Svclrc
Kemopanished
Front matter
ॐ
केनोपनिषत्
तथा
श्रीमच्छङ्कराचार्यकृतपदवाक्यभाष्याभ्यां
श्रीरंगरामानुजकृतप्रकाशिकया
च समेता
पंडित श्रीधरशास्त्रि पाठक
सस्कृताध्यापक डेक्कन कॉलेज
इत्येतैः
स्वनिर्मितया बालबोधिन्या समलंकृता
घुण्यपत्तनम्
ओरिएंटल बुक सप्लाइंग एजन्सी
१५१५
मल्ससाय Agarwas
Rs.2.50
डॉ. नरहर गोपाळ सरदेसाई इत्येतेषां कृते पुण्यपत्तने जगद्धितेच्छु- मुद्रणालये केशव रावजी गोंधळेकर इत्येतैर्मुद्रयित्वा प्राकाश्यं नीता PUBLISHER'S NOTE. The Bombay University has prescribed for tac B 1. H00) uis Couise for the year 1920 Kena and Katha l'panishads with the Bhâshyas of Sankaracharya and Ranga-Râmânuja. These two Commentaries have been already published separately 10 the Anandâshiam Series and elsewhere but they together cost a good deal and were besides inconvenient for a coniparative study as the student had to handle two separate Volumes to the purpose. To obviate this difficulty we have now published both the Bhâshyas together and have besides added a new and lucid Commentary by Mr. Shri. dhar Shâstri Pathak of the Deccan College. This last Commentary will be found very useful for students whose difficulties have been all anticipated and explained in easy language, so that the Commentary fully justifies its name Bâla bodhini. It must be stated however that the simplicity of the Bâlabodhini has been attained after great effort and no pains have been spaied to give in it appropriate extracts from Adhikarana-ratnamâlâ, Sâbara-bhâshya and other texts in order to throw light upon the many knotty points of Mimâmsa which abound in the Ranga-Râmânuja Bhâshya in particular. In the Introduction the learned Shastri has given the leading views of Oriental scholars like Weber, Deussen, Reguaut and Max muller on the Upanishads in question, has refuted them where necessary, and has besides offered his own views based upon independent critical research, The Appendices form another useful feature of the volume. We hope therefore that our students and the world of Sanskrit scholars generally will show their appreciation of the learning and industıy of Mr. Shridhal Sliastıi lay purchasing this volume which is desigued for then. MANAGER Oriental Book-Supplying 37 genes, 13 SIUKKAWAŁ, POONA CITY.
अनुक्रमणिका १-२१ 0... 4.. .... .... ८ १ प्रास्ताविकम् । १ वेदवेदान्तयोः सम्बन्धः २ उपनिषदः ३ उपनिषदां म्वरूपम् ४ उमहिमवतीशब्दयोर्विचारः ५ उतदुपनिषत्स्थोपासनाविचारः ६ पदभाष्यवाक्यभाप्ये ७ अद्वैतमतम् ८ विशिष्टाद्वैतमतम् ९ अद्वतविशिष्टाद्वैतमतयोवलक्षण्यस्य स्थलानि १० प्रकाशिका ११ वालबोधिनी २ केनोपनिषद्याख्यात्रययुता । ३ व्याख्यात्रये वालबोधिनी । ४ व्याख्यात्रयगतवचसां लब्धालब्धक्रमेण सूचिः १२ .... .... .... ... १७ १९ २० १-४६ ...४६-८४ ....८५-९० .... .... RANDon- अथ प्रास्ताविक किंचित् । १ वेदवेदान्तयोः संबन्धः । विदितमेवेदं विचारशीलानां यहुःखजिहासासुखपरीप्सानिमित्तं प्राण- भृतां प्रवृत्तिस्तत्र प्रायो बहव ऐहिकसुखार्थमेव यतन्ते न पारलौकि- काभ्युदयश्रेयोनिमित्तम् । केचित्तु लौकिकसुखस्यानित्यतां निरूप्य पार- लौकिकाभ्युदयार्थ प्रयस्यन्ति । परन्तु नाधिगच्छन्ति तदुपायम् । तन्निमित्तं परमेश्वरनिःश्वासभूतो वेदो यज्ञादिसाधनान्युपदिदेश । ततः स्वर्गादि- पारलौकिकसुखमपि “ यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्य- चितो लोकः क्षीयते” इत्यादिवचसा क्षयीति ज्ञात्वा केचन परमश्रेयः- साधनभृतं ब्रह्म जिज्ञासवो बभूवुस्तदर्थ वेदेनैव कासुचिदीशावास्याद्युप- निषत्सु मन्त्रान्तर्गतासु ब्रह्मोपदिष्टम् । परं मन्त्रभागस्याख्यायिकादि- रहितत्वेन दुर्विज्ञेयत्वान्मन्त्राणां व्याख्यातृभिाह्मणप्रणतृभिस्तस्तैमहर्षिभिः कर्मकाण्डप्रतिपादनानन्तरमुपासनाघटितास्तास्ता उपनिषदः समाम्नाताः । एवं चैतत्सिद्धं यन्मन्त्रात्मको योऽपौरुषेयो वेदभागस्तत्र विस्तरशो यज्ञादि कर्म प्राणायि यदर्थ सकलापि पूर्वमीमांसोपयुज्यते यां चासूत्र- यद्भगवाजैमिनिः । अथातो धर्मजिज्ञासा' जै. सू. १ । १ ।१ इत्यादिना। ततः परं संक्षेपतो वेदान्तविद्याप्रतिपादिन्य ईशाद्युपनिषदो मन्त्रभाग एवोक्ताः । अथच ब्राह्मणं-तैस्तैर्महर्षिभिः प्रणीतम् । तत्र पूर्व कर्मकाण्डं व्याख्यातम् । ततः सुखबोधार्थमुपासनादिसाधनप्रतिपादनपुरःसरमाख्यायिका- दृष्टान्तादिघटिता ब्राह्मणोपनिषदः पठिताः । यासांच मन्त्रब्राह्मणोपनिषदा- मसन्दिग्धार्थप्रतिपत्तये भगवान् बादरायणः " अथातो ब्रह्मजिज्ञासा " ब्र. सू. १ । १। १ इत्यादीनि सूत्राणि प्रणिनाय । अतएवोक्तं भगवत्पूज्यपादैः श्रीशंकराचार्यैः । वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्रा- णाम् " ब्र. सू. शां. भा. १ । १ । २ इति । २ उपनिषदः। उपनिषच्छब्दस्य तत्र तत्र श्रीमच्छंकराचार्यैरर्थः प्रदर्शितः । तथाहि कठोपनिषदि प्रस्तावनाभाष्ये-१११११ सदेर्धातोर्विशरणगत्यवसादनार्थस्यो- पनिपूर्वस्य विप्प्रत्ययान्तम्य रूपमुपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते । केन पुनरर्थ- योगेनोपनिषच्छब्देन विद्योच्यत इत्युच्यते । ये मुमुक्षवो दृष्टानुश्रविकविषय- वितृष्णाः सन्त उपनिषच्छन्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणा- द्धिंसनाद्विनाशनादित्यनेनार्थयोगेन विद्योपनिषदित्युच्यते । तथाच वक्ष्यति- " निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति । पूर्वोक्तविशेषणान्मुमुक्षून्वा परं ब्रह्म गमयतीति ब्रह्म गमयितृत्वेन योगाद्ब्रह्मविद्योपनिषत् । तथाच वक्ष्यति- ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरिति । लोकादिर्ब्रह्मजज्ञो योऽग्निस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवास- जन्मजरायुपद्ववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादायितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादग्निविद्याप्युपनिषदित्युच्यते-तथाच वक्ष्यति- स्वर्गलोका अमृतत्वं भजन्त इत्यादि । ननु चोपनिपच्छब्देनाध्येतारो ग्रन्थ- मप्यभिलपन्ति । उपनिषदमधीमहे । अध्यापयाम इति च । एवं नैष दोषः । अविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमातेऽसंभवाद- विद्यायां च संभवादन्थस्यापि तादर्थेन तच्छब्दत्वोपपत्तेः । आयुर्वै बृतमि- त्यादिवत् । तस्माद्विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते ग्रन्थे तु भक्त्येति । मुण्डकोपनिषद्-१।१।१ प्रस्तावनायां-य इमां ब्रह्मविद्यामुप- यन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूर्ण निशातयति परं वा ब्रह्म गमयति-अविद्यादिसंसारकारणं चात्यन्तमवसा- दयति विनाशयतीत्युपनिपत् । उपनिपूर्वस्य सदेरेवमर्थस्मरणात् । इति । अत्र केनोपनिषदि ४।३२ उपनिषदमब्रूम ' उपनिषदं-परमात्मविद्या- मित्यर्थः कृतः। तैतिरीयोपनिषत् (२१९) भाप्ये “ परं श्रेयोऽस्यां निषण्ण- मिति । तथा छान्दोग्योपनिषद्यष्टमाध्यायेऽष्टमखण्डे चतुर्थकण्डिकायां उप- निषच्छब्देन ज्ञानमुच्यते-एतदुपनिषदो भाविष्यन्ति देवा वासुरा वा ।।१४ इति । एतदुपनिषदः-एतज्ज्ञानाः । तथा बृहदारण्यकोपनिषत्प्रस्तावनायाम्- " सेयं ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोः संसारस्था- त्यन्तावसादनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादाद्ग्रन्थोऽ- प्युपनिषदुच्यते । एवं चैतत्सिद्धं संसारवीजविनाशिनी या विद्या सोपनिषच्छब्देन मुख्यया वृत्त्या बोध्यते । तादृशविद्याप्रतिपादकत्वा- , लक्षणशावास्यादयो ग्रन्था अप्युपनिषच्छब्देन व्यवन्हियन्ते । ता उपनिषदश्चतुर्पु वेदेष्वष्टोत्तरशतसंख्याकास्तत्र द्वात्रिंशन्मुख्याः । तत्रापि दशैवेशादयो मुख्यतरास्तत्रापि माण्डक्योपनिपन्मुख्यतमा । तथैव मुक्ति- कोपनिषद्युक्तत्वात् । तथाहि · माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये । तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । तथापि दृढता नो चेद्विज्ञानस्या- ञ्जनासुत । द्वात्रिंशाख्योपनिषदं समभ्यम्य निवर्तय । विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ ॥ ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिीरः । ऐतरेयं च छान्दोग्य बृहदारण्यकं तथा । ता एता अष्टोत्तरशतमुपनिषद् ऋग्वेदादौ कियत्यस्तासां शान्तिश्च केति तत्रोच्यते । तथाच- ऐतरेयकौषीतकिना- दबिन्द्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्यबव्हचानामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥ ईशावास्यबृहदारण्य- कजाबालहंसपरमहंससुबालमन्त्रिकानिरालम्बत्रिशिखिब्राह्मणमण्डलब्राह्मणाद्व- यतारकपैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनिमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥ कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिन्द्वमृतनादकालाग्नि- रुद्रक्षुरिकासर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्यायोगतत्त्वदक्षिणामू - र्तिस्कन्धशारीरकयोगशिक्षकाक्षराक्षावधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म- प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिं- शत्संख्याकानामुपनिषदां सह नाववत्विति शान्तिः ॥ केनछान्दोग्यारुणि- मैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासावक्तकुण्डिकासा - वित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनि- षदामाप्यायन्त्विति शान्तिः ॥ प्रश्नमुण्डकमाण्डूक्याथर्वशिरोऽथर्वशिखाबृह- जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायणरामरहस्यरामता- पनीशाण्डिल्यपरमहंसपरिव्राजकान्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवी- भावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीवदत्तात्रेयगरुडाना- मथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः॥" मध्वाचार्यकृतव्याससूत्रभाष्ये काषायणादयो बह्वय उपनिषदो निर्दिष्टास्ता मुक्तिकोपनिषदि न दृश्यन्ते । अधुनातनैर्विदेशीयैरुपनिषदां संख्या २३५ पर्यन्तमुच्यते ( Introduction Of Upnishads by Max Muller page LXVIII) ३ उपनिषदां स्वरूपम् । प्रायो मुख्यासु दशसूपनिषत्सु ब्रह्मम्वरूपं, तत्प्रतिपत्तय उपासनाः काश्चित्स्वतन्त्रतया काश्चित्कर्माङ्गत्वेन, सुखबोधार्थमाख्यायिकाश्च तथा क्वचि- जगदुत्पत्तिरपि समाम्नायते । कासुचिदुपनिषत्सु पूर्वोक्तानां सर्वेषां वस्तूनां समवायः कासुचित्केवलं ब्रह्मस्वरूपवर्णनं कासुचिदन्यवस्तुसत्त्वेऽप्याख्या- यिका नास्ति कुत्रचिदुपासनाघटिताख्यायिकास्ति। एतत्सर्वं छान्दोग्यबृहदा- रण्यकेशादिषूपनिषत्सु समुपलभ्यते । एतत्तु सत्यं यद्ब्रह्मस्वरूपप्रतिपादनं विनोपनिषन्नास्तीति । सर्वेषां पूर्वोक्तानां वस्तूनां प्रकृतायां केनोपनिषदि सङ्ग्रहोऽस्ति तेन सर्वावयवविशिष्टेयमुपनिषत् । यतोऽत्र १-१३ पर्यन्तं ब्रह्मस्वरूपवर्णनं ततो ब्रह्ममाहात्म्यबोधिन्याख्यायिका १४-२८ ततस्त- त्प्राप्तय आध्यात्मिकाधिदैविकोपासनाद्वयं ततस्तदर्थवादश्च । अत्र केचित् ( डायसनप्रभृतयो ) विद्वांस एतस्या उपनिषदो गद्यपद्यभेदेन विचारभेदेन च भागद्वयं स्यादित्यनुमन्वते । प्रतिपादयन्ति च यदत्र १-१३ पर्यन्तं नवममन्त्रापवादेन सर्वे छन्दोबद्धा मन्त्राः । १४।२८ पर्यन्तं गद्यरूपा मन्त्राः । एवं भागद्वयम् । तथा पूर्वभागे निर्विशेषब्रह्मप्रतिपादनं तत आख्यायिकाद्वारा सविशेषब्रह्मप्रतिपादनमित्यर्थभेदेनापि भागद्वयं प्रकल्प- यन्ति । तथा तन्मतमेवमपि यत्तत्र भागत्रयमपि कर्तुं शक्यते तच्चेदृशम् १-१३ पर्यन्तं प्रथमो भागो निर्विशेषब्रह्मप्रतिपादकः । अयं भागः सर्वस्य वेदान्तस्य पूर्णतादशायां लिखितः स्यात् । निर्विशेषब्रह्मणो वर्णनात् । तेनायं नवीनः स्यात् । १४-२८ पर्यन्तं द्वितीयो भागः । अत्रालङ्कारिकरीत्या सविशेषं ब्रह्म प्रतिपादितं परब्रह्मणो देवानां च गौणप्रधानभावो वर्णितस्ते- नायं भागो वेदान्तविचारस्य पूर्णतादशायाः प्रागेव निर्मितः स्यात् । एवं- चाय पूर्वस्मात्प्राचीनः । ततस्तृतीयो भागः २९-३४ पर्यन्तमन्त्रप्रतिपा- दितः । अयं परिशिष्टवद्भाति । अत्र ब्रह्मणः कालातीतत्वमुपमया प्रदर्शितम् । ततो ब्रह्मविद्यार्थमुपनिषत्ततः फलश्रुतिः । एतेन ग्रन्थेनेमे विद्वांस एवं प्रति- पादयन्ति यदिमे भागास्त्रयो भिन्नैर्महर्षिभिभिन्नकालेषु रचिता इति । परं तदेतद्वेदप्रतिपादनशैल्यनभिज्ञताविलसितम् । यतो वेदे सर्वत्र कर्मकाण्डादौ पूर्व विधिः प्रतिपाद्यते ततोऽर्थवादस्तन्माहात्म्यबोधकस्ततस्तदितिकर्तव्यतां द्योतयितुं साधननिर्देशः । यथा वायव्यं श्वेतमालभेतेति विधिः । ततो वायर्वे क्षोपिष्ठा देवतेत्यर्थवाद इत्यादि । एवं कर्मकाण्डविधिवदेवोपनिषद्यपि पूर्व ब्रह्म प्रतिपाद्यते ततस्तन्माहात्म्यद्योतकोऽर्थवादस्ततस्तदुपासनं यथाच छान्दोग्योपनिषदि षष्ठाध्याये पूर्व सदेव सौम्येत्यादिना सद्ब्रह्मणः प्रतिपादनं ततस्तन्माहात्म्यद्योतनार्थमेव जगदुत्पत्त्यादि पश्चादुपासनं तदर्थवादश्च । अत्र छान्दोग्योपनिषदि यथा कालभेदः कर्तृभेदो वा वक्तुं न शक्यते । उपक्रमोपसंहाराभ्यां सत्प्रकरणस्य निश्चितत्वात् । तद्वदत्र केनोपनिषदि ब्रह्मण एवोपक्रमोपसंहाराभ्यां प्रकृतत्वान्न कालभेदः कर्तृभेदो वा कल्पयितुं शक्यः । उपक्रमादिप्रतीत्यर्थ संक्षेपतः केनोपनिषद्गतोऽर्थः प्रदर्श्यते । तथाहि-प्रश्नप्रतिवचनरूपया श्रुत्या केनेपितमित्यादिना मनःप्रभृतीनामि- न्द्रियाणां प्रेरक किमिति पृष्टे यन्मनसो मननशक्तिप्रदं तत्प्रेरकमित्युत्तरितम् । तत्स्वरूपं चक्षुरादिना ज्ञातुमशक्यम् । किंच तदुपास्यब्रह्मातिरिक्तमित्यपि क- थितम् । ततः श्रुतिकल्पितशिष्यं प्रति गुरुणोच्यते ब्रह्म ज्ञायते मयेति यदि त्वयोच्येत तर्हि तदज्ञानम् । यतो ब्रह्मणो निर्विशेषणत्वात्तज्ज्ञाधातोः कर्म भवितुं नाहति । ब्रह्मात्मस्वरूपेण ज्ञातत्वादज्ञातमित्यपि वक्तुं न शक्यते । अतो ज्ञाताज्ञातादुपरि व्यतिरिक्तं ब्रह्मेति प्रतिपाद्यते । एतादृशं ब्रह्मावश्य स्वाभेदेन ज्ञेयमन्यथा महती हानिः । ज्ञाते च तस्मिन्नमृतत्वप्राप्तिः । अथच तस्य ब्रह्मणो दुर्विज्ञेयताप्रदर्शनार्थमग्न्यादिदेवतानामाख्यायिका । सा चेत्थम्- ब्रह्मासुरान्पराजित्य देवानां जयं कृतवत् । स चाय जयोऽस्माकमेवेति मन्यमानानां तेषां देवानां पुरतस्तद्ब्रह्म प्रादुर्बभूव । तदजानन्तस्तेऽग्निं प्रेष- यामासुब्रह्मसमीपे । तदा तेन तृणदाहे प्रेरितोऽग्निर्न शशाक । तद्वदेव वायुरपि तत्तृणमादातुं न शशाक । तत इन्द्रो जगाम परमिन्द्रसमीपात्त- त्तिरोबभूव विशेषतस्तदभिमानं निहन्तुम् । अथोमारूपिणी विद्या प्रादुर्बभूव । तया बोधित इन्द्रो ब्रह्म जज्ञौ । अनन्तरं तद्ब्रह्मप्राप्तये तद्वनं नामेत्युपासना तत्साधनं च तपो दम इत्यादि । अन्ततोऽर्थवादो ब्रह्मज्ञानविषयक एव । एतावतात्र ब्रह्मण एव प्रतिपादनम् । तत्र भागकल्पनं कालव्यववस्था च न रुचिरेति विद्वांसो जानीयुरेव । गद्यपद्यभेदेन प्रकरणभेदकल्पनाप्यविचा- रितरमणीया। विनिगमनाविरहात् । बहुषूपनिषत्सु प्रकरणैक्येऽपि गद्यपद्य- भेदो दृश्यते । अत्रोपनिषदि । नचेदिहावेदीन्महती विनष्टिः' इति वच उप- लभ्यते तथा बृहदारण्यकेऽपि । तेन केनोपनिषदि बृहदारण्यकादागतमे- तद्वाक्यमथवा बृहदारण्यके केनोपनिषद आगतं द्वाभ्यां वा तृतीयतो गृही- तमिति केचित् (रेजों) परमर्थसाम्येऽभिप्रायसाम्ये वा शब्दसाम्यमपरि- ६ हार्यमेवेति वयं प्रतीमः । नत्रान्यतो ग्रहणमेषां शब्दानामिति दुर्निरूपम् । किंच यत्रान्यत्रत्यं वच उदाव्हियते तत्र तदुक्तमृषिणेत्यादि ब्राह्मणे समा- म्नायते। यथा छान्दोग्योपनिषदि पञ्चमाध्याये द्वितीयखण्डेऽष्टममन्त्रः । तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मि- स्वप्ननिदर्शने" इति । यथा वा-ऐतरेयब्राह्मणे तदप्येष श्लोको भवति । मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे। आविक्षितस्य कामप्रेर्विश्वे देवाः सभासदः । इति । इयं च केनोपनिषद्ब्राह्मणग्रन्थगतेति पूर्वमुक्तमेव । किंचैवमप्येते ( रेनों) संमन्वते यदत्रोपनिषद्युमाहैमवतीशब्ददर्शनादियं केनोपनिषच्छैवी । सर्वासां शैवीनामुपनिषदामथर्ववेद उपलभ्यमानत्वादियमप्यथर्ववेदीयेति । परमेतत्स- व रभसात् । यतः केवलमुमाहैमवतीतिशब्दौ न शैवत्वसाधकौ । शैवशब्दः 'सास्य देवता' इति पाणिनिसूत्रेण साधयितुं शक्यते । एवंच शिवो देवता अस्या इति शैवी । ततः शिवमाहात्म्यप्रतिपादिनी शैवोपयोगिरुद्राक्षादिप्र- तिपादिन्येवोपनिषच्छैवोपनिषदिति वक्तुं शक्यते न केवलमुमाहैमवतीतिस- मानानुपूर्वीकशब्दघटितत्वं शैवत्वसाधनायालम् । उमाहैमवतीत्यनयोर्यथा भिन्नार्थकत्वं तथाग्रे प्रतिपादयिष्यामः। किंच शैवोपनिषदोऽथर्ववेद एव सन्ती त्यपि न वक्तुं शक्यं यतः शैवागमोपयोगिरुद्राक्षजाबालोपनिषत्सामवेदीया। आप्यायन्त्विति तस्याः शान्तेर्दर्शनात् । मुक्तिकोपनिषदि सामवेदीयत्वेन परिगणनाच्च । एतेनान्योऽपि ( रोअर ) विद्वान्यदस्या अथर्ववेदगतत्वं ब्रूते तदपि प्रत्युक्तम् । सामवेदे भिन्नः संख्यागणनप्रकारोऽथर्ववेदे भिन्नः सः । अतएवाधुनातनपुस्तके द्विधैव संख्या मुद्यतेऽतो वेदद्वयगतत्वमस्या उपनि षद इति यत्तदपि न विचारकोटिमाटीकते । लेखककौशलमूलत्वात्संख्याभेद- स्य । केनचित्संख्यारम्भतो लिखिता केनचिल्लेखकेन प्रतिखण्डं भिन्नैव संख्या समातेति । अथ केनोपनिषच्छङ्कराचार्यैर्नवमाध्यायस्थेति प्रस्ताव- नायां लिवितं तदधुनातनपुस्तकैर्विसंवदति । तस्य पञ्चमाध्याय उपलभ्य- मानत्वादिति बहुभिः ( डॉ. बर्नेल ) प्रभृतिभिः प्रतिपाद्यते तद्विषये तु पुस्तकानधिगमादस्माभितॊषंभावः समाश्रीयते । पुस्तकाधिगमे प्रयत्नस्तु प्रसरत्येव । अधिगते लिखितपुस्तके पूर्वोक्तविषयं स्वाभिप्रायं प्रदर्शयि- ष्यामः प्रसङ्गान्तरण । ४ उपाहैमवतीशब्दयोर्विचारः। अनयोाख्यानप्रसंगे पदभाष्य एवं निर्देशः । 'स इन्द्रस्तामुमां शोभते । बहुशोभमानां सर्वेषां हि शोभमानानां शोभनतमा विद्या तदा बहुशोभ- मानेतिविशेषणमुपपन्नं भवति । हैमवती हेमकृताभरणावतीमिव बहुशोभमा- नामित्यर्थः । अथवोमैव हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेनेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम । वाक्यभाष्य एवं–यम्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीतिरोधानं च तस्मिन्नेव स्त्रियमतिरूपिणी विद्यामाजगाम । अभिप्रायोद्बोधहेतुत्वाद्रुद्र- पत्न्युमा हैमवतीव सा शोभमाना विद्यैव । विरूपोऽपि विद्यावान् बहु अनयोः पदवाक्यभाष्ययोरुमाशब्दस्यार्थो ब्रह्मविद्यैव तेजस्विनीति साधितम् । मेदिनीकोशे-उमाशब्दस्यार्थेषु कान्तिरित्यर्थः प्रदर्शितस्तेन कान्तिमती विद्योमाशब्देन लक्ष्यते। किं चावतीत्युमेति शब्दकल्पद्रुमोक्तनि- रुक्तिरपि रक्षिच्या विद्याया एव ग्रहणं प्रयोजयति । अत्र चाख्यायिकाया- मिन्द्र दीनां गर्वनिवृत्तिद्वारा रक्षणस्य द्योतितत्वात् । अत्रेदं ध्येयम् । यदेन्द्र- समक्षं ब्रह्म तिरोभूत्तदा विमनायमानेनेन्द्रेण मनस्यालोचनात्मकं तपस्तेपे तदा तस्य मनसीदं यक्षं ब्रह्मैवेति प्रत्यभात् । तेन ब्रह्मज्ञानात्प्राङ्ममेन्द्रस्य विजय इति याभिमानवती बुद्धिरासीत्तस्या नाशेन ब्रह्मज्ञानमिन्द्रेण संपादि- तम् । तदेव रूपकालंकारमाहत्य श्रुत्या स्त्रियमुमां बहुशोभामानामित्या- दिना समाम्नायते । सर्वत्रैवेयं परिपाटी यदालोचनात्मकं तपस्तप्तव्यमुपास- केन विचारशालिना ततो ब्रह्मादिबुद्धिरिति । एतच्च सुस्पष्टं ज्ञायते तैति- रीयोपनिषद्वाक्यसमुदायतः । तथाहि-स तपोऽतप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । इत्यादि । तस्मिन्नेवाकाशे स्त्रियमाजगामेत्यत्र तस्मि. नेवेत्यनेन यत्र तिरोभूतं यक्षं (ब्रह्म) तत्रैवेन्द्रेण तपो विचारापरपर्यायमनु- ष्ठितम् । ततस्तत्रैव विद्याप्राप्तिः । नतु काचित्स्त्री यक्षेण स्थापितेन्द्रेण दृष्टेति वक्तुमर्हम् । हैमवामित्यनेन हेमकृताभरणवतीमिवेति पदभाष्यकृतः प्रथमो ऽर्थ एव श्रेयान् । बहुशोभमानामिति विशेषणस्वारस्यात् । यतोऽलङ्कारैः स्त्रीणां शोभा प्रसिद्धैव । अथवेत्यनेन प्रदर्शितस्य द्वितीयार्थस्य । हिमवतो दुहिता हैमवती ' इत्यस्य म्वीकारे बहुशोभमानेति विशेषणस्य निरर्गलत्वं संपद्येत । अयं द्वितीयोऽर्थः पौराणिकी या हिमवतो दुहिता पार्वतीति कल्प- ना तामुपजीव्य प्रवृत्तः । सच भगवत्पूज्यपादेराद्यश्रीमच्छङ्कराचार्यैर्नाङ्गीकर्तु शक्यते । आचार्यान्तरवत् पौराणिककल्पनामादृत्य तैः कुत्रापि ब्रह्मसूत्रभा- प्यादौ श्रुत्यर्थस्य सूत्रार्थस्य वानङ्गीकृतत्वात् । एवं चायमर्थोऽन्यकृतो लेखक- प्रमादाभाष्यशरीरे प्रविष्ट इव भाति। यतश्छान्दोग्योपनिपद्भाष्ये तृतीयेऽध्याये दशमखण्डे छान्दोग्योक्तमूर्यपरिवर्तनविषये पौराणं दर्शनम्'इत्युक्त्वा अत्रोक्तः परिहार आचार्यैः' इत्युक्त्वान्येपामाचार्याणां मतं विरोधपरिहारार्थ प्रदर्श्यते स्वयं तद्विषयेऽरुचिः प्रदर्श्यते। तेन पुराणविरोधपरिहारविषये स्वयमाचा- र्याणां न प्रवृत्तिरिति प्रतीयते । यतस्तेषा श्रुतिविरुद्धपुराणवचम्वनादर एव । अतएव हैमवतीतिशब्दम्य पौराणार्थो न श्रेयानिति सिद्धम् । यक्षशब्दार्थ- विषये विदेशीयैर्बहु पराक्रान्तं परन्तु यक्षं पूज्यमिति योऽर्थ आचार्य: प्रदर्शितः स एव वरीयान् ५ यज देवपूजासंगतिकरणदानेषु " इति पाणिनीयधातुपाठोक्तेः । ५ एतदुपनिषत्स्थोपासनाविचारः । यद्ब्रह्मेन्द्रादिभिर्दुर्विज्ञेयं यम्य च ज्ञानेनामृतत्वप्राप्तिस्तज्ज्ञानस्य मन्दबुद्धि- भिरधिगमो भवत्वेतदर्थमत्रोपासना । तत्र प्रथमा द्विविधा तत्राद्या प्रदर्श्यते। सा द्विविधा । आधिदैवताध्यात्मभेदेन । विद्युतो व्यद्युतदा इति यथा विद्युतो विद्योतनं तद्ब्रह्मोपास्यम् । अयमों यथा विद्युदेकदैव प्रकाशते तद्वदेवैकदैव ज्ञानकाले प्रकाशमानं ब्रह्म तस्य पुनरस्तमयाभावात् । अथवा तेजःशब्दमध्याहृत्य विद्युतस्तेज इव ब्रह्मोपास्यम् । ततः प्रथमाया एव द्वितीयः प्रकारः · न्यमीमिषदा' इति । यथा कश्चिच्चक्षुर्निमेषणं कृतवा- निति । निर्मिषितवदिव तिरोभूतमित्येवं ब्रह्मोपास्यम् । अथ द्वितीयाध्या- त्मरूपिणी । सा द्विविधा । तत्र प्रथमा उपस्मरणसंकल्पादिभिर्मनो- लिगैब्रह्मेत्युपास्यमिति । ततो द्वितीया तद्वनं ब्रह्मेत्युपास्यमितिरूपा । अयमर्थः । प्रख्यातं ब्रह्म प्राणिजातस्य संमजनीयमिति गुणेनोपास्यमिति । ६ पदभाष्यवाक्यभाष्ये । अत्र केनोपनिषदि शङ्कराचार्यकृतं पदभाष्यं, वाक्यभाप्यं, इति भाष्य- व्यमुपलभ्यते सर्वत्रानन्दाश्रममुद्रणालयादिषु भाष्यद्वयं मुद्यतेऽत्रापि पुस्तके तथैव भुद्रितम् । परमत्र विद्वन्मनस्येवं भवति विचारणा । किमेतद्भाष्यद्व- यमेकेनैव कृतम् । उभाभ्यां वा कर्तृभ्यामिति । तत्रैककर्तृकत्वेऽथैक्यमभि- प्रायसाम्यं चापेक्ष्यते । तत्त्वत्र नोपलभ्यते । तद्वलक्षण्यस्य स्पष्टमुपलभ्यमा- नत्वात् । तथाहि- ९ १ पदभाष्ये ' नाहं मन्ये सुवेद २।१० इति मन्त्रेऽहमिति पाठं गृही- त्वा व्याख्यानम् । अत्र यद्युभयो प्ययोरेक एव कर्ता स्यात्तर्हि मया पद- भाष्येऽयं पाठो व्याख्यात इत्याधुच्येत । तथा तु नोक्तं तेन कर्तृवैलक्षण्यं स्पष्टम् । २ पदभाप्ये १११ मन्त्रे : प्रेषितं ' इत्यस्यार्थो भिन्नः । वाक्यभाप्ये तु तस्यैवप्रेषितमिवेत्यनेन पूर्वविलक्षण उपमार्थः प्रदर्शितः। ३ पदभाष्ये ' श्रोत्रस्य श्रोत्रम् ' १२ इति मन्त्रे श्रोत्रमित्यादयः प्रथमाः सन्तीति साधितम् । वाक्यभाष्ये तु तत्रैव प्रथमाद्वितीयेति विभक्तिद्वयं साधितम् । ४ १।३ मन्त्रे उभयोर्भाप्ययोरवतरणिकाभेदोऽभिप्रायभेदमूलकः । ५ ११४ मन्त्रे पदवाक्यभाप्ययोरक्षरार्थसाम्येऽप्यभिप्रायभेदः । ६ ' यदि मन्यसे ' २१९ इति मन्त्रे पदवाक्यभाप्ययोरवतरणिकाभेदः । ७ ' प्रतिबोधविदितं ' २।१२ इति मन्त्रे पदवाक्यमाप्ययोः किं- चिदभिप्रायभेदः । < · भूतेषु भूतेषु विचित्य ' २।१३ इति मन्त्रे विचित्येत्यस्य पदवा- क्यभाष्ययोभिन्नोऽर्थः । ९ । प्रथमो विदांचकार' ४।२७ इति मन्त्रे पदवाक्यभाप्ययोर्वै- लक्षण्यम् । १० 'तस्यैष आदेशः' ४।२९ इति मन्त्रे पदवाक्यभाप्ययोर्वैलक्षण्यम् । ११ . उपनिषदमम ' ४।३२ इति मन्त्रे पदवाक्यभाष्ययोर्विलक्षणः .. पन्थाः । १२ ४।२७ मन्त्रे पदभाष्य इवशब्दविषय उक्तं वाक्यभाष्ये तु न किमप्युक्तम् । १३ उपनिषदमब्रूम ४।३२ इत्यस्यार्थव्याख्याने पदवाक्यभाप्ययो- विलक्षणः पन्थाः । इत्यादिभिर्निदर्शनै:ककर्तृकमिदं भाष्यद्वयम् । ननु कालभेदेनैकेनापि प्रकारान्तरेण ग्रन्थः प्रतिपादयितुं शक्यत इति चेत्सत्यम्। तथा ग्रन्थप्रतिपादनसंभवेऽपि पूर्व मया पदभाष्ये वाक्यभाष्ये वैवमुक्तं सं- प्रतीदमुच्यत इति कथनस्यापरिहार्यत्वात् । ततश्चैवं निर्देशाभावादवश्यमेत- सिध्यति यद्भिन्नावेव निर्मातारौ पदवाक्यभाष्ययोः । एवंच भाष्यद्वयस्य भिन्नकर्तृकत्वसिद्धौ कतरत्पूर्वं पदभाप्यं वाक्यभाष्यं वेति विचारयामः । केनो० म०-२ भूयान् । आद्याचार्या तत्र पदभाप्यं श्रीमद्भगवत्पूज्यपादानामाद्यश्रीशङ्कराचार्याणां कृतिः । वाक्यभाप्यं तु तदनुयायिनां श्रीशङ्कराचार्यपीठमधितिष्ठतां केषांचिदाचार्या- णामित्यस्माकं मतिः। तत्र चोपोडलकानि तथाहि- १ पदभाप्यापेक्षया वाक्यभाप्ये श्रुत्यन्तराणां प्रमाणार्थ निर्देशोऽल्पीयान् । इतस्ततः पूर्वपक्षखण्डनेश्वरसिद्ध्यादिः म्वतन्त्रतया लेखो उन्मूलमप्रासंगिकमुपनिषद्भाप्ये कदापि न लिखन्ति । उपनिषदां बहूनि वाक्यान्याद्याचार्याणां ग्रन्थे संभवन्ति । तेन वाक्यभाप्यमाद्याचार्ये- तरकृतम् । तेषां ग्रन्थेऽप्रासंगिकपूर्वपक्षानिर्देशात् । २ ' प्रतिबोधविदितं । २।१२ मन्त्रे वाक्यभाष्ये प्रतिबोधविदितमि- त्यस्यार्थत्रितयं कृतं तत्र द्वितीयव्याख्या सद्योमुक्तिं प्रत्याययति । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोध- वद्यद्विदितं तदेव मतं ज्ञातं भवतीति (पृ.२५) सद्योमुक्तिश्च न शास्त्रीया। एतादृशमशास्त्रीय मतमाद्याचार्याः कदापि न प्रतिपादयिष्यन्ति तेनेदं वाक्यभाप्यमाद्याचार्येतरकृतम् । ननु पूर्व तु यथार्थम् ' इति वाक्यभाष्यो- क्त्यायं पक्षस्तम्यापि न संमतम्तेन नायं दोष इति चेन्न यतोऽशुद्धपक्षप्र- दर्शनस्यैव तत्र दोषत्वात् । ३ पदभाष्ये यथाक्रमं शब्दशो विवरणं वाक्यभाप्ये तु सुगमशब्दविशि- ष्टो मन्त्रो न व्याख्यायते । आद्याचार्याणां सर्वत्र ग्रन्थेषु परिपाटीयं यत्ते यथाक्रमं सर्वाशब्दान्निर्दिशन्ति विशिष्टशब्दान्व्याख्यान्ति च । ४ वाक्यभाष्ये चतुर्थखण्डे पष्ठमन्त्रे सेवन्ते स्मेति स्मपदं निरर्थकं प्रयुक्तम् । एवं निरर्थकशब्दप्रयोग आद्याचार्यग्रन्थे न सञ्जाघटीति तेनेदं तत्कृतं न संभवति । एभिर्निदर्शनैर्जान युरेव प्रज्ञावन्तो यद्वाक्यभाष्यमाद्याचार्यकृतं नेति । अत्र केचन सांप्रदायिका इत्थं समादधते यद्यथान्यासामुपनिषदां मन्त्रान् विषयवाक्यत्वेन गृहीत्वा तेषां व्याख्यानमाचार्यैर्ब्रह्मसूत्रभाष्ये कृतं तथा केनोपनिषत्स्थमंत्राणां न कृतं तत्रत्यमन्त्राणां विषयवाक्यत्वाभावात्तेन पद- भाष्यं कृत्वाप्यपरितुष्यन्तो भगवत्पूज्यपादाः · पुनर्वाक्यभाप्यमबीभषन् अतएव पदशो व्याख्यायापि न तुतोष भगवान्भाप्यकारः इत्यानन्द- ज्ञानोक्तिः संगच्छते । तेन पदवाक्यमाप्यद्वयमाद्याचार्यकृतमेवेति । परं तन्न विचारक्षोदक्षमम् । यतो यथा केनोपनिषत्स्थमन्त्रा न विषयवाक्यत्वेन .
