Sri Sringeri Sharada Peetham
Goraksasiddhanta Samgraha
Front matter
SARASWATĪBHAVANA-GRANTHAMALA
( Vol. 110 )
General Editor
DR. BHĀGĪRATHA PRASĀDA TRIPĀȚHĪ, “VĀGĪŠA ŚĀSTRI
Director, Research Institute,
Varanaseya Sanskrit Vishvavidyalaya,
Varanasi,
pa.
AIRTOTAS
रास्वविद्यालय
श्रुतम
गोपाय
GORAKSA SIDDHANTA SAMGRAHAH
Edited by
TANARDANA SASTRI PANDEYA
VARANASI
1973
Published by:
Director, Research Institute
Varanaseya Sanskrit Vishvavidyalaya
Varanasi-2
Available at
Publication Section
Varanaseya Sanskrit Vishvavidyalaya,
Varanasi-2
First Edition -500 Copies
Price Rs. 10.50
Printed by :
Sri Ghana Shyama Upadhyaya
Manager
Varana seya Sanskrit Vishvavidyalaya Press
Varanasi-2
सरस्वतीभवन-ग्रन्थमाला
(११०)
प्रधानसम्पादकः
डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
गवेषणालयसञ्चालकः
वाराणसेयसंस्कृतविश्वविद्यालये
गोरक्षसिद्धान्तसंग्रहः
(परिवर्धितं संशोधितं च संस्करणम् )
सम्पादकः
लादिनशानी
SO
dia
SALOPA
K. ४...
कर
Rammanand
२०३० तमे वैक्रमाब्दे
१८९५ तमे शकाब्दे
१९७३ तमे खिस्तान्दे
कः
सञ्चालकः
गवेषणालयस्य
वाराणसेय-संस्कृत-विश्वविद्यालये
प्राप्तिस्थानम्-
प्रकाशनविभागः
बाराणसेयसंस्कृतविश्वविद्यालयः
वाराणसी-२
प्रथम संस्करणम् : ५०० प्रतिरूपाणि
मूल्यम्-१०.५० रूप्यकाणि
मुद्रकः
श्रीधनश्याम उपाध्यायः
प्रबन्धक:
वाराणसेय-संस्कृत-विश्वविद्यालयीयमुद्रणालयस्य
प्रास्ताविकम् ". रोगजरामृत्युभयाकुलो जिजीविषुर्मानवो नीरुक्त्वस्यामरत्वस्य च समासादनाय चिराद् दृश्यते प्रयलमानो भूमण्डले । रोगविखण्डनाय जरापसारणाय च ऋग्वेदोपवेद पायुर्वेदः प्रवर्तते सुपुरातनकालाद् भारते वर्षे । रुक्प्रतिक्रियात्मका नानाविधा आविष्कृता ओषधयः, साम्प्रतं चाप्याविष्क्रियन्ते चिकित्सकैराविष्कारकैः । यद्यपि मृत्युजयार्थमपि बहुविधा यत्ना आस्थिताश्चिकित्साक्षेत्रे, सम्प्रत्यपि विधीयन्ते, तथापि न क्वापि भाक्तिं साफल्यं तज्जः। 'जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' इति पातञ्जलयोगसूत्राद् जन्मज- सिद्धिरोषधिजसिद्धिर्मन्त्रजसिद्धिस्तपोजसिद्धिः समाधिजसिद्धिश्चेति पञ्च सिद्धयो ज्ञायन्ते। तत्रा-. मरत्वेप्रतिपादनाय सिद्धिपरायणः सिद्धसंप्रदायानुयायिभिर्गोरक्षनाथादिभिरायुर्वेदे रसायनतन्त्रं पारदेशक्तिप्रकाशकमाविष्कृतम्, अनादिकालतः प्रवर्तमाने योगमार्गे चाविर्भावितः पुरातन- परम्परातः किञ्चिद्विलक्षणो हठयोगः । तत्र गोरक्षनाथेन योगमार्गः सुव्यवस्थापित इति तद्ग्रन्थानां परिशीलनेन बुध्यते । तद्रचिताः प्रायशोऽष्टाविंशतिसंख्याका ग्रन्थाः संस्कृतभाषा- मया अन्ये च चत्वारिंशत्संख्याका हिन्दीभाषामयाः प्रथिताः । - गोरक्षनाथः यद्यपि विभिन्नः प्रमाणोरक्षनाथो दशमशताब्दीक एकादशशताव्दीको घा सिद्धथ- तीति लब्धवर्णनां मतम्, तथापि गोरक्षसिद्धान्तसंग्रहकारानुसारेण ब्रह्माण्डपुराणे ललिता- पुरवर्णने ललिताखण्डेऽपि गोरक्षनाथस्योल्लेखो विद्यते- सिद्धदिव्यर्षयश्च व पवनाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ॥ इति । श्रीकृष्णकृतगोरक्षनाथस्तोत्रे गोरक्षस्तुतिस्तत्रास्तीति तन्मतम् ( ३८ पृ०)। सिद्धमतपरम्परा ( सिद्धो नाथोऽवधूतश्चेत्यनन्तरम् ) पद्मपुराणगतेकपिलगीतायां नवनाथानामुल्लेखः 'दत्तात्रेयादिसिद्धानां नवनाथास्तथैव لا ख ] me- च' इति । शाबरतन्त्रानुसारेण द्वादश सिद्धाः सन्ति । ते चेमे- १. आदिनाथः, २. अनादिः, ३. काल:, ४. अतिकालकः, ५. करालः, ६. विकरालः, ७. महाकाल:, ८. कालभैरवनाथः, ६. बटुकः, १०. भूतनाथः, ११. वीरनाथः, १२. श्रीकण्ठश्चेति । शिष्यपरम्परायां द्वादश शिष्याः प्रसिद्धाः । ते चेमे- १. नागार्जुनः, २. जडभरतः, ३. हरिश्चन्द्रः, ४. सत्यनाथः, ५. भीमनाथः, ६. गोरक्षनाथः, ७. चर्पटः, ८. अवद्यः, ९. वैराग्यः, १०. कन्थाधारी, ११ जलन्धरः, १२. मलयार्जुनश्चेति (द्र० १४,१५ पृ०)। सिद्धपरम्परायां तु नव सिद्धाः प्रथन्ते-१. श्रीगुरुरादिनाथः, २. मत्स्येन्द्रनाथः, ३. उदयनाथः, ४. दण्डनाथः, ५. सत्यनाथः, ६. संतोषनाथः, ७. कूर्मनाथः; ८. भवनाभिः, ९. गोरक्षनाथश्चेति । सिद्धा एव नाथरूपत्वेन प्रसिद्धाः । अस्य ग्रन्थकारस्यानुसारेण मण्डनमिश्रः (सुरेश्वर चार्यः) शङ्कराचार्यश्चोभावेव सिद्धोपदेशेन गृहीतावधूतावस्थौ जाती ( १४ पृ०)। कापालि- कास्तान्त्रिकाः शाक्ताश्चास्यैव संप्रदायस्य शाखारूपाः । समन्वयकर्ताऽवधूत एव गुरुः सिद्धसंप्रदाये यद्यपि सर्वेषां शास्त्राणां निन्दा कृता, तथापि हठयोगप्रदीपिकानुसारेण तत्र गुरुवाक्येन ज्ञानं, मुक्तिः, स्थितिः, सिद्धिरित्यादयो लभ्यन्त इति गुरुमहिमाऽङ्गीकृत एव ( १२,३१ पृ.) । तस्मिन् मार्गे सर्वश्रेयोमूलभूतो गुरुरेव । स चावबूत एव, नान्यः । त्याग- भोगाभ्यामलिप्तोऽप्यवधूतस्त्यागभोगप्रदः । स चानिवर्णाश्रमी सर्वाधिकारिणां गुरूणामपि गुरुः प्रोक्तः । पक्षपातविनिमुक्तः स एव ब्रह्म संपद्यते । अवधूतस्य व्यवहारस्त्वनियत एव । स क्वचिद् भोगी, क्वचित् त्यागी, क्वचित् पिशाचवद् नग्नः, क्वचिद् राजा, क्वचिच्चाचारी इत्येतादृशलक्षणलक्षितोऽवधूतो विधीयते । एवं च सर्वसाधनशिरोमणियोगमूर्तिभूतोऽवधूत एव परमपुरुषार्थविचक्षणो भवति (८ पृ०)। योगस्तु कस्यापि सापेक्षो नास्ति । उतरावस्थाऽवधूत एवेति तान्त्रिकाणामयमेव सिद्धान्तः षट्शाम्भवरहस्ये दृश्यते (१४ पृ.)। अवधूतमार्गो दिव्यः। वेदान्ततात्पयं- लक्ष्यं चावधूत एवास्ति ( १४ पृ.)। यः सर्वदर्शनानां स्वरूपदर्शनेन समन्वयं करोति सोऽवधूतः, स योगी स्यात् । प्रारब्धकर्मनिमूलकरणमवधूतानामेव कर्म ( १२ पृ.)। यः . [ ग ] सर्वान् प्रकृतिविकारान् अवधुनोति सोऽवधूतः (१ पृ०)। तस्य व्युत्पत्तिरित्थं दृश्यते- अनन्तानन्दब्रह्मज्ञः अकारं तस्य लक्षणम् । वासना वजिता येन वक्तव्यं च निरामयम् ।। वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् । धूलिधूसरगात्राणि धूतचित्तनिरामयम् ।। ध्यानधारण निमुक्तं धूकारं तस्य लक्षणम् । तत्त्वचिन्ता येन धूता चिन्ता चेष्टाविवजिता ।। तमहङ्कारनिमुक्तं तकारं तस्य लक्षणम् । ( २८ पृ.) भक्तिपूर्वकमेतादृशगुरुप्रणामेन परमपदावाप्तिर्जायते (६ पृ.)। देहाभिमान एव पक्षपातः । मुणातीतत्वेन पक्षपातरहितस्यात्याश्रमिण एव मुक्तिप्रदगुरुत्वं नान्यस्य कस्यापि । कुलाचारविहीनस्तु गुरु रेको हि दुर्लभः- वर्णाश्रमाभिमानेन वर्तते श्रुतिकिङ्करः । अभिमानविहीनस्तु वर्तते श्रु तिमूर्द्धनि ।। शोषण्यं रत्नम्-योगः इह खलु संसारे योगो भोगश्चेति द्वौ पदार्थों स्तः। एतद् द्वयं विना किमपि न स्यात्, सर्वस्याप्येतयोरन्तर्भूतत्वात् । तयोर्मध्ये योगे लग्ना महासिद्धाः, भोगे तु संसारिणः। योगस्य फलं मुक्तिः, भोगस्य तु बन्ध इति । यद्यपि भोगाद् बन्धस्तथापि नानाविलासैविषयानन्दमनु- भवति मानव आदौ । योगिनां तु प्रथमतो मनाग श्रमो भवेत् । 