University Library,gurukul Kangri Vishwavidyalaya
चारुचरितावली
Front matter
* श्रोम *
चारुचरितावली
तदस्थाम
सचित्रम्
धर्मसंस्थापकसप्तकम्
* प्रथमं प्रकरणम् *
पितृपादानां श्रीभवानीप्रसादानाम्
असीमसाहाय्येन सहोद्योगन च
तच्छिष्येसा
बिजनौर जिलान्तर्गतहल्दोग्ग्रामवास्तव्येन
काव्यतीर्थोपाधिकेन श्रीसिद्धगोपालेन
प्रणीतं प्रकाशितश्च
श्रीजगदीशदत्तश्रोत्रियप्रबंधन
विजनौरस्थदीनबधुमुद्रणालये मुद्रितम
प्रथमावृत्ती । १६७७ धैक्रमाब्दे ।
} ११ खामाद । समयमात्रम्
Soc
१०००
Sams
६५2503]
2030hngaroo
40020200%eoescoo.
P0000000000sonanreono OnODOOD20GOL
M
0000000000000000
podoot फर1.000
* ओ३म् *
चारुचरितावली
-ron02820300.00
ORSE
तस्याम्
सचित्रम्
धर्मसंस्थापकसप्तकम्
* प्रथमं प्रकरणम् *
पितृपादानां श्रीभवानीप्रसादानाम्
असीमसाहाय्येन सहोद्योगन च
नच्छिष्यमा
बिजनौजिलान्तर्गतहल्दौरग्रामवास्तव्येन
काव्यतीर्थोपाधिकेन श्रीसिद्धगापालेन
प्रणीतं प्रकाशिनश्च
श्रीजगदीशदत्तश्रोत्रियप्रबंधन
बिजनौरस्थदीनबंधुमुद्रणालये मुद्रितम
10000००००००००००००००
प्रथमावृनौ । १९७७ वैक्रमाब्दे । मूल्यम
१००० १०१ खीष्टाब्दे । रूप्यकमात्रम
POOR
040.
100000 OMG550AOOKGod समर्पणमा SSOSAG७ Gyaav660 श्रीकांगड़ीगुरुकुलविश्वविद्यालय- संस्थापकस्य सुरवाणीप्रसारे कृतमहोद्योगस्य श्रीश्रद्धानन्दस्वामिनः करकमलयो लघुप्रबंधोऽयं विनीतेन लेखकेन सप्रश्रयं समयते स J
विषय-सूची
विषयनाम
पृष्ठाङ्काः चित्रम्
""क-द
१-२४.१
"२५-६२१
“६३-६८"१
पूर्वाभाषणम्"
महात्मा बुद्धदेवः
श्रीशङ्कराचार्यः
ख्रीष्टयीशुमभुः
मोहम्मदमहोदयः
श्रीकबीरदासः
गुरुनानकदेवः
श्रीमदयानन्दसरस्वती
88-११८
११६-१२८..."१
१२६-१३८......१
१३६-१६३"""१
asafe:5I0RSIT haddhist-Sasasthesis: USEFE पूर्वाभापणम् SSSS-1985-85Resces Ef नानाशास्त्र अगण्यगुणागारं सर्वगौरवास्पद या गीर्वाणवाणी घेद- ब्राह्मणोपनिषदर्शनस्मृतिपुराणेतिहासकाव्यादिषु विविधाभि- नघमनोहरच्छविभिः सहृदयानां मनांस्यावर्जयन्ती, ज्ञानविज्ञानकलासाहित्यः समस्तसंसार बोधरश्मीन् प्रसार. यन्ती, भिन्नभिन्नभाषारूपान्तरैः सर्वमानवनिवहे वाक्सामर्थ्य: मर्पयन्ती, जाहोमसंस्कारायखिलकर्मकाण्डेषु व्यवहृतास्मत्स- कलधर्मकार्याणि संसाधयन्ती, व्यापकतया स्थिरतया सर्व- भावप्रदर्शनशक्त्या च सर्वदेशीयेषु मनुष्येषु विचारविनिमय- संबंध स्थापयन्ती,धष्ठिाप्यजरा, पुराण्यप्यभिनवा, सावन्ता- प्यनन्ता सर्व लोकानुर जनसमर्था, सर्वोपकारक्षमा, जग- मान्या, स्मरणातोतसमयाजगतीतले विराजते । यस्यांपुरुषो. तमस्य निःश्वसिता अपौरुषेयाः वेदाःप्रादुरभवन् , यस्यांब्रा- ह्मणोपनिषत्कागाधानाराशतीप्रभृतिवैदिकप्ताहित्यजातस्या- दिम धर्मस्रोतोवसुधापामसुत्र वत्, यस्यां कपिलकणादगौतम पतजलि जैमिनिवादरायणादयो दीर्घदर्शिनो दार्शनिका प्रात्म . x“अनन्ता वै धातव" इति वैयाकरणाः ।
(ख) तत्वविचारं सूत्रयामासुः, यस्यां स्पशोकमपि श्लोकं कृतवत आदिकवेल्मीकेगदिकविता रामायणामृतमवर्षत्, यस्या गुरुत्वान्महत्वाच्च पञ्चमोवेदः श्रीकृष्णद्वैगायनस्य महाभारतं भारतं भारतमकरोत् , यस्यां योगिराजयादवेन्द्रानन्दकन्द- नन्दनन्दन श्रीकृष्णस्य कर्मयोगायोगा श्रीमद्भगवद्गीता गीता, यस्यां कविकुलगुरुः कालिदासो रम्याणि रूपकाणि कमनी. यानि काव्यानि च कृत्वा भारतं वर्ष प्रमोदवर्ष व्यधात्, यस्यां भासभारविभवभूतिप्रभृतयो बहवः सिद्धसारस्वता वाणीवर- पुत्राः सुधासारनिष्यन्दिनीः कवितामंदाकिनी: प्रवाहयामानुः, यस्यां धन्वन्तरिसुश्रुतचरकवाग्भहारीताश्चिकित्साशास्त्राणि, पाराशरगर्गाभवराहमिहिरभास्कराज्यौतिषतन्त्राणि, अन्ये चावार्या विविधविद्याप्रबंधरत्नानि प्रणिन्युः; सा सुरभारती सांप्रतमपि सर्वातिशाधि प्राक्तनसाहित्यसंदोहं धारयन्ती नावुना तथा नित्यं प्रत्युपचीयमानावया श्रियं पुष्णाति यथा पञ्चताद्विक्रमशतकात्पूर्वम् । तत्समयं यावद्यथा साहित्यसे. विनो नवनवान् नाना विषयाधिकृत्य ग्रन्यान् जग्रन्थु तथा पश्चात्तनाः। श्रतिनिर्मलो विशालोऽपि जलाशयो निरुद्धनवप्रवाहागम श्राविलो विरसश्च भवति । "क्षणे क्षणे यन्नवतामुपैति, तदेव रूपं रमणीयतायाः।"
(ग) इति मात्रमहाफः सूके वनयोन्मेषशाली पदार्थों रम्यः प्रतीयते । विक्रमस्य पञ्चमशतकाचं नवनवविषयाणां प्रवाहः संस्कृतसाहित्यसरोवरे प्रायो रुद्ध एव । संसारे पण्डितानां प्रतिभा आविष्कारकाणाचाविष्कारिणी मतिर्न कदापि कुण्ठिता निगडिता च तिष्ठति, सा सततं कार्यकारणनिरीक्षण नाभिनवानि तत्वान्युद्घाटयति, महाशक्ति शालिनां महाभूतानां भूतियोगाच्च विस्मयाघहं नयनयं वस्तुजानमाविष्करोति । पञ्चदशचक्रमशतकात्परं तत्त्वज्ञैः समाजशास्त्रलं यत्तिशास्त्रमाणिशास्त्रवनस्पतिशास्त्राभिजननशा- स्नाद्यनेकानि शास्त्राणि पुरातत्वविज्ञानभाषातारतम्यविज्ञान कीटाणुविज्ञान दिवहुविज्ञान.नि रसायनभौतिकीवैद्युत्प्रभृतयो विविधा विद्याश्च प्राकाश्यन्त, रयलशकटीधूम्रपोतपादचकि- का विमानादीनि यानानि विद्युदायिहच्छायाचित्रणाक्षरमुद्रण स्वनग्राहादानि यन्त्राणि मतिमद्भिराविष्कारकैजुधायामावि. १ २ ३ ४ ६ ७ ६ १० १२ १६ 1 Sociology. 2 Economics. 3 Biology. + Botany. 5 Eugenics. 6 Archaeology. 7 Philology. 8 Bacteriolo. gy. 9 Chemistry. 10 Physics. 11 Electricity. 12 Railway. 13 Steamers. 14 Bicycle. 15 Aeroplane. 16 Teligraph. 17 Photographie & Printing Press. 19 Phuno. grupla.
(घ) कृतानि । एगिरतविस्तीर्ण भूमण्डलं पुररूपेणकत्र संकाचमि- वावापत् । येषां पातालाविदूरस्थभूभागानां नामान्यपि भारताया भारतयुद्धादूचं व्यस्मरन्, ते द्यप्राचुर्येण पर्यः पन्ते। न चापि भूतलस्य रूपं सवदैवैकाकारमवतिष्ठते । "पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां, विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहादृष्टं कालादपरमिव मन्ये वनमिदम्, निवेशः शैलानां तदिति बुद्धिं द्रढयति ॥" इत्युत्तररामचरिते श्रीरामचन्द्रस्योक्तिः सर्वदा भूपृष्ठे सजाघटीति । "विलक्षणोऽयं भगवान् सकल कलाकलापक- लनः सकलकालनः करालः कालः । स एव कदाचित् पयः- पूरितान्यापारतलानि मरूकरोति, सिंहव्याघ्रभल्लू कगण्डक फेरुशशसहस्रव्याप्तान्यरण्यानि जनपदीकरोति, मंदिरप्रासाद हर्यशृङ्गाटकचत्वरोधानतडागगोष्ठमयानि न गराणि च कान- नीकरराति ।” तेनैवाद्य पुराणेषु वर्णितानां जंथमक्षक्रौञ्चशाक शाल्मलीकुशद्वीपानां क्षीरदधीतुमधुसागराणानाकारपरिमाणे न क्वापि वसुधायामुपलभ्यते ।राज्यानां परिवर्तनश्च द्वीपानां देशानां प्रान्तानान्त्र सोमानो नामधे गनि च परिवृत्येन्ते, पतुतस्तु भगोजविद्या समये समये ऽभिनवं रूपं धारयति ।
(ङ) इतिवृत्तशास्त्रञ्च कालक्रमेण नवीनघटनावली गृहीत्या वृद्धि विपुलताञ्च समुपैति । सर्वाण्येतानि नवाविर्भूतानि शास्त्र जातानि, नूतनाविष्कारान् , भुगोलमितिवृत्त चार्वाचीनभाषा. साहित्यसेविनस्तासु तासु भाषासु निवेशयामासुः निवेशयन्ति च ।सुरगिरामुपासका अपि सुरभाषाभण्डारं वैक्रमपञ्चमशत- कात्पूर्व तथैवाभिनवै विज्ञानैर्महोपकारकनवकलाभिश्चानवरतं पूरयामासुः; कृष्णद्वैपायनो यथा सृष्टिमारभ्य युधिष्ठिराभिषेका- न्तमितिहासं विज्ञानञ्च महाभारते न्यबध्नात्, महाभारतमार्याणां धर्मस्य दर्शनस्य समासेन सर्वविविज्ञानानाच विश्वकोषः, तस्मिंस्तेषां धर्मशास्त्रमर्थशास्त्रमिनिवृत्तं ज्योतिषं गणितमि- त्यादि सर्वमेकत्र निहितमस्ति, तदेव तेभ्यो धर्मार्थकाममो. क्षाणां साधनानि ददाति, तेन भारतं पञ्चमो वेद उच्यते, "न तदस्ति हि लोकेऽस्मिन्,भारते यन्न दृश्यत" इति लोकोक्तिश्च भारतीयेषु प्रचरति; यथा च वराहमिहिरो बृहत्संहितायामनेकाः कला अवर्णयत् । परन्तु पश्चात्सा सरणी साहित्यसेविभिरत्यज्यत! ततः संस्कृतकषयः प्रायः शृङ्गारकरस प्रणयिनः कामकेलिवर्णनायोमेव स्वलेखनी व्यापारयामासुः,दा. शनिकाचावच्छेदकावच्छिन्नभाषणपटयो वाग्जानमात्रवितं- डाभिः स्वसमयमतिवाहयामासु, श्छात्राणाञ्च बहुमूल्यं समयं खण्डयामासुः । तेनैवाद्यतनाः संस्कृताध्यतारोऽध्यापयितारश्च नवप्रचारितशास्त्राणां भूगोलखगोलेतिवृत्तगणितादिमहावश्य- (च) कविद्यानाधापि तथानभिशाः सन्ति, यथाते सांप्रतिकसंसारे धर्तमाना अगि समानां द्विसहस्र या पूर्ववर्तिनि काले शरीर यात्रां कुर्वाणाः प्रतीयन्ते । अधीतमेघदूतः काव्यश एक: "तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा । जन्होः कन्यांसगरतनयस्वर्गसोपान पङ्क्तिम्।" . इति पद्ये कथितं कनखलनगरं दक्षिणस्यामाशायां निर्दि- शन्मयादर्शि । अनेके पण्डितंमन्याः स्वर्णलंकां रक्षोभिरध्यु- षितामद्यापि विभीषणोऽधिशास्तीति विश्वसंति, पातालच भुजंगपिहितद्वारं जाति । कविकुलगुरो रघुवंशमहाकाव्ये महाराजरघोदिग्विजययात्रामधीयानास्तद्वर्णितस्थानानामभिशा विरला एव । व्यवहारज्ञानोद्दिष्टानि काव्यानि पठन्तोऽपिते तेन्वागतेषु वनस्पतीनां प्राणिनाञ्च वर्णनेषु 'वृक्षविशेष' इति 'जीवविशेष'इति ज्ञात्वैवसंतोषं लभंते।"उष्ट्रः कश्चित्पक्षिविशेष" इति टीकाकारविशेषस्य टिप्पणो वर्तमानसंस्कृतज्ञान प्राणि- शास्त्र ज्ञानं प्रमाणयति । एको व्याकरणकेशरी पञ्चाङ्गस्य तिथ्यङ्कानामनभिज्ञो लेखकेनानेन दृष्टः । यत्र भोजपूबंधसदृश कमनीयकाव्यस्य पूणेता श्रीवल्लालपंडितोऽपि भिन्नभिन्न समयेषु वर्षाणां शतं पूर्ववर्तिनः परवर्तिनश्च कवयितॄन् वैक्रम द्वादशशताब्यवर्तमानस्य परमारवंशावतंसस्य श्रीभोजराजस्य सभायामेका समाहूय शास्त्रार्थे नियोजयति, तत्र तद्विधान् (छ) निबंधाननुशीलयतामितिवृत्तज्ञानस्य कथैव का । सुरभारत्या- मितिवृत्तप्रबंधानामीदृशं दुष्कालं दृष्ट्वा पाश्चात्याः प्राक्तनान् भारतीयान् इतिहासविद्याविरहितान् कथयन्ति । तेनैवाद्य संस्कृतमात्राध्यायिनो विविधविद्याविशारदः संसारस्यायोग्या भिक्षामात्रेणोदरदीभरण क्षमाः परमुखापेक्षिणः कथ्यन्ते । हा हन्त ! या देवभापैकदा सर्वभावव्यजकत्वात्सर्वव्यवहारसा- धिका सर्वत्र लब्धप्रसरा सर्वविद्यानिधान चालीत् सेदानी स्वसेवकानां पूमादेनेदृशी हीनां दशामगमत् यत्साद्य पराव- लंबिनां देवलानां भिक्षुकाणाञ्च कार्यनिर्वाहिका भूगोलेतिहासा- दिसशीभिनित्योपयोगिसामान्यविद्याभिर्विरहितादरीदृश्यते । भूगोलानभिशः कश्चित्त न पुरुषेणैव तुलामधिरोहति, यः कस्मिंश्चिन्नगरे निवसरितस्थ रथ्याश्चत्वराणि विपणीनिवे- शविशेषान् प्रसिद्धप्रशस्तप्रासादान् सभागृहाणि देवालयान् नडागान्मारामान कारून सहवासिनश्च न जानाति, यो वाक मपि महाप्रासादमधिष्ठितोऽपि तम्य द्वाराणि वातायनानि गवा- तान् कक्षा अन्तर्गहाण्यंगणानि वितर्दिकाः स्नानागारं पाक- शालां शौचालयं वा न वेत्ति । इतिवृत्तज्ञानगुन्यश्च पूर्वपुरुषाणां गौरवविवर्जितः परानुभवशिक्षारहितः स्वाभ्युदयोत्साहहीनः पदे पदे बांधाविन गहन्यमानो महाकार्याणि साधयितु राज- नीतौ पदमाधातुञ्च समों न भवतीति नाविदितं शेमुषीजुषां विविधविद्यारताम् । एतस्त्र ज्वलदुदाहरणमयतना वराकाः (ज) संस्कृतज्ञा ये सांप्रतिक सभ्यसमाजस्याङ्गीभूतानां समाचारप- त्राणामपि रसमास्वादयितुं न प्रभवन्ति । तेष्वागतानि विवि. धस्थलाना सागराणां राष्ट्राणां प्राचीनानामर्वाचीनानां राज्या- नाच नामानि राजनीतितत्वानि संपनिशास्त्रप्रश्नाश्च तेभ्यः प्रहेलिकामात्राणि मन्त्रबीजकानि वा भवन्ति । प्रासमञ्जस्यमिदमपाकर्तु' सुरभारतीभाण्डारञ्च पूर्वव- सुरयितु संस्कृतज्ञानपि गष्ट्रस्य सभ्यसमाजस्य चाङ्गानि राज- नीतिनिपुणांश्च विधातुमितरभाषारिखवास्या सर्वभाषाणामा- दिजनन्यामपि भूगोलेतिवृत्तनिबंधानां परमावश्यकता वर्तते । यथांगलभाषायां 'कारलाइलप्रणीतवीराः' ( Heroes of Carlisle) भारतीयशासकमालिका' ( Rulers of India Series ) 'Tryfanfait:' ( Nation Builders ) इत्यादीनीतिवृत्तमयानि, 'अनेकेषु देशेषु दृष्टिपातः' ( Peeps at many lands ) विविधपर्यटनवृत्तान्तप्रभृतीनि च भूगो. लविषयाणि मनोरञ्जकानि पुस्तकानि सन्ति तथाविधान्येव सरलगा प्रसादगुणसपन्नया मनोहरया वैदर्भीरीतिरम्यया गद्यमय्या सुरगिरा गुपयेरन् । एवंविधानां प्रबंधानां भाषा गौड़ीरीत्यातिरञ्जिता दुर्भरालंकारभारायसन्ना सुदीर्घसमा- सबहुला दुर्वाधा भवितु नार्हति । यतो निसर्गसुंदरी सुरभा- रतोवर्धरतिरञ्जनामलंकारभारं वा नापेक्षते । अपरञ्च काल- गतिमेवानु प्रत्यास्माभिरपि गन्तव्यम् । गतोऽधुना कालो ज्यो.
(झ) तिपवैद्यकदर्शनादिगहन विज्ञानविषयेप्यपि पद्यप्रयोगस्यालंका- रभारारोपणस्य महादीर्घतमासस्थापनस्यौजःप्रदर्शनस्य दुर्बो- धभापापाण्डित्यप्रदर्शनस्य च । अद्य तु सारमय्याः सरलाया अलंकारभारं विनापि निसर्गमधुराया गद्यभाषाश पादरो भवति । तस्मात्संपूति सुरभारत्या अभिनवसाहित्येऽपि तथा विधैव भाषा पूयोक्तव्या । सैव मनुष्याणां मनांस्यावर्जयिष्यति, पूकृतविषये च तान् पूवेशयिष्यति । एनादृशसंस्कृतसाहित्यसृष्टो सिद्धसारस्वताः प्रतिभाव- न्तः कृतविद्या एव पूभवः । पार्थ्यन्त च सप्रश्रयं मयानके पण्डितपूकाण्डास्ताहराः पूरन्धान पूणेतुम् । परं मादृशसाधा- रणजनववनमश्रद्दबाना ब्रह्मानन्दसहोदराक्षरब्रह्मानन्दनिमन्ना घा दार्शनिकगहनविषयचिन्तादत्तचित्ता वा ते मत्तार्थनां a नाद्विषत। "सुरवाणो साधारणविष पवर्णनाय नोद्दिष्टा । तस्यां कम- नीयानि काव्यानि दार्शनिकविष गश्च शोभन्ते । लौकिकषिरमा गीर्वाणवाएगा अपकर्षकारका' इति च केचिदभाणिः । तेष प्रत्याख्यानपापमकुर्वतापि मयेदं वक्तव्यमेव यज्जनसाधारणे व्यवहृता परमसमान्या अतीवोत्कृष्टा सनातनादागतापिकापि भाषा जगतीतले स्थातुं न शक्नाति, साधारण जनाश्च काव्यानां दर्शनानाञ्चापेक्षया स्वोपयोगिविषयानेवाभिकतरमनुशीलयः न्ति । लौकिकसाधारणविषयाश्च सुरभारत्यां पूर्वैराचार्यबहुधा १ (ञ) निबद्धा इत्युपरि वर्णितमेव । तेनोपयोगितावादयुगंऽस्मिन् यदि देववाण्या रक्षा स्थितिश्चास्मदमिमता,तदाधुनिक लौकि- कव्यवहार्यसाहित्य मस्या मस्माभिः स्रष्टव्यमेव । स्वाभीष्टविषयं विद्यादिग्गजानां कृपाकटाक्षसौभाग्यव- भिवतोऽयं जनः पूर्वपुरुषाणामादिभाषाया देवभाषाया अनन्य भक्त्या निजसामर्थ्येन सर्वथा दुर्गमे मार्गे प्रवृतिचापलाय पाणुदयत । धर्मभाषाशुभूपैवेमं साधारणजनं पुरुषोत्तमप्रियायाः पोनिमपाकृत्य भवान्याः पूसादाय पालोभ यत् । तेनायं पाश्चात्य भागसनायामतिवाहितशिक्षासमुचितवाल्यकालोऽप्यपरस्मि. न वयसिधनागमव्यापारविमुखः संस्कृतानुशीलनतत्परोभवनि गच्छतीत्यादि कविचित् पदान्यवागच्छत् । स्वतनयाँश्च गजको. यविद्यामंदिरेप्वश्वेश्य संस्कृतसाहित्यमे गभ्यासयाञ्चके। परं सर्वेणानेन प्रयत्नेन निजायोग्यतामझताव सम्यगजानात् । यद्धपि मम चपलतायाः परिणामः किञ्चित्परिवर्तितैः कविकु- ल पुगेः कालिदासस्य प्रियाक्षरः- "मन्दःसिसेविषुर्वाणी,गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फरो लोभा, दुबाहुरिव वामनः ॥" ......अतो विद्याशब्दवाच्या भवानी, तदुपासनेन चित्तशुद्धी जातायां लिङ्गशरीरभङ्गद्वारा मोक्ष” इति श्रीमदानन्दगिरिकृतौ शंकरविनय श्रीजीवानन्दविद्यासागरण १८८१ तमे खीष्टान्दे मुदापिते १६ प्रकरणे ६६ पृढे १ (2) Amrowse . almmine-LAM इति सुनिश्चितमेष, तथापि"अकरणान्मन्दकरणं श्रेय" इति लोकोक्ति गृहीत्वास्मिन् संस्कृतप्रचंधरचनारूपदुष्करकृत्ये प्रयत। यथामानिशाया निबिडतमसि आकाशे तागवली मधुराभया पथभ्रष्टान् पान्थान् मार्ग दर्शयति पूमादयति च तथैव पातः स्मरणीयानांधर्मसंस्थापकानां महात्मनां कोविदानांकविना म. हावीराणां राष्ट्रनिर्मातॄणाञ्च चारुनरितावली संसारकान्तारे घंभ्रम्यमाणान् पुरुषान् सत्पथं निदिशत्यानन्दयति च। अनेनये. तिवृत्तविद्यायांसदाचारशिक्षायै मनोरा नायच सर्वप्रथममियं चारुचरितावली प्रथ्यते, तस्याश्च धर्मस्य सर्वप्रधानत्वात्प्रथम- प्रकरणरूपेण धर्मसंस्थापकसमकं निवध्यते। द्वितीयप्रकरणे भक्ताटक, तृतीये सम्राट्सप्तकं, चतुर्थे कविरत्नं, पञ्चमे धीर- मातरः, षष्ठे पीरबालकाः, सप्तमे कोविदमणिमाला, अटमे राष्ट्रनिर्मातारः पूकाशमेप्यन्ति । सर्वाणीमा नि पूकरणानि स. वित्राणि मुद्रापयिष्यन्ते। धर्मसंस्थापकसप्तके मोहम्मदमहो. दयस्य चित्रं मोहम्मदीयमते चित्रनिर्माणस्य निषिद्धत्वान्न मुद्रापितम् । विषयेऽस्मिन् मुसल्मानधर्मशास्त्रिणो लखनऊनगर घास्तव्यस्य मौलाना अब्दुलबारीमहाशयस्य व्यवस्था गृहीत्या. स्माञ्चित्रलेखनच्यापाराद्वयरमम् । इयं चारुचरितावली प्रियपुत्रस्य श्रीसिद्धगोपालस्य सततस. होद्योगन प्रबलप्रयत्नेन च वर्तमानरूपं प्रापत् , तेन तत्प्रणयने तस्य प्रधानांशोऽस्ति । अन्ये च ये कृपालवः कार्येऽस्मिन् मम (3) सहाया अभवन् तेषामपि पूननामधेयानि सप्रश्रयं सानेक धन्यवादमत्र लिख्यन्ते। परमपूजनीयास्तत्रभवन्तः सौख्यवेदान्ततीर्थोपाधिकाः कां- गड़ीगुरुकुलविश्वविवयालयमहोपाध्यायाः श्री पं० कन्हैयालाल- शास्त्रिणोऽस्याः संशोधने प्रबलं प्रायतिषत, तदर्थ तेभ्यो बहुकृत- ज्ञतां धारयामि । श्रीकाशीस्थकगीरचौराख्यश्रीकबीरमठाधीशाः श्रीरामवि- लासदालमहान्तः श्रोकबोरस्पच्छायाचित्रदानेन मम सहाया आसन् । अधो लिखितेभ्यो ग्रन्येभ्योऽपि धर्मसंस्थापकलप्तके सहा- यता लब्धा । अतस्तेषां प्रणेतृमहाशयेभ्यः कोटिशो धन्यवादाः समय॑न्ते। (१) महाकविश्रीमदश्वघोषविरचितबुद्धचरितम् । (२) श्रीजगन्मोहनवर्मकृतबुद्धदेवः । (३) श्रीचित्सुखाचार्यकृतबृहच्छकरदिग्विजयः । (४) श्रीमदानन्दगिरिकृतशंकरविजयः। ५) श्रीमाधवाचार्यप्रणीतत्वेन प्रसिद्धः शंकरदिग्विजयः। (६) स्थण्डिलाग्रहारिकश्रीशंकरनारायणशास्त्रिप्रणीत श्री शङ्करावार्यसमयः ( "The Age of Sankara' by Pt. T. S. Narayan Sastri B. A. B. L. Vakil High Court Madras) अस्माद्वहुमूलपग्रन्थान्छीवुद्धदेवशंकरावा.
र्ययोः समयविषयकमपूर्वज्ञानं लब्धम् । तदर्थं श्री नारायण
शास्त्रिणो विशेषकृतज्ञोऽस्मि ।
(७) सी. एन. कृष्णस्वाभ्यार्य एम. ए. एल. टी. कृतांगल
भाषामयः श्रीशङ्कराचार्यः।
(८) श्रीमद्वाइबिलाख्यखीष्टीयधर्मग्रन्थः ।
(E) 'The King of Truth' by Mr. W. E.
Tomlinson.
(१०) 'Child's Life of Jesus Christ' by Mr.
C. M. Steed man.
(११) 'Life of Mohomet' by Mr. Irving
Washington. .
(१२) महाकविमौलवीहालीकृतं 'मह-प्रो जज़र इस्लाम'।
(१३) श्री पं० द्वारकापूसादचतुर्वेदिकृत आदर्शमहा-
त्मागणः।
( १४ ) श्रीरामविलासशारदकृत मार्यधर्मेन्द्रजीवनम् ।
(१५) श्रीदेवेन्द्रनाथमुखोपाध्यायकृतं 'दयानन्दचरितम्'।
धर्मसंस्थापकसप्तके धर्मसंस्थापकानां चरितानि तेषामा-
विर्भावकालक्रममवलंब्यात्र संस्थापितानि, न तु केषाञ्चित्प्रा.
धान्यगौणभावनया।
यद्यपि देवगिरा ग्रन्थरचना नाम घोरस्वार्थपरायणे समये
ऽस्मिन नार्थलाभाय, न यशसे, न च जननिवहेषु महाप्रचाराय
भधितुमर्हति। पूयत्नोऽयमधस्तादगिरिशिखरोपरि अलपूधाहा-
नयनतुल्य एव । तथापि महाकविभवभूतेः,
"ये नाम केचिदिह नः प्रथयन्त्यवज्ञां,
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा,
कालो हययं निरवधिर्विपुला च पृथ्वी ॥"
इति पूसिद्धपदयं मनसि निधाय पाश्चात्यमिलमुनिपभृती-
नामधुना परमसंमानितानां बहुमूल्यग्रन्थानामादिमावस्थाञ्च
संस्मृत्य श्रमोऽयं स्वीक्रियते। यदि केचिन्महाशया गुणग्रहणा-
नुग्रहोदारतामदर्शयन्तोऽपि दोषदर्शनदृष्टय वास्याश्चर्चा करि-
ध्यन्ति तेनैव धन्यमात्मानं मस्यते सर्वथानुग्राहयोऽयं विनम्रो
जनः।
विदुषां वशंवदः-
-
संयुक्तपान्तस्थबिजनौरमण्डलान्तर्गत
हल्दौरप्रामे
माघसुदि वसन्तपञ्चम्यां
सं० १६७६ वैक्रमाब्दे
भवानी पूसादः
चारु चरितावली काश्यां धर्मचक्र प्रवर्त- श्रीगौतम बुद्धदेवः
*
*
* चारुचरितावली *
महात्मा बुद्धदेव
धराबद्धपद्मासनस्थांघ्रियष्टिः,
नियम्यानिलं न्यस्तनासाग्रदृष्टिः ।
यास्त कलौ योगिनां चक्रवर्ती,
स बुद्धः प्रबुद्धोऽस्तु वश्चित्तवर्ती ।।
प्राचीन साहित्यस्येतिहासस्य चानुशीलनेनसम्यग्ज्ञा-
यते यद्भारत वर्षे वैदिकार्याणां प्राचीनाध्यात्मवादः
कर्मकाण्डवादश्वोभौ पनौ समये समये चक्रनेमिक्रमेण
माबल्यं हासश्चापतुः । अन्तिमे चावसरे कौरवपाण्डवीय
महाभारतयुद्धात्परं यदा वैदिकशुद्धाध्यात्मवादो मर्यादा-
तिक्रान्ततान्त्रिककर्मकाण्डस्य कृष्णमेघेष्वन्तरलीयत, यदा
"मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्" "मा
हिंस्यात्सर्वाभूतानि" चेतिश्रुतिमूला, अहिंसापरमधर्ममयी,
वैदिकयुगारम्भे पूर्वैराचार्महर्षिभिश्चसंस्थापिता, वैदि-
[ २ 7 * चारुचरितावलो * कार्याणां प्राचीनसभ्यता कालचक्रेण दूषिता संजाता, यदा कर्मकाण्डमाधान्ये युगेऽस्मिनुत्तरीयभारतस्यायो- ध्याकाशीन्द्रप्रस्थादिमहानगर्योऽश्वमेधादियज्ञेषु हूयमानानां पशूनां मांसवपादिदुर्गन्धेन नित्यं पर्यपूर्यन्त, यदा स्वर्गलोलुपा यजमानास्स्वर्गाय पृथिवीं पशुरुधिरेण क्षेत्रमिव सिपिचुः, श्रीमन्तः पशुहिंसायुतानां यज्ञानां करणं स्वेति- कर्तव्यत्वेनेश्वरत्वेन च मेनिरे, तदा "परित्राणाय साधूनां, विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय" चेतीश्वरीय सनातनव्यवस्थानुसारं प्राकृतनियमानुकूलश्च कस्यचिन्म- हापुरुषस्यावतरणमामुरीमायाया निरसनं शुद्धसनातन दयामूलकार्यधर्मस्य च संस्थापनमनिवार्यमेवाभूत । तदनुसृत्यैव महात्मा बुद्धो लोकानां बोधनार्थ संसारे ऽस्मिविक्ष्वाकुदिलीपरघुरामादिजन्मजाज्वल्यमानस्य सूर्य वंशस्यान्तर्गते शाक्यान्वये कपिलवस्तुनगर्या प्रादुर्बभूव । भूगोलज्ञानां नयपालदेशस्य नाम नाविदितम् । नयपाल- राज्यान्तर्गतमेव बुद्धजन्मकाले ऽचिरावती (भाधुनिकनाम राप्ती) रोहिणीनामनद्योर्मध्यवर्तिन्यां हिमाद्ररुपत्यकायां लघुकपिलवस्तु राज्यमासीत् । शाक्यवंशसम्भूतरशुद्धोदनो नाम राजा तदा तद्राज्यं शशास । तस्य राजधान्यपि कपि- लवस्तुनाम्न्येव बाणगङ्गायाः दक्षिणे तटे संस्थिताऽभूत् । महात्मा बुद्धदेवो महाराजशुद्धोदनस्य महिष्यां मायादेव्यां * महात्मा बुद्धदेवः । [ ३ ] वीरविक्रमाविंशत्युत्तराष्टादशशत वर्ष[१]पूर्व वैशावपूर्णि- मायां जन्म लेभे।मासीत्तस्य जन्मस्थानं कपिलवस्तुराज्य- मध्यवर्ति लुम्बिनीकाननं, यः पितुरालयं गच्छन्ती माया १टिप्पणी-भगवतो बुद्धदेवस्याविर्भावसमयोभारतीक्ष- नामस्माकं दैवदुर्विपाकेन भारतीयेतिवृसस्य घोरतिमिराच्छन त्वाद्विवादास्पदमेव। पाश्चात्यैतिहासिकास्तं विक्रमाताउचशत वर्षपूर्व (५०० वि० पू०) मन्यन्ते ।परं योद्धा जैनाबौदकाः सर्वे पौरस्त्याः पाश्चात्याश्चेतिवृत्तकोविदा बुद्धदेवं मगधगजा जातशत्रोः समकालिकं वदन्ति मगश्वराजो जातशत्रुम सर्वेषां पुराणानां कलियुगराजवृत्तान्तस्य च नृपवंशावली- वर्षगणनाक्रमेण विक्रमादष्टाचाशदुत्तर सप्तदशशतवर्षपूर्ण (१७५० वि०पू०) सिंहासनमधिरोह, यतस्ते सर्वे मथा एकस्वरेण तृतीयपाण्डवार्जुन पौत्रस्य परीक्षितो जन्मनो- महापद्मनन्दाभिषेकं यावत्पञ्चशतोत्तरं वर्षसहस्रं ( १५००) गणयन्ति । मत्स्य, वायु, ब्रह्माण्ड, विष्णुपुराणेषु "महापद्माभिषेकात्तु, यावज्जन्म परीक्षितः। एक वर्षसहस्रं तु, शेयं पञ्चशतोत्तरम् ॥" इति पचं स्वल्पपाठान्तरेण वर्तते राजा परीक्षिच्च महा. भारतयुद्धानन्तरं धर्मराजयुधिष्ठिरसिंहासनारोहण समये जन्म लेभे महाभारतयुद्धस्य समयस्तु सर्वेषामैकमत्येन तदा [ ४ ] * चारुचरितावली देवी मध्ये मार्ग महामहिमान्वितं पुत्रमसूत । तत्स्थानमधुना नेपालराज्ये भगवानपुरग्रामसमीपस्थं रोमिनदेवाति नौतनगृहस्थितिगणनया च कलियुगारम्भात्सप्तविंशतिवर्ष ( ३७ कलि पू०) पूर्वमवधारितोऽस्ति । वर्तमानकस्तिश्च मवेषां मतेन विक्रमात्पञ्च चत्वारिंशदुत्तरत्रिंशच्छतवर्ष ( ३०४५ वि० पू०) पूर्व चैत्र बदि प्रतिपदि पावर्तत । तेन राजा परीक्षित् विक्रमाव्यशीत्युतत्रिंशच्छतवर्ष ( ३०८२ वि० पू० ) पूध कलियुगारम्भात्सप्तत्रिंशद्वर्ष (३७ कलि पृ०) पूर्व जन्म लेभे। तस्मात्पञ्चशतोत्तरवर्षसहस्रमतिवाहय (१५००)विक्रमाद्वय शोत्युत्तरपञ्चदशशतवर्षपूर्व (१५८२वि०पू०) महापद्मनन्दो ऽभ्यषिच्यत । मगधराजाजातशत्रुस्तु नृगवंशावलीगणना क्रमेण महापद्मनन्दात् षट्सप्तत्युत्तशतरर्षवपूवं ( १७६) राजसिंहा सनस्थो बभूव । भगवान् बुद्धदेवोऽजातशत्रोर्मगधाधिपस्य राज्यस्थाष्टमे (८) वर्षेऽशीतिवर्षवयसि (८०) निर्वाणमाप । तेन तस्य निर्वाणसमयोऽजातशत्रोः सिंहासनारोहणकालादष्ट पञ्चाशदुत्तरसप्तदशशतविक्रमपूर्वात् ( १७५८ वि० पू० ) अष्टवर्षानन्तरं (८) विक्रमात् पञ्चाशदुत्तरसप्तदशशतवर्षपूर्व ( १७५० वि० पू० ) मायाति । तस्मात्तदायुर्मानाति वर्ष पूर्व (८० पू० ) विक्रमात् विंशत्युत्तराष्टादशशतवर्ष पूर्व ( १८३० वि० पू०) तस्य जन्मसमयः संसिध्यति । पाश्चात्यैः प्रदर्शितो विक्रमात्पञ्चशतवर्ष पूर्व (५०० वि० पू०) तस्याविर्भावसमयो * महात्मा बुद्धदेवः . । ५ ] व्यवयिते । सांप्रतं च पुरातत्वविशारदै महता परिश्र- मेणोद्धाटितम् । तत्र भयावशिष्टः प्रशस्तियुक्तः सम्राड- शोकस्य स्तम्भोवर्तते । बुद्धश्च पितुहे कुमारसिद्धार्थेत्या- ख्यां प्राप । कुमारसिद्धार्थ सप्तदिवसीयमेव विहाय मातरि दिवंगतायां तस्य विमाता महाप्रजावती तं सस्नेहं सुतनि- विशेष संवर्धयामास, राजोचितश्च शिक्षयामास । कुमारो बाल्यादेवातिगंभीरश्शान्तो दयालुश्च। स यदा कदा निभृतं किमपि चिन्तयमानस्सततमेकान्तदेशंसिषेवे । एकदा शाक्यवंशिनो कुमारेण देवदतेन बाणेन विद्धं मूतलपतितं पक्षिणं वीक्ष्य तं गृहीतुमन्ये कुमारा दुद्रुवुः । परं सिद्धार्थ- स्सर्वप्रथमं धावस्तं पक्षिणं गृहीत्वा तच्छरीराकृष्टबाणः पीडांपरीक्षितुं तेन बाणेन स्वपादमविध्यत् । पीडामनुभवम् कुमारः पक्षिणं स्वाङ्कमारोप्यैतन्नैरोग्यं यावन मुमुचे । सिद्धार्थो यथाकालं विश्वामित्रस्य गुरो गृहं गतो ब्रह्मचर्य विचारं न सहते। सविस्तरोऽयं विषयःश्रीस्थगिड लागूहारिक- शङ्करनारायणशान्त्रिप्रणीते श्रीशङ्कगवार्यसमय: स्यगन्थस्य परिशिष्टरूर मगधगजवंशाभिधे निवन्धे परिशीलनीयः । ( Vide "The kings of Magadh Appendix I to The Age of Sankara" by Pt. T.S. Narayan Sastri of Madras ) [ ६ ] * चारुचरितावली - मनुपालयनदीमुखेन समुद्रमिव लिपिग्रहणेन सर्व वाङ्म- यमविशत् । सकल्पं सरहस्यं वेदवेदाङ्ग क्षत्रियोचितां धनु- विद्याश्चाधिनगे । द्वितीयं गृहस्थाश्रमं संक्रमितुं समाप्तका- लस्सिद्धार्थस्समावर्तनसंस्कारानन्तरं पित्रा महता समा- रोहण गुरुगृहात्स्वगृहमानिन्ये । यथामियमं सुलक्षणां कुलजां गोषां भायी परिणीयापि कुमारो यौवनोचिते राजा विपयभोगे मनो न दधी, नापि समाजेषूत्सवेषु च प्रीनि लेभे । स सदैव "त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरु- पार्थ" इत्यनुध्यायन मृत्युतरणेन निर्माणलाभोपायं निभृतं चिन्तयामास । कुमारं तथा वैराग्यप्रवणमानसन्दृष्टवा शुद्धोदनो राजा मनोविनोदार्थ सर्वर्तुमुखाश्रयं कामोद्दीपक समग्रसामग्रीसज्जितपभिराममारामं कारयामास । निवास यामास च तत्र गजोचितसम्भोगसंवेष्टित दासदासीकुल- संकुने महापासादे सभार्य पुत्रम् । तथास्थितोऽप्यनासक्त एक गृहस्थसुखमनुभवन् राजकुमारः स्वधर्मपन्यां राहुल- नामानं पुत्रमुत्पादयामास, परं परमार्थचिन्तां न कदापि जहौ। एकदा राजकुमारो मनोविनोदयितुं नगराहि- र्यात्र यां मनश्चक्रे, नितुराज्ञया चाहतश्चमिस्तुरी क्तं हिरणपयं स्यन्दनमारुह्य पूर्वद्वारा नगरादडिगाम । तत्र कुमारोऽन्येभ्यो नरेभ्यः पृथगाकृति सितैः केशैरभ्युपेतं * महात्मा बुद्धदेवः * [ ७ ] धूसंतानं शिथिलानताङ्गं यष्टिविषक्तहस्तं कमपि जरठ- पुरुषं ददर्श । तस्मिनिष्कम्पनिविष्टदृष्टिः कुमार "एष कः, एषा विक्रिया किम्मतिर्यदृच्छा वेति सारथिं पप्रच्छ । सारथी, "रूपस्य ही, बलस्य व्यसनं, शोकस्य योनी, रतीनां विघ्नः, स्मृतीनां नाश, इन्द्रियाणां रिपु रैषा ययायं पुरुषोऽभिभूत" इति निवेदयामास । कुमारःपुनः पृच्छति "किमेषा जरा ममापि भविता। ततस्मारथिः वदति "आयुष्मतोऽपि वयोऽपकर्ष एष कालवशेन निःसंशयं भागी एव । एष लोको रूपविनाश- यित्रीं नरां जानाति वाञ्छत्येव च ।" ततो जरां श्रुत्योद्विग्नचेताः कुमारस्सविषादं ब्रूते "एवं जरा स्मृतिश्च रूपश्च पराक्रमञ्च निर्विशेष हन्तीति प्रत्य- क्षत ईनमाणोऽपि जना न चैत्र चोद्वगमुपैति । हे सूत, एवं गते निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु । जरामये चेतसि वर्तमाने मे यात्रायां रतिर्नास्ति ।" अथ भत्सुतस्याज्ञया नियन्ता रथं निवर्तयामास । ताश्चिन्तापरवशः कुमारस्तदेव भवनशून्यमिव प्रपदे । जरा नरनि चिन्तयन् यदा तु तत्रैव शर्म न लेभे तदा नरेन्द्रा- नुमतस्स भूयस्तेनैव क्रमेणान्येद्यु, दक्षिणदारण बहि- जगाम ।