११ । ब्रह्मसूत्रे व्याख्यातास्तथेशावास्योपनिपद्गता अपि मन्त्रा विषयवाक्यत्वेन न ब्रह्मसूत्रे व्याख्यातास्तत ईशावास्योपनिषद्यपि भगवत्पूज्यपादैरन्यद्भाष्यं कृतं स्यात्तत्तु नोपलभ्यते तेन पूर्वोक्तं समाधानं स्थवीयः । किंचैतत्समाधान पूर्वोक्तवैलक्षण्यविवरणं न सहत इत्यन्यदेतत् । अन्त उभयोरपि भाष्ययोः । श्रीमत्परमहंसपरिव्राजिकाचार्येत्याधुक्ति- स्तु न निर्णयायालम् । लेखकभ्रमेणापि तथोक्तेः संभवात्। पदभाष्ये १ । २ मन्त्रेऽतिमुच्येत्यादिपदानामथवेत्यनेन प्रदर्शितोऽर्थों वाक्यभाष्येऽगीकृतः साधीयस्त्वात् । तेन वाक्यभाष्यं पदभाष्यादनन्तरकालजम् । पूर्व दृष्ट- योरर्थयोर्मध्ये द्वितीयस्य साधीयसोऽर्थस्य ग्रहणात् । नच पदभाष्य एव वाक्यभाष्यमंकृितमिति कुतो नोच्यत इति वाच्यम् । साधीयसोऽर्थस्य दर्शने न केनाप्यसाधीयानों गृह्यत इति लोकसिद्धत्वात् । एवमेव लौ- किकी परिपाटी वाक्यभाष्यकृद्धिराहता नेन पदभाष्यदृष्टार्थद्वये द्वितीय एव स्वीकृतः । यदि पदभाष्यमनन्तरस्थं स्यात्ताह पूर्वोऽसाधीयानर्थस्तेन नैव प्रदर्येत । पूर्वोर्थोऽसाधीयानिति पक्षान्तरप्रदर्शनप्रयोजकारुच्या, अथ- वेत्यनेन बोध्यते पदभाष्यकृतापि । पूर्वोक्तार्थस्यासाधीयस्त्वमध्याहार- स्वीकारात् । द्वितीयेऽर्थेऽध्याहारस्य प्रसंगो नास्तीति तस्य साधीयस्त्वम् । एतत्स्पष्टीकरणार्थ पदवाक्यभाष्यगतपङ्क्तयः प्रदर्श्यन्ते तथाहि-पदभाष्यम्- अतिमुच्य · श्रोत्राद्यात्मभावं परित्यज्य ये श्रोत्राद्यात्मभावं परित्यजन्ति ते धीरा धीमन्तः । नहि विशिष्टधीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्य- तुम् । प्रेत्य व्यावृत्यास्माल्लोकात्पुत्रमित्रकलत्रबन्धुषु ममाहंभावसंव्यवहारलक्ष- णात्त्यक्तसर्वैषणा भूत्वेत्यर्थः । अमृता अमरणधर्माणो भवन्ति । अथवातिमुच्ये- त्यनेनैवैषणात्यागस्य सिद्धत्वादस्माल्लोकात्प्रेत्यास्माच्छरीरात्प्रेत्य मृत्वेत्यर्थः । अत्र प्रथमार्थे श्रोत्राद्यात्मभावं ' इत्यध्याहारः कर्तव्यो भवति । वाक्यभाष्ये- ' अतिमुच्यानवबोधनिमित्ताध्यारोपिताहुट्यादिलक्षणात्संसारान्मोक्षणं कृत्वा धीरा धीमन्तः प्रेत्यारमाल्लोकाच्छरीरात्प्रेत्य वियुज्यान्यस्मिन्नप्रतिसंधी- यमाने निनिमित्तत्वादमृता भवन्ति ' ॥ ननु द्वितीयार्थेऽपि-अनवबोधनि- मित्तेत्यादिवाक्यभाष्यस्थपदानामध्याहारः कर्तव्यो भवतीति न वक्तव्य तस्याक्षेपेणैव लभ्यमानत्वात् । शरीराद्यात्मभावमिति पदस्य तु नाक्षेपेण लाभः । अतः पदभाष्यं पूर्व वाक्यभाप्यं तु पश्चात्तनम् । अयं वाक्यभाप्यकृत् शंकरानन्दात्प्राक्तनः । शंकरानन्दो विद्यारण्यगुरुस्तेन - शङ्करानन्दस्य कालत्रयोदशशतकं भवितुमर्हति । ततः प्राक्तनो वाक्यभाष्य- कृदाचार्य इत्येव निर्णेतुं शक्यम् । आनन्दज्ञानस्तु शंकरानन्दादाक्तनः । तेनेतरेयोपनिषद्भाप्यव्याख्यायां विद्यारण्यकृततरेयोपनिषद्दीपिकास्थस्य व- चसो निर्देशात् । आनन्दज्ञान आद्यशंकराचार्यशिष्यस्तत्समकालीनश्चेति केषांचिद्धान्तिः । यतो गुरुत्वेन ब्रह्मसूत्रभाष्यटीकायां तेन शुद्धानन्दस्य निर्देशः कृतः । तथाहि समाप्तिश्लोके---शुद्धानन्दाङ्घ्रियुग्मस्मृतिभरनिभृत प्रौढगाढोक्तिरू डानन्दज्ञानप्रणीता जगति मुदमियं सद्धियां संविधत्ताम् । इति । ततश्चैवं सिद्धम् । अन्येन शाङ्करपीठाधिष्ठितेनैकं भाष्य केनोपनि- षदि व्याख्यातं तस्य वाक्यभाप्यमिति संज्ञा कृता स्यात्परं कालवशादज्ञात्वा तत्कर्तारं भाष्याध्यायिभिरस्य वाक्यसंज्ञां दृष्ट्वा पूर्वभाष्यस्य पदभाष्यमिति संज्ञा कृता भवेत् । स चाय पदवाक्यभाप्यभेदः शङ्करानन्दात्प्राक्तनः 'व्याक- रिप्ये पदाध्वना' इति तत्कृतदीपिकाक्तेः । आनन्दज्ञानेन ततोऽक्ति- नेन भाष्यद्वये व्याख्याकरणं सुसंगतमेव । अपरितुष्यन्नित्याद्यानन्दज्ञानो- क्तिरपि तन्मत्यनुसारं न विरुध्यते । अत्र पदवाक्यभाष्यकर्तृविषये विदेशीयै- स्तूष्णीभाव एवांगीक्रियते तेन तद्विचारः कर्तुं न शक्यते । योऽयं मया- नुमानप्रमाणमादृत्यैतावता ग्रन्थेन विचारः कृतः स धाष्टर्यकोट्यन्तर्गतः स्या- दिति संभावये तथापि विचारशीलानामत्र विषये प्रवृत्त्यै सोऽलं भवत्विति मनीषयानुष्ठितत्वात्क्षमामर्हति विदुषाम् । ७ शाङ्करमतम् ( अद्वैतमतम् ) अस्मिन्मते ब्रह्मैव सत्यमन्यत्सर्व मिथ्या। जगदादि सर्व शुक्तौ रजत- मिव भासते । ब्रह्म निर्गुणमतएव शब्दैरप्रतिपाद्यम् । अतएव वाङ्मनसयोर- गोचरमिति श्रुतौ कथ्यते । सर्वज्ञत्वादयोऽपि ब्रह्मगुणा औपाधिकाः । जीवो ब्रह्मरूपोऽप्यज्ञानाद्भिन्न इव भाति । मनोबुद्ध्यायपाधिभिः सर्वोऽपि जनोऽ- हमिति प्रत्येति । अतएव सुषुप्तौ मनोबुद्ध्यादिलयेनाहमाकारप्रतीत्यभावः । एवं मोक्षावस्थायामप्युपाधिलयादहमाकारप्रतीत्यभावः । एवं चाहमिति प्रतीतिरौपाधिकी । अयं प्रातीतिको जीव एक एव नतु नाना । अन्तः- करणभेदात्सुखदुः वानुभवभेदः । चैतन्यं सर्वव्यापकं स एवात्मेत्यभिधीयते । अयमात्मेश्वरजीवसाक्षीति भेदेन त्रिविधः । सर्वजगन्मूलकारणमज्ञानं तस्मि- चैतन्यान्तर्गते सति स आत्मेश्वर इत्यभिधीयते । स एवेश्वरस्सत्त्वरजस्त- मोभिर्विष्णुब्रह्मशङ्करेति संज्ञा लभते । आत्मा ज्ञानस्वरूपो नतु ज्ञातस्व- रूपस्तस्य ज्ञातृत्वमहंकाराबुपाधिभिः प्रपञ्चम्यापि ज्ञेयत्वमज्ञानादेव । त्रिविधं सत्यत्वं प्रातिभासिकं, व्यावहारिकं पारमार्थिकं च तत्र प्रातिभासिकस्य शुक्ति- रजतादेर्व्यावहारिकसत्यरजतेन बाधः । व्यावहारिकसत्यत्वं घटपटादीनां तच्च पारमार्थिकसत्येन ब्रह्मदर्शनेन वाध्यते ब्रह्मणस्तु कस्यामप्यवस्थायां न बाधः । अत एव तत्परमार्थसत् । घटपटादीनां व्यवहारदशायां सत्यत्वं वस्तुतस्तु ते मिथ्याभूताः । स्वाग्निकपदार्थवत् । यथा स्वप्नगताः पदार्था जाग्रहशायां न सन्त्यतो मिथ्या तथा पारमार्थिकदशायामभावादेते व्यवहारदशायां विद्यमाना अपि घटादयो मिथ्या । पारमार्थिकात्मज्ञानेन तद्वाधात् । कासुचिच्छृतिषु सृष्टिराकाशादिक्रमेण कासुचिच्छृतिषु तेज आदिक्रमेण कुत्रचित्सर्वं ब्रह्मैव नान्यदित्युक्तम् । सर्वासां श्रुतीनामबाधित- प्रामाण्यात्तत्समन्वयोऽवश्यं कर्तव्यस्तथा चेदमेव सिध्यति यद्ब्रह्मैव सत्य- मिति पारमार्थिकदृष्टयोक्तम्। आकाशादिक्रमसृष्टिस्तु व्यावहारिकी । अने- नापि प्रमाणेन जगतो व्यावहारिकसत्यत्वम् । नतु परमार्थसत्यत्वम् । यदि जगत्परमार्थसत्स्यात्तयन्यत्किमपि नास्तीतिप्रतिपादिनी श्रुतिरनर्थिका स्यात् । एवं च सत्यानृते मिथुनीकृत्य नैसर्गिकोऽयं लोकव्यवहार इति मन्तव्यमत एवाज्ञानिदृष्टया तत्सत्यत्वं भासते । ज्ञानिदृष्टया च तस्य पिता अपिता भवति ' इत्युक्तरीत्या तस्य मिथ्यात्वम् । न केवलं सर्वस्य जगतो मिथ्यात्वं श्रुत्या बोध्यतेऽपि तु ‘स्वस्यापि मिथ्यात्वं श्रुतिनिरभि- मानितया ब्रूते । ननु मिथ्याभूतश्रुतेः सत्यज्ञानं कथमिति नच वाच्यम् । " यथा कर्मसु काम्येषु स्त्रियं स्वप्नेऽनुपश्यति । समृद्धिं तत्र जानीयात्त- स्मिन्स्वप्ननिदर्शने " इत्युपनिषदुक्तरीत्या मिथ्याभूतात्स्वप्नस्थस्त्रीदर्शनात्स- त्यसमृद्धिप्राप्तिरिवासत्याया अपि श्रुतेः सत्यभूतात्मदर्शनस्य संभवात् । यथा वा स्वाप्निकपदार्थानामसत्यत्वेऽपि तज्ज्ञानस्य सत्यत्वं तथा मिथ्या- भूताया अपि श्रुतेः सत्यात्मज्ञानम् । एतस्य सर्वजगतो मूलस्वरूपमनाद्य- विद्या सा च त्रिगुणात्मिका प्रलयकालसमाप्तिवेलायामविद्यया जीवकृत- कर्मभिश्च “ तदैक्षत बहु स्या प्रजायेय " इति रीत्या परमात्मा संकल्प- यति तत आकाशादिक्रमेण सृष्टयुद्गमः । ततश्च पंचीकृतपंचमहाभूतेभ्यः शरीरादीनि प्रादुर्भवन्ति । एवमुत्पन्नशरीरे प्रविष्टं चैतन्यं जीव इत्यभिधी- यते स नाणुः किन्तु व्यापकः सर्वस्मिञ्शरीरे सुखदुःखानुभवात् । स च जीवो मुक्तिपर्यन्तं स्थायी जन्मान्तरीयकर्मजसुखदुःखसम्बन्धात् । ननु ४ मतान्तर- जन्मान्तरं नाङ्गीक्रियत इति चेञ्जन्मसमकालं जायमानसुखदुःखानुभवस्या- नुपपत्तिः । मातृस्तनपानादावप्रवृत्त्या पत्तिश्च । तदानी कम्यापि कर्मणोऽसं- भवात्। जीवो विस्मृतकण्ठस्थच सीकरएलप इवात्मविस्मृतेरज्ञानात्मुखदुःखा- नुभवभाक् । अज्ञानं रिङ्गशरीरंन्थूलशरीरं चेत्युपाधिस्तस्य सदा प्रत्यासन्नः। अयमुपाधिदशमस्त्वममीति ज्ञानेन विम्मृतात्मस्वरूपस्याज्ञानमिवात्मज्ञा- नेन जीवात्मपरमात्मैक्यज्ञानापरपर्यायेण नश्यति सत्यज्ञानेन विना मिथ्याभूत- दर्शनस्यानिवृत्तेः । एवमविद्यानाशे जीवो मुक्तो भवति । तस्य ज्ञानाग्निः प्रारब्धेतराणि संचितक्रियमाणानि कर्माणि नाशयति । अस्यां दशायां प्रारब्धकर्माणि भुञ्जानः स विगतशरीराघभिमानो जीवन्मुक्त इत्यभिधीयते प्रारब्धकर्मावसाने देहपाते स विदेहमुक्तो भवति । इयमेव परमा मुक्तिः । अस्यां जीवः परमात्मसायुज्यं नाम स्वरूपमधिगच्छति । नच वदल्पेनापि सेवकादिरूपेण भिन्नम्तिष्ठति । यद्यपि जीवः सदैवात्मस्वरूप- स्तथापि भावरूपेणाज्ञानेनात्मानं मुखदुःखभाजं मनुते तदैव बद्ध इत्य- भिधीयते तादृशाज्ञानस्य निवृत्तौ स एव मुक्त उच्यते । साधनक्रमः । वेदविहितवर्णाश्रमकर्मणा चित्तशुद्धिस्ततो ब्रह्मनिष्ठगुरुं प्रति शरणगमनं तेन तत्त्वमसीति ज्ञानोपदेशस्तच्छ्रवणमनननिदिध्यासनैः संन्यासाश्रममधिव- सन्कर्माणि परित्यजंश्च स सुस्थिरज्ञानो मोक्षं लभते । कदाचिद्वामदेवादि- वत्पूर्वजन्मकृतकर्मभिः शुद्धचित्तोऽत्रं जन्मनि ज्ञानेन मुक्तो भवति । मो- क्षाप्तौ ज्ञानमेव साक्षात् साधनम् । कर्मोपासने तु चित्तशुद्धिचित्तैकाग्र्य- प्रापकत्वात्परंपरितसाधने । ज्ञानकर्मसमुच्चयस्तु नेष्टः । नित्यानित्यवस्तु- विवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत् , मुमुक्षुत्वं चेति साधनचतुष्टयसंपत्त्यनन्तरं ब्रह्मजिज्ञासा । अस्मिन्मतेऽनिर्वचनीयख्यातिः । प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुलब्ध्याख्यानि षट् प्रमाणानि । तत्रा- लौकिकार्थ आत्मनि शाब्दमेव मुख्यं प्रमाणम् । अन्यदनुमानादि तदव. ष्टम्भेन प्रमाणं भवति । अत्र मते विवर्तवादः । तत्स्वरूपं स्वप्रकाशपर- मानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पते । यथा शुक्तौ रजतं रज्जौ भुजङ्गमश्च । ननु शुक्तिरजतादौ सारूप्यं विवर्तत्वे कारणं जीवजडयोः सारूप्याभावेन चिद्विवर्तत्वं प्रपंचस्य कथमिति चेन्नैतत्साधु । नहि सारूप्यनिबन्धनाः सर्वे विभ्रमा इति व्याप्तिरास्ति । असद्रूपादपि कामादेः कान्तालिङ्गनादिष्विव स्वप्नविभ्र- मस्योपलम्भात् । किंच कदाचित्के विभ्रमे सारूप्यापेक्षा नानाद्यविद्यानिव- न्धने प्रपंचे तदुक्तमाचार्यवाचम्पतिना-विदर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणा- मिनः । अनादिवासनोद्भूतो न सारूप्यापेक्षते ।। इति । अस्य मतस्य सङ्गा- हकः श्लोकः ॥ " ब्रह्म सत्य जगन्मिथ्या जीवो ब्रह्मैव नापरः ” इति ॥ ८ रामानुजमतम् । विशिष्टाद्वैतमतम् ) विशिष्टाद्वैतशब्दार्थः-चिदचिद्विशिष्टस्य परमात्मनोऽद्वैतमथवा सूक्ष्मश- रीरविशिष्टस्य कारणरूपस्य परमात्मनस्तथा स्थूलशरीरविशिष्टस्य कार्यरूप- स्य परमात्मनश्चेत्युभयोरद्वैतम् । पदार्थास्त्रिविधा अचिच्चिदीश्वरभेदेन । तत्र प्रकृतिकालशुद्धसत्त्वभेदेनाचित्पदार्थस्त्रिविधः । तत्रापि प्रकृतिस्त्रिधा सूक्ष्म- सूक्ष्मतरसूक्ष्मतमेतिभेदेन । साच क्रमेणाव्यक्ताक्षरतम इति संज्ञिका । ईश्वरः परमात्मा स एव ब्रह्मेत्यभिधीयते । चिदचित् ( जीवजड ) पदार्थात्मकमी- श्वरस्य शरीरं तच्छरीरमपि स्थूलसूक्ष्मभेदेन द्विविधं सूक्ष्मशरीरयुतः पर- मात्मा स्थूलस्य जगत उपादानकारणम् । परमात्मन्यप्राकृताः शब्दस्पर्श- रूपरसगन्धाः शक्तिज्ञानानन्दादयश्च गुणाः सन्ति । सच सर्वाश्रयो व्यापकश्च तज्ज्ञानं शरीरमपि व्यापकम् । सच पंचविधः परव्यूहविभवान्तर्याम्यर्चाव- तारभेदेन । स एव सूक्ष्मचिदचित्पदार्थयुक्तो जगत उपादानं विशेषसंकल्प- युक्तश्च निमित्तकारणं भवति । तथा कालाधन्तर्यामितया सहकारिकारणं च भवति । अयं परमात्मा सर्वेषां चेतनाचेतनवस्तूनां प्रेरकः कर्मानुकूलफल- प्रदोऽप्युदासीनः सर्वजीवानां जडानां च नियन्ता कल्याणगुणपूर्णो हेय- गुणप्रत्यनीकः सर्वान्तर्याम्यचिन्त्यशक्तिबलैश्वर्यवीर्यतेजःसंपन्नो भक्तिलभ्य. श्चास्ति । जीवजडौ परमात्मनः शरीरभूते । एतद्विशिष्टपरमात्मातिरिक्तं जगति किंचिन्नास्ति । यद्यपि जीवजडौ विशिष्टपरमात्मनोऽनतिरिक्तौ तथापि केवलपरमात्मनस्तौ भिन्नौ नित्यौ च चिदपरपर्यायो जीवः स चाणुर्नतु व्यापकः । सच चेतन ईश्वराधीनकर्तृत्वगुणः स्वप्रकाशः सुखी नित्यः प्रति- शरीरं भिन्नश्च । सच बद्धमुक्तनित्यभेदेन त्रिविधः । ब्रह्मादिकीटान्ताः सर्वे संसारिजीवा बद्धाः । विमुक्तसंसाराः प्राकृतसूक्ष्मशरीररहिता वैकुण्ठे भगव- संनिधिनिवासिन आविर्भूताष्टगुणा ये ते मुक्तजीवाः । मूलत एव संसार- संबन्धरहिताः परमात्मेच्छानुवर्तिनोऽसंकुचितज्ञाना येऽनन्तगरुडादयस्ते सर्वे नित्यजीवाः । जीवात्मानोऽनन्ताः । जगत्प्रवाहश्चानादिः । नित्यजीवाः स्वे- । च्छया लीलाविभूतिष्ववतारं धारयन्ति । एतेषु नित्यजीवेषु यथाधिकारं तारतम्यं वर्तते । मुक्तजीवेषु तारतम्यं नास्ति । तेषां न कोऽप्यधिकारो नवा तेषामवतारधारणम् । मुक्तौ जीवैः परमात्मसादृश्यं लभ्यते न त्वैक्यम् । जीवो ज्ञातृस्वरूप आनन्दस्वरूपश्च तथा कर्ता भोक्ता । तस्य शरीरं प्रकृ- तिजन्यं पांचभौतिक सच स्वयं परमात्मनः शरीरभूतः । जीवात्मा लिङ्गदे- होपाधिना संसरति । सच लिङ्गदेहः प्राकृतोऽनादिश्च । उपाधिभूतलिङ्गदे- हत्यागेन जीवेन मोक्षो लभ्यते । मोक्षावस्थायामपि जीवस्य ज्ञातृत्वं न ही- यते । मोक्षार्थ जीवस्य ब्रह्मविचारो विधीयते । तत्र पूर्ववृत्तं कर्म ब्रह्मज्ञा- नेऽङ्गभूतम् । न साधनचतुष्टयसंपत्त्यानन्तर्य तत्रापेक्ष्यते । यत्रेश्वरनित्यजी- वमुक्तजीवाश्च विविधभोगानुपभुञ्जते । यत्रच कर्मरूपाविद्या न संभवत्यसो देशः शुद्धसत्त्वमित्यभिधीयते । एतत्सत्त्वं प्राकृतसत्त्वगुणतो विलक्षणम् । ज्ञानं स्वप्रकाशं चेतनं व्यापकं बुद्ध्यपरपर्यायं चास्ति । जीवेश्वरौ तदाधारभूतौ तयोर्धर्मो ज्ञानं तच्च स्वतः प्रमाणं बद्धदशायां तत्कर्माच्छन्नं संकुचितं भवति मोक्षे तु तद्विकसितं भवति । प्रकृतिपदार्थो जडो नित्यश्च । तया परमा- त्मस्वरूपमाच्छादितं भवतीति कर्मवश्या बद्धजीवा मन्यन्ते । इयं प्रकृतिः सत्त्वरजस्तम इति गुणत्रयात्मिका चतुर्विशतितत्त्वात्मिका च। तानि तत्त्वानि प्रकृतिमहत्तत्त्वमहंकारो मनः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च तन्मात्राणि पञ्च महाभूतानि चेति । एतेषु प्रथमतत्त्वं प्रकृत्याख्यं सर्वेषां जडानां मूलकारणम् । एतदतिसूक्ष्मं सृष्टयादौ परमात्मन इच्छया प्रकृतौ परिणम्यमानायां यथा यथा सूक्ष्मता हीयते तथा तथावस्थान्तरं भवति । तत्र प्रथमावस्था तम इत्यभिधीयते । द्वितीयावस्थाक्षरं, तृतीयावस्थाव्यक्तं च । इदं तृतीयमव्यक्तं नाम कार्योन्मुख्यव्यवस्था, अव्यक्तानन्तरं जायमानाः सर्वे परिणामा व्यक्ताः । तत्र प्रथमपरिणामो महत्तत्वम् । अत्र गुणत्रयसा- म्यं नास्ति । त्रिष्वन्यतमो गुणः प्रबलो भवति । महत्तत्वं ब्रह्मणः शरीरम् । अस्माज्जायतेऽन्तःकरणवृत्तिबुद्धिनाम्नी निश्चयाख्या । महत्तत्त्वात्सत्त्वगुण- प्राबल्येन जायमानः सात्त्विकोऽहंकारो वैकारिक इति कथ्यते । अस्मात्सा- त्त्विकाहंकारात्पंच ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चोत्पद्यते । एतदेव मनः स्मृत्यादीनां साधनं सर्वेन्द्रियाणां प्रेरक संसारबन्धकारणीभूतं च । अचिद्वस्तूनां यथा महत्तत्त्वादिरूपेण परिणामा भवन्त्येवं जीवात्मनो ज्ञान- धर्मसंकोचविकासादयोऽवस्था भवन्ति । तथात्मनोऽपि सृष्टयादिसंकल्पाद- १७ योऽवस्था भवन्ति । जडव्यापाराः सदा परबुध्द्यवलम्बनेन संभवन्ति । पर- मात्मनः सर्वे व्यापाराः स्वबुद्ध्यवलम्बनेन संभवन्ति । जीवस्य तु केचिदेव व्यवहारा ईश्वरबुद्ध्यवलम्बनेन केचित्स्वस्य परमेश्वरस्य चेत्युभयोर्बुद्धिमव- लम्ब्य प्रवर्तन्ते । केवलमेव म्वत्रुद्धिमवलम्ब्य जीवेन व्यवहारः कर्तुं न श- क्यते। जडपदार्थाः सदान्यस्य शरीरं भवन्ति । आत्मत्वं तु तेषां नास्ति। तथे- श्वरः सदात्मैव शरीरत्वं तस्यन स्ति । जीवस्तु म्थूलदेहस्यात्मा । ईश्वरस्य शरीरमित्युभयं भवति । अन्तर्नियामकत्वं चात्मशब्दप्रवृत्तिनिमित्तं तेन जीवः परमात्मेति द्वयमप्यात्मशब्देन व्यवह्रियते । अन्तर्यामित्वस्य परा काष्ठा परमात्मेति । ज्ञानं द्विविधं स्वरूपभूतं धर्मभृतं च । तत्र स्वरूप- भूतज्ञानं जीवामिन्नं धर्मभूतज्ञानं तु ततः पृथक् । एवंच स्वरूपभूतज्ञान- दृष्टया ज्ञानस्वरूपो जीवः । स एवाहमिति प्रतीत्या भासमानत्वाज्ञ. योऽपि । तथा तादृशज्ञानवत्वात् स एव ज्ञातृस्वरूपोऽपि । पञ्चीकृत- पञ्चमहाभूतानि महत्तत्त्वमहंकारश्चेति सप्त तत्त्वानि प्रकृतिश्चेत्यष्टभ्यः शरी- रोत्पत्तिः । ततस्तच्छरीरं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च भूष- यति । भक्तिः प्रपत्तिश्चेति मोक्षसाधने । भक्तिर्भजनम् । अनन्यभावेन पर- मेश्वरः शरणीकरणीय इति प्रपत्तिः । साधनक्रमश्चेत्थम्-कर्मज्ञानयोगौ भक्तिकारणम् । साधनभक्तिः प्रपत्त्यङ्गम् । साच प्रपत्तिर्यत्र देहे तदेहपात एव मोक्षः । अत्र मते प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम् । अन्यप्र- माणानामत्रैवान्तर्भावः । अत्र मते सत्ख्यातिः । जीवन्मुक्तिर्नास्ति । अत्र मतेऽद्वैतवाद्याहतो विवर्तवादः खण्ड्यते परिणामवादश्च म्वीक्रियते । तत्ता- त्पर्यमित्थम्-जगति विद्यमानानि सर्ववस्तूनि सत्यानि तानि मूलप्रकृति- परिणामभूतानि च । श्रुतिगतानि ' असत्यं' 'नास्ति' इति पदानि न मिथ्यार्थबोधकानि किन्तु विनाशित्वबोधकानि । परिणामिपदार्थस्वरूपं तत्तदवस्थासु भिद्यतेऽतस्ते पदार्था असत्या विनाशिन इत्युच्यन्ते नतु मिथ्याभूतत्वं तेषामिति मन्तव्यम् । एवं च जगत्सत्यमिति राद्धान्तः । ९ अद्वैतविशिष्टाद्वैतयो_लक्षण्यस्य स्थलानि । १ आत्मरूपमेकमेव अन्यन्नास्त्येव । १ चिदचिद्रूपशरीरविशिष्ट आत्मैक एव। तच्छरीरादन्यत्किचिन्नास्ति । २ आत्मा निर्विशेषो निर्गुणश्च । २ आत्मा सर्वज्ञत्वादिविशेषयुक्तः । के.नि. प्र.३ अनन्तकल्याणगुणाश्रयः । तत्र हेय- गुणा न मन्ति । ३ आत्मा ज्ञानस्वरूपो न ज्ञानगु- : ३ आत्मा ज्ञानस्वरूपोऽपि ज्ञानगु- णवान् । अतएव तस्य न वस्तुतो णाश्रयः । वस्तुत एव तम्य ज्ञातृ- ज्ञातृत्वम् । त्वम् । ४ आत्मा म्वरूपेण कूटस्थानत्यः । ४ परमात्मा स्वरूपेण कूटस्थनित्यः । तेनैव रूपेणाद्वितीयश्च । चिदचिद्रूपशरीरविशिष्टरूपेण तु प- रिणामिनित्यः । विशिष्टरूपेणैवाद्वि- तीयः । ५ परमात्मन एव मायोपाधिकमी ५ परमात्मैवेश्वरः । तच्छरीरभूतो श्वरत्वमविद्योपाधिकं जीवत्वम् । जडं जी वर्गो जडवर्गश्च । ततो भिन्न तु प्रातिमासिकं मिथ्यवेत्येकमेव । एवेति । चिचिदीश्वररूपं तत्त्वत्र- तत्त्वम् । यम् । ६ परमात्मनः सकाशादभिन्नापि ६ परमात्मनः सकाशाद्वस्तुतो भिन्नेव त्रिगुणा परमात्मशक्तिरज्ञा- भिन्नं त्रिगुणात्मकं प्रधानं जगतो नादिपदवाच्या तदुपहितः परमात्मा मूलप्रकृतिः । जगतो मूलप्रकृतिः । ७ अस्मिन्मते विवर्तवादः । अज्ञा ७ अस्मिन्मते परिगामवादः प्रधान- नेन परमात्मन्येवेदं जगद्भासत इत्ये- मेवान्तामश्विरसानिध्याज्जगदाका-- वरूपः । अत्र रज्जुसर्पदृष्टान्तः । रेण परिणमत इतिरूपः । अत्र पयोद- धिदृष्टान्तः । ८ परमात्मविवर्तभूतं प्रातिभासिक ८ प्रधानपरिणामभृतं चेदं जगत्स- मिदं जगन्मिथ्येव । ९ अत्र मतेऽनिर्वचनीयख्यातिः । ९ अत्र मते सख्यातिः । वस्तुतः अनिर्वचनीयं चेदं जगढज्ञानदोषेण मत्यमेव जगत्प्रतीयत इतिरूपा । भासत इतिरूपा। १० शुक्तिरजतस्यले म्वप्नादो चा. १० शक्तिरजतन्थले स्वप्नादौ च निर्वचनीया एवार्था भासन्ते । मत्या एवार्थाः प्रतीयन्ते । ११ तत्त्वमम्यादिशास्त्रममि ११ तत्त्वमम्यादिशास्त्रं सत्यमेवात दन्तर्गतत्वादसत्यमेव । तथापि त एव तत्तत्त्वज्ञानसाधकम् । त्यमेव ।
त्वज्ञानसाधनं भवत्येव । म्वानप दार्थवत् । १२ प्रमाणानि पटू । प्रत्यक्षानु- १२ प्रमाणानि त्रीणि । प्रत्यक्षानु- मानोपमानागमार्थापत्त्यनुपलब्ध्या. मानागमरूपाणि । ख्यानि । १३ परमात्मनोऽभिन्ना जीवाः । १३ जीवाः परमात्मनः सकाशा- तपां परमात्मवदेव ज्ञानस्वरूपत्वं द्भिन्नास्तच्छरीरभूता अपि ज्ञानस्व- नतु वस्तुतो ज्ञानाश्रयत्वं किन्त्वन्तः- | रूपा ज्ञानगुणकाश्चेति तेषां वस्तुत करणोपाधिकं ज्ञातृत्वम् । एव ज्ञातृत्वम् । १४ जीवो व्यापकः । १४ जीवोऽणुरूपः । १५ जीवो ब्रह्मस्वरूपत्वादेक एव । १५ जीवा वस्तुन एव नानाविधाः। तदनेकत्वं त्वौपाधिकम् । जीवाद्वैतं तु प्रकाराद्वैतम् । १.६ साधनचतुष्टयसम्पत्त्यनन्तरं ब्र १६ कर्मस्वरूपज्ञानानन्तरं ब्रह्मजि- ह्मजिज्ञासा । ज्ञासा । १७ तत्त्वमस्यादिमहावाक्यैरात्मसा- | १७ तत्त्वमस्यादिमहावाक्यजन्योपा- क्षात्कारेऽविद्यानिवृत्त्या शरीरसत्त्वे- सनादायन परमात्मा प्रसन्नो भवति । ऽपि जीवदशायां मुक्तिः । तथापि यावच्छरीरं सुखदुःखानु- भवावश्यकत्वान्न जीवदशायां मुक्तिः। १८ प्रारब्धकर्मणां भोगेन क्षये। १८ प्रारब्धकर्मक्षये लौकिकशरीर- शरीरत्यागे स्वम्वरूपेऽवस्थितिरूपा त्यागे दिव्यदेहप्राप्त्या परमात्मना विदेहमुक्तिः । मह परमं साम्यं भवति । इयमेवा- स्मिन्मते मुक्तिः । १९ मुक्तो नीवब्रह्मणोर्भेदो नास्ति। १९ मुक्तावपि जीवब्रह्मणोर्मेदोऽस्ति । २० मुक्तावस्थायां न लेशतोऽपि । २० मुक्तावस्थायां दुःखलेशेना- दुःख न सुखं भवति । भिन्नं सुखाधिक्यमनुभूयते । १० प्रकाशिका. यथा श्रीमच्छङ्कराचार्यैः प्रस्थानत्रये स्वयं भाष्यं व्यरचि न तथा श्री- रामानुजाचार्यैः । यतस्तेषा भगवद्गीतासु ब्रह्मसूत्रेषु च भाप्यमुपलभ्यते । उपनिषत्सु रङ्गरामानुजाचार्याणां प्रकाशिकाख्या टीकैवोपलभ्यते । एते रङ्गरामानुजाचार्याः श्रीमाप्यटीकायाः श्रुतप्रकाशिकायाः प्रणेतुः श्रीसुदर्श- नाचार्यादर्वाचीनाः। यतस्तैः कठोपनिषत्प्रकाशिकायां श्रुतप्रकाशिकाया बहुशो निर्देशः कृतः । केनोपनिषदि प्रकाशिकायां प्रायो विशेषविवरणं नास्ति । कुत्रचित्स्थलेषु द्वितीयखण्डचतुर्थमन्त्रादिप्वध्याहारपूर्वकं व्या- ख्यानं कृतम् । तत्र शाङ्करव्याख्यानमेव श्रेयः। अध्याहाराभावात् । ११ बालबोधिनी. केनोपनिषदो व्याख्यात्रये बालबोधिनी नाम वृतिर्मया व्यरचि साच यावच्छक्यमन्वर्थनाम्नी यथा स्यात्तथा प्रयतितम् । यद्यपि पदवाक्य- भाष्यद्वय आनन्दज्ञानकृता सर्वाङ्गपूर्णा टीकास्ति । तथापि नव्यच्छात्राणां मन्दव्युत्पत्तीनां कृतेऽवश्यमस्या उपयोगो भविष्यतीति संभावये। किंच प्रकाशिका नैतावता कालेन केनापि व्याख्याता सापि व्याख्यातात्र । अत्र च तत्तन्मतानि सुविशदं निरूपितानि । यद्यपि मया बालबोधिन्यां सर्व- त्रानन्दज्ञानप्रदर्शितः पन्या आइतस्तथापि क्वचिद्वैमत्यमप्यस्ति । यथा प्रथमखण्डे प्रथममन्त्रे पदभाष्ये । इपितमित्यत्रेडागमछान्दसः' इत्यत्र । तथा द्वितीयखण्डे चतुर्थमन्त्रे वाक्यभाष्ये । अत्र यद्वैमत्यकारणं तत्तत्रैव बालबोधिन्यां प्रादर्शि । मोहमयीप्रान्तस्थविश्वविद्यालयसमित्या केनकठोप- निषदौ शाङ्करभाष्यरङ्गरामानुजकृतप्रकाशिकासहिते बी. ए. श्रेणीपरी- क्षार्थ नियमिते । तयोर्भाष्याणि प्रकाशिका चैतत्कालपर्यन्तं भिन्नपुस्तकयो- र्मुद्रितान्यासन् । तेन तत्संजिवृक्षणां विद्यार्थिनां वैरस्यमुपलभ्य भाष्यप्रका- शिकानां भिन्नमतस्थानां व्याख्यानामेकस्मिन्पुस्तके निवेशेन यथा सुकर- तया वैलक्षण्यं ज्ञातुं शक्यते तथा तद्भिन्नपुस्तकस्थाना ज्ञातुं न शक्यतेति निरूप्य चैकत्रैवैता भिन्नमतस्था व्याख्या मुद्रिताः । तासां च बालबोधिनी विषमपदार्थानां बोधिका विशेषतस्तत्तत्सिद्धान्तप्रदर्शिनी चान्ते पत्रसंख्या- निर्देशपूर्वकं प्रतिमन्त्रं न्यवोशि। व्याख्यात्रयनिर्दिष्टवचसां च स्थलानि लब्धालब्धविभागेन प्रदर्शितानि । तदेतत्पुस्तकमुपयुज्य विद्यार्थिनः कृत- कार्या भवेयुर्विद्वांसश्च विमर्शशालिनो विमत्सराः कृपयोपलभ्यमानं मानुषशे- मुषीसुलभं शास्त्राव्युत्पत्तिजन्यं वा प्रमादं दर्शयेयुस्तेन कृतकृत्यतामा- नयिष्याम्यात्मानमिति मन्यमानः- पुण्यपत्तने-चैत्रशुक्लप्रतिपत्र विद्वद्वशंवदः पाठकोपाव्हस्व्यम्बक- १८४१ मिते शाके तनूजनु: श्रीधरशर्मा। - अथ सामवेदीयतलवकारशाखोक्ता ॐ केनोपनिषद् श्रीशंकराचार्यविरचितपदभाष्यवाक्यभाष्य- श्रीरंगरामानुजविरचितप्रकाशिकासमेता। ॐ तत्सद्ब्रह्मणे नमः । [ पदभाष्यम् ] केनेषितमित्याद्योपनिषत्परब्रह्मविषया वक्तव्येति नवमस्या- ध्यायस्यारम्भः। प्रागेतस्मात्कर्माण्यशेषतः परिसमापितानि । समस्तकर्मा- श्रयभूतस्य च प्राणस्योपासनान्युक्तानि कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तम् । कार्य सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्धयर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षि- णमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वादिस्थावरान्ताधोगतिः स्यात् । : स्यात् । “ अथैतयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीय [वाक्यभाष्यम् ] समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम् । ययोर्विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्वं फलनिरपेक्षज्ञानकर्मसमुच्चयानुष्ठानात्कृतात्मसंस्कारस्योच्छिन्ना- त्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनोऽनिर्माताशेषबाह्यविषयत्वात्संसा- रबीजमज्ञानमुच्चिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः केनेषितमित्यात्मस्वरू- पतत्त्वविज्ञानायायमध्याय आरभ्यते । तेन च मृत्युपदमज्ञानमुच्छेत्तव्यं तत्तन्त्रो हि संसारो यतः। अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानुक्तिः । तद्विरोधित्वात् । अस्य विजिज्ञासितव्य- केनोप १ ई. १-१ केनोपनिषद् [पदभाष्यम् ] स्थानम्।" छां.५।१०।८ इति श्रुतेः । “प्रजा ह तिस्रो अत्या- यमीयुः" इति मन्त्रवर्णाद्विशुद्धसत्त्वस्य तु निष्कामस्यैव बाह्यादनित्यात्साध्य- साधनसंवन्धादिह कृतात्पूर्वकृताद्वा संस्कारविशेषोद्भवाद्विरक्तस्य प्रत्यगात्म- विषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नप्रतिवचनलक्षणया श्रुत्या प्रद- य॑ते-केनेषितमित्याद्यया । काठके चोक्तम् .८ पराञ्चि खानि व्यतृण- स्वयंभूस्तम्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदा- वृत्तचक्षुरमृतत्वमिच्छन्” क. ४।१ इत्यादि ।"परीक्ष्य लोकान्कर्मचितान्बा. ह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्स- मित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ” मुं. १।२।१२ इत्याद्याथर्वणे च । एवं विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते नान्यथा। एतस्माच प्रत्यगात्मब्रह्मविज्ञानात्संसारबीजमज्ञानं कामकर्मप्रवृ- त्तिकारणमशेषतो निवर्तते । “तत्र को मोहः कः शोक एकत्वमनुपश्यतः" ७ इति मन्त्रवर्णात् । “ तरति शोकमात्मवित् " छां. ७।१।३ इति, “ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥” मुं.२।२।८ वाक्यभाष्यम् ] स्यात्मतत्त्वस्य कर्मविषयेऽवचनम् । कस्मादिति चेदात्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशयब्रह्मस्वरूपो ह्यात्मा विजिज्ञा- पयिषितः । “ तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्" के. ११४ इत्यादिश्रुतेः । नहि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कंचन नमितुमिच्छत्यतो ब्रह्मा- स्मीति संबुद्धो न कर्म कारयितुं शक्यते । न ह्यात्मानमवाप्ताथै ब्रह्म मन्य- मानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिरतो विरु- ध्यत एव कर्मणा ज्ञानम् । अतः कर्मविषयेऽनुक्तिर्विज्ञानविशेषविषयैव जिज्ञासा । कर्मानारम्भ इति चेन्न । निष्कामस्य संस्कारार्थत्वात् । यदि ह्यात्म- विज्ञानेनात्माविद्याविषयत्वात्परितित्याजयिषितं कर्म ततः "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ” इत्यनारम्भ एव कर्मणः श्रेयानल्पफलत्वा- दायासबहुलत्वात्तत्त्वज्ञानादेव च श्रेयःप्राप्तेरिति चेत्सत्यम् । एतदविद्या- विषयं कर्माल्पफलत्वादिदोषवहन्धरूपं च सकामस्य । “कामान्यः कामयते" मुं.३।२।२ " इति नु कामयमानः" इत्यादिश्रुतिभ्यः । न निष्कामस्य । १ भात्मानमवातार्थामतिस्थान आत्मानमेवात्यर्थमिति पाठः।
३ भाष्यत्रयोपेता १-१ सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ॐ शान्तिः । शान्तिः । शान्तिः । [पदभाष्यम् । इत्यादिश्रुतिभ्यश्च । कर्मसहितादपि ज्ञानादेतत्सिध्यतीति चेन्न । वाजसनेयके तस्यान्यकारणत्ववचनात् । " जाया मे स्यात् "बृ.१।४।१७ इति प्रस्तुत्य " पुत्रेणायं लोको जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया देवलोकः " बृ. ११५।१६ इत्यात्मनोऽन्यस्य लोक- त्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारित्राज्यविधाने हेतु. रुक्त:- किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः बृ. ४।४।२२ इति । तत्रायं हेत्वर्थः-प्रजाकर्मतत्संयुक्तविद्याभिर्म- नुष्यपितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्तिकारणैः किं करिष्यामो न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टं येषामस्माकं स्वाभावि- कोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः । स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्यसाधननिष्पाद्यस्त- स्मात्प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वेषणासंन्यास एव कर्तव्य इति । कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञानस्य । न ह्युपात्तकारकफल. भेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्मब्रह्मविषयस्य वाक्यभाष्यम् ] तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकाश्रयप्राण- विज्ञानसहितानि । “ देवयाजी श्रेयानात्मयाजी वा " इत्युपक्रम्यात्मयाजी तु करोति “ इदं मेऽनेनाङ्गं संस्क्रियते” श. ब्रा. इति संस्कारार्थमेव कर्मा- णीति वाजसनेयके। महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । " यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।। " भ.गी. १८५ इत्यादिस्मृतेश्च । प्राणादिविज्ञानं च केवलं कर्मसमुच्चितं वा सका- मस्य प्राणात्मप्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्मज्ञानप्रतिबन्धनि- ष्टिधैं भवति । आदर्शनिर्मार्जनवत् । उत्पन्नात्मविद्यस्य त्वनारम्भो निरर्थकत्वात् । " कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥” इति १-१ केनोपनिपद आप्यारन्तु ममाङ्गानि वाक्माणश्चक्षुः श्रोत्रमथो बल- मिन्द्रियाणि च सर्वाणि सर्व ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्या मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते माये सन्तु ॥ ॐ शान्तिः । शान्तिः । शान्तिः । [पदभाप्यम्] सहभावित्वमुपपद्यते । वस्तुप्राधान्ये सत्यपुरुषतन्त्रत्वाद्ब्रह्मविज्ञा- नस्य । तस्मादृष्टादृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासेयं केनेषितमित्यादिश्रुत्या प्रदर्श्यते । शिष्याचार्यप्रश्नप्रतिवचन- रूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात्सुखप्रतिपत्तिकारणं भवति । केवलतर्का- गम्यत्वं च दर्शितं भवति । “ नैषा तर्केण मतिरापनेया " क. २।९ इति श्रुतेश्च । “ आचार्यवान्पुरुषो वेद" छां. ६।१४।२ “ आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् " छां. ४।९।३ इति । " तद्विद्धि प्रणिपा- तेन " भ.गी. ४।३१ इत्यादिश्रुतिस्मृतिनियमाच्च । कश्चिद् गुरुं ब्रह्म- [वाक्यभाष्यम् ] . " क्रियापथश्चैव पुरस्तात्संन्यासश्च तयोः संन्यास एवा- त्यरेचयत्" इति “ त्यागेनैके" म. ना. १०१५ “ नान्यः पन्था विद्यते" श्वे. ३।८ इत्यादिश्रुतिभ्यश्च, न्यायाच्च । उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य ज्ञानेन त्वमृतत्वप्राप्तिः, “अमृतत्वं हि विन्दते" के. १।२।१२ " विद्यया विन्दतेऽमृतम् ” के. १।२।१२ इत्यादि- श्रुतिस्मृतिभ्यश्च । नहि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्व्ये सति । नहि स्वभावसिद्धं वस्तु सिषाधयिषति साधनैः स्वभावसिद्धश्चात्मा । तथा नापिपयिषितः । आत्मत्वे सति नित्या- पत्वात् । नापि विचिकारयिषितः । आत्मत्वे साते नित्यत्वादविकारित्वाद- विषयत्वादमूर्तत्वाच्च। श्रुतेश्च “न वर्धते कर्मणा"बृ.४।४।२३इत्यादि। स्मृतेश्च "अविकार्योऽयमुच्यते"भ.गी.२।२५ इति। नच संचिकीर्षितः। “शुद्धमपापवि- द्धम् ” ई. ८ इत्यादिश्रुतिभ्यः। अनन्यत्वाच्च । अन्येनान्यत्संस्क्रियते । न चात्मनोऽन्यभूता क्रियास्ति, न च स्वेनैवात्मना स्वमात्मानं संचिकीर्षेत् । न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्ट ६ भाष्यत्रयोपेता b ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः। पदभाष्यम् ] निष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन्नभयं नित्यं शिवमचलमिच्छन्पप्रच्छेति कल्प्यते । केनेषितमित्यादि । केनेषितमिति केन कत्रेषितमिष्टमभिप्रेतं सन्मनः पतति गच्छति स्वविषयं प्रतीति संबध्यते। इषेराभीक्ष्ण्यार्थस्य गत्यर्थस्य चेहासंभवादिच्छार्थस्यैवैतद्रूपमिति गम्यते । इषितमितीट्प्रयोगस्तु च्छान्दसः। तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत् । तत्र प्रेषितमित्येवोक्ते प्रेषयितृप्रेषणविशेषविषयाकाङ्क्षा स्यात् । केन प्रेषयितृविशेषेण । कीदृशं वा प्रेषणमिति । इषितमिति तु विशेषणे सति तदुभयं निवर्तते। कस्येच्छामात्रेण प्रेषितमित्यर्थविशेषनिर्धारणात् । यद्येषोऽ- र्थोऽभिप्रेतः स्यात्केनेपितमित्येतावतैव सिद्धत्वात्प्रेषितमिति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्तमितीच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवगन्तुं युक्तः । न । प्रश्नसामर्थ्यादेहादिसंघातादनित्या- त्कर्मकार्याद्विरक्तोऽतोऽन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथेच्छावाकर्मभिर्देहादिसंघातस्य प्रेरयितृत्वं प्रसिद्ध- मिति प्रश्नोऽनर्थक एव स्यात् । एवमपि प्रेषितशब्दस्यार्थो न प्रदर्शित एव । न । [वाक्यभाप्यम् ] मोक्षस्याअत उत्पन्न विद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्या- वृत्तबाह्यबुद्धेरात्मविज्ञानाय केनेषितमित्याद्यारम्भः । प्रवृत्तिलिङ्गाद्विशेषार्थः प्रश्न उपपन्नः । रथादीनां हि चेतनावदधिष्ठितानां प्रवृत्तिदृष्टा नानधिष्ठिता- नाम् । मनआदीनां चाचेतनानां प्रवृत्तिर्दृश्यते । तद्धि लिङ्गं चेतनावतोs- धिष्ठातुरस्तित्वे । करणानि हि मनआदीनि नियमेन प्रवर्तन्ते । तन्नासति चेतनावत्यधिष्ठातर्युपपद्यते । तद्विशेषस्य चानधिगमाच्चेतनावत्सामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते । केनेषितं केनेष्ट कस्येच्छामात्रेण मनः पतति गच्छति स्वविषये नियमेन व्याप्रियत इत्यर्थः । मनुतेऽ- नेनेति विज्ञाननिमित्तमन्तःकरणं प्रेषितमिवेत्युपमार्थः । विषितप्रेषितशब्दयोराविह संभवतः । न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्माविविक्तनित्यचित्स्वरूपतया तु निमित्तमात्रं प्र- वृत्तौ नित्यचिकित्साधिष्ठातृवत् । प्राण इति नासिकाभवः । प्रकरणात् । प्रथमत्वं चलनक्रियायाः प्राणनिमित्तत्वात्स्वतो विषयावभासमात्रं करणानां मनः
१-१
केनोपनिषद्
केनषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥
[पदभाप्यम् ] संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते । किं
यथाप्रसिद्धमेव कार्यकारणसंघातस्य प्रेषयितृत्वं किंवा संघातव्यतिरिक्तस्य
स्वतन्त्रस्येच्छामात्रेणैव मनआदिप्रेषयितृत्वमित्यस्यार्थस्य प्रदर्शनार्थ केने-
षितं पतति प्रेषितं मन इति विशेषणद्वयमुपपद्यते । ननु स्वतन्त्रं मनः
स्वविषये स्वयं पततीति प्रसिद्धम् । तत्र कथं प्रश्न उपपद्यत इति । उच्यते।
यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषयं स्यात्तर्हि सर्वस्यानिष्टचिन्तनं न
स्याइनर्थ च जानन्संकल्पयति । अत्युग्रदुःखे च कार्ये वार्यमाणमपि प्रव-
तत एव मनस्तस्माद्युक्त एव केनेषितमित्यादिप्रश्नः । केन प्राणो युक्तो
नियुक्तः प्रेरितः सन्!ति गच्छति स्वव्यापार प्रति । प्रथम इति प्राणविशे.
