Sringeri Sharada Peetham

Vishvaprakasha

Pandit Ratna Gopal Bhatta · 2005/02/10

PDF Proofread

Front matter

॥ श्रीः ॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबकः-१६० १ " १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकःस्तबको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण धर्म- शास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयैः, ब्रह्मदेशीयः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै- देयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७ आणकाः८ ५ अन्यैर्देयं प्रतिस्तवकम् ६ प्रापणव्ययः पृथग् नास्ति । (२) संस्काररत्नमाला । गोपीनाथभट्टकृता (संस्कारः) २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम् ) १० (३१ श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । सम्पूर्णम् । (४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र- करणम् । श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायण (वेदान्त)२ तीर्थ विरचित भादृभाषा प्रकाशसहितम् । सं० (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १ (६) भादृचिन्तामणिः । महामहोपाध्याय-1 श्रीगागाभट्ट विरचितः। तर्कपादः । ( मीमांसा) ૨

श्रीः।
विश्वप्रकाशः
विदरश्रीमहेश्वरविरचितः
नमः सम्यक्सम्बुद्धाय ।।
स्तुवीमहि महामोहक्लेशान्तकभिषग्वरम् ।।
त्रैधातुकनिदानझं सर्वज्ञं दुःखहानये ॥१॥
कलाविलासान्मकरन्दबिन्दु-
मुद्रा विनिद्रे हृदयारविन्दे ॥
या कल्पयन्ती रमते कवीनां
देवी नमस्यामि सरस्वतीं ताम् ॥२॥
कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरम् ॥
वाचस्पतिमतिस्पर्द्धिशेमुषीचन्द्रिकोज्ज्वलम् ॥३॥
क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासियशःश्रियम् ॥
गुरुं वन्दे जगद्वन्धं गुणरत्नैकरोहणम् ॥ ४ ॥
श्रीसाहसाङ्कनृपतेरनवद्यवैद्य-
विद्यातरङ्गपदमद्वयमेव बिभ्रत् ॥
यश्चन्द्रचारुचरितो हरिचन्द्रनामा
स्वव्याख्यया चरकतन्त्रमलश्चकार ॥५॥
आसीदसीमवसुधाधिपवन्दनीये
तस्यान्वये सकलवैद्यकलावतंसः ।।
शक्रस्य दस्र इव गाधिपुराधिपस्य
श्रीकृष्ण इत्यमलकीर्तिलतावितानः॥६॥

विश्वप्रकाशः। सङ्कल्पसम्भवदनल्पविकल्पजल्प- कल्पानलाकुलितवादिसहस्रसिन्धुः॥ तर्कत्रयत्रिनयनस्तनयो यदीयो दामोदरः समभवद्भिषजां वरेण्यः ॥७॥ तस्याभवत् सूनरुदारवाचो वाचस्पतिश्रीललनाविलासी ॥ सद्वैद्यविद्यानलिनीदिनेशः श्रीमहणः सत्कुमुदाकरेन्दुः ॥ ८ ॥ यभ्रातृजः सकलवैद्यकतत्त्वरत्न- रत्नाकरश्रियमवाप्य च केशवोऽभूत् ।। कीर्तेनिकेतनमनिन्द्यपदप्रमाण- वाक्यमपञ्चरचनाचतुराननश्रीः॥९॥ कृष्णस्य चाऽजनि मुतः स्मितपुण्डरीक- षण्डातपत्रपरभागयशःपरागः ॥ श्रीब्रह्म इत्यविकलात्ममुखारविन्द- सोल्लासलासितरसासरस्वतीकः ॥१०॥ तस्यात्मजः सरसकैरवकान्तकीर्तिः श्रीमान्महेश्वर इति प्रथितः कवीन्द्रः ॥ निःशेषवाङ्मयमहार्णवपारदृश्वा शब्दागमाम्बुरुहषण्डरविर्वभूव ॥ ११ ॥ यः साहसाङ्कचरितादिमहाप्रबन्ध निर्माणनैपुणगुणागतगौरवश्रीः॥ यो वैद्यकत्रयसरोजसरोजबन्धु- बन्धुः सतां सुकविकैरवकाननेन्दुः ॥ १२ ॥ इयं कृतिस्तस्य महेश्वरस्य विश्वप्रकाशः। वैदग्ध्यसिन्धोः पुरुषोत्तमानाम् ॥ देदीप्यतां हृत्कमलेषु नित्य- माकल्पमाकल्पितकौस्तुभश्रीः॥ १३ ॥ लब्धैः कथञ्चिदभिजातसुवर्णकार- लीलेन कोषवररत्नधिशब्दरत्नैः ।। विश्वप्रकाश इति काञ्चनबन्धशोभा विभ्रन्मयाऽत्र घटितो मुखखण्ड एषः॥ १४ ॥ क्षोणीश्वरोदीरितशब्दकोष- रत्नाकरालोडनलालसानाम् ॥ सेव्यः कथं नैष सुवर्णशैलो विश्वप्रकाशो विबुधाधिपानाम् ॥ १५ ॥ भोगीन्द्रकात्यायनसाहसाङ्क- वाचस्पतिव्याडिपुरःसराणाम् । सविश्वरूपामलमङ्गलानां शुभाङ्गगोपालितभागुराणाम् ॥ १६ ॥ कोषावकाशात् प्रकटप्रभाव- सम्भाविताऽनर्घ्यगुणः स एषः॥ सम्पादयनेष्यति वाञ्छितार्थान् कथं न चिन्तामणितां कवीनाम् ॥ १७ ॥ आ मित्रशैलचरमाचलमेकलाद्रि- कैलासभूमिवलयाद्यदिहास्ति किश्चित् ।। एकत्र सम्भृतमगोचरशब्दरत्न- मालोक्यतां तदखिलं सुधियः कवीन्द्राः ॥१८॥ यद्यस्ति वाङ्मयमहार्णवमन्थनेच्छा प्राप्तुं पदं फणिपतेर्यदि कौतुकं वः ।।

४ विश्वप्रकाशः। विश्वप्रकाशमनिशं तदिमं निषेव्य सम्भाव्यतां परमशाब्दिकशेखरश्रीः ॥ १९ ॥ सतां पुस्तकसम्भारभारमोक्षः कृतो मया ॥ नामानुशासनमिदं सम्पूर्ण तन्वताऽद्भुतम् ॥ २० ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः ॥ कान्तादिवर्ग नार्थसङ्ग्रहोऽयं वितन्यते ॥ २१ ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ॥ सप्तम्यन्तेषु शब्देषु वर्तमानः सुनिश्चितः ॥ २२ ॥ दृष्टान्तेन सह कापि सप्तम्याधार एव च ॥ स्पष्टाय लिङ्गभेदाय काऽप्यत्र पुनरुक्तता ॥ २३ ॥ कैककम् ।। को ब्रह्मात्मानिलार्केषु शमने सर्वनानि च ॥ पावके च मयूरे च सुखशीर्षजलेषु कम् ॥ २४ ॥ कद्विकम् ॥ अकं पापे च दुःखे च शको राजन्यदेशयोः । वकस्तु वकपुष्पे स्यात् कहे श्रीदे च रक्षसि ॥ २५॥ शुको व्याससुते कीरे रावणस्य च मन्त्रिणि ॥ ग्रन्थिपणे शिरीषे च शुकं स्याच्छोणके कचित् ॥ २६ ॥ द्विकः काके च कोके च सृको बाणानिलोत्पले ॥ अर्कोऽर्कपणे स्फटिके रवौ ताने दिवस्पतौ ॥ २७ ॥ कर्कः कर्के राशिभेदे शुक्लाश्वे दर्पणे घटे । तर्कः कासावितर्कोहकर्मभेदेषु कीर्त्यते ॥ २८ ॥ श्लोको यशसि पद्ये च लोकस्तु भुवने जने ।। स्तोकोऽल्पे चातके तोकमपत्यपुत्रयोरपि ॥ २९ ॥ कोफश्चक्रे वृके ज्येष्ठयां खजूरीठमभेकयोः ॥

विश्वप्रकाशः।
रोको दीप्तौ बिले रोकं नौकाक्रयणभेदयोः ॥ ३० ॥
बेको विदग्धे छेकश्च विश्वस्तमृगपक्षिणोः ॥
रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च ॥ ३१ ॥
काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि ।
शिरोबक्षालिने मानविशेषदीपभेदयोः ॥ ३२ ॥
काका स्यात् काकनासायां काकोलीकाकजन्योः ॥
रक्ते कायां मलप्वाञ्च काकमाच्याश्च कीर्तिता ॥ ३३॥
काकं स्त्रीरतबन्धे स्यात् काकानामपि संहतौ ॥
पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च ॥ ३४ ॥
शाको द्वीपान्तरे शक्तौ नृपद्रुमविशेषयोः॥
शाकं हरितके चापि नाकः स्वर्गान्तरिक्षयोः ॥ ३५ ॥
मूकोऽप्यवाङ्मतौ दीने शूकोऽनुक्रोशशृङ्गयोः ॥
भूकश्छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३६ ॥
एकन्तु केवलं श्रेष्ठ इतरस्मिंश्च वाच्यवत् ॥
शौकं शुकसमूहे च स्त्रीणाश्च करणान्तरे ॥ ३७॥
अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु ॥
नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे ॥ ३८ ॥
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।
वङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे ॥ ३९ ॥
टङ्कः कपित्थभेदे स्यान्मानान्तरखनित्रयोः॥
कोपेऽसिकोशे जवायां टङ्कणे ग्रावदारणे ॥४०॥
रङ्कस्तु कृपणे मल्ले पङ्कः कईमपापयोः ॥
न्यकुर्मगे ऋषौ नाकुर्वामलूरे गिरौ मुनौ ॥ ४१ ॥
शङ्कः कीले शिवेऽस्त्रे च संख्यायादप्रभेदयोः ॥
कल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥ ४२ ॥

६
विश्वप्रकाशः।
वल्कन्तु वल्कले खण्डे शल्कं शकलवल्कयोः॥
शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च ॥ ४३ ॥
निष्कमष्टाधिकस्वर्णशते दीनारकर्षयोः ॥
वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥४४॥
मुष्कोऽण्डकोशे सङ्घाते मुष्को मोक्षे च पादपे ॥
किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सितेऽपि च ॥ ४५ ॥
त्रिकाकूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये ॥
लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ॥ ४६ ॥
शङ्का त्रासे वितर्के च राका तु सरिदन्तरे ॥
कच्छूनवरजकन्यापूर्णेन्दुपूर्णिमासु च ॥४७॥
कत्रिकम् ॥
कनकं चम्पके स्वर्णे किंशुके नागकेशरे ॥
धुत्तूरे काञ्चनारे च कालीयेऽपि कचिन्मतम् ॥ ४८॥
करकस्तु करके स्याद्दाडिमे च कमण्डलौ ॥
पक्षिभेदे करे चापि करका च घनोपले ॥४९॥
नरको निरये दैत्ये सरकः सीधुभाजने ॥
अच्छिन्नाध्वगपतौ च सीधुपाने च सीधुनि ॥ ५० ॥
खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषिके ।
जनकः पितृराजॉयुतकं संशये युगे ॥ ५१ ॥
यौतके चलनाग्रे च स्त्रीवस्त्राञ्चलयुक्तयोः ॥
कृषकः कर्षके फाले रजको धावके शुके ॥ ५२ ॥
मधुको वन्दिभेदे स्याज्ज्येष्ठयाह्वे विहगान्तरे ।
मधुकं मधुपर्यों स्यादनुको निपुणाल्पयोः ॥ ५३ ॥
वसुकः शिवमल्ल्यां स्यादपणे च रोमके ॥
शिशुकः शिशुमारे स्याद्वालकोलूपिनोरपि ॥ ५४॥

विश्वमकारा । ७ क्रमुकः पट्टिकालोधे भद्रे मुस्तकपूगयोः । फले कार्यासिकायाश्च क्रमुको ब्रह्मदारुणि ॥ ५५ ॥ बहुकः कर्कटेऽर्के च दात्यूहे जलखातके ॥ धनिकः साधुधन्याकधवेषु धनिका स्त्रियाम् ॥ ५६ ॥ प्रियकः पीतशाले स्यानीपे चित्रमृगेऽलिनि ॥ कुङ्कुमे च प्रियङ्गौ च पृथुकश्चिपिटे शिशौ ॥ ५७ ॥ यमकं यमजे शब्दालङ्कारे संयमेऽपि च ॥ मशकः कथ्यते क्षुद्ररोगजन्तुविशेषयोः॥५८॥ कुलकन्तु पटोले स्याच्छ्लोकसम्बन्धगुच्छके ॥ कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुके ॥ ५९ ॥ तिलकं चित्रके प्राहुर्ललामे तिलकालके ॥ रोगविद्रुमभेदेषु लोम्नि सौवर्चलेऽपि च ॥ ६० ॥ कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे ॥ कुशिकः स्यान्मुनौ तैलशेषे सर्जाक्षवृक्षयोः ॥ ६१ ॥ चषकन्तु सुरापात्रे मधुमद्यप्रभेदयोः॥ चटकः कलविङ्के स्याचटका तत्स्यपत्ययोः॥ ६२ ।। कटकं वलये सानौ राजधानीनितम्बयोः ॥ सामुद्रलवणे दन्तमण्डले दन्तिनामपि ॥ ६३ ॥ कटुका कटुरोहिण्यां व्योषेऽपि कटुकं स्मृतम् ॥ चुलुकः प्रसुतौ भाण्डभेदे चुलुकवन्मतः ॥ ६४ ॥ पुलकः कृमिभेदे स्याद्गुच्छार्कमणिदोषयोः । गजान्नपिण्डे रोमाञ्चे हरिताले शिलान्तरे ॥६५॥ रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः।। उत्कटे बीजपूरे च सौवर्चलविडङ्गयोः ॥ ६६ ॥ रोचनायाश्च रुचकमश्वाभरणमाल्ययोः॥

9
८
विश्वप्रकाशः।
क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ ६७ ॥
कामुकः कमनेऽशोकपादपे चातिमुक्तके ॥
पातुकः पातयालौ स्यात् प्रपातजलहस्तिनोः ॥ ६८॥
आनकः पटहे भे- मृदङ्गे स्वनदम्बुदे ।
आढ़कं मानभेदे स्यात् तुव-माढ़की मता ॥ ६९ ॥
कारकः कर्तरि प्रोक्तः कांदावपि कारकम् ॥
चारकः पालकेऽश्वादेः स्यात् सञ्चारकबन्धयोः॥७०॥
तारकः कर्णधारे स्यादैत्ये च दृशि तारकम् ॥
कनीनिकायां नक्षत्रे तारकं तारकेति च ॥ ७१ ॥
वारकोऽश्वगतावश्वविशेषे च निषेधके ।
जाहको घोङमार्जारखट्वाकारुण्डिकासु च ॥ ७२ ॥
पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ॥
भल्लातके विडङ्गे च सायकः शरखड्गयोः ॥ ७३ ॥
नायको नेतरि श्रेष्ठे हारमध्यमणावपि ।
प्राणकः सत्त्वजातीये जीवकद्रुमवेलयोः ॥ ७४ ॥
जालकं कोरके मोक्तं कुलाये जालिनीफले ॥
आनाये दम्भभेदे च वस्त्रभेदे च जालिका ॥ ७५ ॥
वालकोऽग्रे शिशौ केशे वाजिवारणबालधौ ॥
अङ्गुलीयकहीवेरपारिहार्येषु वालकम् ॥ ७६ ॥
वार्द्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्माणि ॥
मामकं ममतायुक्ते मातुले मामकः स्मृतः ॥ ७७ ॥
याजको याजिनि ख्यातो याजको राजकुञ्जरे ॥
ग्राहको घातविहगे व्यालानाञ्च ग्रहीतरि ॥ ७८ ॥
दारको भेदकेऽपत्ये रात्रकं पञ्चराके ॥
येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः ॥ ७९ ॥

विश्वप्रकाशः। लासकोऽलसके लास्यकारिण्यपि मयूरके । शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः ॥ ८० ॥ हारकः कितवे चौरे गद्यविज्ञानभेदयोः।। स्थासकाख्या च चार्चिक्ये जलादेरपि बुबुदे ॥ ८१ ॥ द्रावकस्तु शिलाभेदे विदग्धे मोषकेऽपि च ।। भ्रामको जम्बुके धूर्ते सूर्यावर्ताश्मभेदयोः ॥ ८२ ॥ पिण्याकः सिहके हिङ्गो तिलचूर्णेऽपि कुङ्कुमे ॥ पिनाको हरकोदण्डे पांशुवर्षत्रिशूलयोः ॥ ८३ ॥ काकः कुकवाको स्यापीतमुस्तककोकयोः । क्षारकः पक्षिमत्स्यादिपिटके जालकेपि च ॥ ८४ ॥ पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ॥ अक्षादिचालने मूलद्रव्योपचयवेधसोः॥ ८५ ॥ * वराकः सङ्गरे शोच्ये पराको व्रतखड्गयोः ॥ पुलाकस्तुच्छधान्ये स्यात् सझेपे भक्तसिक्थके ॥ ८६ ॥ विपाकः कीर्त्यते स्वादौ परिणामे च दुर्गतौ ॥ विपाकः पचने स्वेदेऽप्यसत्कर्मफलेऽपि च ॥ ८७ ॥ लम्पाको लम्पटे देशे शिम्फाकः शफमूर्खयोः ॥ सम्पाकस्तार्किके धृष्टे सम्पाकश्चतुरङ्गुले ॥ ८८ ॥ मोचकः कदलीशिग्रुनिर्मोचकविरागिषु ।। पेचको गजलाङ्ग्लमूलपर्यन्तचूकयोः ॥ ८९ ॥ मेचको बर्हिचन्द्रे स्यान्मेचकः श्यामलेऽपि च ।। तिमिरे कृष्णवर्णे तु मेचकं वाच्यवद्भवेत् ॥ ९० ॥ सूचकः सीवनद्रव्ये बोधके वृषदंशके ॥ पिशुने शुनि काके च केचकः सेक्तृमेघयोः ॥ ९१ ॥ * अत्रादर्श एकाङ्कस्यानिर्देशात् त्रुटिः संभाव्यते । २ १० विश्वप्रकाशः। लोचको मांसपिण्डेस्यादक्षिण तारे च कङ्गुले । ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ॥ ९२ ॥ निर्बुद्धौ कर्णपूरे च मौा भूश्लथचर्माणि ॥ मोदको हर्षके ज्ञेयः खाद्यभेदे च मोदकम् ॥ ९३ ॥ खोलकः पाकवल्मीकपूगकोषशिरस्त्रके । गोलको विधवापुढे जाराच माणिके गुडे ॥ ९४ ॥ कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ उदपाने चितायाञ्च कूपिकाऽम्भोगतोपले ॥ ९५ ॥ कूलकः कृमिशैले च प्रतीरस्तूपयोरपि । रूपकं नाटके धूर्ते काव्यालङ्करणे विदुः ॥ ९६ ॥ चूतकः कूपकेऽप्याने सूतकं रसजन्मनोः । लूनकः स्यात् पशौ भिन्ने शूचकः पावटे रसे ॥ ९७ ॥ कीचको दैत्यभेदे स्याच्छुष्कवंशे गुमान्तरे । कीटकः कृमिभेदे स्यानिष्ठुरे कीटकोऽन्यवत् ॥ ९८ ॥ जीवकः पीतशाले स्यात् क्षपणे वृद्धजीविनि ॥ सेविनि पाणकेऽप्याहितुण्डिके पादपान्तरे ॥ ९९ ॥ आजीवे जीविकामाहुर्जीवन्त्यामपि कुत्रचित् ।। दीपकं वागलङ्कारे दीपको दीप्तिकारके ॥१०॥ चीरको धिक्रियालेखे पतझ्या चीरिका मता ॥ सेवकस्तु प्रसेवे स्यादनुजीविनि चान्यवत् ॥ १०१॥ अशोको वञ्जुले माने द्रुमनिःशोकयोर्मतः॥ अशोका कटुरोहिण्यामशोकं पादपे स्मृतम् ॥ १०२॥ आलोको दर्शने द्योते आलोको वन्दिभाषणे ॥ पेटकं पुस्तकादीनां मञ्जूषाणां कदम्बके ॥ १०३ ॥ हेरको बुद्धभेदे स्यान्महाकालगणेऽपि च ॥

विश्वप्रकाशः। धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०४ ॥ विवेकः स्याजलद्रोण्यां विचारेऽपि रहस्यपि ॥ गैरिकं कनके धातौ प्रसेकः सेचने च्युतौ ॥ १०५ ॥ वैजिके शिग्रुतैले च हेतौ सद्योऽङ्कुरेऽपि च । कोरकं कुड्मले विद्यात् ककोलकमृणालयोः ॥ १०६ ॥ कौतुकचाभिलाष स्यादुत्सवे नमहर्षयोः ॥ परम्परासमायातमङ्गले च कुतूहले ॥ १०७ ।। विवरे सूत्रगीतादिभोगकालेषु च स्मृतम् ॥ कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः ॥ १०८ ॥ विश्वामित्रे च कोशाग्योलूकयोरपि कौशिकः ॥ कौशिकी चण्डिकायाञ्च नदीभेदे च कौशिकी ॥ १०९ ॥ प्रतीकोऽवयवे प्रोक्तः प्रतिकूलविलोमयोः ।। भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे ॥ ११० ॥ अभीकः कामुके क्रूरे कवौ च भयवर्जिते । वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ॥ १११ ॥ अनीकन्तु प्रिये प्रोक्तं व्यलीको नागरे स्मृतः ।। व्यलीकमप्रियाकार्ये वैलक्ष्येष्वपि पीडने ॥ ११२ ॥ नालीकं शरखण्डेऽब्जे नालीकः शरशल्ययोः ॥ अलीकमप्रिये प्रोक्तमलीकमनृतेऽपि च ॥ ११३ ॥ अनूकन्तु कुले शीलेऽप्यनूको गतजन्मनि ॥ उलूकः कुरविन्दे स्यात् पेचके जम्भमेदिनि ॥ ११४ ॥ शम्बूको गजकुम्भान्ते दैत्यभेदे च घोङ्गके ॥ बन्धूको बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ ११५ ॥ मण्डूकं बन्धुभेदेऽपि दर्दुरे शोणके विदुः ॥ मण्डूकपा मण्डूकी वर्णकश्चारणे स्मृतः ॥ ११६ ।।

१२ विश्वप्रकाशः। विलेपने चन्दने च वर्णकं स्यादथार्भकः ॥ डिम्भे मूर्ख कृशे भ्रूणे वर्तकोऽश्वखुरे खगे ॥ ११७ ॥ पुष्पकं प्रीतिकानेत्ररोगयो रनकङ्कणे ॥ कुबेरस्य विमाने च काशीशे च रसाञ्जने ॥ ११८ ॥ लोहे कांस्ये मृदङ्गारशकट्यामपि पुष्पकम् ॥ पूर्णकः स्वर्णचूडे स्यानासाच्छिन्न्यान्तु पूर्णिका ॥११९।। दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः ॥ पद्मकं पद्मकाष्टेभबिन्दुजालकयोरपि ॥ १२० ।। दीप्यकञ्चाजमोदे स्याद्यवानीवर्हिचूड़योः ।। सस्यकः स्यान्मणौ खड़े नारिकेलस्य चान्तरे ॥ १२१ ॥ रक्तको म्लानबन्धूकरक्तवस्त्रानुरागिषु ॥ चित्रकः स्यात्तव्याघ्रभेदयोर्भेषजान्तरे ॥ १२२ ॥ वृश्चिकस्तु द्रुणे राशौ शूककीटे तथौषधे ॥ अंशुकं मूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ १२३ ॥ अन्तिकं निकटे चुल्ल्यामन्तिका शीतलौषधे ॥ तथा ज्येष्ठभगिन्याञ्च नाट्योक्तौ कीर्त्यतेऽन्तिका ॥१२४॥ स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः॥ पिष्टकस्य विकारे च स्वास्तिको रजतालिके ॥ १२५ ॥ कञ्चुको वारबाणे स्यान्निर्मोके कवचेऽपि ॥ वर्द्धापकगृहीताङ्गास्थितवस्त्रे च चोलके ॥ १२६ ॥ औषधौ कञ्चुकी चाथ वञ्चकः खलधूर्तयोः । जम्बूके गृहबभ्रौ च गुह्यकश्छेकनिघ्नयोः ॥ १२७ ॥ बन्धकः स्याद्विनिमये पुंश्चल्यां स्याच्च बन्धकी । गान्धिकं लेखके माहुः मुगन्धिव्यवहारिणि ॥ १२८ ॥ ग्रन्थिकं पिप्पलीमूले ग्रन्थिकं गुग्गुलुगुमे ।।

विश्वप्रकाशः।
१३
माद्रये च करीरे च दैवज्ञे च प्रकीर्तितम् ॥ १२९ ॥
वाहिको देशभेदेऽश्वे वाहिकं धीरहिङ्गुनोः ॥
अनयोरपि वाह्रीको याज्ञिको याजके कुशे ॥ १३० ॥
वार्षिकं त्रायमाणे स्याद्वर्षाकालभवेऽन्यवत् ॥
खङ्गिको महिषीक्षीरे फेनसौनिकयोरपि ॥ १३१ ॥
आह्निकं दिननिर्व] भोजने नित्यकर्मणि ॥
गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ॥ १३२ ॥
गण्डकः खगिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ॥
अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ १३३ ।।
तण्डकः खञ्जने फेने समासप्रायवाचि च ॥
गृहदारौ तरुस्कन्धमायाबहुलयोरपि ॥ १३४ ॥
कण्टकः क्षुद्रशत्रौ च कर्मस्थानकदोषयोः ।।
रोमाञ्चे च द्रुमाङ्गे च कण्टको मकरेऽपि च ॥ १३५ ॥
तक्षकः फणिभेदे च वर्द्धकिद्रुमभेदयोः ॥
पक्षकः पार्श्वमात्रे च पक्षद्वारे च पक्षकः ॥ १३६ ॥
शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ॥
नन्दको हरिखड़े स्याद्धर्षके कुलपालके ॥ १३७ ॥
शीतकः शीतकाले च मुस्थिते दीर्घसूत्रिणि ॥
उष्णकस्तु निदाघे स्यादातुरे क्षिप्रकारिणि ॥ १३८ ॥
दुच्छको गन्धकुट्यां स्याद्विहाराभ्यवकाशयोः ॥
दुन्दुकः शोणके क्रूरे क्षुल्लकः स्वल्पनीचयोः ॥१३९ ॥
पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ।।
भस्मकं रोगभेदे स्याद्विडङ्गकलधौतयोः ॥ १४० ॥
तुम्बकः स्याद् बहुगुरुधूर्तायस्कान्तकामुके ।
जम्बुकः श्वापदे नीचे प्रतीचीदिक्पतावपि ॥ १४१ ॥

