं तदुपयोगिगुणजातम् उपादानत्वनिमित्तत्वप्रयुक्तदोषशङ्का- परिहारं च विवक्षन्कारणज्ञानेन कार्यविज्ञानं लोकसिद्ध दर्श- यतीत्याह परिचादितः पुनरित्यादिना, ज्ञानानन्दामलत्वकस्व रूपमिति विज्ञानमानन्दं ब्रह्मेत्यादिशोधकवाक्यार्थी विधक्षितः स्वरूपशब्दो धर्मिस्वरूपनिरूपकधर्मवाची । अपरिच्छेद्यमाहा. त्म्यमित्यनेनानन्त-शब्दार्थो विवक्षितः स्वरूपमपरिच्छिन्न- मित्यर्थः । गुणतेप्यानन्त्यमाह सत्यसङ्कल्पत्वमित्रैरिति । सत्यशब्दार्थमाह अविकारस्वरूपमिति, अत्र स्वरूपशब्दोवि- शेष्यांशपरः । एवमविकारित्वादिश्रुते विषयोदर्शितः । उपादान- स्वादिप्रयुक्तविकारादिविषयं दर्शयति नामरूपेति, पूर्व सूक्षम. चिदचिदस्तुशरीरकमित्येतावदुक्तम् अत्र नामरूपविभागानह- शब्देन सूक्ष्मशब्दो व्याख्यातः । अनेनोपादानत्वप्रयुक्तं चौद्यं परिहृतम् । अथ निमित्तत्वप्रयुक्त चौद्यं परिहरति स्वलीलया इति, अवाप्तसमस्तकामस्यापि लीलार्थं जगद्व्यापार उपपद्यत इत्यर्थः । महायासरूपजगद्व्यापारस्य न लीलात्वमिति चेत्त- त्राह स्वसङ्कल्पेनेति, सङ्कल्पमात्रसाध्यत्वान्नायं महायास इत्य- र्थः । स्वांशेन विशिष्टस्य स्वस्यांशेन ब्रुवन्धक्तुं लोकदृष्ट कार्य- कारणयारनन्यत्वं दर्शयितुं दृष्टान्तमाहेति कार्यकारणयोरनन्यत्वे दृष्टान्तमाहेत्यर्थः । यथा साम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य- मेति एकमेव मृद्रव्यं स्वैकदेशेन नानाव्यवहारास्प- त्वाद्यथा घटशरावादिनानासंस्थानावस्थारूपविकारा- वेदार्थसंग्रहः। पन्नं नानानामधेयमपि मृत्तिकासंस्थानविशेषत्वात् मृद्- द्रव्यमेवेति व्यवस्थितं न वस्त्वन्तरमिति तथा मृत्पि- एडविज्ञानेन तत्संस्थानविशेषरूपं घटशरावादि सर्व ज्ञातमेव भवतीत्यर्थः, ततः कृत्स्नस्य जगतो ब्रह्मैककार- णतामजानन्पुत्रः पृच्छति भगवंस्त्वमेवैतद्वीत्विति, अन्यत्वनिबन्धनचोद्यस्यानन्यत्वज्ञापनेन हि परिहार इति भावः । दृष्टान्तवाक्यमुपादत्ते यथा सम्यकेन मृतिपण्डे. नेति, तत्र कारणज्ञानेन कार्यविज्ञानस्य सिद्धये तयोरै क्योपपा- दकमुत्तरखण्डं प्रथमं व्याचष्टे एकमेवेति, तत्र वाचेति पदं व्या. चष्टे नाना व्यवहारास्पदत्वायेति, वाक्शब्दोऽजहलक्षणया वा- क्पूर्वकव्यवहारे वर्तते, वाक्पूर्वकव्यवहारश्च प्रयोजनतया हेतु- रित्यर्थः । विकारशब्दार्थमाह घटशरावेत्यादिना, संस्थानमे- वावस्था सैव विकारः षोडशकश्च विकार इत्यादिषु विकार- शब्दस्यावस्थावद्व्यपरत्वेन प्रयोगदर्शनात्तव्यावृत्यर्थमवस्था- रूपविकार इत्युक्तं, नामधेयपदं व्याचष्टे नानानामधेय मिति । मृत्तिकेति पदं व्याचष्टे