Svi-ksri-chennai
Kaund-id'anyaprahasanamuu
Front matter
No text on this page.
No text on this page.
KOUNDINYA PRAHASANA
(A Comic Play in Two Acts)
BY
Y. MAHALINGA SASTRI, B.A., B.L.,
Advocate, Mylapore, Madras.
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE.
1930
All Rights Reserved]
[Price Eight annas.
No text on this page.
PREFACE. Sanskrit literature is rich in its store of tragi-comedies and lyrical love-dramas, which for ages have been cur favcurites both in the study and upon the stage. I am not aware of any instances of the Sanskrit Prahasanas having been accorded a similar recognition. But Prahasanas too have a meaning in life as much as the more serious types among the Rūpakas. The significance of the present one for us consists in the presentation in it of Appetite as the root-cause of the friction between the two classes of men, -the owner and the trespasser. Appetite, metaphorically, stands for all the indomitable animal cravings in man. Trivial, indeed, is the incident of this Prahasana, but it is conceived symbolically. Life is a deep dark game and if represented in the magnitude of its seriousness will lend itself only to a tragedy. A comic writer has unwittingly digested the poison and smiles in innocent composure. This work was done to order and was intended to be staged on a specified occasion. Though eventually the original purpose was not given effect to by those concerned, my thanks are due to Mr. V. Raghavan, Sanskrit Honours Student of the Presidency College, for his having given this turn to my literary endeavours. I am much obliged to the learned Editor of the Udyāna Patrikā for his having published this piece first in his journal. I shall be glad to give the necessary permission to any of my readers who may be desirous of trying this play upon the stage. MYLAPORE, 24 PALEOR F1930. } Y. MAHALINGA SASTRI, .... .... On Koundinya Prahasana- एतल्लेखनेन प्रकटितनैसर्गिककवनसंस्कारविशेषोऽयं शास्त्रिमहा- शयो नात्यन्तमिदानी कवयो न सन्तीति प्रदर्शयन् अस्माकं हृदयाश्वास सम्पादयति न केवलं शब्दरचनायां न केवलमर्थघटनायां न कवलं विवक्षितार्थप्रतिपादनसमर्थपदप्रयोगे, अपि तु रसविशेषमङ्गिनं कृत्वा तत्र सर्वदा निहितदृष्टिः असंबन्धिलेशमप्यस्पृशन् समुचितालङ्कारविन्यासेनेष्टमर्थ झटित्याविर्भावयन् रूपकविशेषनिर्माणेऽपि अस्य कवेः प्रतिभा संविधानशक्तिश्व कस्य सहृदयस्य नाहादाय भविष्यति ॥ --Thc Udyana Patrika Editorial प्रगल्भते । .... .... ....
॥ श्रीः ॥ श्रीमन्महालिङ्गप्रणीतं कौण्डिन्यप्रहसनम् ॥ मृद्धी धृताऽधरपुटे लघुपीडनेन श्च्यातनिरन्तररसा रसकोविदानाम् । वर्णप्रकर्षविलसद्धहलामिकाढया युप्मान् धिनोतु कविता मधुशप्कुलीव ॥ नान्द्यन्ते सूत्रधार:-अब किल शरचन्द्रिकया प्रहसिते दिगन्तराळे , समन्ताद्भु- वःस्थलेऽपि, पलितजर्जरशरकन्दलीताण्डवाडम्बरमिवोपहसन्ती- पृत्फुल्लवदनामृत्पलिनीपु, देशकालानुरोधः कर्तव्य इति सामाजि- काराधनायाभिनवं कौण्डिन्यनामाङ्कितं प्रहसनं प्रयोक्तुमुद्युक्तो- ऽस्मि । अस्य च रचयिता कुले महत्यप्पयदीक्षितानां श्रीत्यागराजाध्यरिणां प्रपौत्रः । विपश्चितो यज्ञकचेस्तनूजः श्रीमान्महालिङ्ग इति प्रतीतः ॥ २ ॥ अत्र हि प्रथमं जिह्मलागृध्रनालयोः प्रवेशः । नेपथ्ये प्रिये जिह्मले , सूत्रधारः---- कथमुपक्रान्तमेव वस्तु कुशीलवैः । तदहमप्यनन्तरकर- णीयाय सज्जीभवामि । (इति निष्क्रान्तः ।) । प्रस्तावना ॥
