University Library,gurukul Kangri Vishwavidyalaya
संस्कृत शिक्षाक्रमः
Front matter
COMPILED ॥ श्रीः संस्कृत-शिक्षाक्रमः। पाठय-प्रणाली अखिलभारतवर्षीय- संस्कृतसाहित्यसम्मेलनेन प्रस्तुतः । मन्त्रिणा श्रीगिरिधरशर्मचतुर्वेदेन विदुषां समतिप्राप्तये अपनान प्रकाशितः २८.१.7. '.. PAAHANA Agent.rek- मथुरायां रामनारायणयन्त्रालये श्रीस्वारमा प्रमाणावर प्रबन्धन मुद्रितः । सम्बत् १६७८ वि० ८ प्रारम्भिकं वक्तव्यम् । इह खलु संस्कृतभाषाभ्युन्नतये विद्वद्भिः संभूय ' अखिल- भारतवर्षीयं संस्कृतसाहित्यसंमेलनम् ' इतिनाम्ना विशिष्टा संस्था यतःप्रभूति प्रतिष्ठापिता, यतश्च विभिन्नेषु प्रान्तेषु प्रत्यब्दमधि- वेशनान्यस्याः प्रवृत्तानि, ततएवानेन संमेलनेन सावधानमिदमा- लोचितम् यत् शिक्षापद्धतिसंशोधनम् एव संस्कृतोन्नती प्रधानो हेतुर्भवेत् । यतो हि शिक्षापद्धतावस्माकं दृश्यन्ते फेचि. दूलवत्तमा दोपाः, तएव च संस्कृतविदुषामुन्नतौ प्रतिबन्धकीभूय संस्कृतभाषाप्रचार हसयन्ति । त इमे विचार्य पूर्व निराकरणीयाः देशकालानुकूलतया च संस्कृतशिक्षापद्धतिः परिष्कायो । यतो हि देशकालयोरत्य तं विरोधे दुर्लभा कस्मिन्नपि कार्यसिद्धिः। तत्र- विचार्यमाण मुख्यतया प्रचलितायां शिक्षापद्धताविम दोषाः प्रति- भासन्ते । ( १) प्रारम्भिकशिक्षायाः काठिन्यम् । वैज्ञानिके- ऽस्मिन् युगे शिक्षाविज्ञानगवेषकैः सुस्पष्टमिदं सिद्धान्तितम्-यत् प्रारम्भिकी शिक्षा यावदेव सरलत्वं प्राप्येत-तावदेव शिक्षाप्रचार- सौकर्य भवेत् । तत एवाङ्गलभाषाशिक्षाधिनायकाः प्रत्यहं प्रार• म्भिकशिक्षायां सरलतामाधातुं प्रयतन्ते, ततएव च भवति तासां भाषाणां शिक्षायाः प्रत्यहमेवाधिकाधिकः प्रचारः । अस्माकं तु प्रारम्भिकी शिक्षा अद्यापि तथैव कठिना । प्रायेण संस्कृतशिक्षा- मन्दिरे प्रविविक्षूणामवच्छात्राणामने पाणिनीयमन्यद्वा किमपि सूत्रनिबद्धं व्याकरणमस्माभिरवस्थाप्यत, काषश्चे केवलं घोषणार्थम् । पूर्व भाषापरिचयः तदनु तद्व्याकरणज्ञानम् , इत्ययं युक्तियुको प्याधुनिकानां विदुषां घण्टाघोषो नाद्यावधि संस्कृतशिक्षकैः कर्णे क्रियते । बहवस्तु हिन्दीभाषाया अप्य- परिचितान् बालान् संस्कृतव्याकरणे कोषे च नियोजयन्ति । कुतः खल्वपरिपकमज्ञानां छात्राणां तथाविधे गहने व्याकरणे प्रवेशो भक्तु । ततः किल तेच्छात्रा अध्यापकस्ताड्यमानाः शुकत्वमवलम्ब्य ग्रन्थाक्षराणि कण्ठे कुर्वन्ति, न तु शिक्षाया मुख्य प्रयोजनं प्रज्ञापरिष्कारो नाम तेषां लेशतोऽपि सिद्ध्यति । एवं प्रतिशतं सप्ततिरशीतिवी च्छात्राः प्रविविक्षव एवं अनया द्वारपिधायिन्या दृढतरार्गलया बहिरेव निष्कास्यन्ते । तेषामेव कृते ( केचिद् भ्रष्टाः सुध्युपास्यप्रयोगे ) इत्यादय आभाणका- अस्मद्देशे प्रसिद्धयन्ति । ताँश्च संस्कृतभाषाया महत्वं ख्याप. यन्तः सगर्व वयमुदाहराम इत्यहो अस्माकं वैचित्र्यम् । कथ- मित्थं संस्कृतभाषायाः प्रचारः सेत्स्यति । कथं वा कोण निलीनेयं जीवनं रक्षिप्यतीति नैव शिक्षाकर्णधारा मनागपि विचारयन्ति । दृश्यन्ते बहवछात्राः संस्कृतशिक्षायां प्रविष्टाः, ततो निराशा भूत्वा प्रतिनिवृत्ताश्च आङ्ग- लभाषायां प्रविश्य पाटक्मासादितवन्तःस्वल्पेनैव कालेन । अहो सप्तसमुद्रान्तरितदेशभाषा येषां सुग्रहा, स्वीया देशभाषा स्वकी- यमातृभाषा तेषां दुर्लभेति महञ्चित्रम् । यद्यपि राजभाषेतिविशि- प्टफललाभप्रत्याशया आंगलभाषां .बड्वोऽधीयते इतिसत्यम् (३) तथापि शिक्षापद्धतिकाठिन्यमपि संस्कृतमध्येतुमिच्छतामपि प्रतिब- न्धकमित्यपि नासत्यम् । पूर्वतने च संस्कृतशिक्षाप्रचारकाले संस्कृ. तशिक्षाया:सरलत्वाय प्रायतन्त विशिष्टप्रज्ञा इति प्रत्यक्ष पश्यामः। क्रमेण जनानां बुद्धिहास इत्यस्माकं दार्शनिकः सिद्धान्तः। तत- एव महाभाष्यादिदुरूइग्रन्थेभ्यो व्याकरणशिक्षा. कठिनामवेक्ष्य काशिकाधातुवृत्तिप्रभृतयो ग्रन्थास्तैस्तैर्विद्भिनिरमाधिषत शिक्षा- सौकर्यार्थमेव । अथ ततोऽपि बोधे कालेन काठिन्यमालक्ष्य सि- द्धान्तकौमुदी भट्टोजिदीक्षितमहाशयेन सौकर्यमेवोद्दिश्य विरचि. ता। तत्रापि काठिन्यं निध्याय तत्रभवान् वरदराजो लघुकौमुदी निर्ममे । इदानीं तु कालक्रमेण साध्यतिकठिनेवाभातिच्छात्राणाम् पर नेदानी सौकर्यार्थमाधीयते विद्वद्भिः प्रयत्नः । तस्मात् संस्कृत- प्रचाराय प्रारम्भिकशिक्षायाः सरलताप्रापणमत्यावश्यकम् । (२) संस्कृतशिक्षायां समयोपयोगिविषयाणा- मप्रवेशो द्वितीयो दोषः । देशकालानुकूल्येन जनानामभिरुचि- भिन्ना भिन्ना भवतीति नात्र कस्यापि विवादो भवेत् । यादृशी लोक- स्याभिरुचिस्तादृशविषयाणां विधानेन लोके प्रतिष्ठा लत्यते स ए- व च लोकसेवामपि कर्तुं समर्थो भविष्यतीत्येतदपि निर्विवादम् । पुराप्यस्माकं शिक्षापद्धतिलौकाभिरुचिभेदेन विभिन्नाऽवर्तते- ति मनागवधायानुमातव्यम् । यदा किल काव्यप्रिया आसन लोकनेतारो राजप्रभृतयो जनाः तदा तदा काव्यशास्त्रप्रधान देशे शिक्षा प्रावर्तत, कवय एव च बाहुल्येन भारते प्रादुरभवन् । अथ - नव (४) अथ यदा विदुषां पारस्परिकशा कशास्त्रार्थश्रवण श्रासादभिरुचिर्म- हताम्, परिष्कारप्रधाना प्रावर्तित शिक्षापद्धतिः । इदानीं तु तस्मिन् कवित्वयुगे तस्मिश्चावच्छेदकतायुगे व्यतीते निरुद्देश्ये- वास्माकं शिक्षापरिपाटी, केवलं परीक्षत्तरणार्थमिदानीमध्ययनम् । उत्तीर्य च परीक्षां पथिभूष्टा इव विचरन्तो विद्वांसोऽन्येषामपि संस्कृताध्ययनपरित्यागे निदर्शनानि भवन्तिान हिला के शिक्षिता इति मन्यतालोकोहि संप्रति साधारणज्ञाने(General Knowledge)रुचि मान्।गणित,भूगोलविद्या,इतिहासः,विज्ञानं,इत्येवंप्रभृतिविषयाणामपरि चितो नेदानी लोके शिक्षित इति मन्यते । नचैते विषया अस्माभिः शिक्षायां नियतत्त्वेन परिगृहीताः । ततएव समयोपयोगिवि. ज्ञानविरहिताः संस्कृतज्ञा न शिक्षितत्वेन समाजे समाद्रियन्ते । नापि लोकेषु प्रभावं स्वीयं प्रतिष्ठापयितुं प्रगल्भन्ते । किमन्यन् यत् संस्कृतज्ञानामेव प्रधानं कर्त्तव्यं, येन तेषां विद्यःयाः प्रभावो भवेत् तदपि संसाधयितुं नैव पाटवं संस्कृतशिक्षितानाम् । अद्यत्त्वे किल यूरोपीयास्तदनुयायिन अागलभाषापण्डिता भारतीयाश्च भारतस्य पुरावृत्तविषये यकिमपि प्रकल्पते । स्वीय- वैज्ञानिकपरिपाटीसमर्थितं च तदेव सर्वत्राप्रतिहतं प्रचारयन्ति । तेन गौरवमस्माकमस्तमयते । परं संस्कृतज्ञा एतिहासिक- पद्धतिविज्ञानवर्जिता न किमपि तत्र प्रतिविधातुं प्रभवन्ति । केवलं तेषां मुखमवलोकयन्ति, गालीवा तभ्यो ददति, देव समयं वा निन्दन्ति । न तु तावता किमपि सिद्धं सेत्स्यति वा ।
