Others

Prashropanishhatan't'iikaasan'valita San'karabhaashhyasametaa

Anandagiri

PDF Proofread

Front matter

K.S.R.I. LIBRARY
ACCESSION NUMBER
4275

ii. JIE,
MADRAS-4
4215
THE KUPPUSWAMY SASTRI
RESEARCH INSTITUTE,
MYLAPORE. MADRAS-4

No text on this page.

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ८
प्रश्नोपनिषत्।
आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता।
तथा
शंकरानन्दविरचिता प्रश्नोपनिषदीपिका च।
एतत्पुस्तकहयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
तच्च
हरि नारायण आपटे
इयनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरमुद्रायत्वा
प्रकाशितम् ।
द्वितीयेयमङ्कनावृत्तिः ।
शालिवाहनशकाब्दाः १८१८
खिस्ताब्दाः १८९६
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यमेको रूपकः।

No text on this page.

आदर्शपुस्तकोल्लेखपत्रिका , -- प्रश्नोपनिषद आदर्शपुस्तकानि शुद्धीकरणार्थ येषां मिलितानि तेषां नामानि पुस्तकानां संज्ञाश्च पदयन्ते- (क.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता "बिब्लिओयिका इण्डिका" इतिग्रन्थावल्यां मुद्रिता, कैलासवासिनां वे० शा० सं० देवोपाहबालशास्त्रिणाम् । (ख.) इतिसंज्ञिता प्रश्नोपनिषत्सटीकभाष्योपेता, श्रीयुतानां किवे इत्युपा- हानामिन्दूरपुरनिवासिनां रा०रा० भाऊसाहेब बाळा- साहेब इत्येतेषाम् । (ग.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, काश्यां शिलामुद्रिता, रा. रा. “महादेव चिमणाजी आपटे” इत्येतेषाम् । मुद्रण- कालः संवत्-१९४१। (घ.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयु- तानां पटवर्धनोपाहाना रा०रा० "कृष्णराव भीमाशं- कर" इत्येतेषाम् । (ङ.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयु. तानां खेडकरोपाहानां रा०रा० "आनन्दराव लक्ष्मण" इत्येतेषाम् । (च.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, बडलीग्रामनिवासिनां श्रीयुतानां वे. शा. सं. रा. रा. "मार्तण्ड दीक्षित" इत्येतेषाम् । लेखनकाल: शके-१७६९ (छ.) इतिसंज्ञिता-केवलप्रश्नोपनिषद्भाष्यमेव विचरग्रामनिवासिनां श्रीमतां रा. रा. "रावसाहेब" इत्येतेषाम् । (ज.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, नागपुरनिवासिनां श्रीयु- ताना रा. रा. "अप्पासाहेब बुटी" इत्येतेषाम् । (अ.) इतिसंज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, करवीरपुरनिवासिनां श्री- मतां वे. शा. सं. रा. रा. गुरुमहाराजानाम् । लेखन-

केवलमूलपुस्तकानि।
(क.) इतिसंज्ञिता--प्रश्नोपनिषत्, पुण्यपत्तननिवासिनां श्रीयुतानां भाऊसा-
हेब नगरकर इत्येतेषाम् ।
(ख.) इतिसंज्ञिता-प्रश्नोपनिषत्, पुण्यपत्तननिवासिनां श्रीयुतानां भाऊसा-
हेव नगरकर इत्येतेषाम् ।
(ग.) इतिसंज्ञिता-प्रश्नोपनिषत्, वटोदरनिवासिनां श्रीयुतानां रा. रा.
दादासाहेब फडणवीस इत्येतेषाम् ।
दीपिकायाः पुस्तकानि ।
(क.) इतिसंज्ञिता-प्रश्नोपनिषद्दीपिका, वटोदरनिवासिना पटवर्धनोपाहानां
श्रीयुतानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम् ।
(ख.) इतिसंज्ञिता-प्रश्नोपनिषद्दीपिका समूला, मुम्बापुरनिवासिनां वे. सा.
सं. रा. रा. जयकृष्णमहाराजानाम् ।
समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका।

अथास्याः प्रश्नोपनिषदो मत्रप्रतीकानां वर्णानुक्रमणी। मन्त्रप्रतीकानि म०प्रश्न.पृ. मं०प्रश्न पृ० मन्त्रप्रतीकानि तस्मै स होवाच.. ... ४ ... ... २२१५ २३२१ "" ... ... ... ... अत्रैष देवः स्वप्ने... अथ कबन्धी कात्यायनः अथ यदि द्विमात्रेण अथ हैन कौसल्यः अथ हैन भार्गवः... अथ हैन सुकेशा... अथ हैन सौर्यायणी अथाऽऽदित्य उदयन् ... ... ... अथैकयोर्ध्व उदान. अथोत्तरेण तपसा १२ २१ १२ १४ तान्वरिष्ठः प्राण. १६ ५४ तान्ह स ऋषिः १४ २० तान्होवाचैतावत्... ६१ ५ तिस्रो मात्रा मृत्युमत्यः ७ ३ २५ तेजो ह वा उदान. १० १ ८ ते तमर्चयन्तः १४१ १२ तेषामसौ विरज. ६२१७ ६ ६ ७४ देवानामसि वहितम १३ १११ १६१ १३ अन्न वै प्रजापतिः अरा इव रथनाभौ ... " "... ... ... ८२१८ ... ११ १ १० १० ४ ४४ अहोरात्रो वै प्रजा- आ. आत्मन एष प्राणः आदित्यो ह वै प्राणः आदित्यो ह वै बाह्यः इ. इन्द्रस्त्वं प्राण तेजसा ... | पञ्चपाद पितरम्... ३ ३ २२ परमेवाक्षरम् ५ पृथिवी च पृथिवी- ८ ३ २५ पायूपस्थेऽपानम्... प्रजापतिश्चरसि... ... ... ... ... ७२१७ १३ २२० ... ... ... ९ २ १९ प्राणस्येद वशे प्राणामय एवैतस्मिन् उत्पत्तिमायतिम्... ... ... भ. १२ ३ २९ १४३० ... ऋ. भगवन्नेतस्मिन्पुरुषे भगवन्हिरण्यनाभः ... ऋग्भिरेत यजभिः ... भद्र कर्णेभिः ... ... १ ए. म. मासो वै प्रजापतिः १२१११ एतद्वै सत्यकाम एष हि द्रष्टा स्प्रष्टा एषोऽमिस्तपति ४४४ ... य. ... ... ... तये ह वै तत् .... य एवं विद्वान्प्राणम् १५११३ यश्चित्तस्तेनैष प्राणम् ११३२८ १०३२७ ... ...

म.न.४. भत्रमतामागि म.मम.. ... ... ... ... ... ... ... मत्रप्रताकाान यथा सम्राडेव यदा स्वमभिवर्षसि यदुच्यासनिश्वासी यः पुनरेत त्रिमात्रेण या ते तनूर्वाचि. ... ... ... ... ... ७४४२ ... ... ... ... ४३ २२ स प्राणमसृजत १०२१९/स यथेमा नद्यः ४ ४ ३४ स यदा तेजसा ५ ५ ५० स यदा सोम्य १२२ २० स यद्येकमात्रम् स यो ह वै तत् ... ११४ ४५ संवत्सरो वै प्रजापतिः ८१६ सुकेशा च भारद्वाजः ९१ २ १९ सोऽभिमानादूर्ध्वम् ... ... ... ... ... ... ... ... ... विज्ञानात्मा सह विश्वरूपं हरिणम् ... प्रात्यस्त्वं प्राणैक- ११ ... ... १ ... ... स. स ईक्षांचके स एष वैश्वानरः... ६ हदि खेष आत्मा... ... ... ... ... इतीय मत्रवर्णानुक्रमणी।

ॐ तत्सब्रह्मणे नमः। रिनासन मण प्रश्नोपनिषत् । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता । ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमा. भिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाश्सस्तनूभिः । व्यशेम देवहितं यदायुः॥ ॐ शान्तिः शान्तिः शान्तिः। A ॐ मुकेशा च भारद्वाजः शैब्यश्च सत्य- कामः सौर्यायणी च गार्यः कौसल्यश्चाऽऽ. श्वलायनो भार्गवो वैदर्भिः कबन्धी कात्याय- नस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेष- माणा एष ह वै तत्सर्व वक्ष्यतीति ते ह समि- पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १॥ मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते । ऋषिप्रश्न- पतिवचनाख्यायिका तु विद्यास्तुतये; एवं संवत्सरब्रह्मचर्यसंवासा- दियुक्तैस्तपोयुक्तैाह्या पिप्पलादादिवत्सर्वज्ञकल्पैराचार्वतव्या च न सा येन केनचिदिति विद्या स्तौति । ब्रह्मचर्यादिसाधनसूचनाच तत्कर्तव्यता स्यात् । सुकेशा च नामतः । भरद्वाजस्यापत्यं भार• द्वाजः । शैब्यश्च शिबेरपत्यं शैव्यः सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्यस्तस्यापत्यं सौर्याणिश्छान्दसः सोर्यायणीति । गार्यो गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतोऽश्वलस्यापत्यमाश्वलायनः। भार्गवो भृगोर्गोत्रापत्यं भार्गवः। वैदर्भिविदर्भ भवः । कबन्धी नामतः । १ क. च. कौशल्य' । २ ख. ड. "युक्ततपो । ३ क. च. कौशल्य' । ४ ख. घ. इ. मत आश्व'। ५ क, दर्भः प्रभ। ६ ग. घ. इ. भैर्भवः । च. में प्रभ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] कप(तस्यापत्यं कात्यायनः । विद्यमानः प्रपितामहो यस्य सः। युवप्रत्ययः, ते हैते ब्रह्मपरा अपरं ब्रह्म परत्वेन गतास्तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः, किं तत् । यनित्यं विज्ञेयमिति तत्मा- प्त्यर्थं यथाकाम यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तस्तदधिगमायैष ह वै तत्सर्व वक्ष्यतीत्याचार्यमुपजग्मुः । कथम् । ते इ समित्पाणयः समि- द्भारगृहीतहस्ताः सन्तो भगवन्तं पूजावन्तं पिप्पलादमाचार्यमुपसन्ना उपजग्मुः॥१॥ " अथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्त्वस्य निर्णीतत्वात्तत्रैव ब्राह्म- णेन तदभिधानं पुनरुक्तमित्याशङ्कय तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्ये- नाभिधानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति-मत्रेति । विस्तरेति । मन्त्रे हि द्वे विद्ये वेदितव्ये परा चैवापरा चेत्युक्त्वा तत्रापरर्वेदायभिधेयेत्युक्तम् । सा च विद्या कर्मरूपोपासनारूपा च । तत्र द्वितीया द्वितीयतृतीयप्रश्नाभ्यां वित्रीयते । आद्या कर्मकाण्डे विवृतेति नेह वित्रीयते । उभयोः फलं तु ततो वैराग्याथं प्रथमप्रश्ने स्पष्टी क्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्ड. केन प्रतिपादिता । तत्रापि यथा सुदीप्तादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थ चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्रणवोपासनविवरणार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्डकेनोक्तस्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्वि- स्तरानुवादीत्यर्थः । अत एव विषयप्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् । आख्यायिकाया ब्रह्मचर्यतपआदिसाधनविधानं पुरा कल्पस्वरूपेण प्रयो- जनान्तरं चास्तीत्याह-ब्रह्मचर्यादिसाधनेति । सौर्यायणीति । सौर्यायणि- रिति वक्तव्ये दैय छान्दसमित्यर्थः । युवप्रत्यय इति । कत्य(त)स्य युवापत्ये विव- क्षिते फक्प्रत्यये तस्याऽऽयनादेशे च कात्यायन इति सिध्यतीत्यर्थः । ब्रह्मपराणां पुन- ब्रह्मान्वेषणमयुक्तमित्यत आह-अपरं ब्रह्मेति । नन्वपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं परब्रह्मान्वेषणेनेत्याशङ्कते-किं तदिति । तस्य कोऽतिशय इत्यर्थः । तस्यानि- त्यत्वेन तत्प्राप्तेरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वात्तत्प्राप्तेस्तज्ज्ञानमात्रसा- ध्यत्वेनापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथनेनाऽऽह-यदिति । परब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह-तत्माप्त्यर्थमिति । तत्प्राप्त्यर्थं तदधि- गमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्येवमभिप्रायेणेत्यन्वयः । समिदिति । समिद्ग्रहणं यथायोग्यं (ग्य दन्तकाष्ठायुपहारोपलक्षणार्थम् ॥ १ ॥ १ क. ख. ग. घ. ह. युवार्थप्र। २ क. घ. अथर्वणे। ३ क. घ ड. च. "त्युक्ता त । ४ क. धनायाऽऽह।

[१ प्रश्नः] प्रश्नोपनिषत् । तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञा- स्यामः सर्व ह वो वक्ष्याम इति ॥२॥ तानेवमुपगतान्द स किल ऋषिरुवाच भूयः पुनरेव यद्यपि ययं पूर्व तपस्विन एव तपसेन्द्रियसंयमेन,तथाऽपीह विशेषतो ब्रह्मचर्येण श्रद्धया चाऽऽस्तिक्यबद्धयाऽऽदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशु- श्रूषापराः सन्तो वत्स्यथ । ततो यथाकामं यो यस्य कामस्तमनतिक्रम्य यथाकामं यद्विषये यस्य जिज्ञासा तद्विषयान्मश्नान्पृच्छत । यदि तद्युष्म- त्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदिशब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते । सर्व ह वो वः पृष्टं वक्ष्याम इति ॥ २ ॥ तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्ट- मर्थमाह-यद्विषय इति । अज्ञानाद्यर्थत्वाभावे हेतुमाह-प्रश्नति । अतिशब्दोऽ- ध्याहार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसंभवादित्यर्थः ॥ २ ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगव- न्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥ अथ संवत्सरादूर्व कबन्धी कात्यायन उपेत्योपगम्य पमच्छ पृष्ट- बान् । हे भगवन्कुतः कस्माद्ध वा इमा ब्राह्मणाद्याः प्रजाः प्रजायन्त उत्पधन्ते । अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्य या गतिस्तद्वक्तव्य- मिति तदर्थोऽयं प्रश्नः ॥ ३ ॥ परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृकप्रजासृष्टिविषयप्र- शप्रत्यु योरसंगतिमाशङ्कय प्रश्नप्रत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह-अपरविद्येति । तेषामप्तौ विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतैर्देवया- नमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षण केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्यस्यापि चन्द्रलोकस्य तदतेः पितृयाणस्य च तेषामेवैष ब्रह्मलोकः' 'प्रजा- कामा दक्षिणं प्रतिपद्यन्ते' इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्मजिज्ञासावसरेऽ. संगतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच्च विरक्तस्यैव तत्राधिकार इति १ क. पेल्याऽऽगत्य । २ क. च. 'चितासमुचित। ३ क. च. त्युक्तेर। ४ क. 'यानस्य ।

४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रश्नः ततो वैराग्यार्थमिदमुच्यते । यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयोजन भावात्सृष्टयुक्तिव्याजेन परविद्याफलमेवात्रोच्यत इति भावः । प्रश्न इति । प्रतिवच चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तरिति ॥ ३ ॥ तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽ तप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत इति ॥४॥ तस्मा एवं पृष्टवते स होवा तदपाकरणायाऽऽह । प्रजाकाम: मजा आत्मनः सिसूक्षुः प्रजापतिः सर्वात्मा सञ्जगत्स्रक्ष्यामीत्येवं विज्ञा. नवान्यथाक्तकारी तद्भावभावितः कल्पादौ नित्तो हिरण्यगर्भः सृज्य. मानानां प्रजानां स्थावरजङ्गमानां पतिः सञ्जन्मान्तरभाचितं ज्ञानं श्रुतिमकाशितार्थविषयं तपोऽन्वालोचयदतप्यत । अथ तु स एवं तप- स्तप्त्वा श्रोतं ज्ञानमन्वालोच्य सृष्टिसाधनभूतं मिथुनमुत्पादयते मिथुन द्वंद्वमुत्पादितवान् । रयिं च सोममन्नं पाणं चाग्निमत्तारमेतावग्नीषोमावत्र- अभूतौ मे मम बहुधाऽनेकधा प्रजाः करिष्यत इत्येवं संचिन्त्याण्डोत्प- चिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥ ४ ॥ तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति-तदपाकरणायेति । आधस्त सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः । यथोक्तकारीति । ज्ञानकर्मसमुच्चयकारीत्यर्थः सद्भावभावित इति । प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रजापतिभावनायुक्त इत्यर्थः पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्भात्मना निर्वृत्तः प्रजापतिः सन्पश्चात्प्रना कामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयमतभ्यतावालोचयश्चिन्तादिन सत्संस्कारमुद्दोध्य ज्ञानमुत्पादितवानित्यन्वयः । तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भा वमापद्य पश्चाश्चन्द्रादित्यसाध्यसंवत्सरभावमापधैवमेव तदवयवायचद्वयमासपक्षाहोरात्र भावमापद्य ततस्तत्साध्यव्रीह्याद्यन्नभावं रेतोभाव चाऽऽपद्य तेन रेतसा प्रजाः मृजेयमि स्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्यद्वंद्वमुत्पादितवानित्याह-स एवमिति रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तवार सोमो लक्ष्यत इत्याह-रयिं चेति । एवं प्राणशब्देनापि के * अत्र भाष्यानुसारेण शकरानन्दकृतदीपिकानुसारेण च मधिक भाति। स तपस्तप्त्वा" इति पदत्रय १ क. चित्तादि । २ क. च. "तसूर्यचन्द्र' ।

[१ प्रश्नः] प्रश्नोपनिषत् । "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्" ॥ इति स्मृतरनेः प्राणसंवन्धादग्निर्भोक्ता लक्ष्यत इत्याह-माणं चेति। अग्नीषोमयो- रण्डान्तर्गतत्वेनाण्डोत्पत्त्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह-अण्डोत्पत्तीति । उद्यन्तं चावाऽऽदित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह- मूर्याचन्द्रमसाविति ॥ ४ ॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एत- सर्व यन्मूर्त चामूर्त च तस्मान्मूर्तिरेव रयिः॥५॥ तत्राऽऽदित्यो ह वै प्राणोऽत्ताऽग्निः । रयिरेव चन्द्रमाः । रयिरेवानं सोम एव । तदेतदेकमत्ता चान्नं च प्रजापतिरेकं तु मिथुनम् । गुणपधा- नकृतो भेदः । कथम् । रयिर्वा अन्नं वा एतत्सर्वं किं तद्यन्मूर्त च स्थूलं चामूर्त च सूक्ष्मं च मूर्तामूर्ते अनन्नरूपे रयिरेव । तस्मात्मविभक्तादमू- घिदन्यन्मूर्तरूपं मूर्तिः सैव रयिरमूर्तेनाद्यमानत्वात् ॥५॥ रयिप्राणौ श्रुतिः स्वयमेव व्याचष्ट इत्याह-तत्राऽऽदित्य इति । प्रजापतेरेव' संवत्सरादिप्रजापर्यन्तस्रष्टत्वं वक्तु रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्प्र- जापत्यात्मत्वमाह-तदेतदेकमिति । कथमेकस्यात्ताऽन्नं चेति भेद इत्याशङ्कय तस्यैव गुणभावविवक्षयाऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह-गुणति । रयिप्राणयोः कथं प्रजापत्यात्मत्वमिति शङ्कते-कथमिति । तत्र रयेः सर्वात्मकत्वा- प्रजापतित्वमित्याह-रयिरिति । अमूर्तस्यापि वाय्वादेः केनचिदद्यमानत्वादयित्व- मित्यर्थः । ननु मूर्तामूर्तयोरनन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्या- शङ्कय मूर्तातत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्व रयिरित्युच्यते । यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्यायमानत्वान्मूर्तस्यैव रयित्वमित्याह-तस्मादिति ॥ ५ ॥ तथाऽमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाऽऽद्यम् । कथम्- अथाऽऽदित्य उदयन्यत्माची दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु संनिधत्ते । यद्द- क्षिणां यत्पतीची यदुदीची यधो यदूर्ध्व यद- । घ. ह मूर्तिरेवान मैं । २ क. *मूर्ते वि। •.

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः] न्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु संनिधत्ते ॥६॥ अथाऽऽदित्य उदयचन्द्रच्छन्माणिनां चक्षुर्गोचरमागच्छन्यत्माची दिशं स्वप्रकाशेन प्रविशति व्यामोति । तेन स्वात्मव्याप्त्या वास्त- स्थान्माणान्माच्यानन्तर्भूतान्रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्माणिनः संनिधत्ते संनिवेशयति, आत्मभूतान्करोतीत्यर्थः । तथैव यत्मविशति दक्षिणां यत्मतीची यदुदीचीमध ऊर्ध्वं यत्मविशति यच्चान्तरा दिशः कोणदिशोऽवान्तरदिशो यच्चान्यत्सर्व प्रकाशयति तेन स्वप्रकाशव्याप्त्या सर्वान्सर्वदिक्स्थान्माणानरश्मिषु संनिधत्ते ॥६॥ रयिशब्दितस्यान्नस्य प्रनापतित्वार्थ सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्म- स्वमुच्यतेऽथाऽऽदित्य इतिवाक्येनेत्याह-तथेत्यादिना । यच्चाऽऽद्यं तदपि प्राणोऽ. तोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः । स्वप्रकाशेनेति । स्वकीयप्रकाशेन स्वप्रभयेत्यर्थः । अन्तर्भूतानिति । यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमित्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् । स्वात्मावभासरूपेष्विति । स्वात्मप्रभारूपेषु रश्मिवित्यर्थः । व्यासत्वादिति । संबद्धत्वादित्यर्थः ॥ ६॥ स एष वैश्वानरो विश्वरूपः प्राणोऽग्नि- रुदयते। तदेतदृचाऽभ्युक्तम् ॥७॥ स एषोऽत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपो विश्वात्मत्वाच्च माणोऽग्निश्च स एवात्तोदयत उद्गच्छति प्रत्यहं सर्वा दिश आत्मसा. स्कुर्वन् । तदेतदुक्तं वस्तु ऋचा मत्रेणाप्यभ्युक्तम् ।। ७ ।। तस्य प्रत्यक्षत्वमाह-स एष इति । वैश्वानर इति । नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चात्मक इति भेदः । उक्तं वस्त्विति । आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योति- के तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥ १ क. च्छन्यत्प्राची दिश प्रविशति तेन तत्प्राची दिश स्व। २ ख. ग. सर्वान्तस्थान्या । ३क. च. गोता।

288237NL' [१ प्रश्नः] प्रश्नोपनिषत् । विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं,ज्योतिरेकं सर्वप्राणिनां चक्षुर्भूतमद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्य सूरयो विज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः । सहस्ररश्मिरनेकरश्मिः शतधाऽनेकधा प्राणिभेदेन वर्त- मानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥ विश्वरूपमित्यादिद्वितीयान्तानां सहस्ररश्मिरित्यादिप्रथमान्तानां सामानाधिकरण्ये- मान्वयायोगादध्याहारं कृत्वा वाक्यभेदेन व्याचष्टे-स्वात्मानमित्यादिना ॥ ८ ॥ यश्वासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्ताऽऽदित्यस्तदेकमेतन्मिथुनं सर्व कथं प्रजाः करिष्यत इति, उच्यते- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एवं पुनरा- वर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥९॥ तदेव कालः संवत्सरो वै प्रजापतिस्तन्निर्वय॑त्वात्संवत्सरस्य । चन्द्रा- दित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरस्तदनन्यत्वादयिमाणमि- थुनात्मक एवेत्युच्यते, तत्कथम् , तस्य संवत्सरस्य प्रजापतेरयने मार्गों द्वौ दक्षिणं चोत्तरं च । द्वे प्रसिद्ध जयने षण्मासलक्षणे याभ्यां दक्षिणे- नोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोका- विदधत् । कयं तत् तत्र च ब्राह्मणादिषु ये ह वै तदुपासत इति, क्रियाविशेषणो द्वितीयस्तच्छन्दः । इष्टं च पूर्त चेष्टापूर्ते इत्यादि कृतमे- वोपासते, नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजापतमिथुनात्मक- स्यांशं रयिमनभूतं लोकमभिजयन्ते।कृतरूपत्वाच्चान्द्रमसस्य ते तत्रैव च कृतक्षयात्पुनरावर्तन्त इमं लोकं हीनतरं वा विशन्तीति युक्तम् । यस्मा- देवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिवर्तयन्ति चन्द्रमिष्टापूर्तकर्मणैत ऋषयः स्वर्गद्रष्टारः मजाकामाः प्रजार्थिनो गृहस्थास्तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्र प्रतिपद्यन्ते । एष ह वै रयिरनं यः पितृयाणः पितृयाणोपलक्षितचन्द्रः ॥९॥ १ क, ग. णस्तन्मिथु।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति-यश्चासाविति । यश्चासौ चन्द्रमा यश्चामूर्तः(तिः) प्राणस्तदेकं मिथुनं सर्व सर्वात्मकमित्यन्वयः । एतौ मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति-कथमिति । रयिप्राणयोः संव. सिरादिद्वारा प्रजात्रष्टुत्वमित्याह-उच्यत इति । तदेव मिथुनमेव संवत्सरः कालः । स च प्रजापतिः प्रजापत्यात्मकमिथुननिर्वय॑त्वादित्याह-तनिर्वर्त्यत्वादिति । तदुप- पादयति-चन्द्रेति । चन्द्रनिर्वास्तिथय आदित्यनिर्वान्यहोरात्राणीति विभागः । तन्निर्वय॑त्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्कय कार्यकारणयोरभेदादित्याह-तद- नन्यत्वादिति । न केवलं तिथ्यादिद्वारा चन्द्रादिनिर्वय॑त्वं संवत्सरस्य किं त्वयनद्वय- द्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वकं व्याचष्टे-तत्कथमिति । चन्द्रा- दित्यनिवर्त्यत्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधदक्षिणेन याति । ज्ञानयुक्तकर्मवतां लोकान्विदधुदुत्तरेण यातीत्यन्वयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिर्दक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः, ततश्च कर्मिणां लोका- न्विधातुं तयोर्दक्षिणोत्तराभ्यां मार्गाम्यां गमनात्तन्निमित्तत्वाचायनद्वयप्रसिद्धस्तन्निवर्त्यत्वं तयोरनयोरिति तद्वारा संवत्सरस्यापि तन्निर्वय॑त्वमित्यर्थः । चन्द्रादित्ययोः कथं लोक- विधायकत्वमिति पृच्छति-कथामिति । चन्द्रादित्यनिर्वयंदक्षिणोत्तरायणद्वारा लोक- प्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तये ह वा | इत्यादिवाक्येन परिहरति-तत्तत्रेति । इष्टं चेति । "अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपर्तंडागादि देवतायतनानि च । । अन्नप्रदानमारामः पूर्तमित्यभिधीयते" इति तयोर्भेदः । कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ते इति पूर्तशब्दोपर्याकृष्याऽऽदिशब्दपर्यायतया व्याचष्टे-इत्यादीति । दत्तमादिशब्दार्थः । कृतमेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् । कृतरूपेष्टयादिनन्यत्वाच्चन्द्रस्यापि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह-कृतरूपत्वा- दिति । पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति-इमं लोकमिति ॥ ९ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्य- याऽऽत्मानमन्विष्याऽऽदित्यमभिजयन्ते । एतदै १च. 'दित्यनि । २ क. ज. "दिदक्षि। कच. 'द्युत्त । ४ क घ. याम्योत्तरलो. काभ्या । ५ क. दानामुपलम्भनम् । ६ ख. ग. घ. तटाकादि । ७ क. इत्युभयो ।

[१ प्रश्नः] प्रश्नोपनिषत् । प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥ अयोत्तरेणायनेनं मजापतेरंशं प्राणमत्तारमादित्यमभिजयन्ते । केन । तपसेन्द्रियजयेन विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्म- विषययाऽऽत्मानं पाणं सूर्य जगतस्तस्थुषश्वान्विष्याहमस्मीति विदि. त्वाऽऽदित्यमभिजयन्तेऽभिप्राप्नुवन्ति । एतद्वा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमे(ए)तदमृतमविनाशि, अभयमत एव भयवजितं न चन्द्रवत्क्षयवृद्धिभयवदेतत्परायणं परा गतिविद्यावतां, कर्मिणां च ज्ञानवतामेतस्मान पुनरावर्तन्ते यथेतरे केवलकर्मिणः इति यस्मादेषोऽवि. दुषां निरोध आदित्याद्धि निरुद्धा अविद्वांसो,नैते संवत्सरमादित्यमा- त्मानं माणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्माऽविदुषां निरोधः । तत्तत्रास्मिन्नर्थ एष श्लोको मत्रः ॥१०॥ अथेति। मार्गान्तरारम्भार्थोऽथशब्दः। प्रजापत्यात्मविषययति। तत्तादात्म्यविषय- येत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानी व्याख्यानार्थमिति द्रष्टव्यम् । सामान्यमिति । समष्टिरूपमित्यर्थः । विद्यावतामिति । कर्मानधिकारिणामत एवं केवलोपासनवतामित्यर्थः । कर्मिणां च ज्ञानवतामिति । समुच्चयवतामित्यर्थः । ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्भविष्यतीत्याशङ्कय तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्य व्याचष्टे-इति यस्मादिति । तस्मात्तेषामादित्यप्रा. प्तिरनाशङ्कयेति शेषः (१०)। यद्वा तस्यायने इत्यारम्येत्येष निरोध इत्यन्तं श्रुति- वाक्यमयनयो रयिप्राणरूपत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि। संवत्सरस्य रयिप्राणमिथुननिर्वय॑त्वे रयिप्राणरूपत्व च वक्तव्यं तत्कथमिति पृच्छति-तत्कथ- मिति । तदवयवयोरैयनयोस्तद्रूपत्व वक्त तयोः प्रथमं प्रसिद्धिमाह-तस्येति । प्रसिद्धिमेवाऽऽह-याभ्यामिति । एवमपि कथं तयोस्तदात्मकत्वमित्याह-कय- मिति । दक्षिणायनस्य रयित्वं वक्तु कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह-तत्तत्रेति । लोकमिति । सोमरूपं शरीरमित्यर्थः । तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति- कृतरूपत्वादिति । रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्त- र्भाव इति वक्तुं तस्य कर्मिमिः प्राप्यत्वमाह-यस्मादिति । एवं च तस्य रयित्वं सिद्धमित्याह-एष इति । पितृयाणोपलक्षित इति । तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्वमित्यर्थः (९)। इदानीमुत्तरायणस्य प्राणत्वमाह- क.न प्राजापत्यं प्रा।२ क. च. 'मन। ३ क. च. 'रन'।

ܘܪ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] अथेति । प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्तमिति भावः । अस्य कर्मसाध्यचन्द्र- वैलक्षण्यमाह-एतद्वा इति । इतरत्सर्व समानम् । अस्मिन्नर्थ इति । संवत्सरस्व- रूप इत्यर्थः ॥ १०॥ पञ्चपादं पितरं द्वादशाकृति दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विच. क्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥ पञ्चपादं पञ्चर्तवः पादा इवास्य संवत्सरात्मन आदित्यस्य तैरसौ पादैरिवर्तुभिरावर्तते । हेमन्तशिशिरावेकीकृत्येयं कल्पना । पितरं सर्वस्य जनयितृत्वारिपतृत्वं तस्य, तं द्वादशाकृति द्वादश मासा आकृतयोऽव- यवा आकरणं वाऽवयविकरणमस्य द्वादशमासैस्तं द्वादशाकृति दिवो धुलोकोत्पर अर्धेऽर्धे स्थाने तृतीयस्यां दिवीत्यर्थः । पुरीषिणं पुरीष- वन्तमुदकवन्तमाहुः कालविदः । अथ तमेवान्य इम उ परे कालविदो विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपेण चक्रे सततं गतिमति काला- त्मनि षडरे षट्टतुमत्याहुः सर्वमिदं जगत्कथयन्ति । अर्पितमरा इव रथ- नाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्रः षडरः सर्वथाऽपि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्षणोऽपि जगतः कारणम् ॥ ११॥ इयं कल्पनेति । पञ्चों कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः । जनयितृत्वादिति । संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः । समानाधिकरणबहुव्रीहितया व्याख्याय व्यधिकरणबहुव्रीहिर्वेत्याह-आकरणं वेति । अवयविकरणमिति । अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः । घलोकादिति । आकाशरूपादन्तरिक्षलो- कादित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः । उद- कवन्तमिति । आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगते- नाऽऽहुरित्यनेन सबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विचक्षण- माहुरित्यन्वयः । किमाहुरित्यत आह-सप्तचक्र इति । तस्मिन्विचक्षणे सप्तचक्रा- द्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थ. । मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह-यदीति । पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदि- त्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षष्णामृतू- १ ख. घ, ङ. "कादाहुः पर। २ क. ब. धाकल्पसा । ।

- [१ प्रश्नः] प्रश्नोपनिषत् । नामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वा- ' श्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११॥ मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इंष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२॥ यस्मिन्निदं श्रितं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे भासे कृत्स्ना परिसमाप्यते । मासो वै प्रजापतिर्यथोक्तलक्षण ऐव मिथु- नात्मकस्तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्षो रयिरनं चन्द्रमा अपरो भागः शुक्लः शुक्लपक्षः प्राण आदित्योऽत्ताऽग्निर्यस्माच्छुक्लपक्षा- त्मानं पाणं सर्वमेव पश्यन्ति तस्मात्प्राणदर्शिन एत ऋषयः कृष्णप- क्षेऽपीष्टं यागं कुर्वन्तः शुक्लपक्ष एव कुर्वन्तिाप्राणव्यतिरेकेण कृष्णपक्ष- स्तैन दृश्यते यस्मादितरे तु पाणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मा. नमेव पश्यन्ति । इतर इतरस्मिन्कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्व- न्तोऽपि ॥ १२ ॥ कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह-यस्मिन्निति । संवत्सरस्यापि मासा- होरात्ररूपव्यतिरेकेणौषध्यादिजनकत्वाभावात्तस्य मासाद्यात्मकत्वमाह–स एवेति । यथोक्तेति । संवत्सररूपो रयिप्राणमिथुनात्मक इत्यर्थः । शुक्लकृष्णयोरुभयोरपि दर्शपूर्णमासादिकर्मानुष्ठानदर्शनात्तस्मादेत ऋषय इत्यादि वाक्यमनुपपन्नमित्याशङ्कय शुक्लस्य प्राणात्मत्वज्ञानस्तुतिपरतया व्याचष्टे—यस्मादिति । यस्मात्प्राणं सर्वमेव सर्वात्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्णपक्षस्तैन दृश्यते तस्मादित्यन्वयः ।। प्राणस्य शुक्लपक्षात्मकत्वात्कृष्णपक्षादिसर्वजगतः प्राणात्मत्वात्प्राणद्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे कुर्वन्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राण- त्वज्ञानस्य स्तुतिरित्यर्थः । एतत्स्तुत्यर्थमेव ज्ञानरहितान्निन्दति-इतरे विति । ये तु सर्वात्मानं प्राणं न पश्यन्त्यज्ञत्वात्तेषा शुक्लपक्षः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मकः सन्कृष्णपक्षत्वमापद्यतेऽतः शुक्ले कुर्वन्तोऽप्यदर्शनात्मकत्वात्प्रकाशरहिते कृष्ण एवं कुर्वन्तीति ते निन्द्यन्त इत्यर्थः । उक्तमर्थं श्रुत्यारूढं करोति-इतर इति ॥ १२ ॥ अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रि- ख रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा १ क इष्टिं । २ ख. ग. घ. एवं ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्य- द्रात्रौ रत्या संयुज्यन्ते ॥ १३॥ सोऽपि मासात्मा मजापतिः स्वावयवेऽहोरात्रे परिसमाप्यते । पूर्व- वत् । तस्याप्यहरेव प्राणोऽत्ताऽमी रात्रिरेव रयिः पूर्ववत् , प्राणमहरा- स्मानं वा एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति । के । ये दिवाऽहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मिथुनं मैथुनमाचरन्ति मूढाः। यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यद्रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्म- चर्यमेव तदिति प्रशस्तत्वाहतौ* भार्यागमनं कर्तव्यमिति । अयमपि मासङ्गिको विधिः। प्रकृतं तूच्यते सोऽहोरात्रात्मकः प्रजापति/हियवा- घनात्मना व्यवस्थितः ॥१३॥ रयिः पूर्ववदिति । रयिरन्न चन्द्रमा इत्यर्थः । अह्नः प्राणत्वोक्तिप्रसङ्गादति मैथुनं निषेधति-प्राणमिति । प्रकृतमिति । कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ॥ १३ ॥ अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मा- दिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥ एवं क्रमेण परिणम्य तदन्नं वै प्रजापतिः। कथम् । ततस्तस्माद वै रेतो नृवीजं तत्मजाकारणं तस्माद्योषिति सिक्तादिमा मनुष्यादिल- क्षणाः प्रजाः मजायन्ते।यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रादित्यमिथुनादिक्रमेणाहोरात्रान्तेनानासृग्रेतोद्वारेणेमाः प्रजाः प्रजा- यन्त इति निर्णीतम् ॥ १४॥ एवं क्रमेणेति । रयिप्राणसंवत्सरादिक्रमेण परिणम्य ब्रीह्याद्यात्मना व्यवस्थितः सन्नन्न वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः । कथमिति । अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः । तत इति । भक्षितादन्नादित्यर्थः । रेत इति । शोणितस्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥ * अत्र रानावित्यर्थलभ्यम् । १ ख. ग. ह. 'स्याह । २ च 'न्ते मैं । ३ क. °थुनमा । ४ क. मेणाहोरात्रः प्रजाप- तिरले विपरिणम्यतेऽन्न । ५ क. ब. 'नानरेतों'।

