Prakrit Bharati Academy, Jaipur

Karmmsidhi

Gani Premvijay · 2010/09

PDF Proofread

Front matter

प्रकाशक- शाह हठीचंद दीपचंद। 'तंत्री, जैन-प्रवचन।' मुम्बई -३॥ HERB Publisher:-Shah Hathichand Dipachand Editor "Jain Pravachana," Harakchand K. Bldg, Bhikhagully, Bombay. Printer:-Ramchandra Yesu Shedge, Nirnaya-sagar Press, 26-28 Kolbhat Lane, Bombay. dol मुद्रक- रामचन्द्र येसू शेडगे। 'निर्णयसागर-प्रेस। मुम्बई-२॥ .

No text on this page.

usbllealhe 4 rani CIA A- श्री १००८ श्रीमद्-वीरविजयजी महाराज कर्मसिद्धिः- KHEL Hamar प 卐 समर्पणम्। ज - . * "शार्दूलविक्रीडितम् ।" *- संसारार्णवभव्यशुक्तिहृदये सम्यक्त्वमुक्ताप्रसूः, सत्प्रेरणा विबुधान्तिषद्महितपद्धागिन्द्रसद्वाचक ! वास्थश्रीविजयान्त्यवीरमुनिराट् ते पाणिपझेऽयंते, सत्प्रेरणा विबुधान्तिषद्महितपद्वागिन्द्रसद्वाचक!॥१॥ MONDARIDWER DONAKEKH4EKS

कर्मसिद्धिः।
تد
--
प्रणेता-
* अनुयोगाचार्य-श्रीमत्प्रेमविजय-गणी।

वाङ्मुखम् ।” देहो यस्य निरामयोऽतुलशुचिर्नेत्रं नयन्भृङ्गतां, श्वासो यस्य पयोजगन्धतुलितः केऽनानि संवासयन् । काये यस्य विवर्तिमांसरुधिरं गोक्षीरधारासितं, न्यादोत्सर्गविधिन नेत्रविषयस्तसै नमोऽस्त्वहते ॥१॥ पूज्यः श्रीदानसूरिः स्फटिकविमलहृद्दृश्यदेहप्रकर्षः, आप्तोक्तेः पारदृश्वा खपरसमयविद् मूर्तिमान्पुण्यपुञ्जः। दुःसेव्यो नीचसत्त्वैः प्रशमरसमयो जङ्गमः कल्पवृक्षा, कल्याणं संतनोतु परमगुरुवरः सोऽनिशं सरिराजः ॥२॥ प्रणम्यैवं जिनाधीश, गच्छाधिपं यथाक्रमम् । पूज्यानां कर्मसिद्धिर्हि, प्रस्ताव्यते यथामति ॥३॥ सुविदितचरं ह्येतत् सर्वेषां विश्वजन्तूनामाधिव्याध्युपाधिजन्म- जरामरणादिदुःखोत्करवारिपरिपूर्णे, मिथ्यात्वझञ्झावातविह्वलीभूते, भोगिभोगनिभभोगादिविषययादोभिर्व्याकुले, स्वप्नसंनिभसंगमादि- मिरापातमात्ररम्ये,क्रोधमानमायादिकषायचित्रभानुना परिताप्यमाने, प्रव्रज्यादिविविधप्रकारकधर्मदायकवाचंयमनाविकवरैः देशविरतिसर्वविरत्यादियानपात्रैरुत्तार्यमाणभव्यजन्तुजाते अस्मिन् सम्यक्त्व- २ संसारार्णवे यदि विश्ववैचित्र्यस्य किमपि कारणं वर्तते तदेव कर्मेति । येन केन प्रकारेण तस्यास्तित्वं प्रायः सर्वैर्दर्शनकारैः स्वीकृतमेव । तादृश इह भववारिधी सुखदुःखसाक्षात्कारकारकस्य पुण्यपापश्रेण्यनुभावकस्य, निःस्वादयविकृतनिरोगिमनिर्षियथाजा- तादिदशोपलम्भकस्य तस्य कर्मणो विद्यमानत्वं व्याहन्तुं न केपीशाः । केनचित् वासनारूपेण केनचित् शक्तिरूपेण कैश्चित् पञ्चान्यतमैकैककारणवादिभिश्च तेन तेन रूपेण तस्यास्तित्वं स्वीकृतमेव । प्रथमतोऽयं लघुग्रन्थो दार्शनिकविषयविदनुयोगसूरिभिर्ग्रन्थवि- धातृभिन्यायविशारदन्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयमुनिपु- झवानां कर्मप्रकृतेः प्रस्तावनामयो व्यरचि । किन्तु तस्याः कर्म- प्रकृतेः प्रकाशयित्री भावनगरस्थश्रीजैनधर्मप्रसारकसभा अस्याः प्रस्तावनायाः प्रमाणबाहुल्यात् तां नाग्रहीत् । अतः सैव प्रस्तावना तैर्विचक्षणविरचयित्वरैः किञ्चिद्विवरणयुक्तेन कर्मसिद्धिनामकपु- स्तकरूपेणाधुनार्थिजनेभ्यः प्रसादीक्रियते । यद्यप्यस्य कर्मसिद्धिना- मकग्रन्थस्याभिधानमेव तस्य विषयं व्याचष्टे, तथापि तस्य यत्किञ्चि- द्विवरणकरणं नायुक्तं प्रतिभाति । अस्मिन् ग्रन्थे विबुधशिरोमणि- प्रणेतृभिः प्रथमतः विश्वविचित्रताप्रदर्शनपूर्वककर्मणामस्तित्वरूपेण सिद्धिः, ततः कालवादिनः पूर्वपक्षः, स्वभाववादिनः कालवादि- पक्षनिषूदनप्रयुक्तपूर्वपक्षः, , स्वभाववादिपरासनसहितो मध्यवि- वर्तीश्वरोद्यमवादिखण्डनाविरहितश्च नियतिवादिनः पूर्वपक्षः, पश्चा- न्यतमैकैककारणवादिनां सर्वेषां निर्वापणप्रयुक्तः निर्वापणप्रयुक्तः तेषामेव १ मूर्खः।

العہ , - सहकारिकारणत्वेन स्वीकर्तुरदृष्टवादिनः सिद्धान्तपक्षः, पञ्चविंश- तितत्त्वसङ्ख्यावतां साङ्ख्यमताभिलाषुकाणां प्रकृतिरूपेण कर्मणो मन्तव्यस्य व्यापादनं, शक्तिरूपेण कर्माभिमतानां निबर्हणं, वा- सनारूपेण कर्मेष्टबौद्धानां प्रमापणं, कर्मणि वैचित्र्यजात्यनङ्गीकृतां नैयायिकानामपासनं, कर्मणोऽनादित्वस्य सिद्धिरित्यादि कृतं सर्व विलोकनविबुधवरैः स्वयमेवावसेयं । पुनस्तेषामक्षपादानां समवा- यस्थेश्वरकर्तृत्वस्य च यथास्थानं प्रवासनमपि तैः प्रवचनप्रवीणनिर्मा- तृभिर्न शेषितम्। वर्तमानकाले कर्मसाहित्यप्रधानजैनेन्द्रशासने तद्विबुधवराः सुदु- लभा एव । अपि तु केचन वर्तन्ते, तथापि तेषां मध्ये सौष्ठवौदार्य- विशेषशालिनोऽस्य ग्रन्थस्य स्रष्टारः, पूज्यपादप्रातःस्मरणीयप्रव- चनपारदृश्वप्रशमपीयूषपयोनिधिपारगतशासनरत्नत्रयप्रदीपप्रदायका- चार्यवर्यश्रीमद्विजयदानसूरीश्वरसुशिष्यरत्नाः कर्मसाहित्यार्णवकुश- लकर्णधारश्रुतसागरपारीणानुयोगसृगाचार्यश्रीमत्प्रेमविजयगणिपादा एव वरीवर्तन्ते। अस्य ग्रन्थस्य परिशोधने प्रसिद्ध्यर्थं च पूज्यपादमुनिगुणगरि- ष्ठानां मुनिवर्याणां श्रीमन्मङ्गलविजयवराणां सत्प्रयासोऽपेक्षितः। तेपां सदुपदेशेनैव सूर्यपुरनिवासि-श्रेष्ठिवर्य-"मंच्छुभाई जीवन- चन्द झवेरी" इत्ययमार्थिकसाहाय्यं दत्तवान् । जिनेन्द्रशासननभोनभोमणीनां तेषां सुशिष्यरत्नाभ्यां व्याख्यात- चूडामणिमुनिश्रीमद्रामविजयश्रीमज्जम्बूविजयवराभ्यामप्ययं ग्रन्थो दृग्गोचरीकृतो वर्तते । पुनरन्यकोविदवराणामपि नयनातिथित्वं गतोऽस्त्ययं ग्रन्थः। ।

४ प्रान्तेऽस्यां कर्मसिद्धौ मनुष्यसहजनिष्ठछद्मस्थत्वाद्यनुभावतः मु- द्रणखभावतो वा संशोधनेनाप्यवशिष्टानां स्खलितानामर्थे सुधीस- हृदयसन्जनानामनुग्रहमेवापेक्ष्य इमां प्रस्तावनां समाप्ति नयामि । पूज्यपादानुयोगस्रष्टश्रीमग्रेमविजयगणिवरान्तिषवतंसविद्वद्वर्य- मुनिराजश्रीमज्जम्बूविजयचरणाम्भोजचञ्चरीकायमाणविनेयाणुः -रक्षितविजयो मुनिः।

"नमः स्याद्वादवादिने। "परमगुरु-श्रीमद्विजयदानसूरीश्वरेभ्यो नमः।" आचार्य्यवर्य-श्रीमद्विजयदानसूरीश्वरान्तिषत्- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- कर्मसिद्धिः। Sister प्रणम्य श्रीमहावीरं, विश्वतत्त्वोपदर्शकम् । विश्ववैचित्र्यनिर्वाहा, कर्मसिद्धिः प्रतन्यते ॥१॥ सुविदितं ह्येतत् शेमुषीशालिशेखराणां विधुधवृन्दवर्याणाम् , यदुत दृष्टमात्ररमणीयशब्दादिपञ्चविषयगिरिशिखरकूट विकटी- भूतपथे नानाविधधनधान्यादिसमुपार्जनेहारूपमहामरुत्पूर्णको- धाधुग्रकषायचतुष्कपातालकलशाकुले मानसिकसंकल्पविकल्प- तरतरले साग्निविहलीभूते घोररोगशोकादिस्वरूपमत्स्य- कच्छपायनेकजन्तुजातव्याकुले चराचरेऽसिन् संसारनीराकरे केचिदाधिच्याध्युपाधिपरिपीड्यमानाः, केचित्तु प्राज्यराज्यैश्व- यस्त्रीविलासाधनेकविधाल्पकालिकसुखाभाससमुत्कण्ठितचेत- सा, अन्ये तु यमनियमपोतारूढा अपि दुर्मतिमत्सरशाठ्यादि- विद्युदुर्वातगर्जनैः मिथ्यात्वपङ्किलस्खलनायुत्पादात् भ्रान्तचे- तसोदरीदृश्यन्ते, तनिवन्धनं कर्मान्तरेण न किमपि पश्यामः ।

२ - अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- तदुक्तं वाचकपुङ्गवैः श्रीमद्यशोविजयगणिभिः- "येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैर्भिक्षाऽपि नाप्यते ॥१॥" तथा चोक्तम्- रमाराज्यभ्रंशः खजनविरहः पुत्रमरणम् , प्रियाणां च त्यागो रिपुबहुलदेशे च गमनम् । हरिश्चन्द्रो राजा वहति सलिलं प्रेतसदने, भवस्था तस्यैषा अहह ! विषमाः कर्मगतयः॥१॥ नीचैगोत्रावतारश्वरमजिनपतेमल्लिनाथेऽबलात्व- मान्ध्यं श्रीब्रह्मदत्ते भरतनृपजयःसर्वनाशश्च कृष्णे। निर्वाणं नारदेऽपिप्रशमपरिणतिः स्याचिलातीसुतेवा, त्रैलोक्याश्चर्यहेतुर्जयति विजयिनी कर्मनिर्माणशक्तिः अन्यैरपि- "ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे। रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते, सूर्यो भ्राम्यति नित्यमेव गगनेतस्मै नमः कर्मणे १" वौद्धरपि- "इत एकनवतितमे कल्पे, शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः। ॥१॥" इत्यादिनेदं दरीदृश्यमानं विश्ववैचित्र्यं कार्यवैचित्र्यनिर्वा- हकविचित्रशक्तियुक्तकर्मकृतमेव स्फुटतया निश्चीयते । ननु मनुष्यत्वपशुत्वादिविश्ववैचित्र्यं प्राग्भवीयमनुष्यत्वा- दिगत्युत्पादकक्रिययैवोपपाद्यतां किमन्तर्गडना कर्मणेति चेत् । - -- कर्मसिद्धिः। न, खाधिकरणक्षणावच्छेदेनैव फलजनकत्वेन व्यवहितहेतोः फलपर्यन्तव्यापारव्याप्यत्वावधारणादत एव-अन्येषां मतेऽपि "वर्गकामो यजेत" इत्यत्रादृष्टद्वारा हेतुत्वकल्पनं संगच्छते, तथा चोक्तमुदयनाचार्य:- 'चिरध्वस्तं फलायालं, न कर्मातिशयं विना।' इति । ननूपादानकारणवैचिच्यात् शरीरवैचित्र्यं शरीरवैचित्र्याच भोगवैचित्र्यं शरीरसंयोगवात्मनीति किमदृष्टकल्पनयेति चेत् ? न, शरीरसंयोगस्यात्मनीवाकाशादावपि सत्वेन तत्रापि भोगा- पत्तेः, उपष्टम्भकसंयोगेन तस्य भोगनियामकत्वे तूपष्टम्भक- संयोगप्रयोजकतयैवादृष्टसिद्धिः। तदुक्तं श्रीमद्भिः हरिभद्रसूरिपादैः शास्त्रवार्तासमुच्चये- 'आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्र-मदृष्टं कर्मसंज्ञितम् ॥१॥" इति । अपि चैकजातीयदुग्धपानादौ कथं पुरुषभेदेन सुखदुःखा- दिभेदः, न च कचिहुग्धादेः कर्कट्यादिवत् पित्तायुद्धोधक- त्वेन तद्भेदसिद्धिरिति वक्तव्यम् , सर्वत्र तदापत्तेः । ननु यथा भेषजं कस्यचिव्याधिमपनयति, कस्यचिन्न, कस्यचिद्विपरीत- मपि जनयति, तद्वदनापीति चेत् ? न, दुग्धपानादेः तृप्तिम- त्वेन साक्षात् सुखादितौल्यात् , उत्तरकालं तु धातुवैषम्यात् न तथा एवमेव कर्कट्यादिष्वपि साक्षात् तृप्तिमत्त्वेन सुखादि- तौल्यं स्यादेव ततः पित्तायुद्धोधकधातुवैषम्याभाव विशिष्टदु- ग्धपानत्वादिना सुखादिहेतुत्वकल्पनापेक्षयाऽदृष्टप्रयोज्यजात्य- वच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वेन लाघवमिति । नन्वदृष्टम- - अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- न्तरेणाभ्रविकाराणां स्वभावतो विचित्रतोपलभ्यते, तद्वत्सुखा- दिवैचित्र्यमपि स्वभावतो भविष्यतीति चेत् ? न, खभावस्यैव निराकरिष्यमाणखात् । किञ्च पुद्गलमयले समानेऽपि जीव- युक्तवरूपविशेषकारणसद्भावे च प्रत्यक्षेण दृश्यमानस्थूल- तनोः किं विचित्रता स्वीक्रियते न वा, स्वीकारे तद्धेतुकं विचित्र स्वभावमदृष्टं स्वीकरणीयं स्यादेव, अस्वीकारे तु प्रत्यक्ष- बाधः । अपि च भवान्तरगतस्थूलशरीरनिवन्धनीभूतकार्मण- शरीरमन्तरेण परित्यक्तस्थूलशरीरजन्तोरागामिभवशरीरग्रह- णाभावः स्यात् , न च निष्कारण शरीरपरिग्रहो युज्यते, ततश्च परित्यक्ततनोस्तदनन्तरमेव संसारव्यवच्छित्तिः स्यात् । शरी- राभावेऽपि भवभ्रमणसम्भवे च मुक्तात्मनामपि संसारापत्तिः, एवं च सति मोक्षेऽनाश्वासः इति । प्रयोगाश्चात्र सहेतुकाः सुखदुःखादयः कार्यत्वात् घटादिवत् । न चेष्टसंयोगादयः सुखस्यानिष्टसंयोगादयो दुःखस्येति वाच्यम् , तुल्येऽपि साधने फलभेददर्शनात , तस्मात् यदेव तयोरसाधारणं कारणं तदेव कर्मेति । तदुकं श्रीजिनभद्रगणिक्षमाश्रमणपादैः- "अस्थि सुहदुक्खहेऊ, कजओ बीयंकुरस्सेव । सो दिहो चेव मइ-बभिचाराओन तं जुत्तं ॥१॥ जो तुल्साहणाणं, फले विसेसो न सो विणा हे। कनत्तणओ गोयम! घडोघ हेऊ य से कम्मं ॥२॥” शास्त्रवार्तासमुच्चयेऽपि- "तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फल भेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥१॥ - . कर्मसिद्धिः। - तस्मादवश्यमेष्टव्य-मन्त्र हेत्वन्तरं परैः। तदेवादृष्टमित्याहु-रन्ये शास्त्रकृतश्रमाः॥२॥” इति । एवमाद्यबालशरीरं शरीरपूर्वकमिन्द्रियादिमत्त्वात् युवशरी: स्वत् । न च पूर्वभवशरीरपूर्वकमित्यारेकणीयम्, तस्सापान्त- रालगतावभावात् । न चाशरीरिणो गर्भावस्थायां शरीरपरिग्रहो युक्तः, तन्नियामककारणाभावात् । न च स्वभावस्तनियामक इति वक्तुं शक्यते, स्वभावस्य निराकरिष्यमाणत्वात् , तसाद् यदेव नियामकं तदेव कर्मेति । तदुक्तं- "बालसरीरं देहान्तरपुवं इन्दियाइमत्ताओ। जह बालदेहपुचो, जुवदेहो पुवमिह कम्मं ॥१॥” इति । • तथा दानादिक्रिया फलवती चेतनारब्धत्वात् कृष्यादि- क्रियावदित्यनुमानेनाप्यदृष्टसिद्धिः । चेतनानारब्धत्वेन पर- माण्वादिक्रियायां नातिप्रसङ्गः । न च चेतनारब्धाऽपि का- चित्कृष्यादिक्रिया फलाभाववती भवत्यतोऽनैकान्तिक इति शक्यते प्रलपितुम् , फलोद्देशेनैवारम्भात् , यद्वा देवादिसामग्री- विकलत्वेन फलाभाववत् मनःशुद्ध्यादिसामग्र्यभावविशिष्टदा- नादिक्रियाया अपि फलाजनकत्वात् । ननु कृष्यादिक्रियायाः दृष्टधान्यादिफलवत् दानादिक्रियाया अपि मनःप्रसत्यादि- दृष्टफलमेवास्तु किमदृष्टकल्पनयेति चेत् ? तर्हि तस्या अपि क्रियारूपत्वेन फलावश्यंभावात् , ततोऽवश्यमदृष्टरूपं फलमेष्ट- व्यम् । ननु मनःप्रसत्यादिरूपायाः क्रियायाः दानादिक्रियारूपं दृष्टफलमेवास्तु दृष्टमात्रेणैव निर्वाहे सति किमदृष्टकल्पनयेति चेत् ? न, मन प्रसत्यादिक्रियां प्रति दानादिक्रियायाः निमि- - ६ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- चकारणत्वात् , नहि भवति यस्य यनिमित्तकारणं तत्तस्य फलमन्यथा दण्डोऽपि घटफलतामापयेत । नन्वस्तु दानादिक्रि- यायाः श्लाघादिकमेव फलं कृष्यादिक्रियातः धान्यादिफलमिव, किमदृष्टकल्पनाप्रयासेन, दृष्टफलासु क्रियासु एव प्रायशो लोकानां प्रवृत्तिदर्शनात् , केपाश्चिदेवादृष्टफलासु प्रवृत्तिदर्शना- चेति चेत् न, कृष्यादिक्रियातोऽपि दृष्टं धान्यादिकं फलं भ- वतु मा वा परमशुभारम्भव्याप्यपापरूपं फलं तु भवत्येव । ननु दानादिक्रियायामाशंसितत्वेन भवत्वदृष्टरूपं फलं, परं कृष्यादि- क्रियायामनाशंसितत्वेन तत् कथं भवतीति चेत् ? नन्वनाभोगतः कुत्रचित्प्रदेशे पतितं वीजं सामग्रीसद्धावे किं फलं न जनयति? तद्वदत्रापि, अन्यथा पशुवधादिकर्तृणां सर्वेषां मुक्त्यापत्तेः दानादिकर्तृणां संसारानन्त्यापत्तेश्च । नन्वेवमपि नः का क्षति- रिति चेत् ? शृणुत कृषिहिंसाघशुभानुष्ठातृणां सर्वेषां मुक्तिगमने एकोऽपि तदनुष्ठाता तत्फलानुभविता च न प्राप्येत, प्राप्यरँच केवलाः शुभक्रियानुष्ठातारः तत्फलानुभवितारश्च, न चैवं दृश्यते, तसात् सर्वासामपि क्रियाणां विचित्रखात् विचित्रस्व- भावं तद्भिन्नमदृष्टरूपं फलं भवतीति द्रष्टव्यम् । तथा स्वपरप्रमेय- प्रकाशकैकस्खभावस्थात्मनः हीनगर्भस्थानविग्रहविषयेषु विशिष्टा- भिरतिः आत्मतव्यतिरिक्तकारणपूर्विका, विशिष्टाभिरतिखात्, जुगुप्सनीयपरपुरुपे कमनीयकुलकामिन्याः तन्वायुपभोगजनित- विशिष्टाभिरतिवत् । तथा विग्रहवतां मोहोदयो विग्रहादिव्यति- रिक्तसंसर्गपूर्वको मोहोदयत्वात् मद्यपमोहोदयवत् । एवं संसा- रिज्ञानमशेषार्थ स्वविषये सावरणं भवति, तत्राप्रवृत्तिमत्वात्, यत् ज्ञानं खविषयेऽप्रवृत्तिमत् तत्सावरणं । यथा कामलिना .

