Ramkrishna Mission Institute Of Culture, Golpark
Taittiriyopanishad Pt. 3
Front matter
No text on this page.
CHAKRISHNA WSON INTITUT
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः १२
कृष्णयजुर्वेदीया
तैत्तिरीयोपनिषत्
आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता ।
"पण्डित वामनशास्त्री इसलामपुरकर" इत्येतैः
संशोधिता।
तथा च
शंकरानन्दकृता तैत्तिरीयोपनिषद्दीपिका।
एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
तच
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
तृतीयेयमङनावृत्तिः।
DILITD
शालिवाहनशकाव्दाः १८३१
ख्रिस्ताब्दाः १९०९
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं पादोनरूपकद्वयम् ।
LIBRARY
INE
RMIC LIBRARY
ACC. No,
174787
! C1-83 No:
21 395
SA
i Cari
35;
Biu, Card;
Checknu
आदर्शपुस्तकोल्लेखपत्रिका । -:++:- . । तैत्तिरीयोपनिषद आदर्शपुस्तकानि येषां मिलितानि तेषां नामानि पुस्तकानां संज्ञाश्चाधोदेशे प्रदन्ते- क. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यम् । वैराजक्षेत्रनिवासिनां वे.शा. सं "शिवराम वीरेश्वर शास्त्री भट्ट" इत्येतेषाम् । ख. इति संज्ञितम्-मूलं सटीकं काश्यां शिलामुद्रितम् । रा. रा. “महादेव चिमणाजी आपटे" इत्येतेषाम् । मुद्रणकालः संवत १९४१ ग. इति संज्ञितम्-मूलं सटीकम् । इन्दूरपुरनिवासिनां किये इत्युपाह्वानां श्री. रा. रा. “भाउसाहेब बाळासाहेब" इत्येतेषाम् । घ. इति संज्ञितम्-मूलं सभाष्यम् । पुण्यपत्तननिवासिनां 'खाजगीवाले' इत्युपाह्वानां श्री. रा. "तात्यासाहेब" इत्येतेषाम् । ङ. इति संज्ञितम्---मूलं सभाष्यम् । पुण्यपत्तननिवासिनां ' खाजगीवाले' इत्युपाह्वानां श्री. रा. रा. "तात्यासाहेब" इत्येतेषाम् । च. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यं शिक्षाभृगुवल्लीद्वयात्मकं समूलं सटीकम् । खेडकरोपाह्वानां श्री. रा. रा. "आन्दराव लक्ष्मण (भाउसाहेब)" इत्येतेषाम् । छ. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यम् । विंचूरपुरनिवासिनां श्री.रा. रा. "रावसाहेब अण्णासाहेब" इत्येतेषाम् । ज. इति संज्ञितम्-- मूलं सटीकम् । विंचूरपुरनिवासिनां श्री. रा. रा. "राब- साहेब अण्णासाहेब" इत्येतेषाम् । झ. इति संज्ञितम्-मूलं सटीकम् । विंचूरपुरनिवानां श्री. रा.रा. साहेब अण्णासाहेब' इत्येतेषाम् । लेखनकालः शके १६३२ ञ. इति संज्ञितम्-मूलं सटीकभाष्योपेतम्। करवीरपुरनिवासिनां श्रीयुतानां वे.शा.सं. गुरुमहाराजानाम्। लेखनकालः संवत् १८६६ ट. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यम् । करवीरपुरनिवासिनां द्रविडो. पाह्वानां वे. शा. सं. रा. रा. नानाशास्त्रिणाम् । राव- (२) ठ. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यम् । समूलं सटीकम् । कलिकाता- नगरे मुदितं पुण्यपत्तननिवासिनां कै.वे.शा. सं. देवो- पाह्वबालशास्त्रिणाम् । ड. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यं सटीकम् । नागपुरनिवासिनां श्री. रा. रा. "आप्पासाहेब बुटी" इत्येतेषाम् । हैं- अथ शंकरानन्दविरचितदीपिकायाः सूचीपत्रम् । क. इति संज्ञिता--तैत्तिरीयोपनिषद्दीपिका । पुण्यपत्तननिवासिनां श्री. रा. रा. "भाऊसाहेब नगरकर" इत्येतेषाम् । ख. इति संज्ञिता-तैत्तिरीयोपनिषद्दीपिका। वटोदरनिवानां पटवर्धन इत्यु. पाहानां रा. रा. "कृष्णराव भीमाशंकर" इत्येतेषाम् । ग. इति संज्ञिता-तैत्तिरीयोपनिषद्दीपिका शिक्षाध्यायमात्रा। प्रान्तिजस- काशादागता*। घ. इति संज्ञिता-तैत्तिरीयोपनिषद्दीपिका । रा.रा. “महादेव चिमणाजी आपटे" इत्येतैः प्रेषिता+। समाप्तमिदं सूचीपत्रकम् । * एतत्स्वामिनो नाम न ज्ञायते । + एतत्पुस्तकस्यापि स्वामिनी नाम न ज्ञातन् ।
ॐ तत्सब्रह्मणे नमः। कृष्णयजुर्वेदीयतैत्तिरीयारण्यकान्तर्गता तैत्तिरीयोपनिषत् आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। यत्प्रकाशसुखाभिन्नं यन्मन्त्रेण प्रकाशितम् । विवृतं ब्राह्मणे तस्स्यामदृश्यं ब्रह्म निर्भयम् ॥ १ ॥ युर्वेदशाखाभेदं तैत्तिरीयकोपनिषदं व्याचिख्यासुभगवान्भाष्यकारस्तत्प्रतिपाथं ब्रह्म मग- सन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षितं, सत्यज्ञानादिना च सिपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन संक्षेपतो दर्शयति-- यस्माजातं जगत्सवं यस्मिन्नेव प्रलीयते । येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥१॥ यस्माज्जातमिति । निमित्तोपादानत्वयोः पञ्चम्याः साधारण्यादुभयविधमपि हेतुत्वे- विवक्षितम् । कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह-यस्मिन्निति। र्यसाधारणस्य निमित्त धर्मादावपि प्रसिद्धत्वात्साधारणकारणत्वमाह-येनेति । ज्ञाना- जन इति स्वरूपलक्षणसूचनम् ॥ १ ॥ गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनस्वं ख्यापयितुं गुरून्प्रणमति- रिमे गुरुभिः पूर्व पदवाक्यप्रमाणतः । व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥२॥ यैरिति । पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इति ॥ २॥ चिकीर्षितं निर्दिशति- तैत्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥३॥ १ ख. ग. च. ज.म. ट. यन्मात्रेण । २ ख. ग. च.°रबले । ३ क. घ. च. छ. न. म. विधीय । म. व विली । ४ क. ख. ग. ज. ट. °पि कारणत्व । ५ क. स. ग. च. ज . .. त्वमिहावि। ६ क. ख. ग. च. ज. ट. तेऽपि ध। ७ क. ख. ग. च. न. ट. मोदी प्र। . स. ग. न. रणं का।९ म. णमाम्यह। १० क. स. ग. घ. ज. र. इमर्थः ॥ २ ॥ "स. ग. च. दर्शयति ।
१ ४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- (शीक्षाध्याये- तैत्तिरीयकेति । व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसंभवास्पैदस्मारितपदार्थानां संसर्ग- स्यैव वाक्यार्थत्वात्सूत्रकारेणोपनिषत्तात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्या- शङ्कयाऽऽह-विस्पष्टार्थेति । मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासंभवादुपनिष- द्गतनिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषामुपकारायेत्यर्थः ॥ ३ ॥ नित्यान्यधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि, काम्यानि.च फला- र्थिनां पूर्वस्मिन्यन्थे। कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव संभषास्Y- थग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह-नित्यानीति । " अथातो धर्मजिज्ञासा ” इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि संचितदुरितक्षयार्थानि " धर्मेण पापमपनुति " इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तब्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि नि.श्रेयसार्थानि । " स्वर्गकामः पशुकामः " इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्मणां फलमित्यर्थः । इदानी कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते। कुर्महेतुः कामः स्यात् । प्रवर्तकत्वात् । आधकामानां हि कामाभावे स्वात्मन्यवस्था- नात्प्रवृत्त्यनुपपचिः । आत्सकामत्वे चाऽऽप्तकामता । आत्मा हि ब्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अतोऽविद्यानिवृत्ती स्वात्मन्यवस्थानं परमाप्तिः । “ अभयं प्रतिष्ट्रां विन्दते एतमानन्दमयमात्मानमुपसं- कामति" इत्यादिश्रुतेः। कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह-इदानी मिति । कर्मणामुपादा- नेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्प्रन्थ औरभ्यते । अतः सनिदानकर्मोन्मू- लनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः । कर्मानुष्ठाने हेतुनियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्कयाऽऽह--कर्महेतुरिति । अस्येदं साधनमि- त्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तक[त्व] संभावनाऽपीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः । कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह-आप्तेति । अभिलषितविषयप्राप्तिः कामनिवृत्तौ १ ज. र्थसंस्मृ । २ क.ट. त्पदैः संस्मा। ख. ज. पदैः स्मा। ३ झ. दार्थमं । ४ झ. रेणाप । ५ स्व. ग. च. ज. झ. ट, नां निविशि। ६ ट. इतिव। ७ घ. छ. ज. तु नि. वृत्यर्थ ।। ८ ग. च. वेनाऽऽ | ९.तः । ननु का । १० कः ख. ग. च. ज. स. र. भण उपा'।११झ. प्रारभ्यते । ० १प्रथमोऽनुवाक:] तैत्तिरीयोपनिषत् । ३ हेतुः । न विद्या । अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्कयाऽऽह-आत्मका- मत्वे चेति । कामितविषयप्राप्स्या कामस्य तात्कालिकोपशममात्रं नतूच्छेदः । पुनर्विष- याकाङ्क्षादिदर्शनात् । आत्मकार्मेनाऽपि निरङ्कुशाऽऽस्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपाss- स्मकामत्वे सति भवति । कॉमितेच्छाभावात् । आत्मनो ह्यद्वयानन्दरूपमजाननेव व्यतिरिक्त विषयं पश्यन्कामयते । ततः कामस्याऽऽस्माविद्यामूलस्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः । भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राऽऽह- आत्मेति । आनन्दमयं परमात्मानमादाय श्रुतिरुदाहृता । कास्यप्रतिषिद्धयोरनारम्भ दारब्धंस्य चोपभोगेन क्षयान्नित्यानुष्ठाने प्रत्यवायाभावादयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा निरतिशे- यायाः प्रीते: स्वर्गशब्दवाच्यायाः कर्महेतुत्वाकर्मभ्य एवं मोक्ष इति चेन्न । कर्मानेकत्वात् । अनेकानि घारब्ध फलान्यनारब्धफलानि चानेक- जन्मान्तरकृतानि विरुद्धफलानि कर्माणि संभवन्ति । अतस्तेष्वनारब्ध- फलानामेकस्मिञ्जन्मन्युपभोगक्षयासंभवाच्छेषकर्मनिमित्तशरीरारम्भोप- पत्तिः कर्मशेषसद्धावसिद्धिश्च । व, इह रमणीयचरणाः " " ततः शेषेण " इत्यादिश्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षया- थानि नित्यानीति चेन । अकरणे प्रत्यवायश्रवणात् । प्रत्यवायशब्दो ह्यनिष्टविषयः । नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्याऽऽगा- मिनः परिहारार्थानि बित्यानीत्यभ्युपगमान्नानारब्धफल कर्मक्षयार्थानि । यदि नामानारब्धकर्मक्षयार्थानि. नित्यानि कर्माणि तथाऽप्य द्धमेव क्षपयेयुर्न शुद्धम् । विरोधाभावात् । न हीष्टफलस्य कर्मणः शुद्धरूप- त्वान्नित्यर्विरोध उपपद्यते । शुद्धाशुद्धयोहि विरोधो युक्तः । एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसंभाव्यमाननिःश्रेयसप्रयोजनत्वाञ्चोपनिषदो व्या- ख्यारम्भं संभाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति-काश्यप्रतिपिद्धयोरिति । आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव १ ग. च.खेनेति । २ ख. ग. च. ज. प्राप्ती का। ३ क. ख. ग. च. ज. ट. °क्षाद। ४ क. ख. झ. ट. मताऽपि । ५ क. ख. ज. द. कामयितव्याभावादेवाऽऽत्मानं ह्य। ६ ह. स्मात्प्रार। ७ इ. 'धयोश्चोर। ८ ख. ग. घ. च. छ ज. स. भोगक्ष । ९ इ. न च । १. क. झ. स्वात्माव। ११ ङ. च. शूयी । १२ ञ. धर्मफ.। १३ घ. संभव। १४ क. अदिह । १५ क. कु. अ. 'तः कर्म । १६ अ. दिस्मृति । १७ रु. यस्यासखरू । १८ ख. ग. च. शुभुमे । १९ घ. पुनः ।। २० ख. ग. घ. कु. च. छ. अ. ट. शद्धिरू। २१ घ. . छ ट. शुद्धयशुद्धयोईि । २२ घ. छ. नरार ।
। आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः । मतान्तरमाह-अथवेति । यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं निरतिशयप्रीतेः । स्वर्गपदार्थस्य मोक्षादन्यत्रासंभवास्सति शरीरे क्लेशावश्यंभावादित्यर्थः । ऐकभविकपक्षमाद्यं मतं प्रत्याख्याति–नेत्यादिना । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि संचितस्यानेकस्य संभ. वाद्धेस्वभावोऽसिद्ध इत्यर्थः । प्रायेणानभिव्यक्तानि सर्वाण्येव कर्माणि संभूयै शरीरमारभन्ते, तत्र सर्वेषामुपभोगेन क्षयि(पि)तत्वात्संचितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम्-विरु- द्धफलानीति । स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासं- भवास्पायेणास्य सर्वाभिव्यञ्जकत्वे प्रमाणाभावाहलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं संभवती- त्यर्थः । संभावनामासमेतन्नात्र प्रमाणमस्तीत्याशङ्कयाऽऽह-कर्मशेषेति । प्रेत्य स्वकं कर्मानुभूय ततः शेषेण जन्म प्रतिपय॑न्त इति स्वर्गादवरोहतां कर्मशेष(ष)सद्भावं दर्शयती- स्यर्थः । संचितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह-इष्टेति । एतेंद्र- (भा)ट्टानां सिद्धान्तविरुद्धमित्याह-नेति । मुमुक्षुणाऽनुष्ठितस्य नित्यादेः संचितकर्मक्ष- यार्थस्वाम्युपगमेऽपि नाभिमतसिद्धिरित्याह---यदि नामेति । न च कर्महेतूनां कामानां ज्ञानामावे निवृत्त्यसंभवादशेषकर्मक्षयोप- पत्तिः । अनात्मविदो हि कामोऽनात्मफलविषयत्वात्स्वात्मनि च कामा- नुपपत्तिनित्यप्राप्त्वात्स्वयं चाऽऽत्मा परं ब्रह्मेत्युक्तम् । नित्यानां चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति “अकुर्वन्वि- हितं कर्म " इति हि शतुर्नानुपपत्तिः । यच्चोक्तं " मुमुक्षुः काम्यानि वर्जयेत् " इति तदप्यसति विवेकवले दुर्घटम् । सति मूलाज्ञाने कामोद्भवस्य दुर्निवारस्वादित्याहन च कर्महेतूनामिति । ननु कामो नाज्ञानमूलः । आत्मविदामपि कामदर्शनादित्यत आह–स्वात्मनि चेति । सर्व आत्मति पश्यतां तत्त्वतो विषयाभावादव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामा- भास एव । वास्तवाभिनिवेशाभावादित्यर्थः । तेषामप्यचिरादिमार्गेण ब्रह्मप्राप्तेः कामनाs- स्तीति नाऽऽशङ्कनीयमित्याह-स्वयं चेति । यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह-नित्यानां चेति । आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । " पापः पापेन " इति श्रुतेः । निषिद्धाचरणनिमित्तत्वादुः- खस्येत्यर्थः । । १ ख. ': । एक । २ क. ख. ग. च. ज. स. ट. स्वकर्षफलमनु । ३ ज. स. यत । ज झ. हणं कुर्व । ५ घ. ङ, छ. 'तद्भरिनां । .
१प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ५ नन "अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जश्चेन्द्रियार्येषु नरः पतनमृच्छति" ॥ इति शतृप्रत्ययादकरणस्यापि' प्रत्यवायनिमित्तस्वमवगतमित्याशङ्कयाऽऽह-अतः पूर्वेति । यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यत्तदा संचितदुरितक्षयोऽभविष्यत् । न चायं विहितमकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टलक्ष्यते । यों विचिकित्स- श्रोत्रिय इति । ततः शतृप्रत्ययस्यान्यों व्युत्पन्नत्वान्न तबलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः। अन्यथाऽभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । अतोऽय- लतः स्वासन्यवस्थातमित्यनुपपन्नम् । ननु-लक्षणहेस्वोः क्रियाया इति शतृप्रत्ययस्योभयन्न विधाने सति किमिति हेतुस्व- मेव न गृह्यते तत्राऽऽह—अन्यथेति । भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवंगतं, शतृप्रत्ययादमावस्य हेतुस्वाभिधाने सर्वप्रमाणविरांधः स्यादित्यर्थः । स्वयाऽप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाद्देश्चानुपलम्भस्याभावप्रमितिहेतु- स्वभिण्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तरकार्यव्यवस्थापक- स्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम्-'भावो यथा तथाऽभावः कारणं कार्यवन्मतम्" इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टम् । किंतु तज्ज्ञानस्य प्रत्यवायगमकस्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकस्वमिष्यते । नित्या- करणज्ञाने प्रत्यवायाँभावप्रसमात् । भाट्टानामपि च केषांचिज्ज्ञानस्य योग्यामुपलम्भस्याभा- वप्रमितिहेतुध्वंसतया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिवन्धकाभावस्य कारणस्वेऽन्योन्याश्रयत्वप्रसन्जान्न प्रामाणिकरवम् । प्रागभावस्यापि ज्ञातरूपण नैन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽऽसीत्तस्मादिदानीं नातमिति । न तु मनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणस्वे प्राकालस्य स्ववृत्तितापातः । प्राग्भा- वित्वमपि चान्यथासिद्धमित्युक्तं तत्त्वालोके । यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थ न नित्यं कर्म किंतु " कर्मणा पितृलोकः । सर्व एते पुण्यलोका भवन्ति " इति श्रुतेः पितृलोकप्राप्तिफलम्, तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह-अयत्नत इति । गुच्चोक्तं निरतिशयप्रीते: स्वर्गशब्दवाच्यायाः कुर्मनिमित्तत्वात्कर्मा- १ क ख. ग. च. ज. झ. ट. °पि न प्र। २ क. ख. ग. च. ट. बांदतः । ३ क. ब. ग. चम. ट. वायी भ° । ख. ग. च. ज. °थाऽवि । ५ क. स्त्र. ग. ज. ट. थाऽप्युपपन्न । ६ स. ग. घ. स. च. छ. म. को । ७ क. ख. ग. च. ज. ट. °वधारितं। क. णत्वं कथमि। ९ घ... रणे ने । १. झ. यासंभव । ११ क. स. ग. च. ज. स. ट. °त वसत्तया । १२ क. ख. ग. प. च. ज. स. ट. जन्मज्ञः । १३ स. पि नान्य।
आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- रैब्ध एव मोक्ष इति । तन्न । नित्यत्वान्मोक्षस्य । न हि नित्यं किंचि- दारभ्यते । लोके यदारब्धं तदतिव्यमिति । अतो न कर्मारब्धो मोक्षः। विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यमिति चेत् । न । विरोधात् । नित्यं चाऽऽरभ्यत इति विरुद्धम् । विनष्टं तदेवं नोत्पद्यत इति । प्रध्वं- साभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेन्न । मोक्षस्य भावरूपत्वात्। प्रध्वंसाभावोऽप्यारभ्यत इत्यभावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी प्रभावः। द्वितीयमतमनूध दूषयति-पच्चोतमित्यादिना । विद्यासहितेनापि कर्मणाऽऽर- भ्यश्चेन्मोक्षस्तीनित्य एव । यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिमाझं मन्वानः शङ्कते-यद्विनष्टमिति । भावरूपत्वादिति । यद्भावरूपं कार्य तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यस्व- मभ्युपगम्य यत्प्रवंसातिरिक्तकार्य तदनित्यमिति व्याप्तिाख्यातैव । वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह-प्रध्वंसेति । जन्याश्रयत्वं तावत्प्रज्वंसस्य । न कार्यत्वम् । जने - रुक्ते (क्ते भा )वविकारत्वाम्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तद्- नभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन संबन्धाभावात् । अवच्छेदावेच्छेदकभावस्यै समवा- यमूलस्वात्संबन्धान्तरमूलकत्वदर्शनादुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यस्वं कल्पनामात्रपरमिति भावः । किंच, भभावस्याभावविशेपमात्रस्वभावत्वाद्भावविरोधित्वाञ्च न भावरूपो धर्मः संभवतीत्याह-मावेति। यथा ह्यभिन्नोऽपि भाबो घटपटादिभिर्विशेष्यते । अभिन्न एव घट- भावः पदभाव इत्येवं निर्विशेषो भावाभावः क्रियाशुणयोगाद्रव्यादिव- द्विकल्प्यते । न ह्यभाव उत्पलादिवंद्विशेषणसहभावी। विशेषणवत्त्वे भाव एव स्यात् । विद्याकर्मकर्तृनित्यत्वाद्विद्याकर्मसंतानजनितमोक्षनित्यत्व- मिति चेन्न । गङ्गास्रोतोवत्कर्तुत्वस्य दुःखरूपत्वात् । कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मादविद्याकामकर्मोपादानहेतुनिवृत्ती स्वात्मन्यव- ३ क. - १ . छ. न. ट. रिभ्य ए°। २ क. ख. ग. घ. उ. च. छ. न. ट. रभ्यो मो। ख. ग. घ. रु. च. अ. ति च वि° । ४ क. ख. ग च. यद्धि न । ५ क. व च नो । ६ ध. 7. ज. स. एव थे। ७ क. स. च. ज. झ. यद्धि न । ८ ख. ग. च. ज. °स्तद्वन्मोक्ष। ९ क. स्व. ग. च. म. ट ख्याता । व°। १० क. ख. ग. च. ज. ट. °व । परमार्थतस्तु प्र°। ११ क. ख. ग. च. ज. स. ट. °च्छेद्याव। १३ क. ख. ग. च. ज. स. ट.स्य संबन्धस। १७ क. ग. . च. म. ट. प्रोऽपि भा । इ. 'पोऽप्यभा । १४ क. व सहभावी विशेषणेन वि। १५.. सहनिले भा।
3 १ प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । स्थानं मोक्ष इति । स्वयं चाऽऽत्मा ब्रह्म तद्विज्ञानादविद्यानिवृत्तिोक्ष इति ब्रह्मविद्यार्थोपनिषदारभ्यते । ननु-अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः । प्रध्वंसादयस्तु नित्याः । ततः कथं निर्विशेषत्वमित्याङ्कयाऽऽह-यथा हीति' । भावप्रत्ययस्यैकाकारस्वादेक एवं भावाभाव(वोऽव)च्छेदकभेदाद्भिन्न इव प्रकाशते । तथा निषेधप्रत्ययस्यैकाकार- स्वादेक एवाभावोऽवच्छेदकभेदाद्भिन्न इव प्रकाशते । जायते नश्यति चेति क्रियायो- गात्संख्यागुणयोगाद्व्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः । इतश्च न तत्त्वतः सविशेष इत्याह-न हीति । विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यस्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावस्वव्याघाताद्भावाभाषयोः सोनवस्था- नरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः । एवं प्रध्वंसदृष्टान्तेन शखितं नित्यत्वं परिहत्य प्रकारान्तरेणाऽऽ- शेङ्का निषेधति विद्याकर्मेत्यादिना । विद्याकर्मणोः कर्ता नित्य इति साधनसा- तल्यात्साध्यसातत्यं न वाच्यम् । कर्तृत्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च सातत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मानिःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः। उपनिषदिति विद्योच्यते । तच्छीलिनां गर्मजन्मजरादिनिशातनात्तु- दुवसादनाद्वा ब्रह्मणो वोपनिगमयितृत्वादुपनिषण्णं वाऽस्यां परं श्रेय इति । तदर्थत्वाद्ग्रन्थोऽप्युपनिषत् । ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह- उपनिषदिति । निशातनाच्छिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां पुरं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः । हरिःॐ । शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । शं सुखं प्राणवृत्तेरहश्चाभिमानी देवतात्मा मित्रो नोऽस्माकं भवतु । साधन- - १ क. ख. ग.न. ज... ति । विधिप। २ क. ख. ग. ज. स.ट. व भावो यथा भा।३ ग. घ. झ मेदाभिन्न ।' स. ग. च. ट. हाव। ५ क. ख. ग. च. सट. श्य नि°1६ क. स. ट. °न सातत्या।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- तथैवापानवृत्ते रत्रिश्चाभिमानी देवतात्मा वरुणः । चक्षुष्यादित्ये चामि- मान्यर्यमा । बल हन्दः । वाचि बुद्धौ च बृहस्पतिः । विष्णुरुरुकमो विस्तीर्णकमः पादयोरभिमानी । एवमध्यात्मदेवताः । शं नो भवत्विति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवणधारणोपयोगा अप्र- तिबन्धेन भविष्यन्तीति तत्सुखकर्तृत्वं प्रार्यते- जो भवत्विति । एवमुपनिषदां व्याख्यारम्भं संभाव्य प्रसिर्पदम्याख्यामारभते-शं मुखमित्यादिना । शं नो मवत्विति । मुखकद्भववित्यर्थः । अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्यत्वं किमिति प्रार्थ्यते तत्राऽऽह--तास हीति । श्रवणं गुरुपादोपसर्पणपूर्वक वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणम् । उपयोगः शिष्येभ्यो निवेदनम् । नमो ब्रह्मणे । नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तार- मवतु। अवतु माम् । अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः ॥ सत्यं वदिष्यामि पञ्च च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये प्रथमोऽनुवाकः ॥१॥ बझै विविदिषुणा नमस्कारवन्दनक्रिये वायुविषये ब्रह्मविद्योपसर्ग- शान्त्यर्थं क्रियते । सर्वक्रियाफलानां तदधीनत्वाद्ब्रह्म वायुस्तस्मै ब्रह्मणे नमः । प्रह्वीमावं करोमीति वाक्यशेषः । नमस्ते तुभ्यं हे वायो । नमस्क- रोमीति पुरोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किंच खमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात्तस्मात्त्वामेव प्रत्यक्षं बह्म वदिष्यामि । ऋतं. यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थ १५.रभि । २ स. ग. घ. वाद्याध्या । ३ ख. ग. च. स. °षदो व्या । ४. स. ग, च. अ. पदं व्या ।५ क. स. ग. च. ज.ट. कृत्वं कि । ६. स. ज. स.विद्यावि. विदि।
२द्वितीयोऽनुवाक:] तैत्तिरीयोपनिषत् । तदपि त्वदधीनत्वात्त्वामेव वदिष्यामि । सत्यमिति वाकायाभ्यां संपाद्य- मानः सोऽपि त्वदधीन एव संपाद्य इति त्वामेव सत्यं वदिष्यामि । तत्सर्वात्मकं वाय्वाख्यं ब्रह्म मयैव स्तुतं सन्मां विद्यार्थिनमुक्त विद्या- संयोजनेन । तुदेव ब्रह्म वक्तारमाचार्य वक्तृत्वसामर्थ्यसंयोजनेनावतु । मामवतु वक्तारमिति पुनर्वचनमादरार्थम् । ॐ शान्तिः शान्तिः शान्ति- रिति त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपस- र्गाणां प्रशमार्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृती वैतिरीयोपनिषच्छीक्षाध्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ भन्यद्ब्रह्म वायुश्चान्य इति नाऽऽशङ्कनीयमित्याह--परोक्षेति । ब्रह्मोति परोक्षण स ब्रह्मेत्याचक्षत इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्ष- स्वादित्यर्थः । यद्यपि सूत्रात्मरूपेण वायुः परोक्षस्तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मश- ब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह--किंचेति । बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्य- वहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः संनिहितश्च भोक्तुरिति चक्षुराधपेक्षया प्रत्यक्ष इत्यर्थः । बृंहणाद्ब्रह्म । प्राणकृतेन श्वसनादिना शरीरादेव॒हणं प्रसिद्धमित्यर्थः । यथा राज्ञो दौवारिकं कश्चिद्राजदिदृक्षुराह त्वमेव राजेति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्द ब्रह्म दिदृक्षुर्मुमुक्षुराह-वामेव प्रत्यक्षं ब्रह्म वदिष्यामीति । ब्रह्मवदनक्रिया प्राण- देवतास्तुत्यर्था । स्तुत्यन्तरमाह-ऋतमित्यादिना ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवरिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ शीक्षाध्याये द्वितीयोऽनुवाकः । ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः(१)। शीक्षा पञ्च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ - १ क. ख. ज. ट. ब्रह्मण इ। २ क. ख. ग. च. ज. स. ठ. °णरू १० आनन्दगिरिकृतटीकासंवलितांकरमाष्यसमेता-शीक्षाध्याये- अर्थज्ञानप्रधानस्वादुपनिषदो ग्रन्थपाठे यनोपरमो मा भूदिति शीक्षाध्याय आरभ्यते-शिक्षा शिक्ष्यतेऽनयेति वर्णाधुञ्चारणलक्षणम् । शिक्ष्यन्त इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दैध्य छान्दसम् । तां शीक्षा व्याख्यास्यामो विस्पष्टमा समन्तात्कथयिग्यामः। चक्षिको वा ख्यात्रादिष्टस्य यापूर्वस्य व्यक्तत्वोत्क(वाक्क)मण एतदूपम् । तत्र वर्णोऽकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्न. विशेषः । साम वर्णानां मध्यमवृत्त्योचारणं समता । संतानः संततिः । संहितेत्यर्थः । एष हि शिक्षितव्योऽर्थः । शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्याय इत्येवमुक्त उदित उक्त प्रत्युपसंहार उत्तरार्थः॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- रभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाप्ये द्वितीयोऽनुवाकः ॥ २ ॥ यत्नोपरम इति । स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितासि- द्विरेव न स्यात् । "मन्त्रो होनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तैमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् " इति ॥ लक्षणमिति । लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा, इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युत्पत्तिरेव शिक्षाशब्दम्य ग्राह्या । [रूपमिति] "चक्षिङः ख्याञ्" "वा लिटि" इति सूत्रेण ख्यानादिष्टो यस्तस्येदं रूपं न "ख्या प्रकथने" इत्यम्य सोपसर्गस्य, प्रयोगानभिधानादित्यर्थः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी. योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ शीक्षाध्याये तृतीयोऽनुवाकः । सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अधुनम संहितोपनिषदुच्यते । नत्र संहितायुपनिषत्परिज्ञाननिमित्तं ११. तात्प्रल्यायि । २ क. ख. ग. . च. छ. ट. त्वाद्वाकर्म। ३ ख. ग. च. ज. अनादिप्र । ४ क. ग. च. ज. स. ट. भूत् ।। ५ ग. च. तदर्थ । ६ क. स. ग. च. ज. ट.थन एतस्य सो।
३तृतीयोऽनुवाका तैत्तिरीयोपनिषत् । ११ ययाः पार्थ्यते तनावावयोः शिष्याचार्ययोः सहैवास्तु । तन्निमित्तं च यद्रह्मवर्जसं तेजस्तञ्च सहवास्त्विति शिष्यवचनमाशीः । शिष्यस्य यकृतार्थत्वात्प्रार्थनोपपद्यते नाऽऽचार्यस्य । कृतार्थत्वात् । कृतार्थो- शाचार्यो नाम भवति । संहिता वर्णानां संनिकर्षस्तद्विषयमुपासनं प्रथमं कैथ्यत इत्याह-अधुनेति । संनि- धानाच्च स्वशाखाँसंहितैव ग्राह्या । शं नो. मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः । संहितो- पनिषच्छेषमाशीर्वादान्तरमाह-तवेति । अथातः सहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वाधिकरणेषु । अघिलोकमधिज्यौतिषम- धिविद्यमधिप्रजमध्यात्मम् । ता महासहिता इत्याचक्षते । अाधिलोकम् । पृथिवी पूर्वरू- पम् । योरुत्तररूपम् । आकाशः संधिः (१)। अथानन्तरमध्ययनलक्षणविधानस्य, यतोऽत्यर्थ ग्रन्थमाविता बुद्धिर्न शक्यते सहसाऽर्थज्ञानविषयेऽवतारयितुमित्यतः संहिताया उपनिषदं संहिताविषयं दर्शनमित्येतद्वन्थसंनिकृष्टामेव व्याख्यास्यामः । पञ्च- स्वधिकरणेवाश्रयेषु ज्ञानविषयेष्वित्यर्थः । कानि तानीत्याह-अधि. लोकं लोकेष्वधि यदर्शनं तदधिलोकम् । तथाऽधिज्यौतिषमधिविद्यम- धिप्रजमध्यात्ममिति । ता एताः पञ्चविपया उपनिषदो लोकादिमहा- वस्तुविषयत्वात्संहिताविषयत्वाञ्च महत्यश्च ताः संहितार्थे महासंहिता इत्याचक्षते कथयन्ति वेदविदः। अथ तासां यथोपन्यस्तानामधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थोऽथशब्दः सर्वत्र । पृथिवी पूर्वरूपं पूर्वो वर्णः पूर्वरूपम् । संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति। तथा चोत्तररूपमांकाशोऽन्तरिक्षलोकः । संधिर्मध्यं पूर्वोत्तररूपयोः,संधी- येते अस्मिन्पूर्वोत्तररूपे इति ॥ , १ क. स. ग. च. छ. म. ट. र. प्राप्यते । २. कल्प्यत । ३ ख. ग. च. ज. खास. निहित 1 क. व. ग. च. ज. ट. त्याद्या आशीर्वादाः कृ । ५ क. ग. घ. उ. च. छ. ज. ट. ध ताम। ६ घ.न्ति वेदब्रह्मावि । छ. ट.न्ति ब्रह्मवि । ७ रु. दः । दर्शनक्रमविषया अपशब्दः । अ।
। - १२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- शिक्षाध्याये- वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह- यतोऽत्यर्थमिति । पञ्चस्विति सप्तमी तृतीयाथै विपरिणेया । अधिकरणशब्दश्च विषयप- र्यायः । पञ्चभिः पदार्थविशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शन(न!)प्रतिमायामित्यर्थः । लोकेष्वधीति । लोकानधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः पित्रादिर्विवक्षितः । अध्यात्म- मिति । आत्मानं भोक्तारमधिकृत्य यतते निहादि तद्विवक्षितम् । सर्वत्र तत्तदभिमा- निनी देवतैव ग्राह्या । अन्यस्योपास्यत्वासंभवादिति । विधिशेषमर्थवादमाह-ता पता इति । संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः । कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह-अथ तासामित्यादिना । कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यं- भाविनि क्रमे विशेषनियर्मार्थोऽथशब्दः । वायुः संधानम् । इत्यधिलोकम् । अाधि- ज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्त- ररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्योतिषम् । अाधिविद्यम् । आचार्यः पूर्वरूपम् (२) । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचन५ संधानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररू- पम् । प्रजा संधिः। प्रजनन संधानम् । इत्य- धिप्रजम् (३) अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुचररूपम् । वाक्संधिः । जिहाँ संधानम् । इत्यध्यात्मम्। - १ क. ख. ग. च. च ट. षु कर्तव्यम् । २ क. ख. ग. च. ज. ट. 'यत्वं नेत्य । ३ घ. 6. छ. म.स्य यो वर्तते जिह्वादिः स विवक्षितः ।स। ४ ख, ग. च. ट. ऋमवि । ५ क. ख. ग. च. ज. ट. °मार्था अथशब्दाः । ।
३तृतीयोऽनुवाकः] तैत्तिरीयोपनिषत् । १३ वायुः संधानम् । संधीयतेऽनेनेति संधानम् । इत्यधिलोकं दर्शनमु- तम् । अथाधिज्यौतिषमित्यादि समानम् । इतीमा महासहिताः। य एवमेता महासहिता व्याख्याता वेद । संघीयते प्रजया पशुभिः । ब्रह्मवर्चसेनानायेन सुवार्येणं लोकेन (४)॥ संधिराचार्यः पूर्वरूपमित्यधिप्रजं लोकेन । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३॥ इतीमा इत्युक्ता उपप्रदर्श्यन्ते । यः कश्चिदेवमेता महासंहिता व्याख्याता वेदोपास्ते । वेदेत्युपासनं स्याद्विज्ञानाधिकारात् " इति पाचीनयोग्योपास्स्व" इति च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्ययसंततिरसंकीर्णा चातत्प्रत्ययैः शास्त्रोक्तालम्बनविपया च । प्रसिद्धश्चोपासनशब्दार्थो लोके गुरुमुपासते(स्ते), राजानमुपास्त इति, यो हि गुर्वादीन्संततमुपचरति स उपारत इत्युच्यते । स च फलमानो- युपासनस्य । अतोऽत्रापि च स .वं वेद संधीयते प्रजादिभिः स्वर्गान्तः पजादिफलान्यानोतीत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभग- वतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाप्ये तृतीयोऽनुवाकः ॥ ३॥ " हृदयस्यानेऽवद्यत्यथ निहाया अथ वक्षमः " इतिवदुपप्रदर्यन्ते परामृश्यन्ते । अधिकारविधिप्रदर्शनाय यथा दर्शादयः षड्यागाः समुच्चिताः फलसाधनमधिका- शेनाभेदात् , तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह- में कथिदित्यादिना । फलकामिनाऽनुष्ठीयमानं संहितोपासनं कामितफलाय भवति । कलानभिसंधिना स्वनुष्ठीयमानं ब्रह्मविद्यार्थ भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमशक्य- वान्मेधाकामस्य जपोऽपि ब्रह्मविद्यार्थों भवति । श्रीविहीनेन सत्त्वशुद्धयर्थ यागाद्यनु- -- १ ज. स. ण च । अतस्तत्त । २ क. ख, ग, सिया शा। ३. सिद्धो छुपा । । घ. B. ट. लोकं । ५ घ. ङ, छ. न. प्रत्यथ ।
१४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-शीक्षाध्याये- छोतुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तापर्य विद्यासंनिधिसमानातानां सर्वत्र द्रष्टव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दधानविरचितम्यां तैत्तिरीयोपनि- पच्छांकरभाध्य टीका शीक्षाध्याये तृतीयोऽनुवाकः । १॥ अथ शीक्षाध्याय चतुर्थोऽनुषाकः । " यश्छन्दसामृषभो विश्वरूपः । छन्दो- योऽध्यमृतात्संबभूव । स मेन्दो मेधयो स्पृणोतु।अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । नश्छन्दसामिति । मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधन जपहोमावुच्यते। स मेन्द्रो मेधया स्पृणोतु " "ततो मे नियमावह" इति च लिङ्गदर्शनात् । अश्छन्दसां वेदानामृषभ इवर्षभः प्राधान्यात् । विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तेः, तद्यथा शडना" इत्यादिश्रुत्य- न्तरात् । अत एवषमत्वमोंकारस्य । ओंकारो ह्यत्रोपास्य इति ऋषमा- दिशब्दैः स्तुतिाय्यैवोंकारस्य । छन्दोभ्यो वेदेभ्यो वेदा ह्यमृतं तस्मा- दमुताधिसंबभूव । लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापते- स्तपस्यत ओंकारः सारिष्ठत्वेन प्रत्यमादित्यर्थः । न हि नित्यस्योंकार- स्याञ्जसैवोत्पत्तिरेव कल्प्यते । स एवंभूत ओंकार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा । प्रज्ञावलं हि प्रौर्यते । अमृतस्यामृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य तदधिकारात , हे देव धारणो धारयिता भूयासं भवेयम् । किंच शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् । भूयादिति प्रथमपुरुषविपरिणामः । अवान्तरतास्पर्यमभिप्रेत्याऽऽह--यश्छन्दसामित्यादिना । संबभूवेति मन्मवाचके पदे श्रूयमाणे किमिति " प्रजापतिलोंकानभ्यतपत् " इत्यादिश्रुत्यन्तरानुसारेणाऽऽत्मज्ञा- १६.स. ग. च ज. ठ. 'धातुमशक्यत्वादिति । २ छ. जम. म. त्तिरिय । ३ ज.. प्रार्थयते । ४ क.स.ग. च. रण कार्यश्रेष्ठत्वेनाऽऽस्म ।
४चतुर्थोऽनुवाक: तैत्तिरीयोपनिषत् । १५ नयोग्यकार्यश्रेष्ठस्वेन प्रतिमानं व्याख्यायते तत्राऽऽह-न हीति । पुरुषविपरिणाम इति । भूयाप्तमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं में गोपाय । आवहन्ती वितन्वाना (१)। कुर्वाणाऽचीरमात्मनः। जिहा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः। कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यव(?) श्रोता भूयासमित्यर्थः । आत्मज्ञा- नयोग्यः कार्यकारणसंघातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते । ब्रह्मणः परमात्मनः कोशोऽसि । असेरिवोपलब्ध्यधिष्ठानत्वात् । त्वं हि ब्रह्मणः प्रतीकं त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकमज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुवं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष । तत्माप्त्यविस्मरणादि कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । होमार्थास्त्वधुनो श्रीका- मस्य मन्त्रा उच्यन्ते । आवहन्त्यानयन्ती । वितन्वाना विस्तारयन्ती। तनोतेस्तत्कर्मत्वात् । कुर्वाणा निवर्तयन्ती । अचीरमचिरं क्षिप्रमेवें । छान्दसो दीर्घः । चिरं वा कुर्वाणा अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चन्द्रशब्देनाभिधानमित्याशङ्कय ब्रह्माभेदविवक्ष- येत्यभिप्रेत्याऽऽह-ब्रह्मण इति । ब्रह्माभेदेन प्रार्थितदाने समर्थश्चेदोंकारः किमिति सर्वैर्नोपास्यत इत्याशङ्कयाऽऽह--मेधयेति । लौकिकमजयेति । शालग्रामादिप्वपि देवता,द्धिरित्यर्थः । नैतेप्वायादि मृग्यम् । ब्राह्मणोत्पन्नत्वात् । वासासि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह १ ख. ग. च. छ. ट. °वं व्यभवामित्यत्रारभावश्छान्दसः । झटिति श्री। २ ख. ग. घ. 6. तसत्त्व । ३..त्मविज्ञानं मे । ४ ड. दिना कु। ५ क. व. म.घ.च. छ. म.ट. स्व। होमारिष धुनोच्यन्ते मन्त्राः । आ। ६ उ. 'ना म° । ७ छ. यन्त्यारसतः । । ८ क. ग. प. च. अ. ट. व चि ९ क. ग. घ. द. दिष्विव । १० क. ख, ग. बुद्धेय । ११ ग, च. ट. 3. म् । ब्रह्म ।
- १६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- स्वाहा । आ मां यन्तु ब्रह्मचारिणः स्वाहा । वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा । प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा । दायन्तु ब्रह्मचारिणः स्वाहा । शायन्तु ब्रह्मचारिणः स्वाहा (२) आत्मनो मम, किमित्याह-वासांसि वस्त्राणि मम गावश्च गाश्चेति यावत् । अन्नपाने च सर्वदेवमादीनि कुर्वाणा श्रीर्या तां ततो मेधानि- वर्तनात्परमावहाऽऽनय । अमेधसो हि श्रीरनायैवेति । किंविशिष्टाम् । लोमशामजाव्यादियुक्तामन्यैश्च पशुभिः संयुक्तामावहेत्यधिकारादों- कार एवाभिसंबध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आयन्तु मामिति व्यवहितेन संबन्धः । ब्रह्मचारिणो विमाऽऽयन्तु म माऽऽयन्तु दमायन्तु शमायन्त्वित्यादि । यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोड- सानि स्वाहा । तं त्या भगौवंशानि स्वाहा। स मा भग प्रविश स्वाहा । तस्मिन्त्सहस्र- शाखे । नि भगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातराय॑न्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व (३)॥ वितन्वाना शमायन्तु ब्रह्मचारिणः स्वाहा धातरा- यन्तु सर्वतः स्वाहैकं च ॥ इवि कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ क. छ. ठ. शिष्टां च श्रियं लो । ख. च. शिष्टां च लोम्यां श्रियम । २ क, ख.घ. ब. छ. ट. नार्थ इत्यर्थः । इ. नार्थः स्वाहाकार आ । ३ ङ. आमायतिवति ।
४चतुर्थोऽनुवाकः] तैत्तिरीयोपनिषत् । १७ यशो यशस्वी जजे जनसमूहे सानि भवानि । श्रेयान्प्रशस्यतरोवस्यसो वसीयसो वसुतराद्वसुमत्तराद्वाऽसानीत्यन्वयः। किंच तं ब्रह्मणः कोशभूतं वा त्वां हे भग भगवन्पूजावन्मविशानि प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । स त्वमपि मा मा भग भगवन्पूजावन्यविशाऽऽधयोरेकत्व- मेवास्तु । तसिंस्त्वयि सहस्रशाखे बहुभेदे निमुजे शोधयाम्यहं पापकृ- त्याम् । यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति । यथा च मासा अहर्जरं संवत्सरोऽहर्जरः। अहोभिः परिवर्तमानो लोकाञ्जरयतीत्यहानि वाऽस्मिञ्जीर्यन्त्यन्तर्भवन्तीत्यहर्जरः । तं च युथा मासा यन्त्येवं मां ब्रह्मचारिणो हे धातः सर्वस्य विधातः, मामायन्याग- च्छन्तु सर्वतः सर्वदिग्भ्यः। प्रतिवेशःश्रमापनयनस्थानमासन्नगृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशस्त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयाऽऽत्मानं प्रपद्यस्व च । मां रसविद्ध. मिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकर- णेऽभिधीयमानो धनार्थः । धनं च कर्मार्थम् । कर्म चोपात्तदुरितक्षोय । तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः- ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि" इति ॥ इति श्रीमत्परमहंसपरिव्राजकार्यगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छंक- रभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥ वस निवासे, 'वस आच्छादने ' इति धातुद्वयादुप्रत्ययः शीलेऽर्थे । वसुर्वसनशील: पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्वसीयांस्तस्माद्वसीयसः । ईलोपश्चान्दसः । वसु मान्वमुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह-वसुमत्तराद्वेति । पूर्वोक्तस्य प्रयोजनमाह- किंचेति । यदुक्तं ' ब्रह्मचारिणो मामायन्तु ' इति तत्र दृष्टान्तमाह-यथेति । इति श्रीमत्पमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ । - १२. द्वा। अनेकार्थत्वाद्धातूनां तुल्यजातीयानां विशेषवान्धनवत्स्वजातीयपुरुषाद्विशेषवानमा २ क. स. घ. च. छ. ट. नीत्यर्थः । किं। क. मासाः संवत्सरमह । ४ क. रो बर्ष । ५६ 'यार्थम् । त°। ६ घ. "दुशे तनुत । ७ छ. प्रस्थे । ८ ख. ग. व.र्थे । स्ववेश्मसु वस। प। लः । वसुः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- शिक्षिाध्याये- भय शीक्षाध्याये पञ्चमोऽनवाकः । . - - - भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवे- दुयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः (१)। मह इत्यादित्यः । आदित्येन वाव सर्व लोका महीयन्ते । भूरिति वा अमिः । भुव इति वायुः । सुवरियादित्यः । मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीष मही- यन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि (२)। संहिताविषयमुपासनमुक्तं तदनु मेधाकामस्य श्रीकामस्य मन्त्रा अनु- कान्तास्ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो बह्मणोऽन्तरुपासनं स्वाराज्यफलं प्रस्तूयते । भूर्भुवः सुवरित्युक्तोपप्रद. र्शनार्थः । एतातिन इति प्रदर्शितानां परामर्शार्थः । परामृष्टाः स्मार्यन्ते वोत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मार्यन्ते तावत् । तासा- मियं चतुर्थी व्याहृतिमह इति । तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते । उ ह स्म, इत्येतेषां वृत्तानुकथनार्थत्वाद्विदित- वान्ददर्शेत्यर्थः । माहाचमस्यग्रहणंमार्षानुस्मरणार्थम् । ऋषिस्मरणम- प्युपासनाङ्गमिति गम्यत इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृ- तिमह इति ब्रह्मह्म महद्धि ब्रह्म । महश्च व्याहृतिः । किं पुनस्तत् । स . १ घ. ह. टाः स्मर्य। २ ख. ग. घ.ज. °णमायानु । ३ क. ख. ग. प. उ. च. छ. अ. ट. ऋष्यनुस्म।
६पञ्चमोऽनुवाक:] तैत्तिरीयोपनिषत् । १९ आत्मा । आप्नोतेाप्तिकर्मणः । आत्मेतराश्च व्याहृतयो लोका देवा वेदाः प्राणोश्च मह इत्यनेन व्याहृत्यात्मनाऽऽदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः । अतोऽकान्यवयवा अन्या देवताः । देवताग्रहणमुपलक्ष- णार्थं लोकादीनाम् । मह इत्येतस्य व्याहृत्यात्मनो देवलोकादयः सर्वेऽव- यवभूताः । यत आहाऽऽदित्यादिभिर्लोकादयो महीयन्त इति । आत्मनो ह्यङ्गानि महीयन्ते महनं वृद्धिरुपचयो महीयन्ते वर्धन्त इत्यर्थः । * अयं लोकोऽग्निर्ऋग्वेदः प्राण इति प्रथमा व्याहृतिभूरिति । एव- मुत्तरोत्तरैकैका चतुर्धा भवति । वृत्तानुवादपूर्वकमुत्तरानुवाकस्य संबन्धमाह-संहिताविषयमित्यादिना । व्याहृ- तीनां श्रद्धागृहीतत्वात्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिर- रण्यगर्भाख्यं ब्रह्मान्तहृदये ध्येयस्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या । तत्र किं साम्यमित्यत आह–महद्धीति । यथा देवदत्तस्य पादादीन्यजानि मध्यभागश्वाङ्गीतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथम- व्याहृतिः पादी, द्वितीया बाहू, तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्ति विधिरुक्तः । इदानीमङ्गविशेषविधिः कथ्यते-भूरिति वा अयं लोक इत्यादिना । तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह-अयं लोक इत्यादिना । मह इति ब्रह्म । ब्रह्मणा वाव सर्व वेदा मही- यन्ते । भूरिति वै प्राणः । अव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्व प्राणा महीयन्ते । ता वा एताश्चतस्रश्च- तुर्धा । चतस्रश्चतस्रो व्याहृतयः ।ता यो वेद।स - * अत्र-'व्याहत्यवावं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः । इदानीमाविशेषविधिः कथ्यते' इति ध. पुस्तकेऽधिकं दृश्यते । १७. णाश्चत्य । २ ग. घ. छ. ये ज्ञेय ।
॥ २० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-शीक्षाभ्याये- वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति (३) ॥ असौ लोको यजूषि वेद द्वे च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये पञ्चमोऽनुवाकः ॥ ५॥ मह इति ब्रह्म । ब्रह्मेत्योंकारः । शब्दाधिकारेऽन्यस्यासंभवात् । उक्तार्थमन्यत् । ता पा एताश्चतस्रश्चतुर्धेति । ता वा एता भूर्भुवः सुव- मह इति चतस्र एकैकशश्चतुर्धा चतुष्प्रकाराः। धाशब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यश्चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लप्तानां पुनरुपदे- शस्तथैवोपासननियमार्थः। ता यथोक्तव्याहृतीर्यो वेद स वेद विजा. नाति । किं ब्रह्म । ननु-तब्रह्म स आत्मेति ज्ञाते ब्रह्माणि न वक्तव्यमवि- ज्ञातवत्स वेद ब्रह्मेति । न । तद्विशेषविवक्षुत्वाददोपः । सत्यं विज्ञातं चतुर्थव्याहृत्यात्मा ब्रह्मेति न तु तद्विशेषो हृदयान्तरुपलभ्यत्वं मनोमय- त्यादिश्च । 'शान्तिसमुद्धम् ' इत्येषमन्तो विशेषणविशेष्यरूपो धर्म- पूगो विज्ञायत इति तद्विवक्षुर्हि(क्षु हि?) शास्त्रमविज्ञातमिव ब्रह्म मत्या स वेद ब्रह्मेत्याह । अतो न दोषः । यो हि वक्ष्यमाणेन धर्मपूगेन (ण) विशिष्टं ब्रह्म वेद स वेद ब्रह्मेत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैक- वाक्यताऽस्योभयोर्खनुवाकयोरेकमुपासनं लिङ्गाच्च । भूरित्यग्रो प्रतिति- ठतीत्यादिकं लिङ्गमुपासनैकत्वे विधायकाभावाच । न हि वेद उपा- सितव्य इति विधायकः कश्चिच्छब्दोऽस्ति । व्याहृत्यनुवाके 'ता वेद ' इति च वक्ष्यमाणार्थत्वान्नोपासनभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वाराज्यप्राप्ती सत्यामित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंक- रभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाप्ये पञ्चमोऽनुवाकः ॥ ५ ॥ एकेका व्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवती. स्यभिप्रेत्य संक्षेपमाह-ता वा एता इति । स वेद ब्रह्मेति ब्रह्मवेदनं फलस्वेन न संकी- य॑तेऽधिकारविधिवाक्ये । किंतु वक्ष्यमाणानुवाकेनास्मिन्नेव ब्रह्मोपासने गुण- विधानं भविष्यतीति सूचयितुमित्याह-त तद्विशेषविवशुखादित्यादिना । यदि १ घ. ड. च. छ. इत्यन्तो। ।
६षष्ठोऽमुवाक: तैत्तिरीयोपनिषत् । २१ व्याहृत्यवयवमेव ब्रह्मोत्तरम्रोपास्यते तदैवोपासकस्य प्रथमव्याहृत्यात्मकेऽसौ प्रतिष्ठाभिधानं घटत । तस्माध्याहृत्यात्मकदेवताप्राप्स्यभिधानम् । उपासनैकरवे लिङ्गमाह-लिङ्गाचेति। किंचैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह-विधायकामावाञ्चेति । किं विधायकात्मक इति भिन्नवि- द्याबोधक इत्यर्थः । इति श्रीमत्परमहंमपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये पश्चमोऽनुवाकः ॥ ५॥ अथ शीक्षाध्याये षष्ठोऽनुवाकः । भूर्भुवःसुवःस्वरूपा मह इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गमूतारतस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्य- र्थमुपासनार्थं च हृदयाकाशेः स्थानमुच्यते शालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्मोपोस्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते । पाणाविवाऽऽमलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते-- स य एषोऽन्तहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अभुतो हिरण्मयः । अन्तरेण तालुके। य एष स्तन इवावलम्बवे। सेन्द्रयोनिः । यत्रासौ केशान्तो विव- ते । व्यपाह्य शीर्षकपाले । भूरित्यमो प्रतितिष्ठति । भुव इति वायौ (१)। स इति व्युत्क्रम्य 'अयं पुरुषः' इत्यनेन संबध्यते । य एषोऽन्तई ये । १ ख. 'ऽनुवाकभेदप्रमाणं तु नोपासनाभेदासियतीति वाच्यम् । तस्य गुणपरत्येनान्य. पासिद्धत्वात् । तस्मादन्यथासिद्धमुपासनाभेदेमैव सिद्धं प्रमाणं नोपल । २ क. स्व. ग. च. ज. प. ट. °यक । ३ ङ. 'लप्स्यत्युपा । ४ इ. “शः स स्था। ५ छ. °पासनं । AMANDIRUNAMISSIOM २२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-शीक्षाध्याये- हृदयस्यान्तर्हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेक- नाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तर्य एष आकाशः प्रसिद्ध एव कारकाकाशवत् । तस्मिन्सोऽयं पुरुषः । पुरि शयनात्पूर्णा वा भूरादयो लोका येनेति पुरुषो मनोमयः । मनो विज्ञानम् । मनुतेनिकर्मणस्तन्मयस्तदुपलध्यत्वात् । मनुतेऽनेनेति वा मनोऽन्तःकरणं तदभिमानी तन्मयस्तलिङ्गो वा । अमृतोऽमरणधर्मा हिरण्मयो ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येदृशस्वरूपैप्रतिपत्तये मार्गोऽभिधीयते। हृदयावूर्व प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा । सा चान्तरेण मध्ये प्रसिद्ध तालुके तालुकयोर्गता । यश्चैष तालुकयोमध्ये स्तन इवा- वलम्बते मांसखण्डस्तस्य चान्तरेणेत्येतत् । यत्र च केशान्तः केशानाम- न्तोऽवसानं मूलं केशान्तो विवर्तते विभागेन वर्तते मूर्धप्रदेश इत्यर्थः । त देशं प्राप्य तत्र विनिःसृता । व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरः- कपाले विनिर्गता या सेन्द्रयोनिरिन्द्रस्य ब्रह्मणो योनिर्मार्गः स्वरूपप्र- तिपत्तिद्वारमित्यर्थः । तेयैवं विद्वान्मनोमयात्मदर्शी मूर्भो विनिष्क- म्यास्य लोकस्याधिष्ठाता भरितिव्याहृतिरूपो योऽग्निर्महतो ब्रह्मणोऽङ्ग- भूतस्तस्मिन्ननौ प्रतितिष्ठत्यग्न्यात्मनेमं लोकं व्याप्नोतीत्यर्थः । तथा भूव इति द्वितीयव्याहृत्यात्मनि वायौ । प्रतितिष्ठतीत्यनुवर्तते ॥ तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्य॑त्वाव्याप्तेरित्यर्थः । तस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यनाडी योगशास्त्रे बोध्यते । तस्य शास्त्रे सकल- करणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः । सुवरित्योदित्ये । मह इति ब्रह्मणि । आमोति स्वाराज्यम् । आमोति मनसस्पतिम् । वाप- तिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एत- ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणाराम मनआनन्दम् । शान्निसमृद्धम- - मूर्ध. प्र १ रु. म. 'स्तत्प्रायत्ता' । २ क. पस्य ब्रह्मणः स्वरूपप्र । ३ ह. छ. ट. °व्यमाणा तेनान्तरेण त। ५ स्व. ग. ह. च. छ. तथैवं । ६ क. स्व. ग. न. ट. भ्यमा- नत्वा । ७ फ. ख. इ. °स्य जडस्प म । ८ च. छ. म. ने हिरण्यगर्भोऽनुमीयते । त।
षष्ठोऽनुवाक:] तैत्तिरीयोपनिषत् । २३ मृतम् । इति प्राचीनयोग्योपास्त्र (२) ॥ वायावस्तमेकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ मुवरिति तृतीयव्याहृत्यात्मन्यादित्ये । मह इत्यङ्गिानि चतुर्थव्याव. त्यात्मनि ब्रह्मणि प्रतितिष्ठति । तेष्वात्ममावेन स्थित्वाऽऽमोति ब्रह्म- भूतः स्वाराज्यं स्वराभावं स्वयमेव राजाऽधिपतिर्भवति । अङ्गभू- तानां देवानां यथा ब्रह्म । देवाश्च सर्वेऽस्मै बलिमावहन्त्यङ्गभूता यथा ब्रह्मणे । आप्नोति मनसस्पतिम् । सर्वेषां हि मनसा पतिः सर्वात्मक- त्वाब्रह्मणः । सर्वैर्हि मनोमिस्तन्मनुते। तदामोत्येवं विद्वान् । किंच वाक्पतिः सर्वासा वाचा पतिर्भवति । तथैव चक्षुष्पतिश्चक्षुषां पतिः श्रोत्रपतिः श्रोत्राणां पतिः । विज्ञानपतिर्विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्रा- णिनां करणैस्तद्वान्भवतीत्यर्थः । किंच ततोऽप्यधिकतरमेतद्भवति । किं तत् । उच्यते । आकाशशरीरमाकाशः शरीरमस्याऽऽकाशवद्वा सूक्ष्म शरीरमस्येत्याकाशशरीरम् । किं तत् । प्रकृतं ब्रह्म । सत्यात्म सत्यं मूर्ता- मूर्तमवितथं स्वरूपं चाऽऽत्मा स्वभावोऽस्य तदिदं सत्यात्म । प्राणारामं प्राणेष्वा[राम आ]रमणमाक्रीडा यस्य तत्माणारामम् । प्राणानां वाऽs- रामो यस्मिस्तत्माणारामम् । मनआनन्दम् । आनन्दमूतं सुखकृदेव यस्य मनस्तन्मनआनन्दम् । शान्तिसमृद्धं शान्तिरुपशमः शान्तिश्च तत्स. मृद्धं च शान्तिसमृद्धम् । शान्त्या वा समृद्धं तदुपलभ्यत इति शान्ति. समुद्धम् । अमृतममरणमि । एतच्चाधिकतरं विशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मेंविशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्वेत्याचार्यवचनोक्तिरादरार्था । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ । घ. राममनन्दाभूतप्रः । १ क, ख, च. छ. म. ८. प्राणेष्टा र २४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- शीक्षाध्याये- स्वाराज्यं निरङ्कुशमैश्वर्य, जगत्त्रष्टुत्वादिलक्षणं न भवतीत्याह-अङ्गभूतानां देवानामिति । सावधिकमैश्वर्यमेवाऽऽह--प्राप्नोतीत्यादिना । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरखगवच्छिष्यानन्दज्ञानविरचितायो तैत्ति. रीयोपनिषच्छोकरभाष्यटीकायो शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ शीक्षाध्याये सप्तमोऽनुवाकः । यदेतन्याहृत्यात्मकं ब्रह्मोपास्यमुक्तं तस्यैवेदानीं पृथिव्यादिपालस्व. रूपेणोपासनमुच्यते । पञ्चसंख्यायोगात्पलिच्छन्दःसंपत्तिः । ततः पाकरवं सर्वस्य । पाश्च यज्ञः। “पञ्चपदा पतिः। पाको यजः" इति श्रुतेः । तेन यत्सर्व लोकाद्यात्मान्तं च पानं परिकल्पयन्ति(ति) यज्ञमेव तत्परि- कल्पपति । तेन यज्ञेन परिकल्पितेन पालात्मकं प्रजापतिमभिसंपद्यते । तत्कथं पातमिदं सर्वमित्यत आह- पृथिव्यन्तरिक्षं यौर्दिशोऽवान्तरदिशाः । अग्नि- र्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । पृथिव्यन्तरिक्षं यौर्दिशोऽवान्तरदिशा इति लोकपालम् । अग्निर्वा- युरादित्यश्चन्द्रमा नक्षत्राणीति देवतापातम् । आप ओषधयो वनस्प- तय आकाश आत्मेति भूतपालम् । आत्मेति विराभूताधिकारात् । इत्यधिभूतमिव्याधिलोकाधिदेवतपानद्वयोपलक्षणार्थम् । लोकदेवतापा- योश्चाभिहितत्वात् । उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भोपासनविषय इत्याह-यदेतदित्या- दिना । पृथिव्याः कथं पाङ्गस्वमित्याकाङ्क्षायां पङ्क्तयाख्यस्य च्छन्दसः संपादनादि. स्याह-पञ्चसंख्येति । न केवलं पञ्चसंख्यायोगात्पतिच्छन्दःसंपादनं यज्ञत्वसंपा- दनमपि कर्तुं शक्यत इत्याह-पाइश्च यज्ञ इति । पत्नीयजमानपुत्रदैवमानु- पवितैः पञ्चभिः संपाद्यत इति यज्ञः पाङ्क इत्यर्थः । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः - • ग घ च तं नपा २५ (अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । समानः । चक्षुः श्रोत्रं मनो पाक्त्वक् । चर्म माश्सर नावास्थि मज्जा । एतदधिवि- धाय ऋषिरवौचत् । पाळू वा इद* सर्वम्। पाङ्क्तेनैव पाङ्क्त स्पृणोनीति(१) सर्वमेक च.॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथानन्तरमध्यात्मं पात्रयमुच्यते-प्राणादि वायुपातम् । चक्षुरा- दीन्द्रियपालम् । चर्मादि धातुपातम् । एतावद्धीदं सर्वमध्यात्मम् । बाह्यं च पाङ्कमेवेत्येतदेवमधिविधाय परिकल्प्यार्षिर्वेद एतदर्शनसंपन्नो वा कश्चि- हषिरवोचदुक्तवान् । किमित्याह-पापा हदं सर्व पाडेनैवाऽऽध्या- त्मिकेन संख्यासामान्यात्पाडू बाह्यं स्पूणोति वलयति पूरयति । एका.. सवयोपलभ्यत इत्येतदेव । पाङ्गमिदं सर्वमिति यो वेद स प्राजापत्या. स्मैव भवतीत्यर्थः। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये सप्तमोऽनुवाकः॥ ७ ॥ " उस्कृष्टदृष्टिर्निकृष्टे फलवती ” इति न्यायाबाह्यपातरूपेणाऽऽध्यास्मिकपाङ्गत्रयमवग- न्तव्यमित्यभिप्रेत्याऽऽह-एकात्मतयेति । इति श्रीमापरमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायो शीक्षाध्याये सप्तमोऽनुवाकः ।। ७ ॥ अथ शीक्षाध्यायेऽष्टमोऽनुवाकः । व्याहव्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्कस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्योंकारस्योपासनं विधि स्स्यते । पापरब्रह्मदृष्ट्या ह्युपास्यमान ओंकारः शब्दमात्रोऽपि पराप- २६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- रब्रह्मप्राप्तिसाधनं भवति । स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च । प्रतिमेव विष्णोः । " एतेनैवाऽऽयतनेनैकतरमन्वेति " इति श्रुतेः । ओमिति ब्रह्म । ओमितीद सर्वम् । ओमिति । इतिशब्दः स्वरूपपरिच्छेदार्थः । ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा धारयेदुपासीत । यत ओमितीदं सर्व हि शब्दरूपमों- कारण व्याप्तम्। " तद्यथा शङना" इति श्रुत्यन्तरात् । अभिधान. तत्रं ह्यभिधेयमित्यत इदं सर्वमोंकार इत्युच्यते । वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति-व्याहत्यात्मन इत्यादिना । घेदविदां हि सर्वाः क्रिया ओंकारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतस्वात्तस्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतस्तमादायैवोपासनं विधीयत इत्यर्थः । नन्वोंकारस्य शब्दमानस्याचेतनस्वादह- मनेनोपासित इतिज्ञानाभावात्कथं फलदातृत्वं स्यादित्याशङ्कयाऽऽह-परापरेति । प्रति- माधर्चनमिव सर्वत्रेश्वर एव फलदातेति भावः । ओंकारे ब्रह्मस्वाध्यासे किं सादृश्यमित्यत आह-ओमितीदमिति । सर्वास्पदत्वमोंकारस्य ब्रह्मणा सादृश्यमित्यर्थः ओमित्येतदनुकतिः ई स्म वा अप्यो श्रीव- येत्याश्रावयन्ति । ओमिति सामानि गायन्ति। ओशोमिति शस्त्राणि शुश्सन्ति । ओमित्यध्वर्युः प्रतिगरंपतिगृणाति।ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजा- नाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवानीति।ब्रह्मैवोपामोति (१) ॥ ओं दुश॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्यायेऽ- ष्टमोऽनुवाकः ॥ ८॥ ओंकारस्तुत्यर्थमुत्तरो ग्रन्थः । उपास्यत्वात्तस्य । ओमित्येतदनुकृति- रनुकरणम् । करोमि यास्यामि चेति कृतमुक्तमोमित्यनुकरोत्यन्यः । अत ओंकारोऽनुकृतिः । ह स्म वा इति प्रसिद्धावयोतकाः । प्रसिद्धं KRISHNA WEMO INSTITU) ९नवमोऽनुवाकः] तैत्तिरीयोपनिषत् । घोकारस्यानुकृतित्वम् । अपि च "ओ श्रावय" इति प्रेषपूर्वकमाभाव- यन्ति प्रतिश्रावयन्ति । तथोमिति सामानि. गायति सामगाः । ओमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथोसित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौव्यनुजानाति प्रैषपूर्वकमाभावयति । ओमित्यग्निहोत्रमनुजानाति । जुहोमीत्युक्त ओमित्येषानुज्ञा प्रयच्छति । ओमित्येव ब्राह्मणः प्रवक्ष्यत्प्रवचनं करिष्यन्नध्येयमाण ओमित्येवाऽऽ। ओमिति प्रतिपद्यतेऽध्येतुमित्यर्थः । ब्रह्म घेदमुपासवानीति प्राप्नुयाँ ग्रहीष्यामीति । उपाप्मोत्येव ब्रह्म । अथवा ब्रह्म परमात्मा तमुपामवा. नीत्यात्मानं प्रवक्ष्यन्प्रापयिष्यन्नोमित्येवाऽऽ । स च तेनोंकारेण ब्रह्म मामोत्येव । ओंकारपूर्व प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्तस्मादों. कारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥ इति श्रीमत्परमहंसपरिवानका चार्यगोविन्दभगवत्पूज्यपादशिष्यश्चीमकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्येऽ- ष्टमोऽमुवाकः ॥ ८॥ शस्त्राणि गीतिरहिता ऋच उच्यन्ते । प्रतिगामिति । ओ थामो दैवेतिशब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति । प्रतिशंसनमुच्चारयतीत्यर्थः । प्रवक्ष्यन्निति । "वच परिभाषणे" इत्यस्य रूपं प्रथमव्याख्याने । द्वितीये "वह प्रापणे" इत्यस्य द्रष्टव्यम् ॥ हात श्रीमत्परमहंसपरित्राकाचार्यश्रीमटकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्यायेऽटमोऽनुवाकः ॥ ८॥ अथ शीक्षाध्याये नवमोऽनुवाकः । ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च।तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्मयश्च स्वाध्याय- वचने च।अमिहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं - स्वाध्यायप्रवचने च । प्रजाच स्वाध्यायप्रव- चने च । प्रजनश्च स्वाध्यायप्रवचने च । विज्ञानादेवाऽऽनोति स्वाराज्यमित्युक्तत्वाच्छ्रौतस्मार्तानां कर्मणा- मानर्थक्यं प्राप्तमित्यतस्तन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्व- प्रदर्शनार्थमिहोपन्यासः। ऋतमिति व्याख्यातम् । स्वाध्यायोऽध्यय- नम् । प्रवचनसुध्यापनं ब्रह्मयज्ञो वा । एतान्यतादीन्यनुष्ठेयानीति वाक्यशेषः । सत्यं च सत्यवचनं यथाव्याख्यातार्थं वा । तपः कृच्छ्रादि। दमो बाह्यकरणोपशमः । शमोऽन्तःकरणोपशमः । अमय आधातव्याः। अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजाँ सोत्पाद्या । प्रजनश्च प्रजननमृती भार्यागमनमित्यर्थः । व्यवहितानुवाकेन संबन्धमाह-विज्ञानादेवेत्यादिना । अपरविद्यासहकारितया तत्फलेनैव फलवत्त्वसिद्ध्यर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचर्चा राथीतरः । प्रजाति: पौत्रोत्पत्तिः पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्म- भिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानायत्तं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं धर्मप्रवृद्धयर्थं च । अतः स्वाध्या- यप्रवचनयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठातव्यमिति सत्य- वचाः सत्यमेव वयो यस्य सोऽयं सत्यवचा नाम वा तस्य । रोथीतरो रथीतरस्य गोत्रो राथीतराचार्यों मन्यते । पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह-सवैरेतरिति । किमिति यत्नतोऽ- नुष्ठेये तत्राऽऽह-स्वाध्यायाधीनमिति । त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्याय- प्रवचनयोरेवाऽऽदरं विवृणोति-सत्यमित्यादिना । - १ ग. च. एतदादीन्यु । २ क. स्व. ग. ल. च. म. वदनं । ३ क. रु. म. जाश्चोत्पाद्याः। प्र । ४ क. ठ. 'किको वि। ५ . राधीतरो। ६. राधीतरा।
