Library

Shrii Lat'akamelakama Trxtiiyo Bhaaga

Shriishang-khadhara · 2005-12-02

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184512
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

काव्यमाला २०.
श्रीशङ्खधरविरचितं
लटकमेलकम् ।
मूल्यं ५ आणकाः।
T

No text on this page.

KÁVYAMÂLÂ. 20.
THE
LATAKAMELAKA
OF
SANKHADHARA.
EDITED BY
MAHẢMAHOPADHYAYA PANDIT DURGAPRASAD
AND
WÂSUDEV LAXMAN S'ÂSTRÎ PANSÎKAR.
Third Edition.
PUBLISHED
DY
PÂNDURANG JAWAJÎ,
PROPRIETOR OF THE "NIRNAYA-SÂGAR' PRESS,
Bombay.
1923.
Price 5 Annas.

Her sistered according to Act XIV of 1867.
( All rights reserved by the Publisher. )
PUBLISHER :-Pandurang Jawaji,
PRINTER :-Ramchandra Yesu Shedge,
• Nirnaya-Sagar. Pross,
23, Kolbhat Lane, Bombay,

काव्यमाला.२०. श्रीशङ्खधरविरचितंल लटकमेलकम् । जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाह्व- लक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितम् । (तृतीयावृत्तिः) तच्च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितम् । शाकः १८४५, ख्रिस्ताब्दः १९२३. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं ५ आणकाः।

No text on this page.

काव्यमाला। महाकविश्रीशङ्खधरविरचितं लटकमेलकम् । : प्रथमोऽङ्कः । गौरीचुम्बनचञ्चलाञ्चलवलच्चन्द्रप्रभामण्डलं व्यावल्गत्फणिकुण्डलं रतिरसप्रखिन्नगण्डस्थलम् । प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्चलं शंभोरस्तु विभूतये त्रिजगतामुन्मत्तगङ्गं शिरः ॥ १ ॥ अपि च । रक्षाक्षावलिमाः परित्यज जटाः कोऽयं मदप्रक्रमः कौपीनं त्यज मुञ्च मुञ्च नखरव्यापारमास्थानिकम् । १. अयं लटकमेलकप्रणेता शङ्खधरकविः कान्यकुब्जदेशे ख्रिस्ताब्दद्वादशशतके स. मुत्पन्न इति प्रतीयते, यतोऽनेन प्रस्तावनायां महामाण्डलिकाधिराजो गोविन्दचन्द्रमही- पतिर्वर्ण्यते स्म. स च द्वादशशतके कनौजनगरे राज्यं कुर्वनासीदिति इण्डियन आण्टि- क्वेर्यादिमुद्रिततत्तद्दानपत्रेभ्योऽवसीयते. अथ चात्र ग्रन्थे गृहीतानि कतिपयग्रामनामानि कान्यकुब्जदेशीय ग्रामनामसरणिमनुसरन्ति. 'कतिपयनिमेष-', 'एष वर्गतरङ्गिणी-', इति पद्यद्वयं शार्ङ्गधरपद्धतौ, 'गुरोगिरः पञ्च-' इति पद्यं साहित्यदर्पणे च लटकमेलका- दुद्धृतमस्ति. अथ च साहित्यदर्पण-षष्टपरिच्छेदे संकीर्णप्रहसननिरूपणप्रकरणे 'यथा ल. टकमेलकादि' इत्युक्तमस्ति. अतोऽपि चतुर्दशशतकात्प्राचीनोऽयं कविरिति ज्ञायत एव. एतन्मुद्रणावसरे चास्माभिः पुस्तकत्रयमासादितम्. तत्र क-केवलदासात्मजेन भगवा- नदासश्रेष्ठिना सूरतनगरात्प्रहितं प्रथमपत्ररहितं प्रायः शुद्धं प्राकृतच्छायासमेतं १६०८ मिते विक्रमाब्दे लिखितमस्ति. तत्पत्राणि २१. ख-जयपुरीयराजगुरुपर्वणीकरनारा- यणभट्टसंग्रहादुपलब्धं नातिशुद्धं नवीनतरं च. तत्पत्राणि २१. ग-अस्मदीयमेव. तदपि नवीनम्, किं तु १६५३ मिते विक्रमाब्दे लिखितस्य प्रायःशुद्धस्य कस्यचित्पुस्तकस्य प्र. तिरूपकम्. तत्पत्राणि ८, २. 'लटको दुर्जनः' इत्युणादिसूत्रवृत्तावुज्ज्वलदत्तः. लट- कानां मेलकः संघटनं यत्र तल्लटकमेलकम्.

ry काव्यमाला। इत्सुन्द्रान्त इवोल्लपन्नवतु वो मन्द निकुञ्जोदरे रुद्राणीसुरतप्रबन्धविकलः खण्डेन्दुचूडामणिः ॥ २ ॥ अपि च । प्रातः सहस्रकिरणप्रणिपातभीरुः कक्षातटप्रणयिनी मदनप्रशस्तिम् । आस्तां जगत्रयमुदे तिरयन्भुजाभ्यां गौरीनखक्षतिपदावलिमिन्दुमौलिः ॥ ३ ॥ (नान्द्यन्ते) सूत्रधारः-अलमतिविस्तरेण । यतः । गोविन्ददेवः प्रथितः पृथिव्यां श्रीमान्महामाण्डलिकाधिराजः । कविप्रियो नाटकदर्शनार्थमादेशयन्मां रणरङ्गमल्लः ॥ ४ ॥ यदद्य वसन्तसमयसमुचितेन कविराजश्रीशङ्खधरविरचितेन लटकमे- लकनाम्ना प्रहसनेनास्मान्विनोदयेति । अस्य च सकलजिचक्रवाल कुल- कमलवनविकासभास्करस्य प्रत्यर्थिपार्थिवमहार्णवमथनाकुलितदिकुञ्जरक- दम्बस्यार्थिजनतापतस्करस्याज्ञा कस्य न करणीया । तथा हि । निस्त्रिंशक्षतकुम्भिकुम्भविगलन्मुक्ताकलापाकुराः : पतदमृक्पङ्कप्रलिप्तोदराः । मज्जद्भूधरकोटिमन्थनकलादत्तारिवीरश्रियो येनैता विहिताः पयोधिविषमा भीमा रणक्षोणयः ॥ ५॥ अपि च । येन गभीरे समरे रिपुगणमुन्मथ्य मार्गणैरगणैः । मार्गणनिवह विलब्धाश्चित्तचमत्कारकारिणः करिणः ॥ ६ ॥ (नेपथ्ये ।) अये, कोऽयमनेकपण्डितमण्डितायां सभायां कविराजतां नाटयितुमुद्यतः। कङ्कालामलकर्पराः ~ १. 'सहस्रनयन' ग. २. 'कक्षान्तर' ग. टकनर्तनार्थ क-ग. ५. 'रतिरङ्गमलः' ख. फ. ८. 'महार्णवमन्दरस्यार्थि-'क. ३. 'यतः' ग-पुस्तके नास्ति. ४.'ना- ६. 'राजकुल' ग. ७. 'कमलकलिका' १ अङ्कः] लटकमेलकम् । ३ सूत्रधार:-अलमतिप्रलपितेन । यतः । चित्रं चरित्रं स्खलितव्रतानां शीलाकरः शङ्खधरस्तनोति । विद्वज्जनानां विनयानुवर्ती धात्रीपवित्रीकरणः कवीन्द्रः ॥ ७ ॥ किं च । गोविन्दराजपुरस्कृतायाः सरस्वत्याः कुतो दुर्जनतर्जनावकाशः । उक्तं च तेनैव कविना- वक्रा विश्वविरोधिनः कतिपये द्वित्राः पवित्राशयाः क्रूरोक्तिप्रकरोद्भुरास्त्रिचतुरा दोषोन्मुखाः पञ्चषाः । दृष्टः क्वापि लसद्द्विजिह्वदमनव्यापारलीलोनिधे- गोविन्दादपरः परः परगुणग्राही न कश्चित्पुनः ॥ ८ ॥ 3 अन्यच्च । कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ ९ ॥ (नेपथ्ये ।) मुखकमलं परिचुम्बन्नेलिभरदरदलितपद्मिनीनिवहः । अयनुपसर्पति मन्दश्चन्दनवनपावनः पवनः ॥ १० ॥ सूत्रधारः-(आकाशे कर्ण दत्त्वा ।) द्विमुखानां पटुडिण्डिमगोमुखझिल्लीमृदङ्गपटहानाम् । अयमपरः श्रुतिहारी विहरति गगनाङ्गणे निनदः ॥ ११ ॥ (धुरोऽवलोक्य ।) अये, दन्तुरायाः कुट्टन्याः पुरतो भुजंगसंगीतकं वर्तते । त- दुपसर्पामि । (इति निष्कान्तः ।) प्रस्तावना । १. 'गोविन्ददेव' क; 'गोविन्ददेवेश्वर' ख. २. 'लीलानिधिः' ग. ३. अस्मादन- न्तरं क-पुस्तके "देवदेवप्रतिमः केन न वन्द्यते दुर्जनः । 'शुली गुणग्रहविधौ स्वजनेषु चक्री विश्वापकाररचने चतुराननोऽसौ । दोषं निरीक्षयितुमेष सहस्रनेत्रः किं वर्ण्यते- ऽमरवरप्रतिमो द्विजिह्वः ॥" इत्यधिकमस्ति. ४. 'अपि च' का 'किं च' ग. ५. 'रति- रसपरिमलित' क; 'अतिभरदलमलित' ग. ६. 'गोमुखलाञ्छव' ख. ७. 'श्रुत्वा पुरो- ऽवलोक्य च' ख.

४ काव्यमाला। (ततः प्रविशति देन्तशूलप्रामीणा दन्तुरा नाम कुटनी। ) दन्तुरा-(परिक्रम्यावलोक्य च ।) एसो सो मत्तकलकण्ठकलअलाकु- लिअदसदिम्मुहो वसन्तसमअसमारम्भो वट्टदि । ता किं ण गिण्हदि बन्ध- ईकदं भूइभाअणं दरिहडागामीणो तवसिओ अण्णाणराशिः । अण्णं अ हग्गउलिगामीणेण जडासुरदिअम्बरेण ण इच्छिआ पिच्छिआ । सुण्डिवा- लगामीणेण सहासलिणा महोपज्झाएण वि बन्धअं कदुअ रअणकरण्डिआ छण्डिआ । ही ही ही । ढुण्ढौलीगामीणस्स फुकटमिस्सस्स णिरक्खरं सच्छपोत्थिअं पवाहे पडिदम् । हडिवाडिगामीणस्स णिरक्खरसुअस्स जन्तुकेउणो महावेज्जस्स ओसहकरण्डिणा मूसएहिं खण्डिदा । टिक्कडउ. वाडगाममुहमण्डणेण कुलवाहिणा बटुएण बन्धनं कदुअ ण पत्थिआ धुत्तिआ। णिस्सतानग्गामसरोवरराअहंसेण संगामविसरेण राउत्तराएण बन्ध कदुअ सुणअस्स पाणिअं दिण्णम् । ही ही ही । बगउलीगामी- णस्स झगडगसारस्स ठक्कसाहुणो लेहसंपुडिआ पवाहपडिआ । चमरसे- णविहारवासिणा तेण बन्दिएण वसणाअरेण णिहारिअं पडसाडिअम् । ता एहिं दुविदद्देहिं भण्डिदम्मि । भणिदं च केणावि- 'दुट्ठभुअंगो जो णिअघरलज्जइ दुट्ठसिणेहो जो दाणविवजइ । स कुरूओ जो हि अए ण रुचइ पत्थरकठिणो जो निट्ठरं वच्चइ ॥१२॥'(क) (क) एष स मत्तकलकण्ठकलकलाकुलितदशदिङ्मुखो वसन्तसमयसमा- रम्भो वर्तते । तत्किं न गृह्णाति बन्धकीकृतं भूतिभाजनं दरिहडाग्रामीणस्त. पस्वी अज्ञानराशिः । अन्यच्च हगउलीग्रामीणेन जटासुरदिगम्बरेण नेच्छिता पिच्छिका । सुण्डिवालग्रामीणेन सभासलिना महोपाध्यायेनापि बन्धकं कृत्वा रत्नकरण्डिका त्यक्ता । ही ही ही । ढुण्ढौलीग्रामीणस्य फुङ्कटमिश्रस्य निर- क्षरं शास्त्रपुस्तकं प्रवाहे पतितम् । हडिवाडिग्रामीणस्य निरक्षरसुतस्य जन्तु- केतोर्महावैद्यस्यौषधकरण्डिका मूषकैः खण्डिता । टिक्कडउवालग्राममुखम- ण्डनेन कुलव्याधिना बटुकेन बन्धनं कृत्वा न प्रार्थिता धोतिका । निःसं- तानग्रामसरोवरराजहंसेन संग्रामविसरेण राउत्तराजेन बन्धकं कृत्वा शुनकस्य । १. 'दन्तशून्य' ग. २. 'परिवृत्य' क.