[१ प्रश्नः ] प्रश्नोपनिषत् । तो ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुन- मुत्पादयन्ते । तेषामेवैष ब्रह्मलोको' येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् ॥१५॥ तत्तत्रैवं सति ये गृहस्थाः ‘ह वै' इति प्रसिद्धस्मरणार्थी निपातौ । तत्प्रजापतेतमृतौ भार्यागमनं चरन्ति कुर्वन्ति तेषां दृष्टफलमिदम् । किम् । ते मिथुनं पुत्रं दुहितरं चोत्पादयन्ते । अदृष्टं च फलमिष्टापूर्तद- चकारिणां तेषामेवैष यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणो येषां तपः सातकव्रतादीनि, ब्रह्मचर्यम् । ऋतावन्यत्र मैथुनासमाचरणं ब्रह्मचर्यम् । येषु च सत्यमनृतवर्जनं प्रतिष्ठितमव्यभिचारितया वर्तते नित्यमेवें॥१६॥ प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह-इष्टापूर्तेति । चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वायिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः । इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपे- क्षितमित्यत आह-येषां तप इति ॥ १५ ॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि प्रथमः प्रश्नः॥१॥ यस्तु पुनरादित्योपलक्षित उत्तरायणःप्राणात्मभावो विरजा शुद्धोन चन्द्रब्रह्मलोकबद्रजस्वलो इक्षियादियुक्तोऽसौ केषां तेषामित्युच्यते । यथा गृहस्थानामनेकविरुद्धसंव्यवहारप्रयोजनवत्त्वाजि कौटिल्यं वक.. भावोऽवश्यंभावि तथा न येषु जिह्मम् । यथा च गृहस्थानां क्रीडान ! मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् , तथा माया गृहस्थाना- मिव न येषु विद्यते । माया नाम बहिरन्यथाऽऽत्मानं प्रकाश्यान्यथैव कार्य करोति सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येव.. धिकारिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान विद्यन्ते तत्साध- नानुरूपेणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः। पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥ १६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीम बन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः॥१॥ १ ख. र. तत एवं । २ स. ग. घ. . व वस्तु ॥ १५॥ ३ ख. ग.घ.क. तेषा। ४ क. च. चन्द्रलोक - आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [२ प्रश्नः ] तेषामसौ विरन इत्यादिवाक्यं व्याचष्टे-यस्त्विति । उत्तरायण इति । तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः । असौ केषां तेषा- मिति । तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः । न येषु जिह्ममित्यत्र जिह्मादिशब्दं व्यतिरेकप्रदर्शनेन व्याचष्टे-यथेत्यादिना । मायाग्रहणं तादृशानां दोषाणामुपलक्षणमिति वदन्वाक्याथ संगृह्य दर्शयति-मायेत्येवमिति । भिक्षुष्विति परमहंसव्यतिरिक्ताना कुटीचकादीनां ग्रहणम् । तेषा ब्रह्मलोकादपि विर- क्तत्वेन तत्रानर्थित्वात् । इतिशब्दार्थमाह-इत्येषेति ॥ १६ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां प्रथमः प्रश्नः ॥ १॥ अथ द्वितीयः प्रश्नः। प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं चास्मिश- रीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते- अथ हेनं भार्गवो वैदर्भिः पप्रच्छ। भगवन्क- त्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रका- शयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥ अथानन्तरं ह किलनं भार्गवो वैदर्भिः पप्रच्छ । हे भगवन्कत्येव देवाः प्रजा शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धीन्द्रि- यकर्मेन्द्रियविभक्तानामेतत्प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते । कोऽसौ पुनरेषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति ॥ १ ॥ प्रश्नान्तरस्य प्रथमप्रश्न सगतिमाह-प्राणोऽत्तेति । अवधारयितव्यमिति । अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनाभौ प्राणे सर्व प्रतिष्ठितम् । प्रजापतिश्चरसि गर्भे त्वमेव प्रतिनायस इत्यादिना च प्रजापतित्वस्योत्त- रत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्व गतिश्रवणेन विरक्तस्यापि चित्तैकाग्य विना वक्ष्यमाणात्मज्ञानासिद्धेस्तदर्थ मन्दानां फलविशेषार्थ च प्राणोपासनार्थ प्रश्नद्वया- रम्भः । तत्रापि श्रेष्ठत्वात्तृत्वप्रजापतित्वादिगुणनिर्धारणार्थं द्वितीयः प्रश्नः । तदुत्प- त्यादिनिर्धारणपूर्वकं तदुपासनविधानार्थं तृतीयः प्रश्न इत्यपि द्रष्टव्यम् । प्रजाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धार्यत्वाभावादित्याह-शरीरेति । १ क. 'चराणा म । २ क. 'थितत्वा । ३ ख. ग. घ. ड. च को वैतेषा। ४ क. रस्यै- तेन प्रश्ने।

'Than प्रश्नोपनिषत् । विभक्तानामिति निर्धारणे षष्ठी । स्वमाहात्म्यख्यापनमिति । अवकाशदानादिकमा. काशादीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्वन्ती. त्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्य सर्वलोकप्रकटनं यथा तथा । कतरे कुर्वन्तीत्यर्थः ॥ १ ॥ तस्मै स होवाचाऽऽकाशो ह वा एष देवो वायुरनिरापः पृथिवी वाङ्मन- श्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्वाणमवष्टभ्य विधारयामः ॥२॥ एवं पृष्टवते तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्नि- रापः पृथिवीत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वामनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि ते कार्यलक्षणाः करणलक्ष- णाच ते देवा आत्मनो माहात्म्यं प्रकाश्याभिवदन्ति स्पर्धमाना *अहंश्रेष्ठतायै, कथं वदन्ति । वयमेतद्धाणं कार्यकरणसंघातमवष्टभ्य प्रासादमिव स्तम्भादयोऽविशिथिलीकृत्य विधारयामो विस्पष्ट धार- यामः । मयैवैकेनायं संघातो ध्रियत इत्येकैकस्याभिप्रायः ॥२॥ - एष देव इति । बक्ष्यमाणाभिवदनादिव्यवहारसिद्ध्यर्थं चेतनत्वं संभावयितुं देव इति विशेषणम् “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्" इति न्यायेनाऽऽकाशायभिमा- निदेवताग्रहणार्थम् । तच्च विशेषण वाग्वादिष्वपि सर्वत्र संबध्यते । वाग्ग्रहणं कर्मेन्द्रियो- पलक्षणार्थं चक्षुरादिग्रहण ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह-कर्मेन्द्रियेति कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि । माहात्म्यमिति । आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्य प्रकाश्य सर्वलोकप्रकट यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्वं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः । बाणमिति । बवयोरभेदाद्वाति कुत्सितं गन्धं वहतीति वा [बाणम्।। विनाश गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघात शरीरमित्यर्थः ॥ २ ॥ * क पुस्तकेऽहपदरहितः पाठ. । १ क. घ. इ. "णि च शरीर धारयन्ते ते तन्मध्ये कर्मेन्द्रियबुद्धीन्द्रियाणि शरीरे स्वमाहा. म्यख्यापन प्रकाशयन्ते का।२ कग.ण शरीर का ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ प्रश्नः ] तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाह- मेवैतत्पश्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥३॥ तानेवमभिमानवतो वरिष्ठो मुख्यः प्राण उवाचोक्तवान् । मा मैवं मोहमापद्यथाविवेकतयाऽभिमानं मा कुरुत यस्मादहमेवैतद्वाणमवष्टभ्य विधारयामि पञ्चधाऽऽत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामीत्युक्तवति च तस्मिस्तेऽश्रद्दधाना अप्रत्ययवन्तो बभूवुः कथमेतदेवमिति ॥ ३॥ कथमेतदिति । एतत्त्व(द)हमेवैतदित्यायुक्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥ सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुस्क्रामत्य- थेतरे सर्व एवोत्क्रामन्ते तस्मिश्श्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकर- राजानमुत्क्रामन्तं सर्वा एवोकामन्ते तस्मिश्श्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मन- चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥ स च माणस्तेपामश्रधानतामालक्ष्याभिमानादूर्ध्वमुँत्क्रमत इवेदमुत्का- न्तवानिव *सरोपानिरपेक्षस्तस्मिन्नुत्क्रामति यदृत्तं तदृष्टान्तेन प्रत्यक्षी करोति । तस्मिन्नुत्क्रामति सत्यथानन्तरमेवेतरे सर्व एव प्राणाश्चक्षुरा- दय उत्क्रान्त उच्चक्रमिरे । तस्मिंश्च प्राण प्रतिष्ठमाने तूष्णीं भवत्यनु. कामति सति सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता अभूवन् । तेत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधुकरराजानमुत्क्रामन्तं प्रति सर्वा एवोत्क्रामन्ते तस्मिश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति । यथाऽयं दृष्टान्त एवं वाअनश्चक्षुः श्रोत्रं चेत्यादयस्त उत्सृज्याश्रधा. नता बुद्ध्वा माणमाहात्म्यं प्रीताः पाणं स्तुन्वन्ति स्तुवन्ति ॥ ४॥ * सरोषत्वादिति वक्तु युक्तम् । १क. च. "ति चास्मि ।२ प. च. "मुकाम । ३ क 'मुत्कामत इवोकामतीवें । च. "मुस्कामत इवोत्कान्त । ४ क. मन्त्युचक्रमु । त। ५ क. तद्यथा ।

[२ प्रश्नः ] प्रश्नोपनिषत् । उत्क्रान्तवानिवेति । अत्यन्तोत्क्रान्त्यभावादिवशब्दः । निरपेक्ष इति । स्वयमेवे- त्यर्थः । दृष्टान्तेनेति । तत्र यथे(तद्यथे)ति वक्ष्यमाणेनेत्यर्थः ॥ ४ ॥ एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायु- रेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥५॥ एष माणोऽग्निः संस्तपति ज्वलति । तथैष सूर्यः सन्प्रकाशते । तथैष पर्जन्यः सन्वर्षति । किंच मघवानिन्द्रः सन्मजाः पालयति जिघांसत्यसुरक्षांसि । एष वायुरावहमवहादिभेदः । किं चैष पृथिवी रपिर्देवः सर्वस्य जगतः, सन्मूर्तमसदमूर्त,चामृतं च यद्देवानां स्थितिका- रणं कि बहुना ॥५॥ सूर्यः सन्निति । तपतीत्यनुषङ्गः । संतापयतीत्यर्थः । आवहमवहादीति । आव- हादयः सप्त वायुगुणास्तथाभूतः सन्मेघाज्योतिश्चक्रादींश्च वहतीति शेषः । एष देवः। पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्र' सन्सर्वं पुष्णातीत्यर्थः ॥ ५॥ अरा इव स्थनाभौ प्राणे सर्व प्रतिष्ठितम् । ऋचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥६॥ अरा इव स्थनाभौ श्रद्धादि नामान्तं सर्व स्थितिकाले प्राण एव प्रतिष्ठितम् । तथ) यजूंषि सामानीति त्रिविधा मन्त्रास्तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य पालयित ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं वैष पाणः सर्वम् ॥ ६॥ श्रद्धादीति । प्राणाच्छ्रद्धां ख वायुर्योतिराप इत्यादिना वक्ष्यमाणषोडशकला. त्मक इत्यर्थः । ब्रह्म चेति । ब्राह्मणजातिरित्यर्थः । चशब्दार्थमाह-यज्ञादीति । अधिकृतं सर्वमेवेत्यन्वयः ॥ ६ ॥ किंच- प्रजापतिश्चरसि गर्ने त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥ यः प्रजापतिरपि स त्वमेव गर्भे चरसि पितुर्मातुश्च प्रतिरूपः *सन्म- .. * अत्र प्रतिशब्दष्टीकाया प्रशब्दश्चाधिकः । १क. किंच ब।२र्व शरीर स्थि।

- I verse, here aftled to a special purpose mm आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ प्रश्नः ] तिजायसे प्रजापतित्वादेव प्रागेव सिद्धं तव *मातृपितृत्त्वं । सर्वदे- हदेयाकृतिच्छद्मनकः प्राणः सर्वात्माऽसीत्यर्थः । तुभ्यं त्वदर्थ या इमा मनुष्यायाः प्रजास्तु हे प्राण चक्षुरादिद्वारैलि हरन्ति । यस्त्वं प्राणैश्च- क्षुरादिभिः सह प्रतितिष्ठास सर्वशरीरेष्वतस्तुभ्यं बलिं हरन्तीति युक्तम् । भोक्ता हि यतस्त्वं तवैवान्यत्सर्व भोज्यम् ॥ ७ ॥ किंचेति । यः प्रजापतिविराटसोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्वरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः । प्रतिशब्दार्थ उक्तः -प्रतिरूपः सन्निति । ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु *पितृमातृरूपत्वं तत्कस्मादत आह-प्रजापतित्वादेवेति । तस्य सर्वात्मत्वादित्यर्थः । निष्कृष्टार्थमाह-सर्वदेहति । अत्रापि निष्कृष्टार्थमाह- भोक्ता हीति । अतस्तवैवेत्यतःशब्दाध्याहारेण योन्यम् ॥ ७ ॥ किंच- देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥ देवानामिन्द्रादीनामसि भवसि त्वं वह्नितमो हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधाऽनं सा देव- प्रधानमपेक्ष्य प्रथमा भवति । तस्यों अपि पितृभ्यः पापयिता त्वमेवे- त्यर्थः । किंचर्षीणां चक्षुरादीनां प्राणानामङ्गिरसामङ्गिरसभूतानामथर्वणां तेषामेव 'प्राणो वाऽर्वा' इति श्रुतेः। चरितं चेष्टितं सत्यमवितथं देहधारणाद्युपकारलक्षणं त्वमेवासि ॥ ८ ॥ हविषां पापयितृतम इति । वह्निशब्दो वहनाद्वतिरिति यौगिक इत्यर्थः । प्रथमा भवतीति । यज्ञादिदैवे(व)कर्मणि प्रथम नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमे- त्यर्थः । ऋष गताविति धातोानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः । अङ्गिरसभूतानामिति । प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामगिरसत्वमित्यर्थः । मुख्य- प्राणस्याथर्वत्वं श्रुत्याऽभिहितं यद्यपि तथाऽपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थ- त्वमिति भावः ॥ ८॥ * मध्यमपदलोपी समास । १ क. च्छन्न एक' । २ क. पितॄणा । ३ क च. पितॄणा । ४ क. च. 'प्रदान । ५ व. ग. घ. र. 'स्यापि।

[२ प्रश्नः ] प्रश्नोपनिषत् । किंच- इन्द्रस्त्वं प्राण तेजसा स्वोऽसि परिरक्षिता । त्वमन्तरिक्ष चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥९॥ इन्द्रः परमेश्वरस्त्वं हे प्राण तेजसा वीर्येण रुद्रोऽसि संहरञ्जगत् । स्थितौ च परि समन्तादक्षिता पालयिता परिरक्षिता त्वमेव जगतः सौम्येन रूपेण । त्वमन्तरिक्षेऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस्त्व- मेव च सर्वेषां ज्योतिषां पतिः॥ ९॥ इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघवानित्यनेन विन्द्र उक्त इति भेदमाह-इन्द्रः परमेश्वर इति । वीर्येण संहारसामर्येनेत्यर्थः । सौम्येनेति । विष्ण्वादिरूपेणेत्यर्थः।।९।। यदा खमभिवर्षस्यथेमाः प्राणते प्रजाः। आन- न्दरूपास्तिष्ठन्ति कामायानं भविष्यतीति ॥ १०॥ यदा पर्जन्यो भूत्वाऽभिवर्षसि त्वमथ तदाऽनं प्राप्येमाः प्रजाः पाणते पाणचेष्टां कुर्वन्तीत्यर्थः । अथवा प्राण ते तवेमाः प्रजाः स्वात्मभू- तास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण चाऽऽनन्दरूपाः सुखं प्राप्ता इव सत्यस्तिष्ठन्ति । कामायेच्छातोऽन्नं भविष्यतीत्येवमभिप्रायः ॥१०॥ 2' किंच- ब्रात्यस्त्वं प्राणैकऋषिरता विश्वस्य सत्पतिः। वयमाद्यस्य दातारः पिता वं मातरिश्व नः ॥११॥ प्रथमजत्वादन्यस्य संस्कर्तुरभावादसंस्कृतो व्रात्यस्त्वं स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राणैकऋषिस्त्वमाथर्वणानां प्रसिद्ध एकर्षि- नामाऽग्निः सन्नत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्य- मानस्य पतिः सत्पतिः । साधुर्वा पतिः सत्पतिः। वयं पुनराधस्य तवा- दनीयस्य हविषो दातारः । त्वं पिता मातरिश्व हे मातरिश्चन्नोऽस्मा- कम् । अथ वा मातरिश्वनो वायोस्त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ॥ ११ ॥ असंस्कृत इति । संस्कारहीनो व्रात्य इति स्मृतरित्यर्थः । अनेन स्वतःशुद्धत्वं १ ग. श्वन, अ , अकारो ब्रह्मविष्णुश्चेत्यर्थान्तर नोऽस्मा ।

२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ २ प्रभः] विवक्षितमित्याह-स्वभावत एवेति । मातरिश्वेति । मातरिश्व न इत्यत्र नलोपश्छा. दस इत्यर्थः । वायोस्त्वमिति । पितेत्यनुषङ्गः। अस्मिन्व्याख्याने वायुमात्रपितृत्वा- दस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह-अतश्चेति । अस्मदादिसर्वजनकत्वाद्वायोस्त- जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः॥ ११ ॥ किंबहुना- । या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोक्रमीः ॥ १२॥ या ते त्वदीया तनूर्वाचि मतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती । या श्रोत्रे या च चक्षुषि या च मनसि संकल्पादिव्यापारेण संतता समनुगसा तनूस्तां शिवां शान्तां कुरु मोरक्रमीरुत्क्रमणेनाशिवां मा कार्षीरित्यर्थः ॥ १२ ॥ वाचि मतिष्ठितेति । वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राणस्तच्चक्षुः स च्यानस्तच्छोत्रं सोऽपानः सा याक्स समानस्तन्मन इति श्रुतेरित्यर्थः । उत्क्रमणेनेति । प्राणोत्क्रमणे सत्यपानाद्या. मिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥ किंबहुना- प्राणस्येदं वशे सर्व त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रानक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥ इत्यथर्ववेदीयप्रश्नोपनिषदि द्वितीयः प्रश्नः ॥२॥ अस्मिलोके प्राणस्यैव वशे सर्वमिदं यत्किचिदुपभोगजात त्रिदिवे तृतीयस्यां दिवि च यत्मतिष्ठित देवायुपभोगलक्षणं तस्यापि प्राण एवे. शिता रक्षिता । अतो मातेव पुत्रानस्मावक्षस्व पालयस्व । त्वनिमित्ता हि ब्रायः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञा च स्वस्थि- तिनिमित्तां, विधेहि नो विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः पाणैः स्तुत्या गमितमहिमो प्राणः प्रजापतिरत्तत्यवधृतम् ॥ १३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्भगोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये द्वितीयप्रश्नः ॥२॥ १क. "त्मना यो वा । २ क. मान. स प्रजापतिरेवेत्य।

[३ प्रश्नः] प्रश्नोपनिषत् । ब्राय इति । अगादिमन्त्ररूपा ब्रायः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षात्र्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः । अस्मिन्प्रश्ने निर्धारितं गुणं संगृह्याऽऽह-इत्येवमिति । इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाप्यटीकायां द्वितीयः प्रश्नः ॥ २ ॥ अथ तृतीयः प्रश्नः । अथ हैनं कौसल्यश्वाऽऽश्वलायनः पप्रच्छ । भग- वन्कुत एष प्राणो जायते कथमायात्यस्मिन्शरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोक्र- मते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥ अथ हैन कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । प्राणो ह्येवं मा0निर्धा- रिततत्वैरुपलब्धमहिमाऽपि संहतत्वात्स्यादस्य कार्यत्वमतः पृच्छामि । भगवन्कुतः कस्मात्कारणादेष यथावधृतः प्राणो जायते । जातश्च कथं केन वृत्तिविशेषेणाऽऽयात्यस्मिञ्शरीरे। किनिमित्तकमस्य शरीरग्रहण. मित्यर्थः । प्रविष्टश्च शरीर आत्मानं वा प्रविभज्य पविभागं कृत्वा कयं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेणास्माच्छरी- रादुत्क्रमत उत्क्रामति । कथं बाह्यमधिभूतमधिदैवतं चाभिधत्ते धारयति कथमध्यात्ममिति ॥ १॥ एवं प्रजापतित्वात्तत्वादिगुणजात निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयस्तदुपासना विधातुं प्रश्नान्तरमवतारयति-अथेति । वैदर्भिप्रश्नानन्तरमित्यर्थः । प्राणैरिति । यैर्वा. गादिप्राणैराकाशादिभिश्च नाणस्य तत्त्वमुपलब्धं तैरित्यर्थः । प्राणस्य पूर्वोक्तमहिम. त्वादेवोत्पत्तिशङ्काभावात्कुत इति प्रश्नानुपपत्तिमाशङ्कयाऽऽह-अपि संहतत्वादिति। अनेकात्मकत्वात्सावयवत्वादित्यर्थः । शरीरग्रहणमिति । शरीरप्रवेश इत्यर्थः । प्रातिष्ठत इति । आप्रश्लेषादीर्घत्वम् ॥ १ ॥ तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मि- ष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥ १ क. प्राणैर्येवं निर्धारिततत्त्व उप । २ ख. निर्धारिततत्त्व उप। ३ घ.. "तत्त्व उप। ४ क. 'देव चा ।च. "दैवं वाऽभि । ५ कति धारयताति शेषः ।

२२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ प्रभः] एवं पृष्टस्तस्मै स होवाचाऽऽचार्यः । प्राण एव तावहुर्विज्ञेयत्वाद्वि- पमपश्नाईस्तस्यापि जन्मादि त्वं पृच्छस्यतोऽतिप्रश्नान्पृच्छसि । ब्रह्मि- छोऽसीत्सतिशयेन त्वं ब्रह्मविदतस्तुष्टोऽहं तस्मात्ते तुभ्यं ब्रवीमि यत्पृष्टं शृणु ॥२॥ विषमेति । विषमं दुर्घटं यथा तथा प्रश्नार्ह इत्यर्थः । अतिप्रश्नानिति । त्वदन्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यानित्यर्थः । अतिशयेनोति । अपरब्रह्मापेक्षयाऽतिशयितमुख्यब्रह्मविदसि त्वमिति प्रोत्साहाथ स्तौतीति भावः ॥२॥ आत्मन एष प्राणो जायते । यथेषा पुरुषे छायैत- स्मिन्नेतदाततं मनोकृतेनाऽऽयात्यस्मिन्शरीरे ॥३॥ आत्मनः परस्मात्पुरुषादक्षरात्सत्यादेष उक्तः भाणो जायते । कथमित्यत्र दृष्टान्तः । यथा लोक एषा पुरुषे शिर पाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते तदेतस्मिन्ब्रह्मण्येतत्माणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुष आततं समर्पितमित्येतत् । छायेव देहे मनोकृतेन मनःसंकल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतद्वक्ष्यति हि पुण्येन पुण्यमित्यादि । तदेव सक्तः सह कर्मणेति च श्रुत्यन्तरात् । आयात्यागच्छत्यस्मिञ्शरीरे ॥३॥ "दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः” “एतस्माज्जायते प्राणः" इति मन्त्रावत्र संवादयितुं तद्गतविशेषणान्याह-परस्मादिति । अत्र दृष्टान्त इति । तस्यानृतत्वार्थ दृष्टान्त उच्यत इत्यर्थः । छायेति । प्रतिबिम्बादिरूपेत्यर्थः । एतस्मिन्निति । प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः । कथमायातीत्यस्योत्तरमाह-मनोकृतेनेति । संधि- राषः । तदेव सक्त इति । अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फल कर्मणा सहैतीति । श्रुतौ च शरीरग्रहण कर्मसाध्यमुक्त- मित्यर्थः ॥ ३॥ यथा सम्राडेवाधिकृतान्विनियुङ्क्ते । एतान्या- मानेतान्यामानधितिष्ठस्वेत्येवमेवैष प्राण इत- रान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥४॥ - । १ क. इत्येव । २ ख. घ. ड. यित मुख्य ब्रह्मासि त्व। ३ क. देवैष। ४ ग, मणैति । ५क. सकमास ।

२३ | ..., [३ प्रश्नः ] प्रश्नोपनिषत् । यथा येन प्रकारेण लोके राजा सम्राडेव प्रामादिष्वधिकृतान्विनि- युङ्क्ते । कथम् । एतान्यामानेतान्यामानधितिष्ठस्वेति । एवमेव यथा दृष्टान्तः । एष मुख्यः प्राण इतरान्माणांश्चक्षुरादीनात्मभेदांश्च पृथक्पृ. थगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥ ४ ॥ आत्मानं वा प्रविभज्येत्यस्योत्तर दृष्टान्तेनाऽऽह-यथेति । इतरानिति । इतरां. श्वक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने सनिधत्ते संनिधापयति । आत्मभेदान्मुख्यप्रा- णस्य वृत्तिभेदान्प्राणापानादीन्पाय्वादिषु नियुत इति । अत्र श्रुत्या नेत्रादीनां चक्षुरा- दिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥ तत्र विभाग:- पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासि- काभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्रुतमन्नं समं नयति, तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥ पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन् । अपानमात्म- भेदं मूत्रपुरीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे । मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्माणः स्वयं सम्रा- स्थानीयः प्रातिष्ठते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयो - भ्याम् । समानोऽशितं पीतं च समं नयतीति समानः । एष हि यस्मा- घदेतद्भुतं भुक्तं पीतं चाऽऽत्मानौ प्रक्षिप्तमन्नं समं नयति। तस्मादशित- पीतेन्धनादलेरौदर्यावृदयदेशं प्राप्तादेताः सप्तसंख्याका अचिषो दीप्तयो निर्गच्छन्त्यो भवन्ति *शीर्षण्यः । प्राणद्वारा दर्शनश्रवणादिलक्षणरू- पादिविषयप्रकाशा इत्यभिप्रायः ॥५॥ यः कुर्वस्तिष्ठति तं संनिधत्ते विनियुड्त इत्यर्थः । मध्य इति । प्राणापानयोर्मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठीत्यन्वयः । समानशब्दार्थमुक्तं श्रुत्यारूढ करोति- एष हीति । आत्माग्नाविति । आत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नित्यर्थः । एव हुतपदवलादन्नस्य हविष्टं जाठराग्नेराहवनीयत्व प्रक्षेपस्य होमत्वं चोक्त्वा शीर्षण्यसप्त- * शीर्षण्यप्राणद्वारेति कचित्पाठ. स एव साधीयान् । १ ख. ग. घ ड. च. माद्याधि ।

। २४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [ ३ प्रश्नः ] द्वारान्निर्गतानां ज्ञानानामर्चिष्टं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे--तस्मादिति । प्राप्तादिति । अग्नेरौदर्याद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देहं प्राप्तं नाडी- स्थानं हृदयं प्राप्तादन्नरसादिति शेषः । दर्शनद्वयं श्रवणद्वय प्राणद्वयं मुखं चै रस- ना(न)मिति सप्तार्चिषः । जाठराग्निपाकजन्यानरसबलेन दर्शनादीनां प्रवृत्तेस्तेषु तद- चिंष्ट्वारोप इत्यर्थः ॥ ५ ॥ हृदि ह्येष आत्मा। अत्रेतदेकशतं नाडीनां,तासां शतं शतमेकैकस्यां, दासप्ततिसप्ततिः प्रतिशा- खानाडीसहस्राणि,भवन्त्यासु व्यानश्वरति ॥६॥ हृदि होष पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाश एप आत्माऽऽत्मना संयुक्तो लिङ्गात्मा, अत्रास्मिन्हृदय एतदेकशतमेकोत्तर- शतं संख्यया प्रधाननाडीनां भवतीति। तासां शतं शतमेकैकस्याः प्रधा- ननाड्या भेदाः । पुनरपि द्वासप्ततिसप्तति द्वे सहस्र अधिके सप्ततिश्च सहस्राणि । सहस्राणां द्वासप्ततिः प्रतिशाखानाडीसहस्राणि प्रतिपतिना- डीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतो. गामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । संधिस्कन्धर्म- देशेषु विशेषेण। प्राणापानसत्त्योश्च मध्य उद्भूतत्तिर्वीर्यवत्कर्मकर्ता भवति ॥ ६॥ व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह-हृदीत्या- दिना। हृदयस्य लिङ्गात्मस्थानत्वोक्तेः प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्युत्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्रैव लिङ्गात्मनः संचरणार्था नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्संचारमार्गभूत- नाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडीना तन्मार्गत्वायोगावासप्ततिसह- स्राणि हृदयात्पुरीततमभिप्रतिष्ठन्त इति श्रुतेश्चेति । लिङ्गशरीरस्याऽऽत्मत्वमात्मोपाधि- त्वेन तद्योगादित्याह-आत्मना संयुक्त इति । यस्माल्लिङ्गात्मा हृदि वर्तते तत्संचार- मार्गभूतनाडीनामपि तदेव स्थानमित्याह-अत्रेति । नाडीनां शरीरविधारकत्वेन प्रसि- द्धत्वं वक्तुमेतदिति विशेषणम् । तस्य स्पष्टत्वाद्भाष्ये न व्याख्यातम् । एकैकस्या । १ क. च. "त्मस । १ क. रमा जीवात्मेत्यर्थः । अ । ३ ख. घ. ड. "त्रैव लि । ४ क. णार्थ ना। ५ क. च. "त्मस । ६ स्व.ख्यानम् ।

RESEARCH INSTIU MADHU - [३ प्रश्नः] प्रश्नोपनिषत् । •नाड्याः शाखानाड्यः शतं शतं भवतीत्याह-तासामिति । ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः । शाखानाडीनां च प्रत्येकं अधिकसप्ततिसहस्राणि प्रतिशाखा- नाड्यः सन्तीत्याह-पुनरपीति । सप्ततिरितिपदस्य संख्याप्रधानत्वे सहस्राणीत्यस्य तेन सामानाधिकरण्यायोगात्षष्ठयन्ततया व्याचष्टे-सहस्राणामिति । प्रतिशाखेति । प्रतिशाखाम्यो निर्गता अल्पशाखाः प्रतिशाखाः । द्वासप्ततिरित्यत्र वीप्सार्थमाह- प्रतिप्रतीति । प्रतिप्रतिनाडीशतमित्यनन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रति- नाडीशतमेकैकस्या नाड्या. प्रतिशाखानाडीना द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दश- सहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् । एवं नाडोरुक्त्वा व्यानस्य तत्स्थान. त्वमाह-आस्विति । सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमि- त्याशङ्कय नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह-आदि- त्यादिवेति । यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाड्यस्ताभिरिति योज्यम् । सामान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह-संधीति ।। प्राणति । उच्छवासनिश्वासयोः प्राणापानवृत्त्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः । वीर्यव- दिति । अथ यः प्राणापानयोः सधिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्माणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्यप्राणन्ननपानन्करोतीति श्रुत्यन्तरोक्ते. रित्यर्थः ॥ ६ ॥ अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥७॥ अथ या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वगा सुषुम्नाख्या नाडी तयैकयोवः सन्नुदानो वायुरापादतलमस्तकवृत्तिः संचरन्पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेच मनुष्यलोकं नयतीत्यनुवर्तते ॥ ७ ॥ इदानीमुदानस्य स्थानं वदन्केनोत्कमत इत्यस्योत्तरमाह-या विति । उभाभ्यां समप्रधानाध्यामिति । अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोक नयतीति पूर्व व्याख्यातं भवति ॥ ७॥ आदित्यो ह वै बाह्यः प्राण उदयत्येष द्येनं . १ क.णि षट्सह।

२६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ३ प्रश्नः ] चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो, वायुया॑नः ॥ ८॥ आदित्यो ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयत्युद्ग- छति । एष ह्येनमाध्यात्मिकं चक्षुपि भवं चाक्षुषं प्राणं प्रकाशेनानुग्रहानो रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः । तथा पृथिव्यामभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्यापानमपानवृत्तिमवष्टभ्याऽऽकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतदन्तरा मध्ये द्यावापृथि- व्योर्य आकाशस्तत्स्थो वायुराकाश उच्यते । मञ्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो वाह्यो वायुः स व्याप्तिसामान्यायानो व्यानपनुग्र- कानो वर्तत इत्यभिप्रायः ॥ ८॥ कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह-आदित्य इति । या देवता प्रसिद्धेति । अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निलोक इति श्रुतेरग्निसबद्धा(न्धा') वगमादित्यर्थः । अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति-अध एवापक- पणेनेति । वृत्तार्थ स्तम्भादेरूवमुखेन निवातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभाववध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः । अनुग्रहमिति । शरीरधारणलक्षणमित्यर्थः । अन्यथेति । पृथिवीदेवताया विधार- णाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः । अन्तरा यदाकाश इति वाक्य व्याचष्टे-यदेतदिति । यदिति क्लीबत्वं छान्दसमित्याह- ह-य आकाश इति । मञ्चस्थवदिति । मञ्चाः क्रोश- न्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः । स समान इति । सामानाधिकरण्यमनुग्राह्यानुग्राहकयोरभेदोपचारादित्याह- समानमनुगृहान इति । एवमुत्तरत्राप्यनुग्रहे हेतुमाह-समानस्यति । शरीरा- न्तराकाशस्थत्व समानस्य द्यावापृथिव्यन्तराकाशस्थत्व बाह्यवायोरित्यन्तराकाशस्थत्वं तयोस्तुष्यमित्यर्थः । वायुान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहित वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह-सामान्येनेति ॥ ८ ॥ १ क. च, वृत्त्यर्थ। २ क. च. "स्थत्वविशेषरहितो वा । ख. ग. "स्थत्ववि २७ १ [३ प्रश्नः ] प्रश्नोपनिषत् । तेजो ह वा उदानस्तस्मादुपशान्ततेजाः। पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥ ९ ॥ यद्वाह्यं ह वै प्रसिद्धं सामान्य तेजस्तच्छरीर उदान उदानं वायुम- नुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेजःस्वभावो बाह्यतेजोनु- गृहीत उत्क्रान्तिकर्ता तस्माद्यदा लौकिका पुरुष उपशान्ततेजा भवति । उपशान्तं स्वाभाविक तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षु विद्यात् । स पुनर्भवं शरीरान्तरं प्रतिपद्यते । कथम् । सहेन्द्रियैर्मनसि संपद्यमानैः प्रविशद्भिर्षागादिभिः ॥९॥ तेजो ह वा इति वाक्य व्याचष्टे-यद्वाह्यमिति । पूर्वमादित्यात्मकं विशेषतेज उक्तमत्र तेजःसामान्यमुच्यत इति न पौनरुक्त्यमित्याह-सामान्यं तेज इति । एव- मादित्यादिना रूपेण मुख्यप्राणस्य प्राणापानसमानोदानव्यानानुग्राहकत्वोक्त्याऽध्यात्म प्राणादिवृत्त्यनुग्राहकत्वमुक्तम् । आदित्यान्याकाशसामान्यवायुतेजोरूपी सन्बाह्यमधि- देवमादित्यादिक धारयतीत्युक्तम् । तद्रूपेणावस्थानमेव तद्धारणं प्राणापानाद्यनुग्रहेण चक्षुराद्यनुग्रहोक्तस्तदारा तद्ग्राह्याधिभूतविधारकत्वमुक्तम् । स प्राणस्तच्चक्षुः सोऽपानः सा वाक्स व्यानस्तच्छ्रोत्रं स समानस्तन्मन. स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरा. दीनां प्राणाद्यात्मत्वोक्तेश्चक्षुराद्यनुग्राहकत्वोक्त्या चक्षुरादिरूपाध्यात्मविधारकत्वं चोक्त- मिति कथं वाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमुक्तमिति द्रष्टव्यम् । तेजस उदानवा म्वनग्राहकत्वं व्यतिरेकप्रदर्शनेन साधयति-यस्मादिति । यस्मात्तेजःस्वभाव उत्का. तिकृदप्युदानवायुर्बाह्यतेनोनुगृहीतः सन्नेव शरीरे वर्तते तस्माजीवजीवनहेतुकर्मोपरमे बाह्यतेजोनुग्रहाभावेनोपशान्ततेजा मुमूर्षुर्भवतीत्यन्वयः । स्वाभाविकमिति । जाठरा- निकृत हस्तादिना स्वशरीरस्पर्शे सत्युष्णत्वेनोपलभ्यमान तेज इत्यर्थः । भवत्युत्पद्यत इति भवः शरीरमित्यर्थः । शरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न भवतीति शङ्कते- कथामिति । इन्द्रियोपाधिवशादित्याह-सहेति । मनसि संपद्यमानैरिन्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणान्वयः ॥ ९ ॥ यचित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः । सहाऽऽत्मना यथासंकल्पितं लोकं नयति ॥ १०॥ मरणकाले यचित्तो भवति तेनैव चित्तेन संकल्पनेन्द्रियैः सह प्राणं १ क. वै। ख. ग च वाव । २ ख घड वा। च वाव । ३ क. च. वाव। ४ च. "न्तिदोऽप्यु' । ५ ख. ग. घ. ड. 'वनीं । ६ क नैष जीवश्चित्तें ।

