Sringeri Sharada Peetham

Kenopanishatstikasankarapadabashyavakyabashyopeta

Shankaranada · 2006/07/10

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ६ केनोपनिषत्सटीकशांकरपदभाष्य- वाक्यभाष्योपेता। रत्नागिरिग्रामनिवासिभिर्वेदशास्त्रज्ञैर्महामहोपाध्यायः आगाशे इत्युपाढालशास्त्रिभिः संशोधिता। तथा च शंकरानन्दकृता केनोपनिषद्दीपिका। नारायणविरचिता केनोपनिषद्दीपिका । इदं पुस्तकद्वितयमानन्दाश्रमस्थपण्डितैः संशोधितम् । एतत्पुस्तकं हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । तृतीयेयमकनावृत्तिः। शालिवाहनशकाब्दाः १८३१ ख्रिस्ताब्दाः १९०९ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यमेको रूपकः । (रू०१) 4 केनोपनिषद आदर्शपुस्तकानि शुद्धीकरणाथ येषां मिलिवानि तेषां नामा पुस्तका- संज्ञाश्च प्रदर्श्यन्ते । -a. - (क.) इतिसंजिता केनोपनिषत्सटीकपदमाष्योपेता 'बिब्लिओथिका इण्डिका' इति ग्रन्थावल्यां मुद्रिता पुण्यपत्तननि- वासिनां कैलासवासिनां वे.शा.सं: देवोपाबाल- शाक्षिणाः । (स.) इतिसंज्ञिता-कोपनिषताavane पनिषता पायोपेन काश्यां शिलामु- द्वितारा.रा.महादेव चिमणाजी आपटे इत्येतेषाम् । (ग.) इतिसंजिता-कनोपनिषत्सटी पदाध्योपेता, इन्नूरपुरनिवासिना कि इत्युपाद्वानां श्री: ताना रा. रा. भाऊसाहेब लिामाहेक इत्येतेषाम् । (घ.) इतिसंज्ञिता-केनोपनिषत्सटीकपदमाष्योपेता घटादनिवासिना श्रीयुताना पटवर्धनोपाबानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम् । (ऊ.) इतिसंज्ञिता-केनापनिषादीकपदभाष्योपेता वे. शा. सं. रा. रा. दिनकारी जोशी नांगावक इत्येतेषाम् । लेख- नकालः सं० १८६२ (च.) इविसंजिता-केनोपनिषत् टीकपदभाष्योपेता बडलीग्रामनिवा- सिनां श्रीयुतानां वे.शा. सं. रा. रा. चिदम्बरदी- क्षितकुलोत्पन्नानां मार्तण्डदीक्षितानाम् । लेखन- कालः शके १७६७ (छ.) इतिसंज्ञिता-केनोपनिषत्पुण्यपत्तननिवासिनां श्रीयुतानां रा. रा. भाऊसाहेब नगरकर इत्येतेषाम् । (ज.) इतिसंज्ञिता-केनोपनिषत्पुण्यपत्तननिवासिनी श्रीमतां पुरंदरे इत्युपाह्वानां मल्हारराव इत्येतेषाम् । (झ.) इतिसांज्ञितम्-केनोपनिषत्पदभाष्यं सटीकं करवीरपुरनिवासिनां वे. शा. सं. द्रविडोपाचानां नानाशास्त्रिणाम् । (त्र.) इतिसंज्ञिता-केनोपनिषत्सटीकपदभाष्योपेता करवीरपुरनिवासि- [२] नो श्रीमा वे. शां. सं. गुरुमहाराजानाम् । लेखन- कालः सं० १८७८ (ट.) इतिसंज्ञिता-केनोपनिषत्सटीकपदभाष्योपेता अष्टेग्रामनिवासिनां लिमये इत्युपाह्वानां रा. रा. गोविन्दशर्मणाम् । (ठ.) इतिसंज्ञिता--केनोपनिपत्सटीकपदभाष्योपेता नागपुरनिवासिनां श्रीयुतानां रा. रा. आप्पासाहेब बुटी इत्येतेषाम् । (क.) इतिसंज्ञिता केनोपनियत्सटीकवाक्यभाष्योपेता बडलीग्रामनिवा- सिनां श्रीयुतानां वे. शा. सं. रा. रा. चिदम्बरदी- क्षितकुलोत्पन्नानां मार्तण्डदीक्षितानाम् । लेखन- कालः शके १७:७ (ख.) इतिसंज्ञिता-केनोपनिषत्सटीकवाक्यभाष्योपेता, इन्दूरपुरनिवा- सिना किबे इत्युपाद्वानां श्रीयुतानां भाऊसाहेब बाळासाहेब इत्येतेषाम् । (ग.) इतिसंज्ञिता-केनोपनिषत्सटीकवाक्यभाष्योपेता वे. शा. सं रा. रा. दिनकरशास्त्री जोशी नागावकर इत्येतेषाम् । लेखनकालः सं० १८६६ घ.) इतिमंज्ञिता-केनोपनिपत्सटीकवाक्यभाष्योपेता वटोदरनिवासिनां श्रीयुतानां पटवर्धनोपाह्वानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम् । (ङ.) इतिसंज्ञितम्-केनोपनिषद्वाक्यभाष्यं विंचूरपुरनिवासिनां श्रीयु- तानां रा. रा. रावसाहेब अण्णासाहेब इत्येतेषाम् । लेखनकालः शके १६३२ (च.) इतिसंज्ञिता-केनोपनिपत्सटीकवाक्यभाष्योपेता मुम्बापुरनिवा- सिनां वे. शा. सं. रा. रा. जयकृष्णमहाराजानाम् । (छ.) इतिसंज्ञितम्-केनोपनिपद्वाक्यभाष्यं सटीकं करवीरपुरनिवासिनां वे. शा. रा. रा. द्रविडोपाह्वानां नानाशास्त्रिणाम् । (ज.) इतिसंज्ञितम्-केनोपनिषद्वाक्यभाष्यं करवीरपुरनिवासिनां श्रीमतां वे. शा. सं. गुरुमहाराजानाम् । लेखनकालः शके (झ.) इतिसंज्ञिता-केनोपनिषत्सटीकवाक्यभाष्योपेता करवीरपुरनिवा- सिनां श्रीमतां वे. शा. सं. गुरुमहाराजानाम् ।

[३] (त्र.) इतिसंज्ञिता-केनोपनिषत्सटीकवायभाष्योपेता नागपुरनिवा- सिना श्रीयुताना रा. रा. अप्पासाहेब बुटी इत्ये- तेषाम् । (क.) इतिसंज्ञिता–केनोपनिषद्दीपिका मुम्बापुरनिवासिनां वे. शा. सं. रा. रा. जयकृष्णमहाराजानाम् । (ख.) इतिसंज्ञिता–केनोपनिषद्दीपिका पटोदरनिवासिनां श्रीयुतानां पटवर्धनोपाह्वानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम् । (ग.) इतिसंज्ञिता—केनोपनिषद्दीपिका मूलयुता* ( क.) इतिसंज्ञिता—केनोपनिषद्दीपिका नारायणविरचिता पुण्यपत्तन- निवासिनां श्रीयुताना रा. रा. भाऊसाहेब नगरकर इत्येतेषाम् । समाप्नेयमादर्शपुस्तकोल्लेखपत्रिका। * इदं प्रान्तिजसकाशात्प्राप्तम् । एतत्पुस्तकस्य स्वामिनो नाम न ज्ञायते ।

अथास्याः केनोपनिषदो मन्त्रप्रतीकानां वर्णानुक्रमणिका । मनप्रतीकानि खं० म० पू० अ. अथ वायुमः पन्वायो अथाध्यात्म पदेतत् अथेन्द्रमा पन्मघवन् ::: ::: ... ४ ५ २७ १११ २५. ... . इह चेदवेदीदय ५ उपनिषदं मोहि उ. क. ४ ... केनेषितं पतति प्रेषितं मनः त. तभ्यद्रवत्तमभ्यवदत् ३. ४.२४ ... ८ तद्ध तदनं नाम तद्धेषां विजज्ञी तस्माद्वा इन्द्रोऽतितराम्... तस्माद्वा एते देवाः तस्मिरस्त्वयि किं वीर्यम् ४. .६ २८ ३.२ २३ ४ ४ २ २६ ५ २४ ... : :: :: :: : तस्मै तृणं निदधौ २४ " १० २५ ... तस्यै तपो दमः कर्मेति तस्यैष आदेशो यदेतत् तेऽनिमब्रुवनातवेदः ४ ४ ४ २७ न. ८ ... न तत्र चक्षुर्गच्छति नाहं मन्ये सुवेदेति १६ [२] प. प्रतिबोधविदितम् २ ४ ४ १७ ... . मन्त्रप्रतीकानि खं० मं० पृ० ब. ... ब्रह्म ह देषेभ्यः यञ्चक्षुषा न पश्यति १ २२ १ ६ १२ ... :: ... यच्छ्रोत्रेण म शृणोति यमाणेन न प्राणिति यदि मन्यसे सुवेदेति यद्वाचाऽनभ्युदितम् यन्मनसां न मनुते यस्यामतं तस्य मतम् यो वा एतामेवम् १३ ४ ११. ५ १२ २ ३ १६ ३१ ... ... श. श्रोत्रस्य श्रोत्रम् १ स तस्मिन्नेवाऽऽकाशे सा ब्रह्मेति होवाच समाप्तिमगमदियं वर्णानुक्रमणिका। ३ १२ २५ ४ १ २६ न केन पनिषत् अनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। अथ श्रीमच्छंकरभगवत्पादविरचितं भाष्यम् । ॐ तत्सब्रह्मणे नमः । केनेषितमित्याद्योपनिषत्परब्रह्मविषया वक्तव्येति नवमस्याध्याय. स्याऽऽरम्भः । प्रागेतस्मात्कर्माण्यशेषतः परिसमापितानि समस्तकर्मा- श्रयभूतस्य च प्राणस्योपासनान्युक्तानि कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तं कार्यं सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्ध्यर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रीतानि स्मार्तानि च अथाऽऽनन्दगिरिकृता टीका । यच्छ्ोत्रादेरधिष्ठानं चक्षुर्वागाद्यगोचरम् । स्वतोऽध्यक्षं परं ब्रह्म नित्यमुक्तं भवामि तत् ॥ १ ॥ केनेषितमित्यादिकां तलवकारशाखोपनिषदं न्याचिल्यासुभगवान्भाष्यकारोऽहंप्रत्ययगो- चरस्याऽऽत्मनः संसारित्वादसंसारिब्रह्मभावस्योपनिषत्प्रतिपाद्यस्यासंभवान्निविषयत्वादन्याख्ये- यत्वमित्याशङ्कयाहंकारसाक्षिणः संसारित्वग्राहकप्रमाणाविषयत्वाब्रह्मत्वप्रतिपादने विरोधासं- भवात्सविषयत्वाब्याख्येयत्वं प्रतिजानीते-केनेषितमित्याद्येति । कस्तर्हि नवमस्या- ध्यायस्याष्टाध्याय्या सह नियतपूर्वोत्तरभावानुपपत्तिलभ्यः संबन्ध इत्याशङ्कय हेतुहेतुमद्भाव- लक्षणसंबधं दर्शयितुं वृत्तमनुवदति-प्रागेतस्मादित्यादिना । कर्माङ्गसाम पाञ्चभ- क्तिकं साप्तभाक्तकं च तद्विषयाण्युपासनानि पृथिव्यादिदृष्टयोक्तानि । प्राणदृष्टया गायत्र- सामोपासनं च । शिण्याचार्यसंतानाविच्छेदो वंशस्तदवसानेन भन्थेन कार्यरूपमेव वसूक्तं चेत्तर्हि प्राणाद्युपासनसहितस्य कर्मणः संसारफलत्वाद्ब्रह्मज्ञानानुपयोगात्कथं हेतुहेतुमद्भावः संबन्धोऽभिधित्सित इत्याशङ्कय नित्यकर्मणां तावज्ज्ञानोपयोगित्वं कथयति-सर्वमेतदिति । काम्यानां प्रतिषिद्धानां च फलं तदोषदर्शनेन वैराग्याथै कथयति-सकामस्य विति । १ क. ख. च. अ.न्धोऽविधित्सत । २ ग, घ. इ. स. ट. °णां फलं तावज्ज्ञानोपयोगि क।

- २ " अथै- प्रजा केनोपनिषत्- [१प्रथमःखण्डः] कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्व स्त्रिीयया प्रवृत्त्या पश्चांदिस्थावरान्ताऽधोगतिः स्यात् । तयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम् ।" इति श्रुतेः । ह तिस्रो अत्यायमीयुः" इति मन्त्रवर्णाद्विशुद्धसत्त्वस्य तु निष्काम- स्यैव बाह्यादनित्यात्साध्यसाधनसंबन्धादिह कृतात्पूर्वकृताद्वा संस्कार- विशेषोद्भवाद्विरक्तस्य प्रत्यगात्मविषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नपतिवचनलक्षणया श्रुत्या प्रदर्श्यते केनेषितमित्याद्यया । काठके चोक्तम्-"पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्त- रात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् इत्यादि । “ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं बमनिष्ठम् इत्याद्याथर्वणे च । एवं विरक्तस्य प्रत्यगात्मवि- षयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते नान्यथा । गतस्माच्च प्रत्यगात्मब्रह्मविज्ञानात्संसारबीजमज्ञानं कामकर्मप्रवृत्तिका- रणमशेषतो निवर्तते । तत्र को मोहः कः शोक एकत्वमनु- पश्यतः इति मन्त्रवर्णात् । तरति शोकमात्मवित् " इति, एतयोः पथोर्ज्ञानकर्मणोर्मध्ये केनापि मार्गेण ये न प्रवृत्तास्ते प्रतिषिद्धानुष्ठायिन इत्यर्थः । जायस्व म्रियस्वेति । पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । तिनः प्रनो जरायुजाण्डजो- द्भिज्जलक्षणाः । पितृयाणदेवयानलक्षणमार्गद्वयगमनमतीत्य कष्टामेव गतिमीयुः प्राप्ता इत्यर्थः । एवं कर्मफलमुक्त्वा ततो विरक्तस्य विशुद्धसत्त्वस्य ब्रह्मज्ञानेऽधिकार इति दर्शयन्हेतुहेतुमद्भावमाह-विशुद्धसत्त्वस्य विति । साध्यसाधनसंबन्धाद्विरक्तस्यति संबन्धः । तत्र निमित्तस्यादृष्टस्यानियतत्वमाह-इह कृतादिति। कर्मफलाद्विरक्तस्य ब्रह्मजिज्ञासा भवतीत्यत्रान्यसंवादमाह-काठके चेति । आवृत्तचक्षुरिति । साध्यसाधनभावादुपरतकरणग्रामश्चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् । अन्वयव्यतिरेकसिद्धत्वं चाऽऽह—एवं हीति । नान्यथेति । अविरक्तस्य बहिर्विषयाक्षिप्तचेतस आत्म- जिज्ञासैवानुपपन्ना कथंचिज्जाताऽपि न फलावसाना स्याच्छूद्रयागादिवदित्यर्थः । यद्यप्येवमुपनिषदः कर्मकाण्डसंबन्धोऽस्ति तथाऽप्युपनिषजन्यज्ञानस्य निष्प्रयोजनत्वा- नोपनिषदो व्याख्यारम्भः संभवतीत्याशङ्कयाऽऽह-एतस्माञ्चेति । समुच्चय- १ क. ख. घ. अ. वृतच । २ क. ख. ज. च. प्रजाः स्वेदजा ! ३ क. ख. घ. अ. वृत- च। ग. झ. ट. ति कार्यकारणभा ।

[१प्रथमःखण्ड:] आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इत्यादिश्रुतिभ्यश्च । कर्मसहितादपि ज्ञानादेतत्सिध्यतीति चेन्न । वाजसनेयके तस्यान्यकारणत्ववचनात् । “जाया मे स्यात्" इति प्रस्तुत्य "पुत्रेणायं लोको जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया देवलोकः” इत्यात्मनोऽन्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके। तत्रैव च पारिव्राज्यविधाने हेतुरुक्तः । "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति । तत्रायं हेत्वर्थः । प्रजाकर्मतत्संयुक्तविद्या- भिर्मनुष्यपितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्तिकारणैः किं करि- ज्यामो न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टं येषामस्माकं स्वाभाविकोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः । स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्यसाधननिष्पा- यस्तस्मात्प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वैषणासंन्यास एव कर्तव्य इति । कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञानस्य । न ह्युपात्त- कारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्म. वादिनोऽभिप्रायं शङ्कते-कर्मसहितादपीति । एकाध्ययनविधिपरिगृहीतत्वात्क- मज्ञानकाण्डयोरेकं फलं वाच्यं ततः कर्मसमुच्चिताज्ज्ञानात्सनिदानसंसारनिवृत्तिलक्षणं फलं सिध्यतीति न कर्मसु विरक्तस्योपनिषदारम्भ इत्यर्थः । अध्ययनविधिपरिग्रहमात्रेण कर्मकाण्डस्य न मोक्षफलत्वं कल्पयितुं शक्यं फलान्तरावगमविरोधादित्याह-न वाज- सनेयक इति । किंच यदि श्रुतेः कर्मसमुच्चितज्ञानं विधित्सितं स्यात्तदा पारिवाज्यं नोपदिश्येत श्रुत्या हेत्वभिधानेन ततो न समुच्चयः श्रुत्यर्थ इत्याह-तत्रैव चेति । प्रजाशब्दस्योपलक्षणार्थत्वमादाय हेत्वर्थमाह-तत्रायमिति । किं करिष्यामो न किमप्यात्मकामत्वादेवेति शेषः । तत्फलं भुक्त्वा क्रमेण मोक्षसंभवात्किमिति प्रजादि- प्वनादर इत्याशङ्कयाऽऽहन चेति । इष्टोऽप्ययमात्मलोकः कर्मणा विना न लम्यते. फलत्वान्मोक्षस्यान्यथास्वभावमुक्तत्वे बन्धमोक्षावस्थयोरविशेषापातादित्याशयाऽऽह-स चेति । कर्ममोक्षे कार्यस्योत्पाद्यादेरसंभवात्सम्याज्ञानादविद्यानिवृत्त्या फलप्रसिद्ध्युपपत्तेन कर्मकार्यों मोक्ष इत्यर्थः । ब्रह्मज्ञानस्यानुभवावसानतासिद्धये परोक्षनिश्चयपूर्वकः- संन्यासः: कर्तव्यः । सिद्धे चानुभवावसाने ब्रह्मात्मज्ञाने स्वभावप्राप्तः संन्यास इति द्रष्टव्यम् । इतश्च न कर्मब्रह्मात्मतानिश्चयसमुच्चयः शास्त्रार्थ इत्याह--कर्मसहभावित्वेति । ननु कर्मवद्ब्रह्मज्ञानस्य विधितोऽनुष्ठेयत्वाद्विधेश्च विनियोज्यादिभेदापक्षितत्वात्कथं सर्वभेद- १ क. ख. 'त्मा नायं ।

४ केनोपनिषत्- [१प्रथमःखण्ड:] सामवेदीयतलवकारोपनिषा । सह नाववतु सह नौ भुनक्तु सह वीर्य करवा- वहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः । शान्तिः । शान्तिः । आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्र- मथो बलमिन्द्रियाणि च सर्वाणि सर्व ब्रह्मोप- निषदं माऽहं ब्रह्म निराकुयाँ मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः। शान्तिः। शान्तिः । ॐ केनषितं पतति ब्रह्मविषयस्य सहभावित्वमुपपद्यते । वस्तुप्राधान्ये सत्यपुरुषतन्त्रत्वा- ब्रह्मविज्ञानस्य । तस्मादृष्टादृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासेयं केनेषितमित्यादिश्रुत्या प्रदर्श्यते । शिष्याचार्यः श्नपतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात्सुखपति- पत्तिकारणं भवति । केवलतर्कागम्यत्वं च दर्शितं भवति । "नैषा तर्केण मतिरापनेया" इति श्रुतेश्च । “ आचार्यवान्पुरुषो वेद" आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापत् इति । " तद्विद्धि प्रणिपातेन" इत्यादिश्रुतिस्मृतिनियमाच्च । कश्चिद्गुरु ब्रह्मनिष्ठं विधि- वदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन्नभयं नित्यं शिवम- चलमिच्छन्पप्रच्छेति कल्प्यते । केनेषितमित्यादि । केनेषितमिति केन कषितमिष्टमभिप्रेतं सन्मनः पतति गच्छति स्वविषयं प्रतीति संब- दर्शनं प्रत्यस्तमय उच्यते ब्रह्मज्ञाने सतीत्याशङ्कयाऽऽह-वस्तुप्राधान्ये सतीति । विधिजन्यप्रयत्नभाव्यो हि विधिविषय उच्यते ज्ञानं न तथेति तद्विधेरसिद्धिरित्यर्थः । यस्मात्प्रत्यगात्मनो ब्रह्मतानिश्चयस्य परोक्षस्यापरोक्षस्य वा कर्मणा समुच्चयो न प्रामाणिकस्तस्मादित्युपसंहरति--तस्मादिति । प्रश्नप्रतिवचनरूपेण प्रति- पादनस्य तात्पर्यमाह-शिष्याचार्येति । आपनेया प्रापणीया न भवतीत्यर्थः । साधिष्ठं शोभनतमं फलं प्रापयतीत्यर्थः । इष आभीक्ष्ण्ये गतौ हन्तव्या वा [१प्रथमःखण्ड] आनन्दगिरिकृतटीकासंवलितंशांकरभाष्यसमेता। ५ प्रेषितं मनः । ध्यते । इराभीक्षण्यार्थस्य गत्यर्थस्य चेहासंभवादिच्छार्थस्यैवैतद्रूपमिति गम्यते । इषितमितीप्रयोगस्तु च्छान्दसस्तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत् । तत्र प्रेषितमित्येवोक्ते प्रेषयितृप्रेषणविशेषविषयाका- ङ्क्षा स्यात् । केन प्रेषयितृविशेषेण । कीदृशं वा प्रेषणमिति । इषित- मिति तु विशेषणे सति तदुभयं निवर्तते। कस्येच्छामात्रेण प्रेषितमित्यर्थ- विशेषनिर्धारणाद्ययेषोऽर्थोऽभिप्रेतः स्यात्केनेषितमित्येतावतैव सिद्ध. त्वात्प्रेषितमिति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्त- मितीच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवगन्तुं युक्तः । प्रश्नसामर्थ्यादेहादिसंघातादनित्यात्कर्मकार्याद्विरक्तोऽतोन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथे- च्छावाक्कर्मभिर्देहादिसंघातस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थक एव स्यात् । एवमपि प्रेषितशब्दस्यार्थो न प्रदर्शित एव न संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते। किं यथा प्रसिद्धमेव कार्य- कारणसंघातस्य प्रेषयितृत्वं किंवा संघातव्यतिरिक्तस्य स्वतन्त्रस्येच्छा- मात्रेणैव मनआदिप्रेषयितृत्वमित्यस्यार्थस्य प्रदर्शनार्थं केनेषितं पतति चेति धात्वन्तरसंभवे कथमिच्छार्थस्यैव व्याख्यानमित्याशङ्कयाऽऽह–इषेरिति । आभीक्ष्ण्यं पौनःपुन्यं तद्विषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनःप्रवर्तकवि- शेषस्यैव बुभुत्सितत्वादित्यर्थः । *इट्प्रयोगे सति गुणेन भवितव्यम् । तदैषितमिति स्यात्तदभावाच्छान्दसत्वाभिधानं न तु धातोरनिटत्वादनुबन्धस्य विकल्पविधानादन्वेषित- मन्विष्टं वेति वैकल्पिकप्रयोगौदर्शनादिति । इषितं प्रेषितमिति पदद्वयस्यार्थवत्त्वमाह- तत्र प्रेषितमित्यादिना । इच्छामात्रेणेति । प्रयत्नमन्तरेण संनिधिमात्रेणेति व्याख्यातं नेदं व्याख्यानमपि शोभते । अपर्यायशब्दभेदस्यार्थमेदव्यभिचारादित्याह- अपि चेति । त्वदुक्तोऽयमर्थविशेषो न घटते संघातस्यैवेच्छादिभिः प्रवर्तकत्वसिद्धेः प्रश्ना- नुपपत्तिप्रसङ्गादित्याह-न प्रश्नेति । मनसः स्वातन्त्र्यात्स्वव्यतिरिक्तप्रवर्तकसंभावनाभावा- * सेट्क्तस्येषिविषये कित्त्वनिषेधाभावाङिति चेति निषेधप्रसक्त्या गुणेन भवितव्यमिति चिन्त्यम् । धातोरनिट्त्वाभावेऽपि यथाकथंचिदनुबन्धशब्देनेटो ग्रहणेऽपि तीषसहेति विकल्पे सत्यपि यस्य विभाषेति क्त इग्निषेधाद्वैकल्पिकप्रयोगादिति पुस्तकान्तरीयपाठोऽपि चिन्त्यः । प्रयोगादर्श- नादिति पाठेऽपि यस्य विभाषेति निषेधपूरणमपेक्ष्यमेव । ण्यन्तेषिणा गुणसमर्थनं तु गुणस्येनिमि- तत्वाभावेनेटि सतीत्यक्षराननुगुणम् । प्रेषितशब्दे प्रेरणास्वीकारादिषितशब्दे ण्यर्थानुपयोगेन भाष्या- नभिप्रेतं च । अनुबन्धस्येत्याद्युत्तरग्रन्था संबद्धं चेति ज्ञेयम् । १ ग, घ. ऊ. च झ. अ ट. गादि। - ६ केनोपनिषत्- [१प्रथमःखण्ड:] केन प्राणः प्रथमः प्रति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥३॥ श्रोत्रस्य श्रोत्रं प्रेषितं मन इति विशेषणद्वयमुपपद्यते । ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् । तत्र कथं प्रश्न उपपद्यत इति । उच्यते । यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषयं स्यात्तर्हि सर्वस्यानिटचिन्तनं न स्यादनथं च जानन्संकल्पयति । अत्युग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनस्तस्माद्युक्त एव केनेषितमित्यादिप्रश्नः । केन प्राणो युक्तो नियुक्तः प्रेरितः सन्पैति गच्छति स्वव्यापार प्रति । प्रथम इति प्राणविशेषणं स्यात्तत्पूर्वकत्वात्सर्वेन्द्रियवृत्तीनाम् । केनेषितां वाचमिमा शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवो द्योतनवान्युनक्ति नियुङ्क्ते प्रेरयति ॥१॥ एवं पृष्टवते योग्यायाऽऽह गुरुः शृणु त्वं यत्पृच्छसि । मनआदिकर- णजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति।श्रोत्रस्य श्रोत्रं शृणोत्यनेनेति श्रोत्रं शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियं तस्य श्रोत्रं स यस्त्वया पृष्टश्चक्षुः श्रोत्रं क उ देवो युन- क्तीति । असावेवं विशिष्टः श्रोत्रादीनि नियुक्त इति वक्तव्ये नन्वेतदन- नुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोषः । तस्यान्यथाविशेषा- नवगमात् । यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादिनियोक्ताऽवगम्यत दात्रादिप्रयोक्तृवत्तदेदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिव- दधिगम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेणाऽऽलोचनसंकल्पा- ध्यवसायलक्षणेन फलावसानलिङ्गेनावगम्यते । अस्ति हि श्रोत्रादिभि- रसंहतो यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापो गृहादिवदिति संहतानां प्रश्नो न घटत इत्याक्षिप्य समाधत्ते-ननु स्वतन्त्रमित्यादिना । अत्युग्रदुःखे चेति । अद्यतनीनदुःखे द्यूतादिकार्ये ॥ १ ॥ प्रतिवचनस्य प्रश्नाननुरूपत्वमाशङ्कय समाधत्ते–असावेवंविशिष्ट इत्यादिना । श्रोत्रादयः स्वविलक्षणशेषाः संहतत्वाद्गृहादिवदित्यनुमानेन श्रोत्रादिशेषी तावदवगम्यते यदि सोऽपि संहतः स्यात्तर्हि गृहादिवदचेतनः स्यात् । ततस्तस्याप्यन्यः शेषी कल्प्य- स्तस्याप्यन्य इत्यनवस्थाप्रसङ्गपरिहारायासंहतश्चेतनो गम्यते । अतः सर्वसाक्षिणं लक्षयितुं युक्तमेव प्रतिवचनमित्यर्थः । फलावसानं फलनिष्पत्तिर्लिङ्गम् । यस्मिन्नवगत्या हि करणस्य व्यापारो लिङ्गन्यते नित्यावगतिव्यञ्जकत्वाद्वा फलावसानलिङ्गं व्यापारस्तेन तच्छेषी [१प्रथमःखण्डः] आनन्दगिरिकृतटीकासंवलितांकरमाव्यसमेता। मनसो मनो यदाचो ह वाचं स उ प्राणस्य प्राण- परार्थत्वादवगम्यते श्रोत्रादीनां प्रयोक्ता । तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः। नह्यत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः । यथा प्रकाशस्य प्रकाशान्तरेण । नैष दोषोऽयमत्र पदार्थः । श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थ दृष्टम् । तच्च स्वविषयव्यञ्जनसामयं श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्ये संहते सर्वान्तरे सति भवति नासतीत्यतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते। तथा च श्रुत्यन्तराणि-"आत्मनैवायं ज्योतिषाऽऽस्ते" " तस्य भासा सर्व मिदं विभाति" " येन सूर्यस्तपति तेजसेद्धः" इत्यादीनि । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत इत्यादि गीतासु। काठके च-"नित्यो नित्यानां चेतनश्चेतनानाम्" इति । श्रोत्रायेव सर्वस्याऽऽत्मभूतं चेतनमिति प्रसिद्धं तदिह निवर्त्यते । अस्ति किमपि विद्वबुद्धिगम्यं सर्वान्तरतमं कूटस्थमजरममृतमभयमजं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्यनिमित्तमिति प्रतिवचनं शब्दार्थश्चोपपद्यत एव । तथा मनसोऽन्तःकरणस्य मनः । न ह्यन्तःकरणमन्तरेण चैतन्यज्योतिषा दीपितं स्वविषयसंकल्पाध्यवसायादिसमर्थं स्यात् । तस्मान्मनसोऽपि मन इति । इह बुद्धिमनसी एकीकृत्य निर्देशो मनस इति । यद्वाचो ह वाचं यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः संबध्यते । यस्माच्छ्रो- त्रस्य श्रोत्रम् । यस्मान्मनसो मन इत्येवम् ।वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते।प्राणस्य प्राण इति दर्शनात् । वाचो ह वाच- मित्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्वितीयैव न क्रियते । न । बहूनामनुरोधस्य युक्तत्वाद्वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्वयानुरोधेन । एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम् । स यस्त्वया पृष्टः प्राणस्य प्राणा- ख्यवृत्तिविशेषस्य प्राणस्तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्म- नाऽनधिष्ठितस्य प्राणनमुपपद्यते । "को ह्येवान्यात्कः प्राण्याद्यदेष लक्ष्यत इत्यर्थः । प्रतिवचनस्य संक्षेपतस्तात्पर्यमाह-श्रोत्रायेव सर्वस्येति । यस्मादस्ति श्रोत्रस्य श्रोत्रं तस्माच्छ्रोत्रादावात्मबुद्धिः संत्यक्तव्येति शेषः । प्राणचेष्टा चेतनाधिष्ठानपूर्वि- काऽचेतनप्रवृत्तित्वाद्र्थादिप्रवृत्तिवदित्यभिप्रेत्याऽऽह-न ह्यात्मनाऽनधिष्ठितस्येति । .

केनोपनिषत्- [१प्रथमःखण्ड:] श्चक्षुषश्चक्षुः । अतिमुच्य धीराः प्रेत्या- स्माल्लोकादमृता भवन्ति ॥२॥ न तत्र आकाश आनन्दो न स्यात् " "ऊवं प्राणमुन्नयत्यपानं प्रत्यगस्यति" इत्यादिश्रुतिभ्यः।इहापि च वक्ष्यते-“येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि" इति । श्रोत्रादीन्द्रियप्रस्तावे घ्राणप्राणस्य ननु युक्तं ग्रहणम् । सत्यमेवं प्राणग्रहणेनैव तु प्राणप्रागस्य ग्रहणं कृतम् । एवं मन्यते श्रुतिः सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिस्तद्ब्रह्मेति प्रकरणार्थो विव- क्षितः । तथा चक्षुषश्चल रूपप्रकाशकस्य चक्षुषो यदूपग्रहणसामर्थ्य तदात्मचैतन्याधिष्ठितस्यैवातश्चक्षुषश्चक्षुः । प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्ट- त्वाच्छ्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म ज्ञात्वेत्यध्यातियते । अमृता भवन्तीति फलश्रुतेश्च । ज्ञानाद्धयमृतत्वं प्राप्यते । ज्ञात्वा विमुच्यत इति सामर्थ्याच्छ्रोत्रादिकरणकलापमुज्झित्वा । श्रोत्रादौ ह्यात्मभावं कृत्वा तदुपाधिः संस्तदात्मना जायते म्रियते संसरति च ।अतः श्रोत्रादे: श्रोत्रादिलक्षणं ब्रह्माऽऽत्मेति विदित्वाऽतिमुच्य श्रोत्राद्यात्मभावं परि- त्यज्य ये श्रोत्राद्यात्मभावं परित्यजन्ति ते धीरा धीमन्तः। नहि विशि- धीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्यक्तुम् । प्रेत्य व्यावृत्या- स्माल्लोकात्पुत्रमित्रकलत्रबन्धुषु ममाहंभावसंव्यवहारलक्षणात्त्यक्तसई. पणा भूत्वेत्यर्थः । अमृता अमरणधर्माणो भवन्ति । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः " "पराश्चि खानि व्यतृणत्" आवृत्तचक्षुरमृतत्वमिच्छन् " यदा सर्वे प्रमुच्यन्ते अत्र ब्रह्म समश्नुते " इत्यादिश्रुतिभ्यः । अथ वाऽतिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वादस्माल्लोकात्प्रेत्यास्माच्छरीरात्मेत्य सृत्वेत्यर्थः ॥२॥ यस्माच्छ्रोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रह्मातो न तब तस्मिन्ब्रह्मणि ज्ञात्वेति पदाध्याहारे कारणमाह-प्रष्टुः पृष्टस्यार्थस्येति। सामर्थ्यादिति।श्रोत्राद्यात्म- भावत्यागमन्तरेणामृतत्वासंभवाज्ज्ञानबलाच्छ्रोत्राद्यात्मभावं त्यक्त्वाऽमृता भवन्तीति संबन्धः । एतत्स्फुटयति-श्रोत्रादौ हीत्यादिना । मृत्वेति । विदेहमुक्तिर्विवक्षिता प्रारब्धमो- गक्षये शरीरान्तरोत्पादे कारणाभावादवश्यंभाविनी विदुषो मुक्तिरित्यर्थः ॥ २ ॥ सर्पाद्यध्यासाधिष्ठानरज्जुवच्छ्रोत्राद्यध्यासाधिष्ठानचैतन्यं श्रोत्रस्य श्रोत्रमित्यादिना लक्षितं तर्हि रज्जुवदधिष्ठानत्वाद्विषयत्वप्रसङ्ग इति शङ्कां निवतर्यति—यस्माच्छ्रोत्रादे. रपीत्यादि । अध्यस्तस्य ह्यधिष्ठानमेव स्वरूपमाद्यन्तमध्येषु तदन्यभिचारास्स्वरूप- " [१प्रथमःखण्ड:] आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। ९ चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्या- दन्यदेव तद्विदितादथो अविदितादधि । चक्षुर्गच्छति । स्वात्मनि गमनासंभवात् । तथा न वाग्गच्छति । वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा तदाऽभिधेयं प्रति वाग्ग- च्छतीत्युच्यते । तस्य च शब्दस्य तन्निवर्तकस्य च करणस्याऽऽत्मा ब्रह्मातो न वाग्गच्छति । यथाऽग्निर्दाहकः प्रकाशकश्चापि सन्न ह्यात्मानं प्रकाशयति दहति च तद्वत् । नो मनो मनश्चान्यस्य संकल्पयित्रध्यवसायितृ च सदात्मानं संकल्पयत्यध्यवस्यति च तस्यापि ब्रह्माऽऽत्मेतीन्द्रियमनोभ्यां हि वस्तुनो विज्ञानं तदगोचरत्वान्न विद्मस्तब्रह्महशमित्यतो न विजानीमो यथा येन प्रकारेणैतद्ब्रह्मानुशिष्यादुपदिशेच्छिष्यायेत्यभिप्रायः। यद्धि करणगोचरं तदन्यस्मा उपदेष्टुं शक्यं जातिगुणक्रियाविशेषणैः । न तज्जात्यादिविशेषणवद्ब्रह्म । तस्माद्विपमं शिष्यानुपदेशेन प्रत्याययितु- मिति । उपदेशे तदर्थग्रहणे च यत्नातिशयकर्तव्यतां दर्शयति-न विद्म इत्यादि । अत्यन्तमेवोपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः। आगमेन तु शक्यत एव प्रत्याययितुम् । तदुपदेशार्थमागममाह-अन्यदेव तद्विदिता- दथो अविदितादधीति । अन्यदेव पृथगेव तद्यत्मकृतं श्रोत्रादीनां श्रोत्रा- दीत्युक्तमविषयं च तेषाम् । तद्विदितादन्यदेव हि विदितं नाम यद्विदि- क्रिययाऽतिशयेनाऽऽप्तं तद्विदिक्रियाकर्मभूतं क्वचित्किंचित्कस्यचिद्विदितं स्यादिति सर्वमेव व्याकृतं तद्विदितमेव तत्तस्मादन्यदित्यर्थः । अविदि- तमज्ञातं तहीति प्राप्त आह–अथो अविदिताद्विदितविपरीताव्याकृ. विषयता च न पदार्थधर्मस्ततोऽप्रयोजकोऽयं हेतुरित्यर्थः । अविषयत्वात्तर्हि शास्त्राचार्यो- पदेश्यत्वमपि न स्यादित्याशङ्कय नास्त्येव वास्तवमित्याह-इन्द्रियमनोभ्यां हीति । ब्राह्मणोऽयमित्यादि जातितः कृष्णोऽयमित्यादि गुणतः, पाचकोऽयमित्यादि क्रियातो राजपुरुष इत्यादि संबन्धविशेषणत उपदिश्यते । ब्रह्म तु न जात्यादिमत् । निर्गुणश्च " इत्यादिश्रुतेः । अज्ञेनाऽऽगमस्य भेदेन प्रतिपन्नत्वात्तदृष्टयाऽऽचार्यस्याप्यविद्या- लेशोत्थदृष्टया व्यावहारिक उपदेश उपपद्यत आगमतस्तस्यैवाऽऽत्मा नं] ब्रह्मरूपेण लक्षयितुं योग्यतातिशयवत्त्वादित्यभिप्रेत्याऽऽह-अत्यन्तमेवेति । वाक्यस्य पदार्थान्व्याख्याय शोच्छेदह। "केवलो १ ख.च.अ. २ "" यत्सा- १० केनोपनिषत्- [१प्रथमःखण्ड:] इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे ॥ ३ ॥ तादविद्यालक्षणाद्याकृतबीजात् । अधीत्युपर्यर्थे लक्षणयाऽन्यदित्यर्थः । यद्धि यस्मादध्युपरि भवति तत्तस्मादन्यदिति प्रसिद्धं यद्विदितं तदल्पं मत्यं दुःखात्मकं चेति हेयम् । तस्माद्विदितादन्य ब्रह्मेत्युक्ते त्वहेयत्वमुक्तं स्यात् । तथाऽविदितादधीत्युक्तेऽनुपादेयत्वमुक्तं स्यात् । कार्यार्थं हि कारणमन्यदन्येनोपादीयतेऽतश्च न वेदितुरन्यस्मै प्रयोजनायान्यदुपादेयं मवतीत्येवं विदिताविदिताभ्यामन्यदिति हेयोपादेयप्रतिषेधेन स्वात्म- नोऽन्यब्रह्मविषया जिज्ञासा शिष्यस्य निवर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदिताविदिताभ्यामन्यत्वं वस्तुनः संभवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः। “अयमात्मा ब्रह्म' य आत्माऽपहतपाप्मा"। क्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः” इत्यादिश्रुत्यन्तरेभ्यश्चे- त्येवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्रह्मत्वप्रतिपाद- कस्य वाक्यार्थस्याऽऽचार्योपदेशपरम्परया प्राप्तत्वमाह-इति शुश्रुमे- त्यादि । ब्रह्म चैवमाचार्योपदेशपरम्परयैवाधिगन्तव्यं न तर्कतः प्रवचनमे- धाबहुश्रुततपोयज्ञादिभ्यश्चेत्येवं शुश्रुम श्रुतवन्तो वयं पूर्वेषामाचार्याणां वचनम् । य आचार्या नोऽस्मभ्यं तद्ब्रह्म व्याचचक्षिरे व्याख्यातवन्तो विस्पष्टं कथितवन्तस्तेषामित्यर्थः ॥३॥ अन्यदेव तद्विदितादथो अविदितादधीत्यनेन वाक्येनाऽऽत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता तत्कथं त्वात्मा ब्रह्म । आत्मा हि नामा- धिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मा- दिदेवान्स्वर्ग वा प्राप्तुमिच्छति तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रश्च प्राणो वा ब्रह्म भवितुमर्हति न त्वात्मा । लोकप्रत्ययविरोधात् । यथाऽन्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते तथा कर्मिणः "अमुं यजामुं यज" इत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत् । ततोऽन्य उपासक इति तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वा- तात्पर्य दर्शयितुमुपक्रमते-यद्विदितं तदल्पमित्यादिना । यद्वेदितुरन्यत्तद्विदितमवि. दितं चेति द्वयी . गतिः । ततो विदितत्वाविदितत्वनिषेधेन वेदितुः स्वरूपं ब्रह्मेत्यत्र तात्पर्यमागमस्येत्याह-न ह्यन्यस्येति ॥ ३॥ उक्तवाक्यार्थे लौकिकतार्किकमीमांसकप्रतिपत्तिविरोधमाशङ्कय परिहरति विदितादन्यत्वप्र- पञ्चनाय-अन्यदेव तद्विदितादित्यादिना । अष्टसु स्थानेविति । १ क. ख. 'न्यत्वाब्रह्म।