[ 0] * चारुचरितावली * नियतिवशात्स तत्र कमप्यसाध्यरोगिणं ददर्श । तद्गतदृष्टिश्च सारथिमावभाषे स्थूलोदरश्श्यासोच्छासचल- च्छरीरस्स्रस्तांसबाहुः कुशपाण्डुरगात्रः परं समाश्लिष्य "अम्ब" इति करुणां वाचं वाण एष नरकः" । ततस्सारथिब्रूते, “सौम्य, अस्य रोगः प्रवृद्धः। एष रोगा. भिधानस्सुमहाननर्थो येन शक्रोऽप्यस्वतंत्र कृतः।" तच्छु त्वा स राजसुतस्तं नरं सानुकम्पमीक्षमाणो भूय अचिवान् “ अस्यैव दोप एष पृथग्जातोऽथवा प्रजानां सामान्यतो रोगभयं किम् ।" ततःमत्ता बभापे “कुमार, एष दोषस्साधारण, एवं रोगैः प्रपीडयमानोऽपिलोको रोगावहेषु विषयेषु सुखमनुभवतीति", श्रुतार्थो विषएणचंताम्स कुमारांऽम्बुर्भितशशीव पावेपत । करुणान्वितस्सन् किश्चिन्मृदुना स्वरेण वाक्य मिदं प्रोवाच "इदश्च प्रजानां रोगव्यसनं पश्यन् लोको विश्रम्भ- मी यद्रं गभयैरमुक्ता अपि हसन्तीति नराणामहावि- स्ताणज्ञानम् । हे सूत, बहिः प्रयाणाद्रयों निवर्तताम् । राजसम एव प्रयातु । रोगभयश्च श्रुन्वा नमे तसे यात्रा A रोचो " सनिवृत्तं निवृत्तहर्ष प्रध्यानयुक्तं सुतं राजापरेयुः पुनः विहारयात्रायै प्रेरगामास । ततस्स्वलंकृतेन राजमा- * महात्मा बुद्धदेवः * [ 8 ] र्गेण पश्चिमद्वारेण गच्छन् कुमारो जनश्श्मशानं प्रत्युह्यमानं कमपि शवं ददर्श । तदृष्ट्वा स राजसुतस्सूतमब्रवीत् : दीनर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वासी अवरु- ध्यते च स नरैश्चतुर्भिहियते एषकः" सूतो निवेदयति-"बुद्धीन्द्रियमाणगुणैः वियुक्तस्तृण- काष्ठभूतो विसंशः सुप्त एष कोऽ पि यत्नवद्भिः प्रियाप्रियः संबध्य संरक्ष्य च त्यज्यते। इति यन्तु क्यिं निशम्य म चुक्षुभे, एनश्च स किश्चिदुवाच "किमेकाकिन एवास्य जनस्यायं नाशोऽ थवा सवपनानायीदृशान्तः।" ततस्तस्तं वदति स्म “ सर्वमनानामयमन्तकर्ता। लोके हीनस्य मध्यमस्य महात्मनो वा सर्वस्य नियता विनाशः" ततस्त धोरोऽपि नरेन्द्रपूनुमत्यु श्रुत्वैव सद्यो विष- पाद, निर्वादाता स्वरेण च प्रोवाच इयश्च मनानां निष्ठा ( विश्वासो) नियतं प्रमाद्यति, लोकश्च त्यक्तभयोऽस्ति, नृणां मनांसि कठिनानि सञ्जा- तानीति शं, तथाहि अवनि स्वस्था वर्तमाना: । तस्माद्धे सूा, रथो निवर्तता, देशकालौ नो विहारयोग्यो नहि, विनाशं जानन्नपि आर्तिकाले सचेतनः, कथं हि इह विहारे प्रसक्तस्स्यात् ।"
[ १० ] * चारुचन्तिावली* रानभासादमागतो बहुविधचिन्तासन्तानसमाकुलो ऽपि शान्तिममाप्य पुनस्स्यन्दनेन मनोविनोदार्थ नगरस्यो- परद्वारेण बहिर्गन्तु प्राचलत् । उत्तरद्वारेण बहिर्गच्छत्येव तस्मिन् सधृतकापाय स्त्र कमण्डलुहस्तं शान्तचितं संन्या- प्सिनं ददर्श । तं दृष्ट्वा कुमारस्सारथिमुवाच "सारये, शान्तः प्रशान्तचित्त एष पुरुषः कःनोत्ति- सवः कापायवस्वासनस्नुपशान्तचारी पात्रं गृहीत्वा न चाद्धनोऽजनता वा बनति " कुमारस्येदं वचश्श्रुत्वा सारथिः प्रत्यूचे-" देव, एष पुरुषो निनु नामास्ति । एप कामरतिमपहाय मुविनीतचारी प्रव्रज्यात्मनश्शममिच्छन् रागद्वेषवितिः पिंडचों जीवति " सिद्धार्थः सारथेववनमिदं श्रुत्वाभृशं प्रससाद । स गगाद्विरक्तं सत्यसुखे प्रसक्तं पुरुष जज्ञे । संन्यासाश्रमस्य महत्वञ्च बुनोध । स सारथिमुवाच- "त्वया साधु भापितं, ते कथनं मेरोचते । प्रव्रज्या नाम बहुभिः सततं प्रशस्ता यत्रात्मनः परस्य च हितं सुखजीवितं सुमधुरममृतश्च फलमस्ति । यथोपनिषत्सूक्तम्- "पेदान्तविज्ञानसुनिश्चितार्थाः, संन्यासयोगाद्यतयःशद्धसत्वाः।
* महात्मा बुद्धदेवः * [ ११ ] ते ब्रह्मलोकेषु परान्तकाले, परामृता परिमुञ्चन्ति सर्वे ॥" एवं संपाप्तवैराग्यः प्रवज्याकृतनिश्चयस्सिद्धार्थों मई त्यक्तुं चिन्तयामास । याममात्रशेषायां त्रियामाया राजकुमार सिद्धार्थस्स्वशय्यां हित्वा भार्याया गोपायाः पयर्स- मापं निभृतपादचारं ययौ । दुग्धफेनाभायां पुष्पकोमला. यां शय्यायां निद्रामनां गांपां तदन्तिके सुप्त शिशुं राहुलञ्च ददर्श । मुहूर्तमात्रमनिमेपाभ्यां लोचनाभ्यां तथाविषयो र्यापुत्रयोर्मुखं निभाल्य क्षण पुदीयमानं मोहमपाकृत्य मनसि पिनरी प्रणम्यान्तःपुग्द्वारान्निश्चक्राम । निजाचकठ. कमारुह्य विश्रधेन सेवकेन च्छन्दनानुगम्यमान एकोनत्रि- शीयो राजकुमारोऽनित्यं संसारमिमं त्यक्त्वा नित्यमन्वष्णु गृहापरिनितुं प्रचक्रमे । शर्यामेव सघनानि वनानि निर्जनानि संत्राणि गण्डशैलानि सरितश्चातिवाद्यामानद्याः पारं प्राप्पाश्चादवततार । अत्र स स्वशरोराद्वस्त्राभूषणान्य- पनीयाश्वसहिभानि तानि स्वानुवरायच्छन्दकाय सपर्यो- वान "छन्दक, कण्ठसहितानीमानि वस्त्राभूपणानि कपि- लवस्तु प्रति प्रतिनीय मत्कृते पित्र सप्रश्रयं प्रणम्येदं निवंद. नीयम् “यदत्रभवान् मगृहत्यागं माशुचः । अहं बुद्धत्वं लब्ध्वा कपिलवस्त्वागत्य भवच्चरणयोवन्दिष्ये । छन्दको बहु विलपन गृहप्रतिनिवर्तनानिच्छुकोऽपि कुमारानुरोधा- [१२] * चारुचरितावली* द्राजधानी प्रतिययो । छन्दकनिवर्तनस्थानं वटपादपमूले स्थितमधुनापिच्छन्दकनिवर्तकं कथ्यते । सप्तपश्चाशत्तमेवै- क्रमाब्दे चीनदेशोयपर्यटकेन फाहियानेन स्वपर्यटनवृत्तान्ते सघनकान्तारस्थितस्य स्तम्भेनापलक्षितस्य तस्य स्थान- स्याल्लेखो व्यधायि । छन्दके प्रतिनिवृत्ते स्वाधीनः कुमार सस्वासिधेनुकया भ्रमरमेनकान् स्वकुश्चितकेशान् कर्तयित्वा मार्गे भिलितस्य व्याघस्य धूसरवस्त्रैम्बोज्ज्वलवस्त्राणि परिवत्य भैनचर्यामनुचरन् वैशालिमार्गमनुससार। वैशाली नदा महाविद्वान् पण्डितप्रकाण्ड आराडकालामनामको निनवासेन भूपयामास । तस्य महाविदुष प्राचार्यकुले ब्रह्मचारिणां त्रिशतं विद्यामभ्यस्यति स्म । सिद्धार्थ आचा. याराडकालामात् “आकिश्चायतन धर्मस्य शिक्षा जग्राह । तच्छिन्नया सन्तोपमनामु वन्स महाराजजरासन्धस्य प्राचीन राजधानी गिरिवनापरनानी राजगृहनगरी मतस्तत्रत्यस्य गमपुत्रस्य रुद्रफनामकस्य महादार्शनिकस्य सप्तशतशि- प्पयुते गुरुकुले " नैव संज्ञा नासंज्ञापत" नेति सिद्धान्तम- भोगान् । राजगृहे भै चरन्सोपूर्व राजलक्षणं रूपला- वण्यरूप ननितस्तन्नगरराजाय विविसाराय(१)नागरिकैर्वि- १ महागाबिसारश्चतुरूनाष्टादशशतविक्रमपूर्वाद पश्चा रदुतरसलदरारा विक्रमपूर्व यावन्मगधराज्यसिंहासनमन वकार॥
* महात्मा बुद्धदेवः * [ १३ ] निवेदितः । महाराजबिंबिसारेण भिक्षाग्रहणाय स्वराज- प्रासादे निमंत्रितस्स तस्मै राई बहुविधानि वैराग्यमयानि वाक्यान्युपदिदेश । तदाप्रभृत्येव महाराजबिंबिसारस्त- द्भक्तिपवणमानमो बभूव । स्टकानार्यस्यकुले वसन् सिद्धा. यस्तेन दार्शनिकषु बहुमुक्ष्मविषयेषु विवदमानस्समाधान शालभमानः भाचार्यस्य पञ्चानां ब्रह्मचारिणां 'कौण्डिना 'चा 'भद्रोय' महानामा' 'श्वजिन्ना' नां हृत्सु महाप्रभा. चमस्थापयत् । ते ब्रह्मचारिणो बौद्धसाहित्ये “पञ्च भद्र. वर्गीयब्रह्मचारिण" इति संज्ञामलभन्त । रुद्राकुलापत्सिद्धा. यस्य प्रस्थानकाले तन्महिमाभिभूतचेतसस्तेऽपितेन साधं ययुः । तपसा शरीरशुद्धिमन्नरा प्रज्ञालाधोशक्य इति मन्नानस्सिद्धार्थः पञ्चमवर्गीयब्रह्मचारिभिरसह गयर्शप पर्वत ( अधुना गयानाम्ना प्रसिद्ध ) तपस्तप्तुं जगाय । गयशीर्षे पर्वत स निरञ्जनानदीतटस्यमुरुविल्वग्रामसमीप: स्थं नानापादपैस्समाच्छादितम् तपस्समुचितं स्थानमल. भत । अत्र स भैनचर्यानपि त्यजन् कृच्छ चान्द्रायणादिप- शाविसतिपनपर्यन्तानि नानाघोग्तपांसि तप्त्वा स्वदह शुष्ककाष्टसमं व्यदधात् तस्य देहदशैवं वर्णिता शुष्कमांसरुधिरचर्म, स्नायवस्थिकाचा वशिष्टाः ।
. [ १४ ] * चारुचरितापली * उदरश्च पृष्ठिवंशे, विनिदृश्यतेवर्तिता यथावणी॥ एवं कठोरानशनवतेनातिकृशस्य बलहीनस्य सिद्धार्थस्य हृदयं सत्यमिदमुदियाय यहेहकर्षणमात्रेण समाधिसिद्धिने भवति । अशक्तःपुरुषो बलवन्मनः कथं वशं नयेत् । श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेनोक्तम्- "नात्यश्नतस्तुयोगोऽस्ति,नचेकान्तमनश्नतः । न चातिस्वप्नशीलस्य, जाग्रतो नैव चार्जन ॥ युक्ताहारविहारस्य, युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य, योगो भवति दुःखहा ॥" तथा कृतनिश्चय आयं धर्मसाधनं शरीरं रनितुं सोऽल्पा- हारग्रहण सनाच्छादने च मनश्चक्रे । तेन तत्स्थानं त्यना स मैनचर्याय वसनगवंपणायै च प्रातिष्ठत । राजगृहादा- गताः पञ्चभद्रवर्गीयब्रह्मचारिणस्सिद्धार्थस्य इन्दसहन- भोरुतां शङ्कमानास्तं तत्रैव त्यक्तवा काशी तपश्चरणाय जम्मुः । अचिरणेव भैक्षचर्यया म्वस्थशरीरस्सिदार्थो योगाभ्यासाचितं स्थानं मार्गमाणो निरञ्जनानदीतीरस्थ. मश्वत्थवृतं पाप । तन प्रहृष्टमानसस्स तस्य वृक्षस्याधस्ता- * महात्मा बुद्धदेवः * [ १५ ] देव ध्यानसमाधिमाकलयत् । तस्यामवस्थायामेवाषाढ पूर्णिमायां स कामक्रोधमोहलोभननितनानाविकारान् वि- जित्य प्रज्ञां प्राप्तवान् । इयमेव प्रज्ञापाप्तिबौद्धसाहित्ये बोधि. त्वलाभपदेन व्यवहियते । अनेनैव कालेन कुमारसिद्धार्थो बुद्धति संज्ञां लब्धवान् । तस्मादेव कालात्स गौतमबुद्धति नानापि प्रसिद्धो जातः । अनयैव घटनया स वृतोऽपि वोधिवृक्षत्याख्यामगमत् । निजप्रथमोद्देशं बोधित्वंप्राप्य जीवन्मुक्तश्च भूत्वा बुद्धदेवस्स्बीयापरोद्देशसाधनायां प्रवृते । धर्मोपदेशेना. ज्ञानिनां मोक्षमाप्तिस्तस्य द्वितीयमुद्देश्यमासीत् । बौद्धधर्मे मोक्षस्य “निर्वाणंति" संज्ञा | बुद्धदेवोऽपि सत्यसनातन- धर्मानुसारं निर्वाणप्राप्ति मनुष्यस्य चरमं पुरुषार्थ मनुतेस्म । तत्साधनानां तु सनातनादेव समयाद् भेदः प्रचलति । स स्वधर्मसंस्थापनाय प्रथम भारतस्य प्राचीनां धर्मराजधानी काशी ययौ । काशीसमीपस्थे मृगदाववने ( आधुनिक काले सारनाथ नाना प्रसिद्ध स्थाने ) तपस्तपतः पूर्व १ पश्चाद्वौद्धधर्मानुगपिनासबाडशांकनान्यैश्चमहाराज- रभ्रषाविहाराः प्रासादाश्च सारनाथस्थाने निरमीयन्त, ये च कालक्रमेण भग्ना जीर्णाश्च भूगर्भे व्यलीयन्त आधुनिककाले गौरागपुरातत्वविदरस्थानं खनित्या भूमिस्थान् पूतिमादीन प्रचुरताचीन पदार्थान् वहिदाय तत्रैवेतिवृत्तहानाय समस्था- [ १६ ] * चारुचरितावली गयायां तं त्यक्तवतः पञ्च भद्रवर्गीयब्रह्मचारिणस्स्वप्राप्त- वोधमुरलिय निजधर्मे दिदीले । बौद्धधर्मेति घटनैषा धर्मचक्रपवर्तनं कथ्यते । काश्यामेव पञ्चभद्रवर्गीयब्रह्मचा- रिणां बौद्धधर्मदीक्षामनुकुर्वाणा यशः प्रभृतयस्समृद्धास्सं- भ्रान्ता अन्ये एकषष्टिपुरुषा बौद्धधर्मे दीक्षां जगृहिरे । श्रादाब निनधर्मदीक्षितां समधिकां शिष्यसंख्यां दृष्ट्वा शिष्यानाज्ञापयामास स्वधर्मप्रचाराय। "प्रपूरय धर्मशंख, प्रताडय धर्मदुंदुभिम्। प्रसारय धर्मध्वजां, धर्म कुरु धर्म कुरु ॥" इत्यादिदेश । अकारि चात्र भगवता बुद्धन धर्मप्रचा. राय धर्मप्रचारकाणांभिक्षूणां “सङ्घस्य" स्थापना । एवं बौद्धधर्मस्यत्रीण्यङ्गानि बुद्धश्च धर्मश्चसङ्घश्चेति प्रपूर्णतां ययुः । एतान्येव बौद्धधर्मे रत्नत्रयमित्युच्यते । स्वशिष्यान् धर्म- प्रचारमाज्ञाप्पाययौ च बुद्धदेवो राजगृहे स्वपूर्वभक्तं राजानं विविसारम् । बिंबिसारोऽपि तदकाव्यतर्काणां वशंवदो बौद्धधर्मदीक्षामग्रहीत् । नवीनधर्मार्पितपदं नृपं दृष्ट्वा तद्राज्य. निवासिनां सहस्रं बौद्धधर्ममङ्गोचकार । एवमनेकैरनुगृड्य माणोऽपरैश्च कोपभाजनं क्रियमाणो बुद्धदेवो महोत्साहन इतिहासविद्यानुभिरवश्यमेवावलोकनीयमिदं स्थानम् । पन् * महात्मा बुद्धदेवः * [ १७ । नवीनधर्म प्रचारयित पारेभे । स चात्यवाहयवर्पम्याष्ट- मासानि यत्र तत्र-विशेषतो मगधकपिलवस्तुराज्ययोः धर्मप्रचाराय मचरन्, वर्षर्तोश्चतुर्मासीन्तु यत्र कुत्रचिद्विहारेति ख्याते बौद्धमठे न्युष्य सङ्घष्वागतभोगणेषु च ज्ञानचर्चा- श्वकार । एवं तस्य राजगृहादिनानाप्रसिद्धस्थानेषु वसतः पञ्चचत्वारिंशचतुर्मासी धर्मचर्चयात्यगात् ।आसां चतुर्मा- सीनां बुद्धजीवनचरितेषु सविस्तरं सक्रमं वर्णनमायाति । एकदा श्रुतस्वपुत्रदिव्यज्ञानप्राप्तिर्महात्मनो बुद्धस्य पिता महाराजशुद्धोदनस्तं कपिलवस्त्वानेतुमष्टो दूतान् प्रेषयामास । परं बुद्धोपदेशेन मुग्धास्ते सर्वेऽपि तस्य शि- ष्यतामयान् । तेषां कतिचिट्ठद्धन सहैव जग्मुरन्ये च कपिलवस्तु प्रति न्यवर्तन्त । आसीच्च तेषु महाराजशुद्धो दनस्य चर्कनामा मंत्री, स च मगधमार्गेण महाराजमुपास- दत् । कृतपणामो विनिवेदितमुतकुशलसंवादश्च "महाराज, माधुना सिद्धार्थो गनभवने निवत्स्यति, तनिवासाय मठं निर्मापयतु भवान् । स द्वित्रमासेष्वेवात्रागमिष्यती ।" ति महाराजमाचचक्षे । श्रुतसचिववचनो महाराजो नगरा- भ्यासे न्यग्रोधसमीपे सुरम्यं मठं निरमापयत् । युद्धदेवो मगधे धर्म प्रचार्य कपिलवस्तु जगाम । स्व- देशं प्राप्ते तस्मिन् तदर्शनाय जनसहस्रं समियाय ।महारा- अशुद्धोदनश्च चिरात्स्वतनयाननं निर्वर्ण्य भृशं जहर्ष ।
[ १८ ] * चारुचरितावली * सिद्धार्थः पितू राजधानीमागत्यापि राजभवनं न प्रविवंश, परं पितृनिर्मितं मठमध्युवास, भिक्षया च जीवनयात्राञ्च- कार । कपिलवस्तु निवसन् बुद्धदेवस्स्वभार्यया पुत्रबान्धवैश्च सह बहून् स्वजातीयान् नगरनिवासिनश्च स्वधर्म प्रवेश- यामास । एवं पञ्चचत्वारिशद्वर्षाणि धर्मप्रचार विधायकोना- शीतिवीयो बुद्धदेवः पञ्चाशदत्तरसप्तदशशतवर्षाणि ( १७५० वि० पू०) वैक्रमाब्दात्मागुदरामयरोगेण कुशी- नगरे आधुनिकगोरखपुरज़िलान्तर्गतकसियाग्रामसमीप- स्थे स्थाने शालवृक्षस्याधस्तान्महानिर्वाणं प्राप । महानि- णमाप्तेः प्राक् राजगृहात्कुशीनगरं सशिष्यो गच्छन् स मार्गेऽस्मादेवगेदरामयेणाक्रान्तस्तञ्चासाध्यं मन्यमानोऽग्रे गच्छतस्स्वशिष्यान्न्यवारयत् । शिष्याश्च गुरोगिरमाकये शालतरोस्तले शय्यायामारोप्य यथोचितमुपचेरुः । परं तस्य देह उल्लाघतां न पाप । शनैश्शनैश्च निर्वलतरोबभूव । बुद्धदेवोऽन्तकाले स्वशिष्यानाहूयेदमुपादिशत्- (१) वत्सा, इन्द्रियग्रामं स्ववशं नयथ । जितेन्द्रिया यूयं शीघ्रमेव निर्वाणराज्यं प्राप्स्यथ । (२) भिक्षुका, आत्मनस्स्वयं प्रबोधयत । स्वयमेवात्मानं परीक्षध्वम् । एवं सावधानाः कर्तव्यपरायणाश्च यूयं सर्वदा मुखमवाप्स्यथ । पापेभ्यस्सदैव दूर - * महात्मा बुद्धदेवः * [ १६ ]] स्थिताः, सत्कर्मणि रतिं कुरुतापरेषाश्च हृदयानि संशोधयत । (३) यथा जलीयपङ्कजलेनापनीयते तथैव मानसं पापं मनसैच विनश्यति । ४) मनसा वाचा कर्मणाशुद्ध जनं शर्म शान्तिश्च छाया शरीरमिव कदापि न जहीतः । स्वशिष्यानेवमुपदिश्य बुद्धदेवो योगेन तनुमत्यजत् । शिष्याश्चन्दनचितां विरचय्य तस्यां गुरुशरीरं निधाय त्रिः परिक्रम्य महाकाश्यपस्यानुमति लब्ध्वा तदग्निदेवाय सम- र्पयामासुः । यो राजकुले जातोऽपि बोधलाभाय राज्यं पदं सांसारिकैश्वर्यश्च तृणमिव मेने, तस्य महामहिम शरीरं भस्मनि पर्यणम्यत । भिक्षुकास्तद्भस्म सुवर्णपात्रे निधाय राजगृहं, वैशाली, कपिलवस्तु, शमग्राममल- कामुष्यदीपं, पावां, कुशीनगरश्च नीत्वा भूमौ स्थाए- यित्वा तदुपरि स्तूपान् निर्मापयामासुः । सम्भ्रान्तभूभदंशावतंसोऽपि बुद्धदेवस्तरुतले जननी- गर्भात्पथमं पृथिवीं पस्पर्श, तरुतले एव तपस्तेपे, तरुतले एवोदबोधनालोकं ददर्श, तरुतले एव च तनुं तत्यान । वाल्यादानिर्वाणं बुद्धदेवः क्रमेण पितृभक्तो, वैराग्यवान , मतुलराजविभवत्यागी, तपस्वी, निःस्वार्थपरोपकारपरा- [ २० ] * चारुचरितावली यणोऽलौकिकतमताशाली, सद्गुणानां रक्षको भूत्वा म- यान् मुक्तिपथे प्रवर्तयितु सयत्नो वभूव । भगवान् बुद्धदेवोऽपि प्राचीनार्य धर्मशास्त्रानुसारमेव गृहस्थेभ्यो दशलक्षणात्मकं धर्ममुपदिदेश । स शीलं प्रिय- भाषणमहिंसामप्रमादश्च विशेषेण शिक्षयामास । स सत्यं सदाचारश्च प्रतिपदमुपदिदेश । यथा "बहु सत्यञ्च शिल्पश्च, विनयश्च सुशिक्षितः । सुभाषितं च यदद्वाचा, एतन्मंगलमुत्तमम् ॥ भरतिर्विरतिः पापा, न्मद्यपानाच्च संयमः । अप्रमादश्च धर्मेषु, एतन्मंगलमुत्तमम् ॥ क्षान्तिश्चसुवर्चस्त्वम् , श्रमणानाञ्च दर्शनम् । कालेन धर्मश्रवण, मेतन्मंगलमुत्तमम् ॥ तपश्च ब्रह्मचर्या च, मार्यसत्यानुसेवनम् । निर्वाणसाक्षात्कारश्च, एतन्मंगलमुत्तमम् ॥" तस्मिन् काले तम्य धर्मस्तथा मनोग्राह्यासीद्यथा तदानीन्तना अपरे सर्वेऽपि धर्मास्तस्याग्रे निस्तेजस्का बभूवुः । अद्य बुद्धस्य निर्वाणं गतस्य वर्षाणां पादोनत्रि- सहस्र व्यतीयाय, परमधुनापि कोटिशो मनुष्यास्तद्धर्मानुः यायिनस्सन्ति ।
महात्मा बुद्धदेवः । [२१] १ पड्विंशत्युत्तरद्विशतवाणि वैक्रमाब्दात्पूर्व(२२६वि० पू०) मगधाधिपस्य सम्रान:प्रियदर्शिनोऽशोकस्यमहोद्योगेन पञ्चत्रिंशदुत्तरकशतमिते वैक्रमान्दे(१३५वि०) च महाराज- कनिष्कस्य प्रयन्नेन बौद्धधर्मस्पमस्तैशियामहाद्वीपे परिपोष विस्तारश्च लेभे । सम्राडशोको बौद्धधर्मप्रचारकाणां भिक्षुकाणां चतुःषष्टिसहस्रममादिदानेन पोपयामास, चतुरशीतिसहस्रं स्तूपानाञ्च निर्माप्य बौद्धधर्मस्य महिमानं विस्तारयामास । तेन मस्तरस्तम्भेषु शिलासु च समस्तं भारते वर्षे काबुलादिदेशेषु च ब्राह्मीखरोष्ठीलिपिभ्यां तदा प्रच- लितायां पालीभाषायां बौद्धधर्मप्रचाराय बौद्धधर्मस्यासं- ख्याः प्रशस्तय उत्कारिताः । एताः प्रशस्तयःपरमविदुषा १ टिप्पणी-अशोकस्य समयो राजधानी च विधादवर्जिते न स्तः । केचित् कल्हणकृतराजतरंगिण्यां वर्णितं प्रथमगोमन्द- घंशावतंसं धर्माशोक बौद्धधर्मप्रचारकं घर्णयन्ति । २ टिप्पणो-महाराजकनिष्कसमयोऽपि महाविवादविष- यः । श्रीकल्हणकृतराजतरंगिएयां वर्णितां कश्मीरराजवंशावली. मनुसृत्य पञ्चोत्तरद्वादशशततमे धैक्रमाने ( १२०५ वि०) वर्तमानाद्राजतरगिणीप्रणेतुः करहणान्महाराजकनिष्काभिषेक यावद्विपष्टय त्तरत्रयोविंशष्तं समा (२३६२ वर्ष) गण्यन्ते, तेन महाराजकनिष्कस्य समयो विक्रमात्सप्तपञ्चाशदुत्तरेकी. दशशतवर्षपूर्व ( ११५७ वि० पू०) मायाति ।
[ २२ ] * चारुचरितावली * साहित्याचार्येण एम. ए. उपाधिधारिणा पं० रामावतार- शर्मणा संगृह्य संस्कृताङ्गलानुवादाभ्याश्च समलंकृत्य “मि., यदर्शिनशस्तय" इति नाम्ना प्रकाशं नीताः। बहूमूल्यो ग्रन्थोऽयं प्रशंसितात्साहित्याचार्यात् सुलभमूल्येन पाप्यते ! अशोको निम्नलिखितैः पञ्चभिरुपायोद्धधर्मस्य प्रसारे सफलो बभूव । (१) धर्मविभेदमीमांसायै धर्मपरिपदं स्थापयामास ( २ ) अनुशासनपत्रेण धर्मनीति व्याचख्ये । ( ३) धर्मविशुद्ध में राजकीयं धर्मविभागं स्था- पयामास। ( ४ ) दूरदेशेषु प्रचारकान् प्रेष्य बौद्धधर्म प्रचार- यामास । (५) स्वप्रबन्धन स्वनिरीक्षणेन च विद्वद्भिवौद्ध- भिक्षुभिवौद्धग्रन्थान् परिशोधयामास । अशोकशासन एव बौद्धधर्मो लङ्काद्वीपे लब्धप्रसरो बभूव । पञ्चनवत्युत्तरपड्शतमिते वैक्रमाब्दे श्यामदेश- वासिनो बौद्धधर्म स्वीचक्रुः । इतश्च किञ्चित्याक्काले बौद्ध- धर्मप्रचारका यवदोपं ( जावां ) गत्वा बौद्धधर्मस्य जयाताकां निचख्नुः । शनैःशनरिमे धर्मप्रचारकास्त्रिविष्टपं (तिम्चतं ) मध्येशियामहाद्वीपस्य दक्षिणं भागं चीनश्च ययुः । एकोनत्रिंशदुत्तरचतुश्शततमे वैक्रमाब्दे कोरियानि, * महात्मा बुद्धदेवः * [ २३ ] वासिनो धर्ममिमं जगृहुः । नवोत्तरषड्शतमिते वैक्रमाब्दे कोरियानिवासिनो धर्मप्रचारका जापानं गत्वा तत्रत्यान्स्व- धर्मे(बौद्धधर्मे )ऽदीतिषत । योरुपमहाद्वीपेऽपि एलेकजे- ण्ड्यिायां पैलेस्टाइने ग्रीसे रोमे च बौद्धधर्मस्य दुंदुभिर्ना- दित इत्यपि श्रूयते । अधुनापि सर्वस्मिन्संसारे बौद्धधर्मानुयायिनस्सर्वेतर- धर्मावलंबिनस्संख्ययातिशेरते । परमद्यतनीनो बौद्धधर्मो निनादिमस्वरूपाबहु भिद्यते । “अहिंसा परमो धर्म" इति मूलमन्त्रं गृहीत्वोपक्रान्तस्य धर्मस्यानुयायिनस्संप्रति सर्वेपां जन्तूनां मांसानि भक्षयन्तीत्यहाँ कालचक्रस्य परिवर्तन- शीलत्वम् । वस्तुतस्तु सर्व एव धर्मा गङ्गोत्तरीजलं गङ्गा- सागरे यथा सुदीर्घ कालमतिवाह्य स्वादिमाचार्यात्माप्त निजस्वरूपं परिवर्तयन्त्येव । तेन नात्र विशेषेण बौद्धधर्म- स्य वचनीयतेति ।
[२४]
* चारुचरितावतो.
यत्र च्छागतुरङ्गमारणविधिदेऽपि तं निन्दसि,
प्रेम्णा पाणमृतामतः सकरुण स्त्वत्तो महान् नापरः।
एवं ते गुणसंपदो न विषया, बुद्धरसूयात्मनां,
से मूढाःप्रलपन्ति हन्त सुगतो,मबेदनिन्दीत्ययम् ।।
(भतिशतकात् ६६ तमः श्लोकः)
इति बुद्धचरितम्
चारु-चरितावली
و مرد دلار
+
.
।
.
-
ra
निजोहण्डप्रतापेन, हरन्मायां निशामयीम् ।
जीवब्रह्मकतापादी, श्रीमानयति शंकरः ॥
* श्रीशङ्कराचार्यः * अभेदोऽभेदो वै, भवति जगतां ब्रह्मणि परे, प्रजाया जायाया,जनिमृतिमयं शाम्यति जगत्। अजाया मायाया, विरमति यतोऽयं कलकलः, यतेत्र ह्मज्ञानं, विलसति सदा शङ्करगुरोः ।। निवृत्तिमार्गमूलकोऽहिंसापरमधर्माधारः, प्राणिनां पर- मोपकारको बौद्धधर्मो बहुशताब्दीव्यापिकालक्रमेणानुया- यिनामनयेन परिवर्तमानोऽनेकदोपक्षितस्त्रुटितश्चाभवत् । धर्मरक्षणार्थ बुद्धदेवेन संस्थापितो भिन्तुकाणां सचः प्रथमं पतितावस्थां प्रापत् । धर्मरक्षकाश्श्रमणा एव धर्मभक्ष का भूत्वा पापपङ्के न्यमज्जन् । परमं धर्ममहिंसामपहाय सर्वविधानि मांसान्य- [ २६ ] * चारुचरितावलो * भनन् । भिक्षुकाणां विहारा विलासानां विहारास्समप- घन्त । क्षुद्रातिशुद्रान् विषयावधिकृत्य परस्परं विवदमानास्ते हीनयानमहायानायनेकोपसंपदायान् प्रवर्तयामासुः । ततस्तदनुयायिनो बौद्धा अपि बुद्धदेवेनैकमात्रकर्तव्यत्वेनो- पदिष्टं सदाचारं त्यक्त्वा शुष्कविवादनिरता निरीश्वरवा- दिनो बभूवुः । निरोश्वरवादस्तेषां धर्मस्य प्रधानराद्धान्तो. ऽनायत । सर्वव्यापकसर्वेशकदेव विश्वासविनिता अपि ते दुर्वलहृदयाः कमपि देवं विना स्थातुमशक्नुवन्तो, बुद्धदेवमेव निजेष्टदेवम्मानयन्तस्तस्य प्रतिमाः पूजयन्तः, क्रमेण नानादेवोपासनरता जडद्रव्योपासकाः प्रेतपूजकाश्चाभवन् । विविधानि जघन्यानि विधानानि च तेपां कर्मकाण्डपदवी- मधिरुरुहुः । बौद्धानाभिमां दुर्दशा संवीक्ष्य तेषां पुरातनपरिपन्धिनः प्राचीनपथपत्नपातिनः कर्मकाण्डिनो ब्राह्मणास्तेषामेव विवादात्मकैश्शस्त्रैस्तान् प्रबलमवरुरुधुः । बहुषु स्थानेषु च तान् दुर्भेद्यतः संजित्य कर्मकाण्डस्य श्रेष्ठतां संस्थाप- यामासुः । पुनरपि सर्वत्र पशुवधात्मका यज्ञाः प्राचीचलन् । त्रय्या ज्ञानकाण्डं सर्वथा व्यलुप्यत । श्रुतयो विनियोगमा- त्रांदेश्या अमन्यन्त । तासामर्थविचारचर्चा नितरांव्यलीयत।
* श्रीशङ्कराचार्यः * [ २७ ] कर्मकाण्डिनां संप्रदायेन साकमेव नानादेवोपासका- स्स्वस्य स्वस्याराध्यदेवं सर्वोत्कृष्टं मन्यमानाः, परेप्टदेवताश्च विगर्हमाणाः, परस्परविरुद्ध पूजापद्धतीः परिचरन्तः, शैव- शाक्त-पाशुपत-क्षपणक-कापालिक-भैरव-सोर गाण- पत्यादिनानामतानि सर्वतः प्रासीसग्न् । तेषु कौलभैरवा- दयः कतिपये सम्प्रदाया ब्रह्महत्यासुरापानादिमहापातका. न्यपि निजधर्माङ्गत्वेनाङ्गीकृत्य निजनिरययानं विस्तारया- मासुः । पुण्या भारतभूमिस्सर्वत्र कदाचारैः पातकैश्च पर्य- पूर्यत । धर्मसंकटोऽयं सनातनशङ्करस्य शङ्करीङ्करुणामुदबोध- यत् । धरां पापभराक्रान्तां दृष्ट्वा, स्वामृतपुत्राँश्च पापपङ्क- निमग्नान्निरीक्ष्य, परमशिवो भूभारं लघुचिकीर्षुः, प्रजाश्च कुकर्मकर्दमादुद्ध कामो, निजनित्यनियमानुसारं स्वविभूति श्रीशङ्कराचार्यरूपेणोामवतारयामास । यथादिसृष्टस्स- मये समये पापस्य प्रवृद्धी महात्मानो महापूरुषा विशिष्ट ज्योतिरादाय संसारेऽस्मिन् प्रादुर्भवन्ति, तथैव जगदुद्धार- कश्श्रीशङ्कराचार्योऽपि संसारभूत्या ऐशं तेजः संधार्य धरामिमां स्वजन्मनालश्चकार । पुरा किल न्यवसदाक्षिण्याधिरूढे दक्षिणापथे मनोज्ञे केरलदेशे परमर्ने परशुरामक्षेत्रे पूर्णाभिधायाश्चरनीत्य- परनाम्न्याः (सांप्रतमैलेवोईति ख्यातायाः) निम्नगा.
