Scl
Kavyamala Part 5
Front matter
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawaji, Nirmaya Sagar Proses
Printer:-Ramchandra Yesu Shedge, 28-28, Kolbhat Stroot, Bombay.
॥ श्रीः॥ काव्यमाला नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । पञ्चमो गुच्छकः। जयपुरमहाराजाभितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डरजात्मजकाशिनायशर्मणा, प संशोधितः। द्वितीपातिः। बाबा m मुम्बय्यां पाण्डुरा जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयत्रालये मुदयित्ता प्राकाश्यं नीतः। धाक १८५८, विखान्दः १९३५.
अनुक्रमणिका।
१
....
....
पृष्ठम्
१. मूककविकृता पञ्चशती
२. क्षेमेन्द्रकृतश्चतुर्वर्गसंग्रहः
३. वीरेश्वरकृतमन्योक्तिशतकम्
१०१
४. शिवरामत्रिपाठिप्रणीता नक्षत्रमाला (सटीका) ११९
५. नीलकण्ठदीक्षितविरचितं कलिविडम्बनम्.... १३२
६. सोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी (सटीका) १४२
७. नारायणभट्टपादविरचितं कोटिविरहम्
८. राजानकरुय्यकपणीता सहृदयलीला
१८३
काव्यमाला। महाकविश्रीमूककृता पञ्चशती। 41. I.MMM. Matarai -e-AN कटाक्षशतकम् । मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । १. अयं द्रविदेशोद्भवः कविः कदा बभूवेति न निश्चयः, किं तु नायमति- प्राचीन इति भाति. काम्बीपुराधिष्टाच्याः कामाक्ष्याः स्तुतिरूपेयं पञ्चशती विरलप्र- भारत स्ति. जीवानन्दभाचार्येणेयं कलिकातानगरे मुद्रयितुमुपक्रान्ता. परं तेन च कसम यशुद्धं शतकचतुष्टयं मुद्रयित्वा पञ्चमं शतकमलभमानेन संख्यापूरणाय तत्र महशतक मुद्रितम्. अन्येन तु केनचन नाद्याप्ययं ग्रन्थः प्राकाश्यं नीत इत्य- स्माकं मुद्रणारम्भः. पुस्तकचतुष्टयाधारेण चास्माकं पुस्तकशोधनोपक्रमः, तत्र प्रथमं पाबदेशान्ततिन्यगृतसरोनानि नगरे वर्तमानानां काश्मीराभिजनानां श्रीरामचन्द्रपण्डिताना प्रत्नपुस्तकाप्रतिरूपकं गृहीतं नातिशुद्धं क-चिहितम्, द्वितीयं जयपुरमहाराजाश्रितानां पण्डितश्रीसरयूप्रसादशर्मणां पुस्तकं प्रायः शुद्ध नवीनं ख-चिहितम्, तृतीय केरलीयसदाशिवशंकरशास्त्रिां कश्मीरलिखितं नवीनं शुद्ध ग-चिलितम्. चतुर्थ जयपुरीयजैनपाठशालाध्यापकद्रविडकाशिनाथशास्त्रिणां प्रानीनमिवोपलक्ष्यमाणं नातिशुद्ध ध-विहितम् अस्मिन्पुस्तकचतुकेऽप्यशुद्धताम- पहाय भूयान्भाठमेदो नास्ति. केवलं शतकोपन्यासमेदो वर्तते. तत्र क-ख-पुस्त- कयोः (१) मन्दस्मितशतकम् , (२) पादारविन्दशतकम्, (३) आर्याशतकम्, (4) कटाक्षशतकम् , (५) स्तुतिशतकम्, अयं क्रमोऽस्ति. ग-पुस्तके (१) पादार- बिन्द.. (२) मार्याल, (३) कटाक्ष०, (४) मन्दस्मित०, (५) खुनि०, अयं कमः, ब-पुसके (१) कटाक्ष, (२) मन्दस्मित०, (३) पादारविन्द, 4) आर्या०, (५) खति०, अममसदनुसुतः क्रमोऽस्ति.
काव्यमाला । श्रीकाञ्चिदेशशिशिरीकृतिजागरूका- नेकामनाथतरुणीकरुणावलोकान् ॥ १ ॥ मातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । कामाक्षि कल्पितजगत्रयरक्षणानि स्वीक्षणानि वरदान विचक्षणानि ॥ २ ॥ आनङ्गतन्त्रविधिदर्शितकौशलाना- मानन्दमन्दपरिघूर्णनमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीनां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥ कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन कमनीयमृदुसितेन । “मामचितेन तव किंचन कुञ्चितेन कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥ साहाय्यकं गतवती मुहुरैर्जुनस्य मन्दसितेन परितोषितभीमचेताः। कामाक्षि पाण्डवचमूरिव तावकीना कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥ अस्तं क्षणान्नयतु मे परितापसूर्य- मानन्दचन्द्रमसमानयतां प्रकाशम् । १. एकामनाथः काञ्चीपुराधिष्ठाता महेश्वरः. २. परिपूर्णित' इतिक पुस्तकपाठः, इ. अर्जुनस्य शौक्लपस्य मध्यमपाण्डवस्य च. ४. भीमः भीमसेनच. ५. कर्णान्तिकं श्रवणसमीपं राधेयाभ्यर्ण च. Natru पञ्चशती। कालान्धकारसुषमां कलयन्दिगन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ॥६॥ ताटङ्कमौक्तिकरुगङ्कुरदन्तकान्तिः कारुण्यहस्तिपशिखामणिनाधिरूढः । उन्मूलयत्वशुभपादपमस्मदीयं कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७ ॥ छायाभरेण जगतां परितापहारी ताटङ्करत्नमणिपल्लवतल्लजश्रीः । कारुण्यनाम विकिरन्मकरन्दजालं कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥८॥ सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदाकाननमाननीया । यान्ती तव स्मरहराननकान्तिसिन्धुं कामाक्षि राजति कटाक्षकलिन्दकन्या ॥९॥ प्रामोति यं सुकृतिनं तव पक्षपाता- कामाक्षि वीक्षणविलासकलापुरंध्री । सधस्तमेव किल मुक्तिवणीते तस्मानितान्तमनयोरिदमैकमत्यम् ॥१०॥ यान्ती सदैव मैरुतामनुकूलभावं भूवल्लिशक्रधनुरुल्लसिता रसार्दा । कामाक्षि कौतुकतरजितनीलेकण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥ १. 'कलयेत्' इति ग-पाठः. २. फारुण्यमेव हस्तिपश्रेष्ठस्तनाविला. ३. सरि- भाभ्रम-; सूर्य-आश्रय. ४. मरुतां वायूनां देवानां च. ५. नीलकण्ठ शियोमयूरचा. " MINIMI..... ANUs....." 10.|| IN IM " काव्यमाला। . गङ्गाम्भसि सितमये तपनात्मजेव गङ्गाधरोरसि नवोत्पलमालिकेव । वक्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥ संस्कारतः किमपि कन्दलितारसज्ञ- केदारसीनि सुधियामुपभोगभाग्यान् । कल्याणसूक्तिलहरीकलमाङ्कुरान्नः कामाक्षि कन्दलयतु त्वदपाङ्गमेघः ॥ १३ ॥ चाञ्चल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रुतिपथाक्रमजागरूकः । कैवल्यमेव किमु कल्पयते नतानां कामाक्षि त्रिमपि ते करुणाकटाक्षः ॥ १४ ॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥१५॥ नीलोऽपि रागमधिकं जनयन्पुरारे- लोलोऽपि भक्तिमधिकां द्रढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्व- कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥ कामो हृदययन्त्रणजागरूका कामाक्षि चञ्चलहगञ्चलमेखला ते । उपभोगायोग्यान्' इति ग-पाठः. २. 'चित्रमयते' इति ग-पाठः. amerime manam पञ्चशती। आश्चर्यमम्ब भजतां झटिति खकीय- संपर्क एव विधुनोति समस्तबन्धात् ॥ १७ ॥ कुण्ठीकरोतु विपदं मम कुञ्चितभू- चापाञ्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८॥ श्रीकामकोटिशिवलोचनशोषितस्य शृङ्गारबीजविभवस्य पुनः प्ररोहे । प्रेमाम्भसामचिरात्प्रचुरेण शके केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥ माहात्म्यशेवधिरसौ तव दुर्विलय- संसारविन्ध्यगिरिकुण्ठनकेलिचुचुः । धैर्याम्बुधिं पशुपतेश्चलकीकरोति कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २० ॥ पीयूषवर्षशिशिरा स्फुरदुल्लसच्छी- मैत्री निसर्गमधुरा कृततारकाप्तिः। कामाक्षि संश्रितवती वपुरष्टमूर्ते- ज्योत्सायते भगवति त्वदपाङ्गमाला ॥ २१॥ अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ- मम्भोजकाननमिवाञ्चितकण्टकाभम् । भृङ्गीव चुम्बति सदैव सपक्षपाता कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥ १. विदेहभषा सीता. २. रक्षारूपमुपकारम्; (पक्षे). रक्षसामपकारम्. ३. अगस्त्यः, ४. शिवस्य. MrumImmentemanmadimanamamaeneraturemummoner MNNIRAMM.."
काव्यमाला। केशप्रभापटलनीलवितानजाले कामाक्षि कुण्डलमणिच्छविदीपशोभे । कने कटाक्षरुचिरङ्गतले कृपाख्या शैलूषकी नटति शंकरवल्लभे ते ॥ २३ ॥ अत्यन्तशीतलमतन्द्रयतु क्षणार्ध- मस्तोकविश्रममनङ्गविलासकन्दम् । अल्पमिताहतमपारकृपाप्रवाह- मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४॥ मन्दाक्षरागतरलीकृतिपारतत्र्या- कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् । आरुह्य मैन्दमतिकौतुकशालि चक्षु- रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥ त्रयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि- रङ्गं विहारसरसी करुणाप्रवाहः । दासाश्च वासवमुखाः परिपालनीयं कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥ वागीश्वरी सहचरी नियमेन लक्ष्मी- भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब तेषां कामाक्षि येषु तव वीक्षणपारतत्री ॥२७॥ माहेश्वरं झटिति मानसमीनमम्ब कामाक्षि धैर्यजलधौ नितरां निममम् । १. नटी. २. "तरलीकृत इति ग-पाठः. ३. मन्दमिति क्रियाविशेषणम्, ४. त्रैयम्बकमजं हर्म्यभूमिरित्यन्वयः, ५. 'करुणाकटाक्षः' इति घ-पाठः, ranmal" पञ्चशती। जालेन शृङ्खलयति त्वदपाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ॥२८॥ उन्मथ्य बोधकमलाकरमम्ब जाड्य- स्तम्बेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुष्व तरसा कुटिलाग्रसीना कामाक्षि तावककटाक्षमहाकुशेन ॥ २९ ॥ उद्वेल्लितस्तबकितैर्ललितैर्विलास- रुत्थाय देवि तव गाढकटाक्षकुचात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥ स्नेहाहतां विदलितोत्पलकान्तिचोरां जेतारमेव जगदीश्वरि जेतुकामः । मानोद्धतो मकरकेतुरसी धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥ श्रौती ब्रजन्नपि सदा सराणे मुनीनां कामाक्षि संततमपि स्मृतिमार्गगामी । कौटिल्यमम्ब कथमस्थिरतां च धत्ते चौर्य च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥. नित्यं श्रुतेः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षि किं नुं तव कालिमसंप्रदायम् ।। ३३ ।। #.. १. शिवमेव. २. गुरुः. ३. 'तु' इति घ-पाठः.
८ काव्यमाला। : प्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ कामाक्षि वक्ररुचिसंचयवारिराशौ । आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी- रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥ श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥ कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्यसरणिं समुपैति कान्त्या । निःशेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्रिनेत्रसुलभ तुहिनाद्रिकन्ये ॥ ३६ ॥ धूमाकुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते। अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ।। आरम्भलेशसमये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिवयंवरणमाल्यवती वृणीते ।। ३८॥ कालाम्बुवाह इव ते परितापहारी कामाक्षि पुष्करमधः कुरुते कटाक्षः । १. श्यामवर्णा, रात्रिश्च. २. कीर्तिरेव खयंवरणमाल्यं तबूती सर्वशता. ३. कमलं विरस्करोति, मेघच पुष्कर जलमयः पातयति. ORHAMMAHARAJ rape पञ्चशती। पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु संततरुचिं प्रकटीकरोति ॥ ३९ ॥ सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमार्गे। संसारपङ्कनिचये न पतत्यमुं ते कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥ कामाक्षि संततमसौ हरिनीलरत्न- स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः । बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१॥ कामाक्षि कार्ण्यमपि संततमञ्जनं च विभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः । वैमल्यमन्वहमनञ्जनतां च भूयः स्थैर्य च भक्तहृदयाय कथं ददाति ॥ ४२ ॥ मन्दस्मितस्तबकितं मणिकुण्डलांशु- स्तोमप्रवालरुचिरं शिशिरीकृताशम् । कामाक्षि राजति कटाक्षरुचेः कदम्ब- मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ १३ ॥ कामाक्षि तावककटाक्षमहेन्द्रनील- सिंहासनं श्रितवतो मकरध्वजस्य । साम्राज्यमङ्गलविधौ मणिकुण्डलश्री- नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥ १. विद्युता; (पक्षे) क्षणमात्रस्थायिन्या कान्या. Ammar १० काव्यमाला। मातः क्षणं स्वपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिसेत्करभास्करण श्रेयस्करण मधुपातितस्करेण ॥ ४५ ॥ प्रेमापगापयसि मजनमारचय्य युक्तः स्मितांशुकृतभस्मविलेपनेन । कामाक्षि कुण्डलमणिद्युतिभिर्जटालः श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६॥ कैवल्यदाय करुणारस किंकराय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवंकराय मातर्नमोऽस्तु परतत्रितशंकराय ॥ १७ ॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलदुत्पलबैजयन्ती- चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८॥ मार्गेण मञ्जुकचकान्तितमोवृतेन मन्दायमानगमना मदनातुरासौ । कामाक्षि दृष्टिरयते तव शंकराय संकेतभूमिमचिरादभिसारिकेव ॥ १९ ॥ ब्रीडानुवृत्तिरमणीकृतिसाहचर्या शैवालितां गलरुचा शशिशेखरस्य । १. 'मन्देक्षितेन' इति ग-पाठः. २. 'प्रचुरमुत्पल' इति ग-पाठः, ३. 'तम यतेन' इति पुस्तकेषु पाठः, Lon
पञ्चशती।
११
-
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मी-
मन्दं समाश्रयति मज्जनखेलनाय ॥ ५० ॥
काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ।। ५१ ॥
पाषाण एवं हरिनीलमणिर्दिनेषु
प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः ॥ ५२ ॥
शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
स्कामाक्षि चुम्बति दिगम्बरवक्रबिम्बम् ॥ ५३ ॥
नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दति यदन्वमिन्दुपादा-
पाथोरुहेण यदसौ कलहायते च ॥ ५४॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणि लभते कटाक्षः ॥ ५५ ॥
१२ काव्यमाला। मन्दस्मितैर्धवलिता मणिकुण्डलांशु- संपर्कलोहितरुचिस्त्वदपाङ्गधारा । कामाक्षि मल्लिकुसुमैनवपल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥ कामाक्षि शीतलकृपारसनिझराम्भः- संपर्कपक्षमलरुचिस्त्वदपाङ्गमाला । गोभिः सदा पुररिपोरेभिलष्यमाणा दूकदम्बकविडम्बनमातनोति ॥ ५७ ॥ हृत्पङ्कजं मम विकासयतु प्रमुष्ण- न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा । दोषानुषङ्गजडतां जगतां धुनानः कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥ चक्षुर्विमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः । प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥ कामाक्षि वीक्षणरुचा युधि निर्जितं ते नीलोत्पलं निरवशेषगताभिमानम् । आगत्य तत्परिसरं श्रवणावतंस-. व्याजेन नूनमभयार्थनमातनोति ॥ ६०॥ आश्चर्यमम्ब वदनाभ्युदयावलम्बी कामाक्षि चञ्चलनिरीक्षणविश्रमस्ते । १. "दृष्टिभिः; (पक्षे) धेनुभिः. २. "अभिलक्ष्यमाणा" इति क-खा-पाठः ३. 'अभयार्थित' इति घ-पाठः, ... MANARTMNIRL.।
पञ्चशती। १३ धैर्य विधूय तनुते हृदि रागबन्ध शंभोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ॥ जन्तोः सकृत्प्रणमतो जंगदीड्यतां च तेजखितां च निशितां च मति सभायाम् । कामाक्षि माक्षिकझरीमिव वैखरी च लक्ष्मी च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२॥ कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुररीकुरुते न पद्मम् । किं वा कलिन्दतनया सहते न गझां कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥ काकोलपावकतृणीकरणेऽपि देशः कामाक्षि बोलकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चितं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥ कार्पण्यपूररसवर्धितमन्च मोह- कन्दोद्गतं भवमयं विषपादपं मे । तुझं छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुठारधारा ।। ६५ ॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् । तन्नापि देवि लभते सुकृती कदाचि- दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥ 1. जगत्पूज्यताम्. २. मधुधारामिव वाणीम्. ३. विषानिनिवारणे. ४. '' इति पुस्तकेषु पाठः, ५. शिवस्य. HAI ।। ... Mammalini काव्यमाला। कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो नानातपोनियमनाशितपाशबन्धाः । वासालयं तव कटाक्षममुं महान्तो लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥ साकूतसल्लपितगर्भितमुग्धहासं ब्रीडानुरागसहचारिविलोकनं ते । कामाक्षि कामपरिपन्थिनि मारवीर- साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥ कामाक्षि विश्रमबलैकनिधिविधाय भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् । खाधीनतां तव निनाय शशाङ्कमौले- रङ्गाधराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥ कामाकुरैकनिलयस्तव दृष्टिपातः कामाक्षि भक्तमनसां प्रददाति कामान् । रोगान्वितः खयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनीनाम् ।। ७० ॥ कालाम्बुवाहनिवहैः कलहायते ते कामाक्षि कालिममदेन सदा कटाक्षः। चित्रं तथापि नितराममुमेव दृष्ट्वा सोत्कण्ठ एव रमतें किल नीलकण्ठः ॥ ७१ ॥ कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । १. 'प्रददातु' इति ग-पाठः. २. 'मार्गान्वितः' इति घ-पाठः. " पञ्चशती। १५ दुष्कर्मकञ्चुकिकुलं कवलीकरोतु व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२ ॥ कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् । प्रमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ।। मूको विरिञ्चति परं पुरुषः कुरूपः कंदर्पति त्रिदशराजति किंपचानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ।। ७४ ॥ नीलालका मधुकरन्ति मनोज्ञनासा- मुक्तारुचः प्रकटरूढबिसाङ्कुरन्ति । कारुण्यमम्ब मकरन्दति कामकोटि- मन्ये ततः कमलमेव विलोकनं ते ॥ ७५ ॥ आकासयमाणफलदानविचक्षणायाः कामाक्षि तावककटाक्षककामधेनोः । संपर्क एव कथमम्ब विमुक्तपाश- बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥ संसारधर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति धनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥ .raPP.MADHIM M. I.." 11.M. ॥ । १. विलोचनं' इति क-ग-घ-पाठः.
काव्यमाला। प्रेमाम्बुराशिसततस्तापितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयन्ति मुहुरिन्धनराशिरीत्या मारQहो मनसि मन्मथचित्रभानुम् ॥ ७८ ॥ कालाञ्जनप्रतिभटं कमनीयकान्त्या कंदर्पतन्त्रकलया कलितानुभावम् । काञ्चीविहाररसिके कलुषार्तिचोरं कल्लोलयख मयि ते करुणाकटाक्षम् ॥ ७९ ॥ क्रान्तेन मन्मथमदेन विमोह्यमान- खान्तेन चूततरुमूलगतस्य पुंसः । कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥ कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे कण्ठेन कन्दलितकालिमसंप्रदायाः । उत्तंसकल्पितचकोरकुटुम्बपोषा नक्तंदिवप्रसवभूनयना भवन्ति ॥ ८१ ॥ नीलोत्पलपसवकान्तिनिदर्शनेन कारुण्यविभ्रमजुषा तव वीक्षणेन । कामाक्षि कर्मजलधेः केलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥ अत्यन्तचञ्चलमकृत्रिममञ्जनं किं झंकारभङ्गिरहिता किमु भृङ्गमाला । १. कामानिम्. २. एकामनाथस्य. ३. सूर्यचन्द्रनेत्राः, ४. शिववं यान्तीत्यर्थः ५. अगस्त्येन. dowNepal PORNim।
पञ्चशती। १७ धूमाङ्कुरः किमु हुताशनसङ्गहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ।। कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कंदर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥ दर्पाङ्कुरो मकरकेतनविभ्रमाणां निन्दाकुरो विदलितोत्पलचातुरीणाम् । दीपाकुरो भवतमिलकदम्बकानां कामाक्षि पालयतु मां त्वदपाङ्गपातः ।। ८५ ॥ कैवल्यदिव्यमणिरोहणपर्वतेभ्यः कारुण्यनिर्झरपयःकृतमजनेभ्यः । कामाक्षि किंकरितशंकरमानसेभ्य- स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥ अल्पीय एव नवमुत्पलमम्ब हीना मीनस्य सा सरणिरम्बुरुहां च किं वा । दूरे मृगी तदसमञ्जसमञ्जनं च कामाक्षि वीक्षणरुचौ तव तर्कयामः॥ ८७ ॥ मिश्रीभवद्गरलपक्किलशांकरोर:- सीमाङ्गणे किमपि रिक्षणमादधानः । हेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजति ते कटाक्षः । ८८॥ २ पंच० काव्यमाला। प्रौढीकरोति विदुषां नवसूक्तिघाटी- चूताटवीषु बुधकोकिललाल्यमानम् । माध्वीरसं परिमलं च निरर्गलं ते कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९ ॥ कूलंकषं वितनुते करुणाम्बुवर्षी सारखतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ १० ॥ जागति देवि करुणा शुकसुन्दरी ते ताटङ्करत्नरुचिदाडिमखण्डशोणे । कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥ कामाक्षि सत्कुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तव दृष्टिपातः । किं च स्फुटं कुटिलतां प्रकटीकरोति भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥ एषा तवाक्षिसुषमा विषमायुधस्य नाराचवर्षलहरी नगराजकन्ये । शङ्के करोति शतधा हृदि धैर्यमुद्रां श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३ ॥ बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरेण । Annanor.NNN imana- १. शुकी.
पञ्चशती। १९ कोणेन कोमलहशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४ ॥ मारद्रुहो मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिष्णुः । कामाक्षि कोपरभसाबलमानमीन- संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सिंतश्रवणचामरचातुरीकः । स्तम्भे निरन्तरमपाङ्गमये भवत्या बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६ ॥ यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमतां नराणाम् । आविर्भवत्यमृतदीधितिबिम्बमम्ब- संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ॥ कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनलिनस्य च कान्तिसंप- सर्वखमेव हरतीति परं विचित्रम् ॥ ९८ ॥ अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि नैव तव कामति दृष्टिपातः ॥ ९९ ।। 2M.HMMMAni Maiyadeltun १. 'स्मित' इति क-ख-ग-पाठः, २. 'अप्राप्यसत्य' इति क-ख-श-पा.
२० काव्यमाला। अत्यन्तशीतलमनर्गलकर्मपाक- काकोलहारि सुलभं सुमनोभिरेतत् । पीयूषमेव तव वीक्षणमम्ब किंतु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १०० ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम् । -OIN मन्दस्मितशतकम् । बनीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे । कामाक्ष्या धनसारपुञ्जरजसे कामगुहश्चक्षुषां मन्दारस्तबकप्रभामदजुषे मन्दसितज्योतिषे ॥ १ ॥ सध्रीचे नवमल्लिकासुमनसां नासानमुक्तामणे- राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विधे । खर्धन्या सहयुध्वने हिमरुचेरर्धासनाध्यासिने कामाक्ष्याः सितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥ कर्पूरद्युतिचातुरीमतितरामल्पीयसी कुर्वती दौर्भाग्योदयमेव संविधती दोषाकरीणां त्विषाम् । क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३ ॥ या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकान्तिततिषु ज्योत्साप्ररोहायते । या सौन्दर्यधुनीतरगततिषु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे सितपाचुरी ॥४॥ १. 'सध्रीचे', 'आचार्याय', इत्यादिपदानि तल्यता लक्षयन्ति.
पञ्चशती। २१ येषां गच्छति पूर्वपक्षसरणिं कौमुंद्वतः श्वेतिमा येषां संततमारुरुक्षति तुलाकक्षां शरच्चन्द्रमाः । येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कराः ॥ ५ ॥ आशासीमसु संततं विदधती नैशाकरी व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती । ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मप- क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६ ॥ आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कंदर्पस्य विभोर्जगत्रयजयप्राकट्यमुद्रानिधेः । यस्याश्चामरचातुरी कल्यते रश्मिच्छटाचञ्चला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७ ॥ शंभोयर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि- गर्वाणीव तरङ्गिणी कृतमृदुस्यन्दा कलिन्दात्मजाम् । कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनी कामाक्ष्याः सितकन्दली भवतु सा कल्याणसंदोहिनी ॥ ८॥ जेतुं हारलतामिव स्तनतटीं संजम्मुषी संततं गन्तुं निर्मलतामिव द्विगुणितां ममा कृपास्रोतसि । वक्तुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती मञ्जस्ते स्मितमञ्जरी भवभयं मशातु कामाक्षि मे ॥ ९ ॥ श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा । १. 'कौमुद्रतश्वेतिमा'. इति ख-ग-पायः. २. 'मे' इति ग-पाठः, ३. गोन.
२२ काव्यमाला। खाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गति कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥ १० ॥ वक्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते कालिन्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापतिम् । निर्निद्रामलपुण्डरीककुहनापाण्डित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनःकातर्यमुन्मूलयेत् ॥ ११ ॥ नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः शुद्धस्य द्विज॑मण्डलस्य च तिरस्कर्तारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासभा ॥ १ द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाविभ्रती यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेक्षणम् । ज्ञानाम्भोनिधिवीचिका सुमनसां कूलंकषां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥ १ ॥ काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती हंसौचैरिव कुर्वती परिचिति हारीकृतमौक्तिक वक्षोजन्मतुषारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलसितद्युतिमयी भागीरथी भासते ॥ १४ ॥ कम्बोवंशपरम्परा इव कृपासंतानवल्लीभुवः संफुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव । PapMR. MBA-NH4 १. कुहन दम्भचर्या. २. बन्धूनां जीवः (पक्षे) बन्धुजीवो बन्धूकापरस र्यायो रक्तपुष्पविशेषः. ३. विटैः; (पक्षे) किसलयैः. ४. ब्राह्मणसमूहस्यः (पक्षे) दन्तपळे, ५. 'धामकर्दम' इति ग-पाठः.
पञ्चशती।
२३
वाक्पीयूषकणा इव त्रिपथगा पर्यायभेडा इव
श्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५ ॥
वक्षोजे धनसारपत्ररचनाभङ्गीसपत्नायिता
कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुदायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेसत्प्रसूनायिता
कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १३ ॥
येषां विन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणि-
र्येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् ।
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते खयं रञ्जन
कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥१७॥
या जाड्याम्बुनिधि क्षिणोति भजतां वैरायते कैरवै-
नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि स्मितमञ्जरी तव कथं ज्योत्लेत्यसौ कीयते ॥१८॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् ।
ओष्ठं वेपयति ध्रुवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
स्याञ्चेद्युक्तमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
बिम्बोष्ठधुमणिप्रभाखपि च यतिब्बोकमालम्बते ॥ २० ॥
२४
काव्यमाला।
साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षि मन्दसितं
शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे ।
एतस्मादुदितां पुरा किल पपौ शर्वः पुराणः पुमा-
नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः मितरुचः कामाक्षि ते कोमलाः ।
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिपा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥
क्षीरं दूरत एवं तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाटयीथिमयतां मन्दस्मितैर्मञ्जुलैः ।
किं चेयं तु भिदास्ति दोहनवशामेतत्तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोदुखते ॥ २३ ॥
कर्पूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै-
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जन-
स्तत्ताडङ् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥
मध्ये गर्भितम वाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि काम हो
वल्गुक्षिणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥
बिम्बोष्ठ पुतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा
कल्याणं. गिरिसार्वभौमतनये कल्लोलयत्वाशु मे।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २५ ॥
पञ्चशती। २५ बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसौ कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् । आश्चर्य शिशिरीकरोति जगतीमालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥ प्रेसप्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं वक्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् । नैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं कल्माष कवलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥ पीयूषं तव मन्थरस्मितमिति व्यथैव सापि प्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कथालवं न सहते मनाति मन्दाकिनी- मिन्दु निन्दति कीर्तिते च कलशीपाथोधिमीया॑यते ॥ २९ ॥ विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम् । आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते कालकीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥ चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु चरचन्द्रातपोपक्रमाः । संसारख्यसरोरुहाकरखेलीकारे तुषारोत्कराः कामाक्षि सरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥ कौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमंकरानकुरान् । १. ईर्षायति' इति ग-पाठः, २. 'खिलीकारे' इति ग-पाठः, " VIAN H THMARA....
२६ काव्यमाला। ये वक्र शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह- द्वेषोद्धोषणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२ ॥ कुर्युनः कुलशैलराजतनये कूलंकषं मङ्गलं कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोपयन्त्यान्तरं कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥ ३३ ॥ कम्रेण नपयस्व कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुपा । कामाक्षि मितकन्दलेन कलुषस्फोटक्रियाचुचना कारुण्यामृतवी चिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥ त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शक्षामहे बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किं च क्षीरपयोनिधिः प्रतिनिधिः स्वहिनीवीचिका- बिब्बोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥ ३५॥ दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल- त्पत शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये । अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा- मानन्दोदयसौधशृङ्गपदवीमारोढुमाकासति ॥ ३६ ॥ नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाक्षि त्वरया विपत्प्रशमने कारुण्यधाराः किरन् । आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७॥ १. 'लक्ष्मीजुषा' इति स्व-पाठः, Wala .MARIMMMM. I. ..
पञ्चशती। कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसू- मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् । यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितः मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८ ॥ क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः । मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुपो मार्ग दर्शयतु प्रदीप इव ते मन्दस्मितशीरियम् ॥ ३९ ॥ ज्योत्लाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं हंसैरेव शरद्विकाससमये व्याकोचमम्भोरुहम् । खच्छैरेव विकखरैरुडुगणैः कामाक्षि बिम्बं दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४० ॥ मानग्रन्थिविधुतुदेन रभसादाखाद्यमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य मितचन्द्रिकां मुहुरिमामुन्मीलनं जग्मुषीं चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥ कामाक्षि सितमञ्जरी तव भजे यस्यास्त्विषामङ्कुरा- नापीनस्तनपानलालसतया निःशङ्कमकेशयः । ऊर्ध्व वीक्ष्य विकर्षति प्रसमरानुद्दामया शुण्डया सूनुस्ते विसशङ्कयाशु कुहना दन्तावलग्रामणीः ॥ ४२ ॥ गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण- प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि । १. तण्डुः शिवस्य कश्चिद्गणः.
२८ काव्यमाला। या सख्येन पिनाति प्रचुरया भासा तदीयां दशां सा मे खेलतु कामकोटि हृदये खच्छा सितांशुच्छा ॥ ४ मन्दारे तव मन्थरमितरुचो मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते । चान्द्रीषु द्युतिमञ्जरीषु च महान्द्रुषारो दृश्यते शुद्धानां कथमीदृशी गिरिसुतेशुद्धा दशा कथ्यताम् ॥ ४४ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते माहेशैश्च जटाकलापनिगडेमन्दाकिनी नह्यते । शीतांशुः परिभूयते च तमसा तसादियं तादशी कामाक्षि स्मितमलरी तव वचोवैदग्न्यमुलाइते ॥ ४५ ॥ आशङ्के तव मन्दहासलहरीमन्याशी चन्द्रिका- मेकानेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वेक्षोजाम्बुरुहे न ते रहयतः कांचिदशां कोमली- मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुलताम् ॥ ४६॥ आस्तीर्णाघरकान्तिपल्लवचये पातं मुहुर्जग्मुषी कामद्रोहिणि मांसलस्मरशरज्वालावलिं व्यती। निन्दन्ती धनसारहारवलयज्योत्सवामृणालानि ते कामाक्षि सितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ १७ ॥ सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती समः- संदोहं नमतां निजस्मरणतो दोषोकरद्वेषिणी। १. 'साधु स्मिता' इति ग-पाठ:. २. 'दोषाकरो तश्यो' इति ग-पाठः ३. 'तस्मादनेतादृशी' इति क-ख-पाठः, ४. 'वक्षोजापुरुही' इति ग-पाठ, ५. 'दोषाकर' इति क-पाठः पञ्चशती। २९ निर्यान्ती वदनारविन्दकुइरान्निधूतजाच्या नृणां श्रीकामाक्षि तव सितद्युतिमयी चित्रीयते चन्द्रिका ॥ १८ ॥ कुण्ठीकुर्युरमी कुबोधघटनामसन्मनोमाथिनी श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाकुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ।। प्रेवन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानथियो नीलाम्भोधरनैपुणी तत इतो निर्निद्रयन्त्यञ्जसा ॥ ५० ॥ व्यापार चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं करेण सततं वागूमिकल्लोलिता । उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा श्रीकामाक्षि सरखती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ॥ कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते। आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं रागभरं व्यनक्ति मनसो धैर्य धुनीतेतराम् ॥ ५२ ।। वैशयेन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने । कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३॥ १. 'मनोमन्थिनी' इति क-ख-पाठः, काव्यमाला। लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगर्जहिप- ग्रामण्यः श्रुतिचामरेस्तरुणिमस्वाराज्यबीजारैः । आनन्दामृतसिन्धुत्रीचिपृपतैरास्याब्जहंसैम्तव श्रीकामाक्षि मथान मन्दहसितमत्कं मनःकल्मषम् ॥ ५४ ॥ उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा- चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती। या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत- त्वर्वापीपैयसः मितद्युतिरसी कामाक्षि ते म झुला ॥ ५५ ॥ सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै- रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकखरा कुसुमवत्प्रागल्भ्यमभ्येयुपी कामाक्षि सितचातुरी तव मम क्षेमकरी कल्पताम् ॥ ५६ ॥ धानुष्काग्रसरस्य लोलकुटिलभूलेखमा बिभ्रतो लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीपुषः । जेतुं मन्मथमर्दिनं जननि ते मन्दस्मितप्रक्रमो वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ।। यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् । चेतो यत्प्रेसभं सरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तव मितांशुकणिकाहेलाभवं प्राभवम् ।। ५८ ॥ संमिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिश्रेव शशाकदीप्तिलहरी नीलैर्महानीरदैः । 11..." MAAma १. 'पयसां' इति ग-पाठः. २. प्रभवस्थिरज्वरशिखिज्वालेन' इति ग-पाठ:
पञ्चशती। कामाक्षि स्फुरिता तब मितरुचिः कालाञ्जनस्पर्धिना कालिन्ना कचरोचिषां व्यतिकरे कांचिदशामश्नुते ॥ ५९ ॥ जानीमो जगदीश्वरि प्रणमतां त्वन्मन्दहासप्रभा श्रीकामाक्षि कुमुदतीमभिनवामेषा यतः सर्वदा । आस्येन्दोरवलोकने पशुपतेरभ्येति संफुल्लतां तन्द्रालस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥ यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमै- भन्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी । बिम्बोष्ठद्युतिपुञ्जचुम्बनकला शणायमानेन ते कामाक्षि मितरोचिषा समदशामारोढुमाकाङ्क्षति ॥ ६१॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं श्वेतं किं च तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥६२॥ त्वन्मन्दस्मितमञ्जरी प्रसृमरां कामाक्षि चन्द्रातपं सन्तः संततमामनन्त्यमलतां तल्लक्षणं लक्ष्यते । येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस- ध्वान्तं तत्खलु दुःखिनो वयममी के नेति जानीमहे ॥ ६३ ॥ नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो- मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो बहीयेसीं तां रुचिं बिम्बोष्ठस्य रुचिनिरस्य हसितज्योत्स्ना वयस्यायते ॥ ६४ ॥ १. 'लितदीधितिः सर दशा' इति ग-पाठः. २. 'बहीयसी' इति क-ख-पाठः- 44 4.PRN.
