Sringeri Sharada Peetham
Gayashraddhadipaddhati
Front matter
१
७
.१७
: :
...१८
विषयानुक्रमणिका।
विषयः
गयायात्राविधिः
गयाश्राद्धकालः
सर्वतीर्थोपयोगितीर्थस्नानतर्पणविधिः
स्लानप्रयोगः
तीर्थप्रार्थना
तर्पणप्रयोगः
कातीयतर्पणप्रयोगः
विष्णुपुराणोक्तं काम्यतपर्णम्
तीर्थनिमित्तद्वादशदैवत्यश्राद्धप्रयोगः
अमौकरणम्
पात्रपरिवेषणविधिः
रक्षोनीः पंचऋचः
पितृमंत्राः
पुरुषसूक्तम्
अप्रतिरथमंत्राः
रुचिस्तोत्रम्
२९
३७
...४१
...४२
...४४
...४७
५०
.५२ ...५८ ७२ ७५ विषयानुक्रमणिका । पिण्डदानविधिः दक्षिणादानम् ... पिण्डमावतीर्थश्रादपद्धतिः गयानापद्धतिः गयापानिदिनरुत्यम् द्वितीयदिनकृत्यम् षोडशीकम मातृषोडशी पुत्रकामकृत्यम् अंतशिलाकत्यम् तृतीयदिनरुत्यम् चतुर्थदिनरुत्यम् पञ्चमदिनकृत्यम् षष्ठदिनकृत्यम् सप्तमदिनकृत्यम् अनियतदिनकत्यानि ..८१ .. ८३ ८५ ...९२ ... ९४ 4 ..९७ .९९ १०१ गदाधारस्तोत्रम् .. इति विषायानुक्रमणिका।
२७.51282९७ गयानाद्धादिपद्धतिः। संवत् १९८४, शके १८४९ .56 ॥ श्रीः॥ श्रीशुक्लयजुर्वेदीयमाध्यन्दिनवाजसनेयिनां श्रीबीकानेरराज्यान्तर्गतश्रीरत्नगढनिवासिना गौडवंशावतंसेन नानानिबन्धका कर्मका- ण्डाचार्य-कर्मकाण्डकोविद-श्रौतभूषण- इत्युपाधित्रयधारिणा पण्डित श्रीचतुर्थीलालशर्मणा प्रणीता। सैव- श्रीकृष्णदासात्मज-गंगाविष्णुश्रेष्टिना, स्वकीये " लक्ष्मीवेंकटेश्वर” मुद्रणालये मुद्रयित्वा प्रकाशिता । १९९१९ ९ कल्याण-सुबह अस्य ग्रन्थरय पुनर्मुद्रणाधिकारा यत्राधिकारिणी स्वायत्तीकृताः श्रीशुक्लयजुर्वेदीयमाध्यन्दिनवाजसनेयिनां गयाश्राद्धादिपद्धतिः। श्रीगणेशाय नमः॥ स्वपुरः पिंडदातॄणां पितॄन् पापयुतानपि । समुद्ररन्तं कृपया नोमि देवं गदाधरम् ॥ १॥ वायुपुराणे-गयायात्रां प्रव- क्ष्यामि शृणु नारद मुक्तिदाम्। निष्कृतिस्त्विह कर्तृणां ब्रह्मणा गीयते पुरा ॥ २॥ उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेषं कृत्वा ग्रामप्रदक्षिणाम् ॥ ३ ॥ ततो ग्रामांतरं गत्वाश्राद्धशेपानभोजनम् । ततः प्रतिदिनं गच्छे- प्रतिग्रहविवर्जितः ॥ ४ ॥ प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः । अहङ्कारनिवृत्तो यः स तीर्थफलमभुते ॥ ५॥ यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम् । जितेन्द्रियो दानशीलः स
४
गयाश्राद्धादिपद्धतिः।
तीर्थफलमथुते ॥६॥ गृहाचलितमात्रेण गयायां
गमनं प्रति। स्वर्गारोहणसोपानं पितॄणां च पदे
पदे ॥ ७ ॥ पदेपदेऽश्वमेधस्य यत्फलं गच्छतो
गयाम् । तत्फलं लभते पुण्यं समय नात्र संशयः।८।
ततो गयां समासाद्य ब्रह्मचारी समाहितः। अश्व-
मेधमवाप्नोति गमनादेव नारद ॥ ९॥ कांक्षन्ति
पितरः पुत्रानरकाद्भयभीरवः । गयां यास्यति यः
पुत्रः स नस्त्राता भविष्यति ॥ १० ॥ गयाप्राप्तं
सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् । पद्भ्यामपि
जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति ॥ ११ ॥
एष्टव्या बहवः पुत्रा यद्यकोऽपि गयां व्रजेत् ।
यजेद्दा चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १२ ॥
गयां गत्वाऽनदाता यः पितरस्तेन पुत्रिणः
पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम् ॥ १३॥
नोचेत्पंचदशाहं वा सप्तरात्रं त्रिरात्रकम् । महा-
कल्पकृतं पापं गयां प्राप्य विनश्यति ॥ १४ ॥
५ गयाश्राद्धादिपद्धतिः। ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । पापं तत्संगजं सर्वं गयाश्राद्धाविनश्यति ॥ १५ ॥ आत्मजोऽप्यन्यजो वापि गयाभूमौ यदा तदा । यन्नाना पातयेत्पिण्डं तं नयेब्रह्म शाश्वतम् ॥१६॥ गयायां सर्वकालेषु पिण्डं दद्याविचक्षणः । मीने मेषे स्थिते सूर्य कन्यायां कार्मुके घटे । दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ १७ ॥ मकर वर्तमाने च ग्रहणं चन्द्रसूर्ययोः। दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ १८॥ अधि- मासे जन्मदिने चास्तपि गुरुशुक्रयोः । नत्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥ १९ ॥ सकृद्र- याभिगमनं सकृत्पिण्डप्रपातनम् । दुर्लभं किंपुन- मन्ये अस्मिन्नेव व्यवस्थितः ॥ २० ॥ मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजां गयाम् ॥ २१॥ पायसे- नाथ चरुणा सक्तुना पिष्टकेन वा । तंडुलैः फल- :
६ गयाश्राद्धादिपद्धतिः। मूलाधैर्गयायां पिण्डपातनम् ॥ २२ ॥ तिल- कल्केन खण्डेन गुडेन सघृतेन वा । केवलेनैव दना वा ऊर्षेण मधुनापि वा ॥ २३॥ पिण्याकं सघृतं खण्डंपितृभ्योऽक्षयमित्युताइष्यते पितृभि- भौज्यं हविष्यानं मुनीरितम् ॥ २४ ॥ मुष्टिमात्र- प्रमाणेन चामलकमात्रकम् । शमीपत्रप्रमाणेन पिंडं दद्याद्याशिरे॥उद्धरेत्सप्तगोत्राणि कुलमेको- त्तरं शतम् ॥ २५॥ पिता माता च भार्या भगिनी दुहितुः पतिः। पितृष्वसा मातृष्वसा सप्त गोत्रांश्च तारयेत् ॥ २६ ॥ चतुर्विंशश्च विशश्च पोडश द्वादशैव हि । रुदा दश वसुश्चैव कुलमेको- तरं शतम् ॥ २७॥ एकतः सर्ववस्तूनि रसवन्ति मधूनि हि । स्मृत्वा गदाधरांध्यजं फल्गुतीर्याम्बु चैकतः ॥२८॥ नावाहनं न दिग्बंधो न दोषो दृष्टिसंभवः । सकारुण्येन कर्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ २९ ॥ पिंडासनं पिंडदानं पुनः ७ गयाश्राद्धादिपद्धतिः। प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्पस्तीर्थश्राद्ध- प्वयं विधिः ॥ ३० ॥ अन्यत्रावाहिताः काले पितरो यांत्यमुंप्रति । अत्रागतं सुतं दृष्ट्वा स्वयमा- यान्ति सर्वथा ॥३॥ तीर्थश्राद्धं प्रयच्छाद्भिः पुरुषैः फलकांक्षिभिः। कामं क्रोधं तथा लोभं त्यक्त्वा कार्याः सदा क्रियाः ॥ ३२ ॥ ब्रह्मचार्येकभोजी च भूशायी सत्यवाक् शुचिः । सर्वभूतहिते रक्तः स तीर्थफलमश्नुते ॥ ३३ ॥ तीर्थान्यनुसरन् धीरः पाखण्डं पूर्वतस्त्यजेत्।पाखंडं तच्च विज्ञेयं यद्भवेत् कर्म कामतः ॥ ३४ ॥ गयायां पिंडदानेन यत्फलं लभते नरः। न तच्छक्यं मया वक्तुं कल्प- कोटिशतैरपि ॥ ३५॥ अथ सर्वतीर्थोपयोगितीर्थस्नानतर्पणश्राद्धप्रयोगः। तत्रतावत्तीर्थप्राप्तिदिने पादचारेण यावर्तुं शक्यते तावतः स्थानान् यानोपानही परित्यज्य गच्छेत् ॥ ततस्तीथे संप्राप्ते पाणिपादौ प्रक्षा- गयाश्राद्धादिपद्धतिः। ल्याचम्य ॐ अमुकतीर्थाय नमः इति साष्टाङ्गं प्रणम्य गंधपुष्पादिभिः संपूज्य देशकालौ संकीर्त्य अमुकगोत्रोऽमुकशर्मा ममेहजन्मनि जन्मान्तरे वा कृतकायिकवाचिकमानसिकसांसर्गिकदोषप- रिहारार्थ श्रीपरमेश्वरप्रीत्यर्थममुकतीर्थप्राप्तिनि- मित्तकं स्नानमहं करिष्ये । इतिसंकल्प्य ॥ यथा- विधिना सूर्याभिमुखःस्थित्वा स्नानं कुर्यात् ॥ अथ स्नानप्रयोगः । आचारादर्श-कात्यायनः। यथोक्तमृत्तिकामा- गोमयं कुशान् कृष्णतिलान सुरभीणिपुष्पाण्या- दाय सुमनानद्यादिकं गत्वा तत्तीरेशुचौदेशे पृथक् पृथक् स्थापयेत् । तदनंतरं सूर्याभिमुखस्तीर्थानि प्रार्थयेत् । ओं पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा । आगच्छंतु पवित्राणि स्नानकालेसदा मम॥३॥त्वं राजा सर्वतीर्थानांत्वमेवजगतः पिता। याचितंदहिमेतीर्थसर्वपापैःप्रमुच्यते ॥२॥ अपा- or गयाश्रादादिपद्धतिः। मधिपतिस्त्वंच तीर्थेषु वसतिस्तवावरुगायनमस्तु- भ्यंत्रानानुज्ञप्रियच्छमेशगंगेचयमुनेचैवगोदावरि सरस्वति । नर्मदेसिंधोकावेरि जलेस्मिन् सन्निधिं कुरु॥४॥इतिप्रायीततः पाणिपादं प्रक्षाल्य नाभि- मात्रजलंगत्वाकुशहस्तोबद्धशिखीआचम्य देशका- लौसंकीर्त्य ममकायवाङ्मनःकृतकर्मदोषपरिहार- द्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातः सानं करिष्ये इतिसंकल्प्य में उरुहिराजाव्वरुणश्चकारसूर्यो- युपंथामन्तवाऽउँ । अपदेपादाप्रतिघातवेकुरु- तापवक्ता हृदयाविर्धश्चित् ॥ नमोव्वरुणायाभि- प्टिंतोव्वरुणस्य पाशः इति न्युजांजलिहस्तेन तोयमामंत्र्य ।ओं येतेशतंवरुणयेसहस्रंयज्ञियाः पाशाविततामहांतः। तेभित्रोंअद्यसवितोतब्वि- ष्णुर्विश्वमुंचंतुमरुतः स्वर्काः । इति त्रिः प्रदक्षिणं ३० गयाश्राद्धादिपद्धतिः। जलमावर्तयेत् ।ततःओं सुमित्रियान आपओषध- यसंतु।इतिजलांजलिमादाय । ओं दुर्मित्रियास्त- स्मैसंतुयोऽस्मांदृष्टियंचव्वयांद्वष्मः इतितीर्थतटे द्वेष्यप्रतिनिषिचेत् । ततः कटिवस्त्युरुजंघेचरणौ प्रत्येकंमृत्तोयाभ्यां त्रित्रिः प्रक्षाल्य एकंपादंजले- परंस्थले निधायाचामेत् । ततः उदकं नमस्कृत्य ओं डुम्विष्णुविचक्रमेवेधानिदधेपदं समूंढमस्य पा सुरेस्वाहा । इति मृत्तिकयांगानि संस्पृश्य नाभिमात्रंजलंपविशेत्। ओंआपॉअस्मान्मातरः शुंधयंतुघृतेर्ननो घृतप्व:पुनंतु विश्वहिरिप्र- वहतिदेवीरितिमंत्रेण सूर्याभिमुखो निमज्जेत् । ततः स्रात्वा । ओं उदिदादिभ्युत्शुचिरापूतऽएमि इतिनिमज्योन्मज्याऽऽचम्य ओं मानस्तोकेतन- ११ गयाश्रादादिपद्धतिः। यमानुऽआयुषिमानो गोषु मानो अश्वैपुरीरिषद मानौ वीरान्भामिनौवधीईविष्मंत सदमिवा हवामहे इतिमंत्रेणगोमयेनांगानिविलिंपयेत् । ततो मार्जनं ओं इमम्मेव्वरुणश्रुधीहव॑मुद्याचेमृडयत्वा- मत्स्युराचंके ।। ओतत्त्वायामित्रह्मणावंदमान- स्तदाशास्तेयजमानोहुविभिः अहैडमानोब्बरुणे- हुबोद्धयुरेशा समान आयु:अमोषी:।।ओं त्व- नोऽअग्नेव्वरुणस्यविद्वान्देवस्यहेडोऽअवयासिसी- ठा यजिष्ठीवह्नितम शोशुचानोविश्वाद्वेषांसि प्रमुंमुग्ध्यस्मत्।।ओं सत्वन्नोऽअग्नेवमोभवोतीने- दिष्टोऽअस्याउषसोव्युष्टौ अवयवनोवरुणर- राणोवीहिपॅडीकर सुहवान एपि।४ाओंमापोमौ- पंधीहिऽसीद्धान्न धानोराजस्ततोवरुणनोमुंचय
१२
गयात्रादादितिः।
दाहुरण्याइतिवरुणेतिशपामहेतोवरुणनोसुंच ५
ओं उर्दुत्तमंवरुणुपाशमस्मदाधर्मविध्यम
श्रेयाय अत्यमादित्यवतेतवानांगसोऽअदितये
स्यामओंमुचर्तुमाशपथ्यादोव्वरुण्ण्यादुतअर्था-
युमस्युपडीशत्सर्वस्माद्देवकिल्बिषात्।।ॐ अर्व
भृथनिचुंपुणनिनेहरसिनिपुण अदुवैर्देवकृतमे-
नौ यासिषमवमत्यमत्त्यकृतंपुरुराव्णोदेवरिपस्या
हि ८इत्यष्टमिमत्रैर्हस्तेन प्रत्येकं शिरसि जलं प्रक्षि-
पेत्। ततो वहतिजलेप्रवाहाभिमुखः स्थिरे सूर्याभि-
मुखो मौनी मज्जेत्। ततआचम्यवक्ष्यमाणैरोंकारा-
दिभिमैत्रैः प्रतिमंत्रं कुशत्रयेण जलेन प्रदक्षिणमा-
त्मानं पावयेत् । ओं पुनातु १ ओं भूः पुनातु २
ओं भुवः पुनातु ३ ओं स्वः पुनातु ४ ओं महः
पुनातु ५ ओं जनः पुनातु ६ओं तपः पुनातु ७
१३ गयाश्राद्धादिपद्धतिः। ओं सत्यं पुनातु ८ओं तत्सवितुरितिसवै पुनातु ५ ओं आपोहिष्ठा मयोभुवस्तानऽऊजेंदधातन मुहेर- शायुचक्षसे॥६॥ योव शिवतमारसुस्तस्य॑भाजयते- हुन उशतीरिवमातरः ।७। तस्माअरङ्गमामवो- यस्युक्षयायुजिन्य आपोजनयंथाचन: ॥८॥ओं हुदापुःप्रर्वहतावद्यञ्च मलंचुयत्।यच्चाभिदुद्रोहा- नृतंघर्चशेपेऽभीरुणआपोमातस्मादेनसल्पव॑मा- नश्चमुँचतु ॥ ९ ॥ ओं हुविष्मतीरिमाऽआपोहु विष्मा ३ ॥ आविवासतिहविष्मांन्देवोऽअवरोह- विष्मा ३ अस्तुसूर्य: ॥१०॥ओं देवीरापोऽअ- पानपाद्योवऊम्मिहविष्यऽइन्द्रियावान्मदिन्तमहतं देवेभ्योदेवुवादत्तशुक्रपेभ्योचषांभागस्थस्वाहा ११ ओं कारिसिसमुद्रस्य त्वाक्षित्याऽउन्नयामिसमा- १४ गयाश्रादादिग्दतिः। पोऽअद्भिग्मतसमोषधीभिरोषधीः ॥ १२॥ ओं अपोदेवामधुमतीरगृभ्णन्नजस्वतीराजस्वश्चिांना याभिमित्रावरुणावुभ्यपिचंन्याभिरिन्दुमन॑यन्नत्य- राती १३॥ओं द्रुपदार्दिवसुसुचान स्विन्न वातो मलादिवपुतंपवित्रेणेवाज्यमार्प शुधन्तु मैनस:१४ ओं शन्नौदेवीरभिष्टयुऽआपोभवन्तुपीतये शंयो रभिवंतुनः॥ १५॥ ओं अपारसुसुंद्वयसठ ० सूर्येसन्तठ समाहित आपररसस्य योर- सुस्तौगृह्णाम्युत्तममुपयामगृहीतोसीन्द्रायत्त्वाजु- ष्टगृह्णाम्येषतेयोनिरिंद्रायत्वाजुष्टतमम् ॥ १६ ॥ ओं अपोदेवीरुपैसृजमधुमतीरयक्ष्मायग्रजाभ्य: तासामास्थानादुहितामोपर्धयत्सुपिप्पलाई १७ मतदापुितर सोम्यास:पुनन्तुमा पितामहाः १५ गयाश्राद्धादिपद्धतिः। पुनन्तु प्रपितामहा पवित्रैणशतायुषा॥१८॥ओं पुनंतु मापितामहाःपुरंतुप्रपितामहार पवित्रेण शुतायुषविश्वमायुर्व्यनवै ॥१९॥ ओं अग्नआy राषिपवसुऽआसुवोर्जुमिपंचनआरेबाधस्वदुच्छु नाम्॥२०॥ओं पुनन्तुमादेवजनात्पुनन्तुम साधि- य पुनन्तुबिश्वा भूतानिजातवेद पुनीहिमा २१ ओं पवित्रंणपुनीहिमा शुक्रेणदेवदीय॑त् अग्नेकृत्वा ऋतू र र ॥२२॥ ओयत्तेपवित्रमर्चिष्यनेविततं- मंतरा ब्रह्मतेनपुनातुमा॥२३॥