[१प्रथमःखण्ड: आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। यद्वाचाऽनयुदितं येन वागायुयते। क्याद्वाऽऽह मैवं शङ्किठाः । यच्चैतन्यमात्रसत्ताकं वाचा वागिति जिह्वा- मूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणं वर्णाश्चार्थ- सङ्केतपरिच्छिन्ना एतावन्त एवं क्रमप्रयुक्ता इत्येवं तदभिव्यङ्गयशब्दः पदं वागित्युच्यते । “अकारोवै सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति इति श्रुतेः। मितममितं स्वरः सत्यानृते एव विकारो यस्यास्तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्याऽनभ्युदितमप्रका- शितमनभ्युक्तं येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वागभ्युद्यते चैतन्य- ज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् । यद्वाचो ह वागित्युक्तं वद- न्वाक् । यो वाचमन्तरो यमयतीत्यादि च वाजसनेयके । “या वाक्पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद बाह्मणः" इति प्रश्नमुत्पाद्य प्रतिवच- नमुक्तम्, “सा वाग्यया स्वप्ने भाषते” इति । सा हि वक्तुर्वक्तिनित्या वाक्चैतन्यज्योतिःस्वरूपा । “न हि वक्तुर्वक्तेविपरिलोपो विद्यते" इति श्रुतेः। तदेवाऽऽत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाब्रह्मेति विद्धि " अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च " इत्येतेप्वाकाशप्रदेशेष्वाश्रितमित्यनेनाऽऽकाशोपादानत्वं सूचितम् । आग्नेयमिति । अग्निदेवताकमित्यर्थः । न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह-वर्णाश्चेति । तदुक्तम्- "यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः" इति । गौरिति पदं गकारौकारविसर्जनीया एवं क्रमविशेषावच्छिन्ना इति मीमांसकाद्यनुसा- रेणोक्तं स्फोटवादिनोऽनुसारेणाऽऽह—तदभिव्यङ्गय इति । स्फुट्यते व्यज्यते वर्ग- रिति स्फोटः पदादिबुद्धिप्रमाणकः । एकरूपाया बुद्धेरनेकवर्णावलम्बनत्वासंभवादिति भावः । उक्त वाक्यार्थे श्रुतिसमतिमाह-अकार इति । अकारप्रधानोंकारोपलक्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना कादयो मावसानाः स्पर्शा यरलवा अन्तस्थाः शषसहा उष्माणस्तैः क्रमविशेषावच्छिन्नैर्व्यज्यमाना नानारूपा विवर्तते । मितमृगादि पादावसाननियताक्षरत्वात् । अमितं यजुराधनियताक्षरपा. दावसानत्वात् । स्वरः साम । गीतिप्राधान्यात् । सत्यं यथादृष्टार्थवचनम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरु- १ ग. घ. ङ. ट. वाक्यपदार्थे ।

१२
केनोपनिषत्-
[१प्रथमःखण्डः]
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ४॥
यन्मनसा न मनुते. येनाऽऽहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
यच्चक्षुषा न पश्यति येन चक्षुश्चषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
विजानीहि त्वं यैर्वागाद्युपाधिभिः । वाचो ह वाक्चक्षुषश्चक्षुः श्रोत्रस्य
श्रोत्रं मनसो मनः कर्ता मोक्ता विज्ञाता नियन्ता प्रशासिता विज्ञानमा-
नन्दं ब्रह्मेत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये
ब्रह्मणि प्रवर्तन्ते तान्व्युदस्याऽऽत्मानमेव निर्विशेषं ब्रह्म विद्धीत्येवश-
ब्दार्थः । नेदं ब्रह्म यदिदमित्युपाधिभेदविशिष्टमनात्मेश्वरायुपासते
ध्यायन्ति । तदेव ब्रह्म त्वं विद्धीत्युक्तेऽपि नेदं ब्रह्मेत्यनात्मनोऽब्रह्मत्वं
पुनरुच्यते । नियमार्थमन्यब्रह्मबुद्धिपरिसंख्यानार्थं वा ॥ ४ ॥
यन्मनसा न मनुते । मन इत्यन्तःकरणं बुद्धिमनसोरेकत्वेन गृह्यते ।
मनुतेऽनेनेति मनः सर्वकरणसाधारणम् । सर्वविषयव्यापकत्वात् ।
"कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं(भरित्येत-
त्सर्वं मन एव" इति श्रुतेः । कामादिवृत्तिमन्मनस्तेन मनसा यच्चैतन्य-
ज्योतिर्मनसोऽवमासकं न मनुते न संकल्पयति नापि निश्चिनोति ।
मनसोऽवमासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेवेति स्वात्मनि
न प्रवर्ततेऽन्तःकरणम् । अन्तस्थेन हि चैतन्यज्योतिषाऽवभासितस्य
मनसो मननसामयं तेन सवृत्तिकं मनो येन ब्रह्मणा मतं विषयीकृतं
व्याप्तमाहुः कथयन्ति ब्रह्मविदः । तस्मात्तदेव मनस आत्मानं प्रत्यक्चे-
तयितारं ब्रह्म विद्धि । नेदमित्यादि पूर्ववत् ॥ ५ ॥
यञ्चक्षुषा न पश्यति न विषयी करोत्यन्तःकरणवृत्तिसंयुक्तेन येन च -
प्यन्तःकरणवृत्तिभेदभिन्नाश्चक्षुर्वृत्तीः पश्यति लोकश्चैतन्यात्मज्योतिषा
विषयी करोति व्यानोति ॥६॥
घेषु चेतनेषु या वाक्शक्तिः सा घोषषु वर्णेषु प्रतिष्ठिता तद्व्यङ्गयत्वादित्यर्थः । तदेवेत्ये-
वकारस्य कृत्यमाह-यैर्वागाद्युपाधिभिरिति । नियमार्थमिति । पक्षेऽनात्मन्यपि
ब्रह्मबुद्धौ प्राप्तायामात्मैव ब्रह्मेति बुद्धिं नियन्तुमित्यर्थः । अन्यस्मिन्नुपास्ये या ब्रह्मबुद्धिस्त-
निवृत्त्यर्थं वा पुनरब्रह्मत्वमुच्यत इत्यर्थः ।
सर्व स्पष्टमिति न व्याख्यातम् ॥ ५॥ ६ ॥

रिद्वितीयः आनन्दगिरिकृतटीकासंवलितशांकरमाध्यसमेत । १३ खण्ड:] यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिद श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥ इति प्रथमः खण्डः ॥ १॥ यदि मन्यसे सुवेदेति यच्छ्रोत्रेण न शृणोति दिग्देवताधिष्ठितेनाऽऽकाशकार्येण मनोवृत्ति- संयुक्तेन न विषयी करोति लोको येन श्रोत्रमिदं श्रुतं यत्प्रसिद्धं चैतन्या- मज्योतिषा विषयीकृतं तदेवेत्यादि पूर्ववत् ॥७॥ यत्प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेनान्तःकरणप्राण- वृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयी करोति येन चैतन्यात्म- ज्योतिषाऽवभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते । तदेवेत्यादि सर्व समानम् ॥८॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवत्पादकृतौ केनो- पनिषत्पदभाष्ये प्रथमः खण्डः ॥१॥ एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्योऽहमेव ब्रह्मेति सुतु वेदाहं मामिति गृह्णीयादित्याशङ्कयाऽऽचार्यः शिष्यबुद्धिवि- चालनार्थं यदीत्याह । नन्विष्टैव सु वेदाहमिति निश्चिता प्रतिपत्तिः सत्यमिष्टा निश्चिता प्रतिपत्तिर्न हि सुवेदाहमिति। यद्धिवेद्यं वस्तु विषयी भवति तत्सुष्टु वेदितुं शक्यं दाह्यमिव दग्धुमग्नेर्दग्धुर्न त्वनेः स्वरूपमेव। सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्नपतिवचनोक्त्या श्रोत्रस्य श्रोत्रमित्याद्यया । यद्वाचाऽनभ्युदितमिति विशेषतोऽवधारितम् । ब्रह्मविसंप्रदायनिश्चय- श्वोक्तोऽन्यदेव तद्विदितादथो अविदितादधीत्युपन्यस्तमुपसंहरिष्यति चाविज्ञातं विजानतां विज्ञातमविजानतामिति । तस्माद्युक्तमेव शिष्यस्य सुवेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्योऽग्निरिव ॥ ७ ॥८॥ प्रथमः खण्डः ॥ १ ॥ वेदितुः स्वरूपत्वे ब्रह्मणो मा भूद्विषयत्वम् । स्वरूपत्वे मानाभावात् । अतिरिक्तस्य विष- यत्वे किमनुपपन्नमित्याशङ्कयाऽऽह-सर्वस्य हीति । दिशकायोगे किं कारणमित्यत । १४ केनोपनिषत- [२ द्वितीय खण्डः] देहरमेवापि नूनम् । त्वं वेत्थ ब्रह्मणो रूपं दग्धुमनेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत्स्याद्ब्रह्म । "नान्यदतोऽस्ति विज्ञातृ " इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात्सुष्टु वेदाहं ब्रह्मेति प्रतिपत्तिमिथ्यैव । तस्माद्युक्तमेवाऽऽहाऽऽचार्यो यदीत्यादि। यदि कदाचिन्मन्यसे सु वेदेति सुष्टु वेदाहं ब्रह्मेति। कदाचिद्यथाश्रुतं दुर्वि- ज्ञेयमपि क्षीणदोपः सुमेधाः कश्चित्प्रतिपद्यते कश्चिन्नेति शाह यदीत्यादि । दृष्टं च “य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवा- चैतदमृतमभयमेतद्ब्रह्म" इत्युक्त प्राजापत्यः पण्डितोऽप्यसुरराविरोचनः स्वभावदोषवशादनुपपद्यमानमपि विपरीतमर्थं शरीरमात्मेति प्रतिपन्नः। तथेन्द्रो देवराट्सकृद्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽप्येकस्माद्गुरोः शृण्वतां कश्चिद्यथावत्पतिपद्यते कश्चिदयथावत्कश्चिद्विपरीतं कश्चिन्न प्रति- पद्यते किमु वक्तव्यमतीन्द्रियमात्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सद- सद्वादिनस्तार्किकाः सर्वे । तस्मादविदितं ब्रह्मति सुनिश्चितोक्तमपि वि- षमप्रतिपत्तित्वाद्यदि मन्यस इत्यादि साशङ्ख वचनं युक्तमेवाऽऽचार्यस्य। दहरमल्पमेवापि नूनं त्वं वेत्थ जानीषेब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च येनाऽऽह दहरमेवेत्यादि । बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि न स्वतः। स्वतस्तु "अशब्द- मस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच यत्" इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यदूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य रूपं स्यादत उच्यते । चैतन्य आह—कदाचिदिति । अक्षिाणि शरीरस्य प्रतिच्छाया दृश्यत इति प्रसिद्धवदुपदेशाच्छ- रीरमात्मेति प्रतिपन्नः । छायाया व्यभिचारित्वं बुद्ध्वेत्यर्थः । सकृदिति । “य एषोऽक्षिणि पुरुषो दृश्यते" इत्येकवारमुक्तम्, “य एष स्वप्ने महीयमानश्चरति" इति द्वितीयेनोक्तम्, "तद्यत्रतत्सुप्तः समस्तः संपन्नः” इति त्रिरुक्तमप्यात्मानमप्रतिपद्यमान इन्द्रो ब्रह्मचर्येणाध- मादिदोषक्षयमपेक्ष्य चतुर्थे पर्याये "एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुप- संपद्य' इत्यत्र प्रथमपर्यायोक्तमेव ब्रह्म प्रतिपन्नवानित्यर्थः । अर्भकाणि चेति । अल्पानि । न स्वतो रूपमस्ति ब्रह्मण इत्युक्तं तदाक्षिपति-ननु येनैवेति । केन तर्हि विशेषेण ब्रह्मणो निरूपणमित्याकाङ्क्षायां चैतन्यरूपेणेत्याह-चैतन्यमिति । भूतानां समस्तानां व्यस्तानां १ क. ख. घ. ङ. ट. दम्रौ । २ ग. घ. ट. दम्रमे । ३ घ. उ. झ.ट. नाहंद। ४ क. म. संप्रप ४ ख.च.

[२द्वितीयः आनन्दगि रकृतटीकासंवलितशांकरभाष्यसमेता। खण्डः] यदस्य त्वं यदस्य देवेष्वथ न मीमास्यमेव ते पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मों न भवति । तथा श्रोत्रादीनामन्तःकरणस्य च धर्मो न भवतीति । ब्रह्मणो रूपमिति । ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम्-"विज्ञानमानन्दं ब्रह्म" "विज्ञानधन एव" "सत्यं ज्ञानमनन्तम्" "प्रज्ञानं ब्रह्म" इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवं तथाऽपि तदन्तःकरणदेहेन्द्रियोपाधिद्वारेणैव विज्ञाना- दिशब्दैनिर्दिश्यते तदनुकारित्वादेहादिवृद्धिसंकोचच्छेदादिषु नाशेषु च न स्वतः। स्वतस्त्वविज्ञातं विजानतां विज्ञातमविजानतामिति स्थितं भविष्यति । यदस्य ब्रह्मणो रूपमिति पूर्वेण संबन्धः । न केवलमध्यात्मो- पाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ यदप्यधिदैवतोपाधिप- रिच्छिन्नस्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वं तदपि नूनं दहरमेव वेत्थेति मन्येऽहम् । यदध्यात्म यदधिदैवं तदपि च देवेषूपाधिपरिच्छिन्नत्वाद्दहर- त्वान्न निवर्तते यत्तु विध्वस्तसर्वोपाधिविशेष शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म न तत्सुवेद्यमित्यभिप्रायः। यत एवमथ नु तस्मान्मन्येऽद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म। एवमाचार्योक्तः शिष्य एकान्त उपविष्टः समाहितः सन्यथोक्तमाचार्येणाऽऽगममर्थतो विचार्य तर्कतश्च निर्धार्य वा देहाकारपरिणतानां चैतन्यं धर्मो न भवतीति बहिरनुपलम्भात्तद्धर्मत्वे रूपादिवत्तत्साधक- स्वाभावप्रसङ्गाच्च । तथा श्रोत्रादीनामपि भौतिकत्वाविशेषाच्चैतन्यं धर्मो न भवतीति पारिशे- ष्यात्स्वतन्त्रचैतन्यं ब्रह्मणो रूपम् । तत्र श्रुतिसमतिमाह-तथाचोक्तमिति । सत्यमेवं चैतन्यं पारमार्थिकं ब्रह्मरूपं श्रुतितात्पर्यगम्यं तथाऽपि यदुक्तं ब्रह्मणो रूपं कथं नास्तीति तदुपाधिद्वारेणैव ब्रह्मणः शब्देन निरूपणं निर्देशनं न स्वत इत्यभिप्रेत्यान्तःकरणाद्यभिव्यक्ति: मुपलभ्य हि यदुपाध्यभिव्यक्तिनिमित्तं चैतन्यं तद्ब्रह्मति निर्दिश्यत इत्यर्थः । ननूपाधिरुपहि- तसंबद्धो भवति चैतन्यस्य त्वसङ्गस्य कथं देहादिरुपाधिरित्याशङ्कयाऽऽह-तदनुकारि- वादित्यादिना। यथा जले कम्पमाने सविता कम्पत इव भिद्यमाने भिद्यत इति मिथ्या- तद्धर्मभागित्वात्सवितुर्जलमुपाधिरित्युच्यते नतु संबन्धादूरस्थयोः संयोगाद्ययोगात् । तद्वदेहा- देवृद्धिसंकोचच्छेदादिषु दाहादिषु नाशेषु चैतन्यस्य मिथ्यादेहधर्मभागित्वाइहादेरुपाधित्व- मभिधीयत इत्यर्थः । ननु न स्वतश्चैतन्यतया निरूप्यते ब्रह्म कथं तर्हि तदनुभव इत्याश- याऽऽह–स्वतस्त्विति । अविषयतयैव विषयानुपरक्तचित्स्फुरणं ब्रह्मानुभव इत्यर्थः । तर्कतश्चेति । वेद्यत्वे घटादिवदनात्मत्वादिप्रसङ्गादित्यादितर्कत आत्मनो वेद्यं ब्रह्म न भव- १. अ.स्य व दे। २ क. ख. मं तदपि चोपाधि।

१६ केनोपनिषत्- [२द्वितीयःखण्डः] मन्ये विदितम् ॥ ९ ॥ १ ॥ नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ १० ॥२॥ यस्यामतं तस्य मतं स्वानुभवं कृत्वाऽऽचार्यसकाशमुपगम्योवाच मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥९॥१॥ कथमिति । शृणुत । नाहं मन्ये सु वेदेति नैवाहं मन्ये सुवेद ब्रह्मेति। नैव तर्हि विदितं त्वया ब्रह्मेत्युक्त आह-नो न वेदेति वेद च । वेद चेति चशब्दान्न वेदे च । ननु विप्रतिषिद्धं नाहं मन्ये सु वेदेति नो न वेदेति वेद चेति । यदि न मन्यसे सु वेदेति कथं मन्यसे वेद चेति । अथ मन्यसे वेदैवेति । कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते तेनैव तदेव वस्तु न सुविज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्ज- यित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम्। संशयविपर्ययौ हि सर्वत्रानर्थकरत्वेनैव प्रसिद्धौ । एवमाचार्येण विचा- ल्यमानोऽपि शिष्यो न विचचाल ।“ अन्यदेव तद्विदितादथो अविदि- तादधि ” इत्याचार्योक्तागमसंप्रदायबलादुपपत्त्यनुभवबलाञ्च जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः । कथमित्युच्यते । यो यः कश्चिन्नोऽस्माकं सब्रह्मचारिणां मध्ये तदुक्तं वचनं तत्त्वतो वेद स तद्ब्रह्म वेद । किं पुनस्तद्वचनमित्यत आह-नो न वेदेति वेद चेति । यदेवा- न्यदेव तद्विदितादथो अविदितादधीत्युक्तं वस्त्वनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद चेत्यवोचदाचार्यबुद्धि- संवादार्थ मन्दबुद्धिग्रहणव्यपोहार्थं च । तथा च गर्जितमुपपन्नं भवति यो नस्तद्वेदेति ॥ १०॥२॥ शिष्याचार्यसंवादात्मतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवादनिषू- त्तमर्थमेव बोधयति-यस्यामतमित्यादिना । यस्य ब्रह्मविदोऽमतमवि- ज्ञातमविदितं ब्रह्मेति मतमभिप्रायो निश्चयस्तस्य मतं ज्ञातं सम्य- त्येवेति निर्धार्याज्ञानसंशयाद्यभावेन स्वानुभवं कृत्वेत्यर्थः ॥ ९ ॥ १ ॥ आचार्यवचनादन्यदेव वचनं शिष्य उवाचेति नाऽऽशनीयमित्याह-यदेवान्यदेवेति तथा चेत्याचार्यबुद्धिसंवादे सत्यर्थान्तरानभिधाने सतीत्यर्थः ॥ १० ॥ २ ॥ १५. छ. नाहम। २ क. ख. दत्वं न च. न. °ण व्यामोहा।. ४ क. ख. ग. घ. झ.ट, निवर्त्य स्वे। ५ क. ख. निवृत्त ।

द्वितीयः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। खण्ड:] मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञा- तमविजानताम् ॥ ११॥३॥प्रतिबोधविदितं मत- रब्रह्मेत्यभिप्रायः । यस्य पुनर्मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयो न वेदैव स न ब्रह्म विजानाति सः । विद्वदविदुषोर्यथोक्तौ पक्षाववधार- यति-अविज्ञातममतमविदितमेव ब्रह्म विजानतां सम्यग्विदितवतामि- त्येतत् । विज्ञातं विदितं ब्रह्माविजानतामसम्यग्दर्शिनामिन्द्रियमनोबुद्धि- ध्वेवाऽऽत्मदर्शिनामित्यर्थः । न त्वत्यन्तमेवाव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातमस्माभिर्ब्रह्मेति मतिर्भवति । इन्द्रियमनोबुद्ध्युपाधिष्वा- स्मदर्शिनां तु ब्रह्मोपाधिविवेकानुपलम्भाबुद्धयायपाधेश्च विज्ञातत्वा- द्विदितं ब्रह्मेत्युपपद्यते भ्रान्तिरित्यतोऽसम्यग्दर्शनपूर्वपक्षत्वेनोपन्यस्यते विज्ञातमविजानतामिति । अथवा हेत्वर्थ उत्तरार्धोऽविज्ञातमित्यादिः ॥११॥३॥ अविज्ञातं विजानतामित्यवधृतम् । यदि ब्रह्मात्यन्तमेवाविज्ञातं लौकि- कानां ब्रह्मविदां चाविशेषः प्राप्तः । अविज्ञातं विजानतामिति च परस्प- रविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवमर्थमाह-प्रतिबोध- विदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते। सर्वे प्रत्यया विषयी भवन्ति यस्य स आत्मा सर्वबोधान्प्रतिबुध्यते अथवा हेत्वर्थ इति । लोके शुक्ल्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्य- विज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्व- स्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीत्यर्थः ॥ ११ ॥ ३ ॥ ज्ञातब्रह्मत्वादर्शने ब्रह्मास्मीति कथं व्यवहरतीति चेत्किमनयेष्टकावाहकानां रत्नपेटक- चिन्तया ज्ञातस्य व्यवहाराङ्गत्वं वदतोऽपि वस्तुप्रकाशस्य व्यवहाराङ्गत्वस्येष्टत्वाद्वास्तव- ज्ञाततानपेक्षकत्वादित्यव्युत्पन्नव्युत्पादनाय चोद्यमुद्भावयति-अविज्ञातमित्यादिना । नीलपीताद्याकाराणां बुद्धिविकाराणां जडानां यच्चैतन्यन्याप्तत्वेनाजडवदवभासस्तं साक्षिणमु- पलक्ष्य सोऽहमात्मा ब्रह्मेति महावाक्यादविषयतयैव यो वेत्ति स ब्रह्मविदुच्यते । तेन नावि- शेषप्रसङ्गादिचोद्यावकाश इत्याह-प्रतिबोधविदितमिति । प्रत्ययेष्वविशिष्टतयाऽनु- गतरूपेणेत्यर्थः । येन चित्स्वरूपेणाहमत्र साक्षी तस्य सर्वत्राविशेषान्नैकस्मिन्नेव देहेऽहं साक्षी- १ ग. झ. ठ. शेषप्राप्तेरवि । २ ग.घ. च. म. ट.षया भ। ३ १८ केनोपनिषत- २द्वितीयःखण्ड:] सर्वप्रत्ययदर्शी चिक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते नान्यद्वारमात्मनो विज्ञानायातः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा तदा तन्मतं तदा तत्सम्यग्दर्शनमित्यर्थः । सर्वप्रत्ययदर्शित्वे चोप- जननापायवर्जितहकूस्वरूपतानित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्वि- शेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत् । लक्षणभेदाभावाद्यान्न इव घटगि- रिगुहादिषु । विदिताविदिताभ्यामन्यद्ब्रह्मेत्यागमवाक्यार्थः । एवं परि- शुद्ध एवोपसंहृतो भवति । "दृष्टेष्टा श्रुतेः श्रोता मतेमन्ता विज्ञातेर्वि- ज्ञाता" इति हि श्रुत्यन्तरम् । यदा पुनर्बोधक्रियाकर्तेति बोधक्रियालक्ष- णेन तत्कर्तारं विजानातीति बोधलक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते । यथा यो वृक्षशाखाश्चालयति स वायुरिति तद्वत् । तदा बोधक्रियाशक्तिमानात्मा द्रव्यं न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते तदा बोधक्रियया सह विशेषः । यदा बोधो नश्यति तदा नष्टबोधो द्रव्यमानं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्तुं शक्य- न्ते । यदपि काणादानामात्ममनःसंयोगजो बोध आत्मनि समवैति । अत आत्मनि बोद्धृत्वं नतु विक्रियात्मक आत्मा । द्रव्यमानस्तु भवति घट इव रागसमवायी । अस्मिन्पक्षेऽप्यचेतनं द्रव्यमानं ब्रह्मेति "विज्ञा- नमानन्दं ब्रह्म" इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निर- वयवत्वेन प्रदेशाभावान्नित्यसंयुक्तत्वाच्च मनसः स्मृत्युत्पत्तिनियमानु- भेदोत्पत्त्यादीनां च साक्ष्यगतत्वेन साक्षिण एकत्वनित्यत्वादिकमपि सिध्यतीत्याह-सर्व- प्रत्ययदर्शित्वे चेति । विदितत्वाविदितत्वयोः साक्ष्यगतत्वेन तदन्यत्वमप्यस्मिन्पक्षे संभवतीत्याह-विदिताविदिताभ्यामन्यदिति । एकदेशिव्याख्यानमुद्भाव्य दूषयति- यदा पुनरित्यादिना । अग्निसंयोगाद्घटलौहित्यवन्मनःसंयोगादसमवायिकारणादात्मन्य. चेतने चैतन्यमुत्पद्यत इत्येतन्न केवलं श्रुतिविरुद्धमसंभावितं चेत्याह-आत्मनो निरवय- वत्वेनेति । प्रदेशवता प्रदेशवतो लोके संयोगो दृष्टः । आत्मनो निष्प्रदेशत्वान्मनसा संयोगो न संभवतीत्युक्तं तदयुक्तम् । युगपत्सर्वमूर्तसंयोगित्वं सर्वगतत्वमात्मनस्ततो मनसः संयो- गोऽपीति चेत्तत्राऽऽह-नित्येति । ग्रहणकालादन्यकाल एव स्मृतीनां क्रमेणैवोत्पत्तिरिति नियमो वैशेषिकस्य नोपपद्यते ग्रहणकालेऽपि स्मृत्युत्पत्तिप्रसङ्गाच्च संस्कारवदात्ममनःसंयोगस्या- विशेषादित्यर्थः । सर्वगतत्वं च सर्वाव्यवधानमात्रं न तु संयोगित्वं कल्पनीयामित्याह- * च. पुस्तके कल्पनीयमित्याहंत्यस्य स्थाने कल्पनीयमिति चंदाहेत्यधो लिखितः पाठः । १ घ. श. क्षमं में°1 २ क. ख. न्दं प्रज्ञानं ब्र। ३ क. ख. च. अ. "मुपपद्य ।

[२द्वितीयः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। खण्डः] पपत्तिरपरिहार्या स्यात् । संसर्गधर्मित्वं चाऽऽत्मनः श्रुतिस्मृतिन्यायवि- रुद्धं कल्पितं स्यात् । असङ्गो न हि सज्जते" असक्तं सर्वमृत् इति श्रुतिस्मृती द्वे । न्यायश्च गुणवद्गुणवता संसृज्यते नातुल्यजातायम् । अतो निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदप्यतुल्यजातीयेन संसृज्यत इत्येतन्यायविरुद्धं भवेत् । तस्मान्नित्यालुप्तविज्ञानस्वरूपज्योतिरात्मा ब्रह्मेत्ययमर्थः सर्वबोधबोद्धृत्व आत्मनः सिध्यति नान्यथा । तस्मात्पति- बोधविदितं मतमिति यथा व्याख्यात एवार्थोऽस्माभिः । यत्पुनः स्वसं- वेद्यता प्रतिबोधविदितमित्यस्य वाक्यस्यार्थों वर्ण्यते । तत्र भवति सोपाधिकत्वं आत्मनो बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्याऽऽत्मनाऽऽ- त्मानं वेत्तीति संव्यवहारः । "आत्मनैवाऽऽत्मानं पश्यति" ". "स्वयमे वाऽऽत्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम" इति। ननु निरुपाधिकस्याऽऽत्मन. एकत्वे स्वसंवेद्यता परसंवेद्यता वा संभवति । संवेदनस्वरूपत्वात्संवेदना- न्तरापेक्षा च न संभवति यथा प्रकाशस्य प्रकाशान्तरापेक्षाया न संभवस्त- द्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञान स्यात् । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् । "नित्यं विभुं सर्वगतम् ” “स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयः इत्याद्याः श्रुतयो बाध्येरन् । यत्पुनः प्रतिबोधशब्देन निनिमित्तो बोधः संसर्गधर्मित्वं चेति । न्यायविरुद्धमित्युक्तं तत्स्फुटयति-न्यायश्चेति । एकदेशिव्या- ख्यानान्तरमनूद्य दूषयति—यत्पुनरित्यादिना । यद्वेद्यं तद्वेदितुर्वेदनाच्च भिन्नं यथा घटा- दीति व्याप्तिविरोधास्वसंवेद्यत्वं वास्तवं नोपपद्यते ततो बुद्धयादावात्मभावमारोप्याऽऽस्मना तस्य वेद्यत्वं वाच्यमिति निरुपाधिकस्वरूपस्थितिर्न स्यादित्याह-तत्र भवति सोपाधि- का इति । काणादस्य स्वसंवेद्यत्वानङ्गीकारबलास्परवेद्यस्वं प्रसज्जत इत्यपि न वाच्यमि- त्याह-संवेदनस्वरूपत्वादिति । बौद्धेन स्वसंवेद्यं विज्ञानमिष्टं तव किं न स्यादित्यत आह-बौद्धपक्ष इति । प्रत्यक्षस्य वर्तमानावभासकत्वात्क्षणान्तरकि. शिष्टे स्वात्मनि क्षणान्तरविशिष्टं तदेव विज्ञानं प्रत्येक्षं न संभवति । स्वात्मनि स्वयमेव विज्ञानं प्रत्यक्षं चेद्वर्तमानक्षणमात्रं सत्त्वं स्यात् । स्वसंवेद्यत्वेन साक्षि- णोऽनङ्गीकारान्निरात्मत्वं च स्यादेव तच्छृतिविरुद्धमित्यर्थः । प्रतिबोधवाक्यस्यार्थान्तरं शङ्कते—यत्पुनरिति । ब्रह्माहमस्मीति चिन्तयतो यावच्चेतोव्यापृतिस्तावत्संप्रज्ञातसमा- अतः १ घ. कु. झ. द्धृत्वमात्म । २ क. ङ. इ. त्वमात्म। ३ रु. ट. निर्णीतो बो। क. ख. च.न. 'त्वमिति । ५ क.ख. त्यग्ब्रह्माभिव्यक्तस्य न ।

२० केनोपनिषत् [२द्वितीय:खण्ड:] ममृतत्वं हि विन्दते । प्रतिबोधो यथा सुप्तस्येत्यर्थं परिकल्पयन्ति । सकृविज्ञानं प्रतिबोध इत्य- परे । निनिमित्तः सनिमित्तः सकृद्वाऽसकृद्वा प्रतिबोध एव हि सः। अमृतत्वममरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्माद्विन्दते लभते यथो- तात्मतिबोधात्पतिबोधविदितात्मकात्तस्मात्मतिबोधविदितमेव मतमित्य- भिप्रायः । बोधस्य हि प्रत्यगात्माऽऽत्मविषयं च मतममृतत्वे हेतुः । न ह्यात्मनोऽनात्मत्वममृतत्वं भवत्यात्मत्वादात्मनोऽमृतत्वं निनिमित्तमेव । धिनिवृत्ते चेतोव्यापारे यः परमानन्दसाक्षात्कारः सौषुप्तानन्दसाक्षात्कारवत्सोऽसंप्रज्ञातसमाधिः प्रतिबोध उच्यते । तदुक्तं वार्तिककृता-"अपरायत्तबोधो हि निदिध्यासनमुच्यते” इति । अथवाऽक्रियब्रह्मात्मत्वानुभवे सति प्रमातृत्वानुपपत्तौ पुनर्ज्ञानासंभवात्सयोमुक्तिकारणं सव- द्विज्ञानं प्रतिबोध उच्यते । "सकृत्प्रवृत्त्या मृद्वाति क्रियाकारकरूपभृत् । अज्ञानमागमज्ञानं सांगत्यं नास्त्यतोऽनयो" इति । पक्षद्वयेऽप्यरुचिमाह-निनिमित्त इति । अयमाशयः । न तावविधानिः. तकस्याऽऽगन्तुकस्य बोधस्य निनिमित्तत्वं संभवति । कार्यस्य सनिमित्तत्वव्याप्तेः । सौषुप्त- स्यापि न निर्निमित्तत्वमविद्याया: पूर्वपूर्वनिरोधावस्थासंस्कारोद्भूततादृशवृत्त्यमिव्यक्तचैतन्यस्य तत्र सुखसाक्षात्कारोपगमात् । अत एव वृत्तिविशिष्टस्य विनाशे स्मरणमुपपद्यते । अत्रापि तावृत्तिसंस्कारप्रचयान्निवृत्तेऽपि चित्ते ब्रह्माभिव्यक्तं स्यादिति चेन्न । तथा सत्यप्रमात्वेन विनष्टपुत्रापरोक्षादिवाविद्यानिवृत्तिर्न स्यात् । शाब्दज्ञानसंवादात्प्रमात्वे परतन्त्रत्वप्रसङ्गः शब्दमूलत्वात्प्रमात्वेन निर्निमित्ततेति प्रवृत्तफलकर्मप्रतिबन्धाद्वर्तमानप्रमातृत्वाभासानिवृत्तेरसक- द्वोधोऽपि संभवतीति पक्षद्वयेऽपि नाऽऽदरः । सर्वथाऽपि परमात्मा प्रतिबोध एव बोधं प्रति बोधं प्रति साक्षितया भातीति । लक्ष्यपदार्थविवेचनपूर्वकं महावाक्योत्थं परमात्माऽस्मीति ज्ञानमेव सम्यग्ज्ञानं यस्मात्तत एवामृतत्वं लभत इत्याह-अमृतत्वमिति । उक्त- मर्थ संक्षिप्याऽऽह-बोधस्य हीति । बुद्धिपरिणामस्य सर्वस्य भासकं प्रत्यक्चैतन्य परमात्मा न भवति किंतु ब्रह्माण्डाद्वहिः स्थितस्तत्प्राप्तिश्च मोक्ष इत्याशङ्कयाऽऽह- न हीति । अनात्मप्राप्तेः कर्मफलवदनित्यत्वेनामृतत्वप्रसिद्धिर्न स्यादित्यर्थः । यद्यु- क्तदोषपरिहारायौपाधिकभेदेन भिन्नत्वं ब्रह्मणः स्वतस्त्वात्मत्वमेवेति मन्यसे तत्राऽऽह- आत्मत्वादिति । ब्रह्मण आत्मत्वादेवाऽऽत्मनोऽमृतत्वं स्वभावत एव सिद्धम् । तर्हि - १ च. म. गात्मविषयत्वं य°। २ क. ख. 'त्मवादात्मनोऽमृ । ३ग. घ. ङ. ट. त्तत्वात् । ए°१४ क, ख. च. ज. 'तकर्मफलप।

[२द्वितीयः खण्ड:] २१ : आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् ॥ १२ ॥ ४ ॥ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु एवं मर्त्यत्वमात्मनो यदविद्ययाऽनात्मत्वप्रतिपत्तिः । कथं पुनर्यथोक्त- याऽऽत्मविद्ययाऽमृतत्वं विन्दत इत्यत आह-आत्मना स्वेन स्वरूपेण विन्दते लभते वीर्य बलं सामर्थ्यं धनसहायमन्त्रौषधितपोयोगकृतं वीर्य मृत्युं न शक्नोत्यमिभवितुमनित्यवस्तुकृतत्वात् । आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते नान्येनेत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्य मृत्युं शक्नोत्यभिभवितुम् । यत एवमात्मविद्याकृतं वीर्य- मात्मनैव विन्दतेऽतो विद्ययाऽऽत्मविषयया विन्दतेऽमृतम् , नाय- मात्मा बलहीनेन लभ्यः इत्याथर्वणे। अतः समर्थों हेतुः, अमृतत्वं हि विन्दत इति ॥ १२॥४॥ कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्मजरामरणरोगादिसंपाप्तिरज्ञानादत इहैव चेन्मनुष्योऽधिकृतः समर्थः सन्यद्यवेदीदात्मानं यथोक्तलक्षणं विदितवान्यथोक्तेन प्रकारेण । अथ तदस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा सद्भावो वा परमार्थता वा सत्यं विद्यते । न *चेदिहावेदीदिति । न चेदिह जीव- श्चेदधिकृतोऽवेदीन्न विदितवांस्तदा महती दीर्घाऽनन्ता विनष्टिविना शनं जन्मजरामरणादिप्रबन्धाविच्छेदलक्षणा संसारगतिस्तस्मादेवं गुण. दोषौ विजानन्तो ब्राह्मणा भूतेषु भूतेषु सर्वभूतेषु. स्थावरेषु चरेषु विद्याया आनर्थक्यं प्राप्तमित्याशङ्कयाऽऽह-एवं मर्त्यत्वमिति । अविद्यया देहाद्यात्म- स्वप्रतिपत्तिरिति यत्तदात्मनो मर्त्यत्वं तन्निवृत्तिर्विद्याफलमित्यर्थः । वीर्य विद्याकृतमुक्तं मुक्तत्वे दायं तच्च स्वाभाविकमेव मुक्तत्वं वास्तवम् । सर्वशरीराद्यसंसर्गित्वान्नभोवान्निरवय- वत्वादेव । ततश्च नित्यमुक्त एवाहमित्यवष्टम्भो विद्याकृतं बलमित्यर्थः ॥ १२ ॥ ४ ॥ उत्तरवाक्यस्यापेक्षितमर्थमाह-कष्टा खल्विति । लौकिकमपि सत्यम् । चिरं जीवनं धनवत्त्वम् । सद्भावः साधुभावः ख्यातिः । एतदपि सर्व ब्रह्मविदो भवतीति स्तुत्य- * अत्र यद्यपि सर्वेष्वादर्शपुस्तकेषु न चेदवेदीदित्येवोपलभ्यते तथाऽपि मूले न चेदिहावेदीदिति वर्ततेऽतस्तथैव प्रतीकस्यापि प्रहीतुं युक्तत्वान्न चेदिहावेदीदिखैव स्थापितम् ।