'क्लेशोऽधिकतरस्तेषामव्यक्ता. सक्तचेतसाम्' इति । पश्चात् तु महानन्द इति सन्मार्गो योगमार्गः । वेदस्य त्वभ्यासेऽप्यवधूतानां दोष एव स्यात् । वेदस्य पूर्वभागस्तु वर्णानामेव, वेदान्तभागस्तु भिक्षूणामेव, योगमार्गोऽस्त्यवधूतानाम्। वेदान्ततात्पर्य लक्ष्यं चावधूत एवास्तीति ग्रन्थकृन्मतम् । सर्वेषां वेदादिशास्त्राणामैदम्पर्य योग एवास्ति । योगशास्त्र तु सूक्ष्मम् । समुद्र चेतर- वस्तु सुलभम्, रत्नं तु श्रमेण लभ्यते । एवमेव वेदादिशास्त्र व्यवहारादि सुलभम्, योगस्तु भूरिश्रमेण लभ्यते। यथा रत्नखनौ रत्नमेव लभ्यते, तथा योगशास्त्र योग एव लभ्यते, नान्यदस्ति किञ्चिदसारं वस्तु । स च योगो गुरुकृपयाऽल्पश्रमेणैव प्राप्यः, सर्व परित्यज्य सेव- नीयः । योग एव परं साधनम् । श्रु तौ स्मृतो च योगमार्गात् परो मार्गों नास्ति । यथोपायेन दारु मथित्वाऽग्निई श्यते, तथा शरीरस्थ आत्मा योगेनैव साक्षात्क्रियते ।
- [ घ ] योगिनः श्रेष्ठाः । तेषाममृतं स्थानं ब्रह्मणः परमं पदमस्ति । प्राणायामपरायणा न निवर्तन्ते । ते परं स्थानं लभन्ते । एवं सर्वनमस्कार्यमेतन्मतम् । क्षेत्रशपरमात्मनोः संयोगो योगः। मन्त्रयोगादीनि त्वेतस्यैव योगस्याङ्गानि । वेदादिज्ञानं योगज्ञानादवाप्नोति योगी (६ पृ०)। ध्यानयोगस्य परी महिमा त्वित्थं दृश्यते- अश्वमेधसहस्राणि वाजपेयशतानि एकस्य ध्यानयोगस्य कलां नाहन्ति षोडशीम् ॥ इति । - क्रियायुक्तस्य सिद्धिः शास्त्रपाठमात्रेण क्रियाशून्यस्य सिद्धिर्न संपद्यते । प्रथम प्रकारे वायुनिरोधः । चले वाते चित्तं भवति चलम्, निश्चले वाते तु चित्तमपि जायते निश्चलम् । द्वितीये प्रकारे तु-- मनसः स्थैर्ये वायुनिरोधः (प्राणायामः )। ततः स्थिरबिन्दुतेति । हठयोगप्रदीपिकातो. निष्ठा- वस्थेत्यादयः। सिद्धयुत्तरं महानन्दः नाथसंप्रदायस्य मुख्यमाकर्षणं सिद्धयुत्तरमहानन्दोऽस्ति । योगाद्यनुष्ठाने कष्टानुभवः स्वाभाविकः । कलोत्तरं त्वखण्डैकनाथरूपो ब्रह्मविष्ण्वाद्यधीश्वरो नानारूपो महानानन्दो , भवत्येवः । ब्रह्मादयः सर्वे तस्य पूजां कुर्वन्ति । योगारूढो नानाभोगान् भुनक्ति, न तु तेलिप्यते (१२ पृ.)। 'गोरक्षसिद्धान्तसंग्रहः' इति प्रस्तुते ग्रन्थे सिद्धान्तशब्दो नास्ति राद्धान्तवाचकः। स तु सिद्धमतस्य . तात्पर्य मेव सिद्धान्तः, न तु वादिप्रतिवादिभिनिर्णीतोऽर्थः सिद्धान्तः । सिद्धस्यैव तात्पर्य सिद्धान्तः । सिद्धस्यैव सिद्धान्तो न त्वन्यस्यात एव शङ्करेण सिद्धान्तबिन्दुः कृतः (१४ पृ.)। योगिनां मुख्यचिह्नानि १. मुद्रा, २. नादः, ३. विभूतिः, ४. धादेशधारणं चेति मुख्यानि चिह्नानि योगिनाम् । १. मुद्राधारणं कर्णयोः क्षुरिकां विना न संभवतीति क्षुरिकोपनिषदि झुरिकाप्रशंसा विद्यते (७ पृ.) । एतादृशाः सिद्धा लोके 'कनफटा'-रूपेण प्रसिद्धाः । २. अनाहतशृङ्गीति नादः । ३. त्रिपुण्ड्रधारणाय कालाग्निरुद्रोपनिषदि प्रशंसा । ४. सर्वद्वन्द्वक्षयावहा सद्वाणी-आदेशः ।
|| ॐ श्रीगणेशाय नमः ॥ || ॐ भगवते आदिनाथाय नमः ।। ॥ श्रीगोरक्षनाथो विजयतेतराम् ॥ ॥ गोरक्षसिद्धान्तसङ्ग्रहः । ॥ निर्गुणं वामभागे च सव्यभागेऽद्भुता निजा ।। मध्यभागे स्वयं पूर्णस्तस्मै नाथाय ते नमः ॥ १॥ मुक्ता लुण्ठति पादाने नखाने जीवजातयः ।। मुक्तामुक्तगतेर्मुक्तः सर्वत्र रमते स्थिरः ॥२॥ वामभागे स्थितः शम्भुः सव्ये विष्णुस्तथैव च ॥ मध्ये नाथः परं ज्योतिस्तज्ज्योतिर्मे तमोहरम् ॥ ३ ॥ अस्मिन्मार्गे सर्वश्रेयोमूलभूतो गुरुरेव, स चावधूत एव नान्यः, स कोऽवधूत इत्यपेक्षायामाह- वचने वचने वेदास्तीर्थानि च पदे पदे । दृष्टौ दृष्टौ च कैवल्यं सोऽवधूतः श्रियेऽस्तु नः ।। एकहस्ते धृतस्त्यागो भोगश्चैककरे स्वयम् । अलिप्तस्त्यागभोगाभ्यां सोऽवधूतःश्रियेऽस्तु नः॥ सिद्धसिद्धान्तपद्धतौ- यः सर्वान् प्रकृतिविकारान् अवधुनोतीत्यवधूतः। (सि० ६।१) प्रसरं भासयेच्छक्तिः सङ्कोचं भासयेच्छिवः। तयोर्योगस्य कर्ता यः स भवेत्सिद्धयोगिराट् ॥ इति ।। (सि० ६।६३) अवधूतगीतायाम्- आब्रह्मस्तम्बपर्यन्तं सम्पूर्ण परमात्मनि। भिन्नाभिन्नं न पश्यामि तस्याऽहं पञ्चमाश्रमी ।। इति ॥ सूतसंहितायाम्- अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम् । न कस्यापि भवेच्छिष्यो यथाऽहं पुरुषोत्तमः॥ (सू० सं० मुक्ति खं० ५।१४) २ गोरक्षसिद्धान्तसङ्ग्रहः, (सू० - 'यथाऽहं पुरुषोत्तमः' इति विष्णुं प्रति शिववचनम् । अतिवर्णाश्रमी साक्षाद् गुरूणां गुरुरुच्यते । तत्समो नाधिकश्चास्मिल्लोकेऽस्त्येव न संशयः ॥ इति ॥ सं० मु० खं० ५।१५) ब्रह्मबिन्दूपनिषदि- पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा। स्वरेण 'साधयेद्योगमस्वरं भावयेत्परम् ।। अस्वरेण हि भावेन भावो नाऽभाव इष्यते । तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ।। ( २१६-८, ई० अ० पृ० १२७ ) तत्राऽऽशङ्कते-पक्षपातः क इति ? देहाभिमान एव सः। सोऽपि क इति ? अहं ब्राह्मणोऽहं क्षत्रियोऽहं वैश्योऽहं शूद्रोऽहं पुनरन्त्यजोऽहं ब्रह्मचार्यहं गृहस्थोऽहं वानप्रस्थोऽहं संन्यास्यहमुत्तमोऽहं मध्यमोऽहमधम इत्यादि सङ्कल्प एव सः । तं सङ्कल्पं विहाय सर्वब्यापकं परमनाथं याथातथ्येन पश्यत्यथ मुक्तो भवति तादृश एव स्यादिति । तथा च वर्णाश्रमादिव्यवहारमतीत्य नाथं साक्षात्कुर्वतो मुक्तिरिति । यदि कोऽपि वदेद्वर्णाश्रमाचारव्यवहारं त्यक्तवतः परमयोगिनो मुक्तिर्भवतु नाम, वर्णाश्रमाचारवतः सा कथं न भवेत् ? "कर्मणैव हि संसिद्धिमास्थिता जन- कादयः” इत्यादीनि कानिचिच्छास्त्रवाक्यान्यवलम्ब्य वदन्ति चामुको गृहस्थो मुक्तो मुक्तश्चामुको भिक्षुरिति ? तत्रोच्यते-गुणानतीत्यैव मुक्तो भवति न तु गुणाभि- मानीति सर्वसम्मतः सिद्धान्तो भवत्येव । वर्णव्यवहारे तु न सम्भवति गुणाती- तत्वम् । कथम् ? वर्णमात्रस्यापि गुणनिर्मितत्वादिति । उक्तश्च गीतायाम्- चातुर्वण्य मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ।। (गी : ४।१३) तथा च कथं गुणसत्त्वे मुक्तिरिति ? तत्र वादी वदति--वर्णाभिमानिनः किं न त्यजन्ति गुणानिति ? सत्यम् ; यदि गुणांस्त्यजेयुस्तहिं कथं वर्णसद्भावः ? गुण- मूलकत्वादेव वर्णत्वस्य । तथा चामित्वं स्यात् ? तदा वादी वदति-भवद्भिस्त्वा- श्रमिणोऽपि गुणातीतत्वाभावान्मुक्तिर्नेत्युच्यते । सा च भवद्वचनक्रमेण त्वायास्यति । तत्र किमुत्तरमिति ? उच्यते; नैवमाश्रमिणो मुक्तिरायाता । कथम् ? आश्रमाणामपि गुणलेशत्वात् । प्रथमतो वर्णव्यवहारेण गुणभजनम् । गुणवृत्तिषु च सत्त्वगुणवृत्तय १. सन्धयेत्-मु० पा० । २. भवेत्.-पा०. ३. गुणमूलकत्वात्-पू० सं० - ? ? ?
