Tibetian Institute, Sarnath, Vns.

Tantravartikvyakhya

2006

PDF Proofread

Front matter

॥ श्रीगणेशायनमः॥ ॥ तन्त्रवातिकव्याख्या। ॥ न्यायमुधाख्या ॥ ॥ श्रीमद्भट्टसोमेश्वरविरचिता ॥ आनन्दात्मनि विश्ववैभवभवाविर्भावसम्भावितः । स्वेच्छाधीसचिवः पुरन्दरपुरीशानः स्वयं खेलति ।। तत्कारुण्यकटाक्षकुड्मलकलाकान्तोदयापूर्णितः। स्वात्मानन्दसुधाम्बुधिर्विजयते धीमन्महेन्द्रामृतः॥१॥ यद्यप्यूषरमुप्तमेत्य गुरुणा बीजम्महेन्द्रामृतम् । क्षेत्रश्चित्रमनेकधोरु फलति प्राप्यात्मनो ऽनय॑ताम् ॥ यन्मेनुतवाङ्निरन्तरसुधासारैः समासिञ्चितम् । सो ऽयं सर्वसुहृज्जनार्दनजगज्जीयाज्जगन्मण्डनम् ॥ २॥ उमानन्दनमाराध्य शारदामीश्वरं गुरुम् ।। कृत्स्नशास्त्रप्रसादेन व्याख्यास्ये तन्त्रवार्तिकम् ॥ ३ ॥ आम्नायस्य क्रियार्थत्वादानर्थक्यमतद- र्थानां तस्मादनित्यमुच्यते ॥ १ ॥ अत्र भाष्यकारेणार्थवादानुदाहृत्य किं कंचिद्धर्म प्रमिमत उत नेति विचारितम् । तदयुक्तम् । प्रथमपादएव सर्वाप्रामाण्यकार- णनिरासेन सर्वात्मकवेदप्रामाण्यस्य सुस्थापितत्वात् । अथ सा- ध्यसाधनेतिकर्तव्यतान्वितभावनाप्रतिपादकपदसमुदायमात्रेण श्रेयः साधनरूपधर्मप्रमितिसिद्धेस्तदतिरिक्तानां वायुक्षेपिष्ठादिपदानां ध- मप्रमितावनुपयोगमाशङ्कय उपयोगोऽत्रोच्यते । ततो विधिमन्त्रना- दूमौ नौको २ पु. न भवत । परिग्रहण सं०...3619 8619..... प्रन्थालय, के, उ. नि. शि. संस्थान? स २ न्यायसुधायाम्। - मधेयान्यप्युदाहियेरन् । धर्मप्रमित्यनुत्पादकत्वेम चानुपयोगत्वे अर्थवादादेर्दोषाभावे ऽपि प्रामाण्यायोगादयमेव विचारः प्राग्भावी स्यात् ।चोदनासूत्रप्रतिज्ञातप्रामाण्यस्य विधिभागस्य प्रसिद्धधर्मसंयो- गस्य परतः प्रामाण्यनिरासेन प्राक् प्रामाण्योक्तावर्थवादादिविचा- रो प्रतिज्ञातविषयत्वादसङ्गतः स्यादित्याशङ्काचतुष्टयं निराकर्तुमाह (१ पृ०) * सिद्धप्रमाणभावस्येति * तत्रार्थवादार्पितप्राशस्त्यमन्त्र- स्मारितनामधेयावच्छिन्नधात्वर्थानुरक्तभावनाविषयप्रवर्तकपरत्वेन चोदनाशब्दस्य मन्त्रार्थवादाधुपेतमहावाक्यविषयत्वाजिज्ञासासू- श्रेण चाध्ययनविधिदृष्टार्थताप्रतिपादनेन सकलवेदप्रामाण्योपक्षे- पादौत्पत्तिकत्वादियुक्तिसाधारण्याच्च वेदमात्रप्रामाण्यस्य प्रतिज्ञापर- त्वे ऽपि यागेन वर्गमित्यादिसाध्यसाधनभावप्रतिपादकशब्दाभावे- न धर्मप्रमित्यशक्तत्वादसम्भवदर्थविषयत्वमाशङ्ख्य धर्मप्रमितिश- क्तिप्रदर्शनार्थत्वेन चोदनात्वसङ्कीर्तनोपपत्तेरुपदेशो हि भवतीति चोदनाख्योपदेशत्वस्य हेतुत्वेन भाष्यकृता व्याख्यातत्वाद्वेदवाक्या- नि धर्मे प्रमाणं चोदनात्वादिति प्रतिज्ञासूत्रार्थावधारणादर्थवादा- दिप्रामाण्यविचारस्य प्रतिज्ञासङ्गतिनिरूपणार्थ वेदग्रहणं, सिद्धे ऽपि सामान्यतो वेदप्रमाण्ये तद्विशेषस्थार्थवादादेस्तदसंभवाशङ्कानिरा- सार्थत्वेनास्य विचारस्यापौनरुत्त्यनिरूपणार्थ विवेककीर्तनम् । सि- द्धग्रहणेन चैतदर्शयति । प्रभाकरणत्वं प्रमाणत्वम् । न च प्रथमे पादे धर्मप्रमात्पत्तिसिद्धयङ्गीकारेण तत्र वेदस्य करणत्वमुच्यते । प्रत्यक्षादेस्तत्करणत्वनिषेधाच्छब्दस्य च प्रमाणान्तरादृष्टे ऽर्थे करण- त्वासिद्धेः तस्मात्कारणाभावेन धर्मप्रमानुत्पत्तिमाशङ्कय कारणान्त- राभावे ऽप्याकाङ्क्षासन्निधियोग्यतासधीचीनपदार्थप्रतिपादनद्वारे- णापौरुषेयत्वात्प्रमाणान्तरानपेक्षस्यात एव निरस्तदोषाशङ्कस्य वेद- स्य कारणत्वोपपत्तेधर्मप्रमारण्यकार्यसद्भावस्तत्र प्रतिपादितः, इह त्वर्थवादादिरूपस्य वेदभागस्य तत्राकरणत्वमाशङ्कय करणत्वं प्रति पाद्यतइति स्पष्टमेवापौनरुक्त्यं करणनिरूपणार्थे तु प्रथमपादे सत्यु- क्तप्रमाणभावस्थेत्यवक्ष्यताधर्मप्रमाया वेद्कार्यत्वप्रतिपादनेन त्वर्था- सिद्ध्यदपि वेदस्य करणत्वं संमुग्धरूपेणैव सिध्येन्नार्थवादादिवि- शेषरूपेणेति प्रतिपादयितुं सर्वश इत्युक्तम् । अर्थवादादिप्रामाण्या- सिद्धौ सर्वात्मकवेदप्रामाण्यासिद्धे. संमुग्धाभिप्रायः सर्वशब्दो व्या- ख्येय । परतः प्रामाण्यादिद्वारा अप्रामाण्ये सकलस्य वेदस्य निरस्ते ऽप्यर्थवादादीनामबोधकत्वेनाप्रामाण्यमाशङ्कय धर्मबोधोपयोगित्व- मिह प्रतिपाद्यमित्युपयोगशब्देनोक्तम् । अर्थवादोदाहरणं त्वामर्थ- .

प्रथमाध्यायस्य द्वितीयः पादः। ३ क्यमतदर्थानामित्यविशेषश्रवणात् प्रदर्शनार्थ द्वारप्रविशेषप्रतिपाद- ने चार्थवादमात्रस्य द्वारविशेषो त्राधिकरणे प्रतिपाद्यतइति दर्श- यितुम् । सामान्यतस्तुत्युपयोगित्वासिद्धौ लाक्षणिकस्तुत्यादिद्वार- विशेषस्याशक्यकरूपनत्वात्पूर्व सामान्योपयोगे विचार्ये । सर्वेषामे- वोदाहरणत्वमिति विध्यर्थवादमन्त्राणामित्यनेनोक्तम् । सिद्ध च धर्मप्रमाख्ये कार्य कियतो वेदभागस्य तत्र कारणतेति विचा- रावसरो भवतीत्यधुनेत्यनेनोक्तम् । तस्मात्सर्वमदुष्टं श्लोकं व्या- चष्टे * सामान्यत इति * यद्वा प्रतिपादितमपि सकलवेदप्रामाण्य- मर्थवादादिष्वसम्भवादाक्षिप्येह समाधीयते इति । अन्यथा श्लो- कं व्याचष्टे * अवधृतप्रामाण्यस्येति * अस्मिन्व्याख्याने सामस्त्य सर्वशब्दार्थः । विध्यर्थवादमन्त्राणामिति तस्यैव विवरणम् । वि- ध्यादिग्रहणस्योपलक्षणत्वाद्वयाख्याने नामधेयग्रहणम् । इह हि द्विपळविचारः । पूर्व तावदेषामक्रियार्थत्वेनानुपयोगमाशङ्कयाध्य- यनविधिवलाद्विधिना त्वेकवाक्यत्वादिति सूत्रावयवेन तत्तुल्यं च साम्प्रदायिकमित्यनेन च सूत्रेण निराकृतं द्वारासंम्भवात् पुनरुज्जी- व्यार्थवादानां तावत् द्वारविशेषो ऽस्मिन्नधिकरणे चिन्त्यते । त- स्मादनेन सूत्रेण सामान्यविशेषरूपेण पूर्वपक्षद्वयं तन्त्रेणोच्यते । आम्नायस्य तद्भूतानां क्रियार्थेन समाम्नाथ इत्यनेन न्याये- न क्रियार्थत्वावधारणादर्थवादादीनां तदसम्भवादानर्थक्यम् । अथाप्यध्ययनविधिबलादेषां कथं चिक्रियार्थत्वं कल्पयितुमारभ्यते तथाप्यर्थवादानां तावद् द्वारासम्भवाद् दुःपरिहरमानर्थक्यमिति । भाष्यमप्येवमेव योज्यं सामान्योपयोगप्रतिपादनं विना विशेषोप- योगप्रतिपादनासम्भवस्यातो यावद्वेद एव पुरुषार्थतया सकलमा- त्मानं न प्रतिपादयति तावदप्रमाणमित्यत्र वक्ष्यमाणत्वात् । तद- भिधीयतइत्यादिपूर्वपक्षभाष्यं व्याचष्टे * तत्रेत्यादिना प्रसिद्धमे- वातदर्थत्वमित्यन्तेन * विध्युपयोगस्यापि पूर्वपक्षिणोऽनिष्टत्वात्सा- ध्यसाधनेतिकर्तव्यतान्वितभावनाप्रतिपादकपदसमूहपरो विधिश- ब्दः । चोदनोपदेशशब्दावपि तत्परौ पूर्वपक्षी मन्यते । तद्वैतदन- न्थपर्यालोचनयार्थवादादीनामेवेहोपयोगश्चिन्त्यते । पूर्व तु विधिग्र- हणं न केवलं विधेरेवोपयोग किं त्वर्थवादादीनामपीत्येवं नेयम् । धर्माधर्मोपयोगिविचारोपक्रमाद्धर्माधर्मविषयमेव प्रामाण्यमभिप्रेतं विधिनिषेधयोरेव चोदनोपदेशशब्दाभ्यां धर्माधर्मप्रामाण्याभिधाना- दतद्रूपस्यार्थवादादेर्न तत्र प्रामाण्यं नाप्यन्यत्र तद्भूतानां क्रियार्थेन समाम्नाय इति सर्वस्य समाम्नायस्य क्रियार्थत्वावधारणेन भूतान्धा- न्यायसुधायाम्। ख्यानपरत्वानभ्युपगमादित्यर्थः । न चैतत्प्रक्रियामात्रं किं तु न्या- ग्यमेवेति यथाक्रम फक्किकाद्वयेनोक्तम् * उक्तमवति * अर्थे ऽनु- पलब्धे इत्यत्रेत्यर्थः। तदनेन क्रियेत्यादिः समामनन्तीत्यन्तोभाष्या- घयवो व्याख्यातः तद्यानीत्यादिभाष्यं व्याख्यातुमतश्चेत्याधुक्तम् । कं धर्म प्रमिमीरनिति काक्वा सूचितो ऽर्थो यथाश्रुतेत्यादिना प्र. काशितः । एवं सर्वेषामनुपयोगित्वे पूर्वपक्षिते अध्ययनविधिसाम- ोपवृहितसिद्धान्तसूत्रगततुशब्दोपक्षिप्तं तुल्यं साम्प्रदायिकसूत्रोप- पादितपुरुषार्थानुबन्धित्वनिर्वाहाय अध्याहारादिनापि क्रियार्थत्वं यथासम्भवं कल्प्यमिति पूर्वविचारसिद्धान्तनिरूपणार्थमथोच्येते- त्यादिभाष्यं तद्वयाचष्टे*अथ कया चिदिति* द्वारविशेषानिर्धारणेन पुनः प्रत्यवस्थानार्थ स कल्प्यमान इत्यादिभाष्यं तद्वयाचष्टे एवम- पीत्यादिना ऽनर्थक्यमित्यन्तेन क कल्प्येतेत्यनेनोक्तमनवधारणं दयितुमुद्भाष्यः प्रतिषेधाध्याहारोपन्यासः चिरवृत्तेष्टवियोगध्या- नादिना रोदनादिशक्यताशङ्कापरिहाराय शास्त्रविरोधोपन्यासः रोदनवपोत्खननदिङ्मोहेषु यथाक्रमं मङ्गलाचारात्मरक्षणप्राङ्मु- खभोजनशास्त्रविरोधः । अश्रुणश्च रजतपरिणामविरुद्धसद्यःशोष- दर्शनाद दृष्टविरोधः पुरास्य सम्वत्सराद् गृहे रांदनं भवतीत्यत्र फ- लाभावमादिशब्देनाह । धर्माधर्मपरत्वाभावे ऽपि सिद्धार्थकथनेना- नर्थक्योपसंहारानुपपत्तिमाशङ्कयोक्तम् * यत्तु भूतान्वाख्यानमात्र- मिति * क्रियतइत्यस्मिन्नर्थे प्रत्ययेन विविक्षिते तदनुग्रहार्थे पाकं पचतीतिवत् प्रतिपाद्यतइतिधातुप्रयोगः । वायुक्षेपिष्ठादिवाक्यानां स्वार्थसत्यत्वे ऽपि अनुवादमात्रत्वाद् धूमादिवाक्यानां च खरूपे ऽप्यसत्यत्वादानर्थक्यम् । एवमपि प्राशस्त्यादिलक्षणया क्रियार्थत्व- सम्भवादानर्थक्योपसंहारो न युक्त इति सिद्धान्तिमतमाशङ्कयाह । * विध्येकवाक्यत्ववशेन चेति * तत्र निरासहेतुमाह * न चेति * लक्षणयकवाक्यत्वकल्पने अन्योन्याश्रयापत्तेरितिभावः । श्रीता- र्थाभिधानं तु भिन्नवाक्यत्वेऽप्युपपन्नमित्याह * भिन्नैरपीति * न च निष्प्रयोजनत्वप्रसङ्गभयेन प्रतीयमानविषयत्यागेन विषयान्तरक- ल्पनोचिता प्रत्यक्षादावदर्शनादित्याह * न चेति * ननु अस्तु प्र- माणान्तरे तथाशब्दे तु प्रयोजनवत्त्वाय श्रीतार्थत्यागेनार्थान्तरकल्प- ना युक्ता बहुक्षीरादिवाक्ये तथा दर्शनादित्याशङ्कयाह * सर्वाण्ये- वेति * सर्वमेव वस्तु स्वविषयएव व्याप्रियते न घूर्णनाभः कदा चित्पदसूत्रं करोति । लौकिकवाक्ये तु प्रमाणं प्रत्यक्षादेरन्यथात्वक- ल्पनम् । तदभावे तत्रापि श्रौतार्थानतिक्रमादिति भावः । तार्किक- प्रथमाध्यायस्य द्वितीयः पादः। स्थितिपर्यालोचनयापि न प्रयोजनानुसारेण विषयकल्पनोचितेत्याह * तेनैवेति *प्रयोजनवत एव प्रमेयत्वे तस्य हानापेक्षानुपपत्तेः प्रमा- णानां त्रैफल्यं न स्यादित्यर्थः । अप्रतीयमानस्य च प्रयोजनवत्तया ज्ञातुमशक्यत्वात्तद्विषयत्वमशक्यनिरूपणमित्याह * अपि चेति * प्रयोजनानुसारेण प्रमाणविषयकल्पनं निराकृतमुपसंहरति * तस्मा- दिति * प्रमातृणां प्रयोजनवत्पमित्सायामपि प्रमाणशक्त्यनियमा- त्प्रमेयानियम इत्याह * न हीति * पुरुषाधीने ऽपि च चक्षुरादि- व्यापार प्रमेयानियमात्वतन्त्रे वेदे का वार्तेत्याह * यत्रापीति * प्रमाणान्तरस्य प्रयोजनवद्विषयत्वानियमे ऽपि वेदस्य शास्त्रत्वेन हितोपदोशत्वात् प्रयोजनवद्विषयत्वनियमेन भाव्यमित्याशङ्कयाह * न चेति * कुतः प्रथममित्यपेक्षिते परीक्षात इति दर्शयितुमाह * अयमेव हीति * शास्त्रत्वस्यैव प्रागसिद्धोरिति भावः । न च वे- दस्य निष्प्रयोजनार्थाभिधायित्वं तथाभूतस्य चादरणीयत्वं पर्यनुयो- ज्यामित्याह * तच्चति * उभयत्र यथाक्रमं कारणमाह * सर्वेति * उत्तरकालतामुपपादयति * न हीति * परीक्षणेन हि पुरुषाधीन- प्रामाण्यापत्ते ध्येत्रा ऽऽदरमात्रेण प्रयोजनवत्त्वनिश्चय इत्याह *प- श्चादिति * यथा दर्शपूर्णमासप्रकरणाधीतानामपि पुरुषाद्यनुम- न्त्रणमन्त्राणां न तादर्थ्यनिश्चय इति दृष्टान्तार्थः । न चाग्निहोत्रा- दिवाक्येषु प्रयोजनवद्विषयत्वदर्शनाद्वेदवाक्यत्वेन वायुक्षेपिष्ठादिवा- क्येष्वपि तथानुमानं युक्तम् । प्रतीतिविरोधादित्याभप्रायेणोपसंह रति * तस्मादिति * इह च यानि त्वतिरिक्तार्थान्यर्थवादमन्त्रनाम- धेयानुपातीनीति सर्वेषां पूर्वनिर्दिष्टानां विध्यकवाक्यत्ववशेन चैते- षामित्यादिभिर्निर्दिष्टप्रतिनिर्दिष्टकैःसर्वनामभिः परामर्शाद धूम एवा- ग्नोर्दिवेत्यादीनामपीत्यत्राप्यादिशब्दस्योपक्रमवशेन सर्वविषयत्वा- सहशविषयत्वे चार्थवादानामपि सर्वेषामपरामर्शापत्तेस्तुल्यहेतु- त्वेन चैतावता ग्रन्थेन सर्वांनुपयोगप्रतिपादनपरतयैतद्भाष्यं व्या- ख्यातमिति गम्यते । मन्त्रेष्वपिरच प्रयोगविध्येकवाक्यत्ववशेना १ अध्ययनोत्तरकालीनपरीक्षणन अध्येत्रादरमावेण वा न प्रयोजनववनिश्चय इत्याह परीक्षणैन हौति प्रथमपक्षे हेतुमाह पुरुषाधीनप्रामाण्यापचेरिति हितोयपक्ष वार्तिकक तव दृष्टान्त उक्त. यथा पूषाद्यनुमबाणा दर्शपूर्णमासप्रकरणपाठे सत्यपि न तदङ्गत्यनिश्चय- स्तथादरमाचेण न प्रकरण न न च लिगनिश्चयादित्यर्थः । २ लक्षणया यिव्य कवाक्यत्वशतया अर्थवादभावपरत्वम्भविष्यतीत्याशमाह मन्त्रषवपी- ति अर्थवादानामिव समभिव्याहारलक्षण कवाक्यत्वाबाधेपि प्रयोगविध्य कवाक्यत्वमस त्येवेति- चाइ प्रयोगेति लिगसमवायाहिधिममन्वनामधेययो.--ब्रोहीनवहन्तीत्यादौ प्रक्रियार्थत्वादि- तिहेतीः स्तुत्यत्वादितिभावः ।

६ न्यायसुधायाम्। पूर्वसाधनरूपलक्षणा सिद्धान्तिनो ऽभिप्रेतैवेति न तद्वशेनाप्यर्थवा- दमात्रपरत्वनिश्चयः । व्याख्यातॄणां त्वर्थवादमात्रपरत्वेनेमं ग्रन्थं व्याचक्षाणानामभिप्रायं न विद्मः । इदानीमेतदेव भाष्यमर्थवादमात्रा- नुपयोगप्रतिपादनपरतया व्याचष्टे * यो ऽपि चेति * सर्वानुपयो- गसाधारणोपपत्त्यनुकर्षणार्थश्चशब्दः । क्लेशेनेत्यप्रतीयमानैकवाक्य- ताकल्पनेनेत्यर्थः कल्प्येतेत्यनेनैतदर्शयति न तावत्स्तुतिनिन्दे एव निरूप्येते गुणदोषवत्त्वप्रतिपादनं हि स्तुतिनिन्दाशब्दाभ्यामभिप्रेतम् । तत्र यदीष्टानिष्टफलत्वं विधिप्रतिषेधविषयत्वं वा विशिष्टोतकर्त- व्यताकत्वं१वा गुणदोषवत्त्वं तदन्यतः सिद्धत्वान्नार्थवादापेक्षं न च वायुक्षेपिष्ठत्वादेर्गुणदोषवत्वं सर्वार्थवादाननुवृत्तेः श्रौतत्वाच्च तस्य लाक्षणिकस्तुतिनिन्दार्थत्वसिद्धान्तभङ्गापत्ते । न चान्यौ गु- णदोषौ निरूप्यते।प्ररोचनार द्वषजनकत्वेन च स्तुतिनिन्दयोरर्थवत्वं प्रयोजनवत्त्वमिष्यते तत्र न तावदिच्छानिच्छे तच्छब्दवाच्ये विधि- निषेधावगतेष्टानिष्टफलत्वादेव तत्सिद्धेः । प्रवृत्तिनिवृत्तिप्रतिबन्ध- कविपरीतत्वेनालस्योत्साहभङ्गो ऽपिश्न । प्रवृत्तिनिवृत्तिहेतुभूतवि- धिनिषेधसिद्धत्वात्तस्मान्न स्तुतिनिन्दाख्यः कश्चिदर्थः । न घसा- वर्थवादगम्यो नापि तत्प्रयोजनमिति। एवं सिद्धान्त्याभिमतविधि नि- षेधापेक्षितप्ररोचनाद्वेषजनकस्तुतिनिन्दासमर्पकत्वेन विधिनिषेधा- भ्यां ग्रहणे निराकृते यदि भावनान्तर्गतिः स्यात् ततस्तद्वारे- ण विधिनिषेधग्रहणात् पुरुषार्थानुबन्धित्वं भवेत्तञ्च नाशङ्कयमे- वति । अगम्यमानैकवाक्यत्वेष्वर्थवादेषु लाक्षणिक- स्तुतिनिन्दार्थत्वकल्पने दुःपरिहरमितरेतराश्रयत्वमित्याह * अ- पि चेति * पतञ्च पूर्व सर्वानर्थक्याय योजितमपीदा- नीमर्थवादानर्थक्याय प्रकटितमित्यपौनरुक्त्यम् । अर्थवादान- र्थक्यमेवोपसंहरति * तस्मादिति * तस्मादनित्यमुच्यते इत्ये- तत्सूत्रावयवव्याख्यानपरं तस्मादित्यादिभाष्यं स्पष्टत्वान्न ख्यातम् । वृत्तिकारान्तरैरेतत्सूत्रमर्थवादाप्रामाण्येन तदेकवाक्यत- या साकाङ्क्षत्वाद्विध्युद्देशस्याप्यप्रामाण्यापत्तेः।प्राभाकरैरपि सकल- वेदाप्रामाण्यपरतया व्याख्यातं तन्निराकरणार्थ स एष इत्यादिभा- ध्यम् । तत्र पूर्वपक्षे ऽर्थवादानां भिन्नार्थत्वेनैकवाक्यत्वायोगादेकदे- भावः १ एकत्र प्रयाजादि परन खडगीद्य मादि । २ नापि स्तुतिनिन्दयी प्रयोजनमित्याह प्ररीचनेति । ३ न गुणदोषवत्त्वमिव्धनुषा ।

प्रथमाध्यायस्य द्वितीयः पादः । शशब्दो न युक्त इत्याशङ्कयाह * स एष इति * व्याख्यानान्तरमा- हैं * अथ वेति * एतच्च विभवार्थ न निर्धारणइति षष्ठीसमा- सनिषेधात्सम्बन्धमात्रषष्ठयां च मध्यशब्दानुपपत्तेः। कर्मधारयेऽप्ये- कदेशशब्दस्योपसर्जनत्वेन पूर्वनिपातापातादवयववाचित्वेन च कतिपयार्थत्वाभावात् । नन्वित्यादिवृत्तिकारान्तराभिप्रायविव- रणार्थ भाष्यं तस्योत्तरं नैवमित्यादि तस्यार्थः न तावत्सर्वो विध्यु- देशो ऽर्थवादापेक्षा शुद्धस्यापि वसन्ताय कपिञ्जलानालभतइत्यादे- दर्शनात्कश्चिदेव तु वायव्यं श्वेतमालभेतेत्यादिस्तदपेक्षस्तस्यापि वि- धिविधेयसम्बन्धरूपावान्तरवाक्यार्थे ऽर्थवादपदनिरपेक्षस्य स्तुति. स्तुत्यसम्बन्धात्मके महावाक्यार्थरूपे ऽथान्तरएव तदपेक्षा ततश्चै- कदेशाक्षेपरूप एव तेषामाक्षेपः । अर्थवादाप्रामाण्येन महावा- क्यार्थविवक्षायामप्यवान्तरवाक्यार्थविवक्षा दुर्निवारेतिभावः । तत्र कश्चिदिति काक्वा सूचितमर्थ दर्शयति * तोति * भाज्यार्थ व्याचष्टे * यान्यपीत * विधिप्रत्ययशून्येषु तर्हि समस्ताक्षेपः स्या- दित्याशङ्कय सिद्धसाध्यतामाह * यानि विति * यद्वा ऽनेनावृ- त्या खण्डशो भाष्यं व्याख्यायते कश्चित्पदसमूहो नैवं भवति नाप्रमा- णत्वेन शङ्कयो भवतीत्यर्थः । कश्चित्वर्थवादपैदः संयुज्यार्थान्तरे वर्त्तते तत्र तान्यर्थवादपदानि केवलान्याक्षिप्यन्ते । पुनस्तानीत्या- दि शुद्धार्थवादविषयत्वेनैव व्याख्यातं यानि केवलान्यर्थवादपदानि तच्छब्दनिर्दिष्टानि तानि समस्तान्याक्षिप्यन्तइति । शास्त्रदृष्टविरोधाच्च २ अत्र भाष्यकारेण स्तेनं मन इत्याद्युदाहृत्य एवं जातीयकानां धर्म प्रति अप्रामाण्यं भूतानुवादादित्युक्तम् । तदेवं जातीयकानि कं धर्म प्रमिमीरनित्यनेन गतार्थत्वात्पुनरुक्तमित्याशङ्कय व्याचष्टे * वाङ्मनसयोरिति* अनेनैवं भाष्यं व्याख्यातं भूतशब्दः परमार्थवा- ची यादृश परमार्थतः प्रछन्नरूपत्वादौपचारिक मनसस्तेनत्वं प्रा- यिकं च वाचो ऽनृतवादिनीत्व तादृशानुवादमालोच्य धर्म प्रत्यप्रा. ण्यम् अतथाभूतमुख्यर रूपस्तेनानृतवादिनीत्वकीर्तने तु खार्थे ऽप्यप्रामाण्यमिति भूतानुवादादिति विशेषणोपादानसामर्थ्यात् सू- चितम् । ततश्च पूर्वोदाहरणेष्वतीतार्थकीर्तनेन योग्यानुपलब्ध्यभा- १ पूर्वोक्तावपरीतमितिभाव. २ मुखरूप २ पु पा चातुर्मास्य साकमेधाख्ये पण महापित्यष्टावित्यर्थ न्यायसुधायाम्। वात्स्वार्थासत्यत्वानिश्चये ऽपि धर्म प्रत्यप्रामाण्यमुक्तम् । इह तु खार्थे ऽप्यसत्यत्वमित्यधिकार्थत्वादपौनरुक्त्यमिति । अनेन चेहोदा- हरणे पूर्वसूत्रमेवं योजितम् । मनसस्तेनशब्दवाच्यपरखापहा- रित्वाभावाद्वाचश्चानुतवदनकर्तृत्वाभावान्मुख्यरूपस्तेनानृतवादिनी- त्वकीर्तने खार्थासत्यत्वादानर्थक्यमभिधेयशून्यत्वं यथादृष्टार्थानु- वादे ऽप्यक्रियार्थत्वादानर्थक्यं निष्प्रयोजनत्वमिति । अध्याहा- रादिभिस्तु क्रियार्थत्वकल्पने प्रतिषेधशास्त्रविरोधापत्तेरानर्थक्यमेव युक्तमिति शास्त्रविरोधसूत्रव्याख्यानार्थ विपरीणामादिभिरित्या- दिभाष्यं तद्वयाचष्टे * अथ त्विति * न चेत्यादिभाष्यमाशङ्कापूर्व व्याचष्टे * तत्रेति * अत्राशङ्कते * ननु चेति * पितृयज्ञे? ऽनिदेशप्राप्तस्य होतृवरणस्य न होतारं वृणीतइति निषेधः श्रूयते दर्शपूर्णमासयोश्चानारभ्य विधिप्राप्तस्य ये यजामहस्य नानुयाजेषु य जामहं करोतीति । तत्रानयोर्नित्यं बाधो विकल्पेन वेति निरूपणार्थ नज अयं प्रतिषेधार्थः पर्युदासार्थो वेति चिन्तायां पूर्वपक्षयिष्यते । श्रुत्या नञः प्रधानभूतविधायकान्वयेन निषेधार्थत्वं प्रतीतमपि ने- क्षेतेत्यत्र व्रतशब्दसामानधिकरण्यादनङ्गीकृत्योपसर्जनीभूतधात्व- र्थान्वयेन पर्युदासोऽङ्गीकृत. न त्विह तथा विकल्पपर्युदासे ऽप्यपरि- हार्यः तस्यापि पर्युदसनीयप्राप्तिसापेक्षत्वात् । अन्यथा न सौम्ये ध्वर इत्यस्यापि पर्युदासत्वापत्तेः । किं चान्यत एव तदन्येषु प्रा- तेस्तदन्यमात्रसङ्कोचार्थत्वे च पर्युदासोपसंहारयोरभेदापत्तेर्न पर्यु. दासाख्यविध्यन्तरोपपत्ति , तस्मात्प्रतिषेध एवायं ततश्च विहितप्रति- षिद्धत्वाद्विकल्प इति तत्र प्राप्तिसापेक्षस्यापि सुरापानादिनिषेधव- द्विशेषनिष्ठत्वाद् बलीयस्त्वं स्यादित्याशङ्कय विशेषनिष्ठेनापि निषेधे- नात्मलाभायोगापत्तेः सामान्यरूपस्यापि विधे. स्वविषयादपने तु मशक्यत्वादनपनीतस्य च शास्त्रस्यात्यन्तबाधायोगाद्विकल्पोदुःप- रिहर इत्युक्तम् । न तुल्यहेतुत्वादुभयं शब्दलक्षणमिति सिद्धान्तस्तु कर्तव्यत्वप्रतिपादानात्मकविधिविरोधित्वेनाकर्त्तव्यत्वप्रतिपादनात्म- कनिषेधे जाग्रति विकल्पापत्तेस्तत्परिहाराय पर्युदासो ऽत्राङ्गीक्रि- यते तस्य विषयसमर्पणेनानुकूलतया विकल्पानासञ्जकत्वात्तन्मा- प्रसङ्कोचनार्थोपसंहारात्तदन्यमात्रसङ्कोचार्थस्य पर्युदासस्य स्पष्ट वै- लक्षण्यामित्यनवा परिहरति * सत्यमिति * दृष्टविरोधादीन्वक्ष्य , १ अन्यत एव पर्यु दासशब्दादेव पर्युदसनीयान्येषु पयंदसनी यान्यमाच यत् यागायाग- साधारणतम्यसबीच यागमावन्तत विशेषवाक्येन आज्यभागौ यमतीत्यादिना क्रियवहत्यर्थ प्रथमाध्यायस्य द्वितीयः पादः । । माणान्सर्वान्हेतूनाभिधेयशून्यरूपानर्थक्यप्रतिपादनपरतया सामान्य- तो व्याचष्टे * अतः परमति * अत्र भाष्यकारेण धूम एवाग्नेर्दिवा ददृशे नार्चिरित्यादिदृष्टविरोधोदाहरणं दर्शयित्वा तस्मान्नैषावधा- रणा सिध्यतीत्युक्तम् । तद्धम एवार्चिरेवेत्यवधारणानुपपत्त्युपसंहा- रार्थत्वेन तावद्वयाचष्टे * रात्रि दिवमिति * यद्वैतवधारणद्वया- नुपपत्त्युपसंहारस्य तस्मात् दृष्टविरुद्धमित्यनेनैव सिद्धत्वात्तदुपपा- द्यस्य दिवाग्निरादित्यं गतो रात्रावादित्यस्तमित्यवधारणद्वयस्या- सिद्धिप्रतिपादनार्थमेतद्भाष्यमित्याह * अथ वेति * खरूपपरत्वस्य वा सिद्धान्तिनो ऽनिष्टत्वात्तत्रासत्यत्वे ऽपि न कापि क्षतिरित्याश- ङ्कय स्वार्थासत्यत्वे निरालम्बनस्तुत्यनुपपत्तिं तदनुपपत्त्या वा त- कल्प्यमन्त्रविध्यनुपपत्तिमेकदेशाप्रामाण्ये वा समस्तवेदप्रामाण्या- वधारणानुपपत्ति प्रतिपादयितुमेतदित्याह * ततश्चेति * एतच्च खासत्यत्वप्रतिपादनस्य पूर्वपश्यभिप्रेतधर्माप्रामाण्योपयोगित्व- प्रदर्शनार्थं व्याख्यानत्रयं न त्वनन्तरानिर्दिष्टस्य स्तुत्यादिरेवेति सर्वनाम्ना निर्देशो युज्यते । एकैकोदाहरणे चोभयविरोधव्याख्या- सिद्धेरुदाहरणद्वयमनर्थकम् । अथ परिहारवलक्षण्यादुदाहरण- द्वयम् । तथापि शास्त्रविरोधोदाहरणद्वयमुत्वा दृष्टविरोधोदाहरणं वाच्यं व्युत्क्रमे किं कारणमित्याशङ्कयाह * शास्त्रेति * प्रायादि- त्यनेनानृतवादिनीत्वालम्बने बाहुल्ये ऽभिहिते धूम एवेत्यवधारणे पि भूयस्त्वारव्यस्य बाहुल्यस्यालम्बनत्वेन बुद्धिस्थत्वादनृतवादि- नीत्वोदाहरणपरिहारानन्तरं थूमोदाहरणपरिहारे ऽपि भूयस्त्वशब्दे- नोक्तनार्चिरित्यदर्शनोक्त्यालम्बने च समीपगमनक्लेशनिबन्धने दुर्शे- यत्वे दुरशब्देनोक्ते ब्राह्मण्याज्ञानोक्तावपि स्त्रयपराधनिबन्धनस्य दु- ईयत्वस्यालम्बनत्वेन बुद्धिस्थत्वात्तदनन्तरं परिहार इति परिहारक- मकारणम् । परिहाराणां सूत्रक्रमेण भेदेन चेति विग्रहः । उदा- हरणानेकत्वकारणत्वेन परिहारभेदोक्तिः। न चैतद्विग्न इत्यत्राक्रि- यार्थत्वादप्रमाणमिति भाष्यकारेणोक्तं तत्सिद्धान्त्यभिमतस्तुत्यर्थत्व- निराकरणपरतया व्याचष्टे * न चैतदिति * आर्षेयप्रवरणशब्देनात्र प्रवरे प्रक्रियमाणे देवाः पितर इति ब्रूयादित्यायवरणानुमन्त्रणवि- धिरभिप्रेतः तेन चहोदाहरणे ऽनुमन्त्रणक्रियास्तुत्यप्रतीतेरानर्थक्य- मित्याचं सूत्रं योजितम् । तदेवोपपादयति * न हीति केन चिदंशे- नेति * विधेयस्तुत्यंशेनान्यानिन्दांशेन वेत्यर्थ. । यद्वा दृष्टविरोधि- त्वेनैव क्रियास्तुत्यर्थत्वासम्भवादानर्थक्यमनेनोक्तमित्येतदेवभाष्य- मन्यथा व्याचष्टे * न चेति * अथायमर्थ इत्यनेनानर्थक्यएव दृष्टवि- न्यायसुधायाम्। रोधो हेतुरुक्तः तद्वयाचष्टे * न चेति * चोदयति * कथं पुनरिती ति । शास्त्रेणैवेति * सवर्णीयां •खभार्यायामुत्पादितः सवर्ण एवासवर्णायां मूर्धावसिक्तादिः । परभार्यायां जीवत्पतिकायां मुण्डो विधवायां गोलकः । पुनश्चोत्कर्षापकर्षाभ्यामन्यतरवर्णाप- त्तिरित्यादिशास्त्रैकगोचरत्वान्न प्रत्यक्षगम्यमित्यर्थः । परिहरति * नायमिति * एतदेवाशङ्कापूर्वक विवृणोति * कथं पुनरिति * आशङ्किता स्वाभिप्रायमाविष्करोति * कस्मात्पुनरिति * सत्यपी- न्द्रियव्यापारे प्रतीत्यभावान्न ब्राह्मणत्वादेः प्रत्यक्षत्वं युज्यते । न चोत्पादकजातिज्ञानस्य सहकारित्वं सम्भवत्यात्माश्रयदोषापत्तेः।प्रा- गुत्पादकजातिज्ञानादाप्तवाक्यजनितं ज्ञान न प्रत्यक्षत्वनाशङ्कयमि- त्यनाख्यातग्रहणेनोक्तम् । यद्वानेन ग्रन्थेन ब्राह्मण्यादिजातिरपह्नू- यते । सपिण्डानुवर्ती विजातीयेभ्यो व्यावृत्त आकारो जातिन च क्षत्रियादिभ्यो व्यावृत्तो ब्राह्मणेष्वनुवृत्तः कश्चिदाकारावशेषो मा- तापितृसम्बन्धज्ञेनापि प्रतीयते । तस्माद् ब्राह्मणादिशब्दव्यपदेश्य- मातापितृसन्तानजन्यत्वौपाधिको ब्राह्मणादिशब्दो न जातिवचनः । सन्तानप्य चानेकविप्रकृष्टकालपुरुषव्यासङ्गिनः प्रत्यक्षेण ग्रहीतुमश- क्यत्वान्न तदुपाधिकस्य ब्राह्मण्यादेः प्रत्यक्षत्वं सम्भवतीति । आश- ङ्काभिप्रायं परिहर्ता दूषयति * शक्त्यभावादिति * अयमाशयः मा- तापितृसम्बन्धज्ञस्यापत्ये ब्राह्मण्यादिप्रत्ययस्तावत्सन्देहबाधरहितः । स्वसंवेद्यः न च निविषयः प्रत्ययो ऽस्तीत्युक्तम् । न चास्य सन्ता- नविशेषजन्यत्वं विषयः । निरालम्बनशब्दप्रयोगायोगेन जातिव्य- तिरिक्तस्य सन्तानान्तरव्यावृत्तस्य विशेषस्यासम्भवात् । न चास्म- द्राह्यद्वित्रिसन्तानमाने सन्तानः समाप्यते । येन सम्बन्धिविशेषे- णेव सम्बन्धः सन्तानिविशेषेण सन्तानो विशेष्टुं शक्यते । यथा चैकदेशावस्थिता वृक्षा एव वनशब्देनोच्यन्ते । तथोत्पाद्योत्पादकक्र- मेणावस्थिता. पुरुषा एव सन्तानशब्दवाच्याः न सन्तानाख्यं किं चिद्वस्त्वस्ति । तस्मात्सर्वेषु ब्राह्मणेष्वनुस्यूतं प्रत्येकसमवेतं ब्राह्म- णप्रत्ययविषयभूतं कि चिदवश्यमष्टव्यम् । यच्चाकारविशेषो न प्र- तीयतइत्युक्तम् । तत्र यद्याकारशब्देन संस्थानं मुद्रापरनामधयम- भिप्रेतं ततस्तस्य जातित्वानङ्गीकाराददोषः । ब्राह्मणप्रत्ययवेद्यस्तु धर्मविशेषो ऽनुभवसिद्धत्वान्नापह्नवमर्हति । वृक्षत्वाद्यप्यनुभवारूढरू- पातिरेकेण निरूपयितुमशक्यम् । शाखादिमद्रपस्य संस्थानात्मकत्वेन जातित्वाभांवात्संस्थानविशेषस्य हि प्रतिव्यक्तिविलक्षणत्वात्संस्थान- मात्रस्य त्वन्यजातीयेष्वपि समानत्वादवान्तरविशेषस्य चानिरूपणाद- प्रथमाध्यायस्य द्वितीयः पादः । यवविन्यासविशेषात्मकस्य संस्थानस्य निरवयवेष्वसंम्भवान्न संस्थाम- माकारमुद्रापरनामधेयं जातिरिष्यते । तस्मात्समानाकारेष्वपि पि- ण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादिजाति पह्नोतुं शक्यते । न चासौ शास्त्रस्य विषयः । प्रमाणान्तरागृहीतायां जाती अग्रहीत- सम्बन्धत्वेन ब्राह्मण्यादिपदार्थाज्ञानात् । ब्राह्मणादू ब्राह्मण्यां यो जा- यते स ब्राह्मण इतिवाक्यार्थानवधारणात्सम्बन्धाग्रहणादेव नानुमे- यत्वं सदृशानुपपद्यमानार्थाभावादुपमानार्थापत्त्यसम्भवात्पारिशेष्या- प्रत्यक्षत्वम् । उत्पादकजातिज्ञानात्तु प्रागप्रतीतेस्तस्य सहकारित्वं कल्प्यते जात्यभेदे ऽपि व्यक्तिभेदेन जातिव्यक्तिसम्बन्धभेदादुत्पाद- कव्यक्तिसम्बन्धितया जातिज्ञानमुत्पाद्य व्यक्तिसम्बन्धितया जाति- ज्ञाने कारणमित्यात्माश्रयत्वाप्रसङ्गः । सहकार्यपेक्षत्वे ऽप्यन्द्रिय- कत्वाव्याघाते दृष्टान्तमाह * यथोति * शब्दोल्लेखप्रतीतौ १ चाय दृष्टान्तः । आशाङ्किता तु वृक्षत्वस्य स्वरूपग्रहणे सहकार्यनपक्षणाद्वैष- माह * नैतदिति * शब्दोल्लेखप्रतीतावपि २ शब्दातिरिक्तसहका- र्यनपेक्षणादपरं वैषम्यमाह * अपि चेति * निमित्तान्तरग्रहणेनैत- हर्शयति । प्रतीत्यन्यथानुपपत्त्या कल्प्यमानमपि शब्दातिरिक्तस- हकारियाह्यात ब्राह्मणत्वादन्यत्कल्प्यम् । न चोत्पादकगतं ब्राह्म- णत्वमुत्पाद्यगतात् ब्राह्मणव्वादन्यादित्येकस्य कर्मकरणत्वायोगान्न तस्य सहकारित्वं युक्तमिति । उपवीतादीनां तु व्यभिचारात्सहका- रित्वमनाशङ्कयमेवेत्याह * नचति * अध्यापनादीनां ब्राह्मणस्यैव विधानाव्यभिचारमाशङ्कयाह * अध्यापनाद्यपीति * क्षत्रियवैश्यौ प्रतियुज्यतइति क्षत्रियवैश्यप्रतियोगिक्षत्रियवैश्यौ वा प्रतियोगिनौ प्रतिसंबन्धिनौ यस्येत्यर्थः। नन्वध्यापनादिकारीिण लोके निर्विचिकि- त्सब्राह्मणप्रत्ययदर्शनात् न क्वचिदव्याभचारमात्रणाप्रामाण्याशङ्का युक्तत्याशङ्कयाह * यस्त्विति * अध्यापनादीनां व्यभिचारित्वेन निर्विचिकित्सप्रत्ययोत्पादकत्वं न युक्तमितिभावः । परिहर्ता तून्मी- लितनेत्रस्य ब्राह्मणो ऽयमित्यसन्दिग्धाबाधितापरोक्षप्रत्ययोत्पत्ता- ह्मण्यप्रत्यक्षत्वापह्नवायोगादन्वयव्यतिरेकबलेनोत्पादकजातिज्ञानस्यो- कप्रकारण परिहृतात्माश्रयदोषस्य सहकारित्वकल्पनवोचितेत्यभि- प्रायेणाह * नैष दोष इति * वृक्षे त्ववैषम्यलक्षणो ऽध्यापनादिनि मित्तत्वासम्भवलक्षणो वा न दोष इत्यर्थः । यदि चान्यजातिग्रहणे . १ नम्वगृहीतसङ्गतिनापि समनस्केन्द्रियसन्निकर्षे वृक्षत्व रह्यतएव तत्त्वेन पर न स्ट- यत त्यत आह शब्दोल्लेखेति । वृक्षो ऽयमितिशब्दोल्लेखप्रतीतिरिव्यर्थ २ वृक्षत्व त्वज्ञाने शब्दातिरित सहकारि नापेक्ष्यते ब्राह्मण्ये लपेक्षुतइति वैषम्यमित्यर्थ. परिग्रहण सं० प्रस्थालय, के. उ. ति शि. संस्थ सारनाथ, वाराणसी , १२ न्यायसुधायाम् । सर्वनैकरूपं सहकारि स्यात्ततो न तद्वैषम्यस्य दोषत्वं शङ्कयतापि न त्वेतदस्ति आकृतिवादे तस्योपलक्षणं वापि क्वचित् केन चिदिष्यत इत्यादिना जातिविशेषेषु यथा दर्शनविलक्षणसहकाभिधानादित्या- ह * क्वचिदिति * रूपादेर्गुणाविशेषस्यैव सुवर्णत्वादिजातिग्रहणे स- हकारित्वदर्शनान्न जाते. सहकारित्वं कल्पयितुं युक्तमित्याशङ्कया- न्यत्रादृष्टमपीहेव प्रतीतिबलावश्यं कल्पनीयमिति दर्शयन्नुपसंहर- ति* तेनेति * प्रतीतिबलादेव यथासम्भवं प्रत्यक्षानुमानाद्यवगतायाः सहकारित्वकल्पनं नायुक्तमित्याह * अयं चेति * न च प्रत्यक्षावग- तमेव प्रत्यक्षजाने कारणमिति नियमो युज्यते चक्षुरादौ व्यभिचारा- दित्याह * न चेति * न च जातिस्मरणव्यवधानमात्रेण चक्षुषो ऽकारणत्वं वाच्यं प्रत्यक्षसूत्रे तत्र शब्दार्थसंबन्धामस्यादिना १ स्मर- णव्यवधाने ऽप्यपरोक्षप्रतीते. प्रत्यक्षत्वाभिधानादित्याह * आन्तरा- लिकति * न च मातापितृसंबन्धानभिज्ञाप्रत्यक्षत्वमात्रेण तदाभ- ज्ञाप्रत्यक्षत्वं विमनस्का यदा केचिदित्यादिना २ निराकृतत्वादित्याह * न चेति * ननु स्त्रीव्यभिचारशङ्कया मातापितृसंबधानिश्चयान्ना- पत्ये ब्राह्मण्यानश्चयः कस्य चिदपि मम्भवतीत्याशङ्कयाह * स्त्रयप- राधात्विति * स्त्रीणां खातन्त्र्यनिषेधाद्भादिभिः प्रयत्नेन रक्षणा- द्योग्यानुपलब्ध्या व्यभिचारशङ्कायाः परिहर्तुं शक्यत्वाद् दुर्ज्ञानत्व- मात्र मातापितृसंबन्धानभिज्ञस्य भवेन तु सर्वात्मना ज्ञानाभाव इत्य- र्थः । एतञ्च दुर्ज्ञानत्वादज्ञानवचनं गौणमिति स्त्रयपराधेनेत्यत्र भा- ज्यकारो वक्ष्यतीत्याह * इति खयमेवेति * न च दुर्ज्ञानत्वमात्रेणा- प्रत्यक्षत्वं शङ्कचं, गिरिशृङ्गारोहणजन्यस्यापि दूरस्थपदार्थज्ञानस्य प्रत्य- क्षत्वसिद्धरित्याह * न चेति * ननु स्त्रीणां प्रायण चञ्चलत्वद- र्शनान्न वै स्त्रैणानि सख्यानि सन्ति शालावृकाणां हृदयान्येता स्त्रियाः अशास्यं मन इति च वेदे ऽनुवादात्सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जत इत्यादिस्मृतेश्च । व्यभिचारखभावत्वावधारणाददृष्टव्यभिचा- राखपि स्त्रीत्वेन व्यभिचारो ऽनुमास्यते पलाशत्वेनेव वृक्षत्वामित्याश- ङ्कयाह * नचेति * स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनार्थोऽनुमाने कल्पनाशब्दः । न च निर्मूलकत्वेन लोकस्याप्रामाण्यं प्रयत्नेन रक्षणे योग्यानुपलब्धेर्मूलत्वसम्भवादिति दर्शायतुमाह * विशिष्टेन हीति * महाकुलीनानां पुरुषाणां स्त्रीरक्षणमेवात्मरक्षणं जायायां रक्ष्यमाणा यामात्मा भवति रक्षित इतिस्मरणात् । यद्वा दुष्कुलप्रसूतत्वं व्य १ स्म ते शब्दसबन्धौ माभूत्प्रत्यक्षता तयी. । तदप्रत्यक्षभावन न त्वर्थस्यापि वाते २ सत्र शब्दार्थसबन्धप्रमातु मरतोऽपि वा । बुद्धि. पूर्व ग्रहौतार्थसन्धानादुपजायते प्रथमाध्यायस्य द्वितीयः पादः । भिचारशीलत्वे प्रयोजकं न स्त्रीत्वमिति दर्शयितुं महाकुलीनत्वं स्त्रीणामुक्तम् । व्यभिचाराभावनिश्चयमेवाभियुक्तवृद्धव्यवहारण द्रढयति * अनेनैवेति * व्यभिचाराभावानिश्चये हि निर्मूलत्वात् पितृपितामहादिपरम्परालेखनात्मकसमूहलेख्यं व्यर्थ स्यादितिभा- । कुलपरीक्षापूर्वकेदानीतनपुरुषगतविवाहादिव्यवहारेणापि तमेव दृढयति * तथा चेति * एतावत्प्रयत्नान्वेषणे योग्यानुपल- ब्धिपूर्विकया लोकप्रसिद्ध्या व्यभिचाराभावनिश्चयान्न स्त्रीत्वमात्रेणा- दृष्टव्यभिचारासु व्याभिचारानुमानं युक्तमित्युक्तम् । इदानीमनुमीय- मानो ऽपि व्यभिचारो ऽनैकान्ततो वर्णासङ्करमापादयतीत्याह * न चेति * न च व्यभिचारोत्पन्नत्वाभावे ऽपि मातृव्यभिचारमात्रेणा- पत्ये वर्णसङ्करः शङ्कयः । सावोत्पत्तिकारणस्योत्पादकसवर्णत्व- स्याविघातादित्याह * तदपराधनिमित्तस्त्विति * व्यभिचारोत्पन्न- स्थापि वर्णान्तरव्यभिचारानिश्चये वर्णसङ्करानिश्चय इत्याह * न चेति * ननु विनाखेव विधिः स्मृत इत्यादिवचनाद्भर्तृव्यतिरिक्त- सवर्णोत्पन्नस्यापि वर्णान्तरापत्तिः स्यादित्याशङ्कयाह * सवर्णन चेति* गवादावुत्पादकसजातीयापत्योत्पादकत्वदर्शनेनेहापि तथानु- मानान्न वर्णान्तरापत्तिःसम्भवतीति ब्राह्मणादिविहितकनिधिका- रप्रतिपादनपरं विनाखितिवचनं व्याख्येयं कुण्डगोलकवचनमपि सत्येव ब्राह्मण्ये ऽवान्तरसंज्ञाविशेषप्रतिपादनपरमिति उत्पादका- सावये ऽपि व चिदन्यतरसवर्णोत्पत्तिस्मरणान्नात्यन्तं तदुच्छेदः किमुत तत्सावर्ण्यइत्यतिशयार्थमाह * सङ्करजातानामपि चेति * एवं हि स्मर्यते। जात्युत्कर्षो युगे ज्ञेयस्सप्तमे पञ्चमे ऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववञ्चाधरोत्तरमिति ॥ अस्यार्थः क्षत्रियायां ब्राह्मणादुत्पन्ना कन्या मूर्द्धा- वसिक्ता ब्राह्मणाय दीयमाना मूर्द्धावसिक्तजातेरुत्कृष्टां ? कन्यां जनयति सापि ब्राह्मणाय दीयमाना कन्यान्तरमेवेत्येवं पञ्चमे युगे पुरुषान्तरे ब्राह्मण्योत्पत्त्या जात्युत्कर्षः एवं वाश ब्दात् षष्ठे वैश्यायांसप्तमे शूद्रायामिति । मूर्द्धावसिक्तादिपुत्रपरम्परा- यास्तु क्षत्रियादिस्त्रीणां तथैव पञ्चमादिषु क्षत्रियादिजातीयापत्यो- त्पत्तेरपकर्ष इति पूर्ववच्चाधरोत्तरमित्युत्तरत्रातिदेशात्सूचितं, न- न्वस्यार्थस्य प्रत्यक्षेण विवेक्तुमशक्यत्वादू ब्राह्मण्यांदेश्च शास्त्रविषय- त्वानङ्गीकारेण निर्मूलमेतत्स्मरणं स्यादत आह * तत्र विति * १ ब्राह्मण जातिवीरपकष्टामित्यधिक २ पु.।

