Tibetian Institute, Sarnath, Vns.

Sayana's Commentary On The Rigveda

Pashupati Nath Shastri · 2006

PDF Proofread

Front matter

Sayana's Commentary
ON
THE RIGVEDA
Passages supplementing those contained in
MACDONNEL'S
VEDIC READER
EDITED BY
PASHUPATI NATH SHASTRI, M.A., BL.
Lecturer on Vedas & Mimamsa Calcutta University
HUMPHREY MILFORD
OXFORD UNIVERSITY PRESS
LONDON BOMBAY MADRAS CALCUTTA
1921

CONTENTS VEDIC HYMNS 1 1 Agni Sabiti Marutas Vişņu Dyāvāprithivi Indra Rudra Apām vapāt Mitra Brhaspati Uşas Agni Parjanya Pusan Apas Mitra Varuna Surya Aswin Varuņa Mandalas Vis've devas Soma Funeral Hymn Pitaras Gambler Puru-a Katri "Hymn of Creation Yama Vata 1 35 1 85 1 154 1 160 11 121 1 33 11 35 11 59 IV 50 IV 51 V 11 V 83 Vi 54 VII 49 vu 61 VII 63 Vil 71 VII 86 yil 103 Vill 29 1-12 13-25 26.37 38-45 46-50 51-60 61-69 70_78 79-84 85-90 91-95 96-99 100-104 105-107 108-109 110-112 113-115 116-118 119122 123-127 128-132 133-138 139-146 147154 155-161 162.169 170-173 174.-188 189._195 196.198 178 V111 * 14 X 15 x 34 *** x 9. * 127 129 .. X 135 X. 168 #. ..

सायणभाष्यम्। AGNI. I 1. एतच्चाग्निमित्यादिसूक्तं नवर्चम् । अग्निं नव मधुच्छन्दा वैश्वामित्र इत्यनुक्रमणिकायामुक्तत्वात् । विश्वामित्रपुचो मधुच्छन्दोनामकस्तस्य सूक्तस्य द्रष्टुत्वात् तदीय ऋषिः। ऋष गताविति धातुः। सर्वधातुभ्य इन्। उ० ४।११७। इगुपधात् कित् उ० ४।११६ । वेद- प्राप्ता) तपोऽनुतिष्ठत: पुरुषान् स्वयम्भूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते। अजान् ह वै पृश्नीस्तपस्य- मानान् ब्रह्म स्वयम्श्वभ्यानपत्तहषयोऽभवन्। तै. पा. २६ इति। तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेगा प्रथमतो दर्शनादृषित्वमित्यभिप्रेत्य समय॑ते। युगान्ते- ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाता स्वयम्भुवेति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते। अविदित्वा ऋषिं छन्दो दैवतं योग- मेव च । योऽध्यापयेज्जपहापि पापीयाञ्जायते तु सः ॥ ऋषिच्छन्दो देवतानि ब्राह्मणार्थ स्वराद्यपि। अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यत इति ॥ वेदनविधिश्च स्मयते। स्वरो वर्णोऽक्षरं मावा विनियोगोऽर्थ एव च। मन्त्रं जिज्ञासमानेन वैदितव्यं पदे पद इति ॥ अग्नि- मित्यादिसूक्तस्य छन्दोऽनुक्रमणिकायां यद्यप्यत्र नोक्तं तथापि परिभाषायामेवमुक्तम्। आदौ गायत्रं प्राम्- - सायणभाष्यम् । [ Agni I 1. इति। घिरण्यस्तूपात् । अनु १२।१४ इति। हिरण्यस्तूप ऋषि- र्येषां मन्त्राणां वक्ष्यते ततः प्राचीनेषु मन्वेषु सामान्येन गायत्रं छन्द इत्यर्थः । पुरुषस्य पापसम्बन्ध वारयितु- माच्छादकत्वाच्छन्द इत्युच्यते। तच्चारण्यकाण्डे समा- मायते। छादयन्ति ह वा एनं छन्दांसि पापात् कर्मण अथवा चीयमानाग्निसन्तापस्याच्छादकला- च्छन्दः। तच्च तैत्तिरीया आमनन्ति । प्रजापतिरग्नि- मचिनुत स क्षुरपविर्भूत्वा तिष्ठत् तं देवा विभ्यतो नो- पायन् ते छन्दोभिगत्मानं छादयित्वोपायन् तच्छन्दस छन्दस्त्वम्। तै० सं० ५।६।६।१। यहा अपमृत्यु वारयितुमाछादयतीति छन्दः । तदपि छान्दोग्योप- निषदि आम्नातम्। देवा वै मृत्योविभ्यतस्त्रयौं विद्यां प्राविशंस्ते छन्दोभिरात्मानमाच्छादयन् यदेभिरच्छादयं- स्तच्छन्दसां छन्दत्वम् । छा० उ० ११४.२ इति । तथा द्योतनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदा- मायते। दिवा वै नोऽभूदिति तद्देवानां देवत्वमिति। अतो दोव्यतौति देवः। मन्त्रेण द्योत्यत इत्यर्थः । अस्मिन् सूक्त स्त्यमानत्वादग्निर्देवः । तथा चाजुक्रमणिकाया- मुक्तम्। मण्डलादिध्वाग्नेयमैन्द्रात्। अनु१२:१२इति। तस्य नूतस्य प्रथमागचं भगवान् वेदयुरुष आह ।

सायणभाष्यम् । AGNI. I. 1. १। अग्निनामकं देवमौले। स्तौमि । इड़ स्तुतौ । पा० २४।।। इति धातुः । डकारस्य लकारो वढचाध्येट- सम्प्रदायप्राप्तः । तथा च पठ्यते अज्मध्यस्थड कारस्य लकारं वढचा जगुः । अजमध्यस्थस्य ढकारस्य लहकारं वै यथाक्रम- मिति। मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमौति लभ्यते। कीदृशमग्निम् । यज्ञस्य पुरोहितम्। यथा राज्ञः पुरोहितस्तद- भोष्ट सम्पादयति तथाग्निरपि यज्ञस्यापेक्षितं होमं सम्या- दयति। यहा यज्ञस्य सम्बन्धिनि पूर्वभाग आहवनौयरूपेणाव- स्थितम् । पुनः कीदृशम् । देवम् । दानादिगुणयुक्तम् । पुनः कोदृशम् । होतारमृत्विजम् । देवानाम् यज्ञेषु होटनामक ऋविगग्निरेव । तथा च श्रूयते । अग्नि देवानां होतेति । पुनरपि कोदृशम् । रत्नधातमम् । यागफलरूपाणा रत्ना- नामतिशयेन धारयितारम् । पोषयितारम् वा । अनाग्नि- शब्दस्य यास्को बहुधा निर्वचनं दर्शयति । नि० ७॥१४ ।

२ सायणभाष्यम् । [Agnm I. 1. अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्त प्रथमं व्याख्या- स्थामोऽग्निः कस्मादग्रणीभवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति सन्नममानोऽक्नोपनो भवतीति स्थौलाष्टोविनं नोपयति न नेहयति त्रिभ्य आख्यातिभ्यो जायत इति शाकपूणिरिता- दतादृग्वाहा नौतात् स खल्वेतेरकारमादत्ते गकारमनतर्वा दहती नौः परस्तस्यैषा भवति। अग्निमौल इति । अस्यायमर्थः। सामान्येन सर्वदेवतानां लक्षणस्याभिहित- वादनन्तरं यतः प्रतिपदं विशेषेण वक्तव्यत्वमाकासितमतो ऽनुक्रमेण वक्ष्यामः । तत्र पृथिवोलोके स्थितोऽग्निः प्रथम व्याख्यास्यते। कस्मात् प्रतिनिमित्तादग्निशब्देन देवता अभिधीयत इति प्रश्नस्याग्रणीरित्यादिकमुत्तरम् । देव- सेनामग्रे स्वय नयतीत्यग्रणोः। एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् । तथा च ब्राह्मणान्तरम। अग्निर्वै दे-- वानां सेनानोरिति । एतदेवाभिप्रेत्य वढचा मन्त्रब्राह्मणे आमनन्ति । अग्निर्मुखं प्रथमो देवतानामिति मन्त्रः । अग्निरवमो देवतानामिति च। वाजसनेयिनस्त्वेवमामनन्ति। स वा एषोऽग्रे देवतानामजायत अस्मादग्निर्नामति । यन्न- वग्निहोत्रेष्टिपशुसोमरूपेष्वग्रं पूर्व दिग्वल्हवनौयदेशं प्रति गाहपत्याप्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् । मानः सम्यक खयमेव प्रवीभवबङ्घ स्वकीयं शरीरं नयति सत्रम- Agni I 1 1] सायणभाष्यम्। २ काठदाहे हविःपाके च प्रेरयतौति टतीयं प्रवृत्तिनिमित्तम् । स्थूलाष्टीविनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चिद- नोपन इत्यग्निशब्द निर्वक्ति । तत्र न कोपयतीत्युक्त न स्नेहयति। किन्तु काष्ठादिक रुक्षयतीत्युक्तं भवति । शाकपूणिनामको निरुक्तकारो धातुनयादग्निशब्दनिष्पत्तिं मन्यते । इत इणगती। धा० २४।३६ । इति धातुः । अतोऽन्जूव्यक्तिमक्षणकान्तिगतिषु । धा. २८/२१ । इति धातुः । दग्धो दह भस्मीकरणे । धा०२३।२२ । इति धातुः । नौतो णोञ् प्रापणे । धा० २२१५ । इति धातुः। अग्नि- शब्दो ह्यकारगकारनिशब्दानपेचमाण एतिधातोरुत्पन्ना- दयनशब्दादकारमादत्ते। अनक्तिधातुगतस्य गकारादेशं कत्वा तमादत्ते। यहा दहतिधातुजन्याहन्ध- शब्दाद्गकारमादत्ते। नौरिति नयतिधातुः । इखो भूत्वा परो भवति । ततो धातुवयं मिलित्वाग्नि- शब्दो भवति। यजभूमि गत्वा स्वकीयमङ्ग नयति काष्ठ- दाहे हविःपाके च प्रेरयतौति समुदायार्थः । तस्याग्नि- शब्दार्थस्य देवताविशेषस्य प्राधान्धेन स्तुतिदर्शनायैषाग्नि- मोल इत्यग्भवतीति । तामेतामृचं यास्क एवं व्याख्यातवान् । अग्निमौलेऽग्निं याचामौलिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाहा दौपनाहा यो- ककारस्य स ४ सायणभाष्यम् । [Agni I 1 तनाहा युस्थानो भवतीति वा यो देवः सा देवता होतारम् ह्वातारम् जुहोते.तेत्यौर्णवाभो रत्नधातम रमणीयानां धन्नानां दाटतमम् । नि० ७।१५। इति। अस्यायमर्थः । इडतिधातोः स्तुत्यर्थत्वम् प्रसिद्धम् । धातूनामनेकार्थत्व- मिति न्यायमाश्रित्य याजाध्येषणापूजा अप्यत्रोचितत्वात्त- दर्थतया व्याख्याताः । पुरोहितशब्दो द्वितीयाध्याये। नि० २।१२। यद्देवापिः तनवे पुरोहित इत्येतामृच- मुदाहृत्य पुर एनं दधातीति व्याख्यातः । तैत्तिरीयाश्च पौरो- हित्ये स्पर्द्धमानस्य पश्वनुष्ठानम् विधाय तत्फलत्वेन पुर एनं दधति इत्यामनन्ति । देवशब्दो दानदीपनद्योतनानामन्य- तममर्थमाचटे। यज्ञस्य दाता दीपयिता द्योतयिताय- मग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातु- भेदः। यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हवि- वहनायुस्थानो भवति। देवशब्ददेवताशब्दयोः पर्याय- वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेष- णीया। होटशब्दस्य ह्वयतिधातोरुत्पन्नत्वेन देवानामाह्वा- तारमिति। और्णवाभनामकस्तु मुनिजहातिधातोरुत्पन्नो होटशब्द इति मन्यते। अग्नश्च होटत्वं होमाधिकरणत्वेन द्रष्टव्यम् । रत्नशब्दो द्वितीयाध्याये मधमित्यादिष्वष्टाविंशतौ धननामसु पठितः । रमणीयत्वाद्रत्नत्वम् । दधातिधातु- Agni I. 1] सायणभाष्यम् । ५ २। रत्र दानार्थवाचौति । तदिद निरुक्त कारस्य यास्कस्य मन्त्र- व्याख्यानम् । अयमग्निः पूर्वेभिः पुरातन ग्वङ्गिरः प्रभृतिभि ऋषिभिरीयः स्तुत्यो नूतनैरुतेदानीन्तनरस्माभिरपि स्तुत्यः । सोऽग्निः स्तुत. सन्निह यज्ञे देवान् हविर्भुज आवक्षति । वह प्रापण इति धातुः। आबहत्वित्यर्थः । पूर्वेभिरित्यत्र बहुलं छन्दसि । पा० ७।१।१०। इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरण इति धातुः । पूर्वतिधातोरन्प्रत्यय औणा- दिकः । इन्प्रत्ययान्त ऋषिशब्द ऋष्यन्धकेति निपातनात् । पा० ४।१।११४ । लघूपधगुणाभावः । ।३।८६ । कित्प्रत्ययो वात्र ज्ञेयः । उ० ४।११८ । ती शब्दौ नित्स्वरेणाद्युदात्ती। इयशब्दस्य ण्यत्प्रत्ययान्तत्वात्तित्स्व रितम् । पा० ६।१।१८५। इति स्वरिते शेषानुदात्तले च प्राप्ते तदपवादत्वेनेडवन्देत्या- दिना । पा० ६।१।२१४। आद्युदात्तत्वम । सनप्खाश्च । पा० ५।४।३०१६ । इति वार्तिकेन नवशब्दस्य नू इत्यादेशस्तनप्प्रत्ययश्च महावार्त्तिके विहितः । तती नित्स्वरेणाद्युदात्तः। अवशिष्टखरा अग्न्यादिषु नूतनान्तेषु पूर्ववदुन्नेया। उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थवादौचित्येनात्र समुच्चयार्थो द्रष्टव्यः । उच्चावचेष्वर्थेषु निपतन्तीति निपातत्वम् । तहि निपाता नवस्य नन- ६ सायणभाष्यम् । [Agni. I 1. यहा पा. पायुदात्ताः । फि० ४।१२। इत्युकारस्योदात्तः प्राप्त इति चेत् । न । प्रात:शब्दवदन्तोदात्तत्वात् । यथा प्रात शव्दी- ऽन्तोदात्तत्वेन स्वरादिषु पठितः । पा० १।१।३७ । एवमुत- शब्दस्यापि पाठो द्रष्टव्यः स्वरादेराकतिगणवात् । एवादीतामन्तः । फि० ४।१४ । इत्यन्तोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवानित्यस्य नकारस्य मंहितायाम् दीर्धादटि । पा० ८।३।८ इति रुत्वम् । अत्रानु- नासिकः। ८।३।२। इत्यनुवृत्तावातोटिनित्यम् । पा० ८।३। इत्याकारः सानुनासिकः । भो भगो। पा० ८।३।१७। इति रोर्यकारः । स च लोप: शाकल्यस्य, पा० ८।३।१६, इति लुप्यते । तस्यासिद्धत्वात् पा. ८।२।१, न पुनः मन्धिः कार्य । आडो निपातत्वादाधु- दात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात्. पा० ५।३।११ इहशब्दे प्रत्ययस्वरः। वहतिधातोर्लोडर्थे छान्दसो टट् । तस्य स्य प्रत्ययगतस्य यकारस्य लोपोऽपि छान्दसः। यहा लेटि सिब्बहुलम् । ३।१।३४1 इति सिप्प्रत्ययः । लेटोऽडाटो, पा० ३।४/०४, इत्यड़ागमश्च । ततो वक्षतौति सम्पद्यते । तस्य तिङन्तत्वाविधातः । संहिताखराः पूर्ववत् । ३। प्राधाने तौयेष्टी प्रथमाज्यभागस्यानुवाक्या । श्रा २।१॥ सूतागता हतीया। तां हतीयामृचम् आह । योऽयं पा.

Agni I 1 1] सायणभाष्यम् । दाना- तस्य होत्रा स्तुत्योऽग्नि स्तेनाग्निना निमित्तभूतेन यजमानो रयिं धनमश्रवत् । प्राप्नोति । कीदृशं रयिम्। दिवे टिवे पोषमेव । प्रतिदिनम् पुथमाणतया वर्द्धमानमेव । न तु कदाचिदपि क्षीयमाणम् । यशमम् । दिना यशोयुक्तम् । वीरवत्तमम् । अतिशयेन पुत्रभृत्यादि वोरपुरुषोपेतम् । सति हि धने पुरुषा: सम्पद्यन्ते। रयि. शब्दो मघमित्यादिधननामसु पठितः । तत्र फिट स्वरः । प्रश्नोतेर्धातोलेंटि व्यत्ययेन तिप् । इतश्च लोपः । पा० ३।४। 20। इतीकारलोपः । लेटोडाटौ पा० ३।४।८४ । इत्य- ड़ागमः । ततोऽनवदिति भवति । निघात: घजन्तत्वात् । पा० ६।१।१८७। पोषशब्द आद्युदात्तः । एक्शब्दस्य निपातत्वेऽप्येवादीनामन्त इत्यन्तीदात्तत्वम् । वकारान्तादिवशब्दात् परस्थाः सप्तम्या: सुपां सुलुक, पा० ७।११३८ इत्यादिना शेभावे सति । सावकाच इत्यादिना पा० ६।१।१६८। जडिदम्पदादीत्यादिना वा। ६।१।१७१। तस्योदात्तत्वम्। नित्यवीप्सयोः । ८१४ । इति विर्भावे सत्युत्तरभागस्यानुदात्तं च । पा० ८१३। इत्यनुदात्तखम्। यशोऽस्यास्तीति विग्रह सत्यादिभ्योऽच् । पा० ५।२।१२७ । इत्यचप्रत्ययः । चित्खरं व्यत्ययेन वाधित्वा मध्योदात्तत्वम् । फिट्वरेणान्तो- पा. पा.

सायणभाष्यम् । [Agnl I. 1 दात्ताहीरशब्दादुत्तरयोगमंतप्तमपो: पित्त्वादनुदात्तत्वम् । इखनुड्भ्याम् । पा० ६।१।१०६ । इति तु न । साववर्णा- न्तत्वात्, न गोखन्, पा० ६।१।१८२, इति प्रतिषेधः । ४। अभिप्लवषड़हस्य मध्यवर्ति क्थ्येषु तृतीयसवने मैत्रावरुणस्याग्नेय यज्ञमित्यादिको वैकल्पिकोऽनुरूपस्तृचः । एतच्च सप्तमाध्याय एघुष्वित्यादिखण्डे सूनितम् । अग्नि वो बधन्तमग्ने य यज्ञमध्वरम् । आ० ७८ । इति । तस्मिं- स्त्वृचे या प्रथमा सा सूक्ते चतुर्थी । तामेता चतुर्थीमृचमाह । हे अग्ने त्वं यं यज्ञ विश्वतः सर्वासु दिक्षु परिभूः परितः प्राप्तवानसि स इत् स एव यज्ञो देवेषु टप्तिं प्रणेतु स्वर्गे गच्छति। प्राच्यादिचतुर्दिगन्तेष्वाहवनीयमार्जालौयगाई- पत्याग्नीध्रीयस्थानेष्वग्निरस्ति । परिशब्देन होनीयादि- ঘিঘামিৰিৰলিনা। अध्वरम् । हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यन राक्षसा- दयो हिंसितु प्रभवन्ति । अग्निशब्दस्य षाठिकम् । प्रा० ६।१।१८८। आमन्त्रिताधु दात्तत्वम् । न विद्यते ध्वरोऽस्येति बहुव्रीही न[सुभ्याम्, पा० ६।२।१७२, इत्य- न्तोदात्तत्वम्। विखत इत्यत्र तसिलः प्रत्ययस्वरत्वम् वाधित्वा पूर्ववर्णस्य लिति । ६।१।१८३ । इत्युदात्तत्वम्। परिभूरित्यत्राव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते । पा०६२।२। कीदृशं यज्ञम् । पा० Agni I 1 1] सायणभाष्यम् । पा० अतः तदपवादत्वेन कदुत्तरप्रकृतिस्वरत्वम् । ६।२।१३८ । असोति तिङन्तस्य यदृत्तानित्यम् । पा० ८।१।६६ । इति निघाताभावः । ५। अयमग्निर्देवोऽन्यैर्देवेहविर्भोजिभिः सहागमत् । अस्मिन् यज्ञे ममागच्छतु। कीदृशोऽग्निः । होता होम- निष्पादकः। कविक्रतुः कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम। क्रतुः प्रज्ञानस्य कर्मणो वा नाम । क्रान्तप्रज्ञः क्रान्तकर्मा वा। सत्यः। अतृतरहितः । फलमवश्यं प्रयच्छतौत्यर्थः । चित्रश्रवस्तमः । श्रूयत इति श्रवः कौर्ति । अतिशयेन विविधकौत्तियुक्तः । कविक्रतुश्चित्रश्रवस्तम इत्यत्रोभयत्र वहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । सत्सु- साधुः सत्य' सत्यादशपथे। पा० ५।४।६६ । इत्यत्रान्तीदात्तो हरदत्तेन निपातितः। लोडन्तस्य गच्छत्वितिशब्दस्य छत्वा- भावः । उकारलोपश्चान्दसः। ततो रूप गमदिति भवति । साष्टमन्यत् । ६। अङ्गेल्यभिमुखीकरणार्थो निपातः। अङ्गाग्ने है अग्ने त्वं दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं यद्भद्र वित्तग्रहप्रजापशुरूपं कल्याणं करिष्यसि तद्भद्र तवेत् तवैव सुखहेतुरिति शेषः। हे अग्निरोऽग्ने। एतच्च सत्यं न स्वत्र विसवादोऽस्ति यजमानस्य वित्तादिसम्पत्तौ सत्या- १० सायगाभाथम् । [ Agni I. 1 मुत्तर वनुष्ठानादग्नेरेव सुख भवति । भद्र शब्दार्थ शाव्याय- निन: समामनन्ति । यह पुरुषस्य वित्तं तद्भद्र रहा भद्र प्रजा भद्र पशवो भद्रमिति । अङ्गशब्दस्य निपातत्वेऽपि, फि ४।१२। अभ्यादित्वादन्तोदात्तत्वम् । दाश्वान् साह्वान् पा० ६।१।१२। इति मूत्रेण दा दान इति धातोः कसुपत्ययो निपातितः। तत्र प्रत्ययस्वरः। आमन्त्रितस्याग्नि- शब्दम्य पदात्परत्वेनाष्टमि कानुदात्तत्वम्, पा० ८।१।१८, न शङ्कनीयम्, अपादादी, पा० ८।१।१८, इति पर्युट स्तत्वात् । ततः षाष्टिकम् । पा० ६।१।१८८ । आधुदात्तत्वमेव । भद्र- शब्दस्य नविषयत्वेन, फि २।३। आधुदात्तत्वप्रसतावपि भदि कल्याण इति धातो रुपरि रक्प्रत्ययेन निपातनात्, उ० २१२८ । अन्तोदात्तत्वम्। अस्मिन् वाक्ये यच्छब्दप्रयोगा- त्रिपातैयद्यदिहन्त पा. ८११३० । इति निघात प्रतिषिद्धे स्थप्रत्ययस्वरेण । पा० ३१॥३३ । सति शिष्टेन करिष्यसिशब्द उपान्त्योदात्तः। तवेत्यत्र युस्मदस्मदोर्डसि। पा० ६।१।२११ । इत्याद्यदात्तत्वम् । अङ्गिरा अङ्गारा इति यास्क: ऐतरयिणी- ऽपि प्रजापतिदुहिध्यानोपाख्याने समामनन्ति । येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवविति । तस्मादगिरोनामकमुनिकारण- वादगाररूपस्याग्नेरङ्गिरसत्वम् । अत्र पदात्परत्वेनाष्टमि- कानुदात्तत्वम् ।

Agni. I 1.] सायणभाष्यम्। ११ ७। अग्नीषोमप्रणयन उपत्वाग्न इत्यादिकोऽनुवचनीय- स्तृचः। एतच्च ब्राह्मण समानातम्। उपत्वाग्ने दिवे दिव उपप्रियं पनिम्नतमिति विस्रश्चैकां चान्वाहेति। तस्मिंस्तृचे या प्रथमा सा सूतो सप्तमौ । तामतां सप्तमीमृचमाह । हे अग्ने वयमनुष्ठातारो दिवे दिवे प्रतिदिनं दोषा- वस्ता रानावहनि च धिया बुद्धया नमो भरन्तो नम- स्कारं सम्पादयन्त उप समौप त्वमसि त्वामागच्छामः। उपशब्दस्य निपातस्वरः । फि. ४।१२। वामौ द्वितीयायाः। पा. ८।१।२३। इति युस्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाचौ। वस्त इत्यहर्वांची। इन्दसमासे कार्तकौजपादित्वात् । ६।२।३०। आद्युदात्तः । सावकाचः । पा० ६।१।१६८। इति धियो विभक्तिरु- दात्ता। नम इति निपातः। भरन्त इत्यत्र शप: पित्त्वा- च्छतुलसार्वधातुकत्वाच्चानुदात्तत्वे सति । पा० ६।१।१८६ । धातुखरः शिष्यते । इमसोत्यदन्तो मसिः । पा० ७१।४६ इत्यादेशो निघातच ॥ पूर्वमन्त्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजन्तम् । दीप्यमानम् । अध्वराणां राक्षस- कतहिंसारहितानाम् यज्ञानां गोपां रक्षकम् । सत्यस्यावश्यंभाविनः कम्मफलस्य दौदिविं पौनःपुन्येन भृशं पा. ऋटतस्य १२ सायणभाष्यम् । [Agni I. 1 वा द्योतकम्। आइयाधारमग्नि दृष्ट्वा शास्त्रप्रसिद्ध कम्म- फल स्मथ्यते । खे दमे व कौयगृहे यत्नशालायां हविर्भिर्वर्द्ध- मानम् । राजन्तम् वईमानमित्यत्रोभयत्र पूर्वबद्धातुस्वर: शिष्यते । दौदिविशब्दस्याभ्यस्तानामादिः पा० ६।१।१८८ इत्यादुदात्तत्वम्। दमशब्दो वषादित्वात् पा० ६।१।२०३ आद्युदात्तः । ८। हे अग्ने स त्व नोऽस्मदर्थ सूपायन: शोभनप्राप्ति- युक्तो भव । तथा नोऽस्माकम् स्वस्तये विनाशराहित्यार्थ सचम्ब समवेतो भव । तत्रोभयत्र दृष्टान्त. । यथा सूनवे पुत्राधे पिता सुप्राप: प्रायेण समवेतो भवति तद्दत् । अस्म. च्छब्दादेशस्य न इत्येतस्यानुदात्तं सर्वम् पा. सर्वम् पा० ८।१।१८ इत्यनुदात्तत्वम् । चादयोऽनुदात्ताः । फि० ४।१६ । इतौ- यशब्दोऽनुदात्तः। इवेन नित्य समास: पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । पा० २।१।४।२ इति समस्तपितवेति शब्दो मध्यादात्त । शोभनमुपायन यस्येति बहुब्रोही नभ्या- मित्यन्तोदात्तत्वम् । सचखेत्यत्र पदात्परत्व नास्तौति न निघातः ल-साबधातुकानुदात्तत्वे सति धातुखरा- वशेषः॥ - SAVITR I. 35. ह्वयाम्यग्निमित्येकादशचं पञ्चमं सूक्तं । हिरण्य- स्तूप ऋषिः। आद्या नवमौ च जगतीच्छंन्दस्के । शिष्टास्त्रिष्टुभः। कृत्स्नस्य सूक्तस्य सविता देवता। आद्याया वयाम्यग्निमित्यस्या अग्निमित्रावरुणा- राविसविताख्या लिङ्गोकदेवताः। तथा चानु- क्रान्तं । ह्वयाम्येकादश सावित्रं नवमी जगत्याद्या च लिङ्गोक्तदैवतपादास्वय इति ॥ अभिलवषड़हस्य चतुर्थेऽहनि वैश्वदेवशस्त्र इदं सूक्तं सावित्रं निवि- द्धानम् । तृतीयस्य ार्यमेति खण्डे सूवितम् । ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्र इति। १। वस्तयेऽस्माकमविनाशाय । वस्तीत्यविनाश- नाम। नि १२१। इति यास्कः । प्रथममादावग्नि ह्वयामि । इहास्मिन् कम्मन्यवसेऽस्मद्रक्षणाय मित्रावरुणी ह्वयामि । जगतो जङ्गमस्य प्राणिजातस्य निवेशनौमुपवेशनहेतु- १४ सायणभाष्यम् । [Savitr I. 35. भूताम् रात्रीं रात्रिदेवताम् ह्वयामि । जङ्गमाः सर्वे प्राणिनो दिवसे स्वखव्यापारान् कृत्वा स्वखरहे रात्रावुपविशन्तीति प्रसिद्ध । जतयेस्मद्रक्षणार्थ सवितारम् देवम् स्यामि । मित्रावरुणो देवताहन्द चेति पूर्वपदस्यानडादेशः । देवता- हन्दे चेत्युभयपदप्रकृतिस्वरत्वम् । रात्रौं रात्रेश्चाजसौ, पा. ४।१।३१। इति डीप । निवेशनों। निविशन्तास्यामिति निवेशनी। करणाधिकरणयोश्चेति ल्युट । टिड्ढाणजित्या- दिना। पा० ४।१।१५। डीप्। जतये। अवतः तिनि वरत्वरेत्यादिना वकारस्योपधायाश्च जट्। अतियूतीत्या- दिना तिन उदात्तत्वम् ॥ २। सविता सूर्यः कृष्णेन रजसा कृष्णवर्णन लोकेन। कृष्ण कृष्यतेनिक्लष्टो वर्णः। नि० २।२० । इति यास्कः । लोका रजांस्युच्यन्ते । नि० ४।१९ । इति च । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । तेनान्तरिक्षमार्गेणा- वर्तमान: पुन:पुनरागच्छन् अमृतं देवम् मत्यै मनुष्यं च निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यहा। अमृतं मरण- रहितं प्राणं मयं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यकाण्डे अमर्यो माना सयोनिरित्येतस्य मन्त्रभागस्य व्याख्यानरूपे ब्राह्मणे यथोतोऽर्थोऽवगम्यते । मामि हौमानि शरीराणि अमृतेषा देवता ऐ० प्रा० २।१८। इति ।

Savitr I 35.1 सायणभाष्यम्। १५ २।८० । यथोक्तगुणोपेतः सविता देवो भूवनानि सर्वान् लोकान्- पश्यन् अवेक्षमाणः । प्रकाशयनित्यर्थः । हिरण्ययेन सुवर्ण- निर्मितन रथेनायाति। अस्मत्समोपमागच्छति। अमृतं । मृतं मरण नास्त्यस्येति बहुव्रीहौ नजो जरमरमित्रमिता इत्युत्तरपदाचुदात्तत्वम् । मत्यं मर्ते भवम् । भवे छन्द- सौति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । हिरण्ययेण ऋत्वा- वास्त्वेत्यादिना पा० ६।४।१७५ । मयटो मकारलोपो निपातितः। यस्येति लोप प्रत्ययस्वरः । भुवनानि । भू सत्तायाम् । भूधूसूचरिजभ्यश्छन्दसि। इति क्युन् प्रत्ययः । योरनादेश उवङादेशः । नित्वादान- दात्तत्वम् । ३। देवो दीप्यमानः सविता प्रवता प्रवणवता मार्गेण याति । गच्छति । तथोहतोत्कृष्टेनोर्बुदेशयुक्तोन मार्गेण याति! उदयानन्तरम् आमध्यागमूळु मार्गः तत उपरि श्रा- सायम् प्रवणो मार्ग इति विवेकः तथा यजतो यष्टव्यः स देवः शुभ्राभ्याम् श्वेताभ्याम् हरिभ्यामश्वाभ्याम् याति । देवयजनदेशे गच्छति । सविता देवो बिश्वा दुरिता सर्वाणि पापान्यपवाधमानो विनाशयन् पराव तो दूरदेशात् । परा- वत इति दूरनामसु पठितत्वात्। तादृशादुयलोकादा याति । यागदेश आगच्छति । प्रवता। वन षण संभक्तौ ।

१६ सायणाभाष्यम् । | Savitr I 35 अस्मात्प्रपूवात् क्विए । गमादीनामिति व्यक्तव्यम् । पा. ६।४18०।१ । इत्यनुनासिकलोपः । ततस्तुक् । तदुत्तर- पदप्रकतिम्वरत्वम् । उहता । उत्पूर्वाहनतेः पूर्ववत् प्रक्रिया । यजतः भृमृदृशीत्यादिना उ० ३।११० । यजते: कम्मण्य- तच प्रतयः। विश्वा दुरिता। उभयत्र शेश्छन्दसि वहुल- मिति शेर्लोपः। ४। सविता रथमास्थात्। आ तवान् । प्रारूढ- वानित्यर्थः । कीदृशम् अभीकृतम् अभितो वर्तमानम् । तथा कशनैर्विखरूप सुवर्णेन नानारूपम् । कशनं लोह- मिति सुवर्णनामसु पाठात् । क्वचित् सुवर्णनिर्मिमतगज- पंक्तिः क्वचिदश्वपक्तिः क्वचिन्मनुष्यपक्तिरित्येव बहुरूपत्वम् । हिरण्ययम्यम् । अखाना स्कन्धेषु रथयोजनवेलाया नियन्तु प्रक्षेप्यमाणाः शङ्गवः शम्याः। ताः सुवर्णमय्यो रथे वर्तन्ते । वृहन्तं प्रौढ़म् । कीदृशः सविता। यजतो यष्टव्यः । चित्र- भानुर्विविधरश्मियुक्तः । कृष्णा रजांस्यन्धकारयुक्ततया कृष्ण- वर्णान् लोकानुद्दिश्य तमोनिवारणार्थं तविर्षों बल स्वकीयं प्रकाशरूपं दधानः। अभीतम् अभितो वर्तत इत्यभी- वृतु वर्त्तने। विपि नहितीत्यादिना पा० ६।३। ११६ । पूर्वपदस्य दीर्घत्वम् । विश्वरूपं विखानि रूपाणि यस्यासौ विखरूपः। बहुव्रीहौ विश्वं संज्ञायामिति व्यत्य- हत्। वतु वर्त्तने।

Savitr I. 35.] सायणभाष्यम् । येनासंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकात्यो । हयंते कन्यन् हिर च । उ० ५।४४ । इति कण्यन् प्रत्ययो धातो हिरादेशश्च । नित्वादाद्युदात्तत्वम् । बहुव्रोही पूर्वपदप्रकृतिस्वरत्वम् । आस्थात् तिष्ठते लुंडि गातिस्थेति सिचोलुक् । कृष्णा वषेर्वणे, उ० ३।४ इति नक्प्रत्ययः । शेश्छन्दसि बहुल मिति शेर्लोपः। तविर्षों तवतिः सौत्रधातुः तवेणिहा। उ० ११४८ इति टिषच । टित्वाटिड्डाणजित्यादिना डीए । व्यत्ययेनाद्युदात्तत्व वृषा- दित्वाद्रष्टव्यम् । दधान: शानच्यभ्यस्तानामादिरित्यायुदा- त्तत्वम् श्यावा: श्यावा एतनामकाः सूर्यस्याखाः । सवितुरिति निघण्टावुक्तात्वात् । ते च शितिपादः श्वेतैः पादै- रुपताः । हिरण्यप्रउगम् । रथस्य मुखमीषयोरगं युगबन्धन- स्थानं प्रउगमित्युच्यते । तच्चान सुवर्णमयम् । तद्युक्तं रथं वहन्ती जनान् प्राणिनो व्यख्यन् । विशेषेण प्रकाशितवन्त इत्यर्थः । शवत् सर्वदा विशः प्रजाः दैव्यस्थेतरदेवसम्ब- विनः सवितुः प्रेरकस्य सूर्यस्योपस्थे समीपस्थाने तस्थुः । स्थितवत्यः । न केवलं प्रजा: कि तहि विखा भुवनानि सर्वे च. लोकाः प्रकाशाय सूर्यसमीपे तस्थुः। शितिपादः शितयः खेतवर्णाः पादा येषां ते। शितिपादाः। सुपा १८ सायणभाष्यम् । [ Savitr I. 35. दिभ्यः । पा. सुलुगिति इति जसः सु आदेशः । यहा शितिः खेतवर्णः स्फाटिकादिः स इव पादो येषां ते। पादस्य लोपोऽहस्त्या- पा० ५।४।१३८ । इति समासान्तपादशब्दस्यान्त्य- लोपः। उपमानादिति हि तवानुवर्तते। पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य वहुव्रीही समासे शितैनित्या वह्वज्वहुबौहावभसत् । पा० ६।२।१३८ । इत्युत्तरपदप्रकृति- खरत्वम् । अख्यन् ख्यातेलुंङि अस्यतिवक्ति इत्यादिना ले रङादेशः । हिरण्यप्रउग । वहुब्रोही पूर्वपदप्रकृतिस्वरत्वम् । वहंतः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकवरेण धातुखरः । दैव्यस्य तस्येदमित्यर्थे देवाद्यजजौ। ४।१।८५।३ इति देवशब्दात् प्राग्दोव्यतीयो यञ् । तहितेष्व- चामादेरित्यादिवृद्धिः । जित्यादिनित्य मित्याद्युदात्तत्वम् । उपस्थे आतश्चीपसर्ग इति कः । बाती लोप इटिचेत्या- कारलोपः। मरुधादित्वात्पूर्वपदान्तोदात्तत्वम् । द्यावः स्वर्गोपलचिता: प्रकाशमाना लोकास्तिस्र- स्त्रिसंख्याकाः सन्ति । तत्र हौ लोको सवितुः सूर्यस्यो- पस्था समीपस्थान वर्त्तते। द्युलोकभूलोकयोः सूर्येण प्रका- शितत्वात् । एका मध्यमा भूमिरन्तरिक्षलोको यमस्य भुवने पिटपतेगुहे विराषाट् विरान् गन्तृन् सहते। प्रेताः খা; মনস্থিমা যমলী মনীয়: অঙ্কনা- Savitr I 35] सायणभाष्यम् । १८ मृतानि चन्द्रनक्षत्रादीनि ज्योतींषि जलानि वाधि तस्थुः । सवितारमधिगम्य स्थितानि । तत्र दृष्टान्तः । रथ्यमाणिं न । रथाहहिरक्षच्छिद्रे प्रक्षिप्तः कोलविशेष आणिरित्युच्यते । रथसम्बन्धिनमाणिमधिगम्य यथा रथस्तिष्ठति तहत् । यस्तु मानवस्तत्सविटरूपं चिकेतत् जानाति स मानव इहास्मिन्- विषये ब्रवीतु । कथयतु। केनापि वक्तुमशक्यः सवितु- मैहिमेत्यर्थ.। तिस्रः तिसृभ्यो जसः । पा० ६।१।१६६। इति विभतेरुदात्तत्वम् । हौ संहितायामावादेश लोपः शाकल्यस्यति वकारलोपः । उपस्था आड्याजयाराम् चोप- संख्यानम् । म० ७११३८ । इति सप्तम्या आडादेशः । आडोऽनुनासिकश्छन्दसि । पा. ६।१।१२६। इति प्रकृति- भावः । विरापाट् वृञ् वरणे। घजर्थे कविधानम् पा. २३६५८।४ इति कम्मणि कः। बहुलं छन्दसि पा. ७।१।१०३। इतीत्वम् । तथा सति वूर्यन्त इति बिरा इत्युक्तं भवति । तान् सहत इति विराषाट् । छन्दसि सहः पाः ३।२।६३ इति सहेखिः । सहेः साडः। पाः ८।३।५६ । इति षत्वम् । अन्येषामपि दृश्यत इति पूर्वपदस्य दौर्घः । रथ्यं रथस्येदं रथ्यं रथाद्यत् । पा० ४।३।१२१ । इति यत् । यतोऽनाव इत्यायुदात्तत्वम् । अमृता शेश्छन्दसि बहुलमिति शेर्लोपः । चिकेनत् । कितज्ञान । लेव्यड़ागमः २० सायणभाष्यम्। [ Savitr I. 35. इतश्च लोपः इतीकारलोपः। जुहोत्यादित्वात् नः। लघु- पधगुणः । अनुदात्ते च । पा० ६।१।१८० । इत्यभ्यस्तस्या- द्युदात्तत्वम् । यदृत्तयोगादनिघातः । ७। सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । सुपर्णा इति पञ्चदश रश्मिनामानीति तनामसु पठितत्वात् । अन्तरिक्षाण्यन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि व्यख्यत् । विशेषेण ख्यापितवान् प्रकाशितवान्। कीदृशो रश्मिः गभौर- वेपा गभीरकम्पनः । रश्मे: प्रकम्पनम् चलनम् केनापि द्रष्टुम- शक्यमित्यर्थः । असुरः सर्वेषा प्राणदः। तथा चान्यतामायते । सर्वेषाम् भूतानाम् प्राणानादायोदेतीति । सुनौथः सुनयन: शोभनप्रापणः। मार्गप्रकाशनेनाभौष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः सूर्य इदानी रात्री व कुत्र वर्तते तदेत- द्रहस्यं कथित। को जानाति । न कोऽपौत्यर्थः। अस्य सूर्यस्य रश्मिः कतमां द्यामा ततान कं द्युलोकं रात्री व्याप्तवान् । एतदपि को जानाति । सुपर्णः नसुम्या- मित्युत्तरपदान्तोदात्तत्वम् । गभीरवेपा: टुवेट कम्पने । असन् । गभौरम् वेपो यस्य । पूर्वपदप्रकृतिस्वरत्वम् । असुरः असु क्षेपणे प्रस्यति शत्रूनित्यमरः । असेरुरन् । उ० ११४३ नित्वादाद्युदात्तत्वम्। यहा। असून् प्राणानाति ददातीत्यसुरः । पातोऽनुपसर्ग क इति कप्रत्ययः । सुनीथः ।