१२ केनोपनिषत्- [३तृतीयःखण्ड:). विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १३ ॥ ५ ॥ इति द्वितीयः खण्डः ॥ २॥ब्रह्म ह देवेन्यो विजिग्ये चैकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीरा धीमन्तः प्रेत्य व्यावृत्य ममाहंमावलक्षणादविद्यारूपादस्माल्लोकादुपरम्य सर्वात्मैकत्व- भावमद्वैतमापन्नाः सन्तोऽमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इति श्रुतेः ॥ १३॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पादकृतौ केनो- पनिषत्पदभाष्ये द्वितीयः खण्डः ॥२॥ बह्म ह देवेभ्यो विजिग्ये "अविज्ञातं विजानतां विज्ञातमविजानताम्" इत्यादिश्रवणाद्यदस्ति तद्विज्ञातं प्रमाणैर्यन्नास्ति तदविज्ञातं शशविषाण. कल्पमत्यन्तमेवासदृष्टम् । तथेदं ब्रह्माविज्ञातत्वादसदेवेति मन्दबुद्धीनां ध्यामोहो मा भूदिति तदर्थेयमाख्यायिकाऽऽरभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देव ईश्वराणामपीश्वरो दुर्विज्ञेयो देवानां जयहेतुरसुराणां पराजयहेतुस्तत्कथं नास्तीत्येतस्यार्थस्यानुकू- लानि ह्युत्तराणि वांसि दृश्यन्ते । अथवा ब्रह्मविद्यायाः स्तुतये । कथं ब्रह्मविज्ञानाद्धयग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुस्ततोऽप्यतित: रामिन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्मेत्येतत्प्रदर्श्यते । येनाग्न्यादयोऽति- तेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति वक्ष्यमाणोपनिषद्विधिपरं वा सर्वं ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृ- त्वाभिमानो मिथ्येत्येतदर्शनार्थं वाऽऽख्यायिका । यथा देवानां जया. द्यभिमानस्तद्वदिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवद्देवानामसुराणांच सङ्ग्रामेऽसुराञ्जित्वा जगदराती- र्थमुच्यते । परमार्थतो ब्रह्मरूपस्थितिस्तु फलमवश्यं भवतीत्यर्थः ॥ १३ ॥ ५ ॥ इति द्वितीयः खण्डः ॥ २॥ उत्तरग्रन्थस्य प्रतीकमादाय तात्पर्यमाह-ब्रह्मेत्यादिना । अभिप्रेतं तात्पर्यमाह- वक्ष्यमाणेति । उत्तमाधिकारिगोचरमविषयं ब्रह्मात्मताज्ञानं पूर्वत्रोक्तमुत्तरत्र तु मन्दा- धिकारिगोचरं सगुणब्रह्मोपासनं वक्ष्यते । तत्परं वक्ष्यमाणं सर्ववाक्यनातं स्पष्टविधि- - १ के. ख. ग. घ. रु, ब्यावर्त्य ।

[३तृतीयः
खण्ड: ]
२३
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता।
तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त
ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महि-
मेति ॥ १४॥ १॥ त?षां विजज्ञौ तेश्यो
प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ।
॥ १५॥ २ ॥ तेऽग्निमब्रुवञ्जातवेद एतद्वि-
जानीहि किमेतद्यक्षमिति तथेति ॥ १६ ॥३॥
नीश्वरसेतुभेत्तुन्देवेभ्यो जयं तत्फलं च प्रायच्छज्जगतः स्थेने । तस्य ह
किल ब्रह्मणो विजये देवा अग्न्यादयोऽमहीयन्त महिमानं प्राप्नुवन्तस्त-
दाऽऽत्मसंस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः
प्राणिनां सर्वशक्तेर्जगतः स्थिति चिकीर्षोरयं जयो महिमा चेत्यजान-
न्तस्ते देवा ऐक्षन्तेक्षितवन्तोऽग्न्यादिस्वरूपपरिच्छिन्नात्मकृतोऽस्माकमे.
वायं विजयोऽस्माकमेवायं महिमाऽग्निवाविन्द्रत्वादिलक्षणो जयफलभू-
तोऽस्माभिरनुभूयते नास्मत्प्रत्यगात्मभूतेश्वरकृत इत्येवं मिथ्यामिमाने-
क्षणवताम् ॥ १४ ॥१॥
तद्ध किलैषां मिथ्येक्षणं विजज्ञौ विज्ञातवद्ब्रह्म । सर्वेक्षितृ हि तत्स-
र्वभूतकरणप्रयोक्तृत्वाद्देवानां च मिथ्याज्ञानमुपलभ्य मैवासुरवदेवा
मिथ्याभिमानात्पराभवेयुरिति तदनुकम्पया देवान्मिथ्याभिमानापनोदने-
नानुगृह्णीयामिति तेभ्यो देवेभ्यो ह किलार्थाय प्रादुर्बभूव स्वयोगमाहा-
त्म्यनिर्मितेनात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरे प्रादु-
बभूव । तत्प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तो देवाः। किमिदं
यक्षं पूज्यं महद्भूतमिति ॥ १५॥२॥
ते तदजानन्तो देवाः सान्तर्भयास्तद्विजिज्ञासवोऽग्निमग्रगामिनं जात-
वेदसं सर्वज्ञकल्पमब्रुवन्नुक्तवन्तो हे जातवेद एतदस्मद्गोचरस्थं यक्षं
विजानीहि विशेषतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति । तथाऽ-
दर्शनात् । अतोऽत्रैव तात्पर्यमर्थान्तरतात्पर्य प्रदर्शनं तु संभावनामात्रणेति द्रष्टव्यम् ।
ईश्वरस्य सेतवो मर्यादा वर्णाश्रमादिधर्मास्तद्भेदकान् । जगतः स्थेने स्थैर्याय । स्वयोगमाहा-
स्म्यनिर्मितेन सत्त्वरजस्तमसां त्रयाणां गुणानां योगो युक्तिर्घटनं माया तन्माहात्म्ये [न
निर्मितं ते] नेत्यर्थः ॥ १४ ॥ १ ॥ १५ ॥ २ ॥

२४ केनोपनिषत्- [श्तृतीयःखण्डः] तदायदवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मी- त्यबर्व जातवेदा वा अहमस्मीति ॥ १७ ॥ ॥४॥ तस्मिस्त्वयि किं वीर्यमित्यपीद५ सर्व दहेयं यदिदं पृथिव्यामिति ॥ १८ ॥५॥ तस्मै तृणं निदधावेतबहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैत- दशकं विज्ञातुं यदेतद्यक्षमिति ॥ १९ ॥ ६ ॥ अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्ष- मिति तथेति ॥ २० ॥ ७ ॥ तदस्यद्रवत्तम- भ्यवदत्कोऽसीति वायुर्वा · अहमस्मीत्यब्रवी- स्त्विति तद्यक्षमभ्यद्रवत्तत्प्रतिगतवानग्निः । तं च गतवन्तं पिपृच्छिषु तत्समीपेऽप्रगल्भत्वात्तूष्णीभूतं तद्यक्षमभ्यद्रव(वद)दग्निं प्रत्यभाषत कोs- सीति । एवं ब्रह्मणा पृष्टोऽग्निरबवीदग्नि, अग्निनामाऽहं प्रसिद्धो जात- वेदा इति च नामद्वयेन प्रसिद्धतयाऽऽत्मानं श्लाघयन् । इत्येवमुक्तवन्तं ब्रह्मावोचत्तस्मिन्नेवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामर्थ्यमिति । सोऽब्रवीदिदं जगत्सवं दहेयं भस्मी कुर्याम् । यदिदं स्थावरादि पृथिव्या- मिति । पृथिव्यामित्युपलक्षणार्थं यतोऽन्तरिक्षस्थमपि दह्यत एवाग्मिना । तस्मा एवमभिमानवते ब्रह्म तृणं निदधौ पुरोऽनेः स्थापितवद्ब्रह्मैतत्तृण- मानं ममाग्रतो दह न चेदस्य दग्धुं समर्थो मुञ्च दग्धृत्वाभिमानं सर्वत्रे. त्युक्तस्तत्तृणमुपप्रेयाय तृणसमीपं गतवान्सर्वजवेन सर्वोत्साहकृतेन वेगेन गत्वा न शशाक नाशकद्दग्धुं स जातवेदास्तृणं दग्धुमशक्तो वीडितो हतप्रतिज्ञस्तत एव यक्षादेव तूष्णीं देवान्मति निववृते निवृत्तः प्रतिगत- वान् । नैतद्यक्षमशकं शक्तवानहं विज्ञातुं विशेषतो यदेतद्यक्षमिति । ॥ १६ ॥३॥१७॥४॥१८॥५॥१९॥ ६॥ अथ वायुमित्यथानन्तरं वायुमब्रुवन्हे वायवेतद्विजानीहीत्यादि समानार्थ पूर्वेण । वानाद्मनाद्गन्धनाद्वायुः । मातर्यन्तरिक्षे श्वयतीति तृतीयखण्डशेषभाष्यं स्पष्टमतो न विवृतमिति ॥१६॥३॥१७॥४॥१८॥५॥१९॥६॥ क. ख, ग, घ. इ. झ. गत्वा सर्व।

[ ३ तृतीयः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। २५ खण्डः ] न्मातरिश्वा वा अहमस्मीति ॥२१॥८॥ तस्मिश्स्त्वयि किं वीर्यमित्यपीद५ सर्वमा ददीय यदिदं पृथिव्यामिति ॥२२॥ ॥९॥ तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकाऽऽदातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ २३ ॥१०॥ अथेन्दमयन्मघवन्नेतद्विजा- नीहि किमेतयक्षमिति . तथेति तदत्यवत्तस्मात्तिरोदधे ॥२४॥ ११ ॥ स तस्मिन्नेवाऽऽकाशे स्त्रियमाजगाम बहुशो- भमानामुमा५ हैमवती ता५ होवाच किमेतयक्षमिति ॥ २५ ॥ १२ ॥ इति तृतीयः खण्डः ॥ ३ ॥ मातरिश्वा । इदं सर्धमप्याददीय गृह्णीयाम् । यदिदं पृथिव्यामित्यादि समानमेव ॥ २० ॥ ७ ॥ २१ ॥८॥२२॥ ९॥२३॥ १०॥ अथेन्द्रमिति । अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहीत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवान्बलवत्त्वात्तथेति तदभ्यद्रवत्तस्मादिन्द्रादात्मसमीपं गता- तब्रह्म तिरोधे तिरोभूतमिन्द्रस्येन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादाद्ब्रह्मेन्द्राय तद्यक्षं यस्मिन्नाकाश आकाशम- देश आत्मानं दर्शयित्वा तिरोभूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मि- नाकाश आसीत्स इन्द्रस्तस्मिन्नेवाऽऽकाशे तस्थौ । किं तयक्षमिति ध्यायन्न निववृतेऽग्न्यादिवत्तस्येन्द्रस्य यक्षे भक्तिं बुध्दा विद्योमारूपिणी प्रारभूत्स्त्रीरूपा । स इन्द्रस्तामुमां बहुशोभमानां सर्वेषां हि शोभमा- नानां शोभनतमा विद्यां तदा बहुशोभमानेति विशेषणमुपपन्नं भवति । हैमवतीं हेमकृताभरणवतीमिव बहुशोभमानामित्यर्थः । अथवोमैव हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेनेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम । इन्द्रस्तां होमा किलोवाच पप्रच्छ बहि किमेतद्दर्शयित्वा तिरोभूतं यक्षमिति ॥ २४ ॥ ११॥२५॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पादकृतौ केनोपनिषत्पदभाष्ये तृतीयः खण्डः ॥३॥ ॥२०॥७॥२१॥८॥२२॥९॥२३॥१०॥२४॥११॥२५॥१२॥ इति तृतीयः खण्डः॥३॥ * अत्राऽऽददीयमिति सानुस्वारः पाठ उपलभ्यते स च' च्छान्दसो लेखकप्रमादो वा बोध्यः ।

२६ ४ चतुर्थः खण्डः] केनोपनिषत्-- *सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये मही- यध्वमिति ततो हैव विदांचकार ब्रह्मेति ॥ २६ ॥ ॥ १ ॥ तस्माद्दा एते देवा अतितरामिवान्या- न्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुस्ते ह्येनत्पथमो विदांचकार ब्रह्मेति ॥ २७ ॥२॥ तस्माद्दा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति । ॥ २८ ॥३॥ सा ब्रह्मेति होवाच ह किल ब्रह्मण ईश्वरस्यैव विजय ईश्वरेणैव जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव विजये यूयं महीयध्वं महि- मानं प्राप्नुथ । एतदिति क्रियाविशेषणार्थम् । मिथ्याभिमानस्तु युष्माक- मयमस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । ततस्तस्मादुमावा- क्याद्वैव विदांचकार ब्रह्मेतीन्द्रोऽवधारणात्ततो हैवेति न स्वातन्त्र्येण । ॥ २६ ॥१॥ यस्मादग्निवाय्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना सामीप्य- मुपगतास्तस्मादेश्वर्यगुणैरतितरामिव शक्तिगुणादिमहाभाग्यैरन्यान्देवान- तितरामतिशयेन शेरत इवैते देवाः । इवशब्दोऽनर्थकोऽवधारणार्थो वा । यदग्निर्वायुरिन्द्रस्ते हि देवा यस्मादेनद्ब्रह्म नेदिष्ठमन्तिकतमं प्रियतमं पस्पृशुः स्पृष्टवन्तो यथोक्तैर्ब्रह्मणः संवादादिप्रकारैस्ते हि यस्माञ्च हेतो- रेनद्ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्यतेद्विदांचकार विदांचकुरित्ये. तद्ब्रह्मेति ॥ २७ ॥२॥ यस्मादग्निवायू अपीन्द्रवाक्यादेव विदांचक्रतुरिन्द्रेण ह्युमावाक्या- प्रथमं श्रुतं ब्रह्मेत्यतस्तस्माद्वा इन्द्रोऽतितरामतिशयेन शेत इवान्यान्दे- वान्स ह्येनन्नेदिष्ठं पस्पर्श यस्मात्स ह्येनत्प्रथमो विदांचकार ब्रह्मेत्युक्तार्थ वाक्यम् ॥ २८॥३॥ ॥ २६ ॥ १ ॥ २७ ॥ २ ॥ २८ ॥ ३ ॥ * ग. घ. ङ. च. छ. ज. अ. ट. पुस्तकेषु सेति पदं नास्ति ।

[ ४ चतुर्थः आनन्दगिरिकृतटीकासंवनितशांकरभाष्यसमेता। खण्ड: ] तस्यैष आदेशो यदेतद्विद्युतो व्ययुतदा३इती; न्यमीमिषदा३ इत्यधिदैवतम् ॥ २९॥४॥ अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यतीक्ष्णं संकल्पः ॥ ३० ॥५॥ तस्य प्रकृतस्य ब्रह्मण एष आदेश उपमोपदेशो निरुपमस्य ब्रह्मणो येनोपमानेनोपदेशः सोऽयमादेश इत्युच्यते । किं तद्यदेतत्प्रसिद्धं लोके विद्युतो व्यथुतद्विद्योतनं कृतवदित्येतदनुपपन्नमिति । विद्युतो विद्योतन- मिति कल्प्यते । आ इत्युपमार्थे । विद्युतो विद्योतनमिवेत्यर्थः । “यथा सकृविद्युतम्" इति श्रुत्यन्तरे च दर्शनाद्विद्युदिव हि सकृदात्मानं दर्श- यित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतस्तेज इत्यध्याहार्यम् । व्यातद्विद्योतितवत्, आ इव । विद्युतस्तेजः सकृद्विद्योतितवदिवेत्यभि- प्रायः । इतिशब्द आदेशप्रतिनिर्देशार्थ इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्याऽऽदेशः । कोऽसौ । न्यमीमिषत् । यथा चक्षुय॑मीमिषन्निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एवाऽऽकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इत्यधिदैवतं देवता- विषयं ब्रह्मण उपमानदर्शनम् ॥ २९ ॥ ४॥ अथानन्तरमध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतद्गच्छतीव च मन एतद्ब्रह्म ढौकत इव विषयी करोतीव ययाऽनेन मनसैतद्ब्रह्मोपस्म- रति समीपतः स्मरति साधकोऽभीक्ष्णं भृशं संकल्पश्च मनसो ब्रह्मविषयो विद्युतः सकाशाद्विद्योतनं कृतवदित्यनुपपन्नं ब्रह्मणः स्वयंज्योतिष्ट्वात्पराधीनप्रकाशानुपपत्ते- विद्युत्संबन्धि द्योतनं कृतवदित्यनुपपन्नमन्याश्रयस्य विद्योतनस्यान्यकर्तृ[क] त्वानुपपत्तेरतो यथा- श्रुतासंभवादन्यत्र तात्पर्य वक्तव्यमित्यर्थः । प्रतिनिर्देशार्थ इति परामर्शार्थः । चक्षुषो निमेषणं द्रुतं भवतीति प्रसिद्धं तद्ब्रह्मणि क्षिप्रकारित्वं सृष्टयादौ प्रतिबन्धाभावेनाऽऽयासाभा- वेन च द्रुतकारित्वं धर्मोऽधिदैवतम् । यध्येयं ब्रह्म तद्यथा विद्युतः प्रकाशो युगपद्विश्वव्यापक- स्तथा निरतिशयज्योतीरूपं द्रुतं सकलसृष्टयादिकारि पारमैश्वर्यसंपन्नमित्युपमानोपदेशेनोक्तम् ॥ २९ ॥ ॥ ४ ॥ अधुना प्रत्यगात्मतया ब्रह्मणो यथाऽभिव्यक्तिः स्यात्तथोपदिश्यत इत्याह-अथा- नन्तरमिति । एतत्प्रकृतं ज्योतीरूपं ब्रह्म प्रति मदीयं मनो गच्छद्वर्तत इति चिन्तये. दिति य उपदेशः स आध्यात्मिकोऽभीक्ष्णं पौनःपुन्येन मम मनसः संकल्पो ब्रह्मविषय १ क. ख. 'वेनोणतनाभा ।

२८ केनोपनिषत्- [४ चतुर्थः खण्डः] तद्ध तदनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ३३ ॥ ॥६॥ उपनिषदं भो बृहीत्युक्ता त उपनिष- द्राहीं वाव त उपनिषदमब्रूमेति ॥ ३२ ॥ ॥ ७ ॥ मनउपाधिकत्वाद्धि मनसः संकल्पस्मृत्यादिप्रत्ययैरभिव्यज्यते ब्रह्मविष- यीक्रियमाणं इव चातः स एष ब्रह्मणोऽध्यात्ममादेशो विद्युन्निमेषणवदः धिदैवतं द्रुतं प्रकाशनधर्म्यध्यात्मं च मनः प्रत्ययसमकालाभिव्यक्तधर्मी- त्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेशोपदेशः। नहि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिराकलयितुं शक्यम् ॥ ३०॥५॥ किंच तद्ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वाइननीयं संभजनीयमतस्तद्वनं नाम प्रख्यातं ब्रह्म तद्वन- मिति यतस्तस्मात्तद्वनमित्यनेनैव गुणाभिधानेनोपासितव्यं चिन्तनीय- मिति । अनेन नानोपासकस्य फलमाह-स यः कश्चिदेतद्यथोक्तं ब्रह्मैवं यथोक्तगुणं वेदोपास्तेऽभि हैनमुपासकं सर्वाणि भूतान्यभिसंवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म । एवमनुशिष्टः शिष्य आचार्यमुवाच उपनिषदंरहस्यं यञ्चिन्त्यं भो भगवन्बूहीत्येवमुक्तवति शिष्य आहाss: चार्यः । उक्ताऽभिहिता ते तवोपनिषत् । का पुनः सेत्याह-ब्राह्मी ब्रह्मणः परमात्मन इयं तां परमात्मविषयत्वादतीतविज्ञानस्य वावैव त उपनिषदमबूमेत्युक्तामेव परमात्मविद्यामुपनिषदमबूमेत्यवधारयत्युत्त. रार्थम् । परमात्मविपयामुपनिषदं श्रुतवत उपनिषदं भो बहीति पृच्छतः शिष्यस्य कोऽभिप्रायः । यदि तावच्छृतस्यार्थस्य प्रश्नः कृतस्ततः पिष्टपे- एवेति ध्यायतः प्रत्याभूतब्रह्माभिव्यक्तिः स्यादित्याह-मनउपाधिकत्वाद्धीति । उक्तमर्थ संक्षिप्याऽऽह-विद्युन्निमेषणवदिति । सगुणब्रह्मोपासनमैश्वर्यफलकमुक्तम् । तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह-एवमनुशिष्ट इति । ॥ ३० ॥ ५॥३१॥ ६ ॥ परमरहस्यं श्रोत्रस्य श्रोत्रमित्यादिनोक्तमेवोत्तरार्थमित्युत्तरग्रन्थेन विद्याप्राप्त्यु- पायविधानार्थमुक्ता विद्या निरपेक्षवेत्यवधारयति । अवधारणार्थत्वं प्रतिवचनस्य चोद्यमु- खेन स्फुटयति-परमात्मविषयामित्यादिना । किं पूर्वोत्तोपनिषच्छेषतयाऽन्यदपे- १ च. न. ट. ड. 'णमिव । २ क. स. पक्ष्यते । २ [४. चतुर्थः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। २९ खण्ड:] षणवत्पुनरुक्तोऽनर्थकः प्रश्नः स्यादथ सावशेषोक्तोपनिषत्स्यात्ततस्तस्याः फलवचनेनोपसंहारो न युक्तः प्रेत्यास्माल्लोकादमृता भवन्तीति । तस्मा- दुक्तोपनिपच्छेषविषयोऽपि प्रश्नोऽनुपपन्न एवानवशेषितत्वात् । कस्त- यभिप्रायः प्रष्टुरित्युच्यते । किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारि- साधनान्तरापेक्षा । अथ निरपेक्षैव । सापेक्षा चेदपेक्षितविषयामुपनि- पदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्ये- वमभिप्रायः । एतदुपपन्नमाचार्यस्यावधारणवचनमुक्ता त उपनिषदिति । ननु नावधारणमिदं यतोऽन्यद्वक्तव्यमित्याह । तस्यै तपो दम इत्यादि सत्यं वक्तव्यमुच्यत आचार्येण नतूक्तोपनिषच्छेषतया तत्सहकारिसाध. नान्तराभिप्रायेण वा । किंतु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैस्तद- डैश्च सह पाठेन समीकरणात्तपःप्रभृतीनाम् । न हि वेदानां शिक्षाद्य- ङ्गानां च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सहपठिताना- मपि यथायोग्यं विभज्य विनियोगः स्यादिति चेद्यथा सूक्तवाकानुम- त्रणमन्त्राणां यथादैवतं विभागस्तथा तपोदमकर्मसत्यादीनां ब्रह्मवि- द्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थ- प्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्ययं विभागो युज्यतेऽर्थसं- बन्धोपपत्तिसामर्थ्यादिति चेत् । नायुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मवि. क्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सहकारिशब्देनानुपसर्जनमपि समुच्चयाई विवक्षितम् । एवं शिष्याभिप्रायमुपवर्ण्य समाधानमाह-एतदुपपन्नमिति । विद्याङ्ग- त्वहीनैः सह पाठात्तपःप्रभृतीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशे- विभावः सहपाठस्त्वकिंचित्कर इति शङ्कते-सहपठितानामपीति ।" अग्निरिद हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् ” इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्यप्यस्मिन्सूक्तवाके बढ्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तरया एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः । भवेत्सूक्तवाकस्य विनियोगो योग्यतासंभ- वात् । न कर्मणां विद्याविरुद्धत्वेन योग्यताया अयोग्यत्वादित्याह-नायुक्तरिति । १ ख. 'षदस्ततस्त । २ क. ख. 'म् । वेददारैः शि| ३ क, ख. ग, इ. च. झ. अ. 'वत्याग। ४ क. ख. उ. च. झ. अ. यस्मिरत्यागे ।

३० केनोपनिषत्- [ ४ चतुर्थः खण्डः] .. तस्यै तपो दमः कर्मेति प्रतिष्ठा द्यायाः शेषापेक्षा सहकारिसाधनसंबन्धो वा युज्यते । सर्वविषयव्यावृ. तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायास्तत्फलस्य च निःश्रेयसस्य, " मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुःप्रत्यक्परं पदम् तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्योपपद्यते । ततोऽसदेव सूक्त वाकानमन्त्रणवद्यथायोगं विभाग इति । तस्मादवधार- णार्थतैव प्रश्नप्रतिवचनस्योपपद्यते । एतावत्येवेयमुपनिषदुक्ताऽन्यनिरपे- क्षामृतत्वाय ॥ ३२॥७॥ यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽबूमेति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः कायेन्द्रियमनसां समाधानम् । दम उपशमः । कर्माग्रिहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिदृष्टा ह्यमृदितकल्मपस्योक्तेऽपि ब्रह्मण्यप्रतिपत्तिविपरीत- प्रतिपत्तिश्च यथेन्द्रविरोचनप्रभृतीनाम् । तस्मादिह वाऽतीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धर्ज्ञानं समुत्पद्यते यथाश्रुतम् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः इतिमन्त्रवर्णात् । “ज्ञानमुत्पद्यते पुंसां क्षयात्यापस्य कर्मणः" इति स्मृतेः । इतिशब्द उपलक्षणप्रदर्शनार्थः । इत्येवमाद्यन्यदपि ज्ञानोत्पत्ते- रुपकारकममानित्वमदम्भित्वमित्या पदर्शितं भवति । प्रतिष्ठा पादौ पादाविवास्यास्तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते पद्यामिव विद्याया विषयपालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः संबन्धयोग्यता प्रत्युत कर्मणामनुपयोगात्कर्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह-सर्वविषयेति । सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्याव- तको विषयस्तन्निष्ठत्वाद्विद्यायास्तत्फलस्य च कर्मवैलक्षण्यादित्यर्थः ॥ ३२ ॥ ७ ॥ तच्छब्दापेक्षितं यच्छब्दं पूरयति-यामिमामिति । प्राप्तिः सगुणविषया निर्ग-

[ ४ चतुर्थः आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता।
खण्डः ]
वेदाः सर्वाङ्गानि(णि?) सत्यमायतनम् ॥३३॥
॥८॥ यो वा एतामेवं वेदापहत्य पाप्मानमन्ते
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति
॥ ३४ ॥ ९ ॥ इति चतुर्थः खण्डः ॥ ४ ॥
पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट्कर्मज्ञानप्रका-
शत्वाद्वेदानां तद्रक्षणार्थत्वादङ्गानां प्रतिष्ठात्वम् । अथवा प्रतिष्ठाशब्दस्य
पादरूपकल्पनार्थत्वाद्वेदास्त्वितराणि सर्वाङ्गानि(णि?) शिरआदीनि ।
अस्मिन्पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि
गृहीतेऽङ्गानि गृहीतान्येव भवन्ति । तदायतनत्वादङ्गानाम् । सत्यमायतनं
यत्र तिष्ठत्युपनिषत्तदायतनं सत्यमिति । अमायिताऽकौटिल्यं वाड्य-
नःकायानां तेषु ह्याश्रयति विद्या येऽमायाविनः साधवः । नासुरप्रकृ-
तिषु मायाविषु। न येषु जिह्ममनृतं न माया च” इति श्रुतेः ।
तस्मात्सत्यमायतनमिति कल्प्यते । तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य
सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम् ।
"अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राञ्च सत्यमेकं विशिष्यते” इति स्मृतेः ॥३३॥ ८॥
यो वा एतां ब्रह्मविद्यां केनेषितमित्यादिना यथोक्तामेवं महाभागां
ब्रह्म ह देवेभ्य इत्यादिस्तुतां सर्वविद्याप्रतिष्ठां वेदामृतत्वं हि विन्दत
इत्युक्तमपि ब्रह्मविद्याफलमन्ते निगमयते-अपहत्य पाप्मानमविद्याका-
मकर्मलक्षणं संसारबीजं विधूयानन्तेऽपर्यन्ते । स्वर्गे लोके सुखात्मके
ब्रह्मणीत्येतत् । अनन्त इति विशेषणान्न त्रिविष्टपे । अनन्तशब्द औप-
चारिकोऽपि स्यादित्यत आह-ज्येय इति । ज्येये ज्यायसि सर्वमहत्तरे
णब्रह्मात्मविषया चेत्यर्थः । पादरूपकल्पनेति । प्रसिद्धपादसामान्यस्य कल्पितत्वादि-
तरैरप्यङ्गैः कल्पनारूपैर्भवितव्यमित्यर्थः । तस्यै तपो दमः कौत्यत्रत्येतिशब्दस्योपल-
क्षणार्थत्वात्सत्यमपि संग्रहीतव्यं कथं पृथगुच्यत इत्याशङ्कयाऽऽह-तपआदि-
ध्वेवेति ॥ ३३ ॥ ८॥
सगुणविद्यायाः क्रममुक्त्यर्थत्वात्क्रमेण प्राप्यं यत्कैवल्यं निर्गुणविद्याफलं तत्पूर्वोक्त-
मिहोपसंहियत इत्याह-यो वा एतामित्यादिना ॥ ३४ ॥ ९॥

३२ केनोपनिषत् । [४ चतुर्थः खण्डः] सह ना० आप्यायन्तु• सन्तु । इति सामवे- । दीयतलवकारोपनिषत्समाप्ता । स्वात्मनि मुख्य एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभि. प्रायः ॥ ३४ ॥९॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवत्पादकृती केनोपनिषत्पदभाष्ये चतुर्थः खण्डः॥४॥ समाप्तमिदं श्रीमच्छंकराचार्यविरचितं तलवकारोपनिषदप- रपर्यायकेनोपनिषत्पदभाष्यम् । योऽसौ सर्वेश्वरो विष्णुः सर्वात्मा सर्वदर्शनः । शुद्धो बोधाम्बुधिः साक्षात्सोऽहं नित्योऽभयः प्रभुः ॥ १ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीमदानन्द- ज्ञानकृतौ श्रीमच्छांकरतलवकारोपनिषदपरपर्यायकेनोपनिष- स्पदभाष्यटिप्पणं संपूर्णम् ॥

.. केनोपनिषत् आनन्दगिरिकृतटीकासवलितशांकरवाक्यमाष्योपेता । ॐ तत्सद्ब्रह्मणे नमः। अथ शांकरभाष्यम् । समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम् । ययो- विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां मृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्व फलनिरपेक्षज्ञानकर्मसमुच्चयानुष्ठानात्कृतात्मसंस्कारस्योच्छि- न्नात्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनो निर्माताशेषबाह्यविषय- अथाऽऽनन्दगिरिकृता टीका । प्रयत्नाद्यन्तरेणैव मनआदेः प्रवर्तकम् । विदिताविदितान्यस्वसिद्धं ब्रह्माहमद्वयम् ॥ १ ॥ केनेषितमित्यादिकां सामवेदशाखाभेदब्राह्मणोपनिषदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः । शारीरकैायैरनिर्णीतार्थत्वादिति न्यायप्रधानः श्रुत्यर्थसंग्राहकैर्वाक्यै- ाचिख्यासुः पूर्वकाण्डेन संबन्धमभिधित्सुः पूर्वकाण्डाथ संक्षेपतो दर्शयति-समाप्त- मिति । कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्धत्वादिगुणविशिष्टस्योपासनं पूर्वत्रा- तिवृत्तं कर्म च नित्यनैमित्तिकाद्यनेकप्रकारमविदुषामतिक्रान्तमित्यर्थः । ताभ्यां ज्ञानकर्मभ्या- मेव मोक्षसिद्धेन मुमुक्षोः पृथगुपनिषदारभ्येतिशङ्कानिरासाय ज्ञानकर्मणी विशिनष्टि- ययोरिति । ज्ञानमनादृत्य कर्मण एव निरपेक्षसाधनतयाऽनुष्ठानं विकल्पस्ततश्चन्द्रमण्डलं प्राप्याऽऽवर्तते केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनुष्ठानाद्ब्रह्मलोकं प्राप्य स्थित एव । तस्मान्नाऽऽवर्तत इत्यापेक्षिक्यनावृत्तिर्भवति न पुनरात्यन्तिकी । कृतकस्वपरिच्छेदाभ्यामनि- त्यत्वानुमानात् । अतः संसारफलकमेव कर्मकाण्डमित्यर्थः । अस्त्वयं कर्मकाण्डार्थस्तथाऽपि नियतपूर्वोत्तरभावानुपपत्तिलभ्यः कथं हेतुहेतुमद्भावः संवन्धः कर्मकाण्डेन ज्ञानकाण्डस्ये- त्याकाङ्क्षायामाह-अत ऊर्ध्वमिति । कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्कामेना(णा)नुष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चानात्मज्ञानाभिमुख्यं न जायते । अनात्माभिनिवेशस्यानर्थसाधनतयाऽवधारितत्वादात्मविषयैव जिज्ञासा जायते ।

२ केनोपनिषत्- [१प्रथमःखण्ड: त्वात्संसारबीजमज्ञानमुञ्चिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः केनेषि. तमित्यात्मस्वरूपतत्त्वविज्ञानायायमध्याय आरभ्यते । तेन च मृत्युपद- मज्ञानमुच्छेत्तव्यं तत्तन्त्रो हि संसारो यतः । अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानुक्तिः । तद्वि- रोधित्वात् । अस्य विजिज्ञासितव्यस्याऽऽत्मतत्त्वस्य कर्मविषयेऽवचनम् । कस्मादिति चेदात्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशय- ब्रह्मस्वरूपो ह्यात्मा विजिज्ञापयिषितः। “तदेव ब्रह्म त्वं विद्धि नेदं यदि- दम्" इत्यादिश्रुतेः । नहि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कंचन *नमितुमिच्छत्यतो ब्रह्मास्मीति संबुद्धो न कर्म कारयितुं शक्यते। नह्या- त्मानमवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिरतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्मवि- षयेऽनुक्तिर्विज्ञानविशेषविषयैव जिज्ञासा। कर्मानारम्भ इति चेन्न । जिज्ञासोश्वाऽऽत्मनिरूपणायोपनिषदारभ्यत इति हेतुहेतुमद्भाव इत्यर्थः । आत्मस्वरूपब्रह्म- तत्त्वविज्ञानायायमध्याय आरभ्यते चेत्कि तेन विज्ञानेन फलं स्यादित्यत आह-तेन चेति । यतोऽन्वयन्यतिरेकाभ्यामज्ञानतन्त्रा संसारप्रसिद्धिस्तदुच्छेदेनाऽऽत्यन्तिकसंसारो- च्छेदः फलमित्यर्थः । मृत्युकारणमात्माज्ञानमुच्छेत्तुमिच्छत आत्मजिज्ञासा जायत इत्युक्तं तदसत् । अहंप्रत्ययेनैवाऽऽत्मनोऽधिगतत्वादधिगते जिज्ञासानुपपत्तेरित्याशङ्कयाऽऽह- अनधिगतत्वादिति । अहंप्रत्ययस्य मनुष्यत्वादिसमानाधिकृतस्य व्यतिरिक्तात्मप्रमाप- कत्वासिद्धे,दिनां विप्रतिपत्तिदर्शनाञ्च युक्ता जिज्ञासेत्यर्थः । तथाऽपि कर्मकाण्डे देहव्यति- रिक्तस्याऽऽत्मनो विध्यपेक्षितत्वेन निरूपितत्वात्पुनर्जिज्ञासानुपपत्तौ कथं जिज्ञासोरुपनिषदा- रम्यत इत्याशङ्कयाऽऽह-कर्मविषय इति । अस्ति देहादिव्यतिरिक्तः परलोकसंबन्ध्या- स्मेत्येतावदेव स्वर्गकामादिचोदनाभिरपेक्षितं नतु ब्रह्मात्मतत्त्वं तस्य कर्मविरुद्धत्वात्ततस्तज्जि- ज्ञासा युक्तेत्यर्थः । संग्रहवाक्यं विवृणोति---अस्येत्यादिना । निरतिशयब्रह्मस्वरूप आत्मोपनिषदि विजिज्ञापयिषितोऽस्तु। कथमेतावता कर्मणा विरोध इत्याकाङ्क्षायामाह-न हीति। देवताराधनरूपो हि यागो ब्रह्मविच्च संवदेवतात्मभूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः । ब्रह्मात्मतत्त्वज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मात्मत्वोपदेशेनार्थास्कर्म तित्या- 'जयिषितमित्यननुष्ठानमेव प्रसज्येतातो जिज्ञासाहेतुत्वेनाभिमतः कर्मकाण्डेन संबन्धोऽसं- गत. इत्याशङ्कामुद्भाव्याभिहितं संबन्धं समर्थयति—कर्मानारम्भ इत्यादिसूत्रेण । . * इडागमश्चिन्त्यः । १ क. स. झ: निमेवात्यर्थः । --- [१प्रथमःखण्ड:] आनन्दगिरिकृतटीकासंवलित करवाक्यगाष्य समेता । ३. निष्कामस्य संस्कारार्थत्वात् । यदि ह्यात्मविज्ञानेनाऽऽत्माविद्याविषय- त्वात्परितित्याजयिषितं कर्म ततः "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इत्यनारम्भ एव कर्मणः श्रेयानल्पफलत्वादायासबहुलत्वात्तत्त्व- ज्ञानादेव च श्रेयःप्राप्तेरिति चेत्सत्यम् । एतदविद्याविषयं काल्पफलत्वा- दिदोषवद्वन्धरूपं च सकामस्य । “कामान्यः कामयते" "इति नु काम- यमानः" इत्यादिश्रुतिभ्यः। न निष्कामस्य । तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकाश्रयप्राणविज्ञानसहितानि । “देवयाजी श्रेयानात्मयाजी वा" इत्युपक्रम्याऽऽत्मयाजी तु करोति “इदं मेऽनेनाङ्गं संस्क्रियते” इति संस्कारार्थमेक कर्माणीति वाजसनेयके । "महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्" इत्यादिस्मृतेश्च । प्राणादिविज्ञानं च केवलं कर्मसमुचितं वा राकार प्राणात्मप्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्मज्ञानप्रतिबन्धनिर्माष्ट” भवति । आदर्शनिर्मार्जनवत् । उत्पन्नात्मविद्यस्य त्वनारम्भो निरर्थ- कत्वात् । , उत्पत्तिविधिविहितानां कर्मणां संस्कारार्थत्वे प्रमाणमाह-देवयाजी श्रेयानित्यादिना। फलकामनया देवान्यो यजते स किं श्रेयानुताऽऽत्मशुद्ध्यर्थमेव स्वर्गाद्यासङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघात- सहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्मज्ञानार्हा । क्रियते तनुरिति । तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणादिभावप्राप्त्यर्थमेव, " तेनो एतस्यै दैवतायै सायुज्यं सलोकतां जयति " इति श्रुतेः । कथमुक्तं कर्मनिवर्तकाश्रयप्राणोपासनसहितानि कर्माणि संस्कारार्थानीति तत्राऽऽह-प्राणा- दिविज्ञानं चेति । विविदिषावाक्येन(ण) यज्ञाद्युपलक्षितस्य सर्वस्य कर्मण आत्मज्ञाना- र्थत्वेन विनियुक्तत्वादुपासनस्य च मानसकर्मत्वादात्मज्ञानप्रतिबन्धकस्य कल्मषस्य निबर्हणद्वा- रेण स्यादात्मज्ञानार्थत्वमित्यर्थः । अज्ञाभिप्रायेण सप्रयोजनत्वात्तं प्रत्यनारम्भप्रसङ्ग आश्रय- हीन इत्युक्तम् । ज्ञान्यभिप्रायेण त्वनिष्टापादनस्येष्टापादनरूपत्वात्प्रसङ्गस्याऽऽभासत्वमाह उत्पन्नात्मविद्यस्येति । न केवलं श्रुतिप्रामाण्यादेव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इतिलौकिकन्यायाच कर्मानारम्भः सिद्ध इत्यर्थः । ज्ञानफले कैवल्येऽनुप- केनोपनिषत्- [१प्रथमःखण्ड:] हरिः ॐ केनेषितं पतति प्रेषितं मनः । - कमणा बध्यते जन्तुविद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः" इति । "क्रियापथश्चैव पुरस्तात्संन्यासश्च तयोः संन्यास एवात्यरेचयत्" इति, "त्यागेनैके" "नान्यः पन्था विद्यते" इत्यादिश्रुतिभ्यश्च, न्यायाञ्च । उपा: यभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य ज्ञानेन त्वमृतत्वप्राप्तिः,"अमृ: तत्वं हि विन्दते" "विद्यया विन्दतेऽमृतम्" इत्यादिश्रुतिस्मृतिभ्यश्च । नहि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति। नहि स्वमावसिद्धं वस्तु सिषाधयिषति साधनैः स्वभावसिद्धश्चाऽऽत्मा तथा नाऽऽपिपयिषितः । आत्मत्वे सति नित्याप्तत्वात् । नापि विचि- कारयिषितः, आत्मत्वे सति नित्यत्वादविकारित्वादविषयत्वादमूर्त- स्वाञ्च । श्रुतेश्च "न वर्धते कर्मणा" इत्यादि । स्मृतेश्च "अविकार्योs- यमुच्यते" इति । न संचिकीर्षितः। "शुद्धमपापविद्धम्" इत्यादिश्रु- तिभ्यः । अनन्यत्वाञ्च । अन्येनान्यत्संस्क्रियते । नचाऽऽत्मनोऽन्यभूता कियाऽस्ति, न च स्वेनैवाऽऽत्मना स्वमात्मानं संचिकीर्षेत् । न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्वन्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्नविद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्यावृत्तबाह्य- बुद्धेरात्मविज्ञानाय केनेषितमित्याद्यारम्भः । प्रवृत्तिलिङ्गाद्विशेषार्थः प्रश्न उपपन्नः। रथादीनां हि चेतनावदधिष्ठितानां प्रवृत्तिर्दृष्टा नानाधिष्ठिता- नाम् । मनआदीनां चाचेतनानां प्रवृत्तिर्दृश्यते । तद्धि लिङ्गं चेतनाव. योगाच ज्ञानिनः कर्मानारम्भ इष्ट इत्याह-नहि स्वभावसिद्धमित्यादिना । उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न संभवती- स्युक्तम् । यदि च परमानन्दगुणस्याऽऽत्मन्याधानं ब्रह्माण्डाद्वहिःस्थितब्रह्मप्राप्तिर्वा जीवस्य कैवल्यं कल्प्यते तमुनित्यत्वं दुर्वारमित्याह-नच वस्त्वन्तराधानमिति । एव- मुपनिषदारम्भं संभाव्य वाक्यस्यार्थं संगृह्णाति--प्रवृत्तिलिङ्गादिति । शिष्याचार्ययोः प्रश्नप्रतिवचनरूपा श्रुतिः सुखप्रतिपत्त्या प्रवृत्ता तत्र प्रश्नः किं ज्ञातेऽज्ञाते वेतिचोद्य- निरासाय सामान्यतो ज्ञातेऽपि विशेषतश्चाज्ञाते संभवति विकल्पकरणवदिति सूत्रितमेत- द्विवृणोति-रथादीनां हीति । मनआदीनामेव चेतनत्वादचेतनप्रवृत्तिस्वादित्यसिद्धो हेतु- १ क. ख. घ. छ. झ. मूचित ।