मृत्तिकासंस्थानविशेषत्वादित्यादिना, एषकारेण व्यावय॑माह न वस्त्वन्तरमितीति, एवं कारणा- नेन कार्यज्ञानस्य उपपादकमुत्तरखण्डं व्याख्याय तदुपपाद्य पूर्वखण्डं व्याचष्टे यथेति, लोके कारणज्ञानात्कार्यज्ञानं सम्भ- पतु तथाऽप्येकविज्ञानेन सर्वविज्ञानं नोपपद्यते विजातीयका- र्याणामेककारणत्वायोगादिति बुद्ध्या ब्रह्मैककारणत्वाज्ञानेन पुत्रः पृच्छतोत्याह तत इत्यादिना, विजातीयानामपि सर्व- कार्याणां ब्रह्मैवापादानं तदेव च निमित्तमित्युपदिदेशेत्याह ततः सर्वज्ञमिति, ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणमित्युपदि- शन् स होवाच सदेव सेोम्येदमय आसीत् एकमेवाद्वि तीयमिति, अत्रेदमिति जगनिर्दिष्टम् । अग्र इति च २६ तात्ययदीपिकायुक्तः। सृष्टेः पूर्वकालः, तस्मिन्काले जगतः सदात्मकतां सदे- बेति प्रतिपाद्य तत्सृष्टिकालेऽप्यविशिष्टमिति कृत्वा एकमेवेति सदापन्नस्य जगतस्तदानीमविभक्तनामरूपता प्रतिपाद्य तत्प्रतिपादनेनैव मतो जगदुपादानत्वं । उपदिशन् उपदेष्टुं सदेवेति वाक्योपादानम् इदमिति जगनिर्दिष्टमिति प्रकृतमस्ति चेत् तत्परत्वमन्यथा प्रत्यक्षादि- प्रमाणप्रसिद्ध जगत्परत्वमेवेदं-शब्दस्योचितमिति भावः । अग्र इत्यादिना अनन्तरं सष्टेवश्यमाणत्वादनशब्दस्य प्रलयकालपर-. त्वमवगम्यत इति भावः, । तस्मिन्काले जगतः सदात्मकता सदेवेति प्रतिपाद्यति सदात्मकता-कारणात्मकतां सदेवेत्यनेन वैशेषिकोक्तं कदाचित्सवं कदाचिदसत्वं च ध्यावृत्तं तेन प्रल- यकालेऽपि सरवं फलितमित्येवमुक्तं न तु वाचनिकोग्यमर्थः, मदेवेदमग्र एकमेवासीदिति यन्मयः । सच्छब्दः प्रमाणसंबन्धा- ईत्योपाधिना प्रकृतिपुरुषकालविशिष्टं ब्रह्माह कारणात्कार्य- स्यान्यत्वेन जगतः कदाचित्सत्त्वं परैरुक्तं कारणभूतब्रह्मानन्य- स्वेन जगतोनित्यसरवमित्यर्थः । तस्मुष्टिकालेऽपोति जगत्सदेव चेत्प्रलये कोविशेष इत्यपेक्षायां द्रव्यं नित्यमेव तस्याविभक्त- नामरूपावस्था प्रलयः विभक्तनामरूपावस्था कार्यता इति वैषम्यमेकमेवेति पदेनोक्तं भवतीत्यर्थः । अनेन ब्रह्मण सपादा- नत्वं फलितमित्याह तत्प्रतिपादनेनैवेति, भाव्यवस्थाविशेष- वतः प्रागवस्थायोगो ह्युपादानत्वं, तस्मादस्यमाणबहुत्वाव- स्थायाः पूर्वावस्थाकथनेनोपादानत्वमुक्तं भवतीत्यर्थः । कृत्स्नस्य कार्यस्य ब्रह्मैवोपादानमस्तु तथाऽप्येकविज्ञानेन सर्वविज्ञानं नोपपद्यते निमित्तान्तरसम्भवात् इति शङ्कायां तस्यैव निमि- तत्वेन निमित्तान्तरशङ्कामद्वितीयपदं व्यावर्तयतीत्याह स्वष्य- तिरिक्तति । प्रतिपादितमिति स्वव्यतिरिक्तनिमित्तकारणम- द्वितीयपदेन प्रतिषिद्धं तमादेशमप्रायः