Sringeri Sharada Peetham

Adhikamasa Priksha

Madava Sastri · 2005/03/10

PDF Proofread

Front matter

TEOS Tel TOTOOLSIC SOGOP AFIoER EGOEOGOESHOROSOPEDIA ॥श्रीः॥ HEOFEDEO अधि(क)मासपरीक्षा। DET OGT JOHOTOS विक्रम सं० १९५८ शालिवा० श० १८२३ सांवत्सरिकी. जयपुरराजकीयसंस्कृतपाठशालायां ज्योतिः- शास्त्रप्रधानाध्यापकेन श्रीदुर्गाप्रसाद- द्विवेदेन निरूपिता। तदीयशिष्येण पुरोहितोपानश्रीमाधवशास्त्रिणा टिप्पासा योजिता. SOE 10CDGE DOBIO 50209020Dole BOBOBO900 OG For सेयम् क्षेमराज श्रीकृष्णदास इत्यनेन स्वकीये "श्रीवेङ्कटेश्वर" (स्टीम् ) मुद्रायन्त्रालये मुद्रयित्वा प्रकाशते। मुम्बई. संवत् १९५८, शके १८२३. १८६७ तमख्रिस्ताब्दिक २५ तमराजकीयनियममनुसृत्य राजलेखेन सर्वथा स्वायत्ती कृतोयं ग्रन्थः । LOPOD02 100 DEIOSOTEIDIEO HistosoTOPIOLEtorilestoreprOESistoriterator oratous TOPICHAR चव 'OTEIO * अत्रेयमभ्यर्थना " , अस्माकं मुद्रालये वेद-वेदान्त-धर्मशास्त्र-प्रयोग-योग-सां- ख्य-ज्योतिष-पुराणेतिहास-वैद्य-मंत्र-स्तोत्र-कोश-काव्य-चम्पू- नाटकालंकार-संगीत-नीति-कथाग्रंथाः, बहब स्त्रीणां चोपयु- का ग्रंथाः, बृहज्ज्योतिषार्णवनामा बहुविचित्रचित्रितोऽयम- पूर्वग्रंथः; संस्कृतभाषया, हिन्दी-माडियन्यतरज्ञाषाग्रन्थास्त- तच्छास्त्राद्यर्थानुवादकाः, चित्राणि, पुस्तक मुद्रणोपयोगिन्यो यावत्यस्सामग्र्यः, स्वस्वलौकिकव्यवहारोपयोगिचित्रचि- त्रितालिखितपत्रवत्पुस्तकानि च, मुद्रयित्वा प्रकाशन्ते सुल- भेन मूल्येन विक्रयाय ॥ येषां यत्राभिरुचिस्तत्तत्पुरतका - पलब्धये एवं नव्यतया स्वस्वपुस्तकानि मुमद्रयिषुभिः सुल भयोग्यमौल्येन सीसकाक्षरैः स्वच्छोत्तमोत्तमपत्रेषु मुद्रिततत्पु- स्तकानां स्वस्वसमयानुसारेणोपलब्धये च पत्रिकाद्वारा तैः प्रेरणीयोऽस्मि ॥ अधिकमस्मदीयसूचीपुस्तकानां भिन्नभिन्नविषयाणां प्रापणेन "श्रीवेङ्कटेश्वरसमाचार" पत्रिकामा- पणद्वारा च ज्ञेयमिति शम् । क्षेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" (स्टीम् ) यन्त्रालयाध्यक्ष-मुम्बई.

eruuuuuuuu शान्तिप्रकाश यद्यपि शांतिविषय के अनेक ग्रंथ छपे हैं; परंतु उनग्रंथों में मंत्र और पद्धति न होने से काम पूर्ण नहीं होता है इसी वास्ते बहुतसे विद्वानों के कहनेसे यह समंत्रक. "शांतिप्रकाश" नाम अत्युत्तम निबंध शास्त्रीलोगोंके द्वारा अति शुद्धकराके सुंदर पुष्ट टाईप तथा कागजोंमें छापके प्रसिद्ध किया है। ऐसा ग्रंथ कहीं नहीं छपा है । इस ग्रंथमें सर्वकर्मोपयोगनी होमपद्धतिः विनायकशांति- प्रयोग कूष्मांडीहोमप्रयोग; सूर्यादिग्रहों के पृथक् २ शांतिप्रयोग सम्वत् १९५६ के सप्तग्रहयोग शांति सविस्तरप्रयोग विवाहादिमें गुरुपूजा प्रयोग यात्रादिमें संमुख शुक्र शांति प्र०; मूल जनन शांतिप्र०समंत्रक आश्लेषा जनन शांतिप्र० ज्येष्ठा शांतिप्र० चतु- देशी जनन शांतिप्र० अमावस्या जनन शांतिप्र०क्षयतिथि जनन शांति,मवा रेवती,गंडांत जनन शांति प्र० ग्रहण जनन शांतिप्र० सदंत जनन शांतिप्र० व्यति पातादिशांतिप्र०, यमल जनन शांति प्र० महामारी शांतिप्र० नक्षवजनित पीडाशांतिप्र०, रोगशांति प्र०, अद्भुत शांतिप्र० काक मैथुनादि शांतिप्रयोग और नवीनगृह- प्रवेश पद्धति, वास्तुशांति संमत्रक विस्तारपूर्वक वास्तुमंडल; सर्वतो भद्रादिसहित; इत्यादि अनेक पद्धतिरत्न हैं यह पुस्तक विद्धानमात्रको अपनेपास रखना योग्यहै। विशेष प्रशंसा लिखना फजूल है ग्रंथ देखनेसे मालूम पड जायगा मूल्य खर्चके फायदे के लिये १) रु० मात्र रक्खा है । श्राद्धप्रकाश-अतीव उपयोगी ग्रंथ, ग्रंथसंख्या ११००० है. मूल्य ३) रु०। खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" छापाखाना, खेतवाडी-बंबई. ARRREARSARRIGE A Sณถนนสายน 2538 अधिमासपरीक्षायां प्रमाणीकृतग्रन्थकृतां नामानि । *- - कठः इह सयुक्ति के दर्शान्तमासे देव- धर्मार्णवकारः र्षय आचार्याश्च प्रमाणम्- निर्णयसिन्धुकारः भगवान् सूर्यः तत्त्वमुक्तावलिकारः " पितामहः एवमन्येऽपि पराशरादयो मह- वसिष्ठः र्षयो हेमाद्यादयो धर्मशास्त्रनिब- न्धकाराश्च । कश्यपः गर्ग: " पुलिशः इह नियुक्तिके मण्डलान्तमासे त्वाचार्याः प्रमाणम्- भृगुः तत्रभवान् शार्ङ्गधरः हारीतः ज्ञानराजः नारायणः तत्रभवान् सत्यवतः ज्योति प्रकाशकारः लल्लः कालनिर्णयकारः वराह: यः कश्चित् श्रीपतिः अत्र प्रमाणोपन्यासे दर्शान्त- ब्रह्मगुप्तः मासलक्षणघटिताः कतिपयश्लोका भास्करः एव लिखिताः । यत्र प्रकरणलभ्यो कमलाकरः दर्शान्तो मासस्तस्याविष्करणाय । विश्वरूपः विस्तरभिया न यतितम् । यद्यपि " नृसिंहः सिद्धान्तशिरोमणाविव सूर्यसि- " ज्योतिर्विदाभरणकारः द्धान्ते मासलक्षणं न लभ्यते । मुहूर्त्ततत्त्वकारः तथापि तत्तत्प्रकरणानिधिमव " मुहूर्तगणपतिकारः गम्यत इति बोध्यम् । " मुहूर्त्तचिन्तामणि कारः " एतद्वन्थमुद्रणोपायः । आर्षसिद्धान्ततत्त्वबोधार्थ विहितेयमधिमासपरीक्षा मुम्बापुरीगौरव- स्तम्भाय श्रेष्ठिकुलावतंसाय श्रीकृष्णदाससूनवे श्रीक्षेमराजमहो- दयाय समर्पिता। तेनोत्साहभाना यशस्विना स्वयन्त्रालये विदुषा भानन्दाय संमुद्येतेति शिवम् । १२।४।१९०१ } पं० श्रीदुर्गाप्रसाद द्विवेदशर्मा. जयपुरम्

भूमिका ।
"
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्यानेः ।
आमा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥
अयि श्रुतिस्मृतिसदाचरणप्रणयिनो महाशयाः ! यावत्त
अभवतां भगवत्सु महर्षिषु प्रत्यक्षधर्मत्वपरावरज्ञत्वविदितवेदि
तव्यत्वाधिगतयाथातथ्यत्वोपश्लिष्टा प्रेक्षा जागर्ति, जागर्ति च
तदनुषङ्ण तदीयासु सूक्तिषूपादेयता, तावदस्माकीनोध्यं
लेखोतितरां सुखाकुरुतात् ।
अस्मिन्महर्षीणां वचनानुरोधेनाष्टपञ्चाशदुत्तरैकोनविंशति
शततमे विक्रमाब्दे १९५८ आषाढः श्रावणोवाधिमासो
भवितुमर्हतीति सम्यक् परीक्षितम् ।
तथा महर्षिग्रन्थेषु मूलाशुद्धिं व्यवस्थाप्य हानसेन-न्यूकम्ब
प्रभृतीनां युरोपियन्गाणितिकानां पुस्तकाधारण यत्तिथिपत्रं
निर्मीयते तत्खलु दृष्टगणितमात्रोपयुक्तमित्यपि किश्चिनिरू-
पितम् ।
भवन्ति चात्र प्राचीनतत्त्वावगाहिनः श्लोकाः-
मूलाशुद्धिर्महर्षीणां वचने यदि तय॑ते ।
तदास्मदादिवत्तेषां सर्वज्ञत्वं न युज्यते ॥
अतस्तदुक्तधर्मेषु मिथ्यात्वादिविज्ञावनात् ।
वेदोक्तफलसिद्धयर्थ प्रतिक्षा नावतिष्ठते ॥
इत्थं प्रसज्जते सर्वविश्वासाभावभावना ।
1 Hansen. 2 Newcomb.

(४)
भूमिका ।
तिथ्यादितदनुष्ठेयकर्मणां तु कथैव का ॥
आस्तां तावद्भरिबादा लौकायतिककल्पना ।
या निरस्ता समस्तैव प्रशस्तश्रुतिशालिभिः ॥
प्रकते तु महर्षीणां सर्वज्ञत्वप्रथाजुषाम् ।
आज्ञयैव प्रवर्तन्ते धर्मकर्माणि यत्नतः ॥
तैरेव पुनरादिष्टा द्वेधा गणितकल्पना ।
दृष्टादृष्टफलप्रात्यै ततो धर्मव्यवस्थितिः ॥

--- PHOTTER श्रीगणेशाय नमः। ಇಜ್ಞಾನಿ..: ಶ್ರೀಯ SAKARANAYA अधि (क)मासपरीक्षा। नवग्रहेभ्यो नमः। प्रत्यग्रस्तनयित्नुमञ्जिमहरं तापिच्छगुच्छच्छवि- व्याकोशासितसारसालिसुषमाद्वैराज्यसज्जस्पृहम् । यत्कष्णात्मकमप्यपारतिमिरप्राग्भारमुन्मूलय- नित्यं स्वान्तसरोरुहे सुकृतिनां हंसायते तन्नुमः ॥ सिद्धान्तसंहितातत्त्वक्षोदोदश्चत्कलेवरा । अधिमासपरीक्षेयं क्रियते धीमतां मुदे ॥ अथ खलु गजेषुनन्देन्दुमिते १९५८ विक्रमवत्सरे आ- पाढः श्रावणोवाऽधिमासकोर्टि प्रबेष्टुमीष्ट इतीतस्ततो वर्धमानं सांवत्सराणां यांसं कलकलमाकर्ण्य संदिहानैरन्तेवासिजिरस- रुदावेदितरस्माभिरुच्चावचान्निबन्धानाकलय्य वादतरङ्गिणीती रारूढप्रज्ञं किञ्चिदुदीर्यते- तत्राषाढाधिमासपक्षपातिनः सूर्यसिद्धान्तमकरन्दरामविनो दादिश्यस्तिथिपत्रं साधयन्तः सौरपक्षावलम्बितया प्रतीताश्चिर न्तनाः। श्रावणाधिमासपक्षपातिनस्तु द्विविधाः, एके ब्रह्मसिद्धा न्तकरणकुतूहलपतित्यस्तिथिपत्रं संपादयन्तो ब्रह्मपक्षावल स्वित्या प्रसिद्धाः। परे युरोपियन्गणितप्रतिरूपकेण तिथिपत्रं - 9 प्रवर्तयन्तो नूतनाः