Savitr I. 35] सायणभाष्यम् । पोञ् प्रापणे। हनिकुषिनौरमिकाशिभ्यः क्थन् । २।२। इति क्थन् । प्रादिसमासे थाथादिनोत्तरपदान्ती- दात्तलम् । इदानी इदं शब्दात् सप्तम्यर्थे दानों च । पा. ॥३॥१८इति दानों प्रत्ययः । इदम इशितोदशब्दस्य- शादेशः । प्रत्ययायुदात्तत्वम् । सूर्यः । षू प्रेरणे। सव- तौति सूर्य: राजसूय सूर्येत्यादिना रुड़ागमसहित: क्यप्रत्ययो निपातितः। प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत। कित ज्ञाने। लिट । कतमां । किंजातोयाम् । वा वहनाम् जातिपरिप्रने डतमच् । पा० ५।३।६३ । इति किंशब्दात् डतमच। डिवाहिलोपः । चित इत्यन्तो- दात्तत्वम् । पृथिव्याः सम्बन्धिनीरष्टौ ककुभः प्राथाद्याच- तस्रो दिश: आग्नेय्याद्याश्चतस्रो विदिशः इत्येवमष्टौ दियो व्यख्यत् । सविता प्रकाशितवान् । तथा योजना प्राणिन: स्वस्व- भोगेन योजयितृन्धन्व अन्तरिक्षोपलक्षितान् वी त्रि-संख्याकान् पृथिव्यादिलोकान् सप्त सिन्धून् गङ्गादिनदीः समुद्राम्बा सविता व्यख्यत् । हिरण्याक्ष: हितरमणीयचक्षुर्युक्तो हिरण्य- मयाक्षो वा सविता देव आगात् । इहागच्छतु । किं कुर्वन् दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणीयानि रनानि दधत्। प्रयच्छन् । भख्यत् । ख्यातेर्स्यस्यतिवतीत्या- सायणभाष्यम् । [Savitr I. 35. धन्व। दिना चरडादेशः । त्रौ शेश्छन्दसि बहुलमिति शेर्लोपः । रिविरविधवि गत्यर्थाः। इदितो नुम् धातो. रिति नुम् । अस्मात् कनिन्युषितक्षिराजिधन्विद्युप्रतिदिव इति कनिन् । सुपां सुलुगिति विभक्तेलक। नलोपः । प्रत्ययस्य नित्वादाद्युदात्तत्वम् । योजना योजयन्ति प्राणिन उपभोगेनेति योजनानि। नंद्यादिलक्षणो ल्युः । शेरनिटौतिणिलोप पूर्ववच्छेर्लोपः । हिरण्याक्ष: हिरण्य- मयाण्यक्षौणि यस्यासौ हिरण्याक्षः। बहुब्रोही सक्थ्यक्षणोः । पा० ५।४।११३ । इति समासान्तः षचप्रत्ययः । अगात् एते लुंडीणो गा लुङि । पा० २।४।४५। इति गादेशः । गातिस्थेति सिचो लुक् । दधत् । शतरि नाम्यस्ताच्छतु- रिति नुमागमप्रतिषेधः । नाभ्यस्तयोरात इत्याकारलोपः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । दाशुषे टाखान् माता- नित्यादिना वसुप्रत्ययान्तो निपातितः । चतुर्थंकवचने वसोः सम्प्रसारणमिति सम्प्रसारणम् । परपूर्वत्वम् । शासि- वसिघसौनाम् चेति षत्वम् । वायाणि हड् सम्भक्तौ । ऋहलोण्यत् । इडवन्देत्यादिनायुदात्तत्वम् । ।। हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । मानेभ्यो दातुम् हिरण्यं हस्ते धृतवान् । विचर्षणि विविध- दर्शनयुक्तः। विचर्षणिः पश्यत्यर्थः । विचर्षणिविश्वचर्षणि- यहा यज- ।

Savitr I 35]]
सायणभाष्यम् ।
নগ্ন
पा.
रिति तनामस पाठात् ।
सविता देव उभे द्यावापृथिवी
अन्तः उभयोर्लोकयोर्मध्य ईयते ।
गच्छति।
अमौवां
रोगादिबाधामप बाधते । सम्यग्निराकरोति ।
सूयं वेति गच्छति । यद्यपि सविटसूर्ययो रेकदेवतात्वम्,
तथापि मूर्तिभेदेन गन्तृगन्तव्यभावः ।
कृषोण तमसः
कर्षकण निवर्तकेन रजसा तेजसा द्यामाकाशमभ्यृणोति ।
सर्वतो व्याप्नोति । द्यावापृथिवी। दिवसश्च पृथिव्याम्
६।३।३०। इति चशब्दादिवशब्दस्य द्यावादेशः ।
देवताइन्हेचेत्युभयपदप्रकृतिस्वरत्वम् । नोत्तरपदेऽनुदात्तादौ ।
पा० ६।२।१४२। इति न निषेधः। अपृथिवीरुद्रपूष.
मन्थिष्विति पर्युदस्तत्वात् । ईयते । ईङ गतौ। तिङ्-
ङतिङ इति निघातः । बाधते। बाधते च वेति
चेति समुच्चयार्थप्रतीतेश्च शब्दस्याप्रयोगाचादिलोपे विभाषेति
निघातप्रतिषेधः । वेति वो गतिप्रजनकान्त्यशनखादनेषु ।
अदादित्वाच्छपी लुक् । तिपः पित्वादनुदात्तवे धातुस्वरः ।
यद्यप्येषा हितोया तथापि तिङः परत्वाविघाताभावः ।
ऋणोति ऋणु गतौ। तनादित्वादुः। तनादिषु करोते-
रेव गुणो नान्येषामित्यापिश लिमतेन गुणाभावः ।
१०। हिरण्यहस्तोऽसुरः प्राणदाता सुनीथः सुठु
नेता । प्रशस्य इत्यर्थः। सुनौथः पाक इति प्रशस्यनामसु

२४
सायणभाष्यम्।
[Saritr I 35.
खमस्या-
स्तौति खवान् ।
पाठात्। सुमृड़ोकः सुष्टु सुखयिता खवान् धनवान्
अर्वाङ् अभिमुखः कम्मदेशे गच्छतु । किं चायं देव:
प्रतिदोषं प्रतिरात्रि ग्टणान: स्तूयमानोऽस्थात् । स्थितवान् ।
किं कुर्वन् । रक्षसो बाधकलेन रक्षणनिमित्तभूतान् ।
रक्षी रक्षितव्यमस्मादिति यास्कः। नि० ४।१८। यातु-
धानानसुरानपमेधन् निराकुर्वन् । हिरण्यहस्तादयो
गताः । सुमडीक: मुष्ठु मृड़ोक सुखं यस्यासौ तथोक्तः ।
नभ्यामित्युत्तरपदान्तोदात्तत्वम् । स्ववान् ।
मादुपधाया इति वत्वम् । संहितायां
नकारस्य दीर्घादटि समानपाद इति रुत्वम्। भातोऽटि
नित्यमिति सानुनासिक आकारः। रोयत्वम् । यलोपश्च ।
अपसेधन् । षिधु गत्याम् । शप: पित्वादनुदात्तत्वम् ।
अतश्च ससार्वधातुकवरेण कदुत्तरपदप्रकृतिवरत्वम् ।
रक्ष पालन इत्यस्मादपादान औणादिकोऽसि-
यहा रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसन् ।
तदेषामस्तौति रक्षखिनः । मत्वर्थप्रत्ययलोपछाम्दसः ।
प्रत्ययखरः। यातुधानान् । यत निकारोपसंस्कारयोः ।
तस्माण्ण्यन्तादौणादिको भाव उप्रत्ययः । यातवो यातना
एषु धोयन्त इति यातुधानाः । अधिकरणे ख्युट। लिौति
प्रत्ययात् पूर्खस्योदात्तत्वम् । प्रस्थात्। गातिस्थति सिची
रक्षसः।
प्रत्ययः।

Savitr 1. 35
सायणभाष्यम् ।
२५
लुक्। प्रतिदोषम् ।
दोषा दोषाम् । प्रति वीसालक्षणे
यथार्थे पव्ययीभावः । ग्राणान: । गृशब्दे । कम्मणि लट:
शानच्। व्यत्ययेन पा। प्वादीनाम् इव इति इखत्वम् ।
चित इत्यन्तीदात्तत्वम् ।
११। हे सवितः ते तव पन्था मार्गाः पूर्यासः पूर्व
सिहा प्ररेणवो धूलिरहिता अन्तरिक्षे मुक्ता: सुष्टु सम्मा-
दिताः। सुगेभिः सुष्टु गन्तुं शक्यस्तेभिः पथिभिस्तैर्मागें-
रागत्याद्यास्मिन्दिने नोऽस्माबन च ।
पालनमपि कुरु।
तथा हे देव नोऽस्माननुष्ठातृनधि ब्रूहि च। देवानामग्रे-
ऽधिकत्वेन कथय च । पन्थाः । सुपा सुलुगिति जसः सुः ।
पथिमथोः सर्वनामस्थान
इत्याद्युदात्तत्वम् । पूर्यासः ।
पूर्वैः कृताः पूर्व्याः । पूर्वैः कतमिनियो च । पा० ४।४।१३३
इति यः। प्रत्ययवरः। असुगागमः । अरणवः । नञ्-
सुभ्यामित्युत्तरपदान्तीदात्तत्वम् । मुक्ताः। कम्मणि तः।
गतिरनन्तर इति गतः प्रकृतिस्वरत्वम् । मुगेभिः। सुष्टु
मच्छन्त्येष्विति सुगाः । सुदुरोरधिकरणे । पा० ३।२।४८।३
इति गमेडप्रत्ययः। कदुत्तरपदप्रकृतिवरत्वम् ।
हाचोऽतस्तिड इति संहितायां दीर्घः ।

MARUTAS I. 85. १। चतुर्दशेऽनुवाके नव सूक्तानि । तत्र प्र य इति हादशचं प्रथमं सूत गौतमस्यार्षम् । पञ्चमीहादश्यो त्रिष्टुभौ। शिष्टा जगत्यः । मरुतो देवता। तथा चानु- क्रान्त । प्र ये हादश मारुतम् ह पञ्चम्यन्त्ये त्रिष्टुभाविति। हशब्दप्रयोगादिदमादीनि चत्वारि सतानि मकद्देवत्वानि । अभिप्लवषड़हस्य चतुर्थेहन्याग्निमारुत एतत्सूक्तं मारुत- निविद्धानीयम् । सूत्रितं च । प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतम् । ये मरतो धामन् यामनि गमन निमित्तभूते सति प्रशुम्भन्ते । प्रकर्षेण स्वकीयान्यङ्गान्य- लगुर्वन्ति । जनयो न। जाया दूव । यथा योषितः स्वकी- न्यङ्गान्यलकुर्वन्ति तहत् । कीदृशाः मरुतः । सर्पणशीलाः । रुद्रस्य सूनवः । रोदयति सर्वमन्तकाल इति रुद्रः परमेश्वरः । तस्य पुत्राः । सुदंससः। शोभन- एतदेवोपपादयति । हि यस्मान् मरतो रोदसी द्यावापृथिव्यौ वृध दृष्टिप्रदानादिना वधनाय चक्रिरे अतः सुदंसस इत्यर्थः । वीरा विशेषेण शत्रु- क्षेपणशीला:। पृष्वयः। घर्षणथौलाः। महीरुशिलो- सप्तयः कम्माणः । कतवन्तः।

दीप्तो। जायाः। Marutas I. 85] सायणभाष्यम् । चयादेर्भञ्जका इत्यर्थः । एवम्भूतास्ते मरुतो विदथेषु । विदन्त्येषु यष्टव्यतया देवानिति विदथा यज्ञाः । तेषु मदन्ति। सोमपानन दृष्यन्ति । शुम्भन्ते । शुभशुम्भ भौवाटिकः। जनयः । जायन्त आस्वपत्यानीति जनयो इन् सर्वधातुभ्य इतोन् प्रत्यय । यामन् या प्रापणे । कृत्यलुण्टो वहुलमिति वहुलवचनादातो मनिनिति भावे मनिन् । सुपा सुलुगिति सप्तम्या लुक् । सुदंसस । दंस इति कम्मनाम । शोभन दंसो येषाम् । सोम्मनसौ अलोमोषसौ इत्युत्तरपदाद्युदात्तत्वम् । चक्रिरे । हि चेति निघातप्रतिषेधः । वृधे । वृधु वृद्धौ । सम्पदादिलक्षणो भाव किए। सावकाच इति विभतेरुदात्तत्वम् । मदन्ति । मदी हर्षे । श्यनि प्राप्त व्यत्ययेन शप। पादादित्वानिघाता. भावः । विदथेषु । विद ज्ञाने। रुविदिभ्याम् किदित्यथ- वृष्वयः । सृषु सघर्षे । कष्वोत्यादिना विन्- प्रत्ययान्तो निपात्यते । २। ये पूर्वोक्तगुणविशिष्टास्ते मरुत उक्षितासो देवै- रभिषिक्ताः सन्तो महिमानं महत्त्वमाशत । प्राप्नुवन् । रुद्रासो रुद्रस्य पुत्त्राः । उपचाराज्जन्ये जनकशब्दः । ते बद्रपुच्चा मरतो दिवि द्योतमाने नभसि सदः सदनं स्थान- मधि चक्रिरे। अधिकं सर्वोत्कृष्टं कृतवन्तः । अर्कमचनीय- प्रत्ययः।

२८ सायणभाष्यम्। [Marutas I. 85. मिन्द्रमचन्तः पूजयन्त इन्द्रियमिन्द्रस्य लिङ्गं वीय्ये जनयन्तः । प्रहर भगवो जहि वीरयखेत्येवंरूपेण वाक्येनोत्यादयन्तः । प्रश्रिमातरः पृश्ने नारूपाया भूमेः पुत्रा मरतः श्रिय ऐश्वर्यायधि दधिरे। प्राधिक्येनाधारयन् । उक्षितासः । उक्ष सेचने । कम्मणि निष्ठा । आज्जमेरसुक् । महिमानम् । पहच्छब्दात् पृथ्वादिलक्षण इमनिच। टेरिति टिलोपः । पाशत । अशू व्याप्तौ। लङि बद्दल छन्दसौति विकरणस्य लुक्। इन्द्रियम् । इन्द्रियमिन्द्र लिङ्गमिन्द्रदृष्टमिति घच्- प्रत्ययान्तो निपात्यते । पृश्निमातरः। प्राभुते सर्वाणि रूपाणीति पृश्निभूमिः । श्रूयते च । इय वै पृश्निः। घृणि- पृश्चिरित्यादौ निपातनादभिमतरूपसिदिः पृनिर्माता येषां ते तथोताः। ऋतश्च्छन्दसि । पा० ५।४।१५८। इति समासान्तस्य कपः प्रतिषेधः । ३। गोमातरः। गोरूपा भूमिर्माता येषां ते मरुतः । अचिभौरूपाभिव्यञ्जकैराभरणे यद्यदा शुभयन्ते । स्वकीया- न्यङ्गानि शोभायुक्तानि कुर्वन्ति । तदानीं शुभ्रा मरुतस्तनूषु स्वकीयेषु शरीरेषु विरुक्मतो विशेषेण रोच- मानानलझारान्दधिरे । धारयन्ति । अपि च विखं सर्व- मभिमातिनं भनुमप वाधन्ते। हिंसन्ति । एषां मरतां व नि मार्गाननुमृत्य तं चरणशीलमुदकं रोयते ।

Marutas I. 85 ] सायणभाष्यम् । २८ ४॥ स्त्रवति । यत्र मरुतो गच्छन्ति दृष्टुपदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः । शुभयन्ते। सजापूर्वकस्य विधेरनित्य- वाल्लघूपधगुणाभावः । अञ्जिभिः । प्रजू व्यतिम्रक्षणकान्ति- गतिषु । खनिक सिकथञ्जासिवसिध्वनिस्तनिसनिग्रन्थिचरि- भ्यश्चेतीप्रत्ययः । शुभ्राः । शुभ दीप्तौ । स्कायितचीत्यादिना रक्। विरुक्मतः । विशिष्टा रुक् विरुक्। तहन्तो विरु- कान्तः । मतुप्ययस्मयादित्वेन पदत्वात् कुत्वम् । भत्वात् जश्त्वाभावः । रोयते । रोङ् स्रवणे । देवादिकः । सुमखासः शोभनयज्ञा ये मरत ऋष्टिभिरायुधैर्वि भाजन्ते विशेषेण दीप्यन्ते। ते मरुतोऽच्युता चित् यावयितुमशक्यानि दृढ़ानि पर्वतादीन्यप्योजसा स्वकीयेन बलेन प्रच्यावयन्तः प्रकर्षेण च्यावयितारः प्रेरयितारो भवन्ति । उत्तराईः प्रत्यक्षततः । हे मरुतः। मनोजुवी मनोवद्वेगगतयो वृषवातासो वृष्ट्यदकमेचनसमर्थसप्तसवा- मका यूयं रथेष्वात्मीयेषु । पृषतौः पृषत्य इति मरुहाहनानां संज्ञा, पृषत्यो मरुतामित्यु तात्वात् । पृषद्भिः खेतविन्दुभिर्युक्ता मृगीर्यद्यदायुग्धम् । भाभिमुख्येन नियुक्ता अक्कदम् । तदानीं पर्वतादिकं प्रच्यवत इत्यर्थः । सुमखासः। सर्वे विधयच्छन्दसि विकल्पान्त इति नसुभ्यामित्यस्य प्रवृत्त्य- भावे बहुव्रीही पूर्वपदप्रकतिखरत्वम् । प्रच्युता। शेच्छन्दसि सायणभाष्यम्। [ Marutas I 85. बहुलमिति शेर्लोपः। मनोजुवः । जु इति सौत्रो धातु- गत्यर्थः । विश्वचीत्यादिना क्विब्दीधौं । अयुग्धम् । युजिर्- योगे । लुङि धि चेति सकारलोपः । ५। है मरुतः पृषतीर्यादा रथेषु प्रायुग्धम् । प्रायू- युजत । किं कुर्वन्तः। वाजेऽन्ने निमित्तभूते सत्यद्रिं मेघं रहयन्तः । वर्षणार्थं प्रेरयन्तः । उत तदानीमरुषस्यारोच- मानस्य सूर्यस्य वैद्युताग्नेर्वा सकाशादृष्ट्यदकधारा भवन्तो विष्यन्ति । विमुञ्चन्ति। विमुक्तास्ताश्च धारा उदभि- रुदकैश्चमेव परिमितमल्यं चम्म यथाप्रयत्नेन लेद्यते। एवं भूम सी भूमि व्युन्दन्ति । विशेषणाद्री कुर्वन्ति । रहयन्तः। रहि गतौ। वि ष्यन्ति । षो अन्तकम्मणि । देवादिकः । श्रोतः श्यनि । पा. ७३१७१। इत्योकारलोपः। उपसर्गा- सुनोतीति षत्वम् । उदभिः। पद्दनित्यादिनोदकशब्दस्यो- दबादेश: । व्युन्दन्ति । उन्दी लेदने। भूम। सुपां सुख- गिति भूमिशब्दादुत्तरस्यामो डादेशः । छान्दमं इस्खत्वम् । है। तीयसवन था वो वहन्विति पोतुः प्रस्थितयाज्या । सूत्रितं च । आवो वहन्तु सप्तयो रघुष्यदोऽमेव न: सुहवा प्रा हि गन्तन । आ ५/५ इति । तामेतां सूतो षष्ठीमृच- माह। हे मरुतो वो युस्मान् सप्तयः सर्पणशीला अखा पावहन्तु । प्राद्यन्नं प्रापयन्तु । कीदृशाः सप्तयः । रघुष्यदः । ।

Marutas I 85] सायणभाष्यम् । गा लघु शीघ्र स्यन्दमानाः । वेगेन गच्छन्त इत्यर्थः। रघुपत्वानो लघु शीघ्र पतन्तो गच्छन्तो यूयं बाहुभिः स्वकीय हस्तै- रस्मभ्यं दातव्य धनमाहृत्य प्रजिगात। प्रकर्षण गच्छत । हे मरुतो वो युमाकं सदः सदनं वेदिलक्षणं स्थानमुरु विस्तीर्ण कृतम् । तत्र यदास्तीर्णं वर्हिस्तदा सौदत । तस्मि- न्वर्हिथुपविशत । उपविश्य च मध्वो मधुरस्यान्धसः सोम- लक्षणस्यान्नस्य पानेन मादयध्वम् । टप्ता भबत । रघुष्यदः । रघु स्यन्दत इति ष्यन्दू प्रस्रवणे । किप चेति क्विप। अनिदिता मिति नलोपः । तदुत्तरपदप्रकृतिवरत्वम्। रघुपत्वानः पत्ल गती। अन्येभ्योऽपि दृश्यन्त इति वनिप् । जिगात । स्तुतौ । जौहोत्यादिकः । जिगातीति गतिकम्मसु पाठादन गत्यर्थः । लोणमध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तवादेशः। तस्य पित्त्वेन ङित्त्वाभावादीहल्यघोरितीवाभावः। सदः । अतः ककमीति विसर्जनीयस्य सत्वम् । मादयध्वम् । मद प्तियोगे । चुरादिरात्मनेपदी । । ते मरतोऽवन्त । वृद्धिं गताः । कीदृशाः। स्वतवस: खाश्रयवलाः। नान्यस्य कस्यचिहलमपेक्षन्ते । वृद्धिं प्राप्य च महित्वना महिना महत्वेन नाकं स्वर्ग- मातस्थुः। आस्थितवन्तः । सदः सदनं नभोलक्षणं स्थान च स्वकीयनिवासायोर विस्तीर्णं चक्रिरे। यत् येभ्यो ३२ सायणभाष्यम् । [Marutas I 85. मगाः । यदर्थं वृषणं कामाभिवर्षकं मदच्युतं मदस्य हर्षस्यामेतारं यज्ञं विष्णुवित् । विष्णुरेवागत्य रक्षति । ते मरतो वयो न पक्षिणो यथा शीघ्रमागच्छन्ति एवं शौघ्रमागत्य वहिष्यध्यस्मदीये यज्ञे प्रिये प्रौतिकरे सौटन् । सौदन्तु । उपविशन्तु। तेऽवईन्त । स्वरिती वानुदात्ते पदादौ । पा० ८।२।६ इत्येकादेशस्य स्वरितत्वम् । महित्वना। भावप्रत्ययादुत्तरस्याङो व्यत्ययेन नाभाव उदात्तत्वं च । यहा सुपां सुलु गित्याजादेशो नकारोपजनश्च । तस्थुः नाकमातस्थुश्च सदश्च विस्तीर्णं चक्रिर इति चार्थप्रतीतेयादि- लोपे विभाषेति · प्रथमायास्तिविभक्तोर्निधातप्रतिषेधः । सुपां सुलुगिति चतुर्था लुक् । आवत् छान्दसो वृषणम् । वा सपूर्वस्य निगम इत्यु- पधादीर्घाभावः । मदच्युतम् । मदं योततौति मदच्युत् । चुतिर पायेचने क्विए। सौदन् । लिङर्थे लेव्यडागमः । ८। इदित्येतत्समुच्चये। शूरा श्वेत् शौर्योपता युयुत्सवः पुरुषा इव च युयुधयः शत्रुभिर्युध्यमानाः पुरुषा इव च जम्मयः शीघ्र गच्छन्ती मरुतः सवस्यवो न सवो- ऽबमात्मन इच्छन्तः पुरुषा इव पृतनासु संग्रामेषु येतिरे। प्रयतन्ते नादिभियुहे व्याप्तियन्ते। तादृशेभ्यो मनको विखा भुवमा सर्वाणि भूतजातानि भयन्ते । विभ्यति। ये यत्। वर्तमाने लङ्। ।

Marutas I 85] सायणभाष्यम्। -- प्राग- नरो वृध्यादेर्नेलारो मरुतो राजान इव राजमाना नृपतय इव वेत्रसदयो दोप्तसन्दर्शना उग्ररूपतया द्रष्टमशक्या भवन्ति । तेभ्य इत्यर्थः। युयुधयः । युध सम्प्रहार। महनजन इत्यत्रोत्सर्गश्छ दसोतिवचनात् किन्प्रत्यय । लिङ्ग- द्भावाविर्भावादि। कि वाहु ग्णाभावः । नित्त्वादाद्युदात्त- त्वम् । जग्मयः । तेनैव सूत्रेण किन्प्रत्ययः । गमहनेत्या- दिनोपधालोपः। स्थानिवदावाद विर्भावादि। स्रवस्यवः । स्त्रन इच्छति स्त्रवस्यति । क्याच्छ दसौत्युप्रत्ययः । येतिरे । यतो प्रयत्ने। छदसि लुङ्ल क्लिट इति वर्तमाने लिट् । भयन्ते। जिभो भये। बहुलं छन्दसौति शपः श्लोरभावः । वेषस दशः । विष दीप्तौ। पचाद्यच् । दृशिर् प्रेक्षण । सम्पूर्ण दस्मात्सम्पदादिलक्षणो भावे क्विम् । बहुब्रीही पूर्व- पदप्रकृतिस्वरत्वम् । खपा: शोभन कर्मा त्वष्टा विखनिर्माता यहच- मवर्तयत् । इन्द्र प्रत्यगमयत्। दत्तवानित्यर्थः । कीदृशम् । सुकतम् । सम्यक् निष्पादितम् । हिरण्ययम् । सुवर्णमयम् । सहस्रभृष्टिम् । अनेकाभिर्धाराभिर्युक्तम् । तद्दजमिन्द्रो धत्ते। धारयति। किमर्थम् । नरि। अत्र नृसम्बन्धाशब्देन सग्रामोऽभिधीयते । संग्रामेऽपांसि शत्रुहननादिलक्षणानि कर्माणि कर्त्तवे कर्तुम् । एवं वव धृत्वा तेन वजेण ३ सायणभाष्यम् । [ Marutas I 85. ਬਰ वृष्ट्युदकस्यावरकमणवमर्ण सोदकेन युक्तं मेघमहन् अवधीत् । अपां तेन निरुद्धा अपश्च स निरौनत् । नि:शेषेणाधोमुखमपातयत् प्रवृष्टा अकरोदित्यर्थ । सुक्कतम् । सुपूर्वाल्करोतेः कम्मणि निष्ठा । गतिरनन्तर इति गते: प्रकृतिस्वरत्वम् । हिरण्ययम् । हिरण्यशब्दादुत्तरस्य मयडो मकारस्य लोप ऋत्वावास्त्वावास्वे त्यादौ निपात्यते । स्वपाः सोम्मनसो अलामोषसी इत्युत्तरपदाद्युदात्तत्वम । कर्त्तवे तु- मर्थे से से निति करोतस्तवेन् प्रत्ययः । अपाम् । क्रियाग्रहणं कर्तव्यमिति कर्ममणः सम्प्रदानत्वाचतुर्थर्थे षष्ठी। अडिद- मिति विभले रुदात्तत्वम। भौबत् । उन आर्जवे । अर्णवम् । पर्णसो लोपवेति मत्वर्थीयो वः सलोपश्च । १० । अनेयमाख्यायिका । गोतम ऋषिः पिपासया पीड़ितः सन् मरत उदक ययाचे तदनन्तरं मरुतोऽदूरस्थं कूप- मुत्य यत्र स गोतम ऋषिस्तिष्ठति ता दिशं नीत्वा ऋषि- समापे कूपमवस्थाप्य तत्याचे पाहावं च कला तस्मिन्बाहावे कूपमुसिच्य तमृषि तेनोदकेन तर्पयाचः । अयमर्थोऽनयोत्त- रया च प्रतिपाद्यते। ते मरतोऽवतम्। प्रवस्तात्ततो भवतीत्य- वतः कूप: कूपनामम चावतोऽवट इति पठितम् । तमूम- परि यथा भवति तथौजसा स्वकीयेन वलेन नुनुने प्रेरितवन्त छत्खातवन्त इत्यर्थः एवं कूपमुत्खाय ऋषेराश्रम प्रति नयन्ती Marutas I 85 ] सायणभाष्यम् । मरुतो मार्गमध्ये दहाणं प्रवृह गतिनिरोधकं पर्वतं चित् पर्ववन्तं शिलोच्चयमपि वि विभिदुः। विशेषेण वभन्नुः । सुदा- नव. । शोभनदानास्ते मरुतो वाणं शतसख्याभिस्तन्वीभिर्युक्त वीणाविशेष धमन्तो वादयन्तः सोमस्य मदे सोमपानेन हर्षे मति रण्यानि स्तुत्यानि रमणीयानि धनानि चक्रिरे । स्तोटभ्यः कुर्वन्ति। नुनुट्रे। णुद प्रेरणे। लिटौरयो र इति रे आदेशः । दट्टहाणम् । दृह दृहि वृहौ। लिट: कानच् । धमन्तः । या शब्दाग्निसंयोगयोः । पाने त्यादिना धमादेशः। वाणम्। अण रण वण शब्दार्थाः । कम्पनि घञ्। कर्षावत इत्यन्तोदात्तत्वम् । रयानि । रणतर्भाव वसिरण्योरुपसंख्यानम् । पा० ३।३।५८५३ । इत्यप् । ततो भवे च्छ दशौति यत् । यतोऽनाव इत्याद्युदात्तखम् । ११ । मरुतोऽवतमुद्धृतं कूपं यस्यां दिशि ऋषिवमति तया दिशा जिद्मं वक्र तियञ्चं नुनुट्रे। प्रेरितवन्तः। एवं कूपं नौत्वा ऋष्याश्रमेऽवस्थाप्य कृष्णजे ढषिताय गोतमाय ऋषये तदर्थमुत्मं जलप्रवाह कूपादुकृत्यासिञ्चन् । पाहावेऽवान- यन् एव कलेम स्तोतारमृषि चित्रभानवी विचित्रदीप्तयस्ते मरतोऽवसेदृशेन रक्षणेन सहागच्छन्ति । तत्समीपं प्राप्नुवन्ति प्राम्य च विप्रस्य मेधाविनो गोतमस्य काममभिलाणं धाम- भिरायुषो धारकैदकैस्तयन्त। प्रतर्पयन् । तया । न गोख- ३ सायणभाष्यम्। [Marutas I. 85 साववणेति सावकाच इति प्राप्तस्य विभक्त्युदात्तस्य प्रति- षेधः । दिशा | सावकाच इति विभक्तरदात्तत्वम् । तृष्णजे । जिटषा पिपासायाम्। स्वपिटषोर्नजिङ । खपिटषोर्नजिङ । प्रत्ययाद्युदा- त्तलम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः। अन्ये- वपि दृश्यत इति दृशिग्रहणात्केवलादपि जनेर्डप्रत्ययः तृष्णा जाता यस्य स तथोताः । ड्यापोः संज्ञाच्छन्दसोबहुल मिति दृखत्वम् । वहुव्रीही पूर्वपदप्रकृतिवरत्वम्। धामभिः । दधातरातो मनिन्नितिमनिन् । १२। मारते पशी या वः शर्मेति हविषो याज्या। प्रदानानामिति खण्डे सूनितम् । अरा इवेदचरमा अहेव या व; शम्म शशमानाय सन्ति । इति । हे मरुतो वो युभाक सम्बन्धीनि यानि शर्मम शर्माणि सुखानि गृहाणि वा कीदृशानि। त्रिधातूनि । पृथिव्यादिषु त्रिषु स्थानेष्व- वस्थितानि । शशमानाय युभान् स्तुतिभिर्भजमानाय दातु सम्पादितानि। पूर्वोत्तालक्षणानि शर्माणि यानि सन्ति यानि च दाशुषे हविर्दत्तवते यजमानायाधि यच्छत अधिक प्रयच्छथ हे मरुतः, तानि सर्वाणि शर्माणि अस्मभ्यं वि यन्त, विशेषेण प्रयच्छत। किञ्च हे वृषण: कामानां वर्षि- तारो मरुतो नोऽस्मभ्यं सुवीरं शोभने धीरैः पुत्रादिभिर्यत रयिं धनं धत्त। दत्त । या। शेच्छसि बहुलमिति शेर्लोपः ।

Marutas I. 85.
सायणभाष्यम् ।
शशमानाय शश
शम्म। सुपां सुलुगिति जसो लुक् ।
मुतगती। ताच्छौलिकश्चानश् । यच्छत । च्छान्दसे लडि
वहुल च्छन्दस्यमायोगेऽपौत्यडभावः । यन्त। यमेर्लोटि
वहुल च्छन्दसौति शपो लुक। तप्तनप्त नथनाश्चेति तवादेशः ।
अतस्तस्य पित्त्वेन ङित्त्वाभावादनुदात्तोपदेशेत्यादिनानु-
नासिकलोपो न भवति ।
वा षपूर्वस्य निगम
इत्युपधादीर्घाभावः। सुवीरम् वहुव्रीही वीरवी? चेत्यु-
त्तरपदाद्युदात्तत्वम।
वृषण:।

VISNU I. 154 विष्णो र्नु कमिति षडचं पञ्चदशं सूक्तं दैर्घ- तमसं त्रैष्टुमं वैषणवम् । अवानुक्रमणिका। विष्णोः षड्नैणावं हौति। अभिप्लवषड़हषूक्थ्येषु तृतीय- सबने स्तोमवृद्धावछावाकस्य स्तोमातिशंसनार्थ- मिदमादिसूनदयं विनियुक्तम् । स्तोमे वर्धमान इति खण्डे सूत्रितम् । विष्णो न कमिति सूक्ते परो मावयेत्यच्छावाक इति । तथा तृतीयसवने सोमातिरक उत्तरोत्तरसंस्थोपगन्तव्या आति- रात्रात्। ततोऽप्यतिरिक्ते तदर्थमेव शस्त्रमुपजन- यितव्यम् । ववैतदेव सूक्तं सोमातिरक इति खण्डे सूवितम्। महा इन्द्रो नृवहिष्णो र्नु कमिति । आग्निमारुतशस्त्रे आद्या विनियुत्ता। यथेतमिति खण्डे सूत्रितम् । विष्णो ने कं वौयाणि प्रवोचं तन्तुं तन्वन् रजमो भानु- मन्विहीति। अथ Visnu I. 154 ]] सायणभाष्यम् । ३८ । तथाच १। हे नरा विष्णो ापनशीलस्य देवस्य वीयाणि वौरकम्माणि नु कम् अतिशीघ्र प्रवोचं प्रव्रवीमि । यद्यपि नु कमिति पददयं तथापि यास्केन नवोत्तराणि पदानौत्यतात्वात् शाखान्तर एकत्वेन पाठाच्च नु इत्ये- तस्मिन्नेवार्थे नु कमिति पद दयम् । कानि तानीति तनाह यो विष्णु' पार्थिवानि पृथिवीसम्बन्धीनि रजासि रन्जनात्म- कानि तित्यादिलोकत्रयाभिमानीन्यग्निवावादित्यरूपाणि रजांसि विममे विशेषण निम्ममे । अत्र त्रयो लोका अपि पृथिवौशब्दवाच्याः । मन्त्रान्त यदिन्द्राग्नी अवमस्या पृथिव्या मध्यमस्यां परमस्यामुत स्थ इति । तैत्तिरीयेपि योस्या पृथिव्यामस्यायुषेत्युपक्रम्य यो हितोय- स्यां टतीयस्था पृथिव्यामिति । तस्माल्लोकत्रयस्य पृथिवी- शब्दवाच्यत्वम् । कि च यश्च विष्णुरुत्तरमुगततरमति- विस्तीर्ण सधस्थं सहस्थान लोकत्रयाश्रयभूतमन्तरिक्षम् अस्क- भायत् तेषामाधारत्वेन स्तम्भितवान् । निर्मितवानित्यर्थः पनेनान्तरिक्षाश्रित लोकत्रयमपि सृष्टवानित्युक्तं भवति । यहा। यो विष्णुः पार्थिवानि पृथिवीसम्बन्धीनि रजांसि पृथिव्या अधस्तनमतलाकान्विममे विविध निम्मितवान् । रजःशब्दो लोकवाची। लोका रजांस्यच्यन्त इति यास्केनोक्त- त्वात्। कि च यश्च उत्तरं उततरं उत्तरभाविनं सधस्थं सायणभाष्यम् । [Visnu I. 154 स्कम्भे. स्तम्भु कि च सहस्थानं पुण्यकता सहनिवासयोग्यं भूगदिलोकमप्तकम् अस्कभायत् स्कम्भितवान् । सृष्टवानित्यर्थः । स्तु म्भुिति विहितस्य ः छन्दसि शायजपौति व्यत्ययेन शाय- जादेशः। अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थ. । भूम्यामुपा- जितकम्मभोगार्थत्वादितरलोकाना तत्कारणत्वम् । यश्चोत्तरमुत्कृष्टतर सर्वेषां लोकानामुपरिभूतम् । अपुनरा- वृत्तेस्तस्योत्कृष्टत्वम् । सधस्थमुपासकाना सहस्थान सत्य- लोकम् अस्कभायत् स्कम्भितवान्। ध्रुव स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाण. त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः। विष्णोस्त्रेधा क्रमणम् इदं विष्णु- विचक्रम इत्यादिश्रुतिषु प्रमिदम् । अतएव उरुगाय: उरुभिर्महद्भिर्गीयमानः अतिप्रभूत गौयमानो वा । य एव कृतवान् तादृशस्य विष्णो:याणि प्रवोचम् । २। तीयसवने सोमातिरेक एव शस्त्र मुपजनयि. तव्यम् । तत्र प्र तदित्य यमनुरूपस्तृचः । सोमातिरेक इति खण्डे मूत्रितम् । प्रतहिष्णुः स्तवर्त वीर्यणेति म्तोत्रि- यानुरूपाविति । वाजपेयेनाधिपत्य काम इति खण्डे सत्रि- तम्। प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुः स्तवत वीर्येणेति ।

Visnu I 154] सायणभाष्यम् । सर्व । यस्येति वक्ष्यमाणत्वास इत्यवगम्यते । स महानुभावो वोर्येण स्वकोयेन वोरकम्मणा पूर्वोक्तरूपेण स्तवते स्तूयते कम्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः। मृगो न सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहो भीमो भौतिजनकः कुचरः कुत्सित- हिसादिकर्ता दूर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नत- प्रदेशस्थायौ सर्वैः स्तूयते। अस्मिन्नर्थे निरुक्तम् । मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भौमः कुचरो गिरिष्ठाः। मृगो माटेंगतिकमणः। भौमो विभ्यत्य- स्माद् । भौगोप्येतस्मादेव । कुचर इति चरति कम्म कुत्सितम् । अथ चेद्दे वताभिधानं कायं न चरतीति गिरिष्ठाः गिरिस्थायौ। गिरिः पर्वतः समुहीर्णो भवति। पर्ववान् पर्वतः । पर्व पुनः पृणातः प्रोणाते- तहदयमपि मृग: अन्वेष्टा शवणा भीमः भयानक: सर्वेषा भीत्यपादानभूतः। परमेश्वरानीतिः भोषास्माहात: पवत इत्यादिश्रुतिषु प्रसिद्धा । किं च कुचरः शत्रुबधादि- कुत्सितकम्मकर्ता। कुषु सर्वासु भूमिषु लोकत्रये सञ्चारी तथा गिरिष्ठाः गिरिवदुच्छ्रितलोकस्थायौ। गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः। ईदृशोयं स्वमहिम्ना स्तूयते । किं च यस्य विष्णोरुरुषु विस्तीर्णेषु वा। वैति । वा। यहा।

४२ सायपभाष्यम् । [Visnu I 154 त्रिमख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्खा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते । विष्णवे सर्वव्यापकाय शूषमस्मत्वत्यादिजन्य बलं महत्वं मन्म मनन स्त्रोत्र मननीयं शूप बल वा विष्णुमेतु प्राप्नोतु। कम्मण: सम्प्रदानत्वाच्चतुर्थी । कीदृशाय गिरि- क्षिते वाचि गिरिवदुन्नत प्रदेश वा तिष्ठते उरुगायाय बहुभि- गोयमानाय वृषणे वर्षिो कामानाम । एव महानुभावं शूष प्राप्नोतु। कोस्य विशेष इति उच्यते । यो विष्णु रिदं प्रमिद्धं दृश्यमान दीर्घतिविस्तृतं प्रयतं नियत मधस्थ सहस्थानं लोकत्रयमेक इत् एक एव अद्वितीयः सन् त्रिभिः पदेभिः पादैविममे विशेषेण निम्मितवान् । यस्य विष्णोर्मधुना मधुरेण दिव्ये नामृतेन पूर्णा पूर्णानि नौणि पदानि पादप्रक्षेपणानि अक्षीयमाणा अक्षीय- माणानि स्वधया अनेन मदन्ति मादयन्ति तदाश्रितजनान् । य उ य एव पृथिवौं प्रख्यातां भूमि द्यामुत द्योतनात्मक- मन्तरिक्ष च विश्वा भुवनानि सर्वाणि भूतजातानि चतुर्दश- लोकांथ। यहा। पृथिवीशब्देन अधोवीन्यतलवितलादि समभुवनान्युपात्तानि। धुशब्देन तदवान्तररूपाणि भूरादि- सप्तभुवनानि । एवं चतुर्दश लोकान् । विश्वा भुवनानि ४ ।

Visnu I 154 ] सायणभाष्यम् । ४३ यहा। सर्वाण्यपि तत्रत्यानि भूतजातानि विधातु त्रयाणां धातूनां समाहार स्त्रिधातु। पृथिव्यतेजोरूपधातुत्रय- विशिष्टं यथा भवति तथा दाधार तवान् । तुजादित्ला- दभ्यामस्य दीर्घत्वम् । उत्पादितवानित्यर्थः । च्छन्दोगारण्यके, तत्तेजोसृजत तदन्नमसृजत ता आप ऐक्षन्तेति भूतत्रयसृष्टि मुक्त्वा हन्तेमास्तिस्रो देवतास्तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादिना त्रिवृत्करणसृष्टिरुपपादिता। त्रिधातु कालत्रयं गुणत्रयं वा दाधारीत्यन्वयः । ५। आतिथ्यायां तदस्येत्येषा प्रधानस्य याज्या । प्रथातिथेति खण्डे सूनितम् । इदं विष्णुर्विचक्रमे तदस्य प्रियमभि पाथो अश्यामिति । अस्य महतो विष्णोः प्रियं प्रियभूतं तत्सर्वैः सेव्यत्वेन प्रसिद्ध पाथः । अन्तरिक्षनामैतत्। पाथोन्तरिक्षं पथा व्याख्यातमिति यास्केनोक्तत्वात् । अविनखरं ब्रह्मलोक- [अभि ? ] मित्यर्थः । अश्या व्याप्नुयाम् । तदेव विशेष्यते । यत्र स्थाने देवयवः देव द्योतनस्वभावं विष्णुमात्मन इच्छन्तः यजदानादिभि प्राप्नुमिच्छन्तो नरो मदन्ति टप्तिमनुभवन्ति । तदश्यामित्यन्वयः। पुनरपि तदेव विशेष्यते । उरुक्रमस्य अत्यधिक सव्वं जगदाक्रममाणस्य तत्तदात्मना । विष्णोर्ध्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये । अतएव ४४ सायणभाष्यम्। [Visnu I. 154. मित्यर्थः । केवल सुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सो निष्यन्दो वर्तते । तदश्याम् । यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति सकल्पमात्रणामृतकुल्यादिभोगा: प्राप्यन्ते तादृश- ततोधिकं नास्तोत्याह। इत्था इत्यमुक्त प्रकारण स हि बन्धुः स खलु सर्वेषा सुकृतिनां बन्धूभूतो हितकरो वा तस्य पदं प्राप्तवता न पुनराहत्तिः । न च पुनरावर्तत इति श्रुतेस्तस्य वन्धुत्वम् । हिशब्दः सव्वश्रुतिस्मृतिपुराणादि प्रसिद्धिद्योतनार्थः । ६ । हे पत्नीयजमानौ वां युस्मदर्थ ता तानि गन्तव्यत्वेन प्रसिद्धानि वास्तूनि सुखनिवासयोग्यानि स्थानानि गमध्ये युवयोगमनाय उश्मसि कामयामहे । तदर्थं विष्णुं प्रार्थयाम इत्यर्थः । तानौत्युक्त कानीत्याह । यत्र येषु वास्तुषु गावो रश्मयो भूरिशृङ्गा अत्यन्तोबत्युपेता बहुभिराश्रयणीया वा। अयास.अयना गन्तारः अतिविस्तृताः । यहा। यासो गन्तारः । अतादृशा अत्यन्त प्रकाशयुक्ता इत्यर्थः । अत्रा ह अत्र खलु वास्त्वाधारभूत द्युलाक उरुगायस्य वहुभिमर्हात्मभिगातव्यस्य स्तुत्यस्य वृष्णः कामाना वर्षितु विष्णो स्तत् तादृश सर्वत्र पुराणादिषु गन्तव्य त्येन प्रसिद्ध परमं निरतिशयं पदं स्थानं भूरि प्रति प्रभूतमवभाति स्वमहिना स्फुरति । अयं मन्त्री यास्केन गोशब्दो रश्मिवाचक इति व्याचक्षाणेन व्याख्यातः ।