३२ काव्यमाला। मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमनसस्तपालनं तन्वती। उद्भूतस्य जलान्तरादविरतं तद्दरतां जग्मुषी कामाक्षि सितमञ्जरी तय कथं कम्बोस्तुलामश्नुते ।। ६५ ॥ श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मन्दाक्षं चिरमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां महे । एकमै पुरुषाय देवि स ददौ लक्ष्मी कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी च वागीश्वरीम् ॥६७॥ श्रीकाञ्चीपुररत्नदीपकलिके नान्यानि विश्वान्तरे चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे । कम्पातीरकुटुम्बचकमकलाचुधूनि चञ्चपुरै- नित्यं यानि तव स्मितेन्दुमहसामाखादमातन्यते ॥ ६८ ॥ शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथा धूनय- नागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन् । लीलालापपुरःसरोऽपि सततं वाचंयमान्धीणय- कामाक्षि मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ ६९ ।। श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्धरं भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् । ... १. 'विरहस्य' इति क-ख-पाठः, २. 'ताम्येव' इति क-च-पाठः, Awarenkaiameriamahanmanuswapne 1w पञ्चशती। ३३ N यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयत्यञ्जसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नमस्कुर्महे ॥७॥ श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव स्फीतश्चेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि । चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ।। ७१ ॥ ज्योत्ला किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति विना त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । संतापोऽपि निवार्यते नववचःप्राचुर्यमडूर्यते सौन्दर्य परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥ वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुक्षते ज्योत्सारोचिरपि प्रदोषसमयं प्राप्यैव संपेद्यते । खच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ।।७३ ॥ प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यद्धीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका- गर्भ मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥७॥ हेरम्बे च गुहे च हर्षभरितं वात्सल्यमकरय- न्मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्करं व्यञ्जयन् । आनमेषु जनेषु पूर्णकरुणावैदग्ध्यमुचालय- कामाक्षि सितमञ्जरी तव कथंकारं मया कथ्यते ॥ ७५ ॥ १. 'संधुक्ष्यते' इति ग-पाठः. २. 'संपाद्यते' इति सर्वेषु पुस्तकेषुः पाठः. ३.."विलीयते' इति ग-पाठ HPA.MAA- -- ३ पंच० ३४ काव्यमाला। संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगम वाणीपद्धतिदूरतोऽपि सततं तत्साहचर्य वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यो पशूनां रति श्रीकामाक्षि तव सितामृतरसस्यन्दो मयि स्यन्दताम् ॥ ७६॥ श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्करपक्रम नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्तादृक्तव मन्दहाससुषमा मातः कथं मानितां तन्मूर्धा सुरनिमगां च कलिकामिन्दोश्च तां निन्दति ।। ७७ ॥ ये माधुर्यविहारमण्डपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाकुराः । कामाक्ष्याः सहज गुणत्रयमिदं पर्यायतः कुर्वता वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥ कामाक्ष्या मृदुलसितांशुनिकरा दीक्षान्तके वीक्षणे मन्दाक्षमहिला हिमद्युतिमयूखाक्षेपदीक्षाकुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुंडदाक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥ जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते गाजानीव पयांसि देवि पटलान्यल्पसितज्योतिषाम् । एनःपडपरम्परामलिनतामेकानाथप्रिये प्रज्ञानासुतरां मदीयधिषणों प्रक्षालयन्तु क्षणात् ॥ ८० ॥ अश्रान्तं परतश्रितः पशुपतिस्त्वन्मन्वहासारैः श्रीकामाक्षि तदीयवर्णसमतासनेन शहामहे । Anna- ." M P १. दक्षान्तकः शिवतत्संबन्धिनि. २. 'गुण' इति क-स-पाठः. ३ बाणीपु.
पञ्चशती। ३५ इन्दु नाकधुनी च शेखरयते मालां च धत्ते नवै- र्वैकुण्ठैरवगुण्ठनं च कुरुते धूलीचयैर्भासनैः॥ ८१ ॥ श्रीकाश्चीपुरदेवते मृदुवचःसौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे लक्षणे कुमलति प्ररूढपुलके चाश्लेषणे फुल्लति ॥ ८२ ।। किं त्रैःस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थ नवं पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः । किंखिन्नैकटिकं गिरो मधुरिमाभ्यासाय नव्यं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥ भूषा वक्रसरोरुहस्य सहजा वाचां सखी शाश्वती 'नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा । जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४ ॥ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमखाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥ उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी- रजस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी । : श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यङ्कुरै- श्चित्रां विद्रुममुद्रिकां वितनुते मौक्ती वितानश्रियम् ॥ ८६॥ १. नीवी मूलधनम्. . २. 'मूर्ध्वसीनि च' इति क-ख-पाठः. ३. 'मुक्का- वितानश्रियम्' इति क-पाठः ३६ काव्यमाला। जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः । श्रीकामाक्षि विसृत्वरा इव करा हासाकुरास्ते हठा- दालोकेन निहन्युरन्धतमसस्तोमस्य मे संततिम् ।। ८७ ।। खाभाव्यात्तव वक्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरश्चितस्मितरुचः पाण्डित्यपात्रीकृतम् । अम्भोज खत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीदग्विधं भाजते ॥ ८८ ॥ पुंभिर्निर्मलमानसर्विदधते मैत्रीरसं निर्मलं कर्तुं कर्मलयं च निर्मलतमा कीर्ति लभन्तेतराम् । सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका- स्तत्कामाक्षि तव सितस्य कलया नैर्मल्यसीमानिधेः ।। ८९ ॥ आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय- निन्दं किं च विमोहयन्पशुपति विश्वार्तिमुच्चाटयन् । हिंसन्संसृतिडम्बरं तव शिवे हासाहयो मात्रिका श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम् ॥ १० ॥ क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित- ज्योतिर्मण्डलचक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मधर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतखिनीशीकराः ॥ ९१ ।। श्रीकामाक्षि तव मितैन्दवमहःपूरे परिस्फूर्जति प्रौढ्यं वारिधिचातुरी कलयते भक्तात्मनां प्रातिभम् । ..१. 'निहन्तु' इति.ग-पाठः, , २ . संततम्' इति .ग-पाठः १. प्रदि' इति ग-पाठः PremonHERMITHAwarhi- पञ्चशती। ३७ दोर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाविनते किं किं कैरवसाहचर्यपदवीरीत्यां न धत्ते पदम् ॥ ९२ ।। मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां कादाचित्कतया विशय बहुशो वैशद्यमुद्रागुणः । श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः सातत्येन तव मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥ इन्धाने भववीतिहोत्रनिवहे कर्मोघचण्डानिल- प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम् । मातर्मा परिषिञ्च किंचिदमलैः पीयूषवरिव श्रीकामाक्षि तव मितद्युतिकणैः शैशिर्यलीलाकरैः ॥ ९४ ॥ भाषाया रसनानखेलनजुषः शृङ्गारमुद्रासखी लीलाजातरतेः सुखेन नियमलानाय मेनात्मजे । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतखिनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥ संतापं विरलीकरोतु सकलं कामाक्षि मञ्चेतना मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेपु ते । नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥ चेतःक्षीरपयोधिमन्थनचलद्रागाख्यमन्थाचल- क्षोभव्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् । १. 'हासचर्यपदवी' इति ग-पाठः. २. 'देशीयलीलाकणः' इति ग-पाठः. ३. 'रसनाग्रलेखन' इति ग-पाठः. ४. 'महल्लीलेषु' इति क-ख-पाठः. ५. 'क्षो- भासंप्रतिसंभवां' इति क-ख-पाठः, ३८ काव्यमाला। खादं खादमुदीतकौतुकरसं नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥१७॥ आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेसन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः । काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ।। ९८॥ सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहु- माधुर्यागमसंप्रदायमथवा सूक्तस्तु मन्दस्मितम् । इत्थं कामपि गाहते मम मनः संदेहमार्गश्रमी श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्ती निधते पदम् ॥ ९९ ॥ क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि. श्रेणीवाक्परिपाटिकामृतझरी सूतीगृहेभ्यः शिवे । निर्वाणाङ्करसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिप्कणेभ्यो नमः ॥१०॥ इति श्रीमूककविसार्वभौमकृती पञ्चशत्यां मन्दसितशतकं द्वितीयम् । ROMOPIars.MPUTHI पादारविन्दशतकम् । महिम्नः पन्थानं मैदनपरिपन्थिप्रणयिनि प्रभुनिर्णेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जैस्पाकयति माम् ॥ १ ॥ १. हे कामारिदयिते. २. पाचालयति..मुखरीकरोतील. V M 1वशा गलग्राही पौरंदरपुरवनीपल्लवरुचां धृतप्राथम्यानामरुणमहसामादिमगुरुः । समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥ मरालीनां यानाभ्यसनकलनामूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥ वहन्ती सैन्दूरी सरणिमवनभ्रामरपुरी- पुरंध्रीसीमन्ते कविकमलबालार्कसुषमा । त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४ ॥ प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारातेश्चूडावियति गृहमेधी हिमकरः । ययोः सांध्यां कान्ति वहति सुषमाभिश्चरणयो- स्तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५॥ ययोः पीठायन्ते विबुधमुकुटीनां पटलिका ययोः सौधायन्ते खयमुदयभाजो भणितयः । ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो- स्तयोमें कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६ ॥ नयन्ती संकोचं सरसिजरुचं दिक्परिसरे सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता । १. तिरस्कारकः. २. नन्दनवनतरुकिसलयानाम्. ३. तरुणरविकिरणानाम. ४. देवीप्यते. ५. 'पुरारातेः' इति ग-पाठः. .....ON- -----
४०.
काव्यमाला।
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७ ॥
विरावैञ्जिीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानने पुरविजयिनि मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥
सुपर्वस्त्रीलोलालकपरिचितं षट्पद कुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
मृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजे-
विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदनीम् ॥ ९॥
रजःसंसर्गेऽपि स्थितमजरसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतिता
विधचे कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १७ ॥
जटाला मीरस्फुरदरुणरत्नांशुनिकर-
निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
परित्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्या धते तव चरणपाथोजयुगली ॥ ११ ॥
तुलाकोटिद्वन्द्वकणितमणितामीतिवचसो-
विननं कामाक्ष्या विस्मरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोमें ललितयोः
पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥
पञ्चशती। भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ । ययोर्लाक्षाबिन्दुस्फुरणदशया धूर्जटिजटा- कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥ पवित्रीकुर्युनः पदतलभुवः पाटलरुचः परागास्ते पापप्रशमनधुरीणास्तव शिवे । कणं लब्धं येषां निजशिरसि कामाक्षि नियतं वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥ बलाकामालाभिर्नखरुचिमयीभिः परिवृते विनम्रखर्नारीविकचकचकालाम्बुदकुले ।। स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद- स्तडिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥१५॥ सरागः सद्वेषः प्रसृमररजस्कः प्रतिदिनं निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् । कथंकारं मातः कथय पदपद्मस्तव सतां नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६. जपालक्ष्मीशोणो जननि परमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा । मनःपूर्वादि नस्तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७ ॥ नमस्कुर्मः प्रेझन्मणिकटकनीलोपलमहः- पयोधौ रिझद्भिर्नखकिरणफेनैर्धवलिते । १. चरणरूपसूर्यः. - ४२ काव्यमाला । स्फुटं कुर्वाणाय प्रबलचलदीनिलशिखा- वितर्क कामाक्ष्याः सततमरुणिमे चरणयोः ॥ १८ ॥ शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिसरिति त्वदीयौ कामाक्षि प्रसूतकिरणों देवि चरणी ॥ १९ ॥ निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं शुद्धैरधरमिव रम्यर्द्विजगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नामि चरणम् ॥ २० ॥ नमस्यासंसजनमुचिपरिपन्थिप्रणयिनी- निसर्गप्रेखोलत्कुरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते बेइमरुचा प्रचार कामाक्षि प्रकटयति पादानग्नुपमा ॥ २१ ॥ कदा दूरीकर्तुं कटुदुरितकाकोलजनितं महान्तं संतापं मदनपरिपन्थिप्रियतमे । क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥ ययोः सांध्यं रोचिः सततमरुणिन्ने स्पृहयते ययोश्चान्द्री कान्तिः परितपति हवा नखरुचिम् । ययोः पाकोद्रेक पिपठिषति भक्त्या किसक्य प्रदिन्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥ १. 'निषितं' इति क-ख-पाठः, २. शची. ३. केशककार: ..'क्षणं ते' इति क-ख-पाठः momमा। " PM NA- पञ्चशती। जगन्नेदं नेदं परमिति परित्यज्य यतिमिः कुशाग्रीयखान्तैः कुशलधिषणैः शास्त्रसरणौ । गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते गिरामैदंपर्य तव चरणमाहात्म्यगरिमा ॥ २४ ॥ कृतस्त्रानं शास्त्रामृतसरसि कामाक्षि नितरां दधानं वैशयं कलितरसमानन्दसुधया । अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा- पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥ २५॥ मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु- दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः । विधत्ता कामाक्षि प्रसृमरतमोवञ्चनचणः क्षणार्ध सांनिध्यं चरणमणिदीपो जननि ते॥ २६ ॥ कवीनां चेतोवनखररुचिसंपर्क विबुध- सवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः । दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपकरुयुगम् ।। २७ ।। सदा किं संपर्क प्रकृतिकठिनैन किमुकुटै- स्तटै!हारानेरधिकमणुना योगिमनसा । विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा- मदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥ १. नखा एव नखरास्तत्कान्तियुक्तम् ; (पक्षे) न खररुचिसंपर्कि. २. हंसम: पादकटकः; (पक्षे) हंसा एव हंसकाः, ३. 'संपर्कात्' इति सर्वपुस्तकपाठः. ४. "विभो' इति ग-पाठः, 'विभन्ने' इति क-ख-पाठः, ५, “पादयुगली' इति MANmannerivomenye- ग-पाठ, ४४, काव्यमाला। पवित्राभ्यामम्ब प्रकृतिमृदुलाम्यां तब शिवे पदाभ्यां कामाक्षि प्रसभमभिभूतः सचकितैः । प्रवालरम्भोजैरपि च वनवासवतदशाः सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥ मरालीनां पादाहतिमदनिशं हंसनिवहे- नमस्यं निर्जाड्यं नियतजलमध्येकशरणम् । अदोषव्यासङ्गं सततमपि दोपाप्तिमलिनं पयोज कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३० ॥ सुराणामानन्दप्रवलनतया मण्डनतया नखेन्दुज्योत्लाभिर्विसमरतमःखण्डनतया । पयोजश्रीद्वेषव्रतरततया त्वचरणयो- विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥ सितिन्ना कान्तीनां नखरजनुषां पादनलिन- च्छवीनां शोणिन्ना तव जननि कामाक्षि नमने । लभन्ते मन्दारप्रथितनवबन्धूककुसुम- स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२ ।। नखश्रीसंनद्धस्तबकनिचितः वैश्व किरण: पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः । सतां गम्यः शके सकलफलदाता सुरतरु- स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ।। ३३ ।। फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसा वहनब्ज चक्र दरमपि च लेखात्मकतया । HAMARI wentineet। . 1. मण्डिततया' इति ग-पाठः. २. रेखारमक' इति ग-पाठः, पञ्चशती। श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमा विधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४ ॥ वषट्कुर्वन्माजीरजकलकलैः कर्मलहरी- हवींषि प्रोद्दण्डं ज्वलति परमज्ञानदहने । महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां मनोवेद्यां मातस्तव चरणयज्वा मम सदा ॥ ३५ ॥ महामन्त्रं काञ्चीमणिकटकनादैरिव जय- न्क्षिपन्दिक्षु खच्छं नखरुचिमयं भास्मनरजः । नतानां कामाक्षि प्रकृतिपटुरुच्चाट्य ममता- पिशाची पादोऽयं प्रकटयति ते मात्रिकदशाम् ।। ३६ ॥ उदीते बोधेन्दी तमसि नितरां जग्मुषि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्यानं नखरुचिपटेनाहियुगली- पुरंध्री ते मातः स्वयमभिसैरत्वेव हृदयम् ॥ ३७ ।। दिनारम्भः सपकलिनविपिनानामभिनवो विकासो वासन्तः सुकविपिकलोकस्य नियतम् । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥ धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातङ्गी परिकलयते पर्वतसुते ॥ ३९ ॥ १. विष्णुः. २. च दधती'. इति ग-पाठः, ३. 'सरसेव' इति ग-पाठ.. 1. 'परिचितिं दधानं' इति ग-पाठः, . -wwwdawantwa Mamatepturmeri काव्यमाला। शनैस्तीर्खा मोहाम्बुधिमथ समारोढुमनसः श्रमाकैवल्याख्यां सुकृतिसुलभां सौधवलभीम् । लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥ प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि- प्रवाहमोद्दण्डीकरणजलदाय प्रणमताम् । प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण- प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥ ४१ ।। मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा । गुणोत्कर्षान्मजीरजकलकलस्तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२ ॥ जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी- तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ १३ ॥ गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग- परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ । नखैः मेरो सारौ निगमवचसां खण्डितभव- ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ १४ ॥ अविश्रान्तं पर यदपि कलयन्यावकमयं निरस्यन्कामाक्षि प्रणमनजुषां पहमखिलम् । १. 'समारूढमनसः' इति कख-पाठः. २. 'सुकृत' इति ग-पाठ. ३. 'प्र- चण्डार्चिः' इति क-ख-पाठः. .
पञ्चशती। ३७ तुलाकोटिद्वन्द्वं दधदपि च गच्छन्नतुलता गिरां मार्ग पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥ प्रवालं सबीडं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपमधिकबालं दधति या । रुचिं सांध्यां वन्ध्यां विरचयति या वर्धयतु सा शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६॥ किरज्योत्स्वारीति नखमणिरुचा हंसमनसां वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः। प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते शरत्कालप्रीतिं शशिशकलचूडप्रियतमे ॥ ४७ ॥ नखाङ्करस्मेरद्युतिविमलगङ्गाम्भसि सुखं कृतस्त्रानं ज्ञानामृतममलमाखाध नियतम् । उदश्चन्माक्षीरस्फुरणमणिदीपे मम मनो मनोज्ञे कामाक्ष्याश्चरणमणिहम्य विहरताम् ॥ ४८ ॥ भवाम्भोधौ नौका जडिमविपिने पावकशिखां प्रणनेन्द्रादीनामधिमुकुटमुत्वंसकलिकाम् । जगत्तापज्योत्नामकृतकवचःपञ्जरपुटे शुकस्त्री कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ।। परात्मप्राकाश्यप्रतिफलनचुचुः प्रणमतां मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमधुरां शोभनदशां विधातुं चेष्टन्ते बैलरिपुवधूटीकुचभराः॥ ५० ॥ १. 'बिधति' इति क-ख-पाठः. २. शची.
काव्यमाला। अविश्रान्तं तिष्ठन्नकृतकवचःकंदरपुटी- कुटीरान्तः प्रौढां नखरुचिसटाली प्रकटयन् । प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ।। ५१ ॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः । नखश्रीभिः मेरा बहु वितनुते नूपुररवै- श्चमत्कृत्या शके चरणयुगली चाहुरचनाः ॥ ५२ ।। सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेर्मुकुटशशिरेखा हिमजलैः । स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवायत्ते मैत्री पथिकसुभगां पादयुगली ॥ ५३ ।। नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि मरहरमनोमोहनजपः पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४॥ वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते । पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं दृशा नानन्यन्ते नलिनमवनारायणमुखाः ॥ ५५ ॥ प्रणामोधन्दारकमुकुटमन्दारकलिका- विलोलद्रोलम्बप्रकरमयधूमप्रचुरिमा । १. अज्ञानरूपं गजेन्द्रम्. २. चरणरूपो मृगेन्द्राधिपः. ३. 'सर' इति क-स-पाठः. ४. क-ख-पुस्तकयोरसिञ्चोके पूर्वार्धोत्तरार्धयोयत्ययोऽस्ति.
पञ्चशती। ४९ प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-.' कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥ ५६ ॥ वलक्षश्रीक्षाधिपशिशुसदृक्षा तव नखै- जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे । क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ॥ ५७ ।। समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा- ननन्ताभिर्भाभिर्दिवमनु दिगन्तान्विरचयन् । अहंताया हन्ता मम जडिमदन्तावलरिपु. विभिन्तां संतापं तव चरणचिन्तामणिरसौ ॥ ५८ ॥ दधानो भाखत्ताममृतनिलयो लोहितवपु- विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥ नयन्ती दासत्वं नलिनभवमुख्यानसुलम- प्रदानां दीनानाममरतरुदौर्भाग्यजननीम् । जगजन्मक्षेमक्षयविधिषु कामाक्षि पदयो- धुरीणामीष्टे कस्तव भणितुमाहोपुरुषिकाम् ॥ ६ ॥ जनोऽयं संतप्तो जननि भवचण्डांशुकिरण- रेलब्ध्वैकं शीतं कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥ 1. 'रलब्ध्वा किं त्वेक' इति ग-पुस्तके, 'रलब्धः कं शीत' इति च ख-पुस्तके पाठः -- .. ४पंचा काव्यमाला। जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं बिभ्राणे सुरमुकुटसंघट्टमहणे । निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा बुधैः संविनारी तव चरणमाणिक्यभवने ।। ६२ ।। प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण- श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये। सुरेन्द्राशामापुरयति यदसौ ध्यान्तमखिलं धुनीते दिग्भागानपि च महसा पाटलयते ।। ६३ ॥ महाभाष्यव्याल्यापटुशयनमारोपयति वा स्मरव्यापारापिशुननिटिलं कारयति वा । द्विरेफाणामध्यासयति सततं वा निवसति प्रणम्रान्कामाक्ष्याः पदनलिनमाहाल्यगरिमा॥६४ ॥ विवेकाम्भःस्रोतःसपनपरिपाटीशिशिरिते समीभूते शास्त्रस्मरणहलसंकर्षणवशात् । सतां चेतःक्षेत्रे बपति तव कामाक्षि चरणो महासंबित्सस्यप्रकरवरवीज गिरिसुते ॥ १५ ॥ दधानो मन्दारतबकपरिपारी नखरुषा वहन्दीतां शोणाहुलिपटलचाम्पेषकलिकाम् । अशोकोल्लास नः प्रचुरयतु कामाक्षि चरणो विकासी वासन्तः समय इव ते सर्वदयिते ।। ६६ ।। नखांशुपाचुर्यप्रसूमरमेरालीपचलितः स्फुरन्मजीरोधम्मस्कतमहाशैवलयुतः । + विष्णुशिवब्रह्मरूपान्करोतीति भावः. २. 'मरासानिधना' इति क-ब- पाठः, ३. 'शवललघुः' इति ग-पाठः. mahatam RPwou..
पञ्चशती। भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणाभिल्यो नगपतितनूजे विजयते ॥ ६७ ॥ धुनानं पौघं परमसुलभं कण्टक कुलै- विकासव्यास विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्वाभिर्विशदरुचि कामाक्षि नितरा- मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८॥ करीन्द्राय दुखत्यलसगतिलीलासु विमलैः पयोर्मात्सर्य प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तदपि तव कामाक्षि हृदयं मुनीनां शान्तानां कथमनिशमसै स्पृहयते ॥ ६९ ॥ निरस्ता शोणिना चरणकिरणानां तव शिवे समिन्धाना संध्यारुचिरचलराजन्यतनये । असामर्थ्यादेतत्परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥ उपादिक्षवाक्ष्य तव चरणनामा गुरुरसौ मरालानां शरे मसृणगतिलालित्यसरणौ । अतस्ते निस्तन्द्र नियतममुना सल्यपदवीं प्रपत्रं पायो प्रतिदपति कामाक्षि कुलुकम् ॥ ७१ ॥ दधानः संसर्ग प्रकृतिमलिनैः षट्पदकुलै- जिाधीशस्त्रधाविषिषु विवधर्मुिकुलताम् । रजोमित्रैः पौनियतमपि कामाक्षि पदमो- विरोषस्ते युक्तो विषमश्नरवैरिप्रियतमे ॥ ७२॥ .. ...mume-tamans.-.-.-MAIHIROmparin.wwwmmar १. 'पुनानं' इति ग-पाठः. २. 'करीन्द्राणा' इति स-पाठ:
५२ काव्यमाला। कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणी विपन्नानां श्रीमन्नलिनमसूणो शोणकिरणौ । मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥ परमात्सर्वस्मादपि च परयोर्मुक्तिकरयो- नखश्रीषु ज्योत्स्नाकुलिततुलयोस्तानतलयोः । निलीये कामाक्ष्या निगमनुतयो किनतयो- निरस्तपोन्मीलन्नलिनमदयोरेव पदयोः ।। ७४ ॥ खभावादन्योन्यं किसलयमपीदं तव पदं प्रदिन्ना शोणिना भगवति दधाते सदृशताम् । वने पूर्वस्वेच्छा सततमवने किं तु जगतां परस्येत्थं भेदः स्फुरति इदि कामाक्षि सुधियाम् ॥ ५॥ कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥ चलतृष्णावीचीपरिचलनपर्याकुलतया मुहुर्कान्वा तान्तः परमशिववामाक्षि परवान् । तितीर्घः कामाक्षि प्रचुरतरकर्माम्बुधिम, कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितम्रीष्मसमय- प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा। १. "विलीये. इति क-स-पाठः, Mpm- पञ्चशती। . त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा. :.... नभोमासाटोपं नगपतिसुते किं न कुरुते ।। ७८ ॥ विनम्राणां चेतोभवनवलमीसीम्नि चरण- प्रदीपे प्रकाश्यं दधति तव निधूततमसि ।. असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी विघूर्णन्ती शान्ति शलभपरिपाटीव भजते ॥ ७९ ॥ विराजन्ती शुक्ति खकिरणमुक्तामणितते विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।। त्वदीयः कामाक्षि ध्रुवमलधुवह्निर्मववने मुनीनां ज्ञानामेररणिरयमद्धिर्विजयते ॥ ८० ॥ समस्तैः संसेच्यः सततमपि कामाक्षि विबुधैः. स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः । भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो- बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥ वसन्तं भक्तानामपि मनसि नित्यं परिलस- ' द्धनच्छायापूर्ण शुचिमपि नृणां पापशमनम् । नखेन्दुज्योत्लाभिः शिशिरमपि पद्मोदयकर नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥ ८२ ॥ कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः- .. : .. अपञ्चव्यापारप्रकटनकलाकौशलनिधिः। अधःकुर्वन्नब्जं सनकभूगुमुल्यैर्मुनिर्जनै- नमस्या कामाक्ष्याश्चरणपरमेष्ठी विजयते ।। ८३ ॥ १.. लघुदावो भववने" इति क-ख-पाठः. -- काव्यमामा भवत्याः कामाक्षि स्फुरितपदपत्रेहभुषां परागाणां पूरैः परिहतकलव्यतिकरैः । नतानामामृष्टे हृदयमुकरे निर्मलरुचि प्रसन्ने निःशेष प्रतिफलति विश्वं गिरिसुते ।। ८४ ।। तव त्रस्तं पादाकिसलयमरण्यान्तरमगा- सर रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे यासो वा शरणगमनं या निजरिपोः ।। ८५ ॥ गृहीत्वा याथाय निगमवचसा देशिककृपा- कटाक्षार्कज्योतिः शमितममतावन्धतमसः । यतन्ते कामाक्षि प्रतिदिवसमन्तदयितुं त्वदीयं पादाब्ज सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥ जडानामप्यम्ब मरणसमये स्वचरणयो- अंमन्मन्थक्ष्माभूसुमधुमितसिन्धुप्रतिभटाः । प्रेसन्नाः कामाक्षि प्रसभमघरस्पन्दनकला विभान्ति खच्छन्द प्रकृतिपरिपका माणितयः।। ८७ ॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ • तमेवाधाकर्तु किमिव यतते केलिगमने। भवस्यैवानन्दं विदपदापि कामाक्षि घरको भवत्यास्तद्रोह भगवति किमेवं कितनुते ।। ८८ ।। यदत्यन्तं ताम्यत्वलसगतियाखान शिव तदेतत्वामाक्षि प्रतिमूदुलं ते पदयुगम् । १. 'मेवाश्रयमगात्' इति ग-पाठ. २. 'प्रपमापति कन्यापाठः.'
पञ्चशती। किरीटैः संघट्ट कथमिव सुरौघस्य सहते मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥ मनोरङ्गे मत्के विबुधजनसंमोदजननी सरागव्यासङ्गं सरसमृदुसंचारसुभगा । मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं चलन्मजीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥ परिष्कुर्वन्मातः पशुपतिकपदं चरणराह पराचां हृत्पद्मं परमभणितीनां च मुकुटम् । भवाख्ये पाथोधी परिहरतु कामाक्षि ममता- पराधीनत्वं मे परिमुषितपाथोजमहिमा ।। ९१ ।। प्रसूनैः संपर्कादमरतरुणीकुन्तलमवै- रभीष्टानां दानादनिशमपि कामाक्षि नमताम् । खसङ्गात्कालिप्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्ता सुरभिरिति पादो गिरिसुते ॥ ९२ ॥ महामोहस्तेनव्यतिकरभयात्यालयति यो विनिक्षिप्त खसिनिजजनमनोरत्नमनिशम् । स रागस्योरेकात्सततमपि कामाक्षि रुचिरां किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३ ॥ सदा खादुंकारं विषयलहरीशालिकणिकां समाखाद्य श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥ १. 'हृदयसुकपोत' इति ख-पाठ, - ५६ काव्यमाला। धुनानं कामाक्षि स्मरणलवमात्रेण जडिम- ज्वरप्रौदिं गूदस्थितिनिगमनैकुखकुहरे । अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिन- श्चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५ ॥ रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा। निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥ यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते वित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते. प्रपन्ने कामाक्ष्याः प्रैणतिपरिपाटी चरणयोः ॥ ९७ ॥ . मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ ९८ ॥ मुँरागे राकेन्दुप्रतिनिधिमुख पर्वतसुते चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा । मनोंभृङ्गो मकः पदकमलयुग्मे जननि ते प्रकामं कामाक्षि त्रिपुरहरवामांक्षि रमंताम् ॥ १९ ॥ पदद्वन्द्वं मन्द गतिषु निवसन्तं हृदि संतां गिरामन्ते, प्रान्तं कृतकरहितानां परिवृद्ध । १. प्रसन्न' इति कस-पाठ. २. 'प्रकृति ग-पाठ.. ३.कला-पुस्तकयोः 'सुरागे' इत्यादि, 'पदद्वन्द्वं' इत्यादि च पर्य नास्ति. mein" पञ्चशती। जनानामानन्दं जननि जनयन्तं प्रणमतां त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥१०॥ इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं जपेन्नित्यं भक्त्या निखिलजगदाहादजनकम् । स विश्वेषां वन्द्यः सकलकविलोकैकतिलक- श्चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०१।। इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां पादारविन्दशतकं तृतीयम् । - आयशतकम् । 'कारणपराचिद्रूपा काञ्चीपुरसीग्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलालता ॥ १ ॥ कंच न काञ्चीतिलकं करधृतकोदण्डबाणसृणिपाशम् । कठिनस्तनभरननं कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥ चिन्तितफलपरिपोषणचिन्तामणिरेव काश्चिनिलया मे । चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुधाधारा ॥ ३ ॥ परतत्रा 'वयमनया पकजसब्रह्मचारिलोचनया । परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ॥ ४ ॥ ऐश्वर्यमिन्दुमोलेरैकात्म्यप्रकृति काश्चिमध्यगतम् । ऐन्दवकिशोरशेखरमैदंपर्य चकास्ति निगमानाम् ॥ ५ ॥ तुझाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् । गङ्गाधरपरतत्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ ६ ॥ मधुरधनुषा महीधरजनुषा नन्दामि सुरभिवाणजुषा । चिद्वपुषा काश्चिपुरे. केलिजुषा बन्धुजीवकान्तिमुषा ।। ७ ॥
काव्यमाला। कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुटुमच्छायम् । कुरुते विहति काश्यां कुलपर्वतसार्वभौमसर्वखम् ॥ ८॥ पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । काञ्चीसीनि कुमारी काचन मोहयति कामजेतारम् ॥ ९ ॥ श्रितकम्पासीमानं शिथिलितपरमेशधैर्यमहिमानम् । कलये पाटलिमान कंचन कन्चकितभुवनभूमानम् ॥ १० ॥ आहतकाञ्चीनिलयामाद्यामारूढयौवनाटोपाम् । आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ११ ॥ काञ्चीरलविभूषां कामपि कंदर्पसूतिकापाङ्गीम् । परमां कलामुपासे परशिववामावपीठिकासीनाम् ॥ १२ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिदिलासानाम् ॥ १३ ॥ आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । आरब्धयौवनोत्सवमामायरहस्यमन्तरवलम्बे ॥ १४ ॥ अधिकाधि परमयोगिभिरादिमपरपीठसीनि दृश्येन । अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥ १५ ॥ अतिशंकरदेहामङ्करितोरोजकणाश्येपैः । अधिकाश्चि नित्यतरुणीमद्राक्षं कांचिवद्धतां बालाम् ॥ १६ ॥ मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । मध्येकानि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥ धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतमयीम् । अम्बुम्पीमिन्दुमयीमम्बामनुकम्पमादिमामीले ॥ १८ ॥ १. 'परमशिवधैर्य इति ख-ग-ध पाठः. २. कम्यानपीसमीपे. anwa MAHIM पञ्चशती। लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥ श्वेता मन्थरहसिते शाता मध्ये च वायनोतीता। शीता लोचनयाते स्फीता कुचसीनि शाश्वती माता ॥ २० ॥ पुरतः कदा नु करवै पुरवैरिविमर्दपुलकितागालताम् । पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ पुण्या कापि पुरंध्री पुजितकंदर्पसंपदा वपुषा । पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥२२॥ तनिमाद्वैतवलमं तरुणारुणसंप्रदायतनुलेखम् । तटसीमनि कम्पायास्तरुणिमसर्वखमाधमद्राक्षम् ॥ २३ ॥ पौष्टिककर्मविपाकं पौष्पशरं सैविधसीनि कम्पायाः । अद्राक्षमात्तयौवनमभ्युदयं किंचिदर्घशशिमौलेः ॥ २४ ॥ संश्रितकाञ्चीदेशे सरसिजदौ म्यजाग्रदुत्तंसे । संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥ मोदितमधुकरविशिखं खादिमसमुदायसारकोदण्डम् । आइतकाचीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥ उररीकृतकाश्चिपुरीमुपनिषदरविन्दकुहरमधुषाराम् । :: उन्नमस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥ एणशिशुदीर्घलोचनमेनःपरिपन्थि संततं नमताम् । '' एकामनाथजीवितमेवंपददूरमेकमवलम्वे ॥ २८ ॥ सयमानमुखं काश्चीमयमानं कमपि देवताभेदम् । दयमानं वीक्ष्य मुहुर्ययमानन्दास्ताम्बुधौ ममाः ॥ २९॥ १.शा. २. "सीधसीनि' इति कब-ग-पाठ:.. rani.naire ६० काव्यमाला। कुतुकजुषि काश्चिदेशे कुमुदतपोराशिपाकशेखरिते । कुरुते. जनो मनोऽयं कुलगिरिपरिवृढकुलैकमणिदीपे ॥३०॥ वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । विद्रुमसहचरदेहं विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥ कुरुविन्दगोत्रगानं कूलचरं किमपि नौमि कम्पायाः । कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥ कुब्मलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् । कुङ्कुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥ अङ्कितकुचेन केनचिदन्धकरणौषधेन कमलानाम् । अन्तःपुरेण शंभोरलंक्रिया कापि कल्प्यते कायाः ॥ ३४ ॥ उररीकरोमि संततमूष्मलफालेन लालितं पुंसा । उपकम्पमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥ अङ्कुरितस्तनकोरकमकार्ककारमेकचूतपतेः । आलोकेमहि कोमलमागमसंल्लापसारयाथार्थ्यम् ॥ ३६ ॥ पुंजितकरुणमुदश्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥ लोलहृदयोऽस्मि शंभोर्लोचनयुगलेन लेझमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥ मधुकरसहचरचिकुरैर्मवनागमसमयदीक्षिवकटाक्षैः । मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षोवामातलीवशंवदीभूता । पुरुषत्रितये त्रेधा पुरंघ्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥ १. 'पिजरित' इति पुस्तकचतुष्टयेऽपि छन्दोभाषितः पारः.
पञ्चशती। • - ॥ । बाधाकरी भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् । आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाम्यन्तः शशधरकलयाङ्कितमौलिममलचिद्वलयाम् । अलयामागमपीठीनिलयां वलयाकसुन्दरीमम्बाम् ॥ ४२ ॥ शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ॥ समया सांध्यमयूखैः समया बुद्धया सदैव 'शीलितया । उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥४४॥ जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला ॥ ४५ ॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ अभिदाकृतिभिंदाकृतिरैचिदाकृतिरपि चिदाकृतिर्मातः । अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ १८ ॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥४९॥ मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । चण्डकरशनकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥ १. 'शीलतया' इति क-ख-पुस्तकयोः, 'शीतलया' इति च ग-पुस्तके पाठः, २. 'गुहारिणि' इति क-ख-ग-पाठः. ३. 'रचिदाकृतिश्चिदाकृतिश्च मातः' इति काव्यमाला ६२ अधिकाञ्चि कलिलोलेरखिलागमयत्रतत्रमन्त्रमयैः । अतिशीतं मम हृदयं विषमशरद्रोहिजीवनोपायैः ।। ५१ ॥ नन्दति मम हृदि काचन मन्दिरयन्ती निरन्तरं कान्धीम् । इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ।। ५२ ।। शम्पालतासवर्ण संपादयितुं भवज्वरचिकित्साम् । लिम्पामि मनसि कंचन कम्पातटरोहि सिद्धभैषज्यम् ।। ५३ ॥ अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे तामानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४॥ ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयाहवृत्तान्तम् । अधिकाश्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ।। ५६ ॥ भूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तुलोंकोत्तरकीतिरेव कामाक्षि ॥ ५७ ॥ पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् । पञ्चशरीयं शंभोर्वश्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥ परिणतवतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्णीम् । पञ्चाशदर्णकल्पितपदशिल्पां तां नमामि कामाक्षीम् ॥ ५९॥ आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिका विद्याम् । खादिष्ठचापदण्डो नेदिष्ठामेव कामपीठगताम् ॥ ६०॥ तुष्यामि हर्षितसरशासनया काचिपुरि कृतासनया । खासनया सकलजगद्धासनया कलितशम्बरासनया ।। ६१ ॥ ...१. 'असमशर' इति कस-ग-पाठः. २. “पश्चाशद्वर्ण इति.क-समा-पाठः. ३. आदिक्षत् उपदिष्टवान्, ४. इक्षुधनुर्धारिणीम्. Urdsunam पञ्चशती.। ६३ 4. प्रेमवती कम्पायां स्थेमवती यतिमनःसु भूमवती । सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥१२॥ कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुमलमुद्रा धुनोतु नः प्रतिभा ॥ ६३ ॥ केनापि मिलितदेहा यूना खाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥ कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरनम् ।। ६५ ।। दग्धषडध्वारण्यं वरदलितकुसुम्भसंभृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीनि किमपि कारुण्यम् ॥ ६६ ॥ अधिकाञ्चि वर्धमानानतुलां करवाणि पारणामक्ष्णोः । आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥ बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥ किं वा फलति ममान्यैर्बिम्बाधरचुम्बिमन्दहासमुखी । संबाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ।। ६९ ॥ मञ्चे सदाशिवमये परशिवमयललितपौष्पपर्यो । अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥ लक्ष्योऽस्मि कामपाठीलासिकया धनकृपाम्बुराशिकया। श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ १ ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । धरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥ १. स्वर्भवती. २. ऐश्वर्यवती. . ३. संकोचम्. . ARNm- ..