[ २८ ] * चारुचरितावली* यास्तटे श्रीगोविंदनाथस्य श्रीवृषाद्रिनाथस्य च मन्दि- राभ्यामलकरते कालटीनानि प्राचीनेऽग्रहारे वेदवेदाङ्गपा- रगः, कर्मठस्सदाचाररतो, धर्मेकमाणो विद्याधिराजनामा भूसुरः। प्रभूच्च तस्य शिवगुरुनाना तनयः। स च यथाशास्त्रमधीतसाङ्गोपाङ्गवेदविद्यो गुरोराज्ञया गृहमागतो गुरोः पित्रोश्चाग्रहेणानुरूपां सुलक्षणामार्याम्या नाम्नी विदुपी वध् परिणिनाय । न लेभाते सर्वगुणा- लङ्कतौ सर्वविधसम्पत्समेतावपि दम्पती चिराय सन्ततिम् । सन्तानमनोरथेनानेन कालं नयन् शिवगुरुस्सत्पुत्रोत्पाद- कामनया भक्त्या शिवं पूजयाञ्चक्रे । ततः कदाचिनिद्राग- तस्वम महेश्वरेण "वत्स वरं वृणीष्वगत्युक्तश्शिवगुरु"रेक भवन्तमित्र सर्वज्ञं सर्वशक्तिञ्च पुत्रं मे देही"ति वरं वने । तदाकये "तथास्त्विति महेश्वरेणाज्ञप्तस्तस्यां रात्रौ स शम्भुनेजसा युक्तस्तस्यां धर्मपन्यां कुलभूत्यै गर्भमाधत्त । दशमे मासि कुलवधूवरिष्ठार्याम्बा निजेष्टदेवताया कृपाद्रिनाथस्य कृपाकटाक्षण त्रिनवत्युत्तरपञ्चविंशतिशततमे फलिसंवत्सर, एकत्रिंशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्द, शुभे मुहूर्ते, भानुवासरयुदगयने, बैशाखशुक्लपञ्चम्यां, मध्यान्हे, पुनर्वसुनक्षत्र, कर्कटलग्ने, सुलक्षणोपेतं सुतम- सूत । महातेजसस्तस्य बालस्य जन्मपत्रिकाधो लिख्यते ।
* श्रीशङ्कराचार्यः - [२६] मीन शुक्रः मेषे सूर्यो बुधश्च वृपभे मिथुने चन्द्रः कर्कटे गुरु श्रीयुधिष्ठिरशकं २६३१, कल्यब्दे कुम्भे २५६३, क्रीष्टुशकात्पूर्व ५०६, नन्द- नवर्ष,उत्तरायणे, मेषराशी, वैशा- जन्मलगम् खमासे, शुक्लपक्ष, पञ्चमोतिथौ, भानुवासरे, पुनर्वसुनक्षत्र, कर्कट- मकरे कुनः लग्न, अभिजिन्मुहूर्ते श्रीशङ्करभग सिंह वत्पादजननसमयः धनुषि वृश्चिके तुलायां शनिः कन्यायाम सुतजन्मर्षितश्शिवगुरुर्नवजाततनयं कैलासनाथं शङ्करमिव मस्तके चन्द्रलेग्वाकारया रेखया भूरितमंसयोश्च त्रिशूनचिन्हाभ्यां पिलाभ्यामुपशोभितं दृष्ट्वा तस्य शङ्कर- नाम चक्रे । स शिशुरशङ्करस्यानुग्रहेण प्रादुर्भूतो जनानां शङ्करोऽन्वर्थशङ्करोऽभूत् । बालश्शङ्करोऽलौकिकी प्रतिभा चमत्कारकारिणी शेमुषोश्च धारयामास । स प्रथमाब्दपूर्त्यामेवैतादृशं बुद्धि- वैभवं प्रदर्शयामास, यत्पिता तृतीय एव वर्षे तं वर्णमाला- भ्यासं कारयामास । श्रीशङ्करो बाल्यादेवैकश्रुति परो .--. -- [ ३० ] * चारुचरितापली चा, स यत्किश्चिन्छन्दजातमेकदा शुश्राव सदेव श्रुत- मात्रं कण्ठाग्रमकरोत् । प्रथमे वयप्ति श्रीशङ्कराचार्यस्य सतीर्थ्यस्य, पश्चात्तस्याविरतसहचरस्य, विश्रब्धशिष्यस्य च श्रीचित्सुखाचार्यस्य लेखानुसारं श्रीशङ्करः पञ्चमे वर्षे गुरुणोपनीतो वर्षयुग्माभ्यन्तर एव सव्याकरणं ससाहित्य सर्वशास्त्रसमूहं सरहस्यं वेदश्चाधिनगाम । बालश्शङ्करस्स- हगमतिभया, विलक्षणविद्यया, मधुरस्वभावेन,दयालुहृदयेन च कालटीवास्तव्यानां तत्मान्तीयानाञ्च जनानां मनांस्या चकर्प, तेषां प्रशंसाभाननश्च बभूव । अनेनैव क्रमेण श्रीशङ्करोऽष्टमे वर्षे सर्वशस्त्राणां पारमगमत् । तस्य कुशाग्रबुद्धिरधोतायाश्श्रुतेः प्रत्येकांशे तेन पश्चात्प्रचारिताद्वैतवादस्याधारभूतं ब्रह्मैक्यसिद्धान्तस्य बीनमनायासं ददर्श । दुर्दैवेन तस्य पिता तस्य विद्यासमाप्तिं द्रष्टुं सौभाग्य- शाली नासीत् । वर्षीयान् शिवगुरुश्शङ्करस्याष्टमे वर्षारम्भ एवेहलोकलोलया विरराम । दुर्घटनैषा शङ्करस्य सहज वैराग्यप्रवृत्तिमुधियामास । स च संसारं त्यक्त्वा तुरी- याश्रमं प्रवेष्टुं मश्चक्रे । परं सर्वसम्मानास्पदस्य पतिवियोगकातराया मातु: पीतिपरत सो वर्ष यावतस्वमनोग्थं पूरयितुं न शशाक । पर-जोकान्तरितपितुवार्षिकश्राद्धकर्म निवर्त्य सन्यासदी.
. * श्रीशङ्कराचार्यः * [ ३१ ] खायै मातरं निर्बध्नन्नपि स भर्तृवियुक्ताया यावज्जीवनमे- काकिताशोकसंतप्तायास्तस्या अनुपतिं न लेभे । अथैकदा श्रीशङ्करो मात्रा सह स्नानार्थ नद्यामवतीणों जतचारिणा ग्राहेण पदेऽधियत । "हा अम्ब विवृतं.रुमुखेन बलवता ग्राहेण धृतोऽस्म्येकपदमपि चलितुं न पारये । अपूर्णसन्यासमनोरथस्यैव पञ्चत्वप्राप्तस्य म आत्मा परलोके शमं नैष्यतीति सकरुणं मातरमवदत् । माता तस्य तां वाचं श्रुतवती, तदवस्थं पुत्रं पश्यन्तो, तत्प्रतीकारमपश्यन्ती च तत्तणमेव तमापत्सन्यासग्रहणायानुमेने । शङ्करश्च सन्यासदीतां जग्राह, नक्रश्च तस्य पादं मुमुचे । ततस्स सन्यासी भूत्वा नक्रयाहान्मुक्तस्सलिलादुत्तत्तार । एवं जलादुत्तीर्णो,मात्रे कृतपणामो"ऽम्ब यदा त्वं मां स्मरिष्यसि तदा त्वत्सन्निधौ त्वदाज्ञापरिपालनाय सन्नद्धो भविष्या- मीति मातरं सान्त्वय, श्रीशङ्करोऽल्पे वयस्येव संसारं सन्यस्यन्नपि स्वकर्मक्षेत्रं निनावासग्रामस्य सङ्कीर्णावधे- विश्वजनीनसमस्तवसुधायां विस्तारयन्, परमपावनं तुरी- याश्रमं प्राविशत् । युवा सन्यासी स्वपतिज्ञां मात्रे पुनर्निवेद्य कर्मसन्या- सदीक्षायै गुरुमन्वेष्टुमेकाक्येवोदचलत् । मार्गमनुसरन् , सागरस्य पश्चिमवेलायां स्थितां गोकर्णनामप्राचीननगरी प्राप्तः, कालख्यामाचार्यकुलेधीयानेन निजपूर्वसतीयन [ ३२ ] * चारुचरितावली * विष्णुशमणा संगतस्तं चित्सुखनाम्ना स्वशिष्यत्वेना- ङ्गीचकार । एष एव चित्सुखाचार्य एकनवत्युत्तरषड्विंश- तिशतततमे युधिष्ठिरशके ( २६६१ यु.), चतुःपश्चाशदु. तरषड्विंशतिशततमे कल्यन्दे (२६५४ कलि ) श्रीद्वार- कामठस्य पीठं श्रीब्रह्मस्वरूपाचार्यानन्तरं तृतीयाचार्यत्वे. नाधिरुरोह, अशीतिवर्षवयसि च पञ्चदशोत्तरसप्तविंशतिश. ततमे युधिष्ठिराब्दे ( २७१५ सु०) पौषशुक्रवतीयायां ब्रह्मभावं प्रपेदे। स स्वप्रणीते बृहच्छंकरविजये ग्रन्थे सन्यासाय मातुर. नुमतिप्राप्तिपूर्वमेव शङ्करस्य वैदिकलौकिकविधयोविलक्षणं ज्ञानमत्युत्कृष्टांप्रतिभाश्च प्रशंसन् , स्वयमेवात्मानं गोकर्ण- निवासिनमाचार्यकुले पञ्चवर्षदेशीयेन शंकरण संगतं, सन्यासदीक्षायै गुरुमन्वेष्टुं गतस्य शंकरस्य स्वानु- सरणं, निजगृहगमनात्काञ्च्यां श्रीकामातीदेवीमंदिरे श्री. शङ्करस्य ब्रह्मभावाप्तिं यावत्तेन सततसहवासश्च वर्णयति । वस्तुतस्तु स श्रीशङ्करस्याद्योपान्तचरितस्य साक्षी तस्मा- त्पञ्चवर्षाधिकवयास्तस्य शिष्यश्चासीत् । बृहदाकारत्वा- हहच्छंकरविजयेति गुरुशंकरविजयेति वा नाम्ना प्र- सिद्ध तत्पणीते शंकरचरिते श्रीशंकरस्य सुरेश्वरस्य च समग्राणि चरितानि ताभ्यां कृता विविधा ग्रन्थाश्च वर्णिताः। भाष्याणि तु नाम्नैव निर्दिश्य श्रोशकरस्य सर्व लपवो * श्रीशंकराचार्यः * [ ३३ ] निबंधास्तेषां निर्माणावसरनिर्देशपुरःसरमत्र संगृहीताः। ग्रन्थोऽयं 'पूर्वाचार्य सत्पथा, 'शङ्कराचार्यसत्पथा, 'सुरेश्वराचार्यसत्पथेति प्रकरणत्रये विभक्तः । एत- दुपादेयपुस्तकमद्यावधि मुद्रयित्वा प्रकाशतां न नीतमिति खेदावहम् । तत्कर्ता चित्सुखो वेदान्तभाष्यस्य चित्सु- खीति नाम्ना प्रसिद्धस्य विवरणस्यापि प्रणेता प्रतीयते । भनेनैव चित्सुखेन सहोत्तरभारतं परिभ्रमन् श्री. शङ्कराचार्यश्चत्वारिंशदुत्तरषड्विंशतिशततमे युधिष्ठिराब्द ( २६४० यु० ) फाल्गुनशुलद्वितीयायां नर्मदातटस्थेऽ मरकण्टके श्रीगोविंदयोगिना समगच्छत । गोविंदयोगी पूर्व गृहस्थाश्रमे चन्द्रशर्मेति चन्द्राचा- येति वा नाम्ना प्रसिद्धो, विख्यातवैयाकरणः, प्राक्याच्य. देशाधिवासी, पश्चादुज्जयिन्यां वसन् , चातुर्वर्ण्यस्यै. कै काधतस्रो भार्याः परिणीय तासु क्रमशो भतृहरि-विक्र- मादित्य-महि-वररुचिनाम्नः पुत्राएत्पादयामास । ब्राह्मण्याः पुत्रो मर्तृहरिरुज्जयिन्यां कश्चित्कालं कृतराज्यो, रानमहिष्या दुराचारेण वैराग्यमुपगतोऽवर- जाय क्षत्रियासून विक्रमादित्याय दत्तरानसिंहासनो,गृही. ततुरीयाश्रमः, कण्वशाखाया बृहदारण्यकोपनिषद्भाष्यं, वाक्यपदीयव्याकरण कारिकाग्रन्थं , नीति-शृङ्गार-वैराग्य- [३४] * चारुचरितावली * शतकत्रयात्मिकां सुभाषितावलीञ्च प्रणिनाय । स प्रत्येकदेवभाषानुरागिणा च परिचितः । क्षत्रियागा उत्पन्नो द्वितीयः पुत्रो विक्रमादित्यः श्रीहर्षपदलाञ्छनो राजतरङ्गिण्यां मातृगुप्तनाम्नाख्यातः विक्रमाच्चतुःशतीवर्षपूर्वम् (४०० वि० पू०) उज्जयिन्यां शशास । तस्मादेव समयादारभ्य तस्य हर्षाब्दो नयपाला. द्युत्तरप्रान्तेष्वद्यावधि प्रचलितोऽल्बरूनीनाम्ना प्रसिद्ध मुसन्मानपर्यटकेन निजयात्रावृत्तान्ते निर्दिष्टश्च । हर्पवि क्रमादित्य एष सप्तपञ्चाशदर्प स्त्रीष्टात्पूर्व (५७ ईसा पूर्व) मालवाब्दप्रवर्तकाद्वीरविक्रमाद्विभिन्न एव । वैश्याया जातो भहिश्च भट्टिकाव्यकर्ता प्रसिद्ध एव । शूद्रातनयो वररुचिः कात्यायनापरनाम्नो वार्तिक विरचयितुर्वररुचेविभिन्न एव प्रतीयते, तस्याष्टाध्यायी प्रणेतुर्वर्षाचार्य शिष्यस्य व्याडीन्द्रदत्तादिसतीर्थ्यस्य शालातुरीयस्य दाक्षीपुत्रस्य पाणिनिमुनेस्समकालिक- त्वात् । अत्र वर्णितो वररुचिः प्राकृतप्रकाशिकानाम- प्राकृतव्याकरणस्य कर्ता स्यात् । यद्यपि गोविंदभगवत्पादो निजगुरुश्रीगौड़पादा- चार्यसमो विद्याविभवेन संपन्नो ग्रन्थपणेता च नासीत्, तथापि स श्रीशुकयोगींद्रवत्सहजसिद्धो योगी च ।तत्प्रणीतं "योगताराबली", "अबैतानुभूतिः", "ब्रह्मामृतव. , - * श्रीशंकराचार्यः * [ ३५] र्षिणोति ग्रंथत्रयं प्रसिद्धम् । श्रीशंकरो गोविंदयोगिनं सानंदं स्वसन्यासदीक्षकमाचार्य बत्रे, श्रीगोविंदयोगी चातिशयेन मुदा तं स्वसुयोग्यशिष्यत्वेन जग्राह । एवं श्री. चित्सुखाचार्यवर्णनानुसारं श्रीशङ्करो वर्षद्वयं निनाचार्यस्य पावनं चरणारविंदं सेवमानो वेदान्तस्य तदानीं प्रचलित. दर्शनानाञ्च समग्रान् ग्रन्थान् तस्मादधिजगाम । गुरोरधीतेषु ग्रन्थेषु श्रीगौडपादाचार्यस्य कारिकाः शङ्करं बलवत्प्रभावयामासुः । तासु वटबीजवृत्तवनिहितं पश्चानिनशारीरकभाष्ये प्रपश्चितमद्वैततत्वस्य मूलं प्राप्य स तासां भाष्यनिर्माणाय परमगुर्वनुपति प्राप्तु कामस्तं साक्षात्क मियेष। कामनयानया प्रीतो गोविंदभगवत्पाद- श्शंकर हिमालये श्रीषदरिकाश्रमं वसतो निजगुरोर्गोंड- पादाचार्गस्य सामीप्यं प्रापयत् । शंकरो ब्रह्मनिष्ठारतं विंशत्युत्तरशतवर्षवर्षीयांसं (१२० ) परमगुरुं संवीक्ष्य परमानन्दमविंदत,चत्वारि वर्षाणि च तस्मान्साक्षाच्छात्रा. एयध्यैष्ट । तेष्वव दिवसेष्वेकदा शंकरः परमगुरोःमाण्ड. क्योपनिषत्कारिकाणां भाष्यरचनायानुमति लब्ध्वा प्रस्थानत्रय्या भाष्यस्योपोद्धातरूपं तद्भाष्यं प्रणिनाय । फारिकाभाष्येण संतुष्टो गौडपादाचार्यः श्रीशङ्करं प्रस्थानत्रय्यास्तत्समान भाष्यं प्रणेतु तेन च संसारे वेदा- न्तदर्शनस्य प्राधान्यं संस्थापयितुमादिदेश । तेष्वेव चतुर्यु 1 ३६ ] चारचरितावली वर्षेषु श्रीशंकरो वेदान्तप्रस्थानत्रय्याः प्रख्यातपोदराभा- ष्यनिर्माणेन विलक्षणां प्रतिधामलौकिकं कार्यसाध. नसामर्थ्यश्च प्रदर्शयामास । ततः श्रीगौडपादाचार्यः श्रीगोविंदभगवत्पादश्च श्रीशं- करमद्वैतसिद्धान्तपचाराय वाराणसीं गन्तुं प्रेरयामासतुस्त- स्यां यात्रायाश्च तमाशीर्भिरयुक्ताम् । तदङ्गीकृत्य चिर- मित्रेण नवदीक्षितशिष्येण चित्सुखेन सह शङ्करे वाराणसी प्रस्थातु प्रस्तुते, तत्सगोत्रोऽग्निशर्मा, कालव्यां वसन्त्या चर्षिष्ठया तन्मात्रार्याम्बया स्वर्णरत्नानि दत्वा प्रेषित, श्रागतः, शंकराय तान्युपायनीकृत्य, वृद्धाया मातुरसाध्य- रोगवृत्त न तं निराशाहतं चकितं चाकरोत् । सहसैव स विश्रब्धेनानुचरेण शिष्येण चित्सुखेन सह कालटीमुदच- लन्, वृद्धां मातरश्च द्रष्टुमुत्सुकः पर्वतकाननान्यतिक्रामन् निजजन्मभूमिमवाप । कृशकलेवरातिदुर्वलापि तन्माता पाङ्गणं परिभ्रमितु समर्था निनान्तिमे क्षण एकाकिनं पुत्रं दृष्ट्वा परमां मुदमवाप । शंकरोऽपि सन्यासिनां नियमान् न्यकृत्य मातरं प्रति धावन्नत्यादरेण तच्चरणौ पस्पर्श, पुत्रोचितभक्त्या च तायाशिश्लेप । पुत्रवत्सला माता पुत्रा- लिङ्गनेनात्मानं सर्वथा रोगनिर्मुक्तं पूर्णप्रसन्नमनुभवन्ती शंकरं तस्य महाकार्य आशिपा संयोज्य परमानन्देन योगीव तनुमत्यजत् ।
* श्रीशंकराचार्यः [ ३७ ] श्रीशंकरस्सन्यासस्वीकारसमय मात्रा सह निजप्रति- शानुसारं तस्या पोर्ध्वदेहिकक्रियां स्वयमकरोत् । केरलीय. प्राचीनब्रामणानां प्रथाश्चानुसृत्य निजावासपृष्ठाङ्गणे चि- तायां मातुर्देहं ददाह । दाहावसरे तेन कृतं मातस्तुतिनाम पञ्चपद्यमयं लघुकाव्यं वृद्धाया मातुस्तस्यासीमभक्त्याः परमं धमाशम् । परमां मातृभक्तिं धारयतश्शंकरस्य कवि- तापया एत उद्गाराः स्वाभाविका एव । सन्यासिनापि तेन तदौदेहिक क्रियानिर्वर्तनं तदनुरूपमेव । मातृस्तुति. रनेन पधेन प्रारभ्यते ।- आस्तां तावदियं प्रसूतिसमये, दुर्वारशूलव्यथा, नैरुच्येतनुशोषणंमलमयी, शय्या च सांवत्सरी। एकस्यापि नगर्भभारभरण,क्लशस्ययस्याःक्षमो, दातुं निष्कृतिमुन्नतोऽपितनयस्तस्यैजनन्यैनमः॥ तदैव सनंदननामा युवा ब्राह्मणः कालटीमागतः श्रीशङ्कराम बदरिकाश्रमादमरकण्टके नर्मदातटस्थ स्वाश्रमं प्रतिनिहास्य प्रबलरुजातस्य तस्य सम्मान्यगुरोः श्रीगोविंदभगवत्पादस्य स्वपरलोकभयाणात्पूर्व पियशिप्य- शङ्करावलोकनोत्कण्ठात्मकं संदेशमुपाहरत् । शारचरितस्य प्राचीनलेखको चित्सुखानन्दगिरी सनन्दनं श्रीलक्ष्मीनरसिंहमंदिरेण मसिद्धाहोवलनगर- [ ३. * चारुचरितावली निवासिनोलक्ष्मीमहादेवनाम्नार्धनाढ्यधार्मिकदम्पत्योः पुत्र वर्णयतः। शिववरण प्राप्तस्य तस्य पितरौ पाल्य एवं परलोकपान्थौ बभूवतुः, सच पूर्वमीमांसायाः पसिद्धा- चार्यस्य प्रभाकरस्य शिष्येण निजमातुलेन दिवाकराध्व- रिणा संवर्धितःशिक्षितोऽचिरेणेव लौकिकवैदिकसाहित्ययोः पारंगतोऽनिच्छन्नपि मातुजस्य दुहितुः पाणिं ग्राहितो मातुलस्य मीमांसामनमत्रीकुर्वश्व नवोढया भार्यया जीवन सु वविवर्जितमत्यवाहयत्, मातुलेन च कलहायमानस्तस्य गृई धनश्च त्यक्त माध्यात्मज्ञानार्जनाय सद्गुरुमन्चेष्टुमुदच- लत् , श्रीशङ्करस्य च की.कृष्टस्तं बदरिकाश्रमस्थं भुत्वा तत्स्थानं गतो,रुग्णस्य तस्य गुरोर्गोविंदभगवत्पादस्य नर्म- दातटस्थाश्रमयात्रया,श्रीशंकरस्य च पूर्वमेव परलोकमयाण- प्रस्तुनाया मातुस्सकाशं गमनेनोद्विनचेता, अमरेश्वरं यावत् गोविंदभगवत्पादमनुसरन् , कालव्यां श्रीशंकरमायात् । तस्योदन्तेन संतुष्टः श्रीशंकरस्तं प्रधानशिष्यले गृही- वा, गुरुदर्शनानन्तरं तस्मै सन्यासदीक्षापूर्वकं वेदान्तो- पदेशं प्रतिशृण्वंस्तेन चित्सुखेन च सहामरेश्वरं मस्थिनो, मामेन च गुरोराश्रमं प्राप्तो मध्येनर्मदं पैदूर्यपर्वते मान्धातद्वीपेऽतिवृद्ध गतचेतन गुरु गोविंदभगवत्पाद निजपुत्रेण भर्तृहरिणा मुख्यैरन्यैरिशष्यैश्वान्वासितं,माणो- क्रमणं प्रतीक्षमाणं ददर्श । प्रियशिष्यशंकरस्य मधुर:
* श्रीशंकराचार्यः [ ३६ ] ध्वनिना लब्धचेतनो गोविंदभगवत्पादस्स्वस्थ इव शय्यो. त्थितः, प्रेम्णा तं परिष्वजमानोऽद्वैतस्थापनाय भारते वर्षे दिग्विजययात्रामङ्गीकर्तुं तमादिदेश, स्वारशेपान् शिष्यांश्च शंकराज्ञामनुवर्तितुमाज्ञापयामास । अन्तिमे क्षणे दिग्विज ययात्रायां शंकरयाशिषा संयोजयन् प्रणवञ्चोचारयन् कार्तिकशुनपूर्णिमायाँ पटनत्वारिंशदुत्तरपड्विंशतिशततमे यौधिष्ठिरान्दे ( २६४६ यु०), वैक्रमाब्दाच्च पत्रिंशदुत्त- रचतुःशतवर्षपूर्व ( ४३६ वि० पू०) योगेन तनुम त्यजत् । गोविंदभगवत्पादस्यौदेहिकसमाधिक्रियानन्तरं श्री. शङ्कराचार्यः सनंदनमार्थनया तं काषायपदानपूर्वक सन्या- साश्रमे प्रवेश्य, पत्रपादनामानश्च कृत्वा, तस्याद्वैततत्वो. पदेशार्थमात्मबोधनामकं कवितामयं प्रसिद्धवेदान्तप्रकरणं कृत्वा, तं स्वशिष्यत्वं गतान् गोविंदभगवत्पादशिष्याँश्चा. पाठयत् । ततः श्रीशङ्कराचार्यः सर्वशिष्यस्सह दिग्विजययात्रायें प्रतस्थे । सर्वतःप्रथम स सनातनविद्यापीठं, पसिद्धतीर्थ- गजं, प्रयागमागतश्शास्त्रार्थर्वेदान्ततत्वोपदेशैश्च प्रसिद्धि पानो नानादेशेभ्यो नवागताधसंख्या शिष्यान् प्रस्था. नत्रयीभाष्यमध्यापयामास । एकदा वेदान्तं प्रचारयन् श्रीशंकराचार्यः सशिष्यः :
[४०] * चारचरितावली * प्रयागाभ्यासे पारेगस्थितां, चन्द्रवंशिना प्राचीनराजधानी प्रतिष्ठानपुरी तदा श्रीवल्लीनाम्ना प्रसिद्ध विनाय- हारपगच्छा । संपति स्थानमेतद्वनिहना भस्मसात्कृतं भग्नावशेष मेलाहाबादस्थाकथरदुर्गसंमुखं गंगाया अपर- तटे झोसीनाम्ना विख्यायते। तत्र तस्य द्विनागहारस्याग्रगण्य कुमारिलभहस्य प्रशयशिष्यः, पूर्व मीमांसायाः प्रख्यातपक्षपोषकः, मथितानुभावः, प्रभाकराध्वरी मतिवससिस्म । प्रभाकराध्वरी कर्ममीमांसापले स्वस्माद् रोरपि व्यशि- ध्यत । स वैदिकयज्ञादि कर्माकुर्वतस्सर्वान् विगर्हमाणो वेदो. कर्मकाण्डमेव सर्वशास्त्रेषु सर्वोपरि कर्तव्यत्वेनोपदिष्ट मेने । तन्मते संपदानकारकान्तेन पदेन घोतिताइवात्परो देवो नास्ति निजातं सर्वोपरि मन्यमानः पभाकरावरी श्रीशंकराचार्य स्वाग्रहारे सुशोभितं ज्ञात्वा तमपि निजानु यायिनं विधित्सुरसंख्यैरनुयायिभिः पाप्तस्तस्यै स्वकर्मका एडपतस्य सर्वप्रधानत्वं निवेदयामास । शंकराचार्यः शान्त्या तेन विवदमानो मुहूर्तमात्रेणैत्र तत्पक्षेणैव तं ब्रह्मज्ञानस्य सर्वोत्कृष्टत्वं, मोक्षमाप्तधरमसा धनत्वं, वेदोक्तकर्मकाण्डस्य च चित्रशुद्ध पराभक्तेश्वोपाय मात्रत्वं, स्वीकारयामास । तस्यानिराकार्यकोटिक्रमेण प्रभाकराध्वरी ससर्वाग्रहारः श्रीशंकरस्यानुयायी समना- * श्रीशंकराचार्यः * [ ४१ ] यत । श्रीशङ्कराचार्यस्य विधेयतामुपगतः प्रभाकरोऽ नेडमूकमपरं स्थाणुं, निजपुत्रं, पृथ्वीधरं रुगपनोदनार्थ- माचार्यचरणारविंदेपु न्यपातयत् । बालः पृथ्वीधरो वयसः पञ्चमावर्पाद्यथाजातवन्न किश्चिदजिघ्रदभुङ्क्तापिबच्च, कृमिकीटादिदंशनेऽपि ना. स्पदत नावदच्च । पिता तं पिशाचग्रस्तं यक्षपीडितं ब्रह्मराक्षसाक्रान्तं वा मन्यमानोऽनेकमंत्रतंत्रविविधविधान' तत्परोऽपि तं स्वस्थमलभमानः, प्रतीकारं मार्गमाणस्सततं चिन्तापरवशश्चिखेद, शङ्करभगवत्पादयोश्च प्रणिपत्य रोगमोचनं ययाचे । श्रीशंकराचार्यः पूणिधानेन बालं सहजयोगिनं, बाल्यादेव ब्रह्मज्ञानिनं, पित्रा विधीयमानस्य विविधक्रियाकलापस्य परीहा रार्थं धृतमूकवृत्तिमवेदीत् । प्रश्तिप्रभावः शंकरः पाणिना बालं स्पृशन् दृशा तमु.. बोधयन् "कस्त्वं शिशो कस्य, कुतोऽसि गन्ता, किन्नाम ते त्वं, कुत आगतोऽसि । एतद्वद त्वं, मम सुप्रसिद्धम् , मत्प्रीतये प्रीति,विवर्धनोऽसि" इत्यपृच्छत् । बालः पृथ्वीवरश्च तदुत्तरे द्वादशपद्यमयं कमनीयं काव्यमश्रावयत् । तस्याद्य पद्यमिदम् - ॥
- । ४२ ] * चारुचरितावली* "निमित्तं मनश्चक्षुरादिप्रवृत्ती, निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः, सनित्योपलब्धिस्वरूपोऽहमात्मा ॥" सर्वस्यास्य स्तोत्रस्य सारोऽस्मिन् पये निबद्धोऽस्ति ।- "नाहं मनुष्यो न च देवयक्षा, न ब्राह्मणः क्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही वनस्थो, भिक्षुश्च नाहं निजबोधरूपः ॥" हस्तस्थामलकवञ्चित्स्वरूपवर्णनेन संतुष्ट प्राचार्यस्त- स्याः पद्यावल्यास्तत्मणेतुश्च हस्तामलकाख्यामकरोत् । वालस्य पद्यपाठेन सन्यासदीक्षाप्रार्थनया च प्रभावितः प्रभाकरोऽपि श्रीशङ्कराचार्य तस्य तुरीयाश्रमप्रवेशमद्वैत- तत्वोपदेशश्च प्रार्थयामास । प्राचार्योऽपि तदङ्गीकृत्य चतुः- पञ्चाशत्तरपड्विंशतिशततमे (२६५४ यु०) यौधिष्ठि- राब्द आश्विनशुक्ल कादश्यां तं सन्यासे दीक्षयामास, तत्क्षण एव स्वरचितेन तत्वोपदेशनाना पद्यप्रकरणेन च ब्रह्मज्ञानमुपदिदेश । ततः प्रभृति हस्तामलकः श्रीशङ्करस्य प्रधानशिष्योऽद्वैतपक्षस्य च प्रबलसमर्थकः समजायत ।
IPAL - * श्रीशंकराचार्यः । [ ४३ ] प्रभाकरस्य श्रीशंकराचार्यपत्नग्रहणेन तदनेडमूक- पुत्रस्य पृथ्वीधरस्य च तदनुग्रहाद्वास्मिना सिद्धहस्तहस्ता- मलकरूपधारणेन तस्य प्रभावः प्रतापश्च प्रयागे तदभ्यासे च सहसा व्यानशे, सहस्रशो जनाश्च तदनुयायितां मपेदिरे । देशिकेश्वरनां गत भाचार्यः शिष्याणां सहस्रण साधुवादेन जयघोषेण च सह भारद्वाजाश्रमं ययौ । अन्येयुः प्रत्युषसि त्रिवेणीतटे तमालतरुनले सशिप्यः स्नानमाचरन्नाचार्यः कर्ममार्गस्य प्रबलपोषकस्य जैनानां जेनुः कुमारिलमदृस्यामिप्रवेशमूचनां प्राप्य तदालयं त्वरमाणस्तं प्रज्वलिततुषानलमध्यासीनं, प्रायश्चित्तपरकम- न्त्रोच्चारणरतैाह्मणैरावृतं, गुरुद्रोहशोधनमाचरन्तं ददर्श । दाक्षिणात्यब्राह्मणः कुमाग्लिभहो यथानियममाचा- र्यकुलवासेन वेदवेदाङ्गपारं गतो जैमिनेर्वेदोक्तकर्मकाण्ड- विधायिनी पूर्वमीमांसां विशेषतोऽग्यस्य, तरयाः शाबर- भाष्योपरि टीकाश्च प्रणीय, देशदेशान्तरे वेदोक्तकर्मकाण्ड मचारयन्, सनतनावैदिकपट, चिक्रमात्पूर्घमष्टम्यां शताब्या पार्श्वनाथप्रवर्तितेन पश्चात् षष्ठयां शताब्द्यां वर्धमान महावीरेण पुष्टेन, जैनमतेनाकान्तं दृष्ट्वा, जैनान् विजि- गीषुरुन्मुमूलयिषुश्व, सन्मनरहस्यानि विजिज्ञासु नानां विश्वासायात्मानमब्राह्मणं नाटयञ् , जैनवंषतो वर्धमान- महावीरस्य शिप्यतां जग्राह, तदन्तेवासिभिः समं कति- [४४ ] * चारुचरितावली * चिद्धायनानि पठन् जैनसिद्धान्तानीपीत, तैस्सह पंद- मागे दूपयन्नखिलेपु जैनरहस्येषु निष्णातवाभवत् । एकदा ब्रह्मद्वेपी वर्धमानमहावीरः शिष्यानध्यापयन् वेदान् , विमान ,यज्ञान् ,देवाँचातीवाद पयत्।तद्विजल्पितं वेदविगर्हणं दुराकण्यं समाकर्ण्य विदीर्णमनसः कुमारिलस्याक्षिभ्यां स्थूलमुक्ताफलाकृतयो जलविंदवो न्यपतन् । तदृष्ट्वा तत्सहाध्यायिषु महावीरशिष्येप्वश्रुविंदुपातकारणं पृच्छत्सु कुमारिलः कपटेन “महावीरस्य युक्तयुक्तिश्रवणेनानंदा- श्रणि विनिर्गतानी"त्युवाच । जैनशिप्यास्तदुक्तावविश्व- सन्तस्तं द्विजाग्रं मत्वा गुरवे वृत्तान्तमिमं निवेदितवन्तः कुमारित प्रासादात्तातयित्वा बहिश्चक्रुः । "यदि वेदाध्यमाणं स्युर्जीवंग"मिनि चेतसि कृत्व प्रसादात्पतितः कुमारिलो यदीति संशयोक्तगुरुद्रोहाच्चै- कस्य नेत्रस्य परिक्षति प्राप्पाप्यक्षतगात्रस्तस्मात्पदेशानि- क्रम्य भुवि सर्वत्र जिनवादान् तदुक्ताभियुक्तिभिर्दूषयन् सौराष्ट्रनुपर्नःसुबन्धनो राजसभायां तान् शास्त्रार्थेषु परा नित्य जैनमतं भारतादुन्मूलयामास,स्थिरतरं वेदोक्तकर्मका- एर पुनःस्थापयामास। परं कपटाचारेण गुरुद्रोहेण च प्राप्त- विद्यया निजविजयेनापि ग्लानिं गतः कुमारिलभहस्तुपानले देहपातरूपेण प्रायश्चित्तेनात्मशोधनं विदधे । अन्तसमये श्रीशङ्कराचार्येण संगना भस्मीभूतार्धाङ्गः कुमारिलभः .