२८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ प्रश्नः ] मुख्यप्राणवृत्तिमायाति । मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राण- वृत्त्यैवावतिष्ठत इत्यर्थः । तदाऽभिवदन्ति ज्ञातय उच्चसिति जीवतीति । स च प्राणस्तेजसोदानवृत्या युक्तः सन्सहाऽऽत्मना स्वामिना भोक्त्रा स एवमुदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशायथासंक- ल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥१०॥ उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन स्पष्टीकर्तुं यञ्चित्त इत्यादि वाक्यं तदपेक्षिताध्याहारं कुर्वन्व्याचष्टे-मरणेति । यञ्चित इति । यदेव देवतिर्यगादिशरीरं सम्यगिति चित्ते यस्य स यश्चित्त इत्यर्थः । प्राण प्रत्यागमनं लोकव्यवहारेण प्रथयति- तदेति । तेजसा तेजोनुगृहीतयोदानवृत्त्येत्यर्थः । एवंभूतो भोक्तो(क्त्रोदानसंयुक्तः प्राणः कं नयतीत्यपेक्षाया तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह-स एवमिति । एवकारस्य तमेवेत्यन्वयः । यथासंकल्पितमिति । कर्मज्ञानादिसाधनानुष्ठानदशायां संकल्पितं मरणकाले वासनारूपेण पुनरभिव्यक्तं लोकं देवादिशरीरमित्यर्थः ॥ १० ॥ य एवं विद्वान्माणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११॥ यः कश्चिदेवं विद्वान्यथोक्तविशेषणैर्विशिष्टमुत्पत्यादिभिः प्राणं वेद जानाति तस्येदं फलमैहिकमामुष्मिकं चोच्यते । न हास्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते छिद्यते । पतिते च शरीरे प्राण- सायुज्यतयाऽमृतोऽमरणधर्मा भवति तदेतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोको मन्त्रो भवति ॥११॥ एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते-यः कश्चिदिति । उत्पत्त्यादिभि- यथोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । आत्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुः- श्रोत्रयोः, नाभी समानम्, नाडीसमूहे व्यानम्, उदानं च मुषुम्नायां स्थापयति । उदा- नेनोत्क्रामति, बा.ि प्राणापानव्यानसमानोदानानुग्राहकैरादित्यपृथिवीदेवताकाशवायुते. जोरूपैरधिदैवमादित्यादिकमादित्यादिकृतानुग्रहैरथ्यात्म चक्षुर्वाश्रोत्रमनस्त्वक्चक्षुरादि- ग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लोकान्तरं 'नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येव प्राणं वेदेत्यर्थः । ऐहिकफलमुक्त्वाऽऽ. मुष्मिकफलमाह-पतित इति । अमृतत्वं च नात्र मुख्यं किंतु प्राणसायुज्यमेवे- १ क. च. 'दा हि व । २ क घ.'यन्तेऽमृ । ३ क ख. ग. घ. इ. प्रजा. । ४ क. छ, 'यते हीयन्ते छिद्यन्ते प। ख. ग. घ. यन्ते विद्यन्ते ।

[४ प्रश्नः]] प्रश्नोपनिषत् । स्याह-प्राणेति । इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्यमेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥ उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतम- श्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि तृतीयः प्रश्नः ॥ ३ ॥ उत्पत्तिं परमात्मनः प्राणस्याऽऽयतिमागमनं मनोकृतेनास्मिञ्शरीरे स्थान स्थिति च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्रा- डिव(?) प्राणत्तिभेदानां पञ्चधा स्थापनम् । बाह्यमादित्यादिरूपेणा- ध्यात्मं चैव चक्षुराद्याकारणावस्थानं विज्ञायैवं प्राण(?)ममृतमश्नुत इति । विज्ञायामृतमश्नुत इति हिर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम् ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्भगोविन्दभगवत्पूज्यपादशिष्यश्री- मच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः ॥ ३ ॥ आयतिमिति । आयातिमित्यर्थः । हस्खत्व छान्दसम् ॥ १२ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकाया तृतीयः प्रश्नः ॥ ३ ॥ अथ चतुर्थः प्रश्नः । अथ हैनं सौर्यायणी गायः पप्रच्छ । अथ हैन सौर्यायणी गार्यः पप्रच्छ।प्रश्नत्रयेणापरविद्यागोचरं सर्व परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम् है अथे- दानीमसाध्यसाधनलक्षणममाणममनोगोचरमतीन्द्रियविषयं शिवं शान्त- मविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्त- व्यमित्युत्तरं प्रश्नत्रयमारभ्यते । एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तैकोन्यतच्छुद्धिमतोऽत एवं साधनचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारभते-अथ हैनमिति । पूर्वविद्ययैवामृतत्वोक्तरुत्तरप्रश्नारम्भो व्यर्थ इत्यत आह–प्रश्नत्रयेणेति । संसार- १ क. ख. घ. 1. च. यमविष । २ क. च काय त । ३ क. च. "रभ्यते । ४ क. च. पूर्व वि।

1 आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः ] मिति । अतो न तन्मुख्यममृतत्वमित्यर्थः । तस्य संसारत्वे व्याकृतत्वं हेतुमाह-. व्याकृतविषयमिति । व्याकृताश्रयं तदन्तर्गतमित्यर्थः । साध्यसाधनलक्षणमिति । साध्यसाधनसंबन्धेन लक्ष्यतेऽभिव्यज्यत उत्पद्यत इति तथा । यद्वाऽपरब्रह्मणः प्राणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसारत्वमित्यर्थः । वक्ष्य- माण आत्मा तु न तथेत्याह-असाध्येत्यादिना । अतीन्द्रियविषयमिति । इन्द्रि- यविषयत्वमतिक्रान्तमित्यव्याकृतमकार्यमित्यर्थः । तत्र हेत:-अप्राणमिति । प्राणा- गोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्व मनोगोचरत्वेन ज्ञानेन्द्रियागोचरत्वमुक्तम् । सुखरूपतामाह-शिवमिति । निवृत्तानर्थत्वमाह-शान्तमिति । तत्र भावविकारर- हितत्वं हेतुमाह-अविकृतमिति । अनेनोत्पत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमि- त्यपक्षयविनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तरभाव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः-सत्यमिति । कालत्रयेऽप्येकरूपमित्यर्थः । तत्र ' अथ परा यया तद- क्षरमधिगम्यते ' इत्यादि वाक्यं मानमाह-परविद्यागम्यमिति । दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह-पुरुषाख्यमिति । कथ पुरुषशब्दोदित पूर्णत्व बाह्याभ्यन्तरव- स्तुभेदादत आह-सबाह्येति । स एव बाह्याभ्यन्तरात्मकस्तद्ध्यतिरेकेण तदुभय नास्ती. त्यर्थः । प्रश्नत्रयमिति । यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषय- त्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्मप्राप्तिद्वारा पर्यवसा- नात्सोऽपि परविषय एवेति भावः । तत्र सुदीप्तादिवाग्नेर्यस्मात्परादक्षरात्सर्वे भावा विस्फुलिङ्गा इच जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके, के ते सर्वे भावा अक्ष. राद्विभज्यन्ते । कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षयाऽधुना प्रश्नानुद्भावयति- भगवनेतस्मिन्पुरुष कानि स्वपन्ति कान्यस्मिञ्जा- प्रति कतर एष देवः स्वप्रान्पश्यति कस्यैतत्सुखं भवति कस्मिन्न सर्व संप्रतिष्ठिता भवन्तीति ॥१॥ भगवन्नेतस्मिन्पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते कानि चास्मिञ्जाग्रति जागर- णमनिद्रावस्था स्वव्यापारं कुर्वन्ति । कतरः कार्यकरणलक्षणयो- रेष देवः स्वमान्पश्यति । स्वनो नाम जाग्रदर्शनानिवृत्तस्य जाग्रद्वद- न्तःशरीरे यदर्शनम् । तत्कि कार्यलक्षणेन देवेन निय॑ते किंवा करण- १ क. च. °माणात्मा।२ क च. यमवि । ३ क. 'वस्थाव्या । ४ क. 'न्ति स्वव्यापारा- कुर्वन्तीत्यर्थः । क । ५ क क्षणाना य एष ।

[४ प्रश्नः] प्रश्नोपनिषत् । लक्षणेन केनचिदित्यभिप्रायः । उपरते च जाग्रत्स्वमव्यापारे यत्प्रसन निरायासलक्षणमनाबाधं सुखं कस्यैतद्भवति । तस्मिन्काले जाग्रत्स्वाम- व्यापारादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः । मधुनि रसवत्समुंद्रं प्रविष्टनद्यादिवच विवेकानौँः प्रतिष्ठिता भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्तदात्रादिकरणवत्स्वव्यापा- रादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तं । कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिश्विदेकीभावगमनाशकायाः प्रष्टुः। युक्तैव त्वाशङ्का । यतः संहतानि करणानि स्वाम्यर्थानि परतत्राणि च जान- द्विषये तस्मात्स्वापेऽपि संहतानां पारतत्रयेणैव कस्मिश्चित्संगतियाय्यति तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः मुषप्तप्रलयकालयोस्तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति ॥ १ ॥ ५ " एवं सामान्येन प्रश्नत्रयस्यापि संबन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसं- बन्धमाह-तत्रेति । यस्मादित्यस्य किलक्षण वा तदक्षरमिति तच्छब्देना- न्वयः । उक्तमिति । यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सौम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रेणेत्यर्थः । एतद्विवक्षयेति । मन्त्रोक्तार्थविस्तरानुवादित्वादस्य ब्राह्मणस्येति भावः । अत्राक्षरस्वरू- पस्यैव विवक्षितत्वात्तन्निर्णयार्थ कानि स्वपन्तीत्यादिप्रश्नो जागरितादिना धर्मिविशेषनि- र्धारणार्थः, अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निविशेषत्वनिर्णयासिद्धेः । भावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्तवलायत्रैकीभावस्ततो विभागेन निर्गमनमित्यक्षर एकीभूताना पृथिव्यादिकार्यकरणानामक्षराद्विभागप्रतीतेस्ता- वन्मात्रेण भाप्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यप्रश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरित नास्ति स तस्य धर्म इति(धर्मीतिः) निश्चेतु शक्यत्वात् । द्वितीयेनावस्थात्रयेऽपि शरीररक्षण कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरतव्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुखम- हमस्वाप्समिति सुप्तोत्थितस्य परामर्श सुखस्य सुषुप्तिसबन्धावगमात् । पञ्चमप्रश्नेनाव- स्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूप तुरीयमक्षर पृष्टमिति विवेकः । कार्येति । कार्य शरीरं प्राणो वा, करणानि मनआदीनि । पदार्थानुक्त्वा वाक्यार्थ पिण्डीकृ- १ ग. च. 'मुद्रप्र । २ क "तिष्टा भौं । ३ क च. र्यकार । ४ क. ख. उ. च. किंवा ल। ५ क. च. सौम्य । ६ ग. तादीना ध। ७ ख. ग. घ. ड. मश। ८ क. च.र्यकार।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः ] त्याऽऽह-तत्किमिति । तत्पदं पूर्वापरयोः संबध्यते-प्रसन्नमिति । विषयसंपर्क कालुप्यराहित्यम् । [ निरायासेति । ] निरायासेन विक्षेपाभावमात्रेण लक्ष्यतेऽभि- व्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूपमित्यर्थः । एतदिति । सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्यर्थः । तस्मि- काल इति । यद्यपि पञ्चमेन प्रश्नेन तुरीय पृच्छयते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपाधिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्तत्सुषुप्तावज्ञाने सत्य- पीतरोपाधिराहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य मुकरत्वात्तस्मि- न्काले तुरीयप्रदर्शनार्थं सर्वसंप्रतिष्ठोक्तेति । सम्यगेकीभूता इति । तदात्मभावप्राप्त्या विलयं गता इत्यर्थः । मधुनि रसवदिति । यथा नानापुष्परसा मधुन्यकी भवन्ति तद्वदित्यर्थः । विवेकाभावमात्रेण दृष्टान्तावुक्तौ, तत्र सर्वात्मना लयाभावादित्याह- विवेकानहीं इति । पूर्व विवेकानहर्हाः सन्तः पश्चात्संप्रतिष्ठिता इत्यर्थः । न चानेनापि प्रश्नेनाविद्यावासनाभिरविविक्तः सौषप्त एव पृष्ट इति शङ्कयम् । पर आत्मन्यक्षरे संप्र- तिष्ठन्त इति वक्ष्यमाणत्वात्सुषुप्ते चाज्ञान एव संप्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रति- बिम्बितस्य भोक्तुरपि सप्रतिष्ठाया अभिधास्यमानत्वादच्छायमित्यज्ञानाभावोक्तेश्च तुरी- यमेव पृष्टमिति भावः । ननु कार्यकारणव्यतिरिक्ते संप्रतिष्ठानाधिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्संप्रतिष्ठिता इति विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च सप्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधिकरणावगतिरस्तीति वाच्यम् । तत्त- दुपादानानामेवाचेतनाना तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धि(द्ध)रिति शङ्कते-नन्विति । दात्र नाम सस्यादिलवनार्थः शस्त्रविशेषः । स्वात्मनीति । सोपादान इत्यर्थः । सुषुप्तपुरुषाणां करणानामिति । सुषुप्तपुरुषाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीभावस्य वक्ष्यमाणत्वाद्वा पुरुषा- णामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्तिरित्यन्वयः । संहतानां परार्थत्वेन व्यापृतत्वात्संहतत्वेन हेतुना परस्मिंश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह--युक्तैव विति । स्वाम्यर्थानि संघा- । ताभिमान्यानीत्यर्थः । आशङ्कानुरूप इति । मनसि विद्यमानाशङ्कानुरूपो वाचिकः प्रश्न इत्यर्थः । अत्र सप्रतिष्ठानविशिष्ट आत्मा न पृष्टः किंतु तदुपलक्षितः केवल आत्मा पृष्ट इति वाक्यतात्पर्यमाह-अत्र त्विति । भवन्तीत्यनन्तर पृष्टमिति शेषः ॥ १ ॥ तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्क- स्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकी भवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह १च."तिष्ठोक्ति.।स। .

THE KUPPUSWAMY SASTRI [४ प्रश्नः] मनिषH INSTITUTE, MYLAPORE, MADRAS-4 वै तत्सर्व परे देवे मनस्येकी भवति । तेन तद्वेष पुरुषो न शृणोति न पश्यति न जिघ्रति न रस- यते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्द- यते न विसृजते नेयायते स्वपितीयाचक्षते ॥२॥ तस्मै स होवाचाऽऽचार्यः । शृणु हे गार्ग्य यत्त्वया पृष्टम् । यथा मरीचयो रश्मयोऽस्याऽऽदित्यस्यास्तमदर्शनं गच्छतः सर्वा अशेषत एतस्मिंस्तेजोमण्डले तेजोराशिरूप एकी भवन्ति विवेकानहत्वमविशे- पतां गच्छन्ति, मरीचयस्तस्यैवार्कस्य ताः पुनः पुनरुदयत उद्गच्छतः प्रचरन्ति विकीर्यन्ते । यथाऽयं दृष्टान्तः । एवं ह वै तत्सर्व विषयेन्द्रि- यादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मन. स्तत्रत्वात्परो देवो मनस्तस्मिन्खमकाल एकी भवति, मण्डले मरीचि- वदविशेषतां गच्छति । जिजागरिपोश्च रश्मिवन्मण्डलान्मनस एव प्रच- रन्ति(ति) स्वव्यापाराय प्रतिष्ठन्ते(ते)। यस्मात्स्वभकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनस्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्माहि तस्मिन्स्वापकाल एष देवदत्तादिलक्षणः पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽ. नन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते लौकिकाः ॥२॥ यत्त्वया पृष्टं तच्छृण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः । विकी. र्यन्त इति । दशदिक्षु क्षिप्यन्त इत्यर्थः । स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीमा- वोऽसिद्ध इत्याशङ्कय वासनामयेन्द्रियव्यापारोपलब्धावपि बाह्यशब्दादिश्रवणादिव्या- पाराभावेन तं साधयितुं तेनेति वाक्यं व्याख्याति-यस्मादिति । श्रोत्रादीनामेकी- ' मावो नाम स्वस्वव्यापारं विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमेकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ तदनुपपत्तेरित्यभिप्रेत्येवकार. प्रयुक्त. । नेयायत इति । इणो गत्यर्थस्य यडन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥ प्राणानय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्याहार्यपचनो यदाह- पत्त्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥३॥ Irra-AN १ क, ग. घ. ह. अविशे। २ ख. घ. .

. आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [४ प्रश्नः ] सुप्तवत्सु श्रोत्रादिषु करणेष्वेतस्मिन्पुरे नवद्वारे देहे माणाग्नयः प्राणादिपञ्चवायवोऽग्नय इवाग्नयो जाग्रति । अग्निसामान्यं हि । गाई- पत्यो ह वा एषोऽपानः । कथमित्याह-यस्माद्गार्हपत्यादग्नेरग्निहोत्र- काले इतरोऽग्निराहवनीयः प्रणीयते प्रणयनात्मणीयतेऽस्मादिति प्रण- यनो गाईपत्योऽग्निः । तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां संचरत्यत आहवनीयस्थानीयः प्राणः । व्यानस्तु हृदयाइक्षिणसुपिरद्वारेण निर्गमादक्षिणदिक्संबन्धादन्वाहार्यपचनो दक्षि- णानिः॥ ३॥ कानि स्वपन्तीत्यस्य सविषयाणि बाह्य करणानि स्वपन्त्युपरमन्तेऽतस्तेषामेव जागरणं धर्म इत्युत्तरमुक्त्वा कानि जाग्रतीत्यस्योत्तरमाह-सुप्तवत्स्विति । प्राणानामग्नित्व गौणमित्याह -- अग्नय इवेति । अपानस्य गार्हपत्यत्वे यद्गार्हपत्यात्प्रणीयते प्रणय- । नादितीदं वाक्य व्यवहितमपि हेतुत्वेन योजयति-यस्मादिति । प्रणयनादिति पदं गार्हपत्यविशेषणमित्याह-प्रणयनो गार्हपत्य इति । तत्सदृशमाहवनीयः प्राण इति वाक्य सादृश्याभिध्यानपूर्वं व्याचष्टे - तथेति। गार्हपत्यत्वनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्गच्छन्प्राणस्ततो निर्गच्छत इव(च्छन्निव) लक्ष्यत इति प्राण आहवनीय इत्यर्थः । परित्यक्त व्यानोऽन्वाहार्यपचन इति वाक्यमिदानी व्याचष्टे-व्यानस्त्विति । छान्दोग्ये गायत्रीविद्याया तस्य वा एतस्य हृदयस्य पञ्च देवसुंषय इत्युपक्रम्याथ योऽस्य दक्षिणः मुषिः स व्यानस्तच्छ्रोत्रमित्यनेन व्यानस्य दक्षिणसुषितो निर्गमन- मुक्तमित्यस्यान्वाहार्यपचनसादृश्य दक्षिणदिसंबन्धित्व व्यानस्येति व्यानोऽन्वाहार्यप- चन इत्यर्थः ॥ ३ ॥ यदुच्छासनिश्वासावेतावाहुती समं नयतीति स समानः। मनो ह वाव यजमान इष्टफलमेवो- दानः स एनं यजमानमहरहर्ब्रह्म गमयति॥४॥ अत्र च होताऽग्निहोत्रस्य यद्यस्मादुच्छ्रासनिश्वासावनिहोत्राहुती इव नित्यं द्वित्वसामान्यादेव त्वेतावाहुती समं साम्येन शरीरस्थितिभा- वाय नयदि यो वायुरग्निस्थानीयोऽपि होता चाऽऽहुत्योर्नेतृत्वात् । Arreest १ क इ. "न्य ह्याह गा । २ क "ल इतराग्निहोत्रकाल ई। ३ क च "त्योऽनिर्यथा ते । ४ ख. च णीत । ५ ख ग घ ड °क्षिणादि । ६ क. ग. घ तत्सदृष्टमा । ७ क. सुषिरा है। ८ क. सुषिरः स । ९ क. पिरतो। १० ख ग घ. ड. व्यासोऽन्वा ।

[४ प्रश्नः ] प्रश्नोपनिषत् । कोऽसौ स समानः। अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्मा. द्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि भूतानि विचि- न्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु माणाग्निषूप- संहृत्य बाह्यकरणानि विषयांचाग्रिहोत्रफलमिव स्वर्ग ब्रह्म जिगमिषु- मनो ह वाव यजमानो जागर्ति यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वायजमानो मनः कल्प्यते । इष्टफलं यागफलमेवोदानो वायुः । उदाननिमित्तत्वादिष्टफलप्राप्तेः । यजमानं स्वमवृत्तिरूपादापि पच्याव्या- हरहः सुषुप्तिकाले स्वर्गमिव ब्रह्माक्षरं गमयति । अतो यागफलस्था- नीय उदानः ॥ ४॥ कथम् , स उदानो मन अत्र चेति । अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यत उत्तरवाक्येने(गे)ति शेषः । अत्रोच्यासनिश्वासयोराहुतित्वस्य पूर्वमसिद्धत्वेन सिद्धवन्निर्देशायोगात्स समान इति तच्छब्दानन्वयाच्च वाक्यत्रय कृत्वाऽन्वयत्रयेण योजयति-ययस्मादिति । उच्छासनिश्वासावित्यनन्तरमाहुती इति पद भाष्येऽध्याहृत्यैतावुच्छासनिश्वासावाहुती आहवनीयाधिकरणाग्निहोत्राहुती इ.)व द्वि(द्वि)त्वसाम्यादेवेत्येकोऽन्वयः। अनन्तर भाष्ये तुशब्दश्चार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमकर्ताss. हुतिद्वयमाहवनीय प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायुहॊतेति यच्छन्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः । ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य होतृत्वमुच्यत इत्याशङ्कयोक्तम्- अग्निस्था- नीयोऽपीति । अग्नित्वेनोक्तोऽपीति भावः । होता चेति । चकारोऽवधारणे, होते- वेत्यर्थः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽग्नित्वोक्तिश्छत्रिन्यायेनाग्न्यनग्निसमुदाये लाक्ष- णिकीत्यर्थः । अवस्थात्रयवर्तिनामुच्छासनिश्वासप्राणानां चाग्निहोत्रावयवत्वसंपादनस्य नोपासनं प्रयोजन निर्विशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच, कि विन्द्रियाण्युपरमन्ते प्राणा जाग्रतीत्येवं त्वंपदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह-अतश्चेति।सर्व- देति । वाजसनेयके हि वाक्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणव्यापारेषु प्रत्येकमग्निचितत्वदृष्टिं विधायैवंदृष्टिमतः सर्वाणि भूतान्यस्य स्वापकालेऽपि चयन * अत्र सामान्यादिति युक्त पठितुम् । १ ख. ग. घ. ड 'पीत्यर्थ । हो ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [४ प्रश्नः ] कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः । अत्र हीसि । अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः । तत्कल्पनायां हेतुद्वयमाह-यजमानवदिति । हेतुद्वयं साधयति-जाग्रत्स्विति । अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्ग निगमिषुर्यजमान इव सुषुप्तिकाले वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिव शब्दो द्रष्टव्यः । हवावशब्देन तत्प्रसिद्धमित्युक्तम् । इष्टेति । उदाननिमित्तकमरणा. नन्तरं पागादिफलप्राप्तेस्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य कि त्वेतस्यैवाऽऽ. नन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्त- ब्रह्मप्रापकत्वादपि । अहरहरिष्टफलप्रापकत्वमुदामस्येति प्रश्नपूर्वकमाह-कथमिति । स्वर्गमिवेति । स्वर्गमेवेत्यर्थः । सर्वयागफलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहर्ब्रह्मप्राप्तिन यागताध्या यागरहितानामपि तत्प्राप्तेस्तथाऽपि ब्रह्मण एव सर्व- यागफलत्वेन तत्प्रापकस्योदानस्येप्टफलप्रापकत्वमस्तीति भावः । न चोदानस्य कथं तत्प्रापकत्वमिति शङ्कयम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडौं प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥ एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति ताव- सर्वयागफलानुभव एव नाविदुषामिवानायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ते प्राणाग्नयो वा जाग्रति जाग्रत्स्वम- योर्मनः स्वातथ्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्व- पाणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तिगमनमतो विद्वत्तास्तुतिरेवेयमुपपद्यते । यत्पृष्टं कतर एष देवः स्वमान्पश्यतीति तदाह- अत्रैष देवः स्वप्ने महिमानमनुभवति । यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देश- दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच सर्व पश्यति सर्वः पश्यति ॥५॥ अत्रोपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुष माक्सुषु- लिप्रतिपत्तेः । एतस्मिन्नन्तराल एष देवोऽकरश्मिवत्स्वात्मनि संहृतश्रो- त्रादिकरणः स्वमे महिमानं विभूति विषयविषयिलक्षणमनेकात्मभावग- मनमनुभवति प्रतिपद्यते।

. [४ प्रश्नः] प्रश्नोपनिषत् । ननु गाहपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजमान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य याग- फलस्थानीयत्वोक्तेस्तु न तत्फलत्व तत्र कर्माप्रतीतेरत आह-एवं विदुष इति । विद्वत्तेति । श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवरूपा, वियेत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षण प्राणधर्मो नाऽऽत्म- धर्म इत्येवं त्वंपदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजागरणस्यावि- द्व[द्विद्व]त्साधारणत्वात्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यैवभूतविवेकाभावा- दिति । ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्व भवतीति विधीयतां| किं स्तुत्येत्याशङ्कय विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह- न हीति । विद्वत्तास्तुतिरेवेति । श्रोत्रादिक परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एपोऽपान इत्या- दिना स्तूयत उक्तप्रकारेणेत्यर्थः । तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यतीत्यन्त व्याचष्टे-यदिति । कतर इति । अत्रेति श्रौतं पदं गृहीत्वा व्याचष्टे-उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन । अनेकेति । विषयिवि. षयाद्यनेकभावगमनमित्यर्थः । इदं च महत्त्वव्याख्यानम् । ननु महिमानुभवने करणं मनोऽनुभवितुस्तत्कथं स्वातव्येणानुभवती- त्युच्यते स्वतन्त्रो हि क्षेत्रज्ञः। नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मन- उपाधिकृतत्वान्न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वमश्चेत्युक्तं वाजसनेयके-"सँधी: स्वमो भूत्वा ध्यायतीव लेलायतीव" इत्यादि । तस्मान्मनसो विभूत्यनु- भवे स्वातत्र्यवचनं न्याय्यमेव । मनउपाधिसहितत्वे स्वमकाले क्षेत्रज्ञस्य स्वयंज्योतिष्टं वाध्येतेति केचित् । तन्न । श्रुत्यर्थापरिज्ञानकृता भ्रान्ति स्तेषाम् । यस्मात्स्वयंज्योतिष्ट्वादिव्यवहारोऽप्यामोक्षान्तः सर्वोऽविद्या- विषय एव मनआधुपाधिजनितः । स्वप्नद्रष्टीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्ति स्वप्नो मनोधर्मो नाऽऽत्म- धर्म आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह-नन्विति । मनउपाधिकृतमिति । बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरण केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेतिश्रुतौ सामानाधिकर- ण्यनिर्देश इति द्रष्टव्यम् । नन्विय श्रुतिविभूत्यनुर्भवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति। १ क. इति श्रुतिमार'। २ क. इतिश्रुत्य । ३ ख ग घ ड. हि भवति क्षेत्र । ४ ख. घ. ६. सधीायतीव लेलायतीव स हि स्वप्नो भूत्वेत्या । ५ ग श्रुत्यनुभवने म । ६ च. 'भवे म ।

३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [४ प्रश्नः ] श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्य- मिति शङ्कते-मनइति । स्वर्पज्योतिष्ट्वमिति । स्वयज्योतिष्ट्रबोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्त्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र कि मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधन न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रेत उत तद्बोधनरूपकार्यसिद्ध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थवाध इति वा । नाऽऽद्यः । मनसि सत्यप्येवं तहीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योति- वस्य बोधयितुं शक्यत्वादित्याह-तन्नेति । न द्वितीयः, तदानी मनसोऽभावस्तु श्रुत्यर्थ एव न भवतीत्याह-श्रुत्यर्थेति । आत्मनि ज्योतिष्बोधनात्मकव्यवहारस्य प्रकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआधभावो न श्रुतौ विवक्षित., तथा सति तद्बोधनाशक्तरित्याह- यस्मादिति । यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गस्त्वस्य भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् " इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का न त्वेकात्मविदाम् । नन्वेवं सत्य- त्रायं पुरुषः स्वयंज्योतिरिति विशेषणमनर्थकं भवत्यत्रोच्यते । अत्यल्पमिदमुच्यते य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेत इत्यन्तई- दयपरिच्छेदे सुतरां स्वयंज्योतिष्टुं वाध्येत, सत्यमेवमयं दोषो यद्यपि स्यात्स्वप्मे केवलतया स्वयंज्योतिष्ट्वेनार्धं तावदपनीतं भार- स्येति चेन्न । तत्रापि पुरीतति नाडीषु शेत इति श्रुतेः पुरीतति नाडीसंबन्धात्तत्रापि पुरुषस्य स्वयंज्योतिष्ट्नार्धभारापनयाभिप्रायो मृषैव । कथं तत्रायं पुरुषः स्वयंज्योतिरिति । अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेन्न । अर्थैकत्वस्येष्टत्वादेको ह्यात्मा सर्ववेदान्तानामों विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वम आत्मनः स्वयं- ज्योतिष्वोपपत्तिर्वक्तुम् , श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थ हित्वा सर्वमभिमानान त्वभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितमन्यः। तत्र मानमाह-यत्र वेति । द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मान- माह-मात्रेति । दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे १ क. च. त्मना ज्यो। २ ख. ग. घ. ड. 'च्छेदकारणे सु। ३ ख. ग. घ. ड. च. रीतन्नाडी। ४ ख. ग. घ. ड, 'न्धादत्रा।

। [४ प्रश्नः] प्रश्नोपनिषत् । सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः । अतो न द्वितीयः कल्पः संभवतीत्याह-~~-अत इति । ननु यदि स्वयज्योतिष्ट्वबोधनार्थं मनायभावो नापेक्षितो जागरितेऽपि तहिं तद्बोधनसंभवादत्रेति स्वप्नवाचिविशेषणमनर्थकमिति शङ्कते-नन्विति । किं विशेषणबलान्मनसोऽभावः सिषाधयिषित उत विशेषणस्य गतिमात्रं पृच्छयते । नाऽऽद्यः । मनसोऽभावाङ्गीकारेऽप्यन्तहृदयाकाशस्य तत्कृतप- रिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्ववोधनासभवाद्विशेषणान- र्थक्यं तुल्यमित्याह-अत्रोच्यत इति । परिच्छेदोऽधिकोन्नत इति तरपः प्रयोगः । स्वयंज्योतिष्ट्वमिति । तद्बोधनमित्यर्थः । यथाश्रुते वास्तवस्य तस्य बाधस्यानाश- यत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयज्योतिष्व बोधयितु न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽभावेन तद्बोधनप्रतिबन्धकस्योभावाददूर- विप्रकर्षेण स्वयंज्योतिष्ट्व स्वप्ने बोधयितु शक्यमिति तद्विशेषणमर्थवदिति शङ्कते- सत्यमिति । स्यादित्यनन्तर तथाऽपीति शेषः । केवलतयेति । मनसोऽभावनेत्यर्थः । भारस्यति । प्रतिबन्धकस्येत्यर्थः । शेषवोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यम्बोधन विवक्षणीयं न च तत्संभवति । तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह-न तत्रापीति । सुषुप्तेऽपीत्यर्थः । तत्रापीति। स्वप्नेऽपीत्यर्थः । सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषण तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेष- णस्य गतिर्वक्तव्येति द्वितीय शङ्कते-कथं तहीति । अत्रैष देवः स्वप्ने महिमानमनु- भवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेर्पणस्य गतिर्न वक्तव्या प्रकृ- तानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते--अन्येति । सर्ववेदान्तप्रत्यय- न्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह–नार्थैकत्वस्येति । तर्हि काण्वश्रुतिराभावात्यज्यतामत आह- श्रुतेर्यथार्थेति । खाध्यायोऽध्येतव्य इत्यध्ययनविधेरावबोधफलकत्वात्तुल्यं च सांप्र- दायिकमितिन्यायाचाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः । एवमेकदेशिनि दूषिते सिद्धा- न्त्युत्तरमाह-एवं तहीति । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावाचतो विविच्य दर्शयितुं शक्यत इत्यात्मनः स्वयंज्योतिष्ट्रं न वाध्यते । एवं मनस्यविद्याकामकर्मनिमित्तोद्भुतवासनावति कर्मनिमित्ता वासनाऽवि- । -1 - क कोऽत्रोच्यत इति तैरय प्र । ग. कोच्यते सुतरामिति । च कोऽत्र ई । २ घ. ङ. स्यार्थस्य भावाद्र । ग. स्यार्थस्याभावाददुर । ३ ग. घ. र्थः । अत्रा । ४ ख. घ. ङ, "षस्य । ५ क. च. °द्धान्तक ।

. - आनन्दगिरिकृतटीकासंचलितशांकरभाष्योपेता- [४ प्रश्नः ] घयाऽन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टा सनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयंज्योतिष्वं सुदर्पितेनापि ताकिकेण न वारयितुं शक्यते । तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वपलीने च मनसि मनोमयः स्वमान्पश्यतीति । तादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकर- णाभ्यामित्याशङ्कय पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमाना. वतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्त सर्वमभिमान निरस्येत्याधु- क्तम् । स्वयज्योतिष्श्रुतेरनतिशङ्कयत्वात्तबलात्स्वप्नादौ हृदयाकाशादिसत्त्वेऽपि तत्सबन्धप्रतीत्यभावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मन. केवलत्वात्प्रकाशदर्श- नाच स्वयंज्योतिष्ट्वमिति बोधनीय । मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामादृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवे- कतः श्रुत्या स्वप्रकाशत्व बोध्यत इत्याह-यथेत्यादिना । मनसीति । सत्य- पीति शेषः । ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवासनाव- त्तहि जाग्रतीव तस्याहंतयैव प्रतीतिः स्यान्नेदंतयाऽत आह-कर्मनिमित्तेति । तथा प्रतीति विना स्वप्ने भोगासिद्धे. स्वप्नभोगप्रदकर्मनिमित्तवशाज्जामति गजादीनामिदं- तयाऽनुभवेन तद्वासनानामपि तथैवानुभवाहत्वेन तद्वासनारूपाविद्यावशाच्च वासना- श्रयस्य मनस इदतयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इद च विशेषण मनसो विषय- त्वेन विषयित्वासभवाद्विषयिण आत्मन एवं प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्या- दित्यादिकार्यज्योतिषा चक्षुरादिकरणज्योतिषा च सत्त्वेन तत्संकीर्णत्वेनाऽऽत्मनः स्वयंज्योतिष्वं दुर्बोध स्वप्ने तु तदभावात्मुबोधमिति वक्तु सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषा भासमानत्वेऽपि तेषा वासनामात्रत्वादृश्य- त्वाच्च विषयप्रकाशनासामर्थ्यमिति वनु वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वग्न एवैवभूने स्वयज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासंभवादत्रा. यमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् । स्वयंज्योतिष्वमिति । सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावादत्र देवशब्देन परे देवे मनस्येकी भवतीत्युक्तम् । मन एवोच्यत इत्युक्तमुपसंहरति-तस्मादिति । कथं महिमानमनुभवतीत्युच्यते । यन्मित्रं पुत्रादि वा पूर्व दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वाऽ. १ ख. ग. ड. ण केन । २ ख. ग. घ. ड. च. श्यति । ३ क. च व स्वप्र' । ४ क. च. इति वि । ५ क. च. 'वभूतस्व।