[१प्रथमःखण्ड] आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता।" केन प्राणः प्रथमः पैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥ श्रोत्रस्य श्रोत्रं तोऽधिष्ठातुरस्तित्वे । करणानि हि मनआदीनि नियमेन प्रवर्तन्ते । तन्नासति चेतनावत्यधिष्ठातर्युपपद्यते । तद्विशेषस्य चानधिगमाञ्चेतना- वत्सामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते । केनेषितं केनेष्टं कस्ये- च्छामात्रेण मनः पतति गच्छति स्वविषये नियमेन व्याप्रियत इत्यर्थः। मनुतेऽनेनेति विज्ञाननिमित्तमन्तःकरणं मनः प्रेषितमिवेत्युपमार्थः । न विषितप्रेषितशब्दयोराविह संभवतः । न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्मा विविक्तनित्यचित्स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्साधिष्ठातृवत् । प्राण इति नासिकाभवः । प्रकरणात् । प्रथमत्वं चलनक्रियायाः प्राणनिमित्तत्वात्स्वतो विषयावभासमात्रं कर- णानां प्रवृत्तिः । चलि क्रिया तु प्राणस्यैव मनआदिषु तस्मात्प्राथम्यं प्राणस्य प्रैति गच्छति युक्तः प्रयुक्त इत्येतत् । वाचो वदनं किंनिमित्त प्राणिनां चक्षुःश्रोत्रयोश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतना- वान्यः स किंविशेषण इत्यर्थः ॥१॥ श्रोत्रस्य श्रोत्रमित्यादिप्रतिवचनं निर्विशेषस्य निमित्तत्वार्थम् । विक्रि- यादिविशेषरहितस्याऽऽत्मनो मनआदिप्रवृत्तौ निमित्तत्वमित्येतच्छ्रोत्रस्य रिति नाऽऽशङ्कनीयमित्याह—करणानि हीति । अन्यत्रमना अभूवं नादमित्यादि- लोकानुभवान्मनआदीनां करणस्वं सिद्धं ततः प्रदीपवदचेतनत्वं सिद्धमित्यर्थः । इच्छामात्रे- णेति प्रयत्नाद्यभावो लक्ष्यते नस्विच्छास्तित्वं निर्विकारताया विवक्षितत्वात् । प्रेषितमिवेतीव- शब्दाध्याहारेण किमिति व्याख्यातम् । यथा राज्ञ इच्छामात्रेण काचिद्धृत्यप्रवृत्तिः काचिच्च वागादिव्यापारेण तद्वदिह किं न स्यादित्याशङ्कयाऽऽह—न विति । सक्रियस्य सर्वस्या- नित्यतयाऽवधारितत्वान्निप्क्रियं वस्तु पिपृच्छिषितं ततो नार्थभेदः संभवतीत्यर्थः । विषयेभ्य इति । विषयग्रहणार्थ नित्यचिकित्सायामधिष्ठातुश्चकोरस्य संनिधिमात्रेण यथा राजभोजना- दिप्रवृत्तिनिमित्तत्वं तद्वदित्यर्थः । प्रकरणादिति । करणसंनिधानादित्यर्थः ॥ १ ॥ प्रतिवचनवाक्यार्थसंग्रहं विवृणोति-विक्रियादीत्यादिना । मनआदीनां यः प्रव- तकः स किंविशेष इतिप्रश्नस्य निर्विशेषतैव विशेष इत्युत्तरम् । क्रियाया गुणस्य संबन्धस्य वा विशेषस्य व्यावर्तकधर्मस्य दर्शयितुमशक्यत्वात्क्रियादिमत्त्वे घटादिवदनात्मत्वप्रसङ्गादतो निर्विशेषचैतन्यात्मकोऽहमित्येवं ज्ञानं सम्यग्ज्ञानम् । न चाभावेन सद्वयत्वप्रसङ्गः । तस्य पृथक्सत्त्वाभावात्स्वरूपेण व्यवहाराङ्गत्वादित्युक्तम् । अन्यत्र यदि शौक्ल्यादिवत्कोऽपि विशेषोऽभविष्यत्तदा तमवक्ष्यत् । श्रुतिस्तूपलक्षणवृत्त्यैव प्रतिवचनं ब्रुवाणा निर्विशेषत्वं मन्यत केनोपनिषत् - [१प्रथमःखण्डः] श्रोत्रमित्यादिप्रतिवचनस्यार्थः । अनुगमात्तदनुगतानि ह्यवास्मिन्नर्थेऽक्ष- राणि । कथं शृणोत्यनेनेति श्रोत्रं तस्य शब्दावभासकत्वं श्रोत्रत्वम् । शब्दोपलब्धृरूपतयाऽवभासकत्वं न स्वतः श्रोत्रस्याचिद्रूपत्वात् । आत्म- नश्च चिद्रूपत्वात् । यच्छ्रोत्रस्योपलब्धृत्वेनावभासकत्वं तदात्मनिमित्त- त्वाच्छ्रोत्रस्य श्रोत्रमित्युच्यते । यथा क्षत्रस्य क्षत्रं यथा वोदकस्योष्ण्य- मग्निनिमित्तमिति दग्धुरप्युदकस्य दग्धाऽग्निरुच्यते । उदकमपि ह्यग्निसं- योगादग्निरुच्यते । तद्वदनित्यं यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि। उदास्ये दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वमग्रा. विवौष्ण्यं स नित्योपलब्धिस्वरूपत्वादग्धेवोपलब्धोच्यते । श्रोत्रा- इति श्रुत्यक्षरानुसाराद्गम्यत इत्याह–अनुगमादिति । निर्विशेषत्ववाचकपदाभावात्कयं निर्विशेषेऽक्षरानुगम इत्याह-कथमिति । निर्विशेषस्य वाचकशक्त्या वाक्यार्थत्वाभा- वेऽप्युपलक्षणवृत्त्या मविप्यतीत्यभिप्रेत्य श्रोत्रशब्दस्य तावन्मुख्यार्थमाह-शृणोतीति । शब्दावभासकत्वं स्वशक्त्यैव भविष्यति श्रोत्रस्य कथं तस्य शब्दावभासकत्वेनाऽऽत्मोपलक्ष- यितव्य इत्याकाङ्क्षायामाह-शब्दोपलब्धृरूपवयेति । शक्तिः सतः प्रकाशमानस्यैव वाच्या नासतोऽप्रकाशमानस्य नरविषाणायमानत्वेन शक्तिमत्त्वानुपपत्तेः । सत्ताप्रकाशश्वाss. त्मरूपं तद्भदे मानाभावादत उपलब्धृतादात्म्येनैव श्रोत्रस्यावभासकत्वं न स्वातन्त्र्येण जड- त्वात् । जडस्य च सत्ताहीनत्वाच्छुक्तिरूप्यस्येवेत्यर्थः । श्रोत्रस्यावभासकत्वमुपलब्धृतादा- स्म्येनेति यापलब्धोपलक्ष्यते तर्खपलब्धुरप्यवभासकत्वमन्याधीनमित्यनवस्था प्राप्नोतीत्याश- याऽऽह-आत्मनश्चेति । स्वप्रकाशत्वादुपलब्धुः सत्ताप्रतीत्योरनन्यायत्तत्वान्नानवस्थे- त्यर्थः । भवत्वेवमनवस्थाभावः। तथाऽपि कथं श्रोत्रस्य श्रोत्रमित्यात्मोच्यत इत्याशङ्कयाऽऽह- यच्छ्रोत्रस्येति । तदात्मनिमित्तत्वादिति । तस्याऽऽत्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्र- मित्युपलक्ष्यते निर्विशेष चैतन्यमात्रमित्यर्थः । यथा क्षत्रस्येति । क्षत्रजातिनियामकं कर्म क्षत्रमित्युच्यते यथेत्यर्थः । यदि श्रोत्रादिसाक्ष्यात्माऽस्ति कथं लोकायतिकादेः श्रोत्रादिष्वेवो- पलब्धृत्वव्यवहार इत्याशङ्कयाऽऽह-उदकमपीति । तद्वदुपलब्धृसंबन्धाच्छ्रोत्रादिषूपल- ब्धृत्वव्यवहार इत्यर्थः । भवन्मते तर्हि नित्योपलब्धिस्वभाव आत्मेति श्रोत्रादेः करणत्वं न स्यात् । क्रियायां हि करणापेक्षेत्याकाङ्क्षायामाह-अनित्यं यदिति। प्रमातुर्यत्संबन्धा- दनित्यमुपलब्धृत्वं भवति बुद्धिपरिणामस्तच्छ्रोत्रादिकरणं बुद्धिवृत्त्यपेक्षया भवतीत्यर्थः । श्रोत्रादिसंगते प्रमातर्यनित्योपलब्धृत्वसंभवेऽपि तवासङ्गस्य साक्षिणः कथमुपलब्धृत्व- व्यपदेश इत्याशङ्कयाऽह-यत्र विति । उक्तमर्थ संक्षिप्याऽऽह-श्रोत्रा- १क. 'ते थे।

[१प्रथमःखण्ड:] आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाग्यसमेता । ७ मनसो मनो यदाचो ह वाचं स उ प्राणस्य पाणश्चक्षुषश्चक्षुः । अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ दिषु श्रोतृत्वाद्युपलब्धिरनित्या नित्या चाऽऽत्मन्यतः श्रोत्रस्य श्रोत्रमि. त्याद्यक्षराणामानुगमादुपपद्यते निर्विशेषस्योपलब्धिस्वरूपस्याऽऽत्मनो मनआदिप्रवृत्तिनिमित्तत्वमिति । मनआदिष्वेवं यथोक्तम्।वाचो हवाचं प्राणस्य प्राण इति विभक्तिद्वयं सर्वत्रैव द्रष्टव्यम् । कथं पृष्टत्वात्स्वरूपनि- देशः प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया । अतो पाचो ह वाचं प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् । यदेतच्छ्रो- त्राद्युपलब्धिनिमित्तं श्रोत्रस्य श्रोत्रमित्यादिलक्षणं नित्योपलब्धिस्वरूपं निर्विशेषमात्मतत्त्वं बु(तद्यु)द्ध्वाऽतिमुच्यानवबोधनिमित्ताध्यारोपिता- बुद्धयादिलक्षणात्संसारान्मोक्षणं कृत्वा धीरा धीमन्तः प्रेत्यास्माल्लोका च्छरीरात्मेत्य वियुज्यान्यस्मिन्नप्रतिसंधीयमाने निनिमित्तत्वादमृता भव- न्ति । सति ज्ञाने कर्माणि शरीरान्तरं प्रतिसंदधत आत्मावबोधे तु सर्व- कर्मारम्भनिमित्ताज्ञानविपरीतविद्याग्निविप्लुटत्वात्कर्मणामित्यनारम्भेऽ- मृता एव भवन्ति । शरीरादिसंतानाविच्छेदप्रतिसंधानाद्यपेक्षयाऽध्या- दिष्विति । श्रोत्रादिषु निमित्तेषु सत्सु श्रोत्रादिसंहते प्रमातरि श्रोतृत्वादिरूपोपलब्धि- रित्युपलब्धृत्वमित्यर्थः । मनसो मन इत्यादिष्वेवमतिदिशति-मनआदिष्वेवमिति । न्यायसामान्याद्यथोक्तं व्याख्यानं द्रष्टव्यम् । नहि मनसो मनस्त्वं वाचो वाक्त्वं वा स्वातव्येण संभवति अध्यस्तत्वादतोऽधिष्ठानसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशत्वं मनआदेः। तच्चाधिष्ठानं निर्विशेषमेवोपलक्षयितव्यम् । विशेषत्वेऽध्यस्तत्वप्रसङ्गादिति भावः । विभक्ति- द्वयनिर्देशतात्पर्यमाह-वाचो हेत्यादिना । मनआदेः प्रवर्तकः किंस्वभाव इति पृष्ट- स्वात्स्वरूपनिर्देशः कर्तव्यः । स च प्रथमया । " निर्देशे प्रथमा प्रोक्ता " इति स्मरणा- दित्यर्थः । अतिमुच्य धीरा इत्युत्तरं वाक्यं साध्याहारं योजयति-यदेतदित्यादिना । एतबुद्ध्वाऽमृता भवन्तीति संबन्धः । तादात्म्येनाध्यारोपितो यो बुध्द्यादिरनवबोधनिमित्तः संसारस्ततो मोक्षणं तादात्म्याध्यासनिवृत्तिर्दृष्टं फलम् । अमृता भवन्तीति विदेहमुक्तिरदृष्टं फलमित्यर्थः । कर्मणां संबन्धानुपपत्तिरिति शेषः । निमित्ताभावाच्छरीरान्तराद्यनारम्भेऽमृता भवन्तीति प्रयोगादागन्तुकत्वममृतस्वस्येतिशङ्कानिवृत्त्यर्थमाह-शरीरादीति । अनादिभ- वपरम्परया शरीर्यासं परस्ताच्च भविष्यामीति शरीरादिसंतानाविच्छेदस्य प्रतिसंधानं धर्माद्यधिका- १ क. ज. श. श्रोत्रत्वा । २ क.ख. छ. झ. ज. बोधिनः स'। ३ घ. श्रोत्रत्वा ।

केनोपनिषत्- [१प्रथमःखण्ड:] न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशि- प्यादन्यदेव तद्विदितादथो अविदितादधि । रोपितमृत्युवियोगात्पूर्वमप्यमृताः सन्तो नित्यात्मस्वरूपत्वादमृता भव- न्तीत्युपचर्यते ॥२॥ न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । श्रोत्रस्य श्रोत्रमित्येवमादिनोक्तेऽप्यात्मतत्त्वेऽप्रतिपन्नत्वात्सूक्ष्मत्वहेतोर्वस्तुनः पुनः पुनः पर्यनुयुयुक्षाकारणमाह-न तत्र चक्षुर्गच्छतीति। तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वान्न विज्ञानमुत्पादयन्ति। सुखादिवत्तर्हि गृह्येतान्तःकरणेनात आह-नो मनः । न सुखादिवन्मनसो विषयस्तत् । इन्द्रियाविषयत्वात् । न विद्मो न विजानीमोऽन्तःकरणेन यथैतद्ब्रह्म मनआदिकरणजातमनुशिष्यादनुशासनं कुर्यात्प्रवृत्तिनिमित्त भवेतथाऽविषयत्वान्न विनो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रा. दिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह न शक्यते दर्शयितुं कस्मान्न तत्र चक्षुर्गच्छतीत्यादि पूर्ववत्सर्वमत्र तु विशेषो यथैतदनुशि. ध्यादिति । यथैतदनुशिष्यात्यतिपादयेत् । अन्योऽपि शिष्यानितोऽन्येन विधिनेत्यभिप्रायः। सर्वथाऽपि ब्रह्म बोधयेत्युक्त आचार्य आह, अन्यदेव तद्विदितादथी अविदिताधीत्यागमम् । विदिताबिविताभ्यामन्यत्वम् । रित्वाध्यासः कामादिदोषकल्पनं चैतस्मादध्यारोपितो यो मृत्युस्तद्वियोगापेक्षयाऽमृतत्वस्य भवनमौपचारिकमित्यर्थः ॥ २ ॥ न तत्र चक्षुर्गच्छतीतिवाक्याथ संगृह्णाति आचार्येणोक्तेऽपि तत्त्वे शिष्यस्याप्रति- पत्तेर्हेतोः पर्यनुयोगे हेतुर्न तत्र चक्षुर्गच्छतीति । एतद्विवृणोति--श्रोत्रस्य श्रोत्र- मित्यादिना । आत्मा नेन्द्रियविषयोऽभौतिकत्वान्नरविषाणवत् । मनश्चेन्द्रियं प्रसिद्ध ततस्तस्याप्यविषय इत्याह-इन्द्रियाविषयत्वादिति । न विद्मो न विजानीम इत्याद्यभ्यासः सर्वथाऽन्तःकरणाविषयत्वख्यापनार्थः । आक्षेपपरतया व्याख्याय शङ्कोत्तर- त्वेन व्याचष्टे-अथवेत्यादिना । इत उपलक्षणप्रकारादन्येन प्रकारेण न शक्यते दर्शयितुं क्रियागुणादिविशेषशून्यत्वादित्यर्थः । आगममित्युपदेशपारम्पर्यमाहेति संबन्धः । आगमस्यार्थमाह-विदिताविदिताभ्यामन्यत्वमिति । अन्यदात्मनो विदितमवि- दितं वा स्यादतो विदितत्वाविदितत्वनिषेधेनाऽऽत्मनोऽन्यत्र ब्रह्मत्वं विदुषां विनिवाऽऽत्मा १ ग. ङ. ज.तं. यथा भवेत्तदवि । ज..तं यथा भौं। २ ख. .घ. च. छ. तदवि ।

{१प्रथमःखण्डः] आनन्दगिरिकृतटीकासंवलितशांकरवाक्यमाष्यसमेता। ९ यो हि ज्ञाता स एव सः। सर्वात्मकत्वात् । अतः सर्वात्मनो ज्ञातुर्तावन्त- राभावाद्विदितादन्यत्वम् । “स वेत्ति वेद्यं न च तस्यास्ति वेत्ता" इति च मन्त्रवर्णात् । “ विज्ञातारमरे केन विजानीयात्" इति च वाजसने- यके । अपि च व्यक्तमेव विदितं तस्मादन्यदित्यभिप्रायः । यद्विदितं व्यक्तं तदन्यविषयत्वादल्पं सविरोधं ततोऽनित्यमत एवानेकत्वादशुद्धमत एव तद्विलक्षणं ब्रह्मेति सिद्धम् । अस्तु त_विदितम् । न विज्ञानान- पेक्षत्वात् । यद्धयविदितं तद्विज्ञानापेक्षमविदितविज्ञानाय हि लोकप्र- वृत्तिः। इदं तु विज्ञानानपेक्षं कस्माद्विज्ञानस्वरूपत्वात् । न हि यस्य यत्स्व- रूपं तत्तेनान्यतोऽपेक्ष्यते। न च स्वत एवापेक्षा । अनपेक्षमेव सिद्धत्वात् । प्रदीपः स्वरूपाभिव्यक्तौ न प्रकाशान्तरमन्यतोऽपेक्षते स्वतो वा यद्धय- नपेक्षं तत्स्वत एव सिद्धं प्रकाशात्मकत्वात्प्रदीपस्यापेक्षितोऽप्यनर्थकः स्यात् । प्रकाशे विशेषाभावात् । नहि प्रदीपस्य स्वरूपाभिव्यक्तौ प्रदीपप्र- काशोऽर्थवान् । न चैवमात्मनोऽन्यत्र विज्ञानमस्ति येन स्वरूपविज्ञानेऽप्यपे- क्ष्यते। विरोध इति चेन्नान्यत्वात् । स्वरूपविज्ञाने विज्ञानस्वरूपत्वाविज्ञा- ब्रह्मेत्युपदिष्टं भवतीत्यर्थः । विदितान्यत्वे युक्तिमाह-यो हीत्यादिना । विदि- तान्यत्ववचनस्याऽऽर्थिकमर्थमाह-अपि चेति । कार्याध्यावृत्तिः सिध्यतीत्यर्थः । आत्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथाऽपि स्वग्राहकत्वात्स्वस्मादेव विज्ञानमपेक्षते तेन विज्ञानानपेक्षत्वमसिद्धमित्याशङ्कयाऽऽह—न च स्वत एवेति । स्वभावत- याऽनपेक्षमेव सिद्धत्वादपेक्षाशब्दार्थो न घटते स्वग्राहकत्वं चासिद्धं स्ववृत्तिविरोधादित्यर्थः । विज्ञानं सजातीयानपेक्षं प्रकाशत्वात्प्रदीपवदित्यनुमानमभिप्रेत्य दृष्टान्तमाह-नहीति । तमोध्वस्तये ह्यालोकापेक्षा तदभावश्चाऽऽलोके स्वत एव सिद्ध इत्यर्थः । प्रदीपस्य तेजसस्य तैजसान्तरानपेक्षत्वेऽपि विजातीयप्रकाशस्य ज्ञानस्यापेक्षा स्वव्यवहारेऽपि दृष्टा तथा ब्रह्म- णोऽपि विजातीयज्ञानापेक्षा भविष्यतीति न च वाच्यमित्याह-नचैवमात्मन इति । ब्रह्मणोऽन्यस्य सर्वस्याज्ञानात्मकत्वाद्भानसंभावनैव नास्त्यन्यत्र ततो न विजातीयज्ञानापेक्ष- मपि ब्रह्मेत्यर्थः । ज्ञानानपेक्षत्वे लौकिकानुभवविरोधं शास्त्रविरोधं चोद्भाव्य परिहरति- विरोध इति चेन्नान्यत्वादिति । सूत्रस्य पूर्वपक्षभागं विभजते-स्वरूपविज्ञान इत्यादिना । विज्ञानानपेक्षत्वं ब्रह्मणोऽभाणि । सापेक्षत्वं जीवशब्दवाच्यस्योपाधिविशिष्ट. १ ख. ग. च. ब. काशं प्रदी।

१० केनोपनिषत्- [१प्रथमःखण्ड:] नान्तरं नापेक्षत इत्येतदसत्। दृश्यते हि विपरीतज्ञानमात्मनि सम्यग्ज्ञानं च न जानाम्यात्मानमिति श्रुतेश्च "तत्त्वमसि' "आत्मानमेवावेत्' "एतं वै तमात्मानं विदित्वा" इति च । सर्वत्र श्रुतिष्वात्मविज्ञाने विज्ञाना- न्तरापेक्षत्वं दृश्यते तस्मात्प्रत्यक्षश्रुतिविरोध इति चेन्न । कस्मात् । अन्यो हि स आत्मा बुद्धयादिकार्यकरणसंघाताभिमानसंतानाविच्छेदलक्ष- णोऽविवेकात्मको बुद्ध्यवभासप्रधानश्चक्षुरादिकरणो नित्यचित्स्वरूपा- मान्तःसारो यत्रानित्यं विज्ञानमवभासते । बौद्धप्रत्ययानामाविर्भावति- रोभावधर्मकत्वात्तद्धर्मतयैव विलक्षणमपि चावभासते । अन्तःकरणस्य मनसोऽपि मनोऽन्तर्गतत्वात्सर्वान्तरश्रुतेः । अन्तर्गतेन नित्यविज्ञानस्व- रूपेणाऽऽकाशवदप्रचलितात्मनाऽन्तर्गर्भभूतेन बाह्यो बुद्धयात्मा तद्विलक्ष- णोऽचिभिरिवाग्निः प्रत्ययैराविर्भावतिरोभावधर्मकैविज्ञानाभासरूपैरनि- त्यैरनित्यविज्ञान आत्मा सुखी दुःखीत्यभ्युपगतो लौकिकैरतोऽन्यो नित्य- 8 स्यानुभूयतेऽतो भिन्नविषयत्वान्न विरोध इत्याह-न कस्मादित्यादिना । बुद्ध्यादौ कार्यकरणसंघाते य आत्माभिमानसंतानोऽनादिभवपरम्पराप्रापितस्तस्याविच्छेदरूपमनिर्वा- च्यमज्ञानलक्षणं चिहं यस्य चित्प्रतिबिम्बस्य स तथोक्तः । चित्तन्त्रं ह्यनिर्वाच्य- मज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरूपावभासं प्रतिबध्य मौढ्याद्यध्यासहेतुर्भवति । तस्मादविवेकात्मको जीव इत्युच्यते बुद्धेरन्तःकरणस्य यथा यथा नीलपीताद्याकारावभासा जायन्ते तथा तथा चित्प्रतिबिम्बः प्रमातृत्वादिरूपेण भातीति तत्प्रधानोऽध्यस्तस्य विशिष्टस्य तत्सत्तयैव सत्त्वाद्विशिष्टान्तर्निविष्टो य आत्मा नित्यचित्स्वरूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धिपरिणामरूपाणां नीलपीतादिप्रत्ययानामुत्पन्नविनाशवत्त्वात्तदुपरक्तरूपेणानित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाण्येतानि जीवविशेषणान्यन्यत्वस्फुटीकरणानि न केवलमनित्यत्वम् । विशिष्टोपाधिरूढतया विज्ञानस्य तद्धर्मतयैवावभासते मनुष्योऽहं जाना- मीति प्रतिशरीरं विलक्षणमपि चैतन्यमवभासते विशिष्टभेदादित्यर्थः । परमार्थतः कीदृशं चैतन्यं यस्य विशिष्टधर्मताऽवभासते तत्राऽऽह–अन्तःकरणस्येति । ननु. विशेषण- संबन्धात्स्वरूपे समारोपितो विशिष्टो भाति तस्य मिथ्यात्वात्कथमात्मत्वव्यवहारास्पदत्वं तत्राऽऽह-अन्तर्गतेनेति । विशिष्टान्तर्गतेन चिल्स्वरूपेण तादात्म्याबाह्य इत्यना- स्माऽपि बुद्धिविशिष्ट आत्मेत्युपगतो लौकिकैरिति संबन्धः । अत इत्युक्तधर्मवत्त्वादस्तु नित्यविज्ञानाद्विलक्षणो जीवः । कथमेतावता विरोधः परिहृत इत्याकाङ्क्षायामाह- १ क ख. छ. झ. यत्र नि । २ घ. छ. बुद्धात्मा। ३ क. घ. छ. स. 'पेण नि। ४ क.ख. छ. झ. मैतैवा।

[१प्रथमःखण्ड:] आनन्दगिरिकृतटीकासंवलितशांकरमान्यभाष्यसमेता । ११ विज्ञानस्वरूपादात्मनः। तत्र हि विज्ञानापेक्षा विपरीतज्ञानत्वं चोपपद्यते न पुनर्नित्यविज्ञाने । तत्त्वमसीति बोधोपदेशो नोपपद्यत इति चेत् । आ- त्मानमेवावेदित्येवमादीनि च नित्यबोधात्मकत्वात् । न ह्यादित्योऽन्ये- न प्रकाश्यतेऽतस्तदर्थबोधोपदेशोऽनर्थक इति चेन्न । लोकाध्यारोपापो- हार्थत्वात् । सर्वात्मनि हि नित्यविज्ञाने बुद्धयाद्यनित्यधर्मा लोकैरध्या- रोपिता आत्माविवेकतस्तदपोहार्थों बोधोपदेशो बोधात्मनः । तत्र च तत्र हीति । एवं लोकानुभवविरोधे परिहृतेऽपि शास्त्रविरोधो न परिहृत इत्याह- तत्त्वमसीति । विशिष्टस्य मिथ्यात्वाद्ब्रह्मास्मीत्यनुभवायोगान्मोक्षाहत्वायोगाच्च तत्त्वम- सीत्युपदेशो न घटते चेत्तर्हि ब्रह्मण एवोपदेशोऽस्त्वित्याशङ्कयाऽऽह-आत्मानमेवा. वेदिति । एवमादीनि वाक्यानि ब्रह्मोपदेशपक्षे न संगच्छन्ते तज्जनितफलाभावादि- स्यर्थः । विशिष्टस्य निरुपाधिकस्य च ब्रह्मण उपदेशासंभवेऽप्युपाधिविशिष्टचित्स्वरूपजी- वपदलक्ष्यस्य वैशिष्टयद्वारेणोपदेशो भविष्यति फलं तस्याऽऽरोपितबन्धनिवृत्तिरित्याह- न लोकेति । ननु लोकशब्देनाऽऽत्मोच्यतेऽनात्मा वा । नाऽऽद्यः । आत्मनोऽधिष्ठान- तयाऽध्यासकर्तृत्वासंभवाच्चैत्रो हि शुक्तिकायां रजतमध्यस्यति न शुक्तिकैव । अध्यासक- र्तृत्वे चाऽऽत्मनः प्रागेवाध्यासात्कर्तृत्वं वाच्यम् । कर्तृत्वस्य प्राग्भावनियमात्तदा चानि- मोक्षप्रसङ्गः । कर्तृत्वस्याध्यासत्वे च न कर्तृत्वमात्मनस्तद्विषयकर्तृत्वान्तराभावात् । भावे चानवस्थानात् । न द्वितीयः । जडत्वादनात्मनोऽध्यासकर्तृत्वानुपपत्तेः । चेतनो हि देव- दत्तोऽध्यस्यतीति प्रसिद्धम् । अथ जडस्याध्यासकर्तृत्वं नाम भ्रान्त्याश्रयत्वं यद्यपि न संभवति तथाऽपि भ्रान्तिनिमित्तत्वं दृष्ट जपाकुसुमादेः । न तस्य सत्यस्योपाधित्वसंभवा- द्भाष्यकारमते च जडस्य सर्वस्याध्यासात्मकत्वादध्यासहेतुस्वं न संभवति तस्मादसंबद्धमिदं भाष्यं लोकाध्यारोपापोहार्थत्वादिति । लोकशब्देनाहंकारादय उच्यन्ते । तेषां व्यावहारिक- सत्यत्वस्यार्थक्रियासमर्थत्वेनाभ्युपगमात् । स्वधर्मारोपनिमित्तत्वेनोपाधित्वसंभवात्परमार्थसत्यस्यै- वोपाधित्वमित्यस्मान्प्रति दृष्टान्ताभावादहंकारादयश्च चित्तन्त्रानाद्यनिर्वाच्याविद्यामयभूतसूक्ष्म- विकारा अविद्यावच्छिन्न एव चैतन्ये निपतन्ति । उपाधिविकाराणामुपहिते पक्षपातिताया दर्शनात् । यथा जलचलनादीनाम् । तस्मान्नासंगतं भाष्यम् । ननु बोधात्मनो नाबोधः समञ्जसः प्रकाशाप्रकाशयोर्विरोधप्रसिद्धः। बोधोऽपि च बोधात्मनो न समञ्जसः । निर्वि- कारत्वात् । कथं बोधात्मनो बोधोपदेशः सार्थकस्तत्राऽऽह-तत्र चेति । बोधा- दन्यस्याबोधात्मकत्वेनाबोधाश्रयत्वं न समञ्जसम् । आत्माश्रयत्वप्रसङ्गादनिवृत्तिप्रसङ्गाच तस्य बोधासंभवात् । तस्माद्बोधात्मन एवाबोधः समञ्जसः । परिशेषाद्विरोधश्चासिद्धः १ क. छ. झ. न. 'र्तृत्वं वाच्यं कर्तत्वस्य प्रारभावा ।

. १२ केनोपनिषत्- [१प्रथमःखण्ड: बोधाबोधौ समञ्जसौ। अन्यनिमित्तत्वादुदक इवौष्ण्यमग्निनिमित्तम् । राज्यहनी इवाऽऽदित्यनिमित्ते लोके नित्यावीष्ण्यप्रकाशावग्न्यादित्ययो- रन्यत्र भावामावयोनिमित्तत्वादनित्याविवोपचर्येते। धक्ष्यत्यग्निः प्रकाश- यिष्यति सवितेति तद्वत् । एवं च सुखदुःखबन्धमोक्षाद्यध्यारोपो लोकस्य तदपेक्ष्य तत्त्वमस्यात्मानमेवावेदित्यात्मावबोधोपदेशेन श्रुतयः केवलमध्या- रोपापोहार्थाः। यथा सविताऽसौ प्रकाशयत्यात्मानमिति तद्वत् । बोधाबो धकर्तृत्वं च नित्यबोधात्मनि । तस्मादन्यदविदितात् । अधिशब्दश्चान्यार्थे । यद्वा यद्धि यस्याधि तत्ततोऽन्यत्सामर्थ्याद्यथाऽधि भृत्यादीनां राजा। अव्यक्तमेवाविदितं ततोऽन्यदित्यर्थः । विदितमविदितं च व्यक्ताव्यक्त साक्षिवेद्यत्वात् । बोधोऽपि तत्रैव समञ्जसो घटादेोद्धृत्वाप्रसिद्धेः । चिच्याप्त एव बुद्धिपरि- णामे बोधशब्दव्युत्पत्तेः परिणाम्यन्तःकरणोपहितस्य बोधात्मनो बोधवत्वं समञ्जसमित्यर्थः । सामन्चस्ये हेत्वन्तरमाह-अन्यनिमित्तत्वादिति। अन्यत्राहंकारादिसंघाते वादिना लौकि- कानां च बोधाबोधौ प्रसिद्धौ तौ चाऽऽत्मबोधाबोधसंबन्धादित्यात्मनो मुख्यौ बोधाबोधौ । यत्संबन्धादन्यत्र यदुपचर्यते तत्तत्र मुख्यं यथाऽग्निसंबन्धादुदकस्यौष्ण्यमुपचारेणाग्नौ तन्मु- त्यमित्यर्थः । आत्मनिमित्तौ चेदन्यत्र बोधाबोधौ तर्हि निमित्तत्वादात्मनो व्यापारवत्त्वप्रसङ्ग- स्तत्राऽऽह-राज्यहनी इवेति । यथाऽऽदित्यसंनिध्यसंनिधिमात्रनिमित्ते लोके राज्य- हनी भवतः । नह्यादित्यः कंचन स्वापयत्युत्थापयति वा । अतो निमित्तत्वं न व्यापारव. त्त्वाविनाभूतमित्यर्थः । नन्वात्मनि बोधस्य नित्यत्वे कथं कालावच्छेदव्यवहारः प्रागज्ञासिर्फ शास्त्रार्थमिदानी च नानामि पुन स्यामीति तत्राऽऽह दृष्टान्तम्-नित्यावौष्ण्यप्रका- शाविति । तद्वद्विषयस्य कालावच्छिन्नत्वेन कालावच्छेदव्यवहारः स्वरूपेण नित्येऽपि बोधे न विरुध्यत इत्यर्थः । आत्मनि बोधाबोधयोः सामञ्जस्ये किं सिद्धमित्यत आह-एवं चेति । आगन्तुकविषयसंवन्धात्तदुपरक्तरूपेण बोधस्याऽऽगन्तुकत्वेऽपीदानी मया स्वात्मा बुध्यत इति नित्यबोधात्मनि कथं बोधकर्तृत्वव्यपदेश इत्याशङ्कयाऽऽवरकापनयस्याऽऽ- गन्तुकत्वेन भविष्यतीत्याह-यथा सविताऽसाविति । यस्मादन्योपाधिकमात्मनि बोधकर्तृत्वम् । स्वतः पुनर्विज्ञानानपेक्षत्वमेव । तस्माद्विज्ञानानपेक्षत्वादविदितादन्यत्वं सिद्धम्। कथमन्यत्वविवक्षायामधिशब्दः संगच्छते तत्राऽऽह-अधिशब्दश्चेति । निपातानामने- कार्थत्वाल्लक्षणया चेत्यर्थः । अविदितादन्यत्वस्याऽऽर्थिकमर्थमाह-अव्यक्तमेवेति । विदितं न भवत्यविदितं च न भवतीत्येकैकनिषेधस्य तात्पर्यमुक्त्वा समुदायार्थमाह- विदितमविदितं चेति । व्याचचक्षिर इत्यस्वातन्त्र्यं. तर्कप्रतिषेधार्थमित्येतत्सूत्रं १ क. धिगतं त । छ.. धिगतं ततोऽ।

[१ प्रथमः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता । १३
खण्डः] .
इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे ॥ ३ ॥
यद्दाचाऽनायुदितं येन वागायुद्यते । तदेव
ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ४ ॥
कार्यकारणत्वेन विकल्पिते ताभ्यामन्यद्ब्रह्म विज्ञानस्वरूपं सर्वविशेषप्रत्य-
स्तमितमित्ययं समुदायार्थः। अत एवाऽऽत्मत्वान्न हेय उपादेयोवा। अन्य-
द्धयन्येन हेयमुपादेयं वा। न तेनैव तद्यस्य कस्यचिद्धेयमुपादेयं वा भवति।
आत्मा च ब्रह्म सर्वान्तरात्मत्वादविषयमतोऽन्यस्यापि न हेयमुपादेयं
वा । अन्याभावाञ्च । इति शुश्रुम पूर्वेषामित्यागमोपदेशः। व्याचचक्षिर
इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थम् । ये नस्तद्ब्रह्मोक्तवन्तस्ते नित्यमेवाऽऽगमं
ब्रह्मप्रतिपादकं व्याख्यातवन्तो न पुनः स्वबुद्धिप्रभवेन तर्केणोक्तवन्त
इत्यागमपारम्पर्याविच्छेदं दर्शयति विद्यास्तुतये । तर्कस्त्वनवस्थितो
भ्रान्तोऽपि भवतीति ॥३॥
यद्वाचेतिमन्त्रानुवादो दृढप्रतीतेः । अन्यदेव तद्विदितादिति योऽयमा-
गमार्थो बाह्मणोक्तोऽस्यैव इढिम्ने मन्त्रा यद चेत्यादयः पठ्यन्ते। यद्ब्रह्म
वाचा शब्देनानभ्युदितमनभ्युक्तमप्रकाशितमित्येतत् । येन वागभ्युद्यत
इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्याभि-
धेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च केनेषिता वाचमिमा
वदन्ति यद्वाचो ह वाचमिति । तदेव ब्रह्म त्वं विद्धीत्यविषयत्वेन ब्रह्मण
आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचाऽनभ्युदितं वाक्प्रकाशनिमित्तं
चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्येवावस्थाप-
यत्याम्नायस्तदेव ब्रह्म त्वं विद्धीति यत्नत उपरमयति । नेदमित्युपा-
स्यप्रतिषेधाञ्च ॥४॥
विवृणोति—ये नस्तदिति ॥३॥
यद्वाचेतिमन्त्रानुवादो दृढप्रतीतेरिति सूत्रमेतद्विभजते—अन्यदेवेत्यादिना । येन
वागम्युद्यत इत्यनेन वाक्प्रकाशे हेतुत्वोक्तिब्रह्मणः क्रियत इति योजना । एतत्सूत्रं विवृ-
णोति-येनेत्यादिना । तदेव ब्रह्म त्वं विद्धीत्याद्याम्नाय आत्मन्येव बुद्धेरवस्थापनार्थ
उपसंहारार्थः । अविषयत्वेन ब्रह्मणोऽतिरिक्तस्वरूपेण वेद्यत्वासंभवादिति योजना । एतत्सूत्रं
विभजते-यद्वाचेत्यादिना ॥४॥