* श्रीशंकराचार्य: [ ४५ ] नि "कर्मकाण्ड ज्ञानकाएडयोः कः श्रेयाविशत्यस्मिन् विषये तस्य शास्त्रार्थपिपासा प्रतीक मशक्रुवंस्तं कर्ममार्गस्य समानपक्षपोषकमात्मनस्समकतं मण्डनमिश्रं वादार्थ गंतुमादिशन् परलोकपथपान्थो बभूव । कुमारिलभट्टस्य स्वसुः पाणिग्राहः कृतविद्यो मण्डन- मिश्रः षड्दर्शनमधीयानेन शिष्यमण्डलेन मण्डितो दासी- दाससेवितो विविधसंविधासंवेष्टितो "विद्यालयेति प्रसिद्धं तद्देशवासिभिस्तु “विजिलबिंदुरिति नाम्ना ख्यातं स्थान निवासेनालञ्चकार । श्रीशङ्कराचार्यः पद्म- पादादिशिष्य दैः परिवृतः कुमारिलभट्टाशेन तदेव स्थानं प्रति प्रतस्थे । पुरोपकण्ठं प्राप्य कृतान्हिकः किश्चि- द्विश्रमानन्तरं मण्डनमिश्रनिकेतनं मागयनगरान्तरालमुद- चलत् । मार्गे कूपोपर्युदकमुदश्चन्तीर्दासीदृष्ट्वा ता मण्डन- पण्डितावासं पपच्छ । तासामुत्तराणि माधवाचार्यकर्तृत्वेन पूनानगरानंदाश्रमप्रकाशिते परं शंकरसमयाख्यामूल्या- गलग्रन्थस्य प्रणेतुः स्थगिडलाग्रहारिकश्रीशङ्करनारा यणशास्त्रियो गधेपणानुसारं माधवपर्यायाभिधेनाभि- नवकालिदासोपाधिकेन श्रीनारायणशास्त्रिणा गतश- तान्यां प्रणीते श्रीशङ्करदिग्विजये मनोः पर्निषद्धानि सन्ति । तद्यथा--- [४६ ] • चारचरितावली स्वतः प्रमाणं परतः प्रमाणं, कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धाः, भवेहि तन्मण्डनपण्डितोकः ॥१॥ फलप्रदं कर्म फलप्रदोऽजः, कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धाः, भवेहि तन्मण्डनपण्डितोकः ॥२॥ जगद्धृवं स्याज्जगदध्रुवं स्यात्, कीराङ्गाना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धाः, अवेहि तन्मण्डनपण्डितौकः॥३॥ श्रीमदानंदगिरिविरचितशंकरविजये तानीत्थं म- नोहराणां पधानां रूपमुपगतानि- प्रत्यक्ष शब्दान्तविधिप्रभेदैः, शुकाङ्गना पत्र गिरं पदन्ति ।
* श्रीशङ्कराचार्यः - [ ४७ ]
द्वारे तु नीडान्तरसंनिरुद्धाः,
भवहि तन्मण्डनमिश्रधाम॥१॥
जीवेश्वरैक्येन भिदाप्रभेदैः,
शुकाङ्गाना यत्र गिरं वदन्ति ।
द्वारे तु नीडान्तरसंनिरुद्धाः,
प्रवेहि तन्मण्डनमिश्रधाम ॥२॥
जैनोक्तिभिः कालविदुक्तिभेदैः,
शुकाङ्गना यत्र गिरं वदन्ति ।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥३॥
कापालिकभैरवपक्षपादः,
शुकाङ्गना यत्र गिरं वदन्ति ।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम॥४॥
भक्त्यादिभिः शैवमतप्रभेदैः,
शुकाङ्गना यत्र गिरं वदन्ति ।
द्वारे तु नीडान्तरसंनिरुद्धाः,
अवेहि तन्मण्डनमिश्रधाम ॥५॥
। ४८ ] - चारुवरितावली * गणेशविष्णवर्कपरामृतार्थैः, शुकाङ्गना यत्र गिरं वदन्ति । द्वारे तु नीडान्तरसंनिरुद्धाः, अवेहि तन्मण्डनमिश्रधाम॥६॥ काव्यादिभिर्नाटकसिद्धवादैः, शुकाङ्गना यत्र गिरं वदन्ति । द्वारे तु नीडान्तरसंनिरुद्धाः, अवेहि तन्मण्डनमिश्रधाम॥७॥ भाकर्षणोच्चाटनसिद्धमन्त्रः, शुकोगना यत्र गिरं वदन्ति । द्वारे तु नीडान्तरसंनिरुद्धाः, अवेहि तन्मण्डनमिश्रधाम ॥८॥ इत्यादिकान् सकलशास्त्रसिद्धान्तसारसमायुतान् च- मत्कृतिचणान् दासीवचनसमूहान् संश्रुत्य, सविस्मय आचार्यों विद्यावदारकदम्बकमतोत्य, तासामभिज्ञाव- चनैर्मण्डनमण्डितमभ्रङ्कर्ष प्रासादमभिज्ञाय, कपाटगुप्त दुष्पवेशश्च लभमानो, योगबलेन गगनमार्गेणान्तःप्रविष्टः, श्राद्धविधि विदधतो मण्डनमिश्रस्याये तूपणी तस्थौ ।
* श्रीशङ्कराचार्यः [ ४६ ] वेदोक्त क्रियाकलापमेवेतिकर्तव्यं निश्चिन्वानः, कर्मत्यागिनः सन्यासिनश्च सदा तिरस्कुर्वाणः, श्राद्धसमये युण्डितमस्तकं संन्यासिनमुपलभमानः, कोपकपायितो मण्डनमिश्रोऽरुण- नयनेनाचार्य निपीय कर्कशस्वरेणोवाच--"कुतो मुण्डीति । श्लेषदतः शब्दशास्त्रविशारदो यतिवर्यस्तद्वाक्य श्लेषेणान्यथैव गृहीत्वा तम्-"आगलान्मुण्डीति प्रत्याहा स्ववाक्यं स्पष्टयन् मण्डनो बभाषे-"मया ते पन्थाः पृच्छ्यते”। वैयाकरणो चाग्मिवरस्तत्पुनरन्यथयति-"पन्थाः किमाह। क्रोधाविष्टो मण्डनोऽजल्पत्-“त्वन्माता मुण्डे. त्याह ( पन्थाः)"। प्रतिवादी भयङ्करः श्रीशङ्करस्तमित्थं निरुत्तरयामास- "तथैव हि, त्वं पन्थानमपृच्छः, पन्थास्त्वां प्रत्याह, हे मण्डन, वन्मातेत्यत्रायं शब्दोऽ. प्रच्छकं मां न ब्रूयात्"।
[ ५० ] * चारुचरितापली. मन्यून्माचेता मण्डनो भयिनाचार्यमचकथत्- "अहो किमु सुरा पीता”। परिहासपटुः परिबाट श्लेषेणोदतरत्-"सुरा श्वेता नैव पीता" ॥ मण्डन आक्षेपपूर्वकं पुनरन्वयुङ्क्त-"किंवंतद्वर्ण जानासि । वाचको दण्डी प्रतिवमापे–“अहं वर्णमेव जानामि भवांस्तु रसमपि” | ततो मण्डनः क्रोधवन्हिना दहन् गालिपदानपर एवं पूजपितुमारेभे । श्रीमदाचार्यस्तु दृपितमुद्रामिव तस्य गालीस्तद्रूपेणैव तस्मा एव पूत्यर्पयामास । ता अपि उप- युक्त माधवीये शंकरदिग्विजय इत्थं पद्यैर्निबद्धाः । मण्डन:- "कलाशी मत्तो जातो विपरीतानि भाषते (भवान् )"। शंकरः- "सत्यं ब्रवीति पितृवत्वत्तो कलञ्जभुग्जातः”
* श्रीशङ्कराचार्यः *
[ ५१ ]
मएडन:-
"कन्यां वहसि दुर्बुद्ध, गर्दभेनापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां, कस्ते भारो भविष्यति ॥"
कन्थां वहामि दुर्बुद्ध, तव पित्रापि दुर्भराम् ।
शिखायज्ञोपवीताभ्यां, श्रुतेर्भारो भविष्यति ॥"
मण्डनः
"त्यक्त्वा पाणिग्रहीतीं स्वा,मशक्त्या परिरक्षणे।
शिष्यपुस्तकभारेच्छो,ाख्याता ब्रह्मनिष्टता॥"
शंकरः
“गुरुशुश्रूषणालस्यात् , परित्यज्य गुरोः कुलम् ।
स्त्रियःशुश्रूषमाणस्य, व्याख्याता कर्मनिष्टता।"
,
मण्डन:-
"स्थितोऽसि योषितां गमें,ताभिरेव विवर्धितः।
अहो कृतघ्नता मूर्ख, कथं ता एवं निंदसि ॥"
शङ्करः
"यासांस्तन्यंचयापीतं, यासांजातोऽसियोनितः।
[५२ ]
* चारुचरितावली
तासु मूर्खतम स्त्रीषु, पशुवद्रमसे कथम् ॥"
मएडन:-
"वीरहत्यामवाप्तोऽसि, वन्हीनुद्वास्य यत्नतः।"
शंकरः-
“आत्महत्यामबाप्तस्त्व, मविदित्वा परं पदम् ।"
मएडन:-
"दौवारिकान् वञ्चयित्वा, कथं स्तेनवदागतः॥"
"भिक्षुभ्योऽन्नमदत्वात्व,स्तेनवद्भोक्ष्यसेकथम्।"
मण्डन:-
"कर्मकाले न संभाष्य, अहं मूर्खेण संप्रति ।"
शंकरः-
"अहो प्रकटितं ज्ञानं, यतिभङ्गन भाषिणा॥"
-
मएडन:-
यतिभङ्ग प्रवृत्तस्य, यतिभङ्गो न दोषभाक् ।"
शंकर:-
“यतिभङ्ग प्रवृत्तस्य, पञ्चम्यन्त समस्यताम् ।"
*धीशंकराचार्य [५] RED. A.I मण्डन:- "क ब्रह्म क्व च दुर्मेधाः, क संन्यासः कवा कलिः। स्वादन्नभक्षकामेण, वषोऽयं योगिनां धृतः ॥” शंकरः- "क्क स्वर्गः क दुराचारः, काग्निहोत्रं क वा कलिः। मन्ये मैथुनकामेन, पोऽयं कर्मिणां धृतः ॥" एवमेव तौ परुषोक्तिपरौ दृष्ट्वा श्राद्ध निमन्त्रिता प्राह्मणास्तयोः कलह प्रियवचनैः शमयन्तो "गृहागतस्या- तिथिरूपदेवताया अभ्यर्चनं गृहस्थस्य से धर्म" इति च मण्डनमुपदिदिशुः। मण्डनमिश्रस्तेषामाज्ञां शिरसा वह- अतिथियतिपर्याय पाद्यार्थ्यपरो बभूव । पाद्यमाप्तिसमये "भवद्भिस्संवादार्थमागतोऽस्मीति" गुरुर्जगाद । मण्डन' मिश्रोऽपि तत्सहर्ष स्वीकृत्यातिथ्यश्राद्धयोरनन्तरं यादो भवितेति प्रतिजज्ञे। यथाविध्यातिथ्यं पितृकर्म च निर्वयं वादा सश्रद्धौ मण्डनमिश्रः श्रीशङ्कराचार्यश्च पणमेवं जगृहतुः। “गृहस्थो. ऽहमपि यदि पलायितः सन्यासी 'मवेयमिति" मण्डनमिश्रः, "अहमपि यदि वादे पराजितो गृहस्थो भवामीति। श्रीशङ्कराचार्यश्च प्रतिक्षातयन्ती । उभयपक्षग्रहणसमर्थी मण्डनमिश्रपत्नीं 'भारतीति [५४ चारवरितावली. 'सरसवाणीति 'विद्याधरीति 'सरस्वतीति विविध नामभिर्विविधैः कविभिराख्यातां मध्यस्था विधाय वादे माहताते । यावदादोऽभूतावत्मत्यहं भारती "भितार्थ- मागच्छे"त्याचार्य “भोजनार्थमागच्छति पतिचाहूयो- भाभ्यां भिनाशन अदात् । एवं वेदादिसर्व विद्यासु वादे क्रियमाणे सप्तमाहिना. परं कर्मकाण्डात्मकस्य पतिपक्षम्य स्खालित्यं श्रुत्सा, तस्य पराजयश्च निश्चित्य, श्रीशङ्कराचार्यस्य ज्ञानकाण्डस्य सर्वश्रेष्ठत्वं स्थापित मत्वा, महानसात्पतिसमीपं गत्वा विदुषी भारती प्रतिदिन शङ्कराचार्यमित्र मण्डनं किलेदमब्रवीत्-"स्वामिन्नेहि भिक्षायै” । भारत्या भणितिभनयानया विदितात्मपराजयो मण्डनमिश्रोऽपि श्री. शङ्कराचार्य चरणारविंदं नतः, "शरणं देहीपति ब्रु वाणो दैततत्वोपदेशपूर्वक सन्यासदीक्षापार्थनापरो बभूव । अवसरेऽस्मिन् चिद्विलासादयः शङ्करचरितलेखका विविधशङ्करदिग्विनयेषु “मामनिर्मित्य कथं मत्पतिर्जित" इति भाषमाणाया भारत्या मध्य आगमनमाचार्येण सह तस्याः संबादप्रार्थना, वादे प्रवृत्ते तं प्रति तस्याः कामशास्त्रप्रश्ना- स्तदुत्तरासमर्थत्वात् कामशास्त्रज्ञानायाघार्यस्य योगवलेन स्वदेडत्यागपूर्व मृतामरुकनृपशवभवेशं, पुनरुज्जीविते. नामरु करूपेण कामशास्त्रोपतधि, ततस्तेन स्वशरीरे पुमः * श्रीशंकराचार्यः । [ ५५ ] प्रविश्य कामशास्त्रेऽपि भारत्याः पराजयं, तेन मन्त्रबद्धाया भारत्याश्च शृङ्गपुरमानीय मठे स्थापनमित्यलौकिकाः कथा वर्णयन्ति । श्रीशङ्कराचार्याख्यस्याचार्यचरितस्य लेखको दाक्षिणात्य आर्योपायः श्रीकृष्णस्वामी गाथ- यानया मण्डनपराजयस्य तस्य सन्यासग्रहणस्य च पश्चा- दाचार्यमार्थनया भारत्यपि काषायाणि गृहीत्वा सन्यासिनी भूत्वा शृङगिरिमठेऽत्रसदित्यनुमानं करोति, तत्राद्यापि भारतीपूजायाःप्रचलितत्वात् । यद्भवतु तद्भवतु विनिश्चित- मेतद्यच्छ्रीमच्छंकराचार्यो मण्डनमिश्नं पराजित्य तत्मार्थ. नया तमेकोनपञ्चाशदुत्तरपड्विंशतिशततमे युधिष्ठिराब्दे ( २६४६ यु०), विक्रमात यस्त्रिंशदुत्तरचतुःशतवर्षपूर्व (४३३वि०पू०),चैत्रशुक्रनवम्यां सन्यासेन संदीच्य, सुरे- श्वरनामानं कृत्वा, शुद्धाद्वैतविधा सम्यगुपदिश्य, तमेकोन- पञ्चाशदुत्तरपड्विंशतिशततमे युधिष्ठिराब्द (२६४६ यु०), एकादशोत्तरपड्विंशतिशततमे कल्यब्दे (२६११ कलि ), विक्रमात्त यस्त्रिंशदुत्तरचतुःशतवर्षपूर्व ( ४३३ वि पू० ), माघशुक्लसप्तम्यां द्वारावत्यां शारदामठं संस्थाप्य, तस्मिन् प्रथमपीठाध्यक्षमभ्यपिचत् । ततः परं स कदाचारान् कन्दयन् , सदाचारान् प्रचा- रयन् , शुद्धाद्वैतद्युतिं प्रद्योतयन् , महाराष्ट्रान् पर्याटत् । तत्र बामणानां संप्रदायविशेषो रुद्रस्य मल्लारिरूपं तद्वाहनं [ ५६ ] वाहनरिवली * श्वानश्च सर्वश्रेष्ठं मत्वापूपुजत् ,मल्लारिणः सर्वप्रधानत्वे तद्वा- इनस्य च वेदविहितत्वे वेदादपि "श्वभ्यः श्वपतिभ्यश्च वो नमो नम" इति श्रुतिं प्रामाण्येनोपन्यास, मल्लारिमूर्ति- मेवानुदिनमर्चस्तद्वाहनरूपशुनकवपयुक्तः, कण्ठधृतवरा- टिकामालिकाङ्कः, सर्व जगन्मल्लारिगर्भकोटरान्तर्गतमिनि ध्यानासक्तोऽन्यत्सर्वदेवतादं न्यगकरोत् । अधुनापि महाराष्ट्रदेशे केचिन्महाराष्ट्राः मल्लारिणं ग्रामदेवतां कृत्वा- राधयन्ति । मालारिणाः श्रुतिमूलकाचारस्य दुर्निर्यित्वाचमपि सशिष्यः परं मुक्तिकारणमस्मदाचारग्रहणं कुरु, भवद्धार- णयोग्यानि वराटकानि दास्याम" इति श्रीशङ्कराचार्यमूचुः। श्रीमदाचार्य एकाद्वितीयसर्वसातिसर्वकारणसर्वव्यापकपर. मात्मन एव सर्वोपासनायोग्यत्वं संस्थाप्य, मल्लारिप्रभृति- क्षुद्रदेवतार्चनानहत्वं,शुनाञ्च निकृष्टजन्तुत्वात् पापरूपत्वाच तदीयस्पृष्ट्या स्तानस्य ब्राह्मणानां सिद्धत्वात् तद्वेपचिन्ह. स्याधार्यत्वं साधयामास । तस्य युक्तिप्रमाणैः पराजिता मालारिणाः परमगुरुचरणारविंदयोः कृतापराधिन इव किलापतन् । दयारसाभिषिक्ततनुराचार्यस्वामी समीक्ष्य तान् "तिष्ठते"त्युक्त्वा तेपां पापविशोधनं कर्तुमत्यन्तनिपु. मानखिलज्ञान वशिष्यान् पदमपादहस्तामलकप्रमुखाना- * श्रीशंकराचार्यः * [ ५७ ] ज्ञापयामास । ते किल तेषां शिरोमुण्डनं महानद्यां स्नाना. दिपायश्चित्तं कारयित्वा तान् शुद्धाद्वैतवादिनो विदधुः। " एवं मल्लारिमतं निराकृत्य श्रीमदाचार्य उज्जयिन्याख्यं पुरमगच्छत्। तत्र तावदुन्मत्तभैरवनामा कश्चित् कापालिक श्चितिभस्मपूर्णकलेवरो, नरकपालमालातृतगलः, भालदेश रचितकज्जलरेखः सकलकेशरचितजटाजूटो, व्याघ्रचर्म- रचितकटिसूत्रकौपीनः, कपालयुतवामकरः, सनादघण्टा- धृतदक्षिणकरः, “शम्भुभैरव अहो कालीश” इति मुहुर्मुहु- जल्पन्नाचार्य स्वामिनमिदमन्नवीत्-"स्वामिन् , किं कापा- लिकमते न्यूनतास्ति, तदन्यत्र किं फलमस्ति, न मे जात्या प्रयोजनं वर्तत, अविवेकस्यैव जातिः कारणं, ब्रह्मादिपि- पीलिकान्तर्गतदेहस्य भौतिकत्वात् कस्य जातिवक्तव्या, शरीरस्य चर्ममांसास्थ्यादिसप्तधातुमयस्य समवेनैव सर्व- पाणिषु वर्तमानस्य विशेषाविशेषत्वं भवद्भिः कल्पितं, भैरवाज्ञया मातृयोनेरुत्पन्नस्य नीचोच्चवृत्तित्वं मंदा अपि नाङ्गीकुर्वन्ति; अतोऽस्माकं न हि प्रमाणं जातिः, किन्तु जातिद्वयं दृश्यते स्त्रीत्वं पुंस्वञ्चति, तयोर्मध्ये स्त्रीजातिः श्रेष्ठा, कथमित्युक्ते, तत्संयोगेनानंदभैरवनंदनस्य विद्यमा. नत्वात्" । तस्य प्रमाणशून्यं जल्पनं श्रुत्वाचार्यत्रों विविध- श्रुतिस्मृतिभिस्तत्पक्षस्यासारत्वं संसाध्य, सदाचारस्य 1] -चारुचन्तिावली वर्णाश्रमधर्मस्य चावश्यकर्तव्यत्वं संस्थाप्याद्वैततत्वस्योप. देशेन तमपि प्रायश्चित्तपूर्वकं शुद्ध व्यधात् । एवमेव जैन-बौद्ध-चार्वाक-सौगत-क्षपणकादिविविधानि वेदविरुद्धानि मतमतान्तराणि दक्षिणापथे निराकृत्य तन्मतावलंबिनश्च यज्ञोपवीतधारणपूर्वकं वैदिकधर्मे संपवे. श्य, निजपरमाचार्याश्रमं बदरिकाश्रमं पुनर्दिक्षुरुत्कृष्टभू खण्डमुत्तराखण्डमयात् । तत्रापि वेदविरुद्धमार्गदूषणदत्त. दृष्टिः, सत्पथप्रचारपरो, ज्योतिर्मठं चतुःपञ्चाशदुत्तरषड्- विंशतिशततमे युधिष्ठिराब्दे (२६५४ यु०), षोडशोत्तर- पडविंशतिशततमे कल्यन्दे (२६१६ कलि), विक्रमा. दष्टाविंशत्युत्तरचतुःशतवर्षपूर्व ( ४२८ वि० पू० ) पोपपूर्णिमायां समस्थापयदानन्दगिरीति पूर्वनामधारिणं श्रीतोटकाचार्यश्च तदाचार्यश्चक्रे । ततः सशिष्यो यथापूर्व दिग्विजयायेंद्रदिग्भागमुदचलत् । तत्र विविधविद्यापीठेषु राजधानीषु च यात्राङ्कुर्वन् , श्रुति- विमुखानाचारान् निरस्यन् , वेदप्रतिपादितांश्च प्रचारयनु । कलानागतः, पुरुषोत्तमक्षत्रं जगन्नाथपुरी प्राप्तस्तस्यां वेदान्तगभस्तिप्रसाराय गोवर्धन मठं पञ्चपञ्चाशदुत्तरषड्. विंशतिशततमे युधिष्ठिराग्दे ( २६५५ यु०), सप्तदशो. तरषड्विंशतिशततमे कल्यब्दे ( २६१७ कलि ),विक्रमात् सप्तविंशत्युत्तरचतुःशतवर्षपूर्व (४२७ वि० पू० ) वैशाख- -- ५ * श्रीशंकराचार्यः [४] मुदि दशम्यां निर्माय,सनन्दनेतिपूर्वनामानं श्रीपद्मपादा- चार्य तस्य प्रधानपदे प्रत्यस्थापयत् । ततः कामरूपेषु शाक्त मतं प्रबलं प्राप्य तरखपटन उद्युञ्जान, श्रात्मना परामितेनाभिनवगुप्तनाना केनचि. छाक्तमतावलंविनाभिचारितो, विषादिग्राहितो वा, भगं- दररोगेणाक्रम्यत । मारकेण रोगेण तेन दैनंदिनं क्षीणक- लेवरोऽपि कश्चित्कालं किश्चिन्लब्धोलायो, वासवीककुभो धर्मराजदिशं निवर्तमानो, दक्षिणापयं प्राप्तः, श्रीशृङ्गेरी- पुरमाययौ । तत्र शुद्धाद्वैतवैदिकसंप्रदायप्रवर्तनाय, प्रस्थान- त्रयीभाप्याणांप्रचाराय च दक्षिणस्यां दिशि हस्तामलक- नायकत्वे श्रीशृगपुर्या शृङ्गगिरिपीठं षट्पनाशदुत्तरषड्- विंशतिशततमे (२६५६ यु०) युधिष्ठिराब्द,ऽष्टादशोसर- पड्विंशतिशततमे कल्यब्दे ( २६१८ कलि ), विक्रमात् पड्विंशत्युत्तरचतुःशतवर्षपूर्व (४२६ वि० पू० ) पोप- पूर्णिमायां समस्थापयत् । एवं स सर्वत्र वेददंदुभिमुद्धोपयन् , वेदविगर्हितान मंदमतानुन्मूलयन् , घेदवाह्यान् मुद्राङ्गणादिकदाचारान् कदर्थयन्नागमानुमोदिताचारान् विस्तारयन् , दिग्दिगन्त- रेष्वातहिनभूधरमा च सेतो आपूर्वपश्चिमसागरं सर्वस्मिन् भारते वर्षे शुद्धाद्वैतद्युतिं प्रोद्योतयन् श्रीशङ्करभगवत्पादः भीकामाक्षीमंदिरमण्डितं, श्रीराजसनराजधानी,पसिद्ध.
[ ६० ] * चारुचरिताथली विद्यापीठं,काञ्चीनगरमाजगाम । तत्रान्तिमं कामकोटिमठं विंशत्युशरपड्विंशतिशततमे कल्यब्दे (२६२० कलि), विक्रमाचतुर्विशत्युत्तरचतुःशतबर्षपूर्व (४२४ वि० पू०)वै- शाखपूर्णिमायां कप्त्वा, स्वयमेव पीठाध्यक्षासनमलङ्कुर्वन्, स्वदेहपातानन्तरञ्च सर्वज्ञसंझं स्वशिष्यं तस्य भाविनमा. चार्य विधाय तत्रैव कश्चित्कालं स्थितस्विषष्टयुशरपड्- विंशतिशततमे युधिष्ठिराब्दे ( २६६३ यु० ), पञ्चविंश- त्युत्तरपड्विंशतिशततमे कल्यब्दे (२६२५ कलि ), विक्रमादेकोनविंशत्युत्तरचतुःशतवपपूर्व ( ४१६ वि० पू० ) द्वात्रिंशद्वर्षवयसि ( ३२) स्वविनश्वर तनुं त्यक्त्वा ब्रह्म- भावमाप। धार्मिकसंप्रदायानां दर्शनस्य च प्राचोनार्वाचीनेति- वृत्ते शङ्करभगवत्पादान कोऽप्युच्चतरं स्थानमर्हति, न च कोऽपि माहात्म्ये, शान्तौ, दान्तौ, कुशाग्रमतौ वा तस्य समकतामवगाहते । कल्मपमलीमसे कलिकाले स एव स्व जीवनेनादित्यब्रह्मचर्यस्यादर्श दर्शयामास । अभिनव- विषयप्रवेशे, पाण्डित्ये, विचारगाम्भीर्य, प्रबलतर्कणायां, दर्शन कल्पनायाश्च तस्य शेमुपी परमोत्कृष्टा । स्वसमये प्रचलिनानां विविधसंप्रदायानां दर्शनानाञ्च समाधाने तस्याद्वितीयकौशलमपूर्व विचारशैली, प्राचीनप्रमाणवा- क्यानां विभिन्नाशयानां तत्कृतसंगनि, तत्प्रणीतभाष्याणां श्रीशङ्कराचार्य * [ ६१ ] वैशर्य, सारल्य, मगम्भाक्यविन्यासं, कमनीयत्वमभेद्य- युक्तियुक्तत्वश्च दर्शदर्श तदुत्तरवर्तिनो मनीषिणो, दार्श- निकाः, कोविदाः, समालोचका, विचारकाश्चाश्चर्यचकिता भवन्ति । 'एकस्य पहुषु गवेषणामिति दर्शनस्य लक्षणं सनातनादायाति, परं 'बहुप्चेकस्यान्वेषणामिति मदि- लप्रश्नो दर्शनस्य, संसारस्य, सदाचारस्य, धर्मस्य, समा- जस्य, राजनीतेर्वा दृष्ट्या द्वैततत्वं व्याख्याय भगवता शंकरपादेनैव समुद्घाटितः । प्लटो*पंडितादारभ्य बेन X मुनिपर्यन्ताः पाश्चात्यदार्शनिकाः पाश्चात्यदर्शनमपि श्रीशंकराचार्यप्रचारितेनाद्वैतसिद्धान्तेन प्रभाषितं पश्यन्ति । "अद्वैतसिद्धान्त एव मानवजातेः परमेप्टस्यानन्दस्य, शमस्य च समुदगमः, प्रत्येकराष्ट्रस्य जीवनस्य नियामकः, सर्वेपामाधीनामापधिश्चगति पण्डितप्रकाण्डस्यैकस्य संम. तिः। श्रीशंकराचार्यप्रचारिताद्वैतसिद्धान्तेन तात्कालिक- क्रियाकलापे च तस्कृततत्पयोगेण भारतस्यात्मा नूनमेवैकतो मिथ्याविश्वासात्मककर्मकाण्डादपरतश्च संदेहदालाधिरू- ढात्स्याद्वात प्रकृतिवादाच संरक्षितः। अद्वैतसिद्धान्तसार्व. भौमः सर्वाणि परस्परं घिवदमानानि दर्शनानि विजित्य स्वप्रतापमेकाधिपत्यञ्च जगतीतले सर्वोपरिप्टात्संस्थाप्य *Plato. x Bain.
[ २ ] •ारचरितापकी.
स्वसंस्थापकायाचार्यपर्याय भीशंकरभगवत्पादाय जग
द्गुरुपदवीमद्वितीयगामित्वेन पापच्छन् । प्रतसिद्धान्त.
स्यातक्यकोटिक्रमं किमपि दर्शनं न सहते । तेनैव दार्शनि.
कानां मध्ये पद्यमिदं पायः पठ्यते-
तावद्गर्जन्ति शास्त्राणि, जंबुका विपिने यथा।
न गर्जति महाशक्ति, विद्वेदान्तकेशरी ॥
-
इति शंकरचरितम्
चारु चरितावली
A
Ω
है
4N
ख्रीष्ठ योशुप्रभुः
* खष्टियीशुप्रभुः * यो घात्यमानोऽपि ह घातकानां, पापापनुत्त्यै पितरं ववन्दे स ईशुरीशात्मजमानिमुख्यः, सहिष्णुतामूर्तिरलंकरोतु॥ आवर्तयतीतिवृत्तमात्मानं पौन:पुन्येनेति गौराङ्गाङ्ग- लानामुक्तिर्दिक्कालानवच्छिमत्वेन सर्वत्र वसुधायां सदैव सञ्जाघटीति । कारणमन्तरा कार्य न भवतीति सिद्धान्त मनुसृत्यैव सर्वा घटनाः संसारेऽस्मिन् संघटन्ते । घटनानां कारणश्च पुरुषाणां प्रकृतिः परिस्थितिश्च । प्रकृतयो व्य. ट्या विभिन्ना भपि समष्ट्या सर्वत्र समा एव । पुरुषप्रकृति पुरस्कृत्यैव परिस्थितिरपि तयाविधाविर्भवति । पुरुषप्रकृतेः प्रवृत्तिप्रवणत्वात् पुरुषाः मुखासक्ताः, परापहारेणापि स्वार्थसाधने प्रयतमानाः पर्षपये स्खलन्ति ।
[६४ ] * चारुचरितावलो* पुनश्च पुरुषः काश्चिक्रियां मुहुर्महुरनुवर्तमानस्तस्यां जनिताभ्यासस्तदनुष्ठानेनानंदमनुभवति । तेनैव मनुष्यस्व- भावो रूढीनामुपासकतां भजते, मनुजाश्च परम्परागतप्रथासु प्रबलास्थावन्तो भवन्ति । अनेनैव व्यापकनियमक्रमण धर्मप्राणैर्धर्मप्रवर्तकैः प्रवर्तिता धर्मसंप्रदायाः कालमतीत्य मनुष्याणां स्वभावदोषैः दोषदुष्टाः संशोधनीयाश्च भवन्ति ! तेषां दोषापनोदनाय संशोधनाय च समये समये सर्व- स्मिन् संसारे धर्मधौरेयाः धर्मव्यवस्थापकाः प्रादुर्भवन्ति । काले काले विविधधर्माचार्याणां प्रादुर्भाव एव नानाधर्मसंपदायानामुत्पतिहेतुः। घटनाचक्रमेतद्धर्माणा- मिरिहत्ते सदैव जगतीतले प्रचलति । तथाविधमेव धर्म- चक्रप्रवर्तनं पाश्चात्यप्रान्तेषु पैलेस्टाइन प्रदेशे वैक्रमा- ब्दस्य प्रथमशताब्यामेकदा समभवत् । प्राचीनपैलेस्टाइनप्रदेश एशियामहाद्वीपस्य पश्चिमे मान्ते भूमध्यसागरतीरे भारताङ्गलद्वीपयो मध्येमार्ग स्थितः। ३ १. Palestine.२ Ashia. ३ Mediterranean. , ४ England.
* खीष्टयोशुमभुः * [ ६५ ] ३ ५ ६ तस्मादक्षिणस्यां दिशि मिश्रदेशोऽनतिदूर एव, उत्तरस्या च मीरियादेशो वर्तते । अनतिविस्तृतपैलेस्टाइनप्रदेशस्य भूरतीवोरा मनोहरा च । तस्य विस्तारो दक्षिणदिग्वर्ति- प्राचीनपवित्रजेरुसलमराजधान्या उत्तरपान्तगैलिली या- वनयोजनान्येव । तस्य दक्षिणमान्तो जीवुदयेत्याख्या- यते। तत्यान्तवासिनस्तदा जीवुदयावास्तव्यपर्यायेण 'जीवु' इति 'यहूदी ति वा पदेन व्यवहियन्ते स्म । त आत्मनो वंशविरुदम् इस्राइलपुत्रवाचकम् 'इस्राइलाइटे- ति' 'हिब्र' इति वोपाधि प्रतिष्ठास्पदममन्यन्त । उपाधी इमौ तेपां धर्मग्रन्थेषु बाहुल्येन प्रयुक्तौ । जीववः परमसं- मान्यस्याब्राहीमस्य वंशजा, आत्मनोऽब्राहीमवंशावतंस- वश्च बहु मेनिरे। है १ Egypt. २ Cyria. ३ Jerusalem. ४ Galilee. ५ About seventy miles. ६ Judes. ७ Jew. EIsraels Israelite, १० Hebrew. ११ A brhain.
[ ६६ ]
चारुचरितावली **
३
विक्रमात्ति शदुत्तरषोडशशतमितवर्षपूर्व ( १६३०
वि० पू० ) जोवूनां पूर्वपुरुषा मिश्राधिपेन पारवाहेन
पराजित्य बंदिनो विधाय दासतां नीताः । मूसामहात्मा
विक्रमादष्टचत्वारिंशदुत्तरपञ्चदशशतवर्षपूर्व ( १५४८ वि०
पू० ) तान् दास्यान्मोचयित्वा मिश्रदेशाद्धहिरानीय
पैलेस्टाइनप्रदेशे पुनः संस्थाप्य च धर्ममुपदिदेश ।
मूसामहात्मन उपदेशास्तौरायते'ति'श्रोल्ड टेस्टमेन्टेति
वा महानिबंधे हिब्रू भाषया निबद्धाः सन्ति । जीववो-
ऽन्ये सर्वे पाश्चात्यसंप्रदायाश्च मूसामहात्मानं परमेशदूतं
प्रथपप्रधानधर्मप्रवर्तयितारं, तदुपदेशपुस्तकं तौरायतञ्च
परमेशमेरितं धर्मग्रन्थं मन्यते । तौरायतमेतत् स्त्रीष्टीय.
मतावलंबिना बाइबिलधर्मग्रन्थस्य पूर्वार्धमस्ति ।
विक्रमाद्विनवत्युत्तरसहस्रवर्षपूर्व ( १०६२ वि०
पू०) जोधुवंशोद्भवो धर्मिष्ठो महाराजो दैवविन्नामा
५
६
9
१ 1573
B. C.२ Pharaoh. ३ Moses. ४ Old
Testament. ५ Christian. ६ Bible. ७ David.
* ख्रीष्टयीशुपभुः * [ ६७ ] २ जीवूनां शासिताभूत् । जीवूनां मध्य 'इलिजाह"इसा- इआह' प्रभृतयो धर्मव्यवस्थापकाः समये समये प्रादुर्भूय धर्ममुपदिदिशुः । जीवयो जगत्स्रष्टारमेकमेवाद्वितीयं ब्रह्म प्रतीकरहितमुपासिपत । परब्रह्मणोऽद्वितीयत्वद्योतनाय ते तस्यैकमेवोपासनागारं सर्वस्मिन् देशे प्रतिष्ठापितवन्तस्तच विशालेन महामंदिररूपेण जेरुसलममहानगयों स्थित. मभूत्, तस्मिन्नेव ते परमेशमुद्दिश्य प्रनिदिनं पर्वसु च पशूनामन्यपदार्थानाञ्च बलिमर्पयामासुः । परं पुरुषाणां प्रगदप्रवणप्रकृतिबलात् कालक्रमेण जीववः पापपङ्ककलङ्किता, अनाचाररता रूढीनामुपास काः, परमाभिमानिनश्च समजायन्त । विक्रमस्य प्रारमशताब्यां पैलेस्टाइनमदेशो रोमकाणां महासाम्राज्यान्तर्गतोऽभूत् । तदा रोमका रोमका ए- शियाफ्रीकायोरपमहाद्वीपानां भूमध्यसागरतीरस्थान् सर्वान् देशान् शशाः । कैसरोपाधिधारी रोमकराजधानीस्थोऽपि तेपां सम्राट् साम्राज्या: १ Flijah. २ Isalah. ३ Romans. ४ Africa. ५ Europe. ६ Cesar or Kaisar. ३ ४ ५ ६ २ [ ६८ ] * चारुचरितावली* न्तर्गतान् सर्वान् प्रदेशान् करदोकृतभूपालैनिजनि- युक्तः शासकैर्वाधिपालयामास । स पैलेस्टाइनप्रदेश- मपि पराजित्य तस्य विविधप्रांतानां नृपानात्माधीनान् विधाय तानेव तत्र स्थापयामास । वैक्रमचतुर्विशेऽन्दे २४ वै० ) हेरोडनामा राजा रोमकसम्राजः सामंत. रूपेण पैलेस्टाइनप्रदेशमधिशशास । तस्मिन्नुपरते नस्य पुत्राः पैलेसईनप्रदेशस्य विविधप्रान्तेषु रोमकसम्राजा संस्थापिताः । तेषु जीवुदयासमरियाप्रान्तयोः सामन्त- त्वेन नियुक्त आर्चीलासनामा राजा प्रजापीडनरतः प्रनाभिरेव हतः, पिलेटाभिधः सजातीयो रोमकशास- कश्च रोमकसम्राना तत्स्थाने न्ययुज्यत । एवं तदा पैले- स्टाइनप्रदेशस्य शासनक्रमोऽधुना भारतवर्षे वर्तमानस्य शासनस्य काश्चित्तु लामधिरुरोह । अधुना भारतस्य केचित्पदेशाः सम्राना नियुक्तैः शासकैः शिष्यन्ते केचिच्च सम्राट सामन्तैारतीयैर्नृप रक्ष्यन्ते; तद्वदेव रोमकसाम्रा- ज्यान्तर्गतस्य पैलेस्टाइनभूखण्डस्य केचित्पदेशा जीवु. राजानां शासने स्थिताः, जोवुदयासमरियानामानौ द्वौ प्रान्तौ च रोनकशासकस्याधीनौ । मारतपैलेस्टाइनयो. ३ ? Herod 7 Samaria 3 Pilate.
, * खीष्टपीशुप्रभुः * [६६ ] रेतदेव महदन्तरं यद्विशालं भारतवर्षमद्य यावत्मायो निर्भ- यसीमाभिः शेषात्संसारात्पृथग्धृतम् , लघुः पैलेस्टाइन. प्रदेशश्च संसारस्य राजमार्गेषु स्थितोऽन्येषां राष्ट्राणां प्रदेशानाश्च संसर्गेण संयुक्त आसीत् । न जीवव आत्मनः परमेशस्य पुत्राममन्यन्त । निज- जन्मभूभ्यां परमानुरक्ताः स्वसनातनधर्मस्याभिमानिनस्ते- ऽन्यान् मनुनाविज्ञासिषुः । ते परदेशीयः पुरुष रोमकैर- ब्राहीमवंशजानामात्मनां शासनं लज्जावहं मन्यमाना रोमकराज्योन्मूलनार्थमवसरं प्रत्यक्षिपत । ते रोमक- शासनपाशात्स्वजाति मोचयितारं, वंशविवर्धकं, कमपि पुरुषर्षभ, स्ववंशे जनिष्यमाणं परमेशं प्रार्थयामासुस्तेपाश्च देवदूतपदवाच्याः पूर्वे धर्माचार्याः, श्रीमद्भगवद्गीतामु योगिराजेन भगवता श्रीकृष्णेन गीतं "यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्यहम्।।" इति प्रसिद्धपद्यमनुसृत्य “धर्मग्लानिकालेऽनाचार- पचारे च पापपङ्कपतितोत्थापको, वसुधायां स्वर्गीयराज्य- व्यवस्थापकः, परमेशांशावतीर्णो, धर्मोद्धारकः प्रादुर्भवि- प्यतीति पूर्वमाभाषिपत । तां भविष्यवाणीमेवापेक्षमाणा.
901 * चाहग्तिावली
स्तरंगीयाः, श्रद्धालबो धर्मधुरीणा धर्मोद्धारकदर्शनमाशा-
सिपत ।
माविर्भविष्यन्तं धर्मोद्धारकमेनं पैलेस्टाइनमदेशीयाः
ग्रीकाभिषया स्वभाषया स्त्रीष्टं जगदुः। स्त्रीष्टपदं तस्यां
भापायामभिषिक्तार्थवाचकम् । तेन ते धर्मसंस्थापनार्थ
परमेशेन प्रेषितोऽभिषिक्तश्चेत्यभिप्रेयुः । एवं तदा पैले .
स्टाइनपदेशे द्विविधौ समुदायो स्लीष्टप्रादुर्भावं प्रतीक्षा-
श्वकाते- एकः स्वदेशभक्तानां समूहो रोमकराज्यध्वंसकं
पैलेस्टाइनपदेशस्य स्वतन्त्रराष्ट्रनिर्मातारं वीरपुरुष समैहत,
अपरश्च धार्मिकजीवूनां संघो धर्मोद्धारकं, धर्मरक्षक,
धर्मव्यवस्थापकं पुरुषर्षभमियेष ।
तथास्थितस्य पैलेस्टाइनपदेशस्य जीवुदयामान्ने
जेम्सलममहानगर्याः समीपस्थे पैतुलहमनाम्नि ग्रामे
तद्देशीयानां तथाविधावस्थायां चतुर्विशे चक्रमाब्द
( २४ वै० ) जोवुराजदैवविवंशनस्य निर्धनस्यापि
धर्मात्मनस्त नकर्मणा वृत्तिमाकजयतो यूसुफमहाशयस्य
साव्यां जीवुवंशोद्भवायां मैर्याख्यायां धर्मपत्न्या जीवनां
१Greak. २ Christ. ३ Bethlehem. ४Joseph.
4 Mary.
३
४
* 'ख्रीष्टयोशुपूभुः * [ ७१ ] १ चिराशासितः शिशुः समुदपद्यत । पितरौ तं यीशुनामा नश्चक्रतुः । यीशुशब्दों जीससेति रक्षकवाचकस्य ग्रीक- भाषापदस्य संस्कृतरूपान्तरं, येन धर्मरक्षको लक्ष्यते । स्त्रीष्टधर्मीयाणां मतेन यीशु सुताय वाग्दत्तायां मैर्या पुरुषसंसर्ग विना परमेशांशाहितेन गर्भेण जज्ञे । रोमकाणां शासने जीवुदयापान्ते, भारतवर्षे संपतीव, मनुष्यगणनाया नियम आसीत् । प्रत्येकपुरुषो राजनियमेन निजपूर्वपुरुषाणां ग्रामं गत्वात्मानं गणना- पुस्तकेऽङ्कयामास । तेनैव मैरीयूसुफावपि स्वगणनार्य निजकुलग्राम पैतुलहममीयतुः । निर्धनतापरवशी तौ ग्रामे वासार्थ भवनमपि न लेभाते । तेन दंपती पशुशालायां निवासचक्रतुः । तस्यामेव शालायां निशि यीशुवैक्रमचतु- विशाब्दे (२४वै०) श्वैतदीपानांदिसंघरमासस्य पञ्चविं- शदिवसे (२५) जन्म लेभे । तेन प्रत्येकवर्ष दिसंबरमासस्य पञ्चविंशदिवसे खीष्टीयानां स्त्रीष्टजन्मोत्सवदिवस. (Christmas day) नाम पर्व भवति । स्थानाभावान्मरी तं वस्त्रखएडावेष्टितं गवादन्यां निदधे । पशुशालास्थिताः पशुपाला एव संसारे भविष्यत्प्रधानधर्माचार्यस्य तस्य १ Jesus. .
[ ७२ ] * चारुचरितारली * १ शिशोजन्मसमाचारं सर्वप्रथमं प्रापुः । अयमेव शिशुरग्रे गत्वा स्त्रीष्टोपाधिना संयुक्तः 'स्त्रीष्टेशु रित्याख्यामगमत् ,यस्य वाच्योऽभिषिक्तरक्षकोऽस्ति,येन च परमेशेन धर्मसंस्था- पनार्थमभिषिच्य प्रेषितो धर्मरक्षको लक्षणया गृह्यते । ततो यीशोः शैशवावस्था स्त्रीष्टीयानां धर्मपुस्तकं बाइबिलमेवं वर्णयति । यीशुजन्मकाले जेरुसलम राजधान्यां परमश्रदालुर्नाम्ना श्रीमान् वृद्धजीवुः प्रति- वसतिस्म । श्रीमानपि धर्मिष्ठ जीवव इत्र धर्मसंस्थापनार्थ स्त्रीष्टयीशोराविर्भावं विश्वसितिस्म । “स यीशुमुख- मदृष्ट्वा स्वनश्वगं तनु न त्यक्ष्यतीति" भविष्यवाणी खम' शृणोत् । एकदा म मैरीयुसुफौ दंपती जेरुसलम- स्थे परमेशमंदिरे शिशुयीशुं परमेशाय समर्पयन्तौ ददर्श, जीवूनां मध्ये नामकरणसंस्कारान्मासानन्तरं परमेशाय शिशोः समर्पणस्य प्रचारात् । परमेशं स्तुवञ् छीमान् यीशौ दृष्टिसंपातसमकालमेव तमाशासितं,परमेश- प्रेषितं, स्त्रीष्टयीशुमभुमभ्य जानात्, तं वंदमानश्च सर्वेभ्यो जनेभ्यस्तस्याविर्भावसुद्धोपयामास । स्रोष्टयोशुजन्मवार्ता बैतुलहमग्रामे तस्य स्थितिश्च कर्णाकर्णिकया लभमानो, यीशुना चात्मपराभवं राज्य- १ Siemon.
१ * खोष्टयीशुप्रभुः * [ ७३ ] ध्वंसनञ्चाशंकमानस्तदानींननः पैलेस्टाइननृपो, हेरोडो बैतुलहमग्रामस्थानां सर्वेपामावर्षद्वयवयस्कानां शिशूनां वधं विदधे । शिशुनाशभीतौ मैरीयसुफ़ौ दंपती तमा- दाय मिश्रदेशं पलायितौ हेरोडस्य राज्ञो मृत्यु यावत्तत्रैव न्यूषतुः । हरोडे राज्ञि मृत्युवशं गते दंपती सशिशू पैलेस्टाइनपदेशस्योत्तरभागं गैलिलीपान्तं प्रत्यावृत्ती, तत्रत्ये नज़ारथनाम्नि निजपूर्वावासग्रामे वसतिमकुरुताम् । अत्रैवैकान्तप्रशान्तग्रामस्थले यीशुशिशुः पोष्ट(धर्मरक्ष क)कार्यसंपादनार्थ पितृभ्यां रक्षितो वर्धितः शिक्षितश्च । यीशोः पथमशिक्षिका तस्य माता धर्मप्राणा मैरी । दयामय्या मात्रैव योशुः सर्वप्रथम परमेशभक्तिं जीवु. मुनीनां गाथाश्चावागच्छत् । ततः प्रेमाप्लुतपिता यूसुफः प्रियपुत्र यीशुं तौरायतधर्मपुस्तकलिखितानि धर्मानु शासनानि वृत्तिनिर्वहणोपायं तक्षकर्म च शितयामास । तत्पश्चाद्यीशुमपाठशालायामक्षराण्यधिगम्य तौराय- तधर्मपुस्तकमपठत् , पितुहे च तक्षकर्माभ्यस्यत् । एवं "मातृमान् पितृमासाचार्यवान् पुरुषो वेद" इत्यागमानुसा. रमेव यीशोः शिक्षाक्रमोऽभूत् । तथाविधशिक्षितं द्वादशवर्पवयः प्राप्त यीशं पितरौ १Nizareth. .
[ ७४ ] * चारुचरितावली * कुलप्रथामनुसरन्तौ व्रतग्रहणार्थ जेरुसलमस्थं परमेश- मंदिरमानिन्याते । मूसामहात्मनो धर्मानुसार प्रत्येकजीवु- वर्षमध्ये सकृद्गीष्मतौं जेरुसलमस्थं परमेशमंदिरमागत्य सप्ताहं यावदुपावास । अवसर एष जीवून महापर्वासीत् । तद्धि तेषां पूर्वपुरुषाणामिस्राईलानां मिश्रदेशे दास्यवि. मोचनस्य स्मरणार्थ प्रवर्तितम् । तेषु दिनेषु जीवूनां विश्वासेन परमेश्वर इस्राईलानां गृहोपरिष्टाशेषां बंधन- कर्त न दण्डयन् निर्यातः । तेन तन्महापर्व तैर्निर्यातन- ह १ दिनमुच्यते । तस्मिन्महापर्वावसरे बालो यीशुरपि सप्तदिनानि पुण्यनगरे जेरुसलमे पूतपरमेशमंदिरमुषि- वोपवासवतं दधार, धर्मचर्चायाश्च मनो न्यवेशयत्, येन तस्य हृदये धर्माकुरो बद्धमूलो बभूव । जेरुसलमतीर्थ- यात्रायाः प्रतिनिवृत्तस्तं धर्माङ्कुर पोषयन् , स्वततवृत्तिश्चा- कलयन् , नज़ारथग्राममधिवसनव यीशुवयसोऽष्टादर्श वर्षमतिक्रामन् बाल्येन यौवनं पाविशत् । यीशोश्चरितात्मकनीष्टीयधर्मपुस्तकेषु यीशोयौवना. वस्थायाः शिक्षायाश्च वृत्तान्तो विस्तरेण नोपलभ्यते । तस्य तरुणावस्थाविषये रशियावास्तव्येन पर्यटकेन नोटोवि- १ Passover day. . Rushia.