- १०दशमोऽनुवाकः] तैत्तिरीयोपनिषत् । २९ तप इति तपोनित्यः प्रकशिषिः । स्वाध्यायप्रवचने एवेति नाको मौदल्यः । तद्धि तपस्तद्धि तपः (१)। प्रजा च स्वाध्यायप्रवचने च षट् च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याय नवमोऽनुवाकः ॥ ९ ॥ तप इति तप एव कर्तव्यमिति तपोनित्यस्तपसि नित्यस्तपःपर- स्तपोनिय इति वा नाम । पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टि- राचार्यो मन्यते । स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्द- लस्यापत्यं मौद्धल्य आचार्यों मन्यते । तद्धि तपस्तद्धि तपः । हि यस्मात्स्वाध्यायप्रवचने एव तपस्तस्मात्ते एवानुष्ठेये इति । उक्ताना- मपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायो तैति- रीयोप्रतिषच्छांकरभाष्यटीका शीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥ अय शीक्षाध्याये दशमाऽनुवाकः । अहं वृक्षस्य रोरखा । कीर्तिः पृष्ठं गिरे- रिव । उर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । आहं वृक्षय रेरिवेति स्वाध्यायार्थो मन्त्रान्नायः । स्वाध्यायश्च विद्यो. त्पत्तये । प्रकरणात् । विद्यार्थ हीदं प्रकरणम् अन्यार्थत्वमवगम्यते। स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्प्यते । अहं वृक्षस्यो- च्छेदात्मकस्य संसारवृक्षस्य रोरिमा रयिताऽन्तर्याम्यात्मना । कीर्तिः ख्यातिगिरेः प्रसमिवोच्छ्रिता मम । इलपवित्र ऊर्ध्वकारणं पवित्रं पावनं आनन्दगिरिकृतटीकासंवलितकिरभाष्यसमेता-शीक्षाध्याये- ज्ञानप्रकाश्यं पवित्रं परमं ब्रह्म यस्य सर्वात्मनो मम सोऽहमूर्खपवित्रः। वाजिनीव वाजवतीय । वाजमन्नं तद्वति सवितरीत्यर्थः । यथा सवित- मतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्य एवं स्वमृतं शोभनं विशुद्धमात्मतत्त्वमसि भवामि । स्वाध्यायार्थ इति जपार्थः । “हुषे स्वेति शाखां छिनत्ति" इतिवत् । अन्यत्र विनियो- जकं श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह- चान्यार्थत्वमिति। अक्षितमसीत्यादि- वदुपासनाविधिविशेषत्वं वा वक्तुं न शक्यते । ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । प्रविण सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् (१) ॥ अहषट्र॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये दशमोऽनुवाकः ॥ १० ॥ 17478 बविणं धनं सवर्चसं दीप्तिमत्तदेवाऽऽत्मतत्त्वमस्मीत्यनुवर्तते । ब्रह्म- ज्ञानं वाऽऽत्मतत्त्वप्रकाशकत्वासवर्चसम् । द्रविणमिव द्रविणं मोक्षसुख- हेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तध्यः । सुमेधाः शोभना मेधा सर्वज्ञलक्षणा यस्य मम सोऽहं सुमेधाः । संसारस्थित्युत्पत्त्युपसंहा. रकौशलयोगात्सुमेधस्त्वम् । अत एवामृतोऽमरणधर्माऽक्षितोऽक्षीणोऽ- व्ययः । उक्षितो वाऽमृतेन वोक्षितः सिक्तः । अमृतीक्षितोऽहम् इत्यादि बाह्मणम् । इत्येवं विशदोषेर्ब्रह्मभूतस्य ब्रह्मविदो वेदानु- वननं वेदो वेदनमात्मैकत्वविज्ञानं तस्य प्राप्तिमनु वचनं वेदानुवचनम् । आत्मनः कृतकृत्यताख्यापनार्थ वामदेववत्रिशङ्खनाऽऽर्षेण दर्शनेन दृष्टो मन्त्रानाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्य. र्थोऽवगम्यते । ऋतं चेत्यादिकर्मोपन्यासादनन्तरं च वेदानुवचनपाठादे- तदधगम्यते । एवं श्रौतस्मातेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोराणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये दशमोऽनुवाकः ॥ १० ॥ -- ...पर। २०.ताप्रख्या । भ.ति गम्यते।
११एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । अहं वक्षतिमन्त्रस्यर्षिस्त्रिशङ्कुः, पतिश्छन्दः, परमात्मा देवता, ब्रह्मविद्यार्थे जपे विनियोगः । न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह-ऋतं चेत्यादिना॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायो वैति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याय दशमोऽनुवाकः ॥ १० ॥ अथ शीक्षाध्याय एकादशोऽनुवाकः । न विभेति कुत. वेदमनूच्याऽऽचार्योऽन्तेवासिनमैनुशास्ति । वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्रारब्रह्मविज्ञानानियमेन कर्तव्यानि श्रौतस्मर्तिकर्माणीत्येवमर्थः । अनुशासनश्रुतेः पुरुषसंस्का. रार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्याऽऽत्मज्ञानमञ्जसैवोत्पद्यते । "तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते" इति स्मृतिः। वक्ष्यति च- तपसा ब्रह्म विजिज्ञासव' इति। अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासनशब्दावनुशासनातिक्रमे हि दोषोत्पत्तिः। प्रागुपन्यासाच कर्मणां,केवलब्रह्मविद्यारम्भाञ्च पूर्व कर्माण्युपन्यस्तानि। उदितायां च विद्यायाम् “ अभयं प्रतिष्ठा विन्दते "" चन " "किमहं साधु नाकरणम्" इत्येवमादिना कर्मनैष्किंचन्यं दर्श- यिष्यतीत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्मा- णीति । मन्त्रवर्णाच-"अविद्यया सत्यं तीर्वा विद्ययाऽमृतमश्नुढे इति । ऋतादीनां पूर्वतोपदेशानर्थक्यपरिहारार्थः । इह तु ज्ञानो- त्पत्त्यर्थत्वात्कर्तव्यनियमार्थः । वेदमनूच्याध्याप्याऽऽचार्योऽत्तवासितं शिष्यमनुशास्ति ग्रन्थग्रहणादन पश्चाच्छास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यतेऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्ति- तव्यमिति । "बुद्ध्वा कर्माणि चाऽऽरभेत्" इति स्मृतेश्च । उत्तरानुवाकस्य तात्पर्यमाह-वेदमनूतयेत्यादिना । विद्योत्पत्त्यर्थ नित्यनैमि- त्तिकान्यवश्यान्यनुष्ठेयानीत्येको नियम उक्तः । प्रागेव चानुष्ठेयानीति नियमान्तर- माह-प्रागुपन्यासाच कर्मपामिति । संग्रहवाक्यं विवृणोति- केवलेत्यादिना। अविद्यया कर्मणा मृत्युमधर्म तीर्खेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचय- क. घ. ङ. ट. 'स्मार्तानि क° । २ ख 'ति श्रुतिः । अ । ३. आणीति । ख. ग. घ. छ. च. अ. ट देश आन' ।
३२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- तीत्यर्थः । ऋतं च स्वाध्यायप्रवचने च " इत्यादिना पूर्वत्र कर्मामुष्ठानमुक्तमेवातः पौनरुक्त्यमित्याशङ्कयाऽऽह-शातादीनामिति । विचारमकृत्वा गुरुकुलान्न निवर्ति- तव्यम् । किंस्वध्ययनविधेरर्थावबोधक(न)द्वारेण पुरुषार्थपर्यवसायितासिद्धयर्थमक्षरग्रहणा- नन्तरमर्थावबोधे प्रयतितव्यमित्याह-ग्रन्थग्रहणादन्विति । वेदमधीत्य सायादिति स्मृतिरप्येतच्छ्रुतिविरुद्धेस्याह-अतोऽवगम्यत इति । सत्यं वद । धर्म चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमा- हृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । कथमनुशास्तीत्याह-सत्यं वद यथाप्रमाणावगतं वक्तव्यं तदा। तबद्धम चर। धर्म इत्यनुष्ठेयानां सामान्यवचनं सत्यादिविशेषनिर्दे- शात् । स्वाध्यायाध्ययनान्मा प्रमदः प्रमादं मा कार्षीः । आचार्या- याऽऽचार्यार्थ प्रियमिष्टं धनमात्याऽऽनीय दत्त्वा विद्यानिष्क्रयार्थम् । आचार्येण चानुज्ञातोऽनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छेत्सीः प्रजासंततेविच्छित्तिर्न कर्तव्या। अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः । प्रजापजन- नप्रजातित्रयनिर्देशसामर्थ्यात् । अन्यथा प्रजननश्चेत्येतदेकमेवावक्ष्यत् । वक्तव्यमिति । वचनाह परस्य हितमित्यर्थः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमंदि- तव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै च प्रमदितव्यम् । स्वाध्यायप- वचनाभ्यां न प्रमदितव्यम् । (१)। सत्यान्न प्रमदितव्यं प्रमादो न कर्तव्यः। सत्याच प्रमदनमनृतप्रसङ्गः। प्रमादशब्दसामर्थ्यात् । विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः। * अन्य. * अत्र ख. पुस्तके 'अनृतवदनविषये दोषश्रुतेश्च', “योऽनृतं वदति समूलो वा एष परिशु- ध्यति" इति । “न सत्यात्परमो धो नानुतात्पातकं परम् " इति स्मृतेः' । इत्यधिकं दृश्यते। १ स.ग. च. बोधाय ।। २ छ, 'तित्रितय । ३ घ. सतायदे । ४ ख. °देवमें।
११एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ३३ थाऽसत्यवदनप्रतिषेध एव स्यात् । धर्मान प्रमदितव्यम् । धर्मशब्दस्या- नुष्ठेयविषयत्वादननुष्ठानं प्रमावः स न कर्तव्यः । अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलादात्मरक्षार्थात्कर्मणो.न प्रमदितव्यम् । मतिर्षि- भूतिस्तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्ताकर्मणो न प्रमदितव्यम् । स्वाध्या- यप्रवचनाम्यां न प्रमदितव्यम् । स्वाध्यायोऽध्ययनं प्रवचनमध्यापन ताभ्यां न प्रमदितव्यम् । ते हि नियमेन कर्तव्ये इत्यर्थः । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो अव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि नो ईतराणि । यान्यस्माक५ सुचरितानि । तानि त्वयोपास्यानि (२)। नो ईतराणि । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् । देवपित्र्ये कर्मणी कर्तव्ये । मातृदेवो माता देवो यस्य स त्वं मातृदेवो भव स्याः । एवं पितृदेव आचार्यदेवोऽतिथिदेवो भव । देवतावदुपास्या एत इत्यर्थः । यात्यपि चान्यान्यनवद्यान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि स्वया । नो अकर्तव्यानीतराणि सावद्यानि शिष्टकृतान्यपि । यान्यस्माक्रमाचार्याणां सुचरितानि शोभैनचरितान्या- मायाद्यविरुद्धानि तान्येव वयोपास्यान्यदृष्टार्थान्यनुष्ठेयानि, नियमेन कर्तव्यानीति यावत् । तो इतमणि विपरीतान्याचार्यकृतान्यपि । ग्रे के चास्मच्छ्रेयांसो ब्राह्मणाः । वेषां त्वयाऽऽसनेन प्रवसितव्यम् । १ ख. च. त् । तथा ध । २ ख, ग, च. °स्या एवैत ।। ७. 'भमानि च । ५ ३४ आनन्दगिरिकृतटीकासंवलितशांकरमाष्यसमेता- शीक्षाध्याये- ग्रे के विशेषिता आचार्यत्वादिधर्मेरस्मदस्मत्तःश्रेयांसः प्रशस्यतरास्ते च ब्राह्मणा न क्षत्रियादयस्तेषामासनेनाऽऽसनदानादिना त्वया प्रश्वसि- तव्यम् । प्रश्वसनं प्रश्वासः श्रमापनयः, तेषां श्रमस्त्वयाऽपनेतव्य इत्यर्थः । तेषां चाऽऽसने गोष्ठीनिमित्ते समुदिते तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः । केवलं तदुक्तसारग्राहिणा भवितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ने कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ( ३)।ये तत्र ब्राह्मणाः समर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाश्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ती आयुक्ताः। अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः। किंच यत्किंचिद्देयं तच्छ्रद्धयैव दातव्यम् । अश्रद्धयाऽदेश्यं न दात- व्यम् । श्रिया विभूत्या देयं दातव्यम् । हिया लज्जया च देयम् । भिया च भयेन देयम् । संविदा च । संविन्मित्रादिकार्यम् । अथैवं वर्तमानस्य यदि कदाचित्रे तव श्रौते स्मार्ते वा कर्मणि वृत्ते -वाऽऽचा- रेलक्षणे विचिकित्सा संशयः स्यात् । ये तन्त्र तस्मिन्देशे काले वा बाह्मणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः । संमशिनो विचारक्षमाः । युक्ता अभियुक्ताः कर्मणि वृत्ते वा । आयुक्ता अपरप्रयुक्ताः । अलूक्षा अरूक्षा अक्रूरमतयः । धर्मकामा अदृष्टार्थिनोड- * ख. पुस्तके टिप्पण्यां " देयमित्यपि विदारण्यैरुक्तम् ” इति वर्तते । १ ख, ग, च. °रविल' । १ ख, ग, च. स्यायेत् । ३ ख. कामाः स्य।
११एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । काम हता इत्येतत्स्युर्भवेयुः । ते यथा येन प्रकारेण बाह्मणास्तुत्र तस्मि- कर्मणि वृत्ते वा वर्तेरस्तथा त्वमपि वर्तेथाः । अथाभ्याख्यातेश्वभयुक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्तेषु च यथोक्तं सर्वमुपनयेये तत्रेत्यादि। एवं कर्तव्यमर्थमुपदिश्यानुष्ठानकाले समुत्पन्नसंशयनिवृत्त्यर्थ शिष्टाचारः प्रमाणयितव्य इत्याह-अथैवमित्यादिना । अपरप्रयुक्ता इति । स्वतन्त्रा इत्यर्थः । अम्युक्ता अभिशस्ता इत्यर्थः ॥ एष आदेशः । एष उपदेशः । एषा वेदो- पनिषत् । एतदनुशासनम् । एवमुपसि- तव्यम् । एवमु चैतदुपास्यम् ( ४ ) ॥ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन्त्सप्त च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याय एकादशोऽनुवाकः ॥ ११ ॥ एप आदेशो विधिः । एष उपदेशः पुत्रादिभ्यः पित्रादीनाम् । एषा वेदोपनिषद्वेदरहस्यं वेदार्थ इत्यात् । एतदेषानुशासनमीश्वरवचनम् । आदेशवाक्यस्य विधेरुक्तत्वात्सर्वेषां वा प्रमाणभूतानामनुशासममेतत् । यस्मादेवं तस्मादेवं. यथोक्तं सर्वमुपासितव्यं कर्तव्यम् । एवमु चैतदुपा- स्यमुपास्यमेव चैतन्नानुपास्यमित्यादराथं पुनर्वचनम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाष्य एकादशोऽनुवाकः ॥ ११ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताय वैति- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याय एकादशोऽनुवाकः ॥ ११ ॥ १ ट. देव चानु। २ अ. नशमन ।
३६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-शीक्षाध्याये- अप शीक्षाध्याये द्वादशोऽनुवाकः । शं ने मित्रः शं वरुणः। शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुकमः। नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतर्मवादिषम् । सत्यमवादिषम् । तन्मामा- वीत् । तद्वक्तारमावीत् । आवीन्माम् । आवी- द्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः (१)। सत्यमवादिषं पञ्च च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२॥ *अतीतविद्याप्राप्त्युपसर्गशमनार्थ शान्ति पठति-शं नो मित्र इति । व्याख्यातमेतत्पूर्वम् । शं नो मित्र इति । तदपरं ब्रह्म मामपरविद्यार्थिनमावीदरक्षदित्यर्थः ॥ अवैतश्चिन्त्यते विद्याकर्मणोविवेकार्थ. किं कर्मभ्य एव केवलेभ्यः परं श्रेय उन विद्यासव्यपेक्षेभ्य आहोस्विद्विद्याकर्मभ्यां संहताभ्यां विद्याया वा कर्मापेक्षाया उत केवलाया एव विद्याया इति । तत्र केव- लेभ्य एव कर्मभ्यः स्यात् । समस्तवेदार्थज्ञानवतः कर्माधिकारात् । “वेदः कूत्तोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनाऽऽत्मज्ञानादिना । “विद्वान्यजते" "विद्वान्याजयति" इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र । "जात्या चानुष्ठानम्" इति च । कृत्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते वेदोऽनर्थकः स्यात् । * 'अतीत' इत्यारभ्य 'पूर्वम्' इत्यन्तं क. ख. ग. घ. इ. च. छ. अ. ठ. पुस्तकेषु न विद्यते । १ ग, च. वाप्येत वे।
१२वादशोऽनुवाकः तैत्तिरीयोपनिषत् । ३७ औद्यानुषाके केवलाया विद्याया निःश्रेयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधि- मुपलभ्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते--अत्रैतचिच्यत इत्यादिना । विवेकार्थ- मिति पृथक्फलत्वज्ञापनार्थमित्यर्थः । ' भूतं भव्यायोपदिश्यते' इति न्यायेनाऽऽस्मज्ञान- स्यापि कर्मकर्तृसंस्कारतया कर्मविधिशेषत्वाच्छ्रुतस्यापि फलस्यार्थवादमात्रस्वारकर्मम्य एव परं श्रेय इति पूर्वः पक्षः । न नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्यानि- त्यत्वं प्रसिद्धं लोके, कर्मभ्यश्चेच्छ्रेयोऽनित्यं स्यात्तच्चानिष्टम् । “वद्यथेह कर्मचितो. लोकः श्रीयते" इतिन्यायानुगृहीतश्रुतिविरोधात् । काम्य- प्रतिषिद्धयोरनारम्मादारब्धस्य च कर्मण उपभोगेन क्षयान्नित्यानुष्ठा- नाच ज्ञाननिरपेक्ष एव मोक्ष इति चेत् । तच ज । शेषकर्मसंभवात्तन्नि- मित्तशरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युतम् । कर्मशेषस्य च नित्यानु- ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि । तञ्च न। श्रुतज्ञानव्यतिरेकादुपासनस्य । श्रुत- ज्ञानमात्रेण हि कर्मण्यधिक्रियते नोपासेनामपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते । मोक्षफलमर्थान्तरप्रसिद्धं च स्यात् । "श्रोतव्यः" इत्युक्त्वा तद्यतिरेकेण " मन्तव्यो निदिध्यासितव्यः" इति यत्नान्तरविधानान्मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्था- न्तरत्वम् । सिद्धान्तमाह-न नित्यत्वादित्यादिना । यद्यप्यध्ययनविधिप्रयुक्त्या कृत्स्नो वेदार्थ एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभेदात्तत्प्रयुक्त्याऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकार- संभवाब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणम- स्तीत्याह--तच्च नेति । यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः । उपासनासाध्यस्य ब्रह्मसाक्षात्का- रस्य पृथग्भावादित्याह--श्रुतज्ञानेति । श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानो- पयोगि यज्ज्ञानं तावन्मात्रेणा कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते. व्यति- । १ क. ग. च. अथ ग्रन्थादावाद्या । ख. अथाऽऽद्य आ°। ज. अथाऽऽदावाद्यवाद आ । श. अथाऽऽदावाया। २ ङ. स्कारार्थत°। ३ ख. ग. च. ट, यस्य चानि । ४ ख. ग, च. च तस्प्रत्यवायानुत्पत्तेान। ५ क. ख. ग. च. ट. °सनम । ६ ट. °ते मानाभावात् । उ°। ७ ख. ज. स. युकः कृ०।८ क. ग. च. वाक्यमध्य । ९ ख. ज. स. युक्ताभ्यु। १० ख. नत्वमा ११ ग. त्वादत्र स । १२ ख. न. युक्तो । १३ ख. ग. ज. झ. म. सनसा ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- शीक्षाध्याये- रेकभावादित्यर्थः । अध्ययनविधिव्यापारोपरमेऽनुष्ठेयं तथाभूतं ब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह-उपासनं चेति । एतच्च कर्ममीमांसान्यायाङ्गी- कारमात्रेणोक्तम् । वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः । विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् । यथा स्वतो मरणज्वरा- दिकार्यारम्भसामर्थ्यानामपि विषयादीनां मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम् , एवं विद्यासहितैः कर्मभिर्मोक्ष आरभ्यत इति चेत् । न । आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् । न । ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्या- र्थस्य ज्ञापकं विद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यत आरब्धं वाऽविनाशि भवेत् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्त- रमाशङ्कय निषेधति-एवं तहत्यिादिना । " न स पुनरावर्तते " इति वचनादार- म्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापकत्वात् । न चाऽऽरभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात् । " अन्धो मणिमविन्दत् " इत्यादिप्वपि योग्यताकल्पनप्रसङ्गादि- स्याह-न ज्ञापकत्वादित्यादिना । पोन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् । विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् । न । कर्मणः फलान्तरदर्शनात् । उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते । उत्पत्त्यादिफल- विपरीतश्च मोक्षः । गतिश्रुतेनाप्य इति वेत् । सूर्यद्वारेण मायन्" इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् । न । सर्वगत- त्वादन्तृभिश्चानन्यत्वादाकाशादिकारणत्वात्सर्वगतं ब्रह्म । ब्रह्माव्यति- रिक्ताश्च सर्वे विज्ञानात्मानः । अतो नाऽऽप्यो मोक्षः । गन्तुरन्यविभिन्न देशं प्रति भवति गन्तव्यम् । न हि येनैवाव्यतिरिक्तं यत्तत्तेनैव गम्यते तत् । अनन्यत्वप्रसिद्धेश्च, तत्सृष्ट्वा तदेवानुपाविशत् चापि मां विद्धि" इत्येवमादिश्रुतिस्मृतिशतेभ्यः । " तयोर्ध्व- "क्षेत्रज्ञ १ ज. प. 'रेकामा । २ ज. 'दित्यत आह। ३ ख. इ. छ. ट. °नं च । ४ ज. 8. म. कं यते । ५ क. ख. ग. घ. छ. ज. ट सिद्धिश्च ।
१२द्वादशोऽनुवाकः] तैत्तिरीयोपनिषत् । । कर्म प्रधानं विद्या चोपसर्ननामति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति-पतेनेति। अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः । मोक्षेति। मोक्षस्य प्रतिबन्धहेतुरविद्याधर्मादिस्तन्निवर्तके विशाकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् । प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । " भिद्यते हृदयग्रन्थिः " इत्यादिश्रुतेः । केवलविद्यासाध्यैवावि- द्यानिवृत्तिः । न तत्र विद्यायाः सहकार्यपेक्षा । कर्मफलं स्वन्यदेव प्रसिद्धमित्याह-व कर्मण इति । उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्ति- वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादिस्वादनाधेयातिशयत्वादविकार्य- स्थान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः । प्रतियुतेरिति । अर्चिरादिगतिश्रवणाद्ब्रह्मा- ण्डाबहिःस्थितब्रह्मप्राप्तिमोक्षः । ततो नित्याप्तस्वमसिद्धमित्यर्थः । गैस्वा प्राप्तिः किं संयोग- लक्षणा तादात्म्यलक्षणा वा, नोभयथाऽपीत्याह- सर्वशतवादिति । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् । अथापि स्याद्यद्यप्राप्यो मोक्षस्तदा गतिश्रुतीनां " एकधा" "स यदि प्रिवृलोककामो भवति" "लीमिर्वा यार्वा " इत्यादिश्रुतीनां व कोपः स्यादिति चेत् । न । कार्यबह्मविष- यत्वातासाम् । कार्ये हि ब्रह्मणि रूयादयः स्युर्न कारणे " एकमेवादि- तीयं" यत्र नान्यत्पश्यति" " तत्केन क्रं पश्येत्" इत्यादिश्रुतिभ्यः । विरोधाच विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रविलीनकादिकारकवि. शेषतत्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कादिविशेषवत्तच्छून्यं चेत्युभयथा द्रष्टुं शक्यते। अवश्यं ह्यन्यतरन्मिथ्या स्यादन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वा- भाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम्, “युत्र हि दैतमिव भवति" मृत्योः स मृत्युमाप्नोति अथ यनान्यत्पश्यति तदल्पम्" " अन्योऽ- सावन्योऽहमस्मि "उदरमन्तरं कुरुते अथ तस्य भयं भवति" इत्यादिश्रुतिशतेभ्यः। सत्यत्वं चैकत्वस्यैकधैवानुद्रष्टव्यम् । “एकमेवाद्विती- युम्" "बौवेदः सर्वम्" " आत्मैवेदः सर्वम्" इत्यादिश्रुतिभ्यः । न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादश्च विद्या- विषये सहस्रशःश्रूयते । अतो विरोधोविद्याकर्मणोः। अतश्च समुच्चयानु- "" पपत्तिः। १ ग. बन्धे हे । २ ज. °कार्यापे। ३ क. तिरपूर्वस्य । ४ इ. गत्या । ५ च. मोक्षोऽस्ति तदा।
आनन्दगिरिकृतटीकासंवलितशांकरमाध्यसमेता-शीक्षाध्याये- गत्यादिश्रुतेस्तात्पर्य शङ्कापूर्वकं दर्शयति-गत्यवत्यादिना । समुच्चयमम्युप- गम्य कर्मकार्य किंचिन्मोक्षे न संभवतीत्युक्तम् । सोऽपि न संभवतीस्याह-विरोधा- नेत्यादिना। तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इति । अनुपपन्नं तत् । विहितत्वात्कर्मणाम् । श्रुतिविरोध इति चेत् । म्युपसृद्य कर्नादिकार- कविशेषमात्मैकत्वविज्ञानं विधीयते । सर्पादिभ्रान्ति विज्ञानोपमर्दकर- ज्ज्वादिविषयविज्ञानवत्याप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः । प्रमाणत्वा- छुतीनामिति बेन पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । यदि कादिकारकभेदस्य सत्यत्यांशमपबाध्य ब्रह्मज्ञानमुपदिश्यते तदा मिथ्यार्थत्वाकर्म- विधीनामप्रामाण्यं स्यादित्याह-विहितवादिति। शङ्कां विवृणोति-यदीत्यादिना। अध्ययनविधिगृहीतानां श्रुतीनां पुरुषार्थोपदर्शकवेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्य- स्वेन । ततः प्रसिद्धिसिद्ध कारकादिभेदमर्थक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरु- ध्यत इत्याह- पुरुषार्थेति । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसार- हेतोरविद्याया विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः। एवमपि कादिकारकसद्भावप्रतिपादनपरंशास्त्रं विरुध्यत एवेति चेन्न । यथाप्राप्तमेव कारकास्तित्वमुपादायोपात्तदुरितक्षयार्थ कर्माणि विद्धच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रि- यते । उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्ति वकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात्ततश्चाविद्यानिवृत्तिस्तत आत्यन्तिकः संसारोपरमः । संग्रहवाक्यं विवृणोति-विद्योपदेशपरा तावदित्यादिना । अपि चनात्मदर्शिनो ह्यनात्मविषयः कामः । कामयमानश्च करोति कर्माणि । ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्यतिरेकेणाऽऽत्मैकत्वदर्शिनो विषयाभावात्कामानुत्पत्तिरात्मनि चान- न्यत्वाकामानुत्पत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणों- -- विरोधः। ख. ग. घ. ६. च, छ. अ. ट. 'नुपपत्तिः । २ प. उ. छ. अ. नुपपत्तौ ।
१२द्वादशोऽनुवाक:] तैत्तिरीयोपनिषत् । ४१ पूर्व सत्यमिथ्याविषयत्वेन विद्याकर्मणोविरोधमादाय समुच्चयो निरस्तः । इदामी काम्य- कामिविषयत्वेन विरोधमाह-अपि वेत्यादिना । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोपचितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्या- नीति । अत एवास्मिन्प्रकरण उपन्यस्तानि कर्माणीत्यवोचाम । एवं चाविरोधः कर्मविधिश्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् । समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति-विरोधादेव चेति । विद्या चेत्कर्माणि स्वफले नापेक्षते विरुद्धत्वात्रिदण्डीधर्मवहतुगमनं कथं तर्हि विद्यासंनिधाने कर्मणां पाठ इत्यत आह-स्वात्मलाभे विति । कर्मणां विद्यासाधनत्वं श्रुत्वा गाई- स्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मजडाः । एवं ताश्रमान्तरानुपपत्तिः । कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गार्हस्थ्ये च विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयोऽनु- कूलतराः । न । कर्मानेकस्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि । ब्रह्म- चर्यं तपः सत्यवदनं शमो दमोऽहिंसेत्येवमादीन्यपि कर्माणीतराश्रमप्रसि- द्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णत्वादिद्यन्ते ध्यानधारणादिल- क्षणानि च । वक्ष्यति च-"तपसा ब्रह्म विजिज्ञासख" इति । जन्मावरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसंभवारकर्मार्थ- स्वाञ्च गार्हस्थ्यप्रतिपत्तेः कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्र- तिपत्तिरनर्थिकैव । लोकार्थत्वाञ्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्चायं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य नित्यसिद्धात्म लोकदर्शिनः कर्मणि प्रयोजनमपश्यतः कथं प्रवृत्तिरुपपद्यते । प्रतिपन्न- गाईस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनम- पश्यतः कर्मभ्यो निवृत्तिरेव स्यात् । “प्राजिष्यन्वा अरेऽहमस्मा- स्थानादसिम' इत्येवमादिश्रुतिलिङ्गदर्शनात् । कम प्रति श्रुतेर्यलाधि- क्यदर्शनादयुक्तमिति अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यलो महाश्च कर्मण्यायासोऽनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् । तपोब्रह्मचर्या- दीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाचे. तरेषां न युक्तस्तुल्यवंद्विकल्प आश्रमिभिस्तस्येति जेन्न । जन्मान्तरक- तानुग्रहात् । १ ख. ग. च. काम्याकाम्यवि ।
* ४२ आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता- [शीक्षाध्याये- पवं तहीति । भुतिस्मृतिण्वाश्रमान्तराणामपि विहितस्वाविशेषात्तदीयकर्मसु कर्म- स्वाविशेषाञ्च ग्राम्यधर्मरागिणामेवैतच्चोघमित्याह- कर्मानेकत्वादिति । असं- कीर्णवादिति । हिंसाद्यमिश्रितस्वादित्यर्थः । इतश्च कर्मणो विद्यासाधनस्वेऽपि न गार्हस्थ्यमावश्यकमित्याह-जन्मान्तरेति । कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्वमित्यत्र हेस्वन्तरमाह-लोकार्थत्वाचेत्यादिना । गार्हस्थ्यस्यानावश्यक- स्वेन वैकल्पिकमनुष्ठानमुक्तं तत्रातुल्यबलस्वेन विकल्पमाक्षिपति-कर्म प्रति श्रुतेरिति । यदुकं कर्मणि श्रुतेरधिको यल इत्यादि । नासौ दोषः । यतो जन्मान्तरकृतमप्यनिहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानु- ग्राहकं भवति विद्योत्पत्तिं प्रति । येन जन्मनैव विरक्ता दृश्यन्ते केचि. त् । केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मा. न्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते कर्मफलबा- हुल्याच पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात् । तत्पति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपप- यते । आशिषां बाहुल्यदर्शनादिदं मे स्यादिदं मे स्यादित्युपायत्वाच । उपायभूतानि हि कर्माणि विद्या प्रतीत्यवोचाम । उपायेऽधिको यत्नः कर्तव्यो नोपेये। जन्मान्तरकृतानुग्रहादिति परिहारभाष्यं विवृणोति-यदुक्तमित्यादिना । कर्मणि यत्नाधिक्यस्यान्यथासिद्धत्वाद्विकल्पविघातकत्वं न संभवतीत्यर्थः । कर्मचिमिसत्वाविद्याया यत्नान्तरानर्थक्यमिति नेत्कर्मम्य एव पूर्वो- पचितदुरितप्रतिबन्धक्षयादेव विद्योत्पद्यते चेत्कर्मभ्यः पृथगुपनिषच्छ्रव. णादियत्नोऽनर्थक इति चेत् । न । नियमाभावात् । न हि प्रतिबन्धक्ष- यादेव विद्योत्पद्यते न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानादिति निय- मोऽस्ति । अहिंसाब्रह्मचर्यादीनां च विद्या प्रत्युपकारकत्वात्साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनानाम् । अतः सिद्धान्याश्रमान्त- राणि । सर्वेषां चाधिकारो विद्यायां, परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभग- व्रतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये द्वादशोऽनुवाकः ॥ १२ ॥ . क.स. म. मिश्रत्यादि।
१२द्वादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ४३ इदानीं गृहस्थाश्रमकर्मणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गाविद्यासाधनत्वमिति विशेषं दर्शयितुं चोथमुद्भावयति-कर्मनिमित्तवादित्यादिना ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताय तैत्तिरीयोपनि. षच्छांकरभाष्य टीकायां शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२ ॥ शं नः शीक्षा सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्वृतं चाहं वेदमनूच्य शं नो द्वादश ॥ शं को मह इत्यादित्यो नो ईतराणि त्रयोविशतिः ॥ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा।शं न इन्दो बृहस्पतिः । शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे।नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म बदिष्यामि । ऋतं वैदि- ष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अव॑तु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। इति कृष्णयजुर्वेदीयतैचिरीयोपनिषदि प्रथमः शीक्षाध्यायः समाप्तः* ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमठोविन्दमगवत्पूज्यपादशिष्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये प्रथमः शीक्षाध्यायः ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्भ- गवदानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छांकरभाष्यटीकायां प्रथमः शीक्षाध्यायः ॥ १ ॥ * तैत्तिरीयारण्यकक्रोण सूप्तमप्रपाठकस्थ समाप्ति । थिव्यमोमि।
अथ तैत्तिरीयोपनिषदि द्वितीयो ब्रह्मवल्यध्यायः। तत्र प्रथमोऽनुवाकः । हरिः ॐ। - शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्दो बृहस्पतिः । शं नो विष्णुरुरुकमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि- ष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नाव/तमस्तु मा विद्वि- षावहै । ॐ शान्तिः शान्तिः शान्तिः शान्तिः । शं नो मित्र इत्याद्यतीतविद्याप्राप्त्युपसर्गप्रशमनार्थी शान्तिः पठिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्थी शान्तिः पठ्यते-शं नो मित्र इति सह नाववस्विति च । शं नो मित्र इत्यादि पूर्ववत्स्पष्टम् । सह नाववतु दो शिष्याचा? सहैवावतु रक्षतु । सह नौ भुनक्तु भोजयतु । मह वीयं विद्यादिनिमित्तं सामर्थ्य करवावहै निर्वर्त- यावहै । तेजस्वि नावावयोस्तेजस्विनोरधीतं स्वधीतमस्तु । अर्थज्ञानयो- ग्यमस्त्वित्यर्थः । मा विद्विषावहै विद्याग्रहणनिमित्तं शिष्यस्याऽऽचा- र्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तस्तच्छमनायेयमाशीर्मा विधि- पावहा इति । मैवेतरेतरं विद्वेषमापद्यावहै । शान्तिः शान्तिः शान्तिरिति १ क. ग. घ. छ. अ. टे. °नसंयोग्यस्त्वि।
ASABALIBALL INSTITUTI १प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ४५ निर्वचनमुक्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमनार्थं चेयं शान्तिः । अवि- प्रेनाऽऽत्मविद्याप्राप्तिराशास्यते तन्मूलं हि परं श्रेय इति । शान्तिद्वयस्यापोनरुक्त्यमाह-शं नो मित्र इति । इदानीं परविद्यार्थिनमप्यवत साधारण्येन मया पूर्व प्रार्थितत्वादित्यर्थः । असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह- सह नाववबिति । तावावयोस्तेनस्विनोरधीतं तेजस्थ्यसिखति योजना । ॐ ब्रह्मविदामोति परम् । संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं चान्तःसोपाधिकात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलंम् । न चैता- वताऽशेषतः संसारबीजस्योपमर्दनमस्तीत्यतोऽशेपोपद्रवबीजस्याज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते ब्रह्मविदामोति परभित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिस्तत आत्य- न्तिकः संसाराभावः । वक्ष्यति च-" विद्धान बिभेति कुतश्चन" इति। संसारनिमित्ते च सत्यभयं प्रतिष्ठांच विन्दत इत्यनुपपन्नम् । कृताकृते पुण्यपापे नु तपतः इति च । अतोऽवगम्यतेऽस्माद्विज्ञानात्सर्वात्मब्रह्म- विषयादात्यन्तिकः संसाराभाव इति । स्वयमेव च प्रयोजनमाह ब्रह्म- विदाप्नोति परमित्यादावेव संबन्धप्रयोजनज्ञापनार्थम् । नितियोहि संबन्धप्रयोजनयोविद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । अधणादि- पूर्वकं हि विद्याफलम् "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादि. श्रुत्यन्तरेभ्यः । ब्रह्मविद्ब्रह्मेति वक्ष्यमाणलक्षणं बृहत्तमत्वाद्ब्रह्म तद्वेत्ति विजानातीति ब्रह्मविदाप्नोति. पुरं निरतिशयं तदेव ब्रह्म परम् । न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः। स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्म- विदो दर्शयति "स यो हुनै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इत्यादि। वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह-संहितादीत्यादिना । नतु यथा पूर्व- माप्नोति स्वाराज्यमित्यपरविद्याफलमुक्तं . संसारगोचरमेव, तथा परविद्याफलमपि " सोऽजते. सर्वान्कामान् ” इति सर्वविषयसाध्यानन्दान्संसारगोचरानेव दर्शयिष्यति कपमास्यन्तिकः संसाराभाव इत्यत आह-प्रयोजनं चाया इति । सर्वकामशब्देन निरतिशयानन्दा- भिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः । आद्यवाक्यस्यावान्तरतात्पर्यमाह--स्वयमेव वेति । विद्ययैव केवल्या १ ख. ज, न्दाभिव्यक्तिरूपाऽवि।
४६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [अमवस्यध्याय- मोक्षः साधयितुं शक्यते । ब्रह्मविदितिविशेषणात्संबन्धज्ञापनस्य पुरुषाकाङ्क्षाविषयतया पर प्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्कय यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यमित्यत्रेत्याह-नितियोति । परशब्देनोस्कृ. ष्टमुच्यते । कथं ब्रह्मेति व्याख्यायते तत्राऽऽह-ज हीति । ननु सर्वगतं सर्वस्याऽऽत्मभूतं ब्रह्म वक्ष्यति । अतो नाऽऽप्यं, प्राप्ति- श्वान्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छिन्नवदनात्मपञ्च तस्याऽऽप्तिरनुपपन्ना। नायं दोषः । कथम् । दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्स्योः । परमार्थतो ब्रह्मरूपस्यापि सतोऽस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन् नान्नमयाद्यात्मदर्शिनस्तदासक्तचेतसः प्रकृतसंख्यापूरणस्याऽऽत्मनोऽव्य- पहितस्यापि बाह्यसंख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत्पर- मार्थबह्मस्वरूपाभावदर्शनलक्षणयाऽविद्ययाऽन्नमयादीन्याह्याननात्मन आत्मत्वेन प्रतिपन्नत्वादन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते । एवमविद्ययाऽऽत्मभूतमपि ब्रह्मानाप्तं स्यात् । तस्यैवमविद्ययाऽनाप्तब्रह्म- स्वरूपस्य प्रकृतसंख्यापूरणस्याऽऽत्मनोऽविद्ययाऽनाप्तस्य सतः केनचि. स्मारितस्य पुनस्तस्यैव विद्ययाऽऽप्तिर्यथा तथा श्रुत्युपदिष्टस्य सर्वात्म- ब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । आमोतिशब्दस्यौपचारिकमर्थ दर्शयितुं शङ्कामुखेन मुख्याथै वाधकमाह-ननु सर्व- गतमित्यादिना । पुरमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्तं स्यादिति संबन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्मत्वदर्शिन इत्यविद्याया विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थ ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता । स्वरूपेऽप्यग्रहणविपर्ययो भवत इत्यत्र दृष्टान्तमाह-प्रक. तेति । प्रकृतसंख्यापूरणस्य दशमस्य नवैव पयं वर्तामह इति विपर्ययः स्वरूपादर्शनं व ययेत्यर्थः । अदर्शननिमित्तामनाप्तिं विविच्य दर्शननिमित्तामाप्तिं विवृणोति-तस्यैवमिति । ब्रह्मविदाप्नोति परमिति वाक्यं सूत्रमूतं सर्वस्य वल्ल्यर्थस्य ब्रह्मविदा- मोति परमित्यनेन वाक्येन वेद्यतया सूषितस्य ब्रह्मणोऽनिर्धारितस्वरूपवि. शेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायाविशेषेण चोक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य १. ग. शानस्य । २ ज.म. ज्ञानस्य । ठ.मित्याह ।
१प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ४७ विशेषेण प्रत्यगात्मतयाऽनन्यरूपेण विज्ञेयत्वाय ब्रह्मविद्याफलं च ब्रह्म- विदो यत्परब्रह्मप्राप्तिलक्षणमुक्तं स सर्वात्मभावः सर्वसंसारधर्मातीतब- मस्वरूपत्वमेव नान्यदित्येतत्प्रदर्शनायैषणुदाह्रियते- तदेशायुक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । तदेषाऽभ्युक्तेति । तत्तस्मिन्नेव ब्राह्मणवाक्योक्तेऽर्थ एषर्गभ्युकाss- माता । सत्यं ज्ञानमवन्तं ब्रह्मेति ब्रह्मणो लक्षणार्थ वाक्यम् । सत्या- दीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म विवक्षितत्याद्वेद्यतया । विशेषणविशेष्यत्वादेव सत्यादीन्येकविम- क्त्यन्तानि पदानि समानाधिकरणानि । सत्यादिमिस्त्रिभिविशेषणेविशे- ध्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञानं भवति यद- न्येभ्यो निर्धारितम् । यथा लोके नीलं महत्सुगन्ध्युत्पल मिति । आधं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति-बह्मविदा. मोतीत्यादिना । सर्वतो व्यावतो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्या- भिधानेन स्वरूपनिर्धारणायैषदाहियत इति संबन्धः । बृहत्वाब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धि- रुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयं घटादि विजातीयम् । तस्मात्स- जातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणस्वप्रसिद्धिरुपपद्यते । लक्षणाभि- धानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः । पूर्वत्र ब्राह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमित्येवमर्था चर्मुदाहियत इत्याह-अविशेषेण चेति । आपातप्रतिपन्न विशेषणविशेष्यभावमादाय पदानि विभजते-सत्यादीनि हि त्रीणीति । विशेषणार्थातीति । व्यावृत्त्यर्थानि । कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह- विशेषणविशेष्यत्वादेवेति । नीलं महत्सुगन्ध्युत्पलमित्यादौ सत्येव विशेषण. विशेष्यभावे समानाधिकरणतयैकविभक्स्यन्तानि प्रसिद्धान्येतान्यपि च तथाभूतानि नाना- थगतविशेषणविशेष्यभावनिवन्धनानीति गम्यत इत्यर्थः । विशेषणविशेष्यभावस्य फलमाह- एवं हीति। ननु विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते । यथा नीलं रक्तं चोत्पलमिति । यदा ह्यनेकानि द्रव्याण्येकजातीयान्यनेकविशेषणयो- १. तरमत्र सं°।
.४८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[ब्रह्मवठ्यध्याये- गीनि तदा विशेषणस्यार्थवत्त्वम् । न ह्येकस्मिन्नेव वस्तुनि विशेषणान्त- रायोगाद्यथाऽसावेक आदित्य इति तथैकमेव च ब्रह्म न ब्रह्मान्तराणि येभ्यो विशेष्येत नीलोत्पलवत् । न । लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् । यस्माल्लक्षणार्थप्रधानानि विशेषणानि न विशेषण- प्रधानान्येव । कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेष इति । उच्यते । समानजातीयेभ्य एवं निवर्तकानि विशेषणानि, विशेष्यस्य लक्षणं तु सर्वत एव . यथाऽवकाशदात्राकाशमिलि । लक्षणार्थं च वाक्यमित्यवोचाम। विशेषणविशेष्यभावमाक्षिपति-नन्विति । नीलत्वं व्यभिचरदुत्पलं रक्तमपि संभव- तीति नीलं विशेषणं घटते.न तथा सत्यत्वादिकं व्यभिचरद्ब्रह्मान्तरं लोके प्रसिद्धम् । ततः सनातीयव्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः । विशेषणविशेष्य- भावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेनानिर्वाच्यविशेषणविशे- ज्यभावसंभवात्तद्वारेण ब्रह्मलक्षणं विवक्षितमित्याह-तेति । संग्रहवाक्यं विवृणोति- नायं दोष इत्यादिना । सर्वत एवेति । सजातीयाद्विजातीयाच्च यथा महाभूत- स्वेन सदृशभावास्पृथिव्यादेविसदृशाचाऽऽस्मादेशकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः । एतदुक्तं भवति--अतिव्याप्स्यादिरहितो व्यावर्तको धर्मो लक्षणं न्यायविशेष इति मीमां- सकाः । ब्रह्मपदव्युत्पत्तिबलेन यदविशेषतः प्रतिपन्नं किंचिन्महदस्तीति तत्सत्यं ज्ञानमनन्त- मनृतजडपरिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति तार्किकाः । पुनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणादेव स्वभावविशेषप्रमितिः । यथा गुणवद्रव्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभाव- विशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्वा व्यवहारसिद्धिः फलं गुणवद्व्यमिति व्यवहर्तव्यं गुणवत्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यस्वादि- मद्ब्रह्मेति व्यवहर्तव्यं सत्यस्वादिमत्त्वान्न यदेवं न तदेवं यथा घट इति । एतच खण्डनयु- क्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या । सत्यादिशब्दा न परस्परं संबध्यन्ते परार्थत्वाद्विशेष्यार्था हि ते । अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन संबध्यते । सत्यं ब्रह्म ज्ञानं ब्रह्मानन्तं ब्रह्मेति । सत्यमिति पळूपेण यनिश्चितं तद्रूपं न व्यभिचरति तत्सत्यं यद्रूपेण निश्चितं यत्तद्रूपं व्यभिचरंदनृत- मित्युच्यते । अतो विकारोऽनृतं "वाचारमण विकारो वामधेयं मृत्ति- १म. . सक्ष्मशा का १प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । केत्येव सत्यम्" एवं सदेव सत्यमित्यवधारणादतः सत्यं ब्रह्मेति ब्रह्म- विकारान्निवर्तयति। अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कार- कत्वं वस्तुत्वान्मृद्वदचिद्रूपता च प्राप्ताऽत इदमुच्यते ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिरवबोधो भावसाधनो ज्ञानशब्दो ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह। न हि सत्यताऽनन्तता च ज्ञानकर्तृत्वे सत्युपपद्यते। ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेदनन्तं च । यद्धि न कुतश्चित्मविभज्यते तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् । "यत्र नान्यद्विजानाति स भूमा" “अथ यत्रान्यद्विजानाति तदल्पम्" इति श्रुत्यन्तरात् । पुनर्विशेषणविशेष्यभावपक्षमवलम्ब्याऽऽह-सत्यादिशब्दा इति । सत्यं ब्रह्मेत्युक्ते जाड्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते नडस्य परिच्छिन्नस्य सर्वस्यानृतत्वाज्ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य बाधाविषयत्वात्परिच्छेदग्राहकप्रमाणा- विषयत्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यारसत्यादि- पदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्त्यमाह-सत्यमिति यदपेणेत्यादिना ! भाव- साधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मानं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसंनिधानादिति द्रष्टव्यम् । तान्यद्विजानातीति विशेषप्रतिषेधादात्मानं विजानातीति चेन्न । मूम- लक्षणविधिपरत्वाद्वाक्यस्य। यत्र जान्यत्पश्यतीत्यादि भूम्रो लक्षणविधि- परं वाक्यम् । यथा प्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति स भूमेति भूमस्वरूपं तत्र ज्ञाप्यतेऽन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वान्न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुप- पत्तिः।आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः। ज्ञेयत्वेनैव विनियुक्तत्वात् । एक एवाऽऽत्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेन्न । युगप- दनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिषद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । न हि घटादिवत्मसिद्धस्य ज्ञानोपदेशोऽर्थवान् । तस्माज्ज्ञातृत्वे सत्यानन्त्यानुपपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति । सन्मावत्वं च सत्यत्वम्, तत्सत्यमिति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ज्ञानं ब्रह्मेति कर्तृत्वादि- १ज.स. ठ. क्षद्वयम।२ ग. प्र. पिकं 1 3 ख. ग तीरी , शशशृङ्गधनुर्धरः ॥ आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता-[ब्रह्मवन्यध्याये- कारकनिवृत्त्यर्थं मृदादिवचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ज्ञानं ब्रह्मेति-' वचनात्माप्तमन्तवत्त्वम् । लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात् । अतस्त- निवृत्त्यर्थमाह-अनन्तमिति । विशेषनिषेधः शेषाभ्यनुयाविषय इति न्यायेन प्रासङ्गिक स्वज्ञातृत्वे तात्पर्यमाशङ्कय निषेधति-नान्यविज्ञानातीत्यादिना । कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् । स्वात्मनि च भेदाभावान्निरुपपत्तिके स्वज्ञातृत्वे तात्पर्य कल्पयितुं न शक्यत इत्याह-वासनि नेति । सत्यादीवामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्रह्मण उत्पलादिवद- प्रसिद्धत्वात् । "मृगतृष्णाम्भसि सातः खपुष्पकृतशेखरः । एष वन्ध्यामुतो याति इतिवच्छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति बेत्र लक्षणार्थवान् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्येऽनर्थकं लक्षणवचनं लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशे- षणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । सत्यादीनि व्यावृत्त्यानीत्युक्तं तत्र शङ्कते-सत्यादीवामिति । प्रमाणान्तर- सिद्धमुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीनां च व्यावृत्त्यर्थत्वादसदर्थ वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे संभवति प्रमाणान्त- रविशेषणमनर्थकं केवलव्यतिरेकामावान्मिथ्यार्थस्य रज्जुसर्पदेः सदधिष्ठानत्वदर्शनात्प्रपञ्च- स्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वं संभाव्यते तस्य प्रपञ्चाधिष्ठानतया संभावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याह- लक्षणार्थ- वादिति । विशेषणार्थत्वमभ्युपगम्याऽऽह---विशेषणार्थत्वेऽपि चेति । नीलं मह- दित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि, तथा सत्यशब्दोऽ- प्यबाधितसत्त्वे व्युत्पन्नो,ज्ञानशब्दः स्वप्रकाशे विषयसंवेदनेऽनन्तोऽयमाकाश इत्यादावतन्त- शब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकस्वान्न व्यावृत्तिमात्रपर्यवसानमित्यर्थः । शून्यार्थवे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सव्या- यथैरर्थवत्त्वे तु तद्विपरीतधर्मवभ्यो विशेषेभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते, ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । बवानन्तशब्दोऽ. ब. समर्थ के । ग.ज.म.णमसमर्थे के। क. "सायीत्य ।
. १प्रथमोऽनुवाक:) तैत्तिरीयोपनिषत् । ५१ न्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः। किंच विशेषणस्य व्यावर्तकवं सति व्यावर्ये घटतेऽतो विशेषणत्वानुपपत्त्यैव सदर्थत्वं वाच्यमित्याह-शून्यार्थत्वे हीति । यचोक्तं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽऽह- ब्रह्मशब्दोऽपीति । "बृह बृहि वृद्धौ” इति धातो झेति शब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं संकोचकमानान्तराभावान्निरतिश- यमहत्त्वसंपन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्यासुतादिशब्दविलक्षणो ब्राह्मशब्द इत्यर्थः । सम्मादिषु त्रिषु विशेषणेप्ववान्तरभेदमाह-तत्रानन्तति । तस्माद्वा एतस्मादात्मन इति ब्रह्मण्येवाऽऽत्मशब्दप्रयोगाद्वेदितु- रात्मा ब्रह्म। एतमानन्दमयमात्मानमुपसंक्रामतीति च तत्प्रवेशाच्च । तत्सृष्ट्वा तदेवानुपाविशदिति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्श- यति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तात्मत्वाज्ज्ञानकर्तृत्वमात्मा ज्ञातेति हि प्रसिद्धम् । सोऽकामयतेति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः। अतो ज्ञानकर्तृत्वाज्ज्ञप्तिब्रह्मेत्ययुक्तमनित्यत्वप्रसङ्गाच्च । यदि नाम ज्ञप्ति- निमिति भावरूपता ब्रह्मणस्तथाऽप्यनित्यत्वं प्रसज्येत पारतम्यं च । धात्वर्थानां कारकापेक्षत्वात् । ज्ञानं च धात्वर्थोऽतोऽस्यानित्यत्वं पर- तन्त्रता च ।न, स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिर्न ततो व्यतिरिच्यतेऽतो नित्यैव तथाऽपि बुद्धरुपाधिलक्षणायाध. क्षुरादिद्वारैर्विषयाकारेण परिणामिन्या ये शब्दाद्याकारावभासास्त आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एवाऽऽत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभासाश्च ते विज्ञानशब्दवाच्याश्च धात्व- र्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविषेकिभिः परिकल्प्यन्ते । अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शास्त्रतात्पर्य दर्शयति- तस्माद्वा इत्यादिना । ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशख्वस्य भावसाधनस्व- व्याख्यानं हीयेतेत्याह-एवं तहीति । इतश्च भावव्युत्पत्तिरसंगतेत्याह-अनित्य- त्वप्रसाञ्चेति । वृत्तिमदन्तःकरणोपहितत्वेनाऽऽस्मनो ज्ञातृत्वं न स्वतः, कार्यत्वं च ज्ञानस्यान्तःकरणवृत्त्युपहितत्वेन. तत आस्माभिन्नत्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह-न खम्पति । यत्तु न(य)ब्रह्मणो विज्ञानं तत्सवितृप्रकाशवदग्न्युष्णवञ्च ब्रह्मस्वरूपा- ५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ब्रह्मवक्ष्यध्याये- व्यतिरिक्तं स्वरूपमेव र तत्कारणान्तरसव्यपेक्षम् । नित्यस्वरूपत्वात् । सर्वभावानां च तेनाविमक्तदेशकालत्वाकालाकाशादिकारणत्वाञ्च निर- तिशयसूक्ष्मत्वाञ्च न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वाऽस्ति तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाज- "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यापित वेता तमाहुण्यं पुरुषं महान्तम्" इति। " हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु ताहिती- यमस्ति" इत्यादिश्रुतेश्च । नित्यं चेज्ज्ञानं तर्हि तत्र ब्रह्मणः कर्तृत्वाभावे कथं सर्वज्ञस्वमित्यत आह-सर्व. भावानां वेति । संविदव्यवधानमेव हि विषयस्य सिद्धिः सर्व च संविस्स्वभावेन ब्रह्म- णाऽव्यवहितमिति सर्वज्ञं ब्रह्मोपर्यत इत्यर्थः । नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसंमतिमाह--मन्नवर्णाचेति । विज्ञातृस्वरूपाख्यव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिखो नैव धात्वर्थस्तदक्रियारूपत्वात् । अन पर ब न ज्ञानकर्तृ, तस्मादेव च न ज्ञानशब्दवाच्यमपि तब्रह्म । वथाऽपि तदाभासवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तूच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वोत् । तथा सत्यशब्देनापि सर्वविशेषप्रत्यस्तमितस्वरूपत्वाब्रह्मणो बाह्यसत्तासामान्यविषयेण सत्य- शब्देन लक्ष्यते सत्यं ब्रह्मेति न तु सत्यशब्दवाच्यमेव ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधावन्योन्यनियम्यनियामकाः सन्तः सत्या- दिशब्दवाच्यात्तन्निवर्तका ब्रह्मणों लक्षणार्थाश्च भवन्तीत्यतः मिन्द्धं "यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह” “अनिरुक्तेऽनिलयने" इति चावाच्यत्वं नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः । ब्रह्मानित्यं ज्ञानस्वाल्लौकिकज्ञानवदित्यादि चोद्यमप्युक्तन्यायेन निरस्तमित्याह- विज्ञातृस्वरूप्रेति । लौकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावादन्यथा सुषुप्तिसिद्धय- नुपपत्तेः परामर्शासंभवप्रसङ्गादतः श्रुतितात्पर्यगम्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः । आत्मनः स्वरूपभूतं ज्ञानं कौरकसाध्यं धात्वर्थत्वादिति चासिद्धमि- १ ख. वात्सत्यानन्तसामानाधिकरण्यात्तथा ।.ट. त्यासत्यानन्तशब्दाभ्यो सामानाधि.
