Asr Melkote

Vedanta Deepa Vol.2

Raamaanujaachaar^ya · 2004/09/21

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

ACADEMY- DS KIT HISLARI MELKOIL-571 434 BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENOE OF R. T. H.GRIFFITH, M. A., C. I. E. AND G. THIBAUT, Ph. D. No. 10. T!: CETTETRIEBradfafarjat वेदान्तदीपः। बादरायणसूत्राणां संग्रहव्याख्यारूपः । श्रीमदाचार्यभट्टनाथस्वामिना संशोधितः । VEDANTADLEPI. A GLOSS ON RAHJASUTRAS, BY SREE BILLO:VTRVÍNUJÎCHÂRYA. EDITED BY Sree NCHÂRYA BHATTANÂ THASWAMY. FASCICULUS II. BENARES. Published by the Proprietors Messrs. Braj B. Das & Co. Secretary, Chowkhamba Sanskrit Book Depot. AND SOLD BY H.D GUPTA, Printeil at the Vidya vilas Press, BEVARES. 1903, wadi L

No text on this page.

द्वितीयाध्यायस्यं प्रथमः पादः । ति। अविभागश्चतिराप नामरूपविभागाभाकादुपपद्यत इत्य- भिहितम् (१)॥ सर्वधर्मोपपत्तेश्च ॥ ३६ ॥ प्रधानपरमाण्वादिष्वनुपपन्नानाम् "स्वपक्षदोषात्" इत्या- दिषूक्तानां सर्वेषां धर्माणां कारणत्वोपपादका(२)नां ब्रह्मण्यु- पपत्तेश्च ब्रह्मैव कारणम् । प्रधानपरमावादीनां परिमि- तशक्तित्वाल्लोकदृष्टवस्तुसजातीयत्वाच्चानुपपत्तयः सहस्रशः सन्ति । ब्रह्मणः शास्त्रैकसमधिगम्यतया (३) सकलेतरविसजाती- पत्नाचिन्यशक्तित्वात्सर्वशक्तित्वश्रुतेश्च सर्वमुपपन्नमियर्थः। इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे द्वितीयस्याध्यायस्य प्रथमः पादः। (रचनानुपपत्त्यधिकरणम् ।) रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ १ ॥ सांख्यतन्त्रसिद्धः प्रधानकारणवादः किं समीचीनयुक्ति- सूल उत नेति संशयः ॥ समीचीनयुक्तिमूल इति पूर्वः पक्षः । घटादिवद्विचित्रसंनिवेशं जगत्कार्य तद्वदेव सरूपकारणविशे- पारब्धम् । मुखदुःखमोहरूपतया सत्त्वाद्यात्मकं जगत्सत्त्वरजस्त- मोमूलम्। तत्र महदादिपृथिव्यन्तानां घटादिवत्परिणामित्वावि- शेषात्ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति । तेषां परिमितत्वेना परिमितजगदुपादनाशक्तेरन्यूनातिरिक्तानि • साम्यावस्था- न्यपरिमितानि सत्वरजस्तमांस्यव्यक्तप्रधानादिशब्दाभिधेया- नि जगत्कारणम् राद्धान्तस्तु-रथप्रासादादिनिर्माण- (१) अभिप्रायः' मु० ग० (२)' त्वोपपादिता'क. (३) ब्रह्मकारणत्वे शास्त्रै समाधगम्यस्य ब्रह्मणः “पा० वेदान्तदीपे हेतुभूतदादिवदचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधि- ष्टितं विचित्रजगद्रचनासममिति केवलं प्रधानमकारणम् ॥ सूत्रार्थस्तु-अनुमीयत इत्यनुमानम् । तस्याचेतनस्य प्रा- ज्ञानाधिष्ठितस्य विचित्रमंनिवेशजगद्रचनानुपपत्तेस्तन्न कार- णम् । अचेतनस्य दादेस्तद्द्वानधिष्ठितस्य रथमासादादिरच- नानुपपत्तेदर्शनात्तदधिष्ठितस्य रचनाप्रवृत्तेर्दर्शनाच चकारात्सत्त्वादीनां द्रव्यगुणत्वेन शौक्ल्यादेरिवोपादा- नकारणत्वासंभवं समुच्चिनोति । सत्त्वादयो हि कार्य- गतलाघवप्रकाशादिहेतुभूताः कारणभूतपृथिव्यादिगतास्तत्त- स्वभावविशेषाः ॥ प्रवृत्तेश्च । अनुपपत्तरिति वर्तते । प्राज्ञानाधिष्ठितस्य प्रधानस्य विचित्रजगद्रचनानुगुणप- रिस्यन्दरूपप्रवृत्त्यनुपपत्तेश्च प्रधानमकारणम् ॥ (२) पयोऽम्बुवञ्चेत्तत्रापि ॥ २ ॥ पयसोऽम्बुनश्च यथा प्राज्ञानधिष्ठितस्यैव दधिभावेन नारि- केलरसादिविचित्ररूपेण च परिणामो दृश्यते तद्वत्प्रधानस्या- पि केवलस्य जगदाकारेण परिणाम उपपद्यत इति चेत्परि- हरात । तत्रापीति । तदाप पक्षीकृतमियर्थः । यत्र रथादा- वचेतनस्य प्राज्ञाधिष्ठितत्वं दृष्टं तद्व्यतिरिक्तं हि सर्व पक्षी- योऽप्सु तिष्ठन् " इत्यादिश्रुतेस्तदपि प्राज्ञाधिष्ठि- तम् ॥ व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥ ३ ॥ सर्गव्यतिरेकेण प्रतिसर्गावस्थाया अनवस्थितिप्रसङ्गाच्च (१) इयं पङ्किः क. पुस्तक एवास्ति । (२) प्रवृत्तेश्च ।' इत्यादिग्रन्थः क० पुस्तके नास्ति । कृतमेव . .

द्वितीयाध्यायस्य प्रथमः पादः। केवलं प्रधानमकारणम् । अन्यानपेक्षत्वात्प्रधानस्य सर्वदैव सृष्टिः प्रसज्यते ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ४ ॥ धेन्वादिनोपयुक्तं हि तृणोदकादि स्वयमेव क्षीराकारेण परिणमते (१) तत्पधानमपति च वक्तुं न शक्यते । धेन्वा- दिनोपयुक्तस्यापि तृणादेः क्षीराकारेण परिणामः प्राज्ञाधि- ष्ठितत्वादेव भवतीयभ्युपेत्यम् (२)। कुतः। अन्यत्राभावात् अनडुहाझुपयुक्तस्य महीणस्य वा तृणादेः क्षीराकारेण परि- गामाभावात् ॥ पुरुषाश्मवदिति चेत्तथापि ॥ ५ ॥ प्राज्ञानधिष्ठितमाप प्रधानं चैतन्यमात्रवपुनिष्क्रियः पुरुषः स्वसंनिधिमात्रेण सर्गादौ प्रवर्तयति, यथा दृक्शक्तियुक्तो ग- मनशक्तिविकलःपगुः पुरुषोऽन्धं दृक्शक्तिविकलं मटत्ति शक्ति युक्तं स्वसंनिधानात्मवर्तयति यथा चायस्कान्ताश्मा स्वसंनिधा नादयः प्रवर्तयति तद्वदिति चेत्परिहरात । तथापीति तद्वदाप प्रधानस्य प्रत्तिनॊपपद्यते । तत्र हि पङ्गोः पुरुषस्य गम- नशक्तिविकलस्यापि मार्गोपदेशादिव्यापारः कादाचित्को दृश्यते।अन्धस्य चाक्षुषव्यापारविरहेऽपि पगूपदेशादिग्रहणा- दिश्चेतनधर्मोऽस्ति । अयस्कान्तमणेरप्यय प्रत्तो कादाचित्क- मयःसंनिधानं विद्यते । इह तु संन्निधिमात्रातिरेकी ता- दृशः कश्चिद्विशेष उभयत्रापि न विद्यते । पुरुषसंनिधा- (१) परिपूर्वान्नमेरात्मनपदं कथमिति न विद्मः । अस्ति तु शा- ङ्करादिभाष्येवप्येवं प्रयोगः । (२) 'पतिस्तु (३।१।१०९)' इति क्यपि तुक् (६।१। ७१)।' अभ्युपेतव्यम्' मु० वेदान्तदीपे नस्य निखत्वेन नित्यसर्गमसक्तिः । तथा सति प्रतिसर्गा- भावोऽ(१) पवर्गाभावश्च॥ आङ्गित्वानुपपत्तेश्च ॥ ६॥ इतश्च । गुणानामुत्कर्षापकर्षरूपाङ्गाङ्गिभावेन जगत्पत्ति- रनुमिता प्रतिसर्गावस्थायां साम्यावस्थानामेकस्योत्कर्षरूपा- ङ्गित्वानुपपत्चेश्च न संभवति । तत्राप्युत्कर्षोऽस्तीति चेत्सर्व- दासर्गप्रसगः॥ अन्यथाऽनुमित्तौ च ज्ञशक्तिवियोगात् ॥ ७॥ उक्तप्रकाराव्यतिरिक्तमकारान्तरेण प्रधानानुीमतौ च प्रधानस्य ज्ञातृत्वशक्तिवियोगाद्रचनानुपपत्त्यादयो दोषा- स्तदवस्थाः॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ८ ॥ प्रधानानुमिसभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान्न तदनुमेयम् । पुरुषस्य भोगापवर्गार्थतया हि प्रधानप्रवृत्तेः सप्र- योजनत्वम् । चैतन्यमाववपुषो निष्क्रियस्य निसं निर्विका- रस्येतरतराध्यासकृतमकृातदर्शनरूपभोगस्ताद्ववेकरूपोऽपवर्गश्च न संभवति । निर्विकारस्यैव प्रकृतिसंनिधानेन संभवतीति चेत् । उभयोनित्यत्वेन सर्वगतत्वेन संनिधानस्य निसत्वा- दपवर्गासिद्धिः । तथाविधसंनिधेरेवापवर्गत्वे भोगासिद्धिश्च ॥ विप्रतिषेधाच्चासमञ्चसम् ॥ ९ ॥ विप्रतिषिद्धं चेदं सांख्यानां दर्शनम् । प्रकृतेः परा- थतया पुरुषो द्रष्टा भोक्ताऽधिष्ठावत्याहुः । प्रकृतेश्च पुरु- षस्य भोगापवर्गार्थतया सप्रयोजनत्वं च (२) । प्रकृयैव साध- (१)प्रतिसर्गः प्रलयः। (२)' आहुः' इति सबन्धः।

द्वितीयाध्यायस्य प्रथमः पादः । १०१ नभूतया पुरुषो भोगमपवर्ग चाश्नुत इति चोक्त्वैव पुरुषश्चैतन्यमात्रवपुर्नित्योनिर्विकारो न द्रष्टा न भोक्ता न कर्तेति च (१)। अत एव पुरुषो न बध्यते न च मोक्ष- साधनमनुतिष्ठति न मुच्यत इति वदन्ति । प्रकृतिरचेतनभूतैव पुरुषसंनिधानात्पुरुषधर्म चैतन्यं स्वस्मिन्स्वधर्म कर्तृत्वं पु- रुषे चानुसंधाय बध्यते मोक्षसाधनमनुतिष्ठति मुच्यत इति चाहुः । अध्यासरूपमनुसन्धानं हि चेतनधर्मः । तथा प्रकृतिरनुपकारिणः पुरुषस्य भोगापवर्गरूपं प्रयोजनं सा- धयन्त्युपकारिणीति चाहुः । अध्यासरूपबन्धादयः पुरुष- स्यं न सन्ति चेत्कस्तस्योपकारः । एवमाद्यन्योन्यविरुद्धभा- षणादसमञ्जसम् ॥ (महद्दीर्घाधिकरणम् ।) महद्दीर्घवहा इस्वपरिमण्डलाभ्याम् (२)॥ १० ॥ कि काणादपरमाणुकारणवादः समीचीनयुक्तिमूल उत नेति संशयः ॥ समीचीनयुक्तिमूल इति पूर्वः पक्षः । अवयवसंयोगादवयव्युत्पत्तिदर्शनादवयवाल्पत्वप्राचुर्याभ्यां स- र्षमहीधरवैषम्पदर्शनाच्चावयवाल्पत्वकाष्ठाऽवश्याभ्युपगमनी- येति परमाणुसिद्धिः (३) ते कार्यानुगुण्येन चतुर्विधाः (४)प:-- (१)'आहुः' इतिसंबन्धः । (२ प्रधानकारणवादं निरस्य प्रसङ्गात्परमाणुकारणतां निरा-- चष्टे । अनुमानासिद्धत्वाविशेषादुभयोरेकज्ञानेऽपरस्मृति- निराबाधा। (३) अत्र परमाणुस्त्रसरेणोः षष्ठोऽवयवः । न च त्रसरेणावेवा- वयवधाराविश्रमोऽस्त्विति वाच्यम् । चाक्षुषद्रव्यत्वेन त्र- सरेणोः सवयवत्वात् । कपालवत्तद्वयवानामपि महदव- यवत्वेन सावयवत्वादित्याशयः ॥ (४) क्षित्यतेजोमरुत्संबन्धिन इति बोध्यम् ।

वेदान्तदीपे रमाणवो विपाकदशापन्नक्षेत्रज्ञादृष्टसचिवाः (१) परमेश्वराधिष्ठि- ता (२) व्यणुकादिक्रमेण जगदारभन्त इति॥राद्धान्तस्तु-अव- यवाः स्वकीयैः षड्राभिः पावैः संयुज्यमानाः स्वस्मान्महान्त- मवयाविनमुत्पादयन्तीति परमाणूनामपि तथैवोत्पादकत्वमभ्युपे- त्यम्।तथा सति परभाणवोऽपि सांशाः स्वकीयैरवयवैस्ते च स्व कीरिति न कचित्कारणव्यवस्थितिः॥सूत्रार्थस्तु-महद्दीर्घव- द्वा इस्वपरिमण्डलाभ्याम् । असमअसमिति वर्तते । वाशब्द- श्चार्थे । इस्वपरिमण्डलाभ्यां द्वयणुकपरमाणुभ्यां महद्दी- घवत्यणुकव्यणुकोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमस- मञ्जसम् ॥ (३) यणुकादिक्रमेणारम्भकत्वं कारणानवस्थितेरसमजसं कि- मत्रान्यदसमञ्जसमिसत्राह- उभयथाऽपि न कर्मातस्तदभावः ॥ ११ ॥ परमाणूनामाचं कर्मादृष्टकारितमित्यभ्युपगम्यते । तद- दृष्टं किमणुगतमुत क्षेत्रज्ञगतम् । उभयथाऽप्यदृष्टस्याकादाचि- कत्वेन सर्वदोत्पादकत्वप्रसङ्गात् कादाचित्कं कर्म न सं- (१) पतेन सर्गप्रवृत्तौ हेतुरुक्तः । (२) इत्थं च चेतनानधिष्ठानप्रयुक्तदोषाभावः सूचितः । (३) अयमत्र सिद्धान्तनिष्कर्षः। पूर्वोक्तपरमाणुसाधकानुमानद्व- यमप्रयोजकम् । अन्यथा षडवयवसंयोगं विनाऽवयव्युत्पादा- योगादवयवधाराऽनवस्थाप्रसङ्गः । इत्थं च त्रसरेणुपुजै- रेव निर्वाहे नातिरिक्तमवयविनमप्यभ्युपगच्छामः । नचैवं सति विशकलितेष्वपि घटावयवेषु घट इति प्रतीतिः स्या- दिति वाच्यम् । विलक्षणसंयोगविशिष्टस्यैव त्रुटिपुञ्जस्य घटादिप्रतीतिनिर्वाहकत्वाभ्युपगमात् । इत्थं च नास्माक- मतिरिक्तचित्ररूपाङ्गीकारनिर्बन्धोऽपीति ॥

द्वितीयाध्यायस्य प्रथमः पादः। . भवतीसतः कर्मणा परमाणुसंयोगाभावः । विपाकापेक्षत्वेऽपि नानाविधानन्तादृष्टानामेकदैकरूपविपाकश्च न संभवात अनुमानेनेश्वरासिद्धेरीश्वरेच्छयाऽपि नियमो न संभवति । समवायाम्युपगमाच्च साम्यादन- वस्थितेः ॥ १२ ॥ समवायाभ्युपगमाच्चासमञ्जसम्। समवायो हि जातिगुणा- दीनां द्रव्यविशेषान्प्रसपृथसिद्धिहेतुतयाऽभ्युपगम्यते । सम- वायस्यापि तथाभावे हेत्वपेक्षासाम्यादनवस्थितिः । समवा- यस्य तथाभावः स्वाभाविक इति चेत् । जातिगुणादीनामेवैष स्वभाव इति युक्तम् ॥ (१) नित्यमेव च भावात् ॥ १४ ॥ इतश्च(२) समवायसंवन्धस्य नित्यत्वाभ्युपगमात्संबन्धिनि- (१) समवायस्य वखरूपमेव संबन्ध इति न तत्र संवन्धान्तरा- पेक्षति शङ्काकाराशायः । तर्हि प्रथमं जात्यादीनां तत्त- स्वस्वरूपस्यैव संबन्धता कुतो नाभ्युपगम्यत इति सिद्धा- न्तिमतम् । इदं च समवायनानात्वमते । समवायस्यैक्ये पृथिव्यां गन्धसम्बन्धो न जल इति धीविराध्यति । (२) ननु समवायस्य स्वरूपसंबन्धेन गतार्थत्वस्वीकारेतत्तत्ख- रूपभेदेनानन्तानां सम्बन्धत्वकल्पने गौरवम्, नास्माकम, प्रत्येकजाति समवायस्यैक्यात्, एवं प्रत्येकजातीयगुणा- दि च समवायस्यैक्याभ्युपगमादिति चेन्न । प्रत्येकजाति च आधेयस्वरूपस्यैव संबन्धत्वस्य खीकारात् । गुणादिस्थले तु शुक्लं रूपं न नीलसमवेतम् तच्छुक्लं नैतच्छुक्लसंबन्धि इ- त्यादिप्रतीत्या प्रतिव्यक्ति सम्बन्धभेदोऽभ्युपगन्तव्यः । ए- वमभ्युपगमे नित्यत्वाभ्युपगमोऽपि न रुचिर इत्याह ॥ नि- त्यमेव च भावादित्यनेन ॥ LIBRARY IRANEMY CECOTIT RESEARCH १०४ चेदान्तदीपे खत्वमन्तरेण तदनुपपत्तेरवयवावयविनोरुभयोरपि नित्यमेव भावात्कार्यकारणभाव एव न सिद्धयति ॥ रूपादिसत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥ परमाणूनां नित्यत्वनिरवयवत्वादिविपर्ययश्च स्यात् । रूपादिमत्त्वात्तेषां घटादिषु रूपादिमत्सु तथा दर्शनात् । दर्श- नादेव हि भवदभिमतं परिकल्प्यते ॥ उभयथा च दोषात् ॥ १६ ॥ अनित्यत्वादिभयात्परमाणूनां रूपादिशून्यत्वे कार्यगुण- स्य कारणगुणपूर्वकत्वासिद्धिः । तत्सिद्धये रूपादिमत्त्वे चा- निसत्वादिप्रसक्तिरित्युभयथा च दोषादसमञ्जसमेव ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥ कापिलपक्षे हि श्रुतिन्यायविरुद्धेऽपि सत्कार्यवादादि कि- चिद्वदिकैः परिगृह्यते । काणादे तु कस्य चिदंशस्य वैदिकैः परिग्रहाभावादनुपपन्नत्वाच्च निःश्रेयसार्थिभिरसन्तमनपेक्षा कार्या ॥ (१) (समुदायाधिकरणम् ।) समुदाय उभयहेतुकेऽपि तदप्राप्तिः (२)॥ १८ ॥ सौगताश्चतुर्विधाः। प्रत्यक्षसिद्धस्थूलद्रव्यवादिनः केचिद्वैभाषि- काः।अन्ये पृथिव्यादिविज्ञानानुमेयस्थूलद्रव्यवादिनः।ते च सौ- त्रान्तिकाः। अपरे निरालम्बनविज्ञानमात्रसद्भावं वदन्ति योगा- (१) इदं चातिभूमि गतेनाग्रहेण । (२) एवं सदातनपरमाणुकारणतावादिनं मूकीकृत्य क्षणिकपर- माणुकारणतावादिविध्वंसनाय प्रयतते ।

द्वितीयाध्यायस्य द्वितीयः पादः । चाराः । त्रयोऽप्येते स्वाभ्युपगतवस्तुनः क्षणिकत्वं वदन्ति । अन्ये तु सर्वशून्यवादिनो माध्यमिकाः । तत्राद्ययोर्बाधार्थस- द्भावमभ्युपगच्छतोर्जगदुत्पत्तिप्रकारो लोकव्यवहारश्च किं सूप- पाद उत दुरुपपाद इति संशयः ॥ सूपपाद इति पूर्वः प- क्षः। तथा हि । पार्थिवाप्यतैजसवायवीया गन्धादियुक्ताः प- रमाणवः पृथिव्यादिरूपेण संहता भवन्ति । तेभ्यश्च श- रीरेन्द्रियविषयलक्षणसंघाताः । तत्रान्तरविज्ञानसंतानो ग्रा- हकाभिमानारूढ आत्मत्वेनावतिष्ठते । एषु क्षणिकेष्वपि स्थिरत्वादिगोचरबुद्धयाख्याविद्यया सर्वमुपपद्यत इति जग- दुत्पचिर्लोकव्यवहारश्च युज्यते ॥ राद्धान्तस्तु-क्षणध्वंसिनः परमाणवः कदा संहतो व्याप्रियन्ते । कदा संहन्यन्ते । संहतो व्याप्रियन्तस्तस्मिन्नेव क्षणे विनष्टाश्चेत्के पुनः संहन्यन्ते।कश्च वि- ज्ञानात्मा कदा कं विषयं स्पृशति। कश्च कदा कं जानाति । कश्च कदा कमर्थमुपादत्ते । स्पष्टा नष्टः स्पृश्यं च नष्टं वेदिता च नष्ठो वेद्यं च नष्टम् । कथमन्येन स्पृष्टमन्यो जानाति कथं वाऽन्येन विदितमन्य उपादत्ते । संतानैकत्वे सिद्धेऽपि संतानिभ्यः संतानस्य परमार्थतो वस्त्वन्तरत्वानभ्युपगमा- संतानैकत्वं परमार्थिकमकिंचित्करम् । स्थिरत्वाद्यविद्य- याऽपि संघातोत्पत्तिर्न संभवति । न हि शुक्तिकादिषु रज- ताद्यविद्यया शुक्तिकारजतायुत्पत्तिसंभवः । विदुषश्च पूर्वस्य न- ष्टत्वनोत्तरेणाविदुषा पूर्वविनष्टेन विदुषाऽनुसंहितार्थोपा- दानं न संभवति । संस्काराश्रयत्वेन चैकोऽर्थः स्थिरो नो- पगम्यते । अतो जगदुत्पत्तिर्लोकव्यवहारश्च दुरुपपाद एव ॥ सूत्रार्थस्तु-उभयहेतुकेऽपि समुदाये समुदायामाप्तिः। परमाणुहे- तुकः पृथिव्यादिसमुदायः, पृथिव्यादिहेतुकः शारीरेन्द्रियस- १०६ वेदान्तदीपे मुदाय इत्युभयहेतुंकोऽपि समुदायः क्षणिकत्वाभ्युपगमादुक्तेन न्यायेनं न सिध्यतीसर्थः ।। इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघात- भावानिमितत्वात् ॥ १९ ॥ यद्यपि क्षणिकाः सर्वे भावास्तथाप्यविद्यादीनामितरे- तरहेतुकत्वादुपपन्नं लोकव्यहारादिकम, अस्थिरेषु स्थिरत्वबु- द्धिरूपाविद्यया तत्र तत्र रागद्वेषादयो जायन्ते, इसेवमादि- परम्परया पुनरप्यविद्यति चक्रवत्परिवर्तत इति चेनैतदुपपद्यते । संघातभावानिमित्तत्वात् प्रविद्यायाः । यद्यप्यविद्याख्या विपरीतबुद्धिः क्षणिकं स्थिरत्वेन विषयीकराोत, तथापि तन्न वस्तुतः स्थिरं भवतीति वस्तुतः स्थिरकार्य न करो. ति अतः संघ.तभावो न सिध्यतीत्यर्थः । अस्थिरे स्थिरत्ववुद्धियुक्तस्य विज्ञानात्मनस्तदैव नष्टत्वात्कस्य रागद्वे- षादयो जायन्त इति रागद्वेषादिपरम्परा च न सिध्यतीस- भिप्रायः ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ इतश्च । उत्तरघटोत्पत्तिवेलायां पूर्वस्य विनष्टत्वादज्ञानस्यैव हेतुत्वेनाविशेषात्सर्वेषां सदोत्पत्तिः प्रसज्येत । पूर्वक्षणवर्तिनो देशस्य हेतुत्वोपगमेऽपि देशादोर्विशेषकस्य स्थिरस्यैकस्यानभ्यु- पगमा अविशेषेणोत्तरक्षणवर्तिनस्त्रैलोक्यगतस्य स- र्वस्य हेतुः स्यात् ॥ असति प्रतिज्ञोपरोधो योगपद्यमन्यथा ॥ २१ ॥ असत उत्पत्ती प्रतिज्ञाविरोधश्च भवताम् । अधिपतिसह- द्वितीयाध्यायस्य द्वितीयः पादः । कार्यादीनां विज्ञानोत्पत्तिहेतुत्वप्रतिज्ञानात् । अथैतत्परिजि- हीर्षया पूर्वघटक्षणस्तिष्ठतीत्युच्येत सदा युगपद्धटक्षणव्योप- लब्धिप्रसङ्गः । न चोपलभ्यते ॥ सतो निरन्वयाविनाशोऽपि न संभवतीत्याह- प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर- विच्छेदात् ॥ २२ ॥ प्रतिसंख्यापतिसंख्यानिरोधयोः स्थूलमूक्ष्नविनाशयोर- प्राप्तिरिसर्थः । स्थूलविनाशो मुद्राभिघातायनन्तरभाव्यपल- ब्धियोग्यः । सूक्ष्मस्तु प्रतिक्षणभाव्युपलब्ध्यनहः । तौ निर- न्वयौ न संभवतः । उत्पत्तिविनाशधर्मभागिनो द्रव्यस्यावि- च्छेदात्तदनन्यत्वमिति सत्कार्यवादस्योपपादितत्वादिसभिप्रा- यः । घटादौ कपालादिरूपावस्थया निरन्वयविनाशादर्श- नात्प्रदीपनिर्वाणेऽपि मूक्ष्मावस्थाप्राप्तिरित्यविरोधः ॥ उभयथा च दोषात् ॥ २३ ॥ उत्पन्नस्य तुच्छत्वापत्तौ तुच्छादुत्पत्तौ चेत्युभयप्रकारे च दोषा- ते न संभवतः। उत्पन्नस्य तुच्छताऽऽपत्तौ पश्चात्तुच्छ दुत्पद्यमानं जगत्तुच्छात्मकमेव भवति । मृत्सुवर्णादेरुत्पद्यमानमृत्सु- वर्णाद्यात्मकघटमुकुटादिवत् । अतस्तुच्छताऽऽपत्तिस्तदुत्पत्तिश्च न संभवतः । आकाशे चाविशेषात् ॥ २४ ॥ आकाशे तुच्छस्वरूपता न संभवाते । अबाधितमतीति- सिद्धपृथिव्यादिवदाकाशेऽप्यबाधितप्रतीतेराविशेषात् । प्रती- वेदान्तदीपे . था यते शाकाशे "अत्र श्येनः पतति, अव गृध्रः” इति श्येनादेः पतनदेशत्वेन (२)॥ अनुस्मृतेश्च ॥ २५ ॥ प्रसभिज्ञानाच्च घटादेरक्षणिकत्वम् । “तदेवेदम्" इति हि प्रसभिज्ञायते । प्रसभिज्ञा हि नामातीतवर्तमानकालवत्येकव- स्तुविषयमकं प्रत्यक्षज्ञानम् । तस्य कालद्वयसंबन्धविशिष्टमेकमेव वस्तुविषयः न च तदित्यंशः स्मरणं इदमित्यंशश्च ग्रहणं अतीतकालसंबन्धिनीन्द्रियसंप्रयोगाभावादिति वाच्यम् । त- दिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वेन स्फुरणा- द। पूर्वानुभवजनितसंस्कारसचिवेन्द्रियसंप्रयोगयुक्तपुरुषस्य त- ग्रहणमुपपद्यत एक अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम् । न च ज्वालादिवत्सादृश्यनिवन्ध- नमसाभिनेति त्वया शक्यते वक्तुम्।कालयवर्तिनोईयोः सा- दृश्यानुसंधातु तुरेकस्यानभ्युपगमात् ॥ पृथिव्यादिविज्ञानानुमेयवादी तु ज्ञाने नीलपीतादिविचि- त्राकारं दृष्ट्वा ज्ञानात्पूर्वक्षणवर्तिनं ज्ञाने स्वाकारं समर्प्य विनष्ट- मर्थमनुमिनोति तवोत्तरम्- नासतोऽदृष्टत्वात् ॥ २६ ॥ असतो धर्मिणो धर्मस्यान्यत्र संक्रमणं न संभवति । कुतः। अदृष्टत्वात्।न हि धर्मिणि विनष्टे तद्धर्मस्यान्यत्र संक्रमण कचिदृष्टम् ॥ (१) केचित्तु तादृशप्रतीतौ वायोरालोकस्य वा विषयत्वमित्या- हुः । तन्मतऽपि शब्दरूपगुणाश्रयस्य कथंतरामभावरूपत्व. मिति घोध्यामति दिक। - द्वितीयाध्यायस्य द्वितीयः पादः । १०९ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ बैभाषिकसौत्रान्तिकयोयोरपि साधारणमिदं दूषणम् । एवं सर्वभावानां क्षणिकत्वाभ्युपगमे सति उदासीनानां निष्प- यत्रानामप्यैहिकामुष्मिकसर्वार्थसिद्धिः स्यात् । प्रयत्नाद्य- नुतिष्ठतः तदानीमेव विनष्टत्वात् । संस्कारादेरपि कस्य चि- स्थिरस्यानुवर्तमानस्यानभ्युपगमात् । पश्चादागता सिदिर- हेतुकीति निष्पयनानामपि सर्वार्थसिद्धिः स्यात् ॥ (उपलब्ध्याधिकरणम् ।) नाभाव उपलब्धेः ॥ २८ ॥ योगाचाराभिमतो ज्ञानमात्रसद्भाववादः किं समीचीन- युक्तिमूल उत नेति संशयः ॥ समीचीनयुक्तिमूल इति पूर्वः पक्षः। बाह्यार्थसद्भाववादिनाऽपि तत्तदर्थज्ञानस्य प्रकाशमानत्व- मवश्याश्रयणीयम् । सर्वस्य वस्तुनः प्रकाशमानस्य स्वासाधार- णेनाकारेण प्रकाश इष्यते । तत्र घटपटादिज्ञानस्य घटपटा- द्याकार एवाकारः । अन्यथा घटायसाधारण्यं च तत्तज्ज्ञा- नस्य न संभवात । एकश्चायमाकार उपलभ्यते । स तु ज्ञानस्यैवेति तद्व्यतिरिक्तार्थसद्भावो न संभवति । तावतैव घटोऽयं ज्ञात इति व्यवहारश्चोपपद्यते । तस्य बहिरिवाव- भासो निर्मूलत्वाद्विभ्रमकृतः ॥ राद्धान्तस्तु-घटमहं जानामीति सकर्मकस्य सकर्तृकस्य ज्ञाधात्वर्थस्य छेदनादिवत्सर्वलोकसा- क्षिकमुपलभ्यमानस्य कर्तृकर्मव्यतिरेकेण केवलस्यैव सद्भावमा नुन्मत्ता को ब्रवीति । स्वासाधारणाकारश्च तत्तच्छेदनादिव- तत्तदर्थव्यवहारयोग्यताऽऽपादनाकारेणोपलभ्यते । एवं छेद- नावरप्याकारो. द्विधाभात्रनादिहेतुतयैव कर्तृगतश्चोपलभ्यते ।