विश्वप्रकाशः। d कार्मुकं वंशधनुषोः कर्मशक्ते तु वाच्यवत् ॥ निर्मोको मोक्षके व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १४२ ॥ रुडुको वाद्यभेदे स्यादात्यूहे मदमत्तके ॥ तुरुष्कः सिहके म्लेच्छजातौ श्रीवासके कचित् ॥ १४३ ॥ इक्ष्वाकुः कटुतुम्ब्याश्च सूर्यवंशनृपेऽपि च ॥ कुण्ठाकुश्च दुराधर्षे दुःशीले च बिलेशये ॥ १४४ ॥ कुषाकुर्मर्कटे भानौ परोत्तापिनि पावके । दाकुर्दृश्चिके व्याघ्र चित्रके च सरीसृपे ॥ १४५ ॥ मृदाकुरनिले वजे दावाग्नौ प्रतिसूर्यके ॥ गोरङः पक्षिजातौ च भवेन्नमकवन्दिनोः ॥ १४६ ॥ त्रिशङ्कः शलभे राजविशेषे वृषदंशके ॥ पल्यको मञ्चपर्यटषीपर्यस्तिकासु च ॥ १४७ ॥ करङ्को मस्तके शस्यनारिकेलफलास्थिनि ॥ कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ १४८ ॥ भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ॥ महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १४९ ॥ वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः॥ मृगाङ्को मारुते चन्द्रे स्तबकः शुभ्रगुच्छयोः॥१५० ॥ आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ । पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ १५१ ॥ अलर्को धवलार्के स्याद्योगोन्मादिनि कुक्कुरे ॥ उदर्क एण्यत्कालीये फले मदनकण्टके ॥ १५२ ॥ सम्पर्कः सरते पृक्तौ वितर्कः संशयोहयोः ॥ अम्बिका पार्वतीपाण्डुजनन्योरपि मातरि ॥ १५३ ॥ अन्धिका कैतवे मिश्रे सर्षप्यामपि कीर्त्यते ॥

विश्वप्रकाशः।
१५
अम्लिका तिन्त्रिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ १५४ ॥
यूयिकाऽम्लानके पुष्पविशेषेऽपि च युथिका ॥
राजिकापि च केदारे राजसर्षपरेखयोः ॥ १५५ ।।
रसिकापि रसालायां काञ्चीरसनयोरपि ।।
रुण्डिका द्वारपिण्ड्याञ्च दूतिकायां रणक्षितौ ॥ १५६ ॥
भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे ।।
कर्णिका करिहस्ताने करमध्यागुलावपि ॥ १५७ ॥
क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे ।।
बीजकोशे सरोजस्य कुट्टन्यामपि कुत्रचित् ॥.१५८ ॥
कार्णका कथ्यतेऽत्यन्तं सूक्ष्मवस्त्वग्निमन्थयोः॥
गणिका यूथिकावेश्यातर्कारीकरिणीषु च ॥ १५९ ॥
गणकोऽपि च दैवज्ञे कारिकानटयोषिति ॥
कृतौ विवरणश्लोके यातनायाश्च कारिका ॥ १६० ।।
नापितादिकशिल्पेऽपि जालिका जालिनीफले ॥
भटानामश्मरचिताङ्गाक्षिण्याश्च जालिका ॥ १६१॥
गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् ॥
जालिकः पुनरुद्दिष्टो ग्रामकूटे च धीवरे ॥ १६२ ॥
नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि ॥
कालिका योगिनीभेदे कार्ये गौवें घनावलौ॥१६३॥
क्रमदेये वस्तुमूल्ये भूसरीनवमेघयोः ॥
पटोलशाखारोमालीमांसीकाकीषु कालिका ॥ १६४॥
तथा वृश्चिकपत्रेऽपि मालिका सरिदन्तरे ॥
अवेये पुष्पमालायां पक्षिमल्ले च मालिका ॥ १६५ ॥
बालिका वालुकाबालापिच्छोलाकर्णभूषणे ॥
तूलिका कथिता लेख्यकूर्षिकातूलशय्ययोः ॥ १६६ ॥

१६ विश्वप्रकाशः। चूलिका नाटकस्याऽङ्गे कर्णमूले च दन्तिनाम् ॥ मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः॥ १६७ ॥ मल्लिको हंसभेदे स्याज्झिल्लिका झिलिकापि च ॥ विलेपने मले झिल्ल्यामातपस्य रुचि स्मृता ॥ १६८ ॥ वालुका सिकतासु स्याद्वालुकन्त्वैलवालुके ॥ नग्निका तु कुमा- स्यादथ क्षपणवन्दिनोः ॥ १६९ ॥ नग्नको धेनुकाधेनौ स्त्रीकरेण्वोः प्रसूतयोः॥ रेणुकापि हरेणौ स्याज्जामदग्निस्त्रियामपि ॥ १७० ॥ जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥ कूर्चिका सूचिकायाञ्च तूलिकायाञ्च कुइमले ॥ १७१ ॥ कवाटकुट्टके क्षीरविकृतावपि कूर्चिका ॥ मातृका धात्रिकामात्रोर्मात्रिकं करणेऽम्बरे ॥ १७२ ॥ पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च ॥ स्यात् पुत्रिका पुत्तलिका दुहित्रोर्यावतूलिके ॥ १७३ ॥ पुत्रकः शरभे धूर्ते शैलवृक्षप्रभेदयोः॥ उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ १७४ ॥ डिम्बिका जलनिम्बे स्यान्मोणके कामुकस्त्रियाम् ॥ कामिका नीलिकायाश्च स्यमीको नाकुक्षयोः॥ १७५ ॥ दूषिका तूलिकायाञ्च दूषिका नेत्रयोर्मले ॥ अम्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥ १७६ ।। तथोद्वाहुलकेपि स्यामिका मधुपध्वनौ ।। स्याच्छलाकापि मदनशारिकाशल्ययोः शला ॥१७७ ॥ छत्रपञ्जरकाष्ठयाञ्च शल्लकी पशुवृक्षयोः॥ नर्तकीलासिकायाञ्च करेण्वामपि नर्तकी ॥ १७८ ॥ नर्तकः केलके पोटगलचारणयो नटे ।।

विश्वप्रकाशः। १७ चुलुकी शिशुमारेऽपि कुण्डीभेदे कुलान्तके ॥ १८०॥ चतुष्की मशके हऱ्यां चतुष्की यष्टिकान्तरे ।। कचतुष्कम् ॥ अलिमका पिके भेके मधुके पद्मकेशरे ॥ १८१ ।। भवेदलिपको भृङ्गे कोकिले रथहिण्डके ।। स्मृतः कुरवकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ।। भवेन्मरुवकः पुष्पविशेषे मदनद्रुमे ।। वलाहको गिरौ मेघे दैत्यनागविशेषयोः ॥ १८३ ॥ भ्रमरको जले भृङ्गे गिरिजे चूर्णकुन्तले ॥ वराटकः स्थूलरज्जौ पद्मबीजे कपईके ॥ १८४ ॥ शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे । गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ।। १८५ ।। आकल्पकस्तमोमोहग्रन्थीपूत्कलिकामुदोः ।। आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ॥ १८६ ॥ प्रचलाकः शराघाते दन्दशूके भुजङ्गमे । वृन्दारकः सुरे श्रेष्ठे मनोज्ञे पुनरन्यवत् ॥ १८७ ॥ नियामकः कर्णधारे पोतवाहे नियन्तरि ॥ विनायकस्तु हेरम्बे तायें विज्ञे जिने गुरौ ॥ १८८॥ निश्चारकः पुरीषस्य क्षये स्वैरे समीरणे ॥ भट्टारकः सुरे राज्ञि कथितश्च तपोधने ॥ १८९ ॥ दासेरकः स्यात् करभे दासीपुत्रे च धीवरे ॥ अङ्गारकं कुजे विद्यादुल्मकांशे कुरुण्टके ॥ १९० ॥ अङ्गारिकेक्षुकाण्डे स्यात् कोरके किंशुकस्य च ॥ दलाढकस्तु कुन्दे स्यात् करिकर्णशिरीषयोः ॥ १९१ ॥ स्वयञ्जाततिले फेने खातके नागकेशरे ॥ ३

१८
विश्वप्रकाशः।
वात्यायां प्रश्निकायाञ्च गैरिके च महत्तरे ॥ १९२ ॥
भवेत् पूर्णानकं पूर्णपात्रे पटहपात्रयोः ॥
प्रकीर्णकं ग्रन्थभेदे चामरे विस्तरे हये ॥ १९३॥
स्मृतः पुष्कलको गन्धमृगे क्षपणकीलयोः॥
कोशातकः कचे ज्यौस्निपटोलीघोषकेषु तु ॥ १९४ ॥
कोशातकी वाणिजके वाडवाग्नौ वणिज्यपि ॥
निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९५॥
स्यादश्मन्तकमुद्धाने मालुकाच्छदनेऽपि च ॥
कदिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः ॥ १९६ ।।
कपईको वराटे स्याज्जटाजूटेऽपि धूर्जटेः॥
गोमेदकं पीतमणौ काकोले पत्रकेऽपि च ॥ १९७ ॥
मण्डोदकश्चित्ररागे भवेदातपणेऽपि च ॥
शतानीको मुनर्भेदे वृद्धे चातखरालिकः ॥१९८ ॥
ग्रामणीभण्डभारावोपधानेषु प्रयुज्यते ॥
लेखनिको लेखहारे यः स्वहस्तं विलेखयेत् ॥ १९९ ॥
लेखेषु परहस्तेन तत्राप्येष प्रदर्शितः ॥
भवेन्मण्डलकं विम्बे कुष्ठभेदे च दर्पणे॥२०० ॥
पिप्पलकं स्तनन्ते मतं सीवनसूत्रके ।।
पिण्डीतकः स्यात्तगरे मदनद्रौ फणिज्यके ॥ २०१॥
त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके ॥
शालाकः शृगालेऽपि सारमेये बलीमुखे ॥ २०२॥
कौलेयकः कुलश्रेष्ठे स्यादिन्द्रमहकामुके ।।
सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २०३ ॥
जैवाहकः कृशे चन्द्रे भैषज्यायुष्मतोरपि ॥
रतार्दिकं स्यादिवसे सुखस्नानेऽष्टमङ्गले ॥ २०४ ॥

विश्वप्रकाशः। वैनाशिकः स्यात् क्षणिके परतन्तोर्णनाभयोः ।। वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च ।। २०५ ॥ वितुन्नकन्तु धन्याके तथा झाण्टामलौषधौ ॥ गोकुणिकः केकरे स्यात् पङ्कस्थे गव्युपेक्षके ।। २०६ ॥ भार्याटिको भवेद्भार्या निजिते हरिणान्तरे ॥ कापटिकोऽन्यमर्मज्ञे छात्रस्याकादशासिनि ॥ २०७ ॥ कौक्कुटिको दाम्भिके स्याददूरप्रेरितेक्षणे ॥ लालाटिकः प्रभो वदर्शिन्याश्लेषणान्तरे ॥ २०८ ॥ कार्याक्षमेऽप्याकलितः शिलाटकः शिलाट्टयोः॥ कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ॥ २०९॥ वरण्टकस्तु मातङ्गवैद्यां यौवनकण्टके ।। संवर्तुलेऽप्याखनिकश्चौरे क्रोडे च मूषके ।। २१० ॥ वैतालिको बोधकरे खेटितालेऽप्युदीरितः ॥ तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ २११ ॥ मयूरकोऽप्यपामार्गे तुच्छके तु मयूरकम् ।। विशेषकः स्यात्तिलके विशेषावाहकेऽपि च ।। २१२ ॥ विदूषकश्चाटुपटौ परनिन्दाकरेऽपि च ॥ भवेत् सैकतिकं मातृयात्रामङ्गलसूत्रयोः ॥ २१३ ॥ तथा सन्यस्तसन्देहजीवक्षेपणकेष्वपि ॥ एडमूकः स्मृतोधीरैः शठे वाक्श्रुतिवर्जिते ॥ २१४ ॥ वर्तरूको नदीभेदे काकनीले जलावटे ॥ काकरूक उलूके स्यानिःस्वे स्त्रीजितदम्भयोः ॥ २१५ ॥ दिगम्बरे भीरुके च दन्दशूकोऽहिरक्षसोः॥ मुष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि ॥ २१६॥ कुकवाकुर्मयूरेऽपि सरटे चरणायुधे ।।

विश्वप्रकाशः।
राधरङ्कस्तु नासीरे शीकरे च धनोपले ॥ २१७॥
कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके ।
सौगन्धिकन्तु कहारे पद्मरागे च कत्तृणे ॥ २१८ ॥
गन्धोपले गान्धिकेपि सौगन्धिक इति ध्वनिः॥
सोमवक्लस्तु धवलखदिरे खट्फलेअपि च ॥ २१९ ॥
भयानकः स्मृतो व्याघ्र सैहिकेयेऽपि भीषणे ।।
पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे ॥ २२० ॥
कोशकारान्तरे व्याने पुण्डरीकोऽग्निदिग्गजे ॥
जर्जरीकं बहुच्छिद्रे जर्जरीको जरातुरे ॥ २२१॥
चर्चरीको महाकाले केशविन्यासशाकयोः॥
तर्जरीकं वहिने स्यात्ततरीकश्च पारगे ॥ २२२ ॥
फर्फरीकश्च पेटे स्यात् फर्फरीकन्तु माईवे ॥
भवेदुत्कलिकोत्कण्ठाहेलासलिलवीचिषु ॥ २२३ ।।
शृगालिका शिवायां स्यात् त्रासादपि पलायने ॥
चण्डालिका किन्नरायामुमायामोषधीभिदि ॥ २२४ ॥
पाञ्चालिका भवेद्वस्त्रपुत्रिकागीतभेदयोः ।।
कनीनिका तारकेऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि ॥२२५॥
भवेद् गुणनिका नृत्ये शून्याङ्के पाठनिश्चितौ ॥
सन्तानिकांऽपि क्षीरादिसारे मकटजालके ॥ २२६ ॥
सन्दशिकाऽपि सूचुटीलोहयन्त्रविशेषयोः॥
सङ्घाटिका तु युग्मे स्यात् कुट्टनीघ्राणयोरपि ॥ २२७ ॥
जीवन्तिकाऽपि जीवाख्यशाकवन्दीगुडूचिषु ॥
विद्याद् बृहन्तिकाभिख्यामूरुवस्त्रप्रभेदयोः ॥ २२८ ॥
वकेरुका बलाकाभिद्वातवेल्लितशाखयोः ॥
स्मृता घरिका क्षुद्रघण्टिकाभ्रष्टधान्ययोः ॥ १२९ ॥

विश्वप्रकाशः।
२१
वाद्यप्रभेदवादित्रे दण्डयोरापगान्तरे ॥
कपञ्चकम् ॥
स्यादाऽच्छुरितकं हासनखाघातप्रभेदयोः॥ २३० ॥
प्रतिसूर्यकमिच्छन्ति कृकलासोपसूर्ययोः ।।
अनेडमूकमिच्छन्ति वाक्यश्रुतिविवर्जिते ॥ २३१ ॥
राजपटस्य काचस्य गुडके काचवर्तिकः॥
गोजागरिकमित्याहुर्मङ्गले कण्टकारके ॥ २३२॥
स्यात्कृमिकण्टकश्चित्राविडङ्गोदुम्बरेषु च ॥
सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ २३३ ।।
कक्षावेक्षकमिच्छन्ति शुद्धान्तोद्यानपालयोः ।
द्वारपाले कवौ षिङ्गे रङ्गाजीविन्यपि कचित् ॥ २३४ ॥
नागचारिक उद्दिष्टो राजकुञ्जरहस्तिपे ।।
गणस्थराजे गरुडे चित्रमेखलके कचित् ॥ २३५ ॥
स्याहीहिराजिकः कामलिकायां चीनधान्यके ॥
शीतचम्पकशब्दोऽयं स्यादातर्पणदीपयोः ॥ २३६ ॥
अन्धौ जलकरङ्कः स्यान्नालिकेरफलेऽम्बुदे ॥
शङ्के जललतायाञ्च कथ्यते जलवापिका ॥ २३७॥
काकचीरादिशफरमत्स्ययोः कटखादकः ॥
खादके काचकलशे बलिपुष्टे च जम्बुके ॥ २३८ ॥
स्याच्चिलनीलिका कण्ठीभेदे खद्योतविद्रुतोः ।।
स्यानवफलिका नव्ये नवजातरजास्त्रियाम् ॥ २३९ ॥
स्याच्छतपर्विकार्वावचयोरुपकारिका ।
विष्टभेदे गृहे राज्ञामुपकामपीष्यते ॥ २४० ॥
स्याद्यवहारिकालोकयात्रा सम्माजनीगुदे ।
स्यादेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २४१ ॥

२२ विश्वप्रकाशः। कषट्कम् ॥ लूतामर्कटकः पुत्र्यां नवमाल्यां प्लवङ्गमे ।। सिन्दूरतिलको नागे सिन्दूरतिलका स्त्रियाम् ॥ २४२ ।। वर्णविलोडकः श्लोके छायाहारिणि कुम्भिले ॥ मातुलपुत्रको धूर्त्तफले स्यान्मातुलात्मजे ॥ २४३ ॥ ग्राममद्गुरिका शृङ्यां ग्रामयुद्धे च कीर्त्यते ॥ स्यान्मदनशलाकाऽपि शा- कामोदयोषधौ ॥ २४४ ॥ इति कान्तवर्गः॥ खैककम् ॥ खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि ॥ पुरे संवेदने क्षेत्रे कुलाहलफले कचित् ॥ १ ॥ खद्विकम् ॥ नखः कररहे शण्डे गन्धद्रव्ये नखं नखी ॥ मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥ २ ॥ सुखं शर्मणि नाके च सुखा पुर्या प्रचेतसः ॥ शङ्खो निध्यन्तरे कम्बुललाटास्थिनखीषु च ॥ ३ ॥ रेखा स्यादल्पके छमिन्याम्भोगोल्लेखयोरपि ॥ लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता ॥ मुखः सम्यग्मनोज्ञेऽपि साम्नः षट्प्रणयेष्वपि ॥ ४ ॥ शिखा शिफायां चूडायां ज्वालायामग्रमात्रके ॥ लागल्याश्चापि शाखायां चूडायाञ्च शिखाण्डनः॥५॥ सखा मित्रे सहाये च शाखापक्षान्तरे भुजे ॥ शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च ॥६॥ प्रेला पर्यटने नृत्ये भवेदश्वगतावपि ॥ 9 विश्वप्रकाशः। २३ खडा गतिविशेषेऽपि शुकशिम्ब्याञ्च नर्त्तने ॥ ७ ॥ खत्रिकम् ॥ त्रिशिखं शेखरे विद्या स्त्रीलेखाराक्षसान्तरे॥ मुमुखं तार्क्ष्यतनये फणिभेदे च पण्डिते ॥८॥ दुर्मुखो नागराजेऽपि मुखरे वानराश्वयोः ॥ गोमुखं कुटिलागारे वाद्यभाण्डे च लेपके ॥ ९ ॥ प्रमुखः प्रथम श्रेष्ठे विशिखस्तोमरे शरे ।। रथ्यां खनियां विशिखा नलिकायामपि कचित् ॥ १०॥ विशाखस्तारके स्कन्दे विशाखाँ कटिल्लकें । मयूखस्त्विट्करज्वाले वैशाखो राधमन्थयोः ॥ ११ ॥ खचतुष्कम् ॥ अग्निमुखो द्विजे देवे भल्लाते चित्रके कचित् ।। पञ्चनखो गजे कर्मे शिलीमुखोऽलिबाणयोः ॥ १२ ॥ भवेद्याघ्रनखः कन्दगन्धद्रव्यविशेषयोः॥ महाशङ्खो नरास्थिन स्यानिधिसङ्ख्यामभेदयोः ॥ १३ ॥ इन्दुलेखाऽमृतासोमलताशशिकलासु च ।। शशिलेखा कलाभागे बाकुचीहत्तभेदयोः॥१४॥ अग्निशिखा लाङ्गलिक्यां कुङ्कुमेऽग्निशिखं मतम् ।। बद्धशिखा जटायां स्याद् बाले बद्धशिखो मतः ॥१५॥ खपञ्चकम् ॥ स्यान्मलिनमुखः प्रेते गोलानले खलेऽनले ॥ अथ शीतमयूखोऽपि शशाङ्कघनसारयोः ॥ १६ ॥ सर्वतोमुखमाख्यातमन्तरिक्षे च पाथसि ॥ विधिक्षेत्रज्ञरुद्रेषु कथितः सर्वतोमुखः ॥१७॥ इति खान्तवर्गः॥ है २४ विश्वप्रकाशः। गैककम् ॥ गौः स्वर्गे वृषभे रश्मौ बजे चन्द्रमसि स्मृतः ॥ अर्जुने नेत्रदिग्वाणभूवाग्वारिषु गौर्मता ॥१॥ गद्विकम् ॥ अगः शैले द्रुमे भानौ नगवत्पवनासने ॥ खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे ॥२॥ भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु । यशोवीर्यप्रयत्नेच्छाश्रीधर्मरविमुक्तिषु ॥३॥ युगं हस्तचतुष्केऽपि रथसीराङ्गयोयुगः॥ युगं कृतादौ युगले वृद्धिनामौषधेऽपि च ॥४॥ मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः ।। याज्ञायां मृगयायाञ्च मृगी स्याद्वनितान्तरे ॥५॥ भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि । भागे रूपार्द्धके प्रोक्तो भागधेयैकदेशयोः ॥ ६॥ नागन्तु सीसके रङ्गे स्त्रीबन्धे करणान्तरे ॥ नागः पनगमातङ्गक्रूरचारिषु तोयदे ॥ ७ ॥ नागकेशरपुन्नागनागदन्तकमुस्तके ॥ देहानिलप्रभेदेऽथ श्रेष्ठे स्यादुत्तरस्थितः ॥ ८॥ रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु । गान्धारादौ नृपे रागस्त्यागो वजनदानयोः ॥९॥ भोगः सुखे धने चाहेः शरीरफणयोर्मतः॥ पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ १० ॥ योगोपूर्वार्थसम्पाप्तौ सङ्गतिध्यानयुक्तिषु ।। वपुस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ ११ ॥ विश्रब्धघातिनि द्रव्योपायसनहनेष्वपि ।।

विश्वप्रकाशः।
२५
कार्मणेऽपि च योगः स्याद्रोगः कुष्ठौषधे गदे ॥ १२ ॥
वेगो जवे प्रवाहे च महाकालफलेऽपि च ॥
पूगस्तु क्रमुके वृन्दे चङ्गः शोभनदक्षयोः ॥ १३ ॥
अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ॥
अङ्गा देशविशेषे स्युरङ्ग सम्वोधनेऽव्ययम् ॥ १४ ॥
इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि ।
टङ्गः कृपाणभेदे स्याज्जङ्घायाश्च खनित्रके ॥ १५ ॥
तुङ्गः पुन्नागनगयोस्तुङ्गः स्यादुन्नतेऽन्यवत् ॥
वर्वरानिशयोस्तुङ्गी तङ्गं सीसकरङ्गयोः ॥ १६ ॥
वङ्गः कार्पासवार्ताकदेशभेदेषु भाषितः ॥
लङ्गः सङ्गे च पिङ्गे च व्यङ्गो हीनाङ्गभेकयोः ॥१७॥
भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये ॥
भङ्गा शणाख्यसस्येऽपि भृङ्गो धूम्याटषिङ्गयो ॥ १८ ॥
मधुव्रतेऽपि भृङ्गन्तु केशराजगुडत्वचोः ॥
रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुन्यपि ॥ १९ ॥
लिङ्ग चिह्नऽनुमानेऽपि साङ्खयोक्तप्रकृतावपि ।
शिवमूर्तिविशेषेऽपि मेहने च प्रचक्षते ॥ २० ॥
शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ।
विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके ॥ २१ ॥
शृङ्गी विषायामृषभे स्वर्णमीनविशेषयोः॥
गाङ्गस्तु गङ्गासम्भूते भीष्मे शक्तिधरेऽपि च ॥ २२ ॥
पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गन्तु बालके ॥
रामटे नाडिकायाञ्च पिङ्गा गोरोचनोमयोः॥ २३ ॥
खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके ।
दुर्गः स्याद् दुर्गमे दुर्गा गौरीनीलकयोरपि ॥ २४ ॥

विश्वप्रकाशः।
सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु ॥
मार्गों मृगमदे मासमभेदेऽन्वेषणाध्वनोः ॥ २५ ॥
शार्ङ्ग कार्मुकमात्रेऽपि विष्णोरपि शरासने ॥
वल्गु छागे मनोज्ञे च वल्गुभाषितमन्यवत् ॥ २६ ॥
फल्गुः प्रोक्तो मले सारे निःसारे फल्गु वाच्यवत् ॥
शुङ्गी वटाम्रातकयोः पंर्कट्यामपि विश्रुता ॥ २७ ॥
गत्रिकम् ॥
पन्नगः पद्मकाष्ठे स्यात् पन्नगोऽपि भुजङ्गमे ।
प्लवगो वानरे भेके सारथौ चोष्णदीधितेः ॥ २८ ॥
जिह्मगो मन्दगे सर्प विहगश्चाग्रजे खगे।
सर्वगं सलिले ख्यातं सर्वगः शङ्करे विभौ ॥ २९ ॥
आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि ॥
आयोगो व्यापृतौ रोधगन्धमाल्योपहारयोः ॥ ३० ॥
अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ॥
आशुगो मारुते वाणेऽप्युद्वेगं क्रमुकीफले ॥ ३१ ॥
उद्वेगोऽप्युबाहुलकोद्वेजनाकोद्गमेऽपि च ॥
सम्भोगः सुरते भोगे सम्भोगो जिनशासने ॥ ३२ ॥
परागः पुष्परजसि धूलीस्नानीययोरपि ॥
गिरिप्रभेदे विख्यातावुपरागे च चन्दने ॥ ३३ ॥
प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः॥
प्रयोगः कार्मणे प्रोक्तः प्रयुक्तौ च निदर्शने ॥ ३४ ॥
वातिगः कथितो भण्ट्यां धातुवादिनि वातिगः॥
तडागस्तु जलाधारविशेषे कटकेऽपि च ॥ ३५ ॥
पुन्नागः पुरुषश्रेष्ठे पाण्डुनागे सितोत्पले ॥
जातीफले च पुन्नागो निसर्गः सर्गशीलयोः ॥३६॥