Visnu I 154 ]] सायणभाष्यम् । ४५ तानि वा वास्तूनि कामयामहे गमनाय यत्र गावो भूरि- शृङ्गा बहुशृङ्गा: भूरीति बहुनो नामधेयम् । प्रभवतीति सतः । शृङ्ग श्रयतेर्वा शृणात वा शनातेर्वा शरणयोहत- मिति वा शिरसो निगतमिति वा । प्रयासोयनाः। तत्र तदुरुगायस्थ गायस्य विष्णोर्महागतेः परमं पदं परायंस्थ- मवभाति भूरि। पादः पद्यतेरिति ।

DYAVA-PRTHIVI I. 160 ते हौति पञ्चचं चतुर्थं सूक्तं दैर्घतमसं जागतम् द्यावापृथिव्यम् । ते होत्यनुक्रान्तम् । चतुर्विशऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविदा- नमेतत् सूक्तं ते हि द्यावापृथिवी यत्तस्य वो रथ्य- मिति वैश्वदेवम्। आ० ७।४ । इति सूत्रितत्वात्। तथा पृष्ट्याभिप्लवषड़हयोईितीयेऽहनि वैश्वदेवे द्यावापृथिव्यम् निविद्वानीयम् चातुर्विशिकम् तृतीयसवनम् । प्रा. ७६ । इत्याभिप्लविके द्वितीयेऽहन्यतिदिष्टत्वात् । आभिप्लविकाद्दितीया- पृष्ठास्य द्वितीयेऽन्येतत्सूक्तमतिदेशत: प्राप्तम् पृष्ट्यस्याभिलवेनीत अहनी आये आद्या- भ्याम् । आ. ७।१०। इति सूवितत्वात्। प्रथमाश्विनशस्त्रे विनियुक्ता। संस्थितेष्वाश्विना- येत्यत्र सूचितम् । ते हि द्यावापृथिवी विश्वशं- भुवा विश्वस्य देवीमचयस्य । आ. ६।५ । इति ।

D Pithivi I 160] सायणभाथ्यम् ।
१। ते हि खलु प्रसिद्ध द्यावापृथिवी अन्तस्तयो-
रन्तराले शुचिः शुद्धो विश्वस्य शोचयिता वा देवो दीप्यमान:
सूर्यो धर्मणा प्रकाशोद कदानादिधारणेन युक्तः सन्नीयते ।
सर्वदा गच्छति। ईड् गतौ देवादिकः । तादृशं कम
युवयोरनुग्रहादिति स्तुतिः। कीदृश्यौ ते। विश्वसभुवा ।
विश्वम् सुखभावयिट ययोस्ते विश्वसंभुवा । विश्वय
सुखयित्रधावित्यथैः । ऋतावरौ ऋतवत्यौ। ऋतशब्दा-
च्छन्दसौवनिपाविति वनिम्। वनो र चेति । डीक्रेफौ ।
रजस उदक स्योदकोत्पत्ती। उदकं रज उच्यत इति
निरुक्तम् । ४।१८। धारयत्कवी अवच्छेण धारकम् कवि
ययोस्ते तादृश्यौ। उदकोत्पादनाय अप्रयत्नवत्यावित्यर्थः ।
यहा धारयत्कवि मैनौष्यादित्यो ययोस्ते तादृश्यौ। वृट्यु-
दकधारयत्सूर्योपेते इत्यर्थः। सुजन्मनी शोभनजन्मवत्यौ
धिषणे धर्षणोपेते। स्वव्यापारेषु प्रगल्भे इत्यर्थः । देवी
योतमाने।
अत्र यद्यपि धिषणे इत्येतत् धिषणे रोदसी
इति तबामसूतत्वाद द्यावापृथिवीनाम तथापि
पृथिवी इत्यस्य विद्यमानत्वाद् यौगिकम् द्रष्टव्यम् ।
उरुव्यचसा प्रभूतव्यचनवत्यावतिविस्तीर्णे महिनी
प्रतएव महत्यौ अशश्चतासन्यमाने। परस्परवियुक्तो इत्यर्थः ।
पिता पालयित्री द्यौः माता निर्मात्री पृथिबी चेत्युभे
द्यावा-
२॥

सायणभाष्थम । [D Pithayi I. 160 पालयतः। लोपः। भुवनानि भूतजातानि रक्षतः । द्यौष्पितः पृथिवि मातः । ऋ० ६.५११५ । इत्यादिश्रुतर्मातापिट- रूपत्वम् । किञ्च सुष्टमे अतिगयेन धृष्टे ॥ छान्दसस्तकार प्रगल्भे रोदसी द्यावापृथिव्यो वपुष्ये न वपुषो हिते इव। प्राणिनाम् पितराविव शरोररक्षके इत्यर्थः । तदेवापपादयति । यद्यस्मात् मी सर्वत: पिता पिट स्थानीया द्यौ रूपैनिरूपणसाधनैः प्रशस्तैः प्रकाशै निरूप्यमाणैवष्ट्या- दिभिर्वाभ्यवासयत् अभिवासर्यात अधितिष्टति तस्मात् पिता माता च भुवनानि रक्षतः ॥ ३। पित्रो र्मातापित्रोद्यावापृथिव्योः । पिता मात्रति पिता शिष्यते । उदात्तयन इति पितुर्विभक्तिरुदात्ता। पुत्रः पुरुवाता पुत्र स्थानीय आदित्यः पवित्रवान् पावन- रश्मियुको धीरो धीमान् स वह्निः फलस्य वीढ़ा धारक. सन्मायया प्रजया खकीयया भुवनानि भुतजातानि पुनाति । पावयति । प्रकाशयतीत्यर्थः किं च स एव पुत्र: पृश्नि शक्लवी धेनुं प्रोणयित्रौं भूमि सुरेतसं शोभनसामर्थ्य शोभनोदकं वा वृषभं से तारं द्युलोकं च मायया पुनाति । प्रकाशयतीत्यर्थः । कदा। विश्वाहा सर्वाम्यहानि । सर्वकालमित्यर्थः । किं चास्य द्युलोकस्य । यहा। कर्मणि षष्ठी। इमं द्युलोकम् । एक पयो दीप्तं पयःसहशमुदकम् D Pithivi I 160] सायणभाथ्यम् । स्तमः । अप दुक्षत । दोधि । दुहेश्छान्दसे लुङि शल इगुपधादनिटः क्स इति चले: सादेशः । ईदृशो महानुभाव आदित्यस्तयोः पुत्र इति द्यावापृथिव्यो. स्तुतिः । ४। पूर्व पुत्रमाहात्म्येनैते प्रशस्येदानों स्वोत्यादक- स्तुत्या प्रशंसति । अयं देवानाम् मध्ये देवतमोऽपसामप- इति कर्मनाम । तेन तहान् लक्ष्यते। कर्मवताम् मध्ये प्रकृष्ट कर्मा । अयमित्युक्त क इत्याह । यो देवो विश्वसम्भवा सर्वप्रकारेण भूतानाम् सुखस्य भावयित्री रोदसौ द्यावापृथिव्यौ महानुभावे जजान उत्पादितवान् । न केवलं उत्पादनमात्रम् अपि तु यो देवो रजसौ रञ्जना- त्मिक द्यावापृथिव्यौ। रजसौ इति द्यावापृथिव्योर्नाम रजसौ सदसौ इति तन्नामसु पाठात् । उक्तरूपे विममै विशेगा परिच्छिनत्ति । कि खोपभागाय नेत्याह । सुक- तूयया शोभनकर्मेच्छ या । येन कर्मणा प्राणिनां सुखं सम्भवति ताटक्कर्मेच्छया। अथवैतदुत्तरत्र सम्बध्यते । सुक्रतूययोतेन निमित्तेनेमे द्यावापृथिव्यावजरेभिरजौणैर्दृढ़- तरैः स्कम्भने भिर्गतिप्रतिबन्धसाधनैः शङ्खभिः समानुचे । सम्यक् सर्वत: पूजितवान् । स्थापितवानित्यर्थः लिटि रेफसामान्याविहलत्वमस्तीति तस्मान्नुड्- दिहल इत्यभासस्य नुट। यस्मादेवं तस्मादयमेव देवो- स्तुती। 8 सायणभाष्यम । [D. Pithivi I. 160 ऽयमेवापस्तम इत्येवं महानुभावन परमेश्वरेणोत्पन्ने इति स्तुतिः । ५। ते प्रसिद्ध है द्यावापृथिवी द्यावापृथिव्यौ टणाने अस्माभि: स्तूयमाने सत्यौ। कर्मणि कट प्रत्ययः । महि महदतिप्रभूतं श्रवः सर्वत्र प्रसिद्धमन्नं सर्वत्र श्रूयमाणां कीर्ति वा नोऽस्मभ्य धासथः । धत्तम्। दधातर्लेट्यड़ा- गमः। सिब्बहुलमिति सिप । तथा वृहदतिप्रभूत क्षत्र बलं धासथः। तदेव विशेष्यते । येनानबलेन विश्वहा सर्वेष्वप्यह.सु कृष्टीः पुत्रादिरूपाः प्रजा अभि ततनाम अभितो विस्तारयाम । तनोतेर्लोटि छान्दसो विकरणस्य श्रुः। प्राडुत्तमस्येत्याड़ागमः । तस्य छन्दस्युभययेत्याध- धातुकत्वादभ्यस्तायुदात्तत्वाभावे धातुस्वरः । कृष्टय इति मनुष्यनाम कृष्टयश्चर्षणय इति तन्नामसु पाठात् । पनाय्यं स्तुत्यमोज: शरीरबलमस्मे अस्मासु सम्यगिन्वतम् । व्यामृतम् । प्रवर्धयतमित्यर्थः । इन्वतिर्व्याप्तिवचन: इन्वति ननक्षेति तनाममु पाठात् । कि च INDRA II.12. हितीयेनुवाक एकादश सूतानि । तत्र यो जात इति पञ्चदशचं प्रथमं सूक्तं गार्ल्समदं त्रैष्टुभ- मैन्द्रम् । संसवे निष्कवल्ये निविद्वानीयस्य पुर- स्ताद्यो जात एवेति शंसत्। यदि पर्यायानिति खण्डे सूत्रितम्। यो जात एवेति निष्कवल्य इति । आभिप्लविके तौयेहनि निष्कवल्ये यो जात एवेति निविद्धानौयम् । सूचितं च । तृतीयस्य ल्यमा यो जात एवेति मध्यन्दिन इति विश्वजिति माध्यन्दिनसवने मैत्रावरुण: स्वशस्त्रे प्राक्तात्- सूतात्पूर्व यो जात इति सामसूक्तं शंसत् । विश्वजितोऽग्निं नर इति खण्डे सूत्रितम् । सवा मदासो यो जात एवाभूरेक इति सामसूता- अग्निष्टुन्निष्कबल्ये निविद्धानमिदम् । श्येनाजिराभ्यामिति खण्डे सूत्रितम् । নিষ্টা नौति ।

सायणभाष्यम् । ५२ [ Indra Il. 12 हरी इति यो जात एवेति मध्यन्दिन इति । महाव्रते निष्कवल्ये यो जात एवंति सूक्तम् । जरू इति खण्डे सूवितम् । वने न वा यो न्यधायि चाकन् यो जाल एव प्रथमो मनवानिति । अवेतिहासो वृहदेवतायामुह संयुच्य तपसात्मानमैन्द्रं विश्वमहापुः । अदृश्यत मुहर्त्तन दिवि च व्योनि चेह च ॥ तमिन्द्र इति मत्वा तु दैत्यौ भीमपराक्रमी। धुनिश्च चुमुरिश्चोभौ सायुधामिपेततुः ॥ विदित्वा स तयोविकृषिः पानं चिकिर्षतोः । यो जात इति मुक्तेन कर्मा इंद्राण्यकीर्तयत् ॥ अन्ये त्वन्यथा वर्णयन्ति । पुरा किलेन्द्रादयो वैन्ययनं समाजग्मुः। गृत्समदोऽपि तत्रागत्य सदस्यासीत् । दैत्याश्चेन्द्रजिघांसया तत्र समा- गमन्। तान्दृष्ट्वा निर्जगामिन्द्रो यज्ञामृत्समदा- कृतिः । स च गृत्समदो वैन्येन पूजितो यज्ञ- वाटान्निग्गच्छत् । निर्गच्छन्तं तवृषिं दृष्ट्वा अय- Indra II 12] सायणभाष्यम्। ५३ मेवेन्द्र इति मन्यमानास्तमसुराः परिवब्रुः । नाह- मिन्द्रस्तुच्छः किं त्वेवंगुणोपितः स इत्यनेन सूक्तेन तान् प्रत्युवाच। अपरे त्वेवं कथयन्ति गृत्समदस्य यजे प्रविष्टमेकाकिनमिन्द्रं ज्ञात्वा असुरा. परिवब्रुः । स इन्द्रो गृत्समदरूपेण यत्न- वाटानिर्गल्य स्वर्ग जगास। ततोऽसुरा इन्द्रो विलम्बित इत्यन्तः प्रविश्य मृत्ममदं दृष्ट्वा पूर्वमेव सत्यमदो गतः अयं विन्द्रोऽस्मअयागृत्समद- रूपेणास्त इति तं जगहुः । स तान् नाहमिन्द्रो- ऽयमित्यनेन सोन प्रत्युवाच। अयमेवार्थो महा- भारते प्रपचितः । ग्टत्समदो ब्रूते। जनासः जना: हे असुरा यो जात एव जायमान एव सन् प्रथम देवानां प्रधानभूतः मनस्वान् मन खिनामग्रगण्यः देव: द्योतमानः सन् क्रतुना वृत्रबधादिलक्षणेन खकीयेन कर्मणा देवान् सर्वान्यागदेवान् पर्यभूषत् रक्षक त्वेन पर्यग्रहीत् । भूष अलङ्कार भूवादिः । लङि रूपम् | यहा । सर्वानन्यान् देवान् पर्यभूषत् पर्यभवत् अम्मिन् पक्षे भवतेव्यत्य येन क्सः । अत्यकामत् । शुभकः ५४ सायणभाष्यम् । [ Indha lI 12 कितीतोट्प्रतिषेधः । यस्येन्द्रस्य शुष्मात् शरीरात् बलात् रोदसी द्यावापृथिव्यौ अभ्यसेतामविभीताम् । भ्यस भये। अनुदात्तेत् । भ्यसभयवेपनयोरिति नरुताः । अभ्यसेता- मवेपतां वा। तथा च मन्त्रान्तरम् । इमे चित्तवमन्यवेवेपेत भियसा महौ इति । तृस्णस्य सेनालक्षणस्य बलस्य मङ्गा महत्लेन युक्तः स इन्द्रो नाहमिति । अत्र निरुक्तम् । यो जायमान एव प्रथमो मनस्त्री देवो देवान् क्रतुना कर्मणा पर्यभवत्पयंग्यात्पर्यरक्षदत दत्यकामदिति वा यस्य बलामावा- पृथिव्यावग्यविभोता नृमण स्य महा बलस्य महत्वेन स जनास इन्द्र इत्युबेदृष्टार्थ स्य प्रीतिर्भवत्याख्यानमयुक्त ति । २। हे जना: यः इन्द्रः व्यथमाजा चलन्तीं पृथिवी- महत् शर्करादिभि दृढामकरोत् । दृह दृहि वृद्धौ। यश्च प्रकुपितान् इतस्ततश्चलितान् पक्षयुक्तान् पर्वतानरमणात् नियमितवान् खे स्खे स्थाने स्थापितवान् । अरमणात् रमु क्रोडायाम् । अन्तर्भावितण्यर्थस्य व्यत्ययेन नाप्रत्यय. । यश्च वरीय उरुतममन्तरिक्ष विममे निर्ममे विस्तीर्ण चकारे- यश्च द्या दिवमस्तम्भात् स्तम्भनिरुद्धामकरोत् । स्तम्भु रोधन इति सौत्रो धातु. । स एवेन्द्रो नाहमिति । यः अहि मेचं हत्वा मेघहननं कृत्वा मप्त सर्पण- शोला: सिन्धून् स्यन्दनशीला अपः अरिणात् प्रेरयत् । त्यर्थ.।

Indra II 12 ] सायणभाष्यम् । ५५ ४ । यहा। सप्त गङ्गायमुनाद्या मुख्या नदीररिणात् । रोड स्रवणे क्रमादि। यश्च बलस्य बलनामकस्यासुरस्य अपधा तत्कर्तृकान्निरोधान्निरुद्धा गा उदाजत् निरगमयत्। अपधा। अपपूर्वाद्दधातरातश्चोपसर्ग इति भावे अड्प्रत्ययः । सुपा सुलु- गिति पञ्चम्या आकार। यश्च अश्मनोः । अश्मते व्याप्नोत्य- न्तरिक्षमित्य श्मा मेघः । अत्यन्तमृदुरूपयोर्मेधयोरन्तमध्ये वैद्युतमग्निं जजान उत्पादयामास । यश्च समत्सु सम्भक्षयन्ति योद्धृणामायूषोति समद' सग्रामाः । तेषु संवृक् भवति । वृणतेहिसाथस्य विपि रूपम् । स इन्द्रो नाहमिति । येन इन्द्रेण इमा इमानि विश्वा विश्वानि च्यवना नवराणि भुवनानि कृतानि स्थिरोकतानि । यश्च दासं वर्ण शूद्रादिकं यहा दासमुपक्षपयितारमधरं निकृष्ट- मसुरं गुहा गुहायां गूढस्थाने नरके वा अक: अकार्षीत् । करोतेलङि मन्ने घसेत्यादिना च्लेलुकि रूपम् । लक्ष लक्ष्य जिगोवान् । जि जये। लिटोर्जेरित्यभ्या- सादुत्तरस्य कुत्वम् । दीर्घश्छान्दसः । जितवान् यः अर्यः । अरः षष्ठेरकवचने छान्दसो जनादेशः । शत्रोः सम्बन्धौनि पुष्टानि समृद्धानि आदत् आदत्ते । तत्र दृष्टान्तः । श्वघ्नीव । खभिगान् हन्तति वघ्नो व्याधः । यथा व्याधो जिवृक्षन्तं मृगं परिग्रहाति त्हत् । कसौ सन् પૂછું सायणभाष्यम् । [ India II 12. अपश्यन्तो जना घोरं शत्रूणा घातक यं पृच्छन्ति स्म कुहसेति स इन्द्रः कुत्र वर्तत इति । सेति । सोचि लोपे चेत्पादपूरण मिति सोर्लोपि गुण । न क्वचिदसौ "तिष्ठतौति मन्यमाना जना एनमिन्द्रमाहुः एष इन्द्रो नास्तीति। तथा च मन्ते। नेन्द्रो अस्तीति नेम उ त्व आहेति । ईमिति प्रणः । स इन्द्रो विज इव । इवशब्द एवार्थे । उद्देजक एब सन् अर्यः अरे सम्बन्धीनि पुष्टीः पोषकाणि गवाखादौनि धनानि पामिनाति मर्वतो हिनस्ति । मोड हिंमायाम् । मौनाते निगम इति इस्वः । तस्मात् श्रदरमा इन्द्राय धत्त स इन्द्रोस्तोति विश्खाममत्र कुरुत। यद्यप्यसो विशेषतोमाभिर्न दृश्यते तथाध्यस्तीति विखास कुरुत। एव निर्धारण महिमोपितः स इन्द्रो नाहमिति। यो रप्रस्य । रध हिंसासरायोः । समृद्धस्य चीदिता धनानां प्रेरयिता भवति वथ लशस्य दरिद्रस्य नाच गा याजोपतापैश्वर्याशीःषु । याचमानस्य कोरः । करोते कीर्तयतर्वा। स्तोतुब्रह्मणो ब्राह्मणस्य च धनानां प्रेरयिता। यश्च सुशिप्र: शोभनहनुः सुशौर्षको वा सन् युक्तग्रावण: अभिषवार्थमुद्यतग्रावणः सुत- सोमस्य अभिषु तसोमस्य यजमानस्य अबिता रक्षिता भवति च यश्च नाधमानस्य ।

Indra II. 12] सायणभाष्यम् । ५० ७॥ स एवेन्द्रो नाहमिति। ब्रह्मशब्दस्य त्वन्नपरत्वे ह्याद्युदात्तता स्यात् । यथा ब्रह्म वन्वानो अजरं सुवीरमिति । अयं त्वन्तोदात्तः पठ्यत इति नान्नपरः । यस्य सवान्तर्यामितया वर्तमानस्य प्रटिश प्रदेशने अनुशासन अखासः अश्वा वर्तन्ते यस्यानुशासने गावः यस्यानुशासने ग्रामाः । असन्तति ग्रामाः जनपदाः । यस्याज्ञाया विखे सबै रथास. रया वर्तन्ते यश्च वृत्रं हत्वा सूयं जजान जनयामास यच्चोषसम् । तथा मन्त्र.। जजान सूर्यमुषसं सुदसा इति । यश्च मेघभेदनद्दारापा नेता प्रेरक: स इन्द्र इत्यादि प्रसिद्धम् । य क्रन्दसौ रोदसी शब्द कुर्वाण मानुषी दैवी च हे सेने वा संयती परस्परं सगच्छन्त्यौ यमिन्द्र विह्वयेते स्वरक्षार्थ विविधमाह्वयतः । परे उत्कृष्टाः अवर अधमाश्च उभया उभयविधा उभयमाह्वयन्ति । समानम् इन्द्ररथ- सदृशं रथम् आतस्थिवासा आस्थितौ द्वौ रथिनौ तमेवेन्द्र नाना पृथक् पृथक् हवेते आह्वयेते । यहा। समान- मेकरथमारूढाविन्द्राग्नी हवेते यज्ञार्थं यजमानैः पृथगा- तयोरन्यतरः स इन्द्रो नाहमिति । । यस्मादृते जनासः जना न विजयन्ते विजयं न प्राप्नुवन्ति । अतः युध्यमाना युद्धं कुर्वाणा जना अवसे ८। इयेते।

५८ सायणभाथम् । [ Indra II 12 १० । हन्तलिटि रूपम् । स्वरक्षणाय यमिन्द्रं हवन्ते आह्वयन्ति । यश्च विश्वस्य सर्वस्य जगतः प्रतिमानं प्रतिनिधिर्वभूव यश्चाच्युतच्युत् अच्युताना क्षयरहिताना पर्वतादीना च्यावयिता स इन्द्र इत्यादि प्रसिद्धम् । यो महि महदेन. पापं दधानान् शश्वतो बहूनमन्यमानान् अात्मानमजानत इन्द्रमपूजयतो वा जनान् शर्वा । शृणाति शत्रूननेनेति शरुर्वजः । तेनायुधन जघान । यश्च शर्धत उत्साह कुर्वते अनात्मज्ञाय जनाय शृथ्यामुत्साहनीयं कम्म नानुददाति न प्रयच्छति । अनुपूर्वात् डुदाञ् दान जोहोत्यादिकः । अभ्यस्तानामादि- रिति तिडि चोदात्तवतोति गतेनिघातः । दस्योरूपक्षपयितुः शत्रोहन्ता घातकः म इन्द्र इत्यादि पूर्ववत् । यः पर्वतेषु क्षियन्तम् इन्द्र भिया बहन् संवत्स - रान्प्रच्छन्नो भूत्वा पर्वतगुहासु निवमन्त शम्बरमतन्नामक मायाविनमसुरं चत्वारिंश्या शरदि चत्वारिंश सवत्सरे अन्व. विन्दत् अन्विष्यालभत । लब्धा च य ओजायमानम् । कत्तुंः क्यड् सलोपश्च । प्रोजसोसरसो नित्यमिति सकार- लोपः । । बलमाचरन्तमहिमाहन्तारं दातुं दानव शयानं शम्बरसमुरं जघान हतवान् स इन्द्रो नाहमिति । यश्च Indra II 12] सायणभाष्यम् । ५. सिन्धूनप. यहा। १२ । यः सप्तरश्मिः सप्तसख्याका. पर्जन्या रश्मयो यस्य । ते च रश्मयो वराहवः स्वतपसो विद्युन्महसी धूपयः स्वापयो ग्यहमेधाश्तौति ये चेमेऽशिमिविहिषः पर्जन्याः सप्त पृथिवीमभिवर्षन्ति वृष्टिभिरिति तैत्तिरीयारण्यके ह्यानाताः । वृषभो वर्षकस्तुविष्मान् वृद्धिमावलवान्वा सप्त सर्पणस्वभावान्- सत्तवे सरणाय अवासृजत् अवसृष्टवान् । गगाद्याः सप्त मुख्याः नदौरसृजत् । यश्च बजबाहुः सन् द्या दिवमारोहन्तं रोहिणमसुरम् अस्फुरत् जघान । स्फुर स्फुरण तुदादिः । १३। अस्मै इन्द्राय द्यावापृथिवी। इतरेतरापेक्षया द्विवचनं प्रमित्रयोवरुणयोरितिवत् । नमते स्वयमेव प्रही भवतः। णमु प्रहले। कम्मकर्तरि न दुहनुनमा यक- चिणाविति यकः प्रतिषेध.। चिदपि च अस्येन्द्रस्य शुष्मा- बलात्यवता भयन्ते विभ्यति । य सोमपा: सोमस्य पाता निचितः सर्वैः । यहा। अन्येभ्योपि देवेभ्यो दृढ़ाग। वजवाहुः वजसदृशबाहु: यश्च वजहस्तः वजयुक्ताः स इन्द्र इत्यादि प्रसिद्धम् । १४ । यः सुन्वन्तं सोमाभिषव कुवन्तं यजमानमवति यश्च पुरोडागादीनि हवींषि पचन्त यश्च जती जतये । सुपां सुलुगिति चतुयाः पूर्वसवर्णदीर्घः । स्वरक्षायै- रक्षति ।

[ Indra II 12
सायणभाष्यम् ।
.
तथा
शस्त्राणि शंसन्तं यश्च शशमानमवति स्तोत्र कुर्वाणं रक्षति ।
ब्रह्म परिबर्ट स्तोत्रं यस्य बर्द्धनं वृद्धिकर भवति ।
यस्य सोमो वृद्धिहेतुर्भवति । यस्य चेदमस्मदीय राधः
पुरोडाशादिलक्षणमन्नं वृद्धिकरं भवति ।
स इन्द्र इत्यादि
प्रसिद्धम् ।
१५। इदानीमृषिः साक्षात्कृतमिन्द्र प्रति प्रब्रूते ।
हे इन्द्र यो दुध्री दुर्धर सन् सुन्वते सोमाभिषवं कुर्वते
पुरोडाशादिहवींषि पचते यजमानाय वाजमन्नं बल वा
दहर्षि भृश प्रापयसि स तादृशस्त्व सत्यो यथार्थभूतोसि ।
ने पुनर्नास्तीति बुद्धियोग्योसि । किलेति प्रसिद्धौ। ते तव
प्रियासः सुवोरास. कल्याण पुत्रपौत्राः सन्तो वयं विश्वह
सर्वेष्वहःसु विदथं स्त्रोत्रम् आवदेन ब्रूयाम ।

RUDRA II. 33.
चतुर्थेऽजुवाक एकादश सूक्तानि। तवा ते
पितरिति पञ्चदशचं प्रथमं सूतं यत्समदस्याएं
बैष्टुभं रौद्रम्। अनुक्रान्तं च। आ ते पञ्चोना
रौद्रमिति। शूलगवादिकद्रयजेबनेन सूक्तेन
प्रतीची दिगुपस्थया। सूवितञ्च। कट्ठद्रामा
रुद्राया ते पितरिमा रुराय स्थिरधन्वन इति
सर्वरुद्रयज्ञेषु दिशासुपस्थानम्। ट ० सू० ४।८।२३ ।
इति । रुद्रदेवल्ये पशौ आ ते पितरिति हविषो-
ऽनुवाक्या। सूवितञ्च । आ ते पितर्मरुताम्
मुम्नमेतु प्र वधवे दृषमाय शिवती च इति तिस्रः।
प्रा० ३।८। इति । अत्र शौनकः । चतुर्दशी-
मुपोष्यै कां कृष्णस्य जुहुयाच्चरुम् । आ ते सूक्तेन
रोद्रेण प्रत्यूचं वाग्यतः शुचि ॥ पूर्वमाज्याहुती-
दुखायोपस्थाय च शङ्करम् । हवि:शेषेण वर्तेतै-
-

६२ सायगाभाष्यम् । [ Rudra II 33. कान्तरमतन्द्रितः। पूर्णमासे जयेन्मत्यं रोगैश्च परिमुच्यते। ऋग्वि० १३० । इति । १। हे मरुतां पित: मरुत्मज्ञानां देवानामुत्पादक परमपि छन्दसौति षष्ठान्तस्य पूर्वामन्वितांगव- द्भावात् सर्वानुदात्तत्वम् । ते त्वदीयमस्मभ्यम् दातव्यं सुम्नं सुखमैतु। आगच्छतु । रुद्रस्य च मरुता पिटत्वमिदं पित्रे मरुतामाख्यायिकामुखेनावादिष्म । ऋग्वे० ११११४।६ तथा त्वं नोऽस्मान् सूर्यस्य मन्दृश: सन्दर्शनाना युयोथाः । मा पृथक्कार्षीः। यु मिश्रणामिश्रणयोः । लङि छान्दसः शपः नुः। छन्दस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणः । अवति शत्रौ। माटव्यो वा अर्वेति श्रुतेः। नोऽस्माकं वीरो वीर्यवान् पुत्रादिरभिक्षमेत। अभिभवतु । वीरस्त्वं नोऽस्मानभिक्षमेथाः । अस्मान् लतापराधानभि- क्षमस्व । हे रुद्र प्रजाभिः पुत्रपौत्रादिभिः प्रजायेमहि । यहा प्रभूताः स्याम। २। हे रुद्र त्वादत्तेभिस्त्वया दत्तै शन्तमेभिरतिशयेन सुखकरभैषजेभिर्भेषजेरौषधैः शतं हिमा शतं हेमन्तान् शतं संवत्सरानशीय। व्याप्नुयाम् । अश्नोतलिङि छान्दसो विकरणस्य लुक् । अपि च अस्मदस्मत्तो देषो हेष्टुन् Rudra II 33 ] सायणभाष्यम् । विचातयख! विनाशय । तांहः पापं वितरमत्यन्त विचा- तयख। अमौवा रोगाविषुचीविषु नानाचतीः कृत्स्न- शरीरव्यापकान् रोगान्विचावयस्व । अस्मत्तः पृथकलात्य विनाशय। हे रुद्र जातस्योत्पन्नस्य सर्वस्य जगतो मध्ये श्रियैखर्येण श्रेष्ठः प्रशस्यतमोऽसि । भवसि । तथा हे वज- बाहो अायुधहस्त रुद्र तवसा प्रवृद्धाना मध्ये तवस्तमो- ऽतिशयेन प्रवृद्धोऽसि । स त्वं नोऽस्मानहसः पापस्य पारं तौरं स्वस्ति क्षेमेण पर्षि। पारय । तथा रपसः पापस्य विश्वाः सर्वा अभीतीरभिगमनानि युयोधि । पृथक् कुरु। यौतश्छान्दस: शपः श्लु । वा छन्दसौत्य पित्त्वस्य विकल्पनात् ङित्त्वाभावेऽडितश्चेति हेधिः ४। हे रुद्र वा त्वां नमोभिरयथाक्रियमाणे नमस्कार- हविभिर्वा मा चुक्रुधाम । मा क्रोधयाम । क्रुद्ध मा कार्म । क्रुध कोपे अस्मारण्यन्ताल्लुङि चङि रूपम् । हे वृषभ कामानां वर्षितर्दुष्टतो दुःस्तुत्याऽशोभनया स्तुत्या मा चुक्रु- धामत्येव । तथा सहती सहत्या विसदृशेरन्यैर्देवैः सहाबानेन मा क्रोधयाम । श्रेष्ठो हि स्वस्मान्यूनेन सहाबाने क्रुद्धो भवति। स वं नोऽस्माक वीरान् पुत्रान् भेषजेभिस्त्वदीयै- भैषजैरौषधैरुदर्पय । उत्कृष्टं संयोजय। हे रुद्र वा त्वा सायणभाष्यम् । [Rudra II 33. पृथक्करोमि। भिषजां चिकित्साभिज्ञानां मध्ये भिषक्तममतिशयेन भैषज्यस्य कर्तारं शृणोमि । प्रथमो देव्यो भिषक् । वा० स० १६।५ इति च मन्त्रान्तरेऽप्युक्तम् । ५। यो रुद्रो हविभिश्चरुपुरोडाशादिभिः सहितैहवी- मभिराद्वानः स्तुतिलक्षणैर्हवते । आहूयते स्तूयते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । बहुल छन्दमौति ह्वयते सम्प्रसारणम् । तं रुद्र स्तोमभिः स्तोत्रैरवदिषीय । अवखण्डयामि। अपगतक्रोध करोमोति यावत् । दो अवखण्डने । व्यत्ययेनात्मनेपदम् । बहुलं छन्दमोतीत्वम् । ऋदूदरः । ऋदूदरो मृदूदर इति यास्कः । नि० ६।४ । सुहबः शोभनाह्वानो वचभर्ता सर्वस्य व वर्णो वा। सुशिप्रः । शिने हनू नासिके वा। शोभनशिप्र. । गुणविशिष्टः स रुद्रोऽस्यै मनायै। हन्मोति मन्यमाना बुद्धिर्मना। तस्यै नोऽस्मान् मा रीरधत् । मा वशं नेषीत् । रध हिंसासरायोः । अस्मारण्य न्ताल्लुडि चडि रूपम् । रध्यतिवंशगमन इति यास्कः । ६ । वृषभः कामाना वर्षिता मरुत्वान् मरुद्भिः पुत्रर्युक्तो रुद्रो नाधमानं याचमान मा मा त्वक्षीयसा दीप्तेन वयसा- बेनोन्ममन्द। उत्कर्षेण तर्पयतु । अपि चाह वृणीव छाया यथा सूर्यकिरणसन्तप्तश्छाया प्रविशति एवं रुद्रस्य सुम्नं एव-

Rudra II 33.]
सायणभाष्यम्।
सुखमपरा अपाप: सन् अशीय । व्याप्नुयाम् । तदर्थं तं
रुद्रमाविवासेयम् । परिचरेयम्। विवासतिः परिचरणकर्मा।
७। हे रुद्र ते तव मृड़याकुः सुखयिता स्यः स हस्तः
क कुत्र वर्तते।
यो हस्तो भेषजो भैषज्यकृत् जलाषः
मर्वेषा सुखकरोऽस्ति । भवति । स हस्तो विद्यत एव ।
तेन हस्तेन मां रक्षेति भावः। अपि च हे वृषभ कामानां
वर्षित दैव्यस्य देवकृतस्य रपसः पापस्यापभर्ती अपहर्ता
विनाशयिता भूत्वा कृतापराधं मां नु क्षिप्रमभिचक्षमीथाः ।
अभिक्षमस्व । क्षमूष सहने । लङि छन्दसः शपः नुः । बहुलं
छन्दसौतौड़ागमः ।
८। रुद्रदेवत्ये पशी वपापुरोडाशहविषां क्रमेण प्र
इत्याद्यास्तिस्रो याज्याः । प्रवनवे वृषभाय
विती च इति तिम्रा पश्चातानासत्या पुरस्तात् ।
३।८। इति वभ्रवे विश्वस्य भर्ने वधुवर्णाय वा वृषभाय
कामाना वर्षिने तहत्प्रसह्यकारिणे वा खितीचे श्वैत्यमञ्चते ।
खिता वर्णे। औणादिक इन् प्रत्ययः । खितिमञ्चतीत्य ऋते-
ऋविगित्यादिना क्विन् । चतुर्थंकवचनेऽच इत्यकारलोपे
चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्तरदात्तत्वम् ।
एवंगुणविशिष्टाय रुद्राय महो महीं महतोऽपि महती
सुष्टुतिं शोभनस्तुति प्रेरयामि । प्रकर्षणोच्चारयामि। हे
वभ्रव
श्रा०

सायणभाष्यम् । [Rudra II 33 स्तोतः कल्मलौकिनम्। ज्वलतो नामधेयमेतत् । नेघ श१७। ज्वलन्तं कलयत्यपगमयति मलमिति कल्मलीक तेजः । तदन्तं रुद्रं नमोभिनमस्कारहविर्भिर्वा नमस्य । पूजय । वयं च रुद्रस्य महादेवस्य त्वेष दीप्तं नाम टणी- मसि । गुणौमः सङ्कीर्तयामः । गृ शब्दे । क्रयादिकः । इदन्तो मसिः । प्वादीनां खः । स्थिरभिः स्थिरैर्टर रवयवैर्युक्तः पुरुरूपोऽष्ट- मूात्मकभीरूपैरुपेत उग्र उडूर्ण स्तेजस्वी व भर्ता वधु- वर्णों वा रुद्रः शुक्रभिर्दीप्तै हिरण्यै हिरण्मयैहितरमणीयै- लिङ्कारैः पिपिशे। दीप्यते । पिश अवयवे। कर्मणि लिट् । ईशानादीश्वरादस्य भुवनस्य भूतजातस्य भूरेभर्नू रुद्रादसुर्यम् । असु क्षेपणे । असेरुरन् । असुरः क्षेप्ता । तत्र साधु । असुयं बल न वा उ योषत् । नैव पृथक् भवति । यौतेलेघड़ागमः । सिब्बहुलं लेटौति सि । १०। है रुद्र त्वमर्हन् अझै योग्य एव सन् साय- कानि शरान् धन्व धनुश्च विभर्षि। धारयसि। तथाई- ब्रेव यजतं यजनौयं पूजनीयं विखरूप बहुविधरूपयुक्तं निष्क हारं विभर्षि। तथाईनेवेद विख सर्वमवम् । बामैतत् । अतिविस्तृतं जगद्दयसे । रक्षसि। देड् रक्षण । हे रुद्र त्वत् त्वत्तोऽन्यत् किञ्चिदोजीय ओजवितरं - . Rudra II 33 ] सायणभाथम् । बलवत्तरं न वा अस्ति । न खलु विद्यते। अतस्त्वमे- वोतव्यापारेषु योग्य इत्यर्थः । ओजःशब्दान्मत्वर्थोयो विनिः । तत अतिशायनिक इष्ठन् । विन्मतोलृक् । टेरिति टिलोपः ॥ ११। प्रयाणे मृगस्यामनोज्ञवचः श्रुत्वा स्तुहि शुत- मित्येता जपेत् । सूत्रितं च । स्तुहि श्रुत गतसदं युवान- मिति मृगस्य । रट० ३।१०।१० । इति । हे स्तोतः श्रुतं विश्रुतं प्रख्यातं रुद्रं स्तुहि। कीदृशम् । गर्तसदम् । गतॊ रथः । तत्र सीदन्त युवान नित्यतरुणं मृगं न भौमं मृग सिंहमिव भयङ्करम् उपहनुमुपहन्तारं शत्रूणामुग्रमुहूर्णम् । हे रुद्र वं स्तवानोऽस्माभिः स्तूयमान: सन् जरित्रे स्तोत्रे मह्यं मृड़ । सुखय। ते त्वदीयाः सेना अस्मदन्यमस्मातिरिक्त पुरुषं निवपन्तु । निघ्नन्तु । १२ । वन्दमानम् आयुष्मान् भव सौम्येति स्तुवन्तं पितरं कुमारश्चित् यथा कुमारः। चिदित्ये तदुपमार्थे । हे रुद्र उपयन्तमस्मत्समौप गच्छन्तं त्वां प्रतिननाम । प्रतिनतोऽस्मि । अपि च भूरेबहुनी धनस्य दातारं सत्यति सता पालयितारम् । पत्यावैखर्य इति पूर्वपदप्रकृति- स्वरत्वम् । हे रुद्र एवंभूतं त्वां गृणीषे। स्तोमि । मिप- स्तिकां तिडो भवन्तीति से आदेशः । स्तुतश्च त्वमस्मे अस्मभ्यं भेषजा भेषजानि रासि । देहि। ।