येनाश्रुतं श्रुतं - २७ वेदार्थसंग्रहः। भवतीत्यादावेद प्रशासितव जगदुपादानमिति हृदि निहितम् इदानीं सुव्यक्तमेतदेवोपपादयति स्वयमेव जगदुपादानं जगन्निमित्तं च सत् तदैक्षत बहु स्यां प्रजायेयेति तदेतत्तच्छब्दवाच्यं परं ब्रह्मैव सर्वज्ञ सर्व- शक्ति सत्यसंकल्पमवाप्तसमस्तकाममपि लीलार्थ वि- चित्रानन्तचिदचिन्मियजगद्रूपेणाहमेव बहुस्यां तद- कुलालस्य विविधपरिणामशक्तिवैकल्येनानुपादानत्वम् मृत्पिण्डस्य ज्ञातृत्वविरहादनिमित्तत्वमत्र तूमयसद्भावादी- वोभयकारणमित्यर्थः । उक्तार्थस्योपक्रमसङ्गतत्वमाह तमादे- शमिति, आदेशशब्देन प्रेरयितृत्वं काठोक्तं येनाश्रुतं श्रुतम् इत्यादिप्रतिज्ञानेनोपादानत्वमभिप्रेतं तदुभयमत्र स्फुटमित्यर्थः । अत्रासत्कार्यवादोपन्यासनिरासवाक्यं द्वितीययोजनायां व्या- ख्यास्यत इति नात्रोदाहृतम् । अथ तदनन्तरवाक्यं पूरकपदा- नरैः सहोपादत्तं स्वयमेवेति, यं प्रजायेयेति स्वयमेव संकल्प्य स्वांशकदेशादेव विय- दादिभूतानि सृष्टवा पुनरपि सैव सच्छब्दाभिहिता परा सदेवेत्यादि, वाक्यं सजातीयविजातीयादिभेदनिषेधपर- स्वेन पराख्यातं तदुत्तरवाश्याननुगुणम् अस्मदुक्तार्थस्यैवा- पपादकान्युत्तरवाक्यनीत्यभिप्रायेण जगदुपादानं जगनिमित्त सदिति विशेषणद्वयोपादानम् । एतद्व्याचष्टे तदेतदित्या. दिना, वक्ष्यमाणसृष्टयुपपादकविशेषणान्याह सर्वमित्या- दिना, अवाप्तसमस्तकामस्य प्रवृश्यनुपपत्तिं परिहरति नवाप्त- समस्तकाममपि लीलार्थमिति, सङ्कल्पमात्रमाध्यत्वान जग- व्यापार आयासरूप इत्यभिप्रायेण सत्यसङ्कल्पमित्युक्तम्, मजायमानो बहुधा विजायते इत्युक्तावताररूपबहुत्वव्याव- त्यर्थ जगद्रूपेणेत्युक्तं, तत्र बहुशब्दार्थोऽस्तीति दर्शयितुं विधि- कानन्तेत्याधुक्तं, बहु स्यां तदर्थं प्रजायेयेति जायतेऽस्तीत्या- द्यवस्थासु जायमानावस्था जातावस्था चेत्युत्पत्तावेधावस्था- द्वयमस्ति, तत्रास्ति-शब्दवाच्योत्पन्नावस्था उत्पाद्यमानावस्था । तात्पयदीपिकायुक्तः । जायत इति शब्दवाच्या तत्र बहु स्यामिति वाक्ये स्यामिति पदेनोत्पन्नावस्था विवक्षिता, तत्पूर्वभाविन्युत्पाद्यमानावस्था तदर्थ प्रजायेयेत्युक्तेति विभागः । उत्पत्तौ साधनस्य पूर्वक्षा- वित्वं साध्यस्य पश्चाद्धावित्वं सङ्कल्पे तु साध्यं पूर्वभावि- साधनं पश्चाद्भावि तस्मात्स्यामिति पूर्वमुक्त स्वयमेवोपादा- मभूतं तदेव मङ्कल्प्येत्यर्थः । स्वांशः प्रकृतिः तेजोगबन्नसुष्टिव- धनं वियदादेरपि प्रदर्शनार्थमिति वियदधिकरणसिद्धार्थाभि- प्रायेणाह वियदादीति, श्रीभाष्ये महदादेरपि प्रदर्शनार्थ मि. त्युक्तं, पुनरपीति व्यष्टिसृष्टघर्थमित्यर्थः । सैवेति सदेवेत्यादौ निर्विशेष वस्तूक्त सेयं देवतेति सगुणमुच्यते इति भ्रमापनय- नार्थमेवमुक्तम् उत्तरत्र तेजः परस्यां देवतायामिति हि वक्ष्यते तत्प्रत्यभिज्ञानाय परा देवतेत्युक्तम् । अत्र पूर्वापरेषु च सगुणं ब्रीबांच्यते इत्यर्थः । इति व्यष्टिसृष्टिसङ्कल्पवाक्य- मुपादत्त हन्ताहमिति, अनुप्रविश्य नामरूपे व्याकरवाणीत्यत्रा- नुप्रवेश न केवलं तत्तत्पदार्थ मात्र पर्यन्तनामरूपयारणार्थः अपि तु स्वपर्यन्तनामरूपव्याकरणार्थः अनुप्रवेशश्रवणेन मातापितृकु. लालादिनिर्वयंदेवदत्तघटादिनामरुव्याकरणतोव्यावृत्तताऽवग- मात् बहु स्यामित्युपक्रम एव स्वपर्यन्तनामरूपभावसङ्कल्पात्त- दीदं तीव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इति नामरू- पयोयोब्रह्मपर्यन्तत्वक्षणात्तदनुप्रविश्य सच्च त्यच्चाभवदिति च अषणात व्यष्टिसृष्टिसङ्कल्पवाक्ये अनुप्रवेशपूर्वकनामरूपव्या- देवतै क्षत हन्ताऽहमिमास्तिस्रो देवताः अनेन जीवे- नात्मनाऽनुपविश्य नामरूपे व्याकरवाणीति, अनेन जीवनात्मनेति । जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मकजीवानुमवेशादेव कृत्स्नस्याचिद्वस्तुनः पदा- र्थत्वम् । एवंभूत(१)स्यैव सर्वस्य वस्तुनो नामरूपभा- करणोक्तिराद्यसृष्ट रप्युपलक्षणार्था महदहङ्कारादिनारूपयोब्रह्म- त्वपर्यन्तत्वात् यस्य बुद्धिः शरीरं यस्याहङ्कारः शरीरमिति (२) स्वंभूतश्येवाचिद्धस्तुन इति पा० ।
वेदार्थसंग्रहः। हि श्रूयते अत एव हि । "प्रकृतिं पुरुष चैव प्रविश्यात्मेच्छया हरिः क्षोभयामास सम्प्राप्त सर्गकाले व्ययाव्यया"विति स्मृतम् । एवं व्यष्टिसृष्टिसङ्कल्पवाक्येऽपि नामरूपव्याकरणयोब्रह्मपर्यन्त . त्वस्य विवक्षितत्वमाद्यसृष्टिसङ्कल्पवाक्यानुरोधात् तद्वेदमिति श्रुत्यन्तरानुगुण्यात् तदनुप्रविश्य सञ्च त्यच्चाभवदित्यनुप्रवेशपूर्व- कब्रह्मपर्यन्तनामरूपव्याकरणोक्तेश्चावगम्यते बहु स्यामित्युक्तं नानानामरूपभाक्वं मृत्पिण्डस्य घटादिनामरूपभाववत् किम- द्वारकं जीवस्य देवादिनामरूपभाववत् । कि सदारक मिति संशये अनेन जीवेनेत्यादिश्रुतिः सद्वारकमाह ब्रह्मणसमष्टिना- मरूपभावामद्वारकं महदादेर्जीवम्प्रति शरीरत्वाभावात् व्यष्टि. नामरूपभावमद्वारकं सद्वारकं च तथा सति न द्विपर्यवसानहे. तुता गोशब्दादिवत्, अनेन जीवेनात्मना जीवशरीरकेण भया सिंहेन भूत्वाबहवो मयात्ताडतिवत् तदनुप्रविश्य सच्च त्यच्चा. भवदिति जीवेऽप्यनुप्रवेशेन तन्नामभावाश्रवणात् जीवेनात्मनेति तृतीयाया: कारर्थः न तावत्सहयोगलक्षणेयं तृतीया कारकवि- भक्तौ सम्भवन्त्यामुपपदविभक्तेरन्याय्यत्वादिति