. विश्वप्रकाशः। २७ विसर्गस्त्यागवदाने विसर्गो मलनिर्गमे ॥ विसर्जनीयेऽप्ययनप्रभेदेपि विभावसोः ॥ ३७॥ उत्सर्गो वजने त्यागे सामान्यन्यायदानयोः॥ त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ॥ ३८॥ वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ॥ तातगुः क्षुद्रताते स्याज्जनयित्रीहितेऽपि च ॥ ३९ ॥ अनङ्गो मदनेऽनङ्गमाकाशमनसोः स्मृतम् ॥ मृदङ्गः पटहे घोषे भुजङ्गः षिङ्गसर्पयोः॥४०॥ पतङ्गः शलभे शालिप्रभेदे विहगे रवौ ॥ पतङ्गं पारदे कापि नरगन्तु वरण्डके ॥ ४१ ।। शेफे नरङ्गमप्याहु निषङ्गः सङ्गतूणयोः ॥ विडङ्गं कृमिघ्ने ख्यातं विडङ्गो नागरेऽन्यवत् ॥ ४२ ॥ कलिङ्गः पूतिकरजे धूम्याटे नीदन्तरे ॥ कलिङ्ग कौटजफले कलिङ्गा योषिति स्मृता ॥४३॥ अपाङ्गमङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ॥ वराङ्ग योनिमातङ्गमस्तकेषु गुडत्वचि ॥ ४४ ॥ पत्राङ्गं पद्मके भूलै पत्राङ्गं रक्तचन्दने । रथाङ्गश्चक्रवाकेपि रथाङ्गश्चक्र इष्यते ॥ ४५ ॥ रक्ताङ्गं विद्रुमे भौमे विद्यात् कम्पिल्लधीरयोः । रक्ताङ्गश्चापि जीवन्त्यां मातङ्गः श्वपचे गजे ॥ ४६ ॥ कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः । कालिङ्गी राजकर्कट्यां धारङ्गः खडतीर्थयोः ॥ ४७ ॥ हेमाङ्गो द्रुहिणे तायें नारङ्गं पिप्पलीरसे ॥ नागरङ्गे विटे जन्तौ यमजेऽपि प्रकीर्तितम् ॥ ४८ ॥ सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे ॥

२८ विश्वप्रकाशः। पक्षभेदे च सारङ्गः सारङ्गः शवलेऽन्यवत् ॥ ४९ ॥ प्रियङ्गुः फलिनीकङ्गुपिप्पलीराजिकामु च ॥ नीलामुः कृमिभेदे स्याद्भमरालीमुसारयोः ॥ ५० ॥ तुरङ्गी चाश्वगन्धायां तुरङ्गश्चित्तवाजिनोः ॥ चक्राही कटुरोहिण्यां चक्राङ्गो मानसौकसि ॥ ५१ ॥ गचतुष्कम् ॥ ईहामृगो के जन्तो प्रभेदे रूपकस्य च ॥ मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ५२ ॥ उपरागः परीवादे राहुग्रस्तार्कचन्द्रयोः । दुर्नये ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोः ॥ ५३ ॥ क्रियावसानसाफल्येऽप्यपवर्गः प्रयुज्यते ॥ उपसर्गः स्मृतो रोगभेदोपप्लवयोरपि ॥ ५४॥ समायोगस्तु संयोगे समवाये प्रयोजने ॥ सम्पयोगं रते विद्यादन्विते कार्मणेऽपि च ॥ ५५ ॥ दीर्घाध्वगः शृङ्खलके लेखहारे तु भेद्यवत् ॥ आभिषङ्गस्तु शपथे स्यादाक्रोशे पराभवे ॥ ५६ ॥ छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः॥ कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये ।। ५७ ॥ गपञ्चकम् ॥ कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् ॥ नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥५८ ॥ इति गान्तवर्गः॥ * पैककम् ॥ घो घर्षरे च घण्टायां काञ्चिकाघातयोरपि ॥

विश्वप्रकाशः। २९ घद्विकम् ॥ अधं तु व्यसने प्रोक्तमधं पातकदुःखयोः॥१॥ अर्घः पूजाविधौ मूल्येऽप्यङ्गिपादद्रुमूलयोः ॥ ओघो वृन्दे पयोवेगे द्रुतनृत्योपदेशयोः ॥२॥ ओघः परम्परायाञ्च मेघः स्यान्मुस्तके घने ॥ लघुर्मनोज्ञनिःसारागुरुषु प्रथितो लघु ॥३॥ कृष्णागुरुणि शीघ्र च स्पृक्कायाश्च स्मृता लघुः ॥ उद्धः स्यात्पावके हस्तपुटके देहजानिले ॥४॥ मोघाऽपि पाटलायां स्यान्मोघो निष्फलहीनयोः॥ मघा माघी च नक्षत्रे भेषजे च यथाक्रमम् ॥ ५ ॥ श्लाघा मता प्रशंसायां परिचाभिलाषयोः ॥ घत्रिकम् ॥ अनघो निर्मलापापमनोज्ञेष्वभिधेयवत् ॥ ६॥ पलिघः काचकलशघटप्राकारगोपुरे ॥ परिघो योगभेदे स्यान्मुद्गरेऽर्गलघातयोः ॥ ७॥ प्रतिघः प्रतिघाते च रोषे च प्रतिघो मतः॥ काचिघः काञ्चने प्रोक्तोऽन्नमण्डे मूषकेऽपि च ॥ ८ ॥ महाघस्तु महामूल्ये तथा लावकपक्षिणि ॥ निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥९॥ उल्लाघस्तु शुचौ हृष्टे दक्षनीरोगयोरपि ॥ सौंघो गुरुवेगार्थसर्वसंहननार्थयोः ॥ अमोघः सफलेऽमोघा विडङ्गाभययोः स्मृता ॥१०॥ इति घान्तवर्गः॥

३० विश्वप्रकाशः। चद्विकम् ॥ कचः केशे गुरोः पुत्रे बन्धे शुष्कत्रणे कचः॥ कचा करिण्यां काचस्तु मनौ शिक्ये मृदन्तरे ॥१॥ नेत्ररोगेऽपि नीचस्तु वामने पामरे स्मृतः ॥ मोचः शोभाअने प्रोक्तो मोचा शाल्मलिरम्भयोः॥२॥ पिचुस्तूले च कर्षे च कुष्ठरोगेऽसुरान्तरे ॥ भैरवस्य प्रभेदेऽपि पिचुः काऽपि प्रकीर्तितः॥३॥ कूर्ची विकत्यने मध्ये भ्रुवोः श्मश्रुणि कैतवे ।। क्रौञ्चः खगनगद्वीपप्रभेदेषु प्रयुज्यते ॥ ४ ॥ चञ्चो नलादिनिर्माणे चश्चा तु तृणपूरुषे ।। चञ्चुः पञ्चाङ्गुले त्रोट्यां गोनाडीकेऽपि पठ्यते ॥ ५॥ शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते ॥ ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि ॥ ६॥ रुचिर्मयूखे शोभायामभिष्वङ्गाभिलाषयोः ॥ वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखेऽपि च ॥७॥ सूची कराद्यभिनये नारीणां करणान्तरे ॥ सूची च सीवनद्रव्ये शचीऽन्द्राण्यां शतावरौ ॥ ८॥ काञ्ची स्यान्मेखलादाम्नि गुञ्जायां नीदन्तरे ॥ वचा स्यादुग्रगन्धायां सारिकायां शुके वचः॥९॥ अर्चा पूजा प्रतिमयोश्चर्चा स्थासकचिन्तयोः ॥ चर्चिकायाश्च रुक् शोभाकिरणेच्छासु चेष्यते ॥ १० ॥ त्वक् चर्मवल्कयो स्त्वाचे न्यङ् नीचे निम्नकार्ययोः । वाग वचने सरस्वत्यां भाषागीभरती यथा ॥ ११ ॥ चत्रिकम् ॥ कवचो गईभाण्डे स्यात् सन्नाहे पटहेऽपि च ॥

विश्वप्रकाशः। विकचः क्षपणे केतुग्रहे च स्फुटितेऽन्यवत् ॥ १२ ॥ क्रकचः करपत्रे स्याद्रन्थिलाख्यद्गुमेऽपि च ॥ सङ्कोचमपि काश्मीरे सङ्कोचो मीनबन्धयोः ॥ १३ ॥ नाराचो लोहबाणे स्यान्नाराचो जलहस्तिनि ।। नाराच्येषणिकायाश्च सम्यक् सम्मतहृद्ययोः ॥ १४ ॥ प्रपञ्चः सञ्चये प्रोक्तो विस्तरे च प्रतारणे ॥ मरीचिः कृपणे दीप्ताषिभेदेऽपि दृश्यते ॥ १५ ॥ मारीचो रक्षसो भेदे ककोले याजके द्विजे ॥ मारीची देवताभेदे नमुचिः स्मरदैत्ययोः ॥ १६ ॥ कनीचिः पुष्पितलता गुञ्जयोः शकटेऽपि च ॥ अवीचिर्नरकानूोर्विपञ्ची केलिवीणयोः ॥१७॥ प्रागुदक्प्रत्यगित्येते दिग्देशे कालतोऽव्ययम् ॥ प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥१८॥ चचतुष्कम् ॥ मलिम्लुचोऽनिले चौरे जलमूचि लौकसि ॥ शृङ्गाटे शिशुमारे च कङ्के शेटिझषेऽपि च ॥ १९ ॥ चपञ्चकम् ॥ रतनारीच इत्येष कथितो रतवल्लभे ॥ कुक्कुरे रतनारीचः सीत्कारे वरयोषिताम् ॥ २० ॥ इति चान्तवर्गः॥ छद्विकम् ॥ अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ॥ आभिमुख्येऽथ कच्छः स्यादनूपे तुनकद्रुमे ॥१॥ नौकान्ते परिधानस्य पश्चादश्चलपल्लवे ॥

३२ विश्वप्रकाशः। कच्छा तु चीरिकायाश्च वाराह्याश्च निगद्यते ॥२॥ स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः॥ पुच्छः पाश्चात्यभागे स्याल्लाघुले पुच्छमिष्यते ॥ ३ ॥ म्लेच्छः पापतरे जातिभेदे स्यादपभाषिणि ॥ पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये ॥४॥ पतौ पूगच्छटाकोशमोचानिजयिनेषु च ॥ छचतुष्कम् ॥ पिच्छपुच्छे महाकच्छः समुद्रे च प्रचेतसि ॥ ५ ॥ इति छान्तवर्गः॥ जैककम् ।। जो जन्यां जातमात्रे च मृत्युञ्जये जनाईने ॥ जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ॥१॥ जद्विकम् ॥ कञ्जः केशे विरिश्चौ च कञ्जः पीयूषपद्मयोः ॥ अजो हरौ हरे कामे विधौ छागे रघोः सुते ॥ २ ॥ व्रजो गोष्ठाध्वन्देषु निजमात्मीयनित्ययोः ध्वज चिह्न पताकायां ध्वजः शौण्डिकशेफयोः॥३॥ खट्वाङ्गे च स्वजं रक्ते स्वजः प्रस्वेदपुत्रयोः ॥ द्विजो विप्रेऽण्डजे दन्ते भार्गीरेणुकयोजिा ॥ ४ ॥ बीजं रेतसि तत्त्वे च हेतावडरकारणे ॥ आधानेऽपि च सज्जः स्यात् सन्नद्धे सम्भृतेऽपि च॥५॥ वाजं घृतेऽपि यज्ञान्ने वाजो निःस्वनपक्षयोः॥ वाजं जले मुनौ वाजो व्याजः शाठ्यापदेशयोः ॥६॥ भुजः पाणौ च बाहौ च कुजः स्यानरकारयोः ॥

विश्वप्रकाशः। ३३ अब्जो धन्वन्तरौ चन्द्रे निचुले शङ्खपद्मयोः॥ ७ ॥ अब्जं स्यादथ कुब्जोऽपि न्युब्जः स्यात् पादपान्तरे ॥ न्युब्जन्तु कर्णरोगे स्यान्न्युजः प्रोक्तः कुशस्त्रुचि ॥ ८॥ अधोमुखे च कुब्जे च न्युब्जो वाच्यवदिष्यते ॥ आजिः समावनौ युद्ध रानिः स्यात् पतिरेफयोः ॥९॥ लाजाः स्युर्घष्टभान्येषु लाजः स्यादातण्डुले ॥ उशीरे लाजमुद्दिष्टं प्रजासन्तानलोकयोः ॥ १० ॥ गुञ्जाऽपि पटहे प्रोक्ता काकचिञ्च्यां कलध्वनौ ॥ गञ्जा खानौ सुरागेहे स्याद्भाण्डागाररीढ़योः ॥ ११ ॥ गञ्जः कुञ्जो निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम् ॥ सञ्जः प्रजापतौ रुद्रे लञ्जः स्यात् पट्टकच्छयोः ॥ १२ ॥ भर्जा बले महोत्साहे खजा मन्थप्रहस्तयोः ॥ पिञ्जा तूले हरिद्रायां पिञ्जस्तु व्याकुलेऽन्यवत् ॥ १३ ॥ पिञ्जो बले चये पिजं रज्जुर्वेण्यां गुणे स्मृता ।। खजूंः कण्वाश्च कीटे च खरीपादपेऽपि च ।। मर्जूः स्याद्रजके शुद्धौ सर्वणिजवियुति ॥ १४ ॥ जत्रिकम् ॥ करजस्तु करछु स्यानखे व्याघ्रनखेपि ॥ कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ॥ १५ ॥ सहजस्तु निसर्गे स्यात् सहोत्थे पुनरन्यवत् ॥ नीरज कमले कुष्ठे जलज शङ्खपद्मयोः ॥ १६ ।। वलज गोक्षुरे क्षेत्रे सस्यसङ्गरयोरपि । वलजा वरयोषायां वसुमत्यामपि स्मृता ॥ १७ ॥ कारुजः शिल्पिनाचित्रे कलमे नागकेशरे॥ स्वयञ्जाततिले फेने वल्मीके गैरिकेऽपि च ॥ १८ ॥ उन .

३४
विश्वप्रकाशः।
बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च ॥
वनजो मुस्तके पझे वनजं वनजो गजे ॥ १९ ॥
वनजा मुद्गपाश्च वणिग् वाणिज्यजीविनि ॥
वणिक् करणभेदे च वणिज्यायामपीष्यते ॥ २० ॥
सामजस्तु गजे प्रोक्तः सामोत्थे पुनरन्यवत् ॥
भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा ॥ २१॥
गिरिजञ्चाभ्रके ख्यातं शिलाजतुसुगन्धयोः॥
लोहेऽपि गिरिजा गौरीमातुलुझ्योरुदीरिता ॥ २२ ॥
कम्बोजो हस्तिभेदे स्याच्छङ्घदेशविशेषयोः॥
अङ्गजं रुधिरेऽनङ्गपुत्रकेशमदेऽङ्गजः ॥ २३ ॥
काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे ।
काम्बोजी मासपाच हिनुपर्ध्यामपि कचित् ॥ २४ ॥
अण्डजः कुकलासे स्यात् खगे मीने भुजङ्गमे ॥
कस्तूर्यामण्डजा प्रोक्ता परञ्जस्तैलयन्त्रके ॥ २५ ॥
फेने च करवाले च परञ्जः क्षुरिकाफले ॥
हिमजाऽपि शचीगौर्योमैनाके हिमजः स्मृतः ॥ २६ ॥
जचतुष्कम् ॥
जघन्यजोऽनुजे शूद्रे भारद्वाजः स्मृतो मुनौ ॥
द्रोणे च वनकार्पास्यां भारद्वाजी च कथ्यते ॥ २७ ॥
भारद्वाजो गुरोः पुत्रे व्याघ्राकाख्यविहङ्गमे ॥
काश्मीरजाख्याऽतिविषा कुष्ठकुङ्कुमपौष्करे ॥ २८ ॥
क्षीराब्धिजं तु सामुद्रलवणे मौक्तिके कचित् ।।
क्षीराब्धिजा श्रियां प्रोक्ता चन्द्रे क्षीराब्धिजो भवेत्॥२९॥
द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि ॥
धर्मराजो यमे बुद्ध धर्मराजो युधिष्ठिरे ॥३०॥

विश्वप्रकाशः। ३५ राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ॥ भृङ्गराजस्तु मधुपे मार्कवे विहगान्तरे ॥ ३१ ॥ ग्रहराजो रवौ चन्द्रेऽप्यहिभुक्केकिताययोः॥ यक्षराट् त्र्यम्बकसखे मल्लानां रङ्गचत्वरे ॥ ३२ ॥ जपञ्चकम् ॥ मुनिभेषजमागस्त्ये हरीतक्याञ्च लङ्घने ॥ वृषभध्वजशब्दोऽसौ शङ्करे चार्हदन्तरे ॥ ३३ ॥ इति जान्तवर्गः॥ झद्विकम् ॥ झञ्झा ध्वनिविशेषेऽपि झञ्झाऽणुजलवर्षणे ॥ झञ्झा वाते तारवायौ नष्टेऽपि परिकीर्तिता ॥ १ ॥ इति झान्तवर्गः॥ जैककम् ॥ ज्ञो विरिञ्चे बुधे सौम्ये अद्विकम् ॥ चाज्ञस्तु जडमूर्खयोः॥ प्रज्ञा बुद्धौ पण्डितेऽपि प्रज्ञो वाच्यवदिष्यते ॥१॥ संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम् ॥ अर्थसूचनिकायाश्च हस्तायैरपि कथ्यते ॥ २ ॥ अत्रिकम् ॥ सर्वज्ञः शङ्करे बुद्धे कृतज्ञः कुक्कुरेऽपि च ॥ दैवज्ञो गणकेऽपि स्यात् क्षेत्रज्ञश्छेक आत्मनि ॥ ३ ॥ इति बान्तवर्गः॥

३६
विश्वप्रकाशः।
टद्विकम् ॥
कटः श्रोणी क्रियाकारे किलिओतिशये शवे ॥
समये गजगण्डे च पिप्पल्याञ्च कटी मता ॥१॥
खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ॥
भटः पामरभेदे च वीरे च प्रगमे भटिः॥२॥
घटः समाधिभेदेभशिरःकूटकुटेषु च ॥
घटा घटनगोष्ठीभघटनासु च दृश्यते ॥ ३ ॥
कुटः कोटे घटे गेहे शिलाकुट्टकपूरुषे ।।
स्याच्छुटी कुम्भदास्याश्च सुरायाचित्रमुस्तके ॥४॥
पटः प्रियालवृक्षे च सुचेले च पुरस्कृतौ ॥
पटः प्रमादवचनदोषयोरप्युदाहृतः॥५॥
वटो गोले गुले भक्ष्ये वटो साम्यवराटयोः ॥
वटः कपर्दे न्यग्रोधे शुम्बरक्तिकयोर्वटी ॥ ६ ॥
विटोऽद्रौ लवणे पिने मूषके खदिरेऽपि च ॥
स्फुटो व्यक्ते प्रफुल्ले च व्याप्ते च कलितेऽन्यवत् ॥ ७॥
निर्भिन्नकर्कटीसस्ये पादस्फोटे स्फुटिर्मता ॥
कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे ॥ ८॥
मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ॥
पुरद्वारे च शंसन्ति लाटो देशेऽशुकेऽपि च ॥९॥
झाटो निकुञ्ज कान्तारे व्रणसम्माजनेऽपि च ॥
वटो वृतौ च मार्गेऽपि वाटी तु गृहनिष्कुटे ॥ १० ॥
चटुश्चाटी पिचण्डे च तिनामासनान्तरे ।।
कटुः सुगन्धे तीक्ष्णे स्यादकार्ये मक्षरे रसे ॥११॥
कटुः प्रियङ्गुकटुका राजिकास्वथ दूषणे ॥
कटु प्रोक्तं पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत् ॥ १२ ॥

विश्वप्रकाशः। पटुः पटोलपत्रेऽपि छत्रालवणयोः पटुः ॥ खेटः कफे ग्रामभेदे निन्दिते वसुनन्दके ॥ १३ ॥ अझै भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे ॥ पट्टः पेषणपाषाणे व्रणादीनाञ्च बन्धने ॥ १४ ॥ चतुष्पथे च राजादिशासनान्तरपीठयोः । पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने ॥ १५ ॥ क्रुष्टश्च रोदने रावे कष्टं गहनकृच्छयोः ॥ इष्टमाशंसिते पूज्यतमे प्रियतमेऽन्यवत् ॥ १६ ॥ इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि ॥ रिष्टं क्षेमाशुभाभावकृपाणेषु प्रचक्ष्यते ॥ १७ ॥ म्लिष्टमव्यक्तवाचि स्यान्म्लिष्टं म्लानेऽन्यवन्मतम् ।। दिष्टं दैवे च काले स्याद्दिष्टः सृष्टं तु निर्मिते ॥ १८ ॥ युक्तनिश्चितयोः प्राज्ये हृष्टो हृषितवन्मतः ॥ रोमाञ्चिते प्रहसिते जातदर्पे च विस्मिते ॥ १९ ॥ व्युष्टं दिने प्रभाते च फले पर्युषितेऽपि च ॥ त्वष्टा शिल्पिनि देवानां तथा वर्द्धकिसूर्ययोः॥ २० ॥ इष्टिः स्यादभिलाषेऽपि सङ्ग्रहश्लोकयागयोः ॥ विष्टिः कर्मकरे भद्रे प्रेषणे वेतनेऽपि च ॥ २१ ॥ दिष्टिः परीमाणमुदोदृष्टिर्विदर्शनाक्षिषु ॥ रिष्टिः खड़े समृद्धौ च कृष्टिः स्यात् कर्षणे बुधे ॥ २२ ॥ सृष्टिः स्वभावे निर्माणे पुष्टिर्टद्धौ च पोषणे ॥ यष्टिारलताशस्त्रभेदयोर्ध्वजदण्डके ॥ २३ ॥ भाण्ड्याञ्च मधुयष्टयाञ्च मुष्टिबद्धकरे पले ॥ व्युष्टिः स्याद् घर्षणे विष्णुक्रान्तास्पर्धाकिरिष्वपि ॥२४॥ जटालग्नकचे मूले प्लक्षमाक्षिकयोर्जटी ॥

३८ विश्वप्रकाशः। सटा जटाकेशरयोः फटा च फणदम्भयोः ॥ २५ ॥ घोण्टा स्याद् बदरे पूगे घटीखण्डे च वाससः॥ परीक्षार्थतुलायाश्च घटः सूरिभिरिष्यते ॥ २६ ॥ पटिः पटविशेषेऽपि द्वाशुले कुष्टिकाद्रुमे ।। स्यात् कोटिरश्रौ चापाग्रे सङ्ख्याभेदप्रकर्षयोः ॥ २७ ॥ स्यात् त्रुटिः संशये लेशे सूक्ष्मैलाकालमानयोः ॥ नोटिः स्यात् कट्फले चञ्च्चा खगमीनविशेषयोः ॥२८॥ खाटिः किणे शवरथे खाटिरेकग्रहे स्मृता ॥ नटी हट्टविलासिन्यां शोणके नर्तके नटः ॥ २९ ॥ टत्रिकम् ॥ अवटः स्यात् खिले गर्ने कूपे कुहकजीविनि ॥ विकटः सुन्दरे प्रोक्तो विशालविकरालयोः ॥ ३० ॥ करटो गजगण्डे स्यात् कुसुम्भे निन्दजीविनि ॥ एकादशाहसार्दैऽपि दुर्दुरूढेऽपि वायसे ॥ ३१ ॥ करटो वाद्यभेदेऽपि निर्दटो निर्दये स्मृतः॥ परापवादसंरक्ते निबटो निष्प्रयोजने ॥ ३२ ॥ चिपिटः खाद्यभेदेऽपि चिपिटो विस्तृतेऽन्यवत् ॥ जकुटो यमले ख्यातो वार्ताककुसुमे शुनि ॥ ३३ ॥ निष्कुटस्तु गृहोद्याने केदारककपाटयोः ॥ हर्मुटः कच्छपे सूर्येऽप्युत्कटस्तीत्रमत्तयोः ॥ ३४ ॥ चर्पटः स्फारविपुलचपेटे पर्पटेऽपि च ॥ पर्पटः पिष्टविकृतौ पर्पटो भेषजान्तरे ॥ ३५ ॥ पिच्चटो नेत्ररोगे स्यात् पिच्चटं त्रपुसीसयोः॥ सम्पाट शिक्यभेदेऽपि धौताञ्जन्यामपि स्मृतम् ।। ३६ ॥ कटः करहाटे स्यात् पङ्कपङ्कारयोरपि । h

विश्वप्रकाशः।
३९
कृपीटमुदरेनीरे कार्पटो जतुकार्यिणोः ॥ ३७॥
कुक्कुटस्ताम्रचूडे स्यात् कुक्कुभेऽग्निकणेऽपि च ॥
निषादशूद्रयोः पुत्रे तालमध्ये तु कुक्कुटम् ॥ ३८ ॥
रसो नस्यप्रभेदे स्यादुच्चटा दम्भचर्चयोः ।
केकटः श्रोणके विष्णावर्गटोऽन्तर्गले गले ॥ ३९ ॥
कर्कटः करणे स्त्रीणां राशिभेदे कुलीरयोः ॥
शाल्मलीफलवालुक्योः कर्कटी कर्कटः खगे॥४०॥
कीकटस्तुरगे निःस्वे देशभेदे मितम्पचे ॥
मोचाटः कृष्णजीरे स्याद्रम्भास्थ्नि मलयोद्भवे ॥४१॥
चक्राटो विषवैद्येऽपि धूर्त्तदीनारयोरपि ॥
वर्णाटो गायने चित्रकारे स्वीकृतजीविनि ॥ ४२ ॥
भावाटो भावके साधुनिवेशे कामुकेपि च ॥
शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ॥ ४३ ॥
द्वोहाटः कथितो गाथामभेदे मृगलुब्धके ।
वैडालवृत्तिकेऽपि स्याद्धाराटश्चातकाश्वयोः ॥४४॥
मोरटस्तु भवेदिक्षुमूलाकोटप्रसूनयोः॥
सप्तरात्रात् परे क्षीरे मूर्विकायान्तु मोरटा ॥ ४५ ॥
वेकटः स्याद्वैकटिके तथा सञ्जातयौवने ॥
वेरटो मिश्रिते नीचे वेरटं बदरीफले ॥ ४६॥
त्रिकूटं सिन्धुलवणे त्रिकूटश्च सुवेलके ॥
भाकूटः कथ्यते मीनभेदे शैलान्तरेऽपि च ॥ ४७ ॥
अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः॥
अरिष्टं सूतिकागारे तक्रे चिह्न शुभाशुभे ॥४८॥
संसृष्टं तद्गते विद्यात् संशुद्धे वसनादिना
अवटुः कथितो घाटा कूपगर्तेषु मूरिभिः॥४९॥