१ अङ्कः ] लटकमेलकम् । ५ (नेपथ्ये।) वामागमाचारविदां वरिष्ठः परापकारव्यसनैकनिष्ठः । अयं स वेदार्थपथप्रतीपः सभासलिः कौलकुलप्रदीपः ।। १३ ।। (पुनर्नेपथ्ये सहासम्) बटुः-अये, आश्चर्यमाश्चर्यम् । इदानीं कुट्टनीभवनमलंक्रियते महा- महोपाध्यायेन दाम्भिकचक्रवर्तिना महाहवपालिना निन्दितवनमालिना तिमिराकुलनयनेनापि परदोषदर्शिना सभासलिना । (ततः प्रविशति कुलव्याधिबटुकेनानुगम्यमानः सभासलिः ।) सभासलिः-भो भोः कुलव्याधे, क सा दन्तुरा कुट्टनी । कुलव्याधिः-एसा सा वसीकरणमन्तं जवन्ती भुजंगमग्गं मग्गअ- न्ती वट्टदि । (क) सभासलिः-(तामवलोक्य स्वगतम् ।) अन्तर्निममं नयनद्वयेन क्वचित्प्रयातं नवयौवनेन । भनौ कपोलौ पतितं कुचाभ्यां मन्ये भयान्मन्मथसायकानाम् ॥ १४ ।। किंच। भुजंगदंशयंसनाकुलाया दन्ता बहिर्गा इव दन्तुरायाः । बन्धानुसंधानपरा यदीया पाशोपमा वल्गति कर्णपाली ॥ १५॥ पानीयं दत्तम् । ही ही ही । बडउलीग्रामीणस्य झगडगसारस्य ठकश्रेष्ठिनो ले. खसंपुटिका प्रवाहपतिता । चमरसेनविहारवासिना तेन बन्दिना व्यसनाकरण निर्दारितं पट्टशाटकम् । तदेतैर्दुर्विदग्धैर्भण्डितास्मि । भणितं च केनापि- 'दुष्टभुजंगो यो निजगृहे लजितो दुष्टस्नेहो यो दानविवर्जितः । स कुरूपो यो हृदये न रोचते प्रस्तरकठिनो यो निष्ठुरं वदति ॥' (क) एषा सा वशीकरणमन्त्रं जपन्ती भुजंगमार्ग मार्गयमाणा वर्तते । १. 'बटुः सहासम्' ग. २. 'बटुः' ख-पुस्तके नास्ति. ३. 'अये' क-पुस्तके नास्ति. ४. 'अलंकृतं दाम्भिक' ग. ५. 'अनेन महाविटमेलिना' ग. ६. 'व्यसना- तुराया' ख-ग. ७. 'बहिःस्था' ग. ८. अस्माच्छोकांदनन्तरं ग-पुस्तके 'अपि च । गल्लौ दरद्रल्लकसंनिकाशौ हारिद्ररब्धा(?) सदृशौ पयोधरौ । विशीर्णचुल्लीसदृशं भगोदरं तथापि रण्डास्ति रतामिलाषिणी ॥' इत्यधिकमस्ति.

w काव्यमाला। (प्रकाशमुपसृत्य करें स्पृष्टा सहासं वामपाणिना ।) अहमभिवादये । दन्तुरा—मअणमञ्जरी दे पसीदतु। एदं भद्दासणम् । उपविसदु उव- ज्झाओ। (क) सभासलिः-(उपविश्य ।) अये, दूरत एवास्माभिराकर्णिता वसन्तगी- तिः । तत्क सा मदनमञ्जरी। कुलव्याधिः-उवज्झाअ, जइ तुह चरिअं कलहप्पिा जाणिस्सदि, ता तुम्हेहिं किं कादव्वम् । (ख) दन्तुरा—(सहासम् ।) एदाणं कलहप्पिआ णाम पणइणी । (ग) कुलव्याधिः--(सोल्लाँसम् ।) अह किम् । (घ) दन्तुरा-मअणमञ्जरि, इदो इदो । (ङ) मदनमञ्जरी-(उपसृत्य ।) अम्ब, को एसो। (च) दन्तुरा-सो एसो सहासलि णाम उवज्झाओ जस्स कलहप्पिा णाम घरिणी । (छ) सभासलि:-(मदनमञ्जरीमवलोक्य ।) अये, रोषोऽपि लीलावतीनां चि- तमुन्मादयति । तथा हि। (क) मदनमञ्जरी ते प्रसीदतु । एतद्भद्रासनम् । उपविशतूपाध्यायः । (ख) उपाध्याय, यदि तव चरितं कलहप्रिया ज्ञास्यति, तदा युष्माभिः किं कर्तव्यम् । (ग) एतेषां कलहप्रिया नाम प्रणयिनी । (घ) अथ किम् । (ङ) मदनमञ्जरी, इत इतः । (च) अम्ब, क एषः । (छ) स एष सभासलिर्नामोपाध्यायो यस्य कलहप्रिया नाम गृहिणी । १. 'सहासं' ग-पुस्तके नास्ति. २. 'वामपाणिना' क-ख-पुस्तकयो स्ति. ३. 'सो. लासम्' क-ग-पुस्तकयो स्ति. ४. 'पदणी (पत्नी)' ख. ५. अस्मात्प्राक् ख-पुस्तके "कुलव्याधिः-उवज्झाअ, पेक्ख, पेक्ख । 'जहणत्थणवीदपआसमओ तणुमण्डखडव्य पलाइगओ। णवपीणपओहरमण्डलिआ जणु बम्भणसंचलपुत्तलिआ ॥” इत्यधिकमस्ति.

१ अङ्कः] लटकमेलकम् । आनन्दकारि मदनज्वरदर्पहारि पीयूषपङ्कपरिहासरसानुकारि । प्रेमप्रसारि परमाभ्युदयानुकारि वामझुवामहह किं न मनोविकारि ॥ १६ ॥ कुलव्याधिः-अये दन्तुरे, अज ज्जेव्व कलहप्पिआए समं एदाणं दसणादसणि णहाणहि करचरणणिबन्धमीसणो महाहवो संवुत्तो । तदो दवीखण्डेण, तदो अलादखण्डेण, तदो पीढिआए, तदो हण्डिआए एसो उवज्झाओ हणिअ णीसारिदो। (क) दन्तुरा-(सस्मितम् ।) उवज्झाअ, ता कीस ईदिसीणं तुम्हेहिं संगमो विहिदो । (ख) सभासलिः-नष्टाग्निश्रोत्रियसुता मच्छरहट्टा ग्रामीणा मासोपवा- सिनी । किं तु राक्षसीवातिप्रगल्भा वृद्धा च । अतएवाहं पतितकुचस्पर्श- भीतः प्रबलतरनिर्वेदादत्रायातः । दन्तुरा-जुत्तमिदं तुम्हाणं महापण्डिआणम् । (ग) (क) अये दन्तुरे, अद्यैव कलहप्रियया सममेतेषां दशनादशनि नखानखि करचरणनिर्बन्धभीषणो महाहवः संवृत्तः । ततो दीखण्डेण, ततोऽलातख- ण्डेन, ततः पीठिकया, ततो हण्डिकया, एष उपाध्यायो हत्वा निःसारितः । (ख) उपाध्याय, तत्किमीदृशीनां युष्माभिः संगमो विहितः । (ग) युक्तमिदं युष्माकं महापण्डितानाम् । १. 'अये दन्तुरे' इति क-ख-पुस्तकयो स्ति. २. 'पढम' ख. ३. 'नष्टा' सा श्रोत्रिय-' क-ग. ४. 'राक्षसीव तिष्ठति प्रगल्भा' ख. ५. 'धृष्टा क; 'वृद्धा चा- स्पृश्या । यतः । अपि स्पर्शेन या कुर्यादुपलं पुलकान्वितम् । यौवनं वार्धके सैव रा- क्षसीव भयंकरी ॥ किंच । प्रायश्चित्तं न हरतः कामिन्या पतितौ स्तनौ । अत एव तयोः स्पर्श लोकोऽयं विगतादरः ॥अपि च । पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयआरतीनां हारः परिहरति कुचयुगलम् ॥' ग.

८ काव्यमाला । मदनमञ्जरी-(सोद्वेगं संस्कृतमाश्रित्य ।) आयस्यति भवतोऽयं विनयपरस्तादृगनुरागः । वन्ध्यासुतर्हृदयगता मालेयं गगनकुसुमानाम् ॥ १७ ॥ सभासलि: -(मदनमजरीमवलोक्य ।) हठाक्रान्तं नीलोत्पलदलविशालालसदृशः स्त्रिधा मध्यं बद्धं वलि भिरबलं वीक्ष्य विधिना । प्रबन्धः कोऽप्यस्याः स्तनकलशयोश्चारुरचना नितम्बाग्भारादलसगमनः क्लेशमनः ॥ १८ ॥ अपि च । हर्षोत्फुल्लकपोलया स्तनभरव्यालोलया बालया हेमाम्भोरुहवक्रया दरदलन्नेत्रोत्पलप्रान्तया । दृष्टश्चेदनया कुपत्रविषमैः संधानबन्धाकुलैः किं न स्यान्मदनोऽपि पुडितशेरैावृत्त्य लक्ष्यीकृतः ॥ १९ ॥ (दन्तुरामवलोक्य ।) अये, कुतो जङ्घात्रणव्याकुलिता भवती । दन्तुरा-संगामविसरेण राउत्तराएण बन्धए सुणओ दिण्णो । तेण हं मक्खिदम्हि । (क) सभासलिः-कुलव्याधे, समाहूयतां जन्तुकेतुनामा महावैद्यः । कुलव्याधिः-(जन्तुकेतुमाहूय ।) इमाए गहिरणाहीवणाणं विसमो उवआरो। (ख) दन्तुरा-उवज्झाअ, किं मं विडम्बेदि एसो । (ग) सभासलि:-अयमविदितः किं भवत्या । (क) संग्रामविसरेण राउत्तराजेण बन्धके शुनको दत्तः । तेनाहं भक्षितास्मि । (ख) एतस्या गभीरनाभित्रणानां विषम उपचारः । (ग) उपाध्याय, किं मां विडम्बयत्येषः । १. 'विनयमय'ख. २. 'हृदयस्थितमालेव' ख.३.'चाङ्गरचने' क; 'अगचलने' ख. ४. 'प्रारभारः कटकटमनः' क-ग. ५. 'शमनः' ग. ६. 'भङ्गाकुलैः' ख-ग. ७. 'मो. डिअम्हि' ख-ग. ८. 'समानीयताम्' ख. ९. 'जन्तुकेतुमाहूमय' इति क-ख-पुस्तकयो- नास्ति. १०. 'अविदितोऽयं किं' क-ख.