१४ केनोपनिषत्- [२ द्वितीयःखण्ड यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥ यच्चक्षुषा न पश्यति येन चक्षषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिद श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ यत्पाणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥ इति प्रथमः खण्डः ॥ १ ॥ यदि मन्यसे सुवेदेति देहरमेवापि नूनम् । त्वं यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणानामविषयं तानि च सव्यापाराणि सविषयाणि नित्यविज्ञानस्वरूपावभासतया येनावमा- स्यन्त इति श्लोकार्थः । “क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति" इति स्मृतेः। "तस्य भासा" इति चाऽऽथर्वणे।येन प्राण इति। क्रियाशक्तिर- यात्मविननिमित्तेत्येतत् ॥५॥६॥७॥॥८॥इति प्रथमः खण्डः॥१॥ यदि मन्यसे सुवेदेति शिष्यबुद्धिविचालना गृहीतस्थिरतायै । विदि- ताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य तदेव ब्रह्म त्वं विद्धीति स्वाराज्येऽभिषिच्योपास्यप्रतिषेधेनाथास्य बुद्धिं विचाल- मन्त्रसमुदायस्यार्थमाह--सर्वकरणानामित्यादिना । यत्सर्वकरणानामविषयं येन निर्विशेषेण सर्वाणि करणानि भास्यन्ते तद्ब्रह्मैव त्वं ततोऽतिरिक्तज्ञानाय यत्नो न कर्तव्य इति यत्नोपरम एव लक्ष्यते । विद्धीत्यनेनातिरिक्तं मा विद्धीत्यभिप्रायः ॥ ५ ॥ ॥ ६ ॥ ७ ॥ ॥ इति प्रथमः खण्डः समाप्तः ॥ १ ॥ यदि मन्यसे सुवेदेत्यनेन वाक्येन शिष्यबुद्धिविचालना क्रियते स्थूणानिखननन्यायेन गृहीतस्य दाढार्थम् । एतत्संग्रहवाक्यं विवृणोति-विदिताविदिताभ्यामित्या- दिना । अल्पमेव ब्रह्मणो रूपं नूनं त्वं वेत्थेति को मन्यत इत्याकाङ्क्षाया- १ ख. ग. घ. दभ्रमे ।

[२द्वितीयः आनन्दगिरिकृतटीकासंवलितांकरवाक्यभाष्यसमेता । १५ खण्डः ] वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु भीमाश्स्यमेव ते मन्ये विदितम् ॥९॥ १ ॥ यति यदि मन्यसे सुवेदाहं ब्रह्मेति त्वं ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यत इत्याचार्यः। सा पुनर्विचालना किमर्थेत्युच्यते पूर्वगृहीते वस्तुनि बुद्धः स्थिरतायै । देवेष्वपि सुवेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दहरमेव वेत्ति नूनम्। कस्मात् । अविषयत्वात्कस्य- चिद्ब्रह्मणः । अथवाऽल्पमेवास्याऽऽध्यात्मिकं मनुष्येषु देवेषु च ।आधि- दैविकमस्य ब्रह्मणो यद्रूपं तदिति संबन्धः। अथ न्विति हेतुर्मीमांसायाः । यस्माद्दहरमेव सुविदितं ब्रह्मणो रूपमन्यदेव तद्विदितादित्युक्तत्वात्सुवे. देति च मन्यसेऽतोऽल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मादथ नु तस्मान्मी. मांस्यमेवाद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रतिषेधाग- मार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसंगतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव त इति चोक्त एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाहाऽऽगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन संगत्यर्थम् । एवं हि सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चितेति माह-मन्यत इत्याचार्य इति । यदिति । यादृशमस्य ब्रह्मणो रूपं स्वमर्मस्था. स्तादृशं देवेष्वपि यो मन्यते सोऽपि दहरमेव नूनं मन्यत इति योजना । अथ न्विति हेतुर्मी- मांसाया इति संग्रहवाक्यं विवृणोति-यस्मादित्यादिना । प्रतिवचनस्याथै संगृहीतं विवृणोति-सम्यगित्यादिना । विचार्येति । मया विदितं ब्रह्मेति किं प्रतिवचनं ददाम्युताविदितमिति वा । नाऽऽद्यः । आचार्यागमप्रत्ययविरोधाद्वेदनविषयतया च घटवद- ब्रह्मत्वप्रसङ्गाद्वेदितृत्वेन मम विकारित्वापाताच्च । न द्वितीयः । गोपालादिम्योऽविशेषप्रसङ्गा- तूष्णीमवस्थाने वाऽप्रतिभाप्रसङ्गादिति विचार्यकैकपक्षदोषपरिजिहीर्षया विदितमविदितं चेति समुच्चितं वच्मि । अज्ञानसंशयाद्यभावाद्विदितं वेदनविषयत्वाभावाच्चाविदितमिति सुपरिनि- श्चितः सन्प्रतिवचनमाहेत्यर्थः । प्रत्ययत्रयस्य संगतिः संघटनमेकस्मिन्विषये किमर्थमुच्यते । संवादाधीनं प्रामाण्यमितितार्किकस्थितर्निश्चयार्थम् । स्वतःप्रामाण्यपंक्षे त्वागमार्थे प्रत्ययान्तर- संवादस्तात्पर्यद्योतकः । प्रतिबन्धनिरासेनोपचारेण निश्चयहेतुरिति सर्वस्य प्रतिवचनवाक्यस्य १ क. ख. घ. च. श.स्य च दे। २ छ. श. "तं चेदं वि। ३ क. स. पक्षवापन। ४ घ. म. तक।

१६ केनोपनिषत्- (२द्वितीय:खण्ड] *नाह मन्ये सुवेदेति नो न वेदेति वेद, च । न्यायः प्रदर्शितो भवति । मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञान- प्रतिज्ञाहतूक्तेः ॥९॥१॥ परिनिष्ठितं सफलं विज्ञानं प्रतिजानीत आचार्यात्मनिश्चययोस्तुल्य- तायै । यस्माद्धेतुमाह नोह मन्ये सुवेदेति । अहेत्यवधारणार्थो निपातो नैव मन्य इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत्सुवेद सुष्टु वेदाह ब्रह्मेति विपरीतो मम निश्चय आसीत् । सो(स उ)पजगाम भवद्भिर्विचा- लितस्य । यथोक्तार्थमीमांसाफलभूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्म- त्ययाद्विरुद्धत्वात् । अतो नाह मन्ये सुवेदेति । यस्माच्च तन्नैव न वेदेति मन्य इत्यनुवर्तते । अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यस इत्युक्त आह-वेद च । चशब्दावेद च न वेद चेत्यभिप्रायः । विदिताविदि- ताभ्यामन्यत्वाद्ब्रह्मणस्तस्मान्मया विदितं ब्रह्मेति मन्य इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति पर- -- तात्पर्यमुक्त्वा मन्ये विदितमित्यादिना मन्ये विदितमित्येकदेशस्याथै संगृह्णाति ॥ ९ ॥ १ ॥ संगृहीतं स्फुटयति-परिनिष्ठितमित्यादिना । विरुद्धत्वादिति । विपरीतप्र- स्ययस्य सम्यग्ज्ञानविरुद्धत्वात्तदुदयमात्राद्विपरीतप्रत्ययोऽपगत इत्यर्थः । न केवलं विपरीतप्रत्ययस्य संशयस्य वाऽभावान्मम निश्चितं विज्ञानमज्ञानाभावाचेत्याह-यस्मा- चेति । अथवा वेद चेत्यस्यान्योऽर्थः कथ्यते । यद्यनित्यमात्मविज्ञानं स्यात्तर्हि तस्य प्रागभावकाले प्रध्वंसाभावकाले वाऽज्ञानं संभाव्येत नतु तदस्ति । नित्यं हि विज्ञानं ब्रह्म मम स्वरूपं ततो नो न वेद । यदि च वेदनं मम विक्रिया भवेत्तदा विक्रियायाः कादाचित्कत्वात्कदाचिदहं वेदोते शङ्कयेत नतु तदस्ति स्वरूपविज्ञानस्यान्यथात्वासंभ- वात्सदा वेदैवाहम् । यथा स्वाभाविकाचलतया पर्वतास्तिष्ठन्तीति व्यपदेशस्तद्वदित्यर्थः । स्वसत्तायां स्वयं प्रैमेति स्वप्रकाशत्वमादाय व्याख्यातं चशब्दार्थमाह-विशेषविज्ञानं चेति । आगमाद्विचारसहकृताजातं ब्रह्मात्मकताव्यञ्जकमन्तःकरणपरिणामरूपं ब्रह्मा- स्मीति विशेषविज्ञानं तत्परेणान्तःकरणेनोपाधिनाऽऽन्मन्यध्यस्तं न परमार्थतो ज्ञानवत्त्व- * केनोपनिषत्पदभाष्यतो नाहं मन्य इति पाठः १ घ. वा. नाहं म । २ क. ख. घ. च. छ. श. म. मित्ये। ३ च. प्रभेति । .

[२द्वितीयः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता। १७ खण्डः] यो नस्तद्वेद तद्देद नो न वेदेति वेद च ॥ १० ॥ ॥२॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः। मार्थतो न च वेदेति यो नस्तद्वेद तद्वेदेतिपक्षान्तरनिरासार्थमानाय उक्तार्थानुवादात् । यो नोऽस्माकं मध्ये स एव तद्ब्रह्म वेद नान्यः। उपा. स्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाऽहं वेदेति वेद चेति पक्षान्तरे ब्रह्म- वित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इत्युच्यते । उक्तानुवादादुक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥ १० ॥२॥ यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्याचार्योक्ति- प्रत्युक्तिलक्षणयाऽनुभवयुक्तिप्रधानयाऽऽख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेनाऽऽगमप्रधानेन निगमनस्थानीयेन संक्षेपत उच्यते । यदुक्तं विदितादन्यद्वागादीनामगोचरत्वात् । मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म तत्तथैव ज्ञातव्यं कस्मात् । यस्यामतं यस्य विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्यामतमविज्ञातमविदितं ब्रह्मेत्यात्मतत्त्वनिश्चयफलावसानावबो- धतया विविदिषा निवृत्तेत्यभिप्रायः । तस्य मतं ज्ञातं तेन विदितं ब्रह्म येनाविषयत्वेनाऽऽत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञा- नानन्तरमेव ब्रह्मात्ममावस्यावसितत्वात्सर्वतः कार्याभावो विपर्ययेण मिथ्याज्ञानो भवति । कथं मतं विदितं ज्ञातं मया ब्रह्मेति यस्य विज्ञानं स मिथ्यादी विपरीतविज्ञानो विदितादन्यत्वाद्ब्रह्मणो न वेद स न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम् । अब्रह्म- विषयतया निन्दितत्वात्तथा कपिलकणभुगादिसमयस्यापि विदितब्रह्म- मात्मन इति न वेद चेति घटत इत्यर्थः । प्रकारान्तरेणापि ब्रह्मविज्ञानं संभवतीतिशङ्का- निरासार्थ वाक्यैकदेश इत्याह-यो नस्तद्वेद तद्वेदेति । इदं सूत्रवाक्यं विवृणोति- यो नोऽस्माकमिति । यो नोऽस्माकं मध्ये तद्विदिताविदितान्यत्वं वेदेति शेषः । यथाऽहं वेदोतोऽन्येन प्रकारेण विदुष उपास्यब्रह्मवित्त्वादिति योजना । उक्तानुवादादिति । अभ्यासाख्यतात्पर्यलिङ्गदर्शनादविषयतयैव ब्रह्मविज्ञानं विवक्षितमित्यर्थः ॥ १० ॥ २ ॥ यस्यामतमितिवाक्याथै संगृहीतं व्याख्याति-शिष्याचार्येत्यादिना । श्रौतमिति शिष्यस्याऽऽचार्यस्य चोक्तिर्न भवतीतिख्यापनार्थम् । तेन श्रौतेन वचनेन कथमुच्यत इस्याकाङ्क्षायामाह-यदुक्तमिति । यद्ब्रह्म विदितादन्यदुक्तमिति संबन्धः । गोपा- १ क. झ. ज्ञातो भ' । २ घ. च. छ. झ..ति प्र१३ घ. झ. दान्ये ।

१० केनोपनिषत- [२द्वितीयःखण्डः] अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ११ ॥ ३ ॥ प्रतिबोधविदितं मत- विषयत्वादनवस्थिततर्कजन्यत्वाद्विविदिषानिवृत्तेश्च मिथ्यात्वमिति । स्मृतेश्च- या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः इति विपरीतमिथ्याज्ञानयोनष्टत्वादिति। अविज्ञातं विजानतां विज्ञा- तमविजानतामिति पूर्वहेतूक्तिरनुवादस्याऽऽनर्थक्यात् । अनुवादमात्रेड- नर्थकं वचनमिति पूर्वोक्तयोर्यस्यामतमित्यादिना ज्ञानाज्ञानयोर्हेत्वर्थ- त्वेनेदमुच्यते । अविज्ञातमविदितमात्मत्वेनाविषयतया ब्रह्म विजानता यस्मात्तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्धयादि- विषयं ब्रह्माविजानतां विदिताविदितव्यावृत्तमात्मभूतं नित्यविज्ञान- स्वरूपमात्मस्थमविक्रियममृतमजरमभयमनन्यत्वादविषयमित्येवमविजा- नताम् । बुद्धयादिविषयात्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिता- विदितव्यक्ताव्यक्तधर्माध्यारोपेण कार्यकारणभावेन सविकल्पमयथार्थ- विषयत्वात् । शुक्तिकादौ रजताद्यध्यारोपणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥ ११ ॥३॥ प्रतिबोधविदितं मतमिति । वीप्साप्रत्ययानामात्मावबोधद्वारत्वा- लादीनामिवाऽऽत्मतत्त्वं न विवक्षितं किंतु ब्रह्मण आत्मत्वफलावसानो योऽवबोधो यस्य स तथोक्तस्तस्य भावस्तत्ता तया बुभुत्सा निवृत्ता । विचार्यमाणे ब्रह्मण आत्मत्वेन पर्यव- सानादतिरिक्तमन्तव्याभावादमतमित्यर्थः । अविज्ञातं विजानतामित्युत्तरार्धस्यार्थं संगृहीतं विवृणोति-अनुवादमात्र इत्यादिना । हेत्वर्थत्वेनेति । अयमर्थ:--पूर्वेषां ब्रह्म विजानतामविज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमप्यविषयतया ज्ञानं सम्यग्ज्ञानं तथा पूर्वेषामविदुषां विज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमपि विषयतया ज्ञानमसम्यग्ज्ञानमिति । बुद्धयादिविषेयं सद्रूपतया बुद्धिरात्मा मन आत्मेन्द्रियमात्मेति विज्ञानं वेदबाह्यानां ब्रह्म बौद्धादीनां प्रसिद्धं तत इदानीमपि तन्मतानुसारिणां भ्रान्तानामेव बुद्ध्यादिविषयमनात्मरूप- मात्मतयाऽभिमतमित्यर्थः ॥ ११ ॥ ३ ॥ केन द्वारेण तहविषयतयाऽऽत्माऽवगम्यतामित्याकाङ्क्षायामाह-प्रतिबोधेति । १ घ. च. अ. ष पस्तद् । २ घ. च. छ. ज. विज्ञात । ..

[२द्वितीयः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता। १९ खण्ड:] ममृतत्वं हि विन्दते । आत्मना विन्दते द्वोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासा- स्तदन्यावभासश्चाऽऽत्मा तद्विलक्षणोऽग्निवदुपलभ्यत इति तेन ते द्वारी भवन्त्यात्मोपलब्धौ । तस्मात्पतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म तदेव मतं ज्ञातं तदेव सम्यग्ज्ञानवत्प्रत्यगात्मविज्ञानं न विष- यविज्ञानम् । आत्मत्वेन प्रत्यगात्मानमैक्षदिति च काठके । अमृ- तत्वं हि विन्दत इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्म- विज्ञाने हि मृत्युः प्रारभत इत्यात्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतु- वचनममृतत्वं हि विन्दत इति । आत्मज्ञानेन किममृतत्वमुत्पाद्यते । न । कथं तर्हि । आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेनामृतत्वं विन्दते । संग्रहवाक्यं विवृणोति-बोधं प्रतीत्यादिना । यथाऽस्मिन्शरीरे बुद्धिपरिणामा जडा अपि चियाप्ततया संवेदनवदवभासन्त इति संभाव्यते । जडानां स्वाभाविकप्रकाशानुपपत्तेः । तथा सर्वशरीरेषु बौद्धाः प्रत्यया ययाप्ततया संवेदनवद्भासन्ते सोऽस्तीति संभाव्यते । एतदुक्तं भवति-श्रोतृशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्त्वमर्थः । तदितरसर्वशरीरावच्छिन्न- बौद्धप्रत्ययसाक्ष्येकस्तदर्थः । चिन्मात्रे व्यावर्तकधर्मानुपलम्भाद्विभक्तत्वे चानात्मत्वादिदोष- प्रसङ्गात्संभावितमेकत्वं तदेव ब्रह्म त्वमितिवाक्यजबुद्धिवृत्तावविषयतया प्रकाशते ब्रह्मास्मीति यस्मात्तानन्याञ्जडानवभासयतीति तदन्यावभास आत्मा सर्वजडविलक्षणोऽवगन्तुं शक्यते तस्मादित्युपसंहारः । प्रतिबोधमवभासाश्चित्प्रतिबिम्बास्तेषां प्रत्यगात्मतयाऽव्यभिचरित- स्वरूपेण बिम्बस्थानीयेनकेन रूपेण यद्ब्रह्मवेदनं तत्सम्यग्दर्शनमित्यर्थः । विषयविज्ञानं सम्य- ग्ज्ञानं न भवतीत्यत्र हेतुमाह-आत्मत्वेनेति । ब्रह्मण आत्मत्वेन विषयत्वासंभवा- दित्यर्थः । अद्वयानन्दरूपस्य सर्वज्ञत्वादिधर्मकस्य ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्तटस्थ- स्यापरोक्षत्वं न संभवति किंतु प्रत्यग्रूपेणैवेत्यभिप्रेत्य काठकेऽपि विशेषणमित्यर्थः । प्रत्य- क्तयाऽपरोक्षब्रह्मज्ञानं तदेव सम्यग्ज्ञानमित्यत्र को हेतुरित्याशङ्कयापरोक्षबन्धाध्यासस्य परोक्षज्ञानान्निवृत्त्यसंभवादपरोक्षज्ञानस्य च तन्निवर्तनेनामृतत्वसाधनत्वादित्युत्तरवाक्याथै संगृ- हाति-अमृतत्वं हीति । सूत्रं विभनते—विषयात्मेति। विषयेषु बुद्धयादि- प्वात्मविज्ञाने विषयतया वा व्यतिरिक्तस्योपास्यतया ज्ञाने मृत्युः प्रारभते भयमिति प्रसिद्ध बुद्धयादिसंघातमात्मानं मन्यमानस्योपासकस्य च कर्तृत्वभ्रभानिवृत्तेः । येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति " इत्यादिश्रुतिभ्यश्च । "तरति शोक- अथ २० नाय- केनोपनिषत्-- (२द्वितीयःखण्डः वीर्य विद्यया विन्दतेऽमृतम् ॥ १२ ॥ ४ ॥ नाऽऽलम्बनपूर्वकम् । विन्दत इत्यात्मविज्ञानापेक्षम् । यदि हि विद्योत्पाद्य. ममृतत्वं स्यादनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् । यदि चाऽऽत्मनैवामृतत्वं विन्दते किं पुनर्विद्यया क्रियत इत्युच्यते । अना- त्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमि त्तमिति कल्प्यते । यत आह वीर्य विद्यया विन्दते । वीर्य सामर्थ्य मना- माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तञ्च किंविशिष्टम् । अमृतमविनाशि । अविद्याजं हि वीर्य विनाशि। विद्ययाऽविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्या. जममृतं वीर्यम् । अतो विद्याऽमृतत्वे निमित्तमात्रं भवति । मात्मा बलहीनेन लभ्यः" इति चाऽऽथर्वणे।लोकेऽपि विद्याजमेव बलम. भिभवति न शरीरादिसामर्थ्य यथा हस्त्यादेः। अथवा प्रति बोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं मात्मवित् " इत्यादिश्रुतिषु चाऽऽत्मज्ञानममृतत्वनिमित्तं प्रसिद्धमित्यर्थः । नाऽऽलम्बन- पूर्वकमिति । किंचिदुपास्यमालम्बनीकृत्य तदुपासनसाध्यतया न विन्दत इत्यर्थः । कथं तर्हि विन्दत इति प्रयोग इत्याकाङ्क्षायामाह-आत्मविज्ञानापेक्षमिति । आत्मवि- ज्ञानेन मर्त्यत्वभ्रमनिवृत्तिमपेक्ष्यामृतत्वमुपचर्यत इत्यर्थः । मुख्यार्थे बाधमाह- यदि हीत्यादिना । अनात्मा विज्ञायते येन तदनात्मविज्ञानमनाद्यनिर्वाच्यमात्माज्ञानमित्यर्थः । पुनरज्ञानान्तरोदयेन बन्धशङ्कायां कथं सकृदज्ञाननिवृत्तिमात्रेणामृतत्वनिमित्तत्वं ज्ञान- स्येत्याशङ्कयाऽऽह-यत आहेति । स्वस्यान्तोऽवच्छेदो भवति येन ध्वान्तेन तत्स्वान्त- ध्वान्तमनात्माभ्यारोपो मनुष्यत्वाद्यभिमानः पारमेश्वरी शक्तिर्माया जीवत्वनिमित्तमज्ञानं स्वान्तध्वान्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्याकृतेनातिशयेन तद्वीर्य विद्वाल्लँभते । पूर्वासद्धस्याज्ञानादे शान्मायायाश्च स्वतो जीवबन्धकत्वाभावादभिनवस्या- ज्ञानस्योत्पत्तौ कारणाभावात् । प्रवृत्तफलकांक्षिप्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्वदनभिभावकत्वात् । दुर्वलत्वान्निश्चीयते सम्यग्ज्ञानस्यामृतत्वहेतुत्वमित्यर्थः । ननु विद्यानं चेत्कथमविनाशि कृतकस्य विनाशित्वनियमादित्याशङ्कयाऽऽह—न तु विद्या- या इति । यावदेहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नोतीत्यवष्टम्भो वीर्य तस्याविनाशोऽमृतत्वं तत्कारणविद्याया अबाध्यत्वाभिप्रायेणो- च्यते न स्वरूपनाशाभावाभिप्रायेणेत्यर्थः । प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूट्यभिप्रायेण व्याचष्टे-अथवेति । अशेषतया विपरीतो निरस्तः संस्कारो येन '१ ख. ग. नादयम्।

रिद्वितीयः आनन्दगिरिकृतटीकासंवलितांकरवाक्यभाष्यसमेता। २१ खण्ड: 11 इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्या- स्माल्लोकादमृता भवन्ति ॥ १३ ॥ ५ ॥ इति द्वितीयः खण्डः ॥ २॥ । तदेव मतं ज्ञातं भवतीति । अथवा गुरुपदेशः प्रतिबोधस्तेन वा विदितं मतमित्युभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति । सुप्तप्रतियुद्धो गुरुणा प्रति- बोधित इति । पूर्वं तु यथार्थम् ॥ १२॥ ४ ॥ इह चेदवेदीदित्यवश्यकर्तव्यतोक्तिविपर्यये विनाशश्रुतेः । इह मनु- ष्यजन्मनि सत्यवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथमिह चेदवे. दीद्विदितवान् । अथ सत्यं परमार्थतत्त्वमस्त्यवाप्तं तस्य जन्म सफलमि- त्यभिप्रायः । न चेदिहावेदीन्न विदितवान्वृथैव जन्म । अपि च महती विनष्टिर्महान्विनाशो जन्ममरणप्रबन्धविच्छेदप्राप्तिलक्षणः स्याधतस्त- स्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादित्युच्यते । भूतेषु भूतेषु । चराचरेषु सर्वेष्वित्यर्थः । विचित्य । पृथनिष्कृष्यैकमात्म- तत्वं संसारधभैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः । अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति संभवति विरोधात् । धीराः। धीमन्तो विवेकिनो विनि- वृत्तबाह्यविषयाभिलाषाः । प्रेत्य । मृत्वाऽस्माल्लोकाच्छरीरायनात्मलक्ष- णाद्यावृत्तममत्वाहंकाराः सन्त इत्यर्थः । अमृता अमरैणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ॥ १३॥ ५॥ इति द्वितीयः खण्डः ॥ २॥ बोधेन स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्योमुक्तिहेतुरित्यर्थः । प्रतिबोधश- ब्दस्त्रेधा व्याख्यातस्तत्राऽऽयं व्याख्यानं युक्तमित्याह-पूर्व विति । गुरूपदेशे सत्यपि प्रतिबोधव्यापकात्मानुसंधानं विनाऽपरोक्षावगमासंभवात्सद्योमुक्तेश्वाशास्त्रीयत्वादित्यर्थः ॥ १२ ॥ ४ ॥ इह चेदवेदीदित्यादिवाक्यार्थं संगृहीतं विवृणोति-इह मनुष्यजन्मनीत्यादिना। विरोधादिति । एकस्मिन्निरंशे चिन्मात्रे चयनस्योर्ध्वाधोदेशनिवेशनस्येष्टकानामिवासंभ- वादित्यर्थः । ॥ १३ ॥ ५ ॥ इति द्वितीयः खण्डः ॥ २ ॥ १ घ, च. छ. झ, रिध।

२२ केनोपनिषत्- [३तृतीयःखण्डः ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तियत्नाधिक्यार्था । समाप्त ब्रह्मविद्या यधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्वि ज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थ वाऽऽनायोऽभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादानायः । न हि शमादिसाधनरहितस्याभिमानरागद्वेषा- दियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति । व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्य- त्वाद्ब्रह्मणः । यस्माञ्चाग्न्यादीनां जयाभिमानं शातयति । ततश्च ब्रह्मवि- ज्ञानं दर्शयत्यभिमानोपशमे । तस्माच्छमादिसाधनविधानार्थोऽयमर्थ- वाद इत्यवसीयते । सगुणोपासनार्थों वाऽपोदितत्वात् । नेदं यदिदमु- पासत इत्युपास्यत्वं ब्रह्मणोऽपोदितमपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदेवमध्यात्म :चोपासनं विधातव्यमित्येवमों वेत्यधिदैवतं तद्वनमित्युपासितव्यमिति हि वक्ष्यति । ब्रह्मेति परो लिङ्गात् । नह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादीस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति तन्न शशाक दग्धुमित्यादिलिङ्गाब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । नान्यथाऽग्निस्तृणं दग्धुं नोत्सहते वायुर्वाऽऽदातुम् । ईश्वरेच्छया तृणमपि वज्री भवतीत्युपपद्यते । तसिद्धिर्जगतो नियतप्र- वृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिनित्यसर्वविज्ञान ईश्वरे सर्वात्मनि सर्वशक्ती यः सुराणां जये हेतुरसुराणां पराजये । सत्त्वप्रधानया शक्त्या संपन्नः सोऽहमीश्वरः " इति ब्रह्म हेत्याद्याख्यायिकायास्तात्पर्य संगृहीतं विवृणोति-समाप्तेत्यादिना । तात्पर्यान्तरमाह-शमाद्यों वेति । संग्रहवाक्यं विवृणोति-शमादि वेति । अभिप्रायान्तरमाख्यायिकायाः संगृह्णाति-सगुणेति । संगृहीतं विवृणोति-नेदमि- त्यादिना । कृत्स्नाख्यायिकायास्तात्पर्यमुक्त्वा ब्रह्मशब्दार्थमाह-ब्रह्मेति परो लिङ्गा- दिति । एतद्व्याख्याति–नान्यत्रेत्यादिना । कथं तश्विरसिद्धिरित्याकाङ्क्षाया- माह-तसिद्धिरिति । ननु श्रुत्यादिभिरेवेश्वरे सिद्धे किमिति जगतो नियतप्रवृत्तिलि- ङ्गकानुमानं सूत्रितं तत्राऽऽह-श्रुतिस्मृतिप्रसिद्धिभिरिति । यावत्तण संभवो नानुगृह्यते तावच्छास्त्रप्रतिपन्नोऽपीश्वरो न निश्चीयतेऽर्थवादत्वशङ्काप्रतिबन्धादतः शास्त्रार्थ- स्येश्वरस्य निश्चयाय नियमाय सामान्यतो दृष्टमनुमानं शास्त्रानुग्राहकरूपं सूत्रे- १ अ. 'दिति।

[३तृतीयः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता। २३ खण्ड: ] सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीत्युच्यते। यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्था- नसाधनसंबन्धि तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमि- त्तानुरूपनियतप्रवृत्तिनिवृत्तिकममेतद्भोक्तृकर्मविभागंज्ञप्रयत्नपूर्वकं भवि- तुमर्हति। कार्यत्वे सति यथोक्तलक्षणत्वात् । गृहप्रासादरथशयनासनादि- वद्विपक्ष आत्मादिवत् । कर्मण एवेति चेत् । न परतन्त्रस्य निमित्तमात्र- त्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनि- णोच्यते । एतव्याख्याति--तस्येश्वरस्येत्यादिना । अनादिप्रसिद्धकर्तृव्यतिरिक्तं जग धर्मीकृत्य यद्यपीश्वरः सिषाधयिषितस्तथाऽपि जगतो बहूनि विशेषणानि संसारिविलक्षणकर्तृ- संभावनाय, नैयायिकास्तु व्याप्यस्य पक्षधर्मतावलाव्यापकविशेषः पक्षधर्मः सिध्यति ततः स्वतन्त्रमनुमानमीश्वरनिश्चायकमाहुः । तदूषणं प्रकटार्थे द्रष्टव्यम् । सामान्यतो दृष्टं रचयति । एतज्जगद्भोक्तृणां कर्मणां च विभागं यो जानाति तत्पूर्वकं भवितुमर्हतीति प्रतिज्ञा । अत्र जगन्निमित्तादृष्टनिष्पत्त्यर्थो यो जीवानां प्रयत्नस्तत्पूर्वकत्वं जगतः सिद्धमिति सिद्धसाधनत्वं वदतां निरीश्वरवादिनां निरासाय विशेषणं भोक्तृकर्मविभागक्षेति । न हि जीवानामेते भोक्तारोऽस्मिन्देशे काले वाऽस्य कर्मफलस्येति विभागज्ञानं संभवति । विशेषानभिज्ञत्वा- दित्यर्थः । यथोक्तलक्षणत्वादिति । विचित्रत्वादित्युक्ते व्यभिचारः स्यात् । आत्मा- दिस्वभाववैचित्र्यस्य प्रयत्नपूर्वकत्वाभावात्तदर्थ कार्यत्वे सतीति विशेषणम् । कार्यत्वादिस्यु- क्तेऽबुद्धिपूर्वकारिकार्ये विभागज्ञप्रयत्नपूर्वकत्वं नास्तीत्यनैकान्तिकत्वं स्यात्तदर्थ यथोक्तलक्षण- स्वादिति । यद्विचित्रं तद्विभागज्ञप्रयत्नपूर्वकं यथा गृहादि । जानात्येव हि तक्षादिरयं गृहादिरस्य स्वामिनो द्रव्यदानादिपूर्वकं वाऽस्य निर्माणमित्थं चेति ततो न साध्यवैकल्यं यथाशब्दं हि साधनदूषणे । नाभिप्रायवशात् । विपक्षे व्यतिरेक आत्मादिवदित्युदाहरणम् । यद्विभागज्ञप्रयत्नपूर्वकं न भवति तद्विशिष्टकार्यमपि न भवति । यथाऽऽत्माकाशादीत्यन्व- यव्यतिरेकप्रयोग इत्यर्थः । विचित्रकार्यत्वमस्तु विभागज्ञप्रयत्नपूर्वकत्वं न भविष्यति किं बाधकं जगद्वैचित्र्यस्य कर्मवैचिच्यादेव संभवादतः पक्ष एव साध्याभावशङ्कया शङ्कितविपक्षे वर्तमानो हेतुः शङ्कितव्यभिचार इत्यभिप्रेत्याऽऽह-कर्मण एवेति चेदिति । परिहरति-न परेति । कर्तृपरतन्त्रस्य कर्मणो निमित्तमात्रत्वात्स्वातन्त्र्येण निमित्तत्वासंभवात्कार्यवैचित्र्यस्य भङ्गप्रसङ्गो बाधकः कर्तारमन्तरेण । अतः पक्षे साध्याभावशङ्कानुपपत्तेर्न शङ्कितव्यभिचारित्व- मिति भावः । संग्रहवाक्यस्य पूर्वपक्षभागं विवृणोति-यदिदमित्यादिना । यदिदमीश्वरवा- १च. अ. 'मविशेषवि। २ अ. गविशेषज्ञ। छ. झ. प्र. 'ति । न क।

२४ केनोपनिषत्- [३तृतीयःखण्डः] मित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च तन्न नित्यसर्वज्ञकर्तृकम् । किं तर्हि कर्मण एव तस्याचिन्त्यप्रभावत्वात्सर्वैश्च फलहेतुत्वाभ्युपगमात् । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्य. सर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् । न कर्मण एवोपभोगवैचित्र्याग्रुपप- द्यते । कस्मात् । कर्तृतन्त्रत्वात्कर्मणः । चितिमत्मयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ कतैव फलकाले प्रयोक्तेति चेन्मया निर्वतितोऽसि त्वां प्रयोक्ष्ये फलाय यदा- त्मानुरूपं फलमिति न देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुझ्यात्ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निनिमित्तं तदनिच्छयाऽऽत्मसमवेतं तचर्मवद्विकरोति कर्म । न चाऽऽत्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्ट भवति प्रधानकर्तृस- मवेतत्वात्कर्मणः। भूताश्रयमिति चेन्न साधनत्वात् । कर्तृक्रियायाः साधन- । दिभिरपि वैषम्यनैय्यदोषपरिहाराय कर्मणो जगद्वैचित्र्यहेतुस्वमिष्टं तत्संप्रतिपन्नं विहायापूर्व ईश्वरः कल्प्यते धर्मी तस्य फलहेतुत्वं च धर्मः कल्पनीय इति गौरवं स्यादित्याह- न नित्यस्येश्वरस्येति । सति लाघवे गौरवं दूषणं स्यान्नेह तदस्तीत्यभिप्रेत्य सिद्धान्तं विवृणोति-न कर्मण एवेत्यादिना । आत्मनोऽन्यत्प्रवर्तकमनपेक्ष्य कर्म चेन्न फलं जनयति तर्हि कर्ता जीव एव प्रयोजकोऽस्त्विति शङ्कित्वा परिहरति-कतैवेत्या- दिना । अनिष्टफलभोगसिद्धयन्यथानुपपत्त्या कर्तुः कर्मनियोक्तृत्वं न संभवति चेत्तर्हि निर्निमित्तमेव कर्म फलाकारेण परिणमत इति जरत्कर्ममीमांसकानां मतमाशङ्कयाऽऽह- न च निनिमित्तमिति । कर्तुरनिच्छया कर्म विकरोतीत्यत्र दृष्टान्ताभावाचर्म- णोऽपि विकारस्य सनिमित्तत्वादित्यर्थः । यच्च सौगतेनोच्यते फलकालपर्यन्तं कर्तुरव- स्थानाभावान्न कर्तृसमवेतं कर्म किंतु क्षणिकविज्ञानेनाऽऽत्मना कृतं कदाचित्फलस्याss- क्रष्ट्र भवति । यथाऽयस्कान्तो मणिः कदाचिच्चेतनेन प्रयुक्तोऽन्यदाऽपि लोहस्य प्रेरको भवति तद्वदिति तत्राऽऽहन चाऽऽत्मकृतमिति । करणादीनि कारकाणि यः प्रेरय- न्करोति स प्रधानकर्ता । तत्समवेतं कर्म प्रसिद्धं तस्य च फलकालपर्यन्तं स्थायित्वमेष्ट- व्यम् । अन्यथाऽकृताभ्यागमकृतविप्रणाशप्रसङ्गात्प्रत्यभिज्ञाप्रामाण्याच्चेत्यर्थः । लोका- यतिकाभिप्रायमुद्भाव्य दूषयति-भूताश्रयभित्यादिना । आधुनिककर्ममीमांसकानां १ घ. च. छ. झ. अ. निमि।

[श्तृतीयः आनन्दगिरिकृतीकासवलितशांकरवाक्यभाष्यसमेता । १५ खण्डः ] भूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्ता परित्यक्तानिन फलं कालान्तरे कर्तुमुत्सहन्ते न हि हलं क्षेत्राद्वीहीन्गृहं प्रवेशयति भूतकर्मणोश्याचेतनत्वात्स्वतःप्रवृत्त्यनुपपत्तिः । वायुवदिति चेन्नासिद्धत्वात् । न हि वायोरचितिमतः स्वतःप्रवृत्तिः सिद्धारथादिष्वद- र्शनात् । शास्त्रात्कर्मण एवेति चेच्छास्त्रं हि कियातः फलसिद्धिमाह नेश्व- रादेः स्वर्गकामो यजेतेत्यादि। न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् । न दृष्टन्यायहानानुपपत्तेः । क्रिया हि द्विविधा दृष्टफलाऽदृष्टफला च । दृष्टफलाऽपि द्विविधाऽनन्तर- फलाऽऽगामिफला च, अनन्तरफला गतिमुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापर्वागण्येव कालान्तर- फला तूत्पन्नप्रध्वंसिनी । आत्मसेव्यायधीनं हि कृषिसेवादेः फलं यतो न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यापहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईम्बरः सेव्यादिवद्यागाद्यनुरूपफलदातोप- मतमुद्भावयति-शास्त्रादित्यादिना । यजेतेत्याख्यातपदात्सामान्येन समीहितसाधनं -यागः प्रतीयते । कस्य समीहितस्य साधनमितिविशेषाकाङ्क्षायां स्वर्गकामपक्संनिधाना- स्काम्यमानस्वर्गसाधनत्वं यद्यप्यवगम्यते तथाऽपि क्षणिकस्य यागस्य कालान्तरीयस्वर्गसा- धनत्वासंभवान्निष्फलत्वशङ्केत्याशङ्कयाऽऽहन चेति । औषधपानादेः कर्मणः स्थायि- संस्कारद्वारेण कालान्तरीयारोग्यादिफलहेतुत्वप्रसिद्धेर्यागस्य श्रुतसाधनत्वनिर्वाहाय स्थाय्य- वान्तरापूर्व परिकल्प्यते तेन नत्वानर्थक्यं निर्दोषवाक्याधिगतत्वादित्यर्थः । श्रुतसाधनस्वसि- द्धयन्यथानुपपत्त्या किमितश्विर एव नेप्यते तत्राऽऽहन चेश्वरति । नेयमापत्तिरी- श्वरास्तित्वे प्रमाणमन्यथाऽप्युपपन्नत्वात् । न च मानान्तरमस्ति । तद्विषयश्रुत्यादेरर्थवाद- स्वादित्यर्थः । नापूर्वद्वारेण श्रुतनिर्वाहः कल्पनीयः । यद्यवहितफलं कर्म तच्चैतन्यप्रयुक्त- फलमिति दृष्टाया न्याहनिप्रसङ्गादतः श्रुतसाधनत्वसिद्धयन्यथानुपपत्त्येश्वरः फलदाता कल्पनीय इत्याह--न दृष्टेति । संग्रहवाक्यं विवृणोति—क्रिया हीत्यादिना । फलोदयेनाफ्वर्गो नाशो यस्याः सा फलापवर्गिणी न फलदातारं पृथगपेक्षत इत्यर्थः । उत्पन्नप्रध्वंसिनीति । उत्पन्ना सती फलमदत्त्वैव प्रध्वंसते ततस्तत्र फलदातारं कालान्तरेऽपेक्षत इत्यर्थः । यागादिफलं कर्माद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलव- दित्याह—तस्माच्छान्ते यागादीति । ननु जीवस्तावत्स्वोपभोगसाधननियन्ता, .. १ घ. च. छ. अ. लत्वं श । २ घ. च. छ. भ. धनु। 3 घ. ब. छ. ज.तां का।