कम्मसिद्धिः। शकविज्ञानमित्यांचनेके प्रयोगा अदृष्टसिद्धौ स्वयमेवोद्याः। ननु मनुष्यत्वादिपरिणामपरिणतानामेव विचित्रस्वभावताऽस्तु किमदृष्टकल्पनया? कल्पने च तत्कर्तृत्वेनात्मनोऽप्यभ्युपगम- प्रसङ्गः इति चेत् ? असौ कल्पनावजप्रहारो नास्तिकानां शि- रस्यस्तु, असामिस्तु तत्कर्तृत्वेन भूतातिरिक्तात्मनः स्वीकृत- लादिति । तदुक्तं- "भूतानां तत्वभावत्वा-दयमित्यप्यनुत्तरम् । न भूतात्मक एवात्मे-यतदत्र निदर्शितम्॥१॥” इति । तत्तक्रियाध्वंसस्य विश्वविचित्रताया कारणलनिराकरणं तु कल्पलतातोऽवसेयम् । १ अत्रोच्छृङ्खला नैयायिकाः अस्तु तत्तक्रियाध्वंस एव व्यापारः किमपूर्वेण ? न चैवं क्रियायाः प्रतिबन्धकलव्यवहारापत्तिः, संसगाभावलादिना कारणीभूता- भावप्रतियोगित्वेनैव तव्यवहारात् । न चैवं संस्कारोऽप्युच्छियेत, अनुभवध्वंसे- नैवोपपत्तेः, उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनाऽनतिप्रसनादिति वाच्यम् , इष्टवात् । न चैवं प्रायश्चित्तादिकम (मि)णोऽपि फलापत्तिः, प्रायश्चित्ताधभाव. वत्कर्मत्वेन कारणलात् । न चैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृते प्रतियोगिनि तत्प्रायश्चित्तस्य निवेशे दत्तफलादपि फलं न स्यात् , अनिवेशे चादत्त- फलादपि फलं स्यादिति वाच्यम् , अदत्तफलनिष्ठोद्देश्यतया तदभावस्य वाच्यत्वात् । एतेन-'प्रायश्चित्तं न नरकादिप्रतिवन्धकम् , आशुविना- शित्वेन तदुत्पत्त्यवारकलात् । नापि तध्वंसः, प्रायश्चित्तानन्तरकृतगोवधादितो नरकानुत्पत्त्यापत्तेः । न च तत्तप्रायश्चित्तप्राग्वर्तिगोवधादिजन्यनरके तत्त. प्रायश्चित्तध्वंसः तथा, प्राग्जन्मकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः । 'तज- न्मकृत' इति प्राग्वर्तिगोवधाविशेषणे लप्रसिद्धिः' इत्यपास्तम् । नचापूर्वाखो- कारेऽअप्रधानव्यवस्थानुपपत्तिः, प्रधानकथंताप्रवृत्तिविधिविधेयत्वादिनामवस्य सुवचत्वात् , इत्याहुः। तदसत्, तत्कियोद्देशेनान्यप्रायश्चित्ते कृतेऽपि फलानापत्तेः। तत्तत्प्रायश्चित्ताभावनिवेशात तत्तत्प्रायश्चित्तविशिष्टादत्तफलधंसातिरिक्तध्वंसस्य -- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- अपि च भवति प्रवृत्तिः कर्मक्षयार्थित्वेन, न तु दुःखध्वंसार्थि- त्वेन दुःखध्वंसस्य पुरुषोद्यम विनापि भावादितोऽप्यदृष्टसिद्धिः। ज्योतिश्चक्रादयोऽप्यदृष्टमपेक्षन्ते, अन्यथा गुरुत्वेन झटिति पातादिप्रसङ्गादिति । प्रकटयति चात्र कालवादी स्वकीय विचारचातुर्यम् । तथाहि-विश्ववैचित्र्यं निखिलं कालकृतमेव, तदेव भावयाम:-' आम्रपिचुमन्दादयो निखिला अपि वनस्पतयः कालेनैव फली- भवन्ति, न च तमन्वरेण, अन्यथा कथं न फलीभवन्ति ये मधुमासादौ फलप्रदाः ते भाद्रपदादौ, एवं नारकादिनिखिल- . कार्यजातं भावनीयम् । कालमन्तरेणापि च भवने कार्यजा- तस्योत्पत्त्यनन्तरमेव लयः स्यात् । स्थितिपरिपाकमन्तरेण च कर्मापि नोदेति । अन्यच्च-कालस्य कर्तृत्वाखीकारे लघुतरव- व्यापारखात् वा नानुपपत्तिरिति चेत् ? । तथापि तत्त्वज्ञानिक्रियया भोगा- पत्तिः । तद्धंसातिरिक्तवमपि निवेशनीयमिति चेत् ? तथापि ध्वंसस्यानन्तत्त्रेन भोगानन्तवापत्तिः । चरमभोगानन्तरं व्यापारसत्त्वेऽपि प्रागभावाभावादेव न फलोत्पत्तिरिति चेत् ? तर्हि प्रायश्चित्तस्थलेऽपि प्रागभावाभावादेव भोगानुत्पत्तिरिति किं तदभावादिनिवेशेन ?। प्रायश्चित्तविधिसामर्थ्य तु विजातीयप्रायश्चित्तानां विजातीयाऽदृष्टनाशकत्वमेवोचितम् , आगमासंकोचात् , लाघवाच्च । एतेन चरम- भोगप्रागभावविशिष्टोक्तध्वंसाधारतासम्बन्धेन क्रियाहेतुत्वमप्यपास्तम् , विशेष्य- विशेषणभावे विनिगमनाविरहाच्च । किञ्च तक्रियाणां तत्तत्प्रायश्चित्तोद्देश्यलमपि तत्तत्क्रियाजन्यकर्मनाशेच्छाविपयतयैव सुनु निर्वहति, नान्यथा, इत्यतोऽप्यदृष्ट- सिद्धिः । किञ्च प्रारजन्मकृतानां नानाकर्मणां न योगोद्देश्यखमस्ति, नच तत- स्तन्जन्यफलम् , इति योगरूपप्रायश्चित्तस्यादृष्टनाशकलं विना न निर्वाहः । नच योगात् कायव्यूहद्वारा भोग एवेति साम्प्रतम् , नानाविधानन्तशरीराणामेक- दाऽसंभवादिति स्पष्टं न्यायालोके । नच योगस्य प्रायश्चित्तलखीकारे भवतामप- सिद्धान्त इति वाच्यम्, "सव्वा वि पवजा पायच्छित्तं भवंतरकडणं पावाणं कम्माणं।" इति ।

कर्मसिद्धिः ।
०९
यस्याः बालाया अपि गर्भोत्पत्तिः स्यात् , न च स्त्रीपुंसंयोग-
रूपकारणाभावानंदभावः इति वाच्यम्, केनचित् बालेन. सह
बालिकायाः तादृक्संयोगस दृश्यमानत्वात् , तादृक्संयोगस
बालक्रीडाप्रयोजकत्वेन न स गर्मोत्पत्तिहेतुक इत्यपि नाशङ्क-
नीयम् , कस्याश्चिद्युवत्या अपि तासंयोगसत्त्वेऽपि गर्भाधा-
नादर्शनात् , एवमुभयोः तादृशसंयोगसत्त्वेऽपि एकस्या गर्भा-
धानं नान्यस्याः अतस्तत्रापि काल एव हेतुः । किञ्च परामि-
मतस्य स्त्रीपुंसंयोगजन्यगर्भजननस्यापि विलम्बे काल एव हेतु:,
न च तजन्मनि गर्भपरिणतिरेव हेतुरिति वाच्यम् , कचिदप-
रिणतस्यापि गर्भस्य जन्मश्रवणात् । तथा बालाद्यवस्था, शीतो-
ष्णवर्षाद्युपाधिः, व्यापारवत्त्वेन दण्डस्य सत्त्वेऽपि घटजन्मनि
विलम्ब इत्यादयो भावाः कालहेतुका एव, अन्येषामन्यथा-
सिद्धत्वेन न हेतुतेति । किं बहुना मुद्यक्तिरपि वैजात्यवह्नि-
संयोगस्थाल्यादिसन्निधानेऽपि कालमन्तरेण न भवितुं प्रभ्वी,
तदानीं मुद्गपक्तिजनकवैजात्यसंयोगाभावात्-तदभाव इत्यपि
मनस्तरङ्गो न विधेयः, तत्रापि हेवन्तरकल्पनस्यावश्यकत्वेन
तदपेक्षया कालस्यैव हेतुत्वकल्पनौचित्यात् ।
तदुक्तं-
"न कालव्यतिरेकेण, गर्भबालयुवादिकम् ।
यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥१॥
काल पचति भूतानि, कालः संहरति प्रजाः।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥२॥
किञ्च कालाइते नैव, मुगपक्तिरपीक्ष्यते ।
स्थाल्यादिसन्निधानेऽपि, ततः कालादसौमता ॥२॥

१० अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- कालाभावे च गर्भादि, सर्व स्यादव्यवस्थया। परेष्टहेतुसद्भाव-मात्रादेव तदुद्भवात् ॥ ४॥” इति । अथैकस्यापि कालस्य सर्वकार्यहेतुत्वे युगपत् सर्वकार्योत्पत्तिः, तत्तत्कार्ये तत्तदुपाधिविशिष्टकालस्य हेतुत्वे उपाधीनामवश्यक्ल- सत्वेन तेषामेव कार्यविशेषे हेतुत्वमुचितम् , किमजागलस्तन- कल्पेन कालेनेति चेत् ? अत्र नव्याः क्षणरूपः कालोऽतिरिक्त एव, नच स्वजन्यविभागप्रागभावावच्छिन्नकर्मणः तथात्वमिति वाच्यम् , विभागे तदभावापत्तेः, पूर्वसंयोगावच्छिन्नविभागस्य तथात्वमित्यपि न वक्तव्यम् , अननुगमादिति । तत्क्षणवृत्ति- कार्ये तत्पूर्वक्षणवृत्तित्वेन कालस्य हेतुत्वम्, तत्क्षणस्य खसा- दभेदेऽपि 'इदानी क्षण' इति प्रतीतिवलात कालिकाधाराधेय- भावस्यावश्यकत्वेन तत्क्षणवृत्तित्वं नासिद्धम् । एतेन क्षणिक- त्वमपि नानुपपन्नम्, तत्तत्क्षणतन्नाशानां तत्तत्पूर्वक्षणजन्य- त्वात् , तथा च क्षणक्षयिणा क्षणेनैव कार्योत्पत्तौ किमतिरि- तहेतुकल्पनयेति । न चैकसिन्नेव क्षणे कपाले घटादिकं तन्तौ पटादिकं कार्यमिति देशनियमार्थमतिरिक्तहेतुसिद्धिरिति वा- च्यम् , काचित्कस्य नित्य इवानियेऽपि स्वभावतः सम्भवात् काचित्कस्यैव हेतुनियम्यत्वेन तदापत्यभावात् , अथ क्षणस्से- वान्येषामपि नियतपूर्ववर्तित्वेन कथं हेतुत्वप्रतिक्षेपः क्रियत इति चेत् ? न, अवश्यक्लुप्तनियतपूर्ववर्तिनः एव कार्यस- म्भवे तयतिरिक्तानामनन्तनियतपूर्ववर्तिनामन्यथासिद्धत्वक- ल्पनेन लाघवादित्याहुः तसात् विश्वविचित्रता निखिलापि कालकृतेति ध्येयम् । . - ११ . अत्राह स्वभाववादी कालवादिनं प्रति, भो कालवादिन् ! विश्ववैचित्र्यं कालकृतं त्वयोक्तं तदस्मद्युक्तिमुद्गरेण घट इव नक्ष्यति, तथा हि आम्रराजादनीपिचमन्दादयो निखिला अपि वनस्पतयः खभावत ऐव' मधुमासादौ फलप्रदा भवन्ति, न कालविलम्बात्, यत्चयोक्त-"अन्यथा कथं न फलीभवन्ति ये मधुमासादौ फलप्रदाः ते भाद्रपदादौ" तदपि न रमणीयम् , भाद्रपदादौ तादृक् स्वभावाभावात् , अन्यथा पिचुमन्दे आम्र- फलमाने पिचुमन्दफलं, हिंसाधशुभक्रियातः खर्गादिकं, सुपा- त्रदानादिक्रियातः नरकादिकं, मृदः पटादिकं, तन्वादितः घटादिकं, सिकतातः तैलं रज्जुश्च, जलात् नवनीतं, करतले रोमराजयः, महिलायाः श्मश्रु, वन्ध्यायाः पुत्रोत्पत्तिः, पुरु- पस्स गर्भाधानं, शर्कराद्राक्षेक्षुरसगुडगोक्षीरादिमधुरपदार्थेषु कटुत्वं, घोषातकीप्रमुखकटुकपदार्थसार्थेषु माधुर्य, गोक्षीरकुन्दे- न्दुतुषाररजतबलाकादिवस्तुजातेषु श्यामत्वं, मयूरपिच्छादौ चित्ररूपाभावः, सर्प निर्विषत्वं, पर्वते चलत्वं, वायौ स्थिरत्वं, मत्स्यतुम्बयोभूमौ तरणं, द्विकस्य जले तरणं, पक्षिगणस्य गगने गमनाभावः, वहौ तिर्यग्गमनं शीतत्वं च, नागरे कफजनकत्वं, गुडे पित्तजनकत्वं, हरीतक्यां विरेचनाभावः, रवितापे शीत- वं, चन्द्रे चोष्णत्वमित्येवंरूपेण चैपरीत्येनापि कार्यजातं कदाचिदुपलभ्येत कालस्य समानत्वात् , न च तथोपलभ्यते, किन्तु मृदो घटः, तन्तुभ्यः पटः, शर्करायां माधुर्यमित्यादि- प्रतिनियतरूपेणेति । एवं वदर्याः कण्टका तीक्ष्णः वक्रश्चैकः सरलोऽन्यः, वर्तुलं फलं तथा कुत्रचित् शिलाखण्डे प्रतिमारूपं विद्यते तच्च कुडमागरचन्दनविलेपाघनुभवति, धूपाद्यामोदं - १२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- चान्यसिंच पापाणखण्डे पादक्षालनमित्यादि, तसात् सर्व स्वभावजमेवेति भाव्यम् । तथा चोक्तं. ... , , , "न स्वभावव्यतिरेकेण, गर्भयालयुवादिकम् । यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥१॥ सर्वे भावाः स्वभावेन, स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते, कामचारपराङ्मुखाः॥२॥ न विनेह खभावेन, मुद्गपक्तिरपीष्यते । तथा कालादिभावेऽपि, नाश्वमाषस्य सा यतः॥३॥ अतत्वभावात् तद्भावे-ऽतिप्रसङ्गोऽनिवारितः। तुल्ये तत्र मृदः कुम्भो, न पटादीत्ययुक्तिमत् ॥४॥ कः कण्टकानां प्रकरोति तश्पर्य, विचित्रमा मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रवृत्तिः॥५॥ कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥ ६ ॥ बर्याः कण्टकस्तीक्ष्णः, ऋजुरेकश्च कुञ्चितः। 'फलं च वर्तुलं तस्य, वद केन विनिर्मितम् ॥७॥” इति। अन्यत्तु कार्यजातं दूरे तिष्ठतु, मुद्गपक्तिरपि न स्वभावमृते भवितुं प्रभुः, तथाहि-प्रतिनियतकालव्यापारादिसामग्रीसन्नि- धानेऽपि नाश्वमाषपक्तिरुपलभ्यते, तसाद्यद्यद्भावे भवति तत्त- दन्वयव्यतिरेकानुविधायि तत्कृतमिति। न शक्यते वक्तुमश्वमा- पापक्तिः वैजात्यामिसंयोगाभावादिति, एकयैच क्रियया तत्त- कर्मसिद्धिः। ‘दन्यामिसंयोगात्, अन्यथाऽश्वमाषभिन्न मुद्गानामप्यपाकापत्तेः। न चादृष्टाभावादश्वमाषापक्तिः, दृष्टसाद्गुण्ये तद्वैषम्यायोगात्, अन्यथा दृढदण्डप्रेरितमपि चक्रं न भ्राम्येत् , तसात् खभाव- वैषम्यादश्वमाषापक्तिरिति सुदृढतरमवसेयमिति । ननु सामग्येव कार्यजनिकाऽस्तु किं स्वभावेन, अश्वमाषादौ खरूपयोग्यताभावात् तदपाक इति चेत् १ न, अन्तरङ्गकारणे- नैव कार्योत्पत्तौ तद्भिन्नस्यान्यथासिद्धत्वात् । ननु स्वभाव एवान्तरङ्गाकारणं न सामग्रीति कथं निर्णयः इति चेत् खस्य भावः कार्यजननपरिणतिः इति स्वभावस्य व्युत्पत्त्यर्थत्वात्, खभावपरिणते: । कार्यैकव्यङ्ग्यत्वेन मृत्स्वभावाविशेषेऽपि न घटादिकार्यविशेषाभावप्रसङ्गः, अन्यथाङ्कुरजननखभावं कुशू- लस्थं बीजमप्यङ्करं जनयेत् , अथ सहकारिसमवधाने स्वभावस्थ कार्यजनकत्वेन कुशूलस्थं बीजं कथं कार्य जनयेदिति चेत् ? न, सहकारिचक्रानन्तर्भावेन तस्य वैजात्यवीजत्वेनाङ्करहेतुत्वौ- चित्यात् । ननु सहकारिचक्रस्यातिशयाधायकवं खयापि स्वी- कृतमतस्तस्यैवाङ्कुरजनकत्वमप्युचितमिति चेत् १ न, पूर्वपूर्वोपा- दानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् । एतेन- "चरमक्षणपरिणामरूपवीजस्यापि द्वितीयादिक्षणपरिणामरूपा- कुराजनकत्वात्, व्यक्तिविशेषमवलम्ब्यैव हेतुहेतुमद्भावो वाच्यः, अन्यथा व्यावृत्चिविशेषानुगतप्रथमादिचरमपर्यन्ताङ- रक्षणान् प्रति व्यावृत्तिविशेषानुगतानां चरमवीजक्षणादिको- पान्त्याङ्कुरक्षणानां हेतुत्वे कार्यकारणतावच्छेदककोटावनेकक्ष- णप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात् । तथा च तज्जातीयात् १४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- कार्यात् तजातीयकारणानुमानभङ्गप्रसङ्ग" इत्यपि कालवादो निरस्तः। सादृश्यतिरोहितवैसादृश्येनाङ्कुरादिना तादृशवीजादी- नामनुमानसंभवाद, प्रयोज्यप्रयोजकमावस्यैव विपक्षबाधकत- कस्य जागरूकत्वात् , इत्यादिकं विवेचितमध्यात्ममतपरीक्षायां न्यायाचायः, तत एवावलोकनीयं विस्तारार्थिनेति । तसात् विश्ववैचित्र्यं न कालकृतं किन्तु स्वभावकृतमवगन्तव्यमिति । अत्र नियतिवादिनः स्वकीयं युक्तिकदम्बकं प्रकटयन्ति । तथा हि-जगति ये केचन भावा भवन्ति ते नियतिजा एव, 'कथं न सफलीभवन्ति ये मधुमासादौ फलप्रदास्ते भाद्रप- दादौ' इत्यत्र स्वभावतया कालवादिनं प्रत्युत्तरितं तत्तव न शोभा विभर्ति, यतः-स्वभावस्य सत्वेऽपि मधुमासादावेच केचिदाम्रा अतिफलभारेण नम्रीभूता भवन्ति, केचित्तु वन्ध्या:, केचित्त्वल्पफला:, किंबहुना ? एकस्यैवानस्य मञ्जर्या व्याप्त- सापि न तादृशान्याम्रफलानि भवन्ति, यानि च भवन्ति तत्रापि बहूनि त्वपक्वान्येव भूमौ निपतन्ति, स्तोकानि च परि- पक्कफलानि भवन्त्यतो नियति विमुच्य नान्यत् किमपि बीजं विश्ववैचित्र्ये पश्यामः । अथ स्वरूपयोग्यताभाव एव वीजमिति चेत् ? न, खरूपयोग्यतायाः वस्तुखरूपत्वे उक्तदोपतादव- स्थ्यात् , तद्भिन्नत्वे नियतेरेव नामान्तरेणाभिधानात् । किञ्च मधुमासे आम्रवृक्षशाखायां कोकिलो रवं कुर्वन् तिष्ठति, तसिन्नवसरेऽधस्तस्य वधार्थ कश्चित् व्याधो धनुपीपुं-समारोप्य तिष्ठति, उपरि च तद्वधार्थ सिञ्चानका समयमवलोकयति, तसिंश्चावसरे व्याधोऽहिना दष्टः सन् भूमौ निपतितः तसि- , - . कमसिद्धिः। १५ नेव काले करान्मुक्तः शरोपि, गत्वा सिचानकं विव्याध, कोकिला निर्मीको भूत्वोडयित इति । अत्र कोकिलरक्षणे नि- यति विना को हेतुरन्यः,एवं ब्रह्मदत्तस्यान्धत्वादावपि बोध्यम् । तदुक्तम्- "नियतेनैव रूपेण सर्वे, भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्खरूपानुवेधतः॥१॥ यद्यदैव यतो यावत्, तत्तदैव ततस्तथा । नियतिंजायतेन्यायात्, क एतांबाधितुंक्षमः१२" इति। अनुमानं चेत्थं सर्वे भावाः नैयत्यनियामकतत्त्वान्तरोद्भवार, सजातीयविजातीयव्यावृत्तस्वभावानुगतरूपेणैव प्रादुर्भावात् , नियतिकृतप्रतिनियतधर्मोपश्लेषाद्वा, यथा तीक्ष्णशस्त्राद्युपहता- नामपि मरणनियतभावेन मरणं जीवननियतभावेन जीवन- मिति । न चाप्रयोजका, यद्यसिन्काले यन्निमित्तात् यावद्दे- शव्यापि जायमानं कार्य दृश्यते, तत्तसिन् काले तनिमित्तात् तावद्देशव्यापि भवतीत्यनुकूलतर्कस्य विद्यमानत्वेन नियतरूपा- वच्छिन्नं प्रति नियतेरेव हेतुत्वात् , अन्यथा नियतरूपस्याक- सिकत्वापत्तेः, न च तावद्धर्मत्वं न जन्यतावच्छेदकं किन्त्वर्थ- समाजसिद्धमिति वाच्यं, नियतिजन्यत्वेनैवोपपत्तावर्थसमा- जाकल्पनात्, भिन्नसामग्रीजन्यत्वे चैकवस्तुरूपव्याघातप्रस- तेश्चेति । एवं मुगपक्तिरपि खजनकखभावव्यापारादिसत्त्वेऽपि नियतरूपैव, नानियतरूपेत्यत्र नियतिमन्तरेण नान्यत् किमपि कारणं पश्यामः । अथ स्वभावप्रयोज्यं नैयत्यमिति चेत् ? न, खभावस्य कार्यैकजात्यप्रयोजकत्वात् , . सातिशयखभावस्थापि - अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- कार्यविशेष एव प्रयोजकत्वात् , पक्त्यन्तरसाजात्यवैजात्योभ- यसम्बन्धस्य नियतिमन्तरेणासंभवात् । ननु हेतुना व्यक्तिरेव जन्यते, उभयसंसर्गस्तु समवायरूपतत्त्वान्तरसंसर्गादिति चेत् । न, समवायाभावात् । तथा हि- ननु समवायः समवायिनो भिन्नोऽमिन्नोवा' अभिन्नश्चेत ? नित्योऽनित्यो वा ?, नित्योऽप्येकोऽनेको वा । अभिन्नो नित्य एकश्चेत् ? अनित्यसमवायिनो नित्यतापत्तिरेकत्वापत्तिश्च । अभिन्नो नित्योऽनेकश्वेत् ? अनित्यसमवायिनो नित्यतापत्ति- दुर्निवारैव । अभिन्नोऽनित्य एकश्चेत् ? नित्यानामपि परमा- ण्वादीनामनित्यतापत्तिरेकत्वापत्तिश्च । अभिन्नोऽनित्योऽनेक- श्चेत् ? नित्यानामनित्यतापत्तिस्सुदुर्निवारा । एतेषु चतुर्वपि खसिद्धान्तव्याकोपश्च । एवं भिन्नोऽनित्यः एको भिन्नोऽनित्यो- ऽनेक इति पक्षद्वयेऽपि स्खसिद्धान्तव्याकोपो वाच्यः। भिन्नो नित्य एकश्चेत् ? गुणगुणिनोः जातिव्यक्त्योः क्रियाक्रियाव- तोरयुतसिद्धयोः सम्बन्धनियामकत्वेनातिरिक्तसमवायकल्पन- मिव समवायस्यापि तत्त्वान्तरत्वेन तस्यापि सम्बन्धनियामक- त्वेनातिरिक्ततत्त्वान्तरकल्पनापत्तिः। न च समवायः खरूपेणैव तत्र सम्बद्ध इति वाच्यम्, अयुतसिद्धयोरपि स्वरूपेणैव सम्ब- द्धत्वस्वीकारेणैव निर्वाहे सत्यतिरिक्तकल्पनायां मानाभावात् । वायौ रूपवत्ताबुद्धिप्रसङ्गश्च । भिन्नो नित्योऽनेकश्चेत् ? अनन्त- समवायापेक्षया लाघवेन स्वरूपसम्बन्धकल्पनमेव न्याय्यम् । समवायसत्त्वेऽपि तत्सम्बन्धनियामकतत्त्वान्तरगवेषणप्रसङ्गाच। अपि च दण्डादिसामग्रीसत्त्वेऽवश्यं घटो भविष्यतीति न .

कम्मसिद्धिः। - - . , सम्यनिर्णयः, अपितु सम्भावनैव सामग्रीसत्त्वेऽपि कदाचित घटानुत्पचेरिति न दृष्टहेतुसिद्धिः। अथ नियत्यनिश्चयेन कार्य- जन्मनः पूर्व प्रवृत्तिरेव न स्यादिति चेत् ? न, अविद्ययैव तत्र प्रवृत्तेः, फलप्राप्तेः यादृच्छिकत्वादिति । अपि च नालिकेरपा- दमूलेन पीतं कं कथं तत् फले प्राप्यते, गजभुक्तं च कपित्थं निर्गर्भमभग्नमेव कथं निर्गच्छति', तसात् यद् भावि तद्भवत्ये- . वेति निश्चयः। तथा चोक्तं- "यद्भाव्यं तद्भवत्येव, नालिकेरफलाम्वुवत् । गन्तव्यं गमयत्येव, गजमुक्तकपित्थवत् ॥१॥ न चर्ते नियति लोके, मुद्गपक्तिरपीक्ष्यते । तत्वभावादिभावेऽपि, नासावनियता यतारा"इति । किंबहुना सुखादिकं सुखसाधनं वा सर्व नियतिकृतं न पुरु- पकारादिना, तथा हि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत तर्हि समानेऽपि पुरुषकारे कर्षकादीनां फलवैसादृश्यं केषाञ्चित् फलाभावश्च न स्यात् , केषाञ्चित् पुरुषकाराभावेऽपि विपुल- धनधान्यादिप्राप्तिश्च दृश्यते, ततः सर्व नियतिकृतमेव । नापि कालकृतं तसैकरूपत्वेन विश्ववैचित्र्यानुपपचितः निराकृतः त्वात् । नापीश्वरकृतम् , ताहगीश्वराभावात् । नन्वनुमानात् ताहगीश्वरसिद्धिः, तथाहि-क्षित्यकुरादिक कृतिजन्य कार्यत्वात् घटवत्, न च शरीराजन्यत्वेन सत्प्रति- पक्षितोऽयं कार्यत्वरूपो. हेतुरिति वाच्यम्, अप्रयोजकत्वात् । न चास्तु कार्यत्वं मास्तु कृतिजन्यत्वमित्यारेकणीयम्, कार्य: त्वस्य कृतिजन्यत्वव्याप्यत्त्वादिति चेत् ? न, विद्युदादौ व्यमि- २ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- चारात्, न च विद्युदादीनां पक्षतावच्छेदकाक्रान्तत्वेन तत्र साध्यमेवेति वक्तव्यम्, तथा सति घटादीनामपि पक्षान्तर्वर्ति- त्वेन दृष्टान्तोपादानासंभवात् , अतो विद्युदादेः सपक्षकक्षा- प्रवेशेन तद्वृत्तित्वस्याप्यभावादसाधारणानकान्तिकत्वस्य युक्ति- शतेनापि दूरीकर्तुमशक्यत्वात् । न च कुलालकृतिजन्यत्वस्य घटादौ विद्यमानत्वेन नासाधारण्यमित्याशङ्कनीयम् , तादृश- कृतेस्तु साध्यतावच्छेदकानाक्रान्तत्वात् । किश्चावच्छेदका- वच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यन्ततः क्षितित्वस व्यर्थत्वात् जन्यत्वस्यैव पक्षतावच्छेदकत्वं स्वीकरणीयं स्यात्, तथा च पक्षतावच्छेदकहेतोरक्यप्रसङ्गः । नन्वैक्येऽपि का क्षतिरिति चेत् १ न, उद्देश्यतावच्छेदकविधेययोरैक्येनोपनयवाक्यात् शाब्दबोधानुपपत्तेः। न च स्वरूपसम्बन्धविशेषरूपकार्यत्वस्यैव पक्षतावच्छेदकत्वेन प्रागभावप्रतियोगित्वस्य च हेतुत्वान्न तयोरेक्यमित्यारेकणीयम् , खरूपसम्बन्धरूपकार्यताव्यक्तीनां तत्तयक्तिमात्रपर्यवसितत्वेनानुगतपक्षतावच्छेदकालाभात्, न- चान्यतमत्वेनानुगतव्यक्तीनां पक्षतावच्छेदकत्वमित्याशङ्कनी- यम्, अन्यतमत्वघटितत्वेन गौरवात् । एवं प्रागभावप्रति- योगित्वस्यापि खरूपसम्बन्धविशेषरूपत्वेन तत्तद्धमिव्यक्ति- रूपत्वात् पक्षतावच्छेदकहेत्वोरक्यापरिहारः। न च स्वरूप- सम्बन्धादतिरिक्त प्रतियोगित्वमिति वक्तव्यम् , सप्तैव पदार्था इति वाक्येन विरोधापत्तेः । किञ्च स्वरूपसम्बन्धरूपकार्यत्वस पक्षतावच्छेदकत्वे ताशकार्यत्वस्य परमाण्वादिष्वपि विद्य- मानत्वेन परमाण्वादीनामनित्यत्वापत्तिः। ननु ययोर्विशेष- कार्यकारणभावः तयोरवश्यं सामान्येन कार्यकारणभाव इति . कर्मसिद्धिः। '.१९ - नियम इति चेत् ? तादृशनियमे प्रमाणाभावादिति । अपि च' भवदभिमतो भगवान् स्वार्थात् कारुण्याद्वा भुवनं घटयति ? न प्राच्यः, कृतकृत्यत्वात्तस्य, द्वितीयश्चेत् ? कथं नैकान्तशर्मस- म्पत्कमनीयं विनिर्मिमीते, कथं चाधिव्याधिघटितान्घटयति । भवान्तरोपार्जितशुभाशुभादृष्टप्रेरितः सन् तथा घटयतीति चेत् । तद्यन्तर्गडुना भवानीपतिना किं कृतम्, “घटकुटयां प्रभातम्" इति न्यायेन स्वीकृतं चायुष्मता भवताऽसन्मतम् , किञ्चासौ जाननजानन् वा घटयति ? नान्त्यः, सर्वज्ञत्वव्या- हतिप्रसङ्गात् । आद्यश्चेत् ? विश्वोपद्रवकारिणः पश्चादपि कर्त- व्यनिग्रहान् सुरवैरिण एतत्प्रतिक्षेपकारिणश्चासदादीन् किमर्थ रचयति ?, अपि चासौ मूर्तोऽमूर्तो वा १, मूर्तश्चेत् ? असदादि- वन्न कर्तृत्वं युज्यते, अमूर्तश्चेत् ? आकाशादिवनिष्क्रियत्वेन सुतरामकर्तृत्वम् । एवं सरागपक्षेऽपि कर्तृत्वमसदादिवन युज्यते, वीतरागपक्षे तु विश्ववैचित्र्यं कथं घटयति, वीतराग- खादेवेत्यलमतिपल्लवितेन । नाप्यदृष्टस्य सुखदुःखादिकर्तृत्वं घटते, तथा हि-पुरुषाद भिन्नमभिन्नं वादृष्टम् , अभिन्नं चेत् ? पुरुषमात्रतापत्तिः, भिन्न चेत् ? सचेतनमचेतनं वा ? सचेतनं चेत् ? एकसिन् शरीरे चेतनद्वयापत्तिः, अचेतनमिति चेत् ? न, अखतत्रस्य सुखदुःखं प्रति कर्तृत्वाभावादिति । तथा चोक्तम्- "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा।

- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- २० - , भूतानां महति कृतेऽपि हि प्रयत्ने, नामाव्यं भवति न भाविनोऽस्ति नाशः॥१॥” इति। सूत्रकृताङ्गेऽपि--- "न तं सयं कडं दुक्खं कओ अन्नकडं,च णं । मुहं वा जइ वा दुक्खं सेहियं वा अलेहियं ॥१॥ सयं कडं न अण्णेहिं वेदयन्ति पुढो जीया। संगइअं तं तहा तेसिं इहमेगेसि आहिअं॥२॥" • वृत्तिः-यत्तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपन वा न तत् 'खयं' आत्मना पुरुषकारेण 'कृतं' निष्पादित दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्स चोपलक्षणत्वात् सुखाद्यपि ग्राह्यम्, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत ? 'ण' मित्यलङ्कारे, तथा हि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषकारे सति फलप्राप्ति- वैसादृश्यं फलाप्राप्तिश्च न भवेत् , कस्सचित्तु सेवादिव्यापारी- भावेऽपि विशिष्टफलावाप्तिदृश्यत इत्यतो न पुरुषकारात्किञ्चि- दासाद्यते, किं तर्हि नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेमि- धास्यते, नापि कालः कर्ता, तस्करूपत्वाजगति फलवैचित्र्या- नुपपत्तेः कारणभेदे हि कार्यभेदो भवति, नाभेदे, तथाहि- अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च । तथेश्वरकर्टके अपि सुखदुःखे न भवतः यतोऽ- सावीश्वरो मूर्तोऽमूर्तो वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तः तथासत्याकाशस्येव सुतरां ।

- कमसिद्धिः। २१ निष्क्रियत्वम् , अपि. च-यद्यसौ रागमांस्ततोऽस्मदाद्यव्यतिरे- काद्विश्वस्थाकतव, अथासौ वीतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वर- दरिद्रादिजगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरकृते इति । तथा खंभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः पुरुषात् भिन्नोऽभिन्नो वा ?, यदि मिनो न पुरुषा- श्रिते सुखदुःखे कर्तुमलम् , तसाद्भिन्नत्वादिति, नाप्यभिन्नः, अभेदे पुरुष एव स्यात् , तस्य चाकर्तृत्वमुक्तमेव, नापि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्न वा भवेत् ?, अभिन्नं चेत् पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्न ? तकि सचेतनमचेतनं वा ?, यदि 'सचेतनमेकसिन्कार्ये चैतन्यद्वयापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादं प्रति कर्तृ- खमिति, एतच्चोत्तरत्र न्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन। तदेव सुखं "सैद्धिक" सिद्धौ-अपवर्गलक्षणायां भवं यदि वा दुःखमसातोदयलक्षणमसैद्धिकम् , सांसारिकं यदि वा उभय- मप्येतत्सुखं दुःखं वा स्रक्चन्दनायुपभोगक्रियासिद्धौ भवं तथा कशताडनादिसिद्धौ भवं सैद्धिकं, तथा-'असैद्धिक सुख- मान्तरमानन्दरूपमाकसिकमनवधारितबाह्यनिमित्तमेवं दुःख- ' मपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकमेतदुभयमपि न खयं पुरुषकारेण कृतम् , नाप्यन्येन केनचित्कालादिना कृतम्, 'वेदयन्ति' अनुभवन्ति, 'पृथक् जीवा' प्राणिन इति कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी खाभिप्रायमाविष्करोति- 'संगइयंति सम्यक्त्रपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदु:- खानुभवनं सा संगतिः-नियतिस्तस्या.भवं सांगतिकम् , यतश्चैवं

अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता-
न पुरुपकारादिकृतं सुखदुःखादि, अतस्तत्तेषां प्राणिनां नियति-
कृतं सांगतिकमित्युच्यते, 'इह' असिन् सुखदुःखानुभवादे-
केषां वादिनां 'आख्यातं तेषामयमभ्युपगमः।" इति ।
एतत्सर्व वालजल्पितम् , अदृष्टस्य विश्ववैचित्र्यस्य हेतुत्वेन
साधितत्वात् , पुनरपि किश्चिदुच्यते, भोक्तव्यतिरेकेण भोग्य
विश्वे न विद्यते, भोग्यपदस्य ससम्बन्धितात, नाकृतस्य भोक्तापि
खव्यापारजन्यस्यैव खभोग्यखदर्शनात्, अन्यथा मुक्तात्मनां
भोगप्रसङ्गात् , भोग्यं च सत्चानां सुखदुःखादिप्रकारेण विश्वं
प्रत्यक्षतया दृश्यते, इतोऽपि कर्मकर्तृत्वेन विश्ववैचित्र्यं निर्णी-
यते । न भवितुमर्हति भोक्तृगतानुकूलादृष्टाभावे मुद्गपक्तिरपि,
कुत्रचित्स्थाल्यादिभङ्गोपलम्भात् । न च दृष्टकारणवैगुण्यात्तत्र
पाकाभाव इत्यपि नोद्यम्, वैगुण्येऽपि निमित्तान्तरस्यावश्य-
कखात्, अतः दृष्टकारणानां नियमतो नापेक्षापि, तथाविधन-
यत्नमन्तरेणापि पुण्योदयेन धनधान्यादिप्राप्तिदर्शनात् , केवलं
कर्मविपाककालेऽवर्जनीयसन्निधिकत्वेन दृष्टकारणानां निमित्त-
खव्यवहारात्, अत एव 'दृष्टकारणानामदृष्टव्यञ्जकलम्' इति
सिद्धान्तः सङ्गच्छते ।
तथा चोक्तम्-
"न भोत्तृव्यतिरेकेण, भोग्यं जगति विद्यते ।
. नचाकृतस्य भोक्ता स्यात्,मुक्तानां भोग्यभावतः।।
भोग्यं विश्वं च सत्त्वानां, विधिना तेन तेन यत् ।
दृश्यतेऽध्यक्षमेवेदं, तस्मात्तत्कर्मजं हि तत् ॥२॥
न च तत्कर्मवैधुर्ये, मुद्गपक्तिरपीक्ष्यते ।
'स्थाल्यादिभङ्गभावेन, यत् कचिन्नोपपद्यते ॥३॥

कर्मसिद्धिः। २३ "यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥ विपाककालस्य कर्मावस्थाविशेषरूपत्वेन न कालवादप्र- सक्तिः, कर्मसन्तानस्यानादित्वेन न कर्मकारगापेक्षा वैययम्; विभिन्न विभिन्न कार्यजनकविचित्रशक्तियोगात भोग्यमपि विचि- त्रम्, कर्मवैचित्र्यानभ्युपगमे चित्रभोगस्याप्यनुपपत्तेः। नैया- यिकादिभिरपि कचिदुद्भूतरूपमेव कचिच्चानुभूतरूपमेव, पर- माणुसाद्भूतानां च शल्यादिवीजानां शाल्यकुरजनकत्वमेवेति नियमेऽदृष्टस्यैवाङ्गीकृतत्वेन सर्वत्र वद्धतुत्वस्यौचित्यात् तसान नियत्यादिकं विश्ववैचिन्यजनकम् । यदुक्तं- "चित्रभोग्यं तथा चित्रात्कर्मणोऽहेतुतान्यथा । तस्य यस्माद्विचित्रत्वं,नियत्यादेर्न युज्यते॥१॥” इति। किञ्च भो नियतिवादिन् ! तवाभिमता नियतिः नियतरूपा अनियतरूपाचा?, नियतरूपा चेत् ? नियतिजन्यत्वेनाभिमतानां कार्याणां समानता स्यात् , नियतेरेकरूपत्वेनाभ्युपगमात्, न कारणमेदमन्तरेण कार्यमेदो भवतीति । अनियतरूपा चेत् ! "घटो यदि पटजनकान्यूनानतिरिक्तकारणजन्यः स्यात्तदा पटः एव स्यात्, घटजनकं यदि पटं न जनयेत् तर्हि पटजन- कात् भिद्येत" इति न्यायात् नियतेः विचित्रताभ्युपगमनीया स्थात्, न चेष्टापत्तिः कर्तुं शक्यते, जलत्वेन समानस्यापि जलसाकाशपतनानन्तरमूपरेतरभूसम्बन्धमन्तरेण यथा न न अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- भवति भेदः, तद्वत्प्रतिनियतकार्यजनकनियतेरप्यन्यभेदकमन्त- रेण विचित्रतायाः अघटमानत्वात् , मन्यस्व तर्हि तद्भेदको- ऽप्यन्या, ना का क्षतिरिति चेत् ? कर्तृत्वं विहाय नान्या कापि, तथा च नियतेः कर्तृत्वसिद्धान्तो व्याहन्यते । तद्भेद- कस्यापि कर्तृत्वमनुपपन्नम्, उक्तपक्षद्वयोक्तदोषतादवस्थ्यात् । अपि च भेदकस्य कुतो विचित्रता ? विचित्रतदन्यमेदकत्व- रूपकार्यान्यथानुपपत्त्या विचित्रताभ्युपगम्यते । ननु तर्हि तस्यापि विचित्रता न तदन्यभेदकमन्तरेण, तथा च सत्यन- वस्था । नाप्यन्यतः, नियतिमन्तरेणान्यस्थानभ्युपगमात् । तद्व्यक्तिनिरूपितनियतित्वेन तव्यक्तिजनकत्वमित्यपि प्रेर्यम्, तन्नियतिजन्यत्वेन तद्व्यक्तित्वसिद्धिः, तद्व्यक्तित्व- सिद्धौ च तव्यक्तिनिरूपितत्वेन नियतिजन्यत्वसिद्धिरित्येवं रूपान्योऽन्याश्रयणात् , कार्यस्य कारणतानवच्छेदकत्वाचेति । तदुक्तम्- "नियतेनियतात्मत्वा-नियतानां समानता । तथानियतभावे च, बलात्स्यात् तद्विचित्रता ॥१॥ न च तन्मात्रभावादे-युज्यतेऽस्या विचित्रता । तदन्यं भेदकं मुक्त्वा, सम्यन्यायाविरोधतः ॥२॥ न जलस्यैकरूपस्य, वियत्पाताद्विचित्रता । ऊषरादिधराभेद-मन्तरेणोपजायते ॥३॥ तद्भिन्नभेदकत्वे च, तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं, तद्वत्तस्याप्यसङ्गतम् ॥४॥"इति । ननु नियतेरेव कार्यवैचित्र्यप्रयोजकस्वभावोऽस्त्विति चेत् । - .

- कमसिद्धिः। २५ . नं, खभाववादप्रवेशेन नियतिवादस्य परित्यागप्रसङ्गात् , अर्थ परिपाक एव खभावो न हेत्वन्तरमिति चेत् ? न, परिपाकेऽपि हेत्वन्तरस्यावश्यमाश्रयणीयत्वात् , नन्वाम्रादौ परिपाकद्वैवि- ध्यदर्शनेऽपि नियतिपरिपाकः खभावत एवेति चेत् तर्हि 'घटकुट्टयां प्रभात' इति न्यायापत्तिः स्यात् । अथ चोत्तरपरि- पाके पूर्वपरिपाकः एव हेतु:, आद्यपरिपाके चान्तिमापरिपाक एवेत्यादिरीत्या विशिष्यैव कार्यकारणभावात् नायं दोष इति चेत् न, एकत्र घटनियतिपरिपाके तदैवान्यत्रापि घटोत्पत्ति- प्रसङ्गात् , प्रतिसन्तानं नियतिभेदाभ्युपगमे च द्रव्यपर्याययो- नामान्तरमेव नियतिपरिपाको । तथाचोक्तम्- "तस्या एव तथाभूतः, खभावो यदि चेष्यते। व्यक्तो नियतिवादः स्यात्, खभावाश्रयणान्ननु।१।” इति। एतेन-'जगति ये केचन भावा भवन्ति ते नियतिजा एव' इत्यादिकं नियतिवादिना प्रोक्तमपास्तं द्रष्टव्यम् । यदुक्तं- 'खभावस्य सत्वेऽपि मधुमासादावेव केचिदाम्रा अतिफलमा- रेण नम्रीभूता भवन्ति, केचित्तु वन्ध्या इत्यादितो नियति विमुच्य नान्यत् किमपि वीजं विश्ववैचित्र्ये पश्याम' इतिपर्य- न्तम् । तत्रापि वन्ध्याने तदन्येषां जीवानां तागदृष्टाभावेन तेषामनुत्पादः एव प्रयोजको मञ्जर्या व्याप्तस्याप्याम्रस्य स्तो- कान्येव फलानि परिपकानि भवन्ति, न सर्वाणि, तत्रायुष्क- मक्षयस्तेषां जीवानां कारणम् । कोकिलरक्षणे तु कोकिल. सैव दीर्घजीवनं हेतुः । ब्रह्मदत्तस्मान्धत्वे तु चक्षुर्दर्शनाव- रणस्य तीव्रोदयत्वं कारणम्, द्विजगोपालो तु तब्बञ्जकाविति . २६ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- नियतेः निराकृतत्वेन यत् सजातीयविजातीयव्यावृत्तखभावा- नुगतेनैव रूपेण प्रादुर्भावत्वं नियतिकृतप्रतिनियतधर्मोपश्लेषत्वं वा हेतुत्वेनोपन्यस्तं तत् तीक्ष्णशस्त्रोपहतानां जीवनमरणाभ्यां व्यभिचारी, असाकं त्वायुःकर्मणो न्यूनाधिकत्वं तयोः कार- णम्, नान्यत् किमपीति । तदेवं दण्डादिदृष्टकारणेषु सत्वपि घटोत्पादेऽनुत्पादे च भोक्तुरदृष्टं कारणं, दण्डादिदृष्टकारणं तु तब्यञ्जकमिति । तदुक्तं मलयगिरिपादैः धर्मसंग्रहणीवृत्तौ- "घटादीनामपि तदुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्या देव तैलायुपभोगसंभवात् , समानमृदाधुपादानानां समानकु- म्भकारादिकर्टकाणां समानस्थानस्थितानां समानतैलाद्याधे- यानां समानविनाशहेतूपनिपातानामपि केषाश्चिदेव भङ्गभा- वात् । यदि पुनरुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यात् घटा- दीनां न तथा तैलाद्युपभोग इष्यते तर्हि सर्वेषां युगपद् विनाशो भवेत्, न केषाञ्चिदेव तद्धि बन्धककारणान्तराभा- वात् । तसात् घटादीनामपि उपभोक्तृदेवदत्तादिकर्मविपाक- सामर्थ्यसमुद्भवो विचित्रतलायुपभोगः" इति । एवं मुद्गपक्तौ गजभुक्तकपित्थे नालिकेराम्भसि चादृष्टमेव कारणं, तदुक्तं प्रागपि- "न च तत्कर्मवैधुर्य, मुद्गपक्तिरपीक्ष्यते। स्थाल्यादिभङ्गभावेन, यत्कचिन्नोपलभ्यते।श"इति । 'तत्कर्म वैधुर्ये' इति, उपभोक्तृकर्मवैधुर्य इति मलयगिरि- पादाः । दृप्टकारणानां तु सर्वत्रादृष्टव्यञ्जकत्वं बोध्यम् । एवं सुखदुःखादिकं प्रत्यदृष्टस्य जनकत्वं वाच्यम् । केवलानां पुरु- . - कर्मसिद्धिः। २७ प - पकारेश्वरखमावानामनभ्युपगमादेव निराकृत, निराकरिष्य- माणं च । यच्च अदृष्टवादे 'पुरुषाद् भिन्नमभिन्नं वा' इत्यादि दूषणमभ्यधायि तदपेशलम्, तृतीयसोभयरूपस्य पक्षस्य स्वीकारादिति । किञ्च नियतिवादिनां शास्त्रोपदेशोऽप्यकि- श्चित्करः तमन्तरेणापि सर्वसंभवात् , शुभाशुभफलप्रतिपादक- शास्त्रप्रतिपादितशुभाशुभक्रियाजनितफलाभावश्चेति । तद्धेतुक- त्वान्तर्भावितनियमस्य नियतिप्रयोज्यत्वे तु सिद्धमदृष्टमितर- हेतुना पारिभाषिककारणत्वप्रतिक्षेपस्याबाधकत्वादिति । एव-. मन्यभेदकमन्तरेण खभावस्थापि कार्यवैचित्र्यप्रयोजकत्वं नोप- पद्यते, एकरूपत्वात्तस्य खभावत एव युगपद् विश्वोत्पादप्रस- ङ्गोऽप्यापद्यते । न च तत एव तस्य क्रमवत्कार्यजनकत्वेन नानुपपत्त्यंशोऽपीति वाच्यम्, तस्यैव खभावस्य पूर्वोत्तरकार्य- जनकत्वे पूर्वोत्तरकालयोरुत्तरपूर्वकार्यप्रसङ्गेन क्रमस्यैव व्याहते, एकस्यैव खभावस्य भिन्नभिन्नजातिनियामकत्वस्वीकारे एकै- कस्य विश्वजातीयत्वप्रसङ्गः, विश्वस्य वैकजातीयत्वप्रसङ्गश्च । ननु कालक्रमेणैव कार्योत्पत्तेः तत्तत्क्षणादिसहकृतखभावस्यैव विश्ववैचित्र्ये हेतुत्वमस्त्विति चेत् १ न, कालवादप्रवेशात् । अथ क्षणिकस्वभावत्वे नायं दोष इति चेत् ? न, एकजातीयहेतुं विना कार्यैकजात्यासंभवात् । अथ सामग्र्यपेक्षया लाघवात् कुर्वद्रूपत्वमेवास्तु कारणतावच्छेदकमिति चेत् १ न, कुर्वद्रूप- त्वस्य जातित्वाभावेन घटं प्रति घटकुर्वद्रूपत्वेन हेतुत्वस्य वक्तुमशक्यत्वात् सामग्रीत्वेन च कार्यव्याप्यत्वसौचित्येन गौरवस्थादोषत्वात्, प्रत्यभिज्ञादिसत्त्वेन क्षणिकखवाधाच । १ खभावतः २ खभावस्य. - २८ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- किञ्च कुर्वद्रूपसत्वे एकत्र घटोत्पत्तिः, नान्यत्रेत्यत्र देशनिया- मकहेतुत्वाश्रयणे खभाववादः परित्यक्तः स्यात्, कार्यमनुमा- यैव प्रेक्षावतां प्रवृत्तिश्च, अन्यथा कारणमन्तरेणापि कार्यसं- भावनयैव निष्प्रकम्पप्रवृत्तिप्रसक्तेः । खभावहेतुखीकारे निर्हे- तुकाः भावाः प्रभवन्तीत्यपि न युक्तम् , वदतो व्याघातात्, तदुक्तं-"न हेतुरस्तीति वदन् सहेतुकं, ननु प्रतिज्ञा स्वयमेव वाधते" इति । किञ्च खभावो भावरूपोऽभावरूपो चा?, भाव- श्चेत् ? नानास्वभावः एकखभावो वा?, एकखभावोऽपि नित्योऽनित्योवा?, न तावन्नित्यः, नित्यसैकरूपत्वेनार्थक्रिया- कारिखस्य क्रमयोगपद्याभ्यामसंभवात् । नाप्यनित्यः, एकत्वेन विरोधात , प्रतिसमयं भिन्नभिन्नरूपेण भवनादनित्यस्येति । नानाखभावोऽपि वस्तुविशेषः अकारणरूपो वा वस्तुधर्मों वा? वस्तुविशेषोऽपि मूर्तोऽभूतों वा? मूर्तयेत् १ कर्मणः सकाशादविशिष्टः, यतोऽदृष्टं मृत विचित्रखभावमभ्युपग- म्यते, खभावोऽपि भवतैवंविधः खीकृतः ततो न कोऽपि विशेष इति । अमूर्तश्चेत् ? नासौ देहादीनामारम्भका, अनुप- करणत्वात्, दण्डादिसामग्रीविकलकुम्भकारवत् । एवं सुख- दुःखादिहेतुरपि न स्वभावोऽमूर्तखात् , जीवानामनुग्रहोपधा- तावपि न कर्तुं समर्थों गगनमिव । तदुक्तं-'जमणुग्गहोव- घाया जीवाणं पुग्गलहितो' इति वचनात् । ननु जीवेन व्यमि- चारः तस्यामूर्तत्वेपि सुखदुःखयोः हेतुत्वादिति चेत् ? न, एकान्तेनामूर्तत्वाभावेन व्यभिचाराभावात् । नन्वेकान्तेना- मूर्चत्वाभावे किं बीजम् ? क्षीरनीरवदनादिकर्मसन्तानपरि- णामापन्नत्वमेव वीजं तस्य च वीजाकुरभावेनेव परस्परं हेतु- N - - कर्मसिद्धिः। २९ हेतुमद्भावात्., तथा च परमार्थतः न केवलो जीवो मूर्त- 'सुखदुःखानुभवनिमित्तः, किन्तु सुखदुःखानुभवानिमित्तं कर्म, तनिमित्तश्च सुखदुःखानुभव इति कुतो व्यभिचारः, नेत्यर्थः। नन्वेवं सुक्तात्मनो व्यभिचार, न च तस्यापि मूर्तता कल्प- यितुं शक्या, अनादिकर्मसन्तानपरिणामापनत्वाभावादिति चेत् ? न, मुक्तात्मनि सुखदुःखनिबन्धनयोः सातासातयोर- भावेन सुखदुःखानुभवाभावात् । सुखदुःखोभयानिमित्तत्वमेव मुक्तात्मनां निषिध्यते, न केवलं सुखनिमित्तत्वमपि, साहजि- कनिरुपमेयसुखखरूपत्वात्तस्येति । अपि चापरिणामिकारणत्वेन सुखदुःखनिबन्धनभूतं मूर्तत्वं मुक्तात्मनि निषिध्यते, न तु परि- णामिकारणत्वम्,मुक्तात्मानश्च निरुपमेयसुखं प्रति परिणामिका- रणत्वेन कथं तेन सह व्यभिचारः १ । यदि स्वभावोऽपि मुक्ता- त्मवदिष्यते, तर्हि तस्यापि जीवत्वं सदा सुखित्वं च प्रसज्यते, तथा च स स्वभावः कथं स्यात्, केवलं नामान्तरेण मुक्तात्मा एवाभ्युपगतः स्यात्, न च तत्र नो विप्रतिपत्तिः, तदुक्तं- "तस्स वि य तहाभावे, जीवत्तं चेव पावई वुत्तं । तहा कहं णु सो सहावो,सदा सुहित्तिपसंगोयाश" इति । अत्र चेत्थमनुमानं स्वभावः सुखदुःखजनको न भवति, अपरिणामित्वे सति अमूर्तत्वात् यथा गगनम् । ननु गगन- स्यापेक्षाकारणत्वेन सुखदुःखनिवन्धनसमस्त्येवेति कथं न साध्यविकलता निदर्शनखेति चेत् । न, अपेक्षाकारणस्य निर्व्यापारत्वात् परमार्थतोऽकारणत्वात् , अन्यथा निखिलवि- श्वस्य कारणताप्रसङ्गः, निर्व्यापारत्वाविशेषादिति । नाप्यका- - । .