(२)
अधि(क)मासपरीक्षा।
सर्वेऽप्येते श्रौतस्मार्तक्रियाफलकामुका आस्तिका इत्यंशे-
न मनागपि विप्रतिपत्तिकाण्डम् । इतरथा मानानां स्वातन्त्र्ये
गगनकुसुमायतेऽधिकमासमीमांसा ।
अथ कस्तावदधिमासः किंरूपकश्चेति विविदिषायामित्थ
माह स्म श्रीविश्वरूपाचार्यः--
'अधिमासैः सौरमासा लायन्ते यदि का तदा ।
एकाधिमासकेनैवमनुपाताप्तमासकैः ॥
सौरश्चान्द्रोऽधिमासः स्यात्रिंशदिष्टेन्दुवासरः।
गौणमेनमुपेक्ष्यास्य परिणामः कतो बुधैः ॥
दर्शान्तावधिके मध्यचान्द्रमासे तु वजिते ।
मध्यार्कसंक्रमेणास्य परिणामः स्फुटे स्फुटः ॥' इति
ननु 'द्वादशमासाः संवत्सरः' इति तैत्तिरीयश्रुत्या यद्यपि
मस्यते परिमीयते आस्वतो गतिरत्रेति वा मस्येते परिमीयते
चन्द्रमसः कलाविर्भावतिरोभावौ यस्मिन्नित्यापाततः सौरचा
न्द्रान्यतरपक्षावगाहिबोधोदयेन प्रकृतं नोपस्क्रियते तथापि 'अ
स्ति त्रयोदशो मासः' इति तैत्तिरीयश्रुत्यन्तरे पूरणप्रत्ययेन मा
सस्य त्रयोदशत्वश्रवणान्मेषादिसंक्रमणानां द्वादशसंख्यातिक्रम
णायोगाच्च निर्विकल्पमध्यवसीयतेऽधिकमासीयं सत्त्वम् ।
तत्र प्राइनिरूपितचरमयोगस्य किंवा चन्द्राभिधेयकं 'मास्'
इति सकारान्तं प्रातिपदिकमासाद्योपपादितस्यैव मासपदार्थस्य
(१) 'अस्ति त्रयोदशो मासः स च श्रुत्या निगद्यते ।
असौ चान्द्रो न सौरः स्यानास्ति सौरश्चतुर्दशः ॥ इति ।

--- अधि(क)मासपरीक्षा। निर्वचनं संगच्छते । तत एव ‘मासास्तथा च तिथयस्तुहिनांशु मानाद्' इति तान्त्रिकाणां प्रवादः । सूर्यसिद्धान्तमतेनैकाधिमाससंबन्धिनः सायाः सौरमासाः- ३२।१६।३।५५॥५ तावति काले सावयवाश्चान्द्रमासाः- ३३।१६।३।५५।५ सृष्टयारम्भादेकहेलया प्रवर्त्तमानयोः सौरचान्द्रमानयोरन्तः सौरापेक्षया चान्द्रः एकोधिको धनुःसंक्रमणस्य गतांशेषु १६ ३।५५।५ कृष्णद्वितीयाया यातघटिकादिषु ३॥५५॥५साम ग्यमापेद इति संक्षेपः। ब्रह्मसिद्धान्तमतेन त्वेते- सायाः सौराः ३२॥१६।५।१४।३१ सायाश्चान्द्राः ३३।१६।५।१४।३१ एवं च स्पष्टमानेन स्पष्टचान्द्रमासः स्पष्टसंक्रमणविकलः स्पष्टाधिमासो मध्यमासंक्रमणलक्षणाधिकमासपरिणामरूपःपर्य- वस्यति । तत्र संक्रमणविशिष्टानां चान्द्रमासानां चैत्रादिसंज्ञायोगित्वं न केवलानाम् । तथा चाह स्म श्रीविश्वरूपाचार्यः- 'अत एवार्कमेषादिसंक्रमैश्चान्द्रमासकाः । युक्ता ये ते क्रमेण स्युश्चत्राद्याख्या मुनिस्मृताः ॥ सक्रान्तिरहितोऽसंज्ञश्चान्द्रो मासोऽधिको भवेत् । अधिकत्वादुत्तरे तु मासेऽस्य गणना स्मृता ॥' इति MER ।

अधि(क)मासपरीक्षा । चित्रया युक्ता पौर्णमासी चैत्री, सा यस्मिन् मासि स चैत्र इति व्युत्पादितश्चैत्रादिशब्दश्चान्द्रमासे योगरूढः तथा चोक्तम् चैत्रादिशब्दाश्चान्द्रे स्युर्मुख्या गौणाः परेषु च । शास्वप्रसिद्धेः प्राबल्याल्लौकिक्या गुणयोगतः॥' इति । यद्यपि सर्वाः पौर्णमास्यश्चित्राविशाखाज्येष्ठादिनक्षत्रयुक्ता न भवन्ति तथापि स्वात्यनूराधामूलादिनक्षत्रयुक्ता जायन्त इति ततोऽपि चैत्रादिसंज्ञाकरणे न बाधः। अत्रेदमाकूतम्- 'नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री । तत्संज्ञं वक्तव्यं वर्ष मासक्रमेणैव ॥ वर्षाणि कार्त्तिकादीन्यानेयावयानुयोगीनि । क्रमशस्विनं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥' इत्याचार्यश्रीवराहमिहिरोक्त्या यथा कृत्तिकायां रोहि ण्यां वा वर्तमाने गुरौ कार्तिकसंज्ञाकरणं तथैव चित्रया स्वात्या वा युक्तायां पौर्णमास्यां मासश्चैत्र इति सौरभाष्ये श्रीनृसिंहा- चार्यः । एवं च ससंक्रमस्यैव चैत्रादिसंज्ञालामेऽसंक्रमः संज्ञावैकल्या दधिक इति । तथा चाधिको मासोऽधिमास इति नियूंढम् । यद्यपि 'मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्रायः स ज्ञेयः' इत्याचार्यश्रीब्रह्मगुप्तोतयार्कराशिसंबन्धम हिम्नामुष्य पूर्वमाससंज्ञत्वमवसीयते तथापि तदीयेव 'पूर्तिद्वित्वे धिमासोऽन्त्यः' इत्यार्याशेषेण तथा- .. "

प
अधि(क)मासपरीक्षा।
पष्टया तु दिवसासः कथितो बादरायणैः ।
पूर्वमध परित्यज्य उत्तरार्ध प्रशस्यते ॥
इत्यनेन चोत्तरमाससंज्ञत्वं व्यवस्थाप्यत इति तत्त्वम् ।
इत्थं च श्रुतिस्मृतिभ्यां समवधारितसत्ताकोऽधिमासः केन
पक्षण साध्य इत्यत्राषाढवादिन एवं निश्चिन्वन्ति-
'पौलिशरोमकवासिष्ठसौरपैतामहास्तु सिद्धान्ताः।
पञ्चायो दावाद्यौ व्याख्यातौ लाटदेवेन ॥
पुलिशविहितः स्फुटोऽसौ तस्यासन्नस्तु रोमकप्रोक्तः ।
स्पष्टतरः सावित्रः परिशेषौ दूरविश्वष्टौ ॥
इत्याचार्यश्रीवराहमिहिरवचनेन सूर्यसिद्धान्तस्य स्पष्टतरत्वं
ब्रह्मवसिष्ठसिद्धान्तयोविनष्टत्वं चावगम्य तथा-
श्रीसूर्यसिद्धान्तमतोद्भवार्का-
साध्यौ तदा तावधिकक्षयाख्यौ।'
इत्यादिज्योतिर्विदाभरणवचनेनाधिमासक्षयमासयोनिर्णयार्थ
विशेषतः सूर्यसिद्धान्तसमादरमवधार्य शुद्धमार्गप्रवृत्तैः सौरपक्ष
एवाश्रयणीय इति ।
वस्तुतः समादरणीयं सौरतन्त्रम् । तत एव विन्ध्याद्रदक्षि
णोत्तरभागयोरधिकांशे मूर्यसिद्धान्तोपजीविनां निबन्धानामाधा
रेण विहितानि तिथिपत्राण्यद्यावधि प्रवर्तन्त इति प्रतिव्यक्ति व्य
तम् । एतत्पक्षीयतिथिपत्रापेक्षया ब्रह्मपक्षीयाणां तिथिपत्राणां
मन्दप्राया प्रवृत्तिः। तत्र चिराय ब्रह्मपक्षस्य खिलीभवनप्रथापि
निमित्नभूता । यतो ब्रह्ममतपरिष्करणबद्धपरिकरणाचार्यश्रीब
ह्मगुप्तेनापि स्वसिद्धान्तपारम्भे-
-

अधि(क)मासपरीक्षा। 'ब्रह्मोक्तं ग्रहगणितं महता कालेन यत्खिलीभूतम् । अभिधीयते स्फुटं तजिष्णुसुतब्रह्मगुप्तेन॥' इत्युदटङ्कि। आर्यपक्षीयप्रवृत्तिस्तु ततोऽपि तनीयसी। एतग्रन्थसाधितस्य तिथ्यादेर्व्यवहारो विशेषतो माध्वसंप्र दाये । तथा चोक्तं कृष्णामृतवाक्यार्थे- विष्णोश्च जन्मदिवसानि हरेर्दिनं च विष्णुव्रतानि विविधानि च विष्णु च । कार्याणि चार्यभटशास्त्रत एव सर्वैः' इत्यादि। एवं च सूर्यपितामहव्यासवसिष्ठात्रिपराशरकश्यपनारदगर्गम रीचिमन्वगिरोलोमशपुलिशच्यवनयवनभृगुशौनकानुबन्धप्रसि द्धानामष्टादशसिद्धान्तानां मध्ये संप्रति सौरब्रह्मपक्षावेव तत्रतत्र व्यवह्रियमाणावुपलायेते । आर्यभटीयादिमानुपसिद्धान्तानां मध्ये तु प्राधान्येनार्यपक्ष एव यत्र कुत्रापि विरलप्रचारोऽवति- ठते। इतरे तूत्सन्नप्रायास्तत्रतत्र प्रत्नपण्डितकुटीरकोणमध्या सते । अथैकदेशिनो रामविनोदसारणीगणितेनाषाढकृष्णामावा स्यायां सोमे देर्शान्तादूर्ध्वं कार्कप्रवेशं तिथिपत्रेषु प्रकाशय (१) दर्शघट्यादि ५३।२९ कर्कि घट्यादि ५३।५७ एवं च प्रतिपदि २८ पलेषु संक्रमणं भविष्यति । एतच्च सारणीगणितेन दर्शि- तम् ॥ मूलग्नन्थेनापि यथा-शास्त्राब्दपिण्डः ३११ ‘अब्दः शिवघ्नः- इत्यादिना स्फुटमेषार्कसंक्रमकालिकश्चन्द्रध्रुवः ९।१६।५२।३१ 'खवेद निनः' इत्यादिनोच्चध्रुवः ६।९।१६।२८ बीजमृणम् ०।१।४०।२ एतत्संस्कृत उच्चध्रुवः ६॥३६॥२६ 'अब्दोनगाभ्रदिहतः- इत्यादि- अधि(क)मासपरीक्षा। (७) न्तोऽपीनमण्डलान्तपक्षकक्षीकारेण श्रावणस्याधिकत्वं व्यवस्था पयन्ति । तत्र मलं मृग्यते- नाब्दपतिः शुक्रः । शेषम् ६९८।३६।४५ शुद्धिः १०१।२३।१५ 'ग्रह क्तिहता-' इत्यादिना सूर्यशुद्धिः ० । ०। ७ । ३० अनया ध्रुवः ११।२७॥५१॥३४युतः पराहोदयिको जातः११।२७१५९।४चन्द्रशुद्धिः ०।११४०।१२अनया संयुतः पूर्वसाधितश्चन्द्रध्रुवः ९।१८।३२।४३ उच्च- शुद्धिः ०००।५१ एतद्युतो ध्रुवः६।१३७।१७ 'मासाः' किायदे:-' इत्यादिना दिनगणः ९३ 'वियन्नगांशोनदिवागणः-' इत्यादिना गणना गतिः ३।११३९।४० ध्रुबाड्या जातो मध्यमार्कः २।२९।३८।४४ 'त्रिन द्युपिण्ड-' इत्यादिना गणना गतिः४ । २५ । २४ ।३ ध्रुवाढया जातो मध्यमश्चन्द्रः२।१३।५६।४६ 'नन्दः कुत:--' इत्यादिना गणना गतिः ०।१०।२१।३१ ध्रुवाट्या जातं चन्द्रोच्चम्६। १७५८ । ४८ 'स्वदेश रेखान्तरयोजनैः--' इत्यादिना सूर्यदेशान्तरम् ० । ०। ३ अनेन संस्कृतः सूर्यः २।२९।३८।४७ चन्द्रदेशान्तरम् ० । ०। ।३८ अनेन संस्कृतश्चन्द्रः २।१३।५।२४ 'रवेः फलं-' इत्यादिनार्कभुनान्तरमृणम् ०००।४ अनेन संस्कृतः सूर्यः २।२९।३८१४३ चन्द्रभुजान्तरनृणम् ००२।४ एतत्संस्कृतश्चन्द्रः २।१३।५६ । २० 'जल्लालदीनाकबरक्षि- तीन्द्र-' इत्यादिनाऽयनखेटः ८।१०।६।० ततश्चलांशा धनम् २१।१२४८ 'मध्यो विवस्वान्--' इत्यनेन सूर्योदयान्तरमृणम् ०1०1०। १७ एतत्सं स्कृतोर्कः २।२९।३८।२६ चन्द्रोदयान्तरमृणम् ००।३।४६ एतत्सं स्कृतश्चन्द्रः २।१३।५२।३४ चरमृणम्०।०।११५४ अनेन संस्कृतोऽर्कः २।२९/३६।३२ चन्द्रचरम् ० । ० । २५ । २८ अनेन संस्कृतश्चन्द्रः २। १३ । २७ । ६ ' इनादिकानां-' इत्यनेन सूर्यस्य मन्दफलमृणम् ००।२७४९ एतत्संस्कृतः सूर्यः स्पष्टः २ । २९।८।४३ भोग्यखण्ड गुणिता- इत्यादिना गतिफलमृणम् २।१० अनेन संस्कृता मध्यगतिः स्पष्टा ५६।५८ चन्द्रस्य मन्दफलं धनम् ०।४।९।२४ एतत्संस्कृतश्चन्द्रः