२६ केनोपनिषत्- [श्तृतीयःखण्डः] पद्यते स चाऽऽत्मभूतः सर्वस्य सर्वकियाफलपत्र यसाक्षी नित्यविज्ञानस्व- मावः संसारधभैरसंस्पृष्टः । श्रुतेश्च। “न लिप्यते लोकदुःखेन बाह्यः" "जरां मृत्युमत्येति" "विजरो विमृत्युः"। "सत्यकामः सत्यसंकल्प एष सर्वेश्वरः पुण्यं कर्म कारयति" । "अनश्नन्नन्यो अभिचाकशीति"। "एतस्य वो अक्षरस्य प्रशासने" इत्याद्या असंसारिण एकस्याऽऽत्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् । अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्न विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति - तस्यापीश्वरः फलदानेन नियन्ता चेदिष्यते तर्हि नियन्तुः स्वव्यतिरिक्तनियम्यत्वाङ्गीकारादी- श्वरस्याप्यन्यो नियन्ता प्रसज्येत नियन्तृत्वाविशेषात् । अतोऽनवस्थाप्रसङ्गबाधितमनुमानमि- त्याशङ्कयाऽऽह-सचाऽऽत्मभूतः सर्वस्येति । कल्पितभेदमात्रेण नियम्यनियामक-- भावोपपत्तेन तात्त्विकभेदावकाशः । तात्त्विकभेदैवत्त्वे च घटादिवत्कार्यत्वादिप्रसङ्गस्ततोऽति- रिक्तनियम्यत्वव्याप्त्यभावान्नानवस्थाप्रसङ्ग इत्यर्थः । राजवदीश्वरः फलदाता' चेत्तर्हि निग्र- हानुग्रहकर्तृत्वाद्रागादिमान्स्यात्तत्राऽऽह–सर्वक्रियाफलेति । यथा लौकिकसाक्षी कस्यचिज्जयहेतुरन्यस्य पराजयहेतुरपि न रागादिमान्कथ्यते । यथोपलब्धभाषित्वात् । तथेश्वरः क्रियादिसाक्षी रागादिमान्न भविष्यति । अननुरूपादातृत्वात् । राजाऽ- प्यसाधून्दण्डयन्साधून्परिरक्षन्न रागादिमान्कथ्यत इति भावः । साक्षित्वे तहीश्वरस्ये- क्षणक्रिया स्यात्तत्राऽऽह-नित्येति । नित्यविज्ञानस्वभावस्यानिर्वाच्यविषयावच्छेदेन साक्षित्वं कल्पितमित्यर्थः । सर्वस्य जीवस्याऽऽत्मभूतश्चेदीश्वरस्तर्हि संसारधर्मेलिप्येतं संसार्यभेदादित्याशङ्कयाऽऽह-संसारेति । न केवलमुपपत्तेरीश्वरसिद्धिः श्रुतेरपी- स्युक्तं ताः श्रुतीरुदाहरति-न लिप्यत इत्यादिना। स्मृतयश्च-"यथा सर्व- गतं सौक्ष्म्यादाकाशं नोपलिप्यते " समं सर्वेषु भूतेषु " । " ईश्वरः सर्वभूता- नाम् " इत्याद्याः । यदुक्तमर्थवादत्वादप्रामाण्यं तत्राऽऽह-न चेति । ईश्वरविषयाणि वाक्यानि न कर्मविधिसंनिधिसमानातानि । अतोऽनन्यशेषत्वे सति बोधकत्वा- स्वार्थे प्रमाणानि कर्मविधिवाक्यवदित्यर्थः । किंचार्थवादत्वेऽपि नाप्रामाण्यं पदसम- न्वयबलेन जायमानस्य ज्ञानस्य बाधादर्शनात्स्वतःप्रामाण्यादस्य बाधयिता नोपपद्यत इत्याह-न चोत्पन्नमिति । इतश्च नाप्रामाण्यमित्याह-अप्रतिषेधाचेति । यथा द्वे वाव ब्रह्मणो रूपे मूत चैवामूर्त चेति प्रस्तुत्य नेति नेतीति परस्तात्प्रतिषेधति १ ग. घ. च. छ. अ. वाऽक्ष। २ घ. च. छ. दत्वे च । ३ घ. च. छ. अ. पत्तिभिरी। ४ . तो तात्य : + [३तृतीयः भानन्दगिरिकृतटीकासंघलितांकरवाक्यभाष्यसमेता। २७ खण्डः ] प्राप्त्यमावादिति चेन्नोक्तत्वात् । न हिंस्यादितिवत्माप्त्यभावाप्रतिषे गे नाऽऽरभ्यत इति चेन्न । ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवाऽप्रतिषे- धादिति कर्मणः फलदान ईश्वरकालानां न प्रतिषेधोऽस्ति । न च निमि- तान्तरनिरपेक्षं केवलेन कत्रैव प्रयुक्तं फैलदं दृष्टम् । नच विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तु- र्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति नहि देशकालान्तरेषु चाग्निरनुष्णो भवति। एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्रसंस्कारपरि- रक्षाविज्ञानवर्बपेक्षफलं कृष्यादि विज्ञानवत्सेव्यधुद्धिसंस्कारापेक्षफलं नैवीश्वरं प्रस्तुत्य प्रतिषेध उपलभ्यत इत्यर्थः । प्रतिषेधाभावः सत्त्वान्न भवति किंत्वप्राप्त- त्वात् । यथा रागतः प्राप्ता भूतहिंसा निषिध्यते नैवमीश्वरस्य प्राप्तिरस्तीत्यन्यथासि- द्धिमाशङ्कय परिहरति-प्राप्तीत्यादिना । अप्रतिषेधादितिसंग्रहवाक्यं प्रकारान्तरेण व्याचष्टे-अथवेति । स्वर्गकामो यजेतेत्यादिशास्त्रं यागस्य फलदायिनी शक्तिं द्योतयति न सहकार्यन्तरं निषेधयति । वाक्यभेदप्रसङ्गादित्यर्थः । इतश्च शास्त्रमयोगन्यवच्छेदकं वाच्यं नान्ययोगव्यवच्छेदकम् । स्रक्चन्दनवनितादिनिमित्तनिरपेक्षस्य कर्मणः फलहेतुत्वानुप- लम्भात् । अतो यथा मानान्तरसिद्ध स्रक्चन्दनवनितादेनिमितत्वमिष्टं तथेश्वरस्याप्येष्टव्यमि- 'त्याह-न च निमित्तान्तरनिरपेक्षमिति । इतश्चेश्वरः फलदाता वक्तव्यः प्रध्व- स्तस्य यागस्य कारणत्वासंभवात् । नियतपूर्वक्षणसत्त्वं हि कारणत्वम् । न चापूर्वद्वारेणोप- पद्यते । असति द्वारवति द्वारेत्वानुपपत्तेः । न चौषधपानादिदृष्टान्तः । औषधाद्यवयवानां संस्कृतानां फलकालपर्यन्तमनुवर्तमानानामेव कालान्तरीयफलहेतुत्वादित्यभिप्रेत्याऽऽह- न च विनष्ट इति । कथं त_श्वरो वाऽपि नष्टस्य फलदातोपपद्यते तत्राऽऽह-सेव्य- बुद्धिवदिति । एतत्कर्मानेनानुष्ठितमिति कर्मणेश्वरस्य बुद्धावारोह एव कर्मणां संस्कारस्त- द्वशाद्विनष्टेऽपि कर्मणीश्वरात्फलं युक्तम् । यथाऽनेनाहं सेवित इति सेव्यबुद्धौ संस्कृतायां कालान्तरे विनष्टायामपि सेवायां सेन्याद्राजादेः फलं भवति तद्वदित्यर्थः । यद्यपि लौकिकानां कर्मणां फलसाधनत्वं चेतनाधीनं दृष्टं तथाऽपि वैदिकस्य यागादेः फलं दातारं विनाऽपि वाक्य- प्रामाण्याद्भविष्यतीति नाऽऽशङ्कनीयमित्याह-नतु पुनरिति । अन्वययोग्यानां पदार्थानां संसर्गबोधकमेव वाक्यं नतु तबलादृष्टः पदार्थस्वभावस्त्यक्तुं शक्यत इत्यर्थः । बीजक्षेत्रयोः १ क. ख घ. छ. श. म. °कारणवादिनां। २ झ. फलं । ३ घ. 'लक्ष्यते । ४ इ. कषुः पतफ।५ क. छ.झ अ. रवत्त्वानु' ।

२८ केनोपनिषत् [३तृतीयःखण्डः] च सेवादि । यागादेः कर्मणस्तथाऽविज्ञानवत्कर्बपेक्षफलत्वानुपपत्ती कालान्तरफलत्वात्कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्ष फलं भवितुमर्हति । सेवादिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफल. स्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा । यत्साक्षादपरोक्षाद्य आत्मा सर्वान्तर इति श्रुतेः । स एव चात्राऽऽत्मा जन्तूनां नान्योऽतोऽस्ति. द्रष्टा श्रोता मन्ता विज्ञाता नान्यदतोऽस्ति विज्ञावित्याद्यात्मान्तरप्रतिषेधश्रुतेस्तत्त्वमसीति चाऽऽत्म- त्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्ति- कर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तमेदादात्ममेद एवेति चेन्न। भेद- दृष्ट्यपवादात् । यदुक्तं संसारिण ईश्वरादनन्या इति । तन्न किं तार्ह भेद एव संसात्मनाम् । कस्माल्लक्षणभेदादश्वमहिषवत् । कथं लक्षणभेद इत्युच्यते । ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्वि- परीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्ववि- षया चेश्वरशक्तिविपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमि- त्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत् । राजायः स्कान्तप्रकाशकर्मवच्च स्वात्माविक्रियारूपम् । विपरीतमितरस्य । उपा- सीतेतिवचनादुपास्य ईश्वरो गुरुराजवत् । उपासक श्चेतरः शिष्यभृ- त्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । पुण्यो वै पुण्येनेति- वचनाद्विपरीत इतरः । अत एव नित्यमुक्त एवेश्वरो नित्याशुद्धियोगा- संस्कारस्तत्परिरक्षा च तद्विज्ञानवान्यः कर्ता तदपेक्षफलं कृप्यादि दृष्टम् । सेवादिकं च विज्ञानवान्यः सेव्यस्तबुद्धिसंस्कारापेक्षं फलं दृष्टम् । यथा यागादेः कर्मणः कालान्तरफ- लत्वादविज्ञानवत्कञपेक्षफलत्वानुपपत्तौ कर्मादिविभागज्ञकञपेक्षफलत्वं भवितुमर्हतीत्यर्थः । लौकिककर्मस्वनेकविधेप्वपि मध्ये सेवायागादेरनुरूपो दृष्टान्त इत्यभिप्रेत्य पुनराह-सेवा- दीति । सेवादिकर्मानुरूपं फलं जानातिः यः सेव्यस्तबुद्धौ यः संस्कारस्तदपेक्षफलस्य सेवादेर्यथा न स्वातन्त्र्यं तद्वदित्यर्थः । एवं तावन्निरीश्वरवादिनं प्रतीश्वरं प्रसाध्य सेश्वर- वादिनामभिमतवास्तवभेदनिरासाय प्रक्रमते-स एवेति । जीव ईश्वराद्भिन्नस्तद्विरुद्धधर्मा- क्रान्तत्वात् । यो यद्विरुद्धधर्माकान्तः स ततो भिन्नः । यथाऽश्वान्महिष इत्यनुमानमुद्भाव्य तस्य भेदनिन्दानुफ्पत्त्यनुगृहीताभेदश्रुतिविरोधात्कालात्ययापदिष्टत्वमाह-ज्ञानशक्तीत्या. दिना। संग्रहवाक्यं विवृणोति-यदुक्तमित्यादिना। स्वात्मनोऽविक्रियारूपं जगदुपादा- १ छ. झ. शुद्धबुद्ध । २ घ च. छ. झ. भ. पेक्ष्यं फ।

[तृतीयः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता। खण्डः] संसारीतरः । अपिच यत्र ज्ञानादिलक्षणभेदोऽस्ति तत्रे भेदो दृष्टः । यथाऽश्वमहिषयोस्तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेन्न । कस्मात् । अन्योऽसावन्योऽहमस्मीति न स वेद ते क्षय्यलोका भवन्ति । मृत्योः स मृत्युमाप्नोतीति भेदृष्टिीपोह्यते । एकत्वप्रतिपादि- न्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादित्यत्रोच्यते। नानभ्युपगमात्।बुद्धयादिभ्यो व्यतिरिक्ता विलक्षणाश्चेश्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चाऽऽत्मा सर्वभूतानां नित्यमुक्तोऽ- भ्युपगम्यते। बाह्यश्चक्षुर्बुद्धयादिसमाहारसंतानाहंकारममत्वादिविपरीतप्र- त्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तविज्ञानात्मेश्वरगर्मो नित्य- विज्ञानावमासश्चित्तचैत्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्व- रलक्षणविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः। विच्छेद च मोक्षव्यवहारः । अन्यश्च मृत्लेपवत्प्रत्यक्षप्रध्वंसो देवफ्मिानुष्यादित लक्षणो भूतविशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वराद यु- पगम्यते । बुद्धयादिकल्पितात्मव्यतिरेकाभिप्रायेण तुः लक्षणभेदादित्या श्रयासिद्धो हेतुः । ईश्वरादन्यस्याऽऽत्मनोऽसत्त्वात्। ईश्वरस्वैव विरुद्धल- नादिलक्षणं कर्मेश्वरस्येत्यर्थः । दूषणान्तराभिधित्सयाऽनुवदति-यदुक्तमिति । जीवाः किं बुध्यादिविशिष्टाश्चित्प्रतिबिम्बा धर्मित्वेन गृह्यन्ते किंवा देवमनुष्यादिशब्दवाच्याः सचि- तिका देहाः किंवा तृतीयो विलक्षणनिरुपाधिकभेदभिन्नश्चेतन आये. सिद्धसाधनत्व- माह-नानभ्युपगमादित्यादिना । चित्तं ज्ञानं चैत्याः सुखादयो बीनमविद्यादि बीजि शरीरं तत्स्वभावविशिष्टस्य विशेषणतादात्म्यादित्यर्थः । यस्य विशिष्टरूपस्यावि. च्छेदे तत्प्रविष्टचित्स्वरूपस्य संसारव्यवहारो यस्य च विच्छेदे प्रतिबिम्बरूपस्य बिम्ब- संपत्त्या मोक्षव्यवहारो भवति स कल्पितरूपः पृथगभ्युपगम्यतेऽतः सिद्धसाधनमित्यर्थः । द्वितीयविकल्पेऽपि सिद्धसाधनत्वमाह-अन्यश्चेति । तृतीयविकल्पे बुद्धयादिकल्पितेभ्यो विशिष्टात्मभ्यो व्यतिरेकेण निरुपाधिकस्वरूपाभिप्रायेण पक्षीकरणे हेतुराश्रयासिद्धस्ता- दृशस्याऽऽश्रयस्य मानविकलस्वादित्यर्थः । ईश्वरादन्य आत्मा नास्तीति वदता सर्वोपाधिस्थ ईश्वर एवाऽऽत्मेत्युक्तं भवति । तदा च बद्धत्वमुक्तत्वादिविरुद्धधर्मत्वं सुखदुःखादियोग- श्वासङ्गस्य विरुद्धः प्रसज्येतेत्यतोः वास्तवमसंसारित्वं कल्पितेन संसारित्वेन न विरुध्यत इति दर्शयितुं यस्य यस्यान्तःकरणादिविकारस्योदयादेः संनिधिमात्रेणाऽऽत्मा निमित्तं तस्य लोकैरहंकारादिभिर्विपरीतरूपस्याध्यारोपणादात्मनः संसारित्वमित्याह- . तस्य .. १ क. ख: घ: च. छ. झ. अ. 'त्र विज्ञा। कछ. झ. प्रलयव ।३ ग. च.म. 'नकलावि ।क. ४ छ. झ. स्योत्पादे सं।

केनोपनिषत्- (श्तुतीय:खण्ड] क्षणत्वमयुक्तमिति चेत्सुखदुःखादियोगश्च । न । निमित्तत्वे सति लोक- विपर्ययाध्यारोपणात्सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लो. काभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तम- याहोराबादिकर्तृत्वाध्यारोपभाग्भवत्येवमीश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्धयाऽ- ध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च न स्वतः। आत्मदृष्टयनुरू- पाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते स आत्मदृष्टयनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुल- भ्रान्त्याऽध्यारोपितः सुखदुःखादियोग उपपद्यते। तत्स्मरणाञ्च तस्यैवेश्व- रस्यैव हिस्मरणम् "मत्तःस्मृतिर्ज्ञानमपोहनं च "नाऽऽदत्ते कस्यचित्या. पम्" इत्यादि। अतो नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपि. तमीश्वरे संसारित्वम् । शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यवि- रोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वर्ग- न निमित्तत्वे सतीत्यादिना । ईश्वरे सुखाद्यारोप इत्युक्ते मायोपाधिके ब्रह्मणीश्वर सब्दवाच्ये सुखाद्यध्यासशङ्का स्यात्तन्निवृत्त्यर्थमाह-नित्यविज्ञानशक्तिरूप इति । यथाऽग्न्यादिशक्तिः शक्त्यन्तरमन्तरेण स्वस्वभावादेव कार्योत्पादनानुकूला तथा नित्य- विज्ञानं स्वभावसंनिधिमात्रेणान्तःकरणादिप्रवृत्तिनिमित्तमिति शक्तिमयमुच्यते । तस्मि- न्स्वातन्त्र्यादीश्वरपदलक्ष्ये विरुद्धानेकधर्माध्यासो न विरुध्यत इत्यर्थः । लोकस्य ज्ञाना- पोहो विस्मरणम् । न स्वत इति । न परमार्थतो विरुद्धानेकधर्मवत्त्वमित्यर्थः । भ्रान्तस्य स्वदृष्टयनुरूपाध्यासारोपदर्शनाच नाध्यासो वस्तुक्षतिकर इत्याह-आत्मदृष्टीति । बौद्धादिवृत्तीनामुद्भवाभिभवाभ्यामाकुलस्य वैचित्र्यमापन्नस्य वृत्तीनामेवोद्भवाभिभवौ न तयापकचैतन्यस्येतिविवेकशून्यलोकस्य भ्रान्त्येति योजना । चैतन्यस्य ज्ञानसुखाद्युत्पादे निमित्तत्वं न केवलमन्वयव्यतिरेकसिद्धम् । तत्स्मरणाच भगवद्वाक्याच सिद्धमित्यर्थः । ईश्वरे संसारित्वमीश्वरः संसारीतिप्रसिद्धयभावाद्विशिष्टानुगतचित्स्वरूप इति व्याख्येयम् । एतेनेति । सिद्धसाधनत्वादिदूषणेन प्रतिशरीरज्ञानसुखादीनामाश्रयभेदस्तात्त्विकः प्रत्युक्तो मन्तव्यः । किंच व्यावर्तकधर्मवशाब्यावृत्तिः सिध्यति । सांख्यमते च पुरुषाणां चैतन्य- मात्ररूपाणां. न व्यावर्तको धर्मोऽस्ति । वैशेषिकमते वैत्यन्तविशेषकल्पनाऽन्योन्याश्र- यपराहता । अतो निर्विशेषत्वात्पुंसां न भेदस्तात्त्विक इत्याह-सौक्षम्येति । कश्चि- १ अ. गतत्वा । २ ग. घ. म. तिरूपमु। ३ ग, घ, च, छ. व. वन्यवि ....

[श्तृतीयः आनन्दगिरिकृतटीकासंघालितांकरवाक्यभाष्यसमेता। १ खण्ड: ] ब्रह्म ह देवेभ्यो विजिग्ये तस्य ब्रह्मणो बि- जये देवा अमहीयन्तात ऐक्षन्तास्माकमेवा' विजयोऽस्माकमेवायं महिमेति ॥ १४ ॥१॥ - त्वाद्यविशेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमादभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्य- त्वाञ्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वं तस्माच्छरीरेन्द्रियमनो- बुद्धिविषयवेदनासंतानस्याहंकारसंबन्धादज्ञानबीजस्य नित्यविज्ञानान्य- निमित्तस्याऽऽत्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञा विपर्यये च बन्धसंज्ञा । स्वरूपापेक्षत्वादुमयोः । ब्रह्म ह, इत्यैतिह्यार्थः । पुरा किल देवासुरसङ्ग्रामे जगस्थितिपरिपिपालयि- षयाऽऽत्मानुशासनानुवर्तिभ्यो देवेभ्योऽर्थिभ्योऽर्थाय विजिग्येऽजैषीदसुरा- न्बह्मण इच्छानिमित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादिलोकस्थित्यपहारिष्वसुरेषु पराजितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः ॥ १४ ॥१॥ हुःखी कश्चित्सुखी दुःखादिविक्रियाव्यवस्थान्यथानुपपत्त्याऽऽश्रयभेदस्तात्त्विकः कल्प्यते तत्राऽऽह-विक्रियावत्त्वे चेति । सुखादिविक्रियाणामुपाधिधर्मत्वान्नाऽऽत्मभेदसाधकत्वं व्यधिकरणासिद्धत्वादित्यर्थः । किंचे न सैवरेव मोक्षे विक्रियादिविशेष इण्यते । स्वरूपाव- स्थानं च मोक्षस्ततः सविशेषत्वं न स्वाभाविकमित्याह-मोक्षे चेति । किंच जाग्रत्स्व- मयोरविद्यावद्भिर्धान्तैरुपलम्भात्सुषुप्तिसमाध्योति॒न्त्यभावेऽनुपलम्भान्मिथ्यात्वं भेदस्य सिद्ध- मित्याह-अविद्यावदिति । जीवानां क्रमेणानेकशरीरानुयायित्वात्प्रातिभासिकस्य शरी- रादिसंतानस्य मिथ्याभिमानविषयत्वाच्छुक्तिरूप्यवदज्ञानबीजस्य विच्छेद आत्मनो मोक्षसं. ज्ञेति संबन्धः । आत्मन इति कस्मादुच्यते विशिष्टस्य बन्धमोक्षौ किं नेष्यते तत्राऽऽह- स्वरूपापेक्षत्वादिति । विशिष्टस्य मोक्षेऽन्वयासंभवादन्वये वा संसारानिवृत्तिप्रसङ्गाद- न्यस्य च बन्धेऽन्यस्य च मोक्षे साधनवैयादुपाधिवैशिष्टयद्वारेण स्वरूपस्यैवोपाधिप्रतिबि- म्बकल्पस्य बन्धमोक्षौ । प्रतिबिम्बो हि वाच्यरूपेण मिथ्या लक्ष्यरूपेण तु बिम्बमेव स्वरू- पावस्थानं मुक्तिरुपपद्यते । तदुक्तम्- "उपाधिना सार्धमुपाधिजन्यमौपाधिकं सर्वमवेहि मिथ्या । भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्ब पुन. सत्यमशेषमेव" इति ॥ १४ ॥१॥ ८ १ घ. च. छ. रणासि । २ च. छ. झ. अ. 'चस। ३ क. °च्यस्वरू।

केनोपनिषत्
[श्तृतीयःखण्ड
-:
त?षां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजा-
नत किमिदं यक्षमिति ॥ १५ ॥ २॥
तेऽनिमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्ष-
मिति तथेति ॥ १६ ॥ ३ ॥
तदत्यवतमायवदत्कोऽसीत्पग्निर्वा अहमस्मीत्यत्र-
वीज्जातवेदा वा अहमस्मीति ॥ १७ ॥ ४ ॥
तस्मिश्स्त्वयि किं वीर्यमित्यपीद सर्व दहेयं
यदिदं पृथिव्यामिति ॥ १८ ॥५॥
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्व-
जवेन तन्न शशाक दग्धुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १९ ॥ ६ ॥
त ऐक्षन्तेति मिथ्याप्रत्ययत्वाद्धेयत्वख्यापनार्थमानायः। ईश्वरनि-
मित्ते विजये स्वसामर्थ्य निमित्तोऽस्माकमेवायं विजयोऽस्माकमेवार्य
महिमेत्यात्मनो जयादि श्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्याणा-
स्पदमीश्वरमेवाऽऽत्मत्वेनाबुद्ध्वा पिण्डमात्राभिमानाः सन्तो यं मिथ्या-
प्रत्ययं चक्रुस्तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्ययत्वात्सर्वात्मेश्वरया-
थात्म्यावबोधेन हातव्यताख्यापनार्थस्त?षामित्याद्याख्यायिकानायः ।
तद्ब्रह्म ह किलैषां देवानामभिप्राय मिथ्याहंकाररूपं विजज्ञौ विज्ञातवत् ।
ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषा-
मेवेन्द्रियगोचरे. नातिदूरे प्रादुर्बभूव । महेश्वरशक्तिमायोपात्तेनात्यन्ता-
द्भुतेन प्रादुर्भूतं किल केनचिदूपविशेषेण । तकिलोपलभमाना
अपि देवा न.व्यजानत न विज्ञातवन्तः । किमिदं यदेतद्यक्षं पूज्यमित्ति
॥१५॥२॥
तद्विज्ञानाचाग्निमब्रुवन् । तृणनिधानेऽयमभिप्रायोऽत्यन्तसंभावितयोर-
त ऐक्षन्तेति देवानामीक्षणस्य मिथ्याप्रत्ययत्वान्मिथ्याभिमानस्य हेयस्वल्यापनार्थों ब्रह्मणः
प्रादुर्भाव इति योजना । सूत्रमिदं व्याख्याति-ईश्वरनिमित्त इत्यादिना । जयादि.
श्रेष्ठत्वे निमित्तं मन्यमाना इति शेषः ॥ १६ ॥ २ ॥

[इतृतीयः आनन्दगिरिकृतीकासंवलितशांकरवाक्यभाष्यसमेता। ३३ खण्ड. ] अथ वायुमब्रुवन्यायवेतद्विजानीहि किमेतद्य- क्षमिति तथेति ॥ २० ॥ ७ ॥ तदन्यवत्तमायवदत्कोऽसीति वायुर्वा अहम- स्मीत्यबवीन्मातरिश्वा वा अहमस्मीति॥२१॥८॥ तस्मिश्स्त्वयि किं वीर्यमित्यपीद सर्वमाँददी- य यदिदं पृथिव्यामिति ॥ २२ ॥९॥ तस्मै तृणं निदधावेतदादत्स्वेति तदुपयाय सर्वजवेन तन्न शशकाऽऽदातुं स तत एव निव- वृते नैतदशकं विज्ञातुं यदेत यक्षमिति ॥२३॥ ॥ १० ॥ अथेन्द्रमबुवन्मयशेतद्विजानीहि किमेतयक्षमिति तथेति तिदायवत्तस्मात्तिरो- दधे ॥२४॥११॥स तस्मिन्नेवाऽऽकाशे स्त्रिय- निमारुतयोस्तृणदहनादानाशक्त्याऽऽत्मसंभावना शातिता भवेदिति इन्द्र आदित्यो वज्रमृद्वा । अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोध इत्यत्रायमभिप्रायः । इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य सोऽहमग्न्या- दिभिः प्राप्तं वाक्संभाषणमात्रमप्यनेन न प्राप्तोस्मीत्यभिमानं कथं न नाम जह्यादिति। तदनुग्रहायैवान्तर्हितं तद्ब्रह्म बभूव ॥ १६ ॥३॥ ॥ १७ ॥४॥१८॥५॥ १९ ॥ ६ ॥२०॥७॥ २१ ॥८॥२२॥ ॥९॥ २३॥१०॥२४॥ ११ ॥ स शान्ताभिमान इन्द्रोऽत्यर्थं ब्रह्म विजिज्ञासुर्यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीतिरोधानं च तस्मिन्नेव स्त्रियमतिरूपिणी विद्यामा- ॥ १६ ॥ ३ ॥ १७ ॥ ४ ॥ १८ ॥५॥ १९ ॥ ६ ॥२०॥ ७ ॥ २१ ॥ ॥८॥ २२ ॥ ९ ॥ २३ ॥ १० ॥ २४ ॥ ११ ॥ * यद्यपि बहुषु पुस्तकेष्वाददीयमिति पाठस्तथाऽपि स लेखकप्रमादात् । अथवा “इटोत" इति प्राप्त छान्दसत्वादमादेशः । + अत्रं तदभ्यद्रवत्तत्तस्मादिति पाठो भाष्यतः प्रतीयते ।

केनोपनिषत्- [४चतुर्थःखण्डः] माजगाम बहुशोभमानामुमा५ हैमवतीं ता होवाच किमेतद्यक्षमिति ॥२५॥१२॥इति तृतीयःखण्डः॥३॥सौं ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्यमिति ततो हैव विदां- चकार ब्रह्मति॥२६ ॥ ३ ॥ तस्मादा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरि- न्दस्ते ह्येनन्नेदिष्ठं पस्पृशुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ २७ ॥ २ ॥ तस्माद्दा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्पथमो विदांचकार ब्रह्मेति ॥ २८॥ ॥३॥ तस्यैष आदेशो यदेतद्विद्युतो व्ययुतदा ३ जगाम । अभिप्रायोद्बोधहेतुत्वाबुद्रपल्युमा हैमवतीव सा शोभमाना विद्यैव विरूपोऽपि विद्यावान्बहु शोभते ॥ २५ ॥ १२॥ इति तृतीयः खण्डः ॥३॥ तां च पृष्ट्वा तस्या एव वचनाद्विदांचकार विदितवान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यवोमा। विद्यासहायवानीश्वर इति स्मृतिः। यस्मादिन्द्र- विज्ञानपूर्वक निवाविन्द्रास्ते ह्येनन्नेदिष्ठमतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पृशुः स्पृष्टवन्तः । ते हि प्रथमःप्रथमं विदांचकार विदा- चक्कुरित्येतत् । तस्मादतितरामतीत्यान्यानतिशयेन दीप्यन्तेऽन्यान्दे- वांस्ततोऽपीन्द्रोऽतितरां दीप्यते । आदौ ब्रह्मविज्ञानात् ॥ २६ ॥१॥ ॥२७॥२॥२८॥३॥ तस्यैष आदेशस्तस्य ब्रह्मण एष वक्ष्यमाण आदेश उपासनोपदेश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म युतिमत्तस्मा- द्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यातद्विद्योतितवत् । आ इवेत्युप- ॥ २५ ॥ १२ ॥ इति तृतीयः खण्डः ॥ ३ ॥ विद्येति सत्त्वप्रधाना शक्तिश्चित्ता- दात्म्यापत्त्या, बोधहेतुः ॥ २६ ॥ १ ॥ २७ ॥ २ ॥ २८ ॥ ३ ॥ तस्मादित्यस्यापेक्षितं पाठव्यस्यासेन व्याचष्टे—यस्मादित्यादिना । अर्थ- * बहुषु पुस्तकेषु सेतिपदं नास्ति । १ घ, झ. पाठं व्य।

[४चतुर्थः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यभाष्यसमेता। ३५ खण्ड::] इतीन्यमीमिषदा ३ इत्यधिदैवतम् ॥२९॥४॥ अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैत- दुपस्मरत्यभीक्ष्ण५ संकल्पः ॥ ३० ॥५॥ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं मार्थ आशब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रका- शत एवं तद्ब्रह्म देवानां पुरतः सर्वतः प्रकाशवद्यक्तीभूतमतो व्या- तदिवेत्युपास्यम् । यथा सकृद्विद्युतमिति च वाजसनेयके । यस्माञ्चेन्द्रो- पसर्पणकाले न्यमीमिषत् । यथा कश्चिञ्चक्षुनिमेषणं कृतवानिति । इतीदित्यनर्थको निपातौ। निभिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया आधि यदर्शनमधिदैवतं तत् ॥२९॥४॥ अथानन्तरमध्यात्ममात्मनोऽध्यात्ममुच्यत इति वाक्यशेषः । यदेत- द्यथोक्तलक्षणं ब्रह्म गच्छतीव प्रामोतीव विषयी करोतीवेत्यर्थः ।न न पुन- विषयी करोति मनसोऽविषयत्वाद्ब्रह्मणोऽतो मनोन गच्छति । येनाss- हुर्मनो मतमिति हि चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् । आत्मभूतत्वाञ्च ब्रह्मणस्तत्समीपे मनो वर्तत इत्युपस्मरत्यनेन मनसैव तद्ब्रह्म विद्वान्यस्मात्तस्मादब्रह्म गच्छतीवेत्युच्यते । अभीक्ष्णं पुनः पुनश्च । संकल्पो ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसंकल्पादिमि- लिङ्गैर्बह्म मनोऽध्यात्मभूतमुपास्यमित्यभिप्रायः ॥ ३०॥५॥ तस्य चाध्यात्ममुपासने गुणो विधीयते तद्ध तदनं तदेतद्ब्रह्म तच्च तद्वनं च तत्परोक्षं वनं संभजनीयम् । वनतेस्तत्कर्मणस्तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यःकश्चिदेतद्यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नानाऽभिधेयं ब्रह्म वादोपसंहारोऽयं विध्युपक्रमार्थम् । विद्युदृष्टान्तेनात्यन्तदीप्तिमत्त्वं निमेषणदृष्टान्तेन देवैरपि दुर्जेयत्वमिति गुणद्वयं देवानधिकृत्य विवक्षितम् । अत एव तद्गुणद्वयविशिष्टोपासनमाधि- दैविकमुच्यते ॥ २९ ॥ ४ ॥ अहंग्रहेणैवैतत्कर्तव्यमित्यभिप्रेत्याऽऽध्यात्मिकब्रह्मरूपमाह- आत्मेत्यादिना ॥ ३० ॥ ५ ॥ वनतेस्तत्कर्मण इति । वन संभजन इत्यस्य धातोः संभजनार्थस्य रूपं वनमिति । तत्प्रसिद्धं वनं न गृह्यत इत्यर्थः । गौणमिति । अवयवशक्तिलभ्यं न रूढ्या समुदाय- १ ग, घ. च. छ. अ. 'त्मविषयमध्यात्ममु। - केनोपनिषत्- [४ चतुर्थःखण्डः] वेदाधिहैनः सर्वाणि भूतानि संवाञ्छन्ति ॥ ३१ ॥ ॥६॥ उपनिषदं भो बृहीत्युक्ता व उपनिषद्बाही वाव त उपनिषदमब्रूमेति ॥ ३२॥ ७॥ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वामानि(णि?) सत्य- मायतनम् ॥ ३३ ॥ ८॥ यो वा एवामेवं वेदा- पहत्य पाप्मानमनन्ते स्वर्ग लोके ज्येये प्रति- वेदोपास्ते । तस्यैतत्फलगुच्यते । सर्वाणि भूतान्येनमुपासकमभिसं- वाञ्छन्तीहाभिसंभजन्ते सेवन्ते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ॥ ३१॥६॥ उपनिषदं भो बृहीत्युक्तायामप्युपनिषदि शिष्येणोक्त आचार्य आह-उक्ता कथिता ते तुभ्यमुपनिषदात्मोपासनं च । अधुना बाह्मी वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेरुपनिषदमबूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूता- भिप्रायोऽबूमेत्ययं शब्दः ॥ ३२॥ ७ ॥ तस्या वक्ष्यमाणाया उपनिषदस्तपो ब्रह्मचर्यादि दम उपशमः कर्मा- निहोत्रादीत्येतानि प्रतिष्ठाऽऽश्रयः। एतेषु हि सत्सु बाझोपनिषत्प्रति. ठिता भवति । वेदाश्चत्वारोऽङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्वते । ब्रह्माचया हि विद्या । सत्यं यथाभूतवचनमपीडाकरमायतनं निवासः सत्यवत्सु हि सर्वं यथोक्तमायतन इवावस्थितम् ॥ ३३ ॥८॥ तामेतां तपआयङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदै सायतनामात्मज्ञानहे- तुभूतामेवं यथावद्यो वेदानुवर्ततेऽनुतिष्ठति । तस्यैतत्फलमाह-अपहत्य पाप्मानम् । अपक्षय्य(क्षीय) धर्माधर्मावित्यर्थः । अनन्तेऽपारेऽपियमा- नान्ते । स्वर्गे लोके सुखपाये निर्दुःखात्मनि परे ब्रह्माणि । ज्येये महति शक्त्येत्यर्थः ॥ ३१ ॥ ६ ॥ बाह्मणजातरुपनिषदमिति । ब्राह्मणजात्यनुष्ठेयां विद्यामात्मज्ञानसाधनभूताभि- त्यर्थः ॥ ३२ ॥ ७ ॥ ब्रह्मेति वेदस्तन्मूलत्वात्तदाश्रया ॥ ३३ ॥ ८ ॥ तपआदीनि वेदाङ्गान्यन्याङ्गानि यस्याः ॥ ३४ ॥ ९ ॥ सत्यकामः स्वयं सिद्धः सर्वेशो यः स्वशक्तितः । स एवान्तःप्रविष्टोऽहमुपास्यः सर्वदेहिनाम् ॥ १ ॥ १ च. ज. ब्राम्युप । २ ग. "दं सत्याय । ३ क. झ. त्यैव त ।

[४चतुर्थः आनन्दगिरिकृतटीकासंवलितशांकरवाक्यमाष्यसमेता। ३७. खण्डः] तिष्ठति प्रतितिष्ठति ॥ ३४ ॥ ९॥ इति चतुर्थः खण्डः ॥ ४ ॥ इति सामवेदीया तलवकारशाखोक्का केनोप- निषत्समाप्ता। सर्वमहत्तरे प्रतितिष्ठति सर्ववेदान्तवेद्यं ब्रह्माऽऽत्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ॥ ३४ ॥ ९॥ इति चतुर्थः खण्डः ॥४॥ इति श्रीमत्परमहंसपरिवाजकाचार्यगोविन्दभगवत्पादःज्यशिष्य- श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवतः कृती तलवकारोपनिषत्परपर्यायकेनोपनिषद्भाष्ये क्षुद्र- गणवाक्यविवरणं समाप्तम् । इति चतुर्थः खण्डः ॥ ४ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमगोविन्दभगवत्पूज्यपादशिष्यश्रीमत्परमहंसपरिवा- जकाचार्यश्रीमच्छंकरभगवतः कृतौ सामवेदीयातलपाताखोपनिषरक्षुद्र- गणे वाक्यविवरणे भाष्ये श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदा- नन्दज्ञानविरचिता व्याख्या समाप्ता ।

ॐ तत्सद्ब्रह्मणे नमः। शंकरानन्दकता केनोपनिषद्दीपिका । केनेषितोपनिषदं व्याकरिष्ये पदाध्वना । रम्यां तलवकाराणां शाखायामात्मबोधिनीम् ॥१॥ ब्रह्मणः प्रत्यक्षादिप्रमाणैरनवगम्यत्वात्तदस्तित्वस्य च प्रमाणसिद्धत्वा- चित्रेणापि कर्मणा प्राणाद्युपासनेन ब्रह्मज्ञानोत्पादमन्तरेण ब्रह्मावाते. संपादयितुमशक्यत्वादशुद्धान्तःकरणस्य च ब्रह्मज्ञानोत्पादस्यासंभावित- त्वादतः कर्माणि प्राणाद्युपासनानि चोक्त्वा ब्रह्मविद्यामुपक्रमते । तत्रापि प्रतिपत्तिसौकर्यार्थ गुरुशिष्यसंवादमिवाऽऽह । शिष्यः पृच्छति- केनासता सता केनाचेतनेन चेतनेन वा भिन्नेनामिनेन वेषितमिष्टं कस्येच्छानिमित्तमित्यर्थः । पतति सर्वासु दिक्षु गच्छति मन इति वक्ष्य- माणेन संबन्धः । सामान्यतः प्रेरयितारं पृष्ट्वा विशेषतस्तं पृच्छति- प्रेषितं प्रेरितं धनुष्मतेव ज्याघाताराणजातं को ह्येतद्देशाद्देशान्तरं नय- तीत्यर्थः । मनः संकल्पविकल्पोपलक्षितमन्तःकरणं ज्ञानशक्तिरित्यर्थः । केन व्याख्यातम् । प्राणः पञ्चवृत्तिरध्यात्मादिभेदमिन्नः क्रियाशक्तिरि- त्यर्थः । प्रथमोऽव्याकृताभिमानिन ईश्वरस्य चेतनावेतनात्मकं विक्षेप जनयतः सर्वप्रवृत्तिनिमित्तं प्रथमः पुत्रः प्रति प्रकर्षेणो दिदिक्षु गच्छति युक्तः संबद्धः केन प्रेरित इत्यर्थः । केन व्याख्यातम् । इषितां प्रेरितां वाचं वागिन्द्रियरूपामनेकशब्दजननीमिमांताल्वाद्यष्टस्थानस्थां वदन्ति । अस्य वागिन्द्रियस्य वक्तुमशक्यत्वेऽपि केनचिन्नुन्नवागिन्द्रियास्तदुच्चार्य- माणां वर्णपदवाक्यात्मिकां वाचं व्यक्तमुच्चारयन्ति । चक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च क उ को नाम देवः सर्वव्यवहारकारणभूतो युनक्ति संनद्धं करोति प्रेरयतीत्यर्थः ॥१॥ गुरुराह-श्रोत्रस्य शब्दोपलब्धेरसाधारणकारणस्य श्रोत्रं यथाऽस्मा. कमसाधारणव्यवहारस्य कारणं श्रोत्रं तथा श्रोत्रस्यापि शब्दग्रहणसा- मर्थ्यस्यासाधारणं कारणम् । मनसः सर्वोपलब्धौ साधारणकारणस्य मनः साधारणकारणत्वसामर्थ्यकारणम् । यद्धेत्वर्थमुक्तैः श्रोत्रादिभि- वक्ष्यमाणैश्चक्षुरन्तैः संचध्यते । अथवा यद्यो वाचो वागिन्द्रियस्य वर्णोच्चारणशक्तेर्ह प्रसिद्धस्य वाचं वाग्वागिन्द्रियसामर्थ्यकारणम् । १ ग. वित्वा । २ ग. विद्यां वक्तुमु। ३ ग. 'र्थस्य सा । ख. कार्यस्य । .