काव्यमाला। मूर्तिमयि मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिपास्माकम् ॥ ७३ ।। वेदमयीं नादमयी बिन्दुमयी परपदोद्यदिन्दुमयीम् । मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ।। ७४ ॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसपाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी॥ ७५ ॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजधनचरणेषु । अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥ प्रत्यङ्मुख्या दृष्टया प्रसाददीपाकरेण कामाक्ष्याः । पश्यामि निस्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥ विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले। भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ॥ मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षकोलिनि ते। शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥७९॥ देशिक इति किं शके तत्ताहक्तव नु तरुणिमोन्मेषः । कामाक्षि शूलपाणेः कामागमतेन्त्रयज्ञदीक्षायाम् ॥ ८० ॥ वेतण्डकुम्भडम्बरवैतण्डिककुचभरातमध्याय । कुँडमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१ ॥ अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाचि कांचिद्राक्षम् । अवनतजनानुकम्पामनुकम्पाकूलमसदनुकूलाम् ॥ ८२ ।। १. 'मुमुदुषा' इति क-ख-ग-पाठः. २. "निस्तुललये' इति क-ख-ग-पाठः, ३. "विपक्षहालिनि' इति क-खना-पाठः, ४. 'इति नु किमेषः शरे इति घ-पाठः, ५. 'तत्रयन्त्र इतिघ-पाठ:-:. कामरचये' इति.क-ख-ध-पाठ.. mammi-MateriamwaWILPIANNAINA प.
पञ्चशती। ६५ परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥ दग्धमदनस्य शंभोः प्रथीयसी ब्रह्मचर्यवैदग्धीम् । तव देवि चतुरिमश्रीतरुणिमपाको न चक्षमे मातः ॥.८४ ॥ मदजलतमालपत्रा वसनितपत्रा कराहतखनित्रा। विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥ अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६॥ प्रेणतजनतापवर्गा कृतरणसर्गा ससिंहसंसर्गा। कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७॥ श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । देवि कलितान्त्रखण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८॥ 'उवींधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । गुर्वीमकिंचनाति खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥ ताडितरिपुपरिपीडनभयहरणनिपुणहलमुसला। क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥९॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला। कनकरुचिचौर्यशीला त्वमम्ब बाला कराजधृतमाला ॥२१॥ विमलपटी कैमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपश्ची विभासि वैरश्ची ॥ ९२॥ १. 'भैरवि'इति क-ख-ग-पाठः, २. प्रणतजनताया मोक्षरूपा. ३. भूता' इति क-ख-ग-पाठः,' ४. सर्वेषु पुस्तकेष्वयमेव दुष्टः पाठोऽस्ति, ५. 'क लघुटी' इति घ-पाठः. ५पंच० काव्यमालग। कुङ्कुमरुचिपिङ्गमसक्सङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपभेदं जपपटपुस्तकवराभयानकरम् ॥ ९३ ॥ कनकमणिकलितभूषां कालायसकलहायमानकान्तिजालाम् । कामाक्षि 'शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥ लोहितिमपुञ्जमध्ये मोहितभुवनं मुदा निरीक्षन्ते । वदनं तव कुचयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥ जैलपिद्विगुणितहुतवहदशदिनेशकलाश्विनेयदलैः । नलिनैर्महेशि गच्छसि सर्वोत्तमं त्वं करन्ध्रधृतनलिनम् ॥ ९६ ॥ सकृतदेशिकचरणा सबीजनिर्बीजयोगनिश्रेण्या । अपवर्गसौधवलमींमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥ अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहते । चिन्तितसंतानकला संततमपि संतनुष्व महिमानम् ॥ ९८ ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जयजयाद्रिसुते । जय जय महेशदयितें जय जय चिद्गगनकौमुदीधारे ॥ ९९ ॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निःसरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १० ॥ । इति श्रीमूककधिसार्वभौमकृतौ पञ्चशत्यामा शतकं चतुर्थम् । स्तुतिशतकम्। पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरश्चान्यपि गुम्फनानि विगलद्गाणि शर्वाणि ते । १. "जपवट' इति घ-पाठः. २. सर्वेषु पुस्तकेष्वयमेव छन्दोभायुक्तः पाठः. ३. 'कुजमध्ये, इति ग-पाठः, ४. 'किमपि' इति क-ख-ग-पाठः, ५. इयमार्यापिच्छन्दोभादूषितैव. ६. 'सर्वोत्तर' इति घ-पाठ... ..'संता- नवता' इति घ-पाठ... इयमार्या घ-पुस्तके नास्ति. RANIHARI -- पञ्चशती। स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥१॥ तापिच्छस्तबकत्विषे तनुभृतां दारिद्यमुद्राद्विषे संसाराख्यतमोमुषे पुररिपोर्वामाकसीमाजुषे । कम्पातीरमुपेयुषे कवयतां जिह्वाकुटी जग्मुषे विश्वत्राणमुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥२॥ ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रामकं सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे । पुण्यं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३॥ कामाडम्बरपूर्णया शशिरुचा कास्मितानां विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती । कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥ कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दृशा श्यामा क्षीरसहोदरमितरुचिप्रक्षालिताशान्तरा । वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कम्पातटिन्याखटे॥५॥ श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी । मारारातिमनोविमोहनविधौ काचित्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥ ..-"सता' इति घ-पाठः, २. 'रुचा' इति क-ख-ग-पाठः, ३. 'तरुणी इति कख-ग-पाठः. --- काव्यमाला। प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्करं दर्शय- न्योत्लासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् । कालिन्दीलहरीदृशां प्रकटयन्कना नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७ ॥ तंत्राभूततमालनीलसुषमैस्तारुण्यलीलागृहै- स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः । मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिंधमैः कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्कुरैः शांकरैः ।। ८ ॥ नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधि पुष्णती तेजःसंचयपाटवेन किरणानुष्णधुतेर्मुष्णती । काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिञ्चित्रमिहे स्मृतापि मनसो निर्वापिका दीपिका ॥ ९॥ कान्तैः केशरुचां चयभ्रमरितं मन्दसितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुह्योर्नेत्रत्विषा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहझी सता- मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी । १. पुस्तकचतुष्टयेऽप्यशर एवायं श्लोक, २. 'अहो' इति ध-पार, PAN - M.MAN.. AM पञ्चशती। ६९ आश्चर्य बहुखेलनं वितनुते नैश्चल्यमाविभ्रती कम्पायास्तटसीन्नि कापि तटिनी कारुण्यपाथोमयी ॥१२॥ ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते । औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमा- कम्पावीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ।। अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृश- जुत्तंसेन मुखेन च प्रतिदिनं द्रुह्मन्पयोजन्मने । माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां हेपय- काश्चीसीनि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः ॥१४॥ खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं कालायश्छवितस्करी तनुरुचिं कर्णेजपे लोचने । तारुण्योष्मनखंपचस्तनभरं जङ्घास्पृशं कुन्तलं भाग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५॥ तन्वानं जनकेलिसौधसरणि नैसर्गिकीणां गिरां केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अहोवञ्चनचुक्षु किंचन भजे काञ्चीपुरीमण्डनं पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥ आलोके मुखपङ्कजे च दधती सौधाकरी चातुरी चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया । मुग्धसेरमुखी घनस्तनतटी.मू लमध्याश्चि वा काञ्चीसीमनि कामिनी विजयते काचिजगन्मोहिनी ॥१७॥ १. हिमालयः. २. 'मूलस्पृशो' इति सर्वपुस्तकपाठः, ३. वनस्टंति मा-पाठ, ४. इन नीलप्रभामिति भावः:
काव्यमाला। -- यमिन्नम्घ भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योल्लासंस्लपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् । द्राक्षामाक्षिकमाधुरीमदभरब्रीडाकरी वैखरी कामाक्षि खयमातनोत्यभिसृति वामेक्षणेव क्षणात् ॥ १८॥ कालिन्दीजलकान्तयः मितरुचिखर्वाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहालौहित्यसंध्योदये। माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९॥ कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसच्चन्द्रा चन्द्रावतंससर्मिणी । कविकुलगिरः श्रावं श्रावं मिलत्पुलकाङ्कुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥२०॥ सरसवचसां वीची नीचीभवन्मधुमाधुरी 1. भरितभुवना कीर्तिमूर्तिमनोभवजित्वरी। जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥ अमरितसरित्पूरे नीलोत्पलप्रभया भया- नंतजनतमःखण्डी तुण्डीरसीन्नि विजृम्भते । अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥ मधुरवचसो मन्दमेरा मतङ्गजगामिन- तरुणिमजुषस्तापिच्छामास्तमःपरिपन्थिनः । १. एवं' इति क-ख-ग-पाठ:. २. देहिनाम' इति क-ख-पाठः, ३. वाची.
पञ्चशती। ७१ कुचभरनताः कुर्युभद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३ ॥ कमलसुषमाकक्षारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः। रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४॥ कलितरतयः काञ्चीलीलाविधौ कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः । कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥ २५॥ कवलिततमःखण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसंतानानामरंतुदशेखराः। नयनसरणेनेंदीयांसः कदा नु भवन्ति मे तरुणजलदश्यामाः शंभोस्तपःफलविश्रमाः ॥ २६ ॥ अचरममिषु दीनं मीनध्वजस्य मुखश्रिया सैरसिजभुवो यानं म्लानं गतेन च मञ्जुना । त्रिदेशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥ जननि भुवने चक्रम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैधनैरुदरंभरिः । तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥२८॥ १. मीनध्वजस्य प्रथम बाणमरविन्दरूपं मुखश्रिया, बीनं नितन्वतीयन्वयः. . २. हंसम्. ३. पीयूषम्.
७२ काव्यमाला। मुनिजनमनःपेटीरनं स्फुरस्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९ ।। मुनिजनमनोधाम्ने धान्ने वचोमयजाह्नवी- हिमगिरितटाग्भारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासोधाङ्गणाय नमोनमः ॥ ३० ॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा- ममृतलहरीपूरं पारं भवाख्यपयोनिधेः । सुचरितफलं काञ्चीभाजो जनस्य पचेलिम हिमशिखरिणो वंशस्यैकं वतंसमुपासहे ॥ ३१ ॥ प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदश्चितः । प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्रतीं नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥ शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला । फलितसुमनोबान्छा पाचायुधी. परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥ १. 'प्रारंभागाय' इति क-ख-ग-पाठः, २. अधिराय' इति घ-पाठ.. ३..'समुदाति' इति खंग-पाठः ४. 'तन्द्रामुदा' इति घ-पाठः, ५, 'कु- मतली' इति स्व-घ-पाठः ६. हिमालयसता.
पञ्चशती। ७३ मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् । जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणी ॥ ३४ ॥ परिमलपरीपाकोदेकं पयोमुचि काञ्चने शिखरिणि पुनद्वैधीभावं शशिन्यरुणातपम् । अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५॥. पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकविताभाजां काञ्चीपुरोदरसीमया । तटपरिसरैनहारादेवचोभिरकृत्रिमैः किमिव न तुलामस्सच्चेतो महेश्वरि गाहते ॥ ३६ ।। नयनयुगलीमास्साकीनां कदा नु फलेग्रहिं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमलियाम् । मरकतरुचो देहे माहेश्वराः स्तननम्रिताः सुकृतविभवाः प्राश्चः काञ्चीवतंसधुरंधराः ॥ ३७॥ मनसिजयशःपारम्पर्य मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वखं तत्पुरस्कुरुते कदा ॥ ३८ ॥ शिथिलिततमोलीलां नीलारविन्दविलोचना दहनविलसत्कालां श्रीकामकोटिमुपासहे।
७४ काव्यमाला। करघृतलसच्छूलां कामारिचित्तमनोहरां मनसिजकृपालोला लोलालकामलिकेक्षणाम् ॥ ३९ ॥ कलालीलाशाला कविकुलवचःकैरववनी- शरज्योत्लाधारा शशधरशिशुलाध्यमुकुटी । पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्ग कनकगिरिधानुष्कमहिषी ।। ४० ॥ नमः स्ताननेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडाभरणममृतस्यन्दशिशिरम् । सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ।। ४१ ॥ असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी- कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः । तमोमुद्रां विद्रावयतु मम कञ्चीनिलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥ अनाद्यन्ता काचिसुजननयनानन्दजननी निरन्धाना कान्ति निजरुचिविलासर्जलमुचाम् । सरारेस्तारल्यं मनसि जनयन्ती खयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ ४३ ॥ सुधाडिण्डीरश्रीः मितरुचिषु तुण्डीरविषयं पारिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः । स्तनाभ्यामानमा स्तबकयतु मे काहिततरं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ।। ४४.॥ १. 'कालारि' इति क-ख-ग-पाठः. २. कनकगिरिणा मेरुणा धातुको धनुष्मान् शिवः तस्य महिषी. ३. 'रविपतेः' इति घ-पाठः, m पञ्चशती। कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहन्त्री संतापं निगममुकुटोत्तंसकलिका । परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरता विजयते ॥ १५॥ कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे- विधात्री विश्वेषां विषमशरवीरध्वजपटी। सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६ ।। दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः। हराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७॥ वरीवर्तु स्थमा त्वयि मम गिरां देवि मनसो नरीनतु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जैडिमा नः पैरजने सरीसर्तु खैरं जननि मयि कामाक्षि करुणा ।। ४८.॥ क्षणं ते कामाक्षि अमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् । नरीनतु खैरं वचनलहरी निर्जरपुरी- सरिद्धीचीनीचीकरणपटुरास्ये मम सदा ॥ १९ ॥ पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः । १. मूलधनम्, २. क्षीणाः. ३. 'जडिमान' इति क-ख-ग-पाठः, ४. शत्रुजने, -- shukandamAIMAMA काव्यमाला। इमां याच्यामूरीकुरु सपदि दूरीकुरु तमः- परीपाक मत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥ उदश्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्घाटी परिहसितमाध्वी कवयताम् । उपादचे मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥ श्रियं विद्यां दधाजननि नमतां कीर्तिममितां सुपुत्र प्रादत्ते तव जननि कामाक्षि करुणा । त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ।। मनःस्तम्भ स्तम्भ गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितरोलम्बनिकरम् । गिरां दूर मेरं धृतशशिकिशोरं पशुपते- ईशां भोग्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ।। धनश्यामान्कामान्तकमहिषि कामाक्षि मधुरा- न्हशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते मीते मयि वितर नाथे दृढभव. न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥ नतानां मन्दानां भवनिगडबन्धाकुलधियां सेदान्ध्यं रुन्धानामभिलषितसंतानलतिकाम् । चरन्ती कम्पायास्तटभुवि सवित्री त्रिजगतां सरामस्तां नित्यं सरमथनजीवातुकलिकाम् ॥ ५५॥ १. 'मूक' इति कःखा-पाठः, २. 'महान्य' इति क-खमा-पाठ पञ्चशती। .ܕ परा विद्या हृयाश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूर दूरं चरणनतपौरंदरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६ ॥ अहंताख्या मकं कवलयति हा हन्त हरिणी हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ । कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै- रिमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७ ॥ बुधे वा मूके वा तव पतति यसिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदेपटिमा । कथंकारं नासै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥ प्रतीची पश्यामः प्रकटरुचिनीवारकणिश- प्रभासधीचीनां प्रदलितषडाधारकमलाम् । चरन्तीं सौषुम्णे पथि परपदेन्दुप्रविगल- सुधार्दा कामाक्षी परिणतपरज्योतिरुदयाम् ॥ ५९ ॥ जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्वाचां कविजनकृतान्खैरमारामयन्ती । शम्पालक्ष्मी मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६ ॥ चन्द्रापीडां चतुरवदनां चञ्चलापागलीला कुन्दसेरां कुचभरनता कुन्तलोद्धृतभृङ्गाम् । १. कमलो हरिणविशेषः, २. 'क्षोम' इति क-ख-ग-पाठः, कर्षन नमकयुः. ४. 'नीयारकमणि' इति ध-पाठः, ३.इन्द्राया:
काव्यमाला।
मारारातेर्मदनशिखिनं मांसलं दीपयन्ती
कामाक्षी तां कविकुलगिरां कल्पवल्लीमुपासे ।। ६१ ॥
कालाम्भोदप्रकरसुषमा कान्तिभिस्तर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कंदारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ।। ६२ ॥
ऊरीकुर्वन्चुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रुचा मोघयन्मेघशैली
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥
काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मी-
जर्जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ।। ६४ ॥
सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती।
काश्चीभूषा पशुपतिहशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापानमाला ॥ ६५ ॥
न्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविहतिरसिके कासितं नः क्रियासु-
बन्धच्छेदे तवः नियमिनां बद्धदीक्षाः कयक्षाः ॥.६६ ॥
पञ्चशती। '७९ . कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामनि मधुलिहां मालिकां राजयन्ती । हंसारावं विकचकमले मञ्जुमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥ चित्रं चित्रं निजमृदुतया भर्सयन्पल्लवाली पुंसां कामांन्भुवि च नियतं पूरयन्पुण्यभाजाम् । जातः शैलान्न तु जलनिधेः खैरसंचारशीली काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८ ॥ ताम्राम्भोज जलदनिकटे तत्र बन्धूकपुष्पं तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् । व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या- मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥ आहारांशं त्रिदशसदसामाश्रये चातकाना- मौकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् । कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दसेरो मदननिगमप्रक्रियासंप्रदायः ॥ ७० ॥ आर्दीभूतैरविरलकृपैराचलीलाविलासै- रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः । कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कवलयतु सा कामकोटी कटाक्षः ॥ ७१ ॥ १. चन्द्रकला. २. चातकानामाश्रये मेधे, अर्थात्केशपाशे. ३. आकाश- शन्देन मध्यभागो लक्ष्यते. तदुपरि एषां त्रिदशानां तुझमालयं मेरुम् .अर्थात्स्त- नद्वन्दम् ---- काव्यमाला। आधुन्वन्त्यै तरलनयनैराङ्गजी वैजयन्ती- मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै । आस्साकीनं हृदयमखिलैरागमानां प्रपञ्चै- राराध्यायै स्पृहयतितरामादिमायै जनन्यै ।। ७२ ।। दूर वाचां त्रिदशसदसा दुःखसिन्धोस्तरित्रं मोहक्ष्वेडक्षितिरुहवने तीक्ष्णधारं कुठारम् । कम्पातीरे प्रणयिकविभिर्वर्णितोद्यचरित्रं शान्त्यै सेवे सकलविपदां शांकरं तकलत्रम् ॥ ७३ ॥ खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती । तुण्डीराख्ये महति विषये वर्णवृष्टिप्रदात्री चण्डीदेवी कलयति रतिं चन्द्रचूडालचूली ॥ ७४ ।। येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यदृक्कोणे मदननिगमप्राभवं बोभवीति । यस्त्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः कम्पांतीरे स जयति महान्कश्चिदोजोविशेषः ।। ७५ ॥ धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् । साध्वी माध्वीरसमधुरताभञ्जनी मयुरीति- र्वाणीवेणी झटिति वृणुतात्स्वधुनीस्पर्धिनी माम् ॥ ७६ ॥ यस्या वाटी हृदयकमलं कौसुमी योगभाजां , यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः। १. यौलीयम् शौर्यमिति यावत्. २. चन्द्रेण चूहाला सशेखरा मूली केस- पाशो यस्याः पञ्चशती। ८१ यस्याः पेटी श्रुतिपरिचलन्मौलिरलस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्कासितानि ।। ७७ ॥ एका माता सकलजगतामीयुपी ध्यानमुद्रा- मेकाम्राधीश्वरचरणयोरेकताना समिन्धे । ताटकोयन्मणिगणरुचाताम्रकर्णप्रदेशा तारुण्यश्रीरतबकितरुचा तापसी कापि बाला ॥ ७८ ॥ दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयान- मन्दाराणां मदपरिणति मनती मन्दहासैः । अङ्कराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या- मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥ ७९ ॥ त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवी भारतीम् । मताकुलनायिका महिपमर्दिनीं मातृकां भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥ ८० ॥ महामुनिमनोनटी महितरम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां खामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ।। जडाः प्रकृतिनिर्धना जनविलोचनारंतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते। वचस्सु मधुमाधुरी प्रकटयन्ति पौरंदरी- विभूतिषु विडम्बनां वपुषि भान्मथीं प्रक्रियाम् ॥ ८२ ॥ १. 'श्रुतिचरदुरोमौलि' इति क-ख-पाठः. २. 'मनसिजरिपोः' इति कम- घ-पाठः. ३. 'जनाः' इति घ-पाठः, ४. 'मन्मथप्रक्रियाम्' इति क-ख-पाठः. 10mk0/- पंच०६ ८३ काव्यमाला। घनस्तनतटस्फुटस्फुरितकञ्चली चञ्चली- कृतत्रिपुरशासना सुजनशीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु काश्चीपुरे परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ॥ कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी । मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान दूयामहे । स्थिरां तनुमहे तरां मनसि किं च काश्चीरत- स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ।। ८५ ॥ सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्बिनीकुचतटीं च केलीगिरिः। गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥ पवित्रय जगत्रयीविबुधबोधजीवातुभिः पुरस्त्रयविमर्दिनः पुलककबुलीदायिमिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैक्षिण- निरक्षरशिरोमणि करुणयव कामाक्षि माम् ॥ ८७॥ १. मर्दिने' इति -ख-पाठः. 4. "निरीक्षणशिरोमणे इति घ-पाल, “पञ्चशती। ६३ कदा कलितखेलनाः करुणयैव काञ्चीपुरे कलायमुकुलत्विषः शुभकदम्पपूर्वाङ्कराः । पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसाः परिपतन्ति मार्गे दृशोः ॥ ८८ ॥ अशोध्यमचलोद्भवं हृदयनन्दनं देहिना- मनमधिकाश्चि तत्किमपि रत्नमुद्द्योतते । भनेन समलंकृता जयति शंकराङ्कस्थली कदास्य मम मानसं व्रजति पेटिकाविनमम् ॥ ८९ ॥ परामृतझराप्लुता जगति नित्यमन्तश्वरी नृणामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥ त्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । त्वमेव किल शांभवी त्वमपि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्चति । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥ मनोमधुकरोत्सवं विदधती मनीषाजुषां खयंप्रभववैखरी विपिनवेदिकालम्विनी । १. कलायो धान्यविशेषः. तत्पुष्पं नीलवर्ण भवति. 'कलापिसकटत्विषः शुभ- कदम्बपूर्णाराः' इति घ-पाठः. २. वेदारण्यविहारिणी RIT - India .
काव्यमाला। अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चरति कापि निन्गलरी || ९३ ।। कलावति कलाभृतो मुकुटसीन्नि लीलावति स्पृहावति महेश्वरे भुवनमोहने भान्वति । प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपाम्बुधारावति ।। ९४ ॥ त्वयैव जगदम्बया भुवनमण्डली सूयते त्वयैव करुणाया तदपि रक्षणं नीयते । त्वयैव खरकोपया नयनपावके इयते त्वयैव किल नित्यया जगति संततं स्थीयते ॥ ९५॥ चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्रयमयीं विधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयों परां सततसन्मयीं परमचिन्मयीं शीलये ॥ ९६ ॥ जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा जितशरदम्बुजे घनविडम्बिनि केशरुचा । परमवलम्बनं कुरु सदा पररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९७ ॥ भुवनजननि भूषाभूतचन्द्रे नमस्ते 'कलुपशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८॥ apewwwmanen १. 'करुणानिधे इति.घ-पाठः. २. 'सुररूप' इति घ-पाठः चतुर्वर्गसंग्रहः । ८५ मनोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे । कटाक्षनिगडैदृढ हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥ कणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः । घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०० ॥ इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् । स्तवं पठति नित्यदा मनसि भावयन्नम्बिका जपैरलमलं मखैरधिकदेहसंशोषणैः ॥ १०१ ॥ इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां स्तुतिशतकम् । (समाप्तेयं मूकपञ्चशती।) । महाकविश्रीक्षेमेन्द्रकृतः चतुर्वर्गसंग्रहः। प्रथमः परिच्छेदः। सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः शान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः । भूयात्सत्त्वप्रसवविलसत्पल्लवः पुण्यभाजां धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥१॥ 1. अयमग्रिमश्च श्लोकः क-घ-पुस्तकयो स्ति. - RIDhumme-- ८६ काव्यमाला। उपदेशाय शिष्याणां संतोषाय मनीषिणाम् । क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥ धर्मः शर्म परत्र चेह च नृणां धोऽन्धकारे रचिः सर्वापत्यशमक्षमः मुमनसा धर्माभिधानो निधिः । धों बन्धुरबान्धवे पृथुपथे धर्मः सुहृनिधल: संसारोरुमरुसले सुरतरुनास्त्येव धर्मात्परः ॥ ३ ॥ कणे धर्मकथा मुखे परिचितं धर्माभिरामं वच- धिते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः । काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये कल्पापायपदेऽप्युपप्लवलवरस्पृष्टवेलाफलः ॥ ४ ॥ निन्धं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीनं बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्यचेष्टः पशूनाम् । बुद्धिः पाण्डित्यहीना अमति सदसतोस्तत्वचर्चाविचारे पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्केशमेव ॥ ५ ॥ पाण्डित्यं यन्मदान्धानां परोत्कर्षविनाशनम् । मात्सर्यपांसुपूरेण मातजनानमेव तत् ॥ ६ ॥ तत्माज्ञत्वं हरति विमलं येन शीलं न काम- स्तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि । तद्वैदग्ध्यं भुवनजयिनी वयते येन माया तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन ॥७॥ अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः । मृतः स एवास्ति यज्ञो न बख धर्मे न पीस स एष शोच्यः ॥८॥ १. 'श्रुतिवर्षितः' इति पा moon.4.।
चतुर्वर्गसंग्रहः । -- हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् । यस्मिन्दिने निष्फलतां प्रयातमायुः स कालः परिदेवनस्य ॥ ९॥ न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति । न शीततुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥ १० ॥ सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी पाणौ दानविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ । संसक्ता हृदये दयैव दयिता काये परार्थोद्यमो: यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्यजीवाः परे ॥११॥ परप्राणत्राणप्रणिहितधियां धर्मजननी दयैवैका लोके सकलजनताजीवितसुधा । असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयनै- रहिंसा संसारे स्वपरकुशललाध्यसरणिः ॥ १२ ॥ प्राणानां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिनां प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् । पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा- प्राणानामभयं ददाति सुकृती तेषामहिंसावतः ॥ १३ ॥ स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः । मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरस्वती ॥ १४ ॥ क्लिन्नं कोषनिषण्णमर्थिविफलं शल्यायते यत्परं वित्त क्लेशनिमित्तमेव मलिनं यातु वयं तत्क्षयम् । यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः खार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ॥ १५॥ १. 'दानविमुकता अनमन:-' इति पाठः, २. "काले इति पाठ num- '८८ काव्यमाला। वन्धः स पुंसां त्रिदशाभिवन्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकारागरणं शरीरम् ॥ १६ ॥ परद्रविणनिःस्पृहः परकलबनि-कौतुकः परप्रणयवत्सलः परनिकारबद्धक्षमः । परस्तुतिविशारदः परगुणापवादोज्झितः परानिहरणोद्यतो भवति भूरिपुण्यनरः ॥ १७ ॥ पद्मानामिव सा सतां सगुणता या संश्रयाही श्रियः सा श्रीभद्रगजेन्द्रमूर्तिरिव या दानेन विभाजते । तहानं नवचन्द्रवद्यादनिशं मानेन संपूर्यते मानोऽसौ तृणवन्न यः परिचयम्लानः शनैः शुष्यति ॥ १८ ॥ लक्ष्मीर्दानफला श्रुतं शमफालं पाणिः सुराचीफल- श्चेष्टा, धर्मफला परातिहरणक्रीडाफलं जीवितम् । वाणी सत्यफला जगत्सुखफलस्फीता प्रभावोन्नति- भव्यानां भवशान्तिचिन्तनफला भूत्ये भवत्येव धीः ॥ १९॥ शीलं शीलयतां कुलं कलयतां सद्भावमभ्यस्यता :: व्याजं वर्जयतां गुणं गणयतां धर्मे धियं बनताम् । शान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुति शृण्वतां संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २० ॥ तीर्थानि दीर्घाध्वपरिश्रमाणि बहुव्ययानि ऋतुडम्बराणि । तपांसि मुक्त्वा तनुशोषणानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥ यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी ! . ' मन्त्री विद्वानवनिवनिताभूषणं भूमिपालः । १. 'चयः क्रियामिः' इति पाठः।
चतुर्वर्गसंग्रहः । ८९ धर्मोद्याने सुकृतसलिलासारसंसिच्यमाने पूर्णः सोऽयं कृतयुगतरो विनो बीजवापः ॥ २२ ॥ दम्भेन शीलवतमस्पृहत्वं विरक्तता श्रोत्रियता मृदुत्वम् । एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥ २३ ॥ यावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति । तत्पुण्यमेकत्र विभाति सर्व महार्हमेकत्र च निःस्पृहत्वम् ॥२४॥ सतामदैन्यं वदनस्य शोभा निमितान्तर्वचसामयाच्या । कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥ मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥२६॥ तप्तैस्तीववतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा किं दूरैस्तीर्थसारैयदि शमविमलं मानसं सत्यपूतम् । यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः किं मोक्षोपाययोगैर्यदि शुचिमनसामच्युते भक्तिरस्ति ॥२७॥ इति धर्मप्रशंसा नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः। प्रधानधाम्नां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्नात् । यदाशया निर्गुणभूपतीनामग्रे गुणान्पण्यदशां नयन्ति ॥ १ ॥ दानादिधर्मः क्रियते धनेन धनेन धन्या धनमामुवन्ति । :: धनैर्विना कामकथापि नास्ति त्रिवर्गमूलं धनमेव नान्यत् ॥ २ ॥ अलीबैर्भटकुक्कुटोत्कटरणक्रीडा समादिश्यते यन्मूखैः सुखलीलया कविशुकालापश्चिरं चय॑ते ।
काव्यमाला। नीचरुचतरश्च सेवकहयः खाम्येन यद्वाहते तद्वित्तस्य विलासनृत्तवसतेरुवृत्तवृत्तावितम् ॥ ३ ॥ पूजा धनेनैव न सत्कुलेन कीर्तिधनेनेव न विक्रमेण । रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ १॥ वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः। विलोकयन्तः सधनस्य वकं जयेति जीवेति सदा वदन्ति ॥ ५॥ ऋद्धया युतं निश्चलपक्ष्मनेत्रं मोनान्वितं देवमिवाकुलीनम् । दीनः कुलीनः प्रणमल्कुलीनः कृतालिः स्तीति धनाभिकामः ॥६॥ तस्मादलब्धद्रविणस्य लामे लब्धस्य रक्षानियमे यतेत । संरक्षमाणस्य सदा विवृद्धी वृद्धस्य च स्थान विभागसमें ॥ ७॥ (युग्मम्) धर्माधानोऽशशिशुचियमः प्रेयसीमित्रबन्धु- स्थानोत्साहोपचयविजयप्राणविद्याकलाप्ती । लाध्ये देहप्रशमसमये निर्विवादे विभागे वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥ ८॥ गोष्ठी विटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः । स्पर्धा सुवेषैनिजवृत्तिलज्जा प्रधानमेतन्निधनं धनानाम् ॥ ९ ॥ जाया शीलविवर्जिता व्ययवती मायानिकायः सुह- दुष्पूरो गुरुरर्थभोगनिचयैर्वन्धुर्दरिद्रः शठः । दासधौर्यपरोऽसलच कुपदे पुत्रः खलैः पातितः सोऽयं यशवायसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥१०॥ दाक्ष्यं वित्तस्य मूकं सुक्यपरिचयः संपदुपानसेकः प्राबल्य सावर्षि व्यसनानसमुन्मूलनं संयताम् ।
चतुर्वर्गसंग्रहः।
श्रीरक्षा मन्त्रगुप्तिर्विपदुपशमनं वर्जनं दुर्जनाना-
मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥११॥
हिमासहत्वं रवितापभीतिः कथामतिर्मार्गजनप्रतीक्षा ।
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विघ्नाः ॥१२॥
वेषः परिक्लेशविशेषचिन्ता परोपरोधः खवशावलेपः ।
नदीफलानामिव शीघ्रगानां हानिधनानां ग्रहणे विलम्बः ॥ १३ ॥
गुरुगणकैरबुधानां क्षयचतुरैश्चौरमूषकैर्वणिजाम् ।
कायस्थगायनगणैर्भूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥
दारिद्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं
शीलं दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति-
र्याच्दैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥ १५ ॥
मौग्ध्यान्मृगार्थी रघुनन्दनोऽपि बाणः प्रमादाबलिराजवेन ।
नलः कुसङ्गेन ययातिजश्च क्लेशासहत्त्वाद्व्यसनान्यवापुः ॥ १६ ॥
मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः क्लेशभीरुता ।
पञ्च संकोचदा दोषाः पभिन्या इव संपदः ॥ १७ ॥
कुभूपकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् ।
असंवृतैरिन्द्रियनामधेयः पुंसां पयांसीव परिसवन्ति ॥ १८ ॥
साखादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं
दीपे रूपरताः प्रयान्ति सततापातात्यतकाः क्षयम् ।
गीतेनैव मृगाः पतन्ति करिणीस्पर्शन नीता गजा-
स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपतिका ॥ १९ ॥
९२ काव्यमाला। कुलं कुवृत्त्या कलुपीकृतं तैः कृतो गुणौवस्तृणतुल्यमूल्यः । मानस्य मूले निहितः कुटारः प्राप्तं न वित्तं परिरक्षितं यः ॥ २०॥ जातः सत्कुलजः स नीचविनयी सेवायमानेरध- स्तस्योग्रं पतितः स्वमानयशसोद्रटिग शापानलः । तेनास्वस्तिमता वहस्तनिहितं याच्याविषं भक्षित वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं नीक्षितुम् ॥ २१॥ धावन्सेवितुमेति साधुरधमं वन्ध्यस्ततो यात्यसो नीता मूल्यतुलां गुणाश्च गुणिभिः कश्चिन्न गृहाति तान् । याच्च मानमहाशनिर्धनकृता प्राप्त न किंचित्तया किं किं वा न विधीयते धनधिया भन्यः स यस्यास्ति तत् ॥२२॥ विद्याकलापरिचयः क्षितिपालसेवा दिग्द्वीपमार्गगिरिसंभ्रमणप्रयासः । युद्धक्रियाश्च मुवि भोजनलाभलोभा- तद्वित्तलभ्यमिति वित्तवतां प्रवादः ॥ २३ ॥ तावद्धर्मकथा मनोभवरुचिर्मोक्षस्पृहा जायते यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् । प्राप्ते भोजनचिन्तनस्य समये वितं निमित्तं विना धर्मे कस्य धियः स्मरं सरति कः केनेक्ष्यते मोक्षभूः॥२४॥ अर्थाकृष्टिं विधातुं कटुरटनपटुम्भिकः श्रीजडानां जानात्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाटेष्वलज्जः । मार्यः कुर्यान्न सेवां कुलविनयगुणैस्तन मूकोऽर्थनायां तीक्ष्णानां मार्गणानां भवति हि पुरतः क्षमापतेर्लक्षलाभः ॥२५॥ इत्यर्थप्रशंसा नाम द्वितीयः परिच्छेदः ।
चतुर्वर्गसंग्रहः । तृतीयः परिच्छेदः। ललितललनालीलोदश्चद्विलोलविलोचनो- स्पलवनरुचां चञ्चन्तीनां चयरिव चर्चिता । सुरभिसुहृदः पक्षच्छायावृतेव च षट्पदैः कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १ ॥ भ्रमद्भमरकेतकीविकसदेकपत्रप्रभाः सनीलमणिनायका इव विमुक्तमुक्तालताः । दृशः शशिकला इव प्रचितपक्ष्मलेशाङ्किता जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥ ऋतुं धनानां फलमयमाहुः फलं ऋतूनामविवादि पुण्यम् । पुण्यस्य पूर्ण फलमिन्द्रलोको द्विरष्टवर्षाः स्त्रिय एव नाकः ॥ ३ ॥ एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेषवः । निर्दग्धोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा- संरम्भादविचार्य केवलमसौ मिथ्या तपखी सरः ॥४॥ लज्जावको मनसिजधनुर्भूविलासेन तन्व्या- श्चिन्तापाण्डः स्पृशति कृशतां वत्रकान्त्या शशाङ्कः । यात्येवाधः प्रहसितरुचिोलताभ्यां मृणाली क्लीबं धत्ते कुवलयकुलं कालिमानं कटाक्षैः ॥ ५॥ अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः । सोढानि यैः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥६॥ कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवोः शशिशतमयी वक्के गाने मृणाललतामयी ।
'काव्यमाला।
मलयजमयी स्पर्शे तन्वी तुपारमयी स्मिते
दिशति विपमं म्मृत्या तापं किमभिमयीव सा ॥ ७॥
स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां
कुरव इव कटाक्षाः प्रौदशल्या मनांसि ।
भुवनजनजिगीषोत्साहयोगाय येषा-
मधिचपलतराणां निश्चला कर्णमैत्री ॥ ८ ॥
स्तनस्थली हारिणि सुन्दरीणां नितम्बविम्बे रशनासनाथे ।
धत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९॥
कान्ताया विलसद्विलासहसितखच्छांशवधामरं
संसक्तावभिषेकहेमकलशो यचन्दनाझी स्तनौ ।
यत्कार्तखरकान्ति चारु जघनं सिंहासनं भूभुजां
साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः ॥१०॥
नासादितानि वनवासहदव्रतेन
चित्राणि नेत्रचरितानि मृगैर्मुगाक्ष्याः ।
तत्कान्तिरुजवलरुचिव्यसनादहो नु
हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥
अभिनवपयोधरोद्गतिविषमस्थितिहारहंसमुखपतिता ।
शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥
नेयं तरुण्यास्त्रिवली तरजकुसङ्गिनी राजति रोमराजिः ।
खात्वा गतोऽस्यां सरकेलिवाप्यां कलालेखामपहाय चन्द्रः ॥१३॥
कर्णे कोकिलकामिनीकलरवः संतप्तसूचीचयः
: फुल्लाशोकपलाशचम्पकवनाथुद्दामदावानलः ।
तन्वया विरहे बसन्तसमयः कालः किमन्यपूर्णा
देहोच्चाटनमेव षट्पदपटाप्राणातिथिर्मन्मयः ॥ १४ ॥
९५ • - चतुर्वर्गसंग्रहः । आपाण्डता मदनकीर्तिसखी मुखेन्दौं प्रौढिं बिभर्ति विरहे हरिणायताक्ष्याः । अच्छिन्नबाष्पविसरारुणनेत्रकोण- लीनप्रतापमिव मन्मथमुद्वहन्त्याः ॥१५॥ वियोगे तन्वझ्या हृदयदमने दैन्यसदने घने भर्तृस्नेहान्मदनदहने धैर्यचलने । समासन्ने चिन्ताव्यसनशमने प्राणगमने तनुस्तापम्लाने वलति नलिनीपत्रशयने ॥ १६ ॥ दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि । एतैः संभ्रमकातरे किमधुना मिथ्यासमाश्वासनैः संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥१७॥ समायाते पत्यौ बहुतरदिनप्राप्यपदवीं समुलझ्याविघ्नागमनचतुरं चारुनयना । खयं होंडाप्पा हरति तुरगस्यादरवती रजः स्कन्धालीनं निजवसनकोणावहननैः ॥ १८ ॥ वासः कम्पविशृङ्गलं वितिलकं वेदोगमादाननं संदष्टोऽधरपल्लवः कलयति श्वासोष्मणा म्लानताम् । rammarwana- १. 'आयाते दयिते मरुस्थलभुवामुद्वीक्ष्य दुर्लक्ष्यतां तन्वया परितोषबाष्पत- रलामासज्य दृष्टिं मुखे। दत्त्वा पीळशमीकरीरकवलं खेनाचलेनादरादुन्मृष्टं कर- भस्य केसरमटाभारावलनं रजः ॥' इत्यद्धतफुल्लकवेरयं श्लोकः सुभाषितावलि-सू- चिमुक्तावलि-शाधरपद्धति-दशरूपावलोकादिषु प्रसिद्धः. 'समाया' इत्यादिक्षे- मेन्द्र श्लोकस्त्वस्य उछायारूपः काव्यमालय। दूति त्वद्वचने शठम्य कठिनसाय गते कुण्ठता मत्स्नेहाद्विहितम्त्वया कुपितया केशप्रवेशः कियान् ॥१९॥ व्याप्ताखशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखाम् । रुद्धासु जालैर्वनमञ्जरीणां नष्टा गतिः पान्थकुमकस्य ॥ २०॥ विकसति सहकारे दुःसहे कर्णिकारे मधुकरपरिहारे समिते सिन्धुवारे । अहह विरहभीत्या कामिनी कण्ठलमां त्यजति नववसन्ते हन्त कापालिकः कः ॥२१॥ तन्वया नवसंगमे व्यवसिते कान्ते बलान्मेखलां मोक्तुं श्वासविकासकम्पविकलाः कण्टे लुठन्त्यः सुधाम् । मीलत्पद्मनिपीडितालिरणिताः क्लीवाः(१) किरन्ति क्षणं धन्यानां नननेति निःसहतया हुंकारगर्मी गिरः ॥ २२ ॥ गाढालिङ्गननिश्चलाङ्गलतिका कान्तेन रुद्धा बला- दालम्ब्यालकवल्लरी विद्धता वक्राम्बुजे चुम्बनम् । कम्पप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी मन्ये मानसजन्मजीवजननं जप्यं समभ्यस्यति ।। २३ ।। केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी- मौनोन्माथपृथुप्रथा विरहिणीनिःश्वासपक्षानिलाः । सद्यन्ते रतिवल्लभस्य लटभानेत्रान्ततीक्ष्णानना- संदष्टाधरपल्लवायतरुणीसीत्कारशूत्कारिणः ॥ २४ ॥ आयुर्दीर्घतरं तनोतु नयनद्वन्द्वं कुरशीशा कीर्ति ते सितसंततिः स्तनतटोणी विशालश्रियम् ।
चतुर्वर्गसंग्रहः । देवस्य त्रिजगज्जयाय पटहे दत्ते मृगाक्षीगुरो- रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥ २५ ॥ इति कामप्रशंसा नाम तृतीयः परिच्छेदः । चतुर्थः परिच्छेदः। भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं कामं काममकामधामसमयं योगं वियोगानुगम् । रोगोद्गारविकारपाकविषमं निर्मूल्य नेत्रव्यथाः सेकं मोक्षफलस्य संशयतरोरेकं विवेकं नुमः ॥ १॥ उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा कस्येदं न सुखाधिकं सुखसखी प्रीतिं परां वर्षति । किं त्वेतत्खलसङ्गसर्परसनामातङ्गकर्णाञ्चल- प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २॥ बाल्यं दुःसहमोहसंहतिहतं रागोल्बणं यौवनं वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम् । वैराग्येण विना विनष्टविमलालोकं सशोकं सदा संसारे सरतां पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥ दृष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् । सापि गता सोऽपि गतस्तदपि गतं खममायेयम् ॥ ४ ॥ पुनःपुनर्जन्मसहस्रहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः । पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥ ५ ॥ आक्रान्तं पिशुनैर्नरेन्द्रभवनं विद्यागृहं मत्सरै- रायासैविणं कुलं कुतनयैर्नानावियोगैः सुखम् । i " पंच.