न्यायसुधायाम्। १ क्क चित्प्रत्यक्षावगतायां जातौ सम्बन्धग्रहणसम्भवात् गृहीतपदार्थ- केन शास्त्रेणान्यत्र तत्प्रतिपादनं युक्तमिति मात्रशब्देन सूचितं, प्रत्य- क्षावगतिसम्भवादन्यत्र शास्त्रव्यापारो नाङ्गीकृतः, इह तु तदसम्भ- वाच्छास्त्रविषयत्वं नायुक्तमित्याह * न हीति * नन्वाकारसाम्येन क्क चिदपि नाह्मण्यादिविवेकस्य प्रत्यक्षेणावगत्यसम्भवात्सर्वत्रागम- गम्यत्वमेवाङ्गीकार्यमित्याशङ्कां निराकुर्वन्नुपसंहराति * तस्मादिति । केन चिन्निमित्तेनेति * स्वरविशेषादिनेत्यर्थः । स्मरणस्य स्वात- न्येण प्रामाण्यायोगात्तन्मूलप्रदर्शनार्थ दर्शनग्रहणं तस्याप्युत्पाद- कजातिस्मरणनिरपेक्षेन्द्रियजन्यत्वायोगात्पूर्वोत्पादकजातिस्मरणं त- सहकारीति निदर्शयितुं पारम्पर्यग्रहणं प्रत्यक्षत्वोपपादनफलमु- पसंहरति * इति भवतीति * ननु शमोदमस्तपः शौचं सत्यमार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्राह्म कर्म प्रचक्षते ॥ इत्यादिस्मृतिपर्यालोचनया तपःप्रभृत्याचारयोगनिमित्तत्वेऽपि ब्राह्म- णशब्दप्रवृत्तेस्तस्य प्रत्यक्षत्वेन दृष्टविरोधसम्भवात्किमिति महताक्लेशेन जाप्तिः साध्यते अत आह* येषामिति *प्रमाणाभावमुपपादयितुमाह * सिद्धानां हीति * अनवस्थितत्वापत्तेरप्याचारनिमित्तत्वं न यु- तमित्याह * स एवेति * कारणान्तरमाह * तथेति * ननु तपःप्रभृत्याचारयोगिनि लोके ब्राह्मणशब्दप्रयोगदर्शनात् कथं त- निमित्तत्वनिरासो ऽत आह * एताभिरिति * ब्राह्मणत्वप्रतिपादने द्योतकत्वमात्रं तपःप्रभृतीनां न तु ब्राह्मणशब्दप्रवृत्तिनिमित्तत्वमि- त्यर्थः यद्वा का तमुस्याः स्मृतेर्गतिरित्याशङ्कयैतदुक्तम् । द्योतक- त्वमात्रं स्मृत्या प्रतिपाद्यते न तु तपआदीनां समुदायो ब्राह्मण्यं स्मृत्या प्रतिपाद्यतइत्यर्थः । यदा तु पूर्वोक्तार्थोपसंहारपरत्वेनेयं फ- क्किका व्याख्यायते तदा नैताभिस्तपःप्रभृतिभिरुपपत्तिभिरयं ब्रा- ह्मणः प्रतिपाद्यते द्योत्यतइति योज्यम् । किं त्वेताभिरितरेतराश्रयप्र- सङ्गादिभिरुपपत्तिभिरयमर्थ प्रतिपाद्यते । तदुच्यते न तपआदीनां समुदायो ब्राह्मण्यमिति । ननु तपःप्रभृतीनां आचाराणां व्यभिचा- रित्वेन प्रत्येकं ब्राह्मणशब्दप्रवृत्तिनिमित्तत्वायोगात् युगपदनुष्ठान:- भावेन च समुदायाभावान्माभून्निमित्तत्व तजनितस्य तु सस्कारस्य भविष्यत्यत आह * नेति * माभूच्छब्दप्रवृत्तिनिमित्तत्वं जात्यभि- व्यञ्जकत्वं भविष्यत्यत आह * नेति * उभयत्र पूर्वोक्तमेवोपपत्ति- त्रयमतिदेष्टव्यम् । एवं तर्हि व्यञ्जकाभावेनाप्रत्यक्षत्वं स्यादित्यशङ्का- निराकरणार्थ पूर्वोक्तमाभिव्यञ्जकं स्मारयति * कि तर्हि इति * प्रथमाध्यायस्य द्वितीयः पादः । नन्वाचारनिमित्तत्वाभावे मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्र- यादति वचनमनर्थकं स्यादित्यतआह * तस्मादिति * न तु सत्य- पि प्रत्यक्षविरोधे विकल्पेन प्रामाण्योपपत्तेः प्रत्यक्षविरुद्धवचन- मप्रमाणमिति भाष्यमयुक्तमित्याशङ्कयाह * पूर्ववच्चेति * विक- ल्पविषय एवायं न भवतीत्याह*अपिचेति * को हितद्वेदोतशास्त्र- दृष्टविरोधोदाहरणे भाष्यकारेण पूर्व तावदाद्यं सूत्रं योजितं * यदि प्रश्नइति * तद्वयाचष्टे * पूर्ववदेवेति * शास्त्रदृष्टविरोधप्रतिपाद- नार्थ यद्यनवक्लप्तिरित्यादिभाष्यं तद्वयाचष्टे * निश्चितेति * तथा फलाभावात् ॥ ३ ॥ अत्र भाष्यकारेण शोभते ऽस्य मुखामित्याधुदाहृत्य आद्यन्ता- वत्सूत्रं योजितं यदि भूतानुवादो ऽनर्थक इति तद्वयाचष्टे * यदि तावदिति * गत्रिरात्रब्राह्मणोपक्रमोपन्यासस्य य एवं वेदेत्येवं श- ब्दव्याख्यानार्थत्व गत्रिरात्रब्राह्मणग्रहणेनोक्तम् । उदाहरणान्त- रगतैवंशब्दस्य व्याख्यानार्थ वेदानुमन्त्रणग्रहणम् । विद्यमानयोरेवे- त्यनेन यथादृष्टवचनत्वं भूतशब्दस्य दर्शितम् । सम्भवति च गर्गात्र- रात्राहीनविशेषविधायिब्राह्मणज्ञस्य परिहारसूत्रवक्ष्यमाणप्रकारण मुम्बशोभावेदानुमन्त्रणशस्य तु वाजिनमिति मन्त्रलिङ्गादपि गम्यते । प्रकृतसूत्रयोजनार्थम् । अथाध्ययनफलानुवाद इति भाष्यं तद्वयाचष्टे * अथ त्विति * मुख्यरूपयोर्मुखशोभावाजिजन्मनोोग्यानुपल- ब्धिर्बाधितत्वादिति भावः । कालान्तरफलत्वेन योग्यानुपलब्धि- विरोधपरिहारशङ्कानिराकरणार्थत्वेन सौत्रतथाशब्दव्याख्यानार्थ का- लान्तरइत्यादिभाष्यं तद्व्याचष्टे * वर्तमानापदेशाच्चति * तद्- नेन यथाभूतं मुखशोभाद्यनन्तरफलत्वेन कीर्त्यते तथाभूतस्याभावा- दानर्थक्यामतिसूत्र योजितम् । फलविधित्वन कालान्तरभावित्वा- वगमात् वर्तमानापदेशो ऽय न भवतीत्याशङ्कय द्रव्यसंस्कारकर्म- खित्यत्र निराकरिष्यमाणत्वान्नायं फलविधिरिति भाष्यकृतोक्तम् । तत्र विद्याया द्रव्यादिबाह्यत्वात्तदधिकरणाविषयत्वमाशङ्कय संस्का- रान्तर्गति दर्शयितुमाह * कर्मानुष्ठानति * तत्र हि यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति । तीर्थे स्नाति तीर्थमेव समा- नानां भवति । वर्मा वा एतद्यज्ञस्य क्रियते यत्प्रयाजा इज्यन्ते वर्म यजमानस्य भ्रातृव्याभिभूत्याइत्यादीनि द्रव्यादिविषयाणि वाक्या- न्युदाहृत्य किमेते फलविधयः फलार्थवादा वेति विचारयिष्यते। तत्र पर्णतादेरप्राप्तत्वेनावश्यविधेयस्य फलाकाङ्क्षायां साक्षात्पुरुषार्थरूपश्रु- १६ न्यायसुधायाम्। तफलसम्भवे पारम्पर्य्यपुरुषार्थरूपक्रतूपकाराख्यफलकल्पनायोगा- त्फलविधित्वेन पूर्वपक्षयित्वा यथा कथं चित्पुरुषार्थरूपफलत्वेन वि- ध्यनुपपत्तिपरिहाराद्रात्रसत्रादिवद्विपरिणामकल्पनानुपपत्तेर्यथाश्रु- तवर्तमानफलत्वसङ्कीर्तनस्य चानुपलब्धिविरोधान्न फलविधित्वमि- ति सिद्धान्तयिष्यते चिन्तयिष्यत्येतदित्यादिभाष्यं पौनरुक्त्याश- ङ्कानिराकरणार्थत्वेन व्याचष्टे * न पौनरुक्त्यादिति * एवं तर्हि सिद्धान्त्यभिमतं स्तुत्यर्थत्वमेव पूर्वपक्षिणा निराकार्यमित्याशङ्कय तदर्थमेव स्वार्थासत्यत्वनिरूपणमित्याह * स्तुत्यर्थतेति * अन्यानर्थक्यात् ॥ ४ ॥ अत्रभाष्यकारण पूर्णाहुत्याधुदाहरणेषु यदि भूतानुवादमा- त्रमनर्थकमित्यनेनाचं सूत्रं योजयित्वाऽष्टाफलविधिरन्येषामानर्थक्य- मित्यनेनान्यानर्थक्यसूत्र योजितम् । तत्र फलाभावसूत्रमपि योज- यितुं शक्यत्वात् किमिति न योजितमित्याशड्यानन्तरेणैव निर्मात- पारार्थेषु फलविधित्वनिराकरणन्यायेनात्रापि फलाभावस्य सुज्ञान- वादित्याह * अनन्तरेणैवेति * कथमेषां तदधिकरणविषयत्वमि- त्याशङ्कयाह * पूर्णाहुतेरिति * यदीत्यादिभाष्यं व्याचष्टे * यदि पु- नरिति * न ह्यकृत्वेत्यादिनान्यानर्थक्योपपादनार्थ पौर्वापर्य्यमुपन्य- स्तम् । तत्र समानफलकर्माल्पत्वमहत्वमात्रेणान्यानर्थक्योपपत्तेः पौर्वापर्योपन्यासो व्यर्थ इत्याशझ्याह * समानफलान्यपीति * अ- पिशब्देनाल्पत्वमहत्वमुपक्षिप्तमज्ञातस्यानुष्ठातुमशक्यत्वाद्युक्तमश्वमेध- ज्ञानस्य तदनुष्ठानात्प्राग्भावित्वं पूर्णाहुतिपशुबन्धयोस्तु कथमत आह * पूर्णाहुतीति * अग्निहोत्राद्यङ्गभूतान्युत्पादकाधानाङ्ग- त्वात्पूर्णाहुतेः प्राग्भावः स एष औपवसथ्ये ऽहनि द्विदेवत्यः पशु- रालभ्यतइत्यनेन वचनेनाग्नीषोमीयस्यति भावः * प्रथमं वा निय- स्यतति कपिञ्जलानालभेत इत्याधुदाहृत्य कि ज्यादयः परार्द्ध पर्यन्ता विकल्पेनालब्धव्या उत त्रय एवेत्येकादशे चिन्तयि- ध्यते । तत्र बहुवचनेन द्वित्वातिरिक्तसङ्घयासामान्यरूपबहुत्वा- भिधायिनां तविशेषाकाङ्क्षायां परार्धातिरिक्तसङ्खयाविशेपाभावा- त्तत्पर्य्यन्तत्र्यादिसंख्याविशेषाक्षेपात्समुच्चये संख्यान्तरोपजननेन स- विनाशापत्तेर्विकल्पेन विनियोग इति । बहुवचनेन सर्वप्राप्तर्विकल्प. स्यादित्यनेन पूर्वपक्षयित्वा प्रथम वा नियम्येत कारणादतिक्रम स्यादित्यनेन त्रिसंख्योपादानं विना चतुराधुपादानाशक्तरवश्योपादे- यत्रित्वमात्रेण बहुवचनोपपत्तेरतिरिक्ताक्षेपे प्रमाणाभावात् त्रित्व- * वसन्ताय प्रथमाध्यायस्य द्वितीयः पादः । नियम इति सिद्धान्तयिष्यते । दृष्टान्ते पौर्वाप-दरार्थमेव तेनैव पथेत्युक्तमित्याह * तथा चेति * भवत्वन्यानर्थक्यमत आह * त- स्मादिति * फलविशेषार्थत्वेन तान्येषामर्थवत्त्वं भविष्यतीत्यत आह * न चति * नन्वेवमपि सिद्धान्त्यभिमतस्तुत्यर्थत्वानिराकर- णात्पूर्वपक्षो न सिद्धो ऽत आह * न चेति * अभागिप्रतिषेधात् ॥ ५ ॥ अत्र भाष्यकृता न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवी- त्यप्रतिषेधभागिनमर्थ प्रतिषेधन्तीति बहुवचनं प्रयुक्तम् । तदयु- क्तम् । पृथिवीचयनस्य प्राप्तेः प्रतिषेधभागित्वाादित्याशङ्कयाह * त्री- ण्यपीति * विज्ञायत एवेति भाष्यं व्याचष्टे * अन्तरिक्ष इति * अस्तु तर्हि पर्युदासो ऽत आह * अतश्चोत * प्रतिषेवग्रहणं पर्युदा- सस्याप्युपलक्षणामिति भावः । उभयत्र सिद्धान्त्यभिमतं नित्या- नुवादत्वं निराकर्तुमाचं सूत्रं योजयति * अथापीति * पृथिवीचय- नस्याप्रतिषेधभागित्वप्रदर्शनार्थ पृथिवीचयनप्रतिषेधार्थ च यद्वाक्यं भवेत् चयननिषेधार्थमेव तदितिभाष्यं तदुपपादयति * पृथिवीति * अस्तु तबाधो ऽत आह * बाधे चेति * विकल्पेन चयनविधेर- प्यर्थवत्त्व भविष्यत्यत आहे * विकल्पेऽपीति * पाक्षिकबाधार्थमेवायं प्रतिषेधो भविष्यति नातिरात्रे षोडाशनं गृहातीतिवदत आह * का- मसंयोगाञ्चति * पशुकामश्चिन्वीत प्रजाकामश्चिन्वीतेत्यादिभिर्वा- क्यैः काम्यत्वावगमाद्विनापि प्रतिषेधं पाक्षिकत्वसिद्धेः प्रतिषेधान- र्थक्यमिति भावः । न च कामाभावे पाक्षिकत्वं प्रतिपेधवशाद्भ- विष्यतीति शक्यं वक्तुं काम्यस्य कामनाभावे प्राप्त्यभावेन प्रतिषेधा- योगात् विशेषणोपादाने च तत्परतयावगतस्यास्य प्रतिषेधस्य क्रि- यायां कल्प्यत्वेन दौर्बल्यान पाक्षिकत्वापादने सामर्थ्यमस्तीत्याह * दुर्बलश्चति * ननु दुर्बलेनापि प्रतिषेधेनागत्यां पाक्षिकचयनवि- धिबाधो नातीव दोषमावहतीत्याशङ्कय अथाप्रमाणं नैष विरोधो भ- वतीत्यनेन भाष्येण प्रतिषेधाप्रामाण्येनागतिपरिहारः कृतस्तदतिस्प- कृत्वान्न वार्त्तिककृता व्याख्यानम् । ननु बहुतरक्लप्ताग्निहोत्रादि- विधिविरोधेनैकस्य कल्प्यस्य पूर्णाहुल्यादिविधेरप्रामाण्यं युक्तं इह तूभयोः प्रत्यक्षत्वेनाविशेषात्कथमेकान्ततः प्रतिषेधस्यैवाप्रामाण्यमि- त्याशङ्कानिराकरणार्थ भाष्यम् * कथं तत्प्रमाणमित्यादि * तत्र १ अगत्येति इष्टका भिरग्नि चिन्वीतेतिवचनान्सामा पृथिव्यामेव चयन प्राप्त तव न पृथिव्यामिति यथाथुते ऽर्थे ऽभुपेतव्ये विधिरनर्थकः प्रत्यगति.। ३ न्यायसुधायाम्। खयमाकुलत्वमुपपादयति * एतदेवेति * अप्राप्तस्य चयनस्य पृ- थिव्याधारत्वनिषेधायोगात्प्राप्तिस्तावदङ्गीकार्या पुनश्वानाधारचय- नायोगात्तन्निषेधोऽपीत्येतदेवेत्यनेन परामृष्टम् । कि तद्विध्यन्तर- मित्यपेक्षायामाह * विध्यन्तर चेति * अस्य गुणपरत्वाच्चयनोत्प- त्तिवाक्योपलक्षणार्थत्वं दर्शयितुमिष्टकावाक्योपन्यासः स्तुत्यर्थत्वं चानाशङ्कयमेवेत्याह * प्ररोचनाबुद्धिस्त्विति * अनित्यसंयोगात् ॥ ६॥ नन्वतः परं खार्थेनैवानर्थक्यं प्रतिपादयतीति वार्तिककृद्ध- चनात्स्वार्थासत्यत्वरूपानर्थक्यप्रतिज्ञायामयं हेतुर्गम्यते तच्च विरुद्ध- म् । अनित्यो पत्र प्रवाहणापत्यं बबरः खार्थः प्रतीयते तत्रासत्यत्वे सति अनित्यसंयोग एव न स्यात् ने चानित्यसंयोगेनानित्यसंयोगा- भावः साध्यो भवितुमर्हति * उच्यते' * अनित्यसंयोगप्रसङ्गो ऽत्र हेतुर्विवक्षितः ततश्च स्वार्थसत्यत्वे ऽनित्यसंयोगप्रसङ्गात्तत्परिहारथि खार्थासत्यत्वं बबरः प्रावाहणिरित्यादीनामेष्टव्यमितिसूत्रार्थो भवति अनित्यसयोगान्मन्त्रानर्थक्यमित्यत्राप्यर्थप्रकाशनपक्षे यस्य यो ऽर्थः स एव तेन प्रकाशयितव्य. व चिच्चानित्यरकाङ्गभूतैः खार्थैरर्थव- न्तो मन्त्रा लक्ष्यन्तइत्युपक्रमवार्त्तिकाद्यद्येतद्विवक्षितं तथा सत्यादि- मदर्थाभिधानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यतेति चोपसंहार- वार्तिकादनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेष्वितिभाष्या- ञ्चायमेवार्थः प्रतीयते । अन्यानर्थक्याभागिप्रतिषेधयोरप्येवम् । तत्रापि खार्थासत्यत्वे तयोरभावात्सूत्रव्याख्यानार्थमनित्यसंयोग- श्चेति भाष्यं तत्सोपस्कारमेव द्रष्टव्यम् । अनित्यसंयोगः स्वार्थव- स्वे प्रसज्येत तस्मादानर्थक्यमेव युक्तमिति तत्रानित्यसंयोगप्रसङ्गा- भाभूत्वार्थस्य सत्यत्वं स्तुत्यर्थत्वं तु सिद्धान्त्यभिमतं निराकर्तुम- शक्यमित्याझ्याह * सर्वोपाख्यानेष्विति * अयमाशयः त्वं धुच्यमानं कार्यपरत्वं वा स्यात् स्तुतिपरत्वं वा तच्चोभयमपि प्रतीत्यनारूढत्वान्न युज्यते तेन पारिशेष्यादर्थवत्त्वमङ्गीकुर्वता स्वार्थ- परत्वमेव वाच्यं तत्र चानित्यसंयोग प्रसज्येत इति । ननु परंतु अन्यपर- १ यदा खासत्यत्वरूपानर्थक्य प्रतिज्ञा तदा बबरादीनामनित्यानामर्थानामभाव इत्य- मिप्रायेणाह नचेति । २ बबरा दिवाक्यानि प्रतीयमानबाधितार्थकानि सत्यत्वे ऽनि त्यसयोगप्रसङ्गात् । ३ साध्य तदेव सत्यार्थखेऽन्यानर्थक्य प्रसगात् यथार्थखे प्रसज्य मानाप्रतिषेधभाग्यर्थप्र- तिषेधकत्वादिति।

प्रथमाध्यायस्य द्वितीयः पादः। श्रुतिसामान्यमात्रमित्यत्र बबरादिशब्दानां नित्यसिद्धवावाद्यर्थाभि- धायित्वस्योक्तत्वात्खार्थपरत्वे ऽपि नानित्यसंयोगप्रसङ्ग इत्याशङ्का- निराकरणार्थ वेदप्रामाण्ये सतीति भाष्यं तद्वयाचष्टे * स चेति * अयमाशयः । अनित्यार्थाभिधायित्वे कृत्रिमत्वेन वेदस्याप्रामाण्या- पत्तेस्तत्परिहारार्थ कथं चिन्नित्यसिद्धवावाद्यर्थवचनत्वं कल्पितं यदा तु कथं चित्प्रामाण्यं न सम्भवति तदा यथाश्नुतार्थपरित्यागका- रणाभावान क्लेशेन बबरादिशब्दानां वाय्वादिवचनत्वकल्पनं युक्त- मिति । नन्वेवमप्रामाण्ये सति यथाश्रुतार्थपरित्यागकारणाभावा- दनित्यार्थाभिधायित्वमनित्यार्थाभिधायित्वे बबरादिवाक्यानां कृत- कत्वेनाप्रामाण्यमितीतरेतराश्रयमाशयेतरकदंशवदित्युक्तम् * त- स्थार्थः * यथेतरेषामनित्यसंयोगरहितानामापो वै शान्ता इत्यादीना- मेकदेशानामक्रियार्थत्वादप्रामाण्यं तथैतेषामनित्यार्थानामप्यक्रिया- र्थत्वेनैवाप्रामाण्यसिद्धर्न इतरेतराश्रयत्वामिति । नन्वध्ययनविधि बलात्सर्वस्य वेदस्य पुरुषार्थापयिकत्वावगतेः कथमर्थवादानर्थक्य- शङ्का अत आह * तस्मादिति * अदृष्टार्थत्वे ऽपि पुरुषार्थोपयि- कत्वोपपत्तेन्नैकान्ततो ऽर्थपरत्वमध्यापनविधिराक्षिपतीति भावः । एवमादीनामित्यनेनैतहर्शयति प्रथमसूत्रव्युत्पादितमध्ययनविधेदृष्टा- र्थत्वमर्थवादेष्वेवासम्भवादाक्षिप्य तेन सर्वत्र विधेहि प्रयोजनाका- वायां दृष्टे सम्भवत्यदृष्टं न कल्प्यमिति तत्रोक्तम् । न च सर्वत्रै- करूप्येण भाव्यमिति नियमो युक्तः । स्तोभादिष्वर्थपरत्वासम्भ- वात् । अथ तत्रापि नियतकालसामभागपूरणाद्यर्थत्वादर्थज्ञाना- र्थत्वाभावे ऽपि दृष्टार्थत्वमात्रेणैकरूप्यमुच्यते । ततो ऽत्रापि य- सम्भवति तत्प्रयोजनमित्यनेन रूपेणेकरूप्यं मत्त्वा सन्तोष्टव्य- म् । यद्वा अध्ययनसंस्कृतरक्षरैर्यच्छक्यते पुरुषार्थरूपं तत् कुर्या- दित्यध्ययनविधिना वेदाध्ययनस्य शक्यफलसाधनत्वावगमादर्थवा- दाक्षरैः कस्य चित्पुरुषार्थरूपस्य कर्तुमशक्यत्वान्निष्प्रयोजनत्वमे- वाङ्गीकृतमित्याह * अथ वेति * प्रत्यक्षशब्देनापरोक्षाकारवाचिनी ग्रहणपयन्तमध्यापनमभिप्रेतं तस्योपेक्षाफलत्वमुपपादयितुं हेतुतया- र्थवादजनितस्य ज्ञानस्य हेयोपादेयार्थविषयत्वेन तद्वाक्यानामुपेक्षा- फलत्वं दृष्टान्तमिषेणोकं द्रष्टव्यम् । अर्थपरत्वाभावे ऽपि कर्मानुष्ठा- १ ग्रहणपयन्त ताया प्रत्यक्षत्व सवतीविसाव. । २ तस्य ग्रहणपर्यन्तताध्ययनस्योपेक्षाफलत्व मुपपादयितुमर्थवादवाक्यानामुपेक्षाफलत्व दृष्टान्तमिषेण हेतुतयोतमिति सबन्ध । ३ अर्थवादवाक्यानामुपेक्षाफलत्वमुपपादयितुमाह अथेति । T न्यायसुधायाम्। नकाले उच्चारणार्थत्वसम्भवादर्थवादाध्ययनस्यादृष्टार्थत्वं निष्प्रयो- जनत्वं वा पूर्वपक्षिणापि नाङ्गीकार्यमित्याशङ्कते * अथेति * परि- हरति * प्रयोगति * अव्यापाररूपत्वेन मन्त्राणां व्यापारग्राहिणा करणेन साक्षाद्रहणायोगादुच्चारणद्वारा तद्रहणं तद्रहणाञ्चोञ्चार- णार्थतेत्यन्योन्याश्रयापत्तेन प्रकरणपाठमालेगण विनियोगो युक्तः सा- मीत्त्वभिधानक्रियार्थत्वावगमे तद्वाराप्रकरणग्रहणोपपत्तेरनु- च्चारितस्याभिधानाशक्तः कम्मकालोच्चारणसिद्धिरिति भावः। म- न्त्राधिकरणपूर्वपक्षन्यायेन चार्थवादानामर्थपरत्वाभावे ऽपि कर्म- कालोच्चारणमत्रत्यापूर्वपक्षी मन्यतइत्यनभिमतमपि प्रौढ्यानुजाना- ति * अथ वेति * अस्मिन्पक्षे सूत्रविरोधमाशङ्कयाह * यत्त्विति * विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधिनां स्युः ॥७॥ पूर्वपक्षसिद्धान्तयोर्भन्नविषयत्वापत्तरपूर्वोदाहरणानुपपत्तिमा- शकते * पूर्वपक्षेति * नातिप्रयत्निनां परिहारमाह * के चिदिति* भाष्यकारस्यानिपुणत्वापत्तेरि परिहारं दृषयति*यद्यपीति * स्वम- तेन परिहरति * तदभिधीयतइति * अत्र भाष्यकारेण वायुर्वैक्षेपिष्ठा देवतेति यद्यपि क्रिया नावगम्यते क्रियासम्बद्धं वा तथापि विध्युद्दे- शेनैकवाक्यत्वात्प्रमाणमित्युक्त्वा कथमेकवाक्यभाव इति पृष्टे पदानां साकाङ्क्षात्वाद्विधेस्तुतेश्चैकवाक्यत्वमित्यभिधानादेकवाक्यत्वं प्रामा- ण्यकारणे स्तुत्यर्थत्वं त्वेकवाक्यत्वकारणमुक्तमिति प्रतिभाति । तच्चायुक्तं, विध्येकवाक्यत्वं विना लाक्षणिकस्तुत्यर्थत्वायोगादितरे- तराश्रयापत्तरित्याशङ्कय व्याचष्टे * तत्रेति * स्तुत्यर्थत्वोपपादन- द्वारेणैकवाक्यत्वस्योपयोगरूपप्रामाण्यकारणत्वमभिप्रेतं न साक्षात् विधिस्तुतिपदसाकाङ्क्षत्वं तु समभिव्याहारावगतैकवाक्यत्वनिर्वा- हायोक्तमित्यदोषः। तदेतद्भाष्यमाक्षिपति * एतावत्त्विति * सामा- न्यत. पुरुषार्थानुबन्धित्वासिद्धौ तद्धीनलाक्षणिकस्तुत्यादिद्वारविशेष निरूपणाशक्तस्तदेवादौ साध्यमिति प्रथमशब्देनोक्तम् । खारसिकै- कवाक्यत्वावगमें श्रौतार्थत्यागस्य गङ्गायां घोष इत्यादौ दर्शनात्त- व्युदासाथै बलादित्युक्तम् । खरसतो प्रतीयमानाप्येकवाक्यता १ प्रयोगसमवेतार्थ प्रकाशनसामादित्यर्थ । २ धर्मप्रमाजनकचरूपप्रामाण्य कारण तहाधित ततो धर्मप्रमानुत्पत्ते । ३ ननु समभिव्याहारलक्षणेकवाक्यताप्रकृते खारसिकीसम्भवतोति चैत विभज्यमानसा काङक्षत्वे सत्ये कार्थप्रतिपादकत्व खारसिकमेकवाक्यत्व विवचित प्रकते वर्धवादाना नि राका तत्व न तदभावात् ।

प्रथमाध्यायस्य द्वितीयः पादः। पुरुषार्थानुबन्धित्वलाभाय स्तुत्यर्थत्वावधारणात्तद्वशेन कल्प्यमाना नेतरेतराश्रयापादिकेत्याशङ्का निराकर्तुं पुरुषार्थत्वं वेत्युक्तम् । पुरु- षार्थानुबन्धित्वस्याप्यप्रमाणकत्वादितिभावः । बहुक्षीरादिवाक्येषु रूपभङ्गेनापि पुरुषार्थपर्यवसायित्वदर्शनाद्वेदे ऽपि तथानुमान स्या- दित्याशङ्कते * लौकिकवाक्येष्विति * आक्षेप्ता पुरुषार्थपर्यवसा- यित्वे साध्ये वाक्यत्वस्य हेतोरप्रयोजकत्वं दूषणमाह * तत्रेति * एतदेवोपपादयति* लोके ऽपीति * समाधानान्तरमाशङ्कते * तत्रे- ति * कथं तेन सूत्रेण पुरुषार्थपर्यवसायित्वसिद्धिरत आह * न हीति * आदरणान्यथानुपपत्तिः पुरुषार्थपर्यवसायित्वे प्रमाणं तेन सूत्रेण वक्ष्यतइति भाव । न च व्यामोहादादरोपपत्तिरित्याह * यद्यपीति * एतदेवोपसंहराति * तस्मादिति * एतदयाक्षेता दूषय- ति * न त्वेतदिति * नन्वाप्तवाक्यवत्पुरुषाधीनप्रामाण्याङ्गीकरण- मपि न दोषाय स्यादत आह * यदि हीति * अयमाशयः किमत्र स्वादान्यथानुपपत्त्या प्रयोजनवत्त्वकल्पन स्यात् पुरुषान्तरादरान्य- थानुपपत्त्या वा । तत्राद्ये पक्षे स्वादात्प्रयोजनवत्त्वावगमः प्रयोजन- वत्वावगमाच्च खादर इत्यन्योन्याश्रयः स्यादित्यनेनोक्तम् । द्वितीये तु मूलप्रमाणाभावेनान्धपरम्परेत्याह * अथेति * तदेव दर्शयति * सर्वत्र हीति * नन्वादान्यथानुपपत्त्याध्येतृषु प्रयोजनवत्त्वज्ञाने क- ल्पिते तत्कारणीभूतं कि चिन्मूलप्रमाणं कल्पयिष्यामो ऽत आह * तेनेति * कस्य चिन्मूलप्रमाणस्यासम्भवाद् भ्रान्तिमूलत्वं प्रसज्ये- तेति भावः । कथमसम्भवो ऽत आह * अतो यावदिति * एव- माक्षिप्याध्ययनविधिरेव सर्वस्य पुरुषार्थपर्यवसायित्वे प्रमाणमिति स्वमतेन समाधातुमुपक्रमते * तदुच्यतइति * विध्यादिसाधार- ण्यप्रदर्शनार्थ सकलग्रहणं पूर्व तावत्सर्वोपयोगः प्रतिपाद्यते पश्चा- दर्थवादानां द्वारविशेष इति तावच्छब्दनोक्तम् । निष्प्रयोजनाक्षरमा- बाध्ययने ऽपि बुद्धिपूर्वकारिणां पुंसां प्रवर्तयितुमशक्यत्वान्नैक- स्याप्यक्षरस्य निष्प्रयोजनत्वमध्ययनविधिरनुमन्यते । न चैकदेशे इ- धार्थस्यादृष्टार्थत्वमेकदेशान्तरे युक्तम् । एकत्र नियमावधिरपराप्राप्त- विधिरिति वैरूप्यस्यापरिहार्यत्वात् तस्मात्सकलस्यैव वेदस्य प्रयोज- नवदर्थपर्यवसायित्वमध्ययनविधिबलादवसीयतइति भावः । ननु क्वविद्ध्ययनविधेः पुरुषार्थपर्यवसायित्वे सिद्धे सत्यवैरूप्याय सर्व- त्र तथाङ्गीकरणं युक्तं तदेव तु निष्प्रमाणकं समानपदोपात्तस्याध्य- यनस्यैव भाव्यत्वोपपत्तेरित्याशय प्रथमसूत्रोक्तं दृष्टार्थत्वे दर्शयि- १ अर्थ वादवाक्य पुरुषार्थपर्यवसायि वाकात्वात् बहुक्षौरादिवाकाबत ।

न्यायसुधायाम्। तुमाह * तत्नेति * कस्मिन्नंशे तर्हि तस्य निवेशो ऽत आह * तत- श्चेति * साध्यांशानिवेशकारणस्य विधिविरोधस्यानाभावमविरो- धादित्यनेन दर्शयति । नामार्थस्य करणांशे निराकर्तुं सन्निधेरित्यु- क्तम् । तेनात्र भाव्याकाङ्क्षायां श्रुतभाव्याभावादश्रुतादृष्टकल्पने च तस्य खरूपं तज्जन्यत्वं तत्र चाध्ययनस्य शक्तिः कल्प्येतेत्यनन्ताह- टकल्पनागौरवापत्तेईष्टस्य जन्यत्वमानं कल्पनीयमित्याह * तेनेति* एवं तीनन्तरदृष्टाक्षरग्रहणमात्रेण नैराकाङ्यान्नाभिमतं वाक्या- र्थज्ञानपर्यन्तत्वं सिद्धयेदित्याशय प्राक् पुरुषार्थसिद्ध राकासाभा- वं दर्शयति * तस्यापीत्यादिना । निराकाङ्क्षी भवतीत्यन्तेन । आधा- नादिविधीनामपुरुषार्थरूपाहवनीयादिमात्रे नैराकाङ्क्षयदर्शनादिहापि तथा स्यादित्याशङ्ख्याह * एवमिति * एवं तर्हि न साक्षात्पुरुषार्थपर्य- वसाय्येव सर्वत्र फलमस्त्वत आह * न चेति * पारम्पर्यपुरुषार्थ- फलत्वेनापि विध्युपपत्तेन नियोगतः साक्षात्पुरुषार्थफलत्वे किं चि- प्रमाणमस्तीति भावः । एवमपि कथमत्र दृष्टफलत्वनिश्चयो ऽत आह * योग्यतया हीति * लाघवमनेन निश्चयकारणमुक्तम् । एवं तर्हि होमादाक्प्याहवनीयप्राप्त्यादिद्दष्टकार्यसम्भवाददृष्टकल्पना न स्यात् वक्तव्यो वा विशेषो ऽत आह * तत्रेत्यादिना अदृष्टकल्पनेत्य- न्तन * पारम्पयेणापि तस्य पुरुषार्थानुबन्धाभावात्फलत्वं न सम्भ- वतीति भावः । नन्वेवमपि पारम्पर्य्यपुरुषार्थानुबन्ध्यक्षरग्रहणमन- न्तरदृष्टत्वात्फलं स्यात्साक्षात्पुरुषार्थरूपं वा स्वर्गादिवाक्यार्थज्ञानस्य तूभयरूपरहितत्वात्फलत्वाङ्गीकरणमयुक्तामत्याशय तत्प्रतिपत्त्युप- योगितया सामान्यन्यायं तावद्वक्तुमारभते * सर्वत्र चेति * वि. हिते ऽवघातादावफलात्मकवैतुष्यादिदृष्टकार्यपरम्परायामान्तरालिक यत्पुरोडाशादि क्रतवे यागादि वापुरुषार्थाय चोद्यते तदेव तस्य क्रतोः पुरुषार्थस्य वा साधनम् । पूर्वस्य त्ववघातादिविधेः पुरोडाशादि- यागाद्युपकारार्थत्वमात्रं न पुरुषार्थपर्यन्ततेत्यर्थ । पेषणादीनां तर्हि कथमन्वयो ऽत आह * यानि त्विति * पेषणादिविधेर्यानि कार्याण्यनुष्ठेयानि पेषणादीन तानि पूर्वविहितस्यावघातादेः स्वव्या- पारमात्रतया द्वारमात्रतयान्वीयन्ते नान्तरीयकत्वात्तैर्विना ऽवधा- तादिना पुरोडाशादेः कर्तुमशक्यत्वात् । किमिति पेषणादेवघा- तादिसाध्यत्वं पुरोडाशसाधनत्वं वा नेष्यत इत्याशयोक्तम् * प्राक साध्यसाधनभावनाचोदितत्वादिति * यदि ह्यवघातविधेः प्राक् १ अनुध्यानापक्षयेत्यर्थ । २ किमपेक्षया प्रागत अाह ।

प्रथमाध्यायस्य द्वितीयः पादः । पेषणादेः पुरोडाशसाधनत्वमवगतं स्यात्तत्प्रयोजनवत्त्वेन योग्यत्वा- दवघातसाध्यत्वं युज्येत पुरोडाशप्रकृतिभूतवीाद्देशेन विधानाच्चा- वघातस्यैव पूर्व पुरोडाशसाधनतां प्रतीमः । यदि च पेषणादिविधेः प्राक पेषणादेरवघातसाध्यत्वावगमः स्यात् ततो द्वारमात्रत्वं न यु- ज्येत न त्वेतदस्ति पुरोडाशस्यैवोक्तन्यायेनावघातसाध्यत्वावगमादि- त्यर्थः यद्वोत्तराविधिशब्देन पुरोडाशाविधिमभिप्रेत्य तस्मात्प्राग्यानि कार्याणीति योज्यम् । नन्वेवंतीदाहानुमितविधिबलेन भस्मसा- द्भावस्यापि फलसाधनत्वावगमादश्रुतफलस्य होमस्य तत्साधनत्वा- पपत्तेन दृष्टफलकल्पना स्यादित्याशङ्याह * यत्र त्विति । अयमाश- यः * विध्यभावे ऽप्यदग्धस्य क्रत्वर्थस्य कदाचिदुपघाते सति क्र- तुवैगुण्यापत्तेस्तत्परिहाराय दाहादरोपपत्ते कान्ततो विध्यनुमानं विध्यनुमाने ऽपि द्वारमात्रतयापि विध्युपपत्तन्न फलसाधनत्वकल्प- ना युक्तति । एवं सामान्यन्यायमुस्त्वा तदनुसारेण यथाध्ययनविधे- वाक्यार्थज्ञानपर्यन्तत्वं भवति तथा प्रपञ्चयन्नाह । तत्रेति । श्रुत- फलेषु क्लप्तः पुरुषार्थो ऽश्रुतफलेषु कल्पयिष्यमाण इति सर्वाणि प्रधानवाक्यानि अनेन परामृष्टानि । तत्प्रतिपादनं यावदित्यनेनाक्ष- रग्रहणादीनां पेषणादिन्यायेनावान्तरव्यापारमात्रत्वादध्ययनफलत्वं निराकृतं फलवद्वयवहाराङ्गभूतार्थप्रत्ययाङ्गतानिष्फलत्वेन 'शब्दस्य योग्यत्वादवधार्यतइत्यनेन न्यायेन वाक्यार्थज्ञानार्थ स्वाध्यायोद्देशेन विहितस्याध्ययनस्य पुरोडाशार्थावघातवद्वाक्यार्थज्ञानार्थत्वावधार- णात्तदन्तरालवर्तिनामक्षरग्रहणादीनां पेषणादिन्यायेनावान्तरव्या- पारत्वमात्रं युक्तमिति भावः। ननु पुरोडाशस्य विध्यन्तरेण ऋत्वर्थतया फलत्वज्ञानायुक्तमवघातसाध्यत्व वाक्यार्थज्ञानस्य तु कथमत आह * परतस्त्विति * वाक्यार्थज्ञानस्य सामर्थ्येन यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीतिवाक्येन वा कर्मा- नुष्ठानार्थत्वावधारणात्कर्मणां च विध्यन्तरैः पुरुषार्थफलत्वावधार- णात् न तत्पर्य्यन्तमध्ययनविधिरायास्यति इत्यर्थः । ननु च भवतु प्र- धानवाक्यानां स्वार्थप्रतिपादनमात्रेण पर्यवसानमङ्गवाक्यानां त्वर्थ- द्वारेण स्वरूपस्यापि मन्त्रवत्प्रधानैर्ग्रहणात्कर्मकालप्रयोज्यत्वावगते- १ यदा तूतरविधेरितिपञ्चमी तदोत्तरविधि पुरोडाशविधि. प्रागितिच कार्यपदेन सम्बव्यत इत्याह यति । २ तादरानुमितेति २ पु० पु. ३ नन्वादरानमितविधिविहितत्व भस्मसाझावस्य विद्यत एक्कथम् च्यते न कि चिबिधीय. यत इत्यत आह अयमाशय इति ।

२४ न्यायसुधायाम्। नार्थप्रतिपादनमात्रेण पर्यवसानमित्याशङ्कयाह * यानि त्विति * अयमाशयः । न मन्त्राणामङ्गभूतार्थप्रतिपादनमात्रेण स्वरूपग्रहणं ज्ञातंकि तविधिवशात्न चाङ्गवाक्यानां विधिरस्ति प्रकरणपाठेन च क्रत्वङ्गत्वं शङ्ख्यमानमनारभ्याधीतानां तावन्न शक्यते शङ्कितुं प्रकरणा- धीतानामपि प्रयाजादिवाक्यानां प्रमाणाभावान्न सम्भवतीतिाएतदेव प्रश्नपूर्वकमुपपादयति * कुत इति * अदृष्टार्थत्वेन क्रतोरदृष्टोपकारा- पेक्षत्वाने टार्थाङ्गवाक्यग्राहकत्वमित्यर्थः प्रयोजनशब्देनोपकारमाह न च साक्षात्क्रतुसम्बन्धायापि प्रयोज्यत्वकल्पनं पारम्पयेणापि पुरु- षार्थानुबन्धलाभादित्यर्थान्तरन्यासेनाह * अत इति * अङ्गानां प्र- धानवाक्यवदेकान्तरितपुरुषार्थान्वयित्वाद् बाह्यत्वम् । तद्वाक्यानां तु यन्तरितत्वात्प्रधानाद् बाह्यतरत्वं एतञ्च द्वयन्तरितत्वं प्रकरणा- धीतारादुपकारकाङ्गवाक्यविषयं सामवायिकाङ्गवाक्यानां त्वादि- शब्दोपात्तोपनयनादिवद् बहुव्यवधानमित्याह * एवमिति * खमते पुरोडाशस्यैव साक्षात्प्रधानभूतयागसाधनत्वाद्भाष्यकाराभिप्रायेण द्वयवदानग्रहणं व्यवहिततरत्वप्रदर्शनार्थ कृतं आदिशब्दो व्रीह्या- दीत्यादिशब्दोपात्ताज्यादिविषयः चतुर्ग्रहीताद्यभिप्रायो द्रष्टव्य ए- तामेव सन्निधिव्यवधिव्यवस्थामनारभ्याधीताङ्गवाक्येष्वतिदिशति * एवमेवेति * कथं तयनारभ्याधीतानां प्रकरणाधीतेभ्यो दौर्ब- ल्यमत आह * तत्र त्विति * असम्बद्धवाक्यान्तरव्यवायेन तेषां प्राकरणकाङ्गवाक्यवत्प्रधानवाक्यैकवाक्यत्वायोगादिति भावः । अनङ्गवाक्यनां त्वतिदूरव्यवधानमित्याह * यानि त्विति * ननूक्तन द्वारेण पुरुषार्थानुबन्धिकर्मानुष्ठानोपयोगिवाक्यार्थज्ञानं सर्वविधि- वाक्येषु सम्भवदपि सकलवेदाव्यापित्वान्नाध्ययनविधिप्रयोजनं भ- वितुमर्हतीत्याशय सूत्रभाष्यकारानुक्तत्वादुपनिपद्वाक्यानां तावदु- पयोगमाह * एतेनेति *उपनिषदामपि आधानादिवाक्यन्यायेन दू- रस्थेनेव ऋतुफलेन नैराकाङ्क्षयमित्यर्थः । कथमित्यपेक्षिते क्रत्व- र्थकर्तृप्रतिपादनद्वारेणेत्युक्तम् । परलोकफलेषु कर्मसु विनाशिदे- हादिव्यतिरिक्तनित्यकर्तृभोक्तृरूपात्मज्ञानं विना प्रवृत्त्यनुपपत्तेरहंप्र- त्ययेन च देहे ऽपि दृष्टेन स्फुटतया तयतिरेकस्य ज्ञातुमशक्यत्वा- वात्यार्थप्रतिपादन दृष्टोऽर्थ । २ नम्वगानामफलत्वात कथ प्रयोजनहारिणेत्युत्तामत आह प्रयोजनेति । ३ प्रयोगकालपाठकल्पनमित्यर्थ । ४ ननु हावदानस्याचार्यमते प्रतिपत्तित्वात कथ यागसाधनत्वमुक्तमत आह स्वमत इति । ५ यथाधानादिवा काना कत्वमूतानिसकारप्रतिपादनहार पुरुषार्थत्व तथेत्यर्थ । १ प्रथमाध्यायस्य द्वितीयः पादः । २५ तू शास्त्रीयमात्मज्ञानं क्रतुविधिभिरपेक्षितं तस्य चानारभ्य विहित- स्यापि सामर्थ्येन पूर्वोदाहृतेन वाक्येनोपनिषदाममन्त्रत्वेन स्वरूप- प्रयोज्यत्वाभावादुपनिषज्जनितस्यात्मज्ञानस्य फलातिशयलक्षणवी- र्यवत्तरत्वहेतुत्वाभिधानपरेण क्रत्वङ्गत्वावधारणात् तद्द्वारेण पु- रुषार्थानुबन्धित्वम् । ज्ञानस्य चाव्यापाररूपत्वेन खरूपेणाविधेय- स्वे ऽप्युपासनापरनामधेयं ध्यानमेवात्मा ज्ञातव्य इत्यादिभिर्विधी- यते । अप्रतिपन्नस्वरूपस्य च ध्यातुमशक्तेरात्मस्वरूपप्रतिपादन- मविनाशी वा अरे ऽयमात्मेत्यादिभिः क्रियमाणं विध्यपेक्षित- त्वान्नार्थवादोश्ववानादरमहंतीति तद्वारेणोपनिषदां पुरुषार्थपर्य- वसानामति भावः । एतच्च संसारिरूपात्मप्रतिपादनाभिप्रायम् । असंसारिरूपसगुणानिर्गुणात्मज्ञानस्याभ्युदयनिःश्रेयसार्थतया साधु- शब्दाधिकरणे वक्ष्यमाणत्वात्सिद्धार्थप्रतिपादनपराणामप्युपनिषदा- मुपासनाविधिशेषतया चादनाशब्दनापादानसम्भवाच्चोदनासूत्रप्र- तिज्ञातप्रामाण्यसाधनं सङ्गतम् । पुरुषार्थोपायकत्वन चात्मस्वरूप- प्रतिपादनेनैराकाझ्यसम्भवात् पदैकवाक्यत्वाभावेनार्थवादवैलक्ष- प्यमिति सर्वमनवद्यम् । मन्त्रनाम्नोः केन द्वारेण नैराकाझ्यम- त आह * मन्त्रेति * योज्यते संबध्यते भावनया सहानेनेति व्यु- त्पत्त्या योजनाशब्देन द्वारमुक्तम् । ननु साध्यसाधनेतिकर्तव्यतानभि- धायित्वेनाक्रियार्थत्वान्मन्त्रादीनामानर्थक्यमाशङ्कितं तत्कथं क्रिया- र्थत्वमव्युत्पाद्यैवार्थवत्त्वं व्युत्पाद्यते तत्राह * तेनेति * येन भा- वनासंबन्ध्यर्थप्रतिपादनेनैवार्थवत्त्वं वक्ष्यते तेन भावनान्तर्गतिः सि- द्वैवेत्यर्थः अर्थवादोपयोगद्वारानभिधाने ऽप्यध्ययनविधिबलेन सा- मान्यत सर्वोपयोगस्य साधितत्वात्सर्वेषामित्युक्तम् । एतच्च सा- मान्यतः सर्वोपयोगप्रतिपादनं, सूत्रेष्वेव हि तत्सर्वे यवृत्ती यच्च वार्तिकइति न्यायाद्विधिना त्वेकवाक्यत्वादिति सूत्रावयवारूढ द्र- ष्टव्यं, तत्र तुशब्देनानर्थक्यनिराकरणार्थनार्थवत्त्वं सामान्यतः सर्वे- षां प्रतिज्ञातं श्रुतिवृत्त्या क्रियार्थत्वानवगमे ऽपि क्रियाविध्येकवा- क्यत्ववशेन लक्षणया तदपेक्षितार्थप्रतिपादनाक्रियार्थत्वमुपपा- दयितुं विधिनैकवाक्यत्वादियुक्तमिति योज्यं, १ चोदनेति ननु चोदनाशब्दम्य मन्त्रार्थबाट नामधेयोपेतमहावाकात्वमुक्तम् । तत्र चोपनिषदामनन्तर्भावात्पुरुषाधौपयिकत्वेन चेत्यग्रिमक्कियार्थवादभ्य पृथक्करणात् कथ चीदनाशब्देनीपादान कथ वा तत्सूत्रप्रतिज्ञातप्रामाण्यसाधनमिति चेत् सत्यं कि तु कर्तु- रितिकर्तव्यतात्वं न सर्वत्र मावनान्तर्गतमतदोषामावादित्यर्थ । २ सूत्रेति ततश्चाहत्या सामान्यविशेषसमाधानपरतया सूत्र योजनीयमिति । भाष्यम- न्यायसुधायाम् । पि यद्यपीत्यादिप्रमाणमित्यन्तमेतत्सूत्रावयवव्याख्यानपरमेव यो- ज्यम् । यद्यप्यर्थवादादिश्यः श्रुत्या क्रिया तत्सम्बद्धं वा नावग- म्यते तथापि तत्रैव प्रमाणं विध्युद्देशैकवाक्यत्ववशेने लक्षणया वृत्त्या तत्वरत्वसम्भवादिति । एवं सामान्यतः सर्वेषां क्रियार्थत्वमु- पपायेदानीमर्थवादानां क्रियार्थत्वनिर्वाहाय द्वारविशेष प्रतिपाद- यितुं यो ऽपि चेत्यादिनोक्तं पूर्वपक्षन्तावदनुभाषते * यत्त्विति * क्रियाप्रतिपादकत्वं हि क्रियार्थत्वं न चार्थवादैराख्यातवत्स्वरूपेणा- सौ प्रतिपाद्यते नापि फलादिपदवत्तदंशः कश्चित्साध्यादिः तस्मात्त- दर्थस्य भावनांशत्रयानन्तःपातान्न तत्प्रतिपादकत्वं विनार्थवादानां भावनया ग्रहणमित्यर्थः । एवमनुभाष्य निराकर्तुमाह * तत्रेति * यद्यप्यर्थवादानां विधिवदनुष्ठापकत्वेन न क्रियार्थत्वं क्रियाभिधाय- कत्वं वा तथापि प्राशस्त्यज्ञापनेनैवानुष्ठापकत्वात्खरसतश्च प्राश- स्त्याज्ञानादध्ययनविधिबलाल्लक्षणया तादर्थ्यमङ्गीकार्यम। न च प्रा- शस्त्यज्ञानस्य कर्त्तव्यत्वासिद्धावध्ययनफलत्वं युक्तं रागतो विधितो वा कर्त्तव्यत्वेनानवगतस्य कस्य चित्फलत्वायोगातू । कर्तव्यत्वं च भावनान्तर्गत्या विना न सिध्यतीत्यर्थवादाध्ययनफलत्वोपपत्तये प्रा- शस्त्यज्ञानस्य कर्तव्यत्वसिद्ध्यर्थं भावनान्तर्गतिव्युत्पादयितुमारभते * सत्यमिति * ननु न तावदर्थभावनान्तर्गतिः प्राशस्त्यज्ञानस्य के- श्चिदिध्यते । न च ततोऽन्या शब्दभावना नाम का चिदुपपत्ति स- हते शब्दश्रवणानन्तरभाविन्यां हि प्रवृत्ती हेतुः प्रवृत्त्युत्पादकत्वात् शब्दभावनाशब्देनाभिप्रेत.। न चासौ कश्चित्सम्भवति । तथा हि प्रवर्तको लिङादिर्वा तक्रिया वा विलक्षणा । अभिधा वाथ वाज्ञादिः कार्य वाथेटहेतुता ॥१॥ तत्र शब्दः खरूपेण वायुवञ्चेत्प्रवर्तकः। प्रमाणत्वं विहन्येत नियमाच्च प्रवर्तयेत् ॥२॥ न च खरूपसम्बन्धज्ञानापेक्षो भवेन च । प्रकृत्यान्वयमाकाङ्केन च स्यात्फलकल्पकः ॥ ३ ॥ अथ प्रवृत्तिं हेत्वर्थवव्यापाराभिधानतः। प्रवर्तकत्वाच्छब्दस्य सर्वदोषनिवारणम् ॥ ४॥ तत्र प्रवृत्तिसामर्थ्यापादनात्मास्य या क्रिया। कार्यािदिषु दृष्टा सावनुक्कैव प्रवर्तिका ॥ ५ ॥ तेनाभिधानवैयत्पूिर्वदोषानिवारणम् । अलौकिकी प्रेरणा तु सम्बन्धानुभवादृते ॥ ६ ॥ अभिधातुमशक्यत्वान प्रवर्त्तयितुं क्षमा ।