वेदान्तदीपे न ह्यमूर्तानां कर्तृकर्मनिरूपणीयस्वाकाराणां कर्माकारत्वमांश्री- यते ॥ सूत्रार्थस्तु-बानव्यतिरिक्तार्थाभावो न शक्यते व- तुम् । उपलब्धे घटमहं जानामांति जानाः कर्मतया कर्तृतया चोपलब्धेः॥ वैधाच्च न सादेत् ॥ २९ ॥ स्वमज्ञानादिवच्च जागरितज्ञानानां न मिथ्यात्वम् । तद्वैध- ात् । निद्रादिकारणदोषबाधकप्रसयरहितत्वादिसर्थः । च- काराचान्यपि यथार्थानीयभिप्रायः॥ न भावोऽनुपलब्धेः ॥ ३ ॥ न केवलस्यार्थशून्यज्ञानस्य भावः संभवति । कचिदप्यनुपल- धेः । अबाधितमतीतिसिद्धस्यासद्भावे सति ज्ञानमावस्था- प्यसद्भावो न शक्यो निवायितुमिसभिमायः॥ (सर्वथाऽनुपपत्यधिकरणम् ।) सर्वथाऽनुपपत्तेश्च ॥ ३१ ॥ माध्यमिकोक्तसर्वशून्यवादः संभवति नेति संशयः॥ संभ- वतीति पूर्वः पक्षः। विज्ञानं घटपटादयश्च सर्वे भावा न सन्ति । कुतः। उत्पत्त्यनिरूपणात् । घटादिभावानां भावातावदुत्पत्ति- में संभवति । घटादिरुत्पद्यमानो हि पिण्डादिकेऽनुपमृदिते नोत्पद्यते । पश्चादभावादुत्पधमानो घटाविरभावात्मक एवं स्यादिति सर्वशून्यत्वमेव युक्तम् ॥राद्धान्तस्तु-लोके भावा- भावशब्दयोस्तबुद्धयोश्च प्रमाणेनोपलभ्यमानस्यैव वस्तुनोऽव- स्थाविशेष एवं भावरूपो विषयः । वर्तमानतयापल- द्वितीयाध्यायस्य द्वितीयः पादः । भ्यमानपृथुबुन्नोदरावस्थाविशेषो भावबुद्धिविषयः । तद्विरोध्य- स्थाविशेषोऽभावबुद्धिविषयः (१) । अतो न कुतश्चित्त्वद- भिप्रेतं तुच्छत्वं सिध्यति॥ मूत्रार्थ:-सर्वथानुपपत्तेश्च । सर्वशू- न्यवादी सदिति प्रतिज्ञाय स्वाभिप्रेतं साधयत्युतासादिति प्रतिज्ञायाथप्रकारान्तरेण । सर्वथा सर्वशून्यत्वानुपपत्तेः स्वा- भिमतासिद्धिः । सद्भावासद्भावयोर्विद्यमानवस्तुधर्मत्वोपपाद- नात् ॥ (एकस्मिन्नसंभवाधिकरणम् ।) नैकस्मिन्नसंभवात् ॥ ३२ ॥ जैनमतं युक्तिमदुत नेति संशयः ॥ युक्तिमदिति पूर्वः पक्षः । जीवाजीवशब्दाभिलपनीयभोक्तृभोग्यात्मकं जगत् । तच्च सत्त्वासत्त्वनिसत्यानित्यत्वभिन्नत्वाभिन्नत्वैरनैकान्तिकम् । षड्- द्रव्यतत्पर्यायात्मनावस्थितत्वात् । कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्वनिसत्वान्युपपन्नानि । पर्यायात्मना च विपरीतानि । पर्यायाश्च घटत्वपटत्वाद्यवस्थाविशिष्टा द्रव्यविशेषाः। द्रव्य- स्वरूपस्यकत्वात्स्थिरत्वात्सद्बुद्धिबोद्धयत्वात्तेन रूपेणैकत्वा- दियुक्तं पर्यायशब्दाभिधेयावस्थाविशिष्टानामनेकत्वादस्थिर- त्वादसद्बुद्धिबोध्यत्वात्तेन रूपेणासत्त्वानियत्वनानात्वानि यु- तानि। प्रतातिव्यवस्थाप्यत्वात्सर्वस्य वस्तुन उभयाकारप्रती- तेरुभयमुपपन्नम् ॥ राद्धान्तस्तु -एकस्य द्रव्यस्यास्तित्वना- स्तित्वादिभिरनैकान्तिकत्वमयुक्तम् । एकस्मिन्वस्तुन्यस्तित्वा- देविरुद्धस्य छायातपवद्युगपदसंभवात् । । तथाहि । द्रव्य- (१) 'तद्विरोधिपिण्डाकारकपालाकारावस्थाविशेषः प्रागभावभ्वं- सवुद्धिविषयो'क० घेदान्तदीपे स्य तद्विशेषणभूतपर्यायशब्दा(१)भिधेयावस्थाविशेषस्य च “इद- मित्यम्" इति प्रतीतेः प्रकारिप्रकारतया पृथक्पदार्थत्वात् नै- कस्मिन्विरुदमकारभूतसत्त्वासत्त्वस्वरूपधर्मसमावेशो युगपत्सं- भवति उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्र- व्यस्यानियत्वम् । तद्विपरीतं च नियत्वम् । तदेकस्मिन्कथं स- मवैबि । विरोधि धर्माश्रयत्वं च भिन्नत्वम् । तद्विरीतं चा- भिन्नत्वम् । कथं वा तदेकस्मिन्समवति । यथाऽश्वत्वम- हिषत्वयोर्युगपदेकस्मिन्नसंभवः । एकस्य पृथिवीद्रव्यस्य घटत्वा- श्रयत्वं शरावत्वाश्रयत्वं च प्रदेशभेदेन । न त्वेकेन प्रदेशेनोभया- श्रयत्वम्। यथैकस्य देवदत्तस्योत्पत्तिविनाशयोग्यत्वं कालभेदेन। न ह्येतावता यात्मकत्वमाप तु परिणामशक्तियोगमात्रम् । अ- तो न युक्तिमज्जैनमतम् ॥ सूत्रार्थस्तु-नैकस्मिन्नसंभवात् । न जैनमतं युक्तम् । कुतः। एकस्मिन्नुक्तरीसा युगपद्विरुद्धधर्मस- मावेशासंभवात् । अतः सूत्रविरुद्धं वेदान्तवादिभिराप भेदाभे- दसमाश्रयणम् (२)॥ एवं चात्माकान्य॑म् ॥ ३३ ॥ एव प्रात्मकात्स्न्यं चानुपपन्नं शरीरपरिमाणत्वे ह्यात्मनो बृहतः शरीरादल्पीयसि शरीरे प्रविशतोऽकात्स्न्य अपरिपू- र्णत्वं प्रसज्यते । तदानीमल्पपरिमाणत्वात् ॥ (१) 'पर्यायस्येत्थंशब्दा 'मु० (२) अयमर्थः । भट्टभास्करण हि जैनोक्तसत्त्वासत्त्यादि- समर्थनवदेव जगद्ब्रह्मणो दाभेदसाधनमिति सूत्रवि- रोधस्तन्मते । प्रकारान्तरेण भेदाभेदसाधनं निर्दुष्टं श्रीम- पितामहचरणैरार्षमतसंग्रहे संक्षेपतो निरूपितम् । केषु चित्पुस्तकेष्वियं पङ्क्तिास्ति ।

द्वितीयाध्यायस्य द्वितीयः पादः । न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३३ ॥ तथाविधाल्पत्वावस्थायोगेनाप्यविरोधो न संभवति । घट- पटादोरव विकारतत्प्रयुक्तदोषास्पदत्वमसङ्गात् ॥ अन्त्यावस्थितेश्चोभयनित्यत्वाद- विशेषः ॥ ३४ ॥ जीवस्य यदन्त्यं परिमाणं मोक्षस्थं तस्य पश्चादेकरूपेणा- वस्थितेस्तदेव स्वाभाविकपरिमाणमिति, प्रात्मनस्तत्परिमाण- स्य चोभयोर्नित्यत्वात्पूर्वमपि शरीरपरिमाणत्व- सिद्धिरित पूर्वावस्थायां न विशेषः । अतोऽसङ्गतमेवेदं जैन- मतम् ॥ (पशुपत्याधकरणम् ।) पत्युरसामञ्जस्यात् ॥ ३५ ।। पशुपतिमतं निःश्रेयसाथिभिरादरणीयमुत नेति संशयः॥ आदरणीयमिाते पूर्वः पक्षः । सकलपुरुषार्थसाधनावबोधित्वेन निखिलवस्तुसाक्षात्कारसमर्थपशुपतिप्रणीतत्वात् ॥राद्धान्तस्तु- अनादिनिधनाविछिन्नपाठसंप्रदायनिरस्तप्रमादादिनिखिलदोष- गंधवेदसिद्धपरापरतत्त्वव्यत्ययप्रतिपादनानिमित्तोपादानभेदा- भिधानात्सुराकुम्भस्थापनतत्स्थदेवपूजामुद्रिकाषट्कविज्ञानत- द्धारणरूपविरुद्धाचारप्रतिपादनाच्चासामञ्जस्यादनादरणी- यमिति सूत्रार्थस्तु-पत्युरसामञ्जस्यात् । नैकस्मि- न संभवादित्यतो नेत्यनुवर्तते । पत्युः पशुपतर्मतं नादर- णीयम् । कुतः । वेदविरुद्धतत्त्वाचारावबोधित्वेनासामञ्ज- स्यात् ।।

वेदान्तदीपे अधिष्ठानानुपपत्तेश्च ॥ ३६ ॥ अनुमेयेश्वराभ्युपगमेन हि प्रधानस्याधिष्ठानत्वमीश्वर- स्योच्यते । सशरीरस्यैव कुलालादेरधिष्ठानदर्शनादशरीरस्य प्रधानाधिष्ठानानुपपत्तेश्चासमञ्जसम् । सशरीरत्वाभ्युपगमेऽपि तच्छरीरस्य सावयवस्य नित्यत्वेऽनित्यत्वे च दोषः पूर्वोक्त इत्यभिमायः॥ करणवच्चेन्न भोगादिभ्यः ॥ ३७ ॥ क्षेत्रज्ञस्य स्वकरणकलेबराधिष्ठानवदुपपद्यत इति चेन्न । पुण्यापुण्यरूपकर्मनिमित्तत्वात्क्षेत्रज्ञाधिष्ठानस्येश्वरस्यापि तद्वत्त- या तत्फलभोगादिनिखिलतत्स्वभावप्रसक्तः ॥ अन्तवत्त्वमसर्वज्ञता वा ॥ ३८ ॥ वाशब्दश्चार्थे । तथा पुण्यापुण्यवत्वेऽन्तवत्वं सृष्टिसंहारा- स्पदत्वमसर्वज्ञता च प्रसज्यत इत्यसमजसमेवदम् ॥ (उत्पत्त्यसंभवाधिकरणम् ।) उत्पत्त्यसंभवात् ॥ ३९ ॥ सांख्यादिवत्पाश्चरात्रतन्त्रमप्यप्रमाणमुत नोत संशयः॥ अप्रमाणमिति पूर्वः पक्षः । “वासुदेवात्संकर्षणो नाम जीवो जाय- ते" इति श्रुतिविरुद्धजीवोत्पत्त्यादिप्रातपावनात् "चतुर्पु वेदेषु पुरुषार्थामलभमानः" इति वेदानादरश्रवणाच्च ॥ राद्धान्त- स्तु-सङ्कर्षणप्रद्युम्नानिरुद्धानां परब्रह्मभावानाम् “अजायमानो बहुधा विजायते " इति श्रुतिसिद्धेच्छावतारप्रतिपादनान क- चिच्छतिविरोधः । जीवाहङ्कारमनः शब्दाश्च तत्तच्छरीरकाणां सङ्कर्षणादीनामेवाभिधायकाः “तत्तेज ऐक्षत" इति तेजामभृ- द्वितीयाध्यायस्य द्वितीयः पादः । तिशब्दवत् । “चतुर्पु वेदेषु पुरुषार्थमलभमानः" इति चानुदि- तहोमनिन्दावत् । “ऋग्वेदं भगवोऽध्योम " इत्यारभ्य "चतुर्यु वेदेषु इतिहासं पुराणं पञ्चमम्" इत्यादिना सर्वेषु विद्यास्थानेषु चात्मवदनाभाववचनं च वक्ष्यमाणप्रशंसार्थम् । तन्त्रेऽस्मिन्वेदा- न्तोदितब्रह्मोपासनविधानाद्वेदाविरुद्ध तदर्चनाविधानाच्चावग- म्यत इति प्रमाणमेव ॥ सूत्रार्थस्तु-" न जायते म्रियते " इत्यादिश्रुतेर्जीवस्योत्पत्त्यसंभवाज्जीवोत्पीत्तवचनाच माणम् ॥ न च कर्तुः करणम् ॥ ४० ॥ सङ्कर्षणात्प्रद्युम्नसंज्ञं मन उत्पद्यते " इति मनसः कर- णस्य कर्तुर्जीवादुत्पत्तिश्च श्रुतिविरुद्धत्वान्न संभवति। " तस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति मनसो ब्रह्मण उत्पत्तिः श्रूयते ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४१ ॥ वाशब्दात्पक्षो विपरिवर्तते । विज्ञानं च तदादि च वि- ज्ञानादि ब्रह्म । सङ्कर्षणादीनां ब्रह्मभावे सति “अजायमानो इति श्रुतिसिद्धस्वेच्छावतारस्यैवात्रा- भिधानात्तदप्रतिषेधः प्रामाण्यापातिषेधः सङ्कर्षणां- दीनां जीवादिसामानाधिकरण्यनिर्देशस्तेषामाधष्ठातृतयोप- पद्यते । विप्रतिषेधाच्च ॥ ४२ ॥ अस्मिन्नपि तन्त्रे जीवोत्पत्तिविप्रतिषेधाच्चाविरुद्ध मिदं तन्त्रम् ॥ व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । बहुधा विजायते"

वेदान्तदीपे
स ह्यनादिरनन्तश्च परमार्थेन निश्चितः"॥
इति पुरुषोत्पत्तिः प्रतिषिध्यते ॥
इति श्रीभगवद्रामानुजाचार्यविरचिते वेदान्तदीपे
द्वितीयस्याध्यायस्य द्वितीयः पादः ॥
.
(वियदधिकरणम् ।)
न वियदश्रुतेः ॥ १ ॥
वियदुत्पद्यते नेति संशयः ॥ नोत्पद्यत इति पूर्वः पक्षः ।
निरवयवस्य सर्वगतस्य तस्यात्मन इवोत्पत्त्यसंभवात् । असं-
भावनीयस्य श्रवणं च न संभवति । अतस्तदुत्पत्तिश्रुतिर्गौ-
णीति ॥राद्धान्तस्तु-वियदुत्पद्यत एवोत्पत्तिश्रुतेः । अती-
न्द्रियार्थविषयया श्रुसाऽभिहितेऽर्थे निरवयवत्वादिहेतुकं ना-
नुत्पत्त्यनुमानमुदेतुमलम् । आत्मनोऽप्यनुत्पत्तिश्रुतेरेव नित्य-
त्वम् । न निरवयवत्वादिना ॥ सूत्रार्थस्तु-वियन्नोत्पद्यते ।
कुतः । अश्रुतेः। श्रुतिः श्रवणम् । असंभावनीयस्य श्रव-
णाभवात् ॥
अस्ति तु ॥ २ ॥
अस्ति तु वियदुत्पत्तिः । “आत्मन आकाशः संभूतः"
इति श्रुतेः । अतीन्द्रियाविषयया श्रुत्या
श्रुत्या प्रमाणान्तरा-
प्रतिपन्नवियदुत्पत्तिपतिपादनं संभवयेव । न “अग्निना सिञ्चे-
त्" इतिवदयोग्यमित्यर्थः ॥
गौण्यसंभवाच्छब्दाच्च ॥ ३ ॥

द्वितीयाध्यायस्य तृतीयः पादः ।
.
"तत्तेजोऽसृजत" इति प्रतिपन्नतेजःप्राथम्यविरोधान्मध्ये वि-
यदुत्पत्तिर्न संभवतीत्युत्पत्तिश्रुतिर्गौणी । वायुश्चन्तरिक्ष च-
तदमृतम्" इसमृतत्वश्रवणाच्च ॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ४ ॥
"आत्मन आकाशः संभूतः, आकाशाद्वायुः, वायोरग्निः"
इयादिषु सर्ववानुषक्तस्यैकसंभूतशब्दस्य आकाशे गौणत्वं
वाय्वादिषु मुख्यत्वं च संभवति । ब्रह्मशब्दवत् यथै-
कस्य ब्रह्मशब्दस्यैकप्रकरणे श्रूयमाणस्य तस्मादतद्ब्रह्म
नाम रूपमन्नं च जायते " इति प्रधाने गौणत्वं " तपसा ची-
यते ब्रह्म" इति ब्रह्माणि मुख्यत्वं च । श्रवणावृत्ताविधानुष
ङ्गेऽप्यभिधानावृत्तेरनुषङ्गोऽपि तत्तुल्य इत्यभिप्रायः ।।
परिहरति-
प्रतिज्ञाहानिरव्यतिरेकात् ॥ ५ ॥
"येनाश्रुतं श्रुतम्" इति ब्रह्मज्ञानेनाकाशादिसर्वविज्ञानप्र-
तिज्ञाया अहानिराकाशस्यापि ब्रह्मण उत्पत्त्या तदव्य-
तिरेकादेव भवति ॥
शब्देभ्यः ॥ ६ ॥
इतश्च। “ सदेव सोम्येदमग्र आसीत् । ऐतदात्म्यमिदम्"
इसादिभ्यो
प्राक्मृष्टेरे कत्वावधारणसर्वात्मत्व-
वादिभ्यः शब्देभ्यश्च वियदुत्पत्तिः प्रतीयते । “तत्तेजोऽसृजत"
इत्यस्मिन्वाक्ये. आकाशोत्पत्त्यवचनात्पतीयमानतेजःप्राथम्य
समानप्रकरणस्थैः प्रकरणांतरस्थैश्च शब्दैः प्रतीयमानामाका-
शोत्पत्ति न वारयतीत्यभिप्रायः ।।
यावहिकारं
तु
विभागो लोकवत् ॥ ७ ॥

वेदान्तदीपे यद्यपि छान्दोग्ये “तत्तेजोऽसृजत" इतिवदाकाशोत्पत्तिः स्वरूपेण नाभिधीयते तथापि तस्मिन्नेव ऐतदात्म्यमिदं सर्वम्"इत्याकाशादेः सर्वस्य वस्तुनो ब्रह्मविकारत्ववचानाद्या- वद्विकारं विभाग उत्पत्तिरुक्कैवेति गम्यते । लोकवत् यथा लोके सर्व एते देवदत्तपुत्रा इत्यभिधाय तेषु केषां चिदेवदत्ता- दुत्पत्तिवचनं सर्वेषां तत उत्पत्तिमदर्शनार्थमिति गम्यते । आ- काशस्यामृतत्वचनं देवादिवञ्चिरकालस्थायित्वविषयमित्य- भिप्रायः॥ एतेन मातरिश्वा व्याख्यातः ॥८॥ अनेनैव न्यायेन मातरिश्वनोऽप्युत्पत्तिरुक्ता । नायं न्या- यातिदेशः । अधिकाशङ्काभावात् । तत् "तेजोऽतस्तथा ह्याह" इति वायोस्तेजस उत्पतिं वक्तुं पृथगुपादानम् ॥ असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ तुशब्दोऽवधारणार्थः । सतः परमकारणस्य परस्यैव ब्र- ह्मण उत्पत्त्यसंभवः । तद्वयतिरिक्तस्य कृत्स्नस्य एकविज्ञा- नेन सविज्ञानप्रतिज्ञाद्यनुपपत्तेः संभव उक्त इसभिप्रायः ॥ (तेजोऽधिकरणाम् ।) तेजोऽतस्तथा ह्याह ॥ १० ॥ आकाशाद्वायुरियादिव्यवहितकार्याणि किं स्वानन्त- रादाकाशादेः केवलादुत्पद्यन्त उत तच्छरीरात्परस्माब- ह्मण इति संशयः ॥ स्वानन्तरादेवेति पूर्वः पक्षः । “आकाशा- द्वायुयोरग्निः" इति तस्मात्केवलादेवोत्पत्तिश्रवणात् । “ए- तस्माज्जायते प्राणः" इति परस्माद्ब्रह्मणः सर्वस्योत्पत्तिवा- द्वितीयाध्यायस्य तृतीयः पादः । दः परम्परयाऽप्युपपद्यते ॥ राद्धान्तस्तु-"तत्तेज ऐक्षत बहुस्या प्रजायेयेति ता आप ऐक्षन्त" इति बहुभवनसंकल्पपूर्वकसृष्टुय- पदेशात्केवलस्यैतादृशसङ्कल्पानुपपत्तेः " यस्तेजसि तिष्टन्यस्य- तेजः शरीरम्-यस्याकाशःशरीरम् " इति सर्वेषां परब्रह्मशरीर- त्वश्रवणाच्च तत्तच्छब्दवाच्यात्परस्माह्मण एव साक्षा- त्तेजःप्रभृतीनामपि सृष्टिः ॥ सूत्रार्थस्तु-अतो वायोरेव केव- लादुत्पद्यते तेजः । तथा ह्याह " वायोरग्निः" इति ॥ आपः ॥ ११ ॥ अतस्तथाह्याहेति वर्तते । अतस्तेजस एव केवलादाप उ- त्पद्यन्ते । “तदपोऽसृजत"इति ह्याह ॥ पृथिवी ॥ १२ ॥ एवं पृथिव्यद्गय उत्पद्यते। "ता अन्नममृजन्त" इति ह्याह। अन्नशब्देन कथं पृथिव्यभिधीयत इत्यत्राह- अधिकाररूपशब्दान्तरेभ्यः ॥ १३ ॥ अन्नशब्देन पृथिव्युच्यते । महाभूत वृष्टयधिकारात्पश्चादपि महाभूतरूपकीर्तने “यत्कृष्ण तदन्नस्य" इति रूपकीर्तनात् । समानप्रकरणे “ अद्यः पृथिवी" इति पृथिवीशब्दस्य श्रव- णाच्च ॥ तदभिध्यानादेव तु तलिंगात्सः ॥ १४ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । न तेजःमभृतयः केवलाः स्वा- नन्तराणां कार्याणां कारणानि । अपि तु तच्छरीरः परमात्मव । कुतः । परमात्मस्टष्टिलिङ्गात्तथाविधाभिध्यानात् । यथैव हि तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत "इति तथा “ त- वेदान्तदीपे तेज ऐक्षत बहुस्यां प्रजायेय "इति बहुभवनसङ्कल्परूपा- भिध्यानं दृश्यते । ईदृशमभिध्यानं परमात्मन एव हि सं- भवति ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १५ ॥ आकाशद्धायुः, वायोरग्निः" इति पारम्पर्यक्रमाद्विप- येण “ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि" इति सर्वेषां ब्रह्मानन्तर्यरूपो यः क्रमः स चात एव तच्छरीराद्ब्रह्मणः सृष्टे- रुपपद्यते ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १६ ॥ विज्ञानसाधनत्वेनेन्द्रियाणि प्राणश्च विज्ञानामत्यु- च्यन्ते । " एतस्माज्जायते प्राण" इसेतद्वाक्यमाकाशतन्माव- पञ्चकयोरन्तराले विज्ञानमनसी क्रमेणोत्पद्यते इसेतत्परम् । विज्ञा- नमनसी इति प्राणस्यापि प्रदर्शनाथम् । “पृथिव्यप्सु प्रलीयते" इत्यारभ्य "वायुराकाशे प्रलीयते आकाश इन्द्रियेषु इन्द्रिया- णि तन्मात्रषु तन्मात्राणि भूतादौ" इति प्रलयक्रमप्रभि- ज्ञानात्तल्लिङ्गादतो न श्रुत्यन्तरविरुद्धत्वात्साक्षाह्मणः सर्वेषां सृष्टिपरामिदं वाक्यमपि तु श्रुत्यन्तराविरुद्धपारम्पर्यक्रमपरमि- तिचेत्परिहरति । नाविशेषात् । भूततन्मात्रान्तराले विज्ञानम नसोरुत्पत्तावपि तत्तच्छरीरकब्रह्माभिधायित्वाद्भतेन्द्रियमन: प्राणराब्दानां सर्वेषां साक्षादुत्पत्त्यविशेषात्तत्परमेवेदं वा- क्यम् ॥ लोके तत्तद्वस्तुवाचितया प्रसिद्धस्य शब्दजातस्य ब्रह्माण वृत्तिरमुख्येत्याशयाह- द्वितीयाध्यायस्य तृतीयः पादः । चराचरव्यपाश्रयस्तु स्यात्तन्यपदेशोऽभाक्त- स्तद्भावभावित्वात् ॥ १७ ॥ तुशब्दः शङ्कानिवृत्त्यर्थः । स्थावरजङ्गमवस्तुव्यपाश्रय- स्तव्यपदेशस्तद्वाचिशब्दो ब्रह्मण्यभाक्तो मुख्य एव । कुतः। तद्भा- वभावित्वात् तेजः प्रभृतिष्वात्मतया ब्रह्मभावावित्वेन तेजोऽ- बन्नादिशब्दानां वाचकभावस्य । “ अनेन जीवेनात्मनाऽनुप- विश्य नामरूपे व्याकरवाणि" इति ब्रह्मात्मकस्यैव तेजाम- भृतिरूपवत्त्वमभाक्तत्वं च । अतः सर्वेऽपि तस्यैव वाचकाः। श्रा- स्मतया ब्रह्मभावभावित्वेन तत्पकारत्वातद्वााचनां शब्दाना तवैव पर्यवसानात् । प्रकारवाचिनां हि शब्दानां प्रकारिणि पर्यवसायित्वेनाभाक्तत्वं गवादिशब्देषु सिद्धम् ॥ (आत्माधिकरणम्।) नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १८ ॥ किमात्मोत्पद्यते नेति संशयः ॥ उत्पद्यत इति पूर्वः पक्षः। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानादेः । " तोयेन जीवान्व्यस- सर्ज भूभ्याम् । प्रजापतिःप्रजा असृजत" इयादिसृष्टिवचनाच्च । नित्यत्वादिश्रुतिराकाशाद्यमृतत्ववचनवन्नेया राद्धान्त- स्तु-नात्मोत्पद्यते । अनुत्पत्तिश्रुतेः “न जायते म्रियते वा वि- पश्चित् " इति जीवोत्पतिः प्रतिषिध्यते । अतो निसः । "नियो निसानां" इसादिश्रुतिभ्यो निसत्वावगमात् । जीवोत्पत्तिपक्षे- ऽकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । वैषम्यनैपुण्यप्रसङ्गाच। जी- वस्य सृष्टिवचनं भोक्तृत्वानुगुणज्ञानप्रकाशाभिप्रायम् । सृष्टेः प्रागविभागवचनं नारूपविभागाभावादुपपद्यत एव ॥ सूत्रमपि व्याख्यातम् ॥

