Library

Shriimadand-ubhaashhyama Faskiikyulasa~ 8

Vallabhaachaara~yaa Shriishrii · 2005-11-29

PDF Proofread

Front matter

THE BOOK WAS DRENCHED

UNIVERSAL
LIBRARY
OU_184383
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

c BENARES SANSKRIT SERIES; -- A COLLECTION OF SANSKRIT WORKS EDITED BY THE L'ANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. I'. H. GRITTITH, M. A., C. I. E. AND G. THIBAUT, PH. D. No. 118. श्रीमदणुभाष्यम् । Registered under Act XYV. of 1867. ( ALL RIGHTS RESERVED. ) श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजीमहाराजविरनितभाप्य. प्रकाशालय व्याख्यासमेनम । श्रीमदाचार्यश्रीवलुभाधीश्वरशुद्धाद्वैनमंप्रदायविदुपा रत्तगोपाल भट्टन संशोधितम् । LT BILÎSHY.1. Os Braunasi TRA BY Śrì V'ALLABLACHÁRYS, With the Commentary called Blasiya Pralinit, By Goswami Sri Purushottamijer Maharaj. EDITD BY RATYA Goril Bualli. Fining IIII. BENARES: Public... by the Proprietors Ilessis. Braj B. Dus & Co., Chowkhumbês Sienskril Dunk Depot. ated at the Vidyà Vilâs Press, BENARES. AND SOLD BY H. D. GUPTA, ', 1906.

सूचीपत्रम्। २ 38) गणपाठः गोलप्रकाशः गंगालहरी गुरसारणी जातकतत्त्वम् त . ४ ० १२ १ ---- १ ६ 51729 S18I.48 P.G SI729 VITS ध वल्लभाचार्य नीमद भाग्यम् : Fasciculus-8. 1906 द . ध . ४ . १ . . . . १ . ११ ९ -- . . . . . २ ३ २ ar anar var ao V . . . उपसर्गवृत्ति क्षेत्रकौमुदी क्षेत्रसंहिता १ ६ . . २ २ अध्याये २ पादः। ६७३ उत्पत्त्यसम्भवात् ॥ ४२ ॥ भागवतमते कञ्चिदंशं निराकरोति । ते च चतुर्ग्रहोत्पत्तिं वदन्ति । वामावात् सङ्कर्षणस्तस्मात प्रद्युम्नस्तस्मादनिरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामुत सङ्कर्षण- स्य जीवत्वम् । अन्यान्यत्वम् । शिवागमैकदेशदूषणपरामुक्त्वा केवलेश्वरनिमित्तत्ववादिहिरण्यग- भॊक्तयोगस्मृतिमात्रनिराकरणपरामित्याह । तदसङ्गतम् । केषाश्चि- दाचाराणां शैवपुराणाविरुद्धत्वेऽपि पूर्वोपदर्शिताचाराणां विरुद्ध- त्वेनाप्रामाण्यादिति । भिक्षुस्तु सांख्याधुक्तेन विरोधितःणानुकूलतर्काभावेनश्रुति- प्रवृत्तः प्राग्व्याप्तिग्रहाभावेन केवलानुमानैरीश्वरसाधनं निराकर्तु- मिदमधिकरणमासमाप्त्येकमित्याह ॥ ४१ ॥ ७ ॥ उत्पत्त्यसम्भवात् ॥ अधिकरणप्रयोजनमाहुः । * भागवते. स्यादि * । ननु श्रुत्यविरुद्धा स्मृतिः प्रमाणमिति स्थितिः । पञ्चरात्रे च परमात्मा वासुदेव एव जगत उपादानं निमित्तं चोच्यते । योग- श्व तत्प्राप्त्युपाय उपदिश्यते । अभिगमनोपादानेज्यास्वाध्याययोगैर्भ- गवन्तं वासुदेवमाराध्य क्षीणक्लेशस्तमेव प्रतिपद्यत इति । अयं च सर्वोऽपि प्रपञ्चः श्रुतिप्रसिद्ध एवेति कुतो निराकरणमित्याशङ्कनयां तमंशं स्फुटीकुर्वन्ति । * ते चेत्यादि * I * चतुर्म्यहोत्पत्तिमिति * चतुर्यो व्यूहश्य उत्पत्तिम् । तथाचाऽयमंशो निराकार्य इत्यर्थः । नन्वेकोऽहं बहु स्यामिति, स एकधा भवतीत्यादिश्रुतावेकस्यानेक- व्यूहता। तस्माद्वा एतस्मादित्यादौ क्रमसृष्टिश्च श्रावितैवति किमत्र विसंवादस्थानमित्यत आहुः । * तत्रेत्यादि * / * अन्यान्यत्वमिति * अन्ययोः प्रद्युम्नानिरुद्धयोरेन्यत्वं जडत्वम् । तथाच श्रुतौ यत्रानेक- व्यूहतोक्ता, न तत्रोच्चनीचत्वम् । यत्रोच्चनीचत्वं बोधितम्, तत्र नानेकव्यूहता । इह तु साम्यमुचनीचत्वं चोच्यते । अथवा । यत्राने- कव्यूहता तत्र नोत्पत्तिर्यत्रोत्पत्तिर्न तत्र सा । अत्र तूभयमेकत्रेति विसंवादस्वानमित्यर्थः । नन्वासीनो दूरं बजतीत्यादौ विरुद्धधर्माभ- ६७४ समका अणुभाष्ये उत्पत्तिपक्षे जीवस्योत्पत्तिर्न सम्भवति । तथा सति पूर्ववत् सर्वनाशः स्यात् ॥ ४२ ॥ न च कर्ल करणम् ॥ ४३ ॥ कर्तुः सङ्कर्षणसंझकाज्जीवात् प्रद्युम्नसंबकं मन उत्पद्यते इति । तल्लोके न सिद्धम् । न हि कुलालाद्दण्ड उत्पद्यत इति । चकारादग्रिमस्य निराकरणम् ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पत्वस्व ब्रह्मणि सिद्धत्वाद्, अजायमानो बहुधा विजायत इति श्रुत्याने- कव्यूहतायामप्युत्पत्तः श्रावणाच नात्रापि श्रुतिविरोध इत्यत आ- हुः । * उत्पत्तीत्यादि * । न जायते न म्रियते वा विपश्चिदिति श्रु- स्था जीवस्य तदुभयनिषेधादुत्पत्त्यङ्गीकारे च तस्यानित्यतायां मो- क्षाभावः। कार्यस्य कारणे लयप्रसङ्गात् । ततो मोक्षशास्त्रवैफल्यं च स्यात् । ब्रह्मवद् विरुद्धधर्माधारत्वस्य जीवे श्रुत्या अनुक्तत्वात् । व्यु- चरणं तु मोत्पत्तिः, किन्तु विभागमात्रमतो न दोषः । नच तस्य त- त्रस्य भगवत्प्रणीतत्वादस्मिन्नप्यंशे कथं विरोध इति शङ्यम् । को- में चतुर्दशाध्याये गौतमशप्तानां मुनीनामर्थे 'तस्माद्वै वेदबाथानां रक्षणार्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज । एवं सम्बोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवरितः । कापालं लागुडं वामं भैरवं पूर्वपश्चिमम् ।पा- चरात्र पाशुपत तथाऽन्यानि सहनश' इति । साम्बपुराणे च । 'पा- भराचं भागवतं तन्नं वैखानसाभिधम् । वेदभ्रष्टान् समुहिश्य कम- लापतिसक्तवानिति वाक्यात्तावतोऽशस्य बुद्धिपूर्वकमेव तत्र स्थाप- मात् । अतोन कश्चिदोषः॥ ४२ ॥ मच कर्तुः करणम् ॥ * अप्रिमस्येति * अहङ्कारस्य । अत्रापि लोकश्रुत्योर्विरोध एष दोषः । स्फुटमन्यत् ॥ ४३ ॥ विज्ञानादिमावे वा तदप्रतिषेधः ॥ पक्षान्तरं प्रतिक्षिपतीत्या- २ अध्याये २ पादः। अथ सर्वे परमेश्वरा विज्ञानादिमन्त इति तथा सति तदम- तिषेधः । ईश्वराणामप्रतिषेधः । अनेकेश्वरत्वं च न युक्तभिसर्थः। वस्तुतस्तु वातन्त्र्यमेव दोषः ॥४४॥ विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकाराद् वेदप्रक्रियाविरोधः ॥ ४५ ॥ इति श्रीवेदव्यासविष्णुखामिमतवर्तिश्रीवल्लभाचार्य- विरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥२॥ हुः । * अथेत्यादि * । * विज्ञानादिमन्त इति * विज्ञानेश्वर्यशक्ति- बलवीर्यतेजःप्रभृतिपारमेश्वरधर्मान्विताः । अप्रतिषेधः * अमियम- नम् । शेषं स्फुटम् ॥ ४४ ॥ विप्रतिषेधाच ॥ * बहुकल्पनयेत्यादि * प्रद्युम्नास्यं मनो- ऽनिरुखोऽहङ्कार इति करणत्वमहङ्कनरत्वं चाभिधाय सर्व एते वासु- देवा आत्मान एवोति परमेश्वरत्वादिकल्पनया, शाण्डिल्यश्चतुर्ष थे- देषु परं श्रेयोऽलब्ध्वा इदं शास्त्रमधीतवानित्यादिरूपया वेदनिन्दा च खोक्तविरोधो वेदविरोधश्चेत्यर्थः । * वदप्रक्रियाविरोध इति. * तप्तचक्रादिधारणरूपसाधनप्रकारविरोधः । एवञ्च मोक्षधर्मे नरनारायणीये 'सांख्यं योगः परावेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि चै । सांस्य- स्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगो योगस्य कला नान्यः पुरातनः । अपान्तरतमश्चैव वेदाचार्यः स उच्यते । प्राचीन- गर्भ तमृर्षि प्रवदन्तीह केचन । उमापतिर्भूतपतिः श्रीकचे प्राणः सुतः । ऊचिवानिदमव्यग्री ज्ञानं पाशुपतं शिवम् । पश्चरात्रस्वरू- स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वपि नृपश्रेष्ठ हाम्वेते - सप्रकाशे अणुभाष्ये । श्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । नचैनमेवं जा- नन्ति तमाभूता- विशांपते । तमेव शास्त्रकर्तारः प्रवदन्ति मनी- षिणः। निष्ठां नारायणमृषि नान्योऽस्तीति वचो मम । निःसंश- येषु धर्मेषु नित्यं संवसते हरिः । ससंशये तु भगवान्नाऽ- ध्याऽऽवसति माधवः । पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै । सांख्यं च योग- श्व सनातनं वै वेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैषिभि- निरुक्तो नारायणो विश्वमिदं पुराणमिति सर्वेषां भगवत्परत्वं घदतां पञ्चरात्रविदां भगवत्प्राप्तिं च वदताम् । 'सांख्यं योगः पञ्च- रात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिरिति च वदतामपि वाक्यानां न विरोधः । 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुति- विरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः । जैमिनीये चेति पराशरोपपुराणी- यवाक्योक्तस्य श्रुतिविरुद्धांशस्य कौआदिवाक्योक्तस्य विमोहनांश- स्य च दूषणमुखेनात्र स्फुटीकरणात्। बहुषु भाष्येष्वेवं व्याख्यान- दर्शनेन प्राचीनवृत्तिष्वप्येताहशव्याख्यानानुमानात् । तेनादं नि- पन्नम् । सांख्ये हि प्रकृतिपुरुषपर्यन्तता निरीश्वरता च श्रुतिविरु- द्धा । सेश्वरसांख्ये च तदैश्वर्यस्य प्रधानाधीनता केवलनिमित्त- ता । तथैव योगेऽपि । तदननुसन्धाय तत्र प्रवृत्तानां जीवन्मुक्तता- भवनोत्तरमपि पातः । तयोर्भगवनिष्ठताया अज्ञानात् । तदत्रैवोक्तं, नचैनमित्यर्द्धन । दशमस्कन्धे च 'येऽन्येऽरविन्दाक्ष विमुक्तमानि- नस्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छेण परं पदं ततः पतन्त्यधोऽनाहतयुष्मदछ्य'इति । तयोर्भगवत्परत्वज्ञाने तु देवहूति- वत्कृतार्थता । तदप्युक्तं द्वितीयस्कन्धे । जशे च कर्दमगृहे द्विजदेव- हत्यां स्त्रिभिः समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययाऽऽत्मश- मलं गुणसङ्गपङ्कमस्मिन् विधूय कपिलस्य गतिं प्रपेद'इति । एवं पाशुपतपि साधनादिकं पशुपतेः परत्वं च श्रुतिविरुद्धम् । तन्मया- ऽत्र प्रागेवान्तस्तद्धर्माद्यधिकरणेषु व्युत्पादितं, प्रहस्ते च प्रपञ्चितम्। अतस्तावन्मात्रपरतायां पूर्ववत् पातः।भगवद धनादरणात् ।'त्वा- मेवाऽन्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भग- धन् समुपासते'इत्यरोक्तरीत्या भगवरपरत्वज्ञाने तु क्रमान्मुक्तिः । ।

२ अध्याये २ पादः।
तदप्युक्तं ब्रह्मपुराणे समाप्तिदशायां विष्णुमायानुकीतनाध्याये व्या-
सेन 'अन्यदेवेषु या भक्तिः पुरुषस्येह जायते । कर्मणा मनसा वाचा
तदतेनान्तरात्मना । तेन तस्य भवद्भक्तिर्यजने मुनिसत्तमाः । स
करोति ततो विप्रा भक्तिं चाग्नेःसमाहितः। तुष्टे हुताशने तद्वद्भक्तिर्भ-
पति भास्करे । पूजां करोति सततमादित्यस्य ततो द्विजाः । प्रसन्ने
भास्करे तस्य भक्तिर्भवति तत्त्वतः । सेवां करोति विधिवत् स तु
शम्भोः प्रयत्नतः । तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे । स-
म्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । ततो भुक्तिं च मुक्ति
च स प्राप्नोति द्विजोत्तमाइति । एवं पञ्चरात्रेऽपि यो विरुद्धांशस्त-
दननुसन्धाने विमोहकत्वान्न मुक्तिः । तदनुसन्धाय तदंशत्यागे तु
तदुक्तसाधनपाकेन साक्षादेव मुक्तिः । पञ्चरात्रविद इति मोक्षध-
मीयवाक्यात् । अतो न कस्यापि वाक्यस्यास्मिन् प्रकारे विरोध
इति सर्वे सुस्थम्।
रामानुजाचार्यास्तु-आद्यं सूत्रद्वयं पूर्वपक्षसूत्रत्वेनाभिधाय,
विज्ञानादीति सूत्रद्वयं सिद्धान्तीयत्वेनाभिधायैवं व्याचक्रुः । वा-
शब्दः पक्षविपरिवर्तनार्थः । विज्ञानं चादि चेति विज्ञानादि परं
ब्रह्म । सङ्कर्षणप्रद्युम्नानिरुद्धानां परब्रह्मभावे परब्रह्मरूपत्वाङ्गीकारे
तदप्रतिषेधः। पञ्चरात्रप्रामाण्याप्रतिषेधः । विप्रतिषेधात् । अस्मिन्न-
पि तन्त्रे जीवोत्पत्तेर्विशेषेण प्रतिषेधाच नास्याप्रामाण्यमिति । एवं
व्याख्याने प्रमाणत्वेन पञ्चरात्रस्थवाक्यान्यप्युदाजहरुः । शाण्डिल्या-
वस्थासम्बन्धिनी निन्दां च, न हि निन्दान्यायेनानुदितहोमनिन्दा-
वत् पञ्चरात्रप्रशंसातात्पर्यकामुचुः ।
मध्वाचार्यास्त्वेतत्सूत्रचतुष्टयं शाक्तमतनिराकरणार्थत्वेना-
ङ्गीचक्रुः । तथाचात्र वेदविरुद्धानां स्मृतीनामप्रामाण्यान्न ताभिः
स्वतः किश्चित् फलं सिद्धम् ॥ ४५ ॥ ८॥
इति श्रीमद्वल्लभाचार्यचरणनख चन्द्रनिरस्तहृदयध्वान्तस्य
पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य
द्वितीयः पादः ॥२ ॥२॥

अथ द्वितीयाध्यायस्य तृतीयः पादः। न वियदश्रुतेः ॥ १॥ श्रुतिवाक्येषु परस्परविरोधः परिहियते विप्रतिषेधपरिहारा- य । मीमांसायास्तदर्थं प्रवृत्तत्वात् । शत्यविरोधाभ्याम् । तथाच ब्रह्मवादे जडजीवयोविरुद्धाशनिराकरणाय तृतीयपादारम्भः । द्विविधा हि वेदान्ते सृष्टिः । भूतभौतिकं सर्वं ब्रह्मण एव न वियदश्रुतेः ॥ तृतीयपादं व्याचिख्यासवस्त प्रयोजनं स- गति चाहुः । * श्रुतीत्यादि * । द्वितीयपादे श्रुतिविरुखस्मृतिनिरा- करणेन तद्विरोधस्याकिश्चित्करत्वख्यापनात् तासामेव प्रमेयविरो- धो, न श्रुतेः स इत्येवं प्रमेयाविरोधः स्थापितः । तृतीये पादे श्रुति- वाक्येषु परस्परविरोधः परिहियत विप्रतिषेधपरिहाराय । विरो- धकृतो यः प्रामाण्यप्रतिषेधस्तनिवृत्तये । नचानावश्यकत्वं शङ्यम् । मीमांसायास्तदर्थे प्रवृत्तत्वात् । शक्त्यविरोधाभ्याम् । यदा हि लो- कानां मौल्यकृतसन्देहशावद् वेदार्थावगमसामर्थ्याभाव आचार्येण दृष्टस्तदा घेदार्थभूतस्य ब्रह्मणः सामर्थ्य वेदवाक्यानां परस्परविरो. धाभावं च स्वयमाकलय्य ताभ्यां कृत्वा प्रमेयाविरोधार्थमीमांसा प्रवर्तितवानिति । नच प्रथमपाद एवाविरोधस्य विचारितत्वादस्य गतार्थत्वं शङ्यम् । यथा तत्र शक्त्यविरोधाभ्यां ब्रह्मणि विरुद्धांशं परिहतवांस्तथा च * तेन प्रकारेणैव।चोवधारणे । ब्रह्मवाद * सर्व ब्रह्मेति वादे जडानां जीवानां च ब्रह्मत्वाजडजीवयोः सम्बन्धी यो विरुद्धांशस्तन्निराकरणाय तृतीयपादारम्भ इत्येवं सार्थक्यात् । तथा- चेदं पादस्य प्रयोजनम् । प्रासङ्गिक पूर्वपादे परिहत्य पुनः प्रस्तुतस्य श्रुत्यविरोधस्यैव विचारादवसरः सङ्गतिरित्यर्थः । ननु यद्यपि ब्रह्म- वादे जडजीवयोब्रह्मत्वं तथापि गौणमुख्यभावस्त्वसन्दिग्धः, पूर्व तथा निर्णीतत्वात् । अतो मुख्यविचारमतिहाय किमित्येष आरभ्यत इत्याकाकायामाहुः । * द्विविधेत्यादि * । तथाच जन्माधाधिकरण- २ अध्याये ३ पादः। विस्फुलिङ्गन्यायेनैका । अपरा वियदादिक्रमेण । सा चानामरूपा- स्ममा नामरूपत्ववत्वेनाभिव्यक्तिः। सजडस्यैव कार्यत्वाद तस्य जीवस्य वंशत्वेनैव न नामरूपसम्बन्धः । अनिये जननं निसे परिच्छिन्ने समागमः। नित्यापरिच्छिन्नतनौ प्राकट्यं चेति सा त्रिधा ॥ तत्र क्रमसृष्टौ सन्देहः । छान्दोग्ये हि, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य तदैक्षत तत् तेजोऽसृजतेति तेजो- विषयपरिशोधार्थ एवायं प्रपञ्च इति नास्य गौणत्वमित्यर्थः । एकः, अपर इति पुंलिङ्गपाठे तु प्रकारो विशेष्यत्वेन व्याख्येयः । प्राति- पदिकस्थायाः सुपो लुगुच्यत इति महाभाष्यादौ विभक्तिपदाध्या- हारेण योजनया प्राचीनशैल्यास्तथात्वावगमात् । ननु सर्वस्य ब्रह्म- रूपत्वे सृष्टिरेवासङ्गता । तस्या उत्पत्तिरूपत्वात् । ब्रह्मण. श्वाजत्वादित्याकाङ्क्षायामाहुः । * सा चेत्यादि * । * न नामरूप- सम्बन्ध इति * न प्रतिनियतनामरूपसम्बन्धः । तथाच प्रलयद- शायां कार्यस्य कारणे लयानन्तरं तस्य परमकारणेन ब्रह्मणे- कीभावात् प्रतिनियतनामरूपशून्यत्वेनानामरूपत्वं ताहशस्य या प्र. तिनियतनामरूपत्वेनाभिव्यक्तिः प्रकाशः सैव सृष्टिन तु नैयायिका- दीनामिवासतः सत्तारूपा । अतस्तस्या अजत्वाविरोधित्वान्नासङ्गत- त्वमित्यर्थः । एतेन कालविशेषे प्रतिनियतनामरूपशालित्वं कार्यत्व- मित्यपि व्याख्यातम् । अत एव कटककुण्डलादौ सुवर्णकार्यत्वव्य- पहारो न सुवर्णशकले, तथात्रापि जडजीवयो!ध्यम् । नन्वेवं सति ब्रह्मणो जीवकारणता न स्यात् तथा सति तत्र जीवनियामकतापि भज्यतेत्यत आहुः । * अनित्य इत्यादि * । * सेति * अभिव्यक्तिः। तथाच त्रिविधाया अप्यभिव्यक्तब्रह्माधीनत्वात् तिसष्यपि ब्रह्मणः कारणत्वमक्षुण्णमिति नियामकताऽप्यक्षुणेत्यर्थः । एवं प्रासङ्गिक प. रिहत्य प्रस्तुतं म्याकडे तदावश्यकताबीजमाः। तत्र क्रमेत्यादि * तथाचैवं सत्यामेकवाक्यतायामेकत्रोक्तत्वादन्यत्रानुकत्याच सन्देह ૧૮૦ समकाशे अणुभाष्ये ऽबन्नसृष्टिरुक्ता, न वाय्वाकाशयोः। तैत्तिरीयके पुनर्ब्रह्मविदा- नोति परमित्युपक्रम्य, तस्माद् वा एतस्मादात्मन आकाशः सम्भूत इति आकाशादिसृष्टिरुक्ता । उभयमपि क्रमसृष्टिवाचकमिसेक- वाक्यता युक्ता । छान्दोग्ये मुख्यतया सृष्टिस्तैत्तिरीये गौणी, मु. ख्या त्वग्रे वक्ष्यते, सोऽकामयतेत्यादिना । तत्र संशयः । किमाकाशम् । उत्पद्यते, न वेति । किं तावत् प्राप्तम् । नोत्पद्यत इति । कुतः ? । अश्रुतेः । श्रुतिवादिनां श्रुसैव निर्णयः । श्रुतौ पुनर्मुख्ये क्रमसृष्टौ न श्रूयते ॥ १॥ ? इत्यर्थः । यदि च छान्दोग्ये तेजसः सृष्टिकर्मत्वेन कथनादसृजतेत्या- दिसृष्टिवाचकपदोपादानादीक्षापूर्वकत्वाश्च मुख्यतया सृष्टिस्तैत्तिरी- य आकाशादीनां सम्भवं प्रति कर्तृत्वकथनात् सृष्टिवाचकपदाभा- वादीक्षाभावाच्च गौणीति नैकवाक्यतेति शङ्ख्यते, तदापि मुख्या त्वग्रे वक्ष्यते,सोकामयतेत्यादिना। तत्र च इद सर्वमसृजतेतीदमा स- पदेन च कर्मतया सर्वेषां परामर्शादसृजतेति पदाच्छान्दोग्यतुल्य- तेति सन्देह एव । यदि तस्याः साक्षात् सृष्टित्वं तदा श्रुत्यन्तरे, खं वायुयोतिराप इति वाय्वाकाशोत्पत्तिकथनादत्र च तदकथनात् साक्षात् सृष्टावेव सन्देहोऽस्तु । तथाच यद्याकाशाद्युत्पत्तिब्रह्मणः सकाशात् सिद्ध्यति तदा जन्मांद्यधिकरणप्रभृतिषु यनिर्णीतं तत् सर्वमुपपन्नं भवति, नोचेन्नति तद्विषयपरिशोधार्थ एवायं यत्न इत्य- र्थः । एवं प्रस्तुतस्यावश्यकत्वं समर्थयित्वा अधिकरणमवतारयन्ति । * तत्रेत्यादि * आद्याधिकरणारम्भस्थे पूर्वपक्षसूत्रे उक्तरीतिकः सं- शय इत्यर्थः । पूर्वपक्ष विवृण्वन्ति । * किमित्यादि * । नन्वश्रवणे. पि स्मृत्या तदुत्पत्तिरादरणीयेत्याकाङ्कायामौलूकादिश्वोदक उपाल- लभते । * श्रुतीत्यादि * । * मुख्ये क्रमसृष्टाविति * क्रमसृष्टिविषये ईक्षाप्रतिपादकतया मुख्यं यद्वाक्यं तत्र । तथाच तत्रेक्षाविषय- स्वादिना अश्रवणानोत्पत्तिरादरणीयेत्यर्थः ॥१॥ ।

२ अध्याये ३ पादः। अस्ति तु ॥ २ ॥ तुशब्दः पक्षं व्यावर्तयति । तैत्तिरीयके वियदुत्पत्तिरस्ति । यद्यपि मुख्ये नास्ति तथापि विरोधाभावादन्यत्रोक्तमप्यङ्गीकर्तव्य- मेकवाक्यत्वाय । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानुरोधाच्च ॥ २ ॥ गौण्यसम्भवात् ॥ ३ ॥ वियदुत्पत्तिर्गौणी भविष्यति । कुतः ? । असम्भवात् । न बाकाशस्योत्पत्तिः सम्भवति । निरवयवत्वात् । व्यापकत्वाच । मुख्ये चाभावात् । एकविज्ञाने सर्वविज्ञानप्रतिज्ञा तु तदधिष्ठानत्वेन जीववत् तदंशत्वेन वा तच्छरीरत्वेन वा एकविज्ञानकोटिनिवेशात् । लोकेऽप्यवकाशं कुर्विसादौ गौणप्रयोगदर्शनात् ॥ ३ ॥ अस्ति तु ॥ सिद्धान्तं वदतीत्याहुः । * तुशब्द इत्यादि *। * विरोधाभावादिति * वियदुत्पत्त्यादरेऽपि मुख्यवाक्येऽनुपपत्त्यभा. वात् । एकवाक्यतायां को वा आग्रह इत्यत आहुः । * एकेत्यादि * तथाचैतत्प्रतिज्ञानुरोधात् तैत्तिरीयवाक्यं सृष्टयर्थमीक्षासाकाङ्गं छान्दोग्यवाक्यं च सृष्टयर्थमाकाशादिसाकाङ्क्षम् । क्रमसृष्टिस्तूभय- प्राप्यर्थ इत्येकवाक्यतेत्यर्थः ॥२॥ गोण्यसम्भवात् ॥ सूत्रत्रयेण पूर्वपक्षं पुनराह । तद् व्याकु- पन्ति * वियदित्यादि * । यदुक्तं तैत्तिरीये वियदुत्पत्तिः श्रूयत इति। सत्यं श्रूयते । परं सा आवरणनिवारणरूपतया गोणी भवि- यति । कुतः । असम्भवात् । लोके हि सावयवस्यैवोत्पत्तिश्यते । सजातीयैर्विजातीयैश्च द्रव्यैरवयवभूतैरेकं द्रव्यमुत्पाद्यत इति । आ- काशस्य तु निरवयवत्वन समवाय्यभावात् तदभावेनासमवायिनः संयोगस्याप्यभावात् तयोरभावे केवलस्य निमित्तस्येश्वरस्य जीवा- बष्टस्य चाकिञ्चित्करत्वात् । अतो निरवयवत्वादसम्भवः । किश्च । व्यापकस्योत्पत्तिः प्रत्यक्षविरुवा । अन्यथा ब्रह्मणोऽपि स्यात् । किया ८६ ६८१ सपकाशे अणुभाष्ये। दाब्दाच॥ ४ ॥ बायुधान्तरिक्षं च एतदमृतमिति । आकाशवत् सर्वगतश्च नित्य इति । न खमृतस्य प्रादृष्टान्तभूतस्योत्पत्तिः सम्भवति ॥४॥ स्यान्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ ननु कथं वियदुत्पत्तिौणी भविष्यति । तत्र हि सम्भूत इ- मेकमेष पदमुत्तरत्रानुवर्यते । तथा सत्युत्तरत्र मुख्या आकाशे ब्रह्मणोऽमूर्तत्वात् तेनाकाशावरणासम्भवावुत्पत्तेः पूर्वकाल आका- शाभावोऽप्यशफ्यवचन इति व्यापकत्वादप्यसम्भवः । यदि च ग्रीव समधायि ततो विभज्योत्पद्यत इति विभाग एव चासम- पायीति विभाव्यते । तच्चायुक्तम् । मुख्ये सृष्टिवाक्ये अभावात् यदि हि मुख्ये उत्पत्तिरुक्ता भवेत् तवमपि कल्प्येत । अतस्तद- भाषादयसम्भवः । नचैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अनुरो- धात साङ्गीकार्योत वाच्यम् । सा त्वधिष्ठेयस्याकाशस्य तदधिष्ठान- स्वेन, जीववत्तवंशत्येन वा, पृथिव्यादिवत्सच्चरीरत्वेन वा, विशेषण- त्यानाहीतविशेषणन्यायेन एकविज्ञानकोटिनिवेशावुपपत्स्यते । अ- तो, गोअश्वा एब पशवोऽन्ये त्वशव इत्यत्र यथा गोअश्वप्रशंसा- थमपशुपदे गौणी, छागादिष्वपशुस्वासम्भवादाद्रियते, तथानाकाश उत्पस्यसम्भवात् सम्भूतपदे गौणी आदर्तव्या ब्रह्मप्रशंसार्थम् । मोकेऽप्यपकाशं कुर्वित्यादौ गौणप्रयोगदर्शनादित्यर्थः ॥३॥ शब्दाच ॥ ननु श्रुत्यपेक्षया लोकोकिञ्चित्करः । पूर्वकाण्ड- मपि स्वर्गादिफलकत्वाल्लोकमनुरुध इति न तदनुरोधेनोत्तर- काण्डे व्याकुलीकरणमुचितमित्यत आह ॥ शब्दाच्चेति ॥ भाष्य- मत्र मिगदव्याख्यातम् । तथाचोत्तरकाण्डानुमतेरपि गौण्येवोचि- तेत्यर्थः ॥ ४॥ स्थाकचैकस्य ब्रह्मशब्दवत् ॥ पुनरपि गोण्यनुपपत्तिमाशय परिसरति ॥ स्यादित्यादि ॥ तद् व्याकुर्वन्ति * मम्पित्यादि २ अध्याये ३ पादः। गौणीति युगपद् वृत्तिद्वयविरोध इतिचेन्न । एकस्यापि स्यात् क- चिन्मुख्या क्वचिद् गौणीति । ब्रह्मशब्दो यथा, तपसा प्रम वि. जिज्ञासस्व, तपो ब्रह्मेति । प्रथमवाक्ये मुख्या, द्वितीये गौणी। नचात्र प्रयोगभेदोऽस्तीति वाच्यम् । सम्भूतशब्दोऽप्यावर्तते । न तु तादृशार्थयुक्तोऽपि । आत्मसत्वेनैव तत्सत्त्वमिति सत्त्वगुणो बचनहेतुः। तत्तद्भावापन्नं ब्रह्मैव सर्वत्र कारणमिति नानेकलक्षणा । *एकस्येति* शब्दस्य । ननु ब्रह्मशब्दस्य दृष्टान्तता न युक्ता । तयोर्या- क्ये तस्य प्रयोगभेदेन वृत्तिययोगपद्याभावात् । तस्मादेति वाक्ये तु सम्भूतशब्दस्य सकृत्प्रयोगेण योगपद्यस्य दुर्वारत्यादित्याशङ्कन, न- घेत्यादिनानूध परिहरतिं * सम्भूतेत्यादि । तथाचानाप्यावृत्त्या शब्दव्यक्तिभेदान योगपद्यमिति दृष्टान्तत्वायोग इत्यर्थः । नन्वस्त्वेवं वृत्तिद्वयोपत्तिस्तथापि गोअश्वसाध्यफलासाधकत्वरूपपशुसाहश्यं छागादिषु यथा गौणीषचनहेतुस्तथाऽऽकाशे किं वा सम्भूतसाहश्य गौणीवचनहेतुर्येनात्र साऽऽद्रियत इत्यत आह * आत्मेस्यादि * । सत्कार्यवादे उत्पत्तिपूर्वदशायां कारणभावेनैव कार्य तिष्ठति । आ- स्माचात्र कारणम् । अत उत्पत्तिपूर्वदशायां यथा कार्यमात्मभावेम तिष्ठत्येवमाकाशोऽध्यात्मावृतत्वादात्मभावेनैव तिष्ठतीत्यात्मसत्वनैव तत्सस्वम् * आकाशसत्त्वं, न तु पृथक्केन । अतः सृष्टिदशायर्या कार्य- वद् ब्रह्मणः सकाशादाकाशस्य पृथक् सत्त्वरूपो य आकाशनिष्ठः सरवगुणः स एव कार्यसाहश्यरूप आकाशे सम्भूतपदगौणीवचन- हेतुरतः साऽद्रियत इत्यर्थः । ननु भवत्येवं तथाप्याकाशं प्रति प्र- मणः कारणतानङ्गीकारे वाय्वादिवाक्येष्वात्मनः कारणत्वाक्थ- मादाकाशादीनामेव तत्कथनादू वायुकारणता आकाशासाधारणा। अनिकारणता च धाय्वसाधारणेत्येवं कारणता अनेकेषां स्यात् । ततश्च ब्रह्मणः कारणतामने ब्रह्मणः प्रशंसा न कापि स्यात् । तद- भावे च तन्निबन्धना गौण्यपि दूरमपेयादतः सर्वापि कल्पमा अस- इतेत्याशङ्कायामाह । * तत्तदित्यादि * । वायुसम्भूतिवाक्य आ- ६८४ सप्रकाशे अणुभाष्ये । तद्भावापत्तिविशेषणव्यात्त्यर्थमपि न लक्षणा । स्वभावतो- ऽपि ब्रह्मणः सर्वरूपत्वात् । तस्माद् गौणी आकाशसम्भूतिश्रुति- रिसेवं प्राप्ते इदमाह ॥५॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥ भवेदेतदेवं यदि छान्दोग्यश्रुतिर्न विरुद्धयेत । कथम् । ए- कविज्ञानेन सर्वविज्ञानप्रतिज्ञा बाध्यते । अव्यतिरेकात् । अनुद्गमात् । यदि सम्बद्धमेव ब्रह्मणा आकाशं तिष्ठेत् तदा ब्रह्म- विज्ञानेनाकाशविषयीकरणे तन्कविज्ञानम् । आकाशस्य चालौ- किकत्वात् तज्ज्ञानं सर्वज्ञतायामपोक्षितमेव । नच जीववत् । लौ- किकत्वात् । व्यवहारमात्रविषयत्वान्नातीन्द्रियत्वादिचिन्ता । काशभावापन्नम, अग्निसम्भूतिवाक्ये वायुभावापन्नमित्येवं ब्रह्मैव सर्वत्र कारणमिति सा कारणता नानेकलक्षणा । युजन्तः प्रयोगः । तथाचैवं ब्रह्मप्रशंसासत्त्वान गौण्यनुपपत्तिरित्यर्थः । ननु तथाप्या. काशादिपदेषु तद्भावापत्तेरनुक्ताया एव विशेषणीयत्वात् तेषु लक्ष- णा तु स्यादेवेत्यत आह । * तदित्यादि * । घटे छिद्रेतरत्ववत् तत्तद्भावापन्नत्वमर्थबलादेव प्राप्यत इति तव्यावृत्त्यर्थमपि नास्म- न्मते लक्षणेत्यर्थः । सिद्धमाह । * तस्मादित्यादि ** इदमि- ति * वक्ष्यमाणं दूषणम् ॥ ५ ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ पृच्छति * कथमिति * कथं विरुध्यते तत्रोत्तरमाहुः । * एकेत्यादि * । * अनुगमादि- ति * कार्यत्वेन रूपेणाव्युच्चरणात् । एतदेव विभजन्ते * यदी- त्यादि * । यदि स्वरूपसम्बन्धेनाविभक्तमेव ब्रह्मणा आकाशं ति- ठेत् तदा विभुत्वादिसाधादू ब्रह्मविज्ञानेनाकाशविषयीकरणे त- कविज्ञानं, विषयद्वयमहिम्ना जायमानत्वात् । नय का आवश्य- तेति शङ्क-यम् । यत आकाशस्यापि लौकिकत्वाल्लौकिकसविषय २ अध्याये ३ पादः। ६८५ अनुद्गमेऽपि वस्तुसामर्थ्यात् कथं प्रतिज्ञा हीयते इसत आ- हं ॥ शब्देभ्यः ॥ येनाश्रुतं श्रुतं भवसमतं मतं भवसविज्ञातं वि. ज्ञातं भवतीति शब्दात् प्रकृतिविकारभावेनैव व्युत्पादयति ज्ञानम् । शब्देभ्यो हेतुभ्यः प्रतिज्ञाहानिरिति योजना ॥ ६ ॥ यावहिकारन्तु विभागो लोकवत् ॥ ७ ॥ तुशब्द आकाशोत्पत्त्यसम्भावनशङ्कां वारयति । यद्यद् विकृ- - कज्ञानस्यैव प्रतिज्ञायां विवक्षितत्वात् तज्ज्ञानं सर्वज्ञतायामपेक्षित- मेव । नचांशत्वेन यथा जीवज्ञानं ब्रह्मनानाजायते तद्वदाकाशज्ञान- मपि भविष्यतीति शङ्कायम् । आकाशस्य लौकिकत्वात् । नच लो- किफप्रत्यासत्यविषयत्वनातीन्द्रियत्वादाकाशोऽप्यलौकिक एवेति- शडून्यम् । यदि यतीन्द्रियः स्याल्लौकिकव्यवहारविषयो न स्यात् । यथा विविक्तात्मा। वर्त्तते च लौकिकव्यवहारविषय आकाशः । अतो व्यवहारमात्रविषयत्वान्नातीन्द्रियत्वादिचिन्ता तस्य युज्यते । तथाच तस्य लौकिकत्वात् तज्ज्ञानं सर्वथापेक्षितम् । तच्चेन्न स्यात् प्रतिक्षा हीयेतेवेत्यर्थः । अत्र चोदयति । * अनुगमे इत्यादि । * वस्तुसामर्थ्यादिति * ज्ञानं भविष्यतीति शेषः । अत्रोत्सरं व्यु- त्पादयन्ति * येनेत्यादि * / * शब्दादिति * । वाक्यात् । तथाच यद्यविभक्तस्याकाशस्य वस्तुसामर्थ्येन ज्ञानं विवक्षितं स्याद, अश्रुतं श्रुतमित्यादि नं वदेत् । शाब्दस्य मननात्मकस्य च ज्ञानस्य वस्तु- सामर्थ्यजन्यत्वाभावात् । अग्रेच, यथा सौम्यैकेन मृत्पिण्डेनेत्यादिना प्रकृतिविकारभावेन न ज्ञानं व्युत्पादयेत् । वदति त्वेवं, व्युत्पाद- यति चैवमतः कार्यरूपेण व्यतिरेकानङ्गीकारशब्देश्यो हेतुभ्यः सि- खायाः प्रतिज्ञाया हानिरित्यर्थः॥ ६ ॥ यावद्विकारं तु विभागो लोकवत् ॥ अस्मिन् सूत्रे व्याप्तिर- टान्तयोरुपन्यासेनाकाशोत्पत्तावनुमानमेवोपन्यस्तमित्याशयेनाहुः । * यद्यदित्यादि * तथाचाकाश उत्पादविनाशशाली । विकृतत्वा- समकाशे अणुभाष्ये । तं तस्य सर्वस्य विभाग उत्पत्तिः । आकाशमपि विकृतम् । लौ. किकव्यवहारविषयत्वात् । यथा लोके विकृतमात्रमुत्पद्यते । त् । विकृतो, लौकिकव्यवहारविषयत्वात् । लोकवदिति । तस्मादा- काश उत्पद्यत इति सिद्धम् । नन्वाकाशोत्पत्तिविभागशब्दमहिम्ना विभागद्वारा वक्तव्या । स तु ब्रह्मणो व्यापकत्वादशक्यवचन इति कथमुत्पत्तिरितिचेत् । न।बृहदारण्यके मैत्रेयीब्राह्मणे ब्रह्मणः प्रज्ञान- घनत्वश्रावणाद् ब्रह्म तारशं यदा सजति तदा घनत्वं तिरोभाष- यतीस्याकाशो विभज्यत इत्यनुपपत्त्यभावात् । एवमन्यदपि बुद्धि- दोषोद्भवं परिहर्तव्यमिति दिक् । पाचस्पतिमिश्रास्तु-आकाशकालदिङ्मनःपरमाणवो धिका- राः । आत्माऽन्यत्वं सति विभक्तत्वात् । घटादिवद् इत्यनु- मानमाहुः। भास्कराचार्यास्तु-अचेतनत्वे सति विभक्तत्वात् । पृथिव्या- दिवरित्येवमनुमानमाहुः । रामानुजाचार्यास्तु-ऐतदात्म्यमिदं सर्वमित्यादिभिराकाशस्य विकारत्ववयनेन तस्याकाशस्य ब्रह्मणः सकाशाद् विभाग उत्पत्ति रप्युक्तैष । लोकवत् । लोके यथा, एते देवदत्तपुत्रा इत्यभिधाय तेषु केषाञ्चित् तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वदित्येवं ग्याकुर्वन्ति । तत् क्लिष्टम् । आकाशस्य तत्र विकारताया अश्रावि- तत्वात् । ऐतदात्म्यवाक्यस्य तेजआधुत्पत्तिवाक्यात् पूर्वमसत्त्वात् । तत्रापदि सर्वमित्यनेनाकाशस्य संग्राह्यत्वाथेति । एवमेव तच्चौर- मतेऽपि बोध्यम् । शङ्कराचार्यास्तु-आकाशमनित्यम् । अनित्यगुणाश्रयत्वात् । घटादिवदित्यनुमानं प्रयुञ्जते । माध्वास्तु-अथ हैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाकाश इति भागशो पुत्पद्यन्त इति मालवेयश्रुतिमुपन्यस्य बहुभिर्भागैरुत्पद्यन्ते कैश्चिन्नोत्पद्यन्त इत्याहुः । सा तु श्रुतिरिदानी न प्रसिध्यति ।