[४ प्रश्नः] प्रश्नोपनिषत् । ४१ विद्यया पश्यतीत्येवं मन्यते, तथा श्रुतमर्थ तद्वासनयाऽनुशृणो- तीव, देशदिगन्तरैश्च देशान्तरैदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्त- सत्यनुभवतीवाविद्यया, तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्ट- मित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसाऽननुभूतं च मनसैव जन्मान्तरेऽनुभूतमि त्यर्थः । सञ्च परमार्थोदकादि । असच मरीच्युदकादि । किं बहुनोक्ता- नुक्तं सर्व पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकर- णात्मा मनोदेवः स्वमान्पश्यति ॥५॥ नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धाभावात्कथ मनसो महिमानुभव इति शङ्कते- कथमिति । पूर्व ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापक्षेत्याह- उभ्यत इति । यदिति । यन्मित्रं पुत्रं वा पूर्व दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवा- सनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छन्दस्य चानन्वय. स्यादिति । चक्षुरभावन दर्शनायोगान्मन्यत इत्युक्तम् । तथेति । अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्या- हारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः दिक्पाच्यादिरिति भावः प्रत्यनु। भूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः । दृष्टमिति व्याख्याने हेतुमाह-अत्यन्तेति । अनुभूत चेत्यस्य प्रत्यनुभूतमित्यनेन पुन- रुक्तिमाशङ्कयाऽऽह -केवलेनेति । पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमि- त्यर्थः । सर्वदर्शने हेतुमाह-सर्व इति ॥ ५ ॥ स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वमान्न पश्यत्यय *तदैतस्मिञ्शरीर एतत्सुखं भवति ॥६॥ स यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतोऽभिभूतो भवति तिरस्कृतवासनाद्वारो भवति तदा सह करणैर्मनसो रश्मयो हृयुपसंहृता भवन्ति । यदा मनो दार्वग्निवदविशे- पविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते तदा सुषुप्तो भवति । अत्रै- तस्मिन्काल एष मनआख्यो देवः स्वमान्न पश्यति दर्शनद्वारस्य निरु. जन्मान्तर- * दीपिकायां यदेतस्मिन्निति पाठ. स्वीकृतोऽस्ति स च मूलेऽपि क्वचिदृश्यते । अत्रापि स एव प्रायश्चेद्युक्ततरो मन्येत। १ क. च. तीव म । २ ख म. घ. सर्वे म । रु. सर्वो म । ३ क च. °वे तदर्श ४ क. च. भेदः । ५ क. च. 'स्य प्रत्ययस्य न । ६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः ] द्धत्वात्तेजसा । अथ तदैतस्मिशरीर एतत्सुखं भवति, यद्विज्ञानं निरा. बाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः॥६॥ कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह स यदेति । पिताख्येनेति । इदमुपलक्षणं चिद्रूपेण ब्रह्मणा चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इतिश्रुत्य- स्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् । तिरस्कृतेति । वासनाभिव्यक्ती द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरत भवति तेनःशब्दितब्रह्मचैतन्यसंव- न्धादित्यर्थः । रश्मय इति । वासना इत्यर्थः । अविशेषविज्ञानेति । सामान्यचैत- न्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा । अनेन सुषुप्तै उक्त इत्याह- तदेति । नन्वयैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसंभवात्स्वरूपमुखस्य पूर्व- मपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्कय स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपा- भावे निर्वातस्थदीपप्रभावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह-यद्विज्ञानमिति । विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥ एतस्मिन्कालेऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेक शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्यायविद्याकृतमात्रानुभवेशेन दर्शयितुं दृष्टान्तमाह- स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्व पर आत्मनि संप्रतिष्ठते ॥७॥ स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन वांसि पक्षिणो वासार्थ वृक्षं चासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति । एवं यथा दृष्टान्तो ह वै तद्वक्ष्यमाणं सर्व पर आत्मन्यक्षरे संप्रतिष्ठते ॥ ७ ॥ अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तमनआदिवासनावेदज्ञानं सुषुप्तधर्मीत्युक्तं पञ्चमप्रश्नस्योत्तरं तुरीयस्वरूप विवेकसौकर्याद्विविच्यात्रैवोच्यत इत्याह-एतस्मि- निति । अन्यथेति । पूर्वमन्यथा विभाव्यमानमित्यर्थः । मात्रानुमवेशेनेति । मात्राणां विवेकतोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥ किं तत्सर्वम्- पृथिवी च पृथिवीमात्रा चाऽऽपश्चाऽऽपोमात्रा - १ ख. ग. घ. ड. "न्तरे प्रा. । २ क. ब्दित ब्रह्म चैं । ३ क. च. तमुक्तमित्यां। ४ क. व. मेव त । ५ क. च. 'वज्ज्ञान सुषुप्तिध।

४३ [४ प्रश्नः ] प्रश्नोपनिषत् । च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकाशश्वाऽऽकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घातव्यं च रसश्च रसयितव्यं च खक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोप- स्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्य च बुद्धिश्च बोदव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योत- यितव्यं च प्राणश्च विधारयितव्यं च ॥८॥ पृथिवी च स्थूला पञ्चगुणा नत्कारणा च पृथिवीमात्रा च गन्धतन्मात्रा, तथाऽऽपश्चाऽऽपोमात्रा च । तेजश्च तेजोमात्रा च । वायुश्च वायुमात्रा च । आकाशश्वाऽऽकाशमात्रा च । स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घातव्यं च । रसश्च रसयितव्यं च । त्वक स्पर्शयितव्यं च । वाक्च वक्तव्यं च । हस्तौ चाऽऽदातव्यं च । उप- स्थश्चाऽऽनन्दयितव्यं च । पायुश्च विसर्जयितव्यं च । पादौ च गन्तव्यं च । बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तथा* चोक्तानि । मनश्च पूर्वोक्तम् । मन्तव्यं च तद्विषयः । बुद्धिश्च निश्चयात्मिका । बोद्धव्यं च तद्विषयः । अहंकारश्चाभिमानलक्षणमन्तःकरणमहकर्तव्यं च तद्विषयः । चित्तं च चेतनावदन्तःकरणम् । चेतयितव्यं च तद्विषयः । तेजश्च त्वगिन्द्रियव्य- तिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयिते- व्यम् । प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयं सर्व हि कार्यकरणजातं पारार्थेन संहतं नामरूपात्मकमेतावदेव ॥ ८॥ -आपोमात्रा इत्यत्र विभक्त्यलोपश्चान्दसः । स्थूलानि चेति । पञ्चीकृतानि * अत्रानुक्तसमुच्चयार्थेन तथाचेतिशब्दद्वयेन बुद्धीन्द्रियकमेन्द्रियार्थी प्राह्याः। क. पुस्तकपाठ- स्वीकारे तु न काचिदनुपपत्तिः। ४ सान्तापश्शब्दस्वीकरणमेव साधीयः । १ क. तदर्थाश्चोक्ता. । म । २ ख. ग. घ. "तन्य. । प्रा । ३ क. ख. ग. च. र्यकार।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः ] व्यादीनि संप्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे तदक्षरं वेदयते यस्तु सोम्य प्रियदर्शन स सर्वज्ञः सर्वमेवाऽऽविवेशाऽऽविशतीत्यर्थः ॥११॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्भगोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः ॥ ४॥ अग्न्यादिभिरिति । ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षुरादिभिर्देवा अप्युपल- क्षिता इति व्याख्यातम् ॥ ११ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाप्यटोकायां चतुर्थः प्रश्नः ॥ ४ ॥ अथ पञ्चमः प्रश्नः। अथ हैनं शैब्यः सत्यकामः पप्रच्छ । अथ हैन शैब्यः सत्यकामः पप्रच्छ । एवं चतुर्थप्रश्नोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमु- क्त्वाऽत्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुरित्यादि- मन्त्रसूचितं ब्रह्मलोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोंकारोपासनं वक्तुं पञ्चमप्रश्नमवता- रयति-अथ हैनमिति । अथेदानी परापरब्रह्मप्राप्तिसाधनत्वेनोंकारस्योपासनविधित्सया प्रश्न आरभ्यते- स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमों- कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥१॥ स यः कश्चिद्ध वै भगवन्मनुष्येषु मनुष्याणां मध्ये तदद्भुतमित्र पायणान्तं मरणान्तं यावज्जीवमित्येतदाकारमभिध्यायीताऽऽभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशि- तब्रह्मभाव ओंकारे । आत्मप्रत्ययसंतानाविच्छेदो भिन्नजातीयप्रत्यया- न्तराखिलीकृतो निर्वातस्थदीपशिखासमोऽभिध्यानशब्दार्थः । सत्यब- मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसंतोषामायावित्वाद्यनेकयमनिर्य- १क. प्रश्नोत्तोत्त।

0 [५प्रश्नः] प्रश्नोपनिषत् । मानुगृहीतः स एवं यावज्जीवव्रतधारणः । कतमं वावानेके हि ज्ञानकर्म- भिर्जेतव्या लोकास्तिष्ठन्ति तेषु सेनोंकाराभिध्यानेन कतमं स लोकं जय- तीति पृष्टवते तस्मै स होवाच पिप्पलादः ॥ १॥ इदानीमिति । गार्यप्रश्ननिर्णयानन्तरमित्यर्थः । परेति । अपरब्रह्मलोकप्राप्तिक्रमण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः । तदद्भुतमिवेति । तदिति क्रियाविशेषणं तादृशमभि- ध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं भातीत्यर्थः । अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह-बाह्येति । भक्त्याऽऽदरेणोपचारेणेवाऽऽवेशित आरो- पितो ब्रह्मभावो यस्मिन्नोंकारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धारणोता। ध्यान- शब्दार्थमाह-आत्मति । संतानाविच्छेद इत्यविच्छिन्नसंतान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः । चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेप वारयति-निर्वातेति । ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह- सत्येति । कतममितिडतमचोऽर्थ बहुषु निर्धारणं दर्शयति-अनेके हीति । ओंकारा- भिध्यानं ध्यानत्वाइहरायुपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरभि- प्रायः ॥ १॥ एत सत्यकाम परं चापरं च ब्रह्म यदोंकारः। तस्मादिद्वानेतेनैवाऽऽयतनेनैकतरमन्वेति॥२॥ एतद्वै सत्यकाम । एतद्ब्रह्म वै परं चापरं च ब्रह्म परं सत्यमक्षरं पुरु. पाख्यमपरं च प्राणाख्यं प्रथमजं यत्तदोंकार एवोंकारात्मकमोंकारमती- कत्वात् । परं हि ब्रह्म शब्दायुपलक्षणानह सर्वधर्मविशेषवर्जितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसाऽवाहितुमोंकारे तु विष्ण्वादि. प्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्मसीदतीत्यवग- म्यते शास्त्रमामाण्यात्तथाऽपरं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदों- कार इत्युपचर्यते । तस्मादेवं विद्वानेतेनैवाऽऽत्मप्राप्तिसाधनेनैवोंकाराभि- ध्यानेनैकतरं परमपरं वाऽन्वेति ब्रह्मानुगच्छति। नेदिष्ठं ह्यालम्बनमों- कारो ब्रह्मणः ॥ २॥ तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बन- त्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह-एतद्वा इति । एतद्यच्छब्दयोर्नपुंसकयो- रोकारविशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह-एतद्ब्रह्मेति । किं तद्ब्रह्मेत्यत आह- १ क. च. देशवि । २ ख, ग, घ. ह. गाहयितु । ३ ख. ग. घ. ड. इत्युच्यते ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रश्नः ] परं चेति । यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोंकार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोंकारत्वविधाने ब्रह्मण्योंकारदृष्टिः प्रसज्येतेति शङ्कयम् । ब्रह्मदृष्टिरुत्क- दिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओंकार एव ब्रह्मदृष्टिः सिध्य- तीति भावः । तयोर्भेदात्कथमैक्यमित्याशङ्कयोपचारादित्याह-ओंकारप्रतीकत्वा- दिति । अनेन सामानाधिकरण्येनोंकारस्य प्रतीकत्वमुपदिश्यत इति भावः । ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह-परं हीति । शब्दादीति । शब्दा- दिभिः साक्षाबोधनानहमित्यर्थः । आदिशब्देनानुमानादि गृह्यते । प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह-सर्वेति । न शक्यमित्यवगाहितुमित्य- न्वयः । तहीन्द्रियैर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह–अतीन्द्रियेति । मनसेतीन्द्रियै- त्यपि द्रष्टव्यम् । तहिं तथाविधस्योंकारेऽप्यावेशासंभवात्किंचिद्विशेषमारोप्याऽऽवेशो वक्तव्यः। अत एव सूर्यान्तर्गतत्वं विशेष वक्ष्यति ओंकारतादात्म्य च तत्कथं निर्विशे- षत्वि]लाभोऽत आह-ओंकारे विति । प्रसीदतीति । तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेष स्वयमेव प्रकाशत इत्यर्थः । तत्र मानमाह-शास्त्रेति । अन्यथा पर- ब्रह्मार्थिनस्तदुक्तिवैयर्थ्यादित्यर्थः । तथाऽपरं चेति । प्रसीदतीत्यन्वयः । तस्मा- दिति । प्रतीकत्वादित्यर्थः । तस्मादेवं विद्वानिति । ब्रह्मत्वाद्ब्रह्मत्वाहमिति विद्वानि- त्यर्थः । एतेनैवेत्यनन्तरमायतनेनाऽऽलम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् । तस्य पदस्य पिण्डितार्थमाह-ओंकारेति । न त्वेतच्छब्दार्थकथनमेतदिति द्रष्ट. व्यम् । अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपासनत्वात्परप्रापकत्वं न संभवतीत्यत आह-नेदिष्ठमिति । मनआद्यपेक्षयेदं नेदिष्ठ समीपवर्त्यन्तरङ्ग श्रेष्ठ- मालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥ स यद्येकमात्रमभिध्यायीत स तेनैव संवेदित- स्तूर्णमेव जगत्यामभिसंपद्यते । तमृचो मनु- ष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥३॥ स यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति तथाऽप्योंकारा- भिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति। एतदेकदेशज्ञानवैगुण्यतयोंका- रशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति । कि तहि ।यद्यप्येवमोंका- रमेवैकमात्राविभागज्ञ एच केवलोऽभिध्यायीतैकमात्रं सदा ध्यायीव स १ क. जत्वाभा । २ ख. ग.घ, इ. गाहयितु। ३ क. च. वाईलाब। ४ घ. 'त्वादई । ५क. च. 'मेक ।

[५प्रश्नः] प्रश्नोपनिषत् । तेनैवैकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदितः संबोधितस्तूर्ण लिममेव जगत्यां पृथिव्यामभिसंपद्यते। किं, मनुष्यलोकम् । अनेकानि हि जन्मानि जगत्यां संभवन्ति तत्र तं साधकं जगत्यां मनुष्यलोकमेवर्च उपनयन्त उपनिगमयन्ति । ऋच ऋग्वेदरूपा ह्योंकारस्य प्रथमैकमात्राभि- ध्याता । तेन स तत्र मनुष्यजन्मनि द्विजाउयः संस्तपसा ब्रह्मचर्येण श्रद्धया च संपन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति। योगभ्रष्टः कदाचिदपि न दुर्गति गच्छति ॥ ३ ॥ नेदिष्ठत्वमेव सस्तुवन्नुत्तरवाक्येण साधयति—स यदीति । विकलस्यापि फलजनक- स्वान्नेदिष्ठत्वमित्यर्थः । सकलेति । अकारादिमात्रात्रयात्मक ओंकारः स चोपासि- तव्य इति न जानाति किं त्वकारमात्रमुपासितव्य जानातीत्यर्थः । तथाऽप्येकदेशज्ञान- वैगुण्यतया दुर्गति न गच्छति किं तोकाराभिध्यानप्रभावात्तदेकदेशध्यानप्रभावाद्वि- शिष्टामेव गतिं गच्छतीत्यन्वयः । तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह-यद्यप्येवमिति । यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्ट- व्यम् । एकमात्रमिति । एकमात्रात्मकमोंकारभकारमित्यर्थः । एकमात्राविशिष्टेत्यत्रा- प्येकमात्रात्वविशिष्टेत्यर्थः । ओंकारेति । तदवयवेत्यर्थः । एकमात्राप्रधानमप्रधानी- भूतमात्राद्वयं कृत्स्नमोंकारमिति केचियाचक्षते । दीपिकाया वाचस्पत्ये चाकारमात्र- मित्येव व्याख्यातम् । संबोधित इति । तन्मात्राध्यानेन तन्मात्रासाक्षात्कारवानित्यर्थः । पृथिव्यां किमभिसंपद्यत इति कर्माऽऽकाक्षते-किमिति । मनुष्यलोकमितिपदमि- हाऽऽकृष्याऽऽकाक्षां पूरयति—मनुष्यलोकमिति । मनप्यशरीरमित्यर्थः । पृथिव्यां मनुष्यलोकस्यैव नियमात्तदुक्तिवैयर्यमत आह-अनेकानि हीति । पश्चादीनि हीत्यर्थः । तर्हि तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत आह-तत्र तमिति । ऋग्वे- दरूपा हीति । पृथिव्यकारः स ऋग्वेद इति श्रुतेरकारस्य तद्पत्वमित्यर्थः । अभि- ध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः । तेनेति । येनर्वेदरूपत्व तस्य तेन! मनुष्यलोकमुपनयन्त इत्यर्थः । वीतश्रद्ध इति । श्रद्धाविरहितः सन्नित्यर्थः । योगभ्रष्ट इति । एकदेशज्ञानविकल इत्यर्थः । अनेन न हि कल्याणकृत्कश्चिदिति गीतावाक्य- संवादः सूचितः ॥ ३ ॥ अथ यदि हिमात्रेण मनसि संपद्यते सोऽन्त- रिक्षं यजुभिस्त्रीयते सोमलोकम् । स सोम- लोके विभूतिमनुभूय पुनरावर्तते ॥४॥ अथ पुनर्यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोंकारमभिध्या.

५० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रभः ] यीत स्वमात्मके मनसि मननीये यजुर्मये सोमदैवत्ये संपधत एकाग्रत- याऽऽत्मभावं गच्छति । स एवं संपन्नो मृतोऽन्तरिक्षमन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्रारूपैरेव यजुभिरुनीयते सोमलोकं सौम्य जन्म मापयन्ति तं यजुषीत्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते ॥ ४ ॥ दिमात्रेण विशिष्टमिति । द्वितीयमात्रत्वेन विशिष्टमोंकारं तद्गतमुकारमित्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुतौ तृतीया द्वितीयार्थे, ओंकारमभिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यानं तादात्म्याभिमानप- र्यन्तमिति वक्तुं मनसि संपद्यत इति वाक्यंतित्र साक्षान्मनःसंपत्तेः साधनत्वेन वा फल- त्वेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्नयजुराद्यात्मत्वेन श्रुत्य- न्तरे श्रुतोंकार एव लक्ष्यत इत्याह-स्वमात्मक इति । उकारे संपत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूतफलायाकारे विश्वाभिन्नविराडुपासनमुकारे तैजसाभिन्नहिरण्यगर्भोपासन च विवक्षितमित्याहुः । तन्मते मनःशब्देनाण्डपरिणामस्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य । मिलितस्योपासनं मनसि संपत्तिश्च मनसैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः। यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिस्त्रीयते ब्रह्म- लोकं स एतस्माजीवधनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोको भवतः ॥५॥ यः पुनरतमोकारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेनोमित्येतेनै- वाक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकेनाभिध्यायीत तेनाभिध्यानेन, प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतमोंकारस्य परं चापरं च ब्रह्मेत्यभेदश्रुते- रोकारमिति च द्वितीयाऽनेकशः श्रुता बाध्येतान्यथा।यद्यपि तृतीयाभि- १ क ख. है, यरूं । २ ख. ग. ह. रेन त्रि। ३ स. घ. ड. रैनमों । ४ ख. ग. घ.

प THE KUPPUSWAMY SASTRI RESEARCH INSTITUTE, [५ प्रश्नः] प्रश्नोपनिषCRE. MADRAS-4५१ धानत्वेन करणत्वमुपपद्यते तथाऽपि प्रकृतानुरोधात्रिमात्रं परं पुरुष- मिति द्वितीयक परिणेया त्यजेदेकं कुलस्यार्थ इति न्यायेन, स तृतीय- मात्रारूपस्तेजसि सूर्ये संपन्नो भवति ध्यायमानो मृतोऽपि सूर्यात्सोमलो- कादिवन पुनरावर्तते किंतु सूर्ये संपन्नमात्र एव । यथा पादोदरः सर्प- स्त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति । एवं ह वा एष यथा दृष्टान्तः स पाप्मना सर्पत्वस्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सामभिस्तृतीयमात्रारूपैर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । स हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्म- भूतः। स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानां तस्मिम्हि लिङ्गास्मनि संहताः सर्वे जीवाः । तस्मात्स जीवधनः । स विद्वास्त्रिमात्रओंकाराभिज्ञ एतस्माजीवधनाद्धिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरि- शयं सर्वशरीरानुमविष्टं पश्यति ध्यायमानः। तदेतस्मिन्यथोक्तार्थप्रका- शको मन्त्री भवतः ॥५॥ एवोकारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते-यः पुनरिति । विज्ञानवि- शिष्टेनेति । विज्ञानविषयीकृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्ववदत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनैवाक्षरेणेत्यु- क्तम् । पूर्वत्र तत्तन्मात्राप्रधान ओंकार एवोच्यत इति मत इहैवेद विशेषणमनुपपन्नं पूर्वत्राप्योंकारस्यैवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणा- दोकारो न प्रतीकं तथा सति विषयत्वेन कर्मतया द्वितीया स्यात्किं त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति-प्रतीकेनेति । तस्य कर्मत्वेऽपि कारक- त्वेनाभिध्यानक्रियानिर्वर्तकत्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपपद्यत इत्यर्थः । एवं व्याख्याने हेतुमाह-प्रतीकत्वेनेति । अभेदेति । प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानयो- स्तादात्म्यारोपादभेदश्रवणमुपपद्यते करणत्वे तु न तदुपपद्यत इत्यर्थः । अनेकश इति । ओंकारमभिध्यायीत स यद्येकमात्रमभिध्यायीतेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्ये- तेत्यनेनान्वयः । अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवार श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते-यद्यपीति । द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्राबल्य- भित्याह-तथाऽपीति । प्रकृतेति । प्रक्रमानुरोधादित्यर्थः । किंच द्वितीयाद्वयमुक्ता- (क्त्वाऽ.)भेदश्रुतिः। एतेनैवाऽऽयतनेनैकतरमन्वेति । आयतनेनैवान्वेतीत्यालम्बनवाच्या- १ ख ग घ. ड च. रूपे तेज । २ क ख ४. सूर्यस' । ३ ख. ग. घ अ. 'त्ववियुक्तः । ४ ख.त्मज्ञातेने । ग त्मना ज्ञातेने । घड "त्मज्ञा । ५ क धानोंका।६च. °साच का।

-- आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [५ प्रश्नः ] यतनश्रुतिद्वयं चेति बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह-त्यजेदेकमिति। तृतीय- मात्रारूप इति। यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमात्राया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्रारूप इति सप्तम्यन्तपाठे तत्सूर्यविशेषण मकारस्याऽऽदित्यात्मकत्वादिति । हिरण्यगर्भस्य जीवघनत्वमनागतावेक्ष. णन्यायेनोपपादयति -स हिरण्यगर्भ इति । लिङ्गरूपेणेति । समष्टिलिङ्गरूपेणे. त्यर्थः । तस्मिन्हीति । समष्टिलिङ्गात्मनि हिरण्यगर्ने व्यष्टिलिङ्गाभिमानिनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव सहता इत्यर्थः । इदानी वाक्यं योजयति- स विद्वानिति । स विद्वानिदानी ध्यायमानः पश्चाद्ब्रह्मलोक प्राप्तः । तत्र ब्रह्मलोके स्थावरजङ्गमेभ्यः पराज्जीवघनात्पर पुरुष पश्यति ततो मुक्तो भवतीत्यन्वयः ॥५॥ तिम्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्य- मासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥ तित्रस्त्रिसंख्याका अकारोकारमकाराख्या ओंकारस्य मात्राः। मृत्यु- मत्यः, मृत्युर्यासां विद्यते ता मृत्युमत्यो मृत्युगोचरादनतिक्रान्ता मृत्यु गोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किंचान्यो- न्यसक्ता इतरेतरसंबद्धाः । अनविप्रयुक्ता विशेषणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः । न तथा विप्रयुक्ता अविप्रयुक्त मयुक्ता अनविप्र- युक्ताः । कि तर्हि विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यः न्तरमध्यमासु जाग्रत्स्वमसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति हो योगी यथोक्तविभागज्ञ ओंकारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपपद्यते । यस्माज्जाग्रत्स्वमसुषुप्तपुरुषाः सह स्थानर्मात्रात्रयरूपेणोंकारात्मरूपेण दृष्टाः स ह्येवं विद्वान्सर्वात्मभूत ओंकारमयः कुतो वा चलेकस्मिन्वा ॥६॥ तत्र यः पुनरेतमित्यादिनोक्तेऽर्थ आद्य मन्त्रं योजयति--तिस्र इति । मृत्युगो- चरा इति । प्रत्येकं ब्रह्मदृष्टि च विना तदुपासकाना मृत्य्वनतिक्रमादित्यर्थः । ब्रह्मह- । ष्टया संश्लिष्टत्वेन च संभूय च प्रयुक्ताश्चेन्नाय दोष इत्याह-किचेति । जाग्रदिति । |प्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तत्स्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिर- ण्यगर्भामिन्नस्तैजसस्तत्स्थानं लिङ्गशरीर स्वप्नश्च । सुघुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्या. १ ख. ग. घ. इ. च. °षुप्तोऽपीश्व' ।

[५ प्रश्नः] प्रश्नोपनिषत् । कृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणामु योगक्रियासु प्रयुक्ता- स्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओंकाराभेदेन ध्यानमुक्तम् । यथोक्तेति । तिम्रो मात्रा इति- श्लोकोक्तविभाग इत्यर्थः । कुतो वेति । चलन विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरि- क्ताभावाच्चलनं न संभवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥ सर्वार्थसंग्रहार्थो द्वितीयो मत्र:- ऋम्भिरेतं यजुर्भिरन्तरिक्ष सामभिर्यत्तत्कवयो वेदयन्ते । तमोंकारेणेवाऽऽयतनेनान्वेति विद्या- न्यत्तच्छान्तमजरममृतमभयं परं चति ॥ ७ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि पञ्चमः प्रश्नः ॥५॥ ऋग्भिरेतं लोकं मनुष्योपलक्षितम् । यजुभिरन्तरिक्षं सोमाधिष्ठितम् । सामभिर्यत्तद्ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसो वेदयन्ते । तं त्रिविधं लोकोंकारेण साधनेनापरब्रह्मलक्ष- णमन्वेत्यनुगच्छति विद्वान् । तेनैवोंकारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्त जाग्रत्स्वमसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जि- तमत एवाजरं जरावर्जितममृतं मृत्युवर्जितमत एव यस्माजराविक्रियार- हितमतोऽभयम् । यस्मादेवाभयं तस्मात्परं निरतिशयम् । तदप्योंकारे- णाऽऽयतनेन गमनसाधनेनान्वेतीत्यर्थः । इतिशब्दो वाक्यपरिसमा. प्त्यर्थः ॥७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमगोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः ॥५॥ अपरब्रह्मप्राप्त्यर्थं य ओंकारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्म- लोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योंकारस्य क्रममुक्तिफलत्वादित्याह-तेनै- वेति । येनापरमन्वेति तेनैव परमप्यन्वेतीत्येवकारार्थ इत्यर्थः । तदप्योंकारेणेत्यायतन- विशेषणार्थ पुनरोंकारग्रहणमिति न पुनरुक्तिरिति बोध्यम् || ७ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां पञ्चमः प्रश्नः ॥ ५॥ + एतदग्रे स इति पद क्वचिन्मूलेऽविक तच्च भाष्ये दीपिकाया च नोपलभ्यते। ।२ क. च. यादिर।

'आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [१ प्रश्नः ] अथ षष्ठः प्रश्नः। अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । अथ हैन मुकेशा भारद्वाजः पप्रच्छ, समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले संपतिष्ठि(४)त इत्युक्तम् । सामर्थ्यात्मलयेऽपि तस्मिन्नेवाक्षरे संप्रतिष्ठते जगत्तत एवोत्पद्यत इति सिद्धं भवति । न ह्यकारणे कार्यस्य संप्रतिष्ठानमुपपद्यते । उक्तं च- "आत्मन एष प्राणो जायते" इति । जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदा निश्चितोऽर्थः । अनन्तरं चोक्तं स सर्वज्ञः सर्वो भवतीति । वक्तव्यं च क तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति ।। तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वख्या- पनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम् । गताः कलाः पञ्चदश प्रतिष्ठाः कर्माणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह पोडश- कलानां परस्मिल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्रा. प्तिरुक्ताातन्मन्त्रयोर्विस्तराभिधानार्थं षष्ठं प्रश्नमारभते-अथ हैनमिति । तस्य पूर्वेण संगीतमुक्तार्थानुवादपूर्वकमाह-समस्तमित्यादिना । अक्षरस्य कारणत्वसिद्धयर्थ प्रलयेऽपि तस्मिन्नेव लयमाह-सामर्थ्यादिति । लयाधारत्वेन कारणत्वमाह-तत इति । तदुक्तेः प्रयोजनमाह-जगत इति । यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारण- ज्ञानात्तथाऽपि तस्य कारणत्वे तयतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञान सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म तत- ममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवा- द्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ संपत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः । इहापि ताह- गात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह-अनन्तरमिति । वृत्तमनूद्य वर्तिष्य- माणमाह-वक्तव्यमिति । तदर्थोऽयमिति । तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपे- १ख. ग. घ. ह.तान्तव्याख्या। च. "त्तान्तान्वाख्या। २ क.ग. च. षोत्पादना। ३ ख. ग. घ. इ. णत्वार्थम् । त।

[६ प्रश्नः] प्रश्नोपनिषत् । ५५ त्यैत* प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं नाहमिमं वेद यद्यह- मिममवेदिषं कथं ते नावक्ष्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्माना- हम्यिनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवबाज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥ हे भगवन्हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो राजपुत्रो जातितः सत्रियो मामुपेत्योपगम्यैतमुच्यमानं प्रश्नमपृच्छत । षोडशकलं षोडशसंख्याकाः कला अवयवा इवाऽऽत्मन्यविद्याध्यारोपितरूपा यस्मि- न्पुरुषे सोऽयं षोडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजा- नासि । तमहं राजपुत्रं कुमारं पृष्टवन्तमब्रुवमुक्तवानस्मि नाहमिमं वेद यं त्वं पृच्छसीति । एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारण- मवादिषम् । यदि कथंचिदहमिमं त्वया पृष्टं पुरुषमवेदिपं विदितवा- नस्मि कथमत्यन्तशिष्यगुणवतेऽथिने ते तुभ्यं नावक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्रत्ययमिवाऽऽलक्ष्य प्रत्याययितुमब्रुवम् । समूलः सह मूलेन वा एषोऽन्यथा सन्तमात्मानमन्यथा कुर्वन्ननृतमयथाभूतार्थ- मभिवदति यः स परिशुष्यति शोषमुपैतीहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मान्नाहोम्यहमनृतं वक्तुं मूढवत् । स राज- पुत्र एवं प्रत्यायितस्तूष्णीं वीडिता रथमारुह्य प्रवत्राज प्रगतवान्यथाग- तमेव । अतो न्यायत उपसनाय योग्याय जानता विद्या वक्तव्यैवानृतं चन वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव मे हृदि स्थितं कासौ वर्तते विज्ञेयः पुरुष इति ।। १॥ प्रश्नमिति । प्रष्टव्यमित्यर्थः । अज्ञाने कारणमिति । अज्ञानसंभावनायां कारण- मित्यर्थः । अप्रत्ययमिति । अविश्वासमित्यर्थः । अन्यथा सन्तमिति । ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः । कथं ते नावक्ष्यमित्यनेन सूचितमर्थ- माह-अत इति । समूलो वा इत्यनेन सूचितमाह-अनृतं चेति । स्वरूपेण शल्य- * क्वचिन्मूल एनमिति पाठः। + क्वचिन्मले ह वा इति पाठः ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेत्ता- [६ प्रश्नः ] त्वाभावादाह-विज्ञेयत्वेनेति । यावजिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यकद्भासत इति शल्यमिवेत्युक्तम् ॥ तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥२॥ तस्मै स होवाच । इहैवान्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन्नेता उच्यमानाः षोडश कलाः प्राणायाः प्रभवन्त्युत्पद्यन्त इति , षोडशकलाभिरुपाधिभूताभिः सकल इव निष्कल: पुरुषो लक्ष्यतेऽविद्ययेति। तद्रुपाधिकलाध्यारोपापनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते । भाणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्ध तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाश्चैतन्याव्यतिरेकेणैव हि कला जायमानास्ति- प्रन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचिदग्नि- संयोगाद्धृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमिव सर्वमित्यपरे । घटादिविषयं चैतन्यं चेतयितुनित्य- स्याऽऽत्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लोकायतिकाः। पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किंतु कलाजनकत्वेन तदुपाधिमत्त्वा- दिति वक्त यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह-पोडशकलाभिरिति । ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह- तदुपाधीति । तथैव स प्रदर्शनीय इत्यत्र हेतुमाह---अत्यन्तेति । अविद्याविषया इति । अविद्याधीना इत्यर्थः । कालत्रयेऽपि तासा चैतन्यरूपाधिष्ठानाव्यतिरेकाद्वज्जुसर्पवन्मृषात्वमित्यविद्या- विषयत्वं साधयति-चैतन्येति । चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादि- भ्रान्त्या दृढी करोति-अत एवेति । घृत यथाऽग्निसंयोगामुवावस्था प्रतिपद्यत एव. महमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्यय गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः । विष- याणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे सुपुप्त्यादौ शून्यभ्रमो जातः केषांचिदिति तदीयभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीति दृढी करोति- तमिरोष इति । चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न संभवति कलाकार्यत्वा- १ क.च. धिरूपाभिः ।२ क. च, नयनेन ।

[६ प्रश्नः] प्रश्नोपनिषत् । दिति नैयायिकपक्षोक्तिव्याजेन शङ्कते-घटादीति । भूतधर्म इति । देहाकारेण संहतभूतधर्म इत्यर्थः । अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपायुपाधिधः प्रत्यवभा- सते । सत्यं ज्ञानमनन्तं ब्रह्म । प्रज्ञानं ब्रह्माविज्ञानमानन्दं ब्रह्म। विज्ञा. नघन एवेत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्य- भिचारायथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वं । वस्तुतत्त्वं भवति, किचिन ज्ञायत इति चानुपपन्नम् । चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्ध्यर्थ नित्यत्वमेकत्वं च वदस्तान्निराकरोति-अनपा- यति । प्रत्यवभासत इति । नानात्वेन कार्यत्वेन चेति शेषः । सत्यं ज्ञानमिति । तथा च श्रुतिविरोधात्ते पक्षा हेया इत्यर्थः । किच ज्ञानकाले विषयाणा सद्भावनिय- माभावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोर्भद इति विज्ञानवादिपक्षं निराकुर्वन्न- व्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति-स्वरूपेति । घटज्ञानकाले घटाभावसंभवाद्विषयाणा ज्ञानव्यभिचारित्व ज्ञानस्य तु विषयकालेऽवश्यं. भावनियमादव्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्कय स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरू- पेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः । ज्ञानस्याव्यभिचारित्व- मुपपादयति-यथा यथेति । ननूत्पन्नविनष्टादेमेंरुगुहान्तवर्तिनश्वाज्ञायमानत्वाज्ज्ञान- स्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्कय तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽ. सिद्ध इत्याह-वस्तुतत्त्वेति । रूपं च दृश्यते न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयं ज्ञानं, न व्यभिचरति कदाचिदपि ज्ञेयम् । ज्ञेयाभावेऽपि ज्ञेयान्तरे भावाज्ज्ञा- नस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् । सुषुप्तेऽदर्शना; ज्ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेन्न । ज्ञेयावभासकस्य ज्ञानस्याऽऽलोकवज्ज्ञेयाभिव्यञ्जकत्वात्स्यव्यङ्ग्याभाव आलोकाभावानुपपत्तिवत्सुषुप्ते विज्ञानाभावानुपपत्तेः । अनुपपत्तिमेव दृष्टान्तेन स्फुटी करोति-रूपं चेति । ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह-व्यभिचरति त्विति । घटज्ञानकाले कदाचिद्धटाभावादित्यर्थः । पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्कय विशिष्ट । १ क. च. ज्ञानमानन्द । २ ख. इ. तस्या । ३ क. च. 'स्तु च । ४ क. च. 'दस्तनि । ५ क. च. 'स्तु चेति । ६ क. च "तिवत् । व्य ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [६ प्रश्नः ] रूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह-न व्यभिचरतीति । ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः । भावादिति । स्वरूपेणेत्यर्थः । ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति-न हीति । स्वरूपेणाप्यभावं शङ्कते-सुषुप्त इति । किं तदानी ज्ञेया- भावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्ग्यत्वात्तदमावा- व्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति । नाऽऽद्यो व्यभिचारादि- त्याह-न शेयेति। न ह्यन्धकारे चक्षुषा रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुं वैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेघेन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन । व्यङ्ग्यज्ञानैककैल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैव- । मिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह-न हीति । वैनाशिकमते विज्ञान- व्यतिरिक्तालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते-वैनाशिक इति । कल्पय- त्येवेति । उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः । एवमपि ज्ञानामावक- रुपकस्य ज्ञेयाभावस्य ज्ञानमङ्गी क्रियते न वा । आये न ज्ञानाभावसिद्धिस्तस्यैवाभाव- ज्ञानस्य सत्त्वादित्याह-येनेति । येन ज्ञेयाभावज्ञानेन तदभाव ज्ञानाभावं करुपये- त्तस्य ज्ञानस्याभावः केन कल्प्यते,न केनापि कल्पयितुं शक्य इत्यर्थः । तदभावस्यापि ज्ञेयत्वाज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्य- तिरिक्तत्वाज्ञयाभावे ज्ञानाभाव इति चेन्न । अमावस्यापि ज्ञेयत्वा- भ्युपगमादभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैनित्यश्चातदव्यतिरिक्त चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वामात्रमेव न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किंचिनश्छिन्नम् । न द्वितीय इत्याह-तदभावस्थापीति । ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्प- । कत्वासंभवादवश्यं ज्ञेयत्वात्तज्ज्ञानाभावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः । आद्यकोटौ द्वितीयकल्पं शङ्कते—'ज्ञेयेति । वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्युपगमाबुद्धिवीध्य त्रयादन्यत्सस्कृतं क्षणिक च तदिति प्रतिसंख्याऽप्रति- संख्या निरोधकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तदभिन्नस्य ज्ञानस्यापि सुषुप्ते सत्त्वं नित्यत्वं च प्राप्तमित्याह- १क. स. ड. च. 'यितुम'। २ ग. च. 'कलयस्य । ३ क. च. 'ख्यानि । ४ क. 'धादाका ।