विश्वप्रकाशः।
परीष्टिः परिचर्यायां प्राकाम्येऽपि गवेषणे ॥
वरटा हंसयोषायां गन्धोल्यां वरटाऽपि च ॥ ५० ॥
त्रिपुटा मल्लिकायाञ्च सूक्ष्मैलात्रितोरपि ॥
सतीलके च तीरे च त्रिपुटः समुदाहृतः ॥ ५१ ॥
बर्वटी वीहिभेदे स्याद्रघटीपण्ययोरपि ॥
पर्कटी नूतनफले पूगादेः प्लक्षपादपे ॥ ५२ ॥
मर्कटी वानरीशूकशिम्ब्योः स्यात् करजान्तरे ॥
मर्कटस्तूर्णनाभेऽपि कपो स्त्रीकरणेऽपि च ॥ ५३ ।।
कुरुण्टी दारुपुत्र्याञ्च कुरुण्टो झिण्टिकान्तरे ॥
चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् ॥ ५४॥
टचतुष्कम् ॥
श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः॥
उच्चिङ्गटो मीनभेदे तथा कोपनपूरुषे ॥ ५५ ॥
कुटन्नटस्तु शोणाके कैवत्तौ मुस्तकेऽपि च ॥
स्यात् खअरीटः फलकासिधाराव्रतचारिणोः ॥ ५६ ॥
कुण्डकीटस्तु चार्वाकवचनाभिज्ञपूरुषे ॥
जारजब्राह्मणीपुत्रदासीकामुकयोरपि ॥ ५७ ॥
नारकीटोऽश्मकूटे स्यात् स्वदत्ताश्मविहन्तरि ॥
कार्यकूटस्तु कृपणोन्मत्तानर्थकरेष्वपि ॥५८ ॥
कामकूटस्तु वेश्यायाः प्रियविभ्रमयोर्मतः॥
चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ॥ ५९॥
वर्कराटः कटाक्षे स्यात् तरुणादित्यरोचिषि ॥
स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च ॥ ६० ॥
करहाटोऽब्जकन्दे स्यात् पुष्पवृक्षप्रभेदयोः॥
परपुष्टः परभृते परपुष्टाऽऽपणस्त्रियाम् ॥ ६१ ॥

विश्वप्रकाशः। ४१ प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते ॥ प्रतिकृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् ॥ ६२ ॥ शिपिविष्टस्तु खलतौ शिवे दुश्चणि स्मृतः ॥ चतुःषष्टिर्बट्टचेऽपि चतुःषष्टिकलास्वपि ॥ ६३ ॥ स्याद्गाढमुष्टिः कृपणे कृपाणादिषु चेष्यते ॥ टपञ्चकम् ॥ अथ स्याद्दशनोच्छिष्टो निश्वासाधरचुम्बयोः ॥ ६४ ॥ इति दान्तवर्गः॥ उद्विकम् ॥ कठः स्वर ऋचाम्भेदे स्यात्तदध्येतृवेदिनोः ॥ मुनावपि हठो वारिपां स्यात् प्रसभेऽपि च ॥ १ ॥ शठो मध्यस्थपुरुषे शठो धुत्तूरधूर्तयोः ॥ शठोऽलसे च मूर्खे च कुण्ठो कर्मण्यमूर्खयोः ॥२॥ पाठः स्यात् पठने विद्धका पाठाऽपि पठ्यते ॥ कण्ठो गले संविधाने ध्वनौ मदनपादपे ॥ ३ ॥ वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च ॥ पृष्ठं चरमगात्रे स्यादेहस्यावयवान्तरे ॥ ४ ॥ कोष्ठः कुशूले चात्मीये कुक्षेरन्तहस्य च ॥ कुष्ठो रोगे सुगन्धे च गोष्ठं गोस्थानकेऽपि च ॥५॥ गोष्ठी सभायां संलापे दुष्ठः स्याद् दुर्बलेऽधमे ॥ प्रष्ठः श्रेष्ठाग्रयोरुक्तः प्रष्ठा चाण्डालिकौषधौ ॥ ६॥ ज्येष्ठः श्रेष्ठेतिवृद्धे च ज्येष्ठो मासान्तरेऽपि च ॥ गृहगोधक्षयोज्येष्ठा श्रेष्ठा वैश्रवणे वरे ॥७॥ काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः ॥ ६

४२
विश्वप्रकाशः।
स्यादिशि स्थानमात्रे च काष्ठमाख्यातमिन्धने ॥ ८॥
निष्ठा निष्पत्तिनाशान्तयाच्मानिर्वहणेषु च ॥
षष्ठी षण्णाश्च पूरण्यां कात्यायन्यामपीष्यते ॥ ९॥
उत्रिकम् ॥
कमठः कच्छपे भाण्डभेदे च कमठं मतम् ॥
जरठः कर्कशे पाण्डौ जरठः कठिनेऽन्यवत् ॥ १० ॥
नर्मठश्चूचुके पिङ्गे वैकुण्ठः कृष्णशक्रयोः ॥
श्रीकण्ठः खण्डपरशौ श्रीकण्ठः कुरुजाङ्गले ॥११॥
वरिष्ठः स्यादरुतरे प्रबरे तित्तिरावपि ॥
वरिष्ठं मरिचे ताने सादिष्ठोऽतिद्वार्ययोः ॥१२॥
अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च ॥
अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूतिकयोरपि ॥ १३ ॥
कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ ॥
लधिष्ठोऽत्यल्पके भेलेऽप्यपष्ठुः कालवालयोः ॥ १४ ॥
प्रकोष्ठो विस्तृतकरे भूपकक्षान्तरेऽपि च ॥
कूर्परादधरे चापि प्रतिष्ठा स्थानमात्रके ॥ १५ ॥
गौरवे यागनिष्पत्तिचतुरक्षरपद्ययोः ॥
मकुष्ठो व्रीहिभेदे स्यान्मकुष्ठो मन्थरेऽन्यवत् ॥ १६ ॥
ठचतुष्कम् ॥
दन्तशठः स्याज्जम्बीरे कपित्थे कर्मरङ्गके ॥
नागरनेऽपि चाङ्गे- स्मृता दन्तशठा बुधैः ॥ १७ ॥
सूत्रकण्ठो द्विजे प्रोक्तः खञ्जरीटकपोतयोः ॥
हारिकण्ठः परभृते हारान्वितगलेऽपि च ॥ १८ ॥
कालकण्ठस्तु दात्यूहे कलविङ्के च खञ्जने ॥
सितापाङ्गे हरे पीते सारके नीलकण्ठवत् ॥ १९ ॥

विश्वप्रकाशः
कलकण्ठः कलध्वाने हंसे पारावते पिके ॥
देवकाष्ठन्तु सरलदेवदारुमहीरुहोः॥ २० ॥
कालपृष्ठं भवेत् कर्णचापे कोदण्डमात्रके ॥
कालपृष्ठस्तु सारङ्गविशेषे कङ्कपक्षिणि ॥ २१ ॥
इति ठान्तवर्गः॥
डद्विकम् ॥
गुडः स्यानोलके हस्ते सन्नाहेक्षुविकारयोः॥
गुडा स्नुहीगुडिकयोर्गडो मीनान्तराययोः ॥१॥
जडो मूर्खे हिमग्रस्ते शूकशिम्ब्यां जडा मता ॥
गडुः पुष्टगुडे कुब्जे षडः पेयान्तरे भिदि ॥ २ ॥
व्याडो हिंस्रपशौ सपै ताडस्ताडनघोषयोः ॥
मुष्टिमेयतृणादौ च ताडी तालीदलद्रुमे ॥ ३ ॥
नीडं स्थाने कुलाये च सकारपूर्वकोऽन्तिके ॥
क्रोडः सूकरपातङ्गयोः क्रोडं क्रौडे च वक्षसि ॥४॥
चोडो देशविशेषे स्याचोडः प्रावरणान्तरे ॥
क्ष्वेडः कर्णामये ध्वाने गरले कुटिलेऽपि च ।। ५ ॥
लोहितार्कफले क्ष्वेडं घोषपुष्पे दुरासदे ॥
योधानां सिंहनादे तु वेडा स्याद्वंशशल्यके ॥ ६॥
अण्डं खगादिकोशे स्यान्मुष्के वीर्येऽपि च कचित् ।।
स्यात् खण्डः शकले चेक्षुविकारमणिदोषयोः॥७॥
गण्डः कपोले पिटके योगभेदे च गण्डके ॥
गण्डः प्रवीरे चिह्ने स्यादश्वभूषणबुद्बुदे ॥ ८ ॥
चण्डो दैत्यान्तरे तीव्र चण्डो दासे यमस्य च ।।
चण्डा धनहरीशङ्खपुष्प्योश्चण्डोऽतिकोपने ॥ ९॥

४४ विश्वप्रकाशः। चण्डी कात्यायनीहिंस्राकोपनस्त्रीषु सम्मता ॥ पण्डं पद्मादिसङ्घाते खण्डः स्याद् गोपतावपि ॥ १० ॥ कुण्डं देवजलाधारे पिठरेऽथ कमण्डलौ ॥ कुण्डी कुण्डः स्मृतो जारात् पतिवत्नीसुतेऽपि च ॥११॥ दण्डी यमे मानभेदे लगुड़े दमसैन्ययोः ॥ व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १२ ॥ अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपाश्चिके ।। गौड़ः पामरजातौ च वृद्धनाभौ च वाच्यवत् ॥ १३ ॥ पिण्डं सान्द्रे बलं वोले गृहांशे जीवनायसोः॥ पिण्डो देहे जवापुष्पे निवापे सिहकेऽपि च ॥१४॥ पिण्डी स्यात्तगरेऽलाबुखर्जूरीभेदयोरपि । पण्डः षण्डे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥ मण्डं मस्तुनि शाके च मण्डः स्यात् सारपिच्छयोः॥ एरण्डे भूषणे चाथ मण्डा धात्र्यामुदीरिता ॥ १६ ॥ मुण्डो दैत्यान्तरे राहौ मूर्द्धमुण्डितयोरपि ॥ शौण्डो मत्तेऽपि विख्यातः शौण्डा पिप्पलिचर्ययोः॥१॥ काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः ॥ कुत्सिते रहसि स्तम्बे काण्डं गर्वेऽप्युदाहृतम् ॥ १८॥ भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने । नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि च ॥ १९ ॥ इडा वाचिं गवि क्षोणाविडा च बुधयोषिति ॥ क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ २०॥ चूडा शिखायां वलभौ चूडा बाहुविभूषणे । पीडा कृपाशिरोमालापमईसरलद्रुषु ॥ २१ ॥ नाडी नाले शिरागण्डर्वयोः स्याद्गुणान्तरे ॥

विश्वप्रकाशः। नाडी पक्षणकालेऽपि चर्यायां कुहनस्य च २२ ॥ रण्डा मूषिकपर्णाञ्च रण्डा विधवयोषिति ॥ वण्डाऽपि पांसुलायां स्यादण्डो हस्तादिवजिते ॥ २३ ॥ शुण्डाऽपि जलहस्तिन्यां मदिराकरिहस्तयोः ॥ नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे ॥ २४ ॥ डत्रिकम् ॥ गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् ।। द्राविडः स्याज्जानपदे वेधमुख्यकशङ्खयो ॥ २५ ॥ प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ पिचण्डमुदरे विद्यात् पशोरवयवेऽपि च ॥ २६ ॥ तरण्डो बडिशीसूत्रबद्धवस्तुनि मेलके ॥ वरण्डोऽप्यन्तरावेदौ सन्दोहमुखरोगयोः॥ २७ ॥ पूत्यण्डो गन्धकीटेऽपि तथा गन्धमृगे स्मृतः ॥ मार्तण्डस्तपने क्रोडे शिखण्डो बर्हचूडयोः ॥ २८ ॥ प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ॥ कोदण्डो भूलतायां स्यादेशभेदे च कार्मुके ॥ २९ सरण्डः सरटे धूर्ते सरण्डो भूषणान्तरे ॥ मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३० ॥ करण्डो मधुकोशासिकारण्डवदलाढके ॥ कूष्माण्डो गणभेदे स्याद् भ्रूणे कारुकेऽपि च ॥ ३१ ॥ कूष्माण्डो चौषधीगौर्योर्भेरुण्डो भीमदर्शने ॥ भेरुण्डो देवताभेदे पक्षिणो भिदि चेष्यते ॥ ३२ ॥ वारुण्डः सेकपात्रे स्यान्मले दृकर्णयोरपि ॥ गणिस्थराजे वारुण्डी द्वारपिण्ड्यामुदीरिता ॥ ३३ ॥ तिन्तिडी भूरुहे कालदामे दैत्यान्तरेऽपि च ॥

४६ विश्वप्रकाशः। तिन्तिडस्तिन्तिडी तु स्याच्चिञ्चाक्षाम्लयोरपि ॥ ३४ ॥ विचण्डा सारिकावर्त्तिखड्गधेनुषु कथ्यते ।। वितण्डा वादभेदे स्यात् कच्छीशाके शिलाह्वये ॥ ३५ ॥ वितण्डा करवीर्याश्च निर्गुण्डी सिन्दुवारके ॥ नीलशेफालिकायाञ्च करहाटेऽपि कुत्रचित् ॥ ३६॥ डचतुष्कम् ॥ भवेद्वातथुडो वात्या वामव्योतिशोणिते ॥ पिच्छिलस्फोटिकायाञ्च देवताडस्तु घोषके ॥ ३७॥ सैं हिकेयग्रहे चापि देवताडो हुताशने ॥ चक्रवाडोऽद्रिभेदे स्यान्चक्रवाडन्तु मण्डले ॥ ३८ ॥ जलरुण्डो जलावर्ते पयोरेणौ भुजङ्गमे ॥ अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ३९ ॥ इति डान्तवर्गः॥ ढद्विकम् ॥ दृढः स्थूले भृशे शक्ते प्रगाढेऽपि दृढो मतः ॥ बाढं दृढे प्रतिज्ञायां मूढस्तन्द्रितबालयोः ॥ १ ॥ गृढं रहसि गुह्ये च संवृते पुनरन्यवत् ॥ व्यूढः संहतविन्यस्तपृथुलेषु च भेद्यवत् ॥ २ ॥ षण्डो वर्षधरे क्लीवे गोपतौ बन्ध्यपूरुषे । वोढा स्याद्भारिते सूते सोढा मर्षणशक्तयोः ॥ ३॥ राढा सूक्ष्मे च शोभायां दाढा दंष्ट्राभिलाषयोः । मादिः पत्रादिभङ्गौ स्यान्माहिदैन्यप्रकाशने ॥ ४ ॥ ढत्रिकम् ॥ आषाढो वतिनां दण्डे मासे मलयपर्वते ।।

विश्वप्रकाशः।
४७
वारूढः शम्बलेऽपि स्याद्वस्त्राञ्चलकपाटयोः ॥५॥
पञ्जरे पावके वाथ प्ररूढो जडरे स्मृतः ॥
बद्धमूले विरूढस्तु सञ्जातेऽङ्कुरितेऽन्यवत् ॥ ६ ॥
समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ॥
उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥
निगूढो गर्हिते गुप्ते प्रमीढो मूत्रिते घने ।
संरूढोऽङ्कुरिते प्रौढे प्रगाढो दृढपृच्छयोः ॥ ८ ॥
अध्यूढा कृतसापत्न्यां नार्यामध्यूढ ईश्वरे ॥
ढचतुष्कम् ॥
अध्यारूढं समारूढेऽप्यधिक चाऽप्यऽभेद्यवत् ॥ ९ ॥
इति ढान्तवर्गः॥
णद्विकम् ॥
कणोऽतिमूक्ष्मे धान्यांशे कृष्णाजीरकणादिषु ॥
पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ॥१॥
क्रय्यशाकटिकद्यूतव्यवहारे भृतौ धने ॥
गगः समूहे प्रथमे सङ्ख्यासैन्यप्रभेदयोः ॥ २॥
घ्राणं घाते च नासायां काणः काकैकचक्षुषोः ।
बाणः स्यात् केवले काण्डे काण्डावयवदैत्ययोः ॥३॥
बाणा झिण्ड्यां मता धीरैः शणी मासचतुष्टये ॥
कषणे करपत्रे च शाणी प्रावरणान्तरे ॥४॥
त्राणा तु त्रायमानायां रक्षिते रक्षणेऽपि च ॥
प्राणो हृन्मारुते बाले काव्यजीवेऽनिले बले ॥५॥
वाच्यवत् पूरिते प्राणं प्राणाश्चाऽमुषु कीर्तिताः॥
गुणं चापे च खड़े च द्रुणो दृश्चिकभृङ्गयोः॥६॥

विश्वप्रकाशः। द्रुणी कच्छपिकायाञ्च जलद्रोण्यामुदाहृता ॥ द्रोणः कृपीपतौ कृष्णको स्यादाढकेऽपि च ॥७॥ आढवापचतुष्क(१) च द्रोणी स्यान्नीदन्तरे ।। द्रोणी काष्ठाम्बुवाहिन्यां गवावासभुजि स्थितौ ॥८॥ मोणः शुष्कफले नक्रमाक्षिकाहिकरण्डयोः । कोणो वाद्यप्रभेदे स्यात् कोणोऽस्त्रे लगुडेऽर्कजे ॥९॥ वीणा वाद्यादिनोपायेऽप्येकदेशे गृहस्य च । शोणः श्योणाकनदयोः शोणः कोकनदच्छदे ॥१०॥ लोहिताश्वे कृशानौ च भ्रूणः स्त्रीगर्भडिम्भयोः । तीक्ष्णं सामुद्रलवणे विषलोहाग्निमुष्कके ॥ ११ ॥ तीक्ष्णः सारे च तिग्मात्मत्यागिनोर्वाच्यवद्भवेत् ॥ कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि ॥ १२ ॥ जर्णश्चन्द्रे च वृक्षे च वर्णः काञ्चनयज्ञयोः॥ वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे ॥ १३ ॥ विलेपने कथायाश्च वर्णः स्याद् गुणभेदयोः ।। पर्ण स्यात् किंशुके पत्रे शीर्ण तनुविशीर्णयोः ॥ १४ ॥ पूर्णः शब्दे समग्रे च पूरिते चापि वाच्यवत् ॥ चूर्ण क्षोदे क्षारभेदे चूर्णा निवासयुक्तिषु ॥ १५ ॥ कीर्ण छन्ने परिक्षिप्ते हिंसिते कीर्णमिष्यते॥ जीर्ण पके पुराणे च दीर्ण दारितभीतयोः ॥ १६ ॥ उष्णः स्यादातपे ग्रीष्मे दक्षे कृष्णस्तु केशवे ॥ व्याप्तेऽर्जुने कोकिले च कृष्णं मरिचलोहयोः ॥ १७ ॥ कृष्णा तु द्रौपदीनीलीहारहरासु कथ्यते ॥ वाच्यवन्मेचके कृष्णे जिष्णुः शक्रे धनञ्जये ॥ १८ ॥ १ आदर्श, जाभुजापचतुष्क इति पाठः।

विश्वप्रकाशः।
४९
जित्वरे चाथ विष्णुः स्यात् कृष्णेऽर्के वसुदैवते ॥
गेष्णुर्नटे गायने च देष्णुर्दातरि दुर्दमे ॥ १९ ॥
दृष्णिस्तु यादवे मेषे हाष्णः पाखण्डिचण्डयोः ।
पाणिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः ॥ २० ॥
सेनापृष्ठे च कुम्भ्याञ्च तृष्णा लिप्सापिपासयोः॥
जर्णा मेषादिलोम्नि स्यादन्तरावर्तके ध्रुवोः॥ २१ ॥
मणिर्गोले मेहनाग्रे रत्ने चाजागलस्तने ।
अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः ॥ २२ ॥
कुणिस्तुन्नकक्षेऽपि कुणिः स्यात् कुकरेऽन्यवत् ।।
झूणिः क्रमुकभेदेऽपि तुष्टदैवश्रुतावपि ॥ २३ ॥
श्रेणिः पङ्क्तौ सेकपात्रे श्रेणिः स्यात् कारसंहतौ ॥
वाणिः स्यादतिभारत्योर्वाणिर्मूल्ये बलाहके ॥ २४ ॥
वेणी कचस्य बन्धे स्यानदीनां मेलकेऽपि च ॥
देवताडे च तूणी तु नील्यां सूणौ निषङ्गके ॥ २५ ॥
घृणा जुगुप्साकृपयोः फाणिर्गुडकरम्बयोः ।।
श्राणा यवाग्वां पके तु श्राणं स्थूणाऽयसः स्मृता ॥२६॥
प्रतिमायां गृहस्तम्भे वीणा वल्लकिविद्युतोः ।
वेणुभूपान्तरे वंशे स्थाणुः कीले स्थिरे हरे ॥ २७ ॥
रेणुः पर्पटके धूल्यामल्पेऽणुर्चीहिसूक्ष्मयोः॥
णत्रिकम् ॥
अरुणो व्यक्तरागे स्यात् सन्ध्यारागेऽर्कसारथौ ॥२८॥
निःशब्दे कपिले कुष्ठे द्रव्ये वाच्यवदिष्यते ॥
अरुणाऽतिविशाश्यामामञ्जिष्ठात्रिवृतासु च ॥ २९ ॥
करुणस्तु रसे वृक्षे कृपायां करुणा मता ॥
वरुणः सम्मतो नीरे स्वलॊके परमेष्ठिनि ॥ ३० ॥

विश्वप्रकाश वरुणस्तरभेदेऽप्सु प्रतीचीपतिसूर्ययोः ॥ वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ ॥ ३१ ।। तरुणः स्यानवे यूनि कुब्जपुष्पोरुबूकयोः ॥ चरणं वहचादौ स्यान्मूले गोत्रे पदेऽपि च ॥ ३२ ॥ चरणं भ्रमणेऽत्तौ च चरणं रासमध्वनौ ।। लवणो रसरक्षोऽब्धिभेदेषु लवणान्विते ॥ ३३ ॥ करणं साधनक्षेत्रकाचकायस्थकर्मसु । मीताङ्गहारसंवेशक्रियाभेदेन्द्रियेषु च ॥ ३४ ॥ बालवादौ च करणः स्मृतः शूद्राविशोः सुते ॥ जरणं जीरकाजाजिहिङ्गुसौवर्चलेष्वपि ॥ ३५ ॥ धरणं मानभेदेऽपि धारणे धरणीभुवि । रमणं स्यात् पटोलस्य मूलेऽपि रमणः प्रिये ॥ ३६॥ शरणं वधराक्षित्रोः शरणं रक्षणे गृहे ।। कत्सृणं तृणभेदेऽपि वारिपाञ्च कत्तृणम् ॥ ३७ ।। यन्त्रणं स्याभियमने बन्धने रक्षणेऽपि च ॥ प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ३८ ॥ द्रुघणो मुद्गरेऽपि स्याद् द्रुघणा च परश्वधे ॥ प्रवणः क्रमनिम्नोामायत्ते च चतुष्पथे ॥ ३९ ॥ प्रगुणेऽपि क्षणेऽपि स्यादीरणं शून्य ऊपरे ।। ग्रहणं तूपलब्धौ स्यादादरे ग्रहणं करे ॥४०॥ ग्रहोपरागस्वीकारबन्दिषु ग्रहणं मतम् ।। ईक्षणं दर्शने दृष्टौ प्रोक्षणं सेचने वधे ॥४१॥ लक्षणं नाम्नि चिह्वे च सौमित्रे चाऽपि लक्षणः ॥ लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥ ४२ ॥ लक्ष्मणौषधिसारस्योः सश्रीके चाभिधेयवत् ॥

विश्वप्रकाशः।
दक्षिणः सरलावामपरच्छन्दानुवर्तिषु ॥ ४३ ॥
वाच्यवदाक्षिणावाची यज्ञदानप्रतिष्ठयोः ॥
द्रविणं काञ्चने वित्ते द्रविणञ्च पराक्रमे ॥४४॥
मसृणः कर्कशे स्निग्धे क्षुमायां ममृणा भवेत् ॥
ऊषणं मरिचे ख्यातं कणायामूषणा भवेत् ॥ ४५ ॥
धिषणस्त्रिदशाचार्ये धिषणा धियि सम्मता ॥
धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी ॥ ४६॥
भीषणो दारुणे रुद्रे भीषणं सल्लकीरसे ॥
हरणं यौतुकद्रव्ये भुजेऽपि हरणं हृतौ ॥ ४७ ॥
हिरणं रेतसि स्वर्णे वराटे च हिरण्यवत् ॥
हरिणः स्यात् कुरङ्गेऽपि हरिणः पाण्डुरेऽन्यवत् ॥ ४८ ॥
हरिणी हरितायाश्च चारुस्त्रीवृत्तभेदयोः ॥
सुवर्णप्रतिमायाश्च हर्षणोऽक्षिरुगन्तरे ॥ ४९ ।।
हर्षके योगभेदे च श्राद्धदेवेऽपि कचित् ॥
श्रवणं स्याद् वृक्षभेदे श्रवणं श्रुतिकर्णयोः ॥५०॥
श्रावणो मासपापण्डे दध्याल्यां श्रावणी मता ॥
श्रमणो यतिभेदेऽपि श्रमणो निन्धजीविनि ॥ ५१ ॥
सुदर्शनामुण्डतिकामांसीषु श्रमणां विदुः ॥
कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च ॥ ५२ ।।
कृपाणोऽसौ कृपाणी तु छुरिकायां च कर्तरौ ।
सिंहाणं काचपात्रे च लोहनासिकयोर्मले ॥ ५३॥
पुराणं वाच्यवत् प्रत्ने पुराणं पञ्चलक्षणे ॥
प्रमाणं नित्यमर्यादासत्यवादिप्रमातृषु ॥ ५४ ॥
एकतायामियत्तायां हेतुशास्त्रेषु च स्मृतम् ॥
निर्याणं वानरापाङ्गदेशे मोक्षे च निर्गमे ॥ ५५ ॥

विश्वप्रकाशः। निर्माणं निर्मिती सारे निर्माणञ्च समञ्जसे ॥ निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने ॥ ५६ ॥ अपवर्गे च कुर्वाणे भृत्यकारकयोरपि ॥ दौर्वाणं नष्टपणे स्याद् दूर्वायाः स्वरसेऽपि च ॥ ५७ ॥ वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ॥ कारणं करणे हेतुबन्धयोरपि कारणम् ॥ ५८ ॥ कारणा यातनायाञ्च कृपणः कुत्सिते कुमौ । कार्मणं मन्त्रतन्त्रादियोजने कर्मकारके ॥ ५९ ॥ मार्गणं प्रार्थनेऽन्वेषे मार्गणो याचके सरे ॥ मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ॥ ६० ॥ उद्देशे नारिकेले च धर्मणोऽहिशुभेदयोः॥ कोङ्कणो देशभेदे स्याच्छस्त्रभेदे तु कोङ्कणम् ॥ ६१॥ कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि ॥ पूरणः पूरके पिष्टभेदे पूरणमिष्यते ॥ ६२ ॥ पटारम्भकसूत्रे च शाल्मली पूरणी मता ॥ सुषेणः करमर्देऽपि विष्णुसुग्रीववैद्ययोः ।। ६३ ॥ रोषणः पारदे हेमघर्षणोपलयोस्तथा ।। रोषणेऽपि विषाणन्तु क्रोडद्विरददन्तयोः ॥ ६४ ॥ पशोः शृङ्गे विषाणा तु मेषशृङ्गयां प्रकीर्तिता ॥ करेणुर्गजहस्तिन्योः कर्णिकारेऽपि च कचित् ॥ ६५ ॥ हरेणुस्तु सतीले स्याद्रेणुकाकुलयोषितोः ॥ सुवर्ण स्वर्णमात्रे स्यात् सुवर्ण कर्षबिस्तयोः ॥ ६६ ॥ सुवर्णश्च सुवर्णालुकृष्णागुरुमखान्तरे । सुपर्णस्ताम्रचूडे स्याद्रुडे कृतमालके ॥ ६७ ॥ सुपर्णा. कमलिन्याञ्च सुपर्णा तार्क्ष्यमातरि ॥

विश्वप्रकाशः। श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ॥ ६८ ॥ दुर्वर्णश्च कुवर्णे स्याद्वास्तुके रजतेऽपि च ॥ पत्रोण धौतकोषेये पत्रोर्णः शोणकेऽपि च ॥ ६९ ॥ सङ्कीर्ण निचिते प्रोक्तमशुद्धे चापि भेद्यवत् ॥. ' गोकर्णोऽश्वतरे सर्प सारङ्गे प्रमथान्तरे ॥ ७० ॥ अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकोषधौ ॥ अरणिर्वह्रिमन्थेऽपि स्मृतो निर्मन्थ्यदारुणि ।। ७१ ॥ तरणिस्तरणे भानौ कुमार्योषधिनौकयोः विपणिः पण्यवीथ्याश्च भवेदापणपण्ययोः ॥ ७२ ॥ प्रवेणिर्वेणिकुथयोः सरणिः पतिवर्त्मनोः॥ निःश्रोणिस्त्वधिरोहिण्यां खजूंरीपादपेऽपि च ॥७३ ॥ भरणी शोणके ऋक्षे भरणं वेतने भृतौ ॥ भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ।। ७४ ॥ ग्रामणी गिके पत्यो प्रधाने नापितेऽपि च ॥ ग्रामणी नीलिकायाञ्च ग्रामेयीपण्ययोषितोः॥ ७५ ॥ धारणी नाडिकायां स्याद्बुद्धोक्तमन्त्रभिद्यपि ॥ इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ७६ ॥ एषणी व्रणमार्गानुसारिण्याश्च तुलाभिदि ॥ क्षेपणी जालभेदे स्यानोकादण्डे च कथ्यते ॥ ७७॥ वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि ॥ सारणी स्वल्पसरिते प्रसारण्याञ्च सारणी ॥ ७८ ॥ सारणः स्यादतीसारे सचिवे रावणस्य च ।। काकिणी पणतुर्याशे' मानदण्डे च काकिणी ॥ ७९ ॥ कृष्णलैकवराट्योः स्यादुदमानांशकेऽपि च ॥ ब्राह्मणी पञ्जिकास्पृक्काद्विजपत्नीषु विश्रुता ॥ ८० ॥ .