२ कौण्डिन्यप्रहसनम् । ततः प्रविशति जिह्मलयाऽन्वास्यमानो गृध्रनासः । गृध्रनास:-प्रिये जिह्मले अघ द्वादशीति कल्य एव निवर्तितपारणस्य मे किमप्यपराणाशनं कल्पयितुमर्हसि । जिह्मला --नाथ , एवमेव ममापि मनसि स्थितम् । तद्बहि पिष्टापूपं मोदकं माषपूपं सक्तुं स्वीयं ल-डुकं शष्कुली वा । पौलि फेणी शर्करानं करम्भ स्वाद्यं खाद्यं किन्नु ते कल्पयामि ॥ ३॥ गृध्रनासः---प्रिये, उपस्थिते भक्ष्यवर्गे अन्यतमस्वीकरणं नाम बहुपत्नीकस्ये- व दक्षिणनायकस्य महत् बहुमानसंकटं जिह्वाशालिनाम् । तथाऽपीयमस्तु परिच्छेदपद्धतिः । माषापूपः सुहृदिव शठः क्लेशदायी विपाके साधारण्यात् परिचित इवानादरस्सक्तुपिष्टे । अस्त्युद्वेगो मधुरविकृतिप्वाप्तवाक्येपु यद्वत् सेवाक्लेशो रसविधुरता शप्कुलीदुष्प्रबन्धे ॥४॥ प्रिये जानासि खलु भगवतो द्वारकानाथस्येव मे पक्षपातं पृथुकेषु। जिह्मला- अथ किम् । गृध्रनासः- तेन हि- घृतभृष्टमुपेतनारिकेलं छुरितलं मधुगोस्तनीफलाढयम् । पृथुलोचनि कल्पयाशु मा पृथुकानं गुडपाकसंप्रक्लप्तम् ॥ ५ ॥ अथ वा मरीचचिपिटं घृतभृष्टं कषितनारिकेलयुतम् । मिथ्यारोषस्फुरित- त्वदधरमृदुलोपखण्ड्यमुपधेहि ॥ ६ ॥ जिह्मला— गौडमेव चिपिटपाकं संविधास्यामि । न तु मरीचकृतं, यमुद्दि- श्यासंबद्धं किमप्येवं वर्णयति भवान् । (इति वैलक्ष्यं नाटयति ।)
कौण्डिन्यप्रहसनम् । ३ . गृध्रनासः-- प्रिये, मर्षय मर्षय अथवा मचिचिपिटो विश्राम्यतु, किं प्रजाल्पतं नु मया। मिथ्यारोपस्फुरित त्वदधरमृदुता कुतो वराकस्य ॥ ७ ॥ (इत्यधरग्रहणमिच्छति) जिमला ---- (मुखमपनयन्ती) नाथ विपणिं गत्वा द्राक्षलादिकं कः केप्य- तीतिभवतोऽध्यवसायः। अद्य कर्मकर्याप किलास्वास्थ्यमप- दिश्य विश्राम्यति । गृध्रनासः-- अयि, सुमुखि, किमहमन्यत्करोमि । एप प्रस्थित एवास्मि विपणिम् । अपिच नान्यस्मिञ्जनेऽवरोपयितुं शक्यो गुप्तनिर्वा- ह्योऽसौ नियोगः येनामदारम्भमधिकृत्य परपिण्डलोलुपस्य कौण्डिन्य ब्रह्मचारिहतकस्य दूराद् गन्धोपलधरप्यवकाशो न दातव्यः । स चेदस्मद्विपणिमार्गगतागतेन पाकविशेष परि- शङ्कते, पक्षद्वार एवं प्रायोपवेशं करियति धृष्टः । ततश्च, कदलीविक्रेतुरापणान्तर प्रवेशितमुवस्येव चत्वरवृषभस्य तस्य व्युदरानं न सुकरम् । न चापि पारयिष्यावरतमभितर्प- यितुम् । यहाडबमग्निमुदरे विभ्रत् स सर्वाशी उपकल्पयि- तृगामशलेशमप्यवशेप्यमाणं नक्षमते। नाहं नातिथिप्रियः; किन्तु, नित्यं परान्नलोलाय निव्यापारेण तिष्ठते । न दद्याद्वासमन्नं वा द्विजायाप्यलसात्मने ॥ ८ ॥ इत्यभिरूपोपदेशः । तद्यक्त्या केदारपर्यटनायेव निर्गत्य नटराजश्रेष्ठिन आपणे केतव्यं क्रीत्वा त्वरितं निवर्तिष्ये । त्वमाप तावत् सावधाना भव । (इति प्रस्थितः ।) जिह्मला-- इदमर्गलितं कवाटम् । (इत्युभौ निष्क्रान्तौ ।) ॥प्रथमोऽङ्कः॥ , ४ कौण्डिन्यप्रहसनम् । ततः प्रविशति कौण्डिन्यः । कौण्डिन्यः -- अहो परान्नभोजनं नाम स्वर्गभागो मनु-याणाम् । आति- थ्यमुत्रकारनं चिन्तारत्नमस्मद्धम्तगतं विहितम् । तथाहि, कुतस्तम्भारचिन्ता मे कुतो मे पाकसंभ्रमः। देशकालविदा पात्रेसामतेनैव भूयते ॥ ९ ॥ काममविगीतेयमीदृशी परान्ननियनचर्या । यतः-- नाथसंग्रहणे लोभो नेा स्फीतेषु गहिषु । न स्वीयं न पराधीनमातिथ्ये केवल स्थितिः ॥ १० ॥ अपि च, स्वगृहे नित्यमश्मन्तप्रज्वलनविरामकरणापरपर्याया परान्ननिष्ठता नाभेयं व्रतचा प्रायो दुश्चराऽवशीकृतेन्द्रियाणाम् । यतः- घटेत चेत् द्वित्रदिनाशनग्रहः करिप्यते किन्न सनिषादिना । अथान्तरा निष्करुणा यदा विधि- ने दुष्करं द्विदिनान्युपोपणम् ॥ ११ ॥ परम्परागतः खल्वयं धर्मो मामद्यानुवर्तते । कुतः कुलधर्मेऽस्व- रसतानाम श्रेयस्कामग्य । तथा च मत्पितृव्यो वटिकानाथमिश्रः कम्य नामृन्मान्यगुणः । कृत्वा पर्ण हि वटिकाशतभक्षणाय पूर्ण नवाधिकनवत्यशनेऽथ यस्य । उद्गीर्णलोचनयुगस्य पुरा मुभूपीः शिष्ट्रकसंग्रहरूचि कृतिनः स्मरन्ति ॥ १२ ॥ (सानं महान्तः वल्वारोहन्त्युग्राण्येव ब्रतानि । उपारूढाश्च प्रा- णपरित्यागेनापि व्रतनिर्वहणपरा भवन्तीत्येतदनुमतमेव वि- पश्चिगोष्ठीपु । निन्दन्तु नाम खल्पज्ञाः । नास्माकं किंचित्प- रिहीयते । तथाहि-- ६ कौण्डिन्यप्रहसनम् । गृहस्वामिनम् । अहो सुस्निग्धता जिह्मलाकरप्रमार्जनविहित- शोभस्यालिन्दप्रदेशस्य । उग्रातपायामस्यां वेळायां सुलभा खलु मुशीतले प्रच्छायतले निद्रालुताऽस्मादृशानाम् । तत्कथं नि- द्राजाड्यमपनुदामि । अथवा गास्यामि तावत् । -चिन्ता नास्ति किल-तेषां-चिन्ता नास्ति किल । - परगृहभोजनपरितुष्टानां नित्यातिथ्योत्सव-निष्टानाम् । कालत्रयाविरताद्यांगानां किं च समेतामितभोगानाम् । गृहमधिनिमन्त्रणचित्तानां षटरसभारताशनमत्तानाम् ॥ १५ ॥ (ततः प्रविशत्यन्तगृहे पाककर्मव्यग्रा जिह्मला) जिह्मला--- निवृत्तप्रायः पाकः । कुतश्चिरयति नाथा द्राक्षैलादिकमुपनेतुं । अहो गुडचिपिटपाको नाम देवतानामेव योग्योऽभ्यवहारः । क- थं गीतशब्द इव । आः, ज्ञातम् । स खलु, गृहद्वारि चत्वरर्ष- भः क्षुधाों वुवुरायते । (दृष्ट्वा) दिष्टया, पश्चिमकोष्टद्वारेणैव प्रविशति नाथः । (यथोक्तं प्रविश्य) गृध्रनास:--प्रिये गृहाणैतत्सर्वं । स खलु पिचण्डपिशाचो गृहमधिजनव- ह्मराक्षसोऽलिन्दे सुखोपविष्टो गायन्नास्त । तद्दरादेवावगत्य पश्चिमकोष्ठद्वोरण प्रविष्टोऽस्मि । निर्वतयाविलम्बेन चिपिटम् । यावद्भक्तलध्वशन एव कपाटमपावृणोमि । - नाथ प्रागेव सज्जम् सर्वं । द्राक्षलामिश्रणमात्रमवशिष्यते । (इति द्राक्षैलादिकं मिश्रयति) । नाथ इदं निवृत्तम् । किन्त्वतितप्तं वर्तते । यावत्सह्याप्णं निर्वाणं भवति तावत्प्रतिपालय । कौण्डिन्यः _अये एलागन्धः समुच्चरति ।
कौण्डिन्यप्रहसनम् । तज्जिह्मलाग्रस्तुतमस्ति किंचि- न्नूनं गृहान्तर्गुडसंविधानम् । जिट्ववाजुषामादृशसंशयषु किल प्रमाणं रसना जलार्दा ॥ १६ ॥ अन्तरालाप इव श्रयते । तत्किमेष वृद्धशृगालो मां वञ्चयि- त्वा पश्चिमकोष्ठद्वारेण गृहं प्रविष्टः । किं कौण्डिन्याऽप्येवं व- उच्यते । यज्ञभागमिव महेश्वरस्य नित्यभिक्षोर्ममोपायनभाग नि- पद्धं कः प्रभविष्यति । तद्गृहस्य पृष्ठतो गत्वा परीक्षिप्ये ! (इति परिक्रम्य) दिष्ट्या मयि प्रसन्नस्येव देवस्य हृदयं सिद्धिमार्गो ममोद्घाटितो वर्तते । यावत्प्रविशामि । द्वारं वाचत्वापि गृहस्य भित्ति : क्वायर्धचन्द्रः क्वचिदुग्रवाचः । परान्नाचतैः कृपणोपरोधा उल्लंघनीया हि भवन्ति नित्यम् ॥ १७ ॥ (इति प्रविशति) जिह्मला न किल सन्दानितं मूढया मया पश्चिमकोष्ठद्वारम् । एषा नि- मेपमात्रेणागच्छामि । (इति परिक्रामति) गृध्रनासः- अहो कियचिरमतन्न निर्वाणं भवति । अद्यापि धूमायमानमेव वर्तते । जिह्मला- (दृष्टया) हा धिक मुपितौ स्वः । (इति सपलायनं निवृत्य) एप चोर इव पश्चिमद्वारेणैव प्रविशति निर्लजः । नाथ का गातरधुना । इति रोदिति] गृध्रनास:- हा किं प्रविष्टम्स हतकः । एप निरवशिष्टपुलाकं करोमि कां- स्यकन्दुम् । इत्यङ्गलिदाहं दहन्तमपि चिपिटम्तोमं मुखे प्र- क्षिपन्नसह्यवेदनतया हाहा कुर्वन् सदिति ।) जिल्लला हा नाथ किं त्वया कृतम् । हा मत्पाणवल्लभ अनाहूतप्रविष्टैः श्वमिारव परचर्वणलोलुपैरसज्जनस्ते फियदत्याहितमुपनिपात्यते । - ८ कौण्डिन्यप्रहसनम् । । , उद्गलत इव ते अक्षिणी । स्पुटत इव गण्डपिण्डौ । अयि नाथ इदृशीमवस्थां गतोऽसि । [इति रुदती मुखे फूत्कुर्वती पटाञ्चलेना- वृत्य वीजयति कौण्डिन्यः- (उपसृत्य) भद्रे किमेतत् । कथं सहसैवेदृशं संवृत्तम् । जिह्मला- हा मज्जीवितेश्वर किं मा