* स्वीष्टयीशुप्रभुः * [ ७५ ] चनामधारिणा महाशयेन विलक्षणा घटनोद्घाटिता । तेन यीशोरज्ञातचरितनामक पुस्तकमांगलभाषायां प्रकाशितम् । तस्मिन्स "त्रिविष्टपदेशे पर्यटन्नई लामोपाहयचौद्ध गुरूणां पुस्तकालयेषु यीशोश्चरितवर्णनपरान् त्रिविष्ट. पदेशभाषया लिपिबद्धान् ग्रन्यानलमा इति कथयति । तेषु ग्रन्थेष्वित्यं वर्णितमस्ति --शैशवमतिक्रान्तस्त्रयो. दशवर्षदेशीयो यीशुः सार्थवाहेन सह पौरस्त्यान् देशान् प्रति मास्थित । तेषु भ्रामं भ्रामं स वर्षिष्ठं भारत- वर्षमाययौ । तदात्र भारत वर्षे बौद्धजैनधर्मयोर्जयदुंदुभि. यंत्र तत्र नेदे । श्रीशंकरभगवत्पादेन निराकृता अपि बौद्धजैनधर्मा अनेकेषु स्थानेष्यवाशिष्यन्त । नालंदादयो बहवो बौद्धमठाः प्रतिष्ठिता श्रासन् । भारतमागत्य धर्म- श्रद्धालुर्यांशुचौद्धश्रमणानां शिष्यत्वं गतो चौद्धधर्मसिद्धान्त- पारंगतो बभूव । त्रिंशद्वर्षवयाश्च स्वदेशं प्रतिनिवृत्तस्तानेव सिद्धान्तानादाय मूसामहात्मनो धर्मेण च संमिश्रय ग्वीष्टीयं धर्म स्थापयामास । कतिपये ग्वीष्टधर्मीया आधुनिकाचार्या वृत्तान्तमिम प्रत्यवादिषुः पर्यटकनोटो- विचमहाशयञ्च मिथ्यावादेन दूषयामासुः, परं नोटोविच- १ तिब्बत-Thibet [ ७६ ] * चारुचरितावली * A- महाशयस्त्रिविष्टपदेशे स्वयात्रायाः प्रबलपमाणानि समु. द्ध त्य तानिराचक्र। पर्यटकनोटोविचमहाशयेन त्रिविष्टपदेशे यीशु- चरितमया ग्रन्थाः प्राप्ताः स्युर्नवा परं खीष्टीयबौद्धधम योः प्रधानांशेषु परं साम्यमेतदेव प्रमाणयति यदेकस्य सिद्धान्ता अपरात्संगृहीताः । तयोराचीनो धर्मः प्राची. नस्य सिद्धान्तान् ग्रहीतुं प्रभवति, बौद्ध ग्वीष्टधर्म योः पूर्व एव पूर्ववर्ती परस्तु परवर्तीत्यस्मिन् विपये नास्ति विवादलेशोऽपि । तेन 'ग्वीष्टधर्मेणैव बौद्धधर्मात्सिद्धा- न्ताः समगृह्यन्तेति सिद्ध यन्येव । बौद्धधर्म ग्वीष्टधर्मयोः सादृश्यदर्शका यहयो ग्रन्था लिलीमहोपाध्यायमभृतिभिः पाश्चात्यगोराङ्गपण्डितैय॑वध्यन्त । तेषां सारमादाय एम. ए.उपाधिधारिणा श्रीगंगाप्रसादपण्डितेन "धर्माणामा. दिम स्रोत"इत्याङ्ग लभापानिपंधे विपयोऽयं विशदीकृतः। सत्यार्थान्वेपणपरैः विचारकैरवलोकनीयोऽयं ग्रन्थः। तस्या- र्यभापानुवादोऽपि प्रकाशतां नीत आर्यभास्करयन्त्रालय प्रबन्धक सकाशादागरास्थानाद, रूप्यकै केन स्वल्पम्- ल्येनोपलभ्यते । १ Mr. Arthur Lillie. २ Fountain Head of Relijions. . १ २ * वीटयीशुप्रभुः [ ७७ ] दिनेषु गच्छत्सु यीशोर्मनस्यात्मनो धर्मसंस्थापकत्वं परमेशांशसंभूतलं परमपितुः पुत्रत्वं वादियाय । स मायो विजने धर्मतत्वमनुध्यायन् सततमास्ते । तथा कालं नयन्तं तं धर्मप्रचारमेरणा जननानो दीक्षकात् समागता जन- दीक्षकमहाशयः संसारं सन्यस्य धृतमुनिवतः, पैलेस्टाइन. प्रदेशस्य दक्षिणदिग्भागे निर्जने वने जार्डनतटिन्यास्तट उवास । सचिरकालं कंदमूलवृत्तिरूणवासाः प्रणिधानप. रोऽभूत् । शिष्यैः सह तत्र स्थितः स ागतेभ्यः पुरुषेभ्यो धर्ममुपदिदेश, तेषां पूर्वपापानां प्रायश्चित्तार्थञ्च तान् जार्डन- नद्यां कृतावगाहान् मन्त्रैरभ्युक्ष्य धर्मव्रतग्रहणे दीक्षयामास । तेनैव जनमुनिर्दीक्षकाख्यां जगाम । पैलेस्टाइनप्रदेशस्य चतुर्दिग्भ्यः पुरुषा धर्मदीक्षाग्रहणार्थं जनदीक्षकमाययुः । तेन यीशुरपि धर्मदीक्षायै तमगच्छत् । तदर्शनेन जनदीक्ष- कस्तं स्त्रीष्टयीशुं परमेशाभिषिक्तं धर्मरक्षकं वाभिज्ञाय परमानंदितो यथाविधि च धर्य तं संदीक्ष्य तं समेकत्रित. जननिवहञ्च तस्य यीशुत्रीष्टत्वं ( परमेशाभिषिक्तधर्मरक्ष- कन्वं ) बोधयामास । जनदीक्षककृतोद्वोधनेन यीशु. रात्मनो धर्मरक्षकत्वं सम्यगजानात् , समागताः प्रजाश्च तस्य तथाविधत्वे विशश्वसुः। १ John the Baptist. २ Jordon. - - [ 9 ] * चारुचरितावलो वृत्तान्तेऽस्मिन् पस्तुगत्येतिवृत्तदृष्ट्या वा अलौकिक. तायाः संदेह श्रापातत आपतति, परं सम्यग्विचारे कृते न स आभासते । महाकार्यसंपादका महापुरुषाः सहममेव विशिष्टं सामर्थ्यमादाय धरायां समुत्पद्यन्तेवतरन्ति वा । तदेव विशिष्ट कार्यसंपादनसामध्यं परमेशांशत्वेन लक्ष्यते । सेनैव ते पुरुषाः परमेशांशसंभूताः कथ्यन्त, प्रात्मनः सामर्थ्यश्च ते पूर्वत एवानुभवन्ति । दूरदर्शिना, प्रणि. धानपराः, पुरुषपरीक्षकाः पुरुषास्तथाविधं सामर्थ्यमापा. ततः पुरुषविशेषेषु विज्ञाय तान् महाकार्येषु प्रयुञ्जते प्रेरयन्ति चा । खोष्टयीशुजनदीक्षकमहाशययोर्मध्येऽप्येवविध एव वृत्तान्तोऽवर्तत । जनदोन महाशयेन धर्मरक्षायै प्रेरितः स्खोष्टयीशुः प्रबलपणिधानं तपश्चर्याश्चापेक्षाञ्चक्रे । तेन स जार्डननदो- तटस्थाज्जनसंमत्पृथग् भूत्वा तपस्तप्तुं निर्जनं वन विवेश । तत्रैकान्ते स चत्वारिंशदहोरात्राणि (४०) याव. दुपवासनतपरः समाधिमाकलय्य परब्रह्मसाक्षात्कारमक- रोत् । समाधिदशायामेव स करिष्यमाणधर्म रक्षायाः कार्यक्रम, धर्म संस्थापनायां विघ्नान् कष्टानि च पूर्वमप. श्यत् , तदर्थमपेक्षितं बलश्च बलपुञ्जात् परमात्मनोऽविंदत । प्रावस्थायां व्राविघ्नो मनोविकारोऽपि यथानियम स्त्रीष्टयीशोतं भक्तु समय समये तस्य मनस्याविभूव ।
१ * खोष्टयीशुप्रभुः । [७] एष एव मनोविकारः कुमार्गप्रवर्तकपुरुपरूपकेण प्रीष्टी- यानां बाइबिलधर्मपुस्तके क्षयतनु (शैतान ) नाम्ना वर्णितोऽस्ति । परं संयमी स्त्रीष्टयीशुस्तेन युद्ध कृत्वा तमदाम्यत् । बाइबिलधर्मपुस्तके क्षयतनुपुरुषेण यीशो- युद्धस्य विजयस्य च विस्तृतवर्णनमस्ति । तपश्चर्या समाप्य स्त्रीष्टयीशुधर्मप्रचारार्थ पवित्रनगरी जेरुसलमं ययौ । स तत्र जीवुदयापान्तस्यान्येषु बहुषु स्थानेषु च धर्ममुपदिशन् , समरियापदेशमार्गेण गैलि. लोप्रान्तं प्राप्तो, रोगनिवर्तनाद्यनेकचमत्कारान् प्रदर्शयन् , नज़ारथं निजग्राममागमत् । तत्रापि स सहवासिषु धर्म प्रचारयन् तेषामनाचारान् धिक्कुर्वमात्मनः परमेशप्रेषित- धर्मरक्षकत्वं तेभ्यः ख्यापयामास । परिचितपुरुषस्य धर्मोपदेशमश्रधाना, निजकुकर्मनिंदनेन ग्लानिं गताः, ख्रीष्टयीशोः परमेशाभिषिक्तधर्मरक्षकत्वं तिरस्कुर्वन्तः, कोपकषायिता,ग्रामीणास्तं निजावासग्रामाद्विवासयामासुः! निष्कासितश्च स्त्रीष्टयीशुगैलिलीसागराख्यमहा इदस्य वायव्यतटस्थं, व्यापारमधानं, समृद्धं, कैपर्नमनाम नगरं गतो"ऽनुतापेनात्मानं शोधयध्वं यतस्तूर्णमेव स्वर्गीय राज्यं विराजिष्यत" इति विषयमधिकृत्य तत्रत्येषु 3 Satan or Devil. 2 Capurnaum.
[८०] * चारुचरितावली * ६ १ २ सर्वसाधारण जनेषु व्याख्यानमकरोत् । श्रोतणां मध्ये कस्य जनदीक्षकच पूर्वशिष्य ऐन्द्रनामाप्पभूत् । स यीशु प्राग्जनढीक्षकेन तस्य धर्मदीक्षाकाले ददर्श, निजदीक्षक जनदीक्षकञ्चतं परमेशाभिषिक्तधर्मरक्षकं ब्रुवाणं शुश्राव। तेन स खीष्टयीशुमभिज्ञाय तनिकटमागतस्तस्थौ, निज- भ्रात्रे श्रीमन् पितरनाम्नेऽपि तं दर्शयन् तस्य परमेशाभि- षिक्तधर्मरक्षकत्वं जगाद । भ्रातराविमौ जात्या मत्स्यजीवी नौकाभिगैलिलीमहाहूदे मत्स्यव्यापारश्चक्रतुः । यीशुरपि प्राप्ततत्परिचयस्तयोनौकायां गतस्तदारूढस्तटे समागतं जनसङ्घ धर्म बभाषे । खीष्टयीशोराशिपा तो धीवरी तस्मिन् दिने प्रचुरान् मत्स्यान् लेभाते । तेन तस्य चम. कारेण विस्मितौ,तदुपदेशेनाकृष्टौ च तौ तयोः सहभागिनी जनजयमसौ च तस्य शिष्यत्वं जग्मुः। सर्वसाधारण- जननिवहेषु धर्मसंस्थापनार्थमुद्युञ्जानो यीशुग्वीष्टः साधारण जनान् नीचजातींश्चतुरो धीवरानिमान् सर्वप्रथम शिष्यत्वेन गृहीत्वा सर्वसाधारणजनानां गौरवं वर्धया- मास । तस्य प्रथमशिष्या ऐन्द्रः श्रीमन पितरो जनो जयमसच त्यते चत्वारो निम्नवर्गीया धीवरा एवाभूवन् । १ Andrew. २ Siemon Peter. ३John.४James. ३ --- १ * खीष्टयीशुप्रभु: * [ ८१ ] इमाँश्चतुरः शिष्यानादाय ग्वीष्टयीशुप्रभुः कैपर्नमना. मनगराद्धर्म प्रचारयात्रायै प्रस्थितः, पुरावही राजमार्गपा. वस्थे करप्राप्तिभवने निपएणं मथिनामानं राजकरग्राहक दृष्टिपातेनैव भक्तिभरितमानसं विज्ञायानुगन्तुमादिदेश । खीष्टयीशोः शिष्यतां गतः समृद्धः करग्राहको मथिस्तस्य दर्शनार्थमुपदेशश्रवणार्थश्च स्वमित्राण्यन्यान् करग्राहकान् भोजनाय न्यमन्त्रयन् । मथिगृहे समाहूतैः करग्राहकैः सह योशुरपि भोजनमकरोत् । जीवूनां मध्ये कम काण्डिनां संपदायविशेषः, फैरिसीनामा, पवित्रंमन्यो, भोजनमर्या- दायामतिनियमपरः, करग्राहानन्याँश्च राजपुरुषाँस्नेषां विदे- शीयरोमकसम्राजः करदभूपालानां, तेन नियुक्तानां शासकानां वा सेवकत्वात्, करग्रहणात्याचाराच्च, जघन्य वृत्तीन् ,तिरस्काराहनिस्पृश्याँश्च मन्यमानस्तैः सहाभ्यवहा- रार्थ खीष्टयीशुप्रभुं तच्छिष्यमण्डल्यां निनिन्द । ग्वीष्ट- यीशुमभुः श्रुततद्वचनोऽवोचत्--"व्याधिता एच वैद्यमपेक्षन्ते न नीरुजः, करग्राहप्रभृतयः पुरुषाधमा एव पापाधिना संगीडिता मदुपदेशागदमर्हन्ति । न परमपावि- याभिमानिनो, वरवंशगर्विताः, कर्म काण्डिनो यूयम् । - १ Mathew. २Pharisee.
[ २ ] * चारुचरितापली * ३ ४ ५ परमेशाय युष्मद्वलयो न रोचन्ते, करुणावरुणालयः परम- पिता प्रजाम् करुणामेव सर्वोपरि गृहीत्वा प्रसीदति ।" गाथयानया ख्रीष्टयीशुपमाः पापिनां सहायत्वं परम- कारुणिकत्वञ्च संसिध्यति । खीष्टयोशुपभुः समथीनिमान् पञ्च शिष्यान् धर्मसं- स्थापनार्थमपर्याप्तान गणयन् सप्तान्यान् शिष्यसङ्घ पावे. शयत् । स तान् सर्वान् सहसैव शिष्यत्वेन न स्वीचकार, मुशिष्यमाप्तिप्रार्थनया च परमेशाराधनायां जागरणपरः समगां निशं निनाय । द्वादशोनामेषां-श्रीमानेंद्रश्च भ्रातरौ, जयमसजनश्च जयवदमुतो, फ़िलिपो, बार्थो- लोमो, मथिः, तामस, ऐलफसपुत्रो द्वितीयो जयमसो, जैलटापराभिधो द्वितीयः श्रीमान् , जूदसनामानौ पुरुषो ययोरिस्केरातजूदसो गुरुद्रोहमाचरन् स्त्रीष्टयीशुप/ शत्रूणां हस्तेष्वपातयत्-शिष्याणां सङ्घ गृहीत्वा खीष्ट- यीशुभुर्धमतत्त्वं तन्वन् यत्र तत्र पर्याटत् । अद्यावधि स पूर्वकर्मणां प्रायश्चित्तमेव व्याचख्ये । अधुना स "स्वर्गीय- क Zeledee. ख Philip. ग Bartholomew. घ Thamas. 3 Alphaeus. च Zealot. छ Judas. ६ ग ८ घ है १० ११,१२छ ज Iscariot. .
* खीष्टयीशुप्रभुः *
[ ८३ ]
राज्यस्य वासिनां सदाचार"मधिकृत्य संभाषितुमारेभे।
अस्यैव विषयस्य स गैलिलीसागरनीरस्थं गिरिमधिष्ठितः
मुदीर्घा व्याख्यामकरोत् । तस्येतद्वयाख्यानमद्रौ संभाष.
णाद “भद्रौ धर्मसंभाषण" मित्याख्यया प्रसिद्ध,
तस्योपदेशानां प्राणभूतं सर्वोत्कृष्टश्चास्ति ! तेन तस्य
पूधानांशो बाइबिलधर्म पुस्तकादुद्ध त्याधो लिख्यते ।
"मानवनिवहान् दृष्ट्वा स गिरिमारुरोह । तत्र तस्मि-
न्नुपविष्टे शिष्यास्तस्य समीपमागमन् । तदा स वक्त्रमद्धा-
व्य तेभ्यः शितां दातुं पूवृत्तोऽब्रवीत् ।
दीनात्मानो धन्याः, यतः स्वर्गराज्यं तेपामेव । शोकार्ता
धन्याः, यतस्ते सांत्वयिष्यन्ते । मृदुशीला धन्याः, यतस्ते
दायांशवत् तितिं लप्स्यन्ते । धार्मिकता बुभुतवःपिपासवश्व
धन्याः, यतस्ते परितप्स्यन्ति । कृपावन्तो धन्याः, यतस्ते
कृपामयाप्स्यन्ति । शुविहदो धन्याः, यतस्त ईश्वरं
द्रक्ष्यन्ति । सन्धिकारिणो धन्याः, यतस्त ईश्वरस्य पुत्रा
इत्यभिधायिष्यन्ते । धर्महेतुनोपटुता धन्याः, यतः स्वर्गराज्यं
तेषामेव "
"यूयं पृथिव्या लवणं । लवणं तु यदि विस्वादं नायते
तर्हि केनोपायेन तत् स्वादयुक्तं कारिष्यते १ ततः परं तत्
Sermon on the Mount. .
[४] - चारुचरितावली * कस्मिँश्चित्कार्ये न युज्यते, केवलं बहिनिक्षेपणे मानवपदै. मईने च युज्यते । यूयं जगतो दोपाः । पर्वतोपरि स्थितं नगरं प्रच्छन्नमवस्थातुं न शक्नोति । मनुष्याश्च दीपिका प्रज्वाल्य न द्रोणस्याधस्ताद अपितु दीपाधारस्योपरि स्था- पयन्ति, सा च गृहेवस्थितानां सर्वेषां राजते । तथैव युष्माकं दीप्तिमनुप्याणां समक्षं विराजता, तथा कृते युष्माकं सत्क्रिया दृष्ट्वा ते युष्माकं स्वर्गस्थं पितरं स्तो- प्यन्ति । व्यवस्थाया भाववादिनां वा मोचनायाहमागत इति मानु मिमीध्वं । न मोचनाय, प्रन्युत पूरणायाहमागतः, यतोऽहं युष्मान् सत्यं ब्रवीमि, यावद् व्योममेदिन्योरत्ययो न भवि- ध्यनि तावव्यवस्थाया एका मात्रको बिंदुर्वा नैवात्यष्यति सर्वमेव हि सेत्स्यति । अतो यःकश्चिदेतामांक्षोदिष्ठानामाज्ञा- नामक सुश्चति मनुष्याँश्च तदनुरूपं शितयति. स स्वर्गराज्ये शादिष्ठोऽभिधायिष्यते । यस्तु ता आचरति शितयति च स स्वराज्ये महानभिधायिप्यते । यतोऽहं युष्मान् ब्रवीमि, युष्माकं धार्मिकता यदि शास्त्राध्यापकानां फरी. शिताश्च धार्मिकतातोऽधिकं प्रभूना न स्यात्, तर्हि यूयं स्वर्गगज्यं नैव प्रवेक्ष्यथ । त्वं नरहत्यां मा कार्षीः, यस्तु नरहत्यां करोति स धर्माधिकरणे शासनोयो भविष्यतीति प्राचीनेभ्यः कथित.
AMA-.. * खीष्टयीशुप्रभुः [ ! ] मासीत् युष्माभिस्तच्छ तम् । अहन्तु युष्मान् बबीमि, यः कश्चिद कारणं स्वभ्रात्रे यति स धर्माधिकरणे शाम- नोयो भविष्यति । यश्च स्वभ्रातरं निर्बोधस्त्वमिति वदति स सभायां शासनीयो भविष्यति । यश्च पदति मूढस्त्व मिति, सोऽग्निमये नरके शासनीयो भविष्यति । अतस्त्व- या स्वकीयोपहारे यज्ञवेदिमानीते तव भ्रातुर्मनसि त्वद्विरु- द्धा कथा विद्यत इति तत्र चेत् स्मरसि, तर्हि तत्र स्वकीयोपहारं यज्ञवेद्याः सम्मुखे विहाय याहि, पृथम स्वभ्रात्रा सम्मिलितो भव, ततः परमागत्य स्वकीयो. पहारं निवेदय । स्वपतिपक्षेण सह यावन्मार्गे वर्तसे, तावत, तस्यानुकूलो भव, नो चेत् प्रतिपक्षण विचारयि. तुर्हस्ते समर्पितस्वं विचारयित्रा पदातिकस्य हस्तं समर्पितः कारायां निक्षेप्स्यसे । वामहं सत्यं वदामि, शेष.ऽपि काईको यावत् खया न शोधितस्तावत् तत्स्थानान निर्गमिष्यसे । त्वं व्यभिचारं मा कार्कीरिति प्राचीनेभ्यः कथित- मासीत् , युष्माभिस्तच्छ नम् । प्रहन्तु युष्मान् ब्रवीमि य: कश्चित् कामुकमावेन योषितं रति दृक्पातं करोति, स तावता सहदये तया सह व्यभिचारं कृतवान् । यदि तु तव दक्षिणं नेत्रं तव स्खलन कारणं भवेत् , तर्हि तदुत्पाव्य दूरं निक्षिप । यनस्तबैकस्याङ्गस्य नाशः, न तु करत्नशरो- .
[६]
- चारुचरितावली -
रस्य नरके निपातस्तदि तब हितम् । यदि वा तव दक्षिणो
हस्तस्तव स्खलनकारणं भवेत् , तर्हि तं विवादूरं निक्षिप।
यतस्तवैकस्याङ्गस्य नाशः, न तु कृत्स्नशरीरस्य नरके
निपातस्तद्धि तव हितम् ।।
"पुनस्त्वं मृपा शपथं मा कार्षीः, स्वशपथफलन्तु
प्रभवे दास्यसीति प्राचीनभ्यः कथितं, युष्माभिस्तच्छ तम् ।
अहन्तु युष्मान् ब्रवीमि, यूयं सर्वथा मा शपध्वं; न स्वर्गेण,
यतः स ईश्वरस्य सिंहासनं; न मेदिन्या, यतः सा तस्य
पादपीठं; न यिरूशालेमेन, यतस्तन्महतो राझो नगरम् ।
निजशिरसा वा मा शास्त्र, यतः शिरोरुह एकोऽपि
सिताकर्तुम् असितीकर्तु वा त्वया न शक्यते । युष्माकन्तु
संलपने यत् तथा तत् तथैव यत्र तन्नैव भवतु; यदेतदधिक
तत् पापात्मतो जातम् ।
चक्षुपो विनिमये चतुर्दन्तस्य विनिमये च दन्त इति
कथितमासीत् युष्माभिस्तच्छ् तम् । प्रहन्तु युष्मान् ब्रवीमि,
दुर्जनस्य प्रनिगेधो न कर्तव्यः, अपि तु यः कश्चित् तब
दक्षिणकपोले चपेटाघातं करोनि, तं प्रत्यन्यतरं कपोलमपि
व्याघोटय । यश्च धर्माधिकरणे लया ,विवदमानस्तवाङ्गा-
च्छादकं जिहीर्षति, तस्य कृते प्रावारमपि त्यन । यथ
बिना वतन क्रोशमेकं गमनाय त्वां हरति, गच्छ तेन
* खीष्टयीशुप्रभुः * [ 9 ] क्रोशद्वयं । यश्च त्वत्तो याचते तस्मै देहि । यश्च त्वत्त ऋण मभिवाञ्छति तं प्रति विमुखो मा भव । त्वं स्वनिकटस्थं प्रति प्रेम, स्वशत्रु प्रति तु द्वेषं करि- व्यसीति कथितमासीत् युष्माभिस्तच्छ तम् । अहन्तु युष्मान ब्रवीमि, यूयं स्वशत्रन प्रति प्रेम कुरुत, ये युष्मान शान्ति तानाशिषं वदत, ये युष्मान् द्विषन्ति तेषां हितमा- चरत, ये युष्मान् अपवदन्त्युपद्रवन्ति च तेषां कृते प्रार्थनां कुरुत । तथा कृते युष्मा यः स्वर्गस्थः पिता दुर्जनानां सुजनानाञ्चोपरि स्वसूर्यमुदाययति धार्मिकाणा- मधार्मिकाणानोपरि तोयं वर्षयति च, तस्य पुत्रा भविष्यथ । यतो यदि केवलं युष्मत्लेमकारिणः प्रति प्रेम कुरुथ तर्हि कि पारितोषिकं लप्स्यध्वे ?" "यूयं स्वधर्मानुष्ठाने सावधाना भवत, जनावलोक- नार्थाय तन्मानवानां समक्ष माकार्ट । अन्यथा युष्माकं स्वर्गस्थपित्तो लभ्यं किमपि पारितोषिकं युष्माकं न भविष्यति । अतस्त्वं यदा भिक्षां ददासि तदा मनुष्येभ्यः प्रशंसालिप्सुकामेन समाजगृहेषु रथ्यासु च कपटिनो यथा कुर्वन्ति तथा प्रात्मनोऽग्रे तूर्यध्वनि मा कुरु । अहं युष्मान सत्यं वदामि ते स्वपारितोषिकं लब्धवन्तः । त्वयि तु भित्तां ददति तव दक्षिणहस्तेन यत् क्रियते तत् तव वाम- हस्तेन मा ज्ञायताम् । तथानुष्ठिते तव भिक्षादानं निभृतं [-] * चारुचरितावली * भविष्यति, तब निभृतदर्शी पिता तु तत्फलं तुभ्यं प्रकाशं दास्यति । यदा पुनः प्रार्थनां करोषि, तदा कपटिनां सदृशो मा भव, यतस्ते मनुष्याणां गोचरीभवितुकामाः समाजगृहेषु चत्वरास्रेषु च तिष्ठन्तः पार्थयितुमनुरक्ताः । युष्मान सत्यं ब्रवीमि, ते स्वपारितोषिकं लब्धवन्तः । त्वन्तु यदा प्रार्थयसे तदा स्वान्तरागारं प्रविश्य द्वारश्च रुद्ध वा निभृ- तमुपस्थितं तर पितरमुद्दिश्य प्रार्थनां कुरु, निभृतदर्शी तव पिता तु तत्फलं तुभ्यं प्रकाशं दास्यति ।" “यदा चोपवासं कुरुथ, तदा कपटिन इव विषण्णव. दना मा भवत, यतस्ते मनुष्याणाम् उपवासिनः प्रत्यक्षी- भवितु कामाः स्ववदनानि मलिनीकुर्वते । युष्मानहं सत्यं ब्रवीमि ते स्वपारितोषिकं लब्धवन्तः । त्वन्तूपवासकाले स्वशिरसि तैलं सिश्च स्ववदनं प्रक्षालय च । तथा कृते न मनुष्याणाम् अपि तु निभृतमास्थितस्य तव पितुस्त्व. मुपोषितः प्रत्यक्षीभविष्यसि । निभृतदर्शी तब पिता च तत्फलं तुभ्यं प्रकाशं दास्यति । यूयमात्मकृतेऽत्र मेदिन्यां धनानि मा सञ्चिनुत, यस्मा- दत्र कीटकलङ्कौ क्षयं नयतः, चौराश्च कुडयं छित्त्वा मुष्णन्ति । स्वर्गे वात्मकृते धनानि सचिनुत, तत्र कीटः कलको वा क्षयं न नयति, चौराश्च नापि कुड्यं छिन्दन्ति * खीष्टयीशुप्रभुः * [ 8 ] न वा मुष्णन्ति । यतो युष्माकं यत्र विसंतत्र युष्माकं चित्त- मपि स्थास्यति । नयनं देहस्य दीपकम् , अतस्तव नयनं चेत् सरलं तर्हि तब कृत्स्नो देहो दीप्तिमयो भविष्यति । तव नयनं तु चेद दुष्टं तर्हि तव कृत्स्नो देहस्तिमिरमयो भविष्यति । अतस्तवान्तर्योतिश्चेत् तिमिरं भवेत् , तर्हि नत् तिमिरं कियन्महत् । द्वयोः स्वामिनोर्दास्यं कर्तु, केनापि न शक्यं, यतः स एकतरं द्विषन्नन्यतरस्मिन् प्रष्यते, न चेदेकतरस्मिन्नासज्जमानोऽन्यतरमवमंस्यते । ईश्वरस्य धनस्य चोभयोर्दास्यं कर्तुं युष्माभिर्न शक्यते । : अतोऽहं युष्मान् ब्रवीमि, किं भतिष्यामः किंवा पास्याम इति विचिन्त्य स्वप्राणानधि, किं वसिष्यामह इति विचिन्त्य स्वदेहमधि वा माकुलीभवत । किं हि प्राणा न भक्ष्याच्छष्ठाः १ वसनाद् वा नापि देहः श्रेष्ठः ? विहायसो विहङ्गमान् निरीक्षध्वं, तै!प्यते नापि कृत्यते न चापि कुशूलेषु सञ्चीयन, युष्माकं स्वर्गस्थः पिता च तान् पुष्णाति । किं यूयं तेभ्यो नाधिकं विशिष्यध्वे ? चिन्तयिता वा युष्माकं केन स्ववयो हस्तमेकं वद्धयितुं शक्यते ? कस्माद वा वस्त्राण्यधि चिन्ताकुलीभवथ ? शूशनाख्यानि क्षेत्रपुष्पाणि पर्यालोचयत, कथं तानि वर्द्धन्ते ? न तानि श्रमं कुर्वते नापि सूत्राणि तन्वन्ति ।
[१०] * चारुचरितावली * युष्मान त्वहं ब्रवीमि, शलोमापि स्वकृत्स्नपतापे तेषा- मेकमिव न पर्यधीयत । यदि त्वद्य वर्तमानं श्वश्च ल्ल्यां निक्षेप्तव्यं क्षेत्रस्थं तृणमीदृशमीश्वरः परिधापयति, तर्हि भोः स्तोकविश्वासिनः, स. किं युष्मान् नाधिकप्रचुर परिधापयिष्यति ? अतः किं भतिष्यामः किं वा पास्यामः किं वापि वसिष्यामह इति विचिन्त्य माकुलीभवत, यतः परजातीयजना हि सर्वाएयेतान्यनुसन्दधते । वास्तवं यदिमानि सर्वाणि युष्माकमावश्यकानि तद् युष्माकं स्व- र्गस्थः पिता जानीते । प्रथमतस्त्वीश्वरस्य राज्यं धार्मिकता श्वान्विच्छत, तथा कृतं सर्वाणीमान्यपि युष्मभ्यं प्रदा. यिष्यन्ते । अतः श्वः कृते चिन्ताकुलामा भवत, यतश्श्व- स्तनं दिनमात्मनो विषयं चिन्तयिष्यति । दिनस्य निजकष्टं तस्य कृते पर्याप्तम् । मा विचारं कुरुत, तेनैव युष्माकं विचारो न कारिष्यते। यतो यूयं यद्विचारेण परस्य दोषान् निर्णयथ, तद्विचारेणैव युष्माकं दोषा निर्णायिष्यन्ते । येन परिमाणेन च मिमी वे, तेनैव युष्मदर्थमपि मायिष्यते । कुतश्च त्वं स्वभ्रातुश्चक्षुः- स्थं शूककणं निरीक्षसे, तव चतुःस्थन्तु गेहकाष्ठं नावधारयसि ? तव चतुपःशूककणस्य मयोद्धरणमनुमन्य- १Solomon. २Gentiles.
* खीष्टयीशुप्रभुः * [ ६१ ] स्वेति वा स्वभ्रातरं कथं गदिष्यसि ? तव चक्षुपि तु गेहका. ठमवतिष्ठते । कपटिन् प्रथमं स्वचक्षुपस्तद् गेहकाष्टमुद्र, ततः स्वभ्रातुश्चक्षुषः शूककणस्योद्धरणार्थ स्पष्टं द्रक्ष्यसि । युष्माकं पवित्रं द्रव्यं सारमेयेभ्यो मा दत्त । मापे स्वमुत्ताः शूकरेभ्यो निक्षिपत, यतस्तेन ते चरणैस्ता मर्दिष्यन्ति परावृत्य च युष्मान् विदारयिष्यन्ति । याचध्वं, तेन युप्मभ्यं दायिष्यते । अन्विच्छत, तेना. सादयिष्यथ । द्वारमाहत तेन युष्मभ्यम् उद्धाटयिष्यते । यतो यः कश्चिद याचते स लभते, यश्चान्विच्छति स शा. सादयति, यश्च द्वारमान्ति तदर्थमुद्धाव्यते । युप्मत्सु तादृशः को वा मानवो विद्यते यः स्वपुत्रेण पूपं याचितस्तस्मै प्रस्तरं दास्यति, मीनं वा याचितः सर्प दास्यति ? तद् दुर्जना अपि यूयं चेत् स्वसन्तानेभ्यो हितदानानि वितरितुं जानीथ, तर्हि किमधिकं युष्माकं स्वर्गस्थः पिता स्त्रयाचकेभ्यो हितानि वितरिष्यति । तत् सर्वस्मिन् विषये युष्मान् प्रति मनुष्यैर्यादृशमाचरितुं यूयमभिवाञ्छथ, यूयमपि तान् प्रति तादृशमेवाचरत । यद् एतदेव व्यवस्थाया भाववादिग्रन्थस्य च तत्त्वम् ।" अद्रौ यीशुपभोः धर्मसंभापणममाप्तौ श्रोतारस्तेन बलवत्प्रभाविताश्चित्रार्पिता इव विस्मितास्तस्थुः । सत्य- चलेन तस्य मुखाद्भहिर्गताः शब्दाः श्रोतणामात्मस्वच
[ २ ]
* चारुचरितावली
विश्रमं प्रापुः, यतः स्त्रीष्टयीशोगचरणमपि निजवचना
नुकूलमेव । स मनसि वचसि कमणि च एक एवासीत् ।
तस्य वाचि न केवलं सत्यस्य बलमासीदपि तु देवदुर्लभो
मधुरिमा प्रेम चावरीवत् ।
ख्रीष्टीयधर्मगाथका भन्यसर्वधर्मसंस्थापकानामिव
स्त्रीष्टयीशुप्रभोरपि स्पर्शेन कुष्ठ निवारणमन्धेभ्यो दृष्टिदानं,
मृतानां पुनरुज्जीवनं, पिशाचग्रस्तानां पिशाचापनोदनमि-
त्यादीन् बहूँ श्चमत्कारान् वर्णयन्ति । धर्मपुस्तकानां श्री-
वर्धकानान्तेषां विस्तरेणोल्लख इतिवृत्तदृष्ट्या निपद्ध
निबंधेऽस्मिन् न तथा समुचितः शोभावहश्च, तेन
तस्माद्विरम्यते ।
चिराभ्यासेन मनुप्यो रूढीनामुपासकः संजायत
इत्युक्तं प्रबंधमुखे । जीवुकर्मकाण्डिनां मध्येऽपि रूढीनां
राज्यं विराजतेस्म । ते प्रयोजनमनुद्दिश्यैवान्धविश्वासेन
रूढीननुययुः । उदाहरणार्थ -तेषु प्रत्येकसप्ताहे सप्तमः
शनिवासरा विश्रमाय परमेशस्तवनाय च पवित्रत्वेन नियत
श्रासीत्, तस्मिन्सर्वाणि सांसारिककार्याणि निषिद्धानि ।
परंतु रूढीनां दासतामुपगता जीववः शनिवासरं रागिणां
चिकित्सादीनि परोपकारकाण्यपि न्यषेधन् । शनिवासरे
यदि कश्चिन्मनुप्य श्रार्द्रमृदा लिप्तगृहे काष्ठासन्दीसञ्चालनेन
तस्याश्चनुभिः पादैर्भूमिमलिखज्जीववस्तस्योपरि पवित्रवि-
* खीएयीशुप्रभुः * [ ६३ ] श्रमदिनेऽपि भूमिकपणपापमारोपयन् । ते मृद्वारिणा बाह्य- शुद्धिमाचरतः पापपङ्कमलिनमनसा महापातकिनोऽपि शुचीन् विविदुः, बाह्यशुद्ध यादंबररहितान् पवित्रात्मना- ऽप्यशुचीन मेनिरे । येन केनाप्यधर्मेण माप्तभोजनं भुजा- ना हस्तपादपक्षालनपराः पुरुषा धार्मिका अगएयन्त, परं भोजनात्पूर्व हस्तमक्षालने काश्चिदप्यूनतां गताः शुद्धवृत्त- योऽपि धर्मनियमोल्लङ्गनेनादृप्यन्त । एवं मूलोद्देश्यं विहायान्धविश्वासेन परंपरागताः प्रथा अनुसरता धार्मिकंमन्यानां प्रमादान प्रदर्शयन् , सनातन. संपदायानाञ्च वास्तविकतत्वमुद्धाटयन् ,दयाधर्मस्य सर्वोत्कृ- एवं स्थापयश्च, स्त्रीष्टयीशुप्रभुः बाह्याडंबरप्रियाणां,धर्म- ध्वजिना, बकवृत्तीनां, कर्मठबुवाणां जोवूनां कोपभाजन देष्यश्च बभूव । ते सनातनमर्यादाभङ्गाय तं वध्यं व्यवस्था- पयामासुः। सर्वो देशस्तस्य विरोधेन व्यतुभ्यत । गैलिली- मान्तप्रभुहेरोडैन्तिपसनामापि शत्रुभिरुत्तेजितः खीष्ट- योशो रुधिरमपिपासत । एष एव हेरोडैन्तिपसो दुष्टया स्त्रियोपनापितो धर्मोपदेष्टारंजनदीक्षकमहाशयं कारायांव- वावधी । खीष्टयीशुमभुरपि धर्मरक्षायामात्मनो बलिदान पूर्वत एवोत्पश्यन् तदर्थं श्लधाम्नः परमात्मनो धैर्यवलं १ Herod Antipas. १ [४] - चारुचरितावली. man-- लन्धु गैलिलीसागरतीरम्यमेकान्तं बनान्तं विवंश, परमुपदेशार्थी जनसमूहस्तत्रापि तमनुययो । तेन तत्स्थल परित्यज्य स फ़िनीशियानामर्फ विदेशं सशिष्यो ययौ । तत्र धर्म प्रचारयन्, शिष्यसङ्घश्च विविधरुप देशधर्म- संस्थापनेऽपेक्षितासु सहिप्णुतादृढताविनम्रतासु द्रढयन् , देशदेशान्तरेषु सदाचार संस्थापयन् ,निर्यातनदिनमहाप- विसरे जेरुसलममहानगरीमगच्छत् । निर्यातनमहा- पर्वणि जेरुसलममहातार्थस्य यात्रिणः सहस्रशो जना मध्येमागादेव स्त्रीष्टयीशुपभोरनुयायिनो भूत्वा सङ्घन तेन सह जेरुसलमं प्राप्य तस्य जयघोपादिस्वागतसमारोहेण नगरं तुमुलयाचक्रुः। खीष्टयीशोरुपदशैः पूर्वमेवोजिताः कमठारतस्य तादृशों प्रतिष्ठा न विषेहिरे । अधुना जीवु. धर्मग्रन्थपाठकाः जेरुसलममहामंदिरपुरोहिताश्च यीशो- विराधे तपां सहायत्वं गताः । धर्मग्रन्थपाठका धर्मवाक्यानां तस्याभिनवया व्याख्यया चुकुपुः,पुरोहिताः पार्थनायायुद्दिष्टं महामंदिरस्य प्राङ्गणं बलिपशुविक्रेतृभ्यो मुद्राविनिमातृभ्यश्च भाटकमादाय तत्तकार्यार्थ प्रार्थनासमये दत्तवन्तः परमेश- प्रार्थनां बबाधिरे, यीशुग्वीष्टश्च तैः स्थापितान् विक्रेतन् तस्मात्पवित्रस्थानादपाकृत्य तेषां रोषभाननं बभूव । १ Phoenicia.२ Scribes. .
* स्वोष्टयीशुप्रभुः [१५] परस्परं विवदमाना अपि ते सर्वे यीशुपभोर्वधार्थ सम्मि- लिता बभूवुः। १ यदा ते तस्य भाषणेषुच्छिद्रान्वेषणबुद्धया स्थले स्थले तद्वाचमवरुमन्तोऽपि दोष न प्रापुस्तदोपायान्तरमलब्ध्वा तस्य शिष्यं जूडासइस्केरियातनामानं धनलोभेन गुरु- द्रोहिणं विदधुः । गृन रिस्केरियटरिंशन्मुद्रामात्रेण विलु- ब्धः स्त्रीष्टयीशुं रजनीमुखे वैरिणां वशगमकरोत् । पुरोहि- तादयस्तद्विद्वेपिणस्तं विविधापगधारोपणपुरःसरं जीवनां महाधिकरणेऽस्थापयन् । महाधिकरणस्याध्यक्षः पुरोहि तानां नायकः कयासनामाभूत् । स नियमविरुद्ध राज्यामेव महाधिकरणमाह्वयत् । विविधदोषानारोपयन् विपरीतसाक्षिणः श्रुत्वाऽगतिकः स तावद्ग हीतमौनं स्त्रीष्ट- यीशुप्रभु “परमेशप्रेषितोऽभिषिक्तो धर्मरक्षकोऽसीति पप्रच्छ । स्त्रीष्टयीशुप्रभो "वाढणमित्युक्तवति धर्माध्यक्षः कोपावेशाद्वस्त्राणि विपाटयन् जगर्ज- "परमेशप्रतिकूल वादी सः । तेन साक्षात्स्वयमेव परमेशप्रतिकूलमुक्त किम- स्माकं साक्षिभिः । प्रत्यक्ष परमेशपातिकूल्यपातकद्रष्टयां वः काधुना धर्मव्यवस्था " । सर्वे महाधिकरणिका "वध्योऽसावित्येकस्वरेण जगदुः । १ Judas Iscariot. २ Caiaphas.