विश्वप्रकाशः।
विप्रे तु ब्राह्मणो वेदे ब्राह्मणं द्विजसंहतौ ॥
पक्षिणी पूर्णिमायां स्यात् पक्षिणी शाकिनीभिदि ॥८१॥
आगामिवर्तमानायुक्तायां निशि पक्षिणी ॥
रोहिणी कटुरोहिण्यां रोहिणी लोहितागवोः ॥ ८२ ॥
कण्ठरोगान्तरेभे च सोमवल्के च रोहिणी ॥
णचतुष्कम् ॥
आतर्पणश्च सौहित्ये विद्यादालिम्पनेऽपि च ॥ ८३ ॥
आथर्वणोऽप्यथर्वज्ञे ब्राह्मणेऽपि पुरोधसि ॥
आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ८४ ॥
रक्तरेणुस्तु सिन्दूरे पलाशकालिकोद्गमे ।
उत्क्षेपणन्तु व्यजने धान्यमईनवस्तुनि ॥ ८५ ॥
उद्धरणं समुद्धारवान्तानोन्मूलनेष्वपि ॥
निगरणं भोजनेऽपि गले निगरणो मतः ॥ ८६ ॥
निःशरणं स्यान्मरणोपायनिर्याणमुक्तिषु ॥
संसरणं रणारम्भे पुरनिर्गमगोपुरे ॥ ८७ ॥
घण्टापथे च संसारेऽप्यसम्बाधचमूगतौ ॥
निस्तरणं स्यादुपाये निस्तारे निर्गमेऽपि च ॥ ८८ ॥
विदारणं रणे भेदे विडम्बे च विदारणम् ॥
निरूपणं स्यादालोके विचारे च निदर्शने ॥ ८९ ॥
नारायणोऽच्युतेऽभीरुगौर्योारायणीं विदुः॥
परायणमभीष्टे स्यात् तत्पराश्रययोरपि ।। ९० ॥
पारायणं समासङ्गे कात्स्न्र्ये पारगतावपि ॥
कार्षापणः कार्षिके स्यात् पणषोडशकेऽपि च ॥ ९१ ॥
कामगुणः स्मृतो रागे विषयाभोगयोरपि ॥
परीरणः स्यात् कमठे दण्डे च पट्टशाटके ॥ ९२ ॥

विश्वप्रकाशः।
५५
समीरणः स्यात् पवने पथिके च फणिज्झके ।।
पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले ॥ ९३ ।।
पर्णवन्तरसेऽपि स्यात् पर्वरीणश्च पर्वणिं ॥
तण्डरीणः कीटमात्रे वर्वरे तण्डुलोदके ॥ ९४ ॥
मीनाम्रीणो दर्दुराने मीनाम्रीणश्व खञ्जने ॥
प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् ।। ९५ ।।
जुहुराणोऽनलेऽध्वयौं रेरिहाणो हरेऽम्बरे ।।
देवमणिः शिवेऽश्वस्य कण्ठावर्ते च कौस्तुभे ॥ ९६ ॥
चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च ।।
परवाणिः स्मृतो धर्माध्यक्षवत्सरयोरपि ॥ ९७ ॥
शरवाणिः शरमुख पाण्डकये शरजीविनि ।।
लम्बकर्णः स्मृतः कोलपादपे छगलेऽपि च ।। ९८ ॥
रागचूर्णः स्मरे दन्तधावने रक्तवालुके ।।
हस्तिकर्णोऽरुबूके स्यात् पलाशगणभेदयोः ॥ ९९ ॥
चीर्णपर्णस्तु निम्बे स्यात् खजूरीभूरुहेऽपि च ॥
तैलपर्णी मलयजे श्रीवासे सिहकेऽपि च ॥१०० ॥
पीलुपी तु बिम्बायां मूर्वायामोषधीभिदि ॥
दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु च ॥ १०१ ॥
पुष्करिणी सरोजिन्यां हस्तिन्याञ्च जलाशये ।।
शिखरिणी स्याद्रोमाल्यां रसालावृत्तभेदयोः ॥१०२॥
स्त्रीरत्ने मल्लिकायाञ्च प्रोक्ता शिखरिणी बुधैः ।।
अङ्गारिणी हसन्त्याच भास्करत्यक्तदिश्यपि ॥१०३ ॥
भवेद्वैतरणी नद्यां प्रेतानां यातुमातरि ॥
णपञ्चकम् ॥
अवग्रहणमित्याहुः प्रतिरोधेऽप्यनादरे ॥१०४ ॥

विश्वप्रकाशः।
प्रविदारणमाख्यातं सङ्गरे च विदारणे ॥
अवतारणं भूतादिग्रहे वस्त्राश्चलेऽर्चने ॥ १०५ ॥
रोमहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके ॥
परिभाषणमालापे नियमे परिभाषणम् ॥ १०६ ॥
निन्दोपालम्भवचने परिभाषणमिष्यते ॥
मत्तवारणमिच्छन्ति दानक्लिन्नकटद्विपे ॥ १०७ ॥
महापासादवीथीनां वरण्डे चाप्यपाश्रये ॥
वातरायणमुन्मत्ते निष्प्रयोजनपूरुषे ॥ १०८॥
काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥
मण्डूकपर्णोऽरलुके शोणके च कपीतने ॥ १०९॥
मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्वकासु च ॥
णषट्कम् ॥
दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते ॥
यौवनलक्षणाऽभिख्यालावण्ये च पयोधरे ॥ ११० ॥
इति णान्तवर्गः॥
-
तद्विकम् ॥
ततं विततवद्ध्याप्ते विस्तृते वाच्यवन्मतम् ॥
ततं वीणादिवाये च पवमाने ततः पुनः ॥१॥
इतं गते स्याद्विज्ञाते रतं सुरतगुह्ययोः ॥
इतमुञ्छशिले तोये दी सत्येभिपूजिते ॥२॥
कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले ॥
घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम् ॥ ३॥
मृतं स्याद्याचिते मृत्यौ मृत्युमत्यभिधेयवत् ॥
गतन्तु यात्राधिगते मतं पूजितसन्धिते ॥ ४ ॥

विश्वप्रकाशः। ५७ धुतं त्यक्ते विधूते च धूतं कम्पितभत्सिते ॥ पूतं पवित्रे रटिते पूतञ्च बहुलीकृते ॥ ५ ॥ श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः ॥ नतं स्याद्वाच्यवन्नने नतस्तगरपादपे ॥६॥ द्रुतं शीघ्र विलीने च विद्रावे चाभिधेयवत् ।। युतं हस्तचतुष्के स्यायुतं युक्ते युतं पृथक् ॥ ७॥ स्थितं भवेद्गत्यभावे सुप्रतिज्ञे सुनिश्चिते ॥ सितः समाप्ते धवले निबद्धज्ञातयोरपि ॥ ८ ॥ शितं शातश्च निशिते कशे शान्तश्च शर्मणि ॥ हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः ॥ ९॥ प्लुतं तुरङ्गमगतौ प्लुतमाहुस्त्रिमात्रके ॥ प्रोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते ॥ १० ॥ सूतस्तु सारथौ तक्ष्णि प्रसूते प्रेरितेऽपि च ॥ क्षत्रियाद् ब्राह्मणीजेऽपि सूतः पारदबन्दिनोः ॥ ११ ॥ श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः ॥ श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च ॥१२॥ सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु । सती पतीव्रतागौर्योरेतः कवूर आगते ॥ १३ ॥ तातोऽनुकम्प्ये जनके जातं जात्योघजन्मनु । पातः स्यात् पतने त्राते घातः काण्डप्रहारयोः ॥ १४ ॥ पोतः शिशौ वहिने च लते श्मश्रुणि चोरिते ॥ गीतन्तु शब्दिते गाने प्रीतं हृषितनर्मणोः ॥ १५ ॥ वीतश्चासारहस्त्यऽश्वे वीतमङ्कुशकर्मणि ॥ भीतं भये भययुते वाच्यवत् परिकीर्तितम् ॥ १६ ॥ भूतं मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ॥

५८
विश्वप्रकाशः।
भूतो देवल के प्राप्तत्तयोरभिधेयवत् ॥ १७ ॥
केतुश्रुतौ पताकायां ग्रहोत्पातारिलक्ष्मसु ।
सेतुरालौ च वरुणे क्रतुर्यज्ञे मुनर्भिदि ॥ १८ ॥
धातुः स्यादश्मविकृतौ विषयष्विन्द्रियेषु च ॥
भूवादिरसरक्तादिश्लेष्मादिवसुधादिषु ॥ १९ ॥
वर्त्तते धातुशब्दोऽयं विशेषादस्थिन गैरिके ॥
ऋतुः स्त्रीकुसुमे मासि वसन्तादिषु धारयोः ॥ २० ॥
गातुः पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च ॥
मन्तुः स्यादपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ २१ ॥
धूर्तः स्यात् खण्डलवणे खलधुत्तूरयोरपि ॥
पूर्तस्तु पूरिते छन्ने पूर्व खातादिकर्मणि ॥ २२ ॥
मृत मूर्तिमित प्रोक्तं मूर्छाले कठिनेऽपि च ॥
गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे ॥ २३ ॥
आप्तः सभ्ये च लब्धे च प्राप्तं वित्ते समञ्जसे ॥
व्याप्तं ख्याते समाक्रान्ते गुप्तं रक्षितगूढयोः ॥ २४ ॥
लिप्तं विषाप्ते गुप्ते च वाच्यवत् स्याद्विलेपिते ॥
दीप्तं निर्भासिते दग्धे वदन्ति ज्वलितेऽपि च ॥ २५ ॥
अस्तं क्षिप्ते गते प्रोक्तमस्तः पश्चिमभूधरे ॥
अस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ २६ ॥
पुस्तन्तु पुस्तके लेख्यकर्मविज्ञानयोरपि ॥
शस्तं क्षेमे प्रशस्ते च व्यस्तं व्याप्ते च सङ्घले ॥२७॥
हस्तो नक्षत्रभेदे स्यात् करेभकरयोरपि ॥
कचात्परः कलापार्थे सप्रकोष्ठे तताङ्गुलौ॥ २८ ॥
वित्तं ख्याते धने लब्धे वित्तं ज्ञाते विचारिते ॥
कृत्तन्तु चेष्टिते छिन्ने दत्तं विश्राणितेर्चिते ॥ २९ ॥

विश्वप्रकाशः। .. वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते ॥ वाच्यवद्वर्त्तते वृत्तं चरित्रच्छन्दसोरपि ॥ ३० ॥ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे ॥ वृन्तं प्रसवबन्धे स्याटधाराकुचाग्रयोः ॥ ३१ ॥ दन्तो निकुञ्ज दशने दन्तः सानुनि कथ्यते ॥ दन्ती स्यादोषधीभेदे कान्तचेतसि गहरे ॥ ३२ ॥ कुन्तः प्राप्ते चण्डभावे क्षुद्रजन्तौ गवेधुके ॥ कुन्ती पाण्डुप्रियायाश्च शल्लक्यां गुग्गुलुद्रुमे ॥ ३३ ॥ कान्तोऽश्मनि गृहे चारौ कान्तानुफलिनीस्त्रियोः ।। शान्तो रसविशेषे स्यादतिभुक्तकदान्तयोः ॥ ३४ ॥ उक्तमेकाक्षरं छन्दस्युक्तं स्याद्भाषितेऽपि च ॥ शुक्तोऽम्ले परुषे पूते व्यक्तं स्फुटमनीषिणोः ॥ ३५ ॥ तिक्तो रसे मुगन्धे च तिक्तं पर्पटके स्मृतम् ॥ तिक्ता तु कटुरोहिण्यां रिक्तं काननशून्ययोः ॥ ३६ ॥ रक्तं स्यात् कुङ्कुमे ताने प्रचीनामलकेऽसृजि ॥ अनुरागिणि नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ३७॥ यन्ता हस्तिपके सूते वप्ता पितरि पावके । त्रेता युगेऽग्नित्रितये भर्ता स्वामिनि धारके ॥ ३८ ॥ शास्ता च शासके बुद्धे वक्ता वाग्मिनि पण्डिते ॥ मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्ते च मोचने ॥ ३९ ॥ क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ ।। भुजिष्यतनये क्षत्ता नियुक्ते च प्रजासृजि ॥ ४०॥ धाता हिरण्यगर्भे स्यात् पालके त्वभिधेयवत् ॥ माता कात्याप्रमूगोषु ब्रह्मण्याद्यास्तु मातरः॥ ४१ ॥ लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु ।

६०
विश्वप्रकाशः।
लताकस्तूरिकायाञ्च माधवीदूर्वयोरपि ॥ ४२ ॥
लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ॥
पीता स्मृता हरिद्रायां पीतं स्यागौरपीतयोः॥ ४३ ॥
सीता रामकलत्रे स्यात् तथा लागलपद्धतौ ।।
नभोनद्याश्च शीतस्तु वानीरबहुवारयोः ॥ ४४॥
शीतं हिमगुणे प्रोक्तं वाच्यवच्छीतलेऽलसे ॥
चिता च्छन्ने चुल्लिकायां चिता संहतिचिन्तयोः॥ ४५ ॥
वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्यायुदन्तयोः ॥
वृत्तिमन्नीरजोर्वार्ता वार्त्तमारोग्यफल्गुनोः ॥ ४६ ॥
गतिर्मार्गे दशायांश्च ज्ञाने यात्राभ्युपाययोः॥
नाडीव्रणसरण्याञ्च मति-च्छास्मृतिष्वपि ॥ ४७ ।।
चितिः समूहे चिन्तायां दितिः स्यात् खण्डने दितौ ॥
पतिः प्रभौ गतौ मूले दृतिश्चर्मपुटे झषे ॥ ४८॥
यतिर्निकारे यतिनि पाठच्छेदक्रमे यतिः ॥
शितिः कृष्णे शितिर्भूर्जे भृतिर्भरणमूल्ययोः ॥ ४९ ॥
क्षितिर्निवासे मेदिन्यां स्थानमात्रेऽपि च क्षितिः ॥
धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु ॥ ५० ॥
श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्तायां श्रोत्रकर्मणि ॥
स्मृतिरिच्छाधियोधर्मसंहितायामपि स्मृतिः ॥ ५१ ॥
रतिः स्मरप्रियायाश्च रागे च रमणे रतिः ॥
ऋतिर्गतौ जुगुप्सायां स्पर्दामङ्गलयोरपि ॥ ५२ ॥
वृत्तिः स्यादरणे वाटे मृतिर्गगनमार्गयोः ॥
मितिर्मानेऽप्यवच्छेदे कृतिः करणहिंसयोः ॥ ५३ ।।
ईतिः प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च ॥
वीतिर्गतौ च दीप्तौ च धावने प्रजनेशने ॥ ५४॥

गीतिश्छन्दसि गाने च नीतिस्तु पापणे नये ॥ रीतिः प्रसारे स्यन्दे च लोहकिट्टारकूटयोः ॥ ५५ ॥ पीतिः पाने तुरङ्गे च भीतिः साध्वसकम्पयोः । प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥५६ ॥ भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि ॥ स्यूतिः सीवनसन्तत्योरूतिः स्यूतौ च रक्षणे ॥ ५७ ॥ हेतिः स्यादायुधे ज्वाले हेतिस्तरणितेजसि ॥ वृत्तिर्विवरणे जीव्ये कौशिक्यादिषु चेष्यते ॥ ५८ ॥ कृत्तिश्चर्मत्वचो भूजे कृत्तिकायाश्च कीर्त्तिता ॥ पत्तिः पदातौ गमने वीरसैन्यप्रभेदयोः॥५९ ।। वित्तिाने विचारे च लाभसम्भवयोरपि ॥ भित्तिः कुड्ये प्रदेशे च संविभागावकाशयोः ॥६० ॥ आप्तिः संवरणप्राप्त्योः प्राप्तिलाभे महोदये ॥ गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे ॥ ६१ ॥ सुप्तिः स्पर्शज्ञतायाश्च स्वापे विश्रम्भघातिनि । शान्तिः शमेऽपि कल्याणे कान्तिः शोभाभिलाषयोः॥२॥ जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः ॥ जातिर्जातीफले धान्यां चुल्लीकम्पिल्लयोरपि ॥ ६३॥ ज्ञातिः सगोत्रे पितरि व्याप्तिापनलम्भयोः ॥ सातिर्दानेऽवसाने च प्राप्तिः पूर्तिप्रदेशयोः ॥ ६४ ॥ वर्तिीपदशादीपगात्रानुलेपनीषु च ॥ वर्तिर्भेषजनिर्माणनयनाअनलेखयोः ॥ ६५ ॥ अर्तिः पीडाधनुष्कोव्योर्मूर्तिः काठिन्यकाययोः । कीर्तिः प्रसादयशसोविस्तारे कईमेऽपि च ॥ ६६ ॥ भ्रान्तिर्मिथ्यामतौ ख्याता भ्रमणे चाऽनवस्थितौ ॥

६२ विश्वप्रकाशः। नृतिः कुमौ नर्तने च सन्नः सरिति वर्त्मनि ॥ ६७ ॥ भक्तिविभागे सेवायां पतिौरवपाकयोः॥ मुक्तिः स्यान्मोचने मोक्षे युक्तिया॑ये च योजने ॥ ६८ ॥ पतिर्दशाक्षरच्छन्दोदशसङ्ख्यावलीष्वपि ॥ शक्तिले प्रभावादी शक्तिः प्रहरणान्तरे ॥ ६९॥ शुक्तिः कपालशकले नख्यश्वावर्त्तयोरपि ।। मुक्तास्फोटे च दुर्नामा शङ्खशङ्खनखेषु च ॥ ७० ॥ तत्रिकम् ॥ अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते ॥ अयाचिते च मोक्षे च धन्वन्तरिसुपर्वणोः ॥७१ ॥ स्यादमृतोऽमृतापथ्यागुडूच्यामलकीषु च॥ अनृतं कृषावसत्येऽप्यजितः कमलापतौ ।। ७२ ॥ अनिजिते चाच्युतस्तु स्थिरे स्याद्गरुडध्वजे ॥ अर्दितं याचिते ज्ञेयं वातव्याधौ च हिसिते ॥ ७३ ।। अक्षतश्चापि लाजेषु तृतीयप्रकृतावपि ॥ अहिंसितेऽपि चापातस्तदात्वे पतनेऽपि च ॥ ७४ ॥ आघातं शिविते क्रान्तेऽप्याख्यातं भाषिते तिङि । आध्मातं पवनव्याधौ दग्धशब्दितयोरपि ।। ७५ ॥ आप्लुतः स्नातके स्नातेऽप्याहृतः सादरेऽर्चिते ।। आचितः शकटोन्मेये पलानामयुतद्वये ॥ ७६ ।। छन्नेऽपि सङ्गृहीते स्यादाहतन्तु मृषार्थके । आहतं गुणितेऽपि स्यात् ताडिते नामितेऽपि च ॥ ७७ ॥ स्यात् पुरातनवस्त्रे च नूतनवस्त्रे त्वाहतम् ।। आनों देशभेदे स्यान्नृत्यस्थाने जने रणे ॥ ७८ ॥ आवर्त आवर्तने स्याञ्चिन्तने चाम्भसाम्भ्रमे ।।

विश्वप्रकाशः। ६३ संवतः प्रलये प्रोक्तो विभीतकतरावपि ॥ ७९ ॥ त्रिगर्तः स्याज्जनपदे त्रिगों गणितान्तरे ॥ भवेद् घर्षरिकायान्तु त्रिगर्ता कामुकस्त्रियाम् ॥ ८ ॥ विवर्तः समुदाये स्यादपवर्तननृत्ययोः ॥ उत्तप्तं शुष्कमासेऽपि सन्तप्ते च परिप्लवे ॥ ८१ ॥ उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समञ्जसे ॥ उद्वृत्तं स्यादुत्तुलिते परिमुक्तोज्झितेऽपि च ॥ ८२ ॥ उत्थितं वृद्धयुक्ते च प्रोद्यतोत्पन्नयोरपि । उषितं व्युषिते दग्धे मुषितं खण्डिते हृते ॥ ८३ ॥ उद्धातः कथ्यते पादस्खलने समुपक्रमे ॥ पवनाभ्यासयोगस्य कुम्भकादित्रयेपि च ॥ ८४ ॥ उत्तुङ्गे मुद्गरेऽपि स्यादुदितं प्रोक्त उद्गते ।। स्यादुच्छ्रितन्तु सञ्जाते समुन्नद्धपद्धयोः ॥ ४५ ॥ रजतं विशदे दन्तिदन्तयोस्तारहारयोः ॥ मुरतं स्यानिधुवने देवत्वे सुरता मता ॥ ८६ ॥ महतं विजिते क्षुण्णे संहतं संहते दृढे ॥ रसितन्तु सुवर्णादिखचिते स्तनिते रुते ॥ ८७ ॥ पलितं शैलजे तापे पाण्डुकशे च कईमे ॥ ललितं हारभेदे स्यादीप्सिते ललितेऽपि च ॥ ८८ ॥ स्खलितं चलिते भ्रंशे कलितं विदिताप्तयोः ।। ज्वलितं भास्वरे दग्धे त्वरितं प्रजवे द्रुते ॥ ८९ ॥ स्तिमितोऽचञ्चलक्लिने हसितं क्षिप्तदग्धयोः॥ मुहितोऽतिहिते तृप्ते मूञ्छितं सोच्छ्रये दृढे ॥ ९० ॥ हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ॥ गजितो मत्तमातङ्गे गजितं जलदध्वनौ ॥ ९१ ॥ .