न प्रतिभाषले । प्रणष्टे त्वयि कथमेका- किनी प्राणान् धारयिष्यामि । कौण्डिन्यः— भद्रे, अत्र प्रतीकारं निरूपयामः । ब्रहि तावत् किं वृत्तमिति । अलं सन्तप्य । जिह्मला..... अहो, महाब्राह्मण, एवमनाथाऽस्मि खलु संवृत्ता । इति तारं रोदिति] कौण्डिन्यः--भवति, सनाथा भविष्यति । मा शुचः । गृहखामी चायं न केवलं तव किंतु मादृशानामपि श्लाघ्यौदार्यगुणैरातिथ्यकरगवै- शाल्येन च नित्यं प्रेयानास्ते । तद्वितब्ध बहि कीदृशोऽयं विकारः कथमिदानीमियमुल्बणतेति । चिन्तयामः प्रतीकारम् । जिह्मला- महाब्राह्मण, अद्य कति दिवसानि मे प्रागेश्वरस्य कपोलगण्डोल्व- णमखास्थयमनुभवतः । किमजानन्निव पृच्छसि । उत्कुपि- तश्चाय ज्वरवेगो दवाग्नाविव चण्डमारुतः प्रवर्तते । अद्य मे कृतान्तहतकः सौमङ्गल्यतन्तुविलोटनाय नूनमुत्सहते । इतःपरं न कोऽपि में बन्धुर्भवति लोकेऽस्मिन् । (इति निम्सहं रोदिति) कौण्डिन्यः—नैष्ठिकब्रह्मचारिणो मे वचनेन ते लोकेऽस्मिन् बन्धूनामविच्छदो भविष्यति । किं तु कतिपयदिनैरवस्थं ते गृहखामिनं कथं भणसि । मुहूतीदागेवासौ दृढकल्यशरीरो विषाणगोचरोऽभूत् । जिह्मला- बाढं महाब्राह्मण बाढम् । अपुरुषसहायतया स्वयमेव गण्ड- चिकित्साहताभिषजमन्विष्यन् यावन्निर्गतम्तावदुल्बणीभूतवेदनः क्रन्दन्नुपेत्य निपतित ईदृशीमवस्थामनुभवति । तदनुकम्प्य नौ वैधमानयतु भवान् शीघ्रम् । पुण्यं तें भावप्यति । , उधानपलिका। कौण्डिन्यः-अवश्यमानयामि भद्रे । मा भैषीः । किन्तु उल्बणारम्भ, इव दृश्यमाना व्याधयः कदाचिभ्रान्तिमूलका एवानुपदं निरू- प्यन्ते । तदपनयतु भवती अंशुकाच्छादनम् । पश्याम्या- मयविशेषस्य स्वरूपम् । न च न जानामि भैषज्यम् । जिह्मला --अहह कि मुधा विलम्बकरणेन । न पश्यसि सिमसिमाथ- मानान्यङ्गानि । न शृणोषि च कण्ठे वर्धरितम् । हा नाथ एवं मन्दभागिनीं मां परित्यज्य क यासि । (इति परिष्वज्य रुदती) कुशलिनं त्वां चर्वितुमभिपतन्यर्थिनो नानारूपाः । मुमूर्षु त्वामधिंगत्य तु वैवानयनायापि न त्वरन्ते । निर्धणः खलु लोकः । कौण्डिन्यः ---अवितथमाह भवती । एवं निर्धणो लोकः यो गृध्र इव मृतमपि परं नासिकया सर्वकालं विदारयन् मृत्युमपि खयं वृ- णुयात् । न तु परस्येषत्करां प्रीतिं विदध्यात् । जिमला --अयि निष्ठुर, कथं मुधा वितण्डां पल्लवयसि । शापितोऽस्यस्य मे प्राणेश्वरस्य निर्जिगमिषुभिः प्राणैः यदि न संधी निर्गत्य वै- द्यमानयसि ।। कौण्डिन्यः-भवति, मा भूत्ते मय्युपतापः । एष क्षणादेवानयामि भिषजम् । (स्वगत) अहो, जम्भलीसुतायाः सामर्थ्यसारः । (इति परि- क्रम्य मुखद्वारमुद्घाट्य देहल्यन्तर एव कुसूलपार्थे निलीयते ।) कथंकारं कौण्डिन्योऽप्युपात्तभक्ष्यगन्धो वञ्च्यते । दृष्टः खलु मया गृध्रचक्षुषा अनयोः कृपणदम्पत्योः पार्थे उपाक्षिप्तशु- कनिग्रहितः कांस्यकन्दुः । भवति समये पुनरात्मानमाविष्क- " रोमि । जिह्मला -अंशुकमाक्षिप्य] नाथ, गृध्रनासः -प्रिये, किं गतः स हतका (इत्यक्षिणी उन्मील्योत्तिष्ठति) 3 कौण्डिन्यप्रहसनम् । जिह्मला.- अथ किम् । कृच्छेण खलु निर्जितो मया । यत्पुरुषा ब- लात्कारेण तस्त्रियो ललिततरं साहसेनैव साधयन्ति । गृध्रनासः-अयि मायाकरण्डिके दृष्टस्ते साहसविक्रमः । अनुभूतश्च ब्र- मचारिसाक्षिकं ते दिवा स्वयं कण्ठग्रहालिङ्गनप्रणयः । जिह्मला-- आस्तामेतत् । अयि नाथ, कथं पश्यसि मद्रुदितमलपितान्य- न्तरेण । गृध्रनासः-किमुच्यते । एतादृशानि स्वच्छन्दप्रेमाविष्करणान्यनुभावतुं, स्वास्थ्यदशादुर्लभानि प्रणयसंबोधनानीदृशानि श्रोतुं च, यत्सत्य- मलीकमरणसहस्रेणापि मे हृदयपरिपूर्तिन भविष्यति । अपि च दयिते, कथं पश्यसि मे गण्डदाहव्याजस्यातिशयप्रदर्शनसाहस- मन्तरण । जिह्मला- नाथ, यद्यपि गण्डदाहिना पृथुकेन समीचीनमुपकृत तथापि नितरां दुर्जनायितं