षणं स्यात्तत्पूर्वकत्वात्सर्वेन्द्रियवृत्तीनाम् । केनेषितां वाचमिमां शब्दलक्षणां
वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे म्वे विषये क उ देवो द्योत-
नवान्युनक्ति नियुङ्क्ते प्रेरयति ॥ १ ॥
[वाक्यभाष्यम् ] प्रवृत्तिः। चलिक्रिया तु प्राणम्यैव मनआदिषु तस्मात्प्राथम्यं
प्राणस्य प्रति गच्छति युक्तः प्रयुक्त इत्येतत् । वाचो वदनं किंनिमित्तं प्रा-
णिनां चक्षुःश्रोत्रयोश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतनावान्यः
स किंविशेषण इत्यर्थः ॥ १ ॥
[प्रकाशिका ] अथ कश्चिद्धन्यो ब्रह्म जिज्ञासु डानां मनःप्रभृतीनां कर-
णानां प्रवृत्तिस्तत्प्रवर्तकचेतनमन्तरेणानुपपन्नेति सामान्यतोऽवगत्य तत्प्रव-
तकचेतनविशेषबुभुत्सया पृच्छति । मन इषितमिष्टं साध्वसाधु वा विषयं
प्रति केन देवेन प्रेषितं सत्पतति गच्छति । करणत्वादश्यं केनचित्प्रेरित-
मिति वाच्यम् । न तावज्जीव एव प्रेरकः । तेन निगृह्णतोऽपि (निगृहीत-
स्यापि) मनसो विषयं प्रति पतनात् । अतो बलवता केनचिद्देवेनैव प्रेरितमिति
वक्तव्यं स इति भावः । एवमग्रेऽपि बोध्यम् । इषितमितीडागमश्छान्दसः ।
अथ प्रथमः प्राणः पञ्चानां प्राणानां मुख्यः प्राणः केन प्रयुक्तः प्रेरितः
सन्प्रैति याति स्वव्यापारं करोतीत्यर्थः । इमां लौकिकी वैदिकी च वाचं
केनेषितां प्रेरितां वदन्ति जीवा इति शेषः। चक्षुः श्रोत्रमिति प्राण्यङ्ग-
त्वादेकवद्भावः । उ संबुद्धौ । भो देशिक को देवो युनक्ति नियुङ्क्ते प्रेर-
यतीत्यर्थः । इदमुपलक्षणं शेषकरणानाम् ॥ १ ॥
भाष्यत्रयोपेता १-२ श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं [पदभाष्यम् ] एवं पृष्टवते योग्यायाह गुरुः शृणु त्वं यत्पृच्छसि मनआदिकर- णजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति । श्रोत्रम्य श्रोत्रं शृणोत्यनेनेति श्रोत्रं शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियं तस्य श्रोत्रं स यस्त्वया पृष्टश्चक्षुः श्रोत्रं क उ देवो युन- क्तीति । असावेवंविशिष्टः श्रोत्रादीनि नियुक्त इति वक्तव्ये नन्वेतदन- नुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोषः । तस्यान्यथाविशेषा- नवगमात् । यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादिनियोक्तावगम्येत दात्रादिप्रयोक्तृवत्तदेदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिवदधि- गम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेणालोचनसंकल्पाध्यव- सायलक्षणेन फलावसानलिङ्गेनावगम्यते । अस्ति हि श्रोत्रादिभिरसंहतो यत्प्र- योजनप्रयुक्तः श्रोत्रादिकलापो गृहादिवदिति संहतानां पदार्थत्वादवगम्यते [वाक्यभाष्यम् ] श्रोत्रस्य श्रोत्रमित्यांदिप्रतिवचनं निर्विशेषस्य निमित्तत्वार्थम्। विक्रियादिविशेषरहितस्यात्मनो मनआदिप्रवृत्तौ निमित्तत्वमित्येतच्छ्रोत्रस्य श्रोत्रमित्यादिप्रतिवचनस्यार्थः । अनुगमात्तद्नुगतानि ह्यत्रास्मिन्नर्थेऽक्ष- राणि । कथं, शृणोत्यनेनेति श्रोत्रं तस्य शब्दावभासकत्वं श्रोत्रत्वम् । शब्दोपलब्धृरूपतयावभासकत्वं न स्वतः श्रोत्रस्याचिद्रूपत्वात् । आत्म- नश्च चिद्रूपत्वात् । यच्छ्रोत्रस्योपलब्धृत्वेनावभासकत्वं तदात्मनिमित्त- त्वाच्छ्रोत्रस्य श्रोत्रमित्युच्यते । यथा क्षत्रस्य क्षत्रं यथा वोदकस्यौष्ण्य- मग्निनिमित्तमिति दग्धुरप्युदकस्य दग्धाग्निरुच्यते । उदकमपि ह्यग्निसं- योगादग्निरुच्यते । तद्वदनित्यं यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वमग्नाविवौ ष्ण्यं स नित्योपलब्धिस्वरूपत्वाद्दग्धेवोपलब्धोच्यते । श्रोत्रादिषु श्रोतृत्वाधु- [प्रकाशिका] इति शिष्येणानुयुक्त आचार्य उवाचेति ज्ञेयम् । यत् । यः । श्रोत्रस्य श्रोत्रं शब्दभासकत्वशक्तिप्रदः । मनसो मनो मननशक्तिप्रदः । वाचो वागिन्द्रियम्य वाचं शब्दोच्चारणशक्तिप्रदः । प्राणस्य प्राणः प्राण- नशक्तिप्रदः । चक्षुषश्चक्षुर्दर्शनशक्तिप्रदः । श्रोत्रादेनियन्ता यस्त्वया पृष्टः स केनोपनिषद् ८ स उ प्राणस्य प्राणश्चक्षुषश्चक्षुः। अतिमुच्य धीराः [पदभाष्यम् ] श्रोत्रादीनां प्रयोक्ता । तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रम्य श्रोत्रमित्यादि । कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः । नपत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः । यथा प्रकाशम्य प्रकाशान्तरेण । नैष दोषः । अयमत्र पदार्थ:-श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थ दृष्टम् । तच्च स्वविषयव्यञ्ज- नसामर्थ्य श्रोत्रस्य चैतन्ये ह्यात्म ज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति नासतीत्यतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते । तथा च श्रुत्यन्तराणि-- " आत्मनवायं ज्योतिषास्ते ” बृ० ४।३।६ " तस्य भासा सर्व- मिदं विभाति " का० १।१९ “ येन सूर्यस्तपति तेजसेद्धः” इत्यादीनि । " यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ।। भ० गी० १३१३३ इत्यादि गीतासु। काठके९।१३ च-"नित्यो नित्यानां चेतनश्चेतनानाम्" इति। वाक्यभाष्यम् ] पलब्धिरनित्या नित्या चात्मन्यतः श्रोत्रस्य श्रोत्रमित्याद्यक्ष- राणामर्थानुगमादुपपद्यते निर्विशेषस्योपलब्धिस्वरूपस्यात्मनो मनआदिप्रवृत्ति- निमित्तत्वमिति । मनआदिप्वेवं यथोक्तम् । वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयं सर्वत्रैव द्रष्टव्यम् । कथं, पृष्टत्वात्स्वरूपनिर्देशः। प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया । अतो वाचो ह वाचं प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् । यदेतच्छ्रोत्राद्युपलब्बिनिमित्तं श्रोत्रस्य श्रोत्रमित्यादिलक्षणं नित्योपलब्धिस्वरूपं निर्विशेषमात्मतत्त्वं तद्- बुद्ध्वातिमुच्यानवबोधनिमित्ताध्यारोपिताबुद्धयादिलक्षणात्संसारान्मोक्षणं [प्रकाशिका] देव इत्यन्वयः। तथा च श्रुतयः “ यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयति ” बृ०३।७।२० “ यो वाचि तिष्ठन्वाचमन्तरो यमयति" बृ० ३।७। १७ “ यः श्रोत्रे तिष्ठञ्छ्रोत्रमन्तरो यमयति ” बृ० ३।७। १९ ॥ यश्चक्षुषि तिष्ठंश्चक्षुर- न्तरो यमयति" बृ० ३।७।१८ “ यः प्राणे तिष्ठन्प्राणमन्तरो यमयति" बृ०३।७।१६ । इत्याद्या नारायणस्यान्तर्यामित्वप्रतिपादिका इति । स इत्यनेन तादृशो नारायणो देव इति भावः । तथा च भगवद्वाक्यम्- "मत्तः सर्व प्रवर्तते। इन्द्रियाणि मनो वुद्धिरित्याद्युक्त्वा वासुदेवात्मकान्या- भाप्यत्रयोपेता १-२ ] प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ [पदभाप्यम् ] श्रोत्रायेव सर्वस्यात्मभूतं चेतनमिति प्रसिद्धं तदिह निवर्त्यते । अस्ति किमपि विद्वबुद्धिगम्यं सर्वान्तरतमं कूटस्थमनरममृतमभयमजं श्रोत्रा- देरपि श्रोत्रादि तत्सामर्थ्यनिमित्तमिति प्रतिवचनं शब्दार्थश्चोपपद्यत एव । तथा मनसोऽन्तःकरणस्य मनः । न ह्यन्तःकरणमन्तरेण चैतन्यज्योतिषाऽ- दीपितं स्वविषयसंकल्पाध्यवसायादिममर्थ स्यात् । तस्मान्मनसोऽपि मन इति । इह बुद्धि मनसी एकीकृत्य निर्देशो मनस इति । यद्वाचो ह वाचम् । यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः संबध्यते । यस्माच्छ्रोत्रस्य श्रोत्रम् । यस्मान्मनसो मन इत्येवम् । वाचो ह वाचमिति द्वितीया प्रथमात्वेन विप- रिणम्यते । प्राणस्य प्राण इति दर्शनात् । वाचो ह वाचमित्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्वितीयैव न क्रियते। न । बहूनामनुरोधस्य युक्त- त्वाद्वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्व- यानुरोधेन । एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथ- मयैव निर्देष्टुं युक्तम् । स यस्त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणस्तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्मनानधिष्ठितस्य प्राण- नमुपपद्यते । “को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् तै० ० २ । ७ । १ . ऊर्ध्व प्राणमुन्नयत्यपानं प्रत्यगस्यति " क० ५। ३ इत्यादिश्रुतिभ्यः । इहापि च वक्ष्यते-- येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि" के० ११८ इति । श्रोत्रादीन्द्रियप्रस्तावे घ्राणप्राणस्य ननु युक्तं ग्रहणम् । सत्यमेवं प्राणग्रहणेनैव तु प्राणप्राणस्य ग्रहणं कृतम् । एवं मन्यते श्रुतिः सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिस्तद्ब्रह्मेति प्रकरणाओं विवक्षितः । तथा चक्षुषश्चक्षू रूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामर्थ्य तदात्मचैतन्याधिष्ठितस्यैवातश्चक्षुषश्चक्षुः । प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्ट- त्वाच्छ्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म ज्ञात्वेत्यध्याहियते। अमृता भव- [वाक्यभाष्यम् ] कृत्वाधीरा धीमन्तः प्रेत्यास्माल्लोकाच्छरीरात्प्रेत्य वियुज्या- न्यस्मिन्नप्रतिसंधीयमाने निनिमित्तत्वादमृता भवन्ति । सति ह्यज्ञाने कर्माणि शरीरान्तरं प्रतिसंदधते। आत्मावबोधे तु सर्वकारम्भनिमित्ताज्ञानविपरीत- विद्याग्निविप्लुष्टत्वात्कर्मणामित्यनारम्भेऽमृता एव भवन्ति। शरीरादिसंताना- [प्रकाशिका] हुरित्यादिस्मृतयश्च । श्रोत्रादिनियामकत्वज्ञानिनः फलमाह-अ- केनोप - केनोपनिषद् १० न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो [पदभाप्यम् ] न्तीति फलश्रुतेश्च । ज्ञानाद्धयमृतत्वं प्राप्यते । ज्ञात्वा विमुच्यत इति सामर्थ्याच्छ्रोत्रादिकरणकलापमुज्झित्वा । श्रोत्रादौ ह्यात्मभावं कृत्वा तदुपाधिः संस्तदात्मना जायते म्रियते संसरति च । अतःश्रोत्रादेः श्रोत्रा- दिलक्षणं ब्रह्मात्मेति विदित्वातिमुच्य श्रोत्रागात्मभावं परित्यज्य ये श्रोत्रा- द्यात्मभावं परित्यजन्ति ते धोरा धीमन्तः । नहि विशिष्टधीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्यक्तुम् । प्रेत्य व्यावृत्यास्माल्लोकात्पुत्रमित्र- कलत्रबन्धुषु ममाहंभावसंव्यवहारलक्षणात्त्यक्तसर्वेषणा भूत्वेत्यर्थः । अमृता अमरणधर्माणो भवन्ति । " न कर्मणा न प्रजया धनेन त्यागेनैके अमृत- त्वमानशुः म० ना० १०५ " पराञ्चि खानि व्यतृणत् ” क० ४।१ आवृत्तचक्षुरमृतत्वमिच्छन् ” क० ४।१ ॥ यदा सर्वे प्रमुच्यन्ते ” बृ० ४।४।७, क० ६ । १४ " अत्र ब्रह्म समश्नुते ” क० ६ । १४ इत्यादि- श्रुतिभ्यः । अथ वातिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वादस्माल्लोकात्प्रे- त्यास्माच्छरीरात्प्रेत्य मृत्वेत्यर्थः ॥२॥ यस्माच्छोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रह्मातो न तत्र तस्मिन्ब्रह्मणि चक्षु- गच्छति । स्वात्मनि गमनासंभवात् । तथा न वाग्गच्छति । वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा तदाभिधेयं प्रति वाग्गच्छतीत्युच्य- ते। तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्यात्मा ब्रह्मातो न वाग्गच्छति । यथाग्निर्दाहकः प्रकाशकश्चापि सन्न ह्यात्मानं प्रकाशयति दहति च तद्वत् नो मनो मनश्चान्यस्य संकल्पयित्रव्यवसायित च सदात्मानं संकल्पयत्य- ध्यवस्यति च तस्यापि ब्रह्मात्मेतीन्द्रियमनोभ्यां हि वस्तुनो विज्ञानं तदगोचरः [वाक्यभाप्यम् ] विच्छेदप्रतिसंधानाद्यपेक्षयाध्यारोपितमृत्युवियोगात्पूर्वमप्य- मृताः सन्तो नित्यात्मस्वरूपत्वादमृता भवन्तीत्युपचर्यते ॥ २ ॥ न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । श्रोत्रस्य श्रोत्रमित्येवमादिनोक्तेऽप्यात्मतत्त्वेऽप्रतिपन्नत्वात्सूक्ष्मत्वहेतोर्वस्तुनः पुनः पुनः पर्यनुयुयुक्षाकारणमाह-न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वान्न विज्ञानमुत्पादयन्ति । सुखा- दिवत्तहिं गृह्येतान्तःकरणेनात आह-नो मनः। न सुखादिवन्मनसो विषयस्तत्। इन्द्रियाविषयत्वात् । न विद्मो न विजानीमोऽन्तःकरणेन यथैतद्ब्रह्म मनआदि- भाष्यत्रयोपेता न विद्मो न विजानीमो यथैतदनुशिष्याद् [पदभाष्यम् ] त्वान्न विद्मस्तद्ब्रह्मेदृशमित्यतो न विजानीमो यथा येन प्रकारेणै- तद्ब्रह्मानुशिष्यादुपदिशेच्छिप्यायेत्यभिप्रायः । यद्धि करणगोचरं तदन्य- स्मा उपदेष्टुं शक्यं जातिगुणक्रियाविशेषणैः । न तज्नात्यादिविशेषणवद्ब्रह्म। तस्माद्विषमं शिष्यानुपदेशेन प्रत्याययितुमिति । उपदेशे तदर्थग्रहणे च यत्नातिशयकर्तव्यतां दर्शयति-न विद्म इत्यादि । अत्यन्तमेवोपदेशप्रका- रप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः । आगमेन तु शक्यत एव प्रत्याययितुम् । तदु- पदेशार्थमागममाह-अन्यदेव तद्विदितादथो अविदितादधीति । अन्यदेव पृथगेव तद्यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमविषयं च तेषाम् । तद्विदिताद- न्यदेव हि विदितं नाम यद्विदिक्रिययातिशयेनाप्तं तद्विदिक्रियाकर्मभूतं क्वचि- त्किचित्कस्यचिद्विदितं स्यादिति सर्वमेव व्याकृतं तद्विदितमेव तत्तस्मादन्य- वाक्यभाष्यम् ] करणजातमनुशिष्यादनुशासनं कुर्यात्प्रवृत्तिनिमित्तं भवेत्तथा- विषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह न शक्यते दर्शयितुं कस्मान्न तत्र चक्षुर्ग- च्छतीत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्यादिति । यथैतदनु- शिष्यात्प्रतिपादयेत् । अन्योऽपि शिष्यानितोऽन्येन विधिनेत्यभिप्रायः । सर्वथापि ब्रह्म बोधयेत्युक्त आचार्य आह, अन्यदेव तद्विदितादथो अवि- दितादधीत्यागमम् । विदिताविदिताभ्यामन्यत्वम् । यो हि ज्ञाता स एव सः । सर्वात्मकत्वात् । अतः सर्वात्मनो ज्ञातुर्तात्रन्तराभावाद्विदितादन्य- त्वम् । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता" श्वे० ३।१९ इति च मन्त्रवर्णात्। “ विज्ञातारमरे केन विजानीयात् ” बृ० २।४।१४ इति च वाजसनेयके । अपि च व्यक्तमेव विदितं तस्मादन्यदित्यभिप्रायः । यद्वि- दितं व्यक्तं तदन्यविषयत्वादल्पं सविरोधं ततोऽनित्यमत एवानेकत्वाद- शुद्धमत एव तद्विलक्षणं ब्रह्मेति सिद्धम् । अस्तु तयविदितम् । न । विज्ञा नानपेक्षत्वात् । यद्धयविदितं तद्विज्ञानापेक्षमविदितविज्ञानाय हि लोकप्रवृ. त्तिः। इदं तु विज्ञानानपेक्षम् । कस्माद्विज्ञानस्वरूपत्वात् । न हि यस्य यत्स्व- रूपं तत्तेनान्यतोऽपेक्ष्यते। न च स्वत एवापेक्षा । अनपेक्षमेव। सिद्धत्वात् । प्रदीपः स्वरूपाभिव्यक्तौ न प्रकाशान्तरमन्यतोऽपेक्षते स्वतो वा। यद्धयन- १-३ केनोपनिषद् १२ अन्यदेव तद्विदितादथो अविदितादधि । पदभाप्यम् ] दित्यर्थः। अविदितमज्ञातं तहीति प्राप्त आह-अथो अविदिताद्वि- दितविपरीतादव्याकृतादविद्यालक्षणादव्याकृतबीजात्। अधीत्युपर्यर्थे लक्षणया- न्यदित्यर्थः । याद्ध यस्मादध्युपरि भवति तत्तस्मादन्यदिति प्रसिद्धम् । यद्वि- दितं तदल्पं मयै दुःखात्मकं चेति हेयम् । तस्माद्विदितादन्यद्ब्रह्मेत्युक्त त्वहे- यत्वमुक्तं स्यात् । तथाविदितादधीत्युक्तेऽनुपादेयत्वमुक्तं स्यात् । कार्यार्थ हि कारणमन्यदन्येनोपादीयतेऽतश्च न वेदितुरन्यस्मै प्रयोजनायान्यदुपादेयं भव- तीत्येवं विदिताविदिताभ्यामन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनोऽन्यत्र ह्मविषया जिज्ञासा शिष्यस्य निवर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदि- ताभ्यामन्यत्वं वस्तुनः संभवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः। “अयमात्मा ब्रह्म" बृ०२।१९ “य आत्मापहतपात्मा" छा० ८७।१ यत्साक्षादपरो- [वाक्यभाप्यम् ] पेक्षं तत्स्वत एव सिद्धं, प्रकाशात्मकत्वात्प्रदीपस्यापेक्षितोऽ- प्यनर्थकः स्यात् । प्रकाशे विशेषाभावात् । नहि प्रदीपस्य स्वरूपाभिव्य- क्तौ प्रदीपप्रकाशोऽर्थवान् । न चैवमात्मनोऽन्यत्र विज्ञानमम्ति येन स्वरू- पविज्ञानेऽप्यपेक्ष्यते । विरोध इति चेन्नान्यत्वात् । स्वरूपविज्ञाने विज्ञान- स्वरूपत्वाद्विज्ञानान्तरं नापेक्षत इत्येतदसत् । दृश्यते हि विपरीतज्ञानमा- त्मनि सम्यग्ज्ञानं च न जानाम्यात्मानमिति श्रुतेश्च तत्त्वमसि" छां. ६।८१७ “ आत्मानमेवावेत् ” बृ० १।४।१० " एवं वै तमात्मानं विदित्वा " बृ० ३।५।१ इति च । सर्वत्र श्रुतिप्वात्मविज्ञाने विज्ञानान्तरा- पेक्षत्वं दृश्यते तस्मात्प्रत्यक्षश्रुतिविरोध इति चेन्न । कस्मात् । अन्यो हि स आत्मा बुद्धयादिकार्यकरणसंघाताभिमानसंतानाविच्छेदलक्षणोऽविवेका त्मको बुद्धयवभासप्रधानश्चक्षुरादिकरणो नित्यचित्स्वरूपात्मान्तःसारो यत्रा- नित्यं विज्ञानमवभासते। बौद्धप्रत्ययानामाविर्भावतिरोभावधर्मकत्वात्तद्धर्मत- यैव विलक्षणमपि चावभासते । अन्तःकरणस्य मनसोऽपि मनोऽन्तर्गतत्वा- त्सर्वान्तरश्रुतेः । अन्तर्गतेन नित्यविज्ञानस्वरूपेणाकाशवदप्रचलितात्मना- न्तर्गर्भभूतेन बाह्यो बुद्ध्यात्मा तद्विलक्षणोऽर्चिभिरिवाग्निः प्रत्ययैराविर्भाव- तिरोभावधर्मकैविज्ञानाभासरूपैरनित्यैरनित्यविज्ञान आत्मा सुग्वी दुःखीत्य- भ्युपगतो लौकिकैरतोऽन्यो नित्यविज्ञानस्वरूपादात्मनः। तत्र हि विज्ञानापेक्षा १ अन्यब्रह्मविपयेत्यम्य स्थानेऽन्यत्वाब्रह्मविषयति पाठः ।
३
भाप्यत्रयोपेता
१-३
इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे॥३॥
[पदभाष्यम् क्षाद्ब्रह्म" बृ० ४।३।१ “य आत्मा सर्वान्तरः" ० ३।४।१
इत्यादिश्रुत्यन्तरेभ्यश्चेत्येवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योति-
षो ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्याचार्योपदेशपरम्परया प्राप्तत्वमाह--इति
शुश्रुमेत्यादि । ब्रह्म चैवमाचार्योपदेशपरम्परयैवाधिगन्तव्यं न तर्कतः प्रव-
चनमेधाबहुश्रुततपोयज्ञादिभ्यश्चेत्येवं शुश्रुम श्रुतवन्तो वयं पूर्वेषामाचार्याणां
वचनम् । य आचार्या नोऽस्मभ्यं तद्ब्रह्म व्याचचक्षिरे व्याख्यातवन्तो विस्प-
ष्टं कथितवन्तस्तेषामित्यर्थः ॥३॥
[वाक्यभाष्यम् ] विपरीतज्ञानत्वं चोपपद्यते न पुनर्नित्यविज्ञाने। तत्त्वमसीति
बोधोपदेशो नोपपद्यत इति चेत् । आत्मानमेवावेदित्येवमादीनि च नित्यबोधा-
त्मकत्वात् । न ह्यादित्योऽन्येन प्रकाश्यतेऽतस्तदर्थबोधोपदेशोऽनर्थक इति
चेन्न । लोकाध्यारोपापोहार्थत्वात्। सर्वात्मनि हि नित्यविज्ञाने बुद्धयाद्यनित्य-
धर्मा लोकैरध्यारोपिता आत्माविवेकतस्तदपोहार्थो बोधोपदेशो बोधात्मनः ।
तत्र च बोधाबोधौ समञ्जसौ । अन्यनिमित्तत्वादुदक इवौष्ण्यमग्निनिमित्तम्
रात्र्यहनी इवादित्यनिमित्ते लोके नित्यावौष्ण्यप्रकाशावग्न्यादित्ययोरन्यत्र
भावाभावयोर्निमित्तत्वादनित्याविवोपचर्येते । धक्ष्यत्यग्निः प्रकाशयिष्यति
सवितेति तद्वत् । एवं च सुखदुःखबन्धमोक्षाद्यध्यारोपो लोकस्य तदपेक्ष्य
तत्त्वमस्यात्मानमेवावेदित्यात्मावबोधोपदेशेन श्रुतयः केवलमध्यारोपापो-
हार्थाः । यथा सवितासौ प्रकाशयत्यात्मानमिति तद्वत् । बोधाबोधकर्तृत्वं
च नित्यबोधात्मनि । तस्मादन्यदविदितात् । अधिशब्दश्चान्यार्थे । यद्वा
यद्धि यस्याधि तत्ततोऽन्यत्सामर्थ्यात् । यथाधि भृत्यादीनां राजा। अव्यक्त-
मेवाविदितं ततोऽन्यदित्यर्थः । विदितमविदितं च व्यक्ताव्यक्ते कार्यकारण-
त्वेन विकल्पिते ताभ्यामन्यद्ब्रह्म विज्ञानस्वरूपं सर्वविशेषप्रत्यस्तमितमित्ययं
समुदायार्थः । अत एवात्मत्वान्न हेय उपादेयो वा। अन्यद्धयन्येन हेय-
मुपादेयं वा । न तेनैव तद्यस्य कस्यचिद्धेयमुपादेयं वा भवति । आत्मा च
ब्रह्म सर्वान्तरात्मत्वादविषयमतोऽन्यस्यापि न हेयमुपादेयं वा। अन्याभावा-
च्च । इति शुश्रुम पूर्वेषामित्यागमोपदेशः । व्याचचक्षिर इत्यस्वातन्त्र्यं
तर्कप्रतिषेधार्थम् । ये नस्तद्ब्रह्मोक्तवन्तस्ते नित्यमेवागमं ब्रह्मप्रतिपादकं
व्याख्यातवन्तो न पुनः स्वबुद्धिप्रभवेण तर्केणोक्तवन्त इत्यागमपारम्पर्यावि-
च्छेदं दर्शयति विद्यास्तुतये । तर्कस्त्वनवस्थितो भ्रान्तोऽपि भवतीति ॥३॥
१-४ केनोपनिषद् यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥ [पदभाष्यम् ] अन्यदेव तद्विदितादथो अविदितादधीत्यनेन वाक्येनात्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता तत्कथं त्वात्मा ब्रह्म । आत्मा हि नामाधि- कृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्ग वा प्राप्तुमिच्छति तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रश्च प्राणो वा ब्रह्म भवितुमर्हति न त्वात्मा । लोकप्रत्ययविरोधात् । यथान्ये तार्किका ईश्व- रादन्य आत्मेत्याचक्षते तथा कर्मिणः “ अमुं यजामुं यज" बृ० १।४।६ इत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत् । ततोऽन्य उपासक इति तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा- ह मैवं शतिष्ठाः । यच्चैतन्यमात्रसत्ताकं वाचा वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणं वर्णाश्चार्थसंकेतपरिच्छिन्ना एतावन्त एवं क्रमप्रयुक्ता इत्येवं तदभिव्यङ्गयशब्दः पदं वागित्युच्यते । " अकारो वै सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना बव्ही नानारूपा भवति' इति श्रुतेः । मितममितं स्वरः सत्यानृते एव विकारो यस्यास्तया वाचा वाक्यभाष्यम् ] यद्वाचेतिमन्त्रानुवादो दृढप्रतीत्यै। अन्यदेव तद्विदितादिति योऽयमागमार्थों ब्राह्मणोक्तोऽस्यैव द्रढिम्ने मन्त्रा यद्वाचेत्यादयः पठ्यन्ते । यद्ब्रह्म वाचा शब्देनानभ्युदितमनभ्युक्तमप्रकाशितमित्येतत् । येन वागभ्युद्यत इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्याभि- धेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च केनेषितां वाचमिमां वदन्ति यद्वाचो ह वाचमिति । तदेव ब्रह्म त्वं विद्धीत्यविषयत्वेन ब्रह्मण आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं वाक्प्रकाशनिमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्येवावस्थापयत्याम्ना- यस्तदेव ब्रह्म त्वं विद्धीति यत्नत उपरमयति । नेदमित्युपास्यप्रतिषोधाच्च॥४॥ प्रकाशिका] तिमुच्येति। धीरा धीमन्तः श्रोत्रादिप्रेरकत्वं नारायणस्य जान- न्तः। अस्माल्लोकाद्भौतिकदेहात्प्रेत्य निर्गत्योत्क्रमणं विधायेति यावत् । अर्चिरा- दिमार्गेण गत्वातिमुच्य लिङ्गदेहं हित्वामृता मुक्ता भवन्तीत्यर्थः ॥२॥३॥ मनआदीनां प्रवर्तकं नारायणब्रह्म साकल्येनोपदिशेत्यत्राह यद्वा- चेत्यादिमन्त्रैः। यद्ब्रह्म वाचा वेदवाण्यानभ्युदितं साकल्येन नोक्तम् ।
भाप्यत्रयोपेता यन्मनसा न मनुते येना?मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥ [पदभाष्यम् ] पदत्वेन परिच्छिन्नया करणगुणवत्यानभ्युदितमप्रकाशितमन- भ्युक्तं येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वागभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् यद्वाचो ह वागित्युक्तं “वदन्वाक्। यो वाचमन्तरो यमयति" बृ १।४।७ इत्यादि च वाजसनेयके। “वाक्पुरुषेषु सा घोषेषु प्रतिष्ठिता क- श्चित्तां वेद ब्राह्मणः” इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् “ सा वाग्यया स्वप्ने भाषते ” इति । सा हि वक्तुर्वक्तिनित्या वाक्चैतन्यज्योतिःस्वरूपा । न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते " बृ०४।३।२६ इति श्रुतेः । तदेवा- त्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं वृहत्त्वाब्रह्मेति विद्धि विजानीहि त्वं यैर्वागायुपाधिभिः । वाचो ह वाक्चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं मनसो मनः कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता विज्ञानमानन्दं ब्रह्मेत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते तान्व्युदस्या- त्मानमेव निर्विशेषं ब्रह्म विद्धीत्येवशब्दार्थः । नेदं ब्रह्म यदिदमित्युपाधिभेद- विशिष्टमनात्मेश्वरायुपासते ध्यायन्ति। तदेव ब्रह्म त्वं विद्धीत्युक्तेऽपि नेदं ब्रह्मे- त्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थमन्यब्रह्मबुद्धिपरिसंख्यानार्थ वा ॥४॥ यन्मनसा न मनुते । मन इत्यन्तःकरणं बुद्धिमनसोरेकत्वेन गृह्यते । मनुतेऽनेनेति मनः सर्वकरणसाधारणम् । सर्वविषयव्यापकत्वात् । “ कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहीं/ रित्येतत्सर्व मन एव" बृ० १।५।३ इति श्रुतेः । कामादिवृत्तिमन्मनस्तेन मनसा यच्चैतन्यज्यो- तिर्मनसोऽवभासकं न मनुते न संकल्पयति नापि निश्चिनोति । मनसोऽ- वभासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेवेति स्वात्मनि न प्रवर्त- तेऽन्तःकरणम् । अन्तस्थेन हि चैतन्यज्योतिषावभासितस्य मनसो मनन- सामर्थ्य तेन सवृत्तिकं मनो येन ब्रह्मणा मतं विषयीकृतं व्याप्तमाहुः कथ- यन्ति ब्रह्मविदः । तस्मात्तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्रह्म विद्धि नेदमित्यादि पूर्ववत् ॥५॥ वाक्यभाप्यम् ] यन्मनसेत्यादि समानम् । मनो मतमिति। येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणानामविषयं तानि च सव्यापाराणि सविपयाणि नित्यविज्ञानस्वरूपावभासतया येनावभास्यन्त इति
१-६
केनोपनिषद्
१६
यचक्षुपा न पश्यात येन चक्षुष पश्यात ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिद श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
इति प्रथमः खण्डः ॥ १ ॥
[पदभाप्यम् ] यच्चक्षुपा न पश्यति न विषयीकरोत्यन्तःकरणवृत्तिसंयुक्तेन
येन चझूष्यन्तःकरणवृत्तिभेदभिन्नाश्चक्षुर्वृत्तीः पश्यति लोकश्चैतन्यात्मज्योतिषा
विषयीकरोति व्याप्नोति ॥ ६ ॥
यच्छ्रोत्रेण न शृणोति दिग्देवताधिष्ठितेनाकाशकार्येण मनोवृत्तिसंयुक्तेन
न विषयीकरोति लोको येन श्रोत्रमिदं श्रुतं यत्प्रसिद्धं चैतन्यात्मज्योतिषा
विषयीकृतं तदेवेत्यादि पूर्ववत् ॥७॥
यत्प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेनान्तःकरणप्राण-
वृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति येन चैतन्या-
त्मज्योतिषावभास्यत्वेन स्वविषयं प्रति प्राणः प्रशीयते । तदेवेत्यादि सर्व
समानम् ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ
केनोपनिषत्पदभाष्ये प्रथमः खण्डः ॥ १ ॥
[वाक्यभाप्यम् ] श्लोकार्थः । “ क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति" इति
स्मृतेः। भ. गी. १३।३३ “ तस्य भासा " मुं. २।२।१८ इति चाथर्वणे ।
येन प्राण इति । क्रियाशक्तिरप्यात्मविज्ञाननिमित्तेत्येतत् ॥५॥६॥७॥८॥
॥ इति प्रथमः खण्डः ॥ १ ॥
[प्रकाशिका] येन च प्रेरिता सती वागभ्युद्यते पुरुषैरुच्चार्यते तदेव त्वं
ब्रह्म विद्धि जानीहि । नेदं जडजीवादिकं जगद्यत्कामात्मान इदमुपासत
इत्यर्थः । एवमग्रेऽप्यर्थों ध्येयः । यन्मनसा कश्चित्साकल्येन न मनुते येन
मनो मतम् । येन चक्षूषि पश्यन्ति दृश्यन्त इत्यर्थः । यत्प्राणेन न प्राणिति
न चेष्टते येन प्राणः प्रणीयते प्रेर्यते ॥ ४ ॥ ५ ॥६॥ ७ ॥ ८ ॥
इति प्रथमः खण्डः ॥ १ ॥
भाप्यत्रयोपेता २-१ यदि मन्यसे सुवेदेति दहरमेवापि नूनम् । [पदभाष्यम् ] एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्योऽह- मेव ब्रह्मेति सुष्ठ वेदाहं मामिति गृह्णीयादित्याशङ्कयांचार्यः शिप्यबुद्धिविचा- लनार्थ यदीत्याह। नन्विष्टैव सु वेदाहमिति निश्चिता प्रतिपत्तिः । सत्यमिष्टा निश्चिता प्रतिपत्तिर्न हि मुवेदाहमिति । यद्धि वेचं वस्तु विषयीभवति त- त्सुष्टु वेदितुं शक्यं दाह्यमिव दग्धुमन्नेर्दग्धुन त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रति- पादितं प्रश्नप्रतिवचनोक्त्या श्रोत्रस्य श्रोत्रमित्याद्यया । यद्वाचानभ्युदित- मिति विशेषतोऽक्धारितम् । ब्रह्मवित्संप्रदायनिश्चयश्चोक्तोऽन्यदेव तद्विदि- तादथो अविदितादधीत्युपन्यस्तमुपसंहरिप्यति चाविज्ञातं विजानतां विज्ञा- तमविजानतामिति । तस्माद्युक्तमेव शिष्यस्य सुवेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्योऽग्निरिव दग्धुमनेः । न चान्यो वेदिता ब्रह्मणोऽम्ति यस्य वेद्यमन्यत्स्याब्रह्म । " नान्यदतोऽस्ति विज्ञातृ " बृ. ३।८।५ १ इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात्सुष्टु वेदाहं ब्रह्मेति प्रति- पत्तिर्मिथ्यैव । तस्माद्युक्तमेवाहाचार्यों यदीत्यादि। यदि कदाचिन्म- न्यसे सुवेदेति सुप्ठु वेदाहं ब्रह्मेति । कदाचिद्यथाश्रुतं दुर्विज्ञेयमपि क्षीण. दोषः सुमेधाः कश्चित्प्रतिपद्यते कश्चिन्नेति साशङ्कमाह यदीत्यादि । दृष्टं च " य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मति होवाचैतदमृतमभयमेतद्ब्रह्म" [वाक्यभाष्यम् ] यदि मन्यसे सुवेदेति शिष्यबुद्धिविचालना । गृहीतस्थिर- तायै । विदिताविदिताभ्यां निवयं बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य तदेव ब्रह्म त्वं विद्धीति स्वाराज्येऽभिषिच्योपास्यप्रतिषेधेनाथास्य बुद्धिं विचाल- यति यदि मन्यसे सुवेदाहं ब्रह्मेति त्वं ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यत इत्याचार्यः । सा पुनर्विचालना किमर्थे- त्युच्यते पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सुवेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दहरमेव वेत्ति नूनम् । कस्मात्। अविषय- [प्रकाशिका] हे शिष्याहं सुवेद ब्रह्मणो रूपं सम्यग्जानामीति यदि मन्यसे तर्हि त्वमपि नूनं दहरमेवाल्पमेव ब्रह्मणो रूपं वेत्थ । तस्यानन्तत्वादिति भावः । रूपमिति ब्रह्मगुणानामुपलक्षणम् । यद्यस्मादहरमेव वेत्थ । अथ तस्मात्त्वं त्वयि व्यत्ययात् । त्वय्यस्य ब्रह्मणो यद्रूपं देवेषु चास्य ब्रह्मणो यद्रूपं तदिति केनोप २-१ केनोपनिपद् त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य- [पदभाष्यम् ] छां.४।१५।१ इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुररांविरोचनः स्वभावदोषवशादनुपपद्यमानमपि विपरीतमर्थ शरीरमात्मेति प्रतिपन्नः । तथेन्द्रो देवराट् सकृद् द्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽप्येकम्माद्गुरोः शृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथावत्कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते किमु वक्तव्यमतीन्द्रियमात्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सदसद्वादिनस्तार्किकाः सर्वे । तस्मादविदितं ब्रह्मेति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वाद्यदि म- न्यस इत्यादि साशकं वचनं युक्तमेवाचार्यस्य । दहरमल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भ- काणि च येनाह दहरमेवेत्यादि । बाइम् । अनेकानि हि नामरूपो- पाधिकृतानि ब्रह्मणो रूपाणि न स्वतः । स्वतस्तु . अशब्दमस्पर्शमरूप- मव्ययं तथारसं नित्यमगन्धवच्च यत् " क. ३।१५ इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्व- रूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य रूपं स्यादत उच्यते । चैतन्यं पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति। तथा श्रोत्रादीनामन्तःकरणम्य च धर्मो न भवतीति। ब्रह्मणो रूपमिति । ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम्-"विज्ञानमानन्दं ब्रह्म" बृ. ३।९।२८ " विज्ञानधन एव" बृ. २।४।१२ " सत्यं ज्ञानमनन्तम्" तै. २।१।१ "प्रज्ञानं ब्रह्म" ऐ. ५।३ इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । [वाक्यभाष्यम् ] त्वात्कस्यचिद् ब्रह्मणः । अथवाल्पमेवास्याध्यात्मिकं मनु- ष्येषु देवेषु च । आधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति संबन्धः । अथ न्विति हेतुर्मीमांसायाः । यस्मादहरमेव सुविदितं ब्रह्मणो रूपमन्यदेव तद्वि- दितादित्युक्तत्वात्सुवेदेति च मन्यसेऽतोऽल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मा- दथ नु तस्मान्मीमांस्यमेवाद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदि- तप्रतिषेधागमार्थानुभव इत्यर्थः। मन्ये विदितमिति शिष्यस्य मीमांसानन्त- रोक्तिः प्रत्ययत्रयसंगतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव त इति चोक्त एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनि- श्चितः सन्नाहागमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन संगत्यर्थम् । एवं हि १९ भाष्यत्रयोपेता २-२ देवेष्वथ नु मामास्यमेव ते मन्ये विदितम् ॥ [९] १ ॥ नाहं मन्ये सुवेदति नो न वेदेति वेद च । [पदभाष्यम् ] सत्यमेवं तथापि तदन्तःकरणदेहन्द्रियोंपाधिद्वारेणैव विज्ञानादि- शब्दैनिर्दिश्यते तदनुकारित्वादेहादिवृद्धिसंकोचच्छेदादिषु नाशेषु च न स्वतः । स्वतस्त्वविज्ञातं विजानतां विज्ञातमविजानतामिति स्थितं भविष्यति । यदस्य ब्रह्मणो रूपमिति पूर्वेण सम्बन्धः । न केवलमध्यात्मोपाधिपरिच्छिन्न- स्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ यदप्यधिदैवतोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वं तदपि नूनं दहरमेव वेत्थेति मन्येऽहम् । यद- ध्यात्मं यदधिदैवं तदपि च देवेषूपाधिपरिच्छिन्नत्वाद्दहरत्वान्न निवर्तते यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म न तत्सु- वेद्यमित्यभिप्रायः । यत एवमथ नु तस्मान्मन्येऽद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म । एवमाचार्योक्तः शिष्य एकान्त उपविष्टः समाहितः सन्यथो- क्तमाचार्येणागममर्थतो विचार्य तर्कतश्च निर्धार्य स्वानुभवं कृत्वाचार्यसकाश- मुपगम्योवाच-मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥ [९] १ ॥ कथमिति । शृणुत । नाहं मन्ये सुवेदेति नैवाहं मन्ये सुवेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्त आह-नो न वेदेति वेद च । वेद चेति चशब्दान्न वेद च । ननु विप्रतिषिद्धं नाहं मन्ये सुवेदेति नो न वेदेति वेद चेति । यदि न मन्यसे सुवेदेति कथं मन्यसे वेद चेति । अथ मन्यसे वेदेवेति । कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते तेनैव तदेव वस्तु न सुविज्ञायत वाक्यभाष्यम् ] सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चितेति न्यायः प्रदर्शितो भवति । मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः॥[९]१॥ परिनिष्ठितं सफलं विज्ञानं प्रतिजानीत आचार्यात्मनिश्चययोस्तुल्यतायै । यस्माद्धेतुमाह नाह मन्ये सुवेदेति । अहेत्यवधारणार्थो निपातो नैव मन्य इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत्सुवेद सुष्ठु वेदाहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य यथोक्तार्थमीमांसाफल- प्रकाशिका] शेषः । मीमांस्यमेव विचार्यमेव नु इदानीम् । ते त्वयेति ॥१॥ अन्येषां कात्स्न्येन ब्रह्माज्ञानित्वेऽपि तव त्वस्ति सम्यग्ब्रह्मज्ञानित्व- मिति पृष्टो देशिक आह–मन्य इति । अन्ये सम्यग्वेदायमिति मां वदन्ति अहं तु ब्रह्म विदितं न मन्य इति योजना । तर्हि त्वमपि ब्रह्म सर्वथा