[ ६६ ॥ * चारुचरितावली* परं रोमकराज्ये जीवुदयामान्ते रोमकशासितुराज्ञा- मन्तरा न कोऽप्यबध्यत । रोमकशासकः पिलेटाभिधो रोमकाणांविरोधं विना खीष्टयीशुं न हनिष्यतीति महा- धिकरणिका रोमकराज्यविद्रोहस्य मिथ्यागेपं कल्पयित्वा वधाज्ञाप्राप्त्यै स्त्रीष्टयीशुंरोमकशासकस्यान्तिकं निन्युः। रोमकशासितान्तरात्पना यीशौ दयापरोऽपि जीवुभिर्वा. ध्यमानो यीशुबधं विदधे । रोमकसैनिकास्तस्यैव हस्ताभ्यां दारुमयीं दुर्भरां शूला वाहयन्तो, निष्ठीवनादिनानानिकारस्तं वधस्थलं नीतव- न्तः, शूलायामारोप्यारुन्तुदयातनापूर्वकं निरपराधस्य तस्य प्राणानपाहरन् । ख्रीष्टयीशुप्रमुः प्रथमं किचिद्विचलित. धैर्योऽपि पश्चात् “ते बलीयसीच्छा पूर्तिमीयादिति व्याहरन् परमपितुराज्ञां शिरसा वहन् परमधैर्येण वैक्रमसप्तपञ्चाशत्त' मेऽब्दे ( ५७ वै० ) ग्रीष्मतौं शुक्रवासरे त्रित्रिंशद्वर्षवयसि (३३) विनश्वरी तनुं तत्याज । तेन प्रत्येकग्रीष्मतौं स्त्रीष्टयीशुस्वर्गारोहणशुक्रवासरे ख्रीष्टीयानां शुभशुक्र- वासर (Good Friday ) नाम पर्व भवति । धर्माथ तस्य शूलायामारोपणात्तदनुयायिनः स्त्रीष्टीयधर्मावलं- १Pilate.
. * खीष्टयीशुप्रभुः * [ २७ ] बिनोऽधुनापि शूलाचिन्हें स्ववस्त्रेषु निजधर्ममंदिरषु च धारयन्ति । ततः खीष्टीयानां विश्वासानुसारं भूमिस्थः ग्वीष्ट- यीशुप्रभुस्तृताये दिने पुनरुज्जीवित, उत्थितश्च, शिप्येभ्यो दत्तदर्शनो, वियति विलीनः, परमपितुर्दक्षिणपार्वे सिंहा सने न्यपीदत् , महाप्रलयात् पूर्वञ्च पुनर्धरायामवतरि- प्यति, स्वर्गप्राप्तौ च स्वानुयायिनां सहायो भविष्यति । स्रोष्टयीशप्रभोश्वरितस्य तदीयोपदेशानाश्च समीक्ष- नेदमेव सिद्धयति यत्स दयाया, विनयस्य, सहिष्णुता- तायाश्च मूर्तिरासीत् । स धर्मरक्षणार्थमेव जन्म लेभे, धर्मार्थमेव प्राणान् दधार, धर्मार्थमेव च स्वतनुमपि बलिम- करोत् । तस्य धर्मवेद्यां बलिदानेन तच्छिष्यासां धर्मप्रचार- प्रयत्नेन चाधुना तदनुयायिनः संख्यया, विभूत्या, कीर्त्या च सर्वानितरधर्मिणोऽतिशरते । स्त्रीष्टीयधर्मप्रचारकाणा- मदम्योत्साहेन सततोद्योगेन च स्त्रीष्टीयधर्मः समग्रं गौरागमहाद्वीप (योरपखण्ड), पातालम् (अमेरिका- महाद्वीपम् ), एशियाफ्रीकाखण्डयोः प्रचुरभूभागश्चा- भिव्याप । खीष्टधर्मीयांगलानां प्रतापभानुरद्य वसुधायां १ Europe. २ America. ३ Ashia. ४ Africa. १ ३ ४ [ ] * चारुचरितावली * सर्वत्र प्रकाशने, तेषां साम्राज्ये च भास्करो न कदाप्य- स्तमेति, यं ये भूभागमुणदोधितर्गभस्तयो गच्छन्ति तत्र तत्रांगलानां यः कोऽपि राज्यखएडो नियतयेव विराजते । इति यीशुवरितम् * मोहम्मदमहोदयः * ॐ- मोहमंदाननेकेश- वादग्रस्तान् स्वसाहसैः। उददीधरदेकेश- वादी मोहमदोऽस्ति सः॥ भारतीयमहासागरे निःसृतानामेशियामहाद्वीपस्य प्रयाणां प्रायद्वीपानां दक्षिणमरबेत्याख्यायते । अरब. देशस्य भूमिः प्रायशो जलाशयशून्या, तरुविवर्जिता, शस्यविरहिता, बालुकामयी, प्रस्तमिश्रिता, मरुस्थली वर्तते, दृष्टिपातं यावच्च मृगतृप्णिकां नेत्रातिथिं करोति । यत्र तत्रैव कुत्रचित्खर्जराणां कुजानि कण्टफितझाट- कानि च दृश्यन्ते । सर्वतश्शरीरशोपिका वात्या बालुक- यातीण्यन्धयन्ति ।
-- [१०] . चारुचरितावलो अरबवास्तव्या अरबी भाषां भाषमाणा मोहम्मद- महोदयेन प्रवर्तितं मोहम्मदीयं धर्ममनुयान्ति । तस्मिन्देशे मोहम्मदमहोदयस्य प्रादुर्भावात्माक् वैक्रमसतमशताब्याः पूर्व तदे शनिवासिनोऽज्ञानान्धकारनिममा बर्षग आसन् । तेऽनापालनेन वृत्तिं कलयन्ता गोचरगवेषणायै निजावास- शिविररूपं गृहमुष्ट्रघागेप्य यत्र तत्राभ्रमिषुः । गृहाणां सन्धेषु वहनेनैव ते पारसीभाषायां "वानाबदोषेति "स्कन्धोढगृहेति वा संज्ञां पापुः । ललितकलानभिज्ञानां, सुखसामग्रीविहितानामसभ्यान्तेपामजानामुष्ट्राणाश्च स- मूह एव सर्वस्वम् । उष्टा एव तेभ्यस्सर्वविधास्संविधास्स- मर्पयामासुः; तेनैव त उष्ट मरुस्थलीपानं संज्ञापयामासुः । फस्यचित्सार्वभौमनृपस्य शामनाविरहितास्तेषां प्रत्येक परि. वाराः पृथक् पृथक् प्रमुग्वपुरुषस्य शासने वर्तमाना, देश व्यापकधर्मव्यवस्थाया अभावात्सततं.परम्परं कलहरता विग्रहपगश्च बभूवुः । धनधान्यभूसंपत्यभावेऽपि घोराज्ञानेन ते तुच्छातितुच्छविषयेष्वकलहायन्त । कुत्रचिद्गोचरभूमि- मधिकृत्य, कुत्रचिच्चाश्वधावने प्रथमाश्वचालनं विषयीकृत्य, कुत्रचिञ्च जलाशयतटे पशूनां जलपानमादाय, ते प्रतिदिनं तथा युयुधिरे यथा वंशानुवंशं समानांशतं यावशेषां संगरा- निः शान्ति तयाय । दुगग्रहग्रहग्रहिलास्त सकृदारब्धकलहाः कदापि शमं न भेजुः । वैग्शाधनं ते धर्मवत्स्वकर्तव्यत्वेन -- * मोहम्मदमहोदयः * [ १०१ ] मेनिरे । कस्यचित्संबन्धिनो क्यस्य वैरशोधनं स्वकर्नव्यं मत्वानेकानि कुलानि व्यतीत्यापि परिपन्थिनः कुलजा वैरिवंशजं जघ्नु ः। एवं वैरनिर्यातनं परःशतानि वर्षाणि मासरत् । ते तदवधि सभ्योन्नतदेशेभ्यम्सत्यविद्याया विज्ञानस्य चालोकं नाप्तवन्तः । ते तदा सर्वसंमारस्य परमपितुम्सर्व- व्यापकस्य केश्वरम्य कल्पनामपि नाज्ञासिषुः । परमपितुः पूनायाः स्थाने मिथ्याविश्वासारूदास्त नानाकपोलकल्पि. तभूतपतपिशाचदेवीदेवतादीनां प्रतिमाः पूजयामासुः । दार्शनिकभारतीयानां मूर्तावीश्वरपूजायाचिकाग्रथाय प्रतीकोपासनाया वा तपां मूर्तिपूजा सर्वथा दुरापास्तासीत् । तं मूतोग्वष्टदेवना मत्वाराधयामासुः । तेषु प्रत्येककुलस्य पृथक देवता पृथक् नाम्ना पूज्यतं स्म । एवं तेषु परःसह- स्राणां देवतानां पूजनं प्रचलितमभूत् । भासीच तेषां सर्वप्रधानं मूर्तिमंदिरं मक्कानाम्ना मक्कानगरे प्रतिष्ठितम् । परःशताभिर्मतिभिः परिपूर्ण मक्का- मंदिरमरचवासिनां सर्वश्रेष्ठं तार्थ पयगण्यत । मध्ये वर्ष सततं विगृहपरा अप्यरबवास्तव्याः कतिचिद्विशिष्टमासान मक्कातीर्थयात्रायै पवित्रत्वेन पृथग्धृत्वा तंषु विरतयुद्ध- व्यापारा अजायन्त । एषु पवित्रमामेण सर्वतस्तीर्थयात्रियो मक्कानगरमागत्ग, मक्कामंदिरंपरिक्रम्य, तत्रस्थाः प्रतिमा [ १०२ ] * चारुचरितावली * आनचुः । तत्र च ज़मज़मनामजलाशये स्नाताः पशुत्र- लिमर्पयामासुः । मोहम्मदमहोदयस्य पूर्वजा मकामंदिरस्य पुरोहिता रक्षकाचासन् । तदानीमरबीयबर्वरेषु दुहितृवधे, द्यूतं, मदिरापानं, लाम्पथ्य'. भगिनीपरिणयस्सर्वविधमांसभक्ष. पमित्येवंप्रभृतीनि परःशतानि महापातकानि प्राचलन् । तेषामिमां दुर्दशां पतितावस्थाश्च पर्यालोच्य पतितपावन- स्य परमपितुर्दया द्रवतामगच्छत् । स चाधमोद्धारकस्तपा मुद्धरणाय तद्देशे मोहम्मदमहोदयं देवदूतत्वेन प्रेषयामास। "मोहम्मदीयेति “इस्लामेति वा धर्मस्य संस्था- पको मोहम्मदमहादयः षड्विंशत्युत्तरपड्शततमवैक्रमाब्दस्य ( ६२६ वै० ) ग्रीष्मता मक्कानगरे गरेशनामकं प्रसिद्ध- वीरवंशं स्वजन्मना पावयामास । मोहम्मदमहोदयस्य पूर्व- पुरुषा हातमो मक्कानगरस्य महोपकारमकापीत् । प्रस्त. रमय्याम्परभूम्यां स्थितं मक्कानगरं पुराकाले भोजनच्छाद नसंविधाभावेन प्रायः पर्यपीड्यत । तदापन्निवारणार्थ हाशमः पष्ठशताब्यन्तिमे भागे वार्षिको सार्थी स्थापयामास । तयोरेकरिशशिरकाले दक्षिणारवस्य यमनप्रान्तं गत्वापरश्च ग्रीष्मकाले सीरियादेशं प्राप्य मकां प्रचुरधान्यं विविध- भाएडञ्चानिनाय । अनेन मक्कानगरं व्यापारस्य केन्द्रलं, सार्थेन व्यापारपरः कुरेशवंशश्च समृद्धिमभजताम् । तदा .. * मोहम्मदमहोदयः * [ १०३ ] हाशमोऽरवीयानां महातीर्थस्य मक्कामंदिरस्य संरक्षक. पदे प्रत्यतिष्ठत् । मक्कामंदिरस्य संरक्षकपदे संभ्रान्ताः कुलीनाः पुरुषा एव न्ययुज्यन्त । वस्तुतस्तु मक्कामंदिरस्य संरक्षकस्तस्मिन्नगरे महाप्रतिष्ठया प्रचुराधिकारेण च समन्वितस्तस्य पवित्र नगरस्याधिपत्यं धार । हाशम उपरते तत्पुत्रोऽब्दुलमतलवस्तदुत्तराधिकारी सर्चादरास्पदं पेदे । पितुस्लवगुणसंपन्नोऽब्दुलमतलबः कनिचित्सुतान्मुताश्च लेभे । तेषु कनीयानब्दुल्लाहः पितृवात्सल्यभाजनं, रूपरा- शिसंपन्नः, कामिनीनां प्रीतिपात्रमासीत् । स स्वान्वयस म्भूनामामनां परिणिनाय । सर्वसुन्दरेऽब्दुल्लाह अामनां विवाहबंधने स्वीकुर्वाणे, द्विशतं कुरेशकुमार्य ईकि- पायितास्तस्यां रात्रौ प्राणान् विससृजुरित्यरबीयेषु दन्तकथा प्रचलति । एवं शोकसमन्वितस्यैतस्य परिणयस्य मोहम्मद- महोदय एव प्रथममेकफलं समुदपद्यत । मोहम्मदाविभाव- काले मुसल्मानगाथकाः नाना अलौकिकाः घटना वर्ण- यन्नि । तद्विधाश्चमत्कारास्सर्वेपां धर्मसंस्थापकानां जन्म- काले तदनुयायिभिर्वर्णितास्सन्ति । विस्तरभयेनात्र ताँस्त्य जामः । ज्योतिर्विमोहम्मदमहोदयस्य मातुलस्तस्य जन्म कुण्डलीमालिख्य तं माविनं साम्राज्यसंस्थापकं नवधर्म- प्रवर्तकश्च समादिशन् । सप्तमे दिवसे तस्य पितामहोऽन्दु लमतलबस्स्व नातीयान् भोज दत्त्वा नवशिशुं मोहम्मद.
, [१०४] * चारुचरितावली* (सर्वैःप्रशंसितमिति ) नामानञ्चक्र, तश्च स्ववंशीयाना- मग्रे स्ववंशस्योदीयमानं महाज्योतिरुक्तता स्थापयामास । मोहम्मदे द्विपासावस्थामतिक्रान्ते, तत्पिताब्दुलाह- स्तस्मै पञ्चोष्टान् , कनिचिदवीः, कृष्णकायांबरकतनाम्नी दासीश्च रिक्थं त्यक्तमा पञ्चवमवाप । पत्युमृत्योरशोक- संतापन मोहम्मदमातुरामनायास्स्तनयोस्स्तन्यस्रोतोऽशु- प्यत् । मक्काप्रदेशस्य सलिलानिलो शिशूनां स्वास्थ्याय हितकरौ न स्तः । तेन च सा मोहम्मदं पोपयितुमसमर्था तत्पोपणायारवीयवर्वरसंदरीणां मध्ये धात्री मार्गयामास । वर्बरधाव्यो वर्षे द्विवारं वसन्तशिशिरयाः पोपणार्थ शिशून् गवेपयितुं मक्कानगरमागच्छन्त्यः, प्रचुरधनलाभा. शया च समृद्धानामेव शिशून् पोपणार्थ गृह्णन्त्यो दीनशिशुं मोहम्मदं परिपालयितुं न्यधन् । परन्तासु सादकुलना जापालस्य भार्या हलीमानाम्नी दयाहृदया असहाया- नाथशिशु पोषणार्थ स्वगृहमनयत् । तस्या गृहं पर्वतोप. त्यकासु गोचरेऽतिष्ठत् । तत्रैव शिशुर्मोहम्मदो हलीमा- धाच्या संवर्धितस्वमातुस्सकाशं मक्कानगरमानिन्ये । षड्वर्भावस्थां यावच्च शिशुं पोहम्मदं मक्कानगरे परिपाल्य नस्य माना, तं स्वसंबन्धिनां निवासं मदीनानगरं नयन्ती, मध्येमागं तनुमत्यजत् , मक्कामदीनानगरयोर्मध्येऽबवास्था- , तं * मोहम्मदमहोदयः [१०५ ] ने च समाधिस्था क्रियत । मोहन्मदमहोदयः पाणोन्क्रमणं यावत्स्वमातुस्समाधि वारं वारं गला सकरुणं रुरोद । अधुना मातहीनं मोहम्मदं प्रभुभक्ता कृष्णकाया घरकतनाम्नी दासी सुनसदृशं पालयामास । शिशुर्मोह. म्मदा बरकतदास्या द्वे वर्षे तस्य पितामहस्यान्दुलमतलब स्य संरक्षणे समवर्यत । अद्धिोन्दुलपतलवस्स्वान्तिम समयं समुपस्थितं मत्या, स्वज्यप्ठसुतमबूतालबमाहूय, मोहम्मदसंरक्षणे न्ययोजयत् । दयालुरबूनालयस्स्वभ्रातृज चक्षसाश्लिप्यायुःपर्यन्तं सुनिर्विशेष मेने । स्वपितुरन. न्तरमबूतालयोऽपि मक्कामंदिरस्य पौरोहित्यं संरक्षकपद ञ्चाविन्दन । तेन बालमोहम्मदो मकामन्दिरस्य पूजापरे पग्विारे परिपाल्यमानो बाल्यादेव मरकामहातीर्थ- स्य महिमानं स्वमनसि धारयामास । अन्येऽरवीयवर्बरवालका इव मोहम्मदोऽपि बाल्याव स्थायामक्षराभ्यासं नाकरोत् , तथापि स गभीगशगो, विशालबुद्धिः, प्रत्युत्पन्नमतिर्वाल पासीत् । सक्छ । तस्य विपयस्य बहु मननम फत् । मकानगरे तीर्थयात्रा- यै सुदूरात सर्वदिशागतानां सर्वप्रकाराणां यात्रिणां बह- विध भापणं श्रुत्वा स सौत्सुक्यं तत्पर्य स्वस्मृती निदधे । तेनायुर्वृद्धिसमं तस्यानुभूतिरपि वृद्विमगमत् । नित्यमपचीयमाना तस्य गपणावृत्तिः विशेषानुभ- - [ १०६] * चारुचरितावली वलाभाय तस्मा अन्यमवसरं प्रायच्छत् । उपर्युक्तवर्णना नुसारं तस्य परिवारे पितृपर्यायागता सार्थेन व्यापारवृत्ति रप्यवर्तत । तस्य पितृव्योऽबूतालिबस्सार्थमादाय सार्थवा- हरूपेण सीरियां यमनदेशश्च प्रति प्रातिप्ठत । मक्का- नगरस्य गोपुरे हृदयोल्लासपूर्वकं संमद जनयतां सार्थानां यातायातं मोहम्मदस्य बालचेनस्युत्साहं पूरयामास, तस्य मनश्च विदेशान् प्रत्यनयत् । स विदेशयात्रोत्कएठां संवरीतुं न शशाक। एकदा स सार्थमादाय सीरियां प्रतिष्ठमानं स्वपितृ- व्यमव्रतालबमुष्ट्रारोहणकाले प्रसज्य तेन सह चलितु सवि- नयमनुरोध । तस्य विनयमनुवर्तभानस्तश्च विदेशयात्रा. वस्थं मन्यमानाऽबूतालिबस्तत्प्रार्थनामङ्गीकृत्य तं सहैवा- नयत् । अबूतालिबस्य सार्थः परम्परागतानेकदन्तकथा- भिस्संबद्ध पु नगरेषु यात्रामकरोत् । सायं विश्रमकालेऽ. रखीयसार्थपुरुषा मिथस्तास्ता दन्तकथाः कथयन्तः प्रचु- रानन्दमनुभवन्ति । अरबदेशीयमरुस्थलेऽनेकानि स्था- नानि मिथ्याविश्वासरतैरररदेशीयैः कपोलकल्पितभूतप्रेत- पिशाचादिभिरधिष्ठितानि ज्ञायन्ते । तेषु स्थानेष्वपि सार्थ एकोऽयात् । तो विविधा दन्तकथा मिथ्याविश्वासाश्च संभूय मोहम्मदस्य बालरदयं विशेपेण प्रभाषयामासुः, * मोहम्मदमहोदयः * [ १०७ ] किश्चित्कालमनिवाह्य तत्पचारितमुसल्मानधर्मे प्रधानस्थान- चावापुः। एवमेव सार्थस्सहानेका यात्राः कुर्वन् युवा मोहम्मदो व्यापारमावीण्यं प्रापत् । तस्य व्यापारनिपुणनां संवीक्ष्यार बदेशस्यानेके सार्थवाहास्तं स्वकार्यनिर्वाहकप्रतिनिधि कृत्वा बहुवारं यमनदेशं सीरियादेशश्च व्यापाराय प्रेषया- मासुः । आभिर्यात्राभिर्मोहम्मदमहोदयस्य बहुविषयकं ज्ञानं भृशं ववृधे । स अरबीयानां कविसमाजेषु, कथागोष्ठीषु, विविधसम्मेलनेषु च संगतस्स्ववाग्मिता कविताशक्तिश्च व्यकासयत् । तस्मिन्न व समये मकानगरवास्तव्या कुरेशा- न्वया, धनाढ्या, मृतद्विभर्तृका, चत्वारिंशद्वपीया, खदी- जानाम्नो विधवा नारी व्यापाराय मोहम्मदं स्वकार्य- निर्वाहकप्रतिनिधि नियुक्तवती, तस्य कार्येण रूपलावरयेन च विमोहिता तं स्वपतिमणात् । खादीजाया भर्ता भूत्वा मोहम्मदमहोदयस्समृद्धिमुपा- गतो, व्यापारचिन्ताभिनिवृत्तचेता, अरबीयबर्बराणां दुष्कृतापनोदने धर्मसंशोधने च मनो निदधे । स समये समये हिरापर्वतं गत्वा, तत्र गुहायामकान्त निपद्य, धर्मस्य तत्त्वं संशोधनञ्च चिरमनुचिन्तयामास । अरबीयर्वराणां पतितावस्थाः कुप्रथाश्च तस्य दयालुहृदयस्य मर्म हतुदुः। विशेषतस्तेषु प्रचलिता घोराज्ञानान्धकारमुचिका प्रतिमापू- र चारुचरितावली * । १०% ] जातं भृशं पीडयामास । स प्रसिद्धनार्थं मक्कामन्दिरं परः- शताभिः प्रतिमाभिराकोणं दृष्ट्वाऽतीव खिन्नमानस: परमपितुः परमेश्वरस्य पूजायाः पवारस्य परामपेक्षामन्त्र- भून् । तेन स निनायुश्चत्वारिंशत्तमे वर्ष श्रात्मानं परम- शापितं देवदूतमुद्धोयेस्लामधर्म समस्थापयत् । सर्वप्रथम मोहम्मदमहोदयस्य परमानुरक्ता पत्नी ख- दोना तत्ववर्तितं धर्ममङ्गी वकार । ततस्तस्य प्रियो दासो जैदनामकः, खुदीनायाः पितृव्यपुत्रः नीष्टीयधर्मग्रन्थस्य बाइबिलत्यारवीयभापायामनुवादको मोहम्मदस्यान्तरङ्ग- मित्रं घरकानामा तद्धर्म स्वीचक्रतः । त्रीणि वणि यान. मोहम्मदमहोदयस्स्वधर्म शनैश्शनैः गुप्त प्रचारयामास । तेषु त्रिषु वर्षपु प्रायो विदेशीयानां यूनां दासानाञ्च मध्ये चत्वारिंशत्पुरुषास्तस्य धर्मानुयायिनो बभूवुः। अतीतेषु त्रिषु वर्षेषु मोहम्मदमहोदयः पकाशं स्वधर्म- प्रचारमारेभे । स सर्वान् कुरेशकुलजानाहूय सभामध्ये तानिस्तामधर्म स्वीकतुं प्रेरयामास । परन्तेषु युवान- मलीमृते, कोऽपि तस्योपदेशं न श्रद्दधौ । परस्ताचाली मोहम्मदस्य दुहितरं फातमां परिणीय, तस्य जामाता भूत्वा, मुसलमानधर्मस्य प्रसारे मोहम्मदस्य प्रधानसहायक आसीत् । अन्ये सर्वे कुरेशास्तमनादृत्य जहसुः । अनेन * मोहम्मदमहोदयः * [ १०६ ] दुर्व्यवहारेणाप्यत्यक्तोत्साहो मोहम्मदो यथावसरं सततं स्वधर्मप्रचारनिरतो बभूव । तस्य धर्मपचारेण प्रकुपितास्तद्वंशीयाः कुरेशास्त- पितृव्यमबूतालिब गत्वा निजभ्रातृज मोहम्मदमस्मादुर्व्य- वहाराभिवारयितुं प्रार्थयामासुः, नवीनधर्मप्रचाराग्रहे पहले मोहम्मदस्य प्राणसंकटमपि च तस्मै निवेदयामासुः । तेषामनुरोधेणाबूतालिबो मोहम्मदं बहुवारं बोधयन्नपि तं स्वसिद्धान्तेषु सुदृढन्दृष्ट्वा, स्वयमपि तस्य सहायको बभूव । अबूतालिबप्रेरिताः केचिदन्ये क शिवंशीया अपि तस्य सहायत्वं गताः । ततो दैवदुर्विपाकान्मोहम्मदस्य परमानुरक्ता भार्या खदीना, परमसहायकः पितृव्योऽवृतालिबश्च पञ्चत्वमवा- पतुः । अनयोस्सहायकयो शेन मोहम्मदो मकानगरे निःसहायावस्थामगमत् । अधुना विरोधिनां क रेशवंशी- यानामन्येषामरबीयबर्बराणाश्च नानायातनाभिरनन्यग. तिको मोहम्मदो मक्कानगरं त्यक्त्वा पञ्चत्रिंशदुत्तरशतक्रो- शान्तरे (१३५) मदीनानगरे शरणं गृहीतुं बाधितो बभूव । मोहम्मदीयैर्मोहम्मदमहोदयस्य मक्कानगरत्यागो महती घटना मन्यते । इमामेव घटनाश्चावलंब्य तेषु हिजरी. संवन्नाम्ना वियोगाब्दः प्रचलति । घटनैषैकोनाशीत्युत्तर- षड्शतमिते वैद्रमाब्दे ( ६७६ वै० ) समघटत । मदीना [ ११० ] * चारुचरितावली * नगरमुषित्वा मोहम्मदमहोदयस्तनगरनिवासिनां प्रचुरां संख्यां स्वमते दिदीले । संख्यैषा मक्कादिनगरेभ्य आगतैरन्यैस्तदनुयायिभिस्संगत्य प्रबलसेनायां पर्यणम्यत। अनया सेनया मोहम्मदमहोदयो भक्कानगरमभ्यपेणयत् । तस्य सेना क रेशादिनो विरोधिनोऽनेकेषु युद्ध षु विनि. ग्ये । तेषु युद्ध षु प्रधानतमं युद्ध बदरयुद्धाख्ययारबीयेति- वृत्ते प्रसिद्धम् । पराजितास्सर्वे विरोधिनो विरोधं त्यक्तवा, मोहम्मदानुयायिनो भूत्वा, मुसल्मानधर्म स्वीचक्रुः । क्षमा शोलो मोहम्मदमहोदय आत्मानं प्रति तेषां सर्वान् पूर्वा. पराधान् चत्तमे । स मक्कामंदिरस्य सर्वाः प्रतिमा बभञ्ज, परन्तस्य तीर्थत्वं पवित्रत्वञ्च स्वमुसल्मानमतेऽप्यतुण्णं ररत। एवं मोहम्मदमहोदयस्य जीवनसमय एव सर्वोऽरवदेशो मुसल्मानधर्मदीक्षां जगाह । मोहम्मदमहोदयश्शेषं सर्वजी- वनं मूर्तिपूजानिराकरणे मूर्तिमंदिरभञ्जने च यापयामास । स सीरियां, मिश्र, पारसं, ग्रीसदेशश्चाक्रम्य तत्र तत्र स्वमतं खगबलेन प्रचारयामास । मुसल्मानवाहिनीवात्या यां दिशं प्रसरतिस्म, तामेवाभिव्याप्य स्वशक्त्या तत्रस्थि तौ प्राचीनसभ्यताधर्मावपनहार । मोहम्मदमहोदयस्य प्रतापवह्नौ प्राचीन मिश्रपारसादीनां धर्माः शलभायिताः। तेषां प्राचीनसभ्यताया इतिवृत्तमप्यद्य कृच्छ्र णोपलभ्यते ।
-- • मोहम्मदमहोदयः * [ १११ ] अधुना ते देशास्साकल्येन मोहम्मदीयमतमनुयान्ति । सेषु तेषु देशेषु प्राचीनधर्ममनुवर्तमानः कोऽपि न दृश्यते श्रूयते वा। मोहम्मदीयधर्मोऽन्यदेशीयानां धर्माणां येन केनापि रूपेणोपकारकोपकारको वाभूत्परमत्र संदेहो नास्ति यत्सोऽभरबीयबर्वगणां महाभ्युदायकः कल्याणकारक- श्वानायत । मोहम्मदपहोदयो नित्यमन्योन्यरक्तपिपासूनां, घोरान्धकारनिमग्नानां, सर्वपातकग्रस्तानां, सर्वप्रकारोन्म- तिविमुग्वानां परमपितुर्नामाप्यजानतां, प्रस्तरपूजकानाम- नेकमतावलंबिनामरबीयबर्वराणां समूह, स्वनीवनसमय एवाल्पनैव कालेन भ्रातृभावभरितानां, ज्ञानालोकालोकि- तचित्तानां, दुरितदूराणामुन्नतिपथे धावमानानामेकमन्त्र- दीक्षितानां,निरुपाधिकेश्वरोपास कानामेकधर्मावलंबिना, सुसंगठितसमाने पर्यणमयत् । स्वनीवनयात्रान्तकाले मोहम्मदमहोदयस्तादृशानामनुयायिनां नैकधर्माचार्य एव, प्रत्युतोन्नतारबदेशेन सहैव पारसमिश्रादिषाचीनदेशानाम- सीमशक्तिशाली, सर्वसांसारिकसुखसामग्रीसमेतस्सम्राडपि समजायत । यथा भक्तिभावेन श्रदया च तस्य प्रजास्त सिषेविरे, न तथा कदापि कस्मिन्नपि देशे कमपि चक्रव- निनमपि जना अनुवर्तयामासुः । मोहम्मदानुयायिनस्तस्य स्वेदस्थाने स्वरक्तं पातयितुं सर्वदोयना आसन् , ते तस्य [ ११२ ] * चारुवरितावली* पृथ्वीपतितं स्नानजलमपि पवित्रं दुर्लभश्च मखाचेमुस्तस्य पतितान् फेशानपि गृहीखा सभक्ति निपुणं ररक्षुः । मोहम्मदमहोदयो निजानुयायिभ्यो धर्मार्थदानरूपण विविधकरानग्रहीत् । ते तस्मै धर्मयुद्धव्ययार्य करातिरिक्त- मपि यथेष्टं धनं ददुः। मोहम्मदमहोदयस्ममये समये निजहृदये परमेश्वरेणो- द्भाविता विचारपरम्पराः परमेशात्प्राप्ता आज्ञा उद्धो. व्यारबीभाषापनि जानुयायिषु प्रचारयामास । तस्य मू- त्योरनन्तरं तदनुयायिनस्तानीमानि पद्यानि संगृह्य पुस्तक रूपं ददुस्तदेतत्पुस्तकं मोहन्मदीयेष्वीश्वरवाक्यवेन कुरा- ननाम्ना प्रख्यायते। मोहम्मदमहोदयस्वदशये वियोगाब्द मुसल्मानधर्म: मस्त्रीकुर्वता सर्वेषां विरुद्ध जहादनामक सामान्यं धर्मयुद्ध मुदोरामास । तस्यासंख्यसेनाया आक्रमणेन भीताः परस्सहस्राः जनास्सङ्घशो मदीनामागत्य तद्धर्मे दीक्षा ज.राहुः । तस्मिन्नेव काले मोहम्मदस्य दास्या गर्भमस्तस्यैकाकी पुत्र इबाहीमो बाल्य एव पश्चलमवाप । तस्य दारुण- शाको मोहम्मदस्य मर्मान्तां वेदनामजनयत् । कालक्रमेण चाद्ध क्यप्रवणस्य मोहम्मदमहोदयस्य शारीरिकसामर्थ्य हाममुगनन् । तेन स सावशिष्टं सामर्थ्य निनानुयायि.
** मोहम्मदमोदरः * [ ११३] भ्य आदर्शस्थापनार्थ तैस्सह मरकामहातीर्थस्य यात्रायां व्ययितु मनश्चक्र। स सर्वदिग्भ्यस्स्वानुयायिन पाहूय महता समागेहेण मकझामहातीर्थयात्रायै प्रातिष्ठत । अर- बीयदन्तकथानुसारं तेन सह शिविकारूढा तस्य नवा भार्या मक्कामहातीर्थ यात्रिणां चतुर्दशसहस्रोत्तरैकलक्षश्च बलिदानार्थमसंख्यान गुप्पाचलंकृताचे ट्रानादाय, मक्का- तीर्थमुद चलन् । मक्कामुपागतो रोगेण क्षीणतनुर्मोहम्म- दमहोदयः पादचारं मकामहातीर्थपरिक्रमा कर्तुमशक्त उष्ट्रमा उह्य तत्पुण्यकृत्यं व्यदयात् । स मक्कामंदिरे स्वायुषः प्रत्येकवर्षमुद्दिश्य षष्टिरुष्टाणां बलिमार्पयत् , उष्टमारुह्य सब- यात्रिभ्य ओजस्विन्या भाषायां महोपदेशश्च ददौ । मक्कामहातीर्थयात्राया महाकर्तव्यं विधाय मोहम्मद- महोदयस्व जन्मभूमेर्मक्कानगरादन्तिमं वारं मदीनां पति- निववृते । मदीनामागत्य मोहम्मदस्य रोगो वृद्धिमुपागमत् । ज्वरातः क्रमशो हीनशरीरस्स त्रिपष्टिवीयो नवाशीत्यु- त्तरषड्शतमिने वैक्रमान्द ( ६८६) एकादशवियोगादे च विनश्वरं देहं तत्यान । तस्य शरीरं मदीनानगर एत्र तस्य परमप्रेयस्याम्तस्य भार्याया आईशाया भवने समाधि प्राप । मोहम्मदमहोदयः समकालीन पुरुषाणां कथनानुसारं, शरीरेण मध्यमाकारस्सपाङ्ग शक्तिशाली, दीर्घवाहवासीत् ।
। ११४ ] * चारुचरितावली * तारुण्य उरुविक्रमो, लघुकायोऽपि, सा परिणते वयसि गुरुतां स्थूलताच भेजे । तस्यांनतमुत्तमाङ्गं व्यूढोरसः स्त- म्भवदुच्छितां तस्य ग्रीवां प्रवर्धितश्रियमकरोत् । प्रान्तयोर्वि- शालस्तस्यायतोन्नतललाटपरको भ्र चुम्बिता दृश्यमानाः नाडीरेखा धारयामास,या मन्यूत्साहाविर्भावकाले स्फोतता. मगमन् । तस्य मुखमण्डलं सुव्यवस्थितं, वतु लं,शुकसदृशी नासा, विशालनीललोचने, परस्परसंसक्तधनुराकारभ्र- युगलं, स्फटिकामा विरलदन्तपङ्क्तिश्च दधार । तस्य मधु- करमेचकः कुन्तलकलापः स्कन्धयोरवललंबे, श्मश्रुश्च मुदी C सघना चासीत् । स साधारणतरशान्तिमयीं, प्रभाव- शालिनीमेकरसां मुद्रां दधार । हास्यरसपत्रणोऽपि स गम्भीरता कदापि न जहौ । तस्य मुखच्छविर्माधुर्यवर्षिणी, नराणां वशीकारिणी, विमोहिका चासीत् । स वर्णेन साधारणारबीयेभ्यस्ताम्रतरोऽभूत्; उत्साहविक्षोभयोस्नस्य मुखमण्डलं सविशेषां कान्तिमारक्तद्युतिश्च पुपोष, यां तदनुयायिनो देवद्युति मेनिरे। तस्य पानसिकसामर्थ्यमतीव विलक्षणं,तस्य बुद्धिस्तीपणा, स्मृतिश्च प्रबला, कल्पना च विशाला, मतिश्चाविष्कारिणी विवेकशीला च ! अक्षरैश्शून्योऽपि मोहम्मदमहोदयस्स्व- हृदयमन्वेषणैस्मूक्ष्मेक्षणश्च ज्ञानालोकितं व्यदधात् । स स्वमानसमरवदेशे प्रचलितानां धार्मिककृत्यानां प्रथानां .