वेदनाप्रदेन तेनेति गाढमुत्कंपितं मे हृदयम् । एहि, व्यादेहि तावन्मुखम् । गृध्रनासः--प्रिये, यत्किञ्चिदेतत् । तेन हि स दुष्टब्रह्मचारी भिषजा सह यावन्न प्रतिनिवर्तते तावत्परिवेषय मे गुडपृथुकमद्य निर्वाण- प्रायम् । जिह्मला--[स्मृत्वा] तेन हि प्रथमं उभे अपि गृहद्वारे दृढसन्दानित करो- मि । पश्चिमकोष्ठद्वारं पिधाय, ततो मुखद्वारं च घटयित्या सरभसं निवृत्य गृध्रनासस्य कर्णे] एवमिव । कौण्डिन्यः-किमेषा दुश्चारिणी मामुपलब्धवती । गृध्रनास :--[क्रोधेन दन्तान् कटकटाकृत्य] आः पापोऽयं ब्रह्मराक्षस इव नि- रन्तरं मामनुबध्नाति । मूर्तीदिव महाविघ्नादस्मात् कथंकार- महं विमोक्ष्ये । जिझला-- नाथ, मा तावदाक्रोश । युक्तथैवायं निस्यिो धृष्टः । ब- लात्कारोपक्रमे महान्तो दोषा भविष्यन्ति । मम त्वेवं प्रतिभाति ।
उद्यानपत्रिका। ११ गृध्रनासः-- प्रिये, किं हठप्रविष्टोऽयमौदरिको हठमन्तरेण निष्काल्यते। कालत्रयेऽप्येवमेवोद्वेगप्रदममुमेकेनैव मुसलप्रहारेण ग्रीष्मोदिक्तो- न्मादमिव श्वानं निवृत्तहिकं विधास्यामि । [इत्युत्थातुमिच्छति] जिह्मला... नाथ, क्रोधिनः खलु प्रायः पश्चात्तापैकशरणा. भवन्ति । अलं संभ्रमेण । अत्र छलमेवोपाश्रित्य यथाचिन्तितं साधयन्नन- पराद्धो भविष्यसि ग्रामसामाजिकानाम् । गृध्रनासः कीदृशं छलम् । जिह्मला -त्वया किल ब्रह्मराक्षस इवायमनुबध्नातीति भणितम् । स ब्रह्मराक्षस एव भवतु । गृध्रनासः --स पिप्पलाधिष्ठानः । जिह्मला अथ किम् । गृध्रनासः -प्रिये, पण्डिता खल्वसि । तेन हि तन्त्र प्रस्तूयतामुपोद्धातः । कौण्डिन्यः किमेतौ चिरं मन्त्रयतः । न च पृथुकभक्षणाय सज्जतः । कथ- मेतत् । जिह्मला - [उच्चैः स्वरेण] नाथ, नाथ, परित्रायस्व मां, परित्रायस्व माम् । कथमेवमेवेति निश्चयः । कौण्डिन्यः -महामायेयं कतमं पुनर्मिथ्याप्रपञ्चमुपदर्शयितुमाहोपुरुषिकामुर- रीकरोति सांप्रतम् । गृध्रनासः --- उच्चैः] प्रिये, अनुचिन्तनेन मे संशयच्छेदो जातः । योऽभूदेवकुलाग्रपिप्पलतरौ तिष्ठन् जनत्रासकृत् कृच्छ्रेणाथ च मन्त्रतन्त्रविधिभिस्तस्मात्किलोज्जासितः। एतैरेव दिनैः श्रुतो न किमसावाहिण्डमानो गृहान् मध्याह्नेऽतिकठोरतापविसरे काष्ठामगृह्णन् कचित् ॥१८॥ जिह्मला -नाथ, एवमेवैतत् । इदानी खलु स्मरामि मत्प्रतिवेशिन्या दन्तुरया कथितम् । ह्यः किल स ब्रह्मराक्षसः रिरूपेण कठोरेऽह्नि एकाकिनी दन्तुरामुपेत्य भिक्षामयाचत । गृधनासः -अपि सत्यम् । ततस्ततः । - ब्रह्मचा- कौण्डिन्यप्रहसनम् । --सत्यम् । तयैवं में प्रातरध कृतसभाषणया कथितम् । ततश्च योक्त्सा विरुवती पर्यधावत् तावत्तस्याः पतिः- गधनासा. प्रन्थिलमिश्रः । विमला- सरुभसं मुसलमादायाभ्यपतत् । ब्रह्मराक्षसस्तु कुसूलसंकटे देहलीकोणे न्यलीयत । गृध्रनासः -न तथापि व्यपेतः । अहो, महान् खल्वयमनर्थः । ततस्ततः । कौण्डिन्यः-किमिमौ दुष्टदंपती मन्निर्गममनेन व्यपदेशेनोपदिशतः । अ- मिर्गच्छति च मयि मुसलप्रयोगं चिन्तयत इति तर्कयामि । जिला -[अपवार्य] नाथ, साधूक्तं त्वया यबलात्कारमन्तरेण निर्लज एप न निष्कासयितुं शक्य इति । तदेवं भवतु । [ उच्चैः ] ततश्च दन्तुरापतिः मुसलमुद्यम्याभितोऽन्विष्यन् कुसूलकोणे ना- तशः प्रहारानसृजत् । गुनासः साधु भो ग्रन्थिलमिश्र साधु । एवं कृते स न पुनः प्रत्या- वर्तिष्यते । जिला ---ततश्च स ब्रह्मराक्षसः अभय में दातुमर्हसि, शरणागतोऽस्मि, न पुनरनया दिशाऽपि चरिष्यामि, इति क्रन्दन् अनुमतो निष्क्रान्तः । गृध्रनासः -- उच्चैर्विहस्य] एवं शिक्षितोऽपि मूढः खलु चापलमयते । न जानाति तपस्वी ग्रन्थिलमिश्रादाप दृढतरप्रहार प्रतिपक्षमिर- नुक्रोश मां गूधनासम् । कौण्डिन्यःएवं विजितो ब्रह्मराक्षसः प्रतिवेशकेन- । त्वमप्येनमध विजे- प्यसे । अहो मूर्ख, गृध्रनास, स्त्रीबुद्धिं प्रमाणयंस्त्वमद्य उ- दासीनजमस्य घृणास्पदं भविष्यसि । जिमका --नाथ, न मे विश्वासस्स किल ब्रह्मराक्षसोऽस्मद्गृहात् अद्य निर्गत इति । कदाचिन्निलीनी वर्तते । स किल सर्वदा क्षुधातः आहारगन्धमुपलभ्य न कथंचनापयातीति श्रयते ।