गोरक्षसिद्धान्तसङ्ग्रहः ३ उत्तमा, रजस्तमोवृत्तयस्ततो निकृष्टा, इति कृत्वा गुणेष्वप्युत्तमादित्वं स्यात्, परन्तु गुणवृत्तित्वं तु सर्वसाधारणमतो नास्ति गुणवृत्तीनां मुक्तिसाधकत्वम् । तत्र दृष्टान्तः-- यथा द्वे स्त्रियौ रूपवत्यौ भवतस्तयोर्द्वयोरपि संयोगे न भवेद्गर्भोत्पत्तिः ? किन्तु तद्धर्मभिन्नत्वेन पुरुषेणैव सा भवेत् , किञ्च सौन्दर्यतारतम्येनैकस्या अपरा अधिका न्यूना वा भवतु नाम, परन्तु भोक्ता तु तयोर्द्वयोरपि पुरुष एव, नास्ति तयोरन्योन्यं भोक्तृभोग्यत्वम् । तथा नास्ति वर्णानां साक्षान्मुक्तिविषयेऽन्योयं गुरुशिष्यत्वम् । किञ्चाश्रमिणोऽपि प्रथमतो वर्णाभिमानेन गुणभाज एवेति चोत्तरत्रापि प्रारब्धम- भिमत्य भोगभाजो भवन्ति । तेन च प्रारब्धकर्मणां भोगोऽवश्य इति कृत्वा कर्मणां सत्यत्वं तावद् दर्शयति-यतो गुणलेश एतेषामपि न निवृत्तो यतो मुक्तत्वपुरुषार्थ- विहीनास्तेऽपि नपुंसकप्रायाः सन्तो न मुक्तिस्त्रियमर्हन्ति । यद्यपि नपुंसकाः पुरुषवेपिणो वर्तन्ते, तथापि पुरुषत्वेन सन्ततिसम्पादका न भवन्ति, एवं वेषमात्रेणाश्रमिणोऽपि सम्मानपूजाद्यर्हन्तु नाम गुरुत्वम् । अतो गुणातीतत्वेनात्याश्रमिण एव मुक्तिप्रदगुरुत्वं नान्यस्य कस्यापीति बहुधा शास्त्रे निरूपितम् । कैवल्योपनिषदि- विविक्तदेशे सुखमासनस्थः शुचिः समग्रीवशिरः शरीरः । अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ( कै० उ० १।५, ई० अ० पृ० १२८) तेजोबिन्दूपनिषदि- लोभं मोहं भयं दर्प कामं क्रोधं च किल्विषम् । शीतोष्णे क्षुत्पिपासे च सङ्कल्पं सविकल्पकम् ॥ न ब्रह्मकुलपर्व'च न मुक्तं' ग्रन्थसञ्चयम् । न भयं सुखदुःखं च तथा मानापमानयोः ।। एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ।। इति ॥ (ते० उ० १२-१४; ई० अ० पृ० २२३) अमनस्के- कुलाचारविहीनस्तु गुरुरेको हि दुर्लभः । ( अम० २०१७) इति वर्णाश्रमित्वमुक्तम् । नास्ति वर्णाश्रमाचारे सर्वारम्भपरित्याग इति । पुनः एवं चावधूत एव सन्मार्गदर्शनशीलो भवति । स एव गुरुर्मुमुक्षुभिः कर्तव्यः । १. मुक्तिश्रियम्,-पू० सं० । २. शीतोष्णं क्षुत्पिपासं च-मु. पा० । ३. दपं-मु० पा० । ४. मुक्तिप्रन्थि-मु० पा० । ।
४ गोरक्षसिद्धान्तसङ्ग्रहः .... ३ सिद्धसिद्धान्तपद्धतौ- फलितानेकपुण्यानां मुमुक्षुणां हितावहम् । साधनं साधनश्रेष्ठमाह योगमतः परम् ।। सन्मार्गश्च योगमार्गस्तदितरस्तु पाखण्डमार्गस्तदुक्तमादिनाथेन- योगमार्गेषु निष्णाता दीक्षिता ये तु' दूषकाः । ते हि पाखण्डिनः प्रोक्तास्तथा तैः सह वासिनः ।। योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ । शास्त्रग्रन्थेषुः सर्वेषु शिवेन कथितं पुरा । विवेकमार्तण्डे. योगशास्त्रं पठेन्नित्यं किमन्यैः शास्त्रविस्तरैः । यत्स्वयं चादिनाथस्य निर्गतं वदनाम्बुजात् ॥ खेचरीसंहितायाम् उत्सृज्य सर्वशास्त्राणि जपहोमादि कर्म च। धर्माधर्मविनिर्मुक्तो योगो योगं समभ्यसेत् ॥ वर्णाश्रमाभिमानेन वर्तते श्रतिकिङ्करः । अभिमानविहीनस्तु वर्तते श्रुतिमूर्द्धनि ॥ न वेदो वेद इत्याहुर्वेदावेदो निगद्यते । परात्मा विद्यते येन स वेदो वेद उच्यते ॥ वर्णधर्मे च सन्ध्या विहिता, तत्प्रतिरूपकमाह- न सन्ध्या सन्धिरित्याहुः सन्ध्या सन्धिनिगद्यते । सुषुम्णासन्धिगः प्राणः सा सन्ध्या सन्धिरुच्यते ।। ध्यानबिन्दूपनिषदि- यदि शैलसमं पापं विस्तीर्ण योजनान्बहून् । भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ।। ( १, ई० अ० पृ० २४५ विवेकमार्तण्डे द्विजसेवितशाखस्य अतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजत सत्तमाः ॥ (वि० ६.१) - -- १. तांश्च-पा०। ३. मुद्रितेषु नोपलभ्यते । २. शास्त्रेष्वन्येषु-मु० पा० । ४, नास्ति-१० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः ५ - मुण्डकोपनिषद्यङ्गिरसं प्रति शौनकवचनं प्रश्नरूपम्- "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ? इति । तस्मै स होवाच- द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च । तत्रापरा- ऋग्वेदो यजुर्वेदः सामवेदो 'ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष- मितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति परा यया तदक्षरमधिगम्यत इति ।” ( १।३-५, ई० अ० पृ० १४) यदक्षरं यया प्राप्यत इत्युक्तं सा योगविद्यैव । कथम् ? श्रुतिस्मृतिपुराणादि- सर्वविद्यानामपरविद्यायामेवोक्तत्वाद्योगविद्यायाश्चानुक्तत्वात् पृथक्त्वमर्थात् सिद्धम् । तदुक्तमात्मोपनिषदि- "अथ परमात्मा नाम यथाक्षरमुपासनीयः। स च प्राणायामप्रत्याहार- धारणाध्यानसमाधियोगानुमानाध्यात्मचिन्तकवटकणिका वा श्यामाकतन्दुलो वा बालाप्रशतसाहस्र कल्पनादिभिः स लभ्यते, नोपलभ्यते, न जायते, न म्रियते, न शुष्यते, न दह्यते, न कम्पते, निर्गुणः, साक्षीभूतः शुद्धो निरवयवात्मा केवलः सूक्ष्मो निष्कलो 'निरञ्जनो 'निरभिमानः शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निरा- काङ्कः सर्वव्यापी सोऽचिन्त्योऽवर्ण्यश्च, पुनात्यशुद्धान्यपूतानि । निष्क्रियस्तस्य संस्कारो नास्ति ( संस्कारो नास्तीत्येष परमात्मेति )६।” (१, ई० अ० पृ० ४५१) सा चामृतबिन्दूपनिषदि स्पष्टमाह- शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः। परमं ब्रह्मविद्याया उक्त्वा नान्यमथोत्सृजेत् ।। ॐकारं रथमारुह्य विष्णुं कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ यावद्रथेन गन्तव्यं तावद्रथपथि स्थितः। स्थित्वा रथं यथास्थानं रथमुत्सृज्य गच्छति ॥ मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् । अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ।। शब्दादिविषयाः मनश्चैवातिचञ्चलम् । चिन्तयेदात्मनो रश्मीन् प्रत्याहारः स उच्यते ।। प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ इत्यादि यावत्समाप्ति । १. अथर्ववेदः-मु० पा० । २. यथाक्षर-मु० पा० । ३. विकल्पनाभिः-मु. पा० । ४. निर्ममो-मु० पा० । ५. निविकारः-मु० पा० । ६. () नास्ति-मु.।
६ गोरक्षसिद्धान्तसङ्ग्रह च । - मनुस्मृतौ- क्षरन्ति सर्वा वैदिक्यो जुहोति-यजति-क्रियाः । अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ।। ( म० २१८४) उत्तरगीतायाम्- यथाऽमृतेन तृप्तस्य पयसा कि प्रयोजनम् । एवं तत्त्वपदे प्राप्त वेदे नास्ति प्रयोजनम् ।। ( १।२२) पुराणं भारतं वेदा धर्मशास्त्राण्यनेकशः । पुत्रदारादिसंसारो योगमार्गस्य विघ्नकृत् ॥ ( ३।२) मुहूर्तमपि योगस्थो नासाग्रे मनसा अपि । सर्व तरति पापं च तस्य जन्मशतोद्भवम् ॥ (२०१०) अश्वमेधसहस्राणि वाजपेयशतानि एकस्य ध्यानयोगस्य कलां नाहन्ति षोडशीम् ॥ वायुपुराणे- ऋचो यजूंषि सामानि वेदोपनिषदस्तथा । योगज्ञानादवाप्नोति ब्राह्मणोऽध्यात्मचिन्तकः ।। मार्कण्डेय पुराणे- एतत्ते कथितं ज्ञानं योगं चेमं निबोध मे। यं प्राप्य ब्राह्मणो योगी शाश्वतान्नान्यतां ब्रजेत् ।। एवं बहुधा शास्त्रेषु योगस्य प्रशंसा विदितैव, तस्या दिङमात्रमिदं दर्शितम् । तस्य योगस्य लक्षणं तु विवेकमार्तण्ड उक्तम्- योगं चात्र प्रवक्ष्यामि योगं चाष्टाङ्गसंयुतम् । संयोगं योगमित्याहुः क्षेत्रज्ञपरमात्मनोः ।। एतस्यैव योगस्य मन्त्रयोगादीन्यङ्गानीति ज्ञेयम् । सन्मार्गत्वेन योगस्तु सेव्यो हित्वाऽन्यसाधनम् । मुमुक्षुभिर्यतस्तेषां पदप्राप्तिः परा पदप्राप्तिः परा भवेत् ॥ योगिनो वीतसङ्कल्पा निर्द्वन्द्वाः पुण्यदर्शनाः । योगरत्नकरण्डास्ते जयन्त्यविधिगोचराः॥ तद्वतामेव परमपदप्राप्तिरिति तेषां स्वरूपं प्रशंसां चाह कैवल्योपनिषदि- विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरः शरीरः। अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।। १, घृतेन-मु० पा०। २. ब्रह्मणो-मु० पा० ३. मान्यता-पू० सं०। - गोरक्षसिद्धान्तसङ्ग्रहः - हृत्पुण्डरीकं विरजं विशुद्ध विचिन्त्य मध्ये विशदं विशोकम् । अनन्तमव्यक्तमचिन्त्यरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ।। तमादिमध्यान्तविहीनमेकं २विभुं चिदानन्दमरूपमद्भुतम् । उमासहायं परमेश्वरं विभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।। ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः सः प्राणः स आत्मा परमेश्वरः ।। स एव सर्व यद्भूतं यच्च भाव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ (कै० १।५-९, ई० अ० पृ. १२८) गीतायांच- तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्वाधिको योगी तस्माद्योगी भवार्जुन ।। (गी० ६।४६) महार्णवे- योगी ब्रह्मा योगिनो विष्णुरूपं योगी देवो देवदेवो महेशः । योगी मोक्षः पूर्णतत्त्वस्वरूपो योगी ध्यानं सृष्टिकर्ता च हर्ता ॥ इत्यादि वचनं सन्दर्भेण योगिनामेव परमश्रेयः । तेषां मुख्यचिह्न किमित्यपेक्षायां मुद्रा-नाद-विभूति-आदेशधारणं मुख्यमिति तत्प्रशंसामाह सिद्धसिद्धान्त पद्धतौ- मुदमोदे तु रादाने जीवात्मपरमात्मनोः । उभयोरैक्यसंभूति मुद्रेति परिकीर्तिता॥ मोदन्ते देवसङ्घाश्च द्रवन्ते सुरराशयः । मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥ (सि० ६।३०-३१) तद्धारणं कर्णयोर्विना क्षुरिको न सम्भवतीति क्षुरिकाप्रशंसामाह क्षुरिकोपनिषदि- क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये । सम्प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ इत्यादि । (क्षु० १; ई० अ० पृ० २१२) वृहदारण्ये-अथात आदेशो नेति नेतीति । छान्दोग्ये च-उत तमादेशमित्यादि । १. अचिन्त्य-म० पा० । २. कवि-मु० पा०। ३. प्रभु-मु० पा० । ४. अमुष्य-पू० सं०। ५. संवित्ति:-मु० पा० । ६. यां प्राप्य-मु० पा० ।
गोरक्षसिद्धान्तसङ्ग्रहः - तेषामन्योऽन्यमन्यत्रापि च यो वाग्व्यवहारस्तमाह- [सिद्धसिद्धान्तपद्धतौ- आत्मेति परमात्मेति जीवात्मेति विचारणे । त्रयाणामैक्यसम्भूतिरादेश इति कीर्तितः ॥ आदेश इति सद्वाणी सर्वद्वन्द्वक्षयावहाम् । यो योगिनं प्रतिवदेत्सवेत्त्यात्मानमीश्वरम् ।। इति । (सि० ६९४-९५) नादधारणमाह गोरक्षोपनिषदि-अनाहतशृङ्गीति । ] ' तेषां भस्मोद्धूलनमपि तत्रिपुण्ड्रमपि च तैर्धार्यमिति तद्धारणप्रकारप्रशंसे प्राह कालाग्निरुद्रोपनिषदि- "कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवंत्रिपुण्ड्रं सविधि सतत्त्वं किं द्रव्यमित्यादि प्रश्ने तं होवाच भगवान्-यद्रव्यं तदाग्नेयं भस्मसद्यदिदं ब्राह्मणैः परिगृह्य “अग्निरिति भस्म' इत्यभिमन्य" इत्यादि “प्रकुर्वीत व्रतमेव तच्छा- म्भवं समाचरेन्मुमुक्षुर्न भवाय यथा सनत्कुमार" इत्यन्तं “समस्तपातकोपपातकेभ्यः पूतो भवति, तेन सर्वे देवा ध्याता भवन्ति, स सर्वेद वैातो भवति, स सर्वतीर्थेषु स्नातो भवति, देहं त्यक्त्वा शिवसायुज्यतामेति, न स पुनरावर्त्तते, न स पुनरावर्तते, इत्याह कालाग्निरुद्र इति ।”२ ( का० १, ई० अ० पृ० २००) तेषामनियत एव व्यवहार इत्याह सिद्धसिद्धान्तपद्धतौ- कचिद्भोगी कचित्त्यागी कचिन्नग्नः पिशाचवत् । कचिद्राजा कचाचारी सोऽवधूतो विधीयते ॥ (सि० ६।२०) एवं सर्वमयः सर्वेभ्यो विलक्षणः पृथगिति बहुधा सिद्धसिद्धान्तपद्धत्यादि- गग्रन्थेषु प्रपश्चितम् । तद्विशेषं जिज्ञासुभिर्द्रष्टव्यं विस्तरभयान्नात्र लिख्यते । एवञ्च धनशिरोमणियोगमूर्तिभूता अवधूता एव परमपुरुषार्थविचक्षणाः सर्वशिरो- 'यन्ति । सन्मार्गसाधका वर्णाश्रमाचारानपेक्षकाः । योगिनो ह्यवधूता ये ते संक्षेपानिरूपिताः॥ परमः पुरुषार्थस्तु मुक्तिरुक्ता ह्यतस्तु सा। निरूप्यतेऽवधूतानां योगसाधनजं फलम् ।। परमपुरुषार्थस्तु मुक्तिरित्युक्तम् । सा च नाथस्वरूपेणावस्थानम् । तत्स्वरूपं रक्षोपनिषदि-"अद्वैतोपरि सदानन्ददेवता।" १.[] अयमंशो नास्ति पूर्व संस्करणे। २. मध्ये मध्ये विच्छिद्य गृहीतः पाठः, ७०-ई० अ० पृ० २०० । .