४ विश्वप्रकाशः। वदितं प्रसुते च्छिन्ने पूरिते चापि वर्द्धितम् ॥ स्थापितं निश्चिते न्यस्ते चेङ्गितं गतिचेष्टयोः ॥९२ ॥ वेष्टितं रसके रुद्धे स्त्रीणाश्च करणान्तरे ।। भावितं वासिते प्राप्ते विदितं विदितार्थयोः ॥ ९३ ॥ वेल्लितं कुटिले प्रोक्तं वाच्यवद्विधृते प्लुते ॥ ग्रथितं गुम्फिताक्रान्तहिंसितेषु समीरितम् ॥ ९४ ॥ प्रथितं निर्जलोदश्वित्यालोडितनिघृष्टयोः ॥ प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहितेऽपि च ॥ ९५ ॥ जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि ॥ क्रन्दितं ख्यातमाहाने क्रन्दितं रूदितेऽपि च ॥९६ ॥ मोक्षितं निहते क्षिप्ते वापितं मुण्डितं मतम् ।। बीजाकृते दंशितस्तु दुष्टचम्मितयोरपि ॥ ९७ ॥ क्षारितः साविते सारे. चाभिशस्ते च संशितः ॥ मुकृतश्च शुभे पुण्ये सुविधाने च वाच्यत् ॥ ९८ ॥ निकृतं विप्रलब्धे स्यान्नीचे विप्रकृतेऽपि च ॥ विकृतौ संस्कृतेऽपि स्याद् बीभत्से रोगितेऽपि च ॥ ९९ ॥ संस्कृतः कृत्रिमे शस्ते भूषिते भेद्यवन्मतः ॥ संस्कृतं लक्षणोपेता प्रभूतं प्राज्य उद्गते ॥ १०॥ प्रसृतः सप्रसारे स्याद्विनीते विगतेऽपि च । अर्द्धाञ्जलौ च प्रमृतं जवायां प्रसृता मता ॥ १०१ ।। सूनृतं मङ्गले सत्यपियकाचि च सूनृतम् ॥ प्रसूतं वाच्यवज्जाते प्रसूतं कुसुमेऽपि च ॥ १०२ ॥ विसतं ज्ञातसंहृष्टपतीतेष्वभिधेयवत् ॥ निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ॥१०३ ॥ अव्यक्तः शङ्करे विष्णावव्यक्तं महदादिके।

विश्वप्रकाशः।
आत्मन्यपि स्यादव्यक्तमस्फुटे चाभिधेयवत् ॥ १०४ ॥
विविक्तं स्यादसम्पृक्ते विवेकान्वितपूतयोः ॥
वाच्यवद्दर्शितो धीरैर्विविक्तं रहसि स्मृतम् ॥ १०५ ।।
रोहितं रुधिरे धीर ऋजुशक्रशरासने ॥
रोहितो मानमृगयो दे रोहितकद्रुते ॥ १०६ ॥
लोहितं कङ्कुमे रक्ते गोशीर्षे च कुचन्दने ॥
लोहितः स्यानदे भौमे वर्णभेदे तु वाच्यवत् ॥ १०७ ॥
कुटितं स्यादस्तपुटे पाटितस्यूतयोरपि ।
पीडितं बाधिते स्त्रीणां करणे चापि यन्त्रिते ॥ १०८ ॥
पिण्डितं गणिते सान्द्रे पण्डितः सल्लके कवौ ।।
हारीतः पक्षिभेदे स्यान्मुनिभेदेऽपि कैतवे ॥ १०९ ॥
प्रणीतः संस्कृते वह्नौ विहिते च प्रवेशिते ॥
निक्षिप्ते चोपसम्पन्ने प्रणीतो भेद्यवन्मतः ॥ ११० ॥
प्रतीतः सादरे ज्ञाते प्रख्यातः ख्यातहृष्टयोः ।।
वाच्यवत् स्यात् प्रमीतन्तु प्रोक्षितेऽपि मृतेऽपि च ॥१११॥
विनीतमुपनीते स्यादपनीते जितेन्द्रिये ॥
वाणिजे सुवहेऽश्वे च निभृते चाभिधेयवत् ॥ ११२ ॥
पृषतो हरिणे बिन्दौ पृषतश्चाश्वरोहिते ॥
भवेत् पृषदिव श्वेते बिन्दुयुक्ते तु वाच्यवत् ॥ ११३ ॥
भरतो वाद्यभेदेऽपि दौष्यन्तौ सञ्चरे नटे ।
रामानुजे च भरतस्तन्तुवायेऽपि च कचित् ॥ ११४ ॥
भारतं ग्रन्थभेदे स्याज्जम्बूद्वीपेऽपि भारतम् ॥
भारती तु सरस्वत्यां पक्षिणीवृत्तिभेदयोः ॥ ११५ ॥
दुर्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि ॥
परेतो भूतभेदे स्यात् परेतो वाच्यवन्मृते ॥ ११६ ॥

विश्वप्रकाशः। कपोतः पाराबते स्यात् कवकाख्यविहङ्गमे ॥ कापोतमञ्जनेऽपि स्यात् कपोतानाश्च संहतौ ॥ ११७ ॥ व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् ॥ व्याघातो योगभेदे स्यादन्तरायपहारयोः ॥ ११८ ॥ सङ्घातः संहतौ घाते सङ्घातो नरकान्तरे ॥ रैवतस्तु सुवर्णालौ शैलभेदेऽपि शूलिनि ॥ ११९ ॥ स्यात् किरातस्तु भूनिम्बे म्लेच्छे चाल्पतनावपि । मन्दाकिन्यां किराती स्यात् कुहिन्यामपि दृश्यते ॥१२०॥ आस्फीतश्चार्कपणे स्यादास्फीतः कोविदारके । आस्फीता गिरिका स्यादनमल्ल्याञ्च विश्रुता ॥१२१॥ उदात्तः स्वरभेदे स्यात् काव्यालङ्कारहृद्ययोः ॥ उदात्तो दातृमहतोनिमित्तं हेतुलक्ष्मणोः ॥ १२२ ॥ उन्मत्त उन्मादवति धुत्तूरमुचुकुन्दयोः ॥ पर्वतः शैलदेवर्षों प्रपातो निर्झरे भृगौ ॥ १२३ ॥ पर्याप्तन्तु यथेष्टे स्यात् तृप्तौ शक्ते निवारणे ॥ जीमूतः स्याद् धृतिकरे शक्रेऽद्रौ घोषके घने ॥ १२४ ॥ जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधे ॥ एधतुः पुरुषे वह्नौ वाहेतुः पथिके वृषे ॥ १२५ ॥ विहस्तो विवले पण्डे पर्यस्तः पतिते हते ॥ आयस्तः स्तिमिते क्षिप्ते क्लेशिते कुपिते हते ॥ १२६ ॥ निरस्तः क्लोशितेषौ स्यान्निष्ठयूते त्वरितोदिते ॥ सन्त्यक्ते च प्रतिहते विश्वस्तो निभृते स्मृतः ॥ १२७ ॥ विश्वासयोगे विश्वस्तो विश्वस्ता विधवास्त्रियाम् ॥ निवातो दृढसन्नाहे वातान्ते चाश्रयेऽपि च ॥ १२८ ॥ अनन्तः शेषविष्ण्वोः स्यादनन्तः सुरवमनि ॥

विश्वप्रकाशः ।
अनन्तश्चाप्यनवधौ वाच्यवत् समुदाहृतः ॥ १२९ ॥
अनन्ता शारिवादूविशल्यालाङ्गलीषु च ॥
अनन्ता हैमवत्याञ्च गुडूच्याञ्च निरूप्यते ॥ १३० ॥
शकुन्तः पक्षिभेदे स्याद्भासपक्षिविहङ्गयोः ।
दृष्टान्तः शास्त्र उभयोदाहरणे प्रकीर्तितः ॥ १३१ ॥
कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥
निशान्तः कथितः शान्ते निशान्तं भवनोषसोः ॥ १३२॥
वृत्तान्तोऽवसरे भावकात्स्यवा विशेषयोः॥
वृत्तान्तः प्रक्रियायाञ्च कचिदेकान्तवाचकः ॥ १३३ ।।
उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत् ॥
शुद्धान्तोऽन्तःपुरे राज्ञो रहःकक्षान्तरेऽपि च ॥ १३४ ॥
अस्वन्तमशुभे चुल्ल्यां मरणेऽनवधावपि ॥
क्षेत्रेऽपि कथ्यतेऽस्वन्तमुदन्तः साधुवार्तयोः ॥ १३५ ।।
जयन्तः शङ्करेऽपि स्याज्जयन्तः पाकशासनौ॥
जयन्ती पादपे गौर्यामिन्द्रपुत्रीपताकयोः ॥ १३६ ॥
गोदन्तो हरिताले स्यादंशिते हरितेऽपि च ।।
भासन्तः सुन्दराकारे भासन्तो भासपक्षिणि ॥ १३७ ॥
महद्राज्ये विशाले च महती वल्लकीभिदि ।
मरुद्देवे समीरे स्यादर्हन् पूज्ये जिनेऽपि च ॥ १३८ ॥
जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च ॥.
जगती भुवने मायां छन्दोभेदे जनेऽपि च ॥ १३९ ॥
पित्सन पिपतिषन्नेतौ पतनेच्छविहङ्गयोः॥
हरित् ककुभि वर्णे च तृणवाजिविशेषयोः ॥ १४० ॥
हरितेऽपि च दूर्वायां हरिद्वर्णयुतेऽन्यवत् ॥
विद्युत् सौदामिनीसन्ध्योनिषभे त्वभिधेयवत् ॥ १४१ ॥

विश्वप्रकाशः। गर्मुत सुवर्णलतयो रोहित सूर्यलताभिदोः ।। भूभृन्नरेन्द्र शैले च पतन् पातुकपक्षिणोः॥ १४२ ॥ कुर्वन् कर्मकरे भृत्ये स्यादर्वन् कुक्षितेऽन्यवत् ॥ अर्वती कुम्भदास्याश्च वाम्याञ्च परिकीर्तिता ॥ १४३॥ श्रीमांस्तिनकक्षे स्यान्मनोज्ञे धनकेऽपि च । धीमान वाचस्पतौ धीरे भास्वान् भास्वरसूर्ययोः ॥१४४॥ सुव्रता पुङ्खसन्दोह्यसुरभ्यां शोभनवते ॥ वाच्यवद्विद्वता क्षुद्ररोगे स्याद्विवृतं स्फुटे ॥१४५ ॥ वनिता जनितात्यर्थानुरागायाञ्च योषिति ॥ वनितं याचितेऽपि स्यादनितं शोचितेऽपि च ॥ १४६ ॥ जामाता वल्लभे सूर्यावर्तेऽपि दुहितुः पतौ ॥ विनेता देशिके राज्ञि विधाता वेधसि स्मरे ॥ १४७ ॥ विनता पिटकाभेदे विनता तायमातरि ॥ विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ।। १४८ ॥ पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च ।। विजाताख्या प्रस्तायां जनिते विकृतेऽपि च ॥१४९ ॥ सिकता वालुकायां स्युः सिकताऽप्यामयान्तरे । सिकतान्वितदेशे च शर्करायाञ्च कीर्तिता ॥ १५० ॥ वासिता करिणीनार्योर्वासितं सुरभीकृते ॥ ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते ॥ १५१ ॥ पिशिता मासिकायां स्यादामिषे पिशितं मतम् ॥ तृणताऽपि तृणत्वे स्यात्तृणता कार्मुकेऽपि च ॥ १५२ ।। द्विजातिरण्डजे वि श्रीपतिः मापतौ हरौ ।। गोपतिः शङ्करे षण्डे पार्थिवेऽपि विकतने ॥ १५३ ।। स्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि ॥

विश्वप्रकाशः।
जीवेष्टियाजके सूतेऽप्यमतिः कालचन्द्रयोः॥ १५४ ॥
अङ्कतिः स्यादग्निहोत्रे ज्वलनाम्बुजयोनिषु ॥
रमतिर्नायके स्वर्गेऽप्यहतिस्त्यागरागयोः ॥ १५५ ॥
नितिः स्यादलक्ष्म्याश्च दिक्पाले निरुपद्रवे ॥
अगस्तिर्वङ्गसेने स्यादगदस्तिः कुम्भसम्भवे ॥ १५६ ॥
गभस्तिः किरणे सूर्ये स्वाहायाश्च विलोक्यते ॥
सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतो ध्वनौ ॥ १५७ ॥
आयतिः सङ्गमे दैर्ये प्रभावागामिकालयोः ।
आपत्तिः स्याद् बले स्नेहे वशित्वे वासरेऽपि च ॥१५८॥
मर्यादायां तथाऽऽपत्तिर्विपत्तिर्यातनापदोः॥
नियतिनियमे दैवे पद्धतिः पतिवफ्नोः ॥ १५९ ॥
सन्ततिः पतिविस्तारगोत्रेषु कविभिः स्मृता ॥
परम्पराभवेऽपि स्यात् सन्ततिः पुत्रकन्ययोः ॥ १६० ॥
सम्मतिः स्यादनुज्ञानेऽप्यभिलाषेऽपि सम्मतिः ॥
समितिः सगरे साम्ये सभायामपि सङ्गमे ॥ १६१ ॥
अदितिर्वसुधायां स्याददितिर्देवमातरि ।।
वसतिः स्यादवस्थाने यामिन्याञ्च निकेतने ॥ १६२ ॥
पक्षतिः पक्षमूले स्यात् पक्षतिः प्रतिपत्तिथौ ॥
उन्नतिस्तामंदारेषु समृद्धावृदयेऽपि च ।। १६३ ।।
प्रसूतिस्तनयोत्पत्तौ तथा दुहितरि स्मृता ॥
व्रततिर्विस्तृतौ वल्ल्यां वहतिः सचिवे गवि ॥ १६४ ॥
दुर्गतिर्नरके नैःस्वे विकृतिर्डिम्बरोगयोः ॥
निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाठ्ययोः ॥ १६५ ॥
आकृतिः कथितारूपसामान्यवपुषोरपि ॥
प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ १६६ ॥

विश्वप्रकाशः।
निर्वृत्तिः स्वस्थतायां स्यादस्तामनसौख्ययोः॥
मुनीतिः शोभननये सुनीतिध्रुवमातरि ॥ १६७ ॥
प्रवृत्तिः कथिता वृत्तौ प्रवाहोदन्तयोरपि ॥
विच्छित्तिरङ्गरागे स्याद्धावविच्छेदयोरपि ॥ १६८ ॥
संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ॥
आपत्तिः पापणे दोषे चासत्तिः सङ्घलाभयोः ॥ १६९ ॥
पर्याप्तिः स्यात् प्रकामेऽपि प्राप्तौ च परिरक्षणे ॥
समाप्तिश्थावसाने स्यात् समाप्तिश्च समर्थने ॥ १७० ॥
बृहती क्षुद्रवार्ताक्यां कण्टकार्याश्च वाचि च ।।
वारिधान्यां महत्याञ्च छन्दोवसनभेदयोः ॥ १७१ ॥
मालती जातियुक्तीज्योत्स्ना सरिदन्तरे ॥
काकमाच्यां विशालायां विभावर्यामपीष्यते ॥ १७२ ॥
भवती बाणभेदे स्यादन्यवद् वत्सदर्थयोः ।
रेवती हलिपत्न्यां स्यात् ताराभेदेऽपि मातृषु ॥ १७३ ॥
पार्वती शल्लकीदुर्गाज्रोपदीजीविनीषु च ॥
सवन्ती च द्रवन्ती च सरिदोषधिभेदयोः ॥ १७४॥
जीवन्ती जीविनीशम्योर्गुडूचीबन्दयोरपि ।
हसन्त्यकारधान्याञ्च मल्लिकाशाकिनीभिदोः॥ १७५ ॥
वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके ॥
वासन्ती कोकिलेऽपि स्याद्वासन्तोऽविहिते विटे ॥ १७६ ॥
तचतुष्कम् ॥
भवेदवसितं ज्ञाते गतौ रुद्धावसानयोः ॥
अवदातं सिते पीते विशुद्ध प्रवरेऽपि च ॥ १७७ ॥
अवगीतन्तु निर्वादे मुहुईष्टे विगर्हिते ॥
अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च कथ्यते ॥ १७८ ॥

विश्वप्रकाशः । अङ्गारितं पलाशीयकलिकोद्गमदग्धयोः॥ अपातः स्वतन्त्रे स्यात् पिहिते चाऽप्यपावृतः ॥१७९॥ अत्याहितं महाभीतौ जीवनोपेक्षकर्मणि ॥ उपाहितोऽनलोत्पात आहिते चाप्युपाहितः ॥ १८० ॥ उपाकृतोऽध्वरहतपशूपद्रुतयोर्मतः ॥ उदास्थितः प्रतीहारेऽध्यक्षे च प्रणिधौ चरे ॥ १८१ ॥ अभिनीतो भवेन्न्याय्ये संस्कृतामर्षिणोरपि ॥ अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः ॥ १८२ ॥ पारिजातः सुरतरौ मन्दारे पारिभद्रके ॥ भवेत्परिगतं लाभे प्रयाते वेष्टितेऽपि च ॥ १८३ ।। ख्यातं प्रणिहितं लब्धे विन्यस्ते च समाहिते ॥ भवेत् प्रतिहितोऽद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १८४ ॥ उल्लिखितं समुत्कीर्णे वाच्यवच्च तनूकृते ॥ विद्यादुपचितं दिग्धे समृद्धे च समाहिते ॥ १८५ ॥ समुद्धतः समुद्गीर्णेऽप्यविनीते समुद्धतः॥ कुहरितं पिकालापे रटिते रतनिस्वने ॥ १८६ ।। भवेत् पल्लवितं लाक्षारक्ते सप्रसवे तते ॥ उज्जृम्भितन्तु चेष्टायामुत्फुल्ले चाभिधेयवत् ॥ १७ ॥ उद्घाहितमुपन्यस्ते बद्धग्राहितयोरपि ॥ निस्तुषितं निस्त्वचि स्याद्वजिते च लघूकृते ॥ १८८ ॥ ऐरावतोऽभ्रमातङ्गनारङ्गलिकुचाहिषु ॥ ऐरावतं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १८९ ।। ऐरावती स्यात्तडिति सरिनेदेऽपि लक्ष्यते ॥ कलधौतं रूप्यहेनोः कलधौतं कलध्वनौ ॥ १९० ॥ दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ॥

७२
विश्वप्रकाशः।
पाशुपतो वकपुष्पे पशुपत्यधिदैवते ॥ १९१ ॥
निष्कासितो निर्गमितेऽप्यूहिते धिक्कृतेऽपि च ॥
व्यतीपातो महोत्पाते योगभेदापयानयोः ॥ १९२ ॥
समाघातो वधे युद्धे परिघातोऽस्त्रघातयोः ॥
विनिपातोऽवपाते स्यादेवादिव्यसनेऽपि च ॥ १९३ ॥
समाहितः प्रतिज्ञाते समाधिस्थे यतात्मनि ॥
वाच्यवन्निहिते सिद्धे समाधाने समाहितम् ॥ १९४ ॥
नन्द्यावतः स्मृतो वेश्मप्रभेदे तगरद्रुमे ।।
परिवत्तों विनिमये कूर्मराजे पलायने ॥ १९५ ॥
अभियुक्तः परै रुद्ध तथा स्यादतितत्परे ।
अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कलेऽपि च ॥ १९६ ॥
उपरक्तः सैंहिकेये तगृहे व्यसनातुरे ॥
सूर्यभक्तो बन्धुजीवे तथा भास्करपूजके ॥ १९७ ॥
नदीकान्तः समुद्रे स्यात् सिन्दुवारेऽपि हिज्जले ॥
नदीकान्ता स्मृता जम्बूकाकजङ्घालतासु च ॥ १९८ ॥
नागदन्तो द्विपरदे गृहानिर्गतदारुणि ॥
नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपीष्यते ॥ १९९॥
पुष्पदन्तस्तु दिङ्नागे नागविद्याधरान्तरे ॥
चन्द्रकान्तोऽश्मभेदे स्याञ्चन्द्रकान्तश्च कैरवे ॥ २० ॥
वैजयन्तो गृहे शक्रमासादध्वजयोरपि ।
वैजयन्ती पताकायां जयन्तीवह्निमन्थयोः ॥ २०१॥
पुरस्कृतं स्वीकृताभिशस्तयोऽरभिधेयवत् ॥
अग्रे कृताभ्यर्चितयोः सिक्ते चापि पुरस्कृतम् ॥ २०२॥
अवध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते ॥
धूमकेतुः स्मृतो वहावुत्पातप्रहभेदयोः ॥ २०३ ॥

विश्वप्रकाशः। ७३ चित्रगुप्तः कृतान्ते स्याल्लेखके चास्य सम्मतः ॥ पञ्चगुप्तस्तु चार्वाकदर्शने कमऽपि च ॥ २०४ ॥ अधिक्षिप्तः प्रणिहिते तथा निर्भत्सितेऽपि च ॥ प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते ॥ २०५॥ आयुष्मान् योगभेदे स्यादायुष्मांश्चिरजीविनि ॥ विवस्वान् विबुधे भानौ भगवान् बुद्धपूज्ययोः ॥ २०६॥ द्वीपवान् सिन्धुनदयोपवत्यापगाभुवोः ॥ गरुत्मान् विहगे ताये सङ्ख्यावान् पण्डिते मिते ॥२०७॥ अंशुमान् भास्करे शालपामंशुमती मता ॥ अर्थपतिः कुबेरे स्यादीश्वरेऽर्थपतिस्तथा ॥ २०८ ॥ गृहपतिर्गृहस्थे स्यादत्याधाने च सत्रिणि ।। सेनापतिः कार्तिकेयेऽप्यनीकाधिकृतेऽपि च ॥ २०९॥ लक्ष्मीपतिर्वासुदेवे लवङ्गद्रुमपूगयोः ।। प्रजापतिर्विधौ भूपे हिमारातिः खगेऽनले ॥ २१० ॥ वनस्पतिक्षमात्रे विना पुष्पं फलद्रुमे ।। सदागतिः स्यात् पवने निर्वाणे च सदीश्वरे ॥ २११ ॥ दिवाकीर्तिस्तु चाण्डाले नापितोलूकयोरपि ॥ शतधृतिर्धातरीऽन्द्रे सुधामूतिर्मखे विधौ ॥ २१२ ॥ भवेदपचितिः पूजाक्षयहानिषु निष्कृतौ ॥ अनुमतिः स्यादूनेन्दुपूर्णिमाऽनुज्ञयोरपि ॥ २१३ ॥ प्रतिकृतिः प्रतीकारे प्रतिमायाश्च पूजने ॥ निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ ॥ २१४ ॥ प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च ॥ प्रागल्भ्ये च प्रबोधे च प्रतिपत्तिः प्रयुज्यते ॥ ११५ ॥ उपसत्तिः सङ्गमे च सेवायां प्रतिपादने ॥ १० ७४ विश्वप्रकाशः। अभिशस्तिः स्मृता लोकापवादे प्रार्थनेऽपि च ॥ २१६ ॥ पारावती गोपगीतिलवलीलतयोर्मता ॥ पारावतः कलरवे शैले मर्कटतिन्दुके ॥ २१७ ॥ भोगवती भुजङ्गानां नगरीसरितोरपि ।। गन्धवती मुराभूम्योः पुरीयोजनगन्धयोः ॥ २१८ ॥ हैमवत्यऽभयास्वर्णक्षीर्योः श्वेतवचोमयोः ॥ चर्मण्वती नदीभेदे कदलीपादपेऽपि च ॥ २१९ ॥ कुमुदती कुमुदिन्यां कुशपत्न्यां कुमुदती ।। शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति ॥ २२० ॥ सरस्वती सरिद्भदे गोवाग्देवतयोगिरि ॥ स्त्रीरत्ने चापगायाञ्च सरस्वान् सिन्धुकेऽम्बुधौ ॥ २२१ ॥ रागमाताऽपि कुट्टन्यां स्मृता भूमिरुहामये ॥ प्रभूमिता क्लेशितायां सूर्यगन्तव्यदिश्यऽपि ॥ २२२ ॥ प्रव्रजिता तपस्विन्यां मुण्डीर्यामांसिकौषधौ ॥ ऋष्यप्रोक्ता शताचा शूकशिम्ब्यां बलाभिदि ॥ २२३ ।। कृष्णन्ता पाटलायां माषपाञ्च भाविता ॥ समुद्रान्ता तु कार्पासीस्पृक्कादुरालभासु च ॥ २२४ ॥ तपञ्चकम् ॥ स्यादऽवलोकितो बुद्धे प्रक्षिप्ते त्वविलोकितम् ॥ उपधूपित आसन्नमरणे परिधूपिते ॥ २२५ ॥ स्यादऽपराजितो विष्णौ श्रीकण्ठे चाऽपराजिता ॥ श्वेताजयन्तीदुर्गास्वनिजिते त्वऽभिधेयवत् ॥ २२६ ॥ गणाधिपतिविख्यातः शङ्करेऽपि गजानने ॥ यादसाम्पतिरम्भोधौ प्रतीचीदिक्पतावपि ॥ २२७ ॥ स्यात् पृथिवीपतिर्भूपे ऋषभाख्यौषधेऽपि च ॥

.. विश्वप्रकाशः । मूर्दाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २२८ ॥ वसन्तदूतश्चूते स्यात् पिकपञ्चमरागयोः ।। वसन्तदूती पाटल्यां प्रतीच्यामतिमुक्तके ॥ २२९ ॥ तषट्कम् ॥ अर्द्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि ॥ तसप्तकम् ॥ समुद्रनवनीताख्या पीयूषामृतरचिषोः ॥ २३० ॥ इति तान्तवर्गः॥ थद्विकम् ॥ रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च ।। कुथः प्रवेणीकुशयोः पीथोऽर्के पीथमम्भसि ॥१॥ कोथस्तु शठिते नेत्ररुग्भेदे मन्थनेऽपि च ॥ पोथोऽध्वगेऽश्वघोणायां कटीस्त्रीगर्भयोरपि ॥२॥ काथः स्याद् द्रवानिष्पाके दुःखव्यसनयोरपि । सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे ॥ ३ ॥ पृथुपे कृष्णजीरे वाप्यां पृथु महत्यपि ।। दुःस्थः स्याद् दुर्गते मूर्खे प्रस्थः शिखरमानयोः ॥४॥ तुत्योऽनावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि ॥ मन्थः साक्तवमन्थाननेत्रामयदिवाकरे ॥ ५ ॥ ग्रन्थो धने स्यात् सन्दर्भ द्वात्रिंशद्वर्णनिम्मितौ ।। ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपणे गदान्तरे ॥६॥ अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने ॥ ७ ॥ तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु ---- विश्वप्रकाशः। अवतारर्षिजुष्टाम्भःस्त्रीरजासु च विश्रुतम् ॥८॥ सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके ॥ पार्थस्तु ककुभे जिष्णौ गाथावाग्भेदवृत्तयोः ॥९॥ कन्था मृन्मयभित्तौ स्यात् कन्था प्रावरणान्तरे । आस्था चाऽलम्बनास्थानयत्नापेक्षासु कथ्यते ॥ १० ॥ संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि ॥ वीथी गृहाने पतौ च नाट्यरूपकवर्मनोः ॥ ११ ॥ यूथी पुष्पप्रभेदे स्यान्मागध्याञ्च कुरण्टके । यूथं तिर्यक्समूहे स्याहृन्दमात्रे च भाषितम् ॥ १२ ॥ थत्रिकम् ॥ मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ॥ उन्माथः कूटयन्त्रे स्यान्मारणे घातकेऽपि च ॥ १३ ॥ प्रमथोऽपि गणे प्रोक्तः पथ्यायां प्रमथा भवे ॥ निशीथोऽप्यर्द्धरात्रे स्यानिशीथो रात्रिमात्रके ॥ १४ ॥ विदियो योगिकृतिनोरुद्रथः शुनिकुक्कुटे । शमथः सचिवे शान्तौ दमथो दमदण्डयोः ॥ १५ ॥ वरूथो रथगुप्तौ स्यावरूथं चर्मवेश्मनोः ॥ अतिथिः कुशपुत्रेऽपि कोपे प्राघुणकेऽपि च ॥ १६ ॥ वमथुर्वमनेऽपि स्याद् गजस्य करशीकरे ॥ क्षवथुः कथितः काशे हिकायामपि दृश्यते ॥ १७ ॥ समर्थोऽपि हिते शक्ते सम्बद्धार्थेऽपि सम्मतः ॥ सिद्धार्थः शाक्यसिंहे स्यात् सिद्धार्थः सितसर्षपे ॥१८॥ कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि ॥ कायस्था तु हरीतक्यामामलक्याश्च दर्शिता ॥ १९ ॥ वयःस्थो वाच्यवानि.वयास्था शाल्मलीद्रुमे ॥