सायणभाष्यम् । [Rudra II. 33 १३। हे मरुतो रुद्रपुत्रा वो युभाकं या यानि भेषजा भेषजान्यस्मदारोग्यहेतुभूतान्योषधानि शुचौनि शुचौनि शुद्धानि निम्मलानि सन्ति । है वृषणः कामानां वर्षितारो मरुतो या यानि च युभदौयानि भेषजानि शंतमा अतिशयेन सुख- कराणि । या यानि च भेषजानि मयोभु मयोभूनि मयसः सुखस्य भावयितृणि नोऽस्मत्यिता मनुर्यानि भेषजानि युष्म दौयान्यवृणीत मृतवान् ता तानि भेषजानि रुद्रस्य महादेवस्य सम्बन्धि शं च योश्च यच्छमनीयाना रोगाणामुपशमनं याव- नौयानां भयानां यद्यावनमस्मत्तः पृथक्करण तदुभयं च वश्मि। कामये। वश कान्ती। प्रादादिकः । १४। रुद्रस्य महादेवस्य हेतिरायुधं नोऽस्मान् परि- बज्याः। परिवर्जयतु । तथा त्वेषस्य दीप्तस्य रुद्रस्य महौ महतो दुर्मति दु:खकारिणी बुद्धिश्च परिगात् । अस्मान्- वजयित्वान्यत्र गच्छतु। अपपरी वजने । पा० १।४।८८ । हे मौढ़ सेचनसमर्थ रुद्र स्थिरा स्थिराणि त्वदीयानि धनषि मघवयो हविलक्षणधनयुक्तभ्यो यजमानेभ्योऽवतनुष्व । अवततज्यानि कुरु । तथा तोकायास्मत्पुत्राय तनयाय तत्युत्त्राय च मुड़। सुखं कुरु । १५ । हे वभ्रो जगतो भतर्वध्रुवर्णी वा वृषभ कामानां वर्षित: चेकितान सव्वं जानन् हे देव द्योतमान रुद्र यथा APAIM NAPAT II. 35. उत्पाद- उपेयमिति पञ्चदशचं तृतीयं सूक्तं गामिदं वैष्टुभमपानपाद्देवताकम् । तथा चानुक्रान्तम् । उपेमपोनप्पीयमिति। सूक्तविनियोगो लैङ्गिकः । १। वाजयुर्वाजमन्नमात्मन इच्छन्नहमीमेना वचस्यां वचस: स्तोत्रस्येच्छामुपासृक्षि। उपासृजामि । यामि । अपां नपातं स्तोतुं प्रवृत्तोऽस्मीत्यर्थः । सृजेश्छान्दसो लुङ्। लिड्सिचावात्मनेपदेविति सिच: कित्त्वाट् गुणा- स च नाद्यो नदीना शब्दकारिणीना मेघस्थाना- मपां सम्बन्धी आशु हेमा आशु शीघ्रं गन्ता। हि गतावित्य स्मादन्येभ्योऽपि दृश्यन्त इति मनिन् । एवभूतोऽपां नपात् अपा पौत्रस्थानीयः । अद्भा औषधिवनस्पतयो जायन्ते ओषधिवनस्पतिभ्य एषोऽग्निर्जायत इति तत्पौत्रत्वम् । एतत्म ज्ञको देवो गिरः। रणातौति गोः स्तोता । मे मम कुवित् । बहुनामैतत् । बहुल चनोऽन्नं दधौत। दधातु। विदधातु। प्रयच्छवित्यर्थः । भावः। अपि चास्मान् ७१ कः Apam-napat II.35 ] सायणभाष्यम् । सुपेशस: शोभनरूपान् शोभनालङ्कारान्वा करति । करोतु । करोतेयंत्ययेन शप् । करत्करतिकृधिवर्तष्वनदितेः । पा ८।३।५० इति विसर्जनीयस्य सत्वम् । हि यस्मादयं देवो जोषिषत् । स्तोत्राणि सेवते । तस्मादस्मानेवमनुग्रह्णात्वि- त्यर्थः। जुषो प्रतिसेवनयोः। लेब्यडागमः । विकरण: सिप् । इड़ागमञ्च । हि चेति निघातप्रतिषेधः ॥ अस्मा अपानपात्मज्ञकाय देवाय हृदो हृदयात् सुतष्टं सुष्टु निर्मितमिमं मन्त्रं सुष्ठु आभिमुख्येन वोचेम । व्रवाम। अस्यास्माभिरुतमिमं मन्त्र कुविदत् । बहुलं जानातु । वेत्ते लेव्यड़ागमः । निपातैयद्यदिहन्तेति निघात- प्रतिषेधः । कि स्तोत्रमिति चेदुच्यते ।' अर्यः स्वाम्यपा- नपात्संज्ञको वैद्युतोऽग्निरसुय॑स्य । असुर. शत्रून् क्षेप्ता। तस्य स्वभूतस्य बलस्य महा महिना महखेन विखानि सर्वाणि भुवना भुवनानि वृट्युटकानि वृष्ट्युत्पादनेन भूत- जातानि वा जजान । जनयामास । ३। अपोनप्पोये वसतोवरौसमीप एकधनासु प्राप्तासु सेमन्या यन्तीत्येषानुवक्तव्या । सूत्रित त्र। समन्या यन्त्युप यन्त्यन्या इति तौथदेशे । आ. ५१ इति। सारखते च शास्त्रे यद्यप्सु शम्या निपतत् तदानीमपोनप्तौयश्चरः काय: । तत्रैषैव याज्या। सूत्रितं च । समन्या यन्त्युपयन्त्यन्या सायणभाष्यम् । [ Apam-napat II 35 इत्यात: समानं सर्वेषाम् । आ० १२।६। इति । अन्या वर्था आपो संयन्ति । भूम्या सङ्गच्छन्ते । अन्याश्च पूर्व तनावस्थिता उपयन्ति । उपगच्छन्ति। ता. सर्वा आपः समानं सह नद्यो नदीभृता अर्व समुद्रमध्ये वर्तमान वड़वा- नलं पृणन्ति । पृण प्रोणने तौदादिक.। तमु तमेवापां नपातं शुचिं निर्मलं दीदिवांस दोप्यमानम्। दीदेति- छान्दसो दीप्तिकर्मा। लिट' क्वसु. । वस्खे काजाद्धसामिति नियमादिडभावः। छन्दसि वेति व्यक्तव्यमिति वचना- हिर्वचनाभावः। एवम्भूतं शुचयः शुद्धा आप. परितस्थुः । परिवृत्य तिष्ठन्ति । एष हि वैद्युताग्निरूपण मेधे वर्तमानो- ऽस्मानजीजनदिति बुद्धया वडवानलरूपेण वर्तमानं तं पर्यु- पासत इत्यर्थ । यहा अन्या एकधनाख्या आपः संयन्ति । चात्वालोकरयोमध्ये वसतीवरीभिः सङ्गच्छन्ते । वसतीवर्याख्या आपञ्चोपयन्ति। उपगच्छन्ति। ऐकमत्यं प्राप्ता भवन्ति। एताच मिलित्वा यज्ञं साधयन्त्यस्तत्साध्य- हष्टिहारा नद्यो भूलो पृणन्तोत्यादि समानम्। एवं हि आपो वा अस्पईन्त वय पूर्व यन्न वक्ष्यामः। ऐ० ब्रा० २।२० । इत्यादिकम् ब्राह्मणविनियोगश्चानुगृह्यते । तमपानपातमग्निमस्मेरा अस्मयमाना दर्परहिता युवतयो युवानं युवराजमिव मर्मृज्यमाना अत्यर्थमलकुर्वाणा अन्या ४॥

Apam-napat II 35] सायणभाष्यम् । आपः। मृजू शौचालङ्कारयोः। परि यन्ति । परितो गच्छन्ति प्राप्नुवन्ति । घृतनिर्णिक क्षरणशौलोदकनिर्णेजनः । यहा निर्णिगितिरूपनाम | दीप्तरूपः सोऽपां नपादग्नि- रप्सु मेघान्तर्गतासु समुद्रगतासु वा मध्येऽनिम इन्धनरहित एव मन् अस्मे अस्माक रेवहनयुक्त मन्नं यथा भवति तथा शुक्रभिः शुभैनिर्मलैः शिक्क भिस्तेजोभिर्दीदाय । दीप्यते । ५। नारोनेत्रास्तिस्रो देवीर्देव्य इड़ासरस्वतीभार- व्याख्या अव्ययायाव्यथनायास्म देवायापानपातेऽनं सोमाख्यं दिधिषन्ति । धारयन्ति | धिष शब्दे जौहोत्यादिकः । व्यत्य- येनान्त्यादेशः । धातूनामनेकार्थत्वादन धारणार्थः । अप्सू- दकेषु कता इवोपप्रसने। प्रसरन्ति । स गतौ। लिटो- रयो रे इति रे आदेशः। छान्दसी हलादिशेषाभावः । यस्मादेव तस्मात् पूर्वसूनां पूर्व ब्रह्मणः सकाशादुत्पन्नाना- मपा पौयूषं सारभूतम् सोमाख्यममृतं सोऽपांनपादग्नि- र्धयति । पिवति । ६। अत्रास्मिन्नपां नपात्संज्ञके देवेऽश्वस्य जनिम जन्म भवति अपा नप्तधिष्ठितासमुद्रादुच्चैःश्रवसो जातत्वात्। किं बहुना! अस्य च स्वः सुष्टुरणीयस्य सर्वस्य जगतो जन्मा- स्मिन्नेव भवति । अयं हि मेघमध्ये वर्तमानो वृष्टिहारण सर्व जगज्जनयति । तादृशोऽपां नपात् त्वं ट्ठहो द्रोग्धुरपहत- ।

७४ सायणभाष्यम् । [Apam-napatII 35 पर: रिषो हिंसकस्य च सम्मृचः सम्पर्कात्सूरीन् स्तोतृनस्मान् पाहि। रक्ष । आमास्वपरिपक्कासु पूर्ष पूरयितव्याखप्सु परस्ताहर्तमानमप्रमृष्थमप्रकृष्यमाणं देवमरातयो- ऽदातार: पुरुषा न विनशन् । न प्राप्नुवन्ति । नशतिर्व्याप्ति- कर्मा । लेट्यड़ागमः । अनृतानि मायाविनो रक्षांसि च न प्राप्नुवन्ति । ७। योऽपा नपात् खे दमे स्वकीये गृहेऽन्तरिक्ष- लक्षण आसौदति । यस्य च धेनुर्माध्यमिका वाक् सुदुघा सुखेन दोग्धव्या भवति । स देवः स्वधा वृष्ट्यदकं पौपाय । वर्धयति । प्यायी वृद्धौ। लिड्यडोश्चेति पौभाव । सुभु सुष्ठ भूत वृष्टेः सकाशादुत्पन्नं हविलक्षणमन्न चात्ति । भक्षयति । सोऽपानपात्मज्ञको देवो ऊर्जयन् बलं कुर्वन् अप्स्वन्तर्मेधस्थावसु मध्ये विधते परिचरते यजमानाय वसु- देयाय धनदानार्थं विभाति । विशेषेण दीप्यते । ८। योऽपांनपादृतावा। ऋतमित्युदकनाम। तहान् सत्यवान् वा अजस्रो नित्य एकरूपेण सदा वर्तमान उर्विया उरुविस्तोर्णोऽपस मेघस्थासु मध्ये शुचिना शोचकेन दैव्येन देवसम्बन्धिना तेजसा आ समन्तादिभाति । विशेषेण प्रकाशते । अस्यापां नपातोऽन्या अन्यानि भुवनानि सर्वाणि भूतजातानि वया इत् शाखा एव। वीरुध ओषधयः

Apam-napat II 35] सायणभाष्यम् ।
७५
प्रजाभिः स्वकोयाभिः पुष्यफलादिभिः सहास्मादेव प्रजायन्ते।
८। पूर्वोतो सारखतसत्रस्यापोनप्तौये चरावपा नपादा
होत्येषानुवाक्या । सूत्रितञ्च । अपा नत चरुमपानपादा
ह्यस्थादुपस्थम् । प्रा० १२।६। इति ।
अपानपात्संज्ञकोऽग्निरुपस्थमपामुपस्थानमन्तरिक्षमा
ह्यस्थात् ।
आस्थितवान् श्रारूढवान् खलु ।
किं कुर्वन् ।
जिमानां कुटिलगतीनामपां मध्य ऊर्ध्वः स्वयमूवं ज्वलन्
विद्युतम् विद्योतमान मेचं वसान आच्छादयन् । अन्तरिक्ष
मास्थाय वर्षण कृतवान् । तस्य वर्षितुरपा नणतो ज्येष्ठं
प्रशस्यतम महिमानं माहात्म्य वहन्तीवहन्त्यः । सर्वत्र
प्रापयत्यो यह्वीर्य यो महत्यो हिरण्यवर्णा.। नदोनामैतत ।
हिरण्यवनिर्मलरूपा नद्य परियन्ति । परितो गच्छन्ति ।
अपा नप्ता महतो वृष्टिरस्माक प्रवाहनायोत्पादितेति
कृतज्ञतया तदीय माहात्म्यं सर्वत्र प्रकटयन्त्य इव नद्यः
प्रवहन्तीत्यर्थ.
१०। मोऽपानपात् हिरण्यरूपः । रूप्यत इति रूपं
शरीरम् । सुवर्णमयशरौरी हितरमणीयशरौरो वा। तथा
हिरण्यसंदृक् । सम्यक् पश्यन्तौति संदृश इन्द्रियाणि ।
सुवर्णमयेन्द्रियो हितरमणीयेन्द्रियो वा। सेटु स एवापा-
नपात् हिरखवर्णो हिरण्य सदृशकान्तियुक्तः । एवम्भूतः सन्

सायणभाष्यम् । [Apam napat II 35 हिरण्ययात् सुवर्णमयाद्योने स्थानात् पर्युपरि निषद्योपविश्य राजत इति शेषः । अस्मा ईग्विधायापां नपात हिरण्यदा दक्षिणारूपस्य सुवर्णस्य दातारो यजमाना अन्नं हविलक्षणं ददति । प्रयच्छन्ति ॥ ११। अस्थापांनतर्देवस्थानीकं रश्मिसमूहरूपं शरीरं चारु शोभनम् । उत अपि च अस्य नाम संज्ञा च चार शोभनं। न पातयति न विनाशयतीति नपातिति तडप्रत्यत्तेः । तदुभयमपौच्यम् । अन्तहितनामैतत् । मेघान्तर्हितं मह- ईते। युवतयः सङ्गमनस्वभावा आपो हिरण्यवर्णं हिरण्य- समानतेजसं यमपानपातमिस्थामुत्रान्तरिक्षे समिन्धते । सम्यक् दीपयन्ति । अस्य च टेवस्य वृत क्षरणशीलमुटक- अविन्धनो ह्यसौ वैद्युतोऽग्निः ॥ १२। अस्मै पुरोवर्तिने बहना देवानामवमायाद्याय सख्येऽस्माभिः समानख्यानायापां नपाते यत्र्यागसाधनेह वि- भिश्चरुपुरोडाशादिभिर्नमसा नमस्कारेण च विधेम। परि- चीम। अस्यापां नपातः सानु समुच्छ्रितप्रदेशं समामि । सम्यक् थोधयामि अलङ्करोमि वा । मृजू शौचालङ्कारयोः । चादिलोपे विभाषत्यस्य निघातप्रतिषेधः । दिधिषामि धारयामि च विल्म सन: काष्ठेरेनम् । धिष शब्दे । अयं धारणार्थोऽपि । जुहोत्यादित्वात् शप: प्रलुः । मन्नं भक्ष्यम् । मिपी व्यत्य- Apam-napat II 35] सायणभाष्यम् । तथा येनाड़ागमः। अभ्यस्तानामादिरित्याझुदात्तत्वम् । दधामि धारयामि चैन गाहपल्यादिरूपेणान्नेहविलक्षणैः । ऋभिमन्वैः परिवन्दे । परितः स्तोमि । स ई सोऽयमपानपात्संज्ञको देवो वृषा सेता भूत्वा तासु मेघस्थास्वप्सु गर्भमजनयत् । स्वात्मानमेव गर्भ- रूपेण वर्षणार्थं कृतवानित्यर्थ । गर्भो भूत्वा च स ई सोऽय माध्यमिको वैद्युतोऽग्निस्तासां शिशुः पुत्रः सन् धयति । मेघस्थास्ताः पिवति । अविन्धनो ह्यसौ। तं पुत्रस्थानीय- मद्भिरापश्च रिहन्ति । लिहन्ति । लिह आस्वादने । कपिलकादित्वाल्लत्वविकल्पः । सोऽयमपानपात् वृध्या सह भूमौ निपतितोऽनभिलातवर्णः । अभितो म्लातो म्लानः क्षीणो वर्णो यस्य तहिपरोतोऽत्यर्थ दौप्यमानः सन् इहास्मिन् लोकेऽन्यस्येव । व शब्दोऽवधारणे । अन्यस्य पार्थिवस्यै- वाग्नेस्तन्वा शरीरेण काष्ठेन्धनलक्षणेन विवेष। व्याप्ती वभूव । विष्ट व्याप्तौ। १४ । परम उत्कृष्टेऽस्मिन्पदेऽन्तरिक्षलक्षणे स्थाने तस्थिवांसं स्थितवन्तमध्वस्मभिध्वंसनरहितैस्तेजोभिर्विश्वहा सवाण्यहामि दीदिवासं दीप्यमानमपां नपातं यह्वीर्ययो महत्य आपः स्वयमात्मनैवात्कैरतनशीलैः सततगन्तृभिः स्वकीय रूपैः परिदोयन्ति । परिगच्छन्ति । दौयति- सायणभाष्यम् । [ Apam-napat II 35. गतिकर्मा। दोङ् क्षये। व्यत्ययेन परस्मैपदम् । किं कुर्वत्यः। नप्त्रेऽपा नपाते तं क्षरणशीलोदकात्मकमन्न वहन्तीर्वहन्त्यः । १५। हे अग्ने सुक्षिति शोभननिवासं त्वामयासम् । उपागच्छम् । किमर्थम् । अस्मदीयपुत्रादि- जननार्थम् । तथा मघवद्भयो हविर्लक्षणधनयुक्तेभ्यो यज- मानभ्यश्च सुदृक्ति शोभनावर्जकं त्वद्विषय स्तोत्रमयासम् । उपागच्छम् । यम उपरमे । अतः कारणाद् यद्भद्रं सर्वे देवा अवन्ति रक्षन्ति विश्वं सर्व तद्भद्रमस्माक भवतु । सुवीरा: सुपुत्रा वयं विदथे यन्ने गृहे वा वृहत् प्रौढ़ स्तोत्रं वदेम। जनाय। उच्चारयाम।

MITRA III. 59. - मित्रो जनानिति नवचं षष्ठं सूक्त वैश्वामित्रं त्रैष्टभं मैवम् । मित्रो मैवं चतुर्गायत्रान्तमित्यनु- क्रमणिका। आदितः पञ्च त्रिष्टुभः शिष्टाश्चतस्रो गायत्राः। मित्रो देवता। अग्निहोत्रार्थ पयसि वषविन्दुपतने मित्रो जनानिल्यनया समिधमा- दध्यात्। सूवितं च। मित्रो जनान्यातयति ब्रुवाण इति समिदाधानमिति । १। ब्रुवाणः स्त यमान: शब्दं कुर्वाणो वा मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान् वृष्टिप्रदानेन वायत इति वा मित्र: सूर्यः । जनान् कर्षकादिजनान्यातयति कष्यादि- कर्मसु प्रयत्नं कारयति । तथा मित्र एव पृथिवीम् उत अपि च द्यामेतावुभौ लोको वृष्टिदारान्नं यागांश्च जनयन् दाधार धारयति । तथा सति मित्रः अनिमिषा अनिमिषणानुग्रह- दृष्ट्या कष्टीः कर्मवतो मनुष्यानभिचष्टे सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजो धृतवदुपस्तरणाभिधारणयुक्तं सायणभाष्यम् । | Mitra III 59 हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै मित्राय देवाय जुहोत जुहुत प्रयच्छतेत्यर्थः । उतार्थं यास्को ब्रवीति । मित्रो जनान्यातयति ब्रुवाण: शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिव च । मित्रः कष्टौरनिमिषन्नभिविपश्यतौति । कृष्टय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा। मित्राय हव्यं तवज्जुहोतेति व्याख्यातम् । जुहोतिर्दान- कर्मेति। यातयति। यतो प्रयत्न इत्यस्य ण्यन्तस्य लटि- रूपम् । दाधार तुजादीनामित्यभ्यासस्य दीर्घ । जुहोत । जुहोतेर्लोटिप्रत्ययस्य तवादेश: गुणः निघात'। २। देवसुवां हविःषु मित्रस्य सत्यस्य प्रस मित्रेति याज्या। एषेव प्रातर्होमस्य कालात्ययनिमित्ते मैत्रे चरौ याज्या। सुत्रितं च । प्रस मित्र मर्तों अस्तु प्रयखास्त्वा नष्टवान्महिमाय पृच्छत इति । तत इष्टिमित्रः सूर्योऽभि यो महिना दिवं प्रस मित्र मत्तों अस्तु प्रयवानिति संस्थिताया- मिति च । हे आदित्य व्रतेन यतेन युक्तो यो मनुष्यस्ते तुभ्य शिक्षति नविलक्षणमन्नं ददाति । हे मित्र स मर्तों मनुष्यः प्रयखान् अनवान् प्र अस्तु प्रभवतु। वोतस्त्वया रक्षित स मनुष्यः केनापि न हन्यते न वाध्यते न जीयते नाभिभूयते च । एन तुभ्यं हविर्दत्तवन्तं पुरुषमंहः पाप- Mitra III 59 ] सायमाथ्यम् । ८१ । मन्तितः सगोपान्नानोति न प्राप्नोति दूरादपि न प्राप्नोति । शिक्षतिर्दानकर्मा। व्यत्ययेन परस्मैपदम्। यहत्तयोगा- दनिघातः । जीयते । जयतः कर्मणि यक्दाशलार्वधातुकयो- रिति दीर्घः । त्वोतः। रतीया कर्मणोति पूर्वपदस्वरः । अश्नोति । अशू व्याप्ती । स्वादिः । व्यत्ययेज परम्पदम् । ३। देवसुवा हविःषु मिलत्य सत्यस्यानुवाक्या । अनमोवास इड़या मदन्तः प्रस मित्र मतों अस्तु प्रयवानिति सूनितम् । हे मित्र अनमोवालो रोगवर्जिता इडयाजेन मदन्तो माद्यन्त' पृथिव्याः वरिम विस्तीर्णे प्रदेश मितज्ञवो मित- जानुका या यथाकाम सर्वत्र गच्छत प्रादित्यस्य सम्बन्धि व्रत कर्मोपदिशयन्त तस्य कर्मणः समोपे निवसन्तस्तदीयं कर्म कुर्वाणा इत्यपः । तादृशा वय मित्रस्यादित्यस्य सुमती शोभनायामनुग्रहबुद्धया स्याम वर्तेमहि । मदन्तः । मदी हर्ष इत्यस्य शतरि व्यत्ययेन शप। मितनवः । जानुशब्दस्य जुश्छान्द स.। वरिमन् । उक्शब्दात्पृथ्वादित्वादिमनिच् । प्रियस्थि रेत्यादिना वरादेशः । सुपा सुलुगिति सप्तम्या लुक् । व्यत्ययेनाद्युदात्तः । ४। अवं पूर्वमन्त्रे प्रतिपादितो मित्रः सूर्य: नमस्यः सर्वेनमस्करणीयः सुशवः शोभनसुख । सुखेन सेव्य इत्यर्थः ।

सायणभाष्यम्। [ Mitra III 59 राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामो सुक्षत्रः । शब्देन बलमुचत। शोभनबलोपतः वेधाः सर्वस्य जगतो विधाता एवगुणोपेतः सूर्यः अजनिष्ट प्रादुरभूत्। तस्येव- विधगुणोपेतस्य यज्ञियस्य यज्ञाहस्य सूर्यस्य सुमती शोभनायां बुद्धौ भने कल्याणकारिणि सौमनसे सौमनस्ये अपि यजमाना वयं स्याम भवेम । नमस्यः । नमसि साधुः। तत्र साधुरिति यत् । तित्वरितः । अजनिष्ट । जनों प्रादुर्भाव इत्यस्य लुङि सिचि रूपम् । सौमनसे । सुमनस इदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः । ५। योऽयमादित्यो महानत एव नमसा नमस्कारेण उपसद्यः सर्वैरुपसदनीयः यातयज्जनः प्रात: प्रातः खस्ख- कर्मणि प्रवर्तनीया जना येनेति । स तथोक्ताः। गणते स्तोत्र कुर्वते जनाय सुशेवश्च भवति तस्मै पन्यतमाय स्तुत्यतमाय मित्राय आदित्याय जुष्टं प्रीतिविषयमेतद्धवि- रग्नौ आ जुहोत जुहुत । यातयज्जनः। यती प्रयत्न इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुब्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुधादित्वात् पूर्वपदान्तोदात्तत्वम् । टणते गृ शब्दे । शतुरनुम इति विभतेरुदात्तत्वम् । पन्यतमाय। पनते- रघ्रादित्वाद्यत् । यतो नाव इत्याद्युदात्तत्वम्। जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वम् ।

Mitra III 59 ] सायणभाष्यम् । ६। अभिप्लवषड़हे दशरात्रे च सप्तदशैकविंशादि- स्तोमे सति होत्रादिकशस्त्रेष्वावापस्थाने पञ्चसप्तादिसख्याका ऋच आवपनीयाः । तत्र मैत्रावरुणशस्त्रे मित्रस्य चर्षणीकृत इत्याद्याश्चतस्त्र आवापार्थाः। सूत्रितं च । मित्रस्य चर्षणी- वृत इनि चतस्रो मैत्रा इति । चर्षणोतो मनुष्याणां वृष्टिप्रदानेन धारकस्य मित्रस्य देवस्य सम्बन्धि अवः अन्नं सानसि सर्वैः सम्भजनीय द्युम्न तदीयं धनं च चित्रश्रवस्तममतिशयेन चायनीय कौति- युक्तम् । सानसि । सनोतः सानसिपर्णसीत्यादिनासिच्- प्रत्ययान्तत्वेन निपातनादुपधाद्धिः । चित्त्वादन्तोदात्तः । खमोरिति स्वमोलृक् । प्रात:मस्य कालात्यये मैत्रेष्टिः । तस्यामभि यो महिनेत्यनुवाक्या। सूत्रितं च । अभि यो महिना दिवं प्र स मित्र मत्तों अस्तु प्रयस्वानिति । यो मित्रो महिना स्वकीयेन महिना दिवमन्तरिक्ष- मभि वभूव अभिभवति स मित्रः सप्रथाः। प्रथः प्रसिद्धिः कोतिः तत्सहितः श्रवोभिः वृष्टिहारोत्पादितैरन्नैः पृथिवीमभि अभिभवति बन्नयुक्तां करोतीत्यर्थः । सप्रथाः। प्रथ प्रख्याने। असुन् । वोपसर्जनस्येति सहस्य सभावः।

सायणभाष्यम्। [ Mitra III 59 पञ्ञ् जनाः निषादपञ्चमाश्चत्वारो वर्णा अभिष्टि- शवसे शत्रूणामभिगन्तृबलयुक्ताय मित्राय येमिरे हवौंथु- द्यच्छन्ति । स तादृशो मित्रः विश्वान् सर्वान्विभर्ति स्वख- रूपतया धारयति । अभिष्टिशवसे। इषेमन्त्रे पत्यादिना तिन्। तादौ च नितीत्य भेरन्तोदात्तत्वम् । शकन्धादिलात् पररूपत्वम् । बहुब्रोही पूर्वपदस्खर. । मित्रो भगवानादित्यो देवेषु द्योतमानादिगुण- युक्तेषु आयुषु मनुष्येषु मध्ये यो जनः उक्तवर्हिः । वृक्तं लून वहिर्येन सः। वहिर्लवनामादनपूर्वं हविषो दाता ऋत्वि- गित्यर्थः । तस्मै वृत्तवहिषे जनाय इष्टानि कल्याणानि व्रतानि कर्माणि याभि. सिध्यन्ति ता इषः तादृशान्यन्नानि अकः करोति तस्दै ददातीत्यर्थः । हताहिये। अोव्रश्चू छेदने । कर्मणि निष्ठायां यस्य विनागतोट्प्रति. षेधः। पूर्वपदस्वरः। अकः । करोतेलुडि लेमन्त्र घलेत्यादिना लुक् । सियो हरयादिलोपः । निघातः । इटवता: बहुब्रोही - BRHASPATI IV 50, यात्रा- यस्ततमे ये कादशचं पञ्चम सूक्तं वामदेवस्याएं बैभम् । दशमी जगती । दशल्येकादश्याबिन्द्रा- हा पति जता शिष्टा जम वाहस्थत्यः । जुममहिमा बखतोकादश काहस्पत्यमन्त्ये ऐन्द्रौदोमा जगतो । मामि विकक्थेषु हतीयसपने ब्राह्मणासिनः स्तोमवृद्धाविदं सूसमानामार्थम् । तथा च सूत्रम् । यस्तस्तम्भ यो पद्रिभित् इति। आदो वृहस्पतिसवने मरुत्ल- ती अगिको जल्यायोः सूरत सुखीये। सूचितं च । অং লিল মুক্তিযুদ্ধ স্ত্রী। इति । देव यो वृहत्यतिवृहतो देवस्य यज्ञस्य वा पालयिता सहसा बलेन नः पृथिव्या अन्तान् । तान्वि तम्तम्भ। विविध स्तम्भितवान् । निय- विषधस्थ खिघु स्थानेषु वत्तमानो स्वर्णवं दश दिश इत्यर्थः । मितवान् ।

८६ सायणभाष्यम् । [Brhaspati 1V 50 तिष्टतेत्यनेन शब्देन तं देवं प्रनासः पुराणा ऋषयोऽतीन्द्रिय- द्रष्टारो दीध्याना दीप्यमाना विप्रा मेधाविनो यजमानादयः पुरो दधिरे। पुरस्तात् स्थापितवन्तः स्तुत्यादिना । मन्द्र- जिह्व मादनजिई मोदनजिह्वम् । २। हे वृहस्पते धुनेतयः । धुना शत्रूणां कम्पयित्रीति- गैतिर्येषां ते। तादृशाः सुप्रकेतं शोभनप्रज्ञं त्वा मदन्तो मादयन्तो नोऽस्मत्सम्बन्धिनो य ऋत्विजोऽभि ततस्त्रे आत्मानमुपक्षिपन्ति स्तुवन्ति वा अस्यैषा योनिं कारणं यज्ञं यजमानं वा मां रक्षतात् । रक्ष । योनिर्विशेष्यते । पृषन्तं फलानि सिञ्चन्तं मृत सर्पणस्वभावमदधमहिंसितमूर्व- मुरुम् । बृहस्पते येत्यादिक हे वार्हस्पत्ये पशौ वपापुर- डाशयोरनुवाक्ये। वृहस्पते या परमा परावदिति हे। प्रा० ३१७ । इति हि सूनितम् । हे वृहस्पते या प्रसिद्धा परमोत्कृष्टा परावदत्यन्तं दूरभूता वसतिः स्वर्गाख्यास्ति । यद्दा लिङ्ग व्यत्ययः । परमं स्थानमस्ति । अतोऽस्माद्देशादा । आ इत्यर्वागर्थे । अधस्तात्ते तव सम्बन्धिन ऋतस्पृशो यज्ञं स्मृशन्तोऽश्वा निषेदुः । निषमा भवन्ति । तुभ्यं खाता अवताः । लुप्तोपमैषा। यथा खाताः कूपाः अभितः श्चोतन्ति तहदद्रिदुग्धा ग्रावभि-

Brhaspati IV. 50. ] सायणभाष्यम् ।
४।
।
रभिषुताः सोमा विरप्शं विशेषेण शब्देन स्तोत्रं यथा भवति
तथा मध्वो मधुररसं श्चोतन्ति । नवन्ति ।
अथ वृहस्पतिमन्त्राभिमानी देवी महो महतो
ज्योतिषो दीप्तस्यादित्यस्य परमे निरतिशये व्योमन् व्योमनि
प्रथमं जायमानः प्रादुर्भवन् सप्तास्यः सप्तच्छन्दोमयमुखस्तु-
विजातो बहुप्रकार सम्भतो रवेण शब्देन सप्तरश्मिः
सर्पणस्वभावतेजोयुक्तस्तमामि ब्यधमत् । धमतिर्गतिकर्मेति
निरुतम् ६।२। विविध गच्छति । नाशयतीत्यर्थः ।
५। स वृहस्पतिः सुष्टुभा शोभनस्तु तिमतर्कता दीप्ति-
मता गणेनानिरसा रवेण शब्देन च सह फलिगम् । त्रिफला
विशरण । फलिर्भेदः। तेन गच्छतौति फलिगम् । बलं
बलनामानमसुर रुरोज । वभञ्ज । द्वितीयः सशब्दः पूरणः ।
स एव देव उस्त्रिया भोगानामुत्स्नाविणोहं व्यसूदः क्षौरादि-
हविष्प्रेरिका वावश तीर्वावश्यमाना गा कनिक्रदत् शब्द
कुर्वनुदाजत् । उहाटयति स्म ।
एवा पित्र इति वाहस्पत्ये पशौ हविषो याज्या।
एवा पिने विश्वदेवाय वृष्णे विश्वे अद्य मरुतो विश्व अती।
आ० ३।७। इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्र
एषैव धाय्या । तथा च सूत्रम् । एवा पित्रे विश्वदेवाय वृष्ण
आ नो भद्राः क्रतवो यन्तु विश्वतः। आ० ५।१८। इति ।

भावणमायम । [Brhaspati IV 50 पित्रे पालकाय विश्वदेवाय सर्वदेवतारूपाय। देवानां मन्त्र प्रतिपाद्यवादस्य च मन्त्राभिमानित्वाहेश्वदेवत्वम् । अत्र देवशब्दः स्तुत्यर्थ: मवै स्तुत्याय हपणे बकाय वृहस्पतये देवायैवैवमुलाप्रकारण यस्त साधनैर्ह विभिराज्य- चर्वादिलक्षणेनममा स्तुत्या च विधम । परिचरेम। हे वृहसी सुप्रजा: शोमनपुत्रा वोरवन्तो वोर्योपेता वयं रयोदश धनाना पतयः स्याम । ७। इदमायक्वयं पुरोहितप्रति ब्राह्मणाम् । ऐ० ब्रा० ८।२६ अथवा सूहास्य ऋग्यवर्जितस्य वार्हस्पत्यत्वा- दृहस्थतेरेव स्तुतिः । स इत्स एव राजा चूर्धाभिषिक्तोऽन्यो वा राजमान: प्रतिजन्यानि । जन्य युद्ध प्रति बलानी- त्यर्थः । प्रत्यर्थिजनपदानि वा । तानि विश्वा सर्वाणि शुष्मेण बलेन वीर्येण शरीरसामर्थेन वाभि अभिगम्याक्रम्य तस्थौ। तिष्ठति । स इत्युक्त क इत्याह। यो बृहस्पति हतां महता पालयितारं देवसुता लक्षणं पुरोहित वा सुभृत सुष्टु हविः- स्तोत्रादिनानाच्छादनादिना वा विभर्ति भरति। वल्गूयति स्तौति । वन्दते नमस्करोति च पूर्वभाजमितरेभ्य: प्रथम- सम्भक्तारम् कृत्वा । एव यः करोति स एव तस्थाविति । स स एव क्षेति । निवसति । गुधित' मुष्ठ टप्तः सन् खे खकीय एवोकासि सदने। स एव समृद्धो Brhaspati IV 50.] सायणभाष्यम् । निर्वाधः सन् सुखेनास्ते। तस्मा इड़ा भूमिविश्वदानों सर्वकालं पिन्वते । बधते फलै.। तस्मै विशः प्रजाः स्वयमेव नमन्ते। प्रणता भवन्ति। दण्डन जन्तरेण स्वयमेव दत्तकरा भवन्ति। यस्मिताजनि ब्रह्मा पूर्वः प्रथमं पूज्य: सन्नेति । गति । वर्तत इत्यर्थः । ৰ ৰাসনীনীচন্দ্রদ্বনিন: বল আনি লালি प्रतिजन्यानि प्रतित्यधिजनसम्बन्धीनि उतापि च सजन्या जनतबन्धोनि धनानि राजयति। यो राजावस्यवेऽवसीयसे মূলক্ষিনায় হালিন লা জায্যায় বা সীল- मिच्छते हहत्यलये वा वरिवो धनं लगोति। करोति । ददाति। स उक्त प्रकारेण महान् भवति। तमेव देवा अवन्ति। रक्षन्ति। इन्द्रश्च सोममिति दशमी तीयसवने ब्राह्मणा- च्छसिनः प्रथितयाज्या। सूनितं च । इन्द्रश्च सोमं पिबतं वृहस्थत आ वो बहन्तु सप्तयो रघुष्यदः । श्रा० ५।५ । इति । हे वृहस्पते त्वमिन्द्रश्च सोमं पिबतम् । कोदृशौ युवाम् । अस्मिन् यज्ञे मन्दसाना हृष्यन्तौ वृषण्वसू वर्षिटधनौ । यजमानेभ्यो दीयमानधनावित्यर्थः। वां युवां स्वाभूवः सुठु सर्वतो भवन्तः । कृत्स्नशरीरव्यापनसमर्था इत्यर्थः। तादृशा इन्दवः सोमा विशन्तु । युवयोः शरीरं प्रविशन्तु । अस्मे सायणभाष्यम् । [ Bihaspati IV 50. अस्मभ्यं रयि धनं सर्ववौरं सर्वपुत्राद्युपेतं नि यच्छतम् । दत्तम् । ११। हे वृहस्पते हे इन्द्र युवां नोऽस्मान् वर्धतम् । वर्धयतम् । प्रधान् कुरुतम् । सा सुमतिर्युवयोरनुग्रहबुद्धि रस्मे अस्मासु सचा सह भूतु । भवतु । धियः कर्माण्यविष्टम् । रक्षतम् । पारं नयतम् । पुरंधीः पुरं शरीरं धीयते स्थाप्यते याभिर्मतिभिस्ता स्तुतीर्जिग्रतम् । प्रवुध्यतम् । वनुषा सम्भकणामस्माकमर्यो गन्नौररातीः । शत्रूनित्यर्थः । जजस्तम् । युध्यतम् । क्षपयतमित्यर्थः । छन्दस्यरातिशब्द. । स्त्रीलिङ्गः । एवं स्तुतिं निगमय्याभीष्टं प्रार्थितवान् ।

USAS IV. 5I. १ । अथाष्टमं व्याख्यातुमाग्भते। इदमुत्यदि- त्येकादश, षष्ठं सूक्तं वामदेवस्या त्रैष्टुभमुषो- देवताकम्। इदमुषस्यं त्वित्यनुक्रान्तम् । प्रात- रनुवाक उषस्ये क्रतो त्रैष्टुभे छन्दस्याश्विनशस्त्र इदं सूक्तम् । सूवितं च । उषो वाजेनेदम त्यत् । आ. ४।१४ । इति । इदम् पुरतो दृश्यमानमिद त्यत्तटस्माभिः स्तुत्यं सर्वप्रसिद्ध पुरुतममत्यन्तप्रभूत ज्योतिस्तेजो वयुनावत् । वेतेः कान्तिकर्मण इदम्। प्रकृष्ट कान्तिमत् । अथवा वयुन- मिति प्रज्ञानाम । प्रज्ञोपेतम् । सर्वस्य प्रज्ञापकमित्यर्थः । कौटुक् तेजः। पुरस्तात् पूर्वस्याम् दिशि तमसोऽन्धकारा- दस्थात् । उदतिष्ठत् । एवं सति नूनं सत्य दिव आदित्यस्य दुहितरो दुहिटस्थानीया विभातीविभानम् कुर्वतौरुषसी जनाय यजमानानां गातुं गमनं गमनादिव्यापारसामर्थ्य कृणवन् । अकुर्वन् ।

८२ सायाभाष्यम् । [ Usas IV 51. ऋग्वे. ता २ । चित्राञ्चायनीया उपसः पुरस्तात् पूर्वस्यां दिश्यस्थुः । तिष्ठन्ति । व्याप्ता इत्यर्थः । तत्र दृष्टान्तः । अध्वरेषु मिता खाता: स्वरवो यूपा इव । ते यथा वेद्याः पुरतो भासन्ते तहत् । यद्यपि वरुशदो यूपच्छेदपतितप्रथम- शकलवाची यः प्रथमः शकलः परापतेत् स स्वरुः कार्य: इत्युतत्वात् तथान्यत्र मितशब्दश्रवणाचपालवन्तः स्वरवः । ० ३।८।१० इत्यादौ तथा दर्शनाचात्र यूपवचनः । ब्रजस्य वारकस्य तमसो द्वारा हाराणि पुच्छन्तीः शुचयो दौताः पावका शोधिका अनन् । व्यवृण्वन् । अद्यास्मिन्दिन उच्छन्तीस्तो विवासयन्त्यो मघोनौनवत्य उपमो भोजान् भोजयितॄन् यजमानान् तेषा राधोदेयाय सोमादिधनदानाय चितयन्त । पयन्ति । अचित्रेऽचायनोये तमसो विमध्ये । गाढ़ान्धकार इत्यर्थः । तत्र पणयो वणिज इवादातारो- ऽबुध्यमानाः स सन्तु । वपन्तु । ४। हे देवो?तमाना उपसो वो युभान् सनयः पुराणो नवो वा यामो गमनसाधन स र योऽद्यास्मि न्याग- दिने कुवि हुवार बभूयात् भवेत् । गच्छेदित्यर्थः । येन रथेन रेवतोधनवत्यो यूय नवम्वे दशग्वे सप्तास्य सप्तच्छन्दो- युक्त मुखेऽङ्गिरेऽङ्गिरोगणे। तो हो तत्र येऽप्यङ्गिरसस्तेषा प्रज्ञा- । अत्यन्त- Usas IV 51 ] सायणभाव्यम् । ४३ कृतवत्यः । गणे। तणान्यत्र नवबो नु दशग्यो अङ्गिरस्तमः । १०।६२।६। इति रेवदनवद्यथा भवति तयोष। विभात वसे व्युच्छ नकर्मणो जिणमध्यमबहुवचनस्येदं रूपम् । ५। हे देवोर्योतमाना उषसो यूयं हि खलु ऋत युग्मि यज्ञगामिभिरखे वनानि सद्य: परिप्रयाय। परित. प्रकष्ट गच्छथ । किं कुर्वत्यः । ससन्तं स्वपन्त हिपाचतुष्या- न्मनुष्यगवादिलक्षणं जौवं चरथाय चरणाय गमनादिव्यव- हाराय प्रबोधयन्ती: प्रबोधयन्त्यः सत्यः परिप्रवाथ। आसामुषसा मध्ये क विदभूदद्य कतमा पुरागी पुरातनी। यया ऋभूणा सम्बन्धौनि विधाना चमसादि- निर्माणानि विदधुः । अकुर्वन्भवः । यद्याचोषसः शुभा दीप्ता: शुभं चरन्ति । शोभा दीप्ति कुर्वन्ति । ता अजुर्या अशौर्णा नित्यनूतना न वि ज्ञायन्ते । यत सदृशाः सदृश्यः सर्वेष्वपि दिवसेवेकरूपा अतोऽद्यतन्य एता एता पुराण्य इति न ज्ञायन्ते। उपासादृश्यं सदृशौरद्य सशोरिदु स. । ऋ० १११२३८ । इत्यत्र प्रतिपादितम् । ता ध। घेति प्रसिद्धौ। ताः खलपकारिण्यस्ता भद्राः कल्याख' स्तुत्या वा उषस: पुरा पूर्वमासुः । अभवन् । अभिष्टिानाः अभिगमनमात्रेण द्युम्न धन यासां ता. र सायणभाष्यम्। [Usas IV 51 एवमहा- ऋतजातसत्याः। ऋतार्थ यज्ञार्थं जाताच ताः सत्याः सत्य- फलाश्च तादृश्यः । यासूषः स्वौजानो यागं कुर्वाण उक्थैः शस्त्रैः शशमानः शंसमानः स्तुवन् सामभिः स्तोत्रं निष्पादयन् शंसन् शस्त्राणि कुर्वन् द्रविणं धनं सद्य आप। प्राप्नोति । ता भद्रा इति सम्बन्धः । ता उषस पा सर्वतश्चरन्ति । समना सर्वतः समानाः पुरस्तात् पूर्वस्याम् दिशि समानत: समाना- द्देशादन्तरिक्षात् समना सर्वतः पप्रधानाः प्रथमाना ऋतस्य यज्ञस्य सदस: सदः। तत्रत्यमृत्विग्धविरादिकमित्यर्थः । बुधाना बोधयन्त्यः । अन्तर्भावितण्यर्थोऽयम् । नुभावा उषसो जरन्ते। स्तूयन्ते। गवा सर्गा न उदकाना सृष्टय इव । गवां सर्गा न रश्मयः । ऋ० ४१५२।५ । इति हि श्रुतम् । ता यथा सर्वत्र प्रसङ्गादुपकारत्वाञ्च स्तूयन्ते तहत् । ता एवोषसः। इदिति पूरण: । नु अद्य समना समानाः । एकधेत्यर्थः । समानौरकरूपा अमौत- वर्णा अहिंसितवर्णा अपरिमितवर्णा वा उषसश्चरन्ति सर्वतः। अस्वं । महनामैतत्। अतिमहदसितं कषण रूपं गूहन्ती- !पयन्त्यो रुशदौरोचमानस्तनभिः स्वशरीरैः शुक्रा दौप्ता: शुचयः शुद्धा रुचाना रोचमाना रोचयन्त्यो वा ।