V - [१ प्रश्नः] प्रश्नोपनिषत् । नाभावस्येति । ज्ञानस्याभावाभिन्नत्वेनाभावत्वमेव स्यान्न तु भावत्वेन सत्वं नित्यत्वं च स्यादित्याशङ्कयाभावस्यापि ज्ञानाभिन्नत्वेऽभावत्वमेव न स्यादित्याह-तदभाव- स्येति । अनित्यत्वं च ज्ञानस्येति वाङ्मात्रमेव स्यादित्यनुषङ्गः । वाङ्मात्रेणाप्यमा. वस्थाभावस्वेन ज्ञानानित्यत्वेन चास्मसिद्धान्तसिद्धिरित्याशङ्कय नाममात्रेण तेन वास्त- पनित्यत्वादिविरोधाभावान्नास्माकं क्षतिरित्याह-न चेति । अभावनामेति । अनि- त्यनामेत्यपि द्रष्टव्यम् । अथाभावो शेयोऽपि सज्ञानव्यतिरिक्त इति चेन्न तर्हि क्षेयाभावे शानाभावः । शेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन्न । शब्दमात्रत्वाद्विशेषानुपपत्तेः। शेयज्ञानयोरेकत्वं चेदभ्युपगम्यते ज्ञेयं ज्ञान- व्यतिरिक्तं ज्ञानं शेयव्यतिरिक्तं नेति तु शब्दमात्रमेतद्वहिरग्निव्यतिरि- तोऽग्निर्न वहिव्यतिरिक्त इति यदभ्युपगम्यते ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा। एतद्दोषपरिहारार्थ ज्ञेयस्यापि सतोऽभावस्य ज्ञानाभेदो नाङ्गी क्रियत इति शङ्कते- अथेति । तर्हि ज्ञेयाभिन्नत्वेन हेतुना सुषुप्ते ज्ञानाभावो न सिध्यति घटाद्यभावेन तज्ज्ञा. नामावसिद्धावप्यभावज्ञानाभावासिद्धेस्तस्याभिन्नत्वाभाषादित्याह-नवौति । यद्वाऽ- भावस्य ज्ञेयस्य ज्ञानाद्भेदे भावस्यापि तथात्वं स्याद्विशेषहेत्वभावात्तथाच न ज्ञेयाभावा- ज्ञानाभावसिद्धिरित्याह-न तीति । ननु ज्ञेयस्य ज्ञानव्यतिरिक्तत्वमङ्गी क्रियते तथाचाभावस्य ज्ञानव्यतिरिक्तत्वादभावत्वादिकं सिध्यति । ज्ञानस्य तु न सेयव्यति- रिक्तत्वम् । तथा च ज्ञेयाभावे ज्ञानाभावसिद्धिरिति निरुद्धगतिकः शङ्कते-शेयमिति । ज्ञानस्य ज्ञेयाव्यतिरेके ज्ञेयस्यापि तदव्यतिरेकावश्यंभावादन्यथोभयोरत्यन्तभेद एवं स्याद्भेदाभेदपोर्विरोधादनुपपत्तरिति दूषयति-न शब्दमात्रत्वादिति । इदमुप- लक्षणम् । ज्ञानस्याभावाव्यतिरेकेण नित्यत्वादिकं च स्यादेवेत्यपि द्रष्टव्यम् । यद्येत- दोषपरिहाराय तस्यापि भेद एवाजी क्रियते तर्हि न सुषुप्तौ ज्ञानाभावसिद्धिरित्युपसं- हरति-नेयव्यतिरेके विति। नेयाभावेऽदर्शनादभावो ज्ञानस्येति चेन्न । सुषुप्ते ज्ञप्त्यभ्युपगमात् । बैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि ज्ञानास्तित्वं, तत्रापि शेयत्वमभ्यु- पगम्यते ज्ञानस्य स्खेनैवेति चेन्न । भेदस्य सिद्धत्वात् । सिद्धं खभाव- विशेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाम्शेयज्ञानयोरन्यत्वम् । सुषुप्ते ज्ञानस्यादर्शनादेवाभाव इत्याचे द्वितीयं शङ्कते-ज्ञेयाभाव इति । आल- १ ख. घ. इ. 'मिहिरभ्यु'। २ घ. ड. ति विरु' ।

६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [६ प्रभः ] यविज्ञानसंततेनित्यत्वाङ्गीकारेण त्वया तदाऽपि तदभावो वक्तुं न शक्यत इत्याह- न सुषुप्त इति । अस्तित्वमिति । तथाच ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीका- रादित्यर्थः । ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया, सुषुप्ते च स्वस्यैव खज्ञेयत्वाज्ञानदर्शनमुपपद्यते ऽस्मन्मते । त्वमते तु स्वज्ञेयत्वानहीकारात्सृषुप्ते चान्यस्याभावान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते-तत्रापीति । अभावस्थले ज्ञानज्ञेययो:दस्य साधितत्वात्तदृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न खज्ञेयत्वं ज्ञानस्येत्याह-न भेदस्येति । अभावरूपो विज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तद्यतिरेकादित्यर्थः । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिक- शतैरपि। ज्ञानस्य प्रयत्वमेवेति) तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिम- सङ्ग इति चेन्न । तद्विभागोपपत्तेः सर्वस्य । यदा हि सर्व क्षेयं कस्यचि- तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवै. नाशिकैर्न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः। अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्कय न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्य- मित्याह-न हीति । ज्ञानस्य खव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते-ज्ञानस्येति । ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्मन्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह-न तदिति । सर्वस्य वस्तुनातस्य विभागोऽसंकरो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरि- त्यर्थः । अथवा द्विभागोपपत्तेरिति च्छेद । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाड़ी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः । ता(त)मे- वाऽऽह-यदा हीति । यस्मिन्पक्षे ज्ञेयं सर्व स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमि- त्यङ्गी क्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः । तद्विषय इति । ज्ञानविषयकज्ञानात्मक इत्यर्थः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्सोऽपि दोषस्तस्यै- वास्तु।कि तन्निबर्हणेनास्माकमनवस्थादोपश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमा- दुवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । तर्हि त(त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते- ज्ञानस्येति । ज्ञातु योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेर- ज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः कितु वैनाशि- कम्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्ध होति पूर्वग्रन्थे १ क च नमप्युप।

[६ प्रश्नः] प्रश्नोपनिषत् । दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह-सोऽपीति । तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्कयास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह-किं तदिति । वस्तुतस्तु *सर्वस्य व्यवहारहेतुज्ञानवत्त्वं सर्वज्ञत्वं तत्तु ज्ञान- स्यापि स्वप्रकाशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः । पूर्वोक्तानवस्थादोपोऽपि तस्यैवेत्याह-अनवस्थेति । स्वात्मना चाविज्ञेयत्वेनानवस्थाऽनिवार्या । समान एवायं दोष इति चेन्न । ज्ञानस्यैकत्वोपपत्तेः । सर्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपायनेकोपाधिभेदात्सवित्रादिजलादिप्रतिविम्बवदनेकधाऽवभासत इति + नासौ दोषः । तथा चेहेदमुच्यते । ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह–स्वात्मना चेति । सिद्ध होत्यत्र स्वज्ञेयत्वासंभवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनि. वार्येत्यर्थः । ज्ञानस्याज्ञेयत्वे तद्वयवहारासिद्धिर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते-समान एवेति । स्वप्रकाशत्वेन खव्यवहारसिद्धर्ज्ञानभेदस्यैवास्मा. भिरनङ्गीकारादनवस्थायाः प्रसक्तिरेव नास्तीति गरिहरति-न झानस्येति । एकत्व- पक्षे भेदप्रतीतिमुपपादयति–नामरूपेति । एवं च चैतन्यस्यैकत्वेन नित्यत्वाज्जगद्भिन्न- त्वेन तस्य सत्यत्वाचाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमि- होच्यत इत्याह -तथा चेहेति । चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः । ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न। प्राणा- दिकलाकारणत्वात् । न हि शरीरमात्रपरिच्छिन्नस्य प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपसुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य । न हि पुरुषकार्याणां कलानां कार्य सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्ड- बदरमिवाभ्यन्तरी कुर्यात् ; बीजक्षादिवत्स्यादिति चेत् । ननु चैतन्यस्य न नित्यत्व परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते-नन्विति । शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह-नेति । अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह-कलेति । स्वोत्पत्तेः पूर्वं स्वस्याभावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोती त्यर्थः । बीजकार्यस्य वृक्षस्य कार्य फल स्वकारणवृक्षकारणं बीजमभ्यन्तरी करोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते-बीजवृक्षादिवदिति । * सर्वज्ञस्य व्यवहारहेतुर्ज्ञानत्वमिति क्वचित्पाठः । सर्वव्यवहारहेतुत्वमित्येव तु पठिन योग्यम् ।

आनन्दगिरिकृतटीकासंबलितांकरभाष्योपेता-[१ प्रश्नः ] पादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वका- र्यात्मनोऽनर्थ कुर्यात् । नन्वीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धियायेन चेतनस्याकतत्वेनाहेतुत्वेऽचेतनस्य प्रधा- नादेविक्रियावत्त्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति सांख्याः शङ्कन्ते-नन्या- त्मेति । अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्वव. चनमनुपपन्नमित्यर्थः । किंच तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारि- साधनान्तराभावादात्मनो दुःखापनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टुत्व- वचनमित्याह-आत्मनोऽपीति । कर्तृत्वेऽपीत्यपिशब्दान्वयः । तर्हि किं कर्जत आह-प्रधानमिति । कत्रिति । क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः । ननु प्रधा- नस्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह-पुरुषार्थमिति । पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थं प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्धयर्थमचे- तनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्धयर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः । ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथं- चित्कर्तृत्वं वाच्यमित्यत आह-सत्त्वादीति । सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति सांख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः । यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह-ईश्व- रेच्छेति । अत्रापि सत्स्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः । तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतकमेण प्रवर्तमानेऽचे- वने प्रधाने चेतनवदुपचारोऽयं स ईक्षांचक्र इत्यादिः। यथा राज्ञः सर्वार्थकारिणि भृत्ये राजति तद्वत् । न, आत्मनो भोक्तृत्ववत्कर्तृत्वोप- पत्तेः । यथा सांख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्ववेदवादिनामीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तह क्षणश्रवणस्य का गतिरत आह-तस्मादिति । पुरुषार्थेनेति । पुरुषस्य भोगापवर्गीर्थेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादेक्षतेति गौणः प्रयोगो माणवके पैगल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः । नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह-यथा राज्ञ इति । तद्वदिति । पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः । स्वतोऽकर्तुरप्या- त्मनो मायोपाधिककर्तृत्वं संभवतीति हृदि निधाय प्रथममापाततः प्रतिबन्धा परिह- रति-नेति । बुद्धिः कर्वी भोक्ता पुरुष इति वदद्भिः सांख्यैरात्मनो भोत्कृत्वमुक्त- १ख. ग. घ. ड. च. साख्यः। २ क. च.नसग। ३ ख. ग, घ, ह, च. त्यादि । य ।

4 -- [१ प्रश्नः ] 4 fakt प्रश्नोपनिषत् । मित्यर्थः । अतिमामाण्यादिति । श्रुत्युक्तनगकर्तृत्वमविकारिणोऽपि कथंचिन्निा- शामित्यर्थः । तस्वान्तरपरिणामः आत्मनोऽनित्यत्वाशुद्धत्वानेकत्व निमित्त । न चिन्मात्रस्वरूपविक्रियाऽतः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्व- पविक्रिया न दोषाय । भवतां पुनर्वेदवादिना सृष्टिकर्तृत्वे तत्वान्तरप- रिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेन । एकस्या- प्यात्मनोऽविद्या विषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादवि- घाकृतनामरूपोपाधिकृतो हि विशेषोऽभ्युपगम्यत आत्मनो बन्धमो. क्षादिशास्त्रकृतसंव्यवहाराय,परमार्थतोऽनुपाधिकृतं च तस्वमेकमेवाद्वि- तीयमुपादेयं सर्वताकिकबुमनवगाहामभयं शिवमिष्यते।न तत्र कर्तृत्व । भोक्तृत्वं वा क्रियाकारकफलं # स्यादद्वैतत्वात्सर्वभावानाम् । सांख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वाऽऽगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति तत्वान्तरं च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयर न्तोऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । सांख्यः प्रतिबन्दिपरिहारं शङ्कते-तत्त्वान्तरेति । भोगो नाम सुखदुःखानुभवः । स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च संजातीयरूपान्तरापत्तौ विजातीयरूपान्त. रापत्तौ वाऽनित्यत्वादिकमावहेदेवेति भोन्याविवेकोपाधिक भोक्तृत्वमङ्गीकर्तव्यम् । तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह-नेति । एकस्य वस्तुतोऽस- हायस्याकर्तुराप्तकामस्यापीत्यपेरर्थः । उपाधिकृतकर्तृत्वसंभवादविद्यारूपसहायस्य संभ- वादान्त्या स्वस्मादिननीवानामनाप्तकामानां संभवात्तत्पुरुषार्थार्थ स्रष्टुत्व तथाविध- स्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः । नामरूपेति । अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् । परमार्थस्य श्रुत्येकगम्यत्वमाह-सर्वेति । एवंभूतस्याऽऽत्मनो न स्त्रष्टुत्वमित्याह-न तत्रेति । कल्पयित्वेति । कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति करूपयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रमाणैकशरणत्वाभावात्प्रत्यक्षादिविरो- .१ ख घ. छ ज. स.णामादात्म' । २ क मित्तचि । स च छ ज. स. "मित्तं चि। च. 'मित्तश्चि । ३ क. च. यादि । ग. याकृतना' । ४ ख. ग. घ. क सुखा । ५ ग. ह. व. नानधि।

६६ आनन्दगिरिकतटीकासंवलितशांकरभाष्योपेता- [६ प्रश्नः ] धापत्त्याऽऽरोपितत्वाङ्गीकाराञ्च त्रस्यन्तः सर्व परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽकी कुर्वन्ति । कर्तृत्वादिक तु प्रधानस्यानी कुर्वन्ती- त्यर्थः । तर्हि तस्य को दोष इत्याशङ्कय भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह-अन्येति । कृतायाः शिक्ष- ताया बुद्धेविषया अधीनाः शिक्षितबुद्धय इत्यर्थः । सधेवरे वाकिंकाः सांख्यरित्येवं परस्परविरुद्धार्थकल्पनात आमि- पार्थिन इव पाणिनोऽन्योन्यविरुद्धमानार्थदर्शित्वात्परमार्थतवादूरमे- वापकृष्यन्तेऽतस्तन्मतमनाहत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरबन्तो मुमुक्षवः स्युरिति तार्किकमतदोषपदर्शनं किंचिदुच्यतेऽस्माभिर्न तु ताकिकवतात्पर्येण । तयैतदत्रोक्तम्- "विचदत्स्वेव निक्षिप्य विरोधोनवकारणम् । तैः संरक्षितसबुद्धिः सुखं निर्वाति वेदवित्" ।। किंच भोक्तृत्वकर्तृत्वयोविक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृत्वाजात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता प्रधानं तु कत्रे न भोक्त्रिति । तहि सांख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह-तथेति । तस्यापि सांख्येन शिक्षितत्त्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्या. शङ्कय न कस्यापीत्याह-इत्येवमिति । तर्हि त्वया तार्किकमतं किमर्थ दूष्यते । परस्परमेव तैषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाचेत्यत आह-अत इति । विरो- घोद्भवकारणमिति । पारमार्थिकतया भेददर्शनमित्यर्थः । संरक्षितेति । भेददर्श- नस्य परस्परोक्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविक- स्पेभ्य उपशान्तो भवतीत्यर्थः । दोषप्रदर्शनं किंचित्कियत इति यदुक्त तदेव प्रपञ्चय- कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह-किंचेत्यादिना । तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोविशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न संभवतीत्याह- भोक्तृत्वेति । नक्तं पुरुषश्चिन्मात्र एव स च स्वात्मस्थो विक्रियते भुञ्जानो न तस्वान्तरपरिणामेन । प्रधानं तु सत्त्वान्तरपरिणामेन विक्रियतेऽतोऽनेक- मशुदमचेतनं चेत्यादिधर्मवत्तद्विपरीतः पुरुषः। नासौ विशेषो वाआर. .. १क.च. 'न्योन्य वि। २ ख.प. द. मानदं। ३ क.च. मते दोषद।

[१ प्रश्नः ] प्रश्नोपनिषत् । स्वात, प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेन्जायते निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेन्मइदाधाकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानं स्वरूपेणावतिष्ठत इत्यस्यां कल्पनायां न कश्चिविशेष इति वाआत्रेण प्रधानपुरुषयोविशिष्टविक्रिया करप्यते । भाशयमविद्वाशङ्कावसरोक्त विशेष भरते-नन्विति । स्वात्मस्थो विकि- पत इति । चिद्रूपेण विक्रियत इत्यर्थः । तत्वान्तरेति । अनेकत्वाशुद्ध्यादियुक्तस्व- विलक्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्धया. दिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्धयादिकं स्यादित्यर्थः । किंचिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यवा- द्यापत्त्या प्रधानादविशेषः । भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्र- धानस्यापि प्रलये तथात्वाङ्गीकारान्न तयोविशेषः स्यादिति दूषयति-नासाविति । संग्रहवाक्यं विवृणोति-प्रागिति । अस्या कल्पनायामिति । चिपेण तत्त्वान्तर- रूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोविशिष्टविक्रियेति वाआत्रेणैव कल्प्यत उच्यत इत्यर्थः । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेन्न तहि परमा- र्थतो भोगः पुरुषस्य; भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव तेन भोगः पुरुषस्येति चेन्न । प्रधानस्यापि भोगकाले विक्रियावत्वाद्भोक्तृत्व- प्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेदौष्ण्याचसाधारणध- मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । द्वितीय शङ्कते-अयेति । चिन्मात्र एवेति । न त्वागन्तुकं रूपान्तरमित्यर्थः । तहि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह-न तहति । एतद्दोषपरिहारा- याऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्र भोगः स च पुरुषस्यैव न प्रधानस्येति भोगसदसवविशेषमात्रेण शङ्कते-भोगकाल इति । तत्रापि कि भोग- कालीनविक्रियामात्रं भोग उत तत्कालीनचिन्मात्रगतविक्रिया भोग इति विकल्प्याऽऽये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह-नेति । द्वितीयं शङ्कते-चिन्मात्रस्यैवेति । चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्थन्तरगत- विक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रिया विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेल्वभावात्स्वासाधारणविक्रिया भोग १ क.च. यावत्व भो।

भानन्दगिरिकतटीकासंवलितशांकरभाष्योपेता- [प्रभः] इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि खासाधारणविक्रियावत्त्वात् । भोग- कालीनासाधारणविक्रियावत्वं तु प्रधानस्याप्यस्ति । तत्कालीनमुखादिविक्रियावस्वा. दिति षयति-औष्ण्यति । प्रधानपुरुषयोयोयुगपद्भोक्तृत्वमिति चैन। प्रधानस्य पारार्थ्यानुप- पत्तेः। न हि भोक्त्रोयोरितरेतरगणप्रधानभाव उपपद्यते प्रकाशयोरिवे. तरेतरमकाशने । भोगधर्मवति सच्चाङ्गिनि चेतसि पुरुषस्य चैतन्यम- तिबिम्बोदयोऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेन्न । पुरुषस्य विशे- पाभावे भोक्तृत्वकल्पनानर्थक्यात् । ननु भोगकालीना साधारणविक्रियैव भोगः । न चारन्यादेस्तत्काले नियमेन विकि- याऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते-प्रधानेति । भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह-नेति । ननु भोगः सत्त्व- गुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्ने पुरुषस्य तस्याविक्रि- यत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिविम्बितत्वमात्रेण भोक्तृ- । स्वव्यपदेश इति शङ्कते--भोगधर्मवतीति । सत्त्वाङ्गिनीति । सत्त्वगुणोऽङ्गी प्रधान यस्य तस्मिंश्चेतसीत्यर्थः । तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह-नेति । भोगरूपश्वेदनः पुरुषस्य नास्ति सदा निर्विशेषत्वात्पुरुषस्य कस्या- पनयनार्थ मोक्षसाधनं शास्त्र प्रणीयतेऽविद्याध्यारोपितानापनयनाय शास्त्रप्रणयनमिति चेत्परमार्थतः पुरुषो भोक्तैव न कर्ता प्रधानं कर्नेव न भोक्तृ परमार्थसदस्त्वन्तरं पुरुषाचेतीयं कल्पनाऽऽगमवाया व्यर्था निर्हेतुका चीत नाऽऽदर्तव्या मुमुक्षुभिः । किंचास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थ स्यादित्याह-भोगरूपवेदिति । आधेस विशेषः सत्यो वाऽसत्यो वेति विकरुप्य सत्यविशेषवत्वे पुरुषस्य विकारित्वं स्यादिति मनसि संनिधायास्याऽऽरोपितविशेषवत्वमस्तीत्याद्यं शङ्कते--- अविधेति । अनर्थेति । भोगरूपैत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्वाऽऽ. रोपैत्वमेवानी कर्तुं युक्तं नावैशससस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिद्धयुषपत्तेः । तथा कल्पनायां प्रयोजनाभावारप्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चैत्याह-पर- मार्थत इति । पुरुषाद्वरत्वन्तरं च प्रधानमित्यन्वयः । उक्तदोषजातं सांख्यस्य मत मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाडाह- इति नाऽऽदर्तव्येति । क. च. 'पी भोगश्च शेष उ। २ ख. घ. "सि संधा' ग.सि विधा । ३ ग. पवत्तमें।

[प्रभः] प्रश्नोपनिषत् । एकत्वेऽपि शास्त्रमणयमाधानर्यक्यमिति पन्नाभावात् । सत्सु हि शास्त्रपणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् । न गात्मैकत्वे शास्त्रमणेत्रादयस्ततो भिन्नाः सन्ति तद. भावे एवं विकल्पनैवानुपपन्ना । अभ्युपगत आत्मैकत्वे प्रमाणार्थश्चाभ्यु- पगतो भवता यदात्मकत्वमभ्युपगच्छता । तदभ्युपगमे च विकल्पानुपए- तिमाह शास्त्रं “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्" इत्यादि । शास्त्रप्रणयनायुपपत्ति चाऽऽहान्यत्र परमार्थवस्तुस्वरूपादविद्याविषये, “यत्र हि द्वैतमिव भवति" इत्यादि विस्तरतो वाजसनेयके । आत्मैकत्वपक्षेऽपि निरसनीयबन्धाभावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते-पक- त्वेऽपीति । किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽधं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह-नाभावादिति । दोषा- पादनाभावादित्यर्थः । संग्रहवाक्यं विवृणोति-न यात्मैकत्व इति । निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव इय(एवं)[वि]कल्पनैवार्थवदनर्थकं चे(वे)ति विकरुपनैवानुप- पन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयामावोऽभिधीयते । तदानी निरसनीयबन्धादिसत्त्वादियं कल्पना बन्धनिवृत्त्यर्थ शास्त्रमणयनकल्पना नानुपपनेति योज्यम् । किंचाऽऽत्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभव- सिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह-अभ्युपगत इति । प्रमाणार्थ इति । प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः । एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्प. नाभावः श्रुत्याऽप्युक्त इत्याह-तदभ्युपगमे चेति । अत्राभ्युपगमो निश्चयः । एक- त्वनिश्चयाभावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमि- त्याह-शास्त्रप्रणयनेति । अनेन द्वितीयकल्पो निरस्तः । श्रुतिगतं यत्रपदं व्याचष्टे- अन्यत्रेति । अत्र च विभक्त विद्याविद्ये परापरे इत्यादावेव शास्त्रस्यातो न तार्किकवादभटमवेशो वेदान्तराजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति । एतेनाविद्याकृतनामरूपायुपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाइमणः * क. पुस्तक एकत्वनिश्चयाभावो विधीयत इति पाठटिप्पण्याम् । + अत्र यद्यपि तार्किक- भटैः प्रवेश्य इति तथा गुप्त इहाऽऽत्मैकत्वविषय इत्यत्र गुप्त आत्मैकत्तविषय इतीहपदरहितः प्रथमान्तपाठ एवेत्येतट्टीकापर्यालोचनाज्ञायते तथाऽपि सर्वेष्वप्यादर्शपुस्तकेषु तार्किकवादभटप्रवेका इत्येव तथेह पदसहितः सप्तम्यन्तपाठ एव विद्यतेऽत सोऽपि ताकिंकवादमटाना प्रवेश इत्यर्थकषष्ठी- समासस्वीकारेण लापयितु शक्य इत्यतश्च स एव स्थापित , एतत्पाठलापनटीका तु भ्रष्ठेदानीमिति ज्ञातव्यम् । अथवा टीकानुसारी पाठ एवाऽऽदरणीयः ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] मृष्टयादिकर्तृत्वे साधनाघभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च । अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परी त्वदृश्यत्वादिगुणकप्रत्यस्तमितपर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽऽदावेव सूचित इत्याह-अत्र चेति । अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामा- ण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति-अत इति । राजप्रमाणेति । प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव रानेव राजा तद्वाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्ष- णीयत्वात्स तार्किकभटयोधैर्न प्रवेश्य इत्यन्वयः । पूर्ववाद्युक्तं दोषं निराकरोति-एते- नेति । उपाधिकृता भनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वा- दित्यर्थः । आत्मेति । आत्मनो योऽनर्थः ससारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽ. प्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः संगृहीता । कल्पमया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थ चाऽऽप्तकामस्यापि सृष्टयादिप्र- वृत्तिः संभवति । सर्वव्यवहारस्यापि खमतुल्यत्वाद्वा स्वप्न इव सर्वमप्युपपर्धेत इति सूत्र- भाण्यादावेव परिहृत इत्यर्थः । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तर्युपचाराद्राजा कर्तेति सोऽ- आनुपपनः । स ईक्षांचक इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः। तत्र हि गौणी कल्पना शब्दस्य यत्र मुख्यार्थो न संभवति । इह त्वचेत- नस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रतिर्नोपपद्यते । यथोक्तसर्व शेश्वरकर्तृत्वपक्षे तूपपन्ना ॥३॥ साख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिक्ता तामनूय निराकारोति- यस्त्विति । यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्कयाऽऽह-तत्र हि गौणीति । प्रधानपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टुत्वमपि न संभव- तत्यिाह-इह विति । मुक्तावयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्ध- मोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिर्नोपपद्यत इत्यर्थः । अनेन पुरुषार्थ प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् । ईश्वरकारण- वादे तु न कोऽपि दोष इत्याह-यथोक्तेति ॥ ३ ॥ १ ख. ग. घ. . रा तु ह । २ क. च. 'वेश है। ३ ख ग घ ह. छ. ते सू। ४ ख. घ. इ. 'बन्धपु । ५ख. ग. घ. ङ. 'मका' । ६ ख. ग. घ. ड. त्तिमुक्ता । ७ क. 'तस्तु तस्य ।

रापः पृथिवीन्द्रियं मनः। अन्नमनादीर्य तपो Vigeet [१ प्रश्नः ] प्रश्नोपनिषत् । स प्राणमसृजत प्राणाच्छद्धां खं वायुयोति- मन्त्राः कर्म लोका लोकेषु च नाम च ॥४॥ ईश्वरेणेव सर्वाधिकारी प्राणः पुरुषेण सृज्यते । कथं, स पुरुष उक्त- प्रकारेणेक्षित्वो पाणं हिरण्यगर्भाख्यं सर्वमाणिकरणाधारमन्तरात्मान- मसृजत सृष्टवान् । अतः प्राणाच्छ्रद्धा सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतु- भूताम् । ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभू- तान्यसृजत । खं शब्दगुणम् । वायुं स्वेन स्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम् । तथा ज्योतिः स्वेन रूपेण पूर्वाभ्यां विशिष्टं त्रिगुणं शब्दस्पर्शाभ्याम् । तथाऽपो रसेन गुणेनासाधारणेन पूर्वगुणों- नुभवेशेन च चतुर्गुणाः । तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्च- गुणा पृथिवी । तथा तैरेव भूतैरारब्धमिन्द्रियं द्विप्रकार बुद्ध्यर्थं कार्य च दशसंख्यम् । तस्य चेश्वरमन्तःस्थं संशयसंकल्पलक्षणं मनः । एवं प्राणिनां कार्य कारणं च सृष्ट्वा तत्स्थित्यर्थ ब्रीहियवादिलक्षणममम् । ततश्चान्नादद्यमानाद्वीर्य सामर्थ्य बलं सर्वकर्मप्रवृत्तिसाधनम् । तवीर्य- वतां च माणिनां तपो विशुद्धिसाधनं संकीर्यमाणानां, मत्रास्तपोवि- शुद्धान्तबहिःकरणेभ्यः कर्मसाधनभूता ऋग्यजुःसामाथर्वाङ्गिरसः । ततः कर्माग्निहोत्रादिलक्षणम् । ततो लोकाः कर्मणां फलम् । तेषु च सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वमहक्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मि- नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम् ॥ ४ ॥ एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यान कुर्वन्स प्राणमसृजतेत्यस्य तात्पर्याप- माह-ईश्वरेणेवेति । राज्ञेवत्यर्थः । अक्षरार्थ प्रश्नपूर्वकमाह-कथमिति । हिर- ण्यगर्भाख्यमिति । हिरण्यगर्भ इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्धयमिन्न सर्वप्राणं समष्टिप्राणमित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्का- त्याधुपाधिसृष्टेः प्रस्तुतत्वाद्धिरण्यगर्भस्य जीवस्यातथात्वादृपक्रमविरोधापत्तेः । हिर .१ क. स. घ.. च छ. ज. स. "रेणैव । २ क. 'त्वा सर्वप्रा । ख. ग. घ रु. 'त्वा । प्रा। ख. ग. घ. रु. "णिक । ४ ख, ग. घ. ड. च. ‘णावें । ५ क. च. "कल्पादिल । ६ क "रेणैवें। ख. घ. द. रावें। ख. ग. घ. ह. च. "स्मिन्वह।

आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] ण्यगर्भाख्यमित्युक्तिस्त्वात्मनो हिरण्यगर्भादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितु- मिति बोध्यम् । तस्य समष्टित्वमाह-सर्वेति । अन्तरात्मानमिति । सर्वस्थूलशरी- रान्तरत्वादात्मबुद्धिगोचरत्वाचान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्यायं पञ्चमी । एवमुत्तरप्रापि । न च भूतकार्यत्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूतसृष्टयनन्तरं प्राणमसृजतेति कल्पनीयत्वात् । न चैतदनन्तरं भूतमृ- ष्टयुक्तिविरोधशङ्का । तस्याः पञ्चीकृतस्थूलभूतविषयत्वोपपत्तेः । अत एव भोगसाधना- धिष्ठानानीत्युक्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूलभूतसृष्टयनन्तरमिन्द्रि- पमनःसृष्टयुक्तिविरोधः । भूतारब्धदेहाधिष्ठितानामेव तेषां कार्यक्षमत्वेन तेषां तदनन्त- रत्योक्तिरिति भावः । भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह-कारणभूता- नीति । तेषां भूतानां लक्षणतया खं शब्दगुणमित्यादिनाऽसाधारणगुणा उक्ताः । पूर्वपू. वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानत्वसूचनार्थ स्थौल्यतारतम्यसिद्धयर्थ चोक्तेति बोध्यम् । वायुमिति । श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसनतेति द्वितीययोप. क्रमात् । तैरेवेति । अपश्चीकृतावस्थायामित्यर्थः । तस्य चेश्वरमिति । नियामकमित्यर्थः । संकीर्यमाणानामिति । अविशुद्धसत्त्वतया पापाचरणेन तैः पापैः संकीर्यमाणानां संकरपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजतेत्यर्थः । फलमिति । लोक्यते भुज्यत इति लोकः फलमित्यर्थः । नाम चेति । ब्राह्मणादिनानोक्तव्यवहारासकरार्थमित्यर्थः नन्वीश्वरंसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिरजतादौ सृष्टत्वव्य- वहारभावादित्याशङ्कयाकुत्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन सृष्टस्य द्विचन्द्रमशकमक्षि- कादेरारोपत्वदर्शनात् । अथ रथात्रययोगान्पथः सृजत इति सृष्टत्वेनोक्तस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्भवमित्याह-एवमेता इति । अविद्याकामकर्मादिदोषरूपं यद्वीज तदपेक्षया तत्साधनीकृत्येत्यर्थः । तैमिरिकशब्दो नेत्रेऽङ्गुल्यवष्टम्भाद्युपलक्षणार्थः । एव. मात्मप्रतिपत्त्यर्थमध्यारोपमुक्त्वा तदपवादमवतारयति-पुनस्तस्मिन्नेवेति ॥ ४ ॥ कथम्- स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः. समुद्रं प्राप्यास्तं गच्छन्ति भिद्यते तासां नाम- रूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्र- धुरिमाः षोडश कलाः पुरुषायणाः पुरुष क. स. च नत्वमिति भावः । भ् । २ क. स्व. घ. क. च. रस्रष्कृत्वों । ३ क. स. ५. अ. प. 'दो महत्व । ४ क. स्व घ.. च. ति स्रष्टत्वे ।

प्रश्नः ] प्रश्नोपनिषत् । प्राप्यास्तं गच्छन्ति भिद्यते चाऽऽसां नाम- रूपे पुरुष इत्येवं प्रोच्यते स एषोऽ- कलोऽमृतो भवति तदेष श्लोकः ॥५॥ स दृष्टान्तः। यथा लोक इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः समुद्रोऽयनं गतिरात्मभावो यास ताः समुद्रायणाः समुद्रं प्राप्योप- गम्यास्तं नामरूपतिरस्कारं गच्छन्ति । तासां चास्तं गतानां भिद्यते विनश्येते(श्यतो?) नामरूपे गङ्गायमुनेत्यादिलक्षणे । तदभेदे समुद्र इत्येवं मोच्यते तद्वस्तूदकलक्षणमेवं यथाऽयं दृष्टान्तः । उक्तलक्षणस्य प्रकृत- स्यास्य पुरुषस्य परिद्रष्टुः परि समन्ताद्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य यथाऽर्कः स्वात्ममकाशस्य कर्ता सर्वतस्तद्वदिमाः षोडश कलाः प्राणाया उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभावग- मनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमु. पगम्य तथैवास्तं गच्छन्ति । भिद्यते चाऽऽसां नामरूपे कलानां प्राणा- घाख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येवं पोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शितकलापलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलास्व- कलोऽविद्याकृतकलानिमित्तो हि मृत्युस्तदपगमेऽकलत्वादेवामृतो भवति, तदेतस्मिन्नर्थ एष श्लोकः ॥५॥ प्रामादिवद्भेदेन गन्तव्यत्वभ्रमं वारयति-आत्मभाव इति । अस्तशब्देन नाशो, नाभिधीयते भेदकोपाधिनामरूपयो शेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादि- त्याह-नामरूपतिरस्कारमिति । पूर्वरूपतिरस्कारमित्यर्थः । तद्वस्त्विति । नाम- पनाशानन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति । कर्मणि षष्ठी । पुरुष स्वात्मरूपम् । परितः सर्व स्वरूपत्वेन पश्यत इत्यर्थः । द्रष्टुरि- त्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह-दर्शनस्य कर्तुः स्वरूप- भूतस्येति । स्वरूपत्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृष्यत्ययविरोध इत्याश- यार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्थकस्य प्रत्ययस्योपचरितत्वं तद्वदिहापी. त्याह-यथाऽर्क इति । नदीनामिवेति । इवशब्दस्तथाशब्दार्थे । यथा नदीनां समु. द्रोऽयनं तथा पुरुषोऽयनमित्यन्वयः । अस्तगमनस्वरूपमाह-भिद्यते इति । नामरू- पभेद एवास्तगमनमिहेत्यर्थः । यथास्वमिति । यस्य यत्स्वरूप प्राणायात्मकं तदपि. - १ क. च. छ. "ते तासां । २ क. च, छ. ते तासा । ३ क. च. रूपेण ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेता- [६ प्रभः ] भिद्यत इत्यन्वयः । पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह-भेदे चेति । यदनष्टमिति । कलानां हि रूपमारोप्याधिष्ठानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नामरू- पात्मकस्य भेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं मलं मेधैराकृष्याभिवृष्ट गङ्गादिनामरूपोपाधिना समुद्राद्भिन्नमिव व्यवह्रियमाणं तदुपाधिवि- गमे समुद्रस्वरूपमेव प्रतिपद्यत एवमविद्याकृतनामरूपोपाधिवशादात्मनो भिन्नमिव स्थित सर्व जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः । एवं प्राणा- दिकलोपाधिक आत्मन उत्क्रमणादिशब्दितमरणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणा- दिनिवृत्तावुत्क्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपावस्थानरूप दर्शयितुं स एष इति वाक्यं व्याचष्टे -य एवं विद्वानित्यादिना ॥५॥ अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः। ते वेचं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति॥६॥ अरा रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशि- तास्तदाश्रया भवन्ति यथा तथेत्यर्थः । कलाः प्राणाद्या पस्मिन्पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुष कलानामात्मभूतं वेचं वेद- नीय पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानीयात् । यथा हे शिष्या मा वो युष्मान्मृत्युः परिव्यथा मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्यु- निमित्ता व्यथामापना दुःखिन एव यूयं स्थ । अतस्तन्मा भूधुष्माकामि- त्यभिप्रायः ॥ ६॥ परिवारा इति । नाभः परितो नाभौ नेम्यां च प्रोतास्तिर्यकाष्ठविशेषा इत्यर्थः । पयाप्रवेशिता इति । यथावत्सम्यक्प्रवेशिता इत्यर्थः । माछोऽर्थ व्यतिरेकप्रदर्शनेन स्पष्टयति-न चेदिति ॥६॥ तान्होवाचतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥७॥ तानेवमनुशिष्य शिष्यांस्तान्होवाच पिप्पलादः किलैतावदेव वेयं परं ब्रह्म वेद विजानाम्यहमेतत् । नातोऽस्मात्परमस्ति प्रकृष्टतरं वेदितव्य- मित्येवमुक्तवाशिष्याणापविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धि- जननार्थ च ॥ ७॥ १ ग. 'रिचारा। २. "रिचारा।