* मोहम्मदमहोदयः * [ ११५ ] परम्परागतानां दन्तकथानाञ्च कोषमकरोत् । तस्य वाणी गम्भीरा, सरसा, सालंकारा, सर्वप्रिया च । जनान् प्रति संभापणसमये तस्य गीविशेषेण प्रभावशालिनी, चित्ता. कर्षिका चाजायत । तद्विधावसरेषु तस्य वाग्मिता विशेषेण व्ययोतिष्ट । मोहम्मदमहोदय आहारेऽतीव संयमी सावधानश्चाभूत् । व्रतधारणे स दृढनियमपरो बभूव । आच्छादनेऽपि स नितरां सरल आडंबररहितश्वासीत् । तस्य सिद्धान्तेन क्षुद्रप्रकृतयस्तुच्छपुरुषा ह्याडम्बरप्रिया भवन्ति । स स्वभावेनैवैतादृशैनिकृष्टसाधनैस्स्वप्रभावं महिमानं वा स्थापयितुं कदापि नैच्छत् । स कदाचिच्चोर्णवस्त्राणि धारयामास, कदाचन कन्यामप्यामुमोच । स सर्वदा शिरो- घेष्टनमुष्णीषं वा परिदधे, तन्मतेन देवदूता देवा वा नित्यमुष्णीषं परिदधति । स रक्तांवरं सुवर्णागुलीयकश्च न्यषेधत् । स देहस्य स्वच्छतायां पवित्रतायाश्च कदापि न प्रामायः नित्यमेव च पश्चवारमरबीयेषु वजनाना प्रसिद्धं मुखाद्य- पतालनमकरोत् । कतिपुचिद्विषयेषु स विलासितामा शिश्रिये । संसारेऽस्मिन् प्रमदास्सुगन्धाश्च मामतिशयं प्रमोदयन्तीति सोऽवकथत् । एतेनैव स सर्वदा गन्ध द्रव्याणि प्रायुक्त, पश्चदश भार्याश्च परिणिन्ये । त्रुटिमि- [ ११६ ] * चारुचरितावली * ३ मामपहाय "मोहम्मदमहोदयस्याचारस्सर्वप्रकारेण संयतः स्सरलश्श्लाघ्यश्वासीत् । मोहम्मदमहोदयस्य चरित्रेण सहैव मोहम्मदीयधर्म- स्य विपयेऽपि किञ्चिद्वक्तव्यमस्ति । मोहम्मदीयधर्म इस्ला मधर्मो मुसलमानधर्मो वाप्याख्यायते । अत्र समासेने- स्लामधर्मस्य राद्धान्तानुपन्यस्यामः । मोहम्मदीयधर्म इमान-दीनयोराद्विश्वासकर्तव्ययोर्भागद्वये विभज्यते । ईमानपदवाच्यो विश्वासः पड्विधोऽर्थात्परमेशे (अ. ल्लाहे ), परमेशदूतेषु (पैरांबरेषु), परमेशपुस्तके (कु- राने), परमेशप्रभुत्वे, देवेषु (फ़रिश्ताहेषु), न्यायान्ति- मे दिने ( क़यामते ) च विश्वासः कर्तव्यः । दीनाहयः कर्तव्यश्चतुरङ्गः । मोहम्मदीयधर्मानुसारं यः कोऽपि मनुष्य श्चत्वारि कर्तव्यानि-नमाज़ (मुसल्मानधर्मीयपश्चका- लिकनैत्यिकमार्थनां, रोजां (प्रतिवर्ष रमजाननामके ऽरबीयमासे व्रतधारणं ), जकातं ( यथासामर्थ्य दानं ), हज (जीवनयात्रायामेकवारं मक्कामहातीर्थयात्राम् )- अप्रमत्तः पालयति स एव यथार्थो मुसल्मानो-धार्मिको ५ ६ १ २ ३ * मोहम्मदमहोदयः 2 [ ११७ ] भवितुमर्हति । मुसल्मानपदं "मुस्लिमती"माने ति यथासंख्यमखण्डितेति धर्मति वाचकाभ्यां पदाभ्यां निर्मिनं समस्तं पदं; बहुब्रीहौ तस्यार्थोऽखण्डितधर्मो भवति । मोहम्मदीयधर्मेतिशब्दो मोहम्मदमहोदयमवर्तितत्वादा. याति । एतद्धर्मवाचकमिस्लामेत्यपरपदमरबीयभाषायां परमेशाज्ञानुवर्तनमित्यर्थमावहति । इस्लामधर्मस्य कलमा- भिधमूलमन्त्रोऽरवीभाषायां "ला इलाह इल्लल्लाह, मोह- म्मदुर्रसूलिल्लाह" इति वाक्यद्वयगर्मितोऽस्ति । देवगिरा- स्यानुवादो यथा “एकं ब्रह्म द्वितीयं नास्ति" मोहम्मदः परमेशदूतोऽस्ति । कलमानाममूलमन्त्रस्य प्रथमवाक्यघटक एकेश्वरवाद. एवेस्लामधर्मस्य सर्वोत्कृष्टसिद्धान्तोऽस्ति । द्वितीयवाक्यसिद्धान्ते मोहम्मदमहोदयस्य देवदतत्वे विप्र. तिपत्तावप्येकेश्वरवादसिद्धान्त एष मूलतस्सर्वधर्मसि- द्धान्तैस्संवदति । मोहम्मदमहोदयः कदाप्यात्मानं नवधर्मप्रवर्तयितार नौद्धोषयामास । “प्रहमादिसृष्टौ परमेशात्याप्तं विविधदेव. दुतैस्संसारे प्रवर्तितं धर्म पुष्याम्यनुमोदे चेति तस्योक्तिः । परमेशपुस्तकत्वेन तेन प्रचारित लगने ख्रीष्टधर्मावलंबिना "बाइबिल" नामपुस्तकस्यैव गाथा विशेषेण वर्णितास्स. न्ति । कुराने धर्मव्यवस्थापि बाइबिलमूलैव । इस्लाम- धर्मस्य नमाजाभिधा परमेशप्रार्थना, वजनामको मुखादि [ ११% 1 * चारुचरितावली * प्रक्षालनप्रकारो, रोज़ाहो व्रतविधिर्मकामहातीर्थस्य यात्राम- हिमा च पुरस्तादेवारबीयेषु प्रचलिता आसन् । दानन्तु सर्वधर्मसिद्धान्तसम्मतमेव । मोहम्मदमहोदयस्तेषु केवलं समुचितानि संशोधनानि विधाय तानि कर्तव्यानि विशेषेण प्रचारयामास । नेन वस्तुगत्या मोहम्मदमहोदय- स्स्वकथनानुसारं धर्मस्य संशोधकः प्रतिष्ठापकश्चैवासीत् । तस्य पुरुषर्षभस्य महासंशोधनन्तु पूर्वोक्तप्रकारेण छिन्न- भिन्नानामरबीयबर्बराणामेकजातिनिर्माणमेव । एष तु मोह- म्मदमहोदयस्य महामहिमा प्रबलपनापश्च यज्जगतीतले प्रत्येकमान्तवास्तव्यास्तद्धर्ममनुयान्ति. संसारस्येतिवृत्तन पुष्कलपरिमाणेन तस्य महापुरुषस्य यशोराशिं विस्ता. रयति । इति मोहम्मदचरितम्
चारु चरितावली
,
PAN
महात्मा श्रीकबोर:
* श्रीकबीरदासः *
ब्रह्मरूपं जगत्सवं, मन्यमानोऽखिलेषु यः ।
साम्यवाञ्छतिधर्मस्य, सवै वीरःकवीरभाक् ।।
श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेनोक्तं-
“यदा यदा हि धर्मस्व, ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्थ, तदात्मानं सृजाम्यहम् ॥"
एष राद्धान्तः प्रायशस्सर्वमानवसमाजेषु वरीवति ।
यदा यदा हि मनुष्याः कुसंस्कारैभ्रमैश्चावेष्टिता भवन्ति,
तदा तदा ह्यज्ञानान्धकारमपाकर्तुं महातेजसः सत्यसना-
तनपुरुषस्य तेजोऽशं प्राप्य धर्मसंस्कारका महापुरुषाः
संसारेऽस्मिन्त्राविर्भवन्ति ।
भारते वर्षे बौद्धधर्मस्य हासानन्तरं श्रीशंकराचार्यः
शुद्धाद्वैतं प्रचारयामास, परं कालक्रमेण तस्य वास्तविक
स्वरूपमहंब्रह्ममन्यैः कदाचाररतैः पुरुषैः प्रायशो व्य
[ १२० ] - चारुचरितावली स्मारि । ततः कपोलकल्पितमतमतान्तराणामाविर्भावसमये जनानामविद्याविनाशार्थ ये कतिपये महापुरुषाः समये समये प्रादुर्भुय, तेषां कुसंस्कारमपनीय, पवित्रधर्ममुपदिदि- शुस्तेषु धर्मप्रतिष्ठापकेषु श्रीकबीरदासोऽपि प्रधानपुरुषः। संकीर्णचिरस्थापितं जातिभेदमपाकृत्योदारभावेनाद्विती- यसत्यस्वरूपपरब्रह्मोपासनाप्रचार एव तस्य महात्मनो जीवनादेशः । श्राकबीरदासो भगवद्भक्तानां भारतीय. भक्तकवीनाञ्च शिरोभूषणमित्यः. नास्ति प्रौढोक्तिलेशो- ऽपि । तस्य मतं महोदारमद्वैतवादमूलकमेव,भगवद्भक्तिरेव तस्य प्रधानसिद्धान्तः। श्रीकबीरदास: काशीसमीपवर्तिन्याङ्गस्याश्चिद ग्रामटिकायां पञ्चपञ्चाशदुत्तरचतुर्दशशतमिते वैक्रमाब्दे (१४५५ वै० ) ज्येष्ठपूर्णिमायां जन्म लेभे । अस्य जन्म- विषय एपा दन्तकथा पचरति यदेका धार्मिका विधवा ब्राह्मणी बालिका कश्चित्साधु परिचचा। तस्याः परिचर्यया प्रसन्नः साधुम्तस्यै "पुत्रवती भवे" त्याशीर्वादं ददौ । तदाशीर्वादमाकर्ण्य कातरा ब्राह्मणी साधुमुवाच-"महात्म- न्, यद्यहमधुना पुत्रं लभेय, समाजे निंदनीया भवेयं; अतो भवान् कमप्यन्यमाशीर्वाद दवतु ।" साधुरुवाच-"यदह- मव्वं तन्नान्यथा भवितुमर्हति, किन्तु पुत्रं लब्ध्वा त्वं समाजे निन्दास्पदं न भविष्यसि, सर्वे जनाश्च त्वयि
* थीकबीरदासः * [ १२१ ]
श्रद्धावन्तः भक्तिपराश्च भविष्यन्ति ।
कालक्रमेण सा ब्राह्मणी सर्वाङ्गसुन्दरं सुलक्षणयुक्तं
पुत्रमनुत । ब्राह्मणगृहे विधवायामपत्योत्पत्तिं श्रुत्वा जना
मां निन्देयुरिति लोकापवादभीता, लज्जिता च ब्राह्मणी
तं नवप्रसूतं तनयं कस्यचित्तडागस्य तटे कुशेशयानामन्तः
स्थापयामास । नीरूनामा कश्चिद्यवनतन्तुवायो दैवात्तस्य
तडागस्य समीपे जगाम, तत्र च कस्यचिन्नवप्रमूतस्य
बालकस्य क्रन्दनं शुश्राव । तच्छ वा दयाहृदयस्स तं
गृहीत्वा स्वगृहं निन्ये । नीरूरनपत्य श्रासीत् । तेन स
तं बालकं नीमानाम्न्यै भार्यायै समर्पयामास । सा तं
नवजातशिशुं सुतनिर्विशेष संवर्धयामास, नाम्ना च तं
कबीरचक्रे ।
आल्यादेव कबीरमनसि भक्तिभावस्य धर्मस्य चाङ्कुरं
प्रादुर्वभूव, यश्च वयसा वृद्धिमत्राप । युवा की रस्स्वदः
सह स्वजातीयव्यवसायं वर्धयामास । तन्तुवायानां प्रयानु-
सारं परिणीतश्च कालकमेण कमालनामानं पुत्रमलभत ।
कमालस्तस्यौरसपुत्रो नासीत् । अस्मिन्विपये जनश्रुतिः
प्रचरति ।
एकदा कबीरो रात्री काश्यामनुगङ्गं जगाम, यावत्म
शृगालानांरवंशुश्राव । कबीरो दैवीशक्तिवलेन शृगालानां
रवस्य मर्म जज्ञे । शृगाला ऊचुः- यद्ययं शवों गंगाप्रवाहेमा
[ १२२ ] * चारुचरितावली * तटं प्राप्येत, वयं तस्य मांसेन परितृप्तिं लभेमहि । कबीरः शृगालमनोरथमवबुध्य दैवीशक्तया तं शवं तटे प्रापयत् । शवे तटं प्राप्ने मत्स्त्या ऊर:-"किमस्मद्गासापहारो न्याय्यः ।" त छ वा कबीरोऽचिन्तयत्, “कस्मैचिदपि शवस्य दानमचितं, तमहं जीवयामीतिगविचाय सतं शवं प्राणिणत्,तञ्च कमालनामानं कृत्वा पुत्रत्वेन स्वी चकार। धर्मपाणः कत्रीरो व्यवसायेन यदर्जयामास, तस्माद् गृहव्ययावशिष्टं दीनदुःखिभ्यो ददौ । तदा रामानन्द- स्वामी महीमलञ्चकार । तस्माद्दीक्षाग्रहणार्थ कबीरस्त. पाच जगाम; किन्तु रामानन्दस्वामी ब्राह्मणाहते कस्मै. चिदपि दीक्षां न ददौ । तच्छ् त्वा कबीराऽत्यर्थ विपसाद हतोत्साहश्च वभूव । रामानन्दस्वामी स्वेच्छया मां दीक्षां न दास्यतीति निश्चित्य कबीरः स्वप्रयोजनसाधनाथ कौशलमेकमाविश्चकार। प्रहरशेषायां शयाँ किल रामानन्दस्वामी नित्यं गङ्गास्नानार्थ गच्छति । यत्र रामानन्दस्वामी स्नानार्थ जगाम, तस्मिन् घट्ट करो गत्वा शववत्तस्थौ । देवा- सदा दुर्दिनं बभूव तमश्च प्रससार, निकटस्थमपि द्रव्यं दृष्टिपथातिथिर्न वभूव । यदा रामानन्दस्वामी स्नानानि- वृत्तः प्रतिनिववृते, तदा स्वचरणन कबीरं पस्पर्श। तं am-en- * श्रीकवीग्दासः * [ १२३ ] शवमवबुध्य रामानन्दो "राम राम" इत्युच्चवार । एवं कबीरो रामानन्दस्वामिमुखेन "राम" इति मूलमन्त्रदीक्षा जग्राहोवाच च-"गुरो, इयमेव मे दीक्षा" । इत्युक्तवा स गुरुं प्रणनाम स्वगृहश्च प्रत्याजगाम । गृहं गत्वा कबीर- स्वशिरो मुण्डयित्वा मालां तिलकञ्च दधार । कबीरजननी तं हिन्वेषधारिणं दृष्ट्वोवाच-त्वपधुना प्रमत्त इव किं सज्जितोऽसि । कबीर उत्ततार-"नाह प्रमत्तः किन्तु रामा- नन्दस्वामिनः शिष्यत्वं गृहीतवानस्मि" । तदाकर्ण्य कबीरमाता रामानन्दलामी बालकं कबीरं वश्चयित्वा हिन्दं कृतवानिति मेने । तेन सा रामानन्दस्वामिनं स्वपुत्रकृने सिकन्दरशाहलोदीनामकस्य तत्कालीन. दिल्लोपते राजसभायामभियोजयामास । बादशाहः क- बीरमाकारयामास । कवीरस्तिलकं विरचय्य, तुलसी- मालाश्च धृत्वा बादशाहमुपतस्थे । पारिपद्याः कबीरमूचुः, "भूमि स्पृष्ट्वा बादशाहं प्रणमेति । किन्तु कबोरस्तद- स्वीचकारोवाच च--"राममन्तरा कमपि न जानामि । बादशाहः कबीरे चुकोप तञ्च कारायां पातयामास । ततः कबीरस्य धर्मभावमवबुध्य तस्य युक्तियुक्तेन तर्केण पग. जितश्च तं धर्मप्रचाराय स्वतन्त्रं चकार । रामानन्दो यवनं न स्पृशतीति सर्वे जानन्ति स्म, किन्वेतं वृत्तान्तं श्रुत्वा ते रामानन्दस्वामिनं ययुः, प्रा.
[ १२४ ] * चारुचरितावली * श्चर्यचकिताश्च तस्मै सर्व कवीरोदन्तं निवेदयामासुः । सर्व वृत्तान्तं श्रुत्वा रामानन्दः कबीरमाजुहाव । आगतं कबीरं रामानन्द उवाच-"रे कबीर कदाहं त्वां शिष्यमका- पम्" । कवीर उवाच "प्रभो तस्मिन् दिने यदा स्नाना. वतीर्णम्य भवतश्चरणेन मदङ्गं स्पृष्टं, तदा भवान् राम राम इत्युदचारीत् । तदैवाहं भवतो दीक्षामग्रहीपम्" । कवीरस्य तथाविधां भक्तिं दृष्ट्या रामानन्दस्वामी तं सशिप्यमएडल्यामभ्यन्तरीचकार । रामानन्दस्वामिनो द्वादश प्रमुखाः शिष्या आसन्, नेपु कवीरः प्रधानतमः। कबीरोऽनीव मेधावी। स आर्यशास्त्राण्यालुलोच । तानालोचमालोचं स महाज्ञानी संवृत्तायदि धर्मसंबन्धिनी कापि शङ्का तस्य मनसि प्रादुर्वभूव, स तनिवृत्त्यर्थ गुरोः सकाशं जगाम; किन्तु विचारे प्रवृत्ते रामानन्दः कहीरा- परास्तो वभूवेति प्रसिद्धिः। कबीरो वाद्याडम्बरपूर्णधर्माज्जुगुप्साञ्चके । कमपि धर्मध्वजिनं सन्यासिनं दृष्ट्वा स "जटाजूटेन, शरीरे भस्मगुएठनेन च योगो न सिध्यति, शुद्धायाः भक्तंऋते नान्येन केनाप्युपायेन भगवानाराधयितुं शक्यत' इत्यु- वाच । कबीरस्यानेन कथनेनाने के दाम्भिकास्तस्य रात्रव- स्संनानाः । स च तेषां हस्तैरनेकवारं कष्टं विपेहे ।
* श्रीकबीरदासः [ १३५ ] किन्तु भक्तवत्सलस्य दयामयस्य भगवतः कृपया कोऽपि तस्यानिष्टं कर्तुं न शेके । गमानन्दस्वामी किल कबीरतण नित्यं जिनः क. पीरेण विमनायमानस्तस्मादुदासीनो जातः, कबीरश्च रामानन्दमतं परित्यज्य स्वनवीनसम्पदायमाविश्चकार, तञ्च समस्ते भारत वर्षे प्रचारयामास । रामानन्दो वर्णा- श्रमे श्रद्दधे,कबीरस्तु प्रथमं तमेवाचक्रमे । स जाति श्रेणीश्च वर्जयित्वा सर्वान् स्वधर्म मुपदिदेश । कबीरमुखाद्धर्मस्य निगूहतत्वानि श्रुत्वासंख्याः जनास्तस्य शिप्यास्संवृत्ताः । कवीरः किल बिहारमुम्बईकटकोत्कलादिपान्तप स्वधर्म- स्य बहून् मठान स्थापयामास । अद्याव मभृति- द्वादश कबीरमतमठास्सन्ति, तेषु सर्वेषु काशीस्थकबीरचौरा- ख्यस्सर्वप्रधानः । एकदा कबीरो राजमार्गे वभ्राम । तावत्स पेषणीभ्र. मणेन चणकान् दलन्तं पुम्पं ददर्श । त द्रष्ट्वा कवीरमन उदास्त । "हा धिक् कालपेपण्यामेवमेव पिष्टाः सांसारिका नरकपथेग्रेसरा भवन्तीत्यचिचिन्तत् । तदा से एक पद्यम- पठत् - तस्य भावार्थमयं पद्यमिदम्- भ्राम्यन्ती पेषणीं वीक्ष्य,कबीरोऽश्रुमुखोऽभवत्। प्रस्तरान्तर्गतः कश्चि,त्संपूर्णाङ्गो न शिष्यते ।। एक [ १२६ ] * चारुचरितावली. पुनस्स उवाच- पेषण्या मध्यवर्तिन्याः, कीलिकाया इतस्ततः । पिष्यन्ते धान्यबीजानि, विकीर्णानि समन्ततः ।। किन्तु तत्सविधं प्राप्य, शिष्यन्ते सकलानि धा। एवं ये कीलिकारूपं, भगवन्तं समाश्रिताः । सुरक्षिता भवन्त्यन्ये, धान्यबीजसमा नराः । एकदा कौतूहलाकान्तः कबीरो भ्रमणार्थ नगरी जगाम । भ्रमणनिवृशं स्वाश्रमं प्रतिनिवर्तमानं तं तत्सह- घराः पप्रच्छुः । सहचराः-महात्मन् , नगरी गतेन भवता तत्र किमदर्शि । कबीरः-नगर्या दुर्दशां किङ्कथयेयम् । वेदनानां ब्राह्मणानां वंशजा वेदहीना ज्ञानहीनाश्च संवत्ताः, शूद्राथ ब्राह्मणैरधिकृतानि गीतादिपुस्तकानि पठन्तो ज्ञानं मामांसन्ते । धूर्तास्सानन्दं भोगान् भुञ्जते, साधवश्व मुष्टि- मात्रायाप्यनाय त्रस्पन्ति । साध्व्यः पतियताश्चोदा पूर्ति- योग्यमप्यन्न न प्रामु वन्ति; व्यभिचारिण्यस्तु बहुमूल्य- वस्त्राणि धारयन्त्यस्सुरवमयं जीवनमतिवाहयन्ति । पण्डिता- नागदेशं कोऽपि नानुमरनि; धूर्ताः काटिनश्च समानस्य * श्रीकबीरदासः * [ १२७ ] नेतारस्संवृत्ताः। गोरसविक्रेतारो रथ्यायां रथ्यायामटन्तोस मानियन्ते, तेषां गोरसश्च विक्रयाय प्रस्तुनोऽपि न विक्री- यते; किन्तु शौण्डिकापणेषन्सव इव जनसंमर्दस्संजायते, मदिरा च सततं पण्यते । कबीरप्रणीता अनेके ग्रन्था अपि सन्ति । तेषु ग्रन्थेषु श्रीबीजकःप्रधानतमस्तस्मिन् कबीरस्स्वधार्मिकराद्धान्तान् निवन्ध । कबीरस्य गुरू रामानन्दरशैवसंप्रदायस्थापको गोरक्षनाथश्च तस्य प्रतिद्वन्द्विनावास्ताम् । ताभ्यां सह कबीरस्य यो विचारोऽभूत्वं कबीरः पुस्तकरूपेण प्रकाशित- वान् । तयोरेको 'रामानन्दगोष्ठीत्यपरश्च 'गोर- क्षनाथगोष्ठीति प्रसिद्धः। पोडशशतकस्य मध्यभागे कबीरो गोरखपुरसमीपे बस्तीज़िलान्तर्गतमगहरनामे पञ्चबमवाप । पाणे संक्रान्तेषु तच्छवो बस्त्रेणाच्छाद्यत । ततस्तच्छिष्येषु शवम. धिकृत्य महान्विवादो जातः । हिन्दव ऊचुः-"शवो दाह्य"; यवनशिष्यास्तु-"धर्माचार्यस्य शवो निखातव्य" इति । शनैः शनैरुपद्रवस्यावसरोऽभूत् । तावदेको जनो. ऽकस्मावाच-"वत्रस्याधस्ताच्छवो न प्रतीयते ।। तदा सविस्मयं वस्त्रमुत्थापितम् , श्रीकबीरस्य मृतशरीरश्च न ददृशे । सर्वोऽपि विवादस्वयमेव शशाम । हिन्दवोऽध शवाच्छादनं विपाट्यादहन् , यवनाश्वापराद्धं मगहरग्रामे निचख्नुः।
[ १२८] * चारुचरितावली अद्यापि भारतस्य भिन्नभिन्नपान्तेषु नस्य बहुसंख्यका मतावलंबिनस्सन्ति । तस्योपदेशमयानि भाषापद्यानि जनानां जिहाग्रेषु नृत्यन्ति । श्रीमन्महात्मनः कबीरस्य संक्षिप्तचरितं काबीरमतम न्यानुसारं काबीरमतानुयायिना काशीधामकबीरनौरा- वास्तव्येन साधुशिरोमणिना श्रीविचारदासशास्त्रिणा. धोलिखितैत्रिभिः श्लोकैर्निबद्धधन्यरादपुरःसरमत्रोद्धि यते- आदौ फुल्लकुशेशयप्रविलसत्कासारमध्ये ऽभव- च्छीमच्छेशवरूपिणोऽवतरणं श्रीमस्कवीरस्य वै। लीलामानुषविग्रहस्य नयनं नीरूनिमाभ्यां कृतम् रामानन्द मनस्विनः पुनरभूच्छिष्यत्वमस्य प्रभोः पश्चाद्वादिकदम्बकुञ्जरहरेराश्चर्यमय्योऽभवन् लीलाः शक्तिविकाशनश्चपुरतो माहम्मदक्षोणिपः पश्चाज्जीवनमद्भुतं कृतमभूकम्मालिकम्मालयोः पश्चादवलकस्य रक्षणमहो दूरात्कृतं वन्हिना ॥ पारावारविघट्टनं मुररिपोरावाससंस्थापनम् , गोरक्षस्य ततः स्वयोगकलया दर्पोपसम्मर्दनम् । संसाराम्बुधिसेतुरूपमचलं संस्थाप्य धर्म निज-, मन्तर्धानमजन्मनो हि भवनमेतच्चरित्रं गुरोः।। इति कबीरचरितम् '
चारु-चरितावली
हिन्दूतुरुष्कयोधर्मा देकीकरणकौतुको
प्रभुभत्येकरसिको राजते नानको गुरुः ।
* गुरुनानकदेवः * जितजेत्रोविरोधस्य, समाधानप्रचारकः । शिष्यसक्समुन्नेता, बभूव गुरुनानकः ॥ भव्यभारते मोहम्मदीयानां दुर्दान्तशासने संस्थापिते वैक्रमान्द षोडशे शतके पराजितानां, प्रजाभूतानां, भारत वर्षीयाणां, सनातनवैदिकधर्मावलंबिना, विजेतृणां,वि- देशीयाना, शासकभूतानां, मोहम्मदीयानान धर्मविचा- रपरम्पराया विभिनसभ्यतायाश्च संघर्षेणास्यां पुण्यभूमौ महाविप्लवस्समजनि । विजितानां सभ्यता धर्मश्च विजेत- णामाचारविचारेण निसर्गत एव पराभूयत । मोहम्मदीय शासकानामत्याचारेण बलप्रयोगेण चार्याणां सभ्यता धर्मश्च विशेषतो विनाशोन्मुखं जग्मतुः । सनातनधर्मानुया- यिनो बलात्कारेण तथा त्वरितवेगेन मोहम्मदीयं धर्ममवल- लंबिरे यथा तूर्णमेव वैदिकधर्मस्य विलयश्शंक्यनेस्म ।
[ १३० ] * चारुचरितावली * धर्मसंकटेऽस्मिन् तथाविधस्य धर्मरक्षणसक्षणस्य धर्मोद्धारकस्याविर्भावोऽपेक्ष्यते, यश्शासकानां संक्षोभमन- नयिचैव द्वयोनिनधर्मयो राद्धान्तानां विरोधपरिहारेण संधानेन च शान्तिं संस्थापयेत् । करुणावरुणालयस्य पर- मपितुः कृपाकटाक्षेण तथाभूतां धर्मोद्धारकस्सिक्वधर्मसं- स्थापको गुरुनानकदेवस्तस्मिन् घोरधर्मविलवे प्रादुर्बभूव । गुरुनानकदेवः पविंशत्युत्तरपश्चदशशतमिते बैंक माब्दे ( १५२६ बै० ) कार्तिक शुक्रपूर्णिमायां प्रहरशेषायां शयों ब्राह्म मुहूर्ते पञ्चनददेशीये लाहौरज़िलान्तर्गते "तिलवण्डी" नामके ग्रामे वेदिवंशीयत्तत्रिय (खत्री) स्य कालूचंदस्य पुत्रो भूत्वा धरामिमां स्वजन्ममालश्चकार । मुतजन्महर्षितः कालूचन्दो याचकेभ्यः प्रचुरं द्रव्यं दत्वा ज्योतिर्विदं हरिदयालु नवजातशिशोः जन्मपत्रिका लेखितुं प्रार्थयामास । ज्योतिर्विदा जन्मकुण्डल्या ग्रहाणां स्थिति विचार्य स शिशुर्यशस्वी, वर्चस्वी, मेधावी, धर्मिष्ठः, प्रतापी च समादिश्यत । तेन पितानन्दनिर्भरमानसो ज्योतिर्विदे यथोचितं दक्षिणां दत्त्वा नं विससर्ज । बालको नानकीति ज्येष्ठ भगिन्याः नाम्नो नानकाख्यां जगाम । नानकच- कवर्षीय एव पद्भयामतिष्ठत्सदन्तश्चाजायत । स सप्तवर्षीयो गोपालपण्डितानागरीवर्णमात्रिकां सैयदमोहम्मदहुसै नमौलवीयाच्च पारसीभाषामशिक्षन ।
• गुरुनानकदेवः .
[ १३१ ]
---
स बाल एवेश्वरभक्तो बभूव । बाल्यादेवैकेश्वरवादच.
चर्चामकरोत् । सर्वेषां धर्माणाश्च मूलमेकमद्वितीयं ब्रही.
वामस्त । प्राप्तकैशोरावस्थो नानकस्साधुसंगमे महानन्द
मनुवभूव, तेषां संगतौ च स्वाधिकं कालं निनाय ।
एकदा पित्रा लवणं क्रेतुमापणि प्रपितस्मुपएर मानेतु-
मादिष्टश्च नानको मार्गे संगतानां साधूनां भोजनशुश्रूपायां
लवणार्थ दत्तं धनमव्ययीत् । लवणं विना रिक्तहस्तश्च
गृहं प्रतिनिवृत्तः पित्रा निरीक्ष्यमाणो, भसितो, लवणा-
नानयनकारणश्च पृच्छयमानो ब्रूने--"भवदाज्ञानुसारं मया
मुपण्यमेव क्रीतम् । साधुशुश्रूषाया उत्तमं पण्यं मया
नाज्ञायि । तेन तद्धनं मया सुपण्यक्रीणन एव व्ययितम् ।"
घटनयानया पिता तं संसारयात्राया अयोग्यमनानात् ।
अनच वर्ण्यमाना घटना तस्य मतं सुदृढमकरोत् । एकदा
नानकदेवः पित्रा पतिभ्यः परिपकशालिदंत्रस्य रक्षणे
नियोजितः । नानकश्शालिपतितान् पक्षिणो दृष्ट्वा तानु-
विश्य पद्यमिदमपठत्-
"राम दी चिड़िया रामदा खेत,
चुग चुग चिड़िया मरलो पेट "
भा“द्रामस्यैव पक्षिणो रामस्यैव क्षेत्रमस्ति, तेन
हे पतिणोऽन्न भनायित्वा स्वादराणि पूरयत ।" नानकस्य
पिता क्षेत्र पतिभिह तसस्यन्दृष्ट्वा भृशं चुकोप, स्वपुत्रश्च मूढं
[१३४ ] चारुचरितावली धर्मशाला वा निर्मापयामास । तदेतदद्य यापदवशिष्यते, डेराबाबानानकनाम्ना चाख्यायते । गुरुनानकदेवो धर्मप्रचारेणैव स्वसमयं निनाय । धर्मजिज्ञासवस्तत्समीपमागत्य, तदुपदेशामृतञ्च निपीय, परां शान्तिमुपाययुः । एकदा देवीदर्शनार्थ गच्छन् खत्री- कुलावतंसो लहनानामपुरुषो नानकोपदेशश्रवणार्थमाज गाम । तदुपदेशैस्स तस्य परमश्रदालुशिष्यतामवाप्य त्यक्तदेवीदर्शनवाञ्छस्तत्समीपमेवोवास । नानकदेवस्तं स्वधर्मे दीक्षितं प्रधानशिष्यत्वेनाङ्गीचकार । तञ्चानेकवारं बहुविध परीक्ष्यापि वपुत्रेभ्योऽपि विशेषभक्तियुतं निर. गीत् । स तमङ्गइनामानं कृत्वा स्वगुरुसिंहासनस्योत्तरा. धिकारिणमभ्यपिनत् । नवत्युत्तरपञ्चदशशतमिते वैक्रमाब्दे ( १५६० वै०) कार्तिककृष्णैकादश्यां नानकदेवस्य जननी नश्वरदेहमहा- सीत् । विंशतिदिनेष्वतीतेषु तत्पितापि तामनुससार । पित्रोलोकान्तरयात्रायाः षड्वर्षेभ्यः परस्ताद गुरुनानक- देवो द्विमासोनमनिर्षीयः पएणवत्युत्तरपञ्चदशशतमिते वैक्रपाद ( १५६६ वै० ) आश्विनकृष्णदशम्यां करतारपुरे दिवमारुरोह । शरीरात्माणोत्क्रमणं यावरा- स्य वाणी धर्मोपदेशनिरतासीत् । गुमनानकदेवो विनयावनतो भगवद्भक्त आसीच.
* गुरुनानकदेव: * [ १३५ ] कृतानि पधानि भगवत्स्तुत्या विनयेन च परिपूरितानि सन्ति । तस्यैक पद्यमेभिः पदैः प्रारभ्यते- "तू है निरंकार, नानक बंदा तेरा।" त्वं निराकारोऽसि, नानकस्तव दासोऽस्तीति । स हिंदूमोहम्मदीययोर्भेदबुद्धिं विहाय, मनुष्यमात्र समममस्त, तेन हिंदूमोहम्मदीयास्सर्वजातीयाः पुरुषास्तं समानं श्रद्द- घिरे । स च समानरूपेणैव सर्वेषां धर्माणामुत्कर्षापकर्ष प्रदर्शयामास । सर्वेषु धर्मषु च सर्वव्यापकस्यैकस्य सत्यस्य प्रकाशं ददर्श । स वैदिकधर्म प्रधानपक्षवेदान्तस्य “एक ब्रह्म द्वितीयं नास्तीति सर्वाङ्गीणसिद्धान्तस्य,मोहम्मदी- यधर्मस्य कलमाभिधमूलमन्त्रागत केश्वरवादेनकवाक्यता प्रदर्शयामास, “महिंसा परमो धर्म" इति वैदिकधर्म- राद्धान्तश्च मोहम्मदीयानां प्रधानसम्प्रदायस्य सूफ़ीमतस्या- हिंसावादेन संदधौ । सूफीसंप्रदायिनोऽप्यहिंसां परमं धर्म मन्वते । तेषामेकं पारसीमापापद्य सुपसिद्धमेव । "शुनीदं कि मर्दान.ए राह-ए ग्बुदा । दिले दुश्मनाँ हम न कद तंग ।।" एतत्पद्यस्यानुवादो यथा- "परमात्मपथपान्थाः परिपन्थिनामपि चित्रं न पीटय- न्तीति शृणोमि ।” अहिंसाधर्मस्य विशेषानुरोधेनैव नानक देवो मोहम्मदीयानां हिन्दूनाश्च प्राणिहिंसनं सममेव न्यपेपत्।
। १३६ । * चारुचरितावली * मोहम्मदीयशासकानां महाविरोधस्य प्रधानकारणं, हिंदूनाश्च नानामिथ्याविश्वासहेतुकं मूर्तिपूजनमपि प्रबलं निरस्य नानकदेवी निराकारस्य निरञ्जनस्याकालपुरु- षस्योपासनां प्राचीचरत् । स सर्वदेशीयान् सर्वजातीयाँच पुरुषान् तेषां परमपितुः परमात्मनः पुत्रत्वात्समानान् मत्वा स्वधर्म स्वशिष्यत्वे च प्रवेशयामास । गुरुनानकदेवस्य शितया नानादेवोपासकानामुच्चनीचभावेन परस्परं विव. दमानानां, मोहम्मदीयात्याचारेणात्पीडितानां, पश्चाम्बुदे. शीयानां,हिन्दूनां समूह एकेश्वरध्याननिरतानामन्योन्यं पति धृनभ्रातृभावानां, समानोइंशेन प्रेरितानां, सम्मिलितानां, शिष्याणां समुदायोऽजायन । कालक्रमेणैष भक्तसमुदाय एव दशमगुगोगोविंदसिंहस्य नेतृत्वे तथा शक्तिशालिन्यां, तात्रधर्मावलंहिन्यां, प्रबलसेनायां पर्यणम्यत, यथा सा दुर्दान्तं मोहम्मदीयशासनं भारतेऽस्मिन्नुदमूलयत् । शि- प्यसंप्रदायस्य वीरसाहसिककार्याणि भारतीयेतिवृत्ते च तत्कृतमहाविप्लवाः डॉक्टर गोकुलचंदनारंग(एम.ए.,पी. एच. डी., बैरिस्टर-ऐट-लॉ )कृते "The Transformation of Sikhism"नामक ग्रन्थे सविस्तरं वर्णिताः। एतदुपादेयग्रन्थस्य हिंदीभाषान्तरं "सिक्खों का परिव- तन" इति नाम्ना प्राकाश्यत । आगलभाषायां मूलग्रन्थ- म्याध्ययनेन तदभावे भापान्तरस्य पठनेन वा महता मनो.
* गुरुनानकदेवः - [ १३७ विनोदेन सहैव तत्कालिकभारतीयेतिहासस्य मुविस्तृतं ज्ञानं लभ्येत । गुरुनानकदेवेन शिष्येभ्य उपदिष्टानि पद्यानि ग्रन्थ- रूपेण संकलितान्यादिग्रन्यनाम्ना प्रसिद्धानि । सिक्ख- धर्मीयास्तं श्रुतिवत्ममाणीकुर्वन्ति । मादिग्रन्थस्यादिमो भागो "जपजी" ति कथ्यते । शिष्यैर्गायत्रीमन्त्रनिर्विशेष- ञ्चाद्रियते । “जरजी" आध्यात्मिक विचारैः परि- पूर्णोऽस्ति । इति नानकचरितम्
00019
ARTO.00
PceG00000
10000000000057ARoboroonic
1०००ता
JALA
“सुख दुख दोनों सम कर जाने,
ओउर मान अपमाना।
हरष शोक ते रहैं अतीता,
तिन जग तत्व पछाना ॥
प्रस्तुति निन्दा दोउ तियाग,
खोजे पद निरबाना ।
जन नानक यह खेल कठिन है,
किनहू गुरुमुख जाना "
[गुरुनानकः]
(अस्यानुवादः)
OM
Goooorindo200001 100००
1000000000000000020100तक
संपत्तौ च विपत्तौ च, समा मानापमानयो,
हर्षशोकविनिर्मुक्ता, स्तत्त्वं वै यान्ति मानवाः ।
निन्दांस्तुतिश्च संत्यज्य, निर्वाणमभियान्ति ह,
पन्थास्तु दुर्गमो ह्येषः, समादिशति नानकः ॥
Job.no.0000000
000000000002.
GOODC
5000
Joyari
BIGIOLOG
No text on this page.
चारु चरितावली आर्यममाजस्य प्रवर्तको दयानन्दर्षि:
श्रीमद्दयानन्दसरस्वती g दयामयानन्दरसप्रसारी, सरस्वतीस्वान्तविकासकारी। अभूवन्यां कलुषापहारी, परोपकारी जगतो हिताय ॥ वैक्रमैकोनविंशशताब्द्यां वर्पिष्ठे भारते वर्षे भारतीय- धर्म: : सभ्यता समाजश्च काश्चित्कल्पनातीतामभूतपूर्वा विलक्षणां विपरिणामावस्थां प्रत्यपद्यन्त । एकतरशुद्धस- नातनसरलवैदिकधर्मस्य मन्दाकिनी सुदीर्घमसंख्यं समय- गतिवाय कपोलकल्पितनानानवीनमताडंबरैविस्तृतभूप्रदेश- मतिक्रम्य मलिनतोयानेकनिम्नगाभिस्संगत्य गंगासागरे भागीरथी यथाविलाप्रयोज्या चाजायन । सनातनधर्मस्य ज्ञानकर्मोपासनाकाण्डत्रयस्य स्थान मिथ्याविश्वासतान्त्रि.
[ १४० ] * चारुचरितावली - काभिचार जडपूनाभिरध्यक्रियत । परमतत्वचिन्तनस्थाने मिथ्याविश्वासमूलका नानाधुनिकमतवादाः मनुष्याणां विचारपरम्परां व्यापुः। पुरुषा वैदिककर्मकाण्डसारभूतान् पञ्चमहायज्ञान् विहाय मारणमोहनोचाटनवशोकरणैस्व- समयं यापयामासुः । सर्वन्यापकपरमपितुरुपासनामपहाया- नेकाधुनिकदेवाराधने तत्परा बभूवुः । देवतायतनानि मादकद्रव्योन्मत्त रनाचाररतैर्निरक्षरैः पूजारिभिः परिपूर्णा- नि । जना आचार्यादीनि सत्यतीर्थानि विस्मृत्य स्थल- सलिलादिकमेव तीर्थानि मेनिरे । वैदिकवर्णव्यवस्था सर्वथा व्यलीयत । तत्स्थाने जन्ममात्रगर्विता,गुणकर्मरहिताः पुरुषापसदा ब्राह्मणाभिमानितां जग्मुः। ब्रह्मचारिण- स्संन्यासिनश्च नामत एवावाशिप्यन्त । तेपां वेपधारिणो, लक्षं,निरतरा,पराभारभूना, अकर्मण्या बकवृत्तयो बिडाल- वृत्तयश्च प्रनां लुलुण्ठुः । यथार्थयोगिनान्तु योगशास्त्र एव नामाश्रूयत । तेषामुपाधिमाक्षिप्य भिक्षणेनोदरदरीपूर- काणां जोगीनां पृथग्जातिरेवाविरासीत् । सर्वसम्माना- सदाचार्यपदवी मृतकमुद्दिश्य दत्त धनं गृह्णतो गता। समासतः प्रायस्सर्वे वैदिका आांश्च प्रयोगा यथार्थतां त्यक्त्वा विपरीतत्वं गताः । सनातनवैदिकधर्मस्य स्वरूप- मे पर्य गन्या । श्रुयश्रुतावेव स्थितास्स्वरूपतस्तु विलयं गताः । तासां स्थाने नानाधुनिकनिबंधाः प्रमाणत्वेन * श्रीमद्दयानन्दसरस्वती ** [ १४१ ] प्रचारमापुः । सर्वत्र रूढीनामेर राज्यं विराजते स्म । अपरतस्तु योरपाख्यगौराङ्गमहाद्वीपादुत्थिता पाथा- त्यसभ्यतावात्या प्राचीनं पौरम्त्यं सर्वमेवावधूयास्तव्यस्त मकरोत् । “यथा राजा तथा प्रजा" इति न्यायेन विजिता जना गौरागमभूणां सर्वाणि चरित्राणि निपुणमनुचक्रः । भारताभिजना न केवलं सितकायानां वेशभूषां भाषामाहारं विहारश्च प्रत्यवयवमङ्गीचक्रुः, प्रत्युत प्रत्येकस्मिन् विपये तेपां विचारसरणिमप्यनुससुः । परस्सहम ग्रन्थैरसंस्थापितमपि सत्यं पाश्चात्यपरिडतानां प्रमाणं विना सिद्धान्तकोटिं नारुरोह । भूगोल-खगोल-रसायन-पदार्थविज्ञानादिसर्वासां विद्यानां संगीतशिल्पचित्रणादिललितकलानाश्चाविष्क- तारः पाश्चात्या एवामन्यन्त । पाश्चात्यसभ्यताया आलो. केनैव सर्वो विषयो निरीक्ष्यते स्म । तेषां हेतुवादेन च धर्माधर्ममपि परीक्ष्यतेस्म । शिखासूत्राचमनमार्जनादीनि सर्वाणि धर्मकृत्यान्यपि कथं केन हेतुनेति निकषेणाकष्य- न्त । ऐहिकसुखमेव सर्वेषां धर्मकर्मणां निदानमबुद्धयत । यदा "अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुरिति ५ १ Europe. २ Geography. ३ Astronomy. ४ Chemistry. " Physics.
