Svi-ksri-chennai
Shrii Gand-esaatharvashircham Sabhaashhthamuu
Front matter
MAC. RAS, [.] ग्रन्थनाम। मूल्यम् । आ. १२ १२ १२ १० ६ 20 ... ४ ४ ९ مم .. ३ २० २९ उपनिषदां समुच्चयः-श्रीनारायणशंकरानन्दकृतदीपिकासहितः।६ ३० नृसिंहपूर्वोत्तरतापनीयोपनिषतू-भाष्याद्युपेता। ३१ बृहदारण्यकोपनिषन्मिताक्षरा--श्रीनित्यानन्दमुनिविरचिता। २ ३२ ऐतरेयब्राह्मणम-सायणभाष्यसमेतम् । भागद्वयात्मकम् ।... १० ३३ धन्वन्तरीयनिघण्टुः-श्रीधन्वन्तरिविरचितः। वैद्यकग्रन्थः ३४ श्रीमद्भगवद्गीता-शांकरभाष्योपेता । ३४ श्रीमद्भगवद्गीता-सटीकशांकरभाज्योपेना ! ३५ संगीतरत्नाकरः-शाईदय माविम मानसास्त्रम् । १० ३६ तैत्तिरीयारण्यकम-सायणभाष्यसमेत सामाङ्घ यात्मकम ! ३७ तैत्तिरीय ब्राह्मणम्-सायणभाग्यमान भागवयात्मकम ।... १४ ३८ ऐतरेयारण्यकम-सायणमा गहिरम । ३९ संस्काररत्नमाला-गोपीनाथभट्ट विराना । भागव्यात्मिका। १२ ४० संध्याभाष्यसमुच्चयः-खण्ड राजश्रीक्षणपण्डिनादिप्रणीतः। २ ४१ अग्निपुराणम्-महर्षिव्यासप्रणीलम् । महापुराणम् ४२ तैत्तिरीयसंहिता-सायणभाष्यसमेता । भागनवकात्मिका । ४३ वैयाकरणसिद्धान्तकारिकाः-मट्टोजीदीक्षितकृताः सटीकाः। ० ४४ श्रीमद्भगवद्गीता-पैठाचभाष्यसमेता । ४५ श्रीमद्भगवद्गीता-मधुसूदनीवर कडी कांपता। ४६ याज्ञवल्क्यस्मृतिः-अपराक ही कामहिता भागद्वयात्मिका। १३ ४७ पातञ्जलयोगसूत्राणि-भाष्यवृत्तियां मितानि : , ४८ स्मृतीनां समुच्चयः-अङ्गिरःप्रभृनिसप्तविंशतिस्मृत्यात्मकः । ५ ४९ वायुपुराणम्-महर्षिव्यासप्रणीतम् । महापुराणम् । ५० यतीन्द्रमतदीपिका-श्रीनिवासदासकृता । प्रकाशटीकोपेता । । ५१ सर्वदर्शनसंग्रहः-माधवाचार्यप्रणीतः। ... २ ५२ श्रीमदणेशगीता-नीलकण्ठकृतटीकोपता। ५३ सत्याषाहौतसूत्रम्- सत्याषाढविरचितं भागदशकात्मकम् । २८ ५४ मत्स्यपुराणम्-श्रीमद्वैपायनमुनिप्रणीतम् । महापुराणम् । वार्थचिन्तामणिः--आठवले इत्युपा हविष्णुभट्टाः। नित्याषोडशिकार्णवः-भास्कररायोन्नीतटीकासहितः । ४८ १० १२ ८ ५ o ३ . ४ १२ २ . ६ ३ ८
No text on this page.
[३] ग्रन्थनाम। मूल्यम् । ६ ४ २ V میه २ ८ ३ ४ ... १२ ४ रू. आ० ५७ आचारभूषणम्-हिरण्यकेश्वाह्निकमोकोपाहव्यम्बककृतम् । ४ ५८ आचारेन्दुः-माटेइत्युपाहत्र्यम्बकविरचितः । ५९ श्राद्धमञ्जरी-केळकरोपाहबापूभट्टविरचिता । ६० यतिधर्मसंग्रहः-विश्वेश्वरसरस्वतीकृतः । १२ ६१ गौतमप्रणीतधर्मसूत्रम्-हरदत्तकृतीकासमेतम् । ६२ ईशकेनकठप्रश्नमुण्डमाण्डूक्यानन्दवल्लीभूगपनिषदः-सटीकाः२ ६३ छान्दोग्योपनिषत्-रङ्गरामानुजविरचितप्रकाशिकोपेता । १२ ६४ बृहदारण्यकोपनिषत्-रङ्गरामानुजविरचितप्रकाशिकोपेता। ३ ६५ शाङ्खायनब्राह्मणम्-ऋग्वेदान्तर्गतबाष्कल शाखीयम् । ... ६६ काव्यप्रकाशः-उद्योतयुतप्रदीपसहितः । ६ ६७ ब्रह्मसूत्राणि-दीपिकासमेतानि । ६८ बृहद्ब्रह्मसंहिता-नारदपञ्चरात्रान्तर्गता । ६९ ज्ञानार्णवतन्त्रम्-ईश्वरप्रोक्तम् । तन्त्रशास्त्रग्रन्थः । ७० स्मृत्यर्थसारः-श्रीधराचार्यविरचितः । ७१ बृहद्योगतरङ्गिणी-त्रिमल्लभट्टविरचिना भागद्वयोपता । १२ ७२ परिभाषेन्दुशेखरः-वैद्यनाथकृतगदाख्यटीकायुतः । ६ ७३ गायत्रीपुरश्चरणपद्धतिः-श्रीमच्छंकराचार्यविरचिता ।... ७४ द्राह्यायणगृह्यसूत्रवृत्तिः-रुद्रस्कन्दप्रणीता । ७५ ब्रह्मसूत्रभाष्यार्थरत्नमाला-सुब्रह्मण्यविरचिता । ७६ ईशकेनकठोपनिषदः-दिगम्बरानुचरकृतव्याख्यासमेताः । ७७ वेदान्तसूत्रमुक्तावलिः ब्रह्मानन्दसरस्वतीविरचिता । ७८ त्रिस्थलीसेतुः-नारायणभट्टविरचितः । १२ ७९ छान्दोग्योपनिषत्-मिताक्षराध्याख्यासमेता। ८० वाक्यवृत्तिः-श्रीमच्छंकराचार्यकृता सटीका । ८१ आश्वलायनश्रौतसूत्रम्-नारायणरुतवृत्तिसमेतम् । ८२ ब्रह्मसूत्रवृत्तिः-हरिदीक्षितविरचिता । ८३ संक्षेपशारीरकम्-व्याख्यासहितं भागद्वयोपेतम् । ९ ८४ अद्वैतामोदः-अभ्यंकरोपाह्ववासुदेवशास्त्रिप्रणीतः । ८५ ज्योतिर्निबन्धः-शूरमहाठभीशिवराजविरचिवः । 1 १ १० ... १० २ १ १ 6 २ २ ८ ४ ११ २ १ २ 3
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः १
श्रीगणेशाथर्वशीर्ष सभाष्यम् ।
पण्डित वामनशास्त्री इसलामपुरकर इत्येतैः
संशोधितम् ।
तच्च
बी. ए. इत्युपपदधारिभिः
विनायक गणेश आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८४१ ।
खिस्ताब्दाः १९१९ ।
तृतीयेयमडून्नावृत्तिः।
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )।
मूल्यं षडाणकाः (४६)।
No text on this page.
ॐ तरूब्रह्मणे नमः । अथ गणेशाथर्वशीर्षम् । सभाष्यम्। प्रणम्य तं गणेशानं सिद्धिबुद्धिमदं परम् । अथर्वशीर्षभाष्यं वै कुर्वे वेदान्तवहितम् ॥ १ ॥ अथाथवगो ब्रह्मणां ब्रह्मणश्च स्वस्थोपाधिविरहात्मैक्यज्ञानप्राप्त्यर्थं गणे- शाथर्वशीर्षमवदन् । सर्ववेदोक्तकर्मोपासनज्ञाननिष्ठनिर्विसिद्धिबुद्धिप्रकाशकत- तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहन्वात् । तत्त्वमसिप्रतिपाद्यब्रह्म- बाद्यान्तरकर्मज्ञानप्राप्त्यर्थोपायोपासकन्वाभावाच । ननु---तत्त्वमस्यादिमहा- वाक्यार्थालुपवयुक्ता योगिनो भवन्ति. किं गणेशोपासनेन ? सावयवब्रह्मण ए- इभानाय ...--इति केन । महाशापतिपाद्यनमसदोदात्मकत्वादध्यारोपा- पवाइसिद्धयर्थ - नशोपाननं मलयं. ४ वाद्यान्नसनात्मभावनाशकत्वाच । ननु- ब्रीक्यभावचिन्तनादध्यारोकापवादलिदिभविष्यति । अथेदभावनायाभेदनाश- कत्वात् इति चेन्न । ब्रह्मण ऐक्यभावचिन्तनाभावात् । " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह " [ तै० ३० २ । ४ । २८ ] इति श्रुतेः गणे- शचिन्तनस्य - संभवाच्च । " ब्रह्मणां ब्रह्मणस्पते ” इति श्रुतिसार्थकत्वात् । * अब मूले चतुर्वप्यादर्श पुस्तकेषु · स्वस्थ पाणिविहारा मैक्य ० ' इति वर्तते तदसङ्गतमिव प्रतिभाति । " उपाधिना क्रियते भेदरूपः" इत्यादिश्रुतिभ्यः ब्रह्मणां जीवाना, ब्रह्मणश्च उपाधिक- लित एव भदः वस्तुतस्त्वभेद एव । अतः जीवन मणोः स्वस्थोपाधिभूतयोः विद्याविद्ययोः विरहेण भाग- त्यागलक्षणया पृथक्करणेन यदा मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणो गणेशाथर्वशीर्षमवददित्येव साधीयः । स्वस्वोपाधिविहारेणात्मैक्यज्ञान प्राप्तरसंभवात् तत्र प्रमाणाभावाच्चेति सुधियो विदाकुर्वन्तु । "निष्कलं निष्क्रिय शान्तं ' इत्युकत्वात् शुद्धस्य ब्रह्मण: " यतो याचा निवर्तन्ते अयाप्य मनसा सह” इति श्रुत्या वाङमनसयोरगोचास्य तस्योपासनं न घटेत । अतः .. अध्यारो- पापवादाभ्यां निष्प्रपञ्च प्राच्यते " इति न्यायन उपागनसिद्धयर्थं सगणस्य गणेशत्वस्य तबाऽऽरोप इति भावः। X बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः, आभ्यन्तराः अहं सुग्वी. अहं दुःखी---इत्याद्य- भिनिवेशादया येऽनात्मभावाः तेषां नाशकत्वादि यर्थः । साकार वात् गणेशचिन्तनस्य संभव इन्यवधेयम् । १ ख. ननिठ' । २ ख बयो' । ३ क, ख ग घ टु.. वोक । ४ ख , सदान' ५ क. स. 'दभावनाशकलाञ्चन्न ।
. , कर्मणैव हि २ गणेशाथर्वशीर्षम् । अस्यायमर्थः । ब्रह्मणामनप्राणादिप्रणवपर्यन्तानां शिवविष्ण्वादिदेवात्मकानां च पतिगणेशः । सोपाधित्वेन नानात्मकत्वात्सदासमानत्वाभावाब्रह्मणामिति बहुवचनम् । अन्यच्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः । अनपवादनिर्वि. कल्पनात्मकत्वात् । एकवचनं जीवात्मपरमात्मनोरैक्यत्वात् । तयोः पतिस्त- त्त्वमस्यात्मकत्वात् । ननु-ब्रह्मणः चिन्तनं संभवति, "श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः" [वृ० उ० ४।४।५] इति श्रुतेः-इति चेत् । सत्यम् । तथाऽपि चित्त- वृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृध्यानध्येयाभावात् चित्तस्य च. अलत्वेन तत्स्थैर्याभावाच्च । वस्तुतस्तु गणेशचिन्तनं सर्वसिद्धिप्रदम् । तत्त्व- मस्यात्मकत्वात्सुलभार्थतदथर्वशीर्षतात्पर्यात् । ननु--नानाकामप्रदं गणेशचि- न्तनं, सिद्धिप्रदत्वात्--इति चेन्न । ब्रह्मभावसिद्धिप्रदत्वात् । संसिद्धिमास्थिता जनकादयः " इति सिद्धानां कपिलो मुनिः" इति । भविष्ये व्यासेन शुकस्योपदेशः कृतः " प्राप्स्यसे सिद्धिमुत्तमाम् ।" इत्यादिना- नास्मृतिभ्यः । ननु--शिवचिन्तनं सर्वसिद्धिपदम् । " ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः" इति श्रुतेः-इति चेन्न । ईशानस्य विशेष्यत्वात् ब्रह्माधिपत्यादिपदानां तदङ्गविशेष- णत्वात् । ननु-सर्वश्रेष्ठेशानब्रह्माधिपत्यादिपदानां विशेषणत्वमेव-इति चेन्न । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुतिस्कृतिविरोधापत्तेश्च । " ब्रह्माधिपतिर्ब्रह्मणोऽ- धिपतिर्ब्रह्मा" इत्यस्यायमर्थः । तामसरयोंकारात्मकस्य विश्वेश्वरादिद्वादशशि- वावताराणामेकादशरुद्राणां कालभैरवादिशिवावताराणां च स्तवनं ब्रह्मात्मक- तया कृतम्, अंशांशिनोरक्यप्रतिपादनत्वात् । तेषां शिवावतारब्रह्मणामधिपति- रीशानः , तत्तद्रूपधारकत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्म- णोऽधिपतिः । सत्तासदैकजातिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानाव- वतारसत्तास्रष्टेशानः, विशेष्यात्मकत्वात् । ननु-गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । ब्रह्म- णस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाद्रीक्यभावप्रदब्रह्मणस्पत्याख्याया मुख्यत्वाच्च । ननु-ब्रह्मणस्पतेरपि ब्रह्मोपासना मुख्या, पतिभावनाशकत्वात् महावाक्यस्य ब्रह्मपतिपादकत्वाच्च । “ प्रज्ञानं मन । सत्यं ज्ञानमनन्तं ब्रह्म । + अत्र सर्वेष्वादर्श पुस्तकेषु 'ब्रह्मभूतसिद्धि' इति प्रामादिकमिव प्रतिभाति । 'ब्रह्मभूय- सिद्धि' रथवा 'ब्रह्मभावसिद्धि.' इत्येव सुवचम् । १ ख. 'न भेदात्मकत्वात्स । २ ख. °क्यभावात् । ३ ख. 'त्वात् वाक्यव्यक्तादिसृष्टि- प्रपो । ४ क. ख. 'विशेष्येशानत्वात् ब'। ५ ख . °शेषात्म । .