२.२
केनोपनिषद्
।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ [१०]२ ॥
पदभाप्यम् ] इति विप्रतिपिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयि-
तत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्वत्रानर्थ-
करत्वेनैव प्रसिद्धौ । एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल )
"अन्यदेव तद्विदितादथो अवितादधि" के. १।३ इत्याचार्योक्तागमसंप्रदायब-
लादुपपत्त्यनुभवबलाच्च जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः।
कथमित्युच्यते। यो यः कश्चिन्नोऽस्माकं सब्रह्मचारिणां मध्ये तदुक्तं वचनं त-
त्त्वतो वेद स तद्ब्रह्म वेद । किं पुनम्तद्वचनमित्यत आह-नो न वेदेति वेद चेति ।
यदेवान्यदेव तद्विदितादयो अविदिताधीत्युक्तं वस्त्वनुमानानुभवाभ्यां संयोज्य
निश्चितं वाक्यान्तरेण नो न वेदेति वेद चेत्येवोचदाचार्यबुद्धिसंवादाथै मन्दबु-
द्धिग्रहणव्यपोहार्थं च । तथा च गर्जितमुपपन्नं भवति यो नस्तद्वेदेति॥[१०]२॥
[ वाक्यभाप्यम् ] भूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्प्रत्ययाविरुद्धत्वात् ।
अतो नाह मन्ये सुवेदेति । यस्माच्च तन्नैव न वेदेति मन्य इत्यनुवर्तते । अवि-
दितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यम इत्युक्त आह-वेद च । चशब्दा-
द्वेद च न वेद चेत्यभिप्रायः । विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणस्तस्मान्मया
विदितं ब्रह्मेति मन्य इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्म-
म्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च
पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेतिप-
क्षान्तरनिरासार्थमाम्नाय उक्तार्थानुवादात् । यो नोऽस्माकं मध्ये स एव
तद्ब्रह्म वेद नान्यः । उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति वेद
चेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इत्युच्यते ।
उक्तानुवादादुक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥ [१०] २ ॥
यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्याचार्योक्तिप्रत्यु-
क्तिलक्षणयानुभवयुक्तिप्रधानयाख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेना-
गमप्रधानेन निगमनस्थानीयेन संक्षेपत उच्यते। यदुक्तं विदितादन्यद्वागादी-
[प्रकाशिका] न वेत्थ किमित्यत आह-नो नेति । नो वेद न जानामीति न
किंतु वेदेति च । ब्रह्मणः साकल्येनाज्ञेयत्वमुपपाद्योपसंहरति । नोऽस्माकं
मध्ये यस्तु ब्रह्माहं वेदेति वदति स तं नो वेद कुतः परिच्छिन्नत्वज्ञानात् ।
अहं न वेदेति यो वदत्यसौ वेद च ब्रह्मणोऽपरिच्छिन्नत्वात् ॥ २ ॥
२१ भाष्यत्रयोपता २-३ यस्यामतं तस्य मतं मतं यस्य न वेद सः । [पदभाष्यम् ] शिष्याचार्यसंवादात्प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवाद- निर्वृत्तमर्थमेव बोधयति-यस्यामतमित्यादिना। यस्य ब्रह्मविदोऽमतमविज्ञातम- विदितं ब्रह्मेति मतमभिप्रायो निश्चयस्तम्य मतं ज्ञातं सम्यग्ब्रह्मेत्यभिप्रायः । यस्य पुनर्मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयो न वेदेव स न ब्रह्म विजा- नाति सः । विद्वदविदुषोर्यथोक्तौ पक्षाववधारयति-अविज्ञातममतमविदि- तमेव ब्रह्म विजानतां सम्यग्विदितवतामित्येतत् । विज्ञातं विदितं ब्रह्मा- विजानतामसम्यग्दर्शिनामिन्द्रियमनोबुद्धिप्वेवात्मदर्शिनामित्यर्थः । न त्व- [वाक्यभाष्यम् ] नामगोचरत्वात् । मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म तत्तथैव ज्ञातव्यं कस्मात्। यस्यामतं यस्य विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्यामतमवि- ज्ञातमविदितं ब्रह्मेत्यात्मतत्त्वनिश्चयफलावसानावबोधतया विविदिषा निवृत्ते- त्यभिप्रायः । तस्य मतं ज्ञातं तेन विदितं ब्रह्म येनाविषयत्वेनात्मत्वेन प्रति- बुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञानानन्तरमेव ब्रह्मात्मभावस्यावसि- तत्वात्सर्वतः कार्याभावः। विपर्ययेण मिथ्याज्ञानो' भवति । कथं मतं विदितं ज्ञातं मया ब्रह्मेति यस्य विज्ञानं स मिथ्यादी विपरीतविज्ञानो विदिता- दन्यत्वाद्ब्रह्मणो न वेद स न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञा- नस्य मिथ्यात्वम् । अब्रह्मविषयतया निन्दितत्वात्तथा कपिलकणभुगादिस- मयस्यापि विदितब्रह्मविषयत्वादनवस्थिततर्कजन्यत्वाद्विविदिषानिवृत्तेश्च मि- थ्यात्वमिति । स्मृतेश्च- " या वेबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः” म.स्मृ. १२।९५ इति विपरीतमिथ्याज्ञानयोर्नष्टत्वादिति । अविज्ञातं विजानतां विज्ञातम- विजानतामिति पूर्वहेतूक्तिरनुवादस्यानर्थक्यात् । अनुवादमात्रेऽनर्थकं वचन- मिति पूर्वोक्तयोर्यस्यामतमित्यादिना ज्ञानाज्ञानयोत्वर्थत्वेनेदमुच्यते। अव- ज्ञातमविदितमात्मत्वेनाविषयतया ब्रह्म विजानतां यस्मात्तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्धयादिविषयं ब्रह्माविजानतां विदिता. विदितव्यावृत्तमात्मभूतं नित्यविज्ञानस्वरूपमात्मस्थमविक्रियममृतमजरमभय- मनन्यत्वादविषयमित्येवमविजानताम् । बुद्धयादिविषयात्मतयैव नित्यं वि- १ मिथ्याज्ञानो भवतीति स्थाने मिथ्याज्ञातो भवतीति पाठः ।
२-३ केनोपनिषद् २२ अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ [११] ३ ॥ प्रतिबोधविदितं मतममृतत्वं हि विन्दते । [पदभाष्यम् ] त्यन्तमेवाव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातमस्माभिर्ब्रह्मेति मतिर्भवति। इन्द्रियमनोबुद्धयुपाधिष्वात्मदर्शिनां तु ब्रह्मोपाधिविवेकानुपलम्भा- बुद्धयाधुपाधेश्च विज्ञातत्वाद्विदितं ब्रह्मेत्युपपद्यते भ्रान्तिरित्यतोऽसम्यग्दर्श- नपूर्वपक्षत्वेनोपन्यस्यते विज्ञातमविज्ञानतामिति । अथवा हेत्वर्थ उत्तरार्धोऽ- विज्ञातमित्यादिः ॥ [११] ३ ॥ अविज्ञातं विजानतामित्यवधृतम् । यदि ब्रह्मात्यन्तमेवाविज्ञातं लौकि- कानां ब्रह्मविदां चाविशेषः प्राप्तः । अविज्ञातं विजानतामिति च परस्पर- विरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवमर्थमाह-प्रतिबोध- विदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते सर्वे प्रत्यया विषयी' भवन्ति यस्य स आत्मा सर्वबोधान्प्रतिबुध्यते सर्वप्रत्य- [वाक्यभाष्यम्] ज्ञातं ब्रह्म । तस्माद्विदिताविदितव्यक्ताव्यक्तधर्माध्यारोपेण कार्यकरणभावेन सविकल्पमयथार्थविषयत्वात् । शुक्तिकादौ रजताद्यध्यारो- पणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥ [११] ३ ॥ प्रतिबोधविदितं मतमिति । वीप्साप्रत्ययानामात्मावबोधद्वारत्वाद्बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोह- वन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासास्तदन्यावभासश्चात्मा [प्रकाशिका] यो न इत्यादिना साकल्येन श्रवणागोचरत्वमुक्त्वा मननागो- चरत्वं चाह—यस्येति । यस्य ब्रह्मामतमिति मतं तस्य पुंसो मतं विचारित. मनन्तत्वाज्ञानात् । यस्य ब्रह्म मया मतं विचारितमिति मतं बुद्धिः स न वेदानन्तत्वाज्ञानात् । साक्षात्कारोऽपि न साकल्येनेत्याह-अविज्ञातमित्या- दिना । वयं ब्रह्म सम्यक्साक्षात्कृतवन्त इति विजानतामविज्ञातं ब्रह्म आनन्त्याद्ब्रह्मणः साकल्येन ज्ञानाभावात् । अविजानतामुक्तरीत्याविजा- नतां नास्माभिर्ब्रह्म सम्यक्साक्षात्कृतमिति यावत् । विज्ञातं ब्रह्म साक्षा- त्कृतमित्यर्थः । आनन्त्यवेदनादिति भावः ॥ ३ ॥ ब्रह्मणः साकल्येनाज्ञेयत्वे कथं तेनेष्टसिद्धिरिति चेत्स्वस्य योग्यैकदेश- ज्ञानादेवेष्टसिद्धिरित्याह । प्रतिबोधेत्यत्र श्रुतमिति शेषः। स्वस्य ब्रह्मविद्यया १ विषयीभवन्तीत्यस्य स्थाने विपया भवन्तीति पाठः ।
भाष्यत्रयोपेता आत्मना विन्दते वीर्य [पदभाष्यम् ] यदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते नान्यद्वारमात्मनो विज्ञानायांतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा तदा तन्मतं तदा तत्सम्यग्दर्शनमित्यर्थः । सर्वप्रत्ययदर्शित्वे चोपजनना- पायवर्जितहक्स्वरूपतानित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्विशेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत् । लक्षणभेदाभावाद्वयोम्न इव घटगिरिगुहादिषु । विदिताविदिताभ्यामन्यद्ब्रह्मेत्यागमवाक्यार्थ एवं परिशुद्ध एवोपसंहृतो भवति । " दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेमन्ता विज्ञातेर्विज्ञाता” इति हि श्रुत्यन्तरम् । यदा पुनर्बोधक्रियाकर्तेति बोधक्रियालक्षणेन तत्कर्तारं विजानातीति बोध- लक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते । यथा यो वृक्षशा- खाश्चालयति स वायुरिति तद्वत् । तदा बोधक्रियाशक्तिमानात्मा द्रव्यं न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते तदा बोधक्रियया सह विशेषः । यदा बोधो नश्यति तदा नष्टबोधो द्रव्यमानं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध, इत्यादयो दोषा न परिहर्तुं शक्यन्ते । यदपि काणादानामात्ममनःसंयोगजो बोध आत्मनि समवैति । अत आत्मनि बोद्धृत्वं नतु विक्रियात्मक आत्मा । द्रव्यमावस्तु भवति घट इव रागसमवायी। अस्मिन्पक्षेऽप्यचेतनं द्रव्यमात्रं ब्रह्मेति “ विज्ञानमानन्दं ब्रह्म " बृ. ३।९।२८ इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावान्नित्यसंयुक्तत्वाच्च मनसः स्मृ- त्युत्पत्तिनियमानुपपत्तिरपरिहार्या स्यात्। संसर्गधर्मित्वं चात्मनः श्रुतिस्मृति- न्यायविरुद्धं कल्पितं स्यात् । “असङ्गो न हि सज्जते" बृ.३।९।२६ “असक्तं [वाक्यभाष्यम् ] तद्विलक्षणोऽग्निवदुपलभ्यत इति तेन ते द्वारीभवन्त्यात्मोपल- ब्धौ तस्मात्प्रतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म तदेव मतं ज्ञातं तदेव सम्यग्ज्ञानवत्प्रत्यगात्मविज्ञानं न विषयविज्ञानम् । आत्मत्वेन, " प्रत्यगा- त्मानमैक्षत" ४।१ इति च काठके । अमृतत्वं हि विन्दत इति हेतुवचनं, विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभत इत्या- त्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दत इति । आत्म- ज्ञानेन किममृतत्वमुत्पाद्यते । न। कथं तर्हि । आत्मना विन्दते स्वेनैव नित्या- त्मस्वभावेनामृतत्वं विन्दते। नालम्बनपूर्वकम् । विन्दत इत्यात्मविज्ञानापेक्षम् । क० केनोपनिषद् विद्यया विन्दतेऽमृतम् ॥ [१२] ४ ॥ [पदभाष्यम् ] सर्वभृत्" भ.१३।१४ इति श्रुतिस्मृती वे। न्यायश्च "गुणवद्गु- णवता संसृज्यते नातुल्यजातीयम्"। अतो निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदप्यतुल्यजातीयेन संसृज्यत इत्येतन्न्यायविरुद्धं भवेत् । तस्मान्नि- त्यालुप्तविज्ञानम्वरूपज्योतिरात्मा ब्रह्मेत्ययमर्थः सर्वबोधबोद्धृत्व आत्मनः सिध्यति नान्यथा। तस्मात्प्रतिबोधविदितं मतमिति यथाव्याख्यात एवार्थोs- स्माभिः । यत्पुनः स्वसंवेद्यता प्रतिबोधविदितमित्यस्य वाक्यस्यार्थो वर्ण्य- ते । तत्र भवति सोपाधिकत्व आत्मनो बुद्धयुपाधिम्वरूपत्वेन भेदं परिक- ल्प्यात्मनात्मानं वेत्तीति संव्यवहारः । " आत्मनैवात्मानं पश्यति " " स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ” भ. गी. १०।१५ इति । न तु निरूपाधिकस्यात्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा संभवति । संवेदनस्वरूपत्वात्संवेदनान्तरापेक्षा च न संभवति यथा प्रकाशस्य प्रकाशा- न्तरापेक्षाया न संभवस्तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात् । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्य- तेऽविनाशित्वात् । “ नित्यं विभुं सर्वगतम् ” मुं. १।१ “ स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः ” बृ. ४।२२ इत्याद्याः श्रुतयो बाध्येरन् । यत्पुनः प्रतिबोधशब्देन निनिमित्तो बोधः प्रतिबोधो यथा सुप्त- रयेत्यर्थ परिकल्पयन्ति । सकृविज्ञानं प्रतिबोध इत्यपरे । निनिमित्तः सनि- मित्तः सकृद्धासकृद्वा प्रतिबोध एव हि सः । अमृतत्वममरणभावं स्वात्मन्य- वस्थानं मोक्षं हि यस्माद्विन्दते लभते यथोक्तात्प्रतिबोधविदितात्मकात्तस्मा- त्प्रतिबोधविदितमेव मतमित्यभिप्रायः । बोधस्य हि प्रत्यगात्मात्मविषयं च [ वाक्यभाष्यम् ] यदि हि विद्योत्पाद्यममृतत्वं स्यादनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् । यदि चात्मनैवामृतत्वं विन्दते किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृत- त्वस्य निमित्तमिति कल्प्यते । यत आह वीर्य विद्यया विन्दते । वीर्य सामर्थ्यमनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया वि- न्दते । तच्च किंविशिष्टम् । अमृतमविनाशि। अविद्यानं हि वीर्य विनाशि। [प्रकाशिका] योग्यतानुसारेण पुंभिः श्रुतं मतं ब्रह्म प्रतिबोधेन स्वयोग्यापरोक्ष- ज्ञानेन विदितं चेदमृतत्वं मुक्तिं विन्दते लभते पुमानिति वा प्रतिबोधेनोपासन- २. भाष्यत्रयोपेता इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । [पदभाप्यम् ]मतममृतत्वे हेतुः। न ह्यात्मनोऽनात्मत्वममृतत्वं भवत्यात्मत्वादा- त्मनोऽमृतत्वं निनिमित्तमेव । एवं मर्त्यत्वमात्मनो यदविद्ययानात्मत्वप्रतिपत्तिः। कथं पुनर्यथोक्तयात्मविद्ययामृतत्वं विन्दत इत्यत आह-आत्मना स्वेन स्वरूपेण विन्दते लभते वीर्य वलं सामर्थ धनलहायमन्त्रीपधितपोयोगकृतं वीर्य मृत्युं न शक्नोत्यभिभवितुमनित्यवस्तुकृतत्वात् । आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते नान्येनेत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्य मृत्युं शक्नोत्यभिभवितुम् । यत एवमात्मविद्याकृतं वीर्यमात्मनैव विन्दतेऽतो विद्ययात्मविषयया विन्दतेऽमृतम् , " नायमात्मा बलहीनेन लभ्यः " मुं. ३।२।४ इत्याथर्वणे। अतः समर्थो हेतुः, अमृतत्वं हि वि- न्दत इति ॥ [१२] ४ ॥ कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्म- जरामरणरोगादिसंप्राप्तिरज्ञानादत इहैव चेन्मनुष्योऽधिकृतः समर्थः सन्य- वाक्यभाष्यम् ] विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्यानममृतं वीर्यम् । अतो विद्यामृतत्वे निमित्तमात्रं भवति। नायमात्मा बल- हीनेन लभ्यः" मु०३।२।४ इति चाथर्वणे। लोकेऽपि विद्याजमेव बलमभिभव- ति न शरीरादिसामर्थ्य यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधस्तेन वा विदितं मतमित्युभयत्र प्रति- बोधशब्दप्रयोगोऽस्ति । सुप्तप्रतिबुद्धो गुरुणा प्रतिबोधित इति । पूर्व तु यथार्थम् ॥ [१२] ४ ॥ इह चेदवेदीदित्यवश्यकर्तव्यतोक्तिविपर्यये विनाशश्रुतेः । इह मनुष्य- [प्रकाशिका] चिद्ब्रह्मविद्यया विदितं साक्षात्कृतं ब्रह्म विन्दते लभत इति वार्थः। आत्मना धृत्या वीर्यं समाहितमनस्त्वलक्षणं विन्दते लभते । विद्ययोपासनरू- पया भक्त्येति यावत् । अमृतं परमात्मानं विन्दते लभते साक्षात्करोतीति यावत् " भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह " इति स्मृतेः ॥ ४ ॥ अस्तु विद्यारूपं ज्ञानं भगवत्साक्षात्कारफलं तत्कदा संपाद्यमित्यत आह- इहति । इह ज्ञानयोग्यब्राह्मणादिदेहेऽवेदीच्चेद्वयजानाचेत् । अथ तहि सत्य केनोप.-४
केनोपनिषद्
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता
भवन्ति ।। [१३] ५॥ इति द्वितीयः खण्डः ॥२॥
पदभाष्यम् ] यवेदीदात्मानं यथोक्तलक्षणं विदितवान्यथोक्तेन प्रकारेण । अथ
तदस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा सद्भावो वा परमार्थता वा
सत्यं विद्यते। न चेदिहावेदीदिति । न चेदिह जीवश्चेदधिकृतोऽवेदीन्न विदित-
वास्तदा महती दीर्घानन्ता विनष्टिविनाशनं जन्मजरामरणादिप्रबन्धावि-
च्छेदलक्षणा संसारगतिस्तस्मादेवं गुणदोषौ विजानन्तो ब्राह्मणा भूतेषु भूतेषु
सर्वभूतेषु स्थावरेषु चरेषु चैकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य
धीरा धीमन्तः प्रेत्य व्यावृत्य ममाहंभावलक्षणादविद्यारूपादस्माल्लोकादु-
परम्य सर्वात्मैकत्वभावमद्वैतमापन्नाः सन्तोऽमृता भवन्ति ब्रह्मैव भवन्ती-
त्यर्थः । “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" मुं. ३।२।९
इति श्रुतेः ॥ [१३] ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृती
केनोपनिषत्पदभाष्ये द्वितीयः खण्डः ॥ २ ॥
[वाक्यभाष्यम् ] जन्मनि सत्यवश्थमात्मा वेदितव्य इत्येतद्विधीयते। कथमिह
चेदवेदीद्विदितवान् । अथ सत्यं परमार्थतत्त्वमस्त्यवाप्तं तस्य जन्म सफलमि-
त्यभिप्रायः। न चेदिहावेदान्न विदितवान्वृथैव जन्म । अपि च महती विनाष्टि-
महान्विनाशो जन्ममरणप्रबन्धाविच्छेदप्राप्तिलक्षणः स्याद्यतस्तस्मादवश्यं
तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादित्युच्यते-भूतेषु भूतेषु ।
चराचरेषु सर्वेष्वित्यर्थः । विचित्य पृथनिष्कृष्य एकमात्मतत्त्वं संसारधर्में-
रस्पृष्टमात्मभावेनोपलभ्येत्यर्थः । अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति
संभवति विरोधात् । धीरा धीमन्तो विवेकिनो विनिवृत्तबाह्यविषयाभिलाषाः।
प्रेत्य मृत्वास्माल्लोकाच्छरीराधनात्मलक्षणाव्द्यावृत्तममत्वाहंकाराः सन्त इत्य.
र्थः । अमृता अमरणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ।।
[१३] ५ ॥ इति द्वितीयः खण्डः ॥ २ ॥
प्रकाशिका] पूर्वोक्तफलं सत्यममृतब्रह्मास्त्येव तत्प्राप्तौ न संदेह इति भावः ।
इह नावेदीच्चत्तदा महती विनष्टिानिर्भवति । अथ प्रतिबोधं वक्ति-धीरा
ब्रह्मप्राप्तिविनष्टिविवेकिनो भूतेषु भूते सर्वभूतेषु स्थितं ब्रह्म विचिन्त्याप्रयाण
स्मृत्वास्माल्लोकात्प्रेत्यामृता भवन्तीति ॥९॥ इति द्वितीयः खण्डः ॥२॥
भाष्यत्रयोपेता ३-१ ब्रह्म ह देवेभ्यो विजिग्ये पदभाष्यम् ] ब्रह्म ह देवेभ्यो विनिग्ये "अविज्ञातं विजानतां विज्ञातमविजान- ताम्" के.२।११ इत्यादिश्रवणाद्यदस्ति तद्विज्ञातं प्रमाणैर्यन्नास्ति तदविज्ञातं शशविषाणकल्प-त्यन्तमेवासद् दृष्टम् । तथेदं ब्रह्माविज्ञातत्वादसदेवेति मन्द- बुद्धीनां व्यामोहो मा भूदिति तदर्थयमाख्यायिकारभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देव ईश्वराणामपीश्वरो दुर्विज्ञेयो देवानां जयहेतुरसुराणां पराजयहेतुम्तत्कथं नास्तीत्येतस्यार्थस्यानुकूलानि ह्युत्तराणि [वाक्यभाप्यम् ] ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिर्यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतो- च्यते तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायोऽभिमा- नशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादा. म्नायः । न हि शमादिसाधनरहितस्याभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति । व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्या- दीनां जयाभिमानं शातयति । ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे । तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वापोदितत्वात् । नेदं यदिदमुपासत इत्युपास्यत्वं ब्रह्मणोऽपोदितमपोदित- त्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेत्यधिदैवतं तद्वनमित्युपासितव्यमिति हि वक्ष्यति । ब्रह्मेति परो लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्या- दीस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति तन्न शशाक दग्धुमित्यादिलिङ्गाद्ब्रह्मशब्द- वाच्य ईश्वर इत्यवसीयते । न ह्यन्यथाग्निस्तृणं दग्धुं नोत्सहते वायुर्वादातुम् । ईश्वरेच्छया तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिनित्यसर्वविज्ञान ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीत्युच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं घुवियत्पृथिव्यादित्यचन्द्र- ग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसंबन्धि तदत्यन्तकुशल- [प्रकाशिका] अत्यद्भुतत्वात्साकल्येन न ज्ञेयमिति प्रतिपादितेऽर्थे काचनाख्या- यिकां वक्ति। देवानां दैत्यदानवैयुद्धे प्रस्तुते सति ब्रह्म देवानाविश्य देवेभ्यो -- केनोपनिपद् - तस्य ह ब्रह्मणो विजये [पदभाष्यम्] वांसि दृश्यन्ते । अथवा ब्रह्मविद्यायाः स्तुतये। कथं ब्रह्मविज्ञा- नाद्धयग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुस्ततोऽप्यतितरामिन्द्र इति । अथवा वाक्यभाष्यम् शिलिमिरति दुर्निर्मणं देशकालनिमित्त नुरूपनियत्प्रवृत्ति- निवृत्तिक्रममेतद्भोक्तृकर्मविभ'गज्ञप्रयत्नपूर्वकं भवितुमर्हति।कार्यत्वे मते यथो- क्तलक्षणत्वात् । गृहप्रासादरथशयनासनादिवत् । विपक्ष आत्मादिवत् । कर्म- ण एवेति चेत् । न । परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्त नुरूपनियतप्रवृत्तिनिवृत्तिक्रम च तन्न नित्यसर्वज्ञकर्तृकम् । किं तहि कर्मण एव तस्याचिन्त्यप्रभावत्वात्स- वैश्च फलहेतुत्वाभ्युपगमात् । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्प- नयेति न नित्यस्येश्वरस्य नित्यसज्ञिशक्तेः फलहेतुत्वं चेति चेत् । न कर्मण एवोपभोगवैचित्र्यायुपपद्येत । कस्मात् । कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रय- त्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियत- निमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ । कतैव फलकाले प्रयोक्ते.त चेन्मया निर्वतितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फल मिति न देशकालनिमित्तविशेपानभिज्ञत्वात् । यदि हि कर्ता देशविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुङ्ग्यात्ततोऽनिष्ट- फलस्याप्रयोक्ता स्यात् । न च निनिमित्तं तदनिच्छयात्मसमवेतं तच्चर्म- वद्विकरोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्ट भवति प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेन्न । साधनत्वात् । कर्तृक्रि- यायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हला- दिवत्का परित्यक्तानि न फलं काला हान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्रा- ड्रीहीन्गृहं प्रवेशयति भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपात्तिः । वायुव- दिति चेन्न । असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा रथा- दि-वदर्शनात्। शास्त्रात्कर्मण एवेति चेच्छास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः " स्वर्गकामो यत" इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं १ कर्मविभागझेति स्थाने कर्मविशेषविभागशेति पाठस्तथा कविभागविशेष- शेति पाठश्च ।
भाष्यत्रयोपेता देवा अमहीयन्त। [पदभाष्यम् दुर्विज्ञेयं ब्रह्मेत्येतत्प्रदर्श्यते । येनान्यादयोऽतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति वक्ष्यमाणोपनिषद्विधि- परं वा सर्व ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वाद्यभिमानो मिथ्येत्येतदर्श- वाक्यभाप्यम युक्तम् । न चेश्वरामित्वे प्रम णान्तरमस्तीति चेत् । न। दृष्टन्या- यहानानुपपत्तेः। क्रिया हि द्विविधा दृष्टफलादृष्टफला च । दृष्टफलापि द्विविधा- नन्तरफलागामि कला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तूत्पन्नप्रध्वंसिनी । आत्मसेव्यावधीनं हि कृषिसेवादेः फलं यतो न चोभ- यन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफ- लप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते स चा- त्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधमैं- रसंस्पृष्टः । श्रुतेश्च । " न लिप्यते लोकदुःखेन बाह्यः क० ५।११ जरामृत्युमत्येति ” बृ० ३।५।१ विजरो विमृत्युः" छा० ८।१५ " सत्यकामः सत्यसंकल्प एष सर्वेश्वरः पुण्यं कर्म कारयति " छां० ८ " अनश्नन्नन्यो अभिचाकशीति " मुं० ३।१।२ । “ एतस्य वा अक्षरस्य प्रशासने " बृ० ३।८।९ इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् । अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽ- स्ति । प्राप्त्यभावादिति चेन्न । उक्तत्वात् । न हिंस्यादितिवत्प्राप्त्यभावात्प्र- तिषेधो नारभ्यत इति चेन्न । ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवाप्रति- धादिति कर्मणः फलदान ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमि- त्तान्तरनिरपेक्षं केवलेन कत्रैव प्रयुक्तं फैलदं दृष्टम् । नच विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत् । सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृ- तायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तुर्भवतीति १ ईश्वरकालादीनामित्यस्य स्थान ईश्वरकारणवादिनामिति पाठः । २ फलदं दृष्टामित्यस्य स्थाने फलं दृष्टामति पाठः ।
केनोपनिषद् ३० त ऐक्षन्तास्माकमेवायं [पदभाष्यम् ] नार्थ वाख्यायिका। यथा देवानां जयाद्यभिमानस्तद्वदिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवद्देवानामसुराणां [वाक्यभाष्यम् ] युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति नहि देशकालान्तरेषु चातिरनुप्णो भवति । एवं कर्म- णोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते। बीजक्षेत्रसंस्कारपरिरक्षाविज्ञा- नवत्कञपेक्षफलं कृष्यादि विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कञपेक्षफलत्वानुपपत्तौ कालान्तरफलत्वात्क- मैदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति । सेवा- दिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा। “ यत्साक्षादपरोक्षात्" बृ० ३।४।१ य आत्मा सर्वान्तर" बृ० ३।४।१ इति श्रुतेः । स एव चात्रात्मा जन्तूनां “ नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता" बं० ३।७।२३ “ नान्यदतोऽस्ति विज्ञातृ" वृ० ३।८।११ इत्याद्या- त्मान्तरप्रतिषेधश्रुतेः “ तत्त्वमसि" छा० ६।१७ इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकोपास्योपासकशु- द्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेन्न । भेददृष्टयपवादात् । यदुक्तं संसारिण ईश्वरादनन्या इति । तन्न । किं तर्हि भेद एव संसार्यात्मनाम् । कस्माल्लक्षणभेदादश्वमहिषवत् । कथं लक्षणभेद इत्युच्यते । ईश्वरस्य ताव- नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिर्विपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनि- मित्तदहनकर्मवत् । राजायस्कान्तप्रकाशकर्मवच्च स्वात्माविक्रियारूपम् । विपरीतमितरस्य । “ उपासीत" छा० ३।१४।१ इतिवचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अपहतपाप्मादिश्रवणा- नित्यशुद्ध ईश्वरः । “ पुण्यो वै पुण्येन " बृ० ३।२।१३ इति वचनाद्वि- परीत इतरः । अत एव नित्यमुक्त एवेश्वरो नित्यशुद्धियोगात्संसारीतरः । अपिच यत्र ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः । यथाश्वमाहिषयोस्तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेन्न । कस्मात् । “ अन्योऽ- भाष्यत्रयोपेता विजयोऽस्माकमेवाय [पदभाष्यम् ] च सङ्ग्रामेऽसुराञ्जित्वा जगदरातीनीश्वरसेतुमेत्तृन्देवेभ्यो जयं तत्फलं च प्रायच्छज्जगतः स्थेम्ने । तम्य ह किल ब्रह्मणो विजये देवा [वाक्यभाष्यम् ] सावन्योऽहमस्मीति न स वेद" " ते क्षय्यलोका भवन्ति।" छा.७।२५।२ मृत्योः स मृत्युप्राप्नोति" बृ० ४।४।१९ इति भेददृष्टिहपोह्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभे- दादित्यत्रोच्यते नानभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्चे- श्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्य- मुक्तोऽभ्युपगम्यते । बाह्यश्चक्षुर्बुद्धयादिसमाहारसंतानाहंकारममत्वादिविपरी- तप्रत्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तविज्ञानात्मेश्वरगर्भो नित्यवि- ज्ञानावभासश्चित्तचैत्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्षण- विपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः। विच्छेदे च मोक्ष- व्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणो भूत- विशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्ध्या- दिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रयासिद्धो हेतुः । ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत्सु- खदुःखादियोगश्च । न निमित्तत्वे सति लोकविपर्ययाध्यारोपणात्सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवत्येवमी- श्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्धयाध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च न स्वतः । आत्मदृष्टयनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृ- प्रकाशो न दृश्यते स आत्मदृष्ट्यनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रका. शयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभ वाकुलभ्रान्त्याध्यारोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैवेश्वरस्यैव हि स्मरणम् । “मत्तः स्मृतिर्ज्ञानमपोहनं च" भ.गी.१५।१५ १ मृत्प्रलेपवदित्यस्य स्थाने मृत्मव्यवदिति पाठः।
केनोपनिषद्
३२
महिमोति ॥[१४] १॥
[पदभाष्यम् ] अग्न्यादयोऽमहीयन्त महिमानं प्राप्नुवन्तस्तदात्मसंस्थस्य
प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वश.