Usas IV 51] सायणभाष्यम् । ८५ १०। हे दिवो दुहितरो द्योतमानस्यादित्यस्य दुहिट- स्थानीया विभातौविभात्यो विशेषण भानं कुर्वत्योऽस्मासु प्रजावन्तं रयिं पुत्राद्युपेतं धनं यच्छत । दत्त। हे देवी देव्यः स्योनात् सुखानिमित्तभूतादो युष्मान् प्रतियुध्यमानाः प्रतिवोधयन्तो वयं सुवीर्यस्य पतयः स्याम। पुत्रादिसहितस्य धनस्य पालका भवेम । ११। तदो दिव इति व्युष्टायाम् जपेत । । हे दिवो दुहितरी हे उषसो विभातीर्वो युष्मान् तदुत्तरार्धप्रथमपादेन वक्ष्यमाणं फलं यज्ञकेतुः । यज्ञ एव केतुः प्रज्ञापको यस्य तादृशोऽहमुप ब्रुवे । उपत्य ब्रवीमि । अथ बहुवदुच्यते । वयं स्तुवन्तो जनेष्वस्मात्समानेषु मध्ये यशस: कोत्तेरन्नस्य वा वामिनः स्याम । तद्यशो द्यौः पृथिवी च देवी धत्ताम् । धारयताम् ॥ --

AGNIV.11.
जनस्य गोपा दूति एडुचरिशादायं मूहा-
माययस्य सुतंभरल्या या जातमाग्नेयम्। तथा
चानुक्रान्तम् । जनत्य षट् सुतंभो जानतमिति ।
प्रातरनुवाक
आश्विनशस्त्र चास्य
विनियोगः । जनस्य गोपारवालाग्न ऋतायवः ।
आ० ४।१३ । इति ।
१ । जनस्य गोपा गोयायिता रक्षिता जाग्टविजर्जागरणा-
शोलः मदा प्रबुद्धः सुदक्ष सुबलः सर्वैः शाघनीयबल. सो-
ग्निर्नव्यले नवतराय सुविताय लोकानाम् कल्याणायाजनिष्ट ।
जातः। वृतप्रतीको वृतेन प्रज्वलिताको वृहता महता
दिविम्पृशाश्नलिहेन तेजसा युक्तः शुचि: शुद्ध एवंविधोऽग्नि-
भैरतेभ्य ऋविग्भ्यस्तदर्थ द्युमहोप्तिमद्यया भवति तथा
वि भाति । प्रकाशते । गोयाः । गुपू रक्षणे । आय प्रत्ययः ।
गीपायतः क्वि । परत्वादतो लोपः । अत्र परत्वाद पृक्तलोपे
हाते वर्णाचयत्वात् प्रत्ययलचणाभावेन यलोपो न स्यात् । लोपो
।

Agni V 11 सायणभाष्यम् । व्योबलौति प्रथम लोपग्रहणात् ज्ञापकात् यलोप एव भवति । लोपाजादेशस्य यलोपविधि प्रति न स्थानिवद्भावः । प्रत्ययस्वरः। जाग्रविः । जारट निद्राक्षये। शृस्तृजाग्टभ्यः क्विन्निति क्विन्प्रत्ययः । जाग्रोऽविचिणङित्स्विति प्रति- षेधाहुणाभावः । नित्त्वादायुदात्तः। सुदक्षः । आद्युदात्त हाच्छन्दसौत्युत्तरपदाद्युदात्तत्वम् । सुविताय । तन्वादीनाम् च्छन्दस्युपसंख्यानमिति सोरुवडादेशः । सूपमानात् त इत्युत्तरपदान्तोदात्तत्वम् । नव्यसे। नवशब्दादतिशायनेऽर्थे ईयसुन् प्रत्यय । ईकारलोपश्छान्दस: । अतो लोपः। आधु- दात्तः। दिविस्पशा । हृयभ्याम् डेरुपसख्यानमित्यलुक् । कदुत्तरपदप्रकृतिवरत्वम् । द्युमत् । हूस्खनुड्भ्याम् मतुविति हुस्खात्परस्थ मतुपोऽन्तोदात्तत्वम् । नर ऋत्विजो यज्ञस्य यागस्य केतुं प्रज्ञापक पुरोहितं यजमानः पुरस्कृतमिन्द्रेण देवैश्च सरथं तेषा मान्यत्यात् समानरथमग्नि विषधस्थे त्रिस्थाने विहारप्रदेश प्रथमं समीधिरे । समैन्धन्त । सुक्रतुः शोभनका होता देवनामाह्वाता सोऽग्निर्वर्हिषि वहिर्युक्त तस्मिन् स्थान यजनाय यज्ञाय नि षौदत् । प्रतिष्ठितोऽभवदिति यावत् । केतुम् । कित् ज्ञाने । औणादिक उप्रतयः । अन्तोदात्तः । पुरोहितम् । पुरोऽव्ययमिति गतिसंज्ञायाम् गतिरनन्तर २ ।

सायगाभाष्यम् । [ Agni V 11 व्याप्तः। इति पूर्वपदप्रकृतिवरत्वम्। त्रिषधस्थे। आहवनीया- दिलक्षणेन विप्रकारणानेन सह तिष्ठतीति त्रिषधस्थः । सधमादस्थयोश्छन्दसौति सधादेशः । कदुत्तरपदप्रकृति- खरत्वम्। सौदत्। सदेः पाघ्रादिना सौदादेश: । बहुलं छन्दस्यमाड्योगेऽपौत्यडभावः । पादादित्वान्निधाताभावः । यजथाय। यजेरोणादिकोऽथप्रत्ययः। प्रत्ययस्वरेण मध्योदात्तः। ३। हे अग्ने मात्रोररण्योः । खजनननिमित्तादरणो मातरावित्युच्येते । ताभ्यामसंमृष्टोऽवाधित एव जायसे । प्रादुर्भूतो भवसि। मन्द्रः सर्वैः स्तुत्यः कविः क्रान्तः सर्वत्र अथवा मेधावी शुचिस्त्वं विवस्वतोऽग्निहोत्राद्यर्थं रहे विशेषेण वसतो यजमानादुदतिष्ठः। उदितोऽभवः । पूर्व महर्षयस्त्वा त्वां कृतनावर्धयन्। वृद्धिमनयन् । हे आहुत आहुतिभिहुत ते तव दिव्यन्तरिक्ष श्रितो व्याप्ती धूमः केतुः प्रज्ञापकोऽभवत् । अग्न्यनुमापकलाडूमस्य । मात्रोः। उदात्तयणो हल् पूर्वादिति विभक्तेरुदात्तत्वम् । मन्द्र. । मदि स्तुतिमोदमद स्वप्न कान्तिगतिषु । अत्र स्तुत्यर्था- दस्मात् स्थायितञ्चोत्यादिना रक्। अन्तोदात्तः। कविः । क्रमरिन् सर्वधातुभ्य इतौन् प्रत्ययः । वाहुलकत्वान्मकारस्य वत्वं रेफलोपश्च । व्यत्ययेनान्तोदात्तत्वम् । उदतिष्ठः। उत्पूर्वादूर्ध्वकर्मवाचिनस्तिष्ठतेरात्मनेपदाभावः। विवस्वतः ।

Agni V. 11. ] सायणभाष्यम् । ४ । विपूर्वादसतेः सम्पदादिलक्षणो भावे किम् । तदस्यास्तौति मतुप्। मादुपधायाश्चेति वत्वं । मतुपोऽनुदात्तत्वाद्धातुस्वरः । साधुया सर्वपुरुषार्थानाम् साधकोऽग्निर्नो यज्ञ. मस्मदीय याग प्रत्युप वेतु । आगच्छतु। नरो मनुष्या रहे स्टहेऽनुग्रहमग्निं वि भरन्ते। विहरन्ति । विहरणम् कुर्वन्तीत्यर्थ.। हव्यवाहनो हव्यानां हविषा वोढ़ाग्नि तो देवानाम् दूतोऽभवत् । वणानाः सम्भजमानाः सन्तः कवि- क्रतु क्रान्तयज्ञमग्निं वृणते । सम्भजन्ते। साधुया। सुपा सुलुगित्यादिना विभक्तर्यादेशः । ५। हे अग्ने तुभ्यं तुभ्य त्वदर्थं मधुमत्तममत्यन्त मधुर मिदं वचः क्रियते। हृदे हृदि शं सुख कुर्वतीयं मनीषा स्तुतिस्तुभ्यमस्तु । गिरः स्तुतिरूपा वाचस्त्वामा पृणन्ति । पूरयन्ति शवसा वलेन वर्धयन्ति च । कथमिव । महो- महत्योऽवनौरवन्यो नद्यः सिन्धुमिव समुद्रमिव । ६ । हे अग्नेऽङ्गिरस ऋषयो गुहा गुहाया हितं निहितं निगूढ़ वने वने वृक्षे वृक्षे शिथियाणमाश्रितं त्वामन्वविन्दन् । अल्लभन्त । महन्महता सहः सहसा वलेन युक्तः स त्वम् मथ्य- मानो जायसे। हे अगिरोऽङ्गिरसा प्रकृतिभूत त्वा सहसः पुत्र- माहु । शिश्रियाण । श्रियं सेवायाम् । लिट: कानच् । शप: श्नु. । श्लाविति द्विवचनम्। इयङादेशः। चित्त्वादन्तोदात्तः । RAM PARJANYA V. 83 अच्छा वदेति दशर्चमेकादशं सूक्तं भौमस्या- वेरार्षम्। अत्रेयमनुक्रमणिका। अच्छ दशानिः । पार्जन्यमुपाद्यास्तिस्रो जगत्यः । उपान्त्यानुष्टु- बिति। यत्पर्जन्येलोषा नवम्यनुष्टुप् वि वृक्षा- नित्याद्यास्तिस्रो जगत्यः । शिष्टा: षट् विष्टुभः । पर्जन्यो देवता। अनेन सूक्तेन प्रत्यूच वा दिश उपस्थेयाः । सूवितं च । संस्थितायां सर्वा दिश उपतिष्ठेताछा वद तवसं गौर्भिगभिरिति चत- मृभिः प्रत्यूचं सूक्तेन वेति। १। हे स्तोतस्तवसं बलवन्तं पर्जन्यमच्छाभिप्राय वद प्रार्थय। पर्जन्यशब्दो यास्केन बहुधा निरुक्तः । पर्जन्ध- स्तृपराद्यन्तविपरीतस्य तर्पयिता जन्यः परो जेता वा जनयिता वा प्रार्जयिता वा रसानामिति आभिर्गोभिः स्तुति- वाग्भिः स्तुहि नमसा अन्नेन हविलक्षणन प्रा विवास सर्वतः स यथा कशया अखान- Parjanya V 83.] सायणभाष्यम् । १०१ परिचर। य. पर्जन्यो वृषभ: अपा वर्षिता जोरदानु. क्षिप्र- दानः कनिक्रदत् गर्जनशब्दं कुर्वन्नोषधीषु गर्भङ्ग स्थानीय रेत: उदक दधाति स्थापयति त स्तुहि । २ । अयं मन्त्रो निरुते स्पष्टं व्याख्यातः । तदेवात्र लिख्यते । पर्जन्यी विहन्ति वृक्षान्विहन्ति च रक्षासि सर्वाणि चास्मा- मुतानि विभ्यति महावधात् । महान् ह्यस्य बधः । अप्यन- धगधो भौत: पलायते । वर्षकर्भवतो यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः पापकृत इति । ३। रथीव रथखामोव । भिक्षिपन् दूतान् भटानाविष्करोति तहदसौ पर्जन्योऽपि कशयाश्वानभिक्षिपन्नभिप्रेरयन् वर्थान् वर्षकान् दूतान् दूत- वह ष्टिप्रेरकान्मेघान् मरुतो वा आवि. कणुते प्रकटयति । एव सति सिंहस्य । सहतहिंसतर्वा शब्दकम्मणः सिंहशब्दः । अवर्षण नाभिभवितुः शब्दयितुर्वा मेघस्य स्तनथा गर्जनशब्दा दूरात् उत् ईरते उद्गच्छन्ति । कदा। यत् यदा पर्जन्यो नभोऽन्तरिक्षं वर्थ वर्षोपेत कणुत करोति तदा। प्रवाता इति चतुर्थी पर्जन्यस्य चरोर्याज्या । सूत्रितं च । प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेय- अहति पूरणः । ४॥ प्रभृतौति ।

१०२ सायणभाष्यम् । [ Panjanyar 83. प्रवान्ति वाता वृष्यर्थ पतयन्ति गच्छन्ति समन्तात्म- चरन्ति विद्युतः ओषधीः ओषधयः उत् जिहते उगच्छन्ति प्रवर्धन्ते स्वरन्तरिक्षं पिन्वते क्षरति । इरा भूमि विश्वम् सर्वस्मै भुवनाय सर्वजगद्धिताय जायते समर्था भवति । कदैवमिति । यत् यदा पर्जन्यो देवः पृथिवीं रेतसा उद- केन अवति रक्षति अभिगच्छति वा तदैवं भवति । यस्य पर्जन्यस्य व्रते कम्मणि पृथिवी नन्दमोति सर्वेषामधो भवति । यस्य ब्रत शफवत् पाटोपतं गवादिक जर्भुरीति नियते पूर्यते गच्छतौति वा। यस्य व्रते कर्मणि ओषधौरोषध्यो विश्वरूपा नानारूपा भवन्ति हे पर्जन्य म महांस्त्वं नोऽस्मभ्यं महि शर्म महत् सुखं यच्छ प्रयच्छ। ६। हे मकत: यूयं दिवोऽन्तरिक्षसकाशात् नोऽस्मदर्थ वृष्टि ररीध्व दत्त । वृषणः वर्षकस्य अश्वस्य व्यापक स्य मेघस्य संवन्धिन्धो धाराः उदकधाराः प्र पिन्वत प्रक्षरत। है पर्जन्य त्वमेतेन स्तनयित्नुना गर्जता मेघेन सह अर्वाड् अस्मट- भिमुखमा इहि आगच्छ। किं कुर्वन् । अपः अम्भासि निषिञ्चन् स देव: असुर उदकाना निरसितापि सन् नोऽस्माक पिता पालकश्च । अभि भूम्य भिमुखं क्रन्द शब्दय। तदेव पुनरुच्यते दााय। स्तनय गज गर्भ गर्भस्थानीयमुदकमोषधीषु भा

Parjanya V. 83] सायणभाष्यम् ।
धा: आधेहि। तदर्थमुदन्वता उदकवता रथेन परि दीय
परितो गच्छ। दृति दृतिवदुदकधारक मेघ विषितं
विशेषेण मितं वडं न्यञ्च न्यक अधोमुख सु सुष्टु कर्ष आकर्ष
वृद्ध्यर्थम् । यहा। विषित विमुक्तवन्धनमेव करे। एवं
कृते उहत अध्ववन्त उन्नतप्रदेशा निपादा. न्यगभूतपादाः
निसष्टपादा वा निम्नोन्नतप्रदेशा: समा' एक स्था भवन्तु ।
उदकपूर्णा भवन्वित्यर्थः ।
४। हे पर्जन्य व महान्तं प्रवृद्ध कोशं कोश स्थानीयं
मेघमुत् अच उद्गच्छ उहमय वा । तथा कृत्वा नि बिच
नौचैः क्षारय ।
कुल्या नद्यो विषिता विष्थताः
स्यन्दन्तां प्रवहन्तु पुरस्तात् पूर्वाभिमुखम् । प्रायेण नद्यः
प्राच्यः स्यन्दन्ते। वृतेन उदकन द्यावापृथिवी दिवं च
पृथिवीं च वि उन्धि लेदयात्यधिकम् । अनयाभ्यो गोभ्यः
सुप्रपाणं सुष्टु प्रकर्षेण पातव्यमुदकं भवतु ।
। हे पर्जन्य यत् यदा वं कनिक्रदत् अत्यथै शब्दयन्
स्तनयन् दुष्कृतः पापकतो मेघान् हंसि विदारयसि तदानी-
मिदं विख जगत् प्रति मोदते । विश्वं विशेष्यते । यत् कि
च पृथिव्यामधि भूम्यामधिष्ठित यच्चराचरात्मकं तदिदं
विखं मोदते हृष्यति दृष्टः सर्वजगनौतिकारणलं
प्रसिद्धम् ।

१०४
सायणभाष्यम् । [Parjanya V. 83
१०। इयमतिवृष्टिविमोचनी। हे पर्जन्य त्वमवर्षीः
वृष्टवानसि वर्षमुत् उ ५ ग्राभाय । उत्कृष्टं सु सुछ ग्राभाय
ग्रहाण परिहरेत्यर्थः। धन्वानि निरुदकप्रदेशान् अकः
जलवत: कृतवानसि। किमर्थम् । अत्येतवा उ अतिक्रस्य
गन्तुम् । ओषधीरजीजन:
उदपादयः। किमर्थम् ।
भोजनाय धनाय भोगाय वा । कमित्ययं शिशिरंजीवनाय
कमितिवत्पादपूरणः । उत अपि च प्रजाभ्यः सकाशात्
मनीषां स्तुतिमविदः प्राप्तवानसि ।
--

PUSAN VI. 54. सं पूषन्निति दश पञ्चमं सूक्तं भरद्वाजस्या पौशां गायत्रम्। सं पूषन्नित्यनुक्रान्तम् । नष्ट- धनमन्विच्छता पुरुषणतज्जप्यम् । सूचितं च। सं पूषन्विटुषेति नष्टमधि-जिगमिषन्मूल्हो वेति । १। हे पूषन् पोषक देव विदुषा जानता तेन जनेन सन्नय अस्मान् सङ्गमय । यो विहान् अञ्जसा ऋजुमार्गेण अनुशासति अनुशास्ति नष्टद्रव्यप्राप्त्युपायमुपदिशति । यश्चैव एवमिद नष्टं भवदीय धनमिति ब्रवत् ब्रवीति नष्ट धनं दर्शयतीत्यर्थः । तेन विदुषेत्यन्वयः । २। पूष्णा अनुग्रहीता वयं सङ्गमेमहि तेन जनेन सङ्गच्छेमहि यो जनो ग्रहान् येषु ग्रहेषु अस्मदीया नष्टा: पशवस्तिष्ठन्ति तान् सहानभिशासति अभिशास्ति आभि- मुख्येन बोधयति । यश्चेमे त्वदीया नष्टा, पशव एव एवं तिष्ठन्तौति च ब्रवत् ब्रूयात् ।

सायणभाष्यम् । [Pusan VI 54
३। पूष्णः पोषकस्य देवस्य चक्रमायुधं न रिष्यति
न विनश्यति । अस्य चक्रस्य कोशच न अवपद्यते न हीयते ।
अस्य पवि, धारा च नो नैव व्यथते कुण्ठीभवति । तेन
चक्रेण चोरान् हत्वात्मदीय धनं प्रकाशयेति भावः ।
४ । यो यजमान' अस्मै पूणो हविषा चरुपुरोडाशादिना
अविधत् परिचरति तं यजमानं पूषा न अपि मृष्यते
अपिशब्द ईषदर्थे । ईषदपि न हिनस्ति । स च प्रथमो
मुख्यः सन् वसु धनं विन्दते लभते ।
५। पूषा पोषको देव: नोऽस्मदीया गाः अन्वेतु
रक्षणार्थमनुगच्छतु। स च पूषा अवतः अश्वानक्षतु चोरेभ्यः ।
तथा वाजमन्नं च नोऽस्मभ्यं पूषा सनोतु प्रयच्छतु ।
६। हे पूषन् सुन्वतः सोमाभिषव कुर्वतो यजमानस्य
गाः पशून् अनु प्र इहि रक्षणार्थमनुगच्छ । उत अपिच
स्तुवतां त्वबिषयं स्तोत्रं कुर्वतामस्माकं गाश्चानुगच्छ ।
७। हे पूषन् अस्मदीयं गोधनं माकि: नेशत् मा
नश्यतु । माकिर्माकोमित्येतौ प्रतिषेधमाने वर्तेते। माकों
रिषत् मा व्याघ्रादिभिर्हिस्यताम् माकों मा च केवटे कूपे
सं शारि सशीणं भूत् कूपपातेनापि हिंसितं मा भवतु । अथ
एवं सति अरिष्टाभिरहिंसिताभिर्गोभिः सह आगहि सायं-
काल आगच्छ।

APAS-VII 49
समुद्रज्येष्ठा इति चतुरीचं षोड़शं सूक्तं
वसिष्ठस्याष त्रैष्टुभमब्देवताकम् । तथा चानु-
क्रान्तं समुद्रज्येष्ठा आपमिति। गतो विनियोगः।
१। ममुद्रज्येष्ठाः समुद्रोऽर्णवो ज्येष्ठः प्रशस्यतमो यासा-
मपां ताः । सलिलस्य । अन्तरिक्षनामैतत् । अन्तरिक्षस्य
मध्यात् माध्यमिकात् स्थानात् यन्ति गच्छन्ति । कोदृश्यः ।
पुनाना विश्व शोधयन्यः अनिविशमानाः सर्वदा गच्छन्त्यः ।
वजो वज्रभृत् वृषभः कामाना वर्षितेन्द्रो याः निरुद्धा अपः
रराद लिखति देवार्देव्यस्ता आप इहास्मिन् प्रदेश स्थितं
मामवन्तु रक्षन्तु अभिगच्छन्तु वा ।
या आप दिव्याः अन्तरिक्षभवाः सन्ति ।
वा अपि च या आपः नद्यादिगता: सत्यः सन्ति गच्छन्ति
याश्च खनित्रिमाः खननेन निवृत्ताः । उत वा अपि च या.
स्वयंजाः खयमेव प्रादुर्भवन्त्य. समुद्रार्थाः समुद्र एवार्थो गन्तव्यो
यासां ताः समुद्रार्थाः शुचयो दोप्तियुक्ता: पावका: शोधयि-
नाश्च भवन्ति । ता आपो मामवन्विति ।
उत

। Apas VII 49 ] सायणभाष्यम् । १०८ ३। वरुणो यासामपां राजा स्वामी मध्ये मध्यम- लोके याति गच्छति । किं कुर्वन् । जनानां प्रजानां सत्या- वृते सत्यं चानृतं च अवपश्यन् जानन्नित्यर्थः । या आपः मधुश्चत: रसं क्षरन्त्यः शुचयो दीप्तियुक्ताः पावका: शोधयित्राः। ता आपो देव्यो मां रक्षन्विति । ४॥ अपा राजा वरुणो थास्वप्सु वर्त्तते । सोमः याखप्सु वर्त्तते। यास्त्रप्सु स्थिता विश्वे सर्वे देवा ऊर्जमन्नं मदन्ति । वैश्वानरः अग्निासु प्रविष्टः ता आपो देव्य इह स्थितं मामवन्तु । । - MITRA-VARUNA VII, 61. उद्दां चक्षुरिति सप्त, षष्ठं सूक्तं वशिष्ठस्वार्ष त्रैष्टुभं मैत्रावरुणम् । उदां सप्त्यनुक्रमणिका। विनियोगो लैङ्गिकः । हे वरुणा मित्रावरुणो देवयो?तमानयोवी युवयोश्चक्षुः प्रकाशकं तेजः सुप्रतीकम् शोभनरूपमेवंरूप: सूर्यस्ततन्वास्तेजो विस्तारयन्नुदेति । उहच्छति । अथो- दितो यो देवो विश्वा सर्वाणि भुवनानि भूतजातान्यभिचष्टे अभिपश्यति स देवो मर्येषु प्रवृत्त मन्यु स्तोत्रं कर्म वा आजानाति । २। हे मित्रावरुणौ वा युवयोमन्मानि मननौयानि स्तोत्राणि स प्रसिद्धो विप्रो मेधाव्यतावा यज्ञवान् दोर्घश्रु- चिरकालं श्रोता एवमुक्तलक्षणो वशिष्ठ इयति । प्रेरयति । यस्यर्षेब्रह्माणि परिवढ़ानि स्तोत्राणि हे सुक्रतू शोभन- कर्माणो अवाथ: रक्षथः । यत्कम्म शरदो बहन् सवत्सराना पुणेथे आपूरयेथे स उदियति । चिकेत।

Mitra-Varuna VII 61 ] सायणभाष्यम् ।
१११
३। हे मित्रावरुणा मित्रावरुणौ युवामुरोविस्ती-
या. पृथिव्या अपि प्र। प्ररिरिचाथे। अस्ये देव प्र
रिरिचे। ऋ० ११६१।८ । इत्यादिषु प्रशब्दस्य रिरिच
इति योज्यं । तथाद्गुणैर्महता वृहतः स्वरूपतोऽतिमहतो
दिवो द्युलोकादपि प्र रिरिचाथे। हे सुदानू शोभनदानी।
किं चौषधीषु विक्षु प्रजासु निमित्तभूतासु प्रजासु चेति
वा स्पशो रूप दधाथे । धारयेथे। किं कुर्वन्तौ। ऋग्यत
ऋधक्सत्येन यतो विवेकात् सत्येन गच्छतो जनाननिमि-
षमव्यवधान न सर्वदा रक्षमाणा पालयन्ती।
है ऋषे मित्रस्य वरुणस्य च धाम तेजःस्थान
स्तुहि। ययोर्देवयोः शुभो वलं रोदमी द्यावा-
पृथिव्यौ सह वर्तमान महित्वा स्वमहत्त्वेन वहधे वनाति
पृथक स्थापयति इय पृथिवीय द्यौरिति पृथक्करोति ।
द्यावा पृथिवी सहास्तामिति श्रुते.। अयज्वनाम ननुष्ठातृणा
सासाःकालावयवाः अवोराअपुत्रा एवायन् । यन्तु । गच्छन्तु ।
तहिपरीतो यज्ञमन्मा यज्ञार्थं मतिमान् यज्वा वजनं बलं
प्रतिराते। प्रवर्धयतु। प्रपूर्वस्तिरतिर्वर्धनार्थः ।
५। हे अमूरामूढ़ी हे विश्वा व्याप्तौ हे वृषणो
वर्षितारी वां युवाम्यामिमा इमानि स्तुतिवचासि क्रियन्ते ।
यासु स्तुतिषु चित्रमाश्चयं न ददृशे न दृश्यते न यक्षं न पूजा
४।

११२ सायणभाष्यम् । [Mitra-varuna TII. 61 न महान्तः। दृश्यते। युवाभ्याम् महिम्नोऽपि महत्त्वात् प्रयत्नेन क्रिय- माणमपि स्तोत्र न चमत्करोतीत्यर्थः । जनानामन्ता स्तुत्यविषयाणि स्तोत्राणि छैहो द्रोग्धारः सचन्ते। सेवन्ते। वां युवाभ्याम् क्रियमाणानि निण्यान्यन्त- हितानि रहस्यान्यपि स्तोत्राण्यचितेऽज्ञानाय नाभूवन् । न भवन्ति । ६। हे मित्रावरुणौ वां युवयोर्यज्ञं नमोभिर्नम- स्कारैः स्तुतिभिः समु महय। सम्पूजयाम्यहम् । तदर्थं हे मित्रावरुणा मित्रावरुणो वा सवाधो वाधायुक्तोऽह हुवे । आह्वयामि वाधापरिहाराय । युवामृचसे सेवितुं नवानि नूतनानि स्तुत्यानि वा मन्मानि स्तोत्राणि प्र भव- न्वित्यध्याहारः । कतानि मया समूहोकतानीमानीदानी क्रियमाणानि ब्रह्म परिबढ़ानि स्तोत्राणि युवा जुजुषन् । प्रोणयन्तु। इयं देवेति सप्तमौ गता। वा SURYA VII, 63. उद्देतीति षड़चमष्टमं सूक्तं वसिष्ठस्याषं त्रैष्टुभं आद्याश्चतस्त्रः पञ्चम्याः पूर्बाधंश्च सूर्यदेवल्या अवशिष्टास्त्रयोऽर्धर्चा मित्रावरुणदेवत्याः । तथा चानुक्रान्तम् । उद्देतीति चार्धपञ्चमा इति । विनियोगो लैङ्गिकः । १। उहेति उद्गच्छत्ययं सूर्य: सुभग: शोभनभाग्यः सुष्छु भजनीयो वा विश्वचक्षाः सर्वस्य द्रष्टा मानुषाणाम् सर्वेषां मनुष्याणाम् साधारण: । साधारणत्वप्रतिपादक- श्रुतिः पूर्वमुदाहृता। मित्रस्य वरुणस्य च चक्षुः प्रकाशको देवो द्योतमानः । यो देवश्चमैव चर्माणीव तमांसि समवि- व्यक् सह विचति संवेष्टयति स महानुभावो देव उहेति । अयं सूर्यस्य सूर्यः । विभक्तिव्यत्यय । उहति। उद्गच्छति। कीदृशोऽयम। जनानाम् सर्वेषा प्रसविता सर्वेषु कर्मखनुज्ञाता महान् पूज्यः केतुः सवस्य प्रज्ञापको- पुर्णव उदक प्रदः । किं कुर्वबुदेतौति उच्यते । सर्वेषामकरूपमेकमेव चक्रं रथाङ्ग चरणशीलं रथं वा २। समान ११४ सायणभाष्यम् । [ Surya VII 63. ४॥ पावित्र्त्सन् पयावर्तयितुमिच्छन् । यद्रथचक्रं धूर्ष रथस्य युक्त एतश एतसवर्णो हरितवर्णोऽश्खो वहति । एको अश्वो वहति सप्तनामा । ऋ० १।१६४।२ । इत्युक्तम् । ३ । अयं सूर्यो विनाजमानो विशेषेण दीप्यमान उष- सामुपस्थादुपस्थे मध्ये रेभैः स्तोटभिरनुमद्यमानः सन्देति किञ्चैष देवो द्योतमान. सविता मे मह्यं चच्छन्द । उप च्छन्दयति कामान् । एष इत्युक्त क इति । यो देवः समानम् सर्वेषाम् प्राणिनामे करूपं धाम खोय तेजःस्थानं न प्रमिनाति न हिनस्ति न मङ्कोचयति स देव उदेतीति । अयं सूर्यो रुक्मो रोचमान उरुचक्षा: प्रभूत. तेजाच सन्दिवोऽन्तरिक्षादुदेति । यहा दिवोऽन्तरिक्षस्य रुक्म आभरणस्थानीयः। कीदृशोऽयं । दूरअर्थो दूर- गन्ता। अर्थोऽत्र्तेः । दूरे प्रार्थमानो वा । तरणिस्तारको भ्राजमानो टौप्यमानः सनुदेति। नूनं निश्चयम् जनाः सर्वे प्राणिन: सूर्येण प्रेरकेण देवेन प्रसूता अनुज्ञाता: प्रेरिता: सन्तोऽर्थानि गन्तव्यान्यनुष्ठेयान्यपासि कर्माणि वणवन् । कुर्वन्ति । यत्र यस्मिन्नन्तरिक्षेऽमृता अमरणधर्माण: पूर्वे देवा अस्मै सूर्याय गातुं मार्ग चक्र: अकुर्वन् तत्पाथो- ऽन्तरिक्षमन्वेति । अनुगच्छति । क इव । दीयन् गच्छन

११५
Surya VII. 63.] सायणभाष्यम् ।
श्येनो न शसनीयगमनो गृध्र इव। अयमर्धर्चः सौर्य
इत्युक्तं । हे मित्रावरुणा मित्रावरुणो वां युवां सूरे सूर्य
उदिते सति प्रात.सवने नमोभिनमस्कारैः स्तुतिभि कतापि
च हव्यहविभिश्च प्रति विधम । परिचरेम ।
न मित्र इति षष्ठौ गता।

Asvin vii. 71. त्रैष्टुभ- पञ्चमेऽनुवाक एकोनविंशति सूक्तानि । तचाप खसुरिति षडचं प्रथमं सूती माश्विनम्। अनुक्रम्यते च । अप स्वसुः षडिति । गतो विनियोग. । १। वसुः स्वसृस्थानौयाया: उषस' सकाशाननक्त रात्रिरप जिहीते । अपगच्छति । तस्या अवकाशं दत्वा खय- मपगतेत्यर्थः । स्वसा स्वस्ने ज्यायस्यै योनिमारैक्। ऋ० १।१२४।८। इत्युक्तम् । क्ष्णोः कृष्णवर्णा रात्रिररुषाया- रोचमानायाङ्क सूर्याय वा पन्यां पन्थानं मागे रिणक्ति । रेचयति । यस्मादेवं तस्माद्युवयोरागमनसमयत्वात् हे अश्वा- मघाखधनौ हे गोमघा गोधनौ । उभयोः प्रदातारावित्यर्थः ईदृशौ वां युवा हुवेम । स्तुमः । आह्वयामः । दिवा नत सर्वदा शरु हिंसकमस्मदस्मत्तो युयोतम् । पृथक् कुरुतम् । २। हे अखिनौ युवामुपायातम् । मस्मदाह्वानं प्रति । किमर्थम् । दाशुषे हविषा दाने यज- उपागच्छत- Asvin VII 71 ] सायणभाष्यम् । मानाय तदर्थ रथेन वामं वननौयं धनं वहन्ता बहन्ती। अस्मदस्मत्तो युयुतम् । पृथक्कुरुतम् । किम् । अनिराम् । इरान्नम् । तदन्नदारिद्रयमित्यर्थः । अमौवां रोगं च । है माध्वी मधुमन्ती युवा नोऽस्मान् दिवा नक्तं सर्वदा त्रासोथाम् । रक्षतम् । अवमस्यामासनायाम् व्युष्टौ व्युच्छन उपसि वा युवयो रथं सुम्नायवः सुखेन योजयन्तोऽश्वा वृषणो वर्षका युवामा वर्तयन्तु। स्यूमगभस्तिं सुखरश्मिम् स्यूतरश्मिम् वसुमन्तं प्रदेयधनयुक्तं रथं हे अश्विनाविनाबतयुग्मिरुदक- युक्तेरखैरुदकप्रदरखैग वहेथाम् । हे नृपती तृणां यजमानाना पालकावखिनौ वा युवयोर्यों रथो वोढ़ा युवयोर्वाहकोऽस्ति सर्वदा सन्निहितो कीदृशोऽसौ। त्रिबन्धुरः । सारथ्य धिष्ठानस्थान- बयोपेतो वसुमान् धनवानुस्रयामोत्रं दिवसं प्रति गन्ता । एनैतन रथेन हे नासत्याश्विनी नोऽस्मानुपा यातम् । यद्रथो यश्च रथो वां विश्वप्नयो व्याप्तरूपोऽभिजिगाति अभिगच्छति । अथवाह। यद्यस्मादिश्वप्नग्रो वसिष्ठो वां जिगाति स्तोति प्रत उपायातम् । ५। हे अखिना युवं युवां च्यवानम् जरसो जीर्णा- द्रूपादमुमुक्तम् । अमुंचतम् । युवं यवानमखिना जरन्तं वर्तते ।

११८
सायणभाष्यम् । [Asvin VII 71
पुनर्युवानम् । ऋ० १।११।१३ । इति ह्यन्यत्र । तथा पेदव
एतन्नामकाय राज्ञ आशुं शौघ्रगामिनमश्वं निरूहथुः ।
न्यवहतम् । युद्धे । युवं खेतम् पेदवे । ऋ० ११११८।।
इति निगमः । तथात्रि महर्षिमंहस ऋवौसादग्नेः सकाशा-
तमसश्च गुहान्तःस्थिताच सकाशानिष्पतम् । न्यपारयतम् ।
युवमृबौसमुत तप्तमत्रय ओसन्वन्त त्रक्रथु ।ऋ० १०॥३८।८ ।
इति निगमः । तथा जाहुषं शिथिरे शिथिले भ्रष्टे स्वराष्ट्र
ऽन्तमध्ये पुननि धातम् । । न्यधातम् ।
परिविष्टं जाहुषं
विश्वतः सौं। ऋ० १।११६।२०। इति युक्तम् ।
६। इयं मनौषेति षष्ठौ गता।

Varuna vii. 86. १। धौरा त्वस्येत्यष्टचं षोड़शं सूक्तं वसिठस्थाएं बेष्टुभं वरुणदेवत्यम् । तथा चानुव्रान्तम् । धौगष्टौ वारुणं हेति । गतो विनियोगः । अस्य वरुणस्य जनूंषि जन्मानि महिना लक्षिप्रं धारा धोराणि धैव्यवन्ति भवन्ति । यः वरुण: उर्वी विस्तौणे रोदमौ चित् द्यावापृथिव्यावपि वि तस्तम्भ विविध स्तब्धे स्वकीये स्थान स्थित अकरोत् । यश वहन्तं महान्तं नाक- मादित्य नक्षत्र च ऋष्व दर्शनीयं द्विता वैधं प्र नुनुदे प्रेरयति स्म । अहनि सूर्य दर्शनीय प्रेरयति रात्रौ नक्षत्न तथेति हिप्रकार.। भूम भूमि च य: पप्रथत् अप्रथयत् विस्तारित- वान् । तस्यास्य वरुणस्येत्यन्वयः । वरुणं शौघ्रं दिदृक्षमाण ऋषिरनया वितर्कयति । उतैति विचिकित्मायाम् । उत किं स्वया तन्वा स्यौयेना- मौयेन शरोरण संवदे सहवदन करोमि । आहो खित् तत्तेन वरुणेन सह सं वदे कदा नु कदा खलु वरुणे देवेऽन्तर्भुवानि

१२०
सायणभाष्यम् । [ Varuna. VII 86.
३।
अन्तर्भूतो भवानि। वरुणस्य चित्ते सलग्नो भवानीत्यर्थः ।
अपि च मे मदीयं हय स्तोत्रं हविर्वा अहणान: अक्रुध्यन्
वरुण, किं केन हेतुना जुषेत सेवेत । सुमना शोभनमनस्कः
सन्नह कदा कस्मिन् काले मृडोकं सुखयितारं वरुणमभि
ख्यम् अभिपश्येयम् ।
हे वरुण तदेन: पापं पृच्छे वा पृच्छामि ।
दिदृक्षु । छान्दसः सुलोपः। द्रष्टुमिच्छन्नहं येन पापन
हेतुना त्वदीयैः पाशैर्बद्धोऽस्मि । पृष्टः सन् तत्यापं कथय ।
अह विपृच्छं विविधं प्रष्टुं चिकितुषः विदुषो जनानुपो
एमि उपागाम् । ते कवयश्चित् क्रान्तदर्शिनी जनाश्च मे
मह्य समानमित् समानमेव आहुः अकथयन् । यदाहु-
स्तदाह। हे स्तोतः तुभ्यमयं ह अयमेव वरुणो हृणोते
क्रुध्यतीति । अत' क्रोधं परित्यज्य अस्मान् पाशेभ्यो मोचय ।
हे वरुण ज्येष्ठमधिकं किमाग आस कोऽपराधी
मया कृतो बभूव यत् येन आगसा सखाय मित्रभूत सन्तं
स्तोतारं जिघाससि हन्तुमिच्छसि। हे दूड़भ दुर्दभ अन्यै-
वाधितुमशक्य स्वधावः तेजखिन् हे वरुण तदागो मे मह्यं
प्र वोचः प्रब्रूहि । एव सति तस्य प्रायश्चित्तं कृत्वा अनेना
अपापः सन्नहं तुरः त्वरमाणः शीघ्रो नमसा नमस्कारण
हविषा वा त्वामवेयाम् उपगच्छेयम् ।
४।

Varuna VII. 86 ] सायणभाष्यम् । १२१ ५। हे वरुण पित्रमा पिटतः प्राप्तानि नोऽस्मदीयानि द्रुग्धानि द्रोहान् बन्धनहेतुभूतान् अव सृज विमुञ्च अस्मत्तो विश्लेषय । वय च या यानि द्रोहजातानि तनूभिः शरोरैश्चक्रम कृतवन्तः स्म तानि च अव सृज। हे राजन् राजमान वरुण पशुटप न तायुं स्तैन्य प्रायश्चित्तं कृत्वावसाने घासादिभिः पशूना तर्पयितारं स्तेनमिव दानो रज्जीवत्सं न वत्समिव च वसिष्ठ मा वन्धकात् पापादव सृज विमुञ्च । ६ । हे वरुण स खो दक्षः पुरुषस्य स्वभूतं तहलं पाप- प्रवृत्ती कारणं न भवति । किं तहिं । ध्रुति: स्थिरा उत्पत्ति- समय एव निर्मिता दैवगति: कारणम् । ध्रु गतिस्थैर्ययोरिति धातु. । सा च ध्रुतिः वक्ष्यमाणरूपा। सुरा प्रमादकारिणी। मन्युः क्रोधश्च गुर्वादिविषयः सन् अनर्थहेतुः। विभौदकः द्यूतसाधनोऽक्षः । स च द्यूतेषु पुरुषं प्रेरयन्वनर्थहेतुर्भवति । अचित्तिः अज्ञानमविवेक कारणम् । अत ईदृशौ दैवक्तृप्तिरेव युरुषस्य पापप्रवृत्तौ कारणम् । अपि च कनीयसः अल्पस्य होनस्य पुरुषस्य पापप्रवृत्तौ उपार उपागते समीपे नियन्तृ- वन खितो ज्यायानधिकः ईश्वरोऽस्ति । स एव तं पाप प्रवर्तयति । तथा चामातम् । एष ह्येवासाधु कर्म कारयति तं यमधो निनौषत इति। एवं च सति स्वप्नश्चन स्वप्नोऽपि अतृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता भवति । इदिति १२२ सायणभाष्यम्।[ Varuna VII. 86 दासो न। पूरक । स्वप्ने कतैरपि कर्मभिर्बहनि पापानि जायन्ते किमु वक्तव्यं जाग्रति कतैः कर्मभि: पापान्युत्पद्यन्त इति । अतो ममापराधो दैवागत इति हे वरुण त्वया क्षन्तव्य इति भावः । ७। मौढुषे सेवे कामाना वर्षित्रे भूर्णये जगतो भर्ने देवाय दानादिगुणयुक्ताय वरुणाय अनागा: तत्प्रसादा- दपापः सन्नहम् अरम् अलं पर्याप्तं कराणि परिचरणं करवाणि । यथा भृत्यः स्वामिने मम्यक् परि- चरति तहत् । अयः स्वामौ स च देव अचित: अज्ञानस्मान चेतयत् चेतयतु प्रज्ञापयतु । ग्टत्म स्तोतार च कवितर: प्राज्ञ- तरो देवः राये धनाय धनप्राप्त्यर्थं जुनाति जुनातु प्रेरयतु । ८। एकादशिने वारुणे पशौ अयमिति पुरोडाशस्था- नुवाक्या। नित च । अयं सु तुभ्य वरुण स्वधाव एवा वन्दस्ख वरुण वहन्तमिति । हे स्वधाव अन्नववरुण तुभ्य त्वदर्थे क्रियमाणोऽयम् एतत्सूतात्मकं स्तोमः स्तोत्र हृदि त्वदीये हृदये सु सुष्टु उपश्रितः उपगतः समवेतोऽस्तु । चिदिति पूरकः । अप्राप्तस्य प्रापणं योग: प्राप्तस्य रक्षणं क्षमः। नोऽस्मदीये क्षेमे रक्षणा शमुपद्रवाणां शमनमस्तु । योगे च नोऽस्मदीये प्रापणे शमु शमनमेवास्तु उपद्रवाणाम् । हे वरुणादयो देवा: नोऽस्मान् सर्वदा स्वस्तिभिरविनाशैः पात रक्षत ।