प्रथमाध्यायस्य द्वितीयः पादः । राजादिवच्च शब्दस्य फलादातृत्वतः स्वतः ॥७॥ तद्वयापाराभिधाने ऽपि न प्रवर्तत कश्चन । पुरुषार्थोपयोगित्वं न लिङादेश्च गम्यते ॥ ८॥ येनास्यानुविधेयत्वात्फलकल्पकता भवेत् । तस्याप्यानुविधेयत्वे शब्दस्य न तदीयताम् ॥९॥ अज्ञात्वा व्यापृतेः कश्चित्प्रवर्त्तताभिधावपि । न च शब्दमनुक्कैतदयापारत्वं निरूष्यते ॥ १०॥ स्वरूपवाचितातो ऽस्मिन्पक्षे ऽनिष्टा लिङां भवेत् । अस्तु तमुभिधानाख्यो व्यापारो ऽस्य प्रवर्तकः ॥ ११ ॥ तस्य ह्यर्थप्रतीत्याख्यकार्यक्लप्तस्य केवलम् । कल्प्यं प्रवृत्तिहेतुत्वं लिङ्वाच्यस्योति लाघवम् ॥ १२ ॥ शब्दान्तरगतार्थे ऽस्मिन्नभिधा स्यात्प्रवर्तिका। पक्षे ऽर्थतो विशेषश्चेत्स एव स्यात्प्रवर्तकः ॥ १३ ॥ न चास्या अभिधेयत्वाद्विशेषः कार्यतो गतेः । न युक्तं ह्यभिधेयत्वं सर्वासां हि प्रसज्यते ॥ १४ ॥ अथ प्रवर्तनात्वेन कार्यादनवबोधतः । तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ १५ ॥ तन्नास्या ह्यभिधानात्प्राक् चेत्प्रवर्तकरूपता। स्याद्वयर्थमभिधेयत्वं नास्ति चेत्स्यादसत्यता ॥ १६ ॥ आज्ञादिस्तु न वेदार्थः पुंधर्मत्वेन युज्यते । अथ मानान्तराऽगम्यनियोगापरनामकम् ॥ १७ ॥ कार्य लिङ्गादिवाच्यं सत्खतन्त्रं स्यात्प्रवर्तकम् । तदप्ययुक्तमज्ञातसम्बन्धत्वाल्लिङर्थता ॥ १८ ॥ मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् । अथ स्वस्थस्वतन्त्रस्य पुंसो लिश्रवणे सति ॥ १९ ॥ प्रवृत्तरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः । अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥२०॥ कार्य च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् । नियोज्येनात्मनः कार्यतया ज्ञातमिति स्थितम् ॥ २१ ॥ नियोज्यश्च खसंबन्धिकार्यबोधो ऽभिधीयते । काम्यमानायुपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥ कामी न च क्रिया तत्र क्षणिकोपायतां ब्रजेत् । क्रियातो ऽन्यदतः कार्य वेदे वाच्यमलौकिकम् ॥ २३ ॥ तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् ।

न्यायसुधायाम् ।
अयुक्तमपुमर्थत्वादव्यापारतया न च ॥ २४ ॥
अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता ।
अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥२५॥
तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ्मृषा ।
किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥
क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव ।
कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्तकम् ॥ २७॥
तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता।
तञ्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥२८॥
लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्ट न सिध्यति ।
नन्विच्छाजननेनान्यत्सबर्वरिष्टुं प्रवर्तकम् ॥ २९ ॥
साक्षात्प्रवृत्तिहेतुत्वादत सैव लिङोच्यते ।
सदुद्वारेण लिङर्थत्वात्फलं तेन प्रवर्तकम् ॥ ३० ॥
नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमात् ।
अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्यत्वात्स नेष्यते ॥३१॥
फलस्य प्रतिरूपत्वं लिङ्क्तं चत्प्रवर्त्तना ।
फल एव प्रवत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥
अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः।
फलस्य साधने ऽङ्गाक्तारन्यायात्प्रवर्तते ॥३३॥
ततः साधनबोधात्प्रागप्रवृत्तःप्रवर्तना।
वरं साधनतैवास्तु न क्लेशात्प्रातिरूपता ॥ ३४॥
तस्याश्च कर्मधर्मत्वात्कमैव स्यात्प्रवर्तकम् ।
प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्तकम् ॥ ३५ ॥
साध्यता फलधर्मो ऽथ लिङ्क्तः सन्प्रवर्तना।
नासौ पूर्वमसिद्धत्वात्प्रवर्तयितुमर्हति ॥ ३६ ॥
अथानुष्ठेयतारूपं कार्यत्वं स्यात्प्रवर्तकम् ।
ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्तिका ।
सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥
कालसंबन्धतो ऽर्थानुष्ठेयत्वप्रतिबन्धनात् ।
तत्राप्रवृत्तिरित्येततिक स्यादिति निरूप्यताम् ॥ ३८ ॥
कृत्यात्मभावना या हि न कृतिव्याप्यतां विना।
जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्तकम् ॥ ३९ ॥
अथानिष्पनरूपत्वं तदभावे ऽपि विद्यते ।
तस्माक्रियात्मक कार्यमथ वा तत्फलात्मकम् ॥ ४ ॥

प्रथमाध्यायस्य द्वितीयः पादः । न ताभ्यामातरिक्तं वा पूर्वमस्ति प्रवर्तकम् । अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥४१॥ प्रवर्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः । शुद्धस्य च लिङर्थत्वे कर्तव्यत्वात् प्रतीतितः॥४२॥ भवेन्नाकरणे दोषो निष्कामेष्वपि कर्मसु । न च द्रव्यगुणादीनां व चित्स्यादिष्टहेतुता ॥ ४३ ॥ प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः। कर्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥४४॥ कर्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः । नन्विष्टहेतुतामात्र लिङा तावन्निरूप्यते ॥ ४५ ॥ कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया । कर्तुर्भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥ क्रियायां चाप्रवृत्तस्य कर्तृत्वानुपपत्तितः। प्रवृत्तिविषयत्वारव्यं कर्तव्यत्वं प्रतीयते ॥४७॥ एवं तु वर्तमानापदेशे ऽप्येतत्प्रतीतितः। कत्विष्टसाधनत्वस्य तबलेनैव कल्पनात् ॥४८॥ लिङाद्यवाच्यतापत्तेरप्रामाण्यं विधेर्भवेत् । प्रवृत्तिविषयत्वं च नेच्छा विषयतां विना ॥ ४९ ॥ युक्तमिच्छाप्रवृत्त्योर्हि परशुच्छिदयोरिव । भिन्नगोचरता न्याय्या न हेतुफलभावतः ॥५०॥ अत एवेष्टहेतूनां स्वबुद्ध्या यो ऽयमिच्छति । प्रवर्तते स तत्रैव नानिष्टे ऽपीष्टसाधने ॥५१॥ तेनेष्टसाधनत्वस्य सद्भावे ऽप्यप्रवृत्तितः। प्रवृत्तिव्यभिचारित्वान्न प्रवर्तकतोचिता ॥ ५२ ॥ इच्छात्वव्यभिचारित्वाद्भवेत्पुसां प्रवर्तिका। स्वरूपसत्तामात्रेण न तु ज्ञानमपेक्षते ॥ ५३ ॥ अथापि ज्ञायमानासौ कारणं स्यात्तथापि तु । स्वप्रत्यक्षकगम्यत्वान्नाभिधानमपेक्षते ॥ ५४॥ एतत्सर्वं पूर्वपक्षी मनस्याधाय पृच्छति ॥५५॥ कथमिति । उत्तरमाह * इह हीति * अयमाशय । स्वतन्त्र- पुरुषप्रवृत्तिर्द्विधा लोके दृश्यते । व चित्स्वेच्छयार्थेषु स्वार्थः प्रवर्तते क्वचिदन्यप्रेरितः आचार्यप्रेरितोऽहं गामानयामि न खेच्छयेत्यादि- व्यवहारदर्शनात् । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति प्रवर्त- यितुं तथापि स्वारसिकेच्छारहितमपि शिष्यादिकं स्वप्रवर्तनाबले- न्यायसुधायाम् । नेच्छामुत्पाद्य प्रवर्तयतीति सर्वसाक्षिक, तस्माच्छब्दश्रवणानन्तर- भाविन्यांप्रवृत्तावाचार्यादेः प्रवर्तनाज्ञापनेने प्रवर्तकत्वमवसीयते का पुनःप्रवर्त्तना प्रवृत्तिहेतुभूतःप्रवर्त्तयितुर्धर्मः कैश्चिदिति बमः । स्वात- न्ये देवदत्त एवमांप्रवर्त्तयति न यज्ञदत्त इति व्यवस्थानुपपत्तेः प्रवर्त्त- नाशापनमात्रण प्रवर्तकत्वे देवदत्तस्त्वां प्रवर्त्तयतीति प्रवर्तनाद्यज्ञद- त्तस्यापि प्रवर्तकत्वप्रसङ्गासर्वत्रलोके पुरुषस्याचार्यादेःप्रवर्त्तयितुर्द्ध- म्नॊ ऽहमेनं प्रवर्त्तयामीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः प्रैषादिरूपो नापह्नोतुं शक्यते। वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्तकत्वात्तद्धर्मों भविष्यति कथमज्ञातपूर्वेण प्रवर्त्तयितुर्द्धर्मेणाव्युत्पन्नो बालः प्रथम लिङादेः संवन्धं गृह्णातीति चेत् । पश्य यदा बुभुक्षितस्य बालस्य रोदनेन स्तनदानप्रवर्त्तनां ज्ञात्वा स्तनदाने माता प्रवर्तते तदासौ तस्या मातुः प्रवृत्तेः कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या स्व- प्रवर्तनायां कारणत्वं प्रकल्प्य गामानयेत्यादिवाक्यश्रवणानन्तरं प्र- योज्यवृद्धप्रवृत्ति दृष्ट्वा मातृप्रवृत्तिदृष्टान्तन तस्यामपि प्रवर्तनाज्ञान- कारणकत्वमनुमाय तत्कारणजिज्ञासायां लिडादिशब्दश्रवणानन्त- र्यात्तस्यैवान्वयव्यातिरेकाभ्यां प्रवर्तनाभिधानशक्ति कल्पयन् केन वार्यते । तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेनावाच्यत्वात्स- र्वानुयायिनः प्रवर्त्तनासामान्यस्य वाच्यत्वे ऽवगते तद्विशेषाकाङ्- क्षायां प्रैषादीनां पुरुषधाणां वेदे ऽनुपपत्तेस्तद्विलक्षणं विशेषान्तर- मभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते अतो गृहोत- संबन्धतधा लिङादिवाच्येन प्रवर्तनासामान्येन तद्विशेषस्य प्रेरणा- ख्यस्य लक्षणयावगतिसम्भवात् संबन्धाग्रहणमदोषः । तस्य च प्रव- र्तनासामान्यविशेषत्वेन हेतुना प्रैषादिदृष्टान्तन प्रवर्तयितृधर्मत्वा- नुमानाद्वेदे च पुरुषाभावात् भावनादेश्चै प्रवृत्तिविषयत्वेन तदानीम- सत्त्वात् प्रवर्तकत्वानुपपत्तेः। पारिशेष्याल्लिङादेरेव प्रवर्तकत्वावधा- रणात्तदीयत्वसिद्धेर्न लिङादिशब्दस्वरूपाभिधानापत्ति' । प्रवृत्ति- विषयत्वस्य च श्रेयःसाधनत्वाक्षेपकत्वेन लिङादेः पुरुषार्थापयिक- त्वेनानुविधेयत्वात्प्रवर्तकत्वाव्याहतिः कथं श्रेयःसाधनत्वाक्षेपक- त्वमिति चेत् । पश्य प्रवर्तना तावत् प्रयत्नरूपभावनाविषया सर्व- त्रावधार्यते । गामानयेत्युक्ते गवानयने प्रयतमानस्य कुताश्चत्कारण- गवानयनासिद्धावपि मदाज्ञामयं कृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् खप्रवर्तनाज्ञापनेनेत्यर्थ. । प्रवर्तयितुर्धर्मइति ३ वृत्तरप्यौपाधिकात्तिविषयलखीकारादित्यर्थः । २ ० पा.

प्रथमाध्यायस्य द्वितीयः पादः । इतोऽपसरेतिचोक्त स्वयमप्रयतमानस्य बलात्केनचिदपसारितस्य जा- ते ऽप्यपसरणे नायं मदीयामाज्ञाकृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् । चेतनप्रवर्तकत्वाच्च प्रवर्तनायास्तस्य च प्रयत्नमन्तरेणान्यत्राप्रवृत्तेः प्रयत्नविषयत्वसिद्धिः। प्रयत्नश्चेच्छाकारणकत्वात् तां विना नोप- पद्यते सा च स्वरसतः पुरुषार्थ एव स्वर्गपुत्रपश्वादी भवन्ती सा- धनमन्तरेण तदसिद्धेस्तत्सिद्ध्यर्थ तत्साधने संक्रामेत् । तेन स्वय- मपुरुषार्थस्य यागादेः पुरुषार्थसाधनत्वं विनेच्छाविषयत्वानुपपत्तेः प्रवृत्तिविषयत्वासम्भवेन तत्र लिङादेः प्रवर्तकत्वायोगात्तन्निर्वाहार्थं पुरुषार्थसाधनत्वाक्षेपकत्वसिद्धिः । न चैवं पुरुषार्थसाधनत्वावग- ताविच्छात एव प्रवृत्तिसिद्धः कारणकारणत्वेनान्वयव्यतिरेकयोर- न्यथासिद्धत्वाल्लिङादीनामप्रवर्तकत्वं प्रसज्येतेति शङ्कनीयम् । न हि यत्सिद्ध्यर्थ यत्कल्प्यते तेनैव तद्बाधोचिता कल्पकाभावेना- स्मोपमईप्रसङ्गात् । यथैव च श्रेयः साधनत्वाकल्पने प्रवर्तकत्वानि- हात् तन्निर्वाहाय श्रेयः साधनत्वं कल्प्यते तथैव स्वरूपेण या- गादेः श्रेयः साधनत्वे सति इच्छयैव प्रवृत्तिसिद्धलिङादीनां प्रवर्त्त- कत्वानिर्वाहाद्विहितस्वरूपेण श्रेयः साधनत्वं कल्पयिष्यते । तथा च लोकेऽपि स्वाम्याज्ञामन्तरेण स्वेच्छया गवानयनादौ कृते ऽपि न तत्फलं वेतन लभ्यते तस्मात्प्रवर्तकान्तरासम्भवेऽपि प्रेरणाशापनेन लिङादेर्वेदे प्रवर्तकत्वं सिद्धम् । सा च प्रेरणाप्रवृत्त्युत्पादकन्या- पारत्वाद्भावनाशब्देन गीयते । भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धः व्यापारत्वं च तस्याः सिद्धरूपत्वे निर्व्यापारा- याः प्रवृत्त्युत्पादकत्वासम्भवेन ज्ञानस्य च आयव्यापारत्वायोगा- द्वयापारान्तरकल्पनापत्तौरवपरिहारार्थ कल्प्यते प्रेषणाध्येषणा- दीनामपि पुरुषाशयविशेषाणामनेनैव न्यायेन व्यापारत्वाध्यवसानं द्रष्टव्यं व्यापारस्य च व्यापारवतो ऽत्यन्तभेदाभावाच्छब्दात्मिकेत्यु- क्तम् । एतामेव शब्दात्मिकां शब्दस्यात्मनो व्यापार भावार्थाधिक- रणे तत्रार्थात्मिकायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापा- र.सा द्वितीया शब्दधर्मो भिधात्मिका भावना विधिरित्युच्यतइत्य- तटिति २ पु. ना.। २ इष्टसाधनताज्ञानस्येच्छाजन यात्वात तहारैव वृत्तिरित्यर्थ । ३ यथा श्रेय' साधनव्यतिरीकेण विधिना पुरुषो यागे प्रवर्तयितु न शक्यते इति प्रवर्त- कतानिहाय तत्कन्पाते तथा प्रवर्तकत्वनि हाय विहितरूपेण श्रेय साधनत्व कल्पयि ष्यने अन्यथास्वरूप मति श्रेय:माधन इच्छयैव प्रहत्ते प्रवयं स्य फलाभावात् विधेः प्रवर्तकत्व न म्यादित्य । १ ३२ न्यायसुधायाम्। नेन स्वयमेव विवरिष्यति । लौकिकानां प्रवर्तनाविशेषाणां पुरुषध- र्मत्वेन शब्दात्मकत्वायोगात् वेदविषयत्वं शब्दभावनाया दर्शयितु- मिहेत्युक्तम् । प्रवर्त्तनाविशेषशब्दभावनाविषयभूतायाः प्रयत्नरूप- भावनायास्तत्फलप्रवृत्तिविषयत्वसिद्ध्यर्थं श्रेयोहेतुत्वाक्षेपकत्वायार्थ- शब्दाभिधेयायितृचेतनधर्मार्थनापरम्पोयेच्छायोनित्वसूचनार्थम- र्थात्मकत्वाभिधानमिति सर्व मनोहरम् । ननु सत्यपि भावनाद्वये कयार्थवादानां ग्रहणमत आह * तत्रेति * अनेन च ग्रन्थेनार्थवा- दानामर्थभावनांशाप्रतिपादकत्वे ऽपि तदनुष्ठापकशब्दभावनाङ्गत्वे- नार्थभावनाख्यक्रियार्थत्वं दर्शितम् । कथं तया ग्रहणमत आह * सा हीति * सा शब्दभावना यस्मादेवं वक्ष्यमाणेन प्रकारेण प्रवर्तते अध्ययनविधिवशात्कार्यत्वेन प्रतीयते तस्मात्तदङ्गभूतस्य प्राशस्त्य- ज्ञानस्य तदद्वारेण कार्यत्वावगमात् साधनापेक्षायामर्थवादानां त- साधनतयाध्ययनविधिनैव विनियोगादर्शपूर्णमासभावनयेव प्रया- जाद्यङ्गभूतद्रव्यदेवतादेः शब्दभावनया ग्रहणं युक्तमित्यर्थः। शब्द- भावनायास्तु कार्यत्वाप्रतीतौ तद्द्वारेण प्राशस्त्यज्ञानस्य कार्यत्वान- वगमात्साधनानपेक्षत्वेन स्वरसतो ऽसमर्थानामर्थवादानां लाक्षाण- कप्राशस्त्यज्ञानार्थत्वायोगातू तादर्सेन तया सहग्रहणं न स्यादीत तमेव प्रकारं दर्शयति * स्वाध्यायाध्ययनविधिनेति * अध्यय- नविधिना हि अधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्त्तव्यमिति शक्त्य- नुसारेणाक्षराणि विनियुञ्जानेन लिङादीनि सामर्थ्यात्प्रवर्त्तने वि- नियुञ्जन्ते तत्र चैषां प्रवयितृपुरुषाभावेन स्वातन्त्र्यात्कर्तृत्वमव- सीयते खतन्त्रक श्वानियुक्तस्य वैधविनियोगान्नियोज्यत्वं लिङा- दीनां कल्प्यते । नन्वस्तु नाम विधायकान्तराणामध्ययनविधिनियो- ज्यत्वं तस्य चात्मनि नियोगायोगेनात्मना नियोज्यत्वासम्भवात तद्विषयविधायकान्तराभावाच्च तद्वयापाररूपायाः शब्दभावनायाः कार्यत्वाभावात्प्रेरणाज्ञानजननमात्रेण कृतार्थतया प्रवृत्त्याग्राहकत्वा- भाने सति तद्विषयभूतस्य वेदाध्ययनस्य पुरुषार्थानुबन्धित्वाक्षेपप्रमा- णाभावाद्वेदस्यानर्थक्यं स्यादित्याशङ्कामपाकर्तुम् * स्वाध्यायपदोपा- त्तश्चात्मे * त्युक्तम् अयमाभिप्रायः न तावदचेतनानां लिङादीनां स्वसम्बन्धिप्रेरणाबोद्धृत्वलक्षणं नियोज्यत्वं मुख्यं युज्यते प्रवृत्त्या ग्राहकत्वं तु तेषां पुरुषार्थानुबन्धित्वायाध्ययनविधिना शक्त्यालोच- नेन पुरुषो ज्ञाप्यते स्वारसिकेच्छारहितस्य चादरापरपर्यायग्रह- कारित्वं नियोज्यस्यैव दृष्टमित्यौपचारिकमिह नियोज्यत्वम् । अर्थ- वादान्वयाय शब्दभावनाया विधेयत्वसिद्ध्यर्थे विवक्षितं तच्चाध्यय- प्रथमाध्यायस्य द्वितीयः पादः । ३३ नविधावपि समानं तस्य च स्वरूपेण नियोक्तृत्वं स्वाध्यायपदोपा- त्तत्वरूपेण विधायकान्तरसाधारण्येन नियोज्यत्वमित्यौपचारिक- भेदाश्रयणात् न विरुद्धमिति । भावयेदिति च विधिः प्रेर्यान्वयात् प्राग्विषयान्वयपक्षे लिङादिप्रेर्यान्वयवशेन व्यापारविशेषानवगमा- सामान्यविवक्षयोक्तम् । अत्र भाव्याकाङ्क्षायां यच्छक्यते तदित्यव- धारणात् शक्तिप्रदर्शनपूर्वकं पुरुषप्रवृत्तेर्भाव्यत्वं दर्शयति * तत्रेति * येन लिङादीनां प्रवर्तकत्वे शक्तिः पुरुषस्य च प्रवर्त्यत्वे तेन कारणन भावनाया भाव्याकाङ्क्षायां पुरुषप्रवत्तनं भाव्यत्वेन संबन्ध्यतइत्यर्थः । प्रवृत्तेः प्रयोज्यव्यापाररूपत्वात्प्रयोज्यान्वयं विना भाव्यत्वासम्भ- वाच्चेतनं प्रवर्तकत्वेन श्रेयस्साधनत्वाक्षेपपर्यन्तत्वसूचनार्थ पुरुष- विशेषणं प्रेर्यान्वयपूर्वकविषयान्वयपक्षे तु प्रवर्तनाख्थे व्यापा- रविशेषे एव लिङादे शक्त्यवधारणात्तत्रैव नियोगकल्पनायां किमंशापेक्षा पुरुष एव पूरयिष्यतीत्याह * अथ विति * लिङादिविषया क्रिया प्रवर्तयोदित्येवं विशेषरूपेणोच्यते विधेयत- या प्रतिपाद्यतइत्येव योज्यं, नन्वचेतनत्वाल्लिङादीनां नियोज्यावगम- पूर्वकप्रयोजककर्तृत्वानुपपत्तेः कथं तद्वशेन पुरुषप्रवर्तनस्य भाव्य- स्वाभिधानमित्याशङ्कयाह * यद्यपि चेति * अध्ययनविधिना लि- ङाद्यध्ययने नियुज्यमानस्य पुरुषस्य कतमं ममोपकारं करिष्यन्तीत्य- पेक्षायां प्रवर्तनाज्ञापनद्वारेण पुरुषार्थसाधनबोधरूपमिति सामथ्र्था- लोचनेनावगतौ सत्यां प्रवर्तनाज्ञापनमात्रपर्यवसाने पुरुषार्थसाधन- त्वाक्षेपायोगादनुपकारकत्वोपपत्तेर्मातापित्रादिवदाग्रहेणेष्टसाधनेषु कर्मसु प्रवर्त्तयिष्यन्तीतिप्रवृत्त्या ग्राहकत्वावगतिर्भवति तेन लिङा- दिभिरवश्यं प्रवर्तनीय इति लिङादिविषयनियोगावगतिर्या पुरुषस्य भवति तो लिङादिषु उपचर्य प्रयोजकत्वब्यवहारो ऽयमित्यर्थः । न चैतत्वोत्प्रेक्षामात्रेणास्माभिर्लिङादीनां प्रयोजकत्वमुच्यते कि तु क- र्तृवाचिण्वुल्प्रयोगादन्यैरपि अभियुक्तैरङ्गीकृतमित्यवसीयतइत्याह * यदि चेति * करणाकाङ्क्षायां शक्त्यालोचनेन प्रेरणाशानस्यान्वयं दर्शयति * अथेति * विधेरलौकिकत्वेन लिङादिप्रतिपाद्यत्वासम्भ- वमाशय प्रवर्तनासामान्यन पूर्वोक्तरीत्या सम्बन्धग्रहणसम्भवात लिङाद्याभिहितेन लक्षणवा तत्प्रतिपादनसम्भवप्रदर्शनार्थ पूर्वसम्ब- न्धानुभवापेक्षेणेत्युक्तम् । इतिकर्सव्यताकाङ्क्षायां प्राशस्त्यज्ञानस्या- न्वयं दर्शयति * कथमिति * ननु विधिज्ञानमात्रेण प्रवृत्तिसिद्धर- न्यानपेक्षत्वात्कथमित्यपेक्षाप्रदर्शनमयुक्तम् । अथापि भावनान्तरह- १ विधिज्ञान सबन्धजान तयोरत्यय ५ न्यायसुधायाम्। धान्तेनात्रापि कथम्भावाकाङ्क्षा स्यात् । तथापि विधिसम्बन्धज्ञान- योरेव कारणतिकर्तव्यतात्वसम्भवात्प्राशस्त्यज्ञानस्याज्ञातशक्तिकस्ये- तिकर्तव्यतात्वाभिधानमयुक्तमित्यभिप्रायद्वयेन पृच्छति * कुत एत. दिति * एतत्कथमित्यपेक्षणं प्राशस्त्यज्ञानस्य चानुग्राहकत्वं कुत इत्यर्थः । उत्तरम् * बुद्धिपूर्वेति * विध्यन्यथानुपपत्त्य ष्टसाधनत्वाव- गमात् प्रवृत्तिहत्विच्छोत्पत्तावपि द्रव्यव्ययायासदर्शनेनापि अनिष्ट- साधनत्वावगमात्प्रवृत्तिप्रतिबन्धकालस्य हेतुद्वेषसम्भवे प्रवृत्त्यभाव- प्रसङ्गात्तदपनायकापेक्षायां प्राशस्त्यज्ञानस्य लोके तदपनयशक्तत्वेन दर्शनाधुज्यते ऽनुग्राहकन्वमित्यभिप्रायः । उत्तनातीत्यनेन प्रतिब- न्धकापनायकत्वं दर्शितम् । ननु प्रवृत्तिकारणेच्छाविरोधिद्वेषनाशा- य प्राशस्त्यज्ञानापेक्षणे फलांशे ऽपि तदपेक्षोपपत्तेः स्वर्गखरूपप्रति- पादकानामपि वाक्यशेषाणां प्राशस्त्यपरत्वेन खरूपपरत्वाभावप्रस- ङ्गात् न लौकिकसुखातिरिक्तवर्गसिद्धि स्यादित्याशयाह *तञ्चेति* अयमभिप्राय. अङ्गप्रधानयोरवे विषयत्वात्प्रेरणाविषयएव शस्त्यज्ञानस्य कार्यत्वावगते' फलांशे च खारसिकेच्छात एव प्रवृ- त्तिसिद्धेरानर्थक्यप्रसङ्गात, प्रेरणानुपपत्ते. प्राशस्त्यज्ञानस्य कार्यत्वा- भावात्, साधनानपेक्षत्वनार्थवादाग्रहणात्स्वर्गसाधनतो विध्यपेक्षित- स्वर्गखरूपप्रतिपादनार्थानां वाक्यशेषाणां प्राशस्त्यपरत्वाभावात्स्व- रूपे प्रमाण्यं न विरोत्स्यत इति । क तर्हि प्राशस्त्यज्ञानस्य साधना- पेक्षत्यत आह * साधनेति * साधनेतिकर्तव्यताविषये प्राशस्त्यज्ञा. नस्य साधनभूतशास्त्राकाङ्क्षायामपि फलपदादिभिरेव तसिद्धिस- म्भवात्कथमर्थवादानां तादयंन शब्दभावनया ग्रहणमित्याशय यथासम्भवं साधनान्तराणि निराकर्तुमुपन्यस्यति * तत्पुनरिति * तत्प्राशस्त्यप्रतिपादनं केन शास्त्रेण क्रियेतेस्यर्थः । निराकरोति *त- श्रेति * दूषणगुणोपन्यासार्थस्तत्र शब्दः । ननु यद्यन्यार्थत्वे प्राश- स्त्यार्थत्वं न युज्यते प्राशस्त्यार्थत्वमेव केवलमस्त्वत आह * विध्यु- त्तरेति * पूर्वोपेक्षितार्थत्यागो न युक्त इत्यभिप्राय कारणान्तरमाह * लक्षणया चेति * फलाभावापत्तेरपि प्राशस्त्यार्थत्वं न युक्तमि- १ इच्छीत्पादनहारा प्रवर्तकत्वम् इच्छा चष्टसाधनवज्ञाम विना ने सभवतीति अनु- पपत्तिशब्दार्थ । २ अङ्गप्रधानयोरेव विधिविषयत्वान्न फलांशस्य विषयत्वमित्यर्थे । ३ आदिग्रहणाद्देवतापरिग्रह यमादतरफल कमेतद्देवताक तस्मात्प्रशस्त मित्यर्थ । ४ साव्यसाधनतिकर्तव्यतावांशष्टाया माबनाया सिदायामवोद्देश्य त्वन्ततच पूर्वमेव फ- हवेनामन्वय इत्यर्थ । ४ ।

प्रथमाध्यायस्य द्वितीयः पादः। त्याह * युगपञ्चेति * ननूभयपरत्वायोगात् फलादिषु तात्पर्याभावे ऽपि प्रतीयमानत्वात्फलादीनां सिद्धिः स्यादत आह * न हीति * वक्ष्यतइत्यपापश्लोकश्रवणादीनां प्रशंसार्थत्वेनोपात्तानां फलत्वाभा- वः पर्णमय्यधिकरणे जतिलयवाग्वा वा जुहुयादित्यादौ लिङो वि- धित्वाभावो जर्तिलयवाग्वादेश्चेतिकर्तव्यत्वाभावो दशमे वक्ष्यमाण. परामुष्टः । यत एवोक्तप्रकारेण प्राशस्त्यपरत्वे फलाद्यभावः प्रसज्य- ते अत एवानन्यलभ्यफलादिपरत्वावधारणानार्थात्प्रतीयमाने ऽपि प्राशस्त्ये फलपदादीनां तात्पर्यमित्याह * अत एवेति * एतदेव दृष्टा-- न्तद्वारेणोपपादयितुमाह * न हीति * धावनक्रियैवानिष्पन्नरूप- स्वात्कार्यशब्देनोक्ता न तेनान्वीयन्तइत्यर्थः दार्शन्तिके योजयति * तद्वदिति * इच्छाविरोधिद्वेषनाशवाचिना प्ररोचनाशब्देन तद्धे- तुभूतगुणातिशयवत्त्वलक्षणं प्राशस्त्यं लक्षणया व्युत्पत्त्या वोक्तम् । ननु यथा प्रतितिष्ठन्ति हवा य एता रात्रीरूपयन्तीत्यादीनां प्राश- स्त्यपराणामप्याकासितफलसमर्थकत्वमङ्गीकृतं तथा भूनिकामादि- शब्दानां फलादिपराणामप्याकाक्षितप्राशस्त्यसमर्थकत्वमपि क- स्मान्न स्यादित्याशङ्कयाह * अन्यथानुपपत्त्या चेति * प्रका- रान्तरेण फलप्रतीत्ययोगादगत्या तत्र तथाङ्गीकृतम् । न चे- हागतिरस्तीत्यभिप्रायः । नन्वर्थवादानां खरसतः प्राशस्त्य- प्रतिपादनशक्त्यभावात् इहापि सर्वप्रमाणप्रत्यस्त्यमयादगतिः स- मानेत्याशयाह * प्रमाणाभावश्चति * स्वरसतोऽशक्तावपि ल- क्षणया तत्प्रातिपादनशक्तिसम्भवान्न प्रसाणाभावनिश्चय इति भावः। नन्वेवं तर्हि वसन्ताय कपिञ्जलानालभतइत्यादावपि अर्थवादाका- क्षा प्रसज्येतेत्याशयाह * तद्यदीति * अतिदेशग्रहणं तस्योक्ती बन्धुस्तस्योक्तं ब्राह्मणमित्यादिवाचनिकातिदेशविषयं द्रष्टव्यम् । श्रु- तविध्यन्यथानुपपत्त्यैव प्राशस्त्यकल्पनोपपत्तावसन्निहितार्थवादा- तिदेशकल्पने प्रमाणाभावात्कल्पने वा वसन्तादिवाक्येष्वपि अग्नी- षोमीयप्रकृतित्वेन तदीयार्थवादतिदेशसम्भवाद्विध्युदेशस्य शक्तिद्वय- कल्पनं निरवकाशमेव स्यात् * दर्विहोमन्यायेनेति * यथा दर्वि- होमेषु भिन्ने जुहोतीत्यादिजुहोतिचोदनविहितेष्वविहितेतिकर्तव्य- ताकेष्वपि प्रकृतिविशेषानिर्धारणानियतविध्यन्तातिदेशानुपपत्तर- १ ननु कथ चिचोदनलिङ्गानुमितवचनादेवार्थवादातिदेशकल्पना भावष्यत्यत आह प्रमाणावादिति अर्थ भाव काल्पनिकातिदशम्यार्थभावनेतिकर्तव्यतानिदेशकल्प कत्वात अर्थवादामा च प्राशलाप्रतिपादनेन शब्दभावनेतिकर्तव्यतागबेन सदंशाप्रतिपादकत्वादि ति प्रत्यक्षवचनस्य निर्विषयत्व १ स्यादित्यपि बोद्धव्यम् ।

न्यायसुधायाम् । नियमसतिदेशयोश्चाष्टमाघे निराकृतत्वादपूर्वत्वेनाष्टमान्ते वक्ष्य- माणेषु यावच्छतस्य द्रव्यदेवतादरितिकर्तव्यताजातस्य सन्निपत्यो- पकारित्वेन नियमापूर्वद्वारा करणपूर्वोत्पत्तिमात्रे पर्यवसायितया ऽन्यत्रावधारितस्याप्यगत्यारादुपकारकाङ्गसाध्यकरणानुग्रहसाधन- त्वमपि कल्पितम् । तथा वसन्तादिवाक्यष्वपि विधायकस्यैव क- रणभूतविधेयज्ञानोत्पत्तिमानपर्यवसायितयान्यत्रावधारितस्याप्यग- त्याङ्गभूतप्राशस्त्यशाने ऽपि व्यापारः कल्पयिष्यतइत्यर्थः । लक्षणया प्रेरणापरनामधेयस्य विधेः प्रतिपादनात्प्राशस्त्यस्य चान्यथानुपप- त्याक्षेपाच्छक्तिशब्दो व्यापाराभिप्रायो व्याख्येयः । अर्थवादाभावे ऽपि विधेरेव खानुग्राहकप्राशस्त्याक्षेपकत्वं युक्तं न तु फलतिकर्त- व्यतापदानां कथं चिदित्येवकारेण सूचितम् । योजना त्वेवं य- स्मात्सर्वप्रकारं प्रयतमानस्य यः प्रमाणाभावस्स प्रमाणं तस्माद्यदि केन चिदन्येन प्ररोचनां न लप्स्यामहइति । कथं चित्त्वन्यतः प्ररो- चनालाभसम्भवे ऽन्यत्रोपयुक्तस्य विधायकस्य तदाक्षेपकत्वायोगा- द्वायव्यादिवाक्येषु प्राशस्त्यज्ञानस्य साधनापेक्षा युक्त्याह * अथ त्विति * केन चिल्लक्षणयापि प्रतिपादकेन दूरस्थेनातिदोशकेनापि यदि प्ररोचना सेत्स्यतीत्यर्थः । नन्वेवं प्राशस्त्यप्रतिपादनस्य साध- नभूतप्राशस्त्यशास्त्रापेक्षायामप्यर्थवादानां तत्र शक्त्यनवधारणात्कथं तादयेंन शब्दभावनया ग्रहणमित्याशङ्ख्याध्ययनविध्यालोचनेनैवेषां प्राशस्त्यपरत्वं दर्शयितुमाह * तथेति * यथालभेतेतिविधिः स्व- विषयप्राशस्त्यप्रतिपादकं प्रति साकाङ्क्षस्तथावायुर्वं क्षेपिष्ठा देवते- त्याद्यपि प्रतिपाद्यमर्थ प्रति साकाक्षमेवेति यस्तेन भूतान्वाख्यान- रूपेण वाक्यार्थने लक्ष्यमाणः प्राशस्त्यरूपोऽर्थः सोऽर्थवादप्रतिपा- द्यत्वेन स्वाध्यायाध्ययनविधिना परिगृह्यतइत्यन्वयः । प्राशस्त्यस्या- र्थवादप्रयोजनत्वे योग्यतां दर्शयितुमनन्तरप्रवृत्तेत्याधुक्तम् । वि- धिसबन्धद्वारा चेत्प्राशस्त्यस्य पुरुषार्थानुबन्धित्वं तयर्थवादानां विधिनैव साक्षात्प्रतिपादकलक्षण. संबन्धो ऽस्तु किमन्तरा प्राश- स्त्यनेत्याशय यच्छक्यत इत्याधुक्तम् । न तावल्लिङादिवत्तस्य वि- ध्यभिधाने शक्तिरस्ति,न च प्राशस्त्यलक्षणया श्रुतविध्यैकवाक्यत्वसं- भवे वाक्यभेदापादकप्राशस्त्यं विना विध्यनिर्वाहातू प्राशस्त्यलक्ष- णावश्यंभावेन गौरवापादकमश्रुतविध्यन्तरकल्पनं युक्तमित्याशयः शक्त्यभावाञ्चन्न साक्षाद्विधिना संबन्धस्ततो ऽक्षरग्रहणएव साक्षा- १ ननु केवलार्थवादाना वाक्यत्वाभावाहाक्यार्थेनेत्ययुक्तम् । सत्य वाक्यार्थे नेत्यस्यायमर्थः अर्थवादस्थान कै. पदार्थैलक्ष्यतइति ।

प्रथमाध्यायस्य द्वितीयः पादः। च्छक्तः पर्यवसानप्रसङ्गाद्वाक्यार्थपर्यन्तमगमनात् कथं तेन प्राश- स्त्यलक्षणा स्थादित्याशझ्यापुरुषार्थत्वेन वेत्याधुक्तम् । अक्षराणामा- दिरादाने ग्रहणमक्षरादिशब्देनोक्तम् । तत्रैव तर्हि श्रौततात्पर्याव सानमस्त्वित्याशयोक्तम् * तत्रापि त्विति * साधनानुरूपेत्यादिना लक्षणाप्रकारो दर्शितः। अयं चोभयाकाङ्क्षालक्षणत्वात्प्राशस्त्या- र्थवादयोः प्रतिपाद्यप्रतिपादकत्वसंबन्धः समञ्जस एवेत्याह * सो ऽयमिति * एवं चास्मिन्सन्निकृष्ट संबन्धे संभवति विधायकार्थ- वादयोः प्राशस्त्यविध्याकाक्षित्वे ऽपि प्राशस्त्यविध्योरर्थवादविधा- यकप्रतिपादितत्वेन प्रतिपादकानाकाङ्क्षत्वादन्यतरांकाङ्क्षालक्ष- णत्वेन च विप्रकृष्टः प्राशस्त्यविधायकयोर्विध्यर्थवादयोर्वा प्रतिपाद्य- प्रतिपादकसंबन्धो न युक्त इत्याह * एवं चेति * विधायकोपयोगं प्रसङ्गाद्वक्तुं न चार्थवादरित्यायुक्तम् । दृष्टान्ततया वा । नन्वेव- मप्यन्यतरेणोभयकार्यसिद्धरुभयाम्नानानर्थक्यमत आह * आम्ना- नेति * उभयोरित्यर्थवादैरेव प्ररोचितं विधायकैरेव विहितं सदु- नुष्ठितं फलं साधयतीति अध्ययनविधिरव कल्पयिष्यतीत्याभिप्रायः उभयोरित्यर्थवादप्ररोचनयोरित्यर्थः । एतमेव न्याय निन्दार्थवादे- ध्वतिदिशति * एतेनेति * तत्रापि निषेधान्यथानुपत्त्यानिष्टसाध- नत्वबोधानिवृत्तिकारणाप्रीतिसम्भवे ऽपि तादात्विकष्टसाधनत्वाव- गमानिवृत्तिप्रतिबन्धकोत्साहकारणेच्छाप्रसङ्गे निवृत्त्यभावापत्तेरप्री- तिविरुद्धच्छानाशाख्यप्रद्वेषोत्पादनशक्तत्वेन दोषातिशयत्वलक्षण प्राशस्त्यज्ञानस्य लोके ऽपि दर्शनानिवृत्तिफलाया नलिङादियुक्त- शब्दभावनाया निवारणापरनामधेयनिषेधज्ञानात्मककरणानुग्राहक- त्वं तावदवसीयते तत्र च साधनापेक्षायां पूर्वोक्तेनैव प्रकारेण सो ऽरोदीदित्येवमादीनामध्ययनविधिबलात्साधनत्वावगतेस्तादर्थेन श- ब्दभावनया ग्रहणमनुसन्धेयम् । अप्रशस्तप्रत्ययाधीनोत्पत्तिरस्यति विग्रहः प्रशस्तग्रहणं दृष्टान्तार्थम् । तस्मादध्ययनविधिबलेनार्थवा- दानां पुरुषार्थानुबन्धित्वाय लाक्षणिकस्तुतिनिन्दापरत्वावधारणारू- पभङ्गनैकवाक्यतासिद्धति पूर्वाक्षिप्तैकवाक्यतासमर्थनोपयोगित्वं, त- दुच्यते इत्यारभ्याध्ययनविधिव्यापारचात्मकस्य वार्तिकखण्डक- स्य दर्शयति * अतश्चेति * समभिव्याहारवशात्पूर्वमेवावगतस्यैक- १ अन्यतरति विधायकस्य प्राशस्तयाकाइ क्षायामपि प्राशस्ताम्य तदनाक्षत्वात्तस्यार्थ- बादैरव प्रतिपादितत्वात् । एवमर्थवादानाविध्याकाडक्षासले ऽपि न विधस्तदाकाक्षा विधयकै नैव विधिप्रतिपादनादित्य थे । २ वदावे मवं तादाविक तात्कालिकमित्यर्थः ।