गोरक्ष सिद्धान्तसङ्ग्रहः ६ - ब्रझोपनिषदि- "स्वयममनस्कमश्रोत्रपाणिपाद ज्योतिर्विदितं तत्र लोका न लोकाः, वेदा न वेदाः, देवा न देवाः, यज्ञा न यज्ञाः, माता न माता, पिता न पिता, स्नुषा न स्नुषा, चाण्डालो न चाण्डालः, पौष्कसो न पौष्कसः, श्रमणो न श्रमणः, पशवो न पशव, तापसो न तापस इत्येकमेव परमिति ।" (ई. अ. पृ. १५१.) ब्रह्मविन्दौ च-"नैव चिन्त्यं न चाचिन्त्यमचिन्त्यं चिन्त्यमेव च।" इत्यादि । (२।६, ई. अ. पृ. १२७) सर्वोपनिषत्सारे- "कथं बन्धः कथं मोक्षः” इत्यादिप्रश्ने "अनात्मनो देहादीनात्मत्वेनाभिम- न्यते सोऽभिमानः, आत्मनो बन्धस्तन्निवृत्तिर्मोक्षः" (११; ई. अ. पृ. २१५) इत्यनेन स्वरूपेणावस्थानमिति सिद्धम् । अमनस्के भावाभावविनिर्मुक्तं नाशोत्पत्तिविवर्जितम् । सर्वसङ्कल्पनातीतं परं ब्रह्म' तदुच्यते ।। (अम० १।१२) अवधूतगीतायां च- अद्वैत केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे। समं तत्त्वं न विन्दन्ति द्वैताद्वैतविलक्षणप२ ।। ( १।३६ ) यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः । अहो माया महामोहो द्वैताद्वैतविकल्पना ॥ (१६१) श्रीनित्यनाथकृतसिद्धसिद्धान्तपद्धतौ- न ब्रह्मा विष्णुरुद्रौ न सुरपतिसुरा नैव पृथ्वी न चापो नैवाग्निर्नापि वायुर्न च गगनतलं नो दिशो नैव कालः । (१२) नो वेदा नैव यज्ञा न च रविशशिनौ नो विधि व कल्पाः । स्वं ज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्दमूर्ते ।। (११३) सा मूर्तिः का वा ? तथाह श्रीनित्यनाथकृतसिद्धसिद्धान्तपद्धतौ- आदिनाथं महासिद्धं शक्तियुक्तं जगद्गुरुम् । तं वन्दे नित्यतो वक्ष्ये सिद्धान्तं स्वानुभावतः ।। पुनरत्रैव प्रवृत्तौ आदिदेवमेतत्पदेनावस्थानं मुक्तिरिति । नाथस्य लक्षणं तु राजगुह्ये- नाकारो नादरूपं च थकारः स्थाप्यते सदा । भुवनत्रयमेवैकः श्रीगोरक्ष नमोऽस्तु ते॥ १. परब्रह्म-पू० सं०; परं तत्त्व-मूलमातृकायां । २. विवर्जितम्-मु० पा० । - ? -- २ १० गोरक्षसिद्धान्तसङ्ग्रहः शक्तिसङ्गमतन्त्रे- श्रीमोक्षदानदक्षत्वान्नाथ [द] ब्रह्मानुबोधनात् । स्थगिताज्ञानविभवाच्छ्रीनाथ इति गीयते ।। इत्यादीनि वाक्यानि' प्रमाणानि । तस्य निदर्शनं शास्त्राणि सूर्यस्य दीपा इव कथं करिष्यन्ति । तत्तु पदं ताहग्योगिनामेवापरोक्षमिति सिद्धान्तः। अन्ये तु मतवा- दिनस्तत्पदमनालम्बमानाः स्वाभिप्रायानुसारि तत्पदं विधाय विवादभाराक्रान्तमतयः क्लिश्यन्ति न तु शाम्यन्तीत्याह सिद्धसिद्धान्तपद्धतौ- वेदान्ती बहुतर्ककर्कशमतिम्रस्तः परं मायया । भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः । अन्ये भेदरता विवादविकलास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत् ।। (सि०६।७३) अस्यार्थः-वेदान्ती वेदोत्तरभागशास्त्रवादी अद्वतवस्तुन्यध्यारोपापवादाभ्यां द्वैतकल्पनां कुर्वन् बहुभिस्तकः कर्कशा कठोरा मतिर्यस्य सोऽत एव परं केवलं प्रस्तो यतो निर्मायिक वस्तु वदन् मायादूषणं च तत्र ददाति । पुनः भाट्टाः मीमांसका अनीश्वरवादमारोपयन्तः कर्मफलेष्वेवाकुलिताः सन्तो गतधियो भवन्ति । तथा द्वैतेन द्वैतवादेन वैशेषिका अपि गतधिय एव । तदन्येऽपि ये भेदवादरतास्तेऽपि विवादविकला एव भवन्ति । यत एते तत्त्वतो वञ्चिता भवन्ति न तु तत्त्वमालम्बन्ते इत्यर्थः। तस्मान्महासिद्धानां स्वाभाविक सहजावस्थामयं मतं धोरः पुमान् संश्रयेत् । तदेव श्रेयस्करमिति मान्यम् । साङ्ख्या वैष्णववैदिका विधिपराः संन्यासिनस्तापसाः सौराश्चीरपराः२ प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः। एते कष्टरता वृथापथगतास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत् ।। (सि० ६७४) अस्यार्थः-साङ्ख्याः प्रकृतिकारणवादिनः कपिलमतानुयायिन इति यावत् , वैष्णवाः पाश्चरात्राः, वैदिका वेदानुवर्तिनस्ते च विधिपरा वाक्यकोविदा इत्यर्थः । स्पष्टमन्यत् । आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः नानातीर्थनिषेवका जिनपरा मौने स्थिता नित्यशः । एते ते खलु दुःखभारनिरतास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत् ।। (सि०६।७५) १. पुराणवाक्यानि-पू० सं० । २. वीरवरा-मु. पा.।
गोरक्षसिद्धान्तसङ्ग्रहः - १ अस्यार्थः-आचार्या मन्त्रव्याख्यातारो बहुदीक्षिता अग्निहोत्रादिकर्तारः, त एवाहुतिपरा न तु तत्त्वपराः, अजिनपरा वल्कलवाससस्ते तीर्थनिषेवका यद्वा जप- पराः, शेषं स्पष्ठम् । इत्यादि । हठप्रदीपिकायां च- केचिदागमजालेन केचिनिगमसंकुला:। केचित्तण मुह्यन्ति नैव जानन्ति शाङ्करीम ॥ (४|४०) अस्यार्थ:--केचिद्वैखानसाद्यागमोक्ततत्त्वभ्रमास्तत्र तत्त्वाभिमानिनो देहा- त्मवादिनचार्वाकसधर्माणस्ते मनुष्यास्तप्तचक्राद्यङ्किता जीवन्तोऽपि मृतकमिव शरीरं सत्कर्मानहं कुर्वाणा देवनिन्दका इति । केचिच्च ऋग्यजुरादिवेदासक्ताः कर्मज्ञानरताः कर्मणैवायुः पूर्ण कुर्वन्ति, अथ च तत्त्ववञ्चिताः साधनेऽशक्तास्ते हि कातयंग प्रारब्ध- शरणा भूत्वा शरीरसुखार्थमहं ब्रह्मेति वदन्तस्तिष्ठन्ति, तुदेवात्मानं चेद्विजानीया- दित्यादावुक्तम् । एवं निगमसङ्कुला इति। केचिच्चातक्यश्वर्य परमपदे वस्तुनि शुष्कतर्कानाश्रित्य पण्डितम्मन्या भवन्तीति कृत्वा शाङ्करीं न जानन्तीति । सा शाङ्करी स्तूयते हठप्रदीपिकायाम् - वेदशास्त्रपुराणानि सामान्यगणिका इव । मा पुनः शाङ्करी मुद्रा प्राप्ता कुलवभूरिव ।। ऋग्यजुरादयो वेदा धर्मार्थकाममोक्षोपदेष्टारो 'ब्रह्मचर्यगृहस्थवानप्रस्थभिक्षु- काश्रमोपदेष्टारश्च भवन्ति । ते च मुठ्ये वस्तुनि गौणत्वमापादयन्त्यमुख्ये च मुख्यत्व- मतो यत्र तादृशा अधिकारिणो बहवो लग्नास्ते चोत्तमपुरुषरसेवनीया द्रव्यम्पृहः प्रवृत्तावेवासक्ता भवन्ति । शास्त्राणि च वैशेषिकादीनि । तैभ्रममूलकैः' कदापि विश्रान्ति स्ति। पुराणानि च नरानात्मसाधनेष्वशक्तत्वं प्राय आपादयन्ति । यतो बालकानामिव रुचिरतरासु कथासु लोकानां चित्तवृत्तिं गमयन्ति । तेऽपि सर्वे सामान्यगणिका इव भवन्ति । तद्यथा--गणिकागृहे शृङ्गारप्रधाना एव वार्ता मुख्याः स्युरैश्वरी वार्ता तु गौणी, ताश्च गणिका बह्वयो बहूनां धूर्तानां लम्पटानामुपरि सत्यवादिनामकामिनां प्रियेश्वरकथानामुपरि नासक्ति कुर्वन्ति, इति । किश्च इह खलु संसारे योगी भीगश्च द्वौ पदार्थो स्तः । एतद्द्वयं विना किमपि न स्यात् , सर्वस्याप्येतयोरन्तभूतत्वादिति । तयोर्मध्ये यागे लग्ना महासिद्धाः, भोगे तु सर्वे संसारिणः । योगस्य फलं मुक्तिर्भोगस्य तु बन्ध इति । यद्यपि भोगाद्वन्ध- स्तथापि नानाविलासैविषयानन्दं विलुण्ठति । यदि दुःखमपि भवेत्तहिं भवतु १ सङकुलैः-मु० पा०। २. तारक-मु० पा०, ३. नास्ति-पू० सं०। ४. ब्रह्मचारि-पू० सं० । ५. श्रममू०-पू० सं० । । । चासक्ता भवन्त्यः MSRDungama गोरक्ष सिद्धान्तसङ्ग्रहः - - नामेति । योगिनां तु पुनः प्रथमतः किञ्चिच्छ्रमो भवेत् “क्लेशोऽधिकतरस्तेषाम- व्यक्तासक्तचेतसाम्' इत्याद्युक्तत्वादिति, पश्चात्तु महानानन्दः । तत्र बहवः कथयन्ति- किञ्चिदिति कथं; योगे तु क्लेशोऽधिकतर इत्युक्तम् । तदुपरि मया तु कथ्यते- भो पुरुषाः ! गुरुहीनानां तेषां कष्टं भवेत् ; यदा तादृशः पूर्वोक्तः पूर्णो गुरुर्लभ्येत तदा महदपि कष्टं स्वल्पं भवेत् । तत्र दृष्टान्तः यथा महाभारयुक्ता या शिला भवेत् तस्या उत्थापने सहस्राणामपि पुरुषाणां कष्टं भवेत् , सा च बुद्धिमता पुरुषेण कृत- काष्ठादियत्नेनाप्रयासेनैवोत्थाप्यते, तथा गुरुमय्या कुञ्चिकया स्वल्पेनापि कष्टेन सहजसिद्धिर्भवति, यदि च महत्कष्टमपि भवेत् तदा कष्टोत्तरे त महानानन्दो भव- त्येव, यस्त्वखण्डैकनाथरूपो भवति । ब्रह्मविष्ण्वाद्यधीश्वरो भवति । नानारूपो भवति । ब्रह्मादयः सर्व तस्य पूजां कुर्वन्ति, योगारूढ़ो नानाभोगान् भुनक्ति, न तु तैर्लिप्यते, योगं विना भोगी रोग्येव स्यात् , भोग्यपि योगी संसारीव दृश्यते, न