सभाष्यम् । ३ सर्वं खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एकमेवाद्वितीयं ब्रह्म । अयमात्मा ब्रह्म" इत्यादिश्रुतिभ्यश्च-इति चेन्न । स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणब्रह्मणश्वोपदे- शार्थ पतिपदं, तदाराधनोपाधिकारणभावनाशकत्वात् । पतिपदं न वास्तवम् । उपाधिहीनब्रह्मणां कारणहीनब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । “ पतित्वं कथनात्मकम् " इति स्मृतेः। ननु बाह्याज्ञाननाशको गणेशः, अवयवयुक्तत्वात्-इति चेन्न । आन्त- राज्ञाननाशकोऽपि, बुद्धिपतित्वात् । अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायाम् " [तै० उ० २ अ० १] इत्यादिश्रुतिभ्यः, " यो युद्धेः पर- तस्तु सः" इति “ आत्मा बुद्धेः परो मतः" इत्यादिस्मृतिभ्यश्च । ननु-शिव- विष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रदं, तत्तदथर्वशीर्षे तत्तद्रमप्रतिपादकत्वात् -इति चेन्न । अव्याकृतप्रणवानन्दाद्युपासनवदारण्यकोक्तब्रह्मप्रतिपादक- स्वात् , गणेशाथर्वशीर्षे तत्त्वमस्यात्मकमहावाक्यप्रतिपाद्यब्रह्मैक्यात् , महावा- क्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच्च । न चैवं-गजवदनाद्यवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया ब्रमणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः। सदा कार्यकारणक्यन- प्रणः सावयवगणेशेऽवच्छेदकावच्छेद्यहीनत्वादव्याप्तिश्च-इति वाच्यम् । स्वं तदसिपदस्वस्वोपाधिविहारसामर्थ्यपदसंपूर्णतत्त्वमस्यात्मकदेहभृद्गणेशोपासन- अनन्तकल्पविहारशाश्वतसंतोषस्वस्वोपाधिनाशकगणेशोषा- सनप्रयोजनत्वात् , उपास्योपासकोपासनाया महदज्ञानना शकत्वात् , ब्रह्मण्युपा- स्यत्वाभावात् , सामान्यानुमानतया गणेशब्रह्मणोरक्यप्रतिपादकत्वाच्च । न चैवं-ब्रह्मोपासनं वेदान्तविरुद्धम् , ब्रह्मभूतस्य उपास्योपासकत्वाभा- वात् । “ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति श्रुतेः इति वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्रहार्थ गाणेशत्वात् , देहरक्षणार्थ भोजनाच्छादनवत् कायिकवाचिकमानसिकसांसर्गिकगाणेशधर्म- त्वाचति दिक् । अथ प्रकृतमनुसरामः । ॐ नमस्ते गणपतये। अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभकर्मोपासनज्ञानयोग- * अब • स्वस्वोपाधिविहार ' इत्यनेन शिवविष्ण्वायाकाररूपोपाधि भः लीलाकैवल्गम- स्पर्थोऽवगन्तव्यः । १ ग. व. पास्यायमा । २ ग. घ. 'ब्रह्मेति उपासनं। ३ ग. घ. सकामा' । प्रयोजनत्वात् , . गणेशाथवशीर्षम् । प्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् * । ग्रन्थादौ मङ्गलाचरणस्य शि- ष्टसंप्रदायप्रवर्तकत्वात् । वेदाद्य ॐकारः सर्वमङ्गलमयो, वेदोक्तनानाकर्मोपा- सनज्ञानयोगफलप्राप्तिकारकत्वाच्च । “यो वेदादौ स्वरः प्रोक्तः" इति श्रुतेः । स्वर इत्योंकाराख्या छान्दोग्ये । " तस्याऽऽदिस्मरणावश्यत्वात् " इति । न चैवं-सर्वश्रुतिस्मृतिपुराणेतिहासप्रोक्तं सर्वारम्भेष्वादी गणेशपूजनं निरर्थकम् अत्रोंकारस्मरणात्-इति वाच्यम् । सगुणगणेशस्योंकारमयत्वात् तदेव कथ्यते मौद्गल । गणेशस्यादिपूजनं चतुर्विधम् , चतुर्मूर्तिधारकत्वात् । तत्र ब्रह्मणश्चतु- भ्यॊ मुखेभ्यः पुराणं निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासे. नाष्टादशपुराणान्युपपुराणानि च कृतानि कलिमन्दमतिजनबोधप्रवेशार्थम् । तत्र अष्टादशपुराणेष्वायं ब्राह्म निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धिपरात्मप्रति- पादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्भ्ययुक्तं , प्रणवप्रतिपाद- कत्वात् । तद्वदुपपुराणेष्वाचं गाणेशं सगुणनिर्गुणैक्यभावयुक्तं, गजवदना- घवयवमूर्तिधरमाहात्म्ययुक्तत्वात् । अन्त्यं मौद्गलं योगमयं गणेशमाहात्म्य- युक्तं , सर्वपुराणोपनिषौक्यभावप्रदत्वात् । पुराणोपपुराणेषु मध्यस्थषोडश पुराणानि शिवविष्ण्वादिगणेशांशमाहात्म्ययुक्तानि । मध्ये नानांशविहारप्रति- पादकत्वात् । तत्र सर्वदायुक्तंसदारम्भे गणेशस्मरणं चतुर्विधम् , आइन्तपु- * अब सर्वेश्वादर्श (स्तकेषु ओंकारस्य मङ्गलाचरणार्थत्वमुक्तं तन्न युक्तमिति प्रतिभाति - यद्यपि “मङ्गलादीनि मङ्गलमध्यानि मकालान्तानि च शास्त्राणि प्रथन्ते " इत्यादि वचनैः निष्पत्यू- हपरिसमाप्तये ग्रन्थादौ मङ्गलाचरणस्य शिष्टसंप्रदायप्रवर्तकत्वं र पष्टं तथाऽपि मङ्गलाचरणत्य विघ्न- विधातनिवारणार्थमेवानुष्ठेयत्वात् अपौरुषेयेषु स्वत एव मङ्गलरूपेषु वेदेषु विश्नषियातशङ्काया असंभ- वात् अब ओंकारस्य मङ्गलाचरणार्थत्वं न युक्तम् । पौरुषेयेष्वेव प्रत्यूहशङ्का, न नरपो षेयेषु । अत- स्तव मङ्गलाचरणस्य शिष्टसंप्रदायः । न हि केषुचिद्वैदिकग्रन्थे । मङ्गलाचरणमनुष्ठितं दृधम् । किंच । सर्वकर्मसु आदौ निर्विघ्नतासिद्धयर्थं स्मरणीयग्य गणेशस्याप्यथर्वशीर्षारम्भे प्रत्यूहनिवारणार्थ मङ्गला चरणस्याऽऽवश्यकत्वे तस्यापि निनितासिद्धयर्थमन्यत् तस्याप्यन्यदित्यनवस्था केन वार्येत । तस्मा- त्सुष्टुतमत्र ओंकारस्य मङ्गलार्थत्वनति । अथ तस्य कोऽर्थ इति चेत् शुणु । "ओमित्येतद्ब्रह्म” इति श्रुतेः “ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ' इति स्मृतेश्च भगवता भाष्यकृता “ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम् । तस्मिन् हि युज्यमाने स पसी दति प्रियनामग्रहण इव लोकः” इत्युक्तत्वात् “तस्य वाचकः प्रणवः” इति श्रुतेश्च ओंकारस्य ब्रह्मणः वाचक-वं सिद्धमत ओंकारशब्दवाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोंकारस्योपदेश इत्येवं व्याख्यानं युक्तम् । नचैवं सति ओंकारस्य आरम्भार्थकत्वं कुतो न स्वीक्रियत ? इति वाच्यम् । “अन- न्ता वै वेदाः" इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया असंभव दित्यलं पल्लवितेन। x छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयरवण्डे " स्वरइतीममाचक्षते " इत्यादौ द्रष्टव्यमेतत् । १ क. ड. तसृष्टय रम्भ सभाष्यम् । राणोपपुराणेषु गणेशमाहात्म्यप्रकाशकत्वात् । तत्र केचिदादो बुद्धिस्थगणे- शस्मरणं कृत्वा सत्कर्माणि कुर्वन्ति । तद्वत्पणवस्मरण केचित् , केचिन्मूर्तिध- रस्मरणं, केचिद्योगमयस्मरणं च, तत्तत्सिद्धिप्रदत्वात् । तत्र कथ्यते- " अष्टादशपुराणेषु दशभिर्गीयते शिवः । चतुर्भिर्गीयते विष्णुद्वाभ्यां शक्तिश्च विघ्नपः ॥ इति स्मृतेः । ननु-उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयुक्तम् । उप- वेदवत्कनिष्ठसंज्ञामयत्वात्-इति चेन्न । तत्रोपपदस्य श्रेष्ठत्वप्रतिपादकत्वात् । इन्द्रोपेन्द्रनिदर्शनत्वात् , उपदेशप्रकरणादौ कनिष्ठान्तश्रेष्ठत्वप्रतिपादकत्वात् , पूर्वमीमांसोत्तरमीमांसावदरण्यवद्हणत्वाच्च । तथाच गणेशगीतायाम्- अष्टादशपुराणोक्तममतं प्राशितं मया । ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् "॥ इत्यादिस्मृतिभ्यः। देवादिगणानां महत्त वादितत्त्वगणानां निर्गुणसगुणब्रह्मगणानां च पतिर्ग- णपतिः । सर्वादिपूज्यसर्वपूज्यत्वात् । गण्समूहे इति धात्वर्थात् । नचैवं-अशुभ- कर्मारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसमयपितृयज्ञादावप्रसिद्धत्वात्-इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिप्रदत्वात् , वेदोक्तसत्कर्मारम्भे पितृय- ज्ञसिद्धिप्रदत्वात् , वेदोक्तपितृयज्ञारम्भे गणेशपूजननिषेधाभावात् , तद्वत्पाणप्रया- णसमये कथितत्वाच्च । “ज्येष्ठराजम्" इति श्रुतेः पितॄणामपि ज्येष्ठत्वात् । तथा च गाणेशे त्रिपुरवधकाले शिववाक्यं- 'शैवैस्त्वदीयरुत वैष्णवैश्व शाक्तैश्च सौरैरपि सर्वकार्ये । शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात्" । इति । गणेशगीतायामपि- यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः । स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज" ।। ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच । सर्व भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते । अस्मानातः परं किंचित् । यो वेद स वेद ब्रह्म । ब्रह्मैवाऽऽमोति तत्सर्वमित्याचक्षते "। * · उप ' पदसहित इन्द्रः उपेन्द्रो विष्णुः । स था उयोपसर्ग सहितेन्द्रशब्दवः च्योऽपि इन्द्रादुतमः, तथा उपपुरःणं पु !णादुर म भात व पार्थः । वस्तु स्तु उपेन्द्रः इत्यत्र उपसर्गस्य सालीपार्थत्वात् अन्यत्र कुत्रापि तस्योत्तमाभिधायित्नपदर्श भागदिदं प्रख्यात्मगतमेवेति प्रतिभाति ।
६ गणेशाथर्वशीर्षम् । - ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह " तद्गणेश" इति तत्परमित्याह यमेतेनाप्नुवन्ति" इति गणेशतापिनीश्रुतेः । तथाचोक्तं मौद्गले- गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाह्यान्तरैक्यभावतः ॥ अनानां सकलानां वै समूहेऽनमयं परम् । कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ।। तेपां स्वामी गणेशानस्तं ज्ञात्वा योगिनः पुरा । शान्ति प्राप्ता विशेषेण योगशान्तिमयं परम्" ।। इति । अन्यच्च- " कथितं सामवेदे यच्छृणु वेदरहस्यकम् । येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥ मनोवाणीमयं सर्व दृश्यादृश्यस्वरूपकम् । गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः।। मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ।। विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ।। णकाराच्च प्रसूतानि ब्रह्माणि तानि योगिभिः । निरोधात्मकरूपाणि कथितानि समन्ततः । गकारश्च णकारश्च नाम्नि गणपतेः स्थितौ । तदा जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ।। तयोः स्वामी गणेशश्व योगरूपेण संस्थितः। तं भज व विधानेन शान्तिमार्गेण पुत्रक "॥ ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्कारासंभ. वाञ्चति नाममन्त्रोऽयमादौ वर्णितः । सर्वजनोद्धारसुलभत्वात् ॥ ननु-गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्वात् । तदर्थ महावाक्यप्रतिपाद्यतामाह- खमेव प्रत्यक्षं तत्त्वमसि । त्वमिति । त्वमेवेति नान्यः निश्चयोर्थ एवकारः । प्रत्यक्षमिति । ब्रह्म दृष्टि- गोचरम् । नरगजभेदाभिन्नाकृतिमयत्वात् । तेनै च महान् हर्षः, साक्षाब्रह्मदर्श- १ क. १. म. घ. ह. पार्थ वादेव' । २ क. ख. ग. ह. भेदाकृ' । ३ क. ख. ग. ध. उ. न म। २ सभाष्यम् । नाभावत् । तत्त्वमसीति । जगत्कारणं तत्पदसंज्ञम् । निर्विकल्पकत्वात् । सन्मूलमन्विच्छ सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्मतिष्ठाः " [छा० उ० ६ । ६ ] इति श्रुतेः । “भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा " [छा० उ० ७। २४ ] इति । " ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चो. तरेणेति । स यथा सैन्धवघनोऽनन्तरो बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" [बृ० उ० ६।