बेदान्तदीपे (शाधिकरणम् ।) ज्ञोऽत एव ॥ १९ ॥ किं जीवः चैतन्यमात्रवपुरुत जडस्वरूप एनागन्तुकर- तन्यगुण उत ज्ञातृत्वकस्वरूप इति संशयः॥ चैतन्यमात्रवपुरित प्रथमः पक्षः । “विज्ञानं यज्ञं तनुते । यो विज्ञाने तिष्टन् । ज्ञा- नस्वरूपमसन्तनिर्मलम् " इत्यादिश्रुतिस्मृतिभ्यः ॥ द्वितीयस्तु- मुषुप्तिमूर्खादिषु सतोऽप्यात्मनश्चैतन्यानुपलब्धेर्जाग्रतोऽपीन्द्रिय- व्यापारान्वयव्यतिरेकानुविधायित्वाचैतन्यस्य "न प्रेस संज्ञा- ऽस्ति" इति मुक्तस्य चैतन्यप्रतिषेधाच्च पाषाणकल्प एवागन्तुक- चैतन्यगुणः । सर्वत्र कार्योपलब्धेः सर्वत्र सन्निधानाच्छरीरगम- नेनैव कार्यसंभवे गतिकल्पनायोगात्सर्वगतश्चेति ॥राद्धान्तस्तु- अथ यो वेदेदं जिघ्राणीति स प्रात्मा मनसैतान्कामान्पश्य- न्रमते । न पश्यो मृत्यु पश्यति, सर्व ह पश्यः पश्यति । द्रष्टा श्रोताऽऽघ्राता रसायता" इसादिश्रुतिभ्यो बद्धमुक्तोभयावस्थो ज्ञातैवात्मा । ज्ञानमावव्यपदेशस्तु ज्ञानस्य प्रधानगुणत्वा- त्स्वरूपानुबन्धित्वेन स्वरूपनिरूपकगुणत्वाज्ज्ञानवत्स्वयं प्र- काशत्वाद्वोपपद्यते । सुषप्तिमूर्छादौ सदेव ज्ञानं कर्मणा संकु- चितमनभिव्यक्तमपि जागरादौ विकसितमाभिव्यज्यत इति न- विरोधः । “न प्रेस संज्ञाऽस्ति " इति सांसारिकभेदाद्यस्मर- णविषयम् । “ नोपजनं स्मरन्निदं शरीरम् " इसादिनैकार्थ्या- त् । सर्वगतत्वम् चाणुत्वादिश्रुतविरुद्धम् ॥ सूत्रार्थस्तु-शोऽत एव । अतः श्रुतेर्सातैव ॥ उक्रान्तिगत्यागतीनाम् ॥ २० ॥ श्रुतेरित. वर्तते । “ तेन प्रद्योतेनैष आत्मा निष्क्रामाते । ये वैके चास्माल्लोकात्मयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ।

द्वितीयाध्यायस्य तृतीयः पादः ।
१२३
सवा एष
तस्माल्लोकात्पुनरेसस्मै लोकाय कर्मणे" इसाधुकान्तिगसाग
तीनां भुतेरणुर्जीवः ।।
स्वात्मना चेतरयोः ॥ २१ ॥
चशब्दोऽवधारणार्थः । यद्यप्युक्तान्तौ स्थितस्य शरीर-
विश्लेषणं कथं चित्सम्पाद्यस्ति । उत्तरयोर्गमनागमनयोः
स्वात्मनैव सम्पाद्यत्वमवश्याभ्युपेयम् ।।
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २२ ॥
# योऽयं विज्ञानमयः" इति जीवं प्रस्तुस
महानज प्रात्मा" इति महत्त्वश्रुतेर्नाणुर्जीव इति चेन्न । इतरा-
धिकारात् जीवेतरपरमात्माधिकारात् । यस्यानुवित्तः प्र-
तिबुद्ध आत्मा " इति हि मध्ये परमात्मा प्रस्तुतः ।।
स्वशब्दोन्मानाभ्यां च ॥ २३ ॥
" एषोऽणुरात्मा-यस्मिन्प्राणः पञ्चधा संविवेश"इति सा-
क्षादणुशब्दादुन्मानाच्चाणुरेव । उन्मानमुद्धृयमानम् । “आरा-
ग्रमात्रो ह्यवरोऽपि"इत्याराग्रमुद्धस तन्मानत्वं हि जीवस्य श्रूयते॥
आत्मनोऽणुपरिमाणत्वे सकलदेहव्यापवेदनाद्यनुभवः क-
थमित्यत्र मतान्तरेण परिहारमाह-
अविरोधश्चन्दनवत् ॥ २४ ॥
यथा हरिचन्दनाबन्दुर्देहेकदेशवर्सपि सकलदेहवर्तिनमा-
हादं जनयति तद्वदविरोधः ॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमा-
घृदि हि ॥ २५ ॥

घेदान्तदीपे चन्दनविन्दोर्देहैकदेशविशेषस्थित्यपेक्षस्तथाभावः, आत्म- नस्तु न तथोत चेन्न । पात्मनोऽपि तथा भावाभ्युपगमात् । हदि अयमात्मा स्थित इति श्रूयते "योऽयं विज्ञानमयः प्राणेषु हृद्य- न्तज्योतिः" इसादौ ॥ गुणाद्वाऽऽलोकवत् ॥ २६ ॥ वाशब्दो मतान्तरल्यावृत्त्यर्थः । आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः । यथा शुमणिमाणिप्रभृतीनामेक- देशवर्तिनामालोकस्तद्गुणोऽनेकदेशव्यापी दृश्यते ॥ "विज्ञानं यज्ञं तनुते" इत्यादौ ज्ञानमेवात्मेति व्यपदिश्यते तत्परिहर्तव्यं तत्राह- व्यतिरेको गन्धवत्तथा च दर्शयति ॥ २७ ॥ जानामीत्यात्मगुणत्वेन प्रतीतिव्यतिरेकोऽभ्युपगमनीयः । यथा गन्धवती पृथिवीत्युपलब्धौ गन्धस्तद्गुणस्तव्यतिरिक्तः । दर्शयति च श्रुतिः "जानासेवायं पुरुषः" इति । पृथगुपदेशात् ॥ २८ ॥ न केवलं जानामीति पृथगुपलब्धिमात्रम् । प्रात्मनः पृथ- क्त्वेनोपदिश्यते ज्ञानम् । “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते " इति ॥ विज्ञानमात्मेति व्यपदेशः कथमुपपद्यत इत्यत्राह-- तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥ ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेशः। यथा प्राज्ञः ब्रह्मणा विपश्चिता । यः सर्वज्ञः सर्ववित् " इति सर्वज्ञ एव ज्ञानगुणसारत्वात् “सत्यं ज्ञानम् " इति व्यपदिश्यते ॥ . ACADE + CEARCH , 18762 द्वितीयाध्यायस्य तृतीयः पादः । - यावदात्मभावित्वाच्च न दोषस्तद- शनात् ॥ ३० ॥ ज्ञानस्य यावदात्मस्वरूपभावित्वाच्च तेन तद्वयपदेशो न दोषः। खण्डादिषु तथा दर्शनात् । खण्डादिषु यावत्स्वरूपभावि- धर्मत्वेऽपि हिगोत्वस्य गौरियेव व्यपदेशो दृश्यते । चकारादात्म- नोऽपि स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशो न दोष इत्युच्यते ॥ मुषुप्तयादिषु ज्ञानस्यानुपत्नलब्धेन यावदात्मभावित्व- मिसाशंक्याह- पुंस्त्वादिवत्त्वस्य सतो हि व्यक्तियोगात् ॥ ३० ॥ तुशब्दः शङ्काव्यावृत्त्यर्थः । सुषुप्यादिष्वपि सतो ज्ञा- नस्यानभिव्यक्तस्य जागरादिष्वभिव्यक्तिसंभवाद्यावदात्मभावि ज्ञानम् । पुस्त्वादिवत् । पुंस्त्वमिति पुंस्त्वासाधारणधातुरुच्यते। यथा सप्तधातुत्वेन शरीरस्य वाल्येऽपि सतोऽनभिव्यक्तस्य स- समधातोर्युवत्वेऽभिव्यक्तिः ॥ एवमात्मनो ज्ञातृत्वमणुत्वं चोक्त्वा पक्षान्तरे दोषमाह- नित्योपलब्ध्यनुपलब्धिप्रसंगान्यतरानयमो वाऽन्यथा ॥ ३२ ॥ अन्यथा ज्ञानात्मवादे सर्वगतात्मवादे चोपलब्भ्यनुपल- ब्धी नियवत्प्रसज्येयाताम् । उपब्ध्यनुपलब्ध्योरन्यतरनियमो वा । ज्ञानात्मवादे तावज्ज्ञानस्य स्वप्रकाशस्वभावत्वात्मका- शपर्यायोपलन्धेनिसवत्प्रसक्तिरनिवार्या । ज्ञाने विद्यमाने सति हेत्वन्तरेणानुपलब्धिजननायोगात् ज्ञानमेवानुपलब्धेरपि हेतुरियास्थ्यम् । ज्ञानस्य सर्वदा वर्तमानत्वात्सर्वदोभयप्र- १२६ वेदान्तदीपे सक्तिः । अथ युगपद्विरुद्धकार्यजननायोगात् ज्ञान उपलब्ध्य- नुपसन्ध्योरन्यतरहेतुरास्थीयते तदाऽऽन्यतरनियमः स्यात्। स- वंगतत्वपक्षे झानात्मवादिनस्तथैव हेतुः । जन्यज्ञानवादिनोऽपि सर्वेषामात्मनां सर्वगतत्वे सर्वस्यात्मनः संयोगादेहेतोः सर्वेषामु- तरीया तथैवप्रसक्तिः । अदृष्टोत्पत्तिहेतोरपि सर्वसाधारण- स्वाददृष्टेनामि नावस्था ॥ (कत्रधिकरणम् ।) कर्ता शास्त्रार्थवत्वात् ॥ ३३ ॥ आत्मनो ज्ञातृत्ववत्कर्तृत्वमप्यस्ति नेति संशयः । प्रधा- नस्यैव कर्तृत्वादात्मनो न कर्तृत्वमस्तीति पूर्वः पक्षः । “अहं- कारीवमूढात्मा कर्ताऽहमिति मन्यते । नान्यं गुणेभ्यः क- रिं" इसादिषु गुणानामेव कर्तृत्ववचनात् ॥ राद्धान्तस्तु- स्वर्गापवर्गसाधनानुष्ठानविधानशास्राणामर्थवत्त्वाय कतैवात्मा । बोद्धरेव हि शासनं नाचेतनस्य प्रधानस्य । “यजेत उपासी- त"इति कर्तरि लकारः । अतः कर्तारमेव बोधयति शास्त्रम् ॥ सूत्रमपि व्याख्यातम् ॥ उपादानाद्विहारोपदेशाच्च ॥ ३४ ॥ उपादानादुपदिश्यमानाद्विहारोपदेशाच्च । उपदिश्यते सुपादानं विहारश्च “ एवमेष एतान्प्राणान्गृहीत्वा स्वेश- रीरे यथा कामं परिवर्तते" इति । उपादानविहारयोः कर्तृत्वोप- देशाच्च कर्ता ॥ व्यपदेशाच कियायां न चेन्निर्देशवि- पर्ययः ॥ ३५॥ "विज्ञानं यचं तनुते कर्माणि तनुतेऽपि च" इति यज्ञादि-

द्वितीयाध्यायस्य तृतीयः पादः।
१२७
कर्मस्वात्मनः कर्तृत्वव्यपदेशाच्च कर्ता । विज्ञानशब्देन ना-
स्मनो व्यपदेशोऽपि त्वन्तः करणरूपबुद्धरेवेति चेत्तथा सति
विज्ञानेनेति करणविभक्तिनिर्देशः स्यात् ।।
उपलब्धिवदनियमः ॥ ३६ ॥
प्रधानस्य कर्तृत्वेनात्मनो भोक्तृत्वमेवेति पक्षे पूर्वो-
तोपलब्ध्यनियमवत्प्रधानस्य सर्वसाधारणत्वाद्भोक्तृत्वानि-
यमः । अन्तःकरणभेदेऽपि सर्वेषामात्मनां सर्वगतत्वेन साधा-
रण्यमनिवार्यम् ॥
शक्तिविपर्ययात् ॥ ३७ ॥
बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वायोगाद्भोक्तृत्वशक्तिर-
पि बुद्धेरेवेसात्मनो भोक्तृत्वशक्तिविपर्ययो हानिरिसर्थः ॥
समाध्यभावाच्च ॥ ३८ ॥
प्रकृतेः कर्तृत्वे मोक्षसाधनभूतसमाध्यभावश्च स्यात् ।
प्रकृतेरन्योऽस्मीति समाधौ प्रकृतेः कर्तृत्वायोगात् ॥
यथा च तक्षोभयथा ॥ ३९ ॥
प्रात्मनः कर्तृत्वे हि भोगवाञ्छायां करोति अन्यथा न
करोतीत्युभयप्रकारव्यवस्थोपपद्यते । यथा तक्षा स्वकार्य इ-
छया व्यवस्थितः। बुद्धेः कर्तृत्वे तस्या इच्छाया अभावाव्य-
वस्था न सिध्यतीसभिप्रायः॥
(परायत्ताधिकरणम् ।)
परात्तु तच्छृतेः ॥ ४० ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैया
दिभ्यः ॥ ४१ ॥

૨૨૮ वेदान्तदीपे जीवस्य कर्तृत्वं किं परमात्मायत्तमुत स्वायत्त मि- ति संशयः ॥ स्वायत्तमिति पूर्वः पक्षः। विधिनि- षेधशास्त्रानर्थक्यापसक्तेः। यः स्वबुद्धथैव प्रतिनित्ति- सक्तः स एव हि नियोज्यो निग्रहानुग्रहास्पदं च भवति ॥ राद्धातस्तु-“अन्तः प्रविष्टः शास्ता जननां सर्वात्मा। य पात्मा- नमन्तरो यमयात" इसादिश्रुतेः परमात्मायत्तमेव कर्तृत्वम् । तच्च जीवेन स्वबुद्ध्या कृतं प्रयत्नमपेक्ष्य तदनुमतिदानेनेति विधि- निषेधाद्यवैयर्थ्यम् । अत एव निग्रहानुग्रहास्पदं च जीव इति ॥ सूत्रद्वयमपि व्याख्यातम् ॥ अशाधिकरणम् ।) अंशो नानाव्यपदेशादन्यथा चापि दाशकितवा- दित्वमधीयते एके ॥ ४२ ॥ कि जीवः परमात्मनोऽसन्तभिन्नः उत परमात्मैवाज्ञः अथ परमात्मवोपाधिसंबद्धः परमात्मांशो वेति संशयः ॥ असन्त- भिन्न इति प्रथमः पक्षः। पृथगात्मानं प्रेरितारं च मत्वा । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिामनीश- श्चात्मा बध्यते भोक्तृभावात् । सर्वस्य. वशी सर्वस्येशा- नः" इत्यादिभेदश्रुतेर्जीवपरमात्मनोः कर्मपरतन्त्रतातद्विपरीतत्व- श्रुतेश्च । अभेदश्रुतयो नरपतिरेव सर्वलोक इतिवदौपचारि- इति ॥ भेदश्रुतीनामविद्याविषयतयापाधिसंबंधवि- षयतया वा मुख्यत्तिसंभवात् अभेदश्रुतिमुख्यत्वायाज्ञः प- रमात्मा उपाधिसंबद्धो वा जीव इति युक्तम् ॥राद्धान्तस्तु-ना- नात्वैकत्वव्यपदेशात्परमात्मनः सत्यसङ्कल्पत्वसर्वज्ञत्वनिरक- द्यत्वश्रुतेरज्ञत्वोपाधिसंबन्धाद्यनुपपत्तेर्जीवशब्दस्य जीवशरीरक- परमात्मवाचित्वन "तत्वमसि।अयमात्मा ब्रह्म" इति सामानाधि- का द्वितीयाध्यायस्य तृतीयः पाद: । करण्यस्य मुख्यत्वात्, शरीरशरीरिणोविशेषणविशेष्यभूत- योः स्वरूपस्वभावभेदेन च भेदश्रुतेश्च मुख्यत्वात् विशिष्ट- वस्त्वेकदेशतया च विशेषणस्य परमात्मांशो जीवः । नानाव्य- देशादभेदव्यपदेशादन्यथा च भेदव्यपदेशाच्च । उक्तरीसोभयमु- ख्यत्वमियभिप्रायः । "ब्रह्म दाशा ब्रह्म दासाः" इत्यादिदाश- कितवादित्वमप्यधीयत एके शाखिनः । सर्वजीवव्यापित्वाद- भेदोपदेशस्य तत्रात्यादरः प्रतीयत इसर्थः ॥ मन्त्रवर्णात् ॥ ४३ ॥ मन्त्रवाच्चांश एव जीवः “पादोऽस्य विश्वा भूतानि " इति । पादाशब्दोंऽशवाची । अपि स्मर्यते ॥४४॥ " ममैवांशो जीवलोके जीवभूतः सनातनः" इति जी- वस्य परमात्मांशत्वं स्मर्यते च ॥ एकद्रव्यैकदेशत्वं ह्यशत्वं, अतो जीवस्य ब्रह्मैकदेशत्वेन जीवदोषा ब्रह्मदोषा एवेसाशङ्ख्याह- प्रकाशादिवत्तु नैवं परः ॥ ४५ ॥ तुशब्दः शङ्कानिवृत्त्यर्थः । प्रकाशवतां मणिमणिप्रभृती नां विशिष्टानां विशेपणभूतः प्रकाशो यथांशः तद्वज्जीवशरी- रतया जीवविशिष्टस्य ब्रह्मणोंशो जीवः । विशिष्टवस्त्वेकदेश- तया विशेषणस्य विशेषणं विशिष्टांशः । प्रादिशब्दात् द्रव्य- विशेषणतैकस्वभावजातिगुणशरीराणि गृह्यन्ते । विशेषणविशे- ध्ययोः स्वरूपस्वभावभेदाद्विशेषणभूतो जीवो यत्स्वरूपो वेदान्तदीपे यत्स्वभावश्च नैवं परः सर्वज्ञः सर्वज्ञः सससङ्कल्पो निरवद्य- श्वेसर्थः ॥ स्मरन्ति च ॥ ४६ ॥ प्रकाशादिवजीवस्यांशत्वं पराशरादयः स्मरन्ति च- "एकदेशस्थितस्याग्नेज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ।।" तथा परं प्रति शरीरत्वं च- यत्किचित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥” इति । ब्रह्मांशत्वन च सर्वेषामात्मनां समत्वाद्वेदाध्ययनादौ के- षांचिदनुज्ञा केषांचित्परिहारश्च कथमुपद्यते तवाह- अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरा- दिवत् ॥ ४७ ॥ ब्राह्मणादिशुच्यशुचिदेहसंवन्धादनुज्ञापरिहारावुपपद्यते । यथा ज्योतिषोऽग्नेरन्नस्य च शुच्यशुचिदेहसंबन्धादनुज्ञापरिहा- रौ तद्वत् (यथा श्रोत्रियागारादग्निराहियते, श्मशानादेस्तु परि- हियते, यथा चान्नादिः श्रोत्रियादेरनुज्ञायते, अभिशस्तादेश्वपरि- हियते ॥ असन्ततेश्चाव्यतिकरः ॥ ४८ ॥ जीवात्मनः प्रतिशरीरं भिन्नत्वादणुत्वेन तत्र तत्रावच्छिन्न- त्वाच्च भोगाव्यतिकरः । अज्ञब्रह्मजीववादे उपाधिसंबन्धिब्रह्म- जीववादे चाज्ञानसंबन्ध्युपाधिसबन्धि च ब्रह्मैवेति भोगव्यव- स्था न सिध्यतीत्यभिप्रायः॥

द्वितीयाध्यायस्य चतुर्थः पादः। आभासा एव च ॥ ४९ ॥ अज्ञब्रह्मजीववादे सर्वज्ञस्य ब्रह्मणोऽज्ञानकल्पनास्वरू- पतिरोधानकल्पनाहेतव प्राभासा एव । चकारान्निरवद्यत्वादि श्रुतिविरोधश्च ॥ पारमार्थिकोपाधिसंबन्धिब्रह्मजीववादे अनाद्यदृष्टप्रवाहे- णोपाधिप्रवाहानादित्वात्तत्संबन्धिान ये दोषा न ते ब्रह्माण- प्रसज्यन्त इसत ग्राह- अदृष्टानियमात् ॥ ५० ॥ अदृष्टैस्तत्कृतोपाधिभिश्च ब्रह्मणश्छेदासंभवात्तत्कृता दो. षा ब्रह्माणि भवेयुः ॥ अभिसंध्यादिष्वपि चैवम् ॥ ५१ ॥ अदृष्टहेतुभूताभिसंध्यादिष्वप्युपाधिब्रह्मव्यतिरिक्तवस्त्वं- तराभावात्पूर्वोपाधियुक्तं ब्रह्मैवेति न कश्चिद्विशेषः ॥ प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ ५२ ॥ उपाधिसंवन्धिब्रह्मप्रदेशादनुपहितब्रह्मप्रदेशो भिद्यतेऽतो व्यवस्थोति चेन्न। उपाधिषु गच्छत्सु पूर्वमनुपहितब्रह्मप्रदेशस्या- न्तर्भावात् ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे द्वितीयस्याध्यायस्य तृतीयः पादः । (प्राणोत्पत्यधिकरणम् ।) तथा प्राणाः ॥ १ ॥ किं जीववदिन्द्रियाण्यपि नोत्पद्यन्त उत वियदादिवदुत्प-

वेदान्तदीपे
“
धन्त इति संशयः ॥ नोत्पद्यन्त इति पूर्वः पक्षः । प्रलय-
कालेऽवस्थानश्रुतेः।उत्पत्तिवादा जीवोत्पत्तिवादवनेयाः। “अ-
सद्रा इदमग्र आसीत्-ऋषयो वा व ते ऽग्रे सदासीत्-पाणा वा
ऋषयः" इति हीन्द्रियाणां तदानीं स्थितिःश्रूयते ॥राद्धान्तस्तु-
प्राक्सृष्टरकत्वावधारणात् इन्द्रियाणाम्" एतस्माज्जायते प्राणो
मनः सर्वेन्द्रियाणि च " इत्युत्पत्तिश्रुतेरुत्पत्तिनिषेधनियत्ववच-
नाभावाच्च वियदादिवदुत्पद्यन्ते। प्राणा वा ऋषयः" इति
प्राणशब्दनिर्दिष्टः परमात्माऽभिधीयते ॥ सूत्रार्थः-तथा प्राणाः।
यथा जीवा नोत्पद्यन्ते तथैवेन्द्रियाण्यपि ॥
गौण्यसंभवात्तत्प्राक्श्रुतेश्च ॥ २॥
चस्त्वर्थः। तुशब्दात्पक्षो व्यावृत्तः। इन्द्रियाण्युत्पद्यन्त एव।
कुतः। तत्प्राक्श्रुतेः । तस्य परमात्मन एव प्रागवस्थानश्रुतेः“स-
देव सोम्येदमग्र आसीत् । आत्मा वा इदमेक एवाग्र आसीत् ।
एको ह वै नारायणः आसीत्" इति। प्राणशब्दस्य "प्राणाम-
भिमविशति" इति परमात्मन्यपि प्रसिद्धेः । ऋषित्वं हि द्रष्ट-
त्वम् । तत्तु तस्यैव संभवति । बहुत्वासंभवाद्वहुवचनश्रुतिौणी।
एषां प्रागवस्थानासंभवात् ॥
तत्पूर्वकत्वाद्वाचः ॥ ३ ॥
इतश्च । वाचः परमात्मव्यतिरिक्तनामधेयस्य तत्पूर्वक-
त्वात् तत्तद्वस्तुसृष्टिपूर्वकत्वात्, "तद्धेदं त_व्याकृतमासीत्तन्नाम-
रूपाभ्याम्" इत्यादिश्रुतेः, परमात्मैव तदा प्राणशब्दनिर्दिष्टः ॥
(सप्तगत्यधिकरणम् ।)
सप्त गतेर्विशेषितत्वाच ॥४॥