. अनुयोगाचार्यश्रीमप्रेमविजयगणिगुम्फिता- रणतास्वभावः, कारणमन्तरेण कार्यानुपपत्तेः, कारणाभावस्थ समानत्वेन युगपनिखिलविश्वोत्पादप्रसङ्गः, शशविषाणोत्पा--. दप्रसङ्गश्च । अपि च यन्निर्हेतुकं तदाकसिकमेव प्रादुर्भवति आकसिकं च नाभ्रादिविकारवदादिमत्प्रतिनियताकारं भवति, दृश्यते चादिमत्प्रतिनियताकारं शरीरादिकार्यजातमतो नाक- सिकं किन्तु कर्महेतुकमेवेति । अनुमान चात्र शरीरादिकार्य- मुपकरणसहितकर्वनिर्व| मेवादिमत्प्रतिनियताकारखात् घटा- दिवत् । न च घटाद्यवस्थायामदृष्टमन्तरेणान्यदुपकरणमस्ति, यदेवोपकरणं तदेव कर्मेति । वस्तुधर्मश्चेत् ? मूर्तवस्तुनोऽमूर्त- वस्तुनो वा?, आये सिद्धसाधनमसाभिरपि पुद्गलास्तिकायपर्या- यत्वेनादृष्टस्याभ्युपगमात् । अमूर्तवस्तुनो धर्मश्चेत् ? नासौ शरी- रकारणममूर्तत्वादेव ज्ञानादिवत गगनमिव वेत्युक्तपूर्वमिति । तसात् न खभावो भावरूपः । नाप्यभावरूपः, तथाहि-स हि. अभावखरूपखभावः एकरूपः चित्ररूपो वा ?, एकरूपश्चेत् ? तुच्छैकखभावत्वेन न कार्यनिष्पत्तिा, यथा भेकजटाभारादि- कारणाभावतः भेकजटादिर्न भवति तद्वत्कार्यनिष्पत्तिरपि न भवतीत्यर्थः, अन्यथा भेकजटादिकमपि स्यात् तुच्छैकखभा- वकारणत्वाविशेषात् । ननु मृत्पिण्डरूपाभावादेव घटो जायते, ततः कथमुच्यते तुच्छैकखभावत्वे न कार्यसिद्धिा, मृत्पिण्डरूपोऽभावो नैकान्तेन तुच्छरूपः स्वरूपभावात् । यदि एवं तर्हि अभावस्य तुच्छरूपता कथमिति चेत् ? घटलक्षणं भावमाश्रित्य खभावस्य तुच्छरूपता बोध्या, मृत्पिण्डस तु घटजनकत्वानोक्तदोषावकाश इति चेत् । न, भावाभावयो। विरोधात, तथाहि-य एव मृत्पिण्डस स्वरूपभावः स एव । कर्मसिद्धिः। घटस्वरूपस्याभावः कथं भवति ?, नासाद्यते कदापि यो भावः. सोऽभावरूपता, नाप्यभावो भावरूपतां तयोः परस्परविरो- धात् । अथ स्वरूपापेक्षया भावरूपता पररूपापेक्षयाऽभावरू- पता ततो न भावाभावयोन्निनिमित्तत्वेन कश्चित् विरोध इति चेत् १ तर्हि स्थाद्वादकक्षाप्रवेशेन मुक्तः खसिद्धान्त इति । ननु मृत्पिण्डे घटरूपाभावो न परमार्थतः, किन्तु परिकल्पित एव ततो नानेकान्तवादे प्रवेश इति चेत् ? ननु तर्हि सूत्रपि- ण्डादौ घटप्रागभावाभावात् यथा न घटोत्पत्तिः तद्वत् मृत्पिण्डे घटनागभावाभावात् मृत्पिण्डात् कथं घटोत्पत्तिः१ अथ मृत्पि- ण्डादौ घटादिप्रागभावाभावेऽपि घटाद्युत्पत्तिरभ्युपगम्यते तर्हि खरशृङ्गमपि कथं नोत्पद्यते ? प्रागभावाभावखाविशे- षात् । ततो न तुच्छैकखरूपस्वभावपक्षोऽपि क्षेमङ्कर इति । ननु भेकजटादे!त्पत्तिप्रसङ्गः, अभावखरूपखभावस्य विचि- जखभावतास्वीकारादिति चेत् ? ननु कथमभावो विचित्र- तास्वरूपः, यतो लोके घटपटादिभेदेन भावस्यैव विचित्रता दृष्टा, नाभावस्य, तुच्छरूपत्वेन तस्य सर्वत्र भावात् । तस्यापि विचित्रतास्वीकारे नामान्तरेण भाव एव विचित्रखभाव: खीकृतः स्यात्, विचित्रतापि तत्तदर्थक्रियासामर्थ्यलक्षणं खभावमेदमन्तरेण न भवितुमर्हति, तथाभूतखभावभेदाङ्गी- कारे भावरूपतैव सम्पन्ना, तथा च सति विश्ववैचित्र्यान्यथा- नुत्पत्त्या भावरूपस्य खभावस्य स्वीकारे नामविपर्यासमात्रमेवेदं कर्मापि भावरूपं विचित्रखभावमेवं भवदसिमतो भावोऽपीति । किञ्च खस्सात्मनो भावः स्वभाव इति स्वभावशब्दव्युत्पत्तिः, अयं खभावः कार्यगतः कारणगतो वा ? न तावत् कार्य- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- गतः, कार्यस्य निष्पन्नत्वेन लब्धात्मलाभात् , अलब्धा- मलामसम्पादनायैव हेतुता संगता, निष्पन्नस्यापि कार्यस्सा. लब्धात्मलामे तु कार्यगतखभावस्याप्यलब्धात्मलाभः। ननुः कार्यगतखभावो मास्तु विचित्रतानियामकः, कारणगतस्वभा- वस्तु तथास्खिति चेत् ? ननु कारणगतखभावः किं तसात् मिन्नोऽभिन्नो वा?, न तावत् भिन्नः, सर्वस्याऽपि वस्तुनः तन्नियामकताप्रसङ्गः, तथा च सति घटकारणगतखभावोऽपि पटविचित्रतानियामक: स्यात् भिन्नत्वाविशेषात् । नाप्य. भिन्नः तथात्वे कारणमेव विचित्रतानियामक न तद्गतस्वभाव- स्तस्मात्स्वभाववादोन वरीयानिति । एतेन कारणानुरूपमेव कार्य प्रभवति न हि यववीजाकुराः गोधूमान् प्रदातुं प्रभवा, मनुष्यादिभवकारणं च पूर्वजन्म, तसात्परत्राप्येतद्भवतुल्यो भवः कल्प्यते, एवं यः पुरुषः स परत्रापि पुरुष एवैवं सर्व- त्रापि बोध्यम् । तदुक्तं-- "कारणसरिसं कजं बीजस्सेवंकुरो त्ति मण्णन्तो। इह भवसरिसं सव्वं जमवेसि परेवि।" इत्यादिप्रत्युक्तम् , विश्ववैचित्र्येऽदृष्टस्य कारणत्वामिधा- नात् । तथापि किञ्चिदुच्यते, तथा हि-यच्चोक्तं कारणानुरूप- मेव कार्य तदप्येकान्तेन न रमणीयम् , यतः-शृङ्गात्-शर उत्पद्यते, सर्पपानुलिप्तात् शृङ्गात् धान्यसङ्घातः, दूर्वातो दूर्वा गोलोमाविलोमाभ्यामपि दूर्वोत्पद्यते, तथा विसदृशानेकद्रव्य- संयोगेन सर्पसिंहादिप्राणिनः मणिहेमादयश्चोत्पद्यन्ते । + - कमसिद्धिः। ३३ 11 । . तदुक्तं- "जाइ सरो सिंगाओ भूतणओ सासंवाणुलित्ताओ। संजायइ गोलोमाविलोमसंजोगओ दुबा ॥१॥ इइ रुक्खायुवेदे जोणिविहाणे य विसरिसेहितो। दीसइ जम्हा जम्मं सुहम्म! तो नायमेगन्तो।" इति। दृश्यते च लोकेऽपि शालूकादपि शालूकः गोमयादपि शालकः भवति, तथामेरपि वह्निररणिकाष्ठादपि, बीजादपि वटादयः शाखैकदेशादपि, बीजादपि गोधूमा वंशवीजा- दपीति । यद्वा कारणानुरूपा कार्याणामुत्पत्तिः त्वया स्वी- कृतातथैव जीवानामपि विचित्रता प्रतिपद्यख । ननु जीवानां वैचित्र्ये को हेतुरिति चेत् ? अदृष्टमिति ब्रूमः। ननु तर्हि कर्म- णोऽपि विचित्रता किं निमित्तोद्भवेति चेत् ? मिथ्यात्वादिहेतु- संभवेति । अनुमानं चात्र नरकादिरूपेण संसारित्वं विचित्रं चित्रकर्मणां कार्यत्वात्, यथा लोके विचित्राणां कृषिवाणि- ज्यादिक्रियाणां फलमिति कर्मवैचित्र्यात भवस्यापि विचित्रत्वं स्वीकुरु । पुद्गलपरिणामात्मकत्वेन विचित्रा कर्मपरिणतिरभ्रा- दिवदभ्युपगन्तव्या, यद्विचित्रपरिणतिरूपं न भवति तत्पुद्गल- परिणाममपि न भवति यथा गगनम् । पुद्गलपरिणामसाम्येऽ- पि ज्ञानावरणीयादिभेदेन विचित्रता सा ज्ञानप्रत्यनीकादिवि- शेषहेतुसमुद्भूताऽवसातव्येति । यद्वेह भवसदृशः परभवो भवतां सम्मतस्तथैवेह भवसदृशं कर्मफलमपि परत्र मन्यस्ख, एतदुक्तं- भवति-विचित्रगतिहेतुकविचित्रक्रियानुष्ठातॄणां प्रत्यक्षत उप- लभ्यमानत्वेन परत्रापि ततक्रियाणां विचित्रं फलमेष्टव्यम् । ३ - -- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- यथेहत्यक्रियाणां विसदृशता स्वीक्रियते, तथैव परत्रापि जन्तूनां विसदृशताऽवश्यमाश्रयणीया स्थात्, न तु सदृश- तेति । ननु या कापि क्रिया सैहिकफलजनिकैच कृष्यादेः सस्यादिफलवन्न परत्र फलजनिकेति कुतः परत्र जन्तु- वैसादृश्यम् , तजनकक्रियाया एवाभावादिति चेत् १ ननु तर्हि भवदभ्युपगतं सादृश्यमपि परत्र कुतः ? सादृश्यजनकपार- भविकक्रियाणां निष्फलत्वाभ्युपगमात् । ननु तजनककर्मा- भावेऽपि सादृश्यं खीक्रियत इति चेत् कृतनाशाकृताभ्यु- पगमः स्यात् । यद्वा दानहिंसादिक्रियाणां निष्फलत्वाभ्युप- गमे मूलतो बन्धाभावः, बन्धाभावे च कर्माभावः, तदभावे च भवान्तराभावः, तदभावे च सर्वेषां मुक्तिप्रसङ्गः, साह- श्याभावश्चापद्यते । कर्माभावेऽपि भवखीकारे निष्कारण एवासौ स्यात् , तथा भवनाशोऽपि निष्कारण एव स्यात् । तथा च सति तपोनियमाद्यनुष्ठानं निष्फलतामापयेत । तथा वैसादृश्यमपि. निष्कारणं कथं नेष्यते विशेषाभावादिति । यद्वा सर्व वस्तुजातं. सादृश्यासादृश्यं किं पुनः परभवः । त- थाहि सर्व वस्तुजातं पूर्वतनैः सामान्य विशेषपर्यायैर्युपरमति, उत्तरैः सामान्यविशेषपर्यायैरुत्पद्यते, द्रव्यत्वेन तादवस्थ्यम् । तथैव प्रमेयत्वादिभिः सर्वेषां वस्तूनां साधर्म्यमात्मत्वादिभिः वैधर्म्यमेवमात्मनोऽपि स्वभिन्नजीवैः सहात्मत्वेन साधयं खसिन्न वृत्तिज्ञानादिभिः सह वैधर्म्यम् । एवं सर्वत्रापि साह- श्यासादृश्यं वाच्यं न केवलं परत्रैवेति । सादृश्यमेव, वैसाह- श्यमेव वेति तु भवितुं नैवार्हति, यत इहापि भवे बालत्व- पर्यायं परित्यज्य यौवनपर्यायमनुभवति, यौवनपर्यायं . परिः .