५।१३ ] इति श्रुतिभ्यः । सत्यं ज्ञानमनन्तमानन्दं ब्रह्म" । सत्यमविनाशि- नामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधी- यते । अनन्तं नाम मृद्विकारेषु मदिव, सुवर्णविकारेषु सुवर्णमिव, तन्तुकार्येषु तन्तुरिवान्यक्तादिसृष्टिमपञ्चेषु सर्वव्यापकं चैतन्यं अनन्तमित्युच्यते । आ. नन्दो नाम सुखचैतन्यस्वरूपापरिमितानन्दसमुद्रे अविशिष्टसुखरूपश्च आनन्द इत्युच्यते । एतद्वस्तुचतुष्टयं यस्य स्वरूपलक्षणं देशकालवस्तुनिमित्तेष्वव्य- भिचारि स तत्पदार्थः। परमात्मा परं ब्रह्मेत्युच्यते " इति सारोपनिषच्छ्तेः जगन्मयं त्वंपदसंज्ञ, नानाभेदप्रकाशकत्वात् । “ अमित्येतदक्षरमुद्गीथमुपासीत । अमित्युद्गायति । तस्योपव्याख्यानम् । एपां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामो- षधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाक् रसः । वाच ऋक् रसः । ऋचः साम रसः । तस्योद्गीथो रसः । स स एष रसानासतमः । परमः परा- र्योऽष्टमो यदुद्गीथः ३। कतमा कतमा ऋक् ! कतमत् कतमत्साम ? कतमः कतम उद्गीथ ? इति विमृष्टं भवति ४ । वागेव ऋक् । प्राणः साम । अमित्येत. दक्षरमुद्गीथः । तद्वा एतन्मिथुनं ओमिति । यद्वाक् च प्राणश्च च साम च । तदेतन्मिथुनमोमित्येतदस्मिन्नक्षरे सरसृज्यते । यदा वै मिथुनौ समागच्छत आपयतो बै तावन्योन्यस्य कामम् ॥ ६ । [छा० उ० ३ । १] यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपासकस्त- द्धर्मो भवति । आपयिता ह वै कामाना तं यथायथोपासते तदेव भवतीति । "त्रयं वा इदं नामरूपं कर्म" [बृ० उ० ३ । ६ । १] । “तदेतदमृतसत्येन छन् । प्राणो वा अमृतं । नामरूपे सत्यं । ताभ्यामयं प्राणश्छन्नः"[व० उ० ३।६।३] * अब 'जगन्मयं त्वंपदसंज्ञं, नानाभेदप्रकाशकत्वात्' इत्युक्त्ता "ओमित्येतदक्षरमुद्गीथम्" इत्याचाः भुतय उदाहनाः । परं न जानीमः प्रकृते तासां के प गेग ? इति । .
८ गणेशाथर्वशीर्षम् । “यथोर्णनाभिस्तन्तुनोच्चरेत् । स यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्ये- वमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि * सर्व एव आत्मानो व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषामेष सत्यम् " [ बृ० उ० ४।१।२ . ] । “अथ यत्रान्यत्पश्य यन्यद्विजानाति तदल्पमिति"। मनआदिश्च प्राणादिश्च सत्त्वादिश्च इच्छादिश्च पुण्यादिश्चैते पञ्च वर्गा इत्येषां पश्चानां वर्गाणां धर्मीभूतात्मज्ञानादृते न विनश्यत्यात्मसंनिधौ नित्यत्वेन प्रती- यमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते । तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भाव तिरोभावहीनः स्वयंज्योतिः स साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्रा- णिबुद्धिष्वविशिष्टवयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते कूटस्थायुपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूत- त्वेन यदा प्रकाशत आत्मा तदाऽन्तर्यामीत्युच्यते । सर्वोपाधिविनिर्मुक्तः सुवर्णधन- चद्विज्ञानघनश्चिन्मात्रस्वभाव आत्मा यदाऽवभासते तदा त्वंपदार्थः प्रत्यगात्मेत्यु- च्यत इति श्रुतिभ्यः । त्वंपढ़तत्पदयोरभेदेऽसिपदं, सोपाधिनिरुपाधिही- नसदात्मत्वात् । “ धूय एव मा भगवान्विज्ञापयतु यद्वै मनसा ध्यायति स तद्वाचा वदति । स य एपोऽणिमा एतदात्ममिदसर्व तत्सत्य ५ स आत्मा । तत्त्वमसि श्वेतकेतो" [छा० उ० ६ । ८ ] । इति क्रमेण नवधोपदेशस्त- त्वमस्यात्मकमहावाक्यस्य ग्रन्थबाहुल्यभयान्न लिख्यत इति । त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत्सूक्ष्म एव केव- लसत्तामात्रोऽसिपदार्थः । “ स्वयंज्योतिरात्त्युच्यते । त्वंपदार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः । अधुना तत्त्वमस्यात्मकगणेशस्त्ररूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्वमसीति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो गजात्मकश्च तयोरभेदेसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसीति प्रत्यक्षवाक्य- प्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाविब्रह्मात्मकत्वात् । स एव त्वंपदार्थः। प्रणवपरसोपाध्यभावात् । ओमित्येकाक्षरं ब्रह्मेदं सर्व तस्योपव्याख्यानं सर्व भूतं भव्यं भविष्यदिति सर्वमोंकार एव" इति श्रुतेः । सोपाधिकः स्यात्सर्वत्र " इति स्मृतेः। * — सर्व एस आत्माने । इत्येतत्कलिकातामुदिन बृहदारण्यक पुस्तके नास्ति । १ ग. ति गणेशतापिन्यां श्रु' ।
सभाप्यम् । " आपो नारा इति प्रोक्ता आपो वै नरसूनवः " इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वेदभाष्ये शंकरा- चार्यवचनात् । “ नराज्जातानि तत्त्वानि ” इति स्मृतेः । प्रणवात्तत्त्वोत्पत्तिः । सर्वशास्त्रसंमतत्वात् । नारायणोपनिषदि नारायणनामार्थप्रतिपादने नराज्जाता नाराः ता एवायनं यस्येति नारायणः। प्रणवमयत्वात् । प्रणवोपासकसंन्या- सिनां नारायणसंज्ञात्मकत्वात् । " दण्डग्रहणमात्रेण नरो नारायणो भवेत् " । इति स्मृतेः । गाणेशे- " यस्मादोंकारसंभूतियतो वेदा यतो जगत् " । इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैक्यसत्तामयत्वात् । अथ गजश- ब्दार्थः कथ्यते । तत्पदैक्यसत्ताप्रतिपादनार्थत्वात् । समाधिना योगिनो यत्र गच्छन्तीति गः । यस्माद्विम्वप्रतिविम्ववत्तया प्रणवात्मकं जगजायत इति जः । गश्वासौ जश्च गजः । विश्वकारणत्वात् । “ जन्माद्यस्य यतः " [अ० १ पा० १ सू० २] इति व्याससूत्रात् । यस्मादोंकारसंभूतियतो वेदा यतो जगत् "। इति गाणेशात् । न चैवं–विपरीतो गजपदार्थ आदौ लयः पश्चात्सृष्टिः गकारजकारमयत्वात्-इति वाच्यम् । आदावेव समाधिना योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चात्तत्स्वरूपद- र्शनार्थं तस्मात्सृष्टिरुक्ता शिष्यबोधार्थम् । न चैवं–अन्नं ब्रह्म गजशब्दाख्यं, " अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते " ० उ० अ० ३ अ० २ कं० ३६ ] इतिश्रुतिप्रतिपादितब्रह्मणामपि सर्व- भूतोत्पत्तिलयकारकत्वात् इति वाच्यम् । प्राणब्रह्मणि अन्नस्योत्पत्तिलयदर्श- नात् । तद्वन्नानारण्यकप्रतिपादितब्रह्मणामप्युत्पत्तिलयकथनान्महावाक्यप्रतिपा- द्यब्रह्मजगत्कारणनिर्गुणैकसंभवत्वात् , तस्मात्परकारणाभावाच्च । तदेव गणे- शतापिन्याम्-" अप्राप्यं चाप्राप्यं च, अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्स- शक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे" इति श्रुतेः । अस्यायमर्थः । अप्रा- प्यं चापाप्यं मनोगतिशून्यं यद्यत्प्राप्यते तत्तन्मनोगतियुक्तत्वात् । अत्र वीप्सा हि आग्रहप्रदर्शिनी । कदापि प्राप्यत्वाभावात् । अज्ञेयं चाज्ञेयं वाण्या च वक्तु- मशक्यं वाण्याऽकथितम् , मनोध्येयत्वात् । पूर्ववद्वीप्सा ज्ञातव्येति । विकल्पा- [ तै० . १ क. ख. ग. थ, झ, थत्वात् ।
. १० गणेशाथर्वशीर्षम् सहिष्णु विकल्पशून्यम् , निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात् । "त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकात्" इति श्रुतेस्तत्पदार्थसशक्तिकात्म- कत्वसंभवात् । गजवक्त्रं तत्पदार्थमयगणेशवक्त्रमात्रत्वाद्गज इव वक्त्रमिति व्युत्पत्तिसंभवाच्च । गजाकारं जगत् ओंकारात्मकं जगत्सोपाधि ब्रह्म जगन्म यत्वात् । तदेव गणेशतापिन्यां- ततश्चोमिति ध्वनिरभूत्तत्स वै गजाकार अनिर्वचनीया सैव माया जगद्वीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधान मिति च मायाशबलमिति च " इति श्रुतेः । गजाकारोंकारप्रतिपादनात्तदेव जग- न्मयत्वाद्विम्बप्रतिविम्बवद्गजशब्दाख्यब्रह्मणो गजाकारोंकारोत्पत्तिदर्शनाद्गज- स्याऽऽकार इवाऽऽकारो यस्येति व्युत्पत्तिसंभवात्साक्षाद्जमयाभावात् गजाकार- श्रुतिप्रतिपादनाच्च । एवावरुन्धे गजाकारं जगद्यदुत्पन्नभादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोधनार्थसंभवात् । इति गजशब्दाख्यतत्पदार्थक्यप्रतिपा- दनं , श्रुतिप्रमाणत्वात् । नरमजयोरभेदेऽसिपदात्मको गणेशदेहः । संपूर्णस्तत्त्व मस्यात्मकः, प्रत्यक्षमधुनाऽपि सावयवत्वात् । सोपाधिनरस्त्वंपदार्थात्मको गणेश- देहः, पादादिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात् । सोपाधिनिकृष्टत्वादधमाङ्ग- मित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तकपर्यन्तगजा- कृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः। तयोोंगेऽ. सिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपादनत्वात् । ब्रह्मगणे- शयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासंभवः, सामान्यानुमानसंभवात् । तद्वत्सर्वदोषनिराकारणसामर्थ्यादत्र ग्रन्थे सर्वत्रैव दोषासंभवात् । अत्र सिद्धि- बुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्तवृत्तिमयी बुद्धिस्तद्धर्षविपादादिमोहप्रदा सिद्धिः, “ योगश्चित्तवृत्तिनिरोधः" [पा० १ सू० २ ] इति पातञ्जलसूत्रात् । एवं संपूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतत्पदासिपदभि- प्रभावशोधनार्थ ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह- त्वमेव केवलं कर्ताऽसि । त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्ताप्रधारकः, प्रणवांशमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूलदेहपर्यन्तं जगन्निर्माणकारकः, ओंकारात्तत्त्वोत्पत्तिदर्शनात् । तथाऽपि तद्भावशून्यो विम्ब- प्रतिबिम्बवदोंकारमयः, केवलपदग्रहणात् । तद्वत्- १ क० ग० घ. . 'हणत्वात् ।