ॐ पवमानःसोऽ. अद्यनः पवित्रेणविचर्षणिय पोतासपुनातुमा २४ ओं उभाभ्यांदेवसवितत्पवित्रैणसुवेनंच मापु- नीहिन्विश्वत: २५ ओं वैश्वदेवीपुंनतीदेव्यागाध- स्यामिमाबवयस्तन्वेव्विीतपृष्ठाल्तयामदतः सध- २ १६ गयात्राादिपद्धतिः। मादेषुव्वयः स्यामपतयोरयीणाम् २६ ऑचित्प तिर्मापुनातुवाक्पतिर्मापुनातुवोमासवितापुंना- वच्छिणवित्रेणसूर्यस्यरश्मिभिः तस्यतेपवि- त्रपतेपवित्रपूतस्ययत्कमित्पुनेतच्छंकेयम् ॥२७॥ एवं मार्जनकृत्वा । ओं अपाघमपुकिल्बिषमपकु- त्यामपोरप: अपामार्गवमुस्म्मदपदुष्वप्न्यंठ सुव । इतिमंत्रेणापामागैस्त्रिभिजियेत् । ततःओं काण्डात्काण्डात्पुरोहंतीपरुष: परुषस्परि एवा- नोर्वेपतनुसहस्रेणशतेनंच ।इति मंत्रेण दूर्वाभि- खिभिमार्जयेत् । ततः पूर्ववत् ओं इमं मेव्वरुण- इत्यादिमःशिरसिजलं निक्षिपेत् ततऋष्यादि- कंस्मृत्वा अंतर्जलेमनोवमर्षणंद्रुपदांच आयंगौरि- तिवाऋचंत्रिरावर्तयेत् ।ओं ऋतंचसत्यंचाभीदा- तपसोऽध्यजायत । ततोरात्रिरजायतततः समुद्रो मयाश्राद्धादिपद्धतिः। १७ अर्णवः समुद्रादर्णवादधिसंवत्सरो अजायत अहो- रात्राणिविधद्विश्वस्यमिषतोवशीसूर्याचंद्रमसौधा- तायथापूर्वमकल्पयत् । दिवंचपृथिवींचान्तरिक्षम- थोस्वासशिरसंप्राणायामं वात्रिकुर्यात्।यद्वा पर- मात्मानं विष्णुं शेषशायिनंसायुधंसश्रीकं ध्यायेत्। अथ तीर्थप्रार्थना। ओं विष्णोः पादप्रसूतासिवैष्णवीविष्णुपूजिता । पाहिनस्त्वेनसस्तस्मादाजन्ममरणांतकात् तिस्रः कोव्योधकोटीच तीर्थानांवायुरब्रवीत्।दिविभुव्यंत- रिक्षेचतानितसंति जाह्नवि॥२॥नंदिनीत्येवतेनाम देवेषुनलिनीतिचावृंदापृथ्वीचशुभगाविश्वकायाशि वासिता ३॥ विद्याधरीसुप्रसन्नातथालोकप्रसाधनी क्षेम्याचजाह्नवीचैवशांताशांतिप्रदायिनी।।४ एता- निपुण्यनामानिस्नानकालेप्रकीर्तयेत् भवेत्संनिहि- तातस्यगंगात्रिपथगामिनी॥नमामि गंगे तवपा- दपंकजंसुरासुरैवदितदिव्यरूपाभुक्तिं चमुक्तिंचददा- सिनित्यं भावानुसारेण सदा नराणाम्॥६ यागति- १८ गयात्रादादिपद्धतिः। योगयुक्तानांमुनीनामूर्ध्वरेतसाम् । सागतिःसर्वज- तूनां जाह्नवीतीरवासीनाम् । ७ । इति पठित्वा नाभिमात्रजलंगतः सन् स्नानांगतर्पणं कुर्यात् ॥ अथ तर्पणप्रयोगः। मोदस्तृप्यतां १ ॐ प्रमोदस्तृप्यतां २ ॐ सुमुखस्तृप्यतां ३ ॐ दुर्मुखस्तृप्यतां ४ ॐ अविघ्नस्तृ० ५ ॐ विघ्नकर्ता तृप्यतां ६ ॐ ब्रह्मादयो देवास्तृप्यतां ७ ॐ गौतमादयो यस्तृप्यतां ८ इतिदेवतीर्थेन एकैकमंजलिं जले प्राङ्मुखः क्षिपेत् । अथोदङ्मुखः निवी- त्यूर्ध्वजुषः प्राजापत्येन तीथेन सनकादीस्तर्प येत् । ॐ सनकादयोमनुष्यास्तृप्यतां २ ततोप- सव्यं दक्षिणाभिमुखः पितृतीर्थेन कृष्णतिलोदकैः कव्यवाडनलादीस्तर्पयेत् ॐ कन्यवाडनलादयो देवपितरस्तृप्यंतां३ (इतित्रयोंजलयः) ॐअस्म- पितृपितामहप्रपितामहास्तृप्यतां ३ ॐ अस्म- १९ गयाश्राद्धादिपद्धतिः। न्मातामह-प्रमातामह प्रमातामहास्तृप्यन्तां ३ आब्रह्मस्तम्बपर्यंतंजगत्तृप्यताम् । एवं स्नानांग- तर्पणं कृत्वायक्ष्मणे जलंदद्यात् । अयन्मयादूषितं तोयं मलैः शारीरसम्भवैः। तस्यपापस्य शुद्धय- थैयस्मै तत्ततिलोदकम् । १। ततस्तीरमागत्य । ॐ अग्निदग्धाश्चयेनीवायेप्यदग्धाःकुलेमम । भूमौ दत्तेनतृप्यन्तुतृप्तायांतुपरांगतिम् इतिनिक्षिपेत् ॥ इति स्नानप्रयोगः॥ अथ कातीयतर्पणप्रयोगः। ततः स्नानानन्तरं धौतवाससीपरिधाय । चंदन- भस्मादिना तिलकंकृत्वा । संध्यांब्रह्मयज्ञंचविधा- यतत्रस्थोदर्भवत्यां भूमौस्वशाखोक्तं देवर्षिपितृत- र्पणंकुर्यात् ॥ तत्र कातीयतर्पणप्रयोगः ॥ तत्रादौ कुशत्रयतिलजलान्यादाय देशकालौ संकीर्त्य अद्य समस्तपितॄणां विष्णुलोकादिप्राप्तये आत्म- नश्च मुक्तिप्राप्तये अमुकतीर्थप्राप्तिनिमित्तं नित्यं २० गयाश्रादादिपद्धतिः। च देवऋषिपितृतर्पणं तंत्रणाहं करिष्ये इति संक- ल्प्य । उपवीतरी प्राइमुख उदङ्मुखो वा दैवतीर्थेन यवोदकेन ब्रह्मादीन्तप्पयेत् ॥ यथा ॐ ब्रह्मातृ- पताम १ ॐ विष्णुस्तृप्यताम् १ ॐ रुद्रस्तृप्य- ताम् १ ॐ प्रजापतिस्तृप्यताम् । ॐ देवास्तृप्य- न्ताम् । ॐ छंदांसितृप्यताम् । ॐ वेदास्तृप्य- न्ताम् १ ॐ ऋषयस्तृप्यताम् । ॐ पुराणाचार्या स्तृप्यताम् । ॐ गंधर्वास्तृप्यताम् १ ॐ इतरा- चार्यास्तृणंताम् १ ॐ संवत्सरः सावयवस्तृप्य- ताम् । ॐ देव्यस्तृप्यताम् १ ॐ अप्सरसस्त- प्यताम् १ ॐ देवानुगास्तृप्यताम् १ ॐ नागा- स्तृप्यताम् १ ॐ सागरास्तृप्यताम् । ॐ पर्वता- स्तृप्यताम् । ॐ सरितस्तृप्यताम् । ॐ मनुष्या- स्तृप्यताम् १ ॐ यक्षास्तृप्यताम् । ॐ रक्षांसि तृप्यताम् १ ॐ पिशाचास्तृप्यताम् । ॐ सुप- स्तृिप्यताम् १ ॐ भूतानितृप्यताम् १ ॐ पश- अत्रिस्तृप्यताम् १ ॐ अंगिरास्तृप्यताम् १ ॐ गयाश्राद्धादिपद्धतिः। २१ वस्तृप्यताम् १ ॐनस्पतयस्तृप्यताम् १ ॐ ओषधयस्तृप्यताम् १ ॐ भूतग्रामश्चतुर्विधस्तृ- प्यताम् १ । एवमेव ॐ मरीचिस्तृप्यताम् १ ॐ पुलस्त्यस्तृप्यताम् । ॐ पुलहस्तृप्यताम् १ ॐ ऋतुस्तृप्यताम् । ॐ प्रचेतास्तृप्यताम् १ ॐ वसिष्ठस्तृप्यताम् १ ॐ भृगुस्तृप्यताम् १ ॐ नारदस्तृप्यताम् । ततो निवीती उदङ्मुखउत्त- राग्रेणकुशेनप्रजापतितीर्थेनयवोदकेनचसनकादीन प्रत्येकंद्विवारम्-ॐसनकस्तृप्यताम् २ ॐ सनंद- नस्तृ०२ ॐ सनातनस्तृप्यताम् २ॐ कपिलस्त- प्यताम् २ ॐ आसुरिस्तृ०२ वोढुस्तृ०२ ॐपंच- शिखस्तृप्यताम् २। ततः प्राचीनावीती दक्षिणा- मुखः पितृतीर्थनद्विगुणभुग्नकुशत्रयेणतिलचंदनोद- केनकव्यवाडादीन् प्रत्येकंत्रिः ॐ कव्यवादस्त- प्यतामिदंतिलोदकंतस्मैस्वधानमः ३ ॐ अन- २२ गयाश्राद्धादिपद्धतिः। लस्तृप्यतामिदंतिलोदकं तस्मै स्वधानमः ३ ॐ सोमस्तृप्यतामिदं०३ॐ यमस्तृप्यतामिदं०३ ॐ अर्थमातृप्यतामिदं० ३ ॐ अग्निष्वात्तास्तृप्यं- तामिदंतिलोदकंतेभ्यः स्वधानमः ३ ॐ सोमपा- स्तृप्यतामिदं तिलोदकंतेभ्यः स्वधानमः३ ॐ बहिपदस्तृप्यतामिदंतिलोदकंतेभ्यः स्वधानमः ३ ततः ॐ यमायनमः ३ ॐ धर्मराजायनमः३ॐ मृत्यवनमः ३ ॐ अंतकायनमः ३ ॐ वैवस्वता- यनमः ३ ॐ कालायनमः ३ ॐ सर्वभूतक्षयाय नमः ३ ॐ उदुंबरायनमः ३ ॐ नायनमः ३ ॐ परमेष्टिनेनमः ३ ॐ वृकोदरायनमः ३ ॐ चित्रायनमः ३ ॐ चित्रगुप्तायनमः ३ इतिचतुर्द- शयमांस्तर्पयेत् ॥ ततः ॐ उदीरतामवरऽउत्पर सऽउन्मध्यमा पितर: सोम्यासः ॥ असुंयऽई- युरवृकाऽऋतज्ञास्तेनेोऽ वन्तु पितरो हुवेषु ॥ ॐ ३ ३ २३ गयाश्राद्धादिपद्धतिः। अमुकगोत्रोस्मत्पिताऽमुकशर्मा वसुरूपस्तृप्यता- मिदं तिलोदकं तस्मै स्वधानमः इतिमंत्रणवाक्येन चप्रथमाञ्जलिं पित्रेदद्यात् १ ॐ अङ्गिरसोनलंपित- ऐनवग्वाऽअर्थवाणोभृगवदं सोम्यास: ॥ तेषां व्यर्हन्सुमतौयज्ञियानामपिभद्रेसौमनसेस्याम ॥ इति मंत्रेण वाक्येन च द्वितीयांजलिम्० २ ॐ आयतुनः पितर सोम्यासौग्निष्वात्ता पथि- भिंदेवयानै ॥ अस्मिन् यज्ञेस्वुधयामुदतोधि ब्रुवन्तुतेवन्तुस्मान् ॥ इतिमंत्रेण वाक्येन चतृती यांजलिंपित्रेदद्यात् । ॐऊजैवहतीरमृतंघृतंपर्य : कीलालपरिसुतम् ॥ खुधास्त्थं पयतमेपितृन् ॐ अमुकगोत्रोऽस्मत्पितामहोऽमुकशर्मा वरूप- स्तृप्यतामिदंतिलोदकंतस्मै स्वधा नमः ॥ इति मंत्रणवाक्येनचपितामहाय प्रथमांजलिंदुद्यात् ॐ २४ गयावादादिपद्धतिः। पितुभ्य: स्वधायिभ्यस्त्वधानमः पितामहेभ्यः स्वधायिभ्यं स्वधानमः अपितामहेभ्य स्वधायि भ्य स्वधानमः॥ अक्षन पितरोमीमद पितरो- तीतृपन्तपिर र९पितरशुधध्वम्।इति पितामहाय द्वितीयांजलिं दद्यात् । येचेहपितरोयेचनेहयाँश्च- विझयाँउंचनालिझ॥ त्ववेत्थयतितर्जातवेदः- स्वधाभिर्यज्ञठसुकृतंजुषस्वा इतिपितामहायतृती- यांजलिंदद्यात् ३॥ ॐमधुवाताऽऋतायते मधुक्षरं- तिसिंघवमाध्वीन संत्वोषधीः॥ ॐअमुकगोत्रोऽ स्मत्प्रपितामहोऽमुकशर्मा आदित्यरूपस्तृप्यता- मिदंतिलोदकंतस्मैस्वधानमः ॥ इतिमंत्रेण वाक्ये नचप्रपितामहायप्रथमांजलिंदद्यात्॥ॐ मधुनक्त- मुतोषसो मधुमत्पार्थिवठेनजर मधुचौरस्तु नः गयाश्राद्धादिपद्धतिः। पिता ॥ इति प्रपितामहायद्वितीयांजलिं०॥२॥ मधुमा वनस्पतिर्मधुमाँऽअस्तुसूर्य मावीर्गा- वोभवंतुनः ॥ इतिप्रपितामहायतृतीयांजलिंद- यात् ३ ॐ तृप्यध्वं तृप्यध्वं तृप्यध्वमिति पित्रा- दिभ्योऽचलित्रयं दद्यात् ॥ ततः ॐ अमुकगोत्रा- स्मन्मातासुकदेवीगंगारूपातृप्यतामिदंजलं सति- लंतस्यैस्वधानमः इतिमातरं० १ ॐ अमुकगोवा स्मत्पितामही अमुकदेवीयमुनारूपातृप्यतामिदं जलं सतिलं तस्य स्वधानमः इतिपितामहीं०१ ॐ अमुकगोत्राऽस्मत्प्रपितामही अमुकदेवीसरस्वती- रूपातृप्यतामिदंजलंसतिलंतस्यैस्वधानमः १ इति प्रपितामहींचतर्पयेत् ॥ एवंसापत्नमातरम् ॥ ततः पितरोरसाय नमोवापितर शो पायु नोव पितरोजीवायुनमावलपितरस्वधायै नौवरूपितरो घोराय नौवह पितरोमन्यवे ॥ ॐनमाव २६ गयाश्राद्धादिपद्धतिः। नमोवरूपितर-पितरो नाँवोगृहान्नं पितरोदत्तस तो पितरोदेष्मतः पितरोवासः॥ ॐ अमुक- गोत्रोऽस्मन्मातामहोऽमुकशावसुरूपस्तृप्यतामि दं जलं सतिलंतस्मरधानमः॥ इति मातामहायां- जलित्रयंदद्यात् ३ ॐअमुकगोत्रोऽस्मत्प्रमाताम- होऽमुकशर्माखरूपस्तुणतामिदंजलंसतिलंतस्मै स्वधानमः ॥ इतिप्रमातामहायांजलित्रयंदद्यात ॐ अमुकगोत्रोऽस्मदृद्धप्रमातामहोऽमुकशर्मा आदित्यरूपस्तृप्यतामिदंजलंसतिलं तस्मै स्वधा नमः॥इतिवृद्धप्रमातामहायांजलित्रयं दद्यात्३ ॐ तृप्यध्वमित्यंलिवयंमातामहादिभ्योपि दद्यात् ॥ ततः ॐ असुकगोत्राऽस्मन्मातामही अमुकदेवी गंगारूपा तृप्यतामिदंजलंसतिलंतस्यैस्वधानमः ! इति मातामझ० ॐ अमुकगोत्राऽस्मत्प्रमातामही अमुकदेवीयसुनारूपातृप्यतामिदंजलंसतिलं तस्यै २७ गयाश्रादादिपद्धतिः। स्वधानमः १ इति प्रमातामझै०॥ ॐ अमुकगो- त्राऽस्मद्धप्रमातामहीअमुकदेवी सरस्वतीरूपात- प्यतामिदनलं सतिलंतस्यै स्वधानमः १ इतिवृद्ध- प्रमातामझे च दद्यात्॥ ॐ अमुकगोत्राऽस्मत्पनी अमुकदेवीलक्ष्मीरूपा तृप्यतामिदं जलं सतिलं तस्यै स्वधानम इति १ स्वपत्नी तर्पयेत् ॥ ॐ अमुकगोत्रोऽस्मत्पितृव्योऽमुकशावसुरूपः सप- लीकस्तृप्यतामिदंजलं सतिलंतस्मै स्वधानमः ३ ॐ अमुकगोत्रोऽस्मदूभ्राता अमुकशर्मा वसुरूपः सपत्नीकस्तृप्यतामिदंजलंसतिलंतस्मैस्वधानमः३ ॐ अमुकगोत्राऽस्मत्पितृष्वसाऽमुकदेवीसभर्तृका तृप्यतामिदंजलं सतिलं तस्यैस्वधा० १ अमुकगो- त्रोऽस्मन्मातुलोऽसुकशावसुरूपः सपत्नीकस्तृ- प्यतामिदेजलं सतिलंतस्मै स्वधा० ३ ॐ अमुकगोत्राऽस्मन्मातृष्वसाऽमुकदेवी सभर्तृका तृप्यतामिदंजलं सतिलंतस्यैस्वधा० १ ॐ अमु- २८ गयाभाद्धादिपद्धतिः। कगोत्रोऽस्मच्छशुरोऽमुकर्मा वसुरूपस्तृप्यता मिदंजलं सतिलं तस्मैस्वधा० ३ ॐ अमुकगो- त्राऽस्मशूरमुकदेवी गंगारूपा तृप्यतामिदं जलं सतिलं तस्यै स्वधा० १ ॐ अमुकगो- वोऽस्मदाचार्योऽसुकशर्मा वसुरूपः सपत्नी- कस्तृप्यतामिदंजलं सतिलंतस्मैस्वधा० ३ ॐ अमुकगोत्रो स्मदावार्यपुत्रोऽमुकशर्मा सपत्नीक- स्तृप्यतामिदं जलं सतिलं तस्मै स्वधा० ३ ॐ अमुकगोत्राऽस्मत्पुत्री अमुकदेवीतृप्यतामिदं जलं सतिलं तस्यै स्वधा० १ ॐ अमुकगोत्राऽस्मद्भ- गिनी अमुकदेवी यमुनारूपा तृप्यतामिदं जलं सतिलं तस्यै स्वधा० १ ॐ अमुकगोत्रोऽस्मदुपा- ध्यायोऽमुकशर्मा वसुरूपः सपत्नीकस्तृप्यतामिदं जलं सतिलंतस्मैस्वधानमः ॥३॥ इत्युपाध्यायंच तर्पयेत्।। एवं पितृव्यपुत्र भ्रातृपुत्र० मातुलपुत्र० श्यालकं० गुरुपुत्र० जामातरं० पौत्र० भागिनेयं० गयाश्रादादिपद्धतिः। २९ दोहित्रं शिष्यं मित्रं तत्पत्नीपुत्रादींश्च मृतानपि तर्पयेत् ॥ ततः विष्णुपुराणोक्तं काम्यतर्पणं (सव्येन ) कार्यम्॥ॐ देवासुरास्तथा यक्षा नागा गंधर्वराक्षसाः॥ पिशाचा गुह्यकाः सिद्धाः कूष्मां- डास्तरवः खगाः ॥ १ ॥ जलेचरा भूनिलया वाय्वाधाराश्च जंतवः ॥ प्रीतिमते प्रयान्त्वाशु मदत्तेनाम्बुनाखिलाः॥२॥ नरकेषु समस्तेषु या- तनासु च ये स्थिताः॥ तेषामाप्यायनायैतहीयते सलिलं मया ॥३॥ येऽबांधवा बांधवा ये येऽ- न्यजन्मनि बांधवाः॥ ते तृप्तिमखिला यांतु यश्चा- स्मत्तोऽभिवाञ्छति ॥ ४॥ ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥ तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ ५ ॥ आब्रह्मस्तंबपर्यंत देवर्षिपि- तृमानवाः ॥ तृप्यन्तु पितरः सर्वे मातृमातामहा- दयः॥ ६॥ अतीतकुलकोटीनां सप्तद्वीपनिवा- सिनाम् ॥ आब्रह्मभुवनाल्लोकादिदमस्तुतिलोद- ३० गयाश्राद्धादिपद्धतिः। कम् ॥ ७॥ एतैमैत्रै पृथक्पृथक्सतिलजलं दद्यात्॥ ततेऽपसव्यं कृत्वा ॥ येकेचास्मत्कुलेजाता अपु- त्रागोत्रिणोमृताः॥ ते गृहंतु मयादत्तं वस्त्रनिष्पी- डनोदकम् ॥ इतिस्नानवस्त्रं बहिःस्थलेनिष्पीड्य सव्येनाऽचम्यतर्पणोत्तरकर्मकुर्यात् ॥ तद्यथा नमोविवस्वतेब्रह्मन्भास्वतेविष्णुतेजसे ॥ जगत्स- वित्रे शुचयेनमस्तेकर्मदायिने ॥ ३॥ इतिमंत्रण सूर्यायाय॑दत्त्वा ब्रह्मादीन्पुष्पांजलिभिरर्चयेत् ॥ ॐ ब्रह्म जज्ञानं प्रथमम्पुरस्ताद्विसीमतःसुरुची वेनु आवमबुध्न्याऽउपमाअस्युविष्ठाः सतश्च यो निमसंतश्चविवः ॐ ब्रह्मणेनमः ॥ ३॥ ॐ इदं विष्णुर्विचक्रमे त्रेधानिदधेपदम् समूढमस्यपार्छ सुरे ॐ विष्णवेनमः ॥ २॥ ॐ नमस्ते रुद्र मन्यव ऽउतोतऽइषवेनमः। बाहुभ्यामुततेनमः ॐ रुद्राय नमः ॥३॥ ॐ आकृष्णेन रजसावर्तमानोनि- ३१ गयाश्राद्धादिपद्धतिः। वेशयन्नमृतमत्यंच हिरण्ययेनसवितारथेनादेवोया- तिभुवनानिपश्यन् ॐ सूर्यायनमः ॥ ४॥ ॐ मित्रस्यचर्षणीधृतोवो देवस्यसानसिद्युम्नञ्चित्रश्र- वस्तमम् ॐ मित्रायः ॥५॥ ॐ इमम्मे वरुण- श्रुधीहवमद्याचमृडय त्वामवस्युराचके ॐ वरुणा- यनमः॥६॥ ततउत्थाय ॐ अश्रमस्यकेतवो- विरस्मयोजना ऽअनुं ॥ प्राजन्तोऽअग्न- योयथा उपयामगृहीतोसिसूर्यायत्वा भाजायै- पञ्चेयोनिः सूर्यायत्वाभ्राजाय सूर्यप्राजिष्ठ भ्रानि टुस्त्वं दुवेष्ठसिम्राजिष्ठोहम्मनुष्येषुभूयासम्।। हुसः शुचिषद्वसुरन्तरिक्षुसद्धोतावेदिषदतिथि रोणसत् नुपर्द्धरसहतसयोमसदुब्जागोजाऋतजा ऽअद्रिजाऽऋतम्बृहत् २ इतिसूर्यमुपस्थाय ॐ आदित्यायनमः ॐ दिग्भ्योनमः ॐ दिग्देवता- ३२ गयाश्राद्धादिपद्धतिः। भ्योनमः ॐ ब्रह्मणे० ॐ पृथिव्यैः ॐ ओषधि- भ्योनमः ॐ वाचनमः ॐ वाचस्पतये० मरुयो. अन्योन० इतिनमस्कृत्योदकंचदत्त्वा॥ संवर्चसाप- यसासंतनूभिरगन्महिमनसासर्थशिवेन त्वष्टांसुद- जोविर्दधातुरायो माटुंतन्वीयविलिष्टम् देवांगातु विदागातुवित्वागातुमित मनसस्पत इमदेवयज्ञ स्वाहावातेधाः २ इतिजपेत् ॥ इतितर्पणप्रयोगः॥ एवंतर्पणं विधाय श्रीमहाविष्णुं षोडशोपचारैः संपूज्य माध्याह्निकं कर्मसमाप्य तीर्थप्राप्तिनि- मित्तकं पित्रादीनांनवदैवतं द्वादशदेवतवापार्वण पितृव्यादीनां चैकोदिष्टं पिंडमात्रं वा अन्नेन आमान्नेनहेम्नावाब्राह्मणेषु दुर्भवटुषु वा यथासंभवं कुर्यात् ॥ तत्रब्राह्मणपरीक्षानकार्या ॥ तवत्या विप्रदेवमातृका नावमंतव्याः ॥ श्राईचपित्रादि- षड्दैपयंसनत्यं वा द्वादशवत्यं यथासंभवंकु- लाचारानुसारेणपूर्वोक्तपार्वणविधिनाकर्तव्यम् ॥
. गयाश्राद्धादिपद्धतिः। ३३ परंतुएतद्वय॑म् ॥ अर्घ्यदानम् आवाहनं द्विजाडु- पनिवेशनं तृप्तिप्रश्नं विकिरं दिग्बंधनं दृष्टिदोष- कृताऽपवित्रताशोधनार्थकूष्मांडादिसूक्तजपं विस- जनं च न कुर्यात् ॥ अत्रकुतपादिकालावश्य. कतापि न इति ॥ अथ तीर्थनिमित्तद्वादशदैवत्यश्राद्धप्रयोगः तत्र तावत्कर्ता स्वासने प्राङ्मुख उपविश्य दर्भपवित्रादिधारणं कृत्वासव्येनाचम्य प्राणा- नायम्य ॥ ॐ अपवित्रः पवित्रोवा इति ॐ पुंड- रीकाक्षः पुनात्वितिपठित्वा कुशवयानीतजलेन श्राद्धद्रव्याणि स्वात्मानं चसिंचेत् ॥ ततः ॐ भूम्यैनमः ॐ भगवत्यै गयायै नमः ॐ भगवतेगदा- धरायनमःॐ अमुकतीर्थायनमःॐ तीर्थदेवताभ्यो नमः ॥ इति नत्वा ॥ कुशत्रयतिलजलान्यादाय देशकालो संकीर्त्य ॐ अमुकगोत्रोऽमुकशर्मा ममसमस्तपितॄणां विष्णुलोकप्राप्तये अमुकतीर्थ- ३४ गयाश्रादादिपद्धतिः। प्राप्तिनिमित्तकसमगोत्राणामस्मपितृपितामह- प्रपितामहानाममुकामुकशर्मणां वसुरुद्रादित्यरू- पाणाम् अमुकगोत्राणामस्मन्मातपितामहीप्रपि- तामहीनाममुकामुकदेवीनां गंगायमुनासरस्वती- रूपिणीनां तथा अमुकगोत्राणामसन्मानामहा- मातामहवृद्धप्रमातामहानाममुकामुकशमणां सप- बीकानां वसुरुधादित्यरूपाणांतथाचअस्मन्माता- मही-प्रमातामही-वृद्धप्रमातामहीनाममुकामुकदे- वीनां सदैवपार्वणश्राद्धं पितृतृप्तिकामोऽहंकरिष्ये इतिसंकल्प्य॥ॐ कुरुष्वइत्यनुज्ञातोगायत्रींत्रिर्ज- पित्वा ॥ ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच ॥ नमःस्वाहायस्वधायै नित्यमेवनमोनमः। इतित्रि पठेत् ॥ ततउदङ्मुखो दक्षिणं जान्वाच्य सव्येनजलयवसमन्वितमृजुकुशत्रयमादाय ॥ ॐ अद्यास्मत्पित्रादित्रयमात्रादित्रय-मातामहादित्रय- मातामह्यादिश्रादसंबंधिनां विश्वेषांदेवानामिद- गयाश्राद्धादिपद्धतिः। ३५ मासनमस्तु इतिजलयवसहितं कुशत्रयरूपमासनं पूर्वाग्रमुत्सृजेत् ॥ १॥ ततोदक्षिणामुख प्राची- नावीती पातितवामजानुः द्विगुणभुग्नकुशत्रयति- लजलान्यादाय ॐअमुकगोत्रास्मपितृपितामह- प्रपितामहाअमुकामुकशाणोवसुरुद्रादित्यरूपाः इदमासनं युष्मभ्यस्वधा इत्युच्चार्यपितृतीर्थेनमोट- करूपंदक्षिगायमुत्सृजेत् ॥ १॥ ततः ॐ अमुक- गोत्रास्मन्मातृपितामहीप्रपितामहः अमुकामुक- देव्योगंगायमुनासरस्वतीरूपिण्यः इदमासनं युष्म- भ्यं स्वधा इतिमोटकरूपमासनं दद्यात् ॥ २॥ पुनः ॐ अमुकगोत्राऽस्मन्मातामहप्रमातामहवृद्ध- प्रमातामहाअमुकामुकशर्माणः सपत्नीकाः वसुरु- द्रादित्यरूपाः इदमासनंयुष्मभ्यंस्वधा इतितृतीयं मोटकरूपमासनंसर्वतः पूर्वगतमुत्सृजेत् । एवमेव मातामह्यादीनांपृथगासनदानम् ॥ ३ ॥ ततः सन्यादिकृत्वा गंधादिकंधृत्वा कुशत्रययवजला- ३६ गयाथादादिपतिः। न्यादाय ॥ॐ अद्यास्मत्पित्रादिनयमात्रादित्रय- मातामहादित्रयश्राद्धसंबंधिविश्वेभ्योदेवेभ्यः एता- निगंधपुष्प पदीपतांबूलयज्ञोपवीतवासांसिवो नम इत्युच्चार्य गं गदीन्यत्मजेत् ॥ ततः कृतांजलिः ताविश्वेषांदेवानामर्चनंसंपूर्णमितिब्रूयात् अस्त्व- संपूर्णमितिद्विजाब्युः ॥ ततोऽपसव्यादिना पित्राद्यासनषुगंधादिधृत्वा । द्विगुणभुनकुशत्रयति- लजलान्यादाय ॐ अमुकगोत्राऽस्मत्पिपिताम- हप्रपितामहा अमुकासकशाणो वसुरुद्रादित्य- रूपाः एतानिगंधपुष्पधूपदीपतांबूलयज्ञोपवीतवा- सांसि युष्मभ्यंस्वधा इतिपित्रादिभ्य उत्सृज्य ॥१॥ ॐ अमुकगोत्राऽस्मन्मातृपितामहीप्रपिता- मह्योऽमुकामुकदेष्य एतानि गंधपुष्पधूपदीपतांबू- लसिंदूरवासांसियुष्मभ्यं स्वधा इतिमात्रादिभ्यः ॥२॥ ॐ अमुकगोत्राऽस्मन्मातामहप्रमातामह- बृद्धप्रमातामहा अमुकामुकशर्माणः सपत्नीकाः ३७ गयाश्रादादिपद्धतिः। वसुरुद्रादित्यरूपाः एतानिगंधपुष्पधूपदीपतांबूल- यज्ञोपवीतवासांसियुष्मभ्यं स्वधाइतिमातामहेभ्यः ग्वमेवमातामहीभ्यश्च गंधादीन्युत्सृजेत् ॥ ३ ॥ ततः कृताञ्जलिर्भूत्वा ॐ पितॄणाम संपूर्णम- स्त्वितिपठेत् ॐ अस्त्वनसंपूर्णमितिप्रतिवच- नम् ॥ ततो गौरमृत्तिकया जलेनवा प्रत्येकं मंडलं कृत्वा भोजनपात्राणि दद्यात् ॥ अथायौकरणम् । व्यंजनक्षारवर्जितं घृताक्तमुष्णमन्नं श्राद्धीया- नाग्रभागं कांस्यपात्रेकृत्वा ॐ अग्नौकरणंकरिष्ये इतिष्ट्वा ॥ कुरुष्व इत्यनुज्ञातोऽपसव्यादिना एव सपात्रके पितृब्राह्मणहस्ते अपात्रके ताम्रपात्रादि- स्थजलेवा ॐ अग्नयेकव्यवाहनायस्वाहा ॥ इदम- गयेकव्यवाहनाय ॥ ॐ सोमाय पितृमतेस्वाहा ॥ इदं सोमाय पितृमते ॥ इत्याहुतिद्वयं जुहुयात् ॥
३८ गयाश्राद्धादिपद्धतिः। ततोहुतशेषमन्नपित्रादिपात्रेषु किंचिदत्त्वा पिं- डाथैचावशेषयेत् ॥ ततः सव्यादिनादेवपात्रे अपस व्यादिनापिदिपावत्येषु उष्णमन्नं सघृतमनेक- जनयुतं सुशीतलजलसहितं यथावत् परिविष्य मधुमयंकृत्वा ॐ मधुव्वाताऽऋतायते इतिव्यचेन ॐ मधुमधुमध्वितिचाभिमंत्रयेत्॥ततः सव्यादिना उत्तानपाणिभ्यां दे पात्रमालभ्य ॐ पृथिवीतेपात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा ॥ॐइम्विष्णुर्विचक्रमे त्रेधानिधेपदम्॥ समूढमस्यपासुरेस्वाहा ॥ इतिपठित्वा ॥ ॐ अपहताऽअसुरारक्षा/सिव्वेदिषद इति यवान पात्रपरितोविकीर्य ॥ दक्षिणकरेणकुशत्रयादीन्या- दाय ॥ ॐ अद्यास्मत्पित्रादित्रयमात्रादिवयमाता- महादिवयमातामह्यादिवयश्राद्धसंबंधिनो विश्वेदे- वाः इदमन्नं सोपस्करं हव्यम् अमृतरूपं वः स्वा- गयाश्रादादिपद्धतिः। ३९ हा नमः ॥ इत्युदकंदेवतीर्थेनदाक्षिणभागे भूमौ क्षिपेत् ॥ ततोऽपसव्यादिनापित्रादिपात्रंन्युजपा- णिभ्यां व्यस्ताभ्यां स्पृष्ट्वा॥ॐ पृथिवीते पात्रं ॐ इदुम्विष्णुर्विचक्रमे इतिजप्त्वा ॥ ॐ अपहताऽ- असुरारक्षार्थसिव्वेदिषद इतितिलान् अन्नपात्र- परितो विकीर्य वामकरणपात्रंस्पृशन दक्षिणक- रेण द्विगुणभुग्नकुशत्रयादीन्यादाय ॥ ॐ अद्यासु- कगोत्राऽस्मत्पितृपितामहप्रपितामहा अमुकाम- कशर्माणो वसुरुद्रादित्यरूपाः इदमन्नं सोपस्कर कव्यम् अमृतरूपं युष्मभ्यं स्वधा ।। इत्युदकंपितृ- तीर्थेन वामभागे भूमौ क्षिपेत्॥ ततोमात्रादिपात्र- मालभ्यपूर्ववजत्वा अमुकगोत्रास्मन्मातृपिता- महीप्रपितामह्योमुकामुकदेव्यः इदमन्नं सोपस्कर कव्यम् अमृतरूपं युष्मभ्यं स्वधा इत्युत्सृजेत् ॥ एवं मातामहादिपात्रमपिस्पृष्धा पूर्ववजावा ॐ ४० गयाश्राद्धादिपद्धतिः। अद्यामुकगोत्राऽस्मन्मातामहप्रमातामहवृद्धप्रमा- तामहाअसुकामुकशर्माणः सपत्नीकाः वसुरुद्रादि त्यरूपाःइदमन्नं सोपस्करं कव्यम् अमृतरूपंयुष्म- भ्यं स्वधा इत्युत्सृजेत् ॥ एवमेवमातामयादि- भ्योप्यन्त्रमुत्सृजेत् । ततः ॐ अन्नहीनं क्रियाहीनं विधिहीनं च यद्भवेत् । तत्सर्वमच्छिद्रमस्तु पित्रा- दीनां प्रसादतः ॥ इतिप्रार्थ्य प्रणवव्याहृतित्रयपूर्वी गायत्री त्रिः सकृद्धा जपेत् ॥ ततः ॐ मधुव्वाताऽ- ऋतायुतेम(क्षरन्ति सिंधवः माध्वीन सन्त्वोर्ष- धौं ॥ १ ॥ मधुनक्तंसुतोषसोमधुमत्पार्थिवठ रज मधुबोरस्तुनः पिता ॥२॥ मधुमान्नोब्व- मुस्पतिर्म माँऽअस्तुसूयं माध्वीर्गावोभवन्तु नीं ॥ ३॥ इति त्यृचम् ॥ ॐ मधुमधुमध्विति चपठेत् ॥ ततः सन्येन- ४१ गयाश्राद्धादिपद्धतिः। * कृणुष्वपाजःप्रसितिन्नपृथ्वी य्याहिराजेवाम- वॉरइभेन । तुष्वीमनुप्रसितिन्द्रुणानोस्तासिविध्य- रक्षसस्तपिष्ठैः॥१॥ तव्यभ्रमासंऽआशुयापैतन्त्यर्नु स्पृशधृषुताशाशुचानः । तपूष्यग्नेजुबापतंगान सन्दितो विसृज विष्वगुल्काः॥२॥प्रतिस्पशाविस- जपूर्णितमोभवापायुर्विशोऽअस्याऽअन्धः । यो नौदूरेऽअद्यशंठ सोयोऽअन्त्यग्नेमाकिष्टेव्याथिराद धर्षीत्॥३॥उद्ग्नेतिष्ठप्रत्यातनुष्वन्यमित्राँ २ ओ- पतात्तिग्महेते। योनोऽअरातिठसमिधानचके नी- चातंर्धक्ष्यतसन्नशुष्कम्॥४॥ऊों वप्रतिवद्धया ध्युस्मदाविष्कृणुष्वदैव्यान्यग्ने। अस्थिरातनुहिया तुजूनाजामिमामिम्प्रमृणीहिशन् । अग्नेट्वातजे- सासादयामि॥२॥ इतिरक्षोनी पंचऋचःपठित्वा ॥
१२
गयाधादादिपद्धतिः।
ॐ उदीरतामवर उत्परांसऽउन्मध्यमा पित-
र सोम्यास: । असुय्यऽईयुग्नुकाऽ*तज्ञा
स्तनोऽवन्तु पितरो हवेषु ॥ १॥ अङ्गिरसोन’
पितरो नवग्वाऽअर्वाणो भृमवत्सोम्यास ।
तेपोमुतौ युज्ञियानामपिभुढे सौमनसे
स्याम ॥२॥ येनुदं पूर्व पितर - सोम्यासौनूहिरे
सौमपीथंवसिष्ठाः। तेभिय॒मः, ॐ रराणो हवी-
प्युशनुवाद्रि प्रतिकाममन्तु ॥३॥ त्वठ-
सोमप्रचित्रितो मनीषावर्छ रजिष्ठुमर्नुनषिपं-
थाम् । तत्प्रणीती पितरोनऽइन्दोदेवेषुरत्नमभ-
जन्तधीराः ॥४॥ त्वयाहिन : पितर -सोमपूर्वेक-
माणिचा पर्वमानधीराः । वुन्वन्नातः परि-
धीपुरपोर्ट्वीरेभिरश्वैर्मघा भवानः ॥५॥
४३ गयाश्रादादिपद्धतिः। बठ सोमापतृमि संविदानोनुद्यावापृथिवीs आतंतन्थ । तस्मैतऽइन्द्रोहुविषाविषेमवठ-स्याम पतयोरयीणाम् ॥६॥ बहिषद पितरऽऊत्यर्वागि- मावोहुव्याचकृमाजुषवंम् । तऽआगुतावसाशन्तमे नाथान शंयोररपोधात ॥ ७ ॥ अहम्पितृ- न्सुविदारअवित्सिनपातञ्चविक्रमणञ्चविष्णो। बर्हिषदोयेस्वधयासुतस्यभजन्त पित्वस्तऽइहार्ग- मिष्ठाः ॥ ८॥ उपहूताः पितरं : सोम्यासो बर्हिष्येषुनिधिधु प्रियेषुीतआगमन्तुतऽइहश्रुवंत्त्व- ब्रुिवन्तुतेवन्त्व॒स्मान् ॥९॥ आर्यन्तुनः पितर: सोन्यासोऽग्निष्णात्ता : पथिभियान । अस्मि- न्यज्ञेस्वधयामदुन्तोधिब्रुवन्तुतवन्त्वस्मान् ॥३० अग्निष्वात्ताः पितर एहगच्छतसद सदसदतसुप्र- गयाश्रादादिपद्धतिः। णीतयः । अत्ताहुवीषिप्रयंतानिबहिष्याथर- यिठ सर्ववीरंदधातन ॥११॥ येऽअग्निष्णात्ता येऽ अनभित्तामद्धयदुिवस्वधयांमादयन्त। तेभ्य: स्वराड नीतिमेतांयथावशन्तन्वङ्कल्पयाति ।१२। अग्निष्वात्ता तुमतोहवामहे नाराशर्छ सेसोमपी- यंयागुम्तनोविप्रांसदहा भवन्तु व्यर्हस्या- मपतयोरयीणाम् ॥ १३॥ इतिपितृमंत्रान्पठेत् ॥ ॐ सहस्रशीर्षापुरुषः सहस्राक्षः सुहस्रपात् । सभूमिठ सर्वतस्फुत्वात्यतिष्ठदशाङ्गुलम्॥१॥ पुरु- पपुवेदई सक्यद्भुगभाव्यम्। उता तत्वस्ये- शांनोयदन्नैनातिरोहति॥२॥एतावांनस्यमहिमातो ज्यायाँश्चपुरुषः । पादौस्यविश्वांभूतानि त्रिपाद- स्यामृतन्दुिवि ॥३॥ त्रिपादुईऽउदैत्पुरुषः पादौ ४५ गयाश्राद्धादिपद्धतिः। स्येहाभवत्पुनः । ततोविष्वव्यकामत्साशः नानझुनेऽअभि ॥४॥ ततौव्विराडजायतव्विराजो ऽअधिपूरुषहँ । सजातोऽअत्य॑रिच्च्यत पश्चा- मिमथोपुर ॥५॥ तस्माद्यज्ञासर्वहुतः सम्भृत- पृषदाज्यम्।पुल्स्ताँश्चक्रेव्वायव्यानारण्यान्यान्या- चये ॥६॥ तस्माद्यज्ञात्सर्वहुतंऽऋचः सामानिज- ज्ञिरे । छन्दौसि जझिरे तस्माद्यजुस्तादजा- यत॥७॥तस्मादश्वाऽअजायन्सुयेकेचौ भुयादतः गावोहजज्ञिरे तस्मात्तस्माजाताऽअंजावयः ॥८॥ तंयज्ञम्बर्हिषिप्रौक्षन्पुरुषञ्जातम॑ग्यतः । तेनदेवाऽ अयजन्तसाध्याऽऋषयश्चये ॥ ९॥ यत्पुरुषव्य- दधुः कतिधाव्यकल्पयन् । मुखङ्किमस्यासीरिक- म्बाहू किमुरूपादोऽउच्च्येते ॥ १० ॥ ब्राह्मणोस्य ४६ गयाश्राद्धादिपद्धतिः। सुखमासीवाहूराजन्यः कृतः । उरूतस्ययदैश्य: पया शुद्रोऽअजायत ॥ ११ ॥ चुन्द्रमामनसो जातश्चक्षो सूर्योऽअजायत । श्रोत्राद्वायुच प्राणश्चमुखांदुग्निरजायत ॥ १२ ॥ नाभ्यांआसी- द्वारिष्ठ शीर्णोद्यौः समवर्तत । पयाम्भूमि- दिशः श्रोत्रात्तालोकाँ २ अकल्पयन् ॥ १३ ॥ यत्पुरुषेणहविषादेवायज्ञमतन्वत। व्यसन्तोस्यासी झज्यशीष्म ऽधम शरदविः ॥ १४ ॥ सप्ता- स्यांसन्परिधयस्त्रिसप्तसमिधः कृता । देवायद्य- ज्ञन्तन्वानाऽअबधन्पुरुषम्पशुम्॥१६॥ यज्ञेनयज्ञ- मयजन्तदेवास्तानिधीणिप्रथमान्यासन् । तेह नाकम्महिमान सचन्तयत्रपूर्वसाध्याः सन्तिदेवाः ॥ १६॥ इतिपुरुषसूक्तम् ॥