(५) - - नहि खलु संस्कृतज्ञा बुद्धिदरिद्रा भवन्ति । यदि ते पद्धति तां व्यज्ञास्यन्, अवश्यं तर्हि भारतगौरवापकर्षका यथेष्टं प्रकल्प- नानि युक्तिभिः प्रतिव्यधास्यन् । यदद्यावधि प्रतिविहितं तद् आङ्गलभापापण्डितैरेव देशभक्तैः प्रतिविहितम् । केवलसंस्कृ. तज्ञाः स्वकार्येऽस्मिन्नुदासीना इति कलङ्कमाज एव । कियद्वा वक्तव्यं-संस्कृतसाहित्येतिहाससम्बन्धपि आङ्गकपरिडतानामेव वचः प्रमाणं भवति नतु संस्कृतज्ञानाम् । तेषां सामयिकरी- त्या पुरावृत्तप्रतिपादनयोग्यताविरहात् । आङ्गलपण्डितानां संस्कृतमर्मज्ञताया अभावात् यदिदानींतनेऽन्वेषणे संस्कृतसाहित्य- तिहासविषये भारतेतिहासविषये चोच्छृखला प्रकल्पना विजृम्भते आन्ध्यं वा बहुत्र दृश्यते सोऽयं कस्य दोषः? विचार्यमाणे संस्कृत-- पंडितानामेव । यदेते समर्था अपि सामयिकपद्धतिविज्ञ नामावाद- कर्मण्या इव संवृत्ताः । तथैव धुनिक विज्ञानमस्माकं वेदे दर्शने-- चायुर्वेदज्यौतिषादिषु च सर्वत्र प्रहरति युक्तियुक्तं च तद्वचो न केवलं ( शेप कोपेन पूरयेत् ) इति रीत्या शक्यं निराकर्तुम् । यदि तु तस्याधुनिकस्य विज्ञानस्य रीतिः संस्कृतपण्डितैर्विज्ञायत तदा स्वीयशास्त्रेप्वन्तनिहितं विज्ञानमप्येषां बुद्धौ भासेत । तत्स- रिष्करणप्रवणाश्च सामयिकानाक्षेपान दूरीकृत्य स्वभापखगौरव- मपि प्रतिष्ठापयेयुः,स्वशास्त्रान्तरनिहितपद्धतिबोधनेन च वर्तमान- कालिक विज्ञानमप्युन्नमय्य जगतोऽप्युपकारमादध्युः । न खलु आधुनिक विज्ञानमद्यावधि सर्वथा पूर्णतां गतम्। भस्माकं शास्त्रपु - - (६) नास्त्येवोच्चतम विज्ञानमू,उन्मत्तलपितमेव वा तत्-इत्येत- दपि च न श्रद्धास्पदम् । तस्मादस्माकं विज्ञानप्रकाशनेनाधुनिक- स्य विज्ञानस्योन्नतिः सम्भाव्यते एव । ओबामप्रकृतमिदम् । तादृशविषयाणामज्ञानेन तु संकृतज्ञानां मुमहानपकर्ष एवं । अतीव लज्जास्पदमिदम् यत् संस्कृतपण्डिता आंगलपाठालयेषु अध्यापकत्वन नियुक्तास्तत्रपाठयमानान् हिन्दीभाषाप्रस्थानप्य- ध्यापयितुं न प्रभवन्ति, हिन्दीभाषाज्ञानाभावात् । संस्कृतपण्डि- तानां सामयिकज्ञानविरहादेव च संस्कृतपाठनार्थमपि राजकीय- विद्यालयेषु भांगलभाषाविद एवं गृह्यन्त इति केवलसंस्कृतज्ञानां वृत्तिदौर्लभ्यमधिकायते, तस्मात्संस्कृतशिक्षायां सामयिकविषयाणां सन्निवेशोतीवावश्यकः। यथादेशमाषया वा ते विषयाः पाठनीयाः, सरलसंस्कृतेन वा नवीनपद्धत्या संग्रथनीयाः । प्रौढं हिन्दीभाषा- साहित्यज्ञानमाङ्गलभाषाज्ञानमपि च व्यवहारोपयोगि संस्कृत- ज्ञानां यथा भवेत् तथा प्रयतनीयम् । संस्कृतशिक्षायां गृह्यमाणेष्वपि विषयेषु किञ्चिदेकविषयाध्ययने छात्राणां प्रवर्तनम् , तेन च संस्कृतसाहित्ये बहूनां विषयाणां विलोपप्रसङ्गस्तृतीयः सुमहान् दोषः। फियतश्चित् कालादेकतमस्यैव व्याकरणस्य न्यायस्य, ज्योतिषादेवी शिक्षा ग्रहीतव्येति नियमः संस्कृतशिक्षायां प्राचरत् । तेन चादितोऽन्तपर्यन्तमेकमेव विषयमधी त्य पण्डितमानिनोपि संस्कृतज्ञा इतरविषये श्वेतं कृष्णं किमपि न जानन्ति । नचानेकविषयज्ञानमन्तरेण व्युत्पन्नः कोऽपिभवेत् । .
(७) . - यद्यपि पद्धत्यानया, एकस्मिन् विषये प्रौदिः समासाद्यते, परं विषयातराणां सामान्यस्यापि ज्ञानस्याभावे सा प्रौढिरकि- चित्करैव । किचैवं बव आवश्यका अपि विषयाः पण्डितैरपि न ज्ञायन्ते इति महती हानिरापतति । धर्मज्ञानं खलु संस्कृतज्ञानस्य मुख्यं प्रयोजनम् , ततोऽपि प्रायेण वञ्चिता भवन्ति संस्कृतविद्वांसः । आवश्यकं स्वानुष्ठेयमपि बहवो न जानन्ति, दूरे तु परोपदेशप्रत्याशा । जिहीमो वक्तुम्- यत् संस्कृतसाहित्यस्य वर्णमालास्थानीया ये शिक्षाग्रन्था- स्तेषां विज्ञातारोऽप्यद्यत्वेऽतिविरलाः। नैयायिका व्याकरण- मुपेक्षन्ते, वैयाकरणा अलङ्कारशास्त्रं न जानन्तीत्येवं सर्वत्र व्युत्पत्तेरभावः प्रतिभासते । किञ्चैवं पद्धतौ प्रचलितायां द्वित्रा एव विषया अवशिष्टाः संस्कृतवाङमये, शेषास्तु विळुप्ताः, लुप्यन्ति च । चिरादेव विविध कलाग्रन्था अस्तं गताः । यस्य रक्षार्थमेव संस्कृताध्ययनमायोजनमभूत् , विलीनः स भगवान् वेदः, न सन्त्येव वेदार्थज्ञा विद्वांसः । भतिगौरवास्पदस्य विविधचमत्कृतिनिधानस्य भारतीयानां सर्वस्वस्य आगम- शास्त्रस्य ( तन्त्रशास्त्रस्य ) धार्तापि क्वचिन्न श्रयते । मीमांसा- शास्त्रमुच्छिन्नप्रायम् । दर्शनज्ञानं तिमिरावृतमेव ।। यच संस्कृतज्ञानामाजविनसाधनम् , तदपि संस्कृतपण्डितैः स्वयं परित्यक्तम् । बहुषु विद्यालयेषु, बहीषु च संस्थासु धर्मोपदेशका विद्वांसः संग्रहीतुमिष्यन्ते, न चैते विशिष्टयापि वृत्या योग्या .. - (८) लभ्यन्ते । बहवः श्रद्धालवः कर्मकाण्डाभिज्ञान् काले काले मृगयन्ते, न च लभन्ते । अतिविरलाः खलु कर्मकाण्डा- भिज्ञाः । रुचिरकथावाचका अपि समये समये बहुषु स्थाने- ध्वन्विष्यन्ते । अस्या अपि तु भारतप्रसिद्धायाः पद्धतेरभावः क्रमेण जायते । तदित्थं परित्यक्तेषु लोकोपयोगिषु जीवनोपा- येषु, विलुप्तेषु च संकृतसाहित्यगौरवास्यपदकेषु गभीरशा- स्त्रेषु यत्र तत्र प्रत्यब्दं शताधिकानां महाशयानां तत्तत्परीक्षो. तरणमात्रेण कथं संस्कृतसाहित्यरक्षा तदुन्नतिर्वा भविष्य- तीति विचार्य मनाक । तस्मात् प्राथमिकशिक्षायां मध्यमशिक्षायां च समुपयुक्तबहुविषयज्ञानं संनिवेश्यमेव । उत्तमशिक्षाया- त्वेकस्यैव शास्त्रस्य विशिष्टं पाण्डित्यमनुलक्षणीयम् । परं तत्रापि सहकारिभूतानां सर्वोपयोगिनां च शास्त्राणां शिक्षा प्रदेयैव, प्रदेयैव । किञ्चोत्तमशिक्षायां सर्व एव तथाविधा विषयाः संनिवेश्या, येन संस्कृतसाहित्यस्याङ्गानां विलोपो न भवेत् । लोकोपयोगिता गौरवं च संस्कृतस्य सुरक्षिते भवेताम् । अभिनवग्रन्थानामनादरः शिक्षापद्धतौ चतुर्थो दोषः । समये समये लोकानां मतिवैचियाद् विभिन्नपद्धतिकानां ग्रन्थानामावश्य- कता सर्वत्र जायते । संस्कृतसाहित्येपि तथैव दृष्टचरम्, वि. मिन्नकालिकानां ग्रन्थानां विभिन्नपद्धत्यवलोकनात् । सर्वेष्वपि विषयेषु कालभेदेन विभिन्नंसरणिमनुसृत्य विद्वद्भिः पूर्व ग्रन्था विरच्यन्ते स्म, बहुलशचैतेषां प्रचारस्तत्तत्समये जायतेस्म, ।