न्यायसुधायाम्। वाक्यत्वस्य परस्परनिरपेक्षत्वेनानुपपत्तिप्रतिभासे 5ध्ययनविधि- सामर्थ्यावधारितस्तुतिनिन्दापरत्वेनार्थवादानां विधिनिषेधग्रहणा- निर्वाहः क्रियतइति * सिद्धिग्रहणेनोक्तम् * नन्वध्ययनविध्यव- धारितपुरुषार्थपर्यवसायित्वात्तेनैव स्तुतिनिन्दापरत्वावसायात्किमि- ति महता प्रयासेनैकवाक्यत्वं साध्यते ऽत आह * नित्यं चेति * विधिनिषेधापेक्षावशाल्लक्षणाया स्तुतिनिन्दापरत्वं खरसतो प्रती- यमानमपि कल्प्यते तदभावे तु प्राशस्त्याप्राशस्त्यलक्षणाकारणाभा- बात्सिद्धवत् कीर्तनान्यथानुपपत्त्या ताभ्यामेव तमग्नीषोमीयमेका- दशकपालं पूर्णमासे प्रायच्छदित्यादिवद्विधिकल्पनेनैव पुरुषार्थप- र्यवसानसिद्धरित्याशयः । वाक्यशेषग्रहणेन खातन्त्र्ये सति स्तु- तिनिन्दानिर्णयहेतुत्वाभावं दर्शयति तत्र कारणमाह * न हीति * अव्यवस्थामुपपादयति * निन्दारूपाखिति * अविधेयनिन्दात्वे- नाभासमानासु परमार्थता निन्दाविपर्ययविधेयस्तुतित्वदर्शनाद्विधे- यनिन्दात्वेनाविधेयस्तुतित्वेन चाभासमानानां परमार्थतस्तद्विपर्यय- केवलविधेयस्तुतित्वदर्शनादित्यर्थः । यथाक्रममुदाहरणद्वयमाह * यथेति * प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुन्हति ये ऽग्निहोत्रमित्यनुदिते होमनिन्दात्वेनाभासमानापि तस्मादुदिते होत- व्यमिति विध्येकवाक्यत्वात् स्तुतिरेवेति शाखान्तराधिकरणे भा- ध्यकारो वक्ष्यति। दशमे च त्रैयम्बकान्पुरोडाशान्प्रकृत्य पठितमभि- घार्यास्त्रयम्बका नाभिघार्या इति मीमांसते यदभिधारयेद्रुद्रायास्य प- शूनिदध्याद्यन्नाभिघारयन्न रूद्रायास्ये पशून्निध्यान्न सूक्ष्ममभिघार्या एव न घनभिघृतं हविरस्तीति वाक्यमुदाहृत्य चिन्तयिष्यते । कि- मभिघार्यानभिघार्या इति विधिप्रतिषेधार्थता उत नेति । तत्र हिंस्र- रुद्रास्ये पशुनिधानापादकत्वेनाभिघारणस्य निन्दितत्वादनभिधारणस्य च तदनापादकत्वेन स्तुतत्वान्निषेधावगतेन ह्यनाभिघृतं हविरस्तीति च हविः सम्पादकत्वेनाभिधारणस्य स्तुतत्वाद्विध्यवगतोर्वकल्पे प्राप्ते ऽभिधास्यते मीमांसासमाभव्याहारेण विधिनिषेधशक्तिप्रतिब- न्धादभिधारणाभिधारणनिन्दास्तुत्योश्चाभिघार्या एवोति विध्येकवा- क्यत्ववशेनाभिघारणस्तुतिपर्यवसायित्वावधारणान्न वाक्यभेदापा- दकं विधिप्रतिषेधार्थत्व युक्तमिति । तत्र कथमाभधारणस्तुति- रित्यपेक्षिते वक्ष्यते इत्थमभिधारणं प्रशस्ततरं यत्रयम्बकानां दर्विहोमत्वेनापूर्वत्वादतिदेशतो प्राप्ते भीमांस्यमाने दोषो ऽप्येवं विधो ऽनभिधारणस्य च गुणो न गण्यते हविः स- म्पादकत्वेन' गुणवत्तरत्वादिति । न केवलं खातन्त्रे ऽन्यथाप्र- प्रथमाध्यायस्य द्वितीयः पादः । तिभानादव्यवस्था किं तु सन्देहादपीत्याह * सन्दिग्धोत * तत्रा- प्युदाहरणमाह * यथात * यथोक्तं नवमे यहचा स्तुवते तदसुरा अन्ववायन्यत्साम्ना स्तुवते तदसुरा नान्ववायन्य एवं विद्वात्साम्ना स्तुवीतेत्युदाहृत्य किमृचा स्तुवत इति च विधानार्थमुत साम्ना स्तु- वीतेत्येतद्विहितसामस्तुत्यर्थमिति चिन्तयिष्यते । तत्र य एवं वि- द्वान्साम्ना स्तुवीतेत्यस्य कर्तृप्रवृत्त्यनुवादियच्छब्दयोगेन य एवं वि- द्वान्पौर्णमासी यजतइत्यादिवद्विधिशक्तिप्रतिबन्धादित्तरयोस्तु क्रि- यास्वरूपमात्रानुवादियच्छब्दयोगेन यदाग्नेयो टाकपाल इत्यादिव. द्विधिशक्त्यप्रतिबन्धादुभयविधिवशाद्विकल्प इति पूर्वपक्षिते कथम- सुरागमननिमित्तत्वेन निन्दिताया ऋचो विधिः इत्याशय भाष्यका- रो वक्ष्यति । न वयं निन्दितानानन्दितान्वासुरान्विम इति भाष्यका- रोक्तं सन्देहमुपपादयति * कदा चिदिति * सिद्धान्ते विध्येकवा- क्यतावशेनैव निर्णय इत्याह * तत्रेति * स्तुचीतेतिप्रत्यक्षस्य विधे- 'र्यच्छब्दयोगे ऽपि प्राप्त्यभावेन य एवं विद्वान्सामेन यजेतेतिवद्वि- धिशक्त्यप्रतिबन्धादितरयोस्तु वर्तमानापदेशत्वेन विध्यशक्तेरेकवा- क्यत्वसम्भवे वानेकाहष्टानुबन्धिवाक्यभेदापादकविधिद्वयकल्पना- योगात्सामविध्येकवाक्यत्ववशेन सामस्तुत्यर्थमृचां निन्देति सिद्धा- न्ते निर्णय इत्यर्थः । ननु वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिङ्गमयतीत्यादीनां यो बर्हिषि रजतं दद्यात्पुरास्य संवत्स- राद् गृहे रोदनं भवतीत्यादीनां च पदानां स्वरसतो भूतान्वाख्याना- र्थानामपि लाक्षणिकस्तुतिनिन्दार्थत्वसम्भवेन विधिनिषेधैकवाक्य- तावसायात्तात्पर्यनिर्णयो भवतु परिशिष्टानां वायुर्वै क्षेपिष्ठा देवते- त्यादीनां सो ऽरोदीत्येवमादीनां च लक्षणयापि स्तुतिनिन्दार्थत्वा- प्रतीतेर्विधिनिषेधैकवाक्यत्वासम्भवात्कथं तद्वशेन स्तुतिनिन्दापर- स्वनिर्णयो ऽत आह * सर्वत्र चेति * तेषामपि स्तावकनिन्दकपदै- कवाक्यत्वेन स्तुतिनिन्दार्थत्वसम्भवात्तद्वारेण विधिनिषेधैकवा- क्यत्वोपपत्तेः स्तुतिनिन्दापरत्वनिर्णय इत्यर्थः । यत्र तर्हि न किं चिदपि पदं स्तावकं निन्दकं वोपलभ्यते आपो वै शान्ता इत्यादिषु तत्र पारम्पर्येणापि विधिनिषेधैकवाक्यत्वासम्भवात्कथं स्तुतिनि- न्दापरत्वनिर्णयो ऽत आह * यत्रापीति * तत्रापि वेतसशाखयाव- काभिश्चानि विकर्षतीत्यादिविधिसन्निधिवशेन लक्षणया तद्विधेयवे- तसावकास्तुतिप्रतीतेर्लक्षितलक्षणया वा विकषर्णस्तुतिप्रतीतेर्विध्येक- वाक्यत्वात्तात्पर्यनिर्णय इत्यर्थः । यद्वैतदफक्किकाद्वयमेकवाक्य- स्वाभिधानोपयोगप्रतिपादनपरतयैव व्याख्येयं विधिनिषेधैकवाक्य- न्यायसुधायाम्। त्वाभावे केषु चित्पदेषु कथं चित्स्तुतिनिन्दाप्रतीतावस्यानर्थक्येनोप- पादनानपेक्षत्वात्परिशिष्टानां पृथग्वाक्यत्वेन स्वरूपमात्रेण पर्यव- सानं स्यात्तादृक् पदाभावे च स्तुतिर्वा निन्दा वा शयैव न केवले- नैव स्यादिति । ननु विधिनिषेधयोः स्तुतिनिन्दापेक्षायां तदभावे वसन्तादिवाक्येषु साकाङ्क्षत्वादप्रामाण्यं स्यादत आह*विधीति * विधिप्रतिषेधयोर्मध्ये ऽन्यतरदर्शनेन स्तुतिनिन्दयोर्मध्ये ऽन्यतरदनु- मायेत्यर्थः। एवं वैदिकार्थवादोपयोगं व्युत्पाद्य स्मृत्यधिकरणवक्ष्य- माणप्रामाण्यविद्यास्थानान्तरगतेष्वर्थवादेषु तमेव न्यायमतिदिशति * एवं चेति * इतिहासपुराणयोरर्थवादबहुत्वाद्भारतादीत्युक्तं, न- न्वध्ययनविधिबोधितपुरुषार्थानुबन्धित्वबलेन वैदिकार्थवादानां श्री- तार्थातिक्रमेण लाक्षणिकस्तुतिनिन्दापरत्वमवधारितमत्र तु कथमि- त्युत्शङ्कयात्राप्यध्ययनविधिस्थानीयं विधिं दर्शयति * तेपामपि हीति * एतया निषादस्थपति याजयदित्यादिवत् प्रयोज्यव्यापारत्व- मभिप्रेत्य श्रावणविध्युपन्यासः धर्मादीनां साध्यानां साधनप्रतिप- त्तिरिति विग्रहः धादिचतुष्टयसाधनप्रातिपत्तिरूपादानाङ्गभूताऽध- मौदिचतुष्टयसाधनप्रतिपत्तिः परित्यागाङ्गभूतेति योज्यं भारतो. पक्रमे। धम्मै चार्थे च कामे च मोक्षे च भरतर्षभ । यदि हास्ति तदन्यत्र यन्नेहास्ति न तत्कचिद् । इति जनमेजयस्य भारतश्रवणप्रवृत्तिसिद्ध्यर्थ धादिचतु- विधपुरुषार्थतत्पूतियोगिचशब्दसूचिताधादिसाध्यसाधनप्रतिपाद- नपरत्वाभिधानात्सर्वत्र यथासम्भवं तत्परत्वमुन्नेयमिति भावः । ननु विधिनिषेधशून्यानां बहुशो भारतादिषु दर्शनात्कथं पुरुषार्थपर्य- वसानकल्पनमित्याशय यथासम्भवं विभज्योपयोगं दर्शयितुमाह * तत्रापि त्विति * शङ्कानिरासार्थस्तु शब्दः । दानराजमोक्षाणां धर्मा इति द्वन्द्वगर्भः षष्ठीसमासः दानस्येतिकर्तव्यताभूतो धर्मों राज्ञो ऽनुष्ठेयः मोक्षस्य साधनमादिशब्देन तपो ब्राह्मणाभ्युदयादिसं- बन्धिधर्मोपादानम् । अनेन च अन्थेन तत्सन्निधिपठितानामुपाख्या- नानां तत्तद्विधिशेषत्वेनोपयोगो दर्शितः । विध्यश्रवणे ऽप्येकानेक- कर्तृकत्वचरित्रकथनात्मकपरकृतिपुराकल्परूपेण यस्मात्पूर्वैर्महा- त्मभिरेवं कृतं तस्मादन्यैरपि कर्त्तव्यमिति विध्यनुमानातच्छेषत्वेना- र्थवादतयोपयोगो भविष्यतीत्याह * के चित्पुनरिति * किमित्येवं १ आनर्थक्यनेति विव्येकवाक्य चाभावेन स्तुतेन खोपपाद कार्यवादपदान्त रानपेचलातह तदृव्यतिरिक्ताना पदाना पृथग्वाक्यत्वम् ।

प्रथमाध्यायस्य द्वितीयः पादः । क्लेशाङ्गीकरणमत आह * सर्वोपाख्यानेषु चेति * अन्यपरत्वादेव खार्थसत्यत्वमनाशयमित्याह * तत्परत्वाञ्चति * ननु वेदस्यापौ- रुषेयत्वेनापर्यनुयोज्यत्वाद्यथाम्नातस्य न्यायबलेन तात्पर्यकल्पनं युक्तं भारतादौ त्वसत्योपाख्यानप्रणतॄणां मूढत्वं विप्रलम्भकत्वं वा प्रस- ज्येतेत्याशयाविवक्षितोपाख्यानविस्तरप्रणयने कारणमाह * वेदप्र- स्थानति * एवमपि प्रक्रियामात्रत्वादबुद्धिपूर्वकारिता स्यादत आह * प्रतिपाद्यानां चेति * विचित्रबुद्धित्वमेव दर्शयति * इहोत * नन्वेवमपि केषां चित्प्रतिपत्तिसिद्धौ शास्त्रप्रणयनार्थवत्त्वोपपत्तेरलं महता प्रबन्धेनात आह * सर्वेषां चेति * न चासत्यापाख्याप्रणे- तृत्वेन व्यासादीनामप्रत्यापितत्वाशङ्का धादिविषयाणां विधिप्रति- षेधानां केषां चिच्छृतिमूलत्वदर्शनेनार्थादिविषयाणां च प्रमाणा- न्तरमूलत्वेनाप्तत्वावधारणादित्याह #तति * आदिशब्देनानर्थ- दुःखोपादानं न चोपाख्यानेष्वपि तेषामसत्यवादित्वं बहूनां वेदलो- कमूलत्वात्स्योत्प्रक्षितानामपि काव्यवत् लोकरञ्जनार्थत्वेन विप्रलि- प्साभावादित्याह * तथेति * ननु धादिविषयाणां स्मृतीनां वेदैकशरणत्वात् प्राण्य स्यात्तद्गतानामवेदमूलानामर्थवादानां विध्येकवाक्यत्वाभावेन स्तुत्यर्थत्वायोगादप्रामाण्यं स्यादित्याशङ्कयाहं * सर्वे चेति * अर्थवादशून्ययोर्विधिप्रतिषेधयो श्रुतार्थापत्त्यार्थ- पादकल्पकत्वस्य विधिप्रतिषेधयाश्च स्तुतिनिन्दाभ्यामविनाभावाद- न्यतरदर्शनेनान्यतरदनुमाय वाक्यं पूरयितव्यमित्यत्रोक्तत्वाद्वेदक- ल्पितार्थवादानां व्यासादिभिर्लोकानुसारेण स्वोत्प्रेक्षया वा प्रणीत- त्वात्सम्भवत्येवैकवाक्यत्वमिति भावः । ननु भवतु विधिप्रतिषेधस- निधिपठितानां प्रत्यक्षमूलभूतवैदिकार्थवादाभावेऽप्युक्तेन न्यायेन काल्पनिकविधिप्रतिषेधैकवाक्यभूतार्थवादमूलत्वेन तदेकवाक्यत्वा- स्तुतिनिम्दार्थत्वम् । तत्सन्निधिरहितानां तु स्तुतिनिन्दार्थत्वायो- गादानर्थक्यं स्यादत आह * ये त्विति * खयंशब्दन स्वातन्त्र्यमु- क्तम् । प्रीतिं जनयन्तीति कामोपयोगितोक्ता पार्थिवानामुपयुज्यन्त- इत्यर्थोपयोगता ऽदृष्टशब्देन धोपयोगिता देवतादीत्यादिशब्देना- दिग्रहणम् । यत्र तर्हि न कि चिदपि श्रूयते किं तु स्वरूपमा की- य॑ते यथा सृष्टिप्रलयादिवाक्येषु कथं तेषामुपयोगो ऽत आह * इ- त्येषा दिगिति * युक्तोपयोगोपाख्यानमार्गेण सृष्टिप्रलयादिवाक्या- १ वेदे यत्नार्थवादा न श्रूयते तत्र कल्पिता ये ऽर्थवादास्तएव लोकानुसारेण स्वोत्तया वा तव प्रणीता इति भवत्येवैकवाक्यत्वमिति माव । २ प्रत्यक्ष श्वासौ मूलभूतथासौ वैदिकार्थवादश्चति विग्रह । ६ न्यायसुधायाम्। । नामपि यथासम्भवं धर्माद्युपयोगितोन्नेया सा च स्मृत्यधिकरणे वक्ष्यते अर्थवादोपयोगमात्रस्यैवात्र विवक्षिसत्वादिति भावः । एवं सिद्धान्तस्वरूपं व्युत्पाद्य भाष्यमिदानी व्याख्यातुमुपन्यस्यति * वि- ध्युद्देशेनेति * कैश्चिदेतत्सकलं भाष्यं सार्थवादवाक्येष्वर्थवादादेव प्रवृत्तिसिद्धर्विधिप्रत्ययपरित्यागपरत्वेन व्याख्यातं तेषां व्याख्यानं दूषयितुमुपन्यस्यति * के चिदाहुरिति । अयमर्थः * अर्थवादाना- मप्यध्ययनविधिबलेनैव पुरुषार्थपर्यवसायित्वाद्यथासम्भवं स्तुति- निन्दार्थत्वावसायात्तद्वारा कथं रोचतेति भाष्योक्तरीत्या प्रवर्तित- व्यं निवर्तितव्यमित्येवंरूपप्रवृत्तिनिवृत्तिहेतुभूतार्थप्रतिपादकत्वाल- ङादीनामपि तदभिधायकत्वात्तुल्यार्थतया समुच्चयायोगे केवलानां व्यवस्थयार्थवत्त्वे ऽप्युभयसम्भवे ऽन्यतरेण सिद्धरवश्यं त्याज्ये ऽन्य- तरस्मिभूयो ऽर्थवादपदानुसारेणैकस्य लिङादेस्त्यांगो युक्तः । प्र- कृत्यनुग्रहार्थं च कस्मिंश्चित्प्रत्यये प्रयोज्ये स्तुत्योत्पादितेच्छा- लब्धकर्तव्यानुवादिनी लिङ् प्रयुज्यते, इति दृष्टं लिङो ऽन्यतः सि- द्धकर्त्तव्यतानुवादिनीत्वमिति परमतेने दृष्टान्तितम् * यथेति * प्र- त्ययश्चेत् त्यज्यते किं तर्हि विवक्षितमित्यपेक्षिते * तस्मादित्युक्तम् । एव सोपपत्तिक भाष्याभिप्रायमुक्त्वाक्षरयोजनमाह* स एवचेति * वायव्यश्वेतालम्भ एव भाष्ये विद्धयुद्देशशब्दनोक्त इत्यर्थः । ननु भूतिकामान्तस्य विध्युद्देशत्वं वदता विधिप्रत्ययो ऽपि गृहीतो ल- क्ष्यते । अन्यथा स्तुत्यन्वयात्प्राक् कर्तव्यत्वाप्रतीतेः फलानापेक्षत्वा- दतिकामान्तवचनानर्थक्यं स्यादत आह * फलादीति * अनुष्ठान- योग्यस्यानुष्ठानसिद्ध्यर्थं स्तुत्यपेक्षणात्फलाद्यन्वयं च विनानुष्ठाना- योग्यत्वाद्विध्यविवक्षायामर्थवद्भूतिकामान्तवचनमिति भावः। कस्मा- देवं व्याख्यायते ऽत आह * अन्यथेति * ननूद्देशग्रहण ऽप्यनुवाद्येन विधिनैवैकवाक्यत्वप्रतीते. कथमालम्भोपादानमत आह * सूत्रो- तेन त्विति * उद्देशग्रहणस्योक्तेन न्यायेन विवक्षितार्थत्वादविवक्षि- तस्य च पदान्तरान्वयायोगात्पष्ठीसमासस्य कर्मधारयस्य चानुपप- त्तेर्विधेरुद्देशो ऽविवक्षास्मिन्निति कण्ठेकालादिवट्यधिकरणबहु- व्रीह्याश्रयणात्कर्मणि वोदेशशब्दं व्युत्पाद्य सामानाधिकरण्यापप- तेस्तद्विपयालम्भोपादानमित्यर्थः । स्फुटीकृतं चैतद्भाष्यकृतेत्याह * तथा चाहेति * कथमनेनैतद्वयाख्यानं स्फुटीकृतमत आह * कि- १ यथा गवामयने सर्व अवभृथानन्तर पृष्ठ शमनीयमेकाह क्रियते तत्र समानकरी. कयो पूर्वकाले इति विधानेन उत्तरक्रियाकर्तव्यताया स्क्वाप्रत्ययविधानात तहलेनैवीत्तर- क्रियाकर्तव्यताप्राति तत्र लिडोऽनुनादिनौल तथेति भाव' ।

प्रथमाध्यायस्य द्वितीयः पादः । ४३ धीति * स्तुतिस्तुत्यसम्बन्धविवक्षा केनोक्तत्यपेक्षिते पठति * यत इति * ये अनेन भाष्यावयवेन स एवैनं भूतिं गमयतीत्यादिस्तुत्य- न्वयं दर्शयता स्तुतिस्तुत्यसम्बन्धं विवक्षितं वदन्तीति पूर्वेणान्वयः प्रत्ययासहिष्णुतया लभेतेत्याद्यपदत्यागेन भाष्ये शेषपाठः कृतः । ननु विधित्यागे शब्दभावनायाः कथम्भावाभावेन स्तुत्यनाकाङ्क्ष- णात्कथं स्तुतिस्तुत्यसम्बन्धविवक्षात आह * सैव चेति * वाय- व्यश्वेतालम्भस्य भूतिसाधनत्वे ऽभिहिते कस्माद्धेतोस्तस्य भूति- साधनत्वामित्यपेक्षायां हेतुवन्निगदार्थवाद्वदन्वयो भविष्यतीति ते- षामाशय इत्यर्थः। अस्मिन्नर्थे फक्किकैवं योज्या । विधेयस्याल- म्भस्य विधिसम्बन्धे सति यार्थवादयोजना पूर्वमुक्ता योज्यते सम्ब- न्ध्यते ऽनेनेत्युभयाकाङ्क्षालक्षणोऽन्वयप्रकारी योजनाशब्देनाभिप्रे- तः सा विधिविधेयसम्बन्धनिषेधे ऽपि शुद्धस्यैवालम्भस्य भविष्य- ति * निमित्तत्वेनोक्तत्वादिति * आलम्भस्यार्थवादाताकाङ्क्षत्वे ऽप्यर्थवादस्य पुरुषार्थानुवन्धित्वाय साकाङ्क्षत्वादन्यतराकाङ्क्ष- यापि सम्बन्धो ऽपि भविष्यतीति च शब्देन सूचितम् । एवं वानेन भाष्ये व्याख्यातमालभेतेतिमध्यप्रतीकेन समस्तविध्युद्देशनिर्देशात्त- दर्थो भूतिसाधनत्वमालम्भस्योक्तम् । कस्मादित्यपेक्षिते पूर्वभाष्य- निर्दिष्टं वायुं तच्छब्देन परामृश्य यस्माद्वायुर्भूतिं साधयतीति स्तु- त्यन्वयप्रदर्शनमिति । कस्माद्भूतिकामेनालब्धव्यामित्यभिसम्बन्धो न विवक्षित इत्याशङ्कयाविवक्षाकारणमुक्तम् * भिन्नविमावर्थाविति * तदेकस्यैव सम्बन्धस्यानिराकार्यतयोपन्यस्तत्वादयुक्तमित्याशङ्कय व्याचष्टे * भिन्नाविति * भूयो ऽर्थवादानुग्रहायावश्यविवक्षणीये स्तुतिस्तुत्यसम्बन्धे सतीतरसम्बन्धविवक्षां वदतोभयविवक्षाङ्गीका- रात् तत्र च वाक्यभेदापत्तिरित्यर्थः । किमर्था स्तुतिरिति प्रश्नभाष्यं स्तुतेरिच्छोत्पादनेन प्रवर्तकत्वस्य स्फुटत्वादयुक्तमाशझ्याभिप्रायद्व- यमाह * किमर्थेति * कथं रोचतेत्युत्तरभाष्यं यथाक्रसमभिप्राय- द्वयनिरासार्थत्वेन व्याचष्टे * आचार्यस्त्विति * ननु प्राागित्याशङ्का- भाष्यं द्वितीयप्रश्नाभिप्राये पुनरुक्तमाशय विवरणपरत्वेन व्याचष्टे * इतरेति *न हि यदेत्यादिपरिहारभाष्यं तत्र नद्धययोगेन सन्निधा- नमेवोक्तं स्यान्न च तदा विधिविधेयसम्बन्धाविवक्षाङ्गीक्रियते विरो- धश्चोत्तरभाष्येण स्यादित्याशङ्य न हीति छित्त्वानर्थक्यनिरासार्थत्वे- न व्याचष्टे * न हीति * कथं नानर्थक्यमित्यपेक्षिते केवलश्रवणा- वधारितसामर्थ्यस्यापि विध्युद्देशस्यार्थवादसन्निधौ विधायकत्वाभा- वादिति कारणम् * यदेत्यादिनोक्तम् । यथेत्यादिना * दृष्टान्तद्वार न्यायसुधायाम्। रोपपादितं तत्प्रपञ्चयति * सर्वत्रेति * दृष्टान्तएव किं व्यवस्थाका- रणमित्यपेक्षायामाह * योग्येति * आकाङ्क्षणीया लाभनिमित्ता ह्याकाङ्क्षानिवृत्तिर्नान्यथेत्यर्थः। ननुयथाप्राकृतपदार्थलाभान्निवृत्ता- काङ्क्षायाम् । अपि विकृते सन्निधिपठितपदार्थाकाङ्क्षावशादाका- इक्षोत्थापनं तथेहापि पदार्थान्तराकाङ्क्षावशादाकाङ्क्षोत्थापने ऽपि खतो निराकाक्षत्वात् प्रकरणगतानां प्रयाजादिवाक्यानो- मिव कस्मात्प्रामाण्यं न स्यादत आह * इतरथेति * इतरेण प्रकारे- ण योग्यपदान्तरानुचारणमनालोच्य खरूपमात्रालोचने सर्वत्राका- ङ्क्षा भवत्येव श्रुतपदातिरेकेणापि दर्शनादित्यर्थः । स्वाभाविकीमा- काङ्क्षामुपपादयति * तथा चेति * एवं यदेत्यादिभाष्यं पूर्वेण पुनरुक्तमाशयोपसंहारार्थतया व्याचष्टे * तदिहेति * नन्वेवं स- तीत्याशङ्काभाष्यं महावाक्ये वान्तरवाक्यानामाण्यस्योक्तत्वादयुक्त- माशय ब्याचष्टे * नन्वेवमिति * सत्यं विनापीति परिहारभाष्या- भिप्रायमाह * सत्यमिति * गवादिप्रचारार्थ ग्रामस्य समन्ताद्या भूः कर्षकैः परिहियते सा परिहारशब्दनोच्यते । धनुः शतं परिहारो ग्रामस्य स्यात्समन्ततइति स्मृतेः। तस्य पन्थाः परिहारपथस्तेन ग्राम- गमनवदिति दृष्टान्तार्थः । ननु सत्वपीत्याशङ्काभाष्यं वेदस्यापर्यनुयो- ध्यत्वेनोक्तत्वादयुक्तमाशङ्कय व्याचष्टे * नन्विति * आहेति परिहा- रभाध्यं व्याचष्टे * तत्र उत्तरमिति * भवन्त्वित्याशङ्काभाष्यं व्या- चष्टे * भवन्विति * नेत्यादिपरिहारभाष्यं व्याचष्टे * नोक्नेति* प्रतीतिमात्रेणार्थस्य विवक्षितत्वमतिप्रसङ्गादयुक्तमाशङ्कय यो ऽसावि- त्यादितोपपादितं तद्व्याचष्टे * व्यसम्भवं हीति * अर्थवादानुग्रहो युक्त इत्यनेनातोऽस्मादितिभाध्यमेव व्याख्यातं, यतःप्रत्यक्षो वाक्य- शेषभावे ऽतः कारणादस्मात्सार्थवादकाद्विधेः सकाशाच्छतिमिव प्रवर्तकत्वेन विवक्षितामवगच्छामो न विधि भूयो ऽल्पविरोधे भूयो ऽनुग्रहस्थ न्याय्यत्वादिति। ननु निरपेक्षादपीतीत्याशङ्काभाष्यमन्यत्रा- वधारितविधिशक्तर्विध्युद्देशस्यात्रापि प्रत्यभिज्ञानात्स्तुतिसम्बन्धा- विवक्षाप्रतिपादकत्वेनाभासमानं ननु सत्वपीत्यनेन पौनरुक्त्येनाक्षि- पति * नन्विति * सत्यपि समस्तस्य स्तुतिस्तुत्यसम्बन्धरूपे ऽर्थे पूर्वस्य विधिविधेयसम्बन्धरूपार्थापह्नवनिरासार्थतया समाधत्ते * त- दुच्यतइति * अथास्येत्यनेन भाष्योपक्षिप्तं कारणमुक्तम् । भवत्वि- १ प्रकरणगतानामपि प्रयाजादिवाक्याना खती निराकाडदात्वात् प्रमाजनकत्व भा- वनया कथ भावनापक्षणात विध्ये कवाक्यत्व तधि स्वार्थप्रतिपादकत्व' पदार्थान्तगका- चावशादेकवाक्यत्वमित्यर्थ ।

प्रथमाध्यायस्य द्वितीयः पादः । तिपरिहारभाष्यं व्याचष्टे * तदभिधीयतइति * अनेनैवं व्याख्यातं भवतु निरपेक्षादर्थवादरहितासन्तादिवाक्येषु विध्यवगतिः न हि निरपेक्षे सत्यर्थद्वयासम्भवलक्षणो विरोधो ऽस्ति न चात्र शक्त्यभा- वाद्विध्यर्थत्वासम्भवः येनास्यैव व चिच्छक्तिः क्व चिदशक्तिरिति विरोधः स्यात् । बाधाबाधौ तु बाधकसदसद्भावाभ्यां न विरुध्येते इति काक्वा सूचितम् । इह तु स्तुत्यर्थत्वस्योक्तन्यायेनावश्याङ्गीका- र्यत्वद्वाक्यभैदप्रसङ्गेनाशक्यो विध्यर्थ इति । द्वौ चेदितिवाक्यभेद- भाष्यं भिन्नाविमावर्थावित्यनेन पुनरुक्तमाशय पूर्वव्युत्पादितस्यैव वा- क्यभेदस्य स्तुतिसम्बन्धे सत्यशक्यो विध्यर्थ इत्युक्ते कुतो ऽशक्य इत्यापन्नहेतुप्रश्नोत्तरत्वेन पुनरुपन्यास इति परिहरति * प्रश्नोत्तर- त्वेनेति * ननु यदि स्तुत्यसम्बन्ध एवात्र विवक्षितो न विधिविधे- यसम्बन्धः ततो ऽनुष्टानाप्रतिपादकत्वेनाक्रियार्थत्वाद्धर्मप्रामाण्यानु- पपत्तेर्विध्युद्देशनैकवाक्यत्वात् प्रमाणमित्युपक्रमानुपपत्तिः स्यादत आह * तस्मादिति * यस्मादन्यथा वाक्यभेदः प्रसज्येत तस्मा- त्परोचनयैवात्र विधिः तथा सत्यैकार्थ्यादित्यर्थः अनेन चाथ य- दुक्तमित्यनूदिता शङ्का निरासार्थत्वेन भाष्यकारावतारितस्तुत्यर्थेन विधीनां स्युरिति सूत्रावयवमेवं व्याख्यातं स्तुतेरर्थः प्रयोजनं प्र- रोचना तद्वारेण कर्मव्युत्पन्नविधिशब्दोक्तानां क्रियाणामुपकारिणो ऽर्थवादा इति एतत्सूत्रावयवव्याख्यानार्थ स्तुतिशब्दा इति भाष्य- म् । तत्त्रानुष्ठातृणामिति षष्ठीमाक्षिपति * प्ररोचयमाना इति * नन्विकस्तिपौ धातुनिर्देशइति धातुभूतरुचियोगे सम्प्रदानसंज्ञा विहिता न च तत्प्रयोगे पूर्वप्रकृतेर्धातुत्वमस्ति तथा सति धातुद्वयप्र. सङ्गेन धातोरिति विवक्षितैकत्वधातूपरिविहितप्रत्ययानुपपत्तिप्रस- ङ्गादित्याशङ्कते * प्ररोचयतेरिति * परिहरति * अयमाशयः * धातव इत्यन्तग्रहणसामर्थ्यात्केवलस्य सनादेर्धातु- स्वाभावेन धातुद्वयाप्रसक्तेर्न पूर्वप्रकृतेर्भूवादयो धातव इति वि- हिता धातुसज्ञा नापह्नवमहतीति संबन्ध्यविशेषाविवक्षया चतु- र्थ्यप्रसङ्गमाशङ्कते * अथेति * परिहरति * सापीति रुचिसंबन्धा- विवक्षायां तद्वयतिरेकषष्ठयनुपपत्तेः प्रातिपदिकार्थाब्यतिरेके प्रथमै- व स्यात् । रुचिसंबन्धविवक्षायां तु तस्य चतुर्थी निमितत्त्वेन विशे- षरूपत्वात्सामान्याववक्षा कुतो नतस्योतिभावः। पदान्तरसंबन्धमङ्गी- कृत्य षष्ठीमुपपादयति * तस्मादिति * एवं तु व्यवहितान्वयाप- त्रुपकरिष्यन्तीत्यनेनान्वयमाह * अथ वेति * अस्मिन्पक्षे कि- बाया इत्यस्य विच्छिन्नस्यार्थमाह * क्रियाया इति * क्रियाशब्देन सनाद्यन्ता न्यायसुधायाम्। तद्विषयत्वाद्विधिराभिप्रेतः तदेतत् दूषयति * इदं त्विति * किं स- प्रत्ययार्थाविवक्षया प्रत्ययत्यागो विधिमात्राविवक्षया वा तत्राद्य कल्पे तावत् दूषणान्याह * यदि हीति * ननु भूतिकाम आलभेत कस्माद्यतो वायुः क्षेपिष्ठा देवतेति हेत्वाकाङ्क्षायामर्थवादान्वयस्य भाष्यकृतोक्तत्वाच्छब्दभावनाकथम्भावासम्भवे ऽपि न कश्चिद्दोष इत्याशड्याह * यापीति * वेदावगतस्यार्थस्य हेत्वनपेक्षत्वान्न त- दद्वारेणार्थवादान्वयः सम्भवतीति कल्पेतति काक्का द्योतितं, यापि भाष्यकृता कस्मादित्यपेक्षा दर्शिता सापि कस्मात्कारणान्मया प्रव- तितव्यामति प्रवृत्तिसिद्ध्यर्थ प्राशस्त्यरूपकारणविषयत्वाद्विध्यभावे न युक्तेत्यर्थः। नन्वितिकर्तव्यताविषयत्वे कथमित्येवाकाङ्क्षा किमि- ति न दर्शिता ऽत आह * शब्दान्तरोति * विधायकस्याध्ययनवि- धिना पुरुषप्रवर्त्तनेतियुज्यमानस्य कथं मया पुरुषः प्रवर्त्तयितव्य इत्यर्थवादान्वयसिद्धयर्थमचेतनस्यापि पुरुषगतचैतन्यारोपेणाकाङ्- क्षोपचर्यते भाष्यकृता तु पारमार्थिकी पुरुषस्याकाङ्क्षा तद्विषयैव दर्शिता न त्वनयोर्भनविषयतेत्यर्थः । अथापि हेतुविषया कस्मादि- त्यपेक्षा तथापि यामादिखरूपस्य द्रव्यदेवतामात्रेण सिद्धेः फलसा धनत्वस्य च स्वसामर्थ्यमात्रेण सिद्धेः कर्त्तव्यत्वाभिधानं विना न यु तत्याह * सापि चेति * ननु क्रियानपेक्षितमपि प्राशस्त्यमर्थवा- दोक्तं सत्कर्तव्यताङ्गमयिष्यतीत्यत आह * तदनपेक्षितं चेति * प्राशस्त्यस्य श्रीतत्वाभावान्न स्वरसतो ऽर्थवादप्रतिपाद्यत्वं सम्भव- तीत्यर्थः । प्रतिपादितस्यापि कथं चित्प्राशस्त्यस्य न तावद्धात्वर्थेन संबन्धो ऽनपेक्षत्वादित्याह * न चेति * न केवलं प्राशस्त्यस्यासं- बन्धः किं तु फलादेरपीति * कस्य चिादीत * काकाक्तम् । भाव- नया सह तर्हि संबन्धो भवत्वत आह * भावना त्विति । किमपे- क्षेतति * न कि चिदित्यर्थः । अनपेक्षायां वा सर्वाभावः स्यादि- त्याह * तस्मादिति * अथापि कथं चित्पाशस्त्यमाभिधीयते संब- न्ध्यते च तथापि न कर्तव्यतामालम्भस्य गमयतीन्याह * उक्ते ऽपि चेति * माभूत्तर्हि कर्तव्यबुद्धि प्राशस्त्यप्रतिपादनमात्रेणार्थवादप- र्यवसानं भविष्यतीत्यत आह * अकल्पिते त्विति * आनर्थक्यप- रिहारार्थमेव तर्हि कर्तव्यता कल्पयिष्यते ऽत आह * प्रत्यक्षंचेति * क्लप्तस्य कल्पना ऽनुचितेति भावः । न केवलमनुचिता किं त्वश- क्यापीत्याह * न चेति * अशक्यत्वे कारणमाह * अनुक्तो हि सन्निति * एवं तावत्कर्त्तव्यतायाः क्लप्तत्वान्नार्थवादकल्पत्वमित्यु- तम् । अर्थवादानामपि तत्कल्पकत्वं सम्भवति प्ररोचनामानपर्यवर प्रथमाध्यायस्य द्वितीयः पादः । सानादित्याह * तथेति * ननु तर्हि नार्थवादैः प्ररोचनोच्यतां क- तव्यताप्रतिपादनेनैव पुरुषार्थानुबन्धित्वसिद्धरत आह * अवश्य- कर्तव्या चेति* तया विनाप्रवृत्त्यसिद्धोरिति भावः। ननु माभूदर्थवा- दानां कर्तव्यताप्रतिपादनपर्यन्तं व्यापारः तत्प्रतिपादितप्राशस्त्या- न्यथानुपपत्त्या सा कल्पयिष्यते अत आह * सर्वत्र चेति * यच्च तुल्यार्थत्वं समुच्चयासम्भवकारणमुक्तं तदसिद्धमित्याह * तुल्यार्थ- योश्चेति * न चात्राल्पभूयोविरोधिन्यायो ऽस्ति प्रत्ययत्यागे भूयसां तदर्थानां बाधापत्तोरत्याहं * यदि चेति * परस्मैपदात्मनेपदरू- पोपग्रहविशेषः । आदिशब्देन विधिभावनयोरुपादानम् । एतत्सर्व दोषपरिहारार्थ कल्पान्तरं शङ्कते * स्यादतदिति * एतदपि निरा- चष्टे * एतच्चेति * अशक्यत्त्व कारणमाह * यत इति * उदित- मप्यविवक्षितं भविष्यत्यत आह * प्रतीतस्य चेति * ग्रहैकत्वं ह्य- प्राप्तत्वान्नानुवदितुं शक्यते सम्मार्गभावनया गुणत्वेन प्रधानत्वेन वान्वयायोगान्न विधिना स्पृश्यते । इन्द्रियकामहोमस्त्वाश्रयमन्तरेण गुणस्य फलसाधनत्वायोगाद्विधिमन्तरेण च प्रकरणावगतस्यापि हो- मस्याश्रयत्वे प्रमाणाभावात्प्रकरणावगतं स्वरूपमनूद्य गुणफलसंब- न्धविध्यन्यथानुपपत्तिप्रसूतेन विधिना आश्रयत्वेन विधीयतएवेति श्रौतेन विधिना वाक्यभेदप्रसङ्गेनापरिग्रहादविवक्षितत्वामिति ननु विध्यसंस्पर्शादेव विधिरविवक्षितो भविष्यत्यत आह * न तावदि- ति * विधिव्यातरिक्तस्य विध्यसंस्पर्शित्वं विधिविवक्षाकारणं यु- तम् । विधेस्त्वविधिरहितत्वं विध्यसंस्पर्शाख्येनाविवक्षाकारणं स- वैविधीनामविवक्षाप्रसङ्गादित्यर्थः । अनुवादो ऽपि विधेरयुक्त इत्याह * नापीति * कारणमाह * तस्यामिति । अयमाशयः * न तावद्य आलम्भः स प्रशस्त इत्यालम्भमात्राद्देशेन प्राशस्त्ये ऽभिहिते ऽपि क- तव्यबुद्धिः सम्भवति येन प्ररोचनालब्धविधित्वानुवादो घटेत् । एतच्चोक्ते ऽपि च प्राशस्त्यइत्यादिनोपपादितम् । यदि तु यो ऽयं वाय- व्यश्वेतालम्भः कर्त्तव्यः स प्रशस्त इतिकर्तव्यतारूपस्य विधेरनुवाद इष्यते । स तर्हि न सम्भवति । अनुवादावस्थायामप्राप्तत्वादिति। ननु त्वत्पक्षे वायव्यश्वेतालम्भः कर्त्तव्य इति विध्यर्थों भवेत् तस्य चा- लम्भः प्रशस्त इत्यर्थवादार्थेन नान्वयः स्यादित्याशङ्याह * भवति त्वेवमिति * दृष्टान्तो ऽपि साध्यविकल इत्याह * यत्त्विति * दशमे हि सत्रादुदवसाय पृष्ठशमनीयेन ज्योतिष्टोमन सहस्रदक्षिणेन यजेर- नित्युदाहृत्य किं तत्र सहितानां कर्तृत्वमेकैकशो वेति सन्दिा बहु- वचनस्य श्रवणात्साहिन्ये प्राप्त काश्रुत्यैवोदवसानसमानकर्तृकत्वप्र- न्यायसुधायाम्। तीतेरवगतसङ्खन्यत्वेन च बहुवचनस्थानपक्षितसङ्खन्याविधायित्वायो- गादपेक्षितधात्वर्थविशेषविधायिन्याख्यातो यथाप्राप्तप्रचयशिष्टस- वयानुवादिबहुवचनप्रयोगोपपत्तेर्न प्राकृतैककर्तृकत्वबाधो युक्त इति सिद्धान्तो वक्ष्यते त्वाश्रुत्या ह्यनन्तरक्रियामात्नमाक्षेप्तुं न च नियोग- तः कर्त्तव्यता । न मांसं भुका ऽधीयीतेति प्रतिषेधो ऽपि भुक्त्वा- व्रजतीति च वर्तमानापदेशे ऽपि क्त्वाश्रुतिदर्शनादित्यर्थः । न च के- वलं कारणाभावाद्विध्यविवक्षानुचिता किं त्वतिव्याप्तेरपीत्याह * यदि चेति * खमतेन व्याख्यातुमुपक्रमते * तस्मादिति * अत्रैव भाष्यानुमतिमाह * तथा चेति * विधिविषयाभिप्रायेषु भाष्य- कारीयविध्युद्देशशब्दे फलपदस्य विधिविषयसमर्थकत्वाभावादुप- न्यासोनयुक्त इत्याह * अन्यथेति * विध्यभावे च धात्वर्थस्य तद्विष- यत्वायोगात्तदभिप्रायो विध्युदेशशब्दो न युक्त इत्याह * न चा- स्येति * कस्तर्हि विध्युद्देशशब्दस्यार्थो ऽत आह * तस्मादिति * विधेरुद्देशकःप्रतिपादक इति कर्तृव्युत्पन्नं करणव्युत्पन्नं वोद्देशशब्दम- ङ्गीकृत्य षष्ठीसमासाश्रयणेन लिङदिरेव विध्युद्देशशब्देनोक्त इत्यर्थः किमर्थ तर्जुदेशग्रहणमत आह * विध्यर्थेन त्विति * विधिशब्दस्य लिङादिशब्दे तदर्थे चोभयत्र प्रयोगदर्शनादिह शब्दपरतयापि व्या- ख्यानेन सूत्रनाश इति चोद्यमिति । नन्वस्मिन्पक्षे प्रत्ययो विध्युद्दे- श इत्येवं वक्तव्यं न भूतिकाम इत्येवमन्त इत्यत आह * भूतिकाम इति * ननु यदि फलादिसङ्गत्युत्तरकालं तद्विशिष्टायां भावनायां पुरुष नियुञ्जाने विधावनुग्रहार्थ स्तुत्यर्थावसरः तदभावे ताका- झाभावार्थवादान्वयो न स्यादित्याशङ्कते * नन्विति * परिहर- ति * एवमेवैतदिति * का तहथवादानां तत्र गतिरत आह * तथे- ति * यद्यपि विध्यभावेनार्थवादाः सम्बन्ध्यन्ते तथापि नानर्थक्या- पत्तिः प्रयोगवचनेन पञ्चमलकारेण वा, कल्पितविधित्वे ऽर्थवादस- ङ्गतिसम्भवादिति वक्ष्यमाणानुषङ्गेण योज्यम् । आग्नेयो ऽष्टाकपालो भवतीत्यादौ भवति परस्य पञ्चमलकास्स्य प्रयोजकव्यापारविधाना- शक्तः प्रयोगवचनेन वानुत्पन्नस्य प्रयोगासम्भवादुत्पत्तिरप्याक्षिप्यते उपांशुयाजमन्तरा यजतीत्यादौ पञ्चमलकारंण अव्यवस्था लिङथै- लेडिति पञ्चमलकारस्य विधौ स्मरणे ऽपि वर्तमानापदेशसन्दिग्ध- त्वात्पञ्चमलकारनिर्णयव्याक्षेदाद्विधित्वस्य कल्पितत्वमभिप्रेतम् । इदं तु प्रयोगवचनोत्पत्तिकल्पनं दुरुपपादम् । अनुत्पन्नस्य प्रयोगविधि- विषयत्वायोगादुत्पत्तौ कल्पितायां प्रयोगविधिविषयत्वं प्रयोगवि- शिविषयत्वाञ्चोत्पत्तिकल्पनमितीतरेतराश्रयापत्तेः । पञ्चमलकारd प्रथमाध्यायस्य द्वितीयः पादः । चिन्हाभावे न तन्निर्णयः स्यादित्यपरितोषादन्यथाविधित्वकल्पनमा- ह * अथ वेति * ननूक्तेन प्रकारेणाग्नेयो टाकपालो भवतीत्यादौ विधि प्रकल्प्य तच्छेषत्वेनाङ्गिरसो वा इत उत्तमाः खर्गलोकमाय- न्नित्यादेरर्थवादस्यान्वयो भवतु नाम ताभ्यामेतमग्नीषोमीयमेकाद- शकपालं पूर्णमासे प्रायच्छदित्यादौ त्वर्थवादमात्रकल्पविधिदर्श- नाद्विधेः प्राक् स्तुत्यनवसरत्वप्रतिपादनमयुक्तमित्याशझ्याह * यत्रा- पीति * तत्रापि पूर्वचरितकीर्तनान्यथानुपपत्तिमात्रेण कर्तव्यता कल्पयित्वा शेषपदानां स्तुत्यर्थत्वेनान्वयः । नतु प्रागेव कस्य चि- स्तुतिः प्रतीयतइत्यर्थः सिद्धरूपार्थकीर्तनाभिप्रायो ऽर्थवादशब्दो न स्तुत्यभिप्राय इति भ्रमितव्यम् । नन्वेवमपि सिद्धरूपार्थकीर्तनमा- त्रेण कर्तव्यतायाः प्रतीतिसिद्धेः प्रत्ययानर्थक्यं तदवस्थमित्याश- ड्याह * सम्भवत्यां त्विति * ननु श्रौतार्थद्वयाश्रयणे वाक्यभेदा- पत्ते प्रत्ययश्रवणे ऽपि भूयोऽर्थवादपदानुग्रहाय स्तुत्यैव कर्तव्य- ताकल्पनमगत्याङ्गीकार्यमित्युक्तमत आह * यस्त्विति * प्राशस्त्य- कर्तव्यतयोर्विशेषणविशेष्यभावात्प्राशस्त्यविशिष्टकर्त्तव्यतात्वरूपै- कार्थप्रतिपादनादेकव्यापारोपपत्तेर्नार्थभेदनिबन्धनवाक्यभेदापत्तिरि- त्यर्थः । नन्वर्थभेदाभावे ऽप्यप्राप्तस्य विधिसम्बन्धात्प्राप्तस्य च विशेष- णभूतप्राशस्त्यसम्बन्धाद्वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत अत आह * विधीयमानस्यैव हीति * प्राशस्त्यं विना विध्यपर्यवसानादप्राप्ता- वस्थस्यैवालम्भस्य विधिनेव प्राशस्त्येनापि सम्बन्धादवैरूप्यमित्यर्थः। नन्वेवमपि विशिष्टार्थप्रतिपादनागौरवापत्तिरत आह * यदि चेति * का तर्हि नायमभिसम्बन्धी विवक्षित इत्यादेर्भाष्यस्य गति- रत आह * तस्मादिति * अनेन ग्रन्थेनैवमेतद्भाव्यं व्याख्यातम् । भूतिकाम आलभेत कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादक- स्य विध्युद्देशस्य विधिस्तुतिसम्बन्धरूपो विशिष्टोऽर्थो दर्शितः । नायं विध्युद्देशमात्रेण विवक्षितः । किं तु सार्थवादकेनेति तत्रालभेतेति- मध्यप्रतीकेन विध्युद्देशोपलक्षणं ततो भूतिरिति पूर्वप्रकृतवायुपराम- र्शितच्छब्दयोगिना भूतिपदेन स एवैनं भूतिं गमयतीत्यन्तार्थवादोप- लक्षणं विशेषणविशेष्यरूपार्थद्वयस्य विशेष्यप्रतिपादकविध्युद्देशमा- त्रेणाभिधाने गौरवलक्षणवाक्यभेदापत्तरिति विधित्वादीत्यादिशब्देन फलेतिकर्तव्यताग्रहणं किमर्थत्याशङ्काभाष्यं विधिविवक्षायां तदि- तिकर्तव्यताभूतस्तुत्याकामानिराकरणायोगादयुक्तमाशय ब्याचष्टे * किमर्थेति * अयमाशयः प्रवृत्तिप्रतिबन्धकालस्यादिभङ्गरूपा १ भूतिकामान्तविध्य द्देशप्रदर्शनेनेत्यर्थः ।