१ अङ्कः] लटकमेलकम् । अविलम्बकूपझम्पः कटुरटिताकुलितदिङ्मुखो मुखरः । कुत्सितकरणग्रामः कुधियामवधिः कुलव्याधिः ॥ २० ॥ कुलव्याधिः-भो उवज्झाअ, एआरिसो को वि विजो वाहिबन्ध- ओ । (क) सभासलि:-नाकर्णितानि भवता जन्तुकेतोरनिवारितप्रसराण्युपचा- रवचनानि । तथा हि । उत्काशे कण्ठदाहः प्रचुरघृतपयःपानमामज्वरातें रक्ता कृष्टिः कृशानामुदरभयहरा कर्कटी सक्तुमिश्रा । पथ्या पथ्यातिसारे शि सरुजि पुनः क्षारचूर्णप्रयोग- स्तत्तन्मिथ्योपचारैस्तरुणयति यमाडम्बरं जन्तुकेतुः ॥ २१ ॥ जन्तुकेतुः-(विश्य ।) व्याधयो मदुपचारलालिता मत्प्रयुक्तममृतं विषं भवेत् । किं यमेन सरुजां किमौषधैर्जीवहर्तरि पुरःस्थिते मयि ॥ २२ ॥ देन्तुरा-महावेज, मअणमञ्जरीए गले मीणकण्टअं लग्गिअं वट्ट- दि । तत्थ किं करीअदु । (ख) जन्तुकेतुः-(संगर्वम् ।) दृष्टप्रत्ययस्तावदुपचारः । पूर्वमुष्ट्रस्य गले (क) भो उपाध्याय, एतादृशः कोऽपि वैद्यो व्याधिबन्धकः । (ख) महावैद्य, मदनमञ्जर्या गले मीनकण्टकं लग्नं वर्तते । तत्र किं क्रि- यते । १. 'करणः कृपणः' क. २. 'महावाहिबन्धणो' ख. ३. 'न श्रुतानि' ग. ४. 'दृशि रुजि हितकृत्' ख. ५. “हितः' ग. ६. 'तैस्तैः' ख. ७. ('प्रविश्य ख. गतम् ।) वैद्योऽहं वैद्यराजोऽहं सर्वव्याधिसमन्वितः । यं यं स्पृशामि हस्तेन क्षणाधं स न जीवति ॥ व्याधयो' ग. ८. अस्मादनन्तरं ख-पुस्तके 'श्रूयतामस्मद्गृहस्य निर्व्या. धयः । श्लीपदे च न मे पीडा गलगण्डो न बाधते । गृहिणी ग्रहणीयस्ता ज्वरितं बालकद्वयम् ॥' इत्यधिकमस्ति. ९. 'दन्तुरा-जन्तुकेतुमवलोक्य प्रणम्य' ग. १०. 'ता क; 'किं तत्थ करीअदु तत्थ ओसह भण' ख. ११. 'सगर्वम्' क-ख-पुस्तकयो. र्नास्ति. १२. 'दृष्टप्रत्ययस्तावदुपचारः' क-ग-पुस्तकयो स्ति. लट० २ १० काव्यमाला। कर्कटी लग्नासीत् । तत्रास्मत्पित्रा कुटुम्बकेतुना निरक्षरेणोष्ट्रस्य मुखं ब- न्धयित्वा दृढतररज्जुभिराकृष्टम् । ततस्तन्मुखाद्विगलिता कर्कटी । तदे- तस्या अपि भुखं बन्धयित्वा किमिति नाकृष्यते । (ततस्तस्या हसन्त्या मुखाद्विगलितं मीनकण्टकम् ।) (ततः सगर्वम्) जन्तुकेतुः-अवधार्यतामस्मदुपचारचातुर्यम् । सभासलिः-जन्तुकेतो, महाप्रयत्नेन क्रियतामस्या उपचारः । जन्तुकेतुः-अस्मार्दनुष्ठिताया अस्या गुह्यागारेऽपि भविष्यति वि- शेषः । सभासलि:-निवेद्यतां तदुपचारः । जन्तुकेतुः-श्रूयतां चरकमतम् । यस्य कस्य तरोर्मूलं येन केनापि पेषयेत् । यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥ २३ ॥ सभासलिः-अद्येह हट्टे रोदनकलकलः संवृत्तः । तत्तत्र किं भव- दुपचारः संजातः। जन्तुकेतुः-नहि नहि । भवद्भिरेव यदि तत्र खस्त्ययनं कृतं स्यात् । सभासलि:-नहि नहि । कुलव्याधिः-अज, जइ तुम्हे दुवे दि तत्थ ण गदा, ता किं व. ज्जेण मारिदो वणिअतणओ । (क) (क) आर्य, यदि युवां द्वावपि तत्र न गतौ, तत्किं वज्रेण मारितो व- णिक्तनयः । १. 'सकुटुम्बकेन निरक्षरेण' क; "निरक्षरेण सकुटुम्बकेन' ख. २. 'मुष्कं' क-ख. ३. 'मुश्क' क-ख. ४. 'सगर्वमिव' ख-ग. ५. आसां क. ६. 'अनुष्ठितानामासां क. ७. 'अद्य हमध्ये' ख. ८. 'तत्किं भवतामुपचारस्तत्र संजातः' ख; 'तत्र किं भवतोपचारः कृतः' ग.

3 १ अकः] लटकमेलकम् । ११ जन्तुकेतुः-अहो दुर्दैवमस्माकम् । निर्व्याधयः सकलनगरपाणिनः। (दीर्घ निःश्वस्य ।) अहो धिग्व्यवहारं बर्बरपुरस्य, यद्वैद्य एव मृतकखटा- मुद्वहति । अत एवास्माभिरुद्वहनभारभयाद्गजवैद्यकमपहाय बालतन्त्रम- भ्यस्तम् । बालस्य हि मृतस्य सुकरमुद्वहनम् । किं च । श्मश्रुसंचयविध्वंसि जलज्ज्वलनभाजनम् । नोपसर्पति चेदेने मृतं मुञ्चति किं भिषक् ॥ २४ ॥ सभासलिः-अहमप्यभिमतनियमः स्वस्त्ययनार्थ व्रजामि । जन्तुकेतुः-कीदृशस्ते नियमः । सभासलिः-यत्करटकश्राद्धेऽन्यस्य प्रवेशो न दीयते । अयमेवा- भिमतो नियमः सर्वत्र । दन्तुरा-महावेज, तिमिराउला मे णअणा ण पेक्खन्ति । ता ओ- सहं भण । (क) जन्तुकेतुः चक्षुरोगे समुत्पन्ने तप्तफालं गुदे न्यसेत् । तदा नेत्रोद्भवां पीडां मनसापि न संस्मरेत् ॥ २५॥ अपि च । अर्कक्षीरं वटक्षीरं स्नुहीक्षीरं तथैव च । अञ्जनं तिलमात्रेण पर्वतोऽपि न दृश्यते ॥ २६ ॥ (दन्तुरां प्रति ।) कियडूरं पश्यसि । (क) महावैद्य, तिमिराकुले मे नयने न पश्यतः । तदोप, भण । १. अस्मादनन्तरम् 'चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गत्तो न मे भ्राता कस्येदं हस्तलाघवम् ॥' इत्यधिकमस्ति. २. 'चेदग्नेम॒तं मुञ्चति को' क. ३. अस्मादनन्तरम् 'वैद्यः कुरो यमः क्रूरो वैद्यः क्रूरो यमादपि । यमो हरत्य सूनेव वै- यस्तु सवसूनसून् ॥' इत्यधिकमस्ति. ४. 'संधिना' ख-ग. ५. 'अभिमतसंधिः' ख. ६. 'कटश्राद्धे' ख. ७. 'संधिः' क. ८. 'चक्षुरोगे' इत्यारभ्य ‘दन्तुरां प्रति' इत्यन्तं क-ग-पुस्तकयो स्ति.

१२ काव्यमाला। दन्तुरा-वडरुक्खं जाव । (क) जन्तुकेतुः-अत्र वटवृक्षोऽप्यस्ति किम् । कुलव्याधिः-वेजो जेव तिमिराउलो । ता बुडि उवआरेण । (ख) दन्तुकेतुः-(मदनमञ्जरीमवलोक्य ।) स्तनकलशाभ्यामाभ्याममुना गुरुणा नितम्ब बिम्बेन । कस्य न मन्मथदीक्षाविधिना विधिना हृतं चेतः ॥ २७ ॥ (परिवृत्य ।) वशीकरणमारणमोहनस्तम्भनोच्चाटनमौषधमनुसरामि । (इति निष्कान्तः।) (नेपथ्ये।) नष्टश्रुतिर्व्यक्तभुजङ्गसङ्गः संगीतकानन्दविनोदबन्धुः । विक्रीतलज्जः स्मरबाणवी जटासुरस्तस्करचक्रवर्ती ॥ २८ ॥ (ततः प्रविशति जटासुरो नाम दिगम्बरः।) दिगम्बरः-अलिहन्त अलिहन्त, अण्णाणरासिणा तवस्सिणा अ- णवरज्झा मए छेलिआ णिहदा । ता हगे विचालठ्ठाणमाअदो। (ग) (नेपथ्ये।) किमङ्गरागाभिमुखः कपाली द्विजिह्वदोषाकरधूर्तमूर्तिः । विक्रीतलज्जो रमयन्भुजङ्गानज्ञानराशिः समुपागतोऽयम् ॥ २९ ॥ (प्रविश्य ।) अज्ञानराशि:-मया सा पुष्पवाटिकायां चरन्ती छागी निहता । तदि तं विचारयतु सभासलिरुपाध्यायः । सभासलिः-(सविमर्श विचार्य ।) यदा ज्ञानपूर्व छागीवधः कृतस्तदा मूल्यं दातव्यम् । नो चेन्न किमपि । (क) वटवृक्षं यावत् । (ख) वैद्य एव तिमिराकुलः । तद्बुडितमुपचारेण । (ग) अर्हन्नन्, अज्ञानराशिना तपखिनानपराद्धा मम च्छागी निहता । तदहं विचारस्थानमागतः । १. 'अग्गे वडरुक्खं' क. २. 'अग्रे क. ३. 'अन्धलओ' क. ४. "नितम्बेन' क- ग. ५. 'भस्माङ्गरागा-' ख. ६. 'विचार्यतां सभासलिना' ख. ७. 'दातुमर्हति' ख.