१प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ५३ त्याह-अत इति । नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यस्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते । लौकिकानित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह-तस्मादेव वेति । कयं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह-तथाऽपीति । शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इस्यादौ तदभावाच्छब्दान्तरेणापि वाच्यं न भवतीत्याह-तथेति । तथा सत्यशब्देनापि न वाच्यं ब्रह्मेति शेषः । एतत्स्फुटयति—सर्वविशेषेति । सत्ता यस्यास्ति तस्सत्यमिति लोकरूतिः । सत्ता चानुगतरूपं सामान्य व्यावृत्ताः सत्ताविशेषाः । स चायमनुवृत्तव्यावृत्तभावो न. वस्तु परस्परापेक्षसिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तभावः कल्पितस्तव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः । एवमेकैकस्य शब्दस्यार्थमुक्त्वा वाक्यार्थमाह-एवं सत्यादीति । यद्यपि सत्या- दिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तथाऽप्यरुणयैकहायन्यादिवत्पोर्णिकान्वयेनेतरेतरसंनिधाव- न्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशेषणास्त्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशेषणानानन्तशब्दो ज्ञातृव्यतिरिक्त वर्तते । ततश्च सत्यादिशब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति संभावयन्तः सकललौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्षयन्तीत्यर्थः । ततः किं फलतीत्यत आह–अतः सिद्धमिति । वाचकशक्त्या बोधकत्वानङ्गीकारावाच्यत्वं सकलानिष्टव्य- वच्छेदेनैकस्यैव लक्ष्यस्वाभ्युपगमाच्च गुणगुण्यादिसंभेदरूपवाक्यार्थवैलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । यो वेद्र निहितं गुहायां परमे व्योमन् । तद्यथाव्याख्यातं ब्रह्म यो वेद विजानाति निहितं स्थितं गुहायाम् । गृहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गृहा बुद्धिः। गूढावस्या भोगापवर्गों पुरुषार्थाविति वा तस्यां परमे प्रकृष्टे व्योमन्व्यो म्न्याकाशेऽव्याकृताख्ये । वद्धि परमं व्योम "एतस्मिन्खल्वक्षरे गा-- काशः" इत्यक्षरसंनिकर्पात् । गुहायां व्योम्नीति वा सामानाधिकरण्या- दव्याकृताकाशमेव गुहा, तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच । तस्मिन्नन्तनिहितं ब्रह्म । हार्दमेव तु परम ध्योमेति न्याय्यं विज्ञानाङ्गत्वेनोपासनाङ्गत्वेन व्योम्नो विवक्षितत्वात् । बुद्धौ कार्ये यदनुगतं परमं योगव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधि- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ब्रह्मवल्यध्याये- करण्येन व्याख्यातम् । व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यातं तत्राऽऽह-तद्धीति । भूताकाशस्य कार्यत्वेनापरस्वादव्याकृताकाशस्य कारण- स्वेन परमस्वविशेषणसंभवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः । एवं पराभिप्रायेण व्याख्याय स्वाभिप्रायं व्याचष्टे---हार्दमेव त्विति । हृदयावच्छिन्ने भूताकाशे या गुहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टुभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽ. व्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत, पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टुचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । "यो बैस बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तहृदय आकाशः" इति श्रुत्यन्तरात्प्रसिद्धं हाईस्य व्योम्नः पर- मत्वम् । तस्मिन्हार्दै व्योनि या बुद्धिर्गहा तस्यां निहितं ब्रह्म तवृत्त्या विविक्ततयोपलभ्यत इति । न ह्यन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्रह्मणः सर्वगतत्वान्निविशेषत्वाच्च । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह-यो वा इति । ननु निहित- शब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह- न हीति । अन्यथेति । उपलम्भव्यतिरेकेणाविद्यावस्थायाम् । मेोऽश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चितेति । स एवं ब्रह्म विजानन्किमित्याह-अश्नुते भुते सर्वानिरवशिष्टान्का- मान्भोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण, नेत्याह । सह युगपदेकक्षणोपारूढानेवैकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरू- पाव्यतिरिक्तंया यामवोचाम सत्यं ज्ञानमनन्तमिति । एतत्तदुच्यते- ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान्बह्मस्वरूपेणैव सर्वात्कामान्सहानुते, न यथोपाधिकृतेन स्वरूपेणाऽऽत्मना जलसूर्यकादिवत्पतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च कामात्पर्याये. णारते लोकः । कथं तहि ,यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वा. स्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादिकरणनिर- पेक्षांश्च सर्वान्कामान्सहैवाहनत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । - ५५ १प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । तद्धि वैपश्चित्यं यत्सर्वज्ञत्वं तेन सर्वज्ञस्वरूपेण ब्रह्मणाऽश्नत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः । ये सुखविशेषा हिरण्यगर्भाशुपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यतिरेका. ब्रह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नत इत्युपचारेण बहुवचनमित्यर्थः । सर्व एव वल्लयों ब्रह्मविदाप्रति प्ररमिति ब्राह्मणवाक्येन सूत्रितः । स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणा- र्थनिर्णयः कर्तव्य इत्युत्तरस्तवृत्तिस्थानीयो ग्रन्थ आरभ्यते तस्मादा एतस्मादित्यादिः । तत्र च सत्यं ज्ञानमनन्तं ब्रह्मेत्युक्तं मन्त्रादौ तत्कथं सत्यं ज्ञानमनन्तं चेत्यत आह । तत्र त्रिविधं ह्यानन्त्यं, देशतः कालतो वस्तुतश्चेति । तद्यथा देशतोऽनन्त आकाशो, ने हि देशतस्तस्य परि- च्छेदोऽस्ति । न तु कालतश्चाऽऽनन्त्यं वस्तुतश्चाऽऽकाशस्य । कस्मा- स्कार्यत्वात् । नैवं ब्रह्मण आकाशवकालतोऽप्यन्तवत्त्वमकार्यत्वात् । कार्य हि वस्तु कालेन परिच्छिद्यते । अकार्य च ब्रह्म । तस्मात्कालतोऽ- प्यनन्तम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यं, सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्स्वन्तरस्यान्तो भवति । वस्त्वन्तरबुद्धिर्हि प्रसक्ता वस्त्वन्तरानिवर्तते । यतो यस्य बुद्धविनिवृत्तिः स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वाद्विनिवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टो, नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्या- नन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इत्युच्यते, सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तु- तोऽन्तवत्त्वमिति बेन्न । अनृतत्वात्कार्यवस्तुनः। न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति । यतः कारणबुद्धिर्विनिवर्तेत । वाचारमणं विकारो नामधेयं सृचिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतस्तस्य चायं कारणं, तस्मासिद्धं, देशत आत्मन आनन्त्यम् । म यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिदृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतस्तथाऽकार्यत्वात्कालतस्तद्भिन्न- गिराना आनन्दगिरिकृतटीकासंवलितंशांकरभाष्यसमेता- [ब्रह्मवल्यध्याये- वृत्तमनुवदत्युत्तरग्रन्थावतारणाय-सर्व एवेत्यादिना । आकाशादिकारणस्वामिः धानेनाऽऽनन्त्यप्रपञ्चः क्रियत इति समेनन्तरग्रन्थतात्पर्य दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुव- दति-तत्र चेति । वस्तुत आनन्स्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह-मिन्नं हीत्यादिना । विस्तरेणोक्तमानन्स्यं संक्षिप्याऽऽह-तस्मात्सिद्भमिति । देशतोऽ- नवच्छिन्नस्याऽऽकाशस्य कारणास्वाध्यापकत्वाग्निरतिशयमात्मनो देशत आनन्स्यमुकार्यत्वाच्च कालत आनन्त्यं,तद्यतो व्यावर्तेत तस्य पृथगसत्त्वाकार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तु- तोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्यस्वमपि सिद्धम- न्तवत एव रज्जुसादिवदसत्यत्वादिस्यर्थः । तस्मादा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः। वायोरमिः । अनेरापः । अत्यः पृथिवी । पृथिव्या ओषधयः । ओषधीयोऽ- नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः। तस्मादिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते । एतस्मादितिमन्त्रवा. क्येणानन्तरं यथालक्षितम् । यब्रह्माऽऽदौ ब्राह्मणवाक्येन सूत्रितं यच्च सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तरमेव लक्षितं तस्मादेतस्माब्रह्मण आत्मन आत्मशब्दांच्यात् । आत्मा हि तत्सर्वस्य तत्सत्यं स आत्मेति श्रुत्यन्त- रादतो ब्रह्माऽऽत्मा । तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः संभूतः समुत्पन्नः। आकाशो नाम शब्दगुणोऽवकाशकरो मूर्तद्रव्याणाम् । तस्मादाकाशात्स्वेन स्पर्शगुणेन पूर्वेण च कारणगुणेन शब्देन द्विगुणों वायुः। संभूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणोऽग्निः संभूतः । अमेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा आपः संभूताः । अयः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः पञ्चगुणा पृथिवी संभूता । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नादेतोरूपेण परि. णतात्पुरुषः शिरःपाण्याद्याकृतिमान् । स वा एष पुरुषोऽन्तरसमयोऽ- नरसविकारः । पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतं, रेतो बीजं, तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात् । सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् ।
१प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभनते-तस्मादित्यादिना । अन्त्यकार्य- पर्यन्तं परमात्मनः सर्वत्रोपादानस्वादाकाशभावापन्नात्परमात्मन एव वायुः संभूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिगुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रस्वाभिप्रायेण न वैशेषिकपक्षव- तत्त्वमेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे कस्मात्पुरुष एव गृह्यते , प्राधान्यात् । किं पुनः प्राधान्यम् । कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाञ्चार्थी विद्वान्समर्थः कर्मज्ञानयोर- धिक्रियते-" पुरुषे देवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोको मर्यनामु. तमीप्सति" इत्येवं संपन्नः, अथेवरेपां पशूनामशनापिपासे एवाभिवि- ज्ञानमित्यादिश्रुत्यन्तरदर्शनात् । पुरुषग्रहणस्य तात्पर्यमाह-सर्वेषामप्रीति । शक्तत्वादिति विधिनिषेधविवेकसाम. ोपेतत्वादित्युक्तं तत्रैतरेयकश्रुतिसंमतिमाह--पुरुषे खेवेति । ब्राह्मण्यादिनातिमति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मध्येन ज्ञान- कर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः । येन विवेकज्ञानेन पुरुपस्य प्राधान्यं विवक्षितं तत्पश्चादीनां नास्तीत्याह-अथेतरेषामिति । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्यध्याये प्रथमोऽनुवाकः ॥ १॥ स हि पुरुष इह विद्ययाऽन्तरतमं ब्रह्म संक्रामयितुमिष्टस्तस्य च बाह्याकारविशेषेष्वनात्मस्वात्मभाविता बुद्धिरनालम्ब्य विशेष कंचित्स- हसाऽन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरा- मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह-तस्येद्रमेव शिरः । तस्यास्य पुरुषस्यान्नरसमयस्येवमेव शिरः प्रसिद्धम् । प्राणमया. दिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदितीदमेव शिर आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-मायालयध्याये- इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुरुत्तरः प्रक्षः । अयं मध्यमो देहभाग, भारसाऽङ्गानाम् । " मध्यं ह्येषामकातामात्मा" इति श्रुतेः । इदमिति नाभेरधस्ताद्यदहं तत्पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा पुच्छमिव पुच्छमधोलम्बनसामान्याद्यथा गोः पुच्छम् । एतत्प्रकृत्योत्तरेषां प्राणम- यादीनां सपकत्वसिद्धिः । मूषानिषिक्ततताम्रप्रतिमावत् । तथ्येष श्लोको. भवति । तस्मिन्नेवार्थे बाह्मणोक्तेऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति । *इति श्रीमत्परमहंसपरिमानकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतो तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ कोशपञ्चकोपन्यासस्य तात्पर्यमाह--स हीत्यादिना । पक्षपुच्छशब्दप्रयोगात्सुपर्णा- कारक्लप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धरास्मनि स्थिरी- करणार्य नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षया- न्मध्ये ग्रन्थस्योपासनविधौ तात्पर्ये च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थस्वादितिन्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव तत्तबु- द्विस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् । इति श्रीमत्परमहंसपरिवाकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि- षच्छांकरभाष्यटीकायां द्वितीयब्रह्मवलयध्याये प्रथमोऽनुवाकः ॥ १॥ अथ ब्रह्मवल्लयध्याये द्वितीयोऽनुवाकः । - अन्नादै प्रजाः प्रजायन्ते । याः कार्य पृथिवी श्रिवाः। अथो अन्नेनैव जीवन्ति। अथैनदपि यत्यन्ततः । अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधर्मुच्यते । - * अत्र भाष्ये टीकायां च वैदिकपाठानुसारिमूलानुरोधेनैवानुवाकसमाप्तिप्रथिता । एवमेष पुरतोऽपि ब्रह्मवालीसमाप्तिपर्यन्तं शेयम् ।
२द्वितीयोऽनुवाकः] तैत्तिरीयोपनिषत् । अन्नादसादिभावपरिणतात् । वा इति स्मरणार्थः । प्रजाः स्थावरज- हुन्माः प्रजायन्ते । याः काश्वाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रि. तास्ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि जाता अन्नेनैव जीवन्ति प्राणान्धारयन्ति वर्धन्त इत्यर्थः । अथाप्येनदन्नमपि यन्त्यपि गच्छन्ति। अपिशब्दः प्रतिशब्दार्थे । अन्नं प्रति प्रलीयन्त इत्यर्थः । अन्ततोऽन्ते जीवनलक्षणाया वृद्धः परिसमाप्तौ । कस्मात् । अन्नं हि यस्माद्भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हीतरेषां भूतानां कारणमन्न- मतोऽन्नप्रमवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माचैवं तस्मात्सर्वोषधं सर्वप्राणिनां देहदाहप्रशमनमन्नमुच्यते । सर्व वै नेऽनमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते। अन्न हि भूतानां ज्येष्टम् । तस्मात्सर्वोषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्न वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं वदुच्यत इति । अन्नब्रह्मविदः फलमुच्यते । स वै ने समस्तमन्नजातमाप्नुवन्ति । के। येऽन्नं ब्रह्म यथोक्तमुपासते । कथमन्नजोऽन्नात्माऽन्नप्रलयोऽहं तस्मा- पन्नं ब्रह्मेति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमित्युच्यते । अवं. हि भूतानां ज्येष्ठम् । भूतेभ्यः पूर्व निष्पन्नत्वाज्जेष्ठं हि यस्मात्तस्मात्सर्वो- षधमुच्यते । तस्मादुपपन्ना सर्वानात्मोपासकस्य सन्निप्राप्तिः । अथा भूतानि जायन्ते । जातान्यन्नेन वर्धन्त इत्युपसंहारार्थं पुनर्वचनम् । इदानीमन्ननिर्वचनमुच्यते । अद्यते भुज्यते चैव यद्भूतैरनसत्ति ... मूतानि स्वयं तस्माद्भूतैर्भुज्यमानत्वामृतभोक्तत्वाचाकं तदुच्यते । इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः । तस्माद्वा एतस्माद रसमयात् । अन्योऽ- न्तर आत्मा प्राणमयः । तेनैष पूर्णः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकनुष- १७. च । भूतानि स्वयं यस्मात्तस्मादनं तदुच्यते । इति श°।
ध्याये- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ब्रह्मवलय. कोववितुषीकरणेनेव तदन्तर्गततण्डुलान्प्रस्तौति तस्माद्वा एतस्मादन्न- रसमयादित्यादि । तस्मादेतस्माद्यथोक्तादन्नरसमयात्पिण्डादन्यो व्यति.. रिक्तोऽवोऽभ्यन्तर आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः प्राणो वायुस्तन्मयस्तत्मायः । वेन प्राणमयेनान्नरसमय आत्मैप पूर्णो वायुनेव दृतिः । स वा एष पुरुषविध एव । तस्य पुरुषविध- ताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छे प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीय ब्रह्मवल्लयध्याये द्वितीयोऽनुवाकः ॥ २ ॥ स वा एप प्राणमय आत्मा पुरुपविध एव पुरुषाकार एव । शिरः- पक्षादिभिः किं स्वत एव, नेत्याह । प्रसिद्धं तावदन्नरसमयस्याऽऽत्मनः पुरुषविधत्वम् । तस्यान्नरसमयस्य पुरुपविधतां पुरुषाकारताम् । अन्वयं प्राणमयः पुरुषविधो मृपानिषिक्तप्रतिमावन स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुपविधतामनूत्तरोत्तरः पुरुषविधो भवति पूर्दः पूर्वश्चोत्तरो- त्तरेण पूर्णः । कथं पुनः पुरुषविधताऽस्येत्युच्यते । तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणो मुखनासिकानि:- सरणो वृत्तिविशेषः शिर एवं परिकल्प्यते वचनात् । सर्वत्र वच- नादेव पक्षादिकल्पना । च्यानो च्यानवृत्तिर्दक्षिणः पक्षः । अपान उत्तरः पक्ष: । आकाश आत्मा य आकाशस्थो वृत्तिविशेषः समानाख्यः स आत्मेवाऽऽत्मा प्राणवृत्त्यधिकारान्मध्यस्थत्वादितराः पर्यन्ता वृत्तीर- पेक्ष्याऽऽत्मा । “मध्यं ोपामङ्गानामालला" इतिश्रुतिप्रसिद्धं मध्यमस्थ. स्याऽऽत्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवी देवताऽऽध्या- त्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । “सैषा पुरुषस्यापानमव- ट्रभ्य" इति हि श्रुत्यन्तरम् । अन्यथोदानवृत्त्योर्ध्वगमनं गुरुत्वाञ्च पतनं १च. 'प्रसौति ।
३तृतीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । वा स्याच्छरीरस्य तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्याऽs- त्मनः । तत्तस्मिन्नेवार्थे प्राणमयात्मविषय एष श्लोको भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतो तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्यायभाष्ये द्वितीयोऽनुवाकः ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजक चार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरवितायां तैत्तिरीयोपनि. षच्छांकरभाष्यटीकायां ब्रह्मवल्ल्यध्याय द्वितीयोऽनुवाकः ॥ २ ॥ अथ ब्रह्मवल्यध्याये तृतीयोऽनुवाकः । प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यव इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । प्रागं देवा अनु प्राणन्ति । देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकाराद्देवा इन्द्रि- याणि प्राणमनु प्राणन्ति मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च येते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नेनाऽऽत्मनाऽऽत्मवन्तः प्राणिनः । किं तर्हि तदन्तर्गतेन प्राण- मयेनापि साधारणेनैव सर्वपिण्डव्यापिनाऽऽत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमयान्तैराकाशा- दिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः । तथा स्वाभाविके- नाऽऽप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तल- क्षणेन पञ्चकोशातिगेन सर्वात्मनाऽऽत्मवन्तः । स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्युक्तं तत्क- १ ख ग. . °णिनो यथाऽनेकास्तुषकोद्र वास्तया ।
" ध्याये- याव- ६२ आनन्दागिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ब्रह्मवालय- स्मादित्याह । प्राणो हि यस्माद्भूतानां प्राणिनामायुर्जीवनम् । यस्मिन्शरीरे प्राणो वसति तावदायुः" इति श्रुत्यन्तरात् । तस्मात र्वायुषम् । सर्वेषामायुः सर्वायुः सर्वायुरेव सर्वायुषमित्युच्यते । प्राणाप- गमे मरणप्रसिद्धः । प्रसिद्धं हि लोके सर्वायुट्वं प्राणस्य । अतोऽस्माद्वा- ह्यादसाधारणादन्नमयादात्मनोऽपक्रम्यान्तः साधारणं प्राणमयमात्मानं ब्रह्मोपासते ग्रेऽहमस्मि प्राणः सर्वभूतानामात्माऽऽयुर्जीवनहेतुत्वादिति । सर्वमेवाऽऽयुरस्मिल्लोके यन्ति नापमृत्युना म्रियन्ते प्रोप्राप्तादायुप इत्य । शतं वाणीति तु युक्तं सर्वमायुरिति श्रुतिप्रसिद्धेः । किं कारणं, प्राणो हि भूतानामायुस्तस्मात्सर्वायुषमुख्यत इति । यो यनुणकं ब्रह्मोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेहेत्वथं पुनर्वचनं प्राणो हीत्यादि । तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आत्मा। का। य एष प्राणमयः। पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽस्मेति व्याख्यातमापातदर्शनेन, तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकेतच्छब्दकोपाच्च । अतः सर्वकोशाध्यासा- धिष्ठानभूतश्चिदात्मैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह-तथा स्वाभावि- केनेति । अर्थादिति । आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानस्वानुपपत्तश्चेत्यर्थः । असाधारणादिति । व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽस्मबुद्धि हिस्वेत्यर्थः । साधारणमिति । सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेषां पृष्टयादिदर्शना- दित्यर्थः । सर्वभूतानामात्मेति । सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेप एव तस्य प्राणमयस्याऽऽस्मेति योजना । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः। तेनैप पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वय पुरुषविधः । तस्य यजुरेख शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । । * प्राप्तादायुषः प्रागपमृत्युना न म्रियन्त इति योजना। १५. प्रायशतादा।
३तृतीयोऽनुवाकः] तैत्तिरीयोपनिषत् । वस्मादा एतस्मादित्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति संकल्पाद्यात्मकमन्तःकरणं तन्मयो मनोमयो यथाऽन्नमयः । सोऽयं प्राणमयस्याऽऽभ्यन्तर आत्मा । तस्य यजुरेख शिरः । यजुरित्य. नियताक्षरपादावसानो मन्त्रविशेषस्तज्जातीयवचनो यजुःशब्दस्तस्य शिरस्त्वं प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारात् । यजुषा हि हविर्दीयते स्वाहाकारादिना। वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्संकल्पा- मिका तद्भाविता वृत्तिः श्रोत्रादिकरणद्वारा यजुःसंकेतविशिष्टा यजु. रित्युच्यते । एवमूरोवं साम च । एवं च मनोवृत्तित्वे मन्त्राणां वृत्तिरे- वाऽऽवर्त्यत इति मानसो जप उपपद्यते । अन्यथाऽविषयत्वान्मन्त्री नाऽऽवर्तयितुं शक्यो घटादिवदिति मानसो जपो नोपपद्यते । मन्त्रावृ. निश्च चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यादिति बेत्र । मुख्यार्थासंभवात् । “विः प्रथमामन्वाह त्रिरुत्तमाम्" इति ऋगावृत्तिः श्रूयते । तत्र!ऽविषयत्वे तद्विषयस्सृत्यावृत्तौ च क्रिय- माणायां त्रिः प्रथमामन्वाहेति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादि- निधनं यजुःशब्दवाच्यमात्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपप- त्तिर्वेदानाम् । अन्यथा विषयत्वे रूपादिवदनित्यत्वं च स्यान्नैतयुक्तम् । "सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा" इति च श्रुतिनित्यात्मनै- कत्वं ब्रुवत्यूगादीनां नित्यत्वे समञ्जसा स्यात् । " ऋचो अक्षरे परमे व्योमन्यस्सिन्देवा अधि विश्वे निषेदुः" इति च मन्त्रवर्णः। ग्रजःशब्देन बाह्यो यजुर्वेद उच्यते । तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमित्याश- कयाऽऽह-मनसो हीति । यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिर्यजुःसंकेतविषयभूता यजुर्वेदमधीमह एत. स्क्रमका वर्णा यजुर्वेदतयाऽध्येतन्या इत्येवं संकल्परूपा ग्राह्येत्यर्थः । श्रुत्यनुप्राहिकां युक्तिमप्याह-एवं चेति । अन्यथेति । शब्दानां घटादिवबाह्यद्रव्यत्वे मनोवि- षयत्वासंभवान्मनसो बाह्येऽर्थेऽस्वातन्त्र्यान्मानसो जपो न स्यादित्यर्थः । इतश्च मनो- वृत्तिस्वं मन्त्राणां वाच्यमित्याह-मन्त्रावृत्तिश्चेति । शब्दानां घटादिवद्वाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिनोपपद्यते क्रियैव ह्यावर्त्यते । आवृत्तिसिद्धयनुपपत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते-अक्षरविषयेति । मन्त्रेभ्यः स्मृते- १ ख. म. त्तिविध्यनु।
आनन्दगिरिकृसटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवलप-
ध्याये-
रन्यत्वादन्याऽऽवृत्तिौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति-त्रिः
प्रथमामित्यादिना । सामिधेन्यः समिधो यदाऽध्वगुणा हूयन्ते तदा प्र वो वाजा
अभिद्यवः " इत्यष्टादशर्च सूक्तं होता शंसति तासां चर्चा मध्ये प्रथमामृचं सूक्तस्यान्त्यां
चर्च होता त्रिरनुब्रूयादित्यावृत्तिः श्रूयत इत्यर्थः । मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां
सदा चियाप्तत्वेनैव सिद्धेश्चिदात्मतामाह-तस्मादिति । मन्त्राणां मनोवृत्तित्वेनाऽऽवृ.
त्तिर्घटत इत्युक्तम् । परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्याह-एवं चेति ।
चैतन्यरूपत्वे सति । अन्यथेति । स्वप्रकाशचिदात्मत्वानङ्गीकारे रूपादिवद्विषयस्वाद-
नित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापातायुक्त्याभास-
मेतत् । अस्त्वनित्यत्वमिति न वाच्यमित्याह-नैतद्युक्तमिति । वाचा विरूप नित्य-
येति श्रुत्या नित्यत्वस्याऽऽवेदितत्वाद्वेदानित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडत्वे
स्वप्रकाशेनाऽऽस्मनैकत्वं न संभवति जडानडयोर्विरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं
सूचितमित्यर्थः । साक्षितया मनास भवो मानसीनोऽक्षरे परमे व्योमकल्पे ब्रह्मणि ऋचो
विधिनिषेधरूपा निषेदुस्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः ।
आदेश आत्मा । अथर्वाङ्गिरसः पुच्छे
प्रतिष्ठा । तदप्येष श्लोको भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये
तृतीयोऽनुवाकः ॥ ३॥
आदेशोऽत्र ब्राह्मणमतिदेष्टव्यविशेषानतिदिशतीति । अथर्वाजि-
रसा च दृष्टा मन्त्रा बाह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधा-
नत्वात्पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः
पूर्ववत् ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः
कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्यायभाये
तृतीयोऽनुवाकः ॥ ३॥
अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि.
षच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥
चतुर्षोऽनुवाकः] तैत्तिरीयोपनिषत् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कर्दा- चनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । भन्योऽन्तर आत्मा विज्ञानमयः । तेनैप पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।अन्वय पुरुषविधः । ग्रतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेत्यादि । तस्य पूर्वडय प्राणमयस्यैष एषाऽऽत्मा शारीरः शरीरे प्राणमये भवः शारीरः । कः। एष मनोमयः । तस्माद्वा एतस्मादित्यादि पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयो मनोमयस्याऽऽभ्यन्तरो विज्ञानमयो मनोमयो घेदात्मोक्तः । वेदार्थविषया बुद्धिनिश्चयात्मिका विज्ञानं तच्चाध्यवसायलक्षणमन्तःक- रणस्य धर्मः । तन्मयो निश्चयविज्ञानैः प्रमाणस्वरूपैर्निव(व)र्तित आत्मा विज्ञानमयः । प्रमाणविज्ञानपूर्वको हि यज्ञादिस्तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । वाङ्मनसयोर्वाङ्मनसगोचरस्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वासनोविशिष्टान्म- नोमयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपासनफलभूत- माधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्ययः । ताऽऽयवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः । तस्य श्रद्धव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः १ स. न. च. त्यादिः । त। २ क. स्व. ग. छ. शादिः स्तूय । म. ट. दिजायते । दिखायसे। 12. 'त्यर्थः । वेदाति । त। ज. प. °था न्य।
ध्याये- ६६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवल्य- पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्लय- ध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ निश्चयविज्ञानवतो हि कर्तध्येष्वर्थेषु पूर्व श्रद्धोत्पद्यते । सा सर्वकर्त- व्यानां प्राथम्याच्छिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगो युक्तिः समाधानम् । आत्मेवाऽऽत्मा । आत्मवतो हि युक्तस्य समाधानवतोऽङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति, तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुगं प्रतिष्ठा । मह इति महत्तत्वं प्रथमजम् । "महद्यक्ष प्रथमजम्" इति श्रुत्यन्तरात् । पुच्छ प्रतिष्ठाकारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा । यथा वृक्षवीरुधा पृथिवी । सर्वबुद्धिविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञान- मयस्याऽऽत्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथाऽन्नमया- दीना बाह्मणोक्तानां प्रकाशकाः श्लोका एवं विज्ञानमयस्यापि ॥ इति श्रीमस्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्यध्या- यभाण्ये चतुर्थोऽनुवाकः ॥ ४ ॥ इति श्रीमस्परमहंसपरिमाजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताय तैत्तिरीयोपनि- पच्छोकरभाष्यटीकायां हितीये ब्रह्मवल्लयध्याये चतुर्थोऽनुवाकः ॥४। भष ब्रह्मवालपो पक्षमोऽनुवाकः । विज्ञान यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सवै । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माचेन्न प्रमायति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । विज्ञानं यज्ञं तनते । विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम् । अतो विज्ञानस्य कर्तृत्वं तनुत इति कर्माणि च तनुते । यस्मादि- * अत्र शकाराकारस्य मानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः ।
५ पञ्चमोऽनुवाकः) तैत्तिरीयोपनिषत् । ६७ ज्ञानकर्तृकं सर्व तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किंच विज्ञानं ब्रह्म सर्वे देवा इन्द्रादयो ज्येष्ठं प्रथमजत्वात्सर्वप्रवृत्तीनां वा तत्पूर्वकत्वा- पथमजं विज्ञानं ब्रह्मोपासते ध्यायन्ति तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वोपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनाज्ज्ञानेश्वर्यवन्तो मवन्ति । तच्च यिझान ब्रह्म चेद्यदि वेद विजानाति न केवलं घेदेव तस्मा- ब्रह्मणश्चेत्र प्रमाद्यति । बाह्येष्वेवानात्मस्वात्मभावितत्वात्माप्तं विज्ञा- नमये ब्रह्मण्यात्मभावनायाः प्रमदनं, तन्निवृत्त्यर्थमुच्यते तस्माचेन्न प्रमा- प्रतीति । अन्नमयादिष्वारममावं हित्वा केवले विज्ञानमये ब्रह्मण्यारमत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादित्युच्यते-शरीरे पाप्मनो हित्वा शरीरामिमाननिमित्ता हि सर्वे पाप्मानस्तेषां च विज्ञानमये ब्रह्मण्या- माभिमानानिमित्तापाये हानमुपपद्यते । छत्रापाय इव च्छायापायः । तस्माच्छरीराभिमाननिमित्तान्सर्वान्पाप्मनः शरीरप्रमवाधारीर एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नस्तरस्थान्सर्वान्कामान्विज्ञानमयेनेवाss. मना समश्नुते सम्यग्मुक इत्यर्थः । प्रथमजत्वादिति । हिरण्यगर्भाभेदेनेत्यर्थः । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽ- न्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वये पुरुषविधः । तस्य पूर्वस्य मनोमयस्याऽऽत्मैप एव शरीरे मनोमये भवः शारीरः । कः । न. एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमप इति कार्यात्मप्रतीतिरधिकारान्मयटशब्दाच्च । अन्नादिमया हि कार्या. स्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः। मय- चात्र विकारार्थे दृष्टो यथाऽनमय इत्यत्र । तस्मात्कार्यात्माऽऽनन्दमयः प्रत्येतव्यः । संक्रमणाच, आनन्दमयमात्मानमुपसंक्रामतीति वक्ष्यति । कार्यात्मनां च संक्रमणमनात्मनां दृष्टम् । संक्रमणकर्मत्वेन चाऽऽनन्दमय आत्मा श्रयते । यथासमयमात्माममपामतीति। rat. -- ध्याये- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ब्रह्मवलप. पसंक्रमणम् । अधिकारविरोधादसंभवाच । न ह्यात्मनैवाऽऽत्मन उपसं- क्रमणं संभवति । स्वात्मनि भेदाभावात् । आत्मभूतं च ब्रह्म । संक्रमितुः शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षण आकाशादिकारणेऽ- कार्यपतिते शिरआद्यवयवरूपकल्पनोपपद्यते। अदृश्येऽनात्म्येऽनिलयनेड- निरुक्तेऽस्थूलमनुणु नेति नेत्यात्मेत्यादिविशेषापोहश्रुतिभ्यश्च । मन्त्रोदा- हरणानुपपत्तेश्च । न हि प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमान आनन्दमय आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् " असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् " इति मन्त्रोदाहरणमुपपद्यते । ब्रह्म पुच्छं प्रतिष्ठेत्यपि चानुपपन्नं, पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मा स्कार्यपतित एवाऽऽनन्दमयो न पर एवाऽऽत्माऽऽनन्द इति विद्याकर्मणोः फलम् । तद्विकार आनन्दमयः । स च विज्ञानमयादन्तरः । यज्ञादिहे- तोविज्ञानमयस्यान्तर[त्व?]श्रुतेः । ज्ञानकर्मणोहि फलं भोक्त्रर्थत्वादन्त- रतमं स्यात् । अन्तरतमश्चाऽऽनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाञ्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी । तस्मानियादीनां फलरूपाणामात्मसंनिकर्षाद्विज्ञानमयस्याऽऽभ्यन्तरत्वमुपपद्यते, प्रियादि- वासनानिवृतो ह्यानन्दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते । आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निपेधेन व्याचष्टे-कार्यात्मप्रतीतिरित्या. दिना । संक्रामतीत्येतदतिक्रामतीस्यभिप्रायेण व्याख्यातम् । प्राप्यभिप्रायं कस्मान्न व्याख्यायत इत्यत आह–ने चाऽऽत्मन एवेति । अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादेकस्य कर्तृत्वकर्मस्वासंभवाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः । आनन्दमयस्य पर- मात्मस्वासंभवे हेवन्तराण्याह-शिरआदीत्यादिना । आनन्दमयस्य परमात्मत्वविव- क्षायां मन्त्रे तस्यैवासत्त्वाशङ्का वक्तव्या । तदसंभवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपा- घत इत्याह-मन्त्रोदाहरणानुपपत्तेश्चेति। न हि मन्त्रोदाहरणमुपपद्यत इति संवन्धः । विशिष्टस्य विशेषणकार्यत्वान्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् । कयं तस्य विज्ञानमयादान्तरस्वमित्यत आह-स चेति । कञपेक्षयां भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव श्रुत्योक्तमित्यर्थः । एतत्स्फुटयति-ज्ञानकर्मणोहीति । शरीरादिम्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किंच प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति । तत उद्देश्यत्वादेस्याऽऽन्तर्य सिद्धमित्याह- विद्याकर्मणोरिति । प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमि- त्याह-प्रियादिवासनेति । । १ क.न.सवे । र ख. ग: या फलस्यो ।३ स. ग. दप्यानन्त'। ।
५पञ्चमोऽनुषाक: तैत्तिरीयोपनिषत् । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छ प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैचिरीयोपनिषदि द्वितीये ब्रह्मवल्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ तस्याऽऽनन्दमयस्याऽऽत्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यमात्मा प्रियादीनां सुखावयवानां तेष्वनुस्यूतत्वादानन्द इति परं ब्रह्म । तद्धि शुमकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसाऽप्रच्छायमाने प्रसन्नेऽभिव्यज्यते । तद्विषयसुखमिति प्रसिद्ध लोके । तवृत्तिविशेषण- त्युपस्थापकस्य कर्मणोऽनवस्थितत्वात्सुखस्य क्षणिकत्वम् । तद्यदाऽन्त:- करणं तपसा तमोनेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यापद्यावत्तावत्तावद्विविक्त प्रसन्नेऽन्तःकरण आनन्दविशेष उत्कृष्यते विपुली भवति । वक्ष्यति च-"रसो वै सः। रस ह्येवायं लब्ध्वाऽऽनन्दी भवति । एष होवाऽऽनन्द्रयाति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति च श्रुत्यन्तरात् । एवं च कामोपशमोत्कर्षा- पेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनन्दस्य वक्ष्यते । एवं चोत्कृष्यमाण- स्याऽऽनन्दमयस्याऽऽत्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्म- कृतं सत्यज्ञानानन्तलक्षणं यस्य च प्रतिपत्त्यर्थं पश्चान्नादिमयाः कोशा उपन्यस्ताः । यच तेभ्योऽभ्यन्तरं येन च ते सर्व आत्मवन्तस्तद्ब्रह्म पुत्र प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैत ब्रह्म प्रतिष्ठा । आनन्दमयस्यैकत्वावसानत्वात् । अस्ति तदेकमविद्याक- ल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुरुछं तदेतस्मिन्नण्यर्थ एष श्लोको भवति। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्याये पञ्चमोऽजवाकः ॥५॥ १ क. तयथाऽन्तः । क. ख. च. तवदन्तः ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवाक्य- ध्याये- यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसारे- णाऽऽह-आनन्द इति परमिति । कयं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्जकवृत्तिनिबन्धनमित्याह—तुवृत्तिविशेषेति । ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह—वक्ष्यति चेति । अन्तःकरणेशुद्धयुत्कर्षादेवाऽऽनन्दस्य सातिशय- स्वमित्यत्र लिङ्गमाह—एवं चेति । यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्षस्तदा निष्का- मस्य विषयविशेषोपभोगासंभवादानन्दोत्कर्षों न श्राव्येत । भात्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्ष इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षः संभाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सातिशयत्वेन प्रतिशरीरं भिन्नत्वात् । ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह- एवं चेति । एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविराचेतायो तैत्तिरीयोप- निषच्छांकरभाष्यटीकायां द्वितीयब्रह्मवल्लयध्याये पश्चमोऽनुवाकः ॥ ५ ।। । अथ ब्रह्मवल्लयध्याये षष्ठोऽनुवाकः । असन्नेव से भवति । असद्ब्रह्मति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । असनेवासत्सम एव यथाऽसन्न पुरुषार्थसंबन्ध्यवं स भवति अपुरु- पार्थसंबन्धी । कोऽसौ । योऽसदविद्यमानं ब्रह्मेति वेद विजानाति चेद्यदि । तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्य- स्तमितमप्यस्ति तद्ब्रह्मेति वेद चेत् । कुतः पुनराशङ्का तन्नास्तित्वे, व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहारविषये हि वाचारम्भणमा- वेऽस्तित्वभाविता बुद्धिस्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रति- पद्यते । यथा घटादिर्यवहारविषयतयोपपन्नः संस्तद्विपरीतोऽसन्निति प्रसिद्धम् । एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वप्रत्याशङ्का । तस्मादुच्यते-अस्ति ब्रह्मेति चेद्वेदेति। किं पुनः स्यात्तदस्तीति विजा. नतस्तदाह-सन्तं विद्यमानब्रह्मस्वरूपेण परमार्थसदात्मापन्नमेनमेवंविदं १ क. ज. स. म. ट. 'वृत्युत्क।
७१ ६षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । विदुर्ब्रह्मविदस्ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्रह्मपद्विज्ञेयो भवती त्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यतेऽब्रह्म- प्रतिपत्त्यर्थत्वातस्य । अतो नास्तिकः सोऽसनसाधुरुच्यते लोके । तद्वि- परीतः सन्योऽस्ति ब्रह्मेति चेद्वेद्र स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्ग वर्णा- श्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मासतस्तस्मा- स्सन्नं साधुमार्गस्थमनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रतिपत्त- व्यमिति वाक्यार्थः। तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । वस्य पूर्वस्य विज्ञानमयस्येष एव शरीरे विज्ञानमये भवः शारीर आमा । कोऽसौ।म एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे, अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता । सर्वसामा- न्याच बह्मणो,यस्मादेवमतस्तस्मात् । अथानन्तरं श्रोतुः शिष्यस्यान- प्रश्वा आचार्योक्तिमन्वते प्रभा अनुप्रश्नाः । आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह-तं प्रतीति । सवि- शेषतया प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधारणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेमन दृश्यते ततोऽपि नास्तिस्वाशक्का जायत इत्यर्थः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ सामान्यं हि ब्रह्माऽऽकाशादिकारणावाद्विदुषोऽविदुषश्च । तस्माद- विदुषोऽपि ब्रह्मप्राप्तिराशकयते । उतापि । अविद्वान लोकं परमात्मा- नमितः ऐत्य कश्चन । चनशब्दोऽप्यर्थे । अविद्वानपि गच्छति प्रामोति किंवा न गच्छतीति द्वितीयोऽपि प्रश्नो द्रष्टध्योऽनुप्रभा इति बहुवच- नाद्विद्वांसं प्रत्यन्यौ प्रश्नौ । यद्यविद्वान्सामान्य कारणमपि ब्रह्म न गच्छति ततो विदुषोऽपि ब्रह्मागमनमाशङ्कयते । अतस्तं प्रति प्रश्न आहो विवानिति । विनाब्रह्मविदपि कृश्चिदितः प्रेत्या लोकं समभते उ इत्येवं ७२ स्वाये- आनन्दगिरिकृतटीकासंवलितशांकरमान्यसमेता- पाय- स्थितेऽयादेशे यलोपे च कृतेऽकारस्य प्लुतिः साम्नता जू इत्युकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मातशब्दाद्यासज्याऽऽहो इत्ये. तस्मात्पूर्वमुतशब्दं संयोज्य पृच्छयत इताऽऽहो विद्वानिति । विद्वान्स. मझतेऽसुं लोकम् । आकाशादिकारणालादिति । भूतविशिष्टसर्वनीवकारणत्वादित्यर्थः । किंवा यथाऽविद्वानेव विद्वानपि न समश्नुत इत्यपरः प्रभः । द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयो । बहुवचनं तु सामर्यप्राप्त- प्रश्नान्तरापेक्षया घटते । “असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद " इति श्रवणांदस्ति नास्तीति संशयस्ततोऽर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणोऽपक्षपातिवादविद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽप्यविदुष इव विदुषोऽप्यगमन- माशङ्कयते । किं विद्वान्समश्नुते न समश्नुत इति तृतीयोऽनुप्रश्नः । एतेषां प्रतिवचनार्थमुत्तरग्रन्थ आरभ्यते । तत्रास्तित्वमेव तावदुच्यते। यञ्चोक्तं "सत्यं ज्ञानमनन्तं ब्रह्म" इति, तच कथं सत्यत्वमित्येतद्वक्त- व्यमितीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि "सदेव सत्यम इति । तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थताऽवगम्यतेऽस्य ग्रन्थस्य, शब्दानुगमादनेनैव ह्यर्थेनान्वितान्युत्तराणि वाक्यानि । "तत्स- त्यमित्याचक्षते" "युदेष आकाश आनन्दो न स्यात्" इत्यादीनि । कस्य सामर्थ्येन प्राप्तं प्रश्नान्तरमित्यत आह-असद्ब्रह्मेतीति । चेच्छब्दास्पाति- कसत्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यस्वं सिध्यति सतो बाधा- संभवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः । बासदेव ब्रह्मेत्याशङ्कयते । कस्मात् । यदस्ति तद्विशेषतो गृह्यते यथा घटादि । यन्नास्ति तन्नोपलभ्यते यथा शशविषाणादि । तथा ३ नोपलभ्यते ब्रह्म । तस्माद्विशेषतोऽग्रहणानास्तीति । तत्र । आकादि- कारणत्वाब्रह्मणः । न नास्तैि ब्रह्म कस्मादाकाशादि हि सर्व कार्य ब्रह्मणो जातं गृह्यते । यस्माञ्च जायते किंचित्तदस्तीति दृष्टं लोके यथा घटाबुरादिकारणं मृद्दीजादि । तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । चासतो जातं किंचिद्गृह्यते लोके कार्यम् । असतश्चेन्नामरूपादिकार्य निरात्मकत्वानोपलभ्येत । उपलभ्यते तु, तस्मादस्ति बह्म । असतश्चे- स्कार्य गृह्यमाणमप्यसदन्वितमेव तत्स्यात् । न चैवं तस्मादस्ति ब्रह्म । १.ग. स्तिता'।
-- ६षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । ७३ ब्रह्मणः सत्त्वसाधनं नामासत्त्वव्यावृत्तिरवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति-तत्रासदे. वेति । विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वाद्धटवदिति लौफिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाधनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते सा कारणत्वेन व्यावय॑तेऽनेन तु कारणस्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः । इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह- न चासत इति। तेत्र कथमसतः सज्जायतेति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्वाचष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्दीजादिवत्कारणं स्यादचेतनं तर्हि, न, कामपितृत्वात् । न हि कामयित्र चेतनमस्ति लोके। सर्वज्ञं हि ब्रह्मेत्यवोचाम । अतः कामयितृत्वोपपत्तिः । कामयिवृत्वा- दस्मदादिवदनाप्तकामं चेन् , न । स्वातळ्यात् , यथाऽन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि, सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धा न तैर्ब्रह्म प्रवर्त्यते । तेषा तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्यं कामेषु ब्रह्मणः । अतो नानाप्तकामं ब्रह्म साधनान्तरानपेक्षत्वाञ्च । न्यागत इति। असदन्वयादर्शनादिति युक्तित इत्यर्थः । एवमसत्त्वाशको निरस्याचेतन स्वाशङ्कां प्रधानवादिनः प्रसान्निराचष्टे—वद्यदीति । यद्यपि सांख्यमते चेतनस्य निर्विकारस्वास्कामयितृत्वमसिद्धं तथाऽपि लौकिकन्याप्तिबलेन कामयितृत्वादचेतनस्वशङ्का निवर्त्यत इत्याह न हीति । तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्तमित्याश- कयाऽऽह --कामयितृत्वादित्यादिना । जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति अक्षण इत्यर्थः । कथंभूतास्तूर्हि ब्रह्मणः कामा इत्याशङ्कायामाह-सत्यज्ञानलक्षा इति । सत्यज्ञान(न)लक्षणं स्वरूपं येषां तेषां ते तथोक्ताः । एतदुक्तं भवति, मायाप्रतिषि- म्बितं हि ब्रह्म जगतः कारणं मायापरिणामैरेव कामैः कामयित । तेषां च परिणामानाम- विद्याद्यनभिभूतचियाप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्म तादात्म्याचाधर्माद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जीवकामवैलक्षण्यं सिद्धमिति । तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राफ्य. नुकूलाः स्युः स्वातन्त्र्यादित्याशङ्कयाऽऽह-तेषां खिति । कामस्य शरीरादिसंबन्धन. न्यत्वप्रसिद्धेब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह-साधनान्तरानपे- क्षत्वाचेति । कामसंस्कारवत्या मायाया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादा- स्म्यान्न शरीरादिनिमित्तापक्षाऽस्तीत्यर्थः। १ट. ठ. तत्कथ।
ध्याये- आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता- [ ब्रह्मवल्लय- किंच यथाऽन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्य. तिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च, न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वं, किं तर्हि,स्वात्मनोऽनन्यास्तदेतदाह- सोऽकामयत । बहु स्यां प्रायेयेति । स तोड- तप्यत । स तपस्तप्त्वा । इद सर्वमसृजत । - सोऽकामयत स आत्मा यस्मादाकाशः संभूतोऽकामयत कामितवान् । कथं, बहु स्यां,बहु प्रभूतं, स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादित्युच्यते । प्रजायेयोत्पद्येय । न हि पुनोत्पत्त्येवार्थान्तरविषयं बहुभवनं,कथं तात्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या । यदाऽऽत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते तदा नामरूपे आत्मस्वरूपापरित्यागेनैव ब्रह्मणाऽप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते तदा तन्नामरूपव्या- करणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्ति- रुपपद्यतेऽल्पत्वं वा । यथाऽऽकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतस्तद्वारेणैवाऽऽत्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं तत्प्रवि- भक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते। अवो नामरूपे सर्वावस्थे ब्रह्मणैवाऽऽत्मवती, न ब्रह्म तदात्मकम् । ने तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्यते । ताभ्यां चोपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म । स आत्मैवंकामः संस्त- प्रोऽतप्यत । तुप इति ज्ञानमुच्यते । यस्य ज्ञानमयं तपः" इतिश्रुत्य- न्तरादाप्तकामत्वाचेतरस्यासंभव एव तपसः । तत्तपोऽतप्यत तप्तवान् । सृज्यमानजगढ़चनादिविषयामालोचनामकरोदात्मेत्यर्थः । स एवमा- लोच्य तपस्तत्वा प्राणिकर्मादिनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानमसजत सृष्टवान् । तहारेणैवेति । नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव । नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्कयाऽऽह- न हीति । आस्मातिरिक्तं किं स्वतः सिद्ध्यति परतो वा । नाऽऽद्यः । जाड्यहानेर- तिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयो- १.मघ रिक्ता कार्यकार ग घ.. 'मः तोऽ।
६षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । गादि संभवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव संबन्धः । द्वयोः स्वभावयोः संवन्धत्वेनैवोपक्षये संबन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव संबन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकस्वे च मिथ्याव्यवहारा- पातादनिर्वचनीयवाद एव पर्यवस्यतीति भावः । यस्मादास्मातिरिक्तं वस्तु न संभाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह-अत इति । तर्हि ब्रह्मणः सप्रप. यताप्रसङ्ग इति न वाच्यमित्याह---न ब्रह्मेति । न ब्रह्म तदात्मकमजडत्वात्तत्परिहारे- णापि सिद्धिसंभवादित्यर्थः । कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह-ते तदिति । स्वप्नाव- बुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्धयसंभवादनुभाव्ये नामरूपे अनुभवात्मक- ब्रह्मात्मके कथ्यते न स्वैक्याभिप्रायेणेत्यर्थः । न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह-ताभ्यामिति । यदिदं किंचं । तत्सृष्ट्वा । तदेवानुपाविशत् । यदिदं किंच यत्किंचेदमविशिष्टम् । तदिदं जगत्सष्टा किमकरोदि- त्युच्यते-जदेव मृटं जगदनुप्राविशदिति । तत्रतश्चिन्त्यं कथमनुप्रावि- शदिति । किं यः स्रष्टा स तेनैवाऽऽत्मनाऽनुप्राविशदुतान्येनेति, किं तावद्युक्तम् । क्त्वाप्रत्यय श्रवणायः स्रष्टा स एवानुपाविशदिति । प्रवेशस्यानिर्वाच्यताधोतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्य दर्शयितुं विचारमारभते----ततच्चिन्त्यमित्यादिना । विमर्श सति क्वाश्रुत्यनुरोधास्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना । ननु,न युक्तं . मृबच्चेत्कारणं ब्रह्म, तदात्मकत्वात्कार्यस्य । कारणमेव दि कार्यात्मना परिणतमित्यतोऽप्रविष्ट इव कार्योत्पत्तेरूवं पृथक्कार- णस्य पुनः प्रवेशोऽनुपपन्नः । न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घळे. चूर्णात्मना मृदोऽनुप्रवेश एवमन्येनाऽऽत्मना नामरूपकार्येऽनुप्रवेश आत्मन इति चेच्छृत्यन्तराञ्च “ अमेन जीवेनाss. सवाऽनुप्रविश्य" इति । नैवं युक्तमेकत्वाब्रह्मणः। मृदात्मनस्त्वनेकत्वा- त्सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनाऽनुप्रवेशः। मृदश्चूर्णस्याप्रविष्टदे. शवत्त्वाच्च । न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशामावाश्च प्रवेश उपपद्यते कथं तर्हि प्रवेशः स्यात् । युक्तश्च प्रवेशः श्रुतत्वात्तदेवानुमा- विशदिति । सावयवमेवास्तु तर्हि सावयवत्वान्मुखे हस्तप्रवेशवन्नामरूप- कार्ये जीवात्मनाऽनुप्रवेशो युक्त एवेति चेचाशून्यत्वात् । न हि कार्या- ध्याये- ७६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२अमाप- स्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणाऽऽत्मशून्यः प्रदेशोऽस्ति' यं प्रविशेज्जीवात्मना । कारणमेव चेत्मविशेज्जीवात्मत्वं जह्याद्यथा घटो मुरप्रवेशे घटत्वं जहाति । तदेवानुमाविशदिति च भुतेर्न कार- णानुप्रवेशो युक्तः। पूर्ववाद्याह-जनु न युकमिति । सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसंभवे सति क.क्यं क्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता संभवति । सृष्टिसमय एवोपा- दानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः । एतदेव विवृणोति-कारणमेव हीति । अप्र- विष्टे यथा मठादी देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूज़ पृथक्प्रवेशो न संभवतीत्यर्थः । सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूपयति-यथा घट इत्यादिना । स्रष्टुरन्यस्य वा प्रवेशो न संभवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धान्स्येकदेश्याह-कथ. मिति । नास्त्येवेति न वक्तव्यमित्याह---युक्तश्चेति । स एवाऽऽह गति—साव. यवमेवेति । पूर्ववादी दूषयति-ताशून्यत्वादिति । कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कार्यमेव देशस्तव्यतिरेकेण न ह्यन्यः प्रदेशोऽस्ति । यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेपो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह -कारणमेष चेदिति । कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तं स न संभवति श्रुतिविरोधादि- त्याह-सदेवेति । कार्यान्तरमेष स्यादिति चेत् । तदेवानुप्राविशदिति जीयात्मरूपं कार्य नामरूपपरिणतं कार्यान्तरमेवाऽऽपद्यत इति चेन्न । विरोधात् । न हि घटो घटान्तरमापद्यते व्यतिरेकश्रुतिविरोधाच्च । जीयस्य नाम. रूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् । तदापत्ती मोक्षासं- भवाञ्च । न हि यतो मुच्यमानस्तदेवाऽऽपद्यते । न हि शृङ्खलापत्ति- द्धस्य तस्करादेः। कारणपरामर्शकेन तच्छन्देन कार्यमुपलक्ष्य कार्यान्तरस्य तत्र प्रवेशो विधीयतेऽप्रा- प्रदेशसंभवात् । अतो न श्रुतिविरोध इति सिद्धान्तैकदेशिमतमुद्भाव्य दूषयति—कार्या- न्तरमेवेत्यादिना। बाह्यान्तरभेदेन परिणतमिति चेतदेव कारणं ब्रह्म शरीराद्याधार- खेन तदन्तर्जीवात्मनाऽऽधेयत्वेन च परिणतमिति चेन, बहिष्ठस्य प्रवे. शोपपत्तेः । न हि यो यस्यान्तःस्थः स एव तत्पविष्ट उच्यते । बहिष्ठ- स्यानुप्रवेशः स्यात्प्रवेशशब्दार्थस्यैवं दृष्टत्वात् । यथा गृहं कृत्वा प्रावि- शदिति । जलसूर्यकादिप्रतिविम्बवत्प्रवेशः स्यादिति चेन्न। अपरिच्छि- .
६षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । नत्वादमूर्तत्वाञ्च । परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वभावके जलादो सूर्यकादिप्रतिबिम्बोदयः स्यात् । न त्वात्मनः, अमूर्तत्वादाकाशा- दिकारणस्याऽऽत्मनः, अध्यापकत्वात् । तद्विप्रकृष्टदेशप्रतिबिम्बाधारव- स्त्वन्तरामावाञ्च प्रतिबिम्बवत्प्रवेशो न युक्तः । कारणवाचकेन वच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेप्रसज्येत तर्हि कारण- पर एव तच्छब्दोऽस्त्वित्याहान्यः सिद्धान्तैकदेशी-बाह्येति । अस्मिन्पक्षे प्रवेशश्रुते. मुख्यार्थो न लभ्येतेत्याह-न बहिष्ठेति । अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति- जल इत्यादिना। पवं तर्हि नैवास्ति प्रवेशो न च गत्यन्तरमुपलमामहे । तदेवानु प्राविशत्" इति च श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्ती निमित्तम् । व चास्माद्वाक्याद्यनवतामपि विज्ञानमुत्पद्यते । छन्त ती- नर्थकत्वादपोह्यमेतद्वाक्यं “तत्सृष्ट्वा तदेवानुप्राविशत्" इति । न । अन्यार्थत्वात् । किमर्थमस्थाने चर्चा । प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति स स्मर्तव्यः । "ब्रह्मविदाप्नोति परम् "सत्यं ज्ञानमनन्तं ब्रह्म "यो वेद निहितं गुहायाम् इति । तद्विज्ञानं च विवक्षितं प्रकृतं च तत् । ब्रह्मस्वरूपानुगमाय चाऽऽकाशाद्यन्नमयान्तं कार्य प्रदर्शितं, ब्रह्मानुगमश्वाऽऽरब्धः । तत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयस्तदन्तर्मनोमयो विज्ञानमय इति । विज्ञानगुहायां प्रवे- शितस्तत्र चाऽऽनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अवः परमानन्द- मयलिङ्गाधिगमद्वारेणाऽऽनन्दविवृद्धयवसान आत्मा । ब्रह्म पुरुलं प्रविशा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते । एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति-एवं तहीति । नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न संभवतीत्युक्तमित्याह--न चेति । इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह-तदेवानुपाविशदिति । सा च श्रुतिः स्रष्टुः प्रवेश- माह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः । तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्यतामित्याशङ्कयाऽऽह-ज वेति । तस्मादन्धो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति- इन्वेति । शक्तिगोचरस्यार्थस्यासंभवादर्थशून्यत्वं तात्पर्यगोचरस्य वा । नाऽऽद्यः । आकाशादे- रविप्रकृष्टदेशेऽपि जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाच्याविद्यासु प्रति- आनन्दगिरिकृतटीकासंवलितंशांकरभाष्यसमेता- रिब्रह्मवहय. ध्याये- बिम्बितस्य सृष्टयुत्तरकालमन्तःकरणादिषु प्रतिबिम्बभावसंभवादित्याह-नेति । न द्वितीय इत्याह-अन्यार्थवादिति । एतत्स्फुटयति-किमर्थमित्यादिना । अतः परमिति । बुद्धिगुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽथों विशेष्यस्य चिद्धातो- लिश विशिष्टस्य विशेष्याव्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्धयवसान आत्मा ब्रह्म- रूपोऽस्यामेव गुहायामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधी- यत इत्यर्थः । न ह्यन्यत्रोपलभ्यते ब्रह्म निर्विशेषत्वाद्विशेषसंबन्धो ह्युपलब्धिहे. तुईष्टः । यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः । एवमन्तःकरणगुहात्मसं- धन्धो ब्रह्मण उपलब्धिहेतुः। संतिकर्षावभासात्मकत्वाच्चान्तःकरणस्य । यथा जाऽऽलोकविशिष्टा घटायुपलब्धिरेवं बुद्धिप्रत्ययालोकविशिष्टा- स्मोपलब्धिः स्यात्तस्मादुपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव । तवृत्तिस्थानीये विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते । बुद्धिगुहायामेव ब्रह्मण उपलब्धिसंभवात्तत्रैव प्रवेशोऽभिधिस्सित इत्याह-त होति । नन्वन्यत्रोपलव्ध्यनहै ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्कयोपाधेयोग्यताविशेषसंभवा- दित्याह-विशेषेति । संनिकर्यादिति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्या- भिव्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्जकमन्वयव्यतिरेकाम्यामि- त्यर्थः । यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रति- बिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादखाभाव्याद्धटते तत्र ब्रह्मोपलब्धिरित्याह- अवभासात्मकत्वाञ्चेति । किंच यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गो क्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्ष- णावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह-यथा चेति । तदनुपविश्य । सच्च त्यच्चभिवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच । तदेवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनप्रविमिवान्तर्गुहायां बुद्धौ ब्रष्ट श्रोतृ मन्वृ विज्ञावित्येवं विशेषवदुपलभ्यते । स एव तस्य प्रवेश- .
६षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । ७९ स्तस्मादस्ति तत्कारणं ब्रह्म । अतोऽस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तकार्यमनुप्रविध्य, किं, सच मूर्त व्यवामूर्तमभवत् । मूर्तामूर्ते ह्यव्याकृत- नामरूपे आत्मस्थे अन्तर्गतेनाऽऽत्मना व्याक्रियेते व्याकृते च मूर्तामूर्त- शब्दवाच्ये ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वाऽऽत्मा ते अभव- दित्युच्यते। किंच निरुक्तं चानिरुक्तं च निरुक्तं नाम निष्कृष्य समानास- मानजातीयेभ्यो देशकालविशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सञ्च त्यच्च प्रत्यक्षप- रोक्षे, तथा निलयनं चानिलयनं च । निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः । अनिलयनं तद्विपरीतममूर्तस्यैव धर्मः । त्यनिरुक्तानिलयनान्य- मूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव । सर्गोत्तरकालमावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणान्यमूर्तस्य व्याकृत- विषयाण्येवैतानि । विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषाणादि सत्यं च व्यवहारविषयमधिकारान्न परमार्थसत्यमेकमेव हि परमार्थसत्यं ब्रह्म । इह पुनर्व्यवहारविषयमापेक्षिकं सत्यं मृगतृष्णिकाद्यनृतापेक्षयोद- कादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनरेतत्सर्वमभवत्परमा- र्थसत्यं किं पुनस्तद्ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतत्वात् । निलयनं गृहप्रासादादिमूर्तसंनिवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयनम् । अनिरु- क्तत्वाधमूर्तधर्मश्चेद्रमण एव किं न स्यादित्यत आह—त्यनिरुक्तानिलय- नाचीति। तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये बलवल्लयध्याये षष्ठोऽनुवाकः ॥६॥ यस्मात्सत्यदादिकं मूर्तामूर्तधर्मजातं यत्किंचेदं सर्वमविशिष्टं विकार- जातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत्तद्यतिरेकेणाभावान्नामरूपविकारस्य, तस्माद्रह्म सत्यमित्याचक्षते । ब्रह्मविदोऽस्ति नास्तीत्यनुप्रश्नः प्रकृत- स्तस्य प्रतिवचनविषय एतदुक्तमात्माऽकामयत बहु स्यामिति । स यथा- कामं चाऽऽकाशादिकार्य सत्यदादिलक्षणं सृष्ट्वा तदनु प्रविश्य पश्यञ्”. ण्वन्मन्यानो विजानन्बह्वभवत्तस्मात्तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन्हृदयगुहायां निहितं, तत्प्रत्ययावमासविशेषेणोपलभ्यमानम- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवलप- ध्याये- स्तीत्येवं विजानीयादित्युक्तं भवति । तदेतस्मिन्नर्थे ब्राह्मणोक्त प्रर्षे श्लोको मन्त्रो भवति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वप्येवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मपाल्यध्यायभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ तत्सत्यमित्याचक्षत इत्यस्योपपत्तिमाह-यस्मादिति । पदानि व्याख्याय प्रकृतानु- प्रश्ननिराकरणे प्रकरणस्य तात्पर्य सोऽकामयतेत्यादेर्दर्शयति-अस्ति नास्तीत्यादिना । तस्या बुद्धिगुहायाः प्रत्यया अहं कर्ता भोक्तेत्यादयस्त एवावभासविशेषास्तैर्व्यज्यमानं, विशिष्टेस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः । इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दशानविरचितायो तैत्तिरीयोपनि. पच्छाकरभाष्यटीकायां द्वितीय प्रह्मवलयध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ अमवलयध्याये सप्तमोऽनुवाकः । असहा इदम आसीत् । ततो वै सदजायत। तदा- त्मान' स्वयंमकुरुत । तस्मात्तत्सुकतमुच्यत इति । असदा इदमग्र आसीत् । असदिति व्याकृतनामरूपविशेषविपरीत- रूपमविकृतं ब्रह्मोच्यते । न पुनरत्यन्तमेवामत् । न घसतः सज्जन्मास्ति। इमिति नामरूपविशेषवद्याकृतं जगद्ने पूर्व प्रागुत्पत्तेब्रह्मैवासच्छन्दवा- ध्यमासीत् । ततोऽसतो.वै सत्मविभक्तनामरूपविशेषमजायतोत्पन्नम्। किं ततः प्रविभक्तं कार्यमिति पितुरिव पुत्रो नेत्याह । तदसच्छब्दवाच्यं स्वपमेखाऽऽतमानमेवाकुरुत कृतवत् । यस्मादेवं तस्मात्तब्रह्मैव सकृतं स्वयं कर्तुच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्ध लोके सर्वका- रणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतमुच्यते । सर्वथाऽपि तु फलसंबन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वाऽन्यत्सा प्रसिद्धि- नित्ये चेतनवत्कारणे सत्युपपद्यते तस्मादस्ति तब्रह्म सुकृतप्रसिद्धेः। 7 Grehen ७सप्तमोऽनुवाकः तैत्तिरीयोपनिषत् । ८१ सुकृतमिति । क्तप्रत्ययः सुष्ठ क्रियत इति कर्माभिधायकोऽपि च्छान्दस्या प्रक्रि- यया सुष्ठु करोतीति कर्तरि व्याख्यातः । इतश्चास्ति । कुतः। रसत्वात् । कुतो रसत्वप्रसिद्धिर्बह्मण इत्यत आह- यद्वै तत्सुळवम् । सो वै सः । रस ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येबान्यात्कः पाण्यात् । प्रदेष आकाश आनन्दो स्यात् । एष ह्येवाऽऽनन्दयाति यदै तत्सुकृतम् । रसो वै सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुरा. म्लादिः प्रसिद्धो लोके । रसमेवायं लब्ध्वा प्राप्याऽऽनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्दसाधनरहिता अप्यनीहा निरेषणा ब्राह्मणा याह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसो, नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेपामानन्दकारणं रसवव्रह्म । इत- वास्ति कुतः । प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निवर्यमाना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति । अन्यत्रादर्शनात् । तदाह-यद्यदि एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान्न भवेत्को खेड लोकेऽज्यादपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात्प्राणनं वा कुर्या- तस्मादस्ति तद्ब्रह्म । यदर्थाः कार्यकरणप्राणनादिचेष्टास्तत्कृत एवं चाऽऽनन्दो लोकस्य । कुतः । एष ह्येव पर आत्माऽऽनन्दयात्यानन्दयति मुखयति लोकं धर्मानुरूपम् । स एवाऽऽत्माऽऽनन्दरूपोऽविद्यया परि- च्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्रह्म । सद्वस्त्वाश्रयणेन ह्यभयं भवति । नासद्वस्त्वाश्रयणेन मयनि- वृत्तिरुपपद्यते। एकार्थवृत्तिवेनेति । एकप्रयोजनसाधनस्वेन परस्परायत्ततेत्यर्थः । अन्यति । गृहप्रासादादिषु स्वतन्त्रं गृहाद्यनारम्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसं- ध्याये- - ८२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवलय- धातेऽपि विलक्षणः स्वामी शरीरोपचयादिभिरुपचयादिरहितोऽवगम्यते । स च घेतनस्वेन भेदाभावाद्ब्रह्मैवेति तदस्तिस्वसिद्धिरित्यर्थः । कथमभयहेतुत्वमित्युच्यते- यदा वैिष एतस्मिन्नदृश्येऽनात्म्येऽनि- रुक्तेऽनिलयने अयं प्रतिष्यं विन्दते । अथ मोऽक्षयं गतो भवति। यदा वैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति। तत्त्वेव भयं विदुषोऽमन्या- नस्य । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यदा ह्येव यस्मादेष साधक एतस्मिन्ब्रह्मणि किंविशिष्टेऽदृश्ये दृश्य नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद्विकारस्य । न दृश्यमदृश्यमविकार इत्यर्थः । एतस्मिन्नदृश्येऽविकारेऽविषयभूतेऽनाम्येऽशरीरे यस्माद्दश्यं तस्मादनात्म्यं यस्मादनाल्यं तस्मादनिरुक्तम् । विशेषो हि निरुच्यते । विशेषश्च विकारः । अविकारं च ब्रह्म । सर्वविकारहेतुत्वात्तस्मादनि- रुक्तम् । यत एवं तस्मादनिलयनं निलयनं नीड आश्रयो न निलयनमू- निलयनमनाधारं तस्मिन्नेतस्मिन्नतश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्य- धर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते। प्रतिष्ठां स्थितिमात्मभावं विन्दते लमते । अथ तदा म तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनाद- अयं गतो अवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति,नाss- स्मन एवाऽऽत्मनो भयं युक्तं, तस्मादात्मैवाऽऽत्मनोऽभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते, सत्सु भयहेतुषु तच्चायुक्तमसति ७सप्तमा नुवाक: तात्तरायोपनिषत् । ८३ भयत्राणे ब्रह्मणि । तस्मात्तेषाममयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदाऽसावभयं गतो भवति साधको यदा नान्यत्पश्यत्यात्मनि चाखरं मेदं न कुरुते तदाऽभयं गतो भवतीत्यभिप्रायः। युदा पुनरविद्यावस्थायां हि. यस्मादेषोऽविद्यावानविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयच- न्द्रवत्पश्यत्यात्मनि चैतस्मिन्ब्रह्मणि उदपि, अरमल्पमप्यतरं छिद्रं भेद- दर्शनं कुरुते । भेददर्शनमेव ह्यन्सरकरणमल्पमपि भेदं पश्यतीत्यर्थः । अथ. तस्माद्भेददर्शनाद्धेतोरस्य भेददर्शिन आत्मनो मयं मवति । तस्मादात्मैवाऽऽत्मनो भयकारणमविदुषस्तदेतदाह । तद्ब्रह्म स्वेव अयं भेददशिनो विषु ईश्वरोऽन्यो मत्तोऽहमन्यः संसारीत्येवं विदुषो भेदह- टमीश्वराख्यं तदेव ब्रह्माल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेनासवानस्य । तस्माद्विद्वानप्यविद्वानेवासौ योऽयूमेकमभिन्नमात्मतत्त्वं न पश्यत्युउदहे- तुदर्शनाद्धयुच्छेद्याभिमतस्य भयं भवति । अनुजनेद्यो धुच्छेदहेतुस्तंत्रा- सत्युच्छेदहेतोवुच्छेद्ये न तदर्शनकार्य भयं युक्तम् । सर्व च जगद्भयव- दृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते नूनं तदस्ति भयकारणमुच्छे- पहेतुरनुच्छेद्यात्मकं यतो जगद्विभेतीति । तदेतस्मिन्नप्यर्थ एष श्लोको भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्यध्याये सप्तमोऽनुवाकः॥ ७ ॥ दासोऽहं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युच्यते तत्राऽऽह-असौ ग्रोऽयमिति । यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यतेऽतत्त्वदर्शित्वा- त्तयेत्यर्थः । कथं तर्हि तस्य भयसंभावनेत्यत आह-उच्छेदेति । संहर्ता हि परमेश्वरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः । ब्रह्मैवोच्छेदहेतुः कुत इत्यत आह-अनच्छेद्यो हीति । उच्छेदहेतोरप्युच्छेद्यस्वेऽनवस्थाप्रसङ्गानित्यावं वक्तव्यं तच्च ब्रह्मणो नान्यस्य संभाव्यत इत्यर्थः । । । इति श्रीसत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैतिरीयोप- निषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्लयध्याये राप्तमा नुवाकः ॥७॥ १ क. ख. ग. स्तनाम् । २ क. ख. ग. घ. स. छ. ट. ट. °तावनुन्छ। त' । ३ ज. झ. म.उ.न्यत्संभा।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ब्रह्मवलय. ध्याये- भय ब्रह्मवालयध्यायेऽष्टमोऽनुवाकः । भीषाऽस्माद्वातः पवते । भीषो- देति सूर्यः । भीषाऽस्मादग्निश्चे- न्द्रश्च । मृत्युर्धावति पञ्चम इति । मीषा मयेनास्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादमिश्चे- न्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते । तद्युक्तं प्रशास्तरि सत्यन्यस्मिन्नियमेन तेषां प्रवर्तनं. तस्मादस्ति भयकारणं तेषां प्रशास्तृ बह्म । यतस्ते भृत्या इव राज्ञोऽस्माद्ब्रह्मणो भयेन प्रवर्तन्ते तच्च मयका- रणमानन्दं ब्रह्म। सैषाऽऽनन्दस्य मीमांसा भवति । तस्यास्य ब्रह्मण आनन्दुस्यैषा मीमांसा विचारणा भवति । किमान- न्दस्य मीमांस्यमित्युच्यते । किमानन्दो विषयविषयिसंबन्धमनितो लौकिकानन्दवदाहोस्वित्स्वाभाविक इत्येवमेषाऽऽनन्दस्य मीमांसा। तञ्च भयकारणं ब्रह्मानन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दम्य लोके जन्यः प्रसिद्धस्ततो विचारमारभते-तस्यास्येत्यादिना । तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः। स य एप निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेनाऽऽनन्देन घ्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्राऽविद्यया तिरस्क्रियमाणे विज्ञान उत्कृष्यमाणायां चाविद्यायां ब्रह्मदिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसंबन्धव- शाच विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः संपद्यते स एवाविद्या- कामकर्मापकर्षण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्र- त्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति। ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्दाद्युपन्यासस्ताऽऽह- तत्र लौकिक इत्यादिना । लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परि- माणवदिति ब्रह्मानन्दानुमानार्थों लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता न्याद- - (अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तबुद्धिगोचर इत्यर्थः । प्रकारान्तरेण ब्रह्मानन्दानुग- ममाह-लौकिकोऽप्रीत्यादिना । निरस्ते त्वविद्याकृते विषयविषयिविमागे विद्यया स्वाभाविकः परि- पूर्ण एक आनन्दोऽद्वैतो भवतीत्येतमर्थ विभावयिष्यान्नाह- युवा स्यात्साधूयुवाऽध्यायकः । आशिष्ठो दृष्टिो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषो आनन्दाः (१)। स एको मनु- व्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामह- तस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामा- नन्दाः । स एकः पितृणां चिरलोकलोकाना- मानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शुतं पितृणां चिरलोकलोकानामानन्दाः । स आजानजानां देवानामानन्दः ( २ ) । श्रोत्रियस्य चाकामहतस्य युवा प्रथमवयाः । साधुयुवेति साधुश्चासौ युवा चेति यूनो विशे. षणम् । युवाऽप्यसाधर्भवति साधुरप्ययुवाऽतो विशेषणं युवा स्यात्सा- धुवेति । अध्यायकोऽधीतवेदः । आशिष्ठ आशास्तृतमः । इनिधो दूर- तमः । बलिष्ठो बलवत्तमः । एवमाध्यात्मिकसाधनसंपन्नः । तस्येयं पृथिव्युर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः । तस्य च य ...भाशुतमः। ३स, 'तमः क्षिप्रकारिषु मध्ये स्वयमतिशयत्वादित्यर्थः ।
ध्याये- ८६ आनन्दगिरिकृतटीकासंवलितांकरमाष्यसमेता- [२ब्रह्मवलय- आनन्दः स एको मानो मनुष्याणां प्रकृष्ट एक आनन्दः । ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः । मानुषानन्दा- च्छतगुणेनोत्कृष्टो मनुष्यगन्धर्वाणामानन्दो भवति । मनुष्याः सन्तः कर्मविद्याविशेषानन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । । छन्तर्धानादिश- क्तिसंपन्नाः सूक्ष्मकार्यकरणाः । तस्मात्पतिघाताल्पत्वं तेषां द्वंद्वप्रतिघात- शक्तिसाधनसंपत्तिश्च । ततोऽमतिहन्यमानस्य प्रतीकारवतो मनुष्यग- न्धर्वस्य स्याञ्चित्तप्रसादः । तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूभौ प्रसादविशेषतः शत. गुणेनाऽऽनन्दोत्कर्ष उपपद्यते । प्रथमं त्वकामहताग्रहणं मनुष्य विषयभो- गकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छत गुणेनाऽऽनन्दोत्कर्षो मनु- ध्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुमुखाऽध्यायक इति श्रोत्रि- यत्वावृजिनत्वे गृह्यते । ते ह्यविशिष्टे सर्वत्र। अकामहतत्वं तु विषयोत्क- र्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते । अतोऽकामहतग्रहणम्, तद्धि- शेषतः शतगुणसुखोत्कर्षांपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्व- विधानार्थम् । व्याख्यातमन्यत् । देवगन्धा जातित एव । चिरलोक- लोकानामिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितृणां ते चिरलोकलोका इति । आजान इति देवलोकस्तस्मिन्नाजाने जाता आजानजा देवाः स्मातकर्मविशेषतो देवस्थानेषु जाताः । मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे निमित्तमाह-ते ह्यन्तर्धानादीति । प्रथममकामह- ताग्रहणस्य तात्पर्यमाह-प्रथममिति । यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् , मानुषानन्दे निस्पृहो मानुषानन्दभोगभागी चेति । ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्श- यितुं प्रथमपर्याये तदग्रहणमित्यर्थः । अवृजिनत्वमपापत्वं यथोक्तकारिवं तत्साधुपदाल्ल- म्यत इत्यर्थः । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स । १ म. न्दविरोधाद्भोग - - (अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । एको देवानामानन्दः । श्रोत्रियस्य चाकामह- तस्य । ते ये शतं देवानामानन्दाः । स एक इन्दस्याऽऽनन्दः (३)। श्रोत्रियस्य चाकामह- तस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतैरानन्दः । श्रोत्रियस्य चाकामह- तस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४)। कर्मदेवा ये वैदिकेन कर्मणाऽग्रिहोत्रादिना केवलेन देवानपियन्ति । देवा इति श्रयस्त्रिंशद्धविर्भुजः। इन्द्रस्तेषां स्वामी। तस्याऽऽचार्यो बृहस्पतिः । प्रजापतिविरात्रैलोक्यशरीरो.ब्रह्मा समष्टिव्यष्टिरूपः संसा- रमण्डलव्यापी । यत्रत आनन्दभेदा एकतां गच्छन्ति.धर्मश्च तन्निमित्तो. ज्ञानं च तद्विषयमकामहत्तत्वं च निरतिशयं यत्र.स एप हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च सर्वतः प्रत्यक्षमुपल- भ्यते । तस्मादेतानि त्रीणि साधनानीत्यवगम्यते । तत्र श्रोत्रियत्वावृ- जिनत्वे नियते, अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनताऽवगम्यते । तस्याकामहत्वप्रकर्षश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः । " एतस्यैवाऽऽनन्द्रस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्तरात् । स एष आनन्दो यस्य मात्रा समुद्राम्भस इव विषुषः प्रविभक्ता यत्रैकतां गता. स एष परमानन्दः स्वाभाविकोऽद्वैतत्वादानन्दानन्दिनोश्चाविभागोऽत्र । त्यस्त्रिंशत् । अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रः प्रजापतिश्चेति १ . °ष्टिरू । २ इ.रूपसं।
आनन्दगिरिकृतटीकासंचलितशांकरमाष्यसमेता- [अमवलप- ध्याये- यदर्थ मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्य दर्शयितुमाह- तस्याकामहतव्येति । तस्य ब्रह्मणो हिरण्यगर्भस्याऽऽनन्दस्तदुपासकप्रत्यक्षो यस्य मामा स एष परमानन्दः स्वाभाविक इति संबन्धः । हिरण्यगर्भानन्दस्य मात्रास्वे श्रुत्यन्तरं प्रमाणयति-पतस्यैवेति । न केवलं हिरण्यगर्भानन्द एष मात्रा, यश्च प्रागुपन्यस्तः सार्वभौमायानन्दः स एष युस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती या निरतिशया- नन्देऽकामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकता गतेति योजना । अकामहतप्रत्यक्षत्वामिधाना- बेदप्राप्तिं निरस्यति-आनन्दानन्दिनोश्चेति । प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यव- धानाभावाभिप्रायं न तु विषयविषयिभावाभिप्रायम् । अदृश्येऽनारम्य उदरमन्तरं कुरुत इत्यादिना निषेधादित्यर्थः । तदेतन्मीमांसाफलमुपसंतिपते- स यश्चायं पुरुषे । यश्चा- सावादित्ये । स एकः । स यश्चायं पुरुष इति । यो गुहायां निहितः यरमे प्योमन्याकाशा- दिकार्य सृष्ट्वाऽन्नमयान्तं तदेवानुप्रविष्टः स प इति निर्दिश्यते। कोऽसा. वयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टो यस्यैकदेशं ब्रह्मादीनि मृतानि सुखार्हाण्युपजीवन्ति स यथासावादित्य इति निर्दिश्यते । स एको भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्म न युक्तो निर्देशो. यश्चायं दक्षिणेऽक्षन्निति तु युक्तः प्रसिद्धत्वात् । न प्राधिकारात् । परो हास्माऽत्राधिकृतोऽदृश्येऽनाम्ये भीषाऽस्माद्वातः पवते सैषाऽऽनन्दस्य मीमांसेति । न ह्यकस्मादप्रकृतो युक्तो निर्देष्टुं, परमात्मविज्ञानं च विव- क्षितम् । तस्मात्पर एव निर्दिश्यते स एक इति । नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविक आनन्दः परमात्मैवान विषयविषयिसंवन्धजनित इति । ननु तदनुरूप एवायं निर्देशः स यश्चायं पुरुषे यश्चासावादित्ये स एक इति भिन्नाधिकरणस्थविशे- पोपमर्दैन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम् । नानर्थकम् । उत्कर्षा- पकर्षापोहार्थत्वात् । द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः.सवित्रभ्यन्त- र्गतः स चेत्पुरुषगतविशेषोपमर्दन परमानन्दमपेक्ष्य समो भवति न कश्चि- दुत्कर्षोऽपकर्षों पातां गतिं गतस्येत्यभयं प्रतिष्ठा विन्दत इत्युपपन्नम् ।
(अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । मीमांसया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षस्वाभिधानाद- भेदसिद्धिः । न हि परानन्दः परस्य प्रत्यक्षो भवति । तस्मान्निरतिशयानन्दब्रह्मैकरवं जीवस्य ब्रह्मविदाप्नोति परमित्युपक्रान्तं मीमांसया च सिद्धमुपसंहियत इत्यर्थः । आदित्य- ग्रहणम्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति-- नन्विति । य एष एतस्मिन्मण्डले पुरुषो युश्चायं दक्षिणेऽनन्पुरुषः " इत्यादौ श्रुत्यन्तरे मण्डल- स्थस्य दक्षिणाक्षिस्थेनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिदेशे दक्षिणाक्षिग्रहणं युक्त- मित्यर्थः । अध्यात्ममधिदैवतं च लिङ्गास्मोपासनविवक्षायां तथा स्यान्नेह तद्विवक्षितमि- त्याह-न प्ररेति । य एंव चिद्धातुर्निरतिशयानन्द उस्कृष्टोपाधौ प्रतिविम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिबिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावेक्यं विवक्षिमित्यर्थः । अस्ति शास्त्रीत्यनुप्रश्नो व्याख्यातः । कार्यरसलामप्राणनामयप्रतिष्ठा- भयंदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतोऽनुप्रश्न एकः, द्वावन्यावनुप्रश्नी विद्वदविदुषोर्बह्मप्राप्त्यप्राप्तिविषयौ तत्र विद्वान्स- मश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यस्तदपाकरणायोच्यते । मध्यमोऽनुप- नोऽन्त्यापाकरणादेवापाकृत इति तदपाकरणाय न यत्यते । वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति-अस्ति नास्तीति । संदिग्धं सप्रयोमनं च विचारमर्हति । स एवंवित् । अस्माल्लोकात्मेत्य । एतमन्न- मयमात्मानमुपसंकामति । एतं प्राणमयमा- त्मानमुपसंक्रामति । एतं मनोमयमात्मानमुप- संक्रामति । एतं विज्ञानमयमात्मानमुपसंक्रा- मति । एतमानन्दमयमात्मानमुपसंकामति । स यः कश्चिदेवं यथोक्तं ब्रह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमन- न्तमस्मीत्येवं वेत्तीत्येवंवित । एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम् , अस्माल्लोकात्त्य दृष्टादृष्टेष्टविषयसमुदायो ह्ययं लोकस्तस्माद- स्माल्लोकात्मेत्य प्रत्यावृत्य निरपेक्षो भूस्वैतं यथाव्याख्यातमन्नमयमात्मा. नमुपसंकामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति .. .ख. म. ठ. यास्मीति । २ अ. ठ एवं विद्वानिर । स. छ. म. यहेतु ।
ध्याये- " रोधः। " "" आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता [२ब्रह्मवाय. सर्व स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततोऽभ्यन्तरमेतं प्राण- मयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्द- मयमात्मानमुपसंक्रामति । अथाहश्येऽनात्स्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । तत्रैतशि- न्त्यम् । कोऽयमेवंवित्कथं वा संक्रामतीति । किं परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्त उत स एवेति । किं ततः, यद्यन्यः स्याच्छ्रतिवि- तत्सृष्ट्वा तदेवानुप्राविशत् " अन्योऽसावन्योऽहमस्मीति । "न स वेद ""एकमेवाद्वितीयम् तत्त्वमसि" इति । अथ स एवाss- नन्दमयमास्मानमुपसंक्रामतीति, कर्मकर्तृत्वानुपपत्तिः। परस्यैव च संसा- रित्वं पराभावो वा । यद्युभयथा. प्राप्तो दोपो न परिहतुं शक्यत इति व्यर्था चिन्ता । अथान्यतरस्मिन्पक्षे दोषाप्राप्तिस्तृतीये वा पक्षेऽदुष्टे स एव शास्त्रार्थ इति व्यथैव चिन्ता न. तन्निर्धारणार्थत्वात्सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतररिंमंस्तृतीये वा पक्षेऽदुष्टेऽवधृप्ते व्यर्था चिन्ता स्यान्न तु सोऽवधृत इति तदयधारणार्थत्वादर्थवत्येवैपा चिन्ता। सत्यमर्थ- वती चिन्ता । शास्त्रार्थावधारणार्थत्यात् । चिन्तयसि च त्वं न तु निर्णे- प्यसि, किं न निर्णतव्यमिति येदवचनं, न, कथं तर्हि बहुप्रतिपक्षत्वादेक- त्ववादी त्वं, वेदार्थपरस्वादहवो हि नानात्ववादिनो वेदवाह्यारस्वत्पति- पक्षा अतो ममाऽऽशङ्कां न निणेयसीत्येतदेव मे स्वम्त्ययनं यन्मामेकयो गिनमनेकयोगिबहुप्रतिपक्षमास्थ। अतो जेष्यामि सर्घानारभे च चिन्ताम् । अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह-किं तत इति । उभयत्रानुप- पत्तिं संशयकारणमाह --यद्यन्यः स्यादिति । चोद्यमुखेन संशयव्यावृत्तिं प्रयोजन- माह ---यधुभयथेत्यादिना । एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मा- मेकत्ववादिनं स्वमात्थ ब्रूषेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः संमतत्वा- दनेकवस्तुवादिनश्च बहवः प्रतिपक्षाः सन्ति ममेत्यर्थतोऽपि कल्याणमनेकत्वस्यान्योन्याश्रया- दिदोषदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्वेत्यर्थः । स एव तु स्यात्तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो ह्यत्र विवक्षितो ब्रह्मविदाप्नोति परमिति । न ह्यन्यस्यान्यभावापत्तिरुपप- द्यते । ननु तस्यापि तद्भावापत्तिरनुपपन्नैव । न । अविद्याकृततादात्म्या. पोहार्थत्वात् । या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते साऽविद्याकृत- स्यानादिविशेषात्मन आत्मत्वेनाध्यारोपितस्यानात्मनोऽपोहा । कथ. सेवमर्थताऽवगम्यते, विद्यामानोपदेशात् । विद्यायाश्च दृष्टं कार्यमविद्या- .
(अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । निवृत्तिस्तञ्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते । मार्गविज्ञानोप- देशवदिति चेत्तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । करमात् । देशा- न्तरप्राप्ती मार्गविज्ञानोपदेशदर्शनात् । न हि ग्राम एव गन्तेति चेत् । न, वैधात् । तत्र हि ग्रामविपयं विज्ञानं नोपदिश्यते तत्प्राप्तिमार्गविषय- मेवोपदिश्यते विज्ञानं. न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरवि. षयं विज्ञानमुपदिश्यते । उक्त कर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्ती साधनमुपदिश्यत इति चेत् । न । नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् । श्रुतिश्च तत्सृष्ट्वा तदेवानुपाविशदिति कार्यस्थस्य तदात्मत्वं दर्शयति । अभयप्रतिठोपपत्तेश्च, यदि हि विद्यावान्स्वात्मनोऽन्यन्न पश्यति ततोऽ- भयं प्रतिष्ठा विन्दत इति स्माद्भवहेतोः परस्यान्यस्याभावात् । विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते--- एव तु स्यादिति । औपाधिकभेदाभ- नोऽप्येवंविरस्वतः पर एष स्यादित्यर्थः । अविद्याध्यारोपिता ब्रह्मत्वन्यावृत्तिरेय बाप्राप्ति- विवक्षतति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह-कथमिति । परिहरति--विद्यामात्रेति । अन्यथाऽप्युपपत्ति शङ्कते--मार्गति । गन्तुः स्वतो ग्राम- स्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकम्तथा जीवस्य स्वसो ब्रह्मस्वाभावेऽपि विद्योपदे- शोऽभ्यासद्वारेण ब्रमप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः । अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याहन वैधादिति । अन्यस्य पाविद्याकृतत्थे विद्ययाऽवतुत्वदर्शनोपपत्तिस्तद्धि द्विती- यस्य चन्द्रस्य सत्त्वं चंदतैमिरिकेण चक्षुष्मता न गृह्यते. वैवं, न गृह्यत इति चेन्नु नसमाहितयोरग्रहणात् । गुप्तेऽग्रहणमन्यासक्तयदिति चेत् । ज । सर्वाग्रहणात् । जायत्स्वमयोरन्यस्य ग्रहणात्सत्यमेवेति चेत् । न । अविद्याकृतत्वाज्जामत्स्वप्नयोर्यदन्यग्रहणं जाग्रत्स्वप्नयोस्तदषिद्याकृतम- विद्याभावेऽभावात् । यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शन- स्येत्याशङ्कयाऽऽह-अन्यस्य चेति । कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतरवे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्रशास्तति मिथ्यैतध- तस्तस्य मम चैकात्म्यमेव परमार्थमिति विवृदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः । दृष्टान्तेन वैषम्यं शङ्कते-नैवमिति । यथा चन्द्रैकत्वदर्शनाद्वितीयश्चन्द्रो न गृह्यते, नैवं ब्रह्म- विदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुपपत्त्या १ ख. म.न्द्रस्यास । २ क. ४ स. ग. प्र. दाशना द्विती। दा त्यमिति तै । अ. यदाऽतै'। ३ ख. ग. ह. अ. सुषुप्त , - ९२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- ब्रह्मवाक्य. ध्याये- जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं, न हि मायावी स्वविरचितव्या- घाभासाद्विभेति । अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह-न. सुप्तेति । सुषुप्ते व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह-सुषप्त इति । यथेषुकार इष्वासक्तमन- स्तया तव्यतिरिक्तं विद्यमानमपि न पश्यति तथा सुषुप्तेऽपि निरायाससुखासक्ततया सदपि द्वितीयं न पश्यति न स्वभावादित्यर्थः । अन्यासक्तस्य तव्यतिरिक्तादर्शनेऽपि तदर्शनमेवास्ति सुषुप्ते तु न किंचिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मतादात्म्यादज्ञानस्य च व्यतिरिक्तस्व- निर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह-न सर्वाग्रहणादिति । सुषुप्ते चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्भाद्वैतस्य सत्त्वं किं न स्यादित्याह-जाग्न- विति । अनास्मादावात्मत्वादिबुद्धिविद्या तद्भाव एव द्वैतोपलम्भान्नोपलम्भमात्रं सत्त्वसा- धकमन्यथा शक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह-नाविद्येति । सुषुमेऽग्रहणमप्यविद्याकृतमिति चेत् ।न। स्वाभाविकत्वात् । द्रव्यमय हि तत्त्वमतिक्रिया परानपेक्षत्वातिक्रिया न तत्त्वं परापेक्षत्वात् । न हि कारेकापेक्षं वस्तुनस्तत्त्वं सतो.विशेषः कारकापेक्षो विशेषश्च विक्रिया। जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः । यदि यस्य नान्यापेक्षं स्वरूपं, तत्तस्य तत्त्वं, पदन्यागेशं न तत्तत्त्वम् । अन्याभावेऽभावात् । तस्मात्स्वाभावि- कत्वाज्जाग्रत्स्वप्नवन्न सुषुप्ते विशेषः । पूर्ववाद्याह-सुषुप्त इति । सुषुप्त द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमतो यदुक्तं सुषुप्त सर्वात्मकब्रह्मभृतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तपसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । किं ग्रहण- प्रागभावो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् । नाऽऽद्यः । प्रागभावस्यानादिस्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्यु- पगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मताया अभ्युपगन्तव्य. त्वेनास्मत्समीहितसिद्धिप्रसङ्गात् । न तृतीय इत्याह-न स्वाभाविकत्वादिति । अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकवादित्यर्थः । एतत्स्पटयति-द्रव्यस्य होत्यादिना । सन्मात्रं द्रव्यमच्यते स्वातन्त्र्यसिद्धयभिप्रायेण न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवाथिकारणं द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रि- याभावोपलक्ष्यं स्वरूपमनरेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी १ क घ, छ अ. ट. रणापे ।
(अष्टमोऽसुवाकः] तैत्तिरीयोपनिषत् । ९३ परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः । यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तत्स्फुट- यति-नीति । येषां पुनरीश्वरोऽन्य आत्मनः,कार्य चान्यत्तेपां भयानिवृत्तिर्भयस्या- न्यनिमित्तत्वात्सतश्चान्यस्याऽऽत्महानानुपपत्तिः । न चासत आत्मलाभः । सापेक्षस्यान्यस्य भयहेतुत्वमिति चेन्न तस्यापि तुल्यत्वात् । यदधर्माद्य. नुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्यान्यद्भयकारणं स्यात्त(त, न, तस्यापि तथाभूतस्याऽऽत्महानाभावाद्भयानिवृत्तिरोत्महाने वा सदसतोरितरेतरापत्ती सर्वत्रानाश्वास एव । एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः संभवतीत्युपपाद्य द्वैतीयपक्षे तदसंभवमाह-येषामिति । सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघातादनवस्थानाञ्च । तीसत ऐव (?) भयस्योत्पादेऽभयप्राप्तिभविष्यतीत्याशङ्कयाऽऽह- न चासत इति । व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुस्वं किंतु प्राणिकृतधर्माधर्मा- द्यपेक्षस्य मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्कय नैतरसांख्येन वाच्यम् । अधर्मादेरपि सतस्तेनास्यन्तासत्त्वानङ्गीकाराम्नैयाथिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुरवधा- रणत्वासेनापि न वाच्यमित्याह – तस्याप्रीति । किंच सच्चेदसत्त्वमापद्यतेऽधर्मादिकं तस्मिन्यपि कः प्रश्वासस्तस्मात्स्वभावपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह-सदसतोरिति । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्याविद्याकल्पितत्वाददोषः । तैमिरिकदृष्टस्य हि द्वितीयचन्द्रय माऽऽत्मलाभो नाशो वाऽस्ति । विद्याविद्ययोस्तद्धर्मत्वमिति चेन्न प्रत्यक्षत्वात् । विवेकाविवेकी रूपादि- वत्प्रत्यक्षावुपलभ्येते अन्तःकरणस्थौ । न हि रूपस्य प्रत्यक्षस्य सतो दृष्टधर्मत्वम् । अविद्या च स्वानुभवेनै रूप्यते, मूढोऽहमविविक्तं मम विज्ञानमिति । तथा विद्याविवेकोऽनुभूयते । उपदिशन्ति चान्येभ्य आत्मनो विद्यां बुधाः । तथा चान्येऽवधारयन्ति, तस्मान्नामरूपपक्षस्यैव विद्याविथे नामरूपे च नाऽऽत्मधर्मों। "नामरूपयोनिर्वहिता ते यदन्तरा तद्ब्रह्म" इति श्रुत्यन्तरात् । वे च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते, न परमार्थतो विद्यमाने । अभेदे "एतमानन्दमयमात्मानमुपसंक्रामति" इति कर्मकर्तृत्वानुपपत्तिरिति चेन्न । विज्ञानमात्रत्वात्संक्रमणस्य । न .स. ग. सत्मानात्मनोः स । २ क ख एवाभ' । ३ क. ह. म. 'न निरू। घ.. छ. युद्धाः । ५ घ. मौं। " आकाशो ह वै नाम मा ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- ब्रह्मवल्लय- ध्याये- , जलूकादिवत्संक्रमणमिहोपदिश्यते, किं ताई , विज्ञानमात्रं संक्रमण श्रुतेरर्थः । स्वमतं निगमयति–एकत्वपक्ष इति । अविधाकस्सितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्ये. तेति शङ्कते--विद्याविद्ययोरिति । कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्व- संभवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यस्वाद्रूपादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह-न प्रत्यक्षत्वादिति । चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चान्त करणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मि. प्रतिविम्मितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवाहियते न तत्त्वतो विद्याविद्यावत्त्वमिस्याह-ते च पुनरिति । उक्तन्यायेन ब्रह्मवित्तत्त्वतो ब्रह्माभिन्न इत्युक्तम् । तत्र परोक्तमुद्भाव्य निरस्यति-अभेदे, एतमित्यादिना । नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयबमारमताज्ञानेनाऽऽनन्दमयस्याऽऽत्मतया अन्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः । ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामती[ती]ति चेत् । न । अन्नम- येऽदर्शनात् । न ह्यन्नमयमुपसंक्रामतो बाह्यादस्माल्लोकाजलूकावत्संक्र- मणं दृश्यतेऽन्यथा वा । मनोभयस्य बहिनिर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्याऽऽत्मसंक्रमणमिति चेत् । न । स्वात्मनि क्रियाविरोधाद- न्योऽन्नमयमन्यषुपसंझामतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मा- नमेवोपसंक्रामतीति विरोध: स्यात् । तथा नाऽऽनन्दमयस्याऽऽत्मसंक्रम- णमुपपद्यते । तस्मान्न प्राशिः संक्रमणं, नाप्यन्नमयादीनामन्यतमकर्तृकं. पारिशेष्यादन्नमयाधानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च संक्र. मणमुपपद्यते । ज्ञानमात्रले धाऽऽनन्दमयान्तःस्थस्यैव सर्वान्तरस्याss- काशाद्यन्नमयान्तं कार्य सृष्ट्वाऽनुप्रविष्टस्य हृदयगुहामिसंबन्धादन्नमया- दिष्वनात्मस्वात्मविआमः संक्रमणेनाऽऽत्मविवेकविज्ञानोत्पत्त्या विन- श्यति । तदेतस्मिन्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते. न ह्यन्यथा सर्वगतस्याऽऽत्मनः संक्रमणमुपपद्यते । वस्त्वन्तराभावाच । न च स्वात्मन एव संक्रमणम् । न हि जलूकाऽऽत्मानमेव संक्रामति । तस्मा- सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुमवन- सर्गप्रवेशरेसलाभाभयसंक्रमणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहार• विषये,न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते। १क रसाम° ! ठ. सभयाभ।
(अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । ९५ अन्यथा वेति । नीडे पक्षिप्रवेशवद्वेत्यर्थः । यद्यप्यन्नमये मुख्यं संक्रमणं न संभवति तथाऽपि मनोबुद्ध्योर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह-मनोमाइयेति । स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाश्च न तन्मुख्यं संक्रमणमित्याह-नेति । ज्ञान- मात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह-ज्ञानमात्रत्वे चेति । मुख्यासंभवे गौणार्थग्रहणं न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्र- मणं फलतीति भावः । इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह-वस्त्वन्तरासावा. जेति । संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह- तस्मादिति। तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्लयध्यायेऽ- ष्टमोऽनुवाकः ॥ ८॥ तमेतं निर्विकल्पमात्मानमेवं क्रमेणोपसंक्रम्य विदित्वा न बिभेति कुतश्चनाभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽप्येष श्लोको भवति । सर्व- स्यैवास्य प्रकरणस्याऽऽनन्दवल्लयर्थस्य संक्षेपतः प्रकाशनायैप मन्त्रो मवति । इति श्रीमस्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्यायेऽ- ष्टमोऽनुवाकः ॥ ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि. पुच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्ल्यध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ ब्रह्मवलपध्याये नषमोऽनुवाकः । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुर्तश्चनेति । १ ज. स. वृत्तस्म। २ क. स. वस्व ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवाय- ध्याये- यतो यस्मानिर्विकल्पाद्यथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभि- धानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्ध- येऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानान्यप्राण्याप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते।मन इति प्रत्ययो विज्ञानम् । तच्च यत्राभि- धानं प्रवृत्तमतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः । तस्मात्सहैव वाङ्मनसयोरभिधानप्रत्यययोः प्रवृत्तिः सर्वत्र । तस्माद्ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मादप्रत्ययविषयादनभिधेयाददृश्यादिविशेषणात्सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते तं बह्मण आनन्दं श्रोत्रियस्यावृजि- नस्याकामहतस्य सर्वेषणाविनिर्मुक्तस्याऽऽत्मभूतं विषयविषयिसंबन्धवि- निर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान्यथोक्तेन विधिना न बिभेति कुतश्चन निमित्ताभावात् । न हि तस्माद्विदुषोऽन्य- द्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति । अविद्यया ग्रदोदरमन्तरं कुरुते । अथ तस्य मयं भवतीति झुक्तम् । विदुपश्चाविद्याकार्यस्य तैमिरिकदृष्ट- द्वितीयचन्द्रवन्नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते । मनो- मये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्या- रोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमानं प्रतिपिद्धमिहाद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव प्रतिपिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमि- त्युच्यते- एत ह वाव न तपति । किमह साधु नाकरवम् । किमहं पापमकरवमिति । एतं यथोक्तमेवंविदम् । हु वावेत्यवधारणार्थी । न तपति नोद्वेजयति न संतापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीत्युच्यते । किं कस्मात्साधु शोभनं कर्म नाकरखं न कृतवा- नस्मीति पश्चात्संतापो भवत्यासन्ने मरणकाले । तथा किं कस्मा- त्पापं प्रतिषिद्धं कर्माकरवं कृतवानस्मीति च नरकपतनादिदुःखभया- AHAN क. म. ट..ति यस्मात्सं।
९नवमोऽनुषाकः] तैत्तिरीयोपनिषत् । तापो भवति । ते एते साध्वकरणपापक्रिये एवमेनं न तपतो यथाऽ- विद्वांसं तपतः। कस्मात्पुनर्विद्वांसं न तपत इत्युच्यते- स य एवं विद्वानेते आत्मानः स्पृणुते । उभे विष एते आत्मानः स्पृणुते। य एवं वेद । इत्युपनिषत् । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मबल्लयध्याये नवमोऽनुवाकः ॥ ९ ॥ स य एवं विद्वानेते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुते प्रीण- यति बलयति वा परमात्मभावेनोभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मादेवमेष विद्वानेते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वाऽऽत्माचं स्पृणुत एव । को य एवं वेद यथोक्तमद्वैतमानन्द ब्रह्म वेद तस्याऽऽत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्त- रारम्भके न भवत इतीयमेवं यथोक्ताऽस्यां वल्लयां ब्रह्मविद्योपनिषत्स- वभ्यिो विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः । परं श्रेयोऽस्यां निष- ण्णमिति। इति श्रीमत्परमहंसपरिधाजकाचार्यगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये द्वितीयब्रह्मवल्यध्याये नवमोऽनुवाकः ॥९॥ साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽतिरिक्त यदानर्थहेतुस्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्स्वादप्रकाशमानस्वाञ्चेत्यभिप्रे- स्याऽऽह—स्वेन विशेषरूपेणोति । आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं तु ये साध्वसाधुनी ममार्थानर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधु- करणेन प्रीणयत्येव लोकदृष्टया निष्पद्यमाने पुण्यपापे दृष्ट्वा हृप्यते(ति) च विद्वान्न विभेतीत्याह-स्पृणुत एवेति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्वंकरभूगवध्यिानन्दज्ञानविरचितायां तैत्तिरीयोपनि- षच्छांकरभाष्यटीकायां द्वितीयब्रह्मवल्यध्याये नवमोऽनुवाकः ॥९॥ १ज.स. म. ठ. दृश्यते ।
ध्यायः
आनन्दगिरिकृतटीकासंघलितशांकरमाव्यसमेता- [अमषाय.