[ १४२ ] * चारुचरितावली * वाह्मणब्रुवाणामुक्तीश्श्रद्दधाना, रूढीनां परमोपासकाः, प्राचीना यस्य कस्यचिदपि देवगीग्रन्थस्य वाक्यानि प्रत्ये- कप्रचलितकुप्रथाया मूर्खतायाश्च पोपकाणि प्रमाणानि मन्यन्ते स्म, तदा पाश्चात्यशिक्षादीक्षिता अर्वाचीना युवानो हेतुं विना साक्षाद ब्रह्मणोऽपि वाक्यं न प्रतीयुः। परिणा मतः मायो नवशितिनास्तरुणानिरीश्वरवादिनस्संदेहवादि- नश्च सन्तः प्राचीनसभ्यतायास्सत्यसनातनधर्माच्च विमुखा अजायन्त, निजपूर्वपुरुषाँश्च वृद्धमूर्खाबालभाषायामोल्ड त ल ( Old fool ) इति वा व्याहृत्योपाहसिषुः । अपरे कचित्पादरीणां प्रभावेण धनकलत्रादिप्रलोभिताः, केचि- पुराणानामसंबद्धकथाभिमटेजिताः, केचिच्चोच्चकुलाभि- मानिनामुच्चजातीयानामतितिरस्कारेण ग्लानिं गताः, ख्रीष्टीयमतदीक्षां गृहीत्वा प्रातःस्मरणीयानां श्रीरामकृष्णा- दीनां निन्दनेन निजजिह्वा दूषयामासुः । गोब्राह्मणरक्ष- कार्णा समूहे हासङ्गते गोभक्षकाणां संख्यावर्धत । एवं दैनन्दिनं क्षीणकलेवराय नातिनाशोन्मुखा द- धाव । प्राचीनभारतीयसभ्यता च प्रतिपदं तिरस्कारमनु- भवन्ती निजप्राक्तनवैभवान्महिम्नश्च व्ययुज्यत । यार्या जातिवैदिकधर्मश्चाष्टशतवर्षाभिव्यापिना मोहम्मदीयशास- कानां खड्गवलेनात्याचारेण च विलयं न प्रापतुस्तावधुना पाश्चात्यानां सम्मोहनास्त्रेण महानिद्रा गन्तुमुमती; परं श्रीमद्दयानन्दसरस्वती * [ २४३ ] सर्वासां सभ्यतानामादिजनन्या आर्यसभ्यतायास्सर्वेपां धर्माणामादिगुरोर्वपिष्ठस्य वैदिकधर्मस्य च तादृक्पशुमारं मरणं करुणावरुणालयस्य परमपितुस्सम्मतं नासीत् । तेन स दयामय आनन्दराशिर्दयानन्दार्ष निजव्यवस्थानुसार धर्मसंरक्षणाय संसारे प्रादुरभावयत् । श्रीमद्दयानन्दसरस्वतीमहोदय एकाशीत्युत्तराष्टा. दशशतमिते वैक्रमाब्दे(१८८१ वै०) गुर्जरौदीच्य सामर्व- दीय दालव्यगोत्रीय-ब्राह्मणकुलं जन्मनालञ्चकार । गुज. रातपान्तान्तर्गतकाठियावाड़प्रदेशे मौ/राज्यस्थ टङ्का. राग्रामस्तस्य जन्मभूः । संपति टंकाराग्रामो बड़ौदाराज्या- न्तर्गतोऽस्ति । तस्य पिता कसनजीलालजीनियारी- नामासीत् । तस्यपितुर्नाम कर्सन जी, पितामहश्च लालजी. त्याख्यामभजत् । त्रिवारीतिपदं त्रिवेदीपदस्यापभ्रंशः । दयानन्दस्य पिता समृद्धो राज्यपदाधिकारी चासीत्, कुलक्रमागतं शैवमतश्चावललंये । स तावानिष्ठावान् शिवो. पासको यच्छिवपूनां विना जलमपि नाङ्गीचकार । समृद्ध- स्स कियत्सु स्थानेषु शिवमन्दिराण्यपि निर्मापयामास । दयानन्दजन्मसमये तत्पिता तं मूलशंकरनामानञ्चकं । मूलशङ्करोऽतीव मेधावी । पञ्चवर्षीय एव स वर्ण परिचयं प्राप्यानेकान् श्लोकान् स्तोत्राणि च कण्ठस्था. न्यकरोत् । अष्टमे वर्षे तस्य मौजीवन्धनं समजायन, तदा [ १४४ ] * चारुचरितावली ** प्रभृति स यथानियमं संध्यावन्दनादि कर्माकरोत् । तस्य पिता सामवेदीयब्राह्मणोऽपि शैवत्वा यजुर्वेदसंहिताम- ध्यापयामास, शैवसंप्रदायोचितं जपमन्त्रादिकं पार्थिव- पूजनश्चोपदिदेश । चतुर्दशवर्षदेशीयो मूलशङ्करो वेदस्य प्रचुरं भागम- ध्यगच्छद्यजुःसंहिताश्च कण्ठस्थामकरोत् । ततो घटनैका तस्य ज्ञानपिपासामत्यर्थं वर्धयामास । तस्य पिता शिव- मन्त्रण तस्य दीनां प्रतीततेस्म । एतस्मिन्समये शिवरा- व्यागता । पिता पुत्रमुवाच "मूलशङ्कराय त्वां शिवमन्त्रण दीक्षिष्ये । त्वं शिवमन्दिरे गत्वाद्य सर्वरात्रि यावज्जा- गृहीणति । पितुराज्ञया मूलशङ्करो यावदिनमुपोवास, रात्री सत्यां पित्रा शिवालयं गतः। रात्रेर्द्वितीयस्य प्रहरस्य पूजां समाप्य पुरोहितो मन्दिरान्निरगच्छत् । जाग्रन्मूलशङ्करः कियस्तो मूषकान् कैलासपतिं महादेवमारुह्य नैवेद्यं भक्ष- यतोऽपलीलया च विचरतो ददर्श । साधारणचित्त न प्रभावयन्त्योऽपि क्षुद्राः घटना महात्मनां मनःसु दूरगामिनः प्रभावानुत्पादयन्ति । साधारणघटनाभिः प्रभाविना महामनस आविष्कारकास्तडित्समाचार-रयलयाना-लोक. चित्रणादिनगदुपकारकान् बहुविषयान् पुराविश्चक्रुरिति १ Telegraphy.२ Railway.३ Photography. . १ २ ३ - * श्रीमद्दयानन्दसरस्वती ** [१४५ ] नाविदितमितिवृत्तषिदाम् । मूपकस्य शिवलिङ्गे विचरणा. त्मिका तुद्रा घटनापि मूलशङ्करस्य वालेऽपि विशाले हदि महामभावमजनयत् । मूपकानेमाचरतो दृष्ट्वा स पितरमपृच्छत् । मूलशङ्करः-"कि.मेप एव देवादिदेवो महादेवः ।। पुत्रस्येमं विस्मापकं प्रश्नं श्रुत्वा पिता पप्रच्छ । पिता-“मूलशङ्कर, किमिवैवं पृच्छसि ।" मूलशंकरः-- “एपा मूर्तिस्सर्वशक्तिमतः परमेश्वरस्य चेदेते सर्वेऽपि भूपकास्तस्योपरि नैवं कदापि विचरंयुः ।" पिता तदुत्तरे स्वबुद्रय नपारं बहुविधानि समाधानानि ददी, किन्तु मूलशंकरः पितुरुत्तरेण संतोपं न लेभे । एव घटना तस्या रात्रौ मूर्तिपूजानिराधमयस्य तदार्मिक- परिवर्तनस्य सूत्रपातमकरोयो न केवलं भारतं वर्ष किन्तु समस्तशिक्षितसमाजमपि क्षोभयामास । तदैव मूलशंकरो व्रतं भक्तवा स्वगृहं गतः। कियदिनानन्तरं मूलशङ्करभगिनी रुजार्ता प्राणान् विससर्ज । भगिन्यामुपरतावा तस्य मनसि वैराग्यमुदिया य । " संसारेऽस्मिन् जीवमात्रं मृत्युना ग्रस्यत" इति स सम्यग्ज्ञातवान् । “तेनाय प्रभृत्येव तनिवृत्तप) यतितव्यं ।" तस्मिन्न व विचारयत्येव तस्यायुरेकोनविंशवर्ष (१६) व्यती. याय । तदैव तस्य धर्मपाणः, पण्डिताग्रगण्यः, पितृव्याऽपि [ १४६ ] * चारुचरितावली * कालवशो बभूव । तस्य शोकसंतापो मूलशङ्करस्य मर्माण्या. जघान । दारुणदुःखेनानेन तन्मनसि वैराग्यवन्हिर्दिदीपे। स च पितव्यस्य मृतकशरीरसनिधावेव यावज्जीवनं मृत्युञ्जयमहौषधिगवेपणामहावतं स्वमनसि धारयामास । तेन यत्नेन सङ्गोपितमपि वैराग्यवेगं तत्पिता प्रत्य क्षमकरोत् । पुत्रहृदये वैराग्यमुदितं दृष्ट्वा तत्पिता तं विवाह- शृङ्खलया निगडितुमैच्छत् , किन्तु पितुस्सर्वा अपि चेष्टा विफलास्संजाताः । स स्वविवाहमस्वीकृत्य काशीङ्गत्वा विद्याध्ययनाय दृढ सङ्कल्पमकरोत् । तदर्थमेव पित्र निवेदय- मपि तदनुमति न पाप । तेन स द्वयु नरैकोनविंशशततमे वैक्रमाब्द(१६०२०)एकस्मिन् दिवसायमेकविंशतिवर्षदे शीयः(२१)पित्रोर्बान्धवानाञ्च मोहं त्यक्त्वा गृहानिर्जगाम । वाल्यादेव योगसाधनानुरागी मूलशङ्करो गृहं त्य- ततस्ततः परिभ्रमन् सामलेनामग्रामं पाप । एप ग्रामो मौवारयलयानमार्गस्थान्मलीनामस्टेशनाचतुःक्रोशोऽ. स्ति ( ४ )। तत्र तदा लालाभक्तनामपुरुषस्य स्थाने बहवस्साधवस्संगताः। मूलशङ्करस्तत्र गत्वा तेपामन्यतमस्य कस्यचिदब्रह्मचारिणशिशप्यत्वं स्वीचकार | शिप्यो भूत्वा मूलशंकररशुद्धचैतन्याख्यां जगाम । नाम्नि परि. चर्तिन एव तस्य वेशधूपापि परिव तृते । स गृहस्थानां वस्त्राणि त्यक्त्वा कापायवस्त्राणि धारयामास । सापक * श्रीमद्दयानन्द सरस्वती * [१४७ ] चैतन्यारूपां नमाम+गम्ति पस्मिर्शित-एस-तस्प वेश पामि-परिवतते । स एहस्थान-सारिण-सतना कापाय- खालि पास्पामास+ ततश्शुद्धचैतन्याख्यो मूलशङ्करो गुर्जर (गुजरात) देशेऽहमदायादसमीपस्थं कोठगां- गड़ानाम ग्रामं गत्वा तत्र च वैरागिनामधेयानां भिक्षु- काणां समूहेन संगतस्तेन चापहृतकौशेयशाटिकस्त्रिमा. सानि यावत्तत्रैवोषित्वा सिद्धपुरं पाप । सिद्धपुरं राज- पूतानामालवारयलयानस्य स्टेशनमस्ति, सरखतीन- दीतीरे च वर्तते । अत्र प्रतिकार्तिकमासं सम्मेलनं भवति । यत्रौदीच्यवाह्मणार्भकाणां मुण्डनसंस्कारो जायते । तत्र बहवस्साघवस्संन्यासिनो गच्छन्ति । धर्मपिपासुश्शुद्धचैतन्य स्वधर्मपिपासां प्रतिकर्तुं सिद्धपुरं समागतेषु साधुषु कमपि महात्मानमन्वियेष । एकदा शुदचैतन्ये सिद्धपुरस्थनीलकण्ठदेवमंदिर प्रोसीने तत्पिता कतिपयलगुडहस्तैस्सनिकैस्समं तत्रागतः। तदनुज्ञां विना गृहात्पलायितं स्वपुत्रं गृहीतकाषायं दृष्ट्वा भृशं क्रुद्धस्तं स्वगृहं प्रतिनिवर्तितुमादिदेश । परवशः शुद्ध- चैतन्याऽनिच्छन्नपि पितुराज्ञया गृहं गन्तुं सन्नद्धोऽभूत् । पुनश्च पुत्रो मा पलायेतेति भिया पिता तं प्रहरिकाणां दृढरक्षायामस्थापयत् । शुद्ध चैतन्यस्संसारसुखं परित्यज्य, योगिभिराकाङ्क्तिं शाश्वतं सुखमन्विष्यन् , निर्गतः, पितुर्वन्धान्मोक्षं लब्धं सदैवावसरं मार्गयामास । १४-] * चारुचरितावली दैवेनकदा सर्वपहरिका निद्रापरवशास्संजाताः । एतदवसरं लब्ध्वा शुद्धचैतन्यः पलायाश्चक्रे । किन्तु जागृताः प्रहरिकाः पुनर्मा गृह्णीयुरिति भिया नेदीयांसं सघनं वटवृक्षमारुह्य तत्पल्लवानामन्तरलीयत । स द्वित्राणि दिनानि निराहारोऽवातिष्ठत । दिनावधि वृक्षारूढस्तिरो- हितो रात्रौ मार्गमनुमरन् , निरापत्स्थान प्राप्तः, रात्रिंदिवं पायात् । सोऽहमदाबादमार्गेण बड़ौदां प्राप । तत्र च कियदिनानि चैतन्यमठमुपित्वा तत्रस्थानां वेदान्तिनां सङ्गमेनाद्वैतवादमङ्गीचकार । ततश्च नर्मदातटस्थं चाणी- दकल्याणीनामकस्थानमगच्छत् । तत्रोषित्वा स परमा- नन्दपरमहंसात् वेदान्तसारवेदान्तपरिभाषादीनि पुस्तकानि पपाठ । तदैव पूर्णानन्दसरस्वतीनामकः कश्चिद्दाक्षिणा- त्यदण्डी शृङ्गरोमठादागत्य चाणौदादनतिरे चालोदर- ग्रामसमीपे विजन उपितुमारेभे । शुद्धचैतन्यः पूर्णानन्द मत्वा युवावस्थायामेव तस्माद्यथाशास्त्रं संन्यासदीक्षा जग्राह । रोयाश्रमी सन्त्स दयानन्दसरखतीति संज्ञा लेभे । ततो दयानन्दो व्यासाश्रमं गत्वा श्रीयोगानन्द- स्वामिनो योगशास्त्रमध्यैष्ट । ततश्छिन्नाड़ास्थाने कृष्ण शान्त्रिणो व्याकरणमधिगम्य पुनश्च चाणोदकल्याणी प्रतिनिवृत्त्व ज्वालानन्दपुरीशिवानन्दगिरिभ्यां योग- क्रियामशिनत । ताभ्यां योगिभ्यां साधं दयानन्दोऽहमदा * श्रीमद्दयानन्दसरस्वती * [ १४६ ] बादं गत्वा दुग्धेश्वरमहादेवमंदिरे स्थितो विशेषेण योग- साधनाया अभ्यासमकरोत् । दयानन्दो यावज्जीवन योगक्रियासिद्ध यै तयोर्योगिनोः कृतज्ञतां मेने । अहमदा. वादनगरात्सोऽर्बुद गिरिङ्गत्वा तत्र पर्वतशृङ्गेषु श्रीभवानी- गिरियोगिनो विशेषयोगदक्षतां लेभे । एवं त्रिंशद्वर्षायुपर्यन्तं (३०) दयानन्दो नानास्थानेषु परिभ्रमन् , विविधाश्च विद्या अभ्यस्यन् , हरिद्वारतीर्थमाग- च्छत् । द्वादशोत्तरकोनविंशतिशततमे वैक्रमाब्दे ( १९१२ वै० ) हरिद्वारनगरे कुम्भसम्मेलनं संजातम् । हरिद्वार- कुम्भसम्मेलने सदैव देशाद्देशादागत्य संन्यासिनस्सा- धवश्च संगच्छन्ते । दयानन्दः प्रागुक्तहरिद्वारकुम्भसम्मेलनं प्रथमवारं गत्वा बहुदर्शिनां ज्ञानिनां साधूनां सत्सङ्गला- भमविन्दत । दयानन्द प्राकुम्भसमाप्ति साधुसत्सङ्गा- तिरिक्तकाले चण्डीपर्वतस्यांपत्यकायां विजने वने योग- मभ्यस्यत् । कुम्भं समाप्य स हृषीकेशं ययौ । हृषीकेशत- पोवने भागीरथीपुण्यतीरे बहवः कृतविद्या, वैखानसा- स्सिद्धा, योगिनश्च निवसन्ति । दयानन्दस्तेषां सङ्गती स्वतपोराशि योगविद्याश्चाभिवर्धयन् किश्चित्कालं हृषी- केशमुषित्वोत्तराखण्डस्य नानाप्रसिद्धस्थानेषु केदारबद. रीरुद्रप्रयागादिप्वभ्रमीत् । उत्तराखण्डे टोढ़ीनगरे [ १५० ] * चारुचरितावली * दयानन्दस्तान्त्रिकाणां तान्त्रिकक्रियाणाञ्च प्रथमं परिचयं प्राप्य जुगुप्सां खेदश्चानुबभूव । एवमेव स सततं यात्रां कुर्वन् हिमाद्रेपत्यकायां काशीपुरमार्गेण द्रोणसागरं प्राप्य शरतुं तत्रैव यापया- मास । ततो मुरादाबादनगरं संमलं गणमुक्तोश्वरञ्चाटि- त्वानुगडं गच्छन् फर्रुखाबादं प्राप्य ततः काशीं गतस्तत्र गङ्गावरुणयास्सङ्गमे गुहायां कञ्चित्कालमतिवाह्य मिर्जा- पुरमान्ते नर्मदानदीतीरस्थं वनप्रदेश प्रविवेश । नर्मदातटे त्रोणि वर्षाणि परिभ्रमन्ननेकसाधूनां सङ्गन च ज्ञानर्मजयन् सप्तदशोत्तरकोनविंशतिशततमे वैक्रमाब्दे ( १९१७ वै०) कार्तिकसुदि यमद्वितीयायां मथुरामगच्छत् । मथुरागमन- काले दयानन्दः षट्त्रिंशद्वर्षीय (३६) आसीत् । मथुरायां स आर्षग्रन्थानां परमश्रद्धालुना, पाणिनीय- व्याकरणपारङ्गतेन, दण्डिना, विरजानन्देन संगतः। तदा दण्डी निरजानन्द एकाशीतिवर्षवयोऽत्यकामत् । पञ्चवर्षीयस्यैव ( ५ ) तस्य दृष्टिस्साङ्घातिकशीतलारोगेण प्राणश्यत् । किन्तु तस्य धारणा असाधारणा । स वेदादि सकलशास्त्राणि गुरुमुखाच्छ त्वैव कण्ठाग्राण्यकरोजन- साधारणेषु च प्रज्ञाचक्षुरिति प्रसिद्धि प्राप । दयानन्दस्त. स्यैव महापण्डितदण्डिनश्शिष्यतां जग्राह। स यदा विद्यार्थिरूपेण विरजानन्दं गतस्तदा विरजानन्दस्तसु.
* श्रीमहयानन्दसरस्वती * [ १५१ ] वाच-"वत्स,त्वमद्यावधि पायो मनुष्यरचितग्रन्थानेद पठितवानसि । यावत्तव हृदि मनुष्यरचितग्रन्थप्रभाव- स्तिष्ठति तावत्तव मनस्यार्षग्रन्थानां मर्म प्रवेशं प्रतिष्ठाञ्च लब्धंन शक्ष्यति । अतो मनुष्यकृतग्रन्थान्परित्यज्य मत्सविध आदित आर्षग्रन्थाध्ययनं कुरु ।” विंशत्युत्तरै- कोनविंशतिशततमवैक्रमाब्दस्य ( १९२० वै० ) वैशाख यावत्सार्धवर्षयुग्मं दयानन्दो विरजानन्दसविध भावि- घामधीत्य योगशिक्षाश्च प्राप्य मथुराया गन्तुमाचार्यानुमति ययाचे, गुरुदक्षिणायै चादेष्टुं तं प्रार्थयामास । प्रसन्नी विरजानन्दोऽवदत्-"वत्स, यदि त्वं गुरुदक्षिणां दित्ससि तर्हि मदीप्सिता गुरुदक्षिणैवंरूपा । "संसाराद्वंदविद्या विलुप्ता जाता । सनातनवैदिकधर्मस्य स्थाने नवीनारसं प्रदायाः प्रचलन्नि । आर्षग्रन्थानां स्थानं मनुष्यकृतैः कपोलकल्पितैर्ग्रन्थैः गृहीतम् । त्वं संसारे गत्वा मत्तो गृहीताया विद्यायाः प्रचारं कुरु । वेदस्यार्पग्रन्थानाञ्चाध्य. यनाध्यापनशैली प्रवर्तय । नवीनमतमतान्तराणि निरस्य. श्रुतिप्रतिपादिनं सनातनधर्म स्थापय"।" दयानन्दो गुरोराज्ञां शिरसा गृहीत्वा तदनुमतिश्च लब्ध्वा मथुराया आगरानगरञ्जगाम । तत्र च वर्षद्वयमुपि- वा सन्ध्यावन्दनादि धर्ममुपदिदेश । दयानन्दस्य मुख्य धर्मोपदेशस्स्वगुरुदेवाज्ञानुसार प्रतिमापूजानिरसनपूर्वक [ १५२]] * चारुचरितावली * परमेशोपासनं वैदिकार्षग्रन्थानानाध्ययनाध्यापनप्रवर्त. नमासीत् । स परमेशोपासनास्थाने मूर्तिपूनाया घोर. विरोधश्चक्रे, संसारे मूर्तिपूजानिराकरणमेव च स्वमुख्य कर्तव्यं मनुते स्म । स वेदाहतेऽन्यत्किञ्चिदपि न श्रद्दधे । दयानन्दो मूर्तिपूनाया असारत्वं प्रतिपादयितुं प्रस्थि- तो, भारतवर्षस्य प्रायस्सर्वाणि प्रसिद्धानि नगराणि पर्य- टन् , भारतस्य प्राचीन विद्यापीठं, सर्वधर्माणां केन्द्र, सुप्र. सिद्धां, काशीमाजगाम, तत्रस्थैश्च पण्डितैस्तद्विषयमधिकृत्य शास्त्रार्थनकरोत्। पड्विंश-युतरैकोनविंशतिशतमिते वैक्रमाब्द ( १९२६ वै० ), एकोनसप्तत्युतराष्टादशशतमित स्त्रीष्टाब्दे (१८६६ ई०), नवंबरमासस्य पोडशे दिवसे,तृतीयपहरे, त्रिवादन समय, असीघट्ट, दुर्गाकुण्डनिकटवर्तिन्यानन्दो- द्याने, विचारसभाया अधिवेशनं संजातम् । काशीनरेश- सहिता काशीस्थचिद्वन्मण्डली कौपीनमात्रधारिणा, भस्मा- वगुण्ठितशरीरेणैकाकिना, दयानन्देन शास्त्रार्थे प्रववृते । प्र- लकुमारनन्दिन्यास्संपादको निरुक्तालोचनादिबहुवै- दिकग्रन्थानां प्रणेता, पण्डितप्रवरश्श्रीसत्यव्रतसामश्रमी तटस्थरूपेण तच्छास्त्रार्थसभांशोभयामास । स स्वस्याः पत्रि- कायाः प्रत्नकुमाग्नन्दिन्या एकोनसप्तत्युत्तराष्टादशशतमि- तस्वीष्टान्दीयदिसंबरमासस्याष्टाविंशंऽके (दिसंबर१८६६ ई०, अंक २८ ) स्वश्रवणविषयीकृतं स्वनेत्रातिथिभूतञ्च * श्रीमदयानन्दसरस्वती । १५३ ] सर्व वृत्तान्तं सविस्तरं लिलेख । धर्मशास्त्रचिन्ताचणैश्शा स्त्रपर्यवेक्षकैः प्रेक्षणोयस्स विवादस्तस्यां पत्रिकायाम् । दयानन्दः पौनःपुन्येन सप्तवारं काशीङ्गत्वा स्वधर्म प्रचारयामास । एवमेव प्राच्या प्रचारयात्राङ्कुर्वन् , विहार पान्तस्य पाटलीपुत्रादिनगराणि परिभ्रमन् , एकोन- त्रिंशदुत्तरकोनविंशतिशतमिते वैक्रमाब्दे ( १९२६ वै०), विसमत्युत्तराष्टादशशतमिते स्त्रीष्टाब्दे ( १८७२ ई० ), दिसम्बरमासस्य त्रिंशे दिवसे, दयानन्दः कलिकातान- गरीमगमत् । तत्र च साधारणब्रह्मसमाजाचार्येण केशवचन्द्रसेनेनादिब्रह्मसमाजाध्यक्ष्ण महर्षिदेवेन्द्र नाथठकुरेण च धर्मच मकरोत् । अद्यावधि दयानन्दो देवगिर्यामेव भाषणमकरोत्कोपीनमात्रश्च दधार, भस्मना च स्वशरीरमवागुण्ठयत् , प्रायेण चाजुगङ्गमेव परिभ्रमन् धर्ममुपदिदेश । कलिकातायां श्रीकेशवचन्द्र मेनसंमत्या सो- ऽद्यप्रभृति वस्त्रधारणं, लोकभापायां संभापणं, रयलया- नेन यात्रां, पुस्तकमुद्रापणं, पाश्चात्यसरण्या धर्मप्रचार. चारभे । एवं भारतस्य नानानगरेषु धर्मप्रचारं विदधत्स्व चतुः र्थाश्रमधर्ममनुपलियंश्चान्ते दयानन्दो हिंदनरेशानस्थधर्म दीक्षितुं राजपुत्रदेशमायान् । मर्यवंशदिवाकर, हिंदुप्रा. सूर्य, मर्यादापुरुषोत्तमश्रीगमचन्द्रपुत्रस्य लवम्य बंशावतं. , [ १५४ ] * चारुचरितावली * समुदयपुरनरेशं, श्रीसजनसिंहं स्वशिष्यं विधाय मरुदेशं ( मेवाड़ ) जोधपुरमाययौ । मरुदेशाधिपति योधपुरनरेशं श्रीयशवन्तसिहं श्रीमद्दयानन्दोपदेशेन प्रभावितं दृष्ट्वा तत्रस्थास्स्वार्थेकपरायणा दुराचारिणस्व- स्वार्थनाशेन परमं चुक्षुभिरे, स्वार्थसिद्धौ च श्रीमदयानन्दं कएटकं परिकल्प्य तत्पाचकेनाभिसंदधानास्तं गरलं पाययामामुः । गरलेन रुजातों दयानन्दस्वास्थ्यलाभाय ततोऽधुंदगिरिं गतः । तस्मिन्स्थाने विशेष न प्रामुवन् चिकित्साया अजमेरु ( अजमेर ) नगरमियाय । अन्तोष ममेरनगर एवं चत्वारिंशदुचरैकोनविंशतिशतमिते वैक्रमाब्दे ( १९४० वै० ) त्र्यशीत्युत्तराष्टादशशतमिते खोटाब्द ( १८८३ ई० ) अक्टुबरमासस्य त्रिंशे दिवसे, दीपमालिकायाममायां, सूर्येण सार्धं प्राचीनविद्यायास्र्यो दयानन्दो दिवमारुरोह । तदात्मा योगेन तनुं त्यक्त्वा परमानन्दमलभत परमानन्दं सच्चिदानन्दे । मृत्युसमये स एकोनपष्टिवर्षदेशीय ( ५६ ) आसीत् । बहुस्थानपरिभ्रमणेनाने कसाधुसंगमेन च श्रीमदया- नन्दो योगसमाधिगतान् बहूभिनवविषयावध्यगच्छत् । आदिमावस्थायां योगक्रियाणां संसिद्धौ तपश्चर्यायाश्च तस्याधिकांशसमयो यातिस्म । एकदा स योगविषयक नाडीचक्रनामकं कश्चिद्ग्रन्थमध्यगीष्ट । गङ्गातीरे परि-
* श्रीमद्दयानन्दसरस्वती * [ १५५ ]]
भ्रमंश्च नद्योगमानं कश्चिच्छवं दृष्ट्वा, मनुष्यशरीरे तद्न्था-
नुसारं नाडीचक्रमस्ति न वेति परीक्षितुं संजानकुतूहल-
स्सहसा नद्यामुत्सुत्य, शवञ्चाकृष्य, तटमानिनाय ।
शवश्च छुरिकया विदार्य, तस्मिन् पुस्तकलिखितानुसार-
नाडीचक्रमलब्ध्वा, तत्पुस्तकं नद्यां चिक्षेपैतत्तस्य सत्य-
पक्षपातस्योदाहरणम् ।
मथुरायां श्रीविरजानन्दादध्ययनं समाप्य स स्वसमयं
प्रायेण धर्मोपदेशेन शास्त्रार्थेन ग्रन्थप्रणयनेन च निनाय ।
सर्वप्रथमं स सत्यार्थप्रकाशनामकं हिंदीभापामयं ग्रन्थं
प्रणिनाय । तत्र स प्राचीनवैदिकपथं विशदीकृत्य
देशीयविदेशीयानि मतमतान्तराणि संप्रदायांश्च सविस्तरं
समालोचिष्टावसाने च स्वमन्तव्यामन्तव्यानि सविस्तरमु-
पसंजहार, तेषु मुख्यानां पद्यात्मकस्य सुरगिरानुवादस्य
पण्डितप्रकाण्डेन श्रीभीमसेनशर्मणा प्रणीतस्य कति-
चिन्मनोहराणि पद्यान्यत्र कृतज्ञतापूर्वकं लिख्यन्ते ।
"गुणाःसत्या यस्यापि च सकलकर्माणि जगतः,
समुत्पत्त्यादीनि स्वनिहितविभुत्त्वादिकवतः ।
निराकारः शुद्धः प्रिय इह सदाद्यन्तरहितः,
तमीशं मन्यन्तेऽहितहितकरं शोभनधियः॥१॥
[ १५६]
* चारुचरितावली *
रूपस्य
यश्चेतनोऽल्पज्ञतया च युक्तो,
द्वषप्रयत्नादिगुणान्वितो यः।
नित्यो विभुः स्यादथ गौताये,
जीवो निरुक्तः श्रुतिशास्त्रसिद्धः ॥२॥
वैधर्म्यबलाद्वदन्ति,
जीवेशयोर्भेदमिह प्रवीणाः ।
साधर्म्यरूपेण तयोरभेद,
व्याप्यत्वसंव्यापनधर्महेतोः॥३॥
विभुरहो कुरुते जगतीगतम्,
जडपदार्थवशेन समन्ततः
न हि जडे स्वत एव च संस्थितम् ,
स्वरचनानिपुणत्वमितीरितम्॥४॥
यस्य स्वरूपं तु तदीयशिष्टः,
संपालनं पक्षविपातशून्यम् ।
न्याय्यं प्रमाणैश्च परीक्षितं यत् ,
तं श्रेष्ठधर्म प्रवदन्ति सन्तः ॥५॥
* श्रीमदयानन्दसरस्वती । १५७ ]
योज्यंते धर्ममाश्रित्य, बुधैः सोऽर्थोऽभिधीयते।
अधर्मादर्थसंसिद्धा,वनर्थः परिकथ्यते ॥ ६ ॥
सर्वी दुराचाररति विधूय,
जन्मादिदुःखस्य समुद्रमेतम्।
सर्वेश्वरं तं सुखरूपमाप्य,
भद्रे स्थितिः सा कथिता विमुक्तिः॥७॥
देवेति संज्ञा सुधियां यथेहा,
सुरेति संज्ञाऽविदुषां तथैव ।
पापे रतो राक्षस इत्यथो पि-,
शाचेति दुष्टाचरणे रतस्य ॥८॥
संमाननं जगति यस्खलु विद्वदादे,
स्त वजन मिति प्रविचार्यते ज्ञः।
तन्मूर्तिषु प्रकथितैव सुपूज्यबुद्धि-
स्तद्भिन्नके जडपदार्थगणे न कल्प्या॥६॥
विद्याप्रकाशो नितरां यया स्या-,
दज्ञाननाशोऽपि च सैव शिक्षा ॥१०॥
[ १५८] * चारुचरितापली * देहात्मनोः कृत्यगणो विशुद्ध्यै, निषेकतोऽन्त्येष्टिक्रियावधिश्च । संस्कारनामा प्रथितः स एव, मनक्तशास्त्रेऽभिहितो निषेव्यः॥११॥" सत्यार्थप्रकाशो जनानां धर्माभिमुखीकरण तत्पद- शितधर्मप्रसारे च प्रबलसाधनो बभूव । तस्यानुवादो बङ्गाङ्गलगुर्जरतैलङ्गतामिलादिबहुभापास्त्रक्रियत, मूल- ग्रन्थस्य चाद्यावधि लक्षं पुस्तकानि प्राकाश्यन्त । स श्रुतीनां विवेचने शब्दानां यौगिकार्थी प्राचीना- मार्पशैली पुनः प्रवर्तयामास, तदनुसारश्च ऋग्यजुर्वेदयो भीप्यमकरोत् । तत्पूर्व स स्त्रीयां वेदभाप्यकरणशैली स्वानुमतवेदविषयश्चाधिकृत्य वेदभाष्यभूमिकानामकं पुस्तकं देवगिरा रचयामास । गोरक्षायां तस्य महाप्रयत्न आसीत् । स गोवधावरो- धाय समस्तभारतीयलक्षाधिकजनैर्हस्ताक्षरिनां प्रार्थना भारतराजराजेश्वर्या विक्टोरियापहोदयायास्सेवायां प्रैष. यत् । प्रश्नमतं स धर्मदृष्ट्या साधमर्थदृष्ट्यापि विवेचयामास । स्वविवेचनाञ्च स्वप्रख्यातपुस्तके "गोकरुणानिधि नामके निबंध।
* श्रीमहयानन्दसरस्वती * [१५] स स्वजीवनं सनातनवैदिकधर्मसंस्थापनायां नवीन- नानासंप्रदायैश्च सदुद्धारकरणे यापयामास । एतस्मिन्घोर- कलिकाले वैदिकधर्मस्योद्धारणादेव तदनुयायिनस्तं वैदिक धर्मोद्धारकमृषि कथयन्ति । श्रीमहयानन्दर्षिः पाश्चात्याना- मेव प्रबलयुक्तिनालन केवलं वेदानामनादित्वमपौरुषेयत्वं सर्वमान्यत्वं तथा वैदिकधर्मकृत्यानां सुसातलमपरिहार्य वश्च स्थापयामास, प्रत्युत स भारतीयसभ्यतामपि सर्वासा विदेशीयसभ्यतानामादिनननी, परिपोषिकां, शिक्षिका, वैदिकधर्मश्च सर्वेपां धर्माणामादिम स्रोतश्चाकाव्यप्रमाणे- निरणैषीत् । स प्रगाढमोहनिद्रानिमग्नान् भारतीयानुदबो. ध्येदमबोधयधरोषां प्राचीना, सरला, विलासविमुखा, मितव्ययसाध्या, सभ्यतैव तेषां कन्याणाय; अर्वाचीना, चपलाचाकचक्या, भौगैकपरायणा, बहुव्यया, विदेशीय सभ्यता तु परनारीव तेषां पातायैव । वैदिकरसनातनी धर्मस्तेषामैडिकामुष्मिकहितसाधको, नानादोषदूषितस्तर्क निकपासहोऽसंबद्धः परधर्मस्तु परद्रव्यमिव भयावह एव । आधुनिकसंपदायिनो यैरस्त्रैस्सनातनवैदिकधर्ममाचक्रमु- श्श्रीमहयानन्दस्तैरेव प्रबलायुधस्तानभियुज्य तेषां निस्सा- रतां प्रत्यपादयत् । स उन्मुखगामिनं संसारस्य प्रवाहमेव पर्यवर्तयत् । ये नवशिक्षिता निजसभ्यताधर्मी त्याज्यौ मन्यमाना.
[१६० चारुचरितावली स्तौ जहसुर्जुगुप्साक्रुश्च, त एव दयानन्दर्षिपौढिवादवि- वशास्तयोरभिमानिना भूत्वा तयाग्रहणेनैव निज- गौरवं मेनिरे । तेऽद्य दयानन्दर्षेः कृपाकटाक्षणात्मनो वैदिकार्यान् ब्रुवाणास्स्वसभ्यतामाद्रियाणास्सुरभारतीचा धोयानास्स्वदेशभापा, भूपा, वेशं व्यवहरमाणाः परां प्रतिष्ठा •यान्ति । वेदस्यार्याणां प्राचीनसंस्थानाच स एतावान् पक्षपाती बभूत्र, यकतिपये नवीनाः पाश्चात्यास्तं वेदस्यो न्मादीति प्रख्यापयामासुः । स विश्वव्यापकवैदिकधर्म श्रद्दधानोऽपि, वसुधैव कुटुं बकमिति सिद्धान्तपनुसरन्नपि, स्वमातृभूमौ महास्थावाना- सीन् । भारतभूमे पायाः वेशभूपायाच परमभक्त आसीत् । गुर्जरदेशीयोऽपि स स्वरचितानधिकांशान् ग्रन्थान् भारत. देशव्यापिकायां हिंदीभाष.यां जाथे। तद्भापाञ्चार्यभाषेति नाम्ना व्यानहार। योरपद्वीपमगतोऽपि, तद्देशभापानभिज्ञोऽपि, पाश्चात्यै- संपर्क रहितोऽपि, नानाभिनवाः प्रथाः प्रतिवदन्नपि, सोऽय प्रसारितानि विविधसंशोधनानि स्वजीवनसमय एव स्वग्र- न्थेषु पुशेष । स्वराज्यस्य, सामानिकसंशोधनानां, मातृभा- पायाः स्वदेशीयवस्तुग्रहणस्य च पक्षपोषणमेतेषामुदाहर- गम् । स यांवज्जीवनं ब्रह्मचर्यत्रत मारणेन विलासिनापये * श्रीमद्दयानन्द सरस्वती * [१६१ ] समयेऽस्मिन् ब्रह्मचर्यस्य महत्वं पुनरस्थापयत् , वैदिक- वर्णाश्रमव्यवस्थाञ्च व्यवस्थापयत् । वैदिकधर्ममधिकृत्य विविधविपयमयास्तत्मणीताश्चत्वारिंशत् ग्रन्थाः विद्यन्ते । तेषां मुद्रणार्थ प्रकाशनार्थश्च स वैदिकयन्त्रालयं निर्ममे, योऽद्यावध्यजमेरनगरे विद्यते । निजसिद्धान्तानां प्रचारार्थ स ार्यसमाज संस्था- पयामास । आर्यसमाजस्योद्देश्यद्योतका दश नियमाश्च तेन व्यरच्यन्त । तेपो देववाणीमयः मुशोभनशिखरिणीबद्धा- ऽनुवादस्तस्य योग्यशिष्येण श्रीज्वालादत्तपण्डितप्रवरेण विरचितोऽधस्तादुद्धियते। "प्रपश्यन् देशस्यावनतिमतिदुःखेन मतिमान् , दयानन्दस्वामी, सदयहृदयोऽभूद्यतिधरः। कावद्देशस्योन्नतिरिति विचिन्त्यार्यसमितेः. सदुद्देश्यैर्दिग्भिनिंजसदुपनेशं द्रुतमदात् ॥१॥ तदुह श्यान् देशोन्नतिसुखकरान् संस्कृतगिरा, ब्रवीम्येतान् विद्यारसिकजनमोदाय सकलान् । अविद्याजन्यं यह रितमपहन्तं श्व पठतां, ग्रहीतणां मूलं सततमनुकूलं श्रुतिगिराम् ॥ २ ॥ (१) प्रतीती या विद्या ऋतमिति समस्ता परमतः, प्रतीयन्ते ताभिः प्रियतमपदार्था इह च ये । परं मूलन्तेषां प्रथममखिलानामविरतं, परेशः सर्वेशः श्रुतिनिकर इत्थं प्रपदति ॥ ३॥ (२) सदीशश्चित्पूतोऽतनुरनुपमानन्दनयकृत् । स सर्वान्तर्यामी भयमृतिजगधन्तरहितः। ६ [ १६२] * चारुचरितावली * उपास्यः सर्वेषां धृतिरविकृतिः सृष्टिकृदजो, दयालुः सर्वव्यापकनिखिसशक्तधू व इति ॥ ४ ॥ (३) ऋतानां विद्यानां श्रुतिसमुदितिः पुस्तकमिति, श्रतीनी सर्वासामभिपठनमध्यापनमनु । विधेयं सर्वैस्तच्छृणमनिश श्रावणमथो, अय सर्वार्याणां परमधर्मोऽस्ति व्यवसितः ॥५॥ (४) समुद्यत्नैः सत्यग्रहणकरणे सम्यगुचितं, सदा भाव्यं सर्वैग्नृतपरिहानौ सुहृदयः। (५) अलं कार्याः कामा अनिशमभिधर्मानुसरणा, विमृश्यैतत्सवं किमृतमनृतञ्चह पुरतः ॥ ६ ॥ (६) समाजस्यास्यैतजगदुपकृतेरेव करणं, परोद्देश्यः सर्वैरनिशमवधेयो नरवरैः। समुद्भाव्या भव्या त्रिषु समुचितासून्नतिरतः, सुदक्षैः संलक्ष्यैः समितिवपुगत्मस्विति सखे ॥ ७॥ (७) यथायोग्यं सर्वैः सह सकल जातीयमनुजैः, प्रवत्यं सत्प्रीत्या व्यवहतिषु धर्मानुसरणम् । (3) अविद्याया नाशः प्रियतम, विधेयो निजबलै, रलं विद्यावृद्धि', सततमभिकार्या सुकृतिभिः ॥८॥ (8) न वै संतोष्टव्यं निज निजयटोन्नतिवशात्, परं प्रत्येकेन प्रतिजनविधेयोन्नतिविधौ । सुमन्तव्यं स्वीयोन्नतिरिति च सामाजिकजनाः, समाजस्योद्दिष्टो नियमदशके ह्यष नवमः ॥ ६॥ (१०) पराधीना वृत्तिः सकलमनुजैः सर्वसुहितं, विधातु संसेव्या प्रवरनियमस्यावनविधौ। परं प्रत्येकेन प्रसभहितकारिण्यविरतं, स्वतन्त्राः स्युः सर्वे नियमदशमप्रेरितजना. ॥ १०॥"
* श्रीमहयानन्दसरस्वती * [ १६३ ] -- आर्यसमाजस्य पर शताः शाखास्समस्ते भारते वर्षे दीपान्तरेषु च संस्थितास्तनिर्दिष्ठं धर्म प्रचारयन्ति । भार्य- समाजेनानेनासंख्यानि गुरुकुलानि, कालिजाः, पाठशाला, अनाथालयाः, पुस्तकालयाश्च संस्थापिताः, संसारस्य च महोपकारो व्यधायि, भारतीयप्राचीनसभ्यताया वैदिक धर्मस्य च लुप्तपायं गौरवं पुनः प्रत्यष्ठापि । कः पद्मिनीनां वद तिग्मदीधिति- धर्मः परः कःकविवाचिकःस्थितः। का कण्ठ-भूषान यमा बिभेति कः, स्वामी दयानन्द सरस्वती यमी ॥ इति श्रीमद्दयानन्दचरितम् समाप्तञ्चैतद धर्मसंस्थापफसप्तकम् प्रथमं प्रकरणम् चारचरिताधल्याम् शुभं भूयात्
विज्ञप्तिः
-
चारुचरितावलीयं निम्नलिखितस्थानस्थपुरुषेभ्यो
मनीआर्डरमेषितेन नियतमूल्येनाथवा वी० पी० द्वारा
प्राप्यते-
(१)(ग्रन्थपणेता ) श्रीसिद्धगोपालकाव्यतीर्थः
हल्दौर, (जिला ) जिनौर
(२) श्रीजानकीप्रसाद जी, मैनेजर
आयपुस्तकालय
हल्दौर, (जिला ) विजनौर
(३) पुस्तकभाण्डारप्रबंधकर्ता
गुरुकुल कांगड़ी, (जिला) बिजनौर
(४) प्रबन्धकर्चा,
दीन बन्धु प्रेस
बिजनौर
No text on this page.