सभाष्यम् । ११ . , त्वमेव केवलं धर्ताऽसि । जगत्पालकोऽसि, नामरूपकर्मभेदतया स्वस्वकर्मानुसाराकृतिभोगप्रदत्वात् । तद्वत्- त्वमेव केवलं हर्ताऽसि । प्राकृतलयप्रवर्तकत्वात् । एवं त्वंपदार्थ केवलमिति पदेन तदुपाधिहीनतया शोधयित्वा तत्पदार्थशो- धनार्थमाह- त्वमेव सर्वं खल्विदं ब्रह्मासि । सन् तत्पदार्थव्यवहारसत्ताप्रधारकः , सर्वोपाधिवर्जितांशमयत्वात् । सर्व खल्विदं ब्रह्मासीति । सर्वमिदमोंकारमयं जगत् खलु नानोपाधिसंशयहीनम् । त्वमिति त्वमेव तत्त्वमसिमयः, सदैव ब्रह्मैक्यभावप्रतिपादनत्वात् । ब्रह्मासि तत्पदार्थमयत्वात् । “सर्वं खल्विदं ब्रह्म । तज्जलानिति शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीतति सर्पोपाधिभावमनादृत्य ब्रह्मैक्यभावप्रतिपादन- त्वात् । तत्पदार्थप्रतिपादकमिदं महाकाव्यं, तज्जलानिति सर्वकारणप्रतिपाद. कत्वात् । एवं तत्पदार्थ ब्रह्मासीति वचनसामर्थ्याच्छोधयित्वाऽसिपदशोधनार्थमाह- त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥ त्वमिति । साक्षादात्माऽसि नित्यमिति कार्यकारणैक्यभावत्वादात्मनः सातत्य- गमनं नित्यम् , सर्वाभेदमयत्वात् । त्वंपदार्थात्मा, तदभिन्नत्वात् । तत्पदार्थात्मा, तदभिन्नत्वात् । एवं यद्यन्मनोवाणीमयं तद्धीनं च तत्र तत्तदभिन्नतया तदात्मा तदाऽपि तत्तदुपाधिभावहीनत्वान्नित्यमिति पदं न कार्य न कारणम् , आत्मनि साख्याभावात् ।। इति अधिदैवतप्रतिपादकः प्रथमः खण्डः ॥ १॥ एवं त्वंपदार्थ तत्पदार्थमसिपदार्थं च शोधयित्वा तत्तत्पदार्थमयं गणेशं प्रतिपाद्य एतत्प्रमाणार्थ स्वप्रतिज्ञा प्रदर्शयन्नाह--- ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥ ऋतमिति । ऋतमनृतात्मकासुरभावाभिमानशून्यं, यथार्थगणेशभक्त्यभिमान- हीनभाषणत्वात् यथावेदानुभवप्रतिपादनत्वाच्च । वच्माति कथयामीति । सत्य- मिति । सदा देशकालवस्तुनिमित्तेषु विनश्यत्सु यदविनाशि तत्सत्यं , . १२ गणेशाथर्वशीर्षम् । सर्वबाधहीनत्वात् । शिवविष्ण्वादिनानाब्रह्मप्रतिपादनात्मकदेहेषु गणेशदेहः संपूर्णब्रह्मैक्यभावभयः , महावाक्यमयनरगजाभेदाकृतिधारकत्वात् । इदं सत्य- मविनाशीति वच्मि कथयामि ॥ इति स्वप्रतिज्ञात्मको द्वितीयः खण्डः ॥२॥ एवं स्वप्रतिज्ञा सत्यभाषणात्मिकां प्रदर्य ऋतसत्यभाषिणं गणेशो रक्षति सदा, यथार्थस्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटयन्नाह- अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अब पश्चात्तात् । अब पुरस्तात् । अवोत्तरात्तात् । अव दाक्षणात्तात् । अब चोध्यात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥ अवेति । त्वं साक्षात्प्रत्यक्षं तत्त्वमस्यात्मकः, अतो मामव । ऋतसत्यभा- पिणं धर्मार्थकाममोक्षब्रह्मभावार्थिनं मां नानाविघ्नसमुदायाद्रक्षेति स्वप्रति- ज्ञापालको भव, भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम् अव वक्तारम् इत्यादिपदेष्वसंधिराषः । एवं सर्वत्र ज्ञातव्यम् । बेदेच्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं च यथार्थप्रदो भव, मदीयक- तफलश्रुतिभोगप्रदत्वात् । श्रोतारं मां मत्कृताथर्वशीर्षादित्वत्स्तुतियथार्थपाठ- कनानाजनपरीक्षार्थं तच्छ्रवणकर्तारमव, यथार्थश्रोतृप्रियत्वात् । दातारं अथर्व- शीर्षादित्वदुपासनदातारं मामव, यथाऽथर्वशीपरंपरासंप्रदायप्रवर्तकप्रिय- त्वात् । धातारं त्वत्मियकर्योपासनज्ञानयोगसाधनस्रष्टारं मामव , यथार्थसाधन- प्रियत्वात् । अनूचानं त्वत्प्रियान्यर्पिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संश- ययुक्तं तत्संशयनाशकारकं मामव , स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम् , मद्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् । पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविघ्नेभ्यो मत्पृष्ठभागदिस्थितेभ्यो मामय, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरस्ताद्विघ्नेभ्यो मामव इति तद्वदुत्तरदक्षि- णोधिरा ज्ञातव्याः । दशदिग्रक्षणप्रार्थनाप्रतिपादकत्वादेकार्थः । सर्वतो विदि- गान्तरबाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि पाहि । आदराद्वीप्सा । सम- न्ताद्ब्रह्माण्डान्तरगतभयात्पाहीति भावः ॥ इति तृतीयः खण्डः ॥३॥ १. ख० पुस्तके पश्चात् ' मूले पाठान्तरं दृश्यते परं नैतत्साधु । २ सर्वेष्वादर्शपुस्तषुकेषु भूतार्थिन । इति वर्तते तत्यामादिकमेवति प्रतिभाति । , .
सभाष्यम् । १३ एवं ऋतसत्यशीलरक्षणात्मकप्रार्थनां विधाय हृदिस्थं बुद्धिपरबुद्धिचालक नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह- त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा- नमयो विज्ञानमयोऽसि ॥ ४ ॥ त्वमिति । अत्र “सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्" [ तै० व० २ अ० १] इतिमहावाक्यप्रतिपादकश्रुत्यर्थं प्रतिपादयति । निहितं गुहायामिति, हृयवस्थितब्रह्मत्वात् । वाङ्मयः, वाणीकथितनामरूपमय- त्वात् । “ एषां पृथिवी रसः । पृथिव्या आपोऽपामोषधयस्तासां पुरुषस्तस्य वाक् " इति श्रुतेः । त्वं चिन्मयः, नामरूपाहंकृतियुक्तो जीवः, तद्भोगकृतत्वात् । “स एव इह प्रविष्ट आनखाग्रेभ्यो यथाऽक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वं- भरकुलाये । तं न पश्यत्यकृत्स्नो हि सः। प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकै- कमुपास्ते न स वेदाकृत्स्नो श्रेषोऽत एकैकेन भवति आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्ददेवं कीर्ति श्लोकं विन्दते य एवं वेद" इति " तत्सृष्ट्वा तदेवानु- प्राविशत्" इत्यादिश्रुतिभ्यः त्वमानन्दमयवाङ्मयप्रकृतिमयचिन्मय पुरुषम- यस्ताभ्यां सृष्ट आनन्दः सुषुप्त्यवस्थात्मकस्त्वन्मयः, पञ्चकोशवीजत्वात् । " आनन्दो ब्रह्मेति व्यजानात्" [ तै० व० ३ अ०६] इति श्रुतेः । त्वं ब्रह्म मयः, वाङ्मयचिन्मयानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थैक्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह-त्वं सच्चिदानन्दाद्वि- तीयोऽसि इति । सत् प्रकृतिभावदोषहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द आसमन्ताव्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्यत्वादिति । इदं महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वरि महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्तसीमाभूतत्वात् । अ- नन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलीदीपन्यायवत्सत्यज्ञानोभया- भेदमयमुभयप्रकाशकतन्मध्यप्रतिपादनत्वात् । त्वं प्रत्यक्षं ब्रह्मासि, चि- न्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृयवस्थितं त्वां पश्यामीति स्वानु- १ ख० ग० ब० इ. दायिनं च । २ घ. ङ. भवन्ति ।
गणेशाथर्वशीर्षम् । भवप्रदर्शनात् । “चिति स्मृतौ" इति धातुपाठात् । " इदितो नुम्" इति पाणिनिसूत्राचिन्तायां स्मृत्यां मणिरिव तत्प्रकाशकः । सर्वहृयवस्थितं ब्रह्म त्वमेवेति भावः । एवं सत्यं ब्रह्म गुहायां निहितं प्रतिपादितम् । “द्वे वाव ब्र- ह्मणो रूपे मूर्त चैवामूर्त च मयं चामृतं च स्थितं च यच्च सच्च त्यच्च" इति श्रुतेः। "सच्च त्यच्च तयोर्योगे सत्त्यं ब्रह्म" इति श्रुतेश्च । एवं ज्ञानं ब्रह्मेति प्रतिपादय- नाह । त्वं ज्ञानमयः । सच्चिदानन्दाद्वितीयात्मकसत्यब्रह्मणोऽभिन्नः सदा निर्वि- कल्पात्मकत्वात्सदेकमयत्वात्सत्यब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्वरूपज्ञान- प्रदत्वात् । ‘ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्य ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्व ज्ञानं केन न ज्ञायते ज्ञानात्परज्ञानाभावादिति । विज्ञानमयोऽसि सर्व ज्ञभावं त्यक्त्वा स्वमहिन्नि स्थितोऽसि, केवलज्ञानब्रह्ममयत्वात् । न हि विज्ञातु- विज्ञातेर्विपरिलोपो विद्यते, अविनाशित्वात् । “ न तत्र सूर्यो भाति न चन्द्रता- रकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । अनन्तं ब्रह्म । सत्यज्ञानक्यात्मकमात्मस्वरूपं हृदि तत्त्वमस्यात्मकार्थप्रतिपादकमहावाक्यात्सत्यं, त्वंपदाथर्मयत्वात् तज्ज्ञानं तत्पदार्थमयत्वादनन्तमसिपदार्थमयस्त्रिविधपदार्थैक्यात्मकब्रह्मप्रतिपादनार्थत्वात्। निहितं गुहायां गुहा बुद्धिस्तस्यां निहितम्, हृयवस्थितबुद्धिपतित्वात् । पञ्च- चित्तव्यापारहर्षविषादसमभावयुक्ततत्तव्यापारसिद्धिप्रदसिद्धिपतित्वाद्गणेशो हृय. वस्थितः । “ सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्यनुभवैक्यात्मगणेशत्वात् । परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते । “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्ड. रीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञा- सितव्यं स ब्रूयाद्यावान्या अयमाकाशस्तावानेपोऽन्तर्हृदय आकाश उभे अ- स्मिन्यावापृथिवी अन्तरेव समाहिते । एष आत्मा अपहतपाप्मा विजरो विमृत्यु- विशोको विजियत्सोऽपिपासः सत्यकामः सत्यसंकल्पः स वा अयं पुरुषः सर्वा- सु पूर्षु पुरिशयः" इत्यादिश्रुतिभ्यः स्वहृयाकाशस्थितत्वात् । अत्र त्वं प्रत्यक्षं ब्रह्मासीति प्रतिपादनात् हृयवस्थितगणेशो ग्राह्यः । प्रत्यक्षं तत्त्वमसीति प्रथम प्रतिपाद्य पुनः प्रत्यक्षं ब्रह्मासीति पुनरुक्तिनिवारणत्वात् । न चएवं सब्रह्मादि- वर्णनं पूर्णब्रह्मप्रतिपादक “सदेव सौम्येदमग्र आसीत् " इत्यादिश्रुतिप्रामा- ण्यात् इति वाच्यम् । प्रत्यक्षं तत्त्वमसीत्यत्र मयट्प्रत्ययाभावात्संपूर्ण ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वाङ्मयादिमयट्प्रत्यययुक्तत्वाद्गौणब्रह्मवर्णनमत्रैव मयड्ढीनयु- क्तप्रतिपादनत्वात् ॥ इत्यध्यात्मप्रतिपादकश्चतुर्थः खण्डः ॥ ४ ॥ १ ख ० 'त्सदेक्यम १२ ख ० ग. व. ड. “त् ज्ञानं । ३ ग० टु ० सर्वब्रह्मा ।
सभाष्यम् । १५ एवं हृयवस्थितं गणेशं प्रतिपाद्याव्याकृतब्रह्मात्मकं प्रतिपादयन्नाह- सर्व जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठ- ति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ॥ ५॥ सर्वमिति । सर्वं जगदिदं त्वत्तो जायत इति । त्वत्तोऽव्याकृतात्मन इदं जग- ज्जायते । व्यवस्थामयव्याकृतत्वात् । तदेवोंकारात्मकगणेशप्रतिपादनत्वात् । गणेशतापिन्याम् । " ततश्चोमिति ध्वनिरभूत् स वै गजाकारोऽनिर्वचनीया सैव माया जगबीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशव- लमिति च" इति श्रुतेः । "ओमित्येकाक्षरं ब्रह्मेदं सर्वं ब्रह्म" इति श्रुतेः । गाणेशे पार्वत्या तपः कृतं तस्यै वरदानार्थमागतो गणेशश्चोंकारात्मकः तद्रूपधा- रकत्वात् । तद्यथा- " मध्ये नारायणमुखो दक्षिणे च शिवाननः । वामे ब्रह्ममुखोऽनन्ते पद्मासनगतो विभुः" इति स्मृतेः । ब्रह्मविष्णुरुद्रात्मानोऽकारोकारमकाराः, कण्ठाधस्तदैक्यभावमयत्वात् । शैवे शिवेन शिरश्च्छेदः कृतः शक्तिपुत्रस्य, जीवात्मकत्वात् गणेशाविर्भावहीनत्वाच्च । तत्र पुनर्गजमस्तकमानीय सजीवकरणे ब्रह्मविष्णुमहेशैरोंकारावाहनं यदा कृतं तदा गणेशाविर्भावदर्शनात् । देवीभागवतेऽप्येवं वर्णनत्वाद्गणेशस्य ओंकारजगदा- त्मकत्वात् । शिवपुराणेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिवैक्यप्रतिपाद- नपुराणप्रतिज्ञारक्षणाच । न चैवं शिवविष्ण्वादय ओंकारात्मकास्तत्तन्माहात्म्य- श्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामससात्त्विकादिस्वस्वैकगुणमयदेहप्र- चुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते, ग्रन्थवाहुल्यभ- यात् । तद्वत्सर्वं जगदिदं त्वत्तस्तिष्ठति, स्वस्वकर्मानुकूलपालनभावधारकत्वात् । तद्वत्पलये त्वयि लयमेष्यति, कल्पान्तमयत्वात् । तद्वत्सर्वं जगदिदं त्वयि प्रत्ये- ति, प्राकृतलये गुणसाम्यमयत्वात् । “त्वय्येत्य सदेव अग्र आसीत्" इति श्रुतिप्रामाण्यात् । त्वं भूमिरापोऽनलोऽनिलो नभः, स्थूलसूक्ष्मसमपञ्चभूतमय- प्रणवत्वात् । “अस्यात्मन आकाशः संभूतः" इति श्रुतेः । प्रणवविशिष्टात्मनः पश्चभूतोत्पत्तिप्रतिपादनत्वात् । त्वं चत्वारि वाक्पदानि । परापश्यन्तीमध्यमा ' १ क, ग. घ. ङ. सर्वमिति। २ ख. ग. प. उ. वर्णित आ'।