ब्रह्मविदिदमेकविशतिरनादन्नरसमयात्माणो व्यानोमान आकाशः
पूथिवी पुच्छ५ षड्विंशतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽर्धारिस:
पुच्छं द्वाविश्शतिर्यतः श्रद्धर्त५ सत्यं योगो महोऽष्टादश विज्ञानं प्रियं
मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वाविश्शतिरसन्नेवाष्टाविशतिरसत्तो-
डश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश ।
सह नाववतु । सह नै भुनक्तु । सह वीर्य करवावहै । तेजस्वि
नावधीतमस्तु मा विद्विषावहै।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ।
इति कृष्णयजुर्वेदीयतैचिरीयोपनिषदि द्वितीयो ब्रह्मवल्लयध्यायः
समाप्तः ॥२॥
इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमद्गोविन्दमगवत्पूज्यपादशिष्यस्य
शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये द्वितीयो
ब्रह्मवल्यध्यायः समाप्तः॥२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्ध-
गवदानन्दज्ञानविरचितायां तेत्तिरीयोपनिषच्छांकरभाष्यटीकायां
द्वितीयो ब्रह्मवाल्यध्यायः समाप्तः ॥ २ ॥
तैत्तिरीयोपनिषत् । अथ तैत्तिरीयोपनिषदि तृतीयो मृगुवल्यध्यायः। तत्र प्रथमोऽनुवाकः। हरिः ॐ। सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । इति शान्तिः । - सत्यं ज्ञानमनन्तं ब्रह्माऽऽकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुम- विष्टं विशेषवदिवोपलभ्यमानं यस्मात्तस्मात्सर्वकार्यविलक्षणमदृश्यादि- धर्मकमेवाऽऽनन्दं तदेवाहमिति विजानीयादनुप्रवेशस्य तदर्थत्वात्तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवत इत्येवमानन्द. वल्या विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्मविद्या । अतः परं ब्रह्म- विद्यासाधनं वो वक्तव्यमन्नादिविषयाणि चोपासनान्यनुक्तानीत्यत इदमारभ्यते- भूगु वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्पोवाच। अन्न पाणं चक्षुः श्रोत्रं मनो वाचमिति। त५ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्पर्यन्त्यभिसंवि- शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति-भूगर्दै १२. मन्नमयाना।
ध्याये- १०० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३भृगुवाप- वारुणिः । वैशब्दः प्रसिद्धानुस्मारको भगरित्येवंनामा प्रसिद्धोऽनुस्म- र्यते । वारुणिर्वरुणस्यापत्यं वारुणिरुणं पितरं ब्रह्म विजिज्ञामुरुपस- सारोपगतवान् । अधीहि भगवो ब्रह्मेत्यनेन मन्त्रेण । स च पिता विधि- वदुपसन्नाय तस्मै पुत्रायैतद्वचनं प्रोवाच । अन्नं प्राणं चक्षुः श्रोनं मनो वाचमिति । अन्नं शरीरं तदभ्यन्तरं च प्राणमत्तारमुपलब्धिसाधनानि- चक्षः श्रोत्रं मनो वाचमित्येतानि ब्रह्मोपलवधी द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगु होवाच ब्रह्मणो लक्षणम् । किं तत् । यतो यस्माद्बा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते । येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते । विनाश- काले च यत्ययन्ति यब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते । उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि तदेतद्ब्रह्मणो लक्षणम् । तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छ स्व । यदेवलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च- "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो ये मुनो विदुस्ते निचिक्युर्बह्म पुराणमय्यम्" इति ब्रह्मोपलब्धौ द्वारा- ण्येतानीति दर्शयति । वृत्तानुवादपूर्वकमुत्तरवल्लीसंबन्धमाह-सत्यं ज्ञानमित्यादिना । तप इति । पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः । अधीहीति। अध्यापय स्मारय । "इस्मरणे" इति धातुपाठादित्यर्थः । ब्रह्मोपलब्धाविति । लक्ष्यस्वमर्थविवेकाय द्वाराणि शरीरा- दिचेष्टान्यथानुपपत्त्या हि माक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । सतपोऽतप्यत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्यध्याये प्रथमोनुऽवाकः ॥ १ ॥ स भृगुब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुस्तपो ब्रह्मो- पलब्धिसाधनत्वेनातप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्ति गोः, सावशेषोक्तरन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा इसानीत्यायुक्तवान् । सावशेषं हि तत्साक्षाद्ब्रह्म- णोऽनिर्देशात् । अन्यथा हि स्वरूपणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे १ क. ख. ट. नुस्मार्य । २ क. ख. °ण । अधीयध्यापय कथयेत्यर्थः । म । 8. ण । अधीयध्यापय कथय । स।
रद्वितीयोऽनुवाक: तैत्तिरीयोपनिषत् । १०१ पुत्रायेदमित्थंरूपं ब्रह्मेति । न चैवं निरदिशत्कि तर्हि. सावशेषमेवोक्त- वान् । अतोऽवगम्यते. नूनं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्, सर्वेषां हि नियत- साध्यविषयाणां साधनानां तप एव साधकतम साधनमिति हि प्रसिद्धं लोके । तस्मात्पिमाऽनुपदिष्टमपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः । तच तपो बाह्यान्तःकरणसमाधानं तद्दारकत्याद्ब्रह्मप्रतिपत्तेः । "मनसश्चेन्द्रियाणां च ौकाग्न्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उध्यते " इति स्मृतेः । स च तपस्तप्त्वा। इति श्रीमत्परमहंसपरिणामकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीयभृगुवल्यण्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ न केवलं स्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किंतु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्यस्य ब्रह्मणो लक्षणमुक्तवानित्यर्थः । सावशेषोक्तरिति । पदार्थोपलक्षणस्यैवाभिधानादखण्ड- वाक्यार्थस्याप्रतिपादनास्पदार्थभेदज्ञानाञ्च पुरुषार्थासंभवादुदरमन्तरं कुरुत इति निन्दितत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणमावृत्त्याऽनुष्ठितवानित्यर्थः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दशानविरचितायां तैत्तिरीयोप- निषच्छांकरभाष्यटीकायां तृतीयभृगुवलपध्याये प्रथमोऽनुवाकः ॥१॥ भथ भृगुवल्लयां द्वितीयोऽनुवाकः । अन्नं ब्रह्मेति व्यंजानात् । अन्नाद्धचैव खल्वि- मानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्वि- ज्ञाय । पुनरेख वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मति । तु५ होवाच । १ क. घ. ग. च. °लं लक्ष्यत्व ।
ध्याये- - १०२ आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता- [भूगताप- तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स. तपेोऽतप्यत । स तस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्यध्याये द्वितीयोऽनुवाकः ॥ २॥ अन्नं ब्रह्मेति व्यजानाद्विज्ञातवान् । तद्धि यथोक्तलक्षणोपेतम् । कथम् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते । अन्जेन जातानि जीवन्ति । अत्रं प्रयच्याभिसंविशन्तीति । तस्माद्युक्तमन्नस्य ब्रह्मत्व. मित्यभिप्रायः। स एवं तपस्तप्रवाऽनं ब्रह्मेति विजाय लक्षणेनोपपत्या च पुरेख संशयमापन्नो वरुणं पितरमुपससार।अधीहि भगवो ब्रह्मेति। कः पुनः संशयहेतुरस्येत्युच्यते । अन्नस्योत्पत्तिदर्शनात् । तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः । यावद्ब्रह्मणो लक्षणं निरति- शयं न भवति यावञ्च जिज्ञासा न निवर्तते तावत्तप एव ते साधनम् । तपसैव ब्रह्म विजिज्ञासस्वेत्यर्थः । ऋज्वन्यत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभग- वतः कृतौ तैत्तिरीयोपनिषदि तृतीयभृगुवल्यध्यायभाष्ये द्वितीयोऽनुवाकः ॥ २ ॥ स च तपस्तपवेति । कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते परिपूर्ण भवतीत्ये- काग्रेण चेतसा पर्यालोच्यान्नं ब्रह्मेति व्यज़ानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्यूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थूल- भौतिककारणत्वात् । यतो वा इमानि भूतानीतिलक्षणस्य तत्र योजयितुं शक्यत्वात्तद्ब्रह्मति प्रतिपन्नवानित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवरिष्यानन्दज्ञानविरचितायां तैत्ति- रोयोपनिषच्छांकरभाष्यटीकायां तृतीये भृगवलपध्याये द्वितीयोऽनुवाकः ॥ २ ॥ भय भूगवळ्यध्याये तृतीयोऽनुवाकः । प्राणो ब्रह्मेति व्यजानात् । प्राणायैव खल्वि- मानि भूतानि जायन्ते । प्राणेन जातानि - १घ.रु.छ. वत्विये ४चतुर्थोऽनुवाक:] तैत्तिरीयोपनिषत् । १०३ जीवन्ति । प्राणं प्रयन्त्यक्षिसंविशन्तीति । तद्विज्ञार्य । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मति । म तपोऽतप्यत । म तपस्तप्त्या । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्यध्याये तृतीयोऽनुवाकः ॥ ३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमनंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाप्ये तृतीये भृगुवल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र संपूर्ण न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशब्दलक्ष्यं हिरण्यगर्भ संकल्पाध्यवसायश- क्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यज़ानात् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोप- निषच्छांकरभाष्यटीकायां भृगुवल्लयध्याये तृतीयोऽनुवाकः ॥३॥ , अथ भृगुवल्लयां चतुर्थोऽनुवाकः । मनो ब्रह्मेति व्यजानात् । मनसो हवि खल्वि- मानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तर होवाच । ११. म. ट. विषयत ।१स. ग. च. शक्किळ ।
१०४ ध्याये- - आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [ ३ भृगुवाप- तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मति । स तपोऽतप्यत स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भुगुबळ्य- ध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अप भृगुवल्लयां पञ्चमोऽनुवाकः । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसं- विशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्यध्यायभाष्ये चतुर्थपञ्चमावनुवाको ॥ ४ ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि. पच्छांकरभाष्यटीकायां व्रतीये भृगुवल्लघध्याये चतुर्थपश्चमावनुवाकौ ॥४॥५॥ अथ भगुवल्यध्याये षष्ठोऽनुवाकः । आनन्दो ब्रह्मेति व्य॑जानात् । आनन्दा- द्धयैव खल्विमानि भूतानि जायन्ते ।
षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । - - आनन्देन जातांनि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्यशनैः शनैरन्तरनुप्रविश्यान्तरतममानन्दं ब्रह्म विज्ञातवांस्तपसैव साधनेन भृगु. स्तस्माद्ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपःसा- धनमनुष्ठेयमिति प्रकरणार्थः । तस्यापि कार्यस्वाल्लक्षणं परिपूर्ण न भवतीति विचार्य तत्कारणं स्वातंत्र्येण निश्चित्य सर्वैः प्रार्यमानतयाऽऽनन्दशब्दवाच्यं मायाविशिष्टं ब्रह्मेति विज्ञाय विशिष्टस्य विशिष्टान्तरा- स्मत्वानुपपत्तेः कारणत्वोपलक्षितं विशुद्धानन्दं ब्रह्मेति विज्ञातवानित्यर्थः । अधुनाऽऽख्यायिकातोऽपसृत्य श्रुतिः स्वेन पचनेनाऽऽख्यायिकानिर्द- स्तमर्थमाचष्टे- सैषा धार्यवी वारुणी विद्या। परमे व्योमन्प्रतिष्ठिता । स. य एवं वेद प्रतितिष्ठति । सैषा भार्गवी भूगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन्हृदयाकाशगुहायां पुरम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्ताs- नमयादात्मनोऽधिप्रवृत्ता । य एवमन्योऽपि तपसैव साधनेनानेनैव कमे- णानुप्रविश्याऽऽनन्दं ब्रह्म वेद स एवं विद्याप्रतिष्ठानात्मतितिष्ठत्यानन्दे परमे ब्रह्मणि, ब्रह्मैव भवतीत्यर्थः । दृष्टं च फलं तस्योच्यते- अन्नवानन्नाो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये षष्ठोऽनुवाकः ॥६॥ ॥ १ ख. ग. च. 'तात्रे सति स°। २ स्व. ग. च. स. ठ. 'टस्थावि। . स. ग. थ. 'यिका चोपसंहृत्य ।
१०६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [भृगुवाश्य- ध्याये- अन्नवान्प्रभूतमन्नमस्य विद्यत इत्यत्रवान् । प्रधामात्रेण तु सर्वो ह्यन्नवानिति,विद्याया विशेषो न स्यात् । एवमन्नमसीत्यनादो दीप्ता- निर्भवतीत्यर्थः । महान्भवति । केन महत्त्वमित्यत आह–प्रजया पुत्रा. दिना पशुभिर्गवाश्वादिभिर्बह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा। महान्भवति का ख्यात्या शुभप्रचारनिमित्तया ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यगोविन्दभगवत्पूज्यपादुशिष्यश्रीमच्छंकरभगवतः कृती तैत्तिरीयोपनिषदि तृतीयभृगुवल्यध्यायभाष्ये षष्ठोऽनुषाकः ॥ ६ ॥ प्रभूतत्वविशेषणमश्रुतं कथं निक्षिप्यत इत्याशङ्कयाऽऽह–सत्तामात्रेणेति । अत्र सत्तामात्रे विवक्षिते श्वसूकरादिरपि शरीर स्थित्याक्षिप्तान्नेनान्नवानिति विद्यायाः फलविशेषो नोक्तः स्यादतस्वरलात्प्रभूतत्वविशेषणं निक्षिप्तमित्यर्थः । एतच्च दृष्टफलं ब्रह्मविदो जीव- न्मुक्तस्याप्यविद्यालेशवशाद्वैताभासं पश्यतो नानुपपन्नं यस्येश्वरस्यानुग्रहादाविदुषामप्यन्नादि- समृद्धिदृश्यते किमुत तदात्मतत्त्वं साक्षादनुभवतामिति ।। इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताय तैत्तिरीयोपनि. षच्छांकरभाष्यटीकायां द्वितीये भृगुवल्यध्याये षष्टोऽनुषाकः ॥ ६ ॥ अथ भृगुवल्लयध्याये सप्तमोऽमुवाकः । अन्नं न निन्द्यात् । तद्वतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीर प्रतिष्ठितम् । शरीरे प्राणः प्रति- ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । किंचान्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात्तस्माद्गुरुमिवान्नं न निन्या- जदस्यैवं ब्रह्मविदो वतमुपदिश्यते । व्रतोपदेशोऽन्नस्तुतये, स्तुतिमाक्त्वं चान्नस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम् । शरीरान्तर्भावा- माणस्य । यद्यस्यान्तः प्रतिष्ठितं भवति तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितस्तस्मात्माणोऽवं शरीरमन्नादम् । तथा शरी- रमप्यन्नं प्राणोऽन्नादः । कस्मात्माणे शरीरं प्रतिष्ठितम् । तन्निमित्तत्वा- अन्नस । ख.ग.च.
(अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । १०७ च्छरीरस्थितेः । तस्मात्तदेवदुभयं शरीरं प्राणश्चान्नमन्नादश्च । येनान्यो- न्यस्मिन्प्रतिष्ठितं तेनान्नम् । येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मा- माणः शरीरं चोभयमन्त्रमन्नादं च । अन्नमपकृष्टं प्राप्तं न निन्द्यात । यदृच्छया चोपपनमधाच्छ्रेष्ठमुतापरम् " इत्युक्त- त्वात् । ब्रह्मविदो नियमाभिधानं साधकस्यानुष्ठानार्थम् । एवं वाक्यार्पज्ञाने लक्ष्यपदार्थान- संघानं मुख्यं साधनं तत्फलं चोपसंहृत्याधुना विचारासमर्थस्य मन्दाधिकारिणोऽनाबादसपेण प्राणापुपासमं गौणं साधनं विधत्ते-प्राणो वा अनमित्यादिना । म. य एतदन्नमन्ने प्रतिष्ठितं घेद प्रतिति- ष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजयो पशुभिर्बह्मवर्चसेने । महान्कीळ । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ स य एवमेतदन्त्रमन्ने प्रतिष्ठितं वेद प्रतितिष्ठत्यनान्नादात्मनैव । किंचानवानन्नादो भयतीत्यादि पूर्ववत् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवलयध्याये सप्तमोऽनुवाकः ॥ ७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमछकरभगवच्छिष्यानन्दज्ञानविरपितायो तैत्तिरीयोप- निषच्छांकरभाष्यटीकायां तृतीय भृगुवल्लयःयाये सप्तमोऽनुवाकः ॥ ॥ - भारमोऽनुवाकः। अन्नं न परिचक्षीत । तद्बतम् । आपो पा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन- ध्याये- १०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३भृगुवलय- मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्न- वानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये अगुवल्लयध्याये - टमोऽनुवाकः ॥ ८॥ अन्नं न परिचक्षीत न च परिहरेत् । तद्रतं पूर्ववत्स्तुत्यर्थम् । तदेवं शुभाशुभकल्पनयाऽपरिगृह्यमाणं स्तुतं महीकृतमन्नं स्यादेवं यथोक्तमुत्त- रेष्वप्यापो वा अन्नमित्यादिषु योजयेत् । अप्सु ज्योतिरित्यज्योतिषोर- नानादगुणत्वेनोपासकस्यान्नस्य बहुकरणं व्रतम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये मृगुवळ्यध्यायेऽ- ष्टमोऽनुवाकः॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोप- निषच्छांकरभाष्यटीका तृतीये भृगुवल्यध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अब भृगुवल्यध्याये नथमोऽनुवाकः । अन्नै बहु कुर्वीत । तद्वतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथि- व्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने पति- ष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं बुद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजयां पशु- १०दशमोऽनुवाक] तैत्तिरीयोपनिषत् । १०९ भिब्रह्मवर्चसेन । महान्कीर्त्याः ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये नवमोऽनुवाकः ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिपदि तृतीये भृगुवळ्यध्याये नवमोऽनुवाकः ॥ ९ ॥ इति श्वीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि. षच्छांकरभाष्यटीकायां तृतीये भृगुवल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ अध भृगुवल्यध्याये दशमोऽनुवाकः न कंचन वसती प्रत्यया॑चक्षीत । तद्ब- तम् । तस्मायया कया च विधया बहन्नं प्रामुयात् । अराध्यस्मा अन्नमित्याचक्षते । तथा पृथिव्याकाशोपासकस्य वसती वसतिनिमित्तं कंचन कंचिदपि न प्रत्याचक्षीत वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्तेऽ- वश्यं ह्यशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रका- रेण बन्नं प्राप्नुयाद्ब्रह्वन्नसंग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसोs- भ्यागतायान्नार्थिनेराधि संसिद्धमस्मा अन्नमित्याचक्षते न नास्तीति प्रत्याख्यानं कुर्वन्ति तस्माच्च हेतोर्बहनं प्राप्नुयादिति पूर्वेण संबन्धः । अपि चान्नदानस्य माहात्म्यमुच्यते । यथा यत्कालं प्रयच्छत्यन्नं तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह-- प्रदै मुखतोऽन्न राद्धम् । मुखतोऽस्मा अन्न राध्यते । एतद्वै मध्यतोऽन्न राद्धम् । मध्यतोऽस्मा अन्न५ राध्यते । एतद्वा ध्याये- ११० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३भृगुवल्लप. अन्ततोऽन्न राद्धम् । अन्ततोऽस्मा अन्न राध्यते ( १ ) । य एवं वेद । एतद्वा अन्नं मुखतो मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजापुरःस- रमभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादित्युच्यते-मुखतः पूर्वे वयसि मुख्यया वा वृत्त्याऽस्मा अन्न- दायानं राध्यते यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन चोपचारेण । तथाऽस्ततोऽन्ते वयसि जघन्येन चोपचारेण परिभवेन तथैवासमै राध्यते संसिध्यत्यन्नम् । य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तदानस्य यथोक्तं फलमुपनयेत् । इदानीं बह्मण उपासनप्रकार उच्यते- क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मनि हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । क्षेम इति वाचि । क्षेमो नामोपात्तपरिरक्षणम् । ब्रह्म वाचि क्षेमरु- पेण प्रतिष्ठितमित्युपास्यम् । योगक्षेम इति, योगोऽनुपात्तस्योपादानम् । तौ हि योगक्षेमौ प्राणापानयोः सतोर्भवतो यद्यपि तथाऽपि न प्राणा- पाननिमित्तावेव किं तर्हि ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेनाss- मना ब्रह्मैवोपास्यम् । कर्मणो ब्रह्मनिर्वय॑त्वाद्धस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायो। इत्येता मानुषीमनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ दैवीः ।। ततिरिति वृष्टौ । बलमिति विद्युति( २ ) । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमा- नन्द्र इत्युपुन्थे । सर्वमित्याचाथे ।
तैत्तिरीयोपनिषत् । १० दशमोऽनुवाकः] १११ तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान्भवति । अथानन्तरं देवीट्यो देवेषु भवाः समाज्ञा उच्यन्ते । ताप्तिरिति वृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्याद्ब्रह्मैव तृप्त्यात्मना वृष्टी व्यवस्थित- मित्युपास्यम् । तथाऽन्येषु तेन तेनाऽऽत्मना ब्रह्मैवोपास्यम् । तथा इल- रूपेण विद्युति । यशोरूपेण पशुषु । ज्योतीरूपेण नक्षत्रेषु । प्रजातिर. सतममृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेणाऽऽनन्दः सुखमित्येतत्सर्वम्- प्रस्थनिमित्तं ब्रह्मैवानेनाऽऽत्मनोपस्थे प्रतिष्ठितमित्युपास्यम् । सर्व शाकाशे प्रतिष्ठितमतो यत्सर्वमाकाशे तद्ब्रह्मैवेत्युपास्यम् । तचाऽऽ- काशं ब्रह्मैव । तस्मात्तत्सर्वस्य प्रतिष्ठेत्युपासीत । प्रतिष्ठागुणोपासनात्म: तिष्ठावान्भवति । एवं पूर्वेष्वपि यद्यत्तदधीनं फलं तब्रह्मैव तदुपासना- तद्वान्भवतीति द्रष्टव्यम् । श्रुत्यन्तराञ्च-" तं यथा यथोपासते तदेव भवति" इति । उपासनमपि फलानभिसंधिनाऽनुष्ठितं बुद्धिशुद्धिद्वारेण ब्रह्मज्ञानायोपकरोतीत्युक्तं मुल्या. धिकारिणस्त्वपवादायोपकरिष्यति । यत्र वागादौ यस्फलं कार्य क्षेमादीत्यर्थः । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति (३) । तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः। तद्ब्रह्म- त्युपासीत । ब्रह्मवान्भवति । तद्ब्रह्मणः परि- मर इत्युपासीत । पर्येणं. म्रियन्ते द्विषन्तः सपत्नाः । परि येऽपियां चातृव्याः । तन्मह इत्युपासीत । महो महत्त्वगुणवत्तदुपासीतः। महान्मवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थों भवति । तन्नम इत्युपासीत । नमनं नमो नमनगुणवत्तदुपासीत । तम्यन्ने प्रह्वी भवन्त्यरमा उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः। व्रह्मेन्युपासीत । ब्रह्म परिवृढतममित्युपासीत । ब्रह्मवांस्तद्गुणो भवति । तब्रह्मणः परिमर इत्युपासीन । ब्रह्मणः परिमरः परिनिय- भोग्यवि TAMITIRIT १क... ।
ध्याये- ११२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [३भृगुवलय- न्तेऽस्मिन्पश्च देवता विद्युष्टिश्चन्द्रमा आदित्योऽग्निरियेताः । अतो वायुः परिमरः श्रुत्यन्तरप्रसिद्धः । स एष एवायं वायुराकाशेनानन्य इत्याकाशो ब्रह्मणः परिमरस्तमाकाशं वाय्वात्मानं ब्रह्मणः परिसर इत्युपासीत । प्रतमेवंविदं प्रतिस्पर्धिनो नियन्तोऽद्विषन्तोऽपि सपना यतो भवन्त्यतो विशेष्यन्ते द्विषन्तः सपत्ना इति । य एनं द्विषतः सपत्नास्ते परिनियन्ते प्राणाञ्जहति । किंच ये चाप्रिया अस्य भ्रातव्या अद्विषन्तोऽपि ते च परिम्रियन्ते । महानिति । प्रनादिभिः । ब्रह्मवानिति । स्थूलभोगसाधनवान्विराडिवेत्यर्थः । श्रुत्यन्तरप्रसिद्धरिति । य एवमेताः पञ्च देवता वायुवि संवर्ग इत्यादिश्रुत्यन्तराद्- झणः संहर्तृत्वं वायुद्वारकमिति वायुर्ब्रह्मणः परिमरः । संहारसाधनमित्यर्थः । तत्कथं परि- मरगुणतयाऽऽकाशोपासनं सिध्यतीत्यत आह एष इति । प्राणो वा अनं शरीरमन्नादमित्यारभ्याऽऽकाशान्तस्य कार्यस्यैवा- नान्नादत्वमुक्तम् । उक्तं नाम किं तेन, तेनैतत्सिद्धं भवति, कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारो न त्यात्मनीति । आत्मनि तु भ्रान्त्यो- पचर्यते। एवं मन्दाधिकारिगोचरमुपासनजातमभ्यारोपावस्थायामुपदिश्यापवाददृष्टिमाभिप्रेत्याऽऽह- प्राणो वा अनमित्यादिना । नन्वात्माऽपि परमात्मनः कार्य ततो युक्तस्तस्य संसार इति । न । असंसारिण एव प्रवेशश्रुतेः। “तत्सृष्ट्वा तदेवानुप्राविशत्" इत्याकाशादि- कारणस्य ह्यसंसारिण एव परमात्मनः कार्येऽनुप्रवेशः श्रूयते । तस्मा- कार्यानुप्रविष्टो जीव आत्मा पर एवासंसारी। सदाऽनुप्राविशदिति समा- नकर्तृक]त्वोपपत्तेश्च । सर्गप्रवेशक्रिययोश्चैकश्चेत्कर्ता ततः क्त्याप्रत्ययो युक्तः । प्रविष्टस्य तु भावान्तरापत्तिरिति चेत् । न । प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात् । अनेन जीवेनेति विशेषश्रुतेर्धर्मान्तरेणानुप्रवेश इति वेव।न । तत्त्वमसीति पुनस्तद्भावोक्तेः। भावान्तरम्पत्रस्यैव तदपोहार्थी संपदिति चेत् ।। तत्सत्यं स आत्मा तत्त्वमसीति सामानाधिकरण्यात् । वृष्टं जीवस्य संसारित्वमिति चेत् । न । उपलब्धुरनुपलभ्यत्वात् । संसारधर्म- विशिष्ट आत्मोपलभ्यत इति चेत् ।।धर्माणां धर्मिणोऽव्यतिरेकोत्कर्मत्वा. नुपपत्तेः । उष्णप्रकाशयोर्दाह्यप्रकाश्यत्वानुपपत्तिवत्रासादिदर्शनाद्दुः- खित्वाद्यनुमीयत इति चेत् । ।त्रासादेर्दुःखस्य चोपलभ्यमानत्वान्नोप- क. काद्धर्म।
१०दशमोऽनुवाक: ] तैत्तिरीयोपनिषत् । ११३ लब्धृधर्मत्वम् । कापिलकाणादादितर्कशास्त्रविरोध इति नेत् । ३ । तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सिद्धमा- त्मनोऽसंसारित्वमेकत्वाच। भोक्तृत्वादिलक्षणः संसारः कार्यगोचर इति वदेतैव जीवस्यानोपाधिकं संसारित्वमिष्टं तस्यापि कार्यत्वादिति भागवतानां मतमुद्भाव्य दूषयति-नमात्माऽप्रीत्यादिना । छान्दोग्यश्रुत्यनुसारेण विकारात्मना प्रवेशमाशङ्कय वाक्यशेषविरोधमाह- अनेन जीवे- नेत्यादिना । भ्रान्त्या देहादिभावमापन्नस्य जीवस्य ब्रह्मव्यतिरिक्तस्यैव ब्रह्मदृष्टिरुपदि- श्यते संसारिस्वापोहा । मातृबुद्धिरिव परयोपिति रागापोहार्था । अतस्तत्वमसीत्युपदेश- स्यान्यार्थत्वान्न जीवस्य पारमार्थिकमसंसारिब्रह्मात्मत्वमित्याशङ्कय त पयति-भावान्त- रापक्रयेत्यादिना । अबाधिततत्पदमुख्यसामानाधिकरण्यविरोधादब्रह्मणि जीवे ब्रह्मस्व- संपादनार्थत्वं कल्पयितुं न शक्यत इत्यर्थः । संसारित्वग्राहकप्रत्यक्षविरोधादबाधितस्वमसिद्ध- मित्याह-दृष्टमिति । सर्वप्रमाणानामनुग्राहकस्तर्क इष्यते । आत्मनश्च संसारधर्मवत्त्वस्य तकोपरिशुद्धत्वात्तत्प्रत्यक्षस्य भ्रान्तत्वान्न शास्त्रज्ञानबाधकत्वं संभवतीत्याह-नेति । सुखादेरुपलभ्यत्वान्नोपलब्धृधर्मत्वं संभवति रूपादिवदित्यर्थः । संसारित्वग्राहकं यद्यपि प्रत्यक्षप्रमाणं न भवति तथाऽपि संसारधर्मविशिष्ट आत्मा स्वचैतन्येनोपलभ्यत इति खानुभ- वविरोधान्न शाब्दमसंसारित्वज्ञानं प्रमाणमिति चेन्नैतदपि युक्तं कर्मस्वकर्तृत्वविरोधादित्यर्थः । प्रत्यक्षविरोधाभावेऽप्यनुमानविरोधो भविष्यतीत्याह-वासादीति । त्रासादि साश्रयं कार्यत्वाद्धटवदन्यस्याऽऽश्रयस्यासंभवादात्मैव तदाश्रयोऽनुमीयत इति न वाच्यमुपलभ्यो नोपलठधुर्धर्मो रूपादिवदिति व्याप्त्यन्तरविरोधादध्यासादपि कार्यदर्शनसंभवादित्यर्थः । जीवस्य ब्रह्मास्मत्वं प्रतिपादयतः शास्त्रस्य तर्कशास्त्रविरोधादप्रामाण्यमाशङ्कय दूषयति-कापिले- त्यादिना । तर्कशास्त्रस्य श्रुतेश्च विरुद्धाव्यभिचारित्वेन प्रामाण्यसंशयोऽति नाऽऽशकनीय इत्याह-श्रुत्युपप्रतिस्यां चेति । किंच तार्किकेणापीश्वराधीनं जीवस्य सुखित्वं दुःखित्वं च निरूपणीयं न तन्निरूपयितुं शक्यते । स्वात्मनीश्वरस्य सुखदुःखहेतुरवासंभवा- दित्यभिप्रेत्याऽऽह-एकत्वाचेति । कथमेकत्वमित्युच्यते- स यश्चायं पुरुषे । यश्वासावादित्ये । स एकः (४) । म य एवंवित् । अस्माल्लोका- १ क. भ. दतस्तव । २ ख, ग च. अ. ठ. लभ्य नो ।
ध्याये- ११४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३मृगुषाप- उमेत्य । एतमन्नमयमात्मानमुपसंक्राम्य । एतं प्राणमयमात्मानमुपसकम्य । एतं मनोमय- मात्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मा- नमुपसंक्रम्य । एतमानन्दमयमात्मानमुपसं- कम्य । इमाल्लोकान्कामानी कामरूप्य- नुसंचरन् । एतत्साम गोयन्नास्ते । स यश्चायं पुरपे यश्चासावादित्ये स एक इत्येवमादि पूर्ववत्सर्वम् । अनमयादिक्रमेणाऽऽनन्दमयमात्मानमुपसंक्रम्यैतत्साम गायनास्ते। सत्यं ज्ञानमित्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण. तद्विवरणभूतयाऽऽनन्द- वल्लया सोचते सन्किामान्सह ब्रह्मणा विपश्चितेति तस्य फलवचन- स्यार्थविस्तारो नोक्तः । के ते किंविषया वा सर्वे कामाः कथं वा ब्रह्मणा सह समश्नुत इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते । तत्र पिता- पुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपो ब्रह्मविद्यासाधनमुक्तम् । प्राणादेराकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोगश्चोक्तः । ब्रह्म- विषयोपासनानि च । ये च सर्व कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषया एते दर्शिताः । एकत्वे पुनः कामकामित्वानु- पपत्तिः । भेदजातस्य सर्वस्याऽऽत्मभूतत्वात् । तत्र कथं युगपब्रह्मस्वरू- पेण सर्वान्कामानेवंवित्समभुत इत्युच्यते । सर्वात्मत्वापत्तेः । कथं सर्वात्मत्वापत्तिरित्याह । पुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्योत्कर्षापक- वन्नमयाद्यात्मनोऽविद्याकल्पितान्क्रमेण संक्रम्याऽऽनन्दमयान्तान्सत्यं ज्ञानमनन्तं ब्रह्माहश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्न हमालोकान्भूरादीननुसंचरन्निति व्यवहितेन संबन्धः । कथमनुसंचरन् । कामाची कामतोऽन्नमस्येति कामानी । तथा कामतो रूपाण्यस्येति कामरूपी । अनुसंचरन्सर्वात्मनेमालोकानात्मत्वेनानुभवन् । किम्, एतत्साम गायनास्ते । समत्वाद्ब्रह्मैव साम सर्वानन्यरूपं गाय- शब्दयन्नात्मैकत्वं प्रख्यापयल्लोकानुग्रहार्थं तद्विज्ञानफलं चातीव कृता- र्थत्वं गायन्नास्ते तिष्ठति । , ख. 8. स्मत्वोपप । २ ख. ठ.त्मत्वोपप ।
. १०दशमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ११५ स य इत्यादिपव्याख्यानमुपेक्ष्योपसंक्रामणसामगानयोरेककर्तृक] स्वमन्वयप्रदर्शनेन दर्शि- तमिदानी वल्लीसमाप्तिपर्यन्तस्य ग्रन्थस्य तात्पर्य वृत्तकीर्तनेनाऽऽह-सत्यं ज्ञान मित्या- दिना । भविद्यालेशवशेन द्वैतावभासमनुभवन्विद्वान्सर्वस्याऽऽत्माऽहमिति मन्यमानोऽणि- माद्यैश्वर्यमुजां योगिनां यत्कामानस्वं कामरूपत्वं च ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दान- श्नुत इत्युपचर्यत इत्याह--सर्वात्मत्खापनेरिति । कथम्- हाश्व हाश्च हाश्व (५)। अहमन्नमहम- नमहमन्नम् । अहमन्नादोऽ३हमन्नादोऽ३ह- मन्नादः । अह५ श्लोककदहः श्लोकलदह५ श्लोकळत् । अहमस्मि प्रथमजा कता३स्य । पूर्व देवेभ्यो अमृतस्य नाधायि हा३७ हा३खु हावु । अहो इत्येतस्मिन्नर्थेऽत्यन्त विस्मयख्यापना. र्थम् । कः पुनरसौ विस्मय इत्युच्यते-अद्वैत आत्मा निरअनोऽपि सन्नहमेवान्त्रमन्नादश्च । किंचाहमेव श्लोककृत् । लोको नामानाना- दयोः संघातस्तस्य कर्ता चेतनावान् । अन्नस्यैव वा परार्थस्याम्नादा- र्थस्य सतोऽनेकात्मकस्य पारार्थेन हेतुना संघातकृत् । त्रिरुक्तिर्विस्मय- त्वख्यापनार्था । अहमस्मि भवामि । प्रथमजाः प्रथमजः प्रथमोत्पन्नः। ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममुतस्य नासिरस- तत्वस्य नाभिर्मध्यं मसंस्थममृतत्वं प्राणिनामित्यर्थः । प्रथमजो हिरण्यगर्भोऽप्यहम् । प्ठुतिस्तावद्वानार्था । देवेभ्यः स्वव्यष्टिरूपेभ्यः पूर्व विराड्पमेवेत्यर्थः । यो मा ददाति स इदेव मा ३६- वाः । अहमन्त्रमन्त्रसदन्तमामि । अहं विश्वं भुवनमध्यभवाम् । १. . दादर । मबदनादरार्था ।
ध्याये- आनन्दगिरिकृतटीकासंयलितशांकरभाष्यसमेता- [३भृगुवलय- युः कश्चिन्मा मामन्नमन्नार्थिभ्यो ददाति प्रयच्छत्यनारमना ब्रवीति स इदिन्थमेवमविनष्टं यथाभूतमाया अवतीत्यर्थः । यः पुनरन्यो मामा दत्त्वाऽथिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमनन्तं भक्षयन्तं पुरुषमहमत्र मेव संप्रत्याीि भक्षयामि । अधाऽऽहैवं तर्हि विभेमि सर्वात्मस्वप्राप्तेर्मो- क्षादस्तु संसार एष, यतो मुक्तोऽप्यहमनभूत आद्यः स्यामन्त्रस्यैवं मा भैषीः संव्यवहारविषयत्वात्सर्वकामाशनस्यातीत्यायं संव्यवहारविष- यमन्नान्नादादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापनो विद्वांस्तस्य नैव द्वितीयं वस्त्वन्तरमस्ति यतो बिभेत्यतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह-अहमन्नमहमन्नाद इत्युच्यते । योऽयमसान्नादादि- लक्षणः संव्यवहारः कार्यभूतः स संध्यवहारमानमेव न परमार्थवस्तु । स एवं भूतोऽपि ब्रह्मानिमित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मवि. द्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थमुच्यते । अहमन्नमहमन्नमहमन्त्रम् । अहमन्नादोऽहमन्नादोऽहमन्नाद इत्यादि । अतो भयादिदोषगन्धोऽ- प्यविद्यानिमित्तोऽविद्योल्छेदाह्मभूतस्य नास्तीत्यहं विश्वं समस्तं भवनं भूतैः संभजनीयं ब्रह्मादिभिर्भवन्तीति वाऽस्मिन्भूतानीति भव- नमभ्यभवामाभिभवामि परणेश्वरेण स्वहपेण । आवा इति । लोमध्यमपुरुषकवचनम् । पौनःपुन्येनेत्येवं मत्वाऽऽख्यातेषु निपा- त्यत इत्यवतीति व्याख्यातम् । अभिभवामि, उपसंहरामीत्यर्थः । ईश्वरात्मताज्ञानेनाहंबाधेऽ- द्वैत ततो नास्ति भाकारणमित्यर्थः । सुवन ज्योती । य एवं घेई । इत्युपनिषत् (६) ॥ - इति कृष्णयजुर्वेदीयतेनिरीयोपनिषदि तृतीये भृगुवल्य- ध्याये दशमोऽनुवाकः ॥ १० ॥ सुधर्न ज्योती: सुखरादिश्यो नकार उपमार्थे । आदित्य इव सकृति भातमस्मदीयं ज्योतीज्योतिः प्रकाश इत्यर्थः । इति वल्लीद्वयविहितोप- निपुत्परमात्मज्ञान सामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरत- १ फ. ख, ग, च, °वं सर्वाख्या। अ.वं सत्तवास्या, १०दशमोऽशुषाकः ] तैत्तिरीयोपनिषत् । ११५ स्तितिक्षुः समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोमिति॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिण्यश्नीमच्छंकरभग- वतः कृतौ तैत्तिरीयोपनिषदि तृतीयभृगुवल्यध्यायभाष्ये दशमोऽनुषाकः ॥ १० ॥ नकार इषार्थे ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताया तैतिरीयो. पनिषच्छांकरभाष्यटीकायां तृतीये भृगुवल्यध्याये दशमोऽनुवाकः ॥१०॥ [ मृगुस्तस्मै यतो विशन्ति तद्विजिज्ञासस्व त्रयों- दशा प्राणो मनो विज्ञानं द्वादश द्वादशाऽऽ- नन्दो दशानं न निन्यादन्नं न पत्रिचक्षीतानं बहु कुतिकादशैकादश ज कंचनैकंपष्टिदश ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विविषायहै ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। इति छष्णयजुर्वेदीयवैचिरीयोपनिषदि तृतीयो अगुव- ल्यध्यायः समाप्तः ॥३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदोविन्दभगवत्पूज्यपाशि- ज्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिपद्भाष्ये तृतीयो भृगुवल्ल्यध्यायः ॥३॥ *एतचिहान्तर्गतग्रन्थस्थाने क्वचित्पुस्तकेऽन्यथा पाठः, स यथा—"भृगुस्वाम्मै यतो वे विशन्ति तरिभिज्ञासस्व तत्रयोदशान्ने प्राणो .मनो विज्ञानं तद्विज्ञाय तं तपसा द्वादश द्वादशाऽऽनन्द इति सैषा दशावं न नियाम्प्राणः शरीरमन्ने न परिचक्षीताऽमो.ज्योतिरन्न बह कुर्वीच पृथिव्यामाकाश एकादशैकादश" इति । " अ०४ ११० तैत्तिरीयोपनिषत् । [भृगु०ध्याये तैत्तिरीयकमाण्यल्प शांकरस्य द्वदीयसः । स्फदार्थबोधकामेभ्यो निरसापि सटिप्पणम् ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुदानन्दभगवत्पूज्यपादाशिष्यश्रीमद्भगवदान- मानविरचितायां तैत्तिरीयोपविषच्छांकरभाष्यटीकायां तृतीयो मृगुवल्ल्यध्यायः समाप्तः ॥ ३ ॥ समाप्तेयं उष्णयजुर्वेदीया वैत्तिरीयोपनिषत् ।
No text on this page.
No text on this page.