(८)
अधि(क)मासपरीक्षा।
-
'दर्शाग्रतो मण्डलनाडिकान्तं
मासः स सूर्येन्दुसमागमान्तः।
तदन्तरे चेद्रविसंक्रमः स्या-
त्तदा स शुद्धस्त्वधिकोऽन्यथासौ ॥'
इति स्वोपज्ञे सिद्धान्तसुन्दरे श्रीज्ञानराजदैवज्ञा उत्प्रेक्षन्ते ।
तदहस्यख्यापिका सिद्धान्तसार्वभौमप्रतिपादिता पद्यद्वयी-
'अर्केन्दुगत्यन्तरनाडिकाभिः
षष्टिर्घटीनां यदि तर्हि का स्यात् ।
तद्विम्बयोगार्धकलाभिरेवं
त्रराशिकादाप्तघटीभिरन्तः ॥
अमानतोऽन्दुयुतेः स्फुटोऽसौ
तदन्तरात्मा शशिमास उक्तः ।
शुद्धोऽर्कसंक्रान्तियुतोऽधिकस्तु
तद्वर्जितः स्यादिति सुन्दरोक्तम् ॥' इति ।
अत्रेदं तत्त्वम्-तत्रतत्र प्राचामर्वाचां चोपजीव्योपजीवक
भावनापन्नेष्वपि ग्रन्थेषु सूर्याचन्द्रमसोः केन्द्रसमसूत्रैक्यरूपयो
गादधिकश्चान्द्रमासो व्यवह्रियते खलु सर्वत्र । परं श्रीमद्भिर्ज्ञान
स्पष्टः २॥१॥३६।३० गतिफलं धनम् ३७३३ एतत्संस्कृता मध्भमा
गतिः स्पष्टा ८२८१८ व्यर्केन्दुभागाः-'इत्यादिना गततिथयः२९अमाया
भुतघट्यादि २।१० भोग्यघट्यादि ५३ । ५१ कर्कार्कमवेशकालो
घट्यादिः ५४।१ एवं मकरन्दादपि प्रतिपदि संक्रमो भविष्यतीति विदा
कुर्वन्तु विदांवराः ॥

अधि(क)मासपरीक्षा। (९) राजदैवज्ञैः सूर्यमण्डलपूर्वनेमिचन्द्रमण्डलप्रत्यङ्नेमिसंयोगलक्षण एवं योगोऽवाधारिरूपम् । इत्थं च निर्दिष्टानुपातासादितनाडि काभिः केन्द्रयोगादनन्तरं तादृशसूर्धन्दुमण्डलस्पर्शरूपचान्द्र मास इति । इहैतन्मीमांस्यते-ग्रहचारप्रवृत्तिकाले लङ्कायमकोट्यन्य तरोदयक्षितिजरेखायां दृश्यमानौ स्वस्वकक्षामण्डलेऽश्चिन्यादौ ब्रह्मणा निवेशितौ किल मूर्याचन्द्रमसौ पूर्वस्यां दिशि गन्तुं प्रवृत्तौ । ततः सूर्याद् गत्यन्तरेणाये भचक्र कामंश्चन्द्रो यावता समयेन पुनः सूर्यमासादयति तावानेकश्चान्द्रमास इति । उदय क्षितिजरेखायां सूर्यादीनां बिम्बकेन्द्रावस्थानमाहोस्विन्नेमिक्षा गावस्थानं तत्क्षणमासीदिति विकल्पे प्रथमकोटिरवं सिद्धान्त प्रणयिनीत्युपरिष्टाद् विस्तरः। अर्धास्तमनसंध्या हि घटिकात्रयसंमिता । तथैवा?दयात्मातर्घटिकात्रयसंमिता ॥' इति महर्षिणा नारदेनाभाणि । तत्राोदयार्थास्ताभ्यामुदया स्तक्षितिजे भगवतो भास्करस्य बिम्बकेन्द्रसत्त्वमेव विवक्षितम् । तथासत्येव क्षितिजरेखाया उभयतः समं वर्तमानस्य बिम्बदेश स्य तादृशा!दयास्तप्रतिपादनं युज्यते । एवमेव- 'संध्यां प्राक् प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्' - १ अत्र 'तस्मिन्सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्टचादा ब्रह्मणा निवेशिताः ' इति वासनाभाष्यफकिकापि मानम् ।

अधि(क)मासपरीक्षा। इति महर्षियाज्ञवल्क्यस्मृतिव्याख्याने परमहंसपरिव्राजका चार्यविज्ञानेश्वरभट्टारकेण व्याकृतम्-'अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णादित्यमण्डलदर्शन योग्यः कालः । तद्विपरीता रात्रिः । यस्मिन् काले खण्डमण्ड लस्योपलब्धिः स सन्धिः।' इति॥अत एव सिद्धान्तसार्वभौमे- 'तत्तुच्छं गणितं केन्द्रं स्वीकृत्योक्तं बुधैर्यतः । अन्यथा नादिनम्यैक्यं संक्रान्ति!च्यते कथम्॥' इतीनमण्डलान्तमाननिरासायाम्नातम् । अत्रेदमाचार्याकू तम्-प्रवर्तते खलु सर्वत्र खेटबिम्बकेन्द्रमरीकत्यैव योगादिगणि तजातम् । अतश्चान्द्रमासपरिच्छेदोऽपि बिम्बकेन्द्रेक्यसंबन्धे नैवनिरूपयितुमुचितो न तावद् बिम्बनेम्यैक्यसंबन्धेन । इतरथा बिम्बकेन्द्रराश्यादिप्रदेशसमसूत्रैक्यरूपसंक्रमणस्थलेऽपि राश्या दिप्रदेशसूर्यबिम्बप्रत्यङ्नेमियोग एव सौरमासान्तत्वात्संक्रान्तिः किमिति नाङ्गी क्रियते । अहो एकत्र निर्णीतः शास्त्रार्थोऽपरत्रो पयुज्यत इति न्यायात्सौरचान्द्रमासयोरेकविधयैवाधिमासार्थ ग्रहणमुचितम् । केचन पुनः- 'पष्टिनबिम्बं ग्रहक्षुक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्व- १ बासनाबाह्याः।

अधि(क)मासपरीक्षा। (११) संक्रान्तिगो मिश्रफलं विधत्ते ॥ शशितनुविकलाभ्यश्चन्द्रशुक्तयेन्दुनान्बो- गतिविवरकलाभि“य एताभिरेव । पृथगथ गतियुत्या नाडिकाः संधिराप्ता अतिथिकरणयोगानां फलं तत्र मिश्रम् ॥' इति सिद्धान्तशिरोमणिरिनमण्ढलान्तमानसाधक आस्त इति कीर्तयन्ति । तदविचारितरमणीयम् । स्पष्टग्रह क्तिविक लाभिरहोरात्रमानरूपाःषष्टिसावनघटिकास्तदा बिम्बविकलाभिः किमित्यनुपातेन या घट्य आनीयन्ते ता राश्यन्तबिम्बकेन्द्रक्य कालात्यागर्धाः पश्चादर्थाः फलार्थमुपयुज्यन्ते । तदानीं बिम्बके न्द्रस्य भुक्तमोक्ष्यमाणराशिसन्धिनिष्ठबिन्दुलक्षणातीन्द्रियभुज्य मानप्रदेशविशेषारूढत्वात्पूर्वापरपालिागयोरुभयराशिसंबद्धत्वा च्च मिश्रफलानिधानं युक्तिसिद्धम् । राश्यन्ते बिम्बकेन्द्रसंचरण काल एव संक्रमणपदार्थ इति- 'भवनान्तं बिम्बमध्ये राज्यात्प्रागुदेति चेद् ।' इति संक्रान्तिपुण्यकालकलनापरेण ब्रह्मसिद्धान्तश्लोकेन स्पष्टम् । निरूपितनाड्यो यथायथा बिम्बकेन्द्रसंनिहितास्तथ तथा विशिष्टफलख्यापिका इत्यर्थः- 'यायाः संनिहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः'। इत्यनेन वसिष्ठवचनेन सुव्यक्त एव । एवं च फलातिशयबो धनार्थ बिम्बकेन्द्रपर्यन्तमेव धावनमिष्टमाचार्याणाम् । तत एव- १ बिम्बकेन्द्रम् । ,

(१२) अधि(क)मासपरीक्षा।
'सुस्थे नरे सुखासीने यावत्स्पन्दति लोचनम् ।
तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः ॥
तस्माच्छततमो भागस्युटिरित्यभिधीयते ।
त्रुटेः सहस्रभागो यः स कालो रविसंक्रमे ॥
इति सूक्ष्मताप्रदर्शकं देवीपुराणं संगच्छते । एतेन नक्षत्रति
थिकरणयोगसंधयोऽपि व्याख्याताः ।
इनमण्डलान्तमानवादे तु रवीन्दोः केन्द्रयोगादनन्तरोद्भवा
नाड्योऽपेक्ष्यन्ते । तत्र दर्शान्तादुपरि किश्चिन्यूनघटीत्रयादृर्ष
चान्द्रमासान्ताङ्गीकरात् । अहो पूर्वत्र पूर्वापरपुण्यघट्यः साधि
ताः। परत्र केन्द्रयोगादूर्ध्वमधिमासार्थ मासो व्यवस्थापितः। एवं
विषयत्नेदेऽपि बिम्बकेन्द्रोत्तरनाडिकाश्रवणमात्रणमण्डलान्तमा
नमायुपगच्छन्तः कस्य हास्यास्पदं न भवेयुः। तैरुपरागादौ मौ
क्षिकस्थित्यर्धनाड्योऽपीनमण्डलान्तमानसाधनार्थ कस्मान्नोत्प्रे
क्ष्यन्ते । पुण्यघटिकास्तु सर्ववादिसंमतास्तत्रतत्रोपदिश्यन्ते ।
यथा सूर्यसिद्धान्ते-
'अर्कमानकलाः षष्टया गुणिता भुक्तिभाजिताः ।
तदर्धनाड्यः संक्रान्तरीक पुण्यं तथा परे ॥' इति ।
ब्रह्मसिद्धान्तेऽपि-
'मानार्धात्षष्टिगुणाद्भुक्तिहृतान्नाडिकादिलब्धेन ।
राश्यन्तात्यागादिः पश्चादन्तोऽर्कसंक्रान्तेः॥
संक्रान्तिपुण्यकालो यल्लब्धं नाडिकादि तद्विगुणम् ।
N

अधि(क)मासपरीक्षा। (१३) स्नानजपहोमदानादिकोत्र धर्मो विशिष्टफलः ॥' एवमन्यत्राप्यारे मानुषे निबन्धे। बिम्बकेन्द्रस्य राश्यवसाने संचरणकालः संक्रमकालः। तस्य सूक्ष्मत्वेन दुर्जेयत्वात्कोऽपि स्थू लकालोऽयुपेयः । स च प्राइनेमिसंचरणकालात्पश्चिमनेमिसंच रणकालावधिकः। तदर्धघट्यो व्यासार्थघटिकाः संक्रान्तिकाला त्पूर्वोत्तरकाले पुण्या इति श्रीमद्रङ्गनाथदैवज्ञव्याख्यांशः। एतेन वस्तुस्थितेरनवबोधादेव केनचित्- 'षष्टिनबिम्बमिति आस्करमण्डलान्ताः संक्रान्तयोऽपि कथिता यदि निर्णयार्थम् । नैवाहता वदसि धर्मनिबन्धकार- स्तर्यस्तु तैः क्व लिखितस्तव मण्डलान्तः ॥' इति प्रपञ्चितम् । संक्रान्तीनां भवनान्तकेन्द्रक्याभिप्रायेणे वाभिहितत्वात्।पुण्यकालमात्रस्य तत उभयत्र प्रतिपादितत्वात्। 'दर्शाग्रतः संक्रमकालतःप्राक् सदैव तिष्ठत्यधिमासशेषम्' इत्यादौ रवीन्दुबिम्बकेन्द्रयोरेकसूत्रवृत्तित्त्वलक्षणदर्शान्तादूर्ध्व निरूपित ताशसंक्रमणकालादध एवाधिशेषावस्थानस्य सर्वसंमतत्वाद् इहैव रवीन्दोयुतेः संयुतिर्यावदन्या विधोर्मासः' तथा 'गर्भसूत्रे सदा स्यातां चन्द्राकौं समलिप्तिकौ' इत्यादिवाक्यानां स्वारस्याच्च। अत्रेदं पुनराकलनीयम्-दर्शान्तात्प्राक् पश्चाच्चेषन्यूनघटी त्रयात्मकः संभूय किश्चिन्यूनघटीषटात्मकः कालो दर्शितरीत्या (१४) अधि(क)मासपरीक्षा। संधिमर्यादामाश्रयन्पूर्वोत्तरमाससंश्लिष्टफलमतिदिशति । तत्र- प्रतिपदर्शसंधौ त बिम्बैक्यं सर्यचन्द्रयोः। जवान्तराप्तं षष्टिघ्नं नाडिका अर्कमण्उलम् ॥' इति पैतामहं वाक्यं साधकम् । यदीनमण्उलान्तवादमायुप गम्य प्रवृत्तमेतत्तर्हि तत्र परघटीनामेवोपयोगात्पूर्वघटीसाधनमन र्थकं स्यात् । तथा- 'चान्द्रो मासो पसंक्रान्तो मलमासः प्रकीर्तितः।' इति पैतामहवाक्यमपि व्याकुप्येत । पूर्वस्य मण्डलान्तप रत्वे परस्य तन्निरपेक्षमेव मलमासप्रतिपादकत्वे पूर्वापरवचनवि रोधापातात् ।प्रकृतवाक्यं हि मण्डलान्तनिरपेक्षवाधिमासं प्रयो जयतीति स्पष्टार्कसंक्रान्तिविहीन उक्तो मासोऽधिमासः' इति पद्यस्य पीयूषधारावगाहनेनापि स्पष्टम् । यत्पुनः- 'स्फुटगत्या यदा चन्द्रो रविमण्डलमध्यगः । तदूर्ध्व संक्रमे भानोर्मासः स स्यान्मलिम्लुचः॥' इति पुलिशवचनं तत्र द्वितीयचरणे ज्योतिर्निबन्धे 'नेमिगः' इति पाठो लायते स च पैतामहादिवाक्यस्वारस्येन सौरबिम्बम ध्यपरिध्यभिप्रायेण व्याकर्त्तव्यः । मध्यगः' इति तु मध्यशब्दस्य 'वृत्तस्य मध्यं किल केन्द्रमक्तम्' इत्याचार्योक्तया केन्द्रसमाना र्थकत्वादुत्तानाशयः । अत्र- 'यदा शशी याति गजस्तिमण्डले दिवाकरः संक्रमणं करोत्यनु । (१) दर्शान्तादुपरि ।