। (१) इदानीं तु प्रायेण ग्रन्था न विरच्यन्त एव, ये चापि कैश्चिद् विप- श्चिद्भिर्विरच्यन्ते तेषामपि शिक्षापद्धतौ तदधिनायकैरग्रहणात प्रचारो न जायते । ततएव च हतोत्साहा ग्रन्थकर्त्तारो न पुनर्ग्रन्थ- निर्माणे प्रवर्तन्त इति साहित्यस्याप्यभिवृद्धिः स्थगिता। प्रतानां च ग्रन्थानां समयेऽस्मिन् दुरूहत्वात् पद्धतिभेदाच्च तभ्यस्तथा व्युत्प. त्तिरपि न जायते । यद्यपि नूतना ग्रन्था न तथा मर्मस्पृशो भवन्ति इदानीन्तनानां ग्रन्थकर्तृणां पण्डितानां तथा विज्ञानाभावात्, अतएव बढ्यस्त्रुटयोऽपि तेषु लक्ष्यन्त इति के षांचिदाक्षेप : । बहुवंशेषु तथ्योऽप्ययम्, परं तथाभूतानां विदुषां सर्वथा नास्त्यभावः। नैव संभवन्तीदानी निदोषा उपयुक्ता ग्रन्था इति नेदं सारवद्वचः । अभिनवग्रन्थानामादरे. क्रियमाणे सोत्साहं विद्वद्भिस्तथा ग्रन्था निर्मास्यते । ते च विचार्य युक्ताश्चेन्नियोज्या शिक्षापद्धतौ, अयुक्ता- श्चेत्सरित्याज्याः । त्रुटयस्तु प्राचीनप्वपि ग्रन्थेप्बेकस्य ग्रन्थ- कारस्यापरणोद्भाविता एवेति-मनुष्यमात्रे सुलभास्ताः । तस्मा-- दार्पग्रन्थानपरिवापि विद्वद्विरचिततत्तद्विषयकनिबन्धस्थाने आधुनिका अपि ग्रन्थाः सन्निवश्या एव । समयोपयोगिनी पद्धतिमवलम्ब्य प्रकटनीयाश्च नवीनास्तत्तद्विषयका ग्रन्था इत्येतदप्यावश्यकम् । आजीवनोपायानामसंग्रहः शिक्षापद्धतौ पञ्चमो दोषः । इदानी हि संस्कृतशिक्षिता अध्यापनं विहाय न किमपि कर्तु शक्नुवन्ति । अध्यापनमपि बहुभिर्न यथोचितमनुष्ठातुं शक्यते । न चैतावन्मात्रेण सर्वेषां निर्वाहो भवेत् । तस्मात् ज्ञानार्थमध्य. -- (१०। ("यम नियम्यारिलोकयात्रार्थ शिल्पवाणिज्यादिविषया अपि शिक्षणीया एब । येन संस्कृतशास्त्रशिक्षया खल्वात्मोन्नति प्रतिष्ठां विन्दन्तोऽपि विद्वांसो जीविकार्थमपि न क्लिश्येरन, अपि तु स्वातन्त्र्येण जीविकां प्राप्नुयुरिति । धर्मशास्त्रमप्यापकाले ईदृशी वृत्तिं विदधात्यवति तथा शिक्षाप्यावश्यकी । इत्यवं- प्रायान् बहून् दोषान् दूरीकृत्य संस्कृतशिक्षापद्धतिः परिष्कार्या । न च सर्वथैव प्राक्तनी पद्धतिः परित्याज्या, तथा सति संस्कृत- शास्त्राणां मार्मिकज्ञानविलोपप्रसंग आपतेदिति नूतनप्रत्नयोः पद्धत्योः समिश्रणेन विलक्षणोऽधा प्रवर्तनीय इति निश्चितं संस्कृत. 7 साहित्यसम्मेलनेन । अस्मदेव सर्वेष्वपि समलनेवेतद्विषयकाः प्रस्तावा विचारिता अर्भवन् । चतुर्थाधिवेशननिश्चयमनुरुध्म शिक्षाक्रमविषयिण्येका प्रश्नावली संपाद्य, भारतस्य सर्वेषामपि- प्रान्तानां ये विशिष्टा विद्वांसस्तेषां सविधे संप्रेषिता । भूयोभूय- श्चात महाभागास्तथाविधालस्योपैक्षावशीकृताः यत् कैश्चिदेव- विद्वद्भिरुत्तराणि संप्रेषितानि । निम्ननिर्दिष्टनाम्नां विदुषामुत्त- राणि लिखितान्युपलब्धानि । (विद्याभूषणश्रीहरिहरस्वरूपशास्त्रिद्वारेण ) १ श्रीकृष्णमाचार्यमहाशयः, एम. ए. सहृदयासम्पादकः मधुरा । (मद्रास) २ त. शं. श्रीनारायणशास्त्री वी० ए० वी० एल० मद्रास ३ पुनशेरिनम्धि श्रीनीलकण्ठशर्मा, मातृकासंस्कृतमहा- पाठशालाध्यक्षः। - है (११) -- ४ विद्यामार्तण्डश्रीसीतारामशास्त्री भिवानी कार्यालये लब्धान्युत्तराणि । ५ गोस्वामिश्रीलक्ष्मणाचार्यमहाशयः मथुरा । ६ श्रीरमापतिशास्त्री जी० टी० संस्कृत कालेज प्राण्डरोड मुम्बद्ध ७ रायबहादुर श्रीकमलाशंकर प्राणशंकरत्रिवेदिमहाशयः सूरत ( मुम्बई ) ८ म० म० मुकुन्दशास्त्री श्रीनगर ( काश्मीर ) १ श्रीकाशीरामशास्त्री संस्कृतविद्यालयनिरीक्षकः काशी। १० संस्कृतसाहित्यसमितिः कखनऊ । ११ श्रीभगवानदासमहाशयः काशी १२ श्रीनारायणदत्त शास्त्री प्रयाग १३ श्रीहरिप्रपन्नाचार्यः इटावा एतेषां सर्वेषामपि विदुषां मतानि भूयोभूयोहि सम्यग्विवेचि- तानि । अथ काले काले बहुभिर्विद्वभिः सह समक्षं समालप्य तन्मतं गृहीतम् । यथा-- १ म० म० डा० श्रीगंगानाथमहाशयः एम० ए० डी० लिट् प्रिंसिपल गवर्नमेंट संस्कृत कालेज काशी । २ श्रीरघुवरदयालुशास्त्री एम० ए० प्रिंसिपल सनातनधर्म- कालेज लाहौर ( पंजाव ) ३ कविरत्न श्रीअखिलानंदशर्मा अनूपशहर । इत्यादीनाम्। जयपुर च समितिमेकां समायोज्य निम्ननिर्दिष्टेर्विद्वभिः सह बहु- कालं विचारितम् ।
(१२) - १ राजगुरुश्रीचंद्रदत्तशर्माणः व्याकरणाचार्याः २ भट्ट श्रीमथुरानाथशास्त्री साहित्याचार्यः ३ श्रीकन्हैयालालशर्मा न्यायाचार्यः ४ श्रीमदनलालशास्त्री व्याकरणाचार्यः ५ गुलेयुपाव्ह श्रीसोमदेवशर्ममहाशयः व्याकरणाचार्यश्रीसूर्यनारायणशास्त्रिणा ( जयपुरस्थेन ) विद्याभास्कर श्रीपरमेश्वरानन्दशास्त्रिणा ( सनातनधर्म संस्कृत- कालेजलाहारस्थेन ) च बहुबारं भूयोभूयः परामृश्य बहुमतेन संस्कृतशिक्षापद्धतिरिय निश्चिता । इयं च संस्कृतसाहित्य संमेल- नस्य समप्रेधिवेशने विषयनिवाचनसमितौ श्राविता। यत्र बहबो विशिष्ट विद्वांस उपस्थिता आसन । तेषु मुख्या यथा- १ म० म० श्रीहाथीभाई शास्त्रीमहाशयः ( जामनगर ) २ क्षीरसागर श्रीवामनाचार्यमहाशयः । मथुरा ३ श्रीपशुपतिशास्त्रिमहाशयः ( कलकत्ता ) ४ श्रीकालीपदतर्काचार्य बी० ए० बी डी ०( कलकत्ता ) ५ श्रीगीप्पतिकाव्यतीर्थमहाशयः (कलकत्ता) ६ विद्याभूषण श्रीहरिहरस्वरूपशास्त्री ( झज्झर ) ७ श्रीमौलिचन्द्रशर्मा एम् ० ए० ( झज्झर ) ८ श्रीगणेशालाल सारस्वतः साहित्याचार्यः ( आगरा)' ६ श्रीधनश्यामशर्मा संस्कृतप्रोफेसर ( आगरा) १० श्रीकुलमणिशास्त्री ( झालरापाटन ) - (१३) ११ श्रीजयदेवझा मीमांसातथि: ( झालरापाटन ) १२ श्रीअनन्तशास्त्री उपाध्यायः (धारमालवा ) १३ श्रीसत्यदवपण्ड महाशयः ( कानपुर ) इत्यादयः प्रायेण तत्र सरेव विद्वद्भिरियं पद्धतिरैकमत्येनानुमोदिता पुनरपि त्वत्रैकवार सर्वेषामपि भारतप्रसिद्धविदुषां समतिमुपादाय तदनु अस्याः प्रचाराय प्रयत्न आस्थेय इति तत्र निर्धारितम् । तदनुसृत्य मुद्रितयं संस्कृतशिक्षापद्धतिः श्रीमतां विदुषां सेवायां सम्मतिग्रहणाथ संप्रेष्यते । अत्र पद्धती प्रथममध्यमोत्तमभेदन शिक्षाया भागत्रय कल्पितम् । तत्र च प्रथमशिक्षा विषयावबोधप्रधानव निर्दिष्टा,ग्रंथास्तु तत्र प्रान्तभेदेन रुचिभेदेन विकल्पिता इष्यन्त इति टिप्पण्यान्ते अनुमत options Optional) रूपेण निर्दिष्टाः । मध्यम- शिक्षायां विषयावबोधप्राधान्येऽपि क्वचिदस्त्यव नियतग्रंथा- पेक्षा इति तत्र सहैव ग्रंथनिर्देशः कृतः । उत्तमशिक्षा तु प्रायेण ग्रंथप्रधानैवेदानी सम्भवतीति ग्रंथा एव तत्र निर्दिष्टाः । उत्तमशिक्षायां बहुषु विकलोगेषु ग्रंथनिर्देशस्तदभिज्ञविद्व- दनुमत्यैव सम्भवतीति तेषु