- १६ गणेशाथर्वशीर्षम् । वैखर्यश्चतस्रो वाचस्त्वच्छाससंभवधर्माधर्म समज्ञानवोधमयत्वात् । “ स यथाऽऽदें- न्धनाग्नेरभ्याहितस्य पृथन्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व- सितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनि- पदः श्लोकाः सूत्राण्यनुव्याख्यातान्यस्यैवैतानि सर्वाणि निःश्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । “ ओंकारप्रभवा वेदाः” इति स्मृतेः ॥ इत्यधिदेवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५॥ एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थिति प्रतिपादयन्नाह- त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्व दहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ॥ ६ ॥ त्वमिति । त्वं गुणत्रयातीतनानाजनदेहमूलाधारः स्थितः संस्त्रिगुणदोप- प्रवृत्तिप्रकाशाज्ञानवर्जितो लिङ्गचक्रस्थराजसनाभिचक्रस्थसात्त्विकंडक्चक्रस्थ- तामसभावहीनत्वात्रिगुणमूलाधारमयः, प्रणवमयत्वात् । त्वमवस्थात्रयातीतः जाग्रत्स्वमसुषुप्त्यवस्थाभावहीनत्वात् । त्वं देहत्रयातीतः, स्थूलसूक्ष्मानन्ददेह- षड्भावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्तिस्थितिलयकालभावहीनत्वात् । त्वं मूलधारस्थितोऽसि नित्यम् । गुदचक्रं प्रणवमयं तत्र स्थितः, सर्वचक्र- मूलाधारमयत्वात् । मूलधारसंज्ञाख्यं, सदाखण्डस्वानन्दघनत्वात् । नित्यं, त्रिगु. णभाववर्जितत्वाच्च । त्वं शक्तित्रयात्मकः । जगदुत्पत्तिस्थितिलयत्रिविधश- त्याधारात्मकत्वात् । त्वां योगिनो ध्यायन्ति नित्यम् । स्वात्मानन्दब्रह्मैक्यं समाधिना कृत्वा जीवन्मुक्ततया देहप्रारब्धभोगप्रतीक्षका योगिनस्वैगुण्या- त्मकं त्वां नित्यममृतात्मकत्वाद्धयायन्ति, स्वदेहमूलाधारचक्रस्थध्यानसुलभ- त्वात् । त्वं ब्रह्मा जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टप्रवणत्वात् । त्वं विष्णु- जगत्पालकः, सत्त्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात् , त्वमिन्द्रस्त्रिभुवनैश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता, , , १ ख. ग. घ, ङ, कहृच्चक' । २ क. ख. ग घ ङ. 'त्मानं त्र।
- सभाष्यम् । १७ सर्वदेवमुखतृप्तिकारकविशिष्टत्वात्। त्वं वायुः सर्वप्राणभूतः, सर्वजनप्राणप्रवेशस्था- पनोत्क्रमणविशिष्टत्वात् । त्वं सूर्य उदयास्तदिवसरात्रिप्रकाशकः, सर्वजनकर्म- प्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वौषधिजीवनात्मकः, जगदन्नमयविशिष्ट- त्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां स्वस्वव्यापारप्रवर्तकात्मकः। श्रुतयो न लिख्यन्ते, सर्वप्रसिद्धत्वात् । एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या अष्टविशिष्टगणेश प्रतिपादनत्वाद्विचारतदन्तर्गतसंभवाच्च । त्वं ब्रह्म सर्वजनबुद्धिस्थजीवमयः, नानास्वभावप्रकृतिभोक्तृविशिष्टत्वात् । भूः भूलॊकस्त्वमेव, तद्विशिष्टत्वात् । भुवः भुवलॊकस्त्वमेव, तद्विशिष्टत्वात् । स्वः स्वलॊकस्त्वमेव, तद्विशिष्टत्वात् । ॐ प्रणवस्त्वमेव, सर्वमूलाधारचक्रस्थितविश्वचालकत्वात् ॥ इत्यध्यात्मप्रकाशकः षष्ठः खण्डः ॥६॥ एवं साधिदेवताध्यात्मप्रकारयुक्ततत्त्वमस्यात्मकं प्रणवात्मकं च गणेशं प्रति- पाद्य तदनुभवप्रकाशकगणेशविद्यां प्रकटयन्नाह- गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । सहिता संधिः । सैषा गणेशविद्या । गणक ऋषिः । निद्गायत्री छन्दः । गणपतिर्देवता । ॐ गं ॥ ७ ॥ गणादिमिति । पूर्व प्रथमं गणादिं गकारं गणशब्दादिभूतत्वात् । उच्चार्य स्वमुखेनोच्चारणं कृत्वेति । तदनन्तरं वर्णादिः । वर्णा *अक्षराणि तदादिरका- रः, तस्य आदौ कथितत्वात् । तस्मादकारात्परतरोऽनुस्वारः । गकार आदिस्त. स्मात्परोऽकारस्तस्मात्परोऽनुस्वारः परतरः। कीदृशोऽनुस्वारः अर्धेन्दुलसिप्तः, सानुनासिकत्वात् । एवमेकाक्षरमन्त्रात्मिकां विद्या प्रतिपाद्य सशक्तिकमन्त्रं प्र- * अब 'वर्णा अक्षरास्तदादिरकारोकारादिवर्णकथित्वात् । इति सर्वेष्वादर्शपुस्तकेषु दृश्यते तत्यामादिकमिति प्रतिभाति । १ ग, 'श्चान्तरू।
. १८ गणेशाथर्वशीर्षम् । कटयन्नाह-तारेणेति । तारेण प्रणवेन *ऋद्धं युक्तम् । प्रणवयुक्तकाक्षरमन्त्र- त्वात् । तत्राऽऽदौ प्रणवमुच्चार्य पश्चादेकाक्षरोच्चारणम् । “ आदौ प्रकृतिमुच्चार्य पश्चात्पुरुष उच्यते" इति स्मृतेः । रुद्रयामले एकाक्षरगणेशकवचे मन्त्रोद्धारः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपादनात् । तद्यथा-"गं बीजं शक्तिरों- कारः सर्वकामार्थसिद्धये" । इति । तव गणेशस्य मनुस्वरूपं मन्त्रस्वरूपमेतत् , सर्वसिद्धिप्रदगणेशानुभवप्रकाशकसामर्थ्ययुक्तत्वात् । एवं ' गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण ऋद्धम्' इत्यन्तेन संकेतश्रुतिवाक्यप्रतिपादितमन्त्रं जना न ज्ञास्यन्ति, मन्दबुद्धित्वात् । तदर्थ स्वयमेव सुलभतया तदेवाऽऽह-गकार इति । पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपमकारः, अन्त्यरूपमनुस्वारः, उत्त- ररूपमनुस्वारोत्तररूपं बिन्दुः, सानुनासिकात्मकत्वात् । तारशब्दस्तु न वर्ण्यते, स्फुटत्वात् । एतेषां भिन्नानां गकारादिचतुर्णा संधानमेकीकर- णसाधनं नादः, नादप्रेरितकभावोच्चारणयोग्यसामर्थ्यात् । एतेषां नादप्रेरिता- नां संधिः संमीलनं संहिता, यथाक्रमोच्चारणयोग्यसामर्थ्यात् । या 'गणादि पूर्वमुच्चार्य ' इत्यादि ‘तारेण ऋद्धम् ' इत्यन्तेन पूर्व प्रतिपादिता सैषाऽ- धुना ' गकारः पूर्वरूपम् ' इत्यादि ‘संहिता संधिः' इत्यन्तेन प्रतिपादित- त्वात् गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणेशमूर्तिमयजपस्य गणेशसंतु- ष्टिकारकत्वात् । विद् ज्ञाने इति धातुसामर्थ्यात् एकाक्षरमन्त्रस्तत्त्वमस्यात्मक- गणेशमयः प्रतिपादितः । यन्त्रस्थमन्त्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्रप्रतिपादितत्वाच्च । तत्रोंकारयुक्त ओंकारशक्तिविहारजगन्मयप्रतिपादि- तत्वात् पूर्वोक्ततत्त्वमस्यात्मकोंकारात्मकद्विविधसामर्थ्ययुक्तत्वं मन्त्रस्य प्रति- पादितम् , तदुपासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रादिन्या- सा मन्त्रशास्त्रोक्ता ग्राह्याः, तस्य वेदोपाङ्गत्वात् । तद्यथा-ॐ अस्यैकाक्षरगणप- तिमन्त्रस्य, गणक ऋषिः, निवृद्गायत्री छन्दः, गणपतिर्देवता, गं बीजम् , शक्तिः, गणपतिप्रीत्यर्थे सकलाभीष्टसिद्धयर्थं च जपे विनियोगः । गणकऋषये नमः शिरसि । निद्गायत्रीछन्दसे नमो मुखे । गणपतिदेवतायै नमो हृदये । गंबीजाय नमो गुह्ये । ॐ शक्तये नमः पादयोः। अथ षडङ्गन्यासः । ॐ गाम् अङ्गुष्ठाभ्यां नमः । ॐ गीं तर्जनीभ्यां नमः । ॐ गं मध्यमाभ्यां नमः । ॐ गैम अनामिकाभ्यां नमः । ॐ गौं कनिष्ठिकाभ्यां नमः । ॐ गः करतलकरपृष्ठाभ्यां , - * अत्र सर्वत्रापि रुद्धम्' इति इदानींतनानां केषांचित् वैदिकानां पाठः । अर्थस्त्वेक एव १ ग. ड. °सिकत्वा ।
सभाप्यम् । १९ नमः । एवं हृदयादिन्यासः कर्तव्य इति । वक्ष्यमाणं ध्यानं कृत्वा मानसः पञ्चोपचारैः पूजयेत् । तद्यथा-ॐ लं पृथिव्यात्मने गणेशाय गन्धं *समर्प. यामि । ॐ हम् आकाशात्मने गणेशाय पुष्पं स० । ॐ यं वाय्वात्मने गणेशाय धूपं स० । ॐ रं *तेजात्मने गणेशाय दीपं स० । ॐ वम् अमृतात्मने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभूतबीजात्मकपञ्चोपचारार्पणं मानसी पूजा कथ्यत इति संक्षेपः । सर्व मन्त्रशास्त्रोक्तविधिवत्कार्यम् , शीघ्रसिद्धिप्रदत्वात् ।। इति गणेशविद्यात्मकार्थप्रतिपादकः सप्तमः खण्डः ॥ ७ ॥ एवं गणेशविद्या प्रतिपाद्य गणेशगायत्रीमन्त्रं प्रकटयन्नाह- एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ ८॥ एकदन्तायेति । एकदन्ताय एकशब्दाख्या माया । दन्त शब्दाख्यो मायि- कः तयोर्योग एकदन्तः तस्मै । विद्महे जानीमहे । सदा सर्वप्रदत्वात् । तदेव मौद्गले- एकशब्दात्मिका माया तस्याः सर्वं समुद्भवम् । भ्रान्तिदं मोहदं पूर्ण नानाखेलात्मकं किल ।। दन्तः सत्ताधरस्तत्र मायाचालक उच्यते । विम्बेन मोहयुक्तश्च स्वयं स्वानन्दगो भवेत् ॥ माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदन्तः प्रकीर्तितः ॥" इति ॥ वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तरमाक्रमात्म- रूपं मनोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मयंकण्ठाध आत्मा- त्मकमस्तकत्वात्तस्मै । तद्यथा मौद्गले- * अब कल्पयामीति युक्तमिति प्रतिभाति । समर्पणं तु प्रत्यक्षतया अर्घ्यमाणस्योपचारस्यैव भवति न मानसस्य अतः कल्पयामीत्येव युक्तम् । अन्यत्रापि मानसपूजायां “लं पृथिव्यात्मने गन्धं कल्पयामि इति दृश्यते " इति दिक् । * अत्र 'तेजआत्मने ' इति पाठः साधीयानिति भाति । १ ग. ॐ 'सं सर्वात्मने गणेशाय सर्वोपचारान ताम्बूलं दक्षिणां मन्धपुष्पं समर्पयामि । इति अधिकम् ; ड. सर्वोपरनिति न.स्ति. २ रु. ग. घ. उ. पणत्वा मान ३ क. ख. ग. घ. छ. दन्ति: म' ४ ख. 'न्मयः क 0 गणेशाथर्वशीर्षम् । " बिन्ध मायायुतं वक्रं मोहितं सिद्धिबुद्धिगम् । सद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः॥ माया मुखं मोहयुतं तस्माद्वक्रमिति स्मृतम् । परं ब्रह्म तयोर्योगे वक्रतुण्डोऽयमुच्यते ॥ कण्ठाधो मायया युक्तो मस्तकं ब्रह्मवाचकम् । वक्राख्यं तस्य विप्रेश तेनायं वक्रतुण्डकः ॥” इति ॥ धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रह्मात्मको दन्ती द. न्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धिपति- त्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं वायतीति व्युत्पत्तिबलात् ॥ इति गायत्रीमन्त्रप्रतिपादनात्मकोऽष्टमः खण्डः ॥ ८ ॥ एवमादौ नाममन्त्रं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमन्त्रं च इति त्रिविध मन्त्रं प्रतिपाद्य तद्धयानार्थमाह- एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पः सुपूजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम् ।। एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥ एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । “ भग्नवामरदै" इति स्मृतेः । चतुर्हस्तं, चतुर्भुजयुक्तत्वात् । स्वर्गेषु देवताश्चायं पृथ्व्यां नरांस्तथाऽतले । असुरान्नागमुख्यांश्च स्थापयिष्यति बालकः ॥ तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः । चतुर्णा विविधानां च स्थापकोऽयं प्रकीर्तितः " ॥ इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशाङ्कुशदन्त- वरदानि धारयति, स्वभक्तरक्षणार्थत्वात् । १ ख. ग. घ. ङ. ध्यायामः । २ क. ख. ग. व. . त्मक | ३ ख..।