१ अङ्कः] लटकमेलकम् । १३ अज्ञानराशि:-(सरभसम् ।) मया छागीति न निहता, किं तु वसि. कति ज्ञातम् । सभासलिः-तर्हि जितमज्ञानराशिना । तद्गृहाण जयपत्रम् । तपखिनामुना सत्यं जितमज्ञानराशिना । जटानां कुलटानां च यत्रैकत्र समागमः ॥ ३० ॥ अज्ञानराशिः—(सक्रोधम् ।) अये, मामुपहसत्युपाध्यायः । अहह, ब्राह्मण्यं विनापि परमप्रतिष्ठाप्रकर्षस्ते । रे रे, विशालतिलकारम्भ दम्भक्षोभकलानिधे । राजवेश्मसरःकङ्क रक केनोपमीयसे ।। ३१ ।। सभासलिः-(सकोपम् ।) कौपीनवानपि जटापटलाकुलोऽपि भालस्थलस्खलितभस्मकणारुणाक्षः । उन्मादबन्धुरुपनीय गलेऽक्षमाला- मुन्माटि वारवनिता जघनं जघन्यः ॥ ३२ ॥ देन्तुरा-तुम्हेहिं लज्जा कत्थ विक्किणिदा । (क) सभासलिः-अद्यैव हट्टे महाजनपुरतः सुशीलादेव्या सुवर्णदाना क्रीता। अज्ञानराशिः—(मदनमञ्जरीमवलोक्य ।) नेत्रानन्दभुवः प्रमोदवसतेरस्याः कुरङ्गीदृश- स्तन्वङ्गयाः स्तनशैलमूलविलसन्मुक्तालतापाशितः । विस्तीर्णे जघनस्थलीपरिसरे व्यामोहलीलाभर- भ्रान्त खान्तकुरङ्ग यास्यसि कुतः पञ्चेषुबाणार्दितः ॥ ३३ ॥ (क) युष्माभिर्लज्जा कुत्र विक्रीता। १. 'जयपत्रमिति पत्रमर्पयति' ख. २. 'अये' इत्यारभ्य 'प्रकर्षस्ते' इत्यन्तं ख-ग- पुस्तकयो स्ति. ३. 'अरे रे' ख. ४. 'दन्तुरा' इत्यारभ्य 'क्रीता' इत्यन्तं क-पुस्तके नास्ति. ५. 'पञ्चेषुणाभ्यर्दितः' ख.

१४. 50 काव्यमाला। (परिवृत्य ।) दुर्दैवादवधीरिता रतिपतेरानन्दकन्दस्थली प्राप्ता कल्पलता कथं कथमपि स्थानान्तरे विस्मृता । विज्ञाता न मया जडेन पुलकैरावेदिता विह्वला बालापाङ्गतरङ्गभैङ्गिमकलालीलानिधिः प्रेयसी ॥ ३४ ॥ (प्रविश्य ।) मिथ्याराशिः–भो भो, सअलवस्सिणीमुहमण्डणाए तुम्हाणं तव- स्मिणीए पसववेअणा वट्टदि ( ता आगच्छध । (क) अज्ञानराशि:-(अतिरभसाद्भस्म विकिरन् ।) तत्प्रसवकुशला काचिद- विष्यताम् । सभासलिः–वयमेव प्रसवकर्मणि निपुणाः । (ततः प्रविशति पुत्रहस्ता तपखिनी ।) सभासलिः—(परिवृत्यावलोक्य च ।) अहो भस्साङ्कुरस्य रमणीयता । किं च । आदन्तजननात्सद्य आ चूडान्नैशिकी क्रिया । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ ३५ ॥ (परिवृत्य ।) दिगम्बरः-दन्तुले, हगे कामाउले मअणमञ्जरीणिमित्तं आगदे । ता गेण्हदु भोदी अप्पमुलेण सुवण्णघडिदं अलिहन्तम् । (ख) (क) भो भोः, सकलतपखिनीमुखमण्डनाया युष्माकं तपखिन्या प्रसव- वेदना वर्तते तदागच्छत । (ख) दन्तुरे, अहं कामाकुलो मदनमञ्जरीनिमित्तमागतः । तद्गृह्णातु भ- वती अल्पमूल्येन सुवर्णघटितमर्हन्तम् । १. 'परिवृत्य जटासुरः' क; 'परिवृत्यावलोक्य च' ग. २. 'नेत्रापाङ्ग' क. ३. 'सं- गम' ख. ४. 'भो भोः' ख-ग-पुस्तकयो स्ति. ५. 'तवस्सिवंस' ख. ६. 'काप्यन्वे- प्यताम्' क; काचिदाहूयानीयताम्' ग. ७. 'कर्मकुशलाः' क-ग. ८. अस्मादनन्त- रम् 'परिवृत्य मिथ्याराशिः हा तपस्विनीपुत्र' इयधिकमस्ति. ९. 'कामाउले' इति ग-पुस्तके नास्ति. १०. 'परममुळेण ख-ग.

१ अङ्कः] लटकमेलकम् । १५ दन्तुरा-(तपखिनं प्रति ।) भो भुअङ्गराअ, तुम्हेहिं जडासुरो व- सीकरणमन्तं सिक्ख विदो । (क) अज्ञानराशिः-भयैव वात्सल्यादुच्चाटनमोहनमारणरण्डावशीकरण- मन्त्रा अस्सै प्रदत्ताः । जटासुरः-तेहिं जेव्व मन्तेहिं हगे धम्मचलणसीलाए कुट्टणीर- क्खसीए मुहकन्दरे पडिदो । (ख) दन्तुरा-विमणा मअणमञ्जरी । ता जो एत्थ कुरूवो मलपङ्कमि- स्सिदो सो णीसारीअदु । (ग) जैटासुरः-(संरभसं लगुडमादाय ।) मए जेव्व णीसारिदव्वा सव्वे ।(घ) सभासलिः–तेदयं मुष्टिलगुडन्यायः । (पुरोऽवलोक्य ।) अहो पा- ण्डित्यम् । पुनस्त्रिदण्डः पुनरेकदण्डः पुनःपुनर्वश्चकतामुपेतः । तपखितामेत्य जटासुरोऽयं नमोऽभवद्वञ्चकचक्रवर्ती ॥ ३६ ॥ (पुनरवलोक्य ।) युक्तमुक्तं केनापि । (क) भो भुजंगराज, युष्माभिर्जटासुरो वशीकरणमन्त्रं शिक्षितः । (ख) तैरेव मन्त्रैरहं धर्मचरणशीलायाः कुट्टनीराक्षस्या मुखकन्दरे पतितः । (ग) विमना मदनमञ्जरी । तद्योऽत्रकुरूपो मलपङ्कमिश्रितः स निःसा- यताम् । (घ) मयैव निःसारयितव्याः सर्वे । १. अस्मात्प्राक् 'भो दिअम्बर, केत्थ तुम्हेहिं लज्जा विकविदा । ('भो दिगम्बर, कुत्र युष्माभिर्लज्जा विक्रीता' इति च्छाया।) दिगम्बरः (सावलेपम्) हट्टाए महाजणपुरदो मुसीलाए साहुवहुआए की णिदा । एतेण धणेण कुलवाहिणो बडुअस्स तुरगओ टङ्कसदेहिं कीणिदो । सआसासोहवकसिगाणो मए कीणिदो । (हहे महाजनपुरतः सुशीलया साधु- वध्वा क्रीता । एतेन धनेन कुलव्याधेर्बटुकस्य तुरगकष्टङ्कशतैः क्रीतः ।.. । मया क्रीतः' इति च्छाया)' इति क-पुस्तकेऽधिकमस्ति. २. 'मया शिष्यवात्सल्यात्' ख. ३. "दिगम्बरः' ख-ग. ४. 'सश्वासम्' ख. ५. 'कोऽयं' क. ६. 'पुनरवलोक्य' ख-ग. ७. 'बन्धकता' क. ८. 'भग्नो' ख. ...

१६ काव्यमाला। उभावप्यश्रुतग्रन्थावुभावपि जडात्मकौ । अहो मोहस्य माहात्म्यं यदेकः शिष्यतां गतः ।। ३७ ॥ (प्राचीमवलोक्य ।) अये, शशाङ्ककरनिकरनिवारिततिमिरमनोहरा दिशः । तथा हि । एष स्वर्गतरङ्गिणीजलमिलदिग्दन्तिदन्तद्युती राजद्राजतकुम्भविभ्रमधेरः शीतांशुरभ्युद्गतः । हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दृशामानन्दकन्दीयति ॥ ३८॥ (इति निष्क्रान्ताः सर्वे ।) लनावियो नाम प्रथमोऽदः । द्वितीयोऽङ्कः। (ततः प्रविशति विश्वासघातकनाम्ना मित्रेणानुगम्यमानो निःसंतानप्रामीणः सङ्ग्रामविसरो नाम राउत्तराजः ।) (सङ्कामविसरः सहर्ष कुंटनी वामपाणिना प्रणम्योपविशति ।) दन्तुग-पुत्तअ, चिरं जीव । (क) सङ्ग्रामविसरः-(मदनमञ्जरीमवलोक्य ।) एतानि तानि हरनेत्रशिखिप्रबन्ध- दग्धस्मरव्रणविनाशरसायनानि । केषां न विस्मयकराणि नितम्बिनीनां विश्वप्रियाणि नयनाविलोकितानि ॥ १॥ अहो आश्चर्यम् । मुखरं नूपुरयुगलं प्रथयत्यभिसारमायताक्षीणाम् । इति निर्मुखयोः स्तनयोर्मध्यं न त्यजति पञ्चशरः ॥ २ ॥ (क) पुत्रक, चिरं जीव । १. 'तमोमनोहरा' ख. 'तिमिरविमला मनोहराः' ग. २. 'भ्राजत्' ख; 'भ्रश्यत्' ग. ३. 'हरः' क. ४. 'दिशा' ख-ग. ५. 'निष्क्रान्ती' ख. ६. 'जयो' ख. ७. क. पुस्तके अस्मात्प्राक् 'नेपथ्ये अतःपरं दन्तुरापरिणयनं भविष्यति' इत्यधिकमस्ति. ८. राज- पुत्रः' ख. ९. 'राउत्तरायः' क-ग. १०. 'दन्तुरां' क. ११. 'प्रपञ्च' ग. १२. 'अहो आश्चर्यम्' इति क-पुस्तके नास्ति. १३. 'प्रखरं' ख; 'रुचिरं' क. १४. 'कथयति' क.