२ अध्याये ३ पादः। आकाशोत्पत्तौ श्रुसा सिद्धायाम, आकाशवत् सर्वर्गतश्च निसः, आकाशशरीरं ब्रह्म, स यथाऽनन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः, आकाश आत्मा इसादिश्रुतयः, समोऽनेन सर्वेण, य आकाशे तिष्ठन् सर्वमात्मेसेवमादिभिरेकवाक्यतां लभन्ते। भिक्षुस्तु, यथा मधु मधुकृतो निस्तिष्ठन्तीति, अथास्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यत इति छान्दोग्यश्रुती लिखित्वा अविभा- गलक्षणमेवाद्वैतमङ्गीकुर्वन् प्रकृतिगुणभूतस्य सूक्ष्माकाशस्य ब्रह्मावि- भक्तत्वादनुत्पत्ति भूताकाशस्य विकृतत्वादुत्पत्ति च व्याकुर्वन्नह- नरस्य तदनुगतसूक्ष्माकाशस्य च भूताकाशावयवत्वमङ्गीकृत्य पृ- थिव्यादिवदाकाशोऽपि नित्यानित्योभयरूप इत्याह । तन । उक्तश्रु- त्योर्जीवविषयत्वेन ताभ्यां जडाविभागस्यापादयितुमशक्यत्वात् । उपक्रमे सदेव सौम्येदमप्र आसीदेकमेवाद्वितीयमिति प्रतिज्ञायाने तेजःप्रभृतिसृष्टिकथनेनाग्रे च सन्मूलाः सौम्येमाः प्रजा इत्यादिना सति ब्रह्मणि सर्वमूलत्वस्यैव निगमनेन च जडस्य सर्वस्य ब्रह्मेवोपा- दानमिति सिद्ध्यति । तथा सति प्रलयेऽपि न कार्यस्याविभागमात्र- ता, किन्त्वैकीभावपर्यन्ततेति । लोके सुवर्णादिविकारेषु तयैव दर्श- नात् । सांख्यैरपि कार्यस्य संक्रमे कारणभावस्यैवादरणाश । एवं सति भूताकाशावयवविचारेऽपि यथान्नस्याबादिद्वारा ब्रह्मैक्यपर्य- न्तता, तथास्यापि त्वदभिमतावयवद्वारा ब्रह्मैक्यपर्यन्ततैष । प्रकृते- रपि जन्यत्वस्य समन्वयाध्याय एवोपपादितत्वात् । एवं जीवस्यापि नाविभागमात्रम् । ऐतदात्म्यमध्ये तस्यापि प्रवेशात् । एतावान् परं विशेषो यजीवस्य न विकृती प्रवेशः । अंशत्वादेवैतदात्म्यात् प्रति- झापूर्तेः । अतोऽपार्थोयमाडम्बर इति । प्रकृतमनुसरामः । नन्वाकाशस्योत्पत्तिमत्त्वे आकाशवत् स- वंगतश्च नित्य इत्यादिश्रुतीनां विरोधः कथं परिहार्य इत्यत आहुः । * आकाशोत्पत्तावित्यादि * / * सिखायामिति * छान्दोग्यस्य प्र. तिज्ञाबलात् सिद्धायाम् । तथाचाकाशवदिति श्रुतौ या आकाशस्य ब्रह्मापमानता, सा, समोऽनेन सर्वेणेत्यत्र सर्वस्य भगवदुपमान. यथा ६८८ समकाशे अणुभाष्ये । व्यवहारे त्वज्ञबोधनं वाक्यानामुपयोगः ॥ ७॥ एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥ ता भगवतस्तत्तत्परिमाणतायां पर्यवस्यति, न तु सर्वस्य ब्रह्मतुल्य- परिमाणत्वे । तथात्राप्युपमानता ब्रह्मणो व्यापकत्वनित्यत्वयोः प- यवस्थति, न त्वाकाशस्य भगवत्तुल्यत्वे । सर्वगतनित्यशब्दयोर्ब्रह्मवि- शेषणत्वात् । न तत्समश्चाभ्यधिकश्च दृश्यते इति साम्यनिषेधश्रुते- ायानाकाशादिति नभाज्यायस्त्वश्रुतेश्च । तथा सत्याकाशस्य य- नित्यविभुत्वं तदन्यापेक्षयव, न तु ब्रह्मवदिति फलतीति सर्वसाम्य- श्रुत्यैकवाक्यतां लभत । एवमाकाशशरीत्वश्रुतिर्य आकाशे तिष्ठन्नि- त्यन्तर्यामिब्राह्मणश्रुत्या, बहुव्रीहिविग्रहेण तस्यैवार्थस्य लाभात् । एवं सति यथा पृथिव्यादीनामाधारतामात्रं, न तु नित्यत्वादिकमपि, तथैवाकाशस्येति फलति । एवमनन्तत्वोपमानश्रुतावप्यापेक्षिकमे- वानन्तत्वमाकाशस्येति पूर्ववत् सर्वसाम्यश्रुत्यैवैकवाक्यतां लभते । उत्पत्तिमत्त्वनैवान्तवत्त्वस्य प्राप्तत्वात् । नभम्तमनुलीयत इत्यादि. स्मृतेश्च । एवम्, आकाश आत्मति प्राणमयवाक्यस्थश्रुतिरपि, इदं सर्व यद्यमात्मेति मैत्रेयीब्राह्मणश्रुत्या तत्र सर्वमुद्दिश्येवात्राकाश- मुद्दिश्यात्मन्वविधानात् । अतस्तत्र सर्वस्येवात्राकाशस्यापि न नि- त्यत्वादौ तात्पर्यमपि तु ब्रह्मात्मकत्वे । वस्तुतस्तु प्राणसञ्चाराया- काशस्यात्मत्वमुच्यते इति तत्रायमर्थ एव, न भवतीति, नचाशन. नचोत्तरमिति । ननु भवत्वेवमतासां श्रुतीनां गतिस्तथाप्येवं कथनस्य प्रयोजनं तु किश्चिद् वक्तव्यम् । अन्यथा, एवं तात्पर्यकत्वमपि स. न्दिग्धमेव तिष्ठदित्यत आहुः । * व्यवहारे त्वित्यादि * । आकाश. शरीरमिति श्रुतिर्हि उपासनार्था । इति प्राचीनयोग्योपास्वेत्युपसंहा- रात् । यदि ह्याकाशं तथा न जानीयात् कथं ब्रह्मशरीरत्वेनोपासी- त । अतोऽज्ञानां बोधनमेव वाक्यप्रयोजनम् । एवमन्यत्रापि द्रष्टव्य- म् । अतो न तात्पर्ये सन्देह इत्यर्थः । तस्मादाकाशोऽप्युत्पद्यत इति सिद्धम् ॥७॥१॥ एतेन मातरिश्वा व्याख्यातः ॥ ननु वायूत्पत्तिः श्रुता प्रत्यक्षसंवादिनी चेति सन्दहाभावात् किमस्याधिकरणस्य प्रयोजन- २ अध्याये ३ पादः। आकाशोत्पत्तिसमर्थनेन मातरिश्वोत्पत्तिः समर्थिता । सैषा- ऽनस्तमिता देवतेति भौतिकवायुव्यात्त्यर्थमलौकिकपदम् ॥८॥ असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ ननु ब्रह्मणोऽप्युत्पत्तिः स्याद् । आकाशवत् सर्वगतश्च निस इति श्रुतेराकाशन्यायेन सर्वगतत्वनिसत्वयोरभावे इतीमामाशङ्का तुशब्दः परिहरति । मत पाहुः । * सैषेत्यादि * । श्रुतिस्तु बृहदारण्यके सप्तानब्राह्म- णे व्रतमीमांसास्था । म्लोचन्ति ह्यन्या देवता न वायुः सैषाऽनस्त- मिता देवता यद् वायुरिति । तथाचाऽनस्तमितत्वादेवोत्पत्त्यभावः सिद्ध्यतीति श्रुतिप्रतिषेधादेव सन्देहः । श्रुतिविरोधनिराकरणमेव चाधिकरणप्रयोजनम् । ननु तथापि प्रत्यक्षविरोधस्य का गतिरित्यत आहुः । * भौतिकेत्यादि * । तथा च प्रत्यक्षं भौतिकविषयं, न भूत- विषयमित्यदोष इत्यर्थः । शब्दनिर्वचनं तु - मातरीति सप्तम्यन्त- प्रतिरूपकमव्ययमन्तरिक्षवाचकम् । तत्र श्वयति गच्छतीति मातरि- श्वा । टु ओ शिव गतिवृद्धयोः। तथाच भूतात्मा वायुत्पद्यते। छा- न्दोग्ये अश्रवणादिति पूर्वः पक्षः। तैत्तिरीये श्रावणादुत्पद्यत इति सिद्धान्तः । अन्येऽपि गौण्यादिसूत्रोक्ताः पक्षा अत्र योजनीयाः । सूत्रे, एतेनेत्यतिदेशात् । अमृतत्वश्रुतिस्त्वापेक्षिकी । म्लोचन्तीति श्रुत्यनुसारेण तथा निर्णयस्य सिद्धत्वात् । तस्माद् वायुरुत्पद्यत इति सिद्धम् ॥ ८॥ असम्भवस्तु सतोऽनुपपत्तेः ॥ व्याकुर्वन्ति * नन्वित्यादि । अयमर्थः । यद्यपि ब्रह्मण उत्पत्तिन श्रूयत इति तदुत्पत्याशदेव नोदति, तथापि पूर्वस्मिन् पादे बाह्याबाह्यमतानां निराकृतत्वात् तद- सहमानः कश्चिद् अस्तेरुत्पत्तिवाचकत्वस्य, हरितो रोहितादासी - म्धुस्तस्याभवत् सुत इत्यादिपुराणवाक्येषु दर्शनातू. सदेव सोम्ये- दमप्र आसीदित्यत्रापि तमर्थ कल्पयेत् तदा श्रुतौ ब्रह्मणोऽप्युत्पत्तिः स्यात् । नव नित्यत्वविभुत्वयोर्वाधकत्वं शङ्कम्यम् ।आकाशवत् स- सप्रकाशे अणुभाष्ये सतः सन्मात्रस्योत्पत्तिर्न सम्भवति । न हि कुण्डलोत्पत्ती कनकोत्पत्तिरुच्यते । नामरूपविशेषाभावात् । उत्पत्तिश्च स्वीक्रि- यमाणा नोपपद्यते। स्वतो न सम्भवति । अन्यतस्त्वनवस्था । य- देव च मूलं तदेव ब्रह्मेति ॥ ९ ॥ धंगतश्च नित्य इति श्रुतेराकाशस्य यथा आपेक्षिके एव नित्यत्ववि- भुत्वे, तन्न्यायेन निरङ्कशसर्वगतत्वनित्यत्वयोरभावे इमां वैतण्डि- काशङ्कां तुशब्दः परिहरतीत्यर्थः। * सन्मात्रस्येति * अविकृतस्य। * स्वतो न सम्भवतीति * आत्माश्रयापत्त्या न सम्भवति। शेषमति- रोहितार्थम् । यत्तु भास्कराचार्यरुक्तम्-आशङ्काहेत्वभावाद् ब्रह्मण उ- त्पत्तिसम्भावनाभावन तन्निराकरणार्थमिदं सूत्रं वदतां सूत्रवैय- यमिति । तदप्यनेनैवापास्तं शेयम् । अतो यदू दिक्कालसंख्यापरि- माणादिनित्यत्वनिराकरणार्थत्वं तेरङ्गीकृतं, तस्मिन्नेव पक्षे वैय- यम् । व्यवहारे दिशां सूर्योदयास्तमयमेरुप्रभृतिविभजनीयत्वेन पारिभाषिकतया देश एव पर्यवसितत्वेनातिरिक्तपदार्थत्वाभावात् । शास्त्रे च दिश: धोत्रादित्युत्पत्तिश्रावणेन नित्यत्वशङ्कगनुदयात् । एवं कालस्यापि, सर्वे निमेपा जज्ञिरे इत्यादिश्रुत्यैव नित्यत्वशङ्कन- निरासान्न शङ्कोदयः । दिक्कालावाकाशादिभ्य इति सांख्यप्रवचन- सूत्राच्च । अतो वैशेषिकादिमतेनैव शङ्कोत्थापनीया । सा तु तेषां घेतण्डिकत्वं ब्रह्मपक्षेऽप्युत्पत्तिमहतीति वृथा तद्दूषणम् । एतेनैव भिक्षुरपि दत्तोत्तरः । यत्पुनस्तेनोक्तमिदं सूत्रं प्र- धानोत्पत्तिनिराकरणार्थम् । तथाहिं । सदेव सौम्यदमग्र आसी- दित्यादी तप्तायःपिण्डवदीक्षितृब्रह्माभेदनोपन्यस्तं सूक्ष्मं जगत् सत्। तस्य सतोऽव्यक्तस्य प्रधानस्य तु सम्भव उत्पत्तिर्नास्ति । कुतः । अनुपपत्तः । तस्य कारणाभावेन विकाररूपत्वासम्भवात् । कार- णकल्पन चानवस्थानादिति । तन्न । सच्छब्दस्य प्रधानवाचकत्वे मानाभावात् । सांख्यसमाससूत्रीयपश्चशिखवृत्तावस्यव्यक्तपर्यायेषु, अव्यक्तम्, ब्रह्म, गुरु, बहु, धातृ,कम्, अक्षरं, क्षेत्र, तमः, प्रधानमिति २ अध्याये ३ पादः। तेजोऽतस्तथा ह्याह ॥ १० ॥ तेजोऽतो वायुतः । तथा ह्याह । वायोरनिरिति श्रुतेः । हि- शब्देनैवमाह । छान्दोग्यश्रुतिः प्रतिज्ञाहानिनिराकरणार्थ तैत्तिरी- यकमपेक्षते वाय्वाकाशयोरुत्पत्त्यर्थम् । तथाचोपजीव्यस्य प्रा- धान्याद् वायुभावापन्नमेव सत् तेजस उत्पादकमिति स्वीकरोति । दशानामेव गणनात् । कोशादिष्यपि तथानुपलम्भात् । ब्रह्मवाच- कत्वं तु गीतायामेव सिद्धम् । ॐ तत् मदिति निर्देशो ब्रह्मणस्त्रि- विधः स्मृत इति वाक्यात् । अतः सद्भावन ब्रह्मैवात्रोच्यत इत्यपार्थ एवाडम्बरः॥९॥३॥ तेजोऽतस्तथा शाह ॥ आकाशवाय्वोरुत्पत्ति विचार्य तेजसो विचारयति । तेजः किं साक्षाद् ब्रह्मजमुत परम्परयेति विचारयति। श्रुतिविरोधपरिहारार्थत्वादध्यायस्य । तत्र छान्दोग्याक्तसृष्टमुख्यत्वात् साक्षात्पक्ष एव श्रेयानिति प्राप्त आह * तेजोऽत इति * । तद् व्याकुर्व- न्ति * तेज इत्यादि * । नन्वेवं सति छान्दोग्यविरोधस्य कथं परिहार इत्यत आहुः । * हिशब्देनेत्यादि * । अयमर्थः। तेजमः साक्षाद् ब्रह्म- जवाङ्गीकारे, सदेवसोम्येमसग्र आसीदिति प्रतिज्ञा, येनाश्रुतं श्रुतं भवतीति प्रतिज्ञा च हीयते । अतस्तन्निराकरणार्थ तेजःसृष्टिवाक्यं तैत्तिरीयकमपेक्षत इति तैत्तिरीयकं तस्योपजीव्यम् । तथा सति तत्र या वायोरिति पञ्चमी सा कि हेतावुतानन्तर्य इति जिज्ञासायां यद्यप्युभयथापि प्रतिज्ञासिद्धिः, प्रायपाठश्चोभयथाऽपि शक्यवचन- स्तथापि प्राथमिक्या आत्मन इति पञ्चम्या अनुरोधात् पृथिव्या आषधय इत्यग्रिमाया अपि पर्जन्येनोषधिवनस्पतयः प्रजायन्त ओष- धिवनस्पतिभिरग्नं भवत्यन्नेन प्राणा इति श्रुत्यन्तर ओषधीनामन्त्रकार- णतायाः स्फुटत्वात् प्रत्यक्षसंवादाश्च कारकविभक्तिरंव युक्ता। बलि- ष्ठत्वाच्च । एवमुपजीव्यवाक्यगतपञ्चम्या हेत्वर्थकत्व निश्चिते उप- जीव्यस्य प्रधान्याद् वायुभावापन्नमेव सत् तेजस उत्पादकमित्येव- मश्रुतमपि क्रमं स्वीकरोतीति विरोधपरिहार इत्यर्थः । तस्माद् वायु- ६९२ समकाशे अणुभाष्ये। ब्रह्मण एव सर्वोत्पत्तिपक्षस्त्वविरुद्धः॥ १० ॥ आपः ॥ ११ ॥ तथा ह्याहेसेव । इदमेकमनुवादसूत्रमविरोधख्यापकम् । न श्रुयोः । सर्वत्र विरोधे इति ॥ ११ ॥ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति । ता अन्नमस- जन्तेति । तत्रान्नशब्देन व्रीह्यादय ? आहोस्वित् पृथिवीति ? सं- द्वारैव तेजःसृष्टिरिति सिद्धम् । नन्वाथर्वणे यथा साक्षात्सृष्टिरु- ता, एतस्माजायते प्राण इति, तथा, तैत्तिरीये, इद सर्वमसृजते- युक्ता । तत्र किं विस्फुलिङ्गवद् योगपद्यमुत वाय्वनन्तरभाव इ. त्याशय तेजसो वाय्वानन्तये समर्थनीयं, न तु पूर्वोक्तः क्रमसृष्टि- विचारोऽत्र युज्यते । असम्भवसूत्रव्यवधानेन पूर्वोक्तविचारसमाप्तेः शक्यवचनत्वादित्यत आहुः । * ब्रह्मण इत्यादि * । आर्थवणोक्तः पक्षस्तु तैत्तिरीये योगपद्याङ्गीकारेऽपि ब्रह्मणः कारणताया असन्दि- ग्धत्वात् सामर्थ्य विचारेणैव सर्वपदवृत्त्यसङ्कोचादेवानिरुद्ध इति पूर्वोक्तविचार एवात्र युक्त इत्यर्थः ॥१०॥ आपः ॥ * तथा ह्याहेत्येवेति * । पूर्वसूत्रादनुवर्त्तते । तथाचा पस्तेजस उत्पद्यन्ते । हि यतो हेतोः श्रुतिद्वयमपि तथाऽऽह तद- पोऽसृजतेति, अनेराप इति । अतो नात्र किमपि विचार्यमित्यर्थः। अन्ये तु अतःशब्दस्याप्यनुवृत्तिमिच्छन्ति । तदयुक्तम् । अत्र कारणतया तेजसो विवक्षितत्वेन वावर्थकस्य ग्रहीतुमशक्यत्वा- च्छ्रुत्युक्तहेत्वर्थकत्वग्रहणे, तथा ह्याहेत्येतावतैव चारितार्थ्यादित्येव. कारणात्र बोधितं शेयम् । नन्वेवं सति अस्य सूत्रस्य किं प्रयोजनमत आहुः । * इदमित्यादि * । तथाचेदं प्रयोजनमित्यर्थः ॥ ११ ॥ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ अधिकरणप्रयोजनं वक्तुं विषयवाक्यमाहुः । * ता आप इत्यादि * । संशयमाहुः । * तने- २ अध्याये ३ पादः। देहः। ननु कथं सन्देहः । पूर्वन्यायेनोपजीव्यश्रुतेबलीयस्त्वादिति- चेत् । उच्यते । अद्भयः पृथिवी पृथिव्या ओषधय ओषधी- भ्योऽनमियग्रे वर्तते । तथा सति पृथिवीमोपधीश्च सृष्ट्वा आपो- ऽनं सृजन्ति ? आहोस्विदनशब्देनैव पृथिवीति ? नन्वेवमस्तु पृथिव्योपधिसृष्टयनन्तरमन्नसृष्टिरितिचेत् । न । छन्दोग्यश्रुतेरपेक्षाभावान्महाभूतमात्रस्यैवाभिलपिनत्वात् । एकप- दलक्षणापेक्षया तत्स्वीकारस्य गुरुवात् पूर्वोक्त एव संशयः । त्यादि * । तथाच रूढिप्रायपाठयोर्विरोधात् संशय इत्यर्थः । अत्र चोदयति * ननु कथमित्यादि * । तथाच पृथिव्येव प्राप्स्यत इति व्यर्थोऽधिकरणारम्भ इत्यर्थः । एतेन पूर्वाधिकरणवत्र पृथिवीति भिन्नं सूत्रमङ्गीकृत्याधिकरणान्तरमिदं वाच्यम् । ततोऽनशब्देन कथं पृथिवी ग्रहीतुं शक्येत्याकाङ्क्षायामधिकारत्यादिसूत्रान्तरेण त- निर्णय इति रामानुजाचार्यमतं पूर्वाधिकरणन्यायतः सन्देहनिवृ- त्तिप्रदर्शनाच्छिथिलमित्यपि बोधितम् । अत्र समादधते । * उच्यत इत्यादि * । तथाचोपजीव्यानुरोधाद् यथा आकाश- वायुव्यवधानेन तेजःसृष्टिरङ्गीक्रियते, तथाऽत्र पृथिव्योषधिव्यवधा- नेनानसृष्टिरप्यङ्गीकर्तुं शक्या। उपजीव्ये वाक्ये त्रयाणामुक्तत्वा- त् । आहोखित् प्रायपाठवलात् पृथिवीति पूर्वकोटौ विशेषगर्भस- न्देह उपजीव्यवाक्यविचारेऽपि नापतीति नारम्भवैयर्थ्यमित्यर्थः । पुनश्चोदयति । * नन्वेवमित्यादि *। तथाचोपजीव्यवाक्यापेक्षया प्रायपाठस्य नैर्षल्यादेव सन्देहनिवृत्तेरारम्भवैयर्थ्य दुर्वारमित्यर्थः । तत्र समादधते । * नेत्यादि * । ब्रह्मणः कारणत्वसमर्थनायोपक्रमे महाभूतयोरेवोत्पत्तिदर्शनेन महाभूतमात्रस्यैव विवक्षितत्वाच्छान्दो- ग्यश्रुतेरनापेक्षाभावात् । नच लक्षणाप्रसक्तिदोषः । तस्या एकपद- निष्ठत्वेन तदपेक्षया वाक्यदोषभूतानधिकारत्यागाधिकपदार्थद्वयत- कमानाहत्य रूढिस्वीकारस्य गुरुत्वात् । अतः पूर्वोक्तेऽन्नपद एवं संशयो, न पृथिव्युत्पत्ताविति नाधिकरणारम्भवैयर्थ्यमित्यर्थः । एवं सप्रकाशे अणुभाष्ये । तत्रानमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागि- ति त्रयाणां सहचारः सर्वत्रोपलभ्यते । लोकमसिद्धिर्वर्पणभूयिष्ठ- लिङ्गश्च । तस्मात् पृथिव्योषध्यन्नानां मध्ये अभेदविवक्षया य- किञ्चिद्वक्तव्ये अन्नमुक्तमिसेवं प्राप्ते । उच्यते। अन्नशब्दे पृथिवी । कुतः ? अधिकाररूपशब्दान्तरेभ्यः । अधिकारो भूतानामेव, न भौतिकानाम् । नीलं च रूपं पृथिव्या एव । भूतसहपाठात् । श- ब्दान्तरम् अद्भयः पृथिवीति । तस्मादनशब्देन पृथिव्येव ॥१२॥ सिद्ध संशये पूर्वपक्षं सोपपत्तिकमाहुः । * तत्राग्नेत्यादि * । उपल- भ्यत इति पदमग्रेऽप्यन्वेति । तथाच त्रितयसहचारो लोकप्रसि- द्धिस्तस्माद्यत्र वचन वर्षति तदेव भूयिष्ठमन्नं भवतीति वाक्यशे- पोक्तं वर्पणभूयिष्ठलिङ्गं चेति त्रयं क्रमेणात्रोपलभ्यते ।अथवाग्र उप- पादनग्रन्थे यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदकैका भवतीति प्रतिशोत्तरमप्तेजः सहचारः कार्यलिङ्गितोऽन- स्य यो दृश्यते सोऽपि ये फलपत्राद्याहारास्तेषामपि पुरीपमांसमनां- सि भवन्तीति त्रयाणां धातूनां सहचारो मृद्भक्षकषु कीटादिष्वोप- धिभक्षकेषु पश्वादिष्वन्नभक्षकेषु पुरुषादिष्वेवं सर्वत्र पृथिव्योषध्य- नेपूपलभ्यते । अन्नशब्दस्य च लोकेऽदनीयत्वमादाय पृथिव्यादिषु- त्रिवपि प्रसिद्धिः। यथा नैपधे 'नास्ति जन्यजनकव्यतिभेदः सत्यम- नजनितो जनदेहावीक्ष्य वः खलु तनूममृतादामि'ति।चतुर्थस्कन्धे च। एवं पृथ्वादय पृथ्वीमन्नादाः खन्नमात्मन इति वर्षणभूयिष्ठलिङ्गमपि त्रिषु तुल्यम् । वर्षणे पृथिव्या आर्द्रतया भूयस्त्वात् । ओपधिवीरुधां व्रीह्यादीनामुत्पत्तेश्च । तस्माद् वाक्यशेषलोकप्रसिद्धिलिङ्गानां त्रि- प्वपि तुल्यत्वात् पृथिव्याद्यन्यतमे वक्तव्य अन्नमुक्तम् । एवञ्चोपजी- व्यवाक्यरूढिप्रायपाठानां त्रयाणामविरोधोऽतस्तत्त्रयेऽपि ग्राह्यत्वेन प्राप्ते इत्यर्थः । सिद्धान्ते तु लक्षणा नास्त्येव । योगनर्बल्यं त्वधिका- रादिभिर्हेतुभिः परिक्रियत इति न कोपि दोषः । स ग्रन्थस्तु निगद- व्याख्यातेनैव भाष्येण व्याख्यातः ।

२ अध्याये ३ पादः। तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३ ॥ आकाशादेव कार्याद् वाय्वादिकार्योत्पत्ति तुशब्दो वारय- ति । स एव परमात्मा वाय्वादीन् सृजति । कथं तच्छब्दवाच्य- तेति चेत् तदाभध्यानात् । तस्य तस्य कार्यस्योत्पादनार्थं तदभि- ध्यानं, ततस्तदात्मकत्वं, तेन तद्वाच्यत्वमिति । ननु यथाश्रुतमेव कुतो न गृह्यत इयत आह । तल्लिङ्गात् । सर्वकर्तृत्वं लिङ्गं तस्यै- व सर्वत्र वेदान्तेष्ववगतम् । जडतो देवताया वा यत्किञ्चिज्जाय- मानं तत् सर्वं ब्रह्मण एवेति सिद्धम् ॥ १३ ॥ भास्कराचार्यास्तु-तद्यदपां रस आसीत् तत् समहन्यत सा पृथिव्यभवदिति श्रुतिमपि शब्दान्तरत्वनोदाजहरुः । तेन योग- स्यादुष्टत्वादत्र पृथिव्येवानपदेनोच्यते इति सिद्धम् ॥ १२ ॥६॥ तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ एवं तैत्तिरीयश्रुत्येकवा- क्यतया छान्दोग्येऽपि क्रमेण ब्रह्मणः सकाशात् पञ्चमहाभूतसृष्टिरि- त्यवधारितम् । तत्रायं संशयः । क्रमसृष्टावाकाशादयः किं स्वतन्त्राः खखकार्य सृजन्त्युत परमेश्वरतन्त्रा इति । तत्र तावत् प्राप्तम् आ- काशादू वायुः वायोरग्निरित्यादि, तत्तेज ऐक्षत बहु स्यामित्यादिश्रुत्या भूतानां देवतायाश्च हेतुत्वस्य कर्तृत्वस्थ कथनात् स्वतन्त्रा एव सृज- न्तीति । एवं पूर्वपक्षे सूत्रमुपन्यस्य सिद्धान्तं व्याकुर्वन्ति । * आ- काशादेवेत्यादि * । * कथामिति * । तीति शेषः। * तदभिध्यान- मिति * । आकाशरूपः स्यां वायुरूपः स्यामित्येवं स्वस्य तद्रूपाभि- ध्यानम् । तञ्च, बहु स्यां प्रजाययति श्रुत्यैव संग्रहेणोक्तम् । नच तस्य तेजःप्रभृतिसाधारण्य शयम । तेजःप्रभृतिष्वपि तत्पदोपनिबन्धेन प्रकरणेन च तस्यापि ब्रह्मधर्मत्वनिश्चयात् । * सर्वत्र वेदान्तेब्धिति * स विश्वकृद्विश्वविदात्मयोनिः । यतः प्रसूता जगतःप्रसूती।यः पृथि- व्यां तिष्ठन् यः पृथिवीमन्तर इत्यादिषु । फलितमाहुः । * जडत इत्यादि*1* ब्रह्मण इति तत्तद्रूपेण तत्तदन्तः स्यात् तस्मात् । एवमेव सप्रकाशे अणुभाष्ये विपर्ययेण तु क्रमोऽत उपपद्यते ॥ १४ ॥ यथोत्पत्तिर्न तथा प्रलयः, किन्तु विपर्ययेण क्रमः । अत उत्प- पौराणिकीषु महदादिसृष्टिष्वपि शेयम् । भिक्षुस्तु-अत्र स्थितिकर्तृत्वं विचार्यत इत्याह । तन्मन्दम् । पूर्वेषु पादेषु ब्रह्मण एव कारणत्वेऽवधारिते स्थितिप्रलयौ प्रत्यपि सा- मान्यतः कारणता सिद्धैवेति तदंशे सन्देहाभावेनाधिकरणवैया- प्रसङ्गात् । अतः पूर्वोक्त एवार्थ इति निश्चयः ॥ १३ ॥ ७॥ विपर्ययण तु क्रमोऽत उपपद्यते ॥ ननु तैत्तिरीये छान्दोग्य च सृष्टेः क्रमो निरूप्यते, न तु प्रलयस्य । नैयायिकादयस्तु समवाय्यस- मवायिकारणनाशात् कार्यनाशमङ्गीकुर्वन्ति । मुण्डके तु विस्फुलि- गन्यायेम युगपदेव सर्वोत्पत्तिर्युगपदेव सर्वेषां प्रलयश्च श्राव्यते । यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद् विविधाः सौम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति । तथा सति क्रमिकाणां प्रलये कः प्रकारो ग्राह्य इति संशये मुण्डके ब्रह्मण्येव सर्वप्रलयस्योक्तत्वेन धौतत्वालौकिकं मतं विहाय योगप- द्यपक्षो ग्राह्य इति पूर्वपक्षे प्रवृत्तं सूत्रमुपन्यस्य व्याचक्षते । * यथो- त्पत्तिरित्यादि । सत्यमेवमेव साक्षात्सृष्टी, तथापि सुबालोपनिष- दि, किं तदासीत् तस्मै स होवाच न सन्नासन्न सदसदिति सदस- द्विलक्षणं ब्रह्माभिसन्धायोच्यते । तस्मात् तमः सञ्जायते तमसि भू- तादिभूतादेराकाशम् आकाशाद्वायुः,वायोरग्निः, अग्नेरापः, अद्भयः पृथिवीत्यादि । एवं सृष्टिमुक्त्वा अग्रे उच्यते, सोऽन्ते वैश्वानरो भू- त्वा सन्दग्धा सर्वाणि भूतानि पृथिव्यप्सु प्रलीयते आपस्तेजसि वि- लीयन्ते तेजो वायौ प्रलीयते वायुराकाशेऽपि विलीयते आकाशमि- न्द्रियेग्वित्यादि । पुराणेषु च 'वायुना हृतगन्धा भूः सलिलत्वाय क- ल्पते । सलिलं तदहतरसं ज्योतिष्ट्वायोपकल्पते । एतरूपं तु तमसा वायो ज्योतिः प्रलीयते । हृतस्पर्शोऽधकाशेन वायुर्नभसि लीयते । कालात्मना हतगुणं नम आत्मनि लीयत' इत्यादि । पुराणं च श्रुत्यु- पहणम् । अतो ब्रह्मणः सकाशादुत्पत्त्यनन्तरं तत्रैव प्रलय इति येन २ अध्याये ३ पादः। श्वनन्तरं प्रलयः। कुतः ? ॥ उपपद्यते ॥ प्रवेशविपर्ययेण हि नि- र्गमनम् । क्रमसृष्टावेवैतत् ॥ १४ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गा- दितिचेन्नाविशेषात् ।। १५॥ तैत्तिरीयके आकाशादि अन्नपर्यन्तमुत्पत्तिमुक्त्वा अन्नमया- दयो निरूपिता । तत्रान्नमयस्य प्राणमयस्य च सामग्री पूर्वमुत्प- भोक्ता । आनन्दमयस्तु परमात्मा मध्ये विज्ञानमनसी विद्यमाने कचिदुत्पन्ने इति वक्तव्ये । कमेणोत्पत्तिस्तेन क्रमेण न प्रलयः, किन्तु विपर्ययेण क्रमः प्रलयस्य । अत्र पृच्छति । * कुत इति * । सत्यं श्रुतिपुराणेपूच्यते, परं तत्रापि हेतुर्वक्तव्यो येन बुद्धावारोहेत् । तत्राह ॥ उपपद्यत इत्यादि ॥तथाच वैशेषिकादिवद् ध्वंसरूपो नात्र प्रलयः, किन्तु कारणे प्रवेशरूपः । अतो लौकिकप्रवेशनिर्गमन्याय एव बुद्धिगोचरीकरणायानुसन्धेय इत्यर्थः । तेनेदं सिद्धम् । युगपत्प्रलयोत्तरं युगपत्सृष्टिः । क्रमेण प्रलये तद्विपरीतक्रमेण सृष्टिरिति । तदेतदुक्तं *क्रमसृष्टावेवैतदिति * अन्ये तु प्रलयस्य ब्रह्मकर्तृकत्वावधारणार्थमित्याहुः । तन्म- न्दम् । यतो वेत्यादिश्रुत्यैव तस्यावधारितत्वेन तत्र सन्देहस्यैवानुद- यात् । अत उक्तमेव प्रयोजनमिति दिक् ॥ १४॥८॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादितिचेन्नाविशेषात् ॥ क्रमविचार एव प्रसङ्गादन्यद् विचारयतीत्याहुः * तैत्तिरीयक इत्या- दि * । अत्र हि तैत्तिरीयवाक्यैकवाक्यतया छान्दोग्यवाक्यं विचा. रितम् । छान्दोग्ये च, अनेन जीवेनात्मनानुप्रविश्येति जीव उच्यते। षोडशानां कलानामेका कलातिशिष्टासीदिति मन उच्यते । अतस्त- क्रमोऽपि विचारणीयः । नच मनसोऽन्नविकारत्वस्य मयटा प्राप्त- वादनोत्तरभावः शयः । अन्नमशितं त्रेधा भवतीति तत्पूर्ववाक्ये तस्याशनोत्तरभावित्वकथनादशनस्य च मनःप्राणसम्बन्धोत्तरभावि- ६९८ सप्रकाशे अणुभाष्ये । तब क्रमेणोत्पन्ने इति वक्तव्यम् । क्रमस्तु प्रातिलोम्येन । मू- त्रे विपर्ययानन्तरकथनात् । अन्तरोत च वचनात् । तेजोऽबन्ना- नामन्नमये गत्त्वात् । वाय्वाकाशयोःमाण एवं गतत्वात् । आ- काशात् पूर्व विज्ञानमनसी उत्पन्ने इति वक्तव्यम् । तयोरग्रे वच- नमेव लिङ्गमिति । अतस्तयोरुत्पत्तिर्वक्तव्येतिचेन्न । अविशे- पाता नामरूपविशेषयतामेवोत्पत्तिरुच्यते, न वनयोः । विज्ञानमय- स्य जीवत्वात् । मनोमयस्य च वेदत्वात् । अतो भूतभौतिकप्रवे. शाभावान वयोरुत्पत्तिर्वक्तव्या ॥ १५ ॥ तायाः प्रत्यक्षसिद्धत्वेनान्नमयत्वादिश्रुतेः पोषणाभिप्रायकत्वनिश्चयेन अनोत्तरभावित्वस्य तत्र वक्तुमशक्यत्वात् । अतस्तयोः क्रमः स- थों विचार्यः । सोऽपि तैत्तिरीयकानुरोधेन । उपजीव्यत्वात् । तनिरीयके त्याकाशावनपर्यन्तमुत्पत्तिमुक्त्वा तदुत्तरमन्नमयादयो निरूपिताः । तत्रानमयसामग्रयोषध्यन्नरूपाः । तस्यानरसमयत्वात् । इदमा तन्निर्देशाच्च । प्राणमयस्तत आन्तर इति तस्य सामग्री या वाकाशपृथिवीरूपा । न तुप्राणाख्यबाह्याबाहन्द्रियरूपा । तच्छिरः- प्रभृतिकथने प्राणव्यानापानाकाशपृथिवीनामेव कथनात् । एवमेतद्- द्वयमामग्री, औषधीभ्योऽन्नमिस्यन्तेन पूर्वमुत्पन्नोक्ता । आनन्दमयस्तु परमात्मा । स तु मूलकारणम् । तस्माद्वा एतस्मादात्मन इत्यात्म- पदनैवोक्तः । अतः परं मनोमयविज्ञानमयावशिष्यते । तदाह ॥ अ- तरा विज्ञानसी इति ॥ मध्ये विज्ञानमनसी विद्यमाने क्वचिदुत्पन्ने इति वक्तव्ये । तत्र पूर्वपक्षी आह * क्रमेणेति * । तैत्तिरीये आनन्द- मणस्य निकटे विज्ञानमयो, दूरे मनोमय इति तत्क्रमेणोत्पन्ने इति बक्तव्यम् ।मच यद्ययं व्यासाशयः स्यात् तदा मनोविज्ञाने इति वदेन तु विज्ञानमसी इति, अत्तो नैवमिति शङ्ख्यम् । क्रमस्तु प्रातिलोम्येनैव व्यासस्य विवक्षितः । अभ्यर्हिनत्वेन छान्दोग्यानुसारेण च प्रथम- मात्मनस्ततो मनसः स्मरणात् । नचात्र मानाभावः शङ्कन्धः । सूत्रे विपर्ययानन्तरं कथनातू । अन्तरति वचनाच । यतनाभिप्रेया- २ अध्याये ३ पादः। दिदं विपर्ययसूत्रात् पूर्व पठेत् । अन्तरेति च न वदेत । वायुतेजः- प्रभृतिष्वन्तरेति पदं विनापि प्रणयनात् । अत एतद्वाक्यविचार एवं व्यासाशयः । एवं सति छान्दोग्योक्तानां तेजोऽबन्नानामन्नमये गत- त्वाद् घाय्वाकाशयोरङ्गीक्रियमाणयोः प्राणमये गतत्वाद् आका- शात् पूर्व विज्ञानमनसी, विज्ञानं जीयो,मनोऽन्तःकरणमुभयविधषाह्ये- न्द्रियनायकमिति तदुपलक्षितं करणकदम्बकं चंति द्वं उत्पने इति वक्तव्यम् । अन्यथा सर्व एवात्मानो व्युश्चरन्तीति श्रुत्युक्तानां जी- वानाम्, एतस्माजायते प्राण इति श्रुतौ स्मृतिपुराणादिषु च ज- गत्कारणकोटिनिविष्टानां प्राणादीनां महदहङ्कनरादीनां च ब्रह्मका- येवनिवेशे क्रमसृष्टौ न्यूनताऽपद्येन । नचाकाशादिग्रहणे यथाम- हाभूताधिकारो नियामकस्तथात्र विज्ञानमनसोर्ग्रहणे नियामकं छा- दोग्य नास्तीति वाच्यम् । तयोरग्रे, अनेन जीवनात्मनाऽनुप्रविश्येति, षोडशानां कलानामेका कलातिशिष्टाऽऽसीदिति वचनमेव लिङ्गम् । तैत्तिरीये चानन्दमयनिकटे विज्ञानमयस्य, दूरे मनोमयस्य कथनं लि. ङ्गम् । आकाशादिभूतघटितस्य प्राणमयस्य दूरस्थात् । भौतिकघ- टितस्यानमयस्य ततो दूरत्वाश्च । इदमपि लिङ्गमिति च । अतस्तयो- र्जीवान्तःकरणयोरुत्पत्तिर्वक्तुं युक्तंतिचेत् । न । कुतः । अविशेषात् । नामरूपात्मकविशेषवन्तो ये वर्तन्त तेषामेवोत्पत्तिरुच्यते । छान्दो- ग्ये तैत्तिरीये च, न त्वनयोर्भवदुक्तयोर्जीवान्तःकरणयोः । छ- न्दोग्ये जीवस्यात्मपदेन विशेषितत्वात् । भूतविकारात्मकमनःप्राण- घायामुक्त्यभावादुक्तन्द्रियाणां चाभावात्। तैत्तिरीये च विज्ञानमयस्य जीवत्वात् । मनोमयस्य चर्गाद्यात्मकवेदत्वात् । अतः श्रुतिद्वयेऽपि जीयवेदयोरेवाभिप्रेतत्वात् तयोश्च भूतभौतिकप्रवेशाभावान्न तयो- रुत्पत्तिर्वक्तव्योति सिद्धम् । नच छान्दोग्ये वेदोऽभिप्रेत इति कथं शेयमिति शडून्यम् । नामरूपव्याकरणरूपकार्येण तदवगमात् । वेदेन नामरूपाणि विषमाणि समेम्वपि । धातुखवाकल्प्यन्तै एतेषां खार्थसिद्धय'इत्येकादशस्कन्धीयभगवद्वाक्येन तस्य तत्कार्यतानि- धयात् । एवं जीवस्य करणत्वं वेदस्य च द्वारत्वम् । तेनोभयोः कार्य नामव्याकरणमिति निश्चयाइदं च,शब्द इति चेत्रातःप्रभवादितिसूत्रे सर्वरङ्गीक्रियत इति नात्र विवादलेशापवश्वास्मिन्नधिकरणे तैत्तिरी- योती विज्ञानमयमनोमयो विषयः । कोत्पद्यते इति सन्देहः ।