काव्यमाला। साधुत्वं खलवञ्चनापरिभवैश्चिन्तासहस्र्मन- स्तन्नास्त्येव न यत्सरोपकलुषं निषि एकः शमः ॥ ६॥ भोगे रोगभयं सुखे क्षयभयं वित्तऽमिभूभृद्भयं दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् । माने म्लानिभयं जये रिपुभयं काये कृतान्तादयं सर्वं नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥ ७ ॥ कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः परं भवपराभवोद्धरणधीरधुन ते। भजन्ति जननीजनप्रसृतदुग्धधाराधन- स्तनप्रणयि तत्पुनर्दशनशून्यमाम्यं नराः ॥ ८ ॥ उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि ॥ अहो नु मानानि धनानि पुंसां धनानि निद्रामुखसाधनानि ॥९॥ विवेकखाधीने विजनगमने जन्मशमने विकारे संसारे व्यसनपरिहारेऽपि सुकरे । परं लज्जा साधोः प्रसवसमये शोणितमये पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥१०॥ आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनानि च्युताः। चित्तं नास्ति सचेतसामपि निजाकर्षे विमर्षः क्षणं रत्यन्येषु पराङ्मुखत्वमनिशं प्रामोति नायं जनः ॥ ११ ॥ केशाकले रक्तकषायपककपालभाजि प्रकटास्थिवन्ते । कायश्मशाने रमतेऽजनानां कामाकुलः कामुककाकलोकः ॥१२॥ अहो तृष्णा वेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरसि विवशाना शमनम् ।
: चतुर्वर्गसंग्रहः । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ १३ ॥ बाल्यं कुलीरजननीजनकप्रमोहं तद्यौवनं कुलटभासुभगोपयोगम् । वृद्धत्वमप्युपचितं कुकलत्रपुत्रैः सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४ ॥ न कस्य कुर्वन्ति शमोपदेशं स्वप्नोपमानि प्रियसंगतानि । अरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीविसानि ॥१५॥ चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः किं तैर्याति विशालकालकलनामीलत्कथाकौतुकैः । गण्यन्तां खदृशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः सर्यताम् ॥ १६ ॥ यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी यदा खामोन्मेषा तनुघनतडिद्यौवनरुचिः । यदा कालः कामं जनजलजकिअल्कमधुप- स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥ संतोषाम्भः पिबति निभृतखच्छमिच्छामयूरी भ्रान्ता चान्तःकरणहरिणो याति विश्रान्तिमन्तः । लीनश्चायं शमतरुजले शीतले तापतान्ति मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥१८॥ याते भोगे स्मरणपदवीं सक्तनानावियोगे शोकः स्तोकं स्पृशति न मनः सर्वथा निय॑थानाम् । १. 'दक्षैः समतरलहारैः' इति पाठः.
१०० काव्यमाला। काले काले किल कलयतामन्तवत्सर्वमन्तः प्रायः कायक्षयपरिचये निश्चये निर्भरं नः ॥ १९ ॥ यातु व्यक्तिं कुसुमसमयः संचयः सौरभाणां खे खेलन्तो मलयनिलयाः सततं वान्तु वाताः । कामः कामं क्षपयतु धृति पक्ष्मलाक्षीकटाक्षः शान्तिश्चित्ते स्थिरमुखसखी निर्विकारे ममास्तु ॥ २० ॥ जरानिगीणे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने । धनावदाने शिथिलाभिमाने शृतिनिधाने प्रशगाभिधाने ॥ २१ ॥ रागेण साधं वयसि प्रयाते गतेपु भोगेषु सह स्पृहाभिः । देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥ चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पमितं यौवनम् । खमं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपा नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥२३॥ अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः ।। समावज्ञामानः सदृशसुखदुःखव्यतिकरः । 'न मौनी नामौनी वनजलसमानासनमना न दैन्यं नादैन्यं स्पृशति गुणनैर्गुण्यविरतः ॥ २४ ॥ सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता नो कान्ताकुचमण्डलस्य सुलभा चन्द्रे दरिद्रे कुतः । गीते संगतिरेव नास्ति समता तस्यां न सिद्धामधो- नैराश्ये सहसैव चेतसि कृते या प्रीतिरुज्जृम्भते ॥ २५ ॥ १. 'संतताः' इति पाठः. २. 'वातविलासिपांसुसदृशं वित्तम्' इति पाठः, ३. 'गेहदीपचपलम्' इति पाठः. गा11 .IMILIM THANI अन्योक्तिशतकम् । १०९ . लब्धावधिः सत्यसुखामृतस्य नवप्रमोदाद्भुतपूर्णकामः । भारावतारादिव निर्वृतोऽहं त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥ धनार्जनविचिन्तनं हृदयरोपिताशावनं वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननं विहाय गृहमज्जनं व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥ नास्ति स्वस्तिकरः परः परिभवो धर्मात्मनां प्राणिना- मापत्तापशमक्षमं धनसमं नान्यत्क्रियाजीवितम् । संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना- सर्वक्लेशविनाशनिर्धतिरसः को नाम मोक्षात्परः ।। २८ ॥ चतुर्वगोपदेशेन क्षेमेन्द्रेण यदर्जितम् । पुण्यं तेनास्तु लोकोऽयं चतुर्वर्गस्य भाजनम् ॥ २९ ॥ इति मोक्षप्रशंसा नाम चतुर्थः परिच्छेदः । समाप्तोऽयं चतुर्वर्गसंग्रहः। भट्टवीरेश्वरकृतम् अन्योक्तिशतकम् । प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुह, नगङ्गासंपातजातभ्रमभरविवशो विक्षिपल्लोचनानि । आकर्षन्मौक्तिकाली गिरिवरदुहितुः कण्ठसीमात उच्चैः प्रातः श्रीहैमवत्या तदनु विहसितो लज्जितः पातु शंभुः॥१॥ पत्र मुग्धतरं फलं सुमधुरं सौरभ्यमभ्युन्नतं चञ्चत्काञ्चनजित्वरं पुनरहो त्वत्केसरं सुन्दरम् ।
१०२ काव्यमाला। लावण्यं पुनरुत्तमं किमपरं किं तु स्फुरत्कण्टक- व्यग्रं नालमिदं सरोरुह परं तेनातिदयामहे ॥ २ ॥ यस्मिन्स्फीतमहो निपीतमधुना दिव्यं मधु स्वेच्छया नीतान्येव दिनानि केलिभिरहो संयापिता शर्वरी । तमिशीतनिपातजातविकले मल्लीकुले किं वृथा हा हा हन्त कृशो मधुवत दृशोरेवंविधोऽनुग्रहः ॥ ३ ॥ सर्वाऊ अणितं मुहुबिललितं सूनीदलेलोचनं धूलीभिः कलिलो द्विरेफ भवता लब्धो रसः केतके। अद्यापि स्फुटमेव गुञ्जसि परं नो बुद्धयसे तत्कथं त्वां वच्मि प्रसभं ततो विलुठितो भूमी परं ज्ञास्यसि ॥४॥ व्याघूर्णन्नवकुम्भिकुम्भयुगलं व्यालम्ज्य गुञ्जस्यलं दानादानथिया मदोन्मदतनुयुक्तं किमेतद्वद । नो जानासि दुरन्तदन्तविदलयोद्दण्डशुण्डाभर- व्याघातोत्पतदाभाविकल: प्रौढव्यथां भृङ्ग हे ॥ ५ ॥ पेयं पङ्कजकोरके मधु नवं नेयं दिनं निर्भर केलीभिर्निभृतं सुखेन सहसा संयापनीया क्षपा। किं तु प्रेमपिनद्धमुग्धविदलत्सौरभ्यभव्योदयो नो हेयो नितरां मधुव्रत सुधासशी लवडीरसः ॥ ६ ॥ माध्वीके परिपीच पङ्कजवने विभ्रष्टबुद्धिः परं वारंवारमही विचाररहितो भूयश्चिरं गुलसि । नो मानासि सुनयनपुरदका लावण्यलीलाकुला सिग्धान्तःकरणां मधुमत ममावलीमतल्ली पुनः ॥ ७॥ प्रोदामातुलवामहाकावासकालापाले योनिमा सिर्वी अन्योक्तिशतकम् । १०३ एतस्मिन्समुपागतो गजपति वेत्तदा निर्भर धाराभिर्धरणीतलं यदि मनाग्धाराधरः सिञ्चति ॥ ८ ॥ यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा- नोदेति प्रसभं तमांसि विदलन्सानन्दमुच्चस्तराम् । तावद्धोरधनान्धकारमिलितो झिल्लीरवाहादितो विद्युपुञ्जविजृम्भितोऽम्बरतलं खद्योत विद्योतय ॥ ९॥ फुल्लकैरवकोषनिर्गतसुधासंसक्तभृङ्गाजाना- मझुध्वानधुरीणशीतकिरणे जागर्ति मुग्धाम्बरे । मन्येऽहं निबिडान्धकारपटलीसंलीनसाकृतेः खद्योतस्म हतप्रभस्य कियती शक्तिः समुन्मीलति ॥१०॥ खच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः कुन्दे चापि तथा द्विरेफ कुमुदेऽथानन्दमङ्गीकुरु । किं त्वेतस्स कदापि केतकतरोर्मा गाः समक्षं यतो धूलीभिर्धनकण्टकैश्च नितरां संवर्धितो वर्तते ॥ ११ ॥ नासौ पश्यति मालती नहि मनाक्प्रेमाणमालम्बते चश्चचम्पककोरकेषु कुरुते मोदं न मल्लीकुले । सारं सारमुदारकेसरलतां नालोकते पद्मिनी क्षामः किं तु मधुव्रतोऽयमधुना गुञ्जन्मुहुर्धाम्यति ॥१२॥ नैवालोकि सरोजिनी नहि मनाग्गुञ्जारवैस्तोषिता जातिः किं च गलन्मरन्दमधुना नालिङ्गिता मालती। चित्रं किं तु मधुनतेन सहसा संपादिता सांप्रतं भिना रीतिरियं लवजमुकुलान्यालोक्य मन्यामहे ॥१३॥ कोपं मा कुरु कुन्दवल्लि सहसा मा दैन्यमङ्गीकुरु साता कत्यापि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।
१०४ काव्यमाला। किं वातः परमस्य पश्य विदलन्माध्वीसमृद्धिस्फुर- न्मन्दस्यन्दसुगन्धितुन्दिलदलां जाना लवशीलता ॥१४॥ सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनः केयं निर्भरदीनता क मधुरन्याहारतारम्वनिः । एक सेवय सौरभं परिमलपोद्भिन्नमन्दानिलं यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५ ॥ लावण्यं वचनातिगं पुनरहो सौरभ्यमुचैतरां शैत्यं शीतलभानुविद्रस्करं किं वापरं पश्य रे । उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो भ्रातर्भुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥१६॥ त्वं चेच्चम्पककोरके न कुरुप प्रेमाणमेतावता का हानिनहि तस्य कृत्यमपि रे किंचित्पुनहीयते । तेनैवास्य तु वैभवं मधुप हे यझुपयन्ति स्फुटं केलीमन्दिरदेहलीपरिरारे कर्णेषु वामभ्रवः ॥ १७ ॥ स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोपकः पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभन्योदयः । किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्मादृशा- मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥ सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चेस्तरां यद्यप्यस्ति नवीनशैत्यसुपमासंपत्तिरन्याशी । सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे फूत्काराकुलभोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥१९॥ एकस्मिन्मलयाचले निवसता क्रूराशयेनामुना भिल्लेन त्वमिहारतो यदि न चेका हानिरेतावता।
अन्योक्तिशतकम् । १०५ प्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः ॥२०॥ मा संतापमुरीकुरुष्व कठिनो लोकप्रकारोऽधुना मना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम् । मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः स्निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥२१॥ शेफालीरुचिरप्रफुल्लकलिकामाध्वीं पिब त्वं मुदा वारंवारमुदारकुन्दविदलत्पीयूषमाखादय । सानन्दं विहरारविन्दविपिने किं तु प्रभूतोदयो भ्रातर्भुङ्ग लवङ्गसङ्गजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥ नो पत्राणि चलानि हन्त कुरुषे गुञ्जारवं नो मना- ग्धत्से नैव पुनः खयं चलसि रे किं तु स्फुट सर्वतः । सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं तत्कि कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर २३ हित्वा सौरभसारसुन्दरदलां माध्वीकमुग्धप्रभा मल्ली मालतिका मदालसतया भ्रान्त्या मुहुः संभ्रमन् । गुञ्जनगन्तुमुरीकरोषि मधुप त्वं पङ्कजानां वने नो जानासि विमुद्रिते कमलिनीबन्धी पुनर्बन्धनम् ॥२४॥ मन्दं मन्दमहो मधुव्रतवचोविन्यासमञ्जूक्तिभिः :: सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी । सोऽयं कर्णविकारकर्मकुशलैः कारण्डवानां रवै.. रुन्निद्रः सहसा करैः कमलिनीमुन्मूलितुं वाञ्छति ॥२५॥ मुक्तानामसि नायकस्त्रिजगतामानन्दकन्दस्थली .ज्योत्स्वानाथजनिर्जनकशरणं मन्दाकिनीवल्लभः । .
१०६ काव्यमाला। किं वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः क्षारं यत्तव जीवनं प्रतिदिनं तेनैव दूयामहे ।। २६॥ सूते हन्त हलाहलं जलनिधिजल्पन्ति ये मानवा- स्ते जल्पन्तु परं तु नैव कृतिनामेतेन कापि क्षतिः । सत्येवं गुणसंनिधी कचिदहो तेनैव ते गौरवं यत्त्वां वन्यकुरङ्गसुन्दरदृशो जल्पन्ति रखाकरम् ॥ २७ ॥ स्फारोत्तुङ्गतरङ्गपीवरकरैराकृष्य रत्नोत्तम यत्त्वं जीवनमध्यतः क्षिपसि रे दूरे परित्रीतले । युक्तं तज्जलनाथ नाथ कलय प्रोचैः प्रसादात्वया लब्धं हन्त जगत्रयेऽपि सकले रलाकरत्वं परम् ॥२८॥ उत्पत्तिर्जलधौ सुधासहचरी ज्योत्स्नाभिरामा तनुः स्थानं व्योम कुमुदतीपरिघृढश्चन्द्रेति गाम स्फुटम् । सर्व चार तथापि हन्त कठिना यत्त्वां कलमादित जल्पन्ति प्रतिवासरं सुरगणास्तेनातिदृयामहे ॥ २९ ॥ ज्योत्स्नाविभ्रमभारसाररुचिरे पद्मालयावान्धवे लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये । मुग्धा कोमलमुग्धवक्रकमलस्पर्धाकरे पनिनि त्वं चेच्छीतकरे न रज्यसि गुणश्लाघा तदरतं गता ॥३०॥ फुल्लत्कैरविणीपरागरुचिरा दिमण्डली श्रूयते कोकानामपि मानसं कलुषितं किंचिद्विजानीमहे । मन्दं पश्चिमपर्वताचलपुदे श्रीमान्तो भानुमां- खल्सत्यं रजनीपतेः समुदयो जातः परं मन्महे ॥ ३१ ॥ शेते रहरमं सुखेन निभृतं पीयूक्मभन्मुवा मलैवं सहसा चकोरपिशुना संसेवितं सादरम् ।
अन्योक्तिशतकम् । १०७ : को जानातु कुमुदतीपतिरसौ पीत्वा भृशं वारुणी हा हा हन्त धनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥ ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूषगर्भः करै- रामोदं कुमुदे दधासि बहुशः संजीवयस्यौषधीः । सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे नीहारैः कवलीकरोषि लवलीवृन्दानि शीतयुते ॥ ३३ ।। सानन्दं धनगहराणि सहसा संगाहसे निर्भर भूयः सौरभजातमप्यनुदिनं गृह्णासि यत्तद्वरम् । किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना- ग्यत्त्वं तत्र करोषि नैव सदसव्यक्तेविवेकक्रियाम् ॥ ३४॥ शुष्काः संप्रति निम्नगास्तत इतो नालोक्यते जीवन भूयः कापि न वापिकापि नितरां जाताविलं पल्वलम् । ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे मन्दं संचल भेकशाव समभूत्कालः करालो महान् ॥३५॥ एषा सीदति सुन्दराम्बुजवनी गुञ्जविरेफाङ्किता चञ्चत्केसरनिर्यदुनबहलव्यामोदमेदखिनी । स्फारोत्तुङ्गकरीन्द्रदुर्वहकरप्रौढाभिघातैः परं विध्वस्ता परितो विभाति पुरतो विभ्रष्टपञ्चाम्बरा ॥३६॥ प्रोन्मीलत्सुरनिम्नगापरिपतद्वीचीचयव्याहत- व्याधूतानिलसंचलज्जलमिलद्वात्रोऽप्यसौ षट्पदः । स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित- प्रोतुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७॥ हन्तासीत्परितो नवीनजलदपोत्तुभधाराजलैः पूर्णानेकसहलपङ्कजदलैः कीर्णा नदीयं पुरा ।
काव्यमाला । सेयं संप्रति चण्डभानुविलसञ्चण्डातपयोच्छल- ज्वालामालविलुप्तजीवनभरा हा हन्त संताभ्यति ॥ ३८ ॥ नोचैल्प मनाग्यतख सहसा कुतो गिलीय क्षणं गन्तुं कीर वदामि गास्तु मधुरब्बाहारतारम्वनिः । काकोलादपि दारुणैरनुचितारम्भारणीभिः परं रुद्धा संप्रति किं किरातनिकरनालोक्यते भेदिनी ॥३९॥ प्रोद्यत्प्रौढमहीमहेन्द्रभवने प्रोतुझसीधामणे गत्वा काक बराक किं कलयसे साम्यं मरालैः समम् । छिद्रान्वेषणभूरिकर्गकुशलाः किंचिल्लान्ते खलाः सन्याण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४०॥ लोके दृष्टमिदं मया बहुतरं हहो न सन्त्येव ते ये विन्दन्ति सखाय मुत्तमगुण मिकचित रतम् । शम्बूकैः कलयन्ति कलिकुतुकं वापीपु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिवन्त्यपि ॥४१॥ क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्य सस्यायिनी शीतांशोभगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः। एकैकं वचनातिगं जलधिजे सर्व विजानीमहे चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलकास्पदम् ॥१२॥ दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा- : पातैरेव महोक्ष गर्जसि मुधा किं गर्जितेनामुना । तावत्संचर यावाशु न मनागादाय सीरं हठा स्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥ त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो हित्वा कत्यपि काननानि दिवसमान्ते द्विरेको युवा ।
अन्योक्तिशतकम् । १०९ त्वं त्वेनं समुदीक्ष्य पत्रनिकरानाकुच्य यद्गोपनं वक्रस्याशु करोषि पद्मिनि न तद्युक्त प्रतीमो वयम् ॥४४॥ दूरे तिष्ठति काननं नहि मनाङ्गीरं समालोक्यते क्रूरः संप्रति वालुकापरिकरश्चण्डांशुरत्युन्नतः । भूरेषा मरुरेव संप्रति कथं गन्तव्यमेकाकिना मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्धुनीते शिरः ॥ ४५ ॥ दिक्चक्रं करिशाव दावदहनैर्दग्धं पुरो दृश्यते छाया क्षीणतरा क्षमापि समभूहरे न नीरं कचित् । चित्रं चण्डचल प्रचण्डकिरणज्वालाकुलाङ्गो मुधा मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ ४६ ॥ शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तरं भूरुहां कुलं किं च समाश्रयन्ति हरिणा लीना वराहाः कचित् । उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७॥ उच्चैश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी पश्चाद्धोरदवामिगर्वगरिमोद्रिक्ता धरित्री पुरः। कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति- मत्वैवं हरिणीविलोकनघनीभूतोऽभवत्कुण्ठितः ॥ १८ ॥ कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया भुक्त्वा पङ्कजकोरकांश्च परितो भृङ्गः समावेष्टितः । यावद्याति करेणुकाकटतटीकण्डूयने केवलं तावत्तीवहरीन्द्रदर्वहकरैः क्षुण्णोऽभवत्कुंञ्जरः ॥ ४९ ॥ यः पूर्व नवदानदर्पिततनुर्दन्तेन दन्तावलां- घूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि ।
११० काव्यमाला। क्रीडन्नेव समागतो विधिहतो हा हन्त नीराशये पके ममकलेवरः करिवरः सोऽयं शनेस्ताम्यति ॥ ५० ॥ अन्य काननमाशु गच्छ तरसा वन्यं फलं भुव रे धन्यं धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु । एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पश्चाननः ।। ५१ ॥ निद्रामुद्रितलोचनः प्रतिपदं छायातले भूरुहां प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्रिक्तरक्तारुणः । सिंहीजानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी निद्राति प्रतिवासरं सुखमिति ध्यायन्करी कम्पते॥५२॥ शून्यं काननमा निरीक्ष्य तरसा चीकृत्य गाढं हठा- न्मातङ्गाधिप मानसे बत वृथा गर्वोद्गम मा कृथाः । जानीमो वयमय कुअरपटाविक्षोभकारी पुनः पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वे भयम् ॥५३॥ कामं कोपकवायितामियुगलं कृत्वा करोफालनैः क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय स्वं मुदा । हेलाखण्डितकुम्भिकुम्भविगलद्रतारुणाने हरौ जाते लोचनगोचरे मदि भवान्स्थाता तवा मन्महे ॥५४॥ दैन्यं मा लमुरीकुरु प्रतिपदं प्रेक्ष्यातुरा पमिनी राकाशारदशीतरश्मिकिरणैराश्वमुग्धाननाम् । किं तु त्वं भ्रमसि विरेफ विवलमाध्वीकधाराघरे सानन्दं नवमल्लिवल्लिनिकरे गत्वाम प्ति भज ॥ ५५ ॥ मन्दं पश्चिमशेकमौलिमुकरालंकारभूतो रकि: : संध्याकटुरितं ममः फलपिता ध्वान्तः परं दिक्तटी ।
अन्योक्तिशतकम् । . एका पङ्कजिनी सुधाकरकरीता परं मुद्रिता तरिक संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ।। ५६॥ भृङ्गाणां नवनीरजानि विदलत्सौरभ्यलोभ्यान्यलं मल्लीकेसरचम्पकानि नितरां तिष्ठन्ति पुष्पाकरे । एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर- प्रस्यन्दन्मकरन्दतुन्दिलदलो माकन्दभूमीरुहः ॥ ५७ ॥ धैर्य वायस धार्यतां समुचितो नोद्वेगभारस्त्वयि प्राणान्मुश्चसि किं वृथा पिकसुतैः पुत्रत्वमायाति रे । जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा पर हित्वा नीरनिधिं लसन्ति निधयो वापीषु काचिस्खपि ॥५८॥ शैवं शारदशीतरश्मिकिरणादप्युत्तमं तादृशं सौरभ्यं वचनातिगं जगति ते श्रीखण्ड सबै वरम् । किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा- दुन्मूल्याशु करैः करोति तरसा शुष्कन्धनं लीलया॥५९॥ आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मना- . चातुर्य मकरन्ददानविषये किं चातुरीयं पुनः । यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारबै- माहाल्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना॥६०॥ क्षिप्तं मुश्च कुरङ्ग काननमिदं रे ताण्डवं मा कृथाः किं ते वैभवविश्रमेण तरसा गात्राणि संरक्षय । आतां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं क्षीणाङ्गः क्षितिमण्डलोपरि पुनों चेत्क्षयं यास्यसि ॥६१॥ खामाधाय निजोदरे कमलिनी चके न माध्वीरसै- नित्यं कोमलकेसरैस्तव पुन: किं किं मनोकान्छितम् ।
११२ काव्यमाला। त्वं स्वेतां कलकूजितैरपि मनाङ् नो भावयस्य तुरां तकि साहजिकं मधुवत मनाक्त्यक्तुं रसं वाञ्छसि ॥१२॥ जाता नैव तृषा कृशा न समभूत्तापापकर्पक्रिया नो वा लोचनपजैरपि मनागालोकि किं चाधिकम् । क्षुभ्यद्धोरतरारवैः प्रतिदिशं झझानिलै विता सेयं नीरदमण्डलीति कलयश्चञ्चत्यलं चातकः ॥ ६३ ॥ दैन्यं मा त्वमुरीकुरु प्रतिपदं हित्वा मनाम्यूथिकां स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य य हृदि । आयाते खलु माधवे प्रविदलत्सौरभ्यलोमास्पदे नूनं ते शरणं स एव भविता माकन्दभूगीरुहः ॥ ६४॥ साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे कां कीर्ति कथयामि ते त्रिभुवने जागति ते संस्तवः । किं वा पुण्यमितस्तवास्ति विमलं पीयूषधाराभरं चन्द्रे पासि निरन्तरं कमलिनीदृग्गोचरेऽपि स्फुटम् ॥६५॥ अध्माताः प्रतिदिमखं सरभसं गजे.त्यमी बारिदाः प्रौढध्यानधुरंधराः प्रतिपदं चञ्चन्ति विद्युच्छटाः । भूयो मत्तमहामयूरनिकराः कूजन्ति केकारब- स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो यासरः॥६६॥ भूयो निर्भरसर्वगर्वगरिमा मुग्धाङ्गनानां मुदा चञ्चच्चम्पककोपचुम्बितमना वात्यद्य मन्दानिलः । नो युक्तं सहसान्यतः प्रचलितुं हे पान्थ चित्तव्यथा मा कार्षीः किमु पञ्चवाणनृपती जागर्ति चिन्ता तव ॥६७॥ शैत्यं तापहरं तवास्ति न मुधा मन्ये सुधानायक प्रोदश्च सुषमासमृद्धिरपि ते जागर्ति लोकत्रये । - अन्योक्तिशतकम् । सर्व चारु मनाक्तथापि यदि चेत्प्राप्तोऽसि मुग्धाङ्गना- वक्रेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥६॥ आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि मनसा कार्यों रथाङ्गादयः । इत्थं बाप्पनिरुद्धगद्दतया संभाष्य कोकी चिरं चिन्तापूर्णमना विनोदविमुखो हंहो विधि निन्दति ॥६९॥ सौन्दर्य दलितं दवानलबलैर्मन्दं मरन्दोऽप्यसौ खच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा । शीर्णा पर्णपरम्परा विगलिता सेयं लता तत्कथं हंहो मन्द मिलिन्द कुन्द विपिनं नो हातुमाकाङ्क्षसे ।।७०॥ रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः किं पुन- मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुष्पाण्यपि । सर्व हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर-. चण्डांशुज्वलिते मरौ तदखिलध्यानैर्मनो मुह्यति ॥ ७१॥ यसंसर्गवशादसाधुचरिता एते पुनः कोटिशो निम्बाशोककपित्थबिल्वबकुलाः सौगन्ध्यमापुः परम् । धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः संसारे नियतं स कोऽपि सदृशो युष्मादृशां वर्तते ॥७२॥ सानन्दं सुरनिम्नगाप्रविलसत्कूलेऽनुकूले पुन- मन्दं मन्दमहो कलिन्दतनयातीरे विहारं कुरु । अस्मिन्किं तु मरालबाल सरसीकुछ न याहि क्षणं यसादत्र पतत्रिपातरसिका भिल्लयः खनं कुर्वते ॥७३ ।। तृष्णाजर्जरिताकृतिः कवलितो धर्माशुधोरैः करै- |दश्चितचक्षुरद्य कलयंस्त्वत्तः परं जीवनम् । पंच- काव्यमाला। हहो चातकशावकोऽयमधुना त्वां वीक्षते केवलं त्वं चेदम्बु ददासि नाम्बुद भवेदस्याश्रयः कस्तदा ॥७॥ आ प्रातर्घनतृष्णया कवलितं प्रोदण्डचण्डातपै- दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम् । प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥७५॥ चञ्जच्चातकचञ्चकोरकपुटी नो पूरयस्यन्वहं दिक्तापं नवनीरसीकरभरेनों या मनाग्लुम्पसि । क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमालावय- न्यद्वं कुरुषे पयोद भवतस्तकि नयो दृश्यते ॥ ७६ ॥ चञ्चच्चण्डमरीचिमण्डलकरज्वालाकलापरहो न स्याचातकपोतकः कवलितो यावत्ततो विह्वलः । प्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्भर तावद्धीरतरं धरातलमिदं धाराभिरासिञ्चय ।। ७७ ॥ नो गत्वा गगनाङ्गणेऽनुसरति प्रौञ्चैर्न जल्पत्यहो नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि । चित्रं भूमिगतं तथापि निभृतं धाराजलेनिमले। सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ।। ७८॥ तापं तूर्णमपाकरोषि नितरां पाटीरवाटी पुनः प्रेम्णा पल्लवयस्यलं वितनुषे मुक्ताफलं शुक्तिषु । धारामिर्धरणि धुनोषि परितो धाराधर स्वं यथा मातब्धातकशावकं बत तथा संभावयाम्भोभरैः ॥ ७९ ॥ भूमेस्तापमपाकरोषि नितरां भूमीरहो वर्धय- स्थानन्दं विदधासि किं च तनुषे सस्ये प्रशस्सं मुदा ।
अन्योक्तिशतकम् । ११५ किं किं वारिद ते गुणोत्करमहं जल्पामि धन्योऽसि रे धाराभिश्चिरखिन्नचातकशिशुं यजीवयस्थातुरम् ॥ ८० ॥ मोदन्ते करिशावकास्तत इतः क्रीडन्ति कोलाः सुखं कृत्वाके तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति । हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं द्वित्रैरेव दिनैभविष्यति परं वन्याभिरन्यादृशम् ॥ ८१ ॥ तूर्णं यात मृगाः पलायत वृका यूयं पुनः सर्वथा कोलाः कापि निलीयत प्रसृमराः कोलाहलं मुञ्चत । हप्यदानदुरूहदारुणदलद्दन्तावलग्रामणी- गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ।। ८२ ॥ प्रौढोत्क्षिप्तमहामहीध्रशिखरं कुत्रापि नीराशये दृष्ट्दैव प्रतिबिम्बितं सचकितं खाल्लुत्य गाढं हठात् । पातुं वाञ्छति नो जलं करिवरस्याशङ्कया किं त्वयं दोद्धृतशिरा धुनोति नयने क्रोधोद्धरः केसरी ॥ ८३ ॥ सक्रोधं करिणां मदेरुपहितामालोक्य विश्वंभरां भूयः कोपकषायिताक्षियुगलं पञ्चां धरां दारयन् । बाहुभ्यां सहसा विकृष्य तिमिरं भूमौ मुहुः पातय- भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ।। ८४ ॥ यः सावेशमशेषवारणघटासंघट्टविद्रावणो मुक्ताजालमयानि हन्त नितरां चक्रे वनानि स्फुटम् । दृप्यहारुदुरूहपञ्जरगतो हा हा हतो वेधसा सोऽयं मानधनो धुनोति नयने क्रोधोद्धरः केसरी ॥८५॥ यस्य त्रासवशाद्वने करिवराः स्पन्दन्ति नो वामनाः कोलाः केऽपि.न निःसरन्ति महिषा व्ययाः पतन्ति क्षितौ ।
काव्यमाला। सोऽयं लोहदुरूहनव्यनिगडानद्धाङ्गियुग्मो मुहुः सारं स्मारमुदारबन्यचरितं कण्ठीरवस्ताम्यति ।। ८६ ॥ मन्दं मन्दमहो मरन्दनिचयः पेयोऽमुना सादरं नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः । इत्यालोच्य समागतं खलु मया सायं नवे करवे को जानाति निशापतिः पुनरसावस्ताचलं यास्यति ।।८७॥ त्वं चेद्गुञ्जसि निर्भरं भ्रमर हे पीत्वापि कौन्दं मधु खच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता । उन्मीलन्मकरन्दतुन्दिलदलत्पुप्पाकराखादनं माकन्दस्य परं स एव सुकृती जानातिकिंचिल्पिकः ॥८॥ आ बाल्यं भवता समीर कतिधा साधं मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीत रहः सादरम् । चित्तान्दोलनलालनैर्मंगहशां वक्षःस्थलास्फालने- भूयः संप्रति मां विना तब मनो रन्तुं कथं मोदते ॥८९॥ गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गाजा लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः। युष्मच्चीत्कृतिभीरुतारनिनदप्रध्वस्तनिद्राभर- व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोद्धरः केसरी ।। ९० ॥ कृत्वा हन्त निरन्तरं कमलिनीकोषे सुधावैभवं हित्वा संप्रति तां हिमैरुपहितां धत्से कचिन्मानसम् । तत्किं त्वां कथयामि हे मधुकर बीडाकरं भाषित । विग्धिक्प्रेम भवादृशां न करुणालेशोऽपि संदृश्यते॥११॥ शेते हन्त मृगाना निजशिशुं कृत्वा निकुलोदरे भूयः कुण्डलनां विधाय विवरे निद्राति सानना।
अन्योक्तिशतकम् । शीतातीः किल नैव पङ्कजदलं जिघ्रन्ति माध्वीलिहो दृष्ट्वा हन्त हिमागमं नहि मनाङ् नीडं त्यजन्ति द्विजाः ॥१२॥ सानन्दं मकरन्दतुन्दिलदलां मुग्धप्रभां पद्मिनी यावञ्चुम्बति केसरारुणतनुमत्तद्विरेफो युवा । तावत्तीबकरीन्द्रदुर्वहकरव्याघातसंचूर्णितो हा हा हन्त मधुव्रतोऽयमधुना भूमौ पुनस्ताम्यति ॥ ९३ ॥ चञ्चचा नव्यसमीरधीरसरसीतीरं विलोक्योत्सुको धीरं धीरमहो महोन्नतिपरस्तृष्णाकुशाकर्शितः । पातुं यावदहो करोति विमलं नीरं मरालः कृती मण्डूकध्वनिजर्जरीकृततनुस्तावच्छनैस्ताम्यति ॥ ९४ ॥ लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नैवोपकारव्यथां विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोषं स्फुटम् । शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥ ९५॥ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चालिग्धफलोद्गमे धनरसैः सिक्तो मया सर्वतः । दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ॥ ९६ ॥ चञ्चत्पत्रविचित्रितां मधुकरस्फूर्जत्फलालम्बिनी मन्दं मुग्धमरन्दमञ्जपुलका कान्तिप्रभूतोदयाम् । प्रोन्मीलत्कुसुमां प्रकीर्णसुषमा हा हा चलत्कण्टकां. को हेतुः कलधौतकेतकलतां त्यक्तुं समुत्कण्ठसे ॥९७॥ भुक्त्वा मीनमहो नवीनमधुना पीतं जलं निर्मल नीतः केलिभरेण वासरगणो किं तु स्वयाद्यावधि ।
११८ काव्यमाला। गन्तव्यं खलु कुनचिहक बने चेचण्डचण्डातपै- स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥९८ ॥ अग्रे तिष्ठति दारुणाकृतिरसो क्रोधोद्धतः केसरी पश्चादुद्भटदावदृषितधरासंक्रान्तचण्डानिलः । कि कुर्मः सहसा विहाय कलभानेतान्त्रजामः कथं हहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥१९॥ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हष्टोऽस्म्यहम् । कि ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकमराः सर्वत्र तत्किं ब्रुवे ॥१०॥ त्वत्तः श्रीरजनि स्फुटं समभवत्कल्पद्रुमः सादरं जातास्ते निधयः पुनः किमपरं जज्ञे सुधादीधितिः । किं ब्रूमस्तव वैभवं जलनिधे त्वामध्यहोऽहो वृथा यद्भूयस्तृषिता प्रयाति जनता तस्कि ब्रुवे त्वद्गुणान् १ १०१ भेकाः कूपजलं पिबन्तु नितरां बापीपु कारण्डवाः साकूतं सरसीषु हन्त नितरां तुझाः कुरणादयः । तृष्णाव्याकुलितस्य चातकशिशोः किं तेन यावद्धरां धन्याभिः परिपूरयन्ननुदिन नोदेति धाराधरः ॥ १०२ ॥ तावद्भीष्मगभीरतापनिवहाः संसारमुच्चस्तरां यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः । यावत्सौरभभव्यनव्यविदलन्मल्लीमतल्लीदल- प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः ॥१०॥ चन्द्रो हन्त कलशक्षिततनुः क्षारान्वितः सागरो इंहो कल्पतरुस्तरुः पुनरहो मेरुः स्वयं पर्वतः ।
नक्षत्रमाला ११९ कामं कामगवी पुनः पशुरहो किं वा बहु बमहे संसारे भवतस्तुलां कलयितुं को वा समर्थों भवेत् ॥१०॥ योऽभूदाविडचक्रवर्तिमुकुटालंकारभूतस्य रे मौद्गल्यस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः । तस्य प्रोद्गतसूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा- देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जायताम् ॥१०५॥ इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशतकं समाप्तम् । - त्रिपाठिश्रीशिवरामप्रणीता नक्षत्रमाला। सटीका। राजत्रयसमानीतां मुनित्रयपरिष्कृताम् । जाह्ववीं शब्दविद्यां च चिन्तयामीष्टसिद्धये ।। विघ्नविधाताय कृतं मङ्गलं शिप्यशिक्षार्थ निबध्नाति- धरात्मजारम्यमुखारविन्दमरन्दरोलम्ब उदारकीर्तिः । शेषाख्यसंयोगविशेषशोभो देवो मुदे वोऽस्तु शिवः स रामः ॥ १ ॥ धरेति । धरस्य पर्वतस्यात्मजा तस्या रम्यमुखारविन्दस्य भरन्दो मकरन्द- तस्य रोलम्बो अमरः । उदारकीर्तिः । शेषाख्यस्य संयोगेन विशेषशोभः । शेषस्य भूषणत्वादिति भावः । एतादृशो देवः शिवः स प्रसिद्धो रामो वो १. अयं शिवरामत्रिपाठी निस्तसंवत्सरीयाष्टादशशतकपूर्वार्धसमुत्पन्नानागे- शभादप्यर्वाचीनः, यतोऽयमत्रैव टीकायां तत्कृतपरिभाषेन्दुशेखरस्मरणं करोति, एतत्कृतग्रन्थास्तु खयमेवानेनात्रैव टीकासमाप्तौ गणिताः सन्ति. तेष्वस्माभिः (१) कादम्बरीटीका, (२) दशकुमारचरितटीका, ( ३) नक्षत्रमाला सटीका, (४) रसरत्नहारः सटीकः, (५.) वासवदत्ताटीका, एतद्रन्थपञ्चकमद्यावधि समुपलब्धमस्ति.