विकल्पेषु संकेतमात्रं कृतम् । येषां विदुषां सविध पाठ्यक्रमोऽयं प्रेष्यत तेषु तथाविध विकल्पेषु ग्रंथान् निर्देष्टुं समर्थाः, ते सविनयं संप्रायते यत्कृपया उत्तम- शिक्षाया भागद्वये ग्रंथनिर्देशस्तैः स्त्रसंमत्या विधेयः । अनुगृहीतं भवेत्तन संमेलनमिदम् , सुरभारती च । अत्र प्रथममध्यमे शिक्ष -- प्रायेणै कविध एव व्यवस्थापिते । मध्यमशिक्षायामपि बहुविषया- बबोध एव नियमितः । केवलं ज्यौतिषायुर्वेदादिच्छात्राणां कृते विषयद्वयं तत्र विकल्पितम् । वृत्तिसौकर्यार्थमपि च तत्र विकल्पा- आस्थिताः । उत्तमशिक्षा तु एकविषयप्रधानव । परं तत्रापि नियतरूपेण व्युत्पत्याधायकाः केचन ग्रंथाः सर्वसाधारण्येन स्वीकृताः, द्वितीये तु विभागे सर्वथैकस्यैव विषयस्य प्राधान्यम् । तत्रापि ये सर्वतोमुखी व्युत्पत्तिमभिवाञ्छन्ति तत्कृते साधारण- विभागः दर्शनसाधारणविभागश्च जागत्येवेति सर्व तत्रैव सटिप्पण पर्यालाच्यं स्यात् । यत्र यत्राभिनवा ग्रन्था अपेक्ष्यन्ते तत्र तत्र तथा प्रदर्शितम् । अभिनवग्रन्थसम्पादनाय संमेलनेन प्रयत्यते । आशास्यते अन्येऽपि देशमान्याः प्रौढाविद्वांसोऽस्मिन् कर्मणि स्वयं साहाय्यमादध्युरिति। अपेक्षितेषु ग्रंथेषु येन विदुषा यत्र ग्रन्थो निर्मातुमिष्टस्तत्सूचना तेन कृपया सम्मेलनकार्यालये पूर्वमेव सम्प्रेष्या, येन तदर्थ प्रय- नान्तरं नालम्व्यत । यावत्तथाविधग्रंथसम्पादनं न भवति तावात् कथं कक्षा निर्वाह्यत्येतदपि तत्र तत्र निर्दिष्टम् । अस्मिन् शिक्षाक्रमे राष्ट्रभाषेति संमत्य हिंदीभाषा बहुतरं संगृहीता । स्वतन्त्र्येणापि हिन्दीभाषासाहित्यं तत्तत्परीक्षासु नियमितम् , येषां च विषयाणां शिक्षोपयोगिनो ग्रंथाः संस्कृते नोपलभ्यन्ते तेषां. शिक्षणमपि हिन्दीभाषयवानुमतम् । तेन संस्कृतविदुषां हिन्दी- भाषाज्ञानं, हिन्दीभाषाप्रेम च सम्यगभिवृद्धं स्यात् । हिन्दीभाषा- - 1१६) विरोधिताकलंकश्च संस्कृतीवदुषां ललाट समारोप्यमाणः सम्यक प्रोच्छितः स्यात् । समयेऽस्मिन्नाङ्गलमाषाज्ञानं सर्वेषामावश्यकमिति सर्वेषामनु. भवगोचरीभूतोय विषयः । तत्तस्या अध्यत्र पाठ्यक्रमे सन्निवशः कृतः। परं नियमेन सन्निवेशं बहवो नानुमन्यन्त इति ऐच्छिकरू. पेण विकल्पेष्वेव सा भाषा निर्दिष्टा । यथासम्भवं सर्वैःसा प्रायै. वेति त्वभिसन्धिः । तत्सम्बन्धविषयानधिजिगांमुभिस्तु पूर्ण तस्या ज्ञान सम्पादनीयं स्यात् । तथैव वृत्यर्था कलाद्या अपि तत्रतत्रैच्छिक रूपेण त्रिष्वपि शिक्षाविभागेषु निर्दिष्टाः । येषां तत्र भवदिच्छा, ते तत्रान्यतमं गृहोयुः, येषां तु न प्रयोजनं भवेत् ते न गृझेयुरपीति । अस्मिन् कमे उत्तमशिक्षायां कचिद् विदुषां ग्रन्थबाहुल्यं प्रतीयेत यद्यपि, तथापि तत्रेदं विचार्य मध्यमशिक्षायां बहून् विषयानधिगतवन्तो व्युत्पन्नाश्छात्रा बह्वध्येतुं शक्ष्यन्तीत्येकम् । यथाद्यत्व एकैकस्य ग्रन्थस्य परिष्कारप्रधानाशिक्षा बहुभिरब्दैः समाप्यते तथा तत्र न विवक्षितम्, तत्तद्ग्रंथनिर्दिष्ट विषयाणां सम्यग्ज्ञानं तु प्रयोजनमिति द्वितीयम् । केषुचित्त विभागेषु ( उपदेशकविभागादिषु ) तावद्विषयाणामापाततोऽपि बोध इष्ट इति तृतीयम् । विविच्यापदिं सर्व येषां मते ग्रन्थबाहुल्यं भासेत, तैः कृपया स्वसंमत्या संशोधनं निर्देष्टव्यमेव । कुत्र कियती न्यूनता सेषामभिमतेति सुस्पष्टं कृपया निर्देश्यम् । अखि- - लभारतवर्षसाधारण्येन शिक्षाक्रमोऽपं संगृहीतः । अत्र स्मिन् प्रान्त यस्य विद्यालयस्य यावद्विकल्पग्रहणमेव शक्तिः तावन्तो विकल्पास्तन संग्राह्याः मुख्यमुद्देश्यं (निदर्शितशिक्षादोषनिराकरण- रूपं) रक्षयता च येन विद्यालयेन स्वप्रान्तानुकूलं स्वशक्त्यनुकूलंच क्वचित् किञ्चित् परिवर्तनं चिकीर्षितं स्यात् तेनापि स्वप्रान्तीय योग्यविद्वदनुमत्या तथा शक्यते विधातुम् । एकप्रान्तस्था एक नगरस्था वा यत्र अनेके संस्कृतविद्यालयाः, ते यदि परस्परं स- मत्याविभज्य बहून् विकल्पान् गृहीयुस्तईि शिक्षाविषये महानुप- कारो भवेत् । यस्य च विद्यालयस्य धनादिशक्ति रल्पीयसी, तेन मध्यमशिक्षापर्यन्तं प्रथमशिक्षापर्यन्तमेव वाध्यापनं प्रवर्तनी- यम्, नतु विकलाप्युत्तमशिक्षा सर्वेः प्रवर्तनीयेति संमेलनानुमतम् । इदन्वत्र विशेषतोऽवधेयम्-~~यदत्र शिक्षाक्रमे प्रथमशिक्षा आंङ्गलभाषाया मैट्रिकपरीक्षा तुल्या, मध्यमशीक्षा च इण्टरमि- इडियटपरीक्षातुल्या, उत्तमपीक्षाया भागद्वयं च क्रमेण बी० ए० एम्० ए० परीक्षयोस्तुल्यमिति साधारण्येन विज्ञायते । परमा- ङ्गलभाषाध्ययने प्रथमशिक्षायां बहुतरः कालोऽपेक्ष्यते, अग्रे तु स्वल्पः प्रत्तिपरीक्षं वर्षद्वयात्मकः । अस्माकं तु संस्कृतभाषाया एतद्देशीयत्वात्पथमशिक्षायां स्वल्पः कालोऽपेक्ष्यते, अग्रे तु बहुतर दुरूहविषयसंकीर्णत्वाच्छिक्षाया अधिककालो पेक्ष्यते इत्यस्त्येव- वैषम्यम् । सकलितस्तु काल: आङ्गलभाषाया एम्० ए० पर्यन्त शिक्षापेक्षयाऽत्र न्यून एवेति । किञ्च तत्र मैट्रिकपरीक्षया यावान् बोधस्ततः कथंचिदन्यूनएवात्र प्रथमपरीक्षया संभवति इति प्रती- - - (१७) यते । तस्माद विश्वविद्यालयेषु पाङ्गलभाषापरीक्षास्विव संस्कृत- परीक्षास्वपि वयसो नियमः स्यात् (षोडशवर्षवयसो न्यूनाश्चात्राः प्रथमशिक्षातो नोत्तरणीया, न वा कालेजविभागे प्रवेशनीया इति) तत्र मध्यमशिक्षा मैट्रिकस्थाने मन्तव्या। षोडशाब्दपर्यन्तं मध्यम- शिक्षा समाप्योत्तमायां प्रविशेदिति नियम आस्थेयः,मध्यमशिक्षा- पर्यन्तं च मैट्रिककाल समानतापि प्रायेण भविष्यति। कालेज- विभागे तु उत्तमशिक्षव खण्डद्वयं खण्डत्रयं वा प्रकल्प्य स्थापनी- येति युक्तं भाति। अन्यश्चेत्कोऽपि सुलभः प्रकारोऽत्र विदुषामभि- मतः स. तर्हि कृपया बोधनीयः । येन तथाविधा विभागा भत्र प्रकल्प्येरनिति । इमं शिक्षाक्रमं सावधानमालोच्य स्वस्वसंमति द्रुतं प्रकटये- युर्विद्वांसो महाभागा इति सुदृढमाशास्यते । संमतिसंग्रहानन्तर- मयं शिक्षाक्रमः सुनिश्चितः स्यात् । परीक्षाव्यवस्थापि चैतद- नुसारं संपाद्येत । संस्कृतविद्यालयेषु राजकीयपरीक्षासु चैतं क्रम प्रचारयितुं संमेलनं सुदृढं प्रयतेतैवेति । - गिरिधरशा चतुर्वेदः (संमेलनमन्त्री) (१८) १ संस्कृतशिक्षाक्रमः। १-प्रादौ वर्षद्वयं स्व-स्वदेशभाषा शिक्षा। लेखनम् , वाचनम् , देशभाषासम्बन्धिलघुपुस्तकवाचनम् , साधारणवाक्यार्था- वबोध इत्येतावत्पर्यन्तं ज्ञानमावश्यकम् । देशभाषापद्यो- चारणशैली