॥ सभाप्यम् । २१ "पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् । नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥ दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् । वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥ इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्वजन्तुकृद्भो- गभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् जन्तुकृतपापपुण्यविवर्जितत्वात् (च)। स एव गणेशसेवार्थ मूषको बभूव । मुष् स्तेये इति धात्वर्थात् । तद्यथा- मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् । तेन मूपकवाहोऽयं वेदेषु कथितोऽभवत् ।। मुपस्तेये तथा धातुतिव्यस्तेयब्रह्मधृक् । नामरूपात्मकं सर्व तत्रासहह्म वर्तते नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः । भोगेषु भोगभोक्ता च ब्रह्माकारेण वर्तते ॥ अहंकारयुतास्तं वै न जानन्ति विमोहिताः । वयं भोक्तार एवं ते मानयन्ति विशेषतः ॥ ईश्वरः सर्वभोक्ता च चोरवत्तत्र संस्थितः । तदेवं मूषकः प्रोक्तो मनुजानां प्रचालकः ॥ मायया गूढरूपः स भोगान्भुङ्क्ते हि चोरवत् " ॥ इति स्मृतिभ्यः । रक्तम् , रक्तवर्णशरीरत्वात् । लम्बोदरम् , स्वोदरे सर्वस्यापि प्रतिष्ठितत्वात् , स्वस्य न कस्याप्युदरस्थत्वात् , स्वोदरोद्भवसर्वजगत्त्वात् , स्वस्य न कस्याप्युदरभंवत्वाच । तथा च- " लम्बोदरोऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा वेदे लम्बोदरप्रवाचकाः ।। तस्योदरात्समुत्पन्नं नानाविश्वं न संशयः । नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ।। मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यश्च सर्वपूज्यो बभूव ह ।। सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पती॥ इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगिमुखोद्गतजनकर्णमार्गहृद्गतः सन् शूर्पवत्पापपुण्यरजो दूरी करोति ब्रह्मप्राप्तिकारकत्वात् । तद्यथा- २२ गणेशाथवेशीपम् । " रजोयुक्तं यथा धान्यं रजोहीनं करोति च । शूर्प सर्वनराणां वै योग्यं भोजनकाम्यया । तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सन्दरि ॥ शूर्पकर्ण समाश्रित्य त्यक्त्वा मलविकारकम् । ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ॥ तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि " ॥ इति स्मृतिभ्यः । रक्तवाससम् , सदा रक्तवस्त्रप्रियत्वात् । रक्तगन्धानुलि- साङ्गं रक्तपुष्पैः सुपूजितमिति, रक्तवर्णप्रियत्वात् । मौद्गले पञ्चवर्णवरप्रदो गणेशो बभूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः सदा कृतः, स्ववरदान- रक्षणार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्पिनम् । तत्र भक्तिर्गणेशैकतत्परा इहलोकपरलोकविषयेच्छाहीनात्मिका, कायिकवाचिकमानसिकसांसर्गिकतदे- करसयुक्तत्वात् । उद्यथा संक्षेपतः- " इत्येवं नवधा भक्ती रसयुक्ता कृता मयि । क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ॥ तदा संपूर्णभक्तश्च जातो वै नात्र संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा " ॥ इति स्मृतेः । देवम्, सर्वत्र तत्तद्रूपेण क्रीडाकारकत्वात् । दिवु क्रीडायाम् इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वपूज्यादिपूज्यत्वात् । “ ज्येष्ठराजम्" इति श्रुतेस्तज्ज्येष्ठाभावात् । न चैवं नानावेदशाखापाठेषु कुत्रान्यदेवो ज्येष्ठराजस्तत्प- रज्येष्ठाभावादिति वाच्यम् ,सर्वपूज्यादिपूज्यगणेशान्यहीनत्वात्,ज्येष्ठादिपूज्यसर्व- पूज्यसंप्रदायदर्शनात् अन्यत्र लिङ्गन्दैवतवद्गौणत्वाच्च । अच्युतम्, स्वानन्दवा- सित्वात्कैलासवैकुण्ठादिलोकगुणमयनाशात्मकत्वाच्च । सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये कथितमत्र न लिख्यते,ग्रन्थवाहुल्यभयात् । आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयी, प्रकृष्टसर्वाकृतित्वात् । पुरुषः सदैकः । प्रकृतिमयपरिशयत्वात्ताभ्यां परं, प्रकृतिपुरुषैकात्मकत्वात् । सृष्टयादौ प्रकृति- पुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्मकशरीरत्वात् । एवं नरगजाभेदैकदन्तादि- १म्पितम् । २ सदा सदा । ३ ख. संयुक्तभक्तश्च ।
सभाप्यम् । २३ चिह्नयुक्तं यो नित्यं ध्यायति स योगी, ब्रह्मैकात्मकत्वात् । योगश्चित्तवृत्तिनिरोधः [पा० यो०पा०१सू० २] चित्तं पञ्चविधम् । क्षिप्तं मूई विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, व्यासकृतभाष्ये प्रतिपादितत्वात् । तत्र नरेण यत्र चित्तं क्षिप्तं तत्र तदनुभवयुक्तं भवति तत्क्षिप्तम् , सर्वमायामोहयुक्तजनहृत्स्थत्वात् । यत्र नरेण चित्तं क्षिप्तं तज्ज्ञानतया नानाज्ञानभ्रमधारकत्वान्मूढम्, पिशाचतुल्यनरहृत्स्थत्वात्। मुमुक्षूणां चित्तं विक्षिप्तं संसारविषयांस्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीनं, विषयासक्तत्वाब्रह्मानुभवसुखहीनत्वान्नानातपःपरत्वाच्च । अन्नप्राणाद्यव्याकृत- पर्यन्तानुभवयुक्तमेकाग्रं चित्तं, सर्वेक्यसमाधिसुखयुक्तत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मानुभवसुखयुक्तं निरुद्धाख्यं, सर्वैक्यभावहीनत्वाद्ब्रह्मपरत्वाच्च । " मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः । असंप्रज्ञातनामाऽसौ समाधिरभिधीयते ॥ इति स्मृतेः । ततस्तत्त्वमस्यनुभवसुखयुक्तं निरोधभूमिहीनत्वाच्चित्तवृत्तिनि- रोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् त्वंपदतत्पदासिपदविभा- गशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रह्मैकात्मकत्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणत्वात् प्रत्यक्षतत्त्वमसिशरीरभन्नवधा. चित्तप्रवेशकायिकवाचिकमानसिकसांसर्गिकसदाब्रह्मतत्परचेष्टात्मकत्वात् वेदा- दिहृद्गतज्ञानजनोद्धारकत्वाच्च । न चैवं योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मैकत्वात् श्रेष्ठतम इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वा- द्वेदादिद्तनानोपदेशहीनत्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाजनोद्धारकृत- त्वाद्योगी श्रेष्ठः ! गाणेशयोगी तु श्रेष्ठतमः, पूर्वोक्तब्रह्मचेष्टापरत्वाज्जनोद्धारक- त्वाच्च । न चैवं शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायण- स्वादिति वाच्यम् । तेपामथर्वशिरःसु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा- द्योगिपदाभावाच्च । तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगिपदस्य पर- महंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनत्वात् अन्यदेवाधिकारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दाभिधं, नारायगात्मकभा- वात् । “ दण्डग्रहणमात्रेण नरो नारायणो भवेत् " इति स्मृतेः । गाणेशयो- गिवन्दनं गणेशशब्दाभिधं च, परमहंसानां वरत्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९ ॥ एवं ध्यानं प्रतिपाद्य स्तुत्यर्थमाह- पातञ्जलयोगसूत्रेषु प्रथमपादस्य प्रथमसूत्रभाष्ये द्रष्टव्यमेतत् । १ क, रतत्वा । २ ग. चित्तं प्रवेझ्य कामिक ३ ग. घ. ङ. ता पंदनं ब्रह्म. वंदनब्रह्म। - २४ गणेशाथर्वशीर्षम् नमो व्रातपतये नमो गणपतये नमः प्रथमप. तये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नना- शिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥ नम इति । व्रातपतये देवादिबातानां जीवानां पतित्वात्ते तुभ्यं नमः । गण- पतये ब्रह्मविष्णुमहेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः । “ब्रह्मविष्ण्वा- दिगणानामीशभूतमित्याह । तद्गणेश इति । तत्परमित्याह । यमेतेनाप्नुवन्तीति" इति श्रुतेः ।* प्रथमपतये वर्णानां ब्राह्मणः प्रथमो मुख्यस्त्रिवर्णगुरुत्वात् । ब्राह्म- णेषु योगी प्रथमो, महावाक्यानुभवयुक्तत्वात् । एवं जनानामीश्वराणां ब्राह्मणा- नां च प्रथमाः श्रेष्ठास्तेषां पतिस्तदादिपूज्यतत्पूज्यत्वात्ते नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय नमः । विघ्ननाशिने कालात्मकभयहारिणे नमः, अमृता- त्मकपदप्रदत्वात् । तदेव कथ्यते । अभिनन्दनराजेन्द्रभागहीनयज्ञारम्भः कृतः । तज्ज्ञात्वा कुपितेनेन्द्रेण कालमाहूय तद्यज्ञभङ्गायाऽऽज्ञापितः । स कालपुरुषस्त- धर्म ज्ञात्वा विघ्नासुरो बभूव । जन्ममृत्युमयं जगत्कालधीनं, त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तजनः कालं जित्वाऽमृतमयो भवति तज्ज्ञानकारणं सत्कर्मसाधने- नान्तःकरणशुद्धिस्ततो ब्रह्मानुभवपात्रत्वात्तद्धर्म ज्ञात्वा सत्कर्मनाशनार्थ विनो बभूव । सत्कर्महीनं जगत् कालाधीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽ- भिनन्दनं हत्वा यत्र तत्र दृश्यादृश्यस्वरूपधृक्कालः सत्कर्मखण्डनं चकार । काला- ज्ञानभावात्ततो भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः । तेनाऽऽज्ञप्ताः पार्श्वपुत्र गणेशं तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विना- सुरः पराजितः । स शरणं ययौ । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार । विघ्नेन प्रार्थितो विघ्नराजाख्यो बभूव । तदादि गणेशादिपूजनहीनं तत्स्मरणहीनं यत्स- कर्म तत्र विघ्नप्रादुर्भावः। एवं नियमं कृत्वा तं स्वसमीपे स्थापयामास । एवं स्कान्दे विनायकमाहात्म्ये मौद्गले च प्रतिपादितत्वात् । वेदादिषु विघ्नो भगवानिति कथ्यते, * अत्र ‘प्रमथपतये' इति इदानीन्त नानां सर्वेषां वैदिकानां पाठः । अयमपि साधीयानेव । प्रमथनातीति प्रमथः । शंभोः पारिषदाः प्रमथसंज्ञकाः । तदुक्तं कालिकापुराणे एकोनविंशाध्याये- ध्यानस्थं परिचर्यन्ति सलिलादिभिरीश्वरम् । नानाशस्त्रधराः शंभोगणास्तु प्रमथाः स्मृताः । प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलान् । ते वै महाबलाः शूराः संख्याता वसुकोटयः ॥ १॥ इति शिवसुतत्वात् प्रमथसंज्ञकानां शिवगणानां पतिः इति यथासंभवं योजनीयम् । १ म. प. उ. ब्रह्मणां च. २ कःख. ग. प. उ. जनोऽकालमितिपाठः. ३ क. ख. ग. प. ङ. तदादिमारभ्य गणेशादि. .