Mandukās vii, 103. संवत्सरमिति दशचं चतुर्दशं सूक्तं वशिष्ठस्याएं त्रैष्टुभम् । आद्या अजुष्टुप् । मंण्डूका देवता । तथा चानुक्रान्तम् । संवत्सरम् दश पर्जन्य- स्तुति: संदृष्टान्मण्डूकांस्तुष्टाबाद्यानुष्टुविति । वृष्टिकामेनैतत्सूला जप्यम् । अत्र निरुक्त। वसिष्ठो वर्षकामः पर्जन्य तुष्टाव त मण्डका अन्वमोदन्त स मण्डूकाननुमोदमानान् दृष्ट्वा तुष्टाव। मण्डका मज्जका मज्जनान्मदतेर्वा मोदतिकर्मणो मदतेर्वा दृप्तिकर्मणो मण्डय तेरिति वैयाकरणा मण्ड एषामोक इति वा , मण्डो मदेर्वा मुटेर्वा । तेषामेषा भवति । निं ।५ । इति । व्रतचारिणो व्रतं संवत्सरसवात्मकं कम्माचरतो ब्राह्मणाः। लुप्तोपममे- तत् । एवम्भूता ब्राह्मणा इव मवत्सरम् शरत्प्रभृत्या वर्षभेरक संवत्सरम् शशयानाः शिश्याना वर्षणार्थं तप- श्वरन्त इव विल एव सत एते मण्डूका पर्जन्यजिन्विता नि ||६। इति ।

१२४ सायणभाष्यम् । Mandukas VII 103. पर्जन्येन प्रौता यया वाचा पर्जन्यः प्रीतो भवति तादृशों वाचं प्रावादिषुः। प्रवदन्ति । २। दिव्या दिवि भवा आपो दृतिं न दृतिमिव शुष्क नौरम सरसौ। महत्सर: सरसौ। गौरादिलक्षणो डोष् । सरस्या। सुपा सुलुगिति सप्तम्या लुक् । ईदूतौ च सप्तम्यर्थ इति प्रयासंज्ञा। महति सरसि निर्जले धर्मकाले शयानं निवसतमेन मण्डु कगणं यद्यदायन् अभिगच्छन्ति तदात्रा- स्मिन्वर्षण पर्जन्ये वा सति वसिनीनां वत्सयुक्तानाम् गवां न मायुगवा शब्द इव मण्डूकानाम् वग्नुः शब्दः समेति । सङ्गच्छते। यथा वत्सः सङ्गतासु गोषु महान् घोषो जायते तहद्दष्टे पर्जन्ये महान् कलकलशब्दो जायत इत्यर्थः । अहेति पूरकः। उशतः कामयमानास्तृष्यावतस्तृष्णावत एना- मण्डकान् प्रावषि वर्षावागतायामागते सति यद्यदाभ्य- वर्षात् पर्जन्यो जलैरभिषिञ्चति । ईमिति पूरण: तदानी- मख्खलीकृत्य । अख्खल इति शब्दानुकरणम् । अख्खल- शब्द कत्वा पुनः पितरम् न पितरमिवान्यो मण्डको वदन्तं शब्दयतमन्यं मण्डूकमुपैति । प्राप्नोति । ४ । एनोरेनयोईयोमण्डकयोरन्यो मण्डकोऽन्य मण्डूक- मनुगम्य ग्राभ्णाति। राति । अपामुदकानाम् प्रसगें Mandukas VII 103 ] सायणभाष्यम् । १३५ प्रसर्जने वर्षण सति यद्यदामंदिषाताम् हृष्टावभूताम् । यद्यदा चाभिवृष्टः पर्जन्येनाभिषिक्तः कनिष्कन्। स्कन्दतेयङ- लुगन्तस्य रूप। भृशं स्कन्दन्नुत्प्लव कुर्वन् पृश्निः पृश्निवर्णो मण्डू को हरितेन हरितवर्णेनान्येन मण्डकेन वाचं सम्पृक्ते संयोजयति उभावप्येकविध शब्द कुर्वाते । तदानीमन्यो- ऽन्यमनु रभणातीत्यन्वयः ! हे मण्डका: यद्यदेषा युमाकं मध्येऽन्यो मण्डको- ऽन्यस्य मण्डूक स्य वाचं वदति अनुवदति अनुकरोति शिक्ष- माणः शिक्ष्यमाण: शिष्यः शाकस्येव शक्तिमतः शिक्षकस्य वाचं यथानुवदति तहत् । यद्यदा च सुवाचः शोभनबाचो यूयम् सर्वेऽप्सु वृष्टेषदकेष्वध्युपरि प्लवन्तो वदथन वदत शब्द कुरुत तत्तदैषां युष्माक सर्व पर्व परुमच्छरीरं समृधेव समृद्धमेवाविकलावयवमेव भवति । इवशब्दोऽवधारणे । धर्मकाले मृद्भावमापन्ना मण्डकाः पुनर्वर्षण सत्यविकलाङ्गाः प्रादुर्भवन्तीत्यर्थः । ६। एषां मण्डकानाम् मध्य एको मण्डूको गोमायु- गोर्मायुरिव मायुः शब्दो यस्य तादृशो भवति। एकोऽन्यो मण्डकोऽजमायुरजस्य मायुरिव मायुर्यस्य तादृशो भवति । एकः पृभिः पृश्निवर्णः। एकोऽपरो हरितो हरितवर्णः । एवं विरूपा नानारूपा अपि समानमेक मण्डूका इति नाम १२६ सायणभाष्यम् । [Mandukas VII 103 मोम । विनतो धारयन्त. पुरुत्रा वहुषु देशेषु वाचं वदन्तः कुर्वन्त पिपिशुः । अवयवोभवन्ति । प्रादु- भवन्ति । पिश अवयवे। पुरुशब्दाद्देवमनुष्थेत्यादिना त्रा- प्रत्ययः । गत्रिमतीत्य वर्तत इत्यतिरात्रः अतिरात्रे न यथातिरानाख्ये मोमयागे बाह्मणासो ब्राह्मणा रात्रौ स्तु तशस्त्राणि पयायेण शमन्ति हे मण्डका: । हितोयो नशब्दः सम्प्रत्यर्थे । न सम्प्रति पूर्ण सरोऽभित सर्वतो वदंतो रात्रौ शब्दं कुर्वाणा यूयं तदहस्तद्दिन परि परितः सर्वतो भवथ । यदहः प्रावषीण प्रावृषण्यं प्राकृषि भव बभूव तस्मिन्नहनि सर्वतो वर्तमाना भवथेत्यर्थ । सामिनः सोमयुक्ता: परिवत्सरोण सावत्- सरिक गवामयनिक ब्रह्म स्तुतशस्त्रात्मकं कणवन्तः कुर्वन्तो ब्राह्मणासः । लुप्तोपममेतत् । ब्राह्मणा इव वाच शब्द- मक्रत। अक्षतेमे मण्डका। अपि च धर्मिणो धर्मेण प्रवर्ग चरन्तोऽध्वयंवोऽध्वरस्य नेतार ऋत्विज इव सिविदाना: विद्यद्गात्रा गुह्या धर्मकाले विलेऽभिगूढा' केचित् केचन मण्डका न सम्प्रति वृष्टौ सन्यामाविभवन्ति । जायन्ते । है। 'नरो नेतार एते मण्डका देवहितिं देवैः कृतम विधान मस्यौरयं धर्म इत्येवंरूप जुगुपुः । गोपायन्ति ।

Mandukas VII 103] सायणभाष्यम् ।
१२७
न
काले काले रक्षति । अत एव द्वादशस्य हादशमासात्मकस्य
संवत्सरस्यतुं तं त वसन्तादिकम् न प्र मिनन्ति ।
हिंसन्ति । पर्जन्यस्तु तेरनुमोदनेन तत्तत्काले वृष्टिहेतवो
भवतोत्यर्थः । मंवत्सरे सम्पूर्णे प्रावषि वर्षतावागताया-
मागते सति धर्माः पूर्व धम्मकाले वर्तमानास्तप्तास्तापन
पोडिताः सम्प्रति विसर्ग विसर्जनं विलान्मोचनमश्नुवते ।
प्राप्नुवन्ति ।
गोमायुर्गोरिव मायुः शब्दो यस्य तादृशो
मण्डको वसूनि धनानि नोऽस्मभ्यमदात् । ददातु । अजमायु-
श्चादात् ।
ददातु । हरितो हरितवर्णवादात् । ददातु ।
पृश्रि.
पृश्निवर्णश्चाटात् ।
ददातु।
सहस्रसावे।
सहस्रसंख्याका ओषधयः सूयंत उत्पद्यंत इति वर्ष.
सहस्रसाव । तस्मिन् मति मर्वे मण्डका गवा शतान्यपरि-
मिता गा ददतोऽस्मभ्य प्रयच्छन्त आयुर्जीवन प्र तिरन्ते ।
प्रवर्धयन्तु ।
१० ।
तथा

Visve-devas viii. 29. तथा वधुरेक इति दशञ्चं नवमं सूक्तम्। मगेचि- पुत्रः कश्यपो वैवस्वतो मनुर्वा ऋषिः । चानुक्रम्यते। व ईश कश्यपो वा मारीचो द्वैपदमिति। दशापि विपदा विश त्यक्षरा विराजः। पूर्ववदिश्वेदेवा देवता। तृतीये छन्दोमे वैश्व- देवसूक्तात् पूर्वमेव दैपदं सूक्तं शंसनीयम् । सूचाते हि। वधुरेक इति विपदासृतानि पुर- स्तादैश्वदेवसूक्तानाम् । आ० ८७। इति । अत्र दशानामृचां किञ्चित् पदम् लिङ्गात्पृथग्- देवतम् । अत्र प्रथमायाम् वधुरित्यनेन सोमोऽभिधीयते । सौम्य वचमा लभत। तैः स २।१।३।३ इत्यादिषु दृष्टत्वात् । ववधुवर्णः शवलतादिषु परिपक्वः । यहा डुभृञ् धारण- पोषणयो। कुर्मश्च । उ० ११२३ । इति सर्वस्य सुधामयैः किरणैस्तावदुहते चन्द्रमसि दुःखोप- शमनानि पुष्टानि खलु । तादृशो विषुणो विष्वगञ्चन; १ । कुप्रत्ययः ।

Visve-devas VIII 29 ] सायणभाष्यम् ।
१२८
अथवा
सूनर: सुष्छु रात्रीणां नेता। रावयश्चन्द्र नेत्रिका: खलु ।
एतादृशो युवा प्रतिदिवसमाविर्भूतत्वात्तरुण एको देवः
सोमो हिरण्ययं हिरण्मयमजि। अभिव्यज्यते प्रका-
श्यतेऽनेनेत्यंज्याभरणम् । अभिव्यक्तिसाधनम् कुण्डलमुकुटा-
दिकम् स्वशरीरमक्ते। अभिव्यञ्जयति ।
अत्र योनिमिति लिङ्गादग्निरुच्यते। अग्नये
रहपतय इत्यादिषु दृष्टत्वात् । देवेषु देवानामन्तमध्ये
द्योतनः खतेजसा दौप्यमानो मेधिरो मेधावी।
मेधाकांक्षिणाम् स्तोतॄणाम् मेधादाटत्वेन मेधायुक्तः ।
एवम्बिध एकोऽग्नियौनिं
स्थानभूतमाहवनौयादिकमा
ससाद । हवि:खोकरणार्थमासौदति ।
३। देवेष्वन्तर्देवानाम् मध्ये द्योतमानो निध्रुवि-
निश्चले स्थान वर्तमानः । यहा । नितरां गमनमस्यास्तीति
निध्रुविः सर्वदा गच्छन् । अथवा संग्रामेषु शत्रूणां पुरतो-
ऽतिशयेन स्थैर्यवान् । एतादृश एकस्त्वष्टुनामकोः देव
प्रायसीमयोमयधारां वाशौं। वा” शब्दे। शब्दयत्या-
क्रन्दयति शत्रूननयेति वाशी तक्षणसाधन कुठारः ।
तं
खकौये हस्ते विभर्ति | धारयति ।
अत्र वजलिङ्गादिन्द्रो देवता। एक इन्द्र आहि-
तम् खकीयहस्ते निहितम् वजमेतनामकमायुधं विभर्ति।
४।

१३० सायणभाष्यम् । [Visve-devas VIII 29 धत्ते। शुचिः। यहा। यहा। स एवेन्द्रस्तेन निहितेन वज्रेण नाण्यावरकाणि रक्षासि पापानि वा जिन्नते। भृश हन्ति। अत्र जलाषभेषज इत्यनेन रुद्रोऽभिधीयते । शुच दीप्तौ। सर्वतः स्वतेजसा दौप्यमानः । शुच शोके । शत्रूणाम् शोचयिता दुःखयिता । अत एवीन उगवलो जलाषभेषजो रोगापनयनन सुख- करभैषज्यवान् । स्तोतृणाम् दुःखरूपसंसार- च्छेदनेन सुख कारिभिषग्रूपः । प्रथमो दैव्यो भिपगिल्या- दिश्रुतिभिरस्य भिषत्वं श्रूयते । तादृश एको रुद्रस्तिग्म तीक्ष्णधारमायुधम् । आयुष्यति संग्रहरति शत्रूननेनेत्यायुधम् । पिनाकः। तं स्वकीये हस्ते विभर्ति । ६ । पथ इति लिङ्गेन पूषा निगद्यते। सं पूषन्नध्वनस्तिर। ऋ० ११४२।१। इत्यादिषु दृष्टत्वात् । एकः पूषनामको देवः पथो मार्गान् पौपाय। प्यायतिवर्धनकर्माप्यन रक्षणार्थः । येऽग्निहोत्रादि कर्म कुर्वन्ति तेषा वर्गमार्ग ये दुष्कृतं कम्म कुर्वन्ति तेषा यातनामागं च रक्षति । उभयेषा मार्ग- विपर्ययो यथा न भवति तथा पालयतीत्यर्थः । एष सोऽयं प्रषा निधौनाम् पृथिव्याम् निहितानि धनानि वेद । वेत्ति । ज्ञात्वा स्तोतृणाम् तानि ददातीत्यर्थः । तस्करो यथा । यथा चोरः पथि गच्छताम् पुरुषाणाम् अत्र दृष्टान्तः।

Visve-devas VIII 29] सायणभाष्यम् । पा० धनहरणार्थम् मार्ग रक्षति तथा च स चोरो रहे निहितानि जात्वा तदाहृत्य स्वसहायेभ्यो यथा तानि ददाति तहत् । उरुगायो वि चक्रम इति पदलिङ्गाविष्णुरुच्यते । उरुगाय उरुभिर्बहुभिर्गातव्यः । यहा। वहुषु देशेषु गन्ता वहुकोतिर्वा । सर्वाञ्छत्रून् स्वसामर्थेन शब्दयत्या- क्रन्दयतौति वोरुगायः । एतादृश एकोऽसहायो विष्णुस्त्रीणि पदानि भुवनानि वि चक्रमे । साधु पादेन विक्रान्तवान् । वेः पादविहरणे । १३.४७। इति क्रमतरात्मने- पदम् । यत्र येषु लोकेषु देवास इन्द्रादयो देवा मदन्ति यजमानदत्त विनिर्माद्यन्ति तानि वि चक्रम इत्यन्वयः । एकया सहेति लिङ्गादखिनाभिधीयते। हा हौ दिवसंख्योपेतावश्विनौ विभिः । वी गत्यादिषु । किम् । छान्दसों गमनसाधनैरखैश्चरतः। सञ्चरेते । किञ्चेमावश्विनावकया सूर्य्याख्यया ताभ्या स्वयवतया स्त्रिया सह प्र वसतः। प्रवास सर्वत्र गमनम् कुरुतः। प्रवासे प्रवासेव। यथा प्रवासिनौ हौ पुरुषावकया स्त्रिया सह प्रवसतस्तहत् । समाजाविति लिङ्गेन मित्रावरुणावभिधीयते । उपमोपमो परस्परम् स्वकान्त्योपमानभूती । यहा। उप- मौयत आभ्याम् सर्वमित्युपमौ सर्वस्य । एतावेव समाजा दृष्टान्तः।

१३२ सायणभाष्यम् । [ Visve-devas VIII 29. समाजौ सम्यगौप्यमानौ सर्पिरासुती। सर्पिघृतमाभ्याम- सूयत इति सर्पिरासुतौ। घृतहविष्कौ हा हौ मित्रावरुणौ दिवि द्युलोके सदः। सौदन्त्यत्रेति सदः स्थानम् तच्चक्राते । अकाष्टाम् । १०। एकऽत्रयो महि महत्साम त्रिवृत्यञ्चदशादि मन्वत। अमन्वत । तदेवार्चन्तः पूजयन्त एतादृशा अत्रय- स्तेनोक्तेन साम्ना सूर्यमरोचयन् । अदीपयन् । त एवान देवता। -

जगतीति । सूक्तविनियोगो लैङ्गिकः ।
SOMA VIII. 48.
खादोरभक्षौति पञ्चदश, षष्ठं सूक्तं काण्वस्य
प्रगाथस्थाई सोमदेवताक त्रैष्टुभम् । पञ्चमी
जगती। सोमो देवता। तथा चानुक्रान्तम् ।
खादोः पञ्चोना ग्रगाथः सौम्यं त्रैष्टुभं पञ्चमी
षष्ठा.।
१। अह प्रगाथः सुमेधा. शोभनप्रज्ञः स्वाध्यः स्वाध्ययनः
सुकर्मा वरिवोवित्तरस्यातिशयेन पूजां लभमानस्य खादोः
अष्ट्दनीयस्य स्वादुभूतस्य वयसोऽन्नस्य ।
वस्थ। एताः कर्मणि
उक्तलक्षणं वयोऽन्नं सोमाख्यमभक्षि। भक्षयेय ।
य यदन्न विश्वे देवा: सर्वेऽपोन्द्रादय उतापि च मासो
मा मनुष्या मधु ब्रुवन्ती मनोहरमैतदिति शब्दायन्तोऽभि
सञ्चरन्ति अभिसङ्गच्छन्ते प्राप्नुवन्ति तदनमभक्षौति ।
२। अग्नीषोमप्रणयनेऽन्तश्चेत्येषा। तथा च नितम् ।
अन्तश्च प्रागा अदितिभवासि श्येनो न योनि सदनं धिया
इति।
कतम् । आ० ४।१०।

१३४ सायणभाष्यम् । [Soma VIII 48. हे सोम त्वमन्तश्च प्रागाः हृदयस्य यागागारस्य वान्त- गच्छसि । गत्वा चादितिरदौनस्त्वं दैव्यस्य हरस. क्रोधस्या- वयाता पृथक्कर्ता भवासि । भवसि हर इति क्रोध- नाम। हे इन्दो सोम त्वमिन्द्रस्य मख्य जुषाण : सेवमान: श्रौष्टी श्रुष्टीति क्षिप्रनाम । तत्सम्बन्धी श्रौष्टी । चिप्रगाम्यश्खो धुरमिव रायेऽस्माकं धनलाभायान्वृध्याः । अनुगच्छमि। अथवाखो यथा धुरं वृत्त्वाभिमतदेश प्रापयति तहटस्मान् प्रापय । अनुपूर्व ऋधिगत्यर्थ । ३ । अपाम सोममित्यादिके हे सोमपानोत्तरकालीनास्या- भिमर्शने हृदयाभिमर्शने च क्रमेण विनियुक्त। तथा च सूत्रितम् । अपाम सोमममृता अभूम शं नो भव हृद आपीत इन्दविति मुखहृदये अभिमशेरनिति । हे अमृतामरण सोम वामपाम। पानं करवाम। करवाम । कुर्म । ततोऽमृता अभूम । भवेम । यम्मात्त्व- ममृत: अतस्तव पानाहयमप्यता: स्याम । यथाज्जयोति- ोतमान स्वर्गमगन्म । अविदाम ज्ञातवन्तो देवान् । तथा- भूतानस्मानूनमिदानौमराति. शत्रुः कि कणवत् । कुयात् । किमु किं वा मर्त्यस्येदानों मनुष्यभूतस्य मम धूतिहिंसक: किं कणवत् । कुयात् । हे इन्दो सोम अस्माभिः पौतस्व नोऽस्माकं ४।

१३५
Soma VIII 48 ] सायणभाष्यम ।
हृदे हृदयाय शं सुखमा भव । सुखभवने दृष्टान्तयम् ।
पिता सूनवे स्वात्मजाय यथा सुखाय भवति यथा वा सखा-
हिताविवर्त्य हित स्थापयिता सखायं स्वसख्ये यथा सुशेवः
सुसुखो भवति । शेवमिति सुख-नाम। तहत्त्वमपि भव ।
कि च हे उरुशम बहुभिबहुधा वा शसनीय बहुकौते सोम
धोरो धीमास्त्वं नोऽस्माक जीवसे जौवनायायुरायुष्य प्र
तारी । प्रवर्धय ।
इमे पीता यशसो यशस्करा उरुष्यवोऽस्माकं
रक्षाकामाः सोमा गावो गोविकारभूता बध्यो रथं न
रथमिव । ता यथा रथं विस्रस्तं पर्वसु समनाह सन्दधते
तहमा पोताः सोमाः पर्वसु सन्नह्यन्तु। किञ्च ते सोमा
मा मी विस्तसो विस्रस्ताच्चरित्राचरणादनुष्ठानाट्रक्षन्तु ।
सोम; पीतश्चेत्कर्म ह्यविस्त्रस्तं भवति । उतापि च मा मा
सामागाधेः सकाशादिन्दवः पीता यवयन्तु पृथक्कुर्वन्तु ।
६। है सोम पौतस्त्व मा मां मथितमग्निं नाग्निमिव
सन्दिट्टीप'।
मन्दीपय । प्र चक्षय च चक्षुष' सन्धुक्षणेन
नोऽस्मान् वस्य सोऽतिशयेन वसुमतः कणुहि ।
कुरु।
अथाधुना हि खलु ते. त्वा हे सोम मदे मदाय मान्ये ।
सति रेवानिव धनवानिव। इवेति सं-
प्रत्यर्थे । पुष्टिमस्मत्योषमच्छ प्र चर | अभिगच्छ ।
स्तोमि ।
নষ্ঠ

१३६
सायणभाष्यम् । [Soma VIII 48
।
७। इषिरणेच्छावता मनसा सुतस्य ते सुतमभिषुतं
त्वा भक्षीमहि । पिनास्य पिटसम्बन्धिनो धनस्येव धनमिव ।
पिना धनं यथैषणेन मनसोपभुञ्जते तहत् । भक्षित हे
सोम राजन् स्वामिन् नोऽस्माकमायूंषि प्र तारौः । प्रवर्धय ।
वासराणि जगदास कात्यहानि सूर्य इव । अत्रेषणेन वैषणेन
वार्षणेन वा । नि० ४।७। इत्यादि निरुतं ज्ञातव्यम् ।
८। हे सोम
राजन् नोऽस्मान् स्वस्त्य विनाशाय मृडय।
सुखय च। व्रत्या वतिनो वयं तव स्मसि ।
खभूताः
स्म । तस्य लं खकौयं तव विद्धि । जानोहि। अथवा तव
बमित्यर्थः । त्व जानीहि। किं च है इन्दो दक्षः प्रवृद्धो-
ऽस्मच्छरलति । गच्छति । उतापि च मन्यः क्रोधः क्रुद्धो
बालति। तादृशस्योभयविधस्यार्योऽररनुकाम यथाकामं
नोऽस्मान्मा परा दाः । परादेहि ।
। हे सोम देव वं नोऽस्माक तन्वस्तनोरङ्गस्य गोपा
हि रक्षिता खलु । अतो गाने गात्रे सर्वेष्वङ्गेषु नृचक्षा तृणा
कमनेतृणां द्रष्टा त्वं निषसस्थ । निषोदसि यद्यद्यपि ते तव
व्रतानि कर्माणि वयं प्रमिनाम हिंस्मः तथापि हे देव स त्वं
वस्यः श्रेष्ठानोऽस्मान् सुषखा शोभनसखा सन् मृड़। सुखय ।
१०। अहं प्रगाथ ऋदूदरेणोदराबाधकेन सोमेन
सख्या सचेय । सङ्गच्छेय । सङ्गतो भवामि। ऋदूदरः सोमो

Soma VIII 48] सावणभाष्यम्। १३७ मृदूदरः । नि० ६।४ । इति यास्कः । यः सोमः पौतः सन् मा मां न रिष्येत् न हिंस्येत् है हयखेन्द्र । सौम्ये सूक्त इन्द्रस्य कीर्तनं सोमस्येन्द्रस्वामिकत्वान्न विरुद्धम् । योऽयं सोमोऽस्मे अस्मासु न्यधायि निहितोऽभूत् तस्मै सोमाय प्रतिरमायुर्जठरे चिरकालावस्थानमिन्द्र मे मि । याचे । ११ । त्यास्ता अनिरा: प्रेरयितुमशक्या अमीवा बलवत्यः पौडा अपास्थः । अपगच्छन्तु । यास्तमिषौचौबलवत्योऽस्मानि- नितरामत्रसन् प्राप्नुवन् कम्पयन्ति तथाभैषुः। अपगमे कारण- माह। यस्मात् सोमो विहाया महान् सन्नस्मानारुहत् आग- मत् प्राप्तवान् अतोऽपास्युरिति भावः । यत्र यस्मिन् सोमे पौत आयुरायुष्य प्रतिरन्ते वर्धयन्ति मनुष्यास्त सोममगन्मेति । १२। हे पितरः य इन्दुहूं त्सु पौतः सन्नमो मृति- रहितः सन्नाविवेश मान्नोऽस्मान् तस्मै सोमाय हविषा परिचरेम। अस्य सोमस्य मृडौके सुखे सुमती चानुग्रहबुद्दौ च स्याम । भवेम । १३ । महापिटयन्ते सोमाय पिटमते पुरोडाशमित्यत्र वं सोमेति याज्या। सूत्रित च । व सोम पिटभिः सविदानी वर्हिषदः पितर अत्याक् । आ० २।१८ । इति । दृतीय- सवने सोमस्य चरोरपौयं याज्या। त्वं सोम पिटभिः संविदान इति सौम्यस्य । प्रा० ५।१८ । इति हि सूत्रितम् । वधेम।

१३८ सायणभाष्यम् । [Soma VIII 48 हे सोम त्वं पिटभिः सह संविदान: सगच्छमानी द्यावा- पृथिवी द्यावापृथिव्यावन्वा ततन्य । क्रमेण विस्तारयसि । तस्मै सोमाय हविषा विधेम परिचरेम। वयं रयीणां धनानां पतयः स्याम । भवम । १४। हे वातारो रक्षितारो हे देवा: नोऽस्मानधि- वोचत । अधिवचनं कुरुत। किञ्च नोऽम्मानिद्राः स्वप्ना मेशत। ईखरा मा भूवन् वाधितुम् । उतापि च जल्पि- निन्दकोऽस्मान्मा निन्दतु । वय सोमस्य प्रियास: प्रियाः स्याम विश्वह सर्वेष्वप्यहःसु । सर्वदेत्यर्थः । सुवोरास: शोभन- पुत्राः सन्तो विदथं स्तोत्रमा वदेम। आभिमुख्येन वदेम । अथवा। सुपुत्रा विदथं एहमा वदेम। आवदनं पुत्र- पौत्राणां धनेनोपच्छन्दनम् । १५। त्वं न सोम विखत इति सौम्ये पशौ हविषो- ऽनुवाक्या । सूत्रितं च । त्वं नः सोम विश्खतो वयोधा या ते धामानि दिवि या पृथिव्याम् । आ० ३।७ इति । हे सोम वं नीऽस्माकं विश्वतः सर्वाभ्यो दिग्भ्यो वयोधा अन्नदाता। तथा त्वं स्ववित् स्वर्गलम्भको नृचक्षाः सर्वमनुष्य- द्रष्टा त्वमा विश। हे इन्दो त्वं सजोषाः सह प्रोयमाणः सनूतिभिः सह । अथवोतया गन्तारा मरुतः। तैः सहितः सन् पश्चातात् पश्चादुत वा पुरस्ताञ्च पाहि ।

Funeral Hymnx.14, -- परेयिवांसमिति षोड़श, चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षम् । अङ्गिरसो नः पितरो नवग्वा इति षष्ठया अङ्गिरः पित्तथर्वभृगुलक्षणा लिङ्गोता देवताः। प्रेहोत्याद्यास्तिस्रो लिङ्गोता- देवताकाः पिटदेवताका वा। अति द्रव सारमेया- वित्यादिकस्तच सरमापुवौ यौ श्वानी परलोक- मार्गमभित: स्थिती तद्देवताकः । शिष्टा यम- देवत्याः। यमाय सोममिति त्रयोदण्याद्या अनु- ष्टुभः। यमाय मधुमत्तममित्येषा वृहती। आदितो द्वादश त्रिष्टुमः । तथा चानुक्रान्तम् । परेयिवांसं षोड़श यमो याम षष्ठी लिङ्गोतादेवता पराश्च तिसः पित्रया वा ढच. पूवभ्यां परा अनुष्टुभो वृहत्युपान्त्येति। गत: सूक्तविनियोगः। महापिट- यन्ने यमयागाख्या याज्या। सूवितं च। इमं १४० सायणभाष्यम् । [Funeral Hyma x 14. यम प्रस्तरमा हि सौदेति हे परेयिवांसं प्रवतो महीरन्विति । १। हे मदीयान्तरात्मन् यजमान वा त्वं राजानं पितॄणा स्वामिनं यम हविषा पुरोडाशादिना टुवस्य परिचर। कीदृशम् । प्रवत: प्रकृष्ट कमवतो भूलोकवतिभोगसाधनं पुण्यमनुष्ठितवत: पुरुषान्महीः तत्तभोगोचितभूप्रदेशविशेषा- ननु परेयिवास क्रमेण मरणादूर्ध्व प्रापितवन्तम् तथा वहुभ्यः स्वर्गार्थिभ्यः पुण्यकाः पुण्यकृतार्थे पन्था स्वर्गस्योचित मागमनुपस्पशानमवाधमानम् । पापिन एव पुरुषान् स्वर्ग- मार्गवाधेन नरकं प्रापयति न तु पुण्यकृत इत्यर्थ.। वैवस्वतं विवस्वतः सूर्यस्य पुत्र जनाना पापिना सङ्गमनं गन्तव्य- स्थानरूपम । प्रथमः सर्वेषा मुख्यः यम: नोऽस्माकं प्रजाना गातुं शुभाशुभनिमित्त विवेद जानाति । एषा गव्यति- पभर्त्तवा उ। अतिशयज्ञानयोगाद्यमस्य न केनचिद- पहर्तुमपनेतुं शक्यत इत्यर्थः । यत्र यस्मिन्मार्गे नोस्माकं पूर्वे पितरः परयुः । एना अनेन मार्गेण गच्छन्ती जनाना जाता: सर्वे स्वाः स्वभूताः पथ्याः स्वकर्ममार्गभूतागती- रनु गच्छन्ति ।

Funeral Hymn X. 14 ] सायणभाष्यम् । १४१ ३। आग्निमारुते मातली कव्यरित्वेषा धाय्या । सूत्रितं च । इमं यम प्रस्तरमा हि सौद मातलो कव्ययमो अङ्गिरोभिरुटीरतामवर उत्परास इति । मातली। मातलिरिन्द्रस्य सारथिः । तहानिन्द्रो मातली। स कव्यः कव्यभाग्भिः पिटभिः सह ववधानी वर्धमानो भवति । यमचागिरोभिः: पिटविशेषैः सह वर्धमानो भवति । तत्र देवा इन्द्रादयो याश्च कव्यभागादौन्- पितॄन्ववधुवर्धयन्ति ये च कव्यभागादयः पितरो टेवानिन्द्रा- दीन्वर्धन्ति तेषां मध्ये अन्ये इन्द्रादयः स्वाहा मदन्ति स्वाहाकारण हृष्यन्ति अन्ये पितरः खधया स्वधाकारण हृष्यन्ति । ४। महापिटयजे यमस्य इमं यमेत्यादिके हे अनु- इम यमेत्येषाग्निमारतेपि धाय्या। सूत्रं पूर्व- मेवोदाहृतम् । हे यम अङ्गिरोभिः एतनामके पिटभिः संविदान: ऐकमत्यं गतः त्वमिमं प्रस्तरं विस्तीर्ण यज्ञविशेषम् आसौद पागत्योपविश। हि यस्मादेवं तस्मात्कविशस्ता विभि- विभिः प्रयुक्ता मन्त्रास्त्वा त्वाम् आ वहन्तु। है राजन् एना एतेन हविषा तुष्टो मादयस्व यजमानं हर्षय । ५। है यम वैरूपैः विविधरूपयुक्त रूपसामप्रियैर्वा वाक्ये।

१४२ सायणभाष्यम् । [Funeral Hymn X 14. । यजियेभिः यज्ञयोग्यः अङ्गिरोभिः सह आ गहि आगच्छ । आगत्य च इह अस्मिन्यज्ञे मादयस्व । यजमानं हर्षय यो विवस्वांस्ते तव पितास्ति अस्मिन् यज्ञे तं विवस्वन्तं हुवे आह्वयामि । स चास्तौणे वर्हिषि प्रा निषद्योपविश्य यजमानं हर्षयतु। ६। अङ्गिरसः अगिरोनामका: अथर्वाण: अथर्व- नामका: भृगवः भृगुनामकाच नोऽस्माकं पितरो नवग्वा अभिनवगमनयुक्ता। यहा नूतनवप्रीतिजनका इत्यर्थः । ते च सोम्यासः। सोममहन्तीति सोम्याः। यज्ञियानां यज्ञार्हाणां तेषां सुमती अनुग्रहयुक्ताया वुद्धौ वथ स्थाम सर्वदा तिष्ठेम। ७। सत्त्रमध्ये दौक्षितस्य मरणे प्रेहोत्याद्याः पञ्चच- स्तृतीयावर्जिता होना शसनीयाः । सूचितम् च। प्रेहि प्रेहि पथिभिः पू] भिरिति पञ्चाना टतौयामुद्धरेदिति । यत्र यस्मिन् स्थाने नोऽस्माक पूर्वे पुरातनाः पितरः पितामहादयः परे युः । पूर्थेभिः पूर्वस्मिन् काले भवैः । अनादिकालप्रवृत्तरित्यर्थः । पथि भिर्मार्गः हे मत्यितस्तत्- स्थान प्रेहि प्रगच्छ शीघ्र गच्छ । नेन मदन्ता मदन्ती टप्यन्तो राजाना राजानौ उभा उभौ यमं देवं द्योतमानं वरुण च पश्यासि पश्य । गत्वा च स्वधया अमृता- Funeral liyilm X 14 ] सायणभाष्यम् । १४३ तत इष्टा- हे मदीय पित: ततस्तं परमे उत्कृष्टे व्योमन् व्योमनि स्वास्ये स्थाने स्वभूतै पिटभिः सह सं गच्छव। इष्टापूर्तेन श्रातस्मात्तदानफलेन मं गच्छस्व । पूर्तेन महायम्य अवद्य पापं हित्वा परित्यज्य अस्तं ब्रिय- मानाख्य एहमेहि प्रागच्छ। तत: सुवर्चाः। तीयार्थे प्रथमा। सुवर्चमा शोभनदीप्तियुक्तन तन्वा स्वशरीरेण पैटमेधिक कर्मणि श्मशानायतनं प्रोक्षयपत वौतेति। सूत्रितं च। गर्बोदकेन शमौशाखया प्रसव्यमायतन परिव्रजन् प्रोक्षत्यपेत वौत वि च सर्पतात इति । श्मशाने पूर्व स्थिता हे पिशाचादयः अतः अस्मान् मृतय- जमानदहनस्थानादपत अपगच्छत । वीत विशेषण गच्छत । वि सर्पत च । इदं स्थानं परित्यज्य नानाभावेन दूरतर देशं गच्छतित्यर्थः । पितरः अस्म मृतयजमानस्यार्थाय एतं लोकमिदं दहनस्थानम् अक्रन् यमस्याज्ञया अन्वकुर्वन् यमोप्यहोभिर्दिवसः अद्भिः अभ्युक्षणोदकैः अक्तुभिः रात्रि- भिव्यक्तं सङ्गतम् । शुद्धिनिमित्तै कालोदकादिभिः शोधित- मित्यर्थः । अवसानं दहनस्थानम् अवसानं दहनस्थानम् अस्मै मृतयजमानस्यार्थाय ददाति दत्तवान् ।

१४४ सायणभाष्यम् । [Funeral Hymn X 14. अनुस्तरण्या हक्की पाश्वयोराम स्त्रिफलाकती। तावुद्धृत्य प्रेतस्य हस्तयोनिदधात्यति द्रव सारमेयाविति हाभ्याम् । मूत्रितं च। वृक्कावुद्धृत्य पाण्योरादध्यादति द्रव सारमेयौ श्वानाविति । हे अग्ने साधुना पथा समोचौनेन मार्गेण खानावुभौ अति द्रव अतिक्रम्य गच्छ। यमसम्बन्धिनौ यो श्वानौ प्रेतस्य वाधको तो परित्यज्य समोचौनेन मार्गेण प्रेतं नये- त्यर्थः कोशी खानौ। सारमेयौ। सरमा नाम काचित् प्रसिद्धा देवशुनो। तस्याः पुत्रौ चतुरक्षौ उपरिभागे पुन- रप्यतिवयं ययोस्तादृशौ । अथ शोभनमार्गेण गमना- नन्तरं ये पितरो यमेन सधमादं सहर्ष मदन्ति प्राप्नुवन्ति तान् सुविदत्रान् सुष्टुभिज्ञान् पितॄन् उपेहि उपगच्छ। ११। हे राजन् हे यम ते त्वदीयौ यो श्वानौ विद्येते ताभ्यां हे राजन् यम एनं प्रेतं परि देहि रक्षणार्थ प्रयच्छ । कौदृशौ खानो। रक्षितारौ यमरहस्य रक्षको चतुरक्षौ अक्षिचतुष्टययुक्तौ पथिरक्षो मार्गस्य रक्षको। नृचक्षसौ मनुष्यैः ख्याप्यमानौ। श्रुतिस्मृतिपुराणाभिज्ञाः पुरुषाः तौ प्रख्यापयन्ति । ताभ्या खभ्यां दत्त्वा अस्मै प्रेताय स्वस्ति च क्षेममपि अनमोवं च रोगाभावमपि धेहि सम्पादय । १२। यमस्य सम्बन्धिनौ दूतौ खानौ जना अनु

१४६ सायणभाष्यम् । Funeral Hymn X 14
ज्योतिौरायुरिति त्रयो यागविशेषास्त्रिकद्रुका उच्यन्ते ।
तान् प्रत्यङ्गभावाय संरक्षणार्थ च पतति ।
यमः तान्
प्राप्नोति। षट्सख्याका उर्वोः भूमौः कृताकृतप्रत्यवेक्षणाय
प्राप्नोति । ताश्चोर्यः शाखान्तरमन्ले समानाताः । षण्मोझेर
हंसस्यान्तु द्यौश्च पृथिवो चापश्चौषधयश्चोक् च सुनृता चेति ।
एकमित् एकमेव वृहत् महत् जगत् यमच प्रतिपालनीयः
प्राप्नोति । किं च यानि त्रिष्टुवगायनयादौनि छन्दासि सन्ति
सर्वाणि तानि छन्दासि यम आहिता आहितानि ऋत्विग्भिः
स्तुतित्वेनावस्थितानि।

PITARAS X. 15. उदोरतामिति चतुर्दशचं पञ्चदशं सूक्तम् । अत्रानुक्रम्यते। उदौरताम् षडूना शङ्खः पित्रा जगत्येकादशी। यामायनाः परे पञ्चेति वचनाद्य- मपुत्रः शंखाख्य ऋषिः। अग्निष्वात्ता इत्येषा जगतौ शिष्टास्त्रिष्टुभः । पितरो देवता। गतः सूक्तविनियोगः । अष्टकायामुदौरतामवर इत्याद्या अष्टाचो होमार्थाः । सूवितं च । उदीरतामव उत्परास इत्यष्टाभिहुवा। महापिटयने पितर: सोमवन्त इत्यस्यानुवाक्योदोरतामित्येषा। सूवितं च। पितरोऽग्निष्वात्ता यम उदीरतामवर उत्- परासः । आ० २।१६। इति। आग्निमारते. ऽप्येषा धाय्या। सूत्रितं च । मातली कव्यैर्यमो अगिरोभिरुदीग्तामवर उत्परासः । आ० ५।२० । इति ।