५० न्यायसुधायाम्। प्ररोचनाविधेरितिकर्तव्यता । न स्तुतिः। स्वार्थ तु तया स्तुतिराका श्यते विध्यवमतश्रेयःसाधनत्वादेव तु प्रवृत्तिहेत्विच्छाजननेन त. द्विरोध्यालस्यादिनिराकरणसिद्धरनार्थका स्तुतिरिति भाष्यं चैवं व्याख्येयं, यद्य ऽपि विधिस्तुतिरूपार्थद्वयप्रतिपादनं विध्युद्देशमात्रेण न क्रियते तथाप्यर्थवादानर्थक्यं विधित एव प्ररोचनासिद्धेस्ताद- यंन स्तुत्यनाकाङ्क्षणादिति, कथं रोचेतेत्युत्तरभाष्याभिप्रायमाह * कथमिति * श्रेय साधनस्वाधिगमे ऽपि बहुव्ययायासदर्शना- द्वेषोत्पत्तेः स्तुतिमन्तरेणानिराकरणात् दुर्वारा स्तुत्याकाङ्कितेति- भावः । ननु प्रागित्याशङ्काभाष्यं किमर्था स्तुतिरित्यनेन पुनरुक्तमा- भासमानं तदभिप्रायविवरणार्थतया व्याचष्टे * नन्विति * न ही- त्यादिपरिहारभाष्यं तस्यायमर्थः न तावत्प्राशस्त्यं विना प्ररोचना सम्भवतीत्युक्तम् । कथं रोचेतेत्यनेन । यदि तुविध्युद्देशेनैव प्राशस्त्या क्षेपस्य वसन्तादिवाक्येषु दर्शनादिहापि तत एव प्राशस्त्याक्षेपसिद्धेः स्तुतिपदानर्थक्यमुच्येत तन्निराकरणार्थ यदेत्यायुक्तं तद्वयाचष्ट*न हीति * न हीत्यादिनैतदाहेत्यन्वयः। शक्तिद्वयनिराकरणासमर्थत्वम- स्य ग्रन्थस्य दर्शयितुं विधीयते इत्येतत्समाप्तिपरत्वेन न तदेत्यादिना व्याख्यातम् । अनेन च तदा पूर्वेण विधरित्यत्रापि समाप्यतइत्यध्या- हारो दर्शित इत्यवगन्तव्यम् । प्ररोचनया चे विधिसमाप्तेः प्ररोचना शक्तिः समाप्त्युक्त्या दर्शिता, भवतीति न भाष्याऽवाचकत्वोपाल- म्भः। दृष्टान्तभाष्यं पूर्ववदेव व्याख्येयमित्याह * यथेति * यच्चा- स्माभि. प्रत्ययार्थवादयो पुनरत्यन्तभिन्नानुग्राह्यानुग्राहकार्थभेदा- त्समुच्चय इति प्रागुक्तं तदनेन दान्तिकयोजनामाष्येण स्पष्टी- कृतमिस्याह * विधिशब्देनेति * नन्वेवं सतीत्याशङ्काभाष्यगतमवि- धायकपदप्ररोचकत्वाभिप्रायं व्याख्यातुमाह * नन्विति * सत्य- मित्यादिपरिहारभाष्यं प्रतीकेन गृहीत्वा तस्मिन्विद्यमानइत्यादिभा- प्यशेषं तस्मादित्यध्याहारपूर्वकं सावधारणत्वेन ब्याचष्टे * सत्य- मिति * अविद्यमाने हि स्तुतिवचने विध्युदेशमात्रस्य प्राशस्त्यवि- शिष्टविधिरूपो ऽर्थो भवेदिह तु स्तुतिवचनस्य विद्यमानत्वाद् यो ऽर्यो न्याय्यो भवति सोऽङ्गीकार्य इत्यर्थः । स्तुतिःप्रयोजनमिति भा- प्यावयवमवतारयितुम् * कश्चासावित्युक्तम् * अर्थवादमात्रस्य स्तुतिप्रयोजनत्वाद्विवचनानुपपत्तिमाशय * न तस्यैवेत्याधुक्तम् * अर्थवादाभावे त्वित्यनेन तस्मिन्नसतीति भाष्यावयवो व्याख्यात । ननु सत्खपीत्यादिप्रत्यक्षश्च वाक्यशेषभाव इत्यन्तं भाष्यं पूर्ववदेव व्या- ख्येयमित्याह * नन्विति * अत्राप्युपात्ते लघूपाये गुरूपायाश्रयणा- प्रथमाध्यायस्य द्वितीयः पादः। नुपपत्तिमाशयानर्थक्यपरिहारायोपात्ते ऽपि लघौ गुरोराश्रयणमि- त्येतावतार्थतुल्यत्वमिति अतो ऽस्मादित्युपसंहारभाष्यं विधेरिति पञ्चम्या विधेः स्तुत्यवगतिप्रतिपादनादभिप्रेतविरुद्धसाशङ्कयाह * *अतोऽस्मादिति * किं सम्बन्धनिबन्धनेयं षष्ठीत्यपेक्षिते आह * वा- क्यति * पूर्वप्रकृतेर्वाक्यशेषो ऽस्मादिति सर्वनाम्ना परामृष्टो विधे- रिति षष्ठया सम्बध्यतइत्यर्थः । एवं सत्येष भाष्यार्थो भवतीत्याह * इत एवेति * अस्य विधेः सम्बन्धिन इतो वाक्यशेषादेव स्तु, तिमवगच्छामो न स्वतो विधिमात्रादित्यर्थः । ननु निरपेक्षादपीत्या- शङ्करभाष्याभिप्रायमाह * नन्विति * भवत्विति परिहारभाष्यमा- शङ्कानुज्ञानादयुक्तमाभासमानं सोपहासत्वेन व्याचष्टे * आचार्य स्त्विति * एवमर्थविरोधाशक्यत्वयोः परस्परव्याघातात्तत्परिहारा- र्थ व्यवस्था यत्रासावित्यादिना दर्शिता सर्वे ऽमी विधिशब्दाः सप्ररोचनविधिपरा व्याख्येयाः अशक्यत्वोपपादनार्थ पूर्वोक्तगौरव- लक्षणवाक्यभेदस्मारकं वाक्यं हीत्यादिभाष्यं व्याचष्टे * वा- क्यं हीति । एकर्मकस्यैवेति * वाक्यसंबन्धपदगतयोरेकवचनयोर्वि वक्षितसङ्ख्यत्वं दर्शितं तच्चात्र विध्युद्देशरूपमाभिप्रेतमिति विध्यु- देश एवेत्यनेन दर्शितम्। संबन्धशब्दन चात्र कर्मव्युत्पत्त्या विशेषण- विशेष्यरूपौ संबन्धिनावभिप्रेतौ * एष हि गुणो भवती * त्यर्थ- वादप्राशस्त्यप्रदर्शनम् । यतस्ततोभूतिरितिवदिति कस्य चिच्छङ्का स्यात्तद्वयुदासार्थ * विध्युद्देशोत्थापितानामेकेत्यायुक्तं * नायमाभ- संबन्धो विवक्षित इत्यादिना यत्प्रबन्धेन विध्युद्देशस्य प्राशस्त्याक्षेप- कत्वं निराकृतं तस्य प्रकृतैकवाक्यतासिद्धिप्रयोजनतां दर्शयन्सा- भिप्रेतं सूत्रार्थमुपसंहरति * तस्मादिति * अनेनैवं सूत्रं व्याख्यातं विधेयभावनांशाप्रतिपादकत्वे ऽपि तदनुष्ठापकानां विधीनामङ्गमर्थ- वादा स्यु. केनोपकारेणेत्याक्षिप्ते स्तुत्यर्थेनेत्युक्तम् । विधिनानुष्ठा- नसिद्ध्यर्थे स्तुतेरुपकारकत्वे ऽभिहिते विधिमात्रणानुष्ठानसिद्धेः किं स्तुत्येत्याशङ्कानिराकरणार्थमर्थावादानां धर्मप्रमोपयोगित्वसिद्धा- वतिक्लिष्टलाक्षणिकस्तुत्यर्थत्वाङ्गीकारकारणं विधिनैकवाक्यत्वादि- त्यनेनोक्तामति । तुल्यं च सांप्रदायिकम् ॥ ८॥ सामान्योपयोगप्रतिपादनं विनार्थवादानां द्वारविशेषोपयो- गप्रतिपादनाशक्तेः सामान्योपयोगप्रतिपादनार्थमेतत्सूत्रं पूर्व कार्यम- पि प्रथमसूत्रव्युत्पादिताध्ययनविधिहष्टार्थत्वबलेन सामान्यापयोग- L न्यायसुधायाम् । स्य सिद्धस्य विशेषोपयोगमन्तरेणानिर्वाहात्तत्सम्भवप्रदर्शनोत्तरका- लं कृतम् । तत्र भाष्यकारीयपरिचोदनोपन्यासस्य प्रयोजनमाह * चशब्दोत * तुल्यासांप्रदायिकत्वस्यादृष्टार्थत्वे ऽप्युपपत्तेः पूर्वप्र- तिज्ञातस्तुत्यर्थत्वासाधकत्वाद्विध्येकवाक्यत्वलक्षणस्तुत्यर्थत्वसाध- कहेतुसमुच्चयार्थ चशब्दायोगात्प्रमादपाठत्वशङ्कानिराकरणार्थार्थ- वत्त्वावगमलक्षणहेत्वन्तरसमुच्चयार्थत्वेन चशब्दो भाष्यकृता व्या- ख्यात इत्यर्थः । परिचोदनार्थ व्याचष्टे * आनर्थक्यमेवेति * नि- राकरणभाष्यं व्याचष्टे * तत्रैवमिति * एवं त्वर्थावगमप्रकारानु- के साकाङ्क्षत्वप्रसङ्गादपरितोषेणान्यथा छेदं करोति * अथ वेति* अनेन च विधिना त्वेकवाक्यत्वादित्येतदेव सूत्रं प्रमादपाठत्वशङ्का- निराकरणे ऽपि योजितम् । विध्येकवाक्यत्वेन स्तुत्यर्थतया ऽर्थवत्त्वा- वगमादप्रमादपाठत्वनिराकरणएव हेत्वन्तरसमुच्चयार्थ तुल्यं सां- प्रदायिकत्वं योजयति * कि चेति * सांप्रदायिकशब्दव्याख्याना- र्थमनध्यायादिधर्माणां वेदाध्ययनाख्यसम्प्रदायप्रयोजनत्वं भाष्य- कृतोक्तमुपपादयति * सम्प्रदायोति । तादर्थ्यस्मरणादिति * तपोविशेषैर्विविधैर्ऋतैश्च श्रुतिचोदितैः । वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ इत्यादिना धर्मजातस्य सम्प्रदायार्थत्वस्मरणादित्यर्थः।पुरुषा- र्थत्वंतु निष्प्रमाणकामित्याह * स्वर्गादीति * नन्वध्ययनस्वरूपे तत्का- ये च ग्रहणे धर्मजातस्यानुपयोगात्तत्पूर्वकज्योतिष्टोमादिकाङ्गत्वं भविष्यत्यत आह * न चास्येति * एतच्च द्वादशाधिकरणसिद्धमुक्त तत्र यध्यायानध्यायादिधर्मजातस्याध्ययनप्रकरणपठितस्यापि तस्य खरूपे कार्ये चानुपयोगादध्ययन व फलवकर्मावबोधं भावयदि- त्यध्ययननियमस्यानारभ्य विहितस्याप्यध्ययनजनितज्ञानोपस्थापितशे- यकाङ्गतया सामोपबृंहितेन सन्निधिनावधारणात्तद्वारा क- ङ्गित्वावगतेरमावास्यादौ काङ्गभूतयाज्यानुवाक्यादिमन्त्रोच्चा- रणं न कार्यमिति । मन्त्राणां कर्मसंयोगे खधर्मेण प्रयोगः स्यात्, धर्मस्य तन्निमित्तत्वादितिसूत्रेण पूर्वपक्षयित्वा प्रकरणेनाध्ययनाङ्ग- तयाऽवधारितस्थान्यार्थत्वे प्रमाणाभावादविघ्नपरिसमाप्तयर्थत्वेन त- दुपयोगसम्भवात्कर्माङ्गत्वाभावेन कर्मकाले ऽध्यायानध्यायादिध- मानादरेणामावास्यादावपि काङ्गमत्रोच्चारणं कामिति विद्यां प्रतिविधानाद्वा सर्वकालं प्रयोगः स्यात् कर्थित्वात्प्रयोगस्येति सू- श्रेण सिद्धान्तयिष्यते । केनोपकारेणाध्ययनाङ्गत्वं कर्मजातस्येत्य- १ वत्स बन्धमारणादिति २ पु. पा. अयमेव समीचीन. प्रतिभाति ।

प्रथमाध्यायस्य द्वितीयः पादः । ५३ पेक्षायामविघ्नार्थत्वं भाष्यकृतोक्तमुपपादयति * सम्प्रदायाङ्गत्वे ऽपि चेति * विघ्ने सत्यध्ययननाक्षरग्रहणस्य कर्तृमशक्यत्वात् त- सिध्यर्थमविघ्नमेवापोक्षितं * तार्थ्यस्मरणाच्चति * अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टमीपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ इत्यादिना धर्मजातस्याविघ्नार्थत्वस्मरणादित्यर्थः प्रकरणावग- ताध्ययनाङ्गत्वान्यथानुपपत्त्याप्यविघ्नो ऽर्थतो ऽवसीयतइत्याह * न हीति * एतदेव प्रपञ्चयति * यदि तावदिति * नन्वध्ययनजनि- तज्ञानसाध्यकानुष्ठानजन्यापूर्वार्थत्वे ऽपि धर्मजातस्य व्रीहिसा- ध्ययागापूर्वत्वे ऽपि प्रोक्षणस्य ब्रीह्यर्थत्वाविघातवध्ययनाङ्गत्वावि- घातः स्यादत आह * अथ पुनरिति * ब्रीहीणां यागापूर्वार्थत्वात्त- दुत्पत्त्युपयोगिप्रोक्षणादिधर्मग्राहकत्वं युक्तम् । अध्ययनस्य क्रत्व- नङ्गत्वान्न तत्साम्यमिति भावः।कः पुनरध्ययनस्याविघ्नेनोपकारो ज- न्यतइत्यपेक्षायामक्षरग्रहणाख्यकार्ययोग्यतालक्षणमुपकारं दर्शयितु- माह * तस्मादिति * तुल्यसाम्प्रदायिकत्वस्य प्रकृतानर्थक्यनिरा- करणोपयोगितां दर्शयति * न चेति * न चाध्ययनादिधर्मनियम- स्मृतेर्निमूलत्वेनाप्रामाण्यं शक्यं स्मृत्यधिकरणे स्मृतीनां वेदमूल- त्वस्य वक्ष्यमाणत्वादित्याह * नियमस्मृतेश्चेति * तुल्यसाम्प्रदायि- कत्वसाधितसामान्योपयोगोपसंहारपूर्वकं तस्य पूर्वसूत्रोक्तस्तुत्यर्थ- त्वलक्षणविशेषोपयोगसिद्धयुपयोगितामाह * स चेति * अत्रैवार्थे स्मरणं च हृढमित्यादिभाष्यं योजयति * स्मरणं चेति * इति करणः प्रभृत्यर्थः तत्र स्मरणं च दृढमिति वेदशब्दत्वाभिधाने यो- जितम् । अतो न प्रमादपाठ इति सामान्योपयोगोपसंहारे इतिक- रणस्तस्य विशषोपयोगित्वे यस्मान्न प्रमादपाठः अतः कारणात्प्रयोज- नविशेषापेक्षायां सामर्थ्यात्स्तुत्यर्थतार्थवादानां सिध्यतीतिकरणो हेत्वर्थे व्याख्येय इत्यर्थः। साम्प्रदायिकशब्दो वा धारणाध्ययनपरत- यानेन भाष्येण व्याख्यायतइत्याह * अत वेति * यत्त्वस्मिन्व्या- ख्याने पुरुषाधीनप्रामाण्यप्रसङ्गादित्यादिना दूषणं पूर्वसूत्रव्याख्यो- पक्रमे ऽभिहितं तत्परिहरति * सम्भाव्यते चेति * पूर्वोक्तमध्य- यनविधिप्रमाणकं सर्वस्य यदस्य प्रयोजनवदर्थपर्यवसायित्वमेतत्सू- त्रारूढं कर्तुमध्ययनविधिपरतया साम्प्रदायिकशब्दं स्वयं व्याचष्टे * तुल्यं चेति * अनयोरपि व्याख्ययोरेतत्सूत्रोक्तस्य सामान्योपयो- गस्य पूर्वसूत्रोक्तविशेषोपयोगसिद्ध्यर्थत्वप्रतिपादनार्थमतो नेत्यादि- भाष्यमिति दर्शयितुं ग्रन्थशेषः ॥

न्यायसुधायाम् । अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभृतः तस्मादुपपद्येत॥ ९॥ सूत्रद्वयेनैव सिद्धान्तसिद्धरुत्तरसूत्रानर्थक्यमाशङ्कय पूर्वप- क्षनिराकरणपरतया सामान्यतो व्याचष्टे * उक्तोति * अप्राप्तामनु- पपत्तिमिति द्वितीयान्तं पदद्वयं साकाङ्क्षात्वादध्याहारेण व्याचष्टे * शास्त्रति * ह्रस्वपाठे अन्यथाध्याहारमाह * अथ वेति * प्रयोगे हीति सूत्रावयवव्याख्या भाष्ये स्तेयादीनामित्यादिशब्देन, पूर्वोपन्य- स्तस्य रोदनादेरपि ग्रहणमिति व्याचष्टे * प्रयोगे हीति * सूत्रशेष व्याचष्टे * अस्माकं पुनरिति * श्रौतार्थाभिप्रायोऽर्थ शब्दः प्रयुज्य- ते ऽनेनेति व्युत्पत्त्या प्रयोजनवचनः प्रयोगशब्दः अविवक्षितश्चार्थः प्रयोजनं न भवतीत्यप्रयोगशब्देनाविवक्षितत्वमुक्तम् । नन्वनुष्ठान- विवक्षायां विरोधापत्तेस्तत्परिहारार्थ तस्यैवाविवक्षा वाच्या न श्री- तार्थाविवक्षात आह * न चेति * अतः शब्दार्थ चशब्दः निपाता- नामनेकार्थत्वात् । विवक्षितत्वे हि श्रौतस्यार्थस्य । प्रयोजनवत्त्वसि- द्धये ऽध्याहाराद्विनानुष्ठानकल्पना स्यात् यतस्त्वसौ न विवक्षित अतः कल्पकाभावान्नाध्याहारादिभिर्विधिकल्पनेत्यर्थः अनेन चा- नुष्ठानाविवक्षार्थे श्रौतार्थाविवक्षेत्युक्तम् । किं तर्हि विवक्षितमित्यपे- क्षायामुत्तरसूत्रवक्ष्यमाणं स्तुत्यर्थत्वमाकाङ्क्षानिवृत्तये ऽभिहितम् । ननु स्तुतेरपि श्रौतार्थकल्प्यत्वादविवक्षितस्य चासत्यत्वेन कल्पक- त्वायोगात्सद्विवक्षापत्तेरपरिहार्यों विरोधो Sa आह * न चेति * असत्येनापि स्तुत्युपपत्तेर्वक्ष्यमाणत्वान्नास्मत्पक्षे श्रौतार्थविवक्षा- पत्तिरिति भावः । स्तुत्यर्थत्वमेव वाशब्दार्थास्त्वित्यनेनोच्यत इत्य- न्यथा व्याचष्टे * अथ वेति * तदानुष्ठानवचनएव प्रयोगशब्दः प्राप्तशब्दार्थ च भूतशब्द इति न स्वार्थानुष्ठानेनेत्यादिनोक्तम् । ननु भा- ज्यकारेणाप्राप्ता चाऽऽनुपपत्तिरिति प्रथमान्तमेव पदद्वयं पठितं कथं भवतान्यदेव पाठद्वयं व्याख्यातमत आह * प्रयोऽत्रेति * पाठत्रय- विवेकार्थ पूर्वोक्तवाक्यशेषस्मरणायोत्तरो ग्रन्थ । गुणवादस्तु ॥ १० ॥ यदा शब्दार्थस्त्वप्रयोगभूत इत्यनेन श्रौतार्थाववक्षोक्ता तदा गुणस्य वाद इति षष्ठीसमासाश्रयणादन्येन स्तुत्यर्थत्वं सिद्धान्तसूत्रोक्तं पूर्वसूत्रनैराकाङ्ख्याय स्मार्यते स्वार्थासत्यत्वे वा कथं स्तुतिरित्यपे- क्षायां गुणाद्वाद इति पञ्चमीसमासाश्रयणेन स्वार्थसत्यत्वानादरो प्रथमाध्यायस्य द्वितीयः पादः । ऽभिधीयते । यदा तु स्तुत्यर्थत्वमेव शब्दार्थस्त्वित्यनेनोक्तं तदा वि- धिस्तुत्योभिन्नविषयत्वे कथं विधायकानुग्रहार्थत्वमर्थवादस्येत्या- शङ्कानिराकरणार्थमेतत्सूत्रमिति भाष्यकारेण व्याख्यातम् । तत्र भि- नविषयत्वे स्तुत्यर्थत्वासम्भवपरिचोदनादेकविषयत्वे स्तुतित्वं पूर्व- पक्षिणो ऽभिमतमिति कस्य चिच्छङ्का स्यात्ततश्च सो ऽरोदादित्यादि- सम्भवचोद्यानुपपत्तिरित्याशङ्कयाभ्युपेत्य वादमात्रेणेतरत्राङ्गीकृत्य भिन्नविषयत्वे तावत्परिचोदनेति व्याचष्टे *यत्र तावदिति * गौण इति तद्धितं पञ्चमीसमासप्रदर्शनपरतया व्याचष्टे * गुणादिति * उपचारश्चात्र गुणशब्देनाभिप्रेतः यत्सम्बन्धिनीति सम्बन्धिशब्दः क्रियापेक्ष' प्रकृत्यपेक्षो वेति द्वेधा व्याचष्टे * यक्रियाया इति * अभिजनसंस्तवेन चेत्यादिभाष्यार्थमाह * यत्रेति * अभिजायते अ- स्मादितिव्युत्पत्त्योत्पत्तिस्थानमभिजनशब्देनोच्यते । अश्मकशब्दो ज- नपदविशेषवाची । कीडशी स्तुतिरित्यपेक्षामाह * एतस्यास्त्विति * घेतसशाखया ऽवकाभिश्चाग्निं विकर्षत्यापो वै शान्ता. शान्ताभिरे- वास्य शुचं शमयतीति श्रूयते । तत्र वेतसावकयोर्विधेयत्वेन स्तु- त्यहत्वात्तदर्थे वापां स्तुतिप्रतीतेः शान्ताभिरिति सहयोगे तृतीया- श्रयणेनाद्भिः सहचरित सम्बन्धो वेतसावकीरूपो विकारः प्रकृति- गुणयोगेन शान्तत्वादस्येति सर्वनामोपात्तस्य यजमानस्य कष्टापरप- र्यायां शुचं शमयतीति वेतसावकयोरनेन प्रकारेण स्तुतिरित्यर्थः रोदनाादाहरणत्रये केवलमेव गुणवादसूत्रं स्तुत्यसम्भवपरिहारा- र्थतया भाष्यकृता व्याख्यातम् । तस्य गुणवादप्रकारशेषानिरूपणेना- सामर्थ्यमाशङ्कयाह * गुणवादेति * रोदननिमित्तस्य शब्दस्य दर्श- नादित्यादिनोक्तस्तत्सिद्धिकरत्वादिः प्रकारविशेषो यावत्तत्सिद्धिसूत्रे वक्ष्यमाणतया नालोच्यते तावच्छुद्धेनैवेति तावच्छब्दस्यार्थः ते- नायुदाहरणेष्वपि तर्हि सूत्रान्तरानर्थक्यं स्यादत आह * शेषेति * ननु तत्सिद्धिसूत्रेण गुणवादप्रकारविशेषनिरूपणे स्तेनाद्युदाहरणे- ध्वपि शुद्धस्य गुणवादसूत्रस्य स्तुत्यसम्भवपरिहारसामर्थ्यादनिरूपणे वा रोदनायुदाहरणेष्वप्यसामर्थ्यात्कि कृतेयं व्यवस्थात आह * त- वेति * यद्यपि तत्सिद्ध्यादीनां षण्णामेव गौणवृत्तिप्रकारत्वात्सर्व- प्रकारविशेषनिरूपणं तत्र करिष्यते तथाप्यस्मिन्नुदाहरणे ऽयं प्रकार इति स्तुत्युदाहरणनिष्ठतया सूत्रेणानिरूपणात्किं चि- सारूप्याद्युदाहृतानां स्तनं मन इत्यादीनां संबन्धितयहवोच्यते खप्राधान्येन तु तत्र सर्व गौणतानिमित्तं वक्ष्यतइति प्राधान्यवाचि- ना परशब्देनोक्तं गौणवृत्तिलक्षणकथनमात्रफ्रत्वात्तत्सिद्धिसूत्रस्येति न्यायसुधायाम् । भावः । रोदनार्थवादे च गुणवादसूत्रयोजनार्थ विध्येकवाक्यत्वं विनार्थवादान्वयायोगात्पूर्व विध्येकवाक्यत्वमेव साङ्काक्षत्वे भाष्ये सोऽरोदीदित्यादिना प्रश्नपूर्वकं भाष्यकृतोपपादितं तद्वयाचष्टे * सो ऽरोदीदिति * यद्यपि निन्दानिषेधयोरत्रैकवाक्यत्वं तथापि सर्वो- दाहरणगतानामाकाङ्क्षाहतुकविध्येकवाक्यत्वप्रतिपादकभाष्याणां साधारणो ऽयं व्याख्याग्रन्थ इति सूचयितुमुपलक्षणार्थ विधिस्तुत्यो- रित्युक्तं, प्रत्यवयवमित्यनेन पदानामिति बहुवचनार्थो दर्शितः अन्य- था हि पुरास्य संवत्सराद्गहे रोदनं भवतीत्यनेनैव निन्दासिद्धेः शे- षपदानामानर्थक्यं स्यात् । अवान्तरपदवर्गाभिप्रायश्चात्र पदश- ब्दः । एतदर्थवादोपक्रमस्य देवासुराः सम्यन्ताआसन्ते देवा विजय- मुपयन्तो ऽग्नौ वामं वसुसन्यदधतेदमुतो भविष्यति यदि नोजेष्य- न्तीति तदग्नियंकायत तेनापाक्रामत्ते देवा विजित्यावरुरुत्समाना अ- न्वायन् तदस्य सहसा दित्सन्तेत्यस्याप्येकवाक्यत्वसिद्ध्यर्थ रोदी- दित्यादिभाष्यं व्याचष्टे * स इतीति * स इत्युक्त तस्य प्रकृतस्य प्रत्ययादित्यर्थः। यद्वा स इत्यस्य सर्वनामखपाढात्कथं प्रकृतापेक्षत्व- मित्याशय सर्वनामतच्छब्दादेशेन स इत्यनेन स्थानिनस्तच्छब्दस्य प्रत्ययादित्यन्यथा व्याचष्टे * अथ वेति * तद्रजतमित्यस्य भाष्य- कारेणानुपन्यासात्वयं तत्संबन्धं दर्शयति * एवमिति * उपपत्ति- श्चेति भाष्यं व्याचष्टे * सर्वा चेति * उपरितनस्येत्युक्ते ऽप्युपरित- नग्रन्थोपन्यासस्य प्रयोजनमाह * को साविति * हेतुत्वेनेति- भाष्यं व्याख्यातुमाशङ्कते * केनेति * रजतदानस्य रोदनोत्पाद- कत्वे को हेतुरित्यर्थ । उत्तरत्वेन भाष्य व्याचष्टे * तदुपपाद्यतइति * भाष्ये ऽयमिति पूर्वोक्तरोदनप्रभवत्वरूपार्थपरामर्शः । पूर्वोपन्यस्तस्य निषेधस्य पुनरुपन्यासे प्रयोजनमाह * तस्मादिति * कथं विधे- रुपकुर्वन्तीति पृष्ट्वा गुणवादेनेत्यादिनोक्तत्वेन गुणवादसूत्रं भाष्य- कृता योजितं तद्वयाचष्टे * निन्दयति * दोषसङ्कीर्तनात्मकत्वा- निन्दाया गुणशब्दानुपपत्तिमाशय तत्प्रतिषेधस्थेत्यादिभाष्यकृतो- तं कथं पुनरित्यादिना निरालम्बनस्तुत्यनुपपत्तिमाशयालम्बना- भिधानपरतया पुनरेतदेव सूत्रं योजितं तद्व्याचष्टे * गुणवादश्चे- ति* अरोदीदित्यस्यालम्बनप्रतिपादनार्थ रुद्र इत्यादिभाष्य व्याच- है * रुद्रशब्दति * रोदिते रोदनार्थत्वाद्रक्प्रत्ययस्य च कर्बर्थत्वा- द्रोदनकर्तृवाची रुद्रशब्दो व्याकरणादवगम्यते तस्य च त्वमने रुद्रो असुरो महो दिव इत्यादावग्नौ प्रयोगदर्शनाद्रुद्रो वा एष यदग्निरि- ति चार्थवादर्शनाद्रुद्रमग्नि द्विजाः प्राहुरिति * चारण्यकपर्वाण प्रथमाध्यायस्य द्वितीयः पादः । ६७ कुमारसम्भवोपाख्यानदर्शनात् * प्रस्तरे यजमानकार्यकर्तृत्ववत्त- स्कार्यकारित्वेन रोदनकर्तृत्वकल्पनेत्यर्थः तैत्तिरीयकशाखागतार्थ- वाददर्शनादग्नौ रुद्रशब्दो ऽस्माभियाख्यातः। अन्येषां तु कपर्दिनीम रुद्रशब्दं व्याचक्षाणानामभिप्रायं न विद्मः। अश्रुप्रभवत्वाभिधानाल- म्बनप्रतिपादनार्थ वर्णसारूप्यादितिभाष्य व्याचष्टे * अश्रुणश्चेति* यदि नामेत्यनेन द्रवत्वमात्रेण वैलक्षण्यमित्युक्तम् । अनेन चान्यत्र प्रकृतिविकारयोः सादृश्यदर्शनादिहापि सादृश्येन प्रकृतिविकारभा- घोत्प्रेक्षा दर्शिता । रोदनं भवतीत्यस्यालम्बनाभिधानार्थ निन्दन्नेवेति भाष्यं व्याचष्टे * धनत्यागेनेति * नन्वेवमपि मुख्यस्यार्थस्यासत्य- त्वात्तल्लक्षिता निन्दाप्यसत्या स्यादत आह * एवमिति * नावि. नाभावेनोपाख्यानादेर्मुख्यस्यार्थस्य स्तुतिनिन्दालक्षकत्वं किं तु वि- धिनिषेधापेक्षितस्तुतिनिन्दारूपार्थप्रतिपादनोपायमात्रत्वेनोपाख्या- नाद्यर्थवादैःप्रतिपाद्यते। न चोपायमात्रत्वेन कल्पितस्यासत्त्वं तदद्वा- रार्थप्रतिपत्तेरसत्यत्वं प्रतिपादयति । क्विबादेरसत्यत्वे ऽपि तद्द्वारस्य शब्दान्वाख्यानस्य सत्यत्वदर्शनादिति भावः । वपोत्खननार्थवादस्य विध्येकवाक्यत्वप्रतिपादनार्थ तथेत्यादिभाष्यं व्याचष्टे * एवमिति* कथं गुणवाद इत्यनेन कीदृशी स्तुतिरिति पृष्ट्वेत्थं नामेत्यादिना स्तुतिस्वरूपं भाष्यकृता दर्शितं तद्वयाचष्टे * आत्मेति * ईदृश्यपि स्तुतिर्भवतीति दर्शयितुं दृष्टान्तमाह * यथेति * कथं पुनरित्यनेना- सवृत्तान्तान्वाख्यानानुपपत्तिमाशयोच्यतइत्यादिना किमसतार्थेन स्तुत्यसम्भवाभिप्रायेयमाशङ्का निरालम्बनान्वाख्यानासम्भवाभि- प्राया वेति विकल्प्याद्ये कल्पे तावदपारमार्थिकस्याप्युपायत्वं क्विबा- दिवत्सम्भवतीत्युक्तं तदुपपादयति * वृत्तान्तेति * अनेन चोपा- ख्यानानामसत्यत्वे ऽपि तत्रार्थवादानामतात्पर्यात्तात्पर्यगोचरीभूते च प्राशस्त्याप्राशस्त्यरूपे ऽर्थे सत्यत्वान्न तावदप्रामाण्यापत्तिरित्यु- क्तम् । कथं पुनरसत्यस्य पारमार्थिकस्तुतिनिन्दोपायत्वमित्याशङ्या- ह * शब्दभावनाङ्ग वेति * अयमाशयः धूमादेर्शानापेक्षत्वे ऽपि अर्थरूपेण कारणत्वात्तस्य चार्थाभावे ऽपितद्विषयत्वरूपेण सत्यत्वा- द्रज्जुसर्पज्ञानस्येव भयकारणत्वं युक्तमेवोपायत्वमिति । अर्थसत्ता- नपेक्षत्वप्रदर्शनायैव सा चेत्यायुक्तम् * प्रवर्तेऽहमिति * विज्ञानोत्पा- दे यः शब्दस्य व्यापार स एव शब्दभावनाशब्देनोच्यते । एवं विध- विज्ञोनात्पादकत्वमेव शब्दस्य प्रवर्तकत्वं न तु वाद्यादिवदौदासीन्य- प्रच्यावकत्वम् । यथोक्तम् । प्रवर्तेऽहमिति ज्ञानं येन शब्देन जन्यते ।

६८ न्यायसुधाया। स चोदनोच्यते यद्वा प्रवर्तनफला मतिः॥ इति तदेवान प्रवृत्तिविज्ञानशब्देनोक्तम् । तन्मात्रेण शब्दभावनोपयुज्यते प्रवर्ते ऽहमिति विज्ञानं यावता प्रव- य॑स्योत्पाद्यते तावन्मात्रेण पर्यवस्यति नातिरिक्तमपेक्षतइत्य- र्थः । तच्चार्थसत्तानपेक्षात्प्राशस्त्यज्ञानमात्रात्सिद्ध्यतीति दर्श- यितुं नार्थेनत्युक्तम् । कचित्तु प्रकृतोपयोगानुसारेणैवं व्याच. क्षते तत्प्रवृत्त्यगभूतप्राशस्त्यविज्ञानमात्रेण सोपयुज्यते । प्रवृत्त्युत्पा- दे समर्थो भवतीति । नन्वंवं सत्युपारव्यानवत्स्वर्गयांगादिसाध्यसा- धनभावसकीर्तनस्यापि प्रवर्तनोपायमात्रत्वापत्तरसत्यता स्यादत आह * अर्थात्मिकायां त्विति * उपाख्यानानामपुरुषार्थोपयिकत्वेन वेद- स्य तत्राव्यापारात्प्रमाणान्तरानुपलब्धेश्चासत्यत्वं ज्ञातं । साध्यसाध- नभावे तु वेदस्य व्यापाराभाव निष्फलत्वापत्तेरतुल्यत्वम् । वेदप्रती- तस्यापि तु प्रत्यक्षविरोधे ऽसत्यता स्यान्न त्वसावस्तीत्यविसंवादग्रह- णनोक्त शब्दभावनायामपीतिकर्तव्यताभूतप्राशस्त्यज्ञानोपायमात्रे कस्मिश्चिद्विसवादो न तु पुरुषप्रवृत्तिविधिज्ञानप्राशस्त्यज्ञानरूप सा- ध्यसाधनेतिकर्तव्यतांशे अर्थभावनायां त्वितिकर्तव्यतोपाये ऽपि द्रव्यदेवतादौ न विसंवाद इति सर्वत्रेत्यनेनोक्तम् । एतदेव प्रश्नपूर्व कं विवृण्वन्नाह * अथेति * उत्तरमाह * सुतरामिति * स्वार्थस- त्यत्वेन तात्पर्यशङ्कायां स्तुतिपरत्वानिश्चयादितिभावः । एतदेवोप- पादयति * काममिति * इति ब्रवीतीतिकरणो ऽर्थवादगताभिधान- प्रकारनिर्देशार्थ.। अनेन वपोत्खननादिना प्रकारेण गुणवन्तमर्थ ब्रवीतीत्यर्थः । नन्वर्थसत्तानपेक्षप्राशस्त्यज्ञानमात्रात् । प्रवृत्ताबनाप्तो- तेनापि प्रवृत्ति. स्यात् अत आह * ततश्चेति * नन्विष्टानिष्टप्राप्ति- परिहारहेतुत्वाद्राजादेरनतिक्रमणीयत्वं स्यात् वेदस्य तत्कथमत आह * वेदश्चति * इष्टानिष्टसाधनबोधकत्वाद्वदो ऽप्यनातक्रमणी- य इति भावः । ततः किमिति चेदत आह * तेनेति * येन कारणे- न वेदः प्रमाणं तेन कारणेन तदनुरूपं व्यवहर्त्तव्यमित्यर्थः । प्राश- स्त्याप्राशस्त्यज्ञानयोरसत्योपायकत्वेनासत्यत्वादनादरमाशङ्कयोपा- यासत्यत्वे ऽपि वेदकृतत्वेनानयोः सत्यत्वं दर्शयितुम् * प्रवृत्ती- त्यायुक्तम् * ये इह विधेयनिषेधार्थविषये प्राशस्त्याप्राशस्त्यज्ञाने भ- वतस्ते वदनात्पादिते यस्मात्तस्मात्तदनुरूपमिति यस्माच्छब्दाध्याहा- रेण योज्यं ज्ञानोत्पत्तौ विप्रतिपत्ति निराकर्तुम् * स्वसंवेद्यत्वमु- कम् * वेदादरणीयत्वाय प्रवृत्तिनिवृत्त्यनुग्राहकत्वाभिधानम् । १ गजातिकमणीय म्यादति २ पु. पा.

प्रथमाध्यायस्य द्वितीयः पादः । अनुग्राहकत्वोपपादनाय पुंग्रहणं न चैतदलौकिकमित्याह * लोके ऽपीति * प्रवाभिप्रेतसौभाग्याद्यपेक्षया वचाभक्षणादि- क्रियाफलस्य मेधादेः फलान्तरत्वाभिधानम् । तदित्यव्ययं पश्चम्यर्थों नियोगं परामृशति तस्मानियोगात्प्रवृत्तः क्रि- याश्रयतन्निमित्तं मेधादिफलं प्राप्नोतीत्यर्थः । ननु सौभाग्यादेरपा- रमार्थिकत्वं यो न जानाति स एव प्रवर्ततां यस्तु प्ररोच्यमानः खा- भिपतफलासत्यत्वं जानाति स कथे तदुद्देशेन प्रवर्ततइति तदाह * यद्यपि चेति * तदसत्यत्वे ऽपि आप्ताभिप्रेतफलानुमानेन प्रव- ततइत्यर्थ तत्प्रकृते योजयति * एवमिति * ननु यदि प्ररोच- नावगतफलानुसारेण न प्रवृत्ति किमुद्दिश्य तर्हि प्रवृत्तीति तत्राह * यत्त्विति ५ परस्तादनुष्ठानोत्तरकालं यत्फलं भविष्यात सविधे- रुपगतमिति विध्याश्रयं तत्प्रमाणकमित्यर्थः उपसहरति * तस्मा- दिति * प्रमाणान्तरेप्वपक्षितार्थलाभेनोपायासत्यत्वं व्यवहारं दर्शयतीत्याह * न हीति * शुक्तिकायामद्दष्ट सत्यं पारमार्थिकं रजतं येन स तथोक्तः विफलारम्भताभिसन्धानम् । अथालम्बन- सद्भावात्तत्र व्यवहारसिद्धिस्तदत्रापि समानमित्याह * शुक्तिकाव- त्त्विति * कथ पुनरनुखिन्नायामित्यस्यैव चोद्यस्यह निरालम्बनान्वा- ख्यानासम्भवाभिप्रायकत्वं कथं पुनर्निरालम्बनमन्वाख्यायतइत्यने- नाशय नित्यः कश्चिदित्यादिना भाष्येण त्रिविधालम्बनाभिधानंन निराकृतं तद्वयाचष्टे * यर्थहति * यथेत्यनेनासत्वृत्तान्तान्वाख्यान स्तुत्यर्थेनेत्यादेः परिहारस्य सर्वसदन्वाख्यानविषयत्वं सूचितम् । अत एव पूर्वफक्किकायां सर्वत्रेत्युक्तम् । वृष्टयादीनां वपात्वं मध्य- वर्तिसारत्वलक्षणगुणयोगेनोपपादयति * वाय्वादानामिति * वृ- ष्ट्युत्पत्त्यवसानयोर्वाय्वायतत्वात्तन्मध्यवर्तित्वं सनेम्यश्वं मरुतो जु- नन्तीत्यादौ च वृष्टिहेतुत्वेन वायुस्तुती तत्मारत्वं वृष्टे' । अवका- शाभाव वायोरवृत्तेस्तन्मध्यवर्तित्वं वायुरहितस्य चापयरकाद्याका- शस्योष्मदु खोत्पादकत्वात् तत्सारत्वं रश्मेरादित्यावयवत्वात् । तन्मध्यात्तत्वं रश्म्यायत्तत्वाच प्रकाशकत्वस्य तत्मारत्वम् । ताम- नावित्यादिभाष्यं व्याचष्ट * तामग्नाविति * वैद्युतस्याबिन्धनत्वप्र- सिद्धस्तत्र वृटोनिक्षेपकल्पना । ऋवीशशब्दस्य शरीरवाचित्वात्तद- न्तर्वर्त्यग्निरावीणा ऽभिधीयते तस्मिन्वायोनिक्षेपकल्पनायामालम्ब- नमन्तश्वरत्वमामान्यमादित्यो वा ऽस्तं यन्नग्निमनुप्रविशतीत्यादि दर्शनात खरूपेण स्वर्गस्थस्यादित्यस्य भूमिष्ठाग्निप्रवेगायोगादाशिम- १ रुपराति २ प. पा.

न्यायसुधायाम् । प्रवेशकल्पना । बीजादिष्वजशब्दप्रयोगे निमित्तमाह * ततो इज इति * ब्रीह्यादेरन्नस्योष्मणा विनाप्ररोहादर्शनात्तस्य च तेजोगुणत्वा- दाग्नेय्यो ह्योषधय इति च लिङ्गादग्न्युदकसयोगजत्वावगतस्तत्सा- मान्यात् वृष्टिवैद्युतसंयोगस्य कारणत्वाभिधानम् । जाठराग्निपाच- तस्यान्नरसस्य व्यानाख्येन वायुविशेषेणाबीजभूतेभ्यो विण्मूत्रादि- भ्यो विविक्तीकृतस्य चरमधातुरूपण परिणामाद्वायो/जकारणावा- भिधानं वीरुधादेवीह्यादिवदेव भौमाग्निजन्यत्वान्निदाघकाले च प्र- रोहदर्शनेनादित्यरश्मिजन्यत्वावगमाद्रश्म्यग्निसंयोगजन्यत्वं लभेः प्राप्ती स्मरणात् । तदर्थतयोपयुज्योति पदं व्याचष्टे * तमालभ्यति * अन्नादिसेवनस्य प्रजापशूत्पत्तिकारणत्वाभिधानालम्बनमाह * स- र्वप्रजानामिति * एतच्च व्याख्यानत्रयं वैकल्पिकं युगपद्दर्शितं त- द् दृषयति * एतस्मिस्त्विति * प्रक्रमो रीताख्यानप्रकार इति यावत् । एवशद्धेन स्तुतिसिद्ध्यर्थसालम्बनत्वानुरोधेन प्रधानभूत- स्तुतिबाधो ऽङ्गिगुणविरोधन्यायादयुक्त इति सूचितम् । खमतेन व्याख्यातुं प्रतिजानीते * अत इति * सृष्टयादिविषयमेतदुपाख्यानं व्याख्यातुं तदनङ्गीकारादनुपपत्तिमाशयाह * मन्त्रोत * वस्तु- वृत्त्या सृष्टिप्रलयाभावे ऽपि मन्त्रादिव्याख्यालम्बनत्वेनोपायमात्रत- या तदङ्गीकरणमिति भावः।व्याख्यानमाह * तति*आत्मनः पशु- रूपनिर्माणशक्तिद्योतनाथ योगिग्रहणं पुण्यकर्मणामेव मन्वादीनां सृष्टयादावुद्भव पुराणादिष्वभ्युपगम्यते । यद्वा पुण्यस्यैव कर्मणः फलदानायोद्भवः। अरोगा. सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । चतुष्पात्सकलो धर्म सत्य चैव कृतेयुगे ॥ इति स्मरणात् । ततोऽजस्तूपर उदगादिस्यत्र तत इति पश्च- म्यानन्तर्यप्रदर्शनार्थेति व्याचष्टे * तत इति * वपापुरोडाशाङ्ग- प्रचारात्मकत्वात्पशुयागस्य वपाप्रचारमात्रेणासमाप्तिः । आनन्त- र्याभिधानस्य स्तुत्युपयोगमाह * ईद्दशमिति * वपोत्खननाभिधान- स्योपयोगमाह * एवं चेति * सालम्बनत्वाभिप्रायः सत्यशब्दः । प्रसङ्गाद्वृत्तान्तान्वाख्याने ऽपीत्याद्यधस्तनभाष्यं दूषयति * प्रतिसृष्टि चति * दिङ्मोहोदाहरणे देवशब्दालम्बनमाह * कर्मास्त्विति * के त इत्यपेक्षायामृत्विजस्तइत्युक्तम् । दिङ्मोहशब्दालम्बनाभिधा- नार्थमप्राकृतस्येति भाष्य ब्याचष्टे * देवयजनेति * देवयजनं यज्ञ- भूमिः दृष्टश्च लोके व्याकुलीभावे दिग्भ्रमव्यपदेश इत्याह * तथा चेति * अदितेझपकत्वाभिधानस्यालम्बनप्रतिपादनार्थमवधारणति प्रथमाध्यायस्य द्वितीयः पादः । भाष्यं ध्याचष्टे * तत्रति * कथमदितियागेनावधारणस्यावकाशो दीयते अत आह * यावद्धीति * दर्शपूर्णमासाविष्ट्वा सोमेन यज- तेतिदर्शपूर्णमासानन्तरं सोमयागस्तस्य चापूर्वत्वाद्दर्शपूर्णमासयोर- नभ्यस्तस्याङ्गजातस्योपस्थापनाद्वयामाहमात्रं प्रायणीयेष्टयापनीयते सा हि सोमस्याङ्गं दर्शपूर्णमासयोश्च विकार इति पूर्वाभ्यस्तदर्शपूर्ण- मासिकेकर्तव्यतानुष्ठानन करिष्यमाणेषु कर्मखवधानं भवतीति भाव: पथ्यां स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दाक्षिणां सोमेन प्रतीची सवित्रोदीचीमदित्यो मिति मोहापनयेन स्तुतिः । रूपात्प्रायात् ॥ ११ ॥ अत्र भाष्यकारेण स्तेनानृतवादाद्यर्थवादस्य हिरण्यहस्तधार- णपूर्वकग्रहणविधिशेषत्वमुक्त्वा निन्दाया विधिशेषत्वानुपपत्तिमाश- ड्य निन्दावचनमित्यायुक्तं तदुपपादयति * इहति * ननु निन्दया निषेध एव कल्प्यतां किमित्यसावन्यस्तुतिपर्यन्तं नीयते ऽत आह * या निन्दोति * निषेधैकवाक्यत्वं विना निन्दात्वानवधारणान्न तबलेन निषेधकल्पनं युक्तम् । न चैवमानर्थक्यापत्तिः निन्दामात्र- पर्यवसानाभावादिति भावः । कथमस्या विधिशेषतेत्याशयाह * तदुपपादनस्थति * वक्ष्यते च दशमे विधिसन्निधौ श्रुताया निन्दाया निषेधाकल्पनेन विधेयस्तुत्यर्थत्वमित्याह * यथेति * जर्तिलयवाग्वा वा जुहुयाद्वीधुकयवाग्वा वा जुहुयान ग्राम्यान्पशुन् हिनस्ति नारण्यानथो खल्वाहुरनाहुतिर्वैजर्तिलाश्च गवीधुकाश्च प- घसा ऽग्निहोत्रं जुहुयादिति विधेः अनाहुतिरिति च निन्दया निषे- धानुमानाद्विधिनिषेधाविति प्राप्ते सिद्धान्तयिष्यते । न चेदन्यं प्रक- ल्पयेत् प्रक्लप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्चति । शिष्ट्वा तु प्रतिषेधः स्यात् इति पूर्वाधिकरणसूत्रानुषङ्गेणेदं योज्यम्।न चेद- न्यं विधिं प्रकल्पयेद्यद्यत्र प्रत्यक्षो विधिः सन्निहितो न स्यात्तत' षोडशिग्रहणवाक्यवदेकेन शिष्ट्वा परेण प्रतिषेधः स्यात् इह तु पयसा ऽग्निहोत्रं जुहुयादिति विध्यन्तरस्य प्रक्लप्तत्वात्तच्छेषभूतो ऽयमर्थवादः स्यात्, अन्यथा निषेधैकवाक्यत्वं विना निन्दात्वानव- धारणेनानाहुतित्वकीर्तनस्य निषेधकल्पकत्वासम्भवादानर्थक्याप- तेः । कथं चित्कल्पितस्यापि वा निषेधस्य षोडशिग्रहणनिषेधवाद्वि- कल्पार्थत्वात्तस्य चात्र पयः प्रभृतिद्रव्यान्तरविधानादेव सिद्धेरान- र्थक्यापरिहारात यवागूस्तुतिनिन्दयोः कथं पयःस्तुत्यर्थत्वमित्याश- १ अयपा० २ पु. ना.