द्वितीयाध्यायस्य चतुर्थः पादः ।
किमिन्द्रियाणि सप्तैवोत एकादशेति संशयः॥ सप्तवे-
ति पूर्वः पक्षः। “ सप्त प्राणाः प्रभवंति"इत्यादिषु सप्तानामव
जीवेन सह संचारश्रवणात् “यदा पञ्चावतिष्ठते ज्ञानानि
मनसा सह । बुद्धिश्च" इति सप्तानामेव योगकाले ज्ञानानीति
विशेषितत्वाच्च श्रोत्रादीनि ज्ञानेन्द्रियाणि मनो बुद्धि-
श्चेति सप्तव । राद्धांतस्तु-श्रोत्रादीनि ज्ञानेन्द्रियाणि वागा-
दीनि च कर्मोन्द्रयाणि मन इत्येकादश । वाग्घस्तादीनामपि
श्रोत्रादिवत्कार्यभेदेन जीवोपकरणत्वाविशेषात् । “दशेमे पुरुषे
प्राणा आत्मैकादशः । इन्द्रियाणि दशैकं च" इत्यादिश्रुतिस्मृति-
भ्यश्च । वागादीनां जीवेन सह गमनाभावात् सप्तानामेव गति-
श्रवणम् । योगकाले विशेषणं च ज्ञानेन्द्रियाणां मनमस्तद्-
वृत्तिरूपबुद्धश्च प्राधान्यात् ॥ सूत्रार्थ:--सप्तानामेव गतिश्रव-
णात् ज्ञानानि पंच मनो बुद्धिश्चेति विशेषितत्वाच्च तानि
सप्तैव ॥
हस्तादयस्तु
स्थितेऽतो नैवम् ॥ ५ ॥
नैवं न सप्तवेद्रियाणीयर्थः । श्रोत्रादीनि ज्ञानेन्द्रियाणि
पंच हस्तादीनि च कर्मोन्द्रियाणि पंच मन इसकादश। त-
त्र श्रोवादीनि जीवेन सह शरीरांतरगमनेऽपि गच्छंत । वाग्घ-
स्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्तिविना-
शयोगीन्युपकारीणि । अतो नैवमित्यन्वयः। जीवे देहान्तर-
वस्थित एषां जीवोपकारकत्वाविशेषात् “दशेमे पुरुषे प्राणा
आत्मैकादशः" इसादिवचनाच्चेयाभिप्रायः। आत्मशब्दो मनो
वाची । इतोऽधिकव्यपदेशो मनोवृत्तिभेदविषयः ॥
(प्राणाणुत्वाधिकरणम् ।)
अणवश्च ॥ ६ ॥

वेदान्तदीपे . इन्द्रियाणि किं सर्वगतान्युताणुपरिमाणानीति संशयः ॥ सर्वगतानीति पूर्वः पक्षः त एते सर्व एव समाः सर्वेऽन- न्ताः" इति प्राणानामानन्त्यश्रवणात् ॥ राद्धान्तस्तु-"मा- णमनूकांमन्तं सर्वे प्राणा अनुक्कामन्ति " इति प्राणानामुक्का- न्तिश्रवणात्परिमितत्वे ससप्रत्यक्षत्वादणव: । आनन्सअ- तिस्तु अथ यो ह वे ताननन्तानुपास्ते " इत्युपासनविधा- नादुपासनफलबाहुल्यविषया ॥ श्रेष्टश्च ॥ ७ ॥ श्रेष्ठः प्राण उत्पद्यते । नात्र न्यायातिदेशः । अधिकाश- ङ्काभावात् । पृथग्योगकरणमुत्तरत्र चिन्तार्थ । श्रेष्टः पञ्च- वृत्तिः पाणः । श्रेष्टयं तु प्राणसंवादे तस्य श्रेष्टयाभि धानात् ॥ ( वायुक्रियाधिकरणम् ।) न वायुक्रिये पृथगुपदेशात् ॥ ८ ॥ किमयं श्रेष्टः प्राणो वायुमात्रमुत तत्क्रिया अथ वायुरेव कंचन विशेषमापन्न इति संशयः । वायुमात्रमिति पक्षः । “यः प्राणः स वायुः" इति व्यपदेशात् ।। वायुमावे प्राण- प्रसिद्धयभावादुच्छ्वासनिःश्वासरूपवायुक्रियायां प्राणप्रसिद्धेः वायोः क्रियाविशेष एव प्राण इति द्वितीयः॥राद्धान्तस्तु-नवा- युमा तक्रियामानं वा प्राणः । आप तु देहधारणयोग्यता- रूपविशेषमापन्नो एतस्माज्जायते प्राण:-खं वायुः" इति वायुप्राणयोः पृथगुत्पत्त्युपदेशात्।क्रियायाश्च पृथगुपदेशो न संभवति। तेजःप्रभृतिष्वदर्शनात्। चक्षुरादिकरणैः सह जीवोपक- रणतयोपदेशात देहेन्द्रियधारणरूपोपकाराधिक्यात् चक्षुरादि- मथमः वायुः।

द्वितीयाध्यायस्य चतुर्थः पादः । भ्यः प्राधान्यवचनाच न क्रियामात्रम् ॥ सूत्रार्थः-वायुमात्रं तक्रिया वा न प्राणः । पृथगुपदेशात् । प्राणो जायते खं वायुः इति हि पृथगुत्पत्तिरुपदिश्यते ॥ वायोः पृथगुपदिष्टतया तस्मादन्योऽयं प्राणः किमग्न्या- दिवद्भूतान्तरमियाशङ्याह- चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥ ९ ॥ तुशब्दः शङ्कानिवृत्त्यर्थः । प्राणो न भूतान्तरमापे तु वा- युरेवावस्थान्तरमापन्नः । चक्षुरादिवज्जीवोपकरणम् । तच्चो- पकरणत्वमुपकरणभूतैरिन्द्रियैः सह शिष्टयादिभ्योऽवगम्यते । शिष्टिः शासनमुपदेशः। उपदिश्यते हि अयं प्राणश्चक्षुरादि- भिः सह प्राणसंवादादिषु । तत्सजातीयत्वे हि ताज्यते । प्रा- णशब्दगृहीतेषु करणेषु अस्य " अथ यो ऽयं अथ यो ऽयं मुख्यप्राणः " इति विशेष्याभिधानमादिशब्देनोक्तं। तदाप तत्सजातीयत्वे हि भवात॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ १० ॥ करणं क्रिया। प्रकरणत्वं क्रियारहितत्वम् । जीवोपकरणभू- तस्यास्य प्राणस्य जीवोपकारक्रियारहितत्वेऽपि न दोष उ- द्भावयितुं शक्यः । यतः श्रुतिरेव तथा दर्शयति उपकारप्रकारं दर्शयात । “यस्मिन्नुकान्त इदं शरीरं पापिष्ठतरं दर्शयते स वः श्रेष्टः" इति वागादिमुख्यप्राणपयन्तं करणानि प्रसेकमभिधाय माणोक्रमणे शरीरेन्द्रियशैथिल्याभिधानात् ॥ प्राणापानादिनामविभाग एक एव प्राण इत्याह- वेदान्तदीपे पञ्चवृत्तिर्मनोवढ्यपदिश्यते ॥ ११ ॥ माणापानादिवृत्तिभेदात्प्राण एव पञ्चधा व्यपदिश्यते । मनोवत् यथैकमेव मनः कामादित्तिभेदेन तेस्तैः शब्दरभिधीयत इति श्रुतिराह "कामः संकल्पः" इत्यारभ्य “ ही रित्येतत्सर्व मन एव" इति । एवं अपानादिसमानपर्यतान् व्यपदिश्य "एतत्सर्व प्राण एव" इति व्यपदेशात् प्राण एवं पञ्चवृत्तिरिति गम्यते ॥ (श्रेष्ठाणुत्वाधिकरणम् ।) अणुश्च ॥ १२ ॥ किमयं प्राणः सर्वगतोऽथाणुरिति संशयः ॥ सर्वगत इति पूर्वः पक्षः। स एभिस्त्रिीभोकैः समः " इसादिना प्राण- स्यानन्त्यव्यपदेशात् ।। राद्धान्तस्तु-“तमुक्तामन्तं प्राणोऽनूत्क्रा- माते " इत्युत्क्रान्तिवचनादिन्द्रियवत्प्राणश्चाणुः । एवमणुत्वे निश्चिते सर्वस्य प्राणायत्तस्थितित्वेन वैभववादः ॥ सूत्रमाप- व्याख्यातम ॥ ज्याोतराद्याधिष्टानं तु तदामननात्प्राणवता शब्दात् ॥ १३ ॥ अग्न्यादीनां जीवस्य चेन्द्रियाधिष्ठानं परमात्मायत्तमिति "परात्तु तच्छृतेः" इत्युक्तमेव स्मारयात विषयव्याप्तिज्ञापनाय। प्राणवता जीवे न सह ज्योतिरादेरग्न्यादागाद्यधिष्टानं तदा- मननाद्भवति । आमननं आभिमुख्येन मननम् । तत्संकल्पादेव भवतीयर्थः। “योऽग्नौ तिष्टन-अग्निमन्तरो यमयति" इत्यादि- बाब्दात् ॥

द्वितीयाध्यायस्य चतुर्थः पादः । तस्य च नित्यत्वात् ॥ १४ ॥ सर्वेषामात्मतयाऽनुमावेश्य सर्वनियमनस्य निसत्वात्परमा- त्मनोऽवजनीयत्वादित्यर्थः। तत्सृष्ट्वा तदेवानुपाविशत्"इति श्रुतेः॥ (इन्द्रियाधिकरणम् ।) त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १५॥ किं प्राणशब्दनिर्दिष्टाः सर्वे एवेन्द्रियाणि उत श्रेष्ठव्यति- रिक्ताः प्राणा इति संशयः ॥ सर्वे एवोते पूर्वः पक्षः । सर्वे- षामावशेषेण प्राणशब्दनिर्देशात्करणत्वाच ॥ राद्धान्तस्तु-श्रेष्ठ- व्यतिरिक्ताः प्राणा इन्द्रियाणि । तेष्वेव इन्द्रियशब्दानर्दे- शात् “ इन्द्रियाणि दशैकं च " इसादौ । एषामाप प्राणशब्द- निर्देशः प्राणाधीनत्तित्वेन । तथा च श्रुतिः "त एतस्यैव सर्वे रूपमभवन् तस्मादेत एतेन व्याख्यायन्ते" इति । रूपमभवन तद- धीनवृत्तयोऽभवन् इत्यर्थः ॥ सूत्रार्थ:-श्रेष्ठावन्यन ये माणा- स्त इन्द्रियाणि तेष्वेव तव्यपदेशादिन्द्रियव्यपदेशात् ॥ भेदश्रुतेर्वैलक्षण्याच्च ॥ १६ ॥ "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति मनस इन्द्रियेभ्यो भेदेन प्राणस्योत्पत्तिश्रुतेः । इन्द्रियेषूपरतेष्व- पि प्राणवृत्तेर्दर्शनेन प्राणत्तिवैलक्षण्याच्च ॥ (संज्ञामूर्तिकलप्तचाधिकरणम् ।) संज्ञामूर्त्तिक्लूप्तिस्तु निवृत्कुर्वत उपदेशात् ॥१७॥ किं प्रपञ्चव्यष्टिस्टष्टिर्जीवभूताच्चतुर्मुखातू उत तच्छरीर- वेदान्तदीपे कात्परमात्मन एवेति संशयः ॥ केवलात् चतुर्मुखादिति पूर्वः पक्षः । " अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति व्यतिरेकश्रुतेः । जीवस्य परमात्माशत्वेन "व्याकरवाणि " इत्युत्तमपुरुषनिर्देशोऽपि कथं चिदुपपद्यते ।। राद्धान्तस्तु-"नामरूपे व्याकरवाणि तासां त्रिवृतं त्रितमैके- कं करवाणि" इति त्रिवृत्करणं कुर्वत एव नामरूपव्याक्रि- योपदेशात्परमात्मन एव नामरूपव्याकरणरूपव्यष्टिमृष्टिः । त्रिकरणं तु न चतुर्मुखेन कर्तुं शक्यम्। अण्डमृष्ट्यत्तरकाल- भावित्वाच्चतुर्मुखोत्पत्तेः । त्रिवृत्कृतरेव तेजोऽवन्नैरंडसृष्टिसं- भवाच्च । “तदंडमभवद्वैम-तस्मिन् जज्ञे स्वयं ब्रह्मा" इति हि स्मर्यते । "नानावीर्याः पृथग्भूतास्ततस्ते संहिति विना । नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥ समेसान्योन्यसंयोगं परस्परसमाश्रयाः। महदाद्या विशेषांता ह्यडमुत्पादयंतित ॥" इति । अतश्चतुर्मुखशरीरकात्परमात्मन एव व्यष्टि सृष्टिः। एवं सति व्याकरवाणीत्युत्तमपुरुषनिर्देशः संमंजसः। अनेन जीवेनेति व्य- तिरेकनिर्देशाऽपि जीवशरीरकेणात्मना इसन्वयात्समंजसः । जीवशब्दस्तेजःप्रभृतिशब्दवज्जीवशरीरक ब्रह्मवाचीति ह्यक्त- म् । जीवेनात्मनेति सामानाधिकरण्यं च मुख्यम् । "प्रविश्य नामरूपे व्याकरवाणि" इति समानकर्तृकत्वनिर्देशश्च मुख्यः॥ सूत्रार्थः---तुशब्दः पक्षव्यावृत्त्यर्थः । नामरूपक्लूप्तिः पर- मात्मन एव । कुतः । त्रिवृत्करणं कुर्वत एव नामरूप- व्याकरणापदेशात् । त्रिवृत्करणं तु परमात्मन एव क- मत्युक्तम् ॥

द्वितीयाध्यायस्य चतुर्थः पादः।
:
अन्नमशितं वेधा विधीयते " इत्यादिना चतुर्मुखसृष्टव-
स्तुषु त्रिवृत्करणप्रकारो हुपदिश्यते प्रतश्चतुर्मुखेन केवलेन
तच्छक्यमियाशक्याह-
मांसादि भौमं यथाशब्दमितरयोश्च ॥ १८ ॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणि " इति निर्दिष्टं
त्रिवृत्करणं “अन्नमशितं त्रेधा विधीयते" इत्यादिना नोपादे-
श्यते । " तस्य यः स्थविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मासं
योऽणिष्ठस्तन्मनः" इति मांसाद्यपि हि भौममेवोपदिश्यते। "अ-
नमशितं त्रेधा" इति प्रक्रमात् “अन्नमयं हि सोम्य मनः" इति वा-
क्यशेषाच्च। तेजोऽबन्नानां त्रिवृत्करणप्रकारे झुपदिश्यमाने मांस-
मनसोःपुरीषागौमादणुत्वेनाणीयस्त्वनाप्यत्वं तैजसत्वं च प्रस-
ज्यत । तथेतरयोरपि पर्याययोः"आपः पीताःतेजोऽशितम्" इति
पर्याययोस्त्रयाणां त्रयाणां भागानां यथाशब्दमाप्यत्वं तैजसत्व
मेवोपदिश्यते। तत्रापि ह्यापः पतिाः। तेजोऽशितमिति हि प्रक्रमः।
पुरीषमांसमनांसि पृथिवा विकाराः, मूत्रलोहितप्राणा अधिका-
राः,अस्थिमज्जाबाचस्तेजाोविकारा इाते प्रतिपत्तव्यम्।वाक्य शेषो-
पि"आपोमयःप्राणः तेजोमयी वाक्" इति। प्रागुक्तत्रिवृत्करण-
प्रकारे हि मूत्रमाणयोः स्थविष्टत्वाणीयस्त्वाभ्यां भौमत्वतेज-
सत्वमसक्तिः। तेजोऽशितमित्यत्रापि पूर्वयोभौमत्वाप्यत्वापत्तिः।
अतोऽत्रप्रागेव त्रिवृत्कृतस्यान्नादेः तस्यैव त्रेधा परिणाम उपाद-
श्यते। "तस्य यः स्थविष्ठो भागस्तत्पुरीषमथ यो मध्यमस्तन्मां-
सं योऽणिष्टस्तन्मनः" इति मांसाद्यपि भौममेवोपदिश्यते ॥
प्रागेव त्रिवृत्कृतं चेत्कथं केवलान्नाादेशब्दरुच्यत इयत्राह-
वैशेष्यात्तु तद्वादस्तद्वादः ॥ १९ ॥

१४०
वेदान्तदीपे
वैशेष्यं विशेषभावः । विवृत्कृतेऽप्येकैकस्मिन् तत्र तत्राना-
याधिक्यरूपविशेषभावादनादिवादः । द्विरुक्तिरध्यायपरिसमा.
प्तिद्योतना ॥
इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे द्वितीयस्याध्या-
यस्य चतुर्थः पादः । समाप्तोऽध्यायः॥

वेदान्तदीप तृतीयोऽध्यायः । (तदन्तरप्रतिपत्त्यधिकरणम् ।) तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननि- रूपणाभ्याम् ॥ १ ॥ देही देहान्तरगमने देहकारणभुतर्भूतमूक्ष्मैः संयुक्तो ग- च्छति नेति संशयः ॥ न संयुक्तो गच्छतति पूर्वः पक्षः। देहा- रंभाय तत्र भूतसूक्ष्मणां मुलभत्वात् ॥ राद्धान्तस्तु-पञ्चाग्नि- विद्यायाम् "वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भव- न्ति । इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति प्रश्नप्रतिवचनाभ्यामाद्भिर्भूतान्तरसंसृष्टाभिः सह जीवस्य गम- नं प्रतीयते इति भूतमूक्ष्मैः सहैव गच्छति ॥ सूत्रार्थस्तु-तदन्तर- प्रतिपत्तौ संज्ञामूर्तिक्लुप्तिरित्यत्र मूर्तिशब्दन देहः प्रस्तुत इति- तच्छब्देन देहः परामृश्यते । तदन्तरपतिपत्तौ देहान्तरगमने रह- ति संपरिष्ठक्तः जीवो भूतमूक्ष्मैः संपरिष्टक्तो गच्छति । कुतः। प्रश्ननिरूपणाभ्याम्"वेत्थ यथा पञ्चम्यामाहुतावापः पुरुपवचसो भवन्ति । इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" हाते हि प्रश्नपतिवचने। देहारंभिका आपः त्रिवृत्करणेन भुतान्तर- संसृष्टा छुपर्जन्यपृथिवीपुरुषामिषु जीवेन सह प्रविष्टाः पञ्च- म्यामाहुतौ योषिदग्निमवेशवेलायां पुरुषशब्दाभिलपनीया भ- वेदान्तदीपे वन्ति । पुरुषाकारतां भजन्त इत्यर्थः । अतो जीवेन सह गमनं प्रतीयते ॥ कथमप्छब्देन सर्वेषामभिधानमिसाशयाह- व्यात्मकत्वात्तु भयस्त्वात् ॥ २ ॥ तुशब्दः शङ्काव्यावृत्यर्थः । अपां त्रिवृत्करणेन यात्मक- स्वादाप इति भूतान्तरसंसृष्टा अपोऽभिधीयन्ते । अपां भूयस्त्वा- दाधिक्यादप्छदेनाभिधानम् ॥ प्राणगतेश्च ॥ ३ ॥ इतश्च भूतमूक्ष्मैः संयुक्तो याति । “तमुक्तामन्तं प्राणोऽनू- स्क्रामति पाणमनूकामन्तं सर्वे प्राणा अनूत्क्रामन्ति" इति प्राणानामिन्द्रियाणां जीवेन सह गमनश्रुतेः, इन्द्रियाणां देहा- श्रयत्वेन देहोऽपि मृक्ष्मरूपेण गच्छतीति गम्यते । स्मर्यते च मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि" इत्यादिना । न च निराश्रयाणां गतिरुपपद्यते इति तदाश्रयाणां भूतसूक्ष्मा- णां गतिरभ्युपगन्तव्या ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥ “यत्रास्य पुरुषस्य मृतस्याग्निं वागप्यति वातं प्राणश्चक्ष- रादिसम्" इति मरणवलायां वागादीनामग्न्यादिष्षप्ययश्रुते- जीवेन सह गमनश्रुतिरन्यथा नेयेति चेन्न । भाक्तत्वात् तत्र वागादिशब्दानाम्। वागाद्यभिमानिदेवतासु हि तत्र वगादयःश- ब्दाः । " ओषधीर्लोमानि वनस्पतीन्केशाः" इत्यनपियद्भिर्लो- मादिभिः सह पाठात् ॥

ACADEMYCE
तृतीयाध्यायस्य प्रथमः पादः । MELKC571431
प्रथमेऽश्रवणादिति चेन्न ता एव ह्यु-
पपत्ते : ॥ ५ ॥
प्रथमे झुलोकाग्निहोम अपामश्रवणादापो भूतान्तरसंसृष्टा
गच्छन्तीति वक्तुं न शक्यते, तब हि " तस्मिन्नेतस्मिन्नग्नौ
देवाः श्रद्धां जुह्वति" इति श्रद्धैव होम्यत्वेन श्रूयते इति चेन्न ।
ता आप एव हि श्रद्धाशब्देनोच्यन्ते । प्रतिवचनस्य प्रश्नानुगु-
ण्योपपत्तेः। " वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भ-
वन्ति " इति अपां पुरुषवचस्त्वप्रकारे पृष्टे स एव हि प्रतिव-
क्तव्यः । अनः श्रद्धाशब्देन ता आप एवोच्यन्ते । " श्रद्धा वा
प्रापः" इति श्रूयते ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
प्रापः पुरुषवचसो भवन्ति । श्रद्धां जुह्वात " इति यु-
लोकादिष्वाप एव गच्छन्तीति श्रूयते, न तत्पारष्वक्तो
जीवः, अतः प्रश्नपतिवचनयोर्जीवस्याश्रुतत्वात्तत्संयुक्तो जी-
वो गच्छनीति न शक्यं वक्तुमिति चेन्न । इष्टादिकारिणां
प्रतीतेः । उत्तरत्र “अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
धूममाभिसंभवन्ति " इत्यादौ इष्टादिकारिणां जीवानां यु-
लोकादिगमनपुनरावृत्तिप्रकारवचने धुलोकाग्निसंबद्धस्याप्छन्द-
वाच्यस्य सोममापन्नस्य प्रसभिज्ञानादत्राप इति तत्संयुक्तो
जीव एवोच्यते ॥
प्राकाशाच्चन्द्रमसमेष सोमो राजा-तं देवा भक्षयन्ति "
इति धूमादिना गतस्य देवैर्भक्ष्यमाणत्व पणात् जीवस्यान-
दनीयत्वाच न जीवस्तत्रोक्त इसाशङ्ख्याह-
भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॥ ७ ॥

वेदान्तदीपे वाशब्दः शङ्काव्यावृत्त्यर्थः । “ तं देवा भक्षयन्ति " इति भक्ष्यत्ववचनं भाक्तं केवलष्टादिकारिणामनात्मवित्वादेवोप- करणत्वाभिप्रायम् । अनात्मविदः केवलेन्द्रादिदेवयाजिनो हि देवान् प्राप्य तदुपकरणं भवन्ति । तथाहि दर्शयति श्रु- तिः यथा पशुरेवं स देवानाम् " इति । अतो भूतसूक्ष्मैः संपरिष्वक्तो जीवो रहति ॥ (कृतात्ययाधिकरम् ।) कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतम- नेवं च ॥ ८ ॥ धूमादिना गतो निवर्तमानो जीवः सानुशयो निवर्तते उत नेति मंशयः ॥ नेति पूर्वः पक्षः । अनुशयो हि भुक्तशि- ष्ट्र कर्म। “यावत्संपातमुषित्वा । पाप्यान्तं कर्मणः " इसादिश्रु- तिभ्यः कृत्स्नस्य कर्मणोऽनुभूतताप्रतीते नुशयवानिवर्तते ॥ राद्धान्तस्तु-रमणीयचरणा ब्राह्मणादियोनि कपूयचरणा: कुत्सितकर्माणः श्वशूकरादियोनिं प्रतिपद्यन्त इति श्रुतेः, "प्राप्यान्तं कर्मणः" इसादिश्रुतिः फलदानप्रवृत्तकर्मविषयेति सानुशयो निवर्तते ॥ सूत्रार्थः-कृतात्यये कृतस्य पुण्यकर्मणोऽ- त्ययेऽनुशयवान् भुक्तशिष्टकर्मवान् निवर्तते।कुतः। दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यामवगम्यते । इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापोरन्" इति श्चतिः । “त- तः परिवृत्तौ कर्मफलशेषेण जाति रूपम्" इसादिका स्मृतिः । यथेतमनेवं च प्रारोहणप्रकारेण प्रकारान्तरेण च निवर्तते । चन्द्रमसः स्थानादाकाशमियारोहणक्रमेणावरोहते। वायुधूमा- भ्रादिना प्रकारान्तरेणा च ॥ तद्य तृतीयाध्यायस्य प्रथमः पादः । चरणादिति चेन्न तदुपलक्षणार्थेति कार्णा- जिनिः ॥ ९ ॥ "रमणीयचरणा" इति रमणीयाचारस्य स्मृतिविहितस्य ब्राह्मणादिजन्ममाप्तिसाधनत्वस्मरणान्न कर्मवान्प्रत्यवरोहतीति चेन्न । चरणक्षतिः कर्मोपलक्षणाति कर्णाजिनिराचार्यों मन्यते । पुण्यस्यैव कर्मणः सुखप्राप्तिसाधनत्वात् ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ स्मृतिविहितस्याचारस्याकिंचित्करत्वेनानर्थक्यं प्रसज्यत इति चेन्न । तदपेक्षत्वादाचारापेक्षत्वात् भुखसाधनभूतपुण्यकर्म- णः। " संध्याहीनोऽशुचिनियमनहः सर्वकर्मसु " इति सर्व हि पुण्यकर्माचारापेक्षमिति काजिनिमतम् ।। सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ तुशब्दः पूर्वमतव्यावृत्त्यर्थः । रमणीयचरणा:-कपृय- चरणाः" इति चरणशब्देन सुकृतदुष्कृते एव कर्मणी प्रतिपाद्यते। पुण्यं कर्माचरति" इति चरतेः कर्माण प्रसिद्धर्न ल. क्षणा न्याय्योत वादरिमन्यते । इदमेव सूत्रकाराभिप्रेतम् । तु- शब्देन पूर्वस्माद्यावृत्तेः । मुकदुष्कृते एचति व्यावर्तनात् । "आनर्थक्यमिति चेन्न तदपेक्षत्वात्" इति तु स्वीकृतम् ।। ('अनिष्टादिकार्यधिकरणम् । ) अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥ विहिताकरणप्रतिषिद्धसेवारताः पापकर्माणोऽपि धूमादिना चन्द्रमसं मत्वा निवर्तन्ते उत नेति संशयः ॥ गत्वैव निवर्तन्त घेदान्तदीपे इति पूर्वः पक्षः। " ये वैके चास्माल्लोकात्मयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति " इति सर्वेषामविशेषेण चन्द्रगमनश्श्रुतेः ॥ राद्धान्तस्तु-" अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममाभमभवन्ति" इति धूमादिना चन्द्रगमनस्य पुण्यकर्मफ- लत्वश्रवणात् तद्रहिताः पापकर्माणो न गच्छन्तीति “ये वैके च" इति बचनं सर्वेषां पुण्यकर्मणां चन्द्रगमन विषयम् ॥ सूत्रा- थ:-अनिष्टादिकारिणामपि इष्टापूर्ताद्यकुर्वा पापिनामपि चन्द्रगमनमस्ति “ ये वैके च" इति यतोऽविशेषेण श्रुतम् ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गति- दर्शनात् ॥ १३॥ इयांस्तु विशेषः । संयमने यमशासने पापफलमनुभूयेत- रेषां पापिनां चन्द्ररोहावरोहौ। कुतः । तद्गतिदर्शनात् पापिनां यमसदनगतिदर्शनात् “वैवस्वतं संगमनं जनानाम्" इत्यादौ ॥ स्मरन्ति च ॥ १४ ॥ " सर्वे चैते वशं यान्ति यमस्य भगवन् किल" इति प- राशरादयः स्मरान्ति च ॥ अपि च सप्त ॥ १५ ॥ सप्तापि रौरवादयो लोकाः पापिनां गन्तव्यत्वेन स्म- यन्ते ॥ ननु सप्तसु लोकेषु गच्छतां कथं यमसदनमाप्तिरित्यत आह- तयापि च तद्व्यापारादाविरोधः ॥ १६ ॥ सप्तस्वाप रौरवादिलोकेषु यमव्यापारादेव गमनाचम- तृतीयाध्यापस्य प्रथमः पादः । वश्यताया अविरोधः । अतः पापिनामपि यमयातनामनुभूय चन्द्रारोहावरोहाववर्जनीयौ ॥ इति प्राप्त उच्यते- विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥ तुशब्दः पक्षव्यावृत्त्यर्थः । न पापकर्मणामार्चरादिना ब्र- ह्मगमनं धूमादिना चन्द्रगमनं च संभवति । तयार्विद्याकर्मणोः फलत्वात् । कथमवगम्यते तत्फलत्वामिति । इत्थं प्रकृतत्वाविद्या- कर्मणी हि प्रकृस तत्फलत्वेन गतिद्वयं प्रतिपाद्यते तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासते तेऽचिषमभिसंभवन्ति " इति " अथ य इमे ग्राम इष्टापूत दत्तमित्युपासते ते धूममाभिसंभवन्ति " इति च । पापिनां विद्यारहितत्वेन ब्रह्मग- मनाभाववत् पुण्यकमरोहतत्वेन चन्द्रगमनमपि न संभवती- सर्थः ॥ "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति पञ्चमा- हुसा देहारंभश्रवणात् तस्याश्चन्द्रगमनपूर्वकत्वेन पापिनामपि देहारम्भाय चन्द्रगमनमवश्य भवतीयाशङ्ख्याह- न तृतीये तथोपलब्धेः ॥ १८ ॥ केवलपापकर्माणः तृतीयस्थानम्। न तृतीय स्थाने देहारम्भा- य पञ्चमाहुत्यपेक्षाऽस्ति । तथोपलब्धेः “ वेत्थ यथा केनासौ लोको न संपूर्यते" इति धुलोकस्याप्राप्ता क इति प्रश्नस्य प्रतिव- चने " अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्य- सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्नृतीय स्थानं तेनासौ लोको न संपूर्यते" इति तृतीयस्थानस्य द्युलोकामाप्ति- श्रवणात् तस्य देहारंभे पञ्चमाहुत्यनपेक्षत्वं छुपलभ्यते ॥