१४८ सायणभाष्यम् । | Pital as X. 15. १। त्रिविधाः पितर उत्तमा मध्यमा अधमाश्चेति । यथाविध श्रोतं कर्मानुष्ठाय पिटत्वम् प्राप्ता पिटत्वम् प्राप्ता उत्तमाः । स्मार्तकर्ममात्रपरा मध्यमाः । अत्रापि कैश्चित्संस्कारैर्विकला अधमाः । एतदेवाभिप्रेत्य ये अग्निदग्धा ये अनग्निदग्धा इत्यादि मन्त्र आन्नातः। तेष्ववरे निकष्टा उदौरताम् । उत्तमं हवि प्राप्नुवन्तु । परास उत्तमा पितर उदौरताम् । मध्यमा पितरश्चोदौरताम् । ते सर्वेऽप्यस्मद्विषये सोम्यासः सोम्या अनुग्रहपराः सन्तु। ये पितरोऽवका वृकवदरण्यश्व- वदस्मासु हिंसामकुर्वन्त ऋतज्ञा अस्मद नुष्ठितं यत्नं जानन्तो- समस्मत्प्राणमीयुः रक्षितुं प्राप्ताः ते पितरो हवेवस्मोयेण्या- ह्वानेषु नोऽस्मानवन्तु । रक्षन्तु । २। महापिटयने पितरो वहिषद इत्यस्येदं पितृश्य इति द्वितीयानुवाक्या । सूत्र तु पूर्वमेवोदाहृतम् । इदं पिटभ्य इत्येषा धाय्या । सूत्रितञ्च । आह पितॄन्त्सुविटचा अविसौदं पिटभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रः । श्रा० ५।२० । इति । पूर्वासो यजमानोत्पत्तेः पूर्वमुत्पन्ना ज्येष्ठस्त्रापितामहा- दयो य ईयुः पिटलोक प्राप्ताः । ये चान्य उपरासो यजमान- जन्मन उपर्युत्पन्नाः कनिष्ठचाटवपुत्रादय ईयुः पिलोक प्राप्ताः। येऽप्यन्ये पार्थिवे पृथिवीसम्बन्धिनि रजसि रजो- सायणभाष्यम। १४८ तादृशीषु । Pitaras X. 15 ] गुणकार्येऽस्मिन् कमण्या निषत्ता हवि: स्वीकर्तुमागत्योप- विष्टा'। ये वा केचिदन्ये बन्धुवर्गरूपाः पितरो विक्षु बन्धु- रूपास प्रजाखा निषत्ता: श्राद्धादिस्वीकारायागत्योपविष्टाः । कौशीषु विक्षु । सबजनासु । वृज्यत परित्यज्यत दारिद्रा- मनेनेति वजनं धनम्। शोभन वजन यासां ता सबजनाः । धनसमृद्ध्या भावादिकमपराखित्यर्थः । सर्वेभ्य उक्तभ्यः पितृभ्योऽद्यास्मिन् कर्मणीद नमोऽस्तु । अयमाहुति- प्रदान पूर्वको नमस्कारो भवतु । अहं यजमान: सुविदत्रान् मदीया भक्ति सछु जानत पितॄनवित्मि। आभिमुख्येन लब्धवानस्मि । विष्णो- ापिनो यज्ञस्य नपातं च विनाशाभावं च विक्रमणं च विशेण प्रवृत्तिं च लब्धवानस्मि । ये पितरो वहिषदो वहिषि सौदन्ति त इहास्मिन् कर्मण्यागमिष्ठाः। अतिशयेनागताः । आदरपूर्व समागत्य स्वधया पुरोडाशाद्यन्नेन सह सतस्या- भिषुतस्य मोमलक्षणस्य पित्व: पितोरन्नस्य भाग भजन्त । सेवन्ते । उपयुञ्जते। हे वहिषदः । यज्ञे सौदन्तौति वर्हिषदः । अत्रापि ये वै यज्वानस्ते पितरो वहिषट इत्यत्र श्रुतत्वाद्यागं कृत्वा प्रेत्य पिलोकं प्राप्ता वहिषदः । तादृशा है पितरः अर्वा- गर्वाचौनानामस्माकमूतौ रक्षा भवद्भिः कर्तव्येति शेषः । ।

१५० सायणभाष्यम् । [ Pıtaras X 15 वो युस्मदर्थमिमा हव्यैतानि हवींषि चक्कम । अतस्तानि जुषध्वम् । ते हविर्जुष्टवन्तो यूयं शन्तमेन सुखतमेनावसा रक्षणेन निमित्तभूतेना गत। आभिमुख्येनास्मान् प्राप्नुत । अथानन्तरं नोऽस्मभ्य शं सुखं योर्दुःखवियोगमरप: पाप- रहित च दधात । दत्त । महापिटयज्ञे पितरः सोमवन्त इत्यस्य याज्यो- पहताः पितर इत्येषा। सूत्रित च । उपइता: पितरः सोम्यासस्त्व सोम प्र चिकितो मनीषा। प्रा० २।१८। इति। सोम्यासः सोम्या अस्मदनुग्रहपराः सोमसम्पादिनो वा पितरो वहिष्थेषु यागाहेंषु प्रियेषु प्तिकरेषु निधिषु निधि- सदृशेषु हविःषु निमित्तभूतेषु सत्सू पहता अस्माभिराहतास्ते पितर भा गमन्तु । आगच्छन्तु । आगत्य चेहास्मिन् कर्मण्य- स्माभि. प्रयुक्ता स्तुती. अवन्तु । शृण्वन्तु । श्रुत्वा चाधि ब्रुवन्तु । साधुरय यजमान इत्यादरेण कथयन्तु । ते तादृशाः पितरोऽस्मानवन्तु । रक्षन्तु । ६। पितृणामयं स्वाभाविको धर्म: । अथैनं पितरः प्राचौनावौतिनः सव्य जान्वाच्य। शतं २।४।२।२। इति वचनात् । हे पितरः विश्वे सर्वे यूयं जान्वाच्य भूमौ निपात्य दक्षिणतो दक्षिणपाखें निषद्योपविश्येममस्मदीयं यज्ञमभि Pitaras X 15 ] सायणभाष्यम् । १५१ गुगौत। अभिष्टुत । विशिष्टटप्तियोगात्परया प्रोत्या सगुणोऽयं यज्ञ इति प्रशसतेत्यर्थः । अपि च वो युस्माक यत्किञ्चित्कर्मवैगुण्यजनितमागोऽपराध पुरुषता मनुष्यत्वेन हेतुना कराम वयं कृतवन्त' हे पितरः तेन केन चिदण्य- पराधेन नोऽस्मान्मा हिंसिष्ट । ७। अरुणोनामारोचमानाना ज्वालाना वा देवतानां वोपस्थे समीपस्थाने वेद्याख्य आमोनास उपविष्टाः पितरः यूयं दाशुषे हविर्दत्तवते माय मनुष्याय यजमानाय रयिं धन धत्त । दत्त । हे पितरः यूयं तस्य यजमानस्य पुत्रेभ्यो वम्वो वसु धनं प्र यच्छत । ते तादृशा यूयमिहास्मिन्नस्मदोगे कर्मण्यूज धनं दधात । निधत्त । ८। सोम्यासः सोमसम्पादिनो वसिष्ठा वस्तृतमाः कताच्छादना धनवत्तमा वा नोऽस्माकं ये पूर्वे पितरः सोम- पौथं सोमपानमनूहिरे आनुपूर्येण देवेभ्यश्च पितृभ्यश्च प्राप्नु- उशन् पिटभिः सह सम्भोगं कामयमानो यमः पिटपतिरुशद्भिर्यमेन सह सम्भोगं कामय- मानेस्तभिस्तरस्मदीयैः पिटभिः सह ररागो रममाणो हवींथस्माभिर्दत्तानि प्रतिकाम कामं कामं प्रत्यत्तु । यानि यानि हवींषि कामयते तानि तानि भक्षयत्वित्वर्थः । है। महापित्यज्ञेऽग्नेः कव्यवाहनस्य ये ताटषुरित्येषा- वन्त । दत्तवन्त इत्यर्थः ।

१५२ सायणभाष्यम् । [ Pitaras X 15 खार्थिको यत् । प्रथमानुवाक्या। सूत्रित च। ये ताटषु देवता जेहमाना- स्वदग्ने काव्या त्वन्मनीषाः । आ. २०१८ । इति । देवत्रा देवा हमानाः क्रमेण गच्छन्तः। क्रमेण देवत्वं प्राप्ता इत्यर्थः । होनाविदो यज्ञान् सम्यक् कत्तुं वेदितारो. करर्चनीयैः स्तोत्रैः स्तोमतष्टासः स्तोमाना च सम्यक्- कारो ये पितरस्ताहषुः दृष्यन्ति हे अग्ने त्वं तैः पिटभि- रर्वाड्मदभिमुख आ याहि । आगच्छ। कीदृशैः। सुविदत्रेभिः सुविदः सत्यैरविसंवादिभिः कव्यैः । कव्यं नाम पिटदेवत्यं हविः । तत्सम्बन्धिभिः । यहा। कव्यैः कविभिर्मधाविभिः । धर्मसद्भियन- सादिभिः। १० । सत्यास. सत्या ये पितरो हविरदो भक्षणयोग्यस्य हविषोऽत्तारो हविष्याः पानयोग्यस्य हविषः पातार इन्द्रेण देवैः सरथं समानमेकं तुल्यं वा रथं दधानाः। लडथै शानच् । गमनाय सदा धारयन्ति । हे अग्ने तै: पिटभिः सहा याहि । आगच्छ। कीदृशः । सहस्रम् । तौयार्थे प्रथमा । सहस्रेण बहुभिरित्यर्थः । देववन्दैर्देवसम्बन्धिभिः स्तोत्रयुक्तः । परैः परकालौनः पूर्वैः पूर्वकालीनधर्मसद्भिर्यज्ञसादिभिर्महा- वीरसादिभिरादित्यसादिभिर्वा । ११। महापिटयज्ञे पितरोऽग्निष्वात्ता इत्यस्याग्नि- Pitaras X 15 ) सायणभाष्यम् । १५३ वात्ता पितर इत्येषा प्रथमानुवाक्या। सूत्रित च । अग्नि- वात्ता: पितर एह गच्छत ये चेह पितरो ये च नेह। पा. २।१६ । इति । अग्निष्वात्ता अग्निना स्वादिता एतनामकाः पितरः यूयमिहास्मिन् पिटकर्मण्या गच्छत । आगत्य च हे सुप्रणी- तयोऽभिपूजितप्रणयनाः यूयं सद: सदस्तत्तत्स्थानं सदत । सौदत। तत्र तत्र स्थाने यथेष्टमुपविशतेत्यर्थः । उपविश्य च वहिष्यासादितानि प्रयतानि सुचि हवौंष्यत्त । भक्षयत। अथानन्तरं सर्ववौरं सर्वैर्वीरैः पुत्रपौत्रैरुपेत रयिं धनं दधातन। अस्मभ्य दत्त। १२। महापिटयज्ञे वषट्कारक्रियायां त्वमग्न ईड़ित इत्येषा विष्टकृती याज्या। मूत्रितञ्च । योऽग्निः कव्य- वाहनस्त्वमग्न ईडितो जातवेद इति संयाज्ये आ. २।१८। इति । हे जातवेदः । जात सर्व जगद् वेत्तीति जातवेदाः । तथाविध हे अग्ने ईड़ितोऽस्माभिः स्तुतस्त्वं हव्यान्यस्मदीयानि हवींषि सुरभौणि सुगन्धीनि कृत्वी तत्वावाट्। वहनं कृतवानसि । कृत्वा च पितृभ्यः प्रादाः । ते च पितरः स्वधया स्वधाकारण दत्तं हविरक्षन् । अदन्तु। त्वमपि प्रयता प्रयत्नसम्पादितानि हवींष्यति । भक्षय ।

१५४ सायगाभाष्यम। | Pitaras X 15 महापित्यज्ञे ये चेहेति द्वितीयानुवाक्या । सूत्रमुक्तं । ये च पितर इहास्मत्समीपे वर्तन्ते ये चेह न सन्ति । यांश्च पितॄन् विद्म सन्निक्लष्टत्वाज्जानौम: या उ च नापि च न प्रविम विप्रलष्टत्वादयं न विजानीमः। यति ते यावन्तस्ते भवन्ति तान् सर्वान् यथोक्तान हे जातवेद उत्पन्नसर्ववस्त- विषयज्ञानाग्ने वं वेस्थ । जानासि । म्वधाभिहवि- लक्षणैरन्नैः सुक्कतं साधु कृत यज्ञं जुषस्व । प्रोत्या ग्रहाण । १४। पूर्वोक्त एव यागे ये अग्निदग्धा इत्येषा याज्या। सत्रितं च । ये अग्निदग्धा ये अनग्निदरवा इमं यम प्रातरमा हि सौदेति हे। आ. २०१८ । इति । ये पितरोऽग्निदग्धा अग्निना भस्मीकताः। श्मशानं प्राप्ता इत्यर्थः । ये च पितरोऽनग्निदग्धाः श्मशानकर्म न प्राप्ता मध्ये दिवो द्युलोकस्य मध्ये स्वधया हविलक्षणेनान्नेन मादयन्ते टप्यन्ति हे अग्ने स्वराट् स्वकर्मोपभोगेन दौप्य- मानस्तेभिस्तैः पिटभिः सहितः सन्नसुनौतिं प्राणानां विषयेषु नेतारमस्मपिवन्तरात्मानमेतां तन्वमेतद्देवताशरीरं यथावशं यथाकामं कल्पयख। समर्थयख। ग्रासयेत्यर्थः । -.- Gambler X. 34. प्रावपा इति चतुई शचं पञ्चमं सूक्तमैलूषस्य कवषस्याष मुजवतः पुत्रस्यामाख्यस्य वा । सप्तमी जगतो शिष्टास्त्रयोदश विष्टुभः । अब हादश्य- क्षान् स्तौति नवस्याद्या च सप्तमी । अतस्तास्त- द्देवत्याः। बयोदशी कृषि स्तौति । अतस्तस्याः सा देवता। एवं पञ्च ताः। शिष्टाभिनवभिः कितवोऽक्षाश्च निन्दान्ते। अतस्ता अपि तद्देवल्या.। तथा चानुक्रान्तं । प्रावेपाः षडूना मौजवान्वा- क्षोऽक्षकृषिप्रशंसा चाचकितवनिन्दा च सप्तमी जगतौति । गतो विनियोगः । १। वृहतो महतो विभौतकस्य फलत्वेन सम्बन्धिनः प्रवातेजाः प्रवणे देशे जाता इरिण आस्फारे ववृताना: प्रवत्त माना. प्रावपाः प्रवेपिणः कम्पनशीला अक्षा मा मादयन्ति । हर्षयन्ति । किञ्च जाविर्जयपराजय- योहर्षशोकाभ्याम् कितवानां जागरणस्य कर्ता विभौदको मा १५६ सायणभाष्यम् । [Gambler X. 34 तस्य। तत्र विभौतक विकारोऽक्षो मद्यम मामच्छान्। अचच्छदत्। अत्यर्थं मादयति । तत्र दृष्टान्त' सोमस्येव यथा सोमस्य मौज- वतस्य। मुजवति पर्वते जातो मौजवतः । युत्तम' सोमो जायते । भक्ष. पान यजमानान्देवांश्च मादयति तहदित्यर्थः । तथा च यास्क । प्रवेपिणो मा महतो विभौतकस्य फलानि मादयन्ति । प्रवातेजाः प्रवणजा इरिणे वर्तमाना इरिण निऋण मृण रणतिरपाणं भवत्यपरता अस्मादोषधय इति वा सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो मुजवान पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषौकयेषौकेषतेर्गतिकर्मण इयमपोतरेषौकैतस्मादेव विभौ- तको विभेदनाज्जारविर्जागरणान्मद्यमचच्छटत् । नि ।८। इति । एषास्मदीया जाया मा मा कितवं न मिथ न च चक्रोध न जिहौडे न च लज्जितवतौ। सखिभ्यो- ऽस्मदीयेभ्यः कितवेभ्यः शिवा सुखकासीत् । अभूत्। उतापि च मह्य शिवासीत्। इत्थमनुब्रतामनुकूलां जाया- मेकपरस्यैक परः प्रधानं यस्य तस्याक्षस्य हेतोः कारणा- दहमपारोधं । परित्यक्तवानस्मौत्यर्थः । ३। खथूर्जायाया माता गृहगतं कितवं हेष्टि । निन्दतीत्यर्थः । किञ्च जाया भाऱ्यांप रुणद्धि । निरुणहि । - Gambler X. :34 सायणाभाष्यम् । १५७ रज्ज्वा अपि च नाथितो याचमानः कितवो धनं मर्डितारं धन- दानेन सुखयितारम् न विन्दते। न लभते। इत्थं वुया विमृशन्नहं जस्तो बुद्धस्य वस्नास्य। वस्त्रं मूल्य । तदह- स्थावस्येव कितवस्य भोगं न विन्दामि । न लभे । ४ । यस्य कितवस्य वेदने धने वाजी वलवानक्षो देवी- ऽधत् अभिकाक्षा करोति तस्यास्य कितवस्य जाया माया- मन्ये प्रतिकितवाः । परि मृशंति । वस्त्रकशाद्याकर्षणन संस्ट शन्ति । किञ्च पिता जननो च भ्रातरः सहोदराश्चैन कितव- माहुः । वदन्ति । न वयमस्मदोयमेनं जानौमः । बदमेतं कितवं हे कितवा. यूय नयत। यथेष्टदेश प्रापयर्तति । ५। यद्यदाहमादोध्ये ध्यायामि तदानोमेभिरक्षन दविषाणि । न दूषये। न परितपामि । दविषाणि । न देविष्यामौत्यर्थः । परायद्भाः स्वयमेव परा- गच्छद्भाः सखिभ्यः सखिभूतेभ्यः कितवभ्योऽव होये। अव- हितो भवामि । नाहं प्रथममक्षाविसृजामौति । किञ्च वनवो वधुवर्णा अक्षा न्युप्ताः कितवैरवक्षिप्ताः सन्तो वाच- मक्रत। शब्दं कुर्वन्ति । तदा सङ्कल्पं परित्यज्याक्षव्यसनेना- भिभूयमानोऽहमेषामक्षाणां निष्कृतं स्थानं जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी सङ्केतस्थानं याति तह- देमोत् । गच्छाम्येव । यहा।

१५८ सायणभाष्यम् । [Gambler X 34 तन्वा शरोरेण शूशुजानः शोशुचानो दोप्यमानः कितवः कोऽवास्ति धनिकस्त जेष्यामीति पृच्छमान: पृच्छन् सभा कितवसम्बन्धिनौमेति । गच्छति। तत्र प्रतिदिन प्रतिदेवित्रे कितवाय कृतानि देवनोपयुक्तानि कर्माख्या दधतो जयार्थमाभिमुख्येन मयादया वा दधतोऽस्य कितवस्य कॉममिच्छामक्षासोऽक्षा वितिरन्ति । वर्धयन्ति । अक्षास इदक्षा एवाङ्गुशिनोअसशवन्तो नितो- दिनो नितोदितवन्तश्च निकत्वान' पराजये निकर्तनशीला छत्तारो वा तपनाः पराजये कितवस्य सन्तापकास्ताप यिष्णवः सर्ववहारकत्वेन कुटुम्बस्य सन्तापनशीलाश्च भवन्ति। किञ्च जयतः कितवस्य कुमारदेष्णा धनदानेन धन्यतां लम्भयन्तः कुमाराणा दातारो भवन्ति । अपि च मध्वा मधुना सम्पृक्ता: प्रतिकितवेन वर्हणा परिवडेन सर्वस्वहर- पेन कितवस्य पुनहण: पुनहन्तारो भवन्ति । एषामक्षाणा विपश्चाशस्त्यधिकपश्चाशत्सङ्ख्याको ब्रात: सङ्घः क्रीड़ति । प्रास्फारे विहरति । अक्षिका प्रायेण तावद्भिरर्दीव्यन्ति हि। तत्र दृष्टान्त: । सत्यधर्मा सविता सर्वस्य जगत प्रेरकः सूर्यो देव इव । यथा सविता देवो जगति विहरति तहदक्षाणा सङ्घ आस्कार विहरती- त्यर्थः । किञ्चोग्रस्यचित् क्रूरस्थापि मन्यवे क्रोधार्यतेऽक्षा Gambler X 34.] सायणभाष्यम् । १५९ न नमन्ते। न प्रह्वोभवन्ति । न वशे वर्तन्ते तं नमयन्तीत्यर्थः । राजा चिज्जगत ईखरोऽप्येभ्यो नम इन्द्र मस्कारमेव देवनवेलाया कणोति। नावज्ञां करोतीत्यर्थः । अपि चैतेऽक्षा नौचा नौचिनस्थले वर्तन्ते । तथाप्युपरि पराजयाझौताना द्यूतकाराणा कितवाना हृदय- स्योपरि स्फुरन्ति । अहस्तासो हस्तरहिता अध्यक्षा हस्त- वन्तं द्यूतकरं कितव सहन्ते। पराजयकरणेनाभि भवन्ति। दिव्या दिवि भवा अपक्कता अङ्गारा अङ्गारसदृशा अक्षा इरिण इन्धनरहित आस्फारे न्युप्ताः মীনা: মীনন্তয়া; सन्तोऽपि हृदयं कितवानामन्तःकरणम् निर्दहन्ति । परा- जयजनित सन्तापन भस्मीकुर्वन्ति । १०। क्व खित् कापि चरतो निर्वेदाद गच्छतः कित- वस्य जाया भाया हौना परित्यक्ता सती तप्यते। वियोगज- सन्तापन सन्तप्ता भवति । माता जनन्यपि पुत्रस्य क्वापि चरत: कितवस्य सम्बन्धादौना तप्यते। पुत्रशोकेन सन्तप्ता भवति । ऋणावाक्षपराजयादृणवान् कितवः सर्वतो विभ्यवन स्तेयजनितमिच्छमानः कामयमानोऽन्येषा ब्राह्मणादीना- मस्तं ग्रहम् । अस्त पस्त्यमिति रहनामसु पाठात् । नक्तं राबाबुपैति चौद्यार्थमुपगच्छति । कितवं कितवः। विभक्तिव्यत्ययः अन्येषां . सायणभाष्यम् । | Gambler x 34 अतः पर धना धनान्य- स्वव्यतिरिक्तानाम् पुरुषाणा जायां जायाभूता स्त्रियं नारौं सुखेन वर्तमानां सुकृतं सुष्टु कृतं योनि ग्टहं च दृष्ट्वाय मज्जाया दुःखिता रह चासस्कृतमिति ज्ञात्वा तताप । तप्यतो पुन: पूर्वाह्ने प्रातःकाले वधूवर्णानश्वान् व्यापकान- क्षान्युयुजे। युनक्ति । पुनश्च वृषलो अषलकर्मा स कितवो रात्रावग्नेरन्ते समोप पपाद । शोतातः सञ्छते । १२। हे अक्षाः वो युभाकं महता गणस्य सङ्घस्य योऽक्षः सेनानौर्नेता बभूव भवति वातस्य च । गणवातयो- रल्यो भेदः । राजेश्वर: प्रथमो मुख्यो बभूव तस्मा अक्षाय कृणोम्यहं। अञ्जलि करोमि। क्षार्थमह न रुणभि । न सम्पादयामोत्यर्थः । एतदेव दर्शयति। अहं दश दशसंख्याका अङ्गुलोः प्राचौः प्रामुखीः करोमि। तदेतदहमृतं सत्यमेव वदामि । ब्रवीमौत्यर्थः १३ । हे कितव बहु मन्यमानो महचने विश्वास कुर्वस्त्वमक्षा दीव्यः । द्यूतं मा कुरु। कृषिमित् कृषि- मेव कृषख। कुरु । विते कृष्था सम्पादित धने रमख । मतिं कुरु । तत्र कृषौ गावो भवन्ति । तन जाया भवति । तदेव धम्मरहस्य श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोऽयं दृष्टिगोचरोऽर्य ईश्वरो वि चष्टे । विविधमाख्यातवान् । नाटत

Gambler X. 34.] सायणभाष्यम् ।
१४। हे अक्षाः यूयं मित्र कृणुध्वम् । अस्मासु मैत्री
कुरुत। खल्विति पूरणः । नोऽस्मान् मृड़त । सुखयत च ।
नोऽस्मान् कृष्णु कृष्णुना। हतीयार्थे प्रथमा। घोरेणा-
सह्येन माभि चरत। मा गच्छत। किञ्च वो युपाक
मन्युः क्रोधोऽरातिरस्माकम् शत्रुनि विशतां । अस्मच्छत्रुषु
तिष्ठतु। अन्योऽस्माकम् शत्रुः कश्चिदम्भ्रूणां वध्रुवर्णानाम्
युमाकम् प्रसितौ प्रबन्धने नु क्षिप्रमस्तु । भवतु ।
--
११

PURUSA X. 90. सहस्रशीर्षति षोड़शर्च षष्ठं सूक्तम् । नारा- यणो नाम ऋषिः । अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः, पुरु- षान्न परं किञ्चिदित्यादिश्रुतिषु प्रसिद्धः, स देवता । तथा चानुकान्तम् । सहस्रशीर्षा षोड़श नारायणः पौरुषमानुष्टुभं विष्टवन्तन्विति । गतो विनियोगः । १। सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं महस्रशीर्षा। सहस्रशब्दस्योपलक्षण- वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तदेहान्तःपातिवात्तदीयान्येवेति सहस्रशौर्ष- त्वम् । एवं सहस्राक्षिवं सहस्रपादत्वं च । स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वत: सर्वतो वा परिवेश्य दशाङ्गुलं दशाङ्गुलपरिमितं देशमत्यतिष्ठत् अभिक्रम्य व्यव- Purusa x. 90 ] सायणभाष्यम् । यञ्च स्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाहहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः । २। यदिदं वर्तमानं जगत्तत्सर्वं पुरुष एव । भूतमतौतं जगद्यञ्च भव्यं भविष्यज्जगत्तदपि पुरुष एव । यथास्मिन् कल्प वर्तमाना: प्राणिदेहाः सर्वेऽपि विराट्पुरुष- स्यावयवाः तथैवातोतागामिनोरपि कल्पयो द्रष्टव्यमित्यभि- प्रायः । उत अपि च अमृतत्वस्य देवत्वस्यायमौशानः स्वामी। यद्यस्मात्कारणादनेन प्राणिनां भोग्येनान्नेन निमित्तभूतेना- तिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमाना जगदवस्था प्राप्नोति तस्मामाणिनां कम्प्रफलभोगाय जगद- वस्थास्वीकारावेदन्तस्य वस्तुत्वमित्यर्थः । ३। अतीतानागतवर्तमानरूपं जगद्यावदस्ति एता- वान् सर्वोऽप्यस्य पुरुषस्य महिमा स्वकीयसामर्थविशेषः। न तु तस्य वास्तवं स्वरूपम् । वास्तवस्त पूरुषः अतो महिनोऽपि ज्यायान् अतिशयेनाधिकः । एतच्चोभयं स्पष्टीक्रियते । अस्य पुरुषस्य । विश्वा सर्वाणि भूताति कालयवर्तीनि प्राणिजातानि पाद: चतुर्थोऽश: । अस्य पुरुषस्यावशिष्टं त्रिपात्म्वरूपममृतं विनाशरहितं मद्दिवि द्योतनात्मक स्वप्र- काशस्वरूप। व्यवतिष्ठत इति शेषः । यद्यपि सत्वं ज्ञानमनन्तं ब्रह्मेत्यानातस्य परब्रह्मण इयत्ताभावात्याद- सायणभाष्यम् । [ Purusa X 90 चतुष्टयं निरुपयितुमशक्य तथापि जगदिदं ब्रह्मस्वरूपाप- क्षयाल्पमिति विवक्षितत्वात्पादत्वोपन्यासः । ४। योऽय त्रिपात्पुरुष ससाररहितो ब्रह्मस्वरूपः सोऽयमूर्ध्व उदैत् । अस्मादज्ञानकार्यात्मसाराबहिर्भूतः अत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षण स्थितवान्। तस्यास्य सोऽयं पादो लेशः सोऽयमिह मायाया पुनरभवत् सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः परमात्मले शल्य भगवताप्युक्तम्, विष्टभ्याहमिद कृत्स्नभेकौशन स्थितो जग- दिति । ततो मायायामागत्यानन्तरं विष्वड् देवमनुष्यतिर्य- गादिरूपेण विविधः सन् व्यकामत् व्याप्तवान् । किं कृत्वा । साशनानशने अभि अभिलक्ष्य । साशनं भोजनादिव्यव- हारोपेत चेतन प्राणिजातम् । अनशन तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः । ५। विष्वड् व्यकामदिति यदुक्तं तदेवान प्रपञ्चाते। तस्मादादिपुरुषाहि ड् ब्रह्माण्डदेहोऽजायत विविधानि राजन्ते व न विराट् । विराजोऽधि विराड्- देहस्योपरि तमवर करणं कृत्वा पूरुषस्तहेहाभिमानी कश्चित् पुमानजायत । साऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयमेव स्व कौयमायया विराड्देह ब्रह्माण्डरूपं उत्पन्नः।

Purusa X 90 ] सायाभाष्यम्। तत्र जोवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीयोऽभवत् । एतच्चाथर्वणिका उत्तरतापनीये विस्पष्ट- मामनन्ति । वा एष भूतानीन्द्रियाणि विराज देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढ़ो मूढ इव व्यवहरबास्ते माययेति । स जातो विराट पुरुषोऽत्यरिच्यत अतिरिक्तो- ऽभूत्। विराव्यतिरितो देवतिर्यमनुष्याटिरूपोऽभ पथाद्देवादिजीवभावादूवं भूमिम् ससर्जेति शेषः। अथो भूमिसृष्टेरनन्तर तषा जीवाना पुरः ससर्ज। पूर्यन्ते सप्तभि- र्धातुभिरिति पुरः शरीराणि । यद्यदा पूर्वोक्तक्रमेणैव शरीरघूत्पन्नेषु सत्सु देवा उत्तरसृष्टिसिद्धार्थं वाह्यद्रव्यस्थानुत्पन्नत्वेन हबिरन्तरासम्भवात् पुरुषस्वरूपमेव मनसा हविष्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानम यज्ञमतन्वत अन्वतिष्ठन् । तदानोमस्य यज्ञस्य वसन्तो वसन्तर्तुरेवाज्यमासीत् । तमेवाज्यलेन संकल्पित- वन्त इत्यर्थः । एवं ग्रीष्म इन आसीत्। तमेवेमलेन संकल्पितवन्त इत्यर्थः । तथा शरद्धविरासीत्। ताम पुरोडाशादिहविष्ट्वे न सकल्पितवन्त इत्यर्थः । पूर्व पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः । अनन्तरं वसन्तादौनामाज्या- दिविशेषरूपलेन मकल्प इति द्रष्टव्यम् । यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूप सायणभाष्यम्। { Purusa X 90 बद्ध वर्हिषि मानसे यन्ते प्रौक्षन प्रीक्षितवन्तः। कीदृश- मित्यवाह। अग्रतः सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनो- त्यनम् । एतच्च प्रागेवोतम् तस्मादिराड़जायत विराजो अधि पुरुष इति। तेन पुरुषरूपेण पशुना देवा अयजन्त । मानसं यागं निष्पादितवन्त इत्यर्थः । के ते देवा इत्यत्राह । साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः तदनुकूला ऋषयो मन्त्रद्रष्टारश्च ये सन्ति ते सर्वेऽप्ययजन्तेत्यर्थः । ८। सर्वहुतः। सर्वात्मकः पुरुषी यस्मिन् यन्ने हयते सोऽयं सर्वहुत् । तादृशात्तस्मात्पूर्वोक्ताभानसाच्यज्ञात्पृषदाज्यं दधिमिश्नमाज्यं सम्भृतं सम्पादितम् । दधि चाज्यं चेत्येव- मादि भोग्यजातं सर्व सम्पादितमित्यर्थः । तथा वायव्यान् वायुदेवताकॉल्लोकप्रसिद्धानारण्यान् पशंश्चक्रे उत्पादितवान् । भारण्या हरिणादयः । तथा ये च ग्राम्या गवाखाटय- स्तानपि चक्रे । पशूनामन्तरिक्षहारा वायुदेवत्यत्व यजुर्ब्राह्मण समानायते । वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशव: वायव एवैनान् परिदधा- तीति। ८। सर्वहुतस्तस्मात् पूर्वोक्ताद्यज्ञादृचः सामानि जजिरे तस्माद्यज्ञाच्छन्दासि गायत्रवादीनि जज्ञिरे । उत्पन्नाः। तस्माद्यज्ञादाजुरप्यजायत ।

Purusa X 90] सायणभाष्यम्। तस्मात् पूर्वोक्ताद्यज्ञादवा अजायन्त उत्पन्नाः । तथा ये के चाखव्यतिरिक्ता गर्दभा अखतराश्चोभयादत ऊर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा तस्माद्यज्ञाहावश्च जज्ञिरे । कि च। तस्माद्यज्ञादजावयश्व जाताः । अस्य ११। प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते। प्रजापतेः प्राणरूपा देवा यद्यदा पुरुष विराड्पं व्यदधुः, संकल्पेनोत्पादितवन्तस्तदानौं कतिधा कतिभिः प्रकारव्यंकल्पयन् विविधं कल्पितवन्तः । सुरुषस्य मुखं किमासीत् । कौ बाइ अभूताम् । कावूरू । कौ च पाटावुच्यते । प्रथम सामान्यरूप: प्रश्नः पश्चान्मुखं किमित्यादिना विशेषविषया: प्रश्नाः । १२। इदानों पूर्वोक्तप्रश्नानामुत्तराणि दर्शयति । अस्य प्रजापतेः ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः पुरुषो मुख- मासीत् । मुखादुत्पन्न इत्यर्थः । योऽयं गजन्यः क्षत्रियत्व- जातिमान् पुरुषः स वाह कृत: बाहुत्वेन निष्यादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत्तदानोमस्य प्रजापतेयंदूरू 'तद्रूपो वैश्यः सम्पनः । जरुभ्यामुत्पन्न इत्यर्थः। तथास्य पदभ्यां पादाभ्यां शूद्रः शूद्रत्वजातिमान् पुरुषोऽजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सायणभाष्यम् । [Purusa X 90 अस्य सप्तमकाण्डे, स मुखतस्त्रि वृतं निरमिमौतत्यादी विस्पष्ट- मानाता ते स ७।१।१।४ । अत: प्रश्नोत्तरे उभे अपि तत्परतयैव योजनौये। १३ । यथा दध्याज्यादिट्रव्याणि गवादयः पशव ऋगादि- वेदा ब्राह्यणादयो मनुष्याश्च तस्मादुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह। प्रजापतेर्मनसः मकाशा चन्द्रमा जातः। चक्षोश्च चक्षषः सूर्योऽप्यजायत । मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ। अस्य प्राणादायुरजायत । १४। यथा चन्द्रादीन् प्रजापतेर्मन:प्रभृतिभ्योऽकल्पयन् .. तथान्तरिक्षाटौं लोकान् प्रजापते भ्यादिभ्यो देवा अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति । प्रजापत- नाभरन्तरिक्षमासीत् । शीर्ण शिरमो द्यौः ममवर्तत अस्य पझ्या पादाभ्यां भूमिरुत्पन्ना। श्रोत्राद्दिश उत्पन्नाः। १५ । अस्य साकल्पिकयज्ञस्य गायनवादीनि सप्त- च्छन्दासि परिधय आसन् । ऐष्टिकस्याहवनौयस्य त्रयः परिधयः उत्तरवेदिकास्त्रयः आदित्यश्च सप्तमः परिधिप्रति- निधिरूपः। अतएवानायते । न पुरस्तात् परिदध्या- दित्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्तीति। तत एत श्रादित्यसहिताः सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः । तथा नाभ्या: उत्पन्ना। अस्य Purusd 90 ] सायणभाष्यम् । ममिधस्त्रिः मप्त त्रिगुणीकृतसप्तसंख्याका एकविशतिः कृता. । द्वादश मामा: पञ्चतंव त्रय इमे लोका असावादित्य एकविश इति श्रुताः पदार्था एकविंशतिदारुयुक्तेन्धनत्वेन भाविता: । यद्य पुरुषा वैराजोऽस्ति तं पुरुष देवाः प्रजापतिप्राणेन्द्रिय- रूपा यज्ञं तन्वाना मानम यज्ञं तन्वानाः कुर्वाणा: पशुमबध्नन् विगटपुरुषमेव पशुवन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र, यत्पुरुषेण हविपेत्युक्तम् । १६। पूर्व प्रपञ्चेनोकमर्थ संक्षिप्यात्र दर्शयति। देवा' प्रजापतिप्राणरूपा यज्ञेन यथोक्तन मानसेन सकल्पेन यत्रं यथोक्तयनस्वरुप प्रजापतिमयजन्त पूजितवन्तः । तस्मात् पूजनात्तानि प्रमिद्धानि धर्माणि जगद्रूपविकाराणा धारकाणि प्रथमानि मुख्यान्यासन् । एतावता सृष्टिप्रतिपादकसूक्त- भागार्थः मग्टहीतः। अथोपासनतत्फलानुवाद कभागार्थः संग्राह्यते । यत्र यस्मिन् विराटप्राप्तिरूपे नाके पूर्व साध्याः पुरातनाः विराडपास्तिसाधका देवा: सन्ति तिष्ठन्ति तन्नाकं विराटप्राप्तिरूपं स्वर्ग ते महिमानस्तदुपासका महात्मानः सचन्त ममवयन्ति प्राप्नुवन्ति । -

RATRI X.127.
रात्रीत्यष्टचं पञ्चदशं सूक्तं सोभरिपुत्रस्य
कुशिकस्यापम् । यहा भरद्वाजस्य सुता गत्रया-
ख्यास्य सूक्तस्यर्षिका।
गायत्रं गविदेवताकम् ।
तथा चानुक्रान्तम् ।
गत्री कुशिकः सौभरो
राविर्वा भारद्वाजी रात्रिस्तवं गायत्रमिति ।
दुःस्वप्नदर्शन उपोषितेन को पायसेन होतव्यं ।
तवैतत् सूक्तं करणत्वेन विनियुक्तं । तथा चारण्यके
श्रूयते। स यद्येतेषां किञ्चित् पश्येदुपोष्य पायसं
स्खालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यूचं हुत्वा ।
ऐ. आ. ३।२।४ इति ।
१। आयत्यागच्छन्ती।
आङपूर्वादेतेः शतर्यदा-
दिवाच्छपी लुक् । इणो यणिति यणादेशः। उगितश्चेति
डोप् । शतुरनुम इति नद्या उदात्तत्वम् । अक्षभिरक्षि-
स्थानोयैः प्रकाशमाननक्षत्रैः। छन्दस्यपि दृश्यत इत्यक्षि-

Ratri X 127 ] सायणभाष्यम् । रात्रिदेवता व्यख्यत् । प्रा शब्दस्यानडादेशः । यहा। अक्षभिरञ्जकैस्तेजोभिः । पुरुत्रा बहुषु देशेषु देवी देवनशौला। देवमनुष्यपुरुषपुरुमय॑भ्य इत्यादिना पुरुषशब्दात् सप्तम्यर्थे वाप्रत्ययः । रात्रीयं विचष्टे। विशेषण पश्यति । रात्रे- वाजसाविति ङोप । ख्यातेञ्छान्दसे लुड्यस्यतिवतोत्यादिना चलेरडादेशः । अपि चैषा विश्वाः सर्वाः श्रियः शोभा अध्यधित । अधिधारयति । दधातेलुंङि स्थाघोरिच्चे- तौलम् । सिच: कित्त्वम् । इस्वादङ्गादिति सिचो लोप । अमर्त्या मरणरहिता देवी देवनशौला रात्रिरुरु विस्तीर्ण मन्तरिक्षमाप्राः । प्रथमतस्तमसापूरयति । पूरणे आदादिक. । लङि व्यत्य येन मध्यम.। तथा निवतो नौचौनालंतागुल्मादौनुहत उस्थितान्वृक्षादीश्च स्वकोयेन तेजसाणोति। तदनन्तरम् तत्तमोऽन्धकारम् ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा वाधते पौडयति । आयत्यागच्छन्तो देवी देवनशौला रात्रि' स्वसारम् भगिनौमुषसं निरकत निष्करोति । निष्करोति । प्रकाशन सस्करोति । निवर्तयतीत्यर्थः । तस्यामुषसि जातायां नैशं तमोऽपद्धासते। अपैव गच्छति । ओहाङ् गतौ । लेघड़ागमः । सिव्वहुल- मिति सि । ४। अद्यास्मिन्काले नोऽस्माकम् सा रात्रिदेवता प्रसीदतु ।

१७२ सायणभाष्यम्। [ Ratri X. 127 तथा पहन्तः यस्या रार्यामन्यामनि प्राप्ती सत्या वयम् न्यविक्ष्महि । निविशामहे सुखेन गृह आस्महे विशेलङि नेविशः । पा० ७।३।७३ इत्यात्मनेपदम् । छान्दस: शपो लुक् । तत्र दृष्टान्तः। वयः पक्षिणो वृक्षे न यथा वृक्षे नौड़ाश्रये वसति रात्री निवास कुर्वन्ति तथा निवसाम इत्यर्थः । ५। ग्रामासो ग्रामा। अत्र ग्रामशब्दो जनसमूह वर्तते । यथा ग्राम आगत इति । सर्वे जना न्यविक्षत । तस्या रात्रावागताया निविशन्ते। शेरते। निपूर्वाहिशते- छान्दसे लुङि पूर्ववदात्मनेपदं। शल इगुपधादनिटः क्स. । क्सस्याचि पा० ३।७।७२ । इत्यकारलोपः। पादयुक्ता गवाखादयश्च निविशन्ते । तथा पक्षिण: पक्षोपेताच निविशन्ते। अर्थिनः । अर्तेरों गमनं । शोघ्रगमनयुक्ताः श्येनासश्चिच्च्छना अपि तस्या रात्रमा निविशन्ते। एषा रात्रिः सर्वाणि भूतजातान्यहनि सञ्चारेण श्रान्तानि स्वय- मागत्य सुखयतीत्यर्थः । ६। हे जयें। रात्रिनामैतत् । रात्ने । बक्य बकस्य स्त्रियं हक चास्मान् हिंसन्तं यवय । अस्मत्तः पृथक्कुरु। अस्मान्वाधितु यथा न प्राप्नोति तथा । स्तेन तस्करं च यवय । अस्मत्तो वियोजय। अथानन्तरम् नोऽस्माकं सुतरा सुखेन तरणीया क्षेमकरी भव ।

Ratu X 127] सायणभाष्यम् । १७३ । ७। पेपिशभृशं पिंशत् सर्ववस्तुष्वाश्लिष्टं तमोऽन्धकार कृष्णं कृष्णवर्ण व्यक्तं विशेषण स्वभासा सर्वस्याजक स्पष्टरूपं वा ईदृशं नैशं तमो मामुपास्थित । उपागच्छत् । सङ्गति- करण आत्मनेपदम् । हे उष उषोदेवते त्वमृणवर्णानीव तत्तमो यातय । अपगमय । स्तोतॄणामृणानि यथा धन- प्रदानेनापाकरोषि तथा तमोऽप्यपसारयेत्यर्थः । हे रात्रि रात्रिदेवते ते त्वां गा इव पयसो दोग्धौ- धैंनुरिवोपत्याकरम्। स्तुतिभिरभिमुखीकरोमि। करोते- छान्दसे लुङि वमृट्टरुहिभ्य इति क्लेरडादेशः । दिवो दुहितोतमानस्य सूर्यस्य पुत्रि यहा दिवसस्य तनये । परमपि च्छन्दसि । पा० २।१।२।६। इति परस्य षष्ठयन्तस्य पूर्वामन्त्रिताङ्गवद्भावात् पदयसमुदायस्याष्टमिकं सर्वानु- दात्तत्वम्। त्वत्प्रसादाजि ग्युष शत्रूञ्जिग्युषो मम स्तोम न स्तोत्रमिव हविरपि वृणीष्व । त्वं भजस्व । जयतेलिटः कमः। मन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वं । षष्ठयर्थे चतुर्थों वक्तव्येति चतुर्थों। वसोः सम्प्रसारणमिति सम्प्रसाराम।