१२० काव्यमाला। मुदेऽस्तु । पक्षे-धराया आत्मजा सीता । शेपारण्येन लक्ष्मणेन विशेषशोभा सौभ्रातृत्वात् । श्लेषालंकारः--'घाय्यभेदेन भिझा यशुगपदापणस्पृशः। लेषोऽसौ' इति लक्षणात् । वृत्यनुप्रासः- - पर्णसाम्यमनुप्रासइछेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ इति लक्षणात् । यमका- लंकारः-'अर्थे सत्यर्थभिसानां वर्णानां सा पुनः श्रुतिः । यमकं पादतद्भाग- वृत्ति तद्यात्यनेकताम् ॥' इति लक्षणात् । संभोगशार:-...-'अनुकूलौ निषे- वेते यग्रान्योन्यं विलासिनी । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितौ ।' इति लक्षणात् । अनुकूलो नायकः---'अनुकूलस्ग्येकनायिकः' इति दशरूप- कात् । उपजातिवृत्तम्-'अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजात- अस्ताः' इति तल्लक्षणात् ॥ गोत्रस्खलनेन मानवती प्रत्याह- गोत्रस्खलने प्रान्ति मानिनि जानीहि केवलां मेऽत्र । व्याख्यानतो विशेषप्रतिपत्तिः पाणिनीय इव ॥२॥ गोत्रेति । हे मानिनि, गोत्रस्खलने गोत्रं नाम तस्य सबलने च्यवने मे मम केवला भ्रान्ति जानीहि । ननु गोत्रस्खलनं स्वदुक्तिः । मया मान्या तमामग्रहणं कृतं न वहर्निशं तस्थामासक्तरित्यापि स्वदुतिरेव । सत्रक प्रामा व्यमुररीकर्तव्यम् । तत्राह-याण्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य प्रतिपत्तिर्बोधः। किमत्र मानं तत्रोपमारीत्याह-पाणिनीय इव । पाणिनीये तत्प्रोकशाचे । एवं हि तनोक्ति:--लाइउणसूत्रयोर्णकारस्यैवोपादानेन भण्हणग्रहणेषु संदेहः । तत्राह-'ग्याल्यानतो विशेषप्रतिपत्तिर्न हि संदेहाद- लक्षणम्' । व्याख्यानाच्छिष्टकृताद्विशेषस्थान्यतरार्थस्य प्रतिपतिनिश्चयः । हि यतः संदेहान्छासमननुष्ठापकं न । 'भदित्-' इत्यत्रैव परेण कारेणाप्र- त्याहारः । इण तु सर्वत्र परेण । सवत्र परिभाषेन्दुशेखरे दूषणं तदमत्कृते विद्याविकासे अटण्यम् । मत्र श्लेषालंकार:-लेषः स एकवाक्येऽसिन्यत्राने- कार्यता भवेत्' इति लक्षणात् । मन्त्र प्रमाणालंकारेषु शब्दप्रमाणालंकारः । ौती पूर्णोपमा-माधयमुपमा भेदे पूर्णा सा च सानिमा । भौत्यार्थी 'च भवेद्वाक्ये समासे तखित तथा ॥ इति लक्षणात् । काण्यावरों तु दण्डिनेयं भर्मोपमेति म्यवहता-इति धर्मोपमा साक्षातुस्पर्मनिदर्शनाव' इति ।
नक्षत्रमाला। १२१ मानवत्यत्र नायिका । मानश्चानेयाजन्य:--'पत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते । ईर्ष्यामानो भवेत्स्त्रीणां तन्न त्वनुमितिस्निधा ॥' इति रसरसहारः । स च मध्यमः-'मानो लधुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् । अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा । अन्यस्त्रीसङ्गाजनितः क्रमेण त्रिविधो भवेत् ॥' इत्यपि तत्रैव । पथ्यार्या छन्दः-'त्रिप्वंशकेपु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥' इति लक्षणात् ॥ अन्यसंभोगदुःखितां प्रति संभुक्तसख्येवाह- नौष्ठत्रणान्मामपरामिव त्वमवेहि तामेव निजैकदासीम् । न चैकदेशे विकृतरुपैति भिन्नत्वमज्ञे सखि कोऽपि लोके ॥३॥ नौष्ठेति । ओठे प्रणोऽधरपानजस्तस्मान्मामपरां सपत्रीमिव मा अवेहि । अज्ञे सखि, एकदेशे विकृतेर्विकाराक्ष कोऽपि भिश्वस्वमुपैति प्रामोति । नहि छिनपुच्छे शुनि मार्जारव्यवहारो लोके । 'लोकन्यायसिद्धेयम्' इति व्याकर- णेऽप्युक्तम् । इयं ज्ञापकसिद्धापि । 'प्राग्दीव्यतोऽण्' इति सूत्रे भाष्ये दीव्य- तिशब्दैकदेशदीच्यच्छब्दानुकरणमिदमित्युक्त्वा किमर्थ विकृतनिर्देशः । एतदेव ज्ञापयत्याचार्यः-भवत्येषा परिभापा-'एकदेशविकृतमनन्यवत्' इति । तेन निर्जरशब्दे जरसादेशः फलम् । अत्रत्यमपि दूषणं विद्याविलासे द्रष्टव्यम् ।का- व्यलिङ्गमलंकारः--'समर्थनीयस्यार्थस्य काव्यलिङ्ग समर्थनम्' इति लक्षणात् ॥ पूर्वमीया॑मानेऽनुनीतां पुनः प्रणयमानिनी प्रत्याह- अनुनीता पुना रोषं भेजे तामाह मानिनीम् । एकस्यां लक्षणं व्यक्तौ सकृदेव प्रवर्तते ॥ ४॥ अनुनीतेति । या पूर्वमनुनीता पुना रोषं भेजे । अत्र 'रो रि' इति लोपे कृते 'दलोपे-' इति दीर्घः। तामाह नायकः एकस्यां व्यक्ती एकं लक्षणं सकृदेव एकवारमेव प्रवर्तते । पुनः कोपो न योग्य इति भावः । प्रणयमा- निनीयम् । 'लक्ष्ये लक्षणं सकृदेव प्रवर्तते । अत्र ज्ञापकं 'समः सुटिं' इति सूत्रम् । 'समो वा कोपमेके' इति भाष्येण लोपस्थापि स्पकरणस्थत्वाम्मकार- कोपे एकसकारके पुनस्तान्त्र सकारद्वित्वे दिसकारके पुनः सकारद्वित्वे त्रिसका- रफरूपसिद्धौ कि सूत्रेणेति तदेव शापकम् । फलं तु. सुध्युपास इत्या धका - १२२ काव्यमाला। रद्वित्वे पुनर्धकारद्वित्वं न । युग्मविपुला च च्छन्दः'यस्यां लः सप्तमो युग्म सा युग्मविपुला' इति लक्षणात् ॥ सख्युपभोगेन साशका नायिका गौणमुख्यन्यायं मनसि निधाय दासी पृष्टस्य सेवने योजयामासेति वर्णयति- मुख्य कार्यस्य विज्ञानादासीं धृष्टस्य रोक्ने । नियोजयामास तयो रतिं ज्ञात्वा चुकोप सा ॥ ५ ॥ मुख्य इति । मुख्ये प्रधाने कार्यस्य विधेयस्य विज्ञानादासी घटस्य प्रग- ल्मस्य सेवने नियोजयामास । सा नयो रति ज्ञान्या कोप सरोषा बभूव । परकीयान्यसंभोगदुःखिता नायिका । नन्वेवमपि महनश्चन्द्रमा इत्यत्र 'आत्महतः' इत्यात्वापतिरत आह----'गोणमुग्ययोर्मुरग्ये कार्यसंप्रत्ययः' । गुणाद्वागतो गौणः । यथा गोशब्दस्य जाब्यादिगुणनिमितोऽर्थी बाहीकः । अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव गुध्यते । मुगामिव प्रधानन्यान्मुख्यः । प्रधान इत्यर्थः । गौणे गर्थे शब्दः प्रयुज्यमानो मुख्याधीरोपेग प्रवर्तते । एवं चाप्रसिद्धत्वं गौणलाक्षणिकल्यं धात्र गौणत्वम् । तेन प्रियग्रयाणामित्यादी अयादेशो भवत्येव । तन निशब्दार्थस्येतरविशेषणन्येऽयुक्तरूपगौणत्वाभावात्। अन्ये तु परियविपीध्वामित्यत्र वन्यज्यावृत्तये क्रियमाणात् 'इणः पीछ-' इत्ययाङ्गग्रहणादर्थवत्परिभाषानित्या । तन्मूलकमिदम्' इत्याहुः ।। दासी नायिकायाः सान्त्वनं करोति.. यदागमास्तद्गुणास्ते गृह्यन्ते तद्ब्रहाद्धिते । अतस्त्वय्याबद्धभावो मामैक्षत स सादरम् ॥ ६ ॥ यदागमा इति । यत्सकाशादागमो येषां ते यदागमाः, तस्य यसकाशा- दागमस्तद्गुणीभूता अशाभूतास्तबहाते गृह्यन्ते । अतस्त्वय्याबद्धभावः स नायको मां सादरीक्षत । ननु प्रणिदापयतीत्यादी दारूपस्य विधीयमाना धुसंज्ञा दापेन स्यादत आह-'यदागमान्तद्गुणीभूतातहणेन गृह्यन्ते' । यमु- विश्यागमो विहितः स तदुणीभूतः शालेण तदवयवरपेन योधितोऽतस्तद्वाहणेन तबाहकेण तद्वोधकेन शब्देन गृह्यते । बोभ्यत इत्यर्थः । तत्र तणीभूता इत्यंशो बीजकथनम्।लोकेऽपि देवदत्तस्थानाधिक्ये तद्विशिष्टस्यैव देववाहणेन महर्ष mers • - नक्षत्रमाला। १२३ दृश्यते । यमुद्दिश्य विहित इत्युक्तेः । प्रनिदारयतीत्यादौ न दारित्यस्य धुत्वम् । आने मुग्विधानसामर्थ्यादेषानित्या । अन्यथा पचमान इत्यादावकारस्य मुक्य- नया परिभापया विशिष्टस्य सवर्णदीपें तद्वैयर्थ्य स्पष्टमेव । तेन दिदीमे इत्यादी यणादिकं न । जहारेत्यादौ 'आत औ णलः' इति न ॥ रतान्तं वर्णयति---मृष्टाधरेति युग्मेन । मृष्टाधरालक्तमनञ्जनाक्षं पत्रावलीशेषविशेपशोभम् । रतान्त आसेचनकं निपीय कान्ताननं कान्त उवाच कान्ताम् ॥ ७ ॥ कृतेऽङ्गकार्ये पुनरङ्गकार्य न जायते सुन्दरि दर्शनेऽपि । ततो वृथैषोऽस्ति परिश्रमस्ते प्रसाधनाथ करभोपमोरु ॥ ८॥ (युग्मम् ) मृष्टेति । मृष्टोऽधरालतको यस्याः । अधरपानादित्यर्थः । अनअने अक्षिणी यस्याचुम्बनात् । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्पच्' इति पच् । विधेयत्वा- भावादविमृष्टविधेयांशदोषाभावः । पत्रावल्याः पनरचनायाः शेषेण विशेषतः शोभा यस्य । पत्ररचनाच्युतिस्तु विपरीतसुरते खेदोद्गमादित्यर्थः । आसेचन कम् । तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः। कान्ताननं निपीय सादरं दृष्ट्वा प्रसाधनोद्यतां नायिका प्रत्याह । करभोपमावूरू यस्यास्तत्संबोध- नम् । 'करस्य करभो बहिः' इत्यमरः । 'ऊरूत्तरपदादीपम्ये' इत्यू तु न । उप- माशब्देन व्यवधानात् । एतेन 'धाग्री कराभ्यां करभोपमोरः' इति कालिदा- सप्रयोगोऽपि व्याख्यातः । सुन्दरि, अझकार्य अङ्गानां कार्य प्रसाधने कृते पुन- जकार्य प्रसाधनं नास्ति । अङ्गस्य कार्य कृते पुनरङ्गस्य कार्य न भवति । यथात्रैव सुन्दरीत्यन्न संबुद्धौ ‘अम्बार्थनधोहस्वः' इति हस्वे कृते 'हस्त्रस्य गुणः' इति गुणो न भवति । न चात्र लक्षणप्रतिपदोकपरिभाषया निर्वाहः। हे चित्रगोग्रमित्य- नेन विरोधापतेः । अत्र ते प्रसाधनार्थ परिश्नमो वृथैव । ननु रतान्ते प्रसा- धनवर्णनं न कविसंप्रदाय इति, तन्न । 'शान्ते मन्मथसंगरे रणकृतां सत्कार- मातम्यती यासोऽदाजघनस्य पीनकुचयोहारं श्रुतेः कुण्डलम् । बिम्बोष्ठस्य च वीटिकां सुनयना पाण्यो रणकङ्कणे पश्चाल्लम्बिनि केशपाशनिचये युक्तो हि बन्धक्रमः ॥' इति दर्शनात् । यत्तु तत्त्वबोधिन्याम् 'हस्वविधानसामर्थ्यागुणो न प्रवर्तते अन्यथा 'अम्बार्थनथोर्गुणः' इति ब्रूयात्', तन । सति गुणग्रहणे इक्परिभाषोपस्थितेः अम्बार्थे दोषः । अथाम्बार्थग्रहणसामर्थ्यात्तत्रानिक्यपि । १२४ काव्यमाला। प्रवृत्तिरिति 'म । उभयत्र सामर्थ्यकल्पनापेक्षया अन्याया परिभाषा निर्वाहस्य सुगमत्वात् । तत्रैवान्ये तु 'कृते हम्ब यदि गुण इष्टस्तर्हि अभ्यार्थानां इस्वो नदीह्रस्वयोर्गुणः' इन्येव श्रूयात् । तदपि न । 'जसि च' इति सूत्रे एक- देशानुवृत्तिकल्पनापत्तेः । अस्यां परिभाषायां ज्ञापकं ज्ञाजनोर्जा' इति जादे- शविधानम् , 'ज्यादादीयसः' इत्यत्राकारविधानं च । जकारादेशे कृते जाना- तीत्यत्र 'अतो दीपों यनि' इति ज्यायान् इत्यादी 'अकृन्मार्य--' इति दीर्घ इष्टसिद्धी किं दीर्घविधानेन । 'तयोविधि-' इति निर्देशादनित्यैषा परि- भाषा | समास आर्थी धर्मलुप्तोपमा । काव्यादर्श वियं यस्तूपमेति व्यव- हृता-'इति प्रतीयमानकधर्मा वस्तूपमैव सा' इति लक्षणात् । क्रमेणाध- रचुम्बनापुत्कर्पदर्शनासारालंकारः-'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते' इति तल्लक्षणात् ॥ कश्चन मानिनीदूतीं निराकरोति संनियोगशिष्टन्यायेन--.-. निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः । द्वयोर्मानोदये दूत्यास्तदनित्यत्वमुत्तरम् ॥ ९ ॥ निवृसिरिति । 'संनियोगशिष्टानां सह वा प्रवृतिः सह वा निवृत्तिः' इति संनियोगशिष्टन्यायः । तत्संनियोगेनागता स्वं तस्या निवृत्ती स्वं कथं न निवर्तसे । द्वयोर्मानोदये दूत्याः तदनित्यायमुत्तरम् । ननु पन्द्राण्यो देवता अस्य पञ्बेन्द्र इत्यादी विगोलकू' इस्यणो लुकि 'लुक तद्धित--' इति श्री- प्रत्ययलुकि आनुका श्रवणापतिरत आह-~-'संनियोगशिष्टानां सह वा प्रदृ- त्तिः सह वा निवृत्तिः । एवार्थों वाशब्दः । अत्र 'विश्वकादिभ्यश्यस्य लुक' इति सूत्रस्थलग्रहणं शापकम् । तद्धि छमानस्य लुग्बोधनद्वारा कुकोऽनिवृत्ति- यथा स्यादित्यर्थम् । कृतकुगागमा नभयन्तर्गणा बिस्वादम एव तत्र निर्दिष्टा बिस्वकादिशब्देन । समुच्चयार्थचशब्दयोगेन विधेययोरेककालिकस्बैकदेशत्व- नियमाय न्यायसिद्धापीयं 'णाविष्टवत्-' इत्यनेन ध्वस्वविधानमेतदनित्यस्व- ज्ञापनार्थम् । भन्यथा एमीमावष्टे एतयतीत्यादी टिकोपेनैव सीमिती संनि- योगशिष्टपरिभाषया नस्यापि निवृत्तौ पुंवरवस्थानावश्यकरवाए । 'पकसिद्ध न सर्वत्र' इति ज्ञापकसिद्धेयमनित्येति वा । मन परिभाषेन्दुशेखरे पाषणं तविचाविलासे स्फुटम् ॥
नक्षत्रमाला। १२५ - दूती नायकं भर्सयन्त्याह- कारोः शङ्खधेतकीर्तेर्युत्पत्तिस्तव कुत्रचित् । अव्युत्पत्ती रसे तेऽस्ति ततोऽसि त्वमुणादिवत् ॥ १० ॥ कारोरिति । कारोः शिल्पिनः । 'कृवापा-' इत्युण् । शङ्खवत्कम्बुवच्छता कीर्तिर्यस्य तादृशस्य । 'शमेः खः' अत्र सति व्युत्पत्तौ खस्येनादेशः स्यात् । इति हेतोरव्युत्पत्तिपक्षोऽपि । उणादयो व्युत्पन्नाः, अव्युत्पन्नाश्व कुत्रचित् शिल्पादिविषये । रसे ते अव्युत्पत्तिः । ततस्त्वमुणादिवदसि । अव्युत्पत्ती रस इत्यत्र 'रोरि' इति लोपे 'दलोपे-' इति दीर्घः । यथासंख्यालंकारः । यथा- संख्यं क्रमेणेव ऋमिकाणांसमन्वये' इति तल्लक्षणात्। तद्धिते आर्थी लुप्तोपमा । निर्दिश्यमानस्यादेशाः संभवन्ति सुनो यतः । अतः प्रत्यादेशपात्रं रोषासैव न दूतिका ॥ ११ ॥ निर्दिश्यमानस्येति । हे सुनः सुनासिक, यतो निर्दिश्यमानस्यादेशाः संभ- वन्ति अतः प्रत्यादेशस्य निराकरणस्य । 'प्रत्यादेशो निराकृतिः' इत्यमरः । पात्रं सैव दूतिका । प्रकृते-सुन इत्यत्र 'पदन्-' इति सूत्रे निर्दिश्यमानस्य नासिकाशब्दस्य नसादेशः । न तु ‘पदाङ्गाधिकारे-' इति प्राप्तः सुनासिकाश- ब्दस्य नसादेशः । यद्वा समासान्तविधेरनित्यत्वेन 'अन्नासिकायाः-' इत्य- जभावेऽपि संनियोगशिष्टन्यायस्यानित्यत्वे प्रकृतसूत्रेण नसादेशः । नन्वेवमु- दस्थादित्यादौ 'उदः स्थास्तम्भो:-' इति पूर्वसवर्णापत्तिरत आह--'निर्दि- श्यमानस्यादेशा भवन्ति' । 'षष्ठी स्थानेयोगा' इति सूत्रमावर्तते । तत्र द्वि- तीयस्थायमर्थः । पश्यन्तं निर्दिश्यमानमुच्चार्यमाणसजातीयमेव निर्दिश्यमाना- वयवरूपमेव वा स्थानेन स्थाननिरूपितसंबन्धेन युज्यते न प्रतीयमानमि- त्यर्थः । तेनेदं सिद्धम् । अत्रत्यं दूषणं विद्याविलासे द्रष्टव्यम् ॥ नायिकाया मानबीजमाह- आगमानित्यता शब्दे उणाद्यादौ मनोहरा । मनोहरा न ते यस्मात्तन्नित्यत्वमतोऽर्थये ॥ १२ ॥ मागमेति । उणाचादौ शन्दे आगमानां ङमुडादीनामनित्यता मनोहरा । ते आगमस्थागतस्यानित्यता न मनोहरा । अतस्तनित्यत्वमर्थये । यथा 'उणा- १२६ काव्यमाला। । MINS दयो बहुलम्' इत्यत्र उमुडागमोऽनित्ययान नैवं तथा आगमो युक्तः । 'आग. मशास्त्रमनित्यम्' इति परिभापाग्यण्डनोद्धारोऽपि विधापिलासे द्रष्टव्यः ॥ वेश्यां वर्णयति- अर्थववाहणे यस्मान्नानर्थकपरिग्रहः । सुरूपधनिनोर्वेश्या गृह्णाति धनिनं ततः ॥ १३ ॥ अर्थवदिति । अर्थवतः सार्थस्य ग्राहणेऽनर्धकस्य व्यर्थस्य यतः परिग्रहो नास्ति ततो हेतोः सुरूपधनिनोर्मध्ये वेश्या धनिनो ग्राणं करोति। अश्रयत्वा- दिति भावः । ननु प्रोढवानित्यत्र 'प्रादृशोढ-' इति वृतिः स्यादत आह-'अ- थेवाहणे नानर्थकस्य' । विशिष्टरूपोपादाने उपस्थितार्थस्य विशेषणतयान्वय- संभवे त्यागे मानाभावोऽस्या मूलम् । 'प्रश्न-' इति सूत्रे राजेः पृथग्भ्राजि- ग्रहणमस्यां हि ज्ञापकम् ॥ काचन दूती नायकस्य समीपे गता, नायकम्य गोस्वलनं जानम् , तद- नुकरणमागत्य नायिकायाः समीपे लतममुं प्रसवर्णयनि- गोत्रस्खलनानुकृती दृष्टारुणचक्षुपा दृती । इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥ गोग्रेति । दूत्यने नायककृतस्य गोयवलनस्यानुकृतावनुकरण अरुणे चक्षु- पी यस्थास्तया । कोपारुणचक्षुषेत्यर्थः । दृती दृष्टा । अस्था आशयमाह-अ- नुकरणं प्रकृतिवद्भवतीति । यथा नायकोपरि कोपन्नथा मख्यपि शाखप्रातः । ननु 'क्षियः-' इत्यादी इयत् कथमत आह...-'प्रकृतिवदनुकरणं भवति । क्षिय इति इयनिर्देशोऽस्या ज्ञापकः । तत्रैव प्रातिपदिकम्वनिबन्धनविभक्ति- करणादनित्या घेयम् । उपगीतिच्छन्दः ॥ नायको दूतीमुखानोग्रस्खलनश्रवणेन मानिनीं प्रत्याह- नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि । तस्माद्यथापराधं दण्ड्यो वध्यस्तु नैवाहम् ॥ १५ ॥ नास्तीति । संज्ञा नाम तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्या- पराधिनोऽन्तो नाशस्तस्य ग्रहणं नास्ति । हि यशात् । 'संज्ञा स्यातना नाम इस्तायैश्वार्थसूचना', 'प्रत्ययोऽधीनशपथज्ञानविधासवस्ता', 'मन्तो नाशो नक्षत्रमाला । १२५ वयोम॒न्युः' इति त्रिप्वमरः । तस्मादपराधमनतिक्रम्य यथापराधमहं दण्ड्यः वध्यस्तु नैव । 'अन्यथावादशपथाद्यपनेयस्तु मध्यमः' इति । 'मानो लधुर्म ध्यमश्च गुरुश्चेति विधा भवेत् । अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा अपरस्त्रीसंगमोत्थः क्रमेण विविधो भवेत् ॥' इति रसरनहारः । नन्वे 'तरतमपी घः' इत्यादिना तरबन्तादेः संज्ञा स्यादत आह-'संज्ञाविधौ प्रत्य यग्रहणे तदन्तग्रहणं नास्ति' । 'सुप्तिङन्तं' इत्यन्तग्रहणमस्या ज्ञापकम् गीतिच्छन्दः॥ पुनस्तामाह---- अनुदात्तत्त्वप्रथितं युवति निबोधात्मनेपदमनित्यम् । उदयति सविता चन्द्रो न निर्गतं यौवनं हि तथा ॥ १६ ॥ अनुदात्तेदिति । हे युवति, अनुदात्ते मम हृदि ईत्वं लक्ष्मीत्वं यत्र ताह शयाप्रथितं ख्यातमात्मने स्वस्सै पदं स्थानमनित्यं निबोध जानीहि । लक्ष्म्यः पेक्षेयं सुरूपेति पदप्राप्तिरनित्येत्यर्थः । हि यस्सान्निर्गत: सविता चन्द्रश्वोदयति निर्गत यौवनं तथा न । 'उदात्तो दातृमहतोः' इति विश्वप्रकाशः । 'अनुदात्ते श्वलक्षणमात्मनेपदमनित्यम् । चक्षिको डिकरणाज्ज्ञापकात् । तेन प्रकृते उद यतीत्यत्रात्मनेपदं न । अन्त्यपरिभापेन्दुशेखरदूषणोद्धारो विद्याविलासे स्फुटः काव्यलिङ्गमलंकारः-काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति तल्लक्षणात् परिकरालंकारोऽपि-अलंकारः परिकरः साभिप्राये विशेषणे' इति लक्षः णात् । उपगीतिच्छन्दः॥ सर्वद्वन्द्वैकवद्भावः पाणिनीये विकल्पितः । विहाय मामिति सखी काप्याह प्रेमगर्विता ॥ १७ ॥ सर्वेति । सर्वश्चासौ द्वन्द्वश्च । 'चार्य द्वन्द्वः' इति विहितः समासः तस्यैक- बदायः पाणिनीये विकल्पितः । 'सर्वो द्वन्द्वो विभापैकवद्भवति' । द्वन्द्वसा. मान्येन स्वमिथुनप्रासं परिहरति-मां विहाय । त्यक्त्वेत्यर्थः । 'स्त्रीपुंसोर्मि- थुनं द्वन्द्वम्' इत्यमरः । कापि प्रेमगर्षिता सखी प्रत्याह । घटपटं घटपटी इत्यादि सिद्धये आह-'सर्वो द्वन्द्वो विभाषैकवद्भवति', 'द्वन्दुश्च प्राणि-' इत्यादि प्रकरणाविषयः सर्वो द्वन्द्र इत्यर्थः । 'चार्थे द्वन्द्वः' इति सूत्रेण समा- .