चेदान्तदीप स्मयतेऽपि च लोके ॥ १९ ॥ पुण्यकर्मणामपि केषां चिद्रौपद्यादीनां देहारंभे पञ्चमा- हुसनपेक्षत्वं शिष्टलोकेऽपि स्मर्यते ॥ दर्शनाच्च ॥ २० ॥ श्रुतावाष दृश्यते केषाश्चिदेहारंभे पञ्चमाहुसनपेक्षत्वम् । " तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यंड जीवजमुद्भिज च" इति स्वोदजोगिज्जयोहारंभे पश्चमाहुस- मपेक्षत्वम् ॥ अंडजं जीवजद्भिज्जम् " इसत्र स्वेदजस्य ग्रहां न विद्यत इत्याशझ्याह- तृतीयसब्दावरोधः संशोकजस्य ॥ २३ ॥ अंड जीवजमुद्भिज्जम् " इत्यत्र तृतीयेनों- द्भिज्जशब्दन संशोकजस्य स्वेदजस्यावरोधः संग्रह इत्यर्थः । ततः केवलपापकर्मणां चन्द्रारोहावरोहौ न सं- भवतः ॥ (सत्स्वाभाव्यापत्यधिकरणम् 4.) तत्स्वाभाव्यापत्तिरुषपत्तेः ॥ २२ ॥ घूमादिना चंद्रमसं प्राप्तस्य प्रत्यवरोहनकार आम्नायते "यथेतमाकाशमाकाशाद्वायुर्यायुभूत्वा घूमो भवति धूमो भूत्यानं भवसन भृत्वा मेघो भवति मेधौ भूत्वा प्रवर्षति" इति । अत्री- काशादिभाव कि देवमनुष्यादिभाववदाकाशादिवशरीरस्वमुत तत्साहइयापत्तिरिति संशयः प्रकाशादिशासरस्वमिति पूर्व पक्षों श्रद्धाया सामरीजभाववर तंत्र हितच्छरीरवी- तृतीयाध्यायस्य प्रथमः पादः । प्राका- वोच्यते ॥ राद्धान्तस्तु-आकाशादिप्राप्तौ सुखदुःखानुभवा- भावात् तत्मादृश्यापत्तिरेव । सुखदुःखानुभवाय हि सोमा- दिशरीरत्वम् ॥ सूत्रार्थ:-तत्स्वाभाव्यापत्तिः प्राकाशादि- सादृश्यापत्तिरुपपत्तेः सुखदुःखानुभवाभावाख्योपपत्तेः ॥ (नातिचिराधिकरणम् । ) नातिचिरेण विशेषात् ॥ २३ ॥ आकाशवायुधूमाभ्रमेघवर्षप्राप्तौ किं तत्र नातिचिरं तिष्ठ- ति उतानियम इति संशयः ॥ अनियम इति पूर्वपक्षः । ना- तिचिरेणेति विशेषवचनाभावात् ।। राद्धांतस्तु-उत्तरत्र त्री- ह्यादिभावे “अतो वै खलु दुनिष्पतरम्' इति विशिष्य चिरेण गमनवचनं ततः प्राचीनेष्वचिरगमनं द्योतयतीति शादियावद्वीह्यादि प्राप्तौ नातिचिरं तिष्ठति ॥ सूत्रमपि व्याख्यातम् ॥ ( अन्याधिष्ठिताधिकरणम् ।) अन्याधिष्ठिते पर्ववदभिलापात् ॥ २४ ॥ अवरोहतो जीवा बीह्यादिभावेन जायंत इति श्रूयते " मेघो भूत्वा प्रवर्षतित इह व्रीहियवा ओषधिवनस्पतयास्तल- माषा जयन्ते " इति । ते किं व्रीह्यादिशरीरा जायन्त उ- तान्यैः क्षेत्रज्ञैः व्रीह्यादिशरीरैरधिष्ठितान्त्रीह्यादीनाश्लिष्यन्तीति संशयः ॥ जायन्त इति वचनाद्वीह्यादिशरीरभोक्तारोजायन्त एवोत पूर्वः पक्षः ॥ सद्धान्तस्तु-ब्रह्मादिजन्महेतुभूतकर्मवि- शेषाश्रवणाद्रीह्यादिसंश्लेषमात्रमेव । जायन्त इति जन्मवचनं औ- पचारिकम् । ब्राह्मणादिशरीरभावे हि रमणीयचरणा इति जन्महेतुभूतं पुण्यपापरूपं कर्म श्रूयते ॥ सूत्रार्थस्तु-अन्याधि- वेदान्तदीपे ष्ठिते अन्यक्षेत्रज्ञाधिष्ठिते ब्रीह्यादौ संश्लेषमात्रं कुतः पूर्ववदभि- लापादाकाशादिभाववत्केवलवह्यिादिभावाभिलापात् । जन्म- हेतुकर्मानभिधानादिसर्थः ॥ अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥ यद्यपि ब्रीह्यादिभावेन जायन्त इसत्र जन्महेतुकर्माश्रुतं त- थापि पूर्वश्रुतमिष्टादिकर्माग्नीषोमीयादिहिंसागर्भवेनाशुद्धं ब्री- ह्यादिजन्मनोऽपि हेतुर्भवतीत चेन्न। हिंसाभावशब्दात् । यूपे हि संज्ञप्तस्य स्वर्गावाप्तिमाधनभाववादिशब्दः श्रूयते "हिरण्यशरीर ऊर्द्धः स्वर्गलोकमेति । न वा उवेतन्नियसे न जरिष्यास" इसादि ॥ रेतःसिग्योगोऽथ ॥ २६॥ इतश्च व्रीह्यादिसंश्लेषमात्रम् । ब्रह्मादिभावानन्तरं रेतःसि- ग्योगः श्रूयते “ यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एवं भवति" इति। अत्र हि पुरुषसंश्लेषमात्रमेव श्रुतम् । एवं बाह्या- दिभावेऽपीत्याभिप्रायः ॥ योनेः शरीरम् ॥ २७ ॥ योषित्प्राप्तः पश्चादेवावरोहतो जीवस्य शरीरमाप्तिः तत्रै- व मुखदुःखोपभोगात् । ततः प्रागाकाशादिषु तत्तत्संश्लेषमात्र- मिसभिप्रायः॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे तृतीयस्याध्यायस्य प्रथमः पादः । ACADE... ME... Acc . .. EARCH 18762

तृतीयाध्यायस्य द्वितीयः पादः।
(सन्ध्याधिकरणम् ।)
संध्ये सृष्टिराह हि ॥ १ ॥
स्वप्नमधिकृत्य श्रूयते " न तत्र रथा न रथयोगा न प-
न्थानो भवान्त । अथ रथान्रथयोगान्पथः सृजते "
इत्या-
रभ्य "अथ वेशन्तान् पुष्करिण्यः स्रवन्त्यः सृजते स हि क-
र्ता" इति। किं स्वाप्नानामर्थानां स्रष्टा जीव एव उत परमात्मे-
ति संशयः ॥ स्वप्नदृशो जीवस्य सन्निधानात्स हि कति स
एव हि परमामृश्यते । जीवस्यापि सस सङ्कल्पत्वं प्रजापतिवा-
क्याोदतामति स एव स्रष्टेति पूर्वः पक्षः ॥ राद्धान्तस्तु-जीव-
स्य सत्यसंकल्पत्वादिकं स्वाभाविकमाप संसारदशायां परम-
पुरुषसंकल्पात्तिरोहितामात न जीवस्य संकल्पमात्रेण स्रष्टत्वमु-
पपद्यते । अनः पुरमपुरुष एव सकलेतरपुरुषानुभवाविषयांस्तत्त-
त्पुरुषमात्रानुभाव्यान्तत्तत्कालावसानान्स्वानार्थान्सृजति ॥ मू-
वार्थस्तु-सन्ध्ये स्वप्ने श्रुयमाणा रथादिसृष्टिः स्वप्नदशाजीवेन
कृता । कुतः । आह हि स हि कति तस्यैव परामर्शा-
दिसर्थः ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
एनमेव जीवं निर्मातारं स्वाप्नानामानामेके शाखिनोऽधी-
यते य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः"
इति । अत्र कामशब्दनिर्दिष्टाः काम्यमानतया पुत्रादय एव । चश-
ब्दोऽवधारणे । अत्र हि " सर्वान्कामान् ” इति कामशब्देन
प्रकृतान् शतायुषः पुत्रपौत्रान्वृणीष्व" इति विविनक्ति ॥
मायामानं तु कात्स्य॑नानभिव्यक्तस्वरू-
पत्वात् ॥ ३ ॥

वेदान्तदीपे तुशब्दात्पक्षो निवर्तते । न जीवन सृष्टं स्वाममर्थजातमपि तु परमेश्वरमायामात्रम् । सकलेतरपुरुषानुभवाविषयं तदेकानु- भाव्यतत्कालावसानमाश्चर्यभूतमर्थजातमीश्वरः सृजतीत्यर्थः । जीवस्य स्वतः सत्यसंकल्पत्वादेः कृत्स्नस्य संसारदशायामन- भिव्यक्तस्वरूपत्वात् तस्य हि संकल्पमावेण स्रष्टत्वं नोप- पद्यते। “कामं कामं पुरुषो निर्मिमाणः" इति परमपुरुषमेव नि- र्मातारमाह । “य एषु सुप्तेषु जागर्ति । तस्मिन् लोकाः श्रिताः सर्वे तदु नात्योति कश्चन" इति उपक्रमोपसंहारयोः परमपुरुषा- साधारणधर्मपतीतेः। स हि कर्तेति च तेनैकार्थ्यात्परमपुरुष- मेवाहु ॥ जीवस्य स्वाभाविकं चेत्सत्यसंकल्पत्वादिकं कथं नाभि- व्यज्यते इत्याशङ्ग्याह- पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्ध- विपर्ययौ ॥ ४ ॥ तुशब्दः शङ्कानिवृत्त्यर्थः । परमपुरुषाभिध्यानादस्य स्वा- भाविक स्वरूपमनादिकर्मप्रवाहेण कृतापराधतया तिरोहितम् । ततो ह्यस्य बन्धविपर्ययौ ततः परमपुरुषसंकल्पादेवं ह्यस्य बन्ध- विपर्ययौ संमारमोक्षौ श्रूयेते " को खेवन्यात्कः प्राण्याद्यदेष प्राकाश श्रानन्दो न स्यात् एष ह्येवानन्दयाति । परं ज्योति- रुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " इत्यादौ ॥ तिरोधानप्रकारमाह- देहयोगाहा सोऽपि ॥ ५ ॥ सोऽपि तिरोधानभावोऽपि देहयोगाद्वा भवति । वाशब्दो विकल्पार्थः । व्यवस्थितश्च विकल्पः । देवमनुष्यादिदेहाकारे- तृतीयाध्यायस्य द्वितीयः पादः । .. १५३ ण परिणताचिद्योगात्मृष्टिवेलायाम् नामरूपविभागानहसूक्ष्मद- शापनाचिद्योगेन प्रलयकाले ॥ सूचकश्च हि श्रुतेराचक्षते च तद्धिदः ॥ ६ ॥ इतश्च स्वाप्नरथादयो न जीवसंकल्पकृताः। यतः स्वप्नःशु- भाशुभयोः सूचक इति श्रुतेरवगतम् । यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यात । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ।। यः स्वप्ने पुरुषं कृष्णं कृष्णदन्तं च पश्यति । स एनं हन्ति " इत्यादिषु स्वप्नाध्यायविदश्चाचक्षते । जी. वसङ्कल्पकृतत्वे हि सूचकत्वं न संभवति । स्वसङ्कल्पकृतत्वे हि शुभानामेव सूचकानान्सृष्ट्वा तानेव पश्यति । अतः स्वानानां परमपुरुष एवं स्रष्टा ॥ (तदभावाविकरणम् ।) तभावो नाडीषु तच्छुतेरात्मनि च ॥ ७ ॥ नाड्यः पुरीतद्ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयते । किमेषां विकल्प उत समुच्चय इति संशयः॥ विकल्प हात पूर्वः पक्षः। "आसु तदा नाडीषु मुप्तो भवति । ताभिः प्रसवसृप्य पुरीतति शेते । सता सोम्य तदा सम्पन्नो भवति" इति त्रयाणां नैरपे- क्ष्यप्रतीतेः॥ राद्धान्तस्तु-प्रासादखट्वापर्यंकवत्कार्यभेदेन समु- च्चये संभवति पाक्षिकबाधगर्भविकल्पो न युक्त इति समुच्चयो न्यायः । तत्र पर्यंकस्थानीयं ब्रह्म । यतः पर्यकवब्रह्म साक्षात्मु- षुप्तिस्थानम् ॥ मूवार्थ:-तदभावः स्वप्नाभावः सुषुप्तिरिसर्थः । भुपुप्ति डीवात्माने । चकारात्पुरीतति च। तच्छृते त्रयाणां मुषुप्तिस्थानत्वश्रुतेः । उक्तेन न्यायेन समुच्चयो न्याय्य इस- भिप्रायः ॥

घेदान्तदीपे अतः प्रबोधोऽस्मात् ॥ ८ ॥ अस्माद्ब्रह्मणः प्रबोधश्चतिः अत एवोपपद्यते "सत आगम्य न विदुः सत आगच्छामहे " इति श्रूयते ॥ (कर्मानुस्मृतिशब्दविध्यधिकरणम् ।) स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ किं मुषुप्त एवं प्रबोधकाले उत्तिष्ठति उतान्य इति संश- यः ॥ सुषुप्तस्य सर्वोपाधिविनिर्मुक्तस्य ब्रह्माण सम्पन्नत्वेन मुक्तादविलक्षणत्वेन प्राचीनकर्मसंबन्धाभावादन्य इति पूर्वः पक्षः ॥ सुषुप्तस्य प्रारब्धकर्मासमापनाद्ब्रह्मज्ञानाभावेन पू- वकृतस्य कर्मणस्तेनैवोपभोक्तव्यत्वात् सोहामात प्रत्याभि- ज्ञानात् "त इह व्याघ्रो वा सिंहो वा इसारभ्य यद्यद्भव- न्ति तदा भवन्ति " इति शब्दान्मोक्षसाधनाविध्यानर्थक्याच्च स एवोत्तिष्ठतीति राद्धान्तः । न चासौ शरीरेन्द्रियसंबन्धवि- निर्मुक्तः किं तु कलेवरप्रवर्तनायासादाश्वासनाय ब्रह्मण्य- पीतः पुनराश्वस्तः प्रवर्तनायोत्तिष्ठतीति ॥ सूत्रमपि व्या- ख्यातम् ॥ ( मुग्धाधिकरणम् ।) मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ किं मूच्र्छा मरणादर्थान्तरमुत मरणमेवेति संशयः ॥ सर्वे- न्द्रियप्राणव्यापारोपरतर्मरणमेवोत पूर्वः पक्षः ॥ आकारवैरू- प्येण मूक्ष्मप्राणास्तित्वावगमरणायाधसम्पतिरिति राधा- न्तः॥ मूत्रार्थः मुग्धे मूच्छिते पुरुष याऽवस्था सा मूर्छा मरणा- यार्द्धमम्पत्तिः। कुतः । परिशेषात् प्राणादिसर्वव्यापारोपरतेन जागराद्यवस्था न च गतप्राणा तदाकारवैलक्ष्यण्येन मू- तनीयाध्यायस्य द्वितीयः पाद: । क्ष्ममाणास्तित्वावगतेः मूच्छितस्यैव कस्य चित्पुनजीवनदर्शनाच्च न मरणामिति परिशेषान्मरणार्धसम्पत्तिरित्यवगम्यते ॥ (उभयलिङ्गाधिकरणम् ) न स्थानतोऽपि परस्योभयलिङ्गं स- र्वत्र हि ॥ ११ ॥ जीवस्येव तदन्तर्यामिणः परस्य ब्रह्मणोऽपि जागरादि- स्थानप्रयुक्ता दोषाः संभवंत्युत नेति संशयः ॥ “यः पृथिव्यां तिष्ठन् । य प्रात्मनि तिष्ठन् । यश्चक्षुषि तिष्ठन् । यो रेतास तिष्ठ- न्" इत्यादिना जीवस्येव सर्वावस्थास्थितिवचनाच्छन्दतोड- पि पूयशोणितादिमज्जनमपुरुषार्थ एवोति सर्वे दोषाः संभव- न्तीति पूर्व: पक्षः ॥ राधान्तस्तु-"अपहतपाप्मा विजरः । निर- वा निरञ्जनम् । सत्यकामः सत्यमङ्कल्पः । यः सर्वज्ञः सर्ववित् । यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे" इत्यादिश्रुतिस्मृतिभ्यो नि- रस्तनिखिलदोषगन्धतासार्वझ्यसत्यसङ्कल्पत्वाद्युभयलक्षणस्वरू- पत्वावगतेः परस्य ब्रह्मणः सर्वत्रान्तर्यामितयाऽवस्थितस्यापि न दोषगन्धः संभवति । अपि तु सर्वनियमनरूपलीलारम ए. व ॥ सूवार्थस्तु-परस्य पृथिव्यात्मादिष्वन्तर्यामितयाऽवस्था- नतोऽपि परस्य ब्रह्मणो, जीवस्य तत्र तत्रावस्थितस्य ये दोषा उक्तास्त न संभवन्ति । उभलिङ्गं सर्वत्र हि। हि हेतौ । यतः सर्वत्र- श्रुतिस्मृतिषु निरस्तनिखिलदोषत्वसमस्तकल्याणगुणात्मक- त्वरूपोभयलिङ्गमुभयलक्षणं परं ब्रह्मावगतम् ।। भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ यथा जीवस्य स्वतोऽपहतपाप्मत्वादियुक्तस्यापि देवादि- वेदान्तदीपे शरीरसंवन्धितयाऽवस्थाभेदादुक्तदोपसंवन्धित्वमेवं परस्यापि "यस्य पृथिवी शरीरम् ” इत्यादेशरीरसंवन्धित्वावस्थाभेदात्ते दोपाः स्युरित चेन्न । प्रत्येक प्रतिपर्यायं अतद्वचनादोषासंव- धित्ववचनात् “यस्य पृथिवी शरीरम् " इत्यादिषु " एष त आत्माऽन्तर्याम्यमृतः" इसन्तर्यामिणो हि निर्दोषत्वमुच्यते । जीवस्य तु पराभिध्यानात्तत्स्वरूपं तिराोहतमित्युक्तम् । अतः शरीरसंवन्धित्वेऽपि परस्यैते न दोषाः ॥ अपि चैवमेके ॥ १३ ॥ अपि च यदिदं जीवपरयोरेकस्मिन् शरीरित्वेनावस्थित- योर्दोषसंवन्धित्वं तद्विपरीतत्वं चोक्तम् एवमेके शाखिनः स्वशब्देनाधीयते "द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्योऽभिचाक- शीति" इति ॥ मनुष्यादिशरीरेषु शरीरित्वमेव जीवस्य नामरूपभाक्त्वन कर्मवश्यताहेतुः तत्परस्याऽपि अविशिष्टं चेत्कथं परस्य ब्रह्मणो- ऽकर्मवश्यत्वेन कर्मफलानशनमुच्यत इसत आह- अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ मनुष्यादिशरीरेषु शरीरित्वेऽप्य रूपवदेव हि तत्पर ब्रह्म । कुतः । प्रधानत्वात् निर्वाहकत्वात् । जीवस्य नामरूप- भाक्त्वेन कर्मफलाशनं निर्वोढुं परस्य तच्छरीरे शरीरि- त्वेनावस्थानम् । यथाह “यस्य पृथिवी शरीरम् । यस्यात्मा श. रीरम्-य आत्मानमतरो यमयति । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा । आकाशो ह वै नामरूपयोनिहिता ते यदंतरा" इति । अत उभयलिंगमेव हि परं ब्रह्म ।

तृतीयाध्यायस्य द्वितीयः पादः । ससं ज्ञानमतं ब्रह्म" इति प्रकाशकस्वरूपता ब्रह्मण उच्यते कथमुभयलिङ्गत्वमिसाशंक्याह प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ यथा “ससं ज्ञानम्" इति वाक्यावयात् प्रकाशो ब्र- ह्मणः स्वरूपमित्यवगम्यते तथा “य: सर्वज्ञः सर्ववित् । परा- स्य शक्तिर्विविधैव श्रूयते " इयादिवाक्यावैयाकल्याण- गुणाकरत्वं च ब्रह्मणः स्वरूपमित्यवम्यते इत्युभयलिङ्गमेव॥ आह च तन्मात्रम् ॥ १६ ॥ “सयं ज्ञानम्" इति वाक्यं ब्रह्मणो झानं स्वरूपमित्येता- वन्मात्रमाह न पुनः गुणाकरत्वं निषेधति ॥ दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥ दर्शयति च वेदान्तवाक्यगणो निरस्तनिखिलदोपतां कल्याणगुणाकरत्वं च "निष्कलं निष्क्रियं शांतं निरवयं नि- रंजनम् । तमीश्वराणां परमं महेश्वरं तं देवनानां परमं च दै- वतम्" इसादिकः । स्मर्यते च " अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् " इत्यादिषु ॥ अत एव चोपमा सूर्याकाशादिवत् ॥ १८ ॥ यतो ब्रह्मणो निरस्तनिखिलदोषत्वकल्याणगुणकरत्वेन उभयलिंगत्वात् पृथिव्यादिस्थानतोऽपि न तत्तत्प्रयुक्तदोष- गंधसम्भवः अत एव शास्त्रेषु च जलमर्यादिवदित्युपमा क्रियते । " आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान्" इसादिषु ॥

वेदान्तदीपे अंबुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥ तुशब्दश्चोयं द्योतयति । अंबुनीवाग्रहणात् । यथा अंबुनि सूर्यो गृह्यते तत्रानवस्थित एव भ्रांत्या तत्रस्थ इव, तथा प. रमात्मा पृथिव्यादौ न गृह्यते । “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इति परमार्थतः स्थितो गृह्यते। अतो न तथात्वं न सूर्य- स्येव तत्प्रयुक्तषगंधाभावः परमात्मनः। परमार्थतः स्थितत्वात् ॥ परिहरति- वृद्धिदासभाक्त्वमंतीवादुभयसामंजस्यादेवं दर्शनाच्च ॥ २० ॥ पृथिव्यादिषु विषमेषु स्थितस्यापि परमात्मनस्तदंतर्भा- वात्तत्र स्थानात्तत्प्रयुक्तद्धिहासभाक्त्वं जलाधारीष्वांशु- इति दृष्टांतन निवर्त्यते । कुतोऽवगम्यत एता- वन्मात्रमिति । उभयमामंजस्यादेवं उभयदृष्टान्तोपादान- सामंजस्यादेवमवगम्यते । “आकाशमेकं हि यथा" इति घटकरकादिषु विषमेष्ववस्थितमाकाशं “जलाधारेष्विवां- शुमान्" इति चांशुमंतं परमार्थतः स्थितमनवस्थितं चोभयं ह- शान्ततयोपादाय “तथात्मैकोऽप्यनेकस्थः" इति निगमनान् त- तत्स्थानमयुक्तवृद्धिहासभाक्त्वनिवर्तनमात्रं विवक्षितमिसवग- म्यते । अन्यत्रापि दृष्टांतदाष्टातिकयोः सर्वसाम्याभावेऽपि "सिंह इव माणवकः” इत्यादिषु दृष्टांतोपादानदर्शनाच्चैवम- वगम्यते ॥ "अथात प्रादेशो नेति नेति" इत्यादिना पूर्वप्रकृतस्य मू- मूर्तप्रपञ्चस्य ब्रह्मणो रूपत्वप्रतिषेधात् निष्प्रपञ्चसन्मात्र. मेव ब्रह्म न पुनरुक्तस्वरूपमुभयलिङ्गमित्याशयाह--- मान्" तृतीयाध्यायस्य द्वितीयः पादः । प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भयः ॥ २१ ॥ हितौ । “द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्तमेव च" इत्या- दिना स्थूलस्य सूक्ष्मस्य च प्रपंचस्य ब्रह्मणो रूपतया प्र- माणांतराप्रज्ञातस्यात्रैव रूपतयोपदिष्टस्य निषेधासंभवात् प्रकृतैतावत्त्वं हि ब्रह्मणः प्रतिषेधति । पूर्वप्रकृततावन्मानं न भवति ब्रह्मेति हि "अथात आदेशो नेति" इत्यत्र प्रतिपाद्यते इ- त्यर्थः । ततो ब्रवीति च भूयः । ततः पूर्वोक्ताद्भ्यस्त्वं ब्र- वीति च वाक्यशेषः "न ह्येतस्मादिति नेत्यन्यत्परमस्ति भथ नामधेयं सत्यस्य सत्यामेति प्राणावै सत्यं तेषामेष सत्यम्" इति न इति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यन्न ह्यस्ति परम् ब्रह्मणोऽन्यत्स्व- रूपतो गुणैश्चोत्कृष्टं न ह्यस्तीत्यर्थः । “सत्यस्य सत्यम्" इति ब्रह्मणो नामधेयम् तस्य निर्वचनं "प्राणा वै सत्यं तेषामेष स- त्यम्" इति माणसाहचर्यात् जीवात्मानः प्राणाः। ते हि विय- दादिवदनुत्पाद्यत्वेन सत्याः। तेभ्योऽप्येष सत्यं ते हि कर्मानुगुण- देहयोगेन जन्मवन्तः तदप्यस्य नास्तीति तेषामेष सत्यं ज्ञानस- ङ्कोचविकासरूपावकारस्याप्यभावात् । अतः प्रमाणान्तरा- ज्ञातस्वरूपस्य ब्रह्मणो मूर्तामूर्तमपञ्चप्रकारतयोपदेशात् उमय- लिङ्गमेव । पुनरपि प्रकारविशेषोपदेशाच्च “ अथात आदेशो नति' इति पूर्वप्रकृतेयत्ता ब्रह्मणः प्रतिषिध्यत इत्यर्थः ॥ ननु च प्रत्यक्षेण निर्विशेषसन्मात्रमेव गृह्यते तदतिरिक्त सर्व भ्रान्सा प्रतीयमानं सविशेषमनूध नेति नेती निषि- ध्यत इत्यत्राह- तदव्यक्तमाह हि ॥ २२ ॥ प्रमाणान्तराज्ञाततां द्रढयति । तद्ब्रह्म न केनापि प्रमाणेन