सप्रकाशे अणुभाष्ये । उत्पत्तिसामप्रधनुक्तिरुत्पन्नेषु पाठश्च सन्देहबीजम् । तयोर्जीवा- न्तःकरणरूपत्वाच्छुत्यन्तरे तयोः साक्षादुत्पत्तिकथनादाकाशात पूर्व व कथनात् क्रमसृष्टावपि आकाशात् पूर्व परमात्मनः सका- शात् ते अप्युत्पद्यते इति पूर्वः पक्षः । ते अत्र न जीवान्तःकरणरूपे, किन्तु जीववेदरूपे, तद्गमकस्य लाभात् । अतो न तयोरुत्पत्तिरत्रा- भिप्रेतेति सिद्धान्तः । ननु भवत्वेवं तथापिन्यूनांशपूरणाय क्रमसृष्टा- वपि प्राणेन्द्रियमनसां क्वचिदुत्पत्तिस्तु वक्तव्येतिचेत् । पुराणानां श्रुत्युपबृंहणत्वात् तदनुसारेणाकाशात् पूर्वमेव तत्तत्कारणभावाप- नाद् ब्रह्मण एवेति ज्ञातव्यम् । रामानुजाचार्या विज्ञानभिक्षुश्चैवमेवाहुः । यत्तु शङ्कराचार्यभास्कराचार्याभ्यां बुद्धिं तु सारथिं विधी- ति, एतस्माज्जायते प्राण इति वाक्यद्वयं विषयत्वेन धृत्वा सूत्रस्थं विज्ञानपदं च करणव्युत्पत्त्या बुद्धीन्द्रियसंग्राहकं विधाय विज्ञानम- नसी इति द्विवचनमुपपादितम् । ततोऽग्रे करणानां भौतिकत्वपक्षे तेनैव निर्वाहान्न क्रमान्तरापेक्षा । अभौतिकत्वपक्षे तु तेभ्यः पूर्वमि- त्युक्तम् । तत् तदनुसारिणामेव रोचिष्णु । आद्यस्य काठकवाक्य- स्योत्पत्तिप्रकरणीयत्वाभावेन विषयवाक्यत्वायोगात् । बुद्धयादीनां त्रयाणां तत्र पृथगुक्त्या सौत्रद्विवचनविरुद्धत्वाच्च । द्वितीयस्य मु- ण्डकवाक्यस्य च बुद्धिरहितत्वेनैव तथात्वाच्च । करणव्युत्पत्तेर्बु- यादित्रयसाधारण्येन सूत्रे मनःप्रयोगवैयर्थ्यापत्तेश्च । भौतिकन्द्रि- यपक्षानादरणीयताया अस्माभिः प्रागुपपादितत्वेन तद्रीत्या छान्दो- ग्ये तन्निवेशस्याशक्यवचनतया, अभौतिकपक्षे चात्माकाशयोरन्त- राले वा पश्चाद्वा तेषां प्राप्त्या सूत्रीयसिद्धान्तस्योपपत्तिशून्यतया शैथिल्यप्रसङ्गाश्च । नच प्रजापतिर्वा इदमग्र आसीत् स आत्मानमै- क्षत स मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजते. तिश्रुत्यन्तरे पृथक्क्रमाम्नानात् । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुयोतिरापः पृथिवीमिन्द्रियं मनोऽन्नमिति प्रश्नोपनिषच्छतेश्व न शैथिल्यमिति वाच्यम् । तथा सति व्यासपादैः श्रुत्यन्तरेणावि- शेषादित्येवमुच्यते । किञ्चैकस्यां सृष्टाविन्द्रियादीनां नानाविधाभि- रुत्पत्तेर्वक्तुमयुक्तत्वात् तत्तत्सृष्टौ तत्र तत्रोत्पत्तिरित्यङ्गीकार्यम् । तथा सति यथा साक्षात्सृष्टिक्रमसृष्टयोः शब्दादेव सन्देहाभावस्तथा- २ अध्याये ३ पादः। चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥ ननु विज्ञानमयस्य जीवस्यानुत्पत्तौ सर्वव्यवहारोच्छेदः । उ- त्पत्तिस्तु त्रिविधा निरूपिता । अनिस जननं निसे परिच्छिन्ने स- मागम इति । तथाच जीवस्य समागमलक्षणाऽप्युत्पत्तिर्न स्यादि- तीमामाशङ्कां निराकरोति तुशब्दः । चराचरे स्थावरजङ्गमे शरीरे तयोविशेषेणापाश्रय आश्रयः शरीरसम्बन्ध इति यावत् । स तु स्यात् । न तु स्वतः । ननु शरीरस्योत्पत्ती जीवोऽप्युत्पद्यते । ऽत्रापीति सूत्रमनावश्यकं च स्यात् । अतस्तदविचारेऽपि शास्त्रे न्यून- त्वस्याभावात् प्रागुक्तमेव निरवद्यमिति दिक् ॥ १५ ॥ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावि- त्वात् ॥ जीवाद्यनुत्पत्तावेव किश्चिदाशय परिहरतीत्याशयेन सूत्र- मुपन्यस्य व्याकुर्वन्ति । * नन्वित्यादि * । जीवस्यत्युपलक्षणम् । पू. सूत्रे वेदस्यापि विचार्यत्वेनोपक्षिप्तत्वात् ।अतो विज्ञानमयस्य मनो- मयस्यचानुत्पत्ती सर्वव्यवहारोच्छेदः । न हि जीवानुत्पादे कश्चित् संसारासक्तो वा मुमुक्षुर्वा प्रवृत्तिनिवृत्तिलक्षणकर्मशानभक्त्यधि- कारी भवेत् । तदभावे च लोकयात्रा तत्तत्पुरुषार्थोपायबोधकानि शास्त्राणि चोच्छिोरन् । न वा वेदस्यानुत्पत्ती धर्माधर्मादिकमस- ङ्कीर्णमवगन्तुं शक्येत । तदभावे लोकमयादाऽप्युपच्छिद्येत । एवं सर्वव्यवहारोच्छेद उभयत्रापि समान इति पृथक् तदनुक्तिः । नच नामरूपसम्बन्धामिका या उत्पत्तिः सैवात्र निषिध्यते, नेतरेत्यतो न दोष इति वाच्यम् । उत्पत्तिस्तु पूर्व त्रिविधा निरूपिता। अनित्ये जननं नित्ये परिच्छिन्ने समागम इत्यादि । सन्नियांगशिष्टासु तिस- ज्वेकतरैव निषिध्यते, नेतरेत्यत्र विनिगमकाभावात् । तथाच जीवस्व समागमलक्षणाऽप्युत्पत्तिर्न स्यादितीमामाशङ्कगमित्यर्थः । * शरीरे इति प्रथमायाः, * तयोरिति सप्तम्या द्विवचनम् । * स तु स्यादि- ७०२ सप्रकाशे अणुभाष्ये । अन्यथा जातकर्मादीनाममावसप्तङ्गादितिचेन्न । तव्यपदेशस्तस्य शरीरस्य जन्ममरणधर्मवत्त्वेन जीवव्यपदेशो भाक्तो लाक्षणिकः । कुतः ? । तद्भावभावित्वात् । शरीरस्यान्वयव्यतिरेकाभ्यामेव जी. वस्य तद्भावित्वम् । देहधर्मो जीवस्य भाक्तः। तत्सम्बन्धेनैवोत्प- त्तिव्यपदेश इति सिद्धम् ॥ १६ ॥ ति * । जायमानः शरीरमभिसम्पद्यमान उत्क्रामम्रियमाण इति श्रु- स्या देहसम्बन्धेनैव तयोरुक्तत्वादेहसम्बन्धस्तु स्यादित्यर्थः । नच वेदस्य न शरीरसम्बन्ध इति शङ्यम् । नादात्मना सर्वशरीरेषु त- स्यैव विद्यमानत्वात् । तदुक्तमेकादशस्कन्धे भगवता, स एष जीवो विषरप्रसूतिरित्यादिद्वयेन । * तस्य शरीरस्येत्यादि * । शरीरस्य जन्ममरणवत्त्वेन जीवे तस्य जन्ममरणवत्वस्य व्यपदेशो भाक्तो ला- क्षणिक इति योजना । पृच्छति * कुत इति * लक्षणारूपात कस्मात् सम्बन्धात् । * तद्भावभावित्वादिति * । तद्भावेन शरीरभावेन श- रीराभिमानेनेति यावत् । तेन भवति व्याप्तस्तिष्ठति तच्छीलस्तद्भाव- भावी तत्त्वात् । तथाच शरीराभिमानरूपात् सम्बन्धादित्यर्थः । त- दाहुः । * शरीरस्येत्यादि * / * तद्भावित्वमिति * तदभिमानि- त्वम् । सिद्धमाहुः । * देहेत्यादि * I * तत्सम्बन्धेनेति * देहस- म्बन्धेन । एवमेव वेदेपि समानन्यायाद् बोध्यम् । एवञ्च चराचर- व्यपाश्रयस्तु स्यादिति भिन्नं वाक्यं, शिष्टं घाझ्यान्तरम् । भास्कराचार्यास्तु-चरे अचर उद्गत इति गौणत्वसिद्धिरि- त्यथै वदन्तश्चरे अचरस्य व्यपाश्रय इत्येवं समासं कृत्वा, अन्ये तु चराचरं व्यपाश्रयो यस्योति बहुब्रीहिं कृत्वा चराचरव्यपाश्रयपदम् उत्पत्तिनाशव्यपदेशस्य भाक्तत्वे हेतुत्वेन व्याकुर्वन्ति । तद्भावमावि- त्वादिति तु शरीरसद्भावे जन्ममरणयोर्भावित्वादित्येवं ताच्छील्ये णिनिमङ्गीकृत्य व्याकुर्वन्ति । तथा सति सद्भावभावित्वावराचरव्य- पाश्रयस्तव्यदेशो भाक्तः स्यादित्येकमेव वाक्यं भवति । तन्न सूत्रकृ- तोऽभिप्रेतमिति प्रतिभाति । स्यात्पदस्य मध्ये पाडात् । अभिमानेन २ अध्याये ३ पादः। नात्माऽश्रुतर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥ ननु जीवोऽप्युत्पद्यता, किमिति भाक्तत्वं कल्प्यत इतिचेत् । पा समागमेन वा जीवशरीरयोः सम्बन्धस्य सर्वेषामावश्यकत्वाच पाक्यद्वयपक्ष एव साधीयानिति । भिक्षुस्तु-अन्तःकरणस्य रूपभेदेनाकाशवन्नित्यानित्यत्वं स्वीकृ- त्यात्र नित्यान्तःकरणस्याभिप्रेतत्वात् तदुत्पत्तिव्यपदेशो भाक्त इ- त्येवमर्थमाह । तदस्माकमप्यभिमतम् । परं यन्नित्यत्वेन तस्याभिमतं तरस्माकं वेदसूक्ष्मरूपत्वेन भगवदीयत्वेन, न तु तत्त्वान्तरत्वेनेति विशेषः। रामानुजाचार्यास्तु-इदं सूत्रं प्रासङ्गिकत्वेनेच्छन्ति । तथाहि । पूर्व, तेज ऐक्षतेत्यादौ तेजःप्रभृतयः शब्दाः ब्रह्मैवाभिदधतीत्युक्तम् । तथा सति तेस्तैः शदैस्तत्तद्व्यपदेश उपरुध्यत इति शङ्कनयां, चरा- चरसूत्रं प्रववृते । अर्थस्तु-चराचरव्यपाश्रयस्तत्तद्व्यपदेशो भाक्तः, लोके वाच्यैकदेशे भऋत्वोक्त इत्यर्थः । समस्तप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रज्ञादिप्रमाणाविषयत्वाद् वेदान्तश्रवणात प्रका- रप्रकारिप्रतीतेः प्रकारिप्रतीतिभावभाविवाश्च तत्पर्यवसानस्येति । यद्वा तेजआदयः शब्दास्तत्तद्वाचका इति तेषां ब्रह्मवाचकत्वं भाक्त- मित्यत आह । चराचरेति । चराचरव्यपाश्रयस्तव्यपदेशश्चराचर- वाचिशब्दप्रयोगो ब्रह्मण्यभाक्तः । कुतः ? । तद्भावभावित्वात् । स- वंशब्दानां वाचकभावस्य नामरूपव्याकरणश्रुत्या ब्रह्मभावभावित्वा- दिति द्विधा व्याख्यानात् । अत्रोदासीना वयम् । माध्वास्तूक्तसूत्रद्वयात्मकमधिकरणं लयक्रमविचारपरमिच्छ- न्ति । तत्रापि वयं तथैव ॥ १६ ॥ ९ ॥ नात्माश्रुतनित्यत्वाच्च ताभ्यः ॥ पूर्वाधिकरणे जीवस्य नाम- रूपविशेषसम्बन्धाभावाजीवस्य नोत्पत्तिरित्युक्तम् । तद्युक्तं न वेति सन्दहे, देवदत्तादिनाम जीवस्यैव, न शरीरमात्रस्य । मृते देवदत्ते तदीयगयाश्राद्धादिकरणानुपपत्तेः । एवं नामसम्बन्धे तत्र सिद्धे सोऽध्युत्पद्यतां तदेतदाहुः । * ननु जीवोऽपीत्यादि * । समाधि व्या- कुर्वन्ति * नेत्यादि * । तथाच, अङ्गादङ्गात् सम्भवसि हृदयाद्- सप्रकाशे अणुभाष्ये । न । आत्मा नोत्पद्यते । कुतः ?। अश्रुतेः । न हि आत्मन उत्प- त्तिः श्रूयते । देवदत्तो जातो, विष्णुमित्रो जात इति देहोत्य- त्तिरेव । न तु तव्यातिरेकेण पृथग् जीवोत्पत्तिः श्रूयते । विस्फु- लिङ्गवदुच्चरणं नोत्पत्तिः । नामरूपसम्बन्धाभावात् । एतस्य गुणाः स्वरूपं चाग्रे वक्ष्यते । धिजायसे आत्मा वै पुत्रनामासि त्वं जीव शरदः शतमित्यादिश्रुति. विचारे लोकविचारे च देहस्यैवोत्पत्तिः। श्राद्धादिशास्त्रे तु देवद- तादिदेहोपलक्षितो जीवोऽभिप्रयते । तत्रापि पूर्वोक्तश्रुतिप्रभृतय एव बीजम् । अत एव, 'अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।फ- ल्गनि तत्र महतां जीवो जीवस्य जीवनामि'त्यादी देहेऽपि गौण्या जी- वपदप्रयोगः । यद्वा एतत्पश्चविध लिङ्गं त्रिवृत् षोडशविस्तृतम् । एष चेतनयायुक्तो जीव इत्यभिधीयत'इति चतुर्थस्कन्धस्मृतेर्विशिष्टे पारि- भाषिको वा । न तु देहव्यतिरेकेण पृथग् जीवोत्पत्तिः श्रूयते । नापि युक्तिगोचरीभवति । तस्योत्पत्तिनाशशालित्वे श्राद्धादि- शास्त्रोक्तामुष्मिकफलसम्बन्धानुपपत्या सर्वशास्त्रविप्लवप्रसङ्गात् । प्रेतादिपूर्वजन्मकथनाद्यनुपपत्तेश्च । अतो देहस्यैव जन्मादिधर्मवत्त्वात् तत्सम्बन्धेनैव जीवे जन्मा- दिव्यपदेश इति निश्चयः । ननु बृहदारण्यके, यथाग्नेः क्षुद्रा विस्फु- लिङ्गा व्युश्चरन्त्येवमवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे दे- वाः सर्वाणि भूतानि सर्व एवात्मानो व्युश्चरन्तीति श्रुत्या प्राणादि- जडसाधारण्येन व्युश्चरणश्रावणान्मुण्डके च, एतस्माज्जायते प्राण इत्यनेनोत्पत्तिमत्तया श्रावितानां प्राणादीनामस्य साहचर्या- तू कथं नोत्पत्तिरित्यत आहुः । * विस्फुलिङ्गवादित्यादि * । यतो विस्फुलिङ्गवदुश्चरणं नोत्पत्तिः । नामरूपसम्बन्धाभावात् । अन्यथा व्युच्चरणश्रुतावात्मशब्दप्रयोगस्य, बालाग्रश्रुतिव्याकर- णश्रुत्योर्जीवशब्दप्रयोगस्य च विरोधापत्तेः । न चास्यापि सृष्टयनन्तरभावित्वात् कृत्रिमत्वं शङ्यम् । तथा सति सष्टेः पूर्व ब्रह्मण एव केवलस्य सत्वात् सृष्टयनन्तरं प्रयुज्यमानानां शब्दानां सर्वत्र परिभाषिकत्वापत्त्या रूढयुच्छेदप्रसङ्गात्। अतस्तदभा.