संस्कृतपद्योच्चारणशैली चाप्यत्र शिक्षणीया । अन्यप्रान्तवासिभिरपि हिन्दीभाषाशिक्षणाय प्रयतनी- यम् । गणितपट्टिका, ( पहाडा ) संख्यालेखः, संकलनं, व्यवकलनं च गणिते ऽभ्यसनीयम् । २-तदनु शिक्षायास्त्रयो विभागाः । प्रथमः, मध्यमः, उत्तम- श्चेति । उत्तमेऽप्य वान्तरं भागद्वयम् इति संभूय भागचतु- ष्टयं स्यात् । प्रत्येकं न्यस्त्रयः संवत्सराः शिक्षार्थमपेक्षितः काक इति साधारण्येन द्वादशवार्षिकीय शिक्षापद्धतिः । तत्र प्रथमशिक्षायाम १-संस्कृत पाठ्ये-अभिनवसंघमा लघुगद्यग्रन्थाः रामायण- महाभारतहितोपदेशपञ्चतन्त्रादिसंगृहीतगद्यपद्यभागः नीतिशनकादिभ्यः संगृहीतानि पद्यानि)। (संस्कृतभाषायां प्रवेशो यविता भवेत् ) ( सहस्रश्लोकपरिमाणादन्यूनो गद्यपद्यमागोऽत्र शिक्षायां नियमनीयः स्यात् )। १ -प्रथमश्रेण्यामभिनवसंहब्धलघुगद्यग्रन्थमानं निय- मनीयम् । श्रीविधुशेखग्भट्टाचार्यमहाशयस्य 'संस्कृतसंदर्भः' तत्रादर्शभूत: । द्वितीयतृतीययोश्च श्रेण्योगधपद्मसंग्रहरूपी - २-व्याकरणे-वर्णानां स्थानप्रयत्नविवेकः, . साधारययेन संघिज्ञानम् , सनियमं लिङ्गभेदेन शब्दरूपज्ञानम् , व्यवहार. मुप्रयुक्तधातुरूपज्ञानम् , कर्तृकर्मादिकारकभेदेन प्रथमादि- विभक्तीनाम्, कालपुरुषगणादिभेदन , धातुरूपाणाम् , तयोजनायाईचः सम्यक् परिचयः, कृसद्धितसमासानां ? साधारणा नियमाः, कर्तृकर्षप्रधानवाक्यपरिचयः निपातो- पसर्गपरिचयश्चेति । . ( स्वस्वाधीतगद्यपद्येषु अन्यत्रापि च साधारणवाक्यादिषु पदानि निर्वक्तुं यथा शक्नुयात् ) ३-अनुवादः देशभाषायाः सस्कृते,संस्कृतस्य च देशभाषायाम् ) अभिनवग्रन्थौ । ऋजुपाठः , हितोपदेशः पञ्चतन्त्रम्, श्रीबाल्मीकिरामायणम्, महाभारतम्, भर्तृहरिकृतनीतिशतकं चेति एभ्यः कश्चित् कश्चिदंशः । यथा कुसुममाला ( संग्रह) २ श्रीसूर्यनारायणशास्त्रिणां 'सरलसंस्कृतशिक्षकस्य' भाग- पञ्चकम् , । श्री के, पी त्रिवेदिनां संस्कृतशिक्षिका । भागवतुष्टयात्मिका च रूपमाला तिङन्तमञ्जरी च । शब्द मञ्जरी, तिडकाममज्जरी, धातुरूपमुक्तावली, समासप्रकरण च. इति एवंविधा अन्येऽपि वा अभिनवरीत्या संदब्धाः संदर्भाः शिक्षणार्थमनुमन्यते । स्थानप्रयत्नविवेकस्तु पाणिनीयशिक्षातः शिक्षणीयः। ३-सस्कृतबालबोधिनी, अनुवाददीपिकादिक किमप्यभिनवं पुस्तकं शिक्षार्थ संग्राह्यम्। शेषतस्तु व्यावहारिकशब्दकोषं कम- (१०) ४-कोरो एकार्थानेकशब्दज्ञानम् । ( यथासम्भव तत्तलाना तदर्थे कुतः प्रवृत्तिरिति व्युत्पत्यथै शिक्षणीयम् ) ५--हिन्दीभाषासाहित्यम् -गापद्यभागस्व सम्यगनुशीलनम् । ६-गणिते-दशमलवजे शिकान्तगणितम् । व्यापारगणितं वा । अत्रैव तिथिपत्र ( पञ्चांग) वीक्षणाभ्यासश्च । ७-भूगोले-महाद्वीपानां तद्विभागानां च साधारणज्ञानम्,भारत- वर्षस्य च साकल्येन ज्ञानम् । प्यादाय तच्छब्दानां व्यवहाराभ्यासः कारयितव्यः, पत्रादिके- खश्च शिक्षणीयः । ४-अमरकोषः, अमरसारः, श्राख्यातचद्रिका, हलायुधः, एतेभ्य उपयुक्तोंऽशस्तत्तद्ग्रन्थात् समादयः,अमरकोष एव वा । ५-श्री महावीर प्रसाद द्विवेदिमहाशयस्य महाभारतात्, गो. तुलसीदासकृतरामायणविनयपत्रिकाभ्यां भूषणग्रन्था. वल्याश्च संग्रहीतोऽशःहिंदीशिक्षावल्याः पंच भागाःपूर्वमध्याप्याः। अनान्यदेशवासिमिः स्वस्वभाषासाहित्यशिक्षापि नियन्तुं शक्यते । परं हिंदीभाषासाहित्यज्ञान सरावश्यकं मन्तव्यम् । * ६-७-सस्कृते एतच्छिक्षार्मुपयुक्ता, ग्रन्था यथा सम्प- घेरन् तथा प्रयतनीयम् यावत्तु नास्ति तत्सम्पत्तिः तावत् हिंदी- भाषयैव विषया इमे शिक्षणीयाः ।
(२१) -इतिहास-श्रीराम युधिष्ठिरहरिश्चन्द्रण भारतीयमहापुरुषाणां सावित्र्यादिसाध्वीनां तच्चरितानां तइंशकालानां जन्मतिथ्या- दीनां च केवलं कथारूपेण वाचिकः परिचयः । है-धर्म-नित्यकर्मशिक्षा, शौचाचारशिक्षा,सामान्यधर्मशिक्षा च । तत्रैव कतिचित् स्तोत्राणि, नीतिश्लोकाः,स्वास्थ्यरक्षोपयुक्त- नियमज्ञानं च। १० अर्थतेषु विकल्परूपेण यथाभिरुचि किमप्येक द्वयं वा वृत्यर्थमैच्छिकरूपेण ग्राह्यम् । (क ) वेदपाठे- याजुषो रुद्राध्यायः सस्वरः । ऋग्वेदादीनां वा स स भागःसस्वरः ( ख ) लिपिसौष्ठवम् । (ग) सीसका. नरयोजनाभ्यासः ( Composing ) (घ ) चित्रणकलाभ्यास : ( Drawing) (ङ ) मृत्काष्ठादि वस्तुनिर्माणशिल्पम् ( Clay modelling) (च) सूत्रनिर्माणशिल्पम् । (छ) क्षेत्रमापनम् (Survey) (ज) वृक्षारापेणम् (Gardening) चेति । संस्कृतशिक्षाक्रमः। मध्यमशिक्षायाम् । ( वर्षत्रयेण ) १-संकृतपाठ्ये गद्यपद्ययोः प्रौढं ज्ञानम् । ६ एवंविधानि लघुपुस्तकान्यावश्यकानि । पुस्तकसम्पत्तिप- यन्तं मनुस्मृत्यादिभ्यः आचराादिकं शिक्षणीयम् । स्तोत्राणि च स्तोत्ररत्नाकरादिभ्यः शिक्षणीयानि । १०-उपनीतद्विजैयथासम्भवमेतच्छिक्षणीयमेव । ये तु अमे कर्मकाण्डविषय प्रवेष्टुमिच्छन्ति,तैरवश्यमेतदध्येयं स्यात् । थेषांतु वेदाधिकारो धर्मसिद्धस्त एवात्रानुमन्यन्ते ।
(२२) ( तत्र गद्यपद्यसंग्रहात्मका ग्रन्थाः अपेक्षिताः )(प्रतिश्रणि ( प्रतिवर्ष ) सहस्रश्लोकपरिमितो गद्यपद्यभागः)। गद्य पञ्चतन्त्र- दशकुमारचरितश्रीहर्षचरित- शिवराजविजयानां संगृहीता भागाः पद्ये कालिदासकाव्यानां किरातार्जुनी- यादीनां च भागाः । नाटकेषु भासस्य स्वप्नवासवदत्तम्, पञ्चरात्रमित्यादि, कालिदासस्य शाकुन्तलम् , वेणीसंहारादि च अविकलमेव यथोपयोग संग्राह्यम् । यावता प्रौढिर्भवेत्। ( छन्दोज्ञानार्थ वृत्तरत्नाकरादिः कश्चन ग्रन्थः प्रथमश्रे. ण्यामेवशिक्षणीयः ) २-व्याकरणे-व्याकरणस्य सर्वेषु प्रकरणेषु योग्यता यथा संपद्येत, संस्कृतभाषायामधिकारश्च भवेत् । अधीतानधीतग्रन्थेषु सर्वाणि पदानि सम्यङ् निर्वतं साधयितुं च शक्नुयात् तावदध्याप्यम् । ( पाणिनीयव्याकरणस्य सौकर्येण शिक्षार्थम् अभिनवप्रकल्पितं किमपि प्रौढ़ सरल च पुस्तकं संमेलन-- विदुषामभिमतं नियतीकृतं स्यात् ) हातावत्तु मध्यकौमुदी, सवृत्युहरणा अष्टाध्यायी, सारस्वत- चन्द्रिके, मुग्धबोधः कालापकातन्त्रे, शाकटायनम्, जैनेन्द्रव्या- करणम् वेत्येवविधैर्ग्रन्थैर्विकल्पितः : शिक्षा प्रवर्तनीया । विशेषेण मध्यकौमुद्येवात्र समीचीनानुमन्यते । उत्तमशिक्षायां व्याकरणमधिजिगांसुभिस्तु नियमेनैव साध्यतव्या । १ संगृहीतग्रन्थप्रकाशनात्पूर्व निर्दिष्टग्रन्थेषु केषांचित्कचि- गांगाः शिक्षकैनियमनीयाः ।