तर्जगतः स्थिति चिकीर्षोरयं जयो महिमा चेत्यजानन्तस्ते देवा ऐक्षन्ते-
क्षितवन्तोऽग्न्यादिस्वरूपपरिच्छिन्नात्मकृतोऽम्माकमेवायं महिमाग्निवाय्विन्द्र-
त्वादिलक्षणो जयफलभूतोऽस्माभिरनुभूयते नास्मत्प्रत्यगात्मभूतेश्वरकृत
इत्येवं मिथ्याभिमानेक्षणवताम् ॥ [१४] १ ॥
(वाक्यभाष्यम् ] "नादत्ते कस्यचित्पापम् ” भ. गी. ५।१५ इत्यादि । अतो-
नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम् ।
शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यविरोध इति । एतेन प्रत्येक
ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे च भेदहेत्वभावात् ।
विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमादभ्युपगमे चानित्य-
त्वप्रसंगात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्ध-
मेकत्वं तस्माच्छरीरोन्द्रियमनोबुद्धिविषयवेदनासंतानस्याहंकारसंबन्धादज्ञान-
बीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञान-
बीजस्य विच्छेद आत्मनो मोक्षसंज्ञा विपर्यये च बन्धसंज्ञा । स्वरूपापेक्ष-
त्वादुभयोः । ब्रह्म ह, इत्यतिह्यार्थः । पुरा किल देवासुरसंग्रामे जगत्स्थिति-
परिपिपालयिषयात्मानुशासनानुवर्तिभ्यो देवेभ्योऽर्थिभ्योऽर्थाय विजिग्येऽ-
जैषीदसुरान्ब्रह्मण इच्छानिमित्तो विजयो देवानां बभूवेत्यर्थः। तस्य ह
ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादिलोकस्थित्यपहारिष्वसुरेषु पराजि-
तेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः ॥ [१४] १ ॥
[प्रकाशिका ] देवानामर्थे दैत्यादीन्विजिग्ये व्यजयत । हेति निश्चितमेत-
दित्यर्थः । अथ विजयानन्तरं तस्य देवेष्वाविष्टस्य ब्रह्मणो विजये सति
देवा अमहीयन्तापूज्यन्त । महीङ् पूजायाम् । “ कण्ड्वादिभ्यो यक्
पा. सू. ३।१।२७ इति यक्प्रत्ययः । गर्विणोऽभवन्निति भावः। हेत्या-
श्चर्ये । ब्रह्मणो विजये कुतो देवानां गर्व इत्येतदेव व्यनक्ति–त इति ।
देवा अस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यैक्षन्त व्यजानन् ॥ १ ॥
भाष्यत्रयोपेता ३-२ तटैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ [१५] २ ॥ [पदभाष्यम् ] तद्ध किलैषां मिथ्येक्षणं विजज्ञौ विज्ञातवद्ब्रह्म । सर्वेक्षतृ हि तत्सर्वभूतकरणप्रयोक्तृत्वादेवानां च मिथ्याज्ञानमुपलभ्य मैवासुरवद्देवा मिथ्या- भिमानात्पराभवेयुरिति तदनुकम्पया देवान्मिथ्याभिमानापनोदनेनानुगृह्णी- यामिति तेभ्यो देवेभ्यो ह किलार्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मितेना- त्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरे प्रादुर्बभूव । तत्मा- दुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तो देवाः । किमिदं यक्षं पूज्यं मह- द्भूतमिति ॥ [१५] २ ॥ ते तदजानन्तो देवाः सान्तर्भयास्तद्विजिज्ञासवोऽग्निमग्रगामिणं जातवेदसं सर्वज्ञकल्पमब्रुवन्नुक्तवन्तो हे जातवेद एतदस्मद्गोचरस्थं यक्ष विजानीहि विशे- [वाक्यभाष्यम् ]त ऐक्षन्तेति मिथ्याप्रत्ययत्वाद्धेयत्वख्यापनार्थमाम्नायः । ईश्व- रनिमित्त विनये स्वसामर्थ्य निमित्ताऽस्माकमेवायं विजयोऽस्माकमेवायं महिमे- त्यात्मनो नयादि श्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्याणास्पदमीश्वरमे- वात्मत्वेनाबुद्ध्वा पिण्डमात्राभिमानाः सन्तो यं मिथ्याप्रत्ययं चक्रुस्तस्य पिण्ड- मात्रविषयत्वेन मिथ्याप्रत्ययत्वात्सर्वात्मेश्वरयाथात्म्यावबोधेन हातव्यता- ख्यापनार्थस्तद्वैषामित्याद्याख्यायिकाम्नायः। तद्ब्रह्म ह किलैषां देवानाममि- प्रायं मिथ्याहंकाररूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषामेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव । महे- श्वरशक्तिमायोपात्तेनात्यन्तद्भुतेन प्रादुर्भूतं किल केनचिद्रूपविशेषेण । तत्कि- लोपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः । किमिदं यदेतद्यक्ष पूज्यामिति ॥ [१५] २॥ तद्विज्ञानायाग्निमत्रुवन् । तृणनिधानेऽयमभिप्रायोऽत्यन्तसंभावितयोरग्नि- मारुतयोस्तृणदहनादानाशक्त्यात्मसंभावना शातिता भवेदिति । इन्द्रआदि- प्रकाशिका] एषां देवानां तदासुरावेशकृतेश्वराज्ञाननिमित्तमहंकारादिकं जज्ञौ व्यनानाद्ब्रह्मेत्यनुषङ्गः । तेभ्यो देवेभ्योऽर्थे देवानां स्वात्मतत्त्वबोधाय यक्ष- रूपतया प्रादुर्बभूव ब्रह्मेत्यर्थः । तद्यक्षरूपं ब्रह्मेदं किमिति न व्यजानत न व्यजानन् ॥ २ ॥ केनोप केनोपनिषद तेऽग्निमब्रुवजातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ [१६] ३॥ तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥[१७] ४॥ तस्मिस्त्वयि किं वीर्यमित्यपीद सर्व दहेयं यदिदं पृथिव्यामिति ॥ [१८]५॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ [१९] ६॥ [पदभाष्यम्] षतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति । तथास्त्विति तद्य- क्षमभ्यद्रवत्तत्प्रतिगतवानग्निः। तं च गतवन्तं पिपृच्छिषु तत्समीपेऽप्रगल्भत्वा- तूष्णीभूतं तद्यक्षमभ्यवदाग्निं प्रत्यभाषत कोऽसीति । एवं ब्रह्मणा पृष्टोऽ- ग्निरब्रवीदग्निर्वा अग्निनामाहं प्रसिद्धो जातवेदा इति च नामद्वयेन प्रसिद्ध- तयात्मानं श्लाघयन् । इत्येवमुक्तवन्तं ब्रह्मावोचत्तस्मिन्नेवं प्रसिद्धगुणनाम- वति त्वयि किं वीर्य सामर्थ्यमिति । सोऽब्रवीदिदं जगत्सर्व दहेयं भस्मी- कुर्याम् । यदिदं स्थावरादि पृथिव्यामिति । पृथिव्यामित्युपलक्षणार्थ यतोऽ- न्तरिक्षस्थमपि दह्यत एवाग्निना । तस्मा एवमभिमानवते ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापितवद्ब्रह्मतत्तृणमात्रं ममाग्रतो दह न चेदस्य दग्धुं समर्थो मुञ्च दग्धृत्वाभिमानं सर्वत्रेत्युक्तस्तत्तृणमुपप्रेयाय तृणसमीपं गतवान्सर्वजवेन सर्वो- त्साहकृतेन वेगेन गत्वा न शशाक नाशकद्दग्धुं स जातवेदास्तृणं दग्धुम- शक्तो ब्रीडितो हतप्रतिज्ञस्तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् । नैतद्यक्षमशकं शक्तवानहं विज्ञातुं विशेषतो यदे- तद्यक्षमिति ॥ [१६]३॥ [१७]४॥ [१८]५॥ [१९]६॥ [वाक्यभाष्यम् ]त्यो वज्रभृद्वा । अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्य- त्रायमभिप्रायः-इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य सोऽहमग्न्यादिभिः प्राप्त वाक्संभाषणमात्रमप्यनेन न प्राप्तोऽम्मीत्यभिमानं कथं न नाम जह्यादिति । [प्रकाशिका ] ते देवा अग्निमब्रुवञ्जातवेद एतद्यक्ष किमिति विजानीहीति तथे- न्युक्त्वा ॥ ३॥ ]
भाष्यत्रयोपेता
३.१०
अथ वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ २०] ७॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥२१]८॥
तस्मिस्त्वयि किं वीर्यमित्यपीद
सर्वमाददीय यदिदं पृथिव्यामिति ॥ [२२]९ ॥
तस्मै तृणं निदधावेतदादत्स्वति तदुपप्रे-
याय सर्वजवेन तन्न शशाकादातुं स तत
एव निववृते नैतदशकं विज्ञातुं यदे-
तद्यक्षमिति ॥ [२३] १०॥
[पदभाष्यम् ] अथ वायुमित्यथानन्तरं वायुमब्रुवन्हे वायवेतद्विजानीत्यादि
समानार्थ पूर्वेण । वानाद्गमनाद्गन्धनाद्वायुः । मातर्यन्तरिक्षे श्वयतीति मात-
रिश्वा । इदं सर्वमप्याददीय गृह्णीयाम् । यदिदं पृथिव्यामित्यादि समानमेव ॥
[२०]७॥ [२१]८॥ [२२]९॥ [२३]१०॥
[वाक्यभाष्यम् ]तदनुग्रहायैवान्तर्हितं तद्ब्रह्म बभूव ॥[१६]३॥[१७] ४॥[१८]
५॥ [१९]६॥ [२०]७॥ [२१]८॥ [२२]९॥ [२३] १०॥ [२४] ११॥
स शान्ताभिमान इन्द्रोऽत्यर्थ ब्रह्म विजिज्ञासुस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव
आसीतिरोधानं च तस्मिन्नेव स्त्रियमतिरूपिणी विद्यामाजगाम । अभिप्रायो-
[प्रकाशिका] अग्निस्तद्यक्षमाभिमुख्येनाद्रवदगमत् । तद्यक्षमभिमुखमागतमग्निं
कोऽसीत्यवदत् । अग्निरहमस्मि जातवेदा अहमस्मीत्यग्निरब्रवीत् । वै प्रसिद्धौ।
एतन्नाम ममेत्यर्थः । तस्मिंस्त्वयि तादृशे त्वयि किं वीर्यमिति यक्षम-
ब्रवीत् । यदिदं पृथिव्यामस्ति सर्वमपीदं दहेयमित्यग्निरब्रवीत् । तस्मा अ-
ग्य एतद्दहेत्युक्त्वा किंचित्तृणं तत्पुरतो निदधौ यक्षमित्यर्थः । तस्तृणं
दग्धुं सर्वजवेन सर्ववेगेनोपप्रेयाय समीपमगमत् । गत्वा तन्न शशाक दग्धं
सोऽग्निः । तत एव तावन्मात्रत एव यक्षरूपमवधार्य निववृते निवृत्तवा-
निवृत्य च देवानब्रवीत् । यदेतद्यक्षमित्येतद्विज्ञातुं नाशकमिति । अथानन्तरं
वायुप्राग्वव्याख्या । आददीयादद्यामित्यर्थः ॥४॥५॥६॥७॥८॥९॥१०॥
३-११ केनोपनिषद् अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ [२४] ११॥ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमा- नामुमार हैमवती तार होवाच किमेतद्यक्षामिति ॥ [२५] १२॥ इति तृतीयः खण्डः ॥३॥ [पदभाष्यम् ] अथेन्द्रमिति । अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहीत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवान्बलवत्त्वात्तथेति तदभ्यद्रवत्तस्मादिन्द्रादात्मसमीपं गता- तद्ब्रह्म तिरोदधे तिरोभूतमिन्द्रस्येन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादाद ब्रह्मेन्द्राय तद्यक्षं यस्मिन्नाकाश आकाशप्रदेश आ- त्मानं दर्शयित्वा तिरोभुतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्नाकाश आ- सीत्स इन्द्रस्तस्मिन्नेवाकाशे तस्थौ। किं तद्यक्षमिति ध्यायन्न निववृतेऽ- न्यादिवत्तस्येन्द्रस्य यक्षे भक्ति बुद्ध्वा विद्योमारूपिणी प्रादुरभूत् स्त्रीरूपा । स इन्द्रस्तामुमां बहुशोभमानां सर्वेषां हि शोभमानानां शोभनतमा विद्या तदा बहुशोभमानेति विशेषणमुपपन्नं भवति। हैमवती हेमकृताभरणवतीमिव बहु- शोभमानामित्यर्थः । अथवोमेव हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञे- नेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम । इन्द्रस्तां होमां किलोवाच पप्रच्छ ब्रूहि किमेतदर्शयित्वा तिरोभूतं यक्षमिति ॥ [२४] ११ ॥ [२५] १२ ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृती केनोपनिषत्पदभाप्ये तृतीयः खण्डः ॥ ३ ॥ [वाक्यभाष्यम् ] द्बोधहेतुत्वाद्रुद्रपत्न्युमा हैमवतीव सा शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥ [२५] १२॥ इति तृतीयः खण्डः ॥३॥ [प्रकाशिका] तस्मात्तिरोदधे तस्मात्प्रदेशादन्तर्हितमभूदिति वा । स इन्द्रस्तस्मि- न्नेव यक्षतिरोधानाकाशप्रदेशे यक्षेणोपदेशार्थ स्थापितां स्त्रियं दृष्ट्वाजगाम तत्समीपं प्राप्तवान् । सा केत्यत-उक्तं बहुशोभमानां हैमवती हिमवतः पुत्री- मेतद्यक्ष किमिति तां स्त्रियमुवाच पप्रच्छेत्यर्थः ॥ ११ ॥ १२ ॥ इति तृतीयः खण्डः ॥
भाष्यत्रयोपता ४-२ सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये मही- यध्वमिति ततो हैव विदांचकार ब्रह्मोत॥२६] १॥ तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यद- निर्वायुरिन्द्रस्ते ह्येननेदिष्ठं पस्पृशुस्ते ह्येनत्पथमो [पदभाष्यम् ] सा ब्रह्मेति होवाच ह किल ब्रह्मण ईश्वरस्यैव विजय ईश्वरेणैव जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव विजये यूयं महीयध्वं महि- मानं प्राप्नुथ । एतदिति क्रियाविशेषणार्थम् । मिथ्याभिमानस्तु युष्मा- कमयमस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । ततस्तस्मादुमावाक्या- द्वैव विदांचकार ब्रह्मेतीन्द्रोऽवधारणात्ततो हैवेति न स्वातन्त्र्येण ॥ २६] १॥ यस्मादग्निवारिवन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना सामीप्यमुपग- तास्तस्मादैश्वर्यगुणैरतितरामिव शक्तिगुणादिमहाभाग्यैरन्यान्देवानतितराम- तिशयेन शेरत इवैते देवाः । इवशब्दोऽनर्थकोऽवधारणार्थो वा । यदग्निर्वा- युरिन्द्रस्ते हि देवा यस्मादेनद्ब्रह्म नेदिष्ठमन्तिकतमं प्रियतमं पस्पृशुः स्पृष्टवन्तो यथोक्तैब्रह्मणः संवादादिप्रकारैस्ते हि यस्माच्च हेतोरेनद्ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतद्विदांचकार विदांचकुरित्येतद्ब्रह्मेति ॥ [२७] २॥ [वाक्यभाष्यम् ]तां च पृष्ट्वा तस्या एव वचनाद्विदांचकार विदितवान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यैवोमा । " विद्यासहायवानीश्वरः ” इति स्मृतिः । यस्मादिन्द्रविज्ञानपूर्वकमग्निवाय्विन्द्रास्ते ह्येनन्नेदिष्ठमतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पृशुः स्पृष्टवन्तः। ते हि प्रथमः प्रथमं विदांचकार विदां- चक्रुरित्येतत् । तस्मादतितरामतीत्यान्यानतिशयेन दीप्यन्तेऽन्यान्देवांस्ततोऽ- पीन्द्रोऽतितरां दीप्यते। आदौब्रह्मविज्ञानात्। [२६] [२७]२॥ [२८]३॥ [प्रकाशिका] इन्द्रेण पृष्टा देव्येतद्यक्षं ब्रह्मेति होवाच हेति निश्चयमाह । एत- देतस्य देवेष्वनुप्रविष्टस्य ब्रह्मणो विजये तद्विजयनिमित्तं महीयध्वं महिमवन्तो भवत न त्वात्मनो विजयनिमित्तं गर्विणो भवत वै निश्चितमेतदिति चोवा- घेत्यन्वयः । एवमुभयोपदिष्ट इन्द्रः किं चकारेत्यत आह-तत इति । ततो हैव देव्युपदेशादेव तद्यक्षमिन्द्रो ब्रह्मेति दैत्यविजयोऽस्मदनुप्रविष्टब्रह्मकृत इति विदांचकार ज्ञातवान् ॥ १ ॥ तस्माद्वै यस्मात्त्वं ब्रह्मणः पूर्वं दृष्टत्वादेवैते देवा अन्यान्देवानतितरा- मिवेति । एते देवाः क इत्यतस्तानाह-यदग्निर्वायुरिन्द्र इति । यदग्निर्योs- केनोपनिषद् विदांचकार ब्रह्मेति ॥[२७] २॥ तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥[२८] ३॥ तस्यैष आदेशो यदेतद्विद्युतो व्यधुतदा३ इतीन्- [पदभाष्यम् ] यस्मादग्निवायू अपीन्द्रवाक्यादेव विदांचक्रतुरिन्द्रेण ह्युमावाक्या- प्रथमं श्रुतं ब्रह्मेत्यतस्तस्माद्वा इन्द्रोऽतितरामतिशयेन शेत इवान्यान्दे- वान्स ह्येनन्नेदिष्ठं पस्पर्श यस्मात्स ह्येनत्प्रथमो विदांचकार ब्रह्मेत्युक्तार्थ वाक्यम् ॥ [२८] ३॥ तस्य प्रकृतस्य ब्रह्मण एष आदेश उपमोपदेशो निरुपमस्य ब्रह्मणो येनोपमानेनोपदेशः सोऽयमादेश इत्युच्यते । किं तद्यदेतत्प्रसिद्धं लोके विद्युतो व्यधुतद्विद्योतनं कृतवदित्येतदनुपपन्नमिति । विद्युतो विद्योतनमिति कल्प्यते । आ इत्युपमार्थे । विद्युतो विद्योतनमिवेत्यर्थः । “ यथा सकृति- द्युतम् " बृ. २।३।६ इति श्रुत्यन्तरे च दर्शनाद्विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः। अथवा विद्युतस्तेज इत्यध्याहार्यम् । व्यद्युतद्विद्योतितवत्, आ इव । विद्युतस्तेनः सकृद्विद्योतितवदिवेत्यभि- प्रायः । इतिशब्द आदेशप्रतिनिर्देशार्थ इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्यादेशः । कोऽसौ । न्यमीमिषत् । यथा चक्षुधमीमिषन्निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एवाकारः । चक्षुषो [वाक्यभाष्यम् तस्यैष आदेशस्तस्य ब्रह्मण एष वक्ष्यमाण आदेश उपासनोप- प्रकाशिका] निर्यो वायुर्य इन्द्र एते देवाः । कुत एतेऽधिका इत्यतस्तस्मा- दित्युक्तम् । हेतुं व्यनक्ति–ते हीति । हि यस्मादेतद्यक्षरूपं ब्रह्म नेदिष्ठं समीपस्थं पस्पृशः । स्पृश संस्पर्शने । परामर्श कृतवन्त इत्यर्थः । परामर्शात्प्रा- गग्निवाय्वोर्यक्षदर्शनमात्रामन्द्रस्य तु यक्षस्य ब्रह्मत्वज्ञानमिति बोध्यम् । तद्य- नक्ति-ते हीति। तेऽग्निवाविन्द्राः। प्रथमः प्रथमं विदांचकार विदांचक्रुः॥२॥ ब्रह्मवेदनं चेन्द्रस्य देव्युपदेशादन्यस्य विन्द्रोपदेशादिति भावेनेन्द्रस्य ज्ञानोदयप्रकारमाह । तस्मादित्युक्तं हेतुं व्यनक्ति स ह्येनदिति । एतदेव । तद्वाक्यार्थमेव व्यक्तमाह । स ह्येनत्प्रथम इति प्रथममित्यर्थः ॥ ३ ॥ अधिदैवतमध्यात्म चोपास्यरूपमुपदिशति-तस्यैष इत्यादिना । तस्य
३९
भाष्यत्रयोपेता
स
न्यमीमिषदा ३ इत्यधिदैवतम् ॥[ २९ ] ४॥
अथाध्यात्मं यदेतद्च्छतीव च मनोऽनेन चैतदुपस्म-
[पदभाष्यम् ] विषय प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इत्यधिदैवतं देवता-
विषयं ब्रह्मण उपमानदर्शनम् ॥ [२९] ४ ॥
अथानन्तरमध्यात्म प्रत्यगात्मविषय आदेश उच्यते । यदेतद्गच्छतीव
च मन एतद्ब्रह्म ढौकत इव विषयी करोतीव यथानेन मनसैतद्ब्रह्मोपस्मरति
समीपतः स्मरति साधकोऽभीक्ष्णं भृशं संकल्पश्च मनसो ब्रह्मविषयो मन-
उपाधिकत्वाद्धि मनसः संकल्पस्मृत्यादिप्रत्ययैरभिव्यज्यते ब्रह्मविषयी
क्रियमाण इव चातः एष ब्रह्मणोऽध्यात्ममादेशो विद्युन्निमे-
[वाक्यभाष्यम् ] देश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म
द्युतिमत्तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतद्विद्योतितवत् । आ
इवेत्युपमार्थ आशब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशत एवं
तद्ब्रह्म देवानां पुरतः सर्वतः प्रकाशवव्यक्तीभूतमतो व्यद्युतदिवेत्युपास्यम् ।
" यथा सकृद्विद्युतम्" बृ. ३।२।६ इति च वाजसनेयके । यस्माच्चेन्द्रोप-
सर्पणकाले न्यमीमिषत् । यथा कश्चिच्चक्षुर्निमेषणं कृतवानिति । इतीदित्य-
नर्थको निपातौ । निमिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया अधि
यद्दर्शनमधिदैवतं तत् ॥ [२९] ४ ॥
अथानन्तरमध्यात्ममात्मनोऽध्यात्ममुच्यत इति वाक्यशेषः । यदेतद्यथो-
क्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयी करोतीवेत्यर्थः । न पुनर्विषयी
[प्रकाशिका] ब्रह्मण एष आदेश उपदेशः। यदेतत्कपिलाख्यं रूपम् । विद्युतो
बहुवचनमाद्यर्थ उपलक्षणं वा विद्युदादीस्तेजोरूपानर्थाना समन्ताद्व्यद्युत-
यद्योतयददीपयदिति । आ 'न्यमीमिषत्सम्यङ्न्यमीमिषत्सम्यङ्न्यमीलयत् ।
आ पूर्णमित्यर्थः । यद्वा यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युति-
मत्तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्ययुतद्विद्योतितवत् । आ इवेत्युपमार्थ
आशब्दः । यथा धनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशत एवं तद्ब्रह्म
देवानां पुरतः सर्वतः प्रकाशवव्यक्तीभूतमतो विद्युतदिवेत्युपास्यम् । “ यथा
सकृद्विद्युतम् " २।३।६ इति बृहदारण्यके । यस्मान्चेन्द्रोपसर्पणकाले न्यमी-
मिषत् । यथा कश्चिच्चक्षुनिमेषणं कृतवानिति । इतीदित्यनर्थको. निपातौ
निमिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया अधि यदर्शनमधिदैवतं
तत् ॥ ४॥
केनोपनिषद् रत्यभीक्ष्णं संकल्पः ॥[३०] ५॥ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं [पदभाप्यम् ] षणवदधिदैवतं द्रुतं प्रकाशनधर्म्यध्यात्मं च मनः प्रत्ययसम- कालाभिव्यक्तधर्मीत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेशोपदेशः । नहि निरुपाधिकमेव ब्रह्म मन्दबुद्धि- मिराकलयितुं शक्यम् ॥ [३०] ५ ॥ किंच तद्ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वाद्वननीयं संभजनीयमतस्तद्वनं नाम प्रख्यातं ब्रह्म तद्वन- मिति यतस्तस्मात्तद्वनमित्यनेनैव गुणाभिधानेनोपासितव्यं चिन्तनीय- मिति । अनेन नाम्नोपासकस्य फलमाह-स यः कश्चिदेतद्यथोक्तं ब्रह्मैवं वाक्यभाष्यम् ] करोति मनसोऽविषयत्वाद्ब्रह्मणोऽतो मनोन गच्छति । येनाहु- मैंनो मतामिति हि चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वादात्मभूतत्वाच्च ब्रह्मणस्तत्समीपे मनो वर्तत इत्युपस्मरत्यनेन मनसैव तद्ब्रह्म विद्वान्यस्मात्तस्मा- ब्रह्म गच्छतीवेत्युच्यते। अभीक्ष्णं पुनः पुनश्च । संकल्पो ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसंकल्पादिभिर्लिङ्गैर्ब्रह्म मनोऽध्यात्मभूतमुपास्यमित्य- भिप्रायः[३०] ५ ॥ तस्य चाध्यात्ममुपासने गुणो विधीयते तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत्परोक्षं वनं संभजनीयम् । वनतेस्तत्कर्मणस्तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यः कश्चि- देतद्यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म वेदोपास्ते । [प्रकाशिका] अथेत्यर्थान्तरे । अध्यात्म देहे तस्योपदेश उच्यत इत्यर्थः । यदेतन्मनोऽनेनैव प्रेरितं सद्गच्छतीव च सम्यङ् गच्छतीयत्तया वस्तु न विषयी करोति । अनेनैव ब्रह्मणाऽनिरुद्धाख्येन हरिणानुगृहीतस्तद्विषयजातमुप- स्मरति कीदृशं मन इत्यत उक्तमभीक्ष्णं संकल्प इति । भृशमनेकार्थान्सं- कल्पयतीति । संकल्पमित्यर्थः । लिङ्गव्यत्ययश्छान्दसः । शब्दस्वभावाद्वा अभीक्ष्णं नित्यं भृशं संकल्पश्च भवति । तस्य ब्रह्मणोऽनिरुद्धाख्यस्य हरेरेष उपदेश इत्यर्थः ॥ ५ ॥ तस्योपास्यमन्वथै नामाह । तद्धेति । तद्ब्रह्म तद्वनं नाम ततत्वाव्या.
भाष्यत्रयोपेता ४-७ त वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ।[३१] ६॥ उपनिषदं भी बहीत्युक्ता उपनिषद्वामीं [पदभाष्यम् ] यथोक्तगुणं वेदोपास्तेऽमि हैनमुपासकं सर्वाणि भूतान्यभिसं- वाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म । एवमनुशिष्टः शिप्य आचार्य- मुवाच ॥ [३१] ६ ॥ उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन्ब्रूहीत्येवमुक्तवति शिष्य आ- हाचार्यः । उक्ताभिहिता ते तवोपनिषत् । का पुनः सेत्याह-ब्राह्मीं ब्रह्मणः परमात्मन इयं तां परमात्मविषयत्वादतीतविज्ञानस्य वावैव त उपनिषदमब्रूमेत्युक्तामेव परमात्मविद्यामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम् । परमात्मविषयामुपनिषदं श्रुतवत उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः। यदि तावच्छ्रुतस्यार्थम्य प्रश्नः कृतस्ततः पिष्टपे- षणवत्पुनरुतोऽनर्थकः प्रश्नः स्यादथ सावशेषोक्तोपनिषत्स्यात्ततस्तस्याः फल- वचनेनोपसंहारो न युक्तः प्रेत्यास्माल्लोकादमृता भवन्तीति । तम्मादुक्तोप- निषच्छेषविषयोऽपि प्रश्नोऽनुपपन्न एवानवशेषितत्वात् । कस्तीभिप्रायः प्रष्टुरित्युच्यते । किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा । अथ निरपेक्षैव । सापेक्षा चेदपेक्षितविषयामुपनिषदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्येवमभिप्रायः । एतदुपपन्नमाचार्य- स्यावधारणवचनमुक्ता त उपनिषदिति । ननु नावधारणमिदं यतोऽन्यद्वक्त- [वाक्यभाप्यम् ] तस्यैतत्फलमुच्यते । सर्वाणि भूतान्येनमुपासकमभिसंवाञ्छ- न्तीहाभिसंभजन्ते सेवन्ते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ॥ [३१] ६ ॥ उपनिषदं भो ब्रूहीत्युक्तायामप्युपनिषदि शिष्येणोक्त आचार्य आह । उक्ता कथिता ते तुभ्यमुपनिषदात्मोपासनं च । अधुना ब्राह्मी वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेरुपनिषदमब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि [प्रकाशिका] प्तत्वाद्वननीयत्वाद्भजनीयत्वात् । तद्वनमिति कल्याणनिमित्तक- नामवत् । तनोतेस्त्यजियजितनिभ्य इत्यत्प्रत्ययः । वनतेरकारः । तच्च तद्वनं चेति तद्वनमिति । हेति प्रसिद्धम् । तद्वनमित्युपासकस्य फलमाह-स य इति । स प्रसिद्धो योऽधिकार्येतद्ब्रह्मैवं तद्वनं नामेत्येवं रूपेण वेदैनं तद्वनत्वज्ञानिनं सर्वाणि भूतान्यभि संवाञ्छन्ति । सर्वापेक्षितो भवतीत्यर्थः ॥ ६ ॥ एवं श्रुत्वा पुनराचार्य पृच्छति शिष्य उपनिषदं भो ब्रूहीति । भो केनोप. me ६ केनोपनिषद् वाव त उपनिषदमब्रूमेति ॥ [३२] ७ ॥ [पदभाप्यम् ] व्यमित्याह तस्यै तपो दम इत्यादि सत्यं वक्तव्यमुच्यत आचार्येण न तूक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा । किंतु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण । वेदैस्तदङ्गैश्च सह पाठेन समीकरणात्तपः- प्रभृतीनाम् । न हि वेदानां शिक्षाद्यङ्गाना च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सह- कारिसाधनत्वं वा। सहपठितानामपि यथायोग्य विभज्य विनियोगः स्यादिति चेद्यथा सूक्तवाकानुमन्त्रणमन्त्राणां यथादैवतं विभागस्तथा तपोदमकर्म- सत्यादीनां ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्ययं विभागो युज्यतेऽर्थसंबन्धोपपत्तिसामर्थ्यादिति चेत् । नायुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसंबन्धो वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगात्म- विषयनिष्ठत्वाच्च ब्रह्मविद्यायास्तत्फलस्य च निःश्रेयसस्य, " मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ” ॥ तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वान ज्ञानस्योपपद्यते। ततोऽस- देव सूक्तवाकानुमन्त्रणवद्यथायोगं विभाग इति । तस्मादवधारणार्थतैव प्रश्न- प्रतिवचनम्योपपद्यते । एतावत्येवेयमुपनिषदुक्तान्यनिरपेक्षामृतत्वाय। [३२]७॥ यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽब्रूमेति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः कायेन्द्रियमनसां समाधानम् । दम [वाक्यभाष्यम् ] ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभि- प्रायोऽब्रूमेत्ययं शब्दः ॥ [ ३२ ] ७ ॥ तस्या वक्ष्यमाणाया उपनिषदस्तपो ब्रह्मचर्यादि दम उपशमः कर्माग्नि- होत्रादीत्येतानि प्रतिष्ठाश्रयः। एतेषु हि सत्सु ब्राह्मोपनिषत्प्रतिष्ठिता भवति । वेदाश्चत्वारोऽङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्तते । ब्रह्माश्रया हि विद्या । (प्रकाशिका] आचार्योपनिषदं सप्रतिष्ठां सायतनां ब्रूहीत्यपृच्छदिति शेषः । किमुपनिषत्प्रतिपाद्यं पृच्छस्युतोपनिषदुत्पन्न विद्याया अवस्थानकारणं किं वा विद्यायाः कारणमिति हृदि विकल्प्य क्रमेणोत्तरमाह-उक्ता त इति । ते तुभ्यं ब्राह्मी ब्रह्मविषयां वावेत्यसंशयं त उपनिषत्स्वरूपमब्रूमावोचामेति । ब्रह्मेति १ब्राह्मोपनिषदित्यस्य स्थाने ब्राह पनिषदिति पाठः।
भाष्यात्रयोपता ॥ श्वे. ६।२३ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गाणि सत्यमायतनम् ॥ [३३] ८॥ [पदभाष्यम् ] उपशमः । कर्माग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिर्दृष्टा ह्यमृदितकल्मषस्योक्तेऽपि ब्रह्मण्यप्रतिपत्तिर्विपरीत- प्रतिपत्तिश्च यथेन्द्रविरोचनप्रभृतीनाम् । तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धानं समुत्पद्यते यथाश्रुतम् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता त्द्यर्थाः प्रकाशन्ते महात्मनः इतिमन्त्रवर्णात् । “ ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ” इति स्मृतेः । इतिशब्द उपलक्षणप्रदर्शनार्थः । इत्येवमाद्यन्यदपि ज्ञानोत्पत्ते- रुपकारकममानित्वमदम्भित्वमित्याद्युपदर्शितं भवति । प्रतिष्ठा पादौ पादा- विवास्यास्तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते पद्भ्यामिव पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट्कर्मज्ञानप्रकाशत्वाद्वेदानां तद्रक्षणार्थत्वादङ्गानां प्रतिष्ठात्वम् । अथवा प्रतिष्ठाशब्दस्य पादरूपकल्पना- र्थत्वाद्वेदास्त्वितराणि सर्वाङ्गाणि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेद- ग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि गृहीतेऽङ्गानि गृहीतान्येव भवन्ति । तदायतनत्वादङ्गानाम् । सत्यमायतनं यत्र तिष्ठत्युपनिषत्तदाय- तनं सत्यमिति । अमायिताकौटिल्यं वाङ्मनःकायानां तेषु ह्याश्रयति विद्या येऽमायाविनः साधवः । नासुरप्रकृतिषु मायाविषु । " न येषु जिह्ममनृतं न माया च” प्र १।१६ इति श्रुतेः । तस्मात्सत्यमायतनमिति कल्प्यते। तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधना- तिशयत्वज्ञापनार्थम् । " अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते” इति स्मृतेः ॥३३॥८॥ यो वा एतां ब्रह्मविद्यां केनेषितमित्यादिना यथोक्तामेवं महाभागां ब्रह्म ह देवेभ्य इत्यादिस्तुतां सर्वविद्याप्रतिष्ठां वेदामृतत्वं हि विन्दत इत्युक्तमपि [ वाक्यभाष्यम् ] सत्यं यथाभूतवचनमपीडाकरमायतनं निवासः । सत्यवत्सु हि सर्व यथोक्तमायतन इवावस्थितम् ॥ [३३] ८॥ प्रकाशिका] होवाचेत्यादिना ब्रह्मस्वरूपोक्तेस्तत्र वक्तव्यं किमपि नेत्यर्थः ॥७॥ तस्यै तस्या विद्यायास्तपो दमः कर्म च प्रतिष्ठा । तपः कृच्छूचान्द्रा- केनोपनिषद् यो वा एतामेवं वेदापहत्य पाप्मानमन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ [३४] ९॥ इति चतुर्थः खण्डः ॥ ४॥ [पदभाष्यम् ] ब्रह्मविद्याफलमन्ते निगमयते-अपहत्य पाप्मानमाविद्याकाम- कर्मलक्षणं संसारबीनं विधूयानन्तेऽपर्यन्ते । स्वर्गे लोके सुखात्मके ब्रह्मणी- त्येतत् । अनन्त इति विशेषणान्न त्रिविष्टपे । अनन्तशब्द औपचारिकोऽपि म्यादित्यत आह-ज्येय इति । ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्य एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभिप्रायः ॥ [ ३४ ] ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पादकृतौ केनोपनिषत्पदभाष्ये चतुर्थः खण्डः ॥ ४ ॥ समाप्तमिदं श्रीमच्छंकराचार्यविरचितं तलवकारोपनिषदपर- पर्यायकेनोपनिषत्पदभाष्यम् । वाक्यभाष्यम् ] तामेतां तपआद्यङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सांयतनामा- त्मज्ञानहेतुभूतामेवं यथावद्यो वेदानुवर्ततेऽनुतिष्ठति । तस्यैतत्फलमाह- अपहत्य पाप्मानम् । अपक्षय्य धर्माधर्मावित्यर्थः । अनन्तेऽपारेऽविद्यमानान्ते। स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि । ज्येये महति सर्वमहत्तरे प्रतितिष्ठति सर्ववेदान्तवेद्यं ब्रह्मात्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ।। [ ३४ ] ९॥ इति चतुर्थः खण्डः ॥ ४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पादपूज्यशिष्य- श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवतः कृतौ तलवकारोपनिषदपरपर्यायकेनोपनिषद्भाष्ये क्षुद्र- गणवाक्यविवरणं समाप्तम् । प्रकाशिका] यणादि शास्त्रपालोचनं वा। दम इन्द्रियनिग्रहः। कर्म तु वर्णा- श्रमोचितक्रियानुष्ठानम् । प्रतिष्ठा प्रतिष्ठाहेतुः। तपआदिमत्सु विद्या प्रतितिष्ठ- तीत्यर्थः । वेदा ऋगादयस्तदनुकूलग्रन्थाश्च । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गरूपसर्वाङ्गाणि सत्यं यथाभूतमपीडाकरं वचन- १ सायतनामित्यस्य स्थाने सत्यायतनामिति पाठः।
भाष्यत्रयोपता सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ॐ शान्तिः । शान्तिः । शान्तिः । आप्यायन्तु ममाङ्गानि वाक्पाणश्चक्षुः श्रोत्रमथो बल- मिन्द्रियाणि च सर्वाणि सर्व ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्या मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेऽस्तु तदात्मान निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः । शान्तिः । शान्तिः । इति सामवेदीयतलवकारोपनिषत्समाप्ता। [प्रकाशिका] मायतनमुत्पत्तिस्थानं ब्रह्ममीमांसा तस्या इत्यनुषङ्गः। विद्याया इत्यर्थः ॥८॥ एतदुपनिषज्ज्ञानिनः फलमाह--य इति । योऽधिकार्यतामुपनिषदं वेद स पाप्मानमपहत्यानन्ते त्रिविधपरिच्छेदरहिते स्वर्गे सुखरूपे लोके प्रकाशरूपे ज्येये श्रेष्ठे ब्रह्मणीति योज्यम् । प्रतितिष्ठतीतिद्विरुक्तिरुक्तसर्वावधारणार्था॥९॥ इति चतुर्थः खण्डः ॥ ४ ॥ इति श्रीरङ्गरामानुजविरचितप्रकाशिकासमेता तलवकारोपनिषत् ।
इति समाप्ता भाष्यत्रयोपेता केनोपनिषद् ।
श्रीः अथ केनोपनिषद्धयाख्यात्रये बालबोधिनी । नत्वा श्रीशंकरं केनभाष्ययोः पदवाक्ययोः । वृत्तिः प्रकाशिकायां च तन्यतें बालवोधिनी ॥ १ ॥ अथ प्रथमखण्डे प्रथममन्त्रः ॥१॥१॥ [ पदभाष्यम् ] [पृ.१] " चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवमा सामवेद एकविंशतिधा बाढच्यं नवधा- थर्वणो वेदः" म. भा. १। १। १ इति पातञ्जले महाभाष्ये पस्पशान्हिक उक्तत्वात्सहस्रशाखायुतस्य सामवेदस्यान्यतम्यां तलवकारशाखायामुक्ता योपनिषत्तां व्याख्यातुं तस्या व्याख्येयत्वं प्रतिपादयत्याचार्यः केनेषित मित्यादिना । पूर्वेषामष्टानामध्यायानामस्य नवमाध्यायस्य च हेतुहे- तुमद्भावः संगतिरिति दयितुं पूर्व वृत्तमनुवदति-प्रागेतस्मादित्यादिना। कर्माङ्गसामविषयाणि चति । पञ्चावयवकं सप्तावयवकं च कर्माङ्गसाम । तद्विषयोपासनानि पृथिव्यादिदृष्टयोक्तानि । कर्माङ्गसामविषये पृथिव्यादि- दृष्टिः कर्तव्या । काङ्गसाम पृथिव्यादिरूपमस्तीति मन्तव्यमित्यर्थः। तथा गायत्रसामविषये प्राणदृष्टिः कर्तव्येत्यपि कथितम् । वंशाना मिति । गुरु- शिष्यपरम्पराया अविच्छेदो वंशः । कार्यमिति। अवश्यकर्तव्यं नित्यमिति यावत्। सत्त्वशुद्ध्यर्थमिति।सत्त्वशुद्धिश्चित्तशुद्धिस्तद्वारा नित्यकर्माणिज्ञानो- पयोगीनि । काम्यकर्माणि न कर्तव्यानीति तत्र दोषं दर्शयति-सकामस्येति। श्रौतानि-अग्नित्रयसाध्यानि । स्मार्तानि-गृह्याग्निसाध्यानि । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्" भ. गी.८।२५ इत्यनेन भगवता दक्षिणमार्गो दर्शितः । पुनरावृत्तिः-पुनर्जन्म । पूर्ववत्प्रतिषिद्रेषु । कलनं भक्षयेत् " "ब्राह्मणो न हन्तव्यः” इत्यादिषु दोषं दर्शयति-स्वा- भाविक्येति । प्रतिषिद्धकर्मसु स्वाभाविक्येति प्रवृत्तिर्न तत्र प्रेरकापेक्षेत्यर्थः । अधोगतिरिति । पशुप्रभृति वृक्षपाषाणादिपर्यन्तं निकृष्टं जन्मेत्यर्थः । एतयोः पथोरिति । एतयोनिकर्मणोरन्यतरेण मार्गेणाप्रवर्तमानाः प्रति- बालबोधिनी on- षिद्धकारिणः पुरुषाः क्षुद्राणि जन्मानि युकामशकादीनि वारंवारमावर्त- मानानि पुनः पुनराप्नुवन्ति । जायस्व म्रियस्वेति । " क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः " पा. सू. ३।४।२ इति पाणिनिसूत्रेण लोट स्वादेशश्च । पुनः पुनर्जायन्ते म्रियन्ते च । असकृज्जननमरणवन्त इत्यर्थः [ पृ. २ ] तिस्त्र इति । मनुष्यादयो जरायुजाः । पक्ष्यादयोऽ- ण्डजाः । भूमिमुद्भिद्य जायमाना उद्भिज्जा वृक्षादय इति त्रिविधाः प्रजाः। अत्यायमिति । आयो गतिः । अतीत्य दक्षिणोत्तरमार्गमुलुंध्य या गतिः पश्वादिजन्म तामीयुः प्राप्तवन्त इत्यर्थः । एवं कर्मफलं विचार्य ततो वि. रक्तस्यात्मज्ञानेऽधिकार इत्याह-विशुद्धसत्त्वस्यति । साध्यसाधनसम्ब- न्धादिति। व्यवहितेन विरक्तस्येत्यनेन संबन्धः । साध्यं-स्वर्गादि । साधनं- यज्ञादि । इहकृतादिति । एतज्जन्मपूर्वजन्मसाध्यादित्यर्थः । संस्कारविशे- षोद्भवादिति । ब्रह्मस्मृतिप्रापकः संस्कार एव विशिष्टसंस्कारः । घटपटादि- स्मृतिप्रापकास्तु सामान्यसंस्काराः । जिज्ञासेति । विचार इत्यर्थः। वस्तु- ब्रह्मरूपम् । प्रश्नप्रतिवचनलक्षणयेति । दुर्गमोऽर्थः प्रश्नोत्तराभ्यां ज्ञातुं सुकरो भवतीति श्रुत्या प्रश्नोत्तररूपत्वं स्वीकृतम् । यथा पुरुषसूक्ते "मुखं किमस्यासीत्कि बाहू किमूरू पादावुच्यते । ब्राह्मणोऽस्य मुखमासी. बाहू राजन्यः य०मा०सं०३१।१०. ११ इत्यादौ प्रश्नप्रतिवचने । पराश्चीत। खानि श्रोत्रादीन्द्रियाणि पराग्गमनस्वभावान्येव कृतवान् स्वयंभूः। एता- दृशस्वभावकरणमेव तद्धिंसनम् । यतस्तादृशस्वभावादात्मप्राप्तिनं भवति । तस्मादुपलब्धा परागनात्मभूताञ् शब्दादीनुपलभते नान्तरात्मानम् । एवं स्थितेऽपि कश्चिन्नदीरयप्रतीपगामी पुरुष इव धीरो विवेक्यावृत्तचक्षुरशेष- विषयजाताद्व्यावृत्तं चक्षुर्यस्य । चक्षुष उपलक्षणत्वात्सर्वाणीन्द्रियाणि । स चामृतत्वप्राप्तिकामः प्रत्यगात्मानमैक्षत्पश्यतीत्यर्थः । परीक्षेति । परीक्ष्य- विचार्य । कर्मचितान् – क्रियासंपादितान्स्वर्गादिलोकान् । अकृतः-मोक्षः। कृतेन--कर्मणा। श्रोत्रियं-शास्त्रसंपन्नम् । ब्रह्मनिष्ठं-आत्मानुभववन्तम् । अत्रेदं ध्येयम् । श्रेष्ठमध्यमकनिष्ठेति भेदेन त्रिविधो गुरुः । तत्र शास्त्रा- ध्ययनसंपन्नो ब्रह्मानुभववांश्च श्रेष्ठः । यतः स शिष्याञ् शास्त्रयुक्तयादि प्रदर्यानुभवबलेन ब्रह्मात्मनोरैक्यं बोधयेत् । केवलशास्त्रनिष्ठो मध्यमः । अयं यद्यप्यनुभवविधुरस्तथापि शिष्यगतासंभावनान्यथासंभावनारूपदोषं शास्त्रयुक्तिभिर्निराकुर्यात्तेनाधिकारी शिष्यः स्वयमेव ब्रह्मानुभवमधिगच्छेत् । ।
केनोपनिषद्याख्यात्रये कामः शास्त्रविधुरोऽपि प्रारब्धकर्मपरिपाकवशात्पूर्वजन्मसंस्कारेण च जीवब्रह्मैक्या- नुभववांस्ततोऽवरः। यतोऽयं स्वयंमुक्तोऽपि वर्तमानजन्मस्थशास्त्रज्ञानाभावेन शिष्यगतासंभावनाविपरीतभावनादोषनिराकरणेऽसमर्थत्वाच्छिष्योपदेशेऽकि- चित्करः । इति । विरक्तस्य ब्रह्मज्ञानं नान्यस्येत्यन्वयव्यति काभ्यां दर्शयति । एवमित्यादिना । अन्यथा-वैराग्याभावे बहिर्विषयाक्षिप्तचेतस्त्वे च । भिद्यन्त इति । हृदयग्रन्थिः-बुद्ध्याश्रयः । कर्माणि-संचितक्रियमा- णानि न तु प्रारब्धं तस्य भोगेनैव क्षयात् । परावरे-परं कारणात्मना । अवरं कार्यात्मनेति कार्यकारणरूपे ब्रह्मणि [.३ ] ज्ञानकर्मसमुच्चयोऽपि मोक्षसाधक इत्याशङ्क्य खण्डयति-कर्ममाहितादपीत्यादिना । " स्वा- ध्यायोऽध्येतव्यः" इति शतपथब्राह्मणोक्तेनैकेनैव विधिना कर्मकाण्डज्ञान- काण्डगतवेदाध्ययने प्रवृत्तिरत उभयकाण्डफलैक्यमावश्यकमिति शङ्काकृदा- शयः। केवलमध्ययनविधिपरिग्रहेण फलैक्यं न संभवति यतः श्रुत्या ज्ञानस्य पृथक्फलं स्वयं कण्ठरवेणोक्तमिति प्रतिवक्तुराशयः । यदि कर्मसहितमेव ज्ञानं फलदमिति श्रुतेरभिप्रायोऽभविष्यत्तर्हि तत्र कर्मसंन्यासविधानं नोपापत्स्यदित्याह-तत्रैवेति । किं करिष्याम इति । तद्विषयकामनाराहि- त्यान्न प्रजादीनामुपयोग इत्यर्थः । संन्यास एवेति । द्विविधः संन्यासः । विवदिषासंन्यासो विद्वत्संन्यासश्च । तत्राद्यो ब्रह्मज्ञानस्यानुभवावसानता- सिद्धये परोक्षनिश्चयपूर्वकः स च कर्तव्यकोटिमाटीकते । द्वितीयस्तु सिद्धे ब्रह्मात्मानुभवे संभवति । तेन स्वभावप्राप्तोऽयं नात्र कर्तव्यता । कर्मज्ञान- समुच्चयासंभवे कारणान्तरमाह-कर्मसहभावित्वविरोधाञ्चति। पूर्वोक्तसंग्र- हवाक्यं विवृणोति-न ह्युपात्तेत्यादिना । कर्मणि यज्ञादिकारकाणि स्वर्गा- दिफलं चैतद्भेदविज्ञानमपेक्ष्यते । ज्ञाने तु साधनसाध्यादिसर्वभेदाभावः । [पृ. ४ ] ननु कर्मवद्ब्रह्मज्ञानेऽपि यथाविध्यनुष्ठेयत्वमधिकारिविनियोज्यता चास्ति तेन कथं तत्र सर्वभेदप्रत्यस्तमय इत्यत आह-वस्तुप्राधान्ये स- तीति । अपुरुषतन्त्रत्वात्-अनुष्ठातृपारतन्त्र्याभावात् । विधिजन्यप्रयत्नभाव्यो विधिविषय उच्यते ज्ञानं तु न तथेति ज्ञानविधेरसिद्धिरित्यर्थः । हादृष्टभ्य इति। ऐहिकपारलौकिकविषयेभ्य इत्यर्थः। आपनेयेति। प्रापणीया निरा- करणीया वा न भवतीत्यर्थः । साधिष्ठमिति । साधु म फलमित्यर्थः । [पृ. ५ ] शरणं संसाररक्षकम् । इष गतौ दिवादिः। इष आभीक्ष्ण्ये क्यादिः । इष इच्छायां तुदादिः । इति धातुत्रयं सत्राद्ययोरर्थस्यासंभवा- बालबोधिनी पा. ८ व्यत्ययो बहुलम् दत्राग्रहणमित्याह-इषेरिति । मनसः पौनःपुन्यस्य गतेश्चात्रानभिप्रेतत्वा- न्मनमः प्रेरकविशेषस्य बोद्भुमिष्टत्वाद्गत्याभीक्ष्ण्यार्थकेषधातोरसंभव इत्यर्थः । छान्दस इति " तीषसहलुभरुषरिषः " पा. सू. ७ । २ । ४८ इति त्रेण तकाराद्यार्धधातुकस्य विकल्पेनेड्विधानात् यस्य विभाषा" सू. ७ । २ । १५ इति सूत्रेण यस्य क्वचिद्विभाषयेड् विहितस्ततो निष्ठाया इण्न स्यादित्यर्थकेनेपितमित्यत्र क्तप्रत्ययस्येडागमेन न भवितव्यमत्र तु दृश्यत इडागमस्तस्य गतिरिय छान्दस इति । ५ व्यत्ययो पा. सू. ३।१ । ८५ इति सूत्रेण बाहुलकात्कथमप्यत्रेडित्यर्थः । अत्रेट्- प्रयोगे सति गुणेन भवितव्यमित्याद्यानन्दज्ञानकृतटीकायामुक्तं तन्न रुचिरम् । यत इडागमे सत्यपि क्तस्य कित्वात् " क्ङिति च " पा. सू. १ । ११५ इति सूत्रेण गुणनिषेधस्य दुर्वारत्वात् । इषितं प्रेषितमिति पदवयस्य कृत्य- माह-तत्रेति । प्रेषयितृप्रेषणविशेषविषयेति । “ द्वन्द्वान्ते श्रूयमाणं पढ़ प्रत्येकमभिसंबध्यते" इति न्यायेन विशेषशब्दस्य प्रेषयितरि प्रेषणे च संबन्धस्तदाह-केनेत्यादिना । इच्छामालणेति। प्रयत्नं बिना केवलं संनि- धिमात्रेणेत्यर्थः । तदपि न संगच्छत इत्याह-अपि चेति । अर्थाधि- क्यमिति । यावदर्थ शब्दप्रयोग इत्यभियुक्तोक्तेः । प्रश्नसामर्थ्यादिति । अन्यथा प्रश्न एव व्यर्थः स्यादित्यर्थः । तदेव प्रश्नसामर्थ्यादिति संग्रहवाक्यं विवृणोति-देहादित्यादिना [पृ. ६ ] संकल्पयतीति । स्वशिरश्छेदमपि कर्तुं वाञ्छतीत्यर्थः । कार्ये-छूतादौ ॥ १ ॥ [वाक्यभाष्यम् ] विकल्पसमुच्चयानुष्ठानादिति। उपासनेन विना केवलकर्मा- नुष्ठान विकल्पः । उपासनसहितकर्मानुष्ठानं समुच्चयः । तत्सामर्थ्या- दक्षिणोत्तराभ्यां मार्गाभ्यां पुनर्जन्मापुनर्जन्म वा भवति दक्षिणमार्गवदुत्तर- मार्गोऽपि भगवद्गीतासु “ अग्निोतिरहः शुक्लः षण्मासा उत्तरायणम् " म. गी. ८।२४ इत्यादिनोक्तः । इदमत्र ध्येयम् । दक्षिणमार्गगामिनः स्वर्गादिलोके पुण्यफलमुपभुज्य "क्षीणे पुण्ये मृत्युलोकं विशंति” भ. गी. ९।२१ इति भगवदुक्त्यनुसारं पुनर्मानुषलोके जन्म लभन्ते । उत्तरमार्गगा- स्तु तत्तल्लोकानातिवाहिकपुरुषेण सह गत्वा प्रलयसमये “ परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इत्युक्त्या हिरण्यगर्भेण साकं परं पदं प्रविशन्ति पुनर्जन्म न लभन्ते । इयमेव क्रममुक्तिः। फलनिरपेक्षेत्यादि। सकामनथानुष्ठितं कर्म संसारप्रापकं निष्काममाचरितं तु तञ्चित्तशुद्धिसंपा- : केनोपनिषद्व्याख्यात्रये दकम् । ततश्चित्तशुद्ध्यनन्तरमात्मज्ञानप्रतिबन्धिका या संसारासक्तिः सापि तस्याधिकारिणो न भवति । द्वैतस्वरूपसंसारदोषदर्शनात् । ततश्च दोष- दर्शनात्सोऽखिलान्बाद्यान् घटपटादिविषयान्यथाभूतान्न पश्यति किन्त्व- सत्यानवधारयति । ततश्चेशपदार्थभासकं संसारबीजभूतमनादि भावरूप- मज्ञानमुच्छेत्तुमिच्छति प्रत्यगात्मविषयजिज्ञासुश्च भवति तादृशाधिकारिणः कृतेऽयमध्यायः । मृत्युपदमिति । मृत्योः स्थानभूतं पुनःपुनर्मृत्युसाधकम् । अथवा मृत्युरिति पदं पर्यायशब्दो यस्येत्यर्थः । “ प्रमादं वै मृत्युमहं ब्रवीमि " म. भा. स. सु. इति सनत्सुजातोक्तेः । अनधिगतत्वादिति । अहं मनुष्योऽहं स्थूल इत्याद्यनुभवे सार्वत्रिके मनुप्यत्वदेहत्वाद्यतिरिक्ता- त्मनोऽज्ञातत्वादित्यर्थः । यद्यपि । यद्यपि " स्वर्गकामोऽग्निष्टोमेन यजेत" इत्यादि- श्रुतिप्रामाण्यान्मनुष्यत्वदेहत्वाद्यतिरिक्त आत्मा स्वर्गफलभुगङ्गीक्रियते कर्मणि तथापि न ब्रह्मात्मतत्त्वं तत्रादर्तुं शक्यते साधनसाध्यादिविरोधा- दित्याह संग्रहवाक्येन-कर्मविषये चेत्यादिना। अनुक्तिरात्मनोऽकथन- मित्यर्थः । एतदेव संग्रहवाक्यं विवृणोति-अस्येति । [पृ. २ ] कर्मणा विरुध्यत इति । कर्मज्ञानविरोधविषय आचार्येण बहुषु स्थलेषु बहुशः प्रतिपादितम् । तथाहि तैतिरीयोपनिषद्भाष्ये “विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रविलीनकादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कादिविशेषवत्तच्छ्न्यं चेत्युभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्यतरन्मिथ्या स्यादन्यतरस्य च मिथ्यात्वप्रसंगे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम् । “यत्र हि द्वैतमिव भवति" "मृत्योः स मृत्युमाप्नोति" "अथ यत्रान्यत्पश्यति तदल्पम् " अन्योऽसावन्योऽहमस्मि " उदरमन्तरं कुरुते" "अथ तस्य भयं भवति" इत्यादिश्रुतिशतेभ्यः। सत्यत्वं चैकत्वस्य “एक- धैवानुद्रष्टव्यम्" "एकमेवाद्वितीयम्" "ब्रह्मैवेदं सर्वम् " “आत्मैवेदं सर्वम्" इत्यादिश्रुतिभ्यः । न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते। अन्यत्व- दर्शनापवादश्च विद्याविषये सहस्रशः श्रूयते। अतो विरोधो विद्याकर्मणोः । अतः समुच्चयानुपपत्तिः ॥” तथा तत्रैवाग्रेऽपि । “ अपि चानात्मद- र्शनेऽनात्मविषयः कामः। कामयमानश्च करोति कर्माणि । ततस्तत्फलोप- मोगाय शरीराद्युपादानलक्षणः संसारः । तव्यतिरेकेणात्मैकत्वदर्शिनो विष- याभावात्कामानुत्पत्तिरात्मनि चानन्यत्वात्कामानुत्पत्तौ स्वात्मन्यवस्थान बालबोधिनी ६२ । मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः॥” इति । कर्मविषयेऽनुक्तिरिति । यतः कर्म ज्ञानेन विरुध्यतेऽतो ज्ञानप्रतिपादकोपनिषद्भागे कर्मविषयिण्यनुक्तिः कर्म नोक्तं किन्तु विज्ञानविषयको विचारः प्रचलित इत्यर्थः । कर्मानारम्म इतीत्यादि प्रश्नप्रतिवचनात्मकसंग्रहवाक्यं विवृणोति-यदीत्यादिना । परितित्याजयिषितमिति । पूर्व कर्म कृत्वा ततस्त्यक्तुमिष्टमित्यर्थः । [ पृ. ३] तनिर्वतकाश्रयेत्यादि । तन्निर्वर्तकः संस्कारसंपादक आश्रयभूतो यः प्राणस्तद्विज्ञानं तदुपासनं तत्सहितानि । प्राणोपासनसहितानि कर्माणि निष्कामस्य पुरुषस्य चित्तसंस्कारार्थान्येवेत्यर्थः । देवयाजी श्रेयानिति । फलकामनया देवान्यो यजते स श्रेयानुतात्मशुद्ध्यर्थमेव स्वर्गाद्यासंगं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वात्मयाजी श्रेयानिति निरूपितं शतपथाख्ये शुक्लयजुर्वेदब्राह्मणे कामानुपघातसहित मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः। महायज्ञैरिति। ब्राह्मी-ब्रह्मज्ञानात् । तनुरित्यनेन तनुस्थ आत्मा- न्तःकरणं लक्ष्यते तास्थ्यात् । मञ्चाः क्रोशन्तीतिवत् । आत्मज्ञानप्रतिबन्धे- त्यादि । निर्माष्टथै निर्मार्जनाय निराकरणायेत्यर्थः । आदर्शनिर्मार्जन- वदिति । दर्पगनिर्मार्जनं यथा तत्संस्कारकं नतु प्रतिबिम्बदर्शने तस्य प्रत्य- क्षत उपयोगस्तद्वत्कर्माणि चित्तसंस्कारकाणि मलिन-प्रतिबिम्बापहारद्वारात्म- ज्ञानैकत्वसाधकानि न तु प्रत्यक्षत आत्मज्ञानं कर्मभ्य उत्पद्यते । निर- र्थकत्वादिति । न केवलं श्रुतिप्रामाण्याज्ज्ञानिना कर्माणि न कर्तव्यानीति । किन्तु “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति कुमारिलभट्टकृत- श्लोकवार्तिकवचसा निष्प्रयोजनत्वादपीत्यर्थः । [पृ. ४ ] अत्यरेचयदिति। संन्यास एव विशिष्यत इत्यर्थः । नहीति । यथेष्टदेशं प्रति गन्तव्यमिति नाविकेनातरग्रहणपूर्वकमुक्ते न कोऽपि न गच्छत्यपि तु गच्छतीत्यर्थः । सिपाधयिषतीति । उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधा क्रियात्मा तु न तथेत्याह-स्वभावसिद्धश्चेत्यादिना । उत्पाद्यः पुरोडाशादिः । विकार्यः सोमादिः। आप्यो मन्त्रादि । संस्कार्यो व्रीह्यादिः। इति क्रमेणोदा- हरणानि। विचिकारयिषितः-विकारयितुमिष्टः। संचिकीर्षितः-संस्कर्तुमिष्टः। अन्येनान्यदिति । अन्येन-मृदादिचूर्णेन । अन्यद्भाण्डादि । [ पृ. ५ ] व्यावृत्तवाह्यबुद्धेरिति । बाह्यविषयाद्विरक्तचेतस इत्यर्थः । प्रवृत्तिलि- गादिति । शिष्यस्य प्रश्ने प्रवृत्तिराचार्यस्य प्रतिवचने तत्सामर्थ्यादि- केनोपनिषध्याख्यालये त्यर्थः । यद्यपि सामान्यतश्चेतनावतोऽधिष्ठातृत्वं ज्ञातं तथापि विशेषतोऽ- ज्ञातत्वाच्छिण्यस्य प्रश्ने प्रवृत्तिरिति विवृणोति-रथादीनामिति । करणा- नीति । ' अन्यानधीनव्यापारवत्त्वे सति कार्यजनकत्वं करणत्वम् ' इति करणत्वलक्षणादन्यः कोऽप्यधिष्ठाता करणानामवश्यः कल्पनीयः । मन- आदीनां करणत्वं च “ अन्यत्रमना अभूवं नादर्शम्" इति लौकिकानुभव- बलात्स्पष्टम् । प्रदीपवत्तस्याचेतनत्वमपीत्यतोऽधिष्ठातुरवश्यमपेक्षा । प्रेषित- मिवेतीवशब्दाध्याहारेण व्याख्याने किं बीजं तदाह-न त्विति । आत्मा- विविक्तनित्यचित्स्वरूपतयेति । अविविक्तमपृथग्भूतं नित्यचित्स्वरूप यस्य तद्भावस्तेन । विचिर पृथग्भावे' इत्यस्य क्तान्तं रूपं विविक्त- मिति । मनो ब्रह्मचैतन्येन नित्यमभिन्नमतो ब्रह्म तस्य मनसो विषयेषु प्रवृत्तौ निमित्तमात्रं भवति । अत्रार्थे दृष्टान्तमाह-नित्यचिकित्साधिष्ठातृ- वदिति । " पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता नीतिः ।" इत्यु- क्त्यनुसारं सर्वदा राजादीनां धनवतां 'कोऽपि मामभ्यवहार्ये विषादिमिश्र- णेन घातयिष्यति ' इति भीतिर्भवति ततस्ते स्वसमीपे चकोरादिपक्षिणो नीलादीन्मर्कटजातिविशेषांश्च विषपरीक्षकत्वेन ख्यातान् पालयन्ति । भोज- नसमयेऽखिलाभ्यवहार्यपदार्थभाण्डं तत्पुरतः स्थापयन्ति स च चकोरादि- नीलादिवानरो वा यं पदार्थ भुङ्क्ते तमेव ते भक्षयन्ति नान्यं पदार्थ तेना- भक्षितम् । एवं च चकोरादिः केवलं समीपस्थित्या तत्तत्पदार्थभोजने तद- भोजने वा राज्ञः प्रवृत्तौ निमित्तमात्रं न चैवं भुव च मा भुक्ष्वेति प्रवर्तयति निषेधति वा तद्वदात्माविविक्तचित्स्वरूपतया निमित्तमात्रम् । शब्दार्थस्त्वेवम् । नित्यं या चिकित्सा व्याधिप्रतिकारः संशयो वा तदर्थमधिष्ठाता समीप- स्थितिमांश्चकोरादिस्तद्वत् । किताधिप्रतीकारे निग्रहेऽपनयने नाशने संशये चेति वार्तिकेन सन् । प्रकरणादिति । इन्द्रियसंनिधानादित्यर्थः । [पृ. ६ ] संपूर्णश्लोकार्थमाह-करणानामिति ॥१॥ [प्रकाशिका ] [ पृ. ६ ] धन्य इति । अधिकारीत्यर्थः । कारणत्वा- दिति । कर्तुरधीनतया क्रियाजनकत्वादित्यर्थः । प्राण्यङ्गत्वादिति । " द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ” पा. सू. २।४।२ इति सूत्रेण ॥ १॥ अथ प्रथमखण्डे द्वितीयमन्त्रः ॥ १२ ॥ [ पदभाष्यम् ] [पृ. ७ ] असावेवंविशिष्ट इति । अयमाशयः । मन.