[१ प्रश्नः] प्रश्नोपनिषत् । शिष्याणां कृतार्थताबुद्धिजननार्थ तानित्यादि वाक्यं व्याचष्टे-तानेवमिति ॥७॥ ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकम- विद्यायाः परं पारं तारयसीति । नमः पर- मऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥ ॐ भद्रं कर्णेभिरिति शान्तिः ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ इत्यथर्ववेदीया प्रश्नोपनिषत्समाप्ता ॥ ततस्ते शिष्या गुरुणाऽनुशिष्टास्तं गुरुं कृतार्थाः सन्तो विद्या- निष्क्रयमपश्यन्तः कि कृतवन्त इत्युच्यते-अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा, किम् , ऊचुरित्याह-त्वं हि नोऽस्माकं पिता ब्रह्मशरीरस्य विधया जन- यितृत्वामित्यस्याजरामरस्याभयस्य । यस्त्वमेवास्माकमविद्याया विप- रीतज्ञानाजन्मजरामरणरोगदुःखादिग्रहादविद्यामहोदविद्याप्लवेन पर- मपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयस्यस्मानित्यतः पितृत्वं तवास्मान्प्रत्युपपन्नमितरस्मात् । इतरोऽपि हि पिता शरी- रमात्रं जनयति तथाऽपि स प्रपूज्यतमो लोके किमु वक्तव्यमात्यन्ति- काभयदातुरित्यभिप्रायः । नमः परमऋषिभ्यो ब्रह्मविद्यासंप्रदायक- भ्यो नमः परमऋषिभ्य इति द्विवचनमादरार्थम् ॥ ८ ॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवत्कृतं प्रश्नोपनिषद्भाष्यं समाप्तिमगमत् ।। पकिरणेनेति । प्रक्षेपेणेत्यर्थः । अतः पितृत्वं तवेति । "जनकचोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पश्चैते पितरः स्मृताः " ॥ इति स्मृतेरित्यर्थः । योऽस्माकमितिहेतूक्तेस्तात्पर्य वदन्पितृत्वोक्तिमात्रेण विद्यानिष्क- यार्थ कि दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दोसभावेन गुरवे दत्तमित्याह- - । १ क. 'पि सः।२ क. ख. ग. घ. इ. च. दास्यभा ।

७६ इतरस्मादिति । पितृत्वादेव किं पूज्यतरत्वं(?) परिचार्यत्वं खामित्वं(?) किमु वक्त- व्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्युक्तमिति भावः ॥ ८॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥ ४ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमदानन्दज्ञानविरचिताऽऽथर्वण- प्रश्नोपनिषदायटीका समाप्ता ॥ इति सटीकभाष्योपेता प्रश्नोपनिषत्समाप्ता। १ स. ग. प. स. चमत्कैवल्येन्द्रशिष्यज्ञानेन्द्रगुरुचरणसोबिनारायणेन्द्रसरस्वतीविरचितं प्रश्रो- पनिषडायविवरण समाप्तम् ।

ॐ तत्सद्ब्रह्मणे नमः। अथ शंकरानन्दविरचितप्रश्नोपनिषद्दीपिकापारम्भः। . प्रश्नमुण्डकमन्त्राणां ब्राह्मणं कोऽहमीदृशम् ॥ इत्यादिप्रश्ननामार्थ व्याख्यास्ये ब्रह्मबोधकम् ॥ १ ॥ प्रथमतो ब्रह्मविद्यास्तुत्यर्थमाख्यायिकामवतारयति-सुकेशा [च] नामतो भार- द्वाजो भरद्वाजस्यापत्यं शैब्यश्च शिवेरपत्यं सत्यकामः सत्ये ब्रह्मणि कामो यस्य स सत्यकामो यथार्थकामः । सौर्यायणी च सूर्यस्यापत्यं सौर्यायणिः, ईकारश्चान्दसः । गाग्र्यो गर्गगोत्रः कौशल्यश्च कौशल्यो नामतः। आश्वलायन आश्वलस्यापत्यमाश्वला- यनः । चकारचतुष्टयमुक्तानां सुकेशादीना वक्ष्यमाणद्वयोः पिप्पलादं प्रति प्रश्नसमुच्च- यार्थम् । भार्गवो भृगुगोत्रो भृगोरपत्यं वा । वैदर्भिविदर्भदेशोद्भवः । कबन्धी कबन्धी नाम कात्यायनः कत्य(त)स्यापत्यं कात्यस्तस्य युवापत्यं कात्यायनस्ते प्रसिद्धा महा- शालाः महाश्रोत्रियाः षट् । इ किलैत उक्ताः सुकेशसत्यकामसौर्यायणी(णि कौशल्यमार्ग- वकबन्धिनः । ब्रह्मपरा वेदपरा वेदैकशरणा इत्यर्थः। ब्रह्मनिष्ठा वेदार्थतात्पर्यवन्तः । परमुत्कृष्टं निरुपचरितमित्यर्थः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यमन्वेषमाणाः कीदृशं तदिति बुभुत्सां कुर्वाणा एवं प्रतिपन्नाः ॥ तत्प्रतिपत्तिप्रकारमाह-एषोऽस्मबुद्धौ वाचि च वर्तमानः पिप्पलादो ह किल वै स्मर्यमाणस्तदस्मबृद्धिस्थं सर्वमस्माभिर्बुभु- त्सितं निखिलं पृष्टं वक्ष्यति कथयिष्यति । इत्यनेन प्रकारेण पर्यालोच्य त उक्ताः सुकेशादयो ह किल समित्याणयो गुरूपासनार्थ समिधः पाणौ येषा ते समित्पाणयो भगवन्तं पूजावन्तं पिप्पलादं पिप्पलादनामानमुपसन्नाः शास्त्रदृष्टेन विधिना समीपं प्राप्ताः ॥१॥ तान्संप्रति समागतान्प्रश्नकर्तन्ह किल स पिप्पलाद ऋषिरतीन्द्रियार्थस्य दृष्टो- वाचोक्तवान् । भूय एव यद्यपि पूर्व भवन्तस्तपआदिभिः संपन्नास्तथाऽपि ब्रह्मविद्यान- हणार्थ पुनरेव । तपसा शरीरशोषणादिना। ब्रह्मचर्येण योषित्स्मरणकीर्तनकेलिप्रेक्षणगु. ह्यभाषणसकल्पाध्यवसायक्रियानिवृत्तिवर्जनरूपेण । श्रद्धया वेदार्थास्तिक्यबुद्धया । संव- त्सरं द्वादशसौरसंक्रान्तिकालमुक्तैः साधनैः संपन्नाः सन्तः । संवत्स्यथ सम्यग्वास कार- प्यथ सम्यग्वासं कुर्वन्त्वित्यर्थः । ततो यथाकामं काममनतिक्रम्य स्वेच्छानुसारेणेत्यर्थः । प्रश्नान्मष्टव्यार्थान्पृच्छत प्रश्नानुद्दिश्य वाचं विसृजत ।। इदानीं स्वस्य गर्वपरिहारार्थ- * पृच्छथति क्वचिन्मूले पाठः । १ ख. 'नानार्थे ।

शंकरानन्दविरचिता। [१ प्रश्नः] माह-एवं पृष्टे भवद्भिर्यदि पक्षान्तरे भवदुक्ते ज्ञानाभावे मौनं करिष्याम इत्येकः पक्षः॥ द्वितीयं पक्षमाह-विज्ञास्यामोऽथ चोक्तविज्ञानवन्तो भविष्यामः । सबै निखिलं ह प्रसिद्धं वो युष्मभ्यं वक्ष्यामः कथयिष्यामः । इत्यनेन प्रकारेण ॥ २ ॥ अथ तपोब्रह्मचर्यश्रद्धासंपत्त्या संवत्सरनिवासानन्तरं प्रश्नं कर्तुं भृशमुत्सुकः स्वैर- नुज्ञातः कवन्धी कात्यायनः, व्याख्यातम् । उपेत्य पिप्पलादस्य समीपं शास्त्रो- क्तमार्गेण समागत्य । पमच्छ प्रश्नं कृतवान् । भगवन्हे पूजावपिप्पलाद । कुतः कस्मादुपादानानिमित्ताच कारणाद्ध प्रसिद्धाद्वै स्मर्यमाणादिमा विविधशब्दप्रत्यय. गम्याः । मजाः स्थावरजङ्गमाः प्राणिनः । प्रजायन्त उत्पद्यन्ते । इत्यनेन प्रकारेण ॥३॥ तस्मा एवं पृष्टवते कात्यायनाय । स पिप्पलादो ह किलोवाचोक्तवान् ॥ तदुक्ति- माह-प्रजाकामः प्रजासु कामो यस्य स प्रनाकामो वै प्रसिद्धः स्मर्यमाणो वा प्रजापतिः प्रजानां पालयिता हिरण्यगर्भो जन्मान्तरानुष्ठितापरविद्याकर्मसमुच्चयः । स परमात्मनो भेदरहितः प्रजापतिस्तपः स्रष्टव्यविषयं पर्यालोचनमतप्यत* कृतवान् । स तपसा विज्ञातनिमित्तोपादान आत्मोपादानमात्मनिमित्तं च मिथुनं युग्ममुत्पादयते सर्गे सर्गे जनयति ॥ मिथुनमाह--रयिं च चन्द्रमसं सर्वान्नभूतमप्प्रधानं माणं चाऽऽदित्यमत्तारमग्निप्रधानम् । चकारौ परिणामयोमिथुनत्वसमुच्चयार्थों । इत्यनेन वक्ष्यमाणेनाभिप्रायेणोत्पादयत इत्यन्वयः ॥ तदभिप्रायमाह-एतौ रयिप्राणौ । मे मम प्रजापतेर्बहुधाऽनेकप्रकाराः प्रजाः स्थावरजङ्गमाः प्राणिनः । करिष्यत उत्पाद- यिष्यत इति यस्मात्तस्मात्स्रक्ष्यामीति शेषः । अथवाऽऽद्य इतिकार एवकारार्थः । अयं त्वभिप्रायार्थः ॥ ४॥ इदानी प्राणरयिशब्दयोरर्थमाह-आदित्यश्चन्द्रकिरणमण्डलात्मा ह प्रसिद्धो वै स्मयमाणः । प्राणः प्राणशब्दाभिधेयः । रयिरेव चन्द्रमाः [स्पष्टम् ] ॥ रयिशब्दाभि- धेयस्य चन्द्रमसोऽन्नरूपस्य सार्यात्म्यमाह-रयिश्चन्द्रमा वै प्रसिद्ध एतत्परिदृश्य- मानं सर्व निखिलम् ॥ सर्वशब्दार्थमाह-यत्मासिद्धं मूर्तं च तेजोबन्नरूपमप्यमूर्त च वारयाकाशरूपमपि । चकारौ मूर्तामूर्तयोमिलितयोः प्रत्येकं च रयिस्वरूपत्वस- मुच्चयार्थौ । यस्मान्मूर्तामूर्तात्मके जगति मूर्तेराधिक्यं तस्मात्ततो मूतिरेव रयिश्चन्द्रमा- स्तेजोबन्नरूप एव न त्वन्यः। अथवा मूर्तिः स्थूलमद्यमानं रयिरेव न तु प्राणः । अमूर्तिः सूक्ष्मं प्राणस्यापि स्वरूपमिति व्याख्येयम् ॥ ५ ॥ ननु तर्हि किं रयेवूनवृत्तिः प्राण इत्याशङ्कय तस्यापि सात्म्यिमाह-अथ हेतो, आदित्य उक्त उदयनूर्ध्वमागच्छन्दिवसे दिवसे प्रातः प्रातो यद्यस्मात्माची दिशं प्रविशति, स्पष्टम् । तेन प्राचीदिक्प्रवेशेन वैः किरणैः। माच्यान्माचीदिग्गता- * एतदने मूले स तपस्तत्त्वेति पदत्रयमधिकमुपलभ्यते।

, [१ प्रश्नः] प्रश्नोपनिषदीपिका। पाणान्प्राणचक्षुरादीनाश्मिषु किरणेषु । संनिधत्ते संबद्धान्कुरुते किरणैर्याप्नोतीत्यर्थः । यद्यस्मात्स्वैः किरणैर्दक्षिणां स्पष्टं दिशं प्रविशति तेन दाक्षिणात्यान्प्राणारश्मिषु संनिधत्त इति शेषः । यद्यस्मात्प्रतीची स्पष्ट दिशं प्रविशति तेन पाश्चात्यान्प्राणान- श्मिषु संनिधत्त इति शेषः । यद्यस्मादुदीची स्पष्टं दिशं प्रविशति तेनोत्तरान्प्राणानरश्मिषु संनिधत्त इति शेषः । यद्यस्मादधोऽधोवर्तिनी दिश प्रविशति तेनाधोदिग्भवान्प्राणा. नश्मिषु सनिधत्त इति शेषः । यद्यस्मादूर्ध्वमूर्ध्ववर्तिनी दिशं प्रविशति तेनोर्ध्वदि- ग्भवान्प्राणानश्मिषु संनिधत्त इति शेषः । यद्यस्मादन्तरा मध्ये दिशो दिशामन्त- रादिश इत्यवान्तरदिशो वा प्रविशति तेनान्तरादिग्भवान्प्राणानरश्मिषु संनिधत्त इति शेषः । यद्यस्मात्सर्व निखिलं दिग्नातं स्वैः किरणैः प्रकाशयति स्वतेजसोऽनुग्रहेण नयनगोचरत्वयोग्यं कारयति । तेन सर्वप्रकाशनेन सर्वानिखिलदिग्भवानविशेषण प्राणांश्चक्षुरादीन्रश्मिषु संनिधत्ते व्याख्यातम् । आयन्तयोः समग्रवाक्यस्य पाठो मध्येऽपठितस्यापि पाठार्थमवगन्तव्यः ॥६॥ स परोक्ष एष प्रत्यक्षः किरणैः सर्वदिग्व्यापी । वैश्वानरो विश्वे नरा यस्य म विश्वनरः, विश्वश्चासौ नर इति वा । विश्वनर एव वैश्वानरः ॥ वैश्वानरत्वे हेतुमाह- विश्वरूपः सर्वरूपः सर्वात्मेत्यर्थः । प्राण आदित्योऽग्निहपावकप्रकाशहेतुरत्तोद- यत ऊर्ध्वमागच्छति । तदादित्यस्य सार्वात्म्यमेतद्राह्मणोक्तमृचा पादबद्धेन मन्त्रे- णाभ्युक्तं सर्वशः कथितम् ॥ ७ ॥ विश्वरूपं सर्वरूपं हरिणं हरणशीलं सर्वोपसंहारकारणं जातवेदसं जातानि वेदांसि विज्ञानानि सर्वविषयाणि यस्मात्स जातवेदास्तं जातवेदसं सर्वस्थितिसंहारोत्प- त्तिकारणमिति वाक्यार्थः । परायणमुत्कृष्टाश्रयभूत विश्वरूपत्वं तु स्थितौ संहार उत्पत्तौ च समानं परायणत्वं तु स्थितावेव विशेष इति न पुनरुक्तम् । ज्योतिस्तेनो. मण्डलरूपमेकं विश्वस्य सृष्टिस्थितिसंहारान्कुर्वद्विश्वान्मकमपि भेदशून्यं तपन्तमन्तर्बहि- स्तापं कुर्वन्तं जानाम्यहमिति शेषः । स्वज्ञानमेवर्षिर्दर्शयति-सहस्ररश्मिरनन्तकिरणः शतधा वर्तमानोऽनन्तप्रकारेण वर्तमानः प्राणः प्रजानां स्थावरजङ्गमानां सर्वव्यव. हारनिर्वाहकारणमन्तर्जन्मनि जन्मनि बहिदिवसे दिवसे प्रातरुदयति, ऊर्ध्व गच्छति । एष प्रत्यक्षः सूर्यः शोभनाया गतेः कर्ता सविता । एव रयिप्राणौ सर्वात्मानौ मिथुन- मित्युक्तम् ॥ अग्नीषोमात्मकस्य मिथुनस्य रूपान्तरं कालरूपं दर्शयति-प्रजोत्पादं विवक्षुः संव. त्सरो व्याख्यातः । अत्र प्रथमान्तत्वं विशेषः । वै प्रसिद्धः । प्रजापती रयिप्राणावस्थो हिरण्यगर्भस्तस्य संवत्सरात्मन आदित्यचन्द्रनिष्पाद्यस्यायने भवत इति शेषः ॥ ते आह- दक्षिणं च मासषट्कं दक्षिणायनमपि, उत्तरं च तावन्तं कालमुत्तरायणमपि । चकारी द्वाभ्यां समुच्चिताभ्यां संवत्सरस्वरूपनिष्पत्तिसमुच्चयाौँ । दक्षिणोत्तरप्रसङ्गेन दक्षिणो- ।

४ शंकरानन्दविरचिता- [१ प्रभः] तरगती संवत्सरसाध्ये आह-तत्तत्राधिकारिषु त्रैवर्णिकेषु ये स्वर्गाभिलाषिणो है प्रसिद्धा वै स्मर्यमाणास्तत्मसिद्ध कर्म ॥ प्रसिद्ध[त्व]मेवोपपादयति-इष्टापूर्ते कृत- मिति यस्मात्कृतं प्रयत्ननिष्पादितं ततस्तदिष्टापूर्ते इष्टं यागादि श्रोतं कर्मेत्यर्थः । पूर्त कूपारामादिकरणं स्मातं कर्मेत्यर्थः । इष्टं च पूर्त चेष्टापूर्ते । उपासत उपासनं कुर्वते फलकामास्तात्पर्येण तदेवानुतिष्ठन्तीत्यर्थः । त इष्टापूर्तोपासकाथान्द्रमसमेव चन्द्रमसि मवं न त्वन्यं लोकमिष्टापूर्तफलमभिजयन्तेऽभिनयन्ति सर्वतः प्राप्नुवन्ति । त एव चान्द्रमसं प्राप्ता एव न त्वन्ये पुनरावर्तन्ते स्वकृतकर्मानुसारेण ब्राह्मणादियोनि भूय मागच्छन्ति । यस्मात्त एव पुनरावर्तन्ते तस्मात्तत एते कर्मिण ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजासु कामो येषां ते प्रनाकामा दक्षिणं धूमादिमार्ग चन्द्रलोकप्राप्तिफलं प्रतिपद्यन्ते प्राप्नुवन्ति । अस्तु तेषां तत्प्राप्तिः किं प्रस्तुत इत्यत आह-एष दक्षि. णमार्गप्राप्यश्चन्द्रलोको [ह] वै प्रसिद्धः सर्वान्नभूतो बुद्धिमृज्ज्ञेयो रयी रयिशब्दाभि- धेयः प्रकृतिभागो यः प्रसिद्धः पितृयाणो धूमादिमार्गः ॥ ९ ॥ अथ प्रजाकामव्यतिरिक्तः प्राप्यः प्रकृतादन्य उत्तरेणाचिरादिमार्गेण । तपसा ब्रह्मचर्येण श्रद्धया व्याख्यातम् । विद्यया प्रनापत्याद्युपासनरूपयाऽऽत्मानमादित्यं स्थावरजङ्गमप्राणमन्विष्याऽऽचार्योपदेशानन्तरं प्रत्ययसंतानेनाहमस्मीति संप्राप्य । विधयेत्यस्य व्याख्यानमिदमवगन्तव्यम् । आदित्यं बाह्य प्राणमभिजयन्ति(न्ते) सर्वतः प्राप्नुवन्ति । एतदादित्यस्वरूपं वै स्मर्यमाणं प्रसिद्धं वा, शास्त्रतः । माणानां प्राणश- ब्दाभिधेयानां प्राणचक्षुरादीनामायतनमाश्रयभूतमेतत्माणानामायतनममृतमविद्यादिका- रणवर्जितमभयमावृत्तिदुःखभयरहितमेतदमृतमय परायणं परेषामश्वमेधादिफलानां ससाधनानामाश्रयभूतमेतस्मात्प्राणायतनादमृतादभयात्पराश्रयान्न पुनरावर्तन्ते । यथा चन्द्रमसस्तद्वद्भूयो नाऽऽवर्तन्ते । इत्यनेन प्रकारेणोक्त इति शेषः । एष संवत्सरात्म- प्राणप्राप्तिरूपो निरोधो विनाशो मोक्ष इत्यर्थः । तत्तस्मिन्संवत्सरात्मन्युत्तरायणदक्षि- णायनसाम्येनोत्तरदक्षिणमार्गव्यापिन्येष वक्ष्यमाणः श्लोको मन्त्रः ॥ १० ॥ पञ्चपादं संवत्सरपरिवत्सरेदावत्सरानुवत्सरवत्स(मरेद्वत्स)राः कालान्यादित्यच. न्द्रमोवायुरूपाः पञ्च पादा यस्य स पञ्चपादस्त पितरं सर्वस्य जनकं द्वादशाकृति द्वादशमासाकारं दिव आहुः परे अर्धे पुरीषिणं दिवः स्वर्गात्परे परस्मिन्नर्धे स्थाने पुरीषिणं पुरीषशब्दं सुवर्णभूमिसंनिहित ब्रह्माण्डगोलकावरणं यस्य स पुरीषी तं पुरी- षिणमाहु. कथयन्ति । अथवा पञ्च शरहतुवनिताः पादा यस्येति व्याख्येयम् । अथ पक्षान्तर इमे कालचक्रविदोऽन्ये पूर्वेभ्यो व्यतिरिक्ता उ परे, उ अपि परेऽन्य इत्यस्य व्याख्या । त उक्तव्यतिरिक्ता उत्कृष्टा वा विचक्षणं कुशल सर्वोपद्रवशून्य- । १ स. रेडाय।

[१ प्रश्नः ] प्रश्नोपनिषद्दीपिका । मित्यर्थः । सप्तचक्रे सप्त गायत्री त्रिष्टुब्नगत्यनुष्टुप्पतिबृहती ककुविति च्छन्दांसि परस्मिंश्चके नेतृत्वेन सबद्धानि तत्सप्तचक्र तस्मिन् । अथवा वर्णव्यत्यासात्सर्पचक्रे गमनवति चक्र इत्यर्थः । षडरे षडतुरूमा अरा यस्य तत्षडर तस्मिन्नाहुः कथ- यन्ति पर इत्यन्वयः । अर्पितं सचराचरं जगदर्पित नानाविचाराः(१) । इति मन्त्रस- माप्तौ ॥ ११ ॥ यथा संवत्सरो रथिप्राणात्मकस्तथा मासोऽपीत्याहोपासनार्थम् । मासः पक्षद्वयात्मकः । वै प्रसिद्धः । प्रजापती रविप्राणाभिन्नो हिरण्यगर्भस्तस्य मासस्य । कृष्णपक्ष एव चन्द्रक्षयपक्ष एव न त्वन्यो रयिश्चन्द्रमा । शुक्लश्चन्द्रवृद्धिपक्षः। प्राण आदित्यो यस्मा. च्छुक्ल. प्राणस्तस्मात्तत एत ऋषयः प्रसिद्धाः प्राणव्यतिरिक्तानवलोकिनः कृष्णप. क्षेऽपि कुर्वन्तः । शुक्ल इष्टं कुर्वन्तीष्टमिष्टापूर्तादिकं शुक्ल पक्षे कुर्वन्ति कृष्णपक्षस्येतरद- शनादित्यर्थः । इतरे प्राणव्यतिरिक्तदर्शिनः शुक्ले पक्षेऽपि कुर्वन्त इष्टापूर्तादिकमित- रस्मिन्कृष्णपक्षे कुर्वन्तीत्यनुषङ्गः ॥ १२ ॥ अहोरात्रस्त्रिशन्मुहूर्तात्मको मनुष्यापितृदेवब्रह्मभेदभिन्न । वै प्रजापतियाख्यातम् । तस्याहोरात्रस्याहरेवाऽऽदित्यस्योदयादास्तमय काल एव माण आदित्यो रात्रिरे- वाऽऽदित्यास्तमयादोदय काल एव रयिश्चन्द्रमाः ॥ प्रसङ्गादिवसे मैथुन निषेधति- पाणमादित्य सर्वजीवनकारणं वै प्रसिद्धमेते दिवमिथुनरताः स्वोपकारिणं प्रस्कन्दन्ति प्रकर्षण शोषयन्ति मन्तीत्यर्थः । ये प्रसिद्धाः कामुका दिवा दिवसे रत्या युवतिज. नसंभोगरूपिण्या । संयुज्यन्ते सम्यक्संबध्यन्ते ग्राम्यधर्मेण योपिता सह संबध्यन्त इत्यर्थः ॥ ननु तर्हि कि स्वयोषित्सु गमनं गृहस्थैर्न करणीयमित्याशङ्कय रात्रौ तत्कर- णीयमित्येतद्वक्तु रात्रिगमनं स्तौति-ब्रह्मचर्यमेव मैथुनाभावरूपमेव न तु मैथुनं तत्प- रोक्षं वक्ष्यमाण यत्प्रसिद्ध गृहस्थाना मैथुनं रात्रौ क्रियमाणम् ॥ तदेतदाह-रात्री रत्या संयुज्यन्ते स्पष्टम् ॥ १३ ॥ इदानी प्रजोत्पत्तिप्रकारं वक्तुं रेतो मैथुनं च स्तौति-अन्नमदनीयं वै प्रसिद्धं सर्व- प्राणिना प्रजापतिः कालात्मा रयिप्राणात्मक' । ततस्तस्मादन्नादद्यमानाद्ध प्रसिद्धं वै स्मर्यमाणं सर्वजगदुत्पादकत्वेन तत्याणरूप सर्वजगबीजमन्नकार्य रेतः स्त्रीपुसयोर्वीयम् । तस्माद्रेतस इमाः प्रजाः प्रजायन्ते व्याख्यातम् । इत्यनेन रेतोवस्थावच्छिन्नेनाऽऽ. त्मोपादानेन चन्द्रादित्यसंवत्सरमासाहोरात्रमैयुनावस्थात्मनिमित्तेन प्रकारेणेमाः प्रजाः प्रजायन्त इत्यन्वयः ॥ १४ ॥ एव प्रश्भनिर्णय कृत्वा प्रसङ्गान्मैथुनब्रह्मचर्ययोविभागेन फलमाह-तत्तत्र संसारम- ण्डले । ये प्रसिद्धाः कामज्वरापहृतचित्तसर्वस्वा ह प्रसिद्धा वै स्मर्यमाणं तत्परोक्ष प्रजापतिव्रतं प्रजापतिना मनुना स्वार्थभूतायाः शतरूपायाः योषितोऽधोपहासवत्स्वयो- .

शंकरानन्दविरचिता- [२ प्रश्नः ] विदधोपहासं प्रजापतित्रतं चरन्त्याचरन्तीत्यनुतिष्ठन्तीत्यर्थः । ते प्रजापतिव्रतचारिणो मिथुनं नारीपुरुषं नपुसकं नोभयं वा वयं वोत्पादयन्ते जनयन्ति दृष्टफलमिदम् ॥ इदानीमदृष्टफलमाह तेषामेव प्रजापतिव्रतचारिणां न त्वन्येषामेष दक्षिणमार्गप्राप्यो ब्रह्मलोको ब्रह्मणः प्रजापते रयिरूपस्य चन्द्रमप्तो लोकः ॥ इदानी ब्रह्मचर्ये फलमाह- येषामचिरादिमार्गयायिनां तपो मनस इन्द्रियाणा चैकाग्र्यादि । ब्रह्मचर्यमुक्तम् । येषु निवृत्तिमार्गनिरतेषु सत्यं प्रियहितयथार्थभाषण प्रतिष्ठित प्रतिष्ठा प्राप्तं ये प्रमादेनाप्य- सत्यं न वहन्तीत्यर्थः ॥ १५ ॥ तेषां तपोब्रह्मचर्यसत्यनिरतानामसौ परोक्ष आदित्यमार्गप्राप्यो विरजो विरजाश्च- न्द्रलोकवत्क्षयिष्णुत्वादिदोषदूषितो न ब्रह्मलोकः कार्यब्रह्मलोकः ॥ इदानी तपोब्रह्मच- यसत्यवचनादीनां सद्भावेऽपि जैयादिसद्भावे न ब्रह्मलोक इत्यनुमतमर्थमाह-न येषु तपोब्रह्मचर्यसत्यसपन्नेषु । जिलं कौटिल्य स्वेन नोच्यमानमपि परैर्जायमानं न येष्वित्यन्वयः । अनृतं पण्डितमान्यत्वेन न विपरीतं वाक्यं सत्यवादिन एव न येष्वि- त्यनुषङ्गः । न माया च कार्यमन्तरेण परैरज्ञायमान कौटिल्यं माया न येष्वनुवर्तते । चकाराद्धिंसास्तेयादिकमपि नेत्यवगन्तव्यम् । [ इत्यनेन प्रकारेण ] ॥ १६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचितायामाय- र्वणप्रश्नोपनिषद्दीपिकायां प्रथमः प्रश्नः ॥१॥ । अथ द्वितीयः प्रश्नः। अथ कात्यायनप्रश्नानन्तरं पूर्ववदुत्सुको ह किलैनं पिप्पलादम् । भार्गवो वैदर्भिः पप्रच्छ भगवन् , व्याख्यातम् । कत्येव कियत्संख्यादिका एव निर्धारिता देवा देव. शब्दाभिधेयाः। प्रजां स्थावरजङ्गमभूतरूपां विधारयन्ते विधारण कुर्वन्ति । कतर एतेषु देवेष्वदेवेषु वा कतर एतच्छरीरं संसारयात्रानिर्वाहकं प्रकाशयन्ते प्रकाशं कुर्वन्ति । का पुनरेषां वरिष्ठ एषां देवानां को नाम श्रेष्ठः । इत्यनेन प्रकारेण पप्रच्छेत्य- न्वयः॥१॥ तस्मै भार्गवाय । स होवाच व्याख्यातम् ॥ प्रथमप्रश्नस्योत्तरं प्राण एव शरीरस्य विधारकः । द्वितीयतृतीययोश्चार्थादग्न्यादिरूपेण स एव प्रकाशको वरिष्ठश्चेति वक्तुं भूते. न्द्रियप्राणसंवादरूपामाख्यायिकामवतारयति-आकाशो भूताकाशो ह किल वै प्रसिद्ध एष प्रसारितनयनप्रत्यक्षः साक्षिप्रत्यक्षो वा देवो देवशब्दाभिधेयोऽन्यविजिगीषुत्वेन, पायुरनिरापः पृथिवी स्पष्टम् । वाग्बागिन्द्रियमुपलक्षणमेतत्पाणिपादपायूपस्थानाम् ।

[२ प्रश्नः] प्रश्नोपनिषदीपिका। मनोऽन्तःकरणं ज्ञानशक्ति चतुर्विधं मनःशब्दोपलक्षितं चक्षुः श्रोत्रं च स्पष्टं चकारा- त्त्वग्घाणरसनानि, ते पञ्चमहाभूतज्ञानेन्द्रियकर्मेन्द्रियचतुर्विधान्तःकरणरूपा मुख्यप्राण- संनिधिप्राप्तसामर्थ्यान्मुख्यप्राणप्रसादमजानतः(न्तः)। प्रकाश्यदं शरीरमवकाशादिव्यव. हारक्षमत्वेन सर्वस्य लोकस्य दर्शयित्वाऽभिवदन्ति खव्यतिरिकासर्वान्सर्वतस्तिर- स्कृत्य प्रत्येकं स्वात्मनि बहुवचनप्रयोगेणावकाशाद्येकैककार्यक्षमा अपि सजीवनमवका- शादिसर्वकार्यक्षमस्वं स्वात्मन्यारोप्य वदन्ति वल्गन्ति ।। तद्वदनमाह-वयमाकाशादय एतत्सर्वप्राणिप्रत्यक्षं बाणं बाणवत्कर्मणा प्रापित बाणमथवा बवयोरैक्याद्वाति कुत्सितं गन्धं वहन्ब(ह)गति शब्दं करोति गच्छति वा कर्मक्षये सति सत्यपि कर्मणि देशादे- शान्तरं चेति वा बणं बणमेव बाणं शरीरमित्यर्थः । अवष्टभ्यावष्टम्भनं कृत्वा दृढतमं कृत्वेत्यर्थः । विधारयामो विविधावकाशादिकार्यक्षमत्वेन धारणं कुर्मः ॥ २ ॥ तानाकाशादीन्प्रत्येकं शरीरविधारणाभिमानेन वदतो वरिष्ठः सर्वेऽप्याकाशादयोऽ- वकाशादिकार्यकारित्वेन वरास्तकार्याणामपि मुख्यप्राणनिमित्तत्वान्मुख्यप्राणोऽतिश- येन [वरो वरिष्ठः ] समीचीनः प्राणो मुख्यप्राणः प्राणादिपञ्चवृत्तिरुवाच हस्तसं- जया च निवारयन्नुक्तवान् ॥ मुख्यप्राणोक्तिमाह-मा निषेधार्थः । मोई विपरी. तज्ञानमापद्यथ समन्तान्मा गच्छत ॥ तत्र हेतुमाह-अहमेव मुख्यप्राण एव न त्वन्य एतदेवं स्वप्रत्यक्षं वक्ष्यमाणमात्मानं पञ्चधा प्राणापानव्यानोदानसमानैः पञ्च. प्रकारैरात्मानं मुख्यप्राणस्वरूपं पविभज्य प्रकर्षेण स्थानक्रियानामादिभिर्वि- विधभेदवन्तं कृत्वैतब्दाणमवष्टभ्य व्याख्यातम् । विधारयामि विविधका- र्यक्षमत्वेन जीववन्तं देहं करोमि । अयमर्थः । भवन्तोऽवकाशादिप्रातिस्वि. ककार्यक्षमा न तु सर्वकार्यक्षमा अहं तु भवतामपि कार्ये निमित्तत्वाद्भवत्कार्यक्षमो मया क्रियमाणे जीवनादौ तु न कोऽपोति । इत्यनेन प्रकारेण । एवमुक्ते सति त आकाशादयः परस्परमुखावलोकनहास्यकरताडनादिचेष्टावन्तः प्राणोक्तेऽर्थेऽश्रद्दधाना इदमित्थमेवेत्यास्तिक्यबुद्धिशून्याः । बभूवुः स्पष्टम् ॥ ३ ॥ अनन्तरं तेषां सदर्पपापमवलोक्य तच्छान्त्यर्थं स मुख्यप्राणोऽभिमानादात्मनः सर्व- कारित्वलक्षणाद्यथावस्तुविषयादहंकारात् । ऊर्ध्वमष्टोत्तरशतर्मस्थानानामुपरि स्थानच- लनं कृतवानित्यर्थः । उत्क्रमत इवोत्क्रामतीव स्वात्मनः साक्षी, उत्क्रमणे प्रतिसमाधेयः शरीरविनाशः स्यादिति मन्वान उत्क्रमणमिव कृतवान्भूताना सकारणानां स्वस्थानचल. नेन व्याकुलत्वं कृतवानित्यर्थः । अथवाऽयमिवकारः प्रतिपत्तः प्रतिपत्त्यैव प्राणसंवाद- माह । न ह्याकाशादिदेवानां वागादयः सन्ति तेषां तदङ्गीकारे च न्यायादिविरोधात् । • तस्मिन्मुख्य प्राणेऽभिमानिन्युत्क्रामत्यूचं गच्छति सत्ययानन्तरमितरे मुख्यप्राणाद- न्य आकाशादयः सर्व एव निखिला अपि पाशबद्धा विहङ्गा इव पाशस्योवं नयना-