४७ गयाभादादिपद्धतिः। * आशु शिशांनोवृषभोनभीमो धनाघुनः शाभणश्चर्षनिाम् । सङ्कन्दनीनिमिष एकवीर श- तठन्सेनाऽअजयत्साकमिन्द्रः॥ १॥सक्रन्दनेना- निमिषेण जिष्णुनायुक्त्कारेणदुश्च्यवनेनर्धष्णुना । तदिन्द्रेण जयततत्संहदय्युधोनर इषुहस्तेनवृष्णा- २॥सइपुंहस्तै सनिषङ्गिभिवंशीसध्नवासयुध इन्द्रोगणेन। सठ-सृष्टजित्सोमपार्बाहुशग्यधन्न्वा प्रतिहिताभिरस्तां ॥३बृहस्प्पतेपरिदीयारथैनर- क्षोहामित्रा२ऽअपवार्धमानः। प्रभञ्जन्त्सेनाः प्रम- णोयुधाजयंन्नुस्मार्कमेध्यवितारथानाम् ॥४ बल- विज्ञायस्थविर प्रवीर सहस्वान्वाजीसहमानऽ उग्न । अभिवीरोऽअभिसत्वासहोजाजैत्रमिन्द्र- स्वमातिष्ठगोवित्॥५॥ गोपभिङ्गोविंदुव्ववाहु-
४८
मयाश्रादादिपद्धतिः।
अयन्तुम+प्रमुणंतमोज॑सा । डुमठसंजाताऽ
अनुवीरयहमिन्द्रठ सखायोऽअनुसनभद्धम् ६॥
अभिगोत्राणि सहसागाहमानो दुयोवीरशुत-
मन्न्युरिन्द्र ।दुश्यवनःपृतनापाड्युदयोस्मा
कळ सेनाऽअवतुप्रयुत्सु ॥ ७ ॥ इन्द्रऽआसा-
चेताहस्पतिर्द औणायज्ञःपुरऽ एतुं सोमः ॥
देवसेनानामभिभातीनाजयन्तीनाम्मरुतौ यन्त्व-
ग्रंम् ॥ ८॥ इन्ष्णोव्वरुणस्यराज्ञ
आदित्यानांम्मरुताशीऽउग्यम् । महामनसा-
म्भुवनच्यवानाघोषों देवानाअयंतासुदस्त्यात्
॥ ९ ॥ उद्धर्षय मन्नायुधान्युत्सत्वनाम्मा-
मकानाम्मनांसि । उदृत्रहन्वाजिनांव्वाजि
नान्न्युयानाअयंताँय्यन्तु घोषा: ॥ १० ॥
४९ गयाश्राद्धादिपद्धतिः। अस्म्माकमिन्दुर संभृतेषुद्धजेष्वस्माकंयाऽइप- वस्ताजयन्तु । अस्म्माकवीराऽउत्तरे भवन्त्व- स्मॉ२ उंदेवाऽअवताहर्वेषु ॥ ११॥ अमीषा- चित्तम्प्रतिलोभयन्तीगृहाणाङ्गान्न्यप्प्वेपरहि ॥अ- भिप्रेहि निहत्सुशोकैरन्धेनामित्रास्तमसास- चन्ताम् ॥ १२ ॥ अवसृष्टापपितशरळ्येब्र[स- ठशिते । गच्छामित्रान्प्रपद्यस्व मामीषाकञ्चनो छिपः ॥१३॥ प्रेताजयंतानरऽइन्द्रोवर शम्म- यच्छतु । उग्रावे सन्तुबाहवानाधृष्ष्यायथासथ ॥ ३४ ॥ असौयासेनामरुतः परेषामभ्येतिनऽ ओज॑सास्पर्द्रमाना । ताहततमसाप॑व्रतेन यथा- मीऽअन्न्योऽअन्न्यनजानन् ॥ १५ ॥ यत्रैबाणा सम्पतन्तिकुमारा विशिखाईव ।तन्त्रइन्द्रोबृहस्प- ५० गयाश्रादादिपद्धतिः। तिरदिति शर्मयच्छतु विश्वाहाशयच्छम् ॥१६॥ माणितुवम॑णा च्छादयामि सोमस्त्ताराजाम तेनाः वस्ताम् । उरोवरीयोव्वरुणस्त कृणोतुजयं न्तुन्वानुदेवामद : ॥३७॥ इत्यप्रतिरथं पठेत् ॥ ततः अमूतानांचभूतानांपितॄणांदीततेजसाम्। नमस्यामिसदातेषां घ्यायिनां दिव्यचक्षुषाम् ॥१॥ इन्द्रादीनां च नेतारोदक्षमारिचयोस्तथा । सप्तर्षी- पांतथान्येषांताःमस्यामिकामदान्॥२॥मन्वादी- नांमुनीन्द्राणांसूर्याचंद्रमसोस्तथा॥ तान्नमस्याम्यहं सर्वान पितरश्चार्णवेषु च ॥३॥ नक्षत्राणां ग्रहाणां चवाय्वान्योनभसस्तथा । द्यावापृथिव्योश्चतथा नमस्यामि कृताञ्जलिः ॥४॥ देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान् । अभयस्य सदादातून नमस्येहंकृतांजलिः ॥५॥ प्रजापतेः कश्यपस्य सोमाय वरुणाय च । योगेश्वरेभ्यश्च सदानमस्येह गयाश्राद्धादिपद्धतिः। कृतांजलिः ॥ ७॥ नमोगणेभ्यः सप्तभ्यस्तस्था लोकेषु सप्तसु । स्वयंभुवेनमस्यामिब्रह्मण्योग- चक्षुषे ॥ ७॥ सोमाधारान् पितृगणान् योगमू- तिघरांस्तथा । नमस्यामि तथासोमं पितरं जगतामहम् ॥ ८ ॥ अग्निरूपांस्तथैवान्यानम- स्यामि पितॄनहम् । अग्नीषोममयं विश्वं यत एतद्- शेषतः ॥ ९ ॥ येतुतेजसियेचैतेसोमसूर्याग्नि- मूर्तयः। जगत्स्वरूपिणश्चैव तथाब्रह्मस्वरूपिणः ॥ १०॥ तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । नमोनमोनमस्तेमप्रसीदन्तुस्व- धाभुजः॥ ११ ॥ इतिरुचिस्तोत्रं पठेत् ॥ ततःउच्छिष्टसन्निधौ अपसव्यादिना चतुरस्त्रंदक्षिण पर्वहस्तमात्रं चतुरड्डलोच्चरमणीयंपित्रादित्रयपिंड- पातनाथ स्थान निर्माय तत्प्राङ्मात्रादित्रयमाता: महादित्रयमातामयादित्रयपिंडपातनार्थ तादृश- मेवस्थानद्वयं कुर्यात् ॥ ततः सर्वत्र अनन्तगर्भ- ५२ मयाश्रादादिपद्धतिः। साग्रपत्रद्रयरूपदर्भपिंजुलीमूलेन ॐ अपहता इति मंत्रण दक्षिणायारेखांसकृत्सकृदुल्लिख्यदर्भपिंजुली- मुत्तरस्यादिइि. निक्षिप्य ॥ ॐ येरूपाणिप्रतिमु- मानाऽअसुराः सन्तःस्वधयाचरन्ति । परापुरो- निपुरोयेभरंत्यनिष्टौंल्लोकात्मणुदायमात् ॥ इति मंत्रेण उल्स प्रत्येकंरेखोपरिभ्रामयित्वादक्षिणतो निध्यात् ॥ ततः उपमूलसकृदाच्छिन्नंदक्षिणाय- कुशत्रयरेखोपरिस्तीद्वादशपात्रेषु जलतिलगंध- पुष्पाणि क्षिप्त्वा एकंपात्रं गृहीत्वा ॐ अमुकगोत्र अस्मत्पितरमुकश्मन् अत्रावनेनिश्वतेस्वधाइति कुशमूले पितृतीर्थन अवनेजनंदद्यात् ॥ एवं पिता- महाय कुशघयमध्ये प्रपितामहाय कुशाग्रे अवने- जनंसावशेषं दद्यात् । एवमेव मात्रादिभ्योमाताम- हेभ्योमातामहीभ्यश्चयात् ॥ ततः सर्वस्मात्पा- यसादि श्राद्धशेषान्नात्किंचित्किंचिदन्नमुद्धत्य रजतादिपात्रे कृत्वाहुतशेषानं मध्वाज्यतिलव्यंज- गयाश्राद्धादिपद्धतिः। ५३ नादिना संयोज्य ॥ अथवा चरुणा सक्तुना वा पिण्याकगुड-तंडुल-यवगोधूमपिष्टकानामन्यतमेन वा नवपिंडान बिल्वोपमान्निर्माय मधुघृताभ्यामव पार्य पित्रादिभ्योदयात् ॥ तत्रप्रथमंपिंडं मोटका- दिचादाय ॐ अमुकगोत्र अस्मत्पितरमुकशर्मन वसुरूपएतत्तेपिंडस्वधाइतिप्रथमाऽवनेजनस्थाने सव्योपगृहीतदक्षिणहस्तेनपितृतीर्थेन दद्यात् ॥ एवंपितामहायप्रपितामहायचदद्यात् ॥ ततः ॐ अमुकगात्रेऽस्मन्मातरमुकदेवि एतत्ते पिंडस्वधा ॥ इतिद्वितीयवेदिकायां प्रथमाऽवनेजनस्थाने मात्रे पिंडं दत्त्वा पितामप्रिपितामझैच दद्यात् ॥ पुनः ॐ अमुकगोत्र अस्मन्मातामहामुकशमन् वसुरूप एतत्तेपिंडं स्वधा इतितृतीयवेदिकायांमातामहाय पिंडदत्त्वा प्रमातामहायवृद्धप्रमातामहायचदद्यात् एवमेवमातामहीभ्योपि पिंडं दद्यात् ॥ ततः सर्व- त्रपिंडाधारकुशमूले ॐ लेपभागभुजः पितरस्त- गयाश्रादादिपद्धतिः। यन्तु इतिपठित्वा हस्तंप्रोञ्छयजलेनहस्तौप्रक्षा- लयेत् ॥ ततः सव्येन त्रिराचम्यविष्णुस्मृत्वा अप- सव्यादिना ॐ अत्रपितरोमादयध्वंयथाभागमा- वृषायध्वम्॥ इतिपिचारपठित्वा मावर्तेनोद- मुखोभूत्वारीतमनाः मनाश्वासं नियम्य तेनैव यथापरावृत्य ॐ अमीमदंतपितरोयथाभागमा- वृषायिषत इतिजपेत् ॥ एवंमात्रायुद्देशेन ॐ अ मातरोमादयध्वंयथाभागमावृषायध्वम् इति पठि- त्वाचासनियम्यपूर्ववत् ॥ ॐ अमीमदंतमातरौ यथाभागमावृषायिषत।। इति जपित्वा एवमेव ॐ अत्रमातामहादयो मादयध्वं यथाभागमावृषायध्व- मिति अमीमदंतमातामहाःयथाभागमावृषायि- पत इति जपेत् । एवमेवमातामह्यादिपक्षेकुर्यात् ॥ ततः पूर्वदत्तावनेजनपात्रस्थजलेन ॐ अमुकगोत्र अस्मत्पितरसुकशर्मन् वसुरूप अत्रप्रत्यवनेनिक्ष तेस्वधा इतिप्रथमपिंडोपरिप्रत्यवनेजनं दत्त्वा एव-
गयाश्राद्धादिपद्धतिः।
मेव पितामहायप्रपितामहायच दद्यात् ॥ ततः
ॐ अमुकगोत्रेऽस्मन्मातरमुकदेवि अत्रप्रत्यवने-
निवतेस्वधाइतिमातृपिंडापरि प्रत्यवनेजनंदत्त्वा
पितामह्यादिपंचपिंडोपरिमातामह्यादि पिंडोपरि
च क्रमेण प्रत्येकं दद्यात् ॥ ततो नीवीं
विस्रस्य सव्येनाचम्य अपसव्यं कृत्वा ॥ ॐ नमो
वरूपितरो रसायनोवतपितर शो|यनमौवलपि-
तरोजीवाय नमोवापितर: स्वधायै नोव
पितरो घोरायनोवह पितरोमन्यवेनौवः पितरः
पितरो नोवोगृहान्नं पितरोदत्तसतो- पितरो
देष्म इतिकृतांजलिः पठित्वा ॐ नमोवोमातरो
रसाय इत्यादिमंबाहेन मात्रादीनुमातामहादींश्च
प्रणमेत् ॥ ततः ॐ एतद्व - पितरोवासः ॥
ॐ एतद्वौमातरोवासः ॥ ॐ एतद्वौमातामहादयो
वासः ॥ इतिपठित्वा नवसुपिंडषुसूत्राणिदद्यात्॥
५६ मयाश्राद्धादिपद्धतिः। ॐ अमुकगोत्र अस्मत्पितरमुकशर्मन् वसुरूप एतत्तेवासः स्वधा ॥ इतिसूत्रमुत्सृजेत् ॥ एव- मेव पितामहादिपिंडेषु तत्तन्नामेत्सृजेत् ॥ ततः पितृनुद्दिश्य तदीयपिंडेषु तूष्णीं गंधपुष्पतुलसी- धूपदीपतांबूलपूगीफलदक्षिणादीनिदद्यात्॥ पिंड- शेषान्नं पिंडसमीपे विकिरेत् ॥ ततः सव्याऽप- सव्याभ्यां देवपितृभोजनपात्रेषु ॐ शिवाआपः संतु इतिजलम् ॐ सौमनस्यमस्तु इतिपुष्पाणि ॐ अक्षतंचारिष्टंचास्तु इतियवांश्चदद्यात् न तं- डुलान् ॐ अमुकगोत्रस्यास्मत्पितुरमुकशर्मणो वारूपस्य दत्तैतदन्नपानादिकमक्षय्यमस्तु इति सतिलमक्षय्योदकं पत्रेदत्त्वा एवंपितामहाय प्रपि- तामहायचयात् ॥ ततः ॐ अमुकगोवायास्म- न्मातुरमुकदेव्या दत्तैतदन्नपानादिकमक्षय्यमस्तु इतिमात्रेदत्त्वा पितामह्यादीनांमातामहादीनांमा- तामह्यादीनांचप्रत्येकमक्षय्योदकं दद्यात् ॥ ततः गयाश्राद्धादिपद्धतिः। सव्यंकृत्वाप्राङ्मुखस्तन्मनाः कृतांजलिदक्षिणां दिशंपश्यन् ॐ अघोराःपितरः संतु ॐ अघो- रामातरः संतु ॐ अघोरामातामहादयश्च संतु इतिवदेत्॥ ततःॐगोत्रंनोवईताम् दातारोनोभिव- दैताम् वेदाः संततिरेवच । श्रद्धाचनोमाव्यग- मत् बहुदेयंचनोऽस्तु । अन्नंचनोबहुभवेत् अति- थींश्च लभेमहि ॥ याचितारश्चनःसन्तु माचयाचि- मकंचन ॥ एताःसत्या आशिषः सन्तु इति प्रार्थयेत् ॥ ततोऽपसव्यं कृत्वा पिंडोपरिसपवि- त्रान्कुशानास्तीर्य स्वचंबाचयिष्ये इतिबूयात् । ॐ पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातृभ्यः पितामहीभ्यः प्रपितामहीभ्यो माता- महेभ्यः प्रमातामहेभ्यः वृद्धप्रमातामहेभ्यःमाताम- ह्यादिभ्यश्चस्वधोच्यतामितिपठेत् ॥ ततः ॐ ऊर्ज वहन्तीरमृतं घृतं पर्य’ कीलालंपरिसुतम् ॥
Kavitababa ५८ गयाश्राद्धादिपद्धतिः। स्वधास्थ तर्पयत मे पितॄन्॥इतिसपवित्रकुशोपरि दक्षिणायां जलधारां दद्यात् ॥ मात्रादिपिंडेषु स्वधारणतर्पयतममातः ॥ स्वधास्थतर्पयतम मातामहादीन इति मंत्रानदद्यात् ॥ ततोदक्षिणादानम् । तत्र उदङ्मुखः सव्येन हिरण्यदक्षिणा- मादाय ॐ अद्यास्मत्पित्रादिवयमात्रादित्रय- मातामहादिवय-मातामयादित्रय-श्राइसम्बन्धिनां विश्वेषां देवानां कृततत्तीर्थप्राप्तिनिमित्तकपार्वण- श्राद्धप्रतिष्ठार्थमिदं हिरण्यमग्निदेवत्यममुकगोत्रा- यामुकशमणे ब्राह्मणाय दक्षिणात्वेनदातुमहमुत्सृ- जे इति देवेभ्यो दद्यात् ॥ ततोऽपसव्यादिना- रजतद्रव्यंगृहीत्वा ॥ ॐ अद्यामुकगोत्राणामस्म- पितृपितामहप्रपितामहानाम् अमुकामुकशमणां वसुरुद्रादित्यरूपाणां कृतैतत्तीर्थप्राप्तिनिमित्त- पार्वणश्राद्धप्रतिष्ठार्थमिदं रजतं चंद्रदेवत्यम-
५९
गयाश्रादादिपद्धतिः।
मुकगोवायामुकशर्मणे ब्राह्मणाय दक्षिणात्वेनदातु-
महमुत्सृजे ॥ इति पित्रादिभ्योरेजतदक्षिणां
दत्त्वा ॥ ॐ अमुकगोत्राणामस्मन्मातृपितामही-
प्रपितामहीनां गंगायमुनासरस्वतीरूपिणीनां
कृततत्तीर्थप्राप्तिनिमित्तकपार्वणश्राद्धप्रतिष्ठार्थमिदं
रजतंचंद्रदेवत्यममुकगोत्रायामुकशर्मणे ब्राह्मणा-
यदक्षिणात्वेनदातुमहमत्सृजे इतिमातादिभ्यः ॥
ॐ अमुकगोत्राणामस्मन्मातामह-प्रमातामह
वृद्धप्रमातामहानां सपत्नीकानां वसुरुद्रादित्यरू-
पाणां कृतैतत्तीर्थप्राप्तिनिमित्तकपार्वणश्राद्धप्रति-
ष्ठार्थम् इदंरजतं चंद्रदेवत्यममुकगोत्रायामुकशर्मणे
ब्राह्मणायदाक्षिणात्वेनदातुमहमुत्सृजे ॥ इतिमाता-
महादिभ्यश्चदक्षिणां दद्यात् । एवमेवमातामहीनां
दक्षिणादानम् ॥ दवे रजतनिषेधः॥
ततःपिंडानुत्थाप्यस्थाल्यानिधायअवघ्राणंकृत्वा
सकृदाच्छिन्नकुशानुल्मुकंचवहौक्षिपेत् ॥ ततः ॐ