२ अङ्कः] लटकमेलकम् । १७ किं च । नूनमुन्मादयन्त्येता नपुंसकमपि स्त्रियः। यदश्रान्तकुचोपान्तयातायातपरं मनः ॥ ३ ॥ (प्रविश्य ।) विश्वासघातकः-(सहर्षम् ।) उवहसइ पम्हलच्छी लच्छीए गहिरजलहिजलवासम् । आलिङ्गणपरिचुम्बणरहिअं गोरीएँ सोहग्गम् ॥ ४ ॥ (क) सङ्ग्रामविसरः-(दन्तुरां प्रति ।)मातः, भुजद्वयोपार्जितं यदस्मदीयं तद्यु- प्मदीयमेव । किंतु ममाद्य नरपतिपुरतो राजवाहनतुरगप्रार्थनारसिकस्य मद- नमञ्जरीदत्तहृदयस्य सङ्ग्रामावसरे विसरः संवृत्तः । दन्तुरा-जइ सो राआ राअवाहणं पअच्छदि, ता राउत्तराअसङ्गा- मविसरेण किं कादब्वम् । (ख) सङ्ग्रामविसरः-सङ्ग्रामे तदेवारुह्य पलायनं विधेयम् । दन्तुरा-राउत्तरअ, जुत्तमिदं तुम्हाणम् । (ग) मदनमञ्जरी-(सहर्षम् ।) एदेहिं जेब चरिदेहिं सअलजुवइवल्लहा तुम्हे । (घ) सङ्ग्रामविसरः-(तामालिङ्गय ।) कोऽयं व्याजविधिः पुनः पुनरसौ वका कटाक्षच्छटा कम्पखेदपरिश्रमैरनुपमैरेभिः किमुच्छृङ्खलैः । (क) उपहसति पक्ष्मलाक्षी लक्ष्म्या गभीरजलधिजलवासम् । आलिङ्गनपरिचुम्बनरहितं गौर्याः सौभाग्यम् ।। (ख) यदि स राजा राजवाहनं प्रयच्छति, तदा राउत्तराजसङ्ग्रामविसरे- ण किं कर्तव्यम् । (ग) राउत्तराज, युक्तमिदं युष्माकम् । (घ) एतैरेव चरितैः सकलयुवतिवल्लभा यूयम् । १. 'किं च' इति ग-पुस्तके नास्ति. २. 'भवदीयं' क; 'युष्माक' ख. ३. 'चित्तस्य' ग. ४. "विसः' क. ५. 'कृतः' ग. ६. 'कामखेदपरिभ्रमैः' का 'कम्पखेदपरिक्रमैः' ख. ७. 'एमिर्विमूर्छदूलैः' ख.

१८ काव्यमाला। प्रस्तावान्तरजल्पितानि सरला दृष्टिः स्मितं संवृतं तन्वङ्ग्यास्त्रियुगीणसारममृतं मोक्षः पलालोपमः ॥ ५ ॥ (दन्तुरां प्रति ।) तत्कुत्र बन्धकीकृतः सारमेयो मे । दन्तुरा —स लोहसंकलं भञ्जिअ मं कम्मोडिअ ण जाणीअदि कहिं गदो । (क) सङ्ग्रामविसरः-स मया विश्वासघातकपुरंत एव टङ्कशतेन क्रीतः सर्वाखेटकचतुरः पितृवदस्मान्पुष्णाति । अतिदुर्ललिततया जनन्याः क्रोडे खपिति । बालकैः सह क्रीडति । चुम्बति मुखाम्बुजानि । तन्मित्र विश्वा- सघातक, प्रबोधयनाम् । विश्वासघातकः-(कुटनीकर्णमुपेय ।) इमिणा विकिणिदेण पञ्च वरा- डिआ वि ण लहदि । अण्णं अ, मअणमञ्जरि गेण्हिअ पलाइदुमिच्छेदि। जैइ अण्णधा तदा दे पाअजुअलं छिवामि । अह अप्पणो पिअरं व- न्धामि । (पुनः कर्णमुपेत्य ।) एदस्स सुवण्णकलसो वट्टदि । तं दाव गेण्ह । तुए मए अद्धं अद्धं वण्टिअ गहीअदु । एसो उण णीसारीअदु दुजणो । (ख) दन्तुरा-जइ ण एआरिसा तुम्हे ता कहं मअणमञ्जरी रतिंदिवं तुम्ह गुणगणं सुमरदि । (ग) सङ्घामविसरः-भो भो मित्र विश्वासघातक, निवेदय मम निःसं- तानग्रामीणपट्टकम् । (क) स लोहशृङ्खलां भक्त्वा मां न ज्ञायते कुत्र गतः । (ख) अनेन विक्रीतेन पञ्च वराटिका अपि न लभ्यन्ते । अन्यच्च, मद- नमञ्जरी गृहीत्वा पलायितुमिच्छति । यद्यन्यथा तदा ते पादयुगलं स्पृशामि । अथात्मनः पितरं बध्नामि । एतस्य सुवर्णकलशो वर्तते । तं तावद्गृहाण । त्वया मयार्धमधु विभज्य गृह्यताम् । एष पुनर्निःसार्यतां दुर्जनः । (ग) यदि नैतादृशा यूयं तत्कथं मदनमञ्जरी रात्रंदिनं युष्मद्गुणगणं स्मरति । १. 'मातः कुत्र' ग. २. 'समक्षं टङ्क' ख. ३. 'जइ-बन्धामि' इति क-ग-पुस्त- कयो स्ति. ४. 'प्रामीणं व्यापारपट्टकम्' ख; 'ग्रामीणव्यापारकपर्दकान्' क.

२ अङ्कः] लटकमेलकम् । विश्वासघातकः-तस्स गामस्स वराडिआ जूअसंबन्धेण मए जेब गहिदा । अण्णं उण आदाउ णिवेदीअदु । (क) (इति पत्रं समर्पयति ।) सङ्ग्रामविसरः-(मुखं प्रसार्य पठति ।) वातालीमृतचटकैः सूकर विभिश्च मृतकवस्त्रैश्च । पवनानीतदलैरपि विक्रीतैः किं ने धनलाभः ॥ ६ ॥ (वृद्धां जननीमुपनीय कुट्टनी प्रति ।) अस्मदाखेटकौतुकं शुना विना न भवति । तदम्बैव कतिपयदिनानि यावदस्तु बन्धके । अनया च प्रतिदिनमवहितया सकलं दासीकर्म कर्तव्यम् । (मदनमञ्जरीमवलोक्य सानन्दम् ।) प्रस्खलतु नीविवन्धः विद्यतु जघनं प्रवेपतामङ्गम् । तदपि भुजंगमनोज्ञा स्मरसंपल्लम्पटा कुलटा ॥ ७ ॥ (सोद्वेगम् ।) विज्ञातास्तावर्द्विश्वासघातकाधिष्ठिता निजग्रामादयः । तत्प्रार्थ्य- तामृणार्थ साधुझकटकसारः । (प्रविश्य ।) झकटकसारः-सङ्ग्रामविसर, किणिदसुणअस्स जइ कवडिआ ण होन्ति ता मादरं विकिणिअ कुक्कुरकवडिअं पअच्छ । (ख) सङ्ग्रामविसरः-ऋणार्तस्य मम तावत्पञ्चदशपणान्युपनयतु भवान् । झकटकसारः-सङ्ग्रामविसर, अम्हमज्जादाए गेह कवडिअम् । (ग) सङ्ग्रामविसरः-(संविषादम् ।) कीदृशी ते व्यवहारमर्यादा । (क) तस्य ग्रामस्य वराटिका घृतसंबन्धेन मयैव गृहीता । अन्यत्पुनरा. दाय निवेदयतु । (ख) सङ्ग्रामविसर, क्रीतशुनकस्य यदि कपर्दका न भवन्ति तदा मा. तरं विक्रीय कुक्कुरकपर्दकान्प्रयच्छ । (ग) सङ्ग्रामविसर, अस्मन्मर्यादया गृहाण कपर्दकान् । १. 'मुखं' ग-पुस्तके, 'मुखं प्रसार्य' ख-पुस्तके च नास्ति. २. 'नु' क. ३. 'अ- स्माकं' क. ४. 'बन्धके तावदस्तु' ग. ५. 'अन्तः' क. ६. 'मित्र विश्वासघातकाधि- गता' क. ७. 'संग्रामविसर, किणिदसुणअस्स' इति क-पुस्तके नास्ति. ८. 'पञ्चाशत्' क ग. ९. 'सोद्वेगम्' क. १०. 'कीदृशी-आश्रित्य' इति क, ग. पुस्तकयोनास्ति.

काव्यमाला। झकटकसारः-(संस्कृतमाश्रित्य ।) द्विगुणग्रहणेच्छायां ताम्बूलं नैष्ठिकी कलाम् । भजन्ते ग्राहकाः पूर्व राजपुत्र गतागतैः ॥ ८ ॥ दन्तुरा-(सोद्वेगम् ।) इमिणा लडअमेलएण उवहसिदा मअणमञ्जरी। सव्वे वि वअणसारा भणिदं वि ण पअच्छन्ति । (क) (नेपथ्ये।) परधननिविष्टदृष्टिमिथ्याशुक्लस्तमोमयो जगति । सितदशनकिरणधोरणिधौतदिगन्तः परिस्फुरति ॥ ९॥ अपि च । ब्राह्मण्यदर्पपरिपृष्टविरचिलीलः शंभोरपि व्रतविधावुपहासशीलः । कूपाम्बुधौतकपिलाम्बरवेषवर्ती दम्भप्रियः स्फुरति वञ्चकचक्रवर्ती ॥ १० ॥ (ततः प्रविशति मिथ्याशुक्लः ।) मिथ्याशुक्ल:-(परिवृत्यावलोक्य च ।) आर्ये, न भेतव्यं न भेतव्यम् । खाधीनैव लटकमेलकमण्डली । तथाहि । अज्ञानराशिर्व्यसनाकरोऽयमयं कुलव्याधिरुपाधिशून्यः । जटासुरोऽयं भुवि जन्तुकेतुर्विश्वासघाती नहि कश्चिदन्यः ॥११॥ (सकोपम् ।) परापकारशून्यो यः क्षणार्धमपि तिष्ठति । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १२ ॥ : (क) अनेन लटकमेलकेनोपहसिता मदनमञ्जरी । सर्वेऽपि वचनसारा भणितमपि न प्रयच्छन्ति । १. 'भजन्ते खादमात्रेण पुराणं षोडशापणाः' क. 'भक्षिता मोदकाः पूर्व भट्ट पुत्र- गतागतैः' ग. २. 'सविषादम्' क. ३. 'परिशिष्ट' क-ख. ४. 'अये' क. ५. 'पूर्णः' ख..६. 'जीवति' ग.