८
शंकरानन्दविरचिता-
[२ प्रश्नः ]
दुरक्रामन्त उत्क्रामन्ति पराधीनाः सन्तः स्वस्थानेभ्यश्चलिता बभूवुः
। नैकोऽप्यात्मानमः
वष्टब्धवानित्यर्थः ॥ नैतत्तदा जातं किंतु सार्वकालीनमित्याह-तस्मिंश्च तस्मिन्मुख्य-
प्राण एव यथोत्झामति सस्युत्कामति(न्ति) तथा सर्वदा प्रतिष्ठमाने प्रकर्षण स्वस्वका-
र्यक्षमत्वेनावस्थान कुर्वन्ति(ति) सर्व एव प(प्रा)तिष्ठन्ते स्पष्टम् । तत्तत्र प्राण उत्का-
मत्युत्क्रामन्ति प्रतिष्ठमाने च प्रतितिष्ठन्त इत्यस्मिन्नर्थे दृष्टान्तः । यथा दृष्टान्ते, मक्षि-
काः क्षुद्रा मधुकरा जीवा भ्रमरा वा मधुकरत्वसामान्यान्मधुकरराजानं मधुकरराज
मधु मध्वपूयान्तस्थं मधुररस तत्कुर्वन्तीति मधुकरास्तेषु प्रधानभूतस्तैदृष्टातिशयः कश्चन
जीव इत्यर्थः । तमुत्क्रामन्तं मध्वपूयं परित्यज्योर्ध्व गच्छन्तं सर्वा एव निखिला अपि
मक्षिका उत्क्रामन्त उत्क्रामन्ति तमनुगच्छन्तीत्यर्थः। तस्मिंश्च मधुकरराज एव मध्वपूये
प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते स्पष्टम् ॥ दान्तिकमाह-एवं तथा वाड्मनश्चभुः
भोत्रं च चकारोऽनुक्तानामाकाशादीनां संग्रहार्थः । व्याख्यातमन्यत् । त उक्ता
भाकाशादयः परित्यक्तशरीरविधारकत्वाभिमानाः । श्रीताः प्राणस्यैव शरीरविधारकत्व.
निश्चयेन परममोदमुपगताः। माण मधुकरराजसमं मुख्यप्राणं कालत्रयेऽपि परोक्ष प्रत्यक्ष
च स्तुव(न्व)न्ति स्तुतिं कुर्वन्ति ॥ ४ ॥
तत्स्तुतिमाह-एष मुखनासिकाम्या संचरन्स्पर्शनस्य साक्षिणो वा प्रत्यक्षोऽमिर-
ध्यात्मादौ जाठरभौमादिभेदभिन्नो वैश्वानरस्तपति सताप करोति । एष व्याख्या-
तम् । सूर्यः शोमनाया गतेः कर्ता चन्द्रमण्डलात्मेष व्याख्यातम् । पर्जन्यो
वृष्यमिमानिनी देवतैष इत्यनुवर्तते । मघवान्मघवा त्रिलोकीपतिः, अथवा पर्जन्यस्यैव
विशेषणं मघवान् । तथा च पर्जन्येन्द्रयोरैक्यं स्यात् । एष व्याख्यातम् । वायुः प्रभञ्जनः ।
एष व्याख्यातम् । पृथिवी वसुंधरा, एष इत्यनुवर्तते वक्ष्यमाणेषु सर्वेषु । रयिश्च-
न्द्रमाः। देवो विजिगीषापरो द्योतनात्मको वा तपन्नग्निसूर्याद्यात्मकत्वेन । कि बहुना सद-
सञ्चास्ति नास्तीति व्यपदेशभूषितं चकारात्सदसद्विलक्षणमज्ञानमपि । अमृतं चामरण.
धर्मात्मकं ब्रह्माप्यनुपचरितसदेकस्वभावं चकारादनुपचरितासत्स्वभावं नरविषाणादिक-
मपि । यत्मसिद्धम् ॥ ५॥
न केवलमयं सर्वात्मा किंतु सर्वाधारोऽपीति दृष्टान्तेनाऽऽहुः-अराश्चक्रस्य
भाभिनेम्योरन्तरालवर्तीनि चतुष्कोणानि वर्तुलानि वा तीक्ष्णाप्रपुच्छानि काष्ठानि । इव
दृष्टान्ते । रथनाभौ रथचक्रस्य मध्यप्रदेशे प्रतितिष्ठत(न्त) इति शेष ॥ दान्तिकमाह-
माणे संसारचक्रनाभिभूते मुख्य प्राणे । सर्वं निखिलमग्निसूर्यादिक प्राणात्मकम्। प्रति
ष्ठितं स्पष्टम् ॥ अग्निसूर्यादिकमेव सर्व प्राणे प्रतिष्ठितं न त्वन्यदिति शङ्का वारयितुं सर्व-
शब्दार्थमाह-ऋचः पादबद्धा मन्त्राः । यजूंष्यविवक्षितच्छन्दस्का मन्त्राः । सामानि
गीतिसहिता ऋचो यज्ञो ज्योतिष्टोमादिरूपः । क्षत्रं क्षत्रियत्वजातिब्रह्म च ब्राह्मणत्व-
जातिः । चकारादुक्तमनुक्तं च सर्वम् ॥ ६ ॥

[२ प्रभः] प्रश्नोपनिषद्दीपिका। • यथा प्रजा महाराजमवैष इत्यङ्गुलिनिर्देशेन परस्परं दर्शयित्वा तद्गुणांश्च संकीर्त्य पश्चात्त्वं नः पिता मातेत्यादिना स्तुन्वन्ति तथैषोऽग्निः सूर्यश्च तपतीत्यादिना प्राणं दर्श- यित्वा देवास्तद्गुणांश्च सर्वप्रतिष्ठादिलक्षणान्सकीयैवं स्तुवन्त इत्याहुः प्रजापतिर्विरा- त्रिलोकीशरीरः प्रजानां पालयिता। चरसि गच्छसि वर्तस इत्यर्थः । गर्भे ब्रह्माण्डगो. लकजठरे || ननु गर्भस्थोत्तानशायिनोविभेदाग द्विनिर्गतो नाहमित्यत आहुः-त्वमेव प्राणः प्रजापतिरूपो गर्भस्थ एव न त्वन्यः। प्रतिजायसे स्वस्माजाताद्ब्रह्माण्डगोलकात्पु- प्रभूतात्प्रति प्रातिलोम्येन पिता सन्पुत्रत्वमङ्गीकृत्योत्पद्यते(से) । तुभ्यं प्रजापतिल. पायोपकाराद्यर्थम् । प्राण हे प्राण प्रजास्त्विमाः प्रत्यक्षाः स्थावरजङ्गमास्त्वद्रूपभूताः । तोरेवकारार्थः । ता इमाः प्रजास्तुभ्यमेवेत्यन्वयः। [बलिं हरन्ति स्पष्टम् ] ॥ ननु ब्रह्म कोकावस्थिताय मह्यं कथमिमाः प्रजा [ बलिं हरन्ति ] इत्यत आहुः-यः प्रसिद्धः प्रजापतिहस्तिपत्तिकादिशरीरेषु समः । प्राणैः प्राणापानादिभिः पञ्चभिर्वायुभेदैः सर्वेषु भूतेष्वेक एव । प्रतितिष्ठसि प्रातिकूल्येन भेदेन वर्तसे ॥ ७ ॥ इदानीमस्यैव प्रधानभूता विभूतीराहुः-देवानामिन्द्रादीनामसि भवसि । वह्नितमोऽ- तिशथेन हविषां वाहको देवतृप्तिकारणमित्यर्थः । पितृणामग्निष्वात्तादीनां पितृलोकनि- पासिनां प्रथमा पूर्वभाविनी नान्दीमुखश्राद्धादावन्यकर्मापेक्षया । स्वधा स्वान्यनमानस्य पितॄन्हविष्यदानेन धावति गच्छतीति स्वधा, ऋषीणां गौतमभरद्वाजप्रभृतीनां चरितं घोष्टितम् । किं परस्त्रीदर्शनादिकमपि प्राण इत्याशङ्कय नेत्याह-सत्यमवितथं गुरुपा- दावलोकनादिकमित्यर्थः । अथवा मुख्यप्राणसाहचर्यात्सत्यं शरीरविधारणम् || ऋषि- विशेषणमाहु.-अथर्वाङ्गिरसामथर्वाङ्गिरसप्राणसाहचर्यादथर्वाङ्गिरस्त्व गौतमादीनाम् । आसि भवसि ॥ ८॥ इन्द्रः परमैश्वर्यसंपन्नस्त्वं प्राणः प्रजापतिः । प्राण हे प्राण । तेजसा सर्वसंहार- कारिणा वीर्येण त्रिजगद्भेदकेन । रुद्रो रोदनहेतुभूतोऽसि भवति । स्थितिकाले जगतः परिरक्षिता सर्वतो रक्षकः । त्वं प्राणः प्रजापतिः । अन्तरिक्ष आकाशे वाय्वादिरू- पेण चरसि गच्छसि । सूर्यः शोभनाया गतेः कर्ता दिवाकरस्त्वं प्राणः प्रजापतिः । सूर्यविशेषणं ज्योतिषां पतिः, चन्द्रादीना पालयिता । न केवल ज्योतिषां पतिः किंतु प्रजानामप्यानन्दकारीत्येवमाहुः ॥ ९ ॥ यदा यस्मिन्काले त्वं प्राण सूर्यगोभिरभिवर्षसि सर्वतो नीरधारा मुञ्चसि । अथ तदेमाः प्रत्यक्षाः । प्राणते प्राणन्ति प्राणनादिचेष्टां कुर्वन्तीत्यर्थः । अथवा हे प्राण ते तमाः प्रजा इति वक्ष्यमाणेनान्वयः । प्रजाः स्थावरजङ्गमा आनन्दरूपा आनन्दः परमात्मा स एव रूपं यासां ता आनन्दरूपा निरतिशयसुखपूर्णा इत्यर्थः । तिष्ठन्ति .

शंकरानन्दविरचिता-
[२ प्रश्नः]
स्पष्टम् ॥ आनन्दरूपावस्थाने हेतुमाह-कामायाभिलाषाय यथाकाममित्यर्थः । अन्न-
मदनीयं ब्रीह्मादिकम् । भविष्यति स्पष्टम् । इत्यनेनाभिप्रायेण ॥ १० ॥
इदानीमस्य सर्वात्मनोऽपि पापलेशशून्यत्वमाहुः-प्रात्यः सर्वस्मात्प्रथममत्वाद्य-
थाकालमुपनयनादिसंस्कारशून्यः, पितृपितामहादेरभावाद्वा तत्सोमपानशून्यः, संस्कार-
शून्योऽपि सर्वदा शुद्ध इत्यर्थः । त्वं प्रथमजः प्रजापतिः । प्राण हे प्राणैकऋषिराथ-
र्वणानामेव प्रसिद्धोऽग्निरचा भोक्ता संहर्ता वा विश्वस्य चराचरस्य जगतः। सत्पत्तिः
सतां ब्रह्मादीनां पालयिता संश्वासौ पतिश्चेति वा । वयमाकाशाद्या देवाः । आवस्या-
दनीयस्य विषयजातस्य । दातारः समर्पकाः। पिता जनकस्त्वं प्राणो मातरिश्व मात-
किाशे श्वसितीति मातरिश्वा वायुस्वरूप इत्यर्थः । नोऽस्माकमाकाशादीनाम् । भथवा
सर्वजगत्कारणस्य मातरिश्वनो वायोस्त्वं पिता ॥ ११ ॥
एवं स्तुतिं कृत्वा कार्यमाहुः-या प्रसिद्धा । ते तव प्राणस्य तनूस्तनुरपानरूपा ।
या प्रसिद्धा । वाचि वागिन्द्रियेऽग्नौ पृथ्व्यां च वामिन्द्रियसहचरितायां प्रतिष्ठिताऽव.
स्थिता, या प्रसिद्धा व्यानरूपा श्रोत्रे श्रोत्रेन्द्रिये तत्सहचरितचन्द्रमस्याकाशे च, या
च प्रसिद्धा प्राणरूपा चकारः पूर्वत्र वक्ष्यमाणे च पर्याये तनूः प्रतिष्ठितेत्येतदनुवृ.
त्यर्थः । चक्षुषि चक्षुरिन्द्रिये तत्सहचरितेषु तेजोबन्नात्मकेषु रूपेष्वादित्ये च, या [च]
प्रसिद्धा समानरूपा मनसि मनइन्द्रिये तत्सहचरितेषु भूतभौतिकेषु । संतता सम्य-
विस्तृता प्राणादिपञ्चवृत्तिगर्भिणीत्यर्थः । शिवां शिवानां मंगलानां स्वस्थानादच
लितामित्यर्थः । तां वागादिस्थितां तनुं कुरु स्पष्टं त्वं च मोत्क्रमीरुत्क्रम मा
कार्षीः ॥ १२॥
नास्माकमिदानी पूर्ववत्स्वातन्त्र्यबुद्धिरित्याहुः-प्राणस्य पञ्चवृत्तेर्भवत इदं विविधप्र-
त्ययगम्यमस्मदादिकं जगद्वशेऽधीनत्वेन सर्व निखिलम् । सर्वशब्दार्थमाहुः-त्रिदिवे
त्रिदिवोपलक्षितत्रिलोक्या ब्रह्माण्डजठर इत्यर्थः । यत्मसिद्धमाकाशादिकं प्रतिष्ठितम-
वस्थितम् । यस्मादेवं तस्माद्धे प्राण त्वमस्मान्मातेव पुत्रान्स्पष्टं रक्षस्व रक्ष सर्वतोऽ.
नभ्यः पाहि ॥ तद्रक्षणं स्वयमेवाऽऽहुः- श्रीश्च श्रियश्च विविधा लक्ष्मीः। प्रज्ञा च
लोकवेदविषयिणी लोकद्वयेष्टकारिणी बुद्धि चकारौ तयोः स्थिरत्वोपयोज्यत्वे आहतुः ।
विधेहि विविधास्ववस्थासु धेहि प्रयच्छ। नोऽस्मभ्यमाकाशादिभ्यो विगताभिमानेभ्यः ।
[इति, अनेनप्रकारेण ॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचितायामा-
थर्वणप्रश्नोपनिषद्दीपिकायां द्वितीयः प्रश्नः ॥२॥

[३ प्रश्नः ]
प्रश्नोपनिषद्दीपिका।
अथ तृतीयः प्रश्नः।
प्राणस्य प्रजापतेस्तु सर्वजगदात्मत्वं निर्धारितं यद्यपि तथाऽप्यस्य संहतत्वादनात्म.
त्वमित्येतदुपपादनार्थ तृतीयः प्रश्न आरम्यते-अथ वैदर्भिप्रश्नानन्तरं हैन कौश(स).
ल्यश्चाऽऽश्वलायनः प्रपच्छ भगवन्व्याख्यातम् । कुतः कस्मादुपादानानिमित्तादेष
प्रत्यक्षः क्रियावान्माणः पश्चवृत्तिर्जायत उत्पद्यते । कथं केन प्रकारेणाऽऽयात्याग-
च्छत्सस्मिन्स्थूले प्रत्यक्षे शरीरे विनाशिनि कलेवरे केन निमित्तेन शरीरं गृह्णातीत्य.
भिप्रायः । आत्मानं वा मुख्यप्राणस्वरूपं वाशब्दः प्राण एव धर्मान्तरप्रश्नार्थः ।
प्रविभज्य प्रकर्षण विभागं कृत्वा । कथं केन प्रकारेण । प्रातिष्ठते वर्तत इत्यर्थः ।
केन वृत्तिविशेषेणोत्क्रमत उत्क्रामत्यस्माच्छरीरादपसर्पति । कथं केन प्रकारेण बाह्य-
मधिभूतमधिदैवं चाभिधत्ते सर्वतो धारयति । कथं केन प्रकारेणाध्यात्ममात्मानम-
धिकृत्य वर्तमानमिदं शरीरेन्द्रियादिकम् । इत्यनेन प्रकारेण ॥ १ ॥
तस्मै कौश(स)ल्याय । स होवाच व्याख्यातम् । अतिप्रश्नानभ्यधिकारार्था(कार्था).
पिहितार्थान्वाऽन्यप्रश्नविषयान्वा प्रष्टव्यानर्थान्पृच्छसि प्रश्नं करोषि यतस्ततो ब्रह्मि-
ष्ठोऽतिशयेन वेदार्थज्ञोऽन्तर्मुखो वाऽसि भवसि । इति यस्मात्तस्मात्ततस्ते तुभ्यमाश्व-
लायनायाहं पिप्पलादाभिधो ब्रवीमि स्पष्टम् ॥ २ ॥
आत्मन आत्मनोऽभिन्ननिमित्तोपादानात् । एष प्राणो जायते व्याख्यातम् ॥ आत्मनः
प्राणो जायमानो न वास्तव इत्येतदृष्टान्तेनाऽऽह-यथा दृष्टान्त एषा प्रत्यक्षा पुरुषे
शिरःपाण्यादिमति च्छाया प्रसिद्धा पुरुषाकारैवमेतस्मिन्प्राणकारण आत्मन्येतत्प्रा.
णसूत्रमाततं समन्ताद्विस्तृतं न वास्तवमित्यर्थः ॥ कथमायात्यस्मिञ्शरीर इत्यस्योत्तर-
माह-मनोकृतेन मनःकृतेन करणं(ण)कृतशुभाशुभकर्माविद्यावासनानिमित्तेनाऽऽ.
यात्यस्मिञ्शरीरे व्याख्यातम् ॥ ३ ॥
आत्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्यस्योत्तरं दृष्टान्तपुरःसरमाह-यथा
दृष्टान्ते । सम्राडेव सम्यगाजत इति सम्राटसर्वलक्षणसंपन्नः सार्वभौमो राजैव न
त्वन्योऽधिकृतान्मन्त्रिबलरक्षकाधिकारिप्रभृतीन्विनियुङ्क्ते विनियोगं कुरुते ॥ विनि-
योगप्रकारमाह-एतान्यामानेतान्यामान्कुरुपाञ्चालादिदेशगतान्सर्वसंपत्समृद्धान्पश्चदश
शतं सहस्त्रं वा प्रामान् , विनियुज्यमानानां बहुत्वाभिप्राया वाक्यवीप्सा । मन्त्रिवलर-
क्षकाधिकारिन्निति प्रत्येकमधितिष्ठस्वाधितिष्ठाधिष्ठानं कुर्वित्यनेन प्रकारेण ॥ दार्टा-
न्तिकमाह-एक्मेवानेनैव प्रकारेणैष मुख्यः प्राण इतरान्स्वात्मव्यतिरिक्तान्माणा-
नाणशब्दान्वागादीन्पृथक्पृथगेव जिह्वादिगोलकेष्वन्यत्रान्यत्रैव न त्वेकत्र संनिधत्ते
संनिधानं कुरुते स्थापयतीत्यर्थः ॥ ४ ॥

१२ शंकरानन्दविरचिता- [३ प्रश्नः] तेषां संनिधानस्यातिस्पष्टत्वात्परित्यज्य वागादीन्मुख्यस्यैव प्राणस्य पञ्चवृत्तिसंकि- धानमाह-पायूपस्थे पायुश्चोपस्थश्च पायपस्थं तस्मिन्मलमूत्रादिकारित्वेनापानमधश्चा- रिणं स्वात्मनो वृत्तिभेदं संस्थाप्येति शेषः । चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिन्सनिधानं कृत्वेति शेषः । मुखसानिकाभ्यां स्पष्ट पाणो मुख्यप्राणः स्वयं वृत्तिमान्वृत्तिमन्तरेण स्वेनैव रूपेण प्रातिष्ठते प्रतिष्ठते शरीरदेशाद्वहिर्गच्छति । मध्ये तु शरीरस्य मध्यभाग एव नाभी न त्वन्यत्र समानोऽशितपीतसमनयनवृत्तिः, तिष्ठतीति शेषः ।। समानशब्दार्थमाह-एष नाभिस्थः प्राणवृत्तिभेदो हि यस्मादेतद- क्ताख्यं प्रत्यक्षं हुतं विधिनाऽविधिना वाऽऽस्याहवनीये प्रक्षिप्तमन्नमदनीयं समं यावता नीयमानेन तत्तत्स्थानेन्द्रियादीनां बाधा न भवति तावत्तत्तत्स्थानेन्द्रियादौ । नयति प्रापयति । तस्मात्समानेन समत्वेन नीतादनादेताः साक्षिणः प्रत्यक्षाः श्रोत्रच- क्षुर्नासिकामुखद्वाररूपेणास्मदादीनां वा सप्त सप्तसख्याका मूर्धन्यद्वारस्था अषिोऽ. चिरिक विषयप्रकाशरूपत्वाच्छब्दादिबुद्धयः । भवन्ति स्पष्टम् ॥ ५ ॥ इदानी व्यानवृत्तेः स्थलं वक्तुमाह-हदि मांसपिण्डे कमठाकारे हि यस्मादेष साक्षिप्रत्यक्ष आत्माऽऽत्मसहचरितः पञ्चवृत्तिः प्राणो लिङ्गात्माऽत्रास्मिन्हृदय आत्मा- धिष्ठान एतत्सर्वशरीरपर्णस्य शङ्कुभूतमेकशतमेकाधिकं शतं नाडीनां प्रधानभूतानां सच्छिद्राणां शिराणाम् । तासां प्रधाननाडीनां शतं शतमेकैकस्या एकोत्तरशतसंख्या- कानां प्रत्येक शतं शतं तथा चैकोत्तरशतनाडीनां शाखाभूता नाड्यो दशसहस्रं शता- धिकं भवन्ति । पुनश्च शताधिकानां दशसहस्राणामेकोत्तरशतनाडीशाखानाडीनामेकैकस्या अदासप्ततिं द्वासप्तति प्रतिशाखानाडीसहस्राणि शाखानाडीनां शाखाभूता नास्य- स्तासां प्रत्येकं द्विसहस्राधिकसप्ततिसहस्राणि । द्वासप्तति द्वासप्ततिमिति वीप्सा प्रत्येकं शाखानाडीसंबन्धार्था । प्रतिशाखानाडीना सहस्राणि प्रतिशाखानाडीसहस्राणि । तथा च मूलशाखा[प्रतिशाखा]नाड्यो द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका चेति भवन्ति । आसूक्तसख्यासु मूलशाखाप्रतिशाखाँप्रतिशाखानाडीषु । व्यानो वीर्यवत्कर्महेतुः प्राणवृत्तिभेदश्चरति गच्छति ॥ ६ ॥ केनोत्क्रमत इत्यस्योत्तरं वक्तुं पञ्चम्याः प्राणवृत्तेः संचरणमार्गमाह-अथ सर्व- नाडीषु व्यानसंचारेणैव हेतुनैकया सुषुम्नाख्ययोर्ध्व ऊचारी उदान ऊर्ध्वचारित्वा- देवोदाननामधेयः प्राणवृत्तिभेदेन पुण्येन शास्त्रीयेण कर्मणा । पुण्यं शुभकर्मफलं सुख- प्रायं लोकं भोगभूमिभूतम् । नयति प्रापयति । पापेन शास्त्रनिषिद्धेन कर्मणा । पापमशु- भकर्मफलं लोक नयतीति देहलीप्रदीपन्यायेन संबध्यते । उभाभ्यामेव पुण्यपापाभ्या- * द्वासप्तति सप्ततिरिति क्वचिन्मूले पाठ. । + एकः प्रतिशाखाशब्दोऽधिकः ।

३ प्रश्नः] प्रश्नोपनिषद्दीपिका। व न तु केवलेन पुण्येन पापेन वा मनुष्यलोक मानवं शरीरं सुखदुःखफलं नयती- यनुषङ्गः ॥७॥ कथं बाह्यमभिधत्ते कथमध्यात्ममित्येतयोरुत्तरमवशिष्यते । तत्र प्राणादिपञ्चवृत्ति- भिरध्यात्ममभिधत्त इत्येतदात्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्येतस्योत्तरेणैवार्था- प्राणादिभिरभिधत्त इत्युत्तरमुक्तमिदानी कथं बाह्यमभिधत्त इत्यस्योत्तरं प्राणापानस- मानव्यानोदानाभिन्नैरादित्यपृथिव्याकाशवाय्वग्निभिरभिधत्त इत्याह-आदित्यो मण्ड- लाभिमानी पुरुषो ह प्रसिद्धो वै स्मर्यमाणो बाह्योऽध्यात्मव्यतिरिक्तः । प्राणो मुख्य प्राण उदयति, उदय गच्छति । एष बाह्यः प्राणो मण्डलामा पुरतः स्थित इति हि यस्मादेनं साक्षिप्रत्यक्षं चाक्षुषं चक्षुषि भव प्राणं प्राणवृत्त्याख्यमनुगृह्णानोऽनुग्रहं कुर्वन्नुद्यतीत्यन्वयः । पृथिव्यां पञ्चगुणायां विस्तीर्णायां भुवि या प्रसिद्धा वाह्यापान- रूपा देवताऽधिष्ठात्री । सा पृथिवी देवतैषा प्रत्यक्षेव पुरुषेणानुभूयमाना । पुरुषस्य शिरःपाण्यादिमतः शरीरस्यापानमाध्यात्मिकमपानवृत्तेर्भेदमवष्टभ्य स्वशक्त्या सर्वा- स्मना गच्छन्तं विधायाभिधत्त इति शेष. । अन्तराऽऽदित्यपृथिव्योमध्ये यद्यः प्रसिद्धः समानसम आकाशः सर्वसमावकाशकर्मा सोऽन्तराकाशः समानो बाह्यत- मानवृत्तिभेदो वायुः प्रसिद्धः प्रभञ्जनो वीर्यवत्कर्मा व्यानो व्यानवृत्तिभेदो बाह्यः ॥८॥ तेजो दाहपावकप्रकाशकर ह प्रसिद्ध वावैव तेन एव न त्वन्यदुदानो बाह्य उदानवृत्तिभेदः ॥ तेजस उदानत्वे हेतुमाह-तस्माद्यतस्तेन एवोदानस्तत उपशान्त- तेजा उच्छिन्नजाठरजातवेदा. करस्पर्शनानुपलभ्यमानोप्णिमा पुनर्भवमेतच्छरीरं प्रति. पद्यत इति शेषः । अथवा प्राणस्यैतद्विशेषण व्यवहितं पुनः पुनः शरीरे शरीरे भवतीति पुनर्भवस्त पुनर्भवम् ॥ प्रतिपत्तिकालं सप्रकारमाह -इन्द्रियैर्वागादिभिर्मन- स्यन्तःकरणे स्वस्ववृत्त्युपरमेण संपद्यमानैः सपत्ति कुर्वद्भिः, यदेन्द्रियाणि मनसि संपद्यन्ते तदेत्यर्थः ॥ ९॥ यश्चित्तो यदेव देवतिर्यगादिशरीर सम्यगिति सर्वदा चित्ते यस्य स यञ्चित्तस्तेन देवतिर्यगादिसंकल्पविशिष्टेन मनसा सेन्द्रियेण सहैषोऽन्तःकरणाभिमानी मुमूर्षुः । प्राणं पञ्चवृत्तिं मुख्यप्राणं मधुकरराजप्सममायात्यागच्छति ज्ञानशून्यः सन् , श्वासैकसहायः परिशिष्यत इत्यर्थः। प्राण उक्तः श्वासोच्छ्रासकर्ता। तेजसा शरीरेण पाकप्रकाशोष्ण- कारिणीदानवृत्त्यात्मकेन । युक्तः संबद्ध उदानवृत्तिप्रधान इत्यर्थः । सहाऽऽत्मनाऽ- न्तःकरणाभिमानिना साकम् । यथासंकल्पितं कृतकर्मविद्याकशाघातसमुत्थितपूर्वप्रज्ञास्व- विषयीकृतं देवतिर्यगादि यादृशसकल्पविषयं यथासंकल्पितम् । लोकं कर्मविद्याफलं भाविशरीरमित्यर्थः । नयति प्रापयति ॥ १० ॥ " * भाष्ये “ ह वै" इति पाठ एव धृतः । १२ शंकरानन्दविरचिता- [४ प्रश्नः ] प्रासङ्गिकं प्राणोपासनस्य फलमाह-यः प्राणोपासक एवमुक्तेन प्रकारेणाऽऽत्मनः प्राणो जायते मनःकृताभ्यां धर्माधर्माम्यां शरीरं गृह्णात्यात्मान च पञ्चधा विभज्य पायुपस्थयोरपान खं चक्षु श्रोत्रयोर्नाभौ समानं व्यानं नाडीसमूह उदानं च सुषुम्नायां स्थापयत्युदानेनोत्क्रामति बा| प्राणापानसमानव्यानोदानैः सूर्यपृथिव्याकाशवाय्वग्नि- मिरान्तरोपकारकैरध्यात्मव्यतिरिक्तमान्तरैश्च बाह्योपकारकैरध्यात्म धारयति स एव चोदानवृत्तिप्रधानो लोकान्तरमपि नयतीति विद्वाज्ञानवान् । पाणं पञ्चवृत्तिमात्मन- श्छायारूपम् । वेद जानाति । न ह निश्चितं नेत्यस्य निषेधार्थस्य हीयत इत्यनेन संबन्धः । अस्य प्राणविदः । प्रजा पुत्रपौत्रादि रूपा । न हीयते न विनश्यति संततेरुच्छेदो न भवतीत्यर्थः । स्वयं च प्राणविज्ञानेन विशुद्धान्तःकरणसमुत्पन्नब्रह्मज्ञा. नोऽमृतो मरणकारणाविद्याशून्यो भवति स्पष्टं तत्तत्र प्राणविज्ञानेनोक्तोऽमृतो भवती- त्यस्मिन्नर्थे । एष वक्ष्यमाणः । श्लोको मन्त्रो भवतीति शेषः ॥ ११ ॥ उत्पत्तिं प्राणस्याऽऽत्मनो जनिमायतिमायामं धर्माधर्मनिमित्तमागमनमित्यर्थः । अथवा छान्दसो दीर्घलोपः, आयातिमागमनम् । अथवाऽऽगमनस्योत्तरकालभावित्वादा- यत्या गमनमेव लक्ष्यते । स्थानं पायूपस्थचक्षुःश्रोत्रनाभिनाडीसमूहसुषुम्नाख्यमपानप्राण. समानव्यानोदानानां स्थानम् । विभुत्वं चैव सूर्यपृथिव्याकाशवाय्वग्निभियाप्तं (याप्तत्व) चकार उ(रादु)दानोत्क्रमणं च । एक्कारो भिन्नक्रमः पञ्चधेत्यनेन संबध्यते, पञ्चधां बहिरध्यात्मं च सूर्यप्राणादिभेदैः पञ्चप्रकार एव न त्वधिको न्यूनश्च, अध्यात्म चैवाऽऽत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मं चकारादधिदैवमधिभूतं च । एवकारो भिन्नक्रमः प्राणस्येत्यनेन संबध्यते । प्राणस्य यद्यपि सूर्यादयश्चक्षुरादयश्च मुख्येन प्राणेन भेदरहितास्तत्रा(थाड)पि मुख्यस्य प्राणस्यैवैतद्विभूतिजातं न त्वन्यस्य सूर्यादेवि- ज्ञाय विशेषेणोक्तेन प्रकारेण ज्ञात्वाऽमृतं मोक्षमश्नुते व्याप्नोति खेन प्रकाशेनाऽऽन- न्दात्मरूपेण युक्तो भवतीत्यर्थः । विज्ञायामृतमश्नुते व्याख्यातं पादाभ्यासः प्राणवि- द्यापरिसमाप्त्यर्थः । इतिः प्रश्नसमाप्त्यर्थः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचितायामा- थर्वणप्रश्नोपनिषद्दीपिकायां तृतीयः प्रश्नः ॥ ३ ॥ अथ चतुर्थः प्रश्नः। प्राणस्यानात्मत्वे निर्धारिते तव्यतिरिक्तात्मस्वरूपनिर्धारणार्थमुत्तरो ग्रन्थ आरम्यते- अथ कौश(स)ल्याश्वलायनप्रश्नानन्तरं हैनं सौर्यायणी गार्यः पप्रच्छ भगवम् , व्याख्यातम् । एतस्मिन्प्रत्यक्षे। पुरुषे शिरःपाण्यादिमति । कानि करणानि सभूतानि।

[४ प्रश्नः]
प्रश्नोपनिषद्दीपिका।
स्वपन्ति खापं कुर्वन्ति । कानि व्याख्यातम् । अस्मिन्पुरुषे जाग्रति जागरणं कुर्व-
न्ति, कतरः करणभूतयोर्मध्ये क एष ज्ञानवानहं पश्यामीतिप्रत्ययेन प्रत्यक्षो देवो
योतनात्मकः । स्वमान्वासनाविलासाद्रथरथयोगादीपश्यत्यवलोकयति । कस्य भूतक-
रणायन्यतमस्य तद्व्यतिरिक्तस्य वैतत्सौषुप्तं सुखमनुकूलप्रत्ययवेदनीयम् । भवति स्पष्टम् ।
कस्मिन्कुत्र। नु वितर्के सर्वाधारस्यापि प्राणस्य जायमानाद्वि(मानत्वाद्वि)तर्कः । सर्वे सप्रा-
णभूतरूपा देवा निखिलाः। संप्रतिष्ठिताः सम्यक्प्रतिष्ठा प्राप्ताः । भवन्ति स्पष्टमित्यनेन
प्रकारेण । अयमर्थः । वागादीना साकाशादीना प्राणपरतन्त्रत्वात्प्राणस्य चाऽऽमरणम.
नुपरमात्स्वप्नजागरणयोश्चोपलम्भात्स्वप्नेऽपि जागरणवळ्यवहारदर्शनात्करणेष्वनुपरतेषु
स्वप्नस्यासमवाच स्वप्ने चक्षुरादीनामुपरमस्य जागरणेऽनुपरमस्य च दर्शनेऽपि कानि
स्वपन्ति कानि जाग्रतीति प्रश्न उपपन्नः । आत्मनोऽसङ्गोदासीनत्वात्प्राणस्य भूतस्याप्य.
चेतनत्वाच्च चक्षुरादीना चोपरतत्वात्स्वप्नानुभवस्य चाध्यक्षत्वात्कतर एष देवः स्वप्नान्प-
श्यतीत्यमि(पि) प्रश्न उपपन्नः । सुषुप्तेऽपि सर्वकरणोपरमादात्मनश्च सुखरूपत्वात्पूर्वव-
कस्यैतत्सुख भवतीत्युपपन्नः प्रश्नः । प्राणविलक्षणस्याद्याप्यनधिगतत्वात्कस्मिन्नित्या-
द्यपि पृष्टमुपपन्नमेव । वागादीना सप्राणभूतानामनात्मत्वकथनानन्तरमुक्ता एवैते प्रश्नाः,
तथा च तथाऽक्षराद्विविधाः सौम्य भावा इति मन्त्रेणोक्ताक्षरस्य प्राणविलक्षणस्य
भावानां च सप्राणानां व्याख्यानमप्युत्तरेणापि ग्रन्थेन क्रियत इति ॥ १ ॥
तस्मै गार्याय । स होवाच व्याख्यातम् । मनःप्राणव्यतिरिक्तानि सर्वाणि करणानि
स्वपन्तीत्यभिप्रायेण दृष्टान्तपुरःसरमुत्तरमाह-यथा दृष्टान्ते । गाये हे गाये। परीचयः
किरणाः । अर्कस्याऽऽदित्यस्यास्तं गच्छतः सायकाले नयनपथागोचरं देशं बनतः ।
सर्वा निखिला एतस्मिन्प्रत्यक्षे तेजोमण्डले ज्योतिविम्ब एकी भवन्ति, एकतां
गच्छन्ति तेजोमण्डलादर्शने न दृश्यन्त इत्यर्थः । ताः पुनरादित्यमण्डल एकता गता
एव मरीचयः । पुनरुदयतः सवितुर्भूयो नयनपथमागच्छतो द्वितीय दिवसे । प्रचरन्ति
प्रकर्षेण विभागरूपेण गच्छन्ति सर्वासु दिक्ष, एवमनेन प्रकारेण ह प्रसिद्धं वै स्मर्य-
माणं तद्वागादिकं मरीचिस्थानीयं सर्वे निखिलं पर उत्कृष्टे वागादिवृत्त्युत्पत्तिनिरोधनि-
मित्ते । देवे सर्वव्यवहारकारणे । मनस्यन्तःकरणेऽर्कस्थानीये स्वप्नावसर एकी भवति
स्पष्टम् । तेनैकीभवनेन हेतुना तर्हि तदा स्वप्नावसर एष प्रत्यक्षः पुरुषः स्थूलो देहो
न शृणोति न पश्यति न जिप्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते
नाऽऽनन्दयते न विसृजते नेयायते । श्रोत्रचक्षुणिरसनत्वग्वाग्यस्तोपस्थपायुपा-
दानां कर्मनिषेधकानि दश वाक्यानि स्पष्टानि । नेयायत इत्यत्र न गच्छतीति
व्याख्येयम् । स्वपिति शयनं करोति, इत्यनेन प्रकारेणाऽऽचक्षते कथयन्ति
विद्वासः ॥ २॥