२ अध्याये ३ पादः। किञ्च । निसत्वाच्च ताभ्यः श्रुतिभ्यः । अयमात्माऽजरो- ऽमरः, न जायते म्रियत इखेवमादिभ्यः ॥ १७ ॥ वाय सर्वाणि रूपाणि विचिन्त्य धीरो नामानि कृत्वाऽभिवदन य- दास्त इति श्रुत्युक्तस्य नामरूपनियमस्य साहाजिकत्वमास्थयम् । तथा सति तदतिरिक्तस्यैव कृत्रिमत्वं, न तु नैसर्गिकस्येति निश्चयः । तदे. तदुक्तं * नामरूपसम्बन्धाभावादिति । न च नामरूपान्तरसम्ब- न्धस्यैवोत्पत्तित्वं, न केवलव्युच्चरणस्येत्यत्र किं गमकमिति शङ्य- म् । यथोर्णनाभिस्तन्तुनोच्चरेदित्यव्यवहितपूर्वमुदितस्य दृष्टान्तस्यैव गमकत्वात् । अन्यथैकेनैव निर्वाहे इतरवैयर्थ्यप्रसङ्गात् । अतस्तन्तू- नां नामरूपसम्बन्धात पूर्वो हष्टान्तः प्राणादीनां भूतानां नामरूपस- म्बन्धवतामुत्पत्तिबोधकः । नच तेषामुत्पत्तिमत्त्वे किं मानमिति वा- ध्यम् । ऐतरीये, स ऐक्षत लोकान्नु सृजा इति प्रश्ने, स प्राणमनु- जतेत्यादिसृष्टिश्रुतीनामेव मानत्वात् । नच तदात्मान५ स्वयमकुरुते- त्यात्मकरणश्रुतिविरोधः । तत्र यथास्थितप्राकट्यस्यैवकरणत्वेन विव- क्षितत्वात् । अन्यथा तस्य सुकृतत्वविरोधापत्तेः। नचात्मकृतेः प- रिणामादिति सूत्रे तस्य परिणामत्वस्याङ्गीकारविरोधः शङ्ख्यः । तत्र यथास्थितप्राकट्य स्यैव परिणामत्वेन विवक्षितत्वात् । अन्यथा विपरि- णामादित्येवं वदेत् । अतः प्राणादीनामेवोत्पत्तिर्न जीवस्येति निश्च- यः। द्वितीयस्तु जीवानामुच्चरणमात्रबोधक इत्यास्थयम् । नच य- थोर्णनाभिः सृजते गृह्णते चेति मुण्डकवाक्यखारस्यात् पूर्वो दृष्टान्तः कर्तृत्वमात्रबोधक इति वाच्यम् । एवमपि क्रियाविषयाणामुत्पत्तिम- त्वस्य सिद्धः। नचैवमपि प्राणादिसाम्यानपाय इति शङ्ख्यम् । यत एतस्य गुणाः स्वरूपं चाग्रे, शोऽत एवेत्यादिसूत्रेषु वक्ष्यते । अतस्तद- घगती प्राणादिसाम्यसन्देहस्य सुखेन निवृत्तेः । नन्वेवमपि प्रमेय- बलेन निवृत्तिन तु प्रमाणेन । शास्त्रं तु भवतां प्रमाणप्रधानमतो नेदं युक्तमत आहुः * किश्चेत्यादि । इत्येवमादिभ्य इत्यादिपदेन, नित्यो नित्यानां चेतनश्चेतनानाम, अजो नित्यः शाश्वतोऽयमित्यादीनां सङ्घ- हः । तथाच नात प्रमाणाभाव इत्यर्थः॥ १७ ॥१०॥ ८९ ७०६ सप्रकाशे अणुभाष्ये । गुणानिरूपयन् प्रथमतश्चैतन्यगुणमाह ॥ ज्ञोऽत एव ॥ १८ ॥ ज्ञश्चैतन्यस्वरूपः । अत एव श्रुतिभ्यो विज्ञानमय इसादिभ्यः। सर्वविप्लववादी ब्रह्मवाक्यान्युदाहृस सूत्रोक्तसिद्धान्तमन्य- थाकृस श्रुतिसूत्रोल्लङ्घनेन प्रगल्भते। . झोऽत एव ॥ सूनमवतारयन्ति । * गुणानित्यादि * । गुणाँ- स्तद्गुणान् धर्मानिरूपयन् प्रथमतो मुख्यतया चैतन्यगुणं चैतन्य गुणो यस्य तादृशं, यो यजनकः स तद्गुणको, यो यद्गुणकः स तदविनाभूतो, यो यदविनाभूतः स तदात्मक इति व्याप्तीनां समन्व- यसूत्रे सिद्धत्वादत्र चैतन्यगुणकत्वेन चैतन्यात्मकमात्मानमाहेत्यर्थः । व्याकुर्वन्ति । * ज्ञ इत्यादि * । ज्ञानधर्मकत्वेऽपि शानस्वरूप इत्य- थः । ननु कप्रत्ययस्य कर्तर्यनुशासनाज्ञानकर्तेति भवति । तच्च फर्तृत्वं समवायसम्बन्धेनति ज्ञानधर्मकत्वे पर्यवस्यतीति काणभुज- घदङ्गीकर्तव्यं, न तु सांख्यवज्ञानस्वरूप इत्येतामाशङ्कतं हेतुबोधित- श्रुत्युपन्यासेन परिहरन्ति * विज्ञानेत्यादि * । तथाच छान्दोग्यप्र. भृतिषु, न पश्यो मृत्यु पश्यति, एष हि द्रष्टा श्रोता मन्ता रसयिते- त्यादिभिर्विज्ञातृत्वादिबोधनाज्ञानधर्मकत्वेऽपि तैत्तिरीयादौ मयट्- प्रत्ययेन ज्ञानप्राचुर्यबोधनात् । एतनिगमनश्लोके च विज्ञानं यज्ञं तनुत इत्यादिना ज्ञानस्वरूपत्वकथनाज्ञानधर्मा ज्ञानस्वरूपश्च । न तु काणभुजवन्न वा कापिलवदित्यर्थः । अत्रान्येषां मतानामेकदेशि- तया भगवन्माहात्म्याविरोधितया च संग्राह्यत्वं बोधयितुं शाङ्करं मतं दूषणायोपक्षिपन्ति * सर्वविप्लवेत्यादि * । सर्वविप्लववादित्वं तु पाप्रवचनोपन्यासेन, नासतोऽदृष्टत्वादित्यत्र मया प्रदर्शितम् । ताहशो, ब्रह्मवाक्यानि विज्ञानमानन्दं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म अ- यमात्मानन्तरो बाह्यः कृत्स्नः प्रशानघन इत्यादीन्युदाहृत्य, सूत्रोक्त- सिद्धान्तमन्यथाकृत्य सुषुप्त्युत्क्रान्त्योर्भेदेनेत्यादिसूत्रेषु सिद्धं जी- वब्रह्मणो दरूपं सिद्धान्तं भेदस्य काल्पनिकत्वकथनेन संसारिस्व- रूपमात्राख्यानपरतया व्याख्याय, अयं शारीर आत्मा प्रार्थनात्मना २ अध्याये ३ पादः। स वक्तव्यः । किं जीवस्य ब्रह्मत्वं प्रतिपाद्यते जीवत्वं वा निराक्रियते इति । आये इष्टापत्तिः । न हि विस्फुलिङ्गोऽग्न्यंशो भूत्वा नानिः । द्वितीये स्वरूपनाशः । जीवत्वं कल्पितमितिचेन्न । अनेन जीवेनात्मनेति श्रुतिविरो- धात् । नचानादिग्यं जीवब्रह्मविभागो बुद्धिकृतः । प्रमाणाभावा- त् । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति श्रुतिविरोधश्च । नच जीवातिरिक्तं ब्रह्म नास्ति । सर्वश्रुतिमूत्रनाशप्रसङ्गात् । यः सर्वज्ञः सर्वशक्तिः । अयमात्मा अपहतपाप्मा । अधिकं तु भेदनि- सम्परिष्वक्तः प्राज्ञेनाऽऽत्मनावारूढ इत्यादिश्रुतीनाम् उक्तसूत्राणां चार्थत्यागेन धाष्टयं करोतीत्यर्थः । तद् दूषयन्ति । * स वक्तव्य इत्या- दि * । द्वितीये स्वरूपनाश इति * । जीवत्वनिराकरणपक्षे जीव- स्वरूपस्याविद्यकत्वान्मुक्तावविद्यानाशे जीवस्वरूपनाश एव स्या- तू, तथाचात्महानमपुरुषार्थ इति मोक्षस्यापुरुषार्थता च स्यात् । ननु वस्तुत आत्मनो ब्रह्मत्वाजीवत्वं तस्य कल्पितमतो न तन्नाशे स्वरूप- नाश इत्यत आहुः * जीवत्वमित्यादि *। अत्र हि जीवशब्दोदितस्या- त्मनो जीवस्यात्मनश्चेत्युभयोर्वा नामरूपकरणन्वं श्राव्यते। तत्र यदि जीवत्वं कल्पितं स्यात् तदा ततः पूर्व कल्पकः कश्चिद्वक्तव्यः । तत्र न तावद् ब्रह्मणस्तथात्वम् । अविद्यासम्बन्धराहित्यात् । न तापजीव- स्य, कल्पनाविषयत्वात् । सृष्ट्यादी जीवान्तरस्याभावात् । जडस्य तु न तथात्वं, प्रत्यक्षविरोधात् । यदि तु तजआदिदेवतायाः कल्पक- त्वं शङ्मयते तदा तस्यापि जीवत्वात् तस्य कः कल्पकः । तस्मात् क- ल्पकनिर्वचनाशक्तया जीवस्याकल्पितत्वमेवास्थयम् । अन्यथा, अनेन जीवेनेति, द्वा सुपर्णा इति च श्रुतिविरोधः। नच बहुत्ववजीवत्वमपि पाश्चात्यमिति शङ्कम्यम् । तथा श्रुत्यभावात् । सृष्टयादावनन जीवेने- ति सिद्धवनिर्देशाच्च । अतः सृष्टः पूर्वमपि भगवदङ्गवज्जीव- रूपोऽशोऽपि भगवदविभक्तस्तादशनामादिविशिष्टो नित्य एवाऽऽस्थे- यः । नन्वनादिजीवब्रह्मविभागो बुद्धिकृत इति तथेत्यत आहुः * । न चेत्यादि * । न हनादित्वे बुद्धिकृतत्वे का प्रत्यक्षं प्रमाणीभवितुमई- ७०८ सप्रकाशे अणुभाष्ये। देशादिसादिवाधः। तस्मात् सदंशस्य तव्यपदेशवाक्यमात्र स्वीकृस शिष्टपरि- ति । जीवभावस्य कल्पितत्वेन तत्प्रत्यक्षस्य स्वाप्निकमायिकपुरुषप्रत्य- क्षवत् प्रामाण्यायोगात् । अत एव नानुमानादिरपि । श्रुतयस्तु- तत्र विस्फुलिङ्गवव्युच्चरणं ब्रह्मण्यप्ययं चाभिदधत्यो जीव- ब्रह्मविभागस्य सादित्वमेव बोधयन्ति । नच,न कर्माविभागादिचेन्नानादित्वादिति सूत्रे कर्मानादित्वबोध- नेन विभागानादित्वं, पुण्यः पुण्येनेति तद्विषयश्रुत्या बोधितप्रायमेवेति वाच्यम् । श्रुतौ सदसत्कर्मणा सदसद्देहभवनमात्रबोधनेन विभा- गानादित्वस्याबोधनात् सूत्रेऽनादित्वकथनस्य कर्मसापेक्षतया कर- णेऽपीश्वरस्यानीश्वरत्वाभावबोधनार्थत्वावसायात् । अन्यथा, एष ह्येव साधु कारयतीत्यादिश्रुतिक्रोिधस्यापरिहाराद् वैषम्याद्यभावस्य तदनन्यत्वादेव सिद्धश्च । नच तत्र संसारानादित्वव्याख्यानं यु- ज्यते । तथा सतीश्वरस्यानीशत्वं, सदेव सोम्यदमन आसीदेक- मेवाद्वितीयमिति श्रुतिविरोधश्च । संसारहेतुभूताया अविद्याया जी- वानां च सत्त्वात्। एतदेवोक्तं *सदेवेत्यादिना।नच सा असतीति यु- क्तम् । तथा सति तया संसारासम्भवापत्तेः । नापि सदसद्विलक्ष- णति । तथा सति ब्रह्मानतिरेकापत्तेः । अनादिमत्परं ब्रह्म न सत्त- नासदुच्यत इति गीतावाक्यात् । कल्पितजीवानादित्वमप्यतेनैव नि- स्तम् । अतो विभागानादित्वमप्रमाणकमेव । किश्च । बुद्धिकृत इति कस्य बुद्धिकृतः । जीवस्य ब्रह्मणो वा स्वस्यैव वा । तत्र न ताव- दाद्यः । जीवस्यैवाभावात्। द्वितीये तु बुद्धिकृतत्वाद् गतमनादित्वम्। तदानीं बुद्धिसत्त्वादद्वितीयश्रुतिविरोधश्च । तृतीये त्वसम्भव एव । तस्या जडत्वात्। अबुद्धिकृतपक्षे विभागस्य कृतत्वेऽपि जीवस्य सत्त्वा. दद्वितीयश्रुविरोध एव । नचैवं विभागस्य सादित्वे विस्मृत- कण्ठमणिन्यायेन विस्मृतस्वस्वरूपं ब्रह्मैव इति जीवातिरिक्तं ब्रह्म नास्तीति युक्तम् । सर्वश्रुतिसूत्रनाशप्रसङ्गात् । केषां नाशप्रसङ्ग इति चेत् । यः सर्वज्ञ इत्यादीनां बाधः। * स्वीकृत्यति * अंशत्वत्यागेन २ अध्याये ३ पादः। ग्रहार्थमाध्यमिकस्यैवायमपरावतारो नितरां सद्भिरुपेक्ष्यः ॥१८॥ उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ अत एवेति वर्तते । स यदास्माच्छरीरादुत्क्रामति सहैवेतैः स- वैरुत्क्रामति । ये के चास्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे। श्रुत्युक्ता- नामुत्क्रान्तिगसागतीनां श्रवणाद् यथायोग्यं तस्य पारेमाणमङ्गी- कर्तव्यम् । तथात्वं स्वीकृत्य। *माध्यमिकस्यापरावतार इति * भगवदाशप्तशिवा- ऽवतारत्वेन प्रसिद्ध शङ्कराचार्य माध्यमिकोऽप्याविष्ट इति तथा। एवं च सर्वावस्थासाधारण्यन ज्ञानधर्मा ज्ञानस्वरूपश्च जीव इति सि- धम् ।अत्रापि जीवो वैशेषिकवदङ्गीकार्यः, सांख्यवद् वेति सन्देहः । उभयथा श्रुतिः सन्देहबीजम् । यथाकश्चिदस्तु अभ्यर्हितत्वात् सांख्यमतमेवेति पूर्वः पक्षः । सिद्धान्तस्तूक्त एव । विचारस्तु गुण- मुख एव, न तु स्वरूपमुखः । सूत्रे शशब्दप्रयोगादिति ॥ १८॥ ११ ॥ उत्क्रान्तिगस्यागतीनाम् ॥ अतः परं जीवस्य शारीरकब्राह्मणे, स वा एष महानज आत्मेति, काशीतिकब्राह्मणे च, योऽयं विज्ञान- मयः पुरुषः प्राणष्विति व्यापकत्वमध्यमपरिमाणयोः श्रावणात्, श्वे. ताश्वतरेच, आराग्रमात्रोहवरोपि दृष्टइति, बालाग्रशतभागस्य शत- धा कल्पितस्य च, भागो जीवः स विज्ञेय इस्यणुत्वश्रावणात् सन्देहे जीवस्य परिमाणं विचार्यते । तत्र सूत्रे एकं षष्ठयन्तं पदं,तस्य सम्ब- न्धःकापि न प्रतीयत इति तं बोधयन्ति । * अत इत्यादि * । कर्त- व्यमित्यन्तेन * । अत्र प्रथमं वाक्यं कौशीतकिब्राह्मणे प्रतर्दनाख्या- यिकायाम् । द्वितीयमपि तत्रैव गाङ्गयायनिश्वेतकेतुसंवादे । तृतीयं बृहदारण्यके शारीरब्राह्मणे । * श्रवणादिति * जीवे श्रवणात् । तथाच श्रुतित एवोत्क्रान्तिगत्यागतीनां जीवे श्रवणाद् यथायोग्यम् उत्क्रान्त्यादिक्रियायोग्यं जीवस्य परिमाणमङ्गीकर्तव्यमित्यर्थः । सूत्र- योजना तु जीवात्मा उत्क्रान्तिगत्यागतिसम्बन्धी । अत एव तदबो- सप्रकाशे अणुभाष्ये । यद्यपि, आरायमात्रो ह्यपरोऽपि दृष्ट इति श्रुसैव परिमाणमु- तं, तथापि बहुवादिविप्रतिपन्नत्वाद् युक्तिभिः साधयति । ब्रह्मवै- लक्षण्यार्थमुत्क्रान्तिपूर्वकत्वमुक्तम् ॥ १९ ।। स्वात्मना चोत्तरयोः ॥ २० ॥ उत्क्रान्तिगसागतीनां सम्बन्धे इन्द्रियादिभिः परिष्वङ्गोऽप्य- स्ति । ततः सन्देहोऽपि भवेत् । किमुपाधित एतेषां सम्बन्धो भ- वेत् स्वतो वेति । धकश्रुतिभ्य एवेति बोध्या । अधिकरणप्रयोजनमाहुः । * यद्यपी- त्यादि * । उत्क्रान्तिशब्दः प्रथमतः किमर्थ प्रयुक्त इत्यत आहुः । * ब्रह्मेत्यादि * । आसीनो दूरं बजतीति ब्रह्मणोऽपि गतेरुक्तत्वात तद्वैलक्षण्यं गतौ झापयितुं प्रयुक्त इत्यर्थः । ननु प्रश्नोपनिषदि, स ईक्षाञ्चके कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृत प्रा- णाच्छ्रद्धां खं वायुर्योतिरापः पृथिवीमिन्द्रियं मनोऽनमन्नाद्वीर्य तपो मन्त्राः कर्म लोकेषु नाम चेति सृष्टिलिङ्गात् षोडशकलस्यापि ब्रह्मत्वप्रतीतेरुत्क्रान्तेः कथं ब्रह्मवैलक्षण्यार्थत्वमिति चेत् । उच्य- ते । नानोत्क्रान्तेब्रह्मधर्मत्वं प्रतीयते । प्राणधर्मत्वेनैवेक्षणे प्रतीयमान- त्वात् । तदुत्क्रान्त्यैव स्वोत्क्रान्तिकथनेन स्वोक्रान्तेरौपचारिकत्व- बोधनाच्च तादृशज्ञापन एव पर्यवसानात् । नच, क्कासी भारद्वाजप्रश्ने इहैवान्तःशरीर सौम्य स पुरुष इति पिप्पलादेनोत्त- रितत्वात् तत्र चान्तःशरीरस्थत्वलिङ्गेन जीवाभिन्न एव स पुरुष इति शङ्यम् । लिङ्गस्य ब्रह्मसाधारणत्वात् । गुहां प्रतिष्टावात्मानौ हि तदर्शनादित्यधिकरणे जीवब्रह्मणोरुभयोरपि गुहाप्रवेशस्य निर्णी- तत्वादिति ॥ १९ ॥ स्वात्मना चोत्तरयोः ॥ ननु पूर्वसूत्रेणैवाणुत्वे सिद्ध अस्य सूत्र- स्य किं प्रयोजनमत आहुः । * उत्क्रान्तीत्यादि * * एतेषामिति*ग- त्यन्तानामर्थानाम् * । * स्वतो वेति*एवंप्रकारिकायां शङ्कायां सूत्र- पुरुष इति २ अध्याये ३ पादः। उत्तरयोर्गसागयोः स्वात्मना केवलस्वरूपेण । ऊर्णनाभिर्यथा तन्तून् सृजते सञ्चरसपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ।। ब्रह्मोपनिषत् । अनेन जीवनात्मनानुप्रविश्य ब्रह्माऽप्योते । कामरूप्यनुसच्चरनिति वा । अथवा, उत्क्रान्तिगसागतीनां जीवसम्बन्ध एव बोध्यते, ना. ऽणुत्वम् । स्वात्मना चोत्तरयोरियणुत्वम् । अङ्गुष्ठमात्र पुरुष निश्चकर्ष यमो बलादिति उत्क्रमे गसतिरिक्त स्वातन्त्र्याभावात् । माहेति शेषः । व्याकुर्वन्ति । * उत्तरयोरित्यादि * । अत्राप्यत एये- त्यनुवर्तते । तथाच श्रुतित एव स्वरूपेण गत्यागतिसम्बन्धी प्रतीय- तेऽतोऽणुरेवेत्यर्थः । ता एव श्रुतीः प्रदर्शयन्ति । * ऊर्णनाभिरित्या- दि * । आद्याया अन्यैरनुदाहृतत्वादाथर्वणप्रसिद्ध आकार उक्तः । द्वितीया छान्दोग्ये । तृतीया बृहदारण्यके । चतुर्थी तैत्तिरीयाणां भृगूदनिषदि मुक्तिप्रकरणस्था । एवं श्रुतिचतुष्टयन जीवस्य षड- वस्थाः प्रदर्शिताः । तासु जाग्रत्युपाधिपरिष्वङ्गऽपि स्वप्न इन्द्रिया- णां लयेन साक्षिण एव केवलस्य सत्त्वादुपाधिशून्यत्वं सृष्टावप्येव- मनुप्रवंशस्योपाधिसम्बन्धघटकत्वादनुप्रवेशदशायां पूर्व तदभा- वः । अप्ययः सुषुप्तरप्युपलक्षकः । तत्राप्युपाधिलयात् कैवल्यम् । मुक्तौ तु प्राणोऽपि नास्ति बुद्धिरपि । तथाचैतच्छ्रुत्युक्तयोर्गत्याग- त्योः केवलस्वरूपसाध्यत्वात् स्वतोऽणुरेवेत्यर्थः । अस्मिन् पक्षे सूत्र- स्थचकारवैयर्थ्यमित्यरुच्या प्रकारान्तरेण सूत्रद्वयव्याख्यानमाहुः । * अथवेत्यादि * । तथाच पूर्वसूत्रे षष्ठयन्तपदमात्रप्रयोगाद् उक्तश्रुतिभ्यो क्ष उत्क्रान्तिगत्यागतिसम्बन्धीति तत्सम्बन्धरूप एव धर्मो बोध्यते । द्वितीये तु ज्ञः श्रुतिभ्य एव स्वात्मनापि उत्तरयोर्ग- त्यागत्योः सम्बन्धीत्यणुत्वं बोध्यते । तदुपपादयन्ति । * अङ्गुष्ठे- त्यादि * । तथाचोक्तस्मृत्या मध्यमपरिमाणत्वेन बोधितस्य अङ्गुष्ठ- सप्रकाशे अणुभाष्ये । स्वात्मना जीवरूपेण चकारादिन्द्रियैश्च गसागत्यो सम्बन्धी जीव इत्यर्थः । अतो मध्यमपरिमाणमयुक्तमित्यणुरेव भवति ॥ २० ॥ नाणुतच्छुतेरितिचेन्नेतराधिकारात् ॥ २१ ॥ जीवो नाणुभवितुमर्हति । कुतः ? । अतच्छ्रुतेः । अणुत्व- विपरीतव्यापकत्वश्रुतेः। स वा एप महानज आत्मा योऽयं विज्ञान- मय इतिचेन । इतराधिकारात् । इतरः परं ब्रह्म तस्याधिकारे महानज इति वाक्यम् । प्रकरणेन शब्दाश्च नियम्यन्ते । अन्यपरा अपि योगेन ब्रह्मपरा भविष्यन्ति ॥ २१ ॥ मात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः, बुद्धेर्गुणेनेति श्रु- त्युक्तबुद्धिगुणवैशिष्ट्यप्रतीतेर्गत्यतिरिक्त उत्क्रमे स्वतो गतिसम्य. न्धित्वाभावात् तद्व्यतिरिक्त ब्रह्मोपनिषदाद्युक्तस्थले स्वात्मना जीव. रूपेण चकारादिन्द्रियैश्च यथासम्भवं गत्यागत्योः सम्बन्धी जीव इत्यर्थो भवतीत्यत, आत्मगुणेन चैव, आराममात्रोह्यपरोऽपि दृष्ट इ- ति पूर्वोक्तशेषात् तथेत्यर्थः ॥२०॥ नाणुरतच्छुतेरितिचेन्नेतराधिकारात् ॥ अत्र भाष्यमतिरोहि- तार्थम् । विषयवाक्यं त्वाद्यं बृहदारण्यके शारीरकव्राह्मणे । तत्र च प्रकरणं ब्रह्मण इति सुषुप्त्युत्क्रान्त्योभैदेनत्यत्र व्युत्पादितमतो ब्रह्मा- धिकारस्थम्। द्वितीयं कौशीतकिब्राह्मणे समाप्तौ तस्मादेवं विच्छान्तो दान्त इत्यादिना, आत्मन्येवात्मानं पश्यदित्युपक्रम्य पठितम् । तदने च इदं ब्रह्मेदं क्षत्रमित्याद्युक्त्वा, इदं सर्वं यदयमात्मेति पठ्यते। अत- स्तथेति । तथाचान्यत्र जीवपरोऽपि विज्ञानमयशब्दोऽत्र विज्ञानप्रा- चुर्य बोधयन् ब्रह्मपरः । प्राणेषु स्थितिस्तु ब्रह्मधर्म एव । यः प्राणेषु तिष्ठनित्यन्तर्यामिब्राह्मणात् । भिक्षुस्तु-ना पुरुषो जीव इति यावत् । सोऽणुः । कुतः? । उ- कान्तिगत्यागतीनां ताभ्यः स्वात्मना विशिष्टयोर्गत्यागत्योस्ताभ्य इ- स्येवं पूर्वसूत्रापेक्षितसाध्यनिर्देशमत्राङ्गीचकार । तन्न । पक्षबोधक- २ अध्याये ३ पादः। ७१३ स्वशब्दोन्मानाभ्यां च ॥ २२ ॥ स्वयं विहस स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्र- स्वपितीति स्वशब्दोऽणुपरिमाणं जीवं बोधयति । न हि स्वप्ने व्यापकस्य वा शरीरपरिमाणस्य वा विहरणं सम्भवति । 'बालाग्रशतभागस्य शतधा कल्पितस्य तु । भागो जीवः स विझे- य' इति। आराग्रमात्रो ह्यपरोऽपि दृष्ट इति चोन्मानम् । चकाराव स्वप्नप्रबोधयोः सन्धावागतिदर्शनम् ॥ २२ ॥ पदवैयर्थ्यप्रसङ्गात् । ताभ्य इतिवद् आत्मपदस्याप्यनुवृत्तिसौकर्या- तू । अतः पूर्वोक्तमेव व्याख्यानं युक्तम् ॥ २१ ॥ स्वशब्दोन्मानाभ्यां च ॥ उधृत्य वस्त्वन्तरं पृथक्कृत्य मान- म् । भाष्यमत्रापि निगदव्याख्यातम् । स्वशब्दविषयवाक्यं वृहदार- ण्यके ज्योतिर्ब्राह्मणे । उन्मानवाक्यद्वयं तु श्वेताश्वतरोपनिषदि पश्चमाध्याये । सन्धावागमनं दर्शनमपि ज्योतिर्ब्राह्मणे । तस्य वा एतस्य पुरुषस्येत्युपक्रम्य, सन्ध्यं तृतीयस्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च परलोकस्थानं चेति । अत्र जीवस्याणु- स्वस्थापनेन श्रुतिगीतोक्ता जीवानां शास्यतापि सूचिता । तत्र हि । 'अपरिमिता ६वास्तनुभृतो यदि सर्वगतास्तर्हि न शास्यतेति नियमो- ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् समम- नुजानतां यदमतं मतदुष्टतया' इति श्लोके यदि सर्वगतास्तर्हि न शा- स्यतेति नियम इति तर्फकथनादणुत्वस्य · भगवच्छास्यताघटकत्व- बोधनेन ध्रुव नेतरथेति भगवतोऽणुत्वे जीवस्य व्यापकत्वे चोकनिय- मभङ्गव्युत्पादनार्थम् । अजनि च यन्मयं तदविमुच्य नियन्तृ भवे- दिति कथनाजीवतत्वं यन्मयमजनि तत् स्वकारणं ब्रह्मस्वरूपम- विमुच्य किं नियन्तृ भवेदिति काका नियन्तृत्वाभावबोधनेन, का- कनङ्गीकारपक्षेऽपि कारणमविमुच्य नियन्तृ भवेदिति कारणात्या- गेन नियन्तृत्वाङ्गीकारे, सममनुजानतां यदमतं मतदुष्टतयेत्यनेन ब्रह्म सर्वत्र समम ऐकात्म्यवादेन सर्वत्र सममित्येवं ब्रह्म लक्ष्या कृत्य ७१४ सप्रकाशे अणुभाष्ये । अविरोधश्चन्दनवत् ॥ २३ ॥ अणुवे सर्वशरीरव्यापि चैतन्यं न घटत इति विरोधो न भ- वति चन्दनवत् । यथा चन्दनमेकदेशस्थितं सर्वदेहसुखं करोति । महातप्ततैलस्थितं वा तापनित्तिम् ॥ २३ ॥ अवस्थितिवैशेष्यादितिचेन्नाभ्युपगमाद्धृदि हि ॥२४॥ चन्दने अवस्थितिवशेष्यम् अनुपहतत्वचि सम्यक्तया अव- जानतां यन्नियन्तृत्वं मतदुष्टतया अमतम् असम्मतमिति बोधनेन चाणुत्वनियमत्वे दृढीकृते इति साऽपि सूचिता । एतेन ब्रह्मस्वरूप- मादायैकात्मवादो जीवस्वरूपमादाय नानात्मवाद इति सिद्धयति । एतदेव, अंशो नानाव्यपदेशादित्यत्र स्फुटीभविष्यति ॥ २२ ॥ अविरोधश्चन्दनवत् ॥ ननु जीवस्याऽणुत्वे जलावगाहादी स- कलशरीरव्यापिशैत्याद्यनुपलब्धिप्रसङ्ग इति शङ्कनयामिदं सूत्रमि- स्याशयेन व्याकुर्वन्ति । * अणुत्व इत्यादि * । तथाचैतदृष्टान्तेन एकदेशस्थत्वेऽपि सकलशरीरव्यापिशैत्याधुपलब्धिः सामर्थ्यव्या- प्त्या घटिष्यत इत्यर्थः । अयं च दृष्टान्तः सामर्थ्येन व्याप्ति बोधय- ति । चन्दनावयवानां सूक्ष्मत्वेन सर्वत्र प्रसर्पणाङ्गीकृती शरीरं तले च तत्र तत्र स्थित्याऽन्यत्र मध्ये मध्ये तापोपलम्भस्य दुर्वारत्वात् । उन्मानश्रुतिशेषे वाक्ये, स चानन्त्याय कल्पते इति सामर्थ्य स्यैव, क्लपू सामर्थ्य इति धातुना बोधनाञ्चेति बोध्यम् । अतो, ज्वरं हन्ति शिराबद्धा सहदेवीजटा यथत्यादी यथा प्रभावाख्येन सामर्थ्यन ज्वरं हन्तीति वैद्यकेऽङ्गीक्रियते तथा चन्दनमपीति हृदयम् ॥ २३ ॥ अवस्थितिवशेष्यादितिचेन्नाभ्युपगमादधृदि हि ॥ ननु चन्दन- दृष्टान्तेन सामर्थ्यव्याप्तिसाधनमयुक्तम् । चन्दन एकदेशस्थायित्वस्य प्रत्यक्षतो निश्चितत्वेन तत्र व्यापनसामर्थ्यकल्पनायाः सर्वदहव्या- पिशैत्यप्रत्यक्षबलेन युक्त वात् । जीवे तु शरीरेकदेशस्थायित्वस्य प्र- स्यक्षेणानिश्चयाद् शान्तवैषम्येण तादृशसामर्थ्यसिद्ध्यभावादित्याश- ङ्कायामिदं सूत्रमित्याशयेन व्याकुर्वन्ति । * चन्दन इत्यादि । * २ अध्याये ३ पादः। स्थानं तस्मात् । त्वच एकत्वात् तत्र भवतु नाम, न तु प्रकृते तथा सम्भवतीतिचेन्न । अभ्युपगमात् । अभ्युपगम्यते जीवस्यापि स्थान- विशेषः । हृदि हि । हृदि जीवस्य स्थितिः । गुहां प्रविष्टाविति हि युक्तिः ॥२४॥ गुणाहाऽऽलोकवत् ॥ २५ ॥ भवतु नामेति * कल्प्यमानं सामर्थ्य भवतु नाम। * न सम्भवतीति* प्रत्यक्षेणैकदेशावस्थानस्यानिश्चयादनुमानन साधने तु चैतन्योपल- म्भरूपस्य कार्यस्य त्वग्वन्नभोवद्वा जीवस्वरूपव्याप्त्यापि सम्भवातू तस्य व्यभिचारितया हेतुत्वानुपपत्त्या न सम्भवति । * हृदीति * कतम आत्मा योऽयं विज्ञानमयः प्राणेषु, हृद्यन्तर्योतिः पुरुषः स वा एष आत्मा हृदि हृद्येष आत्मेत्यादिश्रुतेरित्यर्थः । * युक्तिरिति * ब्रह्मभिन्नत्वेन हृदयप्रवेशे युक्तिः । तथाच चन्दनवज्जीवस्याप्येक- देशावस्थितेः शब्दानिश्चये तस्य त्वगादिवत् स्वरूपव्याप्तर्वक्तुमश- क्यत्वेन चैतन्योपलम्भे तत्सामर्थ्यस्य हेतुत्वोपपत्तौ दृष्टान्तवैषम्या- भावात् सामर्थन व्याप्तिसाधनं युक्तमवेत्यर्थः । अत्र पूर्वसूत्रा- दविरोधपदस्यानुवृत्तौ हृद्यभ्युपगमादविरोध इति सूत्रान्वयो बोध्यः ॥ २४॥ गुणाद्वाऽऽलोकवत् ॥ ननु भवत्येवंसामयें न विरोधस्तथापि वैशेषिकः कथं मंस्यते । स हि चैतन्यगुणकमात्मानं मन्यते । तच सकलशरीरे सुखाद्यनुभवात् तद्व्याप्येवेति निश्चीयते, गुणश्च गु- णिमात्रवृत्तीति रूपरसादिष्वनुभूतः । अतश्चैतन्यस्य तावद्व्याप्त्या सर्वशरीरव्यापी जीवात्मा मन्तव्यः । यदि हि चन्दनवत् सहदेवी- जटावद् वा सामर्थ्येन व्याप्नुयात् तदा तस्य चैतन्यगुणो न सर्वत्रा- नुभूयेत । नच श्रुतिबलात् तथा पक्षपातो युक्तः । तस्या हृदयं विश- षतो जीवस्य वृत्तिलाभस्थानमित्येतत्परत्वेन नेतुं शक्यत्वात् । प्रत्य- क्षस्य तु वस्तुमात्रग्राहकत्वेनान्यथा नयनमशफ्यम् । अतस्तस्य प्रा- बल्यान्न सामर्थ्यनाविरोधः शक्य ाचन इत्याशङ्कायां प्रवृत्तमिदं ७१६ सप्रकाशे अणुभाष्ये । जीवस्य हि चैतन्यं गुणः । स सर्वशरीरव्यापी । यथा म- णिप्रवेकस्य कान्तिर्बहुदेशं व्यामोति तद्रव । प्रभाया गुणत्वमेव स्पर्शानुपलम्भात् । उदकगतोष्ण्यवत् । नच विजातीयस्यारम्भक- त्वम् । प्रमाणाभावात् । सूत्रमित्याशयेनोपन्यस्य व्याकुर्वन्ति * जीवस्य हीत्यादि * । अ- प्राप्यविरोध इत्यनुवर्तते । तथाच बहुप्रदेशव्यापिमाणेप्रवेककान्ति- यत् सर्वशरीरव्यापिचैतन्यगुणादविरोध इत्यर्थः । एवं व्याख्या- नेन आलोकवदिति पदच्छेदो बोधितः । ननु प्रभादृष्टान्तोऽनुपपन्न स्तस्या मणिजनितविरलसजातीयद्रव्यान्तरत्वात् सूर्यादिप्रभाव- दित्याकाङ्क्षायामाहुः । * प्रभाया इत्यादि * । तथाच सूर्यादि- प्रभायां स्पर्शीपलम्भाद् द्रव्यान्तरत्वमपि सन्देग्धुं शक्यम् । मणे- स्तु पार्थिवत्वेन तत्र किरणरूपद्रव्यजनकत्वस्य तत्प्रसारकत्वस्य पाङ्गीकारे बहुकल्पनापत्तेः । यदि जननं तदा पूर्व मणितो बहिराग- तानामवयवानां बहिष्ठत्वान्मणिपिधानद शायामपि तदनुभवाप- त्तिर्मणिनाशेऽपि तत्स्थित्यापत्तिस्तदसमवायिनिमित्सयोरत्यन्तापरि- रष्टयोः कल्पनापत्तिस्तन्निर्वचनाशक्तिश्च । यदि प्रसारणं तदा मणेश्चे- तनत्वापत्तिः स्वत आकुञ्चनप्रसारणक्रिययोश्चेतन एव दृष्टत्वातानच लज्जावत्याख्य औषधविशेषे पुरुषच्छायापातमात्रेण स्वाकुश्चनस्य त- दपसरणस्य च दर्शनानवमिति शवयम् । तस्यापि जीवत एव ताहशक्रियावत्त्वात् । अन्यथा उत्खाय गृहानीतेपि तत्र ताशकि- यापत्तेः । अतः पक्षद्वयस्याप्यसङ्गतत्वान्माणप्रभाया द्रव्यत्वं न शक्यवचनम् । उदकगतोष्ण्यवत् । यथोष्णोदके तेजोरूपानुपलब्ध्या केवलगुणनिश्चयस्तथात्र स्पर्शनानुपलब्ध्यति । ननु माऽस्तु मणेः प्रभाख्यद्रव्यजनकत्वादिकम् । तत्र मणिविजातीयमेव द्रव्यमारम्भ- कमङ्गीकार्यम् । यथा चिन्तामण्यादेनिमित्तानानावस्तूनामाकाङ्किता- नामुत्पत्तिस्तथेतिचेत् तत्राहुः । * नचेत्यादि * । यदि तथा स्यात् तदा मणिसमवधाननिवृत्तौ प्रभा न निवर्तेत । यथा चिन्तामण्यादि- निष्पन्नाः पदार्थाः । अतो मणिविजातीयद्रव्यस्यात्र प्रभारम्भकत्वं प्रमाणाभावग्रस्तमेव । ननु यद्यप्येवमस्ति तथापि गुणारम्भस्य गुणि- २ अध्याये ३ पादः। ७१७ लोकप्रतीतिस्तु सर्वैर्वादिभिरुपपाया। तत्र गुणिकल्पनापेक्ष- या गुण एव स्थलान्तर आरभ्यत इति कल्प्यताम् । तथैव लो. कमतीतेः । पुष्परागादेरपि प्रभारूपमेव तावद्देशं व्याप्नोतीति म- हिस्वभावादेवाङ्गीकर्तव्यम् । आरम्भकस्य तेजसस्तत्राभावात् । कान्तिः प्रभा रूपमिति हि लोके पर्यायः । वाशब्दो यथालोकं युक्तिः कल्पनीयेति मूचयति । मात्रवृत्तित्वमिति नियमो भज्येत । तथा सति रसादीनामप्यन्य- प्रारम्भापत्या लोकप्रतीतिरपि विरुद्धयतेत्याकाङ्क्षायां लोकप्रतीति- मुपपादयन्ति । * लोकेत्यादि * / * तत्रेति * लोकप्रतीत्युपपादने । * तत्राभावादिति * । मणावभावात् । तथाचाप्रकृष्टगुणारम्भस्य गुणिमात्रवृत्तित्वमित्येवं लोकप्रतीतिनिर्वाहाय कल्पनीयम् । तेन स- 4 सामञ्जस्यमित्यर्थः । अत्र कोशस्यापि सम्मतिरित्याहुः । * का- तिरित्यादि * । शोभा कान्तिर्युतिविरिति, स्युः प्रभा रुग्रुचि. स्त्विड्भेत्यादि । वाशब्दप्रयोजनमाहुः । * वाशब्द इत्यादि * । त- थाच वाशब्द एवकारार्थो वाक्यालङ्कार । तथाच लोकवदेव गुणा- दविरोध इति सूत्राक्षरयोजनेत्यर्थः । ननु यद्यत्र लोकानुसारि- ण्येव कल्पनाऽऽद्रियते तदा पृथिव्यादीनामप्यर्थानां सजातीयादेव कारणावुत्पत्तिरङ्गीकार्या । लोके तथैव दर्शनात् । न तु विजातीयाद ब्रह्मणः । लोकविरुद्धत्वादित्यत आहुः । * ब्रह्मत्यादि * । ब्रह्मण एव सर्वमुत्पद्यत इमि सिद्धान्ते तु यस्मात् कारणाद् येन प्रकारेण लोके यस्योत्पत्तिईश्यते तत् तेव प्रकारेण तत्कारणभावापन्नादू ब्रह्मणो जातमित्युच्यते। तेजोऽतस्तथा ह्याहेत्यधिकरणे तथैव व्युत्पा- दनात् । सजातीयस्यैवारम्भकत्वमिति त्यायोजकम्। द्रव्याद् गुणो- त्पत्तेस्त्वयाप्यङ्गीकारात् । द्रव्यमेव सजातीयं सजातीयेनारभ्यते - त्याप तथा । खद्योतमात्रादप्यग्निकणान्महावनघासराश्यादिदाहे पायोरेवाग्न्युत्पत्तिदर्शनात् । यत्र कच शोचति स्वेदते वा पुरुष- स्तेन स एव सदध्यापो जायन्त इति, यत्र वचन वर्षति तदेव भूयि- ठमन्नं भवतीति श्रुत्या निदर्शितत्वाञ्च । अत्राप्यधिना भूयिष्ठपदेन च ७१८ सप्रकाशे अणुभाष्ये । ब्रह्मसिद्धान्ते तु यथैव लोके दृश्यते तथैव ब्रह्मणो जातमिति न कल्पनालेशोऽपि ॥ २५ ॥ व्यतिरेको गन्धवत् ॥ २६ ॥ सिद्धं दृष्टान्तमाह । यथा चम्पकादिगन्धश्चम्पकव्यवहित- स्थलेऽप्युपलभ्यते । वेदोक्तत्वादस्य दृष्टान्तत्वम् । यथा वृक्षस्य सम्पुष्पितस्य दूराद् गन्धो वासवं पुण्यस्य कर्मणो दूराद् गन्धो वातीति। बीजापेक्षया आधिक्यं बोध्यते । एवमतीन्द्रियस्थलेऽप्यवगन्तव्यम् । अतो नात्र कल्पनालेशाऽपि । अतो ब्रह्मसिद्धान्ते दोषासंसर्गात सु. छूक्तं. गुणाद्वालोकवदिति ॥ २५ ॥ व्यतिरेको गन्धवत् ॥ ननु गुणस्य स्वाश्रयाधिकदेशवृत्तित्वं क्वाप्यदृष्टं कथमत्र कल्पयितुं शक्यमिति शङ्कायामिदं सूत्रं प्रवृत्त- मित्याशयन तदवतारयन्ति । * सिद्धमित्यादि । * सिद्धमिति * । लोकवेदसिद्धम् । तथाच व्यतिरेकश्चैतन्यप्रभयोः स्वाश्रयाधिकदे- शवृत्तित्वं गन्धस्येव लोकवेदानुसारेणाऽवगन्तव्यमिति सूत्रार्थः । लोकानुसारं विवृण्वन्ति । * यथेत्यादि * । नचात्रापि चम्पकाद्य- वयवनिर्गमादेवोपपत्ती न गन्धस्य स्वाश्रयाधिकदेशवृत्तित्वसिद्धि- रिति वाच्यम् । विद्वन्मण्डनोक्तदिशा तद्दूषणस्यावगन्तव्यत्वात् । तथाहि दृश्यते विविधचर्मपुटवेष्टितस्यापि मृगमदस्य गन्धोपलम्भो वणिक्सार्थेषु । नहि तत्र तदवयवनिर्गमापूर्वतत्प्रवेशौ सम्भवतः । नचापूर्वतत्प्रवेशस्यासम्भवेऽप्यवयधनिर्गमस्त्वनिवार्यः । ततो भारा- पगमस्यानुभवसाक्षिकत्वादिति वाच्यम् । तथा सति गन्धोपलम्भसमये प्रसारितमुखस्य तद्रसोपलम्भापतेः। तेषामवयवानां योग्यत्वात् । अन्यथा गन्धोऽपि नोपलभ्येत । गन्ध- स्यैवोपलम्भे नियामकाभावाच्च । नन्वष्टमेव तथेति चेत् । अहो गौरवभीतिर्वावदूकस्य, यदवयवनिर्गमं, पुनस्तदवयवपूरणं, तद्धेतो- रदृष्टस्य च कल्पनं, रसायनुभवप्रतिबन्धकाष्टान्तरस्य च कल्पनं व- २ अध्याये ३ पादः। दतोऽप्यसङ्कोचस्तुण्डस्य, गन्धातिरिक्तोतिमात्रकथने च सङ्कोचः । ननु मास्त्वदृष्ट कल्पनं, तथापि त्रुटौ रूपस्येव तेषु गन्धस्यैवोदभूतत्वं कल्प्यत इतिचेन्न । यत्रोग्रगन्धस्य कस्यचित् कुसुमस्य लशुनादा स्पर्शमात्रऽपि ततो मुहुर्मत्स्नया क्षालनेऽपि करस्य न तद्गन्धापगमा- ऽनुभूयते । तत्र तेषामशक्यवचनत्वात् । स्पर्शमात्रलग्नतदवयवानां सकृत्योञ्छनेऽप्यसहिष्णुत्वात् सकृत् क्षालनेऽपि न स्थितिसम्भवः, कुतस्तरां मुहुस्तथा करणे। अतो द्रव्याधिकदेशे वृत्तित्वं गन्धस्य म- म्तव्यम् । अतो विनश्यदयस्थगुणानामनाधितत्वेनाङ्गीकारो यथा तव तथा द्रव्याधिकदेशवृत्तित्वनानुभवऽपि कुरुष्वेत्यादि । यत्तु 'उपलभ्याप्सु चद्गन्धं केचिद् व्युरनैपुणाः । पृथिव्यामेव तं विद्याद- पो वायुं च संश्रितमि तिव्यासवाफ्यात् तत्र पृथिव्यवयवसत्तामङ्गी- कृत्य गुणस्य साश्रयस्यैव सञ्चारमाहुः । तन्न । पृथिवीगुणं विद्यादि- त्यर्थात् । केवलगुणसञ्चारानङ्गीकारे भेर्यादिशब्दो नान्यत्र श्रूयत । पौराणादिमते शब्दस्य भूतपञ्चकगुणत्वात् । कंवलवायूपनीतस्यान्यत्र श्रवणात् । नयायिकीयश्रवणप्रक्रियाया अनेकशब्दतध्वंसादिकल्प- नया गुरुत्वात् । सिद्ध एकत्र गुणसञ्चारेऽन्यत्रापि तथा वक्तुं श- क्यत्वात् । अतस्तस्य पृथिवीगुणत्वं विद्यादित्येवार्थः । श्रुतिरपि, यथा वृक्षस्य संपुष्पितस्य दूराद् गन्धा वातीति । अत्र तदवयवास- स्वनिरूपणार्थमेव दुरपदम् । यत्तु प्रसारितमुखस्य रसानुपलम्भे ग- म्धोपलम्भसामग्रथा एवं प्रतिबन्धकत्वमिति कश्चिदाह । तत् फल्गु । विजातीयगुणोपलम्भकत्वेन रूपेण प्रतिबन्धकत्वस्याशक्यवचन- त्वात् । एककालावच्छेदेन मेत्रगोलकान्तस्त्वचा चक्षुपा च वह्नची- एण्यरूपयाग्रहणस्य सर्वजनीनत्वात् । गन्धोपलम्भकत्वेनेतिचेन्न अ- सिद्धत्वाद् वैपरीत्यस्यापि सुवचनत्वाच्च । नच फलबलेन तस्याः प्राबल्यं कल्प्यत इति वाच्यम् । फलस्यास्मदुक्तरीत्यापि सिद्धेस्तस्या एव बलवत्त्व नियामकाभावात् । क्षणान्तर रसोपलम्भप्रसङ्गाश्च । नच तद्गतरसादीनामनुद्भूतत्वमिति वाच्यम् । अनारम्भकेषु तेष्वनु- भूतरसाद्यङ्गीकारस्य प्रमाणरहितत्वादिति दिक् । नच मुहुः क्षालनादिना गन्धापगमतारतम्ये गन्धस्य साव. यवत्वापत्तिरिति वाच्यम् । इष्टापत्तः । नच स्पर्शवत्त्वापत्तिः । सा. घयवद्रव्यत्वनैव स्पर्शवत्वेन व्याप्तेदशमात् । भूतभूक्ष्मरूपत्वेनेष्टाप- ७२० सप्रकाशे अणुभाष्ये । अन्यथा कल्पना त्वयुक्तेसवोचाम ॥ २६ ॥ तथाच दर्शयति ॥ २७ ॥ हृदयायतनत्वमणुपरिमाणत्वश्चात्मनोऽभिधाय तस्यैवालोम- भ्य आनखाग्रेभ्य इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं द- यति ॥ २७॥ पृथगुपदेशात् ॥ २८ ॥ तेश्च । एतेनारम्भकत्वमपि दत्तोत्तरं शेयम् । गन्धेनैव चन्दनस्पृ- एवायुसम्पर्कशालिशालान्तरशैत्यं निम्बतरुविशेषसम्पर्कशालिवात- संसर्गजमुखतिक्तत्वमपि व्याख्यातं शेयम् । नचैवं सर्वत्रातिप्रसङ्गः शङ्कयः । उत्कटत्वानुन्कटत्वयोरेव तद्धर्मयोनिगमानिर्गमनियाम- कत्वादिति सङ्केपः । तदेतद् हृदि कृत्वाऽऽहुः । * अन्यथेत्यादि । * अवोचामेति * पूर्वसूत्र एवोक्तमित्यर्थः ॥ २६ ॥ तथाच दर्शयति । चैतन्यस्य गुणत्व प्रमाणं दर्शयितुमिदं सू- त्रमित्याशयेनोपन्यस्य विवृण्वन्ति * हृदयायतनेत्यादि * । एतद्वि- षयवाक्यं कौशीतकिब्राह्मणे । तत्र हि, तं होवाचाजातशत्रुर्यत्रैष एतद् बालाके पुरुषोऽशयिष्ट यत्रतदभूद्यत एतदागादिति प्रतिज्ञाय, हिता नाम पुरुषस्य नाड्यो हृदयात् पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशा विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्ल- स्य कृष्णस्य पीतस्य लोहितस्य च तासु तदा भवन्तीति हृदयायतन- त्वं ताइशनाडीषु स्थानेनाणुपरिमाणत्वं चाभिधाय तस्यैव हृदयाय- तनस्याणोरात्मनः, स एष प्राण एव प्रज्ञात्मेदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखाग्रेभ्य इति प्रज्ञात्मत्वोक्तिपूर्वकं प्रविष्टत्वकथना- चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति । अन्यथा अणो- ठाप्तिोंपपद्यत । अतोऽणुत्वबोधनपूर्वकं व्याप्तिबोधनाच्चैतन्यं गुण एवेत्यर्थः। एवमेव बृहदारण्यके दृप्तबालाकिब्राह्मणेऽपि, एष विज्ञान- मयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत इति कथनाज्ञयम् ॥२७॥ पृथगुपदेशात् ॥ उक्तश्रुतौ विरुद्धधर्मत्वबोधनातू सामर्थ्य- २ अध्याये ३ पादः। ७२१ प्रजया शरीरं समारुति करणत्वेन पृथगुपदेशाच्चैतन्यं- गुणः ॥२८॥ तद्गुणसारत्वात्तु तदव्यपदेशः प्राज्ञवत् ॥२९॥ ननु तत्त्वमस्यादिवाक्यैः परमेव ब्रह्म जीव इति कथमणुत्व- मितीमामाशङ्का निराकरोति तुशब्दः । तस्य ब्रह्मणो गुणा प्रज्ञा- द्रष्टलादयस्त एवात्र जीवे सारा इति जडवैलक्षण्यकारिण इति अमासे राजपदप्रयोगवज्जीवे भगवव्यपदेशः । मैत्रेयीति सम्पूर्णे ब्राह्मणे भगवत्त्वेन जीव उक्तः। मेवास्तु, न गुण इत्याशङ्कायामिदं सूत्रमित्याशयेन निवृण्वन्ति । * प्रक्षयेत्यादि * । इदमपि वाक्यं तत्रैवेतः पूर्वस्मिन्निन्द्रप्रतर्दनसंवादे- ऽस्ति । भायं तु स्फुटार्थम् ।। एतेन जीवस्याऽणुत्वं सर्वावस्थासु । सर्वशरीरगसचैतन्योप- लम्भस्तु सामर्थ्याद्वा गुणाति साधितम् ॥ २८ ॥ तद्गुणसारत्वात्तु तव्यपदेशः प्राशयत् ॥ ननु सफलशरीर- ध्यापिचैतन्योपलम्भादन्यत्रानुपलम्भाश्च प्राप्ते जीवस्य मध्यमपरिमा- णतयाऽनित्यत्वे तत्परिहाराय पूर्वसूत्रोक्तमणुत्वं वाऽऽदरणीयम,अ- थवा. तस्वमस्यादिवाक्येषु ब्रह्मत्वेन व्यपदेशाद् ब्रह्मतया व्यापकत्वं वेति सन्देहे नित्यत्वस्य व्यापकत्वेऽपि सम्भवाद्, ऋष्यन्तरैरपि भो- गव्यवस्थया व्यापकत्वाङ्गीकारात् सकलशरीरगतचैतन्योपलम्भ- स्यान्यत्रानुपलम्भस्य च जातिवदुपपत्तेरुत्कान्त्यादीनामुपाधिवशा- दपि सम्भवादणुत्वाङ्गीकारे जीवमेवाभिसन्धायोक्तानां, तत्त्वमस्या. दिवाक्यानामसामञ्जस्याच्च व्यापकत्वमेव ज्याय इति । ननु कथ- मसामञ्जस्यमितिचेन्मैवम् । छान्दोग्ये, ऐतदात्म्यामिदं सर्वे,तत् सत्य- मिति सर्वस्य ब्रह्मात्मकत्वमुक्त्वा अग्रे, स आत्मा तत्त्वमसीति सर्व- स्माद्भिन्नतया त्वम्पदार्थस्य जीवस्य तत्पदसामानाधिकरण्यधावणेन कौशीतकिब्राह्मणसमाप्तौ च इदं सर्व यदयमात्मेत्यभिधाय, स एष तत्त्वमसीत्यात्मावग्राह्यः । अहंब्रह्मास्मीत्यहंग्रहश्रावणेन जीवस्य ब्रह्माभिन्नतया व्यापकत्वस्यैव सिद्धत्वादिति प्राप्तम् । तत्र नित्यत्व- ९१ ७२२ सप्रकाशे अणुभाष्ये । ननु कथमन्यस्यान्यधर्मवक्त्वेन कयनम् । न हि निरूपणस्थल एवोपचारः सम्भवति । तत्राह । प्राज्ञवत् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्त इत्यत्र, एवमेवाऽय५ शारीर आत्मा माझेनात्मना सं- परिष्वक्त इत्यभिधाय प्राज्ञस्वरूपमाह । तद् वा अस्यैतदतिच्छन्दो- ऽपहतपाप्माऽभय रूपमशोकान्तरमत्र पिता अपिता भवतीत्यादि। माजश्व सुषुप्तिसाक्षी । न हि तस्यापहतपाप्मत्वमस्ति ।ब्रह्मलिङ्गात् । एवमेव शारीरस्यापि जीवस्य ब्रह्मधर्मबोधिकाः श्रुतयः । स्थाणुत्वेऽपि तुल्यत्वाजीवस्याणुत्वेऽपि ईश्वरेच्छयैव भोगव्यवस्थास- म्भवे भोगव्यवस्थया ऋष्यन्तरैराहतस्य व्यापकत्वस्यासङ्गतत्वात् । अग्रे, अदृष्टानियमसूत्रे दृष्यत्वाच्च । अत एव जातिवद् व्यापकत्वस्या- प्यसङ्गतत्वाद, उत्क्रान्त्यादीनामप्युपाधिकृतत्वस्यापि, खात्मना चो- सरयोरित्यनेन निरस्तत्वात् तत्सर्वमुपेक्ष्य, तत्त्वमस्यादिव्यपदेश इति । मैत्रेयीति पदेन सम्पूर्णे ब्राह्मणे । यद्यपि पूर्वस्मिन्नपि मैत्रेयीब्राह्मणे जीवस्य भगवद्व्यपदेशस्तथापि तत्र उक्तानुशासनासि मैत्रेय्यता- घदरे खल्वऽमृतत्वमित्येवं विद्यासमाप्नेरनुक्तत्वात् सन्देहोऽपि भ. वेत् । द्वितीये जीव एव वस्तुतो ब्रह्मत्वन सेत्स्यतीति तन्निराकरणा- यैतद्ग्रहणम् । इदश्च वाक्यान्वयाधिकरणस्य विषयवाक्यम् । तत्र च, न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय प- तिः प्रियो भवतीति जीवमुपक्रम्याग्रे च तद्विज्ञानतः सर्वविज्ञानार्थ सर्वस्य तदात्मकत्वकथनेन वेदादीनां तन्निःश्वासत्वकथनादिना च ब्रह्मधर्माणां तत्र बोधनाद् भगवत्वेन जीव उक्तः। तत्र यथा वाक्या- न्वयन हेतुना प्रतिज्ञासिद्धयादिभिश्वोपक्रममनारत्य ब्रह्मवाक्यत्व- स्थापनाग्निरुपधिप्रियत्वमात्रासंस्पर्शपश्यत्वादिलिङ्गबोधिते जीवे व्यासचरणः प्रज्ञानघनशब्दस्यार्थाद् ध्यपदेशपक्ष एव स्वीकृतस्तथा तत्त्वमसीत्यत्र तत्पदेऽप्यवगन्तव्य इत्यर्थः । अत्र शङ्कते * ननु क- थमित्यादि * । तथाच मैत्रेयीब्राह्मणेऽप्युपचारादरो न युक्त इत्यर्थः । एवमाशङ्कायां निरूपणस्थल एवोपचारस्य प्रामाणिकत्वं वक्तुं रष्टान्तमुपन्यस्य व्याकुर्वन्ति । * तद्यथत्यादि * । इदं हि वृहदार- २ अध्याय ३ पादः। - के शारीरकब्राह्मणेऽस्ति । तत्र हि जीवस्य जाग्रत्स्वमावस्थे पूर्व- मुक्त्ता, अथ यत्र सुप्तो न कश्चन कामं कामयते न कश्चन स्वप्नं पश्य- तीति सुषुप्तिं वदस्तत्सामयिकं जीवस्वरूपं निरूप्य, तद्यथा प्रियया स्त्रिया सम्परिवतो न बाह्य किश्चन वेद नान्तरमिति जीवब्रह्मणो- आदष्टान्तनिरूपणावसरे, एवमेवायर शारीर आत्मा प्राशनात्मना सम्परिष्वक्त इति जीवप्राशयोर्भेदमभिधाय, कः प्राज्ञ आत्मेत्याका- ङ्कायां प्राशस्वरूपमाह, तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्मेत्यादिना । अत्रास्य रूपमित्यनेन परमेश्वरस्य रूपान्तरमित्युच्यते, न तु परम- पुरुष एवेति। नचापहतपाप्मत्वरूपाद् ब्रह्मलिङ्गाद् ब्रह्मैवेति शयम् । प्राशश्च सुषुप्तिसाक्षी । न हि तस्य स्वतोऽपहतपाप्मत्वमस्ति । अप- हतपाप्मत्वस्य ब्रह्मलिङ्गत्वात् ।* ब्रह्मलिङ्गादिति भावप्रधानः। अत्रा- ऽयमर्थः । माण्डूक्ये, ॐमित्येतदक्षरमिदं सर्व तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव यश्चान्यत् त्रिकालातीतं तदप्यो. दूगर एव सर्व घेतद् ब्रह्म अयमात्मा ब्रह्मेत्योङ्कनरस्य वाच्याभंदवि- वक्षया अक्षरत्वमुक्त्वा सर्वस्य वाङ्मयस्य तव्याख्यानत्वं तज्ज्ञाप- नाय वाच्यस्य सर्वस्योङ्कारविषयत्वं चोक्त्वा तदुपपादनाय, सर्वस्य वस्तुजातस्यैतस्य जीवात्मनश्च ब्रह्मत्वं बोधयित्वा जडवैलक्षण्याथै सो- ऽयमात्मा चतुष्पादित्यादिना वैश्वानरतेजसप्राशतुरीयभेदेन चतुरः पादान् विवृणोति स्म । तत्र यद्यपि सोऽयमात्मति तच्छब्दयलेन - झणा जीवस्य चैते पादा इति वक्तुं शक्यते । उभयोः प्रकृतत्वात् । तथापि नृसिंहोत्तरतापनीयारम्भ अणोरणीयांसमिममात्मानमोङ्कनरं नो व्याचक्ष्वति देवैः पृष्टः प्रजापतिः, ॐ तथोति कथनं प्रतिक्षाय मा- ण्डूक्यवदेव, अयमात्मा ब्रह्मेत्यन्तमुक्त्वा तताऽहंग्रहोपासनार्थ चतू. रूपमेतं चतूरूपेण ब्रह्मणैकीकर्तुं ब्रह्मणः पादानाह, विश्वो वैश्वा- नरः प्रथमः पादस्तैजसो हिरण्यगर्भो द्वितीयः प्राज्ञ ईश्वरस्तृ- तीय ईश्वरपासस्तुरीय इति । ततस्तुरीयस्य न स्थूलप्रक्षमित्या- दिना प्रपञ्चोपशमत्वेनोक्तत्वात् स निर्धर्मको भविष्यतीत्याशङ्कन- निरासाय, अथ तुरीय ईश्वरग्रासः खराट् स्वयमीश्वरः स्वप्रकाशश्चतुरात्मा ओतानुशात्रनुशाऽविकल्पैरित्युक्त्वा ओतादीन विवृणोति स्म । ताशं च विवरणं नं माण्डूक्ये। अतो जीवपादे- भ्यो भिन्ना पते ब्रह्मपादा एतेषु ये पूर्वे त्रयस्नान पूर्वेषु त्रिषु जीव- सप्रकाशे अणुभाष्ये । इदमत्र वक्तव्यम् । सर्वोपनिषत्सु ब्रह्मज्ञानं परमपुरुषार्थसाध- नमिति तन्निर्णयार्थ भगवान् व्यासः सूत्राणि चकार । तत्र ब्रह्म- सूत्रे विचारं प्रतिज्ञाय जगत्कर्तृत्वाधसाधारणलक्षणं ब्रह्मणः प्रति- ज्ञाय समन्वयनिरूपणे जीववाक्यानि दूरीकृत्य अविरोधे, ऐक्येऽप्य- हिताकरणादिदोषमाशा, आधिकन्तु भेदनिर्देशादिति परिहस, जीवस्याणुत्वमुपचाराद् ब्रह्मत्वमंशत्वं पराधीनकर्तृत्वादिकं प्रति- पाच तस्यैव दक्षिणमार्गेण पुनरावृत्तिमुक्त्वा ससाधनेनप्रमझानेन पादेयारोप्य तुरीयं च जीवस्य केवलं रूपमीश्वरग्रासेन तुरीयेण - झरूपेणैकीकृत्याहंग्रहोपासनां कुर्यादिति सिद्ध्यति । एवं सति जी- वाद्भिन्नस्येश्वरस्य सर्वसुषुप्तिसाक्षिणोऽपि ब्रह्मशरीरत्वमेव, न ब्रह्म- त्वमतस्तत्र यथा ब्रह्मधर्मा बोध्यन्ते, एष सर्वेश्वर एष सर्वज्ञ एषों- ऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानामित्यनेन । एवं शारीरस्यापि जीवस्य ब्रह्मधर्मबोधिकाः श्रुतयो जीवे गोण्या ब्रह्मत्वं वदन्तीति । नन्वस्मिन् सूत्रे गोण्या व्यपदेशः सूत्रकाराभिमतः सूत्रे च तच्छब्दद्वयम् । तत्र पूर्वस्मिस्तच्छब्दे उपाधिः परामृश्यते, द्वितीये चाणुत्वमिति जीवे उपाधिगुणसारत्वादणुत्वव्यपदेश इति या युक्तम् ? उत तच्छब्दद्वयेऽपि ब्रह्मैव परामृश्यत इति ब्रह्मगुणसा. रत्वान्जीवे ब्रह्मत्वव्यपदेश इति वा युक्तम? इत्येतत् कथं निश्चेतुं श- क्यमित्यत आहुः । * इदमित्यादि * । अस्मिन् सूत्रे यदस्माभि- ाख्यातं तदेवाभिप्रेतम् । कुत इत्याकाङ्क्षायां हेतुं व्याकुर्वन्ति । स- घोपनिषत्खित्यादि * * योजितवानित्यन्तम् * । चतुर्वेदांस्थितासू- पनिषत्सु, ब्रह्मविदाप्नोति परं, तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय, तमेव विदित्वा अतिमृत्युमेतीत्यादिजातीयवा- क्यदर्शनाद्ब्रह्मज्ञानं परमपुरुषार्थसाधनम्।* जीववाक्यानि दूरीक- स्योति * जीवबोधकवाक्यानि जीववाक्यानि तानि निराकृत्य, तेषु जीवबोधकवाक्यत्वं निराकृत्य । * अविरोध इति * द्वितीयाध्याये अविरोधेनेति तृतीयान्तपाठ तु तस्य, प्रतिपाद्येत्यनेनान्वयः। * ऐक्ये- ऽपीति * अंशांशिभावेनैक्येऽपि । शेषं स्फुटम् । तथाच यस्मादेव २ अध्याये ३ पादः। ७२५ आर्चरादिद्वारा प्रामाप्तिमुक्त्वा, न स पुनरावर्तत इसनाति व. दञ्छास्त्रपर्यवसानेन सर्वान् वेदान्तानव्याकुलतया योजितवान् । तत्र कश्चित् तव्यपदेशेन मोक्तानि तत्वमस्यादिवाक्यानि स्वीकृस जीवमात्रं च ब्रह्म स्वीकृस तदतिरिक्तस्य सर्वस्य कार- णांशकार्यरूपस्य मिथ्यात्वं परिकल्प्य तद्बोधकश्रुतीनामर्थवाद- खेन मिथ्यात्वं स्वीकृत्य सुषुप्तिसम्पत्त्योर्भगवता प्रकटीकृतमान- न्दरूपत्वं तत्पतिपादकवाक्यानां सोमुक्तिरूपफलवाचकत्वमुक्त्वा क्रममुक्तिमुपासनापरत्वेन योजयित्वा वेदसूत्राणि व्याकुलीचकार। तद् वेदान्तानां ब्रह्मपरत्वं जीवपरत्वं वेति यदत्र युक्तं तव सद्भिरनुसन्धेयम् ॥ २९ ॥ शास्त्रार्थस्तस्मादित्यर्थः । पूर्वरीत्या व्याख्यातुः शङ्कराचार्यस्य ता- त्पर्यमाहुः * तत्र कश्चिदित्यादि *। * स्वीकृत्येति * महावा- क्यत्वेनाहस्य । पूर्वस्येतिपदस्यैव विवरणं,* कारणांशकार्यरूपस्यति * कारणरूपस्यांशरूपस्य कार्यरूपस्य चेत्यर्थः। * अर्थवादत्वेनेति * गौण्या बोधकतया असदर्थवादत्वेन । * प्रकटीकृतमानन्दरूपत्वं त- त्प्रतिपादकवाक्यानामिति * प्रकटीकृतं यदानन्दरूपत्वं तत्प्रतिपाद- कानि यानि वाक्यानि, न कश्चन कामं कामयते सलिल एको द्रष्टा द्वितीयो भवतीत्यादीनि तेषाम् । * वेदसूत्राणीति * वेद- सहितानि सूत्राणि ।* व्याकुलीचकारेति * इन्द्रप्रजापतिसंवादं मु- क्तिवाक्यत्वेनोपम्यस्य तदर्थमन्यथा घदन व्याकुलीकृतवान् । त- थाचैवं व्याकुलीकरणमेव तथा व्याख्यानस्य तात्पमित्यर्थः । नन्वेवं विप्रतिपत्ती कथमेकतरनिश्चय इत्याकाङ्कायां निश्च- योपायमाहुः । * तद्वेदान्तानामित्यादि * । अत्रायमर्थः । सर्वे घेदा यत्पदमामनन्ति, तं त्वौपनिषदं पुरुषं पृच्छामि, वेदैश्च स- बेरहमेव वेध इत्यादिश्रुतिस्मृतिभिर्वेदमहातात्पर्यविषयं ब्रह्मैवेति वे. दान्तानां ब्रह्मपरत्वमविवादम् । ब्रह्म च जगत्कर्तृत्वाधसाधारण- धर्मजीवधिलक्षणमित्यपि पूर्व सिद्धम् । अतः परं जीवस्वरूपे बि- ७२६ सप्रकाशे अणुभाष्ये । चारः । तद्यदि उत्पत्त्यश्रवणात् परस्यैव ब्रह्मणः प्रवेशश्रवणात् ता- दात्म्योपदेशाच्च परमेव ब्रह्म जीव इति मतं, तत्तु न युक्तम् । उ- त्पत्त्यश्रवणस्य जीवनित्यतायामप्युपपत्तेस्तस्य ब्रह्मत्वागमकत्वात् । अविद्याऽनादित्ववादित्वनस्तत्साधारण्याच्च । मच भेदे अद्वैत- प्रतिक्षाविरोधान्नित्यत्वमेवाभेदे पर्यवस्यति । अनादित्वं च मिथ्या- त्वे । अतो न हेतौ दोष इति वाच्यम् । प्रतिज्ञाया वक्ष्यमाणेनांशांशि- भावेन, पराऽस्य शक्तिर्विविधैवेत्यादिश्रुतेः शक्तिशक्तिमद्भावेन चावि- राधे नित्यत्वानादित्वयोरुक्तपर्यवसानस्यैव दुर्घटत्वात् । नचांशां- शिभावे निष्कलश्रुतिविरोधः । श्रुतेस्तु शब्दमूलत्वादित्यत्र विरुद्ध- धर्माश्रयत्वाङ्गीकारेणैव परिहतत्वात् । नापि निर्गुणश्रुतिविरोधः । तस्याः प्राकृतगुणनिषेधपरत्वात् । तस्मान्नोत्पत्त्यश्रवणस्य जीवन- झतागमकत्वम् । नापि परस्यैव ब्रह्मणः प्रवंशश्रवणस्य । तथाहि । प्रवेशो नाम संयोगां वा, तजनिका क्रिया वा । नाद्यः । कार्य- सृष्टिमात्रादेवान्तर्बहिश्च तत्सम्भवेन पृथक् तदुनिवेयर्थ्यप्रसङ्गा- त् । तत एव नामरूपव्याकरणसिद्ध्या ल्यबन्तप्रयोगानावश्यक- त्वप्रणाश्च । न द्वितीयः । व्यापकत्वस्य क्रियाविरुद्धत्वात् । वस्तुतस्तु न तत्र जीवरूपेण स्वप्रवेश उच्यते, किन्तु जीवसाहित्येन स उच्यते । द्वा सुपर्णादिश्रुत्यनुसारेण जीवपदगततृतीयायाः स- हार्थे वक्तुं शक्यत्वात् । अन्यथा आत्मनेत्यस्य वैयर्थ्यप्रसङ्गात् । न- चेतरव्यपदेशाधिकरणभाष्य, जावेनात्मनेत्यात्मपदस्य जीवविशेष- णत्वाङ्गीकारान्नैवमिति शङ्यम् । तस्य पूर्वपक्षसूत्रत्वात् । तदनुरो- धन तत्र तथा व्याख्यानस्य सिद्धान्तीयत्वेन वक्तुमशक्यत्वात् । त. स्मात् प्रवेशश्रवणस्यापि न जीवब्रह्मतागमकत्वम् । नापि तादात्म्यो- पदेशस्य । तस्यांशांशिभावादप्युपपत्तेः । किञ्च । यदि परमेव ब्रह्म जीवः स्यात् तदा, यथोदकं शुद्ध शुद्धमासिक्तं ताहगेव भवति, एवं मुनर्विजानत आत्मा भवति गौतमेति काठकश्रुतिरपि विरुद्धयेत । वास्तवयत्किञ्चिद्भावे, अस्य दृष्टान्तस्य सर्वथानुपपत्तेः । सत्सम्प. त्यादिश्रुतिविरोधश्च । किश्च । औपाधिकभंदाभ्युपगमपक्षं तत्त्वम- सीत्यत्र, तत् त्वमितिपदद्वये भागत्यागलक्षणा । कारणे अंशकार्यबो- धकश्रुतीनाम् । असदर्थवादत्वकल्पनं कारणत्वांशत्वकार्याणां मि- थ्यात्वकल्पनम् । उपासनाविषयाणां रूपाणामब्रह्मत्वकल्पनमित्येत- २ अध्याये ३ पादः। दादयो दोषाः । जीवोंशस्तत्र ब्रह्मत्वं गौण्या व्यपदिश्यत इति पक्षे स्वेकस्मिस्तत्पदे गौणी । सापि राज्यजेष्ठपुत्रवदिति नासदर्थवादत्वा- पादिका । पूर्वकल्पोक्ताश्च न दोषाः केऽपि । एवं सति कः पक्षोऽत्र ज्यायान् को वा कनीयान् । नेतरोनुपपत्तेरित्यारभ्य जीवब्रह्मणोर्भेदं बोधयतोऽणुत्वमंशत्वादिकं च जीवस्य साधयतः सूत्रकृतश्च किं वाभिप्रतम् इत्यादिकं विभावनीयम् । किश्च । तद्गुणसारसूत्रे प्राथमिकतत्पदेन य उपाधिः परामृश्यते, स किमन्यथानुपपत्तिब- लाध्याहृत उत क्वचित् पूर्वमुक्तः । नाद्यः । अनुपपत्त्यभावस्योपपा- दितत्वात् । नेतरः । अदर्शनातू । नचान्तरा विज्ञानमनसी इत्यत्रोक्तं विज्ञान बुद्धितत्वात्मकं दृश्यत एवेति वाच्यम् । विज्ञानपदस्याने- कार्थत्वेनात्र बुद्धरेव ग्रहणे नियामकाभावात् । व्याख्यात्रा विज्ञान- मनसी इति द्विवचनोपपत्त्यर्थ विज्ञानपदे करणव्युत्पत्त्यङ्गीकारेणा बुद्धीन्द्रिययोः सङ्ग्रहात् । कस्य वोपाधित्वं कथं वा इन्द्रियाण्यपाक- स्य बुद्धरेव ग्रहणमित्यत्र हेत्वनुलम्भाश्च । एतेन भास्कराचार्यव्या- ख्यानमपि दत्तात्तरम् । ब्रह्मपरामर्श तु कोऽप्ययं दोषो न भवति । नाणुरतच्छतेरिति सूत्र इतरपदन ब्रह्मण एवाक्तत्वेन तस्य च स- निहितत्वन कल्पनालेशस्याप्यभावादिति । यत्तु भिक्षुः-अणुत्वसाधकानि नव सूत्राणि पूर्वपक्षीकृत्य, पृथगुपदेशादितिसूत्र सिद्धान्तत्वेनाह । तदर्थ च जीवादणुरुपाधि- भूतः पृथक । कुतः । उपदेशात् । स चानन्त्याय कल्पते, स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेण्वित्यादिश्रुतिभिर्जीवस्या- नणुत्वोपदेशादित्याह । तन्न । अन्त्ययोर्ब्रह्मप्रकरणस्थत्वस्य प्रागव द- र्शितत्वेन जीवाविषयत्वात् । आद्याया अपिसामर्थ्यबांधकत्वस्योपपा- दितत्वेन इतः पूर्वस्मिन्नङ्गुष्ठमात्र इति श्लोके बुद्धेर्गुणेनाङ्गुष्ठमात्रत्वम्- क्त्वा किं तस्य स्वीयं परिमाणमित्याकाङ्क्षापूरणार्थ आत्मगुणेन चैव ह्याराग्रमात्र इत्यनेनाराममात्रत्वं स्वगुणेनैव च पुनरित्युक्ते किमारा- प्रमात्रत्वमित्याकाङ्कान्तरे, बालाग्रतिश्लोकान्तरस्य पादत्रयेण तन्नि- श्वाययित्वा तस्य परिमाणस्याणुत्वेऽपि परमत्वाभावाज्जीवस्यानित्यत्वं स्यादितिशडूनयां कालत आनन्त्यबोधनपरत्वस्यापि वक्तुं शक्यत्वेना- मणुत्वबोधकत्वाभावादिति । तेन यदग्रिमे तद्गुणसारसूत्रे बुद्ध- गुणेनेति श्रुतिद्वयं व्याख्यातम्, अत्राद्यार्द्धन बुद्धिसम्पर्फाज्जीवस्य सप्रकाशे अणुभाष्ये। परिच्छिन्नव्यवहारमुक्त्वा पश्चाद् द्वितीयश्लोकचतुर्थपादेन तस्य स्वत मानन्त्यं प्रोक्तमिति । तदपि भ्रत्यक्षरविरुद्धत्वादसङ्गतमेष । यदपि तद्गुणसारसूत्रव्याख्यान, जीवोपाधिर्बुद्धिरणुः कार्यावस्खया परिच्छिनपरिमाणः । तस्य चोपाधेर्ये गुणा उत्क्रान्त्यादयस्तत्सारस्त- मात्रगुणक एव जीवो लोफैडेश्यते व्यवहियते च । स्वतो निर्गुण- स्वात् । अतो लोकानुसारेण श्रुतावपि जीवस्योकान्स्यादिव्यपदेशो, न पुनर्जीवस्य स्वत उत्क्रान्त्यादिः श्रुत्या व्यपदिश्यते । विभुत्वश्रु- तिषिरोधात् । 'पुमान् सर्वगतो व्यापी ह्याकाशवदयं खितः । कुतः कासि क गन्तासीत्येतदप्यर्थवत्कथमिति स्मृतिविरोधाच । अयं व विभागः श्रुत्यैव स्पष्टीकृतः । यथा, कस्मिन्नहमुत्कान्त उत्क्रान्तो भ- ज्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति । प्राशयत् । यथा प्राज्ञ ईश्वरे मायापरमाण्वाधुपाधिगुणसारत्वेन मा. यादिगुणव्यपदेशः सोऽकामयत, अणोरणीयान, तत् सृष्ट्वा तदेवा- नुप्राविशत्, प्राशेनात्मनान्वारूढ, उत्सर्जघातीत्यादि, तद्वदित्यर्थः । तदेव जीवस्य गमनादरोपाधिकत्वं 'घटसंवृतमाकाशं नीयमाने घटे यथा।घदो नीयेत नाकाशं तबज्जीवो नभोपम'इतिं श्रुत्या, गतिश्श्रुति- रप्युपाधियोगादाकाशवदिति सांख्यसूत्रेण च स्पष्टमुक्तमिति । त- दपि तथा। माध्यन्दिनानां वृहदारण्यके शारीरब्राह्मणे, तेन प्रद्यो- तेनैष आत्मा निजामति चक्षुष्टो वा मूनों वाऽन्येभ्यो वा शरीर- देशेभ्यस्तमुत्क्रामन्तं प्राणोनूत्कामति प्राणमनूकामन्तं सर्वे प्राणां अनूकामन्ति संज्ञानमेवान्धवक्रामति स एषः स विज्ञानो भवति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेत्यौष इत्यनेन सलिङ्गमा- त्मानमुपक्रम्य चक्षुरादीनि निष्क्रमणद्वाराण्युक्त्वा सलिङ्गस्याङ्गुष्ठ- मात्रताया अङ्गुष्ठमात्र इति पूर्वोक्तश्रुतौ, अङ्गुष्ठमा पुरुषं निश्चकर्ष- यमो बलादिति स्मृतौ च सिद्धत्वात् कथं चक्षुष्टो निष्क्रमणमिति शङ्कानिवृत्त्यर्थ, तमुत्क्रामन्तमित्यादिना केवलस्यात्मनो निष्कामणान- न्सरं लिङ्गभूतानां मुख्यप्राणादीनाम् अनूक्रमणं मुक्तामुक्तसाधा- रण्येनोक्ता तदनन्तरं संज्ञानमेवेत्यादिना पश्चाद्बुद्धिसम्बन्धे, इति ज्ञानगुणकत्वं, सेन जन्यज्ञानयत्त्वं स्थूलदेहान्तरप्राप्तिसामग्री ब- तीति तदनाकलनात् । अङ्गुमाष्ठत्रताया गुणेनोक्तत्वाद् गुणस्य चौकटये खायाधिकदेशवृत्तित्वस्य पूर्व साधितत्वान्मुर्टिपिहित- २ अध्याये ३ पादः। यावदात्मभावित्वाच्च न दोषस्तदर्शनात् ॥ ३० ॥ ननु कथमन्यस्य नीचस्य सर्वोत्कृष्टव्यपदेशोऽपि । न हि प्रामाणिकैः सर्वथा अयुक्ते व्यपदेशः क्रियते । नचोक्ततद्गुणसा- मणिप्रभावत् पिपीलकादिदेहेषु बुद्धिगुणसङ्कोचेन गौणपरिमाण- सङ्कनचेऽपि दोषाभावात् । एवमेव परिवर्तनादावपि बोध्यम् । यत्तु अनुशब्दो विज्ञानमयादेः प्राधान्यद्योतको, न त्वनुक्रमद्योतक इति व्याख्यानम् । तदसङ्गतम् । अनोरप्राधान्येऽनभिधानाल्लिङ्गवियोगस्य प्राणादिपदैरेव प्राप्तर्वि- ज्ञानमयप्राधान्यस्योत्क्रान्तिक्रियायामेव पर्यवसानाश्च । व्यापकत्वच- त्यादितात्पर्य त्वनुपदमेवाग्रिमपूत्रे वक्ष्यामः। यदुक्तमयं विभागः क- स्मिनहमिति श्रुत्यैव स्पष्टीकृत इति । तदपि न । इयं श्रुतिस्तु ब्रह्मपरा सृष्टिकर्तृत्वलिङ्गात् । तया ब्रह्मण उत्क्रान्तिरौपाधिकोति बोध्यते । उत्क्रान्ते प्राणे देहजीवनरूपं कार्य भगवान करोतीति । जीवनं च भगवत्कार्यमेवोत, न प्राणेन नापानेन मयों जीवति कश्चन इतरण तु जीवन्ति यस्मि ।वुपाश्रिताविति श्रुत्याऽवगम्यते । अतो नानया जीवोत्क्रान्तिविभागस्य स्फुटीभावः । दृष्टान्तव्याख्याने सोऽकामयते- त्यादिश्रुतितयोपन्यासोऽप्यसङ्गतः । तासां ब्रह्मप्रकरणस्थत्वात् । प्रा- क्षस्य परमेश्वराद्भिन्नतायाः सूत्रव्याख्यान एव दर्शितत्वादिति । सां- ख्यसूत्रेण गतिश्रुतेरुपाधिप्रयुक्तत्वकथनं तु व्यासविरोधमेव बोध- यति । श्रौतसन्देहनिराकरणाय प्रवृत्तः कथमेवं सूत्रं न प्रणीतवान. तः किमाधिकं ब्रूम इति दिक् । रामानुजा माध्वाः शैवश्वाणुजीववादिनः । परं तु प्रासब्रह्म- जोमदं न केऽपि विचारितवन्त इति दृष्टान्तव्याख्यानं सर्वेषामेवाना- देयम् ॥२९॥ यावदात्ममावित्वाच्च न दोषस्तदर्शनात् ॥ व्यपदेशविषय एव कश्चिदोषमाशय परिहरतीत्याशयेन तं दोषं प्रकाशयन्ति ।* नन्वित्यादि *। * अभ्यस्पति * ब्रह्मभिन्नस्य । * सर्वोत्कृष्टव्यपदेश सप्रकाशे अणुभाष्ये । रत्वाद् ब्रह्मण आनन्दांशस्य प्राकट्यादिति वाच्यम् । तथा सति प्राज्ञवत् पुनस्तिरोहितं स्यादिति तस्य तव्यपदेशो व्यर्थोऽयुक्त- श्चेतिचेत् । नायं दोषः । कुतः ?। यावदात्मभावित्वात् । पश्चाद् यावत्पर्यन्तमात्मा । निसत्वात् । सर्वदा आनन्दांशस्य प्राकट्यात् । तस्य तथैव दर्शनमस्ति । अनाहतैश्चर्यादीनामुक्तत्वात् । प्राज्ञात् सम्पन्नत्वं विशेषः। इति * उत्कृष्टत्वेन व्यपदेशः । * तिरोहितं स्यादिति * ब्रह्मगुणसा- रत्वं तिरोहितं स्यात् । सूत्रोक्तं परिहारं व्याकुर्वन्ति । * नामि- त्यादि * । हेतुं व्याकुर्वन्ति * पश्चादित्यादि * । * पश्चादिति * संसारदोत्तरम् । * आनन्दांशस्य प्राकट्यादिति * जीवो हि भगवदंश इति तस्य यावानानन्दांशस्तत्प्राकट्यात् । * तस्येति * जी- घस्य । * तथैव दर्शनमिति * ब्रह्मभावपूर्वकांशत्वेन दर्शनमस्ति । तत्र हेतुः । * अनावृतेत्यादि * । तथाच छान्दोग्ये, स तत्र पर्येतीत्या- दिनाऽनावृतैश्वर्यादीनामुक्तत्वात् तद्गुणसारत्वकृतो ब्रह्मव्यपदेशो नाऽयुक्त इत्यर्थः । तथाचायं सूत्रार्थः । यावदिति पदार्थानतिवृ. तौ । भावित्वं वर्तनशीलत्वम् । तथाचात्मानमनतिक्रम्यानन्दा- शस्य वर्तनशीलत्वान्न दोषः । न तिरोधानम् । ब्रह्म वेद ब्रद्देय भव- ति,तस्य तावदेव चिरमित्यादिश्रुतौ तथा दर्शनादिति सूत्रार्थो बोध्यः। नन्विदमप्रयोजकम् ।प्राज्ञ ईश्वरस्तृतीयः पाद एष सर्वेश्वर एषोऽन्त- र्याम्येष यानिः सर्वस्य प्रभवाप्ययो हि भूनानामित्येवं प्राशं प्रशस्याग्रे तुरीयव्याख्याने ईश्वरग्रासस्तुरीय इति कथनेन प्राशलयस्योक्तत्वात् तस्येवास्याप्यानन्दप्राकटयैश्वर्यादीनामसार्वदिकत्वसिद्धेर्यावदात्मभा- वित्वस्य दूरनिरस्तत्वादित्यत आहुः * प्राक्षात् सम्पन्नत्वं विशेष इति* पद गती। ये गत्यर्थास्ते प्राप्त्यर्थाः । तथाच समीचीनतया प्राप्तत्वं सम्पन्नत्वं, प्राज्ञस्तु ईश्वरेण अस्यते, अयं तु सम्यक्तया स्वस्व- रूपेण तिष्ठतीति प्राज्ञात् सम्पन्नत्वं विशेषोऽतो नाप्रयोजकत्वम् । तथाच प्राज्ञस्य ब्रह्मसम्पन्नत्वाभावाल्लयन ब्रह्मधर्माणां तिरोभावः । भस्य तु सम्पन्नत्वेन लयाभावादश्वर्याचतिरोभावोऽतः सदा तह- २ अध्याये ३ पादः। चकारात् तस्य चानन्दः प्रकटित इति न दूषणगन्धोऽपि । व्यपदेशो वा नासन्तमयुक्तस्य । यावदात्मा ब्रह्म भवसान- न्दांशप्राकट्येन तावदेव तव्यपदेशः । राजज्येष्ठपुत्रवत् । एतदे- वोक्तम् । व्यापकत्वश्रुतिस्तस्य भगवत्वेन युज्यते । आनन्दांशाभिव्यक्तौ तु तत्र ब्रह्माण्डकोटयः ।। प्रतीयेरन् परिच्छेदो व्यापकत्वञ्च तस्य तदिति ॥ ३० ॥ निमित्यर्थः । चकारप्रयोजनमाहुः । * चकारादित्यादि * । तथाच यावन्तो दोषास्त आनन्दतिरोभावना इति तदभाव कोऽपि दापो नति नानर्थको व्यपदेश इत्यर्थः । नित्यत्वादित्यनुक्त्वा यावदान्मभा- वित्वादिति यदुक्तं तनार्थान्तरमपि सूच्यत इत्याशयनाहुः । * व्य- पदेशो वेत्यादि * । वाशब्दो वाक्यालङ्कार । युक्ततां व्युत्पादयन्ति* यावदित्यादि * । तथाच ब्रह्मभावोत्तरं तु ब्रवोते ततः पूर्वमेव व्यपदेशः । स च मुक्तो ब्रह्मत्वसूचको. यथा राजजष्ठपुत्रस्य राजत्व- व्यपदशोऽग्रे राजत्वसूचकस्तद्वत् । एतेनात्यन्तायुक्तत्व पारहृतं बोध्यम् । एवं जीवस्य ब्रह्मभावं व्याख्याय तेन व्यापकत्वबांधकानि वाक्याने समर्थयन्ति । * एतदेवोक्तमित्यादिना *। * उक्तामनि * निबन्धऽस्माभिरुक्तम् । अर्थस्तु-तस्य ब्रह्मभाव प्राप्तस्य जोवस्य भगवत्त्वेन व्यापकत्वश्रुतियुज्यते, न तु जीवत्वन रूपण । तत्र प्रका रमाहुः । आनन्दांशाभिव्यक्तौ ब्रह्मभावे सति तस्य तद् विरुद्धधर्मा- धारत्वं भवत्यतस्तत्र ब्रह्मकोटयः परिच्छेदा व्यापकत्वं च प्रतोयेर- निति । तथाच यथा कृष्णो भगवान् यशोदात्मङ्ग स्थितोऽपि जु- म्भणमृत्साभक्षणादौ सकलजगदाधारो दृष्टम्तथा जीवाणुरापे ब्रह्मभावेऽणुत्वाविरोधेनैव व्यापकः सकलजगदाधारो भवति । अत एव, मय्येव सकलं जातम्, तदेतदृषिः पश्यन् वामदेवः प्रतिपदे मनुरभवमहं सूर्यश्चेति, पुत्रेति तन्मयतया तरवोऽभिनंदुरित्यादीनि .