६० गयाश्राद्धादिपद्धतिः। देवताभ्यःपितृभ्यश्च इति विपित्वादीपान्निवाप्य सव्येनहस्तौपादौप्रक्षाल्य आचम्य ॐ प्रमादा- कुर्वतांकर्म प्रच्यवेताध्वरेषुयत् । स्मरणादेव तद्विष्णोः संपूर्णस्यादितिश्रुतिः ॥ इतिपठित्वा कर्मपूर्तिकामोविष्णुंस्मरेत् ॥ ततः पिंडान् तीर्थ- जलेदक्षिणाभिमुखः क्षिप्त्वा उच्छिष्टमार्जनादिकं कुर्यात् ॥ ततोवैश्वदेवबलिकर्मणी कृत्वा यथाश- तितीर्थब्राह्मणान्भोजयित्वा तेभ्यो दक्षिणां दत्त्वा ॐ अमुकतीर्थप्राप्तिनिमित्तं पार्वणश्राद्धं परिपूर्ण- मस्तुइति तान् प्रार्थ्य। अस्तुपरिपूर्णमित्यनुज्ञातः स्वयंभोजनं कुर्यात् ॥ एवमेव पितृव्यादीनाम- कोदिष्टविधिनाकुर्यात् ॥ पार्वणायसंभवे सर्वेषां पिंडदानमात्रमपि तीर्थश्राद्ध कर्त्तव्यम् ॥ इति श्राद्धप्रकाशे तीर्थनिमित्तकद्वादशदैव- त्यपार्वणश्रादपद्धतिः समाप्ता॥
गयाश्राद्धादिपद्धतिः। ६१ अथ पिंडमात्रतीर्थश्राद्धपद्धतिः। तत्रतावत्स्वासनेप्राङ्मुखउपविश्य दर्भपवित्र- धारणं कृत्वासव्येनआचम्य प्राणानायम्यपुंडरी- काक्षस्मरणं द्रव्यप्रोक्षणंच कुर्यात् ॥ ततःॐ भूम्यै नमः॥ ॐ तीर्थदेवताभ्योनमः॥ॐ भगवत्यैगयायै नमः भगवते गदाधरायनमः॥इति नमस्कारः।। ततोदेशकालौ संकीर्त्य ॐअद्यममसमस्तपितॄणा मसद्तीनांसगतिप्राप्तये सद्गतीनांचविष्णुलोकावा- तये अमुकतीर्थप्राप्तिनिमित्तकं पिंडदानमात्रश्राद्ध- महंकरिष्ये इति संकल्प्य ॥ गायत्रीविपित्वा ॐ देवताभ्य इति त्रिः पठेत् ॥ ततोऽपसव्यं कृत्वा दक्षिणामुखः पातितवामजानुः स्वपुरतः पिंडदानार्थ चतुरस्त्रं दक्षिणाप्लवं हस्तमात्रं चतुरङ्ग- लोच्छ्रितं स्थान निर्माय ॥ तन्मध्ये दर्भपिंजूलीमू- लेन ॐ अपहताऽअसुरारक्षा/सिवेदिषदः इति रेखाकरणम्॥* येरूपाणि प्रतिसुंचमानाऽअसुराः ६२ गयाश्रादादिपद्धतिः। सन्तः स्वधयाचरन्ति । पराउरोनिपुरोयेभरन्त्य ग्निष्टॉल्लोकान्प्रणुदात्यस्मात् ॥ इति मंत्रेण उल्मुकं भ्रामयित्वाउपमूलसकृदाच्छिनदक्षिणायकुशास्त- रणंकुर्यात् ॥ ततः पत्रपुटकेषु जलतिलगंधपुष्पा- णिक्षिप्त्वा एकंपुटकंगृहीत्वा ॐ अद्यामुकगोत्र अस्मत्पितरमुकशमन्वसुरूप अत्रावनेनिल ते स्वधा इतिकुशमूले पितृतीर्थेन पित्रे अवनेजनं दद्यात् ॥ १॥ पुनः द्वितीयपुटकंगृहीत्वा ॐ अमुकगोत्र अस्मपितामहामुकशमद्ररूप अत्रा- वनेनिश्व ते स्वधा इति कुशमध्ये पितामहाय दद्यात् ॥२॥ पुनः ॐ अमुकगोत्र अस्मत्प्र- पितामहामुकशर्मन् आदित्यरूप अत्रावनेनिक्षते स्वधाइतिकुशाग्रेप्रपितामहायदयात् ॥ ३ ॥ एवं द्वितीयादिकुशेषु मातृपितामहीप्रपितामही मातामह-प्रमातामहवृद्धप्रमातामह-मातामहीप्रमा- तामहीवृद्धप्रमातामहीभ्योपि दद्यात् ॥ एवमेव गयाश्राद्धादिपद्धतिः। ६३ स्वपत्नी-पितृव्य-तत्पत्नी-भ्रातृ-भ्रातृपत्नी पितृष्वस-तद्भर्तृ-मातुल-मातुलानी-मातृष्वस- तत्पति- श्वशुर- श्वश्वा-ऽऽचार्या-ऽऽचार्याण्यु- पाध्याय-पुत्र-स्नुषा-पुत्री-जामातृ-भगिनी- भाम-भागिनेय-पौत्र-दौहित्र-शिष्य-इयालक- मित्र-तत्पत्नीप्रभृतीनां पृथक्पृथक्कुशेष्ववनेजनं दद्यात्॥ततःपायसेन चरुणावासक्तुना तंडुलैस्तं- डुलपिष्टकेनवा यवगोधूमचूर्णगुडतिलफलमूलपि- ण्याकानामन्यतमेनवा तिलघृतमधुदधिशर्करा- मिश्रितेन आमिलकमात्रान्पिडान्कृत्वाकमेणद- भैषुतत्तदवनेजनस्थानेदद्यात् ॥ तत्रएकंपिंडवाम- हस्तकृत्वा दक्षिणहस्तेन द्विगुणभुग्नकुशत्रयादी- न्यादाय ॐ अमुकगोत्र अस्मत्पितरमुकशर्मन् वसुरूप एतत्तेपिंडं स्वधानमः इति प्रथमकुशमूले पितृतीर्थेनपित्रेदयात् ॥ पुनः पिंडं कुशादींश्चा- दाय ॐ अमुकगोत्रास्मत्पितामहामुकशर्मन्रुद्र- गयाश्राद्धादिपद्धतिः। रूप एतत्तेपिंडस्वधानमः इतिकुशमध्येपितामहा- यदयात् २ । पुनः ॐ अमुकगोत्रअस्मत्प्रपिताम- हामुकशमन्त्रादित्यरूप ग्तत्तेपिंडस्वधानमःइतिकु- शाग्रेप्रपितामहायद्यात् ३ । एवंद्वितीयादिकुशेषु क्रमेण ॐ अमुकगोत्रेऽस्मन्मातरमुकदेविगंगारूपे एतत्तेपिंडस्वधानमः इतिदद्यात् ४ । एवंसापत्न- मात्रेऽपि दद्यात् ॥ ॐ अमुकमोऽस्मत्पितामहि अमुकदेवियमुनारूपे एतत्ते पिंडस्वधानमः ॥ अमुकगोत्रेऽस्मत्प्रपितामहि अमुकदेविसरस्वती- रूपे एतत्ते पिंडस्वधानमः ६अमुकगोत्रअस्म- मातामहामुकशर्मन्वसुरूप एतत्ते पिंडस्वधानमः ७ । अमुकगोत्रअस्मत्प्रमातामहामुकशर्मन्रुद्र- रूपएतत्तेपिंडस्वधानमः ८। ॐ अमुकगोत्रास्म- दृद्धप्रमातामहामुकशर्मन् आदित्यरूपएतत्तेपिंडं स्वधानमः९ औ अमुकगोत्रेऽस्मन्मातामहि असु- कदेवि एतत्ते पिंडं स्वधानमः १०॥ॐ अमुकगोत्रे गयाश्रादादिपद्धतिः। ६५ अस्मत्प्रमातामहि अमुकदेवि एतत्तेपिंडस्वधानमः ११। ॐ अमुकगोत्रेऽस्मदृद्धप्रमातामहि अमुकदेवि एतत्तेपिंडस्वधानमः १२॥ ॐ अमुकगोत्रेऽस्मत्प- निअमुकदेविश्रीरूपिणिएतत्ते पिंडस्वधानमः।१३ ॐ अमुक पितृव्यामुकशर्मन्एतत्ते १४ ॐ अमुकगोत्रेऽस्मत्पितृव्यपनि एतत्ते ।१९। ॐ अमुक भ्रातरमुकशर्मन् एतत्ते०।१६। ॐ अमुक गोत्रे भ्रातुः पनिअमुकदेविएतत्ते ॥३७॥ ॐ अमुकगोत्रेऽस्मत्पितृष्वसरमुकदविएतत्ते०।१८ॐ अमुक पितृष्वसुर्भतरमुकशर्मन् एतत्ते०।१९ॐ अमुकगोत्रअस्मन्मातुलामुकशर्मन्एतत्ते॥२०ॐ अमुकगोत्रेऽस्मन्मातुलानि० एतत्ते ॥२१॥ ॐ अमुकगोत्रेऽस्मन्मातृष्वसरमुकदेविएतत्ते०२२॥ॐ अमुक० मातुःस्वसुर्भतरमुकशर्मन् एतत्ते०२३। अमुकगोत्र अस्मशुर अमुकशर्मन् वसुरूप एतते ॥२४॥ ॐ अमुकगोत्रेऽस्मच्छश्चऽसुकदेवि ६६ गयाश्राद्धादिपद्धतिः। एतत्ते ॥२५॥ॐ अमुकआचार्यामुकशर्मन् वसुरूप एतत्ते०।२६।ॐ अमुकगोत्रे आचार्याणि अमुकदेवि एतते० ॥२७॥ अमुक० उपाध्यायगुरोऽमुकशर्मन वसुरूप एतत्ते ।२८। ॐ अमुक पुत्रामुकशमन एतत्ते ॥२९॥ ॐ अमुकगात्रेऽस्मत्स्नुषेऽमुकदेवि एतत्ते पिंडस्वधा० ॥३०॥ॐ असुकगोत्रेऽस्मत्पुत्रि अमुकदेवि एतत्ते० ॥३१॥ॐ अमुक जामातरमु- कशर्मन् एतत्ते०।३२।अमुकगोत्रेऽस्मद्भगिनिअमु- कदेविएतत्ते०।३३।ॐ अमुक० भाम अमुकशमन एतत्ते ॥३४॥ ॐ अमुक भागिनेवामुकशर्मन एतत्ते ॥३५॥ ॐ अमुकगोत्रास्मत्पौत्रामुकशर्मन् एतत्तेः ॥३६॥ ॐ अमुक० दौहित्र अमुकशर्मन् एतत्ते ॥३७॥ ॐ अमुकगोत्रशिष्यामुकशर्मन एतत्ते ॥३८॥ ॐ अमुक झ्यालकअमुकशमने- सत्ते०३९। ॐ अमुकगोत्रास्मन्मित्रामुकशमन्नेतत्ते पिंडं स्वधा ४० । एवंमित्रपत्नीप्रभृतीनांमृतानाम- गयाश्राद्धादिपद्धतिः। ६७ पिपिंडान्दद्यात् ॥ ततःपिंडाधारकुशमूले ॐलेप- भागभुजस्तृप्यन्तु इतिहस्तंप्रोञ्छ्यजलेनहस्तौ प्रक्षालयेत्॥ततः सव्येन आचमनं विष्णुस्मरणं च कृत्वा अपसव्यादिना ॐ अत्रपितरोभादयध्वं यथाभागमावृषायध्वम् इतिपठित्वा वामावर्तेनो- दङ्मुखोभूत्वाप्रीतमनाःमनाक्श्वासंनियम्य तेनैव यथापरावृत्य ॐ अमीमदन्तपितरोयथाभाग- मावृषायिषतइतिजपेत् ॥ एमात्रादिपक्षेषुज्ञेयम्॥ ततः प्रत्यवनेजनम् अमुकगोत्रअस्मत्पितर- मुकशमन् अत्रप्रत्यवनेनिश्वतेस्वधा इतिप्रथमपि- डोपरिप्रत्यवनेजनंदत्त्वाएव-मेवपितामहादिपिंडेषु प्रत्यवनेजनंक्रमणपूर्ववद्दयात् ॥ ततोनीवीवित्रं- सनम् ॥ नौवः पितरोरसायनौवः पितरः शो|युनाव:पितरो जीवायुनाव पितर स्व- चावै नमोहपित्तरोपोरायुनमा पितरो मुन्या ६८ गयाश्राद्धादिपद्धतिः। नौवःपितरपितरोनोवोगुहानं पितरोदत्तस तो-पितरोदेष्माइतिकृतांजलि प्रार्थयेत् ॥ ततः अएत-पितरोवासः ॥ ॐ एतद्रोमातरोवास एतद्वोमातामहादयोवासः ॥ ॐएतदोमातामह्याद- योवासः ॥ एतद्वपितृव्यादयोवासः ॥ इतिप्र- तिपिंडंसूत्रदानकृत्वा । ततः पिंडान गंधपुष्पतुल- सी पदीपतांबूलगीफलदक्षिणाभिः संपूज्य ॥ ऊर्जवहन्तीरमृतंपर्य कीलालंपरिम् । स्वुधास्त्थतप्र्पयतमेपितॄन् ।इतिपिंडेष्वपोनिषिच्य दक्षिणांदद्यात् ॥ तत्रदक्षिणाद्रव्यमोटकादीनिचा दाय ॐ अद्यामुकगोत्राणांममसमस्तपितॄणामस- द्गतीनां स्वर्गतये सद्गतीनांच विष्णुलोकप्राप्तये अमुकतीर्थप्राप्तिनिमित्तकपित्रादीनां पितृव्यादी- नांच कृतैतच्छ्राद्धप्रतिष्ठार्थम् इदं रजतं चंद्रदेवत्य- ममुकगोत्राय अमुकर्मणे ब्राह्मणाय दक्षिणा- गयाश्राद्धादिपद्धतिः। ६९ त्वेन दातुमहमुत्सृजे इतिसंकल्प्ययथाशक्तिरज- तद्रव्यंब्राह्मणायदयात् ॥ ततः पिंडोद्धरणम् अवघाणंचकृत्वा दक्षिणामुखः पिंडानतीर्थजल एखनिक्षिपेत् ॥ ततो देशकालौसंकीर्त्य ॐअमुक- गोत्रोऽमुकशाहमद्य कृतैतसुकतीर्थनिमित्तका- स्मत्समस्तपित्रादीनांपितृव्यादीनांचश्राद्धकर्मणः साङ्गतासिद्ध्यर्थममुकसंख्याकान् ब्राह्मणान् भोजयिष्ये ॥ इतिसंकल्प्ययथाशक्तितीर्थबाह्म- णान भोजयेत् ॥ ततस्तेभ्योदक्षिणांदत्त्वाप्रणम्य ॐ अमुकतीर्थप्राप्तिनिमित्तंपिंडदानपरिपूर्णम- स्तुइतिप्रार्थ्य ॥ ॐअस्तुपरिपूर्णमित्यनुज्ञातः॥ ॐ देवताभ्यइतिविपित्वा ॥ यस्यस्मृत्याच नामोक्त्या तपोयज्ञक्रियादिषु ॥ न्यून संपूर्णतां याति सद्योवन्देतमच्युतम् ॥ इति कर्मपूर्तिकामो विष्णुंस्मरेत् ॥ इतिपिंडमात्रतीर्थश्राद्धपद्धतिः ॥
७० गयाश्राद्धादिपद्धतिः। अथ गयाश्राद्धपद्धतिः। तत्रतावत् गयायात्राप्रयोगः ॥ यात्रादिना- साक तृतीयदिने एकभक्तहविष्यभोजनब्रह्मच- यादिनियमंविधाय तदुत्तरदिने प्रातः कृतस्ना- नादिनित्यक्रियः । देशकालौ संकीर्त्य ॥ अद्य करिष्यमाणगयायात्राङ्गतयोपवासं करिष्ये इति संकल्प्य उपवासं च कृत्वा । तत्परदिने चंद्रतारानुकूले श्रादनिषिद्धव्यतिरिक्त काले स्नानादिनित्यकर्मसमाप्य पूजोपकरणं संपाद्य आसनेप्राङ्मुख उपविश्य आचम्य प्राणानायम्य देशकालौस्मृत्वा ॐ अधकरिष्यमाणगयायात्रा- निर्विनपरिसमाप्त्यर्थं गणेशनवग्रहेष्टदेवतानां यथा- शक्तिपूजनमहंकरिष्ये इतिसंकल्प्य ॐ सुमुखश्चै- कदंतश्च इत्यादियथाविधिना गणेशनवग्रहान्स्वे- टदेवतांचपूजयेत् ॥ ततः कुशवययवजलान्या- दाय देशकालौसंकी| ॐ अबममसमस्तपितृ- ७१ गयाश्राद्धादिपद्धतिः। णांनिष्कृतिकामागयातीर्थयात्राङ्गभूतम् आभ्यु- दयिकश्राद्धंकरिष्ये इति संकल्प्य प्रभूतघृतान्नेन मातृपूजापूर्वकमाभ्युदयिकं नवदैवत्यं श्रादंवि- घायब्राह्मणन् हिरण्यादिभिः संतोष्य यात्रासंक- ल्पंकुर्यात् ॥ तद्यथा अद्येत्यादिदेशकालौस्मृ वाममसमस्तपितॄण सप्तसुगोत्रेषुचैकोत्तरशतपुरु- पाणांदशपूर्वदशाऽपरवश्यानां च पदेपदेस्वर्गा- रोहणसिद्धयेनरकोद्धारपूर्वकशाश्वतब्रह्मभावप्राप्त- येचगयाश्राद्धाधिकरणाय गयायात्रामहंकरिष्ये ॥ इतिसंकल्प्य ॥ काषायादिवस्त्रपरिधानरूपंका- पंटीवेषंविधायश्राद्धशेषसघृतमन्नमादायज्योतिषो- तयात्रासमयेग्रामानिर्गत्यतं ग्रामं प्रदक्षिणीकृत्य क्रोशाभ्यन्तरस्थं ग्रामांतरमासाद्य श्रादशेष- घृतान्नेन पारणं कुर्यात् ॥ ततो द्वितीयदिने तमपि ग्रामं प्रदक्षिणीकृत्य प्रातः स्नानसं- ध्यादिनित्यकर्मसमाप्य प्रतिग्रहनिवृत्त्यादिनियम- ७२ गयाश्राद्धादिपद्धतिः । वान् तीर्थाभिमुखमामध्याह्नंगच्छेत् ॥ ततोमध्या- ह्नसमयेनद्यादिकमवगाह्य माध्याह्निकसन्ध्यादिकं विधाय पाकानुष्ठानपूर्वकंपंचमहायज्ञभोजनादि- कंकृत्वासायंसंध्यामुपास्य तत्रैवतिष्ठेत् ॥ ततस्तृ- तीयदिनेऽपितथैवसर्वकुर्यात् ॥ एवंप्रतिदिनमा- तीर्थप्राप्ति गच्छेत् ।मागेयदिप्रयागोवाराणसीपुनः- पुनाशोणावाप्राप्यते तदातत्रस्नानतर्पणे विधाय पूर्वोक्ततीर्थश्राद्धवत् नवदैवत्यं द्वादशदैवत्यं वा श्राद्धं कुर्यात् ॥ अथ गयाप्राप्तिदिनकृत्यम् । यदियानारूढः सोपानकोवागच्छेत् तदागया- प्राप्तिदिनेपादचारेण यावद्दतुंशक्यते तावतः स्था- नात् यानापानहौपरित्यज्यगच्छेत् ॥ तीर्थदृष्टि- गोचरतांगते साष्टाङ्गंप्रणम्य शिरोऽवगुंठनशस्त्र- माल्यकंचुकादिकंपरित्यज्य तीर्थं गच्छेत् ॥ तत्र वापर गयापूर्वतः पल्गुतीर्थे संप्राप्ते उद्धृतोदकेन ७३ गयाश्राद्धादिपद्धतिः। तीर्थदूरे पाणीपादौ प्रक्षाल्याचम्य ॐ गयाती- यनमः॥ इतिगंधपुष्पादिभिरभ्यर्च्य तत्रजला- न्ततः पंचवालुकापिण्डान् वहिनिष्कास्यतीर्थज- लंपणवेनालोब्यसचैलेंस्नानंकुर्यात् ॥ ततोजला- हिरागत्युपवित्रकुशांश्चधृत्वा ॥ आचम्य नारि- केलंससुवर्णगृहीत्वा ॐ देवदेवजगन्नाथ शङ्खचक- गदाधर ॥ देहि विष्णो अनुज्ञां मे तवतीर्थाव- गाहने ॥ १ ॥ फल्गुतीर्थनमस्तुभ्यं सर्वतीर्थों- तमोत्तम ॥ गृहाणेदं नारिकेलं सुवर्णेन समन्वि- तम् ॥ २ ॥ इतितीर्थनत्वासंस्पृश्य ब्राह्मणह- स्तेदद्यात् ॥ ततः कुशवयतिलजलान्यादाय देशकालौसंकीर्त्य अद्य समस्तपितॄणां विष्णुलो- कावाप्तये आत्मनश्च भुक्तिमुक्तिप्राप्तयेफल्गुतीर्थे स्नानमहंकरिष्ये ॥ इतिसंकल्प्य ॥ ॐ फल्गुतीर्थे विष्णुजले करोमि स्नानमाहतः॥ पितॄणां विष्णु- लोकाय भुक्तिमुक्तिप्रसिद्धये ॥ १॥ इति पठित्वा पूर्वोक्ततीर्थस्नानविधिनानात्वाधौते वाससी परि- ७४ गयाश्राद्धादिपद्धतिः। घायचंदनादिन तिलकृत्वा संध्यांकुर्यात् ॥ ततो देशकालौस्मृत्वा ॐअद्यसमस्तपितॄणामसद्गतीनां सद्गतिप्राप्तये सद्गतीनांचशाश्वतब्रह्मलोकादिप्राप्तये गयातीर्थप्राप्तिनिमित्तं नित्यंचदेवऋषिपितृतर्पणं तंत्रणाहंकरिष्येइतिवाक्यंकृत्वा॥ पूर्वोक्तं कातीय- तर्पणंकृत्वा स्नानवस्त्रं जलादहिः स्थलेनिष्पीड्य आचम्य ब्रह्मादीन्प्रणमेत् ॥ ततः श्रीगदाधरंमहा- विष्णुषोडशोपचारैःपंचोपचारैर्वा संपूज्य तत्रैव देशकालोसंकीर्त्य ॥ अद्य मम समस्तपितॄणाम- सद्गतीनांस्वर्मतये सद्गतीनां विष्णुलोकप्राप्तये गयाख्यमहातीर्थनिमित्तकं पार्वणविधिना पिंड- विधिनावा श्राद्धंकरिष्ये इतिसंकल्प्य ॥ गया- प्राप्तिनिमित्तकं पूर्वोक्ततीर्थश्राद्धवत् द्वादशदेवत्यं नवदैवत्यं वा पार्वणं तदसंभवे पिंडदानमात्रं वा पूर्वोक्तरीत्यैव अर्घावाहनादिरहितं कुर्यात् ।। इति गयाप्राप्तिदिनकत्यम् ।