१२८ काव्यमाला। -- हारेतरेतरयोगयोरविशेषेण द्वन्द्वविधानाच्यायसिद्धेगम् । परिसंख्यालंकारो- उत्र-परिसंख्या निषिध्यैकमेकस्मिन्बस्तुयन्त्रणम्' इति नहक्षणात् ॥ तुल्ये वयसि रूपे च मयि मज्जति यन्मनः । पत्युस्तत्कारणं ब्रूहि सख्यूचे भेदका गुणाः ॥ १८ ॥ तुल्य इति । वयसि रूपे च तुल्ये मति मम सपख्याश्च । पत्युमनो यन्मयि निमजति तस्कारणं हि इति नायिकाप्रमः । गुणा दाक्षिण्यादयः। भेदका व्यावर्तकाः । उन्कर्पजनका इत्यर्थः । इति मण्या उत्तरम् । हेत्वलंका- रोऽत्र-हेतोहेतुमता साधं वर्णनं हेतुरुच्यते' इति लक्षणात् ॥ प्रेमगर्विता मानभाजो दुपयति- कृतमपि कार्य केचिन्निवर्तयन्तीह शास्त्रवत्प्रेम । प्रायस्त एव पूज्या ये न प्रागेव कुर्वन्ति ।। १९ ॥ कृतमिति । फेधिस्कृतमपि प्रेम कार्य शास्त्रवनिवर्तयन्ति । तेभ्यस्त एक पूज्या ये प्रागेव न कुर्वन्ति । 'अकृतम्यूहाः पाणिनीयाः' इति द्वयोर्मध्ये अक- सम्यूहा इति श्रेष्ठम् । 'प्रक्षालनादि पदस्य दूरादस्पर्शनं वरम्' इति न्यायात्॥ दूत्युपभोगकामः कश्चन निवारयन्ती नूनी प्रत्याह---- स संनिपातलक्षणो विधिर्विधूपमानने । न मन्यतेऽधुना मया धुनोपि किं कराम्बुजम् ॥ २० ॥ स इति । हे विधूपममाननं यस्याः, स संनिपातलक्षणो विधिरधुना मया न मन्यते । त्वं कराम्बुजं किं धुनोपि । तस्या अनित्यत्वात् । उपजीव्यविरो- धोऽस्या मूलम् । सा 'कष्टाय क्रमणे' इति निर्देशादनित्या । उपमालंकारः । प्र- माणिकावृत्तम्-'प्रमाणिका जरौ लगी' इति लक्षणात् । कविनगस्वरूपि- णीलस्याः संज्ञा॥ आकारयन्कामपि ना दृष्टः खप्रिययावदत् । यत्संज्ञापूर्वकविधेरनित्यत्वमवेहि तत् ॥ २१ ॥ आकारपमिति । कोऽपि ना कामपि परवियं संशया इसमा । 'संज्ञा साबेतना नाम हस्तायैवार्थसूचना' इत्यमरः । माकारयासमिपमा सपि:
नक्षत्रमाला। १२९ mund त्यवदत् । सत्संज्ञापूर्वकविधेरनित्यत्वं तदवेहि । 'ओर्गुणः' इत्यत्र 'ओरोत्' इति वक्तव्ये गुणोक्तिः संज्ञापूर्वकविधेरनित्यत्वं ज्ञापयति । तेन स्वायंभुव- मिति सिद्धम् ॥ स्थिरो न रागो दयिताजनस्य श्रुत्वेति वाचं दयितस्य नूनम् । पर्जन्यवल्लक्षणसंप्रवृत्त्या वस्यामपीमं गुरुदोषमूहे ॥ २२ ॥ स्थिरेति । नायिकायाः सखी प्रन्युक्तिः । दयिताजनस्य रागः स्थिरो न इति दयितस्य प्रियस्य वाचं श्रुत्वा पर्जन्यवल्लक्षणसंप्रवृत्त्या स्वस्थामपीमं गुरु- दोषमूहे । लिट उत्तमपुरुषैकवचनम् । 'पर्जन्यो मेघशक्रयोः' इति लक्ष्मी- निवासः । लोकसिन्द्वेयं परिभाषा ।। ननु तथा सति को दोष इति चेदाशयः सख्यास्तन्निराकरणायाह- पूर्व अपवादोऽभिनिविंशते पश्चाद्भवति किलोत्सर्गः । इति मत्वा मम चेतः खिन्ते नित्यं सखि क्षणशः ॥ २३ ॥ पूर्वमिति । पूर्वमपवादोऽपवादशास्त्रमभिनिविशते । 'अभिनिविशश्च' इति कर्मसंज्ञा, 'नेविंशः' इत्यान्मनेपदम् । पश्चादुत्सर्गशास्त्रम् । पक्षेऽपवादो लिन्दा । 'अवर्णाक्षेपनिर्वादपरीवादापवादवत्' इत्यमरः । उत्सर्गस्त्यागः । हे सखि, इति मन्वा मम चेतः क्षणशो नित्यं खिन्ते खिद्यते । ननु दधतीत्यादा- वन्तरणस्वादन्तादेशेऽल्विधौ स्थानिवस्वाभावाददादेशो न स्यादिति तद्वैयर्थ्या- पन्तिरत आह-'पूर्व अपवादा अभिनिविशन्ते पश्चादुत्सर्गाः।' लक्षणैकच- क्षुको हि अपवादविषयं पर्यालोच्य तद्विषयत्वान्निश्चये उत्सर्गेण तत्तल्लक्षणं संस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः । अभिनिविशन्त इत्यस्य बुद्ध्या- रूढा भवन्तीत्यर्थः । 'अपवादो यदन्यत्र' इति न्यायस्य तु नात्र प्राप्तिः । अन्तादेशाप्राप्तिविषये चारितार्थ्याभावात् । आर्याच्छन्दः ॥ सखी तां सान्स्वयति- गणकार्यमनित्यं स्यादिति किं न श्रुतं त्वया । अनार्जवमतश्चित्तादपाकुरु कृपां कुरु ॥ २४ ॥ गणेति । गणकार्य स्वादिधातुगणकार्यमनित्यमिति त्वया न श्रुतम् । पक्षे ९पंच० १३० काव्यमाला। गणस्य समुदायस्य कार्यम् । आश्रिनादनावं कौटिल्यमपाकुरु कृपां कुरु। तनादिन्वादेव मिद्धे कृन्ग्राहणं गणकार्यस्यानित्यन्ये लिङ्गम् । तेन 'न विश्व- सेदविश्वम्तम्' इत्यादि सिद्धम् ॥ वार्णादाङ्गं बलीयः स्यादिति मत्वा विलासिनी । नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥ वाणेति । वार्णाद्वर्णमयान्मंतोपापादनादाझं अलदिति मन्या सा न किंचि- दुवाच । किं तु मुदा आलिङ्गने अदान् । पो...--वार्णावर्णसंबन्धिकार्यादाग- मङ्गाधिकारीयकार्य बलवत् । नन्वेयमियायेत्यादी हिन्ये कृतेऽन्तरगत्यात्सवर्ण- दीर्घन्वे तदसिद्धिरत आ:--'वार्णादानं बलीयो भवनि ।' तेनान्तरणमपि सवर्णदीर्घ बाधिन्या वृद्धिरिति तन्सिहिः। 'अभ्यासस्यामवणे' इतीयविधाय- कसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम् । नाहीयनुरित्यादायिगळ्यावृत्यर्थम् ॥ यान्तं निशम्य कान्तं तद्गृहसविधेऽस्मि साशक्षा । एनां प्रतारयति सा ज्ञापकसिद्धन सर्वत्र ॥२६॥ यान्तमिति । तस्याः सपल्या गृहस विधे तत्समीपे । 'पदेशाभ्याशसवि- धसमर्यादसदेशवत्' इत्यमरः । साशास्मि । पनां प्रनारयनि सा नृती- ज्ञापकसिद्ध सर्वत्र न भवति । स्पष्टमेव पठितव्येऽनुमानाबोधनमसार्व- निकत्वार्थम् ॥ काचिनायिका सपन्यासक्तं पति ज्ञावा कांचिकामणकारिणी प्रत्याह- योगविभागादृष्टा सिद्धिः खेप्टस्य पाणिनीयेऽपि । तस्मात्तयोस्तमाचर मत्सौख्यं तावतेवायें ॥ २७ ॥ योगेति । योगः सूर्य नस्य विभागाद्विभजनाम्वेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणिनीयेऽपि दृष्टा । पक्षे योगः संगतिः । 'योगः सेनहनोपायध्यानसंगति- युक्तिषु' इत्यमरः । तस्या विभागस्तरमाधोगविभागादिष्टसिद्धेनोम्तयोः पति- सपल्योस्तं योगविभागमाचर । हे आये हे पूज्ये, सावतव मसौख्यम् । 'कचियोगविभागादिष्टसिद्धिः' । आर्याच्छन्दः ॥ वर्णाश्रये प्रत्ययलक्षणं न रागोदये बन्धनमस्य पुंसः । अभेदका अस्य गुणाः सुवाणि त्वया मया चापि किमत्र वाच्यम् २८ ।
नक्षत्रमाला।
१३१
-
वर्णाश्रये इति । अस्य पुंसो वर्णाश्रये वर्णो गौरादिः स आश्रयो यस्य तादृशो
रागोदयो रागस्य प्रीतेरुदयस्तस्मिन्प्रत्ययलक्षणं शपथलक्षणम् । 'प्रत्ययोऽधी-
नशपथ-' इत्यमरः । बन्धनं न । हे सुवाणि, अस्य पुंसो गुणा अभेदकाः,
न भेदकर्तारः । अत्रास्मिन्विषये त्वयापि किं वाच्यम् , मयापि किं वाच्यम् ।
ननु गवे हितं गोहितमित्यादौ प्रत्ययलक्षणेनावादेशाद्यापत्तिरत आह-'वर्णा-
श्रये नाम्नि प्रत्ययलक्षणम्' । वर्णप्राधान्यविषयमेतत् । तत्त्वं च 'प्रत्यय-
लोपे-' इति सूत्रे स्थानिवदित्यनुवृत्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतरा-
विशेषणन्वरूपं या प्राधान्यं तत्रैव प्रवृत्त्यर्थमेतसिद्धम् । उपजातिवृत्तम् ॥
काचिती नायिकान्तराद्रुष्टं नायकं स्वनायिकासमीपे नेतुं वदति-
एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहि ।
तस्यां रोषसमाप्तिर्जातानुसर मत्सखी धीर ॥ २९ ॥
एकस्या इति । एकस्या आकृतेश्चरितः कृतः प्रयोगो न द्वितीयस्याः ।
पशे-एकस्या गत्वाधुदाहरणव्यक्तेश्चरितः प्रयोगो द्वितीयादेर्न । अतस्तस्था
रोपसमाशिजीता । हे धीर, त्वं मत्सखीमनुसर । ननु गोपु चाश्वेषु च स्वा.
मीत्यादिवद्गोप्वश्वानां च स्वामीत्यपि स्यात् । 'स्वामीश्वरा-' इति सूत्रेण षष्टी-
सप्तम्योविधानादाह-एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीय-
स्थाश्च न भविष्यति' । यत्रान्याकृतिकरणे भिन्नत्वसंभावना तद्विषयोऽयं
न्याय इत्यन्यत्र विस्तरः। आर्याछन्दः ॥
द्विजराजो यथा भाति कण्ठे नक्षत्रमालया।
द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ।। ३०॥
द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्प-
रया यथा भाति शोभते, तथा द्विजराजो द्विजश्रेष्टः पण्डितः कण्टे नक्षत्र-
मालया नक्षत्रमालाख्येन ग्रन्थेन भातु । 'कण्ठो गले गलध्वाने समीपे च'
इति विश्वप्रकाशः ॥
त्रिलोकचन्द्रात्मजकृष्णरामसूनोः कृतिः श्रीशिवरामनाम्नः ।
नक्षत्रमालेयमनल्पशोभा तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥
१३२
काव्यमाला।
त्रिलोकचन्द्रेति । ग्रिलोकचन्द्रस्या मजः पुत्रः । 'आन्मजस्तनयः सूनुः'
इत्यमरः । यः कृष्णरामः कृष्णरामाभिधम्नमा सूनोः श्रीशिवरामनाम्नः कृति-
रियं नक्षत्रमाला । 'सैव नक्षत्रमाला स्थानमतविंशतिमौक्तिकैः' इत्यमरः ।
सूरः पण्डितस्य । 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः । अनल्पशोभां तनोतु ।
दिक्षु प्रथिता प्रसिद्धा अस्तु ।
परिश्रमो व्याकरणे काव्यादावपि यः कृतः ।
दिगियं दर्शिता तस्य शिवरामेण सन्मुद ॥
लक्ष्मीकीर्ती रसामध्ये शिवरामप्रसादतः ।
कुरुतां वसति शुक्रतुल्यभूपालपालिते ॥
अन्थान्मया विरचितान्परिशीलयन्नु शीलान्विताः सुमनसो मनसो मुदे ते।
यद्वद्विशोधितमनस्परुचा समेत जाम्बूनदं नदिह] मौल्यविशेषलभ्यम् ॥
काव्यानि पञ्च तनुतेऽपि च पजमंगयाष्टीकास्तु सदश चैक उणादिकोपः।
भूपालभूषणमथो रसरबहारो विनाविलाम इनपूर्वशरफलायाः ॥
व्याख्या लक्ष्मीविलासाच्या लक्ष्मीप्रीत्यव निर्मिता।
यावशक्षत्रमालाम्ति तावत्तियतु भूतले ॥
इति श्रीत्रिलोकचन्द्रामजकृष्णरामसूनुशियगमग्रिपाठिकृता
लक्ष्मीविलासाख्यटीकासमेता नक्षत्रमाला समाता ।
श्रीनीलकण्ठदीक्षितविरचितं
कलिविडम्बनम् ।
न मैतन्यं न बोद्धव्यं न श्राज्यं वादिनो वचः ।
झटिति प्रतिवक्तव्यं समासु विजिगीपुभिः ॥ १॥
असनमो बिलज्जत्वमवज्ञा प्रतिवादिनि ।
हासो राज्ञः सवश्चेति पबैते जयहेतवः ॥२॥
कलिविडम्बनम् । १३३ उच्चैरुद्धोष्य जेतव्यं मध्यस्थश्चेदपण्डितः। पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥ ३ ॥ लाभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितः । अत्मोत्कर्षों निगमनमनुमानेष्वयं विधिः ॥ ४ ॥ अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् । जिगीषुणा यिं त्यक्त्वा कार्यः कोलाहलो महान् ॥ ५ ॥ पाठनैन्थनिर्माणैः प्रतिष्ठा तावदाप्यते । ऐवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥ ६ ॥ स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च खं कदा तस्यास्तु निर्वृतिः ॥ ७ ॥ वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥ ८॥ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥ ९ ॥ यदि न कापि विद्यायां सर्वथा क्रमते मतिः । मात्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥१०॥ अविलम्बे कृत्यसिद्धौ मात्रिकैराप्यते यशः । विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥ ११ ॥ सुखं सुखिषु दुःखं च जीवनं दुःखशालिषु । अनुग्रहायते येषां ते धन्याः खलु मात्रिकाः ॥ १२ ॥ १. उदुष्य' इति पाठः. २. 'अभ्यास्यं लप्स्यमानेन' इति, 'अलभ्यं लज्ज- मानेन' इति च पाठः, ३. 'एवं सतस्तु' इति पाठः. ४. वर्तताम्' इति पाठः. ५. 'भाग्यतः' इति पाठा, ६. 'अविलम्ब्रेन संसिद्धौ' इति. पा. ५. 'दुःखेऽपि' इति पाठः. GAUR up-me १३४ काव्यमाला। यावदज्ञानतो मौनमाचारो वा विलक्षणः । तावन्माहात्म्यरूपेण पर्थवस्यति मात्रिके ॥ १३ ॥ चारान्विचार्य देववक्तव्यं भूभुजां फलम् । ग्रहचारपरिज्ञानं तेपामावश्यकं यतः ॥ १४ ॥ पुत्र इत्येव पितरि कन्यकेत्येव मातरि । गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ॥ १५ ॥ आयुःप्रश्ने दीर्घमायुर्वाच्यं मौहर्तिकैजनैः। जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६ ॥ सर्व कोटिद्वयोपेतं सर्व कालद्वयावधि । सर्व व्यामिश्रमिव च वक्तव्यं देवचिन्तकैः ॥ १७ ॥ निर्धनानां धनावाप्तिं धनिनामधिकं धनम् । ब्रुवाणाः सर्वथा ग्राह्या लोकज्योतिपिका जनाः ॥ १८ ॥ शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम् । दैवज्ञानामुपालम्भो नित्यः कार्यविपर्यये ॥ १९ ॥ अपि सागरपर्यन्ता विचेतव्यावसुंधरा । देशो घरनिमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥ वारान्केचिद्रहान्केचित्केचिदृक्षाणि जानते । त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥ २१ ॥ नैमित्तिकाः खमहशो देवतोपासका इति । निसर्गशत्रवः सृष्टा दैवज्ञानाममी त्रयः ॥ २२॥ खस्रसाध्यरोगैश्च जन्तुभिर्नास्ति किंचन । कातरा दीर्घरोगाश्च भिषजा भाग्यहेतवः ॥ २३ ॥ : १. भूभृता' इति पाठ २. 'सर्वदा' इति पाठक, ३. 'नित्यं इति पाठ.. ४. 'प्रादेशमात्रोऽपि' इति पाठः, .inden कलिविडम्बनम् । १३५ नातिधैर्य प्रदातव्यं नातिभीतिश्च रोगिणे । नेश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥ भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् । आरोग्यं वैद्यमाहात्म्यादन्यथात्वमपथ्यतः ॥ २५ ॥ निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम् । सर्वमप्युपदेक्ष्यन्ति रोगिणः सहने स्त्रियः ॥ २६ ॥ जृम्भमाणेषु रोगेषु श्रियमाणेषु जन्तुषु । रोगतत्त्वेषु शनकैर्युत्पद्यन्ते चिकित्सकाः ॥ २७ ॥ प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे । बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सकाः ॥ २८ ॥ लिप्समानेषु वैयेषु चिरादासाद्य रोगिणम् । दायादाः संप्ररोहन्ति दैवज्ञा मात्रिका अपि ॥ २९ ॥ रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः । शनैरनादरः शान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥ दैवज्ञत्वं मात्रिकता भैषज्यं चाटुकौशलम् । एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥ अनृतं चाटुवादश्च धनयोगो महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्रयकारकः ॥ ३२ ॥ कातयं दुर्विनीतत्वं कार्पण्यमविवेकता । सर्व मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ॥ ३३ ॥ १. 'रोगिणि' इति पाठः. २. 'भिषज्य तु' इति पाठः. ३. 'वनपथ्यतः' इति पाठः, ४ 'लप्यमानेषु' इति. पाठः, ५. 'शाकिनीमुष्टि-' इति पाठः, १३६ काव्यमाला। न कारणमपेक्षन्ते कवयः स्तोतुमुद्यताः । किंचिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥ ३४ ॥ स्तुतं स्तुवन्ति कवयो न खतो गुणदर्शिनः । कीटः कश्चिदलिर्नाम कियती तत्र वर्णना ॥ ३५ ॥ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने । अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥ शब्दाख्यमपरं ब्रह्म संदर्भेण परिष्कृतम् । विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥ ३७ ॥ वर्णयन्ति नराभासान्वाणी लब्ध्वापि ये जनाः। लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ।। प्रशंसन्तो नरामासान्प्रलपन्तोऽन्यथान्यथा । कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९ ॥ यत्संदर्भे यदुल्लेखे यद्वयङ्गये निभृतं मनः । समाधेरपि तज्ज्यायः शंकरो यदि वर्ण्यते ॥१०॥ गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि । प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ।। ४१ ॥ जामातरो भागिनेया मातुला दारबान्धवाः। अज्ञाता एव गृहिणां भक्षयन्त्याखुवद्गृहे ॥ ४२ ॥ मातुलस्य बलं माता जामातुर्दुहिता बलम् । श्वशुरस्य बलं भार्या स्वयमेवातिथेबलम् ॥ १३ ॥ जामातुर्वक्रता तावद्यावच्छयालस्य बालता । प्रबुद्धमात्रे सारल्यं प्रबुद्धेऽस्मिन्पलायनम् ॥ ४४ ॥ १. 'धुरुधुरायते' इति पाठः. २. 'प्रयुध्यमाने' इति पाठा. Imprama- कलिविडम्बनम् । १३७ भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः खातध्यवर्तिनी । श्वशुरस्तु प्रवासी च जामातुर्भाग्यकारणम् ॥ ४५ ॥ भूषणैर्वसनैः पात्रैः पुत्राणामुपलालनैः । सकृदागत्य गच्छन्ती कन्या निर्माष्टिं मन्दिरम् ॥ ४६ गृहिणी खजनं वक्ति शुष्काहारं मिताशनम् । पतिपक्ष्यांस्तु बहाशान्क्षीरपांस्तस्करानपि ॥ ४७ ॥ भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता । अश्रान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ १८ ॥ भार्ये द्वे बहवः पुत्रा दारिद्यं रोगसंभवः । जीर्णौ च मातापितरावेकैकं नरकाधिकम् ॥ १९ ॥ स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति । अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥ ५० ॥ अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते । न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ५१ ॥ न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्चले । उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ ५२ ॥ शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । . मृत्योर्मृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ ५३ ॥ शक्तिं करोति संचारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वहिं दारिद्यं परमौषधम् ॥ ५४ ॥ गिरं स्खलन्तीं मीलन्ती दृष्टिं पादौ विसंस्फुलौ । प्रोत्साहयति याच्चायां राजाज्ञेव दरिद्रता ॥ ५५ ॥ where- १. 'प्रवासीति' इति पाठः, २. 'भाग्यधोरणी' इति. पाठः, १३८ काव्यमाला। जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि । आकिंचन्यबलाढ्यानामन्ततोऽश्मापि जीर्यति ॥ ५६ ॥ नास्य चोरा न पिशुना न दायादा न पार्थिवाः । दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुद्धयते ॥ ५७ ॥ प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् । प्रोत्साहयति दायादांलक्ष्मीः किंचिदुपस्थिता ॥ ५८ ॥ विडम्बयन्ति ये नित्यं विदग्धान्धनिनो जनान् । त एव तु विडम्ब्यन्ते श्रिया किंचिदुपेक्षिताः ॥ ५९ ॥ प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६० ॥ शृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते । विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥ ६१ ॥ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः । स्वैरं हसन्ति पार्श्वस्था बालोन्मत्तपिशाचवत् ॥ ६२ ॥ स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते । न बिभेति न जिह्वेति तथापि धनिको जनः ॥ ६३ ॥ क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६४ ॥ श्रीर्मासमर्धमासं वा चेष्टित्वा विनिवर्तते । विकारस्तु तदारब्धो नित्यं लशुनगन्धवत् ॥ ६५ ॥ कण्ठे. मदः कोद्रवजो हृदि ताम्बूलजो मदः । लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥ ६६ ॥ १. 'विबुध्यते' इति पाठः mamminirement-meme-me- कलिविडम्बनम् । १३९ यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मादः प्रवर्तताम् । कुलेऽप्यवतरत्येप कुष्ठापस्मारवत्कथम् ॥ ६७ ।। अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जाति खां वराटाः पञ्चषाः करे ॥ ६८ ॥ बिभर्तु भृत्यान्धनिको दत्तां वा देयमर्थिपु । यावद्याचकसाधर्म्य तावल्लोको न मृष्यति ॥ ६९ ॥ धनभारो हि लोकस्य पिशुनैरेव धार्यते । कथं ते तं लघूकतुं यतन्तेऽपरथा खतः ॥ ७० ॥ श्रमानुरूपं पिशुने किमुपक्रियते नृपैः । द्विगुणं त्रिगुणं चैवं कृतान्तो लालयिष्यति ॥ ७१ ॥ गोकर्णे भद्रकणे च जपो दुष्कर्मनाशनः । राजकणे जपः सद्यः सर्वकर्मविनाशनः ॥ ७२ ॥ न स्वार्थ किंचिदिच्छन्ति न प्रेर्यन्ते च केनचित् । परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवत् ॥ ७३ ।। कालान्तरे बनाय गृध्रो गेहोपरि स्थितः। खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनाम् ।। ७४ ।। शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम् । जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम् ॥ ७५ ॥ किं वक्ष्यतीति धनिको यावदुद्विजते मनः । किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततः ॥ ७६ ॥ सर्वमातिथ्यशास्त्रार्थ साक्षात्कुर्वन्ति लोभिनः। भिक्षाकवलमेकैकं ये हि पश्यन्ति मेरुवत् ॥ ७७ ॥ १. 'वापि' इति पाठः २ 'धनिकात्' इति पाठः २१० काव्यमाला। धनपालः पिशाचो हि दत्ते खामिन्युपस्थिते । धनलुब्धः पिशाचस्तु न कसैचन दित्सति ॥ ७८ ॥ दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनरर्थिनः । कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियत् ॥ ७९ ॥ खस्मिन्नसति नार्थस्य रक्षकः संभवेदिति । निश्चित्यैव खयमपि भुते लुब्धः कथंचन ॥ ८० ॥ प्रेस्थास्यमानः प्रविशेषतिष्ठेत्तु दिने दिने । विचित्रानुल्लिखेद्विघ्नांस्तिष्ठामुरतिथिश्विरम् ॥ ८१ ॥ प्रदीयते विदुष्येकं कवौ दश नटे शतम् । सहसं दाम्भिके लोके श्रोत्रिये तु न किंचन ॥ ८२ ।। घटकं सम्यगाराध्य वैराग्यं परमं वहेत् । यावदर्थाः प्रसिद्धयन्ति यावच्चापलमावृतम् ॥ ८३ ॥ एकतः सर्वशास्त्राणि तुलसीकाष्ठमेकतः । वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वरा ॥ ८ ॥ विस्मृतं वाहटेनेदं तुलस्याः पठता गुणान् । विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ ८५ ॥ कौपीनं भसितालेपो दर्भा रुद्राक्षमालिका । मौनमेकासनं चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥ वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ।। ८७ ।। मन्त्रभंश संप्रदायः प्रयोगश्युतसंस्कृतौ । देशधर्मस्त्वनाचारे पृच्छता सिद्धमुत्तरम् ॥ ८८॥ १. 'उपागते' इति पाठः. २. 'प्रस्थाप्यमानः' इति पाठः, बाग्भटः अध्याहृदयकर्ता an ३, बाटो कलिविडम्बनम् । १४१ यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि । तथा धर्म चरेत्सर्वं न वृथा धर्ममाचरेत् ।। ८९ ॥ सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्व ब्रह्मेति वादश्च सद्यः प्रत्ययहेतवः ॥ ९० ।। आ मध्याहू नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्वेत्येतद्दम्भस्य जीवितम् ।। ९१ ॥ तावदी नित्यकर्म यावत्स्यादृष्टुमेलनम् । तावत्संक्षिष्यते सर्व यावदृष्टा न विद्यते ॥ ९२ ॥ आनन्दबाप्परोमाञ्चौ यस्य खेच्छावशंवदौ । किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ॥ ९३ ।। दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तराम् । दुर्जनानामतो न्याय्यं दूरादेव विसर्जनम् ।। ९४ ॥ अदानमीषद्दानं च किंचित्कोपाय दुर्धियाम् । संपूर्णदानं प्रकृतिविरामो वैरकारणम् ।। ९५ ॥ ज्यायानसंस्तवो दुष्टैरीायै संस्तवः किल । अपत्यसंबन्धविधिस्त्वनायैव केवलम् ॥ ९६ ॥ ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता । मिलन्ति यदि चत्वारि तदिशेऽपि नमो नमः ॥ ९७ ॥ परच्छिद्रेषु हृदयं परवार्तासु च श्रवः । परमर्मणिं वाचं च खलानामसृजद्विधिः ॥ ९८ ॥ विषेण पुच्छलमेन वृश्चिकः प्राणिनामिव । कलिना दशमांशेन सर्वः कालोऽपि दारुणः ॥ ९९ ॥ १. 'जपस्नग्धस्ते च' इति पाठः. २. 'पुनः' इति पाठः.३.'मर्मसु' इति पाठः.
१४२ काव्यमाला । यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् । यत्र खप्रतिभा मानं तस्मै श्रीकलये नमः ।। १०० ॥ काममस्तु जगत्सर्वं कालस्यास्य वशंवदम् । कालकालप्रपन्नानां कालः किं नः करिष्यति ॥ १०१ ॥ कविना नीलकण्ठेन कलेरेतद्विडम्बनम् । रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥ इति श्रीनीलकण्ठदीक्षितविरचितं कलिविडम्बनम् । श्रीसोमप्रभाचार्यविरचिता शृङ्गारवैराग्यतरङ्गिणी। सुखबोधिकया वृत्त्या समेता। श्रीपार्श्वनाथं प्रणिपत्य भक्त्या पुरि स्थितं श्रीफलवर्धिकायाम् । शृङ्गारवैराग्यतरङ्गिणी या व्याख्यानतो व्याक्रियते मया सा॥ श्रीसोमप्रभाचार्या वैराग्यवासनया शृङ्गार दूपयन्तः शृङ्गारवैराग्यतरङ्गि- णीनामानं अन्यं कर्तुकामाः स्त्रीरूपं निन्धमिति प्रतिपादयन्त ऊचु:- धर्मारामदवामिधूमलहरीलावण्यलीलाजुष- स्तन्वङ्या यमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे । व्यालान्दर्शनतोपि मुक्तिनगरप्रस्थानविनक्षमा- न्मत्वा दूरममून्विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥ १॥ अहो इत्याश्चर्ये । तन्वङ्गयाः । तनुः सूक्ष्ममझं यस्याः सा तन्वङ्गी । तस्याः स्त्रिया यमितान्बद्धान्वालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्ठा १. कालकालः शिवः. २. श्वेताम्बरजनोऽयं सोमप्रभाचार्यः. नास्य देश- कालौ ज्ञायेते. ३. "विलोकितुमहो' इति मूलपुस्तकपाठः. ४. 'विमुक्तिनगर इति मूलपुस्तकपाठः. MAasana... 1- शृङ्गारवैराग्यतरङ्गिणी। १४३ करोपि । कथंभूतान्वालान् । धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुषः । धर्म एवारामो बनं तत्र यो दवाग्निर्दावानलस्तस्य या धूमलहरी धूमश्रेणितस्या यल्लावण्यं श्यामत्वं तस्य लीलां जुषन्ते सेवन्त इति लीलाजुषस्तान् । जुषी प्रीतिसेवनयोर्धातुः । दवाग्निधूमपश्लिसदृशानित्यर्थः । अथ वैराग्यरसेन शृङ्गारं दूपयति-रे मनुष्य, यदि त्वमात्मनः स्वस्य कुशलं कल्याणं वाञ्छसि तदा- मून्वालान्व्यालान्सन्मित्वा । कृष्णवर्णत्वाल्लम्बायमानत्वाच्च सर्पसादृश्य वालानां युक्तमेव । दूरं विमुञ्च । दूरतस्त्यजेत्यर्थः । सर्प दृष्ट्वा यथा दूरमेव पलायते तथा त्वमपि दूरं पलायस्वेत्यर्थः । किंभूतान्वालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमान् । मुक्तिरेव नगरं तत्र यत्प्रस्थानं गमनं तत्र विघ्नाय विघ्नं कर्तुं क्षमाः समर्थान्तान् । सर्पस्य दर्शनादेव गमने विघ्नस- मुत्पत्तिरिति शकुनशास्त्रे प्रसिद्धम् । तन्वङ्गया यमितान्वालान्व्यालाक्षा- नीहि । तथाहि । श्लेषार्थोऽयम्-यकारं इताः प्राप्ताः संयुक्ता वा वाला व्याला भवन्तीति युक्तमेव वालानां व्यालत्वम् । इदं शार्दूलविक्रीडितं नाम च्छन्दः । इति प्रथमपद्यार्थसंकोचः ॥ ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा- भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः । क्लेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे- नों चेत्कष्टपरम्परापरिचितः शोच्या दशामेष्यसि ॥२॥ हे सखे, सरोरुहशा सरोरुहाणि कमलानीव दृशो नेत्राणि यासां ता: सरोरुहशस्तासां स्त्रीणां ये लसिता देदीप्यमानाः केशास्तव चेतश्चमत्कारि- णश्चित्तमसत्तिकारिणः । वर्तन्त इति शेषः । किंभूताः केशाः । चारित्रचन्द्र- प्रभाभ्रंशाम्भोदसहोदराः । चारित्रमेव चन्द्रप्रभा ज्योत्स्ना तस्या भ्रंशे नाशने अम्भोदो मेघस्तस्य सहोदराः सदृक्षाः । केशानां श्यामत्वादम्भोदसदृशत्वम् । तान्केशान्मूर्तिमतश्चक्षुरिन्द्रियगम्यान्क्लेशान् । नियतं निश्चयेनावगम्य बुद्धा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः । नो चेदिति यदि न त्यजसि तदा त्वं शोच्या शोचनीयां दशामवस्थामेष्यसि प्राप्स्यसि । किंभूतस्त्वम् । कष्टपरम्परापरि- MAINMENT F- - १. 'अवगत्य नियतं दूरे च' इति मूलपुस्तकपाठः, १४४ काव्यमाला। चितः कष्टानां या परम्परा श्रेणिस्तया परिचितो युक्तः । स्त्रीणां केशान्क्लेशा- ज्ञात्वा त्यजेत्यर्थः । केशाः क्लेशाः कथं स्युरिति प्रश्ने । लसिताः लेन लका- रेण सिता बद्धाः केशाः केशा भवन्तीत्यर्थः ॥ ये शुद्धबोधशशिखण्डनराहुचण्डा- श्चित्तं हरन्ति तव वक्रकचाः कृशाझ्याः । ते निश्चितं सुकृतमय॑विवेकदेह- निर्दारणे ननु नवक्रकचाः स्फुरन्ति ॥ ३ ॥ हे पुमन् , कृशाङ्गन्याः कृशं सूक्ष्ममङ्गं यस्याः सा तस्या ये क्रिकचा वक्र- केशास्तव चित्तं हरन्ति । तव चेतसि चमत्कारमुत्पादयन्तीत्यर्थः । कथंभूता वक्रकचाः । शुद्धबोधशशिग्वण्डनराहुचण्डाः । शुद्धबोधो निर्मलज्ञानं स एवं शशी तस्य खण्डनेऽर्थात्कवलने राहुरिव चण्डाः ऋराः शुद्धबोधशशिखण्ड- नराहुचण्डाः । फलितार्थस्तु राहुर्यथा चन्द्र ग्रासीकरोनि तथा एते वककचा ज्ञाननाशका इत्यर्थः । ननु निश्चितं ते चक्रकचाः सुकृतमर्त्य विवेकदेहनिर्दारणे। सुकृतमेव मर्त्यस्तस्य यो विवेक एव देहस्तस्य निर्दारणे नवक्रकचाः । नवाश्च ते क्रकचाच नवक्रकचाः । नूतनकरपाणि । 'कचं पुनपुंसकम् । करपलंच' इति नामकोपः । स्फुरन्ति स्फुरदूपा वर्तन्ते इत्यर्थः । अत्र क्रकचाः नवक्र- कचा इति भिसश्लेष एव चमत्कारः । वसन्ततिलकाछन्दः॥ अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् । वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् ॥ ४ ॥ अस्था नायिकायाः कुन्तलभारं बदकेशसमूहम् । 'कुन्तला: संयता ये स्युः' इति कोषः । विलोक्य लोकः ममोदं हर्ष कुरुते । कथंभूतं कुन्तल- भारम् । अलंकृतं पुष्पादिना संस्कृतम् । अमुं कुन्तलभारं कुन्तभारम् । 'कुन्तः प्रासोऽय मुद्रः' इति नामकोषः । किं न पश्यसि । कथंभूतं कुन्त- भारम् । वैराग्यमेव वीरः सुभटम्तस्य छिदुरबछेदनशीलम्तम् । पुनः कथंभूतं कुन्तभारम् । दुरन्तम् । दुष्टमन्त प्रान्तं यस्य तम् । अन्ते तीक्ष्णस्वादुःसह- मित्यर्थः । कुन्तलभारः कुन्तभारः कथं स्यात् । न विद्यते लः सकारो यस्य शृङ्गारवैराग्यतरङ्गिणी। १४५ सोऽलस्तं अलं कृतं विहितम् । लकाररहितः कुन्तलभारः कुन्तभारः स्थादे- येत्यर्थः । उपेन्द्रवज्रानाम च्छन्दः ॥ कस्तूरिकातिलकितं तुलिताष्टमीन्दु चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् । वामध्रुवां यदलिकं तदहो अलीक- मित्याख्ययैव परया प्रवदन्ति रूपम् ॥ ५॥ वामझुवां मीणां यदलिकं ललाटमेकमद्वितीयं सौख्यनिमित्तं सुखकारणं चित्ते विचिन्तयसि । कथंभूतमलिकम् । कस्तूरिकातिलकितम् । तिलकं जातं यस्ख सत्तिलकितम् । कस्तूरिकया तिलकितम् । पुनः कथंभूतमलिकम् । तुलिवामीन्दु । तुलितोऽष्टम्या इन्दुर्येन तत् । अष्टमीचन्द्रसदृशमित्यर्थः । अहो इत्याश्चर्ये । तदलिकं परया अन्यया आख्यया नाना अलीकमिति रुप वदन्ति. बुधाः । 'गोधिललाटालिके चालीकं श्रवणमस्त्रियाम्' इति नाम- कोषः । अलिकं अलीकमित्युभयं नाम ललाटस्य । अलीकं मृषावचः । अलिक अलीकं मिथ्या जानीहीत्यर्थः । न भूरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् । भूः किं त्वसौ साधुतरा प्रसूते निवन्धनं मोहविषद्रुमस्य ॥६॥ पकजलोचनायाः कमलाक्ष्या इयं भ्रून चकास्ति न शोभते । कथंभूता भूः । ऋकाररसैकपात्रं शृङ्गाररसस्य एकमद्वितीयं पात्रं स्थानम् । अजहल्लि- अस्वासपुंसकत्वम् । कि खसौ भ्रूः साधुतरा अतिशयेन साध्वी साधुतरा । तरतमेति धूवनावः । श्रेष्ठतरा भूः भूमिः सा मोहविषगुमस्य मोह एवं विष- द्रुमखस्य नियन्धनं आविर्भावं प्रसूते उत्पादयति । भ्रूभूः कथमिति प्रभे सा प्रसिद्धा भ्रूः । धुतरा । धुतो गतो रो रेफो यस्या ईदृशी भूर्भूर्भवतीत्यर्थः । इन्द्रवज्रामाम च्छन्दः॥ नबकुवलयदामश्यामलान्दृष्टिपाता- स्कृतपरमदनाशान्विक्षिपत्यायताक्षी। १. 'बदति खकपम्' इति मूलपुस्तकपाठः. २. 'निर्बन्धन' इति मूलपुस्तक- पाठः, ३. "मयि कुवलय' इति मूलपुस्तकपाठः. ARIA IMVAADARkmaNPO १० पंच० १४६ काव्यमाला। इति वहसि मुदं किं मोहराजप्रयुक्ता- प्रशमभटवधार्थ विद्यमून्दृष्टिपातान् ॥ ७ ॥ आयताक्षी । आयते विस्तीर्णे अक्षिणी यस्याः सा एवंविधा मामुद्दिश्य दृष्टिपातान्कटाक्षान्विक्षिपति प्रयुते । किंविशिष्टान्दृष्टिपातान् । नवकुवलयदा- मश्यामलान् । नवानि यानि कुवलयानि तेषां दाम माला तद्वच्छयामला: कृष्णास्ताब्दयामलान् । पुनः किंविशिष्टान्दृष्टिपातान् । कृतपरमदनाशान्कृतः परमदस्य नाशो यैस्तान् । इति मुदं हर्ष किं वहसि प्रामोषि । अमून्दष्टिपा- तान्प्रशमभटवधार्थ प्रशमः शान्तिभावः स एव भटस्तस्य वधार्थम् । मोहरा- जप्रयुक्तान् । मोह एव राजा मोहराजः । 'राजाहःसखिभ्यष्टच्' समासान्तः । तेन प्रयुक्तान् ऋष्टिपातान् तरवारिपातान् । 'तरवारिरपि द्वौ च ऋष्टिरिष्टी अखण्डको' इति नामकोपः । विद्धि जानीहि । दृष्टिपातान् ऋष्टिपातान् जानीहि । तत्कथम् । कृतपरमदनाशान् । कृतः परमः सर्वात्मना दस्य दका- रस्थ नाशो यत्र ते कृतपरमदनाशास्तान् । दृष्टिपातशब्दे दकारनाशे ऋष्टिपात इति स्थादेव । मालिनीनाम छन्दः ॥ तस्याः कोपपदं यदाननमहोरात्रं सरनात्मनः संतापं वितनोषि काननमहो ज्ञात्वा सखे तत्त्यजेः । एतसिन्वसता मनोभवमहासण दष्टः पुमा- कार्याकार्यविवेकशून्यहृदयः कस्को न संजायते ॥ ८॥ हे सखे, तस्याः स्त्रिया यत् आननं मुखं अहोरात्रं सरन् स्मृतिविषयं कुर्वन् त्वं आत्मनः स्वस्य संतापं वितनोषि विस्तारयसि । कथंभूतं आननम् । कोपपदं कोपस्य पदं स्थानं तत् आननं अहो इति खेदे काननं वनं ज्ञावा एवं सजेः । एतस्मिन्कानने वसता स्थिति कुर्वता मनोमवमहासपेण मनो- भवः कामः स एव महासर्पस्तेन पुमान् दष्टः सन् कस्कः । 'सर्वस्य में इति द्वित्वम् । कस्कादित्वात्सत्वम् । कार्याकार्यविवेकशून्यहदयः । कार्य चाकार्य १. 'येनास्मिन्' इति मूलपुस्तकपाठः, २. 'कः कोऽत्र नो जायते इति मूलपुस्तकपाठः , - NRN NAprmannounu-m शृङ्गारवेराम्यतरङ्गिणी। १४७ । च कार्याकार्ये तयोविवेकस्तेन शून्यं हृदयं यस्य स तथा न संजायते। सर्प- विषेण मूञ्छितः पुमान् शून्यहृदयो भवति । अयं तु महासर्पण दृष्टस्तस्य कि वाच्यम् । आननं काननं कथमिति प्रमे । आननं कोपपदं कः ककार उपपर्द यस्य तदा काननं स्यादेवेत्यर्थः ॥ साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि । इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे ॥ ९ ॥ हे मुग्धबुद्धे, मुग्धा बुद्धिर्यस्य तत्संबोधनम् । तरुण्या मुखं आलोक्य किं मुदं हर्ष आदधासि धारयसि । कथंभूतं मुखम् । साकारम् । आकारेण सह वर्तमानं साकारम् । सुन्दरमित्यर्थः । हि निश्चितम् इदं मुखं विचक्षणैर्विद्वमिः चिन्तनमनादकस्य चित्तभ्रम एव नाटकं तस्य आमुखमापारम्भ आचचक्षे, इत्यत्र कर्मणि लिट् । मुखम् । आमुखं विस्थम् साकार आकारेण सह पर्व मानं मुखं भामुखं स्थादित्यर्थः ॥ कामज्वरातुरमते तव सर्वदास्यं वाम वां यदि कथंचिदवासुमिच्छा। यत्नं विनाप्यखिलजन्मपरम्परासु तज्जातमेव भवतो ननु सर्वदास्यम् ॥ १० ॥ हे कामज्वरातुरमते । कामज्वरेण आतुरा मतिर्यस्य तत्संबोधनं हे काम- ज्वरातुरमते । सर्वदा सर्वस्मिन्काले यदि तव वामध्रुवां स्त्रीणां आस्यं मुखं कथंचित्केनापि प्रकारेण भवातुं प्रातुमिच्छा वर्तते तदा ननु निश्चितं यवं विनापि अखिलजन्मपरम्परासु । जन्मनः परम्पराः श्रेणयः । अखिला था जन्यपरम्परास्तासु । 'भवतस्तव' सर्वदास्यम् । दासस्य भावो दास्यं सर्वेषां भृत्यत्वं जातमेव । स्त्रीमुखदत्तचित्तस्य तव सर्वजनानां दासत्वं जातमेव । 'अत्र पये उभयत्र सर्वदास्यमिति पदस्य भिधार्थत्वमेव चित्रम् । वसन्तति- तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यक्षसा मुक्त्वा मुक्तिपथं हहा प्रविशति प्रान्त्या सदुर्ग वनम् । १. 'विघ्नपरम्परासु' इति मूलपुस्तकपाठः, १४८ काव्यमाला। तच्चात्यन्तमचारुबद्धवसतिर्येनात्र रागादिभि- औरैर्धर्मधनापहारकरणात्कष्टं न किं प्राप्यते ॥ ११ ॥ यः पुमान् तस्याः स्त्रिया वदनं मुखं साधुरदं साधवः समीचीना रदा यस्मिन् तत् तथा विलोक्य अञ्जसा वेगेन संश्रयति आश्रयति स पुमान् हहा इति खेदे । मुक्तिपथं मुक्तिमार्ग मुक्त्वा भ्रान्त्या भ्रमेण दुर्ग दुःखेन गमनाह वनं प्रविशति । तद्वनं अस्यन्तं अन्तमतिक्रान्तम् । अप्रमाणमित्यर्थः । कथं- भूतः सः। अचारबद्धवसतिः । न चारुरचारः बन्दा वसतियेन सः। येन वनं प्रविशता पुरुषेण अत्र वने कष्टं किं न प्राप्यते । कस्मात् । रागादिभि- औरैधर्मधनापहारकरणात् । धर्म एवं धनं धर्मधनं तस्यापहारः हरणं तस्य करणं तस्मात् । चौरा हि धनमपहृत्य वनं प्रविशन्ति तदा कष्टं स्पष्टमेव । तन वदनं कथं वनमिति प्रश्ने । यः साधुः अदं न विद्यते दकारो यसिन् तत् अदम् । दकाररहितं वदनं वनं स्यादेव ॥ यियाससि भवोदधेर्यदि तटं तदेणीशा- महीनमधरं धरं परिहरेः परं दूरतः । इहास्फलनतोऽन्यथा विशदवासनानौस्तव ब्रजिष्यति विशीर्णतां न भविता ततो वाञ्छितम् ॥१२॥ हे पुमन् , यदि त्वं भवोदधेः संसारसमुद्रस्य तटं पारं यियाससि यातु- मिच्छसि । यातेः सन्नन्तान्मध्यमपुरुषैकवचनरूपम् । तदा एणीदशा एणी हरिणी तस्या दृश इव शो यासा तास्तासां अधरं धरं पर्वतं दूरतो दूरात्परं स्वं परिहरेः । किंभूतमधरम् । अहीनं परिपूर्ण अमृतादिना । अन्यथा यदि न परिहरसि तर्हि इह पर्वते आस्फलनतः संघटनात् तव विशदवासना निर्म- शवासना सैय नौः विशीर्णतां भजतां अजिष्यति । ततस्वद्वान्छित न भविता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनामावि भमायां वान्छितं न भवेत्तथेत्यर्थः । अधर धर कथमिति प्रभे असरम् । भहीन एन अकारेण हीन Aur RIMIMR.. १. 'यत्रास्सन्स' इति मूलपुस्तकपाठः. २. 'प्रापितः' इति मूलपुस्तकपाठः, ३. 'इह स्खलनतो' इति मूलपुस्तकपाट.