सप्रकाशे अणुभाष्ये । पाक्यानि ब्रह्मभूतमेव लक्ष्यीकृत्योच्यन्ते । तेन, नित्यः सर्वगतः स्था- गुरचलोऽयं समातनः, व्यापकोऽसङ्गचनावृतः, पुमान् सर्वगतो व्यापी इत्यादीन्यपि भाविनीमवस्थामादायैव योज्यानि । अन्यथा, अ- परिमितास्तनुभृतो यदि सर्वगतास्तर्हि न शास्यतेति नियमो ध्रुव नेतरथेति वेदस्तुतिवाक्यं विरुद्धयेत । एवश्च बिन्दुस्तोकोपनिषदि घटसङ्कटमाकाशमित्यत्र जीवगमनस्यौपाधिकत्वमुक्तम्, तदपि मु. कजीवस्य ब्रह्मभूतस्यैव बोध्यम् । एक एवात्मा मन्तव्यो जाप्रत्स्वप्न- सुषुप्तिषु, स्थानत्रयाद्यतीतस्य पुनर्जन्म न विद्यत इत्यमुक्तमुक्तावा- स्मानाबुपक्रम्य, एक एव हि भूतात्मा भूते भूते व्यवस्थितः, एकधा बहुधा चैव दृश्यते जलचन्द्रवदित्यमुक्तस्योपाधिवशाद बहुधा जाग्र- दादिदेवमनुष्यादिरूपेण दर्शनमुक्त्वा, घटसंवृतमाकाशमित्यनेन मु- तस्य नभोपमस्य जीवस्य गमानादेरौपाधिकत्वं वक्ति । तेन शुक- सनकादिगमनस्यैव तथात्वं, नेतरेषामिति मन्तव्यम् । अत एवैतने 'घटवदू विविधाकारं भिद्यमानं पुनः पुनः तद्भग्नं च न जानाति स जानाति च नित्यश' इति दधीच इव विद्ववस्थैवोच्यत इति युज्य- ते । अन्यथा तस्यैवैकस्य प्रतिबिम्बमवच्छेदत्वं च विरुध्येत । वस्तु. सस्तु, एक एव हि भूतात्मेत्यत्र जलचन्द्रदृष्टान्तन यथाचन्द्रस्यांशु- द्वारा जलप्रवेशे नानात्वं तथा ब्रह्मणोऽप्यंशद्वारा तत्तद्देहप्रवेशे मा- नात्वमिति योग्यत्वाय ब्रह्मरूपतोच्यते अहङ्ग्रहोपासनायाः प्रकृत- त्वात् तत्र दोषाभावायाऽतो न कोऽपि शडूनलेशः । यत्तु परैर्युद्धिस- योगाजीवभाव उच्यते । तन्न । ब्रह्मभूतानामीश्वरस्य च व्यापकत्वेन तदापि तदापत्तेः । अपि तु प्राणधारणाभिमानात् । जीव प्राणधार- ण इति धात्वर्थेन तथा निश्चयात् । अन्योन्तर आत्मा विज्ञानमयो योऽयं विज्ञानमयः प्रणेष्वित्यादौ तस्य विज्ञानमयत्वं तु ज्ञानांशत्वा- ज्ज्ञानप्रचुरत्वं, न तु बुद्धिमयत्वं, तदनभिमानेभप ज्ञानप्राचुर्यस्य मुक्त- पुसिद्धत्वात् । विज्ञानमयो मनोमया वाङ्मनःप्राणमयश्चक्षुर्मयः श्रोत्रमय इत्यत्र प्रायपाठबलेन विज्ञानपदस्य बुद्ध्याख्यकरणवाच- कत्वेऽपि न सर्वत्र तथात्वं, गमकाभावे तथादर्जुमशक्यत्वात् । अ- त्रापि बुद्धिमयत्वं, बुद्धिप्रचुरत्वं, तदपि बुध्यधीनव्यवहारत्वमेव । प्रायपाठेन तथा निश्चयात् । न तु बुद्धिगुणसारत्वम् । तस्य दूषित- त्वात् । नापि बुद्धयधीनाखिलव्यवहारत्वम् । यावत्संसारमेव बु. । ।