न्यायेनापप- दविभक्तेरनुपपत्तेः । न च करणे तृतीया, अनुप्रवेशं प्रति जीवस्य करणत्वाभावात्, अनुप्रवेशस्य द्वारकर्ता हि सः जीवशब्दस्य पर- मात्मपर्यन्तत्वाच्च नेयं करणे तृतीया तस्मात्कर्तरि तृतीया । ननु तितद्धितसमासैरनभिहितं कारकं हि तृतीयाविभक्त्य- भिधेयम् । अत्र तु व्याकरवाणोति तिभिहितत्वान्न तृती- याऽभिधेयः कर्ता तत्र प्रथमैव युक्तेति चेत् न व्याकरणकर्ना हि तिङभिहितः अनुप्रवेशकर्ता तु नाभिहित इति स तृतीयाभि- धेय नामरूपव्याकरणानुप्रवेश क्रिययोः समानक कत्वमनुप्रवि- श्येतिक्वाप्रत्ययेनार्भािहतमिति न तृतीयाभिधेयः कतैति चेन्न कोल्यप् कर्ता हि न क्वाभिधेयः अपि तु प्रत्ययान्तराभिधेय: प्रत्ययान्तरप्रतिपन्न योः कौरैक्यमेव बाप्रत्ययाभिधेयं यथा समानाधिकरणवाक्येषु प्रातिपदिकावगते विशिष्टार्थे विशेष्यां- शैक्यमात्रं समानविक्त्यभिधेयं न तु विशेशेषणान्वयोविशेष्यं वा एवमत्रापि क्वाप्रत्ययो न कत्रभिधायी, अपि तु शब्दान्तरप्रति- पन्न क्रियाद्वयकत्रैष्यमात्राभिधायी । बाप्रत्यय एवं क कत्र सिधा- - तात्पर्यदीपिकायुक्तः । योति चेत् व्याकरवाणीति तिप्रत्ययो निरर्थकः स्यात तस्मा- छब्दान्तरप्रतिपत्रक्रियाद्वयक क्यमात्राभिधायी क्वाप्रत्यय इ- त्यनुप्रवेश क्रियाकर्ता तृतीयाभिधेयः । एवं कर्तरि कदिति कृत्य त्ययानां कर्तासहितत्वात् कृत्सज्ज्ञकः क्वाप्रत्ययः कर्मभि धायीति चेन्न अर्थान्तरेष्वविहितानामेव कृत्प्रत्ययानां कर्थत्वं म स्वर्थान्तरे विहितानां, तव्यादीनां हि कर्माद्यर्थे विहितस्या- त् । अयं तु क्वाप्रत्ययो भावे विहितः तथाऽधिकारात् अत्र प्रातिपदिकार्थमात्रे यथा प्रथमा विभक्तिः तथा धात्वर्थ मात्र विहितो यः प्रत्ययः स भावार्थः, अयं तु क्वाप्रत्ययो भावे वि- हित इति न कत्रभिधायो । तस्मात् तृतीयया कर्ताऽभिधीयत इति निरवद्यम् । अनेनेत्यादिवाक्यं संक्षेपेण योजयति अनेने. स्यादिना, पदार्थत्वं तत्तदरस्थावस्थितत्वं देवमनुष्याद्याकार- विशिष्टत्वं न हि निराकारः पदार्थः पृथिवीत्वाकारविशिष्टो हि पृथिवीपदार्थः परमात्मपर्यन्तस्यैव वस्तुत स्त तदवस्थाविशि- ष्टत्वं न स्वतन्त्रस्येत्यर्थः । तत्पर्यन्तस्यैव देवादिनाममाक्वं चेत्याह एवं भूतस्यैवेति, मृदात्मको घट इतिचेत् ब्रह्मात्मक- त्वंस्वरूपैक्येऽप्युपपद्यते शरीरशरीरिभावेन तादात्म्यमस्तु तथा सति किं प्रयोजनं सर्वशब्दानां परमात्मपर्यन्तत्वं चेत परमात्मनि देवत्वमनुष्यत्वादेः प्रकृत्यर्थस्य द्वित्वादेविभक्तप- र्थस्य चायोगान तत्पर्यन्तत्वमुपपद्यते इति शङ्कायां विस्तरेण वाक्पार्थमाह एतदुक्तं