૨ शंकरानन्दकृता- [१प्रथमः खण्डः] *यदु य उ स उ एव प्राणस्य पञ्चवृत्तेर्जीवनकारणस्य प्राणो जीवनकार- णत्वसामर्थ्यकारणम् । चक्षुषो रूपोपलब्धेरसाधारणकारणस्य चक्षुश्चक्षुः- सामर्थ्यकारणम् । एवंभूतो यः स एवेत्यन्वयः । मनआदेः सामान्यतो विशेषतश्च प्रेरयितेति शेषः । अयमर्थः-अस्ति मनआदीनां प्रेरयिता मनआदिविलक्षणश्चेतनश्चेतनानां भेदगन्धशून्य इति । अतो ज्ञात्वाऽ- विद्यां सकार्यामतिमुच्य सर्वात्मना परित्यज्य धीरा बुद्धिमन्तो ब्रह्म- चर्यादिसाधनसंपन्नाः । अथवोपसर्गयोगे धातोरन्यार्थत्वं प्रायेणेति न्यायेन धीरा अतिमुच्याहं ब्रह्मास्मीति तमवगत्य प्रेत्यास्माल्लोकाल्लोक- शब्दाभिधेयकार्यकारणसंघाताभिमानादस्मात्मतिप्राणिप्रत्यक्षात्मेत्य प्रक- र्षेण गत्वा तदभिमानं परित्यज्येत्यर्थः । अमृता मरणकारणाविद्यात. कार्यशून्याः। भवन्ति स्पष्टम् ॥२॥ ननु येन प्रेरितं मनआदिकं गच्छति तदिदमिति शृङ्गन्याहिकया कस्मान्न प्रदर्श्यत इत्यत आह-न तत्र चक्षुर्गच्छति रूपादिहीनत्वा- तस्य तस्मिन्विषये चक्षुर्न गच्छति । ननु चक्षुरग्राह्याणामपि स्वर्गा- पूर्वादीनां वाग्विषयत्वं दृष्टमित्यत आह-न वाग्गच्छति स्पष्टम् । तत्रेत्यनुवर्तते । ननु वागग्राह्याणामपि चम्पककेतक्यादिगन्धभेदानां मनसा ग्रहो दृष्ट इत्यत आह-नो मन उक्तम् । गच्छति तत्रेत्यनुवर्तते। : यत एवं ततः श्रोत्रस्य श्रोत्रमित्यायुक्तोपदेशमन्तरेणास्याऽऽत्मनो दर्शन उपायान्तरं न विद्मः स्वबुद्धया न जानीमः । नापि विविधशास्त्रगुर्वा- धुपदेशेभ्य इत्याह-न विजानीमो विशिष्टेभ्यः शास्त्रेभ्यः शास्त्रगुर्वा दिभ्य इदानीमपि नाधिगच्छामः । यथा येन प्रकारेणैतच्छ्रोत्रस्य श्रोत्र- मित्यादिनोक्तं मनआदः प्रेरकमनुशिष्यान्मादृशो गुरुर्भवादशं शिष्य श्रोत्रस्य श्रोत्रमित्यादिनोपदिश्यानु पश्चाच्छेतो वर्तुलशृङ्गो गौरितिव- द्विशेषणं कुर्यात्तमुपायं न विद्मो न विजानीम इत्यन्वयः । ननु लोके द्वयी मतिर्जातमज्ञातं च तत आभ्यामन्यतरविशेषणेन विशेषणीयमि- त्यत आह-अन्यदेव तद्विदितात्तच्छ्रोत्रस्य श्रोत्रमित्यादिनोक्तं विदि. ताज्ज्ञानविषयात्सर्वस्मादन्यदेव पृथगेव न तु ज्ञानविषयः । ननु तयवि- दितमज्ञातस्वरूपमित्यत आह-अथो अप्यविदिताज्ज्ञानाविषयादज्ञा- तादन्यदेव । नन्विदं भवबुद्धिकल्पितमित्यत आह-इत्यनेन प्रकारेण * इदं पदद्वयं मूले नोपलभ्यते । ग. उ देव ए।

[१प्रथमः खण्डः ] केनोपनिषद्दीपिका। السع शुश्रुम श्रुतवन्तो वयम् । पूर्वेषां पित्रादीनाम् ।ते च न मूर्खा इत्येवमाह- ये प्रसिद्धाः शमदमादिसाधनसंपन्नाः शास्त्रहृदयज्ञा नोऽस्माकं सहा. ध्यायिनां शिष्याणां तच्छ्रोत्रस्य श्रोत्रमित्यादिनोक्तं व्याचचक्षिरे विस्प- टमासमन्तात्कथितवन्तः । अनेन गुरुमुखादेवाऽऽत्मावगतिर्भवति न तु प्रकारान्तरेणेत्यर्थादुक्तम् ॥३॥ अतो वागाद्यगम्यत्वेनैवावगन्तव्यं न त्वन्यथेत्येतन्मन्त्रपञ्चकेनाss- ह-यत्प्रसिद्धमात्मस्वरूपं वाचा वर्णपदादिरूपया वेदलोकवाक्यात्मि- कयाऽनभ्युदितमप्रकाशितं शृङ्गग्राहिकया । येन प्रसिद्धेन वाग्वागि- न्द्रियं वर्णादिवाक्सहितमभ्युद्यते सर्वत उच्यते स्वव्यवहारक्षमा भव. तीत्यर्थः । केनेषितां वाचमित्यस्येदमुत्तरम् । तदेव वाचा प्रकाशितं वाचः प्रेरकं न त्वन्यत् । ब्रह्म बृहद्देशकालवस्तुपरिच्छेदशून्यं त्वमस्म- च्छिष्यो ब्रह्मणो भेदरहितो विद्धि जानीहि । ननु किमर्थं तदेव ज्ञातव्यं यतो बहुविधभेदमहमनहं वा तदित्युपासते जनाः । तद्वदहमपि भवदु- तादन्यज्ज्ञास्यामीत्यत आह–नेदमिदं बहुविधभेदमहमनहं वा गृहीतं वागादिविषयभूतं न ब्रह्मेति शेषः । इदंशब्दार्थमाह-यत्प्रसिद्धमुपा- सकानामिदं प्रसिद्धं ज्ञातृज्ञानज्ञेयभेदवदुपासत उपासनं कुर्वते यथा- वत्स्वरूपावबोधशून्याः ॥ ४ ॥ वागगम्यस्यापि - म्पककेतक्यादिगन्धभेदस्य मनसा ग्रहों दृष्ट इत्यत आह-यत्मसिद्धं मनसो मनो मनसाऽन्तःकरणेन न मनुते कोऽपि नाधिगच्छति । न च तदकिंचित्करमित्याह-येन मनसाऽविज्ञातेनाऽऽहुः कथयन्त्यस्माकं व्याख्यातारो मन उक्तं मतं ज्ञातं सर्वकार्यक्षममित्यर्थः । अनेन केनेषितमित्यादिप्रथमप्रश्नस्योत्तरं सिद्धम् । यद्यपि वाङ्गनसयो- रगोचरत्वेनैव चक्षुःश्रोत्रप्राणानामगोचरत्वं सिद्धं तथाऽपि पश्चप्रश्नानां प्रत्येकमुत्तरं दातुं वक्ष्यमाणं पर्यायत्रयमवगन्तव्यम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते व्याख्यातम् ॥ ५॥ यत्मसिद्धं चक्षुषश्चक्षुश्चक्षुषा रूपग्राहकेणेन्द्रियेण न पश्यति नाव- लोकयति येन चक्षुषश्चक्षुषा चश्छ्ष्यक्षीणि पश्यत्यवगच्छति चक्षुषः सर्वकार्यकारणमित्यर्थः । चक्षुःश्रोत्रं क उ देवो युनक्तीतियोगस्य विभागेनाऽऽद्यस्योत्तरं दत्तम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते व्याख्यातम् ॥६॥ १ ग. ति । अत्र त । २ ग. नसोऽवि।

४ शंकरानन्दकृता- [ २द्वितीयः खण्डः ] यत्प्रसिद्धं श्रोत्रस्य श्रोत्रं श्रोत्रेण शब्दोपलब्धिसाधनेन न शृणोति नाधिगच्छति । येन श्रोत्रस्य श्रोत्रेण श्रोत्रं शब्दोपलब्धिकारणमिदमा- काशस्य प्रदेशविशेषात्मकं श्रुतमधिगतम् । स्वकार्यक्षम कृतमित्यर्थः । चक्षुःश्रोत्रं क इत्यस्याविशिष्टस्यानेनोत्तरं दत्तम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते व्याख्यातम् ॥ ७॥ यत्प्रसिद्धं प्राणस्य प्राणरूपं प्राणेन पञ्चवृत्तिना न पाणिति प्राणचेष्टांन करोति येन प्राणस्य प्राणेन प्राणःप्रसिद्धपश्चवृत्तिःप्रणीयते प्रकर्षण नीयते स्वचेष्टां कार्यत इत्यर्थः । अनेन केन प्राण इत्यादेत्तरं दत्तम् । श्रोत्रस्य श्रोत्रमित्यादिना तु सामान्यतः । अत्र तु विशेषत इति न पुनरुक्तम् । अथवा तदुत्तरं तत्रैव कण्ठतः । अत्र तु वागाद्यविषयत्वप्रतिपादनेना- ध्यमिति न पुनरुक्तम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। व्याख्यातम् ॥८॥ इति श्रीशंकरानन्दभगवतः कृतौ केनोपनिषद्दीपिकायां प्रथमः खण्डः ॥ १ ॥ पूर्व यथावस्थितमात्मस्वरूपं गुर्वाद्युपदिष्टमुपदिश्येदानीं शिष्यबु- द्धिमनुसरन्नाह-यदि पक्षान्तरे मन्यसे वस्तुतो विद्यमानमपि जानामि मुवेद सुष्टु भवदादिभिरक्तं ममाऽऽत्मस्वरूपं जानामि । इत्यनेन प्रकारेण यदि मन्यस इत्यन्वयः । तथा ब्रह्मतत्त्वं जानीष इत्याह-दहरमेवापि नूनम् । अपि संभावनायाम् । नास्त्येव भवतो ब्रह्मज्ञानम् । अथ च चेतनत्वाज्ज्ञानवानहमस्मीति संभावयसि तथाऽपि नूनं निश्चितं तद्वि- षयस्याल्पत्वावल्पमेव नतु बृहत् । त्वं ज्ञानित्वाभिमानी वेत्थाल्पमेव जानीपे । किम् । ब्रह्मणो रूपं देशकालवस्तुपरिच्छेदशून्यस्य स्वरूपं दहरज्ञानत्वे हेतुर्यद्यस्मादस्य त्रिविधपरिच्छेदशून्यस्य त्वं कार्यकारणसं- घाताभिमानी परिच्छिन्नो ज्ञानकः । एवंभूतात्वत्तोऽन्यद्यत्मसिद्धं त्वया ज्ञेयं कार्यब्रह्मस्वरूपमस्य ब्रह्मणः सर्वपरिच्छेदशून्यस्य देवेष्विन्द्राग्न्या- दिषु । अथ नु यस्मादस्य देवेषु यत्प्रसिद्धमस्य त्वं चेति भेदस्तस्मादेव मीमांस्यमेव विचारणीयमेव ते तव त्वयेत्यर्थः । एवमुक्तो मीमांसा कृत्वा शिष्य आह-मन्येऽवगच्छामि विदितमवगतं मयेति शेषः ॥१॥ * इदं पदमधिकमिव माति । : १ ग. ब्धिकारणेन । २ ख. शिस्य वि।

.... [ २द्वितीयः खण्डः] केनोपनिषद्दीपिका। स्वयंविदिति त्वे हेतुमाह-नाहं मन्ये सुवेदेति नो न वेदेति वेद च । अहं सुवेदेति नैव मन्ये । यदि सम्यङ्न ज्ञातं तर्हि किं न ज्ञातमेवेत्या आह-नो न वेदेति । तर्हि किं संदिग्धमित्यत आह-वेद च । जाना- म्यपि चकाराज्जानन्नपि मेदबुद्धेरभावान्न जानामि । [न]सुवेदेत्यनेन ब्रह्मणोऽतिदुर्बोधत्वं दर्शितम् । नो न वेदेत्यनेन शास्त्रैकगम्यत्वमुक्तः । वेदेत्यनेन संशयादिराहित्यमुक्तम् । चकारेण सर्वभेदभक्षकः साक्षात्कार उक्तः । अतिदुर्बोधशास्त्रैकगम्यासंदिग्धसर्वभेदशून्यब्रह्माहमस्मीत्यर्थः । यो मत्तोऽन्योऽपि नोऽस्माकं शिष्याणां मध्ये तन्मयोक्तं सुवेदेति न न वेदेत्यपि न वेद चेति वेद जानाति स तद्ब्रह्म श्रोत्रस्य श्रोत्र- मित्यादिनोक्तं वेद जानाति यस्मादयमवगन्ता मदुक्तं वेद मवा. नेतमवगच्छति । मो न वेदेति वेद च न जानामीति न जानामीत्यपि न । चकार इतिनोकारयोरनुवृत्त्यर्थः । दर्शिता च तयोर्योजना । तस्मा- ब्रह्म देत्यभिप्रायः ॥२॥ ननु न जानामीति ज्ञानवता ज्ञेयं जानामीति ज्ञानवता चाज्ञेयं भव- द्वाचो भङ्गन्या ब्रह्म सिध्यति न चैवं प्रामाणिकमित्यत आह-यस्य ब्रह्म विदुषोऽमतमनधिगतं कर्तृकर्मादिभावेन तस्य कर्तृकर्मादिमावान- धिगतवतो मतमधिगतम् । इदानीं वैपरीत्यमाह-मतं कर्तृकर्मादिमावे- नाधिगतं यस्य ब्रह्म विदुषो न वेद न जानाति स कर्तृकर्मादिभेदज्ञान- वान् । तत्रैव हेतुमाह-यतोऽविज्ञातमनधिगतं विजानतां विविधज्ञातृ- ज्ञानज्ञेयादिबुद्धिमता देशकालवस्तुपरिच्छेदशून्यरूपत्वाद्ब्रह्मणस्ततः । विज्ञातं विशेषेण यथाविद्यमानस्वरूपेणाधिगतमविजानतां विविधज्ञा- वादिभेदबुद्धिरहितानाम् ॥ ३॥ अविजानतां विज्ञातं चेत्तर्हि सुषुप्तिमूर्छादौ सर्वोऽपि कृतकृत्यः स्यादित्यत आह-प्रतिबोधविदितं सर्वप्रत्ययसाक्षित्वेनावगतं मतं विज्ञातं न तु सर्वप्रत्ययोपरमे सुषुप्तादौ । ननु किमनेन ज्ञानेनेत्यत आह- अमृतत्वं हि विन्दत आत्मना हि यस्मादात्मनाऽऽत्मज्ञानेनामृतत्वमवि. द्यातत्कार्यादिमरणशून्यत्वं स्वयंप्रकाशमानन्दात्मस्वरूपमित्यर्थः । विन्दते लभते । हेर्हेत्वर्थस्याऽऽत्मनेति व्याख्यानम् । विन्दते वीर्यं सामर्थ्यमवि. द्यानिवृत्तिकारणं चरमसाक्षात्काररूपं लभते । उक्तवीर्यलामादुक्तामृत- १ ग. स्वस्य विदितत्वे । २ ग. 'ति । चेत्तीह। ३ यं सदा । ४ ग. गमयतो । ५ ग. र्थस्य व्या।

शंकरानन्दता-. [३ तृतीयः खण्डः] त्वप्राप्तिः प्रसिद्धैवेत्याह-विद्ययाऽधिष्ठानयाथात्म्यसाक्षात्कारेण कर्म- गन्धानपेक्षेण विन्दतेऽमृतमधिष्ठानविपरीतग्रहणतजदुःखरूपमरणकार- णशून्यमविक्रियमधिष्ठानं लभते ॥४॥ ननु विद्या चेच्छरीरान्तर एव न त्वत्रैव सति शरीर इत्यत आह-इहा- स्मिन्नेवाधिकारिशरीरे चेद्यद्यवेदीज्ज्ञातवान् । अथ तदा सत्यं सच्चिदा- नन्दरसं ब्रह्मास्ति विद्यते न चेदिहावेदीदिहाधिकारिशरीरे यद्यहं ब्रह्मा- स्मीति शरीरे साक्षात्कारं न इतवांस्तदा महत्यतिप्रौढा त्रिविधदुःख- संतानजननी विनष्टिविनाशरूप । श्रुत्या सानुक्रोशमेतदुक्तम् । एतच्छ- रीरमन्तरेण समूल घोरसंसारविनाशकात्मज्ञानस्य दुर्लभत्वात्ततोऽस्मिन्स- त्येव तदर्थं यत्न आस्थेयोऽन्यथा सततं संसारसागरे निमज्जनमेव स्यादिति । इदानीमात्मनः सर्वत्राहमस्मीत्यवलोकनं करणीयमित्येतदा. त्मज्ञानस्य संसारव्याध्यौषधस्य स्वरूपमाह सा । भूतेषु भूतेषु प्राणिषु । धीप्सा निखिलचतुर्विधप्राणिसंग्रहार्था । विचित्य वयं स्म इत्यधिगत्य धीरा बुद्धिमन्तो विद्वांसः । प्रेत्यास्माल्लोकादमृता भवन्ति व्याख्या- तम् ॥ ५॥ इति श्रीशंकरानन्दभगवतः कृतौ केनोपनिषद्दीपिकाया द्वितीयः खण्डः ॥ २ ॥ • विशुद्धान्तःकरणैरेव ब्रह्मविद्यायैव सर्वातिशयवत्सर्वात्ममूतं ब्रह्म विज्ञेयं न त्वन्यथेत्येतदर्थमियमाख्यायिकाऽऽरभ्यते-ब्रह्म सत्यज्ञाना- नन्दादिलक्षणं ह किल देवेभ्यो देवानामनुग्रहार्थाय विजिग्ये विविधं देवानां लोकद्वयप्रतिकूलमसुरकुलं जितवत् । तस्य देवानुग्रहप्रवृत्तस्य ह किल ब्रह्मणः सत्यज्ञानानन्दादिलक्षणस्य विजये विविधजयनिमित्तं देवा इन्द्राग्निवायुप्रभृतयोऽमहीयन्त पूजिता अभूवन् । तेऽविज्ञातब्रह्म- प्रभावा ऐक्षन्त प्रत्यक्षं वक्ष्यमाणप्रकारेणेक्षणमकुर्वन् । तदीक्षणप्रकार- माह-अस्माकमेव कार्यकरणसंघाताभिमानिनामिन्द्राग्न्यादीनामेव न त्वन्यस्य कस्यचित् । अयमस्मत्प्रत्यक्षविषयो विजयो विविधोऽसुरपरा- भवलक्षण उत्कर्षः । अस्माकमेवायं व्याख्यातम् । महिमा महत्वरूपः सर्वजन्तुभ्यः स्तुतिपूजादिलाभलक्षणः । इत्यनेन प्रकारेण ॥१॥ तद्ब्रह्म देवानां विजयकृद्ध किलैषां देवानामज्ञानिनां गर्वारूढमभि- प्रायं विजज्ञौ विशेषेण ज्ञातवत्तेभ्यस्तेषां गर्वारुढानां देवानामज्ञानि- १ ग. थकार।

[३ तृतीयः खण्डः ] केनोपनिषद्दीपिका। नामनुग्रहार्थं ह किल प्रादुर्बभूव किमपि रूपं धृत्वा नयनपथमागतं तद्ब्रह्म न व्यजानत देवा इदं तदिति विशेषेण न ज्ञातवन्तः । तदज्ञा- नमाह-किं विचारे । इदं प्रत्यक्षं यक्षं पूज्यमतिदिव्यरूपत्वात् । इत्यनेन प्रकारेण ॥२॥ एवं संशयाविष्टहृदयास्ते गर्वाविष्टा देवा अग्निं देवानामग्रेसरं वह्नि- मब्रुवन्नुक्तवन्तः । तदुक्तिमाह-जातवेदो जातानि वेदांसि विविधानि ज्ञानानि सर्ववेदात्मकानि यस्मादग्नेः स जातवेदास्तस्य संबोधनं हे जातवेद एतदस्माभिरुच्यमानं पुरःस्थितं विजानीहि विशेषेणावगच्छ । किमेतद्यक्षमेतत्पुरतःस्थितं यक्षं किं देवादिषु कतमदित्यर्थः । इत्यनेन प्रकारेण । एवं तैरुक्तः स तथा देवोक्ताङ्गीकारे । यद्भवद्भिरुच्यते तत्क- रिष्यामीत्यर्थः । इत्यनेन प्रकारेणोक्त्वेति शेषः ॥३॥ तत्पुरःस्थितं यक्षमदगन्तुमभ्यद्रवत्संमुखत्वेन समीपंगतवान् । तद्यक्षत समीपं प्राप्त जिज्ञासु सावज्ञमभ्यवदाभिमुख्येनोक्तवत् । तदुक्तिमाह-क: प्रश्शे।मत्समीपमागतस्त्वमसि भवति हत्यनेन प्रकारेण एवं पृष्टः स आह- अग्निरनिनामावै प्रसिद्धः सर्वेषामहं स्वत्समीपमागतोऽस्मि मवामि।इत्य- नेन प्रकारेणाबवीदुक्तवान् । विशेषनामा पुनरात्मानमाह-जातवेदा वा अहमस्मीति स्पष्टम् ॥४॥ एवमुक्ते पुनः सावज्ञं तद्यक्षमाह-तस्मिन्नुक्तनानि त्वयि मत्पुरतो वर्तमाने वराके । किमाक्षेपे । न किमपीत्यर्थः । वीर्यं सामर्थ्यमित्यनेन प्रकारेण । एवमाक्षिप्तोऽपि स स्वगर्ववशात्तदीयं प्रश्नं मन्वान आह- अपि संभावनायाम् । इदं शुष्कमाई च जगत्सर्वं निखिलं दहेयं दहनं कुर्याम् । अत्युक्तिवारणार्थं सर्वशब्दार्थमाह-यत्प्रसिद्धमिदं स्थावर- जङ्गन्मात्मकं मूर्तं पृथिव्यां ब्रह्माण्डकटाहमुवि । इत्यनेन प्रकारेण ॥ ५ ॥ तस्मै तस्याग्नेरनुग्रहार्थं तृणमत्यल्पं शुष्कं स्थावररूपं निदधौ नितरां पुरतः स्थापितवत् । तत्स्थापयित्वेदं जगौ । एतच्छुष्कं तृणं मया पुरतः स्थापितं दह भस्मी कुरु । इत्यनेन प्रकारेण यक्षेणोक्तोऽग्निः पुरतः स्थितं तृणमुपप्रेयाय समीपं प्रकर्षण गतवान्सर्वजवेन स्वकीयेन सर्वजवेन तद्य- क्षस्थापितं शुष्कं तृणं न शशाक दग्धुं भस्मीकर्तुं शक्तो न बभूव । सोऽग्निर्जातवेदा अपगतगर्वस्तत एव शुष्कतृणादहनादेव निमित्तात्मा. सलज्जो निववृते झदित्येव देवानगन्तुं तस्मानिवृत्तिं चकार । आगत्य च देवानुवाच । तदुक्तिमाह-नैतदशकं विज्ञातुं यदेतद्यक्षमेतत्पुरतः .

शंकरानन्दकृता [४ चतुर्थः खण्डः ] स्थितं यत्प्रसिद्धं सामन्यतस्वदेश दिति विशेषतो विज्ञातुं शक्तो नाम- बम् । इत्यनेन प्रकारेण ॥ ६ ॥ अथाननिवृत्तस्य वाक्यश्रवणानन्तरं वायुं सर्वजगतः प्राणं प्रभञ्जन- मब्रुवन्नुक्तवन्तः । वायो हे वायो । एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तमभ्यवदत्कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीन्मात- रिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्व- जवेन तन्न शशाकाऽऽदातुं स तत एव निववृते नैतदशकं विज्ञातुं यदे- तद्यक्षमिति । वायुर्वायुनामा । इदं सामान्यम् । विशेषरूपं त्वाह-मात- रिश्वा मातर्याकाशे श्वसिमि गच्छामीति मातरिश्वनामा । आददी- याऽऽदायान्तरिक्षे गमनं कुर्याम् । आदत्स्वाऽऽदायैतस्या भूमेरस्य तृणस्य च कस्यांचिदत्यल्पमप्यन्तरं कुरु । आदातुं सर्वतः स्वीकर्तुं व्याख्यातम- न्यत् ॥ ७॥८॥९॥१०॥ अथ निवृत्तस्य विगतगर्वस्य वायोर्वचनश्रवणानन्तरमिन्द्रं परमैश्वर्य- संपन्नं त्रिलोकनाथमब्रुवन्नुक्तवन्तः । मघवन्भो इन्द्र । एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत् । व्याख्यातम् । तस्मात्स्वसमीप- प्राप्तादिन्द्रातिरोदधेऽन्तर्धानं चकार । शुद्धान्तःकरणैरपि स्वस्वकर्म- भिरनवगम्यं दर्शयितुमिन्द्रो हि ब्रह्मसमीपं प्राप्तः करग्रहणावसरे तन्न दृष्टवानित्यर्थः ॥११॥ स विस्मयमना इन्द्रस्तस्मिन्नेव यत्र यक्षं स्थितं तत्रैव न त्वन्यत्राऽऽ- काशेऽवकाशे तदेव यक्षं ध्यायंस्तस्थाविति शेषः । एवं स्थिते मघोनि विशुद्धान्तःकरणे यक्षदर्शनोत्सुके तदन्तर्धानादपगतान्तर्धानाद्यैश्वर्या- भिमाने संपन्नाधिकारिगुणे स्त्रीप्रादुर्बभूव । स तां स्त्रि यं ब्रह्मविद्या मूर्तिमतीं ददर्शेति शेषः । ततो निरीक्ष्य तामाजगाम यक्षस्य वातां प्रष्टु- मागतवान् । आगत्य च बहुशोभमानां सकलाविद्यापिशाचीवैलक्ष- ण्येनाधिककान्तिमतीमुमां सकलसंसारवृक्षोच्छेदकत्वेनोत्कृष्टां प्रभा ब्रह्मविद्यामित्यर्थः । हैमवती हिमरूपः सर्वदा शीतलः स्वयंप्रकाश- मान आनन्दात्माऽन्तर्हितयक्षस्वरूपः स यस्य नित्यमस्त्युपनिषद्विभा- गस्य स हिमवांस्तस्येयं दुहिता हैमवती ताम् । अथवोमा भगवतः पिनाकपाणेः प्राणप्रिया सा हि कान्दिशीकान्भृशं विषण्णाञ्जन्तून्मातेव नानारूपैराश्वासयति । तदुचितमिन्द्रस्यापि ताशस्य तस्या दर्शनम् ।

[४. चतुर्थःखण्डः] केनोपनिषद्दीपिका। सा च हिमवतो गिरिराजस्य दुहिता प्रसिद्धा ताम् । अथवा हेम कनकं तस्याऽऽभरणानि हैमानि कटकमुकुटादीनि तानि यस्याः सन्ति सा हैमवती तां प्रसिद्धां विदुषामुमा ह किलोवाचोक्तवान् । तदुक्तिमाह- किमेतद्यक्षमिति व्याख्यातम् ॥ १२॥ इति श्रीशंकरानन्दमगवतः कृतौ केनोपनिषद्दीपिकायां तृतीयः खण्डः ॥ ३ ॥ सा तं ब्रह्म बृहद्देशकालवस्तुपरिच्छेदशून्यं भवतां विजयकारणमित्य- नेन प्रकारेण ह किलोवाचोक्तवती । ब्रह्मेति नामधेयमुक्त्वा तस्य महि- मानमप्याह-ब्रह्मण उक्तस्य वै प्रसिद्धस्यैतद्विजये महीयध्वं विजयनि- मित्तमेतन्महीयध्वमिदं भवतां महत्त्वं येन लोके स्तुतिपूजादिमन्त एता- दृशाः स्युरित्यनेन प्रकारेण । शिक्षा चेयं ब्रह्मणो विजये सति यूयं महीयध्वं मा स्वातन्त्र्याभिमानं कुरुतेत्यर्थः । एवमुमयोक्त इन्द्रस्ततस्त- स्या उमाया वचनाद्ध किलैव तत एव न त्वन्यस्माद्विदांचकार ज्ञात- वान् । तज्ज्ञानप्रकारमाह-ब्रह्म यद्यक्षमन्तर्हितं तद्ब्रह्मेत्यनेन प्रकारेण॥१॥ तस्माद्यतो वाय्वनी संवादं कृतवन्तौ ब्रह्मणेन्द्रश्चोमावचनेन निश्चि- काय ततो वै प्रसिद्धा एते देवा अमीन्द्रवायवोऽतितरामिवाधिकमति- क्रम्येव वर्तन्तेऽन्याननीन्द्रवायुव्यतिरिक्तान्देवांश्चन्द्रवरुणादीन् । एत इत्युक्तानामत आह-यद्यः प्रसिद्धोऽग्निर्वायुरिन्द्रः प्रसिद्धानि त्रिण्यपि नामानि त्रयाणां तेऽनीन्द्रवायवः सर्वेभ्योऽत्यधिका हि यस्मादेनद्य- क्षरूपमात्मानं नेदिमतिशयेन समीपं पस्पृशुः स्पर्शनं चक्कुब्रह्मणः समीपं गता इत्यर्थः । तेऽनीन्द्रवायवः सर्वदेवाधिका हि यस्मा- देनद्देवानां पुरतः स्थितं यक्षं ब्रह्म प्रथमः प्रथमा देवेभ्यो मुख्या इत्यर्थः । विदांचकार विदांचकुः । छत्रिन्याय दर्शयितु कवचनेत निर्देशः । तज्ज्ञानानुकरणं ब्रह्मेति स्पष्टम् ॥२॥ इदानीं छत्रिन्यायं विवृणोति-तस्माद्यतोऽनीन्द्रवायुषु बमसमी- पगामिविन्द्र एवोमोपदेशाद्ब्रह्म ज्ञातवान् । ततो वै प्रसिद्ध इन्द्रः परमैश्वर्यसंपन्नोऽतितरामिवातिशयेनातिनामत्यन्यान्स्वव्यतिरिक्तान्देवा- नग्निवायुप्रमुखान् । स इन्द्रः। नन्नेदिष्ठं पस्पर्श स नत्प्रथमो विदां- चकार ब्रह्मेति स्पष्टम् ॥३॥ १.ग. दुषीमु ।

१० शंकर नन्दकृता- [ ४ चतुर्थःखण्डः ] तस्येन्द्रेणावगतस्य ब्रह्मण एष वक्ष्यमाण आदेशं उपदेशः । यत्प्रसिद्धं ब्रह्मरूपं शास्त्रेषु स्वयंप्रकाशमेतबुद्धेष्ट वक्ष्यमाणस्वरूपं विद्युतः प्रसिद्धायास्तडितः । व्यातद्विशेषेण द्योतनमकरोत् । आ । आकारप्लुतिराश्चर्यार्था । आश्चर्य तेजोधातुविलक्षणमपि ब्रह्म विद्युतः सकाशाद्विस्पष्टं प्रकाशं कृतवदिव स्वयंप्रकाशमित्यर्थः । इत्यनेन प्रका- रेणाऽऽदेश इत्यन्वयः । यथा स्वयं विद्युतोऽपि विशेषप्रकाशवदिव । तदित्थं चक्षुरादीनि सान्तःकरणानि न्यमीमिषन्निमेषोपलक्षितं स्वस्व- व्यापार कारितवत् । आ३ आकारप्लुतिः पूर्ववदाश्चयं सर्वक्रियाही. नोऽपि सर्वदेवनिष्पाद्या क्रियां कारितवानिवेत्यनेन प्रकारेणाऽऽदेश इत्यन्वयः । अधिदैवतं हिरण्यगर्भमधिकृत्येतिद्वयाभ्यां वाक्याभ्यामुप- दिष्ट आदेशोऽधिदैवतम् ॥ ४ ॥ अथाधिदैवतादेशकथनानन्तरमध्यात्ममात्मानमधिकारिशरीरमुररीकृ- त्योच्यमान उपदेशोऽध्यात्मं यत्प्रसिद्धमधिदैवं विद्युतोऽपि विशेषप्रका- शवदिवैतबुद्धेष्ट सर्वगतं प्रति गच्छतीव च यातीव चकारात्स्पृशतीव च मनोऽन्तःकरणमनेन चान्तःकरणेनैवैतद्विद्युतोऽपि विशेषप्रकाशव- दिव ब्रह्मोपस्मरत्यहं ब्रह्मास्मीति सामीप्येन शास्त्रोक्तं स्मरत्यभीक्षणं निरन्तरं संकल्प इदं ब्रह्माहं साक्षात्करोमीत्येवंरूपोऽभिलाषः सोऽप्यने- नेत्यभिप्रायः ॥ ५॥ तदुक्तं ब्रह्म ह किल तद्वनं नाम तस्य तस्य प्राणिजातस्य वननीयं संभ- जनीयमेतदेव नामधेयम् । तस्येदानीं नामानुगुणोपासनमाह-तद्वनं नाम- धेयमित्यनेन प्रकारेण तदुपासितव्यं विजातीयप्रत्ययशून्येन सजातीयप्रत्य- यप्रवाहेण साक्षात्कर्तव्यम् । इदानीं गुणोपासनस्य फलमाह—स उपा- सकलक्षणसंपन्नो यः कश्चनैतत्स्वयंप्रकाशं सर्वव्यापारनिमित्तं मनःसंक- ल्पस्मरणगमनेषु कारणं ब्रह्म । एवमुक्तेन प्रकारेण तद्वनं नामधेयमिति वेद जानात्युपास्त इत्यर्थः । अभिहैनं सर्वाणि भूतानि गच्छन्ति* ह किलैनं तद्वननामोपासक निखिलानि स्थावरजङ्गमानि भूतानि दर्शनस्पर्शना- दिनाऽभिगच्छन्ति संगच्छन्ति संवाञ्छन्ति सर्वत इच्छां कुर्वन्ति ॥ ६ ॥ इदानीमाख्यायिकां परित्यज्य पुनः शिष्यप्रश्नमवतारयति-उपनि- पदं ब्रह्मविद्यां विद्यया विन्दतेऽमृतमिति भवतैवोक्तं भो हे गुरो बहि * इदं पदमधिकमिव भाति । १ ग. हितस्तत्स्वयंप्रकाशं सर्वव्यापारनिमित्तं मनः संकल्पस्मरणगमनेषु कारणं ब्रह्म आ ३ आश्व। २ ग. °णमिव । ३ग. द्विशिष्ठं । क. 'वोका भो।

[ ४ चतुर्थःखण्डः] केनोपनिषद्दीपिका। ११ कथय किमु ब्रह्मविद्याऽऽहोस्विदन्याऽपीति प्रश्नार्थः । इत्यनेन प्रकारेण । ब्रह्मविद्या चेदुक्तैव तस्याः साधनानि चेत्तपआदीनि वक्ष्यामीत्यनेना- भिप्रायेण गुरुराह-उक्ता श्रोत्रस्य श्रोत्रमित्यारभ्याभीक्ष्णं संकल्प इत्यन्तेन गुणोपासनासहितेन वाक्यसंदर्भण कथिता । ते तुभ्यम् । उप- निषत् , तादात्म्यलक्षणेन सामीप्येन नितरां ब्रह्म गमयित्वाऽहंममादि- ग्रन्थीशिथिलीकृत्याविद्यां ससंस्कारां सादयति विनाशयतीत्युपनिष- ब्रह्मविद्या । बाह्मीं वाव ब्रह्मणा सत्यज्ञानलक्षणेन संबद्धा ब्राह्मी तामेव नतु तत्संबद्धां तपआदिकाम् । अत उपनिषदं व्याख्यातम् । अबूमोक्तवन्तः । अतोऽन्यां कथयिष्याम इत्यभिप्रायः॥ ७ ॥ तस्यै, उक्ताया बाहूम्या उपनिषद उत्पत्त्यर्थम्। तपस्तपःशब्दाभिधेयं स्वधर्मानुगुणशरीरसंतापकरं मनइन्द्रियैकाग्यादिषु । दम इन्द्रियनिग्रहः कर्म स्ववर्णाश्रमोचितं श्रौतं स्मात चेत्यादिकमन्यदपि शमब्रह्मचर्यादि। इदानीमस्या उपनिषदः स बाहम्युपनिषद(?)उपासनमाह-प्रतिष्ठाः प्रतितिष्ठन्त्येतैरिति प्रतिष्ठा इयं तपआयुपनिषत्कामधेनुब्रह्मविद्योपनिष- द्वत्सा चतुष्पादित्यर्थः । ततः प्रतिष्ठाः पादाः । इदानीं तान्विशेषत आह-वेदा ऋगाद्याश्चत्वारः । वेदानां षड(सर्वा)ङ्गानि विद्याकाम- धेनोः परिशिष्टानि निखिलाङ्गानि । सत्यं कालत्रयेऽपि बाधशून्यं ब्रह्म भूरिवेतरस्या गोरायतनं प्रचारोपवेशनादिस्थलम् ॥ ८॥ यो मुमुक्षुर्ब्रह्मविद्यार्थी तपआदिसंपादनोद्यतो वै प्रसिद्धोऽनुत्पन्नब्रह्म- साक्षात्कारः श्रद्धालुरेतां तपआदिकामधेनुं ब्रह्मविद्यावत्सामेवं वेदपादा- दिरूपेण वेद जानात्युपास्त इत्यर्थः । सोऽपहत्य स्वस्मादपच्छेदपुरःसरं विनाश्य पाप्मानं ब्रह्मविद्योत्पत्तिप्रतिबन्धहेतुमनन्ते विनाशरहिते स्वर्गे स्वर्गवासिभिर्गय आनन्दात्मनि लोके स्वयंप्रकाशे ज्येये ज्यायसि सर्व- स्मादभ्यधिके ब्रह्मणीत्यर्थः। प्रतितिष्ठति संजातचरमसाक्षात्कारः प्रकर्षण पुनरुत्थानशून्यत्वेनावस्थानं करोति । प्रतितिष्ठति व्याख्यातम् । पदा- भ्यास उपनिषत्समाप्त्यर्थः ॥९॥ इति श्रीशंकरानन्दभगवतः कृतौ केनोपनिषद्दीपिकायां चतुर्थः खण्डः ॥ ४ ॥ समाप्तेयं शंकरानन्दकृता तलवकारोपनिषदपरपर्यायकेनोपनिषद्दीपिका ॥