२ अध्याये ३ पादः। पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१॥ व्यपदेशदशायामपि आनन्दांशस्य नासन्तमसत्त्वम् ।पुंस्त्वा. दिवत् । यथा पुंस्त्वं सेकादिसामर्थ्य बाल्ये विद्यमानमेव यौवने प्रकाशते तथा आनन्दांशस्यापि सत एव व्यक्तियोगः ॥ ३१ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ ३२ ॥ ननु कथमेवं स्वीक्रियते । इदानी संसारावस्थायां सञ्चित्मा- कथ्यमेव । मोक्षे त्वानन्दांशोऽपि प्रकट इति तन्निवारयति । तथा सति निसमुपलब्धिः स्यादानन्दांशस्य । तथा सति न संसाराव- स्थोपपद्येत । अथानुपलब्धिः सर्वदा तथा सति मोक्षदशा विरू- खिसंसर्गेण बुद्धेर्यावदात्मभावित्वाभावात् । यदपि उपाधिकल्पित- खरूपव्यतिरेकेण न परमार्थतो जीवो नाम कश्चिदस्तीति तदप्यस- गतम् । अंशत्वस्याग्रे वश्यमाणत्वादिति । तस्मात् पूर्वोत्तरीतिरेव युक्तोति दिक् ॥ ३०॥ पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् ॥ ननु पूर्वमसतश्चे- दानन्दांशस्य प्राकट्यं तदा जन्यत्वेन नश्वरत्वेन व्याप्तेरानन्दांशस्य तिरोधानं भविष्यतीति न तस्य यावदात्मभावित्वं वक्तुं शक्यामिति शङ्कनयामिदं सूत्रे प्रववृत इत्याशयेन व्याकुर्वन्ति । * व्यपदेशेत्या- दि । निगदव्याख्यातमेतत् ॥ ३१ ॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाम्यथा ॥ सूत्र- प्रयोजनमाहुः । * ननु कथमित्यादि । * तनिवारयतीति * । तमे- तमाशङ्कोत्पादकं प्रभमुत्तरयति । तथाचेदं सूत्रप्रयोजनमित्यर्थः। ध्याकुर्वन्ति । * तथा सतीत्यादि * । सूत्रयोजना तु, अन्यथा यधु- क्तसूत्ररीत्या व्यवस्था नाङ्गीक्रियते तदा जीवे प्रयाणां नित्यं प्राक- दृय वा नित्यमप्राकट्यं वा, जीवः सचिद्रूप एव, ब्रह्मानन्दमेवेति सपकाशे अणुभाष्ये । येत । अथान्यतरनियमः । जीवो निरानन्द एव, ब्रह्म वानन्द- रूपम् । तथा सति, ब्रह्मैव सन् ब्रह्माप्येतीति श्रुतिविरोधः । त- स्मात् पूर्वोक्त एव प्रकारः स्वीकर्तव्य इति सिद्धम् ॥ ३२ ॥ घाङ्गीक्रियेत ततः पक्षत्रयेऽपि क्रमेण प्रयो दोषा इति निर्दुष्टः पूर्वो- कप्रकार एव युक्त इति सिद्धमित्यर्थः । माध्वा अप्यर्द्धजरतीयेनैवमाहुः । एतेन संसारदशायां ब्रह्मत्वव्यपदेशो गौण्या, मुक्तिदशायां तु मुख्यवृत्तः। व्यापकत्व विरुद्धधर्माश्रयत्वंचानन्दांशप्राकट्यादिति साधितम् । शङ्कराचार्यभास्कराचार्यभिक्षवस्तु-एतत् सूत्रमन्तःकर- णसत्तासाधनार्थमित्याहुः । यदि ह्यन्तःकरणं न स्यात् तदा ह्यात्मनो व्यापकत्वादिन्द्रियविषयरूपाणामुपलब्धिसाधनानां समवधानं त- स्य सार्वदिकमिति नित्यमुपलब्धिः प्रसज्ज्येत । अथ सत्यपि साधन- समवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत । अथा. ऽऽत्मनो वेन्द्रियस्य वा विषयस्य वा उपलब्धिजनकशक्तिप्रतिबन्धो- ङ्गीकार्यः । तदपि न । आत्मनोऽविक्रियत्वेन शक्तिप्रतिबन्धासम्भ- वात् । नापीन्द्रियस्य । पूर्वोत्तरक्षणयोरप्रतिबद्धशक्तिकस्याकस्मा- च्छक्तिप्रतिबन्धकल्पने प्रमाणाभावात् । अन्यथाऽनुपपत्त्या कल्पनेऽपि प्रतिबन्धकल्पनापेक्षया करणकल्पनाया लघीयस्त्वात् । अतो यत्स- मवधानासमवधानाभ्यामुपलब्ध्यनुपलब्धी तन्मनः । तथाच श्रुतिः । अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रीषमिति मनसा ह्य- घ पश्यति मनसा शृणोतीति । कामादयश्च तवृत्तय इति दर्शयति, कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिहीं/ रित्यंत- तू सर्व मन एवेति । आहुश्च नैयायिकाः । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । बौद्धानां मनोऽवस्थितं नास्तीति निराकरणार्थ सूत्र- मिदमिति चाहुः। रामानुजाचार्यास्तु-शानमात्रः सर्वगतश्चेदयमात्मा उपल- उध्यनुपलब्ध्योरुभयोरपि हंतुः स्यात् । तदा सर्वत्रोभयं सदा प्रस- ज्येत । अथान्यतरनियमस्तदाऽऽत्माऽनुपलब्धिरेव सर्वत्र सर्वदा २ अध्याये ३ पादः। कर्ता शास्त्रार्थवश्वात् ॥ ३३ ॥ सांख्यानां प्रकृतिगतमेव कर्तृत्वमिति तनिवारणार्थमधिकर- णारम्भः। कर्ता जीव एव । कुतः ? । शास्त्रार्थवत्त्वात् ।जीवमेवाधिकृय स्यादुपलब्धिरेव वा । तस्मान्न सर्वगत आत्मा, किन्तु शरीरान्तरव. स्थितत्वादात्मनस्तत्रैव सर्वेषां स्वात्मन उपलब्धिर्न सर्वत्रेति व्यव- स्थासिद्धिः । नचोपलब्धः करणायत्तत्वाद्दोपसमाधानम् । सर्वेषामा- त्मनां सांगतत्वेन सर्वशरीरगैः सर्वः करणः मर्वदा संयुक्तत्वादह- शानियमादुक्तदोषस्य समानत्वात् । अतो विभुत्ववादिनां दूषणायेदं सूत्रमित्याहुः । एवमेव शैवोऽपि । यत्तु भास्कराचार्यरुक्तं, सर्वगतत्वेऽपि भोगस्य कर्मनिमित्त- स्वाच्छरीरदेशे भोगोत्पत्तेन सर्वगतत्वव्याहतिरिति । तदप्यदृष्टानिय. मेनैव दूषितत्वान्न युक्तिसहम् । इदं सर्व मया जीवाणुवादे सम्यक् प्रपश्चितमतो नात्रोच्यते । नचैवं सति मनःसिद्ध्यभावः । उक्तश्रु- त्या तत्तवृत्तिप्रत्यक्षेण च सिद्धत्वादिति ॥ ३२॥ कर्ता शास्त्रार्थवत्त्वात् ॥ अधिकरणप्रयोजनमाहुः। * सांख्या- नामित्यादि * । तथाच पूर्व ज्ञानस्वरूपत्वे ज्ञानगुणकत्वे च सिद्धा- न्तिते सांख्यवदकर्तृत्वं नैयायिकवत् कर्तृत्वं च सम्भाव्यते, अतः संशयः । तत्र कठवल्ल्या, 'हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हत- म्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत इत्यत्र हन्तृत्वं जान- तोऽनत्वश्रावणात् । गीतायामपि, 'प्रकृतेः क्रियमाणानि गुणैः कर्मा- णि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते । नान्यं गुणे- भ्यः कतारं यदा द्रष्टाऽनुपश्यति । कार्यकारणकर्तृत्वे हेतुः प्रकृति- रुच्यते' इति भगवता कथनात् पुराणेष्वप्येवंविधवाक्यदर्शनाजीवो न कर्ता, प्रकृतिरेव कीति निराकरणायाधिकरणारम्भ इत्यर्थः । एवं पूर्वपक्षे सूत्रोक्त सिद्धान्तं व्याकुर्वन्ति । * कर्तेत्यादि * / * शास्त्रार्थवत्त्वादिति * । शास्त्रस्य अर्थवत्त्वं शास्त्रार्थवावं तस्मात् ।

समकाशे अणुभाष्ये ।
वेदे अभ्युदयनिःश्रेयसफलार्थं सर्वाणि कर्माणि विहितानि ब्रह्म-
णोऽनुपयोगाव । जडस्याशक्यत्वात् । सन्दिग्धेऽपि तथैवाङ्गीक-
तव्यम् ॥ ३३ ॥
शास्त्रस्य फलवत्वादिति यावत् । कारीर्या वृष्टिकामो यजेत, ज्योति-
टोमेन स्वर्गकामो यजेत, तज्जलानिति शान्त उपासीत अथ खल
कतुमयः पुरुषो यथा ऋतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भ-
वति. स क्रतुं कुर्वीतेस्यादिभिर्वेदेभ्युदयनिःश्रेयसफलार्थ सर्वाणि-
यज्ञादिरूपाण्युपासनारूपाणि च कर्माणि विहितानि । यदि जीवः क-
नेप्येत तदा स्वर्गकामादिपदानि ताहशफलेप्स्वधिकारिशून्यानि
कुप्यन्ति तत्तच्छास्त्रवैयर्थ्यमेवापादयेयुः । न हि तादृशकामवत्त्वं ब्र-
झणः सम्भवति । आत्मकामत्वेन तत्फलानुपयोगात् । न वा जडस्य
बोधाभावेन ताशकामाभावेन चाशक्यत्वात् । अतः पूर्वोक्तवाक्यैः
सन्दिग्धेऽपि कर्तृत्वे बहूनामनुग्रहस्य न्याय्यत्वात् तत्तत्फलकामिनां
जीवानामेव कर्तृत्वमङ्गीकार्यम् । नच, हन्ता चेदित्यस्य कोपः। आ-
स्मनो नित्यत्वेन वध्यत्वाभावात् । ताहशज्ञानस्य मिथ्यात्वबोधनेनोप-
पद्यमानत्वात् । प्रकृतेः क्रियमाणानीत्यादिगीतावाक्येषु पौराणिकेषु
च यद् गुणानामेव कर्तृत्वं स्वस्मिन्नध्यस्थतीत्युच्यते तदपि लौकि-
ककर्तृत्वाध्यासपरम् । न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते हवशः कर्म सर्वः प्रकृतिजैर्गुणैरिति वाक्ये लोकप्रवाहपति-
तस्य कर्मणः प्राकृतगुणप्रयुक्तत्वबोधनात् । न तावता सर्वविधक-
तृत्वलोपः । 'अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।विविधाश्च
पृथक् चेष्टा देवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत् कर्म प्रार-
मते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तत्र हेतवः । तत्रैवं सति
कतारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्म-
तिरिति गीतायामेव जीवस्य कर्तृत्वं करोति पदेनोक्त्वा तस्याधि-
छानादिपञ्चहेतुसापेक्षत्वं निरूप्य केवलस्य स्वस्य कर्तृत्वाभिमाने
दुर्मतित्ववोधनेन घृतद्रवत्ववत् तस्य लौकिकस्यापि नैमित्तिकात्म-
धर्मत्वबोधनादिति ॥ ३३ ॥

२ अध्याये ३ पादः। ७३७ विहारोपदेशात् ॥ ३४ ॥ तस्यैव गान्धर्वादिलोकेषु, यद् यत् कामयते तत् तद् भवती. ति विहार उपदिष्टः । ततश्च कर्तृत्वभोक्तृत्वयोः साधुकारी साधु- भवतीति सामानाधिकरण्यश्रवणाज्जीव एव कर्ता ॥ ३४ ॥ उपादानात् ॥ ३५ ॥ तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति जीवेन सर्वेषां विज्ञानमुपादीयते । तस्मादिन्द्रियादीनां करणत्वमेव । स्वातन्त्र्या- दस्यैव कर्तृत्वम् । विहारोपदेशात् ॥ जीवस्य स्वतः कर्तृभावेऽपि प्रकृतिसंसृष्ट- स्वेन विवेकाग्रहात तादृशकर्तृग्रहणेऽपि शास्त्रसार्थक्यमिति शङ्कनयां सूत्रोक्तं हेत्वन्तरं व्याकुर्वन्ति । * तस्यैवेत्यादि * । छान्दोग्ये दहर- विद्यायां, स यदि पितृलोककामो भवतीत्यादिना, यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते इत्यन्तेन त- सत्समुत्थानादिकथनाद् विहारः स्वेच्छाक्रियात्मकभोगरूप उपदि- टः । स चोक्तरीत्या दहरविदः कर्तृत्वमाक्षिपति। नच ताशस्य वि- घेकाग्रहः सम्भवत्यतस्तथेत्यर्थः । अत्र पित्रादीति वक्तव्ये गान्धर्वा- दीति पदं विहारस्वाच्छन्द्यादिद्योतनार्थम् । यत्तु कैश्चित, स ईयते पुरुषो यत्र काममिति श्रुत्युपन्यासेन स्वामी क्रिया विहारत्वेनाह- ता। तन्न रुच्यम् । लभ्यमाने ईदृशे शानिनो विहारे ताशाज्ञानि- विहारग्रहणस्यायुक्तत्वादिति ॥ ३४॥ उपादानात् ॥ सङ्कल्पस्य मनोधर्मत्वाद् दहरविदोऽपि मनः संसृष्टत्वमेवेति न केवले जीवे कर्तृत्वसिद्धिरिति शङ्कगनिरासायो- तं हेत्वन्तरं विषयवाक्योपन्यासेन व्याकुर्वन्ति । * तदेषामित्या- दि * । श्रुतिस्तु बृहदारण्यके हप्तबालाफिब्राह्मणस्था । यत्रैष एतत् सुप्तोऽभूध एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमा- दाय य एषोऽन्तहृदय आकाशस्तस्मिन्छेत इति । अत्र अभूदिस्यन्तं ७२८ समकाशे अणुभाष्ये । यस्तु मन्यते बुद्धिसम्बन्धाज्जीवस्य कर्तुत्वमिति। स प्रष्टव्यः। किं बुद्धिकर्तृत्वं जीवे समायाति ? अथवा जीवगतमेव कर्तृत्वं बु. द्धिसम्बन्धादुद्गच्छति ? अथवा शशविषाणायितमेव कर्तृत्वं सम्ब- न्थे समायाति । नाथः । जडत्वात् । अनङ्गीकारा पूर्व निराकृ. तत्वाच्च । द्वितीये त्विष्टापत्तिः । उपादानविरोधश्च । भिन्नं वाक्यम् । भग्रिमे तु विज्ञानेन स्वीयेन गुणेन एषां प्राणानाम- न्तर्बहिरिन्द्रियाणां विज्ञानं ज्ञानजनिकां शक्तिमादायेत्यों बोध्यः । शेषं स्फुटम् । तत्रैव श्रुत्यन्तर च, तद्गृहीत एव प्राणो भवति ग- हीता वाग् गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः स यत्रैतत् स्वप्नया चरति स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परि- वर्तत इति । तथाच स्वप्नावस्थायामज्ञानबहुलायामपि प्राणानामन्तब- हिरिन्द्रियाणां पृथग्ग्रहणकथनात् तदानीं प्राणाख्येभ्य इन्द्रिये- भ्यो विविक्तस्यैव ग्रहीतृत्वमुच्यते । अतो दहरविदः सङ्कल्पोऽप्या- त्मधर्म एव शेयः । कामः सङ्कल्प इति श्रुतिस्तु लौकिकतत्परा । भतः स्वातन्त्र्याजीवस्यैव कर्तृत्वमित्यर्थः । अत्र मतान्तरमनपद- न्ति दूषयितुं विकल्पयन्ति च । * यस्त्वित्यादि * । स प्रष्टव्य इ- त्यादि च * । दूषयन्ति * नाद्य इत्यादि * । बुद्धिर्हि जडा। जडगतं कर्तृत्वं चेतने समयातीति न कापि हष्टम् । विपरीतं तथाऽऽदौ दृष्ट- म् । अतो नाधः । किञ्च । सूत्रकृता कुत्र वा जडे कर्तृत्वमङ्गीकृतं येनात्र तदाद्रियते । यदि तथा स्यात् पूर्व न प्रकृतेः कर्तृत्वं च र- चनानुपपत्त्यादिसूत्रेषु निराकुर्यात् । अतोऽनङ्गीकारात्, पूर्व निरा- कृतत्वाश्च नाद्य इत्यर्थः । द्वितीयं दूषयन्ति । * द्वितीय इत्यादि * । कर्तृत्वस्य यद्यपि घृतद्रवत्ववजीवधर्मत्वसिद्धाइष्टापत्तिस्तथापि प्रा- णानामुपादेयतया श्रुती सिद्धत्वाद बुद्धरपि प्राणेष्वेव प्रवेशस्तत्स- म्बन्धेनोद्रमाङ्गीकारे प्राणोपादानविरोधश्च । अतः सोऽपि नेत्यर्थः । नच जीवानां करणगोचरसाक्षात्काराभावात् तद्भहणं कथमुपपद्यत इति वाच्यम् । जाप्रति स्वयज्योतिष्ठाभावेन तस्साक्षात्काराभाषे- २ अध्याय ३ पादः। तृतीये शास्त्रविरोधः । ब्रह्मणि सिद्धत्वाच्च । असत्कार्यस्य निराकृतत्वात् । सर्वविप्लवस्तु माध्यमिकवदुपेक्ष्यः ॥ ३५ ॥ पि, अत्रात्मा स्वयज्योतिर्भवतीति श्रुत्या तदानीं स्वयज्योतिष्टेन करणनाडीप्रभृतिसाक्षात्कारसम्भवे सुखेन तद्हणोपपत्तेः । नचैवं सति जाग्रति कदाचित् तत्स्मरणापत्तिः । निद्रया स्वयज्योष्ठस्यैव प्रहणादिविषयकसंस्कारस्यापि तिरस्कारात् । नच तिरस्कारे माना- ऽभावः । कार्याभावेनैव तथानुमानात् । अथवा, उपेक्षाज्ञानादिव ता- दृशज्ञानादपि संस्कारानुत्पत्तिरुपेक्षाज्ञानवत्तदपि विक्षणावस्थाय्य- वेति वा श्रुतार्थापत्त्या कल्पनीयमतो न दोषः । नच द्वितीयस्कन्धे, आत्मा यथा स्वप्नजनेक्षितक इत्यत्र स्व. मादौ भगवत एव द्रष्टत्वप्रतिपादनान्न तत्र जीवस्य द्रष्टत्वमिति श- यम् । तत्र, स सर्वधीवृत्त्यनुभूतसर्व इत्यत्रोक्तायाः भगवतो द्रष्परष- प्रतिक्षायाः पूर्तये भगवतो द्रष्टत्वव्युत्पादनेऽपि जीवद्रष्टत्वस्यानिषेधा- त् । अन्यथा स्वप्नानुस्मरणाभावप्रसङ्गात् । इदश्च मया तत्रैव व्यु- त्पादितमिति ततोऽवसेयम् । भिक्षुस्तु-यद्यपि जीवानां फरणगोचरसाक्षात्कारो नास्ती. ति तोचराकृतिर्न सम्भवति, तथापि निद्रानिमित्तकारणचक्षुर्निमी- लनादिद्वारैव निद्रायां कर्तृत्वं बोध्यमित्याह । तनास्माकं रोचते । उक्तरीत्या कर्तृत्वे साक्षात्सम्भवति तथा कल्पनस्यायुतत्वादिति । तृतीयं दूषयन्ति । * तृतीय इत्यादि * । शास्त्रे हि कर्तृत्वं प्रतिज्ञा- तं सूत्रकृता । यदि तच्छशविषाणायितमेव भवेत् तदा तस्य समा- गमनासम्भवात् कथं तत्प्रतिजानीयादतस्तद्विरोधः । किश्च । यदि तत् तथा स्याद् ब्रह्मण्यपि न स्यात् । तथा सतीक्षत्यादिसूत्रषु न तत्प्र- तिपादयेत् । अतो ब्रह्मणि सिद्धत्वादपि न कर्तृत्वस्य तथात्वम् । नच ब्रह्मणि सिद्धत्वेऽपि जीवे शुक्तिरजतवदसदेवोत्पद्यत इति यु- कम् । असत्कार्यवादस्य निराकृतत्वात् । यत्तु ब्रह्मणो निर्गुणत्वा- कार्यस्याविद्यकत्वेन कर्तृत्वमपि तथैवेति । तदयुक्तम् । सर्ववि- सावकरयात् । सर्वविप्लवस्तु माध्यमिकवछून्यवाद एव पर्यवस्थ सप्रकाशे अणुभाष्ये। व्यपदेशाच्च क्रियायां नचेन्निर्देशविपर्ययः ॥३६॥ व्यपदेशो, विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चेति । अत्र सांख्ये बुद्धयादीनामेव कर्तृत्वं न जीवस्येति क्रियायां यागा- दिकर्मसु, न तु भोगे । जीवस्य कर्तृत्वं न चेत् । न । तथा सति निर्देशस्य विपर्ययो भवेत् । विज्ञानेन विज्ञानमादायेति श्रुत्यनुरो- धात् । प्रकृतेऽपि तृतीयान्तता आपद्येत । अथ स्वव्यापारे कर्तृत्वं, तथापि पूर्वनिर्देशस्य विज्ञानमयस्य विपर्ययः स्यात् । विकारित्वं स्यात् । तच्चासङ्गतम् । ध्यच्त्वात् । विज्ञानमादायेसत्र विपर्यय एव एकस्य प्रदेशभेदेनार्थभेदोऽपि । तीति सर्वप्रमाणविरुद्धत्वात् तद्वदेवोपेक्ष्यः। तस्मात् तृतीयापि नेत्यर्थः ॥ ३५॥ व्यपदेशाच क्रियायां नचेन्निर्देशविपर्ययः॥ एवं श्रुतापत्त्या जीवस्य कर्तृत्वं साधयित्वा साक्षाच्छत्या साधयतीत्याशयेन ध्या- कुर्वन्ति । * व्यपदेश इत्यादि * । व्यपदेशः प्रथमाविभक्त्या कर्तृ- वेन निर्देशः, सोऽस्यां श्रुतौ जीवे वर्त्तते । अतः कल्पनां विना सा- क्षाच्छुत्यैव स कर्तेत्यर्थः । सूत्रशेषं व्याकुर्वन्ति + अत्र सांख्य इ. स्यादि * । अत्र अस्यामपि श्रुतौ विज्ञानपदेन बुद्धिरेवोच्यते। सांख्ये बुद्ध्यादीनां प्राकृतानामेव कर्तृत्वं व्यवस्थापितं, न जीवस्य इति हेतोः क्रियायां यागादिषु वैदिकेषु लौकिकेषु च कर्मसु जीवस्य न क- तृत्वम् । क्रियापदादू भोगे कर्तृत्वं न पूर्वपक्षिणा प्रतिषिध्यते । त- थाच क्रियायामेव जीवस्य कर्तृत्वं नेति चेन्न । इदं वक्ष्यमाणहेतुना सेत्स्यमानकथनम् । तथा सति विज्ञानपदेन बुद्धेरेव व्यपदेशेऽङ्गीकृते सति तथेत्यर्थः । ननु कारकमात्रस्य स्वखव्यापारे स्वातन्त्र्यात स्थाली पचति काष्ठानि पचन्तीत्यादिवद् अत्रापि कत्तृत्वं शक्यवच- नमतो निर्देशविपर्ययो न भविष्यतीत्याशङ्कनमनूध तत्रापि दूषणं योजयन्ति । * अथेत्यादि । यद्येवं निर्देशः समर्थ्यते तथापि अयं श्लोको विज्ञानमयमुपक्रम्य पठित इत्येतदैकार्थ्यात् तत्रापि विज्ञान- २ अध्याये ३ पादः। ७४१ भगवति सर्वे शब्दाःस्वभावत एव प्रवर्तन्ते । औपचारिकत्व- ज्ञापकाभावात्। यज्ञो जायमान इति श्रद्धादीनां शिरस्त्वादिः। पदस्य बुद्धिवाचकत्वे विज्ञानमयपदस्य बुद्धिविकारवाचकत्वं स्यात् । तच्चासङ्गतम् । व्यच्त्वात् । द्वयचश्छन्दसीति विधेर्बह्वव्यावृत्त्य- र्थत्वात् । अतस्तत्रैवात्रापि तदनुरोधाजीववाचकत्वमेवाङ्गीकार्यम् । यद्यपि विज्ञानमादायेत्यत्र विपर्यय एव वर्तत इति तस्य न दोषत्व- मिति वक्तुं शक्यते, तथापि एकस्य विज्ञानस्य जीवधर्मतया प्राणध- मतया च प्रदेशभेदेनार्थभेदोऽपि तत्राभिप्रेतं इतिं तत्र न विपर्ययस्य दोषत्वम् । अत्र तूभयत्राप्येक एव विज्ञानपदार्थः परामृष्यत इत्यत्र तु विपर्ययो दोष एवेत्यर्थः । ननु विज्ञानपदस्य जीववाचकत्वे विज्ञा- नमानन्दं ब्रह्मेस्यत्र विज्ञानपदस्य ब्रह्मण्यौपचारिकत्वं स्यादतो नेदं साधीय इत्यत आहुः । * भगवतीत्यादि * । सर्वे शब्दाः प्रणववि- कृतित्वात्प्रणववाच्ये ब्रह्मणि स्वभावत एव वर्तन्ते । सर्वे वेदा य- स्पदमामनन्तीति श्रुतेश्च । अतस्तत्रौपचारिकत्वज्ञापकाभावान तथे- त्यदोष इत्यर्थः । नन्विदं विज्ञानमयपदस्य विकारार्थत्वानुपपस्यनुरो. धेनोक्तम् । सा तु नास्ति । छन्दसि सर्वेषां विधीनां वैकल्पिकत्वाभ्यु- पगमात् । नचात्र विकारप्रत्ययत्वे मानाभावः । तत्र श्रवादीनां मनोधागादिधर्माणां शिरआदित्वकल्पनाया एव मानत्वादित्यत आ- हुः। * यज्ञ इत्यादि * । सत्यमस्ति कल्पना, परन्तु न तस्या विकार- प्रत्यये मानत्वम् । श्लोके तस्य यज्ञकर्तृताया वक्तव्यत्वात् । श्रुत्यन्तरे च यजमानभागप्राशनप्रशंसायाम्, एतावान् वै यज्ञो यावान यज- मानभागों यज्ञो यजमानो यद्यजमानभागं प्राभाति यज्ञ एव यहं प्रतिष्ठापयतीति यज्ञस्वामित्वेन यजमानस्य यज्ञतायाः कल्पनाया उ- पदिष्टत्वायजमानधर्माणां श्रद्धादीनां शिरस्त्वादियशशिरप्रभृतिक- पत्वं कल्पनयोच्यते । पञ्चाग्निविद्यायां श्रद्धाहोमकथनात् तस्या य- शागतया तधर्मस्वम्। ऋतसत्ये प्रमीयमाणानुष्ठीयमानौ धौं। योग- धात्मचिन्तनसाधनत्वाद्योगशिखाद्युपनिषत्सु विहितत्वावधर्म एव।

७४२ समकाशे अणुभाष्ये । तस्माद विज्ञानमयो जीव एव । जडस्य स्वातन्त्र्याभावाम कर्तृत्वम् ॥ ३६॥ उपलब्धिवदनियमः ॥ ३७ ॥ ननु जीवस्य कर्तृत्वे हिताकरणादिदोषप्रसक्तिरितिचेत् । न । उपलब्धिवदनियमः । यथा चक्षुषेष्टमनिष्टं चोपलभते, एवमिान्द्र- यैः कर्म कुर्वनिष्टमनिष्टं वा प्राप्नोति ॥ ३७॥ महलाकोऽप्याधारतया योगयज्ञाङ्गम् । इदं च तृतीयाध्यायेन सङ्ग- तम् । अत इयं कल्पना यावाति नास्या विकारप्रत्ययसाधकत्व- मित्यर्थः । सिद्धमाहुः । * तस्मादित्यादि * । ननु भवत्ववं तथापि यज्ञादिकर्तृत्वं शरीरविशिष्टस्यैवेति बुद्धावेव कर्तृतायाः पर्यवसा- ममित्यत आहुः । * जडस्यस्यादि * । तथाच कर्तृलक्षणस्य बुद्धाव- घटमानत्वान्न बुखेः कर्तृत्वं, किन्तु जीवस्यैवेत्यर्थः ॥ ३६ ॥ उपलब्धिवदनियमः ॥ सूत्रमवतारयन्ति । * नन्वित्यादि । जीवस्य कर्तृत्वे स्वातन्त्र्यं प्राप्तम् । स्वतन्त्रत्वे च हितमेव स्वस्य कुर्यान स्वहितादि । हश्यते तु तदपि । अतो हिताकरणादिदोषप्रस- तिर्जीवकर्तृत्ववाधिकेति बुद्धेरेव कर्तृत्वमित्यर्थः । समाधि व्याकु- वन्ति । * नेत्यादि । सांस्यमते भोक्तृत्वस्याङ्गीकाराद् भोगस्य च सुखदुःखसाक्षात्कारात्मकत्वात् तत्र स्वातन्त्र्यं त्वस्य वक्तव्य- म् । तथा सति उपलब्धिरूपे कार्ये तत्करणभूतानि चक्षुरादीनि व्यापारयन् यथा चक्षुषा इष्टमनिष्टं चोपलभते, एवं क्रियारूपेऽपि कार्ये तत्करणानामिन्द्रियाणां व्यापारणादिन्द्रियैः कर्म कुर्वनिष्ठ- मनिई वाऽमोतीति समः समाधिरित्यर्थः। रामानुजाचार्यास्तु - यथा, नित्योपलब्धिसूत्रे आत्मनो विभुत्व उपलब्ध्यनियमो दोष उक्तस्तथात्र आत्मनोऽकर्तृत्वे प्रक- तेच कर्तृत्वे दोष उच्यते । यदि प्रकृतिरेव की स्यानात्मा, तदा तस्याः सर्षपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय २ अध्याये ३ पादः। शक्तिविपर्ययात् ॥ ३८॥ नन्वीश्वरवत् स्वार्थमन्यथा न कुर्यादितिचेत् ॥ शक्तिविपर्य- यात् ॥ तथा सामर्थ्याभावात् । इत एव दैवादहितमपि क- रोति ॥ ३८॥ समाध्यभावाच्च ॥ ३९ ॥ जीवस्य क्रियाज्ञानशक्ती योगेन सिद्धयतः । समाध्यभावा- छत्तयभाव इसर्थः । चकारात् तादृशमन्त्राभावोऽपि । स्युव था, न तु कस्यचित्।नच य आत्मा यत्सनिहितस्तस्य तदो- ग इति सन्निधानाद् व्यवस्था । आत्मनां विभुत्वाभ्युपगमेन सर्वेषां सन्निधानस्याविशिष्टत्वात् । अत एव नान्तःकरणादिनापि व्यव- खासिद्धिरित्याहुः । तदपि युक्तम् ॥ ३७ ॥ शक्तिविपर्ययात् ॥ सूत्रमवतारयन्ति । * नन्वित्यादि * । अ. यमर्थः । चक्षुषा अनिष्ठोपलब्धिर्या जायते सा न स्वप्रयत्नसम्पाया। प्रमाणवस्तुपरतन्त्रत्वेन देवाजायमानत्वात् । अतः कर्मजनितेष्टानि- टोपलब्धिहष्टान्तो न युक्तः । अतो यदि जीवः स्वतः कर्ता स्यात् त. दा स्वार्थमनिष्टं न कुर्यात् । यथा ईश्वरः स्वार्थमनिष्टं न करोति त- द्वत् । हश्यते च तत् । अतो न जीवः कर्तेति । अत्र समाधि व्याकु- र्वन्ति * तथेत्यादि * विपर्ययोऽभावः। तथाच शक्त्यभावादनिष्टकर- णम् । ईश्वर तु शक्तिरस्तीति न दृष्टान्तः । अतोऽनिष्टकरणं न सा- हजिककर्तृत्वबाधकमित्यर्थः ॥ ३८ ॥ समाध्यभावाञ्च ॥ शक्त्यभाष एव कुत इत्याकाङ्कायामेत- रसुत्रं प्रववृत इत्याशयेन विवृण्वन्ति । * जीवस्येत्यादि *। स्पष्ट- म् । ताहशमन्त्राभाव इति सामर्थ्यसाधकमन्त्राभावः । यथा भूमि भूम्ना द्यौर्वरिणेस्याहाशिषमेवैतामाशास्ते सर्पा वै जीर्यन्तोऽमन्यन्त स एतं कसीरः काईवेयो मन्त्रमपश्यत्ततो वे ते जीर्णास्तनूरपानते. ति । अत्र सांख्यास्तदनुसारिणो मायावादिप्रभृतयश्च जीवस्य बु. शिसवधादोपाधिकं कर्तृत्वमङ्गीकुर्वन्तः स्वाभाषिके जीवस्य कर्तृ- समकाशे अणुभाष्ये। नच सहजकर्तृत्वे अनिर्मोक्षः । पराधीनकर्तृत्व एवैतदिति । सांख्यस्य तन्मतानुसारिणो वान्यस्य भ्रम एव । कर्तृत्वे न मुक्तिरिति । नपुंसक एवमुच्यतेति बाबवत् । निरिन्द्रियस्यैव समाधिरिसपि । करणत्वेन बुद्धिवन केनापि त्वे यथा धढेरोण्यान निवृत्तिस्तथा जीवस्य कर्तृत्वान्न निवृत्तिः स्यात् । तदनिवृत्तौ च मोक्षोऽपि न स्यात् कर्तृत्वस्य दुःखरूपत्वा दित्याहुः । तद् दूषयन्ति * नचेत्यादि * । * पराधीनकर्तृत्व एवैत- दिति * । आध्यासिक एष कर्तृत्वे अनिर्मोक्षस्तस्यैव दुःखरूप- स्वात् । * ब्रह्मवदिति * । वैधये दृष्टान्तः । तथाच पराधीनक- र्तृत्ववादिनस्तवैवायं दोषो, नास्माकमित्यर्थः । ननु शुद्धबुद्धमुक्ता- त्मनः प्रतिपादनात् ताहशे आत्मनि मोक्षसिद्धिरभिमता । ताह. गारमप्रतिपादनं च म स्वाभाविके कर्तृत्वे अवकल्पते । अत उपाधि धर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकमिति बदतः प्रत्याहुः । * सांख्यस्येत्यादि *। * कर्तृत्वे नेति * । अत्र नेति भिन्नं पदम् । भ्रमत्वे हेतुः । * नपुंसक इत्यादि * । * नपुंसक इति * वातन्त्र्यादिसर्व- पुरुषधर्मशून्यः । * इति बाह्यवदिति * अयमभ्युपगमो बाह्यानामिव प्रमाणरहितः । तथाच प्रमाणराहित्यावस्य भ्रमत्वमित्यर्थः । अत्र हेतुस्तु मुक्तानामपि शुकसनत्कुमारादीनामुपदेशकर्तृत्वदर्शनम् । भूमविद्यायां, तस्य ह वा एतस्यवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राणा इत्यारभ्य, आत्मतः कर्माण्यात्मत एवेदं सर्वमित्यन्तेन पश्यस्य सङ्कल्पादीनामात्महेतुकत्वश्रावणं च बोध्यम् । यदुक्तं, स- माध्यभावश्च शास्त्रार्थवत्त्वेनैव परिहतो यथाप्राप्तमेव कर्तृत्वमादाय समाधिविधानादिति तद् दूषयन्ति । * निरिन्द्रियस्यैव समाधिरित्य- पीति * अध्यासशून्यतया इन्द्रियाभिमानरहितस्यैव समाधिर्मुख्य इस्यपि बोध्यमित्यर्थः । अत्रापि भूमविद्यास्थं वाक्यमेव हेतुः । ननु कैवल्यात पूर्व जीवन्मुक्तस्यापि लिङ्गसद्भावाद् बुद्धिसम्बन्धोऽस्त्ये- वेति कयं निरिन्द्रियत्वमत आहुः । * करणत्वेनेस्यादि * । तथाच बुद्धिसम्बन्धस्तु केवलस्य ब्रह्माभेदेऽप्यनिवार्यः। बुद्धः पारमार्थिके २ अध्याये ३ पादः। ७४५ दृष्यते । तस्माज्जीवस्य स्वाभाविकं कर्तृत्वम् । ध्यायतीव लेला- यतीवेसपि परधर्मानुकरणम् । अयमप्येको धर्मः। स्वाप्ययसम्पत्त्योर्ब्रह्मव्यपदेशं पुरस्कृस सर्वविप्लवं वदन्नु- पेक्ष्यः ॥ ३९॥ व्यावहारिके च सत्यत्वे विभुन आकाशस्येव सर्वसम्बन्धत्वात् । अध्यासस्तु नास्ति, येन सम्बध्येत । तस्माजीवस्य स्वाभाविकमेव कर्तृत्वमित्यर्थः । एवं मुक्तस्य स्वाभाविकं कर्तृत्वं प्रतिपाद्य संसा. रिणाऽप्याहुः । * ध्यायतीवेत्यादि * । तदुक्तमेकादशस्कन्धे द्वा- विशे, 'नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धिगु- णान् पश्यन्ननीहोऽथाप्यकार्यत'इति । गुणैर्भगवता वेति बोध्यम् । अत एवैकादशे द्वितीयाध्यायेपि योगीश्वरवाक्ये 'कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वाऽनुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तदि'त्यत्र कायाधुपाधितोऽन्य आत्माऽपि कर्तृत्वेनोक्तः । तस्मान शङ्कनलेश इति दिक् । यत्तु, ना- न्योऽतोऽस्ति, द्रष्टेत्यादिश्रुतेः परस्मादन्यो जीवो नाम कर्ता भोक्ता न विद्यते । आविद्यकत्वात् कर्तृत्वभोक्तृत्वयोरिति तत्राहुः । * स्वाप्ययेत्यादि * । उक्तं पुरस्कृत्य स्वाग्रहेण तथा कुर्वन्नुपक्ष्यः । अयमर्थः । उक्तश्रुतेर्जीवान्तर्यामिणोः शरीरशरीरिभावकथनोत्तर- मेव पाठेन तद्भदानिषेधकतया ताहशद्रष्टन्तरनिषेधपरत्वम् । यत्र हि द्वैतमिवेत्यस्या अपि समानप्रकरणे पश्यत्त्वादिकं प्रतिपाद्य वि- भक्तत्वनिषेधेनाविभागानुसन्धानदशायां द्वितीयस्य विभक्तत्वेन नि- विध्य सर्वस्यात्मभावबोधनपूर्वकमन्यदर्शननिषेधात् सजातीयदर्शन- परत्वं वा, न तु द्रष्टुत्वादिनिषेधनपरत्वम् । पश्यत्त्वादीनां विना- शेनाविनाशित्वबोधनपीडाप्रसङ्गात् । अतः स्वाग्रहेण तत् सर्व विप्लावयन्नुपेक्ष्य इत्यर्थः । एवञ्च यत्तैरुच्यते-विधिशास्त्र तु य- थाप्राप्तं कर्तृत्वमादाय कर्त्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति । कर्ता विज्ञानात्मपुरुष इत्याद्यपि शास्त्रमनुवादरूप- त्वाद् यथाप्राप्तमाविद्यकं कर्तृत्वमनुवदिष्यति । एतेन विहारोपादाने परिहते। तयोरप्यनुवादरूपत्वात् । यत् पुनः सन्ध्ये स्थाने परिवर्तन- ७४६ सपकाशे अणुभाष्ये । विहारः प्राणानामुपादानं चोक्तम् । तत्राप्यन्येषां प्राणानां विरमणं, न तु धियोऽपि । सधीः स्वप्नो भूत्वेमं लोकमतिक्रामतीति धीसम्ब- धश्रावणात् । उपादान यद्यपि करणे कर्मकरणविभक्तिनिर्देशस्त- थापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् । केवले कर्तृत्वासम्भ- घस्य दर्शितत्वात् । यथा लोके योधा युध्यन्ते, योधै राजा युध्यत इति तथात्रापि । किञ्चास्मिन्नुपादाने करणव्यापारोपरममात्रं वि- घक्षित, न स्वातन्त्र्यम् । कस्य चिदबुद्धिपूर्वकस्यापि स्वापे करण- व्यापारोपरमदर्शनात् । तस्मादात्मनः कर्तृत्वमुपाधिनिबन्धनमेवे- ति । तदपि फल्गु । सनत्कुमारादीनां चक्रमणादिदर्शनेन भूम- विद्यास्थवाक्येन च निरध्यासानामात्मत एव सर्वकार्यकर्तृत्वे सिद्ध तदनुसारेणान्यद्रष्टत्वान्यदर्शननिषेधकश्रुत्यर्थ उक्तरीत्योक्तयुक्तिभिश्च प्राञ्जले स्वाभाविककर्तृत्वनिषेधकप्रमाणाभावाद् विधिशास्त्रमनुवाद- कशास्त्रं विहारांपादानशास्त्रं च प्रतिपादयिष्यत्यनुवदिष्यति च । एपञ्च सन्ध्यं स्थाने, धियो विरमणाभावेऽपि न कश्चिद्दोषः । धीसा- हित्येपि तदानीं तस्या उपाधितागमकस्याभावात् । करणत्वेन स- म्बन्धस्यष्टत्वात् करणगतविभक्तिकोपाभावात् तदानुकूल्याच्च । योधहपान्तन धियः कर्तृत्वसाधनमात्मनस्तनिराकरणं चाप्यसङ्ग- तमेव । योधानां चतनत्वन करणानां चाचेतनत्वेन राक्षश्च प्रयोजक- त्वेनात्मनश्च प्रयोजककर्तृताया अप्यनुपगमेन दृष्टान्तदार्टान्तिक- धेषम्यात् । अतोऽस्मिन्नुपादाने जीवस्य स्वातन्त्र्यं ब्रह्मणाप्यभेद्य- मिति दिक् । यदपि विज्ञानपदस्य बुद्धी प्रसिद्धत्वान्मनोनन्तरपा- ठाश्च, विज्ञानं यज्ञं तनुत इत्यत्नापि बुद्धरेव कर्तृत्वमुच्यते । विज्ञानं देवाः सर्वं ब्रह्मज्येष्ठमुपासतं इति वाक्यशेषोऽपि बुद्धेरेव प्रथमजत्वं विषयीकरोति। ज्येष्ठ यस्य प्रथमजत्वरूपय॑ बुद्धी प्रसिद्धत्वात् । स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद् यज्ञ इति श्रुत्यन्तरे यज्ञस्य बा- ग्बुद्धिसाध्यत्वावधारणादित्युक्तम् । तदपि मन्दम् । प्रकरणापेक्षया प्रसिद्धदुर्बलत्वात् । विज्ञानमानन्दं ब्रह्मति ब्रह्मण्यपि प्रसिद्धस्तुल्य- त्वात् । योगरूढ्यपेक्षया केवलयांगस्यापि निर्बलत्वात् । श्रद्धा- दीनां शिरस्त्वादिकल्पनतात्पर्यस्य प्रागेवोक्तत्वात् । ज्येष्ठशब्दोऽपि ब्रह्मपदसमभिव्याहाराद् ब्रह्मण इव ज्येष्ठयं वक्ति । ब्रह्मज्येष्ठा वीर्या- णीत्यादिवत् । वाग्घुद्धयोरुत्तरोत्तरिक्रमस्तु बुद्धः करणत्वेऽपि तुल्यः ।