૨૨ न्यायसुधायाम् । काय परसामर्थ्याच्चत्युक्तं ग्राम्यारण्यपशुहिंसानापादकत्वेन प्रशस्ता- नामपि जतिलगवीधुकानां पयःप्रयोगापेक्षया दुष्टत्वात्पय प्रशस्तत- रमिति परेण पयोविधिनान्वये सामर्थ्यादित्यर्थः । एवं चैकवाक्यत्वे सम्भवत्यनकादृष्टानुबन्धिवाक्यभेदापादकावधित्वाङ्गीकरणायोगात् जुहुयादिति लिङो ऽपि स्तुत्यर्थत्वसिद्धि । दूरभूयस्त्वात् ॥ १२ ॥ धूमार्थवादस्य भाष्यकृता मिश्रालिङ्गमन्त्रविधिशेषत्वमुक्तम् । तदुपपादयति * तस्मादिति * उदाहृतयार्मिश्रलिङ्गत्वं दृष्यति * कथ पुनरिति * परमतेन समाधत्ते * केचिदाहुरिति * तद् दू- षयति * तदयुक्तमिति * न केवलं प्रमाणाभावात् ज्योतिः शब्दस्याग्निसूत्रशब्दपर्यायत्वाभावः किं तु बाधकसद्भावाद- पीत्याह * अन्यतरेति * भाष्यानादरेण खयं मिश्रलिङ्गम- त्रविधिशेषत्वमाह * तस्मादिति * अत्रैवार्थे भाष्यं योजयति * अस्मिन्नपि त्विति * अनेन च प्रातरितीतिकरणः काकुत्वेनैवं व्याख्यातः सत्यप्यस्मिन्प्रक्रमे यदग्नये च प्रजापतये च सायं जुहो- ति यत् सूर्याय च प्रजापतये च प्रातर्जुहोतीत्यग्निसूर्ययोः केवल- योर्दैवतात्वेन विहितत्वात्केवलदेवत्यमन्त्रयोर्लिङ्गतो ऽपि प्राप्तिस- म्भव मिश्रलिङ्गमन्त्रविधिपर्युदस्तप्रतिप्रसवमात्रार्थत्वेन केवलदेवत्य मन्त्रविधानत्य स्तुत्यनाकाङ्क्षत्वान्नास्य तच्छेषतति तत्पर्युदासेन मि- श्रालगन्योरपूर्वस्य विधानस्याकाजक्षितत्वात्तच्छेष इति । एवं भाष्यका- रमतेन ब्राह्मणेनाप्यग्निसूर्यविधिमङ्गीकृत्य केवललिङ्गमन्त्रविधेस्त- दर्थशास्त्रतादोषपरिहाराय प्रतिप्रसवमात्रार्थत्वात् स्तुत्यनाकाङ्क्ष- तोक्ता। इदानीमाघाराग्निहोत्राधिकरणे वाक्यभेदभयाद् ब्राह्मणं चा- ग्निसूर्यविधनिराकरिष्यमाणत्वाल्लिङ्गत. प्राप्त्यभावात् तदर्थशास्त्र- स्वाभावेनापूर्वविधित्वात् स्तुत्याकाङ्क्षोपपत्तरस्यैवायं शेष आह * अथ वेति * यद्यपयनयोर्विध्योर्मध्ये पठितस्तथापि मिश्रलिङ्गवि- धेर्यदग्नये सायं जुहुयादासूर्याय वृश्चेत् यत्सूर्याय प्रातर्जुहुयादासू- र्याय वृश्चत देवनाभ्य सम। दन्दध्यादग्निोतियोतिः सूर्य्यः स्वा- हेति साय होतव्यं सूर्यो ज्योतिज्योतिराग्निः स्वाहेति प्रातस्तयोरू- भाभ्यां प्रातन देवताभ्यः सम दन्दधातीति देवताद्रोहापादकत्वेन केवलदेवत्यनिन्दापूर्वकस्य देवताद्रोहानापादकत्वलक्षणप्रशंसान्तर- सद्भावेन निराकाङ्क्षत्वात्केवलदेवत्यविध्यारवाय प्रशसत्यर्थः । भाष्यं चैवमस्मिन्नर्थे योज्य, मिश्रलिङ्गयोरित्यनादर षष्ठी सप्तमी वेय प्रथमाध्यायस्य द्वितीयः पादः । सतोरपि सन्निधौ मिश्रलिङ्गयोर्मन्त्रयोर्विहितयोः प्रशंसान्तरसद्भा- घेन तयोः स्तुत्यनाकाङ्क्षत्वादुहाहृतकेवललिङ्गमन्त्रविधानस्यैवेय- माकाजक्षितत्वाच्छष इति । अस्मिन्पक्षे स्तुतिस्वरूपं दर्शयति * य- स्माद्दिवेति * व्यवस्थितशब्देनोभयोरित्यादिभाष्यं नक्तमग्नेर्दिवा च सूर्यस्य सन्निधाने व्यवस्थया होम इत्येवं व्याख्यातम् । जुहोतिचोदि- तस्याप्युद्देशांशे भागरूपे देवतान्वयमभिप्रेत्य यष्टव्यावित्युक्तम् । पूर्व व्याख्याने तूभयशब्दो मिश्रवचनः । दुरभूयस्त्वादित्यदर्शनाभिधा- नालम्बनप्रतिपादनार्थ भाष्यं प्रश्नपूर्व व्याचष्टे * कथं त्विति * दूरस्थस्य भूयस्त्वेन यदर्शनं नाम दर्शनगतो ऽतिशयो हशिना ल- क्षित. स ना निषिध्यते पशुशब्दलक्षितमिव प्राशस्त्यमपशुशब्देन अपशवो वा अन्ये गोअश्वेश्य इत्यनेन नोति भाव. * कन चिदि- ति * दूरभूयस्त्वांशेनादर्शन स्तुतेरालम्बनमित्यर्थः । स्त्र्यपराधात्कर्तुश्च पुत्रदर्शनम् ॥ १३ ॥ न चैतद्विद्म इत्यस्य प्रवर प्रब्रियमाणे ब्रूयादित्येतद्विधिशे- पत्वे भाप्यकृतोक्तम् । तत्र विध्यशपूरणपूर्वकं स्तुत्युपयोगित्वमुप- पादयति * प्रवरइति * अज्ञानवचनालम्बनाभिधानार्थ दुर्ज्ञान- त्वादितिभाष्य व्याचष्टे * शायमाने त्विति * दुर्ज्ञाने कथम- ज्ञानशब्दप्रवृत्तिरित्यपेक्षायामाह * यत्सुग्वेनेति * पूर्ववदत्रा पि ज्ञानगतसौकर्यलक्षणो गुणो विदितो विदिलक्षितो ना निषिध्य- तइत्यर्थः । स्त्रयपराधनति दुर्ज्ञानत्वोपपादनार्थत्वेन व्याचष्टे * तच्चे- ति * ननु स्त्रयपराधे ऽपि बीजाद्योनिर्बलीयसीत्यनेन न्यायेन मा- तृब्राह्मण्यमात्रेण क्षेत्रिव्राह्मण्येन वा पुत्रे ब्राह्मण्यसिद्धे' कथ दुर्ग- नतत्याशङ्कानिराकरणार्थतया कर्तुश्च पुत्रदर्शनेनति भाष्यं व्याचष्टे * सत्याप चेति * किं तत्कर्तुः पुत्रदर्शनमित्यपेक्षयां माता भस्त्रा पितु. पुत्रो येन जातः स एव स इत्याद्युदाहृतम् । जनकब्राह्मण्य- निमित्त ऽपि पुत्रब्राह्मण्ये कथं दुनित्वमत आहे * जनयितुश्चे- ति * साक्षात्कर्तृपुत्रदर्शनं स्वयमुदाहृत्य भाष्यकारीयमुदाहरण द्योतकत्वेन योजयति * वेदे ऽपि चेति * उपपादितं स्तुत्युपयोग- मुपसंहरति * तेनेति * दुनित्वेनाब्राह्मण्यशङ्कासम्भवादब्राह्म- णस्यापि प्रवरानुमन्त्रणाद् ब्राह्मण्य भवतीन्यवरूपा प्रशसा युक्तेत्य- र्थ । ननु ब्राह्मण्यस्य मातापितृसंबन्धनिमित्तत्वात्प्रवरानमन्त्रण- जन्यत्वाभिधानं किमालम्बनमत आह * निरूढति * निरूढ प्र- सिद्धं ब्राह्मण्यं येषां प्रवराणां प्रप्रियमाणानां सङ्कीर्त्यमानानां तेषां न्यायसुधायामें। सङ्कीर्तनादित्यर्थः । आकालिकेप्सा ॥ १४ ॥ सूत्रं व्याचष्टे * यत्तदानीमेवेति * ईप्सापदव्याख्यानाथै त- त्वेत्युक्तम् । न यचिरभावीत्यनेनाकालिकस्यैवाप्तुमिच्छति साधा- रणत्वं दर्शितम् । अनेन चानवक्लप्तिवचनमनभिमतत्वेनामुष्मिकं निन्दितुमित्युक्तं भवति । आमुष्मिकानन्दाया विधेः स्तुतिपर्यवसा- नप्रतिपादनार्थ प्रत्यक्षफलत्वेन स्तुतिरितिभाष्यं व्याचष्टे * तस्मा- दिति * चिरभाव्यनभिमतत्वादित्यर्थः । अतीकाशाः छिद्राणि प्राग्वंशः पत्नीशाला स्तुतिखरूपमाह * तद्धीति * अनवक्लप्ति- वचनालम्बनाभिधानार्थमनवक्लाप्तिवचनमिति भाष्यं व्याचष्टे * - दपेक्षया चेति * अत्रापि यदमुष्मिन् लोकइत्यामुष्मिकफलपराम- शिना यच्छब्देन तद्वतमभिमतत्वं लक्षयित्वा तस्यानवक्लाप्तिः को वेदेत्यनेनोच्यते । भाष्ये च गौणग्रहणेन रूपात्मायादिति पञ्चम्यु- पात्तगुणवादनिमित्तत्वमनुष्याकालिकेप्सा गुणवादनिमित्तमित्येवं सूत्रं योजितम् । कामिनः काम्यमानफलाभिमतेरपि प्रत्यक्षत्वाद- नवक्लप्तिवचनानुपपत्तिमाशय तदपेक्षयेत्युक्तम् । यथा प्रत्यक्ष- फलं सर्वाभिमतं नैतत्तथेत्यर्थः । समानकालावाद्यन्तावस्येत्यर्थवि- वक्षायामन्वाख्यानादाकालिकपदात्तदानीमुत्पत्त्याख्यार्थालाभमाश- विशिष्टे ऽर्थे त्वाख्यातमपीदं पदमेककालक्षणया प्रत्यासत्योप- त्याख्यैककाल्यवाचीति दयितुमाह * पाठे त्विति * आद्यन्तवच- नइतीतिकरणेनोपक्रमोक्ताकालिकपदार्थपरामर्शादीर्घपाठे तदानीमे- वोत्पाद्यमानमनेन सूत्रेणाकालिकमन्वाख्यातमित्यर्थः । पाठान्तर- मिति क चिद्वार्तिकपाठः । तत्र भाष्योपन्यस्तस्यापि दीर्घपाठस्य खानभिमतत्वसूचनार्थ पाठान्तरोक्तिः । पूर्वविवक्षितार्थलाभोपपा- दनाय इखपाठव्युत्पत्तिं दर्शयितुमाई * अकालिकामति चेति * ठस्येकादेशात्कालिकपदासिद्धिः। विद्याप्रशंसा ॥ १५ ॥ अनेन सूत्रेण यासौ गर्गत्रिरात्रवेदानुमन्त्रणविद्या मुखशो- भावाजिजन्महेतुत्वेनोक्ता सा गर्गत्रिरात्रवेदानुमन्त्रणयो प्रशसेत्यु- च्यत इति गर्गत्रिरात्रविधेरित्यादिना भाष्येणोक्तम् । तत्र विद्यायाः केन चित्पारार्थ्यानवगमात्तद्विषयफलश्रुतेः कथं प्रशंसार्थतेत्याश- ङ्कानिराकरणपूर्वकं फलाभावसूत्रोक्तमनुपलाब्धिविरोधं निराकरोति प्रथमाध्यायस्य द्वितीयः पादः । * अध्ययनेनेति * अध्ययनविधिमा ज्ञानस्याध्ययनफलत्वं वदता निष्प्रयोजनस्य फलत्वायोगात कैमर्यापेक्षायां सामर्थ्यात्कर्मानुष्ठा- नयोग्यपुरुषकरणार्थत्वेन तच्छेषावगमादित्यर्थः । खयं मुख्यया वृत्त्या मुखशोभावाजिमत्त्वानुवादमुपपाद्याधुना भाष्योक्तं गौणत्व- मनुसरति * अथापीति * स्तुतिपरत्वादित्यनेन सूत्रोक्तस्य प्रशंसा- र्थत्वस्यानुपलब्धिविरोधपरिहारार्थत्वं दर्शितम् । घृतवन्तं कुलायिनं रायस्योषं सहस्रिणं वेदो ददातु वाजिनमित्याह । प्रसहस्रं पशूनां मानोत्यस्य प्रजा जायां वाजी जायते य एवं वेदेत्यत्र यज्ञपतिप्रथमव- तू मन्त्राभिधानस्यार्थवादालम्बनत्वसम्भवे ऽपि मन्त्राभिधाने प्या- लम्बनाकाङ्क्षानिवृत्त्यर्थ कुले सन्तताध्ययनश्रवणादित्युक्तम् । सर्वत्वमाधिकारिकम् ॥ १६ ॥ फलवचनं स्तुतिरिति भाष्येण पूर्णाहुतिपशुबन्धयोः सर्वका. मलोकफलत्ववचनमश्वमेधविद्यायाश्च मृत्युतरणादिफलत्ववचनं प्रशंसार्थत्वान्नानुपलब्धिविरुद्धमिति पूर्वसूत्रानुषङ्गेण सर्वत्वमिति सूत्रावयवो व्याख्यातः । तत्सिद्ध्यर्थे पूर्वोक्तमप्यर्थवादविषयत्वं स्मारयति * संस्कारेति * पूर्णाहुतिविद्ययोः संस्कारत्वात्पशुबन्ध- स्य चारादुपकारककर्मत्वादित्यर्थः । सर्वकामफलस्यति माष्येण स- त्वमित्यवयवावृत्त्या सर्वकामावाप्तिवचनालम्बनाभिधानार्थत्वेनैत- त्सूत्रं व्याख्यातं तद्वयाचष्टे * स्तुतिस्त्विति * उक्ते ऽर्थे सूत्रं योजय- ति * सूत्र चेति * असर्वेष्वितिभाष्येण सर्वत्वानुपपत्तिपरिहारा- र्थत्वेन पुनरेतत्सूत्रं व्याख्यातं तदाशङ्कापूर्व विवृणोति * ननु चेति * एकस्मै वा अन्ये यज्ञक्रतवः कामायाद्रियन्ते सर्वेभ्यो ज्यो- तिष्टोम इत्यधिकृतस्य ज्योतिष्टोमस्य सर्वकामसाधनत्वात्तदङ्गभूतस्य पशुबन्धस्य तद्वारा सर्वलोकसाधनत्वं स्तुत्यर्थमुपचारादुक्तमित्येवं सूत्रं योज्यं, विद्योदाहरणे तु पूर्वसूत्रागतविद्याशब्दानुषङ्गण विद्या- प्याधिकारिकीति विपरिणामेनाधिकृताश्वमेधफलं मृत्युतराणादि तदुपकारिण्यां विद्यायामश्वमेधस्तुत्यर्थमुपचारेणोक्तमिति योज्यम् । फलस्य कर्मनिष्पत्तस्तेषां लोकवत्परिमाण- तः फलविशेषः स्यात् ॥ १७ ॥ अन्वारुह्य वचनस्य प्रयोजनमाह * तच्चैतदिति * दक्षिणा- परिमाणसाम्ये ऽपि फलाधिक्यमन्तरेणासारद्रव्यदानेनापि क्रतु- सिद्धौ सारद्रव्यदाने प्रवृत्त्ययोगात्सूत्रातिरेकेण भाष्ये सारग्रहणम् ।

न्यायसुधाया। विशेषमुपपादयति * साधनेति * अत्राशङ्कते * इतिस्थित इति * परिहरति * तदभिधीयतेति * स्थानादपीय व्यवस्था सिद्ध्यतीत्याह किं चेति श्लोक व्याचष्टे * यथैवेति * कर्मगोचर इत्यादिना समु दायाभिप्रायः खगोचरशब्दः निर्धारणे च सप्तमी ब्यवस्थावचन- श्व विभागशब्द इति व्याख्यातः । ब्रह्महत्याश्वमेधाभ्यां न पर पुण्यपापयोः। आभूतसंप्लवान्तं च फलमिष्टं तोद्विज ॥ इत्यादिस्मरणादपि व्यवस्थावसीयतइत्याह * स्मरणादपी- ति * यदग्निहोत्रं जुहोति अथ दशगृहमेधिन आप्नोत्येकया राज्या यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्णमासयाजिनामाप्नोति यदा दश संवत्सरान्' दर्शपूर्णमासाभ्यां यजते ऽथाग्निष्टोमयाजि- नामाप्नोतीत्याद्यन्यार्थदर्शनादपि व्यवस्थासिद्धिरित्याह * चातुर्मा- स्यसामेषु चेति * चातुर्मास्यवत्सोमे ऽपीत्यर्थः। अन्त्ययोर्यथोक्तम् ॥ १८ ॥ अभागिप्रतिषेधपरिहारे स्तयानृतवादार्थवादन्यायातिदेशा- र्थत्वेन यथोक्तपदव्याख्यानार्थ पृथिव्यादीनामिति भाष्यम् । तत्र हिरण्यं निधायेत्यनेन पृथिव्याधारस्यैव हिरण्यस्य विधे पृथिवीनि- न्दानुपपत्तिमाशय ब्याचष्टे * यथैवेति * एवमपि शुद्धपृथिवी- निन्दामात्रेण हिरण्यस्तुतिसिद्धेरितरनिन्दानर्थक्यादादिशब्दानुपप- त्तिमाशड्याह * नान्तरिक्षइति * एतदेव विवृणोति * यथेति * अनित्यसंयोगपरिहारार्थत्वेन यथोक्तपदव्याख्यानार्थ यच्चति भाष्यं व्याचष्टे * अनित्यसंयोग इति * प्रकर्षेण वहतीति कर्तरि प्रावाहणिशब्दव्युत्पत्तिसम्भवात् बबरशब्दस्य च शब्दानुकृतित्वेन नित्यवायुपरत्वोपपत्ते प्रसिद्धप्रवाहणाख्यपुरुषकल्पनेन तदपत्यप- रता नित्यानित्यसंयोगविरोधापादिका कल्पनीयति भावः । ननु वि- ध्युदेशप्रामाण्यमात्रेणांशत्रयोपेतभावनानुष्ठानसिद्धरनर्थवादप्रामा- ण्यचिन्ता निष्प्रयोजनेत्याशङ्याह * प्रयोजनामति * एतच्चोपल- क्षणार्थम् । अक्ताः शर्करा इत्यत्र सन्दिग्धनिर्णयस्याश्वप्रतिग्रहेष्टयां व्यवधारणकल्पनस्य वमनेष्टयां च वैदिकसोमवमननिमित्तकत्वस्या- ष्टावुपभृति गृहातीत्यत्र चतुष्टद्वयकल्पनस्य जोतिष्टामशब्दस्य सोम- यागपरत्वस्य धाय्यानां च समिध्यमानवती समिद्धवत्यन्तरालनिवे- शस्य सोमं विद्या प्रजानां चावश्यकत्वस्य द्वयोः प्रणयन्तीत्यस्य च १पानि पु. २ ना.

प्रथमाध्यायस्य द्वितीयः पादः । मध्यमपर्वद्वयविषयत्वस्यार्थवादप्रामाण्याधीनत्वात् । विधिर्वा स्यादपर्वत्वाद्दादमा ह्यनर्थकम् ॥ १९ ॥ विषयविवेकार्थमिहेतिभाष्यं व्याख्यातुमाह * एवमिति * आनर्थक्यमुपाख्यानम्।आदिशब्दोपात्तं चादृष्टार्थत्वं प्रतियोगिविरोध येषां तेञ्चित्यर्थः । एतच्च पूर्वेणाध्यायषट्केण प्रत्यक्षविदितधर्मकेषु दर्शपूर्णमासादिषु व्याख्यातेषु इदानीमविहितेतिकर्तव्यताकष्वैन्द्रा- मादिषु चिन्तयितुमिष्यतइति सप्तमाद्यभाष्यवत्सर्वेष्वर्थवादेष्वान- र्थक्यादिप्रतियोगित्वेन व्याख्यातेषु यथासम्भवं कषु चिद्विधिप्रति- योगितेदानी विचार्यतइति विशेषकपरं व्याख्येयम् । पूर्णाहुत्या- धर्थवादानां विद्धिवन्निगदार्थवादानामपि व्याख्यातत्वात्किमस्यति सन्देहभाष्यं पूर्वपक्षासम्भवेनाक्षिपति * कुत इति * सन्देहसमर्थ चतुर्दा पूर्वपक्षं सम्भावयति * पूर्वध हीति * श्रौतत्वमनेन विधि- त्वाङ्गीकरणे कारणमुक्तम् । अनन्यलभ्यत्वाच्च विधिरित्याह * विध्यंशश्चेति । इत्युक्तामति * विध्युद्देशस्यैव द्वे शक्ती कल्पयि- ध्याम इत्यत्रेत्यर्थः।प्रधानत्वादपि विधिरित्याह *अपि चेति* विशे. षणशब्देनाङ्गमुक्तम् । प्रधाने विशेषणे च यत्सम्भवति तस्येत्यर्थ । प्राथम्यादपीत्याह * समाप्ते चेति * फलरूपश्चात्र भावनांशो विधे- यो ऽभिप्रेतः तस्य च सर्वादौ निवेशः प्रथमाकाङ्क्षणादितरयोस्तु ता- दर्थ्येन तस्यैव प्राधान्यादित्याह * विशेषेण त्विति * आसामुपप- त्तीनां सूत्रकाराभिमतत्वं दर्शयितुमाह *इत्यादीति* श्रौतस्यार्थान्त- रपूर्वत्वाभावादनन्यलक्ष्यस्य चानन्यकारणकत्वात्प्रधानस्य विधेया- स्तरापेक्षाभावादपूर्वशब्दे न लक्षणा, प्राथम्यं तु न विद्यते ऽस्मात्पूर्वमि- ति बहुव्रीहिणा बोध्यते । आदिशब्देन त्वर्थान्तरपूर्वत्वाभाव एवो- च्यते । ननु स्तुतेरपि पूर्वाधिकरणे अर्थवत्त्वोपपादनादानर्थक्या- भिधानमयुक्तमत आह * तदपेक्षयेति * पौनरुक्त्यमाशङ्कते * ननु चेति * एकस्यार्थस्याद्विरुक्त्यानर्थक्ये ऽप्यस्य प्राथम्यादपुनरुक्तते- त्येकेषां समाधानमाह * तत्रेति * अस्याधिकरणस्य पौनरुत्या- भावे ऽप्यानर्थक्यापरिहारे ऽप्याकुलीभावेन श्रोतृणामर्थानवधारणा- पत्तेर्विलम्बो ऽनुचित इत्येतत्समाधानं दूषयति * सत्यमेवमिति * श्रोतचित्तसमाधानायापनिरुक्त्ये परिहार्ये प्राप्ते चतुरःप्रकारानुपस्यास्य दूषयति *तत्र* इत्यादिना पूर्वाधिकरणेनैवेत्यनेन फलविधिसरूपा- णामपि पूर्वाधिकरणविषयत्वं दार्शतम् *तथा च* इत्यनेनैतदेवं पूर्वा- १ विशेषणपरमिात २ पु. पा.

न्यायसुधायाम्। धिकरणोदाइतफलविधिसरूपार्थवादनिदर्शनेन स्फारितं पूर्वोक्तस्या- प्यर्थवादत्वस्य विसम्वादेनेहासम्भवादानर्थक्यपरिहाराय पर्णमय्य- धिकरणनिराकृतस्य फलविधित्वस्य प्रतिप्रसवशङ्ख निराकर्तुमेतद- धिकरणमिति प्रकारान्तरमुपन्यस्य निराचष्टे * के चिदिति * श- रीरस्यन्द्रियाधिष्ठानत्वेन प्राधान्यादुपचारात्प्राधान्येनाधिकरणप्रति- पाद्यं शरीरशब्देनोक्तम् । तत्र पर्णमय्यधिकरणशरीरादभिन्नमि- त्यर्थः । अभ्युञ्चयहेतुत्वे कारणं *विसम्वादो ऽपि च* इत्यनेमोक्तम् । सर्वविधिसरूपविषयत्वादस्य फलविधिसरूपमानविषयण पर्णमय्य- धिकरणनापौनरुक्त्यम् । इति प्रकारान्तरमाशङ्कते * तस्मादिति * निरस्यतीहापीति । फलविधिसरूपांशेनास्यापि तेन गतार्थत्वमपरिहा- यमिति तावच्छब्देन सूचितम् । एतद्दोषपरिहारार्थफलविधिसरूपव्य- तिरिक्तामामेवात्रोदाहरणत्वमिति प्रकारान्तरमाशङ्कते * इति व्यव- स्थयेति * हेतावितिकरणत्वं निरस्यति * अत्र वदाम इति * ननू- दाहरणभेदस्याधिकरणभेदाक्षेपकत्वादारभ्यमेवाधिकरणद्वयमित्यत आह * न हीति * कि तयधिकरणभेदाक्षेपकमत आह * न्याये- ति * न चास्य फलविधिसरूपव्यतिरिक्तसर्वविधिसरूपविषयता- स्तीत्याह * द्रव्यादिविधयो ऽपीति * कुत्र विचारिता इत्यपेक्षाया- माह * के चिदिति * एवं पौनरुक्त्येनाधिकरणारम्भे दूषिते पौन- रुत्त्यं परिहर्त्तमशक्नुवतां मतेनारम्भं तावत्समाधत्ते * अतश्चेति * यथैव चतुर्थे सह शाखया प्रस्तरं प्रहरतीति शाखाप्रहरणस्य प्रतिष- त्यर्थकर्मत्वसन्देहे तृतीयया अर्थकर्मत्वे प्राप्त सहयोगनिमित्तत्वा- तृतीयायां द्वितीयावगतप्राधान्यप्रस्तरसाहचर्याच्छाखाया अपि प्रा- धान्यावगतेः प्रतिपत्तित्वे सिद्धान्तिते द्वितीयायाः प्राधान्यव्य- भिचारशङ्कापरिहारार्थयोरर्थे ऽपीति चेन्न । तस्यानाधिकारात् । फ- लस्याधिकृतत्वादितिसूत्रयोः सक्त्वधिकरणगताभ्यां सूत्राभ्यां द्र- ब्योपदेश इतिचेन्न । तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वादितिसूत्रा- भ्यां पौनरुक्तधमाशङ्ग्य नातीव पुनरुक्तता महान् दोषो बहुकृत्वो ऽपि पथ्यं वदितव्यमिति परिहारं भाष्यकारो वक्ष्यति तथैवात्रापि वक्त- व्यमित्यर्थ । खयमिदानींचतुरः पौनरुत्यपरिहारप्रकारानाह *अथ घेति* एकस्यैव साध्यसाधनसम्बन्धाभावप्रतिपादनन्यायस्यात्र सा- धनांशस्तत्र साध्यांशः साध्यतइत्यर्थः । द्वितीयं प्रकारमाह * स्पष्टं चेति * सर्वविधिसरूपाणामिति फलविधिसरूपाणां पोदुम्बराद्य- र्थवादानां यजमानः प्रस्तर इत्यादीनां च द्रव्यविधिसरूपाणां वि- दुरधादीनां च गुणविधिसरूपाणां माषपाकादिविषयाणां च क्रिया- प्रथमाध्यायस्य द्वितीयः पादः । ६९ विधिसरूपाणाम् । आग्नेयो वै ब्राह्मण इत्यादीनां देवताविधिरूपाणां केवलार्थवादनिरपेक्षविधिनिराकरणेनेत्यर्थः । फलादिसम्बन्धोत्तर- कालमर्थवादान्वयात्पर्णोदुम्बरतादावार्थवादिकफलकल्पनमशक्यं पूर्वपक्षयितुमित्याशयार्थवादकल्पिते विधावित्युक्तं क्लपूसामर्थ्य इति धातोर्घअन्तात्कृपो रोल इति लादेशे कृते तत्करोति तदाचष्ट- इति समर्थ करोतीत्यस्मिन्नर्थे णिचमुत्पाद्य निष्ठायां कल्पित इति रूपं तेनार्थवादेनाङ्गभूतेन विधौ प्रवृत्त्युत्पादनसमर्थे कृते विधिसा- मर्थ्यनार्थवादान्वयात्प्रागेवाक्षिप्तस्य फलस्यनिर्धारितविशेषस्य विशे- षाकाङ्क्षावेलायामित्यर्थः । यथाध्ययनभावनायां फलाश्रवणे ऽपि विधिसामर्थ्यात्कि चित्समीहितं फलं भावयेदित्यनिर्धारितविशेष- फलान्वये ऽवधारिते वेदाध्ययनरूपकरणान्वयोत्तरकालं योग्यतया- थज्ञानरूपफलविशेषनिर्धारणमविरुद्धं तथात्रापीति भावः * अन्या- थेति * विहितपर्णीदुम्बरतास्तुत्यर्थमित्यर्थः । फलविधित्वमपीत्य- पिशब्देनौदुम्बराधिकरणसिद्धार्थवादत्वाङ्गीकरणेन तदाक्षिप्तफल- विधिप्रतिपादनाद्विध्यर्थवादसमुच्चयेन पर्णमय्यधिकरणपूर्वपक्षइ- त्युक्तम् * अर्थवादत्वमेवेति * केवलार्थवादत्वेन सिद्धान्तो दर्शि- तः। निवीताद्यर्थवादानामपि सिद्धवत्कीर्तनान्यथानुपपत्त्या विध्या- क्षेपकत्वात्समुच्चयेन पूर्वपक्षं कृत्वा विक्षेपे प्रकरणादुत्कर्षापत्तेः । तस्य च केवलार्थवादत्वेन प्रकरणानिवेशसम्भवोपपत्तेः । केवलार्थ- चादत्वेन सिद्धान्तो निवीताद्यधिकरणेषु करिष्यतइत्याह * एतेने- ति * कृत्वा चिन्त त्वेन वा तेषां पुनरारम्भ इत्याह * अथ वेति * परकृतिपुराकल्पाधिकरणमपि कृत्व, चिन्तेत्याह * तथेति * इति हस्माहबट्कुर्वाष्णिाषान्मे पचत न ह वा एतेषाऽ हविहन्तीत्येक- कर्तृकमुपाख्यानं परकृत्याख्यम् । उल्मुकैहस्मपूर्वे समाजग्मुस्तानसु- रा रक्षाऽसि निर्जनुरितिचानेककर्तृकम्मुपाख्यानं पुराकल्पाख्यमु- दाहृत्य किमिमौ माषपाकोल्मुकसंयोगविधी उतारण्याशनगृहपत्य- ग्निनिर्वापस्तुत्यर्थी निन्दार्थवादाविति सन्दिह्यार्थवत्त्वाद्विधीति पूर्व- पक्षमङ्गीकृत्य परकृत्युदाहरणे किं सर्वेषामेव दर्शपूर्णमासयाजिना- म्मौपवसथ्याहे माषभोजनं विधीयते वृष्णिगोत्राणामेव ति चिन्त- यिष्यते । तत्र वार्णिशब्देन वृष्णिगोत्रविशेषसम्बन्धितया भोजनार्थ माषपाककीर्तनात्तदन्यथानुपपत्या विधिः कल्प्यमानो न सर्वविष- यः कल्पयितुं शक्यतइति पञ्चावत्तवद्वयवस्थति प्राप्त विशिष्टपुरुषा- चरितत्वेन माषस्तुत्यर्थतया वार्णिसम्बन्धकीर्तनोपपत्तेविशेषवि- धित्सायां वार्णिबटुव्यतिरिक्तानां वृष्णिगोत्राणामपि विधानापत्तेः न्यायसुधायाम्। सर्वेषामेव दर्शपूर्णमासयाजिनामारण्यभोजनादिना सह वैकल्पिक भाषभोजनं विधीयतइति पक्षान्तरमुक्त्वा तस्मादारण्यमेवानीया- दिति विध्यन्तरैकवाक्यत्वेनारण्यान्नस्य प्रशस्ततरत्वद्योतनार्थ जर्ति- लयवाग्वादिवन्निन्द्यानामपि माषाणां स्तुतिरिति सिद्धान्तयिष्यते। पुराकल्पोदाहरणे ऽपि गृहपतेरेवाग्निषु निर्मन्थ्य निर्वपरनिति वि- ध्यन्तरैकवाक्यत्वेन निर्मथिताग्निससर्गस्तुत्यर्थमुल्मुकससर्गे नि- न्दोपपत्तेर्न निन्दाकल्पनिषेधबलेन प्रापकविधिकल्पनं पूर्वमहा- चरितत्वेन वा पृथग्विधिकल्पनं युक्तमिति सिद्धान्तः करिष्यते । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायात् । पूर्वाचरितोपन्या- सेन विधिकल्पनमित्येवंविधपूर्वपक्षसाम्यमात्रेणानयोरुदाहरणयाः साहचर्य न तु पुराकल्पोदाहरणे कृत्वा चिन्ता का चिदस्ति तस्मा- त्परकृतिपुराकल्पयोर्मध्ये एकस्मिन्परकृत्युदाहरणे कृत्वा चिन्तेति निर्धारणे सप्तमी व्याख्येया। अर्थकत्वजर्तिलाधिरणयोः कथं निवे- शो ऽत आह * एवमिति * सापिकृत्वा चिन्तेत्यर्थः। चिन्तान्तरस्य तत्राभावात् कृत्वा चिन्तानुपपत्तिमाशड्याहबाधप्रसङ्गेनेत्युक्तम् । य- धपि तत्र चिन्तान्तरं न कृत तथापि सा मोहोपोद्घातप्रसक्तानुप्र- सक्त्या यहचा स्तुवतइति विधिरर्थवादो वेति चिन्तायाः करिष्यमा- णत्वात्तदुपयोगितया विधिपक्षे किमतिदेशप्राप्तस्तुतिसाधनसामा- धारतृचबाधेनैकईधारत्वं विधीयते उताप्रगीतर्गेकत्वम् । तत्र पूर्व- पक्षे योन्यव्युत्पन्नस्य साम्न उत्तरयोरगानादूहाप्राप्तरितरस्मिन् पक्ष साम्नस्तृचाश्रितत्वाबाधादृहोपपत्तरिति चिन्तान्तर कल्प्य जतिल- चिन्तायाश्च बाधप्रसङ्गेन करिष्यमाणत्वादथो खल्वाहुरनाहुतिः जर्तिलाश्च गवीधुकाश्चेति अस्य निषेधार्थत्वेऽपिकि जर्तिलगवीधुका- नामनुकल्पत्वद्योतनार्थो ऽयं निषेधो विकल्पार्थो वेति चिन्तातरम् । अनुकल्पत्वपक्षे बाधानापादकत्वाद्विकल्पपक्षो तदापादकत्वात्क- ल्प्यमिति भावः । कृत्वा चिन्तात्वाभावे ऽपि चौदुम्बराधिकरणव्यु- त्पादितमप्यर्थवादत्वमुदाहरणविशेषेष्वाक्षिप्य समाधानाय सा चि- न्तेत्येवं अन्थो व्याख्येयः । अस्मिन् व्याख्याने पाष्ठस्यापि पुराकल्पो- दाहरणविषयस्य विचारस्यानेनैव न्यायेन कृत्वा चिन्तात्वाभावे ऽपि पौनरुक्त्यं परिहृतं भवति । एवं शब्दश्च यथाधिकारप्रसङ्गेन षष्ठ- गता चिन्ता एवमेषापीत्येवन्नेया॥ तत्सिद्धिसूत्रस्थाप्यपौनरुक्त्यमाह । तत्सिद्धिसूत्रे त्विति मीमांसाप्रक्रियामात्रेण विध्यर्थवादचिन्तेति भा- पः। सर्वविधिसरूपाणामौन्दुबराधिकरणेनैवार्थवादत्वसिद्धो पुराक- ल्पायुदाहरणेषु कृत्वाचिन्तानुपन्यासादाक्षेपहेतुत्वाभावाच्च पौनरु- प्रथमाध्यायस्य द्वितीयः पादः । त्या परिहारेण परिहारितोषात्प्रकारान्तरमाह *अथ वेति * पृथक् फलपदसद्भावे ऽपि फलविधौ निराकृते तदभावे फलविध्याशङ्काया दूरनिरस्तत्वेनात्रापि अपरितोषाच्चतुर्थ प्रकारमाह * अथ वेति * परार्थनिर्शाने कारणमाह * अत्र हीति * स्वातन्त्र्येणोति जुहूसबन्ध- नैरपेक्ष्येणेत्यर्थः । एतदेवोपपादायतुं सामान्यन्यायान्तावदाह * स- र्वत्र हीति * प्रकृते योजयति * तदिहेति * किं सबध्यतामित्यनार- भ्याधीतत्वेन पर्णमयीत्वस्य प्रकृताश्रयालाभादिति भावः। वाक्येना- श्रयदानमाशय निरस्यति * जुहूरिति * अभ्युपगम्यापि जुहूसंब- न्धं नैराकाङ्क्षचन्नास्तीत्याह * सापि चेति * अतः फले पर्णमयी- त्वविध्ययोगाज्जुह्वर्थत्वेन सिद्धो विधिरित्युपसंहरति * तस्मादि- ति * पर्णमयीत्वेन जुहूं भावयदिति वचनव्यक्तिरितरशब्देनोक्ता । जुह्वनुवादेन पर्णमयीत्वस्य विधौ सिद्धे यथापारार्थ्यनितिं भवति तथा दर्शयति । तत्र चेति । एवं निर्मातपारार्थ्यस्यापि पर्णमयी- त्वस्यापापश्लोकश्रवणात्मकफलश्रुतेः फलार्थतापि दध्यादिवदस्त्विति पर्णमय्यधिकरणे पूर्वपक्षं कृत्वा सकृच्छताया पर्णत्वजातेर्जुह्वङ्गत्वेन निराकाङ्क्षी कृताया चर्थत्वायोगात्फलश्रुतिरर्थवादमात्रमिति सि- द्धान्तः करिष्यतइत्याह * ततश्चोत * औदुम्बरत्वस्य तु सोमा पौष्णं त्रैतमालभेत पशुकाम इति विकृतपशुप्रकरणे श्रुतस्यातिदेश- प्राप्तनिर्मातजातिविशेषयूपार्थत्वेन विध्ययोगात्पाराानवगतेः पर्ण- मय्यधिकरणविषयत्वन्नास्तीत्याह * इह पुनरित * एतदेव प्र- अपूर्वकमुपपादयति * कथमिति * नन्वाश्रयालाभात्कथमस्य फ- लविधिराशयते ऽत आह * यापि चेति * प्रकृतावग्नीषोमीये पशुनियोजनाख्यकर्मसंबन्धितया विहितस्य यूपस्यात्र चोदकप्राप्त- स्यौदुम्बरजात्याश्रयत्वेन ग्रहणादित्यर्थः । कर्मसंबन्धाभिधानत्वमा- श्रययोग्यताप्रदर्शनार्थमतः सिद्धं पर्णमय्यधिकरणेनापौनरुक्त्यमौदु- म्बराधिकरणस्येत्याह * तेनेति * क. पुनरेतेषां चतुर्णा पौनरुक्त्य- परिहारप्रकाराणां मध्ये अभिमत इत्यपेक्षिते प्रथमोपन्यस्तस्यैकस्यैव न्यायस्य व चित्कश्चिदंशः शोध्यतइत्यस्यैवाभिमतत्वमाह * इदमि- ति * न विद्यते परमुत्कृष्टमस्मादित्यर्थः । उदुम्बरत्वजातेरपि प्र- कृताश्रयत्वालाभाच्चोदकप्राप्तस्य निर्मातसाधनत्वेन नैराकाङ्कस्यातद- र्थविहितसाधनान्तराग्राहकत्वादु गुणफलसंबन्धायोगेनौदुम्बरत्वेन यूपं भावयदितिवचनव्यक्त्याश्रयणात्पारार्थ्यावगतेः पर्णमयीन्याय- विषयत्वाच्चतुर्थो ऽपि प्रकारो न युक्त इति भावः । किं तदित्यपे- क्षिते विवेचयितुमारभते * औदुम्बरवाक्यमिति * उदाहरणाभेदे ७२ न्यायसुधायाम कथमपौनरुक्त्यमित्यपेक्षिते प्रश्नपूर्वकं परिहरति * कथमिति * ननु साध्यसाधनांशयोरन्योन्याविनाभावादेकसिद्ध्यैवेतरसिद्धरंशद्ध- यविचारोऽनर्थको त आह * साध्यति * अस्यार्थस्य सार्वत्रिक- त्वसूचनार्थस्तावच्छब्दः सर्वत्रैव तावदेवमित्यर्थः कः पुनरंशः क्क विचार्यतइत्यपेक्षायामाह * तनति * ननु यादि द्वयोर्योग्यपदोपादानं विना साध्यसाधनसंबन्धो न युज्यते तर्खेकनिराकरणेनैवेतरनिरा- करणसिद्धरंशद्वयनिराकरणमनर्थकमत आह * यञ्चति * अनि- राकृतो ऽशो ऽप्रतिषिद्धमनुमतं भवतीत्यनेन न्यायेनाङ्गीकृतः स्यादिति भवतिशब्देनोक्तं, तेनायमर्थः यत्साध्यं साधनं वा यदात्मना साध्य- त्वेन साधनत्वेन वा निराकरणाभावात्प्रतिपादितं भवति तत्पदान्त- रेणादिशब्दोपात्तेन सामयेन वोपात्तेन प्रतियोगिविशेषेण साधनेन साध्येन वा संबध्यतइति । एतदेव विभज्य कथयति * तति * औदुम्बराधिकरणे हि ऊर्गवरोधापापश्लोकश्रवणाद्यनिराकृतत्वा- साध्यमित्यवधृते तत्सन्निधौ श्रुतमौदुम्बरपर्णतादिश्रुतशब्दाङ्गयो- ग्यत्वे ऽपि अर्थापत्त्या योग्यशब्दान्तरकल्पनया साधनं गम्यते एवं पर्णमय्यधिकरणे निराकरणाभावाददुम्बरपर्णतादिसाधनावधारणे ऽपि तत्साध्यं गम्यत इति शेषः । एतदेबोपसंहरति * इति द्वाव- पीति * साधनस्य विधिविषयत्वं स्वरूपं साध्यस्य च कमिपदापा- तत्वमिति द्वयोरपि साध्यसाधनांशयोः खरूपन्निरूपयितव्यमित्य- र्थः । नन्वस्याधिकरणस्य साधनांशमात्रनिराकरणार्थत्वे विधौ वा- क्यभेदः स्यादिति साध्याशनिराकरणं पर्णमय्यधिकरणस्य च सा- ध्यांशमात्रनिराकरणार्थत्वे सत्युत्पत्तेश्चातत्प्रधानत्वादिति साधनां- शनिराकरणमयुक्तं स्यादत आह * तदिहेति * भिन्नांशविषयत्वेन पौनरुक्तये परिहते प्रकरणसङ्गतिमाक्षिपति * नन्विति * हेत्वधि- करणे ऽर्थवादविचारादसमाप्तमर्थवादाधिकरणं, न चास्य विचारस्य विध्यभावे श्रेयः साधनत्वबोधः सम्भवति उत नेत्येवं रूपत्वात्तने सङ्गतियुक्तेत्यर्थः । अर्थवादाधिकरणेनेत्यधिकरणशब्देनाधिकारः प्रस्तावः प्रकरणमुक्त विधिशेषत्वेनार्थवादानां धर्मप्रमोपयोगे प्रति- पादिते विध्यभावे ऽपि श्रेयः साधनत्वबोधसम्भवाद्विधेरेव धर्मोप- योगित्वाभावात्कथं तद्वारेणार्थवादायामुपयोगितेत्यर्थवादाधिकर- णसिद्धान्ताक्षेपेणैतदधिकरणपूर्वपक्षोत्थानाद्विध्युद्देशचिन्तात्वे ऽपि तत्सङ्गत्युपपत्तिः । यद्वार्थवादानां धर्मप्रयोगे प्रतिपादिते को ऽर्थ- वादः को वा नेति कोष्ठशोधनिकार्थत्वेनाधिकरणद्वयस्यार्थवादाधि- १ अर्थवादाधिकरणेन सद्भतिर्नचयुनेत्यन्वय. ।

प्रथमाध्यायस्य द्वितीयः पादः । करणशेषत्वाभ्युपगमाद्विध्युद्देशचिन्तात्वे ऽपि तदसम्भवाशङ्केयम् । अधिकरणद्वयेन सर्वार्थवादाव्याप्तेः कथं कोष्ठशोधनिकेति चेदुच्यते आद्य विध्येकवाक्यत्वेन स्तुत्यर्थत्वे ऽभिहिते सिद्धैकान्तिकाविध्येक- वाक्यत्वानामपि येषां साध्यसाधनांशाभिधानाद्विध्युद्देशान्तर्गतिरा- भाति तेषां तन्निराकरणेन स्तुत्यर्थतेह स्थाप्यते, हेत्वधिकरणे ऽपि अन्वयवाक्यकल्पनेन दादिसाधनांशाभिधानाद्विध्युद्देशान्तर्गत्या शङ्कच निराक्रियते पृथग्विधित्वाशङ्कानिराकरणमाधिकरणान्तरेषु भविष्यति तस्मादधिकरणान्तरनिराकृतपृथग्विधित्वाशङ्कानां स- म्भवद्विध्येकवाक्यत्वानामसम्भवद्विध्युद्देशान्तर्गतानां सर्वेषामर्थवा- दत्वमिहैव स्थापितं भवति प्रकृतार्थवादत्वसिद्ध्यर्थत्वाद्विध्युदेशचि- न्ताप्यत्र नासङ्गति परिहरति * नैष इति * विध्युद्देशचिन्ता- वशेन प्रकृतार्थवादत्वरूपार्थपरिच्छेदादित्यर्थ । एतदेवं विवृणोति * यदि हीति * साधनांशे विचार्यमाणइत्यत्र प्रकृतः साधनांशो- साविति सर्वनाम्ना परामृश्यते एतदधिकरणपूर्वपक्षे च विध्युपै- योगानभ्युपगमात अज्ञातज्ञापनाभिप्राय विधीयमानतयति व्याख्येयं तेन यद्यसौ साधनांशो ज्ञातज्ञाप्यतया पूर्वेण साधनांशप्रतिपादके- नौदुम्बरो यूपो भवतीत्यनेन वाक्यभागेनावगतस्ततोऽपेक्षावशेनोो विरुध्याइत्यस्य फलसमर्पकत्वान्नार्थवादत्वमित्यर्थः । पूर्वपक्षमाह * तत्रति * ननूतॊ ऽवरुध्याइति तादर्थ्यचतुर्थ्या साध्यावगमे ऽप्य- पापश्लोकश्रवणादेः साध्यत्वावगमाभावादु| विरुध्याइत्यस्यापि च तैत्तिरीयादिशाखाखश्रवणात्कथं साध्यसन्निधानइत्युक्तम् । उ- च्यते औदुम्बरत्वादेः प्राप्तयभावाद्विध्येकवाक्यत्वं च विनार्थवाद- स्वायोगादर्थवादाच्च विधिकल्पने ऽन्योन्याश्रयत्वापत्तेरवश्यविधेय- त्वाद्विधेश्च भावनैकगोचरत्वायूपादेश्चौदुम्बरत्वादिभवनस्य 'व्यापा- राधीनत्वात्पुव्यापाराधीनकर्त्तव्यत्वप्रतिपादकपदकल्पनेन भवति- शब्दस्यैव वान्तीतप्रयोजकव्यापारवचनस्य पञ्चमलकारकल्पनेन भावनाविधिप्रतितेः। भावनायाश्च भाव्यनिष्ठत्वाद्योग्यत्वेनोर्गवरोधा- पापश्लोकश्रवणादेः साध्यत्वावगतेः साध्यसन्निधानाभिधानं विध्य- भावाभिधानं चौदुम्बरत्वाद्युत्पत्तिविधानार्थ कल्पितस्य प्रत्ययस्या- न्यत्र व्यापारासम्भवेन साधनत्वबोधकारणत्वाभावाभिप्रायं, ननु तृतीयां विना ऽपि योगस्य विधिसामर्थ्यात्साधनत्वं युक्तम् । इह तु १ एकान्तविध्ये केलि २ पु० पी० २ उत्पत्तिविधापयोगानभुापगमादित्यर्थ । ३ ताद्रूप्येणानुपात्तमित्यवार्थाविध्यभावाभिधानम् । १० न्यायसुधायाम् । तदश्रवणात् उत्पत्तिसिद्ध्यर्थश्च कल्पितस्य विधेरन्यत्राव्यापारात्कथ साधनत्वावगतिरत आह * तत्रेति * समाभिव्याहारमात्रेण सा- ध्यसाधनसंबन्धावगतिसम्भवान्न विधिना कश्चिदुपयोग इति भावः समाभिव्याहारमात्रात्साधनत्वावगमे ऽपि पुरुषप्रवृत्तिसिद्ध्यर्थ वि- ध्यपेक्षा भविष्यतीत्याशङ्कते * पुरुषमिति * साधनत्वावगतौ स- त्यामिच्छयैव प्रवृत्तिसिद्धस्तदर्थमपि न विध्यपेक्षेति परिहरति * स चति * यद्वा यूपानुवादेन विधीयमानस्यौदुम्बरत्वस्य यूपद्वारेण क्रत्वर्थत्वावगमात्तत्प्रयोगवचनेनैवानुष्ठानसिद्धेर्न तदर्थमिह विध्य- पेक्षेत्याह * अथ वेति * क्रत्वर्थस्यापि समभिव्याहारावगतं फला- र्थत्वमपि दध्यादिवदविरुद्धमिति भावः । उत्पत्तिविधिरेव वागत्या ऽनुष्ठापको भविष्यतीत्याह * पञ्चमी वेति * अर्थवादाद्वा प्रवृत्ति- सिद्धन तदर्थ विध्यपेक्षेत्याह * अर्थवादेति * ऊर्जा ऽवरुद्ध्याइ- त्यस्य पूर्वपक्षे विध्युद्देशान्तर्गत्यभ्युपगमात्सिद्धान्ताभिप्रायेणैकदेश- ग्रहणं विधिनिरपेक्षस्यार्थवादस्य प्रवर्तकत्वानुपपत्तिमाशय प्रत्य- योत्खातिवादिमतेनैतदुक्तामति दर्शयितुमुक्तमेवेत्युक्तं सूत्रं व्याख्याय विधिवन्निगदष्वित्यादिभाष्यं तात्पर्यतो व्याचष्टे * तस्मादिति * यस्माद्विध्यभावे पि समभिव्याहारमात्रेण साध्यसाधनसंबन्धबो- धः सम्भवति तस्मात्तस्मिन् फले औदुम्बरताया साधनतया विधि- रज्ञातज्ञापनमित्यर्थः । प्रायेणैवङ्कामशब्देन फलसमर्पणादपि चेत्यादि- भाष्योक्तं चतुर्थ्या फलसमर्पणमयुक्तमाशयोजों ऽरुध्याइत्याद्युक्तं फलविधिरित्यत्र विधिशब्दस्य शौण्डादिष्वपाठात्सप्तमीसमासानु- पपत्तेः षष्ठीसमास एवाय स्यादित्याशड्याह * नन्विति * विवक्षि- तार्थलाभायान्यथापि कल्पन युक्तमिति भावः ।भावार्थाधिकरणे फ- लविध्यनिषेधात् भावस्य भावनाख्यस्यार्थः प्रयोजनं फलं विधेयं न वेति यत्र चिन्त्यते लिप्सासूत्रस्याद्यवर्णकतद्भावार्थाधिकरणामहो- क्तम् । नन्वस्य फलपरत्वे स्तुत्यभावाद्विधिरवसीदेदत आह * :- गुदुम्बर इति * पूर्वाधिकरणे लाक्षणिकस्तुत्युपयोगाभिधानादि- हानर्थक्याभिधानमयुक्तमाशझ्याह * तस्मादिति * साध्यसाध- नभावप्रतिपादनस्य प्रवृत्तिविशेषकरत्वेनार्थवत्तरत्वात्तदपेक्षया स्तु- त्यानर्थक्यमिति भावः । यस्मादुक्तप्रकारेणौदुम्बरतायाः फले वि- धिः सम्भवति तस्मादित्यर्थः । अनेन च वादमात्रं ह्यनर्थकमित्यस्य स्तुतिवादस्य निष्प्रयोजनत्वाभिधानप्रतिपादनपरत्वप्रतिपादनामि- तरथेति भाष्यं मुख्यार्थरहितत्वप्रतिपादनार्थ च न चेति भाष्यं त- न्त्रेण व्याख्यातम्।