कौण्डिन्यप्रहसनम् । १३ -अस्मिंश्चाशान्ते रणरणक कथमितः परं निर्भीका गृहाभ्यन्तरे ऽपि गतागतानि कर्तुं पारयिष्यामि । 'सर्वथा हताऽस्मि यद्यत्रात्यन्तिकः कोऽपि प्रतीकारो न मृग्यते त्वया । गृध्रनासः -प्रिये मा भैषीः । एष मुसलहस्तो गृहाभ्यन्तरमन्वेषयामि । याद सोऽस्मलध्वशनमहोपसर्ग उपलभ्यते तं मडमडाकरिष्या- मि । (इति धीरं परिकामति) कौण्डिन्यः कथं गृध्रनासोऽप्योनायते । दिष्टया बुसपूर्णोऽयं कुसूलः । एष च शूर्पः । (शूर्पपूरं बुसमादाय सज्जस्तिष्ठति) । जिह्मला _नाथ, सावधामो भव । ब्रह्मराक्षसो बलपराक्रमवानिति किल वदन्ति । प्रथमं तावदेहलीप्रदेशे कुसुलप्रान्तमेव परीक्षस्व । यत्भ्यस्तविधिपरतन्त्राः प्राणिनः ।। गृध्रनासः -प्रिये, प्रत्यनन्तरीभव । (देहलीमुपसृत्य) अरे रे, नृशंस, अतिथिजनवञ्चनापातकलब्धदुर्जन्मदुर्भग, जन्मान्तरकदर्य, कुल भवसि । ब्रह्मराक्षसो जन्मराक्षसो वा भव । न तु पुनधनासात्परापतिप्यसि कथंचिदपि । (दृष्ट्वा) आः पाप, दृष्टोऽसि मया कृतान्तेन च । स्मरेदानी ग्रन्थिलमिश्रस्य (इति प्रहर्तुमिच्छति) कौण्डिन्यः—(गृध्रनासम्य मुखे बुसमवकीर्य) आदत्स्व त्वदौदार्यगुणतुच्छाने- तान् बुसविसरान् । गृध्रनासः -हा धिक् हा धिक्, प्रिये अवलंबख माम् । हा हा हतोऽस्मि । (इति सफीटकार विरौति) जिमला -हा नाथ, कथमात्तगन्धोऽसि पापिष्ठेन ब्रह्मरक्षसा । परित्राय- ध्वं परित्रायध्वं अशरणं में नाथम् । (इत्याक्रोशन्ती समाप- तति) कौण्डिन्यः -भोः गृध्रनासमिश्र, वं बुसं भक्षय । यावदहं गुडपृथुकं भ- 4
१४
कौण्डिन्यप्रहसनम् ।
,
क्षयामि । समीचीनः खल्वयं दण्डः नित्याचारशुद्धं ब्रह्मचा-
रिणं उपायनभागाद्वञ्चयितुकामस्य । (इत्युत्पत्य गुडपृथुकोपेतं
कांस्यकन्दुमादाय भक्षयन) भवति, किं गण्डपिण्डाथै वैद्यमान-
यामि, उत चक्षुर्विशोधनार्थम् ।
जिह्मला -हा नाथ, कथं चक्षुषी ते समुच्छूने । कथं खगृह एव परपि-
ण्डोपजीविना रथ्याकुक्कुरेणैवं परिभावितोऽसि । (कौण्डिन्यमुप-
धाव्य) त्रुट्यन्तु ते अङ्गुलयः । पततां ते भुजौ । निर्लज,
क्षिपैनं
कन्दुम् ।
गृध्रनासः -- (वेदनया सीत्कुर्वन्) प्रिये, नय मामन्तहम् । विधेहि प्रथम
मे नेत्रशोधनम् ।
जिह्मला –दुर्विधेः खल्वद्य नेत्रशोधन विधेयम् । इयता प्रयासेन प्रक्लप्तं
पृथुकपाकं योऽस्मदक्षिषु पांसु विकीर्य ध्वंसिष्यमाणस्य मर्कट-
मुखस्य ब्रह्मराक्षसहतकस्यास्य हस्ते समर्पितवान् ।
(इति गृध्रनासमन्तर्नयति)
कौण्डिन्यः -भवति, मा कुप्य, अतिथिजनवञ्चनापातकेनैव लब्धजन्मानो
ब्रह्मराक्षसा इति सुष्टु जानाति ते गृहस्वामी । तेन हि हठा-
दमुं पृथुकमुपगृह्णता मया भाविनो ब्रह्मराक्षसजन्मनोऽयं मोचित
इति मयि कृतज्ञा भवितुमर्हसि ।
जिह्मला -(दन्तान् कटकटाकुर्वती अङ्गुलिस्फोटैः शपन्ती च गृध्रनासेन
सह निष्क्रान्ता)।
कौण्डिन्यः -न केवलं गृध्रनासो ब्रह्मराक्षसः । जिह्मला च ब्रह्मराक्षस्येव ।
अहो, अनुरूपमनयोर्दाम्पत्यम् । भुञ्जानः] अथवा जिह्म-
लाहस्तकौशलं नूनमभिनन्दनमर्हति । अहो गुडचिपिटपाकस्त्र
मधुरता ।
तस्य लुब्धस्य दग्ध्वौष्ठौ सुखोष्णोऽयं भवन्मम ।
शंसत्यातिथ्यशास्त्रार्थपक्षपातमिव स्वकम् ॥ १९ ॥
॥ श्रीः ॥ शुद्धाशुद्धपत्रिका। Page. Line. Read. २ ५ १६ २१ ६ ३ For. पृथुलोचनि राध्नाति द्वोरण जिह्वा किल प्रमाणं देवस्य रोधा ताभि वरित कलभाषिणि रानाति द्वारेण जिह्वा प्रमाणमाद्यं रसना किला । देवस्य रोधा तोनि वरित ९ १३ ८ २४ ९ The "Srinivasa Press." Karugudi, TIRUVADI.