अधि(क)मासपरीक्षा। (१५) Vood " विवाहयज्ञोत्सवनाशहेतुक- स्तदाधिमासः कथितः स्वयम्भुवा ॥ इत्याचार्यलल्लोक्तम् । इहेतरगभस्तिमण्डलग्रहणानौचित्या न्माध्यमिकगास्तिमण्डलग्रहणे तात्पर्यम् । तत्र ‘मासान्ते रवि शशिनौ समौ भवेताम्' इति तदीयं वचनमपि समनुग्राहकम् । वस्तुतस्तु 'गजस्तिमद्दलम्' इति पाठेन भवितव्यम्। ततः केन्द्रे पर्यवसानं स्पष्टम् । एतदज्ञात्वैव केनचिद्- 'यदा शशीति लल्लोक्तौ यथार्थस्य विभावनात् । अमाविगमतः पूर्व घटीनां त्रितयं हि यत् ॥ तदूर्ध्व संक्रमः प्रोक्तो मण्डलान्तो न कहिचित् । एतस्यैवार्थततं हि शास्त्रीयं वचनं शृणु ॥ सिनीवालीमतिक्रम्य यदा संक्रमते रविः । भानुना लवितो मासो गर्हितः सर्वकर्मसु ॥ 'सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः।' इति कोशबलान्मूढः दर्शशेष प्रतीयते ॥' इति द्रविडप्राणायामः कृतः। एवम्- 'सवितृमण्डलमेति यदा शशी तदनु संक्रमणं कुरुते रविः। मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितो ह्यधिमासकः ॥ इत्याचार्यश्रीपतिप्रतिपादितम् । इहापि पृष्ठकेन्द्रलक्षणं सवितृमण्डलं विवक्षितम् । तत्र 'दर्शावधि चान्द्रमुशन्ति मासम्'

(१६) अधि(क)मासपरीक्षा।
इति तदीयं वचनमप्यनुकूलम् । इयत्व सूपपत्तौ केनचिद्
'सवितृमण्डलमित्यादिवाक्यैर्वदसि चेद्यदि ।
पौरुषाणि न चार्षाणि तानि ते संमतानि चेत् ॥
तेषामर्थः प्राअलोऽपि मौाज्ज्ञातो न हि त्वया ।
यदा यस्मिन् क्षणे चन्द्रो मण्डलं सवितुः स्पृशेत् ॥
तदनु तत्क्षणादेव पश्चात्संक्रमते रविः ।
तदाधिमासो विज्ञेय इत्यर्थस्तस्य नापरः ॥'
इति निःसारं प्रपञ्चितम् ॥ प्राचां रहस्यानवगमेनैव पुनः
शार्ङ्गधरफलयन्थे-
'चन्द्रार्कयोस्तु बिम्बैक्यं प्रतिपदर्शसंधिषु ।
तिथ्यन्तात्तदुभयतो रसनाड्योर्कमण्डलम् ॥
तन्मण्डलाच्छशी गच्छेत्ततः सूर्यस्य संक्रमः ।
मासोऽसौ मलिनः प्रोक्तो न तद्धीनोऽधिकः स्मृतः ॥
तथा कालनिर्णये-
'संक्रमो यदि भवेद्रवेस्ततो
मण्डलाद बहिरनिर्गते विधौ।
उच्यते स हि ससंक्रमो बुधैः
शुद्धमास इतरो मलिम्लुचः॥
तथा ज्योति प्रकाशे-
'दर्शान्त एकैः कथितोऽत्र मासः
परैः प्रदिष्टो रविमण्डलान्तः।
.

--- .. अधि(क)मासपरीक्षा। (१७) मतद्वये चेद्रविसंक्रमः स्या- त्स एव पूर्वस्य न चापरस्य ॥' इति गतानुगतिकमर्यादया कथितम् । मुहूर्त्तमार्तण्डे पुनर्ना रायणपण्डितैः 'ब्रह्माद्यैरिनमण्डलान्त उदितश्चान्द्रस्त्वमान्तः परैः' इत्यभिधाय टीकायामुक्तप्रायाणि वाक्यानि संगृह्य बहु विरुद्ध मुदीरितम् । तथा हि-"अमावास्यान्ते सूर्यचन्द्रमण्डलयोर्योगो भवति।परतः षभिर्घटिकाभिर्वियोगो भवति। तस्माद्वियोगादपरो वियोगो यावत्ताबद्रविमण्डलान्तो मासः । स ब्रह्माद्यैः क्षयमासा धिमासनिर्णयविषयेऽङ्गीकृतः" इति । अमान्ताद् बिम्बविश्लेष पर्यन्तं घटीषट्कसत्त्वायोगादृष्यमेतत् । “अत्र यद्यपि सूर्यग्रहणे मध्यग्रहणकालानन्तरं मोक्षस्थितिकालः षड्घटिकात्यो न्यूनो दृश्यते तथापि सूक्ष्मदर्शिभिः पूर्वाचायः 'रसनायोर्कमण्डलम्' इत्युक्तम् । तत्रागम एव प्रमाणम् ॥” इति समाधानमपि रर्स नाड्योऽर्कमण्डम्' इत्यस्य तात्पर्यानवबोधात्प्रतारणमात्रम् । क्षयमासलक्षणं व्याख्याय पुनस्तरेव "अस्योदाहरणं ब्रह्ममतान सारिणा श्रीभास्कराचार्यण सिद्धान्तशिरोमणौ दर्शितम्- असंक्रान्तिमासोऽधिमासः स्फुटं स्याद् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्या- तदा वर्षमध्येऽधिमासद्वयं च ॥ गतोऽध्यदिनन्दमिते शाककाले (१८) अधि(क)मासपरीक्षा। तिथीशैक्षविष्यत्यथाङ्गाक्षसूर्यः। गजाद्यनिभिस्तथा प्रायशोऽयं कुवेदेन्दुवः क्वचिगोकुनिश्च ॥' इति । श्रीभास्कराचार्येण अब्ध्यद्रिनन्दैः ९७४ मितशाककाला दुपरि तिशः १११५ मितशाककालात्पूर्व सिद्धान्तशिरोम णिर्विरचितः।अत एवोक्तम् गतोऽध्यद्रिनन्दैमितेशाककालेतिथी शैर्भविष्यति' इति।तत्र गजायनिभूनिः१३७८ तुल्ये शाककाले रविमण्डलान्तमासप्रमाणेन क्षयमासाधिमासौ प्रदृश्यते-आश्विनी अमावास्या बुधे चतुश्चत्वारिंशद्धघटिका ४४ । तस्मिन्नेव दिने सप्तत्रिंशद्धटिकासु ३७ अतीतासु तुलासंक्रमणमभूत् । आश्विन स्तुलासंक्रान्तियुक्तत्वाच्छुद्धः । कार्तिकी अमावास्या शुक्रे सप्त दशघटिका १७ । तस्मिन्नेव दिने त्रिंशद्वटिकासु३० अतीतासु वृश्चिकसंक्रान्तिरभूत् । अयमसंक्रान्तित्वादधिकः कार्तिकः । अपरो मासो वृश्चिकसंक्रान्तियुक्तः। तस्माच्छुद्धोऽयं कार्तिकः । तस्यामावास्या शनौ सप्तचत्वारिंशद्धटिका ४७॥ तस्मिन्नेव दिने एकोनषष्टिघटिकासु ५९ अतीतासु धनुःसंक्रपणमभूत् । धनुःसं क्रमणं मार्गशीर्ष जातम्।तस्यामावास्या सोमे पादोनपञ्चदशघटि का १४।१५। तस्मिन्नेव दिने एकोनविंशतिघटिकासु १९ अती तासु मकरसंक्रान्तिरसूत् । इयं मकरसंक्रान्तियद्यप्यमान्तमति कम्य जाता । तथापि रविमण्डलान्तमासप्रमाणेन पूर्वमासे एवं पतिता । तस्मात्संक्रान्तिद्वययुक्तत्वान्मार्गपोषयुगलं क्षयाह्वयं अधि(क)मासपरीक्षा। (१९) जातम् । माघी अमा भौमे एकचत्वारिंशद्वटिका ४१ । तस्मि नेव दिने षट्चत्वारिंशद्वटिकासु ४६ अतीतासु कुम्भसंक्रा न्तिरभूत् । इयमपि संक्रान्तिर्यद्यपि मासमतिक्रम्य जाता। तथापि मण्डलान्तमासप्रमाणेन पूर्वमासस्यैव।तस्मान्माघःशुद्धः। मण्डलान्तमासानङ्गीकारे- 'न क्षयो नाधिमासः स्यान्माघो वै परिकीर्तितः।' इत्येतच्छास्त्रमनर्थकं स्यात् । आर्यपक्षे तु संदेहो नास्ति । यतो ब्रह्मपक्षतिथित आर्यपक्षतिथिश्चतुर्घटिकाधिका ब्रह्मपक्षसंक्रा न्तित आर्यपक्षसंक्रान्तिस्त्रिघटिकोना॥तस्मादार्यपक्षे संदेहाभावः। तथा च फाल्गुनी अमा गुरौ षट्पटिका ६ । तस्मिन्नेव दिने पञ्चत्रिंशद्धटिकासु ३५ अतीतासु मीनसंक्रान्तिर्जाता । तस्मा दयं फाल्गुनः असंक्रान्तित्वादधिकः । क्षयः कार्त्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं च' इति तस्योदाहरणं दर्शितम्" इति निरूपितम्। तदपि निःसारम् । मार्गामान्तात् सपादघटीचतुष्टयोत्तरं४। मकरसंक्रान्तिसत्त्वे तथा माघामान्तात् पञ्चघटिकानन्तरं ५॥ कुम्भसंक्रमसत्त्वे प्राङ्माससंबन्धाभिधानायोगाइ, इनमण्डलान्त मानवादिभिः केन्द्रयोगादूर्ध्व किंचिन्यूनघटीत्रयात्मककालेनैव बिम्बविप्रयोगव्यवस्थापनाद, गणितमर्यादया तथैवोपलम्भात्, स्वातन्त्र्ये मानाभावाच । यत्पुनरिनमण्डलान्तवादानायुपगमे 'न क्षयो नाधिमासः

MARA
A
(२०)
आधि(क)मासपरीक्षा।
स्याद्-' इत्यनेन माघमूलिका विप्रतिपत्तिरुद्भाविता । सापि-
'अष्टानां फाल्गुनादीनां प्रायो माघस्य च क्वचित् ।
नपुंसकत्वं भवतीत्येष शास्त्रविनिश्चयः ॥'
इति पितामहसिद्धान्तमूलभूतविष्णुधर्मोत्तरवचनविरोधादुपे
क्ष्या । 'दशानां फाल्गुनादीनाम्' इति निर्णयसिन्धुस्थः पाठः।
सूर्यलक्षणपुंसंबन्धाभावानपुंसकत्वम् । वक्ष्यमाणप्रमाणैः सर्वेषां
मासानामधिकत्वाध्यवसायेन पूर्ववाक्यस्य प्रायोभिप्रायपरतया
योजनाद् वार्या वा । तथा चार्षवचनानि-
'सर्वेषु मासेष्वधिमासकः स्या-
त्तुलादिषट्केऽपि च शून्यमासः।
संसर्पकः सर्वभवो हि मासः
सर्वेऽपि चैते खलु निन्धमासाः ॥'
'प्रायशो न शुभः प्रोक्तो ज्येष्ठश्चाषाढ एव च ।
मध्यमश्चैत्रवैशाखावधिकोऽन्यः सुभिक्षकत् ॥
प्रायः कार्त्तिकमासस्य वृद्धिनष्टेह तादृशी ।
आत्यन्तिकी यदा सा स्याज्जगदौत्पातिकं तदा ॥
देव कार्तिकमासोऽयं वर्ध ते नापि हीयते ।
मासानामितरेषां वै वर्धनं प्राह नारदः ॥'
तत्त्वविवेककारैरपि निर्णीतम्-
'असंक्रान्तिमासो हि चान्द्रोऽधिमासो
१ 'क्षयः कार्तिकादित्रये' इत्यत्रातगुणसंविज्ञानबहुव्रीह्याश्रयेण मस्तु-
ताशयो मरीचिकारादिभिरपि स्वीकृत्तः ।
,
,
-