(२३) ३-अनुवादः-संस्कृतगद्यपद्ययोभाषान्तरीकरणम् । दशमा- षायाः संस्कृतेऽनुवादः, संस्कृतनिबन्धलेखाभ्यासश्च । ४-कोशे-अनेकार्थशब्दविज्ञानम् , प्रवृत्तिनिमित्तज्ञानपुरस्सरम् । ( अमरकोषाभ्यिः शिक्षणीयम् ) ५-साधारण्येन समस्तभूगोलज्ञानम् भारतवर्षेतिहासः । एतदर्थ सस्कृते पुस्तकान्यपेक्ष्यन्ते । तावत् हिंदीभाषापुस्तकै- रपि शक्यते शिक्षा प्रवर्तयितुम् । ६-पदार्थविज्ञानम् ( Science ) विज्ञाने प्रवेशयोग्यता यावता भवेत् तावद्विज्ञानभागो रसायनभागश्च संस्कृतेन हिंदीभाषया शिक्षणीयः । न ७-धर्मशिक्षा गृहस्थाचारशिक्षा ( मनुस्मृत्यादिभ्यः सूत्रे- भ्यश्च ) जैनानां रत्नकरण्डश्रावकाचारतः । निम्ननिर्दिष्टेष्वन्यतमं द्वयमावश्यकम् । ८ अलङ्कारशास्त्रे दोषगुणालङ्काराणां भाषापरिष्कृतनियमानां व्युत्पत्तिशास्त्रसम्बन्धिना ( शक्तिलक्षणाव्यञ्जनाविशेष्य- विशेषणभावनियमप्रकृतिप्रत्ययाद्यर्थविशेषाणां च ) विष- याणां, साधारण्येन रसस्य नाटकाङ्गानां, च ज्ञानं यावता भवेत् तथाविधं शृङ्गारबाहुल्यविरहितमुपयुक्तोदाहरणसंदृब्धं सरलया शैल्या निबद्धमनतिगुरु किमप्यभिनवं पुस्तकम् । तावत् चन्द्रालोककुवलयानन्दौ,काव्यादर्शः, साहित्यकौमुदी वा,दशरू- पकं च तत्सहचरम् इत्येवं शिक्षा प्रवर्तनीया ) . - है-न्यायशास्त्रे-पदार्थविभागादिबोधः, तल्लक्षणबोधः, नबीन- न्यायपरिभाषायोधश्च । ( न्यायबोधिनी-सिदान्तचन्द्रोद. येतिटीकाछययुतस्तर्कसंग्रहः न्यायप्रदीपो बा श्रीग- गासहायकृतः)। अथवा --पूर्णमङ्कगणितम् , व्यावहारिकगणितसहकृतम् रेखागणितं च ( अभिनवशैलीनिबद्ध गणितपुस्तकम् , लीलावती का एतदर्थ नियमनीया) 1-मुहूर्तभागः सारणीभागश्च । ( मुहूर्तचिन्तामणिः, ग्रहला- घवम् चेत्येवविधा ग्रन्थाः ) ( बृहज्ज्यौतिषसारो वा ) अथवा -हिन्दीभाषा साहित्यम् । ( महाकाव्यानि अलङ्कारग्रन्थाश्च हिन्दीसाहित्यसंमेलनपाठनक्रमात्संग्राह्याः )। 1-डिङ्गलभाषाकाव्यपरिचयः । अथवा ८-आगलभाषासाहित्यम् 1-आङ्कभाषाव्याकरणम् अथवा ८-६ आयुर्वेदः (लघुत्रयीत्यादि ) अथवा ८-९ पुराणविषयः (श्रीमद्भागवतम् , रामायण-महाभारतासाभ) } मैट्रिक योग्यतोपयुक्तम् ( २५) अथैतेषु वृत्त्यर्थम् विकल्परूपेण यथाभिरुचि एक द्वयं वा ऐच्छिकम् (अ) अन्यतमवेदभागः । ( मन्त्रसंहितादिः) संस्कार- ग्रन्थः ग्रहयागादिसहितः , मुहूर्तग्रन्थश्च । (कर्मकाण्डार्थम् ) ( क ) अध्यापनकलापरिचयः । ( ख ) कथावाचनशैली हरिकीर्तनशैली वा.। (ग) ज्यौतिषफलकथनाभ्यासः ( बृहज्जातकादिजातक- ग्रन्था अप्येतदर्थमध्यतव्याः) (घ) वक्तताशैली ( स्वस्वामीप्सितधार्मिकसामा- जिकराजनैतिकादिविषयपरिज्ञानाय समपेक्षितग्रन्थाध्ययनम् ) (ङ) संगीतम् । ( च ) रोगनिदान-भेषजव्यवस्थाभ्यासः । (छ) माङ्गलभाषा । ( मिडिलयोग्यतापयुक्ता) (ज) समाचारपत्र-ग्रन्थसम्पादनशैली । (झ) चित्ररचनाचातुर्यम् , 'घटिकासंस्कारादि च । ( फोटोग्राफी, सरझं हस्तचित्रम् ) (अ) येषां वेदाधिकारस्त एवात्र प्रवेष्टुमर्हन्ति । (छ) एतावत् आङ्गलभाषाज्ञानं यथासंभवं सर्वैः संपा. दनीयम् । अधिकमभ्यासमभिवाञ्छद्भिस्तु पूर्वनिर्दिष्टेषु विकल्पेषु (८-९) अपि अाङ्गलभाषा ग्राया। १ एतेषुवृत्त्यर्थेषु विषयेषु क्वचिग्रन्थापेक्षा चेद् हिन्दीभाषा निबद्धैरेव ग्रन्थैः कार्य परिचालनीयम् । संस्कृतेऽपि सर्वविषय- अन्यसंग्रहाय मतीयं च ।
२६) ( अ ) मुद्रणलेखः ( टाइप राइटिंग ) संक्षिप्तलेखप्रक्रिया ( शार्ट हैण्ड राइटिङ्ग) (ट) वास्तुसम्बन्धिमानचित्रकलाकौशलम् । (ठ) वनस्पतिविज्ञानम् (ड) कृषिविद्या । (ढ) वस्त्रवयनसूचीकर्मादि । (ण ) काष्ठवस्तुनिर्माणम् । (त) वाणिज्यपरिचयः, अर्थशास्त्रं च । (एकोनोमी) उत्तमशिक्षा प्रथमोभागः। ( वर्षत्रयम् ) तत्र नियतविषयाः-(१) काव्यसंग्रहग्रन्थाः (किरात- माघनैषधप्रभृतिभ्यः पद्यसंग्रहः, कादम्बरीवासवदत्तानलचम्पू- प्रभृतिभ्यो गद्यसंग्रहः । तुलनात्मकालोचनाविज्ञानसिद्ध्यर्थ प्रधानकवीनां शैलतुवनसागरचन्द्रसूर्यादिवर्णनसंग्रहः । ) रघुवंशविमर्शमेघसंदेशविमर्शादि च समालोचनोपयुक्तम् । मुद्राराक्षसमालतीमाधवोत्तररामचीरतानघराघवादिनाटकेष्वन्यतमम् एकं द्वय वा। (२) प्राकृतव्याकरणम् । संक्षिप्तः संस्कृतसाहित्येतिहासश्च ।
( २७ )
•*
-
(तत्तद्विभागप्रविष्टैः स्वविभागसंबन्धिशास्त्रेतिहासः सम्यकपरि-
शीलनीयः।
(३) अलङ्कारशास्त्रस्य प्रौढं ज्ञानम् । ( साहित्यदर्पणसहशो
अन्थोत्रोपादेयः )
(४) प्रस्तावानुवादप्रौढिः ।
(५) धर्मशास्त्र मनु-याज्ञवल्क्य-पराशरस्मृतिष्वन्यतमा ।
निम्ननिर्दिष्टेषु विभागेष्वन्यतमविभागनियतग्रन्थाः ।
(२) वेदविभागः
(क-खयोरेन्यतरत् )
( क ) वैदिकविज्ञानप्रधाना शिक्षा ।
१-ऋग्वेदसंहितायाःसंगृहीतो भागः । (सूक्तशतद्वयादन्यूनः
२-ऐतरेय ब्राह्मणम् ।
३-दशोपनिषदः ।
४-निघण्टुसहकृतं निरुक्तम्, वृहदेवता च ।
५-मीमांसादर्शनस्य त्रयोऽध्यायाः ।
६-प्रातिशाख्यमन्यतमम् ।
( एतद्विभागप्रविष्टैरुपदेशपद्धतिः शिक्षणीया, पुरातस्वान्बे-
पणे वा प्रवर्तनीयम् )
(ख) कर्मकाण्डप्रधाना शिक्षा।
(१) शुक्लयजु:संहितायाः पूर्वार्धम् । (सस्वरं पाठाभ्यासः
कर्मोपयोग्यर्थज्ञानं च) ।
{३० )
७-दशरूपकम् ।
८-सिद्धान्तमुक्तावली।
-अर्थसंग्रहः ।
१०-पिङ्गलसूत्रम् ।
एतद्विभागप्रविष्टैः प्राचीनसंस्कृतकाव्यानां भाषान्तरकाव्याना
च तुलनात्मकालोचनाभ्यासे यतनीयम् ।
(५) दर्शनविभागः।
१-न्यायसिद्धान्तमुक्तावली ।
२-मीमांसान्यायप्रकाशः ।
३-शास्त्रदीपिकायास्तपादः।
४-सांख्यतत्त्वकौमुदी ।
५-वेदान्तपरिभाषावेदान्तसारौ ।
१-प्रमेयरत्नमाला ( जैनानाम् )
७-न्यायदर्शनं सभाष्यम् ।
८-पञ्चदशी।
एतद्विभागप्रविष्टराधुनिकतर्कशल्या (लाजिक) आधु-
धुनिकदर्शनशास्त्रस्य ( फिलासफी ) अाधुनिकविज्ञानस्य च परि-
चयः संपाद्यः।
२ साधारणविभागे सर्पशास्त्राणां सामान्या योग्यतालक्ष्यी-
क्रियते ।
५ विभागेस्मिन् सर्वदर्शनाना साधारणी योग्यता लक्ष्यीकता
--
(६) न्यायविभागः। ( अन्यतरत् ) (अ) (१) सिद्धान्तमुक्तावली, पूर्णा । प्रत्यक्षखण्डान्ता दिनकरी च । (२) गौतमसूत्रं सभाष्यम् । (३) वैशेषिकसूत्रं सोपस्कारम् । (४) मीमांसान्यायप्रकाशः । (५) शक्तिवादः ( क ) १) सिद्धान्तमुक्तावली, पूर्णा । प्रत्यक्षखण्डान्ता दिनकरी च । (२) माथुरी पञ्चलक्षणी सिंहव्याघ्रसहिता । (३) जागदीश्या व्यधिकरणसिद्धान्तलक्षणावच्छेद- कत्त्वनिरूक्तयः । (४) शक्तिवादः । ( ५ ) मीमांसान्यायप्रकाशः । एतद्विभागप्रविबैरपि आधुनिकतर्कशैल्या आधुनिक विज्ञानस्य च परिचयो यथासंभवं संपाद्यः।) (७) सांख्ययोगविभागः । (१) सांख्यतत्त्वकौमुदी श्रीबालरामोदासीनटीका युता ।