२ अध्याये ३ पादः। यथा च तक्षोभयथा ॥ ४० ननु कर्मकारिणां कर्तृत्वभोक्तृत्वभेदो दृश्यते तत् कर्तृत्वभो- क्तृत्वयोर्भेदो भविष्यतीतिचेत् । न । यथा तक्षा रथं निर्माय त- त्रारूढो विहरति, पीठं वा । स्वतो वा न व्याप्रियते वाश्यादिद्वा- रेण वा । चकारादन्येऽपि स्वार्थकारः। अन्यार्थमपि करोती- तिचेत् तथा प्रकृतेऽपि । सर्वहितार्थ प्रयतमानत्वात् । नच कर्तृत्व- मात्रं दुःखरूपम् । पयःपानादे. मुखरूपत्वात् । तथाच स्वार्थपरा- र्थकर्तृत्वं कारयितृत्वं च सिद्धम् ॥ ४० ॥ परात्तु तच्छ्रुतेः ॥ ४१ ॥ कर्तृत्वं ब्रह्मगतमेव । तत्सम्बन्धादेव जीवे कर्तृत्वं, तदंशत्वा- तस्मान्न किञ्चिदतत् ॥ ३९ ॥ यथा च तक्षोभयथा ॥ सूत्रमवतारयन्ति । * नन्वित्यादि । भेद इति * भिन्ननिष्ठत्वम् । सूत्रोक्तं समाधि व्याकुर्वन्ति । * न- त्यादि * । तथाच उक्तोऽभेदः प्रायिकी, न तु नियत इति न कर्म- करदृष्टान्तेन तयोभिन्ननिष्ठत्वसिद्धिरित्यर्थः । उभयर्थति पदं व्या- कर्तुमाहुः । * अन्यार्थमित्यादि * । पूर्वपक्षियोक्तमङ्गीकुर्वन्ति । * तथेत्यादि * / * प्रकृत इति * शास्त्रप्रणयने । तथाच व्याख्यातान् सर्वान् प्रकारान् क्रोडीक मयं दृष्टान्तो, न तु स्वताऽकर्ता, करण- द्वारव कर्तेत्यतावन्मात्रांशे । प्रमाणाभावादित्यर्थः । शंषमुनाना- र्थम् ॥ ४०॥ १४॥ परात्तु तच्छ्रुतेः॥ जीवे कर्तृत्वं स्वाभाविकमित्यवधारितम् । तत् किं जीवस्य स्वातन्त्र्येण, उत ब्रह्माधीनतयति विचारणीयम् । पुण्यः पुण्येनेति, एप उ एवेति विरुद्धश्रुतिद्वयदर्शनन सन्दहात् । तत्र ईश्वराधीनत्वे जीवस्य दुःखभोगासम्भवात् कर्मानादित्वस्य च कर्तृ- स्वाधीनत्वात् तदप्यनाद्येवेति स्वातन्त्र्येणैव कर्तुत्वमिति शङ्कायामिदं सूत्रमित्याशयेन सूत्रमुपन्यस्य व्याकुर्वन्ति । * कर्तृत्वमित्यादि * ७४८ सप्रकाशे अणुभाष्ये । दैश्वर्यादिवत् । न तु जडगतमिति । अतो, नान्योऽतोऽस्तीति सर्वकर्तृत्वं घटते । कुत एतत् ? । तच्छ्रुतेः। तस्यैव कर्तृत्वकारयि- र्तृत्वश्रवणात् । यमधो निनीषति तमसाधु कारयतीति । सर्वकर्ता सर्वभोक्ता सर्वनियन्तेति । सर्वरूपत्वान्न भगवति दोषः ॥४१॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिडावै- यादिभ्यः ॥ ४२ ॥ ब्रह्मगतमेव कर्तृत्वं ब्रह्मतादात्म्यादेव जीवे भासते। तादात्म्यं चांश- त्वान्नतु कार्यत्वात्। अत ऐश्वर्यादिकं यथा भगवत्कृपया पार्षदादिषु पुंस्त्वादिवत् प्रकटीभवद्भासते तथा कर्तृत्वमित्यपि । अत एव मु- क्तानां तत्तत्कार्यकर्तृत्वं श्रूयते, इमांल्लोकान् कामान्त्रीकामरूप्यनु- सञ्चरनित्यादि । यद्यपि ब्रह्मवादे जडेवयंशत्वमविशिष्टं, तथापि जडजीवयोः परस्परवैलक्षण्यार्थ तत् तत्र न भगवता प्रकटीक्रिय- ते। यथा पृथिव्यामेव गन्धो, न जलादिष्विति । अतो ब्रह्मधर्मस्यैव जीवे संक्रान्तत्वेन जीवस्य दर्शनादिकर्तृत्वान्नान्योऽतोऽस्ति द्रष्टेत्या- दिश्रुत्युक्तमन्यनिषेधेन ब्रह्मण एव दर्शनादिसर्वकार्यकर्तृत्वं घटते । सर्वकर्मेति श्रुतिरप्यसङ्कोचेन ब्रह्मणि सङ्गच्छते । एवञ्च, न कर्मावि- भागादिति सूत्रे यत् कर्मानादित्वमभ्युपगतं तदपि ब्रह्मधर्मत्वादेवांपप- अमित्यर्थःहितुं व्याकुर्वन्ति * तस्यैवेत्यादि * स विश्वकृत् स हि सर्वस्य कति । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुगिति, सर्वमिदं प्रशास्ति, अन्तःप्रविष्टः शास्ता जनानामित्यादिश्रुतिभिः सर्वभोक्ता सर्वनियन्तेति । कारयितृत्वश्रुतिस्तूक्तव । नन्वेवं सर्वकर्तृत्वाद्यङ्गी- कारे असमीचीनं प्रत्यपि ब्रह्मण एव कर्तृत्वात् क्लिष्टकर्मत्वाद्यापत्ति- रित्यत आहुः । * सर्वेत्यादि । तथाच, 'किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोषदृशिर्दोषो गुणस्तूभयवर्जित' इत्येकादशस्क- न्धे भगवदुक्तान्यायान्न दोष इत्यर्थः ॥४१॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः ॥ तुशब्द- २ अध्याये ३ पादः। ७५९ ननु वैषम्यनैपुण्ययोर्न परिहारः । अनादित्वेन स्वस्यैव का- रयितृत्वादितिपक्षं तुशब्दो निवारयति । प्रयत्नपर्यन्तं जीवकृसम् । अग्रे तस्याशक्यत्वात् स्वयमेव कारयति । यथा बालं पुत्रं यतमानं पदार्यगुणदोषौ वर्णयन्नपि तत्पयत्नाभिनिवेशं दृष्ट्वा तथैव कारय- ति । सर्वत्र तत्कारणत्वाय तदानीं फलदातृत्वे या इच्छा तामेवा- व्याख्यानमुखेन सूत्रमवतारयन्ति । * नन्वित्यादि * । पूर्व कर्मा- दित्वमीश्वरस्य तत्सापेक्षत्वं चाङ्गीकृत्य वैषम्यनैघृण्ययोः परिहारः कृतः। स तु न युज्यते । कर्मानादित्ववत् खस्य यत्कारयितृत्वं तस्याप्यनादित्वादित्यर्थः । समाधिं व्याकुर्वन्ति । * प्रयत्नेत्यादि । अयमर्थः । तैत्तिरीय आनन्दमयप्रशंसाप्रसङ्गे, अथातोऽनुप्रभा इ- त्यादिना अविद्वद्विदुषोः समानव ब्रह्मप्राप्तिरुत कश्चिद्भेद इति प्रश्न उत्तरत्वेन, सोऽकामयतेत्यादिना स्वस्यैव बहुभवनेनोश्चनीच- रूपेण सर्वसृष्टिमुक्त्वा तत्रानुप्रवेशेन स्वस्यैव, सच्च त्यचाभव- दित्यादिना अनेकविधं द्वैधीभावं चोक्त्वा, सत्यमभवदिति समाप्ती ब्रह्मरूपत्वं निगमयामास । तथा सति सर्वस्य ब्रह्मरूपत्वे अविशिष्टे- ऽपि मध्ये, स तपोतप्यतेत्यादिना तपोरूपस्यालोचनस्यापि सृष्टी कारणत्वेन कथनाद् यथाधिकारं तत्तत्फलं, तत्तदधिकारश्च नाना- विधस्तत्र कारणं, तस्यापि कारणं नानाविधः स्वभाव इति तत्र फलति । एवं सत्यालोचनानुसारेण वक्ष्यमाणप्रनाड्या प्रयत्नपर्यन्तं जीवकृत्यं, तदपेक्षःसन्, अग्रे बाह्यकृतावुपकरणबाहुल्यमपेक्षितं, तब जीवन केवलेन सम्पादयितुमशक्यमतस्तत्सम्पादनद्वारा स्वयमेव कारयति । तत्र दृष्टान्तो *यथा बालमित्यादि । एवं सति कार्यमा प्रति भगवानेव कारणमिति सर्वत्र तत्कारणत्वाय तदानी प्रयत्नोत्त. रकाले फलदातृत्वाभिव्यापिका या इच्छा आलोचनाकारान्तःपा- तिनी तामेव श्रुतिरनुवदति, उन्निनीषत्यधोनिनीषतीति । अतो गुण- दोषकथनपूर्वकं बालेच्छानुसारिसामग्रीसम्पादके पितरि यथा न दोषः, किन्तु बालस्वभावे, तथा ब्रह्मण्यपि न दोषः, किन्तु जीव एवेत्यर्थः । ननूक्तहष्टान्तन्यायेनैव कारयतीत्यत्र किं गमकमित्या- सप्रकाशे अणुभाष्ये । नुवदति । उन्निनीपति, अधो निनीपतीति । अन्यथा विहिनप्रति. पिद्धयायऱ्यांपत्तेः । अप्रामाणिकत्वं च । फलदाने कर्मापेक्षः । कर्मकारणे प्रयत्नापेक्षः। प्रयत्ने कामापेक्षः । कामे प्रवाहापेक्ष इति मर्यादारक्षार्थ वेदं चकार । ततो न ब्रह्मणि दोषगन्धोऽपि । न- चानीवरत्वम् । मर्यादामार्गस्य तथैव निर्माणात् । यत्रान्यथा स पुष्टिमध्य इति ॥ ४२ ॥ . काङ्क्षायां सूत्रोक्तं, विहितप्रतिषिद्धावयादिभ्य इति हेतुं विवृण्व- न्ति । * अन्यथेत्यादि * । यद्युक्तन्यायं विहाय केवलं जीवकृत- कर्मापेक्षः कारयतीत्येवाङ्गीक्रियते तदा विहितप्रतिषिद्धयोर्यागादि- ब्राह्मणहननादिरूपयोः कर्मणार्वैयर्थ्य स्यात् । पूर्वपूर्वयैव कर्मानुसर- णे ईश्वरस्य तदधीनतया तेषामेव प्राधान्यात्तत एव दुःखवदप्रार्थि- तस्य सुखस्यापि सिद्धः। आदिपदादप्रामाणिकत्वं च । इदं विहित- मिदं निषिद्धमिति बांधकस्य प्रमाणव्यापारस्य वैयर्थ्यात् । अतो विहितप्रतिषिद्धावैयर्थ्यप्रमाणव्यापारावैयर्थ्यप्रामाणिकापेक्षावत्कृत- प्रमाणानुसरणेभ्यो हेतुभ्य इदं ज्ञायते, यत् फलदाने कर्मापेक्ष इ- त्यादिमर्यादारक्षार्थ तज्ज्ञापकं स्वनिश्वासरूपं वेदं प्रकटीचकार । यथा लोके राज्यमर्यादारक्षकं नीतिशास्त्रम् । ततो, लोकवत्तु लीला- कैवल्यमिति न्यायेन जीवकृतप्रयत्नानुसरणान्न ब्रह्मणि वैषम्यादि- दोषगन्धः । नाप्यनीश्वरत्वम् । मर्यादामार्गस्य तादृशापेक्षावैशिष्टय. पूर्वकत्वेन स्वयमेव निर्माणादिति । नन्वयमपि न नियमः। अह्नया- पृतमिति, ते नाधीतश्रुतिगणा इत्यादिवाक्येषु तदनंपश्यैव गोकुल- स्थेभ्यः फलदानकथनाच्छ्तावपि, सुहृदः पुण्यकृत्यां द्विपन्तः पा- पकृत्यामिति कथनादित्यत आहुः । * यत्रेत्यादि * । तथाचेदमपि लोकवत्तु लीलेतिन्यायादेव समाहितम् । लोके राज्ञामपि कृपापात्रेषु तथा दर्शनादिति । विद्वन्मण्डने तु, स वै नैव रेम इति श्रुत्यनुसारेण, यती प्रयतन इतिधात्वर्थमादाय भगवत्कृतो यः क्रीडार्थमुद्यमः सोऽत्र प्रयत्नशब्दे गृहीतः । सिद्धान्तस्तूभयत्राप्येक एव । तेनात्रेदं सिद्धम् । फलदाने २ अध्याये ३ पादः। ७५१ अंशो नानाव्यपदेशादन्यथाचापि दाशकितवा- दिवमधीयत एके ॥ ४३ ॥ जीवस्य ब्रह्मसम्बन्धिरूपमुच्यते । जीवो नाम ब्रह्मणोंऽशः । कुतः । नानाव्यपदेशात् । सर्व एवात्मानो व्युच्चरन्ति कपूय- चरणा रमणीयचरणा इति च । भगवान् जीवकृतप्रयत्नापेक्षोऽपि न स्वातन्त्र्याधीयते । तथैवालाचि- तत्वात् । आलोचनानुसारेण विविधं फलं जीवेभ्यो ददपि, न वैप- म्यादिदोपभाग् भवति । सर्वरूपत्वात् । कर्मणामप्यनादित्वं भगवद्ध- मत्वात् । क्वचिन्मर्यादां भिनत्यपि । स्वतन्त्रत्वात् । तथोक्तं द्वितीय- स्कन्धसुबोधिन्याम् । यत्किञ्चिद् दृपणं त्वत्र दृष्यञ्चापि हरिःस्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रव शोभत इति ॥ ॥ ४२ ॥ १५ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ अधिकरणमवतारयन्ति * जीवस्येत्यादि * । स्वसम्बन्धि तु, शोऽत एवेति सूत्रे ज्ञानरूपत्ववोधनादुक्तम् । इदानीं यो यदंशः स तं भजदिति भजनयोग्यत्वं वक्तुं मतान्तरवद् अन्यत्वं परिहत्तुं मु- क्तिदशायां ब्रह्मत्वव्यपदेशस्य मुख्यवृत्तत्वे हेतुं बोधयितुं ब्रह्मानेक- त्वं च परिहत्तुं ब्रह्मसम्बन्धिरूपकथनार्थमिदमारभ्यत इत्यर्थः । सूत्रं विवृण्वन्ति । * जीवो नामेत्यादि * । * नानाव्यपदेशादिति * नानात्वेन व्यपदेशा नानाव्यपंदशस्तस्मात् । श्रुती बहुत्वसंख्यावि- शिष्टत्वेन कथनाद् ब्रह्मणः सकाशाद् विस्फुलिङ्गवद् विभागकथना- ञ्चत्यर्थः । विद्वन्मण्डने तु-नानाविधो व्यपदेशो नानाव्यपदेशः, क्वचिद् ब्रह्मत्वेन, क्वचिद्विभक्तत्वेन, क्वचिदज्ञत्वेन, क्वचिश्चिद्रपत्वेन, कचिदी- शितव्यत्वन, क्वचिदणुत्वेन, कचिद् व्यापकत्वेनत्येवंरूपः । अयमा- त्मा ब्रह्म सर्वानुभूः, सर्व एवात्मानो व्युश्चरन्ति, ज्ञाशो द्वावजावी. शानीशी, विज्ञानघन एवैतेश्यो भूतेभ्यः समुत्थाय. क्षरात्मानावीशते देव एकः, एपांडणुरात्मा चेतसा वेदितव्यः, तद्वज्जीवो नभोपम इत्या- .

७५२ सप्रकाशे अणुभाष्ये । ननु ब्रह्मणो निरवयवत्वात् कथं जीवस्यांशत्वमिति वाच्य- म् । न हि ब्रह्म निरंशं सांसमिति वा कचिल्लोके सिद्धम् । वेदै- कसमधिगम्यत्वात् । सा च श्रुतिर्यथोपपद्यते तथा तदनुल्लङ्घनेन वेदार्थज्ञानार्थ युक्तिर्वक्तव्या । सा चेत् स्वयं नावगता, तपो वि- धेयम् । अभिज्ञा वा प्रष्टव्या इति । न तु सर्वविप्लवः कर्त- व्य इति । तत्रैषा युक्तिः- विस्फुलिङ्गा इवानेहि जडजीवा विनिर्गताः । सर्वतःपाणिपादान्तात् सर्वतोऽशिशिरोमुखात् ॥ दिषु । तस्माद् ब्रह्मणोंऽश एव जीवः । न ह्येवं विरुद्धधर्माश्रयत्वं कार्यस्य सम्भवतीत्यादि व्याख्यातम् । अत्रकदेशिभिर्दर्शनान्तराभिमानिभिश्च कृतामाशङ्कनमनूध निषेधन्ति * ननु ब्रह्मण इत्यादि * । निषेधे हेतुं व्युत्पादयन्ति । * न हि ब्रह्मेत्यादि * । * युक्तिर्वक्तव्येति * । यथा न्यग्रोधफलमाहरे- त्यादिः । * तपो विधेयमिति * तपसा ब्रह्म विजिज्ञासस्वति श्रुतेः । * अभिज्ञा वा प्रष्टव्या इतीति * । विज्ञानार्थ स गुरुमेवाभिग- च्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्यादिश्रुतेः । इतिः * प्रकारे । एवं श्रीतेन प्रकारेण ब्रह्म ज्ञातव्यं, न त्वेकदेशमादाय सर्वश्रुतिविप्लवः कर्तव्यः । योऽन्यथा सन्तमात्मानमिति श्रुत्युक्तदोषप्रसङ्गादित्यर्थः । एवं हेतुकथनावश्यकत्वं व्युत्पाद्य श्रुतिसिद्धयुक्तिरूपमंशपक्षाङ्गी- कारे हंतुमाहुः । * तत्रेत्यादि* *जडजीवा विनिर्गता इति * । व्यु- उचरणश्रुतौ एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः स- र्वाणि भूतानीत्युक्त्वा, सर्व एवात्मानो व्युच्चरन्तीति कथनात् ते प- रस्परविलक्षणतया निर्गताः । * सर्वत इत्यादि * । श्वेताश्वतरे, वि- श्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्, सम्बाहु- भ्यां धमति सम्पतत्रैवाभूमी जनयन् देव एक इति, सर्वतःपा- णिपादं तत् सर्वतोऽक्षिशिरोमुखं, सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य २ अध्याये ३ पादः। ७५३ निरिन्द्रियात् स्वरूपेण तादृशादिति निश्चयः । सदंशेन जडाः पूर्व चिदंशेनेतरे आप ॥ अन्यधतिरोभावा मूलेच्छातोऽस्वतन्त्रिण इति ॥ ब्रह्मवादे अंशपक्ष एव । ननु अंशत्वे सजातीयत्वमायाति । श्रुसन्तरे पुनर्ब्रह्मदाशा ब्रह्ममे कितवा उत । अत्र सर्वस्यापि ब्रह्मविज्ञानेन विज्ञानप्रतिज्ञा- नाद् दाशादीनामपि ब्रह्मत्वं प्रतीयते । तत्कार्यत्व एव स्यादिति- तिष्ठति, सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितमिति श्रावणात तथा । एवं सृष्टिं कारणस्वरूपं चोक्त्वा जडजीववलक्षण्ये हेतुमा- हुः । * सदंशेनेत्यादि * । वैलक्षण्य क्रमे च विस्फुलिङ्गश्रुतिरेव प्रमाणमिति घेलक्षण्यरूपात कार्यादेवं कार्यविभागोऽनुमीयते । म इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवतामिति श्रु- त्यन्तरे तथा दर्शनात् । जडजीवयाविरुद्धधर्माधारत्वाभावे युक्ति- माहुः । * अन्येत्यादि * । अन्य आनन्दांशस्तस्य धर्मो विरुद्धधर्मा- श्रयत्वं तस्य तिरोभावो येषु तादृशाः । तत्र हेतुर्मूलंच्छा, प्रजायेये- तीच्छा ततः । * अखतन्त्रिण इति * । स्वतन्त्रो ब्रह्मभावस्तद्वन्तः स्वतन्त्रणस्तद्भिन्ना ब्राझेभ्यो देहादिभ्यो मुक्तभ्यो जीवभ्यश्च भिन्ना इत्यर्थः। तथाचैवंश्रुतौ लोकविरुद्धस्य सर्वतःपाणिपादत्वादेः श्राव- णेन ब्रह्मणि निरंशेऽपि लोकविरुद्धस्य सांशत्वस्य व्युच्चरणादिश्रुति- बलेनाङ्गीकर्तुं शक्यत्वाद् विरुद्धधर्माश्रयत्वं युक्तिरिति तया श्रुति- मूलकयुक्त्या ब्रह्मवादे अंशपक्ष एवाद्रियते । तं विहाय केवलं निष्क- लश्रुति पुरस्कृत्यौपचारिकांशत्वकल्पनया सर्वश्रुतिविप्लवो न कर्त्त- व्यः । ब्रह्मणो लोकविलक्षणत्वादित्यर्थः । अंशत्व एव किञ्चिदाशय सूत्रांशेन परिहरतीत्याशयेनाहुः । * नन्वित्यादि * | * अत्रेति * । अस्यां श्रुती । तत्कार्यत्व एव स्यादिति । तेषां ब्रह्मत्वं ब्रह्मकार्यत्व एव युज्येत, घटमृदोरिव दाशादिब्रह्मणो(जात्यस्य स्फुटत्वात् । तथा- च व्युच्चरणश्रुत्युक्तानां प्राणलोकादीनामिवात्मनामपि कार्यत्वमे- ९५

सप्रकाशे अणुभाष्ये।
चेन्न । अन्यथापि प्रकारान्तरेणापि एके शाखिनो दाशकितवादि.
त्वमधीयते शरीरत्वेन, अंशत्वेन च । स्वरूपतः कार्याभावेऽपि प्र-
कारभेदेन कार्यत्वात् । तथाच न साजासम् । आनन्दांशस्य ति-
रोहितत्वात् । धर्मान्तरेण तु साजासमिष्टमेव ॥ ४३ ॥
मन्त्रवर्णात् ॥ ४४ ॥
पुरुष एवेद सर्वमित्युक्त्वा, पादोऽस्य विश्वा भूतानीति
भूतानां जीवानां पादत्वं, पादेषु स्थितत्वेन वा अंशत्वमिति ॥४४॥
धाङ्गीकार्य, न त्वंशत्वमिति शङ्कार्थः। प्रकारान्तरं विवृण्वन्ति । *
एक इत्यादि * । स्यात् कार्यत्वं, यदि दाशादीननूध ब्रह्मत्वं विधी-
येत । विधीयते तु विपरीतम् । अतो ब्रह्मण एव शरीरत्वं तन्नि-
विष्टत्वं च । इम इत्यनेन सजीवानामेव देहानां परामर्शात् । तन्नि-
विष्टत्वं चांशद्वारेव सम्भवति यथा चन्द्रमसो जलादिषु चढेरयः-
पिण्डादिषु । अत एके शाखिनो ब्रह्मणो दाशकितवादित्वं शरीरत्वेन
अंशत्वेन चाधीयते । अतस्तदशानूधविधेयभावान्यथानुपपत्या अंश
एव जीवः। नच साजात्याभावा बाधक इति वाच्यम् । जीवस्य
स्वरूपतो जन्माभावेन कार्यत्वाभावेऽपि ब्रह्मणः सकाशाद् विभागे
शरीरप्रवंशतः प्रकारभेदेन कार्यत्वात् । तथाच स्थूलसूक्ष्मशरीरा-
भिमानान्न साजात्यम् । अभिमानश्चानन्दांशस्य तिरोहितत्वात् ।
सत्तिराधानस्य च तदर्थप्रयत्नानुमेयत्वात् । अतोऽपि न साजात्यम् ।
धर्मान्तरेण चित्स्वरूपनित्यत्वादिना तु साजात्यमिष्टमेव । सहस्रहशः
प्रभवन्ते सरूपा इति मुण्डके श्रावणात् । अतः साजात्याभावस्यान्य-
हेतुकत्वाद् वस्तुतः साजात्यस्य सत्त्वादेतच्छ्रुतिविचारेऽप्यंश एव
जीव इति परिहारग्रन्याशयः ॥ ४३ ॥
मन्त्रवर्णात् ॥ श्रुत्यन्तरसम्मतिं दर्शयितुं हेत्वन्तरं वदतीस्या-
शयं स्फुटीकुर्वन्ति । * पुरुष एवेत्यादि * । पुरुषसूक्तव्याख्याना
ऽध्याय, पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुरिति व्याख्यानात प-
मान्तरमाहुः । पादेवित्यादि * ॥४४॥

२ अध्याय ३ पादः। ७५५ अपि स्मर्यते ॥ ४५॥ वेदे स्वतन्त्रतया उपपाध वेदान्तरेऽपि तस्यार्थस्यानुस्मरणम् । ममैवांशो जीवलोके जीवभूतः सनातन इति ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ जीवस्यांशत्वे हस्तादिवत् तद्दुःखेन परस्यापि दुःखित्वं स्या- दितिचेन । एवं परो न भवति । एवामति प्रकारभेदः । द्विष्ठत्वेना- ऽनुभव इति यावत् । अन्यथा सर्वरूपत्वात् कुन एवं तबाह ॥ प्र- काशादिवत् ॥ नाग्नेहि तापो न हिमस्य तत् स्यादिति । अपि स्मर्यते ॥ अर्थस्तुस्फुटः ॥ ४५॥ प्रकाशादिवन्नवं परः ॥ एवं त्रिभिर्जीवस्यांशत्वं निर्धाया- शत्वे प्रामन् दोषान् परिहरतीत्याशयेन सूत्रं व्याकुर्वन्ति * जीव- स्यत्यादि * । * अंशत्वे हस्तादिवदिति * । हस्तादिवदंशत्व इत्य- न्वयः। परिहारं व्याकुर्वन्ति । * एवं पर इत्यादि * । अब, नैवं पर इति निषेधन प्रकारभेदो बोध्यते।तेन तद्धेतुभूतःप्रकारोपिभेदकत्वेन सूच्यते।तथाच यस्मात् परो जीववन्न तस्माजीववद् दुःखी नैतिातथा सत्येवमिति जीवनिष्ठःप्रकारभंद उच्यतेोस च दुःखे द्विष्टत्वेनानुभव- रूपास तु परस्यनास्ति,किन्तु प्रियत्वेनानुभवरूपः।अतः परोन्यथा|तत्र हेतुः * सर्वरूपत्वादिति । तथाच पूर्वसूत्रे यथा दाशकितवादिरूप.. थात्र दुःखरूपोऽपि । अतो दुःखे दुःखत्वेन भानरहितत्वात् परो नै- घमित्यर्थः । न हि खस्य स्वस्मिन्नप्रियत्वं भासते । ननु कुत एवम- वगम्यते, तबाह * प्रकाशादिवदिति * । यथा प्रकाशशैत्यादयां धर्मा नाग्निहिमादीनां दुःखद्विष्ठत्वबुद्धिजनकास्तथा दुःखमपि पर- स्य न दुःखजनकं, न वा द्विष्ठत्वानुभवजनकमित्यर्थः । वाक्यं तु प- कादशस्कन्धे भिक्षुगीतास्थम् । 'कालस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नर्हि तापो न हिमस्य तत् स्यात् क्रुद्धचेत कस्मै न परस्य द्वन्द्वमिति । तत्र परस्येतिपदस्यांशिन इत्ययों .