ॐ तुत्सद्भह्मणे नमः। अथ शंकरानन्दकता तैत्तिरीयोपनिषद्दीपिका । वक्ष्येऽधुना शंकरविश्वरूपवाचा विनिर्णीतसमस्तवाक्यम् । कृष्णं यजस्तित्तिरिनामचिह्न पदार्थशुद्धयर्थमतीव सार्थम् ॥ १ ॥ कर्माणि विचित्राणि नित्यादिलक्षणानि पूर्वमुक्तानि, तैनिःश्रेयसमपश्यन्ब्रह्मज्ञानायो- पनिषदमारभमाणो वेदो ब्रह्मज्ञाने च महतामपि देवैः क्रियमाणान्विघ्नानवलोक्य तत्प्र- शान्तये ब्रह्मविद्यार्थिनेदं पठनीयमित्यभिप्रायेण प्रथम पठति-शं सुखं तोऽस्मभ्यं मित्रः प्राणवृत्तेरहश्वाभिमानिनी देवता शं सुखं वरुणोऽपानवृत्ते रात्रेश्चाभिमानिनी देवता न इत्यनुषङ्गः । शं नो व्याख्यातम् । भवतु भूयात् । इदं पदं शंपदेन सर्वत्र संबध्यते । अर्यमा चक्षुप आदित्यमण्डलस्य चाभिमानिनी देवता । शं नो व्याख्यातम् । इन्द्रो बाह्वोर्बलस्य चाभिमानिनी देवता । बृहस्पतिवाचि बुद्धौ चाभिमानिनी देवता शं न इत्य- नुषङ्गः । शं नो व्याख्यातम् । विष्णुः पादाभिमानिनी देवता तद्विशेषणमुरुक्रमः, उरु प्रचुर क्रमणं यस्य स उरुतमः सर्वव्यापीत्यर्थः । अथवा स्वतन्त्रमिदं पदमुरुक्रमो विराट- सर्वान्नाभिमानिनी देवता । शं न इत्यनुषङ्गः । एवं स्थूलसूक्ष्माभिमानिनीर्देवताः प्रायेदानीमव्याकृतज्ञानक्रियाशक्त्यभिमानिनी देवतां ममस्करोति-नमो नमस्कारः । ब्रह्मणेऽव्याकृताभिमानिने । तस्यानुत्पादिताकार्यस्या- किंचित्करत्वात्कार्याभिमानिनं तदभिन्नं पुनर्नमम्करोति-नमो नमस्कारः । ते तुम्यं वायो हे क्रियाशक्तिप्रधानज्ञानक्रियाशक्ते । ननु प्रतिपाद्यस्यैव नमस्कारः करणीयो न चाहं प्रतिपाद्य इत्यत आह-खमेव ज्ञानक्रियाशक्त्यभिमान्येव न त्वन्यत् । प्रत्यक्ष शास्त्रस्य प्रत्यक्षं स्वयं प्रकाशमानस्वेन बुद्धयादेः साक्षित्वेन वा ब्रह्माव्याकृताभिमानिदेशकालवस्तुपरिच्छेदशून्यस्वरूपम् । असि भवास । ननु यद्यहं ब्रह्म किं तवेत्यत आह-खामेव प्रत्यक्षं ब्रह्म कार्याभिमानिनमेव भवन्तं स्वयंप्रकाशं कारणाभिमानिस्वरूपं वदिष्यामि त्वं ब्रह्मासीति गुरुणोक्ते कार्यकर- गामिमानिचैतन्ययोरैक्यमवगत्याहं ब्रह्मस्मीति वदिष्यामि कथायेष्यामि । नत्विदमुपचरितं मां प्रति भवतोच्यत इत्यत आह-ऋतमनुपचरितं वदिष्यामि कथयिष्यामि। १ ख. ग. कृत्स्नं । २ ख. गोतं का।
or - । शंकरानन्दकृता [ शीक्षाध्याये, अतु०१] ननु भवताऽनुपचरितेऽप्युच्यमाने नैतादृशं वस्तु वृत्तमित्यत आह-सत्यम् । " इदं सर्व यदयमामा" "एकमेवाद्वितीयम् " "नेह नानाऽस्ति किंचन" "तत्त्वमसि" भई ब्रह्मास्मि" इत्यादिशास्त्रेभ्य ऐक्यम(क्येना)वगम्यमानमबाधितं वस्तुस्वरूपमुलूकनिशावन्न ममैवेदमृवं किंतु सर्वप्रमाणसिद्धमन्याधिवस्वरूपमित्यर्थः । वदिष्यामि कथयिष्यामि यस्मा- तत्तस्मान्मां भवन्तं ब्रह्मरूपेण प्रतिपादयन्तमवतु कार्यकारणोपाधिर्भवान्पालयतु । ननु भवतः शिष्यस्य वाक्कायमनसां प्रसन्नानामध्यात्मादिदुःखैरनुपघातोऽस्तु. गुरोध विप- र्ययो.मालाचरणे तात्पर्यहीनत्वादित्याशङ्कय गुरुविषयेऽपि स्वयं प्रार्थयते । यस्माद्गुरु- मन्तरेण न विधा लभ्या शिष्येण तत्तस्माद्वक्तारं वा विद्यायाः कथयितारं गुरुमित्यर्थः । अवतु पालयतु । यस्मादनन्तरं तस्मादिति पठित्वा श्रीतं तुच्छब्दद्वयमपि ब्रह्मपरं वा व्याख्येयम् । तुच्छब्दरहितं वाक्यद्वयं गुर्वात्मनो रक्षायामादरार्थमुपक्रमविपर्ययेणाध्येति- अवतु मामवतु वक्तारं व्याख्यातम् । यद्यपि गुरुर्ब्रह्मावबोधेन ब्रह्मैव शिष्यश्च साध- नचतुष्टयसंपन्नः स्वयमप्रमत्तस्तथाऽपि दैवकृतानामतिसूक्ष्माणामपराधानां भूयसां सत्त्वेना- ध्यात्मिकाधिभौतिकाधिदैविकदुःखागमनाद्ब्रह्मविद्योत्पादेस्य विघातः स्याच्छिप्यस्य । ततो दुःखत्रयविघातार्थ त्रिः शान्तिपदं पठति-ॐ शान्तिः शान्तिः शान्तिः, वाक्काय. मनसामन्येन्द्रियाणां त्रिविधमपि दुःखमुपरतिं गच्छतु ब्रह्मविद्याधिकारिणो ममेत्यर्थः । यद्यपतिः परम् "ब्रह्मविदाप्नोति पुरम्" इत्येवोपक्रमणीयं तथाऽप्यत्यन्तबहिर्मुखस्य नाऽऽस्मावगतिरित्यन्तर्मुखत्वं संपादयितुं फलेन प्रलोम्य कानिचिदुपासनानि प्रथमत उच्यन्ते । नत्वेवं चेदधातः संहिताया इत्याद्यारम्भणीयं न पुनः शीक्षामित्यादि- कम् । सत्यम् । तथाऽप्युपनिषदामर्थज्ञानप्राधान्याद्यथाकथंचित्पाठेनार्थज्ञानं करणीयमिति- शानिवारणार्थ शीक्षामित्यादिकं प्रथमं पठ्यते । न पुनरन्यः कश्चनोपयोगः । शीक्षा यथाऽस्मिन्येव पदे शिक्षामित्येवं शिकार एकमात्रमु(त्र उ)चार्यमाणेऽर्थाधिगतिर्न पुनर्वैदिकी पाठशुद्धिः । न च वेदे तत्तद्वर्णस्वरादिहीनस्य पदस्य वाक्यस्य वोपादेयार्थों भवति प्रत्युत दृष्टार्थविनाशस्तत्तदुपनिषदामपि वेदत्वात्तत्तच्छाखापाठकप्रसिद्धवर्णस्वरा- दियुक्तपदाधुच्चारणेनार्थज्ञानं करणीयमित्येतदर्थ छान्दस्या प्रक्रियया शीक्षामिति पाठः । शिक्ष्यन्तेऽनया वर्णादयः शिक्ष्यन्त इति वर्णादय एव वा शिक्षा तां शिक्षां व्याख्या. स्यामो विविधमासमन्ताद्यक्तं कथयिष्यामः । वर्णोऽकारादिः । स्वर उदात्तादिः । मात्रा हस्वादिः । चुलं प्राणस्थानप्रयत्नैः । साम. समता द्रुतविलम्बितात्यधिकातिन्यू- .. १. दनस्य । २ ग. 'शादिवि ।
[ शीक्षाध्याये, अनु०२] तैत्तिरीयोपनिषदीपिका नादिवर्जनेनैकरूपतयोच्चारणं अन्याघ्रीपुत्रहरणवदपीडनमित्यर्थः । संतानः संततिः संहि- ताया नियतक्रमं पदं वाक्यं वेत्यर्थः । इति: समाप्तौ शिक्षायाः । उक्तः कथितः शीक्षाध्यायः शीक्षाधीयतेऽवगम्यतेऽनेनेति शीक्षाध्यायः ॥ इति श्रीमर परमहंसपरिवाजकाचार्यश्रीमच्छकरानन्दविरचितायां पार्षपोषिल्या ति. रीयोपनिषदीपिकायां शीक्षाध्याये प्रथमोऽनुवाकः ॥ १॥ भय द्वितीयोऽनुवाकः । , इदानीं + देहलीप्रदीपन्यायेनोक्तवक्ष्यमाणयोः साधारणं मङ्गलाचरणं करोति शिष्यरूपो वेदः शिष्यशिक्षार्थम् । सह समं नावावयोर्गुरुशिष्ययोः । यशः, अस्यायं शिष्योऽ- स्यायं गुरुरित्यध्यापनाध्ययनजन्या कीर्तिरस्त्विति शेषो वक्ष्यमाणे च । सह नौ व्याख्या- तम् । ब्रह्मवर्चसं ब्रह्म ब्राह्मणत्वनातिः, तदीयं तमो ब्रह्मवर्चसं स्वाश्रमानुष्ठानपरौ दीर्घायुष्मन्तावावां भूयास्वेत्यर्थः । अथ शीक्षाध्यायकथनानन्तरम् । अतः कृतम- झालानामपि नान्तर्मुखत्वमन्तरेण ब्रह्मज्ञानोत्पत्तिरस्मात्कारणात् । संहिताया नियतक्रमपद- वाक्यरूपायाः । उपनिषदं सामीप्येन नितरामिष्टार्थगमकत्वादनिष्टस्य शिथिलीकृत्य विनाशकारित्वाच्च तद्विषया बुद्धिरुपनिषत्ताम् । व्याख्यास्यामो व्याख्यातम् । पश्चम पञ्चसंख्याक्रान्तेषु । अधिकरणेप्वाधारेषु । अधिकरणान्याह-अधिलोकं लोकमधि- कृत्य । अधिस्यौतिषं ज्योतिरधिकृत्याधिज्योतिरधिज्योतिरेवाधिज्यौतिषम् । अधिविधे विद्यामधिकृत्य । अधिप्रजं प्रजा पुत्रादिसंततिमधिकृत्य । अध्यात्ममात्मानं शरीरम- धिकृत्य । ता अधिलोकायाः । महासंहिताः पदवाक्यसंहितासु चिन्त्यमाना महत्यः संहिता महासंहिताः । इति, अनेन प्रकारेण । आचक्षत आ समन्ताव्यक्तं कथयन्ति संहिताविदः । अथ तासां महासंहितात्वकथनानन्तरम् । अघिलोकं व्याख्यातम् । संहिताया उपनिषदं व्याख्यास्याम इतीदमत्र वक्ष्यमाणेष्वपि चतुर्पु पर्यायेप्वनुवर्तते । पृथिवी प्रसिद्धा भूः । पूर्वरूपं पूर्वस्य पूर्ववर्णस्य रूपं स्वरूपं पूर्ववर्ण पृथिवीदृष्टिः करणीयेत्यर्थः । गौः स्वर्गलोक उत्तररूपमुत्तरवर्णस्य स्वरूपमुत्तरवणे स्वर्गलोकदृष्टिः करणीयेत्यर्थः । आका- शोऽन्तरिक्षलोकः संधि स्वर्गलोको संधीयते अस्मिन्निति संधिर्मध्यं पूर्वोत्तरवर्णयोरन्तरा- * वर्णानामिति शेषः । यथा व्याघ्री स्वापत्याग्न मुखे धृत्वा दशनाभिधातव्रणायकत्वैव स्थलारपलान्तरं नयति तथा स्थानादिषु पीउनमकृत्वैव वर्णोचारणं सामशब्देन गृह्यत इति भावः । देहली गृहद्वारासनप्रदेशः । तत्र निहितो दीपो द्वारान्तःप्रदेशं तद्हर्भूतं चत्वरं च प्रकाशयति तथेदं मालमुक्तरक्ष्यमाणयोः साधारण शेयमिति तात्पर्यम् ।
शंकरानन्दकृता [ शीक्षाध्याये, अनु०३ ] लेऽन्तरिक्षदृष्टिः करणीयेत्यर्थः । वायुर्जगत्प्राणस्त्रिलोक्युदरवर्ती संधान संधीयेते पूर्वोत्तरे रूपे अनेनेति संधानं संबन्ध इत्यर्थः । पूर्वोत्तरवर्णयोः संबन्धे वायुदृष्टिः करणीयेत्यर्थः । यथा-इषे त्वेत्यत्र पुकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपो यश्चोपरितनस्तकारोऽसौ धुलोकात्मकस्तयोर्वर्णयोर्मध्यदेश आकाशात्मकस्तस्मिन्देशे संहितानिमित्तो द्विर्भावेनाऽऽपा- दितो योऽन्यस्तकारः स वाय्वात्मक इति ध्यायेत् । एवमुत्तरेप्वप्युपास्यावयवेषु चतुर्दा योज्यम् । इतिः समाप्स्यर्थः प्रकृतोपनिषदः । प्रकृतामुपनिषदमाह-अधिलोकं व्याख्यातम् । अथचतुष्टयमपि स्वापेक्षया पूर्वोपासनानन्तर्यमाह । अग्निीमः । आदित्यश्चन्द्र- ( त्यः सूर्य ? ) मण्डलम् । आपो नीराणि । विद्युत एव वैद्युतोऽचिरप्रभवः । आचार्गे गुरुः । अन्तेवासी शिष्यः । विद्याऽऽचार्येणोच्यमाना । प्रवचनं गुरु- शिष्ययोः प्रकणोच्चारणं विद्यायाः । माता जननी । पिता जनकः । पूजा पुत्रादिः । प्रजननमुत्पत्तिः प्रजायाः । अधरा हनुरधरोष्ठमारभ्य विवकलकाक्रान्ता । उत्तरा हनुरुत्तरोष्ठमारभ्याऽऽनासामृलम् । वाग्वांच्चारणशक्तं ताल्वादिस्थमिन्द्रियम् । जिह्वा प्रसिद्धा । अन्यत्पर्यायचतुष्टयेऽप्यन्त्यं पदं मुक्त्वा समानपाठं पूर्वव्याख्येयम् । इतिर्महासं- हितापरिसमाप्त्यर्थः । इमा अधिलोकाद्या महासंहिता व्याख्याताः । इदानीं पञ्चानामपि फलमाह-सोऽधिकारी । एवं पूर्वोत्तररूपेणैता अधिलोकाद्या महासंहिता व्याख्याता विविधमा समन्तायक्तं कथिता घेद जानात्युपासीतेत्यर्थः । संधीयते संबध्यते । प्रजया पुत्रादिलक्षणया । पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्मणनात्युचितेन तेजसा । अन्नायेन, अन्नं च तदानं चान्नाद्यं तेन व्रीहियवादिनेत्यर्थः । सुवर्गेण स्वर्गण लोकेन कर्मफलेन । प्रजादिभिः संपन्नो भवतीत्यर्थः ।। इति श्रीमत्परमहंमपरिग्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरी- योपनिषद्दीपकायां शीक्षाध्याय द्वितीयोऽनुवाकः ।। २ । । -- अथ तृतीयोऽनुवाकः । अथ यः कश्चन दुर्मेधा नासौ मेघोत्पादनमन्तरेण ब्रह्म नोर्बु भक्त इति मेधाकामस्य मेधाकराञ्जपमन्त्रानाह---यः प्रसिद्ध ओंकारश्छन्दसां गायत्र्यादिच्छन्दस्विनामृगादिभेदा- नामूपमः श्रेष्ठः । विश्वरूप: सर्वरूपः पणप्विव शङ्कुः सर्वस्मिञ्जगति व्यवस्थित इत्यर्थः । छन्दोभ्य उक्तेभ्य ऋगादिभ्यः । अधि, अधिकः सर्वव्यापकत्वात् । असतात्स्वयं [प्र.] काशमानादात्मनः । संबभूवोत्पत्तिमकरोत् । छन्दोम्योऽमृता- १.स. ग. लका।
५ [शीक्षाध्याये, अनु ०३] तैत्तिरीयोपनिषदीपिका । दिभिः सामानाधिकरण्याङ्गीकारेणाधिकः सम्यग्वर्तत इति व्याख्येयम् । मोऽमृतज- श्छन्दः सारभूतः । मा माम् । इन्द्र इन्द्रस्य परमात्मनो वाचकत्वादिन्द्रः । मेधया श्रुतधारणशक्त्या । स्पृणोतु प्रीणयतु मेधासंपन्नं करोत्वित्यर्थः । मेधासंपत्तेः फलभूतामाशिषमाह--अमृतस्य तजनकस्य ब्रह्मणोऽहं तदस्मीति तादात्म्येन । देव हे देव । स्वयंप्रकाशस्याऽऽत्मनः प्रकाशकत्वेन धारणो धारयिता भूयासं भवानि । मेधाप्राप्तेरपि शरीरारोग्यादिकमन्तरेणाभावादत (वोऽत ) स्तदपि प्रार्थयते-शरीरं स्थूलो विनाशी देहः । मे ममाधिकारिणः । विचर्षणं विचक्षणं नीरोगमित्यर्थः । भूयादितिपुरुष[ वि परिणामेनात्र वक्ष्यमाणे चानुषङ्गः । जिहा वागिन्द्रियाधारभूता में ममाधिकारिणः । मधुमत्तमा निहाया मधुत्वं प्रियहित- सत्यभापित्वं वेदायतनं तद्यस्या अस्ति सा मधुमती । अतिशयेन मधुमती मधुमतमा । कर्णाभ्यां श्रोत्राभ्याम् । भूरि बहु । विश्रुवं व्यशृणवमात्मसाक्षात्कारार्थ न श्रवण- मस्तीत्यर्थः । इदानीमोंकारस्यात्यन्तं ब्रह्मसामीप्यमाह-ब्रह्मणः सत्यज्ञानादिलक्षणस्य कोशः खड्गस्येव व्याप्य व्यवस्थित आवरणविशेषः । यथा कोशः खड्गेन संभृत एवं ब्रह्मणा संभृतः प्रणवः । असि भवसि । एवंभूतोऽप्यविद्यादृष्टिभिर्नावगन्तुं शक्यत इत्याह मेधया लौकिकश्रुतधारणया बुद्धया । पिहित आवृतः । यस्मादेवंगुणकस्ततस्त्वं श्रुतम इद्रं सर्व युदयमात्मा" " अहं ब्रह्मास्मि " इत्यादिश्रवणपथमागतम् । मे ममा- धिकारिणः । गोपाय रक्षां कुरु । आत्मसाक्षात्कारफलावसानं कुर्वित्यर्थः । मेधाविषयेऽर्थानुसंधानपुरःसरं मन्त्रजपमुक्त्वा मेधावतोऽपि बहिर्मुखस्य निःश्रीकस्य न प्रत्यक्प्रवणता । ततः श्रीकामस्य श्रीकरान्मन्त्रान्प्रणवप्रतिपादकान्सहोमलिङ्गानाह आवहन्ती समन्तात्प्रापयन्ती । वितत्वाना विविध विस्तारयन्ती । कुर्वाणा कुर्वती । चीरमनेककालम् । अचीरमितिपदच्छेदे क्षिप्रमिति व्याख्येयम् । आत्मनः स्वस्याः श्रियोऽवस्थानमिति शेषः । वासासि वस्त्राणि । ममास्यार्थिनः । गावच प्रसिद्धाः । चकारोऽश्वादीनामनुक्तानां समुच्चयार्थः । अन्नपाने च, अद्यत इत्यूनं पीयत इति पानमन्नं च पानं चान्नपाने । चकार उक्तवासोगवान्नपानसमुच्चयार्थः । सर्वदाऽ- धारभ्याऽऽत्मसाक्षात्कारम् । आत्मनश्चिरं कुर्वाणा वासआदिकं सर्वदा वहन्ती वितन्वाना च मम गृहेऽवस्थानं करोत्विति शेषं पूरयित्वा व्याख्येयम् । नत्वहं मेधाया दाता कथं श्रियो दातेत्यत आह-तत इति । यतो मेधाया दाता तस्मात् । अयं भाव:-श्रीः प्राकृतैरपि राजादिभिर्दातुं शक्या मेधा तु भगवन्त- मन्तरेण ब्रह्मणः कोशं न केनचिद्दातुं शक्या । ततोऽतिदुर्लभस्य मेधादेर्दातुर्ब्रह्मणः कोशस्योंकारस्य किया श्रीदानार्थमुद्यमः । मे मम श्रीकामस्य । श्रियं मद्गुहे यामात्म- नश्चिरमवस्थानं कुर्वाणामन्नपानवस्त्रादीन्प्रापयन्ती तामेव विस्तारयन्तीमावह प्रापय ।
- । शंकरानन्दकृता [शीक्षाध्याये, अनु० ३] लोमशासनादिलोमभिर्लोमवती चेतनमण्डलबहुलामित्यर्थः । प्रशुभिर्गवाश्वादिभिः सह समम् । स्वाहा मदीया वाक्स्वशब्दवाच्यां श्रियमावहेति यामाह तां स्वाहैव स्वाहा । स्वाहेतिदर्शनाद्धोमार्थताऽस्य मन्त्रस्य वक्ष्यमाणानां चावगम्यते । होमद्रव्याणि च स्वस्व- गृह्येष्ववगन्तव्यानि । मन्त्रेण स्वस्थानि [ ! ] क्षीराज्यविल्वादीनि वा । प्रणवास्मा च देवताऽग्न्यादिकं तु यथायोगेमवगन्तव्यम् । आ मा मां श्रीकामं युनत्वायन्स्वत्राऽऽगच्छन्तु । ब्रह्मचारिणोऽध्ययनार्थिनो माणवकाः सर्वासु दिक्ष्ववस्थिताः । स्वाहा व्याख्यातम् । ब्रह्मचारिणामागमने प्रयो. ननमाह-यशः । अत्र धर्मशब्देन धर्मी लक्षितो भवति । यशस्वी । जने लोके । असानि भवानि । स्वाहा व्याख्यातम् । अत्रापि प्रयोजनमाह-श्रेयानतिशयेन प्रशस्यः । वस्यसो वस्युमन्त(सुमत्त)रास्सकाशात् । वसु चात्र दैवं मानुषं वित्तम् । असानि भवानि । स्वाहा व्याख्यातम् । तत्रापि प्रयोजनमाह-तं ब्रह्मणः कोश- भूतम् । त्वा त्यामोंकारम् । भग समग्रधर्मज्ञानवैराग्यैश्वर्ययशःश्रीणां निवासभूत ओंकारो ब्रह्मकोशो भगस्तत्संबोधनं हे भग प्रविशानि प्रवेश करवाणि । स्वाहा व्याख्यातम् । ननु यदि मत्प्रविष्टस्त्वं तर्हि मत्तो भिन्नः समुद्रं प्रविष्टः समुद्रादिव भिन्नो मत्स्य- स्तथा च तदेव भवतो न कोऽपि पुरुषार्थ इत्यत आह--स मया प्रवेष्टव्यो ब्रह्मणः कोशभूतो भवानोंकारः । स मां तादात्म्येन त्वदुपासकम् । भग प्रविश स्वाहा प्रवेशं कुरु । आवयोरनुपररितं तादात्म्यमस्त्वित्यर्थः । व्याख्यातमन्यत् । ननु ---त्वं कर्ता भोक्तेत्यादिसंसारधर्मवान्मयेश्वरेण कथमभिन्नः स्या इत्यत आह-- वस्मिन्मदभिन्न ओंकार ईश्वरे । सहनशाख सहस्रमनन्ताः शब्दार्थात्मनो वृक्षस्य भवतः शब्दार्थविवर्तरूपाः शाखा यस्य स सहस्त्रशाखस्तस्मिन् । निभग हे भग । नेम॒जिना संबन्धः । अहं वस्तुतस्त्वदभिन्न इदानीमविद्यापटलपिनद्धाक्ष उपासकः । खयि शब्दार्थरहित ओंकारे ब्रह्मणि “ अहं ब्रह्मास्मि ” इति बाधेन मुजे निमार्जिन कर्तृत्वादिकमविद्याकृतं न वस्तुत इति ज्ञानेनाऽऽत्मानं परिशोधयामीत्यर्थः । स्वाहा व्याख्यातम् । तथा च ब्रह्मचारिणामागमनं परम्परया मोक्षहेतुरित्युक्त्वेदानीं तदेव दृष्टान्ताम्यां मन्त्रान्तरेण विशिनष्टि-यथा येन प्रकारेण । आपो नीरधाराः । प्रवता, उच्चा- द्देशात्पतन्त्यो निम्नदेशगामिन्य इत्यर्थः । प्रवतेतितृतीयापक्षे प्रवणवता मार्गे- णेति व्याख्येयम् । यन्ति निम्नदेशं गच्छन्ति । अपां सेत्यादिना प्रतिबन्धो ग. योग्यम।
शिीक्षाध्याये, अ०४] तैत्तिरीयोपनिषद्दीपिका। दृष्टस्ततो दृष्टान्तान्तरमाह-ग्रथा दृष्टान्ते । मासाः पक्षद्वयात्मकाश्चैत्रादयः । अह- र्जरसहामि जरयति स्वकुक्षिनिक्षेपेण यः संवत्सरस्तम् । यत्तीत्यनुवर्तते । एवं दाटी - न्तिके मां श्रीकामम् । ब्रह्मचारिणश्छात्राः । धातः, हे धातः सर्वस्रष्टत्वात्प्रणवस्य घातृत्वम् । आयन्वागच्छन्तु । सर्वतः सर्वाभ्यो दिग्भ्यः । स्वाहा व्याख्यातम् । नन्विदं सर्व मत्तादात्म्यार्थ मम तव कः संबन्ध इत्यत आह–प्रतिवेशः स्वगृह- समीपस्थं गृहं प्रतियेशः । तद्वच्चैतन्यरूपेण जीवोपाधेरतिसंनिहितत्वात्प्रणवश्वैतन्यात्मा प्रतिवेशः । असि भवसि । यतस्ततः प्र मा मां त्वदुपासकम् । माहि प्रभाहि प्रकाशयाऽऽस्मानम् । पुमा पद्यस्व प्रपद्यस्व । अहं ब्रह्मास्मीति साक्षात्कारपोधेन मद्रूपमागच्छेत्यर्थः । अत्र स्वाहान्ता अष्टो मन्त्राः । एतैः सर्वैर्मन्त्रैरेकादशसंख्याकैरष्टभिः पाठ एव । स्वाहान्तस्त्रिभिश्च होमार्थ स्वाहान्तत्वेन पठित्वा होमः करणीयः । जपस्तु यथा- पाठपठितरित्यवगन्तव्यम् ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरानन्दविरचितायां कृष्णयजुर्वेदीयतैत्तिरीयोपनि- पदीपिकायां शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतुर्थोऽनुवाकः । पूर्वमोंकारस्य सहस्रशाखत्वमुक्तं तदेतत्प्रधानशाखासु सिद्धासु प्राधान्यं च भूरादि- व्याहृतीनामस्मिन्प्रपञ्चे । ततो व्याहृतयो हृदिस्थाः । तासूपासनं स्वाराज्यफलमाह- भूर्भूलोकः, तत्स्थः प्रपञ्चो भूरितिशब्दाभिधेयः। भुवोऽन्तरिक्षलोकः । तत्स्थः प्रपञ्चो मुव इत्युच्यते । सुवः स्वर्गः, तत्स्थः प्रपञ्चः सुपरित्युच्यते । इत्यनेन प्रकारेण । वे स्मर्यमाणाः । एता इदानीमुक्ताः । लिसस्त्रिसंख्याका वेदत्रयात्मिकाः । व्याहतयः, अधिकारीष्टं विविधमा समन्ताद्धान्ति प्रयच्छन्स्यधिकार्यनिष्टं वा विविधमा समन्ताद्धरन्ति विनाशयन्तीति व्याहृतयः । तासां भूर्भुवः सुवरितितिसृणाम् । उ अपि हु किल । स्म प्रवेदयत इत्यनेन संबध्यते । एतां वक्ष्यमाणां चतुर्थी चतुःसंख्यापूरणीम् । माहा. चमस्यो महांश्वासौ चमसोपलक्षितानेकयागसंपन्नश्च महाचमसस्तस्यापत्यं माहाचमम्यः । प्रवेदयते प्रकर्षेण निवेदितवाझावोक्तवानित्यर्थः । ऋषेरनुस्मरणमुपासनार्थमिति संप्रदा- यविदः । तामाह-महस्तेजः स्वयंप्रकाशम् । इत्यनेन प्रकारेण । आवेदन कः प्रकर्ष इत्यत आह-तन्महः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यं तस्मिन्नियं दृष्टिः करणीये- त्यर्थः । यद्ब्रह्मेस्युक्तं स प्रसिद्धो वक्ष्यमाण आत्माऽस्मत्प्रत्ययालम्बनः प्रधानभूत १ ग. सर्वमेतता। ग. अपेः स्म ।
शंकरानन्दकृता- [शीक्षाध्याये, अ०४ इत्यर्थः । अहान्युपसर्जनभूतानि । अन्या भूराद्या देवता व्याहृत्यधिष्ठात्र्यः । अहं महो ब्रह्मरूपमस्मि मम भूराद्या व्याहृतिदेवता अङ्गानीत्युपासनं करणीयमित्यर्थः । नुनु भूरादिषु शब्देषु का देवता इत्याशङ्कय व्याहृतीनामर्थमाह-भुः प्रथमा व्याहृतिः। इतिरनुकरणार्थः ।वै स्मरणार्थम् । अयं प्रत्यक्षो लोको भूर्लोकः । भुव इत्यन्तरि- क्षम् । सुवरित्यसौ लोकः । अन्तरिक्षं द्यावाभूम्योरन्तरालस्थो लोकः । असौ परोक्षो लोकः स्वर्गलोकः । भुवः स्व(सुव)रितिव्याहृतिपर्यायद्वयेऽपीतिशब्दावनुकरणार्थो । सहश्चतुर्थी व्याहृतिः । दतिरनुकरणार्थः । आदित्यश्चन्द्र(त्यःसूर्यः)मण्डलाभिमानी जगत्प्राणः, आदि- त्यस्य महाव्याहृत्यात्मनोपास्यमानस्य महत्त्वमुपपादयति । आदित्येन वावाऽऽदित्ये- नैव । सर्वे निखिलाः । लोका भूरादयः । महीयन्ते पूज्यन्ते सर्वव्यवहारक्षमा भव- न्तीत्यर्थः । इदानीं व्याहृतीनां ज्योतिर्वायुरूपतामाह-भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीपि महीयन्ते । अग्निवाय्वादित्यचन्द्रमसः प्रसिद्धाः । एतेभ्यो व्यतिरिक्तानि सर्वाणि ज्योतीपि नक्षत्रादीनि । अग्न्यादीनां सर्वशब्दान्तःपातित्वेनैषां देवरूपत्वेन चन्द्रमस उपभोगेन तेन महीयमानत्वमविरुद्धम् । वायोश्च तेजःसाक्षात्कारणत्वाज्ज्योतिस्त्रयसाहित्येन पाठो न विरुद्धः । अन्यत्पर्यायचतुष्टयेऽपि पूर्ववयाख्येयम् । इदानीं व्याहृतीनां शब्दप्रपञ्चात्मकत्वमाह-भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूपि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । अर्थानुसारेण पादवद्धाक्षरा ऋचः । सामानि ऋच एव गीतिमत्यः । गुजं- ध्यविवक्षितच्छन्दोरूपाणि गद्यानि । अत्र साम्नो द्वितीयत्वे यजुषस्तृतीयत्वे च वाचनिक कारणमास्थेयम् । अथवाऽन्तरिक्षे गन्धर्वाणां निवासत्वेन गीतिप्राधान्यात्तत्साम्येन साम्नो द्वितीयत्वं यजुःस्थितकर्मसाध्यत्वात्स्वर्गस्य तस्कर्मसंबन्धाद्यजुषस्तृतीयत्वं चेति । ब्रह्मों कारो ब्रह्मकोशत्वात्तेनैवे सर्व ऋगादयः पूज्यमाना दृष्टाः । शेषं पर्यायचतुष्टयेऽपि पूर्ववद्ध्या- ल्येयम् । इदानीं व्याहृतीनां क्रियात्मकत्वमाह-भूरिति वै प्राणः । भुव इत्यपानः । सवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । प्राण उच्छ्वासकर्मा । अपानो निःश्वासकर्मा । व्यानः प्राणापानसंधिस्थो वीर्यवत्कर्महेतुः । अन्नमदनीयम् । अन्नेन प्राशा उक्ताश्चक्षुरादयश्च । शेषं पर्यायचतुष्टयेऽपि पूर्ववद्याख्ये- यम् । अयं लोक इत्यादिकमुक्तं व्याहृतिचतुष्टयपर्यायचतुष्टयेऽपि पाठस्य · वैषम्या- भावात् । तत्राऽऽद्येन पर्यायेण रूपनामकर्मात्मकं जगत्रेधा विभज्य रूपनामकर्मणाम: १ ख. शब्दात्म । २ ग. त्तेन च स ।
शिक्षाध्याये,अ०४] तैत्तिरीयोपनिषद्दीपिका। विभक्तानामादित्यः कारणमित्युक्तम् । नामक्रियारहितस्य रूपस्य त्रेधा विभक्तस्य चन्द्रः कारणमिति द्वितीयेनोक्तम् । रूपक्रियारहितस्य नाम्नस्त्रेधा विभक्तस्य प्रणवः कारणमिति तृतीयेनोक्तम् । रूपनामरहितस्य कर्मणस्त्रेधा विभक्तस्यान्नं कारणमिति चतुर्थेनोक्तम् । तेन न्याहृतीनां सर्वात्मकत्वं सिद्धम् । तदिदानी संक्षेपेणाऽऽह-ताः प्रसिद्धाः । बै स्मर्यमाणाः । प्रना: पूर्वोक्ता व्याहृ- तयः । चतम्रो भूर्भुवः सुवर्मह इति चतुःसंख्याकाः । चतुर्धाऽयं लोकोऽग्निर्ऋचः प्राण इति चतुष्प्रकारा भुन्याहृतिः । अन्तरिक्षं वायुः सामान्यपान इति चतुष्प्रकारा भुवोव्याहृतिः । असौ लोक आदित्यो यपि ब्यान इति चतुष्प्रकारा सुवाहृतिः । आदित्यश्चन्द्रमा ब्रह्मान्न- मिति चतुष्प्रकारा महोव्याहृतिरिति चतस्रश्चतुष्प्रकाराः । तदेतदाह-चतसश्चतस्रो भूरा- चाश्चतस्रश्चतुःसंख्याकाः । पुनरप्ययं लोक इत्यादिनैकैकाऽप्यवान्तरभेदाच्चतुःसंख्याका । व्यातयो व्याख्याताः । ता एकैकाश्चतुष्प्रकारा इत्युक्ता भूराद्या नियतप्रकारा ग्र उपासको वेद जानात्युपासीतेत्यर्थः । स प्रत्येकं नियमेन चातुर्विध्येन चतसृणामात्माङ्गभा- वेनोपासको वेद जानात्युपास्त इत्यर्थः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यं महाव्याहृत्या. स्मत्वेनोक्तम् । ब्रह्मणि ज्ञाते को लाभ इत्यत आह–सर्वे निखिला अस्मै महो ब्रह्माहमादित्यश्चन्द्रमा ब्रह्मान्नमङ्गीभृतो महीयान्यङ्गानि भूराद्यास्तिस्रो व्याहृतय इत्युपास- काय देवास्तदङ्गभूता अग्न्यादयो वागादयश्च विश इव राज्ञे प्रधानाय बलिं तदभीष्टरू- परसादिकम् । आवहन्त्यानीय प्रापयन्ति । . ननु महो ब्रह्मात्मा कुत्र कथमुपास्यत उपासनातः केन द्वारेण निर्गच्छति निर्गतो वा केन रूपेण कुत्र स्थित्वा देवदत्तं बलिं गृह्णातीत्याशङ्कय तदेतत्सर्वं दर्शयति-स. परोक्षः । यः प्रसिद्धः । एष प्रत्यक्षः । अन्तर्हृदये हृदयस्य पद्माकारस्य मांसखण्डस्याधोमुख- स्योर्ध्वनालस्य पञ्चच्छिद्रस्य कदम्बकुसुमकेसरैरिव सर्वतो नाडीभिः परिवृतस्य मध्य आकाशोऽवकाशः । तस्मिन्नाकाशेऽयं प्रत्यक्षः स्वयं प्रकाशमानो महाव्याहृत्यात्मकः । पुरुषः पुरिशयोऽपि । परिपूर्णब्रह्मरूपो मनोसयो मनःप्रधानः । अमृतो मरणशून्यः । हिरण्मयो भास्करः सर्वज्ञ इत्यर्थः । कुत्र कथमुपास्य इत्यनयोरुत्तरं जातम् । अथ केन द्वारेण निर्गच्छतीत्यस्योत्तरमाह- अन्तरेण तालुके तालुकयोमध्ये । मुखबिलस्यान्तर्निह्वामूलस्योपरि स्थितौ वामदक्षिण- भागौ तालके इत्युच्यते । यः प्रसिद्धो योगशास्त्रे । एप प्रलम्बिकाकरणप्रवीणजिह्वाग्रस्प- र्शनप्रत्यक्षः परमुख चक्षुष्प्रत्यक्षो वा । स्तन इव वत्सतरीपयोधरो यथा । अबलम्बनेऽ- -- - ग. स्यमानः के। २ १. शंकरानन्दकृता- [शीक्षाध्याये, अ० ४] पलम्बनं कुरुते लम्बमानस्तिष्ठतीत्यर्थः । सा तालुफयोरन्तरस्थस्तनमध्यवर्तिनीः इन्द्रयो- तिरिन्न स्याऽऽनन्दात्मनो योनिरुपलब्धिस्थानम् । कार्यप्रमप्राप्तौ निर्गमनकारणं चेन्द्रयोनिः । पत्र यस्मिन्प्रदेशे । असौ प्रसिद्धः । केशाजो मूर्धानमारभ्योपरिष्टादशाङ्गुलपरिमितो देशः । केशान्तः, कश्चाश्वेशश्च केशा ब्रह्मविष्णुमहेश्वरास्तेषामन्तो विनाशकारणमित्यर्थः । केशान्तः पौरुषो बोध इत्यर्थः । विवर्तते । बोधरूपापरित्यागेनासत्यस्य नानाकारस्य शरीरत्रयस्य साधिदैवादेस्तदभिमानादेश्चाऽऽकारेण परिणमते । अथवा केशानां प्रसिद्धाना- मन्त्रो न भावो(?) मूलमित्यर्थः । यस्मिन्देशे विशेषणे वर्तते व्यपोझ भित्त्वा । शीर्षक- पाले शीष्णों मूर्ध्नः कपाले शकले । विनिर्गता या नाडीति शेषः । य एष स्तन इवाव- लम्यते तन्मध्यवर्तिनी यत्रासौ केशान्तो विवर्तते तत्र प्रतिष्ठिताग्रेति शंषः । तत्रोपपत्ति पोह्य शीर्षकपाले विनिर्गता या सेन्द्रयोनिरित्यन्वयः । अनया कार्य ब्रह्म गच्छन्गच्छती- त्यर्थः । अनेन गमने मार्ग उक्तः । इदानीं तत्तयाहृत्यात्मकस्तेषु तेषु व्यायतिप्रकारेषु स्थित्वा देवदत्तं गृह्णन्नध्यात्मपरिच्छे- दशून्यः स्वाराज्यं करोतीत्याह-भूरिति, उक्तोऽथों ाहृतेः । इतिशब्दश्च व्याय- त्यनुकरणार्थः । अग्रौ प्रथमव्यायत्यात्मके । प्रतितिष्ठति प्रतिष्ठां प्राप्नोति । इदं पदं वक्ष्यमाणेष्वपि त्रिषु पर्यायेषु योजनीयम् । भुव इति व्याख्यातम । वापी द्वितीय म्यायातिरूपे । सुवरिति व्याख्यातम् । आदित्ये तृती-व्यायतिरूपे । मह इति व्याख्यातम् । ब्रह्मणि कार्ये ब्रह्मण्यन्तःकरणशुद्धौ ब्रह्मज्ञानोत्पादा परे ब्रह्मणि वा । अत्र यद्यपि मह इति चन्द्रमसीति वक्तव्यं प्रायःपाठात्तथाऽप्युपास्याङ्गाङ्गिजातं सर्व व्याप्नोतीत्ये- तदर्शयितुमनास्थावादेन चन्द्रमस परित्यज्य मह इति ब्रह्म तद्ब्रह्मति वाररीकृत्य मह इति ब्रह्मणीत्याह। व्याहृत्युपासनामात्रान्निर्गुणब्रह्मप्राप्तिरितिशङ्कानिवारणार्थमाह-आमोति प्राप्नोति । स्वाराज्यं स्वयमेव रानत दीप्यत इति स्वराट्तस्य भावः स्वाराज्यम । ननु केवलब्रह्मप्रा. प्तिरप्येतादृश्यवेत्यत आह-आप्नोति प्राप्नोति । मनसस्पतिं मनःशब्दोपलक्षितस्य ज्ञानक्रियाशक्तरन्तःकरणस्य पतिं पालयितारम् । स्वोपाधिकत्वाभिमानेन हिरण्यगर्भमित्यर्थः । तं प्राप्य क्रियाज्ञानकरणानां तद्वत्प्रभुर्भवतीत्याह-वाक्पति गिति कमंन्द्रियमात्रस्योप. लक्षणम् । वाचः पतिर्वाक्पतिः । चक्षुष्पतिः श्रोत्रपतिः स्पष्टम् । चक्षुःश्रोत्रयोहणं स्वग्घ्राणरसनानामुपलक्षणार्थम् । विज्ञानपतिर्विज्ञानं बुद्धिस्तस्य पतिर्विज्ञानपतिः । विज्ञान- शब्दोऽव्याकृतव्यतिरिक्तस्य सर्वस्योपलक्षणार्थः । - १ ख. यः । केशान्त 1ि २ ग. °ण प्रव।३ ग. षः । यः स्त°17'त्पादनात्म। ५ ग. "लि चोर।
- [शीक्षाध्याये, भ०६] तैत्तिरीयोपनिषद्दीपिका। ११ अपेक्षितं सर्वमप्युक्त्वेदानीं 'महो ब्रह्म तसिन्नयं पुरुषः । इत्यादिनोपास्यत्वेनोक्तं यदुत्पन्नब्रह्मज्ञानः प्राप्यमङ्गीभूतं वक्तुमारभते संक्षेपेण प्राचीनयोग्यस्य पितृरूपा श्रुतिः स्वपुत्रस्योपासनार्थम् । एतदेतस्मिन्व्याहृत्युपासने प्रधानभूतम् । ततो भवति तस्मात्का. रणाद्भवति । उक्तमिति शेषः । आकाशशरीरमाकाशोऽव्याकृतं शरीरमिवे स्वं यस्य तदाकाशशरीरम् । ब्रह्म तद्ब्रह्मेति, महाव्याहृत्यभिन्नं यदुक्तं देशकालवस्तुपरिच्छे- दशून्यम् । सत्यात्म सत्यो बांधरहित आत्मा चिदानन्दस्वभावो यस्य तत्सत्यात्स । प्राणारामं प्राणेप्वारमत इति प्राणारामं सर्वप्राणिस्थितमित्यर्थः । तटस्थत्वशङ्कां वारयति- मनआनन्दं मनस आनन्दो यस्य तन्मनआनन्दम् । तर्हि दुःखीत्याशङ्कयाऽऽह- शान्तिसमृद्धं शान्तिर्दुःखोपरतिस्तया समृद्ध संपन्नं सर्वदुःखशून्यमित्यर्थः । नन्वस्तु सर्वत्रोस्कृष्टं तथाऽपि सर्वाभेदान्मरणमप्यस्यैवेत्यत आह---अमृतं मरणशू- न्यम् । यदभेदादन्यस्यापि मरणमपगच्छति कुतोऽस्य कालेकालस्य मरणमित्यर्थः । इत्यनेन प्रकारेण तदहमस्मीत्यवगन्तुमशक्तश्चेत्प्राचीनयोग्य प्राचीनेषु पुरातनेषु काश्यपादिषु योग्योऽधिकः प्राचीनयोग्यः सर्वेभ्य उत्कृष्ट इत्यर्थः । तस्य संबोधनं प्राचीनयोग्य । उपास्स्व " महोव्यायतिरूपमिदमहमस्मि ममाजानीतरा युथोक्ता व्याहृतयः इति शाखान्तरप्रसिद्ध वा " मनोमयः प्राणशरीरः ” इत्यादिरूपं व्याहृत्युपासनाव्यतिरि- क्तमुपास्स्व विजातीयप्रत्ययशन्येन सनातीयप्रत्ययप्रवाहेण यथोक्तधर्म साक्षात्कुर्वित्यर्थः । अथवा को हिरण्यगर्भप्राप्तौ पुरुषार्थ इस्याशङ्कय व्याख्येयम् । ददो हिरण्यगर्भप्राप्तेरनन्त- रमुत्पन्नब्रह्मज्ञान एतद्वक्ष्यमाणं ब्रह्म भवति । अस्मिन्पक्ष इत्यारम्य प्राचीनयोग्यपितुर्वाक्यं द्रष्टव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यो तेत्ति. रीयोपनिषद्दीपिकायां शीक्षाध्याये पश्चमोऽनुवाकः ॥ ५॥ " अथ शीक्षाध्याय षष्ठोऽनुवाकः। चतसृणां व्याहृतीनामुपासन उक्ते तदनन्तरभाविनी पञ्चसंख्यामुररीकृत्य पञ्चभूतास्म. कविराट्माप्तिफलं पातमुपासनमाह-पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः, सष्टाः पृथिव्याइयः पञ्च पदार्थाः । त्रिलोकी प्राच्यादयश्चतस्त्र आग्नेय्यादयश्चेति पाठक लोकपाङ्गम् । अनिर्वायुरादित्यश्चन्द्रमा नक्षत्राणि, स्पष्टा अग्न्यादयः पञ्च पदार्थाः । इदं देवतापाङ्गम् । आपो नीराणि । ओषधयो ब्रीह्यायाः । वनस्पत ग. वय। ख. बाधारक. लस्य ।४ म. तिपदामि।
-- १२ शंकरानन्दकृता- [शीक्षाध्याये, अ०६ ] योऽपुष्पाः फलवन्तोऽश्वस्थादयः । आकाशो भूताकाशः । आत्मा भौतिको देहोऽधि- देवादिः । इतिः समाप्तौ । अधिभूतं भूतानि पृथिव्यादीन्यधिकृत्योच्यमानमधिभूतम् । लोके देवानामपि भूतविकारत्वेन भूततत्त्वमङ्गीकृत्याधिभूतमित्युपसंहारः । अथाधिभूतपाङ्गकथनानन्तरम् । अध्यात्ममात्मानमिमं स्थूलदेहमधिकृत्य । पालमु- च्यत इति शेषः प्राण उच्छासकर्मा क्षुत्तृडधिकारी । न्यानः प्राणापानयोः संधिस्थो वीर्यवत्कर्महेतुः । अपानो निःश्वासकर्मा मलमूत्रादिविसर्गहेतुः । उदानः सर्वसंधिषु कीलवदवस्थितः । यच्चलने हिक्कादिः प्राणापानादीनामप्यनवस्थितिः सर्वप्राणबन्धनमूर्ध्व- गामी मरणहेतुः । समानोऽशितस्य पीतस्य चाऽऽपादमस्तकं समं यथायोगं नयनं करोतीति समानः । इदं प्राणादिपञ्चकं वायुपातम् । चमू रूपग्राहकमिन्द्रियम् । श्रोत्रं शब्दग्राहकमिन्द्रियम् । मनः साधारणज्ञानकारणम् । वाग्वागिन्द्रियमभिवदनका रणम् । त्वक्स्पोपलब्धिकारणमिन्द्रियम् । इदं चक्षुरादिपञ्चकमिन्द्रियपातम् । चर्म स्वगिन्द्रियाधिष्ठानमापादमस्तकं व्याप्य व्यवस्थितम् । मांसमन्नस्य मध्यमः परिणामो मृदुलो घनीभूतः । स्नावा धमनिः, जातवेकव वनस्वान्नाड्य इत्यर्थः । अस्थि प्रसिद्ध श्वेतं शरीरशालावंशस्तम्भादिरूपम् । मज्जा रुधिरमांसयोरन्तरावस्थोप्णकालीनशीतलप्र- देशस्थघृताकाराऽस्थ्नोऽन्तर्गता । इदं चर्मादिपञ्चकं धातुपातम् । एतदुक्तं पृथिव्यादिकं मजान्तम् । अधिविधायाधिकृत्य पञ्चकमुपलभ्येत्यर्थः । ऋषिदो वेदार्थद्रष्टा वा । अवोचदुक्तवान् । पावं पञ्चाक्षरं ( र ) पतिच्छन्दोरूपम् । वै प्रसिद्धं पञ्चसंख्यात्वेन । इदं पृथिव्यादिकम् । सर्व निखिलम् । पाङ्ग्रेनैव पञ्चसंख्याक्रान्तेनैव पार्ने पञ्चसं- ख्याक्रान्तम् । स्पृणोति प्रीणयति । पोष्यपोषकादिकं पाङ्गमित्यर्थः । पाङ्गं . वा इदं सर्व यतस्ततः पातेनैव पाङ्गं स्पृणोतीति योजनीयम् । इत्यनेन प्रकारेण । स्वयं पञ्चा- स्मको विश्वं चेदं पञ्चात्मकं सर्वणाभिन्नं पञ्चात्मकं स्वात्मानं जानतस्तादृग्विराटप्राप्तिफलमर्थ- सिद्धमिति श्रुतितॊक्तवती ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये पोऽनुवाकः ॥ ६ ॥ अथ शीक्षाध्याये सप्तमोऽनुवाकः । पञ्चसंख्यासामान्यास्पाङ्कमिदं सर्वमित्युक्तं तेन सर्वात्मकं ब्रह्म हृदिस्थं ब्रह्मणश्च कोशभूत ओंकारः पूर्वमुक्तः । इदानीं तत्कोशस्वोपपादनार्थ पुनरोंकारस्योपासन- १ क. ग. रणं का। २ क. ग, व्याप्याव'। ३ ग. 'त्वोपासना।
शीक्षाध्याये, अ०७] तैत्तिरीयोपनिषद्दीपिका। १३ माह-ॐ ब्रह्मवाचकः । इतिरोंकारानुकरणार्थः । ब्रह्म वाच्यम् । अभिधानाभिधेययो. स्तादात्म्यावाचके वाच्यस्य दृष्टिः करणीया । शालग्राम इव विष्णोरित्यर्थः । ननु सति साम्य ओंकारब्रह्मणोरोंकारे तदृष्टिः क्रियमाणोचिता स्यादन्यथाऽन्धगोला झूलन्यायमा- त्रमित्यत आह-ओमिति, व्याख्यातम् । इदुः सर्वं विविधप्रत्ययगम्यं कार्यकारणादि निखिलम् । अयमर्थः-शब्दप्रपञ्चः सर्वोऽप्योंकारेण व्याप्त इति नात्रोपपादनीयं किंचि. दस्ति । शब्दार्थयोस्तादात्म्ये विप्रतिपत्तावपि वाचकस्वलक्षणेऽविनाभावे न विवादः । यद्येनाविनाभूतं तत्तस्य कार्यम् । यथा धूमाग्न्योः कार्यकारणयोः साम्यं यथा मृद्धटयोः । तत ओंकारस्याऽऽत्मनश्च सर्वाभिन्नत्वादस्ति साम्यमित्यांकारोपासनार्थमाकारो लौकिक- वैदिकव्यवहारकारणत्वेन स्तृयते । ओमिति व्याख्यातम् । एतदोंकाराभिधानम् । अनुकृति गच्छ पिन पठेत्यादिवचन- मनु भृत्यादेरङ्गीकारवचनमोमिनि करणमनुकृतिराह । ह किल । स्म प्रसिद्धम् । वै स्मर्यमाणम् । अपिरभ्युच्चये । न केवलं लौकिकव्यवहारकारणमोकारः, किंतु वैदिकस्योपि 'ओ' ओमित्यर्थः । श्रावय हविषः परित्यागार्थ मन्त्रं देवाश्रावय । इति, अनेन प्रकारेण । उक्ते वैदिके कर्मण्यत्विज आश्रावयन्ति समन्ताद्देवान्मन्त्रश्रवणं कारयन्ति । ओमिति व्याख्यातम् । सामानि गीतिसहिता ऋचः । गायन्ति यज्ञकर्मण्यन्यत्र चं पठन्ति । ओं व्याख्यातम् । शों शं सुखं तदेवो ५ शोमित्यनुकरणार्थः । शस्त्राणि शस्त्रशब्दाभिधेयानृग्विशेषान् । शसन्ति पठन्ति यज्ञकर्मण्यन्यत्र च । ओमिति व्याख्यातम् । अध्वर्युर्याजुष ऋत्विक् । प्रतिगरं गरणम् । वाङ्मनःकायानां विहितं व्यापारमात्रं गरः, तेन संबद्ध प्रतिगरः कर्म, तं प्रति कर्मणि कर्मणीत्यर्थः । गृणाति शब्दं करोति । प्रतिगरं यजुर्विशेषं वा प्रतिगृणाति पठति । अस्मिन्पक्ष ओमित्यु- चार्येति शेषः । ओसिति व्याख्यातम् । ब्रह्मा, ऋत्विग्विशेषः । प्रसौत्यनुनानाति । ओमिति व्याख्यातम् । अग्निहोनं जुहोतीत्युक्ते होत्रादिना समीपस्थोऽग्निहोत्रं नित्यं काम्यं वा कर्मानुजानाति जुहुधीत्यनुज्ञां प्रयच्छति । ओमिति व्याख्यात । ब्राह्म- शोऽध्येप्यमाणः । प्रवश्यन्पाठार्थ प्रकर्षण वचनं करिष्यन् । आह ब्रूते । ओंकारवदने कारणमाह-ब्रह्म वेदम् । उपाप्नतानि स्वाधीनत्वलक्षणेन सामी- * यथा कस्यचिदन्धस्य स्वप्सितस्थलं गन्तुमशक्नुवानस्य हस्ते केनचिद्दुष्टेन बलीवर्दस्य लाङ्गुलं दत्त्वैष त्वामीसितस्थलं प्रापयिष्यतीत्युक्त्वा प्रस्थापितोऽन्धो मोक्षभयादोपुच्छं हं गृहन्, लाङ्लग्रहणमसहमानेन शर्कराकण्टकोपलादिषु जवात्प्रधाबमानेन गवा व्यापायते स एप गोला- इगलन्यायः । १ क. ग. 'स्याप्योमोमि° । २ ग. वा । ३ ग. वा । ४ ख. म् । ब्रह्मणः ।। ५ ग. °ने सामान्यन सा।
१४ शंकरानन्दकृता शिक्षाध्याये, अ०८] प्येन प्राप्नवानि । इति, अनेनाभिप्रायेण । ननु किमभिप्रायमात्रमित्याशङ्कय नेत्याह- ब्रह्म वेदमेव । उपासोति स्वाधीनत्वसामीप्येन प्राप्नोत्येव न त्वभिप्रायमात्रम् । अत्र फलं च ब्रह्मज्ञानोत्पादद्वारण सर्वात्मत्वप्राप्तिरनुक्ताऽपि द्रष्टव्या । अथवा 'ओमिति बाह्मणः' इत्यादिकं फलवचनम् । अस्मिन्पक्षे ब्राह्मणः साधनचतुष्टयसंपन्नः संन्यासी प्रवक्ष्यन्प्रकर्षण 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिवचनजातं वक्ष्यन्ब्रह्म सत्यज्ञानादिल क्षणम् ॥ इति श्रीमत्पुरमहंसपरिव्राजकाचार्यश्रीमकरानन्दविरचितायो पदार्थवोषित्या तैत्ति. रायोपनिषदीपिकायां शीक्षाध्याये सप्तमोऽनवाः ॥७॥ अथ शीक्षाध्यायेऽयमोऽनुवाकः । ननु- एवमप्युपासनेर्यस्यान्तर्मुखता न स्यादस्ति च मुमुक्षा किं तेन करणीयमित्या- शङ्कय कर्मव तेन करणीयमित्याह-तं च यथाशास्त्रकर्मविषयं ज्ञानम् । चकारः स्वाध्यायप्रवचनाम्यां समुच्चयार्थः । स्वाध्यायप्रवचने च स्वाध्यायोऽध्ययनं प्रव- चनं ब्रह्मयज्ञोऽध्यापनं वा । चक्कारोऽनयोरुक्तेन समुच्चयार्थः । सत्यं मनःकायाम्यामनु- ष्ठीयमानं कर्म सत्यवचनं वो । तपः कृच्छ्चान्द्रायणादिरूपं स्वधर्मवृत्तित्वं वा । दमो बाह्येन्द्रियनिग्रहः । शमोऽन्तःकरणोपशमः । अनयस्त्रयः पञ्च वा । अग्नि- होत्रं नित्यं श्रौतं कर्म सायंप्रातोमोपलक्षितम् । अतिथयोऽज्ञातकुलगोत्रा ब्राह्मणा- दयोऽशनाद्यर्थ दर्शादितिथिमन्तरेणापि गृहान्समागताः । अतिथिशब्दितसामोपलक्षितयोगा वा । मानुषं पुत्रादिविवाहादौ बन्ध्वादीनां यथोचितं पूजनम् । प्रजा पुत्रादिका । प्रजनः प्रजननमृतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्राद्युत्पत्तिः पुत्रायानुरूपा प्रिया च भार्या तादृशश्च वरः कन्यायै । एवं पौत्रपौत्र्यादेरपि संपादनीयमित्यर्थः । अत्रोमित्यादौ संपादनीयमिति द्वादशस्वपि पर्यायेष्वेकवचन द्विवचनबहुवचनानुसारेणाध्याहरणीयम् । सर्वत्र च स्वाध्यायप्रवचनयोः पाठस्तत्रात्यन्तमादरदर्शनार्थः । शेषमेकादशस्वपि पर्यायेषु समानपाठ- मृतमिति पर्यायवयाख्येयम् । इदानीमृषीणां मतान्यत्रोपन्यस्यति-सत्यमुक्तम् । इति, एव । सत्यवचाः सत्य- वादी, नामधेयं वा राधीतरो रथोतरगोत्रः । अनुष्ठेयं मनुत इति, अत्र वक्ष्यमाणेऽपि यर्थोयोगमध्याहरणीयम् । तर इनि तप एव । तपोनियस्तपसि नित्यं वर्तत इति तपोनित्यो नामधेयं वा प्रौफशितिः पुरु बहुवेलं मातृपित्राचार्यैः शिष्टः पुरुशिष्टस्तस्यापत्यं पौशिष्टिः। ग..। २ ग. प. ३. 'योगो वा । ४.ग. योग्यम।