अधि(क)मासपरीक्षा।
द्विसंक्रान्तिमासः क्षयाख्यस्तदानीम् ।
क्षयाख्यः कदाचित्ततः प्राक् च पश्चा
दवश्यं हि तत्राधिमासद्वयं स्यात् ॥
स्फुटैर्लक्षणयैरयं तानि वर्षे-
प्वपि स्युर्मधोश्चान्द्रमासेषुकाले।
अतोऽयं क्षयः सर्वचान्द्रेष्वपीत्थं
न जानन्ति सदासनाज्ञानशून्याः ॥
इदानीन्तनार्थ न शास्त्रं प्रवृत्तं
न सत्कार्त्तिकादित्रयोत्थं तदुक्तम् ।
सुयुक्ता नमुन्युक्तिरप्यत्र शाखे
भवेत्कार्यवर्यस्य यादग्विरुद्धा ॥' इति ।
तस्माद्-
'अष्टाधिमासाः स्युनित्यं प्रोच्यन्ते फाल्गुनादयः ।
सौम्यपौषौ क्षयौ नित्यं भवेतामिति निश्चितम् ॥
क्षयो वाप्यधिमासो वा स्यादुर्ज इति निश्चितम् ।
न क्षयो नाधिमासः स्यान्मायो वै परिकीर्तितः ॥
पञ्च मासास्तु वैशाखादधिमासा व्यवस्थिताः ।
भवन्ति चाष्टभिर्वर्डवैर्वाङ्कनिशाकरैः ॥
तथैव फाल्गुनक्षेत्र आश्विनः कार्तिकोऽधिकः ।
एते क्विन्द्रैः शराङ्वा कदाचिद्गोकुवत्सरः ॥
मार्गपोषौ क्षयौ स्यातां कदाचित्कार्तिको भवेत् ।

(२२) अधि(क)मासपरीक्षा। अधिमासस्तदा ज्येष्ठो भवेन्नित्यं क्षयो यदा ॥ क्षयात्प्रागधिमासः स्यान्नित्यं आद्रपदत्रये । आश्विनोजी सदा स्यातामादौ भाद्रपदः सकत् ॥' इति पैतामाहाः श्लोकाः प्रायोवादपराः। अत्रेदं पुनरभिधातव्यम्-'गतोऽध्यदिनन्दैः-' इति श्लोकेन तावति काले ये क्षयमासा उदाहृतास्ते न कामिकास्त- संभूतिहापननिर्देशो न नियमाभिप्रायकश्चरमः क्षयमासो न पारमार्थिक इति सुधीभिर्तृशं विचारणीयमिति । चतुःसनत्यधिकनवशतीसंख्यं९७४ शालिवाहनशकमारण्य चतुश्चत्वारिंशदधिकसप्तदशशतीशकपर्यन्तम् १७४४ अमी क्षयमासा व्यतिक्रान्ताः- शके ९७४ मार्गशीर्षः क्षयः तत्पूर्वापरवृत्ती आश्विनचैत्राव धिकावताम् । शके १ ०९६ कार्तिकः क्षयः । स च चैत्रश्चा- धिकः। शके १११५ मार्गशीर्षः शयः। तत्पूर्वापरवृत्ती आश्वि- नचैत्राधिकौ । शके ११८० मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ति- कार्तिकवैशाखाधिकौ । शके ११९९ मार्गशीर्षः क्षयः । त- त्पूर्वापरवृत्ती कार्तिकफाल्गुनाबधिको । शके १२३७ कार्तिकः क्षयः। स च फाल्गुनश्वाधिकः। शके १२५६ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ती आश्विनफाल्गुनावधिको । शके १३०२ कार्तिकः क्षयः। स च वैशाखश्चाधिकः । शके १३२१ मार्ग शीर्षः क्षयः।तत्पूर्वापरवृत्ती कार्तिकचैत्रावधिकौ। शके १३९७ अधि(क)मासपरीक्षा। (२३) पौषः क्षयः। तत्पूर्वापरवृत्ती आश्विनफाल्गुनावधिको । शके १४४३ कार्तिकः क्षयः।स च वैशाखश्चाधिकः । शके १४६२ मार्गशीर्षः क्षयः । तत्पूर्वापरवृत्ती आश्विनचैत्रावधिकौ । शके १६०३ मार्गशीर्षःक्षयः।तत्पूर्वापरवृत्ती आश्विनचैत्रावधिकौ । शके १७४४ शुक्लादिमानेन भाद्रपदकृष्णे कृष्णादिमा नेनाश्चिनकृष्ण चतुर्दश्यां शनौ २४ । १७ कन्यासंक्रान्तिः ५६।८ । कन्यार्कयुक्तत्वाच्छुद्धो भाद्रः । भाद्रकृष्णः कृष्णा दिमाने प्रथमाश्विनकृष्ण इत्युच्यते । ततः शुकुकृष्णान्यामुप- लक्षित आश्विनोऽसंक्रान्तित्वादधिकः । कृष्णादिमानेऽमुष्य शुक्लपक्षः प्रथमाश्विनशुक्ल इति कृष्णपक्षो द्वितीयाश्विनकृष्ण इति चोच्यते । ततो द्वितीयाश्विनशुक्ल प्रतिपदि नामे ६०।० तुलासंक्रान्तिः २३ । ५६ तुलार्कयुक्तत्वाच्छुद्ध आश्विनः । ततो द्वितीयाश्विनकृष्णोत्तरं मतान्तरे कार्तिककृष्णोत्तरं कार्ति- कशुक्ले प्रतिपदि गुरौ ४४ ।१० वृश्चिकसंक्रान्तिः १४।४२ । ततः शुक्लादिमानेन कार्तिककृष्णे कृष्णादिमानेन मार्गशीर्षकष्णे ऽमायां शुके २०१३ धनुःसंक्रान्तिः ४३।१४ । इयं संक्रान्ति दर्शमतिक्रम्य संभाव्यमानमार्गशीर्षशुक्लप्रतिपदि व्यजायत । पुनस्तादृशे मार्गशीर्षकष्णे मतान्तरे तादृशपौषकृष्णेऽमायां रवी १६ । २२ मकरसंक्रान्तिः ३ । ४४ । इयं संक्रान्तिदर्शा- न्तात्याक् पतिता । तस्मादर्शान्तादर्शान्तावधि एकस्मिंश्चान्द्र- मासे धनुर्मकरसंक्रान्त्योः सत्त्वातदनुरोधेन मार्गशीर्षपौषलक्षणे (२४) अधि(क)मासपरीक्षा। संज्ञाद्वितये प्राप्ते पूर्वसंज्ञां व्युदस्पोत्तरामेव व्यवहरन्ति सांप्रदा- यिकाः । तथा च प्राक्संज्ञाव्युदासे क्षयो मार्गशीर्ष इति फलितम् । तत्र शुक्लादिमानवादिनां मते मार्गशीर्षोभयपक्षयोः स्थाने पौषोभयपक्षयोर्व्यवहारः । कृष्णादिमानवादिनां मते तु मार्गशीर्षशुक्लपक्षस्थाने पौषशुक्लस्य मार्गकृष्णस्थाने माघकृष्ण- स्य व्यवहारः।तथा च मार्गशीर्षस्य शुक्लपक्षः पौषस्य कृष्णपक्षः इत्येतौ संभूयैकचान्द्रमासो नष्ट इति फलितम् । इत्थं च शुक्लादि वादे पौषकृष्णे कृष्णादिवादे माघकृष्णे मकरसंक्रान्तिरभूत् । ततो माघशुक्लोत्तरं तदीये कृष्णे मतान्तरे फाल्गनकृष्णेऽमायां चन्द्रे ६० । ० कुम्भसंक्रान्तिः २८१४९ । कम्भार्कयुक्तत्वा च्छद्धो माघः। ततः फाल्गुन शुक्लोत्तरं तत्कृष्णे मतान्तरे चैत्र- कृष्णाऽमायां बुधे४३।१ मीनसंक्रान्तिः१९।१८। मीनार्कयुक्त- त्वाच्छुद्धः फाल्गुनः । एतत्कृष्णपक्षः पूर्ववत्प्रथमचैत्रकृष्णः । ततश्चैत्रकृष्णेऽमायां शुक्रे १५। ४३ मेषसंक्रान्तिः ४१ । ५५ । दर्शान्तादूर्ध्व संकान्तेश्चैत्रोऽधिकः । प्राग्वदस्य शुक्लपक्षः प्रथमचैत्रशुक्ल इति इति कृष्णपक्षो द्वितीयचैत्रकृष्ण इति चो- च्यते । द्वितीयचैत्रशुक्लपक्षस्तु शुद्धमाससंज्ञीति । एवमेष क्षयमासो बालव्युत्पत्त्यर्थं सम्यक प्रतिपादितः । तत्कालमान्यतत्कालपर्यन्तमपरः क्षयमामो नोदपद्यत । त्रिष- ट्युत्तरसप्तदशशततमे १७६३ शालिवाहनशके मण्डलान्तमा- ननकः क्षयमासः पतितो यथा- 137320KC अधि(क)मासपरीक्षा। (२५) मार्गशीर्षशुक्ले प्रतिपदि चन्द्रे ५०३५ धनुःसंक्रान्तिः ३८।३३। पुनरेतत्कृष्णेऽमायां भौमे १६।१८ मकरसंक्रान्तिः ५६।४३। इयमुत्तरमासे शुक्लप्रतिपदि जाता। पुनरेतत्कृष्णपक्षेऽ मायां गुरौ २२॥३३ कुम्भसंक्रान्तिः २३।४८। यद्यपीयं दर्शा न्तादुपरि पतिता।तथापि मण्डलान्तगणनानुसारेण प्रागरीकता। तस्मादेकचान्द्रमासे संक्रमद्वयपातात्पाषस्य क्षयत्वं सिद्धम् । स्यादेतद्-यदि मण्डलान्तमाने दृढतरं मूलं लायेत-तदेव तु दुर्लजम् । ब्रह्मादिवाक्यं न प्रकृतमाननिरूपणेऽलङ्कर्मीणमिति प्रागेव व्यवस्थापितम् । अन्धपरम्परया प्रतिपादितं शाधिरादि पौरुषवचनं पुनरश्रद्धेयमेव । न धेकेनान्यथा निबद्धं तात्पर्य सहस्रेणाप्यनूदितं पार्थक्येन गण्यते, परमार्थतो वा गृह्यते । एकं दृढतरं प्रमाणं पुनरिदं ध्येयम्-यदीनमण्डलान्तमान मार्षमेव तदैनगणनानुसारेण पतितं पौषमासस्य क्षयत्वं किमिति नाङ्गीकतम् । आसंश्च तत्समयेऽपि काश्यादितीर्थ जयपुरादिरा जधान्यां भयांसो ज्योतिःशास्त्रपटीयांसो गणकाः। एतैः पुनस्ति थिपत्रेषु पौषक्षयः किमभिप्रेत्य न लिखितः । अहो तदानीं ज्योतिर्निबन्धस्य मुहूर्त्तमार्तण्डस्यान्यस्य वा यस्य कस्यचिदिनमण्डलान्तप्रतिपादकस्य ग्रन्थस्य पुस्तकं ना- स्ति किमु आहोस्विदिदानीन्तनैरिव तात्कालिकैर्गाणितिकरिन मण्डलान्तस्य तात्पर्य न बुद्धम् । मूलस्य दौर्बल्यं प्रवृत्तवैकल्यं १ अत्र मार्तण्डवल्लभकारोदाहृतमण्डलान्तमाना पेक्षया समीचीन मण्डलान्तमानम् । २ पञ्चाङ्गमात्रविदां विश्वासार्थम् । ३ (२६) अधि(क)मासपरीक्षा। चोपलायैवम्प्राया विकल्पाः प्रादुर्भवन्ति,न पुनरस्माकं मण्डला- न्तवादोपरि विद्वेषः । भवति चात्र श्लोकः- 'मासश्चेदिनमण्डलान्तविधिना ग्रन्थान्तरे वर्त्तते तास्तां ननु नागनन्द जगक्षोणीप्रमे (१८९८) वैक्रमे । वर्ष शास्त्रविचारशालिशरणे काशीप्रयागादिके तन्मानापतितोऽपि किं तिथिपटे नालेखि पौषक्षयः॥' एवमेव प्राङ्निरूपितो मार्तण्डवल्लभोदाहृतो गजायनित (१३७८) शकीयः क्षयमासोऽपि भ्रष्टः । तथान्येऽपि केचन सिध्यन्ति । ते विस्तरभियान प्रदर्शिताः। अत्र लेखकाध्याप- काध्येतृदोषाद् गजायग्निशकीयस्य भ्रष्टत्वमिति संभावयितुं पार्यते । कदाचिदष्टसप्ततिस्थाने सप्तनवतिसंख्या स्याद् । यतः सप्तनवेत्यधिकत्रयोदशशताब्द्यां क्षयमासः सिध्यति । तस्माद 'नगाङ्गानितभिः ( १३९७)' इति पाठो भवेत् । 'प्रायशोऽयं कुवेदेन्दुवरैः क्वचिद् गोकुनिश्च' इति प्रायोवादो नातिप्रयोज- नीय इति तात्पर्य 'प्रागयतश्चेत्यर्थादुक्तं स्यात्' इति वासनाना- ष्येणोत्तानमेव । इह नियमद्वये पूर्वापेक्षया परस्य भूयश्चारिता- र्थ्यमित्यपि वक्तुमुचितम् । एवं च 'क्वचिद्' इत्युभययोगि द्रष्टव्यम् । उदाहृतक्षयष्वियदन्तरम्- १०९६-९७४=१२२, १११५-१०९६=१९, ११८०-१११५-६५, ११९९-११८०=१९ अधि(क)मासपरीक्षा। (२७) १२३७-११९९-३८, १२५६-१२३७=१९, १३०२-१२५६-४६, १३२१-१३०२-१९, १३९७-१३२१७६, १४४३-१३९७%४६, १४६२-१४४३%१९, १६०३-१४६२१४१, १७४४-१६०३%१४१ ॥ उपयोगित्वादासनमानं प्रदाते- १५९३३००००० ४३२०००००० ५३११ १४४०० o+ +- + १+१ ७+ ३+ ३ २ तत आसन्नमानानि- ९७ ७३१२२९० ५३११ १२३८ १९१२२ १४१ २६३ १०.८२ ६२०९ १४४०० यत्पुनर्तिण्डवल्लभायां यत्तु ब्रह्मपक्षे क्षयमासाधिमासनि- र्णयमान्तं मासं गणयन्ति तेब्रह्ममतं न विदितम्' इति प्रति पादितं, तदपि साहसमात्रम्। यतो ब्रह्मसिद्धान्तरहस्यस्थापनब- द्धपरिकरेणाचार्यश्रीब्रह्मगुप्तेन ब्रह्ममतमुपादाय ब्राह्मस्फुटसिद्धा- न्तो व्यरचि । तत्रेनमण्डलान्तस्य लेशोऽपि नावाचि तत्रभवता। अहो येन विना सकलं ब्रह्ममतं व्याकुली भवति तन्मोल - (२८) अधि(क)मासपरीक्षा। रहस्यमेवाचार्येण नावेदीति वल्लनाकार इव कः प्रेक्षावान् श्रद्द- ध्यात् । आचार्यस्य ब्रह्ममतसंशोधकता- 'यत्सूक्ष्मं गतिवित्तये व्यरचयं शास्त्रं ग्रहणामहं तस्योच्छित्तिरिहास्ति विस्तरजयान्मा अदितीवात्माः। संक्षिप्तीकरणाय जिष्णतनयव्याजेन यस्मादभू- तस्मादेव च तत्त्वबोधनिपुणास्तं ब्रह्मगुप्तं जगुः ॥' इति श्लोकेन ब्रह्मसिद्धान्तनाष्ये चतुर्वेदाचार्येणापि प्रकाशिता। एवम्प्रायप्राचीनग्रन्थरहस्यमज्ञात्वैव ज्योतिषरायेण पुनः- 'किंच मार्तण्डटीकायां लिखितं स्पष्टमेव हि । ब्रह्मपक्षे विधातव्या मण्डलान्तक्रिया बुधैः ॥ कल्पितो ब्रह्मगुप्तोऽस्ति एवं शास्त्रस्य डिण्डिमः। कल्पिते कल्पना युक्ता न युक्ता देवनिर्मिते॥' इति । तथा प्रागुक्तं प्रतिपद्दसिंधौ तु-' इति श्लोकं वि- लिख्यानन्तरम्- 'इति ज्योतिर्निबन्धाख्ये यस्त्वदुक्तः पितामहः । स ब्रह्मगुप्त एवास्ति न तु साक्षापितामहः ॥ निर्मलतास्य सिद्धान्तकारैः सस्यक प्रदर्शिता ।' इति च जल्पितमिति संक्षेपः। किं च मण्डलान्तवादादरे-अमा सह वसतः सूर्याचन्द्रमसौ यस्यां सा अमावस्या । 'अमावस्यदन्यतरस्याम्' इति ण्यत् । दृश्यते सूर्यचन्द्रयोयुतिरत्रेति दशः । 'हलश्च' इति घञ् । सूर्य- न्दू संगच्छतो यत्र स सूर्येन्दुसमागमः। पुंसि संज्ञायां घः प्रायेण' आधि(क)मासपरीक्षा। (२९) इति घः। एवमादयः प्राचां योगा विलीयन्ते । न च नेमियोग सत्त्वेपि संगच्छन्त इति वाच्यम् । यदृच्छाविभक्तबिम्बीय नानाप्रदेशावच्छेदेन जायमानासु युतिषु केन्द्रयुतेरधिकावरक तया ज्यायस्त्वाद् । यद्यपि वासनयाधिबिम्बं यः कोऽपि देशो मध्यत्वव्यपदेशार्हतया पृष्ठकेन्द्रपदवाच्यो भवितुमर्हति । तथापि प्रकृते भूगर्भकेन्द्रान्नीयमानं किल सूर्यस्यायद्वितीयतृतीयके- न्द्राणि भिन्दद्यत्सूत्रं नासि यायात्तद्गतयोरेव सूर्येन्द्रोबिम्बके न्द्रयोरवस्थानं युतिशब्देन परिभाष्यते । तथैव तनोति विस्तार यति वर्धमानां क्षीयमाणां वा चन्द्रकलां या सा तिथिरित्यत्रापि भूगर्भकेन्द्रान्नीयमानं सूर्यकेन्द्रं प्रति यत्सूत्रं यच्च तस्मादेव चन्द्रकेन्द्र प्रति नीयमानं सूत्रं तयोरन्तरं यदा द्वादशभागात्मकं तदैका तिथिरितीहापि स एव प्रमेयो जागर्तितराम् । ननु चान्द्रमासस्य सूर्यचन्द्रबिम्बकेन्द्रयोगलक्षणदर्शान्ता- वधित्वेन व्यवस्थापनादर्शान्तविशेषसंस्कारमन्युपगच्छतां तथा- भूताभिप्रायेणाधिमासो ग्राह्य इति फलिते तावदेतौ वैश्व- रूपौ पूर्वपक्षसिद्धान्तौ- 'एवं यदुक्तं क्षितिगर्भगाणां कुपृष्ठगानामथ संप्रवक्ष्ये । यः साधितः पर्वविरामकालः स्फुटो अवेल्लम्बनसंस्कृतोऽत्र। यतः स्फुटे दर्शविरामकाले दृक्सूत्रसंस्थौ रविशीतरश्मी। कुपृष्ठगानामथ निश्चयेन स्यातां हितगोलविदो वदन्ति॥ तदप्यसन्मासनिमित्तयोगो दृग्गोचरत्वेन मतो न पूर्वैः ।