HYMN OF CREATION X. 129. विति। एकादशेऽनुवाके त्रयोविंशतिसंख्यानि सूक्तानि। तब नासदासीदिति सप्तर्च प्रथमं सूक्तं वैष्टुभं । परमेष्ठी नाम प्रजापति षिः । वियदादि- भावानां सृष्टिस्थितिप्रलयादीनामन प्रतिपादा- त्वात्तेषां कर्ता परमात्मा देवता। तथा चानु- क्रान्तम् । नासत् सप्त प्रजापतिः परमेष्ठी भाववृत्तं गतो विनियोगः । तपसस्तन्महिनाजायतैकमित्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते । अधुना ततः प्रागवस्था निरस्तसमस्त- प्रपञ्चा या प्रलयावस्था सा निरूप्यते। तदानीं प्रलयदशाया- मवस्थितं यदस्य जगतो मूलकारणम् तदसच्छशविषाणवत्रि- रुपाख्यं नासीत्। न हि तादृशात् कारणादस्य सतो जगत उत्पत्तिः सम्भवति । तथा नो सन्नैव सदात्मवत्- सत्त्वेन . निर्वाच्यमासीत् । यद्यपि सदसदात्मकम् प्रत्येक विलक्षणम् भवति तथापि भावाभावयोः सहावस्थानमपि १॥

Hymn of Creation X 129.] सायणभाष्यम् । १७५ तत्राह। सम्भवति। कुतस्तयोस्तादात्मामिति उभयविलक्षणमनि- र्वाच्चमेवासीदित्यर्थः। ननु नो सदिति पारमार्थिकसत्त्वस्य निषेधः। तात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः । अथोच्येत । न । आनौदवातमिति तस्य सत्त्वमग्रे बक्ष्यते परिशेषान् मायाया एवात्र सत्त्व निषिध्यत इति । एवमपि तदानौमिति विशेषणानर्थक्य व्यवहारदशायामपि तस्याः पारमार्थिक- सत्त्वाभावात् । अथ व्यावहारिकसता पृथिव्यादीनाम् भावा- नाम् विद्यमानत्वात् कथं नो सदिति निषेधः । नासौद्रज इत्यादि। लोका रजास्युच्यन्ते। नि० ४११८ । इति यास्कः। अत्र च सामान्यापक्षमेकवचनम्। व्योम्रो वक्ष्यमाणत्वात्तस्याधस्तना: पातालादयः पृथिव्यन्ता नासन्नि- त्यर्थः । तथा व्योमान्तरिक्षं तदपि नो नैवासीत् । पर इति सकारान्तम् परस्तादित्यर्थे वर्तते। परशब्दाच्छान्दमो- ऽस्तातेरर्थेऽसिप्रत्ययः । परो व्योम्नः परस्तादुपरिदेशे युलोकप्रभृति सत्यलोकान्त यदस्ति तदपि नासौदित्यर्थः । अनेन चतुर्दशभुवनगर्भ ब्रह्माण्डं स्वरूपेण निषिद्धं भवति । अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादि- भूतानि तेषामवस्थानप्रदेश तदावरणनिमित्त चाक्षेपमुखेन क्रमेण निषेधयति किमावरोवरिति । किमावरणीयं तत्त्व- सावरकभृतजातमावरीवः । अत्यन्तमावणुयात् । आवा-- सायणभाष्यम् । [ Hymn of Cheation X 129, कु तिहोः वा भावात्तदावरकमपि नासोदित्यर्थ.। वृणोतर्यङ्लु गन्ता- च्छान्दसे लडि तिपि रूपमेतत् । यहा। किमिति प्रथमैव । किं तत्त्वमावरकमावणुयात् । आवाUभावादाद्रियमाण- वत्तदपि स्वरूपण नासौदित्यर्थः । आवृण्वत्ततत्वं कुछ कुन देशेऽवस्थायावृणोति। आधारभूतस्तादृशो देशोऽपि नासौ- दित्यर्थ.। किंशब्दात् सप्तम्यर्थे हप्रत्ययः । ७/२।१०४। इति प्रकृते: कादेशः । कस्य शर्मद् कास्य वा भोक्तु वस्य शर्मणि सुखदुःखसाक्षात्कारलक्षणे निमित्तभूते सति तदावरकम् तत्त्वमावृणुयात् । जीवाना- मुपभोगार्था हि सृष्टिः । तस्यां हि सत्यां ब्रह्माण्ड्स्य भूतैरावरणम् प्रलयदशाया च भोक्तारो जीवा उपाधि- विलयात् प्रलोना इति कस्य कश्चिदपि भोता न सम्भवती- त्यावरणस्य निमित्ताभावादपि तन्न घटत इत्यर्थः। एतेन भोग्यप्रपञ्चवद्भातप्रपञ्चोऽपि तदानीं नासोदित्युनं भवति । किं-शब्दादुत्तरस्य ङस: सावकाच इति प्राप्तस्योदात्तत्वस्य न गोखन्माववर्णेति प्रतिषेधः। मुपां सुलुगिति शर्मण: सप्तम्या लुक् । र र न मावरणस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमा निराकृतं तथाप्यापो वा इदमग्रे सलिलमामोत्ते १० ७.११५१७ । इत्यादिश्रुत्या कश्चिदपां सद्भावमागळेत । तं प्रत्याचष्टे अम्भः किमासौदिति । गहनं Hyint of Creation X 1.0 मायगाभाष्यम् । १७७ २ । तथैव स मृत्युः दुष्प वैशं गभोरम् दुःखस्थानमत्यगाध ईदृशमम्भः किमासीत् । तदपि नैवास्गदित्यर्थ श्रुतिस्त्ववान्तरप्रलयविषया । ननक्तस्य प्रतिमहारस्य सह-पेक्षत्वात् स एव संहर्ता, मृत्यविद्यत इत्यत आह । न मृत्युरासोदिति । ननु यदि म नामोत् तर्हि तदभावकतममृतममरणम् प्राणिनामवस्थानम् तदानीमपि स्यात् तत्राह। अमृतं न तहीति । तर्हि तम्सिन प्रतिहारममये। अयं भावः । सर्वेषा प्राणिनाम् परिपक्वम् भोगहेतुभूतम् सर्व कर्म यदोप- भुक्तमासीत् तदा भोगाभावान्निष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि सञ्जिहीर्षा जायते । सर्व जगत् संहरत इति किमनेन मृत्युना संहा तदभाव- कृतम् वा कथममरणम् स्यादिति। एतटेवाभिप्रेत्य कठे- राम्नायते । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम् । मृत्यु- यस्योपसेचनम् क इस्था वेद यत्र स: । इति। नन्वेतस्य सर्वस्याधिकरणभूतः कालो विद्यत इत्यत न रानवा इति । न रात्रमा अहश्च प्रकेत: प्रज्ञानमासीत् । तद्धेतुभूतयोः सूर्याचन्द्रमसोरभावात् । एतेनाहोरात्रनिरधिन तदात्मको मास संवत्सरप्रभृतिक: सर्वः कालः प्रत्याख्यातः । कथं तहि नो सदासोत्तदानी- मिति कालवाची प्रत्ययः । उपचारादिति ब्रूमः । यथेदानी- क० उ०२।२५ । पाहा मायणभाष्यम । Hymn of Creation X 129 न्तननिषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेद- हेतुरित्यवच्छेदकत्वमाम्येनाकालेऽपि कालवाची प्रत्यय । यदवादिम ब्रह्मण: परमार्थसत्त्वमग्रे वक्ष्यत इति तदिदानीम् दर्शयत्यानौदिति। तत्सकलवटान्तप्रसिद्ध ब्रह्मतत्त्वमानीत् । प्राणितवत् । नन्वेवं प्राणनकर्तृर्जीवभावापन्नस्यैव ब्रह्मणः सत्त्वं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः । अप्राणो धमना: शुद्ध इति तस्य प्राणसम्बन्धाभावात् तनाहानीद- वातमिति । अयमाशय.। आनौदित्यत्र धात्वर्थक्रिया तत्- कर्ता तस्य च भूतकालसम्बन्ध इति त्रयोऽर्थाः प्रतीयन्ते । तत्र समुदायो न विधीयते यथाग्नेयोऽष्टाकपाल इति येन ब्रह्मणः सत्त्वं न स्यात् । किं तीनेन कर्तृत्वमनूद्य भूतकाल- सत्तालक्षणो गुणो विधीयते दना जुहोतीति वाक्यान्तर, विहिताग्निहोत्रानुवादेन तत्र गुणविधानम् । तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता विधीयते तविषेधानुप- पत्तिप्रसङ्गात् । अतीऽनेन कर्तुलेनेदानीन्तनेनोपलक्षितम् यविरुपाधिकम् परं ब्रह्म तस्यैव भूतकालसत्ता विधीयत इति न कश्चिद्दोष इति। नन्वीदृशस्य ब्रह्मणो मायया सह सम्बन्धासम्भवात् साख्याभिमता स्वतन्त्रा सद्रूपा सत्त्व- रजस्तमोगुणामिका मूलप्रकतिरेवाभिमतेति कथं नो सदिति निषेधः । तत्राह स्वधयेति । स्वस्मिन् धीयते धियत यूना। Hymn ot Creation Y. 129 ] मायणभाथम् । १७८ आयित्य वत्तत इति स्वधा माया। तया तबकमविभागा- पन्नमासीत्। महयुक्तेऽप्रधाने । पा. २०११८ । इति हतोया महशब्दयोगाभावेऽपि सहायोगे भवति वृद्धो पा० १।२।६५। इति निपातनालिङ्गात् । प्रकृतिप्रत्ययाभ्याम् तस्याः स्वातन्वा निवार्यते । यद्यप्ये- सङ्गस्य ब्रह्मणस्तया सह सम्बन्धी न सम्भवति तथापि तस्मिन्नविद्यया तत्स्वरूपमिव सम्बन्धोऽप्यध्यस्थते यथा शुक्ति- कायां रजतस्य। एतेन सद्रूपत्वमपि तस्या: प्रत्याख्यातम् । ननु यदि माया ब्रह्मणा सहाविभागापन्ना तहि तस्या अनिर्वाचवाब्रह्मणोऽपि तत्प्रसङ्ग इति कथं तस्य सत्त्वमुक्त- मानौदवातमिति। ब्रह्मणो वा सत्त्वात्तस्या अपि सत्त्वप्रसङ्ग इति कथं नो सदामोदिति सत्त्वप्रतिषेधः । मैवम् । प्रयुक्ति- दृश्य क्यावभासेऽपि युक्त्या विविध मायांशस्यानिच्चित्वं ब्रह्मणः सत्त्वं च प्रतिपादितम्। ननु दृग्दृश्याविति हावेव पदार्थावानीदवातं स्वधयेति तौ चेदङ्गीक्रियते तत् किमपर- मवशिष्यते यत्रासाद्रज' इत्यादिना प्रतिषिध्येत तवाह तस्मा- दिति। तस्माद्ध तस्मात् खलु पूर्वोक्तान्मायासहिताधणो- ऽन्यत् किं च न किमपि वस्तु भूतभौतिकात्मकं जगन्नास । न बभूव । छन्दस्युभयथेति लिट: सार्वधातुकत्वादस्ते - ननु तदानीमन्यस्य सत्त्वनिषेधो न शायः । भावाभावः।

१८० मायणभाष्यम् । | Hrnin of Creation X 129 असत्त्वे चाप्रसतान निषेधोपयोग इत्यत आह पर इति । परः परस्तात् सृष्टेरूवं वर्तमानमिर जगत्तदानीं न बभूवे- त्यर्थ । अन्यथोक्तरीत्या क्वचिदपि निनिधी न स्यादिति भावः । ननूक्तप्रशारण यडि पूर्वमिद जगन्नासोत कथ तर्हि तस्य जना । जायमानस्य जनि क्रियाया कर्तृत्वेन कारकत्वात् कारक च कारणावान्तरविशेष इति कारकन्य सतो नियतपूर्वक्षणवर्तित्वस्यावरणभावात अवैतहोष- परिजिहीर्षया जनिक्रियायाः प्रागपि गद्धिदात इत्युच्यते । कथं तस्य जन्म। अत आह। तममा गूढमग्र इति । अग्रे सृष्टेः प्राक् प्रलयदशायाम भूतभौतिकम सर्व जगत्तमसा गूढ़म् । यथा नैश तमः सर्वगदार्थजातमावृणोति तहत् । आत्मतत्त्वस्यावरकत्वान्मायापरसज्ञ भावरूपाज्ञानसत्र इत्युच्यते । तेन तमसा निगूढम् संवृतम् कारणभूतेन तेना- च्छादितम् भवति । आच्छादकात्तस्माममो नामरूपाभ्यां यदाविर्भवन तदेव तस्य जन्मेत्युच्यते। एतेन कारणावस्थाया- मसदेव कार्यमुत्पद्यत इत्यसहादिजोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याता । ननु कारणे तमसि तज्जगदात्मक कार्य विद्यते चेत् 'कथं नासीद्रज इत्यादिनिषेधः । तत्त्राह तम । आसौदिति। तमोभावरूपाज्ञान मूलकारणम् । तद्रूपता तदात्मनाम् । यतः सर्व जगत्याक तम आसीदतो - - Hymn of Chedti1911 X 129 ] सायणभाष्यम् । १८१ निधिध्यत इत्यर्थः। नन्वावरकत्वादावरकम् तमः कर्तृ. आवायत्वाज्जगत्कर्म कथ तयोः कर्मकोंस्तादात्म्यम् । तनाह। अप्रतमिति । अप्रकेतमप्रज्ञायमानम् । अयमर्थः । यद्यपि जगतस्तमसच कर्मकर्तृभावो यौक्तिको विद्यते तथापि व्यवहारदशायामिव तस्या दशायां नामरूपाभ्या विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम् । अतएव मनुना स्मर्यत । आसादिदं तमोभूतमप्रज्ञातमलक्षणम् ! अप्रतक्य- मनिदेश्यं प्रसुप्तमिव सर्वतः । मनुः ११५ । इति । कुतो वा न प्रज्ञायत तत्राह। सलिलम् । सल गतौ। औणादिक इलच् । इदं दृश्यमानं सर्व जगत् सलिलं कारणेन सङ्गत- मविभागापनमाः। आसीत्। अस्तेलङि तिपि बहुल कन्दमोतीडभाव हलड्याभ्य इति तिलोप तिप्यनस्ते. । पा० ८।२।७३ । इति पयुदासाहकाराभावः । यहा सलिल- मिति लुप्तोपमम् । सलिलमिव । यथा क्षौरेणाविभागापन्न नार दुर्विज्ञान तथा तमसाविभागापन्न जगन्न शक्यविज्ञान- मित्यर्थः । ननु विविधविचित्ररूपभूयसः प्रपञ्चस्य कथमति- तुच्छेन तमसा क्षोरण नोरस्येवाभिभवः । क्षीरवइलवदित्वेवाचते। तहि दुर्बलस्य जगतः सर्गसमये- ऽपि नोद्भवसम्भव इत्यत आह । तुच्च्येनेति। आ समन्ता- द्भवतीत्याभु तुच्च्येन। छान्दसो यकारोपजनः । নুন तथा तमोऽपि १८२ सायणभाष्यम् । [Hyil! Of Creativ. X 100 तुच्छकल्पनेन मदमडिलक्षणेन मदमहिलक्षणेन भावरूपाज्ञानेनापिहिर छादितमासीत् । दधातः कर्मणि निष्ठा । दधातेहि। गति- रनन्तर इति गतेः प्रकृतिस्वरत्वम् । एकमेको भूत कारणेन तमसाविभागता प्राप्तमपि तत्कायजात तपसः स्रष्टव्य- पालोचनरूपस्य महिना माहात्म्येनाजायत । उत्पन्नम्। तपसः स्रष्टव्यपालोचनरूपत्व चान्यनाम्नावत। यः मवज्ञ सर्वविद्यस्य ज्ञानमय तप.। सु. उ० २११८ । इति । ४ । ननुक्तरीत्या यदीश्वरस्य पालोचन जगतः पुन- रुत्पत्तो कारण तदेव किन्निवन्धनमित्यत आह कामस्तदन इति अग्रेऽस्य विकारजातस्य सृष्टेः प्रागवस्थायाम् परमेश्वरस्य मनसि काम. समवर्तत : मम्यगजायत। मिहना जाते. त्यर्थ । ईश्वरस्थ सिसृक्षा वा किहेतुके त्यत आइ सनम इति । मनसोऽन्तःकरणस्य सम्बन्धि वासनाशेषेण मायायां विलौनेऽन्त करण समवेत । मामान्यानिक्षले कवचनम् । • सर्वप्राण्यन्त करणेषु ममवतमित्यर्थ । एततात्मनो गुगा- धारत्वम् प्रत्याख्यातम् । सदृशं रेतो भाविन प्रपञ्चस्य वौजभूत प्रथममतो ते कल्पे प्राणिभिः कृत पुण्यात्मकं कमा यद्यतः कारणात् सृष्टिसमय आसीत् अभवत् । মুঘ वर्धिष्णजायत परिपक्वं मत् फलोन्मुखमासौदित्यर्थः । तत्ततो हतोः फलप्रदस्य सर्वसाक्षिण' कर्माध्यक्षस्य परमेश्वरस्य सायणभाष्यम् । [ Hymn of Creation X 129 विततो विस्तृत आसीत् । विदासीदिति वक्ष्यमाणमनापि सम्बध्यते । विवामिाणानाम् । पा० ८।२।०७। इति प्लुतः । तत्रोदात्त इत्यनुत्तेः स चोदात्तः। विदिति वितर्के । स कार्यवर्गः प्रथमतः कि तिरश्चौनस्तिय॑गवस्थिती मध्ये स्थित आसीत् किंवाधोऽधस्तादासीत्। आहो खिदुपयं- परिष्टात् किमासीत् । उपरि खिदासौदिति च । पा. ८२।१०२ । इत्यनुदात्तः प्लुतः। प्रात्मन आकाशः सम्भत आकाशाहायुयोरग्निः। ते० प्रा० ८।१। इत्यादिकया पञ्चमीश्रुत्या तत उगातारम् ततो होतारमितिवत्क्रन- प्रतिपत्तौ सत्यामपि विद्युत्प्रकाशवत् सर्गस्य शीघ्रव्यापनेन तस्य क्रमस्य दुर्लक्षणवादेतेषु त्रिषु स्थानेषु प्राथम्यं कुत्रे ति विचार्यते । एवं नाम शौनं सर्वतो दिक्षु सर्गो निष्पन्न इत्यर्थः । एतदेव विभजते सृष्टेषु कार्येषु मध्ये केचिद्भावा रेतोधा रेतसो वौजभूतस्य कर्मणो विधातारः कर्त्तारो भीतारच जीवा आसन् अन्ये भावा महिमानः । खाधिक इमनिच। महान्तो वियदादयो भोग्या आसन्। एवं मायासहितः परमेखरः सर्व जगत् सृष्ट्वा स्वय चानुप्रविश्य भोक्तभोग्यादिरूपेण विभाग कृतवानित्यर्थः । अयमेवार्थः स्तैत्तिरीयके तत् सृष्ट्वा तदेवानुप्राविशत् । ते० प्रा० ८६ । इत्यारभ्य प्रतिपाद्यते। तत्र च भोक्तभोग्ययोमध्ये स्वधा । -- Hy}}}}} (iation X 129 ] सायणभाष्यम् । १८५ पा० पा० अन्ननामेतत। भोग्यप्रपञ्चोऽवस्ताटवरो निक्कष्ट आसीत । प्रतिः प्रयतिता भोक्ता परस्तात् पर उत्कृष्ट आसौत् । भोग्यप्रपञ्चं भोतृप्रपञ्चस्य शेषभूतं कृतवानित्यर्थः । विभाषा परावराभ्याम् । ५।३।२८ । इति प्रथमार्थेऽस्तातिः । अम्ताति च। ५।३।४०। इत्यवरशब्दस्यावाटेशः । अवस्तातादिति संहितायामीषाअक्षादित्वात् प्रकृतिभावः । ६ । एवं भोक्तभोग्यरूपेण सृष्टि. संग्रहेण प्रतिपादिता । एतावहा इदमन चैवान्नादश्च सोम एवान्नमग्निरन्नाद इतिवत् । अथेदानी सा सृष्टिर्दुर्विज्ञानति न विस्तरेणा- भिहितत्याह। को अद्देति । कः पुरुषोऽद्धा पारमार्थेन वेद। जानाति । को वेहास्मिल्लोके प्र वोचत् । प्रब्रूयात् । इयं दृश्यमाना विसृष्टिविविधा भूतभौतिकभोक्तभोग्यादि- रूपेण बहुप्रकारा सृष्टिः कुतः कस्माटुपादान कारणात् कुतः कस्माञ्च निमित्तकारणादाजाता समन्ताज्जाता । प्रादुर्भूता । एतदुभयं सम्यको वेद की वा विस्तरेण वक्तुं शक्नुयादित्यर्थः । ननु देवा अजानन्तः। मर्वज्ञास्ते ज्ञास्यन्ति वक्तुं च शक्नु- वन्तीत्यत आह । अर्वा गिति । टेवाश्चास्य जगतो विसर्जनेन वियदादिभूतोत्पत्त्यनन्तरं विविधं यद्भौतिक सर्जन सृष्टि- स्तेनागिर्वाचोनाः कृताः । . भूतसृष्टेः पश्चाज्जाता इत्यर्थः । सथाविधास्ते कथं स्त्रोत्पत्तेः पूर्वकालौना सृष्टिं जानौयु ।

सायणभाष्यम् । [IIymn of Creation X 129 । अजानन्तो वा कथ प्रयु.। उक्तं दुर्विज्ञानत्व निर्गमयति । अथवं सति देवा अपि न जानन्ति किल । तातिरिक्त: का नाम मनुष्यादिर्वेद तज्जगत्कारणम् जानाति यतः कारणात् कृत्स्नं जगदावभूव अजायत । उक्त प्रकारेण यथेद जगत्सर्जनं दुर्विज्ञानम् एव सृष्ट तज्जगदुर्धरमपौत्याह । इयमिति । यत उपादानभूतात् परमात्मन इयं विसृष्टिविविधा गिरिनदीसमुद्रादिरूपेण विचित्रा सृष्टिराबभूव आजाता सोऽपि किल यदि वा दधे धारयति यदि वान धारयति । एवं च को नामान्यो धत्तुं शक्नुयात् । यदि धारयेटीवर एव धाग्येन्नान्य इत्यर्थः । एतेन कार्यस्य धारयित्वप्रतिपादनेन ब्रह्मण उपादान- कारणत्वमुक्तम् भवति । तथा च पारमर्ष सूत्रम् । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। वेदा १।४।२३। इति । यहा अनेनार्धन पूर्वोक्तं सृष्टेर्युर्ज्ञानत्वमेव द्रढ़यति । को वेदेत्य- सुवर्तते । इय विविधा सृष्टिर्यत आबभूव आ समन्ता- दजायतेति को वेद । न कोऽपि। नास्त्येव जगतो जन्म कदाचिदनौदृश जगदिति बहवो भ्रान्ता भवन्त्यपि । यतः । जनिकर्तुं. प्रकृतिः। पा. ११४।३० । इत्यपादान- संज्ञायां पञ्चम्यास्तसिल । यस्मात् परमात्मन उपादानभूता- दाबभूव तं परमात्मानं को वेद । न कोऽपि। प्रकृतितः ।

IHyun of Creation X 129] सायणभाष्यम् । तथास परमाणुभ्यो वा जगज्जन्मेति हि बहवो वान्ताः । एवोपादानभूत: परमात्मा स्वयमेव निमित्तभूतोऽपि सन् यदि वा दधे विदध इदं जगत् ससर्ज यदि वा न ससर्ज असन्दिग्धे सन्दिग्धवचनमेतच्छास्ताणि चेत् प्रमाणं स्युरिति यथा। स एव विदधे । तं को वेद । अजानन्तोऽपि बहवो जड़ात् प्रधानादकर्तृकमेवेदं जगत् स्वयमजायतेति विपरीतं प्रतिपन्ना विदधतो विधानमजानन्तोऽपि । स एवोपादान- भूत इत्यपि को वेद। न कोऽपि। उपादानादन्यस्तटस्थ एवेश्वरो विदध इति हि बहवः प्रतिपन्नाः। देवा अपि यन्न जानन्ति तदर्वाचौनानामेषां तत्यरिज्ञाने कैव कथेत्यर्थः । यद्येव जगत्सृष्टिरत्यन्तदुरवबोधना तर्हि सा प्रमाणपद्धति- मध्यास्त इत्याशङ्का तत्सद्भाव ईश्वरो बेद प्रमाणयति । यो अस्येति । अस्य भूतभौतिकात्मकस्य जगतो योऽध्यक्ष ईश्वरः परम उत्कृष्टे सत्यभूते व्योमन् व्योमन्याकाश आकाश वनिर्मले स्वप्रकाशे। यहा। अवतेस्तपणादन्येभ्योऽपि दृश्यन्त इति मनिन् । नेडशि कृतीतौटप्रतिषेधः । ज्वर- त्वरेत्यादिना वकारोपधयोरूट। सप्तम्या लुक् । सम्बुद्धयोरिति नलोपप्रतिषेधः । व्योमनि विशेषेण हप्ते । निरतिशयानन्दस्वरूप इत्यर्थः । यहा। अवतिगत्यर्थ.। व्योमनि विशेषेण गन्तव्ये। देशकालवस्तुभिरपरिच्छिन्न न डि-

१८८
सायणभाष्यम् । [Hymn of Creation X.129
इत्यर्थः । अथवा। अवति नार्थः । व्योमनि विशेषण
जातरि विशिष्टज्ञानात्मनि । ईदृश स्वात्मनि प्रतिष्ठितः ।
श्रूयते हि सनत्कुमारनारदयाः सवादो स भगवः कस्मिन्
प्रतिष्ठित इति, स्खे महिन्नि । छा. उ० ७२४११ इति ।
ईदृशो यः परमेश्वरः सो अङ्ग। अङ्गति प्रसिद्धी। सोऽपि
नाम वद जानाति। यदि वा न वद न जानाति। को
नामान्यो जानीयात् । सवज्ञ ईश्वर एव ता सृष्टि जानीयात्
नान्य इत्यर्थः।

YAMAX.135. वृक्षे । यस्मिन्निति स पर्च सामं सूक्तं यमगोवस्य कुमारस्यार्षम् । आनुष्टुभं यमदेव यन् । तथा चानुक्रान्तं । यस्मिन् कुमारी यामायनो याम- मानुष्टुमं विति । १ । वृक्षे । लुप्तोपममेतत । वृक्षवत्सुपलाशे शोभन- पलाशोपेत शोभनोद्यानमहिते। यहा। शोभनपपिते तादृशस्य वृक्षस्य मूलं यथोषाजनितशमापनीदनन सुखकरं भवति तहत्सुख कर यस्मिन् स्थान देवैः परिजन- भूतैर्यमो नियन्ता वैवस्वत: सम्पिवते सह भंतो। पिवती- त्यर्थः । विशपतिर्विशा प्रजानामधिपति: पिता नः । व्यत्ययेन वहुवचनम् । मम नचिकेतसो जनको वाजश्रवसोऽत्रा- स्मिन्यमस्य स्थान पुराणान् पुरातनानत्र चिरकालं निवसतः पितृननु तेषां पश्चात्तत्समीपे निवसत्वयमिति वेनति । मां कामयते । नचिकेता नाम कुमारी वाजश्रवसेन पिना यम- लोकं प्रस्थापितः सन् यमं दृष्ट्वा प्रसाद्य पुनरपोमं लोकमाज- ।

१८० सायणभाष्यम् । Yania X 135. यहा। गाम। अयमर्थ इदमादिकैमन्त्र. प्रतिपाद्यते । कुमारो नाम नचिकेतसाऽन्य क्रश्चिदृषि । यच्छतो ति यम आदित्यः । तमनेन सूक्तन तुष्टाव । सुपलाशे वृक्ष इव यस्मिशोभन यम आदित्यो देवैः। दीव्यन्तीति देवा रश्मयः । तैः सम्मिवते सङ्गच्छते। उपसर्गवशात् पिवति- रत्र गत्यर्थः । व्यत्ययेनात्मनेपद। अत्रास्मिन् स्थाने स्थिती विशपतिविशा प्रजानाम् प्रकाशनप्रवर्षणादिना पालयिता प्राणामना सर्वेषां जनकः स आदित्य: पुराणांश्चिरन्तनान्- स्तोतृन्नोऽस्मानपि वेनति । अनुग्राह्यत्वेन कामयते । यहा। अत्र स्थाने स्थितानोऽस्माकं पुराणान् पूर्वपुरुषाननुवेनति । अनुक्रमेण कामयते। पुराणान् पुरातनान् पितॄननुवेनन्तं मामनुगतं कामयमानममुयानया पापया निकृष्टया वुद्धया सह चरन्तं वर्तमानं पितरं वाजवसमसूयन् मुखेन जीवन्तं मां मृत्यु- समीपं प्रेहीत्युक्तवानिति मानसेनोपतापेन युक्तः सन् प्रथम- मभ्यचाकशं। अयं पश्यतिकर्मा। अभ्यपश्यं । असुज मानस उपतापे । कण्डादिः । पुनः पश्चात्तस्मा अस्पृहयं । पितुरानया तं मृत्यु प्राप्तुमैच्छं। स्पृह ईसायां। चुरादि- रदन्तः। स्पृहेरीप्सितः । पा० १२४१३६ । इति सम्प्रदान- सजायां तच्छब्दाच्चतुर्थी। पुराणांश्चिरन्तनान् २।

Yama X 135 ] सायणभाष्यम। १८१ स्तोतॄन् पूर्वपुरुषान् पितॄन् वानुवनन्तमनुक्रमेण कामयमानं चरन्तमुदयास्तमयाभ्या दिवि परिवर्तमानमनया पापया निकृष्टया स्तोतुमसमर्थया वुद्ध्यासूयन् । गुणेषु दोषाविष्करण- मसूया। परकीयगुणेषु दूषणान्याविष्कुर्वन्नभ्यचाकशं । अयमपि कचिदिति सामान्यरूपेणाभ्यपश्यं । इदानीं तु पुनस्तस्यादित्यस्य माहात्मा जानस्तस्मा अस्पृहयम् । तमेव आदित्यं स्तुतिभिः परिचरणात्मकैः कर्मभिश्च प्राप्तु- मैच्छं। नचिकेत:संजू कुमारं यमोऽनयोत्तरया च. प्रलोभयति । है कुमार नवमभिनवमितः पूर्वमदृष्टं । अभि- नवत्वमेव व्यनक्ति । अचक्र चक्ररहितम् तमेकेषमेकेषा यस्य तादृशं तथापि विश्वतः सर्वतः प्राञ्चं प्रकर्षेणाञ्चन्तं गच्छन्तं यं रथं मनसावणोर्मत्समीप प्रतिगमनायाध्य- वसायात्मकमोदृशं य रथमकरोः कृत्वा चापश्यन् कर्त्तव्या- कर्तव्यविभागमजाननधि तिष्ठसि। रथमारोहसि । यहा स्तोतारम् कुमाराख्यमृषिमादित्यः प्रत्यक्ष: सन् देहात्मनो- विवेकम् वोधयति । हे कुमारर्षे चक्ररहितमेकेषं। एकः प्राण ईषास्थानीयो यस्य। ईदृशमभिनवं सर्वती गच्छन्तं शरीरामक यं रथं मनसान्तःकरणेनाकणोः अकरोः। सल्या- मकेन मनसा हि कामो जायते। सत्यां हि कामनायां १८२ सायणभाष्यम् । [ Yama x 135 पा. सत्व । पुण्यापुण्यात्मकं कर्म क्रियते । तेन व भोगप्रदानायेद शरीरमारभ्यत इति परम्परया मनस. शरीरनिष्पादकत्वम् । तं शरीरात्मकं रथमपश्यनजानन् । लक्षणहेलो: । ३।२।१२६ । इति हेतौ शतप्रत्ययः । मत्सखरूपापरि- जानाद्धेतोरधितिष्ठसि । भोगायतनखेन स्वीकरोषि। ४। हे कुमार नचिकेत: यं पूर्वांतमधिष्ठितं रथं प्रावर्त्तयः मत्समीपं प्रत्यगमयो विप्रेभ्यो मेधाविभ्य: पर्य्यपरि- भूलोके वर्तमानानां मेधाविना बान्धवानामुपरिष्टात् । अन्तरिक्ष इत्यर्थः । पञ्चम्याः परावध्यर्थ इति विसर्जनोयस्य तं रथं साम पिता लत मान्त्वन यमसमीप गत्वैव- मेव त्वया व्यक्तव्यमिति प्रत्यागमन कारणमुपायोपदेशनमनु प्रावर्तत । इतोऽस्माल्लोकादवगच्छत् । कथम्भूतम् । नावि नौवत्तरणसाधनाया बुद्दी समाहितम् । सम्यग्धृतम् । यहा। हे कुमारर्षे य शरीरात्मकं रथ- मधिष्ठितं प्रावतय. ससारे प्रवर्तितवानसि मेधाविनां मध्ये तं रथमनु साम। उपलक्षणमेतत् । ऋक्सामादिसाध्य स्तोत्रं नावि नौवत्तारयित्रमा वाचि वेदात्मिकायां समाहितं मम्यक् प्रतिपाद्यत्वेन हितं कर्म चेतोऽस्माल्लोकात् प्रावर्तत । प्रहत्तमभूत्। इस्थमात्मस्वरूपापरिज्ञानन शरीरबन्धन तेन कर्तव्यं व्यवहारजातम् चोक्तम् । अथ तु सत्यज्ञानादि- , Yama X 135 ] सायणभाष्यम् । १८३ ५॥ खरूपमकर्तारं परमात्मानं यदि स्वात्मतया साक्षात् करोति तदोक्त न सम्भवतीत्यभिप्रायः । कः पुरुषः इमं कुमारमजनयत् । अधिक्षेपे किंशब्दः। ईदृशं बालं यमसमीपं प्रहिण्वन् कथ पिता समीचीनः स्यात् । तत्तावदास्ताम् । को वा पुरुषोऽस्य बालस्य यमसमीप प्रतिगमनाय तं रथं निरवर्त्तयत् । निवतितवान् । सोऽपि मूर्ख इत्यर्थः । यथा तेन प्रकारणायं कुमारोऽनुदेय्यनुदातव्योऽभवत् भवति तत्तदनुगुण वचन- मुपायकथनमद्यास्मिन् काले नोऽस्माकं कः स्वित् को नाम ब्रूयात् । अभिदध्यात् । प्रथम यमसमीपं गत्वा पश्चात्ततो निर्गमनोपाय ब्रूवन्नपि न प्राज्ञ इत्यर्थः । अथवा कुमाराख्य ऋषिरात्मनः सर्वात्म्यमवगच्छन् स्वव्यतिरिक्त स्यान्यस्थासम्भवं किंशब्देनाक्षेपवाचिना दर्शयति । कुमारं मां क, पिता- जनयत् । न कोऽपि । अजो नित्यः शाश्वत । २।१८। इति श्रुत्युक्तरूपोऽहं भवामि । कश्च शरीरात्मक रथं निरवतयत् । निवर्तयति । महातिरिक्त स्य निर्वर्तयितु- रभावात् तथा निर्वत्त्यस्यान्यस्यासम्भवाच्च । अद्यास्मिन् काले सर्वात्म्यानुभवदशाया त त प्रकार क. स्वित्को नाम नोऽस्माकं ब्रूयात् यथा येन प्रकारेणानुदेय्यनुदातव्या मव्यतिरिक्तान्य- पदार्थमत्ताभवत् भवति । स प्रकारोऽपि दुर्वचन इत्यर्थः । क० उ. १३ १८४ सायणभाष्यम् । [Yama X 135 ६। अनुदेय्यनुदातव्यो यथा येन प्रकारण पितरमनु- लक्ष्यायं कुमारी यमेन दत्तोऽभवत् भवति तथा ततस्तस्मा- हाजश्रवसात् पितुरन यमसमोपं गच्छेति वचनस्याग्रतो वर्तमानं नचिकेतसा यमेन सह वदितव्यं तं वै प्रवसन्तं गन्तासोति होवाचेत्यादिकम् । ते. ब्रा० ३।११।८।२ । ब्राह्मणान्तरोक्तमजायत । प्रादुरभवत्। पितोपदिष्टवानि- त्या । पुरस्तात्तत: पूर्व बुध्न उक्त स्याग्रस्य मूलभूतं यमस्य गृहं प्रतिगच्छेति वचनमाततः । अतिविस्तृतमासीत् । पतस्तदशक्यपरिहारमिति पश्चात् क्रोधं परित्यज्य निरयणं तस्माद्यमानिर्गमनोपायं कृतम् । पित्राचरितम् । यहा। अनुदेय्यात्मानमनु दातव्यात्मस्वरूपव्यतिरिक्तान्यपदार्थसत्ता यथाभवत् भवति तदनुगुणं ततस्तस्मान्मायाविशिष्टादात्मनो- ऽग्नं स्रष्टव्यस्य विकारजातस्यायं मनस्तत्त्वं सिमृक्षाकारण- मजायत । उदपद्यत । पुरस्तात् सृष्टेः प्रागवस्थायाम् बुध्नो मूलमव्याक्कतम् मायात्मकं कारणमेवातत.। पा समन्ता- त्तत विस्तृतमासीत् । पश्चात्तमस उत्पत्त्यनन्तरं निरयणं तहताना कार्याणाम् तस्मात्कारणानिर्गमनम् घटपटादि- भेदेन स्वरूपालम्भन कृतम्। ब्रह्मणा निर्मितम् । मृद्दिकारी घटादिम॒दोऽन्यो न भवति । आदित्या- नुग्रहाइधाभावं प्रातस्य मम विकारः प्रपञ्ची मदन्यो तथा Yama x. 135.] सायणभाष्यम्। १८५ न भवतीति व्यतिरिक्तस्य पित्रादेराक्षेपः पूर्वोक्ताः सम- धितः । ७। इदं यमस्य निरन्तुरादित्यस्य वैवस्वतस्य वा सदनं स्थानम्। छान्दसः साहितिको दीर्घः । यत् सदनं देवमानं देवैर्निमितमित्युच्यते सर्वत्राभिधीयते । यहा। देवानां रश्मीनां निर्माणसाधनमिति गीयते । अस्य यमस्य प्रौणना- येयं नाड़ीर्वाद्यविशेषो वेणुर्धम्यते वाद्यते । यहा। नाडीति वाङ्नाम । इयं स्तुतिरूपा वागस्य प्रौणनाय धम्यते । उच्चार्यते । एवं सत्ययं यमो गीर्भिः स्तुतिभिः परिष्कृतः । असतोऽभूत्। सम्पर्युपेभ्य इति सुड़ागमः। परिनिविभ्य पति षत्वम् । गतिरनन्तर इति गतेः प्रकृतिवरत्वम् ।

VATA X. 168. वातस्येति चतुरीचं सप्तदशं सूतं वात- गोत्रस्यानिलाख्यस्याएं बैष्टुभं वायुदेवताकम् । तथा चानुक्रान्तत् वातस्यानिलो वातायनो वायव्यमिति । गतो विनियोगः । वातस्य वायो रथस्य रहणशोलस्य महिमानं माहात्मा नु क्षिप्रं प्रब्रवीमि । अस्य वायो?षः शब्दः स्तनयन् गिरिगह्वरादिषु विविधम् शब्दमुत्यादयन् रुजन् सर्व स्थावरजङ्गमजातं भञ्जन्नेति। गच्छति । वायुर्दिविस्मृदिवमाकाशं स्पृशन् व्याप्नुवन्नरुणान्यरुणवर्णानि विकृतरूपाणि दिगन्तराणि कृण्वन् कुर्वन् याति । प्राप्नोति । उतो अपि च पृथिव्या भूमे रेणु पासुमस्यन् ग्टहीत्वा सर्वत्र विक्षिपन्नेति । गच्छति । अत एवारुणानि कखन्नित्युक्तम् । २। विष्ठा विशेषणावस्थिताः पर्वताद्याः वातस्य वायोरनुगुणं सं प्रेरते सम्पगच्छन्ति । यदभिमुखो वायु- वर्तते तदभिमुखाः प्रकम्मन्त इत्यर्थः। समनं न संग्राम- Vata X 168 ] सायणभाष्यम् । १८७ मिवैनं वायु योषा अश्खयोषितो वड़वा आ गच्छन्ति । ताभिवंड़वाभि: स्वयुक् स्वयमेब युज्यमानं सरथं समान- मेक रथमारुह्य देवो दीप्यमानो वायुरीयते । गच्छति । ईङ् गतौ। अस्य विश्वस्य सर्वस्य भुवनस्य हितोयविकार- भाजो मृतजातस्य राजा स्वामौ भवति । यहा समनं धृष्टं पुरुषं योषा कामिन्य इव एनं वायुं तकगुल्मादिरूपाः स्त्रियोऽभिगच्छन्ति । ताभिः सरथं सहरथं देव इयत इति । ३। अन्तरिक्षे नभसि विद्यमानः पथिभिर्मार्गेरीयमानो गच्छन्वायुः कतमञ्चनाहरेकमपि दिनं न नि विशते । नोपविशति । किन्तु सर्वदेव गच्छति । नर्विशः १।३।१७ इत्यात्मनेपदम् । अपि चापामुदकानां सखा । वायुर्वै वृध्या ईश इति श्रुतेः। प्रथमजाः सर्वेभ्यः प्राणिभ्यः पूर्वोत्पन्न एवर्तावा सत्यवान् एवम्भूतो वायुः क खित् कुत्र खलु देशे जात उत्पन्नः कुतः कस्माच्च देशानिष्क्रम्या बभूव । इद सर्व जगद् व्याप्नोत् । सर्वदा सर्वत्र वर्तमानत्वादस्यो- त्यत्तिाप्तिप्रकारश्च न केनापि ज्ञातुं शक्यत इत्यर्थः । ४। अयम् वायुर्देवानामिन्द्रांदोनामप्यामा जौवरूपेण तेष्ववस्थानामुवनस्यापि भूतजातस्य गर्भो गर्भवत् प्राण- रूपेणान्तवर्तमान एष ईदृशो देवो यथावशं यथाकामं

१८८
सायणभाष्यम् । [ Vata X, 168
यथेच्छ चरति । वर्तते । अनिवारितगति:
सन्
कचिच्छीघ्र
गच्छति क्वचिच्छनैर्गच्छति कुतश्चिच्छरौरानिष्क्रामत्यन्यञ्च
शरीरं प्रविशतीत्येवं यथेच्छं वर्तत इत्यर्थः ।
अस्य वायो-
रागच्छतो घोषा इच्छब्दा एव शृखिरे श्रूयन्ते । रूपं स्वरूप
तु न दृश्यते नीरूपत्वात्। अग्विषयत्वेन शब्दैनैवानुमीयत
इत्यर्थः । तस्मै वाताय वायवे हविषा चरुपुरोडाशादि-
लक्षणेन विधेम । परिचरम ।
समाप्तम्।

Sayana's Commentary On The Rigveda

Author
Pashupati Nath Shastri
Title
Sayana's Commentary On The Rigveda
File name
Sayana's Commentary On The Rigveda
Text
OCR done
Citation
1921
Published
2006
Publisher
London : Oxford University Press.
Language
Sanskrit
Pages
198
Library
Tibetian Institute, Sarnath, Vns.
Classification
Sanskrit Literature
DLI number
486010
Barcode
1990010087956.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library of India
VMLT id
gDrfkVHJX3y
Download PDF

Sayana's Commentary On The Rigveda