बालबोधिनी आदीनां प्रेरकः क इति प्रश्नस्यायं देवदत्तादिः प्रेरक इति प्रतिवचनेन मान्यमत्र तु श्रोत्रस्य श्रोत्रमित्यादि प्रतिवचनमुक्तं तदननुरूपमिति शङ्का । समाधानं तु यथा लविता(खण्डकः)-स्वव्यापारवांल्लवनसाधनभिन्नो लोकेऽस्ति तद्वदत्र श्रोत्रादिव्यतिरिक्तस्तत्साधनवान् स्वव्यापारवांश्चान्यो नास्ति किन्तु श्रोत्रादीनां संहतानामालोचनसंकल्पनिश्चयस्वरूपेण व्यापारण तद्भिन्नस्त- दसंहतश्च कश्चिच्चेतनावाननुमीयते । अनुमानप्रकारश्चेत्वं-श्रोत्रादयः स्व- विजातीयस्याङ्गभूताः संहतत्वाद्गृहादिवत् । अनेनानुमानेन श्रोत्रादीनामङ्गी सिद्धः । यदि सोऽपि संहतः स्यात्तर्हि गृहादिवदचेतनः स्यात् ततस्तस्या- प्यन्योऽङ्गी तस्याप्यन्य इत्यनवस्था स्यादतस्तत्परिहारायासंहतश्चेतनो गम्यते ततस्तं सर्वसाक्षिणं लक्षयितुं युक्तमेवेदृशं प्रतिवचनमिति । अवग- म्यत इति । नित्यज्ञानव्यञ्जकत्वात् । फलावसानस्य फलनिष्पत्तेलिङ्गं व्या- पारस्तेन तदङ्गी लक्ष्यत इत्यर्थः। [पृ. ८ ] असंहत इति । श्रोत्रादिभि- रिति शेषः । [ पृ. ९ ] विद्वबुद्धिगम्यमिति । अत्र विद्वत्पदेन ब्रह्मनि- ठो ग्राह्यः । आन्तरेणेति । हृदयगुहायां विद्यमानेनेत्यर्थः । चैतन्यज्यो- तिषादीपितम् । अदीपितमिति च्छेदः । निर्देष्टुमिति । " निर्देशे प्रथमा प्रोक्ता सैव चामन्त्रणेष्वपि " इत्युक्तेः । रथादिवत्प्राणस्याचेतनत्वादि- त्याह-नहीति [ पृ. १० ] सामर्थ्यादिति । ज्ञात्वामृता भवन्तीति वाक्ये ज्ञानेनामृतत्वप्राप्तिरुच्यते । ज्ञानस्य च श्रोत्राद्यात्मभावत्यागमन्तरेणासंभवा- च्छोत्राद्यात्मभावस्त्यक्तव्य इत्यर्थः । विशिष्टधीमत्त्वमिति । विशिष्टधीः सबै ब्रह्मेति बुद्धिः । अतिमुच्येत्यस्यार्थान्तरमाह-अथवेति । पूर्वस्मिन्पक्षे नीवन्मुक्तिरस्मिन्पक्षे विदेहमुक्तिर्बोध्यते । “ न तस्य प्राणा उत्क्रामन्ति " इति श्रुत्या शरीरान्तरोत्पत्तौ कारणाभावात्प्रारब्धकर्भणां भोगेन क्षयाच्छरी- रपाते विदुषो मुक्तिरवश्यंभाविनी ॥ २ ॥ [ वाक्यभाष्यम् ] [ पृ. ७] निमित्तत्वार्थमिति । विशेषरहित आत्मा मनआदिप्रवृत्तौ निमित्तभूत इत्यर्थः । विक्रियादिविशेषरहितस्ये- ति । क्रियागुणसंबन्धानां विशेषाणां व्यावर्तकधर्माणामात्मनि दर्शयितुमश- स्यत्वाक्रियादिमत्वे च घटादिवदनात्मप्रसंगादिति भावः । अनुगमं प्रश्न- पूर्वकमाह-कथमित्यादिना । शब्दोपलब्धृरूपतयेति । शब्दाधिगन्तृस्वरूप. तयेत्यर्थः । अयं भावः । शक्तिश्च सत्तावतः प्रकाशमानस्यैव पदार्थस्य भवति नाविद्यमानस्य वन्ध्यापुत्रादेः । “ अस्ति भाति प्रियं रूपं नाम चेत्य- ५५ केनोपनिषध्याख्यात्रये - शपंचकम् । आयत्रयं ब्रह्मरूपम् ” इत्युक्त्या सत्तावान्प्रकाशवांश्चात्मैव न श्रोत्रादीनीन्द्रियाणि । तत आत्मन एव शब्दावभासकत्वशक्तिर्नेन्द्रियाणां तत्र भासमामा त्वात्मनिमित्तेति । क्षत्रस्य-क्षत्रियजातिविशिष्टपुरुषस्य । क्षत्रं-क्षात्रं कर्म । तद्वदिति। उपलब्धुरात्मनः सर्वव्यापित्वेन संबन्धाच्छ्रो- त्रादिषूपलब्धृत्वव्यवहारः। [पृ. ८ ] बुद्ध्वेति । अम्याध्याहृतस्य पदस्यामृता भवन्तीत्यनेन संबन्धः। तादात्म्येनाध्यारोपितो योऽनवबोधनिमित्तोऽ- ज्ञाननिमित्तो बुद्ध्यादिः संसारस्ततो मोक्षणं तादात्म्याध्यासनिवृत्तिर्दृष्टं फलम् । अमृता भवन्तीति विदेहमुक्तिरदृष्टं फलम् [पृ.९] अन्यस्मिन्निति। शरीर इति शेषः । अमतिसंधीयमान इति । कर्मरूपनिमित्ताभावाच्छरी- रान्तरं स्वीकर्तव्यमिति निवेशाभावादित्यर्थः । कर्माणि कदा शरीरान्तरमुत्पा- दयन्ति तदाह-सतीत्यादिना । सर्वकारम्भेत्यादि । सर्वेषां यज्ञादि- कर्मणां य आरम्भस्तत्र निमित्तभूतं वर्णाश्रमवयोऽवस्थाद्यभिमानरूपमज्ञानं तविपरीतात्मविद्या तत्स्वरूपेणाग्निना विप्लुष्टत्वाद्दग्धत्वात्कर्मणां संबन्धो नोपपद्यत इत्यर्थः । अत्र कर्मणामिति षष्ठ्या नोपपद्यत इत्यनेनाध्याहृतेन संबन्धः । ननु कृतकत्वादिदममृतत्वमनित्यमिति शङ्कां निराकुर्वन्नाह- शरीरादिति । अनादिसंसारपरंपरयाहं पूर्व शरीर्यभूवं पश्चाच्च भविष्यामीति यः शरीरादिप्रवाहस्तत्सातत्यं यत्तस्य प्रतिसन्धानं धर्माद्यधिकारित्वाध्यासः कामादिदोषकल्पनं चैतदपेक्षयाध्यारोपितो यो मृत्युस्तदपेक्षयामृतत्वस्यो- क्तिस्तेषामौपचारिकी । वस्तुतस्तु ते पूर्वमेवामृता इत्यर्थः ॥ २ ॥ [प्रकाशिका ] [ पृ. १४ ] लिङ्गदेहं हित्वति । एतन्मते जीवन्मुक्ति- नाङ्गीक्रियते केवलं विदेहमुक्तिरेवात एवमुक्तिः । श्रीभाष्ये समन्वयाधिकरणे श्रीरामानुजाचार्यैरेवंप्रकारेण जीवन्मुक्तिः खण्ड्यते । तथाहि-का चेय जीवन्मुक्तिः । सशरीस्यैव मोक्ष इति चेन्माता मे वन्ध्येतिवदसंगतार्थवच- नम् । यतः सशरीरत्वं बन्धोऽशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुप- पादितम् । अथ सशरीत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययस्तस्य सशरीरत्वनिवृत्तिरिति । न । मिथ्येतिप्रत्ययेन सशरीरत्वं निवृत्तं चेत्कथं सशरीरस्य मुक्तिः । अजीवतोऽपि मुक्तिः सशरीरत्वमिथ्या- प्रतिभावनिवृत्तिरेवेति कोऽयं जीवन्मुक्त इति विशेषः। अथ सशरीरत्वप्रति- मातो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते स जीवन्मुक्त इति चेन्न ब्रह्माव्यतिरिक्तसकलवस्तुविषयकात्वाबाधकज्ञानस्य । कारणभूताविद्याकर्मादि- बालबोधिनी ५६ आ.ध. दोषः सशरीरत्वप्रतिभासेन सह तेनैव बाधित इति बाधितानुवृत्तिर्न शक्यते द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञानविषयीभूतचन्दैकत्वज्ञा- नाविषयत्वेनाबाधितत्वाद्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता । किंच "तस्य ताव- देव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" छां. ६।१४।२ इति सद्विद्यानि- ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्तीयं श्रुति वन्मुक्तिं वारयति । सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता “ वेदानिमं लोकममुं च परित्यज्या- स्मानमन्विच्छेत् । बुद्धे क्षेमप्रापणम् । तच्छास्त्रैविप्रतिषिद्धम् । बुद्धे चेत्क्षे- मप्रापणमिहैव न दुःखमुपलभेत । एतेन परं व्याख्यातम् सू. २।९।२१।१३-१७ इति अनेन ज्ञानमात्रान्मोक्षो निरस्तः । अतः सकल- मेदनिवृत्तिरूपा मुक्तिर्जीवतो न संभवति ॥२॥ ३।४।५ । ६ । ७।८॥ अथ प्रथमखण्डे तृतीयमन्त्रः ॥ १।३ ॥ [पदभाष्यम् ] [पृ. १० ] ननु सर्पाद्यधिष्ठानभूता रज्जुर्यथा विषयरूपा तथा श्रोत्राद्यध्यासाधिष्ठानभूत आत्मा विषयभूतः स्यादिति शङ्कां निवर्त- यितुमाह-यस्मादिति । आदिमध्यावसानेष्वव्यभिचारादध्यस्तस्याधिष्ठान- मेव स्वरूपं विषयता च न पदार्थधर्मस्ततोऽप्रयोजकः शङ्काकर्तुर्हेतुरित्यर्थः । ननु तर्हि ब्रह्मणोऽविषयत्वाच्छास्त्राचार्योपदेशोऽपि तद्विषयको न संभवतीति चेत् । इष्टापत्तिः । स चोपदेशोऽपि न वास्तव इत्याह-इन्द्रियमनोभ्यां हीति [ पृ. ११ ] जातिगुणक्रियाविशेषणैरिति । ब्राह्मणोऽयमिति जातित उपदेशः । शुक्लोऽयमिति गुणत उपदेशः। पाचकोऽयमिति क्रियात उपदेशः। राजपुरुष इति विशेषणत उपदेशः । " चतुष्टयी शब्दानां प्रवृत्तिः” इति पातञ्जले महाभाष्ये तु शब्दप्रवृत्तिबीजत्वेन चतुर्णा जातिगुणक्रियासंज्ञानां ग्रहणं तत्र जातिगुणक्रियाणामीदृशान्ये- वोदाहरणानि संज्ञायास्तु डित्योऽयमित्युदाहरणम् । संज्ञाया विशेषण- मध्यपातान्न पातञ्जलभाष्येणास्य विरोधः। नन्वेवमनुपदेश्यतैव प्राप्तेति चेन्न । यतः शिष्यस्याज्ञत्वेन भेदग्रहोऽस्त्येव । आचार्यस्यापि तदीयभेद- दृष्ट्या व्यावहारिक उपदेश आगमतः संभवतीत्याह-अत्यन्तमेवेत्या- दिना । विदितं नामति । विदितमिति कर्मणि क्तः । कर्म च "कर्तुरी- प्सिततमं कर्म" पा. सू. १।४।४९ इति सूत्रेण कर्तुः क्रिययातुमिष्टतम कारक कर्मसंझं स्यादित्यर्थकेन निरुक्तं लदेव स्पष्टमुच्यते विदिक्रिथयाति- केनोपनिषद्याख्यात्रये शयेनाप्तमिति । व्याकृतमिति । नामरूपाभ्यां स्पष्टीकृतमित्यर्थः । वेदि- तुरन्येन वस्तुना विदितेन भवितव्यमविदितेन वा। तृतीया गतिस्तु न संभवति । [पृ. १२ ] ततो विदितत्वाविदितत्वनिषेधेन वदितुः स्वरूपं ब्रह्मेत्येवागमस्य तात्पर्यमित्याह-न हीत्यादिना । [पृ. १३ ] न तर्कत इति । “ नैषा तर्केण मतिरापनेया " क. २१९ " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन" क. २।२३ मुं. ३।२।३ इत्यादि- श्रुतिवचनानुरोधादित्यर्थः ॥ ३॥ [वाक्यभाष्मम् ] [पृ. १०] उक्तेऽपीति । तत्त्व इति शेषः । पर्यनुयोग इति । अनुयोगः प्रश्नः । परीत्युपसर्गेण तद्विपरीतता बोध्यते । प्रश्नविपरीत इत्यर्थः । उत्तर इति यावत् । अप्रतिपत्तेरिति हेत्वर्थे पञ्चमी । उक्तेऽपि (तत्त्वे) अप्रतिपत्तेरिति पर्यनुयोगे हेतुरित्यन्वयः । एवं चायमस्याः पतेरर्थः । आचार्येणोक्तेऽपि तत्त्वे शिष्यस्य तत्प्रतिपत्तिस्तज्ज्ञानं नासीदतः पुनरुत्तरं दीयते । इन्द्रियविषयत्वादिति । “ मनःषष्ठानीन्द्रियाणि" भ.गी. १९१७ इत्युक्त्या मनसोऽपीन्द्रियत्वमेव । न विद्म इति । न विद्मो न विजानीम इत्यादिद्विरुक्तिः सर्वथान्तःकरणाविषयत्वख्यापनार्था । अनुशिष्यादिति । मन आदिकरणजातमिति कर्तृपदम् । ब्रह्मेति कर्मपदम् । [ पृ. ५१] प्रवृत्ति- निमित्तमिति । ब्रह्मानुशासनस्य प्रवृत्तिनिमित्तमित्यर्थः । आक्षेपपरतया व्याख्याय शङ्कोत्तरत्वेन व्याचष्टे-अथवेति । यथैतदिति । जातिक्रिया- गुगादिशून्यत्वात्प्रकारान्तरेण व्याख्यानं न संभवतीत्यर्थः । ज्ञात्रन्तरा- भावादिति । अन्यो ज्ञाता ज्ञानन्तरम् । व्यत्तामेति । व्यक्तं कार्य तस्माद्यावृत्तं ब्रह्मेत्यर्थः । विज्ञानानपेक्षत्वादिति संग्रहवाक्यं विवृणोति- यद्धीति । नन्वात्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथापि स्वग्राहकत्वा- स्वस्मादेव विज्ञानमपेक्षेत तेन विज्ञानानपेक्षत्वमसिद्धमित्याशङ्क्याह-न च स्वत इति । एवं चानपेक्षत्वादेवात्रापेक्षाशब्दो न घटते । स्वग्राहकत्व- मपि न संगच्छते स्वस्मिन्वृत्तिविरोधादित्यर्थः । अत्रार्थे दृष्टान्तमाह- प्रदीप इति । [ पृ. १२] ननु प्रदीपस्तैजसस्तस्य तैजसान्तरानपेक्षाया- मपि व्यवहारे ज्ञानस्य विजातीयज्ञानापेक्षा यथा तथा ब्रह्मणोऽपि विजाती- यज्ञानापेक्षा भवेदिति चेत्तत्राह-न चैवमित्यादिना । विरोध इति । ज्ञानानपेक्षत्वे लौकिकानुभवस्य शास्त्रस्य च विरोध इत्यर्थः । विरोध इति पूर्वपक्षस्यैव व्याख्यानमाह-स्वरूपविज्ञान इत्यादि । अन्यत्वादित्युत्तरं केनोप ।
बालबोधिनी विरोधः । कुछ व्याचष्टे-न काम पाहिना। ब्रह्मणो विज्ञानानपेक्षत्वं जीवस्य तु सोपाधिकत्वाबित समित्युभयोर्भेदान्न जानाम्यात्मानमित्यादेन न आत्मेति । जीव इत्यर्थः । कार्य शरीरं करणानीन्द्रिया देहेन्द्रियादिसमुदाये य आत्माभिमानप्रवाहोऽना. दिजन्मपरम्पकृतस्तन्याविच्छेदरूपमनिर्वाच्यमज्ञानलक्षणं चिन्हें यस्य चित्प्रतिदिन तथोक्तः । अत्रानन्दज्ञानोक्तिविशेषतो ध्येया । तथाहि-चित्तन्न निर्वाच्यमज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरू- पावभासं प्रतिव्य माघध्यासहेतुर्भवति । तस्मादविवेकात्मको जीव इत्युच्यते । बुद्धेरन्तःकरणस्य यथा यथा नीलपीताद्याकारावभासा जायन्ते तथा तथा चित्मातिनमा प्रभातृत्वादिरूपेण भातीति तत्प्रधानोऽध्यस्तस्य विशिष्टस्य तत्सतपैक सत्त्वाद्विशिष्टान्तर्निविष्टो य आत्मा नित्यचित्स्वरूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धिपरिणामरूपाणां नीलपीतादिप्रत्य- यानामुत्पत्तिविनाशवयात्तदुपरक्तरूपेणानित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाश्येतानि जीवविशेषणान्यन्यत्वस्फुटीकरणानि न केवलमनि- त्यत्वम् । विशिष्टोपावखडतया विज्ञानस्य तद्धर्मतयैवावभासते मनुष्योऽहं जानामीति प्रतिशरीर विलक्षणमपि चैतन्यमवभासते विशिष्टभेदादित्यर्थः । अन्तर्गतेनेति । युवादिविशिष्टान्तर्गतेन चित्स्वरूपेण तादात्म्याबाह्योऽ- नात्मापि लौकिकै किविशिष्ट आत्मेत्युपगत इत्यर्थः । तद्विलक्षणः- बुद्ध्यात्मा चैतन्यस्वरूपात्मविजातीयः । चैतन्यस्वरूपात्मा नित्यविज्ञानः । अयं तु जीवो विज्ञानामासरूपप्रत्ययैरनित्यैर्विशिष्टत्वादनित्यविज्ञानः । पर- मार्थतस्तु नित्यविज्ञानात्मनः सुखित्वं दुःखित्वं च नास्ति किन्तु प्रातीतिक तदिति बोधयति-शौकिकैरित्यनेन । तत्र हीति । नित्यविज्ञानस्वरूपा- द्भिन्ने जीवात्मनीत्यर्थः । [ पृ. १३ ] लौकिकविरोधं परिहृत्य शास्त्रीय विरोधं परिहर्तुमाह-तत्त्वमसीति । तत्त्वमसीति श्वेतकेतुं प्रत्युपदेशः । निरुपाधिकस्यात्मन उपदेष्टुमशक्यत्वात्तत्त्वमस्याद्युपदेशकारीणि श्रुतिवा- क्यानि निष्फलानीति भावः शङ्काकर्तुः । वस्तुत आत्मनोऽनुपदेश्यत्वेऽ- प्युपाधिविशिष्टस्य तस्योपदेश्यत्वं संगच्छते तेन चारोपितबन्धनिवृत्तिः फलं ततश्च सार्थकानि नश्वमस्याधुपदेशवाक्यानीत्याह-लोकाध्यारोपापोहार्थ- त्वादिति । लोकैः कृतो योऽध्यारोपस्तस्यापोहोऽपवादः । अध्यारोपो नाम असर्पभूते रज्जों सपोरोपवद्वस्तुन्यवस्त्वारोपः । अपवादो नाम-रज्जुबिव- ।
५९ केनोपनिषद्भ्याख्यात्रये तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनः प्रजच बस्तुभात्रत्वम् । तदुक्तमभियुक्तैः । सतत्त्वतोऽन्यथाप्रथा विकार इत्यादी । अतत्त्वतोऽ- न्यथाप्रथा विवर्त इत्युदीरितः ॥ ननु कथं बोधायनोकोयोः संगच्छतेऽत आह-तत्र चेति । तत्र-बोधस्वरूप आत्मनि । विषयवतीयम् । आत्म- विषयावेव बोधाबोधौ युक्तावित्यर्थः । अन्यन्ति र देते। अन्य- स्मिन्नहंकारादौ निमित्तत्वात् । अयं भावः । लौकिनारामक रानी यौ प्रसिद्धौ बोधाबोधौ तावात्मसंबन्धनिमित्तादेवातो यन्निमितमन्दानादिस्तत्र तु तौ मुख्यौ । अत आत्मनि मुख्यौ बोधावोधौ यथा जगत छ पन्हिनिमित्तमतो वन्हावौष्ण्यं मुख्यम् । आत्मनिमित्तौ चेदन्यत्र बंध ओम नहि निमित्तत्त्वेन व्यापारवत्वं तत्राह-रात्र्यहनी इवेति । सूर्यसामीप्यमात्रनिमित्ते रात्र्यहनी भवतो नतु सूर्यः कंचन स्वापयति प्रबोधयति वा । एवं निमित्तत्वेऽपि व्यापारत्वाभावः । ततश्च यत्र यत्र निमित्तत्वं तत्र तत्र व्यापारवत्त्वमिति व्याप्तिन । उक्तोदाहरणे व्यभिचारात् । अन्यत्र मावा नाश्योरिति । अन्यत्र घटपटादिविषये भावाभावयोरस्तित्वनास्तित्वचोनिमित्तकारणत्वात् । उपचर्येते इति । यथादित्यप्रकाशस्य नित्यत्वेऽपि सूर्यः प्रकाशयिष्यति घटमिति घटनिमित्तं प्रकाशेऽनित्यत्वोपचारस्तद्वदात्मनो बल्य नित्यत्वेऽ- प्यध्यारोपापेक्षया तत्त्वमस्यादिश्रुत्युपदेशः। यथा सांयतति । यत आत्मनि बोधकर्तृत्वमन्योपाधिकं स्वतस्तु विज्ञानानपेक्षत्वमेव ततोऽविदितादन्यत्वं तस्य सिद्धम् । अन्यार्थ इति । निपातानामनेकार्थत्वादित्यर्थः । यद्धि यस्याधीति । यद्यस्योपरि भवति तत्ततोऽन्यदेवत्याह-सामर्थ्यादिति । अधिभृत्यादीनामिति । राजा भृत्यादीनामुपरि श्रेष्ठ इत्यर्थः । तर्कस्त्व. नवस्थित इति । “ तर्काप्रतिष्ठानात् " सू. २१११११ इति ब्रह्मसूत्रात् ॥ ३ ॥ प्रथमखण्डे चतुर्थमन्त्रः । १॥ ४ ॥ (पदभाष्यम् ) [ पृ. १४ ] अन्यदेवेत्यादिवाक्यस्य योऽर्थः प्रदर्शितस्तत्र लौकिकानां तार्किकाणां मीमांसकानां च प्रातिपत्तिविरोधमू- लिका शङ्कास्तीत्याह-आशङ्का जातेति । लोकप्रन्ययविरोधादिति । लोके ह्युपास्योऽन्यो युपासकश्चान्य इति द्वैतविषयिणी प्रतीतिस्तद्विरोधा- दित्यर्थः । तद्वाक्याद्वेति । अथवा शिष्यवाक्यं निशम्य यद्वाचेत्यायुत्तरम् । a पूर्व बालबोधिनी ६० अष्टसु स्थानेविति । अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिव्हामूलं च दन्ताश्च नासिकाछौ च दालु च " पा. शि. १३ इति पाणि- नीयशिक्षोक्तान्यष्टग्थानानि । विपक्त-संलग्नम् । आग्नेयं-अग्निदेवताकम् । न वायूपमिन्द्रियमेव किन्तु वाक्शब्दन वर्णानामपि ग्रहणं तदाह-वर्णाश्चेति । अर्थसंकेतपरिच्छिन्ना इति । तदुक्तं-" यावन्तो यादृशा ये च यदर्थ- प्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः” इति राम इति पदं रेफाकारमकाराकारविसर्गा एवं क्रमविशेषावच्छिन्ना इति मी- मांसकाद्यनुसारेणोक्तम् । स्फोटवादिनो वैयाकरणम्य मतेनाह-तदभि- व्यङ्गय इति । वर्णानामनित्यत्वात्स्फोटवाद एव साधुः । अथ पद- स्फोटो वाक्यस्फोट इति द्वयम् । तत्र वाक्यस्फोटः साधीयान् । अकार इति । अकारप्रधानोंकारोपलक्षिता स्फोटाभिधा चिच्छक्तिः सर्वा वाक् । लौकिकवर्णमातृकानुसारं कादयो मपर्यन्ता वर्णाः स्पर्शसंज्ञकाः। यरलवा अन्तस्थसंज्ञकाः । शषसहा ऊष्मसंज्ञकाः। नानारूपा भवतीति । विवर्तत इत्यर्थः । मितमित्यादि । मितमृक् नियताक्षरपादावसानत्वात् । अमितं यजुः । अनियताक्षरपादावसानत्वात् । स्वरः-साम । गीतिप्राधान्यात् । सत्यं यथाभूतार्थवचनम् । [ पृ. १५ ] परिच्छिन्नयेति। परिमितयेत्यर्थः । करणगुणवत्यति । करणं वागिन्द्रियं गुण उपसर्जनं तद्युक्तया । वागि- न्द्रियोत्थयेत्यर्थः । घोषेष्विति । घोषाः-वर्णाः । या चेतनेषु पुरुषेषु वाक्शक्तिः सा वर्णेषु प्रतिष्ठिता तद्वयङ्ग्यत्वादित्यर्थः । संव्यवहारा इति । शब्दादिव्यवहारा इत्यर्थः । नियमार्थमिति। नेदमित्यनेन प्रतिषेधेनात्मनि प्राप्ता या ब्रह्मबुद्धिस्तन्नियमनं क्रियतेऽथवान्यस्मिन्नुपास्ये प्राप्ता या ब्रह्म- बुद्धिस्तन्निवृत्तिः क्रियते ॥ ५ ॥ [वाक्यभाष्यम् ] [ पृ. १४ ] दृढप्रतीत्या इति संग्रहवाक्यं विवृणोति- अन्यदेवेत्यादिना । वाक्प्रकाश हेतुत्वोक्तिरिति । वाक्प्रकाशे हेतुत्व- स्योक्तिः क्रियत इत्यर्थः । एतदेव संग्रहवाक्यं विवृणोति-येनेत्यादिना । अभिधानस्येति । अभिवानं-शब्दः। अभिधेयः-अर्थः। अवस्थापनार्थ इति । आत्मन्येव बुद्धेरुपसंहारार्थ इत्यर्थः । वस्त्वन्तरजिघक्षामिति । अन्यपदार्थग्रहणेच्छामित्यर्थः ॥ ४ ॥ प्रथमखण्डे पञ्चममन्त्रः ॥ ११५।६।७८ ॥ [ पदभाष्यम् ] [पृ. १५] मन एवेति। वृत्तिवृत्तिमतोरभेदादेवमुक्तिः ..
केनोपनिषद्याख्यानये कामसंकल्पादयो मनस एव वृत्तय इत्यर्थः । न प्रवर्तत इति। अव्यव- हितत्वात् ॥ ५।६।७८ ॥ [ वाक्यभाष्यम् ] [ पृ. १५ ] यन्मनसेत्यादिचतुर्णा मंत्राणां ममुदितमर्थ- माह-सर्वकरणानामित्यादिना ॥ १।६।७।८ ॥ इति प्रथमः खण्डः ॥१॥ अथ द्वितीयखण्डे प्रथममन्त्रः ॥ २॥१॥ [ पदभाष्यम् ] [पृ. १७] प्रत्यायित इति । बोधित इत्यर्थः। शिष्य- बुद्धिविचालनार्थमिति । अहमात्मानं जानामीति शिष्यस्य ज्ञाधातुनि- रूपितकर्मत्वरूपा यात्मनि बुद्धिस्तन्निराकरणार्थम् । वेदान्ताः-उपनिषदः । मिथ्यैवेति । वेदितुर्वेद्यस्य च भेदाभावादित्यर्थः । [पृ. १८ ] प्रतिपन्न इति । प्रजापतिनासुरराजो विरोचन इन्द्रश्च “ य एषोऽक्षिणि पुरुषो दृश्यते छां. ११७५ इत्यादिवाक्येन बोधितौ । तत्र स्वभावदोषाद्विरोचनश्छाया- पुरुषं विपरीतमपि प्रतिबिम्बपुरुषमेवात्मानं प्रतिपन्नवान् । इन्द्रस्तु स्वभाव- वैशद्यात्प्रथमोक्तमप्रतिपद्यमानः पुनर्ब्रह्मचर्यमुवास । ततो द्वितीये पर्याये " य एष महीयमानः स्वप्ने चरति " छां. ८।१०।१ इत्युक्तः प्रजापतिना। तदाप्यप्रतिपाद्यमान एव पुनर्ब्रह्मचर्यमुवास । ततः " तद्यत्रतत्सुप्तः समस्तः संपन्नः" छां. ८।११।१ इत्युक्तः प्रजापतिना तृतीये पर्याये परं तदाप्यप्रति- पन्नः पुनर्ब्रह्मचर्यमुवास । एवमेकाधिकशतसंवत्सरं ब्रह्मचर्यवासात्संजातचि- त्तशुद्धिरिन्द्रश्चतुर्थे पर्याये “ स एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य " छां. ८।१२।३ इत्यत्र प्रथमपर्यायोक्तमेव ब्रह्म प्रतिपन्न- वान् । अस्यामाख्यायिकायां विरोचनस्य विपरीतप्रतिपत्तिोतिता । इन्द्रस्य त्वप्रतिपत्तिः । ततो ब्रह्मचर्यवाससंजातदोषक्षयस्य तस्य प्रतिपत्तिोतिता। एवंच ब्रह्मज्ञानं दोषक्षये सति योग्याधिकारिणाधिगन्तुं शक्यत इति सूचि- तम् । लोकेऽपीति । एवमेव समानमीहमानानां चाधीयानानां केचिदर्थैर्यु- ज्यन्ते । अपरे नेति पातञ्जलमहाभाष्येऽप्युक्तम् । कश्चिन्न प्रतिपद्यत इति । मणिबिम्बोराहे प्रभवति न मृदां चय इत्यर्थः । अत्र हीति । अत्र-अती- न्द्रियात्मतत्त्वविषये । सद्वादिनः सांख्याः। असद्वादिनो नैयायिकाः। विप्र- तिपन्नाः—विरुद्धज्ञानवन्तः । अर्भकाणि-अल्पानि । चैतन्यमिति । चैत- न्यमित्यस्य ब्रह्मणो रूपं भवतीत्यनेन संबन्धः । पृथिव्यादीनामित्यादि न बालबोधिनी - भवतीत्यन्तं हेतुवाक्यम् । यतश्चैतन्यं समस्तभूतानां व्यस्तभूतानां वा देहा- दिकारणपरिणतानां धो न भवति तथा श्रोत्रादीनामन्तःकरणस्य च धर्मों न भवत्यतस्तव्यतिरिक्तस्य ब्रह्मणो रूपम् । सत्यमेवामिति । चैतन्य श्रुतिप्रामाण्याद्ब्रह्मरूपमिति यद्यपि सत्यमित्यर्थः । [ पृ. १९] तथापीति । उपाधिद्वारैव ब्रह्मणः शद्वेन निर्देशनं न स्वतः । ननु जपाकुसुमाग्रुपाधि- रुपहितेन स्फटिकमाणिना संबद्धो भवति ब्रह्मणोऽसंगम्य कथं देहाद्युपाधि- रित्याह-तदनुकारित्वादिति । जलसूर्यकोदाहरणे घटस्थजले कम्पमाने सूर्यः कम्पत इव घटे भिद्यमाने सूर्यो भिद्यत इवेति मिथ्या तद्धर्मभाक्त्वा- त्सूर्यस्य जलमुपाधिरित्युच्यते नतु संबन्धात्तथोक्तिर्दूरस्थयोर्जलसूर्ययोः संयोगादिसंबन्धायोगात् । तथैव देहादिषु तारुण्यादिना वृध्द्यादिभाग्षु चैत- न्यस्य मिथ्यादेहधर्मभाक्त्वानुपाधित्वमभिधीयते नतु तत्संबन्धादित्यर्थः । ननु यदि ब्रह्म स्वतश्चतन्यतया न निरूप्यते तर्हि तदनुभवः कथमित्याह- स्वतस्त्विति । अविषयतया विषयानुपरक्तचित्स्फुरणं ब्रह्मानुभव इत्यर्थः । स्थितं-सिद्धम् । न निवर्तत इति । दहरत्वं नातिकामति । अल्पत्व एवान्तर्भवति । अध्यात्ममधिदैवमुभयमप्यल्पमेवेति भावः । भूमाख्यमिति । बहोर्भावो भूमा । विचार्यमेवेति । नाद्यापि निश्चितं त्वयेति भावः। तर्कत- श्चेति । यद्वेद्यं तदनात्मभूतं यथा घट इत्यनुमानद्वारेत्यर्थः । निर्धार्य-संश- याधभावसंपादनेन स्वानुभवं कृत्वा ॥ २ ॥ १ ॥ ( वाक्यभाष्यम् ) [ पृ. १७] गृहीतस्थिरताया इति । पुनःपुनश्चाल- यित्वा स्थूणाया निखननं क्रियते तेन च तदृढता भवति । एवं स्थूणानि- खननन्यायेत गृहीतं ज्ञानं पुनःपुनश्चालनया स्थिरं भवति । स्वाराज्येऽभि- षिच्य-ब्रह्मज्ञानमधिगमय्य [पृ. १८] अविषयत्वात्कस्यचिदिति । देवादिनापि ज्ञातुमशक्यं ब्रह्म । व्याख्यानान्तरमाह-अथवेति । वि. दिताविदितप्रतिषेधागमार्थानुभव इति । अन्यदेव तद्विदितादथो अविदि- तादधीति वेदवाक्यानुभवः । प्रत्ययत्रयसंगतेरिति । संगतेरिति हेत्वर्थ- बोधिका पंचमी । आगमोक्तिराचार्योक्तिः स्वानुभवश्चेति त्रयः प्रत्ययास्तेषां संगत्यर्थमेकस्मिन्विषये संघटनार्थ, संवादाधीनं प्रामाण्यमिति हि तार्किक- समयः । विचार्येति । शिष्येणैवं चिन्तितं यद्यहं विदितं ब्रह्मेति प्रतिवचनं करिष्यामि तांगमाचार्यप्रत्ययविरोधः । म्याद्वेदनाविषयतयाऽब्रह्मत्वप्रसंग: स्यान्मम च वेदितृत्वेनानित्यत्वं प्रसज्येत । ब्रह्म मया न विदितमिति प्रति.