सभाष्यम् । २५ कालमयत्वात् कालाधीनसृष्टिस्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा चयं ब्रह्माण ति मदयुक्ताः सन्तो वेदमार्ग त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविना असुरैः पराजिताः स्वेच्छाविहारभङ्गा भवन्ति । पुनर्ब्रह्माभिमानं त्य- क्त्वा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात् , एवं ज्ञात्वा शरणं गच्छ- न्ति तदा स्वस्वसामर्थ्ययुक्ता असुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति, विघ्ना- धीनत्वात् । विशेषेण जगत्सामर्थ्य हन्तीति विघ्न इति व्युत्पत्तिबलाद्विन्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा--" भगवन्तौ विघ्नविनायकौ प्रीयेताम्" इति पुण्याहवाचनवचनत्वात् । स्कान्दे- उक्त्वैवमाह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् । य इदं माययाऽऽमोह्य कलयत्यखिलं जमत् " ॥ इति ॥ "विघ्नरूपेण घोरेण स कालपुरुषो भुवि । गर्जनादखिलाल्लोकान्कम्पयामास वेगवान् " ॥ इति ॥ योगवासिष्ठे भृगुं प्रति कालवाक्यं तद्यथा- " मा तपः क्षपयाबुद्धे कल्पकालमहानलैः । यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ ब्रह्माण्डावलयो ग्रस्ता निगीर्णा रुट्रकोटयः । भुक्तानि विष्णुवृन्दानि क न शक्ता वयं मुने"॥ इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । “ अथ ह आत्मा स सेतुर्विधतिरेषां लोकानामसंभेदाय एष सर्वेश्वर रष भूनाधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय " इति श्रुतेः । लोकानामसंभेदाय विघ्नभयस्वमर्यादायुक्तलोकत्वात् । शिवनुताय । तद्यथा-गणेशेन सृष्टाः शिवा- दयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मानुभवो बभूद, समाधिक्रियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य प्रार्थनां चकार । त्यं मे पुनो भव' त्वपितृ- तारकत्वात् । 'तदहं मायामोहभयहीनश्वरामि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां मयूरेशक्षेत्रमाहात्म्ये- " ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो । मम पुत्र इति ख्यातो लोकेऽस्मिन्भगवन्भव "॥ इत्यादिस्मृतिभ्यः । त्रिगुणावतारैर्ब्रह्मविष्णुशिवाख्यैरवध्यासुरनाशनार्थ कलां शगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रज्ञापनार्थत्वादत्र शिव- सुत इति कथितः, वेदप्रामाण्येषु पुराणेषु नानावतारप्रतिपादनात् । न १ ग. ते विन सुरैः - ४ २६ गणेशाथर्वशीर्षम् । चैवं तपःप्रार्थितगणेशः शिवसुतः, तत्र शिवः श्रेष्ठो गणेशजनकत्वादिाते वाघ्यम् । एवं शिवविष्ण्वाद्यवतारचरित्रत्वादनादिसंप्रदायत्वाच । विष्ण्वथर्व- शीर्षे "ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकीपुत्र- त्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वाद्भक्ताधीनदेवेशत्वाच्च । ते नमः वरदमूर्तये, सर्वेश्वरजनवरदत्वात् प्रत्यक्षं वरदमूर्तिः स्ववरदाभावाच । न चैवं शिवविष्ण्वादयो वरदमूर्तयः, स्वस्वभक्तवरदत्वादिति वाच्यम् । शिव- विष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् । ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति वचनादिति चेन्न। शिवपुत्रभावरक्षणार्थत्वात् पितृदत्ताधिकारपरायणपुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पुरा- तनसंप्रदायत्वात् (च)। ते नमः। 'व्रातपतये' इत्यारभ्य वरदमूर्तये नमः' इतिपर्य- न्तमष्टनामनमनं, तदन्तर्गतसर्वनामत्वात् । नाममन्त्रतत्त्वमस्यात्मकसत्यवादिभ. करक्षणात्मकोंकारात्मकैकाक्षरविद्यागायत्रीध्यानस्तुतिप्रतिपादकमष्टमार्गप्रकाश- कत्वादष्टाङ्गमिति ॥ इति स्तुतिप्रतिपादको दशमः खण्डः ॥१०॥ इति-अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्ष समाप्तम् । ॥ अथ फलश्रुतिः॥ एवं स्तुति प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिपादयन् ग्रन्थमाह । तत्राऽऽदौ गणेशाथर्वशीर्षाध्ययनफलप्रतिपादनार्थमाह- एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवस- कृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति। धर्ममर्थ कामं मोक्षं च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहादास्यति स पापी. यान्भवति । सहस्रावर्तनायं यं काममधीते तं तमनेन साधयेत् ॥११॥ १ सर्वतः इति लोके पाठः । २ धर्मार्थकाममोक्षं च इति लोके पाठः। ३ साधयति इति होके पाठः।
सभाप्यम् । एतदिति । एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते, देहभृदपि ब्रह्मव स्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वामयुक्तत्वात् । अन्यद्योऽनुभवक- सोऽप्यधीत इति कथ्यते । स देहभृट्टीव, योगित्वाच्च । स सर्वविघ्नैर्न वाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न वाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र सुखमेधते, नानालोकस्थाधीनत्वान्नानाकार्यसुखयुक्तत्वाच्च । स पञ्च- महापापात्प्रमुच्यते । पापं पञ्चविधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयत- संसर्गात्मकत्वात् । तत्र पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्महत्यासु- रापानगुरुतल्पगमनसुवर्णस्तेयतत्संसर्गयुक्तत्वात् । आदावेव सायमधीयान इति, गुरुमुखोद्गतं स्वकण्ठगं कृत्वाऽध्ययनकाल आदौ सायंकालप्राप्तत्वात् । तत्मातरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति । सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्तत्तत्कार्यावधीतत्वात् । धर्ममर्थ कामं मोक्षं च विन्दतीति । इहलोकयनादृत्य परलोकार्थसत्कर्मपरायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्यसत्कर्मपरायणत्वात् अर्थार्थी । इहलोकपरलोकोद्भवभो. गार्थसत्कर्मपरायणत्वात् कामार्थी । इहलोकपरलोकविरागयुक्तात्मप्राप्त्यर्थसत्क- मपरायणत्वात् मोक्षार्थी च । एकैकपुरुषार्थी चतुष्पुरुषार्थी वा य इदमधीते स तत्तल्लभते, गणेशस्य इच्छापूरकत्वात् । अशिष्याय यथार्थाथर्वशीर्षशिक्षा- हीनाय न देयमिदम्, ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहाद्दास्यति । द्रव्यलोभाच्छुश्रूषालोभाद्वियाविनिमयलोभादित्यादिना नामोहादिति सोऽति- पापी, यथार्थाथर्वशीर्षशुश्रूषणासुरभावगणेशपीडितत्वात् । अस्प सहस्रावर्त- नायं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥ इत्यध्यय- नफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥ एवमध्ययनफलश्रुति प्रतिपाद्य नानाप्रयोगार्थमाह- अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्यामनश्नापति स विद्यावानावति । इत्य- थर्वणवाक्यम् । ब्रह्मायावरणं विद्यान्न बिभेति कदाचनेति ॥ १२ ॥ अनेनेति । प्रशस्तवागर्थ्यभिषेकं कुर्यादिति। चतुर्थ्यामनश्नञ्जपति यःस वि. द्यावान्भवति, प्रातरारभ्य सायपर्यन्तं जपानुष्ठानपरत्वात् । इत्यथर्वणवचनत्वा- १च. तत्वात्.
२८ गणेशाथर्वशीर्षम् । - - ग्रयार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात् अत एव न बिभेति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफलश्रुत्यात्मको द्वादशः खण्डः ॥१२॥ एवं भयहीनता प्रतिपाद्य यजनार्थमाह- यो दूर्वारर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान्भवति स मेधावान्भव- ति । यो मोदकसहस्रेण यजति । स वाञ्छितमवा- मोति । यः साज्यसमिद्भिर्यजति स सर्व लभते स सर्व लभते ॥ १३॥ य इति । दूर्वाकुरैर्यजति स कुवेरसमो भवति, कनकप्रियत्वात् । लाजै- होमो यशःप्रदो मेधाप्रदश्च, तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकसहस्रेण यजति, प्रतिखण्डं जुहुयात्मत्यर्चवत्प्रमाणत्वात् , स वाञ्छितफलमवामोति, नानाकार्य- सिद्धिपदत्वात् । यः साज्यसमिद्भिर्यजति. मन्त्रशास्त्रोक्तनानाकार्यपदनानासमि- दोमप्रमाणत्वात् , स सर्व लभते स सर्व लभते । अत्र वीप्साऽऽदरमदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिक- मार्गोक्तवग्राह्यम् । आहुतिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् । यं यं काममधीते सं तमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यप्रदत्वा- द्वीप्साया आदरार्थत्वाच्च । न च मोदकसहस्सहोमसाज्यसमिद्धोमो मुख्यौ, वाञ्छितप्रदे ' सर्व लभते' इतिवीप्सादरप्रमाणत्वादिति वाच्यम् । मोद- कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नानाकार्य पदनानासमिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रावर्तनात्मकं पुरश्चरणम् । सह- सावर्तनाचं यं काममधीत इति मोदकसहस्रेण यजतीति प्रमाणात् ॥ इति होमात्मकत्रयोदशः खण्डः ॥ १३ ॥ अथान्यप्रयोगार्थमाह- अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादो- १ ग.ह. 'तफलमवा'.२ ख. घ. ततममवा.
सभाष्यम् । २९ पात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्ववि- द्भवति स सर्वविद्भवति य एवं वेदै ॥ १४ ॥ इत्यथ- वणवेदोपनिषत्सु गणेशाथर्वशीर्ष समाप्तम् ॥ अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीर्षगणेशैकतत्परकारयितृत्वात् । सूर्यवर्चस्वी भवति, सूर्यवन्सर्वज्ञानप्रकाशयुक्तत्वात् गणेशज्ञानान्तर्गतनानावेदा- न्तप्रतिपाद्यज्ञानत्वाच । सूर्यग्रहे महानद्यां ब्रह्मकमण्डलुभागीरथीयमुनासर- स्वतीनर्मदादीनां कस्यांश्चिन्नधास्तीरे महाघनाशकत्वादनन्तगुणाधिकसत्कर्म- फलप्राप्तिकारकत्वात् । प्रतिमासंनिधौ मयूरेश्वरादिमहाक्षेत्रस्थगणेशप्रतिमासं- निधौ वा जप्त्वा सिद्धमन्त्रो भवति । मन्त्रोक्तसिद्धिसामर्थ्ययुक्तत्वात् । अथर्व- शीर्षात्मकमन्त्रजपो मालामन्त्रप्रमाणत्वात् तज्जप्त्वाऽथर्वशीर्षोक्तज्ञानवानेकाक्ष- रविद्यासिद्धसामर्थ्यवान्भवतीति । महाविघ्नात्कालभयात्प्रमुच्यते, अथर्वशीर्षा- पासनाया अमृतमयत्वात् । महादोषान्मायाविकारात्मकदोषात् , मायाविकार- परदोषाभावात् । महाप्रत्यवायाज्जीवन्मुक्तविषयासक्तयुक्तप्रत्यवायात् , योग- स्थित्यभावात् । स सर्वविद्भवति, गणेशज्ञानान्तर्गतसर्वज्ञानत्वात् । “ आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद ५ सर्व विदितं भवति" इति श्रुतेः। अथर्वशीर्षसमाप्तिज्ञापनार्थं वीप्सा वेदसंप्रदायत्वात् । य एवं वेद पूर्वोक्तयथा. र्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोपनिषत्सु अन्यप्रयोगात्मकचतुर्दशः खण्डः ॥१४॥ ॥ इति गणेशाथर्वशीर्षभाष्यं समाप्तम् ॥ १ इत्युपनिषत् इति लोकपाठेऽधिकम्. २ ख, ग. घ. उ. गाणेश'. ३ ग. घ. क. गाणेश'. ॥ श्रीगजाननार्पणमस्तु ॥
No text on this page.