प्रथमाध्यायस्य द्वितीयः पादः। लोकवदिति चेत् ॥ २० ॥ लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाश- झ्याह * लोके तावदिति * क्रेतव्येति भाष्यं व्याचष्टे * तत्र चे- ति * अस्यापि फलपरत्वाददृष्टान्तत्वमाशङ्ख्याह * न चेति * तद्व- दिति भाष्यं व्याचष्टे *एवमिति* लक्षणादोष परिहरति *श्रुतीति* न पर्वत्वात् ॥ २१ ॥ * नैतदेवेति * भाष्यं व्याचष्टे * नायमिति * लोके इति भाष्यं व्याचष्टे * स्तुतेरिति * अविदित इति भाष्यं द्वेधा व्याचष्टे * वेदे त्विति * पूर्ववचनादिवेति भाष्यं पूर्ववदेव द्वेधा व्याचष्टे * पूर्वेति * विदितत्वादेवेति भाष्यं व्याचष्टे * न चेति * वैदिके- विति भाष्यं जाताशङ्कत्वं द्विधोपपादयन् व्याचष्टे * वेदे त्विति * न लौकिकी स्तुतिविरुद्धा प्रमाणान्तरेणास्याविदितपूर्वत्वादिति वै- दिक्याः स्तुते. दान्तिकत्वनिराकरणपरतया सूत्रव्याख्यानार्थमपि चेति भाष्यं व्याचष्टे * अपि चेति * अधर्मशब्दवविरुद्धवचनेना- संवादशब्देन विसंवादो ऽभिप्रेतः। विसंवादोपपादनार्थमू| ऽवरु-. ध्या इति भाष्यं व्याचष्टे * वर्तमानेनेति * स्तुतौ खार्थसत्यत्वाना- दत्वस्योक्तत्वाद्विसंवादे ऽपि स्तुतिनिर्वाहमाशय विदितत्वादित्ये- तद्भाष्योक्तलौकिकस्तुतिविषयवार्थसत्यत्वादरन्यायेनाबापि पूर्वप- क्षे स्थित्वा तदादमाह * तत्रेति * ऊर्गुदुम्बर इति भाष्यं व्याचष्टे * स्वरूपत इति * ऊशब्दाभिधेयमन्त्रत्वं भवत्पक्षे पक्षधर्मत्वेना- प्रसिद्धम् । तस्य चाप्रसिद्ध्या यूपप्रकृतित्वेनौदुम्बरो यूपो भवतीत्य- प्रसिद्धम् । अन्वयाप्रसिद्धिमेवोपपादयति * न हीति * पक्षधर्मत्व- सूचितहेतुत्वान्यथानुपपत्तिकल्पितं यद्यदन्नं स स यूप इत्यम्वय- वाक्यमङ्गीकृत्यैतदुक्तं हेतुत्वाप्रसिद्ध्या साध्याप्रसिद्धिप्रतिपादनार्थ त- स्मादिति भाष्यमूर्गुदुम्बर इत्यनृतवचनादन्यदप्यस्य यत्साध्यं यस्मा- दुर्गुदुम्बरस्तस्मात्तन्मयो यूपः कर्तव्य इति तदप्यमृतमिति सुयोज- त्वान्न व्याख्याताविसंवादाभिधानस्य प्रकृतोपयोगमाह तस्मादिति* उक्तं तु वाक्यशेषत्वम् ॥ २२ ॥ अत्र भाष्यकृता वाक्यशेषत्वे विध्येकवाक्यत्वं हेतुमनुवदता शेषशब्दः स्तुतिद्वाराङ्गत्वाभिप्रायो व्याख्यातस्तत्रोर्ज पशूनानोती- त्येतदन्तेन स्तुतिसिद्धरुज्जोंऽवरुद्ध्याइत्यस्य फलपरत्वमविरुद्धमित्या- शङ्ख्याह * ऊर्गुदुम्बर इति * उभयसम्भवे तर्हि फलपरतैव क- न्यायसुधायाम्। स्मान्नेष्यते ऽत आह * तत्रेति * यद्यप्यौदुम्बरो यूपो भवेदिति लिङादिः स्यात्तथाप्यूर्गुदुम्बर इत्यादि कृत्स्नवाक्यशेषमर्थवादतयैव गृह्णीयान्न फलपरतयेति सावधारणं द्रष्टव्यं लिङादेविधायकत्वेना- र्थवादापेक्षत्वात्सुतरामित्युक्तं फलाकाङ्क्षानिवृत्तिस्तु प्रकरणात क्र- त्वर्थत्वावगतेः सेत्स्यतीति वक्ष्यमाणो ऽभिप्रायः । भवतीति तु वर्त- मानापदेशो न फलपरतया वाक्यशेषं ग्रहीतुं शक्त इत्याह * किमु- तेति * विपूर्वस्य धातेः करोत्यर्थवाचित्वादुत्पादनं विधिशब्देना- भिप्रेतं तेनायमर्थः । न तावद्यावच्छतस्य भवतीतिवर्तमानापदेश- स्य फलाकाङ्क्षा तदन्यथानुपपत्त्या कल्पिते भावनाविधौ सत्यामपि फलाकाङ्क्षायामौदुम्बरत्वखरूपोत्पादनार्थ कल्पितस्य लिङादेः त- न्मात्रीपरमान्न साधनत्वबोधे व्यापारोऽस्तीति। नन्वौदुम्बरत्वकर्त- व्यतार्थ कल्पितस्य विधेः फलपर्यन्तत्वानभ्युपगमे फलाभावादव- सादः स्यादत आह * प्रकरणाञ्चेति * वैकृतस्याप्यौन्दुम्बरत्वस्य प्रा- कृतयूपाख्याङ्गसम्बन्धित्वेनोत्पत्तेः पृषदाज्यादिवत्प्रकरणग्रहणावि- रोधः, विधिरहितस्य समभिव्याहारमात्रस्य फलप्रतिपादकत्वमाश- झ्यावाचकादित्युक्तम् । अवाचकमितिपाठे नास्तिवाचकं यस्योर्गवरो- धादिनः फलस्य तदिति बहुब्रीहिः । समभिव्याहारात्मना वाक्येन फलार्थत्वावगमात् प्रकरणबाधमाशङ्कते * प्रकरणमिति * समभि- व्याहारावगतस्य फलार्थत्वस्य वक्ष्यमाणनिराकरणाभिप्रायेण परिह- रति * नेति * अबाधमेवोपसंहरति * तस्मादिति * कृत्स्नस्य च वाक्यशेषस्य फलपरत्वे विध्युहेशस्यैव शक्तिद्वयकल्पनापत्तेौरवं स्यादित्यर्थान्तरन्यासेमाह * प्ररोचनापि चेति * न च तत्कल्पनं विना विधिपर्यवसानमित्याह * अन्यत्रेति * अत्र तु प्ररोचनाकल्प- नमप्यतिक्लेशेन निर्वोढव्यं विधेरपि कल्प्यत्वादित्याहइह त्विति * विध्युद्देशातिगौरवपरिहारार्थ तर्हि प्ररोचनापि वाक्यशेषादेव भ- विध्यतीत्याशङ्कय तन्निराकरणाथै पर्णमय्यधिकरणन्यायमुपन्यम्यति * न चेति * अस्तिप्रयोजनसिद्धिरित्यनेन पारायें दर्शितं काष्टवि- शेषपरिच्छेदकत्वेन चौदुम्बरजातेलिडादपि पारार्थ्यमवसीयतइ- त्याह * जातिविशेषस्येति * ऐकान्तिककाष्ठाङ्गतया ऽक्रियारूपत्वेन फलार्थत्वयोग्यता निराकृता सत्यपि काष्ठाङ्गत्वे यूपाङ्गत्वं कथ सिद्ध्य- तीत्यपेक्षायां यूपशब्दो पि चेत्याधुक्तं पारार्थ्यसाधनस्योपयोगमाह *अतश्चेतियत्तु पौनरुक्त्यपरिहारावसरे पारार्थ्याभावार्थ प्राकृतखा- दिरादित्वालाभाश्नराकाङ्क्षयमुक्तं तनुभाष्य दूषयति यत्त्विति यथा श्येने यस्य शरमयं बर्हिरितिप्रत्यक्षोपदिष्टैः शरैरतिदेशप्राप्तानां कुशानां प्रथमाध्यायस्य द्वितीयः पादः । बाधस्तद्वदत्राप्रीत्यर्थः । बाधप्रसङ्ग एव तर्हि दोषो ऽत आह * न चेति * वरं त्वर्थत्वे समानविषयत्वाद् बाधो युक्ततर इत्याह * एतावास्त्विति * प्रकृताश्रयालाभादप्यत्र गुणफलसम्बन्धो न युक्त इत्याह * न चात्रेति * तमेवोपपादयति * यो हीति * पशु- विशेषणयागस्य सौमा पौष्णं त्रैतमालभतेति त्रिवर्णपशुद्रव्यकत्वेनौ- दुम्बरवृक्षद्रव्यसाध्यत्वायोग्यतोपपादनार्थम् । न चाप्रकृतस्यापि नि- योजनस्यातिदेशप्राप्तस्याश्रयत्वं शङ्कनीयं, प्रकृती हि प्रत्यक्षोपदिष्टस्य होमप्रणयनादेः पश्वाशाधनापेक्षायां पयश्चमसादिवत्फलार्थस्यापि दधिगोदोहनादेराश्रयभूतसाध्यापेक्षादर्शनादुभयाकाङ्क्षावशात्साध- नत्वमवसीयते । न चैतावताङ्गत्वप्रसङ्गः तादर्सेन विधानाभावात् अत एव गुणकामप्रयोगे प्रासङ्गिकोपकारिणा गोदोहनादिना सि- द्धौ चमसादेनङ्गत्वेन तदभावे वैगुण्याभावादनादः विकृती त्वखण्डकरणोपकारमुखेन क्लुप्तोपकारप्राकृतखादिरत्वादिविशिष्ट- स्यैव नियोजनस्यातिदेशात्साधनानाकाङ्क्षस्य परार्थे विहितसाध- नान्तरग्राहकत्वन्न युक्तम् । अन्यतराकाङ्क्षाहेतुकस्य संबन्धस्ये- तराकाङ्क्षोत्थापनपूर्वकत्वाद्विधिमन्तरेणाकाङ्क्षोत्थापनायोगात् । ननु प्रकृतः पशुयागः साक्षादयोग्यो ऽप्यङ्गभूतयूपद्वारेणानयो भ- विष्यत्यत आह * न चेति * एवं कल्प्यतइति प्रधानादवतीर्य तदङ्गाश्रयत्वेन कल्प्यतइत्यर्थः । वचनव्यक्त्यन्तरमित्यौदुम्बरत्वे- नोर्गवरोधं भावयेदितिवचनव्यक्त्यपेक्षयौदुम्बरत्वेन यूपं भावयोद- त्यभिप्रेतम् । न चावतरणमित्यचोदकाश्च संस्कारा इति वत्तुशब्दार्थे चशब्दः न त्ववतरण सम्भवतीत्यर्थ । यद्वा तेनाभ्युपगम्यावतरणं होमसाधनत्वेन साक्षादङ्गभूतायां जुव्हां सम्भवाद्यूपे न सम्भवती- त्युच्यते । अस्मिन्व्याख्याने सम्मतं यूपे यदवतरणं तन्न सम्भवति न सिध्यतीति सम्मतवचनः सम्भवशब्दः । अनेकार्थत्वान्निपात- नोपसर्गाणां सम्यगर्थस्य वा संशब्दस्य लक्षणयान सम्मतवचनत्व- मेष्टव्यं यूपानवतरणे च यूपशब्दानर्थक्यप्रसङ्गो दोषः । ननु प्रकृता- श्रयालाभेऽपि वाक्येनाश्रयलाभो भविष्यत्यत आह *न चानेनै- वेति * न केवलमनेकार्थविधिलक्षणो वाक्यभेदः किं तु वैरूप्यल- क्षणो ऽपीत्याह * युगपञ्चति * यूपस्याश्रयभूतस्यौदुम्बरतोपका- रित्वेन गुणभूततयोपादेयत्वात्तं प्रत्युदुम्बरताया उद्देश्यत्वादिति भावः । नन्वाश्रयस्यापि साध्यत्वेन प्रधानतयोद्देश्यत्वादरूप्यं स्या- दत आह * अथोति * एवं सत्युद्देश्ययोः फलयूपयोर्गुणभूतौदुम्ब रतावशीकाराभावेनान्योन्यनियमायोगादाश्रयालाभस्तदवस्थ एवेति - न्यायसुधायाम्। भावः । प्रत्युद्देश्यं वाक्यसमाप्तेर्वाक्यभेदो ऽपि चशब्देन सूचितः एवं पर्णमयीन्यायेन स्तुत्युपयुक्तस्य परावृत्त्य फलपरत्वायोगादूर्गुदु- म्बर इत्यादेः फलपरत्वे प्ररोचनार्थत्वाभावाहिध्युद्देशातिगौरवमपरि- हामिति प्रकृतोपयोगः। ननु समभिव्याहारादेव फलसाधनत्वावग- तौ सत्यां विधिमन्तरेणेच्छयैव प्रवृत्तेर्न प्ररोचनया कार्यमत आह * यत्त्विति * साधनत्वप्रतिपत्तौ विधिव्यापारानभ्युपगमे भावना- या भाव्यापेक्षायामप्यौदुम्बरो भवतीत्यादुम्बरत्वस्यैव भवनकर्तृत्वेन सन्निधावुपात्तस्य साध्यांश निवेशापत्तेरु| ऽवरुध्या इति चतुर्थी व्य- वधावुपात्तस्याप्यूर्गवरोधस्य तदवरुद्धायां भावनायां निवेशायोगा- धूपविशेषणत्वापत्तेरपुरुषार्थापयिकत्वानोदुम्बरत्वभावनायां बुद्धि- पूर्वकारी कश्चित्प्रवर्त्ततेत्यर्थः । नन्वौदुम्बरो यूपो भवतीत्युत्पत्ति- विधेः फलसाधनत्वबोधे व्यापाराभावादप्रवर्तकत्वे ऽपि प्रयोगव- चनात्प्रवृत्तिः सेत्स्यतीत्युक्तमत आह * यत्त्विति * संयोगपृथक्त्वा- भावात्पुरुषार्थत्वे सति क्रत्वर्थत्वायोगादिति भावः। पञ्चमलकारत्व- स्य चाडागमादिचिह्नाभावेनानिश्चयात्कल्प्यस्योत्पत्तिविधेर्विनियोगव- प्रयोगे ऽपि व्यापारो न युक्त इत्याह * पञ्चमेति * फलसङ्कीर्तन- स्यालम्बनं दर्शयन् सिद्धान्तमुपसंहरति * तस्मादिति * एतदाध- करणव्युत्पाद्यं विधिरहितस्य श्रेयःसाधनत्वबोधासामर्थ्य तस्मा- च्छब्देन परामृष्टं फलाभावसूत्रोक्तानुपलब्धिविरोधो वर्तमानफला- भिधायित्वादित्यनेन । चतुर्थे चेति प्रस्तुतसाधनांशनिराकरणहे- तुत्वेन साध्यांशनिराकरणं वक्ष्यमाणमुक्तं सर्वेभ्यो दर्शपूर्णमासा- वित्यादौ चतुर्थ्या फलसमर्पकत्वाभ्युपगमात्समाभव्याहारमात्रस्य फ- लसमर्पकत्वनिराकरणपरमेवं कामशब्दरहितस्येति व्याख्येयम् । प्रधानफलमवेदमित्यनेन फलकीर्तनालम्बनं दर्शितम् । सोमा पोष्ण त्रैतमालभेत पशुकाम इति पशूनामदनीयत्वेनोर्कशब्दवाच्यन्नरूपाणां प्रधानफलत्वादङ्गे पूर्णाहुतिवदुपचारः । न पूर्वत्वादिति सूत्रं द्विती- यवर्णकोक्तस्य विसम्वादस्यानुभाषणं पूर्व निराकरणाथै ननूक्तमि- त्यादिभाष्यं व्याचष्टे * सर्वत्र चेति । गुणवादेनेति * गुणशब्देन फलसङ्कीर्तने सम्वादाभिधाने तावदङ्गे प्रधानगामिनि तत्फलोप- चारो ऽभिमतः सम्पूर्णाहुतिन्यायेनोक्तप्रायत्वान्नेह भाष्यकृतोक्तः । पक्षधर्मतान्वयकीर्तनसम्वादाभिधाने त्वग्निमाणवकवत्सादृश्यं गु- णशब्देनाभिप्रेतम् । तन्न किं सादृश्यमित्यादिप्रश्नपूर्वकं सादृश्यप्र- तिपादनार्थ भाष्यं व्याचष्टे * साधनत्वे ऽपि चेति * साधनशब्देन हेतुत्वमुक्तम् । अन्नगतेन प्रीतिसाधनत्वेन तद्विशेषतृप्तिसाधनत्वेन प्रथमाध्यायस्य द्वितीयः पादः । ७९ वा गुणेनोदुम्बरे निशब्दाभिधेयत्वसम्भवात्साधने ऽपि सम्वाद इत्य- र्थः। प्रीतिसाधनत्वमप्यौदुम्बरवृक्षस्याभक्ष्यत्वान्नास्तीत्याशय प्रीति- साधनौदुम्बरफलोत्पादनशक्तियुक्त वृक्षं प्रशंसितुमुपचारात्प्रशंसा- वाचिना प्रीतिसाधनशब्दनोच्यते इत्युक्तम् । अनेन च नात्र यद्यदन्न स स यूप इत्यन्वयवाक्यं कल्प्यते किं तु यद्यदन्नं तत्तत्प्रशस्तमित्येवं तच्च प्रसिद्धमवेति सूचितम् । विधिश्वानर्थकः क्व चित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् ॥ २३ ॥ अत्र भाष्यकृताप्सु योनिर्वा अश्व इत्यादीनामानर्थक्यापत्तेर्विधित्वं न सम्भवतीत्युक्तम् । तदयुक्तम् । फलविधिसरूपाणामेव पूर्वपक्षिणा विधित्वस्योक्तत्वादित्याशयाह * यदि चेति * विध्यन्तरैकवाक्य- भूतानामपि विधिपरत्वाङ्गीकारे तुल्यन्यायात्सर्वत्राप्यापाद्य दूषण- मुच्यतइत्यर्थः । सर्वग्रहणं वायुक्षेपिष्ठादीनामपि तर्हि कस्मान्न विधित्वमापद्यत इत्याशङ्कानिवृत्त्यर्थ क्व चिद्ग्रहणं तर्हि सूत्रे किम त आह * तत्रेति । के चिदिति * निवीतं मनुष्याणामित्याय इत्यर्थः । शमयित्रीभिरित्यादिभाष्यं स्तुतिखरूपप्रदर्शनार्थत्वेन व्या- चष्टे * कीहशीति * आक्षिपति * तनेति * अग्रन्थः प्रतिभातीति मत्वा समर्थयन्तइत्यर्थः। अग्रन्थत्वमेव वा समर्थयन्तइति। स्वयं स- मर्थयते * तत्र त्वियमिति * पूर्वव्याख्यायां व्याख्यातॄणां समर्थन दर्शयतीत्यवतारणीयं तत्रावकाशमयित्रीत्वानुपन्यासं तावत्प्रत्या- चष्टे * वेतसति * अश्वावकयोः सम्बन्धस्य तु भाष्यकारेणाक- थितत्वादनुपन्यासो न दोषायेत्याह * न चायमिति * इह च वैतसे कटे अश्वं चिनोति अप्सु योनिर्वा अश्वो ऽसुजो वेतसः यं वैनं योनौ प्रतिष्ठापयतीत्यनावकानामद्भिः सम्बन्धाश्रवणे ऽपि वेतस- शाखयावकाभिश्चाग्नि विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीत्यत्र वेतसवत्तासामप्यद्भिः सम्बन्धस्य स्तुतिसिद्धयर्थ वा- च्यत्वादप्सुजो वेतस इति अप्सुजत्वाभिधानम्मवकानामप्सुजार्थ- साहचर्यादुपलक्षणमित्यभिप्रेत्यावकाग्रहणम् । ननु वेतसग्रहणेनोप- लक्षितत्वादवकानामग्निविकर्षणसाधनत्वेन विहितानां स्तुत्यर्थ भ- वतुनाम भाष्ये ऽद्भिः सम्बन्धकथनं शमयित्रीत्वविशेषणत्वमपां कि- मर्थमत आह *तावता विति* यद्यपि स एवैनं योनौ प्रतिष्ठापयति इत्यप्सुजे वेतसे ऽश्वचयने कृते प्रकृतिविकारयोरभेदोपचारेण वे- न्यायसुधायाम तसप्रकृतिभूतास्वप्सु चयनात्स्खयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिः प्रतीयते, तथापि स्वयोनिप्रतिष्ठापनमात्रेण प्ररोचनाऽनुपपत्तेर्वेत- सशाखयावकाभिश्चाग्नि विकर्षत्यापो वैशान्ताः शान्ताभिरवास्य शुचं शमयतीति वाक्यान्तरगतार्थवादाभिहितमपां शमयित्रीत्वं यजमाक- ष्टशमनसाधनत्वोपपादनार्थ भाष्यकृतोक्तम् । अवकानां त्वसुजो वेतस इत्यनेन सहचरणलक्षणयाद्भिः सम्बन्धानभिधाने ऽपि अत्रा- विधानादनपेक्षितस्तुत्यप्रतीतेर्वाक्यान्तरगतार्थवादेनापां शमयित्री- त्वे ऽभिहिते ऽप्यग्निविकर्षणसाधनत्वेन विहितयोर्वेतसावकयोः स्तुत्यप्रतितेस्तत्प्रशंसोपपादनार्थमाद्भः संबन्धो भाष्यकृता कथितः अर्थवादान्तरापेक्षाप्रवृत्तानामित्यश्वविषये ऽर्थवादान्तरस्यापेक्षया प्रवृत्तानामिति षष्ठीसमासगर्भस्तृतीयासमासः । अवकाविषये त्वर्थवादान्तरेणेति तृतीयासमासगर्भः । अर्थवादान्तरमुदाहरति * आप इति * कथमस्यार्थवादान्तरस्याप्सुयोनिर्वा अश्व इत्यनेना- पेक्षा कथञ्चानेनार्थवादान्तरेणाप्सुजो वेतस इत्यस्यापेक्षा इत्याश- झ्याह * अनेन हीति * अश्ववेतसाभिजनभूतानामपां शमायत्रीत्वेन प्राशस्त्याभिधानेन तदभिजातयोरश्ववेतसयोः प्राशस्त्यावगमात् त- दर्थमपेक्षेत्यश्वविषये अर्थः अवकाविषये त्वविधेयानामपां शमयि- त्रीत्वेन प्राशस्त्यमुच्यते न विधेययोर्वेतसावकयोरिति तत्प्राशस्त्या- वगमायाप्सुजत्वाभिधानापेक्षेति व्याख्येयं, कीदृशीं स्तुति दर्शयती- त्यपेक्षायामाह * तत्रेति * कस्य चित्प्रसिद्धासंबन्धस्य वेतसा- वकस्याप्सुजो वेतस इत्यप्संबन्धमात्रकीर्तनादेवापो वै शान्ता इत्य- र्थवादप्रतिपाद्या स्तुतिः सिद्ध्यति । अन्येषां त्वप्रसिद्धाप्संबन्धा- नामश्वादीनां वस्तुतो ऽसन्नप्यप्संबन्धः प्राशस्त्यज्ञानार्थ कीर्त्यते । कीदृशं प्राशस्त्यमित्यपेक्षिते प्रसिद्धत्याद्युक्तम् । प्रसिद्धः शान्तत्वेन सह संबन्धो यासामपां तास्तथोक्ता इति व्याख्येयम् । भाष्यमेवं योज्यम् । अश्वस्यावकानां चेति चकारेण वेतसग्रहणम् । तत्रा- श्वविषये अश्वस्य वेतसस्य च शमयित्रीभिरद्भिशान्ताभिरेवास्य शुचं शमयतीति सहयोगतृतीयान्तपदनिर्दिष्टाभिः सहसंबन्धो ऽस्य शब्दनिर्दिष्टस्य यजमानस्य शुक्शब्दवाच्यं कष्टं शमयतीत्यर्थः। अ- वकाविषयत्वे ऽवकानां वेतसस्य चाद्भिःसंबन्ध इत्यर्थः । स्वयमुदाहृ- तेष्वर्थवादान्तरेषु स्तुतिखरूपमाह * एवमिति * तत्सामान्यादि- ति सूत्रावयवव्याख्यानार्थ तथेतिभाष्यं व्याचष्टे * इति स्तुतित्वे इति * अनेन यावत्वर्थवादेषु अप्सु योन्याद्यर्थवादसमानप्रकारत्वं तावत्सु स्तुतित्वमिति व्याख्यातम् ।

प्रथमाध्यायस्य द्वितीयः पादः। प्रकरणे च सम्भवन्नपकर्षो न कल्प्येत विध्या- नर्थक्यं हि तं प्रति ॥ २४ ॥ सूत्रतात्पर्यमाह * विधिपक्षे चेति * खयं यथाश्रुतवचन- व्यक्तिपक्षे सूत्रं योजथति * यदीति * अपकर्षणं स्यादित्यर्थकथन- मात्र व्युत्पत्तिस्तु यथाभाष्यं कर्मण्येव । यद्वेयमन्यां देवतामुत्पत्ति- शिष्टामपकर्षतीति कर्तृव्युत्पन्नो ऽपकर्षशब्द इत्याह * इयं वेति * ननु विदाहादेनिमित्तकत्वेन नित्यादेवतान्तरस्य नित्याग्न्यादिदे- चताबाधकत्वं युक्तमेवेत्याशङ्कानिराकरणार्थत्वेन प्रकरणे च सम्भव- निति सूत्रावयवं व्याचष्टे *तत्रेति । अभ्युदितेष्टिवदिति * यदामा- वास्याभ्रान्त्या चतुईश्यामन्वाधानं क्रियते तदामावास्यायामुषसि तन्त्रप्रक्रमविधानात्प्रक्रान्ते तन्त्रे चन्द्रोदये सति यस्य हविर्निरुतं पुरस्ताञ्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्य मध्यमास्तान- ग्नये दात्रे पुरोडाशमष्टाकपालनिर्वपेचे स्थविष्ठास्तानिन्द्राय प्रदाने दश्चरुं ये ऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुमिति तण्डु- लग्रहणोपलक्षितानां सर्वेषामोषधिदधिपयसां प्राकृतानां हविषां प्राकृताभ्यो देवताभ्यो विभजेदित्यनेनापनये विहिते तस्मिन्नेव प्र- क्रान्ते ऽसमाप्ते कर्मणि मध्यमादिवाक्यै-त्रादिदेवतान्तरविधिरिति षष्ठे वक्ष्यते साभ्युदयष्टिः । अभ्युदितश्चन्द्रमा यस्यामिष्ठौ साभ्यु- दितेष्टिरिति व्युत्पाद्या मावास्येष्टिरेवोच्यते । यद्यपि विभजेदित्यपन- यनविधिना तत्र प्रकृतिगताग्न्यादिदेवताबाधो न देवतान्तरविधिना तथापि नित्यदेवतादिबाधेन नैमित्तिकदेवतान्तरविधिसाम्यातू दृष्टा- न्तता । भाष्यकृतातुयन नैर्ऋतस्तत्र विदग्धता नीयेतेति पदतायत्त- दोर्व्यत्ययः कृतस्तत्स्वाभिप्रायं व्याचष्टे * अथेति * विध्यानर्थक्यं हीति सूत्रावयवव्याख्यानार्थ दर्शपूर्णमासकर्मेतिभाष्यं स्पष्टत्वान्न व्याख्यातम् । सूत्रं चैवं पूर्वसूत्राद्विधिः क्व चिदिति पदद्वयमनुक- ध्य यथाभाष्यं योज्यं विधिः सन् क्वचिद्विदग्धादावप्रकृष्टः कल्प्येता न चैतद्युक्तं कस्मान्न युक्तमित्यपेक्षिते प्रकरणे च सम्भवन्निति हेतुग- में विशेषणम् । विध्यानर्थक्यं हि तं कर्मशेषं प्रतीत्यपकर्षकारणमु. तम् । यथा वार्तिकं तु कर्तृव्युत्पत्तिपक्षे क चिन्नैर्ऋतादावपकर्षः कल्प्येत विध्यानर्थक्यं हि तमाग्नेयादिपुरोडाशं प्रतीत्येतावान्विशे- षः। कर्मव्युत्पत्तौ त्वग्न्यादिरुत्पत्तिशिष्ट उपकृष्टः कल्प्येत नि- १ अपक्ष्येति १ पु. पा.

न्यायसुधायाम्। त्यादिविध्यानर्थक्यं हि तमनपकृष्टः स्वदेवताकं पुरोडाशं प्रतीति । विधौ च वाक्यभेदः स्यात् ॥ २५ ॥ औदुम्बर इत्यादिभाष्यादौदुम्बरो यूपो भवतीत्यस्यापि प्राश- स्त्यपरत्वं प्रतिभाति । तच्चायुक्तम् । विध्येकवाक्यत्वं विनार्थवाद- स्वायोगात् । सोमापौष्णविध्येकवाक्यत्वाभ्युपगमे त्वौदुम्बरो यूपः प्रशस्त इतिभाष्यानुपपत्तिप्रसङ्गादित्याशङ्ख्याह * स्तुतित्वेनेति * न स्तुत्यर्थत्वेनेदमुपन्यस्तं किं तु स्तुत्यन्वयवशेनास्मिन्वर्त्तमानापदे- शसन्दिग्धे पञ्चमलकारत्वनिश्चयात् विधावाश्रीयमाण इति स्तुति- निश्चयेन विधित्वप्रतिपादनार्थमिति भावः * उपजनय्येति * निश्चा- य्येत्यर्थः। हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ २६ ॥ अधिकरणविषयप्रदर्शनार्थमथेति भाष्यं व्याचष्टे * इहेति * पूर्वप्रकृतापेक्षित्ववाच्यथशब्दप्रतिपादितपूर्वाधिकरणसङ्गतिसूचनार्थ हिशब्दादिभिरित्युक्तम् । पूर्वत्र श्रेयःसाधनत्वप्रतिपादकविधिश ब्दाभावेनौदुम्बरो यूपो भवतीत्यादीनां विधित्वे निराकृते तेन ह्यन्नं क्रियतइति हेतुत्वप्रतिपादकहिशब्दसद्भावेन हेतुत्वं भविष्यतीति पू- वाधिकरणसिद्धान्तहेतुप्रत्युदाहरणरूपेणात्र पूर्वपक्षोत्थानात्सङ्ग- तिः। न च परमार्थहेतव इत्यनेन हेतुवदिति वावर्त्य दर्शितं चतुर्ग्रहीतान्याज्यानि भवन्ति न पत्रानुयाजान् यक्ष्यन्भवतीत्यादयः परमार्थहेतवः । आतिथ्येष्टावनुयाजाभावे ऽपि अष्टावुपभृति गृ- हातीति प्रकृती विहितस्योपभृत्यष्टगृहीतस्य चोदकप्राप्तस्य निवृत्त्यर्थ चतुर्गृहीतत्वे विधीयमाने ऽनुयाजाभावस्य हेतुत्वाभिधानात् यत्र यत्रानुयाजाभावस्तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृती चाष्ट- प्रहस्य चतुष्ट्वद्वयलक्षणार्थत्वद्योतनात्प्रयाजाथै जुव्हां समानयने नियोगतो ऽर्द्धमेव समानेतव्यमिति ज्ञायते हेतुः स्यादिति पूर्वपक्ष- भाष्यं हेतुविध्यभिप्रायमनुवादाभिप्रायं वेति विकल्प्य विधिपक्षे तावदोदुम्बराधिकरणनिरस्तत्वादयुक्तमित्याक्षिपति * तत्रेति * यथा तत्र यदिह फलवचनं तदौदुम्बरस्य यूपस्येत्यादिना प्रत्यक्षस्य विधेरभावात्कल्प्यस्य च कार्यविशेषसम्बन्धित्वेनैव कल्पयितुं शक्य- तया कार्यान्तरं प्रत्यभावात्फलपरत्वे वरूपविधानाशक्तिप्रसक्त.फ- लवचनानर्थक्यमुक्तं तथेहापि प्रत्यक्षविध्यभावात्कल्प्यस्य च हेतुपर त्वे नकरणमात्रस्य होमसाधनत्वविध्यनुमानेन शूर्पस्यापि प्राप्तिस- म्भवाच्छूपहोमसम्बन्धविधानानुपपत्तेस्तत्र हेतुविध्यानर्थक्यम् ।

प्रथमाध्यायस्य द्वितीयः पादः। अन्नकरणमात्रस्य तु होमसम्बन्धं प्रति हेतुविधानमितरेतराश्रया- पत्तेरनाशङ्कायमेवेति शूर्पहोमसम्बन्धं प्रतीति काका द्योतितम् । अनुवादपक्षे त्वानर्थक्येन पूर्वपक्षः प्रसज्येत । तत्त्वर्थवादाधिकरणे निरस्तमित्याह * अथेति * ततश्च पूर्वपक्षासम्भावनया ऽधिकर- णारम्भो न युक्त इत्याह * इतीति * समाधत्ते * उच्यतइति * अस्यार्थः नानेन शूर्पस्य होमसाधनत्वमुद्दिश्य तत्रान्नकरणत्वस्य हेतुत्वविधिराशङ्कयते यः पूर्वन्यायेन निरस्थत यच्चानान्नकरणहेतुक- न्दव्यांदोमसाधनत्वं विधेयमाशयते तन्न याच्छ्तेन विधीयते येन गौरवापत्त्या निरस्येतेत्यनेनैवेत्येवकारेण सूचितम् । एतच्च के- घलहेतुत्वेन पूर्वपक्षमङ्गीकृत्योच्यते । यदा तु शूर्पण जुहोतीति विधि मङ्गीकृत्य तेन ह्यन्नं क्रियतइत्यस्य तच्छेषत्वेनार्थवादत्वमभ्युपगम्य तदालम्बसिद्ध्यर्थ हेतुविधिरपि दादिप्राप्तिफलको भविष्यतीति हेत्वर्थवादसमुच्चयेन पूर्वपक्षः क्रियते तदा पूर्वन्यायनिरस्तत्वाशदैव नास्तीति तावच्छब्देन सूचितम् । न चेत्यानर्थक्यपरिहारायोक्तम् । किं तमुस्य प्रयोजनमिति पृष्टे सिद्धवदुपदिष्टस्य हेतुत्वस्य यावत्यन्व- यांशे प्रसिद्ध्या शङ्का तत्रांशे अर्थापत्तिलभ्यावचनासिद्धिरित्युक्त हेतोरन्वयकल्पकत्वोपपादनाय प्रसिद्धिपूर्वकत्वादित्युक्तम् । न चा- प्रसिद्धवच्छब्दप्रयोगमात्रेण हेत्वनुवादाशङ्का । अप्राप्तानुवादायो- गादुपदिष्टस्येति यस्य ते हेतुविधिरित्येतद्भाष्यव्याख्यायां च हेतुविधिवादित्वांदित्यभ्युपेत्य वादे च यद्यपि हेतुविधानमिति स्पष्टं विधेयत्वाभिधानात्साधुशब्दाधिकरणे च व्याकरणस्या सन्देहप्रयोजनत्वनिराकरणावसरे तथा हेतुविधित्वर्थवादो वे- ति हेत्वधिकरणविचार्य खयमेव दर्शयिष्यति । अज्ञातज्ञा- प्यत्वरूपस्य चात्र विधेयत्वस्यानुष्ठाण्यरूपविधेयत्वाभावप्रतिपा- दनार्थेन सिद्धवच्छब्देनाभिप्रेतत्वान्नाव्यापारत्वे हेतुत्वस्याविधेयत्वं वाच्यम् । गौरवं तु कल्पपदसहितैः श्रुतैः पदैहेतुविधिपूर्वकं तद- भ्यथानुपपत्त्या इन्वयकल्पनाभिधानात्परिहृतम् । ननु सर्वस्य वि- धिपरत्वे ऽर्थवादाभावाद्विधिरवसीदेदत आह * यापि चेति * कस्मादेतत्कर्त्तव्यमित्याशङ्कायामर्थवादाः संबन्ध्यते साचात्र हेतुतैव पूरितेति भावः । यद्यपि कथं भावापेक्षयार्थवादाः संबन्ध्यते तथापि कर्तव्यमित्युक्ते कस्मादिति या पुरुषस्यापेक्षा जायते सेह हेतुपूरणा- र्थत्वाय दर्शिता।यद्यपि चेयं प्राशस्त्यविषयापेक्षा तथापि सादृश्यादु- भयाविषयत्वभ्रमः पूर्वपक्षिण इति मन्यतइत्यनेन सूचितम् । यद्वाहेत्व- र्थवादसमुच्चयेनायं पूर्वपक्षो न केवलहेतुत्वेनेत्याह * अथापीति * तव न्यायसुधायाम्। तदर्थवादत्वमन्तनिर्णीतं हेतुत्वमस्मिानित्यर्थः । भवतु तर्हि तेन ह्यन्न- मित्यर्थवादस्तदुन्मीलितः शूर्पण जुहोतीति विधिस्तथापि तेनेत्यर्थ- वादानुसाराहव्यादीनामपि शूर्पतुल्यता न तु व्यावृत्तिः अत एव शूर्पशब्देन लक्षणयान्नकरणेन जुहोतीति विधीयते । अस्मिन्नर्थ- वादे सालम्बनत्वाय हेतुत्वेनाप्युपयोग इति हेतुरपीत्यापिशब्देन स- मुच्चयो दर्शितः । होमस्याविधेयत्वेन हेत्वनाकाङ्कत्वात्तं प्रति हेतु- विधानमयुक्तमाशय होमशब्दस्य संबन्धलक्षणार्थत्वमाह * सब- न्धस्य चेति * नन्विति भाष्यस्य परेषां व्याख्यानं दूषयितुमुपन्य. स्थति *नन्विति * अन्यत्राप्येवमेवोत्तया भाष्यकृत्सम्मतिं प्रकट- यति * तथा चेति * यद्धि यस्य कारणभूतं दृष्टं सिद्ध तश्चेत्साध्ये ऽपि' कारणभूतमवगतं भवेत् तत्तस्य साधनामति भाष्ये वक्ष्यते दू- षयति * तत्त्विति * खयं त्रेधा व्याचष्टे * अत इति * क्रियासा- मान्यवाचिना करोतिना शानाख्यक्रियाविशेषो लक्ष्यत इतिभावः शङ्कते * नन्विति * अङ्गभूतनियमरूपसंबन्धोपलक्षणत्वेनायमुप- न्यस्तो नाङ्गत्वेनेति परिहरति * सत्यमिति * अनुमाने व्यवहि- यते * अनेनेति * नियमो ऽनुमानव्यवहारशब्देनोक्तः । एवं तु ल- क्षितलक्षणाप्रसङ्गाद्गम्यगमकलक्षणार्थाभ्यां कार्यकारणशब्दाभ्यां प- रेण भावप्रत्ययेन कृत्तद्धितसमासेषु भाषप्रत्ययेन संबन्धाभिधानमि- तिस्मरणात, गम्यगमकसंबन्धाभिधानाद्गम्यगमकयोश्च नियमलक्ष- णस्य संबन्धस्य शक्तिरूपत्वात्तत्प्रतिपादनायैतदुक्तमिति पूर्वापरितो- पायाख्यानान्तरमाह * यद्वति * ननु शक्तिनिरपेक्षस्य हेतो- ाप्तिमात्रेण गमकत्वात्तत्प्रतिपादनं व्यर्थमत आह * ययोरेव हीति * ययोरेव सा शक्तिरवधृता तत्रैव तयोरेव मध्ये एकस्येत- रत्प्रतिहेतुता तत्रेति निर्धारणे सप्तमीद्विवचनं गमकस्य चाधारत्वं गम्यस्य च विषयत्वं गम्यविषयागमकाधारेत्यर्थः । कीडशी शक्ति- रित्यपेक्षिते गम्यगमकसामर्थ्यात्मनेत्युक्तं तृतीयेत्थं भूतलक्षणे ग- म्यगमकसामर्थ्यरूपेत्यर्थः । तस्याः प्रतिपयुत्तरेकालत्वेनानङ्गत्वमा- शङ्मय * व्याप्तिग्रहणकाल * इत्युक्तं कार्यावसेयत्वाच्छक्तेः कथं ततः प्रागवधारणमित्याशय कार्यकारणभावित्वेनेत्युक्तम् । अ- यमाशयः नियमलक्षणः संबन्धो ऽनुमानाङ्गम् । न चासाववि- नाभावमात्रेण भवति सत्यप्यविनाभावे हिंसात्वाधर्मसाधनत्वयो- नियम्यनियामकत्वाभावात् किं त्वाक्षेप्याक्षेपकभावेन यद्यस्मिन्स- १ यद्धि वन्यादि यस्य धूमाद, सिद्धे महानसे साधा ऽपि पचे ऽपोत्यर्थ. । २ प्रतीत्युत्तरीति २ पु. पा.

प्रथमाध्यायस्य द्वितीयः पादः। त्यनेनावश्यं भवितव्यमिति यदाक्षेपकशक्तत्वेनावसीयते तदेव तेन नियन्तुं शक्यते स्वरूपप्रयुक्तं हि साहित्यं नियमः प्रयोजकत्वं चाक्षे पकत्वम् । एतच्च विस्तरेणाचार्यैरनुमानवादे ऽभिहितम् । व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः । अस्मिन्सत्यमुना भाव्यमिति शक्त्या निरूप्यते ॥ तस्माद्य एव यस्यार्थो नियतो ऽदृष्टशक्तितः । स एव गमकस्तस्य न प्रसङ्गान्वितोऽपि यः॥ साध्यहेतुत्वमर्थानां व्याप्तिशक्त्यनुराधतः । इतिच । सा चाक्षेपशक्तिर्व्याप्तिग्रहणकालएवावधार्यते * तथा हि*धूम- स्याग्निसाहित्यं नित्यं दृश्यते तस्य धूमखरूपप्रयुक्तत्वाभावे नित्यत्वा- योगादापत्त्या धूमस्वरूपस्य प्रयोजकत्वं कल्प्यते तत्रधूमत्वश्यामत्वो- र्द्धगत्याद्यनेकसम्पाते धूमत्वमेवप्रयोजकं नान्यादतिव्यवस्था शक्त्या विनानुपपद्यमाना शक्ति कल्पयति अतो ऽनुमानाङ्गभूतनियमलक्षण- संबन्धसिद्ध्यर्थेयं शक्तिर्न गम्यगमकभावसिद्ध्यर्था येन तदुत्तरकाला- वसेया स्यात् सत्यां तु शक्तौ नियमवच्च तेन गम्यगमकभावो भवि- प्यतीति भाविनी गम्यगमकतामालोच्य गम्यगमकशक्तिरित्युच्यते। तदेककार्यकारणभावित्वेनेति भविष्यत्कालवाचिगम्यादिपठितभा- विशब्दप्रयोगेण दर्शितं कार्यकारणशब्दौ गम्यगमकपरौ व्याख्यातौ। यस्मिन्सामर्थ्य सति नियामकमग्न्यादिगम्यं भविष्यति नियम्यं च धूमादिगमकं तत्कार्यकारणभाविसामर्थ्य तस्य भावः कार्यकारण- भावित्वं तेनेतीयमपि तृतीयेत्थं भूतलक्षणार्थैव । अनेन च भाष्य- गतो भावशब्दो भवतेर्णिजन्तादेरजित्यच्प्रत्ययमुत्पाद्य भावनाओं व्याख्यातः। भावनं चीत्पादनं तच्च शक्तयधीनमिति कार्यकारणभा- वशब्देन गम्यगमकभावापादिका शक्तिरुक्ता भवति । एवमपि का- र्यकारणशब्दयोर्लक्षणावृत्त्यपरिहाराद्भावशब्दस्य शक्तावप्रयुक्तत्वाद- परितोषात्वमतेनान्यथा व्याचष्टे * अथ वेति * काणादा ह्यस्येदं कार्य कारणं संयोगिसमवायि एकार्थसमवायिविरोध चोति लङ्गिक- मित्यनुमानाङ्गभूताविनाभावीपाधित्वेन कार्यकारणभावादिच्छन्ति लोके ऽपि त्वेवमेव हश्यते । इह चान्नकरणत्वेन दाहोमसाध- नत्वं विधीयमानमन्नकरणत्वकारणकमेव भवति । भाष्यगतहोम- शब्दवच्चावत्यो ऽपि संबन्धलक्षणार्थः । आक्षेपभाष्यमुपसंहरति * तस्मादिति * हेतुव्यपदेशशब्देनैतदुक्तं हेतुर्हि प्रमाणान्तरप्रसि- द्धः स व्यपदेश्यः सिद्धवत्कीर्तनीयो भवति न चायं तथेति न हे- तुत्वं युक्तमिति । सत्यमिति समाधानभाष्यं व्याचष्टे * सत्यामिति * न्यायसुधायाम् । ल अनेन च विधायिष्यते कार्यकारणभावी दृष्टान्तवचनेन कल्प्येतति व्याख्यातम् । दृष्टान्तशब्देन दृष्टश्चासावन्तश्चेति समीपवचनान्त- शब्दाङ्गीकारेण सह दृष्टिरूपाख्या व्याप्तिरुक्ता कल्पिताया अपि व्या- प्रशान्द्याः शाब्देन हेतुना निन्वयमाशझ्यान्वयसिद्ध्यर्थ वचने क- ल्पनमुक्तम् । सप्तमे ऽपि वचनं पुनर्द्विविधं प्रत्यक्षमानुमानिकं चेति वदता भाष्यकारेण श्रुतार्थापत्तेःशब्दकल्पकत्वमेव प्रकटितम् । शब्द- कल्पकत्वानङ्गीकारे चाग्नये जुष्टन्निर्वपामीत्यादेर्मन्त्रस्य विकृतावस- निहिताग्न्यादिपदनिवृत्त्या साकाङ्क्षस्यापि सूर्यादिनार्थेन नैराका- श्यसिद्धेन सूर्यादिपदप्रक्षेपणोहः सिद्ध्येत् सूत्रकृताप्यर्थाद्वा कल्पनै- कदेशत्वादिति सरुवेणावद्यतीत्यादिश्रुतवाक्यैकदेशादश्रुत इव द्रव्य- मित्यादिपदकल्पनैवोक्ता । चतुर्थे ऽप्यश्रुतफलेष्वेकाहकाण्डपठितेषु विश्वजिदादिषु चोदनायां फलाश्रुते. कर्ममात्रं विधीयते न ह्यशब्द विधीयतइति फलप्रतिपादकशब्दाभावानिष्फलत्वं पूर्वपक्षयित्वापि वाम्नानसामर्थ्याच्चोदनार्थेन गम्येत अर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते अर्थतो हसमर्थानाम्मानन्तर्ये ऽपि असम्बन्धः तस्मा- च्छत्येकदेशः स इति श्रुतवाक्यैकदेशभूतस्वर्गकामादिपदकल्पन- मेव वक्ष्यते । अर्थस्य शब्दैकदेशत्वायोगाच्छ्तार्थापत्तिमाहुर्ये श- ब्दस्याकल्पिकामतः सूत्रभाष्यन्यायतन्त्रविरोधात्ते निराकृताः । की- हशं दृष्टान्तवचनमित्यपेक्षिते दर्शयति * यद्यदिति * शूर्पण होम इति भाष्यं हेतुः स्यादित्यनेन पुनरुक्तमाशङ्कय उपसंहारार्थत्वेन व्या- चष्टे * तेन चेति * शूर्पण होम कर्तव्ये इति द्वितीयपूर्वपक्षाभि- प्रायेणोक्तं प्रथमपूर्वपक्षे तु समस्तस्य वाक्यस्य केवलहेतुपरत्वात्तद- र्थानुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य त- च्छूतेरवयुत्यानुवादत्वादुपलक्षणार्थ शूर्पग्रहणम् । शूर्पणान्येन वा होमः कर्तव्य इत्यर्थः। किं प्रयोजनमिति प्रश्नभाष्यं व्याप्तिवचनक- ल्पनेन प्रयोजनस्योक्तत्वादयुक्तमाशङ्कय व्याचष्टे * किं प्रयोजन- मिति * द्वितीये पूर्वपक्षे चैतदुक्तं तदा हि शूर्पण जुहोतीति वि- धेस्तेन ह्यन्नं क्रियतइत्यर्थवादनिराकाङ्कत्वे सत्यपि शूर्पासम्भवे ऽनुकल्पभूतादिप्राप्त्यर्थं तेन ह्यन्नं क्रियतइत्यस्यापि परावृत्त्य हे- तुपरतेष्यते । तत्र शूर्पगतान्नकरणत्वहेतुत्वमुच्यमानं न दादे)- मसाधनत्वमापादयितुं शक्नोतीति व्यर्था परावृत्तिकल्पनेति प्रश्ना- भिप्रायः । प्रथमपर्वपक्षे तु शूर्पश्रुतेरुपलक्षणार्थत्वात्तेन ह्यन्नं कि- यतइत्यविशेषेणान्नकरणत्वमात्रस्य हेतुत्वप्रतिपादनान हेतुपरत्वे व्यवस्था लश्यत इति श्रुतविधित्यागेनाश्नुतविधिकल्पनस्य किं प्रयो- प्रथमाध्यायस्य द्वितीयः पादः। जनमिति प्रश्नाभिप्रायो व्याख्येय. । द्विविधमपि प्रशाभिप्रायन्निरा- कर्तुमन्यदपीत्युत्तरभाष्यं व्याचष्टे * अपरस्त्वाहति * शास्त्रस्य म- हाविषयत्वं पुरुषस्य चानुष्ठानसौकर्यमवतविधिकल्पनस्य अनेन प्रयो- जनमुक्तम् । अन्नकरणत्वाविशेषात्सर्वेषां होमसाधनत्वे ऽभिहिते कुत इति प्रश्नभाष्यन्निरभिप्रायमाशङ्कयाह * कुत इति तेनेति * शू- पपरामर्शितत्प्रातिपदिकात्परया तृतीयया शूर्पगतस्यैवान्नकरण- त्वस्य हेतुत्वाभिधानातू कुतो दादिप्राप्तिरिति यः सिद्धान्ताभिप्रायः यदि च हेतुरित्यत्र सूत्रे वक्ष्यते स एवात्र प्रश्ने ज्ञेय इत्यर्थः । अभि- प्रायान्तरमाह * अथ वेति * अभिप्रायद्वयनिराकरणार्थत्वेन सौत्रा- र्थवत्त्वपदव्याख्यानार्थ तस्यापीति भाष्यं व्याचष्टे * इतरस्त्वाहेति * तृतीयोपात्तस्य करणत्वस्य हिशब्दोपात्तहेतुत्वविधाबुद्देश्यत्वात्प्रा- तिपदिकान्बयलाभेन सूर्यगतत्वेन विशेष्टुमशक्यत्वात् अन्नकरणमा- त्रस्य हेतुत्वाहादिप्राप्तिसिद्धिरित्याद्यभिप्रायार्थः । करणत्वं चार्थ- धत्त्वशब्देनाभिप्रेतं द्वितीये रूपयोगित्त्वं' दादेः पाकद्यपेक्षया वि- प्रकर्षे ऽपि यदन्नक्रियायामुपयोगित्वं तदेवात्यन्तविप्रकृष्टलाङ्गला- धपेक्षया साधकतमत्वेन विवक्ष्यतइत्यर्थः । शक्यते चेति भाष्यं सौ. नोपपत्तिशब्दव्याख्यानार्थतया व्याचष्टे * शक्यते चेति * पौनरु- क्त्यमाशङ्कते * पूर्वेण त्विति * परिहरति * तेनेति । कर्तुमिति * करोतिना अन्नक्रियाविषयाविवक्षा लक्ष्यते तेनान्नं क्रियतइति विवक्षि- तुं शक्यतइत्यर्थः वेदे वक्तृभावाद्विवक्षानुपपत्तेाचिख्यासात्र विवक्षाशब्देनाभिप्रेता । एतदेव व्याचष्टे * यदेव हीति * एवंचार्थ- वत्त्वपदोक्तोपयोगित्वे सत्यपि साधकतमत्वाभावात्करणत्वानुपप- त्याशङ्कानिराकरणार्थत्वेनोपपत्तिपदस्य पौनरुत्त्वं परिहृतम् । पदा- र्थकत्वशब्देने करणत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रि- यतइति वर्तमानानक्रियत्वनिर्देशालम्बनमिति स्पष्टमेवापौनरुत्य- मित्याह * अथ वेति * होम प्रति साधनत्वानुपपत्तिमाशङ्कयासौ- श्रेणोपपत्तिशब्देनोपपत्ति भाष्यकृद्वदति * शक्यते चति * ग्रन्थेने- त्यर्थः । तत्र शक्यइत्यनेन करोतेः शक्तिलक्षणार्थत्वमुक्तम् । लटो वा भूतभविष्यत्कालक्षणार्थत्वं चशब्देन सूचितम् । एतद्धीति भाष्यं साध्याहारं व्याचष्टे * तत्रेति * कथं चाकारि करिष्यते वेत्यभिधीयतइति अत्राप्यध्याहार्य न हीत्युत्तरभाष्यं व्याचष्टे * वर्तमानेति * वर्तमानानक्रियस्य होमसाधनत्वासम्भवात्करोतिना १ रूपयोगित्वमिति २ पु. ना. २ यहार्थवत्त्वशई नेति २ पु. पा.