वेदान्तदीपे
व्यक्तम् । तथा हि श्रुतिः "न संडशे तिष्ठति रूपमस्य" इत्या.
दिका । प्रत्यक्षेण गृह्यमाणमास्तित्वं घटादेरेव न ब्रह्मण
इत्यर्थः ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २३ ॥
अपि च संराधन एवोपलभ्यते । संराधनं सम्यक्पीति-
करं प्रीतियुक्तभजनम् । उपासनमिति यावत् ।उपासनरूपप्रीणनेन
विना केनापि नोपलभ्यते इति श्रुतिस्मृतिभ्यामवगम्यते ।
नायमात्मा प्रवचनेन लभ्यो "न मेधया न वहुना श्रुतेन यमेवैष
वृणुते तेन लभ्यः। नाहं वेदैर्न तपसा न दानेन न चेज्यया-भ-
त्या त्वनन्यया शक्य अहम्" इति श्रुतिस्मृती। अतः केनापि
प्रमाणेनानभिव्यक्तरूपत्वाद्रह्मणो “द्वे वाव रूपे " इत्यादि-
ना ब्रह्मणः प्रकारतयोपदिष्टं जगदैश्वर्यं नेतीति न निषिध्यते
किं तु प्रकृतेयत्तामात्रं निषिध्यते
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्य-
भ्यासात् ॥ २४ ॥
इतश्च ज्ञानानन्दवज्जगदैश्वर्यमपि ब्रह्मणो रूपम् । येर्पा
वामदेवादीनां संराधनरूपकर्मण्यभ्यासात्प्रकाशश्च सञ्जातः द-
र्शनं सञ्जातं तेषां दर्शने प्रकाशादिवत् ज्ञानादेरिव जग-
दैश्वर्यस्याप्यवैशेष्यं प्रतीयते। “तद्वैतत्पश्यन्नृषिर्वामदेवः प्रति-
येदे अहं मनुरभवं मूर्यश्च " इसादौ ।
अतोऽनंतेन तथाहि लिङ्गम् ॥ २५ ॥
अतोऽनन्तेन कल्याणगुणेन योगो ब्रह्मणः सिद्धः त.
था सत्युभयलिङ्गमेव ब्रह्म ।
उभयव्यपदेशात्त्वऽहिकुण्डलवत् ॥ २६ ॥

तृतीयाध्यायस्य द्वितीयः पादः। "द्वे वाव ब्रह्मणो रूपे" इत्यादिनोपदिष्टमचिद्वस्तुनो ब्र- मरूपत्वं किं ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति उत परास्मन् ब्रह्मण्यचिद्वस्तुान चैकजातियोगात् अथ जीववत् ब्रह्मशरीरतया ब्रह्माविशेषणत्वेनेति संशयः ॥ भिन्नाभिन्नत्व- रूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथ- मः पक्षः ॥ तथा तु सति ब्रह्मणो निर्दोषता वाध्येतयेकजा- तियोगेनेति द्वितीयपक्षः ॥ एवं सति “आत्मवेदं सर्वम् । ब्रह्मैवे- दं सर्वम् ” इति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाध: न ह्येकैव गोव्यक्तिः खण्डो गौर्मुण्डो गौः पूर्णशृङ्गो गौरियादि सर्वगोव्यक्तिवाचिशब्दैरभिधीयते, अतो जीवस्येव शरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनोऽपि ब्रह्मांशत्वमिति रा- द्धान्तः ॥ सूत्रार्थ:-तुशब्दोऽवधारणे । अहे: कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् । कुतः । नानात्वैकत्वरूपो- भयव्यपदेशात् ॥ प्रकाशाश्रयवहा तेजस्त्वात् ॥ २७ ।। वाशब्दोऽनन्तरोक्तव्यात्त्यर्थः । यथा प्रकाशतदाश्रय- योस्तजस्त्वेनैकजातियोगादभिन्नत्वं भिन्नत्वं च एवमाचिद्रह्म- णोरपि ।। पूर्ववद्वा ॥ २८ ॥ वाशब्दः पक्षद्वयव्यात्त्यर्थः । पूर्ववत् यथा पूर्वत्र "अंशो नानाव्यपदेशात् । प्रकाशादिवत्तु नैवं पर: इत्युभय- व्यपदेशोपपत्तये ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुण- शरीरवत् पृथसिद्धयनहविशेषणतया जीवस्य ब्रह्मांशत्वमुक्तम् एवं अचिरस्तुनोऽपि।अचिद्वस्तुवाचिशब्देनापि अचिद्रस्तुविशिष्ट ब्रह्मैवाभिधेयामिति "आत्मवेदं सर्वम् ।ब्रह्मैवेदं सर्वम्” इत्यभेदव्य- २१ १६२ बेदान्तदीपे पदेशोपपत्तिः । विशेषणविशेष्ययोः स्वरूपस्वभावभेदज्ञापनाय विशेषणविशेष्ययोर्भेदेन व्यपदेशश्वोपपद्यते "क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोन्यः" इत्यादिना। ब्रह्मणो निर्दोषत्वं च ॥ प्रतिषेधाच्च ॥ २९॥ स वा एष महानज प्रात्माऽजरोऽमरः।नास्य जरयैत- जीर्यति-विजरो विमृत्युः” इसादौ ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैवांशांशिभाव इत्यर्थः (पराधिकरणम् ।) परमतः सेतून्मानसंबन्धभेदव्यप- देशेभ्यः ॥ ३०॥ "यतो वा इमानि इसादिना जगज्जन्मादिकारणतया निर्दि- शात्परस्माद्ब्रह्मणोऽपि परं तत्त्वं किञ्चिदस्ति नेति संशयः॥ इतोऽ- पि परमस्तीति पूर्वः पक्षः । “अथ य आत्मा स सेतुः" इत्यस्य सेतुत्वव्यपदेशात् “एत सेतुन्ती|” इत्यस्य तरणीयत्वव्यपदेशाच्च इतोप्यन्यदस्तीति गम्यते । “चतुष्पाद्ब्रह्म । षोडशकलम्” इति पगिमितत्वव्यपदेशाच्च अपरिमितमन्यदस्तीति प्रतीयते। "अ- मृतस्यैष सेतुः" इति प्रापकत्वश्रुतेश्चानेन प्राप्यमन्यदस्तीति प्राप्यप्रापकत्वरूपसंबन्धात्मतीयते । तथा “ तेनेदं पूर्ण पुरुषेण सर्व ततो यदुत्तरतरम्” इति पुरुषशब्दनिर्दिष्टाह्मण उत्तरत्वेन भेदव्यपदेशाच्चान्यत्परमस्तीति ॥ राद्धान्तस्तु-"न ह्येतस्मा- दिति नेसन्यत्परमस्ति" इति नेति निर्दिष्टान्मूर्तामूर्तरूपाइ- मणोऽन्यत्पर नास्तीति परत्वनिषेधात् कारणाह्मणोऽन्यत्परं तृतीयाध्यायस्य द्वितीयः पादः । १ ३ चतुष्पाब्रह्म षोड- माणः य- नास्ति। सेतुत्व व्यपदेशस्तु"एषां लोकानामभेदाय" इति स- वलोकासङ्करकरत्वकृतः । एवं “सेतुं तीवा" इति तरातराप वेदान्तं तरतीतिवत्प्राप्तिवचनः । शकलम् इत्युन्मानव्यपदेशोऽपि वाक्पादः पादश्चक्षुः पाद: इतिवदुपासनार्थः । संभवति चापरिमितस्यापि तत्तद्देशसंवन्धितयोन्मितत्वानुम- न्धानम्। " अमृतस्यैष सेतुः" इति स्वस्यैवामृतस्य स्वयमेवं प्रापकमित्युच्यते " यमेवैष वृणुते तेन लभ्यः" इसादिश्रुतेः । "ततो यदुत्तरतरम्" इसपि "तेनेदं पूर्णम्" इति निर्दिष्टात्पुरु- षादन्यस्य न परत्वमाह । अपि तु “ तमेव विदित्वाऽतिमृत्यु- मेति नान्यः पन्था विद्यतेऽयनाय" इति पूर्वप्रतिज्ञातं पुरुषवेद- नस्यामृतत्वहेतुत्वमन्यस्य चापथत्वं सहेतुकमुपसंहराति स्मात्परं नापरमास्ति किञ्चित् " इसारभ्य “ तेनेदं पूर्ण पुरु- षेण सर्वम्" इति परस्य च सर्वस्मात्परत्वमन्यस्य च परत्वाभा- वं प्रतिपाद्य ततो हेतोर्यदुत्तरतरं पुरुषतत्त्वं तदेवारूपमनामयं य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति " इति पूर्वप्रतिज्ञातमेवोपसंहृतम् ॥ सूत्रार्थः-परमतः "जन्माद्यस्य यतः" इसाधारभ्य “ अतोऽनन्तेन तथा हि लिङ्गम्" इसन्तेन प्रति- पादितात् निखिलजगदेककारणात्सर्वान्तरात्मनो निरस्तनिखि- लदोषगन्धात् अनवधिकातिशयासंख्येयकल्याणगुणगणात्पर- स्माद्ब्रह्मणः परमापे किञ्चिदस्तीति कश्चिन्मन्यते । कुतः । सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । व्याख्याताश्चैते ॥ सामान्यात्तु ॥ ३१ ॥ तुशब्दः पक्षं व्यावर्तयति । सेतुत्वव्यपदेशस्तावत् तस्मा- त्परं नावममयति । सेतुसामान्यात्सादृश्याजगद्विधृतिरूपात ब्रह्म- वेदान्तदीपे अथ य णस्तथा व्यपदेश इति श्रुतिरेव सेतुशब्दं व्याचष्टे " प्रात्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय" इति । यद्यत्स्व- भावा लोकाः सृष्टास्तत्तत्स्वभावाऽसङ्कराय सर्वान लोकानयमेव सेतुवाद्विभर्तीति सेतुरिसर्थः ॥ बुद्ध्यर्थः पादवत् ॥ ३२ ॥ "चतुष्पाद् ब्रह्म । पादोऽस्य विश्वा भूतानि" इत्युन्मान- व्यपदेशस्तथा तदुपासनार्थः । “यथा वाक्पादः" इत्यादिना ब्र- ह्मणो वागादिपादव्यपदेश उपासनार्थ एवमयमपि ॥ स्वयमपरिमितस्वरूपस्यानुसन्धानार्थतयाऽपि कथं परि- मितत्वमिसत पाह- स्थानविशेषात्प्रकाशादिवत् ॥ ३३ ॥ प्रतिपनवागादिस्थानविशेषसंवन्धात्तत्तत्स्थानसंवन्धित्वे- नावच्छिद्यानुसन्धानं युज्यते । यथा प्रकाशादेविततस्यापि वातायनघटादौ ॥ उपपत्तेश्च ॥ ३४ ॥ " अमृतस्यैष सेतुः” इति स्वस्य स्वयमेव प्रापक इति सेतुव्यपदेशोपपत्तेश्चान्यत्परमस्तीति कल्पनं न युज्यते " नायमात्मा प्रवचनेन लभ्यः—यमेवैप वृणुते तेन लभ्यः" इति श्रुतेः॥ तथान्यप्रतिषेधात् ॥ ३५ ॥ " तेनेदं पूर्ण पुरुषेण सर्व ततो यदुत्तरतरम् " इति पुरुषादन्यस्य न परत्वमाह न तस्येशे कश्चन । न ह्येतस्मा- दिति नेसन्यत्परमस्ति । यस्मात्परं नापरमास्ति किञ्चित्" “ तृतीयाध्यायस्य द्वितीयः पादः। “ (यस्मादपरं परं नास्ति किञ्चित् इयर्थः।) एवमादिपु पुरुषादन्य- स्य परत्वप्रतिषेधात् । “ततो यदुत्तरतरम्” इति तु व्याख्यातम् यतः पुरुषतत्त्वमेवोत्तरतरं ततो हेतोर्यदुत्तरतरं पुरुषतत्त्वम् त- देव "अरूपमनामयम्" इसादिना । “य एतद्विदुरमृनास्ते भव- न्ति अथेतरे दुःखमेवापियन्ति" इति "तमेवं विदित्वाऽति मृत्यु- मेति नान्यः पन्था विद्यतेऽयनाय” इति प्रतिज्ञातमेव स हेतुमु- पसंहरति। “न तस्येशे कश्चन तस्य नाम महद्यशः" इति च पुरुषतत्त्वमेव वदाते । अनन्तरम् अद्भयः संभूतो हिरण्यगर्भ इत्यष्टौ" इति पुरुषतत्ववाचिनैकवाक्यतावगमात् “अभस्यपारे। यमन्तः समुद्रे कवयोऽवयन्ति " इति च प्रक्रमात् ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३६ ॥ अनेन ब्रह्मणा सर्वव्याप्तत्वं " तेनेदं पूर्ण पुरुषेण सर्वम् । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । निसं विभुं सर्वगतं मुसूक्ष्म तदव्ययं यदूतयो- निं पारपश्यन्ति इसायामशब्देभ्यो व्याप्तिवा- चिशन्देभ्योऽवगम्यते । एवं गम्यमानं एतस्मात्परं वारयतीत्य- र्थः । आदिशब्दात् "आत्मैवेदं सर्वम्” इत्यादयो गृह्यते। अतो " यतो वा इमानि" इत्यादिनाऽवगताज्जगत्कारणाद्ब्रह्मणो- ऽन्यत्परं न विद्यते ॥ (फलाधिकरणम्) फलमत उपपत्तेः : ॥ ३७ ॥ किं वेदोदितं यागदानहोमादिकमुपासनाख्यं च यजेनो- पासीतति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं क- मैवापूर्वद्वारेण भोगापवर्गरूपफलदं उत तत्तदाराधनैः पतिः वेदान्तदीपे परमपुरुष एव फलद इति संशयः ॥ कमैवेति पूर्वः पक्षः । लोके मर्दनादेः कृष्यादेश्च कर्मण एव माक्षात्प- रंपरया वा फलप्रदत्वदर्शनात् । तथा वेदे च “यजेत स्वर्गका- मः। आत्मानमेव लोकमुपासीत" इति कामिनो मुबुक्षोश्च कर्त- व्यतया श्रूयमाणं कर्म तत्तत्फलमाधनतयाऽवगतं क्षणिकमप्यपू- द्विारेण भोगापर्वरूपसर्वफलदम् ॥ राद्धान्तस्तु-कर्तव्यत- याऽवगतस्य यागादेरुपासनस्य च “यज देवपूजायाम्” इत्या- दिनाऽवगतधात्वर्थस्वाभाव्यात् वायुमेव स्वेन भागधेयेनो- पधावाते स एवैनं भूतिं गमयति” इति वाक्यशेषाच्च"इष्टापूर्त बहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः तदेवा- ग्निस्तद्वायुम्तत्सूर्यस्तदु चन्द्रमाः । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हितान् ।। अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ॥ स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ तत्प्रसादात्परां शान्तिं स्थानं प्रास्यसि शाश्वतम् इसादिश्रीतस्मृतिभ्यश्च परमपुरुष एव कभिरूपासनेन चाराधितो भोगापवर्गरूपफलप्रदः । लोके च कृष्यादिकर्म- भिः सस्यादिकमुत्पाद्य तेन भृत्यद्वारेण साक्षाद्वा राजानमभ्यर्थ्य ततः स्वापेक्षितानि लभन्ते।अतः परमपुरुष एवं फलमदः॥मूत्रा- र्थस्तु-फलमत उपपत्तेः । अतः परमपुरुषाद्ब्रह्मण एवं कर्मभि- रुपासनेन चाराधितात् भोगापवर्गरूपं फलम् ।कुतः । उपपत्तेः। कर्मभिहि क्षणध्वांसभिर्न कालान्तरभावि फलम् । स हि सर्वज्ञः सर्वशक्तिः परमकारुणिको महोदारोऽनादिरनन्तश्च सर्वे- श्वरः स्वाराधनरूपेण कर्मणाऽऽराधितः फलमद इत्युपपद्यते । " तृतीयाध्यायस्य द्वितीयः पादः । : " श्रुतत्वाच्च ॥ ३८ ॥ स वा एष महानज अात्माऽन्नादो वमुदानः । एष हो. वानन्दयाति इति भोगापवर्गरूपं फलमयमेव ददातीति श्रूयते ॥ धर्म जैमिनिरत एव ॥ ३९ ॥ यागादिकमुपासनात्मकं च धर्ममेव फलप्रदं जैमिनिराचार्यों मन्यते ।अत एवोपपत्तेः श्रुतत्वाच्चेत्यर्थः। लोके कृष्यादेर्मर्दनादे- श्च कर्मण एव साक्षात्परंपरया वा फलप्रदायित्वदर्शनात् वे- देऽपि तथैव युक्तमित्युपपत्तिः। उपपद्यते चापूर्वद्वारेण साध- नत्वम् । “यजेत स्वर्गकामः । ब्रह्मविदापोते परम्” इति कामिनः कर्तव्यतया कर्मविधानात्तदन्यथा ऽनुपपत्त्या कमैवापूर्वद्वारेण फलसाधनमिति गम्यते ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ ४० ॥ तुशब्दः पक्षव्यात्त्यर्थः । पूर्वोक्तपरमपुरुषस्यैव फलप्रद- त्वं भगवान् वादरायणो मन्यते । कुतः । हेतुव्यपदेशात् “वा- युमेव स्वेन भागधेये नोपधावति स एवैनं भूतिं गमयाते ” इति वाय्वाद्यात्मनाऽवस्थितस्य परमपुरुपस्यैव फलप्रदत्वव्यपदेशात्। “यो वायौ तिष्ठन्” इति च वाय्वाद्यात्मना स एवावस्थित इति श्रूयते । तत्परित्यागेनापूर्वस्य फलसाधनत्वकल्पने श्रुतहान- मश्रुतकल्पनं च । विध्यपेक्षिते फलसाधनत्वप्रकारे वाक्यशे- घेणावगते सति न फलसाधनत्वप्रकारकल्पनं न्याय्यम् । यथैव हि रात्रिसवादिष्वधिकारी न कल्प्यते इसर्थः ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे तृतीयाध्यायस्य द्वितीयः पादः ।

घेदान्तदीपे ( सर्ववेदान्तप्रत्ययाधिकरणम् ।) सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥ कि सर्वेषु वेदान्तेषु श्रूयमाणा दहरादिविद्यैकैव उत वि- द्यान्तरामात संशयः॥ अविशेपेण पुनः श्रवणस्य प्रकरणान्त- रस्य च विद्याभेदहेतुत्वाद्विद्यान्तरमिति पूर्वः पक्षः ॥ चोदना- फलसंयोगरूपाख्यानामावशेषात् प्रतिपत्तभेदेन पुनः श्रवणो- पपत्तेः तत एव प्रकरणान्तरत्वाभावाच्च विद्यैक्यमिति राद्धान्तः । विद्यासु गुणोपसंहारादिचिन्तार्थ शाखान्तरा- धिकरणोक्तन्यायस्तत्फलं च स्थिरीकृतम् ॥ सूत्रार्थ:-स- र्ववेदान्तप्रत्ययं दहराद्युपासनमेकम् । कुतः । चोदनाद्य- विशेषात् ॥ भेदान्नतिचे देकस्यापि ॥ २ ॥ अविशेषपुनः श्रुत्या विद्यभेदावगमान्न विद्यैक्यामिति चेत्, एकस्यामपि विद्यायां शखान्तरे प्रतिपत्तृभेदात्पुनः श्र- वणमर्थवदिति न विद्याभेदः॥ "तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीणम्" इति प्राथर्वणिकानां शिरोवतस्य विद्योपदेशाङ्गत्वनियमदर्शनं विद्याभदं द्योतयात विद्यैक्ये हि आथर्वणिकानामवेति नियमो नोपपद्यतेसाशङ्ख्याह- स्वाध्यायस्य तथात्वे हि समाचारेऽधिका- राच्च ॥ ३ ॥ शिरोव्रतं न विद्याङ्गं अपि तु स्वाध्यायस्य तथात्वे हि स्वाध्यायस्य तज्जन्यसंस्कारभाक्त्व हि तन्नियमः"नैतदचर्णिव्रतो- धीयी”त इत्यध्ययनसंवन्धात् । समाचाराख्ये ग्रन्थे इदमपि वेदव- तृतीयाध्यायस्य तृतीयः पादः । तत्वेन व्याख्यातमिति वेदव्रतत्वावगमाच्च । “ ब्रह्माविद्या वदेत ॥ वेदविद्यामित्यर्थः सववच्च तन्नियमः यथा हि सवहोमाः ससम्यादयः शतौदनपर्यन्ता प्राथ- वणिकैकाग्निसंबन्धिनस्तत्रैव भवन्ति तथैवेदमप्यथर्ववेदसंबन्धि- त्वेन तवैव ॥ दर्शयति च ॥ ४ ॥ दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् । छा- न्दोग्ये दहरविद्यायाम् “तस्मिन् यदन्तः" इति विहितमपहतपा- प्मत्वादिगुणाष्टकं तैत्तिरीयके केवलं " तस्मिन् यदन्तस्तदुपा- सितव्यम् " इत्येवोक्तम् । तदुभयत्र विद्यैकत्वे संभवाते ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥ तदेवं सर्ववेदान्तेषु दहराद्युपासने समाने एकस्मिन् सति तत्तदुपासने वेदान्तान्तरविहितस्य गुणस्य वेदान्तान्तरे चोप- संहारः कर्तव्यः । कुतः। अभेदात् तद्विद्याङ्गत्वेन तदुपका- राभेदात् । विधिशेषवत् यथैकस्मिन् वेदान्ते वैश्वानरविद्यादि- विधिशेषतया विहितस्य गुणस्य तदुपकारायोपसंहारः तथा वेदान्तान्तरेऽपि तद्विद्याङ्गत्वाविशेषादुपसंहारो न्याय्यः ।। (अन्यथात्वाधिकरणाम् ।) अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥ अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां ता- वत् “ हन्तामुरान् यज्ञ उद्गीथेनात्ययाम " इसारभ्य उद्गीथे प्राणदृष्टयोपासनं शत्रुपरिभवफलं विहितम् । छन्दोगानामपि तद्वदेव “ उद्गीथमाजहरनेनैनानभिहनिष्याम " इत्यारभ्य उद्गीथे प्राणदृष्टयोपासनमेव शवुपरिभवफलमुक्तम् । किमुभ- ACADEMY CES. KIT RESEARGN MELECT571431 १७० वेदान्तदीपे प्रथ यत्र विद्यै क्यमुत विद्याभेद इति संशयः॥ चोदनाद्यविशेषाद्विधै- क्यामिति पूर्वः पक्षः॥राद्धान्तस्तु-यद्यप्युभयत्रोद्गीथे माणदृष्टयो- पामनमविशिष्टं तथापि छन्दोगानाम् "प्रोमिसेतदक्षरमुद्गीथ- मुपामीत' इति प्रकृस "उद्गीथमाजहरनेनैनानभिहनिष्याम" इत्युद्गीथावयवे प्रणवे प्राणदृष्टयोपासनमुक्तम् । वाजिनां तु "हन्तासुरान् यज्ञ उद्गीथेन " इत्युपक्रमात् अविशेषेण कु- स्नोद्गीथे माणदृष्टयोपासनमुक्तम् । “अथ हय एवायं मुख्यः माणस्तमुद्गीथमुपासाञ्चक्रिरे " इति छन्दोगानामुद्ानकर्म- एयुद्गीथावयवे प्रणवे प्राणदृष्टिविधानात् वाजिनां तु हेममासन्यं माणमूचुस्त्वन्न उद्गायति तथेति तेभ्य एष प्राण उदगायत्” इति कृत्स्नोद्गीथस्य करि प्राणदृष्टि- विधानाच्चोभयत्र रूपभेदाद्विद्याभेद इति ॥ सूत्रार्थस्तु-अन्यथा- त्वम् शब्दादिति चेदिति राद्धान्तच्छायया परिचोद्य नावि- शेषादिति पूर्वपक्षी परिहरति । “अथ ह य एवायं मुख्यःमाण- स्तमुद्गीथमुपासाञ्चक्रिरे । अथ हेममासन्यं प्राणमूचुस्त्वं न उ- गायेति तथेति तेभ्य एष माण उदगायत्" इसकत्रोद्गीथे मा. णदृष्टिशब्दादितरवोद्गातार प्राणदृष्टिशब्दाच्च रूपान्यथात्व- मिति चेत् । न रूपभेदः। कुतः। अविशेषात् उपक्रमेहविशेषेण " उद्गीथेनासयाम । उद्गीथमाजहरुरनेनैनानाभिहनिष्याम इत्युद्गीथस्यैव उपास्यत्वप्रतीतेः त्वं न उद्गायेति तथोत तभ्य एष उदगायत्” इति कर्मण्येवोद्गीथे कर्तृत्वमुपचर्यते इति युक्तम् । अन्यथोपक्रमविरोधः स्यात् ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादिनन् ॥ ७॥ न वैतदस्ति यद्रूपैक्याद्विद्यैक्यमिति। कुतः। प्रकरणभेदान्। छन्दोग्ये हि " प्रोमिसेतदक्षरमुद्गीथमुपासीत " इति उद्गी-

तृतीयाध्यायस्य तृतीयः पादः ।
१७१
थावयवभूतं प्रणवमुपास्यं प्रकृस उद्गीथमाजहरुः” इति
वचनादुद्गीथावयवभूतः प्रणव एवोद्गीथशब्देनाच्यत इति
गम्यते । वाजसनेयके त्वविशपेण "उद्गीथेनात्ययाम" इत्यु-
पक्रमात् कृत्स्नोद्गीथ उपास्यः प्रकृतः। अत उद्गीथे प्राणदृ-
ट्रयाविशेषेऽपि रूपभेदाद्विद्याभेदः। परोवरीयस्त्वादिवत् यथैक-
स्यामपि शाखायामुद्गीथावयवभूते मणवे परमात्माष्टविधान-
साम्येऽपि हिरण्मय पुरुषदृष्टिविधानात् परोवरीयस्त्वादिगु-
णविशिष्टदृष्टिविधानमन्तिरामात रूपभेदस्तद्रदत्रापि । एवं
प्रकरणभेदेन उपक्रम एवैकत्रोद्गीथावयव विषयत्वेन इतरत्र -
स्नोद्गीथविषयत्वेन चोपासनभदे मिद्धे माते उपसंहारस्थं
कर्मविषयं कतृविषयं च प्राणदृष्टिविधानं यथाश्रुतमेवावति-
कृत इसभिप्रायः ॥
संज्ञातश्चेत्तदुक्तमास्ति तु तदपि ॥ ८ ॥
उद्गीथावधेति संज्ञैक्यात् तद्विधेयविद्यैक्यमुक्तं चेत्तत्सझै
क्यं विधेयभेदेऽप्यस्ति तु अस्येवेसर्थः। यथा निसाग्निहोत्रे कु-
ण्डपायिनामयनाग्निहात्रे च । यथा च छान्दोग्ये प्रथमप्रपाठ-
कोदितासु वहीषु विद्यामुद्गीथविद्योते संज्ञेक्यम् ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
प्रथमप्रपाठके उपक्रमवदुत्तरास्वप्युद्गीथविद्यामूद्गीथाव-
यवस्य प्रणवस्यैवोपास्यत्वव्याप्तेमध्यगतस्य "तद्ध देवा उद्गी-
थमाजहरुः इत्युद्गीथशब्दस्यापि
प्रणवविषयत्वं समज-
"
सम् ॥
(सर्वाभदाधिकरणम् । )
सर्वाभेदादन्यत्रेमे ॥ १० ॥