3606 3200 ॥ ॐ नमः परमात्मने ॥ भो भोः सहृदया आर्यदेशीयप्राचीनविद्यावैभवमुररीकुर्वन्तो महाशया विदित. मस्तु तत्रभवतां भवताम् । यस्किल पुण्याख्यपत्तने देव्याः सरस्वत्या विलासस्थान- मित्र बहुसाहस्रिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवन निर्मापयता महोदयेन महादेव चिमणाजी आपटे इति सुगृहीतनामधेयेन न केवलं भारतवर्षीयाणामेव अपितु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञापनपत्रद्वारा सर्वान प्रत्यावेदितम् । बहुना परिश्रमेण संगृहीतानि संग्रहीष्यन्ते च बहूनि प्राचीनसंस्कृतप्रन्थ. पुस्तकानि । मुद्रायन्त्रमपि तत्रैव संस्थापितम् । अप्रसिद्धग्रन्थावस्या मुद्रणमप्यारन्धम् । क्रमशः प्रचयगमना भविष्यन्ति च बहवो प्रन्थाः ।। तत्र तावत् “आनन्दाश्रमग्रन्थावल्याः" प्रारम्भे अस्य महसः कार्यस्य विघ्नवि. घातोपशमनार्थ गणपतिपूजनमिवेदं गणेशाथर्वशीपं सभाष्यं निवेशितम् । अस्य प्रन्थस्य संशोधनं पुण्यपत्तनस्थैर्बहुभिर्विद्वद्वरैरारभ्य निःसारमिदं भाष्यमिति कृत्वोपेक्षितम् । तदनन्तरं मत्सुहृद्वरेणाऽऽनन्दाश्रमाधिपतिनाऽभ्यर्थितेन कार्यान्तरव्यापृतत्वादलब्धबहुलावकाशेनापि मया लावनीयस्यास्य लोकोपकारिकार्यस्य यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृवाऽस्य ग्रन्थस्य संशोधनं कथंकथमपि प्रारब्धम् । तत्र च पञ्च भादर्शपुस्तकान्युपल. धानि । तानि यथा- क. संज्ञित-शालिवाहनशके १७३८ धातृनामसंवत्सरे मार्गबहुल ५ म्यां लिखितं महादेव चिमणाजी आपटे इत्येतैः संगृहीतमेकम् । स्व. संज्ञितम्-दूरनिवासिभिः भाऊसाहेब किवे इत्येतेः प्रेषितम् । नास्योपरि शकादिकं किञ्चित् । ग. संज्ञितम्-उम्बरगांवनिवासिभिः विनायक भिकाजी पिम्पटकर इत्यभिधैः प्रेषितम् । संवत् १९३८ वृषनामसंवत्सरे कार्तिक शु० द्विती- यायां लिखितम् । घ. संवितं-बटोदरनिवासिभिः बाप्पासाहेब मैराळ इत्येतैः प्रेषितं शक- हीनं च। रु. संज्ञित-चिंचवडनिवासिनां चिंतामणभट्ट कोशे इत्येतेषामेकं शके १७९९ ईश्वरनामसंवत्सरे चैत्र शु० प्रतिपदि लिखितम् ।
[२] एतत्पुस्तकपञ्चकमाकलग्य यथामति यथाविज्ञानं संशोधितं मयेदं गणेशा. शीर्षभाष्यम् । सर्वेष्वप्यादर्शपुस्तकेषु भाष्यकर्तुनर्नामादिकं कुत्रापि नोपलब्धम् । अनेनैव भाष्यकृता सर्वसारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति ज्ञायते [ अस्यैव २१ पृष्ठे २६ पतौ द्रष्टव्यमेतत् ] । सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्थलानीवोपलब्धानि । भाष्यमिदं नातिसमीचीनं तथाऽन्यस्य समीचीनस्योपलन्यभावात्प्राचीनत्वाचेदमेव संग. हीतम् । अनतिसमीचीनोऽप्ययं- प्रेम्णा सद्भिग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि । संशोध्य वाऽपि हरिणा सुदाममुनिसतुषपृथुकमुष्टिरिव ॥१॥ मुद्रणकणि नियुक्तानामनवधानेन च यदत्र स्खलितं तत् “गच्छतः स्खलनं न दोषाय" इति न्यायेन क्षन्तुमर्हन्ति सुधिय इति साअलिबन्धं प्रार्थयते- भवदीयो वामनशास्त्रिशर्मा। Vedic text lju hi ४ ४ १४ ४ ३ ४ ० ९ 6 oc ८ २ ३ . ९ ... ९ [४] ग्रन्थनाम। मूल्यम् रू० आ० ८६ विधानमाला-श्रीनृसिंहभट्टविरचिता । ८७ अग्निहोत्रचन्द्रिका--किंजवडेकरोपाह्ववामनशास्त्रिकता। २ ८८ निरुक्तम्-दुर्गाचार्यकृतवृत्तिसमेतम् । भागद्वयात्मकम्।... १६ ८९ काव्यप्रकाशः-संकेताख्यटीकासमेतः । ९० शाङ्खायनारण्यकम्-ऋग्वेदान्तर्गतबाष्कलशाखीयम् ।... ९१ गौतमप्रणीतन्यायसूत्राणि-भाष्यवृत्तिभ्यां समेतानि।... ९२ श्रीमद्भगवद्गीता-सटीकरामानुजभाष्ययुता । ९३ दर्शपूर्णमासप्रकाशः-किंजवडेकरोपावामनशास्त्रिकृतः। ६ १२ ९४ संस्कारपद्धतिः-अभ्यंकरोपावभास्कर शास्त्रिविरचिता । ९५ काश्यपशिल्पम्-पहेश्वरोपदिष्टम् । ... १ ९६ करणकौस्तुभः-कृष्णदैवज्ञविरचितः । ९७ मीमांसादर्शनम्-सतन्त्रवार्तिकशाबरभा० भागषट्कात्मकम्।२५ ९८ धर्मतत्त्वनिर्णयः-अभ्यंकरोपाहवासुदेवशास्त्रिप्रणीतः । ९८ धर्मतत्त्वनिर्णयपरिशिष्टम्- १३ ९९ भास्करीयबीजगणितम्-नवाङ्कुराटीकासहितम् । १०० प्रायश्चित्तेन्दुशेखरः-नागेशभविरचितः। कुण्डार्कयुतः। १ १०१ शांकरपादभूषणम्-पर्वतेइत्युपाहरघुनाथशास्त्रिकृतं द्विभा० ८ १०२ ब्रह्मवैवर्तपुराणम्-भागद्वयात्मकम् । १०३ श्रुतिसारसमुद्धरणम्-गिर्थपरनामकतोटकाचार्यप्रणीतम् । . १०४ त्रिंशच्छलोकी-टिप्पणीविवृतिभ्यां समेता। धर्मशास्त्रग्रन्थः। २ १०५ आश्वलायनगृह्यसूत्रम्-आश्वलायनाचार्यप्रणीतम् । .१२ १०६ दशोपनिषदः-पूलमात्रम् । १०७ लीलावती-श्रीमद्भास्कराचार्यप्रणीता। टीकाद्वयोपेता विभागा। ३ श्रीमत्पद्मपुराणम्-महापुराणान्तर्गतं चतुर्भागात्मकम् । २० सिद्धान्तदर्शनम्-पहर्षिवेदव्यासप्रणीतं निरञ्जनभाष्ययुतम् । १ आधानपद्धतिः-किंजवडेकरोपाह्ववामनशास्त्रिभिः कृता । पश्वालम्भमीमांसा-किंजवडेकरोपाह्ववामनशास्त्रिविरचिता । • शिवभारतम्-कवीन्द्रपरमानन्दविरचितम् । . or २ ५ ९ १३ १५ २ २ ... ४ १ १४ १० आनन्दाश्रममुद्रणालयमुद्रितग्रन्थावल्या अकारादिवर्णानुक्रमेण ग्रन्थाङ्कन मूल्याडून च महितं सूचीपत्रम् । । ३ १२ ० १ ४ ६ १ १ १ २ ३ २ ६ ग्रन्थाङ्का: मल्यम् ग्रन्थाङ्काः मूल्यम् সা ০ आ० ४१ अग्निपुराणम् ४. २० जीवन्मुक्तिविवेकः ८७ अग्निहोत्रचन्द्रिका १४ २४ जमिनीयन्यायमालाविस्तरः ८ ८४ अद्वैतामोदः ६९ ज्ञानार्णवतन्त्रम् ५७ आचारभूषणम ८५ ज्योतिर्निबन्धः ३ १५ ५८ आचारेन्दुः ३७ तैत्तिरीयब्राह्मणम् १४ आधानपद्धतिः १४ ४२ तैत्तिरीयसंहिता १०५ आश्वलायनगृह्यसूत्रम् १२ ३६ तत्तिरीयारण्यकम् ९ ८१ आश्वलायनातस्त्रम् ४ 71 मत्तिरीयोपनिषत् १२ ६२ ईशकेनकटाधुप ० (रामा०)२ ८ १३ तत्तिरीयोपनिषद्भाष्यवा०२ ७६ ईशकनकठोपनिषदः १ ७८ विधानीमेटः १२ ५ ईशावास्योपनिषत् १४ १ ० ४ विशच्छलोकी १५ २९ उपनिषदां समुच्चयः ६ १२ ५३ दशपुणमासप्रकाश: १२ ३२ ऐतरेयब्राह्मणम् १० १० १०६ दशोपनिषदः ३८ ऐतरयारण्यकम् ७४ द्राह्मायण गृह्यसूत्रवृत्तिः१ ११ ऐतरेयोपनिषत् ५ ३३ धन्वन्तरीनिवण्टूरा०स०६ ९६ करणकौस्तुभः ९ २८ धर्मतत्त्वनिर्णयः ७ काठकोपनिषत् ४ ९८ धर्मतत्त्व ० परिशिष्टम् १३. ६६ काव्यप्रकाशः १ ५६ नित्यापाशिकार्णवः ३ ४ ८९ काव्यप्रकामा ४ २८ निरुक्तम् ९५ काश्यपशिल्पम् १ ३० नसिंहपूर्वोत्तरतापनीयोप० १ १२ ६ कनापनिषत् ९१ न्यायसूत्राणि ५२ गणेशगीता पद्मपुराणम् २० ৭ শতাগৰাম ६ पश्वालम्भमीमांसा १० ७३ गायत्रीपुरश्चरणपद्धतिः१ ८ ७२ परिभाषेन्दुशेखरः २. ६१ गौतमसत्रम ८४७ पातञ्जलयोगसूत्राणि ३ १४ छान्दोग्योपनिषत् शां०५ ३ पुरुषसूक्तम् ६३ छान्दोग्योपनि (रामा०)३ १२ ५५ पुरुषार्थचिन्तामणिः । ७९ छान्दोग्योप ० (मिताक्षरा ०२ ८ प्रश्नोपनिषत् 3 . १ ४ ० ९ १ ६ 3 १६ ३ १ ४ O w २ [२] ३ ० ४ ८९ वायुपुराणम् " ४ ६ १ . ४ ४ । . ५ १ २ २ मन्थाङ्काः मूल्यम् ग्रन्थाङ्काः मूल्यम् रू० आ. रू. आ० १०० प्रायश्चित्तेन्दुशेखरः १ १० १०७ लीलावती १५ बृहदारण्यकोपनिषत् ८ ८० वाक्यवृत्तिः ३४ (रामानुजटी०) ३ १२ ३१ ( मिताक्षरा) २ १२ ८६ विधानमाला ४ १६ बृहदारण्यकोपनिषद्भा ०२:. २७ वृन्दमाधवः ६ १२ ७१ बृहद्योगतरङ्गिणी १० १२ ७७ वेदान्तसूत्रमुक्तावलिः २ ६८ बृहद्ब्रह्मसंहिता १२ ४३ वैयाकरणसिद्धान्तकारिकाः० १२ २८ ब्रह्मपुराणम् ६ २३ वैयासकन्यायमालाविस्तरः १ १२ १०१ ब्रह्मवैवर्तपुराणम् ९ १०१ शांकरपादभूषणम् ८ २१ ब्रह्मसूत्राणि (शां०)१२ ६५ शापायनत्रालंणम् । ४ ६७ ,, ब्रह्मामृतवर्षिणी- ९० शाखायनारण्यकम् ० दीपिकासमेतानि ४ शिवभारतम् ८२ ब्रह्मसूत्रवृत्तिः ५९ श्राद्धमञ्जरी ३४ भगवद्गीता (शां०भा०)२ २२ श्रीमच्छंकरदिग्विजयः६ ३४८, ( सटीकशां०भा०)६ १०३ श्रुतिसारसमुद्धरणम् ० १३ ४४ ( पैशाचभाष्य ० )१ १७ श्वेताश्वतरोपनिषत् ४५ ,, (मधुसूदनीश्रीधरीटी०५ ४ ९४ संस्कारपद्धतिः ९२ ( रामानुजीया ) ७ ९९ भास्करीयबीजगणि.सटी.२ ८३ संक्षेपशारीरकम ७५ भाष्यार्थरत्नमाला ४३५ संगीतरत्नाकरः ५४ मत्स्यपुराणम् • ५३ सत्याषाढश्रौतसूत्रम् २८ ५ १० माण्डूक्योपनिषत् ५ ५१ सर्वदर्शनसंग्रहः ९७ मीमांसादर्शनम् २५ ९ ४० संध्याभाष्यसमुच्चयः २ • ९ मुण्डकोपनिषत् १० : ३९ संस्काररत्नमाला १२ ६० यतिधर्मसंग्रहः १२ सिद्धान्तदर्शनम् ५० यतीन्द्रमतदीपिका ४ २५ सूतसंहिता ११ ४६ याज्ञवल्क्यस्मृतिः १३ १८ सौरपुराणम् ३ ४ योगरत्नाकरः ४८ स्मृतीनां समुच्चयः ५ १९ रसरत्नसमुच्चयः स्मृत्यर्थसारः २ रुद्राध्यायः ६ २६ हस्त्यायुर्वेदः ४ । ८ " २ २० २ ८ " १ . ४ ४ ६ २ १ ० ० ० ० ० ० ० १ १२ ७० १ ३ १ ७
No text on this page.
No text on this page.