७५ गयाश्राद्धादिपद्धतिः। अथ द्वितीयदिनकत्यम् । तत्रादौ फल्गुतीथें प्रातःस्नानादि कृत्वा गया- वायव्यदिशिस्थितं प्रेतपर्वतं गत्वा तन्मूलसंलग्ने ईशानकोणस्थिते ब्रह्मकुंडे ॐ पितॄणां संभावित- प्रेतत्वनाशपूर्वकशाश्वतब्रह्मलोकप्राप्तये स्नान- महंकरिष्ये इतिसंकल्प्य । स्नानतर्पणे विधाय पूर्वोक्तं तीर्थश्राद्धं द्वादशदैवत्यं पिंडमात्रं वा कार्यम् ॥ ततः श्राद्धाथै जलादिकमादाय प्रेत- पर्वतमारुह्यसुवर्णरेखाङ्कितशिलासन्निधौगत्वापाद्- शौचादिविधाय उपविश्य तत्र शिलायां पंचगव्यैः श्रादपर्याप्तं स्थानं शोधयेत् ॥ ततः आचम्य अपसव्यं कृत्वा दक्षिणामुखोभूत्वा पितॄन्ध्यायन् ॐ कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥ अग्निवात्ताबहिषदः सोमपाः पितृदेवताः ॥ १ ॥ १ अत्र यद्यपि मैथिलवाचस्पतिना प्रेतशिला (गमाशला ) श्राद्धमुक्तं तथापिमूलभूतवायुपुराणोक्तक्रमोऽस्माभिरंगीकृतः एवमेवबङ्गदेशीयतारानाथेरपिस्वकृतगयाश्राद्धपद्धतायुक्तम् ।
७६ गयाश्राद्धादिपद्धतिः। आगच्छंतु महाभागा युष्माभीरक्षितास्त्विह ॥ मदीयाः पितरो येच कुलेजाताः सनाभयः॥२॥ तेषां पिण्डप्रदानाय आगतोऽस्मि गयामिमाम् ॥ तेसर्वैतृप्तिमायान्तु श्राद्धेनानेनशाश्वतीम् ॥३॥ इति पठित्वा ॥ देशकालौसंकीर्त्य ॐ अद्यापित्रा- दीनांपुनरावृत्तिरहितब्रह्मलोकप्राप्तिकामः प्रेतपर्व- तश्राद्धमहंतरिष्ये ॥ इति संकल्प्य पूर्वोक्तंपार्वणं पिंडदानमात्रंवाकुर्यात् ॥ एवंपार्वणंविधाय तद्वेदी- दक्षिणतःकुशानास्तीर्य ॐ कव्यवाडनलः सोम इत्यादि-श्राद्धनानेनशाश्वतीमित्यंतंप्रार्थ्य ॥ ॐ पित्रादिभ्यो नम इति पंचोपचारैः संपूज्य ॥ * आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥ तृप्यतु पितरः सर्वे मातृमातामहादयः ॥ १॥ अतीत- कुलकोटीनां सप्तद्वीपनिवासिनाम् ॥ आब्रह्मभुव- नॉल्लोकादिदमस्तु तिलोदकम् ॥२॥ इतिद्वाभ्यां कुशेषु तिलोदकं दत्त्वा ॐ पितापितामहश्चैव गयाश्राद्धादिपद्धतिः। तथैवप्रपितामहः॥ मातापितामहीचैव तथैवप्रपि- तामही।मातामहस्तत्पिताच प्रमातामहकादयः॥ तेषांपिंडोमयादतो ह्यक्षय्यमुपतिष्ठतु ॥ इत्युच्चार्य तिलघृतदधिमधुयुतमुष्टिमितसक्तकृतंपिंडं मिलि- तेभ्यो द्वादशभ्योदयात् ॥ततः प्रेतत्वविमुक्तिका- मनयायथास्मृतिबंधुवर्गादीनां पिंडदानं कुर्यात् ॥ अथ षोडशीकर्म । तद्यथा-ऊनविंशतिदास्यमानपिंडस्थानानि निर्माय तेषु पंचगव्यं लिप्त्वा प्रत्येकं दक्षिणायं कुशत्रयं दद्यात् ॥ ततः ॐ अस्मत्कुले मृतायेच गतियेषांनविद्यते ॥ आवाहयिष्येतान्सर्वान्दर्भ- पृष्ठेतिलोदकैः ॥ १॥ मातामहकुले ये च गतियें- पांनविद्यते॥ आवाहयिष्येतान्सन्दिर्भपृष्ठेतिलो- दकैः॥२॥ बंधुवर्गकुलेये च गतियेषांनाविद्यते॥ आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥३॥ इतिविभिमैत्रेरावाा गंधादिभिरभ्यर्च्य पिंडान च गयाश्राद्धादिपद्धतिः। दद्यात्। तत्रमंत्राः-ॐ अस्मत्कुलेमृताये च गति- येषां न विद्यते ॥ तेषामुद्धरणार्थाय इमंपिंडंददा- म्यहम् ॥१॥ मातामहकुले ये च गतियेषांनविद्यते॥ तेषामुद्धरणार्थाय इमंपिंडंददाम्यहम् ॥ २ ॥ बंधुवर्गकुलेयेच गतियेषांनविद्यते ॥ तेषामुद्धर- णार्थाय इमं पिंडं ददाम्यहम् ॥३॥ अजातदन्ता येकेचिद्येचगर्भप्रपीडिताः ॥ तेषामुद्धरणार्थाय इमंपिंडददाम्यहम् ॥ ४ ॥ अग्निदग्धाश्चयेके- चिन्नाग्निदग्धास्तथापरे ॥ विधुच्चौरहतायेच तेभ्यः पिंडंददाम्यहम् ॥५॥ दावदाहे मृताये च सिंह- व्यावहताश्चये ॥ दंष्टिभिः शृङ्गिभिर्वापि तेभ्यः पिडंददाम्यम् ॥ ६॥ उबंधनमृतायेच विषशस्त्र- हताश्चये ॥ आत्मापघातिनायेच तेभ्यः पिंडंददा- म्यहम् ॥ ७ ॥ अरण्येवमनिवने क्षुधया तृष्णया हताः ॥ भूतप्रेतपिशाचाद्यैस्तेभ्यःपिंडं ददाम्य- हम्॥ ८॥ रौखेचांधतामिस्र कालसूत्रेच येगताः॥
७९ गयाश्राद्धादिपद्धतिः। तेषामुद्धरणार्थाय इमं पिंडं दुदाम्यहम् ॥ ९ ॥ असिपत्रवनेघोरे कुंभीपाकेच ये गताः॥ तेषामुद्ध- रणार्थाय इमंपिंडंददाम्यहम् ॥ १० ॥ पशुयोनि- गता ये च पक्षिकीटसरीसृपाः॥ अथवावृक्षयोनि- स्थास्तेभ्यःपिंडंददाम्यहम् ॥ ११॥ अनेकयातना संस्थाः प्रेतलोकेचयेगताः ॥ तेषामुद्धरणार्थाय इमंपिंडंददाम्यहम् ॥ १२॥ नरकेषु समस्तेषु यातनासुचयेस्थिताः ॥ तेषामुद्धरणार्थाय इम पिंडंददाम्यहम् ॥१३॥ जात्यन्तरसहस्रेषु भ्रमन्तः स्वेनकर्मणा ॥ मानुष्यं दुर्लभंयेषां तेषां पिंड ददाम्यहम् ॥ १४ ॥ दिव्यन्तरिक्षभूयिष्ठाः पितरो बांधवादयः॥ मृताअसंस्कृतायेच तेभ्यःपिंडंददा- म्यहम् ॥ १९॥ येकेचित्प्रेतरूपेण वर्तन्तेपितरो मम ॥ ते सर्वे तृप्तिमायान्तु पिंडेनानेन सर्वदा ॥ येऽबांधवाबांधवावा येऽन्यजन्मनिबांधवाः ॥तेषां पिंडं मयादत्तो ह्यक्षय्यमुपतिष्ठताम् ॥१६॥ पितृ- गयाश्राद्धादिपद्धतिः। वंशेमृतायेच मातृवंशेतथैवच ॥ गुरुश्वशुरबंधूनां येचान्येऽबांधवामृताः ॥ येमेकुलेलुप्तपिंडा-पुत्र- दारविवर्जिताः॥ क्रियालोपगताश्चैव जात्यन्धाः पङ्गवस्तथा ॥ विरूपाआमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥ तेषांपिंडोमयादत्तो ह्यक्षय्यमुपतिष्ठ- ताम् ॥ १७॥ आब्रह्मणोपितृवंशजाता मातु- स्तथावंशभवामदीयाः॥ वंशद्रयेस्मिन्ममदासभूता भृत्यास्तथैवाश्रितसेवकाश्च ॥ १८॥ मित्राणि सर्वपशवश्च वृक्षाः स्पृष्टाश्च दृष्टाश्च कृतोपकाराः॥ जन्मान्तरे ये मम संगताश्च तेभ्यःस्वधापिंडमहं ददामि ॥ १९ ॥ इति ऊनविंशतिमंत्रैरूनविंशति- पिंडान्पुरुषेभ्यो दत्त्वा तैरेवमंत्रैः स्त्रीलिंगतयासमू- हितैश्चस्त्रीभ्योदयादिति ॥ तद्यथा-अस्मत्कुले मृता याश्च गतिर्यासांनविद्यते ॥ तासामुद्धरणा- र्थाय इमपिंडददाम्यहम्॥इत्यादि ॥ ये इत्यत्र या इतिविशेषः ॥ येषामित्यत्रयासामिति ॥ तेभ्य गयाश्रादादिपद्धतिः। इत्यत्र ताभ्यः ॥ घातिन इत्यत्र घातिन्यः इति विशेषः ॥ अन्यत्सर्वं पुंषोडशीवत् ॥ अथ मातृषोडशी लिख्यते- ॐ आगर्भज्ञानपर्यंत पालितो यत्त्वयाह्यहम् ॥ आवाहयामि तामार्दर्भपृष्ठे तिलोदकैः ॥ इति प्रार्थं ॥ गौदगमनेदुःखं विषमभूमिवर्त्मनि ॥ तस्य निष्कमणार्थाय मातृपिंडं ददाम्यहम् ॥१॥ मासिमासिकृतंकष्टं वेदनाप्रसवेषु च ॥ तस्य निष्क्रमणार्थाय मातृपिंडददाम्यहम् ॥२॥ संपूर्ण दशम मासिचात्यन्तं मातृपीडनम् ॥ तस्य ०॥३॥ पद्भ्यांप्रजायते पुत्रो जनन्याः परिवेदनम् ॥ तस्य० ॥४॥ शैथिल्ये प्रसवे प्राप्ते माताविति दुष्कृतम् ॥ तस्य० ॥५॥ पिबेच्चकटुद्रव्याणि काथानि विविधानि च ॥ तस्य० ॥ ६॥ अग्निना शोषयेदेहं त्रिरात्रोपोषणेन च ॥ तस्य० ॥७॥ रात्रौमूत्रपुरीषाभ्यां भिद्यन्ते मातृकर्पटाः ॥
८२ गयाश्रादादिपद्धतिः। तस्य० ॥८॥ दिवारात्रौ यदा माता तदाऽतिनि- भरस्तनम् ॥ तस्य० ॥ ९ ॥ माघे मासि निदाघे च शिशिरेऽत्यन्तदुःखिता ॥ तस्य. ॥ १०॥ क्षुधयाविह्वलं पुत्रं ह्यनंमाताप्रयच्छति ॥ तस्य० ॥ ११ ॥ पुत्रोव्याधिसमायुक्तो माता हा- कन्दकारिणी ॥ तस्य० ॥ १२ ॥ यमद्वारे महा- घोरे पथि माता च शोचति ॥ तस्य० ॥ १३ ॥ पिंडैः षोडशभिर्विद्वान्यः पुत्रः श्राद्धमाचरेत् ॥ तस्य० ॥ १४॥ अल्पाहारस्यकरणी यावत्पु- वश्व बालकः॥ तस्य ० ॥ १५ ॥ गात्रभङ्गाभवे- माता मृत्युरेवनसंशयः ॥ तस्यनिष्कमणार्थाय मातृपिंडं ददाम्यहम् ॥ १६ ॥ इतिषोडशपिंडान मात्रे दद्यात् ॥ यस्याःपुत्रो गयां गत्वा श्राद्धंकुर्या- चभक्तितः ॥ तस्यपुत्रस्यपौत्रस्य माताचाशीः प्रयच्छति ॥ इतिमातृषोडशी समाप्ता ॥
गयाश्रादादिपद्धतिः। पुत्रकामश्चेत्तदा-ॐ योमेप्रजांनाशयति जीवो नश्यतिवास्वयम्॥ तस्यकाश्यपगोत्रस्य वायुरूप- स्यदेहिनः ॥ प्रेतस्योद्धारविधये तस्मै पिंडं ददा- म्यहम् ॥ १॥ योमेप्रजांनाशयति जीवोनश्यति वास्वयम् ॥ तस्यप्रेतस्यदत्तोव पिंडोऽयमुपति- ठताम् ॥२॥ योमेप्रजांनाशयति जीवोनश्यति वास्वयम् ॥ विष्णुरूपः सलभतां यस्मै पिंडार्पणा- हुतिः ॥ ३॥ ॐ तस्यकाश्यपगोत्रस्य वसुरूपस्य देहिनः ॥ अयं पिंडो मया दत्तो यःपीडां कुरुते मम ॥ ४॥ ॐ इमंतिलमयं पिंडं मधुसर्पिःस- मन्वितम् ॥ ददामि तस्मै प्रेताय यः पीडां कुरुते मम ॥६॥ इति मंत्रैश्चतुरः पिंडान दद्यात् ॥ ततः सर्वेषु पिंडेषु तिलजलपूर्णपात्रेण प्रदक्षिणं वारत्रयं परिषेचनं कृत्वा ॐ येचवोयेचास्मांश्चा- सन्याश्चवोयाश्चास्मांश्चास्मांश्चासंस्ते चावाहंतां ताश्चावाहतांतृप्यन्तुभवंतस्तृप्यतु भवत्यस्त- ८४ गयाश्राद्धादिपद्धतिः। प्यतगोत्रान् पुत्रानभितर्पयन्तीरापोमधुमतीरिमाः स्वधापितृभ्योमातृभ्योऽअमृतंदुहाना आपोदेवी- रभयास्तर्पयतुतृप्यततृप्यत इति प्रणिपत्य ॐ पित्रादयः क्षमध्वम् इति क्षमाप्य विसृजेत् ॥ ततः सव्येनाचम्य ॐ साक्षिणः संतु मे देवा ब्रह्मेशानादयस्तथा ॥ मयागयांसमासाद्य पितृणां निष्कृति कृता ॥ आगतोस्मिगयांदेव पितृ- कायें गदाधर ॥ त्वमेवसाक्षीभगवन्ननृणोऽहमृण- त्रयात् ॥ इति साक्षितया ब्रह्मादीन्कल्पयित्वा श्रावयेत् ॥ एवं प्रेतपर्वतेश्राद्धपिंडदानमात्रं कृत्वा ॐ अद्यपित्रादीनांप्रेतत्वविमुक्तिस्वर्गतप्रे- तत्वाभावकामः प्रेतपर्वते तिलमिश्रसनिक्षेप तिलमिश्रजलांजलिदानंच करिष्ये इतिसंकल्प्य ॐ येकेचित्प्रेतरूपेण वर्तते पितरो मम ॥ ते सर्वे वृप्तिमायांतु सक्तुभिस्तिलमिश्रितैः॥इति दाक्षिणा- मुखः तिलामिश्रसक्तून् क्षिप्त्वा ॐ आब्रह्मस्तंब- ८५ गयाश्राद्धादिपद्धतिः। पर्यंतं यत्किंचित्सचराचरम् ॥ मया दत्तेन तोयेन तृप्तिमायांतुसर्वशः॥ इप्तिमंत्रेण तिलसंयुतजला- जलीन्दद्यात् ॥ ततो यथाशक्ति ब्राह्मणाय दक्षि- णांदयात् ।। इतिप्रेतपर्वतकृत्यम् ॥ ततः प्रेतपर्वतादवरुपमहानदीपश्चिमतीरस्था गयोत्तरस्थांप्रेतशिलांगत्वापादशौचादिकृत्वा ॐ अद्यसमस्तपितॄणांप्रेतत्वविमुक्तिकामः प्रेतशिला- यांश्राद्धमहंकरिष्य इतिसंकल्प्यपूर्वोक्तंपार्वणपिंड- दानमात्रंवाश्राद्धं कुर्यात् ॥ ततःप्रेतशिलायांपंच- गव्यशोधितायामुपविश्य अपसव्येन दक्षिणाभि- मुखोभूत्वा ॐकव्यवाडनलः सोमो यमश्चैवार्यमा तथा॥अग्निष्वात्ताबहिषदः सोमपाःपितृदेवताः ॥ आगच्छंतुमहाभागा युष्माभीरक्षितास्त्विह ॥ म- दीयाः पितरोयेद्यकुलेजाताःसनाभयः॥तेषां पिंड- प्रदानार्थमागतोऽस्मिगयामिमाम् ॥ तेसर्वेतृप्ति- मायांतुश्राद्धेनाननशाश्वतीम् ॥ इतिपठित्वा प्रेत- ८६ गयाश्राद्धादिपद्धतिः। पर्वतप्रकरणदर्शितेनप्रयोगेण साक्षिश्रवणान्तंकृत्वा प्रेतशिलायांसमाचारादेवनवभांडस्फोटनं कुर्यात्॥ अथप्रेतशिलाधः प्रभासाद्रिसङ्गतायांमहानद्यां रामतीर्थत्वेन प्रसिद्धरामहदे प्रभासहदे देशकाला- दिकीर्तनांते अजन्मान्तरकृतदुष्कृतविनाशकामो रामतीर्थस्नानमहंकरिष्येइतिसंकल्प्य अंजन्मान्तर शतं साग्रं यन्मया दुष्कृतं कृतम् । तत्सर्वं विलयं यातु रामतीर्थाभिषचनात् ॥ इति मंत्रेणनानवि- घाय पितॄन्सतर्पयेत्॥ ततो देशकालौ संकीर्त्य ॐ स्वस्यविष्णुलोकप्राप्तिकामः पितॄणांचप्रेतत्वविमु- क्तिपूर्वकपितृपदप्राप्तिकामो रामतीर्थे श्राद्धं पिंड- दानमात्रंवाहकरिष्ये इतिसंकल्प्य। पूर्वोक्तं पार्वणं पिंडदानमा वाश्राद्धं कुर्यात् ॥ ततःकव्यवाडनल इत्याद्यावाहनादिसाक्षिश्रवणान्तं कृत्वा ततःस्वग- तपापनाशकामः ॐ रामराममहाबाहो देवानाम- भयंकर ॥ त्वांनमाम्यत्रदेवेशममनश्यतुपातकम्॥ इतिमंत्रणरामनवा ॐ अद्य भासमानस्वकर्तृक- ययाश्राद्धादिपद्धतिः। शिवपुरगमनकामः प्रभासेशनमस्कारमहं करिष्ये इतिवाक्यंकृत्वाप्रभासेशंप्रणमेत् ॥ ततः मानसवा- चिककायिककर्मजपापनाशकामः ॐ आपस्त्व- मसिदेवेश ज्योतिषांपतिरेवच ॥ पापनाशयदेवेश मनोवाकायकर्मजम् ॥ इतिमंत्रेण रामं प्रभासेशं चयुगपनत्वा तत्र ॐ यमराजधर्मराजो निश्चलार्थ हिसंस्थितौ ॥ ताभ्यां बालि प्रयच्छामि पितॄणां भुक्तिमुक्तये ॥ इतिमंत्रान्ते ॥ ॐ यमराजधर्मरा- जाभ्यामेषतिलजलमिश्रितो बलिनमम इत्युक्त्वा भक्तादिरूपंबलिंदद्यात् ॥ ततः प्रभासपर्वतदक्षिण- दिगवस्थित-प्रेतशिलाजघनस्थल-गत-नगनाग्नि पर्वते* द्वौश्वानौ श्यामशबलौवैवस्वतकुलोद्भवौ। ताभ्यांबलिंप्रयच्छामि रक्षेतां पथिसर्वदा इति॥ॐ एष बलियमराजधर्मराजानुचराभ्यां श्वभ्यां नमम इतिश्चवलिंदद्यात् ॥ इदंचबलिदानंनित्यंकार्यम् । अकरणेऽनिष्टश्रवणात् ॥ इतिद्विती यदिनकृत्म्॥