वेदान्तदीपे ॥ "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भव- ति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च" इति छन्दोगानां वाजिनां कौषी- तकीनां च माणविद्याऽऽम्नाता । तत्र छान्दोग्यवाजसनेयकयोः सर्वस्य एकरूपत्वात् प्राणविद्येकैव । कौषतिकीमारणाविद्या- यास्तस्याश्च भेदोऽस्त्युत नेति संशयः अस्ति भेद इति पूर्व पक्षः । यद्यपि सर्वत्र ज्यैष्ठयश्रेष्ठयगुणक: माण एवोपा- स्यः तथापि छन्दोगवाजिनां ज्यैष्ठ्यश्रेष्ठयगुणकस्य वागादि- गतवशिष्ठत्वादिगुणसंबन्धित्वमाप शब्दादेव प्रतीयते । कौषीतकीनां तु न तथेति रूपभेदाद्विद्याभेदः ॥ राद्धान्तस्तु- यद्यपि कौपीतकीमाणविद्यायां वागादिगतवासष्ठत्वादिसंब- न्धित्वं प्राणस्य न शब्दाभिहितं तथापि तत्रापि पाणस्य ज्यैष्ठयत्रैष्टयोपपादनं वागादीनां स्थितेस्तत्तत्कार्यस्य च प्रा- णाधीनत्वेनेसेतदविशिष्टमिति वागादिगतवशिष्ठत्वादेरपि प्रा- णहेतुकत्वानुसन्धानेन विना माणस्य ज्यैष्ठ्यश्रेष्ठयानुसंधान- मनुपपन्नमिति कौषीतकीप्राणविद्यायामपि वागादिगतवसि- छत्वादिसंबन्ध्येव प्राण उपास्य इति रूपाभेदाद्विद्यैक्यम् ॥ सूत्रार्थः-अन्यत्र कौषीतकीमाणविद्यायामिमे वसिष्ठत्वा- दयः संसेव । कुतः । सर्वाभेदात् माणज्यैष्ठयत्रैष्ठ्योपपादनम- कारस्य तत्राप्यभेदात् । वागादीनां स्थितेः कार्यस्य च माणहेतुत्वेन हि माणस्य ज्यैष्ठ्यं श्रेष्ठ्यं चात्राप्युपपादितम् । अतो वागादिगतकार्यसामर्थ्यापादनरूपवसिष्ठत्वादिसंबन्धित्वं माणस्यात्राप्युक्तमेवेत्यर्थः॥ (आनन्दाद्यधिकरणम् ।) आनन्दादयः प्रधानस्य ॥ ११ ॥ ज्ञानानन्दामलत्वानन्तत्वरूपब्रह्मस्वरूपनिरूपकगुणाः सर्वामु

तृतीयाध्यायस्य तृतीयः पादः ।
परविद्यासुपसंहर्तव्या उत नेति संशयः॥ नोपसंहर्तव्या इति पूर्व-
पक्षः।प्रकरणाधिकानामुपसंहारे प्रमाणाभावात् । ब्रह्मगुणानां
असंख्येयत्वेन उपसंहाराशक्तेश्च ।। राद्धान्तस्तु-ज्ञानानंदादी-
नां ब्रह्मस्वरूपनिरूपकगुणत्वेन तैविना ब्रह्मस्वरूपानुसंधाना-
नुपपत्तेश्च सर्वामुपसंहर्तव्या इति ॥ सूत्रार्थस्तु-"सर्वाभेदात्"
इसतोऽभेदादिति वर्तते । प्रानंदादयो गुणा: सर्वाम्-
पसंहर्तव्याः। प्रधानस्य गुणिनो ब्रह्मणः सर्वासु विद्यास्वभे-
दात् । सर्वासु परविद्यासु ब्रह्मैकमनुसंधेयं चेत् गुणविना
ब्रह्मस्वरूपानुसंधानमशक्यं ते च ज्ञानानंदादयोऽनुसन्धेया
इसर्थः ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
आनंदादीनां प्राप्तावपि "तस्य प्रियमेव शिरः मोदो
दक्षिणः पक्षः" इति प्रियशिरस्त्वादीनाममाप्तिः । ब्रह्मस्वरू-
पगुणत्वाभावात्तेषाम् । ब्रह्मणः शिरःपक्षादिभेदे स्वरूपे
सति ब्रह्मण उपचयापचयौ प्रलज्येयाताम् । ततश्च"ससं ज्ञा-
नमनंतम्। अनंतोऽजरः" इत्यादि विरुद्ध्यते ॥
प्रियशिरस्त्वादिभ्य अनंदादीनां विशेषमाह-
इतरे त्वर्थसामान्यात् ॥ १३ ॥
इतरे आनंदादयः अर्थसामान्यात् ब्रह्मस्वरूपसामा-
न्यात् ब्रह्मवत्सास्वनुवर्तते । ब्रह्मस्वरूपनिरूपणधर्मत्वेन ब्रह्म
स्वरूपसमाना हि ते ।।
प्रियशिरस्त्वादयो ब्रह्मस्वरूपनिरूपणधर्मा न भवति
चेत्तदभिधानं किमर्थमित्यत्राह-
अध्यानाय प्रयोजनाभावात् ॥ १४ ॥

वेदान्तदीपे
अनुचिन्तनाथ तदभिधानम्। प्रयोजनांतराभावात् । "त्र-
ह्मविदाप्नोति परम्" इति वेदितव्यतयोपदिष्टं ब्रह्मानंदमयं प्रि-
यमोदादिरूपेण विभज्य शिरःपक्षादित्वन रूपयित्वा बुद्धावा-
रोप्यत इत्यर्थः॥
आत्मशब्दाच्च ॥ १५ ॥
"अन्योंतर आत्माऽऽनन्दमयः" इसात्मशब्दाच्च पियशि-
रस्त्वादयो न ब्रह्मस्वरूपधर्माः । शिरःपक्षादयो हि ना-
स्मधर्माः ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
"अन्योंतर आत्मा" इसात्मशब्देन परमात्मन एवं गृहीति-
ग्रहणम् । इतरवत् "आत्मा वा इदमेक एवाग्र आमीत्" इत्या-
स्मशब्देन यथा परमात्मनो ग्रहणं तद्वत् । कथमवगम्यते । तदेका-
र्थादुत्तरात् " सोऽकामयत बहुस्यां प्रजायेय " इसादि-
वाक्यात् ॥
अन्वयादिति चेत्स्याद्वधारणात् ॥ १७ ॥
पूर्वेषु अन्योंतर आत्मा प्राणमयः" इत्यादिवाक्येष्वनात्म-
स्वात्मशब्दयोगात् कथमुत्तरवाक्यात्तन्निर्णय इति चेत् तस्माद्रा
एतस्मादात्मन आकाशः संभूतः" इति प्रकृतस्यात्मन एव-
प्राणमयादिष्वानंदमयपर्यंतषु आत्मशब्दावधारणात्स्यादेव
नियमः। अतः पियशिरस्त्वादीनामनात्मधर्मत्वात् ज्ञाननंदादी-
नामात्मस्वरूपनिरूपणधर्मत्वाच्च तेषामेव सर्वतोपसंहारः ॥
(कार्याख्यानाधिकरणम् ।)
कार्याख्यानादपूर्वम् ॥ १८ ॥

तृतीयाध्यायस्य तृतीयः पादः ।
छांदोग्यवाजसनेयकयोज्येष्ठं च श्रेष्ठं च प्राणमुपास्यं वि-
धाय"स होवाच किं मे वासो भविष्यसाप इति होचुः" इ-
त्यपां प्राणवासस्त्वमुक्त्वा " तस्माद्वा एतदशिष्यंतः पुरस्ता-
च्चोपरिष्टाच्चाद्भिः परिदधति लंभुको ह वासो भवत्यन-
ग्नो भवति"इति छान्दोग्ये, वाजसनेयके चापां प्राणवासस्त्व-
मुक्त्वा तस्मादेवं विदशिष्यन्नाचामेदाशित्वा चाचामेदेतमेव तद-
नमनग्नं कुरुत" इति (आचमनेन प्राणमनग्नं कुरुत इत्यर्थः।)
अत्राशनात्पुरस्तादुपारष्टाच्च क्रियमाणमाचमनं किं प्राणविद्याङ्गं
विधीयते उताचमनीयानामपां प्राणवासस्त्वानुसंधानं विधीयत
इति संशयः ॥ “आचामेत्"इति आचमने विधिप्रत्ययश्र-
वणात्स्मृत्याचारप्राप्तादाचमनादाचमनांतरं पाणविद्यांगं विधी-
यते इति पूर्वपक्षः॥राद्धान्तस्तु-"प्रांशत्वा चाचामेत्" इत्याचमनं
च प्रतीयते । आचमनीयानां चापां प्राणवासस्त्वानुसंधानं
"आपो वामः । अद्भिः परिदधति । एतमेव तदन्नमनग्नं
कुरुत" इति प्रतीयते । तत्राचमनं तावत्स्मृत्याचारप्राप्तम् ।
आपां वासस्त्वानुसंधानम् अप्राप्तम् "अनग्नं कुर्वतो मन्यते ।
अनग्नं कुरुन"इति अनुवादसरूपं प्रतीयते । तत्राचमनान्त-
रकल्पनादाचमनमनूद्य आचमनीयानामपां वासस्त्वानुसं-
धानं अप्राप्तं विधायत इति युक्तं "तदन्नमनग्नं कुरुत"इति "वच-
नानि त्वपूर्वत्वात्" इति न्यायन विधिवचनमेव भवति॥सूत्रार्थ:-
अपूर्वमपालमपां प्राणवासस्त्वानुसंधानं विधेयं न पुनः प्राप्त-
माचमनम्।कुतः कार्याख्यानात् । कार्यस्य अमाप्तस्याख्यानस्त्र-
भावत्वाच्छास्त्रस्येत्यर्थः ॥
(समानाधिकरणम् ।)
समान एवं चाभेदात् ॥ १९ ॥

वेदान्तदीपे वाजमनेय के अग्निरहस्ये बृहदारण्यके च शांडिल्यविद्या- आम्नाना श्रीग्नरहस्ये तावत् "स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम्" इति । बृहदार- रायके च" मनामेयोऽयं पुरुषो भाः सत्यं तस्मिन्नन्तहृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्यशानः सर्वाधिप- तिः सर्वमिदं प्रशास्ति" इति। किमत्र विद्याभेद उत नेति सं- शयः ॥ एकत्र सत्यसङ्कल्पत्वमधिकं श्रुतं इतरत्र वशित्वादयोऽ- धिका इति रूपभेदाद्विद्याभेद इति पूर्वः पक्षः ॥ राद्धान्तस्तु- उभयत्र मनोमयत्रादिके समाने सति वशित्वादेः सत्यसङ्कल्प- त्वविततिरूपतया तेनाभदान्न रूपभेद इति विद्यैक्यम् ।। सूत्रार्थ:- मनोमयत्वादिके समाने सति विद्यैक्यम्।एवं चाभेदावशित्वादि- गुणेनाप्यभेदात् । वशित्वादिर्हि सयसङ्कल्पत्वविततिः ।। ( सम्बन्धाधिकरणम् ।) संबन्धादेवमन्यत्रापि ॥ २० ॥ बृहदारण्यके य एष एतस्मिन्मण्डले पुरुषो यश्चायं द- झगोऽक्षिन्" इत्युपक्रम्य आदित्यमण्डलेऽक्षिाणि च सत्यस्य ब्र- झदो व्याहृांतशरीरत्वेन उपास्यत्वमुक्त्वा " तस्योपनिषदह- रियधिदैवतम् । तस्योपनिषदहमित्यध्यात्मम् " इति द्वे एतस्य नामनी उपासनशेषतयाऽऽन्नायते।किं यथाश्रुते स्थाननियते उतो- भयत्रोभे इति संशयः ।। उभयोः स्थानयोरेकरूपस्यैवोपस्यत्वा- द्विवैक्यमित्यनियते नामनी इति पूर्वः पक्षः ॥ अक्ष्यादिसस्था- नसंवन्धित्वाकारभेदाद्रूपभेद इति विद्याभेदाढे नामनी नियते इति राद्धान्तः ॥ मूत्रार्थ:-यथा मनोमयत्वादिगुणविशिष्टस्यैवो- पास्यत्वेन उभयत्र विद्यैक्यमेवमन्यत्राक्ष्यादित्याधारस्याप्येक- तृतीयाध्यायस्य तृतीयः पादः । स्यैव ससस्य ब्रह्मणः स्थानद्वयसंवन्धान रूपभेद इति विथै- क्यात् द्वे नामनी अनियते ॥ न वा विशेषात् ॥ २१ ॥ न वैतदस्ति यद्विद्यैक्यादुभयत्रोभे नामनी इति । कुतः । वि- शेषात् उभयत्र हि रूपं विशिष्यते एकत्रादिसस्थानसंबन्धि ब्रह्म इतरत्राक्षिस्थानसंवन्धि ब्रह्मेति रूपभेद इति नियते नामनी ॥ दर्शयति च ॥ २२ ॥ दर्शयति च श्रुतिविद्याभेदेन गुणानुपसंहारं “ तस्यै- तस्य तदेव रूपं यदमुष्य रूपम् " इसादिना रूपाद्यतिदेशेन । स्वतो प्राप्तावतिदेशेन प्राप्यपेक्षा ॥ (सम्भृत्यधिकरणम् ।) संभृतिधुव्याप्त्यपि चातः ॥ २३ ॥ तैत्तिरीयके नरायणीयानां खिलेषु च "ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान, ब्रह्म भूतानां प्रथमो- त जज्ञे तेनाहति ब्रह्मणा स्पधितुं कः" इति ब्रह्माण ज्येष्ठानां गुणानां संभृतिषुव्याप्तिश्चेत्यादि गुणजातमाम्नातम् । किमेषां सर्वासु विद्यासुपसंहारः उत स्थानविशेषोपासनेषु नियम इति संशयः ॥ अनारभ्याधीतत्वात् एषां सर्वामूपसंहार इति पूर्वः पक्षः ॥राद्धान्तस्तु-यद्यपि न स्थानविशेषसंबन्ध्युपासनमार- भ्याधीता एते तथापि धुव्याप्तिमामात् तस्य हृदयाघल्प- स्थानेषूपसंहारायोगात् तत्साहचर्याच्चेतरेषां अल्पस्थानविहि- तामु विद्याभु नोपसंहार इति ॥ सूत्रार्थः-संभाताव्याप्तीते । समाहारद्वन्द्वत्वेन एकवद्भावः । संभृतिप्रभृतिगुण जातमप्यत एव २३ वेदान्तदीपे स्थानविशेषसंवन्धनियमानियतं न सर्वत्रोपसंहार्यम् । धुव्याप्तिर्हि स्वसामर्थ्यादल्पस्थानानहतया तदितरस्थाननियता । संभृ- साद्याप तत्साहचर्यात्तथैव ॥ (पुरुषविद्याधिकरणम् ।) पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ २४ ॥ तैत्तिरीयके पुरुषविद्याऽऽम्नाता "तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी" इत्यादिका। छान्दोग्योप “पुरुषो वा व यज्ञस्तस्य यानि चतुर्विशतिवर्षाणि" इत्यादिका।किमत्र वि- द्याभेद उत नेति संशयः ॥ पुरुषविद्योति संज्ञैक्यात् तैत्तिरीयके फलसंवन्धानाम्नानात् छान्दोग्यगत “ शतञ्जीवति " इत्यनेन एकफलत्वाच विद्यैक्यामिति पूर्वः पक्षः॥ राद्धान्तस्तु-पुरुषवि- धति संज्ञैक्येऽपि सवनत्रयकल्पनाकारभेदात् यजमानपत्ल्या- दिकल्पनप्रकारभेदाच्च रूपभेदात् तैत्तिरीयके पूर्वानुवाकगत- "ब्रह्मणो महिमानमाप्नोति" इति ब्रह्मविद्याफलस्यैव सन्निधानात् अफलस्यास्य तदंगतया तत्फलत्वात्फलभेदाच्च विद्याभेदः ॥ मूत्रार्थ:--पुरुषविद्यायामप्युभयत्र रूपभेदा- द्विद्याभेदः । कुतः । इतरेषां अनाम्नानात् इतरशा- खोदितानामितरशाखायामनाम्नानात् । छान्दोग्ये तैत्तिरी- यकाम्नातानां यजमानपन्यादीनां सवनानामनाम्ना- नात् तैत्तिरोयके छांदोग्याम्नातानां यज्ञावयवाना- मनान्नानादियर्थः । तैत्तिरीयके हि " आत्मा यजमानः श्रद्धा पत्नी" इति यजमानादिकल्पनं " यत्सायं प्रातमध्यंदिनं च तानि मवनानि " इति च सवनत्रयकल्पनम् छांदोग्ये चा- शिशिषादीनां दीक्षादित्वकल्पनं पुरुषायुषस्त्रेधा विभज्य सवन- कल्पनं चेति यज्ञावयवकल्पनप्रकारभेदादूपभेदः स्पष्टः। स्य तृतीयाध्यायस्य तृतीयः पादः । फलमपि तथैवेति इतरेषामिति फलस्यापि ग्रहणम् ॥ (वेधाद्यधिकरणम् ।) वेधाद्यर्थभेदात् ॥ २५ ॥ प्राथणिकास्तैत्तिरीयका एतरेयिण श्चेयेवमादयः उ- पनिषदारंभेषु "शुक्रं प्रविध्य हृदयं प्रविश्य । शं नो मित्रः शं वरुणः शन्नो भवत्वर्यमा। सह नाववतु" इत्यादिमंत्रान्महावता- दीनि च कर्माणि अधीयते । किमेपां विद्यांगत्वं उत नेति संशयः ॥ सन्निधिसमानानात् विद्यांगत्वमिति पूर्वः पक्षः ॥ राद्धांतस्तु-"शुक्रं प्रविश्य हृदयं प्रविष्य" इसादिमंत्रमाम- र्थ्यान्महाव्रतादीनां च कर्मणां श्रुयादिभिश्चाभिचारद्वादशा- हादिषु विनियोगवत् "शन्नो मित्रः शं वरुणः । मह नाववतु" इत्यादिमंत्रस्य "ऋतं वदिष्यामि सत्यं वदिष्यामि । तेजस्वि- नावधीतमस्तु मा विद्विषावहै" इति मंत्रसामर्थ्यात् अध्ययने वि- नियोग इति न विद्यांगत्वम् ॥ मूत्रार्थस्तु-वेधाद्यर्थभेदादित्यस्य वेधाद्यर्थभेदवत् “सत्यं वदिष्यामि । तेजस्वि नावधीतमास्तु"इति शन्नोमित्रादेमंत्रस्याप्यध्ययनसंबंधरूपार्थभेदान्न विद्यांगत्व- मित्यभिप्रायः । अतः शन्नोमित्रादिमंत्र एवाधिकरण- विषयः ।। (हान्यधिकरणम् ।) हानौ तपायनशब्दशेषत्वात् कुशाच्छंदःस्तु- त्युपगानवत्तदुक्तम् ॥ २६ ॥ विदुषो ब्रह्म प्राप्नुवतः पुण्यपापयोविमोचनं द्रयोः शा- खयोः श्रुतम् । विमुक्तयोः पुण्यपापयोरन्यत्र प्रवेश एकस्यां श्रुतः। विमोचनं प्रवेशश्चोभयमेकस्यां शाखायाम् । तदा विद्वान् वेदान्तदीपे पुण्यपापे विधूय निरंजनः परमं साम्यमुपैति । अश्व इव रोमाणि विधूय पापं चंद्र इव राहोर्मुखात्प्रमुच्य-ब्रह्मलोकमभि- संभवामि" इति च केवलविमोचनम् । “तस्य पुवा दायमुपयंति मुहृदः साधुकृत्यां द्विषन्तः पापकृयाम्" इति केवलप्रवेशः । “त- त्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयंति अप्रिया दुष्कृतम्" इत्युभयम् । किं केवलहानिचिंतनं केवलोपायनचिं- तनमुभयचिंतनं सर्वासु विद्यासु विकल्पेनानुष्टेयं उत समुच्च- येनेति संशयः ॥ तथाम्नातस्यार्थवत्त्वाय विकल्प इति पूर्वः पक्षः ॥ राद्धांतस्तु-पुण्यपापप्रवेशस्य विमोचनापेक्षत्वेन शा- खान्तरस्थस्यापि प्रवेशवाक्यस्य शाखान्तरस्थविमोचनवाक्यशे- पत्वात् वाक्यद्वयनैकाथीवधानात् समुच्चयः । एकस्यां शा- खायामुभयविधानं प्रतिपत्तृभेदन परिहियते ॥ सूत्रार्थ:-हानौ तु । तु शब्दः पक्षव्यावृत्त्यर्थः । हानाविति प्रदर्शनार्थः । केव- लविमोचने केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽ- वश्यंभावी। कुतः। उपायनशब्दशेषत्वात् । उपायनशब्दस्य हा- निवाक्यशेषत्वादित्यर्थः । सक्तयोः पुण्यपापयोः प्रवेशस्थान- वाचित्वात् उपायनवाक्यस्य हानिवाक्यशेषत्वं अवगम्यते । प्रदे- शान्तराम्नातवाक्यस्य प्रदेशान्तरानातशेषत्वे दृष्टांतानाह कुशा- च्छन्दःस्तुत्युपगानवदिति। “वानस्पत्याः कुशाः" इति प्रदेशांत- राम्नातस्य वाक्यस्य यथा “औदुंवर्याः कुशाः" इति तद्विशेषवा- चिप्रदेशांतरस्थम् यथा च "देवासुराणां छदोभिः" इति प्रदेशांत- रस्थस्य तत्क्रमविशेषवाचि"देवच्छदांसि पूर्वम्"इति प्रदेशांतर- स्थम् यथा च " हिरण्येन षोडशिनः स्तोत्रमुपाकरोीत" इति प्रदेशांतरस्थस्य तत्कालविशेषवाचि "समयाविषिते सूर्ये पोड- शिनः स्तोत्रमुपाकरोति इति प्रदेशान्तरस्थम् यथा च तृतीयाध्यायस्य तृतीयः पादः । १८१ ऋत्विज उपगायन्ति इति प्रदेशान्तरस्थस्य "ना- ध्चर्यरुपगायेत् इति तद पर्युदासरूपं प्रदेशांतर- स्थम् एवमुपायनवाक्यस्य हानिवाक्य शेषतया संभवत्या ग- तौ विकल्पोऽयुक्तः । सदुक्तं पूर्वस्मिन्काडे "अपि तु वाक्य- शेषः स्यादन्याय्यत्वाद्विकल्पस्य"इत्यादिना il (सापरायाधिकरणम् ।) सांपराये ततव्याभावात्तथा ह्यन्ये ॥ २७ ॥ किमिदं मुकृतदुष्कृतयोहानिचिंतनं देहवियोगकाले एक- देशःक्षीयतेऽध्वनि शिष्टमित्युभयत्रकर्तव्यम् उत देहवियोगकाल एव सर्व क्षीयते इति संशयः॥ उभयत्र श्रुतेर्देवयानेन ५था गमनान्यथाऽनुपपत्त्या चोभय त्रेति पूर्वपतः । इव रोमाणि विधूय पापं चन्द्र इव राहो- मुखात्प्रमुच्य, धूत्वा शरीरमकृतम् " इति देहवियोगकाले "स मागच्छति विरजां नदी तत्सुकृतदुष्कृते धूनुने " इति अध्वन्यपि हानिः श्रुना । देहवियोगकाले सर्वकर्मक्षये हि देव- यानेन गमनसाधनं कर्म न सभवति ॥राद्धान्तस्तु-"तस्य ताव- देव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये" इति देहरियोगादर्दू ब्रह्मप्राप्तिव्यतिरेकेणानुभाव्यपुण्यपापफलाभावाद " अश्व इव रोमाणि विधूय पापम् ” इत्यादिनकादिध्वन्याम्नातमाप "तत्सुकृतदुष्कृते धूनुते” इति वाक्यं देहवियोगकाले मङ्गमयि- तव्यमिति देहवियोगकाल एव हानिचिन्तनम् । सर्वकर्मक्षये हि विद्यासामर्थादेव देवयानेन पथा गमनं चोपपद्यत । विद्या हि स्वयं सूक्ष्मशरीरस्यानारंभिकापि प्रकृतसुखदुःखोपभोगसाध. नस्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्वफलभूतब- ममाप्तिमतिपादनाय देवयानेन पथा एनं गमायतुं सूक्ष्म- वेदान्तदीपे शरीरं स्थापयाति ॥ सूत्रार्थः-सांपराये देहवियोगकाले एन चि- न्तनीयम् । कुतः। तताभावात् देहवियोगाई ब्रह्मप्राप्तिव्यनि- रेकेण तरितव्यभोगाभावात् । तथा ह्यन्येऽधीयते "तस्य ताव- देव चिरं यावन्नविमोक्ष्येऽथ संपत्स्ये” इति "अशरीरं वावसन्तं न मियाप्रिये स्पृशतः" इति च ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ एवं अर्थस्वाभाव्यात देहवियोगकाले निरवशेषकर्मक्षयेऽव- धृते सति "तत्सुकृतदुष्कृते धूनुते” इति वाक्यखण्ड उभयाविरो- धादुभयश्रुयविरोधात् छन्दतो नेयः "अश्व इव रोमाणि विधूय पापम्-धूत्वा शरीरम् । तस्य तावदेव चिरम् ” इति चोभ- यश्रुत्यविरोधाचरमश्रुतोऽपि तत्सुकृतदुष्कृते धूनुते " इति वाक्यखण्डः "एतं देवयानं पन्थानमापद्यते” इति प्रथमश्रुत- खण्डात् प्रागनुगमयितव्य इत्यर्थः॥ अत्र चोदयति- गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥ देवयानेन गतिश्रुतेरर्थवत्वं देहवियोगकालेऽध्वनि चेत्यु- भयथा कर्मक्षये सत्येव । अन्यथा देहवियोगकाले मर्वकर्मक्षये सति मूक्ष्मशरीरस्याप्यारंभकनाशेन स्थित्यनुपपत्तेर्देवयानग- तिश्रुतिविरुध्यते ॥ परिहरति- उपपन्नस्तल्लक्षणार्थोपलब्धेलॊकवत् ॥ ३० ॥ भगवन्तमुपासीनानां देहवियोगकाले सर्वकर्मक्षयेऽप्युपप- न्नो देवयानः पन्थाः। कुतः । तल्लक्षणार्थोपलब्धेः तल्लक्षणार्थः तज्जातीयार्थः । अकर्मलभ्यार्थीपलब्धोरिसर्थः । उपलभ्यते ह्यक- तृतीयाध्यायस्य तृतीयः पादः । मलभ्यार्थों ब्रह्मोपासीनानां " स स्वराड् भवाते तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादौ । लोकवत् यथा लोके राजानमुपासीनानां प्राकृतपुरुषासाधारणातिरमणीयानेकार्थ- सिद्धिः तत् सर्वज्ञं सत्यसंकल्पं महोदारं परं ब्रह्मोपासीना- नां सर्वमुपपन्नमित्यर्थः । परं ब्रह्मोपासीनानां देहपातसमये सर्वकर्मक्षया. देहपातादृर्द्ध कर्मफलानुभवो विद्यत इसेतन्न सं भवति वमिष्ठादीनां ज्ञानिनामपि कर्मफलरूपदेहान्तरसंयोगः पुत्रजन्मविपदादिसुखदुःखानुभवोऽपि दृश्यते इत्याशंक्याह- यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३१ ॥ येषां ज्ञानिनां देहपातादनंतरं अचिरादिका गतिः प्राप्ता तेषां देहपातादृर्द्ध तरितव्यकर्मफलभोगाभावात् देहपातसमये एव कर्मक्षय उक्तः । वसिष्ठादीनां त्वाधिकारिकाणां यावद- धिकारसमाप्ति नाचिरादिका गतिरस्ति । आप त्वधिकारे स्थितिरेव । अधिकारहेतुभूतकर्मणः फलदानायारब्धत्वात् । ज्ञानिनोऽप्यारब्धं हि कर्म फलानुभवेनैव क्षीयते ॥ ( अनियमाधिकरणम् ।) नयमः सर्वेषामविरोधः शब्दानुमा- नाभ्याम् ॥ ३२ ॥ येषूपासनेषूपकोसलाादेवार्चराादका गतिराम्नाता किं तनिष्ठानामेव तया ब्रह्मप्राप्तिः उत सर्वेषां ब्रह्मनिष्ठानामिति सं- शयः॥ तनिष्ठानामेवेति पूर्वः पक्षः । इतरेषां तया ब्रह्मप्राप्तौ प्र- माणाभावात् । यत्तु पञ्चाग्निविद्यायामसाधारणवचनम् । त- दप्युपकोशलादिविषयमिति निश्चीयते। अन्यथा उपकोशलादि- वेदान्तदीपे वाम्नानम नर्थकं स्यात् ॥ राद्धान्तस्तु-पश्चाग्निविद्यायां एव मनाद्रदुर्ये चमेऽरण्ये श्रद्धां ससमुपासते तेचषम- भिसंभवन्ति” इति सामान्येन सविषयगतिश्रवणं उपकोशला- दिष्याम्नानं न बाधितुं क्षमम् । संकोचकं च न संभवात । वि- द्यास्तुत्यर्थनयाऽनुवादनाप्युपपत्तेः । अतः सर्वेषां तयैव प्राप्तिः । सूत्रार्थः-आनयमः सर्वेषां सर्वेपामावशेषेण तयैव प्राप्तिः। कु. त । अविरोधः शब्दातुमानाभ्यां तथामत्येव श्रुतिस्मृतिभ्या- मविरोधः । श्रुतिः पञ्चाग्निविद्यायां निदर्शिता । स्मृतिः "म- ग्निज्योतिरहः शुक्लः” इत्यादिका ॥ ( अक्षरध्यधिकरणम् ।) अक्षरधियां त्ववरोधः सामान्यतहावाभ्यामौपस- दवत्तदुक्तम् ॥ ३३ ॥ बृहदारण्यके " एतदै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमानण्वहस्वम्” इत्यादि श्रूयते । तथाऽऽथर्वणे च “अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यपग्राह्यम्” इयादि । किमेषा- मस्थूलत्वादीनां सर्वासु ब्रह्मविद्यासु उपसंहारः उत यत्र श्रुता- स्तत्रैवेति संशयः ॥ विद्याविशेषरूपतया श्रुनानां सर्वविद्यासा- धारणत्वाभावात् यत्र श्रुतास्तत्रैव नियता इति पूर्वः पक्षः।। राद्धान्तस्तु-अस्थूलत्वादीनामप्यानन्दादिवत् ब्रह्मस्वरूपानुस- न्धानान्तर्भावात् सत्रिोपसंहारः । न केवल मानन्दादिभिब्रह्म- स्वरूपं प्रत्यगात्मनो व्यावृत्तम् । तस्यापि हि तदेव स्वरूपम्।अस्थू- लत्वादिविशेषितमानन्दादि ब्रह्मणः प्रत्यगात्मनो व्यावृत्तं रूपम् । यद्यपि प्रत्यगात्मा स्वभावतः स्थूलत्वाद्यचेतनधर्मासंब- न्धी तथापि तत्संबन्धाहताऽस्त्येवातदईतयापि हि पूर्व तत्संबन्धः सातः। अतो ब्रह्मणस्तदनईस्वरूपानुसन्धानार्थतयाऽस्थूलत्वा- तृतीयाध्यायस्य तृतीयः पादः । दयः सर्वत्रानुसन्धेयाः॥मूत्रार्थः-अक्षरधियां अक्षरसंवन्धिनीना- मस्थूलत्वादिधियां सर्वविद्यास्ववरोधः संग्रहणम् । कुतः। सामा- न्यतद्भावाभ्यां ब्रह्मणः सर्वत्र समानत्वात् ब्रह्मानुसन्धाना- न्तर्भावाच्च तासाम् । गुणवुद्धीनां हि प्रधानानुवर्तित्वं स्वभावः। औपसदवत् यथा जामदग्न्यचतूरात्रपुरोडाश्युपमदगुणभूतः "अग्निहोत्रं च" इति मन्त्रः सामवेदपठितत्वेन सामवेदस्वरानि- यतोऽपि प्रधानभूनोपसदनुवर्तित्वाधाजुर्वैदिकत्वाच्चोपसदो याजुबैदिकोपांशुत्वसंवन्धी तद्वत् अक्षरविद्यासंबन्धितया अ- धीतत्वेन तद्विद्यानियता अपि प्रधानानुवर्तित्वस्वाभाव्यात् सर्व- विद्यासंवन्धिनः । तदुक्तं प्रथमे काण्डे " गुण मुख्यव्यति- क्रमे तदर्थत्वात् " इयादिना ॥ एवं तहिं “सर्वकर्मा सर्वगन्धः " इयादीनामपि सर्वेपां ब्रह्मगुणत्वे न क्वचिद्रयवस्थेत्याशयाह- इयदामनात् ॥ ३४ ॥ इयदस्थूलत्वादिविशेषितमानन्दायेव सर्वत्रानुसन्धयेम् । कु- सः । आमननात् हेतोः। आमननं आभिमुख्येन मननं ब्रह्मानु- सन्धानम् । परब्रह्मस्वरूपानुसन्धानं येन विना नोपपद्यते तत्स- बवानुसन्धेयम् अन्यत्तत्र तत्र व्यवस्थितमित्यर्थः ॥ (अन्तरत्वाधिकरणम् ।) अन्तरा भूतग्रामवत्स्वात्मानोऽन्यथा भेदानुप- पत्तिरिति चेन्नोपदेशवत् ॥ ३५ ॥ बृहदारण्यके उपस्तिप्रश्नपतिवचनं यः प्राणेन प्राणि- ति स त आत्मा सर्वान्तरः योऽपानेनापानिति स त आत्मा" इसादि " अतोऽन्यदार्तम् " इसन्तमानातम् । तथा तदन- वेदान्तदीपे न्तरं कहोलमश्नप्रतिवचनं “योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एतं हैतमात्मानं विदित्वा" इति “ अतोऽन्यदा- तम्" इत्यन्तम् । किं उभयत्र विद्यैक्यमुत विद्याभेद इति संश- यः॥ पूर्वत्र प्राणनादिहेतुः प्रत्यगात्मा उत्तरत्राशनायाद्यती- तः परमात्मेत्युपास्यभेदाद्विद्याभेद इति पूर्वः पक्षः ॥ राद्धा- न्तस्तु-" यत्साक्षादपरोक्षाब्रह्म य प्रात्मा सर्वान्तरः तन्मे व्याचक्ष्व " इत्युभयत्र प्रश्नस्य परमात्मविषयत्वादेकरूपत्वाच सर्वप्राणिप्राणनादिहेतुत्वस्याशनायाद्यतीतत्वस्य च प्रतिवच- नद्रयगतस्य परमात्मन्येकस्मिन्नेवोपास्ये संभवाच्च न विद्या- भेदः ॥ सूत्रार्थः-अन्तरा “य प्रात्मा सर्वान्तरः" इत्युषस्तिप्र- श्नो भूतग्रामवत्स्वात्मनः प्रयगात्मान इत्यभ्युपगन्तव्यः न्यथा प्रतिवचनभेदानुपपत्तिरिति चेत्,नात्र प्रत्यगात्मविषयं प्र- नद्वयम् प्रतिवचनद्यं च । परमात्मन्येकस्मिन्नेव संभवतीयर्थः । उपदेशवत् "स्तब्धोऽस्युत तमादेशमपाक्ष्यः" इति प्रक्रान्ताया- मेकस्यामेव स विद्यायां "भगवांस्त्वमेव मे तत् ब्रवीतु। भूय एव मा भगवान् विज्ञापयतु " इत्यादिका प्रश्नादृत्तिः प्रतिवचन- भेदश्वोपास्यमाहात्म्यप्रतिपादनपरत्वेन दृश्यते तद्वत् ।। प्रश्नभेदपूर्वकप्रतिवचनप्रकारभेदाद्विद्याभेदोऽवर्जनीय इ- साशच्याह- व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३६ ॥ यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः" इति द्व- योः प्रयोः प्रश्नस्यैकरूपत्वेन एकविषयत्वे निश्चिते सति उप- स्तिकहोलयोः प्रतिवचनगतबुद्धिव्यतिहारः कार्यः । प्रा- णनादिहेतुत्वेन बुद्धिः सर्वान्तरात्मविषया कहोलेनापि का- । तथा भशनायाद्यतीतत्वबुद्धिरुषस्तिनापि कार्या । विशिषन्ति तृतीयाध्यायस्य तृतीयः पादः। हि उभयत्र याज्ञवल्क्यप्रतिवचनानि एकं सर्वान्तरमेवोपास्यम् । इतरवत् यथेतरत्र सद्रिद्यायां सर्वाणि प्रतिवचनानि परमकार- णं परं ब्रह्मैकमेव प्रतिपादयन्ति ॥ सद्विद्यायामप्युपास्यैक्यं प्रश्नप्रतिवचनात्तावसयां कथ- मवगम्यते इयत्राह- सैव हि सत्यादयः ॥ ३७ ॥ सेयं देवतैक्षत " इत्यादिषु सर्वत्र सैव परा देवताऽनुव- तते । “ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि" इति त एव सत्यादयः सर्वेषु प्रतिवचनेषु उपसंहियन्ते ॥ (कामाद्यधिकरणम् ।) कामादीतरत तत्र चायतनादिभ्यः ॥ ३८ ॥ छान्दोग्ये श्रूयते “अथ यादिदमस्मिन् ब्रह्म पुरे दहरं पु- एडरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तस्मिन्यदन्तस्तदन्वेष्ट- व्यम्" इत्यादि प्रकृय "तद्य इहात्मानं अनुविद्य व्रजन्त्येता- श्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति " इति । वाजपनेयके च य एषोऽन्तहृदय आकाशस्तस्मिञ्छते सर्वस्य वशी सर्वस्येशानः" इति। किमुभयव विद्यैक्यं उत वि- द्याभेद इति संशयः ॥ रूपभेदाद्विद्याभेद इति पूर्व पक्षः यद्यप्युभयन परमात्मैवोपास्यस्तथाप्येकत्राकाशशब्दाभिधेयः परमात्मोपास्य इतरत्राकाशे शयानः परमात्मेति हि रूपं भि- द्यते ॥ राद्धान्तस्तु-हृदयायतनत्वसससंकल्पसत्यकामत्वादेर- भेद तद्विशिष्टः परमात्मैवोपस्य इति रूपाभेदाद्विद्यैक्यम् । छांदोग्ये हि "दहरोऽस्मिन्नंतर आकाशस्त- स्मिन् यदंतस्तदन्वेष्टव्यम्" इत्यारभ्य" किं तत्र विद्यते" इ- उभयत्र "