[शीक्षाध्याये अ०९] तैत्तिरीयोपनिषद्दीपिका। १५ पूर्वपक्षमुक्त्वा सिद्धान्तमाह-स्वाध्यायप्रवचने व्याख्यातम् । प्रत न स्वन्य- स्सत्यं तपो वा । इतीस्थम् । नाको नामतः । मौदल्यो मुदं शास्त्रार्थनिर्णयरूपां गलति स्रवतीति मुरलः, तस्यापत्यं मौदल्यः । अस्य पक्षस्य सिद्धान्तत्वमुपपादयति- तत्स्वाध्यायप्रवचनानुष्ठानम् । हि यस्मात् । तर उक्तमुपलक्षणमिदं सत्यस्यापि । तस्मादिदमेवाधिकमिति शेषः । अस्य पक्षस्याऽऽदरार्थ द्विवचनम् । वद्धि तपो व्याख्यातम् ॥ इति श्रीमटार महंसपरिवाजकाचार्यश्री करानन्दविरचितायां कृष्णयजुवेंदीयनिरी- योपरिषदीपिकाया शीक्षाशायेऽष्टमोऽनुवाकः ॥ ८ ॥ - अथ शीक्षाध्याये नवमोऽनुवाकः । ननु-अध्ययनस्य ब्राह्मण्यनातिप्रयुक्तस्वेन कर्तव्यतया सिद्धत्वाव्रतस्य करणीयताs- ध्यापनस्य वा (१) । नित्यत्वान्न तस्यापि नित्यः स्वाध्यायः स्वाध्यायप्रवचनशब्दाभ्यां प्रतिपाद्योऽतः शिष्यते । न चासावपि कतु शक्योऽनेककार्यव्यग्रत्वात् । न चाशक्यं विदधाति विधिः । ततः स्वाध्यायप्रवचने एवेति यत्किचिदेतदित्याशङ्कयेतन्मन्त्रमानं नित्यं जपनीयम् । अन्यत्तु यथाशक्ति । सावताऽशक्यस्वाभाषादित्यभिप्रायवानाह- अहं नित्यस्वाध्यायस्य कर्ता । वृक्षस्योर्वभूलस्यावा .ाखस्य वनस्पतेरधिदेवादिभि- नस्य स्थूलसूक्ष्मशरीरस्येत्यर्थः । रेरिखा प्ररयिता । कीर्तिः स्ववर्णाश्रमोचितानुष्ठान- कारित्वेन विद्यया चेहामुत्र पुण्यं यशः । पृष्ठमा उच्छितं शृङ्गं लोकद्वयदर्शनस्य विषयः । गिरेरिख पर्वतस्य मेरोर्यथा तथा । मुम स्यादात शेषः । ऊध्र्वपवित्र ऊर्ध्व कारणं पवित्रं ब्रह्म यस्य मम देहादिसंघातस्य सोऽहाऽपवित्रो वृक्षोऽप्यहमवेत्यर्थः । वाजिनीव वाज़ोऽन्नं देवानां रोहितादिरूपं प्रसिद्धमस दादीनां चास्यास्तीति वाजी सविता तस्मिन्यथा । स्वमतं सुष्ठमृतं रोहित दिरू मानन्दाःमस्वरूपं वाशिम । द्रविणं धनं हिरण्यादिरि(क) वाऽ: नन्दा-मस्वरूपम् । सवर्चसं वर्षस्तेो ब्रह्मसाक्षात्कार- स्तेन सह वर्तत इति सवनः, सवच एव सुवचनम् । सुमेधाः सुष्ठु मेधा 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिश्रुतधारणरूपा यस्य स समेधाः । असतोक्षितः, अमृतेन गुरुकटाक्षेणोक्षितः सेचितः, अमतो मरणशूनोऽक्षितो विकारान्तरहीनो वा । तथा मम स्यादिति । अध्याहाराभावे सात्म्यज्ञानं कीर्तिरप्यहमस्मीति व्याख्येयम् । श्रुतिराह-इति, अनेन प्रकारेग। स्वधर्मनिष्ठस्याऽऽर्षदर्शनसंपन्नस्य विशोराध्यात्मिकाधिभौतिकाधि- दैविका दुःखस्वरूपाः शङ्कयो यस्य स शिाङ्कः । तस्य भृशं संसारतापैः संतप्तस्य परम- प. सर्वामझा।
१६ शंकरानन्दकृता [शीक्षाध्याये अ०१०] वैराग्यं प्राप्तस्येत्यर्थः । त्रिशनाम्नो वा । वेदानुवचनमहं संसारस्य प्रेरयिता[प्रा]- यशः संसारोऽविद्यया, वस्तुतस्स्वानन्दात्मस्वरूपो ब्रह्मसाक्षात्कारवान्गुरुकटाक्षपातेनेति. वेदनं वेदः : तमनु पश्चाद्वचनम् ' अहं वृक्षस्य इत्यारम्य 'अमृतीक्षितः इत्यन्तं वेदानुवचनम् ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीसरकरानन्दविरचितायां पदार्थबोधिन्यो तेत्ति- रायोपनिषद्दीपिकायां शीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ शीक्षाध्याये दामोऽनुवाकः । - - सत्यादीन्यनुष्ठेयान्यन्तर्मुखेन(ण) मुमुक्षुणा । तानि किं सति मुमुक्षुत्व एवानुष्ठेयानि नेतरथेत्याशङ्कय मुमुक्षुस्वेऽमुमुक्षुत्वे वोपनयनमारभ्याऽऽब्रह्मसाक्षात्कारमाश्मशानं वा स्ववर्णा- श्रमोचितानि कर्माणि करणीयानीत्येतदर्थ गुरुकुलात्प्रवसतो ब्रह्मचारिण इदमुपदेश्यमा- चार्येणेत्यभिप्रायेणाऽऽह -वेदमगाद्यन्यतमं, स्वशाखामात्रं वा । आदरो नैकवचने द्वौ श्रीश्चतुरो वा साङ्गविद्योपविद्या (वेदोपवेदा)न् । अनूख्य तदुपनयनेमनूक्स्वा । आचार्य: शिष्यमुपनीय कल्परहस्यादिसहितम्य वेदस्य वक्ता । अन्तेवासिनं छायावदपरि- त्यागिनमाहानेनाध्ययनस्य कर्तारमित्यादिशिष्यलक्षणसंपन्नं शिष्यमनुशास्ति वेदवचन- मनुशासनं करोति अनुशासनं कुर्यादित्यर्थः । सत्यं यथाप्रमाणदृष्टं हितं प्रियं च वचनम् , वदोच्चारय । धर्म स्ववर्णाश्रमविहितं कर्म चर आचर । स्वाध्यायो- नित्यस्वाध्यायात् , मा प्रमदः प्रमादं मा कार्षीः । आचार्याय मह्यं, प्रियमिष्ट, धनं गोधनादि, आइत्य समस्तविद्यानिष्क्रयार्थ, सदृशान्दारान्स्वीकृत्य प्रजातन्तुं पुत्रपौत्रादिसंतति, मा व्यवच्छेत्सीयवच्छेदं मा कार्षीः । पुत्रपौत्राद्यर्थ दृष्टार्थोऽदृष्टार्थ- श्वोद्यमः करणीय इत्यर्थः । सत्यादीनां कर्तव्यतोक्ता, तेषामन्येषां च करणीयता, तेषामेव कदाचिद्वारणीयतेति बुद्धिं वारयितुमाह ---सत्यादुक्तान प्रमदितव्यं प्रमादो न करणीयः । निरन्तरं तदेवानुष्ठेयमित्यर्थः । धर्मादुक्तान्न प्रमदितव्यं व्याख्यातम् । कुशलाक्षेमकरात्कर्म- गोऽदृष्टान्न प्रमदितव्यं व्याख्यातमू । भूत्यै भूतेरैश्वर्यात् । न प्रमदितव्यं व्याख्यातम् । स्वाध्यायप्रवचनाभ्यां नित्यस्वाध्यायाधीताविस्मृतौ दृष्टार्थाध्यापना- र्थाभ्याम् । न प्रमदितव्यं व्याख्यातम् । यद्यपि स्वाध्यायात्मा प्रमद्रः इत्य- नेनैव स्वाध्याये प्रमादराहित्यं प्राप्तं तथाऽपि सर्वेभ्यः कर्तव्येभ्यः स्वाध्याये महा- न्यत्नः करणीय इत्येतदर्थं पुनः स्वाध्यायेत्याह । नेवपितृकार्याध्यमं देवकार्य दर्श- पौर्णमासादि पितकार्य पिण्डपितृयज्ञादि, अथवा देवकार्य वृद्धिश्राद्धादि पितृकार्य १ ग. 'नमुक्त्वा । २ ख. ग. यात L | ३ ग. °णो दर्शाद्यान्न । ४ ख. 'स्मृति [ शीक्षाध्याये, अनु० १० ] तैत्तिरीयोपनिषद्दीपिका । मृतश्राद्धादि ताभ्याम् । न प्रमदितव्यं व्याख्यातम् । मातृदेवो माता देवो यस्य र मातृदेवो भव भूयाः । पितृदेवः पिता देवो यस्य स पितृदेवो भव भूयाः । आचा यदेव आचार्यों देवो यस्य स आचार्यदेवो भव भूयाः । अतिथिदेवोऽतिथिदेवो यस्य सोऽतिथिदेवो भव भूयाः । जननीजनकाचार्यातिथीनामभीष्टदेवतावत्परिचर्यां कुर्वस्तदुक्त कारी कर्मणा मनसा वाचा तदिष्टामेव चेष्टां कुरु, मा प्रमादेनापि तदनिष्टचेष्टामित्यर्थः । ननु यद्यत्पूर्वेः कृतं तत्करणीयम् । तथा च जामदग्न्यः स्वजननीं जघान, शुनःशेपः स्वननकं तत्यान, याज्ञवल्क्यस्त्वाचार्य, गौतम इन्द्रमतिथिं, ब्रह्मा स्वसुतां जगाम, इन्द्र- स्त्रिशीर्ष ब्राह्मणं जघान, क्षत्रियो बलदेवः सुरां पपौ, सोमो गुरोर्भार्या जहार, इत्यादि महता- माचारानुसारादहमप्यनुष्ठास्यामीत्यत आह-यानि प्रसिद्धानि । अनवद्यानि, अदुष्टानि महतामप्याचरितानि शास्त्रे लोके वा निन्दाराहतानीत्यर्थः । कर्माणि लौकिकानि वैदि- कानि वा कर्तव्यानि तान्युक्तान्यनिन्दितानि महतामपि । यथा जामदग्न्यः पितृवचनं चकार, शुनःशेपो विश्वामित्रस्योपकारं न विसस्मार, याज्ञवल्क्यस्तपसाऽऽदित्यमवाप्य शुक्लानि यपि प्रतिपेदे, गौतमः स्वभार्यानारायापीन्द्राय प्राणपर्यन्तं कोपं न चकार, ब्रह्मा पुत्रोत्पत्त्यर्थं महान्तमुद्यमं चकार, इन्द्रश्च त्रिलोकीस्वास्थ्यार्थ निन्दितां हत्यामपि स्वी चकार, बलदेवश्च शेषोऽपि देवब्राह्मणकार्यार्थ शुक्रशोणितशरीरमपि स्वांचकार, सोमो गुरोर्गरीयसी कीर्ति चकार, इत्यादीनि स्वया सेवितव्यानि, अनुष्ठयानि । ननु—पितुर्व ( तृव ) चनकरणादीन्यनुष्ठास्यामि महद्भिः कृतत्वान्मातुर्व(तृव)धादीनि चेत्यत आह-नो निषेधार्थः, इतराणि मातुर्व(तृव)धादीनि सेवितव्यानीत्यनुपङ्गः । ननु तर्धन्यैः कृतान्यवद्यानि कर्माणि नानुष्ठास्यामि किंतु मैद्गुरुभिर्भवद्भिः सेवितानि सर्वाण्यपि वेदैर्वोक्तानि "अग्निहोत्रं जुहोति" "न कांचन परिहरेत्" इत्यादीन्यनुष्ठास्यामीत्यत आह- यानि प्रसिद्धानि, अस्माकमाचार्याणां वेदानां वा सुचरितानि विहितानि कर्माण्य- स्माभिरनुष्ठीयमानानि “अग्निोत्रं जुहुयात्" इत्यादीनि वेदैरुक्तानि वा शोभनानि लोकद्व- यश्रेयस्करत्वेन । तानि, उक्तानि सुचरितानि । त्वया शिष्येणोपास्यानि निरन्तरमनु- ष्ठेयानि । निन्दितानामाचार्यैः कृतानां वेदैरुक्तानां वाऽननुष्ठेयत्वमाह-न्ये इतराणि । न परदारगमनादीन्युपास्यानीत्यनुषङ्गः । सेके.ज संबन्धिनोऽसंबन्धिनो वा तव । ये के चाम्मदस्मत्तस्त्वदाचार्येभ्यः । श्रेया सोऽतिशयेन प्रशस्याः केचनै । तर्हि किं क्षत्रियादय इत्यत आह-ब्राह्मणा ब्राह्मणत्वनात्याऽऽक्रान्ताः । तेषामुक्तानां ब्राह्मणानाम् । । १ ग. महद्गु । २ के. ख. °न क्ष।
१० शंकरानन्दकृता [शीक्षाध्याये, अ०१०] त्वयाऽस्मच्छिष्येण । आसनेनाऽऽसनोपलक्षितसत्कारकरणेन प्रश्वासितव्यमासनदाना- दिना स्वगृहमागतानां प्रश्वासः श्रमापनयः करणीयः । अथवा तेषामासन उपवेशने सभाया- मित्यर्थः । न प्रश्वसितत्यं प्रश्वासोऽपि न करणीयः, किमुत वार्तादिकम् । केवलं तदुक्तग्राहितया स्थेयमित्यर्थः । श्रदगाऽऽस्तिक्यबुद्ध्या । देशकालपात्रसंपत्तौ सत्यां विभवानुसारेण गोभूहिरण्याशनपानादिकं यथोचितं देयं दातव्यम् । न विपर्यय इत्याह- अश्रद्धया नास्तिक्यबुद्धया । अदेयं न देयम् । शिया विभूत्या । देयं दातव्यम् । द्विया लजया । देयं दातव्यम् । भिया भीत्या । देयं दातव्यम् । संविदा मैन्यादिकरणेन । देयं दातव्यम् । श्रियादिनिमित्तेषु दानेष्वास्तिक्यबुद्धिपुरःसरमेव देयं, न तु नास्तिक्यबुद्धयेति तात्पर्यार्थः । अथ महदुपदेशानन्तरम् । यदि पक्षान्तरे । कथंचित्ते तव शिष्यस्य मदुक्तं कर्मजातमनु- तिष्ठतः । कर्मविचिकित्सा वा कर्मस्वग्निहोत्रादिषु संध्यावन्दनादिषु वा श्रौतेषु स्मार्तेषु "उदिते जुहोति" "अनादेते जुहोति" सावित्री स्त्रीदेवतां पुरुषदेवतां.वा" इत्यादिवाक्येभ्यो विचिकित्सा संशयः वाशब्दो विपर्ययार्थो विपर्ययो वा । वृत्तविचिकित्सा वा वृत्तमाचारः कुलपरम्परागतस्तस्मिन्विचिकित्सा संशयः । यथा केषांचिन्मातुलसुताविवाहमांसभक्षणादिकं किंचिदपरेषां नेत्यादिदर्शनेन । वाशब्दो विपर्ययार्थः । वैदिके लौकिके च कर्मणि संशयो- स्पादे विपरीतप्रवृत्तिर्वा पण्डितमन्यत्वनेत्यर्थः । स्याद्भवेत् । तदा ये प्रसिद्धा नीरागद्वेषा यथाशास्त्रानुयायिनः । तत्र तस्मिन्देशे, यत्र भवतो निवासः । ब्राह्मणा ब्राह्मणत्वजा- स्याऽऽक्रान्ताः । संसर्शिनः संमशों रागद्वेषौत्सुक्यराहित्येन शास्त्रार्थनिर्णयः, स येषां नित्यमस्ति ते संमर्शिनः । युक्ताः कर्मानुष्ठानयोगरता नित्यनैमित्तिकानुष्ठानशीला इत्यर्थः । आयुक्ता अपरप्रयुक्ताः शास्त्रार्थस्य वचनेऽनुष्ठाने चान्यभीतिराहिता इत्यर्थः । अलूक्षा अरूलाः कर्णकठोरवचनपरानिष्टकारिबुद्धिरहिता इत्यर्थः । धर्मकामा धर्म एव कामोड- मिलाषो येषां ते धर्मकामाः । स्युर्भवेयुः । यथा येन प्रकारेण ते यथोक्तविशेषणविशिष्टा ब्राह्मणाः । तत्र तस्मिन्कर्मणि वृत्ते वा । वर्तेरन्वृत्तिं कुर्वीरन्यथाऽनुतिष्ठन्तीत्यर्थः । तथा तेन प्रकारेण । त्वमपि तत्र कर्मणि वृत्ते वा । तथा वृत्तिं कुरु तद्वत्तद्नुतिष्ठेत्यर्थः । अथ, अथवा तेष्वभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्तेषु । व्याख्यातमन्यत् । एप–'सत्यं वद' इत्यारम्य ' तथा तेषु वर्तथाः ' इत्यन्त आदेशः कर्त- व्यार्थः सत्यादिलक्षणः । तत्कथनेनैष उक्ताओं वाक्यसंदर्भ उपदेशः पित्रादिवचनरूपः । , , . १ ग.त्मा क । २ ग. पादव । ३ ग. गजा।
[शीक्षाध्याये, अनु० ११] तैत्तिरीयोपनिषदीपिका । १९ णोक्ता वाक्यसंततिदोपनिषद्वेदरहस्यबुद्धिः । एतदुक्तं वाक्यजातम् । अनुशासन राज्ञामिवाऽऽज्ञाभूतम् । एतदर्थाननुष्ठाने महतो दुःखस्य प्राप्तर्विधीयमानत्वात्सस्नेहमुच्यमा. नत्वाद्वेदसारस्वादकरणे दुःखप्राप्तश्चेत्यर्थः । यत एवं तत एवमुक्तप्रकारं सत्यादिकम् । उपासितष्यं नित्यं निरन्तरमा ब्रह्मज्ञानादा श्मशानाद्वाऽनुष्ठातव्यम् । एतदेव न स्वन्य- दनुष्ठेयमेव चैतदर्थं पुनराह-एवमु च, एवमेव । चकारोऽवगतिसमुच्चयार्थः । अवगत्य चैतत्सत्यवदनाद्यभ्याख्यातेषु वर्तनान्तम् । उपास्यमुपासनीयं नित्यमनुष्ठेयमित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचितायां तैत्तिरीयोपनिष. दीपिकाया पदबोधिन्यां शक्षाध्याये दशमोऽनुवाकः ॥ १० ॥ अथकादशोऽनुवाकः। अध्ययनव्याख्यानोपक्रमोपसंहारयोः शान्तिः पठनीयेति शिष्यादिशक्षयितुंः प्रपाठ- कान्ते वक्ष्यमाण विद्योपसर्गशान्त्यर्थमपि कृतायाः शान्तेः फलं दर्शयन्नुक्तामेव शान्तिमनुवा- केन पुनः पठति कानिचित्पदान्यन्यथायित्वा-शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे। नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिपम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आबीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । वदिष्या- मोतिपदस्थलेऽवादिषमवस्विति पदस्थल आवीदिति विशेषः । शेषं शमित्यारभ्य शान्तिरि- त्यन्तं समानपाठं समानार्थम् । अवादिषमुक्तवानस्मि । आवीत्पालनमकरोत् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषदीपि- काया पदाधियां श्रीक्षाध्याय एक दशोऽनुवाकः ॥ ११॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतौ तैचिरीयोपनिपद्दीपिकानां पदबो- धिन्यां प्रथमः शीक्षाध्यायः समाप्तः ॥१॥ अथ द्वितीयो ब्रह्मवल्ल्यध्यायः । तन प्रमोऽनुवा। गदर्य पर्वः प्रपाठकः प्रवत्तस्तां ब्रह्मविद्यां विवास्तस्यामत्यन्तमादरार्थ, प्रकारान्त- १ म. षोतवा । २ क. ग. शामाज्ञा । ३ ग. एवमु।
२० । शंकरानन्दकृता- [ब्रह्मवल्यध्याये, अनु०१ ] रेण पुनः शान्ति पठति-सह समम् । तावावाम् । अवतु साधनज्ञानेन ब्रह्म रक्षतु । सह नौ व्याख्यातम् । भुनक्तु फलज्ञानेन पालयतु । सह समं त्रीय विद्यातेनोतिशयो जीवन्मुक्तिलक्षणस्तं करवावहै करवाव । तेजस्वि वीर्यवत्तमं ावावयोः । अधीतं गुरुमुखादवगतम् । अस्तु भवतु । अथवा तेजस्विनावावां भवावेति शेषः । जखिनोरिति वा व्याख्येयम् । अधीतमस्तु तेजस्वीति शेषः । किं बहुना मा विद्विषावहै प्राणिभिः परस्परं वा विद्वेषं मा करवावहै । ॐ शान्तिः शान्तिः शान्तिः, व्याख्यातम् । पूर्वप्रपाठकारम्भे सूचितब्रह्मविद्याया इदानीं सूत्रेण फलमाहाधिकारिप्रवृत्तिसिद्धये- ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । आमोति मोक्ष प्राप्तकण्ठस्थाभरणवत्प्राप्नोति । पुरं ब्रोमै- स्मीत्यविद्यातत्संस्कारशून्यत्वेनाखण्डैकरसमात्मानमवगत्य स एव भवतीत्यर्थः । तत्तत्र ब्रह्मणि ब्रह्मविदः परप्राप्तौ च । एपा वक्ष्यमाणमन्त्रभूता । अभ्युक्ता सर्वतः सर्वार्थप्रका- शकत्वेन कथिता । वेदपुरुषणेति शेषः । सत्यमनृतनकारार्थविलक्षणम् । तर्हि भावरूपं जड- मित्यत आह -ज्ञानं जडविलक्षणम् । यद्यभावभावविलक्षणो भावविशेषस्तर्हि घटादिक- मपि तथेत्यत आह-अनन्तं देशकालवस्तुपरिच्छेदशून्यम् । एतावत्येवोच्यमानेऽभावः स्यात्ततोऽस्य व्यवच्छेदार्थमाह-सत्यमिति । सत्यमनन्तमित्युच्यमाने जडमपि स्यात्त. यावृत्त्यर्थ ज्ञानमित्याह । यद्यपि ज्ञानमनन्तमित्युच्यमाने न सत्यपदस्य कृत्यं ज्ञानस्या- सद्विलक्षणत्वात् । तथाऽपि ज्ञानमप्यसदिति सर्वासद्वादिनः संगिरन्ते । तत्पक्षाधिक्षेपार्थ सत्यमित्याह । अयं भाव:-येनापि सर्वासत्त्वमङ्गी क्रियते तेनाप्यङ्गी क्रियत एव सत्त्वम् । अन्यथाऽ- सत्त्वस्याप्यनुपपत्तेः । तयोनिरपेक्षत्वादिभ्यो हेतुभ्यः सत्त्वस्यैवाङ्गीकारः करणीयो नास- त्त्वस्येति । जडवलक्षण्यं च स्वयंप्रकाशमानानन्दात्मन एवाविद्यायाः सकार्याया जाड्ये सति दुःखानात्मत्वदर्शनात् । एवं चेज्ज्ञानमित्येवास्तु, कृतमनन्तपदेनापीति न मन्तव्यम् । अन्तः- करणाविद्यावृत्त्योरपि ज्ञानशब्दाभिधेयत्वात्तदेव ज्ञानमिदमपीतिबुद्धिनिवारणार्थमनन्दपदस्यो. पयोगात्पदत्रयमिदं स्वरूपलक्षणमखण्डैकरसार्थ प्रकृष्टप्रकाशश्चन्द्र इत्यादिवत् । इदानी लक्ष्यपदमाह लक्षणार्थसमर्थकम् । ब्रह्म बृहतेर्धातोरर्थभूतमभ्यधिकम् । आधिक्यं चासजडान्तद्वलक्षाण्यमन्तरेण नोपपद्यते । तत इदं सत्यं ज्ञानमनन्तं योऽधि- कारी । वेद जानाति । निहितं निक्षिप्तं गुहायां बुद्धावधिदैवाधिभूताध्यात्मभेदेन व्यवस्थितायाम् । सा च कुत्रेत्यत आह–परम उत्कृष्ट भूताकाशात्, व्योमन्व्यो- म्न्यव्याकृते बुद्धिकारणेऽविद्याकार्यान्तःकरणवृत्तावभिव्यक्तमेवोक्तलक्षणं ब्रह्म सर्वोs- प्यधिकार्यहमसीत्यवगच्छतीत्यर्थः । स ब्रह्मज्ञानी । अश्नुते तादात्म्येन प्राप्नोति । सर्वान्कामानिखिलान्कामनाविषयान् । सह युगपत्क्रममन्तरणेत्यर्थः । केन रूपेण १ क. पाठकाधिकारभेदानां सूत्र । २ ख. महमम्मी ।
[ब्रह्मवल्यध्याये, अ०२] तैत्तिरीयोपनिषद्दीपिका । २१ युगपत्सर्वान्कामान्प्राप्नोतीत्यत आह-ब्रह्मणा ब्रह्मतादात्म्यरूपेण । ब्रह्मणोऽपि किं रूपमि- त्यत आह-विशिवा स्वयंप्रकाशमानज्ञानेकरूपेण । इतिर्मन्त्रपरिसमाप्तौ । ब्रह्मणः स्वरूपलक्षणमुक्त्वेदानी जगजन्मादितटस्थलक्षणं हृदि कृत्वा मन्त्रेण संक्षेपेण व्याख्यातं सूत्र विस्तरेण व्याकरिष्यंस्तत्त्वंपदार्थयारेक्येनाऽऽत्मनो जगत्कारणत्वमाह- तस्मात्सत्यज्ञानानन्तलक्षणाद्ब्रह्मणः। वा आत्मत्वेन स्मर्यमाणात्प्रसिद्धात् । एतस्माद्बुद्धे- द्रष्टुः स्वयंप्रकाशमानात् । आत्मनोऽस्मच्छब्दप्रत्ययव्यवहारालम्बनात् । आकाशः शब्दगुणत्वेन प्रसिद्धोऽवकाशः संभूत उत्पन्नः । इदं पदं यथालिङ्गं यथावचनं पुरुषान्ते- प्वनुवर्तते आकाशादुक्तात् । वायुः शब्दस्पर्शगुणो नभस्वान् । वायोक्तादृग्निःशब्द- स्पर्शरूपगुणस्तेनोधातुः । अनेरुक्तादापः शब्दस्पर्शरूपरसगन्धगुणा द्रवात्मिकाः । अन्य उक्ताभ्यः पृथिवी शब्दस्पर्शरूपरसगन्धगुणा कठिना भूमिः । पृथिव्या उक्ताया ओषधयः फलपाकान्ताः । ओषधीभ्य उक्ताभ्योऽन्तमदनीयं प्रसिद्धम् । अन्नदु- तात्पुरुषः स्थूलदेहः पुरुषशब्दाभिधेयः । इदानीमेवं पुरुषमुररीकृस्याऽऽत्मनः कोशपञ्चकातीतं रूपं विवक्षन्प्रथमं कोशानाह-स उक्तः पुरुषः । वै प्रसिद्धो हस्तपादादिमानेष प्रत्यक्षः । पुरुषो व्याख्यातम् । अन्न: रसमयः, अन्नस्याद्यमानस्य यो रसः सारभूतः शुक्रशोणितरूपस्तस्य विकारोऽन्नरसमयः । तस्य पुरुषस्य पक्षिणः । इदमेव प्रसिद्धं मस्तकमेव । शिरो मस्तकम् । अयं दक्षिणो मुजः । दक्षिणो दक्षिणभागस्थः । पक्षः पत्रम् । अयं वामो मुजः । उत्तरो वामभा- गस्थः । पक्षः पत्रम् । अयं गलमारभ्याऽऽकटिस्थलं देशः । आत्माऽऽन्तरा धीः । इदं कटिस्थलादधः स्थितं पादद्वयम् । पुच्छं लाङ्गुलम् । लाङ्गुलस्य पुच्छत्व उपपत्तिः प्रतिष्ठा प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठाऽऽधार इत्यर्थः । पक्षिणोऽपि पुच्छाधारत्वमस्माभिर- दृष्टमपि प्रतिष्ठेति वचनसामर्थ्यास्कल्पनीयम् । तदपि तस्मिन्नुक्तेऽप्यर्थे पक्षिण्येप वक्ष्य- माणः । श्लोको मन्त्रः । भवति स्पष्टम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनि- षटीपिकायां पदबोधिन्यां द्वितीये ब्रह्मवल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः । अन्नाददनीयात् । वै प्रसिद्धात् । प्रजा जन्तवः । प्रजायन्ते स्पष्टम् । याः काश्च याः काश्चन निखिलाः, स्वेदनाण्डजनरायुजोद्भिजा इत्यर्थः । पृथिवीं ब्रह्माण्डान्तर्बहिर्व- र्तिनी भूमिं श्रिताः। अथो अपि । अन्ननाः सत्योऽन्ननवादनीयेनैव । अद्यमानेन जीवन्ति प्राणान्धारयन्ति । अथ जीवकर्मक्षयानन्तरम् । एतदन्नमग्निभूमिश्चैकीटादि- १ क. नात्यु । २ ख. वनक । ३ ख. श्ववट्की ।
२२ शंकरानन्दकृता- ब्रह्मवल्यध्याये, अनु०२] - रूपम् । अपियन्त्यपिगच्छन्त्यन्ने विलीयन्त इत्यर्थः । अन्ततोऽन्ते । तथा च न प्रत्यक्ष- विरोधोऽपि । सति शरीरेऽन्नेऽप्ययस्यानभिधानात् । अत्रं. चतुर्विधप्राणिजातशरीरस्योत्प- त्तिस्थितिलयकारणमदनीयम् । हि यस्मात् । भूतानं चतुर्विधानां प्राणिनाम् । ज्येष्टम- तिशयेन वृद्धं कारणमित्यर्थः । तस्मात्ततः । सर्वोषधं सर्वस्य प्राणिजातस्यौषधं क्षुत्त- ड्रोगस्य वारणम् । उच्यते कथ्यते । इदानीमन्नमयस्य पक्षिवस्कालव्याधकदर्थीकृतस्य कारणान्नप्रशंसाप्रसङ्गेनाऽऽत्मज्ञानाभि- मुखत्वार्थ फलेन प्रलोभ्यान्नोपासनमाह-सर्व निखिलं वै प्रसिद्धं ते वक्ष्यमाणाः । अन्न- मदनीयम् । आप्नुवन्ति प्राप्नुवन्ति । य उपासकाः । अन्नमदनीयं । ब्रह्म सर्वस्मादधिक ब्रह्मज्ञानेनेत्यर्थः । उपासत एकरूपेण प्रत्ययप्रवाहेण साक्षात्कवते । पूर्वमन्नस्य सर्वभूत- कारणत्वार्थमुक्तमिदानीं तदेव ब्रह्मतादात्म्योपासनोपपत्तये ब्रह्मसमानधर्मत्वं दर्शयितुं पुनः पठति-अन्नः हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुच्यते । यथा ब्रह्म भूतानां ज्येष्ठमवगतं सद्भवरोगौषधमुच्यते, तथा यस्मादन्नं भूतानां ज्येष्ठ तस्मात्सवाषध- मुच्यते । व्याख्यातश्च पदार्थः । अपि च यथा ब्रह्मणो भूतानि जायन्ते ब्रह्मणि तिष्ठन्ति च तथा नाददनीयात् , भूतानि चतुर्विधान्यण्डनादीनि । जायन्त उत्पद्यन्ते । जाता- न्युत्पन्नानि । अनेनादनीयेन । वर्धन्ते वृद्धिं गच्छन्ति । ततो ब्रह्मणा समत्वाद्युक्त- मन्नस्य ब्रह्मणा तादात्म्येनोपासनमिति भावः । इदानीमन्नशब्दार्थमाह-अाते भक्ष्यते । भूतैरिति शेषः । अत्ति च भक्षयत्यपि । चकारः कर्मकर्तृव्युत्पत्त्योरन्नशब्दे समुच्चयार्थः । भूतान्यण्डनादीनि । तस्माद्यतोऽद्य- तेऽत्ति च भूतानि ततः । अन्त्रमन्नशब्दं तदन्नमुच्यते कथ्यते । इतिः प्रथमकाशपरि- समाप्त्यर्थः । तस्मादुक्तात् । वै प्रसिद्धात् । एतस्मात्प्रत्यक्षात् । अन्नरसमयावन्नरसविकारा. स्थूलदेहात् । अन्यः पृथग्भूतः । अन्तरोऽभ्यन्तरः। आत्माऽऽस्मशब्दाभिधेयः । प्राणमयः प्राणविकारः । तेन प्राणमयेन । एष प्रत्यक्षः स्थूला देहः । पूर्णः परि- पूर्णः । स प्रसिद्धः । वै स्मर्यमाणः । एष साक्षिप्रत्यक्षः प्राणमयः । पुरुषविध एव पुरुषाकार एव । मूषानिषिक्तद्रुतताम्ररसो यथा तादृगेव न त्वन्यादृशः । तर्हि किं पुरुषः पुरुषान्तरसदृश इति चोभयमपि स्वतन्त्रमित्याशङ्कय नेत्याह- तस्य पूर्वस्य पुरुषविधतां पुरुषसदृशताम् । अनु पश्चात् । अयं तस्मादुत्तरः । पुरुष विधः पुरुषसदृशो न तु स्वतन्त्र इत्यर्थः । ततः पूर्ववदस्मिन्नपि कल्पना कर्तु सुकरेति भावः । तस्य प्राणमयस्य । प्राण एवोच्छासकारिणी प्राणवृत्तिरेव न त्वन्यत् । शिरो मूर्धा । व्यानो दक्षिणः प्रक्षः । अपान उत्तरः पक्षः। आकाश आत्मा। । १ ख.र्णः।
ब्रह्मवल्यध्याये, अ०३] तैत्तिरीयोपनिषद्दीपिका । २५ पशिषी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । व्यानापानौ पूर्वप्रपाठके व्याख्यातौ । आकाश आकाशस्थः समानः । पृथिवी पृथिवीस्थः सर्वप्राणकीलभूत ऊर्ध्व- गाम्युदानः । अनेन हि सर्वे प्राणा धियन्ते स्ववृत्तिसंकोचेन । वाय्वधिकारादाकाशषि- शब्दौ यथाकथंचित्समानोदानविषयौ नीतौ । अथवा मुख्यार्थतैवानयोः शब्दयोरस्तु । था च श्रुतेः कोशेष्वनास्थेति व्याख्येयम् । व्याख्यातमन्यत् ॥ इति श्रीमत्परमहंसपरिवानाचार्यश्रीमच्छंकरानन्दविरचितायो पदार्थबोधिन्यो तेत्ति- रीयोपनिषद्दीपिकायर्या ब्रह्मवल्यध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः । " प्राणं मुख्यप्राणं देवाश्चक्षुरादयोऽग्न्यादयः । अनु प्राणमनु । प्राणन्ति चेष्टन्ते । मनुष्या मनुजाः । पशवश्च गवाद्याः । चकारः सर्वशरीरसंग्रहार्थः । ये प्रसिद्धार्थाः । प्राणो मुख्यप्राणः । हि यस्मात् । भूतानामण्डनादीनाम् । आयुर्जीवनकारणम् । अनेन देहेन्द्रियात्मवादो निराकृतः । तस्माद्यस्मादायुस्ततः । सर्वायुपं सर्वायुरेव सर्वा- युषम् । उच्यते कथ्यते । इदानी मन्त्रोपासनवत्प्राणोपासनाफलं प्राणोपासनं चाऽऽह- सर्वमेव निखिलमेव । ते वक्ष्यमाणाः । आयुर्जीवनकारणं शतसंवत्सररूपम् । यन्ति गच्छन्ति । ये प्राणं ब्रह्मोपासते । प्राणं मुख्यप्राणम् । व्याख्यातमन्यत् । अन्नव- स्प्राणस्यापि ब्रह्मसमानतां वक्तं पुनरुक्तस्याभिधानम्-प्राणो हि भूतानामायुः । तस्मात्सर्वायुपमुच्यते । व्याख्यातम् । ब्रह्मणो यथा सर्वायुष्वं तद्वत्प्राणस्यापीत्यर्थः । इतिः प्राणकोशपरिसमाप्त्यर्थः । तस्यैष एव शारीर आत्मा यः पूर्वस्य एतदनन्तरं यद्यतिशब्दः परनीयः प्राणकोशस्यात्र परिसमाप्तः, तथाऽप्यस्य वाक्य- स्यान्नमयादधिकत्वाच्छङ्कोत्तरत्वाच्चैतस्मात्पूर्वपाठ इतिशब्दस्य । अथवा पाठक्रमादर्थक्रमस्य बलीयस्स्वादत्र पठितस्यापि तदनन्तरं संगतिरवगन्तव्या । ननु--पूर्वस्मात्पुरुषादनन्यः प्राणमयस्तस्य तदन्तःपातित्वाद्धस्तपादादिवदित्यत आह- तस्यान्नमयस्य । एष एव समनन्तरोक्तः प्राणमय एव । शारीरः शरीरे भवः । आत्मा सर्वत्र्यवहारकारणत्वेनाऽऽत्मा । यः प्राणमयः । पूर्वस्य प्राणमयात्पूर्वस्य । तस्य पूर्वस्य यः प्राणमय एष एव शारीर आत्मेत्यन्वयः । अयं भावः-प्राणो न च स्थूलशरीरान्तःपाती । तथा च सति नासापुटनिर्गतस्तद्वदेव चाक्षुषः स्यादिति । तस्मादा एतस्मात्माणमयात् । अन्योऽन्तरआत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एन । तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । तस्य यजुरेख - , ख. °स्य पठितत्वात् । अ।
चा २४ शंकरानन्दकृता- [ब्रह्मवल्यध्याये, अनु०४ ] शिरः । ऋग्दक्षिण: पक्षः । सामोत्तरः प्रक्षः । आदेश आत्मा । अथर्वा- शिरसः पुच्छं प्रतिष्ठा । तदप्येष लोको भवति । प्राणमयादुक्तात् । मनोमयों मनोविकारः । तम्य यजुर्यजुर्विषया वृत्तिः । ऋगृग्विषया वृत्तिः । साम सामविषया वृत्तिः । आदेशो यजुर्ऋक्सामसु ब्राह्मणमादेशस्तद्विषया वृत्तिः । अथर्वाङ्गिरसोऽथर्व- णाऽङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणानि च तद्विषया वृत्तिः । अन्यत्पूर्वेण समानपाठम् । अन्नमयार्थस्थले प्राणमयं प्राणमयार्थस्थले मनोमयं चोक्त्वा पूर्ववद्व्याख्येयम् ॥ ति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्या तैत्ति- गोपनिषद्दीपिकायां ब्रह्मवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतुर्थोऽनुवाकः। अत्र हि मनोमयस्य चतुर्वेदवृत्तिप्राधान्यमुक्तम् । वेदाश्च ब्रह्मप्रकाशकत्वान्न ब्रह्मणो भिन्नाः । ततो वेदेभ्योऽभिन्नं सर्वस्य जगतः कारणं विशेषतश्च मनसः "तन्नोऽकरत" इतिवचनान्मनसाऽप्यगम्यरूपं ब्रह्म वदन्मनोमयं स्तौति---यत: सर्वस्य जगतः कारणा- द्विशेषतश्च मनसः सत्यज्ञानानन्दरूपाद्ब्रह्मणः । वाचो यजुर्ऋक्सामादेशार्वाङ्गिरसरूपा अन्याश्च । निवर्तन्ते ब्रह्म वक्ष्याम इति संकल्प्य प्रवृत्तास्तस्मिन्ब्रह्मणि प्रवेशमलभमाना नेति वदन्त्यो वाराङ्गना इव राजगृहाभ्याशाद्यथागतं निवृत्य भ्रष्टसंकल्पा भवन्ति । निवृ. त्तिस्तु प्राप्तावप्राप्तौ च संकल्पितस्य दृष्टा । तथा च किं प्राप्य निवर्तन्त इत्याशङ्कय नेत्याह -अप्राप्यालब्ध्वाऽऽनन्दमित्यन्वयः । ननु वागगम्यानामपि जातीचम्पकके- तकीकसुमादिगन्धभेदानां मनसाऽवगतिर्यथा तथाऽस्त्वित्यत आह-मनसा यजुरादि- पञ्चवृत्तिमता । सह समम् । आनन्दं हिरण्यगर्भस्याऽऽनन्दादप्यतिशयमनन्तमानन्द ब्रह्मणः सत्यज्ञानादिलक्षणस्य । षष्ठीयं 'शिलापुत्रकुस्य शरीरम् ' इतिवद्व्याख्येया । विद्वान्साक्षात्कारवान् । साक्षात्कारेणापगताविद्यो द्वितीयाभावान्न बिभेति भयं न गच्छति। कदाचन कदाऽपि । यस्मादेतादृशं ब्रह्मास्य कारणं तस्मादतिश्रेष्ठो मनोमय इति भावः । इतिर्मन्त्रसमाप्तौ । अथवा मनोमयकोशपरिसमाप्तौ पूर्ववदवगन्तव्यम् । प्राणस्यैवैकदेशो मन इति शङ्कां वारयति-तस्येष एन शारीर आत्मा यःपूर्वश्य। पूर्वस्य प्राणमयस्य । यः प्रसिद्धो मनोमय एष एव शारीर आत्मेत्यन्वयः । व्याख्यातः पदार्थः । अनेन प्राणस्याऽऽत्मत्वं निवारितम् । तस्माद्वा एतस्मान्मतोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः। तेनैष पूर्णः।म वा एष पुरुषविध एव। तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः प्रक्षः । सत्यमुत्तरः पुक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।
[ ब्रह्मवल्यध्याये अ०५] तैत्तिरीयोपनिषद्दीपिका । २५ तदोष श्लोको भवति। मनोमयादुक्तात् । विज्ञानमयो बुद्धिविकारः। श्रद्धाऽऽस्तिक्य- संपन्नबुद्धिवृत्तिः । ऋतं शास्त्रार्थविषये मानसव्यापारविषया वृत्तिः । सत्यं तस्मिन्नेव वाक्काया- भ्यामनुष्ठीयमाने तद्विषया वृत्तिः । योगः शास्त्रार्थविषये संदेहविपर्ययरहिता वृत्तिः । महः, अनया हि यागाद्यनुष्ठाने मनोभास्वरबुद्धितत्त्वं प्रथमनं महत्तत्त्वाख्यम् । प्राणमयार्थस्थले मनोमयं मनोमयार्थस्थले विज्ञानमयं पठित्वा शेष समानपाठं पूर्ववद्व्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थवोविन्यां तैत्तिरी- योपनिषद्दा पिकायां ब्रह्मवल्लयध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ ब्रह्मवालयाध्याये पञ्चमोऽनुवाकः । विज्ञानं बुद्धिः । यज्ञं दर्शादिकं तनते विस्तारयति । कर्माणि वैदिकानि स्मार्तान्यग्निहोत्रसंध्यावन्दनादीनि लौकिकानि च कृपिवाणिज्यादीनि । तनुते विस्तारयति । अपि च यज्ञविस्तारणाभ्युच्चयार्थापि चौ । विज्ञाने कर्मविस्तारादेर्विज्ञानं बुद्धिं देवा वागादयोऽग्न्यादयश्च । सर्वे निखिलाः । ब्रह्म सत्यज्ञानादिलक्षणं ज्येष्ठमतिशयेन वृद्धं कारणमित्यर्थः । ज्येष्ठत्वं विज्ञानस्य ब्रह्मणश्च साम्यं तयोस्तादात्म्योपासनार्थमुक्तमित्यवग- न्तव्यम् । उपासते ब्रह्मतादात्म्येनोपासनं कुर्वते । विज्ञानं ब्रह्म व्याख्यातम् । चेयदि । वेद देवव्यतिरिक्तोऽपि जानात्युपासीतेत्यर्थः । तस्माद्विज्ञानब्रह्मोपासनात् । चेद्यदि । न प्रमाद्यति प्रमादं न गच्छति बहिर्मुखो न भवतीत्यर्थः । शरीरे स्थूलश- रीरे । पाप्मनो हिरण्यगर्भप्राप्तिप्रतिबन्धकारणानि । हित्वा परित्यज्य । सर्वान्निखि- लान् । कामान्कामनाविषयान् । हिरण्यगर्भतादात्म्येन समश्नुते सम्यक्प्राप्नोति । इति- मन्त्रसमाप्तौ विज्ञानमयकोशसमाप्ती वा पूर्ववत् । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्य पूर्वस्य मनोमयस्य यो विज्ञा- नमय एष एवं शारीर आत्मत्यन्वयः । व्याख्यातः पदार्थः । अनेन मनस आत्मत्वं निवारितम् । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्द- मयः । तेनैष पूर्णः । स वा एप पुरुषविध एव । तस्य पुरुपविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । विज्ञानम- यादुक्तात् । आनन्दमय आनन्दविकारः सोपाधिकानन्द इत्यर्थः । प्रियं पुत्रादिदर्शनजन्यं सुखम् । मोदः पुत्रादिसंभाषणसहासनादिजन्यं सुखम् । प्रमोदः सहाऽऽसनादौ स्थिताना- मपि पुत्रादीनामन्यानुविधेयस्वजन्यं सुखम् । अभीष्टविषयस्य दर्शनं लाभो भोगश्च १ स. को जा।
२६ शंकरानन्दकृता [ ब्रह्मवल्यध्याये अ०६] प्रियमोदप्रमोदा इत्यर्थः । आनन्दः सुखसामान्यं प्रियमोदप्रमोदेवगतं सुखं ब्रह्म निर- तिशय आनन्दो यस्य मात्रामुपजीवन्ति ब्रह्मादयः । यथा देहावयवाः पादयोः प्राणभेदाः पृथिव्यामुदाने वा वेदाश्च त्रयोऽपि मन्त्रब्राह्मणरूपा अथर्वाङ्गिरःसु दृष्टकर्मसाधनरवेन, यथा बुद्धिभेदाः प्रश्मनायां हिरण्यगर्भबुद्धौ च प्रतिष्ठितास्तद्वत्सुखसामान्यविशेषा निरातशयसुख- कस्वभावे सत्यज्ञानादिरूपे ब्रह्मणि सर्वाधारे प्रतिष्ठिताः । स्थूलस्य देहस्याध्यात्माधिभूताधि- दैवभेदभिन्नस्य ब्रह्मणः प्रथमकोशत्वम् । सूक्ष्मस्य स्थूलात्मभूतस्याज्ञानकार्यस्य क्रियाज्ञानश- क्तेश्चतुर्धा भिन्नस्य सकारणस्य कोशचतुष्टयत्वं च । सूक्ष्मोऽपि विभागः स्वयं प्राणनिमित्तं हि स्थूलशरीरस्य सर्वव्यवहारं मत्वा स्थूलशरीरात्मभूतः प्राणः क्रियाशक्तिद्धितीयः कोशः । प्राणस्यापि मनसेतस्ततो नीयमानत्वाहालेनेव मृत्सेभबलीवदस्य । ततोऽनिश्चयात्मिका ज्ञान- शक्तिः प्राणात्मभूता मनआख्या तृतीयः कोशः । मनसोऽप्यनिश्चयात्मनो निश्चयपरतन्त्र- स्वान्निश्चयात्मिका बुद्धिर्मनात्मभूता चतुर्थः कोशः । बुद्धरपि सुखपरतन्त्रस्वादवस्थात्रये कार्यकारणोपाध्यवच्छिन्नं सुखं पञ्चमः कोशः । तत्रापि प्रियमोदप्रमोदा जागरणस्वप्नंज आनन्दः सौषुप्ते व्याकृतोपाधिः । इतः परं भूतभौतिककार्यस्य कारणस्य चाभावादकार्य- कारणं ब्रह्म सर्वस्याऽऽधारभूतं फोशपञ्चकवाक्प्रवृत्तिकारणनिमित्तं प्रथमसूत्रेण सूचितम् । मन्त्रेण च व्याख्यातमुक्तवती श्रुतिरित्यर्थः । मनोमयार्थस्थले विज्ञानमयं विज्ञानमयार्थस्थल आनन्दमयं च पठित्वा शेषं समानपाठं पूर्ववद्याख्येयम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति- रीयोपनिषद्दीपिकायां ब्रह्मवस्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ अथ ब्रह्मवल्यध्याये षष्ठोऽनुवाकः । आनन्दब्रह्मणोरभेदाब्रह्माभिधानमेवाऽऽनन्दाभिधानमिति मन्वानः पठति-असन्नेवा- विद्यमान एव जनेरज्ञातोऽभिभूतश्चेत्यर्थः । स वक्ष्यमाणः । भवति स्पष्टम् । असद- विद्यमानं खरविषाणसममित्यर्थः । ब्रह्माऽऽनन्दमयस्य पुच्छं कारण चेत्युक्तेनासत्त्वप्रकारेण । वेद जानाति । चेद्यदि। असत्त्वज्ञानादनमुक्त्वा सत्त्वज्ञानादर्थमाह--आस्ति विद्यते सर्वस्य कारणत्वेन सर्वात्मत्वेन च । ब्रह्मोक्तम् । इत्युक्तेन सत्त्वप्रकारेण । चेयदि । वेद जानाति । सन्तं विद्यमानं वाचा मनसा कायेन च पूज्यमित्यर्थः । एनं ब्रह्मारितत्वज्ञा- निनम् । ततो ब्रह्मास्तित्वज्ञानात्कारणात् । विदुर्जानन्ति । सर्व जना इति शेषः । इविर्मन्नसमाप्त्यर्थमानन्दमय [ कोश ) परिसमाप्त्यर्थं वा पूर्ववत् । तस्यैष एव शारीर क. ग. 'मजा आ । २ क. ग. °थमं सू।
, [ब्रह्मवल्यध्याये, अ०६] तैत्तिरीयोपनिषद्दीपिका । २७ आत्मा । यः पूर्वस्य । तस्य पूर्वस्य विज्ञानमयस्य य आनन्दमय एप एव शारीर आत्मेत्यनयोर्व्याख्यातः पदार्थः । अथ कोशपञ्चकाधारब्रह्मास्तित्वनास्तित्वविज्ञानफलकथनानन्तरम् । अतो ब्रह्मणः सर्वात्मत्वं यतोऽस्तिनास्तिप्रत्ययौ च कर्तुं सुशकावस्मात्कारणात । अनुप्रश्ना ब्रह्मणोऽ- स्तित्वे च तज्ज्ञानिनो ब्रह्मप्राप्तावप्राप्तौ च संदेहमनु प्रश्नाः प्रष्टव्या ईप्सितार्थविषयाः शब्द- संदर्भाः । पठ्यन्त इति शेषः । उतापि। अविद्वान्ब्रह्माण संदेहविपर्ययज्ञानवान् । अमु- मानन्दमयकारणभूतं पुच्छरूपं चास्तिनास्तित्वाभ्यामनिश्चितं वस्तुवृत्तेन । लोकं लोक्यमानं स्वयंप्रकाशत्वेन तज्ज्ञानिभिः । प्रेत्य परलोकमागत्य शरीरं परित्यज्येत्यर्थः । कश्चन कोऽपि । गच्छति प्राप्नोति । प्लुतिर्विचारार्था । आहो पक्षान्तरे, विद्वान्ब्रह्मणि संदेहविपर्ययरहितज्ञानवान् । अमुं लोकं प्रेत्य व्याख्यातम् । कश्चित्कोऽपि । सम- श्नुता ३ समश्नुते व्याप्नोति । प्लुतिविचारार्था । उ अपि । अयं भावः---यद्यस्ति सस्यज्ञानादिलक्षणं ब्रह्म तर्हि प्राप्तव्यमविदुपाऽपि । न ह्यज्ञानसंशयविपर्ययैर्वस्तुनोऽन्यथा- स्वम् । सर्वात्मकं चेदविद्वान्न प्राप्नोति विद्वानपि न प्राप्नुयान्नियामकाभावात् । अथ नास्ति तत्तर्हि विदुपाऽपि न प्राप्तव्यम् । न हि नरविपाणादिकं तस्मिन्संदेहविपर्ययरहितज्ञानिनाऽपि प्राप्तुं शक्यम् । अथाशेषविशेषशून्यमप्यनेन प्राप्यते तरविदुषा न प्राप्यत इति न नियामकं पश्याम इति । अनेनोक्तश्लोकार्थस्याऽऽक्षेपः कृतः । आस्तां विद्वदविदुषोः प्राप्त्यप्राप्ती । ब्रह्मणोऽविद्वदप्राप्त्या यत्तस्य नास्तित्वमापादयि- तुमिष्टं तजगत्कारणत्वकथनेन पूर्वोक्तेन पुनः केनचिद्विशेषेणाभिधीयमानेन निराकुर्वन्सत्त्व. पक्षमादादत्ते—स सूत्रमन्त्राभ्यां ब्रह्मत्वेनोक्त आत्माऽऽनन्दमयस्य कारणभूतः पुच्छभू- तश्च प्रसिद्धः । कथमसी नास्तीत्यर्थः । नन सतां चेतनानां किंचित्कारित्वं दृष्टमस्य तस्मि- न्सत्यस्तित्वं श्रधामीत्यत आह-अकामयत कामनामकुरुत । कामनाविषयमाह बहु स्यां नाना भवेयम् । नानाभवनेऽप्युपायमाह-प्रजायेयोत्पद्येय । इत्यनेन प्रकारे- मां कामनां कृत्वा । स कार्मी तपः पर्यालोचनमिदमनेनेत्थमित्यादिरूपम् । अतप्यत सृज्यविषयमकरोत् । स कामुकस्ताएसः । तप उक्तम् । तप्त्वोक्तविषयं कृत्वा कार्य- कारणादिकं प्रथमं विचार्य निश्चित्यै चेत्यर्थः । अनन्तरमिदं विविधप्रत्ययगम्यं कार्यजातं भूतभौतिकं चेतनाचेतनात्मकम् । सर्व निखिलम् । असृजतोत्पादितवान् । सर्वशब्दा. र्थमाह-गदिदं किंच । यत्किचेदं प्रसिद्धमस्तिनास्तीत्यादिप्रत्ययगम्यं यत्किमपि । तत्कार्यजातम् । सृष्टोत्पाद्य । तदेव स्वसृष्टमेव । अयमेवकारो देहलीप्रदीपन्यायेन तदनना प्राविशदित्यनेन च संबध्यते । अनु कार्यसृष्टिम्वेवाप्रविष्टोऽपि त सर्वचावस्था- । - १ ख. "ल्य त्य° । २ ख. पि स' HALATARA LI.
२८ शंकरानन्दकृता [ब्रह्मवल्यध्याये, अं०६] नादाकाशवत्प्राविशत्प्रवेशमकरोदेव । प्रविष्टशब्दप्रत्ययविषयोऽभूदित्यर्थः । तदनु कार्य सृष्टमनु प्रविश्य प्रवेशं कृत्वा । किं तटस्थ एवायं सूत्रधारिवद्गृहं निर्माय तत्र प्रविश्य स्थितः । तथा चाऽऽत्मनो बहुभवनोपायः प्रजायेयेति दृष्टो विपरीत इत्याश- कय नेत्याह-सच तेजोवन्नरूपमपि । त्यच्च वाय्वाकाशरूपमपि । चकारौ तबुद्धिं समुच्चिनुतः । अभवत्स्पष्टम् । इदं क्रियापदं वक्ष्यमाणेप्वपि चतुर्यु पर्यायेषु संबध्यते । निरुक्तं चानिरुक्तं च । निःशेपमुक्तं निरुक्तं, घटः पृथुबुध्नोदराकार इत्यादि । ताद्वपररीतमनिरुक्तं, जातीचम्पककेतकीकुसुमगन्धभेदादि । चकारी पूर्ववत् । निलयनं चानिलयनं च, आश्रयोऽनाश्रयश्च । चकारौ पूर्ववत् । विज्ञानं चाविज्ञानं च । स्मृतिसंशयविपर्ययनिश्चयादि विज्ञानं तत्कारणं वा चिन्मानं वा । तद्विपरीतमविज्ञानम् । चकारौ पूर्ववत् । सत्यं चानृतं च, भावात्मकत्वे सति कश्चित्कुत्रचित्कथंचित्केनचिदपि बाधरहितं सत्यं व्यवहारतो वा बांधरहितम् । तद्विपरीतमनृतम् । चकारौ पूर्ववत् । अस्ति- नास्तीतिप्रत्ययविषयः सर्वः कार्यकारणवर्गो ब्रह्म च ब्रह्मैवाभूदित्यर्थः । ननु --स सर्वका- रणं सर्वमभूदित्येतावप्रतीयते न तु तदसत्यं नेति वचनादित्यत आह---सत्यं सर्वबाधशून्यं भावरूपं ब्रह्म । अभवदुक्तं मृतादिकमभवत् । असतः सर्वात्मत्वे सर्वमिदं सर्वैः प्रत्ययैर- सदिति प्रतायेत नरविषाणवन्ध्यापुत्रादिवत् । तता नासत्सर्वात्मकं किंतु सदेव । प्रतीतेर- विश्वासे जीवनादिव्यवहारम्यापि दुर्लभत्वमित्यर्थः । किं सदादिकं दशविधं तबुद्धयश्चेत्येतावदेव सत्यमभवदित्याशङ्कय नेत्याह -यदिदं किंच, उक्तमतक्तं चोत्प्रेक्ष्यमाणं यक्किचेदं निखिलमपीत्यर्थः । द्रन्निखिलमपि सत्या- ब्रह्मणोऽभिन्नं तस्मिन्नध्यस्तत्वेन प्रतीयमानं प्रसिद्धम् । मन्यं सत्यशब्दार्ह व्यवहारक्षमत्वेन मूर्तामूर्तत्वेन च । मूर्तामूर्तविभागो भूतपञ्चक एव । तेजोबन्नानि मूर्तानि । वाय्वाकाशाव- मूर्ती । कार्यकारणयोरपि मूर्तामूतत्वे एवमवगन्तव्ये । कार्य सर्वः प्रपञ्चो भूतभौतिकरूपो मृत स्थूलत्वात्कारणतः । विद्या त्वमूर्त तद्विपर्ययादप्रतीयमान घेन वा । इति, अनेन प्रकारेण । आचक्षते कथयन्ति ब्रह्मविदः । तत्र सर्वकार्यशून्ये ब्रह्मण्यपि युक्त्यभ्युच्च- यार्थस्तच्छब्दः । ब्रह्मणः सत्यत्वेऽन्यस्य चासत्यस्व युक्तिश्चयम् । ब्रह्मव्यतिरिक्तं यत्सत्यं तन्नित्यमनित्यं था, नित्यत्वे कार्यता कार्यत्व घासत्यत्दमनिच्छतोऽपि प्रामा- दिकस्वजिह्वाचवणददागतम् । नित्यावेऽप्र.सर्वगतरवे सर्वगतत्वेऽपि जाड्यरवेऽपि भेदे स एव दोषः । तस्मामेव सत्यं न स्वयत् । ब्रह्मण्यध्यासोत्तत्स- बाधार २ ख. तामूर्तादि° . ३ क. ग एवं ° । ४ ख. तो प्रा । ५ ख, °सात्तु सत्य। . १ख.