(३.) अधि(क)मासपरीक्षा। भूगर्भदेशे गणितं हि सर्व तत्पृष्ठदेशे समसूत्रतः सद्॥' इति । एवमनेकधा दर्शान्तावधिक एब चान्द्रमासो न तु मण्डला-- न्तावधिक इत्यर्थो व्यक्तः । तथापि सिाधन्तज्ञानशून्यैर्बहूनि वाक्यानि मण्डलान्ताभिप्रायेण वृथैव योजितानि तत्त्वक्षोदे न तेश्यस्तन्मानलेशोऽप्युन्नेतुं पार्यत इति दर्शितमेव । भवत- श्वात्र श्लोकौ- - संधिकालकलनानवबोधान्मण्डलान्तविधिनाऽधिकमासः। केनचित्पुनरवाचि ततोऽन्यैरप्यबोधि बहुधा समबन्धि ॥ ईषदूनघटिकात्रयतुल्या मण्डलान्तमितिरस्तु परं तु । या ततोऽपि महती विहितासौ सर्वथा गणितशासनबाह्या ।' अपि च सौरचान्द्रादिमानं हि शास्त्रे काल्परिच्छेदकमि- त्युच्यते । तच्च केन्द्रानुरोधेन प्रवर्तत इत्यंशे 'लङ्कानगर्यामद- याच्च भानोः-' इत्यादयो मानम् । एवं च कल्पावच्छिन्नका- लस्य सौरादेश्च परिच्छेद्यपरिच्छेदकभावे निष्पन्ने केन्द्रोद्मा- दूर्ध्व प्रवृत्तस्य मण्डलान्तमासस्येतरवत्परिच्छेदकानावान्मान- त्वानुपपत्तिरिति युक्तं प्रतीमः। तत एव मानुषमानकथनावसरे- प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते । नाक्षत्रस्तु तृतीयः स्यात्सौरो मासश्चतुर्थकः ॥' इत्यनेन तथा- सौरचान्द्रमसमावनमानैः सार्थकैर्यहगतेरवबोधः । एभिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुर्भिः॥' -- । : - . 7 - अधि(क)मासपरीक्षा..। (३१) इति श्रीपतिवचनेन मानानां चातुर्विध्यमेव निरूपितम् । तथैव- चतुर्णा च मानानां सौरसावननाक्षत्रचान्द्राणाम्-' इति बृहत्संहितायां सांवत्सरसत्रे । विशेषाभिधायिना भट्टोत्प- लेनापि विवृतौ मासमधिकृत्य भेदो न न्यरूपि । सौरादीना- मुपयोगः- वर्षाणि सौरात्प्रवदन्ति चान्द्रा- न्मासास्तिथीः साबनतो दिनानि । सौरैन्दवास्यां तु विना न तत्स्या- नाक्षत्रमानाद् घटिकादिकालः ॥ युगायनर्तुप्रभृतीनि सौरा- न्मानाद् धुरात्र्योरपि वृद्धिहानी । पर्वाप्तिमासोनदिनानि चान्द्रा- तथा तिथेरर्धमपि प्रदिष्टम् ॥ इति श्रीपतिपद्याभ्यामुक्तः । इह मण्डलान्तमासमानं केनापि न स्पृष्टम् । तथा सविस्तरं मानानां मलमासस्य च निर्ण- याय यतमानैर्धर्मशास्त्रनिबन्धकारैरपि क्वापि नानूदितम् । ततो देवानाम्प्रियैरुत्प्रेक्षितमेतदिति नासमञ्जसम् । स्मयते खलु तत्रतत्र दर्शान्ताभिप्रायकोऽधिमासः । तथा च भगवान् हारीतः- 'इन्द्राग्री यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्मृतौ मध्ये समातौ पितृसोमकौ ॥ -- , (३२) अधि(क)मासपरीक्षा। तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आयो मलिम्लुचो ज्ञेयो द्वितीयः प्रकृतः स्मृतः॥' इत्याह स्म । अयमर्थः-ऐन्द्रं दधि भवत्यमावास्यायामि- त्युत्पत्तिवाक्येन दशै दन्नो द्रव्यत्वं बोधितम् । तस्य च व्यह- साध्यतया दर्शः प्रतिपदि क्रियते । अत एवोक्तं-प्रतिपदि दर्शः प्रतिवर्त्तत इति । सा च शुक्ला प्रतिपन्मासस्यादिः। एवम्- अग्नीषोमीयं प्रायच्छत पौर्णमास्यामिति श्रुतेरुक्तयुक्तेः कृष्ण- प्रतिपत्पौर्णमासकालः । सा च मासमध्यम् । एवम्-अमावा- स्यायामपराहे पिण्डपितृयज्ञेन चरन्तीति श्रुतेः पितृसोमदेवताकः पिण्डपितृयज्ञाङ्गभूतोऽसौ करणहोमः। तदामावास्या मासान्तः । तथा च शुक्लप्रतिपदादिरमावास्यान्तः चान्द्रो मास इति । द्वि- तीयश्लोकस्तु स्पष्टार्यः। तथा च भगवान् गर्गः- 'अमावस्याद्वयं यत्र रविसंक्रान्तिवर्जितम् । मलमासः स विज्ञेयो मासः शुद्धाख्य उत्तरः ॥' तथा च भगवान् वसिष्ठः- 'यस्मिन्दस्यिान्तादागेका परा परं दर्शम् । उल्लङ्घ्य भवति भानोःसंक्रान्तिः सोऽधिमासः स्याद्॥' इत्यनेनाधिमासमभिधाय- 'आद्यन्तदर्शयोर्मध्ये भानोरेव तयोर्यदि । संक्रान्तिद्वितयं स्यान्चेन्न्यूनमासः स उच्यते ॥' , अधि(क)मासपरीक्षा। (३३) इत्यनेन क्षयमासं लक्षितवान्- तथैव भगवान् कश्यपः- 'यस्मिन्मासेऽर्कसंक्रान्तिदर्शान्तात्प्राक् परा परम् । दर्शमुल्लङ्घ्य भवति स संसोधिमासकः ॥ आरभ्य शुकप्रतिपत्प्रवेशासंक्रमद्वयम् । आगामीन्दुक्षयस्यान्तात्माङ् न्यूनाख्यस्त्वहर्षतिः॥ इति । तथा च भगवान् भृगुः- 'एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् । हव्यकव्यक्रियाबाह्यस्तदा ज्ञेयोऽधिमासकः ॥ इति । तथा च भगवान् कठः- 'यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । मलमासः स विज्ञेयो मासः स्यात्तु त्रयोदशः ॥” इति। सत्यव्रतश्च- राशिद्वयं यत्रमासे संक्रमेत दिवाकरः । नाधिमासो अवेदेष मालमासस्तु केवलम् ॥' इति । अत्र मासपदेन दर्शान्तमास एव बोध्यः । मण्डलान्तस्तु शशविषाणायमानो धर्मशास्ने । सामान्यतो विसंक्रान्तिद्विसंक्रा- न्तिमासौ मलमासत्वेन व्यपदिष्टौ।तत्र द्विसंक्रान्तिःक्षयारव्यः । धर्मार्णवेऽपि- 'दर्शद्वयं यदैकस्मिन्सौरे संसर्पको भवेत् । अहर्पतिर्यदैकस्मिंश्चान्द्रे द्वौ संक्रमौ तदा ॥ इति । , -- - (३४) अधि(क)मासपरीक्षा । अनन्तभट्टहेमाद्रिकविवल्लामाधवसिद्धान्तनिष्कर्षभूतायां तत्त्वमुक्तावल्यां धर्माधिकारिभिरप्युक्तम्- 'चान्द्रोधिमासोऽसंक्रान्तः सोऽन्तर्भवति चोत्तरे । इति । शुक्लप्रतिपदादिर्दर्शान्तश्चान्द्रो मास इति तद्व्याख्यातारः । 'चान्द्रो मासः-' इति ब्रह्मसिद्धान्तस्य असंक्रान्तिमासः' इति सिद्धान्तशिरोमणेश्चानुमतिः प्रागेव दर्शिता । असंक्रान्तीतिश्लो कव्याख्याने मरीचौ मुनीश्वरदैवज्ञैर्वासनावार्त्तिके नृसिंहदैवज्ञैर्म पडलान्तमासनिरासपुरस्सरं दर्शान्तमासः उदीरितः। तथैव ज्योतिर्विदाभरणे- मध्वादिमासेषु भवन्ति भानोः संक्रान्तयो मेषमुखाः क्रमात्स्यात् । मासो विसंक्रान्तिरथाधिमासो मासो द्विसंक्रान्तिरसौ क्षयाख्यः ॥' इति । तथैव मुहूर्ततत्त्वे- 'संक्रान्त्यूनोऽधिकोध्याह्वय इव युगलाह्वो द्विसंक्रान्तिमासः' इति। यः संक्रान्त्यूनः संक्रान्तिरहितो मासः सोऽधिकः स्यात् । कथम्भूतः । अयाह्वयः अग्रस्योत्तरस्याह्वा अभिधानं यस्य स तथा मासो दर्शावधिलक्षणश्चान्द्र एव । 'मासास्तथा च तिथय- स्तुहिनांशुमानाइ' इत्युक्तेः । यश्च द्विसंक्रान्तिः स युगलाह्वः । वे संक्रान्ती यस्मिन् स तथा । युगस्य मासदयस्य आह्वा अभि धानं यस्य स तथा पूर्वोत्तरमासनामा क्षयमास इति यावत् । इति श्रीमद्गणेशदैवज्ञव्याख्याभागः ॥ .