शृङ्गारवैराग्यतरङ्गिणी। १४९ - अधरं धरं स्थादेव । 'सानुमान्पर्वतो धरः' । 'धरः शैलस्तथोदयः' इति कोषः । पृथ्वीनाम च्छन्दः ॥ न भातीदं भ्रातः स्फुरदरुणरत्नौघकिरण- प्रतानं तन्वङ्ग्यास्तरलतरलं कुण्डलयुगम् । दमं दुग्धं पुंसामिह विरहसंयोगदशयो- चलच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् ॥ १३ ॥ हे प्रातः, तन्वयाः कृशाङ्गया इदं कुण्डलयुगं कुण्डलस्य कर्णाभरणस्य युग न भाति न शोभते । कथंभूतं कुण्डलयुगम् । स्फुरदरुणरलीधकिरणप्रतानं स्फुरम्तो देदीप्यमाना ये अरुणरतीधा रक्तरसमूहास्तेषां ये किरणास्तेषां प्रतानं समूहो यसितत् । पुनः कथंभूतं कुण्डलयुगम् । तरलतरलम् । तरलाञ्चला- त्तरलं चञ्चलम् । चञ्चलतरमित्यर्थः। कथंभूतं कुण्डलयुगलम् । विरहसंयोगद- शयोः । स्त्रीपुंसयोः संयोगाभावाद्विरहोत्पत्तिः । विरहश्च संयोगश्च विरहसंयोगौ तयोर्दशे अवस्थे तयोः । शोकानङ्गज्वलनयुक् । शोकश्चानङ्गज्वलनश्च शोकानङ्ग- ज्वलनौ ताभ्यां युक्। विरहे शोकाविर्भावः, संयोगे कामानेराविर्भाव इत्यर्थः । कुण्डलयुगलं किं कुर्वत् । इह संसारे पुंसां पुरुषाणां दममुपशमं दुग्धं पयः । ज्वलत्कुण्डलयुगं कुण्डयुगलं कथं तत्रोच्यते । तरलतरलश्चञ्चलतरो लो लका- रो यस्मिन् । कुण्डशब्दाल्लकारे कुण्डलयुगस्य चञ्चलत्वात् युगशब्दात्परतः स्थिते सति कुण्डयुगलं स्थादित्यर्थः । शिखरिणीनाम छन्दः ॥ ताडकं सस्पृहं तस्याः पश्यन्मूढः परे भवे.। नरो नरकपालेभ्यस्ताई कं न सहिष्यते ॥१४॥ मूढो नरस्तस्याः कियाः सस्पृहं साभिलाषं यथा स्थासथा ताई. कर्णमू- खणं पश्यन् परे भवे आगामिभवे नरकपाळेभ्यः 'मरकान् पालयन्ति ते नरक- 'पालाखेभ्यः परमाधार्मिकेभ्यः कं वार्ड प्राडनं ताड़ आघातस्तं कं म सहिष्यते, अपि तु सर्व सहिप्यते । अनुष्टुप् च्छदः ॥ Num १. 'दग्धु' इति भूलपुस्तकपाठ एव समीचीवर टीकाकारस्वशुद्धमेव व्या. ख्यातवान. २. संभोग' इति भूलपुस्तकमा. ३. युगदं' इति मूलधाकपा १५० काव्यमाला। -- सारं गलं यमरविन्दविलोचनाना- मालोक्य चेतसि मुदं कलयन्ति मूढाः । हा निश्चितं रचितमुक्तिपुरप्रवेश- व्यासेधमर्गलममुं न विचारयन्ति ॥ १५ ॥ मूढा मूर्खा नरा अरविन्दविलोचनानां कमलनयनानां स्त्रीणां यं सारं श्रेष्ठं गलं निगरणं विलोक्य । चेतसि मुदं हर्ष कलयन्ति प्राप्नुवन्ति । हा इति खेदे । निश्चितं नियमेन अमुंगलं अर्गलं न विचारयन्ति । कथंभूतं अर्गलम् । रचितमुक्तिपुरप्रवेशव्यासेधं रचितो विहितो मुक्तिनगरप्रवेशस्य व्यासेधो निषेधो येन स तं रचितमुक्तिपुरप्रवेशव्यासेधम् । गलं अर्गलं स्वित्थम् । सारं अरा अशब्देन सह वर्तते यः स सारस्तं सारम् । अहितो गलः अर्गलः स्यादित्यर्थः॥ अलं प्राप्य स्पर्श कुचकलशयोः पङ्कजहां परां प्रीति प्रातः कलयसि सुधामम इव किम् । अवस्कन्दं धर्मक्षितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् ॥ १६ ॥ पङ्कजशां कमलनयनानां स्त्रीणां कुचकलशयोः स्तनयोः अलं अत्यर्थ स्पर्श प्राप्य हे भ्रातः, किं परामुस्कृष्टां प्रीति कलयसि प्रामोषि । क इव । सुधामन्न इव अमृते कृतमजन इव । इमं स्पर्श कलुषवरटेन कलुपं पापं तदेव वरटो भिल्लस्वेन प्रयुक्त मेरितं स्पर्श हेरिकं स्वं जानीयाः । कथंभूतेन कलुषवरटेन । धर्मक्षितिपकटके धर्म एष क्षितिपो राजा तस्य कटके सैन्ये अवस्कन्द प्रारणं दातुमनसा । प्रहरणं कर्तुमनसेत्यर्थः । स्पर्श स्पर्श कथ- मिति । भई रलयोकत्वस्मरणात् अरं नास्ति रो रेफो यत्र तं परम् । रेफ- रहितस्पर्श स्पशं स्थादित्यर्थः ॥ witlewwwmar Hauntweaternima... १. 'यदरविन्द' इति मूलपुखकपाठः, २. 'तनिश्चितं' इति मूलपुस्तक- पाठ... ३. 'मरे' इति मलपुस्तकपाठ.. ४. 'घरटेन' इति मूलपुस्तकपाठः.
शृङ्गारवैराग्यतरङ्गिणी। १५१ 'पीनोन्नतं स्तनतटं मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् । मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः ॥ १७ ॥ यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वन्द्वं पीनोगतं पीनं च सदुमतं च पीनोगतम्, पुनः नरहितं नरेभ्यो हितम् , पुनः अपूर्वम् । प्रतिक्षणं चमस्कारहेतुत्वात् । त्वं आलोकसे पश्यसि, तत्स्तनतटं विवेकभानोः विवेकसूर्यस्य अन्ततटं वं विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभू- तस्य विवेकभानोः । मोहान्धकारनिकरक्षयकारणस्य मोह एवान्धकारस्तस्य यो निकरः समूहस्तस्य क्षयकारणं तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतट- मिति विशेषणद्वयन अस्तवट साधयति-नरहितं नेन नकारेण रहितम्, पुनः अपूर्व अः अकारः पूर्वो यस्य तत् अपूर्व एतादृशं स्तनतटं अस्ततट स्यादेवेत्यर्थः। कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा म भूः । किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां हस्तोऽयं सुकृतस्य तस्य सहसादायीति संचिन्तयेः ॥ १८ ॥ मया मृगाक्ष्याः खियाः कुचद्वन्द्वे स्तनयुग्मे हस्तो न्यस्तः करः स्थापितः । कथंभूते कुचबन्छे । कंदपंद्विपकुम्भधारुणि कंदर्प एवं द्विपस्तस्य कुम्भो गण्ड- स्थलं तद्वचार मनोज्ञं तमिन्कंदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमोदमदि- १. 'पीनोमतं नरहितं यदपूर्वमेतदालोकसे स्तनतट मृगलोचनायाः' इति मूल- पुस्तकपाठः. २. मूलपुस्तकेऽस्मात्पादनन्तरं 'एतस्या युवतेः पयोधरयुगं व- लगन्महात्मन्निदं चके योधयुगं विरचिरपर विश्वापकारोद्यतः । कुर्वधर्मगुणेष्व- योगमनतिक्रामविजां स्तब्धतां यह्रादपि कल्पयत्युपशमप्राणापनोदं नृणाम् ॥' अयं श्लोकोऽधिकोऽस्ति. अत्र अपरमन्यत्पयोधरयुगम्, अन्यत्र पकार-रेफर- हितं पयोधरयुगं योधयुगं भवति. वर्मगुणेति धनुर्जीवाबाणेषु योगं संवन्ध न करोतीत्यर्थः . Pandey १५२ काव्यमाला। रामाद्यन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया माद्यन्मनो यस्य स एता- शस्त्वं मा स भूः । 'माङि लुङ्' इति लुङ् । 'न माङ्योगे' इत्यडागमा- भावः । किं तु बहुविधां तपोनुष्ठानादिरूपां कष्टक्रियां कष्टसाध्या क्रिया कष्ट- क्रिया तां कष्टक्रियाम् अभ्यस्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो मर्यादीकृत्य यत्सुकृतमर्जितं तस्य सुकृतस्य स्वया अयं हम्तो अदायि दत्तः । यथा कस्य आजिगमिषोः हस्तप्रदानं संज्ञया निषेधयति तथा हस्तदानेन सु. कृतं निषिद्धं इति त्वं संचिन्तयेः विचारयेरित्यर्थः । अत्र पद्ये हम्तो न्यस्तः सुकृतस्य हस्तोऽदायीति चित्रकृत् ॥ कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युवत्या भुजगं गराजितम् । एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् ॥ १९ ॥ कण्ठोपकण्ठे कण्ठस्य गलस्य समीपे कण्ठोपकण्ठे लुलितं वलितं युव- त्याः स्त्रिया भुजं बाहुं भुजगं सर्प त्वं विभावयेर्जानीयाः । कथंभूतं भुज- गम् । गराजितं गरेण विषेण अजितो गराजितम्तम् । एतस्य भुजगस्य संस्प- विशात् स्पर्शमात्रेणापि अशेपं समस्तं चैतन्यं चेतनाया भावः क्षणात् संक्षयं नाशं उपैति प्रामोति । यथा भुजगस्पर्शाथैतन्यं याति तथा युक्त्या मुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कथं स्यादिति प्रमे भुजं गराजितं गेन गकारेण राजितं भुजं भुजगं स्यादित्यर्थः । इन्द्रवंशा नाम च्छन्दः ॥ कण्ठावसक्ते कुपिते नवाही वरं बहिःप्राणहरे प्रमोदः । विध्वस्तधर्मान्तरजीविते नुः स्त्रैणे न बाहौ विदुषां स युक्तः ॥२०॥ नुः पुरुषस्य नवाही नवश्वासावहिश्न नवाहिस्तस्मिनवीनस कण्ठावसक्ते कण्ठस्थापिते वरं श्रेष्ठम् । कथंभूते नवाही । कुपिते क्रुद्ध । पुनः कथंभूते नवाहाँ । बहि-प्राणहरे । बहिःप्राणान्हरतीति बहिःप्राणहरस्तसिन्यायमाणं- नाशके । मेणे चीणामयं बैणस्तस्मिन् । 'स्त्रीपुंसाभ्यां नम्समौ' इति नम्प्रत्यये आदिवृद्धौ णत्वे बैणशब्दसिद्धिः । बाहौ भुजे कण्ठावसक्ते सति यः प्रमोदो वर्षः स विदुषां पण्डितानां युक्तो न । कथंभूते बाहौ । विध्वस्तधर्मान्तरजी- १. 'तु' इति मूलपुस्तकपाठः amommerum शृङ्गारवैराग्यतरङ्गिणी। १५३ . वित विध्वम्तं नाशितं धर्म एव अन्तरजीवितं येन तसिन् । अन्तरमाणना- शक इत्यर्थः । अहिस्तु कण्ठावसक्तः सन् बहि-प्राणाशाशयति, स्त्रीणां याहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते । अतः सादप्यधिकतरदुःखदं स्वीकृतालिङ्गानमित्यर्थः । अत्र नवाहावित्युभयत्र चित्रकृत् । वबयोरभेदस्तु आलंकारिकरिष्ट एव ॥ . कोऽयं विवेकस्तव यन्नतभ्रुवां दोषावगूढः प्रमदं विगाहसे । यतः स्मरातकपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् ॥ २१ ॥ हे साधो, अयं तव को विवेकः यत् नतध्रुवां नते नम्रीभूते ध्रुवौ यास- ता नसभ्रवस्तासां स्त्रीणां दोषा बाहुनावगूढ आलिङ्गितः सन् त्वं प्रमदं प्रकृां टमदं विगाहसे प्रामोपीत्यर्थः । यतो यसात् सरातपरीतचेतसां सरः कामः स एव आतङ्को रोगसेन परीतं व्यासं चेतो येषां तेषां पुरुषाणां सुन्द- रासुन्दरयोः समीचीनासमीचीनयोः किं विवेचनम् । अपसारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव । पझे दोषैरवगूढो दोषावगूढः । विवेकदोपयुक्त इत्यर्थः॥ हहो विलोक्य परमङ्गदमङ्गनाना- मानन्दमुद्वहसि किं मदनान्धबुद्धे । सत्यं विवेकनिधनैकनिमित्तमेते- न्मेधाविनो हि परमं गदमुद्णन्ति ।। २२ ॥ हहो इति संबोधने । हे मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धि- यस्य तस्य संयोधने । अङ्गन्नानां प्रधानमङ्गं यासां, तासामङ्गनानां परमुस्कृष्टं अगदं केयूरं विलोक्य दृष्ट्वा आनन्दं किमुद्रहसि प्रामोषि । मेधाविनः पण्डिता एतत् भगदं परममुत्कृष्टं गदं रोगमुद्गुणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूतं गदम् । विवेकनिधनैकनिमित्तं विवेको ज्ञानं तस्य निधनस्य नाशनस्य एकम- द्वितीयं निमितं कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पझे उभयत्र परमादमिति पदं भिन्नार्थत्वाचित्रकृत् ॥ १. 'या' इति मूलपुस्तकपाठः, २. 'एन' इति मूलपुस्तकपाठः, १५४ काव्यमाला। अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिशः। ने बुध्यते सुकृतचमू जिगीषतः समुद्यतं बलभरमेनमेनसः ॥२३॥ अयं प्रत्यक्षगतो बालिशो मूर्यो जनो मृगीरशां स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजायेव बल्लिस्तस्यामिति अधिभुजवलि। विभक्त्य- थेऽव्ययीभावः । भुजलतायामित्यर्थः । विलोकते पश्यति । एनं वलयभर एनसः पापस्य समुचतं सावधानीभूतं बलभर सेनासमूह न बुध्यते । कथं- भूतस्य एनसः । सुकृतच सुकृतस्य शीलादेः चमूः सेना तां जिगीषतः जेतु- मिच्छतः । कथं वलयभरं बलभरमिति तोच्यते--कथंभूतं वलयभरम् । अयं न विद्यते यो यकारो यस्मिन् सः अयम्तमयम् । यकाररहितमित्यर्थः । रुचिरा नाम च्छन्दः ॥ ये दृक्पथे तव पतन्ति नितम्बिनीनां कान्ताः करा जडिमपल्लवनप्रवीणाः । नो वेत्सि तान्किमपवर्गपुरपयाण- प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥ तब दक्पथे रष्टिमार्गे नितम्बिनीनां जीणां कान्ता मनोज्ञाः करा हस्ताः । नितम्बिनीनामिति संबन्धे बहुत्वात् करा इति बहुस्यम् । पतन्ति अवलोक- नतां गच्छन्ति । कथंभूताः कराः । जडिमपल्लवनप्रवीणाः जमिनो जडताया यत्पल्लवनं प्रकटीकरणं तत्र प्रयीणाधतुराः । सान् करान् अवश्य निश्चयेन कर- कान् धनोपलान् किं नो वेसि न जानासि । कया। अपवर्गपुरप्रयाणप्रत्यूहकार- णतया अपवर्गो मोक्षः स एव पुरं नगरं तमिन् प्रयाणं गमनं तत्र यः प्रत्यूहो वित्रतत्र यस्कारणं निदानं तस्य भावस्तता तया अपवर्गपुरप्रयाणप्रत्यूहकार- गतया। गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विभकारणं प्रसिदमेव । उक्तंच वसन्तराजशाकुने-'क्षीणचन्द्रातिथि दु:सहानलं दूषितं भरणिकम्पनादिना । पूर्णवजलदसंबकाम्बरं वर्जयेशकुनदर्शने दिनम्' इति । भकालवृष्टिर्गमने निषिद्धा । करकपतनं स्ववश्यं पर्यमेव । करान् करकान् कथामिति प्रमोन्त- १. 'जिगीषतः सुकतच समयसं न जुध्यते' इति मूलपुस्तकपा. maone ...m" शृङ्गारवैराग्यतरङ्गिणी। १५५ म् । कथंभूताः कराः । कान्ताः ककारान्ता इत्यर्थः । तादृशाः कराः करका भवन्त्येवेत्यर्थः ।। नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेषि । विवेकपकेरुहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥ अस्या हरिणेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि हृदये हर्ष प्रमोदं एपि प्रामोपि । कथंभूतं हारम् । नीन्यातं नीवीं वसनग्रन्थि आतं प्राप्तं नीव्याप्तम् । नीवीपर्यन्तं लम्पायमानमित्यर्थः । बुधाः तं हारमेव विवेकपकेरुहकाननस्य विवेक एव पर्रुहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति । नीहारो यथा कमलकाननस्य दाहक- सथायं हारः । हदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथं नीहार- मिति प्रक्षे तत्रोध्यते-कथंभूतं हारम् । नीच्या नीशब्देन व्यासं नीव्यासं एतादर्श हारं नीहार स्थात् ॥ विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर । नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥२६॥ हे मदनज्वरातुर, मदनः कामः स एव ज्वरस्तेन आतुरस्तस्य संबोधनम् । सुन्दरं दर्शनाई अङ्गानोदरं अङ्गनाया उदरं विलोक्य त्वं किं मोहं करोषि । अन्त्यामश्रणे । भवान्तरे आगामिभये भाविनं भवनशीलं दरं भयं किं नो ईक्षसे न विचारयसि । कथंभूतं दरम् । दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तमिन् संभव उत्पत्तिर्यस्य तम् । भन्न पूर्व भानोदरमितिः समस्तं पदम् । परत्र अङ्ग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ॥ स्फूर्जन्मनोभवभुजंगमपाशनाभी नाभी कुरङ्गकदृशां इशि यस्य लग्ना। नामीमयं जगदशेषमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥ अस्य पुरुषस्य दशि नेत्रे । कुराका मृगनेत्राणां त्रीणां नाभी शरीरा- १. किमीक्षसे दुर्गनिपात' इति मूलपुस्तकपाठः, २. 'स' इति मूलपुस्तकपाट humanAmAPRIMegmenter १५६ काव्यमाला। वयवविशेषः लग्ना । कथंभूना नाभी । स्फूर्जन्मनोभवभुजंगमपाशनाभी स्कू- जन् देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पन्तस्य पाशार्थ नाभी । कामसर्पस्थानमित्यर्थः । असो पुमानशेष समस्तं जगत् नाभीमयं अभीमयं निर्भयं न ईक्षते। न निर्भयं जगदीक्षत इत्यर्थः । यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति । नाभी रशि लग्ना नाभीमयं जगत्पश्यतीति न चित्रम् । नाभीनाभीभयमिति चित्रकृत् ॥ जंडोपयुक्तं जपनं मृगाक्ष्याः संमीक्ष्य किं तोपभरं तनोषि । अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं धनमेव विद्याः ।। २८ ॥ मृगाक्ष्याः स्त्रिया जघनं समीक्ष्य दृष्ट्वा किं तोपभरं हर्षभरं तनोषि विस्ता- रयसि । कथंभूतं जघनम् । जडोपयुक्तं जवानां मूर्खाणां उपयुक्तं योग्यं अमुं जधनं धनं मेघमेव विधा जानीयाः । कथंभूतं जधनम् । विशुद्धाभ्यवसाय- हंसप्रवासहेतुम् । विशुद्धो निर्मलो यः अध्यवसाय: चित्ताभिप्रायः स एवं हंसः तस्य यः प्रवासः तस्य हेतुः कारणं तं विशुद्धाध्यवसायहंसप्रवासहे- तुम् । धनागमे हंसा मानसे गच्छन्तीति प्रसिद्धम् । जघनं धनं कथं तबाह । जडोपयुक्तं उलयोश्चकस्वस्मरणात् जलोपयुक्तम् । जस्य जकारस्य लोपो नाशस्तेन युक्तं जकारं विना जघनं धनं स्यात् ॥ नितम्बमुल्लासिततापनोदं दिदृक्षसे यत्कमलेक्षणानाम् । सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥ २९ ॥ कमलेक्षणानां कमलनयनानां यं नितम्यं पृष्ठभागं दिक्षसे द्रष्टुमिच्छसि । कथंभूतं नितम्बम् । उल्लासिततापनोदं उल्हासितस्तापस्य नोरः प्रेरणं येन स तम् । तं नितम्यं निम्बमेव रिटं विदिस्या दूरतोऽपि स्यज । कथंभूतं निम्बम् । सर्वात्मना परफलपुष्पसमूहेन । अत्यन्तकटुं अतिकटुकम्। नितम्यं कथं निम्ब- 'मिति प्रो । तन्त्रोच्यते-कथंभूतं निम्बम् । उल्लासिततापनोदम् उल्लासित- स्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तम् । तकारनाशे नितम्बो निम्बः स्वादेवेत्यर्थः ॥ Prammamme SunitihdhianRamrpoManuman १. 'जलोपयुक्तं' इति मूलपुखकपाठः. ३.कि कमले- इति मूलाखकपाठः. २. 'संवीक्ष्य' इति मूलपुस्तकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १५७ नूनं नृपुरमेतदायतदृशो रागादिविद्वेषिणां क्रीडार्थ पुरमित्यवेत्य न दृशाप्यालोकनीयं कचित् । येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्बणै- बंद्धस्य प्रसभं चिरादपि सखे मुक्तिर्भवित्री न ते ॥ ३०॥ नूनं निश्रितं आयतशः आयते विस्तीर्ण शौ यस्यातस्या विशालनयनायाः प्रतभूपुरं वरणभूषणं रागादिविद्वेपिणां रागादिशत्रूणां क्रीडार्थ विनोदार्थ पुरं नगरमिति अबेत्य शास्वा स्यया चित्कदापि शा नेग्रेण नालोकनीयं न द्रष्टव्यम् । शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नूपुरेण अस्मिन्पुरे तैः प्रसिदैः मुखमात्रचजिमगुणः मुखमात्रे ये चङ्गिमाः श्रेष्ठा गुणास्तैरुल्बणैरुदारैराकृप्य मसमं बलात्कारेण बद्धस्स ते तव चिरादपि चिरकालेनापि मुक्तिर्मोचनं न भवित्री। नूपुरं पुरं कथमिति प्रक्षे । तत्र कथं भूर्त नपुरम् । नूनम् । नूशब्देन उनं नूनं नूशब्दरहितं नूपुरं पुरं भवतीति ॥ या स्त्रीति नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां सा । एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभटं भिनत्ति ॥ ३१ ॥ या स्त्रीति नाम्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धोनिभिः शमादावुपशमादिकर्मणि शस्त्री अमुक्तायुधम् । अमुक्तं शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोषः । अवबुध्यतां ज्ञायताम् । यतो य- सात् भनङ्गभटः कामसुभटः जगति संसारे एनां पीरूपां शस्त्री पुरस्कृत्व अग्रे कृत्वा पुण्यभटं धर्मसुभरं मिनत्ति भेदनं करोति । सुभटेन प्रतिसुभट शरुमा भेदनं विधीयत एव । स्त्रीति शस्त्री कथं तत्रोच्यते । शमादौ या स्त्री शं शकारमादौ बिभृते तदा स्त्री शस्त्री स्थादेवेत्यर्थः ।। येय वधूरवसिता हृदये प्रमोद संपादनव्यतिकरैकनिबन्धनं ते । सा दुर्गदुर्गतिपथेन जगन्निनीषो- धूरेव मन्मथरथस्य विभावनीया ॥ ३२ ॥ १. 'येषा' इति मूलपुस्तकपाठः.. २. 'हृदयप्रमोदः इति भूलपुखकमाठः, PARIA १.५८ काव्यमाला। या इयं वधूः ते तव हृदये प्रमोदसंपादनव्यतिकरैकनिबन्धनम् । हृदये यः प्रमोदस्तस्य संपादनमुत्पादनं तस्य यो ब्यतिकरः समूहः तस्य निबन्धनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया मन्यत इत्यर्थः। सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या । कथंभूतस्य मन्मथरथस्य । जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेनरकादिगतेः पन्थाः दुर्गतिपथः । 'ऋक्पूरब्धःपथामानक्षे' इति अप्रत्ययः । दुर्गो यो दुर्गतिपथ- तेन । निनीषोर्नेतुमिच्छोः दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामरथस्य धूरम्ति न वधरित्यर्थः । वधूः धूः कथं तत्रोच्यते-वेन वकारेण सिता बद्धा वसि- ता। न वसिता अवसिता वकाररहिता वधूधूरेव स्यादित्यर्थः ॥ प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहद्युत्या कनकनिभया द्योतिताशा किवेकिन् । सत्यं तासामनलसदृशां संयमारामराज्यां मा भः पार्थेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः॥ ३३ ॥ हे विवेकिन् , या एतास्तरुण्यो नार्यः तव प्रीति हर्ष तन्वन्ति विस्तार- यन्ति । कथंभूतास्तरण्यः । अनलसदशः न अलसा अनलसाः आलस्यरहिता शो यासां ताः अनलसरशः । उनिद्रनेत्रा इत्यर्थः । पुनः किंविशिष्टास्व- रुण्यः । कनकनिभया स्वर्णतुल्यया देहयुत्या शरीरकान्त्या घोतिताः प्रका- शिताः आशा दिशो याभिस्ता घोतिताशाः । संयमारामराज्यां संयमश्चारित्रं स एव आरामस्तस्य राजी परम्परा तस्यां विषये तासां स्त्रीणां अनलसहशा अग्नितुल्यानाम् । सत्यं स्त्रीसंपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्वं शि- वावाप्तये मोक्षप्रास्य यद्धबुद्धिः यद्धा बुद्धिर्येन स ताशोऽसि तदा तासां पार्थेऽपि समीपेऽपि मा भूः । अत्र पचे अनलसदृशस्वम् एकत्र वर्णत्वेन अप- रत्र दाहकशक्तिस्वेनोपादानं चित्रकृत् ॥ क इह विषयभोगं पुण्यकर्मायशून्यं स्पृहयति विषमोगं भावयेस्तत्त्वतस्त्वम् । । PHmmm १. 'भावयंखवतस्तम्' इति मूलपुस्तकपाठः, .
शृङ्गारवैराग्यतरङ्गिणी । . संरति न करणीयं मूञ्छितो येन जन्तुः पतति कुगतिगर्ने नेक्षते मोक्षमार्गम् ॥ ३४ ॥ इहामिन् संसारे कः पुरुषो विषयभोग पधेन्द्रियसुखं स्पृहयति वाम्छति। कथंभूतं विषयभोगम् । पुण्यकर्मायशून्यम् । पुण्यकर्मणः आयो लाभतेन शून्यम् । तरवतस्वं विषभोगं भावयेः जानीहि । विषयभोग विषभक्षण- तुल्यं जानीडीत्यर्थः । तदेव स्पष्टयति-येन विषयभोगेन मूछितो मोहं प्राप्तो जन्तुः प्राणी करणीयं करणाई न सरति । पुनः मोक्षमार्ग न ईक्षते । कुगतिगर्ते पतति । विषभक्षणस्य सरणादिभ्रंशकत्वं प्रकटमेव । विषयभोगो विषभोगो भवतीत्यर्थः । सखे सुखं वैषयिकं यदेतदाभासते तेन्नर कान्तमन्तः । सत्यं तदुत्सर्पदघप्रबन्धनिबन्धनत्वान्नरकान्तमेव ॥ ३५ ॥ हे सखे हे नर, एतत् वैषयिकं विषयेभ्यो भवं वैषयिकं सुखं ते तव अन्तः चेतसि कान्तं मनोशं यत्, आभासते तत्सत्यम् । मिथ्या नेत्यर्थः । उत्सर्पदधप्रबन्धनिबन्धनत्वात् । उत्सर्पन्प्रसर्पन यः अघस्य पापस्य प्रबन्धः परम्परा तस्य निबन्धनं कारणं तस्य भावस्तत्वं तस्मात् । नरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तम् । नरकप्रापकमित्यर्थः । अत्र पधे पूर्वत्र नर कान्तमिति भिझं पदम्, परत्र नरकान्तमिति समस्तं पदमिति चित्रकृत् ॥ सरक्रीडावाप्यां वदनकमले पक्ष्मलाशां दृढासक्तिर्येषामघरमधुपानं विदधताम् । अदूरस्था बन्धव्यसनघटना क्लेशमहती विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ॥ ३६ ॥ सरक्रीडावाप्यां सरक्रीडार्थ वापी तस्यां येषां मनुष्याणां पक्ष्मलंदशा बीणा बदनकमले वदनमेव कमलं तत्र ढासक्तिः दृढा आसक्तिः तन्मयता १. 'सरति न करणीयं नेक्षते मोक्षमार्ग पतति कुगतिगर्ने मूर्च्छितो येन जन्तुः' इति मूळपुस्तकपाठः २. 'यनर कान्तमेव' इति मूलपुखकपाठ:. ३. मूलपुस्तके तृतीयतुरीयचरणयोर्म्यत्ययोऽस्ति. HALA "ma १६० काव्यमाला। वर्तते इति शेषः । किं कुर्वतां येषाम् । अधरमधुपानं विदधताम् । अधरमेव मधु पुष्परसः तस्य पानं तत् कुर्वताम् । तेषां नृणां इह बदनकमले मधुक- राणां भ्रमराणामिव बन्धव्यसनघटना बन्धेन बन्धनेन यद्वयसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति । कथंभूतानां मधुकराणाम् । नृणां च विमुग्धानां मोहदशां प्राप्तानाम् । कथंभूता बन्धव्यसनघटना । क्लेशमहती क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपानं कुर्वतां दृढासक्तिबन्धनकष्टदायिनी, तथा नृणां स्त्रीमुखकमले अधररसपानं कुर्वतां वधबन्धनादि कष्टं भवतीत्यर्थः ॥ सखे संतोषाम्भः पिब चपलतामुत्सृज निजां शमारामे कामं विरचय रुचिं चित्तहरिण । हन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो विमुक्ता नीरागैर्विषमशरसंपातविषमाः ॥ ३७ ॥ हे सखे हे चित्तहरिण, चित्तमेव हरिणो मृगस्तस्य संयोधनम् । चित्तस्य वाचल्यान्मृगसादृश्यम् । स्वं संतोषाम्भः पिय संतोष एव अम्भो जलं वं पिब । निजां स्वकीयां चपलतां चापलमुत्सूज स्यज । काममत्यर्थ शमारामे शम एव आरामन्तस्मिन् उपशमवने रुचि तुष्टिं विरचय कुरु। मृगस्य वनेऽधि- करुचित्वात् इष्टोपदेशः। एता युवतिनितम्बस्थलभुवः । युवतीनां नितम्बाः पृष्ठभागाः त एव स्थलभूमयः तव तृष्णां तृपं न हरन्ति न दूरीकुर्वन्ति । स्थलभुवं दृष्ट्वा तृष्णापहारो न भवतीत्यर्थः । कथंभूता युवतिनितम्बस्थल- भुवः । नीरागैर्विमुक्ताः । नीराणि च अगाश्च नीरागान्तैः जलवृक्षविमुक्ताः । जलेन वृक्षच्छायया च तृषाहानिर्भवति । पुनः कथंभूता युवतिनितम्बस्थल- मुवः । विषमशरसंपातविषमाः । विषमा असहा ये शरसंपाता बाणपाता- विषमा दुष्टाः । अस्या भुषि व्याधादिभिर्वाणपातो विधीयते, तेन तव मरणं भविष्यति, न तु तृष्णाहानिरित्यर्थः । पक्षे कथंभूता युवतिनितम्बस्थलभुवः । मीरागैः रागरहितविमुक्तास्थताः । विषमशरः कामस्तस्य संपातेन विषमा अमनोशाः । एतेन युवतिनितम्बवाम्छां मा कुरु इति चित्तं प्रत्युपदेशः ॥ १. 'प्राणाम' इति मूलपुस्तकपाठः, तवीयचतुर्थचरणव्यत्ययश्च. M .