गयाश्राद्धादिपद्धतिः। अथ तृतीयदिने पंचतीर्थीहत्यमुच्यते- ततोगयाप्राप्तितृतीयदिनेफल्गुतीर्थप्रातःस्नाना दिदेवार्चनान्तंकर्मकृत्वाउत्तरमानसं गत्वादर्भपा- णिस्तीर्थोदकेनाचम्यशिरस्यभ्युक्ष्य ॐ आत्मशु- दिसूर्यलोकादिप्राप्तिपितृमुक्तिकाम उत्तरमानसे स्नानंकरिष्यइतिसंकल्प्य स्नानीयमंत्रान्पठित्वा ॐ उत्तरे मानसे स्नानं करोम्यात्मविशुद्धये ॥ सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ॥ १ ॥ इतिमंत्रेणस्नायात् ॥ ततस्तपणकलातर्पणांते ॥ आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥ तृप्यन्तु पितरः सर्वे मातृमातामहादयः॥ अतीतकुलको- टीनां सप्तद्वीपनिवासिनाम् ॥ आब्रह्मभुवनाल्लोका- दिदमस्तुतिलोदकम् ॥ इत्यनेनैकोऽञ्जलियः ॥ ततः ॐ पितॄणामक्षय्यतृप्तिकामउत्तरमानसेश्रा- इंपिंडदानमावाकरिष्ये इतिसंकल्प्यपूर्वोक्तश्रा- दंकृत्वा तदक्षिणदिशिउपविश्यसमूलान् दाक्षिणा- गयाश्राद्धादिपद्धतिः। ८९ ग्रान्कुशानास्तीर्य ॐकव्यवाडनलइत्यादिनावा- हनादिसाक्षिश्रवणांतंकृत्वा ॐ पितॄणांसूर्यलोक- नयनकाम उत्तरार्कस्यपूजनप्रणामंचकरिष्ये इति संकल्प्य ॐ नमोभगवतेभसोमभौमज्ञरूपिणे ॥ जीवभार्मवसौरेयराहुकेतुस्वरूपिणे ॥ इतिमंत्रण उत्तरार्कस्यनतिपूजनेकुर्यात् ॥ ततोमौनेनदक्षि- णमानसंगत्वातत्रोदीच्याम् ॐ आत्मविशुद्धिमू- र्यलोकादिप्राप्ति-ब्रह्महत्यादिपापसमूहनाशकामः पितृमुक्तिकामश्च उदीचीतीथें स्नानमहंकरिष्ये इतिसंकल्प्य। ॐ ब्रह्महत्यादिपापौघयातनाया विमुक्तये॥दिवाकरकरोमीह स्नानं दक्षिणमानसे। नमामिसूर्य तृप्त्यर्थं पितॄणांतारणाय च ॥ पुत्रपौ- धनैश्वर्यायायुरारोग्यवृद्धथे । इतिमंत्रेणदक्षिण- मानसे स्नात्वा पितॄन्संतपितृमुक्तिकाम उदी- चीतीश्राद्धमहंकरिष्ये इतिसंकल्प्यपार्वणं पिंड- दानमात्रंवाश्राइंकृत्वाकव्यवाडनलइत्यादिसा- ९० गयाश्रादादिपद्धतिः। साक्षिश्रवणान्तंकुर्यात् ॥ ततोमध्यमंकनखलतीर्थ गत्वा तत्रापिॐ अद्यपितृविमुक्तिकामः कनखल- तीर्थ स्नानमहंकरिष्ये इतिसंकल्प्य स्नानतर्पणे कृत्वा पितृमुक्तिकामनया तत्रश्राद्धं पिंडमात्रं कुर्यात्॥ततोदक्षिणमानसे अद्यपितृमुक्तिकामो- दक्षिगमानसेस्नानमहंकरिष्ये इतिसंकल्प्यस्नानी- यमंत्रांते ॐ दक्षिणेमानसेस्नानं करोम्यात्मविशु- द्रये ।सूर्यलोकादिसंसिद्धिसिद्धयेपितृमुक्तये॥इति मंत्रेण स्नात्वापूर्ववत्तर्पणश्राद्धंचकृत्वापितृमुत्त्या- दिकामनया ॐ नमामि सूर्यतृप्त्यर्थपितृणां तारणायच ॥ पुत्रपौत्रधनैश्वर्यायायुरारोग्यवृ- द्धये ॥ इतिमंत्रणमौनेनदक्षिणार्कस्यानतिः पूजनं च कार्यम् ॥ [ मौनेन पूजजनीयत्वायमे- वमौनार्कः] ततः कव्यवाडनल इत्यादि श्लोक- यंदक्षिणमानसाग्रएवपठेत् ॥ ततोगदाधरपूर्व- देशेसर्व्वतीयोत्तमंफल्युतीर्थगत्वा ॐ पितॄणांविष्णु- गयाश्राद्धादिपद्धतिः । ९१ लोकप्राप्तये आत्मनश्चभुक्तिमुक्तिसिद्धयेफल्युतीर्थे स्नानमहं करिष्ये इतिसंकल्प्य ॥ फल्गुतीर्थे विष्णुजले करोमि स्नानमाहतः ॥ पितॄणां विष्णु- लोकाय भुक्तिमुक्तिप्रसिद्धये ॥ इतिमंत्रेण स्नात्वा तर्पणं कुर्यात् ॥ ततः पितॄणांमोक्षप्राप्तिकामः फलवांश्राद्धमहंकारिष्ये इतिसंकल्प्य पूर्ववदेव श्रादंपिंडदानमात्रंवाकुर्यात् ॥ ततोमधुम्रवादक्षि- णकूलस्थपितामहम् ॥ ॐनमःशिवायदेवाय ईशा- नपुरुषाय च ॥ अघोरखामदेवाय सद्योजाताय शंभवे ॥ इतिमंत्रेण प्रणमत्पूजयेच्च ॥ ततः पुनः फल्गुतीर्थमागत्य ॐ अद्यपित्रादिसहितात्मवैष्णव- पदनयनकामोगदाधरपूजातिया पुनः फल्गुतीर्थे स्नानंगदाधरदर्शनंचकरिष्य इतिसंकल्प्य यथा- विधिस्नानतर्पणे कृत्वा गदाधरदर्शनंच विधेयम्॥ [गदाधरश्चप्रतिमारूपस्तदधिकरणीभूतोमुडंपृष्ठा- द्विरूपश्चेति ] ततोदर्शनानंतरपंचामृतैःनप- नम ॥ ॐनमोवासुदेवाय नमः संकर्षणाय च ।
९२ गयाश्राद्धादिपद्धतिः प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ॥ इति पठित्वागंधाष्पवस्वाबलंकारादिभिर्यथाशक्तिपूज- नंचकृत्वाप्रणमेत् ॥ ततः उत्तरमानसं गत्वा पंच तीयोस्नानं कृत्वायथाविधितर्पणं कुर्यात् ॥ [इदं चगदाधरपूजनंनित्यमकरणेगयाश्राद्धानर्थक्यश्रव- णात् ] इतितृतीयदिनेपंचतीर्थीकृत्यम् ॥ अथ चतुर्थदिनकृत्यम् । तत्र फलवां स्नानादि प्रातःकृत्यं कृत्वाधा- रण्यं गत्वा।ॐ सर्वपापविशुद्धिकामो मतङ्गवा- प्यास्नानमहंकरिष्ये इति संकल्प्य स्नानतर्पणे कृत्वा ॐ अद्याक्षय्यतृप्तिकामोमतवाप्यां श्रा- छमहंकरिष्ये इतिसंकल्प्यप्रेतपर्वतवत्पावणपिंड- १ ॐ पितापितामहश्चैव तथैवप्रपितामहः । माता पिता. मही चैव तथैव प्रपितामही । मातामहस्तत्पिता च प्रमा- तामहकादयः । तेषां पिंडो मया दत्तो वक्षय्यमुपतिष्ठतु ॥ इत्येकं पिंडं सर्वत्र दद्यात् ।
गयाश्राद्धादिपद्धतिः। ९३ मावाश्राद्धंकुर्यात् ॥ ततोमतङ्गवाप्यामेव उत्तर- दिगवस्थितंमतङ्गेशंदृष्ट्वा प्रणम्य ॐ प्रमाणंदेवताः संतु लोकपालाश्च साक्षिणः ॥ मयागत्यमतङ्गे- स्मिन्पितॄणां निष्कृतिः कृता ॥ इति पठित्वा ॥ ततो ब्रह्मतीर्थसंज्ञकंब्रह्मकूपंगत्वापिघायुद्धारकाम- नया स्नानतर्पणश्राद्धानिपूर्ववत्कार्याणि ॥ कूप श्वायमेतद्वाप्या आग्नेयकोगेक्षेत्रमध्येरह कूपोऽ- स्ति तत्तीरे श्रादंपिंडदानवापतितस्यापि किंतु गर्भहंतृगुरुगतिनिर्देशात् ॥ ततोब्रह्मकूपयूपयाम- ध्येपितृतारणकामनयाप्रेतपर्वतवच्छ्राद्धंकार्यम् ॥ ततो धर्मस्यधर्मेश्वरस्यचप्रणामः ॥ ततोमहा- बोधितरोरधः स्वस्यस्वर्गलोकप्राप्तिकामनयाप्रेत- पर्वतवच्छ्राद्धं पिंडदानमात्रंवाकृत्वा ॐ चलद्द- लायवृक्षाय सर्वदास्थितिहेतवे ॥ बोधितत्त्वाय यज्ञाय अश्वत्थायनमोनमः ॥ ३॥ एकादशोऽसि रुद्धाणां वसूनां पावकस्तथा।नारायणोऽसिदेवानां ९४ गयाश्राद्धादिपद्धतिः। वृक्षराजोऽसिपिप्पल ॥ २॥ अश्वत्थयस्मात्त्व- यिवृक्षराज नारायणस्तिष्ठतिसर्वकालम् ॥ अतः शुभस्त्वंसततंतरूणां धन्योऽसिदुःस्वपविनाशनोऽ सि ॥३॥ अश्वत्थरूपिणदेवं शंखचक्रगदाधरम्॥ नमामिपुंडरीकाक्षं वृक्षरूपधरं हरिम् ॥ ४॥बोधि रूपंमहावृक्ष नारायणमनःप्रियम् ॥ गयांसमागत्य मया पितृभ्योनिष्कृतिकुरु ॥५॥ येऽस्मत्कुले मातृवंशे बांधवादुर्गतिंगताः ॥ त्वदर्शनात्स्पर्श- नाच स्वर्गतिं यांतुतेऽक्षयाम् ॥ ६॥ ऋणत्रयं मया दत्तं गयामागत्यवृक्षराटू ॥ त्वत्प्रसादान्महापापा- द्विमुक्तोऽहंभवार्णवात् ॥७॥ इतिमविष्णुंपण मेत् ॥ इतिचतुर्थदिनकृत्यम् अथ पंचमदिनकत्यम् । तत्र फल्ग्वांप्रातःस्नानादिनित्यकर्मकृत्वाब्रह्म- सरो गत्वा ॐ ऋणत्रयविमुक्तिकामः करिष्य- माणतर्पणश्रादपिंडदानोपयोग्यात्मशुद्धिकामञ्च ९५ गयाश्राद्धादिपद्धतिः। ब्रह्मसरसि स्नानमहं करिष्ये इतिसंकल्प्य ॥ ॐ स्नानंकरोमितीर्थेऽस्मिन्नणत्रयविमुक्तये॥ श्राद्धा- यपिंडदानाय तर्पणायात्मशुद्धये।। इतिमंत्रेणस्नान कृत्वातर्पणकार्यम् ॥ ततः ॐ पितॄणांब्रह्मलो- कनयनकामनया ब्रह्मकूपयूपयोमध्येश्राद्धमहरिष्ये इतिसंकल्प्य पार्वणं पिंडदानमात्रं वा श्राद्धं कृत्वाऽक्षय्यपिंडं दत्त्वा ॐ पितॄणां मोक्षप्राप्ति- कामो ब्रह्मकल्पिताम्रवृक्षसेचनं करिष्ये इति संकल्प्य ॐ आनंब्रह्मसराभूतं सर्वदेवमयंतरुम् ॥ विष्णुरूपं प्रसिंचामि पितॄणां च विमुक्तये ॥ इति मंत्रण कुशयुतेन ब्रह्मसरोजलेन गोप्रचारसमी- पस्थान्ब्रह्मकल्पितानाम्रान्सिचेत् ॥ ततः ॐ वाजपेयजन्यफलप्राप्तिकामनया ब्रह्मयूपप्रदक्षिणां करिष्ये इति संकल्प्य तत्प्रदक्षिणां कुर्यात् ॥ ततः ॐ अद्य पितॄणां ब्रह्मपुरनयनकामोब्रह्म- नमस्कारमहंकरिष्ये इतिसंकल्प्य ॐनमोब्रह्मणेऽ.
९६ गयाश्राद्धादिपद्धतिः। जाय जगजन्मादिकारिणे ॥ भक्तानां च पितॄणां चतारणायनमोनमः ॥ इतिब्रह्मसरोवायव्यको- णस्थ ब्रह्माणं प्रणमत् ॥ ततः पितृमुक्तये यमब- लिदानंकरिष्ये इतिसंकल्प्य॥ॐयमराजधर्मराजौ निश्चलाथैस्थिरीकृतौ ॥ ताभ्यांबलिंप्रयच्छामि पितॄणां मुक्तिहेतवे ॥ इति पठित्वा । एषबलियम- राजधर्मराजाभ्यांनमम ॥ इतिमंत्रेणसव्येनाऽप- सव्येनवादीदकसहितभक्तादिनाबलिंदद्यात् ॥ ततः द्वौइवानोश्यामशबलौ वैवस्वतकुलोद्भवौ ॥ ताभ्यांबलिंप्रयच्छामि स्यातामेतावहिंसकौ॥इति पठित्वाएषबलिःश्वभ्यांनमःइतिश्वभ्यांबलिंदत्त्वा ॐ ऐन्द्रवारुणवायव्या याम्यानैतास्तथा ॥ वायसा प्रतिगृहंतु भूमौपिंडंमयोज्झितम् ॥ इति मंत्रेण काकेभ्यो बलिदानं कार्यम् ॥ काकबल्य- नन्तरं स्नानं कर्तव्यम् ॥ इतिपंचमदिनकृत्यम् ।।
९७ गयाश्राद्धादिपद्धतिः। अथ षष्ठदिनकर्म। तत्र ॐ दशलक्षाश्वमे जन्यफलकामः फल्गु- तीथे स्नानमहं करिष्ये इतिसंकल्प्य ॐफल्गुतीर्थे इत्यादिमंत्रेण स्नात्वा तर्पणं कृत्वा पदेषुश्राद्धानि कुर्यात् । तत्र यद्यपिब्रह्मविष्णरुद्रकश्यपपदाना- मन्यतमपदे आरंभसमाप्ती कायें । मध्येषुत्वनियम एव । तथापि वायुपुराणान्तर्गतगयामाहात्म्यपाठ क्रममनुसृत्यकमेणश्राधान्युच्यते ॥ तत्रादौ विष्णु- पदसमीपंगत्वा ॐ आत्मनः सर्वपापनाशकामो विष्णुपददर्शनंकरिष्ये इतिसंकल्प्य ॥ अत्र विष्णु- पदं दिव्यं दर्शनात्पापनाशनम् ॥ स्पर्शनात्पूज- नाच्चैव पितॄणांमुक्तिहेतवे ॥ इतिमंत्रेण विष्णु- पदस्यदर्शनंकृत्वा ॐ पितृविमुक्तिकामो विष्णु- पूजनंकरिष्ये इतिसंकल्प्य । विष्णुं पंचोपचारैः पूजयेत् ॥ ततः आत्मसहितसहस्रकुलोद्धार- पूर्वकविष्णुलोकनयनकामो विष्णुपदेश्राद्धंकारष्ये
मयाश्रादादिपद्दतिः।
इति संकल्प्य पार्वणं पिंडदानमात्रंवा श्राद्धं
कृत्वा कव्यवाडनल इत्यावाहनादिसाक्षिश्रवणांत
कुर्यात् ॥ १ ततो रुद्रपदे ॐ आत्मसहित-
लातस्य शिवपुरनयनकामो रुद्रपदे श्रादं
हरिष्ये इतिसंकल्प्यपूर्ववद्रुद्रश्राद्धंकुर्यात् ॥ २॥
एवं ब्रह्मपदे कुलशतसमद्धारपूर्वकब्रह्मलोकनय-
नकामो० ॥३॥ दक्षिणाग्निपदे स्वस्यवाजपेय-
यागफलसमफलप्राप्तिकाम० ॥ ४॥ गार्हपत्य-
पदे स्वस्य अश्वमेधयज्ञसमफलप्राप्ति काम० ॥५॥
आहवनीयपदेस्वस्यराजसूययज्ञफल० ॥ ६ ॥
सभ्याग्निपदेस म्यज्योतिष्टोमयज्ञसमफल० ॥ ७॥
आवसथ्याग्निपदेस्वस्य सोमलोकप्राप्तिः ॥ ८॥
सूर्यपदे पंचशतकुलानां सूर्यपुरनयनकाम० ॥
॥ ९ ॥ कार्तिकेयपदेपितॄणांशिवलोकनयन
॥ १० ॥ इंद्रपदे पितॄणामिंद्रलोकप्राप्ति० ॥११॥
अगस्त्यपदे पितॄणां ब्रह्मलोकनयन० ॥ १२॥
९९ गयाश्राद्धादिपद्धतिः। चंद्रगणेशकौंचमातंगपदेषु पितॄणां ब्रह्म नयन ॥ १३॥ १४ ॥ १५॥ १६॥ कश्यपपदे पितॄणां ब्रह्मपुरनयनकामः कश्यपपदेश्राद्धंकरिष्ये ॥१७॥ इति संकल्प्य सप्तदशसु पदेषु तत्तत्फलोद्देशेन श्राद्धानि कार्याणि तत्तद्देवतानां पूजाचकार्या ॥ ततः पदशिलायामेवोत्तरभागस्थायां गजकर्णि- कायां पितॄणां स्वर्गनयनकामनया शुद्धोदकेन पितृतर्पणं पूर्वोक्तविधानेनकार्यम् ॥ ततःपितॄणां तारणार्थ पदशिलोत्तरभागस्थमार्गसमीपस्थानां कनकेश्वरकेदारेश्वरनारसिंहवामनानां पंचोपचारैः पूजाकार्या ॥ संन्यासिभिस्तुगयां गत्वाविष्णुपदे दंडस्पर्शनमात्रं कार्यम् ॥ इति षष्ठदिनकर्म ।। अथ सप्तमदिनकृत्यम् । तत्रफल्गुतीर्थे नानानिप्रातःकृत्यं निर्वर्त्य गदा लोलंतीर्थगत्वा * आत्मनः शुद्धये अक्षयस्वर्ग- प्राप्तयेचगदालोलेनानमहंकरिष्य इति संकल्प्य ॥