विश्वप्रकाशः।
ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ २० ॥
अश्वत्यो गर्दभाण्डे स्यात् पिप्पले पूर्णिमातिथौ ॥
उपस्थो मेण्ढ़ उत्सङ्गे भगे पायौ च कथ्यते ॥ २१ ॥
निर्ग्रन्थो नग्नकेऽपि स्यानिःस्वबालिशयोरपि ।।
गोग्रन्थिस्तु करीषे स्याद् गोष्ठे गोजिढिकौषधे ॥ २२ ॥
अव्यथा तु हरीतक्यां पन्नगे निर्व्यथेऽपि च ॥
षड्यन्थाऽपि वचासिंह्योः षड्ग्रन्थोऽपि प्रकीर्त्यते ॥ २३ ॥
थचतुष्कम् ॥
चित्ररथः स्याद्गन्धर्वे रवौ विद्याधरान्तरे ॥
चतुष्पथश्चतुर्मार्गसङ्गमेऽपि द्विजेऽपि च ॥ २४ ॥
चानप्रस्थो मधूके स्यात् किंशुके चाश्रमान्तरे ॥
दशमीस्थं नष्टबीजे स्थविरेऽपि प्रचक्ष्यते ॥ २५ ॥
अनीकस्थो रणखले गजशिक्षाविचक्षणे ॥
राजरक्षिषु चिढ़े च वीरमईनकेऽपि च ॥ २६ ॥
भवेदितिकथा नष्टधर्मेऽपार्थे वचस्यऽपि ॥
अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ ॥ २७ ॥
इति थान्तवर्गः
दद्विकम् ॥
गदो भ्रातरि विष्णोः स्यादामयेऽप्यायुधे गदा ।।
नदः समुद्रे निनदे नदी तु सरिति स्मृता ॥१॥
मदो रेतसि कस्तू- गर्वे हर्षेभदानयोः ।।
मद्येऽपि मद आख्यातो मदी कृषकवस्तुनि ॥ २॥
पदं शब्दे च वाक्यं च व्यवसायापदेशयोः ॥
पादपचिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥३॥

७८
विश्वप्रकाशः।
छदः पलाशे गरुति ग्रन्थिपर्णितमालयोः ॥
रदो विलेखने दन्ते भद्रं कल्याणशर्मणोः॥४॥
भेदो द्वैधे विशेष स्यादुपजापे विदारणे ॥
स्वेदस्तु स्वेदने धर्मे शादः कर्दमशस्ययोः ॥५॥
पादो ब्रने तुरीयांशे शैलपत्यन्तपर्वते ॥
चरणे च मयूखे च क्षोदो रजासि पेषणे ॥६॥
सूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च ॥
स्वादुमनोज्ञे मृष्टे च मृदुः स्यात् कोमलेऽखरे ॥७॥
अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके ॥
विन्दुर्दन्तच्छदेऽपि स्यात्तथा वेदितृविग्रुषोः ॥ ८ ॥
कुन्दश्चक्रभ्रमौ माध्ये निधिभेदे मुरद्विषि ॥
कन्दस्तु शूरणे शस्यमूले जलधरेऽपि च ॥९॥
मन्दः खले मन्दरते मूर्खे स्वैरेऽल्परागिणोः ।
अभाग्येऽपि च मातङ्गे गजजातिप्रभेदयोः ॥ १० ॥
छन्दो वशेऽप्यभिप्राये हृदाख्याचित्तबुक्कयोः ॥
वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले ॥ ११ ॥
अन्दुः स्याद् बन्धनद्रव्ये प्रभेदे भूषणस्य च ॥
नन्दिरानन्दने द्यूते प्रतीहारे हरस्य च ॥ १२ ॥
विदा ज्ञाने च बुद्धौ च धीदा कन्यामनीषयोः ।
निन्दाऽपवादे कुत्सायां नन्दा मणिकसम्पदोः ॥१३ ।।
दत्रिकम् ॥
धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे ॥
नलदं स्यात्पुष्परसे मांसिकोशीरयोरपि ॥ १४ ॥
प्रमदः सम्मदे मत्ते कामिन्यां प्रमदा मता ॥
विशदः पाण्डुरे व्यक्ते जीवदो वैद्यविद्विषोः ॥ १५ ॥

विश्वप्रकाशः। ७ ९ अगदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते ॥ अङ्गदा याम्यदिग्दन्तिहस्तिन्यां समुदाहृता ॥ १६ ॥ वरदोऽपि प्रसन्ने स्याद्वरदः शान्तचेतसि ॥ वरदाऽपि च कन्यायामामोदो गन्धहर्षयोः ॥ १७ ॥ नर्मदः केलिसचिवे नर्मदा सरिदन्तरे । क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ १८ ॥ कपईः खण्डपरशोर्जटाजूटे वराटके । आस्पदन्तु पदे कृत्ये निषादः श्वपचे स्वरे ॥ १९ ॥ प्रसादोऽनुग्रहे काव्यगुणस्वाथ्यप्रसक्तिषु ।। प्रसादः कथ्यते देवनरदेवनिवासयोः॥ २० ॥ शारदः पीतमुद्दे स्याच्छालीने प्रतिभे नवे ॥ वर्षेऽथ जलपिप्पल्यां सप्तपणे च शारदि ॥ २१॥ दारदो विषभेदे स्याद्धिङ्गुले पारदेऽपि च ॥ तोयदन्तु घृते प्रोक्तं तोयदो मुस्तकाब्दयोः ॥ २२ ॥ निर्वादः स्यात् परीवादपरिनिष्ठितवादयोः॥ अर्बुदो मांसकीले स्याद्दशकोटिषु चाऽर्बुदः ॥ २३ ॥ शैलेऽर्बुदोऽथ सम्भेदः स्फुटने सिन्धुसङ्गमे ॥ कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदिके ॥ २४ ॥ प्रणादस्तारशब्दे स्यात् प्रणादः श्रवणामये प्रहादः प्रमदे दैत्ये दायादे ज्ञातिपुत्रयोः ॥ २५ ॥ मेनादः ककिमार्जारच्छागलेषु समीरितः ।। गोविन्दो वासुदेवे स्याद्वाध्यक्षे बृहस्पतौ ॥ २६ ॥ आक्रन्दो दारुणरणे मित्रे त्रातरि रोदने ॥ माकन्दः सहकारे स्यान्माकन्द्यामलकीफले ॥ २७॥ अर्बेन्दुश्रन्द्रशकले गलहस्तनखाङ्कयोः ।।

विश्वप्रकाशः। अर्वेन्दुः स्यादतिप्रौढे स्त्रीगुह्याङ्गुलियोजने ॥ २८ ॥ कर्णेन्दुरुक्षिप्तिकायां कर्णपाश्यामपीरिता ॥ स्यात् कौमुदः कार्तिकिके चन्द्रिकायाश्च कौमुदी ॥ २९ ॥ कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ ॥ दैत्यान्तरे च दिङ्गागनागयोरपि कीर्तितः ॥ ३० ॥ कुमुदा कुम्भिगाम्भार्योः स्यात् कुमुत् कृपणेऽन्यवत् ।। कुमुदेऽपि कुमुत् प्रोक्तं कव्यां मांसाशिरक्षसोः ॥ ३१ ॥ ककुद्वत् ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि ॥ मुकुन्दः पुण्डरीकाक्षे रत्नभेदे च पारदे ॥ ३२॥ दरत् प्रपातेऽद्रिभवे शरत् संवत्सरे ऋतौ ॥ दृषत् पेषणपट्टे स्याद् दृशत्पाषाणमात्रके ॥ ३३ ॥ सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि दृश्यते ॥ भासत् प्रभास्वरे मासे तरत् कारण्डवे प्लवे ॥ ३४॥ संविज्ज्ञाने प्रतिज्ञायां सङ्केताचारनामसु ॥ सम्भाषणे तोषणेऽपि क्रियाकारे च सगरे ॥ ३५ ॥ कामदा धेनुकायां स्याद्वाच्यवत् कामदोग्धरि ॥ सुनन्दा रोचनानार्योर्मर्यादाधारणे स्थिता ॥ ३६॥ दचतुष्कम् ॥ एकपदं स्यात्तत्काले पदव्यामेकपद्यपि ॥ चतुष्पदं स्यात् स्वीकारे गवाश्वादिपशुष्वपि ॥ ३७॥ भवेद्विष्णुपदाभिख्या क्षीरोदे गगनेऽम्बुजे । प्रोक्ता विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च ॥ ३८॥ भवेजनपदो देशे जने जानपदोऽपि च ॥ प्रियंवदः खेचरे स्यात् प्रियवाचिषु वाच्यवत् ॥ ३९ ॥ अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि ॥

विश्वप्रकाशः। ८१ परिवादः कलङ्के स्याद्वीणावादनवस्तुनि ॥ ४० ॥ समर्यादः समीपे स्यान्मर्यादासहितेऽपि च ॥ पुटभेदो नदीवक्त्रे पतनातोधयोरपि ॥ ४१ ॥ अष्टापदं स्यात् कनके शारीणां फलकेऽपि च ॥ अष्टापदश्च शरभे चन्द्रमल्याञ्च मर्कटे ॥ ४२ ॥ मेघनादस्तु वरुणे रावणस्य सुतेऽपि च ॥ महानादः कुञ्जरे स्यार्पुकाब्जे शयानके ॥४३॥ भवेत् कोकनदं रक्तकैरवे रक्तपङ्कजे ॥ विशारदो बुधे धृष्टेऽभिमर्दो रणमन्थयोः ॥ ४४ ॥ पीठमर्दोऽतिधृष्टे स्यान्नाव्योक्तौ नायकप्रिये ॥ मुचुकुन्दो दुभेदे स्यान्मुनिदैत्यविशेषयोः ॥ ४५ ॥ कुरुविन्दस्तु मुस्तायां कुल्माषत्रीहिभेदयोः ॥ हिङ्गुले पद्मरागे स्यान्मुकुरे च समीरितः॥ ४६ ॥ अभिष्यन्दोऽतिद्धौ स्यादाश्रावेऽक्षिगदेशपि च ॥ कटुकन्दं विदुः शिग्रौ शृङ्गवेररसोनयोः ॥ ४७ ॥ तमोनुदनीन्द्रर्केषु प्रतिपत्तिथिसंविदोः ॥ शतइदा भवेद्वजे सौदामिन्याञ्च कीर्तिता ॥४८॥ दपश्चकम् ॥ सहस्रपादः कारण्डे मार्तण्डे यज्ञपूरुषे ॥ भवेदुपनिषद्धम् वेदान्तेऽपि रहस्यऽपि ॥ ४९ ॥ इति दान्तवर्गः॥ धद्विकम् ॥ राधो वैशाखमासे स्याद्राधा गोप्याश्च विद्युति ॥ विष्णुक्रान्तामलक्योश्च चित्रवेधे च धन्विनाम् ॥ १ ॥ ११ १ . ८२ विश्वप्रकाशः। गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः॥ मेधः क्रतुर्धियां मेधा मेधः स्यात् खलदारुणे ॥२॥ बुधः कवौ रौहिणेये मिद्धमालस्यनिद्रयोः । तथा चित्ताभिसंक्षेपे नद्धमुद्वृत्तबद्धयोः ॥ ३ ॥ सिद्धो व्यासादिषु ख्यातः सिद्धाः स्युर्दैवयोनिषु ॥ नित्ये प्रसिद्ध निष्पन्नेऽपीद्धमातप्तदीप्तयोः ॥ ४ ॥ ऋद्धं त्वतिसमृद्धे स्यात् सम्यग्वाते तु वाच्यवत् ॥ वृद्धन्तु शैलजे मूरिजीर्णरूढेषु भेद्यवत् ॥ ५॥ विद्धं स्याद्वेदिते क्षिप्ते सादृश्येऽपि निगद्यते ।। बुद्धो जिने च धीरे च सौम्ये च बुधितेऽपि च ॥ ६ ॥ अर्द्धः खण्डे समांशेऽर्द्ध लुब्धो मृगयुकासिणोः ।। अन्धं स्यात्तिमिरे दृष्टिहीनेऽन्धः समुदाहृतः ॥७॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः॥ स्कन्धः प्रकाण्डे सैन्यांशे बाहुमूलसमूहयोः ॥ ८॥ समीकनृपयोश्वाऽपि बन्धस्त्वाधौ च बन्धने ॥ दग्धं प्लुष्टेऽन्यवद्दग्धा स्थितार्कदिशि दर्शिता ॥९॥ दिग्धं विषाक्तवाणे स्यादिग्धं लिप्तार्थकेऽन्यवत् ।। दुग्धं प्रपूरणे क्षीरे मुग्धः सुन्दरमूढयोः ॥ १० ॥ मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः॥ दैत्ये चैत्रे वसन्ते च जीवाशाके मधुदुमे ॥ ११ ॥ विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि राक्षसे । साधुर्वाधुपिके चारौ सज्जने चाभिधेयवत् ॥ १२ ॥ सिन्धुः समुद्रे नद्याञ्च नदे देशेभदानयोः बन्धुर्वन्धूकपुष्पे स्याद्वन्धुर्धातरि बान्धवे ॥ १३ ॥ आधिानसपीडायां प्रत्याशायाश्च बन्धके ।

विश्वप्रकाशः। ८३ व्यसने चापधिष्ठाने व्याधिरामयवाक्ययोः ॥ १४ ॥ बोधिः समाधिभेदे स्याबोधिः पिप्पलपादपे ॥ सन्धिर्भेदे सुरुङ्गायां भगे सङ्घटनेऽपि च ॥ १५ ॥ अब्धिः समुद्रे सरसि सिद्धिनिष्पत्तियोगयोः । वृद्धिरानन्दने ऋद्धौ वर्द्धनेऽपि कलान्तरे ॥ १६ ॥ दोग्धा गोपालके वत्से कवौ वातॊपजीविनि ॥ विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ।। १७ ॥ गोधा तले निहाकायां बाधा दुःखनिषेधयोः ।। मुधाऽमृते स्नुहीमूर्वालेपगाङ्गेष्टिकासु च ॥ १८ ॥ सन्धा स्थितौ प्रतिज्ञायां श्रद्धा श्राद्धत्वकाङ्क्षयोः । स्पर्धा संघर्षणे साम्ये स्पर्द्धा क्रमसमुन्नतौ ॥ १९ ॥ वधूः स्नुषानवोढास्त्रीभार्यास्पृक्काङ्गनासु च ।। शव्याञ्च शारिवायां स्यात् मृधूर्बुद्धौ गुदेऽपि च ॥ २० ॥ धत्रिकम् ॥ विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः ।। विबुधः पण्डिते देव सम्बाधः सङ्कटे भगे ॥ २१ ।। निषधः कठिने देशे तद्राजे च नगान्वरे ॥ संरोधो रोधने क्षेपे निरोधो रोधनाशयोः ॥२२॥ उत्सेधश्चोच्छ्रये काये दुर्विधो दुर्गते खले ।। विश्रब्धोऽऽनुद्भटेऽत्यर्थे शातविश्वस्तयोरपि ॥ २३ ॥ न्यग्रोधी व्यामवटयोन्यग्रोधश्च शमीतरौ । न्यग्रोधे वृषपाश्च मोहनाख्यौषधावपि ॥ २४ ॥ अगाधो विवरे स्थाने प्रसिद्धोऽलङ्कृतेऽपि च ॥ विख्यातेऽपि च सन्नद्धे वर्मितव्यूढयोरपि ॥ २५ ॥ आनदं बद्धमात्रे स्यादानद्धं मुरुजादिके ॥

८४ विश्वप्रकाशः। आविद्धो वाच्यवज्ज्ञेयः कुटिले च पराहते ॥ २६ ॥ कबन्धस्तूदरे रक्षोविशेषेऽपि विधुन्तुदे ।। आवन्धो दृढबन्धे स्यात् प्रेमालङ्कारयोरपि ॥ २७ ॥ सुगन्धिः स्यादिष्टगन्धे सुगन्धि हरिवालुके । उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे ॥ २८ ॥ कुटुम्बव्यापृतेऽपि स्यादुपधिाधिचक्रयोः । परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ २९ ॥ अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च ॥ समाधिनियमे ध्याने नीवाके च समर्थने ॥ ३० ॥ सनिधिः सन्निधानेऽपि भवेदिन्द्रयगोचरे ॥ संसिद्धिः सहजे सिद्धौ मदोग्रायामपि स्मृता ॥ ३१ ॥ प्रणिधिश्चरे याच्चायां वीरुटिपशाखयोः॥ मागधी पिप्पलीयूथ्योर्मागधो मगधोद्भवे ॥ ३२ ॥ वैश्यजक्षत्रियापुत्रे शुक्लजीरकवन्दिनोः ॥ धचतुष्कम् ॥ अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनि ॥ ३३ ॥ महौषधं शृङ्गवेरे विषायां लशुनेऽपि च ॥ परिव्याघो वेतसे स्यात् परिव्याधो द्रुमोत्पले ॥ ३४ ॥ अवष्टब्धमदूरे स्यादाक्रान्ते च विलम्बिते । समुन्नद्धः समुद्भूते पण्डितम्मन्यधृष्टयोः ॥ ३५ ॥ अनिरुद्ध उषानाथे चरे चानर्गलेऽन्यवत् ॥ अनुबन्धः प्रकृत्यादेर्दोषोत्पादे विनश्वरे ॥ ३६॥ मुख्यानुयायिनि शिशौ प्रवृत्तस्य निवर्त्तने । अनुबन्धी च हिकायां तृष्णायामपि कथ्यते ॥ ३७॥ कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ।

विश्वप्रकाशः। || आशाबन्धः समाश्वासे तथा मर्कटजालके ॥ ३८ ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम् उग्रगन्धाजमोदायां वचायां छिक्ककौषधौ ॥ ३९ ॥ तीक्ष्णगन्धा वचायाश्च शिग्रुराजिकयोरपि ॥ इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे ॥ ४० ॥ तृणगोधा चित्रकोले कुकलासे च लक्ष्यते ॥ उपलब्धिर्मती प्राप्ती ज्ञाने चापि प्रयुज्यते ॥ धपञ्चकम् ॥ योजनगन्धा कस्तू- सीतायां व्यासमातरि ॥ ४१ ।। इति धान्तवर्गः॥ नद्विकम् ।। इनः मूर्ये नृपे पत्यो धनं गोधनवित्तयोः ॥ जिनः स्यादतिदे च बुद्धे चाहति जित्वरे ॥१॥ जनो लोके महर्लोकात् परलोके च पामरे ॥ जनी सीमन्तिनीवध्वोरुत्पत्तौ च जनिर्मता ॥२॥ धनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः॥ घनं सान्द्रे दृढे दाढयें विस्तारे लोहमुद्गरे ॥ ३ ॥ मेघमुस्तकयोश्चाऽपि वनं कानननीरयोः ॥ प्रवासे निलये चाऽपि वनं प्रस्रवणेऽपि च ॥४॥ वानं शुष्कफले शुष्के कटे सीवनकर्मणि ॥ जलसंम्रववातोर्मिसुरजागतिसौरभे ॥ ५॥ दानं गजमदे त्यागे पालनच्छेदशुद्धिषु ।। मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ॥ ६ ॥ यानं गती वाहनेऽपि पानं पीतौ च रक्षणे ॥

विश्वप्रकाशः। स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ॥७॥ स्थानं स्थितौ च सादृश्ये सनिवेशावकाशयोः ।। युक्तार्थे करणार्थे च स्थाने स्यादव्ययं पुनः॥८॥ सूनं वाच्यवदूनेषु सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ॥ ९॥ ऊनं हीने रणोद्याने स्यूनः किरणसूर्ययोः ॥ मीनो राश्यन्तरे मत्स्ये सीनोऽजगरमूर्खयोः ॥१०॥ चीनो मृगान्तरे तन्तुव्रीहिदेशांशुकान्तरे ॥ हीनं गोनयोर्म्युनमनयोरपि कीर्चितम् ॥ ११ ॥ कृत्स्नं कष्टे समस्ते च रस्नस्तक्षकचण्डयोः ॥ वस्नं स्याटेतने मूल्ये वसनद्रव्ययोरपि ॥ १२ ॥ स्वप्नः सुप्तस्य विज्ञाने स्वमः स्वापे च दर्शने ॥ बुनः शिफायां रुद्रे च रत्नं श्रेष्ठे मणावपि ॥ १३ ॥ नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत् ॥ लग्नं राश्युदये लग्नं सक्तलज्जितयोरपि ॥ १४ ॥ छन्न रहश्छादितयोः स्यादन्नं भुक्तभक्तयोः॥ भिन्नमन्यार्थवचने सङ्गते दारिते स्फुटे ॥१५॥ विनं ज्ञाते स्थितौ लब्धे छिन्नं भिन्ने तु वाच्यवत् ॥ छिनाऽमृतायां पुंश्चल्यामुन्नः क्लिन्ने च सूरते ॥ १६ ॥ चिहं ध्वजे पताकायां घुनं वित्ते पराक्रमे ॥ धनुःसंज्ञा पियालद्रौ राशिभेदे शरासने ॥१७॥ तनुः काये कृशे चाऽल्पे विरलेऽपि च वाच्यवत् ॥ हनुः प्रहरणे मृत्यौ कपोलावयवे गदे ॥ १८ ॥ हनुहट्टविलासिन्यां सूनुः पुत्रेऽनुजे रवौ ॥ सानुः शृङ्गे बुधे मार्गे वात्यायां पल्लवे नवे ॥ १९ ॥ . *

विश्वप्रकाशः।
दानुर्दातरि विज्ञाते भानुः किरणमूर्ययोः ॥
धेनः समुद्रे नद्यान्तु धेनी स्योनः सिते खगे ॥ २० ॥
मुनिर्यमीङ्दीबुद्धपियालागस्ति किंशुके ॥
ज्यानिर्हानौ सवन्त्याञ्च योनिः स्यादाकरे भगे ॥ २१ ॥
ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तविभावरौ ।।
ज्योत्स्नी सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च ॥ २२ ॥
रास्ना स्मृता भुजङ्गाक्ष्यामेलापाञ्च कथ्यते ॥
मृत्स्ना तु वरिकायां स्यान्मृत्सायामपि दृश्यते ॥ २३ ॥
गीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् ॥
धानाभृष्टयवे प्रोक्ता धान्याकेभिनवोद्भिदि ॥ २४ ॥
नत्रिकम् ॥
अवनं रक्षणे प्रीतौ भवनं भाववेश्मनोः ।।
भुवनं विष्टपे मद्यां सलिलेऽपि वियत्यऽपि ॥ २५ ॥
सवनं यज्ञियस्नाने सोमनिर्दलनेऽपि च ॥
अयनं पथि भानोः स्यादुदग्दक्षिणतो गतौ ॥ २६ ॥
जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च ॥
शयनं मुरते निद्राशय्ययोरपि भाषितम् ॥ २७ ॥
शमनं शान्तिवधयोः शमनः श्राद्धदैवते ॥
दशनः कवचे दन्ते दशनः शिखरेऽपि च ॥ २८ ॥
जघनश्च स्त्रियाः श्रोणिपुरोभागे कटीरके ॥
तपनस्तरणौ तापे भल्लाते नरकान्तरे ॥ २९ ॥
रसनं स्वादने ध्वाने रसना काश्चिजिह्वयोः॥
रसनश्चाऽपि रास्नायां वसनं छादनेंऽशुके ॥ ३० ॥
हसनश्च स्मृतं हासेऽङ्गारधान्यां हसन्यपि ॥
श्वसनो मारुते श्वासे श्वसनो मदनद्रुमे ॥ ३१॥

८८ विश्वप्रकाशः। कदनं मईने पापे सदन मन्दिरे जले ।। मदनः स्मरधुत्तूरवसन्तद्रुमसिक्थके ॥ ३२ ।। दहनश्चित्रके वह्नौ भल्लाते दुष्टवेष्टिते ॥ गहनं गहने दुःखे विपिने कलिलेऽपि च ॥ ३३ ॥ स्तननं ध्वनिमात्रे स्यात् कुन्थने मेघगर्जिते ॥ निधनं स्यात् कुले नाशे प्रधनं दारणे रणे ॥३४॥ पवनाख्या कुलाले स्यात् पाकस्थानेऽपि मारुते ॥ निष्पावे चाथवपनं बीजाधानेऽपि मुण्डने ॥ ३५ ॥ दमनः कुसुमे वीरे वमनं छईनेऽईने ॥ स्यादाहृतौ च यमनं दुःखे चोपरतौ यमे ॥ ३६ ॥ कमुनः कामुके कामेऽभिरूपेऽशोकपादपे ॥ धमनोऽप्यनले भस्त्राध्यापक–रयोः स्मृता ॥ ३७॥ धमनी तु हरिद्रायां कन्धराशिरयोरपि ॥ मलनः पटवासे स्यान्मईने मलनं मतम् ॥ ३८ ॥ चलनं कम्पनं कम्पे कम्पे चलनकम्पनौ ।। चलनी वस्त्रघर्ष- वारिभेदेऽपि च कचित् ॥ ३९ ॥ सेचनं रक्षणे सेके नौकासेचनभाजने ॥ सेवनं सीवनोपास्त्योः संव्यानं छादनेंऽशुके ॥ ४० ॥ समानं सत्समैकेषु समानो नाभिमारुते ॥ शोभनो ग्रहयोगे स्याच्छोभनं सुन्दरेऽन्यवत् ॥ ४१ ॥ शासनं राजदत्तोा लेखाज्ञाशास्त्रशास्त्रिषु ॥ वासनं वसने वीरासने ज्ञाने च धूपने ॥ ४२ ॥ आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने । असनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥४३॥ स्पर्शनो मारुते स्पर्शधानयोः स्पर्शनं मतम् ।।