NOTES.
Page.
वर्ण
1.
Colour; complexion; word or syllable; caste or
face.
fHF Wave; finger-ring.
AT “ Jilobi."
ra Flag-like shoots of reeds.
आडम्बर Pride or arrogance; commencement.
2. कल्य
n. Daybreak.
TRAT Eating after a ſast.
379761377 Tiffin.
पूप and
करम्भ----पूपोऽपूप: पिष्टक: स्यात्करम्भो दधिसक्तवः ।
Amara.
f291 Digestion; ripening or result.
AEROTTI As it is ordinary or common-place.
Jati Disgust or satiety.
949979 Bad compositions; a series of hard or knotty
coils.
Le Roasted in ghee.
Era Intermingled.
Aytilegas Honeyed, dried grapes
94712 Cooked "Aral”.
A Black pepper.
Afra Rubbed or scraped.
3. F177] Enough of it; leave it aside.
979 wretched.
vi विश्राम्यति Stops away from work. ATT: Commission or charge. प्रायोपवेश Here means, "awaiting (to be led) to the extremity of death." 92: Presumptuous; impudent; shameless. t. Tafaa Constant at meals. 71 Practice. अश्मन्त Hearth. अपरपर्याया Synonymous with. सकृन्निपादिन् engaged at one sitting. अन्तरा At intervals; now and then, उपोषणम् Fasting. TUT: Bet or wager. Yri: Likely to die in a short time. शिष्टकसंग्रहरुचि The desire to grasp at the one remaining cake. 5. उदरशूलिन् Sutfering from colic in the belly. धर्मध्वजः a religious hypocrite or imposter'. व्याज Pretence or deception. उत्तमर्ण Creditor. कदय Miser. Taifa Pres. Sing. of Te v. t., 5th conj, Parasınai Pada --to accomplish. केदारिकनिवेश The living quarters of peasunts. श्वापद A beast of prey. <tea Ta Light refreshments. 6. farat arfta it. A parody of the well-known song of Sri Sadāśiva Bșhmendra. पश्चिमकोष्ठदार A door on the lind-wall. 7. तजिह्मला etc.~--A parody of Kālidása's verse in the Sakuntala-- असंशयं क्षत्रपरिग्रहक्षमा etc.
V11 अर्धचन्द्रः a push at the neck with the half moon-shaped ridge of the hand, 39774 Obstruction; impediment. goleh m. and n. Boiled rice. (Here, cooked unitary "Aval".) FRARE: A frying basin made of hell-metal. 8. gafare: Remedy. fast: Sickness; ailment. 105 The cheek; a boil. हढकल्य Strong and healthy. 1). 1974 Medical treatment. मुधा to no purpose; uselessly. fequet Frivolous argument, Foligar Daughter of a whore (an abuse). कथंकारं How; in what manner. गृध्रचक्षुः One with greedy sharp eyes like the vulture. 10. अथ किम् Yes. <FOCAT A small box made of bamboo. (Here, figuratively used.) afetaricaa It is nothing (trivial) after all. 11. BİTCFF: Gluttonous fellow. faceret is driven out, (F with fan 10th Conj. Ubhayapadi)--Pr. pass. निवृत्तैहिक etc. Shall make him bid farewell to his temporal concerns, i.e., kill him, पश्चात्ताप Remorse. grisar clever woman. आहोपुरुषिका Proud assumption of power, gelaa: Made to depart from. STEUERF: Roaming about. काष्ठामगृह्णन् कचित् Not taking quarter anywhere. a viii afaeferat Neighbour. (Woman) 12. कुसूलसंकटे etc, hid himself in a corner of the entrance hall narrow and congested because of a mud-built grain receptacle placed there. geria State etc. You are going to become an object of pity for indifferent on-lookers, : I do not believe. 13. TUTUT (m. and n.) Fearful anxiety. 314#: etc. Some absolute or supreme remedy. उपसर्ग: Portent, natural phenomenon foreboding evil. (used figuratively.) ओजायते 37137 v. i., 10th. Conj. Ubh.—to be strong or able -Shows mettle. TH (n.) Chaff. 4 (m. and n.) a winnowing basket. मे प्रत्यनन्तरीभव Keep close to me. syfaT95978 etc. It is a popular belief that a learned man jealously with-holding his knowledge from the world, does not find peace in death, but hovers about as a Brahma Rākshasa with a strong tendency to drag into intellectual controversies other learned men and to inolest them in case of their inability to stand the tests. Here, by an extended analogy the belief is applied to the case of a parsiinonious hoarder of wealth. परापतिष्यसि Shall return or go back. gogo Trifling; worthless. 371 LED Humiliated; defeated. 15. लौकिकी गाथा Popular verse. भक्त (n.) Cooked food.