३ केनोपनिषद्याख्यात्रये वचनं करिष्यामि चेत्कृषीवलादिभिः पामरैः साम्यप्रसंगः । तूष्णींभावे प्रति- भाभाववत्त्वं प्रसज्येतातो विदितमविदितं चेति प्रत्युत्तरयिष्यामि । संश- याद्यभावाद्विदितं वेदनविपयाभावाच्चाविदितमिति सुपरिनिश्चितः सन्नुत्तर- माहेत्यर्थः । [ पृ. १९ ] परिनिष्ठितनिश्चितविज्ञानहेतूक्तेरिति । अयं प्रदर्शितो भवतीत्यत्र हेतुः । परिनिष्ठितं सुसिद्धं तर्कादिना निश्चितं यद्वि- ज्ञानं तस्य प्रतिज्ञा मन्ये विदितमिति तद्रूपस्य हेतोरुक्तेः ॥२॥१॥ (प्रकाशिका ) [ पृ. १७ ] उपलक्षणामति । अद्वैतमतवदत्र विशिष्टाद्वैत- मते निर्गुण ब्रह्म नांगीक्रियते किन्तु हेयगुणरहितमखिलकल्याणगुणसहित ततस्तेषां कल्याणगुणानां संग्रहार्थमाह-रूपमिति । व्यत्ययादति । सप्तम्यर्थे प्रथमेयम् ॥ १।२ । ३ ॥ द्वितीयखण्डे द्वितीयमन्त्रः ॥ २ ॥ २ ॥ ( पदभाष्यम् ) [ पृ. १९ ] अत्र मंत्रे पूर्वार्धे शिष्यस्य वाक्यचतुष्टयम् । वाक्यत्रयं तु ग्रन्थ एव लिखितं चतुर्थ तु वेद चेति चकारेणाकृष्यते चशब्दान्न वेद चेति भाष्योक्तेः। तच्च वाक्यचतुष्टयमेवम् । १ अहं सुवेदेति न मन्ये २ न वेदेति नो मन्ये ३ वेद चेति नो मन्ये ४ न वेद चेति नो मन्ये । अत्र यद्यपि द्वितीयचतुर्थवाक्ययोः शब्दसाम्य दृश्यते तथाप्यभिप्रायभेदात्पृथक्करणम् । तथाहि-प्रथमवाक्येन ब्रह्मणो दुर्बोधत्वं दर्शितं, द्वितीयेन तस्य शास्त्रैकगम्यत्वमुक्तं, तृतीयेन संशयराहित्यं, चतुर्थेन सर्वभेदनाशकस्तत्साक्षात्कारः । एवंच दुर्बोधशास्त्रैकगम्यासंदिग्ध- सर्वत्रभेदशून्यब्रह्माहमाम्म। जानन्नपि भेदबुद्धेरभावान्न जानामीति संपिण्डि- तोऽर्थः । अयमभिप्रायः । ब्रह्मणि वृत्तिव्याप्तौ सत्यामपि फलव्याप्तिर्नास्ति। तदुक्तं पंचदश्यां विद्यारण्यैः “फलव्याप्यत्वमेवास्य शास्त्रवद्भिर्निवारितम् " ७-९० " ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता " ७-९२ अन्तः- करणवृत्तिरावरणनिवृत्यर्थमज्ञानावच्छिन्नं चैतन्यं व्याप्नोतत्येितद्वृत्तिव्याप्य. स्वमंगीक्रियते । आवरणभंगानन्तरं स्वयंप्रकाशमानं चैतन्यं फलचैतन्य- मित्युच्यते तस्मिन्फलचैतन्ये निष्कलंके चित्तवृत्तिर्न व्याप्नोत्यावरणभंगस्य प्रागेव जातत्वेन प्रयोजनाभावादित्यर्थः । अत एव “ मनसैवानुद्रष्टव्यम् बृ.४ । ४ । १९ “ यन्मनसा न मनुते" के. १ । ५ । ३ अनयोः श्रुत्योर्न विरोधः । यतः “ मनसैवानुद्रष्टव्यम् वृ. ४ । ४ । १९ बालबोधिनी इत्यनेन वृत्तिव्याप्तिर्विधीयते " यन्मनसा न मनुते ” के. १ । ५ । ३ इत्यनेन फलव्याप्तिनिषिध्यते । योनस्तद्वेदेत्युत्तरार्धस्येदं तात्पर्य--अस्माकं सहाध्यायिनां मध्येऽन्यतमो भवदुक्तं “ अन्यदेव तद्विदितादथो अविदि- तादधि " इति वेद स तद्ब्रह्म वेद । गुरुप्रतिपादितार्थसंवादकं शिष्यस्य वचनं नो न वेदेति वेद च" इति । अतः . अन्यदेव तद्विदितादथो अविदितादधि" इत्यम्य नो न वेदेति वेद च " इत्यस्य च समानार्थ- कत्वमिति मंत्रार्थः । विप्रतिषिद्धामति । विरुद्धत्वादसंगतम् [पृ. २० ] । वयित्वोति। यत्र संशयविपर्ययौ भवतस्तत्रेदृशं वाक्यं संगच्छेतापीत्यर्थः । अनर्थकरत्वेन प्रसिद्धाविति। “संशयात्मा विनश्यति” भ. गी. ४१४० इति भगवदुक्तेः । मन्दबुद्धिग्रहणव्यपोहार्थ चेति । मन्दबुद्धिना कृतं यत्संशयितरूपेण विपरीतरूपेण च ग्रहणं ब्रह्मविषयज्ञानं तन्निरासार्थ- मित्यर्थः ॥ २ ॥ २ ॥ ( वाक्यभाष्यम् ) [ पृ० १९ ] यथोक्तार्थमीमांसाफलभूता- दिति । " विदितादथो अविदितादधि ” इत्यस्य पूर्वोक्तप्रकारेणार्थ- विचारं कृत्वा प्राप्तं स्वात्मब्रह्मत्वनिश्चयरूपं फलं तेन तद्विरुद्धो विपरीत- प्रत्ययो नष्ट इति भावः । [ पृ २० ] अर्थान्तरमाह- अथवेति । वेदैव चाहमिति । स्वाभाविकाचलत्वेऽपि पर्वतानां यथा पर्वतास्तिष्ठन्तीति व्य- वहारम्तथा नित्यविज्ञानस्वरूपत्वेऽपि ब्रह्मणि वेदेति व्यवहारः । चशब्दादा- कृष्टस्य न वेद चेत्यस्यार्थमाह-विशेषविज्ञानं चेति । “ श्रोतव्यो मन्त- बृ. २ । ४ । ५ इत्यादिश्रुत्या मननादिसहकारेण जातं यद्ब्रह्मा- त्मकताव्यंजकमन्तःकरणपरिणामरूपं ब्रह्मास्मीति . विशेषविज्ञानं तत्प- रेणान्तःकरणरूपोपाधिनाध्यस्तं न परमार्थतो ज्ञानवत्त्वमात्मन इति न वेद चेति संगच्छत इत्यर्थः । उपास्यब्रह्मवित्त्वादिति । अन्ये युपास्य- ब्रह्मविद इति भावः। उक्तानुवादादिति " उपक्रमोपसंहारावभ्यासोs- पूर्वता फलम् । अर्थवादोपपत्ती च लिंग तात्पर्यनिर्णये " (बृहत्संहिता) इत्युक्तचा तात्पर्यलिङ्गानां षण्णामन्यतमस्याभ्यासाख्यस्यात्र दर्शनादविषय- तयैव ब्रह्मज्ञानं विवक्षितामत्यर्थः ॥२॥२॥ द्वितीयखण्डे तृतीयमन्त्रः ॥ २ ॥ ३ ॥ [ पदभाष्यम् ] [ पृ. २१ ] समस्तसंवादनिवृत्तमिति । शिष्याचा- व्यः " केनोपनिषद्भ्याख्यात्रये यसंवादसारभूतम् । मतमिति । तस्येति कर्तरि षष्ठी तेनेत्यर्थे । “ मति- बुद्धिपूजार्थेभ्यश्च" पा. सू. ३।२।१८८ इत्यनेन क्तः । "क्तस्य च वर्त- माने" पा. सू. २।३।६७ इत्यनेन कर्तरि षष्ठ्या विधानात् । यस्य विदुषः कर्तृकर्मादिभावेन ब्रह्मामतं तेन तद्ब्रह्म ज्ञातं तथा येन कर्तृकर्मादि- भावेन ज्ञातं स ब्रह्म न जानातीत्यर्थः । [ पृ. २२ ] अविजानतामित्यनेन मूढानां न ग्रहणमित्याह-नत्विति । हेत्वर्थ इति । पूर्वार्धोक्तेऽर्थे हेतु- प्रदर्शक उत्तरार्ध इति भावः । " या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः " भ. गी. २।६९ इति भगवदुक्त्यनुसारं विद्वाननध्यस्तं ब्रह्म पश्यति । अविद्वांस्त्व- ध्यस्तं ज्ञेयत्वविशिष्टं ब्रह्म पश्यति । तदेतदाह-अविज्ञातं विजानता- मित्यादिना । लोके व्यावहारिकज्ञानिनोऽप्यनध्यस्तं शुक्त्यादि जानन्ति तेषामध्यस्तं रूप्याद्यज्ञातं, अज्ञानिनां भ्रमवतामेव तदध्यस्तं रूप्यादि विज्ञातं भवतीति भावः ॥ २।३ ।। [ वाक्यभाष्यम् ] [ पृ. २० ] श्रौतमिति । श्रुतेर्वाक्यमेतन्न शिष्यस्या- चार्यस्य वेति भावः । निगमनस्थानीयेनेति । सिद्धान्तरूपेणेति यावत् । अनुमाने हि पञ्चावयववाक्यानि भवन्ति । प्रतिज्ञाहेतूदाहरणोपनयनिगमन- संज्ञकानि । तथाहि १ पर्वतो वन्हिमान् । २ धूमात् । ३ यो यो धूमवान्स स वन्हिमान् यथा महानसः। ४ अयमपि तथा। ५ अतो वन्हिमान् । तत्र पंचमवाक्यं निगमनसंज्ञकं यथा सिद्धान्तबोधकं तथेदमपि सिद्धान्तबोधकम् । [ पृ. २१ ] नन्वत्यन्ताव्युत्पन्नबुद्धिनाप्यज्ञातं ब्रह्म तस्याप्यनेन वाक्येन ज्ञातं स्यादित्यत आह-विविदिषाप्रयुक्तप्रवृत्तस्यति । " आत्मा वारे द्रष्टव्यः बृ. २।४।५ इति श्रुत्युपदेशमनु वेदनेच्छया प्रयुक्तः सन्प्रवृत्तो य इत्यर्थः । आत्मतत्त्वनिश्चयेत्यादि । श्रवणमनननिदिध्यासनैरपरोक्ष- साक्षात्कारेण चात्मनिश्चयरूपफलस्याधिगतत्वान्निवृत्ता ज्ञानेच्छेति भावः । सम्यग्दर्शिनः स्वरूपमाह-स सम्यग्दर्शीति । अवसितत्वात्-निश्चितत्वात् । सर्वतः व्यावहारिकविषयेभ्यः । " किं प्रजया करिष्यामो येषां नोऽयमा- त्मायं लोकः " इति श्रुतेः । विपर्ययेणति । अतो विपरीतो मिथ्यादी- त्यर्थः । तस्य मिथ्यादर्शित्वं विवृणोति प्रश्नपूर्वकं कथमिति । अवैदि- कस्येति । चार्वाकबौद्धादीनां ज्ञान मिथ्येत्यर्थः । ननु चार्वाकादीनामवैदि- कत्वेनाप्रमाणत्वेऽपि वेदप्रामाण्यवादिनां कपिलादीनां मतस्य न मिथ्या- केनोप०-९ बालबोधिनी त्वमित्यत आह-कपिलकणभुगादिसमयस्यापीति । समयः-मतम् । तन्मतं हि लौकिकपदार्थसत्यतामालम्बते । अनिश्चितेभ्योऽनुमानादि- प्रमाणेभ्यः प्रभवति। तद्व्युत्पत्त्या च ब्रह्मज्ञानेच्छा न निवर्तते। मोक्षफला- प्राप्तेः । अतो मिथ्याभूतं तत् । तमोनिष्ठा:-अज्ञानपर्यवसायिन्यः । अन- र्थक वचनमिति । पुनरुक्तिसद्भावादिति भावः । हेत्वर्थत्वेनेति । यतः पूर्वेषां ब्रह्मनिष्ठानामविषयतया ब्रह्मज्ञानं, अज्ञानिनां च बौद्धादीनां सविष- यतया तत् , अतोऽधुनापि सविषयतया यैर्ब्रह्म ज्ञायते तेषां तदविज्ञातं यैश्च विषयराहित्येन ज्ञायते तैस्तद्विज्ञातमिति भावः ॥ २ ॥ ३ ॥ द्वितीयखण्डे चतुर्थमन्त्रः ॥ २ ॥ ४ ॥ [ पदभाष्यम् ] [पृ. २२] प्रतिबोधविदितमिति । सर्वबौद्धप्रत्ययेषु सामान्यतयानुगतरूपेण विदितम् [पृ.२३] प्रत्ययप्रत्यगात्मतयति । प्रत्ययस्वरूपेणैवेत्यर्थः । उपजनापायेत्यादि । उपजनं-वृद्धिः । अपाय:- नाशः । तद्रहितज्ञानस्वरूपस्य नित्यत्वादि सिद्धं भवति । घटगिरिगृहा- दिष्विति । यथा भिन्नेषु घटाधुपाधिषु विद्यमानस्याकाशस्य न लक्षणभेदः म्वरूपैक्यमेव तथा भिन्नेषु बौद्धादिप्रत्ययेषु न दृक्स्वरूपभेद इति भावः । एवं-पूर्वोक्तव्याख्यानेन । एकदेशिव्याख्यानं निर्दिश्य दूषयति-यदा पुन- रिति । एकदेशिमते विक्रियात्मकत्वं प्राप्तं तच्च काणादमते न संभवतीति कश्चिद्व्यादतस्तन्निरासाय तन्मतमुद्भाव्य दूषयति-यदपि काणादादी- नामिति । ज्ञानमात्मनो विशेषगुण इति ज्ञानोत्पत्तावात्ममनःसंयोगः कारणमिति च काणादमतम् । वेदान्तिमते तु ज्ञानमन्तःकरणस्य विशेष- गुणः । “ हीधी रित्येतत्सर्वं मन एव" बृ. १।९।३ इति श्रुतेः । सम- वैतीति । गुणगुणिनोः समवायस्य काणादमते स्वीकृतत्वात् । रागसम- वायीति । रागो रक्तता यथा कृष्णघटोऽग्निसंयोगाद्रक्तो भवति तथा मनः- संयोगादात्मनि चैतन्यमुत्पद्यत इत्यर्थः । पूर्वोक्तं काणादमतं न श्रुतिविरुद्धं किं त्वनुपपन्नमपीत्याह-आत्मनो निरवयत्वेनेति । लोके हि प्रदेशवता- वयववता द्रव्येणावयववतः पदार्थस्य संयोगो दृश्यते घटपटादौ। आत्मा तु निरवयवस्तेन मनःसंयोगो भवितुं नार्हति । परं काणादा नैतदंगीकुर्वते तैर्युगपत्सर्वमूर्तसंयोगित्वेन सर्वगतत्वमात्मनोंऽगीकृतम् । तेन मनसः संयो- गोऽपि स्यादिति चेत्तत्राह-नित्यसंयुक्तत्वाचेति । परदण्डेन परस्ताडनीय ६७ केनोपनिषद्व्याख्यात्रये इति न्यायमनुरुध्य काणादाभ्युपगमं गृहीत्वैवायं दोषः। घटादिकालादन्यत्र घटादिस्मृतिः संस्कारजा काणादैरंगीक्रियते तन्न संगच्छेतात्मनः सर्वगतत्वेन घटादिग्रहणकालेऽपि मनःसंयोगस्याविशेषाद्घटादिस्मृतेः प्रसंगात्। एवं च योऽयं नियमः काणादमते घटग्रहणादनन्तरं तत्स्मृतिः' इति स चानुपपन्नः स्यादिति भावः । सर्वगतत्वेन सर्वाव्यवधानमात्रत्वं ततश्चात्मनः संसर्ग- धर्मित्वं ग्राह्यं न तु सर्वसंयोगित्वं कल्पनीयमिति यन्मतं तत्राह-संसर्ग- धर्मित्वं चेति । [पृ. २४ ] नातुल्यजातीयमिति । अगुणवदित्यर्थः । एकदेशिव्याख्यानान्तरमनूद्य दूषयति-यत्पुनरिति । वेद्यं वेदितुर्वेदनाच्च भिन्नं घटादिवदित्याद्यनुमानविरोधात् स्वसंवेद्यता पारमार्थिकी नोपपद्यतेऽतो बुद्ध्यादावात्मभावमारोप्यात्मनात्मानं वेत्तीति लाक्षणिको व्यवहारः कल्पनीय इत्याह-तत्र भवतीति । काणादमते स्वसंवेद्यताया अनंगीकारादात्मनि परसंवेद्यता स्यादिति यन्मतं तन्निराकर्तुमाह-संवेदनस्वरूपत्वादिति बौद्धपक्षाद्वेदान्तिपक्षे वैलक्षण्यं साधयति-बौद्धपक्ष इति । तन्मते हि विज्ञानस्य क्षणिकत्वात्क्षणभंगुरत्वमित्यर्थः । किंच तन्मते स्वसंवेद्यत्वेन साक्षिणोंगीकाराभावान्निरात्मत्वं प्रसज्येत । तच्च श्रुतिविरुद्धम् । प्रति- बोधविदितमित्यस्यार्थान्तरमुद्भाव्य दूषयति-यत्पुनरिति । निर्निमित्तो बोध इत्यनेनासंप्रज्ञातसमाधिोध्यते ब्रह्माहमस्मीति चिन्तयतः साधकस्य याव- चेतोव्यापारो नाम ध्यानध्येयध्यातृभेदज्ञानं तावत् संप्रज्ञातसमाधिः। निवृत्ते तादृशभेदज्ञानरूपे चित्तव्यापारे' यः सौषुप्तानन्दसाक्षात्कारवत्परमानन्दस्य साक्षात्कारः सोऽसंप्रज्ञातसमाधिः । तदुक्तं वार्तिककृद्भिः बोधो हि निदिध्यासनमुच्यते" इति । मतान्तरमाह-सकृद्विज्ञानमिति । यदा निष्क्रियब्रह्मात्मानुभवो भवति तदा क्रियाभावात्कञभावेन प्रमातृत्वा- नुपपत्तौ पुनर्ज्ञानासंभवात्सद्योमुक्तिकारणं सकृद्विज्ञानं प्रतिबोध उच्यते । तदुक्तं-" सकृत्प्रवृत्त्या मृद्गाति क्रियाकारकरूपभृत् । अज्ञानमागमज्ञानं सांगत्यं नास्त्यतोऽनयोः" इति । उभयमतेऽरुचिमाह-निनिमित्त इति। अयं भावः । गुरूपदेशादिना जायमानत्वेनागन्तुकत्वाबोधो न निर्निमित्तः । यत्र यत्र कार्यत्वं तत्र तत्र सनिमित्तत्वमिति व्याप्तेः। सौषुप्तानन्दसाक्षा- कारोऽपि न निर्निमित्तः । अविद्यानिरोधिवृत्त्यभिव्यक्तचैतन्यस्य तत्र कारणत्वात् । एवं पूर्वकल्पेऽरुचिः । प्रारब्धकर्मप्रतिबन्धाद्वर्तमानप्रमातृत्वा- भासस्य निवृत्तेरभावादसकृद्धोधोऽपि संभवतीति सकृद्विज्ञानमिति द्वितीय- अपरायत्त- बालबोधिनी पक्षेऽरुचिः । प्रतिवोध एव हि स इति। सर्वथापि प्रतिबोधपदेनात्मैव बोध्यते प्रतिबोधं साक्षितया भासमानत्वात् । [ पृ. २५] निर्निमित्तं स्वतः- सिद्धम् । ननु यद्यमृतत्वं स्वतःसिद्धं तर्हि निष्फला विद्येत्याशंकामपाकर्तु- माह-एवमिति । अविद्ययानात्मत्वप्रतिपत्तिर्यत्तदात्मनो मर्त्यत्वं तादृशप्रति- पत्तिनिरासाथै विद्या सफलेति भावः। आत्माविद्याकृतं वीर्यमिति । अहं नित्यमुक्त एवेति दृढनिश्चय एव विद्याकृतं सामर्थ्यम् । समर्थो हेतुरिति । अमृतं हि विन्दत इत्यत्र हिपदेन हेतुत्वं द्योत्यते । यतोऽविद्ययानात्मप्रतिपत्तिरेव मृत्युरतस्तन्निरासार्थ विद्यारूपो हेतुः समर्थः । सफल इति यावत् । “विद्यैव तन्नाशविधौ पटीयसी" अ. रा. उ.अ. ५१९ इति रामगीतोक्तेः ॥२॥४॥ ( वाक्यभाष्यम् ) [ पृ. २२ ] तीविषयस्यात्मनो ज्ञानं कथं संपादनी- यमित्याकांक्षायामाह-प्रतिबोधविदितमिति । वीप्साप्रत्ययानामात्मावबोध- द्वारत्वादिति संग्रहवाक्यं तत्र वीप्साप्रत्ययानामिति मध्यमपदलोपी समासः । वीप्साघटिताः प्रत्यया वीप्साप्रत्ययाः। वीप्सा-द्विरुक्तिः । संग्रहवाक्यं विवृणुते-बोध बोधं प्रतीति । वीप्साघटितपदेन सकलत्वस्य बोधो यथा गृहे गृहे महानसम् । तदाह-वीप्सा सर्वप्रत्ययव्या- प्त्यर्थेति । तप्तलोहवदिति । अयं भावः । तप्तलोहतापको वन्हिोहाद्भिन्नो लोहतापेनानुमीयत एवं सर्वबौद्धप्रत्ययानामवभासेन तदवभासको विज्ञान- स्वरूप आत्मानुमीयते । एवं च लोहतापो यथा वन्हिज्ञाने द्वारीमवति तथात्मोपलब्धौ सर्वबौद्धप्रत्ययावभासा द्वारीभवन्ति [ पृ. २३ ] विपर्यय इत्यस्य व्याख्यानमाह-विषयात्मविज्ञान इति । विषयेषु बुध्धादिष्वात्म- विज्ञाने । अथवोपास्यत्वेन तस्य विषयतया विज्ञाने । मृत्युः प्रारभते भय- मिति । बुध्यादिसंघातमात्मानं मन्यमानस्योपासकस्य च कर्तृत्वभ्रमनिवृ- तेरभावाद्भयं तस्य दुर्निवार्यमेवेति भावः । “ अथ येऽन्यथातो विदुरन्य- राजानस्ते क्षय्यलोका भवन्ति ” छां. ७।२५।२ इत्यादिश्रुतिभ्यश्च । नालम्बनपूर्वकमिति । पूर्व कस्यचिदुपास्यस्यालम्बनमाश्रयं कृत्वा तदुपा- सनसाध्यतयामृतत्वं न विन्दते किन्त्वात्मनैवेत्यर्थः । आत्मविज्ञानापेक्षामि- ति। आत्मविज्ञानेन मर्त्यत्वभ्रमनिवृत्तिमपेक्ष्यामृतत्वं विन्दत इत्युक्तिः । तेन सा लाक्षणिकी । [ पृ. २४ ] मुख्यार्थानुपपत्तौ लक्षणाया अंगीकारान्मु- ख्यार्थे बाधकमाह-यदि हाति । अनात्मविज्ञानमिति । करणे ल्युट् । अनात्मा विज्ञायतेऽनेन तदनात्मविज्ञानं, अनात्मनो जगतो विज्ञानस्य ।
६९ केनोपनिषद्भ्याख्यात्रये कारणभूतमनाद्यनिर्वाच्यमात्माज्ञानमित्यर्थः । कल्प्यत इति । घटाच्छादकस्य तमसो निराकरणसाधनभूते दीपे यथा दीपेन घटो दर्शित इति व्यवहारस्त- द्वदनात्मनिवर्तके ज्ञानेऽमृतसाधनत्वव्यवहार इति भावः । अनात्माध्यारोपे- त्यादि । अहं मनुष्य इत्याद्यनात्मारोपः सैव माया जीवत्वकल्पकमज्ञानं तदेव स्वान्तस्य मनसो ध्वान्तं तमस्तेनानभिभाव्यमभिभावयितुं पराजेतुं विनाश- यितुमशक्यं लक्षणं यस्य तद्वलमित्यस्य विशेषणम् । अत्रानन्दज्ञानकृतटी- कायामर्थकरणे भिन्नः पन्था आद्रियते स वैयाकरणैश्चिन्त्यः । [पृ. २५ ] नतु विद्याया बाधक इति । प्रारब्धानुरोधाद्यावद्देहपातं जायमानो द्वैता- भासो विद्यया बाध्यते । विद्यायास्त्वबाध्यत्वमेव । लोकेऽपीति । हस्त्या- दिभ्यो न्यूनशारीरबलोऽपि मनुजो बुद्धिसामर्थ्यात्तानारोहति । अतः सिद्धं ज्ञानबलस्य श्रेष्ठत्वं सर्वेषु बलेषु । प्रतिबोधशब्दस्य यौगि- कमर्थमुत्क्वा रूढमर्थद्वयमाह-अथवेति । अशेषविपरीतेत्यादि । " वाहिताग्न्यादिषु ” इति वार्तिकेन बहुव्रीहौ निष्ठान्तस्य परनिपातो विकल्पेन विहितस्तदनुसारं निरस्ताशेषविपरीतसंस्कारेणेत्यस्य स्थाने-अशेष- विपरीतनिरस्तसंस्कारेणेति साधु । संस्कारेणेत्यन्तं बोधेनेत्यस्य विशे. षणम् । अयमर्थः । येन बोधेनाशेषाः सकला विपरीता अविद्याविषयकाः संस्कारा निरस्ताः स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्यो- मुक्तिकारणभूतो बोध इत्यर्थः । रूढिगतं द्वितीयमर्थमाह-अथवा गुरुपदेश इति । व्याख्यानत्रये प्रथममेव प्रतिबोधशब्दस्य व्याख्यानं योग्यमित्याह- पूर्वमिति । यथार्थमिति । द्वितीयव्याख्याने सद्योमुक्तिः प्रतिपादिता सा चाशास्त्रीया । तृतीयव्याख्याने गुरूपदेशो द्योतितः परं त्वात्मानुसंधानेन विना केवलगुरूपदेशादपरोक्षज्ञानस्यासंभवोऽतोऽयमपि पक्षो न साधुः ॥ २ ॥४॥ [प्रकाशिका ] [ पृ. २२ ] शेष इति । प्रतिबोधविदितमित्यस्मात्प्राक् श्रुतमित्यध्याहारः । अध्याहाराभावाच्छङ्कराचार्यकृतमेव व्याख्यानमतिशेत एतद्व्याख्यानम् [ पृ. २४ ] चेदिति । निपातानामनेकार्थत्वात् - हि' इत्यस्य व्याख्यानं चेदिति ॥ २ ॥ ४ ॥ द्वितीयखण्डे पञ्चममन्त्रः।। २ ॥ ५ ॥ [ पदभाष्यम् ] [पृ. २५] श्रुत्या महती विनष्टिरित्युच्यते तत्र जिहासामु- बालबोधिनी त्पादयितुमाह-कष्टा खल्बिति । संसारदुःखबहुलेष्विति । प्राणिसंधेषु जन्ममृत्युपरंपरारूपं संसारदुःखं बहुलमिति भावः । जन्मजरेत्यादि । अविच्छेदः-सातत्यम् ॥ २ ॥ ५ ॥ [ वाक्यभाष्यम् ] [पृ. २५ ] विपर्यय इति । अस्मिञ्जन्मनि वेदना- भाव इत्यर्थः । [ पृ. २६ ] ननु विचित्येत्यस्य पृथनिकृष्येत्यर्थः कथ- मत आह-धातूनामिति । विरोधादिति । यथा भिन्नानामिष्टकानां चयन- मेकीकरणं संभवति तथा निरंशस्यैकस्य चिन्मात्रस्य चयनमसंभवीत्यर्थः ॥ २॥६॥ [प्रकाशिका ] [ पृ. २६ ] विचिन्त्येति । अत्र शांकरभाष्ये विचित्यति पाठः। आपयाणमिति । मरणान्तमित्यर्थः ॥ २ ॥५॥ इति द्वितीयः खण्डः ॥ २ ॥ अथ तृतीयखण्डे प्रथममन्त्रः ॥ ३ ॥ १ ॥ [ पदभाष्यम् ] [ पृ. २९ ] वक्ष्यमाणेत्यादि । उत्तमाधिकारिभिरविष- यतया विज्ञेयं ब्रह्म पूर्वमुक्तम् । अधुना मन्दाधिकारिणां कृते सगुणमुपास्यं ब्रह्म प्रदर्श्यते । “ तस्यैष आदेश' इत्यादिना स्पष्टं विधेः प्रदर्शनात् । [पृ. ३१ ] ईश्वरसेतुभेतृनिति । ईश्वरस्य सेतवो वर्णाश्रमादिरूपा मर्यादास्तद्विनाशकान् । स्थम्ने-स्थैर्याय । [पृ. ३२ ] मिथ्याभिमाने- क्षणवतामिति । मिथ्याभिमानपूर्वकं विचारयताम् ॥ ३ ॥ १ ॥ [ वाक्यभाष्यम् ] [पृ. २७] यत्नाधिक्याति । ब्रह्माधिगमेऽधिको यत्नः कर्तव्य इति द्योतयितुम् । अर्थवादेनेति । इयं हि वैदिकी पद्धति- यत्पूर्व · एवं कुर्यात् ' इत्यादिरूपं विधिमुक्त्वा ततस्तत्स्तावकवाक्यं स्तुति- प्रतिपादिन्याख्यायिका वा कथनीयेति । अत्राख्यायिका प्रदर्शिता । शमा- द्यर्थ इति ।" शान्त उपासीत" छां. ३।१४।१ इति श्रुतौ शमो विहितः सच दमादीनामुपलक्षणम् । अभिमानशातनादिति । आख्यायिकाया- मग्न्यादिदेवानामभिमानः शातितः । विधित्सितमिति । विधातुमिष्टम् । व्यावृत्तवाह्येत्यादि । व्यावृत्ता विनष्टा बाह्या घटादिविषया मिथ्याप्रत्यया मिथ्याज्ञानानि येषां तैरेव ग्राह्यं ब्रह्मेत्यर्थः। अग्न्यादिपराजयकर्तृत्वरूपं चिन्हें परमात्मग्राहकमित्याह-ब्रह्मोत पर इति । परिभूयति । अग्न्या- दीपरिभूयेति संबन्धः । तत्सिद्धिरिति । जगतो नियतप्रवृत्तिदर्शनेन ७१ केनोपनिषड्याख्यात्रये तन्नियामकस्येश्वरस्य सिद्धिः। उच्यत इति। अनुमानमिति शेषः । शास्त्रार्थस्य शास्त्रप्रतिपाद्यार्थस्येश्वररूपस्य निश्चयार्थमनुमानं निर्दिश्यत इत्यर्थः । अयं भावः । श्रुत्यादिभिरीश्वरस्य सिद्धौ कृतायामप्यनुमानेन विना न निश्चयो वादिनाम् । यतः श्रुत्यादयोऽर्थवादघटिता अर्थवादश्च न स्वार्थप्रतिपादक इति पुनः पुनस्तस्येश्वरस्यास्तित्वविषये वादिनां शंकोदयः । अनुमानेन तन्निश्चयोत्तरमर्थवादशंकाया अनुदय एव । यदिदमिति । अस्मिन्ननुमाने जगदिति पक्षः। एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकमिति साध्यम् । कार्यत्वे सति यथोक्तलक्षणत्वादिति हेतुः। अन्वयिदृष्टान्तः गृहप्रासादरथशयनासनादिवदिति । व्यतिरोकदृष्टान्तः-आत्मादिवदिति । आदिपदेनाकाशं गृह्यते नैयायिकमतानुरोधात् । ते ह्याकाशस्य कार्यत्वा- भावेन नित्यत्वमंगीकुर्वन्ति । वस्तुतः तस्माद्वा एतस्मादात्मन आकाशः संभूतः ” तै. २।१।१ इत्यादिश्रुतेराकाशस्य कार्यत्वमेव । आत्मैव केवलं नित्यः । अत्र देवगन्धर्वेत्यादिना जगतो यानि विशेषणानि दर्शितानि तानि संसारिभिन्नकर्तृत्वबोधनाय । कार्यत्वे सति , यथोक्तलक्षणत्वादिति हेतौ दलद्वयम् । तत्र कार्यत्वादिति प्रथमदलमात्रोक्तावबुद्धिपूर्वकारिकृत्ये विभागज्ञप्रयत्नपूर्वकत्वं नास्तीति व्यभिचारः स्यात्तन्निराकरणाथै यथोक्त- लक्षणत्वादिति द्वितीयं दलम् । द्वितीयदलमात्रोक्तावात्मादिस्वभाववैचि- त्र्यस्य प्रयत्नपूर्वकत्वाभावात्तत्रातिव्याप्तिः स्यादत उक्तं-कार्यत्वे सतीति । आत्मनः कार्यत्वाभाव उक्त एव । देवगन्धर्वेत्यादि । कर्मानुसार तत्त- लोकप्राप्ता देवगन्धर्वादयः । विविधैर्मनुष्यादिप्राणिभिः स्वस्वकर्मोपभोगः कर्तव्यस्तद्योग्यस्थानानि साधनानि च यत्र वर्तन्ते तादृशमिदं जगत् । तत्प्राकृतशिल्पिभिनिर्मातुमशक्यमित्याह-तदत्यन्तेत्यादि । [पृ. २८ ] पुनश्च प्राकृतशिल्पिभिस्तस्य दुर्निर्माणत्वे हेतुमाह-देशकालेत्यादि । तत्त- देशे तत्तत्काले तत्तन्निमित्तानुसारं शीतादिनिराकरणाथै तदंगीकरणार्थ च प्रवृत्तेर्निवृत्तेश्च क्रमो मर्यादा नियता यस्मिस्तत् । ईदृशं नियतप्रवृत्तिनिवृत्ति- मर्यादाकं जगत्केनापि परमेश्वरादन्येन निर्मातुमशक्यमित्यर्थः । एतद्भोक्तृ- कर्मेत्यादि । एतस्य जगत्संबन्धिनो ये भोक्तारः प्राणिनः कर्माणि च तेषां विभागज्ञो यो निर्माता स एवेश्वर इत्यर्थः । तस्य प्रयत्नः पूर्वो यस्मिञ् जगति । एतादृशं विचित्रं जगत् भोक्तृकर्मविभागज्ञेन निर्मितं यश्चासौ निर्माता तस्य नित्यत्वेन प्राकृतेष्वनन्तर्भावादीश्वरत्वमिति भावः ।
। बालबोधिनी विपक्षे-व्यतिरेके । यद्विचित्रं कार्य तद्विभागज्ञप्रयत्नपूर्वकं भवति गृह- प्रासादादिवदित्यन्वयिदृष्टान्तघटिता व्याप्तिः । तक्षादिगुहादिसाधनविभा- गज्ञः प्रयत्नपूर्वकं गृहादि निर्मिमीत इति प्रसिद्धम् । यद्विचित्रं कार्य न तद्विभागज्ञप्रयत्नपूर्वकं भवति यथात्मादीति व्यतिरेक्युदाहरणघटिता व्याप्तिः। कर्मरूपहेत्वन्तरेण विचित्रजगतः सिद्धौ किमितीश्वरांगीकारस्तेन पूर्वोक्ता- नुमाने पक्षे साध्याभाव इत्याह-कर्मण एवेत्यादि । परतन्त्रस्यति । अयं हि लौकिको नियमो यत्परतंत्रं तन्निमित्तकारणं भवति यथा घट- निर्माणे दण्डादि । कर्म तु जडत्वात्स्वतंत्रकार्यकारि भवितुं नाहतीत्यतस्तेने- शतंत्रेण भवितव्यं ततस्तस्य कर्मणः स्वातंत्र्यनिमित्तं कर्तृत्वं न किंतु करणत्वम् । कर्तृत्वं नाम-अन्यानधीनव्यापारवत्त्वे सति कार्यजनक- त्वम् । करणत्वं नाम -अन्याधीनव्यापारवत्त्वे सति कार्यजनकत्वम् । "स्वतन्त्रः कर्ता” पा. सू. १।४।९४ “साधकतमं करणम्" पा. सू. १।४।४१ इति पाणिन्यनुशासनात् । कर्मण एवेति चेदिति पूर्वपक्षभूतं संग्रहवाक्यं विवृणुते यदिदमुपभोगेत्यादिना । सर्वैश्चेति । ईश्वरकारण- त्ववादिभिरपीश्वरस्य वैषम्यनैघण्यदोषनिरासाय कर्मवैचित्र्यनिमित्तं जग- द्वैचित्र्यमिति स्वीकृतमतस्तदनुसारं कर्मण एव जगत्कर्तृत्वमंगीकर्तव्यं नापूर्व ईश्वरः कल्पयितव्य इति पूर्वपक्ष्याशयः । ईश्वराधिककल्पनयेतीत्यतिशब्दो हेतौ । अनपेक्ष्यान्यदिति । आत्मनोऽन्यत्स्वव्यतिरिक्तं प्रयोक्तृ-अनपेक्ष्य कर्म कर्तुः फलं जनयिष्यतीति न युक्तमिति योजना । स्वभिन्नमर्थात्कर्म- भिन्नं कमश्विरादिकं प्रयोक्तारमनपेक्ष्य कर्म कर्तुर्देवदत्तादेः फलं नोत्पाद- यिष्यति । अर्थादश्विरापेक्षयैव कर्म कर्तुः फलमुत्पादयतीति सिद्धम् । अतः केवलं कर्म न जगतो निर्मातृ । यदि कर्मणः कोऽपि प्रयोक्तापेक्ष्यते तर्हि जीव एव प्रयोक्तास्त्विति जीवकर्तृवादं शङ्कते–कतैवेति । तत्खण्डनमाह- नेति । जीवस्य किंचिज्ज्ञत्वेन विविधकर्मदेशादिज्ञानाभाव इति भावः । जीवस्य देशादिविशेषाभिज्ञत्वं तुष्यतु दुर्जन इति न्यायेनाभ्युपगम्य प्रका- रान्तरेण जीवकर्तृवादं खण्डयति-यदि हि कर्तेति । देशादिविशेषाभिज्ञो जीव इष्टानिष्टे जानात्येव स कथमनिष्टं स्वशिरश्छेदं कुर्यात्करोति तु तेन न जीवः कर्मणः प्रयोक्ता । अधुना निमित्तरहितं प्रयोक्तारं विनैव कर्म फला- कारेण परिणमत इति यजरन्मीमांसकानां मतं तदाशक्य खण्डयति- नच निनिमित्तमिति । हस्त्यादेश्चर्म यथा कालान्तरेण निमित्तं विनैव - ७३ केनोपनिषद्याख्यात्रये विकारं लभते तद्वत्कर्म जगद्रूपं विकारं लभेतातो नास्ति प्रयोक्तुरपेक्षेति तन्मतं न संगच्छते यतश्चमणो विकारोऽप्यातपवाय्वादिनिमित्तसाध्य एव म निर्निमित्तः । अधुना बौद्धमतमाशंक्य खण्डयति-न चात्मकृतमिति । बौद्धमते सर्वेषां पदार्थानां क्षणिकत्वात्फलकालपर्यन्तं कर्तुरवस्थानाभावान्न कर्तृसमवेतं कर्म किन्तु क्षणिकविज्ञानेनात्मना कृतं कदाचित्फलस्याकर्षक भवति । यथायस्कान्तो मणिः पूर्वकाले चेतनेन पुरुषेण प्रयुक्तः कालान्तरे तस्य पुरुषस्याभावेऽपि लोहसांनिध्ये लोहाकर्षको भवतीति । एतत्तु न संगतं यतः कर्म प्रधानकर्तृसमवेतं भवति । प्रधानकर्ता नाम करणादिकारक- प्रेरणापूर्वकं यः कार्य विधत्ते । य एवं कार्य करोति कर्ता तेन का सम- वेतं कर्म प्रसिद्धम् । तस्य च फलकालपर्यन्तं स्थायित्वमेष्टव्यम् । यदि कर्तुः स्थितिः फलकालपर्यन्तं नाद्रियेत तयकृताभ्यागमः कृतप्रगाशश्च प्रसज्येत । यतो येन क; कर्म कृतं स फलकाले नास्ति क्षणिकत्वात्तेन तत्कृतस्य कर्मणो नाश इति कृतप्रणाशः । तथाच येन यत्फलं भुज्यते तत्कर्म तु तेन न कृतमित्यकृताभ्यागमः । किंच योऽहं कर्माकरवं स एव फलं भुञ्ज इति प्रत्यभिज्ञाया हानिप्रसंगश्च । चार्वाकमतमाह-भूताश्रय- मिति । चार्वाकमते पृथ्व्यप्तेजोवाय्वाख्यानि चत्वारि भूतानि संभूय शरीर- मुत्पादयन्ति । किण्वादिभ्यो मदशक्तिवदचेतनेभ्योऽपि भूतेभ्यश्चेतनोत्पत्ति- रिति । साधनत्वादिति । चार्वाकमतस्य श्रुतिविरुद्धत्वादग्रहणम् । श्रौत- मते पञ्च महाभूतानि जगदुत्पत्तेः साधनभूतानि । साधनानां चायं स्वभावो यत्क्रियाकाल एव तद्वयापारो भवति नतु क्रियावसान इति सदृष्टान्तमाह- कर्तृक्रिया इत्यादिना । चार्वाकपक्षे कर्मवादिपक्षे च दूषणमाह-भूतकर्म- णोश्चेति । ननु वायोश्चलनदर्शनाद्भूतानामचेतनत्वेऽपि स्वतः प्रवृत्तिः स्यादित्याह-वायुवदितीति । असिद्धत्वादिति । वायौ स्वतः सिद्धप्रवृ- त्तिर्न संगच्छते । यदचेतनं तन्न स्वतःसिद्धप्रवृत्तिमत् । यथा रथादय इत्यनु- मानविरोधात् । नवीनमीमांसकानां मतमाह-शास्त्रादिति । स्वर्गकामो यजेत" इति वैदिकविधानाद्यागादिरूपं कर्म स्वर्गादिफलं जनयति नेश्वरा- दीति सिध्यति । ततश्च कर्मणः फलसाधनत्वसिद्धौ कर्मणो जगदुत्पन्नमिति वक्तुं सुकरमिति भावः । ननु यागकर्तुमरणान्तरं स्वर्गेण भाव्यं तावत्कालं यागादिकर्म तु न तिष्ठति तस्य तत्कालमेव नाशात् । ततश्चान्यथासिद्धि- न्यत्वे सति नियतपूर्वभावित्वमिति यत्कारणत्वस्य लक्षणं, वैचोषिकसंमतं केनोप.-१.