विश्वप्रकाशः। ८९ दर्शनं नयनस्वामबुद्धिधर्मोपलब्धिषु ।। ४४ ॥ शास्त्रदर्पणयोश्चाऽपि दंशनं दंशवर्मणोः ॥ पिशुनं कुङ्कुमे क्रूरे सूचके चाभिधेयवत् ॥ ४५ ॥ पिशुनः कपिवक्के स्यात् स्पृक्कायां पिशुना मता ॥ शकुनश्च शुभाशंसानिमित्ते शकुनः खगे ॥ ४६॥ मिथुनो राशिभेदे स्यान्मिथुनं दम्पतीयुगे ॥ तलुनं पवने यूनि स्त्रियाश्च तलुनीं विदुः॥४७॥ तलिनं विरले स्तोके स्वच्छेऽपि तलिनं मतम् ।। मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यऽपि ॥ ४८ ॥ कठिनं निष्ठुरे स्थाल्यां शर्करायां गुडस्य च ॥ कठिना काटिकायान्तु कठिनीति प्रयुज्यते ॥ ४९ ॥ पीतनं हरिताले स्यात् कुङ्कुमे पीतदारुणि ॥ आम्रातके पीतनश्च मैथुनं सङ्गते रते ॥ ५० ॥ केतनं लान्छने कार्षे गेहे चोपनिमन्त्रणे ॥ छईनोऽलम्बुषे निम्बे छईनं वमने तरे ॥ ५१ ॥ छेदनं कर्त्तने भेदे छदनं पक्षपत्रयोः ॥ रोदनं व्यथने तोत्रे रोदनं रोधनेऽश्रुणि ॥ ५२ ॥ अपानन्तु गुदे प्रोक्तमपानस्तस्य मारुते ॥ सन्तानं सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ।। ५३ ॥ वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि ।। वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोः॥ ५४ ।। उत्तानं स्यादगम्भीरे तथा सुप्तोन्मुखेऽन्यवत् ।। आदनं ग्रहणे विद्यादलङ्कारे च वाजिनाम् ॥ ५५ ॥ निदानं कारणे रोगनिर्णये वत्सदामनि ॥ उद्यानं वनभेदे स्यानिःसृतेऽपि प्रयोजने ॥ ५६ ॥ ૧૨ ९० विश्वप्रकाशः। अम्लानो झिण्टिकाभेदे वाच्यवनिर्मले स्मृतः ।। व्युत्थानं स्वैरकरणे विरोधाचरणेऽपि च ॥ ५७ ॥ उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे ॥ अङ्गनोद्गमहर्षेषु मलवेगेऽपि कीर्तितम् ॥ ५८ ॥ संस्थानमाहृतौ मृत्यौ सन्निवेशे चतुष्पथे । धावनं प्रगमे शुद्धौ पृश्निपान्तु धावनी ॥ ५९ ।। पावनन्तु जले कृच्छ्रे पावकाध्माशयोर्विदुः ।। पावनः सिहके वह्नौ प्रायश्चित्ते च पावनम् ॥ ६०॥ वाच्यवत् पावयितरि हरीतक्यान्तु पावनी ॥ वामनो कोटवैकुण्ठखर्वदक्षिणदिग्गजे ॥ ६१ ॥ स्थापनं स्यात् पुंसवने समाधौ रोपणेऽपि च ॥ यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ ६२॥ युञ्जानः सारथौ विगै बुधानः पण्डिते गुरौ ॥ दृशानं ज्योतिषि प्रोक्तं दृशानश्च विरोचने ॥६३ ॥ जवनो देशभेदे स्याद्वेगवेगाधिकाश्वयोः ॥ जवन्योषधिभेदे स्याद्वाच्यवद्वेगिनि स्मृतः॥६४ ॥ जीवनं वर्त्तने नीरे पुत्रजीवे तु जीवनः ॥ जीवनी जीवना चेति जीवन्तीमेदयोः क्रमात् ॥ ६५ ॥ देवनं व्यवहारे स्याजिगीषाक्रीडयोरपि ॥ अक्षेषु देवनः प्रोक्तो वाच्यवद् वाग्मिविप्रयोः ॥ ६६ ॥ तेमनं व्याने क्लेदे तेमने चुल्लिकान्तरे ॥ सावनो यज्ञकान्ते यजमानप्रचेतसोः॥६७ ॥ विज्ञानं कर्मणे ज्ञाने प्रज्ञानं लाञ्छने धियि ॥ हायनोऽर्चिषि वर्षे च व्रीहिभेदे च हायनः ॥ ६८ ॥ फाल्गुनस्तु तपस्ये स्यात् पूर्णिमायान्तु फाल्गुनी ॥

विश्वप्रकाशः।
९१
फाल्गुनः कथितः पार्थे नदीजे ककुभेऽपि च ॥ ६९ ॥
वेष्टनं कर्णशष्कुल्यामुष्णीषे परिवारणे ॥
गोस्तनो हारभेदे स्याद् द्राक्षायां गोस्तनीति च ॥ ७० ॥
कल्पनं कर्त्तने क्लुप्तौ सज्जनायान्तु कल्पना ॥
कर्त्तनं छेदने प्राहुर्नारीणां तूलसेवने ॥ ७१ ॥
लङ्घनन्तूपवासे स्यात् क्रमणे प्लवनेऽपि च ॥
मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवत् ॥ ७२ ॥
भण्डनं कवचे युद्धे खलीकारे च वर्तते ।।
मुण्डनं वपने त्राणे हिण्डिनं लेखने रते ॥ ७३ ॥
अङ्गनं प्राङ्गने याने कामिन्यामङ्गना मता ।।
गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने ॥ ७४ ॥
नन्दनं वासवोद्याने नन्दनो हर्षके सुते॥
स्यन्दनन्तु मृतौ नीरे स्यन्दनस्तिनिशे रथे । ७५ ॥
क्रन्दन रोदने हाने चन्दनं मलयोद्भवे ।।
चन्दनः कपिभेदे स्यानदीभेदे तु चन्दनी ॥ ७६॥
वर्द्धनं छेदने वृद्धौ वारिधान्यान्तु वर्द्धनी ।।
व्यानं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च ॥ ७७ ॥
रजनो रागरजने रञ्जनं रक्तचन्दने ।
गुजारोचनिकानीलीमाञ्जिष्ठासु च रञ्जनी ॥ ७८ ॥
अञ्जनं कज्जले चाङ्के सौवीरे च रसाञ्जने ॥
अञ्जनो दिग्गजे जेष्ठयामअनाऽप्यनिलस्त्रियाम् ॥ ७९ ॥
अननी लेपनायां स्याद् गृअनस्तु रसोनके ।
विषदिग्धपशोमासे गुञ्जनञ्च प्रकीर्तितम् ॥ ८० ॥
लेखनं छदने भूनें लिपिन्यासे च लेखनम् ।।
योजनञ्च चतुष्क्रोश्यां योगे च परमात्मनि ॥ ८१ ॥

. ९२ विश्वप्रकाशः। गर्जनं निस्वने कोपे वजनं त्यागहिंसयोः ॥ मार्जनं कथितं माझे मार्जनो लोध्रशाखिनि ॥ ८२ ॥ सज्जनो वाच्यवत् साधौ सज्जनं घट्टगुल्मके ॥ सज्जना कल्पनायान्तु भाजनं योग्यपात्रयोः ॥ ८३॥ अर्जुनः ककुभे पार्थे कार्तवीर्य्यमयुरयोः ।। मातुरेकसुते च स्यादर्जुनो धवलेऽन्यवत् ॥ ८४ ॥ अर्जुनन्तु तृणे नेत्रगदे चाऽप्यार्जुनी गवि ॥ उषायां करतोयायां कुट्टन्यामपि च कचित् ॥ ८५॥ वृजिनं कल्मषे कशे वृजिनः कुटिलेऽन्यवत् ।। लाञ्छनं लक्षणे नाम्नि बन्धनं वधबन्धयोः ॥८६॥ जगग्नुरनौ जन्तौ च मेहनं मूत्रशिश्नयोः ॥ प्रसूनं वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥८७ ॥ कानीनः कन्यकाजाततनये व्यासकर्णयोः॥ काननं विपिने गेहे परमेष्ठिमुखेऽपि च ॥ ८८ ॥ काञ्चनः काञ्चनारे स्याच्चम्पके नागकेशरे ।। उदुम्बरे च पुन्नागे हरिद्रायाञ्च काञ्चनी ॥ ८९ ॥ काञ्चनं हेन्नि किञ्जल्के पुन्नागे काचभाजने ॥ गोलके चाथ शकुनिः सौबले करणे खगे ॥ ९०॥ रोचनो रक्तकहारे रोचनः कूटशाल्मलौ ॥ मङ्गल्येऽपि च गोपित्ते रोचना रुचिरस्त्रियाम् ॥ ९१ ॥ व्यसनन्त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ॥ दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे ॥ ९२ ॥ उदानोऽप्युदरावते मरुत्सर्पविशेषयोः॥ उद्धानमुद्गते चुल्ल्यां विलग्नो मध्यलग्नयोः ॥ ९३ ॥ सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥

विश्वप्रकाशः।
९
३
राधनं राधने प्राप्तौ राधनं तोषणेऽपि च ॥ ९४ ।।
साधनं निर्वृतौ मेण्ढ़े सैन्ये सिद्धौ गतौ वधे ।।
उपाये मृतसंस्कारे दापनेऽनुगमे धने ॥१५॥
प्रधानः स्यान्महामात्ये प्रकृतौ परमात्मनि ॥
प्रज्ञायाश्च प्रधानं स्यादेकत्वेऽनुसदोत्तमे ॥ ९६ ॥
ग्रामीनो ग्रामसम्भूते ग्रामीनः शुनिवायसे ।
पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुगुमे ॥ ९७ ॥
कौलीनः स्यात् कुलीनत्वे गुह्ये जन्ये कुकर्माणि ॥
कौशेयके विहङ्गादिपशूनां सङ्गरेऽपि च ॥ ९८॥
कौपीनं स्यादकार्ये च गुह्यचीरप्रदेशयोः ।
विक्लिन्नो जरया जीर्ण शीर्णे चाट्टै च वाच्यवत् ॥ ९९ ॥
आपन्नः सविपत्तौ स्यात् प्राप्ते वाच्यवदीरितः ॥
विपन्नः कथितो नष्टे विपन्नश्च भुजङ्गमे ।। १००॥
विच्छिन्नश्च समालब्धे विपन्ने कुटिलेऽन्यवत् ॥
सम्पन्नं साधिते प्रोक्तं सम्पत्तिसहितेऽन्यवत् ॥ १०१ ॥
तमोघ्नः सूर्यवहीन्दुबुद्धशङ्करविष्णुषु ।
विषनाख्या शिरीषे स्यात्रिवृताऽमृतयोरपि ॥ १०२ ॥
शिखी वहौ बलीव शरे केतुग्रहे द्रुमे ।।
केकिकुक्कुटयोश्चाऽथ शिखी चूडान्वितेऽन्यवत् ॥ १०३ ॥
शाखी स्यात् पादपे वेदे तुरुष्काख्यजनेऽपि च ॥
खड़ी खड्डायुधे गण्डे शृङ्गी नागट्ठमाद्रिषु ॥ १०४ ॥
चक्री कुलालवैकुण्ठे कोकाहिग्रामजालिषु ॥
धन्वी धनुर्धरे पार्थे विदग्धे ककुभद्रुमे ॥ १०५॥
कृती स्यात् पण्डिते योग्ये पाशी पाशधरेऽप्पतौ ।।
नन्दी हरप्रतीहारे गईभाण्डे वटद्रमे ॥ १०६ ॥

विश्वप्रकाशः। नन्दिनी तु ननन्दायां धेन्वां सुरसरित्यपि ॥ रोही रोहितकेऽश्वत्थवटपादपयोरपि ॥ १०७ ॥ हली बले कृषीके स्यादली वृश्चिकभृङ्गयोः॥ वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ १०८॥ शिल्पी स्याद्वाच्यवत् कारौ नायिकायाञ्च शिल्पिनी ॥ कामी स्यात् कामुके चक्रवाके पारावतेऽपि च ॥ १०९ ॥ गोमी तु पाशके पूरौ वाग्मी वाचस्पतौ पटौ ॥ चर्मी फलकपाणौ स्यादूजे भृङ्गरटावपि ॥ ११० ॥ अर्थी स्याद्याचके यज्ञे सेवके च विवादिनि ॥ स्वामी प्रभो बिशाखे च रागी रक्ते च कामुके ॥ १११ ॥ । ध्वजी शैले रथे विप्रे भुजङ्गमतुरङ्गयोः॥ भोगी भुजङ्गमे राज्ञि ग्रामिण्यां नापितेऽपि च ॥ ११२ ॥ विहाय महिषीञ्चान्यराजयोषिति भोगिनी ॥ धुवा त्वभिनवे भानौ प्रेत्वा मरुति सारके ॥ ११३ ॥ राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः॥ अध्वा वर्त्मनि संस्थाने साश्रवस्कन्धकालयोः॥११४ ॥ धन्वा जङ्गलदेशे स्याद्धन्वचापे स्थलेऽपि च ॥ आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु ॥ ११५ ॥ प्रयत्ने चाऽप्यथ ग्रावा प्रस्तरे जलदे गिरौ ॥ ब्रह्माविरिश्चद्विजयोर्ऋत्विकचन्द्रार्कयोगयोः ॥ ११६ ॥ ब्रह्मप्रोक्तं तपोऽध्यात्मवेदज्ञानेषु मूरिभिः ।। अर्धा च कुक्षिते वाहे वृषा कर्णमहेन्द्रयोः ॥ ११७॥ युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे ॥ ११८ ॥ दर्शपतिपदोः सन्धौ विषुवत्मभृतिष्वपि ।।

विश्वप्रकाशः । ९५ भने स्वर्णे भृतौ भारे चर्म स्याद्वल्कलत्वचोः ॥ ११९ ॥ कर्म व्याप्ये क्रियायाञ्च वर्त्मनेत्रच्छदाध्वनोः ।। वर्म देहे प्रमाणातिसुन्दराकारयोरपि ॥ १२० ॥ सन स्यान्मन्दिरे नीरे छम साध्यापदेशयोः ।। धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः ॥ १२१ ॥ प्रेम नर्मणि च स्नेहे व्योम वारिविहायसोः॥ पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ॥ १२२ ।। लक्ष्मि चिह्न प्रधाने स्यादशनिः पविविद्युतोः॥ अरनिः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १२३ ।। सेनानीः कार्तिकेये स्यात्तथा सेनापतावऽपि ॥ हादिनी वज्रतडितोः कामिनी भीरुवन्दयोः ॥ १२४ ॥ वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः ॥ वर्चनी तर्कुपिण्डे स्याद्वर्तनी मालने पथि ॥ १२५ ॥ बोधनी बोधपिप्पल्योर्बोधनं गन्धबोधने॥ वाणिनी नर्तकीमत्तविदग्धवनितासु च ॥ १२६ ॥ रजनी नीलिकालाक्षाहरिद्रायामिनीषु च ॥ नलिनी पद्मिनीपद्मव्योमसिन्धुसरोवरे ॥ १२७ ॥ नलिकायाश्च नलिनी नलिनं कमले जले ॥ मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ॥ १२८॥ चम्पानग- गौर्याच मन्दाकिन्याञ्च मालिनी ॥ शङ्खिनी श्वेतपुन्नागे चौरपुष्प्यां वधृभिदि ॥ १२९ ॥ पद्मिनी स्त्रीविशेष स्यात् सरस्यामम्बुजेऽपि च ॥ हस्तिनी गजयोषायां नारीभेदे च हस्तिनी ॥ १३० ॥ सन्धिनी तु वृषाक्रान्ताकालदुग्धगवोः स्मृता ॥ भट्टिनी द्विजमार्यायां नाट्योक्तौ राजयोषिति ॥ १३१ ॥ .

९६ विश्वप्रकाशः। रेचनी त्रितादन्ती गुडरोचनिकासु च ॥ अर्शोघ्नी तालमूल्यां स्यादर्शोघ्नः शूरणेऽपि च ॥ १३२ ॥ शतघ्नी शस्त्रभेदे स्याद् वृश्चिकाल्यां करञ्जके ॥ असिनी स्यादवृद्धान्तःपुरप्रेष्यस्त्रियां धुनौ ॥ १३३ ॥ सूचनाव्यधने दृष्टौ गन्धनेऽभिनयेऽपि च ॥ भावना लेपने ध्याने वेदना ज्ञानदुःखयोः ॥१३४ ॥ कुहना दम्भच-यामीालौ कुहनः पुनः ॥ पूतना राक्षसीभेदे हरीतक्याञ्च पूतना ॥ १३५ ।। पृतनानीकनीसेना चमूसैन्यान्तरेऽपि च ॥ चेतना संविदि मोक्ता वाच्यवत् प्राणिनि स्मृता ॥१३६॥ प्रसन्ना मदुरायाच प्रसादसहितेऽन्यवत् ॥ ललना नाडिकाभेदे जिह्वायां वरयोषिति ॥ श्लेष्मनी कथिता मल्ल्यां काम्पिल्लकफणिज्जयोः॥१३७॥ नचतुष्कम् ॥ महाधनं महामूल्ये सुवस्त्रे सिल्हकेपि च ॥ तपोधनस्तापसे स्यान्मुण्डीर्याश्च तपोधना ॥ १३८॥ आराधनं तोषणे स्यात् प्राप्तौ च पचनेऽपि च ॥ उपधानं विशेषे च गेडुके प्रणयेऽपि च ॥ १३९ ॥ प्राणिधानं प्रयत्ने स्यात् प्रवेशे च समाहितौ ॥ आयोधनं वधे युद्धेऽवलमो मध्यलग्नयोः ॥ १४० ॥ अभिजनः कुले ख्याती जन्मभूम्यां कुलध्वजे ॥ भवेत् पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ॥ १४१ ॥ विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च । पृथग्जनः स्मृतो नीचे मूर्खे चाऽथ प्रयोजने ॥ १४२ ॥ कायहेत्वोर्निधुवनं सुरते कम्पनेऽपि च ।।

विश्वप्रकाशः।
९७
अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे ॥ १४३ ॥
अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् ॥
प्रवचनं स्मृतं वेदे प्रकृष्टवचनेऽपि च ॥ १४४ ॥
वैरोचनस्तु सुगते बलिदैत्यार्कपुत्रयोः ॥
विरोचनोऽर्के दहने चन्द्रे प्रहादनन्दने ॥ १४५ ॥
आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥
अभिपन्नोऽपराध्येऽभिद्रुते ग्रस्ते विपद्गते ॥ १४६ ॥
प्रतिपन्नः स्मृतो धीरैर्विज्ञातेऽङ्गीकृतेऽपि च ॥
समापन्नं समासे स्यात् प्राप्ते क्लिष्टे वधेऽपि च ॥ १४७ ॥
भवेत् प्रजननं योनौ जन्मनि प्रगमेऽपि च ॥
आकलनं विवन्धे स्यादाकासापरिसङ्ख्ययोः ॥ १४८ ॥
सम्मूर्छनमभिव्याप्तौ सम्मूर्छामोहयोरपि ॥
निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतौ ॥ १४९ ॥
कपीतनं गईभाण्डशिरीषाम्रातकेषु च ।।
अश्वत्थे च समुत्थानमुद्यमे रोगनिर्णये ॥ १५० ।।
आच्छादनं सम्पिधाने स्मृतं वस्त्रे प्रवारणे ॥
राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ॥ १५१ ॥
क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः॥
उत्सादनं समुल्लेखोद्वाहनोद्वर्त्तनेषु च ॥ १५२ ॥
वृक्षादनश्चलदले मधुक्षुद्रकुठारयोः ॥
वृक्षादनी स्मृता वन्दाविदारीगन्धयोरपि ॥ १५३ ॥
सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ॥
अवदानमितिवृत्ते कर्मखण्डनयोरपि ॥ १५४ ॥
कुचन्दनञ्च पत्राङ्गे द्रुभेदे रक्तचन्दने ॥
आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च ॥१५५ ॥

९८ विश्वप्रकाशः। संवननं समालोचे वशीकारे प्रकीर्तितम् ॥ विहेठनन्तु हिंसायां मर्दने च विडम्बने ॥ १५६ ॥ जलाटनो लोहपृष्ठे जलौकायां जलाटनी ॥ प्रस्फोटनं भवेत् सूर्प ताडने च प्रकाशने ॥ १५७ ॥ उत्पतनं समुत्पत्तौ तथार्द्धगमनेऽपि च ॥ उद्वर्त्तनं सोत्पतनेऽप्यपावृत्तौ विलेपने ॥ १५८ ॥ समादानं समीचीनग्रहणे नित्यकर्मणि ॥ संयमनी व्रते पु- संयमनी यमस्य च ॥ १५९॥ निशमनं स्तुतौ दृष्टौ दृष्ट्यालोचे निशामनम् ॥ प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ १६० ॥ अभिमानः स्मृतो ज्ञाने वर्गे प्रणयहिंसयोः ॥ अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च ॥ १६१॥ वर्द्धमानः पुष्टिभेदे शरावैरण्डविष्णुषु ॥ मालुधानश्चित्रसर्प मालुधानी लतान्तरे ॥ १६२ ॥ प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ॥ भवेदुदयनो वत्सराजेऽगस्त्यमुनावऽपि ॥ १६३ ॥ विहननं विघाते स्यात् पिञ्जने तूलधूनने ॥ संवाहनं वाहनेऽपि भारादेरङ्गमईने ॥ १६४ ॥ उद्वाहनं दिशीत्ये स्याद्रज्जावुद्वाहिनी मता ॥ महासेनो विशाखे स्यान्महासैन्यपतावपि ॥ १६५ ॥ रसायनं विडङ्गे स्याद्राजव्याधिजितौषधे ॥ रसायनः पक्षिराजे विषेऽपि च रसायनम् ॥ १६६ ॥ कात्यायनो वररुचौ गौर्या कात्यायनी मता ॥ काषायवस्वविधवाऽर्द्धजरत्यामपीष्यते ॥ १६७ ॥ सुदर्शनो हरेश्चक्रेऽमरावत्यां सुदर्शना ॥

विश्वप्रकाशः।
९९
आज्ञायामोषधीभेदे मरुजम्ब्वां सुदर्शना ॥ १६८ ॥
निर्भर्त्सनं खलीकारेऽलक्त के च समापनम् ॥
परिच्छेदे समाप्तौ च समाधाने प्रमापणे ॥ १६९ ॥
अन्वासनं स्नेहवस्ताबुपास्तावनुशोचने ॥
उपासनं शराभ्यासे शुश्रूषायाञ्च हिंसने ॥ १७० ॥
निरसनं निरासे स्याद्धे निष्ठीवनेऽपि च ॥
निर्वासनं हिंसने च नगराबहिष्कृतौ ॥ १७१ ॥
आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः॥
सारसनं मेखलायामुरवे च तनुत्रिणाम् ।। १७२ ॥
महसनं भवेद्भङ्गे प्रहासाक्षेपयोरपि ॥
वारासनं वा सदने शूल्मपद्वारपालयोः ॥ १७३ ॥
घनाघनो घातुकमत्तदन्तिनो-
निरन्तरे वासववर्युकाब्दयोः ।
सनातनः शाश्वतकंसवैरिणोः
शिवे पितॄणामतिथौ मुनिश्चले ॥ १७४ ॥
सुयामुनो वत्सराजे प्रसादेऽभ्यन्तरेऽच्युते ॥
विस्मापनाख्या कुहके गन्धर्वनगरे स्मरे ॥ १७५ ॥
मुकर्मा ग्रहयोगे स्यात् सुकर्मा देवशिल्पिनि ।
दुर्नामाख्यातिगुदजदीर्घकोशिकयोरपि ॥ १७६ ॥
द्विजन्मा दशने विप्रे भूतात्मा पुद्गले विधौ ॥
आर्यमा सूर्यभक्तायां सूर्ये च पितृदैवते ॥ १७७ ॥
सुदामा भूधरे मेघे विश्वग्ज्ञाऽनलचन्द्रयोः ।
सुधन्वा प्रौढधानुष्क सुधन्वा विश्वकर्मणि ॥ १७८ ॥
वनश्वा गन्धमार्जारे बन्धकव्याघ्रयोरपि ॥
परिश्वा क्रतुकर्मज्ञे याज्ञिके परिचारके ॥ १७९ ॥

विश्वप्रकाशः। अथर्वा ब्राह्मणे वेदे त्वऽथर्व परिकीर्तितम् ॥ सुपर्वा त्रिदशे वंशे शरे धूमेऽपि पर्वणि ॥ १८० ॥ ललाम च ललामञ्च लाञ्छनध्वजवाजिषु ॥ शृङ्गे प्रधाने भूषायां रम्ये बालधिपुण्ड्योः ॥ १८१॥ प्रभावे च कलापी तु प्लक्षबर्हिणयोरपि ॥ प्रत्यर्थी कथितः शत्रौ प्रत्यर्थी प्रतिवादिनि ॥ १८२ ॥ केशरी तुरगे सिंहे पुन्नागे नागकेशरे ।। शिखरी पादपे शैले तथाऽपामार्गकोट्टयोः ॥ १८३ ॥ शृङ्गारी तु मुवेशे स्यात् क्रमुके च मतङ्गजे ॥ विलासी भोगिनि व्याले पलाशी वृक्षरक्षसोः ॥ १८४ ॥ शिखण्डी तु मयूरे स्याद्वाणक्षत्रियभेदयोः ॥ कलापे चाऽथ गुञ्जायां यूथिकायां शिखण्डिनी ॥ १८५ ॥ विषयि त्विन्द्रिये ख्यातं वाच्यवद्विषयान्विते । व्यवायी कामपे द्रव्यविशेषे च समीरितः ॥ १८६॥ तपस्वी तापसे चानुकम्पके च तपस्विनी ॥ मांसिका कटुरोहिण्योस्तरस्वी वेगिर्रयोः ॥ १८७ ॥ लागली बलभद्रे स्यान्नारिकेले च लागली ॥ कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले ॥ १८८ ॥ चोलकी तु करीरे स्यानारङ्गे किष्कुपर्वणि ॥ फलकी स्यादल्सिाख्यमत्स्ये फलकपाणिके ॥ १८९ ।। कञ्चुकी भुजगे पिङ्गे मल्ले जाङ्गलिकद्रुमे ।। सामयोनिस्तु सामोत्थे सामयोनिर्गजे विधौ ॥ १९० ॥ कुम्भयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि ॥ आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले ॥ १९१॥ महामुनिरगस्त्ये स्यादन्याकागस्त्ययोरपि ॥

૨ . २ । -(७) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- (वेदान्तः ) ६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ (वेदान्तः) १ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् (१३) न्यायमकरन्दः । श्रीमदानन्दवोधभट्टा- रकाचार्यसंगृहीतः । आचार्यचित्सुख- (वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१२) विभक्त्यर्थनिर्णयःन्यायानुसारिपथमादि- सप्तविभक्तिविस्तृतविचाररूपः म०म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (२३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं० ( मीमांसा) (१४) न्यायसुधा ( तन्त्रवार्तिकटीका ) भट्ट- सोमेश्वरविरचिता। (मीमांसा) १६ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । (वेदान्तः)२ श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः ( जैमिनीयद्वादशा- ऽध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज ( मीमांसा )२ भट्टशङ्करविरचितः। (१७) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो- पाध्यायधीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसा- सारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत- स्तत्कृतव्याख्यासमल कृतश्च । ( वेदान्त)३ (१०) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायधीकर्का- चायविरचितभाष्यसहितम् । (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः ) (२१)श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण- विरचितया खण्डनफकिकाविभजनाख्यया व्या- ( वेदान्तः ) १३ ख्यया (विद्यासागरी ) ति प्रसिद्धया समेतम्। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता । (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया- ऽवतराणिकया च सहितम् । १

Vishvaprakasha

Author
Pandit Ratna Gopal Bhatta
Title
Vishvaprakasha
File name
Vishvaprakasha
Text
OCR done
Published
2005/02/10
Publisher
Chowkhamba Sanskrit Book Department Benares
Language
Sanskrit
Pages
102
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495754
Barcode
1990030070666.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
fnQ3wamR2HV
Download PDF

Vishvaprakasha