कम्मसिद्धिः। ३५ . त्यज्य वृद्धत्वपर्यायमनुभवतीति । किञ्च-योयादृशःस परत्रापि . तादृशश्चेत् ? ईश्वरदरिद्रकुलीनाकुलीनादिरूपेणोत्कर्षापकों न खाताम् , मा भूतां नः का क्षतिरिति चेत् ? दानादि- क्रियाणां निष्फलत्वापत्तिः, तथाहि-दानादिप्रवृत्तिरपि लोका- नां देवादिसमृद्धात्मोत्कर्षार्थ भवति, उत्कर्षाभावे च यो , दरिद्रः स दानतपोयात्रासंयमाद्यनुष्ठानं कृत्वापि परत्र दरिद्र एव स्यात् , तथा च सति दानादिक्रिया निष्फलता प्राप्ता। एवं यो बालः स तव मते कदापि यौवनमपि न प्राप्नुयात् । युवा च वृद्धत्वं, किंबहुना ! सर्वेऽपि स्तनपायिन एव तव मते प्राप्नुयुः, न चैवं दृश्यते । तसात्-"यो यादृशः स तादृश एव परत्रापि"-इति मुश्च खाग्रहमिति । । एवं समयादिकालोऽपि न विश्ववैचित्र्ये हेतुः समयादेः कस्यचिद्वस्तुनोऽनुत्पा, अन्यथा विवक्षितसमयादौ कार्या- न्तरोत्पादप्रसङ्गः। नारेकणीयं च तत्क्षणवृत्तिकार्ये तत्पूर्वक्ष- शत्वेन हेतुत्वमुक्तमेवेति, अग्रेतनमाविनः तत्क्षणवृत्चित्वखैव फलत आपाधत्वात् , तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वं तदुत्तरक्षणविशिष्ट कार्ये तत्क्षणत्वेनैव वेति विनिगमनामा- वाच । किञ्च-समानेऽपि काले मृत्पिण्डे घटः न तन्तु- ध्वतोऽपिकालातिरिक्तदेशादिनियामकस्य हेतुत्वेनाश्रयणीयत्वं स्वात् । ननु मृत्पिण्डादन्यत्र घटस्यानुत्पचिरेव देशादिनिया- , मिकाऽस्तु कालहेतुसत्त्वेऽपि देशे कार्यानुपपत्तेरिति चेत् ? न, जन्यतासम्बन्धेन मृद्भिन्नत्वेन मृदवृत्तित्वस्थापाद्यत्वात् । अर्थ तंनियामक तत्खभावत्वेन काचिकत्वमुक्तमेवेति चेत् ? न, फलतः तत्स्वभावत्वस्यैवापाद्यत्वादिति । । - अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- , तदुक्तं- "कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् । तत एव घसंभूतेः, कथञ्चिन्नोपपद्यते ॥१॥ यतश्च काले तुल्येऽपि, सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं, विज्ञेयं तद्विचक्षणैा। इति । एवं विश्ववैचित्र्यं कर्मकृतं सिद्धमपि नियत्यादिसापेक्षं बोध्यमन्यथा स्याद्वादभङ्गप्रसङ्गः । तदुक्तं- "अतः कालादयः सर्वे, समुदायेन कारणम् । गर्भादेः कार्यजातस्य, विज्ञेया न्यायवादिभिः ॥१॥ न चैकैकत एवेह, क्वचित्किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य,सामग्रीजनिकामता॥२॥"इति। कालादयश्चत्वारोऽपि स्वातन्त्र्येण हेतवः इत्येके, केचित्तु कालादृष्टे एव स्वातन्त्र्येण हेतू, नियतिखभावावदृष्टधर्मत्वेन विवक्षितौ । दृष्टादृष्टसाधारण्येन नियतिः खभावश्च सर्वस्य वस्तुनो धर्माविति । तदुक्तं श्रीमद्धरिभद्रसूरिपादैः शास्त्रवार्तासमुच्चये- "स्वभावो नियतिश्चैव, कर्मणोऽन्ये प्रचक्षते । धर्मावन्ये तु सर्वस्य, सामान्येनैव वस्तुनः॥१॥” इति । यथा सामग्री कार्यजनिका तथा प्रतिपाद्यते, तथाहि-ब्रह्मद- चक्रिणो नि द्विजमित्रं प्राप्यैवावश्यं भावितीव्रचक्षुर्दर्शना- वरणोदयादन्धत्वं तत्र मुख्यतया कर्मातिशयातिशायितपरिण- तिरूपा नियतिः कारणमेवमन्यत्रापि तथाविधकार्ये कारणत्वं A - प । - १ । . कमेसिद्धिः। "३७ नियते वाच्यम् । तथोद्यमतोऽपि कार्य जायते, यतः कार्य प्रायशः क्रियातो भवति, क्रिया च पुरुषकारायत्ता प्रवर्तते । तदुक्तं- "न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥” इति । दृश्यते च समानेऽपि पुरुषकारे फलवैचित्र्यम्, तत्र पुरुष- कारवैचित्र्यं कारणम्, क्वचित्समानेऽपि पुरुषकारे फला- भावो दृश्यते, तत्रादृष्टं कारणं खीकरणीयम् । तथा बकुलच- म्पकाशोकपुन्नागसहकारादीनां विशिष्ट एव काले फलोद्भवः न सर्वदा, न च कालस्सैकरूपत्वेन कार्यवैचित्र्यं न भवतीति नोयम् , अदृष्टस्यापि स्वीकारात् । तथा खभावोऽपि कारणं, त- थाहि-आत्मनः उपयोगलक्षणत्वमसङ्ख्येयप्रदेशत्वममूर्तत्वं पुद्ग- लानां मूर्तत्वं सुखदुःखोभयजनकत्वं चयोपचयत्वं धर्मास्तिका- यस्य गत्युपष्टम्भकत्वमधर्मास्तिकायस स्थित्योपष्टम्भकत्वमाका- शास्तिकायस्थावकाशदातृत्वं कालस्य वर्तनापर्यायजनकत्वमि- सादिकार्यजातं खभावापादितम् । व्यतिरिक्ताव्यतिरिक्तप- क्षस्तु न दोषजनका, उभयधर्मावच्छिन्नस स्वभावस्य कार्यजन- कत्वस्वीकारात् । अत्र स्वभावः तथाभव्यत्वात्मिका जाति का- बैंकजात्याय कल्पनीयेति । तथेश्वरोऽपि विश्ववैचित्र्यजनकः । अत्रेश्वर आत्मा तत्र तत्रोत्पचिद्वारेण सर्वत्र व्यापनात् व्यापक तस्य सर्ववादिभिः सुखदुःखादिजनकत्वेन स्वीकारादिति । तथा कर्मणः वैचित्र्यजनकत्वं प्राक् सविस्तरमुक्तमेव, तदेवं सामग्री कार्यजनिकेति प्रतिपादितम् । - - । । ...

३८ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- अत्रेदमवधेयं संसारान्तर्वतिसकलवादिप्रतिवादिवृन्दकला- कलापकौशल्यावलोकनकुशलाकलनकलाकलापपरिकलितचे तोभिर्भवान्तर्वतिविश्वातत्त्वतत्त्वहेयोपादानकुशलधीधनैरुपेक्ष- गीयेषु माध्यस्थ्यभावसजनैः। यद्यपि सर्वे आस्तिकाः, नानावि- धविधानधुरन्धराक्षुण्णप्रत्यक्षप्रभृतिप्रमाणप्रथाप्रतीयमानघटप- 'टलकुटशकटकटप्रभृतिपदार्थसार्थान् व्यवहारमात्रतः स्वीकुर्वतः तत्त्वदृष्ट्याऽपोहप्रवीणान् वेदान्तिनो विहाय, विश्ववैचित्र्यान्य- थानुपपत्त्येकलक्षणाद्धेतोर्मवान्तरानुयायिन आत्मनः शुभाशुभ- साधनसमर्थमदृष्टं तत्वदृष्ट्यानुपचरितमङ्गीकृतवन्तः। प्रमाणयन्ति चात्र वेदान्तिनः ब्रह्ममिन्नमसत् प्रतीयमान- त्वात् भरुमरीचिकावत् । ये ये द्रव्यादयः पदार्थाः विश्वे दरीदृश्यन्ते ते ते मतिभ्रमनिमित्तकाः न पुनः तत्वदृष्ट्या वर्तन्ते । एतदनुमानान्तःपातिनः कर्मणोऽपि तादवस्थ्यम् । तथा च श्रुति:-"अविनाशी चारेऽयमात्मा सत्यं ज्ञानमनन्तं -ब्रह्म एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन" इति । एत- निखिलमतिकष्टेन सङ्घातीकृतमहत्तणपुञ्जनिक्षिप्तचित्रभानुसी- करसाध्यम् , तथाहि-प्रत्यक्षेण विधीयमानपदार्थसार्थस्यानुमा- नादिनाऽपलपितुमशक्यत्वेन घटादौ प्रत्यक्षवाधः, ब्रह्मभिन्न- घटादौ घटासत्चविरुद्धत्वेन विरुद्धः, साध्याभावववृत्तित्वेन घटादौ तव निर्धर्मके ब्रह्माणि च व्यभिचारः, ब्रह्मभिन्नमसन भवितुमर्हति प्रतीयमानत्वादिति प्रत्यनुमानेन सत्प्रतिपक्षितः। किश्व-ब्रह्मभेदः प्रसिद्धो न वा १, प्रसिद्धश्चेत् ? द्वैतापत्तिः, अप्रसिद्धश्चेत् पक्षासिद्धिः। एवं साध्यमपि सदसद्वा, सच्चेत् ? दै- तापत्तिः, असच्चेत् ? अनुमानायासव्यर्थतेत्येवं संभावनीया अनु- ; कर्मसिद्धिः। । ३९ . 'मानदोषा अपि । कुत्राप्यत्यन्तासत्त्वधर्मस्यासत्त्वेन दृष्टान्तेऽपि . अन्यत्र स्थितसद्रूपजीवनप्रत्यासत्तिः प्रतिभासते क्षारभूमौ, न तु सर्वथा विद्यमानो धर्मः । श्रुतेरपि द्वैतव्याप्यत्वेनाद्वैतं प्रति प्रामाण्यासंभवेन वाच्यवाचकभावस्स द्वैतरूपेण प्रतिभासा- दिति दिक् । तच्चादृष्टं पौद्भलिकम् । अत्र वेदान्तिनः चर्चयन्ति-नन्वविद्यावरणमेव कर्म न पौगलिक, मूर्तेन कर्मणा रूपातीतविज्ञानसावारयितुमशक्य- त्वात् , अन्यथा शरीरादेरप्यावारकत्वप्रसङ्गः स्यादिति चेत् ? न, मृतेनापि मदिरादिना रूपातीतविज्ञानस्यावारकत्वदर्श- नात् । अमूर्तीया अविद्याया आवारकत्वे तु गगनादेरप्या- वारकत्वमविद्यावत् स्यात् , अमूर्तत्वाविशेषात् । ज्ञानाविरुद्ध- त्वेन गगनस्य नावारकत्वमिति चेत् ? तर्हि ज्ञानाविरोधित्वात् शरीरस्थापि मा भूदावारकत्वं विरुद्धस्सावारकत्वप्रसिद्धः, न च मिथ्याज्ञानोदये प्रवाहेण प्रवर्तमानस्य ज्ञानादेः निरोधादविद्याया एवज्ञानविरोधित्वं न गगनादेरिति वक्तव्यम् , पौद्गलिककर्मों- दये प्रवाहेण प्रवर्तमानस्य ज्ञानादेः शरीरेण सह विरोधाभावात् , तथा चानुमानप्रयोगः-आत्मनो मिथ्याज्ञानादिः पुद्गल विशेष- सम्बन्धनिवन्धनः तत्स्वरूपान्यथाभावात् मद्यपोन्मादवदिति । ननु कर्मणः पौद्गलिकत्वे किं मानम् १, अनुमानमितिं ब्रूमः। तथाहि-अदृष्टं पौद्गलिकमात्मनोऽनुग्रहोपघातनिमित्तत्वात् श- रीरवत् । नन्वात्मनोऽनुग्रहोपघातनिमित्तत्वमस्तु : पौगलिकत्वं मास्तु भोगनिर्वाहकात्मधर्मस्योदयनाचार्यादिभिरुक्तत्वादिति चेत् । न, कार्यैकार्थप्रत्यासच्या सुखादिहेतुत्वेऽसमवायिकार- णत्वप्रसङ्गात् । न चात्मगुणभिन्नत्वे सतीति विशेषणं वा- -- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- च्यम्, तत्र प्रमाणाभावात् । किश्चादृष्टस्यात्मगुणत्वे सति सर्वदा बन्धाभावेन सर्वेप मुक्तिप्रसङ्गा, विरोधेन च खपा- रतव्यनिमित्तत्वमपि न स्यात् । तथाहि-आत्मनः पारत- त्र्यानिमित्तमदृष्टं न भवति घटस्वरूपवत् । खीकृतं च त्वया दृष्टस्यात्मगुणत्वमतः पारतत्र्यनिमित्तत्वमदृष्टस्य न भवितुम- ईति, प्रमाणप्रतीतं चात्मनः पारतव्यं, तथा चानुमानम्, आत्मा कर्मपरतत्रः हीनस्थानपरिग्रहवत्त्वात् मधोद्रेकपारत- त्र्याशुचिस्थानपरिग्रहवद्विशिष्टपुरुषवत् । हीनस्थानं हि शरीर- मात्मनो दुःखहेतुत्वात् न च देवशरीरे दुःखाभावात् भागा- सिद्धोऽयं हेतुरिति वाच्यम् , तस्यापि च्यवनसमयेऽतिदुःख- हेतुत्वप्रसिद्धेः। यदधीन आत्मा तदेव वाऽदृष्टसंज्ञकं कर्मति सिद्धं कर्मणः पौगलिकत्वमत्राप्यनुमानम् , तथा हि-पौगलिक कर्मात्मनः पारतव्यनिमित्तत्वात् कारागारवत् । न च निग- डादौ व्यभिचार इति वाच्यम् , तस्य पारतत्र्यखभावत्वात, यः खलु पारतत्र्यखभावः स न पारतव्यनिमित्तं भवितुमर्हतीति । अत्र सांख्या प्रलपन्ति-सुष्टुक्तमदृष्टमात्मगुणो न भवतीति प्रधानपरिणामत्वात्तस्य, तदुक्तं-"प्रधानपरिणामः शुक्लं कृष्णं च कर्म" इति । तद्गगनारविन्दवन्मनोरथमात्रम्, प्रधानाभा- वेन तत्परिणामत्वस्यासंभवात् । तत्परिणामत्वेऽपि वात्मपा- रतत्र्यनिमित्तत्वाभावात् न कर्मत्वं तस्यान्यथा घटादावप्य- तिप्रसक्तिः। न च प्रधानपारतच्यनिमित्तत्वात् कर्मत्वं तस्खे- त्यारेकणीयम् , एवं रीत्या प्रधानस्यैव बन्धमोक्षयोः संभवे- नात्मकल्पनायाः वैयर्थ्यप्रसङ्गात । न च बन्धमोक्षफलानुभव- स्थात्मनि प्रतिष्ठानात् न तत्कल्पनावैयर्थ्यप्रसङ्ग इति वाच्यम्, . कर्मसिद्धिः। ४१... है वक्ष्यमाणानुमानेन प्रधानस्य तत्कर्तृत्ववत्तद्भोक्तृत्वप्रसङ्गात्, अन्यथा कृतनाशाकृताभ्युपगमप्रसङ्गः । अत्र प्रयोगः-प्रधान वन्धफलानुभोक्तृ बन्धाधिकरणत्वात् कारागारबद्धतस्करवत् । न चात्मनः चेतनत्वात् भोक्तृत्वं न प्रधानसेति वक्तव्यम् , मुक्तात्मनोऽपि कर्मफलानुभवप्रसङ्गात् । ननु मुक्तात्मनः प्रधा- नसंसर्गाभावात् न फलानुभवनमिति चेत् ? तर्हि संसारिण एव प्रधानसंसर्गात् वन्धफलानुभवनं प्राप्तं तथा चात्मन एव बन्धः सिद्धः, बन्धफलानुभवनिमित्तस्य प्रधानसंसर्गस्य बन्धरूपत्वात् बन्धस्यैव संसर्गः पुद्गलस्य च प्रधानमिति नामान्तरमेव कृतं स्यादिति दिक। कर्मणां पौगलिकत्वे सिद्धे तेषामनन्तशक्तिमत्त्वेन विचित्र- तापि नानुपपन्ना। तत्तत्कर्मणां विशिष्यादृष्टहेतुत्वस्यावश्यक- त्वेन वैजात्यकल्पने मानाभाव इत्यपि न सुन्दरम् , तव मतेऽपि कीर्तननाश्यतावच्छेदकत्वेनावश्यकत्वात्तस्य, अदृष्टत्वस्य खा- श्रयजन्यताविशेषसम्बन्धेनाश्वमेधत्वादिघटितस्य कीर्चनना- श्यतावच्छेदकत्वे तु गौरवमित्यलमप्रासनिकेन । तद्वैचित्र्य- मपि बन्धहेतुत्ववैचित्र्येऽपि संक्रमकरणादिकृतं परिणतप्रव- चनानां सुज्ञानमिति । नन्वदृष्टकार्याणां देहादीनां मूर्तिमत्वेन "कारणानुरूपं कार्यम्" इतिवचनाचादृष्टस्य मूर्तत्वापत्तिरिति चेत् ? इष्टापत्तिः। अथामूर्त्तत्वेन सुखादिकार्याणां कथमिष्टापतिः निर्वाह्या इति चेत् न, कार्यानुरूपा कारणकल्पना तूपादाना- दिकारणस्थले एव, नादृष्टस्थले, सुखादिकं प्रति तस्य निमित्त- कारणत्वात् , निमित्कारणादौ च तत् कल्पने घटं प्रत्याकाशस्य बुद्ध्यादिकं प्रति नागरस्य मद्यपानादेश्च तत्कल्पनापत्तिरिति । .