૨૮૮
वेदान्तदीपे
त्यादिना परिचोद्य " तस्मिन्कामाः समाहिता एष आत्माs-
पहतपाप्मा विजरो विमृत्यु" इत्यारभ्य " सत्यकामः सत्यसं-
कल्प" इत्युक्त्वा “तद्य इहात्मानमनुविद्य व्रजेत्येतांश्च सत्यान्
कामान्"इत्याकाशशब्दनिर्दिष्टः परमात्मा तदन्तर्गताश्च स-
त्यकामत्वसत्यसंकल्पत्वापहतपाप्मत्वादयो गुणाः। अतः परमा-
स्मा हृदयायतनत्वसत्यकामत्वादिविशिष्ट उपास्य इति वाक्ये-
नैव निर्णीतम् । वाजसनेयके च “य एपोंऽतर्हृदय प्राकाश-
स्तस्मिन्शेते सर्वस्य वशी" इत्युक्ते मति वशित्वादेः सससंक-
ल्पत्वविशेषरूपतया स एव परमात्मा हृदयायतनः स-
त्यसंकल्प उपास्य इति प्रतीयते । अतो दहरविद्याप्रत्य-
भिज्ञानात्स एव परमात्मा सत्यकामादिगुणाष्टकविशिष्ट उपा-
स्य इति निधीयते । एवं निश्चिते सति आकाशे शयान
इति आकाशशब्दोऽपि हृदयपुंडरीकवय॑वकाशवाचीति विद्यै-
क्यमेव ॥ मूत्रार्थः-कामादीतरत्र तत्र च वाजसनेयके छां-
दोग्येऽपि च सत्यकामत्वाद्येव रूपम् । कुतः। आयतनादिभ्यः
हृदयायननत्वसत्यमंकल्पत्वविशेषरूपवशित्वादिभ्यः तत्सह-
चारिणः सत्यकामत्वादेः प्रत्यभिज्ञानात् । "परं ज्योतिरूपसंपद्य
स्वेन रूपेणाभिनिष्पद्यते । अभयं वै ब्रह्म भवति" इति
ब्रह्मप्राप्तिरूपं फलं चैकमिति विद्युक्यम् ॥
"मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन” इत्यादेः प्र.
कृतत्वात् “स एप नेति नेत्यात्मा” इति च वक्ष्यमाणत्वात्
"सर्वस्य वशी सर्वस्येशानः” इसादिविशेषाणां ब्रह्मस्वरूप-
पत्वाभावात् कथं सत्यकामत्वादेः मोक्षसाधनोपासनरूपत्व-
मित्यत्राह-
आदरादलोपः ॥ ३९ ॥

तृतीयाध्यायस्य तृतीयः पादः । वशित्वादेः प्रमाणान्तराविदितस्य श्रुत्यैकसमधिगम्य- स्यादरेण प्रतिपादनादलोपः अप्रतिषेधः । तस्यापि ब्रह्मगुण- त्वमवश्याश्रयणीयम् । विशेषनिषेधास्तु सकले एवं प्राकृतवि- षयाः। नानात्वनिषेधस्तु सकलस्य ब्रह्मकार्यतया ब्रह्मात्मक- त्वाभिप्रायः॥ सगुणोपासनस्य “स यदि पितृलोककामो भवति" इति पितृलोकादिप्राप्तिवचनात्सांसारिकफलत्वेन न मोक्षफलत्व- मित्याशङ्याह- उपस्थितेऽतस्तद्वचनात् ॥ ४० ॥ उपस्थितिरुपस्थानम् । ब्रह्मोपमंपत्तिः । उपस्थिते ब्रह्मो- पसंपन्ने अतो ब्रह्मोपसंपत्तरेव हेनोः तद्वचनात् पित- लोकादिप्राप्तिवचनान्न तत्मांसारिकफलम् अपि तु संसारान्मु- क्तस्यैव " अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपमपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः । स स्वराड्भवतितस्य स- र्वेषु लोकेषु कामचारोभवति" इति च निहत्ताविद्यस्य हि स्वेन रूपेणाभिनिष्पन्नस्यैव " स तत्र पर्येति " इत्युच्य- ते । अतो ब्रह्मोपसंपत्तिहेतुकत्वं संक्रीडनादेरवगम्यते ॥ (तन्निर्धारणानियमाधिकरणम् ।) तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्य- प्रतिबंधः फलम् ॥ ४१ ॥ छांदोग्ये “ ओमित्येतदक्षरमुद्गीथमुपासीत" इति क- मांगाश्रयमुद्गीथायुपासनं श्रूयते । तत् किं तस्मिन्कर्मणि पर्णतादिवत् नियमेनोपादेयम् उत गोदोहनादिवत् अनियमेनेति संशयः ॥ कांगाश्रयत्वेन पर्णतादिवत् तद्वारेण निरूढकार्यत- बेदान्तदीपे या“यदेव विद्यया करोति-तदेव वीर्यवत्तरम् इति वर्तमाननिर्दे- भास्य पृथकफलप्रतिपादनायोगात् क्रत्वर्थतया नियमेनोपादे- यमिति पूर्वः पक्षः ॥ राद्धांतस्तु-"तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद " इत्युद्गीथोपासनहितस्यापि क्रत्वनुष्ठान- दर्शनात् क्रतुफलात्स्वर्गादेः पृथग्भूतवीर्यवत्तरत्वफल- मिदमुपासनमिति गोदोहनादिवदनियमः । वर्तमाननिर्देशे ससधिकारांतरानश्चये सति रात्रिमत्रवत् क्रतोर्वीर्यवत्तरत्व- मस्योपासनस्य फलमिति कल्पनीयम् ॥ सूत्रार्थ:-तनिरिणा- नियमः। निद्धारणं निश्चयेन चेतसो धारणम् । उपासनमियर्थः। तस्योद्गीथोपासनस्यानियमः । कुतः । तदृष्टेः “तेनोभौ कु- रुतः" इत्यनियमदृष्टेः । पृथग्भुतं ह्युपासनस्य फलम् । तच्चाप्र- तिवन्धरूपम् । वीर्यवत्तरत्वं नाम प्रवलकतिरबलेन एतस्य कर्मणः फलस्याप्रतिवन्धः । अविलंवितत्वामित्यर्थः ।। (प्रदानाधिकरणम् ।) प्रदानवदेव तदुक्तम् ॥ ४२ ॥ दहरविद्यायां “तद्य इहात्मानमनुविद्य व्रजपतांश्च मत्या- कामान्" इति अपहतपाप्मत्वादिगुणानामाप परमात्मस्वरू- पचिन्तनवत् पृथकचिन्तनं विहितम् । किं गुणचिन्तने तत्त- द्गुणविशिष्टतया परमात्मानुचिन्तनमावर्तनीयं उत नेति संश- यः॥परमात्मन एकस्यैव सर्वेषां गुणानां गुणित्वेन सकृदेव त- चिन्तनोपपत्ते वर्तनीयमिति पूर्वः पक्षः ॥ राद्धान्तस्तु- गुणिनः स्वरूपैक्येऽपि तत्तद्गुणविशिष्टाकारादिभेदादावर्तनी- यमिति ॥ सूत्रार्थ:-प्रदानवदावर्तनीयमेव । यथा न्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायन्द्राय स्वराज्ञ इतीन्द्रस्यैकत्वेऽपि राजत्वादिविशिष्टाकारभे- - " तृतीयाध्यायस्य तृतीयः पादः । दुक्तं संकर्षे । दाद्देवताभेद इति प्रदानावृत्तिः तद्वदेव नाना वा देवता पृथक्त्वात् ” इति ॥ (लिंगभूयस्त्वाधिकरणम् ।) लिङ्गभूयस्त्वाद्धि बलीयस्तदपि ॥ ४३ ॥ तैत्तिरीया अधीयते सहस्रशीर्ष देवं विश्वाक्षं विश्वशं- भुवम्, विश्वं नारायणम्” इत्यारभ्य “सोऽक्षरः परमः स्वराद" इत्यन्तम् । अस्मिन्ननुवाके नोपासनं विधीयते। किमयं पूर्वानुवा- कोदितदहरविद्योपास्यविशेषनिर्धारणार्थः उत सर्ववेदान्तो- दितसर्वपरविद्योपास्यविशेषनिर्दाणार्थ इति संशयः ॥ दहवि. द्याया अानन्तर्यात्तदुपास्यविशेषनिर्झरणार्थ इति पूर्वः पक्षः । "सहसूशीर्षम्" इति द्वितीयानिर्देशस्यानन्तरोदितोपसिना सं- बन्धस्यैव युक्तत्वाच्च राद्धान्तस्तु-परब्रह्मपरतत्त्व- परज्योतिःपरमात्माक्षराशवशंभुशब्दैः सर्वपरविद्योपास्यान- नूध वाक्येनैव तेषां नारायणत्वविधानात् तस्य , प्रकरणा- ल्लिङ्गबलीयस्त्वेन वलीयस्त्वात् परविद्योपास्मीनार- णमिति निश्चीयते । न च "सहस्रशीर्षम्" इति द्वितीयानिर्देशः पूर्वेणोपासिना संवध्यते । “तस्मिन् यदन्तस्तदुपासितव्यम्" इति पूर्वेण कृत्मययेन कर्माभिहितमिति तत्र द्वितीयानिर्देशायोगात् । नारायणः परः । व्याप्य नारायणः स्थितः । परमात्मा व्य- वस्थितः" इत्यादिभिरैकार्थ्यात्मथमार्थे द्वितीया ॥ सूत्रा- र्थः सर्वविद्योपास्यनिर्दोरणे लिङ्गभूयस्त्वात्तस्य चि- न्हभूतवाक्यभूयस्त्वादित्यर्थः तद्धि वाक्यं प्रकरणावलीयः । तदपि पूर्वस्मिन्काण्डे " श्रुतिलिङ्गवाक्यपकरणस्थानसमा- ख्यानां समवाये पारदोविल्यम्" इत्यादिनोक्तम् । एवं सर्वोपा- “ वेदान्तदीपे " स्यनिरिणे निश्चिते सति दहरविद्यायामपि अयमेवोपास्ट इति "पद्मकोशप्रतीकाशम् " इत्यादिना हृदयाघभिधानं च यु- ज्यत इसभिप्रायः ॥ ( पूर्वविकल्पाधिकरणम् ।) पूर्वविकल्पः प्रकरणात्स्यात् क्रिया मा- नसवत् ॥ ४४ ॥ वाजमनेयके अग्निरहस्ये " मनश्चितो वाक्चितः प्राण- चितश्चक्षुश्चितः ” इत्यादिना मनश्चितादयोऽग्नयो विद्यारूपाः श्रूयन्ते। किमेते क्रियामयक्रत्वङ्गभूता उत विद्यामयक्रत्वङ्गभूता इति संशयः ॥ अस्मिन्प्रकरणे विद्यामयक्रत्वनुवन्धिग्रहस्तो- त्रादिदर्शनेपि क्रतोविंधानाभावात् फलान्तरामतीतेश्च पूर्वत्र असता इदमग्र आसीतू इत्यादिना इष्टक- चितस्याग्नेः प्रकृतत्वान्मनश्चितादिषु च " तेपामेकैक एव तावान् यावानसी पूर्वः” इति तत्कातिदेशादिष्टकचितेनैपां विकल्प प्रतीतेश्च इष्टकाचताग्निशेषभूतक्रियामयक्रत्वनुप्रवेशेन तदङ्गभूता इति पूर्व: पक्षः ॥ राद्धान्तस्तु-" तेहैते विद्याचित एव विद्यया हैवैत एवं विदश्चिता भवन्ति” इति मनश्चितादी- नां सांपादिकाग्नित्वेन विद्यारूपत्वे सिद्धेऽपि "ते हैते विद्या- चित इति श्रुतिर्विद्यामयक्रत्वङ्गत्वनैषां विद्यारू- पतामरगमयतीति निश्चयात् सन्निहितानसैर्ग्रहस्तोत्रा- दिभिः क्रत्वनुबन्धैरनुवादवाक्यमरूपवाक्यप्रतिपादितैः क्रतु- दर्शने सति “ वचनानि त्वपूर्वत्वात् " इति न्यायेन मनश्चि- तादीनां शेषिभूतविद्यामयक्रतोविधिः परिकल्प्यते । "तेपामेकै- क एव तावान यावान तौ पूर्वः" इति मितिदेशेनेष्टकाचिताग्नेः एव ACADE:.. IMEL.. 1762 8.94.

० ० १२ . ० . . . सूचौपचम् । गजपा: गोलप्रकाशः गंगालहरी गुरसारणी जातकतत्त्वम् तत्त्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंप्रहः धातुपाठः ( शिला -) ) धातुरूपावली नेषध चरित नारायणा टीका टाइप रिभाषापाठः पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् ( प्रश्न विचार का बहुत उत्तम प्रन्थ ) बीजगणितम् (म० म० पं० सुधाकरकृतटिप्पणीसहित) भट्टीकाव्य ५ सर्ग मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लक्षणावली लीलावती ( म. म. पं० सुधाकरकुतटिप्पणीसहित) १ वसिष्ठसिद्धान्तः वार्तिकपाट विष्णुसहस्रनाम शब्दरूपावली टार सप्तशती समासचक्रम् समासचन्द्रिका सरखतीकण्ठाभरणम् सासन्यचन्द्रिका टिप्पणीसहिता सान्यतत्त्वकौमुदी सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गत्तिः ००० ००००००० ०० . . orm ....poronvaror ov. ० - .

विज्ञापनम् । बनारससंस्कृतसीरीजनानी वाराणसेयसंस्कृतपुरकावली । ६० भाक ५ ३ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः कचिदालगाषानुवा- दहिताश्च प्रन्या मुद्रिता भवन्ति । तांश्च प्रन्यान् काशिकराजकी- यसंरकन शालीयपण्डिता अन्य ऽपि विद्वांसः शोधयन्ति । येन- हकमारायैरियं पुस्तकावली नियमेनाविच्छेवेन संग्राह्या तेलदे- कंकस्य खण्डस्य ) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशययुःकानिचित् खण्डानि संग्राह्यापि तैश्च प्रत्येक खण्डाना- ० मूल्य प्रापणव्ययश्च देय इति । तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः सण्डानि ५ अर्थसहप्रह. भंग्रजीभाषानुवादसहितः मन्त्रवार्तिकम खण्डानि १२ १२ कात्यायनमहर्विप्रणीत शुरुयजुःप्रातिशास्यम् सभाग्य मांख्यकारिका चन्द्रित यसहिता वाक्यपदायम् वण्डानि ३ रसगङ्गाधरः खण्डानि परिभात्तिः खण्डं २ वैशेषिकदर्शनं किरणापलीदीकासंबलितप्रशस्तपादप्रणीन- भाग्यसहितम् खण्ड २ शिक्षासङ्ग्रहः खण्डानि कम्यसिद्धिः खण्डानि ३ मवार्षिकात्म मनप्रणानं शुक्लयजुस्लमां: क्रममत्रम् समान्य अग्यवीयशानकप्रानिशाक्यं सभाग्यम् खण्डानि ३ (वृहत) बेयावरणभूरणम् पढायंदीपिकासहितम विवरणोपन्यामः सदाकवाक्यमुधासहितः खण्डे २ २ तस्वदीपनम् (चपादिकाधिवरणग्य व्याख्यानम) वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्टे २२ बनारळानती (बजना) प्रजभूषण दाम पौर सम्पनी चांदनी चौक के उत्तर नई सड़क बनारस। २ ४

No text on this page.

No text on this page.

No text on this page.

Vedanta Deepa Vol.2

Author
Raamaanujaachaar^ya
Other authors
Bhattanatha Swami (ed.)
Title
Vedaantadiipa: Baadaraayand-asutraand-aan' San'grahavyakhyaarupa Vol.2
File name
Vedanta Deepa Vol.2
Text
OCR done
Citation
1903
Published
2004/09/21
Publisher
Chowkambha Sanskrit Book Depot, Braj B Das And Co. Benares
Language
Sanskrit
Pages
106
Library
Asr Melkote
Classification
Philosophical Systems
Keywords
Indian religion and Philosophy : a compendious treatise on the sutras by Ramanujacharya or Gloss on Brahmasutra
DLI number
383341
Barcode
1990020047687.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
ewTosEdjG1Y
Download PDF

Vedanta Deepa Vol.2