SELECT OPINIONS On LAGHU RAMACHARITAM (Approved by the Text-Book Committee, Madras, vide Gasette, 8th May, 1928, Part I-B, p. 232.) It gives the immortal story of the Ramayana in about 400 verses of the anushtup metre. It aims......at telling the story of the Rainayana as far as possible in the words of the original itself...... One meets again and again in these verses those jewelled phrases and those infinitly suggestive similies which are among Valmiki's principal glories...... The author has a clear eye for essentials and a natural gift for narrative.-The Hindu. ...... The beginner is afforded the delight of tasting the great classic itself in a digestible.. . form instead of his being made to labour with mediocre compositions.--The Swarajya. It is meant for students but will repay perusal by older persons also. It is in a simple and limpid and attractive style and weaves into the author's fine verse some of the most enchanting verses in the original.... --K. S. Ramasuumi Sastrigal. The author's mastery of verse and style is without flaw..........the interest of the story is not sacrificed to considerations of abridgment. This little book is well-suited to the needs of young boys learning Samskrit. -New India. ...in charmingly simple verses...... .will be of the highest use for rapid reading in the Matriculation class where the students require to be introduced to Sanskrit both simple and idiomatic.--The Progress of Education, Poona. ......condensed an epic...... in a simple narrative form...... in verses flowing and unadorned..... This attempt to offer younger minds a foretaste of the beauties of the Ramayana is praise-worthy.--The Journal of Oriental Research, ii on SAMSKRITA PATHAVALI: (Approved by the Text-Book Committee, Madras, ide Gasette, 19th November, 1929, Part I-B, p. 613.) I find the author has exercised sound judgment in the choice and arrangement of the subjects and the lessons. The language...... is readable and idiomatic........a suitable and useful text-book for the III, IV and V Forms... ----Mahamahopadhyaya S. Kuppuswami Sastri in his Foreword. This excellent Samskit Reader is intended for use in the higher forms of our High Schools...... Prose lessons and poems and songs alternate and make the Reader interesting reading. Mr. Y. Mahalinga Sastri is a gifted Sanskrit poet.... he has kept in view the need for lessons of grade: difficulty........this Reader is calculated to elevate the morals, widen the mental outlook and improve the powers of expression of the students.--The Hindu. It consists of excellent pieces in Samskrit and will prove to be an admirable text-book in High School classes.---K. S. Ramaswami Sastri. All the lessons are written in casy, flowing and idiomatic Samskrit. They also display variety of both form and matter...... the boys can readi its interesting matter with much advantage.-The Progress of Education, Poona. ......a book which was a long-felt necessity. The author should be congratulated particularly on the judgment he has shown in selecting the pieces, which are at once delightful and instructive and in arranging them in the order of difficulty. His intelligent adaptation of a few familiar English poems and stories and abridgments of portions from well-known Samskrit classics tend to enhance the utility of the Reader...... the Reader is the best of its kind.—The Journal of Oriental Research, Madras.
On BHASA KATHA SARA: ...commands a prose style which is at once limpid, copious and vivid and admirably in tune with the genius of his author.---The Hindu. He commands a prose style which is free from...... heavy compounds, .and which is at once graceful and vigorous, idiomatic and inusical. ......is an excellent and useful addition to Sanskrit Prose literature. -The Swarajya There is a wide gap between the plain style of ...... Panchatantra and the...... ornate diction of Kadambari...... Mr. Mahalinga Sastri is to be congratulated on his having succeded to an eminent degree in writing it prose which while being free from artificiality, is clear, natural and idiomatic ........ The plots of these dramas are of entrancing interest and they are retold by Mr. Mahalinga Sastri with a narrative skill worthy of them. These stories, indeed, furnish an excellent model of Sanskrit prosc. The New India. The two volumes remind one of the similar production of Charles Lamb with reference to the dramas of Shakespeare. -The Journal of Oriental Research. Such a work as Mr. Mahalinga Sastri's excellent brochure is one of the means of summation of the past culture of India for the purpose of inaugurating the greater culture of the future.-K. S. Ramaswami Sustri. Lovers of Sanskrit will find their labour amply rewarded if they turn over the pages and get themselves acquainted with the pristine beauty of Sanskrit dramaturgy and classical style.-The Progress of Education, Poona. They are akin tū Lambo's "Tales from Shakespeare" not only in their object, but also in the fact that they attempt to preserve the flavour of the original by retaining Bhasa's characteristic expressions and here and there his slokas. We hope thai these books...... will find their way into Samskrit Schools and the translation classes of Colleges.: -Triveni.
iv WORKS BY MAHALINGA SASTRI. verses लघुरामचरितम् The Rāmāyaṇa for Beginners in Vālmiki's own (pp. 48) ... 0 0 0 संस्कृतपाठावलिः A Sanskrit Reader containing 18 lessons-Prose, Poetry and Song ; With a Foreword by Mahamahopadhyaya S. Kuppuswami Sastri, Avl., M.A., 1.E.S. (pp. 54)... 0 8 0 (The above lwo books have been approved by the Text-Book Committee of Madras for School use). भासकथासारः A prose work in two volumes containing abridged narrations of the stories of the thirteen plays of Trivandrum attributed to Bhāsa; With Preface and Glossary- Vol. I (containing the Bhāgavata, Mahā Bhārata and Rāmāyaṇa Stories) (pp. 80) ... 0 8 0 Vol, II (containing the Vatsarāja, Avimāraka and Cărudatta Stories) (pp. 60) 0 8 0 कौण्डिन्यप्रहसनम् A comic play in two Acts, With Preface and Notes. 0 8 0 शम्भुचर्योपदेशः An adaptation in Anuştup verses of Mr. K. S. Venkataramani's "A day with Sambhu" (in the Press) 0 4 0 Copies can be had of the author or PANDIT YEJNASWAMI SASTRIGAL, DABIR NEW STREET, KUMBAKONAM. THE M. L. J. PRESS, MYLAPORE, MADRAS.