६२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- प्रयोगाश्चात्र-मूर्तमदृष्टं तत्सम्बन्धेन सुखादिसंवित्तेराहा- रादिवत् । तथा मूर्तमदृष्टं तत्संसर्गेण वेदनोद्भवादभिवत् । मूर्त- मदृष्टमात्मव्यतिरिक्तत्वे सति परिणामित्वात् पयोवदिति । अह- टस्य शरीरादेश्च परिणामित्वदर्शनात् नायमसिद्धो हेतुः । मूर्तम- दृष्टं मूर्तस्य देहादेः बलाधानकारित्वात् यथा घटो निमित्तमात्र- भावित्वेन बलमाधत्ते, एवं कर्मापि । तथा मूर्चमदृष्टं मूर्चेन सक्- चन्दनाङ्गनादिनोपचयलक्षणवलस्थाधीयमानत्वात् घटवत् यथा मूर्तेन तैलादिना बलस्साधीयमानत्वात् कुम्भो मूर्तः, एवं स्रक्- चन्दनाङ्गनादिनोपचीयमानत्वात् मूर्त कर्मेति, तथा मूर्त्तमदृष्टं देहादेः तत्कार्यस्य मूर्त्तत्वात् परमाणुवत् , यथा परमाणूनां कार्य घटादिकं मूर्त दृष्टमत एव तत्कारणीभूतानां परमाणूनामपि मूर्तता कल्प्यते, तद्वत् मूर्तस्य शरीरादेः कर्मणः कार्यत्वेन त- स्थापि मूर्चता कल्प्यते । ननु देहादीनां कर्मकार्याणां मूर्चत्वेन मूर्त कर्म यद्वा सुखदुःखादीनां तत्कार्याणाममूर्त्तत्वेनामूर्त कर्मे- त्यपि संशयो न कर्त्तव्यः, सुखादीनां न केवलं कर्मैव कारणं, किन्तु जीवोऽपि, सुखादीनां समवायिकारणं जीवः, असमवायि- कारणं तु कर्म । इदमत्र हृदयं-सुखादेरमूर्चत्वेन समवायिकार- णस्य जीवस्यामूर्चत्वमस्त्येव, असमवायिकारणस्य तु कर्मणः सु- खाद्यमूर्त्तत्वेनामूर्चत्वं न भवत्यपीति नोक्तशङ्कावकाशः । अत एवासाभिरनुपदमेवोक्तं कार्यानुरूपा कारणकल्पना तूपादा- नकारणस्थले एव इति । नन्वमूर्तस्यात्मनः मूर्तिमवाऽदृष्टेन सहे कथमनुग्रहोपघातौ स्यातां , न च भवतः खड़ादिभिः सह न- भसोऽनुपग्रहोपघाताविति चेत ? न, मृतैः मदिरादिभिः नाग- रादिभिश्चात्मधर्माणां बुद्ध्यादीनामनुग्रहोपघातदर्शनात् । यदा- कमसिद्धिः। स्मनः कथञ्चिन्मूर्त्तत्वेऽपि न क्षतिः, अनादिकर्मसन्तानपरि- णामप्राप्तत्वेन क्षीरनीरवत् कर्मणोऽनन्यत्वात् । आकाशस्या- नुग्रहोपघातावचेतनत्वेनामूर्तत्वेन च न स्यातामिति । तदुक्तं- "मुत्तेणामुत्तिमओ, उवघायाणुग्गहा कहं होजा? जह विण्णाणाईणं, मइरापाणोसहाईहिं ॥१॥ अहवा गंतायं, संसारी सव्वहा मुत्तो त्ति। जमणाइकम्मसन्तइ, परिणामावन्नरूवो सो॥२॥ सन्ताणोऽणाईओ, परोप्परं हेउहेउभावाओ। देहस्सय कम्मस्सय,गोयम!बीयंकुराणंव" इति। नन्वमूर्त कर्म वासनारूपत्वादिति चेत् १ न, वासनाया निराकरिष्यमाणत्वात् । किश्चामूर्त कर्म न भवति आकाशव- सागुक्तानुग्रहोपघाताभावात् । तथाहि-सत्त्वानामनुग्रहमुपधातं वा यथा गगनं न किमपि करोति तद्वदनापीति । न चाका- शेऽमूर्चत्वादन्यदकरणनिमित्तमस्ति किन्त्वमूत्वमेव, अत्रापि चामूर्तत्वमविशिष्टमिति । ननु कुत्रचिद्देशे सुखमनुभूयते, यथो- ष्णकालेऽर्बुदाचले, कुत्रचित्तु दुःखं, यथोष्णकाले मरुत्स्थले गौर्ज- राणामिति साधनविकलता दृष्टान्तस्येति चेत्न, तत्रापि गग- नव्यतिरिक्तजलादिनिमित्तत्वात् । तथाहि-वातबहुलस्य पुंसो निर्जले देशे सुखं सजले दुःखं, न च सुखं दुःखं वा शुद्धक्षेत्रो- द्भवं तस्य सर्वत्राप्यविशेषात् तस्मात् सुखादीनां जलायन्वयव्य- तिरेकानुविधायित्वात् न साधनविकलता निदर्शनस्पति । नन्वस्तु वासनारूपं कर्मेति चेत् ? न, तव मते वासाति- अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- रिक्तवासकाकल्पनेन पुष्पादिगन्धवैकल्ये तिलादौ वासना- प्रसङ्गः स्यात्, अतिरिक्तवासककल्पने तु तदेवादृष्टम् , पर: मार्थसदतिरिक्तकर्मास्वीकारे तु वासना न युक्ता। न चास- ख्यात्युपनीतादृष्टभेदाग्रहात् ज्ञानवासनेति वाच्यम्, पुष्पा- दिगन्धभेदाग्रहेपि तैलादिगन्धेषु तद्वासनाप्राप्तेः, ज्ञानवासना तूक्तरूपा तैलादिगन्धवासना न तथेत्यपि न संगतम् , अदृष्ट- भेदग्रहात् ज्ञाने वासनानिवृत्तत्वे त्विदानीमेव निर्वाणप्राप्तिप्रस- ङ्गा, औचरकालिकमेदाग्रहप्रयोजकदोषसत्त्वेन नेदानी वासना- निवृत्तिरिति चेत? तर्हि दोपामावविशिष्टभेदग्रहाभावो वास- नेति पर्यवसितं तथा चात्माश्रयः, वासनायाः एव दोषत्वात् । ज्ञानमात्रं वासनेत्यपि न सुन्दरम्, वासितत्वाभावेन सदैव मुक्तिः स्यात् । अथ विशिष्टं ज्ञानं वासना तदाऽविशेषितज्ञा- नस्य वैशिष्टयं न स्यात् , विशेषकल्पने तु तदेवादृष्टम् । नन्वे- कसन्तानगामित्वेन क्षणिकतचतज्ञानप्रवाहरूपा चासनाऽतो नानुपपत्तिः, नापि शिष्यज्ञानेन गुरोर्वासनापत्तिश्चेति चेत् 'न, क्षणपरम्परातिरिक्तसन्तानस्वीकारेऽतिरिक्तद्रव्याभ्युपगम- प्रसङ्गात्तदेवासाकं कर्मेति । किञ्चातिरिक्तवासकाभ्युपगमेऽपि क्षणिकदर्शने वास्यकाले वासकथाभावेन कुतो वासनासंभवः १, समेत्य स्थितयोः वास्सवासकवः वासनाभावः संगच्छते, पुष्पा- दितैलादीनां तथादर्शनात् , नासमेत्य स्थितयोः। अपि च चासकाद् वासना भिन्ना अभिन्ना वा ?, भिन्ना चेत् ? वास- कस्य का संसर्गः घटादिवन कोऽप्रीत्यर्थः । घटादयोऽपि चं कथं न वासयन्ति ज्ञानादिकं, संसर्गाभावत्वाविशेषात् । एक- वणवर्तित्वेन च वासनोत्पत्तेरनभ्युपगमे चासनाशून्यमन्यं कथं ३ कर्मसिद्धिः। । - - . - - वासयति घटादिवत् । वासकात् वासनाऽभिन्ना चेत् । कथं तर्हि वासनीये वासनायाः संक्रमः १, वासनायां वासकानतिरि- तत्वात् स्वरूपवत्, संक्रमाभावे च वासकात् न युक्ता वास्यस्य वासनेति । अथ दृष्टहानिभिया कथमपि वारसे वासनासक्रम: स्वीक्रियते । एवं सति वास्यवासकभावसम्बन्धोऽपि नानुप- पन्ना, अवृक्षव्यावृत्त्या वृक्षत्वसामान्यवत् वासनाया: परिक- ल्पितत्वेन भेदाभेदोक्तदोषावकाशोऽपि नेति चेत् ? न, वास- नायाः कल्पितत्वेन व्यवहारानङ्गत्वात् , अन्यथा कल्पितस्य गगनारविन्दस्यापि व्यवहारप्रसङ्गात् । तदुक्तं- "सिय वासणातोगम्मइ,सावासगवासणिजभावेण। जुत्ता समेच दोण्हं, न तु जम्माणंतरहतस्स ॥१॥ सा वासणातो भिन्नाभिन्ना व हवेज ? भेदपरकंमि। को तीए तस्स जोगो, तस्सुण्णो वासइ कहं च ॥२॥ अहणो भिन्ना कहतीए, संकमोहोइ वासणिजम्मि। तदभावम्मि य तत्तो, णो जुत्ता वासना तस्स ॥३॥ सति यण्णय पसिद्धी, पखंतरमोयनत्थि इह अण्णं । परिकप्पितातई अह, ववहारगंततोकह णु॥४॥” इति । तदेवं वासनारूपमपि कर्म न भवति । ननु मास्तु वासना- रूपं कर्म आत्मशक्तिरूपत्वस्वीकारे का क्षतिरिति चेत् ? ननु साऽऽत्मनो भिन्नाभिन्ना वा?, अभिन्ना चेत? आत्मखरूपैव, मिन्ना चेत् ? जन्याऽजन्या वा?, जन्या चेत् । तदुत्पत्ताववश्य- मात्मव्यतिरिक्तं हेत्वन्तरमाश्रयणीयं स्यात् । अन्यथाऽऽकसि- , अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- - कत्वापत्तेः ननु दानादिक्रियासम्बन्धादात्ममात्राजन्यत्वे सति आत्मव्यतिरिक्ताऽसाधारणकारणजन्यत्वमेव सेति चेत् ? न, आत्मनोऽनुपचये तस्या अप्रादुर्भावात् , दानादिक्रियातः तदु- पचये पुष्टिहेतुत्वेनादृष्टसिद्धिरावश्यकीति जन्यपक्षोऽपि भवतां न क्षेमङ्करः, नाप्यजन्यपक्षः, तथाहि-अजन्यापि सा किमा- वृतानावृता वा, आवृता चेत् ? समीहितमसाक 'यदेवाव- रणं तदेव कर्म' इति । अनावृता चेत् ? अहर्निशं खर्गादिकार्य कथंन जनयति', व्यञ्जकाभावादिति चेत् । ननु तत्र कख व्यञ्ज- कत्वं?, दानादिक्रियाया इति चेत् ? न, व्यथैव व्यञ्जकत्वकल्प- ना, नित्यनिवृत्तत्वेनावरणाऽयोगात । नित्यायाःशक्तेः कार्यान्तरं प्रत्यनावृत्तत्वेऽपि प्रकृतकार्य प्रत्याभिमुख्यभावात् तत्रावरण-... कल्पनेत्यर्धजरतीयन्यायस्वीकारेऽपि कर्मरूपता स्वीकृतैवेति । यदुक्तं- "अस्त्येव सा सदा किन्तु, क्रियया व्यज्यते परम् । आत्ममात्रस्थिताया न, तस्या व्यक्तिः कदाचन ॥१॥ तदन्यावरणाभावाद्, भावे वास्यैव कर्मता। तन्निराकरणाद् व्यक्ति-रिति तद्भेदसंस्थितिः।। इति । किञ्च-सा शक्तिः खर्गादिजनने समर्थाऽसमर्था वा', समर्था चेत् ! क्रमेण वर्गादिजनिका युगपद्वा, न तावत् क्रमेण, यतः कथं न जनयेत् नरत्वाद्युत्पत्तौ कालान्तरभावि खर्गादिकम् , समर्थस्य कालक्षेपायोगात् कालक्षेपे चासामर्थ्य- प्राप्तेः। ननु समर्थाऽपि सहकारिसन्निधिमपेक्षत इति चेत् ? तर्हि तस्या असामर्थ्य अपरसहकारिसापेक्षवृत्चित्वात् । ननु. सा कमसिद्धि। 2 " ४५ m नापेक्षते, किन्तु नोत्पाद्यते. स्वर्गादिकं दानादिक्रियां विना- तोऽपेक्षत इति चेत न, समर्थस्य प्रसह्य घटनात्, अन्यथा तस्या असामर्थ्यप्राप्तेः । ननु समर्थमपि वीजं भूमिजलादिसा- मग्री प्राप्यैवाङ्कुरं जनयति नान्यथेति चेत् ? ननु तर्हि दाना- दिक्रिया शक्तरुपक्रियेत न वा १, नोपक्रियेतेति , चेत् ?, वहि दानाद्यमावत इव . दानादितोऽपि न जनयति, उप-. काराकरणात् । यद्युपक्रियेत तदा स उपकारः शक्तमिन्नोऽ- भिन्नो वा ?, भिन्नश्चेत् । स कथं दानादिक्रियाजन्यः एव, न हननादिक्रियाजन्यः, उभयोरपि संसर्गाभावत्वाविशेषात् । अभिन्नश्चेत् शक्तिरेव कृता स्यात् , तथा च लाभमिच्छतो मूलतो हानिः समायाता । यद्वाऽस्तु यथाकथञ्चित्स्वर्गादिप्रयो- जिका दानादि क्रिया, तथापि दानादिक्रियाकाल एव स्वर्गा- दिकं कथं न जनयति १, ननु क्रियाजन्यावरणध्वंससहकृता सा कालान्तर एव जनयतीति चेत् ?..न, तदपेक्षयाऽदृष्टस्यैव खविपाककाले फलजनकत्वौचित्यात् । तस्मानात्मशक्तिरूपम- इष्टमिति । तदेवं विश्ववैचित्र्यनिर्वाहकमनेकजातीयं सत्व- रूपं मूत्रं शक्तिवासनादिपक्षनिर्वाहक्षम पौद्गलिकमदृष्टं सिद्धम् । तदुक्तं श्रीमद्भिः हरिभद्रसूरिपादैः- "तस्मात्तदात्मनो भिन्नं, सचित्रं चात्मयोगि च । अष्टमवगन्तव्यं, तस्य शत्यादिसाधकम्॥१॥” इति। - अथ कर्मणो दर्शनपरिभाषोच्यते-तत्रादृष्टमिति वैशेषिकाः, संस्कार इति सौगताः, पुण्यपापे इति वेदवादिनः, शुभाशुभे इति गणकाः, धर्माधर्माविति साङ्ख्याः शैवाश्च । एवमेते दर्शन- परिभाषाजनिताः व्यञ्जनपर्यायाः- ज्ञातव्याः। , - - ३ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- नन्वात्मनोभूर्तत्वेन मूतेन कर्मणा सह कथं संसर्ग इति चेत् । आकाशेन घटादीनामिव क्रियया द्रव्यस्येव क्षीरनीरमिव वेति वाच्यः । यद्वा किं निदर्शनान्तरावलोकनेन प्रत्यक्षोपलभ्यमा- नस्थूलशरीरेणात्मनः इव कार्मणशरीरस्यापि संयोगो नानुप- पन्नः ।। अत्र धर्माधर्मनिमित्तं स्थूलशरीरं स्वीकुर्वाणं तार्किक पृच्छामः, भो तार्किकशिरोमणे ! भवदभिमतौ धर्माधौं मूत्रै अमूचौं वा?, मूर्ती चेत् १ असूनात्मना सह तयोः कथं संसर्गः१, यथा कथश्चिद्भवतीति चेत? तहि कर्मणोऽप्यात्मना सह संसर्गः कथं नेष्यते, अमृतौं धर्माधर्माविति चेत् । बा - न स्थूलशरीरेण साधं कथं तयोः संसर्गः?, तव मते मूर्वा मूर्तयोः संसर्गाभावात् । न चासम्बद्धयोरपि तयोः स्थूलशरीरेण सह संसर्ग इति वाच्यम् , अतिप्रसङ्गात्, यद्यमूर्तयोरपि तयोः स्थूलशरीरेण साकं संसर्ग इष्यते, तर्हि कार्मणशरीरेण साकं कथं विरोधमुद्भावयसि ?, नन्वेवं मास्तु स्थूलशरीरेणापि साकं संसर्गस्तयोरिति चेत् ? तर्हि स्थूलशरीरस्थात्मना साकं तु संसर्गों दूरोत्सारित एव, तथा च सति देवदत्तशरीरोपघातो यथा यज्ञदत्तस्य दुःखादिकं न जनयति, संसर्गाभावात्, तद्व- स्थूलतन्वा सह संसर्गाभावे देवदत्तशरीरोपघातो देवदत्तस्थापि दुःखादिकं न जनयेत् १, संसर्गाभावत्वाविशेषात्, तथा च सति दृष्टेष्टविरोधः। तथाहि-शरीरस्यानुग्रहादिनिमित्तत्वेनानुभवग- म्याः सुखादयो दृष्टाः। न च शरीरानुग्रहादिनिमित्तान्यनिमि- शान्तरमिति वक्तुं शक्यते, शरीरानुग्रहादिनिमित्तेन सहान्व- यव्यतिरेकदर्शनात् । अन्वयव्यतिरेकानुविधानेऽपि निमित्तान्त- रमुपकल्पेत तर्हि सर्वत्र प्रतिनियतकार्यकारणभावोच्छेदप्रसङ्गः। .