तु संसारीव बन्धनं प्राप्नोति । ननु केचिच्छास्त्रिणः कर्माद्युपासनं साधनं कथयन्ति, तदा मया कथ्यते- तेषां कथनं मया न निवार्यते, तदेव कुवन्तु नाम, परन्तु तत्करणे फलं किमिति । कथं कर्मणामवधिर्मीमांसकास्ते त पठनपाठनोत्तरं पठनपाठनदोषनिवृत्त्यर्थमिष्ट- स्मरणं कुर्वन्ति । यस्य शास्त्रस्य पठने पाठने चापि दोषस्तस्य सेवनेन किं भविष्यति इति । पुनः यं स्वामिनं भजेत् स स्वतन्त्रो भवेत् , यश्च प्रसन्नः स्वयमेव यदिच्छति तहदाति मन्त्रिभ्यः। अन्यस्य तु पुरुषस्य न कस्याप्यपेक्षां करोति, अयं देहः कर्म- रचितः, कर्माणि च सर्वाणि त्रिगुणानां सन्ति, गुणाश्च मायायाः। एवञ्च यदि अनेन प्राणिना त्रारब्धं कर्माभिमतं तदा मायाऽभिमता, तदभिमाने च तत्रैव समये ब्रह्म- तत्त्वात् पृथग्भूतः। ततश्च पूर्व पश्चादपि गुणलेशो विद्यत एव, स च बाधक एव, तस्मात्प्रारब्धकर्मनिर्मूलकरणमवधूतानामेव कर्म । वेदान्ती चित्तशुद्धयर्थ कर्माभिमत्य तदनन्तरं ज्ञानं साधनमित्युपदिशति, अतः सोऽपि सापेक्ष एव । मीमांसको मन्त्रीव राजसापेक्षः, परन्तु सापेक्षता तूभयोरेवास्ति, कस्याप्यपेक्षामकुर्वन् योग आवश्यकः सर्वेषां कर्तव्यो यः सर्वदा स्वतन्त्रोऽस्ति । मीमांसको द्वैतमभिमन्यते, वेदान्ती त्वद्वैतमभिमन्यते, तदुपरि च वदामः--एतदुभयमपि प्रकृतिविकारः। प्रकृतिविकारश्च सदा चञ्चलो नास्ति कदापि स्थिरः । ब्रह्म तु सर्वदा स्थिरमेवास्ति । तत्र द्वैतवादिनो निश्चलं नास्तीति वदन्ति, तथैवाद्वैतमभिमन्यतां निश्चलं नास्तीति कथम् ? यदि ब्रह्माद्वैतमस्ति तर्हि द्वैतं कुत आगतम् ? तदा मायाकल्पितमिति ते वदेयुस्तर्हि तान्वदतो वयमवाचोऽक्रियांश्च कुर्मः', तत्किमिति चेदुच्यते-अद्वैतं तु १. कर्म-पू० सं०।
गोरक्षसिद्धान्त सङ्ग्रहः निष्क्रियादि त्याग्यस्ति । यतः कस्यापि वस्तुनो भोगोऽपि युष्माभिर्न कर्तव्य इत्या- धनेकविधिभिरद्वैतखण्डनं करिष्यामः । महासिद्धैरुक्तम्-यद् द्वैताद्वैतविवर्जितं पदं निश्चलं दृश्यते तदेव सत्यमित्यभ्युपगमिष्यामः, तत्त उग्रभैरवनामककापालिकरूपतः श्रीभैरवेण शङ्कराचार्यापरि कृतम् । कथम् ? चतुर्भिः शिष्यैः संयुक्तः शङ्कराचार्यो नदीतीरे स्थितः। तस्मिन्स्थले कापालिकः समुपागत्योक्तवान्-भो त्वं तु संन्यासी, मित्रारिपक्षे तुल्यः, सुख- दुःखादिद्वन्द्वपदार्थरहितोऽस्यस्माकं चायमभिप्रायो वर्त्तते- यत् तव शिर उच्छिद्य' पश्चात् श्रीभैरवार्पणं करिष्यामि तदा मम प्रतिज्ञा पूर्णा भविष्यति, अतो भवान् शिरो ददातु-इति । तदा शङ्कराचार्येणालोचितं नैवं करिष्यते तदा त्वद्वतहानिः शत्रुमित्रपक्षे तुल्यत्वं न स्यात् , कृते च पराजयो भवेत् । एतद्वयविचारेऽपि पराजय एवेति मत्वा न किमपि तेनोक्तम् । शैथिल्यं जातम् । तदा पद्मपादाचार्येण नृसिंह- स्मरणं कृतम् । उपभैरवोपरि नृसिंहेण प्रहारः कृतो यस्तु महासिद्धः तच्छरीरं त्यक्त्वा तादृशमेव च शरीरं गृहीत्वा सम्मुखे संस्थितो भूत्वा प्रसन्नवदनो मेघगम्भीरया गिरोवाच--भो अद्वैतपराजयोऽई तपराजय इति । शत्रुमित्रपक्षे [ तुल्यत्वं यदवदस्त- त्कुत्र गतमद्वैतमेवाद्वतं] यदवदस्तत्कुत्र गतम् । मदीयं त यथा मल्लो नियुद्धे स्वयमेव निपत्यान्यस्य पातनं करोति तथा स्वशरीरं त्यक्त्वा परसिद्धान्तहानिः कृतैवेति चरितं पुनः साम्प्रतं त्वदीयहानिरतः परमपि क्रियते । उत्तिष्ठोत्तिष्ठ युद्धं कुर्व इत्याह, तदा प्रारब्धकर्माचरणं वर्तते न्यासिना मते यतः क्रियाकरणमिति सिद्धान्तो नास्तीति कृत्वा युद्धेऽशक्तो जातः। कापालिकोपदेशेनाक्रियैव स्वसिद्धान्तेऽद्व तस्थिति- वस्थितः। तदा कापालिकेन योगमाया निर्मिता, तया च चतःशिष्य संयुक्तस्या- चार्यस्य मस्तकं छिन्नम् , पश्चाच्च सजीवितः कृतस्तहिं विरागो जातः । पश्चिमायां दिशि गतः शक्तिस्मरणं कृतवान् । पूर्ववार्ता। शङ्कराचार्यस्योत्पत्तिर्दक्षिणस्यां दिशि । तत्र तु कर्मसेवनमेव कृतं विष्णूपासनादि । यदा चित्तशान्तिनं जाता तदा पृथ्वीपरिक्रमा करणार्थ प्रयाणं कृतम् । पूर्वस्यां दिशि चागत्य तत्र वैद्यनाथाख्यस्थलं गत्वा पूजां चकार । तदेश्वरेण नाङ्गीकृता पूजा । किमर्थं त्वया विष्णुभक्तिः कृता । अहं तु साक्षादीश्वरः स तु त्वया विस्मृत इति । तदा शङ्करेणापराधक्षान्तयेऽपराधक्षमापननामकं स्तोत्रं कृतम् , पुनरपि शिवभक्ति विशेषेण कृता, तथापि चित्तशान्तिर्न जाता। पश्चाच्च पश्चिमां दिशं गतस्तत्र शक्तिरहितो जातः, शक्तवृत्तान्तं दृष्टम् । तदा शक्त्योक्तं शिव एव । १. उच्छिन्न-पा० । ३. []नास्ति पू० सं० । ५. प्रदक्षिण° पू० सं० । २. पद्माचार्येण-पा० । ४. कुवि -पू० स० ।
१४ गोरक्षसिद्धान्तसङ्ग्रहः सर्व करिष्यतीति । तेन भयाकुलो जातः । सौन्दर्यलहरीनाम स्तोत्रं कृत्वा शाक्तो जातस्तथापि पूर्णा शान्तिर्न जाता। तत उत्तर दिशं गतः । सा तु महासिद्धसमुदायेन सर्वाऽपि दिग्व्याप्ता। यत्र यत्र गतस्तत्र तत्र सर्वैरुपहासः कृतस्तत्र श्रीतारानाथे- नोक्तम्-तीर्थाटनमेव करिष्यते किमप्यात्मसाधनमपि करिष्यते ? तदा शङ्करेणोक्तम्- भवद्भिर्यत्कथ्यते तन्मया करिष्यते । तदा महासिद्धेन योगोपदेशः कृतस्तेन सर्वा- बाधानिवृत्तात्मा च प्रसन्नो जातस्तदा वज्रसूचिकोपनिषत् कृता। सा तु सर्वाऽपि नाथमार्गानुसारिण्येव । तत्र श्रीसिद्धसिद्धान्तपद्धतिप्रमाणं दत्तं “वेदान्ती बहुतर्क- कर्कशमतिः . " इत्यादि "तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत्” इत्य- न्तानि पद्यानीति, यथा मण्डनमिश्रः सुरेश्वराचार्यों जातस्तथाऽयमपि सिद्धो भूत्वा सिद्धान्तबिन्दुप्रभृतिग्रन्थांश्चकार सिद्धान्तस्तु सिद्धस्य तात्पर्यार्थ एव सिद्धान्तो न त वादि-प्रतिवादिभि- निर्णीतोऽर्थः सिद्धान्तः। तन्मध्ये न चैकं तदन्यद्वितीयं कुतः स्यात्तत्त द्वैताद्वैत- विलक्षणत्वेनैव सिद्धान्तो जातः । न्यासिनां त्वद्वतमेव सिद्धान्तो भवतीत्येषा रीतिज्ञेया। अन्यैः सिद्धान्तः कथ्यते । तेषां मुख्य सिद्धान्तशब्दप्रवृत्तिमहासिद्धानां मुखा- दागतोऽन्यमुखे सिद्धान्तः केवलं रूढित एव । सिद्धानां मते रूढियौगिकं च द्वयमपि वर्तते । तर्हि सिद्धान्तः सिद्धस्यैव तात्पर्यम् । एतत्कारणात् सिद्धस्यैव सिद्धान्तो न त्वन्यस्यात एव शङ्करेण सिद्धान्तबिन्दुः कृतः । प्रथमं तु दक्षिणदेशे कर्मसेवने विष्णूपासना कृता, पश्चात्पूर्वदेशे शिवदर्शने संन्यासो गृहीतः, पश्चिमे च शक्तिदर्शने शाक्तो जातस्तन्त्रविषयकं प्रपञ्चसारादि प्रन्थं कृतवान् , पश्चादुत्तरदेशे सिद्धोपदेशेनावधूतावस्था गृहीता। तेन सर्व श्रेयो जातम् इति । ननु कापालिकप्रसङ्गकथनातेदेषां कापालिकमतमिति कैश्चिज्ज्ञायते, इति; तत्त नास्त्येवास्माकं मतं त्ववधूतमेव । परन्तु कापालिकमपि मतं नाथेनैव प्रकटीकृतमेत- न्मार्गस्य प्रकटकर्ता नाथ एव । तदुक्तं शाबरतन्त्रे- आदिनाथो ह्यनादिश्च कालश्चैवातिकालकः । करालो विकरालश्च महाकालश्च सप्तमः । कालभैरवनाथश्च बटुकस्तदनन्तरम् । भूतनाथो वीरनाथः श्रीकण्ठो द्वादशो मतः ॥ १. क्रियते-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः १ एते कापालिकाः प्रोक्ता वीरतुम्बीमहाफलैः । शिष्याणां सूर्यसङ्ख्या च तानिहो वच्मि संशृणु ॥ नागार्जुनो जड़भरतो हरिश्चन्द्रस्तृतीयकः । सत्यनाथो भीमनाथो गोरक्षश्चर्पटस्तथा ॥ अवद्यश्चैव वैराग्यः कन्थाधारी जलन्धरः । मार्गप्रवर्तका ह्येते तद्वच्च मलयार्जुनः ।। पुनः शैवः शाक्तोऽपि मार्गस्तन्त्रानुसारी। तस्याप्युपदेष्टा नाथ एव । नाथे रचितानि तन्त्राणि । तदुक्तं षोडशनित्यातन्त्रे कादिसंज्ञा भवद्रपार सा शक्तिः सर्वसिद्धये । तन्त्रं मदुक्तं भुवने नवनाथैरकल्पयत् ।। तया तैर्भुवने तन्त्रं कल्पे कल्पे विजम्भितम् । अवसाने तु कल्पानां सा तैः सार्धं व्रजेच्च माम् ।। नामपर्यायतो व्याप्तं कालावाप्तमिदं द्वयम् । प्रसिद्धं बाधतो यश्च त्रीणि नामानि साधके । नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धथै स्वीकृतानेकविग्रह ।। नवरूपाय परमार्थंकरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ दयाशक्तिविग्रहाय रसात्मने। परतन्त्राय शाक्तानां भव्याय भव्यरूपिणे ।। पुनः योगस्तु कस्यापि सापेक्षो नास्ति, परन्त तान्त्रिकाणामयमेव सिद्धा वर्त्तते यत्रोत्तरावस्थाऽवधूत एव । तदुक्तं षट्शाम्भवरहस्ये-- अथान्यत्सम्प्रवक्ष्यामि सम्प्रदायस्वरूपकम् । आदितो वैदिकः प्रोक्तस्ततो हि वैष्णवः परः॥ ततो गाणपतः प्रोक्तः क्रमेण हि मया तव । गाणपत्यं च द्विविधं ततः सौरं प्रकीर्तितम् ॥ सौराच्छ्रेष्ठं शैवशास्त्रं शैवाच्छाक्तं महेश्वरि । शाक्ताद्वामं महादेवि श्रेष्ठं ते परिकीर्तितम् ।। नवाय स्वतन्त्राय -- १. एके--५० सं० । २. भवेद्पा-प० सं०।