अधि(क)मासपरीक्षा। (३५) मुहूर्त्तगणपतावपि- 'असंक्रान्तिरमान्तो यो मासश्चत्सोधिमासकः। परमासाह्वयो ज्ञेयः प्रायश्चत्रादिसप्तसु ॥ द्विसंक्रान्तिः क्षयाख्यः स्यात्कदाचित्कार्तिकत्रये । युग्माख्यः स तु तत्राब्दे पधिमासद्वयं भवेत् ॥ 'असंक्रान्तिमासो हि चान्द्रः-' इति सिद्धान्ततत्त्वविवे- कीयं तथा 'स्पष्टार्कसंक्रान्तिविहीनः-' इति मुहूर्तचिन्तामणीयं तु पूर्वमुक्तमेव । एवमादिप्रमाणवाक्येभ्यो दर्शान्तावधिक एव चान्द्रमासः ." ----- १ भगवान् पराशरोप- पक्षद्धयेऽपि संक्रान्तियदि न स्यात्सितासिते । तदा तन्मासविहितमुत्तरे मासि कारयेत् ।। एवमन्येऽपि- अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्जितम् । मलमासं विजानीयाद् गर्हितं सर्वकर्मसु ॥ मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ।' एकराशिस्थिते सूर्य दर्शयुग्मान्त्यनाडिकाम् । स्पृष्ट्वा चेदन्यभं याति स मासः स्यान्मलिम्लुचः ।। यदा रविस्त्वमावास्यां लड़येत्कालयोगतः मलिम्लुचस्तदा ज्ञेयः शुभकर्मविवर्जितः ॥' एकराशिस्थिते सूर्यं यदा दर्शदूयं भवेत् । दव्यं देवा न गृह्णन्ति कव्यं च पितरस्तदा ।।" Mn '

(३६) अधि(क)मास परीक्षा।
सध्यति, न तु मण्डलान्तावधिक इति सम्यङ् निरीक्षणीयम्।
तथा च सिद्धान्तसंहिताधर्मशास्त्ररहस्यविद्भिः शुद्धमार्गप्रवृत्तैर्गण
रेतदन्धपरम्परावगतमिनमण्डलान्तमासमानं कथञ्चिदपि ना-
दरणीयमिति पारमार्थिको विश्वजनीनः पन्थाः॥ भवति चात्र
स्लोकः-
मण्डलान्तविधया मलिम्लुचो गृह्यते न हि सुरर्षिकोविदैः।
यो व्यधायि कुहचित्स संहिताधर्मशास्त्रकलनाबहिर्भवः॥'
नानाविधेषु सौरपक्षाश्रितेषु निबन्धेषु सूर्यसिद्धान्तस्यैव
राधान्यात्तदनुसारेण गणितं यथा-
संवत् . १९५८ अधिकाषाढकृष्णेऽमावास्यासोमे ' अत
ऊर्ध्वममी युक्ताः-' इत्यादिना लङ्कायामार्धरात्रिकः सावनो
घुगणः ७१४४०४१२३७४३। 'यथा स्वागणाभ्यस्तः-'
हत्यादिना मध्यमः सूर्यः ३। ०।२२।४७॥ मन्दोच्चम् २।१७॥
१७॥२८॥ योजनानि शतानि-' इत्यादिना मध्यमो अपरिधिः
२०५९। ततः स्पष्टपरिधिः४५१०। तत्र पलांशाः२
२६।५५॥
शान्तरयोजनानि ४। देशान्तरविकला धनम् ३। आभिः
संस्कृतः सूर्यः ३।०।२२।५०। रविकेन्द्रम् ११।१६।५४॥
३८ भुजः ।०।१३।५।२२। सुजज्या७७८। 'ओजयुग्मान्तर
णा-' इत्यादिना स्पष्टपरिधिः१३०५५।२८। 'तद्गुणे भुजको
टेज्ये-'इत्यादिना फलम् ३०१६। अनेन संस्कृतः सूर्यः२।२९
५२॥ ४२॥ · अर्कबाहुफलात्यस्ताः-' इत्यादिना भुजान्तरं
वेकलाः ५। आभिः संस्कृतः सूर्यः स्पष्टः २।२९।५२।३७॥

अधि(क)मासपरीक्षा। (३७) गतिफलम्२।१५। अनेन संस्कृता गतिः स्पष्टा५६।५४॥ एवं मध्यमश्चन्द्रः २।२३।४९।४३। उच्चम् ६।१९।२९।५१॥ देशान्तरविकलाः ४२। आभिः संस्कृतश्चन्द्रः २॥२३॥५०॥ २५॥ केन्द्रम् ३।२५।३९।२६। भुजः २।४।२०।३४॥ अजज्या ३०९९। स्पष्टपरिधिः ३३।४।५८। फलज्या २७२।५। फलम् ४।३२।१३। अनेन संस्कृतश्चन्द्रः २०२८ ।२२।३८। भुजान्तरं कलादि १।८। अनेन संस्कृतश्चन्द्रः २। २८।२१।३०। 'स्वमन्दाक्तिसंशुद्धा-' इत्यादिना गतिफ- लम् २८।३। (तत्र केन्द्रगतिः ७८३। ५४ ) एतत्संस्कृता मध्यगतिः ७९०।३५। जाता स्पष्टा ८१८॥३८॥ अर्धरात्राद- मावास्याया भुक्तघट्यादि ४९।३१। भोग्यघट्यादि ७॥११॥ कार्कप्रवेशः ७१४७ अत आषाढस्याधिमासत्वं निष्पत्यूह- मिति शुद्धसौरपक्षावलम्बिनः। ब्रह्मसिद्धान्तावलम्बिनस्तु स्वच्छन्दं बीजदानेन ब्रह्मपक्ष संस्कुर्वाणा आषाढीयदर्शान्ततःप्राक् कर्कार्कप्रवेशं साधयन्तः श्रावणस्याधिकत्वं भन्यन्ते । तान्प्रत्याषाढवादिन एवं वदन्ति- स्यादेतद्, यदि मतान्तरासंश्लिष्टं ब्रह्ममतं लायेत-तदेव तु दुर्लभम् । संश्लिष्टं पुनरनार्षतया धर्मकर्मणि नाद्रियते मर्म- वेदिभिः । यादृशान्यां सूर्यचन्द्रायां विधीयमानं तिथ्यादि ऋषिग्रन्थेषु स्मयते तादृशान्यामेव ताज्यां न पुनरन्यथा साधि ताभ्यां दर्शान्तं संसाध्य तत ऊर्ध्वमधो जायमानायाः संक्रान्तेर (३८) अधि(क)मासपरीक्षा । नुरोधेन यः कश्चन मलिम्लुचः स एव धर्मकमार्थमुपादीयते । अत्रेदमपि बोध्यम्-अष्टादशसिद्धान्तेषु संख्यायमानोऽपि रोमकादिर्धर्मकर्मार्थ नाङ्गीक्रियते । उक्तं च ब्राह्मस्फुटसिद्धान्ते 'युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः। यस्मिन्न रोमकेतः स्मृतिवाद्यो रोमकस्तस्मात् ॥' श्रुत्यङ्गत्वाज्ज्यौतिषस्य श्रुतौ स्मृतानामर्थानां स्मृतौ स्मर- णेन स्मृतिमूलकमेव ज्यौतिषं मान्यमित्याचार्याकूतम् । युरोपियनगणितप्रणयिनस्त्वेवं सिद्धान्तयन्ति । ज्योतिः शास्त्रे हि द्विविधाः प्रमेयांशाः । एके प्रत्यक्षप्रतीतिकारिणः । यथा-सूर्याचन्द्रमसोरुपरागः ताराग्रहाणामुदयास्तौ समागमो युद्धं चेति। तत्र यया गणितविधया दृकुसंवाद आपद्येत सैव नि- विकल्पमास्तिकैर्नास्तिकैश्च प्रेक्षावद्भिः सशिर कम्पमाद्रियताम्। परे परोक्षाः। एतेस्वरूपतः परोक्षा अपि प्रत्यक्षप्रतीतिसहकारिस पन्नावयवत्वादव्याहत प्रसराः। यथा-तिथ्यादि । स्वस्वकक्षावृत्ते गत्यन्तरेण कामतोः सूर्याचन्द्रमसोरियद्भिरन्तरांशैरिदानीमियती प्रतिपदादितिथिरिति पञ्चाङ्गकथा न ग्रहणादिवनिर्देष्टुं शक्या। एवं च वेधकर्मनिपुणैर्युरोपियनगणकधुरीणराकर्षणविद्याब- लेन ये विधयो निरूपितास्तन्मार्गणानीतानां खेचराणां दृग्गणि तैक्यं सम्यगुपपद्यत इति सुप्रसिद्धं तावत् । अतस्तथा नीतरवी न्दुनिष्पन्नदर्शान्तात्प्रथमं कर्कार्कसंक्रमणे श्रावण एवाधिकः । एतदपि ते न सहन्ते । तथा हि-किं सौरादितन्त्रप्रणयनकाले अधि(क)मासपरीक्षा। (३९) ग्रहाणामन्योन्याकर्षणं नासीद, आहोस्विद् विद्यमानमपि ऋषि भिर्नावधारितम् । नायः । उपपत्त्या तत्कालेऽप्याकर्षणोपल- म्भात् । न द्वितीयः । आस्तिकनये ऋषीणां सर्वदर्शित्वव्यापा तात् । वेदाङ्गत्वेन स्मयते खलु तत्रतत्र ज्यौतिषम् । तदेतद् यद्रूपकं श्रोते स्मार्ने च कर्मण्युपयुक्तं तद्रूपकमेव ऋषिभिरुप हितम् । अदृष्टसंपादनायोगान्नेह मानुषी युक्तिरपेक्षिता । उक्तं च- 'अतीन्द्रियार्थविज्ञानं प्रमाणं श्रुतिरेव हि । श्रुतिर्यत्र प्रमाणं स्याद् युक्तिः का तत्र नारद ॥ जिज्ञासोयुक्तिरिष्टास्ति यदि श्रुत्यनुसारिणी । इत्थं शाकल्प एवाह ब्रह्मोक्तस्वनिबन्धने ॥' यत्वाचायः क्वचिद्वीज दत्तं तद् दृष्टगणिताजियायेण । आर्षयन्थे तु प्रायो बीजावतारो न दृश्यते । यत्तु वसिष्ठ सिद्धान्ते- 'इत्थं माण्डव्य संक्षेपान्मयोक्तं शास्त्रमुत्तमम् । विस्रस्ती रविचन्द्रायैःविष्यति युगेयुगे ॥' इत्युक्तम् । तत्र तत्त्वविवेककाराः- 'इत्थं माण्डव्य संक्षपादिति पद्योत्तरार्धके । विस्तृतीत्यत्र कत्वा तु विस्रस्तीति बलान्नराः ॥ नाशयन्ति वसिष्ठोक्तिम् इति वदन्ति । तथा दृष्टादृष्टोदन गणितस्य वैविध्यं वर्ण- यन्ति । तथा च तद्वाक्यम्- -

(४०) अधि(क)मासपरीक्षा।
'अदृष्टफलसिद्ध्यर्थ यथार्कायुक्तितः कुरु ।
गणितं यद्धि दृष्टार्थ तदृष्टयुद्भवतः सदा ॥
अदृष्टफलसिध्ध्यर्थं निर्बीजार्कोक्तमेव हि ।
प्रमाणं श्रुतिवद् ग्राह्यं कर्मानुष्ठानतत्परैः ॥' इति ।
अयमाशयः-
'स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
एतैरादित्यमण्डलं सर्वैरेव विधास्यते ॥'
इति श्रुतितोऽपि ज्ञायते । यत्तु दृष्टगणितमनुरुध्य बृहत्ति-
थिचिन्तामणौ श्रीमद्गणेशदैवज्ञैः-
'ब्रह्माचार्यवसिष्ठकश्यपमुखैर्यत्खेटकर्मोदितं
तत्तत्कालजमेव तथ्यमथ तरिक्षणेऽच्छ्रथम् ।
पापातोऽथ मयासुरः कृतयुगान्तेऽर्कात्स्फुटं तोषिता-
त्तच्चास्ति स्म कलौ तु सान्तरमथासूचारु पाराशरम् ॥
तज्ज्ञात्वार्यभटः खिलं बहुतिथे कालेऽकरोत्प्रस्फुट
तत्सतं किल दुर्गसिंहमिहिरायैस्तन्निबद्धं स्फुटम् ।
तच्चाभूच्छिथिलं तु जिष्णुतनयेनाकारि वेधात्स्फुटं
ब्रह्मोत्याश्रितमेतदप्यथ बहौ कालेअवत्सान्तरम् ॥
श्रीकेशवः स्फुटतरं कृतवान् हि सौरा-
र्यासन्नमेतदपि षष्टिमिते गतेऽब्दे ।
दृष्ट्वा श्लथं किमपि तत्तनयो गणेशः
स्पष्टं यथास्वकतहग्गणितैक्यमत्र ॥'