(३२)
(२) सांख्यकारिका गौड़पादभाष्यसहिता ।
३) योगसूत्रं भोजवृत्तियुतम् ।
(४) सांख्यमारः योगसारसंग्रहश्च ।
(५) न्यायसिद्धान्तमुक्तावली ।
(६) वेदान्तपरिभाषा ।
(७) मीमांसान्यायप्रकाशः।
८) विष्णुपुराणस्य सृष्टिखण्डम् ।
(८) वेदान्तविभागः
(क) अद्वैते
(१) वेदान्तपरिभाषावेदान्तसारौ ।
(२) पञ्चदशी।
(३) भगद्गीता शाङ्करभाष्यमाधुसूदनीभ्यामुपेता ।
( ४ ) ब्रह्मसूत्रं शङ्करभाष्योपेतम् (१ अध्यायः )
(५) मीमांसासूत्रस्य सभाष्यस्य तर्कपादार्थवादप्रकरणे
(६) न्यायसिद्धान्तमुक्तावली है।
(७) सांख्यतत्त्वकौमुदी ।
अनेनैव क्रमेण विशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतेषु
वैष्णवदर्शनेषु शैवदर्शने व अन्यतमस्य शिक्षा सम्पाद्या ।
ग्रन्थनिर्देशस्तदभिज्ञविद्वदनुमत्या क्रियते । एकविभागप्रविष्टै-
रपरमतज्ञानं तुलनारूपेण परस्परालोचनं च यथासंभवं
संपाद्यम् ।)
-
(२३) ( एतद्विभागप्रविष्टैः पाश्चात्यदार्शनिकमतान्यपि यथा- संभवं ज्ञेयान्यालोच्यानि च । वैज्ञानिकमतेन अद्वैतवादस्य सम्ब- पश्चापि पर्यालोच्यः) (६) पूर्वमीमांसाविभागः। (१) मीमांसान्यायप्रकाश: मीमांसापरिभाषा च । (२) मीमांसादर्शनस्य कुतूहलवृत्तिभाप्याभ्यां सहित- स्याध्यायष्टकम् । अधिकरणमालाया अध्यायषटकं च । (३) शास्त्रदीपिकायाः प्रथमोऽध्यायः (४) मानमेयोदयः। (५) अधिकरणकौमुदी। (६) न्यायसिद्धान्तमुक्तावकी । * एतद्विभागप्रविष्टस्तैत्तिरीयसंहिताब्रामणे आपस्तम्भश्रौतसूर्य च सावधानमालोच्यम् । (१०) जैनदर्शनविभागः। (१) प्रमेयरत्नमाला। (२) सप्तभङ्गीतरङ्गिणी । (३) तत्त्वार्थसूत्रम् सर्वार्थसिद्धिसहिनम् । (४) स्याद्वादमजरी। (५) भाप्तपरीक्षा। (६) भाप्तमीमांसा ।
(३५) (११) धर्मशास्त्रविभागः। अन्यतमम् । (क) प्राचारभाग: ( १ ) मनुस्मृतिः पूर्णा । ( २ ) समिताक्षराया याज्ञवल्क्यस्मृतेरा चारप्रायश्चित्ताध्यायो (३) आचारादर्शः। ( ४ ) निर्णयसिन्धुः (५) आशौचपञ्जिका ( विद्यावाचस्पतिश्रीमधुसूदन- शर्मणाम् । ( ३ ) वशिष्ठपराशरस्मृती। [७ ) आपस्तम्बधर्मसूत्रम् । [८) गृह्यसूत्रम् । (६) मीमांसान्यायप्रकाशः। (१०) न्यायमुक्तावली। (ख) धर्मोपदेशविभागः (१) मनुस्मृतिः ( इतरस्मृतिपर्यालोचनसहिता ) (२ ) आशौचपचिका . ( पूर्वनिर्दिष्टा ) (३) मीमांसादर्शनस्याद्यं पादत्रयम् । ४) न्यायदर्शन सभाष्यम् । (५) सांख्यतत्वकौमुदी।
(६) योगभाष्यम् । (७) दशोपनिषदः । (८) वेदान्तसारः। (६) निरुक्तं समग्रम् । (१०) चरकसंहितायाः शारीरविमानस्थानयोः, सदाचा- रादिप्रकरणविशेषाणां चालोचनम् । (११) यथासंभवं धार्मिकमतवादसंबन्धिनां ग्रन्थानां महाभारतरामायणपुराणादीनां चालोचनम् । ( एतद्विभागप्रविष्टैर्वक्तृताशैली लेखशैली च विशे- षतः शिक्षणीये ) (विषयावगमप्रधानमध्ययनमास्मन् विभागे स्यात्-नतु मन्थालोचनप्रधानम (ग) व्यवहारविभागः . १-समिताक्षरा याज्ञवल्क्यस्मृतिः पूर्णा । २-व्यवहारमयूखः । ३-दत्तकमीमांसा । ४-महाभारतशान्तिपर्वान्तर्गतं राजधर्मप्रकरणम् । ५-शुक्रनीतिः। ६-मीमांसान्यायप्रकाशः। ७-सिद्धान्तमुक्तावली । ( एतद्विभागप्रविष्टैराधुनिकी शासनप्रणाली व्यवहार- नियमविधानं संपत्तिशास्त्रं च पर्यालोच्यानि ) ( ३६ ) (१२) ज्योतिषविभागः १.-रेखागणित बीजगणिते | २-क्षेत्रमितिः । ३ त्रिकोणमितिः । ४-सिद्धान्तशिरोमणेगणितगोलाध्यायो । ५-वृहज्जातकम्। ६-नीलकराठी। ७-बृहत्संहिता। ८-षट्पच्चाशिका । १-वसन्तराजः। ( एतद्विभागप्रविष्टैराधुनिकज्यौतिषविज्ञानमपि सावधान संपादनीयम् ।) (१३) आयुर्वेदविभागः ( आयुर्वेदसम्मेलनक्लुप्तयोजनानुसारम् ) (१४) तन्त्रशास्त्रविभागः ( संहितायामल-डामरादीनामद्धघयनं नियम्येत । अनुभव- द्वारेण तत्परीक्षा च प्रयोजनीया स्यात् ) (१५) इतिहासविभागः। ऋग्वेदसंहिता-ब्राह्मण-महाभारत-रामायण-पुराणादीनाम् ऐतिहासिकदृष्टयालोचनम् । प्राक्तनभूगोलविचारः, राजतर- झिण्यादीनामैतिहासिककाव्यानामध्ययनम् शिलालेखा- (३७) ध्ययनाभ्यासः । विविधप्राकृतभाषाभ्यासः । आगलभाषाया विशेषतोऽभ्यासः। पाश्चात्योद्भाविततिहासिकसिद्धांतावगमश्चेत्यादि विभागेऽस्मिन् शिक्षणायं स्यात् । सत्यावश्यकत्त्वेऽत्र साहित्येतिहास: जातीयेतिहास इति भागद्वयं कल्प्येत । एतद्ग्रन्थनियमनं तदभिज्ञविद्वदनुमत्या क्रियेत । (१६) भाषाविज्ञानविभागः। प्राकृतभाषाया विविधभेदभिन्नायाः परिज्ञानम् , संस्कृत- प्राकृतव्याकरणनियमानां निरुक्तादीनां चाध्ययनम् । पाश्चात्यो- भावितभाषाविज्ञानपद्धतेरध्ययनम् । बहुविधभाषानुशील- नम् । प्राकतनलिपिज्ञानम् , शिलालेखाध्ययनाभ्यासश्चेत्यादि विभागेऽस्मिन् शिक्षणीयं स्यात् । (१७) भाषान्तरविभागः विभागेऽस्मिन् मियतसंस्कृतूकाव्यादिभिश्च सह श्राङ्गल- भाषासाहित्यस्य, प्राकृतभाषासाहित्यस्य, हिन्दीभाषासाहित्यस्य वा विकल्परूपेण विशेषतोऽध्ययन नियतं स्यात् । अत्रापि संस्कृताङ्गलभाषादिसाहित्ययोस्तुलनात्मकालोचनाविज्ञानं यथासंभव संपाद्यम् । (१८) पाश्चात्यविज्ञानविभागः भत्र संस्कृतनियतग्रन्थानाम् भागलभाषाया अधिकेनाध्ययनेन च सह पाश्चास्यानां विज्ञानस्यः ( Science ) अध्ययनं मुख्यं स्यात् । बेददर्शनायुर्वेदादिपर्यालोचनेन विशेषतस्तन्त्रमन्थानामध्य ------ यनेन च प्राक्तनविज्ञानस्पष्टीकरणमपि च प्रयोजनीयं स्यात् । (१९) सम्पत्तिशास्त्रविभागः। प्राक्तनानां राजनैतिकप्रन्थानामाधुनिकग्रन्थानामनुवादितानां चाध्ययन नियम्येत । (२०) कृषिविभागः, (२१) कलाविभागः अनयोरपि विभागयोः प्राक्तनानां संस्कृतग्रन्थानामन्वि- प्याध्यापनं नवीनैरनुवादितैर्ग्रन्थैः सह नियतीकृतं स्यात् । अथास्यामुत्तमशिक्षायां यस्मिन् कस्मिन्नपि विभागे प्रविष्टे- वृत्त्यर्थ गौरवार्थ च निम्ननिर्दिष्टेषु किमप्येक द्वयं वा ऐच्छिक- रूपेण संग्राह्यम् । (क) आङ्गलभाषा (मैट्रिकयोग्यतोपयुक्ता, द्वितीयभागे तु इण्टरमेडियटयोग्यतोपयुक्ता) (ख) अध्यापनकलाशिक्षा (ट्रेनिङ्ग) (ग) ग्रन्थपत्रादिसम्पादनशैली । (घ) कृषिविद्या । (ङ) वनस्पतिविज्ञानम् । (च) रसायनम् । (छ) भाषाविज्ञानम् । (ज) प्राचीनलिपिविज्ञानम् । (झ) ऐतिहासिकगवषणा । (ञ) अर्थशास्त्रव्यापारादिशिक्षा । (ट) संगीतम् ।
(३६)
उत्तमशिक्षा।
द्वितीयोभागः
( मस्मिन् विभागेऽन्यतमविषयस्यैव शिक्षा स्यात् )