२ अङ्कः] लटकमेलकम् । २१ (मैदनमजरीमवलोक्य खगतम् ।) उल्लङ्घय व्यासवाक्यामृतरससरसी विश्वभव्यामभव्यां ज्ञात्वा हेयानहेयान्सहजरिपुगणान्वीक्ष्य सभ्यानसभ्यान् । सेवामुन्मुच्य शंभोर्जगदभयकलाशासनव्यग्रपाणे- मोहाल्लीलावतीनां व्यसनभुवि नरीनति चेतःपरेतः ॥ १३ ॥ (नेपथ्ये।) गुँरोगिरः पञ्चदिनान्युपास्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्रातवितर्कवादाः समागताः फुक्टमिश्रपादाः ॥ १४ ॥ (ततः प्रविशति फुकटमिश्रः।) फुङ्कटमिश्रः-अये, प्रासादशिखरप्राङ्गणमारूढ़ा मदनमञ्जरी । तथाहि । उद्दीवयन्धरणिमण्डलमप्रयत्ना- दावर्जयन्नमरवृन्दमुखाम्बुजानि । अस्या विनोदयति कस्य न चित्तवृत्ति प्रासादशैलशिखरप्रणयी मुखेन्दुः ॥१५॥ मिथ्याशुक्ल:-भो भोः फुकटमिश्राः, युष्मानभिवादये । फुकटमिश्रः-(उच्चैः ।) दीर्घायुर्भूयाः । (उपसृत्य ।) कुशलं भवतां शुण्डवालग्रामनिवासिनाम् । मिथ्याशुक्ल:-युष्मप्रसादात् । फुकटमिश्रः-किं व्याख्यायते भवता । १. 'सकामं मदन' ख. २. 'व्यस्तपाणेः' क-ग. ३. 'व्यसनरुचि' ख. ४. सा- हित्यदर्पणे हास्यरसोदाहरणत्वेनोद्धृतोऽयं श्लोकः. ५. 'कुक्कुटमिश्रपादाः' इति साहित्य- दर्पणधृतः पाठः; 'फोकटमिश्रपादाः' ख-ग. ६. अस्मादनन्तरं ग-पुस्तके 'अपि च, अयं दुराचारपरो गुरु, खवाङ्गमाच्छाद्य पटाञ्चलेन । बिभ्रद्धृहत्पुस्तकसंनिकाशं जपन्प- वर्ग (?) भृशलम्बकूर्चः ॥' इत्यधिकमस्ति. ७. 'मङ्गलमप्रमत्तं' क. ८. अस्मादनन्तरं ग-पुस्तके 'अन्यच्च, कन्दे स्थूलस्तदनु सरलः स्फारभूतोऽप्रदेशे वारंवार निपतति पुनरिवार प्रचण्डः । ईषद्वक्रः करिकरसमो मानिनीमानहन्ता युष्मद्वक्रे प्रविशतु सदा खस्तिमान्मारदण्डः ॥ किं च 'यभख नित्यं यदि शक्तिरस्ति ते दिने दिने गच्छति वत्स यौवनम् । मृताय को दास्यति पिण्डसंनिधौ तिलोदकैः सार्धमलोमकं भगम् ॥' इत्यधिकमस्ति. ९. 'डोमवाड' ख; 'मुण्डिला' ग. लट. ३ ..

२२ काव्यमाला। .. मिथ्याशुक्ल:-'चोदनालक्षणोऽर्थो धर्मः' इत्यत्र सूत्रे धर्मनिर्णयं वि- धाय 'अष्टाकपालं हविनिर्वपेत्स्वर्गकामः' इत्येवमादिभियुक्तिभिः साधना- धिकरणं व्याख्यायतेऽस्माभिः । फुकटमिश्रः-(सहर्षम् ।) वेत्स मिथ्याशुक्ल, महामहोपाध्यायोऽसि । (सविमर्शम् ।) अहह । ब्राह्मण्यं विनापि पैरमः प्रतिष्ठाप्रकर्षः। तथा हि राढीया वचनरचना- एष व्याकरणं न वेत्ति न कृतः काव्येष्वनेन श्रमः श्रुत्वाचामति भट्टवार्तिकगिरः स्वाति स्पृशंस्तद्विदः । चण्डालानिव तर्कशासनपटून्नैयायिकान्मन्यते राढीयैरैतिहर्षगद्गदगलैः प्राभाकरः श्रूयते ॥ १६ ॥ मिथ्याशुक्ल:-(सकोपम् ।) अद्यास्मद्यज्ञागारवार्ता नाकर्णिता भ- वद्भिः । तथाहि । संसिक्ते कुशवारिणा मखपतौ ब्रह्मण्युपान्तस्थिते यज्ञागारगताः कथं कथमपि स्पृष्टाः किमिन्द्रादयः । कोणस्थोऽपि पुरस्कृतोऽपि यजुषा गौरीभुजंगो मया हव्याशाविकलः कपालिकधिया निष्कासितो धूर्जटिः ॥ १७ ॥ कि च, विषमैव भवतां वाचोर्युक्ति?ण्ढौलीग्रामनिवासिनाम् । पृच्छामि तावत् । एकदण्डमतमभ्यस्तं भवद्भिः । तत्कथं मिश्रता भवताम् । फुङ्कटमिश्रः-व्याख्यायतेऽस्माभिः कर्ममीमांसा ब्रह्ममीमांसा च । अतो दर्शनद्वयज्ञानाद्वयं मिश्राः । मिथ्याशुक्ल:-अये, परस्पराविरोधादेकमेव दर्शनम् । तत्कुतो मि- १. 'निर्णय विधौ' ख. २. स च महाप्रभाकरोऽस्ति' का 'वत्स महाभाग्योऽसि, ग. ३. 'परमनैष्ठिकप्रकर्षः' क. ४. 'राढीया वचनरचना' क-पुस्तके नास्ति. ५. 'गिर' क. ६. 'इति' ख. ७. 'महेन्द्रादयः' ख. ८. 'परिष्कृतो' क. ९. 'निर्धारितो' ख. १०. 'फोकटमिश्रः' ग. ११. 'एषैव भवतां वचोयुक्तिष्टुण्टुपाल' क-ग. १२. 'भवतां मिश्रतायाता' ख; 'मिश्रता समायाता भवताम्' ग. १३. 'दर्शनं कुर्वः' क; 'दर्शनं लभ्यते' ख. १४. 'तत्कुतो मिश्रतामिमानः' खः 'अतो मिथ्या मिश्रामिधानम्' ग.

२ अङ्क:] लटकमेलकम् । २३ श्राभिधानम् । किं' च, वेदान्तवा दिनां भवतामप्रामाणिकमद्वैतं प्रामाणिक वा । #माणमस्ति चेतापत्तिः । अथ प्रमाणं नास्ति चेत्कथमद्वैतोपलब्धिः। फुकटमिश्रः-अस्त्येव प्रमाणं किं त्वभिन्नम् । मिथ्याशुक्ल:-तदेव प्रमाणं तदेव प्रमेयमिति गम्भीरा वेदान्तचर्चा । फुकटमिश्रः-अलमतिशुष्कचर्वणेन । मदनमञ्जरीवस्त्ययनार्थ वय- मागताः। मिथ्याशुक्ल:-(मदनमञ्जरीमवलोक्य ।) किं नेत्रयोरेंमृतवतिरियं विधातु- राद्या किमद्भुतशरीरविधानलेखा । संसारसारमहह त्रिजगत्पवित्रं तद्रनमेतदुपसर्पति पङ्कजाक्षी ॥ १८ ॥ अपि च । एतस्याः स्तनभारभङ्गुरमुरः पीनी नितम्बस्थली मध्यं मजति नाभिगर्तपतितं नान्यं परं मुञ्चति । (४) धैर्य धेहि मनःकुरङ्ग पुरतो रोमावलीवागुरा तोकं भावि गतागतव्यसनिनः किं वा विधेयं विधेः ॥१९॥ (सहर्षम् ।) पुनरवलोक्यतामियम् । फुकटमिश्रः-(तामवलोक्य ।) लावण्यामृतसरसी 'ललितगतिर्विकचकमलदलनयना । कस्य न मदनशरासनविधुरमनस्तापमपहरति ॥ २० ॥ १. "किं च' ख-पुस्तके नास्ति. २. 'वेदिनां' ख. ३. 'प्रामाणिक' ग. ४. 'प्रा- माणिकं' ग. ५. 'कुतो वै अद्वैतसिद्धिरिति' ख. ६. 'तु न भिन्नम्'क. ७. 'गम्भीरता वेदान्तवादिनाम्' ख. ८. 'वयस्यालमतिचर्वितचर्वणेन' क; 'अलं शुष्कतर्कवादेन वयं मदनमजरीवार्ताकर्णनाय समागताः' ग. ९. 'अमृतसिन्धुः' क-ग. १०. 'कान्ता' क; 'कीर्णा' ग. ११. 'नाल्पं चलं चुम्बति' ख; 'नाभ्यं वलं चुम्बति' ग. १२. 'तरिक भ्रान्तिगतागत' ख; 'मेयं भाति गतागत' ग. १३. 'विमलतनुः क. १४. 'विकल' ख; 'विह्वलहृत्तापमपनयति' ग.

२४ काव्यमाला। अपि च । तैस्तैर्बन्धप्रबन्धैः कति कति न कृता जागरा नागरी भि- नीतः कामः प्रतिष्ठां रैतिरभसरसप्रार्थनाभिर्नवाभिः । तन्वीयं किं तु नीलोत्पलदैलयुगलप्रोज्वलस्निग्धदृष्टि- निर्व्याजैरङ्गहारैरुपचरति चमत्कारमन्तर्गभीरम् ॥ २१ ॥ मिथ्याशुक्ल:-अरेरे नैरपशो, विषमाः शृङ्गारकथाः। अतिसंनिहित. मदनचेष्टोनुवादिन उक्तिरेव ते ग्राम्या । तत्तद्विशेषरहितैश्च वचनैर्न किंचि. दुक्तं भवति । तथाहि । यजल्पितं किमपि यच्च विलोकितं य- दीज्ञाप्रदानमसकृद्भुजवल्लिबन्धः । प्रत्यङ्गचुम्बनकलाकलहानुवृत्ति- रेतत्सुखं तदधिका मदनस्य सृष्टिः ॥ २२ ॥ (इत्यन्योन्यं कलहं कुरुतः । ततो मिथ्याशुक्लेन गलहस्तं दत्त्वा निःसौरितः फुकटमिश्रः।) (ततः प्रविशति चमरसेनविहारवासी व्यसनाकरो बन्दी ।) व्यसनाकरः-(पुरोऽवलोक्य ।) हाँ धिक्, कष्टम् । पृथुजघनया रंजक्या विना जन्यां समुत्खातनिधानस्थानमिव विभौति भवनम् । तथाहि । अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ । कस्य नातिहरौ तस्याः करपल्लवसंगैतौ ॥ २३ ॥ अपि च । सप्रेमप्रसराः प्रैमोदमधुराः पीयूषवर्षोत्कराः सान्द्रानन्दकराः स्मरज्वरहरास्तास्ताः कलाः सुभ्रवः । १. 'एभिः प्रबन्धैः' ख. २. 'रसरभस' ख. ३. 'दलनयना' क. ४. 'मनुष्यपशो' क. ५. 'चेष्टानुवादेन' क; 'चेष्टानुवादिनी' ख. ६. 'तद्विशेष' ख-ग. ७. 'वचनैः'क- पुस्तके नास्ति. ८. 'भवति' क-पुस्तके नास्ति. ९. 'वक्रविलोकितं' ख-ग. १०. 'प्री- तिप्रदानं' ख. ११. 'तदलिका मदनप्रवृत्तिः' क. १२. 'कलहायमानौ नृत्यतः' ख. १३. 'निःसारिताः फुकटमिश्राः' ग. १४. 'चमरसेनप्राम' का 'चमरिग्राम' ग. १५. 'बटुः' का 'कुविन्दः' ख. १६. 'अहो धिक' क; 'हा धिक् हा धिक्' ग. १७. 'तयोपासिकवातया रजकदुहित्रा' ख. १८. 'रजन्यां' क-पुस्तके नास्ति. १९. 'आभाति मे हृदयम्' ख. २०. 'संगिनौ' क. २१. 'प्रसादमधुराः' ख.