- शंकरानन्दविरचिता- [४ प्रश्नः] कानि स्वपन्तीत्यस्य बाह्यज्ञानकर्मेन्द्रियाणीत्युत्तरं जातं कान्यस्मिञ्जाप्रतीत्यस्यो स्तरमाह -प्राणामय एवं प्राणाः प्राणवृत्तिभेदाः पञ्च त एवाग्नयः । यद्यपि जागरणं श्रोत्रादीनां जागरणे जागरणस्वप्नयोश्च मनसस्तथाऽपि सुषुप्ते नैकस्यापि, प्राणस्य पुन- रवस्थाश्येऽपि जागरणमेव तदभिप्रायस्त्वयमेवकारः । एतस्मिन्प्रत्यक्षे पुरे नवद्वारे शरीरे जाग्रति जागरणं कुर्वन्ति ॥ प्राणानामग्नित्वमुपपादयति प्रसङ्गेनोपासनार्थम्- गार्हपत्यो गार्हपत्याभिधेयोऽग्निनिरन्तरं रक्षपीयोऽग्निहोत्रिभिई प्रसिद्धो वै स्मर्यमाण एष साक्षिप्रत्यक्षोऽपानो मलमूत्रापनयनकारी प्राणवृत्तिभेदः । व्यानो दक्षिणसुषि- रस्थः प्राणवृत्तिभेदोऽन्वाहार्यपचनो दक्षिणाग्निः ॥ इदानीमपानस्य गार्हपत्यत्वे प्राणस्य चाऽऽहवनीयत्व उक्ते वक्ष्यमाणे च साधारणं हेतुमाह-यद्यस्मागाईपत्या- दुक्तादग्नेः प्रणीयते प्रकर्षण नीयते स्थानान्तरे पृथक्क्रयत इत्यर्थः। प्रणयनादाहर- नीयः प्राण आधारस्थादपानागार्हपत्यस्थानीयात्प्रकर्षणाऽऽस्यकुण्डमदनीयाहुतिप्रक्षे- पार्थमाहवनीयो नीयत इति प्रणयनेन हेतुनाऽऽहवनीयोऽग्निः प्राण इति ॥ ३ ॥ अपानव्यानप्राणेषु गार्हपत्यदक्षिणाग्न्याहवनीयाख्याग्नित्रय इ(१)ष्टिसुक्त्वेदानी समा- नश्वासोच्छासमनउदानानामपूर्वाहुतियजमानेष्टफलत्वदृष्टिमाह-यद्यस्मादुच्छासनि- श्वासौ प्राणस्य शरीराद्वहिर्गमनं पुनः शरीर आगमनं चैतावुक्तावुच्छ्रासनिश्वासौ द्वित्वसंख्यासामान्यादाहुती काले काले पयःप्रभृतिद्वन्यप्रक्षेपणाऽऽहवनीये संपले द्वे आहुती ते समं नयति वातपित्तश्लेष्मणां त्वगादीना च धातूनामशितपीतयोश्च समं समत्वं क्षोभराहित्य यथा भवति तथा नयति प्रापयति शरीराबहिर्देशं शरीरं वाऽऽ. हुतिजन्यापूर्ववदिति यस्मात्तस्मादपूर्व स समानः समानाख्यः प्राणवृत्तिभेदः । मनो ह वाव प्रसिद्धमन्तःकरणमेव सर्वव्यापारनिमित्तत्वसामान्येन यजमानो यागस्य कर्ता । इष्टफलमेव यागफलमेवी वत्वसामान्यादुदानः सुषुम्नाचारी प्राणवृत्तिभेदः । स उक्त उदान एनं सघाताभिमानिनमात्मानं यजमान मनउपाधिकमहरहनित्यं नित्यं मुषुप्तिकाले ब्रह्म सत्यज्ञानादिलक्षणमानन्दैकरसस्वभावं ब्रह्म गमयति प्रापयति । गार्हपत्योऽपान इत्यायुक्तेन प्रकारेणोपासनं कुर्वतो ब्रह्मज्ञानोत्पादद्वारा मुक्तिरेव फलं भवतीत्येतद्वहिरेवावगन्तव्यम् ॥ ४ ॥ कतर एष देवः स्वप्नापश्यतीत्यस्योत्तरमाह-अत्रास्यां वागायुपरमरूपायां स्वप्ना- वस्थायामेष वागाद्युत्पत्तिविनाशनिमित्तभूतः साक्षिप्रत्यक्षो देवः सर्वसंसारव्यवहारका• रणमनआख्यः । स्वमे स्वप्तस्थाने महिमानं स्वात्मनो गिरिनदिसमुद्रादिरूपेण महत्त्वमा नुभवति स्वयमेव कर्तृत्वं प्राप्य स्वप्नवलादवगच्छति ॥ महिमानमनुभवतीत्युक्तं तदेत- दुपपादयति-यत्मसिद्धं करिनरतुरगादि दृष्टं दृष्टं नयनपथमागतं पदाभ्यासो वासना- प्राबल्यमाह । अनु पश्चात्पूर्व जागरणे दृष्ट्वेत्यर्थः । पश्यत्यवलोकयति । श्रुतं, ।४ प्रश्नः] प्रश्नोपनिषद्दीपिका। १७ जागरणावस्थायां श्रवणपथमागतं श्रुतमेव* श्रुतमेव न त्वन्यमर्थ विषयनातमनुश- णोति स्पष्टम् । देशदिगन्तरैश्च देशान्तरैहादिभिदिगन्तरैरुत्तराधाशादिभिः, चकारादन्यैरपि कालादिभिर्निमित्तभूतैः प्रत्यनुभूतं प्रति प्रकर्षेण न केवलमित्यर्थः । अनुभूतम]धिगतं पुनः पुनभूयो भूयः स्वप्ने दिवसे दिवसे प्रत्यनुभवति अनेकवारम- नुभवति ॥ यद्येवं तर्हि स्वप्नस्मृतिः स्यादित्यत आह-दृष्टं चादृष्टं च दृष्टं नयनपथ- मागतमदृष्ट नयनसंप्रयोगमन्तरेण स्वप्नादिवदृष्टमत्यन्तादृष्टे वासनानुपपत्तेः । चकारी प्रत्यनुभवतीति क्रियापदस्य सबन्धाौँ । श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च श्रुतं श्रोग्रेन्द्रियसंबद्धं तद्विपरीतमश्रुतं प्रमाणव्यवधानेनान्तःकरणसबद्धमनुभूतं तद्विपरीतम- ननुभूतम् । चकारौ पर्यायद्वयेऽपि पूर्ववद्याख्येयौ । सच्चासच दृष्टं श्रुतमनुभूतं सत्तद्वि. परीतमसत् । चकारौ पूर्ववत्क्रियापदानुषङ्गार्थौ । अथवाऽस्मिञ्जन्मनि दृष्ट श्रुतमनुभूतं जन्मान्तरविषये सतीप्वपि वासनासु स्मृतेरभावादृष्टं श्रुतमनुभूतमप्यदृष्टमश्रुतमननुभू- तम् । किं बहुना सर्व निखिलं पश्यति स्पष्टं, स्वय च सर्वो निखिलदेवतिर्यगादिरूपः सन्पश्यति स्पष्टम् ॥ ५ ॥ इदानी कस्यैतत्सुखं भवतीत्यस्योत्तरमात्मन एव भवतीत्यभिप्रायेणाऽऽह-स मन- आख्यो देवो यदा यस्मिन्काले तेजसा नाडीगतेन पित्ताख्येन ब्रह्मणा वाऽभिभूत. स्तिरस्कृतवासनो भवति स्पष्टम् । अत्रास्या सर्ववासनोपरमरूपायां सुषुप्तावस्थायामेष देवः स्वमान्न पश्यति स्पष्टम् । अथ तदा यत्प्रसिद्ध ब्राझं स्वरूपं मनउपाधिक- मात्मनस्तदेतस्मिञ्शरीर एतत् , स्पष्टम् । सुखं सुखस्वरूप पूर्वमपि तद्रूपः सन्वि- (पं सद्वि)शेषज्ञानाभावाद्भवति स्पष्टम् ॥ ६ ॥ कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीत्यस्योत्तरमाह दृष्टान्तेन–स आत्मनि सर्वसंप्र. तिष्ठात्वे प्रसिद्धो दृष्टान्तः । यथा दृष्टान्ते, सोम्य प्रियदर्शन गार्य घयांसि पक्षिणो वासोवृक्षं सायवासार्थं वृक्ष वासवृक्षमित्यर्थः । नित्य नित्यं सर्वतो गत्वा पुनः सायं- काले संप्रतिष्ठन्ते सम्यक्तत्प्राप्तिफलत्वेन गच्छन्ति । एवमनेन प्रकारेण ह वै प्रसिद्ध स्मर्यमाण तदुक्तं वागादिकं सप्राणभूतं सर्व निखिलं परेऽविद्यातत्कार्यतत्संस्कारेभ्यो व्यतिरिक्त आत्मनि स्वयंप्रकाशमान आनन्दात्मनि संप्रतिष्ठते सम्यगवतिष्ठते ॥ ७॥ सर्वशब्दार्थमाह-पृथिवी च पृथिवीमात्रा चाऽऽपश्चाऽऽपोमात्रा च तेजश्व तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकाशश्वाऽऽकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घातव्यं च रसश्च रसयितव्यं च स्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोपस्थश्वाऽऽनन्द. यितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च * मूले क्वचित् " तमेव " इत्यपि पाठो वर्तते ।

- शंकरानन्दविरचिता- [१ प्रश्नः बुद्धिश्च बोद्धव्यं चाहंकारवाईकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्व विद्योतयितन्यं च प्राणश्च विधारयितव्यं च । आपोमात्राऽब्मात्रां। रसो रस- नम् । तेजो ज्ञानशक्तिसामान्यमन्तःकरणचतुष्टयानुगतम् । विद्योतयितव्यमन्तःकरण. चतुष्टयसामान्यस्यैव सामान्यं विषयभूतम् । प्राणः क्रियाशक्तिः सूत्ररूप आध्यात्मिक- बाह्यभेदभिन्नः । विधारयितव्यं सूत्रात्मन्योतं च प्रोतं च प्राणव्यतिरिक्तं निखिलं विश्वम् । द्वाचत्वारिंशचकारास्तावद्भिः पादैः पर आत्मनि संप्रतिष्ठन्त इति वाक्यानु- पङ्गार्थाः । वाक्यानुषङ्गाश्च यथावचन करणीयाः । पृथिव्यादिपश्चमहाभूतस्थूलसूक्ष्मज्ञा- नकर्मेन्द्रियतद्विषयान्तःकरणचतुष्टयतद्विषयाभिधायकानि पदानि स्पष्टार्यानि ॥ ८ ॥ इदानी सर्वाधारस्य परस्याऽऽत्मनो जीवादुपाधिकृतभेदमन्तरेण भेदं वारयति-एष हि एष एव सर्वाधारः पर एव न त्वन्यः कश्चन वस्तुतश्चक्षुधर्मानात्मन्यध्यस्यन्द्रष्टा चाक्षुषज्ञानस्य कर्ता ॥ एवं त्वक्श्रोत्रघ्राणरसनाहंमतिबुद्धिक्रियाशक्तिधर्मानात्मन्यध्य- स्यत्यन्तःकरणोपाधिकः सन्वस्तुतः पूर्ण एवोक्तेन्द्रियज्ञानानां क्रियायाश्च कर्ता भवती- स्याह-स्पष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता, स्पष्टम् । मन्तृत्वादि- पदत्रय उपलक्षणादिन्यायेन व्याख्येयाः(?) । विज्ञानात्माऽन्तःकरणोपाधिकः । पुरुषः परिपूर्णः परमात्मैव सन्ननाद्यविद्यावशादन्तःकरणविशिष्टः पुरिशयो मनुष्यत्वाद्यभिमा: नीत्यर्थः । सोऽपि भेदविवक्षायां परेऽक्षर आत्मनि संप्रतिष्ठत इति शेषः ॥९॥ ननु यथेष विज्ञानात्मा पुरुषो द्रष्टुत्वादिगुणकस्तर्हि द्रष्टा श्रोतेत्यादिज्ञाना- त्पुरुषार्थः स्यादित्याशङ्कय नेत्याह-स प्रसिद्धोऽधिकारी यो यः कश्चनाधी- तवेदान्तवाक्यो ह प्रसिद्धं वै स्मर्यमाणं तत्सर्वाधारभूतं विज्ञानात्मस्वरूपं दृष्टुत्वा. दिगुणकं शरीरे वर्तमानमच्छायं छायाऽविद्या सप्राणा तया वर्जित- मच्छायमशरीरं शरीरमात्रशून्यमलोहित लौहित्यं तु रागस्तद्वाचिना लोहितशब्देन तत्कारणमन्तःकरणं लक्ष्यते तेनान्तःकरणशून्यमलोहितमत एव सर्वोपा- घिराहित्याच्छुभं सर्वोपाधिरहितं स्वयंप्रकाशमानानन्दात्मस्वरूपमक्षरं विनाशरहित व्याप्तिमद्वा वेदयते वेत्ति । योऽच्छायादिगुणकं वेत्ति स वेत्तीत्यभिप्रायः ॥ इदानीमच्छा. यादिविज्ञानिनः पुरुषार्थमाह-यस्तु यः पुनरच्छायादिविज्ञानी सोम्य हे प्रियदर्शन गार्य स उक्तोऽच्छायादिरूपज्ञानी सर्वज्ञः सर्वमस्मीति जानातीति सर्वज्ञः सर्वो भवति वर्तमाने शरीरे सर्वस्य वर्तमानोऽपि वस्तुतः सर्वरूपो भवति । तत्तस्मिन्नर्थे सर्वाधारात्माच्छायादिरूपविज्ञानात्पुरुषार्थप्राप्तावेष श्लोकः [मन्त्रः ॥ १० ॥ विज्ञानात्मा व्याख्यातम् । यद्यप्येष एव विज्ञानात्मा तथाऽपि विज्ञानस्यान्त कर- इति शेषः" इति पदद्वयस्थाने स्पष्टमिति पदमपेक्षित किंचैतदने “परमेवाक्षरं प्रार.' पद्यते " इति पदवतुष्टय त्रुटितम् ।

[५ प्रश्नः ] प्रश्नोपनिषद्दीपिका। णस्य वैशिष्ट्यं पृयगङ्गीकृत्य तस्यापि तस्मिन्प्रतिष्ठोच्यत इत्यविरोधः । परमात्मैवान्तः- करणविशिष्टः सह देवैश्च सनिखिलैः करणैर्वागादिभिर्देवशब्दाभिधेयैरपि साकं पाणाः प्राणवृत्तिभेदाः पञ्च भूतानि पृथिव्यादीनि पञ्च महाभूतानि स्थूलानि सूक्ष्माणि स्थावरजङ्गमानि च संप्रतिष्ठन्ति संप्रतिष्ठन्ते । यत्र यस्मिन्पर आत्मनि विज्ञानात्मा- भिन्नेऽच्छायादिरूपे तत्सर्वाधारभूतमक्षरम् । वेदयते यस्तु सोम्य स सर्वज्ञो व्याख्या- तम् । सर्वमेव निखिलमेवाऽऽत्मत्वेनाऽऽविवेश समन्तात्प्रवेशं कृतवान्करोतीत्यर्थः । [इति मन्त्रसमाप्त्यर्थः । ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचितायामा- थर्वणप्रश्नोपनिषदीपिकायां चतुर्थः प्रश्नः॥४॥ अथ पञ्चमः प्रश्नः। अक्षरविज्ञानात्परपुरुषार्थप्राप्तिरुक्ता तत्प्रसङ्गेनोंकारस्याप्यक्षररूपत्वादोमित्येतदक्षर. मिदं सर्वमित्यादिना ब्रह्मसमानत्वेनोक्तत्वाच्च तद्विज्ञानात्परः पुरुषार्थः स्यान्न वेति संदेहात्प्रश्नोत्थाने तद्विज्ञानादपि परः पुरुषार्थः प्रकारान्तरेण भवतीत्येतदर्थमयं प्रश्न आरभ्यते--अथ गाय॑प्रश्नानन्तरं हैनं शैब्यः सत्यकामः पप्रच्छ व्याख्यातम् । स ओंकारब्रह्मणोऽक्षरशब्दाभिधेयत्वाभिज्ञो यो यः कश्चन त्रैवर्णिको ह वै प्रसिद्धः स्मर्यमाणोऽधिकारिगुणैः, (तदद्भुतमिव] भगवन्हे भगवन्मनुष्येषु मनुनेषु मध्ये मायणान्तं मरणपर्यन्तमोंकारं प्रणवमभिध्यायीताभिध्यायेत्सर्वतो ध्यानं कुर्यात्कतम- मेषु तेषु परापरविद्याफलभूतेषु क वाचैव परमपरमुभयं चे(वे)त्यर्थः। स ओंकाराभिध्याता तेनोंकारध्यानेन लोकं विद्याफलं जयति प्राप्नोतीत्यनेन प्रकारेण । तस्मै शैब्याय स होवाच व्याख्यातम् ॥ १॥ एतद्वा एतदेव सत्यकाम हे सत्यकाम परं चापरं च [ब्रह्म] परं निरतिशयमपर• मृग्वेदादिरूपं चकारौ यदस्ति यन्नास्ति च तदप्येतदेवेत्याहतुः ॥ ब्रह्मशब्दवाच्यमेत- च्छब्दार्थमाह-यत्प्रसिद्धः सर्ववेदेषु, ओंकारः प्रणवस्तस्मात्परमपरं च ब्रह्मोंकार- स्ततो विद्वानोंकारव्याप्तिज्ञानवानेतेनैव सर्ववेदे प्रसिद्धेनोक्तेनोंकोरणैव न त्वन्येनाऽऽ. यतनेनाऽऽश्रयेणैकतरं स्वाभिप्रेतं परमपरं वा ब्रह्म परापरयोर्ब्रह्मणोर्मध्येऽन्वेति शास्त्रोपदिष्टेन मार्गेणोपास्य पश्चाद्गच्छति ॥ २ ॥ इदानी मात्राभेदज्ञानाद्विशेषफलान्याह-सोऽभिध्याता यदि पक्षान्तर एकमात्र- मेहमात्राकालमकारमात्र वाऽभिध्यायीत व्याख्यातं स एकमात्राभिध्याता तेनैवैक- मात्राध्यानेनैव न त्वन्येन संवेदित एकमात्राव्याप्ति सम्यम्बोधितस्तूर्णमेव शीघ्रमेव न २० शंकरानन्दविरचिता- [५ प्रश्नः तु विलम्बेन जगत्यां स्थावरजङ्गमव्याप्तिमत्यां भूमौ तादात्म्येन तदधिष्ठातृत्वेन वाड- भिसंपधते सर्वतः संपन्नो भवति । तं पृथिवीसंपन्नमृचः पादबद्धा मन्त्रा ऋग्वेदाख्या मनुष्यलोकं मनुनशरीरफलं सर्वगुणसंपन्नं सार्वभौमानन्दमित्यर्थः । उपनयन्ते सत्कृत्य समीपतः प्रापयन्ति । स ऋम्भिर्मनुष्यलोकं प्रापितस्तत्र तस्मिन्मनुष्यलोके तपसा स्वधर्मवर्तनादिना ब्रह्मचर्येण सर्वात्मना मैथुनवजैनेन श्रद्वया वेदोक्तार्थ आस्तिक्य- बुद्ध्या संपन्नः संप्राप्तो महिमानं महत्त्व स्वात्माभिन्नं मानुषमानन्दमित्यर्थः । अनुभ- पति साक्षात्करोति । एतदुक्त भवति । ऋग्भिर्मनुष्यलोकं प्रापितोऽपि तपआदिवनितो न तं लोकमनुभवति राजमन्त्रिभिः स्निग्धो राजा प्रापितः पान्थ इव पुण्यहीनो न राजश्रियमनुभवतीति ॥ ३ ॥ अथैकमात्राव्यतिरिक्तेन यदि केनचिदैवयोगेन द्विमात्रेण द्विमात्रकालेनाकारोका- राभ्यां वा मनसि संपद्यतेऽन्तःकरणे संपन्नो भवति, अभिध्यायेदित्यर्थः । स मनसि संपन्नोऽन्तरिक्षमन्तरिक्षाधारं यजुभिरविवक्षितच्छन्दस्कैमन्त्रर्यजुर्वेदशब्दवाच्यैरुनीयत ऊर्ध्व प्राप्यते सोमलोकं सोमस्य प्रियदर्शनस्य लोकं प्रियदर्शन मनुष्यानन्दादभ्य- धिकानन्दं पित्रादिशरीरमित्यर्थः । स यजुभिः सोमलोकं प्रापितो ब्रह्मज्ञानहीनः सोमलोके व्याख्याते शरीरे विभूर्ति परमैश्वर्यमनुभूय साक्षात्कृत्य दुर्मन्त्रीव महारा- म(जा)प्रसादे पुनरावर्तते पूर्वमपि तस्मात्प्रच्युतस्तमारूढो भूयः खरशूकरादियोनि ब्राह्मणादियोनि वा स्वकर्मानुसारेणाऽऽगच्छति ॥ ४ ॥ यः पुनर्यस्तु प्रसिद्धः पूर्वेभ्योऽन्योऽभिध्यातैतं बुद्धेन॒ष्टारमानन्दात्मानं त्रिमात्रेणा- कारोकारमकाररूपेण ॥ त्रिमात्ररूपमाह-ॐ अवतीत्योमित्यनेन प्रकारेण त्रिमात्रः । एतेनैवोक्तेन त्रिमात्रेणैव परमपुरुषाभिधानेनाभिन्नेनाऽऽलम्बनेनाक्षरेण वर्णात्मकेना- विनाशिना न्याप्तिमता वा परमविद्यात कार्यतत्संस्कारेभ्यो व्यतिरिक्तं पुरुषं परिपूर्णम- भिध्यायीत व्याख्यातम् । सोऽभिध्याता तेजसि तेजोमण्डले सूर्ये शोभनाया गतेः कर्तरि संपन्नः सम्यक्प्राप्तः ॥ इदानी सूर्य प्राप्तस्य पापविनिर्मोक्षे दृष्टान्तमाह-यथा दृष्टान्ते, पादोदर उदरमेव पादा यस्य स पादोदरः सर्प इत्यर्थः । त्वचा जीर्णेन कञ्चुकेन विनिर्मुच्यते विशेषेण नि.शेषेण मुक्तो भवति एवमनेनैव प्रकारेण ह प्रसिद्धो वै स्मर्यमाणः स सूर्य प्राप्तः पाप्मना पापाविनाभूनेन पुण्येन पापेन च विनिर्मुक्तो विशेषेण निःशेषेणासंबद्धः स पापरहितः सामभिगीतिप्रधानमन्त्रैः सामवेदाभिधानैरुन्नीयते सूर्यादूर्ध्व प्राप्यते ब्रह्मलोकं कार्यस्य ब्रह्मणो निवासभूतं देशम् । स ब्रह्मलोकं प्राप्त एतस्माद्ब्रह्मलोकस्थानाद्धिरण्यगर्भाज्जीवधनाजीवानां कार्यकारणात्मनां घनोऽखिलो जीवघनः सर्वकार्यकारणादिकारणमित्यर्थः । तस्मात रात्स्थावरनामेभ्य उत्कृष्टात्परमुत्कृष्टमुत्कृष्टाउजीवचनात्पुरिशयं सर्वशरीरे शयान S.

प्रश्नः] प्रश्नोपनिषदीपिका। पुरुषं परिपूर्णमीक्षते साक्षात्करोति । एवमुक्तं भवति, ब्रह्मलोक उत्पन्नब्रमसाक्षा- कारो विदेहकैवल्यं प्राप्नोतीति तत्तस्मिन्नुक्तेऽर्थ एतौ वक्ष्यमाणौ श्लोको मन्त्री भवतः स्पष्टम् ॥५॥ तिस्रस्त्रिसंख्याका मात्रा मीयन्तेऽध्यात्ममधिभूतमधिदैवं च याभिस्ता अकारोका- रमकाराख्या मृत्युमत्यो ब्रह्मदृष्टिमन्तरेण दृष्टा मरणवत्यः प्रयुक्ता एता एव ब्रह्मज्ञान- मन्तरेण स्वातन्त्र्येण ध्यानाय प्रकर्षणावगता अन्योन्यसक्ताः परस्परसंबद्धाः॥ अन्यो- न्यसक्तत्वमाह-अनविप्रयुक्ता विशेषेण प्रयुक्ता एकस्मिन्नर्थे ध्यानकाले संबद्धा विप्रयुक्ताः [ न विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः । विप्रयुक्ता एवे. त्यर्थः । ] क्रियासु कर्मरूपासु ॥ क्रिया आह-बाह्याभ्यन्तरमध्यमासु जाग्रत्स्व- प्रसुषुप्तिपुरुषविषयासु । अथवा यागादिक्रिया बाह्याः प्राणायामाचा आभ्यन्तरा मान. सनपाद्या मध्यमास्तासु बाह्याभ्यन्तरमध्यमासु । सम्यक्प्रयुक्तास्वहं ब्रह्मास्म्येता अपि ब्रह्मणोऽभिन्ना इति सम्यगवगत्य प्रकर्षेण कृतासु न कम्पते न चलति शो ब्रह्मवित् ॥ ६॥ ऋग्भिः पादवद्वैमन्त्रैरेतं मनुष्यलोके यजुभिरविवक्षितन्छन्दस्कैर्मप्रेरन्तरिक्षम न्तरिक्षाधार* सोमलोकं सामभिर्गीतिप्रधानमन्त्रैर्यत्तत्कवयो वेदयन्ते यत्प्रसिद्ध कवयः क्रान्तदर्शिनो ब्रह्मज्ञानिनोऽवगच्छन्ति तत्स्थानं ब्रह्मलोकाख्यमन्तीति त्रिष्वपि संबध्यते । किं बहुना तं वयंप्रकाशमानन्दात्मानमोकारेणैवाऽऽयतनेनान्वेति विद्वान् , स्पष्टम् ॥ तच्छब्दार्थमाह-यत्प्रसिद्धं वेदान्तेषु तत्तत्त्वमसीत्यादिनोक्तं शान्तं रागादिदोषरहितमजरं जरा शरीरवैरूप्यकारण तया रहितममृतं मरणादिदो. परहितमभयं द्वितीयाभावाद्भयवर्जितं परं चोत्कृष्टम् । चकारात्पूर्वोक्तमृग्यजुःसामप्रा. प्यमपरमपि [इति वाक्यसमाप्तौ । ] ॥ ७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचितायामा- थर्वणप्रश्नोपनिषदीपिकायां पञ्चमः प्रश्नः ॥५॥ अथ षष्ठः प्रश्नः। ओंकारेणावाप्यं परं ब्रह्मेत्युक्तं न तत्स्वरूपं निर्धारितं तन्निर्धारणार्थमयं प्रश्न आर- म्यते-अथ शैब्यप्रश्नानन्तरं हैन सुकेशा च भारद्वाजः पप्रच्छ भगवन् , व्याख्या- तम् । हिरण्यनाभो नामतः कौसल्यः कोसलायां भवो राजपुत्रः क्षत्रियः कस्यचि. * एतदने 'स' इति पदमधिक कचिन्मूले तच भाष्यदीपिकयोर्न गृहीतम् ।

शंकरानन्दविरचिता- [६ प्रश्नः] द्राज्ञस्तनयो मां भारद्वाजमुपेत्य समीपमागत्य विधिवदेनं(तं)* वक्ष्यमाणं प्रश्नं प्रष्टः व्यार्थमपृच्छतापृच्छत्पृष्टवान् । षोडशकलं षोडशसंख्याकाश्चन्द्रस्येव कला उपचया- पचयहेतुभूता यस्य स षोडशकलस्तं भारद्वाज हे भारद्वाज पुरुषं परिपूर्ण वेत्य जानीषे, तं हिरण्यनाभं मा पृच्छन्तपई भारद्वाजः कुमारं राजबालमब्रुवमुक्तवान् । नाहमिमं वेद, इमं षोडशकलं त्वत्पृष्ट पुरुषमहं भारद्वाजो न जानामि ॥ स्वाज्ञानेs. न्यथाऽनुपपत्तिमाह-यदि पक्षान्तरे, अहमिमं व्याख्यातम् । अवेदिषं ज्ञातवा- नस्मि कथं केन हेतुना ते तुभ्यं राजकुमाराय शिष्याय नावक्ष्यं न कथयिष्यामि तस्मान्न नानाम्येवेत्यर्थः । इत्यनेन प्रकारेण ॥ मैवं शङ्किष्ठा अयमनृतं वदतीत्येवमाह- समूलो वै सह मूलेन शुभकर्मविद्यादिना वर्तमानः समूल एवेषोऽनृतवादी परि- शुष्यति सर्वतः शोषं गच्छति, इह परत्र वा सुखलेशेन शून्यः स्थावरजङ्गमैभूतैर्वाक्का- यमनोभिस्तिरस्कृतस्त्रिविधदुःखाग्निना ददह्यमानसर्वदेहेन्द्रियोऽयं भ्रमतीत्यर्थः । कः, या प्रसिद्धोऽनृतवागनृतमयथादृष्टार्थवचनमभिवदति सर्वतो ब्रूते । यस्मादेवं तस्मा- त्ततो नामि न योग्यो भवाम्यनृतमयथाभूतार्थं वक्तुं भाषितुम् । अयमर्थः। यो ह्यनृतवदननं दोषं न जानाति स तु वदतु नामानृतमहं तु तदभिज्ञः कथमनृतं वदा- मीति । एवं मद्वाक्यं श्रुत्वा स राजपुत्रोऽयमपि या(मा)दृश इति मत्समीपागमनेन लज्जितस्तूष्णी साध्वसाधु वेति मां प्रतिवचनमदत्त्वैव रथमारुह्य स्वयानारूढ. स्वं नगरं प्रवव्राज प्रकर्षेण शीघ्र जगाम । अनयाऽऽख्यायिकयैतद्दर्शितं महर्द्धाना राज्ञां तपः- श्रद्धादियुक्तानां मुनीनां च ब्रह्मविद्या दुर्लभा किमुतान्येषामिति । तं षोडशकलं पुरुष हिरण्यनाभेन मा प्रति पृष्ट त्वा त्वां प्रति पिप्पलादं पृच्छामि क कुत्र प्रदेशेऽसौ षोडशकलः पुरुषः परिपूर्ण', इत्यनेन प्रकारेण ॥ १ ॥ तस्मै भारद्वाजाय पृच्छते । स होवाच व्याख्यातम् । इहैवास्मिन्नेव स्थाने न वन्यत्र । सामान्यत उक्तं विशेषत आह-अन्तःशरीरे शरीरस्य मध्ये हृदयपुण्ड- रीक इत्यर्थः । सोम्य हे प्रियदर्शन स हिरण्यनाभेन भवन्त परिपृष्टः पुरुषः घोड- शकलः पुरुषो यस्मिन्हदयपुण्डरीकस्थे पुरुष एता वक्ष्यमाणाः षोडश षोडशसं. ख्याकाः कलाः कं ब्रह्म लीयते तिरस्क्रियते याभिस्ताः । कलाः प्रभवन्ति प्रकर्षेण भवन्ति, यत उत्पद्य यस्मिन्वर्तन्ते लीयन्ते चेत्यर्थः । इत्यनेन प्रकारेण ॥ २ ॥ सक्षेपेणोक्त्वा विस्तरेणाऽऽह-स हृदयपुण्डरीकस्थः षोडशकलः पुरुष ईशांचक्रे चिन्तन कृतवान् ॥ तञ्चिन्तितमर्थमाह-कस्मिन्नु* विचारे केन नाम तत्त्वेन क्रियावताऽ. इमसङ्गोदासीनोऽद्वितीयः क्रियाकारकफलशून्यः स्वयंप्रकाशमान आनन्दात्मोत्क्रान्त * क्वचिन्मूले “एनम्" इति पाठो वर्तते । + क्वचिन्मूले “ह वै” इति पाठः । * भाष्यकृती नुशब्दरहित. पाठ एव स्वीकृतः ।

[६ प्रश्नः ] प्रश्नोप बदीपिका। उक्रान्तेनोवं गतेन यथाश्रुतं वा कस्मिन्नुस्कामति सति, उत्क्रान्तो भविष्याम्यूर्व गतः स्याम् । कस्मिन्या कस्मिंस्तत्त्वान्तरे वाशब्दः क्रियान्तरनिर्देशार्थः । प्रतिष्ठितेs- वस्थिते । प्रतिष्ठास्यामि, अवस्थास्य इत्यनेन प्रकारेण विचिन्त्य प्राणस्य क्रिययाss- स्मनि क्रियामवलोक्य च ॥३॥ सोऽन्यक्रिययाऽऽत्मनि क्रियाकामी षोडशकलः पुरुषः प्राणमाधिदैविकं सर्वप्रा. णिसूत्रभूतमसृजतोत्पादितवान् ॥ तावता च संसारयात्राया निर्वाहमपश्यश्रद्धाद्या अप्यन्याः पञ्चदश कलाः ससर्जेत्याह-माणादुक्ताद्धिरण्यगर्माद्भूतमूक्ष्मात्सर्वकारणा- ब्रह्मणः प्रथमजाच्छ्रद्धामास्तिक्यबुद्धिमसृजतेत्यनुवर्तते ॥ इदानीं शेषाण्यपि गणयति- खं वायुज्योतिरापः पृथिवी, स्थूलानि पञ्च महाभूतानि । इन्द्रियं मनः, भौतिक ज्ञानकर्माख्यं चक्षुरादिकं वागादिकं च दशकमिन्द्रियं मनोऽन्तःकरणमनं प्रसिद्ध ब्रीह्यादिकमदनीयमन्नादुक्ताद्वीय शरीरेन्द्रियसामर्थ्य तपः शरीरशोषणादिरूपं मत्रा ऋग्यजुःसामाथर्वाङ्गिरसः कर्म ज्योतिष्टोमादिरूपं लोकाः कर्मफलभूताः सोमलोकाया लोकेषु चोक्तेषु चशब्दादन्येप्वपि नाम [च ] देवदत्तो यज्ञदत्त इत्यादि नामधे- यम् ॥४॥ इदानी पुरुषस्यास्य निमित्तमात्रत्वं न तूपादानत्वमितीमा शङ्का वारयितुं दृष्टान्तेन षोडशकलाना पुरुष उपसंहारमाह-स दृष्टान्तः, यथा दृष्टान्न इमाः प्रत्यक्षा नयो गङ्गाद्याः सरितः स्यन्दमानाश्वलन्त्यः समुद्रायणाः समुद्रे गमनं यासां ताः समुद्रा- यणाः समुद्रं सिन्धुराज प्राप्य तादात्म्येन सबध्यास्तं गच्छन्ति अदर्शनं प्राप्नुवन्ति ॥ अस्तगमन स्वयमाह-भिद्यते विनश्यते ता(श्यतस्ता)सां नदीना नामरूपे गङ्गेत्यादिकं नाम शुभ्रमधुरनीलत्वादिक रूप नाम च रूपं च नामरूपे । नामरूपभेदानन्तरं समुद्रः शब्दानुकरणमिति, अनुकरणार्थः । एवमनेन प्रकारेण प्रोच्यते प्रकर्षेण कथ्यते । एवमेवानेनैव प्रकारेणास्य षोडशकलस्य पुरुषस्य परिद्रष्टुः सर्वतः सर्वसाक्षिण इमाः प्राणाधा नामान्ताः षोडश कला व्याख्यातम् पुरुषायणाः पुरुषं पाप्यास्तं गच्छन्ति भिद्यते चाऽऽसां नामरूपे पुरुष इत्येवं प्रोच्यते । समुद्रस्थले पुरुषेति तासामितिस्थले चाऽऽसामिति पाठतो विशेषः । ततः समुद्रनदीवाक्यवत्पुरुषकलावाक्यं व्याख्येयम् । नदीनां सर्वैः प्राणिभिः प्रत्यक्षीकर्तुमक्यत्वात्तासामिति निर्देशः । कलानां च प्रतिप्रा- णिप्रत्यक्षत्वादासामिति । चकार कैमुतन्यायार्थः । नदीनामसमुद्रनानामपि समुद्रे लयो दृष्टः किमुत पुरुषजानां कलाना पुरुषे लय इति । न चानेनैव निदर्शनेन पुरुष- स्यानुपादानत्वं, लयमात्रत्वस्य निदर्शनत्वात् । विवक्षितांशपरित्यागेनान्यत्र निदर्शना. ङ्गीकारे सर्वत्रातिप्रसङ्गात् । स कलोपादान एष बुद्धेर्दष्टाऽकलो वस्तुतः कलारहितोऽ. 'भविष्यामि' इत्येतदन इतिशब्दोऽधिकः क्वचिन्मूले ।

[] खोयाताकार्यवत्संस्कारमरणहेतुशून्यो भवति साटम् । तत्चस्मिनोपरेड. को बसोको [ व्याख्यातम् ] ॥ ९ ॥ भरा इस रखनाभी व्याख्यात, कला यस्मिन्मतिष्ठिताः स्पष्टम् । कलाधार वेष वेदनीयं साक्षात्करणीयं पुरुष परिपूर्ण पदयया है शिष्या मद्वचनादवगळा तान्ये पूर्व महद्यः स्वशिष्येभ्यो वेदयत ब्रह्मविद्यासंप्रदाय प्रवर्तयतेवर्षः । अवि. पासंप्रदायप्रवर्तनेऽस्माकं संसारो भविष्यतीति भीति मा कुरुत भवतामयं मया परोक्त इत्याह-मा वो मृत्युः परिव्यथा वो युष्मानब्रह्मविद्यासंप्रदायप्रवर्तकान्मृत्युविपरीत- ज्ञानरूपो मा परिव्यथा मा परिव्यथयतु । अथवा वेदयथ(था) मानीय ॥ तजाने आममाह-वो ब्रह्मज्ञानिनो मृत्युर्मा परिव्यथाः ॥ इदानीं श्रुतिराह-इत्यनेन प्रका- रेण ॥१॥ साभारद्वाजसत्यकामगार्याश्वलायनवेदर्भिकात्यायनान्ह किलोवाचोकवानेतावदे- वेल्थमेवाहं पिप्पलाद एतत्परं ब्रह्म व्याख्यातं वेद जानामि ।। एवशब्दव्यावत्वं खय- माह-नाता परमस्ति, अतोऽस्मादुक्ताह्मज्ञानात्परमधिक मम वाऽन्यस्य वा नास्ति [इति श्लोकसमाप्तौ ] ॥ ७॥ एवं पिप्पलादेनोक्ते सति ते पिप्पलादशिष्या भारद्वानाइयस्तं स्वगुरु पिप्पलाद- मर्चवन्तो मनोवाक्कायैर्यथोचितं पूजयन्त इदमुक्तवन्त इत्याह-वं पिप्पलाद(दो) हि निश्चित नोऽस्माकं भारद्वानादीना पिता जनकः । पितृत्व उपपत्तिमाह-या प्रसिम्रो गुरुरस्माकं भारद्वाजादीनामविद्याया आवरणविक्षेपशक्तेः सर्वानर्थमूलायाः परं पारममाधमलायाः सिन्धोरिव परतीरमविद्यालेशशून्यमानन्दात्मानमित्यर्थः । तार- पसि दर्शयति । इत्यनेन प्रकारेण | नमो नमस्कारः परमर्षिभ्य उत्कृष्टेम्योऽती. न्द्रियबसविद्यासप्रदायकर्तृभ्यो ब्रह्मादिभ्यः । नमः परमर्षिभ्यो व्याख्यातम् । वाक्या- भ्यास उपनिषत्परिसमाप्त्यर्थ. ॥८॥ । इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥६॥ इति श्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरान- खगवतः कृतौ प्रश्नोपनिषद्दीपिका समाप्ता ॥

No text on this page.

Prashropanishhatan't'iikaasan'valita San'karabhaashhyasametaa

Author
Anandagiri
Title
Prashropanishhatan't'iikaasan'valita San'karabhaashhyasametaa
File name
Prashropanishhatan't'iikaasan'valita San'karabhaashhyasametaa
Text
OCR done
Citation
1896
Publisher
Hari Narayana Apte
Language
Sanskrit
Pages
106
Library
Others
Classification
Upanishad
DLI number
368825
Barcode
5010010030036.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
fUOmCXqc218
Download PDF

Prashropanishhatan't'iikaasan'valita San'karabhaashhyasametaa