(१) वेदविभागः
(क)
१-ऋगवेदसंहितायाः संगृहीतो भागः ।
२-संहितान्तराणामालोचनम् ।
३-शतपथब्राह्मणम् ।
४-तैतिरीयगोपथताण्ड्यब्राह्मणानामालोचनम् ।
५-उपयुक्तानां वेदाङ्गपुराणादीनामालोचनम् ।
६-पूर्वोत्तरमीमांसयोर्यथासंभवमध्ययनम् ।
(ख)
१-शुक्लयजुःसंहिताया उत्तरार्धम् । (पूर्वभागवत् )
अथवा
१-ऋक्सामकृष्ण यजुःसंहितानामन्यतमाया
अवशिष्टो
भागः । ( पूर्वभागवत् )
२-शतपथब्राह्मणम् ।
३-निरुक्तम् ।
४-कात्यायनश्रौतसूत्रम् , स्व-स्वशाखोपयोगिसूत्रान्तरं
वा । इष्टियज्ञादिपद्धतयश्च ।
(५०)
५-कुण्डमण्डपादिविषयः ।
६-शान्तिसारः ।
७-देवप्रतिष्ठा ।
८-मन्त्रशास्त्रादनुष्ठानादिविषयः ।
(२) साधारणविभागः
१-सिद्धान्तकौमुदी तत्त्वबोधिनीसहिता पूर्णा ।
२-सिद्धान्तमुक्तावली दिनकरी सहिता ।
३-शक्तिवादो, लघुमजूषा वा ।
४-काव्यप्रकाशः सप्रदीपः।
५-समिताक्षरा याज्ञवल्क्यस्मृतिः ।
६-न्यायदर्शनं सभाष्यम् ।
७-चरकसंहितायाः शारीरविमानसदाचाराविनतुचर्यादि-
प्रकरणविशेषाः ।
८-भगवद्गीताया विविधभाष्यटीकाभिरर्थपर्यालोचनम् ।
९-पञ्चदशी ।
१०-कुसुमाञ्जा जलिहरिदासीयुक्तः।
(३) व्याकरणविभागः ( अन्यतमम् )
(क)
१ मनोरमाशब्दरत्ने अव्ययीभावान्ते ।
२ शब्देन्दुशखरोऽव्ययीभावान्तः, प्रक्रियामागस्य च ।
३ परिभाषेन्दुशेखरः।
-
(४१)
४ माधवीया धातुवृत्तिः ।
५ अङ्गाधिकारमहाभाष्यम् ।
६ लघुमञ्जूषा,व्युत्पत्तिवादशक्तिवादौ वा ।
७ निरुक्तं पूर्वषट्कम् ।
(ख)
१ काशिका पदमजरीव्याख्यायुता ।
२ माधवीया धातुवृत्तिः।
३ सप्रदीपोद्योतमहाभाष्यस्यादिममध्यायद्वयम्-अङ्गाधिका-
रप्रकरणं च ।
४ लघुमञ्जूषा-व्युत्पत्तिवादशक्तिवादौ वा ।
५ शब्दकौस्तुभो नवाहिकमात्रम् ।
६ वाक्यपदीयम् ।
७ निरुक्तम् ।
(ग)
१ सयटविवरणं सम्पूर्ण महाभाष्यम् ।
२ शब्दकौस्तुभो नवाहिकमात्रम् ।
३ वाक्यपदीयम् ।
१ निरुक्तम् ।
(४) साहित्यविभागे
१ वासवदत्ता।
२ भारतचम्पूः ।
(४२)
,
३ अनध्यराघवनाटकम् ।
४ चित्रमीमांसा ।
५ रसगङ्गाधरः।
६ ध्वन्यालोकः ।
७ अलङ्कार कौस्तुभः ।
८ नाट्यशास्त्रम् ।
१ प्राकृतपिङ्गलसूत्रम् ।
छन्दःप्रौढये ग्रन्थान्तराणि च ।
१० सरस्वतीकण्ठाभरणस्प चित्रपकरणम् ।
(५) दर्शनविभागः
१ वैशेषिकसूत्रं सोपस्कारम् ।
२ पातञ्जलसूत्रं सभाष्यम् ।
३ सर्वदर्शनसंग्रहः ।
४ शारीर कभ प्यं भामतीसहितम् ।
५ छान्दोग्यवृहदारण्यकोपनिषदौ ।
६ न्यायमञ्जरी, वैशेषिककन्दली या ।
७ जैनदर्शने सप्तभङ्गीत रङ्गिणी, आप्तपरीक्षा च
८ कुसुमाञ्जकिः ।
९ भगवद्गीता विविधभायटीकापफलोचनसहिता ।
१० विशिष्टाद्वैतादिशुद्धाद्वैतादिसिद्धान्तानां सम्मक् परिचयः
%3D
(४३)
(६) न्याय विभागः
(भ)
१ न्यायभाष्यवार्तिकं तात्पर्यटीका च ।
२ न्यायमऊजरी।
३ प्रशस्तपादभाष्य किरणावलीकन्दलीभ्यां युतम् ।
४ माथुरी पञ्चलक्षणी ।
५ सिद्धान्तलक्षणजागदीशी ।
६ कुसुमाञ्जलिर्वर्धमानटीकायुतः
(क)
१ सामान्यनिरुक्त्यादिरुबाधान्ता गादाधरी
प्रामाण्यवादगादाधरी च ।
२ कुसुमाञ्जलिर्वर्धमानटीकायुतः ।
३ व्युत्पत्तिवादः ।
४ शब्दशक्तिप्रकाशिका पदवाक्यरत्नाकरो या
५ वैशेषिकसूत्रं सोपस्कारम् ।
६ न्यायसूत्रं सभाप्यम् ।
अथवा
(ख)
१ शिरोमणिसहितः पूर्णश्चिन्तामणिः ।
२ सामान्यनिरुक्तिगादाधरी ।
३ कुमुमा जलिर्वधमानटीकायुतः ।
४ न्यायसूत्रं सभाष्यम् ।
(७) सांख्ययोगविभागः
१ सांख्यप्रवचनभाष्यम् ।
२ योगसूत्रभाष्यम् वाचस्पत्यटीकायुतं वार्तिकेन चोपेतम् ।
३ भगवद्गीता ।
४ कठश्वेताश्वतरोपनिषदौ सभाष्ये ।
५ हठयोगप्रदीपिका ।
६ सिद्धसिद्धान्तपद्धतिः। ( गोरक्षनाथकृतः )
७ श्रीमद्भागवतम् ( कपिलोपदेशादिसृष्टिप्रक्रिया च )
८ देवीभागवतादिभ्यः देवीगीतासृष्टिप्रकरणादिपर्यालोचनम्
र महाभारतशान्तिपर्वान्तर्गतो मोक्षधर्मः ।
(८) वेदान्तविभागः ।
(क) अद्वैते
१ भामतीयुतं शारीरकभाष्यं पूर्णम् ।
( चतुःसूत्र्यां परिमल कल्पतरू च )
२ दशोपनिषदःसभाष्याः ।
३ चित्सुखी।
४ विवरणप्रमेयसंग्रहः ।
५ अद्वैतसिद्धिः ।
६ खण्डनखण्डखाद्यम् ।
७ न्यायदर्शनम्-सभाप्यम् । ८ रामानुजवाल्लभनिम्बार्कभाष्याणां प्रथमोध्यायः । ( ख ) (ग) एवमेव विशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैत- द्वैतेषु वैष्णवशैवदर्शनेषु अन्यतमस्य प्रौढ ज्ञानम् । साहचर्येण चापरेषां सिद्धान्तानां सामान्य ज्ञानम् । मीमांसाविभागः। मीमांसादर्शनस्य कुतूहलवृत्ति-भायाधिकरणमालाशान- दीपिकासहितस्य शेषांशः । २ श्लोकवार्तिकम् । ३ तन्त्रवार्तिकस्य द्वौ पादौ ( अर्थवादस्मृतिपादौ ) ४ विघिरसायनम् । ५ प्रकरणपञ्चिका । ६ भाट्टदीपिका। ७ भाट्टरहस्यम् । ८ तैत्तिरीयसहितातैत्तिरीयब्राह्मणयोरालोचनम् । (१०) जैनदर्शनविभागः । १ प्रमेयकमलमार्तण्डः। २ अष्टसाहस्त्री। ३ राजवार्तिकम् । ४ श्लोकवार्तिकम् । ५ पम्चाध्यायी।
(४६)
६ गोमसार: ( प्राकृतः )
७ षड्दर्शनसमुच्चयः ।
(११) धर्मशास्त्रविभागः ।
(क) प्राचारभागे
१ पराशरमाधवः ।
२ कालमाधवः ।
३ वीरमित्रोदयः ( व्यवहारप्रकरणवर्जम् )
४ स्मृतितत्त्वम् ( रघुनन्दनभट्टाचार्यकृतम् )
( व्यवहारतत्त्वरहितम् )
५ अधिकरण मालायास्त्रयोऽध्यायाः ।
६ चतुर्वर्गचिन्तामणि-विधानपारिजातद्वादशमयूखसंस्कार.
रलमालाप्रभृतिनिबन्धनां यथासंभवमालोचनम् ।
७ गृह्यसूत्रादिकर्मकाण्डग्रन्थानामालोचनम् ।
(ख) धर्मोपदेशविभागे।
निर्णयसिन्धुः।
धर्मसिन्धुः ।
३ ऋक्संहितायाः संगृहीतसूक्तानि ।
४ शतपथब्राह्मणस्य संगृहीतभागाः ।
५ अथर्वसंहितायाः पर्यालोचनम् ।
६ वृहदेवता।
(४७) ७ भगवद्गीताया विविधभाष्यीकानमारमविवचनम् । शारीरकदर्शनं पूर्णम् । ६ सर्वदर्शनसंग्रहः १० न्यायकुसुमाञ्जलिः । (ग) व्यवहारविभागः। १ वीरमित्रोदयस्य व्यवहारप्रकरणम् । २ स्मृतितत्त्वस्य व्यवहारप्रकरणम् । ३ कौटिल्यकृतमर्थशास्त्रम् । ४ श्राधुनिकशासनप्रणाल्या व्यवहारनियमानां च विशिष्ट परिचयः । तारतम्यपरीक्षणं च । ( तदर्थमाजल- भाषाया अपि अधिकमध्ययनमत्रापेक्षितं स्यात् । ५ संपत्तिशास्त्रम् । (१२) ज्योतिषविभागः। १ सूर्यसिद्धान्तः । २ तत्त्वविवेकः । ३ यन्त्र गजः । ४ केतकी। ५ केशवीजातकम् । ६ जैमिनीयसूत्रम् । ७ वृहत्पराशरी। भ (४८ + ८ अन्येषां संहिताग्रन्थानां यथासंभवमालोचनम् । 'आधुनिकस्य(पाश्चात्य ) ज्यौतिषस्य सम्यक् परिचय: उत्तमशिक्षायाः प्रथमे भागे या याष्टिप्पण्यः, यच्चा युर्वेद- तन्त्रतिहासादिविभागव्यवस्थापनम्-तत्सर्वमिहाप्यनुसन्धयम् । ॥ इति ॥
No text on this page.