१०० गयाश्राद्धादिपद्धतिः। गदालोलमितिख्यातं सर्वेषामुत्तमोत्तमम् ॥ गदालोले महातीर्थे गदाप्रक्षालनारेः ।। स्नानं करोमि तीर्थेऽस्मिन्नक्षय्यं पदमाप्नुयाम् ॥ इति पठित्वा स्नानतर्पणे कृत्वा ॐ पितणां तृप्ति- ब्रह्मलोकावाप्तिकामो गदालोले श्राद्धमहंकरिष्ये इतिसंकल्प्य पूर्ववत् श्राद्धं पिंडदानमात्रंवा कुर्यात् ॥ ततोऽक्षयवटेगत्वा तन्मूलसन्निहिते आचारादुत्तरदिग्भागे अँपितॄणां ब्रह्मलोकप्राप्ति- कामोऽक्षयवटच्छायायां श्राद्धंकरिष्ये इति संक- प्य अन्नेनैवपूर्ववच्छ्राद्धं कृत्वा ॐ पितॄणां ब्रह्म- लोकनयनकामोऽक्षयतृप्तिकामश्च ब्रह्मकल्पितान ब्राह्मणानभोजयिष्य इति संकल्प्य त्रीन्विप्रान्भो- जयेत् ॥ तदलाभे एकंत्राह्मणमपिभोजयेत् ॥ ततः ॐ पितृब्रह्मलोकनयनकामोवटेशदर्शनं करिष्य इति संकल्प्य॥ वटेशं प्रतिमारूपंपश्यन्।। स्कार्णवेवटस्याग्रे यः शेते योगनिद्रया ॥ बाल- १०१ गयाश्रादादिपद्धतिः। रूपधरस्तस्मै नमस्तेयोगशायिने ॥ इति प्रणम्य संपूज्य ॐ संसारवृक्षशस्त्राय सर्वपापक्षयाय च ॥ अक्षयाय ब्रह्मदात्रे नमोऽक्षयवटाय ते ॥ इति मंवेणाक्षयवटनमस्कुर्यात् ॥ ततः शक्तौसत्यां तत्र षोडशदानानि गयातीर्थपुरोधसे दत्त्वा वन- गंधादिभिः सम्यक् संपूज्य ॐ पितृबंधनमोचन- कामः प्रपितामहनमस्कारंकरिष्ये इति संकल्प्य *कलौ माहेश्वरा लोका येन तस्माद्गदाधर ॥ लिंगरूपोभव त्वं च वंदे श्रीप्रपितामहम् ॥१॥ इतिमंत्रेण तं नमस्कुर्यात् ॥ इति सप्तदिनात्मक- गयाकार्यकृत्यम् ॥ अनियत दिनकत्यानि । अथ मासे साईमासे वा वासेतु अनियतदि- नकृत्यानि लिख्यते ॥ तत्रादौ पूर्वदिने उपोष्य पराहे प्रातर्गयास्थगायत्रीसंसुखस्थं गायत्रीतीर्थ गत्वा तत्कूलेप्रातः स्नात्वा प्रातःसंध्योपासनंकृत्वा १०२ गयाश्राद्धादिपद्धतिः। तर्पणंविधाय ॐ अद्यकुलब्राह्मण्यतानयनकामो- गायत्रीतीर्थे श्राद्धमहं करिष्ये इति संकल्प्य पूर्वो- कप्रकारेण सपिंडकंश्राद्धं कुर्यात्॥ततःसावित्र्याः पुरतः समुद्यतनामके तीर्थ मध्याह्ने यथाविधि नात्वा तत्रैव कुलशतस्वर्गनयनकामनया मध्याह्न- संध्योपासनतर्पणश्राद्धानि कार्याणि॥ ततः एवमेव सरस्वत्याः पुरतः सायाह्नपाच्यांसरस्वत्यांस्नात्वा कुलसहस्रमुक्तिकामनया सायं संध्योपासनतर्पण- श्राद्धानि कार्याणि ॥ एवमेव धर्मशिलायां लेलिहाने, भरताश्रमे, मुंडपृष्ठे, गदाधरसमीपे, आकाशगंगायां, गिरिकर्णमुखेच क्रमेण कुलशत- ब्रह्मलोकनयनकामनया श्राद्धं पिंडदानमात्रंवा कार्यम् ॥ ततः ॐ त्रिसप्तकुलोद्धारकामो वैत- रण्यां स्नानमहं करिष्ये इति संकल्प्य स्नानं तर्पणं च कृत्वा पूर्वोक्तं श्रादं कुर्यात् ॥ ततः यमद्वारे महाघोरे या सा वैतरणीनदी ॥ तामह गयाश्रादादिपद्धतिः। १०३ तमिच्छामि कृष्णां गां प्रददन्निमाम् ॥ इति मंत्रेण तत्र गोदानं कार्यम् ॥ तद्यथा-यासावैत- रणीनाम नदी त्रैलोक्यविश्रुता ॥ सावतीर्णामहा- भागा पितॄणां तारणाय च ॥ १॥ इतितास्मृत्वा गांपुरतः संस्थाप्य ॐ गवेनमः इतित्रिः संपूज्य ब्राह्मणायनम इति ब्राह्मणं त्रिः संपूज्य गांप्रोक्ष्य कुशत्रयतिलजलान्यादाय ॥ ॐ अद्यत्रिसप्तकुलो- द्वारणकाम इमांगरिददैत्याम् अमुकगोत्रायामुक- शर्मणे ब्राह्मणाय तुभ्यमहं संप्रदद इतिदद्यात् ततो दाता ॐ अद्यकृतैतद्वोदानप्रतिष्ठामिदं हिरण्य- मग्निदेवत्यममुकगात्रायामुकशर्मणेब्राह्मणायतुभ्य: महंसंप्रददे इतिदक्षिणां दद्यात्॥ ग्रहीताच गृहीत- सुवर्णो गोपुच्छंगृहीत्वायथाशाखम् ॐ कोदा- कामइत्यादिकामस्तुतिं पठेत् ॥ ततः ॐ अद्य पितृस्वर्गलोकनयनकामो देवनद्यां पिंडदानमई करिष्ये ॥ इतिसंकल्प्यपूर्वोक्तंपार्वणम् पिंडदान;
१०४ गयाश्राद्धादिपद्धतिः। मात्रवाश्राद्धंकुर्यात् ॥ एवमेव गोप्रचारे घृतकुल्यां मधुकुल्यां गदालोले कोटितीर्थे रुक्मिणीकुंडेच पितृस्वर्गकामनया श्राद्धं पिंडदानमात्रं वा कार्यम् ॥ ततः ॐअद्यपितृतारणकामोमार्कंडे- येश्वरकोटीश्वरयोनमस्कारंकरिष्ये ॥ इतिसंकल्प्य तयोर्नमस्कार कुर्यात् ॥ ततः पितामहसन्नि- हितपारिजातवनस्थपांडुशिलायां पितॄणामक्षय्य- तृप्तिकामनया श्रादं पिंडदानमात्रं वा कार्यम् ॥ एवमेव घृतकुल्यामधुकुल्यादेविकामहानदी सर- स्वती चेति चतस्रो यत्र पांडुशिलयामिलिताः सा मधुस्रवा । तस्यांतानतर्पणे अश्वमेधफलके ॥ श्राद्धं च कुलसहस्रस्य नरकाद्धारपूर्वकविष्णुपुर- नयनफलकम् ॥ एवं पितामहादक्षिणस्यां महानद्यां दशाश्वमेधहंसतीर्थे प्रणमेत् ॥ ततः उद्यतपर्वतसमीपस्थे मखकुंडेमुक्तिकामनयाघानं पितृतृप्तिकामनयातर्पणश्राद्धकायें ॥ संगमे १०५ गयाश्राद्धादिपद्धतिः। तारकेश्वरप्रणाम पितृर्गः ॥ अश्वमधफलका- मनया गयाकूपे श्राद्धम् ॥ अत्रपतितदुर्मरणादि मृतानामपिस्वर्गकामनया वर्षोंत्तरंश्राईकार्यम् ॥ ततः पितृसंतारणकामनयाभस्मकूपे भस्मना स्नानम् ॥ गयाग्राममध्ये सुषुम्णायां महाकाली- समीपे ॐ त्रिः सप्तकुलसमुद्धारकामः सुषुम्णायां श्राद्धमहंकारष्ये ॥ इतिसंकल्प्य श्राद्धं कार्यम् ॥ ततो गृध्रवटोत्तरभागस्थेवसिष्ठाश्रमेवसिष्ठतीर्थे नात्वा वसिष्ठेश्वरंनमस्कृत्य धेनुकारण्यजलाशये स्नात्वाकामधेनुं प्रणम्य पितृब्रह्मलोकनयनकाम- नया कामधेनुपदे श्राद्धकार्यम् ॥ एवं कईमाले गयानाभौ मुंडपृष्ठसमीपे च नानश्राद्ध कायें । ततः फल्गुचंडी मशानाक्षीमंगलादीनांपितृस्वर्ग- कामनयानतिपूजनेकायें ॥ ततो गयागजे गया- दित्ये गायत्र्यां गदाधरसमीपे गयायां गयाशिरसि चेतिगकारवतिस्थानषट्के मुक्तिकामनया पूजा- १०६ गयाश्राद्धादिपद्धतिः । पितृश्राद्धादिकंचकार्यम् ॥ ततोगयायां यत्रकापि यदाकदाचित् ॥ ॐ एकविंशतिकुलोद्धारकाम- नया वृपोत्सर्गमहंकरिष्ये ॥ इतिसंकल्प्य वृषो- त्सर्गः कार्यः ॥ ततो गयायामादिगदाधरंध्यात्वा पितॄणां कुलशतस्य नरकायुद्धारब्रह्मलोकनयन- कामनया श्राद्धगिडतानमात्रंवाकार्यम् ॥ भस्म- कूटस्थितं जनाईनं नत्वा तत्समीपे वामजानुनि पात्यात्मनो विष्णुलोककामनयापितॄणांश्राद्धं कृत्वातंचषोडशोपचारैः पंचोपचारैर्वासपूज्यदध्यो- दुनं नवेद्यदत्त्वातच्छेषेणतिलंविना ॐ विष्णु- लोककामनया अपुत्रस्यासंभावितपुत्रस्यममवाऽ- न्यस्य मरणोत्तराक्षय्यसुखप्राप्त्यर्थमभिमत्रैर्जना- ईनहस्ते पिंडदानमहं करिष्ये ॥ इतिसंकल्प्य ॥ एषपिंडो मयादतस्तवहस्ते जनाईन ॥ गयाशी त्वयादेयो मयपिंडोमृतमयि ॥१॥ यस्तुपिंडो मया दत्तो यमुद्दिश्य जनार्दन ॥ देहिदेवगयाशीर्षे १०७ गयाश्राद्धादिपद्धतिः। तस्मतस्ममृततुतम् ॥२॥ जनाईननमस्तुभ्यं नमस्तेपितृरूपिणे ॥ पितृपित्रेनमस्तुभ्यं नमस्ते मुक्तिहेतवे ॥ ३॥ गयायांपितृरूपेण स्वयमेव जनाईनः ॥ तंदृष्ट्वापुंडरीकाक्षं मुच्यतेचऋण- त्रयात् ॥ ४ ॥ एतैमत्रैजनाईनवामहस्ते पिंडं दयात् ॥ अग्निपुराणेतु पिंडत्रयदानमुक्तम् । तत्रत्योऽयं मंत्रः॥ त्रयःपिंडा मयादत्तास्तवहस्ते जनार्दन।परलोकगतेमह्यमक्षय्यमुपतिष्ठताम् ।। इत्येकंमंत्रपठित्वापिंडत्रयंदयात् ॥ ततस्तधो भागे पुंडरीकाक्षमर्चयेत् ॥ ॐ ऋणत्रयमुक्तिका- मनयास्वर्गकामनयाच पुंडरीकाक्षस्यदर्शनपूजनं करिष्ये ॥ इतिसंकल्प्य । ॐ नमस्तपुंडरीकाक्ष ऋणवर विमोचन ॥ लक्ष्मीकान्त नमस्तेऽस्तु नमस्तेपितृमोक्षद ॥ १॥ इतिमंत्रेणदर्शनंकृत्वा संपूज्यनतिकुर्यात् ॥ तदधाभागेभीमगयास्थल- सुपगत्य पितृमुक्तिकामः श्राद्धपिंडदानवा कृत्वा १०८ गयाश्राद्धादिपद्धतिः। प्रेतकुंडे पितॄणांप्रेतत्वविमुक्तिकामः श्राद्धपिंडदानं वाकुर्यात् ॥ ततोमहानदीपरपारगतभरताश्रम- सन्निधौमहानद्यांत्रात्वा रामेश्वरं सीतासहितंरामंच ॐ रामराममहाबाहो देवानामभयंकर ॥ त्वां नमस्येवदेवेशं ममनश्यतुपातकम् ॥ इतिमंत्रण नत्वातत्रस्थरामपदे ॐ पितृकुलशतसहितस्या- मनोविष्णुपुरगमनकामोरामेशसन्निधानेरामपदे श्राद्धमहंकरिष्येइतिसंकल्प्यश्राद्धपिंडदानमात्रया कुर्यात् ॥ ततोधर्मशिलादक्षिणहस्तस्थापितकुंड- पर्वतेपितॄणांब्रह्मपुरनयनकामनयाश्राद्धकार्यम् ॥ धर्मशिलावामहस्तस्थापित उद्यन्तपर्वते पितॄणां ब्रह्मलोकप्राप्तिकामनयाश्राद्धम् ॥ तत्रैवोद्यन्त- कुंडेमध्यानात्वामध्याह्नसंध्योपासनं ततः स्वस्य कोटिजन्मावधि धनान्यवेदवेदाङ्गपारगविप्रत्वका- मनया तबत्यसावित्रीपूजाकार्या ॥ ततः अगस्त्य- - .
गयाश्राद्धादिपद्धतिः। १०९ पदे स्नात्वा तत्र श्राद्धं कृत्वा जन्मनिवारणपूर्व- कब्रह्मभावप्राप्तिकामो ब्रह्मयोनिप्रवेशनिर्गमावहं करिष्ये ॥ इतिसंकल्प्य॥ब्रह्मयोनिप्रविश्यततोनि- गेमंकार्यम् ॥ ततोगयाकुमारंनमस्कृत्यपितॄणांचं- द्रलोकप्राप्तिकामनया सोमकुंडेनानतर्पणश्राद्धानि कार्याणि ॥ ततः ऋणमोक्षकामनया *यमोऽसि यमदूतोऽसि वायसोऽसि महाबल ॥ सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ॥ १ ॥ इति मंत्रेग काकशिलायां काकबलिदानम् ॥ ततः स्वर्गप्रा- प्तिपूर्वकब्रह्मलोकगमनकामनया स्वर्गद्वारेशस्य प्रणामः ॥ पितृनिष्पापतीर्थमाकाशगंगायां श्राद्धं कार्यम् ॥ धर्मशिलादक्षिणहस्तगते भस्मकूटाद्रौ स्वर्गप्राप्तिकामनया तत्रत्यभस्मना स्नानम् ॥ अक्षयवटसमीपे वटेश्वरः प्रपितामहश्च तदरुक्मि- णीकुंडं तत्पश्चिमतः कपिलानदी तत्तीरे कपि- गयाश्राद्धादिपद्धतिः। लेश्वरश्चैते पूज्याः॥ कपिलायां सोमामायोगे स्वर्ग- कामनया स्नानश्राद्धे कायें। स्वर्गकामनया माहे- श्वरीकुंडसमीपे मंगलागौरी पूज्या ॥ धर्मशिला- दक्षिणपादस्थापितप्रेतकूटाद्रौ पितृमुक्तिकामनया श्राद्धं कार्यम् ॥ तत्रत्य एव प्रेतकुंडे पितॄणां प्रेतर मुक्तिकामनया श्राद्धादि कार्यम् ॥ पितॄणां ब्रह्मपुरप्राप्तिकामनया वैकुंठस्य हेमकूटपर्वते गयायां लोहदंडतया ख्यातेगिरौ श्राद्धं कार्यम् ॥ धर्मशिलादक्षिणभागस्थगृध्रकूटगिरौ शिवपुरणा- प्तिकामनया गधेश्वरदर्शनम् ॥ स्वर्गकामनया तत्रत्यगृध्रवटपणामः ॥ पितृलोकप्राप्तिकामनया तत्रत्यायां गृध्रगुहायां श्राद्धम् ॥ तत्रत्यायां माहेश्वरीधारायांच पितृस्वर्गकामनया श्राद्धम् ॥ ब्रह्मलोकप्राप्तिकामनया मूलक्षेत्रसरसिस्नानम् ॥ स्वस्य शिवत्वकामनया ऋणमोक्षेश्वरपापमोक्षे- गयाश्राद्धादिपतिः। श्वरदर्शनं कार्यम् ॥ धर्मशिलायामुत्तरस्थदिकू- पालस्थितस्य गजरूपिविघ्नेशस्य निजमुक्तिपित- शिवपुरप्राप्तिकामनया दर्शनं कार्यम् ॥ स्वर्ग- कामनया स्नात्वा गीगयादित्योर्दर्शनम् ॥ पितृतारणकामनया तत्पर्वतस्थब्रह्मदर्शनम्॥पितृ- णां ब्रह्मपुरप्राप्तिकामनया गयानाभौ श्राद्धं पाप- नाशकामनया मुंडपृष्ठाद्रौ वरिंद्रादेश्चदर्शनम् ॥ क्रौंचपादाद्विगतजलाशये पितृमातामहश्वशुरकु- लानां स्वर्गकामनया श्राद्धं कार्यम् ॥ ततो गयाप्रदक्षिणा कार्या ॥ ततो वित्तानुसारेण गदाधरं संपूज्य ॥ ॐ गदाधरं कलिगत- कल्मषापहं गयागतं विदितगुणं गुणातिगम् ॥ गुहागतं गिरिवरगेहगोपितं सुरार्चितं वरदमहं नमामि तम् ॥ १ ॥ शुभश्रियं त्रिदशगणादिसु- श्रियं यशश्रियं दितिभयदारणश्रियम् ।
११२ गयाश्राद्धादिपद्धतिः। कलागतं कलिकलमर्दनश्रियं दृढादृढं परिबृढगा- टशक्तिभिः ॥२॥ विदेहकं करणकलाविवर्जितं वियन्म धिमकरवारिभूषितम् ॥ गदाधरं ध्वनि- मुखवजितं परं नमाम्यहं परममनादिदेवम्॥३॥ मनोगतं मतिगतिवजितं त्वजं शमात्मकं श्रुति- शिरसि स्थितं बुधम् ॥ चिदात्मकं कलिगत- कारणातिगं गदाधरं हृदयगतं नमाम्यहम् ॥४॥ इति ब्रह्मकृतेन स्तोत्रेण ॥ ॐ अव्यक्तरूपो यो देवोमुंडपृष्ठादिरूपकृत् ॥ फल्गुतीर्थादिरूपेण तं नमामि गदाधरम् ॥ १॥ व्यक्तरूपो हि यो देवो जनार्दनस्वरूपतः ॥ मुंडपृष्ठे स्वयं ह्यस्ति तं नमामि गदाधरम् ॥ २॥ शिलायां ब्रह्मरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः॥ पूजितं सत्कृतं देरस्तं नमामि गदाधरम् ॥ ३॥ महादेवं च जगतो गयाश्राद्धादिपद्धतिः। ११३ व्यक्तस्यैकं हि कारणम् ॥ अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ॥ ४॥ यं च दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा प्रणम्य च ॥ श्राद्धादौ ब्रह्मलोका- प्तिस्तं नमामि गदाधरम् ॥५॥ देहेन्द्रियमनो- बुद्धिप्राणाहङ्कारवर्जितम् ॥ जायत्स्वप्नविनिमुक्तं नमाम्यादिगदाधरम् ॥ ६ ॥ नित्यानित्य विनिर्मुक्तं सामान्यानंदवर्जितम् ॥ तुरीयं ज्योति- रात्मानं तं नमामि गदाधरम् ॥ ७ ॥ इति रुद्र- कृतेन स्तवेन च स्तुवीत ॥ ततः ॐ आगतोऽस्मि गयां देव पितृकार्य गदाधर ॥ त्वमेव साक्षीभगवन्न- नृणोऽहमृणत्रयात् ॥ इति प्रार्थयेत् ॥ एवं गया- यात्रां कृत्वा स्वगृहमागत्य कृताया गयायात्रायाः परिपूर्णकामो गणेशस्वेष्टदेवतानां पूजनं विधाय प्रभूतघृतान्नेन वृद्धिश्राद्धं कुर्यात्॥ ततो ब्राह्मणान् भोजयित्वा दाक्षिणाभिस्तान्संतोष्य इटैः सह ११४ गयाश्राद्धादिपद्धतिः। स्वयंभोजनं कुर्यात्॥ॐ तत्सच्छ्रीगदाधरायनमः। इति वाय्वनिपुराणवाचस्पतिमिश्रादिकृतपद्धत्यु- तगयाश्रादपद्धतिः समाप्ता॥ इति श्रीबीकानेरविषयांतर्गतश्रीरत्नगढनगरनिवासिना श्रीवसिष्टकुलोद्भवश्रीरामकृष्णपौत्रेण श्रीकस्तूरीचंद्रसूनुनाश्री महादेवभक्तवाजसनेयिना गौडपण्डित-श्रौतभूषणकर्मकाण्ड- कोविदेन श्रीचतुर्थीलालशर्मणा विरचिते गौडीयश्राद्धप्रकाशे महानिबंधे पद्धतिखंडस्य पूर्वार्धे चतुर्थ प्रकरणं समाप्तम् ॥ पुस्तक मिलनेका ठिकाना- गङ्गाविष्णु श्रीकृष्णदास, खेमराज श्रीकृष्णदास, "लक्ष्मीचेंकटेश्वर"स्टीम प्रेस, “श्रीवेङ्कटेश्वर " स्टीम प्रेस, कल्याण-मुंबई. खेतवाडी-मुंबई