शृङ्गारधराग्यतरङ्गिणी। १६१ . चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीशो दृष्ट्वा कुन्तलराजिमञ्जनघनश्यामां किमुत्ताम्यसि । धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य में प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥ है चेतः, न्यं कुरङ्गीशो मृगाक्ष्याः कुन्तलराजि शिरोरुहश्रेणिं दृष्ट्वा चाप- लमाकलण्य चाचल्यं गृहीत्वा किमुत्ताम्यसि किं आकुलतां करोषि । कथं- भूतां कुन्तलराजिम् । कुटिलाकाराम् । कुटिलो चक्र आकारो यस्यास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अञ्जनघनश्यामाम् । अञ्जनं कजलं घनो मेध- स्तद्वत् श्यामां कृष्णाम् । केशानां कृष्णत्वं यौवने तयुक्तां स्त्रिय दृष्ट्वा चित्त- चलनं न्याय्यम् । उक्तं च-'पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा च नवयौवनाम् । द्रविणं पतितं दृष्टा कस्य नो चलते मनः ॥' इति । मे मम प्रत्यूहाथ विनार्थ अधुना इदानीं उपस्थिता प्राप्ता इयं उरगश्रेणी सर्पपरम्परा इति त्वं संचि- न्तयेः जानीयाः । कथंभूतस्य मे । धर्मध्यानमहानिधानं स्वीकर्तुकामस्य अङ्गी- कुर्वतः धर्मध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किंचित्कार्यकरणोद्य- तस्य सर्पदर्शनं निषिद्धम् । निधानस्वीकारे तु सर्पदर्शनमतीव नेष्टमित्यर्थः । कुन्तलस्य सपोपमानन्वं कविसंमतमेव ॥ यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुश्चे(रमिमामनङ्गकलमक्रीडाविहारोचिताम् । नो चेद्यौवनचण्डवातविततव्यामोहधूलीकण- क्लाम्यदृष्टिरदृष्टशाश्वतपथः प्रामोषि जन्माटवीम् ॥ ३९ ।। हे पुमन् , यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा त्वं इमां रामानितम्बस्थली स्त्रीनितम्यभूमि दूरं दूरतो मुञ्चेः । कथंभूतां रामा- नितम्बस्थलीम् । अनङ्गकलभक्रीडाविहारोचिताम् । अनङ्गः कामः स एव कलभः गजशिशुः तस्य क्रीडार्थ विहारो विहरणं तनोचितां योग्याम् । चे- १. 'ते' इति मूलपुस्तकपाठ:. २. 'अनुरज्यसे' इति मूलपुस्तकपाका ३, हरि- क्रीडा-' इति मूलपुस्तकपाठः. ४. 'प्राप्तासि' इति मूलपुस्तकपाठः, ११ पंच० weapMRIMAR १६२ काव्यमाला। दिमां दूरं न मुसि तदा किं भविष्यति तदाह-तो चेदिति । त्वं जन्मा- टवीं संसाराटवीं प्रामोषि । कथंभूतत्वम् । योवनचण्डवातचिततव्यामोह- धूलीकणक्लाम्यदृष्टिः । यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वैचित्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः । अत एव अष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्था मार्गो येन सः। रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ॥ शमधनमपहर्तु कामचौरप्रचारं विरचयति निकामं कामिनीयामिनीयम् । सपदि विदधती या मोहनिद्रीसमुद्रां जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ १० ॥ इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्तं कामचौरप्रचारं काम एव चौरस्तस्य प्रचार विहरणशीलवं विरचयति प्रकटीकुरुते । किं कर्तुम् शमधनमपहर्तुं शम उपशम एवं धनं तद्ब्रहीतुम् । यामिन्यां धनाहरणार्थ चौरप्रचारो भवति । या यामिनी जनं मनुष्यं अन्तःसर्वचैतन्यशून्यम् । अन्तरिति अन्तःकरणे सर्व च तत् चैतन्यं च तेन शून्यं रहितं जनयति करोति । यामि- नी किं कुर्वती । सपदि तत्कालं मोहनिवासमुद्रां मोहो मूर्छा एव निदा तस्याः समुद्रा सईि विदधती ॥ मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमतामतीत्या । यहाहुवल्लीभिरनङ्गभिल्लो बैद्धा नरांस्लम्भयते न मुक्तिम् ॥ ४१ ॥ नूनं निश्चितं असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा ली। भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथंभूता भीमाटवी । - सीमा न विद्यते सीमा मर्यादा पस्याः । पुनः कथंभूता । इदिमतां विदुषों भतीत्यातिकमणीया पदाहुबल्लीभिः बस्था मृगेक्षणापा पाहू एव वयो कसातामिः अना पर मिडलस्करः नराम् मनुष्यान बढ़ा मुक्ति न लम्भ- MHRomantire mivinAL INDIAN 1. MantrunmanismRNIMARA २. 'भतीव' इति मूलपुखरूपाठ. १. निद्राममु' इति मूलपुस्तकपाट ३. 'पक्षान्' इति मूलपुखकपाठः, शृङ्गारवैराग्यतरङ्गिणी। १६३ - पते न कारयति । यथा भटम्यां तस्करः पथिकान् सताभिर्वदा सर्वस्वं गृ. जाति, तथा भगक्षणापि कण्ठग्रहणं कृत्वा नराम्मुक्तिमातिं न कारयतीति भावार्थः॥ इयं वारंवारं द्युतितुलितरोलम्बवलयं न कं भ्रूचक्रं चलयति मृगाक्षी मम पुरः । कुधीकारागारापसरणमति मां स्खलयितुं प्रपञ्चत्पश्चेषोर्वहति निविडं लोहनिगडम् ॥ ४२ ॥ इयं मृगाक्षी मृगलोचना स्त्री मम पुरः पुरस्तात् वकं भूचक्र वारंवार अनुवेलं न चलयति । कथंभूतं भूचक्रम् । धुतितुलितरोलम्बवलयम् । शुत्या काम्या दलितः समानीकृतो रोलम्बाना अमराणां वलयो वृत्तता येन । किम- तत्सदाह- स्खलयितुं गमनामावं कर्तुं पोषोः पञ्च इषवो गाणा यस्य ताशस्य कामस्य निविडं दुःसहं लोहनिगडं वहति धारयति । किंभूतं लोह- निगढम् । प्रपञ्चत् अपनायुक्तम् । कथंभूतं माम् ।कुधीकारागारापसरणमतिम् । कुत्सिता धीः कुधीः सैव कारागार बन्दिस्थानं तसादपसरणे दूरगमने मति- यस्य तम् । यथां चौरस्य लोहनिगडं क्षिप्त्वा कारागारे क्षिप्यते, तथा मामपि वशीकर्तु भ्रचक्र कामस्य निगढं धत्ते इत्यर्थः ॥ यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाश्चकास्ति । नाभीरन्ध्र विहितवसतियोऽस्ति कंदर्पसर्प- स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निमोकपट्टः ॥१३॥ मिम, वयं इतोऽस्मात् । अन्यत्र द्रुततरं अतिशीनं यामो गच्छामः । चकितहरिणीलोचनायाः। चकिता हरिणी तस्या लोचने इव लोचने यस्या- सस्थाः कण्ठपीठे यत् धकास्ति शोमते अयं हारो नास्ति किंतु यः कंदर्प- 'सर्पः कंदर्पः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्मुक्तः । अयं रुधिरो मनोशः निर्मोकपः कक्षुकः स्फुरति चकास्ति । कथंभूतः कंदर्पसर्पः । नामी. १. 'चलाक्षी' इति मूलपुस्तकपाठः. २. 'क्रुधा' इति मूलपुस्खकपाठः, ३. 'छ- लयितुं प्रपश्चात्' इति मूलपुस्तकपाठः, । WAMMAMANMOM काव्यमाला . रन्ध्र विहितवसतिः । नाभीरन्ध्रे नाभीकुहरे विहिता कृता वसतिर्वासो येन स नाभीरन्ध्र विहितवसतिः । अयमेवान्यत्र गमने हेतुः । सर्पक - कदर्शनमपि भयावहम् । नाभी सर्पविलं हारं सर्पक कं तद्गुख्या पलायन युक्तमेवेत्यर्थः ॥ ! यः कामकामलविलुप्तविवेकचक्षुः खर्गापवर्गपुरमार्गमवीक्षमाणः । ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिप्यति स भीमभवान्धकूपे ॥ ४४ ॥ यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाञ्जनं प्रति निरादरतामुपैति निरादरं करोति। कथंभूतो यः । कामकामलविलुप्तविवेकचक्षुः । कामः स्मरः स एव कामलों नेत्ररोगम्तेन विलुप्तं विवेक एव चक्षुर्यस्य स कामकामलविलुप्तविवेकचक्षुः । अत एव स्वर्गापवर्गपुरमार्गमवीक्षमाणः । स्वर्गो देवलोकोऽपवर्गों मोक्षः, तावेव पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः है भ्रातः, भीमभवान्धकूपे । भीमो भयानकः भवः संसारः स एव अन्ध- कूपः तस्मिन् पतिप्यति । यः कामलारोगग्रस्तचक्षुरजनं प्रत्यादरं न करोति सोऽन्धकूपे पतत्येवेति ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्कीविषयविषवृक्षेपु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ४५ ॥ हे पुमन् , भवारण्यं संसाराटची मुक्त्वा यदि मुक्तिनगरी शिवपुरी जिग- मिषुः गन्तुमिच्छुरसि तदानीम् । विपयाधिपवृक्षेषु । विषया एव विपवृक्षास्तेपु वसतिं रति वं मा कार्षीः मा कुर्याः । यतो यस्मात्' कारणात् एपां वृक्षाणां छायापि महामोहं अचिरात् शीघ्र प्रथयति विस्तारयति । विषयविषवृक्षच्छा- यास्पोंऽपि वैचित्यकारको भवतीत्यर्थः । अतः कारणात् अयं जन्तुः प्राणी Powerminaren mmH .. . १. 'अवेक्ष्यमाणः' इति मूलपुस्तकपाटः..
शृङ्गारवैराग्यतरङ्गिणी। पदमपि पादमात्रमपि गन्तुं गमनाय न प्रभवति न समर्थों, भवति । यथा- रण्यं मुक्त्वा नगरी गन्तुकामो नरो विषवृक्षाधो वसन् मत्तो भवति तदा पदमानमपि न गन्तुं शक्नोति । तद्वत् संसार मुक्त्वा मुक्तिमभिलषता पुंसा विषयसेवायां मतिन कार्येति तात्पर्यम् ॥ सोमप्रभा चार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमुष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥ ४६॥ सोमप्रभा चन्द्रकान्तिः च पुनः अर्यममा अर्यम्णः सूर्यस्य कान्तिः यत्पुंसां मनुष्याणां तमःपङ्कमज्ञानान्धकारसमूह न अपाकरोति नं दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुष्मिन्नुपदेशलेशेऽल्पोपदेशे निशम्यमाने 'श्रयमाणे सति अनिशं निरन्तरं नाशमेति नाशं प्रामोति । चन्द्रसूर्यप्रभयाज्ञानान्धकारं दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतान्धकारोऽपि दूरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अत्र पद्ये ग्रन्थका सोमप्रभाचार्य इति खनाम गोपितं चातुर्येणेति बोध्यम् ॥ संवत्स(च्छ)रद्विपमुनीन्दु(१७८५)मितस्य मासे मार्गे त्रयोदशमिते दिवसे भृगौ च । स्वल्पा तरी विरचिता सुखबोधिकाख्या श्लेषौघदुस्तरतरङ्गिणिका सुशास्त्रे ॥ आगरानानि नगरे नन्दलालेन धीमता । दानविशालशिष्यानुरोधेन कृपया गुरोः ॥ (युग्मम्). सोमप्रभाचार्यकृति सुदुर्गमां विवृण्वता स्वल्पधिया मयात्र यत् । न्यूनाधिकोहङ्कनमल्पबुद्धितः कृतं विशोध्यं कृतिभिः कृपालुभिः ॥ श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्यं बिभ्रति । अशेषमनुजवृन्दनतपादाम्बुजद्वये ॥ इति सुखबोधिकानाम्नया वृत्या समेता श्रीशतार्थवृत्तिकारश्री- सोमप्रभाचार्यविरचिता कारवैराग्यतरङ्गिणी समासा । । २. 'शतार्थिसोमप्रभाचार्यकृता' इति १. 'समुपैति' इति मूलपुस्तकपाठः, मूलपुस्तकपाठः, काव्यमाला । महाकविश्रीनारायणभट्टपादविरचित कोटिविरहम् । भङ्गया निजागकानामगजमपि मानहीनमाकलयन् । संगीतकेतुनामा धीमानासीद्विजोत्तमः श्रीमान् ॥ १ ॥ कलाभिरपि पूर्णात्मा कुमुदामोदमावहन् । सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुभेतराम् ॥२॥ तस्मिन्नेव समये संकेतभूमिः सुकुमारतायाः संगीतसाहित्यसरोमैराली । शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव बाला ॥ ३ ॥ अधिककुतुकदात्री पश्यतां सा समेषा- ममृतकिरणलेखेवान्वहं वर्धमाना । अभजत वयसस्तामत्युदारामवस्था- मतुलितमपदानं तन्वतीमङ्गयोनेः ॥ ४ ॥ यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः । तथा तथावर्धत कामुकानां विलोकने कापि कुतूहलश्रीः ॥ ५ ॥ आकर्णयन्तावनधान्गुणौघानानेड्यमानाननिशं जनौधैः । आकाशितान्योन्यविलोकनौ ताबास्ताममन्दप्रणयी युवानौ ॥ ६ ॥ १ कवेर्दशकाली काव्यमालाया एकविंशेऽd 'स्थाहासुधाकर प्रारम्भटिप्पणे टटयो. कोटिबिरहाल्योऽयं अन्य उत्तरमबार(केरल)देशान्तति कटथनद'- राजेन श्रीमवुदयवर्मणा केरलीयलिपितो देवनागराक्षरविलिख्यात्मभ्यं प्रेषित इति महर्पकृतं भूमूता. २. केरलीयाः सदाशिवशानिणस्तु 'कोडिअविरहम्' इति मन्यनाम बदन्ति, कोडिम'शब्दः केरलभाषायां नूतनवाचक इति तदर्थ च. ३. सी. ४. 'साखिलाना' इत्यपि पाठः, ... NATH , IIM ।.1
कोटिविरहम् ।
१६७
हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुकार्द्रयोः ।
अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७ ॥
आकल्पजालसविशेषमनोहरश्रीः
साकं वयस्यनिवहैश्च समानवेषैः ।
सोऽयं विवेश गिरिजाभवनं विलासी
तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ॥ ८ ॥
आकासितार्थजननीमभिवन्द्य गौरी-
मालोकयन्नभिनवानयममुनौ(मुत्सवौ)घान् ।
अन्यूनकौतुकभरैः सहितो वयस्यै-
रघ्यारुरोह ललितामथ रनवेदीम् ॥९॥
आलीवृन्दैरधिकनिपुणैरात्मना निर्विशेषैः
केलीशीलैः सततवशगैरावृता च खकान्तैः ।
नानाभूषामणिगणरुचा भासयन्ती दिगन्तं
सा च प्रागादुदितकुतुका द्रष्टुमेवोत्सवं तम् ॥ १० ॥
नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
रत्रानन्दप्रसरमपरां(?) वेदिकामासरोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तरुदीतचिन्ता बाला क्षणं व्याकुलतामवाप ॥ १२ ॥
सच तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्रलढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तो परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमन्चलैनयनयोर्नवविक्रमचञ्चलैः ॥ १४ ॥
काव्यमाला।
१६८
उद्भिद्यमानपुलको निटिलप्ररोह-
दाकम्रधर्मकणसुन्दरवक्रविम्बौ।
धन्याविमौ विगलितान्यसखौ युवाना-
वन्योन्यदर्शनमहोत्सवमन्वभूताम् ॥ १५ ॥
अत्यायतैर्गुणगणैर्निबिडं निबद्धा-
वाकृष्यतामभिमुखौ तरसा विधाय ।
अव्याजविक्रमघनो विललास संध्ये(?)
सव्यापसव्यमिषुभिर्विकिरन्मनोभूः ॥ १६ ॥
तदनु कतिपयानां नाडिकानां विरामे
विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः।
विततकुतुफमाजोरेतयोगेंत्रकोण-
व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥
अपयत्सु जनेषु तावतृप्ताववरूढौ गमनाय वेदिकायाः ।
मृदुहाससुधानुलिप्तवत्रौ मितमापृच्छय यथागतं प्रयातौ ॥ १८ ॥
किमपि किमपि सख्याः श्रोत्रमूले वदन्ती
वलितवदनमेनं वीक्षमाणा युवानम् ।
कपटकृतविलम्बा कामिनी सा कथंचि-
निजनिलयमयासीसिद्भुतानापीडा ॥ १९ ॥
सेयं सायं प्राप्य गेहं नताशी भेजे तल्पं कल्पितं तत्सखीभिः ।
अत्यारूढां चित्तजन्मव्यथां तामध्वश्रान्तिव्याजतो गूहमाना ॥ २० ॥
पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ
नश्यद्धैर्या नयनकमलादश्रुधारां किरन्ती ।
विसस्ताङ्गी विदलितमनाः सायकैर्मीनकेतो-
रखस्था सा समजनि मनोमोहना मुग्धगात्री ॥ २१ ॥
कोटिविरहम् । विदितविगतिमूलैः सा सखीनां निकायैः सततमथ वचोभिः सम्यगाश्वास्यमाना। कथमपि धृतशोका वासरान्वत्सराभा- परिचितधृति निन्ये पञ्चषानञ्चिताङ्गी ॥ २२ ॥ स्फुटमिव कथयन्तीमन्तरुजृम्भमाणां कुसुमविशिखपीडां मुग्धपातैः कटाक्षैः । स च मधुरमुखीं तां वीक्षमाणः प्रयान्ती युगपदभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥ चतुरवचनभेदव्यजितातीतवृत्तै- . स्तदनु सह वयस्यैरेष मन्दं जगाम । गलदतिगुरुकैश्यं गन्धमातङ्गमन्दं गमनमनघगाच्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥ गत्वा गेहं प्रियसहचरैः साकमारूढमूलं मारात मनसि सततं गृहमानोऽपि धीमान् । तामेवान्तस्तरलनयनां कल्पयन्नल्पधैर्य क्षामक्षामः समजनि दिनैः पञ्चषैरेष कामी ॥ २५ ॥ वक्रं तदुद्गतमनोहरमन्दहासं वक्षोरुहावपि च तौ क्रमवर्धमानौ । विस्तारितं जघनमित्यनुवेलमस्य चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६ ॥ तस्मिन्ननुक्षणमिति प्रविजृम्भमाणे मारामये स तु कदाचिदुदारधामा । १. कामव्यथांम्. .
काव्यमाला। व्याजेन केनचिदनन्यगतिः खगेहा- देकः प्रियामवलुलोकयिपुः प्रतस्थे ॥ २७ ॥ अंसे वहन्नधिककोमलमानानां चिल्लीविलासचतुरं मधुरं शेरासम् । अध्वानमन्तिकचरं कथयन्नवक्र साहाय्यमस्य विदधे सहकारबाणः ॥ २८ ॥ स्फुरद्रागोन्मेषे चरमगिरिसोधामवलमी नभोमध्यादद्धा विशति नलिनीजीवितसमे । असावक्षीणश्रीरधिकललिताङ्गोऽपि शनकैः प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥ तदनु मुदितचेताः प्राप्य वापीमदूरे विमलसलिलपूरस्पर्शवीताध्वखेदः । अधिकसुभगपातैः सेवितो वातपोतः सकुतुकमभिपेदे मन्दिरं सुन्दराजयाः ॥ ३० ॥ आवृण्वानामुरसिजमरोत्सेधमेकेन दोष्णा :: विन्यस्यन्तीं तदितरकरे वक्रमापाण्डुगण्डम् । अके सख्या निहितचरणामध्वनि न्यस्तनेत्रा- मद्राक्षीतां मृदुनि तेलिमे मुग्धगात्रीं शयानाम् ॥ ३१ ।। तदनु मदनपीडां मानसे देहकान्त्या स्फुटमिव कलयन्ती प्रेक्ष्य कान्तामदूरे। कुतुकभरमनोजातमिश्रीकृतात्मा द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥ १. भ्रूममनोहरम्. २. धनुः, ३. कामः ४. मन्दवायुभिः. ५. तस्पे. rem AM कोटिविरहम् । अभ्यर्थ्यमानमनिशं मनसा पुरस्ता- दभ्यागतं समवलोक्य युवानमेनम् । सा खागतोक्तिमकरोदमृतद्रवाई- मन्दारकान्तिलहरीसुहृदा मितेन ॥ ३३ ॥ ततः श्रान्ते कान्ते सविधभुवि सख्या चतुरया समानीतं नव्यं तृणकटमलंकुर्वति शनैः । न्यषीदत्सा चारान्मितमधुरवाणीविलसितै- हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४॥ लपन्तावन्योन्यं किमपि समुदाचारसरसं दिशन्तौ ताम्बूलं परिमिलितकर्पूरशकलम् । वदन्तावाकाङ्क्षामधिकचतुरैरक्षिवलनै- युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३५ ॥ वाङ्मात्रेण प्रतिष्ठासुमप्रतिष्ठासुमात्मना । कामिनी कामुकं प्राह यामिनीकामुकानना ॥ ३६ ॥ यातप्रायमिदं दिनं कमलिनी दीनेयमालोक्यतां नीरन्ध्रश्च पयोधरः स च शशी दूरेऽधुना वर्तते । विप्रागारमिदं तटाकसविधे खायत्तमेतच ते गेहं तत्क्षपय क्षपामिह महान्कार्यातिपातो त चेत् ॥३७॥ अध्वा निर्मल एव नापि सहसा संवर्धते का तमो विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् । मुग्धापाङ्गि योधरः परमसौ संध्यागमे सांप्रतं प्रस्थानोद्यममुन्नमरिगलद्धारो रुणद्धयेव मे ॥ ३८ ॥ 1. भारात्समीपे सा च न्यषीदद. ३. स्खनो मेघा ४. परिगलतहार; (पक्षे) परिगलतू-धारः. . -11-Money २.चन्द्रानना.
૨૭૨ काव्यमाला। वदतोरिति मुग्धहासमाध्वमिधुरं व्यञ्जितमञ्जरागबन्धम् । अरुणं तरणेरवाप विम्बं वरुणाशातरुणीवतंसभावम् ॥ ३९ ॥ अथ स विहितसंध्यावन्दनाद्यः समीपे कथितधरणिदेवस्यालये तन्नियोगात् । सकुतुकरुचि भुक्त्वा खादु संपन्नमन्नं त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ ४० ॥ खातानुलिप्ततनुरागमनं तदीयं सा च प्रगाढकुतुका परिपालयन्ती। मुग्धेक्षणा निजमसेवत वासगेहं मुद्रादरिद्रमदनधुति मुग्धगात्री ॥ ४१ ।। उन्निद्रकान्तिलहरीमहनीयगात्री संनाहिनी सरसिजायुधसंप्रहारे । तां पश्यतः क्षितिसुरस्य समुज्जम्भे पूर्वाधिका मनसि कापि कुतूहलश्रीः ॥ ४२ ॥ तल्पोपान्ते तदनु च मिथः संनिविष्टौ दिशन्तो कपूरैलामिलनसुभगां शुभ्रताम्बूलवीटीम् । सख्या साकं चतुरवचसा सूचितान्योन्यभाव- र्वकालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ॥ पश्यन्ती पुनरनयोरिङ्गितभेदैरनगपरिपीडाम् । नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ।।४४॥ बहिः खल्पं तल्पं तदनु स तया दीपकरया समादिष्टं भेजे मदनपरिदूनेन वपुषा । १. सूर्यस्य. २. पश्चिमा दिक्. . ३. मदनयुद्ध संनद्यम्, P4.AMRPeni HIMAMAnaimRIA AJMAIL. NNAR कोटिविरहम् । १७३ हृदा तु प्रत्ययं प्रसवशरकेलीगृहगतं तदीयप्रत्यन्तं परिहसितपर्वेन्दुसुषमम् ॥ ४५ ॥ तदनु शशिमुखी सा प्राप्य शय्यानिकेतं निजमभजत तल्पं निर्भरानङ्गपीडा । किमपि जनितकम्पैरङ्गकै ङ्गमाला- वचन(चरण)चलितमल्लीवल्लरीतुल्यकुल्यैः ॥ १६ ॥ मनसा सदृशानुरागभाजौ मुहुरुयुक्तपरस्पराभिसारौ । अवमानभयेन जातचिन्ताववलन्तौ वपुषा च तावभूताम् ॥ ४७ !! तल्पादनल्परसमुच्चलितोऽथ तत्त्वा- त्पुष्पायुधेन बलिना परिणुधमानः ॥ सोऽयं विवेश शनकैः शंफरेक्षणायाः शय्यागृहं शमितकल्पमणिप्रदीपम् ॥ ४८ ॥ बद्धोद्यमा तदभिसारविधौ विसोढुं तत्तादृशं मदनतापमपारयन्ती। "मुग्धा विहाय शयनं खयमुत्थिता च न्यस्तं च तेन विवरे कुचयोः करानम् ॥ ४९॥ पुलकिततनुवल्ली सा ततः प्रीतिवेगा- न्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् । अधिककुतुकमारादानमांदसीयं वदनमधरबिम्बं चुम्बति स प्रकामम् ॥ ५० ॥ अनुदिवसमयोगे चेतसा काङ्कितं य- द्यदपि मदननाम्ना "देशिकेनोपदिष्टम् । १. कामः. २. मीनलोचनायाः, ३. एतदीयम्. ४. गुरुणा.: । ....."
१७४ काव्यमाला। स्फुरितमभवदन्तर्यत्तदात्वे च यूनोः सुरतमननुभूतं संबभूवाभिरामम् ॥ ५१॥ मिथुनमिदमुदारखेदलेशानुविद्धं पुलकि गलितधैर्य पुष्यदानन्दभारम् । दृढमभजत जाग्रत्स्वप्नयोर्मध्यसंस्था मदनरससमुत्थामत्युदारामवस्थाम् ।। ५२ ।। अथ सुरतविरामे विस्मृतान्योन्यभेदं कृतघनपरिरम्भं कोमलाभ्यां कराभ्याम् (भुजाभ्याम्)। मिलितवदनबिम्बं मिश्रितोरुपकाण्डं शयनमभजतां तौ श्रान्तिभाजौ युवानी ॥ ५३ ॥ नाराचबाण(पात)परुषे चरणायुधानां नादे ततः सरति कर्णयुगान्तरालम् । गाढं कुचान्तरगतं परिरभ्य कान्तं वान्ताशुबिन्दु कमनी वचनं बभाषे ।। ५४ ॥ आबाल्यादपि कान्त कर्णविवरं प्राप्तस्त्वदीयैर्गुणै- रासक्तं त्वयि मानसं द्विगुणितं जातं त्वदालोकनात् । प्राप्तोऽस्यद्य पुनर्मदीयसुकृतस्तन्मामनन्याश्रयां त्यक्त्वाधैव न याहि पाहि मदनातकेन दूनामिमाम् ॥५५॥ तन्व्या तया निगदितं शृण्वन्कर्णामृतं वचः । प्रत्युवाच प्रसन्नात्मा स कामी वामलोचनाम् ॥ ५६ ॥ अभ्यर्थनीयमतिरागजुषा मया य- न्मुग्धे स्वयैव गदितं तदिदं तथापि । madam १. तस्मिन्काले.. २. नायिका.
कोटिविरहम् । ग्रतावदद्य कथयामि शपे कुचाभ्या- माभ्याममुं जनमवैहि तवैव दासम् ॥ ५७ ॥ इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा द्विजवरगृहमारादात्मगेहोपमानम् । विहितसकलकृत्यो मृष्टमाखाद्य चान्नं सपदि मुदितचेताः प्राप कान्तानिकेतम् ।। ५८ ॥ सा च नानाधखिलमविलम्बेन निर्वर्त्य कृत्यं पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा । भूयोभूयः किमपि रजनीवृत्तमेव सरन्ती पुष्पामोदात्पुलकिततनुः खैरमस्थादलिन्दे ।। ५९ ॥ आयातेन समं प्रियेण सुमुखी सा प्राप्य वासालयं खच्छप्रच्छदभाजि केलितलिमे तन्वी शयाना सुखम् । अन्यूनप्रणयप्रवाहसुभगैराकासितश्चेतसा तैस्तैनर्मभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ॥ ६० ॥ क्षणादस्तं याते दिनकृति शनैर्वाति पवने समादायामोदं दरदलितजातीसुमनसाम् । समारूढे चेन्दौ गगनममृतस्यन्दिकिरणे स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ।। गतनिजपरभावं गाढगाढप्रहार मणितभरितगेहं मञ्जभूषाविरावम् । सुरतमधिकमासीदुद्धतं चित्तरङ्गे सति मदनविलासे कामिनां का व्यवस्था ।। ६२ ।। समदिवसनिशीथं क्रीडतोरेवमेव क्षणवदविदितांशा वत्सराः केऽपि याताः ।
१७६ काव्यमाला। न च सुरतसुखे तौ वीततृष्णावभूतां न खलु विषयसङ्गः शीलनेनैति शान्तिम् ॥ ६३ ।। इत्थं निवसतोः खैरं नित्यं प्रत्यग्रयोस्तयोः । कदाचित्खगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥ शय्योत्थायमर्थकदा प्रियतमे याते प्रभातागमे निद्राशेषनिमीलिताक्षिकमला तन्वी शयाना क्षणम् । दुर्वारं खलु दैवदुर्विलसितं स्वप्नं स्वयं सा विलो- क्यान्यासङ्गिनमात्मवल्लभमतिकुद्धा विबुद्धाभवत् ॥ ६५ ॥ निद्राविरामसमयेऽपि रुपा स्फुरन्त्या मुद्रादरिद्रतरया परिवृत्तचेताः । खमानुभूतमपि वस्तु तदरतधैर्या तन्वी चिराय परमार्थतयैव मेने ॥ ६६ ॥ सा भामिनी परुषरोपनिषीतचित्ता नैवोचचाल शयनादतिदूयमाना। क्षौमोपधानममलं नयनान्तवान्तै- रातन्वती मलिनमश्रुभिरञ्जनातैः ॥ ६७ ॥ यथापुरमुपस्थितः स तु विलोकयन्प्रेयसी विकारमयंथापुरं विधृतमानमासेदुपीम् । विषादभरविह्वलः किमिति चिन्तयन्नन्धधी- रुवाच कलितादरं सरसया गिरा सान्त्वयन् ॥ ६८ ॥ किमेतदयि वल्लभे कथय किं न जानासि मा- ममुं तव पदाश्रयं किमिति मानमालम्बसे । १. प्रत्यहं नूतनयोः mrpaliun. । OMNAHANI कोटिविरहम् । १७७ अकारणसमुद्गमामपनयाशु दूरे रुषं विषादभरिताशये मयि विधेहि दासे दयाम् ॥ ६९ ॥ गलितचिकुरबन्धं गण्डसंसक्तबाष्पं विचलदधरबिम्बं विश्लथन्मुग्धगात्रम् । शयनमिदमकाण्डे व्यायतवासवातं चकितयति मदीयं चण्डि चेतः प्रकामम् ॥ ७० ॥ मुञ्च मानमनिदानमिदानीमञ्चिताक्षि हदि संचिनु मोदम् । सिन्ध वाध्ययसुधाभिरधीरं पञ्चसायकहतं जनमेनम् ।। ७१ ॥ इति विविधतराभिः सान्त्व्यमानापि वाग्भिः प्रतिवचनमुदश्रुः सा यदा न न्यगादीत् । अधिकुचतटमस्याः कातराक्ष्यास्तदासौ मृदु निजकरपद्मं न्यस्तवानसधैर्यम् ॥ ७२ ॥ कितव शठ किमेतन्मा स्पृशेत्यात्तभावा निजकुचयुगमध्यन्यस्तमुत्सार्य हस्तम् । तरुणमरुणिताभ्यामश्रुपूर्णान्तराभ्यां नयनसरसिजाभ्यां वीक्ष्य रूशं बभाषे ॥ ७३ ॥ अपसर शठबुद्धे मामकीनानिकेता- बलमतिनयवाचां विस्तरैः कृत्रिमैस्ते । ऋजुमतिरहमेवं त्वय्युपारूडरांगा ध्रुवमेवमतिपात्रं हन्त जाता जनानाम् ।। ७४. ॥ तामेव नूतनां याहि किं मया यातयामया। सति सूने दरोत्कुल्ले कस्य वृन्तश्लथे स्पृहा ।। ७५ ॥ १. निष्कारणम्. २. अवमानभाजनम्. ३. भुतप्रायया. ४. शिथिलबन्धने. मान इति यावद. १२ पंच १७८ काव्यमाला। . का सा कामिनि कथ्यतां तव सदा या मानसे वर्तते सा चेच्चण्डि........त्वमेव समये यातं तदैतद्गते । अद्याप्येवमिदं शपे चरणयोदृष्टे विवादैरलं खमः किं न्वयमम्बुजाक्षि सकलं खप्नोपमं दृश्यते ॥ ७६ ॥ परिचयवशादस्या रागः श्लथः किमु सांप्रतं धृतरुचिरभूदन्यस्मिन्वा न वेनि नवें जने। क्रिमुः तमुपभोगोद्रेकामे गतं किमु शुन्यतां () ; न पुनरधुना मानस्थानं मनागपि लक्षये ॥ ७७ ॥ तिधृतिरिति तत्तत्तयन्कर्कशेन स्सरपरिभवंशोकेनाकुलीभूतचेताः। क्षणमथ धृतमौनं यत्नसंस्तम्भितासं नतवदनमतिष्ठत्संनिधौ संनताझ्याः ॥ ७८ ॥ तथा विषीदन्तमनन्यसंश्रयं न किंचिदेषा निजगाद भामिनी । अतिप्रमाणारुणितेन केवलं दिधक्षतीवैक्षत चक्षुषा रुषा । ७९ ॥ आरोपितागसमैनागसि मय्यकरमा- न्मानोद्धरामनुनयोक्तिभिरप्यसाध्याम् । एनां त्यजाम्यहमिति क्षणजातबुद्धिः क्रुध्यन्नसौ कृतघनश्वसितं प्रतस्थे ॥ ८० ॥ अथ विलम्ब्य विलम्ब्य शनैः शनैः प्रियतमानुगति प्रतिपालयन् । नियतिमेव मुहुः परिगर्हयन्निजमवाप चिरेण निकेतनम् ।। ८१ ॥ चिराइटैरिटैर्विदितनिखिलास्मीयचरितै- वसनोहे साकं सुमधुरवचोमिः सहचरैः । १. निरपराधे मयि समारोपितापराधाम.
कोटिविरहम् । १७९ , - स्मरन्मानाक्रान्तां मनसि दयितामेव सततं कथाबन्धैस्तस्याः कथमपि स कालं क्षपितवान् ॥ ८२ ॥ निर्धूतधैर्यविभवे हृदि नित्यमित्थं निध्यायतः प्रियतमा प्रतिपन्नदैन्यम् । अल्पीयसैव समयेन समुज्जजृम्भे. पुष्पायुधार्तिरतिमात्रमसह्यतापा ।। ८३ ।। उरसि निहितं मुक्ताहारं क्षिपन्नहिशङ्कया मलयजरसं मन्वानोऽन्तर्महाविषसोदरम् । वपुषि सहसा जातखेदो हिमाम्बुनिषेचने शिवशिव बभूवायं सायं क्रमासुहृदामसौ ॥ ८४ ॥ गमिष्याम्येवाहं गतदुरभिमानः परिसरं प्रियाया हीही मां पुनरपहसेयुर्ननु जनाः । कथं वा सोढव्यो मदनपरितापः स्थितमिदं न सा द्रष्टव्या मे स्फुरति हृदये सैव तरुणी ॥ ८५॥ इति बहुविधविकल्पदोलाधिरूढे कान्ते सा तु- याते च कोपविवशे दयिते खगेहा- धाते च चेतसि मनागनुतापलेशे । सा भामिनी तदनुनीतिधृताग्रहापि 'सौभाग्यलोभचकिता न चचाल तल्पात् ॥ ८६॥ उत्थाय सेयमुदितस्मृतिरुत्पलाक्षी तल्पादनल्पतरसाध्वसनुद्यमाना । मत्वा बहिस्तमनिरीक्ष्य युवानमारा- दुद्वेलशोकविवशीकृतमानसाभूत् ।। ८७ ॥ १. अनुनीतिरनुनयः.
१८० काव्यमाला। अपश्यन्ती कान्तं किमिदमिति चिन्तापरक्शा विनिन्दन्ती दैवं मुहुरधिकदूनेन मनसा । क्षिपन्ती बाप्पाम्भःप्रसरकलुपे दिक्षु नयने क्षणं तस्थौ तन्वी कुचनिहितबाहासरसिजा ।। ८८ ॥ स्थित्वा किंचन वञ्चितास्मि विधिनेत्युत्कम्पमानान्तरा पश्यन्ती व्रजतः पदानि कमितुस्तन्वी बहिः प्राङ्गणे। भूयः खीयमुपेत्य वासभवनं मानस्मरार्तित्रपा-. शोकव्याकुलिता पपात शयने लूनेव मल्लीलता ॥ ८९ ॥ इतः प्राडियूढाः प्रणयपरिपाटीसुरभिला रहः क्रीडास्तास्ताः प्रियदयित विस्मृत्य हृदये। इदानी मामीपत्कलहकलुषीभूतहदया- मनापृच्छ्याकाण्डे यदसि चलितस्तत्किमुचितम् ॥९०॥ यनिमित्तं परित्यक्ता पूर्व प्राणसमा मया । तनिमित्तं परित्याज्याः प्राणाश्याच न संशयः ॥ ९१ ।। तत्तचिन्ताशयलहृदयां श्रान्तगात्री शयानां तन्वीमित्थं तपनकिरणालीढवल्लीसकुल्याम् । प्राप्ता दैवात्सपदि सविधं तत्सखी जातखेदा श्चोतन्माली (?) सरसवचना सान्त्वपूर्व बभाषे ।। ९२ ।। प्रियसखि वदनं ते किं गलद्वाष्पमेत- द्वहति तुहिनसिक्तेनाम्बुजेनाद्य मैत्रीम् । अयि कथय निदानं संविभक्तं हि दुःखं ननु मवति जनानां सक्षपीडातिरेकम् ॥ ९३ ।। १.करकमका पाहायब्दख मुजावाचक एवं प्रसिद्धः,
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.