बालबोधिनी तस्याप्रवेशात्कर्म विफलमिति चेन्नेत्याह-न च प्रमाणेत्यादिना । वैदिक- प्रमाणबोधितत्वात्कर्मवैयर्थ्यं तु न योग्यमित्यर्थः । यथौषधपानादिकं कालान्तर- भाव्यारोग्यं शरीरसंस्कारोत्पत्तिद्वारा साधयति तद्वत्कर्म कालान्तरमाविस्वर्ग- मपूर्वोत्पत्तिद्वारा साधयतीति कल्प्यते वैदिकप्रमाणवाक्यानुरोधादिति भावः । [पृ. ३१ ] नन्वीश्वरः साधनत्वेन श्रुतस्तदन्यथानुपपत्त्या स एव कुतो नाश्रीयत इत्यत आह-नचेश्वरास्तित्व इति । पूर्वोक्तार्थापत्तिस्त्वश्विरा- स्तित्वे न प्रमाणम् । ईश्वरानङ्गीकारेऽपि जगद्रूपकार्यस्य कर्मादिसाधनेन साधयितुं शक्यत्वात् । “ द्यावापृथिवी जनयन्देव एक आस्ते " इत्यादि- श्रुतिरपि न प्रमाणमर्थवादशङ्काप्रसंगादिति शङ्काकर्तुराशयः । खण्डयति- न दृष्टन्यायेत्यादिना । कर्मवादिभिर्यदपूर्व कल्प्यते तदसंगतं दृष्टन्याय- त्यागस्यासंगतत्वात् । व्यवहितफलं कर्म चेतनप्रयुक्तमेव भृत्यादिकर्मफल- वदिति हि दृष्टन्यायः । एतदेव , विवृणोति-क्रिया हीत्यादिना । अन- न्तरफला-समाप्तिक्षण एव फलदायिनी । फलापधार्गणीति । फलेन फलोदयेनापवर्गो नाशः सोऽस्ति यस्या इति । स्वव्यतिरिक्तं फलदातारं नापेक्षत इत्यर्थः । उत्पन्नप्रध्वंसिनीति । प्रध्वंसते तच्छीला प्रध्वंसिनी । उत्पन्नमात्रैव फलमदत्वा या विनश्यति सा क्रिया स्वव्यतिरिक्तं फलदा- तारं कालान्तरेऽपेक्षत इत्यर्थः । स्वर्गादिरूपं यागादिफलं कर्मादिविज्ञेन दीयमानमेवांगीकर्तव्यं व्यवहितफलत्वात्सेवाफलवदित्याह-तस्मादिति । ईश्वरस्यापि नियामकान्तरांगीकारेऽनवस्थादोषप्रसंग इत्याह-स चात्मभूत इति । जीवेश्वरभेदस्तु काल्पनिक इति भावः । ननु राजवदीश्वरः फलदा- तांगीक्रियते चेन्निग्रहादिकर्तृत्वात्तस्य रागादिमत्त्वं प्रसज्येतेत्याह-नित्य- विज्ञानस्वभाव इति । सर्वस्यात्मभूतश्चेदीश्वरस्तर्हि संसारिजीवेन सहा- भेदात्तस्य संसारधर्माः संभवेयुरत आह-संसारधभैरस्पृष्ट इति । प्रशा- सने-अधिकारे । तद्वशेन द्यावापृथिव्यादयो विधृतास्तिष्ठन्तीत्यर्थः । स्मृत- यश्चति । " यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । ” भ.गी. १३।३२ “समं सर्वेषु भूतेषु" भ. गी.१३।२७ईश्वरः सर्वभूतानां" भ. गी. १८६० इत्याद्याः । अर्थवादत्वेनोक्तप्रामाण्यं खण्डयति-न चेति । अन- न्ययोगित्वे सतीति । अयं भावः । " वायव्यं श्वेतमालभेत " इति कर्मविधिसमीपे पठितानि । वायुर्वा क्षेपिष्ठा देवता " इत्यादीनि वाक्या- न्यर्थवादात्मकानि भवन्ति । ईश्वरविषयवाक्यानि तु कर्मविधिसमीपे पठि- केनोपनिषड्याख्यात्रये तत्वाभावादर्थवादवाक्यानि भवितुं नाहन्ति । अनन्ययोगित्वं-अनन्याङ्गत्वम् । अन्यस्य विधेरंगत्वाभाव इति भावः । किं चार्थवादा अपि नानर्थकाः । पदसमन्वयेन जायमानस्य वाक्यज्ञानस्य बाधादर्शनात् । भूतार्थवादानां सत्यत्वाङ्गीकाराच्चत्यत आह-न चोत्पन्नामिति । अप्रतिषेधाच्चेति । अस्य संग्रहवाक्यस्यार्थद्वयं भाष्यकृता क्रियते तत्र प्रथमोऽर्थः प्रदर्श्यते-न चेश्वर इति । यथा “ द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त च" इति प्रस्तुत्य ततः परं "नेति नेति" इति परापरयोनिषेधः क्रियते तद्वदीश्वरप्रतिषेधः श्रुतौ न क्रियते प्राप्त्यभावादिति। निषेधो हि प्राप्तिपूर्वको भवति ।“मा हिंस्यात्सर्वा भूतानि" इति श्रुत्या रागतः प्रेमतः प्राप्ता हिंसा निषिध्यते तद्वत्र प्राप्त्यभाव इति शङ्काकर्तुराशयः । न्यायस्येति । इदं जगदेतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवतीत्याद्यनुमानस्योक्तत्वादित्यर्थः । अप्रतिषेधादित्यस्य द्वितीयमर्थमाह- अथवेति । प्राभाकरमीमांसकमतेन " स्वर्गकामो यजेत" इति श्रुतिर्यागस्य स्वर्गदाने सामर्थ्यमिति बोधयति । ईश्वरकालादीनां सामर्थ्य नास्तीति न बोधयति । एकेन वाक्येनार्थद्वयप्रतिपादने वाक्यभेदप्रसंगात् । लौकिकेन क; कृते कर्मणि स्रक्चन्दनादिनिमित्तेनातिशयो दृष्टस्तत्सामान्याद्वैदिके कर्मणि कर्मव्यतिरिक्तमीश्वरकालादीनां निमित्तान्तरत्वं स्वीकर्तव्यमित्याह- न च निमित्तान्तरनिरपेक्षमिति । किंच न केवलेन कर्मणा गतार्थता तस्य विनष्टत्वादित्याह-न च विनष्टोऽपीति । सेव्यबुद्धिवदिति । अनेन पंचदिनपर्यन्तं सेवितोऽहमिति ज्ञानवान्स्वामी नष्टायामपि सेवायां मासान्तरे सेवकाय वेतनं ददाति तद्वदनेनानुष्ठितो याग इति संस्कारवानी- श्वरो नष्टेऽपि यागे यागकर्तुमरणानन्तरं तस्मै फलं यच्छतीति भावः । [पृ. ३० ] ननु लौकिककर्मफलसाधने चेतनापेक्षायामपि वैदिककर्माण तादृशसाधनापेक्षाभावादीश्वरो नांगीकर्तव्य इति शंकामपाकर्तुमाह-नतु पुनः पदार्था इति । यागादेः कर्मण इति । कालान्तरमाविफलस्य यागादिकर्मणः स्वर्गादि फलं विज्ञानरहितकर्ताश्रयमित्यसंगतमतस्तत्र यादृश- देशकालादिनिमित्तमालंब्य कर्म कृतं तद्विषयः संस्कारस्तथा फलविपाकः फलाभिमुखत्वं कर्मणां यत्तत्संस्कारस्तद्विभागसंस्कारश्च फलदानेऽपेक्ष्यते सच देशकालादिविज्ञस्यैव बुद्धौ भवेदतस्तादृशदेशकालादिविभागज्ञ ईश्वरोऽ- ङ्गीकर्तव्यः । सेवादीत्यादि । सेवारूपकर्मफले यथा सेवादिकर्मानुरूप- फलज्ञोऽपेक्ष्यते न केवलं सेवैवं फलदायिनी तद्वदित्यर्थः । यत्साक्षादपरो- बालबोधिनी क्षादिति । यद्ब्रह्म साक्षादव्यवहितं केनचिद्रूष्टुरपरोक्षादगौणम् । एवमनु- मानादि प्रदर्य निरीश्वरवादं खण्डयित्वेश्वरवादिषु भेदत्रादिनः खण्डयति- स एव चात्रात्मेति । भेदवादिनो हि मत इदमनुमान-जीव ईश्वराद्भिन्नो विरुद्धधर्माकान्नत्वात् । यो यद्विरुद्धधर्माक्रान्तः स तद्भिन्नो यथाश्वमहि- पाविति । परमेतदनुमानं श्रुतिविरुद्धं यतः श्रुतौ भेदनिन्दा, अभेदोपदेशश्च श्रूयते तदेतदाह-नान्योऽतोऽस्ती-यादिना । [ पृ. ३१] ज्ञानशक्ती- त्यादिनोक्तौ पूर्वोत्तरपक्षौ विवृणुते यदुक्तमित्यादिना । सहस्रश इति । "एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन" छां. ६।२।१ इत्याद्याः । दूषणान्तरं वक्तुमनुवदति-यदुक्तामिति । ज्ञानादिलक्षणभेदादित्यत्र लक्षण- भेदादिति यदुच्यते तन्न संगतं लक्षणभेदस्याद्वैतिमतेऽस्वीकृतत्वादित्याह- नानभ्युपगमादिति । जीवविषये त्रिविध एव विकल्पः संभवति १ जीवाः किं बुद्धयादिविशिष्टाश्चित्प्रतिबिम्बा धर्मित्वेन गृह्यमाणाः । २ अथवा देवमनुष्यादिशब्दवाच्याः सचितिका देहाः । ३ किंवा विलक्षणनिरुपाधि- कभेदभिन्नाश्चेतनाः । इति । तत्र प्रथमपक्षं खण्डयति-बुद्धयादिभ्य इति। चक्षुर्बुद्धयादीति । चक्षुर्बुद्ध्यादीनां समाहारः समुदायस्तत्संतानं प्रवाहस्तथा- हंकारममत्वादयो ये विपरीतप्रत्ययास्तेषां प्रबन्धस्य सातत्यस्य योऽविच्छेदः स लक्षणं यस्य तत्स्वरूपः । चक्षुर्बुद्धयादिप्रवाहयुतोऽहंकारममत्वादि- सातत्यविशिष्ट इत्यर्थः । नित्यशुद्धबुद्धमुक्तविज्ञानात्मा गर्ने यस्य । ईश्वरात्मनात्मवानित्यर्थः । नित्यविज्ञानेनेश्वरगतनावमासः प्रकाशो यस्य । चित्तचैत्येति । चित्तं-ज्ञानं, चैत्याः-सुखादयः । बजि--अवि- धादि । बीजि-शरीरम् । एतत्स्वभावः-एतत्स्वरूपः। सच इत्याह-कल्पित इति । अभ्युपगम्यत इति । कल्पितत्वेन स्वीक्रियते न वास्तवः । यस्य पूर्वोक्तकल्पितविशेषणविशिष्टरूपस्याविच्छेदे सातत्ये तत्प्रविष्टचित्स्वरूपस्य संसारव्यवहारो यस्य च विच्छेदे प्रतिबिम्बरूपस्य बिम्बसंपत्या मोक्षव्यवहारो भवति सच कल्पितरूपः सिद्धान्तिना पूर्वमेव कल्प्यते तस्यैव पुनःकल्पने सिद्धसाधनमिति भावः । सिद्धसाधनं च पिष्टपेष- णवन्निरर्थकमिति तात्पर्यम् । द्वितीयपक्षेऽपि सिद्धसाधनमेवेत्याह-अन्यश्चेति। देवादीनां शरीरमाकाशादिभूतारब्धं तल्लयश्च मृत्तिकादिलयवत्प्रत्यक्ष इत्यर्थः। ईदृशं भूतारब्धत्वादिकं सिद्धान्तिना व्यवहारनिर्वाहायांगीकृतमेव तत इदमपि सिद्धसाधनदोषघटितम् । चतुर्थप्रकारस्तु न संभवतीत्याह- न वास्तव - - केनोपनिषद्याख्यात्रये न पुनश्चतुर्थ इति । चतुर्थः-चतुर्थप्रकारकस्तु जीवो नांगीक्रियत इत्यर्थः । ननु तृतीयो यः प्रकारस्तद्रीत्या बुद्ध्यादिकल्पितेभ्यो विशिष्टात्मभ्यो व्यति- रेकेण निरूपाधिकस्वरूपाभिप्रायेण लक्षणभेदादिति हेतुः स्यादत आह- आश्रयासिद्धो हेतुरिति । अत्र हेतावाश्रयासिद्धिरूपो दोषः । यथा काञ्चनमयः पर्वतो वन्हिमानिति गगनारविन्दं सुरभीति वा न साधयितुं शक्यते काञ्चनमयपर्वतस्य गगनारविन्दस्य चाभावात्तथा बुद्ध्यादिकल्पित आत्मा लक्षणभेदादीश्वराद्भिन्न इत्यपि न साधयितुं शक्यते । पक्षस्य क- ल्पितत्वेनासिद्धत्वात् । तदाह-ईश्वरादन्यस्यति । ईश्वरस्यैवेति।ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तं सुखदुःखादियोगश्चापि तस्यायुक्त इति चेन्नेति संवन्धः । ईश्वरात्पृथगात्मा नास्तीति वदता वादिनेश्वर एवात्मेति साधितं ततश्चासंगस्य तस्य बद्धत्वमुक्तत्वादि विरुद्धधर्मत्वं सुखदुःखादियोगश्च कथं संगच्छेतेति शंका । सैव न निमित्तत्व इत्युत्तरेण परिव्हियते । लोकवि- पर्ययाध्यारोपणादिति । लोकैः प्राकृतदर्शिभिर्विपर्ययेण दृष्टिविपर्ययेण यदध्यारोपणमध्यारोपस्तन्निमित्तं बद्धत्वादिधर्माः सुखदुःखादियोगश्चेति भावः । तद्विवृणोति-यथा हीत्यादिना । सदा प्रकाशस्वरूपेऽपि सूर्ये स्वनेत्रगतप्रकाशाभिव्यक्त्यनभिव्यक्तिनिमित्तमुदयास्तमयावहोरात्रयोः कर्तृत्वं चाध्यारोप्यते लोकैस्तद्ध्यारोपनिमित्तं सोऽपि सूर्यो मिथ्यैव तत्कल्पितक- र्तृत्वमाग्भवति तद्वदीश्वरोऽपि लोकाध्यारोपणाबद्धमुक्तत्वादिधर्मभाग्भवति । लोकज्ञानापोहेति । लोकस्य यज्ज्ञानं तदपोहो विस्मरणमित्यर्थः । न स्वत इति । परमार्थत इत्यर्थः । यथा पित्तामयवान्पुरुष आमयात्प्राक् शुक्लरूपि- त्वेन निश्चितमपि शङ्खमामयदशायां स्वदृष्टयनुसारं पीतमेव मनुते तद्वन्द्वान्तः स्वबुध्यनुसारमेवाध्यारोपयतीत्याह-आत्मदृष्टयनुरूपारोपाच्चेति । तदुक्तं हस्तामलकाचार्यैः "धनच्छन्नदृष्टिर्घनच्छन्नमकै यथा मन्यते निष्प्रभ चातिमूढः।। तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा॥"ह.१०दा - न्तिके योजयति-एवमिति बुध्द्यादिसंबंधिनीनां वृत्तीनामुद्भवाभिभवाभ्या- माकुलस्य " इमाकुद्भवाभिभवौ न वृत्तीनां किन्तु तव्यापकचैतन्यस्य" इति मिथ्याप्रत्ययप्रयुक्तस्य भ्रान्तस्य पुरुषस्य भ्रान्त्या सुखदुःखादियोग आरो- पितो नतु वास्तव इत्यर्थः। [पृ.३२]एतेनेति । सिद्धसाधनाश्रयासिद्धत्वदोषा- म्यां जीवेश्वरयोः सौम्यादिसाम्यान्नास्ति किमपि तयोर्मेंदे कारणमित्याह- सौम्येति । एकस्य दुःखमन्यस्य सुखमिति व्यवस्थासिध्यर्थं तात्त्विक आ- बालबोधिनी .. श्रयभेदः कल्प्यते तेन कथं भेदे कारणाभाव इति चेन्न । तथाश्रयभेदकल्पने विक्रियावत्त्वप्रसंगस्ततश्चानित्यत्वं प्रसज्येतेत्याह-विक्रियावत्त्व इत्यादिना। मोक्षे विक्रियावत्वं तु केनापि नांगीक्रियते । सर्वैरव म्वरूपावस्थानं मोक्ष इत्यस्यांगीकारादित्याह-योक्षे चेति । अविद्यावदुपलभ्यत्वादिति । अविद्यावद्भिन्तैिर्भेदो जाग्रत्स्वप्नयोरुपलभ्यते भ्रान्त्यभावे सुषुप्तिसमाध्योः स भेदो नोपलभ्यतेऽतस्तम्य मिथ्यात्वमित्यर्थः। तत्क्षय इति । अविद्यायाः क्षये । केवलस्यात्मनो बन्धमोक्षाविति किमर्थमुच्यते बुध्यादिविशिष्टस्य तौ कुतो नोच्यते इत्याह-स्वरूपापेक्षत्वादिति । विशिष्टस्य मोक्षेऽन्वयासं- भवात् । मोक्षे बुध्द्यादिसंबन्धस्य सर्वैरनादृतत्वात्स्वरूपावस्थानं मुक्तिरित्य- स्यैव स्वीकाराच्च । तदुक्तं “ उपाधिना सार्धमुपाधिजन्यमौपाधिकं सर्व- मवेहि मिथ्या । भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव॥ इति । जगत्स्थितिपरिपिपालयिषयेति । परिपालयितुमिच्छा परिपिपाल- यिषा । जगतः स्थितिकरणं ब्रह्मण इष्टं प्राणिकर्मफलविभागार्थम् । देवा- श्वात्मानुशासनानुवर्तिनो दैत्याश्च जगत्स्थितिकारियज्ञाद्यपहारिणोऽतो यथाक्रमं तेषां जयपराजयौ ॥ ३ ॥१॥ (प्रकाशिका ) [ पृ. २७ ] कांचनाख्यायिकामिति । अत्र कांचने- त्यनिश्चितताद्योतकपदेनाख्यायिकायां न तात्पर्य किन्तु साकल्येन ब्रह्म विज्ञातुमशक्यमित्यत्र तात्पर्यमिति द्योत्यते । देवानाविश्यति । देवशरी- राणि प्रविश्य ॥३॥ १ ॥ तृतीयखण्डे द्वितीयमन्त्रः॥ ३ ॥ २ ॥ ( पदभाष्यम् ) [पृ. ३३] स्वयोगमाहात्म्यानिर्मितेनेति । योगो नाम सत्त्वरजस्तमसां घटनं माया तत्सामर्थ्यादित्यर्थः । ब्रह्मणः शरीरं योगजन्यं प्राणिशरीरवत्सुकृतादेस्तच्छरीरसाधनत्वाभावात् । यक्षमिति : यज देव- पूजासंगतिकरणदानेषु ' इति धातोर्यक्षमिति रूपमत आह-पूज्यमिति ३ ॥ २ ॥ ( वाक्यभाष्यम् ) [ पृ. ३३ ] हेयत्वख्यापनार्थमिति । मिथ्या- मिमानो हेय इति द्योतयितुम् । पिण्डमात्राभिमाना इति । केवलं देहाभिमानिनः । शातनं-निराकरणम् । अनुजिघृक्षा-अनुगृहीतुमिच्छा । नातिदूर इति । समीप एवेत्यर्थः । मायोपात्तनति । देवगर्वनिरासाय
केनोपनिषद्याख्यालये
केवलं मायिकमेव तद्रूपं नतु वास्तवमित्यर्थ ॥३॥२॥३।४।५।६।७८
९।१०॥११॥
( प्रकाशिका ) [पृ. ३३ ] तदासुरावेशेत्यादि । यत्राहंकारादि-
प्रादुर्भावस्तत्रासुरकृतशरीरप्रवेशादज्ञानमुत्पन्नमिति भावः ॥३।२।३।४।५।
६१७८।९।१०।११।१२॥
तृतीयखण्डे तृतीयमन्त्रः ॥३॥३॥
( पदभाष्यम् ) [ पृ. ३३ ] अग्रगामिनमिति । "
अग्निमुखा वै
देवाः ” इति श्रुतेः । सर्वज्ञकल्पमिति । " ईषदसमाप्तौ कल्पब्देश्यदे-
शीयराः " पा सू. ५।३।६७ इति सूत्रेण कल्पप्प्रत्ययः । किंचिन्यूनः
सर्वज्ञः सर्वज्ञकल्पः । महतो यक्षस्याज्ञानादग्नेर्ज्ञाने न्यूनता प्रदर्शिता। [पृ.३४]
सर्वत्रेति । अयमभिप्रायो यदीदं तृणं त्वया दग्धुं न शक्येत तीतत्सा-
मान्यादन्यत्र या दहनशक्तिः सा न त्वदीया किन्तु त्वदितरस्यातो दग्धृ-
स्वाभिमानं त्यज ॥३॥३।४।५।६॥
तृतीयखण्डे सप्तममन्त्रः ३ ॥ ७ ॥
( पदभाष्यम् ) [पृ. ३५ ] वा गतिगन्धनयोः' इत्यस्य वायु-
रिति रूपमित्याह-वानादित्यादि । श्वयतीति । वर्धत इत्यर्थः । टु-
ओश्चि गतिवृद्धोरिति पाणिन्यनुशासनात् ॥७।८।९।१०॥
तृतीयखण्ड एकादशमन्त्रः ॥ ३ ॥ ११ ॥
( पदभाष्यम् ) [ पृ. ३६ ] अतितरामिति । अतीत्युपसर्गात्तर-
बन्तादामुप्रत्ययः । अत्यन्तमित्यर्थः ॥ ३॥ ११ ॥
तृतीयखण्डे द्वादशमन्त्रः ३ ॥ १२ ॥
( पदभाष्यम् ) [ पृ. ३६ ] ईश्वरेण सहेति । शरीरार्धभागस्थित्येति
भावः ॥ ३॥१२॥
( वाक्यभाष्यम् ) [ पृ. ३६ ] रुद्रपत्नीति । रुद्रस्य सर्वज्ञत्वात्तत्स-
हचारिणीत्वेनोमाया अभिप्रायोद्बोधकत्वम् । लौकिकन्यायमाह--विरूपोऽ-
पीति॥३॥१२॥
बालबोधिनी . इति तृतीयः खण्डः ॥३॥ अथ चतुर्थखण्डे प्रथममन्त्रः ॥ ४ ॥ १॥ (पदभाष्यम् ) [ पृ. ३७ ] क्रियाविशेषणार्थमिति । अयमर्थः । यो त्ययं विजयः स ब्रह्मण एव न युष्माकम् ॥ ४ ॥१॥ (प्रकाशिका ) [पृ. ३७] हेतिनिश्चयमाहेति । निपातानामनेकार्थ- त्वादेव । विजय इति । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ' इति वन्निमित्तसप्तमीयं तदाह- विजयनिमित्तमिति ॥ ४ ॥ १ ॥ चतुर्थखण्डे द्वितीयमन्त्रः ॥ ४ । २ ॥ ( पदभाष्यम् ) [पृ. ३७ ] देवा इत्येतदनुरूपं प्रथमः विदांचकारे- त्यस्य विपरिणमनं प्रथमा विदांचक्रुरिति । नेदिष्ठामिति अन्तिकशद्वादि- ष्टनि रूपम् । “अन्तिकबाढयोर्नेदसाधौ” पा. सू. ५ । ३।६३ इत्यनेन साधु ॥ ४ ॥ २ ॥ ३ ॥ ( वाक्यभाष्यम् ) [ पृ. ३७ ] प्रथम इति । प्रथममिति क्रियाविशे- षणस्यार्थे प्रथम इति । अतस्तथा विपरिणामः । अत्र भाष्य इवशब्दवि. षये न किंचिल्लिखितं पदभाष्योक्तमिवशब्दो निरर्थक इति द्योतयितुमपि तूष्णीमावः स्यात् ॥४॥२॥३॥४॥ (प्रकाशिका ) [ पृ. ३७ ] अतितरामिवेति । अन्यान्देवानतिका- मन्तीव । इतरदेवापेक्षयानयादयः किंचिदिव श्रेष्ठा इति भावः । नेदिष्ठं- अन्तिकतमम् ॥ ४ । २ । ३ ॥ चतुर्थखण्डे चतुर्थमन्त्रः ॥ ४ ॥ ४ ॥ [पदभाष्यम् ] [पृ. ३८ ] अनुपपन्नमिति । विद्युतः सकाशाद्वयद्युतदि- वेत्यर्थो नोपपद्यते । ब्रह्मणः स्वयंप्रकाशस्य विद्युतादेः परस्माद्वस्तुनः प्रकाशायोगात् । विद्युत इति षष्ठ्यन्तमपि नोपपद्यते । विद्युत्संबन्धिप्रका- शस्य ब्रह्मनिष्ठत्वायोगात् । यत एकनिष्ठप्रकाशस्यान्याश्रयत्वानुपपत्तिः । अतो विद्युतो विद्योतनं प्रकाश इति कल्पितम् । तदुपमानेन ब्रह्मविद्योतनं बोध्यत उपासनार्थम् । यथा प्रसिद्धालम्बनानुसारं सर्वत्रोपासनं प्रदर्श्यते ।
केनोपनिषद्व्याख्यात्रये कं ब्रह्म खं ब्रह्मेत्यादिषु । तथात्रापि विद्युतः प्रकाशनं सर्वैीयमानमाल- म्बनीकृत्य तदुपमया ब्रह्मप्रकाशनं ध्येयमेवमुपासनार्थ बोध्यते । प्रतिनिर्दे- शार्थ इति । उपास्यरूपपरामर्शार्थः । अयं मानः । इतिशब्देन यदेत- द्विद्युतो व्यधुतदः ३ इतीगत्येवोपासनेति प्रदाते । तथैव न्यमीमिषदा ३ इत्यत्रापीतिशब्दस्तदर्थो ज्ञेयः । समुच्चयार्थ इति । एवं च द्विरूपो- पासना । प्रथमोपासनयेदं माध्यं-ये ब्रज तथा विद्युतः प्रकाशो युगपद्विश्वव्यापकस्तथा निरतिशयज्योतीरूपमिति ज्ञेयम् । द्वितीयोपासन- येदं साध्यं यद्यथा चक्षुषो निमेषणं द्रुतं तद्ब्रह्म द्रुतं सृष्टयादिकार्यतः पारमैश्वर्यसंपन्नमिति ज्ञेयम् । स्वार्थे णिजिति । तेन न प्रयोजकरूपोऽ- र्थः ॥ ४ ॥ ४ ॥ [प्रकाशिका ] [ पृ. ३९] विद्युदादीनित्यर्थस्योपपत्तिमाह-विद्युतो बहु- वचनमिति । बहुवचनप्रयोगाद्विद्युदादय उपलक्षयितव्याः । आङभिव्या- प्त्यर्थको ग्राह्य इत्याह-आपूर्णमिति । यद्वति । अयं द्वितीयोऽर्थः शांकर- भाष्यवद् दृश्यते ॥ ४ ॥ ४ ॥ चतुर्थखण्डे पञ्चममन्त्रः ॥ ४ ॥ ५ ॥ [ पदभाष्यम् ] [ पृ. ३९ ] प्रत्यगात्मतया ब्रह्माभिव्यक्त्यर्थमध्यात्ममुपा- सनमाह-अथेति । मदीयं मनोऽधिदैवतोपासनायां प्रकृतं यज्ज्योतीरूपं ब्रह्म तत्र गच्छति इति चिन्तयेदयमुपदेश आध्यात्मिक इत्यर्थः । पुनः पुनर्जायमानो मन्मनसः संकल्पो ब्रह्मविषय एवेति ध्यानेनोपासकस्य प्रत्य- ग्भूतब्रह्माभिव्यक्तिः स्यादित्याह-मनउपाधिकत्वाद्धीति । ब्रह्मविषयी- क्रियमाण इति । एतत्संकल्प इत्यस्य विशेषणम् ॥ ४ ॥ ५ ॥ [ वाक्यभाष्यम् ] [ पृ. ४० ] अहंग्रहेणैवैतदुपासनं कर्तव्यमित्यभिप्रेत्या- ध्यात्मिकब्रह्मस्वरूपं वक्ति-आत्मभूतत्वाचेति ॥ ४ ॥ ५ ॥ [प्रकाशिका ] [ पृ. ४० ] इयत्तयेति । एतत्प्रमाणकं वस्त्विति न विषयीकरोति । शब्दस्वभावावति । संकल्पशब्दस्य गुणाः पूजास्थानमिति वदजहल्लिंगत्वात् ॥ ४ ॥ ५ ॥ चतुर्थखण्डे षष्ठमन्त्रः ॥ ४ ॥ ६ ॥ [ पदभाष्यम् ] [ पृ. ४१ उवाचेति । सगुणोपासनस्यैश्वर्यरूपं फलं केनोप बालबोधिनी प्रतिपादितं तत्र यो विरक्त उत्तमाधिकारी शिष्यः स आचार्य परमरहस्यं पृष्टवानित्यर्थः ॥ ४ ॥ ६ ॥ [ वाक्यभाष्यम् ] [ पृ. ४४ वनतेस्तत्कर्मण इति । वनु संभजन इत्यस्य रूपं तेन वनु धातुः संभजनकर्मा । संभजनार्थक इति यावत् । गौणमिति । गुणादागतं गौणं यौगिकं न रूढमित्यर्थः । सेवन्ते स्मेति । अत्र स्मेतिपदं निरर्थकं केवलं वाक्यालंकारकं भूतकालवाचिनोऽर्थस्येहान- न्वितत्वात् ॥ ४ ॥ ६ ॥ [प्रकाशिका ] [पृ.४ ०] अन्वर्थमिति । अर्थमनुगतं यथार्थम् । ततत्वा- दिति । तनु विस्तारे इत्यम्य [पृ. ४४ ] वनु संभक्तावित्यस्य च रूपम्। तथा च तद्वनमितिशब्दस्य व्यापकं भजनीयं चेत्यर्थः। तद्विशदयति- तनोतेरिति । इत्यत्प्रत्यय इति । व्याकरणान्तरस्थं वचनमेतत् । बनते- रकार इति । वनेत्यकारान्तशब्दः कथमपि साध्य इत्यर्थः ॥ ४ ॥ ६ ॥ चतुर्थखण्डे सप्तममन्त्रः ॥ ४ ॥ ७ ॥ ( पदभाष्यम् ) [ पृ. ४१ ] उत्तरार्थमिति । श्रोत्रस्य श्रोत्रमित्यने- नोक्तोपनिषत् । सैवेदानी मयोक्तेति शिष्यं प्रत्याचार्योऽवधारणपूर्वकं नि- दिशति विद्याप्राप्त्युपायानामुत्तरेषां तपआदीनां विधानार्थम् । अतो न पुनरुक्तिः । विद्यातु निरपेक्षवातः सा प्रथममुक्ता । तपआदिसाधनविधा- नार्थमेवोक्तविद्याया अवधारणमिति प्रश्नमुखेन स्फुटयति-परमात्मविषया- मिति । फलवचनेनोपसंहार इति । संपूर्णतया विद्याया अनुक्तौ फलक- थनमसंगतं भवेदित्यर्थः । तस्मादिति । उपनिषच्छेषः-उपनिषदङ्गम् । अनवशेषितत्वात्-समापितत्वात् । किं पूर्वोक्तेति । श्रोत्रस्य श्रोत्रमित्या- युपनिषदङ्गत्वेनान्यानि सहकारिसाधनान्यपेक्षते नो वा । पिप्पलादवदिति । प्रश्नोपनिषदीयमाख्यायिका-सुकेशादयः षण्महर्षयो ब्रह्मान्वेषणं कुर्वन्तः पिप्पलादमहर्षि समुपसन्नाः । तान्स पिप्पलादो ब्रह्मविषयमुपदिदेश । अन्ते चैतावदेवाहं ब्रह्म वेद नातः परमस्तीत्युवाच । तद्वदत्राप्याचार्येण नातः परमस्तीति वक्तव्यमित्यर्थः । समाधत्ते-एतदुपपन्नामिति । [ पृ. ४२ ] दैरिति । अयमर्थः । तस्यै तपो दम इति मन्त्रे वेदानां तदङ्गानां च तपादिभिः सह पाठः कृतः परं वेदास्तदङ्गानि च न ब्रह्मविद्याप्राप्युपाय- भूतानि तत्सामान्यात्तपआदीन्यपि न ब्रह्मविद्याप्राप्त्युपायभूतानि । योग्य- ८३ केनोपनिषद्याख्यानये .. तानुसारं तपआदीनां ब्रह्मविद्याप्राप्तावङ्गाङ्गिभावः कल्प्यते सहपाठोऽकिं- चित्कर इति शंकते-सहपठितानामपीति । एवं विभागपूर्वकं विनियोगः कर्तव्यस्तथा चार्थसंबन्ध उपपद्येत । स च विभाग इत्थम् । तपःप्रम- तीनां विद्यांगत्वेन विनियोगः । वेदानां तदंगानां चार्थप्रकाशद्वारा कर्मात्म- ज्ञानोपायत्वम् । एवं सहकथनेऽपि पृथग्विनियोगे श्रौतं दृष्टान्तमाह-यथा सूक्तवाकानमन्त्रणमन्त्राणामिति । " अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् " इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमंत्रणं क्रियते । यद्यप्यस्मि- न्सूक्तवाके बढ्यो देवताः पठ्यन्ते तथापि यस्मिन्यागे या देवताहूता तस्या एव विसर्नने योग्यतावशात्तस्य सूक्तवाकस्य विनियोगः । सूक्तवाकानुमंत्र- णमंत्राणामित्यत्र सूक्तवाकेनानुमंत्रणमिति तृतीयासमासः । नायुक्तेरिति । युक्तिर्घटना तस्या असंभवात् । प्राञ्चति-गच्छति । अञ्चु गतिपूजनयो- रिति धातोः प्रोपसृष्टस्य रूपम् । सूक्तवाकानुमंत्रणमन्त्रेषु योग्यतायाः सत्त्वात्तथा व्यवस्थायामप्यत्र कर्मणां विद्याविरुद्धत्वेन योग्यताभावात्तथा व्यवस्थाया असंभवादित्यर्थः । तमेव योग्यताभावं स्पष्टयति-नहीति । निःश्रेयसस्येति । एवं च ब्रह्मविद्यायास्तत्फलस्य कर्मवेलक्षण्यमित्यर्थः । प्रश्नपतिवचनस्येति । उपनिषदमब्रूमति गुरूक्तप्रश्नोत्तरवाक्यस्य ॥४॥७॥ ( वाक्यभाष्यम् ) [पृ. ४१] ब्राह्मत्यिस्य व्याख्यानं-ब्राह्मणजा- तेरिति । ब्राह्मणजात्यनुष्ठेयां विद्यामात्मसाधनभूताम् । [ पृ. ४२ ] अब्रू- मेत्यस्य भविष्यकालिकमर्थमङ्गीकुरुते व्यवस्थापयति च-ब्राह्मी नोक्तेत्या- दिना । भूताभिप्राय इति । भूतकालसंबंधिक्रियाविशिष्टोऽत्रामेति शब्दो न किन्तु भविष्यकालसंबंधिक्रियाविशिष्टः ॥ ४॥७॥ (प्रकाशिका ) [पृ. ४२ ] श्रुतिस्थोत्तरालोचने पक्षत्रयं संभवति तदाह- किमुपनिषत्प्रतिपाद्यमिति ॥ ४ ॥७॥ चतुर्थखण्डेऽष्टममन्त्रः ॥४॥८॥ ( पदभाष्यम् ) [पृ. ४३] अमृदितकल्मषस्येति । अविनष्टपातकस्य । यथेन्द्रेत्यादि । चतुर्थपर्यायपर्यन्तमिन्द्रस्य प्रजापतिबोधितब्रह्मविषयिणी प्रतिपत्तिर्ज्ञानं नासीत्तस्यैव प्रजापतेर्वाक्याद्विरोचनस्य तु प्रथम एव पर्याये विपरीता देहात्मप्रतिपत्तिरभवदियं कथा छान्दोग्येऽष्टमाध्यायेऽष्टमखण्डेऽस्ति ।
बालबोधिनी या. स्मृ. यथाश्रुतमिति । श्रुत्यनुसारि । अमानित्वमिति “ अमानित्वमदंभित्व- महिंसा शान्तिरार्जवम् " भ. गी. १३१७ इत्यादिभगवद्गीतोक्तम् । षडिति। शिक्षा-पाणिन्यादिकृता । कल्पः-श्रौतस्मार्तसूत्रमाश्वलायनादिमुनिकृतम् । व्याकरणं-पाणिनिप्रभृतिनिर्मितम् । निरुक्तं-यास्ककृतम् । छन्दः-पिंगलकृतम् । ज्योतिष-लगधकृतन् । म गाणीत्यनेन शिरआद्यवयवग्रहणे शिक्षादीनां ग्रहणं कथमत आह-आसिमल्पक्ष इति । वेदपदेन शिक्षादिग्रहणे युक्ति- माह-अगिनीति ॥४॥८॥ ( वाक्यभाष्यम् , [पु. ४२ ] बलाश्रयेति । ब्रह्म वेद आश्रयो ब्रह्मविद्यायाः । वेदमूलत्वात्तस्याः॥ ४ ॥ ८ ॥ ( प्रकाशिका ) [पृ. ४ ४] तप आलोचने इत्यस्य रूपं तप इति मत्वाह-शास्त्रपालोचनं वेति । तदनुकूलग्रन्थाश्चेति । ऐतरेयशतपथा- दिब्राह्मणानि । “ वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् " अ. २।८३ इति याज्ञवल्क्यस्मृतेराह-अपीडाकरमिति ॥ ४ ॥ ८ ॥ चतुर्थखण्डे नवममन्त्रः ॥४॥९॥ (पदभाष्यम्) [ पृ. ४४ ] औपचारिक इति । इतरलोकापेक्षया स्व- र्गस्य बहुकालस्थायित्वेन लाक्षणिकोऽनन्तशब्दः स्यादिति शङ्कार्थः ॥४॥९॥ ( वाक्यभाष्यम् ) [ पृ. ४४ ] सुखप्राय इत्यनेन सुखबाहुल्यादल्पदुः. खात्मकत्वं तस्य लोकस्य भवेत्किच सुखवैशिष्टयेन सगुणत्वमपि तस्य स्यादत आह-निर्दुःखात्मनीति । सुखप्राय इत्यस्य दुःखाभावे तात्पर्य- मिति भावः ॥ ४॥९॥ (प्रकाशिका) [पृ. ४६] त्रिविधपरिच्छेदरहित इति । देशतः कालतो वस्तुत इति त्रिविधः परिच्छेदस्तद्रहिते । उक्तसर्वावधारणार्थेति। ग्रन्थसमाप्तिद्योतिकेति तात्पर्यम् ॥ ४ ॥९॥ इति चतुर्थः खण्डः ॥ ४ ॥ इति श्रीकेनोपनिषव्याख्यात्रयबालबोधिनी पाठकोपाव्हश्रीधरशास्त्रिकृता समाप्तिमयासीत् ॥
उपनिषद्धयाख्यात्रयगतानां वचसां सूचिः केनोपनिषत्पदभाष्ये लब्धस्थलानि वचांसि . के. २१११ के. ११३ अत्र ब्रह्म समभुते क.६।१४ १ अथैतयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदा- वर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्ये- तत्तृतीय स्थानम् छा. ५.१०८ २ अविज्ञातं विजानतां विज्ञासमविजानताम् . २७ अमुं यजामुं यज. बृ. १।४।६ १४ अयमात्मा ब्रह्म. बृ. २०१९ १२ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्. क. ३१५ अन्यदेव तद्विदितादथो अविदितादधि. २० असङ्गो नहि सज्यते. बृ. ३।९।२६ २३ असक्तं सर्वभृत् भ.गी. १३।१४ २४ आवृत्तचक्षुरमृतत्वमिच्छन् क. ४१ १० आचार्यवान् पुरुषो वेद. छा. ६।१४।२ आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् . छा. ४।९।३ आत्मनैवायं ज्योतिषास्ते. बृ. ४।३।६ ऊर्ध्व प्राणमुन्नयत्यपानं प्रत्यगस्यति. क. ६।३ को ह्येवान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात् - किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः बृ. ४।४।२२ कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृति(- मीरित्येतत्सर्व मन एव. बृ. ११५/३ क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत. भ. गी.१३१३३ जाया मे स्यात् . वृ. १।४।१७ तत्र को मोहः कः शोक एकत्वमनुपश्यतः. २ तरति शोकमात्मवित् . छा. ७।१।३ ac . ९ ते. २०७१ o/ ३ ८ & २ ८६ 00 क. तद्विद्धि प्रणिपातेन. भ.गी. ४१३१ तस्य भासा सर्वमिदं विभाति. क.६.१५ ८ न कर्मणा न प्रजया धनेन त्यागेनैवे. अमृतत्वमानशुः म. ना. १०.५ १० न येषु जिह्ममनृतं न माया. प्र. १११६ नहि वक्तुर्वक्तेविपरिलोपो विद्यते. बृ. ४।३।२६ १५ नैषा तर्केण मतिरापनेया. क. २४९ नित्यो नित्यानां चेतनश्चेतनानाम् . क.५.१३ ८ नान्यदतोऽस्ति विज्ञातृ. बृ. ३।८।११ नित्यं विभुं सर्वगतम् . मुं. १११ २४ नायमात्मा बलहीनेन लभ्यः मुं. ३।२।४ २५ पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षु- रमृतत्वमिच्छन् . ४।१ २-२०-१० प्रज्ञानं ब्रह्म. १८ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगन्छेत् समि- त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् . मुं. १।२।१२ २ पुत्रेणायं लोको जय्यो नान्येन कर्मणा । कर्मणा पितृ- लोको विद्यया देवलोकः. बृ. १।५।१६ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ मुं. २।२।८ २ यदा सर्वे प्रमुच्यन्ते. बृ. ४१४७ येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि. यथा सकृद् विद्युतम् . बृ. २।३।६ य आत्मा सर्वान्तरः बृ. ३।४।१ १३ यत्साक्षादपरोक्षाद् ब्रह्म. बृ. ४।३।१ १२ य आत्मापहवपाप्मा, छा. १७११ १२ ऐ. ५।३ ३ or के. १८॥
पृ. श्वे. ६।२३ ते.२।१।१ य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृत- मभयमेतद्ब्रह्म. छा. ४|१५१ १७ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः. वदन्वाक् । यो वाचमन्तरा यमयति. बृ. ११४७ १५ विज्ञानघन एव बृ. ३।४।१२ १८ विज्ञानमानन्दं ब्रह्म. बृ. ३।९।२८ १८-२३ स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति. मुं. ३।२।९ २६ स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः. बृ. ४१२२ सत्यं ज्ञानमनन्तम् . १८ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम. भ. गी. १०।१५ केनोपनिषत्पदभाष्येऽलब्धस्थलानि वचांसि. अकारो वै सर्वा वाक् सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना बव्ही नानारूपा भवति. अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेध- सहस्त्राच्च सत्यमेकं विशिष्यते. स्मृतिः आत्मनैवात्मानं पश्यति. गुणवद्गुणवता संसृज्यते नातुल्यजातीयम्. २४ ज्ञानमुत्पद्यते पुसां क्षयात्पापस्य कर्मणः। स्मृतिः दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेमन्ता विज्ञातर्विज्ञाता. २३ प्रजा ह तिस्रो अत्यायमीयुः मोक्षमिच्छन् सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम् . स्मृतिः यदादित्यगतं तेजो जगद्भासयतेऽखिलम्. येन सूर्यस्तपति तेजसेद्धः. वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित् तां वेद ब्राह्मण १५ सा वाम्यया स्वप्ने भाषते. १५ ४ २४ ८ ८८ केनोपनिषद्वाक्यभाष्ये लब्धस्थलानि वचांसि. के. ११४ १ अमृतत्वं हि विन्दते. के. १०२।१८ अविकार्योऽयमुच्यते. भ.गी. २०२५ अनश्नन्नन्यो अभिचाकशीति. मुं. ३।१।२ २९ आत्मानमेवावेत्. बृ. १।४।१० उपासीत. छा. ३११४|१ ३० एतस्य वा अक्षरस्य प्रशासने. बृ. ३।८।९ २९ एतं वै तमात्मानं विदित्वा. बृ. ३१५/१ १२ कामान्यः कामयते. मुं. ३।२।२ क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति. भ.गी. १३१३३ १६ जरामृत्युमत्येति. बृ. ३१५/१ तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्. तस्य भासा. मुं. २।२।१८ तत्त्वमसि. छा.६।८७ १२-३० ते क्षय्यलोका भवन्ति. छा. ७/२५/२ त्यागेनैके. म. ना. १०१५ न वर्धते कर्मणा. बृ. ४।४।२३ न लिप्यते लोकदुःखेन बाह्यः क.६।११ २९ नादत्ते कस्यचित् पापम्. भ.गी. ५।१५ ३२ नान्यदतोऽस्ति विज्ञातृ. बृ. ३।८।११ ३० नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता. बृ. ३।७।२३ नान्यः पन्था विद्यते. श्वे. ३८ नायमात्मा बलहीनेन लभ्यः. मुं. ३।२।४ २५ पुण्यो वै पुण्येन. बृ. ३।२।१३ प्रत्यगात्मानमैक्षत. क. ४।१ २३ मत्तः स्मृतिर्ज्ञानमपोहनं च. भ.गी. १५।१५ ३१ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्. भ.गी. १८५ ३ मृत्योः स मृत्युमाप्नोति. बृ. ४।४।१९ यत्साक्षादपरोक्षात. बृ. ३११११ o occm