आंध(क)मासपरीक्षा। (४१) इति निरूपित-तन्नातिश्रद्धेयम् । यतो बहुकालानन्तरं मिहिराचार्यः पौलिशरोमकवासिष्ठसौरपैतामहसिद्धान्तानां म- तमुपादाय पञ्चसिद्धान्तिकाख्यां कृतिं कृतवान् । तत्र सर्वम- तापेक्षया सौरस्यैव स्पष्टतरत्वं दृष्टवान् । एतैः पुनः पष्टि- वर्षान्तर एव स्वपितृरचितस्य करणस्य स्फुटतरत्वं स्वीकृत्य श्लथत्वमवाधारि । केशवकरणस्य गणेशकरणस्य च प्रादुर्भा- वशकौ १४१८१४४२ अनयोरन्तरे २४ समाः। तदेत- सर्व मिथो विरुद्धम् । सम्प्रति युरोपियनगणितपरिपाट्यापि तावति काले तादृशं ग्रहगोलसंख्यावैलक्ष्यण्यं न प्रतीयते । अतः किं कुर्मः । कः पुनरुपालन्यः । न च दृष्टगणितेनैव सकलो व्यवहारो जायतामिति सिद्धान्तो व्यवस्थापितुं पार्यते । कथञ्चिन्नूतनतिथ्यादिस्वीकारे ऽपि वासरारम्भादावदृष्टगणितमन्तरा निर्वाहायोगात् । नूतनत्वं चोपरिष्टाद् वक्ष्यामः । लङ्कार्धरात्रानुरोधेन वासरारम्भमूरी- हत्य पश्चिमरात्रात्स्नानादिकर्मानुष्ठानमारम्भन्ते शिष्टाः। दृष्टग णिताङ्गीकारे तु- रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः। इति धर्मशास्त्रं व्याकुप्येत । ग्रहणादिप्रयुक्तं तु भवत्येक 'नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिषु ।' इति वाक्यशेषात् । उक्तार्थानुसंधानेनैव संहितावर्णिता देवानामहोरात्रव्यवस्था संगच्छते । तत एव राहुसत्ताध्याये- -

(५२)
अधि(क)मासपरीक्षा।
'अथाप्यसौ केवलवासनायां नायाति सिदिं तदापि प्रियं नः ।
अवासनं किं न सुरथुरात्रमर्कायनात्यां भवतैव भेजे ॥
सिद्धान्तपक्षस्तु परं दिनार्धान्निशा निशार्धात्परतो दिनश्रीः।
एवं पुराणे गणिते च साम्यमर्कायनात्यां सदसत्फलेषु ॥
कर्क गते हि सुरापगहः फलं पुरारात्रिवदाहुरस्य ।
नकं गते चापररात्रमेषामतत्परं वासरवत्स्मरन्ति ॥'
" इत्यायुक्तमास्ते । नक्षत्रसाधने तु विशेषाकारेणादृष्टगणितं
स्मयते । तथा च भगवान् वसिष्ठः-
'शशिमध्यगतिओंगो नक्षत्रस्य च संज्ञिका ।
षड्भान्यर्धा गानि अर्धभोगानि भानि षट् ।।
उपरिष्टाद् वैश्वशेषमधस्ताच्छ्रवणस्य च ।
एष भोगोनिजित्प्रोक्त एवं सूक्ष्मं समुच्यते॥'
अत एव सिद्धास्तशिरोमणी-
'स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः।
सूक्ष्म प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलपसिद्ध्यै ।।
अध्यर्धभोगानि षडत्र तज्ज्ञाः प्रोचुर्विशाखादितिभध्रुवाणि।
षडभोगानि च भोगिरुद्रवातान्तकेन्द्राधिपवारुणानि ॥
शेषाण्यतः पञ्चदशैकञोगान्युक्तो मनोगःशशिमध्यनुक्तिः॥
सर्वक्षेभोगोनितचक्रलिप्ता वैश्वायतः स्यादभिजिझोगः ॥'
इत्यादिकं प्रतिपाय वासनाभाष्ये 'इह यन्नक्षत्रानयनं कर्त
तत्स्थूलं लोकव्यवहारार्थमात्रं कृतम् । अथ पुलिशवसिष्ठगर्गा
।
.

. अधि(क)मासपरीक्षा। (५३) दिभिर्यद्विवाहयात्रादौ सम्यक् फलसिद्ध्यर्थ कथितं तस्सूक्ष्म- मिदानी प्रवक्ष्ये, इत्यादि व्याख्यातम् । एवं संध्या त्रिनाडी-' इत्यादावप्यदृष्टगणितम् । निरक्षे सममण्डलाश्रिते रविमण्डले यदा क्षितिजादधोष्टादशभागान्तरे तदवस्थानं तदा किल त्रिनाडीमिता संध्या। अवस्थानं च बिम्बकेन्द्राभिप्रायेणैव विवक्षितम् । मिथुनान्ते धनुरन्ते वा संचरति गोलयुक्त्या त्रिनाडीतोऽधिका। तथा च पूर्वत्र परमा ल्पः परत्र परमाधिकः संध्याकालः। साक्षे त्वन्यथैवेति व्यक्तं सिद्धान्तरहस्यविदाम् । इत्थं च तत्रतत्रोपपत्त्या भिन्नार्थलानेऽपि तादृशार्थग्रहणे ऽस्माकमागम एको नियामकः । युरोपदेशे यत्तारकापत्रं विशेषतो नाविकार्थ प्रतिसंवत्सरं प्रकाश्यते तत्र माध्याह्निकं दैनन्दिनं ग्रह जांशादि लभ्यते स्वका र्यानुपयुक्तत्वादिह तिथ्यादि न लिख्यते। परंतु तत्पत्रात्तदुपजी व्यनिबन्धाद्वावगताभ्यां रवीन्दुभ्यामस्मद्देशीयरीत्या तिथिनक्ष त्रादि साधयितुं शक्यते । एतत्तिथ्यादिकमस्मदार्षग्रन्थानुरोधे नानीतात्तिथ्यादिकाद् भिन्नमायाति । यत आकर्षणविद्याबलेनै तैनूतना अपि संस्कारा दीयन्त इति भेदपतनं युक्तमेव । परमे तन्नूतनं तिथ्यादि व्रतोपवासादन्यत्रोपयुक्तमिति युक्तं प्रतीमः । सांप्रतमेव तिथ्यादौ भेद इति चेद् ॥धान्तिमात्रम्॥ यदन्तरपतन Nautical Almanac i

(४४) आधि(क)मासपरीक्षा।
कारणमिदानी समुपस्थितं तत्पुराप्युपपत्त्या सिध्यति । अस्म
न्मते महर्षिभिरेतदन्तरं बुद्धापि नाहतम् । यतस्ते सर्वज्ञाः।
परेषां मते तु तैन बुद्धम् । परं चैतत्क आस्तिकः श्रद्दधीत ।
तिथ्यादीनां तदनष्ठेयकर्मणां चादेष्टारो महर्षय एव । तेषां च
हानोपादाने युगपत्संभवतः । स्वेच्छया त्वर्धजरतीयाश्रयणं
स्पष्टमिति सिद्धान्तितोऽर्थः ।
अवति चात्र श्लोकः-
ये धर्मकर्मरसिका ऋषिवाक्यनिष्ठा-
स्तेषां कृते मम निवेदनमेतदास्ते ।
येषां विचारपरिणामदशा महर्षि-
शास्त्रावसादनफला हि नमोऽस्तु तेश्यः॥'
एवं च तिथेरनुपादेयतायां तदवसानावधीकरणेन क्रियमाणं
श्रावणाधिकत्वमपि कौतुकमात्रमिति वदन्ति ।
केचन पुनः-
'शाके बाणकराकैविरहिते नन्देन्दुभि जिते
शेषे च त्रिमधौ च माधवशिव ज्येष्ठेऽम्बरे चाष्टके ।
आषाढे नृपतौ नास्यथ शरे आद्रे च विश्वांशके
नेत्रे चाश्विनके धिमास उदितः शेषेऽन्यके स्यान्न हि॥'
इति पद्येन श्रावणस्याधिकत्वं निश्चिन्वन्ति-तत्र केवलमेत
त्पृच्छयते-किं युष्माभिः पञ्चचत्वारिंशदधिकैकोनविंशतिशत
तमे वैक्रमाब्दे १९४५ वैशाख एवाधिकत्वेन व्यवहृतः ।

- अधि(क)मासपरीक्षा। (४५) यस्माद् युष्मदीयेनानेनानयनेन स एवाधिकोऽभूत् । अस्मानि स्तु चैत्रस्याधिकता साधिता व्यवहृता चेति व्यक्तम् । अन्येऽपि किमपि श्लथप्रमाणकं मानमासाद्य यथेच्छं जल्प न्ति तदखिलं विचारासहत्वान्न परीक्षितम् । यतः प्रसिद्धोयमामाणक:- 'मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी।' इति शिवम् ॥ भवन्ति चात्र निष्कृष्टार्थश्लोकाः- आषाढः श्रावणो वाधिक इह भवतान्नाग्रहस्तत्र किं प्रायः प्रौढप्रमाणाहतमुनिवचनेष्वाग्रही सर्व एव । इत्यास्तिक्यानुबन्धी विहिततिथिपटेष्वन्तरं बुध्यमानः को न स्याद् धर्मकत्येष्वहह मतभिदानासने संदिहानः॥१॥ प्रत्ननैः प्रमेयैः प्रकृतविषयके सूर्यसिद्धान्तपक्षो ज्यायान् वर्वर्त्यतस्तन्निगदितविधयाऽषाढ एवाधिमासः। बाया वा भिन्नरीत्या मलिन इह नक्षा जायतां प्रौढमानं नास्ते यस्माद् वराहप्रभृतिभिरुदिता भ्रष्टता ब्रह्मपक्षे॥२॥ दृष्टादृष्टफलानुबन्धिगणितं देधा खलु स्मर्यते तत्र व्योमचरोदयास्तदिवसारम्भादिकश्चेक्ष्यताम् । एवम्भूतनियामकेऽपि बहुधा वैमत्यमुत्पाद्य या धर्मापप्लवकारिका मलकथा विख्याप्यते सा वृथा ॥३॥ यदर्शान्तविलपनेऽपि सवितुः संक्रान्तिसत्त्वे पुनः प्राज्ञोपेक्षितमण्डलान्तविधया मासो व्यवस्थाप्यते ।

(४६) अधि(क)मासपरीक्षा। तत्र प्रौढविचक्षणोदितविसंवादोपलब्धावपि स्फूर्जन्ती निबिडा दुराग्रहकथा केनाधुना वार्यताम्॥४॥ ब्रह्माद्यैरिनमण्डलान्त उदितो मासेति मार्तण्डक- व्याखाने किल योगतो रसघटीकाले वियोगो भवेत् । इत्यायागमकैतवेन बहु यन्नारायणेनोदितं तद्विज्ञा ध्रुवमिन्द्रजालसदृशं सयो जगद्दश्चनम् ॥ ५॥ मासश्चेदिनमण्डलान्तविधिना ग्रन्थान्तरे वर्तते तास्तां ननु नागनन्द जगक्षोणीप्रमे(१८९८) वैक्रम। वर्ष शास्त्रविचारशालिशरणे काशीप्रयागादिके तन्मानापतितोऽपि किं तिथिपटे नामानि पौषक्षयः॥६॥ हा हन्त लल्लमुखनिर्मितिविद्यमान- केन्द्राशयाकलनमन्थरशेमुषीकैः। सिद्धान्तमुन्दरकदादिभिरत्र लोके विख्यापितः खलु मृषैव स मण्डलान्तः ॥ ७ ॥ न ह्येकदेशिमतमत्र विवेकनीत्या सिद्धान्तकोटिकलनामधिरोदुमीष्टे । तस्माद्दारमतयो रविमण्डलान्त- मासं विहाय मुनिवृन्दमतं श्रयन्तु ॥ ८ ॥ अये ब्रह्मपक्षोऽन्यथात्वं प्रयातो न मान्योऽस्त्यनार्षागमो धर्मकत्ये। यदि श्लाध्यसौरागमस्याप्युपेक्षा अधि(क)मासपरीक्षा। (४७) ददास्तां स्वतन्त्रः किमत्रार्षवाक्यैः ॥ ९ ॥ सान्द्रेषु नानाविधवाक्यजालपङ्केषु देवर्षिर्गवीं पतन्तीम्। उद्ध मेषा विहिता द्विवेद(दि)दुर्गाप्रसादेन विदांवरेण॥१०॥ मरकतगिरेरुद्यद्भानुप्रनाजनितश्रियः श्रियमधरयान्विभ्रजाम्बूनदप्रामम्बरम् । नवधनरुची रासं तन्वन्कलिन्दसुतातटे जवतु भवतां राधाप्रेयाशिवाय निरन्तरम् ॥ ११ ॥ इति श्रीद्विवेदिदुर्गाप्रसादज्योतिश्शास्त्रविदरविरचिताधि (क) मासपरीक्षा समाप्ता ॥

Adhikamasa Priksha

Author
Madava Sastri
Title
Adhikamasa Priksha
File name
Adhikamasa Priksha
Text
OCR done
Published
2005/03/10
Publisher
Sri Venkatesha Press Bombay
Language
Sanskrit
Pages
54
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495748
Barcode
1990030070490.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
eb09a4UCwHL
Download PDF

Adhikamasa Priksha