७५६ समकाशे अणुभाष्ये । प्रकाशग्रहणं धर्मत्वद्योतनाय । दुःखादयोपि ब्रह्मधर्मा इति । अतो द्वैतबुद्धया अंशस्यैव दुःखित्वं, न परस्य । अथवा प्रकाशः प्रकाश्यदोषेण यथा न दुष्टः । पापस्यापि तदंशत्वादिति ॥४६॥ स्मरन्ति च ॥ ४७ ॥ स्मरन्ति च ऋषयः । सर्वेऽपि ऋषयोंऽशिनो दुःखासम्बन्धमंशस्य दुःखसम्बन्ध स्मरन्ति । 'तत्र यः परमात्मा हि स नियो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसेति । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । एकस्तथा सर्वभूतान्तरात्मा योध्यः । दुःखादीनां ब्रह्मधर्मत्वमानन्दतिरोभावरूपत्वात् । आविर्भा- वतिरोभावी शक्ती वै मुरवैरिण इति वाक्येन तिरोभावस्य भगवद्ध- मत्वादिति । ननु तहग्न्यादिवदिति कुतो नोक्तं तत्राहुः । * प्रकाशे- त्यादि * तथाचाग्न्यादिवदित्युक्ते सामर्थ्य विशेषादेव प्रकारभेदो बुध्येत, न तु धर्मधर्मिभावात् । अतस्तद्बोधनार्थ तथा नोक्तमित्यर्थः । एतस्य दुरूहत्वेन क्लिष्टत्वात् पक्षान्तरमाहुः । * अथवेत्यादि * रूप- स्य प्रकाशांशत्वं तु, सूर्यश्चक्षुस्तथा रूपं ज्योतिषो न पृथग् भवेदिति द्वादशस्कन्धे उक्तम् । तथाच सौरः प्रकाशो रूपप्रकाशकः प्रकाश्यं रूपमपि तदंशस्तथापि तदोषेण यथा प्रकाशस्य न दुष्टत्वं तथा जीव- स्याभिमानादिदोषग्रासेऽपि न परस्य तद्दोषवत्वमित्यर्थः । क्वचित्तु पापस्यापि तदंशत्वादिति पाठः । तदा त्वादिपदेन सूत्रे पापं ग्राह्यम् । तथाच धर्मः स्तनोऽधर्मपथश्च पृष्ठ इति वाफ्यात् पापं विराजोंऽशः। तस्माद् यथा विराजो न दुःखं तद्वदित्यर्थो वाच्यः ॥ ४६॥ स्मरन्ति च ॥ स्मरन्ति च ऋषय इति प्रहणकम् । अग्रे व्या- ख्यानम् । * निर्गुण इति * प्राकृतसंसर्गशून्यः । एकस्तथेति श्रुतिस्तु कठवल्लीस्था । एतत्पूर्वार्द्ध तु, सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्य- ते चाक्षुषाह्यदोपैरिति । द्वितीया श्वेताश्वतरस्था। एतत्पूर्वार्द्ध द्वा. सुपर्णेत्यादि । तया विरुद्धधर्मवत्त्वं भेदश्च जीवपरमात्मनोः सिद्धय- २ अध्याये ३ पादः। ७५७ न लिप्यते लोकदुःखेन बाह्यः । चकारात्, तयोरन्यः पिप्पलं खा- द्वत्त्यनश्नन्नन्यो अभिचाकशीतीति ॥ ४७ ॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८॥ ननु जीवस्य भगवदंशत्वे विधिविषयत्वाभावात् कर्मसम्ब. न्धाभावेन कथं फलसम्बन्धः । जीवस्य च पुनरनेकदेहसम्बन्धात् कः शूद्रः, का भार्येति ज्ञानमप्यशक्यम् । अतः कर्ममार्गस्य व्या- कुलत्वात् कथं जीवस्यापि दुःखित्वामियाशा परिहरति । अनुज्ञापरिहारौ विधिनिषेधौ जीवस्य देहसम्बन्धाद् यो देहो यदा गृहीतस्तस्कृतौ । यथा शवाग्निश्चाण्डालभाण्डस्थमुदकं, तद्- घटादिश्च परिहियते । एवमुत्कृष्टं परिगृह्यते । तथा जीवेऽपि देह- ति । एवं सूत्रद्वयेन एको दोषः परिहृतः। पूर्वश्रुतौ चाक्षुषैरित्यस्य तत्तश्चक्षुःसम्बन्धिभिस्तिमिरादिभिरित्यर्थः ॥४७॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ पुनर्दोषान्तर- माशय परिहरतीत्याहुः * नम्वित्यादि * । अयमर्थः । कर्ता शा- स्त्रार्थवत्त्वादित्यत्र ब्रह्मण आप्तकामत्वेन फलानुपयोगाज्जडस्य च शानाद्यभावेन कर्मकरणस्याशक्यत्वाद् विधिनिषेधशास्त्रमनर्थक स्यादिति, तत्परिहारार्थ जीवस्य विधिनिषेधविषयतया कर्तृत्वम- ङ्गीकृतम् । अंशत्वे तद्विरुध्यते । भगवत इव जीवस्यापि तथात्वस्या. ऽवश्यवक्तव्यत्वेन कथं फलसम्बन्धः । तथाच विधिनिषेधवैयर्थ्यता- दवस्थ्यात् तत्सूत्रव्याघातः। किञ्च । शास्त्रस्य जीवाधिकारकस्वा. ज्जीवस्य चानेकदेहसम्बन्धात् को जीवः शूद्रः, का भार्येति हानम- प्यशक्यम् । तदक्षाने, ऋती भार्यामुपेयात्, न शूदाय मतिं दद्यादि- स्थाद्यनुशापरिहारविषयज्ञानाभावः । अतः कर्ममार्गस्य व्याकुलत्वाद् विहितनिषिद्धाव्यवस्थितौ कथं जीवस्यापि निषिद्धफलभूतं दुःखित्व- मिति द्वयमाशय परिहरतीति।परिहारं व्याकुर्वन्ति * अनुझेत्यादि * सत्यं जीवस्य यद्यपि भगवदंशत्वान स्वरूपतो विधिनिषेधविषयत्वं, सप्रकाशे अणुभाष्ये । सम्बन्धकृतः । सम्बन्धश्चाध्यासिको भगवत्कृतश्च । आध्यासिको हि ज्ञानान्निवर्तते । द्वितीयो भगवतैव । जीवन्मुक्तानामपि व्यवहार- दर्शनात् । श्रुतिस्तु भगवत्कृतसम्बन्धमेवाश्रियाग्निहोत्रादिकं विध- ते । अन्यथा विद्यां स्वज्ञानं च बोधयन्ती कर्माणि न विदध्यात्। शब्दज्ञानस्य पूर्वमेव सिद्धत्वात् । कथं सिद्धवद् यावज्जीवं विद- ध्यात् । न्यासोऽपि देहसम्बन्ध एव ॥४८॥ तथापि तत्तदेहसम्बन्धकृतमागन्तुकं तद् भवत्येव । यथाग्न्युदक. पृथिवीनां स्वतो विध्याद्यविषयत्वेऽपि शवादिसम्बन्धानिषेधविषय- त्वं, श्रोत्रियादिसम्बन्धाच विधिविषयत्वं, तद्वदस्यापि देहसम्ब- न्धाज्जाते तस्मिस्तत एव तत्फलसम्बन्धस्यापि सौकर्येण तयोरपि सार्थक्ये सति न शास्त्रार्थवत्त्वसूत्रन्याहतिर्न वा कर्ममार्गब्याकुल- ता। येन दुःखित्वाद्यनुपपत्तिरित्यर्थः । ननु देहसम्बन्धेन विधिषि- षयत्वे देहसम्बन्धस्यामानकृतत्वाच्छास्त्रस्याप्यज्ञाधिकारकत्वं सि- द्धयति । अज्ञानं च बुध्युपाधिकस्यैव, न तु खत इति शास्त्रार्थ- वत्त्वसूत्रव्याहतिर्न परिहृता भवतीत्याशङ्कायामाहुः । * सम्बन्धश्चे- स्यादि * । * स्वज्ञानमिति * । साङ्गो वेदोऽध्येयो शेयश्चेत्यादिभिः खार्थज्ञानम् । * पूर्वमेव सिद्धत्वादिति * अध्यापनाध्ययनविधियां कृतेऽध्ययने तत्काल एव सिद्धत्वात् । तथाच कामाधिकारको वि- धिविश्वासोपजननार्थोऽझाधिकारको भवतु नाम, यावज्जीवादिरू- पो निस्यविधिस्तु नाशाधिकारकः । अतो, न शास्त्रार्थवस्वध्याघात इत्यर्थः । ननु यावज्जीवविधिश्चेज्ञानिपरस्तदा, यदहरेव विरजेत्त- दहरेव प्रव्रजेदित्यादिसन्न्यासविधियय॑म् । अतो नेयं व्यवस्था युक्तत्यत आहुः । * म्यासोऽपीत्यादि * । तथाच जरामर्याग्निहोत्र- स्थ तत्रापि सम्भवान्न वैयर्थ्यम् । ये पुनब्रह्मभूता आदितः सा- धनसम्पत्त्या धा देहसम्बन्धं नानुसन्दधते, देवादपेतमुतदैववशादु. पेतमिति न्यायेन देहं धारयन्ति पूर्णा एव ज्ञानिनस्तेषां तु शुकादिवत् खत एव तत्र तत्र प्रवृत्तेन विधिनियतत्वम् । अत एव, यं प्रवजन्त- २ अध्याये ३ पादः। ७५९ असन्ततेश्याव्यतिकरः ॥ ४९ ॥ ननु देहस्यापि बाल्यकौमारादिभेदात् कथं कर्मकाले ब्राह्म- णत्वादि, जीवैक्यादितिचे देहान्तरेऽपि स्यादिति, तबाह देहान्तरे सन्ततिरपि नास्ति । बाल्यादिभेदे पुनः सन्ततिरेका । अतः सन्त- तिभेदान्न कर्मणां सायमिति ॥ ४९ ॥ अभास एव च ॥ ५० ॥ ननु सच्चिदानन्दस्य ब्रह्मणोंऽशः सच्चिदानन्द एव भवेदतः कथं प्रवाहे प्रवेशो भगवतश्च सर्वकार्याणि तत्राह । अभास एक मनुपेतमपेतकृत्यमिति, पञ्चषड्ढायना भा इति, स्वैरं चरन्ति मुन- योऽपि न नामाना इति योगेश्वरस्य भगवतो नाम्ना योऽपि निया- मक इत्यादीनि वाक्यानि, दत्तात्रेयस्य च मार्कण्डेयपुराणे स्वैराचर- णमिति सर्व सङ्गच्छते । अतो, न कोऽपि दोष इत्यर्थः ॥४८॥ असन्ततश्चाव्यतिकरः ॥ सूत्रमवतारयन्ति । *नन्वित्यादि । यदत्र देहसम्बन्धेन विधिनिषेधव्यवस्थापनं तदयुक्तम् । यस्मिञ्ज- म्मनि यो देहो गृहीतस्तस्य देहस्यापि नित्यप्रलयेन बाल्यकौमारा- दिभेदादाधानादिकर्मकाले तस्य देहस्याभावेन ब्राह्मणत्वादिकं कथं वक्तव्यम् । तदभावे च, वसन्ते ब्राह्मण आदधीत, न ब्राह्मणं हिंस्या- दित्यादिविधिनिषेधव्यवस्था दुरुपपादा । अतः कर्मव्याकुलत्वमस- माधेयम् । अथ जीवैक्यान्नानुपपत्तिरित्युच्यते चेत् तस्य देहान्तरे ऽपि तुल्यत्वात् तस्याप्याधानाधापत्तिरिति शङ्कायां समाधिमाहेत्य. र्थः । समाधि व्याकुर्वन्ति । * देहान्तरे इत्यादि * । अर्थस्तूत्तानः । तथाच देहसम्बन्धेन समाधौ न कोपि दोष इत्यर्थः ॥ ४९ ॥ आभास एव च ॥ पुन: किञ्चिदाशय परिहरतीत्याशयेन सूत्रमवतारयन्ति । * नन्वित्यादि * । * भगवतश्च सर्वकार्याणी- ति * अत्रापि कथमिति पदं सम्बध्यते । सर्वाणि जडरूपाणि का- योणि भगवत पवोपादेयानीत्यपि कथमित्यर्थः । कार्येऽप्यंशत्वस्य सत्त्वेन प्रसङ्गादेतदुक्तम् । समाधि व्याकुर्वन्ति । * आभास इ- ।

समकाशे अणुभाष्ये । जीवः।आनन्दांशस्य तिरोहितत्वात् । चकारादाकारस्याप्यभावः । न तु सर्वथा प्रतिबिम्बवन्मिथ्यात्वं जलचन्द्रवदिसेकस्यानेकत्वे दृष्टान्तः । तथा सखण्यासश्च स्वस्य न स्यात् । तत्र वृत्त्यादिदो- पप्रसङ्गश्च । अता न मिथ्यात्वरूप आभासोऽत्र विवक्षितः ॥५०॥ अदृष्टानियमात् ॥ ५१ ॥ ईशित्वाय नैयायिकाघभिमतं जीवरूपं निराकरोति । । । स्यादि * 1 * आकारस्यति * चतुर्भुजादिरूपस्य भगवदाकारस्य । तथाच यथाऽनाचारी ब्राह्मणी ब्राह्मणाभासः, सूत्रधारकत्वेऽपि ब्रा- ह्मण्याख्यदेवतायास्ततस्तिरोहितत्वात् तथा जीवोऽपि । एवं जडऽपि श्रेयम् । मायावादिभिर्हि जलसूर्यकादिवद् ब्रह्मप्रतिविम्बरूप आ- भासः स्वीक्रियते, तदसङ्गतत्वानिषेधन्ति । * न त्वित्यादि * । ननु प्रतिबिम्बत्वानङ्गीकारे, एकधा बहुधा चैव दृश्यते जलचन्द्रवदि- ति श्रौतहष्टान्तविरोध इत्यत आहुः । * जलेत्यादि * । इदं वाक्यं यावदात्मभाविसूत्रे विचारितमिति, न पुनरनूद्यते । नन्वस्य प्रति- बिम्बरूपत्वाङ्गीकारे को दोष इत्यतस्तमाहुः । * तथा सतीत्या- दि * । मिथ्याभूतस्याध्यासायोगात् तथेत्यर्थः । निबन्धोक्तानि दू- षणानि च स्मारयन्ति । - तत्रेत्यादि * । तत्र वृत्ते-सुपर्णाश्रुतेरपि विरुवयत इत्यादिकारिकासूक्तानि स्वयमेव व्युत्पादितानि च, त- प्रकाशे, तानि तानि चाऽऽधरणभङ्ग विद्वन्मण्डनविवरणे च मया सम्यग्विवेचितानीति तताऽवगन्तव्यानि । अनेन केवलसदंशस्फूर्ता- वाभासत्वम्। यथाऽनाचारिब्राह्मणे ब्राह्मणाऽऽभासत्वं देहादिभिन्नत्वेन चंतनात्मशाने बहूनां ब्रह्मधर्माणां भानात् प्रतिबिम्बत्वम् ।आनन्दांश- स्यापि स्फूर्ती तु त्रितयप्राकट्यान्मुक्तिदशायां तु ब्रह्मत्वमित्यपि बो- धितम् । * मिथ्यात्वरूप इति * | मिथ्यात्वं स्वरूपं यस्य ताहश इत्यर्थः ॥५०॥ अष्टानियमात् ॥ सुत्रप्रयोजनमाहुः । * ईशित्वायेत्यादि । ईशो नियामकोऽस्यान्योऽस्तीतीशितत्वायेत्यर्थः। ननु जीवस्य

२ अध्याये ३ पादः।
७६१
नानास्मानो व्यवस्थात इति भोगव्यवस्थया जीवनानात्वमङ्गीकृत-
म् । तत्रादृष्टस्य नियामकत्वं सन्मते सिद्धम् । देशान्तरवस्तूत्पत्त्य.
न्यथानुपपत्त्या व्यापकत्वं चाङ्गीकृतम् ।
एवश्व क्रियमाणे मूल एव कुठारः स्यात् । सर्वेषामेव जी-
वानामेकशरीरसम्बन्धात् कस्यादृष्टं तद् भवेत् । नच मिथ्याज्ञानेन
व्यवस्था । तत्रापि तथा । नचानुपपत्त्या परिकल्पनम् । श्रुसैवोप-
पत्तेः । एतेन विरोधाद् ऋषिप्रामाण्यमपि निराकृतम् ॥ ५१ ॥
ईश्वरनियम्यत्वं नैयायिकादिभिरप्यङ्गीक्रियत एवेति कुतस्तदर्थ त.
न्मतनिराकरणमित्याकाङ्क्षायां तत्र तदनुपपत्तिबोधनाय तन्मतमनु-
घदन्ति * नानेत्यादि *। * तति * भोगव्यवस्थायाम् । * सिद्ध-
मिति * । कार्यमा प्रति जीवाहएस्य कारणत्वाङ्गीकारात सिद्ध-
म् । * देशान्तरेत्यादि । सामग्रीसमवाने हिं कार्यमुत्पद्यते ।
तत्र सामग्रीमध्ये अष्टमपि प्रविष्टर्मितिं देशान्तरे यद्भोगार्थ यद-
स्तूत्पद्यते तत्र तदरष्टमवश्यं वक्तव्यम् । अदृष्टं चात्मसमवेतं गुण-
त्वात् । अतस्तत्रात्माभावे तद्वस्तूत्पत्त्यभाव इति तदन्यथानुपपत्त्या
तस्मिन् देशे तहष्टवदात्मसत्ताऽऽवश्यकीति तेषां व्यापकत्वमङ्गी-
कृतमित्यर्थः । एवमनूद्य दूषयन्ति । * एवश्चेत्यादि * । भोगव्यवस्थ-
यैतत्सर्वाङ्गीकारे जीवनानात्वव्यापकत्वसाधनहेतुभूतायां भोगव्य
वस्थायामेव तच्छेदकदूषणपात इत्यर्थः । अत्र हेतुमाहुः । * सर्वेषा-
मित्यादि * । * मिथ्या ज्ञानेनेति * शरीरेऽहमित्यभिमानेन । * त.
त्रापि तथेति * । सर्वेषामेकस्मिन् शरीरे सम्बन्धतौल्ये कथमेक-
स्यैवात्मनोऽहममेत्यभिमानः । * विरोधादिति * । श्रुतिविरोधात् ।
तथाचाभिमानकारणस्य निर्वक्तुमशक्यत्वे तेन शरीरेण तप्तदिन्द्रि-
येण तत्तन्मनसा कृतं कर्म सर्वेषां सम्बन्धतौल्यात सर्वकृतं सत्
सर्वेषामेव तद्भोजकाष्टं जनयत् सर्वेषां तद्वस्तुभोगाय स्यात् । एवं
सर्वत्रेति भोगव्यवस्खाभङ्गान तया जीवनानात्वव्यापकत्वयोः सि-
सिरित्यर्थः ॥५१॥

७६२ सपकाशे अणुमाये। अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥ ननु मनःममृतीनां नियामकत्वात् तेषामीश्वरेच्छया नियत- वान दोष इतिचेन । पूर्ववदेव दोषमसक्तिः । तादृशेश्वरकल्पना च पूर्वमेव निराकृता ॥ ५९॥ प्रदेशादितिचेन्नान्तर्भावात् ॥ ५३ ॥ आत्मनो विभुत्वेऽपि मदेशभेदेन व्यवस्था । आत्मनितादृशः प्रदेशविशेषोऽस्ति येन सर्वमुपपद्यत इति चेन्न । अन्यस्यापि प्रदे- शस्तत्रान्तर्भवति । तस्यैव वा देहस्य देशान्तरगमने पूर्वदेशस्य स. भमिसन्ध्यांदिवपि चैवम् । विलक्षणमनःसंयोगेनाइष्टव्य- वस्थामाशय परिहरतीत्याशयेन सूत्रमुपन्यस्य ज्याकुर्वन्ति । नन्वित्यादि * । ननु विलक्षणसंयोगोत्पादकानां मनःप्रभृतीनामभि- माननियामकत्वात् तेषां चेश्वरेच्छया नियतत्वान्नाष्टानियमदोष इति चेत्र । कुतः। अभिसन्धिः पूर्वोक्तोऽभिमानस्तस्थादिभूतानि कार- णानि तेष्वपि, एवं पूर्ववदेव विभूनामात्मनां विलक्षणमनःसंयो- गस्वापि तुल्यत्वानियमाऽसम्भवदोषप्रसक्तिः । नचेश्वरेच्छया स- माधानम् । निमित्तभूतेश्वरकल्पनायाः पूर्वमेव निराकृतत्वात् । अ- भ्युपगमेऽपि अनया प्रणाड्यास्यैवादृष्टमुत्पद्यतामिति घदयमेवं भुङ्- कामित्यत एवात्मवादेऽप्याकारेण तस्यास्तुल्यत्वान्न व्यापकान्मसि- चिरित्यर्थः । ५२॥ प्रदेशादितिचेन्नान्तर्भावात् ॥ आस्मनां विभुत्वेऽपि प्रदेशमे- दाङ्गीकारेण दोषसमाधिमाशय परिहरतीत्याहुः । * आत्मन इत्या- दि * । भम्यस्येवादि * । तथाच पूर्ववदेव दोषप्रसक्तिरित्यर्थः । * नन्वन्यस्य प्रदेशे स विशेषोनास्तीत्यदोष इत्यत आहुः । * तस्यै.

२ अध्याये ३ पादः। ७६३ तत्वाव सोंऽशोऽन्तर्भवेत् तिरोभवेदिति । ५३ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥२॥३॥ घेत्यादि ** सोश इति *विशेषत्वेनाङ्गीक्रियमाणो विशेषणांशः, देशान्तरे तस्य प्रदेशस्याभावात् तत आत्मनस्तिरोहितो भवेत् ततश्च तस्य भोगस्यासम्भव इति न प्रकृतसिद्धिरिवर्थः । शङ्कराचार्यमते जीवो ब्रह्मैव, उपाधिभेदादेव भेद इत्यंशत्व- मौपचारिकम् । तन्मतं तु प्रागेवासनिरस्तम् । किश । अविद्या- भ्रान्तं ब्रह्मैव जीव इति । यथा संक्षेपशारीरके । आश्रयत्वविषय- त्वभागिनी निर्विभागचितिरेव केवलति । कचिदविद्यावच्छिन्नं चै- तन्यं जीव इति । कचिदू अविद्यायां प्रतिबिम्बितं चैतन्यं वचिद् अन्तःकरणे प्रतिबिम्यतं, कचिअमुल्यादिसम्पर्काचन्द्रादिद्वैताभास- पदविद्यातो ब्रह्माप्यनेकवदाभासमानं द्विव्यादिसंख्यायोगि जीव- पदवाच्यमिति । ततश्याव्यवस्थादोषोऽपि । एते च सर्वेपि पक्षा वि- द्वन्मण्डने क्षिताः। मया च तट्टिप्पणे सम्यग्विवेचिता इति, नेह पुनर्दृप्यन्ते। भास्कराचार्यास्तु-सौत्रोऽन्तःशब्द उपाध्यवच्छिन्नस्यान- न्यभूतस्य वाचकः । तथाच यथा आकाशस्य पार्थिवाधिष्ठानावच्छि- कर्णच्छिदं, यथा च वायोः पञ्चवृत्तिः प्राणो, यथा च मनसः का- मादयो पतयस्तथा ब्रह्मणो जीवः । स च ब्रह्मणो भिन्नाभिन्नः । त. स्थाऽभिन्नत्वं स्वाभाविकं, भिन्नत्वमोपाधिकम् । निरषयवस्य ब्रह्म- गोशाङ्गीकारस्तु विस्फुलिङ्गष्टान्तभुनेरित्याहुः । तत्रांशत्वं तु युक्त भिन्नाभिन्नत्वं च । भौतत्वात् । भिन्नत्वस्यौपाधिकत्वं स्वसङ्गतम् । श्रौतहटान्सविरोधात् । पादोऽस्येति मन्त्रवर्णस्य च विरोधात् । म- न्त्रवर्णसूत्रविरोधात् । श्रुतौ पुराणेषु च धोत्रेन्द्रियस्य विम्मेवताका त्वेनातिरिक्तस्यैव सिद्धत्वात् तस्य चाभासत्वादरेण रशन्तस्या- प्ययुक्तत्वात् । प्राणमनोदृष्टान्तयोरप्यश्रीतत्वेन श्रौतहटान्तविरु खेन चायुक्तत्वादिति ।

७६४ समकाशे अणुभाष्ये। भिक्षुस्तु-पास्तवमेवांशत्वं भेदाभेदभुतिभ्यामुपगम्य भेदा- भेदावुभावपि खाभाविको मन्यते । तथाच यथा पितापुत्रयोरप्रि- विस्फुलिङ्गयोच विभागेनाभिव्यक्तिलक्षणः कार्यकारणभावस्तथा जीवब्रह्मणोरपीत्युपपद्यते। अभिव्यक्तिश्च स्वव्यापाराकढता । मय भेदाभेदी विरुद्धौ कथमेकत्र सम्भवेतामिति शङ्यम । अन्योन्या- भावलक्षणस्य भेदस्याविभागलक्षणेनाभेदेनाविरोधाद विभागावि- भागरूपयोर्भेदाभेदयोः कालभेदेन व्यवहारपरमार्थभेदेनाविरोधा- च । नचाध्यमभेदो गौण इति वाच्यम् । लवणं जलमभूत, दुग्धं जलमभूत, यत्र त्वस्य सर्वमात्मैवाभूत, आप एघेदमन आसुः, वा- युर्भूत्वा धूमो भवतीत्यादिलोकवेदयोः प्रयोगबाहुल्येन अविभाग- स्यापि मुख्याभेदत्वात् । भिदिर विदारण इत्यनुशासनाच्च । पर- मात्मा अगदूपी सर्वसाक्षी निरञ्जनः। भिन्नाभिन्नस्वरूपेण खितो. ऽसौ परमेश्वर' इत्यादिस्मृतिशतादपि भेदाभेदयोर्विरोधोप्रामाणि- क इति । ननु भवत्वेवं भेदाभेदयोरविरोधस्तथापि ब्रह्मणो निरवय- वत्वान्जीवस्य मुख्यं ब्रह्मांशत्वं न सम्भवतीतिचेन्न । अंशत्वं हिस- जातीयत्वे सति कदाचिदविभक्तत्वमेव वाच्यम् । अन्यथा पुत्रचेतने पितृचेतनांशव्यवहारानुपपत्तेः । विभागश्च लक्षणान्यत्वम् । अभि. व्यक्तधर्मभेद इति यावत् । ईदृशश्चांऽशो निरवयवस्यापि सम्भवती. त्यदोषः । यदि चावयवत्वमेवांशत्वमिष्यते तथापि सजातीयाविभ- तत्वगुणेनैव जीवेंशशब्दो गौणो युक्तो, म तु घटाकाशादिवत् प्र. कारान्तरेण गौणः । भेदग्राहकश्रुत्यादिबलेनाग्निविस्फुलिङ्गादिरष्टा- म्तानामेवादर्तव्यत्वादिति चाह । एतमर्थ मोक्षधर्मीयैवैशम्पायनवा- क्यैश्चीपष्टम्भयन् व्याससम्मतत्वमस्य हढीचकार । तदस्माकमपि सम्मतमेव । एतावान् परं विशेषो यदस्मत्सिद्धान्ते श्रुतीनामेव मु. ख्यत्वात् तयैव विरुद्धधर्माश्रयत्वं कर्तुमकर्तुमन्यथाकर्तुं समर्थत्व- मद्भुतकर्मत्वं महामहिमशालित्वं च निश्चित्य ब्रह्मसामर्थेनैव भेदा- ऽभेदाविरोधोऽखण्डत्वं, सांशत्वमन्यञ्च यदनुपपद्यमानं लौकिका- माणैस्तत् सर्व समर्थ्यते । अनेन तु युक्तिभिः समर्थ्यत इति । रामानुजाचार्यास्तु-बाशी द्वावजावीशानीशावित्यादिश्रुतेर- त्यन्तभिन्न इति माध्वमतम, उत परमेव ब्रह्माविद्यया भ्रान्तं जीवः, तस्वमसि, अयमात्मा ब्रह्मेत्यादिश्रुतेरिति शाङ्करमतम, अथवा ब्री- २ अध्याये ३ पादः। प्रकाशा- पानाधुपाध्यवच्छिन्नं जीवः, तत्त्वमस्यादिवाक्येभ्यः, उपाधिश्च सत्य इति भास्कर मतं चोपन्यस्य स्रष्टत्वसृज्यत्वनियन्तृत्वनियम्यत्वादि. रूपाबुभयथाव्यपदेशात् तत्त्वमस्यादावभेदेन व्यपदेशाच्च जीवोद्र- मणोंऽशः ।नच भेदव्यपदेशानां प्रसिद्धार्थत्वेनान्यथासिद्धत्वं शय- म् । ब्रह्मसृज्यत्वतनियम्यत्वतच्छरीरत्वादीनां प्रत्यक्षाचप्रसिद्धार्थानां कथनेन सिद्धस्य भेदस्यान्यथासिद्धताया वक्तुमशक्यत्वात् । अत एव जगत्सृष्टयादिवादिनीनामपि, न मिथ्यार्थोपदेशपरत्वमपीत्येवं पूर्व दू- षितमपि शाङ्करं भास्करं च मतं सरूपेण दूषयित्वा, ततः, दिवनैवं पर इति सूत्रे प्रकाशादिवजीवः परमात्मनोंऽशः। यथा भा- स्वतोऽग्न्यादेर्भावरूपः प्रकाशोऽशो भवति । यथा गवाश्वादीनां गो- त्वादिविशिष्टानां गोत्वादिकं विशेषणमंशः।यथा वा देहिनो देवमनु- प्यादेदेहोंशस्तद्वत् । अंशत्वं चैकवस्त्वेकदेशत्वम् । अतो विशिष्टस्यै- कस्य वस्तुनो विशेषणमंश एव । तथाच विवेचका विशिष्टे वस्तु- नि विशेषणांऽशोऽयं विशेष्यांऽशोऽयमिति व्यपदिशन्ति । विशेषण- विशेष्ययोरशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यत, एवं जीवपरयो- विशेषणविशेष्ययोरंशांशित्वं स्वभावभेदश्वोपपद्यते । तदिदमुच्यते । नैवं पर इति। एवञ्च जीवपरयोर्विशेषणविशष्यत्वकृतं स्वभाववैल- क्षण्यमादाय भेदनिर्देशाः प्रवर्तन्ते । अभेदनिर्देशास्तु पृथकस्थित्य- नहविशेषणानां विशेष्यपर्यन्तत्वमादाय मुख्यत्वेनोपपद्यन्त इति व्या- चक्रुः । शैवस्तु-मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्, अ. स्यावयवभूतेन व्याप्तं सर्वमिदं जगदितिश्वेताश्वतरश्रुतिमुपन्यस्य प्र- कृतिविशिषस्य ब्रह्मणोंऽशो जीव इत्याह । अंशत्वं च पूर्ववद् आह । अत्रापि सिद्धान्तादियान भेदः। एतैर्विशेषणविशेष्ययोर्भेदस्तयोः स्वभावभेदश्च नैसनिक एवाङ्गीक्रियते । सिद्धान्ते तु प्रजायेयेती- च्छाहेतुकः । नैसर्गिकपक्षेपि विरुद्धधर्माधारत्वात् सामर्थ्यादेव नै- कत्वादिविरोध इति शुद्धाद्वैत निरवद्यम् । अतो ये वादा यानि च दर्शनानि तानि सर्वाण्येतदेकदेशावलम्बीनीति बोध्यम् । माध्वास्तु-अंशान् द्विविधान् वदन्ति । केचिदभिन्नाः कर- चरणादिवत्, केचिद्भिन्नाः पुत्रादिवत् । तत्राधा मत्स्यावताराः । द्वितीया जीवाः।

सपकाशे अणुभाष्ये । वनमालिदासस्तु-तद्भित्रत्वे सति तत्सहशत्वमंशत्वम् । यथा चन्द्रमण्डलाच्छतांशो गुरुमण्डल इति भिन्नांशस्वरूपमाह । तेन प्राचीनमाध्वमते राश्येकदेशत्वमंशत्वं फलति । वनमा- लिमते तु सारश्याल्पत्वबोधनार्थत्वादौपचारिकर्मशत्वं फलति । प्रकाशादिवन्नैवं पर इति सूत्रव्याख्याने च, यथा तेजोऽशयोःकाला- निखद्योतयोर्जलांशयोरमृतसमुद्रसूत्रयोः पृथिव्यंशयोमरुपुरीषयो. स्तत्तदंशत्वाविशेषेऽपि यथा नैकप्रकारता, किन्तु सदसत्तया विवेक- स्तथा मत्स्यादीनां स्वरूपांशानां भिन्नांशानां जीवानां च । एव- श्वांशतुल्येऽपि कालाग्नितेजसोरभिमानिदेवतैक्यं खद्योत चाभिमा- निभेद इति तत्कृतं वैलक्षण्यमित्याहुः । अत्रेदमवधेयम् । सूत्रे, नैवं पर इत्यनेन यत्प्रकारको जीवस्त- प्रकारकत्वं परस्मिन्निषिध्यते प्रकाशादिष्टान्तेन । भवद्भिस्तु पर- स्वरूपविचारेण स्वरूपांशानां तथात्वं साध्यते । तत्तु सिद्धे परस्य तथात्वे अर्थादेव सेत्स्यतीत्यपार्थः प्रयासः । परस्य निर्दोषत्वं तु न भवदुदितरीत्या सिद्ध्यति । तेजोजलभुवां कालाग्न्यमृतसमुद्रमेरुणा- मेवैकाभिमानित्वं नान्यषामित्येवं विभागस्य पुराणादिष्वदर्शनात् । पृथिव्याः सर्वसहात्वेन दोषसम्बन्धस्य सिद्धतया दृष्टान्तस्य विरु- सत्यप्रसङ्गाच्च । तेषां स्वांशराश्यभिमानित्ववदीश्वरेऽपि जीवरा- श्यभिमानिन्वप्रसङ्गाच्च । अनभिमानित्वे तु भिन्नत्वस्य भवद्भिरे तो- पगतत्वादशत्वस्यैवासम्भवः। अथ राशिवदंशित्वं विभाव्यते तदातु तस्य साजात्यमात्रे पर्यवसानात् ततो मिन्नस्यैकदेशस्य दूषणे राशी दूषणसंसर्गस्य लोकेऽप्यभावात् परिहारस्यैव चैयर्थ्यम् । एवं पितृपु- प्रभावपि, पुत्रे काणे पितरि तदभावात् परिहारवैयर्थ्यमव । नच तद्बोधकश्रुत्याउनुपपत्तिः । अस्मद्रीत्यापि तदुपपत्तेः । किश्चैवं नैम- निके भंद अवान्तरसृष्टाविवादिसष्टावपि पूर्वमीश्वरे जीवानां पिण्डी- भाव एव वाच्यो, न त्वैक्यम् । तथा सति तेषां भिन्नत्वेन, बहु स्यांनामरूपे व्याकरवाणीत्याधुक्तं स्वस्य बहुभवनं नामरूपव्याकर्तृ- त्वमुत्तमपुरुषप्रयोगश्चोपरुद्धचेत । अभिमानित्व जीवतौल्यं चाप- चंतति । प्रकृतमनुसरामः॥स्मृती सूत्रे चांशशब्द उक्तः, श्रुतौ च पादशब्दः । उभावप्यनेकार्थत्वात् सन्दिग्धौ । अंशशब्दस्तावदवयवे पुत्र खण्डे २ अध्याये ३ पादः। विशिष्टवस्त्वेकदेशे राश्येकदेशे च प्रसिखः । श्रुतौ तु पत्न्यामपि परंपरया, अर्को वा एष आत्मनो यत् पत्मीरिति । स आरमानमेव छैधाऽपातयत् ततः पतिश्च परनी चाभवतां तदेतदवृगलमिवेति तस्या अर्द्धत्वकथनादीशब्दस्य च कोशे पुंस्य?ई समेंऽशक इ. त्यं विशेषे शक्तः पादशब्दोऽप्यवयव एकदेशे च । अवयवे तु प्र. सिद्धः । एकदेशे तु विश्वो वैश्वानरः प्रथमः पाद इति । यद्यप्येतेषु यस्य कस्याप्यर्थस्य ग्रहणे लक्षणादोषसंसगों न भवति, तथापि शु. तापूर्णनाभतन्त्वोरग्निविस्फुलिङ्गयोश्च रष्टान्तकथनात् तदनुकूल ए- धांशांशिभायो ग्राह्यः । तथा सति खण्डावयवादिरूपस्तनित्यत्वादि- बांधकश्रुत्यनुरोधादविकृतस्वरूप एवांशः सिद्ध्यति, न नित्यभिन्नः केवलविशेषणरूपो था । प्रलयदशायामविभागेन पिण्डीभाव एंक्ये पा श्लिष्टत्वेनैव सत्वात् तदालिङ्गितस्य ब्रह्मणः स्वस्मिन्नहमितर- भिन्न इति प्रतीतेरसिद्धत्वात् सृष्टिप्राकाले बहु स्यामित्येकत्वबु- छिपूर्वकस्य सङ्कल्पस्य पीडाप्रसङ्गात् । तस्या एकत्वबुझेभ्रमत्व- प्रसङ्गेन महोपप्लवप्रसङ्गाच्च । अस्मत्पक्षे तु मोक्षेऽपि चरण एयै- क्यम् । चैद्ये च सात्त्वतपतश्चरणं प्रविष्ट इत्यादिवाक्यात् । अतो- ऽशांशिभावः स्वामिसेवकभावो, यो यदंशः स तं भजेत्, नाऽरुद्रो रुद्रमर्चयेदित्यादिवाक्यान्यैक्यं चेति सर्व प्राञ्जलमुपपद्यते । एवं जीवानामंशत्वे जीवस्वरूपविचारेण नानात्मवादो, भगवत्स्वरूप. विचारेण चैकात्मवाद इत्यपि प्राञ्जलमेव सिद्ध्यति । हस्तपादादीनां परस्परभेदपुरुषाभेदयो केपि दर्शनात् । एवञ्च मुक्ती जीवानां भ- गवदैक्येऽपि तेषां तत्तदङ्गेष्वेव प्रवशा दसहिष्णुरेवाभेदः। भगव- नियम्यता च प्राञ्जलैव । यथा हस्तादीनां तत्तनामकत्वं, तद्वजीवा- नामंशानां जीवनामकत्वमात्मनामकत्वं च निर्बाधम् । स्वगतद्वैतं तु न दोषाय । भेदसहिष्णोरेवाभेदस्य सिद्धान्तेऽङ्गीकारात् । अत एव श्रीवसुदेवभगवत्संवादेऽपि, आत्मा होकः स्वयं ज्योतिरिति लोके नानास्वदृष्टरोपाधिकत्वेन भ्रान्तत्वं निरूप्य स्वजीवस्वरूपयोर्विचा- रणकात्म्यं बोधयता भगवता, 'खं वायुज्योतिरापो भूस्तस्कृतेषु य- थाशयम् । आविस्तारोऽल्पभूर्यको नानात्वं यात्यसावपीति श्लोके खादिपञ्चमहाभूतहष्टान्तेनैकात्म्येऽपि नानात्वस्य वास्तवत्वमुपाधि- ध्यङ्गयत्वं च घोधितम् । अन्यथा पूर्वश्लोके एव नानास्वदृष्टे- -

७६८
सप्रकाशे अणुभाष्ये ।
र्गुणोपाधित्वेन भ्रान्तत्वे बोधिते तत एव नानात्वस्य निवृत्तत्वात
खादिपञ्चमहाभूतदृष्टान्तेन नानात्वं न स्थापयेत् । केवलाकाशहष्टा-
म्तेनापि घटाकाशमहाकाशवदेकत्वस्यौपाधिकनानात्वस्य च सि-
खौ सांशानि भूतानि भूतान्तराणि न दृष्टान्तीकुर्यात् । अतोऽशत्वेन
नानात्वस्य विद्यमानत्वात् परापरभावघटित एवैकात्म्यवादो भग-
वदभिमत इति सिद्ध्यति । तेन परममुक्तिदशायामक्याभिव्यक्ता-
वपि पुरुषस्य स्वाङ्गोष्विव भगवतो जीवेषु नियम्यता न विरुद्धयते ।
मनु परममुक्तेश्वर्यादिवत्त्वे सिद्ध नियम्यतया किं वा कार्यमि-
ति शमयम् । स्वस्य मुक्तोपसृप्यत्वात् स्वसंवास्वप्राकट्यच्छायां स्व-
सेवार्थ खेन सह तत्प्राकट्यमित्यादि बोध्यम् । नचैवं सति नाना-
त्वनिन्दाबोधकश्रुतिविरोधः शयः । तत्र हि प्राणस्य प्राणमुत
चक्षुषश्चक्षुरित्युपक्रम्य सर्वाधिदविकत्वं वदन्, नेह नानास्ति किञ्च-
नेति स्वरूप नानात्वं निषधात । तेन यथा जीवे प्राणादयो भिन्नाः
स्वयं जीवस्तभ्यो भिन्न इत्येवं नानात्वं, न तथा ब्रह्मणि, किन्तु स-
धिदैविकत्वातू, प्राणनव प्राणी भवतीत्यादिश्रुत्युक्तं प्राणादिका-
ये स्वयं स्वरूपणव कुर्वन्नाना नति नानात्वं निषिद्धय तादृशे यः प्रा-
णादिनानात्वं पश्यति तस्य निन्दा क्रियते । तन भ्रान्तप्रतिपन्ननाना-
त्वस्य दर्शन एव निन्दापर्यवसानं, न तु कार्यभेदन प्राप्ते तस्मिन्
प्राणन्नेव प्राणो भवतीति श्रुत्यैव नानात्वस्याङ्गीकारात् । यथैकः
पुरुषो पाचनपाठनार्दानि नानाकार्याणि कुर्वन्नाना न भवतीति तद्वद्
ब्रह्मापीत्यदोषात् । एतेनैव, न ह्यस्ति द्वसिद्धिरात्मैव सिद्धोद्विती
यो मायया ह्यन्यदिवेत्युत्तरतापनीयोक्तं समर्थितं शेयम् । अशांशि-
भावेनैव नानाकार्यकरणऽपि स्वरूपैक्यानपायात् । इदं च मत्कृतनृ-
सिंहतापनीव्याख्यानादेवावगन्तव्यमिति नह प्रपञ्च्यते । नच, यदा
होवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवतीति श्रुतिवि-
रोधः । अत्र भेददर्शने दोषस्यानुक्तत्वात, कुरुते इति पदेन तथा
निश्चयात् । क्रियासाध्यस्य तस्य भंदस्यापमानादिकरणे एव स-
म्भवात् । तस्मादयमेव पक्षो निर्दष्ट इति ॥ ५३ ॥ १६ ॥
इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य
पुरुषोत्तमस्य कृती भाष्यप्रकाशे द्वितीयाध्यायस्य
तृबीयः पादः ॥२॥३॥

बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली । ३० आ. . १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्य ऽपि विद्वांसः शोधयन्ति । या- हकमहाशयरियं पुस्तकावली नियमेनाविच्छंदेन संग्राह्या तैस्तदे- फैकस्य खण्डस्य ॥) मूल्यं प्रापणव्ययश्च =) दयः । अन्यम- हाशययः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक स्त्रण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रह अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्पिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाप्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ । द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभापावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नष्कर्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाष्यम् ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत्) वैयाकरणभूपणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ तत्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख०८ वेदान्तदीपः (श्री भगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ५ ૨ २ . . . OCAWAN ० ७ . २ ३ पातअलदशनमाश्रीरामानंन्दयतिकृतमणिप्रभाऽऽख्यवृर्ति स०१ व्याकरणमिताक्षरा । श्रीमदनभट्टप्रणीता खण्डानि रसमञ्जरी । व्यङ्गन्यायकोमुधा प्रकाशेन च सहिता ख० ३ ३ भेदधिक्कारः व्याख्यासहितः श्रीमदप्पयदीक्षितकृत उपक्रमप. राक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिष्यदिवाकरकृतटीकया स०ख०१० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ २ दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम् । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाष्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि ८. तत्त्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः । तथा-तत्त्वत्रयचुलुक. संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः । प्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस मिल

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shriimadand-ubhaashhyama Faskiikyulasa~ 8

Author
Vallabhaachaara~yaa Shriishrii
Title
Shriimadand-ubhaashhyama Faskiikyulasa~ 8
File name
Shriimadand-ubhaashhyama Faskiikyulasa~ 8
Text
OCR done
Citation
1945
Published
2005-11-29
Publisher
Vidyaa Vilaasa Presa~
Language
Sanskrit
Pages
109
Classification
Religion. Theology
DLI number
369695
Barcode
2030020016510.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
fdtR6M2QpjT
Download PDF

Shriimadand-ubhaashhyama Faskiikyulasa~ 8