२ अङ्कः] लटकमेकलम् । २५ प्रातर्विह्वलयन्ति नः स्मृतिपथारूढा निगूढा, मनः कृत्याकृत्यविचारनिष्ठुरकथासंबन्धगन्धच्छिदः ॥ २४ ॥ (परिवृत्य ।) दिगम्बरः-अलेले भिक्खुआ, दूलं गच्छ । असदिसजादिफंसदूसि- दो सि । (क) व्यसनाकरः-धिमूर्ख, जातिरेव नास्ति । तथा च संगतमतानुगंवचः। एतासु पंञ्चस्ववभासिनीषु प्रत्येकबोधस्फुटमण्डलीषु । साधारणं षष्ठमिहेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः ॥ २५॥ किं चास्मन्मते क्षणिकाः सर्वे भावाः । न ह्यात्मा स्थायीति । तन्नः कुत्र रजकीदूषणम् । दिगम्बरः-ता किं दिण्णो दोस उववण्णोत्थि णो वा । (ख) व्यसनाकरः-विनाशशीला भावा जायन्ते । दिगम्बरः-अलेले भिक्खुआ, उप्पत्तिक्खणो विणासक्खणो ति पलम्पलाविलुद्धम् । ता भिण्णो उप्पत्तिक्खण्णो ति भिण्णो विणासक्खणो ति । (ग) सभासलि:-(संहासम् ।) शृणोति श्रुतिहीनोऽपि जातिहीनोऽपि जातिमान् । खीकृतक्षणभङ्गोऽपि जेतुमन्यं समीहते ॥ २६ ॥ (क) अरेरे भिक्षुक, दूरं गच्छ । असदृशजातिस्पर्शदूषितोऽसि । (ख) तत्किं दत्तो दोष उपपन्नोऽस्ति न वा । (ग) अरेरे भिक्षुक, उत्पत्तिक्षणो विनाशक्षण इति परम्पराविरुद्धम् । तद्भिन्न उत्पत्तिक्षण इति भिन्नो विनाशक्षण इति । १. 'प्राप्य ध्यानकथा न च स्मृतिपथा-' क. २. 'श्रुति' ख. ३. 'निगूढासनाः' क-ख. ४. 'सौगतपादानुगं वचः' ख. ५. 'पञ्चवपि वस्तुधीषु' ख. ६. 'प्रत्यक्प्रबो. धस्फुटभङ्गुरीषु' ख; 'प्रत्यक्षबोध स्फुटमण्डलीषु' ग. ७. 'ततः क्व रजकीस्पर्श' ख. 'तत्कुतो रजकीकुचस्पर्श' ग. ८. 'विनश्वरस्वभावत्वं जातेः' ग. ९. 'बटुः' ग. १०. 'सहर्षम्' ख. S.295 २६ काव्यमाला। व्यसनाकर:-विमूर्ख, किमनेन शब्दच्छलेन । अहं पैञ्चाख्यानप- ठनार्थ दन्तुरया समाहूतः । तत्किमनेन वृथा भिक्षुकलहेन । सभासलिः-तत्किं तत्र गतो भवान् व्यसनाकरः--(अश्रुत्वैव मदनमजरीमवलोक्य ।) किमपि किमपि कापि क्वापि लभ्या सखीभ्यः पृथुलशिथिलनेत्रप्रान्तकान्तैर्वचोभिः । उपसि सुरतसंपत्ताण्डवाडम्बराणि प्रथयति शिथिलाङ्गी कस्यचित्पुण्यभाजः ॥ २७ ॥ (ततः कलहं कृत्वा दिगम्बरेण निःसारितो व्यसनाकरः ।) दिगम्बरः-(परिवृत्य ।) भो उवज्झाअ महाभाअ, हगे कामाउले । विवाहसद्धालुणी एसा वि कुट्टणी तरुणी व्व पडिहादि । ता मज्झ कदे पदाणेण पसीददु । मअणमञ्जरी इण तुम्ह अणुरत्ता भोदु । (क) सभासलि:-(ततः संकेतस्थाने मदनमजरीमवलोक्य खगतम् ।) आयातासि कथं नमामि चरणौ वासः स्खलत्यूरतो मामालिङ्गय मृगेक्षणे क्षणमिह व्यालुप्यतां संभ्रमः । इत्यासन्नरतेस्तरङ्गितदृशः कम्पाकुलायाः पुन- स्तस्याः स्यादभिसार एष समयः स्वप्नेऽपि शान्तिः कुतः ॥ २८ ॥ (दिगम्बरं प्रति ।) युक्तमुक्तं भवता । किं तु दन्तुरां खीकारयामि तावत् । (क) भो उपाध्याय महाभाग, अहं कामाकुलः । विवाहश्रद्धालुरेषापि कुट्टनी तरुणीव प्रतिभाति । तन्मम कृते प्रदानेन प्रसीदतु । मदनमञ्जरी पुनर्युष्मदनुरक्ता भवतु । १. 'शब्दवाक्यच्छलेन' ख. २. 'सुरापानार्थ ख. ३. 'किममुना शुष्कवादेन' ख; 'मिक्षोः शुष्ककलहेन' ग. ४. 'मिथ्याशुक्लः' ख. ५. किमपि ललितभावा कापि सभ्या' ख; 'किमपि किमपि जल्पन्त्येकतः...' ग. ६. 'कान्ता' ख. ७. 'मिथ्याशुक्लेन' ख. ८. 'कुटनी' क-ख. ९. 'दासः स्खलत्यप्रतो' ग. १०. 'क्षणमिव व्याकुप्यतां वि. भ्रमः' क; 'व्यावसता संभ्रमः' ग. ११. 'तेन स्यादपरोऽमिसारसमयः'ख. १२. ख. तिकान्तः कत:'. 'स्वप्रोऽपि शान्तक्रमः'ग.

२ अङ्कः]] लटकमेलकम् । २७ - - (उपसृत्य ।) दन्तुरे, त्वद्गुणाकृष्टोऽयं दिगम्बरस्त्वामभिलषति । त्वं चाद्यापि नवनवतिवर्षदेशीया युवतिः । तथाहि । निबिडितनूपुरमधुराः कस्य निगूढा न सन्ति ते निधयः । रिपुरिव यदि न विसर्पति करकिसलयवलयझंकारः ॥ २९ ॥ तदनुष्ठीयतां युवयोर्विवाहः । दन्तुरा-(सलज्जम् ।) जं तुम्हाणं संमदं भोदि । (क) सभासलिः- (सविमर्श विषणं दिगम्बरमवलोक्य ।) युक्तमुक्तं व्यासेन- 'वेपथुमलिनं वकं दीना दृग्गद्गदः खरः । मरणे यानि चिह्नानि तानि चिह्नानि याचके' ॥ ३० ॥ तद्विवाहाय समाहूयतां जङ्गमनामा चतुर्वेदः । (प्रविश्य ।) जङ्गमः-अद्य मम कुट्टनी विवाहव्याकृष्टस्य भुजाभ्या गङ्गां समुत्तीर्य समागतस्य संध्यापि विस्मृता । अहह, आमन्त्रितस्यापि मे संध्यावन्दनास- क्तस्य महती वेलातिकान्ता । तन्न युक्तम् । तथा चाह भगवान्व्यासः- 'स्वकार्यव्यापृतेनापि धर्मः कार्योऽन्तरान्तरा । दाम्ना बद्धोऽपि हि भ्राम्यन्घासमासं करोति गौः ॥ ३१ ॥ (उपसृत्य ।) क्षपणकः-चउव्वेअ, तुम्ह चलणजुअलं पणमामि । (ख) चतुर्वेद:- दोषाकरमुखीमेनां दन्तुरां प्राप्य चण्डिकाम् । भज त्वं शूलिनः कान्ति श्मशानाश्रमवासिनः ॥ ३२ ॥ (क) यधुष्माकं संमतं भवति । (ख) चतुर्वेद, युष्मचरणयुगलं प्रणमामि । १. 'सरभसमुपसृत्य' ग. २. 'निपतनूपुर' ख. ३. 'याच्यादीनं' ख. ४. 'तद्विवा- हार्थमानीयतामनयोरुन्मत्तमानसयोः' ग. ५. 'दूगणनामा' ख. ६. 'ततः प्रविशति दूगणः । दूगणः' ख. ७. 'अद्य मया कुट्टनीविवाहे भोज्यभोजनार्थिना बुभुक्षितेन भुजाभ्यां कष्टेन गङ्गामुत्तीर्य समागतेन' ख. ८. 'अत एवोक्तं व्यासेन' ग. ९. 'चर्चि काम्' ख-ग २८ काव्यमाला। वैधव्यं तदा को दोषः । सभासलिः-भो भोः चतुर्वेद, सत्वरमनुष्ठीयतामनयोर्विवाहः । चतुर्वेदः-(संहासम् ।) स्तनौ प्रचलितावस्या विमर्तावधोमुखौ । विशुष्कस्य नितम्बस्य वार्ता कर्तुमिवोधेतौ ॥ ३३ ॥ तदद्यैव ज्येष्ठानक्षत्रे शनैश्चराधिष्ठिते धनुषि लमे युक्तः स्यादनयोर्विवाहः । सभासलि:-तत्रैव वैधव्यं ध्रुवम् । चतुर्वेदः-उपरितनभागे यदा सभाँसलिः-साधूक्तम् । चतुर्वेदः-(दिगम्बरमर्कपुष्पैरलंकृत्य।) तदुपसर्पतु तावदेनां वरवेषधारी करग्रहणाय दिगम्बरः। (ततः प्रविशति वरवेषधारी दिगम्बरः।) चतुर्वेदः--(खस्त्ययनार्थ पुष्पाक्षतान्यादाय ।) जातस्य हि ध्रुवं मृत्युध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ ३४ ॥ दिगम्बरः-(कुट्टनी प्रति शनैः ।) तुम्हे किं वेसामाई उत वेसा । जह वेसा ता गहणकं लेहु । अह जइ वेसामाई ता अभिवादेमि । (क) दन्तुरा-अण्णस्सिं समए भणिस्सदि । (ख) (दिगम्बरः करग्रहणं कृत्वोपविशति ।) सभासलिः-अस्मिन्कन्यादानसमये दक्षिणार्थ सुगन्धताम्बूलार्थं च पैदहडाग्रामो मया दत्तः । मधुपर्कार्थे विसहडाग्रामश्च । (क) यूयं किं वेश्यामाता उत वेश्या । यदि वेश्यातहथनकं गृहाण । अथ यदि वेश्यामाता तदाभिवादये । (ख) अन्यस्मिन्समये भणिष्यति । १. 'विमर्शयनिव' ख. २. 'प्रपतितौ क. ३. 'उत्सुकौ' क. ४. ४. 'मिथ्याशुक्ल:- तत्र वैधव्यं जायते' ख. ५. 'ध्रुवं' क-पुस्तके नास्ति. ६. उपरिभागे वैधव्यमस्तीति को दोषः खः. ७. 'सभासलिः-साधूकम्' क-ग-पुस्तकयो स्ति. ८. 'अर्कपुष्पैः' ख-ग-पुस्तकयो स्ति. ९. 'परिक्रामति' ख. १०. 'पुष्पाक्षतमादाय पठति' ख. ११. 'दवाडग्रामविहसडाप्रामौ तुभ्यमहं प्रदत्तवान्' ख.