ॐ तत्सद्ब्रह्मणे नमः। नारायणविरचिता केनोपनिषद्दीपिका । केनेषितोपनिषदि खण्डाश्चत्वार ईप्सिताः । क्षुद्रग्रन्थसमाहारे सा द्वात्रिंशत्तमी मता ॥ तलवकारशाखा सामवेदे नवाध्याच्याम् । तत्र प्राक्कर्माण्युक्तानि ततः समस्तकर्माश्रयस्य प्राणस्योपासनानि ततः कर्माङ्गसामोपासनानि ततो गायत्रसामविषयं दर्शनं वंशान्तमुक्तमष्टभिः । ततस्तैः शुद्धसत्त्वं प्रति केनेषितमित्याद्या ब्रह्मविषयोपनिषन्नवमाध्याय आरभ्यते । दृष्टादृष्टा- र्थेभ्यो बाह्यसाधनेभ्यो विरक्तस्य प्रत्यगात्मविषया जिज्ञासेयम् । केनेषि- तमित्यादि । शिष्याचार्यप्रश्नपतिवचनरूपेण कथनं सुखप्रतिपत्त्यर्थं केवलतांगम्यत्वदर्शनार्थं च । केन कर्रेषितमिष्टमभिप्रेतं सत्कस्येच्छा- मात्रेण मनः पतति स्वविषयं प्रति गच्छति । इषेराभीक्षण्यार्थस्य गत्य- र्थस्य चेहासंभवादिच्छार्थस्यैतद्रूपम् । इडागमश्छान्दसः । तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमिति । न यथाप्रसिद्धमेव कार्यकारणसंघा- तस्य प्रेरयितृत्वं किंतु संघातव्यतिरिक्तस्य स्वतन्त्रस्येच्छामात्रेण मनआ. दिप्रेरयितृत्वमित्यस्यार्थस्य प्रदर्शनार्थ केनेषितं प्रेषितमिति विशेषणद्व- यम् । ईश्वरविषयोऽयं प्रश्नः। यदुक्तम्-"ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया" इति । प्रवृत्तिलिङ्गाञ्च विशेषार्थः प्रश्न उपपन्नः । रथादीनां हि चेतनावद- धिष्ठितानां प्रवृत्तिदृष्टा तद्धि लिङ्गं चेतनावतोऽधिष्ठातुरस्तित्वे । मनआदीनि चेतनावदधिष्ठितानि करणत्वाद्वासीवदिति प्रयोगः । मनु- तेऽनेनेति मनोऽन्तःकरणम् । इषितं प्रेषितमित्युपमार्थे न त्वनयोरविह संभवतः । नहि शिष्यानिव मनआदीनि विषयेभ्यः प्रेरयत्यात्मा । विविक्तनित्यचित्स्वरूपभात्रतया तु निमित्तमात्रं प्रवृत्तौ । प्राण इति नासिक्यः प्रकरणात् । केन युक्तो नियुक्तः प्रेरितः सन्प्रति गच्छति स्वव्यपारं प्रति । प्रथमः । आद्यः । तत्प्रवृत्तिपूर्वकत्वात्सर्वेन्द्रियप्रवृत्ती- नाम् । चलिक्रिया हि सर्वेषां प्राणनिमित्तैव । तेन प्राणस्य प्राथम्यम् । स्वतस्त्विन्द्रियाणां विषयावभासकत्वमानं च चलिक्रियारूपा प्रवृत्तिः। ।

२ तस्य भासा नारायणविरचिता [१ प्रथमःखण्डः ] सा तु प्राणनिमित्तैव तेषाम् । केन देवेनेषितामिष्टां कस्येच्छामात्रेण वाचं शब्दलक्षणां वदन्ति लौकिकवाचा वदनं किंनिमित्तं प्राणिनाम् । चक्षुःश्रोत्रमिन्द्रियम् । क उ प्रश्ने । देवो युनक्ति प्रेरयति । कारणानाम- धिष्ठाता चेतनावानन्यः स किंलक्षण इत्यर्थः ॥ १॥ प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि । अयमत्र पदार्थः । श्रोत्रं तावत्स्व- विषयव्यञ्जनसमर्थं दृष्टं तच्च सामर्थ्यं श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति नासतीति। "आत्मनैवायं ज्योतिषाऽऽस्ते शेते " "येन सूर्यस्तपति" इत्यादिश्रुतेः । श्रोत्रायेव सर्वस्याऽऽत्मभूतं चेतनमिति प्रसिद्धम् । तदिह निवर्त्यते । अस्ति किमपि विद्वबुद्धिगम्यं सर्वान्तरतमं कूटस्थमजमरममृतमभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्य निमित्तमिति प्रतिवचनम् । शब्दार्थश्चोपपन्नः । कथं शृणोत्यनेनेति श्रोत्रं तस्य शब्दावभासकत्वं श्रोत्रतत्त्वम् । ततश्च शब्दो- पलब्धृरूपतयाऽवभासकत्वं न स्वतः श्रोत्रस्याचिद्रूपत्वात् । आत्मनश्च चिद्रूपत्वाद्यच्छोत्रस्योपलब्धृत्वेनावभासकत्वं तदात्मनिमित्तमिति श्रोत्र- मात्मेत्युच्यते । यथोदकस्योष्ण्यमग्निनिमित्तमिति दग्धुरप्युदकस्य दग्धाऽ- ग्निरुच्यते । उदकमप्यग्निसंयोगादग्निरुच्यते । तद्वत् । अनित्यं यस्यान्यसं- योगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वम् । तत्र हि तन्नित्यं यत्र नित्यमुपलब्धृत्वमग्नाविवौष्ण्यं स नित्योपलब्धिस्वरूपत्वा- दग्धेवोपलब्धोच्यते । श्रोत्रादिषु श्रोत्रत्वाद्युपलब्धिरनित्या । नित्या चाऽऽत्मनि । अतः श्रोत्रस्य श्रोत्रमित्यायक्षरार्थानुगमादुपपन्नं निर्विशे- पस्योपलब्धिरूपस्याऽऽत्मनो मनआदिप्रवृत्तिनिमित्तत्वम् । मनसोऽन्तः- करणस्य मनो न ह्यन्तःकरणमन्तरेण चैतन्यज्योतिषाऽऽदीपितं स्वविष- यसंकल्पाध्यवसानादिसमर्थं स्यात् । तस्मान्मनसोऽपि मनः । बुद्धया- दिवयमप्यन्तर्भाव्य मनस इति निर्देशः । यद्दाचो ह वाचम् । यच्छब्दो यस्मादर्थः श्रोत्रादिभिः सर्वैः संबध्यते । यस्माच्छ्रोत्रस्य श्रोत्रं यस्मा. न्मनसो मनो यस्माद्वाचो वाक्तस्मात्तज्ज्ञात्वा मनआद्यतिमुच्योज्झि- त्वाऽमृता भवन्तीत्यन्वयः । वाचमिति द्वितीया प्रथमार्थे स उ प्राण इत्यनुरोधात् । पृष्टस्याऽऽत्मनः प्रधानविभक्त्या प्रथमया निर्देष्टुमुचित- स्वाच्च । स यस्त्वया पृष्टः स प्राणाख्यस्य वृत्तिविशेषस्य प्राणः । तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्मनाऽनधिष्ठितस्य प्राणनमुपप- त्तिमत् । “को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्" "ऊवं प्राणमुन्नयत्यपानं प्रत्यगस्यति" इत्यादिश्रुतिभ्यः । ननु श्रोत्रा- ३ [१ प्रथमःखण्डः] केनोपनिषद्दीपिका। दीन्द्रियप्रस्तापाद्माणप्राणस्य ग्रहणं युक्तं न त्वविशेषेण । सत्यम् । सामान्यग्रहणे तस्याप्यन्तर्भावाददोषः । सर्वस्यैव हि करणकलापस्थ यदर्थप्रयुक्ता प्रवृत्तिस्तद्ब्रह्मेति प्रकरणार्थों विवक्षितः । तथा चक्षुषो रूपप्रकाशकस्य यद्हणसामर्थ्य तदात्मचैतन्याधिष्ठितस्यैव । अतश्चक्षुष- चक्षुः । प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वादत्र तज्ज्ञात्वेति शेषः। अतिमुच्यो- ज्झित्वा सामर्थ्याच्छ्रोत्रादिकरणकलापम् । यत्कृतः संसारस्तं श्रोत्रादा- वात्मभावं त्यक्त्वा श्रोत्रादेः श्रोत्रादिलक्षणं ब्रह्माऽऽत्मेति ज्ञात्वाऽत एव ते धीरा धीमन्तो न हि विशिष्टधीमत्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्यक्तुम् । प्रेत्य व्यावृत्यास्माल्लोकान्ममाहंभावलक्षणात्त्यक्तसर्वेषणा भूत्वेत्यर्थः । अमृता अमरणधर्माणो भवन्ति । अथवाऽतिमुच्येत्यनेनैवै- षणात्यागस्य सिद्धत्वादस्माल्लोकात्मेत्यास्माच्छरीरादपेत्य सृत्वेत्यर्थः॥२॥ यस्माच्छ्रोत्राद्यात्मभूतं ब्रह्मातो न तत्र तस्मिन्ब्रह्मणि चक्षुर्गच्छति स्वात्मनि गमनासंभवात् । अत एव न वाग्गच्छति यथाऽग्निर्दाहक: प्रकाशकश्चापि सन्न ह्यात्मानं दहति प्रकाशयति वा तद्वत् । श्रोत्रस्य श्रोत्रमित्यादिनोक्तेऽप्यात्मतत्त्वे सूक्ष्मत्वेनाप्रतिपन्नत्वात्पुनः पर्यनुयुयुक्षा वाक्चक्षुषोः सर्वेन्द्रियार्थत्वाच्चक्षुरादीनि तत्र स्वात्मभूते न ज्ञानमुत्पाद यन्तीत्यर्थः । तहि सुखादिवदन्तःकरणेन गृह्यतामत आह-नो मनो गच्छति । अतो न विझो बाह्यकरणैर्न विजानीमोऽन्तःकरणेन सुखादि- वद्यथैतन्मनआदिकरणजातमनुशिष्यादुपदिशेद्ब्रह्म। यद्धि करणगोचरं तदन्यस्मा उपदेष्टुं शक्यं जातिगुणक्रियादिविशेषणैः । न तु जात्यादि- विशेषणवद्ब्रह्म तस्माद्विषमं शिष्यानुपदेशेन प्रत्याययितुं तस्मादुपदेशे तदर्थग्रहणे च यत्नातिशयः कर्तव्य इति भावः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आह-न तत्र चक्षुरित्यादि । पूर्ववत्सर्वमत्र तु विशेषः । यथैतदनुशिष्यात्प्रतिपादयेदन्योऽपि शिष्यमि- तोऽन्यविधिनेति भावः । सर्वथा ब्रह्म बोधयेत्युक्ते यद्यपि प्रत्यक्षादिभिर्न शक्यते प्रत्याययितुमागमेन तु शक्यत इत्याशयेनाऽऽह-अन्यदेव तद्वि- दितादथो अविदितादधीति । विदितं व्यक्तं व्याकृतं ततोऽन्यदविदित- मध्यक्तमव्याकृतमविद्या ततोऽप्यध्युपरि लक्षणयाऽन्यदित्यर्थः । यद्धि यस्मादुपरि भवति तत्ततोऽन्यदिति प्रसिद्धम् । यद्विदितं तदल्पं मयं दुःखात्मकं चेति हेयम् । अविदितमुपादेयं कार्यार्थ हि कारणमुपादीयते। तेन हेयोपादेयाभ्यामन्यद्ब्रह्म । एतेन स्वात्मव्यतिरिक्तब्रह्मविषया या जिज्ञासा सा निवर्तिता भवति । न हि स्वात्मा हेयो नाप्युपादेयोऽ- .

नारायणविरचिता- [१ प्रथमःखण्ड: ] न्यद्धयन्येनोपादीयते न तु स्वयमेव स्वयं हीयते वोपादीयते वा तेन स्वात्मैव ब्रह्मेत्युपदिष्टम् । इति शुश्रुमेति । ब्रह्मैवमाचार्योपदेशपरम्परयै- वाधिगन्तव्यं न तर्कतः प्रवचनमेधाबहुश्रुततपोयज्ञादिभ्यश्चेत्येवं शुश्रुम श्रुतवन्तो वयं पूर्वेषामाचार्याणां वचनम् । य आचार्या नोऽस्मभ्यं तद्ब्रह्म व्याचचक्षिरे विस्पष्टं कथितवन्तः ॥३॥ अन्यदेवेत्यनेनाऽऽत्मा ब्रह्मेति प्रतिपादिते शङ्का स्यात् । कथमात्मा शरीरी ब्रह्म ततोऽन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवि- तुमर्हति न त्वात्मा लोकप्रत्ययविरोधादिति तामपनेतुमाह—यद्वाचेति । यच्चैतन्यमानं स्वसत्ताकं वाचा वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विष- क्तमानेयं वर्णानामभिव्यञ्जकं करणं वर्णाश्चार्थसंकेतपरिच्छिन्ना एतावन्त एवं क्रमप्रयुक्ता इत्येवं तदभिव्यङ्गन्यः शब्दः पदं वाक्यं वागित्युच्यते । "अकारो वै सर्वा वाक्सैया स्वरस्पर्शान्तस्थोष्मभिर्व्यज्यमाना वाङ्ना- नारूपा भवति" इति श्रुतेः । मितममितं स्वरः सत्यानृते एव विकारो यस्यास्तया वाचा पदत्वेन परिच्छिन्नया करणवत्याऽनभ्युदितमप्रकाशि- तम् । वेन ब्रह्मणा विवक्षितेऽर्थे सकरणा वागभ्युद्यते चैतन्यज्योतिपा प्रकाश्यते सा हि वक्तरुक्तिरूपा नित्या चैतन्यज्योतिःस्वरूपा “न हि वक्तुर्वाचो विपरिलोपो विद्यते' इति श्रुतेः । तदेवाऽऽत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि जानीहि त्वम् । चक्षुषश्चक्षु- रित्यादिश्रौतव्यवहारान्व्युदस्याऽऽत्मानमेव निर्विशेषं ब्रह्म विद्धीत्येवश- ब्दार्थः । नेदं ब्रह्म यदिदमुपाधिभेदविशिष्टमनात्मेश्वराद्युपासते ध्यायन्ति । उक्तं हीश्वरेण वसिष्ठं प्रति- "शृणु ब्रह्मविदां श्रेष्ठ देवार्चनमनुत्तमम् । न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः ॥ न देवो देवरूपो हि न देवश्चित्तरूपकः । अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥ आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः । अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः” ॥ इति । अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम् । योजनाध्वन्यशक्तस्य कोशाध्वा परिकल्प्यते ॥” इति च । तत्र पूजाविधिरप्युक्तः "बोधः शाम्यं शम इति पुष्पाण्यग्याणि तत्र च । शिवं चिन्मात्रममलं पूज्यं पूजाविदो विदुः" इति ।

५ [२ द्वितीयःखण्डः] केनोपनिषद्दीपिका। तदेव विद्धीत्युक्तेऽपि नेदं ब्रह्मेत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थ- मन्यब्रह्मबुद्धिपरिसंख्यानार्थं च ॥४॥ अन्यदेव तदितिब्राह्मणोक्तार्थो यद्वाचेत्यादिमन्त्रे दृढी क्रियते। यन्मन- सेति । कामादिवृत्तिमन्मनस्तेन यच्चैतन्यज्योतिर्मनसोऽवभासकं न मनुते न संकल्पयति नापि निश्चिनोति मनसोऽवभासकत्वेन नियन्तृत्वात्सर्व- विषयं प्रति प्रत्यगेवेति स्वात्मनि न प्रवर्ततेऽन्तःकरणम् । अन्तस्थेन हि चैतन्यज्योतिषाऽवभासितस्य मनसो मननसामर्थ्यं तेन सर्ववृत्तिकं मनो येन ब्रह्मणा मतं विषयीकृतं व्याप्तमाहुः कथयन्ति ब्रह्मविदः । तस्मात्त- देव मनस आत्मानं प्रत्यक्चेतयितारं त्वं ब्रह्म विद्धि ॥५॥ न पश्यति न विषयी करोति येनान्तःकरणवृत्तिसंयुक्तेन चचूंषि तद्- वृत्तीः पश्यति चैतन्यात्मज्योतिषा विषयी करोति व्याप्नोति लोकः ॥६॥ यच्छोत्रेण दिग्देवताधिष्ठितेनाऽऽकाशकार्येण मनोवृत्तिसंयुक्तेन न विषयी करोति लोकः । यच्चैतन्यात्मज्योतिषा च श्रोत्रं श्रुतं विषयीकृतं तदेव ॥७॥ यत्प्राणेन पार्थिवेन नासापुटस्थेनान्तःकरणप्राणवृत्तिभ्यां सहितेन न प्राणिति गन्धवन्न विषयी करोति लोकः । येन चैतन्यात्मज्योतिषावमा- स्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेव ॥८॥ इति नारायणविरचितायां केनोपनिषद्दीपिकायां प्रथमः खण्डः ॥ १ ॥ एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्योऽहमेव ब्रह्मेति सुष्टु वेदाहं मामिति गृह्णीयादित्याशङ्कयाऽऽचार्यः शिष्यबुद्धिवि- चालनार्थमाह-यदिति । अहं सुष्टु वेदेति चेन्मन्यसे नैतद्युक्तं सर्वस्य वेदितुरात्मा ब्रह्म नहि वेदिता वेदितुर्वेदितुं शक्योऽगिरिव दग्धुमनेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत्स्याद्ब्रह्म “नान्यदतोऽस्ति विज्ञातृ' इत्यन्यस्य विज्ञातुनिषेधात् । तस्मात्सुष्टु वेदाहं ब्रह्मेति प्रति. पत्तिमिथ्यैव तस्माद्युक्तमेवाऽऽहाऽऽचार्यो यदीत्यादि । कदाचिद्यथाश्रुत- दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चित्पतिपद्यते कश्चिन्नेति साशङ्क- मुक्तं यदीत्यादि । महतीह सूक्ष्मेक्षिका वर्तते । ब्रह्मणा बोधितोऽपि विरोचनो यथावन्न प्रतिपेदे । इन्द्रश्चतुर्थपर्याये प्रथमोक्तमेव ब्रह्म प्रति- पेदे।लोकेऽप्येकस्मादुरोः शृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथाव- नारायणविरचिता- [२ द्वितीयःखण्डः] स्कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते किं पुनर्वक्तव्यमतीन्द्रिय आत्मतत्त्वे। सर्वे चात्र तार्किका विप्रतिपन्नाः। तस्मादविदितं ब्रह्मति सुनिश्चितो- तेऽपि विषमप्रतिपत्तित्वाद्यदि मन्यस इति साशङ्कं वचनं युक्तमेवाss- चार्यस्य । दहरं दभ्रमल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि रूपाणि महान्ति दभ्रकाणि च येनाऽऽह दभ्रमेवेत्यादि । बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि न स्वतः। स्वतस्तु " अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च यत् इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । न केवलं श्रोत्रस्य श्रोत्र- मित्याद्यध्यात्मोपाधिपरिच्छिन्नमुपदिष्टमेव ब्रह्मणो रूपमल्पं वेत्थ । किंतु यदस्य ब्रह्मणो देवेषु रूपमधिदेवमिति यावत् । अधिदैवोपाधि- परिच्छिन्नस्य ब्रह्मणो यदूपं वेत्थ तदपि भ्रमेव वेत्थेत्यहं मन्ये । यद. ध्यात्मं यदपि च देवेष्वाधिदैवतोपाधिपरिच्छिन्नं तदपि तत्त्वतो न सहसा वेदितुं शक्यम् । यत्तु विध्वस्तसर्वोपाधिविशेष शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म तत्कथं सुवेद्यमित्यभिप्रायः । यत्त एवमथ नु हीनं तस्मान्मन्येऽद्यापि मीमांस्यं विचार्यमेव तव ब्रह्म। एवमाचार्योक्तः शिष्य एकान्त उपविष्टः सन्यथोक्तमाचार्येणाऽऽगममर्थतो विचार्य तर्क- सश्च निर्धार्य स्वानुभवं कृत्वाऽऽचार्यसकाशमुपगम्योवाच मन्ये विदित- मिति । अथ त्वं मन्यसे मया विदितं ब्रह्मेति । अथवा देवेष्वग्न्यादिषु सूक्ष्मबुद्धिष्वपि यो मन्यते सुवेदाहमिति सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनं किं पुनर्वक्तव्यमल्पबुद्धिषु मानवेषु तस्मान्मीमांस्यमेवेत्युक्तः शिष्य आह मन्ये विदितमित्येवं योज्यम् । अथवाऽध्यात्ममधिदैवं च यदस्य ब्रह्मणो रूपं सोपाधिकं त्वया विदितं तदहरमल्पमेव न तु परं भूमाख्यं तत्तु ते मीमांस्यमेवास्तीत्युक्तः शिष्य उपाधि परित्यज्यानुभवेन निश्चित्याऽऽह मन्ये विदितमित्येवं योज्यम् । अथ न्विति हेतुर्मीमां- सायाः । सुविदितरूपं कस्माद्दभ्रमन्यदेव तद्विदितादित्युक्तत्वात् । मन्ये विदितमिति शिष्यमीमांसानन्तरोक्तिरागमाचार्यानुभवलक्षणप्रत्ययत्रय- स्यैकविषयत्वेन संगत्यर्थम् ॥१॥ आचार्यात्मानुमवयोस्तुल्यत्वे हेतुमाह-मन्ये सुवेदेति । *अहेत्य- वधारणे नैव मन्ये सुवेद ब्रह्मेति । नैव तहि त्वया विदितं ब्रह्मेत्युक्त आह-नो न वेदेति वेद चेति । नाह मन्ये सुवेदेति विदितादन्यत्वमुक्तं * मूले नाहमित्यत्र नाहेतिपाठानुरोधेनेदम् । Army [२ द्वितीयःखण्ड:] केनोपनिषद्दीपिका। नो न वेदेति चाविदितादन्यत्वमुक्तं वेद चेति वेदेव । ननु विप्रतिषिद्धमिदं न सुवेद वेद चेति । एकस्मिन्विषये वेदनावेदनयोविरोधात् । नैष दोषः । विदिताविदितान्यत्वेन स्वप्रकाशावेदनपरत्वात् । फलव्याप्यत्वासंभ- वेऽपि चरमान्तःकरणवृत्तिव्याप्तत्वाङ्गीकारात् । आत्मप्रकाशे प्रकाशा- न्तरानपेक्षणात्। विषयाकारान्तःकरणवृत्तिप्रतिबिम्बितं चैतन्यं फलं घट इवाऽऽत्मप्रकाशे स्वप्रकाशत्वेन प्रतिबिम्बानपेक्षणात् । इदानीमात्मने(नो) ब्रह्मविद्याया दृढनिश्चयतां दर्शयन्गर्जति यो न इति नोऽस्माकं सब्रह्म चारिणां मध्ये य उक्तं तद्वचनं तत्त्वतो वेद स एव तद्ब्रह्म वेद. नान्यः। किं पुनस्तद्वचनमत आह–नो न वेदेति वेद चेति । अन्यदेवेत्यादि नोक्तं वस्त्वनुमानानुभवाभ्यां संयोज्य निश्चितं नो न वेदेति वेद चेत्यनेन वाक्येनाऽऽचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहाथं च मयोक्तं ब्रह्म। एतद्वाक्यमर्थतो यो वेद स एव ब्रह्म वेद नान्य इत्यर्थः॥२॥ आख्यायिकोपसंहारार्थं श्रुतिः स्वेन रूपेण समस्तसंवादनिर्वृचमर्थ- मवधारयति-यस्यामतमिति । यस्यामतमात्मतत्त्वनिश्चयफलावसाना- वबोधतया विविदिषा निवृत्ता तस्य मतं तेन ज्ञातम् । “मतिबुद्धिपूजा- र्थेभ्यश्च" इति क्तः। "क्तस्य च वर्तमाने" इति कर्तरि षष्ठी। विद्वदवि- दुषोर्यथोक्तौ पक्षाववधारयति-अविज्ञातमिति । अविज्ञातं विज्ञाता- द्विदितादन्यदेव ब्रह्म विजानतां सम्यग्दर्शिनाम् । विज्ञातं विदितं ब्रह्मा- विजानतामसम्यग्दर्शिनाम् । इन्द्रियमनोबुद्धयुपाधिष्वात्मदर्शिनां ब्रह्मो- पाधिविवेकानुपलम्भाबुद्धयुपाधिश्च विज्ञातत्वाद्विज्ञातं ब्रह्मेत्युपपद्यते भ्रान्तिः । न त्वत्यन्तमूढानामियं भ्रान्तिरतोऽसम्यग्दर्शनपूर्वपक्षत्वेनोप- न्यस्यते हेत्वर्थे वोत्तरार्धः ॥३॥ यदि ब्रह्मात्यन्तमेवाविज्ञातं तर्हि लौकिकानां ब्रह्मविदां चाविशेषः प्राप्तोऽविज्ञातं विजानतामिति च परस्परविरुद्धम् । कथं च ब्रह्म सम्य- ग्विदितं भवतीत्येवमर्थमाह-प्रतिबाधेति । बोधं बोधं प्रति विदितं बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । यस्य सर्वे प्रत्यया विषयी भवन्ति स आत्मा सर्वबोधान्प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्र: प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते *नान्यद्वारान्तरमात्मविज्ञानाय । अतः प्रत्ययप्रत्यगात्मतया यदा विदितं ब्रह्म तदा तन्मतं तत्सम्यग्दर्शन- * अन्यदित्यधिकमिव भाति ।

नारायणविरचिता-
[ ३ तृतीयःखण्डः ]
मित्यर्थः । यद्वा गुरूपदेशः प्रतिबोधस्तेन विदितं मतम् । अमृतत्वं हि
विन्दत इति हेतुवचनम् । विषयात्मविज्ञाने(नं?) हि मृत्युमारभत इत्यात्म-
विज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनम् । कथमात्मविज्ञानेनामृतत्वं
विन्दतेऽत आह-आत्मनेति । स्वेन रूपेण विन्दते लमते वीर्य बलं
सामर्थ्यम् । धनसहायमन्त्रौषधितपोयोगकृतं वीर्य मृत्युं नाभिभवितुं
शक्नोति । अनित्यवस्तुकृतत्वात् । आत्मविद्याकृतं तु वीर्यमात्मनैव
विन्दते नान्येनेत्यतस्तदेव वीर्य मृत्युं शक्नोत्यभिभवितुम् । यत एव-
मात्मविद्याकृतं वीर्यमात्मनैव विन्दतेऽतो विद्ययाऽऽत्मविषयया विन्दतेऽ-
मृतम् । “नायमात्मा बलहीनेन लभ्यते(भ्यः)" इति श्रुतेः सामर्थ्य हेतु-
रमृतत्वे ॥४॥
कष्टा खलु संसारगतिरत इहैव चेद्यदि मनुष्योऽधिकृतः समर्थः सन्न-
वेदीदात्मानं यथोक्तलक्षणं विदितवान् । अथ सत्यं परमार्थतत्त्वमस्त्य-
वाप्तं तस्य जन्म सफलमिति भावः । चेन्नावेदीन्महती विनष्टिमहान्वि-
नाशो जन्ममरणप्रबन्धविच्छेदलक्षणः स्यात् । ज्ञाते किं स्यादत आह-
भूतेषु भूतेषु चराचरेषु विचित्य पृथक्कृत्यैकमात्मतत्त्वमात्मभावेनोपलभ्य
धीरा धीमन्तो विवेकिनः प्रेत्य व्यावृत्यास्माल्लोकाच्छरीराद्यावृत्तममत्वा-
हंकाराः सन्तोऽमृता नित्यविज्ञानामृतत्वस्वभावा भवन्ति ॥५॥
इति नारायणविरचितायां केनोपनिषद्दीपिकायां द्वितीयः खण्डः ॥ २ ॥
समाप्ता ब्रह्मविद्याऽत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यतेऽधिक.
यत्नाय । शमाद्यर्थो वाऽऽनायोऽभिमानशातनात् । व्यावृत्तबाह्यमिथ्या.
प्रत्ययग्राह्यत्वाद्ब्रह्मणः। नेदं यदिदमुपासते " इत्यपोदितत्वात्सगुण-
ब्रह्मोपासनार्थो वा । तस्यैव ब्रह्मणः सगुणत्वेनाध्यात्ममधिदैवं चोपासनं
विधातव्यमित्यर्थः । ब्रह्म, ईश्वरः को हन्यस्तृणं वज्रीकर्तुं क्षमः । ह,
ऐतिह्ये । देवासुरसङ्ग्रामे देवेभ्योऽर्थाय विजिग्येऽजैषीदसुरान् । ब्रह्मण
इच्छानिमित्तो देवानां विजयो बभूवेत्यर्थः । तस्येति । ब्रह्मणो
विजये ब्रह्मकर्तृके स्वोत्कर्षे सति यज्ञादिलोकस्थित्यपहारिष्वमुरेषु परा;
जितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः । त ऐक्षन्ताऽऽलोचितवन्तो
मिथ्याप्रत्ययत्वाद्धेयख्यापनार्थोऽयमानायः । किमालोचितवन्त ईश्वर-
निमित्ते विजये सति स्वसामर्थ्यनिमित्तोऽस्माकमेवायं विजयोऽस्माक-
मेवायं महिमेति सर्वकल्याणास्पडमीश्वरमात्मानमबुद्ध्वा पिण्डमात्रा
भिमानाः सन्तः ॥१॥

[ ३ तृतीयःखण्डः]
केनोपनिषद्दीपिका।
तद्ब्रह्म ह किलैषां देवानाममिप्रायं मिथ्याहंकाररूपं विजज्ञौ ज्ञात-
वत् । ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया तेभ्यो देवेभ्योऽ-
र्थाय तेषामेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव महेश्वरशक्तिमायोपात्ते-
नात्यन्ताद्भुतेन केनचिद्रूपेण प्रादुर्भूतं तकिलोपलभमाना अपि देवा
न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति यजेरौणा-
दिकः सः ॥२॥
ते तद्विज्ञानायाग्निमब्रुवन् । अभ्यद्रवच्छीघ्रं गतः । तमभ्यवदद्ब्रह्म ।
किम् । कोऽसीति । पृष्टेऽग्निर्वै जातवेदा वा इति नामद्वयेनाऽऽत्मानं
श्लाघयन्नग्निरबवीत् । एवमुक्तवन्तं ब्रह्मोवाच । तस्मिन्नेवं प्रसिद्धगुण-
नामवति त्वयि किं वीर्यं सामर्थ्य मिति । सोबवीदपीदमित्यादि । पृथि-
व्यामित्युपलक्षणमन्तरिक्षस्थस्यापि । तस्मा एवमभिमानवते ब्रह्म तृणं
निदधौ पुरः स्थापितवत् । एतत्तृणमानं ममाग्रतो दह न चेद्दग्धुं समर्थों
मुश्च सर्वत्र दग्धृत्वाभिमानमित्युक्तस्तत्तृणमुपप्रेयाय तृणसमीपं गतवा-
न्सर्वजवेन सर्वोत्साहकृतेन वेगेन गत्वा न शशाक नाशकद्दग्धुं सोऽग्नि-
स्तत एव तृणदाहाशक्तरेव बीडित्वा निववृते निवृत्तः सन्देवानवोचन्नै-
तदिति ॥३॥४॥५॥ ६ ॥
अथानन्तरं वायुमब्रुवन्नित्यादि पूर्ववत् । जमनादायुः।मातर्यन्त-
रिक्षे श्वयति वर्धत इति मातरिश्वा । आददीय गृह्णीयाम् । तृणनिधा-
नेऽयमभिप्रायः-अत्यन्तसंभावितयोरग्निमारुतयोस्तृणदहनादानाशक्त्या-
ऽऽत्मसंभावना शातिता भवेदिति । तस्मादिन्द्रातिरोदधे । तिरोधानेऽप्य-
भिप्राय इन्द्रोऽहमित्यधिकतमोऽभिमानो यस्य सोऽहमग्न्यादिभिः प्राप्त
वाचा संभाषणमात्रमप्यनेन न प्राप्तोऽस्मीत्यभिमानं कथं न नाम जह्या-
दिति । तदनुग्रहायैवान्तर्हितं बभूव । स शान्ताभिमान इन्द्रोऽत्यर्थ
ब्रह्म जिज्ञासुर्यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीतिरोधानं च तस्मि-
नेवाऽऽकाशे तस्थौ किं तद्यक्षमिति ध्यायन्न निववृतेऽग्न्यादिवत् । तत
इन्द्रस्य यक्षे भक्तिं दृष्ट्वा विद्या प्रादुरासीत् । स स्त्रियमतिरूपिणी
विद्यामाजगाम रुद्रस्योमा हैमवती बहुशोभमानाऽभिप्रायबोधहेतुत्वा-
द्विद्यैव सा तां ह प्रसिद्धामुवाच किमिदं यक्षम् । इति वाक्यसमाप्तौ
॥७॥८॥९॥१०॥ ११ ॥१२॥
इति नारायणविरचितायां केनोपनिषद्दीपिकायां तृतीयः खण्डः ॥ ३ ॥

१० नारायणविरचिता [४ चतुर्थःखण्डः ] सा तं ब्रह्मेति हो वाच । सा हि नित्यमेवेश्वरेण सर्वज्ञेन सह वर्तत इति ज्ञातुं समर्था । ब्रह्मण ईश्वरस्य वै विजये महीयध्वमीश्वरेण हि जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव विजये महिमानं प्राप्नुथ । एतदिति क्रियाविशेषणम् । युष्माकं तु मिथ्याभिमानोऽस्माकमेवायं विजय इति । ततस्तस्मादेवोमावाक्याद्वैव विदांचकार ब्रह्मतीन्द्रः । ततो हैवेत्यवधारणं ब्रह्मावबोधे स्वातन्त्र्यनिरासाय ॥१॥ तस्माद्वा इति । यस्मादग्निवाविन्द्रा ब्रह्मणा संवाददर्शनादिना सामीप्यमुपगतास्तस्मात्स्वैर्गुणैरतितरामिव शक्तिगुणादिमहाभाग्यैरन्या. न्देवानतिशेरत इव । इवशब्दोऽवधारणे । अतिशेरत एते हि देवा यस्मादेनद्ब्रह्म नेदिष्ठमन्तिकतमं पस्पृशुः स्पृष्टवन्तः । यथोक्तैब्रह्मणः संवादादिप्रकारैस्ते हि यस्माच्च हेतोरेतद्ब्रह्म प्रथमः प्रथमाः प्रधानभूताः सन्तो विदांचकार विदांचकुरेतद्ब्रह्मेति ॥२॥ यस्मादग्निवायू अपीन्द्रवाक्यादेव विदांचक्रतुः । इन्द्रेण ह्युमावाक्या- प्रथमं श्रुतं बल्ल । तस्माद्वा इन्द्रोऽतितरामिवातिशयेन शेत इवान्या- न्देवान्स ह्येनन्नेदिष्ठं पस्पर्श । यस्मात्स ह्येनत्प्रथमो विदांचकार ब्रह्मेत्यु- तार्थम् ॥ ३॥ तस्य प्रकृतस्य ब्रह्मण एष आदेश उपदेशो निरुपमस्य ब्रह्मणो येनो- पमा स एष पदार्थ इत्यर्थः । किं तत् । यदेतत्प्रसिद्धं लोके विद्युतो व्या. तत्प्रत्ययार्थोऽविवक्षितो देवेभ्यो ब्रह्म तिरोभूतम् । अथवा विद्युतस्तेज इत्यध्याहार्य व्यातद्वियोतितवदा इव विद्युतस्तेजः सकृद्विद्योतितवदि- वेत्यर्थः । इतिशब्द आदेशप्रतिनिर्देशार्थः । इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्याऽऽदेशः । कः । न्यमीमिषत् । स्वार्थे णिच् । उपमार्थ एवाऽऽकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इवेत्यर्थः । अथवोपमानद्वयेन ब्रह्मणो ज्ञानशक्तिक्रियाशक्ती क्रमेण दर्शिते इत्यधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥ ४ ॥ अथाध्यात्म प्रत्यगात्मविषय आदेश उच्यते । यदेतद्ब्रह्म गच्छतीव च मन उपढौकत इव विषयी करोतीव चैष आदेशः। तप्ताय:पिण्डवन्म- नोवृत्तिमात्रस्य स्फुरणाविष्टत्वात् । अन्यथाऽऽकारमात्रस्य जडत्वेनैव भानानुपपत्तेः । साधकस्य विषयासक्तावपि ब्रह्मविस्मरणेऽयं हेतुरि- त्याह-अनेन च मनसो ब्रह्मगमनेनैतद्ब्रह्मोप स्वसमीप एव स्मरति [४ चतुर्थःखण्डः ] केनोपनिषद्दीपिका। ११ चिन्तयति न विस्मरत्यभीक्ष्णं निरन्तरम् । संकल्पः संकल्पयतीति संकल्पः संकल्पविकल्पौ मनोवृत्ती कुर्वन्नपि साधक एपोऽध्यात्ममुप- देशः । यद्वैषोऽभीक्ष्णं संकल्पो मनसो ब्रह्मविषय इत्युपदेशः । अधि. देवं विधुदुन्मेषणवद्रुतं प्रकाशर्मि ब्रह्माध्यात्मं च मनः प्रत्ययसम- कालाभिव्यक्तिधर्मीत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धि- गम्यं भवति । न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिराकलयितुं शक्यम् ॥५॥ तस्य नामाऽऽह-तद्ध तद्वनं नाम ब्रह्म । ततः किमत आह-तद्वन- मित्युपासितव्यमिति नानोपासनायायमुपदेशः । तस्य प्राणिजातस्य वनं संभजनीयं “ वन संभक्तौ " संभक्तिः सम्यक्सेवा । तद्गुणोपासनेन तदेव फलं भवतीत्याह-स य एतदेवमिति । वेदोपास्ते । अभिसंवा- ञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म ॥ ६ ॥ एवमनुशिष्टः शिष्य आह-उपनिषदं भो इति । आचार्य आह- उक्तेति । का पुनः सेत्यत आह-बाह्मीमिति । ब्रह्मणः परमात्मन इयं ताम् । एतावत्येवेयमुपनिषदन्यनिरपेक्षाऽमृतत्वायोक्ता । इतिशब्दो विद्या- - समाप्तौ ॥७॥ उपनिषदं भो बहीतिप्रश्नसार्थकत्वायोक्ताया उपनिषदः प्राप्त्युपाय- भूतानि तपआदीनि विद्याङ्गरूपकेणाऽऽह-तस्या इति । कायेन्द्रियम- नसां समाधानं तपः । उपशमो दमः । अग्निहोत्रादि कर्म । इतिशब्द आद्यर्थे । अमानित्वमदम्भित्वमित्यादीन्यपि । प्रतिष्ठा पादौ पादावि- वास्या विद्यायास्तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या पयामिव पुरुषः । तपआदीनां विद्यासाधनत्वं श्वेताश्वतरमन्त्र उक्तम्- यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ॥ इति। स्मृतौ च-"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः" । इति । वेदाः साङ्गाश्चत्वारः सर्वाणि शिरःपाण्यादीन्यङ्गानि । सत्यममायि- ताऽकौटिल्यं च वाड्मनःकायानां तदायतनमाश्रयो विद्यायास्तपआदि. ध्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशय- स्वप्रदर्शनार्थम् ।

१२ नारायणविरचिता केनोपनिषद्दीपिका। [४ चतुर्थःखण्डः ] अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेकं विशिष्यते" इति स्मृतेः॥८॥ अमृतत्वं हि विन्दत इत्युक्तमपि ब्रह्मविद्याफलमन्ते निगमयति-यो वा इति । एतां केनेषितमित्याद्यां ब्रह्म ह देवेभ्य इत्यादिना स्तुताम् । पाप्मानमविद्याकामकर्मलक्षणं संसारबीजम् । अनन्तेऽपर्यन्ते स्वर्गे लोके सुखात्मनि ब्रह्मणि ज्येये ज्यायसि सर्वमहत्तरे । स्व आत्मनि प्रतितिष्ठति न पुनः पुनः संसारमापद्यते। द्विरुक्तिः समाप्त्यर्था ॥९॥ इति नारायणविरचितायां केनोपनिषद्दीपिकायां चतुर्थः खण्डः ॥ ४ ॥ नारायणेन रचिता फरोक्त्युपजीविना । अस्पष्टपदवाक्यानां केनेषितप्रदीपिका ॥१॥ समाप्तेयं नारायणकृता तलवकारोपनिषदपरपर्याय. केनोपनिषद्दीपिका ॥

Kenopanishatstikasankarapadabashyavakyabashyopeta

Author
Shankaranada
Other authors
Hari Narayana Apte
Title
Kenopanishatstikasankarapadabashyavakyabashyopeta
File name
Kenopanishatstikasankarapadabashyavakyabashyopeta
Text
OCR done
Published
2006/07/10
Publisher
Anandashrama Printing Press Bombay
Language
Sanskrit
Pages
98
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496512
Barcode
1990030083626.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
fEXAnNyriv0
Download PDF

Kenopanishatstikasankarapadabashyavakyabashyopeta