[ब्रह्मवल्यध्याये अ०७] तैत्तिरीयोपनिषद्दीपिका । २९ त्यशब्दाहम् । यथेदंतायामध्यस्तं रजतमिदंशब्दाहम् । एष श्लोको भवति व्याख्या- तम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायो पदार्थवोधिन्यो तैत्ति. रीयोपनिषद्दीपिकायां ब्रह्मवल्लयाध्याये षष्टोऽनुवाकः ॥ ६ ॥ अथ ब्रह्मवल्लयध्याये सप्तमोऽनुवाकः । असद्वै सत्येऽध्यस्तं सत्यशब्दार्ह सन्नामरूपकात्मकत्वेन स्थवीयो बुद्धिविषयत्वात् । तद्रहितमसत्सत्यज्ञानादिलक्षणं ब्रह्म शास्त्रप्रसिद्ध विद्वत्प्रसिद्धं वा नामरूपक्रियाहीनं जग- स्कारणं सदा इति वक्तव्येऽसत्त्वभ्रमस्य नामरूपक्रियाहीनत्वेनोत्पादादिति कथनार्थम: सद्वा इत्याह । इदं विविधप्रत्ययगम्यं विश्वम् । अग्रे विश्वोत्पत्तेः प्राक । आसी- दूभूव । अविद्याशबलं ब्रह्म जगत्कारणमेवाऽऽसोन्न तु कार्यजातमित्यर्थः । ततोऽसच्छ- ब्दाभिधेयात्कारणात् । वै, एव प्रसिद्धं वा । सत्सच्छब्दाभिधेयं स्पष्टनामरूपकर्म । अजायतोदपद्यत । तुदविद्याशवलं जगत्कारणम् । अविद्यात्मानमेकं चिदानन्दस्व- भावम् । स्वयमात्माऽविद्याया आश्रयो विषयश्च । अकुरुत बहुधा कृतवान् । तरमा- द्रात्मानमा (स्मन आ) त्मनैव बहुधा करणात्ततोऽविद्याश्रयविषयभूतमानन्दात्मस्वरूपं सुकृतम् । स्वार्थेऽयं सोः प्रयोगः । वेन स्वंकृतवरस्व (कृतं स्व) कृतं स्वकृतमेव परोक्षेण सुकृतं पुण्यमुच्यते कथ्यते देवैः । इतिर्मन्त्रसमाप्तौ । ननु ---"ब्रह्मविदाप्नोति पुरम् " इत्युपक्रान्तं तत्र किं ब्रोत्याशङ्कायां सत्यादिलक्षणं तत्स्वरूपमभिधाय तत्प्रतिपत्त्यर्थं च तस्याऽऽकाशादिकारणत्वाभिधानप्रसङ्गेन कोशपञ्चक- मवतार्य पञ्चमकोशाधारब्रह्मास्तित्वनास्तित्वज्ञानाभ्यामनिर्थयोरभिधानेन प्रश्नेषु समागतेषु सन्निर्णयार्थमिदं 'सोऽकामयत' इत्यारभ्य 'सुकृतम्' इत्यत्तमक्तमस्तु तत्तथाऽपि सर्व. कारणब्रह्मावाप्ती न पुरुषार्थ आनन्दावाप्तरेव तथात्वादित्यत आह-युत्प्रसिद्ध जगत्कारणम् । वै स्मर्यमाणं तुह्म । सकतम विद्यायाः स्वात्मरूपमेव कर्म कर्तृभावेन कृतवत् । स आनन्दद्वः स्वयंप्रकाशमानानन्द इत्यर्थः । बै प्रसिद्धा वैपरि व.रु.स.रू.पण सर्वप्रियतमत्वेन वा स्मर्यमाणो वा । स मोक्षे भावीदानी परोक्ष एव प्राणिनां रसः सं सुकृताभिन्नमानन्दा- स्मस्वरूपम् । हि यस्मादेव । रसं लवेति द्वाभ्यां शृङ्खलान्यायेन संवध्यते । रसमेव न स्वन्यत् । अस्माधिकारी । लनवा प्राप्दैव न विन्यथा । आनन्दी प्रत्यक्प्रकाशमा- नानन्दात्मस्वरूपः । भवति स्पष्टम् । तस्मात्रपाथों ब्रह्मप्राप्तिरित्यर्थः । ब्न-सुकृतस्य ब्रह्मण आत्माभित्रम्यानन्दत्वं भवतोच्यते । प्रतीतिश्च विपरीते. १ घ. 'त् सहि । २ ख. 'स्तु तत्तथा । ताऽपि ।
३० शंकरानन्दकृता [ब्रह्मवल्यध्याये, अ० ७] स्याशङ्कय तदुत्तरत्वेनान्यथानुपपत्तिमाह क आत्मनोऽनानन्दत्व आनन्दात्मव्य- तिरिक्तः । हिहत्वर्थः । एव नाम । कस्तु नामान्यादपानचेष्टां कुर्यात् । को व्याख्या- तम् । प्राण्यात्प्राणचेष्टां कुर्यात् । यद्ययेप स्वयंप्रकाशमानः । आकाशः आकाश- वत्सर्वगत आकाशशब्दाभिधेयो वा । देशकालवस्तुपरिच्छेदशून्य इत्यर्थः । आकाश इति सप्तम्यन्तस्वपक्षे हार्दाकाशेऽविद्याशबलित इति व्याख्येयम् । आनन्दः परप्रेमालम्ब- नत्वेनोपलक्षित आनन्दात्मा ।.न. स्यान्न भवेत् । अयमर्थः-आत्मकामाय सर्वा लौकि- क्यो वैदिक्यश्चेष्टाः । प्राणधारणमपि । आत्मा चेदुःखं दुःखसाधनं वा स्यात्तदानी वृश्चि- कतज्जन्यदुःखवद्धेयः स्यात् । दुःखसाधनत्वे वाऽऽत्मार्थ भार्यादिकं प्रियं न स्यात् । ततः सुखत्वं परिशिप्पते । अभावस्यासत्त्वे नामाऽऽत्मनो दुःखाभावत्वं प्रतीतिविरुद्धम् । सुखस्यापि जायमानस्य वेद्यस्याऽऽत्मार्थत्वेन प्रियता दृष्टा । न तु स्वरूपेण । अन्यथा वैर्या- दिगतस्यापि तस्य प्रियता स्यात् । तेन नित्यस्वयंप्रकाशमानानन्दात्मा परप्रेमालम्बनत्वेना. ङ्गीकरणीयः । परप्रेमालम्बनत्वं च तदर्थलौकिकवैदिकजीवनचेष्टान्यथानुपपत्त्या कल्प्यते । आत्मनोऽनानन्दत्वे न काऽपि चेष्टा स्यादिति । ननु-यद्ययमानन्दरूपस्तर्हि किमर्थ- मयमानन्दार्थ लोकः साधनमादत्त इत्यत आह-एष आकाश आनन्दात्मा स्वयंप्रकाश- मानोऽप्यनाद्यविद्यावृतः साधनसाध्यादिभावेन व्यवस्थितो हि यस्मात्तस्मादिति शेषः । एवैषशब्देन संबध्यंत । एष एव साधनं साध्यं च वस्तुतोऽज्ञातात्मयाथात्म्यसाधनतार- तम्येनापसारिताविद्यातारतम्यादाविर्भूतात्मसुखतारतम्यरूपः । अविद्यादशायामानन्दयाति, आकीटपतङ्गमाब्रह्म च निखिलं जगदा योनिप्रादुर्भावादा मोक्षसाक्षात्काराच्चाऽऽनन्द- यति । आनन्दात्मनि साक्षात्कृते न साध्यसाधनादि(दी)ति भावः । तत्साक्षात्करणात्प्रा- क्साध्यसाधनादरपि वस्तुतस्तदात्मकत्वात्तस्यैव सुखदातृत्वमविरुद्धमित्यर्थः । ननु ----आत्मनोऽस्तित्वे स्थित विद्वानेव कदा कथं प्राप्नोतीत्यत आह-यदा यस्मि- न्काले । हि यस्माद्विदुषो ब्रह्मप्राप्ती नियामको हेतुर्हिनोच्यते । ब्रह्मसाक्षात्कारवत्त्वे- नापगताविद्यत्वादित्यर्थः । एव, अयं पार्थसारथिवत्कालवाचिना विद्वद्वाचिना लाभवाचिना च संबन्यते । यदैव न त्वन्यदा । एष विद्वानेव न त्वन्यः । एतस्मिन्नात्मनो भेदरहिते सत्ये रसे । अदृश्ये बाह्यान्तरेन्द्रियज्ञानाविषये । अनाम्य आत्मन इदमात्म्यं त्रिविधं शरीरं न यस्यासावनात्म्यस्तस्मिन् । ननु—सर्वज्ञानाविषयोऽशरीरोऽपि वाग्गोचरः पदार्थो नरावेषाणादिदृश्यत इत्यत आह-अनिरुके निरुक्ति शून्ये वाचामगोचर इत्यर्थः । ननु-वाचामगोचरोऽपि साश्रयः पदार्थो दृष्टो यथाऽविद्या सदसयुक्स्याचपयेत्यत आह-अनिलयने निल- १ घ. 'मान्यां चेष्टां । २ घ. विविध ।
[ब्रह्मवल्यध्याये, अ०८] तैत्तिरीयोपनिषद्दीपिका । ३१ यतमाश्रयस्तद्धीने । ननु-प्राकृते प्रलये तत्रैव प्रतिष्ठां सर्वोऽपि विन्दत इत्यत आह- असयं भयं प्रकृतिस्थाः संस्काराः प्रकृतिश्च भयानकसंसारहेतुत्वात्तच्छून्यमभयमित्यर्थः । अभयं यथा तथेति व्याख्येयम् । प्रतिष्ठामिदमहममाति तादात्म्येन प्रतिकूलसंस्काररा- हित्यलक्षणेन प्रकर्षण स्थितिम् । विन्दते लभत एव । अथ तदा सोऽस्मिन्प्रतिष्ठा प्राप्तो विद्वान् । अभयं गतः, भयमविद्यातत्संस्कारा द्वैतरूपास्तच्छून्यमभयं स्वयंप्रकाश- मानानन्दात्मस्वरूपाविर्भावं गतः प्राप्तः । भवति स्पष्टम् । जीवन्मुक्तः सर्वदा भवतीत्यर्थः । ननु विद्वानविद्वानपि ब्रह्मणि प्रतिष्ठित एव तस्य सर्वाधाररवात्ततोऽविदुषोऽपि प्रेतस्य ब्रह्मप्राप्तिः स्यादित्यत आह—यदा यस्मिन्काले । हिहेतौ । यस्माद्ब्रह्मणि प्रतिष्ठितोऽ- प्यविद्वान्ब्रह्माहमस्मीति ब्रह्म न प्रतिपद्यते निधिस्थ इव जात्यन्धो निधिम् । एवं पूर्ववत् । एष प्रसिद्धः संदिहानो विपर्यस्तोऽज्ञानी च । एतस्मिन्स्वात्माभिन्ने ब्रह्मणि, उदपि । अरमल्पम् । अन्तरं भेदम् । कुरुते स्पष्टम् । अथ तदा तत्तस्य संदिग्धस्य विपर्य- यस्थस्याज्ञानिनश्च । भयमविद्यातत्कार्यतत्संस्कारजन्यमध्यात्माधिभूताधिदैवभेदभिन्नं वाचि मनसि कायेऽसह्यदुःखकारणं जन्मादि । भवति ब्रह्मैव संदेहविपर्ययाज्ञानरुक्तभयरूपं भवति स्रींगव सर्पाद्याकारैः । ननु अविदुषस्तथाऽस्तु यस्तु शास्त्रीये कर्मण्यधिकृतो विद्वां- स्तस्य ब्रह्मविद इव ब्रह्मप्राप्तिरित्यत आह तत्तूक्तं ब्रह्म भयरूपम् । तुशब्दः शङ्का- निवारणार्थः । शास्त्रीये कर्मण्यधिकृतस्य विदुषो ब्रह्मविदश्च न साम्यं भिन्नाभिन्नबुद्धिवेन विरुद्धत्वात् । एवं तदेव न स्वन्यत् । भयं व्याख्यातम् । विदुपः कर्मविद्याविदः । अमन्वानस्याहं ब्रह्मास्मीत्यभेदेन मननरहितस्य । इदमेव वैषम्यं कर्मब्रह्मविदोः । तत्त- त्राऽऽत्मत्वेनाज्ञाते ब्रह्मणि भयंकरेऽपि । एप श्लोको भवति व्याख्यातम् । अपि. शब्दसूचिता युक्तिः संक्षेपणेयम् । अमृतं माता पिता बन्ध्वादि वाऽविपरीतरूपमपि स्वस्ये- ष्टकारित्वेन स्वयं विपरीतगृहीतं तदनिष्टमकुर्वदपि स्वस्यानिष्टकारि दृष्टं यथा तद्ब्रह्मापि ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमछंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति. रीयोपनिषद्दीपिकायां ब्रह्मवयध्याये सप्तमोऽनुवाकः ।। ७॥ । अथ ब्रह्मवल्ल्यध्यायेऽष्टमोऽनुवाकः । भीमा भीत्या । अरमाद्ब्रह्मण आत्मत्वेनाज्ञानात् । वातो वायुः । पवते वाति भीषा भीत्या । उदेत्युदयं गच्छति । सूर्य आदित्यः । अमादित्यनुवर्तते । भीपाड़- सान्याख्यातम् । अगिश्च वह्निरपि दहनादिकं करोतीति शेषः । इन्द्रश्च त्रिलोकीना- १ ख. यस्तम्या ३२ शंकरानन्दकृता- ब्रह्मवल्यध्याये, अ०८] थोऽपि बिलोकी भवतीति शेषः । आद्यश्चकारोऽनुक्तानां सर्वेषां महतां व्यापारसमुच्चयार्थः । द्वितीयो भीषाऽस्मादिति संबन्धार्थः । मृत्युः स्थावरजङ्गमविनाशकारी । धावति सर्वेषाँ- मभावाय सर्वान्प्रतिगच्छति । पञ्चमः पञ्चसंख्यापूरणो भीषाऽस्मादित्यनुषङ्गः । इतिः श्लोकसमाप्तौ । ननु---प्रकृता ब्रह्मप्रभा व्याख्यातास्तत्रैव ब्रह्मप्राप्तेरपुरुषार्थत्वे शङ्किते प्रसङ्गाद्रमण आनन्दरूपत्वमुक्तं सोऽयमानन्दो दुःखाभावो भावो वा सातिशयस्ततोऽपुरुषार्थ इत्याश- कयाऽऽह-सा प्रसिद्धा। एषा. वक्ष्यमाणा । आनन्दस्य भावरूपस्य सुखस्य मीमासा ब्रह्मविदां सुखकारित्वेन पूजितो विचार. आनन्दस्योत्कर्षवत्त्वेनाभावत्वव्यावृ. त्तिफलो ब्रह्मानन्दस्य सर्वस्मादधिकत्वेनापुरुषार्थत्वव्यावृत्तिफलः । भवति स्पष्टम् । युवा षोडशवर्षमारभ्याऽऽपलितदर्शनमुपघातमन्तरेण मध्यमं वयो यौवनं तद्वानक्षीणे- न्द्रियशक्तिरित्यर्थः । स्याद्भवेत् । यौवनेऽपि स्वभावतः शरीरस्येन्द्रियाणां वा वैरूप्यं संभा- वितं रोगादिनिमित्तं वा तन्निवारणार्थमाह—साधुयुवा कन्दर्पसमानरूपः सन्यौवनसंपन्नः । तादृशोऽपि मूल् मा भूदित्याह-अध्यायकोऽधीतसाङ्गोपाङ्गवेदः सर्वज्ञ इत्यर्थः । तादृशोऽपि केवलं स्वोदरंभरितिमन्दो वा तद्वयं तन्त्रेण वारयति--आशिष्ठोऽति- शयेनाऽऽशास्ताऽतिशयेनाऽऽशुकारी च । अथाप्यतिमन्दत्वाद्वयर्थनीवित एवेत्यत आह- द्विष्टोऽतिशयेन दृढोऽविकृतवाक्वायमना इत्यर्थः । तादृशोऽपि बलहीनः स्यादित्यत आह-बलिष्ठोऽतिशयेन अलसंपन्नः। एवंभूतोऽपि वित्तहीनः स्यादित्यत आह-तस्यो- क्तविशेषणविशिष्टस्य । इयं सप्तद्वीपाब्धिवलयलोकमेखला । पृथिवी भूमिः । सर्वा निखिला । वित्तस्य वित्तेन दृष्टादृष्टसुखकरण गोहिरण्यादिना । पूर्ण परिपूर्णा । म्याद- वेत्सर्वलक्षणसंपन्नस्य चक्रवर्तिन इत्यर्थः । स सर्वलक्षणसंपन्नस्य चक्रवर्तिनो जायमान आनन्दः । एकः एकत्वसंख्याक्रान्तः । मानुषो मनुष्येषु भवः । आनन्दो भावरूपः सुखात्मा । नातः परं मनुष्याणां सुखमित्यर्थः । ते परोक्षाः । ये प्रसिद्धाः । शतं शत- संख्याका मानुषा आनन्दाः । व्याख्यातम् । वचनं तु विशेषः । स परोक्षः प्रसिद्धः । एक एकत्वसंख्याक्रान्तः । मनुष्यगन्धर्वाणां मनुष्याः सन्तो जन्मान्तरे गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वा अन्तरिक्षलोकनिवासिनोऽन्तर्धानादि- शक्तिमन्तस्तेषाम् । आनन्दः सुखात्मा । अस्माकं चक्रवर्तिनां यथोक्तगुणविशिष्टानां शतगुणसुखं मनुष्यगन्धर्वाणां परमं सुखमित्यर्थः । श्रोत्रियस्य चाधीतवेदस्याप्यव- निनत्वं चात्रार्थसिद्धमिति न पठितम् । श्रोत्रियत्वं च चक्रवर्तिनोऽस्य च समानम् । चकारो मनुष्यगन्धर्वानन्दसमुच्चयार्थः । मनुष्यगन्धर्वानन्दप्राप्तौ कारणमाह-अकाम- हतस्य तथोक्तगुणविशिष्टचक्रवर्तिसुखकामेनानिपातितस्य तदभिलाषरहितस्येत्यर्थः । ।
ब्रमवल्यध्याये, अ०८] तैत्तिरीयोपनिषद्दीपिका। यो हि यत्राभिलाषरहितस्तस्य तद्विषयप्राप्तेः शतगुणं सुखं भवतीत्यत एष प्रथमे पर्याये श्रोत्रियस्य चाकामहतस्येति न पठितम् । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ने ये शतं पितुणां चिरलोकलोकानागानन्दाः । स एक आजानजानां देवाना- मानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामा- नन्दाः। स एकः कर्मदेवानां देवानामानन्दः।ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामा- नन्दाः । स एक इन्द्रस्याऽऽनन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकाम- हतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रि- यस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य । देवगन्धर्वाणां देवाश्च ते गन्धर्वाश्च देव. गन्धर्वास्तेषां चाऽऽकल्पगन्धर्वशरीरप्राप्तिहेतुभूतकर्मणामित्यर्थः । पितॄणां, पितृविशेषणं चिरलोकलोकानां चिराद्दीर्घस्थायिनो लोकाः कर्मफलविशेषास्ते येषां लोकास्तरस्थानानि च चिरलोकलोकास्तेषामनेककालस्थायिनामित्यर्थः । आनानजानी कल्पादावुत्पन्नानामाजाने देवलोके नाता आनानजास्तेषां, विशेषणमिदम् । विशेप्यमाह-देवानां द्योतनात्मकानाम् । कर्मदेवानाम् । इदं श्रुतिरेव व्याकरिष्यति । पूर्ववद्विशेषणमुक्त्वा विशेष्यमाह-देवाना- मानानेभ्य उत्कृष्टानां द्योतनात्मकानाम् । कर्मदेवानामित्येतद्व्याकरोति । ये प्रसिद्धा याज्ञिकाः । कर्मणाऽग्निहोत्राद्यश्वमेधान्तेन । देवान्द्योतनात्मकानपियन्ति प्राप्नुवन्ति देवत्वमुप- गता इत्यर्थः । देवानां त्रयस्त्रिंशसंख्याकानां हविर्मुजामग्न्यादीनाम् । इन्द्रस्य त्रिलोकी- पत्युः(तेः) शकस्य । बृहसतर्देवगुरोः । प्रजापतेविराजः । ब्रह्मणो हिरण्यगर्भस्य । नवसु पर्यायेषु प्रायः समानपाठम् । शेषं पूर्व पूर्व तदाद्यर्थत्वेन व्याकृत्य यथोचितं गन्धर्वादिप- दैयोननीयम् । अकामहतत्वं च पूर्वपूर्वविषयत्वेन हिरण्यगर्भस्य यावानानन्दस्तावानानन्दो निरतिशयवैराग्य इ(ग्यमि)ति तात्पर्यार्थः । हिरण्यगर्भादुत्कृष्टस्य ब्रह्मानन्दस्य वाङ्मनसयो- रगोचरत्वाद्धिरण्यगर्भानन्दमेव ब्रह्मानन्दस्य समुद्रस्योदबिन्दुसमं दिमात्रमुक्त्वोपरराम श्रुतिः । अतः परं स्वयंप्रकाशानन्दात्मैव प्रमाणं नाहमिति श्रुतेरभिप्रायः । १ क. विशिष्टास्ते । २ ख. 'लोकाः स्मार्तकर्मानुष्ठानपरा देवलोकं प्राप्तास्ते । ३ ब.at श्रीतकर्मानुष्ठातारोऽविद्वांसो देवत्वं प्राप्ताः क । । ख. उत्कटानां । ५ ख. यः । देवाः । समुच्चय. कारिणो देवयानमार्गगामिनो देवाः। देवाना।
३४ शंकरानन्दकृता- [ब्रह्मवाळ्यध्याये, अनु०९] अनेन भावरूपो निरतिशयश्च ब्रह्मानन्द उक्तः । तथाऽपि स तु हिरण्यगर्भादपि परतो देहाद्युपाधिस्थो वा नास्मदादिरूप इत्यत आह-स परोक्षो हिरण्यगर्भादुस्कृष्ट आनन्दः । यश्च प्रसिद्धोऽपि, अयं स्वयं प्रकाशमानः । पुरुषे पञ्चकोशात्मके पुरुषशब्दाभिधेये ब्रह्मपुच्छत्वेनोक्तः । यश्च प्रसिद्धोऽपि, असौ परोक्षोऽस्मदादीनां प्रत्यक्षश्च विदुषः । आदित्य आदित्यमण्डले । चकारौ पुरुषादित्ययोर्वाचारम्भणमाहर्वाक्यद्वयगतौ । म आदित्ये पुरुषे च वर्तमानः । एको भेदरहितः । विदुषो ब्रह्मप्राप्तिरुक्ता यदेत्यादिना यद्यपि तथाऽपि वापनीति नोक्तं तदर्थ प्रासङ्गिकमैक्यमभिधाय पुनस्तत्प्राप्तिमाह-सोs- धिकारी । यो यः कश्चन । एवंविदादित्ये पुरुषे च ब्रह्मानन्दमभेदेन विद्वान् । अस्मा- स्प्रत्यक्षात् । लोकादृष्टादृष्टसाधनफलात्मकात् । प्रेत्य प्रकर्षेणाऽऽगत्य मृतवदत्राभिलाष- शून्य इत्यर्थः । प्रतदु(म)क्तमन्त्रमयमन्नविकारम् । आत्मानमिन्द्रियद्वारा विषयप्राप- कम् । उपसंकामति, अन्नमयमध्यात्माधिभूताधिदैवभेदभिन्नमप्यध्यस्तं वस्तुतस्त्वमेवेद- मिति सामीप्येन सम्यगवगच्छति । एतं प्राणमयमामातमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं विज्ञानमयमात्मानमुपसंक्रामति । एतमानन्दमयमात्मानमुपसंक्रामति । स्पष्टम् । पर्यायचतुष्टयमन्नमयवद्व्याख्येयम् । सर्वात्मत्वज्ञानेनाऽऽनन्दं ब्रह्म प्राप्नोतीत्यर्थः । तदपि तस्मिन्पञ्चकोशाधिष्ठाने पुच्छरूपे ब्रह्मणि रसे सर्वानन्दातिशायिन्यधिदेवादिभेदशून्येऽहमस्मीत्यवगतेऽपिशब्दाद्यो हि यदात्मा भवति सोऽसौ तस्मान्न बिभेति । न च ब्रह्मणोऽन्यदत्रास्ति किंचिद्ब्रह्माऽऽस्मा चायं ततो नास्य भीतिः कुतश्चिदिति युक्तिरुक्ता । एष श्लोको भवति व्याख्यातम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषदीपिकायाँ पदबोधिन्या द्वितीये ब्रह्मवालियध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ नवमोऽनुवाकः । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विदान बिभेति कुतश्चनेति । कृतश्चन कस्मादपि । शेष समानपाठं मनोमयपर्यायवघ्याख्ये- यम् । पूर्व यतो मनसः कारणादिति व्याख्यातं मनोमयपर्यायप्रसङ्गात् । इदानीं संकोचे कारणाभावात्सर्वकारणादानन्दात्मन इति व्याख्येयम् । नन–भीतिरहिताः सन्ति सहस्रशः पुण्यात्मानः संसारिण इत्यत आह-तं ब्रह्मविदं ह. प्रसिद्धं वाव उत्पति संतापं न कुरुते न संतापयतीत्यर्थः । मानसप्रत्यय इति शेषः । कुत्रेत्यय- स.पि तस्वय।
। [भृगुवल्यध्याये, अ०१] तैत्तिरीयोपनिषद्दीपिका । मभिनयेनाऽऽह-वृद्धादेः शोकने विचार किमुहं क्षीणशक्तिः । साधु शोभनं पुण्यात्मकं कर्म । नाकरवं न कृतवानू । आः कष्टमिति शेषः । किसहं व्याख्यातम् । पापं श्श्रुत्यादिनिन्दितं कर्म । अकरवं कृतवान् । आः कष्टमिति शेषः । इत्यभिनयार्थः । अनेन. प्रकारेण भयरहितानामपि संसारिणां पुण्यपापाभ्यां भीतिर्नास्य स्पृष्टेत्यभिप्रायः । ननु-तर्हि किं लोकायतिक इत्याशङ्कय नेत्याह-सोऽधिकारी । यः प्रसिद्धः । एवं विद्वानहमेव निरतिशयज्ञानानन्दो न मत्तोऽन्यत्किंचिद्वस्तुभूतमस्तीतिज्ञानवान् । एते पुण्यपापे । आत्मानमानन्दात्मरूपं नै स्पणते. प्रीणयति । सुकृतदुष्कृते अह- मेवास्मीत्यवगच्छतीत्यर्थः । ततो न लोकायतिकसम इत्याह-उसे पुण्यपापे । हि यस्मादेवैन विद्वानेवैते आत्मानं स्पृणुते व्याख्यातम् । सर्वात्मत्वात्पुण्यपापानुष्ठाना- ननुष्ठानजन्यः संतापो न तु लोकायतिकवन्नास्तिक्येनेत्यर्थः । तदेतदाह-य पर्व वेद प्रसिद्धोऽधिकार्युक्तमानन्दरूपं निर्भेदमात्मत्वेन जानाति । य एवं वेदेष एवैते उभे आत्मानं स्मृणुते हीत्यन्वयः । ततो लोकायतिकाद्विलक्षण इति शेषः । इतिरानन्दवल्लीस. माप्तावुक्तात्मज्ञानानुकरणार्थो वा । उपनिषत्सर्वकारणं सर्वाधारभूतं निरतिशयानन्दैकस्व- भावं निर्भेदमपगतसमस्तप्रपञ्चं ब्रह्माहममाति सामीप्येन नितरां गमायित्वाऽहंममादिबन्ध- नानि शिथिलीकृत्याविद्या सकार्या ससंस्कारां सादयति विनाशयतीत्युपनिषद्ब्रह्मविद्या प्रति- पादको प्रन्यो वोपनिषत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकानन्दविरचितायो पदार्थबोधिन्यो तैत्तिरीयोपनि षदीपिकायर्या द्वितीये ब्रह्मवध्यध्याये नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यानन्दात्मपूज्यपादशिष्यस्य श्रीशं- करानन्दस्य कृतौ तैत्तिरीयोपनिषद्दीपिकायां द्वितीयो. ब्रह्मवल्यध्यायः समाप्तः ॥२॥ अथ तृतीयो भृगुवल्ल्पध्यायः । तत्र प्रथमोऽनुवाकः । . - उक्ता ब्रह्मविद्या । ब्रह्मावगतौ चौपाया अन्नमयादयः पञ्च कोशाः । तांश्चेत्तथाऽवग- । न्तुमशक्तः कुताश्चत्प्रतिबन्धात् , तस्य तत्प्रतिबन्धकारणापाकरणभूतानि तपआदीनि । तपसि कारणे च ब्रह्मदृष्टिं विधातुं प्रसङ्गादुपासनान्तरार्थमपीयं वल्ल्यारम्यते । तत्राऽऽख्यायिका. गुरूपदेशादेब्रह्मविद्याङ्गस्वं दर्शयितुं विद्यां स्तोतुं च । भृगुर्नामतः । वै प्रसिद्धः ।। १ ख ननं स ३६ शंकरानन्दकृता [भृगुवल्यध्याये, अनु०२) वारुणिर्वरुणस्यापत्यं वारुणिः । वरुणं वरुणनामानं पितरं भूगोर्जनकमुपससार शास्त्रदृष्टेन मार्गेण विद्यार्थ समीपमागतवान् । आगत्य चेदमूचे-अधीमध्ययनं कुरु । अयमर्थः-स्मरसि त्वं ब्रह्म, ततो मह्यं वद । भगवो भगवन्हे पूनावन् । ब्रह्मातिशयेष वृद्धं जगज्जन्मादिकारणमित्यनेन मन्त्रेणोपससार । अनन्तरं पिता तस्मै भृगव एत- द्वक्ष्यमाणं प्रोवाच प्रकर्षणोक्तवान् । अनमद्यतेऽत्ति च शरीरमध्यात्मादिभेदभिन्नम् । प्राणं शरीरान्तर्वर्तित्वेन वायुमत्तारमेव क्रियाशक्तिम् । इदानीं ज्ञानक्रियाशक्तीनि भोगसाधनान्याह-चक्षु रूपग्रहणकारणम् । श्रोत्रं शब्दोपलब्धिकारणम् । उपलक्षण- मिदं स्वग्रसनघ्राणानाम् । मनः सर्वकरणसाधारणमन्तःकरणं ज्ञानशक्ति:(क्तिम्) । वाचं वक्तव्यकारणभूताम् । उपलक्षणमिदं पाणिपादपायूपस्थानाम् । इत्यनेन प्रकारेण । अयमर्थः--भोग्यं भोक्ता भोगसाधनं चेति समग्रोऽपि प्रपञ्चस्तं ब्रह्मलक्षणं च कथयिष्यामि । यापच्चास्याऽऽस्मज्ञानं न भविष्यति तावत्पण्डितंमन्यः क्वचित्कचिद- झोपासनं करोतु । तेनोपासनेन क्षीणपापो ब्रह्मावगन्तुं शक्यते न स्वन्यथेति । तदभिप्रायेण श्रुतिराह-तमुपदिष्टप्रपञ्चम् । ह किल । उवाचोक्तवान्वरुणः । अतोऽभिन्ननिमित्तो- पादानात् । वै प्रसिद्धानि । इमानि विविधप्रत्ययगम्यानि । भूतान्याकाशादीनि स्वेदनादीनि च । जायन्त उत्पदान्ते । ऐन जीवनकारणेन जातान्युत्पन्नानि सन्ति जीवन्ति प्राणधारणोपलक्षितां स्थितिं कुर्वन्ति । यल्लयस्थानं घटस्येव मृत् । प्रयस्ति गच्छन्ति स्वस्वकार्यस्वभावं परित्यजन्ति सन्तीत्यर्थः । अभिसंविशन्ति सर्वतः सम्य- क्प्रवेशं कुर्वन्ति । तदुक्तलक्षणं जगजन्मस्थितिध्वंसकारणम् । विजिज्ञासस्व विशेषेण 'अहं तदस्मि' इति ज्ञातुमिच्छां कुरु जानीहीत्यर्थः । ननु मया ब्रह्म पृष्टं, भवताऽन्य- दुच्यत इत्यत आह--तदुक्तलक्षणं ब्रह्म ब्रह्मशब्दाभिधेयं नान्यदित्यर्थः । इतिः पितु- वचनसमाप्तौ। स श्रुतपितृवाक्यो भृगुः । तपः पर्यालोचनमन्नादिक्तेषु लक्षणाक्रान्तं कतमदित्ये- वरूपम् । अतप्युत कृतवान् । अथवा स्वधर्मवृत्तित्वं तपः कृच्छ्चान्द्रायणादि वा । अस्मिन्पक्षे तपसा शुद्धान्तःकरणस्य मनस इन्द्रियाणां चैकाग्र्यं जायत इति व्याख्येयम् । स तापसो भृगुः । तप उक्तरूपम् । तप्त्वा संपाद्य । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैतिरीयोप. निषद्दीपिकायो तृतीये भृगुवल्ल्यध्याये प्रथमोऽनुवाकः । अथ द्वितीयोऽनवाकः । अतिस्थवीय(यो) बुद्धित्वेनावं बझानमेव ब्रह्मलक्षणाक्रान्तं ब्रह्मशब्दाभिधेयम् । इत्यनेन प्रकारेण व्यजानाद्विशेषेणावगतवान् ।
[भृगुवलपण्याये, अ०३-२) तैत्तिरीयोपनिषदीपिका । तद्विज्ञानप्रकारं श्रुतिराह–अन्यदुक्तात् । हि यस्मात् । एखानादेव न त्वन्य- स्मात् । खल निश्चितम् । इमानि भूतानि जायन्ते । अन्नेन जातानि जीव- न्ति । अन्नं प्रयन्त्यभिसंविशन्ति, व्याख्यातम् । युत्पदस्थलेऽनपदमिति विशेषः । इत्यनेन प्रकारेण । तुदन्नं ब्रह्मरूपं विज्ञायावगत्य प्रत्यक्षेणोपपत्त्या चान्नस्य नाशमव- लोक्यान्नताब्रह्मलक्षणाभ्यां संशयाविष्टहृदयः । पुनर्भूय एवं वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच, व्याख्यातम् । वरुणं पितरमुपससारैवेत्य- न्वयः । तपसा व्याख्यातेन त्वया स्वयं ज्ञानेनोपायेनेत्यर्थः । ब्रह्म विजिज्ञासस्व पर्यालोचनेन ब्रह्मणोऽवगतिं कुरु । इदानीमुपेयदृष्टया स्तौति-तपो ब्रह्म ब्रह्मप्रतिपत्त्युपायभूतं तपो ब्रह्मोपेयमित्य- नेनार्थादिदमुक्तं ब्रह्मज्ञानार्थिना नित्यानित्यवस्तुविवेकादिकं साधनं संपादनीयम् । वत्संपादयितुमशक्तश्चेत्तस्मिन्ब्रह्मदृष्टिं कुर्यादिति । अन्यथाऽत्र वक्ष्यमाणपर्यायत्रये च पो ब्रह्मेत्यभिधानं व्यर्थ स्यात् । स तपोऽतप्यत । स तपस्तप्त्वा । [ व्याख्यातम् । ) इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचिताया पदार्थबोधिन्यां तैत्ति. रीयोपनिषद्दीपिकायां भृगुवाश्यध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽनुवाकः । प्राणो ब्रह्मेति व्यजानात् । प्राणाद्धयेव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति । स तपोऽतप्यत। स तपस्तप्त्वा॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति- रीयोपनिषद्दीपिकायां भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतुर्थोऽनुवाकः। मनो ब्रह्मेति व्यज़ानात् । मनसो ह्येव खल्विमानि मतानि जायन्ते। मनसा जातानि जीवन्ति। मनःप्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय । पुनरवे वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिष- रीपिकायां पदार्थबोधिन्यां भगवल्यध्याये नतुर्थोऽनुयकः ॥ ४ ॥ a afisarstra.
शंकरानन्दकृता- - [भृगुवलपध्याय, भ०५-० * अथ प्रश्नमोऽनवाकः। विज्ञानं ब्रह्मेति ध्यजानात् । विज्ञानाद्धयेव खल्विमानि भूताति जायते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविश- न्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि मगयो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषद्दीपि. कायां पदयोधिन्यां भृगुवल्लयध्याये पश्चमोऽनुवाकः ।। ५ । अथ षष्ठोऽनुवाकः। तथाऽचेतनत्वं आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्द प्रयन्त्यभिसंविश- न्तीति। यथाऽन्नस्य विनाशित्वं दोषो ब्रह्मत्वे प्राणस्य, अनिश्चयात्मकत्वं मनसः, सुखदुःखभोक्तृत्वं विज्ञानस्य च दोषः । यद्यपि चक्षुः श्रोत्रं मनो वाचमित्युपदिष्टं न विज्ञा- नमिति तथाऽपि क्रियाशक्तीनां वागादीनां ज्ञानशक्तीनां च चक्षुरादीनां प्राणमनःसमानयो- गक्षेमस्वात्गृथक्तद्विज्ञानं च नोक्तम् । मनसोऽपि विज्ञानतन्त्रत्वान्मनसाऽभिधीयमानत्वेन विज्ञानमप्यर्थादुक्तमेव । ततस्तदर्शनं दोषदृष्टया पितरं प्रत्यागमनं चेत्यविरुद्धम् । प्राण- मनोविज्ञानानि प्राणमयमनोमयविज्ञानमयकारणान्यानन्दश्चाऽऽनन्दमयकारणम् । पुच्छं च तस्य ब्रह्मशब्दाभिधेयो मुख्यः । ततोऽस्य दर्शनानन्तरं पितरं प्रत्यागमनामावः । स तप इस्या- रम्येतीत्यन्ताः प्राणमनोविज्ञानानन्दपर्यायाश्चस्वारोऽपि समानपाठा अन्नपर्यायवघ्याख्येयाः । इदानीमाख्यायिकासिद्धमर्थ श्रुतिराह विद्यास्तुतये-सा प्रसिद्धा । एषेदानीमुक्ता । भार्गवी भृगुणाऽवगता भार्गवी । वारुणी वरुणेन प्रोक्ता वारुणी । विद्या ब्रह्म- विद्या । परम उत्कृष्टे । व्योमन्व्योम्न्यानन्दात्मनि । प्रतिष्ठिताऽवस्थान प्राप्ताऽऽन- न्दात्मन्येव पर्यवसितेत्यर्थः । इदानीमानन्दात्मविज्ञानोक्तं फलमाह-स प्रसिद्धः । ] योऽधिकारी । एवमन- प्राणमनोविज्ञानेभ्योऽन्तरतम आनन्दोऽहमस्मीति । वेद जानाति साक्षात्करोतीत्यर्थः । प्रतितिष्ठति, एवं ज्ञानवान्मोऽयमविद्यासंस्कारशून्यो ब्रह्मण्येवावतिष्ठते । अत्रैवं प्रतिपत्तुम- शक्तोऽन्नादिकोशपञ्चककारणे ब्रह्मदृष्टिं कुर्यात् । सोऽप्यन्तःकरणशुद्धिद्वाराऽस्मिन्शरीरे शरीरान्तरे वा प्रतितिष्ठति । १क. अथ च । घ. अथ देवं।
(भृगुक्ल्यध्याये,अनु०७-८] तैत्तिरीयोपनिषद्दीपिका यू एवं वेदेत्यनेनान्नादिषु ब्रह्मदृष्टेरप्यभिधातुं शक्यत्वात्तादृशस्य प्रलोभनाथ दृष्टं फला- न्तरमप्याह-अत्रवान्नित्यमन्त्रसंपन्नः । अन्नादोऽन्नभक्षको नीरोग इत्यर्थः । भवति स्पष्टम् । महानधिकः । भवति स्पष्टम् । कथं-प्रजया पुत्रादिसंतत्या । प्रशमिर्ग- वादिभिः । बह्मवर्चसेन ब्राह्मणनास्युचिततेजसा । न केवलमेव किंतु महानधिकः । कथं-कीया यशसा । प्रथमो महच्छब्दस्तस्मिन्विद्याधिक्यमाह । द्वितीयस्तु प्रनादीनां कीय॑न्तानाम् ॥ शति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमकरानन्दविरचितायां तैत्तिरीयोपनिषद्दीपिकाया पदार्थबोधिन्यां तृतीय भृगुवल्ल्यध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः । इदानीमस्यान्नब्रह्मोपासकस्य व्रतमाह-अन्नमदनीयं न निन्द्या निन्दा न कुर्यात् । तदन्नानिन्दनं व्रतं व्रतधारणम् । पूर्वमन्नमन्नादश्च यथास्थितमुपासनीयमिति सिद्धवत्कृत्येदानी वैपरीत्यमाह-प्राणो वै पञ्चवृत्तिरेव । अन्नमदनीयम् । शरीरं स्पूलो देहः । अक्षा- द्वमन्नभक्षकम् , अन्नाश्रयत्वात् । प्राणे पञ्चवृत्तौ शरीरमुक्तं तदधीनस्थितित्वेन प्रतिक्षितं प्रतिष्ठां प्राप्तम् । इदानीं वैपरीत्यमाह-शरीरे प्राणः प्रतिष्ठितः स्पष्टम् । तदुक्तम् । एतच्छरीरं प्राणरूपं प्रत्यक्षम् । अत्रमदनीयम् । शरीरं प्राणश्च । अन्ने शरीरे प्राणे च प्रतिमितम. वस्थितं वंशतृणादिष्विव गृहं, गृहे च वंशतृणादि । स प्रसिद्धः । यो यः कश्चनोपासकः । एतदन्त्रमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो सप्रति । महा- न्मवति । प्रजया पशुभिर्बह्मवर्चसेन । महान्कीा । एतदन्नमने प्रतिष्ठितं वेद जानाति जानीयादित्यर्थः । व्याख्यातमेतत् ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषदीपिकायां पदार्यबोधिन्या तृतीये भृगुवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७॥ अथाष्टमोऽतुवाकः । अन्नमुक्तं न परिनक्षीत दीयमानमन्नं न निराकुर्यात्पात्रस्थं वा न परित्यजेत् । तद्रनापरित्यागलक्षणं व्रतं व्रतधारणम् । इतः परं मनो विज्ञानं चेति वक्तव्यं यद्यपि तथाऽपि तयोरपि भूतकार्यत्वात्प्राणशब्देन वायुभूतमङ्गीकृत्यान्नशब्देन भौतिकं भूतप्र- सङ्गं प्रस्तावयति-आणेवा अपम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रति .स. प्रत्यक्ष प्रा।
शंकरानन्दकृता- भृगुवल्ल्यध्याये,अनु०९-१०] शितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एत- दुनमने प्रतिष्ठितं ब्रेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्म... वति । प्रजया पशुभिर्बह्मवर्चसेन। महान्कीर्त्या । आपो द्रवात्मिकाश्चतुर्गुणाः । ज्योतिः प्रकाशात्मकं त्रिगुणम् । शेषं प्राणशरीरपर्यायवत्समानपाठं व्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छेकानन्दविरचितायां तैत्तिरीयोप. निषद्दीपिकायां तृतीये भृगुदल्ल्यध्यायेऽष्टमोऽनुवाकः ॥ ८॥ अथ नवमोऽनुवाकः । अन्नमुक्तं बह्वधिक शास्त्रोक्तेरुपायैर्याजनादिभिः कुर्वीत स्पष्टम् । तद- नबहुकरणं व्रतं व्रतधारणम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथि- घ्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या । पृथिवी. कठिना पञ्चगुणा । आकाशश्छिद्रास्मा शब्दगुणः । शेषं समानपाठमब्ज्योतिःपर्यायवद्या- ख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषद्दीपिकायो पदबोधिन्यां तृतीये भृगुवल्ल्यध्याये नवमोऽनुवाकः ॥ ९॥ अथ दशमोऽनुवाकः। न कंचन कमपि चण्डालान्तं ब्राह्मणादिकं वसतावद्य रात्रौ त्वद्गृहे वासं करिष्या- मीति वसतिनिमित्तं समागतम् । प्रत्याचक्षीत न निराकुर्वीत । तद्वसतिनिमित्तं समाग- तानिवारणं व्रतं व्रतधारणम् । एवमेतान्युपासनानि सव्रतानि समानफलस्वादिच्छाविकल्पा- र्थानि । उक्तफलकाम उक्तेष्वन्यतममुपासनं कुर्यादित्यवगम्यते । अत्र च भूतपञ्चकस्य च परस्परमुपकार्योपकारकभावकथनेन सर्वाद्वैते पर्यवसानं तद्दर्शितमिति तात्पर्यार्थः । इदानीं ब्रह्मज्ञानोत्पादे सश्रद्धमन्नदानं कारणं तथाऽन्नमन्तरेण कर्तुमशक्यं वसता- वप्यप्रत्याख्यानं नान्नमन्तरेण स्यात् । न हि पूर्णोदरा अप्रार्थिताना वसत्यर्थ गृहस्थस्य गृहेष्वागच्छन्तो दृश्यन्ते । किंतु क्षुधार्ता एव । ततोऽन्नसंपादनार्थ गृहस्थाश्रमवा- सिना मुमुक्षुणाऽपि महान्यत्नः करणीय इत्याह-तस्माद्यस्मादन्नमन्तरेण न पुरुषा. र्यसिद्धिर्गृहस्थस्य ततो यया कया च येन केनापि विधया, उपायप्रकारेण याज- १ ख. रीरं ।
। [भृगुवल्यध्याये अ० १०] तैत्तिरीयोपनिषद्दीपिका । ४१ नायन्यतमेनेत्यर्थः । बदधिकमन्नं व्रीह्यादिकं प्राप्नुयाद्भवेत् । यद्यप्यत्वं बहु कुर्वीतेत्यने- नैव तदुक्तं तथाऽपि तद्वतमित्यभिधानादुपासनाङ्गोऽयं नियमविधिरितिबुद्धिनिवारणार्थ स्वात- व्येण पुरुषार्थत्वं दर्शयितुं पुनराह । ननु-अन्नं स्वोपभोगायैव संपाचं न त्वन्यस्मै दानाय, प्रमाणाभावात्, इत्यत आह-अराधि संसिद्धम् । अस्मै गृहे समागतायातिथये अन्नमदनीयम् । इत्यनेन प्रकारेण स्वभार्यादीन्प्रति । आचक्षते कथयन्ति विद्वांसो गृहस्थाः । अनेन गृहस्थप्रसिद्धिः प्रमाणमन्नदाने केथिता । इदानीं दीयमानेऽन्ने देशकालपात्रश्रद्धासत्कारादिसंपत्तिरङ्गमित्येतदर्थे यथा दत्तं तथैव फलं भवतीत्याह-एतद्वै प्रसिद्धम् । मुखतो मुखे मुख्ये देशे काले पात्रे च मुख्यया श्रद्धाप्रणिपातसत्कारादिरूपया वृत्त्या मुख्यमन्नमदनीयम् । राद्धं संसिद्धं दत्त- मित्यर्थः । यदि तदा मुखतो मुख्ये देशे काले मुख्यया वृत्त्या मुख्यं मुख्याय । अस्मा अन्नस्य दात्रे । अत्रमदनीयम् । राध्यते संसिद्धं भवति । एतद्वै मध्य- तोऽन्न५ राद्धम् । मध्यतोऽस्मा अन्न राध्यते । एतद्वा अन्ततोऽन्न राद्धम् । अन्ततोऽस्मा अन्न राध्यते । मध्यतो मध्यमदेशे काले पात्रे च मध्य- मया वृत्त्या मध्यमम् । अन्ततोऽन्ते जघन्यदेशे काले पात्रे च जघन्यया वृत्त्या - तिरस्कारादिरूपया जघन्यम् । व्याख्यातमन्यत्पर्यायद्वयेऽपि । यत्र देशे यस्मिन्काले यद्वर्णा- श्रमिणे यादृशाचाराय यस्मिन्वयसि यद्दत्तमन्नमन्यद्वा दातुरपि तस्मिन्देशे तस्मिन्काले तद्वर्णाश्रामगस्तादृशाचारस्य तस्मिन्वयसि तादृशं तदन्नमन्यद्वा संपद्यत इत्यर्थः । इदानीं यथोक्तविशेषणविशिष्टस्य दाने यस्फलमुत्कृष्टं तदेव तदानज्ञानेऽपीत्याह योऽन्नदानस्य फलाभिज्ञः । एवमुक्तेन प्रकारेण । वेदान्नदानालमुत्तममुपास्ते । सोऽपि मुख्य (ख)तोऽन्नं लभत इति शेपः । तस्मान्मुखतोऽन्नं देयमिति संदर्भार्थः । एवमन्नप्राणमनोवि- ज्ञानानां कार्यरूपेण केनचित्कारणरूपेण चोपासनान्युक्त्वेदानीमानन्दस्य ब्रह्मण उपासना. न्याह---क्षेमः प्राप्तस्य रक्षणम् । इत्यनेन प्रकारेण । वाचि वागिन्द्रिये मदीया वाग्व- मरूपेत्युपासीत । तदुपासनाच्च क्षेमरूपं फलमिति तात्पर्यार्थः । अत्र क्रियापदादर्शन उपा- सीतेत्यध्याहारः । फलादर्शने च गुणानुरूपं फलमिति सर्वत्रावगन्तव्यम् । योगक्षेमः, अप्राप्तस्य प्राप्तिर्हि योगः प्राप्तम्य परिरक्षणं क्षेमः । तदुभयरूप १ ख. गृहस । २ ख. ब्राह्मणाः । ३ ख. हस्थान्प्रति प्रमा। १ ख. कथितम् । ५ न. मख्यं ख्यायास्मा अन्नदात्रेऽन । ६ ख. वाक्क्षेमब्रह्म ।
४२ शंकरानन्दकृता [भृगुवल्यध्याये, अ०१.] आनन्दो योगक्षेमः । इत्यनेन प्रकारेण । प्राणापातयोः । स्पष्टम् । कर्म व्यापाररूप ब्रह्म । इत्यनेन प्रकारेण । हस्तयोः स्पष्टम् । गतिर्गमनव्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । पादयोः स्पष्टम् । विमुक्तिर्मलविमोचनव्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । पायौ गुदेन्द्रिये । इत्यध्यात्मोपासनासमाप्त्यर्थः । मानुषीमनुष्यसंबन्धिनीः । समाज्ञाः सम्यगाज्ञा उपासनाः । जानीयादिति शेषः । अथ मानुप्युपासनाकथनसमनन्तरम् । द्वैवीदेवसंबन्धिनीः । समाज्ञा इत्यनुषङ्गः । कथ. यामीति शेषः । तुप्तिब्रह्माशनपानजा तुष्टिः । इत्यनेन प्रकारेण । वृष्टौ वर्षकरकासु मेघोदरान्निर्गतासु नीरधारासु । बलं ब्रह्मभूयसामप्यभिभवकारणं सत्त्वम् । इत्यनेन प्रकारेण । विशुत्यचिरप्रभायाम् । यशः कीर्तिरूपं ब्रह्म । इत्यनेन प्रकारेण । प्रशषु गवादिषु । ज्योतिः प्रकाशरूपं ब्रह्म । इत्यनेन प्रकारेण । नक्षत्रेषडुषु । प्रजातिब्रह्म प्रमननरूपम् । अमृतं ब्रह्म प्रियालिङ्गनदर्शनादिरूपं मैथुनं क्षुद्रसुखरूपम् । आनन्दो ब्रह्म मैथुनक्रियानिवृ()त्तिनं सुखं पुत्रफलम् । इत्यनेन प्रकारेण । उपस्थ उपस्थेन्द्रिये । सर्व निखिलमाकाशादिवाक्कायजातं ब्रह्म । इत्यनेन प्रकारेण । आकाशे भूताकाशेऽ- ब्याकृते वा । तद्ब्रह्म । प्रतिष्ठा प्रतितिष्ठत्यस्मिन्कार्यकारणजातमिति प्रतिष्ठा सर्वाधार इत्यर्थः । इत्यनेन प्रकारेण । उपासीतोपासनं कुर्यात् । तत्र फलमाह-प्रतिष्ठावानाधारवान्भवति स्पष्टम् । तन्मह इत्युपासीत । महान्भवति । महो व्याहृतिरूपं तेजो वा । महान्सर्वस्मादभ्यधिकः । व्याख्यातमन्यत् । तन्मन इत्युपासीत । मानवान्भवति । मनः संकल्पविकल्पात्मकम् । मानोऽभि- मानो मननं वा तद्वान् । अभिमानपक्षेऽखण्डिताभिमान इत्यर्थः । व्य ख्यातमन्यत् । तमाम इत्युपासीत । नमो नमनगुणवत् । व्याख्यातमन्यत् । तत्र फलमाह-नम्यन्ते नता भवन्ति प्राप्नुवन्तीत्यर्थः । अस्मै ब्रह्म नम इत्यु. पासकाय । कामाः कामनाविषयाः पुत्रादयः । तद्वझेत्युपासीन । ब्रह्मवान्भवति। ब्रह्म परिवृढं वेदरूपं वा । तद्वान्ब्रह्मवान् । परिवृढपक्षे स्वयं परिवृढो भवतीत्यर्थः । व्याख्यातमन्यत् । तनहा ब्रह्मणोऽसङ्गोदासीनस्य । परिमरः परिम्रियन्ते. विद्युद्- वृष्टिश्चन्द्रमा आदित्योऽमी रश्मिरिति वायुः परिसरस्तजनक आकाशोऽपि परिसरः । अथवा सर्वविनाशकः कालः परिवरः । ब्रह्मणा . संबद्धश्च स इत्याकाशः । परिम- रगुणविशिष्टः काल एव वा । सर्वोपसंहारकार्य । इति, अनेन प्रकारेण । उपासी- तोपासनं कुर्यात् । प्रर्येां सर्वत उपासकं मियन्ते विनश्यन्ति । दिषन्तो द्वेषं १ ख. योऽग्निरस्मिनिति ।
[भृगुवल्यध्याये, अ०१०] तैत्तिरीयोपनिषदीपिका । कुर्वन्तः । सपनाः कामादयो बाह्या वा वैरिणः । सपत्नीमातृजा वा । स्वस्य प्रिया अप्यसाधुस्वादज्ञानाद्वा । परि सर्वतः । ये प्रसिद्धाः । अप्रियाः कर्णनेत्रमनोदाहकाः । स्वस्य भ्रातव्या वैरिणो द्विषन्तोऽपि, अयमस्माकं वैरी, अस्यानिष्टमस्माभिः करणीय- मित्युपासके संकल्पयन्त उपासको वैते मयि वैरिण इति संकसं करोति येषु वैरमकुर्वाणे- ध्वपि ते सर्वे विनश्यन्तीत्यर्थः । एवमानन्दे ब्रह्मण्युपासनान्युक्त्वेदानी स्थिरचेतसमधिकारिणमुपलभ्य पूर्ववष्लयुक्तमेवा- धिदैवादिभेदरहितमानन्दात्मानमाह-स यश्चायं पुरुले । अश्वासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्मेत्य । एतमन्नमयमात्मानमुपसं- कस्य । एतं प्राणमयमात्मानमुपसंकम्य । एतं मनोमयमात्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मानमुपसंकम्य । एतमानन्दमयमात्मानमुपसंक्रम्य । व्याख्यातं पूर्ववल्लयाम् । इयांस्तु विशेषः । पूर्व विदेहकैवल्यस्याभिधानास्पञ्चकोशेषु लटः प्रयोगः । इदानीं तु जीवन्मुक्तेरभिधानात्तेष्वेव ल्यपः प्रयोगः । इमान्भूरादीलोकान्कर्मफलभूतान् ' कामानी कामं यथाभिलाषमन्नमदनीयमस्या- स्तीति कामान्नी । कामरुपी कामं यथाभिलाषं रूपमस्यास्तीति कामरूपी । अनु- संचरन्नास्मसाक्षात्कारमनु, इमाल्लोकान्सम्यक्चरन्पर्यटन्मानुषेण शरीरेणाऽऽधिकारिकेण वा । एतद्वक्ष्यमाणं लोकानुग्रहार्थम् । साम समत्वप्रतिपादकं वचनं संसारशूलार्पितान्प्रा- णिनो निरीक्ष्य भृशं करुणाक्रान्तमना गायन्नत्युन्नताशब्दान्कुर्वन् । दग्धपटन्यायेन *शरीरं गृहीत्वाऽऽसने तिष्ठति । अतः संगच्छत हे जुना मा संसारशले पुततेति श्रुतेः करुणावत्या मातुरिवाभिप्रायः । हाइनु हाश्व हाश्चु लोकत्रयीस्थान्संबोधयति वचन- त्रयेण । अहो अहो अहो इति प्लुतिः पदत्रयेऽप्याश्चर्यार्था । अहम्, आनन्दात्माऽसङ्गो- दासीनोऽनाद्यनिर्वाच्याविद्यया । अन्नमदनीयमुपभोग्यमित्यर्थः । इदं भूलोकस्थान्प्रति । अहमन्नमहसन्नं व्याख्यातम् । अन्तरिक्षस्वलाकस्थान्प्रति वचनद्वयम् । अहं व्याख्या- तम् । अन्नादोऽन्नमत्तीत्यनादो भोक्ता । इदं भूलॊकस्थान्प्रति । अहमन्त्रादोऽ३ह- मुन्नादः, व्याख्यातम् । इदमन्तरिक्षस्वर्लोकद्वयस्थान्प्रति । इदानीं कीर्तिकारित्वमपि स्वस्यैवेति लोकत्रयीस्थान्प्रति पूर्ववत्कथयति-अह * यथा दग्धोऽपि पटः किंचित्कालपर्यन्तं स्वाकारं न जहाति तथा ज्ञानामिदग्वकर्मा वास. नाक्षयेण नष्टमाप शरीरं धृत्वा करुणाक्रान्तो गायनास्त इति भावः । १ क. घ. अपि सा । २ क. ग.नप्रवण: । अ°।
च्छति । स ४४ शंकरानन्दकृता [भृगुवल्यध्याये, अ०१०] श्लोककदह श्लोककदइ५ श्लोककृत् । श्लोकः कीर्तिस्तां करोतीति नोककत । व्याख्यातमन्यत् । पूर्व वाक्यत्रयेण संबोधनेनान्नान्नादश्लोककृत्त्वमात्मन उक्स्वा लोक- त्रयीं प्रति विभागेन कार्यकारणरूपत्वमात्मन आह-अहमानन्दात्मा । अस्मि भवामि । प्रथमजाः प्रथमचो हिरण्यगर्भ इत्यर्थः । ऋवास्य, ऋतस्य मूर्तामूर्तात्मकस्य सत्यस्य प्रपञ्चस्य कर्ता प्रथमेत इत्यर्थः । ऋता इति प्लुतिराश्चर्यार्था । ननु-संसारात्पूर्व देवाः प्रसिद्धा इत्यत आह—पूर्व प्रथमः । देवेभ्यो विराड- वयवभूतेभ्योऽग्न्यादिभ्यः । अमृतझ्यामरणाधर्मिणो वेदस्य । ना३भापि नाभिर्मध्यं वेदरहस्यमित्यर्थः । अत्रापि नकारे प्युतिराश्चर्यार्था । कार्यकारणहीनोऽसङ्गोदासीनोऽहं वेदगर्भ इत्येवंरूप इति गोऽन्नस्य दाताऽऽस्मनो वा सर्वाभिन्नस्य तत्त्वमसीस्यादिवाक्येभ्यो दाता क्षुधार्तेभ्यः संसारतापतप्तेभ्यो वा मा माम् । अन्नमानन्दात्मरूपं वा ददाति प्रय- । स उक्तो दाता । तद्रिस्थं दानं कुर्वन् । एवमनेन दानेन । आश्वा, अवोऽ- वतीत्यर्थः । अकारप्लुतिराश्चर्यार्था । मा सर्वाभिन्नमपि रक्षयतीति । ननु--अन्ने दीयमाने कथं भवान्दत्त इत्यत आह-अहमनं व्याख्यातम् । नुनु --अन्नस्य दानेनाऽऽत्मनो वा त्वद्रक्षणनं सुकृतं भवतु दातर्यस्य तु तस्मिन्नाभि- लापः स तु त्वामन्नमात्मानं वा परम्मै मा प्रयच्छतु । भक्षयतु स्वयं काममन्नं कोऽ- स्यानर्थ इत्यत आह–अन्नमदनीयं मां तद्रूपमात्मानं वा दत्त्वा । अदन्तं भक्षय- न्तम् । आइनि, अनि भक्षयाम्यन्नभक्षकम् । अकारे प्लतिराश्चर्यार्था । सर्वाभिन्नोऽ. प्येव भक्षयामीति । ननु यथा त्वमेनं भक्षयसि तथा स्वामप्यन्यः । यथा मण्डूकः क्षुद्रं जीवं तं सर्पः सर्प मकरो विश्वस्य विचित्रशक्तिभूताक्रान्तस्यात्ततो न भवतः प्राप्तिः पुरुषार्थ इत्यत आह-- अहमानन्दात्मा विश्वं निखिलं भुवनं भवन्त्यस्मिन्भूतानीति भवनं भवनमेव भुवनम् । अविद्यातत्कार्यतत्संस्कारजातं कार्यकारणरूपमित्यर्थः । अभ्यभवामभ्यभवं स्वकीयेनाSS- नन्दात्मरूपेण देशकालवस्तुपरिच्छेदशून्येन चरमवृत्तिसाक्षात्कारविषयेण निखिलमिदमात्म- रूपकारणेन परिभवामि । अतो न मम कश्चन भक्षकः किंवहमेव सर्वस्य । ततो न मत्मा- प्तिरपुरुषार्थ इत्यर्थः । ननु-सर्वाभेदेऽन्येभ्यः कस्त्वय्यतिशय इत्यत आहे-मवर्न, सुवर्णस्तरसमानवर्ण आदित्य इव सुवर्णः । ज्योतीज्योतिः प्रकाशः स्वयंप्रकाशानन्दरूपोऽहं ततो मय्य- तिशय इत्यर्थः । इदानीं श्रुतिराह गोऽधिकारी । पवमुक्तप्रकारमानन्दात्मानम् । १ क. मज इ । २ ख. हमस्वरू' । ३ क. ग. "स्त्वति । ४ ख. °ह-सुवर्णस्त° । ५ ख. भ्यस्त्यति ।
KAKRISHNAMSACL INSTITLaur (भगुवनपध्याये, अनु० १० ] तैत्तिरीयोपनिषद्दीपिका । वेद जानाति साक्षात्करोतीत्यर्थः । सोऽपीमाँडोकानित्यादिनोक्तं फलं प्राप्नोतीत्यभिप्रायः । इत्युपनिषत् । व्याख्यातं पूर्ववल्याम् ॥ इति श्रीमत्परमहंसपरिवाजक्राचार्य श्रीमच्छकरानन्दविरचितायो पदार्थबोधिन्या तैत्तिरी- योपनिषदीपिकायां भृगुवल्लयध्याये दशमोऽनुवाकः ॥ १० ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमदानन्दामपूज्यपादशिष्यस्य श्रीशंकरानन्दभगवतः कृतो तैत्तिरीयोपनिषद्दीपिकायां तृतीयो भृगुवल्यध्यायः समाप्तः ॥३॥ समाप्नेयं शंकरानन्दी तैत्तिरीयोपनिषद्दीपिका । LIBRARY HALTION
WIB INOTITIT
AVT1
lur
No text on this page.
LIBRARY 116
No text on this page.
CHAKRISHNA MABSICH IN&TITETS
LIBRARY
QOLTOHET
OALBUTTO
No text on this page.