कर्मसिद्धिः। १० . तथा चोक्तं- "यस्मिन् सति भवत्येव, यत्तत्ततोऽन्यकल्पने। तद्धेतुत्वं च सर्वत्र, हेतूनामनवस्थितिः॥१॥ इति । ननु शरीरानुग्रहादिनिमित्तत्वाभावेऽपि प्रशान्तमनोयोगादि- भावतोऽपि सुखादयो दृष्टा इति चेत् ? न, प्रशान्तचित्तादि- भावतः सुखादीनां भावेनावश्यं शरीरस्यानुग्रहादिभावात् । ननु मनोयोगे सति कथं तनुयोगस्यानुग्रहादयः, विभिन्नद्रव्यत्वा- दिति चेत् ? सत्यम् , काययोगेनैव मनोयोगपुद्गलानां गृहीत- त्वेन काययोगविशेष एव मनोयोगः स एव प्रशान्तचित्तादिः, ततो न दोष इति दृष्टविरोधः। तथेष्टविरोधोऽपि, तथाहि- शरीरस्य पूजनव्यापची आत्मनः सुखदुःखनिमित्ते इष्टे, आत्म- शरीरयोरत्यन्तभेदे चेष्यमाणे न च ते युक्ते, न चेष्टापतिः कर्तु शक्यते, तथा दर्शनात् । ननु शरीरस्य पूजनव्यापत्ती नात्मनः सुखदुःखनिमित्ते भवतः, प्रतिमाप्रतिपन्नस्य देहव्यापत्तावपि ध्यानबलेनैकान्तसुखोपेतत्वात्, चन्दनादिसन्निधानेपि कामा- स्य कामोद्रेकवशतः दुःखदर्शनादिति चेत् ? न, अनध्यात्मि- कसुखस्यैव साधयितुमिष्टत्वात् , प्रतिमाप्रतिपन्नस्य कामावेशव- तश्चाध्यात्मिकसुखादेरनुभवसिद्धत्वेऽपि पूजनन्यापत्तिनिमित्त- त्वस्य प्रतिष मशक्यत्वादितीष्टविरोधः । तदेवमात्मशरीरयो संसर्गाभावे दृष्टेष्टविरोधदर्शनावश्यं तयोः संसर्गः एटव्या, तथैव कर्मण्यपि, विशेषाभावादिति । तदेवमुक्तः आत्मकर्मणोः संसर्गः। १ बाह्यसुखस्यैव । २'मानसिकसुखादेः।

५० - . 4 अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- ननु सिद्धेऽप्यात्मप्रदेशैः सह कर्मणां संसर्गे क्षीरनीरवद- मिततायोगोलकवद्वाऽविभागेन स न युक्तः, अन्यथा मोक्षा- भावप्रसङ्गः, जीवप्रदेशैः सह कर्मणामविभागेनावस्थानात् । तथा चानुमानम्-जीवात् कर्म नापति क्षीरनीरवदनितप्ताय- स्पिण्डचदात्मप्रदेशैः सहाविभागेनावस्थानात् जीवप्रदेशसमूह- वत्, यद्येन सहाविभागेन व्यवस्थितं तत्तेन सह न चिमुच्यते, यथात्मनः स्वप्रदेशसमूहः, इष्यते च जीवकर्मणोरविभागो भवद्भिः। तत एव जीवात् कर्म सर्वदापि नापति, कर्मापग- माभावे चानिशं जीवानां सकर्मकत्वे मोक्षाभावः । ननु तर्यात्मप्रदेशैः सह कर्मणां कमिव संसर्ग इति चेत् ? सर्पकञ्च- कवदिति ब्रूमः, यथा-कञ्चको विपधरमनुगच्छति, तथापि कालान्तरेण कञ्चुकं विषधरो मुश्चति, एवं कर्मापि जीवमनु- गच्छति स्थितिपरिपाकेन तु मुच्यत इति न मोक्षाभाव इति चेत् ? अत्रोच्यते, काञ्चनोपलयोरविभागेन स्थितयोरपि वियोगो दृष्टः तद्वत्कर्मणोऽपि जीवेन सहाविभागेन स्थितस्य ज्ञानक्रियाम्यां वियोगो भवति, यथा मिथ्यात्वादिबन्धहेतु- 'मिरविभागेन संयोगो भवति तद्वद्वियोगोऽपि भवतीत्यर्थः । इदमत्र हृदयम्-जीवस्याविभागेनावस्थानं द्विधा भवति, कर्मणा सहाकाशेन च । यदाकाशेन सहावस्थानं तन्न वियु- ज्यते, सर्वाद्धामवस्थानात् । कर्मणा सहाविभागावस्थानं तद- प्यमव्यानां न वियुज्यते, भव्यानां तु तथाविधज्ञानदर्शनचा- रित्रतपःसामग्रीसद्भावे कर्मसंयोगो वियुज्यते, वहयौपध्यादि- सामग्रीसचे काञ्चनोपलयोः संयोगवदिति । तथाविधसामग्य.

कर्मसिद्धिः। ५१ भावे तु कदाचिद्भव्यानामपि कर्म वियोगो न भवति, "नो चेवणं भवसिद्धियरविहिए लोए भविस्सइ" इति वचनात् । ननु तर्हि भव्याः कथं व्यपदिश्यन्त इति चेत् ? योग्यतामा- त्रेण, न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते, तथा- विधदारुपाषाणादीनां प्रतिमादिपर्याययोग्यानामपि तथाविध- सामयभावतः तदयोगात् । ततश्चाविभागेनावस्थानलक्षणो हेतुर्दृश्यमानवियोगैः क्षीरनीरकाञ्चनोपलादिमिरनैकान्तिकः। ततो यथा कर्मग्रहणे तीव्रमन्दमध्यमभेदभिन्नोऽशुभपरिणामो • हेतुः, तद्वत् कर्मवियोगेऽपि तीव्रादिभेदमिन्नः शुभपरिणाम- रूपो हेतुः स्वीक्रियते । ननु कञ्चकवत् जीवे स्पृष्टमेव कर्म स्वीक्रियते नतु बद्धमिति तत्र भवतां पृच्छामः-किमात्मनः प्रतिप्रदेशं वृत्तं सदुच्यते, आहोखित् त्वपर्यन्ते वृत्तं सदुच्यते ? आधे साध्यविकलता दृष्टान्तस्य, नभसेव कर्मणा जीवस्य प्रतिप्रदेशं व्याप्तत्वाद यथोक्तस्पर्शनलक्षणस्य साध्यय कञ्चकेऽभावात् । द्वितीये भवात् भवान्तरं संक्रमतोन्तराले तदनुवृत्तिन प्रामोति त्वपर्यन्ते वृत्तत्वेन तदनुगमाभावात् बाबमलवदिति । नन्व- न्तराले काभावे का क्षतिरिति चेत् ? सर्वेषां जीवानां संसा- राभावं विना नान्या कापि, ननु निष्कारण एव संसार इति चेत् ? तर्हि निष्कारणत्वाविशेषात् मुक्तानामपि संसारापत्ति- स्तपोब्रह्मचर्याधनुष्ठानवतामपि संसारापत्तिश्च । कञ्चकवत् त्वक्- पर्यन्तवर्तिनि कर्मणीष्यमाणे सति शरीरमध्यवर्तिशूलादिवेदना किंनिमित्ता, तत्कारणस्य कर्मणोऽभावात् । न च निष्का- ५२ अनुयागाचार्यश्रीमत्प्रमावजयगाणगुम्फिता- -- रणा वेदना स्वीकर्तव्येति वाच्यम् , सिद्धानामपि तत्प्रसङ्गात् । नन्वन्तर्वेदना लकुटघातादिजन्यवाह्यवेदनानिमित्तेति चेत् ननु तर्हि लकुटपातादिजन्यवाद्यवेदनाभावेऽन्तर्वेदना कथम- नुभूयते ? ततस्तत्कारणभूतेन मध्येऽपि कर्मणा भाव्यमिति सिद्धोऽसत्पक्षः। ननु त्वपर्यन्तवर्त्यपि कर्म मध्येऽपि शूला- दिवेदनां जनयति, न पुनः मध्ये कर्मेति चेत् ? ननु तर्हि यज्ञ- दत्तशरीरगतं कर्म देवदत्तशरीरवेदनामपि कथं न जनयति ? विभिन्नदेशस्थितत्वाविशेषात् । ननु त्वक्पर्यन्तवर्त्यपि कर्म यज्ञदत्तशरीरस्य बहिरन्तः संचरति, तत उभयत्रापि वेदनां जनयति, न शरीरान्तरे, तत्र संचरणाभावादिति चेत् १ न, कञ्चुकवत् बहिरेव तिष्ठतीति नियमस्य भङ्गप्रसङ्गात् । किञ्च संचरणमपि न युज्यते, यतः संचरणत्वस्वीकारे बहिरन्तः क्रमेण वेदना स्थात्, न चैवमुपलभ्यते, लकुटादिधाते सति युगपदुभयत्रापि वेदनादर्शनादिति । अपि च संचरिष्णु कर्मा- भ्युपगमे भवान्तरं तन्नानुगच्छति, उच्छ्वासनिश्वासानिलवत्, तथा च सर्वेषां संसाराभावप्रसङ्गः। ननु सिद्धान्तेऽपि कर्मणः चलनमुक्तं तथा च भगवत्यां-"चलमाणे चलिए" इति । अत्र चलनं संचरणमेवोक्तमिति कथं भवद्भिस्तदत्र निषिध्यत इति चेत् ? न, अभिप्रायापरिज्ञानात् , तथाहि-"नेरईए जाव वेमा- णिए जीवाउ चलियं कम्मं निञ्जरइ" इत्यादिवचनात् । तथा "निर्जीर्यमाणं निर्जीण" इति वचनाचागमे यच्चलितं कर्म निर्जीर्णमुक्तं तदकमैव भणितम् , तच्चाकाशपरमाण्वादेरिव मध्यगतमपि न वेदनां जनयितुमलम् , सामर्थ्याभावादिति कर्मणः संचरणं न युक्तमतो न कञ्चुकवत् त्वपर्यन्तवाव - कर्मसिद्धिः। ५३ १ कर्म, किन्तु जीवस्य प्रतिप्रदेशवर्तीति स्थितम् । तथा चानु- मानं-आत्मनः प्रतिप्रदेश विद्यते कर्म, सर्वत्रात्मनि वेदनास- द्भावात् शरीरे त्वगिव । तथा मिथ्यात्वादीनां कर्मबन्धकार- णानामात्मनि सर्वत्र सद्भावात् तत्कार्यभूतं कर्मापि सर्वत्रा- मनि विद्यते न पुनः बहिरेवेति क्षीरनीरवदमितप्तायोगोलक- वद्वाऽविभागेनैव स्थितं कर्मेति सिद्धम् । ननु मूर्तेन कर्मणा साकमात्मनः सिद्धेऽपि संसर्गे मिथ्या- त्वादिहेतुभिः जीवेन क्रियत इति व्युत्पत्तिबलात् कर्मणः कृत- कत्वेने सादित्वं प्राप्तम् । तथा च सति पूर्व कर्मवियुक्तत्वेन मिथ्यात्वादिहेत्वभावात् कथमादौ कर्मणां बन्धः १, निर्हेतुक- वन्धे च मुक्तात्मनामपि बन्धःप्राप्नोति, निर्हेतुकत्वाविशेषादिति चेत् ? न, कृतकत्वेन सादित्वेऽपि प्रवाहतोऽनादित्वात् । ननु नियतव्यक्त्यपेक्षया प्रवाहतोऽपि कृतकत्वेन कथमनादितेति चेत् ? न, अतीतकालवत् प्रवाहतोऽनादित्वात्, तथाहि- अनुभूतवर्तमानभावेऽपि भूतकालः प्रवाहतो यथाऽनादिः। तदुक्तम्- "भवति स नामातीतःप्राप्तो यो नाम वर्तमानत्वम् । एष्यश्च नाम स भवति यःप्राप्स्यति वर्तमानत्वम्॥१॥" -इति । तद्वत्कर्मणोऽपि प्रवाहतोऽनादित्वं भविष्यतीति । तथा चाहुः श्रीमद्धरिभद्रसूरिपादाः- "सव्वं कयगं कम्मं णयादिमंतं पवाहरूवेण । अनुभूयवत्तमाणातीतद्धा समय मोणातं॥१॥” इति ।

अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता- ननु कालस्य कथमनादित्वमिति चेत् १ ननु तर्हि कालस सादित्वे सति परिणामिकारणत्वाभावेन तस्य निर्हेतुक- ताप्रसङ्गः, तथा च सति निर्हेतुकत्वाविशेषेण खरशृङ्गवत् सर्वशून्यतापत्तेः । यद्वा परिणामिकारणाभावे शशशृङ्गादी- नामप्युत्पत्तिः स्यात्, निर्हेतुकत्वाविशेषादिति । ननु काल- सिद्धौ प्रमाणाभावेन कुतस्तस्स निदर्शनसिद्धिरिति चेत् ? न, कालानभ्युपगमेऽतीतादिव्यवहाराभावप्रसङ्गात् , प्रतिनियतका- लभाविशीतोष्णवनस्पतिपुष्पादिसंभवान्यथानुपपत्तिलक्षणप्रमा- णविरोधाच । ननु जीवाजीवव्यतिरिक्तः कश्चिद्रव्यभूतः का- लो न खीक्रियते, किन्तु द्रव्यावस्थानलक्षणः स्वीक्रियत एव । तथा चोक्तं प्रज्ञप्त्यां-"जीवा चेव अद्धा अजीवा चेव अद्धा" इति । तथा अतीतादिव्यवहारोपि तदपेक्षया भविष्यतीति चेत् ? सत्यम् , परं द्रव्यावस्थानमपि न पूर्वावस्थानमन्तरेण दृष्टं, यतः परिणामिकारणमन्तरेण कस्यापि वस्तुनोऽनुपपत्तेः । कथश्चित्पू. विस्थात्यागोत्तरावस्थान्तरापत्तिरूपत्वेन परिणामिकारणस्पति निदर्शनसिद्धिः कथं न भवति । तदुक्तं- "तस्स विय आदिभावे अहेतुगत्ता असंभवो चेव । परिणामिहेतुरहियं नहि खरसिंगं समुन्भवइ ॥१॥ कालाभावे लोगादिविरोधो तीयमादिववहारा। अह सो दवावस्था साविण पुव्विं विणा दिहा॥२॥ • ननु जीवकर्मणोरनादिसंयोगे सिद्धे मोक्षाभावप्रसङ्गः, यतो योऽनादिसंयोगः सोऽनन्तो दृष्टः यथात्मनभसोन चाका- कर्मसिद्धिः। शेन सह कदापि जीवस्य संयोगो निवर्तते । एवं कर्मणोऽपि जीवेन सह संसर्गों वाच्य इति चेत् १ नायमेकान्तः, यतोऽनादि- संयुक्तयोरपि वस्तुनोः सन्तानः सान्तो दृष्टः, तथाहि-बीजा- करयोर्मध्येऽन्यतरदनिवर्तितकार्यमेव यदैव विनष्टं तदैव तयोः सन्तानोऽपि विनष्टः, एवं कुर्कटाण्डकयोः पितपुत्रयोरपि वा- च्यम् । यद्वा काञ्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतो- ऽपि संयोगोऽमितापाद्यनुष्ठानात् व्यवच्छिद्यतेऽतो न मोक्षाभाव इति । नन्वाकाशजीवयोरिव काञ्चनोपलयोरिव वा परस्परम- नादिसंयोग इति चेत् उभयथापि न विरोधः, तथाहि-अभ- व्यानामाकाशजीवयोरिव भव्यानां काञ्चनोपलयोरिवानादि- सन्तानगतः संयोगो वाच्य इति । न्यायाम्भोनिधिश्रीमद्विजयानंदसूरीश्वरपट्टपूर्वाचलानन्य- नभोमणिश्रीमद्विजयकमलसूरीश्वरपट्टविभूषण-वाचक- चन्द्रश्रीमद्वीरविजयविनेयावतंसक-सिद्धान्तपार- दृश्व-भट्टारक-श्रीमद्विजयदानसूरीश्वरचर- णभृङ्गायमाणेन पन्यास-प्रेमविजयग- णिनाऽलेखि कर्मसिद्धिः। .

"प्रशस्तिः।” , "संसारतापानलतप्तशान्त्यै, सा सुप्रभुश्चन्द्रकलाप्रभेव । गङ्गेव मोहात्कृतपातकानां, मनोमलक्षालनमातनोतु ॥१॥ रमेव रूपं पठतां मनांसि, क्षमेव विद्यां समलङ्करोतु । धर्म तथा मोक्षपदं दधाना, पुनः पुनर्मङ्गलमातनोतु ।।२।। विद्यामृतानन्दरसैकपूर्णा, सत्सेव्यमाना सरलार्थरूपा । नेत्राटनन्दैकमितेऽब्दसंख्ये,समाप्तिमगमत्किलकर्मसिद्धिः३ शुभोऽभूदाचार्योऽसौ जगति विजयानन्दपदभाक, तदीये पट्टेऽसिन् विजयकमलाचार्यः सुतनुः । तदीये साम्राज्ये विविधविमलानन्दभुवने, : महोपाध्यायः श्रीविजयपरवीरः समभवत् ॥४॥ तदीयान्तेवासिप्रभुविजयदानाख्यविदुषा, पदं प्राप्त सूरेविजयकमलेभ्योऽतिपरमम् । पदायेन प्रेम्णा विजयपदयुक्तेन मुनिना, न्यगादीयं दानोत्तरविजयसुरेः सुशिशुना॥५॥ याते वर्षे करशरयुगाक्षिप्रमे ज्ञातमनोः, मोक्षं प्राप्तात्-सकलजगतीभावभासाय भानोः। शिश्रायैपा विजयिविजयानन्दसूरीश्वराणाम्, खर्गारोहाद् रदपरिमिते सत्पथज्ञापकानाम् ॥६॥ उत्सूत्रं यत् सत्रितं किञ्चिदत्र बुद्धर्मान्द्या वाद्यानाभोगतोऽपि। सान्मे मिथ्यादुष्कृतं तत्वविद्भिर्मय्याधायानुग्रहं शोधनीयम्" . .

No text on this page.

Karmmsidhi

Author
Gani Premvijay
Title
Karmmsidhi
File name
Karmmsidhi
Text
OCR done
Citation
1929
Published
2010/09
Publisher
Mombay, Shahhathichand Deepchand
Language
Sanskrit
Pages
66
Library
Prakrit Bharati Academy, Jaipur
DLI number
326844
Barcode
99999990002439.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
eZvLnYMKW6y
Download PDF

Karmmsidhi