१६ गोरक्षसिद्धान्तसङ्ग्रहः वामात्त दक्षिणं श्रेष्ठं दक्षिणाद्वीर एव त । अथ वीराच्चावधूतः कौलः पूर्व प्रकीर्तितः ।। अवधूतादिव्यमार्गो दिव्याच्छ्रेष्ठो न विद्यते ॥ इति । (षट् १११४०-१४४) तान्त्रिकानुष्ठानस्य फलमपि योग एव । योगिनां पूर्वावस्थायामपि योगित्व- मुत्तरावस्थायामपि योगित्वमेव न त्ववस्थाभेदाद् गौणमुख्यभावौ। तन्त्रादि यस्य- कस्यापि सापेक्षं, परन्तु तान्त्रिकाणां पूर्वावस्था तन्त्रानुष्ठानं बहिरङ्गमुपासनं. योगि- नान्त्वन्तरङ्गमुपासनम् । इयं रीतिस्तान्त्रिकाणाम्-तान्त्रिकः प्रथमतो बहिरङ्गपूजन स्थूलशक्तेः करोति, पश्चादवधूतपदे प्राप्तेऽन्तरङ्गपूजनं सूक्ष्मशक्तेः कुण्डलिन्याः करोति । अतः कारणात्तान्त्रिकाणामपि तात्पर्यमवधूतपद एव । कापालिको मार्गः किमर्थं प्रकटीकृतः ? इत्यपेक्ष्ययाह-विष्णोश्चतुर्विंशति- सङ्ख्याका अवतारा जातास्ते च कार्यान्ते मदोन्मत्ता जाताः। कथम् ? यथाऽन्ते तिर्यग्योनयो जन्तवः क्रीडाः कुर्वन्ति तथा वराहो नृसिंहश्चेत्यादयो भूदारण-वन्य- भयदानादिकरणे प्रवृत्ताः। पुरयामादिताडनं केषाञ्चित् समुद्रपातोऽपि । तत्रापि कृष्णेन व्यभिचारिभावो विशेषेण धृतः । परशुरामैणैकक्षत्रियदोषेणानेकेषां क्षत्रि- याणां नाशः कृत इत्यादि विरुद्धाचारोपरि नाथेन कोपं कृत्वा चतुर्विंशत्यवतारोपरि चतुर्विशति कापालिकरूपाणि धृतानि । धृत्वा च चतुर्विशत्यवतारैः सह समरं कृतम् । तत्र सर्वेषामवताराणां कपालानि छिन्नानि कृतानि । स्वकरैस्तानि धृतानि । तेन कापालिका जाताः। पुनस्ते सर्वे कपालच्छेदान्मदहोना जातास्तदा वरं दत्वा कपालानि तच्छरीरे धृतानि तेन जीविता बभूवुरिति । कानिचिच्छास्त्राणि मोक्षरक्षकाणि कानिचिच्च व्यवहाररक्षकाणि । तत्र मोक्ष- रक्षकाणि श्रुति-स्मृत्यादीनि । मुमुक्षवः पुरुषाः कोटीनां मध्ये द्वित्रा एव भवन्ति, व्यवहारिणस्तु कोटिकोटिरेवातः कारणाद्वयवहारार्थ विधिवाक्यशास्त्राणि बहूनि सन्ति, कथम् ? व्यवहारिणां बाहुल्यात् , योगशास्त्रं तु सूक्ष्मम् । कथम् मुमुक्षु- पुरुषाणामल्पत्वात् , वेदादिशास्त्राणामपि योगो वर्त्तत एव, सर्वेषां च तात्पर्य योग एवास्ति, परन्त्वेतद्रीत्या यथा समुद्रे रत्नानि शङ्खाः, पाषाणखण्डानि, जलं जल- जन्तवश्चेत्याद्यनेकवस्तूनि सन्ति, तथा वेदादिशास्त्रेष्वपि योगादीनि सन्ति, समुद्रे चेतरवस्तु सुलभ, रत्नं तु श्रमेण लभ्यते । एवं वेदादिशास्त्रे व्यवहारादि सुलभं, योगस्तु भूरिश्रमेण लभ्यते । योगशाखेतु योग एव लभ्यते, नान्यदस्ति किञ्चिदसारं, यथा रत्नखनौ रत्नमेवेति। स च योगो गुरुकृपयाऽल्पश्रमेणैव प्राप्तो भवेदतोऽन्यत्सर्व परित्यज्य योग एव सेवनीयः, इति । षट्शाम्भवरहस्ये- ? - गोरक्ष सिद्धान्तसङ्ग्रहः १७ - पृथ्वी की महादेवी नाथाः शास्त्रस्य बन्धकाः । ब्रह्मतत्त्वविदित्याद्याः शरभाद्यास्तु रक्षकाः ॥ ( १-१५६) ननु श्लोके तु पृथ्वी कीत्युक्तं भवद्भिस्तु नाथः कर्त्तत्युच्यते, तत्कथमिति चेत् ? उच्यते; 'नाथाः शास्त्रस्य बन्धकाः' इत्यनेन शास्त्रप्रबन्धकत्वं तूक्तमेव, पुनः कर्तृत्वं तु पृथिव्या अपि नाथरूपत्वेनैव, चतुरशीतिसिद्धगणनायामादिकुमारीनामकस्य सिद्ध- स्वेनोक्तत्वात् । सिद्धाश्च नाथरूपत्वेन प्रसिद्धा एवेति । तथैव यत्साधनं कर्त्तव्यं यत्तेनैव साधनेन सिद्धिर्भवेदित्येवं तु योग एव परं साधनमित्याशयेनोक्तम्- योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ-इति । तद्वन्तश्च श्रेष्ठा उक्ता इति सर्वत्र लभ्यते । एवञ्च योगिनः श्रेष्ठास्तेषां श्रेष्ठथं गम्यत्वेनाप्याह पद्मपुराणे- मर्यादां स्थापयामास यथास्थानं यथागुणम् । वर्णानामाश्रमाणां च धर्माधर्मभृतां वर ।। लोकांश्च सर्ववर्णानां सम्यक् धर्मानुपालिनाम् । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव ।। स्थानमैन्द्रं क्षत्रियाणां यतीनामूर्ध्व रेतसाम् । स्मृतं तेषां तु यस्थानं तदेव गुरुवासिनाम् ।। सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम् ।। योगिनाममृतं स्थानं ब्रह्मणः परमं पदम् । एकान्तिनः सदोद्युक्ता व्यापिनो योगिनो हि ये॥ तेषां तत्परमं स्थानं यन्न पश्यन्ति सूरयः। गत्वा गत्वा निवर्तन्ते चन्द्रादित्यायो ग्रहाः ॥ अद्यापि नो निवर्तन्ते प्राणायामपरायणाः। (सृष्टिखण्डे ३११५३-१६१) गीतायाश्च- वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ इति (गी० ८।२८) एवं सर्वनमस्कार्यमेतन्मतमिति । तत्र यूयं केऽपि वदेत-भवन्मते श्रुतिः साधिका नास्तीति तेषामज्ञात्वा मत- रहस्यमेवं वदतां युष्माकं तात्पर्यमस्माभिर्विदितप्रायमेवेति । तदेवमस्ति । एवं प्रतोद्य- १. ध्यायिनो--मु० पा० । २. यत्तत्-मु० पा० । ३. गता गता-मु० पा० । ३ १८ गोरक्षसिद्धान्तसङ्ग्रहः - । माना अपि कदाचिच्छ्र त्याश्रयत्वमङ्गीकुर्वन्तु नामैते, किन्त्वेतत्साक्षादनिर्वचनीयं तत्सत्यस्वरूपं तत्त्वं सर्वस्य विदितमेवेति तस्यैव प्रवृत्तिशास्त्राश्रयत्वं केन प्रकारेणा- ङ्गीक्रियते । यदस्माकमत्र श्रत्याश्रयाङ्गीकरणं राज्ञामिव मन्न्याश्रयाङ्गीकरणं भवति । तथोक्तं महाभारते मोक्षधर्म- ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः। जिह्वाग्रेषु प्रवर्त्तन्ते यत्नसाध्याविनाशिनः ।। न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् । न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवित् ॥ ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते । अन्तश्चादिमतां दृष्टो न त्वादिब्रह्मणः स्मृतः ।। अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् । अव्ययत्वाच्च निदुःखं द्वन्द्वाभावस्ततः परम् ॥ अन्यच्च- अग्निर्यथाा पायेन मथित्वा दारु दृश्यते । तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ।। पुनः-आदिज्ञानी भवेद् ब्रह्मा युगादिज्ञानियोगिनः॥ गीतायाम्- यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।। (गी० २।४२-४४) येन च परमवेदप्रणवस्याश्रयोऽङ्गीकृतो वा तेन स्थूलवेदस्याश्रयो नाली- कर्तव्यः। उत्तरगीतायाम्-- चतुर्वेदविदो विप्राः सूक्ष्मब्रह्म विदन्ति न । वेदभारभराक्रान्तास्ते वै ब्राह्मणगर्दभाः ।। एतदेवाभिप्रेत्य कावषेयगीतायाम्-दुर्वासा कश्चिन्मुनिर्बहुविधशास्त्रपुस्तकभारैः सह महादेवं नमस्कर्तुमागत्य तत्सभायां नारदेन केनचिन्मुनिना भारवाही गईभ- साम्यमापादितः, कोपात् पुस्तकानि लवणार्णवे परित्यज्य महादेवेनात्मविद्यायां प्रवर्चित इति । १. ते विप्राः पुरुषाधमाः-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः १६ ज गृहे गृहे पुस्तकभारभाराः पुरे पुरे पण्डितयूथयूथाः । वने वने तापसवृन्दवृन्दा न ब्रह्मवेत्ता न च कर्मकर्ता । एवं बहवः प्रस्तावाः सन्तीत्येकमुत्तरम् ॥ १ ॥ पुनः भवद्भिस्तु श्रुतयः पुनः पुनरुच्यन्ते, तत्किमिति ? वेदास्तु कर्मनिरूपका- स्तदधिकारिणामेवौचित्यं दर्शयन्ति । एते योगिनस्त संसारत्यागिनो निष्कर्माणः । किञ्च, वेदेषु मख्यत्वेनाग्निहोत्रादियज्ञकर्माणि दृश्यन्ते, तानि चाग्निसाध्यानि, एते तु नाग्नेः स्पर्शमपि कुर्वन्ति । अग्नेरेव गृहपतित्वमाह--'अग्ने गृहपते' इत्यादि श्रुतिः । यत एतेषां किमाचरणमुपधायैतान निरूपयन्ति । बाहुल्येन वेदविदांश्चैते किं प्रयोजनमङ्गीकृत्याङ्गीकुर्युर्वाचोविग्लापनं हितत्' इत्यादि श्रुतिवाक्यैरेव “एवं विमृश्य सुधियो विरमन्ति शब्दाद्" इत्यादिपुराणवाक्यैरेव च तदनङ्गीकरणं दर्शितम् । किञ्च “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन'' इति श्रुतेः ।। बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्ञैर्कोतिरान्तरम् ।। इति । उत्तरगीतायाम्- अधीत्य चतुरो वेदान् धर्मशास्त्राण्यनेकशः । ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ इत्यादि। ( उ० २।४१) किश्चैतेषां सत्यस्वरूपभूतानां महिमानं निरूपयन्तो वेदा मुह्यन्तीव च । अवृत्तिविषयत्वात् । तथा च कर्मकाण्डे मुख्यमपि ज्ञानं न मुख्यत्वेन दर्शयन्ति । दर्शिते च तस्मिन् कर्ममोह एव स्यात् । एवं ज्ञानकाण्डे च योगतन्महिम्नि दर्शिते ज्ञानं मोहः स्यात् । तथा च वेदेषु तन्महिमा नोपलभ्यते-इत्येतदेवाभिप्रेत्योद्योगपर्वणि सनत्सुजातीये प्रोक्तम्- आभाति शुक्लमिव लोहितमिवाथो कृष्णमायांजनं काद्रवं वा । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ।। न तारकासु न च विद्युताश्रितं न चाभ्रेषु दृश्यते रूपमस्य । न चापि वायौ न देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्य ।। नैवर्नु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु । रथन्तरे बाहद्रथे वापि राजन् महाव्रते नैव दृश्येद्धृवं तत् ।। १. विप्लावनं--पू० सं० २. नास्ति-पू० सं०। ३. आलोच्य-मु. पा.। ४. यो वै ब्रह्म-मु० पा० । ५.. नाज़-पू० सं० ६. कृष्णमायसमर्कवर्णम्-इति मातृका पाठः। ७. नैतद्य०-मु. पा० । ८. महाव्रतस्यात्मनि-पा०. । - २० गोरक्षसिद्धान्तसङ्ग्रहः - iyi अपारणीयं तमसः परस्तात् तदन्तकोऽप्येति विनाशकाले । अणीय रूपं क्षुरधारया समं महच्चरूपं तद्वै पर्वतेभ्य ।। ( स० ३।२०-२३) "सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ ( स० ४।२३) अनामयं तन्महदुद्यतं यशो वाचोविकारं कवयो वदन्ति । तस्भिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ।। ननु तद्विदुरित्यनेन योगोपसर्जनं ज्ञानमेवोक्तमिति चेन्नैतस्यैव शास्त्र. स्याग्रिमेऽध्याय- यत्तच्छुक्लं महज्ज्योतिर्दीप्यमानं महद्यशः । तद्व देवा उपासन्ते तस्मात्सूर्यो विराजते ।। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ( स० ४।१) इत्यादि सविस्तरमुक्तमतो ग्रन्थभारवहनं वृथैव । किन्तु तदन्तर्गतं स्वोपयुक्तं सारमात्रं गुरुवाक्याद् गृहीत्वा योगेन कृतकृत्यो भवेदिति- आत्मनस्तत्त्वमज्ञात्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षागते छागे कूपे पश्यति दुर्मति ।। वदन्तो वाऽऽत्मनोभावं वदन्त्युपनिषद्गिरः । रहस्युपदिशन्त्यन्ये स्वयं नानुभवन्ति ते ॥ विहाय योगशास्त्राणि नाना गुरुमतानि च । अहङ्कारावृताः केचिज्ज्ञात्वा शास्त्रसमुच्चयम् ।। उपदेशं न जानन्ति न च ग्रन्थशतैरपि ।। इति द्वितीयमुत्तरम् ॥ २ ॥ पुनः तदेवं मुख्यतयोच्यते-श्रुतिस्त्वस्मिन्नपि मते साधिकैवास्ति, परन्त्वतन्म- तस्य बोधो युष्माकं नास्ति । तेन यूयं शङ्कर-वैष्णवप्रवर्तितमार्गानुसारितत्त्वमालम्ब्य वदथ श्रुतिः साधिका नास्तीति । तत्सत्यम् , शङ्कररामानुजादिश्रुतयश्चात्र साधिका मा भवन्तु नाम, श्रुतयस्तु भविष्यन्त्येव साधिका इति । - १. अवारणीयं-म० पा० । ३. च तथाप्यणीयं-मु० पा० । ५. तत्-मु० पा० । ७. वदन्तोप-१० सं० । २. . तोऽभ्येति-मु० पा०। ४. स्वरूपं त्वयि-मु० पा० । ६. गोपकक्षागतच्छागे-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः २१ अयम्भावः-वेदस्तु शाखाभेदैरनेकधा विस्तृतः। तत्र पञ्चाशदुपनिषदां निबन्धः कृतस्ततोऽप्यधिका उपलभ्यन्ते । परन्तु न तेन निबन्धेन प्रायो निर्णयव्यव- हारः । तत्रापि शङ्करेण दशैवाभिमता उपनिषद ईश-केनेत्यादयः प्रसिद्धाः। रामा- नुजप्रभृतिभिस्तु दशस्वपि शङ्कराभिमतादन्योऽर्थ इति स्पष्टमुदीयते । एवमन्येऽपि स्वाभिप्रायानुसारि वेदस्य तात्पर्य वर्णयिष्यन्ति । एतावता तत्तात्पर्य तेषामेव न तु वेदस्येति । यथा विरोचनः प्रजापतिनाऽनुशिष्टोऽपि स्वचित्तदोषेण देह आत्मत्वबुद्धिं दृढ़ीकृत्यासुरान् सर्वाननुशशासेति छान्दोग्ये स्पष्टाख्यायिकाऽस्ति । यतो योगिनां स्थूलवेदे प्रयोजनमेव नास्ति । सर्ववेदमूलभूत ॐकार एव प्रयोजनं तात्पर्यश्च । तत्र सर्ववेदानां लयोदयौ भवतः, यतः ॐ कारप्रतिपादिकाः सर्वाः श्रुतयोऽत्र साधिकाः। तथाहि- "वेदस्य सारतरः प्रणवः भूरित्येव ऋग्वेदादजायत, भुव इति यजुर्वेदात् , स्वरिति सामवेदात्तानि शुक्राण्यभ्यतपत्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति । तानेकधा समभरत्तदेतदोमिति” बढचब्राह्मणे । अस्य च प्रणवस्य ॐ इत्येत- दक्षरमिदं सर्वमिति सर्वात्म्यश्रुतौ तन्मात्राणां चाकारोकारमकाराणां क्रमात् स्थूल- कारणप्रपञ्चवाचकयोरभेदात् पूर्वस्योत्तरोत्तरत्र प्रविलापने गुरुयुक्त्या क्रियमाणे स्थूलस्य जगतो वेदस्य वा सूक्ष्मे लवणोदकन्यायेन प्रविलयो भवति । तथा सूक्ष्मस्य कारणे कारणस्य तुरीयेऽर्द्धमात्रावाच्ये मात्राख्ये "शिवमद्वतं चतुर्थ मन्यन्ते” इति श्रुते- गलिताखिलतभावे वाङ्मनसातीते प्रविलयो भवति । अतः प्रणववेद इत्यभ्युपगम्य तद्वारा तत्प्रवर्तकनादब्रह्मत्यवलम्ब्य नादब्रह्मणो यन्मूलं तत्तत्त्वमिति विश्रान्तिमतां मते का वा अतिः साधिका न भवतीति प्रसिद्धतरमेव सर्वत्र । प्रणवप्रशंसा च शिखोपनिषदि- "प्रणवः सर्वान्प्राणान् 'प्रणामयति वै तस्मात्प्रणवश्चतुर्द्धा ऽवस्थित इति वेददेवयोनिः सर्ववाच्यवस्तु प्रणवात्मकम् । देवाश्चेति सन्धत्ता सर्वेभ्यो दुःसहेभ्य:- सन्वारयति । तारणात्तानि सर्वाणीति । [अथर्वशिखोप० १-२, ई० अ० पृ० १५८] ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदैवत्यः प्रणवः परिपठ्यते ।। तत्राधिक क्षणमेकमास्थाय क्रतुशतस्यापि फलमवाप्नोति । कृत्स्नमोङ्कारगतं च सर्व- ज्ञानेनेति । माण्डूक्योपनिषदि- - १. निबन्धाः कृता:-पू० सं० । ३. सर्वदेवानां-पू० सं०.। ५, परमात्मनि प्रणाययति-मु०पा० । ७ वेददेवयोनिध्येयाश्चेति संधत्ता--पू० सं० । २. तावता-मु. पा० । ४. शिवोप-पू० सं० । ६. चतुर्था -मु. पा. ८. दुःखभयेभ्यः-मु० पा० २२ गोरक्षसिद्धान्सङ्ग्रहः स्मृतः॥ .. ॐकाराच्छन्दसो ज्ञात्वा न किञ्चिदपि चिन्तयेत् । युजीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ॥ प्रणवे नित्ययुक्तस्य न भयं विद्यते कचिद् । प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः अपूर्वोऽनन्तरोऽवाह्योऽनपरः प्रणवाऽव्ययः । सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च ॥ एवं हि प्रणवं ज्ञात्वा फलते तदनन्तरम् । प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ॥ सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।। ॐ कारो विदितो येन समुनिर्नेतरो जनः ॥ इति । (मा० आगम० २४-२८) वृहदारण्यके-स यथार्द्रधाग्नेरभ्याहितस्येत्यादि । (४।५।११, ई० अ० पृ० १०८) छान्दोग्ये-एतदक्षरमुद्गीथेत्यादि । (१।४।१, ई० अ० पृ० ३३) एतदेवाभिप्रेत्य महाभारते सनत्सुजातीयवचनम्- यतो न वेदा मनसा सहैव मैनं प्रविशन्ति ततोऽथ मौनम् यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ ( स० २।२) भागवते चाप्येकादशस्कन्धे- स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रास्वरो वर्ण इति स्थविष्ठः ॥ (भा. ११।१२।१७) शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्य समुद्रवत् ॥ मयोपबृंहितं भूना ब्रह्मणाऽनन्तशक्तिना। भूतेषु घोषरूपेण विसेषूर्णेव लक्ष्यते ॥ यथोर्णनाभिर्ह दयादूर्णामुद्वमते मुखात् । आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा ।। १. ओङ्कारं पादशो-मु० पा० । २. चापरा-पू० सं० । ३. व्यश्नुते-मु० पा० ४. सहैनमनु--मु० पा० ।