भवतीत्यादिना, क्त्वमिति च दर्शयति, एतदुक्तं भवति जीवात्मातु ब्रह्म- णः शरीरतया प्रकारत्वात् ब्रह्मात्मकः यस्यात्माशरीर- मिति भूतस्य जीवस्य शरीरतया प्रका- रभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्म- कानि तानि सर्वाणि प्रतो देवो मनुष्यो यक्षो राक्षसः पशु मृगः पक्षी वृक्षो लता काष्ठं शिला तणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः श्रुत्यन्तरात्, एवं वेदार्थसंग्रहः । ३१ शब्दा लोके तत्तद्वाच्यतयाप्रतीयमानतत्तसंस्थानवस्तु- मुखेन तदभिमानिजीवतदन्तामिपरमात्मपर्यन्तस्य संघातस्यैव वाचका इति, एवं समस्तचिदचिदात्मकम- पञ्चस्य सदुपादानता सनिमित्तता सदाधारता सनिया- शरीरत्वमस्तु ततः किं ब्रह्मपर्यन्ताभिधानस्येत्यत्राह प्रकार- त्वात् इति, प्रकारत्वं दण्ड कुण्डलादेरप्यस्तीति तद्व्यावृत्त्यर्थ शरीरतया प्रकारत्वादित्युक्तम् एवं ब्रह्मात्मकत्वं शरीरशरीरि- भावादित्युक्तम् । प्रात्मशब्दः स्वरूपैक्ये शरीरशरीरिभावे ध साधारणः अत्र शरीरशरीरिभाव एवेति किनियामकमिति चेत्त- शाह यस्थात्मेति, जीवात्मा ब्रह्मणः शरीरमस्तु ततः किमि- त्यत्राह एवंभूतस्येति, देवत्वादिविशिष्टशरीराणि जीवद्वारा ब्रह्मात्मकानीत्यर्थः । ततः किमित्यत्राह अत इति, देवाद्यवा. न्तरजातीनामपि ब्रह्मपर्यन्तत्वं दशयितुं यक्षराक्षसादय उपा. ताः प्रमाणिमत्सु स्वल्पा सा । ततो हि शैलाधिधरादिभेदान् जानीहि विज्ञान विजृम्मितानि भूतानां प्राणिनः श्रेष्ठा इत्या भिलॊष्टकाष्ठादेर्जीवाधिष्ठितत्वश्रवणात् । काष्ठं शिलेत्यायुक्त छिन्नद्रुमोहि काष्ठम्, तत्र द्रुमावस्थाधिष्ठातृजीवापगमेऽपि काष्ठा- वस्थाभिमानी जीवो विद्यतएव नामरूपभावादिति भावः । तत्तसंस्थानवस्तुमुखेनेत्यनेन परमात्मनि देवत्वमनुष्यत्वाद्यनु- पपत्तिः परिहृता भवति । देवत्वदित्वादीनां परमात्मस्वरूपे अव्यवधानेनान्वयाभावेऽपि देवत्वादीनां प्रकृत्यभिधेयानां प्र- त्ययाभिधेयानांद्वित्वादीनां च परमात्मनि सद्वारकान्वयः संभ- बतीत्यर्थः । अतएव काठिन्यवान् योबिभर्तीत्यादिरूपपद्यत इत्ये- तदुक्तं भवतीत्यन्वयः । अप त्रिवृत्करणादिवाक्यानां प्रस्तुता- र्थानपेक्षितत्वेन तानि विहायापेक्षितवाक्यानामर्थ सग्रहेणाह एवमित्यादिना, नामरूपव्याकरणाय हि त्रिवृत्करण तस्मात्रि- पत्करणसाध्यं नामरूपव्याकरणं सङ्कल्पवाक्ये पूर्वभाव्यभूत् । उत्पत्तिवाक्ये तु त्रिवत्करणस्य पूर्वभावित्वं युक्त पाठक्रमेण त्रिवृत्करणस्यपश्चाद्धावित्वेऽप्यर्थक्रमेण पाठक्रमस्य बाध्यत्वात त्रिवृत्करणं पूर्वभावि यथाऽग्निहोत्र जुहोति यवागू पचतीत्यत्र ।