न्यायसुंधाया। वा शक्तिलक्ष्यते लटो वा भूतभविष्यत्कालत्वमित्यर्थः । भाध्यमपि यस्मान्न वर्तमानानक्रियाकालः कश्चिद्धोमसाधनमस्ति तस्माल्लक्षणा- श्रयणमिति योज्यम् । एतदेवोत्तरभाष्यमेकग्रन्थत्वेन व्याचष्टे * य- द्वेति * लक्षणापत्तरुभयपक्षसाम्येनादोषत्वप्रतिपादनार्थस्य व्यर्थे स्तुतिरन्याय्येति चेदिति वक्ष्यमाणसूत्रस्य सर्वपूर्वपक्षोपपत्तिसङ्कल्प- नाय व्याख्यानार्थ यदि चेति भाष्यं ज्याचष्टे * यदि चेति * क्रि- यावर्त्तमानत्वयारेकपदोपादानादन्योन्यनिरपेक्षयोश्चानुपपत्त्यभावा- दैक्यमङ्गीकृत्योभयोरित्युक्तं वर्तमानत्वशब्देन च क्रियावर्त्तमानत्वम- भिप्रेतं चोद्यसामान्यमात्रेण दोषत्वानपायात्सूत्रभाष्यापेक्षितपरिहा- रसाम्यमपि दर्शयति * तेनेति * हेताविति भाष्यं कथन्तहपेक्षितमत आह * हेताविति* भाष्यकृतान्वर्थवत्वपदस्यैव श्रीतार्थवत्वपरतया ध्याख्यातत्वात् सूत्रान्तरव्याख्यानार्थ यदि चेत्यस्मात्प्राक् पठितमित्य- दोष । तदिदानी व्याचष्टे * स्तुताविति * न बनकरणत्वाविशेषा हादिवच्छुर्पस्य प्राप्तेः शुर्पण जुहोतीत्यनर्थकं स्यादत आह * शू- पेणोति * भाष्यकृद्व्याख्याने हेतुत्वप्रतिज्ञायां हेत्वनभिधानादर्थ- वत्त्वोपपतिहेत्वोश्च साध्यानभिधानात्सूत्रस्य न्यूनत्वापत्तेः। स्वयं व्या- ख्यानान्तरमाह * इत्यं वेति * विधिर्वा स्यादपूर्वादितिपूर्वाधिक रणपूर्वपक्षहेतोरत्राप्यनुषङ्गेण पूर्वपक्षप्रतिज्ञायां हेत्वपेक्षापूरणात् स्थाच्छब्देन चान्वयवाक्यकल्पनया हेतुत्वायोगशङ्कापरिहारं मत्वा- न्वयव्याक्यस्य दादिप्राप्तिफलत्वोपपादनार्थत्वेनार्थवत्त्वोपपत्त्योः साध्यकाङ्क्षापूरणात्सूत्रस्यान्यूनत्वं भाष्यकृतो ऽभिप्रेतम् । स्तुतिस्तु शब्दपर्वत्वादचोदना च तस्य ॥ २७ ॥ अत्र भाष्यकृता नकरणताया हेतुत्वस्य प्रमाणान्तरानवसे- यत्वेन शब्दैकसमधिगम्यत्वाच्छब्देन च शूर्पण होमकर्तव्ये ऽनकर- णत्वस्य हेतुत्वाभिधानात्तस्य च शूर्पण जुहोतीति विधिसिद्धत्वेन हेत्वनपेक्षतया स्तुतिमात्रार्थत्वावगतेः शूर्पस्यैव शब्दविहितत्वात्तद- वरुद्ध होमे दादेरचोदनेत्येवं सूत्रं व्याख्यातं तद्विवृणोति * शू- पेणेति * विरोधसिद्ध्यर्थ द्वारैक्यप्रदर्शनार्य करणग्रहणं समर्थः पदविधिरिति पदमात्रविधौ सामर्थ्यापेक्षास्मरणाच्छूर्पस्य ादि- सापेक्षत्वे शूर्पप्रातिपदिकस्य विभक्त्यनन्वयप्रसङ्गानिरपेक्षत्वं विभ- तिग्रहणेनोक्तम् । समुच्चयनिरासार्थ चैतद् द्वयम् । श्रुतिग्रहणं बलीयस्त्वाद् बाधविकल्पनिराकरणायोक्तम् । न केवलं विभक्त्य- १ हारक्ये सतिविराध. विराधे सति करणयोः समुच्चयासम्भवः ।

प्रथमाध्यायस्य द्वितीयः पादः । म्यान्यथानुपपत्त्या शूर्पस्य दाद्यनपेक्षत्वं स्याकिं त्वसामर्थ्याद- पीत्याह * होमश्चेति * ननु हेत्वपदेशान्यथानुपपत्त्यान्वयविधा- यिश्रुत्यनुमानावश्यंभावाद् बलाबलविशेषे ऽपि मुख्यानुकल्पव्यवस्थ- या विरोधपरिहारो भविष्यतीत्यत आह * अनुत्थितायामिति * अत्रैवाचोदना च तस्योत सूत्रावयवं योजयति * तेनेति * हेत्वप- देशान्यथा ऽनुपपत्तिनिराकरणार्थतया स्तुतिग्रहण व्याचष्टे * हेत्व- पदेशश्चेति * आद्यं पूर्वपक्षं निरस्यति * शूर्पश्रुतिश्चेति * किमा- लम्बनस्तर्हि हेतुंनिर्देशो ऽत आह * तस्मादिति * वक्ष्यमाणपक्षा- पेक्षया यद्वाशब्दस्तेन विध्युइंशेनानन्तरमाकाक्षितमर्थेन विधिसा- मर्येनोपप्लुतं हेत्वपेक्षं यत्प्राशस्त्यं तस्य हेतुरिति विग्रहः । न के- वलं हेतुपरत्वासम्भवात् प्राशस्त्यपरत्वं किं त्वश्रुतान्वयवाक्यक- ल्पनानापादकत्वादपीत्याह * कल्पनेति * एतदेव सूत्रमन्नस्वरू- पस्य होमसाधनतया कल्प्येन शब्देन चोद्यमानतयेष्टत्वाद्दादेरकर- णत्वादचोदनेत्यन्त्यप्रतीकेनावतात्पर्या ऽन्यथा व्याचष्टे * अचोदना चेति * भाष्यमप्यस्यां व्याख्यायामेवं योज्यं शब्दश्चान्नकरणहेतुरि- त्याह * तच्च शूर्पहोमेति * शूर्पण जुहोतीत्येतद्वाक्यविधेयाङ्गी- क्रियमाणे ऽस्य स्तुत्यर्थत्वात्प्रमाणान्तरानुसारेण गौणत्वायुज्यते द- यादिहोमे ऽनुकल्पन वाक्येन विधये ऽङ्गीक्रियमाणे तस्य करणत्वा- भावान युज्यतइति । व्याख्यानान्तरस्य प्रयोजनमाह *एवं चति* व्यर्थे स्तुतिरन्याय्येति चेत् ॥ २८ ॥ एतत्सूत्रार्थस्य पूर्वमुक्तत्वादनुभाष्यतार्थतयैतत्सूत्रमिति पुन यदुक्तमिति वदता भाष्यकृता व्याख्यातं तद्वयाचष्टे *यत्पुनरिति* अर्थस्तु विधिशेषत्वाद्यथा लोके ॥२९॥ अर्थशब्दव्याख्यानार्थमस्मत्पक्षइति भाष्यं व्याचष्टे* अस्मत्प- क्षइति * विधिशेषत्वादितिसूत्रावयवव्याख्यानार्थ वाक्योति भाष्यं व्याचष्टे * वाक्योति * सत्यपि विधिशेषत्वे कथमर्थसत्तेत्याशङ्का- निराकरणार्थ सम्वादश्चेति भाष्यं व्याचष्टे * तंदा चेति * वर्तमा- नानक्रियत्वाभिधानोपपादनार्थ तदा चेति भाष्यं व्याचष्टे * अने- नेति * करोतेरपि शक्तिलक्षणार्थत्वमनेन भाष्येण वर्तमानमिती- तिकरणेन अक्रियं वा स्तोतुं सत् क्रियमित्युपदिशन्तीत्यपि सूचना- दर्शितं भवतीति व्याख्यातुमाह * अथ वेति * अनेन चैवं भाष्यं व्याख्यातं कृतं करिष्यमाणं वा स्तोतुं क्रियतइति वर्तमानशक्तिकं न्यायसुधायाम्। वा स्तोतुं क्रियतइत्युपदिशतीति । अर्थस्तु विधिशेषत्वादित्यस्य व्यंग तिरेकप्रदर्शनार्थ त्वत्पक्षइति भाष्यं व्याचष्टे * तव त्विति * वर्त- मानशब्देन क्रियामप्युपलक्षयोते दोषापादनार्थ विधौ हीति भाष्यं प्रश्नपूर्वकं व्याचष्टे * कि कारणमिति * परशब्दार्थः प्रतीयतइत्य- नेन वाच्यतया प्रतीतिरुक्तति कथं चिद् भ्रान्तिः स्यात्तच जहत्वा- र्थतापत्तरयुक्तमिति प्रयोजनपदप्रक्षेपेणोक्तार्थे योजयति *एतदिति* प्रयोजनपदप्रक्षेपे कारणमाह * परोत * न तु वाच्ये इति शेषः। कस्य शब्दस्यार्थे कः शब्दो ऽत्र कल्प्यतइत्यपेक्षायामाह *तदिहेति* भूतवाचिनो ऽकारीति लुङो भविष्यद्वाचिनो वा करिष्यतइति लट- श्वार्थे वर्तमानवाची शब्दः क्रियते इति लट् प्रत्ययः कल्पनीयः शक्ति- वर्तमानतावाचिनो वा शक्यत इति शक्नोति खार्थे क्रियावाची शब्दः क्रियत इति करोति धातुः कल्पनीय इत्यर्थः । न चेति भाष्यं शङ्कापू- र्वक व्याचष्टे * अथेति * सक्रियमित्यप्यन द्रष्टव्यम् । अशक्या- र्थत्वमेव दर्शयति * न हीति * तव तु विधिवादित्वादित्यारभ्य द्वितीयपूर्वपक्षदूषणमुक्तं तदुपसंहरति * तस्मादिति । उभयथेति* लाक्षणिकत्वे मुख्यत्वे च विधिवादिनः क्रियत इति विप्रतिषिद्धाम- त्यर्थ । दृष्टान्तव्याख्यानार्थमस्मत्पक्षइति भाष्य व्याचष्टे* अस्मत्पक्षे विति * सत्यप्यन्यस्मिन्प्रकृष्टबले देवदत्तस्यापि बलसद्भावात्कथं गौणतेत्याशङ्कय भूम्न्यतिशायने वे युक्तम् * स्मरन्ति हि * संयोगे ऽस्तिविवक्षायां नित्ययोगे ऽतिशायने । भूमनिन्दाप्रशंसासु भवन्ति मतुबादयः॥ इति इह च यज्ञदत्तादीन्प्रसहतइति वाक्यशेषाद् भूम्न्य- तिशायने चेति ज्ञायते दृष्टान्तदाान्तिकयोरापेक्षिकातिशयस- द्भावान्मुख्यत्वं शङ्कते * नन्वेवमिति * नानेन भाष्येण नि- कृष्टमात्रापेक्षया प्रयोगे गौणत्वमुक्तं कि तु सर्वापेक्षयोगे नि- कृष्टमात्रापेक्षया प्रयोगविषयस्य मुख्यस्यातिशयस्योपचारर्थमुप- न्यास इति परिहरति * सत्यमिति * मुख्यत्व चात्र सम्भव- मात्रेणोच्यते न प्रकृतोपयोगितया परशब्दार्थग्रहणामत्युपक्रमात् । व- र्तमानक्रियत्वस्य गौणत्वे देवदत्त पचति यो ऽधुना भुक्तइति दृष्टान्तो दातव्य. विधिपक्षे ऽपि तापेक्षिकं मुख्यमेव साधकतम भविष्यतीत्याशङ्ख्याह * भक्तस्त्विति * वर्तमानक्रियत्वगौण- त्वयादृष्टान्तत्वेनात्रोपादानं यथा वर्तमानक्रियत्वोपादानवत्सर्वापे- क्षसाधकतमत्वस्य क्रियां प्रन्युपादानात्तस्य च यथा वर्तमानक्रिय- वस्य गौणत्वे निमित्तं नास्ति तथा साधकतमस्य न्यूनापेक्षायां नि- प्रथमाध्यायस्य द्वितीयः पादः। मित्तं नास्तीत्यर्थः। यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥ ३० ॥ यद्यपि च भवेदित्यनुज्ञादर्शनाद्विधिपक्षो ऽपि सम्मत इति कस्य चिद् भ्रान्ति' स्यात्तनिवृत्त्यर्थमाह * अभ्युपेत्यति * अस्य च प्रयोजन चतुर्ग्रहीतान्याज्यानि भवन्ति न पत्रानुयाजानिति बहुव- चनात्सर्वानुयाजाभावस्य हेतुत्वावगतेरवभृथे बर्हिरनुयाजमात्राभावे ऽतिप्रसङ्गनिवृत्तिः तद्भाष्य व्याचष्टे * यद्यपीति * अत्यन्तसाधकत- मत्वाभावे ऽप्यापेक्षिकसाधकतमत्वप्रदर्शनाय भाष्ये दर्विपिठरप्रका- राणामित्युक्तं निर्देशादित्येतत्सूत्रावयवव्याख्यानार्थ शब्दादित्यादि- भाष्यं व्यवस्थाहेतुप्रश्नपूर्वकं व्याचष्टे * कुत इति * सत्यपि हेतोः शब्दोक्तत्वे कथ व्यवस्थेत्याशय शब्दश्चेति भाष्येण शूर्पगतस्यैवा- प्रकरणत्वस्य हेतुत्वाभिधानादिति परिहृतं तदुपपादयितुमाह * सो ऽपि चेति * शूर्पगतस्यैवान्नकरणत्वस्य हेतुत्वं शब्देनोक्तम् । इत्ये- तदेव कथमवगम्यत इत्याशय तद्धि निर्दिश्यतइत्यादिभाष्यकृतोक्तं तस्याभिप्रायमाह * शुऐं चेति * अनेन च निर्दिश्यतइति प्रतिज्ञा- भिप्रायं व्याख्यातम् । प्रकृतापनिर्देशकसर्वनामपरया तृतीयया तद्गतस्यैवान्नकरणत्वस्याभिधानात्तस्यैवं हिशब्देन हेतुत्वमुच्यते इ- स्येवं च तद्भाव्यं व्याख्येयमिति दर्शयितुमाह * सन्निधेश्चेति * ए- कपदोपादानलक्षणा श्रुतिः सन्निधिशब्देनाभिप्रेता । ननु लोके व्याप्त्यविरोधेन मामान्यरूपस्यैव धूमादेहेतुत्वावगमात्तदृष्टान्तेना- त्रापि तथात्वापत्तेः साध्यधर्मिणा विशेषणमयुक्तमित्याशङ्याह *लोकेऽपि चेति वेदे तु हेत्वन्यथानुपपत्तिकल्प्यस्य दृष्टान्तवाक्य- स्य सामान्यव्याप्तिविषयत्वायोगान्न तदनुरोधेन हेतोः सामान्यरूप- तापत्तिरित्याह * वेदेति * कीदृशं तर्हि अत्र दृष्टान्तवाक्य कल्प्यते इत्यत आह *तस्मादिति* शूर्पत्वैकार्थसमवायिनो ऽन्नकरणत्वस्यैव हेतुत्वविधायकविधिवचनद्वारान्नकरणत्वावान्तरसामान्योपलक्षणा- थै शर्पग्रहणं विशेषदृष्टसंज्ञकं चैतदतुमानं लोके ऽपि प्रसिद्धमित्या- ह * तदेतदिति * शब्दे ऽपि झाने गमेडोंरिति गोशब्दव्युत्पत्तिनि- मित्तत्वेनोपात्तस्य गमनस्य प्रतिपाद्येन सास्नादिमता विशेषणदर्शना- त्तदृष्टान्तेनेहापि व्यवस्थासिद्धिरित्याह * यथा चेति * नन्वेवं तर्हि शुर्पण जुहोतीत्येतावतैव सिद्धेहेत्वभिधानानर्थक्यं स्यादत न्यायसुधायाम् । आह * तत्रेति । यथेति * दृष्टान्तभाष्यं व्याचष्टे * यथेति * उप- संहरति * तस्मादिति * प्रत्ययश्रुतिबलेन पदश्रुतिबाधात्सामान्य- मात्रस्य हेतुत्वाभिधानाय सामान्यादिति चेदिति सूत्रावयवव्याख्या- नार्थमथेति भाष्य व्याचष्टे * यदि पुनरिनि * आनर्थक्यापत्तेः प्र- त्ययश्रुतिबाधायाव्यवस्था विधीनां स्यादिति सूत्रावयवव्याख्यानार्थ- म्मव्यवस्थेति भाष्यं व्याचष्टे * तत इति * हेत्वनभिधाने ऽपि हि- शब्दानर्थक्यापत्तिशङ्कानिराकरणार्थम्मस्मत्पले पुनरिति भाष्यं स्पष्ट- स्वान्न व्याख्यातंतस्मादित्युपसहारभाष्यम्मसमर्थशूर्पव्यावृत्त्यर्थ हे- त्वभिधानोपपत्तेरयुक्तमाशय व्याचष्टे * तस्मादिति * अभ्युपेत्य- वादमात्रमेतत् वस्तुगत्या शूर्पत्यापि मुख्यान्नकरणत्वाभावादिधौ च लक्षणायोगाद्धेतुत्वानुपपत्तिरितिभावः । तदर्थशास्त्रवाक्यनियमबुद्धशास्त्राविद्यमानव- चनाचेतनार्थबन्धनार्थविप्रीतषेधस्वाध्यायवद- वचनविज्ञयानित्यसंयोगान्मन्त्रानर्थक्यम् ॥३१॥३९॥ ग्रन्थान्तरेष्वदर्येकं सूत्रं तत्सिद्धिसूत्रवत् व्याख्यायै खण्डशो उपाठि भाष्यकारादिभिस्त्विदं किमर्थवन्तोमन्त्रा उतानर्थका इतिवृत्त्य- तरकारोपन्यस्तसन्देहत्यागेन भाष्यकारीयस्य सन्देहान्तरोपन्यासस्य कारणं परोपन्यस्तसन्देहस्य दुष्टत्वं वक्तुमुपन्यास तावत् करोति * इहति * मन्त्रानर्थक्यामित्यानर्थक्यश्रवणं भ्रान्तिकारणमुक्तं दू- षयति * तत्त्विति * समुद्रो वा महासत्वइतिवदिवार्थे वाशब्दः श्लोक व्याचष्टे * सर्वत्र हीति * उत्तरानानुगुण्यादप्यनार्थक्येन - र्वपक्षो न युक्त इत्याह * न चेति * आविशिष्टस्तु वाक्यार्थ इति सिद्धान्तसूत्रेणाष्यर्थक्त्वं सिद्धवद्वक्ष्यते तञ्चाभिधानानादरे पूर्व- पक्षीकृते तन्निराकरणे च उभयपक्षसम्प्रतिपन्न हेतुत्वेन वक्तुं युज्य- ते आनर्थक्ये तु पूर्वपक्षीकृते अर्थवत्त्वमुत्तरं परंप्रति साध्यं स्यान्न च प्रतिज्ञामात्रेण साधयितुं शक्यमित्यर्थः । प्रतिज्ञामात्रेण साध्यमुत्त- रमेषामिति विग्रहः अतः पूर्वपक्षासम्भवन परोपन्यस्तसन्दहस्यायु- तत्वात्तत्परित्यागेनान्यथोपन्यासो भाष्यकारस्येत्याह *तस्मादिति* वचनमाभिधानं तत्कि कर्मकाले मन्त्रविधिना परिगृहीतन्न बेत्य- र्थः । एतदेवोत्तरभाष्येण विवृत सतो ऽर्थस्याविवक्षाकारणमपश्य- निहापि विचार पूर्वपक्षासम्भवमाशङ्कते * नन्विति * सतो ऽप्यर्थस्योञ्चारणेदम.भावेनाविवक्षाया दर्शनात्पूर्वपक्षसम्भावना- -- प्रथमाध्यायस्य द्वितीयः पादः। माह * नैष इति * ननूञ्चारणस्यार्थपरत्वाभावे ऽर्थो ऽनभिधेय एव स्थादित्याशय नान्तरीयकत्वेनार्थाभिधानमुपपादयति * उच्चारणे- ति * उच्चारणनान्तरीयकत्वं यदैकस्मादपूर्व तदेतरत्तदर्थमित्य- नेन न्यायेन दृष्टान्ततयाक्तं भाष्यकारीयसन्देहसमर्थनमुपसंहरति * इत्यस्तीति * भाष्यकृता इस्य विचारस्य प्रयोजनद्वारेण प्रमाणल- क्षणसङ्गतिन्दर्शयितु याच्चारणमात्रेणेत्यादिना विचारप्रयोजनमुक्त तदाक्षिपति * कः पुनरिति * विचारखरूपवत्प्रयोजनस्यापि शे. षलक्षणासङ्गतत्वान्नास्य विचारस्य प्रमाणलक्षणसङ्गतिरित्यर्थः । स- माधत्ते * पूर्वमेवोति * आम्नायसूत्रोक्तमक्रियार्थत्वेनाप्रामाण्यमेव मन्त्रेष्वपि यथापूर्वपक्षस्तथापूर्वमेवार्थवादाधिकरणोपक्रमएव यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपात्तानि सो ऽरोदीदिषेत्वोर्जेत्त्वो- द्भिदेत्येवमादीनीत्यादिनोक्तमित्यर्थः । अनेनोच्चारणमात्रेणोपका- रकत्वे बहिर्लवने बहिर्देवसदनं दामीतिमन्त्रस्याप्रामाण्यमाभिधाने- नोपकारकत्वे सामर्थ्यालोचनेन प्रामाण्यमिति प्रामाण्याप्रामाण्यप्र- योजनत्वेन लक्षणसङ्गतिर्भाष्यकृता दर्शिता धर्मप्रमाणभूतविध्येक- वाक्यत्वेनार्थवादप्रामाण्ये ऽभिहिते तदभावान्मन्त्राणामप्रामाण्यमि- त्यर्थवादप्रामाण्यहेतुप्रत्युदाहरणरूपेण पूर्वपक्षवादिनः प्रत्यवस्थाना- दर्थवादविचारसङ्गतिरथेदानीमिति वदता भाष्यकृतोक्ता को 5र्थ- वाद को वा नेति कोष्ठशाधनेनाधिकरणद्वयस्यार्थवादाधिकरणशे- षत्वादव्यवधायकत्वमिदानी शब्देनोक्तं प्रकरणान्तरत्वेनानन्तराधि- करणसङ्गत्यभावो न दोषः । ननु यद्यक्रियार्थत्वेनाप्रामाण्यमत्र पूर्वप- क्षस्ततो नोच्चारणं पूर्वपक्षे ऽङ्गीकार्यम् । अर्थानभिधाने ऽपि कर्म- कालोच्चारणस्यापि प्रयाजादिवदारादुपकारकत्वेन क्रियार्थत्वोपप- त्तरित्याशझ्याह * तदुत्तरेणैवेति * तस्याक्रियार्थत्वेनाप्रामाण्यस्य यदुत्तरं तुल्यसाम्प्रदायिकत्वं चकारादध्ययनविधिदृष्टार्थत्वं च ते. नैव मन्त्रेष्वक्रियार्थत्वशङ्कानिवृत्तेन पुनरक्रियार्थत्वमभिहितमित्यर्थ.। नैराकाझ्यमुपपादयति * एवं हीति * क्रिया तत्संबन्ध्यनभि- धायिनां तत्कालाप्रयोज्यानामपि चार्थवादानां यत्र क्रिया संबन्धा- पादनं तत्र मन्त्रेषु क्रियाकालप्रयोज्येषु तत्संबन्धे कः सन्देह इत्यर्थः अतो ऽक्रियार्थत्वस्यात्र शङ्कितुमशक्यत्वात्किमुच्चारणमात्रेण क्रि- यार्थत्वमभिधानेन वेति तद्विशेषविचारो भाष्यकारीयो युक्त इत्याह * तस्मादिति * नन्वेवमपि लिङादिवद्विधायकत्वेनार्थवादवद्वा स्तावकत्वेन क्रियार्थत्वसम्भवात्किमित्युच्चारणेनाक्रियार्थत्वाङ्गीकर- णमित्याशङ्कयाह * तत्रेति * स्वयमेव भाष्यकारोऽपि वा प्रयोग न्यायसुधायाम् । सामर्थ्यान्मन्त्रो ऽभिधानवाची स्यादित्यत्र निराकरिष्यतत्यिर्थः। ननु मन्त्रत्वाविशेषात्साम्नायमपीहोदाहरणत्वप्रतीतेस्तेषां चावाचकत्वा- दर्थपरत्वानुपपत्तरव्यापकः सिद्धान्त स्यादत आह * सामसु त्वि- ति * अर्थपरत्वाक्षराभिव्यक्तिपरत्वे साम्नामपि तद्वारार्थपरत्व- सम्भवात् कि तेषामात्मप्रयोगमात्रपरत्वमुताक्षरव्यक्तिपरत्वमित्ये- तद्विषय सन्देहो भाष्यकृतोक्त इत्यर्थः । नन्वेवमपि श्रुत्यसंयुक्तानां बर्हिर्देवसदनं दामीत्यादीनामर्थपरत्वाभावे लैङ्गिकविनियोगासम्भ- वेन कर्मकालोच्चारणे प्रमाणाभावाव्यापकः पूर्वपक्षः स्यादिति शङ्कते * कथं पुनरिति * परमतेन परिहरति * के चिदिति * का तर्हि सन्देहविवरणभाष्यस्य गतिरत आह * अत इति * अतो नैवैतदञ्जसेत्यन्वया । प्रयोजनभाष्यमपि गमयति * यदपीति * एवं त्वानर्थक्यापत्तेस्तस्य च सामान्योपयोगाभिधानेन प्रागेव निरा- कृतत्वाद्भाष्यानार्जवापत्तेश्चापरितोषान्मतान्तरमाह * अथ वेति * दर्शनं सम्प्रदायः समाचारः प्रसिद्धिरित्यनान्तरं, ननु प्रसिद्धः स्मृतिरूपत्वेन निर्मूलायाः प्रामाण्यायोगात्सदसन्मूलत्वेन तामवि- चार्य सिद्धवद्विशेषविचारो न युक्त इति शङ्कते * किमर्थमिति * स्मृत्यधिकरणवक्ष्यमाणप्रामाण्यायाः सदाचाररूपायाः याज्ञिकप्र- सिद्धरसन्मूलत्वाशङ्का न युक्तति परिहरति * तत्रेति * स्मृतिन्या- येन शिष्टनैवर्णिकदृढपरिग्रहेणैषां मन्त्राणां प्रयोगित्वं दृढमवस्थित तस्य चानेन विचारेण मूलविशेषनिरूपणमित्यर्थः । याज्ञिकप्रास- द्धिबलेन कर्मकाले मन्त्रोच्चारणाभ्युपगमे पूर्वपक्षे ऽपि बहिर्लव- नादावेव बहिवेत्यादीनामुच्चारणापत्तेर्न नियोगतो बर्हिर्देवसदनं दामीत्येष बर्हिषां लवने विनियुज्यतोत भाष्यमयुक्तं स्यादित्यपरितो- पात्खमतेनार्थपरत्वाभावे ऽपि कर्मकाले मन्त्रोच्चारणमुपपादयन्पूर्व- पक्षमारभते * अथ वेति * नन्वदृष्टार्थत्वेनाप्यध्ययनविधिविहित- स्याध्ययनस्य पुरुषार्थानुबन्धित्वोपपत्ते कथं कर्मकाले मन्त्रोच्चार- णाध्यवसानमत आह * तथा हीति * प्राकृताङ्गनिराकाङ्क्षाया- विकृतरुभयाकाङ्क्षालक्षणप्रकरणायोगात्तद्विषयं क्रमग्रहणं सर्वा- ङ्गसाधारणनामस्य न्यायस्य दर्शयितुं यावच्छब्दः अङ्गत्वप्रतिपत्त्यु- त्तरकालीन फलेनोपकारत्वेन स्वीकारो ऽभिहितः । ननु श्रुत्ययु- क्तानां मन्त्राणां क्रमप्रकरणपठितानां विध्यभावेन कैमर्थ्यानपेक्ष- णादध्ययनविधौ च कर्मासन्निधानाद्विश्वजिन्न्यायेन स्वर्गार्थत्वाव- सायातू गोदोहनादिवत्क्रमप्रकरणसंस्पर्शे ऽप्यङ्गत्वेन स्वीकारो न युक्त इत्याशङ्कयाह * मन्त्रेति * स्वीक्रियतइत्यनुषङ्गः विन प्रथमाध्यायस्य द्वितीयः पादः । ध्यर्थवादाध्ययनवदस्याप्यवरूप्याय दृष्टार्थत्वाध्यवसानात्कर्मका- लोच्चारणमात्रार्थत्वे ऽपि तदनपायात्साकाङ्क्षत्वेन क्रमि- प्रकरणिभ्यां स्वीकारो युक्त इति भावः । ननु मन्त्रस्व- रूपवत्प्रयाजादिवाक्यस्य स्वरूपस्यापि क्रमप्रकरणसंस्पर्शाकर्मकी- लोच्चारणापत्तिरत आह * तत्रेति * कर्माङ्गभूतार्थाभिधानेन नैरा- काश्यान्न तत्स्वरूपस्य क्रमप्रकरणसंस्पर्शेऽप्यङ्गत्वेन स्वीकार इति भावः । मन्त्राणां तु प्रयाजादिवाक्यवत्कर्माङ्गभूतार्थानभिधायक- त्वात्प्रधानवाक्यवञ्च कमविधायकत्वस्य तच्छेषवद्वा स्तावकत्वस्य च द्वितीये निराकरिष्यमाणत्वात् अनुतिष्ठासितार्थस्मृतेश्च ध्याना- दिना सिद्धेः साकाङ्क्षत्वेन क्रमप्रकरणाभ्यां स्वरूपस्यैवाङ्गत्वाव- सायाद्रहणमित्याह * मन्त्राः पुनरिति * एवं तावन्मन्त्रस्वरूपस्य क्रमप्रकरणाभ्यामङ्गत्वावसायात्तस्य च निर्व्यापारस्याङ्गत्वायोगाद- वश्यकल्पोच्चारणव्यापाराङ्गीकरणात्कर्मकालोञ्चारणसिद्धिस्ताव- मन्त्रे पर्यवसानं चोक्तम् । इदानीमध्ययनविधिनापि क्रमप्रकरण- पाठार्थवत्त्वाय कर्माङ्गत्वमाक्षिपतोच्चारणं विना तदयोगात्कम्मका- लोच्चारणमात्रं कल्प्यते । तावन्मात्रत्वेन ग्रहणसंस्कार्यत्वोपपत्ते- र्थािभिधानपर्यन्तत्वं कल्पयितुं शक्यमित्याह * खाध्यायति * प्रयाजादिवाक्यानां तु काङ्गभूतपदार्थविधानार्थत्वात्तस्य च शा- स्त्रार्थावधारणकालीनत्वेन कर्मकालोच्चारणानपेक्षत्वाददृष्टार्थोच्चार- रणकल्पनं न युक्तमित्याह * प्रयाजादीति * रूपग्रहणमेव प्रसक्त- मित्यापातप्रतिभानमात्रेणोक्तं मन्त्राणां तु कर्मकालोच्चारणनिर- पेक्षार्थानभिधायकत्वादवश्यम्भाविकर्मकालोच्चारणमित्याह * न विहेति * ननु कर्मकालप्रयोज्यानां मन्त्राणामर्थाभिधानार्थता प्रती- यमाना नापह्नोतुं शक्येत्याशड्याह * शब्दे चेति * ध्यानादिनाप्य- नुतिष्ठासितार्थस्मृतिसिद्धरभिधानार्थत्वे कल्पनापत्त्यविशेषादुच्चा- रणाभिधानयो कि विवक्षितमिति सन्देहप्राथम्यावश्यकत्वाभ्यामु- च्चारणविवव न्याय्येति भावः । पूर्वपक्षमुपसंहरति * तस्मा- दिति * ननु भाष्यकृता तदेतदवगच्छाम उच्चारणमात्रेणोपकुर्व- न्तीति पूर्वपक्षं प्रतिज्ञाय कुत इति प्रश्नपूर्वकं तदर्थशास्त्रादीनि का- रणानि उक्तानि कस्मात्तत्परित्यागेन प्राथम्यावश्यकत्वादिकारणा- न्तरं भवतोक्तमत आह * तथा चेति * पूर्वोक्तन्यायेनाविवक्षिता- र्थत्वं सिद्धे तदर्थशास्त्रादीनि सूत्रभाष्यकाराभ्यां करणत्वेनोच्यन्ते लिङ्गमात्रत्वात्तेषां तस्य च न्यायप्राप्तार्थद्योतकत्वादिति भावः। परि- हारसूत्रक्रमानुसारात्पश्चादुदाहार्य्यस्यादावुदाहरणमयुक्तमाशङ्कया- न्यायसुधायाम् । ह * परिहारेति * यथा साक्षइति भाष्ये साक्षत्वमवास्तवमेव में तीतिमात्रेणोक्तमिति व्याचष्टे * यथेति * नन्वर्थवादार्थमिति भा- व्यं विधिशेषत्वं विनार्थवादत्वायोगादयुक्तमाशङ्कय व्याचष्टे * न- न्विति * न हि येनेतिभाष्यमभिमतविपरीतार्थत्वादयुक्तमाशय छित्वा व्याचष्टे * न हीति * न चेति भाष्यं व्याचष्टे * प्रदेशान्त- रस्थस्य त्विति * तथेत्युदाहरणभाष्यं व्याचष्टे * तथेति * देव- स्यत्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छ- न्दसाददेऽङ्गिरखदभ्रिरसि नारिरसि पृथिव्याःसधस्थादग्नि पुरीष्य- मङ्गिरखदाभर त्रैष्टुभेन च्छन्दसाददेऽङ्गिरसदभ्रिरसि नारिरसि त्व: था वयं सधस्थे ऽग्नि शकेम खनितुं पुरीष्यं जागतेन त्वा च्छन्दसाऽऽददे गिरखतू हस्तआधाय सविता बिभ्रदभ्रिहिरण्ययी तपाज्योतिरजस- मिदमग्निं वान्वीनआभर आनुष्टुभेन त्वा च्छन्दसा ददे ङ्गिरखदित्ये- षां चतुर्णामपि मन्त्राणामाददइत्यभिधानसामर्थ्यादेवादाने प्राप्तत्वा- दित्यर्थः । भाष्यकृता चतुः संख्यालक्षणगुणविधानार्थ पुन. श्रवण- माशझ्यान्तरेणापि वचनं तेषु चतु:संख्येत्युक्तं तदा दानाङ्गतया चतुःसख्याविधानाभ्युपगमात्ताद्रूप्येण चाप्राप्तेरयुक्तमाशय व्या- चष्टे * चतुःसंख्यापीति * अयमाशयः संख्या विधीयमाना योग्य- त्वात्परिच्छेदकतया विधीयते मन्त्रपरिच्छेदिका चेहासौ प्रतीयते न क्रिया परिच्छेदिकेति कारणमाह * न हीति * आश्रितवचनो गु- णशब्दः परिच्छंदार्थश्च गमिः नान्याश्रितो ऽन्यपरिच्छेदको भवती- त्यर्थः। क्रियाङ्गत्वमपि न सम्भवतीत्याह *नचेति मन्त्राविधानात्रा- रुणैकहायनीन्याय. सम्भवतीति भावः । अतः क्रियाङ्गत्वासम्भवातू सम्भवतश्च मन्त्रपरिच्छेदकत्वस्य पाठादेव प्राप्तेर्वचनानर्थक्यमित्युप- संहरति * तेनेति * भाष्यकृता लिङ्गाद्विकल्पप्राप्तौ समुच्चयार्थ वचनमित्याशय समुच्चयशब्दस्याभावादित्युक्तं तत्समुच्चयवाचि- त्वशब्दाद्यभावे ऽप्यरुणैकहायनीवन्मन्त्रसंख्ययोः परस्परनियमात्स- मुच्चयासिद्धरयुक्तमाशय व्याचष्टे * क्रियति * ननु विकल्पे म- न्त्राणां प्रत्येकमेकत्वाच्चतुःशब्दानुपपत्तिः स्यादित्याशय पूर्वपक्षे विकल्पाप्रसक्तेर्नैष दोष इत्याह * अस्मत्पक्षे पुनरिति * अश्वा- भिधान्युदाहरणे भाष्यकृता रशनादाने प्राप्तत्वान्मन्त्रस्य विधानान- र्थक्यमुक्त तदादानविधानेनार्थवत्त्वोपपत्तेरयुक्तमाशय व्याचष्टे * उभयोरिति * नन्विति भाष्येण परिसयार्थत्वमाशङ्कितं तदुभय- प्राप्तावकविधेः परिसख्याशब्दवाच्यत्वाद् गर्दभरशनायाश्चात्राविधे यत्वादयुक्तमाशङ्कय व्याचष्टे * परिसंख्येति * प्रथमाध्यायस्य द्वितीयः पादः । प्रवर्ते ऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्तनफला मतिः॥ इति संख्याशब्दव्याच्याया बुद्धरपि प्रवर्तनफलाया विधि- स्वाभ्युपगमात्परेश्च वर्जनार्थत्वाद् गर्दभरशनां वर्जनीयतया बोधय- तीत्युक्तं भवतीति भावः । न शक्नोतीति परिहारभाष्यं व्याख्यातु- माह * सापीति * अश्वाभिधानीमादत्त इति वचनव्यक्ती आदाने गर्दभरशनायाः परिसङ्ख्या इत्यश्वाभिधानीमितिवचनव्यक्तौ मन्त्रे रूपान्मन्त्रमर्थादादानमित्यर्थः । ननु परिसङ्घयानङ्गीकरणे वाक्यस्य का गतिरित्याशयाप्राप्तविधित्वात्पूर्वपक्षे न दोषः इत्याह * अह- थार्थत्वे त्विति * ननु परिसङ्खन्याया अपि वस्तुतो प्राप्तविधित्वान्न दोष इत्याशङ्ख्याह * यदि चेति * अश्वाभिधानीत्येकैः शब्द इतीति चापरः तयोः सम्बन्ध इति द्वन्द्वगर्भः षष्ठीसमासः मन्त्राश्वाभि- धानीसम्बन्धे सति दोषपरिहारः स्यान्न त्वसौ युक्त इति भावः । अतो प्राप्तविधित्वे ऽप्यादानवच्च मन्त्रविध्यापत्तेस्तस्य चोदेश्यत्वे- नाश्वाभिधान्या विशेष्टुमशक्यवाल्लिङ्गप्राप्त्यवैलक्षण्यादपरिहार्य- मानर्थक्यमित्याशङ्ख्याह * तेनेति * आदानव्यक्तिभेदे ऽग्यश्वाभिधा- न्या विशेषणायोगादेकेत्युक्तम् । ऐकरूप्ये ऽपि प्रकरणसंयोगभेदे पिण्डपितृयज्ञं बहिर्वन्न धर्मान्वयः स्यात् प्रकरणसंयोगाविशेषे ऽपि वा भिन्नापूर्वसंयोगे सति आज्योषधसान्नाय्यवन्न धर्मसातवें स्यातू न त्वेतदुभयमप्यस्ति प्रकृतान्यपूर्वसंयोगाविशेषादिति प्रकर- णेत्युक्तम् । अतो न प्रमाणमिति भाष्यं यद्युच्चारणमात्रेणेत्यनेन पुनरुक्तमाशय तस्योपक्रमगतत्वेन सङ्गत्यर्थत्वावधारणादस्य चोप- संहारगतत्वेन प्रयोजनकथनार्थत्वात्परिहरति * प्रयोजनमिति * इह च प्रमाणशब्दप्रयोगान्मन्त्रप्रमेयार्थान्तरसिद्धिरपि पूर्वपक्षे सूचिता तथा हि। प्रयाजादिस्मृतिलिङ्गत्वमन्त्राणां वक्ष्यते ऽत्र यत् । देवताकल्पनं यच्च मान्त्रं तस्माद्यजिश्च यः॥ मन्त्रवर्णाश्च यद्धोतुः पूर्वपानं वदिष्यते । मे देहीत्यात्मवादित्वान्मन्त्राणां याजमानता ।। करणानामायिजत्वे ऽप्यङ्गसाध्यफलस्य यत् । स्वामिगत्वं क्रियार्थस्य कर्तृगत्वं च वक्ष्यते ॥ मन्त्रक्रमानुरोधाच्च ब्राह्मणक्रमबाधनम् । छागस्य नियमो यश्च पशावूहश्च मन्त्रगः॥ तदर्थपरतायां स्यात्सर्व नैवान्यथा भवेत् ।

न्यायसुधायाम् । सर्वसाधारणत्वेन विचारस्य प्रयोजनम् ॥ कर्मकाले नुसन्धेयो मन्त्रार्थो ऽर्थपरत्वतः । इषेत्वादिषु चोच्चार्य च्छिनमीत्यादिपूर्तये ॥ असावित्यादिशब्दस्य स्थाने यद्वादि नाम च । सिद्धान्ते मन्त्रलोपश्च प्रकाश्याभाव इष्यते ॥ यथाम्नानं प्रयोगस्तु केवलोऽर्थाविवक्षणे । यदि त्वर्थपरत्वे ऽपि नैतावत् स्यात्प्रयोजनम् ॥ ततो धर्मप्रमाणत्वं मन्त्राणान्नैव सिद्ध्यति । लवनादिस्वरूपस्य प्रकाश्यत्वे हि धर्मता ॥ समीहिताङ्गताभावान्न कथं चित्प्रतीयते । अपूर्वसधिनत्वेन यद्यप्येतत्प्रकाश्यते ॥ विधिप्राप्तानुवादत्वान्न तथापि प्रमाणता। अपूर्वसाधनत्वाच्च लवनादौ समीहिते ॥ आत्मनो ऽङ्गत्वबोधेन मन्त्रः प्रामाण्यमश्नुते । अश्रुतद्रव्ययागादिकल्पनाच प्रमाणता ॥ स्फुटैवार्थपरत्वे स्यादिति सर्वमसूसुचन् ॥ नन्वर्थपरत्वाभावे विनियोजकप्रमाणाभावेनानङ्गत्वादप्रयो- एव स्यात्सद्भावे वा तद्वशात् तद्वयवस्थापत्तेर्विनियो- गाङ्गीकरणाद् बर्हिलवनसम्बन्धापह्नवो न युक्त इत्याशङ्ख्याह * तदा हीति लैङ्गिकविनियोगाभावेनाङ्गसंम्बन्धाभावे ऽपि प्राकरणिकप्रधानविनियागात्तत्प्रयोगाबाहर्भाववर्त्तित्वमात्रव- सीयतइति भावः । कीदृशं तर्हि पूर्वपक्षे मन्त्रोच्चारणा- नुष्ठान स्यादित्यपेक्षयामाह * पाठति * श्रुत्यसंयुक्तमन्त्राभिप्राय चैतत् इषेत्वादीनां छेदनादिषु विनियोगेनाङ्गकर्मानादरायोगात्सर्व- शब्दो ऽप्येवमेव व्याख्येयः । सकच्छब्देन लवनाद्यावृत्तावप्यना- त्तिरुक्ता पठित्वेति च मुखं व्यादाय स्वपितीतिवत्पूर्वकालत्वानादरेण समानकर्तृकत्वमात्राभिप्रायेणोक्तम् । सिद्धान्तासम्भवे हेतुत्वेन वा- क्यनियमं व्याख्यातुं नियतेत्यादिभाष्यं व्याचष्टे * अग्निरिति * पूर्वपक्षसाधनत्वेनैतमेव हेतुं व्याख्यातुमथेति भाष्य व्याचष्टे * य- स्य विति * नन्वर्थपत्वे ऽपि नियमादृष्टसिद्ध्यर्थ पदक्रमनियमो ऽर्थवान्भविष्यत्यत आह * अथेति * प्रत्यायनक्रमनियमस्योच्चार- णक्रमनियमाधीनत्वात्प्राथम्यावश्यकत्वाभ्यां तस्मादेवादृष्टं युक्तमि- ति भावः । नन्वित्यादिभाष्येणार्थपरेष्वपि क्रमनियमदर्शनान्न तेना- विवक्षा साधयितुं शक्यतइत्याशय विपर्यये ऽर्थप्रत्ययाभावातू ग प्रथमाध्यायस्य द्वितीयः पादः । क्रमादर इत्युक्तम् । तदिन्द्राग्निपदे विपर्यये ऽप्यर्थप्रत्ययदर्शनादयु- क्तमाशयोपलक्षणपरत्वेन व्याचष्टे *यस्त्विति* तुल्यन्यायत्वाद्भा- ध्यानुपन्यस्तप्रकृतिप्रत्ययोपन्यास.।अथशब्दप्रसङ्गं विवृणोति *अजा- दीति* इन्द्रशब्दस्याजाद्यदन्तत्वनिमित्तः पूर्वनिपातो ऽजाद्यन्तमिति स्मर्यते नीलशब्दस्य विशेषणत्वाद्विशेषणं विशेष्येण बहुलमिति पूर्व- निपातःराजशब्दस्य च षष्ठयन्तत्वात्षष्ठीति प्रथमानिर्दिष्टं समासउप- सर्जनमित्युपसर्जनं पूर्वमितिपूर्वनिपातः । चित्रशब्दस्य विशेषणत्वा- त्सप्तमीविशेषणे बहुव्रीहाविति पूर्वनिपातः । निःशब्दस्य निरादयः क्रान्ताद्यर्थे पञ्चम्यति प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः। आ- दिशब्द उदाहरणान्तरस्यापि घिसंज्ञानिमित्तपूर्वनिपातप्रदर्शनार्थ. अ- तो भवति विपर्यये प्रत्येकं पदसाधुत्वे ऽपि समासस्यापशब्दत्वमि- त्याह * तेनेति * इतिकरण प्रभृत्यर्थः राजशब्दादेरप्युपसर्जनत्वा- दिनिमित्तपूर्वनिपातस्मरणात् । नीलोत्पलराजपुरुषचित्रगुशब्दानां क्रमविपर्यये विशेषणविशेष्यभावान्यथात्वापत्तेरर्थान्यत्वमपि स्यादि- त्याह * पुरुषति * इतिकरणप्रकारवचनः निष्कौशाम्बिशब्दस्य क्रमविपर्यये निष्क्रान्तः कौशाम्ब्या इत्यस्यार्थस्याप्रतीतेरर्थान्तरे च स- मासास्मरणादसाधुत्वमानर्थक्यं च स्यादित्याह * कौशाम्बिनिरि- ति * कथं तर्हि व चिदग्नीन्द्रावितिप्रयोगो ऽत आह * यस्त्विति * ननु प्रकृतिप्रत्ययादिष्वपशब्दत्वापत्तेर्विपर्ययानाश्रयणादत्राप्यमन्त्र- त्वापत्तेस्तदनाश्रयणं भविष्यतीत्याशङ्कते * नन्विति*अर्थपरत्वाभावे ऽवयवार्थासम्भवात्समुदायप्रसिद्ध्या विशिष्टक्रमकपदसमहात्मकवा क्यविशेषस्य मन्त्रत्वावधारणाद्विपर्यये युक्तममन्त्रत्वं सति त्वर्थपरत्वे ज्ञानार्थान्मन्यतेमनोते गुपूविपतिवचियमिमनितनिसन्दिच्छदि- भ्यस्त्रन्नित्यौणादिकेत्रन्प्रत्यये कृते मन्त्रशब्दव्युत्पत्तेर्विपर्ययेऽप्यर्थज्ञा- पकत्वानपायान्मन्त्रत्वन्न नश्यतीति परिहरति * तदेवेति * एतमेव परिहारं सूत्रारूढं करोति *तेनेति* येन कारणेनार्थपरत्वे विपर्यये ऽपिमन्त्रत्वं न हीयतेतेन मन्त्रत्वप्रसिद्धौ प्रयोजनभूतायां विशिष्टपद- क्रमसमूहात्मकं वाक्यनियमादित्यपि सूत्र योज्यमित्यर्थः । सूत्रकदेशे तस्मादावर्त्तते सूत्रमितिवत्सूत्रशब्दप्रयोगो ग्रामैकदेशे ग्राम आयात इति प्रयोगदर्शनात् । यद्वाध्याहारानौचित्यमाशङ्कय सूत्रत्वाददोष इति हेतुत्वेनोक्तम् । प्रसङ्गादपरं व्याख्यानत्रयमाह * अथ वेति * बुद्धशास्त्रव्याख्यानार्थ बुद्धः खल्वपीत्यादिभाष्यं अविरुद्धद्दग्विषयप्रै- षे ऽर्थवत्त्वमम्भवादयुक्तमाशझ्याह * न हीति * ज्ञाते च वाचन न ह्यविद्वान्विहितो ऽस्तीति तृतीयाधिकरणवक्ष्यमाणन्यायेनाविदुषो

Tantravartikvyakhya

Title
Tantravartikvyakhya
File name
Tantravartikvyakhya
Text
OCR done
Published
2006
Language
Sanskrit
Pages
99
Library
Tibetian Institute, Sarnath, Vns.
Classification
Literature--sanskrit
DLI number
486544
Barcode
1990010088005.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library of India
VMLT id
eZE8CNr7pHm
Download PDF

Tantravartikvyakhya