२ अङ्कः] लटकमेलकम् । २९ चतुर्वेदः-भो भो उपाध्याय, यावदाभ्यां लीलागारे रतिर्न दीयते तावत्कुतो यौतुककौतुकम् । सभासलि:-एतयोरत्र कौतुकागारे महाशय्या क्रियताम् । यो यत्र म्रियते तस्य तत्रैव दाहो युक्तः । चतुर्वेदः-(उभावप्यवलोक्य ।) अपनीतोऽस्य हट्टविलासिनीविमर्दैन विगन्धः । तदलं कालविलम्बेन । प्रदीयतां मे वैवाहिकी दक्षिणा । (दिगम्बरो हरीतकीयुगलमुपनयति ।) चतुर्वेदः-(सकोपम् ।) अरे रे निर्लज्ज नमक लुञ्चितकेश दिगम्बर, अनेकव्रतोपवासनियमपरस्य शूद्रप्रतिग्रहनिवृत्तस्य चतुर्वेदाध्यायिनः शु. क्लस्य महाब्राह्मणस्य मम दक्षिणाप्रलोपस्त्वया कर्तव्यः । तदेनामादाय यास्यामि । (इति परस्परं दक्षिणाकलहाकुलौ नृत्यतः ।) कुलव्याधिः-(परिवृत्य।) विहसन्तकअन्तनहच्छेडा अहवा तिमिराण घडा णिविडा । भअवाणसमाणसमुल्लसिआ मिलिआ जमि रक्खसरक्खसिआ॥ ३५॥ कलकङ्कणलम्भिअबाहुलदा घणकुन्तलका मुहभूसणआ । वरिसा उण मेहजलाकुलिआ णिविडन्तपओहरमण्डलिआ॥३६॥(क) (इति पुनर्नृत्यतः।) (क) विहसत्कृतान्तनखच्छेदा अथवा तिमिराणां घटा निबिडा । भगवत्समानं समुल्लसिता मिलिता यथा राक्षसराक्षसिकाः॥ कनककङ्कणलम्भितबाहुलता धनकुन्तका मुखभूषणकाः । वर्षाः पुनर्मेघजलाकुलिता निबिडितपयोधरमण्डलिताः ।। १. 'यावदस्माकं न दीयते' ख. २. 'क्रियते दाहः' ख. ३. 'विमर्दनेन तयोर्गर्वः ख; 'वेदिविमर्दनानयोर्गन्धः' ग. ४. 'नमक लुञ्चितकेश दिगम्बर' क-ग-पुस्तकयो- नास्ति. ५. 'न कर्तव्यः' ख. ६. 'गच्छामि' क. ७. 'अन्योन्यं दक्षिणाकलहायमानौ नृत्यतः' का 'दक्षिणार्थमन्योन्यं कलहायमानौ नृत्यतः' ग. ग-पुस्तके 'नृत्यतः' अस्मा- दनन्तरं 'भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिबामि वियत् । हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्तामि ॥' इत्यधिकमस्ति. ८. 'नृत्यति' ख; 'नृत्यन्त उत्पतन्ति' ग.

काव्यमाला। सभासलि:- चुम्बन्तः सरसीमुखाम्बुजवनं पान्थप्रमोदच्छिदः प्रोन्मीलन्नवालिकापरिमलाः श्रीखण्डसंबन्धिनः । संभोगश्रमवैरिणः स्मरशरव्यापारविस्तारिणः कार्णाटीभुजवल्लिबन्धविकलाः सर्पन्ति मन्दानिलाः ॥ ३७ ॥ अपि च। भूदेवस्खस्तिवादस्तिरयतु दुरितं नीरूँजः सन्तु सन्तः सन्तु प्रौढारिवीरव्रजविजयकलाशालिनः क्षोणिपालाः । आस्तां विद्वत्प्रकाण्डश्रवणपुटचमत्कारि काव्यं कवीना- मस्तु व्यामोहशान्तिः सृजतु हृदि मुदं निश्चलां चन्द्रचूडः ॥३८॥ (इति निष्क्रान्ताः सर्वे ।) दन्तुरापरिणयो नाम द्वितीयोऽङ्कः । समाप्तमिदं लटकमेलकं नाम प्रहसनम् । १. 'मल्लिकासुरभिकाः' क. २. 'जीवातवः' ख. ३. 'अपि च' क-ख-पुस्तकयो- नास्ति. ४. 'निर्जराः सन्तु तुष्टाः' ख. ५. 'विद्वच्चकोर' ख-ग.

लटकमेलकस्थश्लोकानां सूची । पृ० अ० श्लो. २ २ २ 9 १ سه س ... १ ... १ ... १ १ १ ८ १ mr m २ १ १ १ ... २ १ अज्ञानराशिर्व्यसनाकरो २० अनङ्गमङ्गलारम्भकुम्भा २४ अन्तर्निममं नयनद्वयेन अर्कक्षीरं वटक्षीरं ११ अविलम्बकूपझम्पः कटु ९ आदन्तजननात्सद्य १४ आनन्दकारि मदनज्वर आयस्यति भवतोऽयं... आयातासि कथं नमामि २६ उत्काशे कण्ठदाहः प्रचुर ९ उद्रावयन्धराणिमण्डल २१ उभावप्यश्रुतग्रन्थावुभा १६ उल्लङ्य व्यासवाक्यामृत २१ उवहसइ पम्हलच्छी १७ एतस्याः स्तनभारभङ्गुर २३ एतानि तानि हरनेत्र... १६ एतासु पञ्चखवभासिनीषु २५ एप व्याकरणं न वेत्ति न २२ एष स्वर्गतरङ्गिणीजल १६ कतिपयनिमेषवर्तिनि .. कलकङ्कणलम्भिअबाहु २९ किं नेत्रयोरमृतवर्ति किमङ्गरागाभिमुख १२ किमपि किमपि कापि कापि२६ कोऽयं व्याजविधिः पुनः १७ कौपीनवानपि जटापटला १३ गुरोगिरः पञ्च दिना ... २१ गोविन्ददेवः प्रथितः पृथि २ गौरीचुम्बनचञ्चलाञ्चल... १ पृ० अ० श्लो ११ चक्षुरोगे समुत्पन्ने ११ १ २५ २३ चित्रं चरित्रं स्खलितव्रता ३ १ १४ चुम्बन्तः सरसीमुखा.. ३० ३६ जातस्य हि ध्रुवं मृत्यु २८ २ २० तपखिनामुना सत्यं १३ १ ३० ३५ तैस्तैबन्धप्रबन्धैः कति २४ २ १६ दुहृभुअंगो जो णिअघर १२ १७ दुर्दैवादवधीरिता १४ ३४ २८ दोषाकरमुखीमेनां दन्तुरा २७ २ २1 द्विगुणग्रहणेच्छायां २० २ ८ १५ द्विमुखानां पटुडिण्डिम ३ ११ ३७ नष्टश्रुतिर्व्यक्तभुजङ्ग १२ १ २८ १३ निबिडितनूपुरमधुरा:... २७ २ २९ ४ निस्त्रिंशक्षतकुम्भिकुम्भ २ १९ नूनमुन्मादयन्त्येता २ १ नेत्रानन्दभुवः प्रमोदवसते १३ १ ३३ २५ परधननिविष्टदृष्टि २० २ १६ परापकारशून्यो यः २० २ १२ ३८ पुनस्त्रिदण्डः पुनरेकदण्डः १५ १ ९ प्रस्खलतु नी विवन्धः... १९ २ ३६ प्रातः सहस्र किरणप्रणि २ ३ १८ ब्राह्मण्यदर्पपरिपृष्ट २ २९ भुजंगदंशव्यसनाकुलाया ५ १५ २७ भूदेवस्वस्तिवादस्तिरयतु ३० २ ३८ ५ मुखकमलं परिचुम्बन ३ १ १० ३२ मुखरं नूपुरयुगलं १६ २ १४ यज्जल्पितं किमपि यच्च २४ २ २२ ४ यस्य कस्य तरोर्मूलं १० १ २३ १ येन गभीरे समरे रिपु ६ २ my २ २ २ १ m १ २ ... १ २ m - २ १ २ १ १ १

२
१
पृ० अ० श्लो
पृ० अ० श्लो.
रक्षाक्षावलिमाः परित्यज १ २ शृणोति श्रुतिहीनोऽपि २५ २
लावण्यामृतसरसी
२३
२ २० श्मश्रुसंचयविध्वंसि ११ १
वका विश्वविरोधिनः कति ३ ८ सप्रेमप्रसराः प्रमोदमधुराः२४ २ २४
वातालीमृतचटकैः १९ २ ६ सेसिक्ते कुशवारिणा २२ २
वामागमाचारविदा
१ १३ स्तनकलशाभ्यामाभ्या १२ २७
विशालतिलकारम्भ १३ १ ३१ स्तनौ प्रचलितावस्या... २८ २
विहसन्तकअन्तनह
२९ २ ३५ खकार्यव्यापृतेनापि धर्मः २७
२ ३१
वेपथुर्मलिनं वक्र
२७ २ ३० हठाक्रान्तं नीलोत्पलदल
१८
व्याधयो
मयुपचार
९
१ २२ हर्षोत्फुल्लकपोलया स्तनभर ८ १ १९
१
१

No text on this page.

निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृतपुस्तकानि ।
,
चरकसंहिता।
अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-
तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूप्यकः।
सर्वेष्वायुर्वेदनिबन्धेष्वयं प्रन्थो महत्त्वेन प्राधान्येन च वरीवति । प्राचीनस्या-
स्यातिगाम्भीर्येण दुरवगाहत्वात्सर्वेषामध्ययनाध्यापनयोरतीवासौकर्यमासीत् तन्मा-
जनार्थ प्रयतमानैरस्मामिमहता प्रयत्ननोपरि निदर्शितनाम्री व्याख्या लब्धा तां
भिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति ।
मीमांसाशास्त्रसारः।
( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थप्रकाशः)
मूल्यं १ रूप्यकः, मार्गव्ययः ४ आणकाः ।
अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशक
एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोनिमतीव दुरवगममेवास्तीति व्युत्पित्सवोत्र
विषये प्रवेशाभावादल्यन्तमुदासते तेन संप्रति मीमांसाशास्त्रं नामशेषमिव बभूव ।
अतोऽत्र सहजप्रवेशेन तत्प्रावण्यार्थमयं ग्रन्थो वेदान्तविशारदबिरुदेन अनन्तकृष्ण.
शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
भाट्टदीपिका।
महामहोपाध्यायसर्वतत्रस्वतन्त्रखण्डदेवप्रणीता
श्रीशम्भुभप्रणीतप्रभावलीव्याख्या
( निवीतान्तो भागः १)
मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
अखिलेष्वपि वाल्ययेषु सुप्रसिद्धानां षड्दर्शनानामेव सद्धेपि महत्त्वे मीमां-
सादर्शनमेव तेषूच्चपदमारोहति । भासांप्रदाये प्रणीतमीमांसानिबद्धसिद्धान्तानूहा-
पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अग्रेच तच्छात्रेण शंभुभट्टेन
प्रभावलीनाच्या मूलप्रन्थादर्शरूपया सनाथीकृत्यायं प्रन्थोस्माभिर्मुद्रितोस्ति ।
..
पाण्डुरङ्ग जावजी,
निर्णयसागरयत्रालयाधिपतिः ।

No text on this page.

No text on this page.

No text on this page.

Shrii Lat'akamelakama Trxtiiyo Bhaaga

Author
Shriishang-khadhara
Title
Shrii Lat'akamelakama Trxtiiyo Bhaaga
File name
Shrii Lat'akamelakama Trxtiiyo Bhaaga
Text
OCR done
Citation
1923
Published
2005-12-02
Publisher
Nira~naya Saagara~ Mudraatantralaayan'
Language
Sanskrit
Pages
49
Classification
Religion. Theology
DLI number
369559
Barcode
2030020016382.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
edaipBkOvbK
Download PDF

Shrii Lat'akamelakama Trxtiiyo Bhaaga