गोरक्षसिद्धान्तसङ्ग्रहः प्रभुः। छन्दोमयोऽमृतमयः सहस्रपदवीं ॐ काराद्वयञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ।। (भा० ११।२१।३६-३९) इत्यादि, अन्यच्च- वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्विषाः ॥ त्रेतायुगे महाभाग प्राणान्मे हृदयात्त्रयी। विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः ।। विप्रक्षत्रियविटशूद्रा मुखबाहूरुपादजाः॥ इत्यादि । (भा० ११।१७।११-१३) गीतायाञ्च- ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।। (गी० ८।१३ ) एवमन्यत्रापि बहुधा प्रपञ्चितम् , तदत्र विस्तरभयान्न लिख्यते। इति तृतीयमुत्तरम् ।। ३॥ पुनः वेदार्थस्य बोधस्तु केषाश्चिन्नास्त्येव । केवलमभिमानमेव पुरस्कृत्य ये वदन्ति तान् प्रति चतुर्थमिदमुत्तरम्-यद्भवद्भिर्वेदो वेद इति पुनः पुनरुच्यते । तस्य वेदस्य त्वभ्यासेऽप्यवधूतानां दोष एव स्यात् । कथमिति चेदुच्यते-वेदस्य पूर्वभागस्तु वर्णानामेव, वेदान्तभागस्तु भिक्षूणामेव, योगभागोऽस्त्यवधूतानाम् । वेदस्य पूर्व- भागे ज्ञानं वाच्यार्थेन न दर्शितम् । किन्तु तात्पर्ये तदस्तीति भवद्भिरेवोच्यते । एवञ्च वेदस्य पूर्वभागे यथा ज्ञानं तात्पर्येऽस्ति तथा वेदान्तभागे योगस्तात्पर्या- र्थोऽस्ति । यद्यपि बहुधा वाच्यार्थेनापि दर्शितो योगस्तथापि मुख्योत्तरं तु मुख्य- तात्पर्य एवास्ति । यतो वेदान्ततात्पर्य लक्ष्यं चावधूत एवास्ति । “सर्वे वेदास्तत्पद- मामनन्ति” इत्यादि श्रतयो “वेदैश्च सर्वैरह मेव वेद्यो” इत्यादि स्मृतयश्च । रूपे इमे सदसती तव वेद सृष्टे/जाकुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ।। इत्यादिपुराणवाक्यानि चात्र साधकानि । एतदेवाभिप्रेत्य महाभारते सनत्सुजात आह- न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वतान् बुध्यते वापि राजन् । यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ।। न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । यो वेद वेदं सच वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ।। यो वेद वेदान् सच वेद वेद्यं न तं विदुर्वेदविदो न वेदाः । तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो वदन्ति । १. विप्राः-पा०।
२४ गोरक्षसिद्धान्तसङ्ग्रहः जनः । धामांशभागस्य तथाहि वेदा यथा च शाखा हि महीरुहस्य । संवेदने चैव यथामनन्ति तस्मिन् हि सत्ये परमात्मनोऽर्थे ।। ( स० २।४१-४४) धृतराष्ट्र उवाच- आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथा परे । द्विवेदाश्चैकवेदाश्च अनृचश्च तथा परे । तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ ( स० २।३५-३६) सनत्सुजात उवाच- एकस्य वेदस्याज्ञानाद्वेदास्ते बहवः कृताः । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ ( २।३७) एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते । दानमध्ययन यज्ञो लोभादेतत्प्रवर्तते ॥ सत्यात्प्रच्यवमानानां सङ्कल्पश्च तथा भवेत् । ततो यज्ञः प्रतीयेत सत्यस्यैवावधारणात् ॥ (२१३८) धृतराष्ट्र उवाच- ऋचो यजूंषि यो वेद सामवेदं च वेद यः। पापानि कुर्वन् पापेन लिप्यते किं न लिप्यते ॥ [ स० २१३] सनत्सुजात उवाच- नैनं सामान्यूचो वापि न यजूंष्यविचक्षणम् । त्रायन्ते कर्मणः पापान ते मिथ्या ब्रवीम्यहम् ॥ न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ( स० २।४५) एवञ्च स्थूलवेदतात्पर्ययुष्माभिः सूक्ष्मवेदतात्पर्याणामस्माकं मतमविज्ञाय योऽनुयोगस्तत्प्रतिवाक्यमिदं चतुर्थमुत्तरम् ॥४॥ योगबीजे- बद्धा येन विमुच्यन्ते नाथमार्गमतः परम् । तमहं कथयिष्यामि तव प्रीत्या सुरेश्वरि ॥, (यो० बी० ७) अनेकशतसङ्घथाकैःस्तर्कव्याकरणादिभिः । पतिताः शास्त्रजालेषु प्रज्ञया ते विमोहिताः॥ १. संकल्पा वितथाभवन-मु० पा० । २. कर्म प्रतायेत सत्यस्य नवधा-मु. पा० । ३. यजूंष्यधीते यः-मु० पा० । ४. पादव्यत्यासः-मु.पु० । -- - गोरक्षसिद्धान्तसङ्ग्रहः २५ नानामागैस्तु दुष्प्राप्यं कैवल्यं परमं पदम् । सिद्धमार्गेण लभ्येत नान्यथा शिवभाषितम् ॥ अनिर्वाच्यपदं वक्तुं न शक्यं तैः सुरैरपि । खात्मप्रकाशरूपं तत् किं शास्त्रण प्रकाश्यते ॥ (यो० बी० ७-१०) विशुद्ध एव परमात्मा जीवाभिध इत्युक्त्वा जीवस्य दोषाः कामक्रोधभयचि- न्तेत्यादयश्चोक्ताः। तस्माद्दोषविनाशार्थमुपायं कथयामि ते । ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये ॥ योगहीनं कथं ज्ञानं मोक्षदं भवतीश्वरि ॥ ( यो० बी० १८, १९) अज्ञानात्संसारो ज्ञानेन मुच्यते । तत्र योगस्य किं कार्यमिति देव्या पृष्ट ईश्वर उवाच-(योगबीजे) असौ दोषैर्विमुक्तः किं कामक्रोधभयादिभिः । सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते ॥ २३ ॥ ज्ञाननिष्ठो विरक्तो हि धर्मज्ञो विजितेन्द्रियः । विना योगेन देवोऽपि न मोक्षं लभते प्रिये ॥ ३३ ॥ अपक्काः परिपक्काश्च द्विविधा देहिनः स्मृताः । अपक्का योगहीनास्तु पक्का योगेन देहिनः ॥ ३४ ॥ तस्माज्ज्ञानं च वैराग्यं जपः स्यात्केवलं श्रमः ॥ ४१ ॥ शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् ।। तत्कथं कुरुते तेषां सुखदुःखादिजं फलम् ॥ ४९ ॥ देवैरपि न लभ्येत योगदेहो महाबलः ॥ छेदबन्धैविमुक्तोऽसौ नाना शक्तिधरः परः ॥५१॥ यथाऽऽकाशस्तथा देह आकाशादपि निर्मलः ॥ सूक्ष्मात्सूक्ष्मतरो देहः स्थूलात्स्थूलो जड़ाज्जड़ः ॥५३॥ इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः ।। क्रीडति त्रिषु लोकेषु लीलया यत्र कुत्रचित् ॥ ५४ ॥ अचिन्त्यशक्तिमान् योगी नानारूपाणि धारयन् । संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः ॥ ५५॥ पुरैव मृत एवासौ मृतस्य मरणं कुतः । मरणं यत्र सर्वेषां तत्रासौ सखि जीवति ॥ ५७ ॥ कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते । जीवन्मुक्तः सदा स्वस्थः सर्वदोषविवर्जितः ।
२६ गोरक्षसिद्धान्तसङ्ग्रहः - विरक्ता ज्ञानिनश्चान्ते देहेन विजिताः सदा ॥ ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ।। ६० ॥ देव्युवाच- ज्ञानिनस्तु मृता ये वै तेषां भवति कीहशी । गतिः कथय देवेश कारुण्यामृतवारिधे ॥ ६१ ।। ईश्वर उवाच- देहान्ते ज्ञानिनः पुण्यात्पापान्न फलमाप्यते । यादृशं तु भवेत्तत्र मुक्तो ज्ञानी पुनर्भवेत् ।। ६२ ।। पुण्यात्पुण्येन लभते सिद्धेन सह सङ्गतिम् । ततः सिद्धस्य कृपया योगी भवति नान्यथा ।। ६३ ।। ततो नश्यति संसारो नान्यथा शिवभाषितम् ॥ ६४ ।। महाविष्णुमहेशानां प्रलयेष्वपि योगिनाम् ।। नास्ति पातो लयस्थानां महातत्त्वे विवर्तिनाम् ।। ६५ ।। वेदान्ततर्कोक्तिभिरागमश्च नानाविधैः शास्त्रकदम्बकैश्च ।। ध्यानादिभिः सत्करणैर्न गम्यं चिन्तामणिं त्वेकगुरुं विहाय ॥ ६ ॥ (योगबीजे) सिद्धसिद्धान्तपद्धतौ-शिवाद् भैरवः, भैरवाच्छीकण्ठः, श्रीकण्ठात् सदाशिवः, सदाशिवादोश्वरः, ईश्वराद्रुद्रः, रुद्राद्विष्णुः, विष्णोर्ब्रह्मा, इति । महासाकारपिण्डस्य' मूर्त्यष्टकम् । (सि० ११३७) आचारे ब्राह्मणा वसन्ति, शौर्य क्षत्रियाः, व्यवसाये वैश्याः, सेवाभावे शूद्राः । अनन्तसिद्धा मतिप्रकाशे । अस्ति कश्चित्परमाद्वैतस्य भावः । स एवात्मेति । शिवस्याभ्यन्तरे शक्तिः शक्तरभ्यन्तरे शिवः । अन्तरं नैव जानीयाञ्चन्द्रचन्द्रिकयोरिव ॥ ( सि० ४।२६) तज्ज्ञेयं सद्गुरोर्वक्त्रान्नान्यथा शास्त्रकोदिभिः । न तर्कशब्दविज्ञानात नाचाराद्वेदपावनात् ॥ वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् । देवार्चनाश्रयाद् भक्त्या नाश्रमाणां च पालनात् ।। स्वस्थो योगी स्वयं कर्ता लीलया चाजरामरः। अवध्यो देवदैत्यानां क्रीडते भैरवो यथा ।। (सि० ५।३१-३४) न गुरोरधिकं न गुरोरधिकं शिवशासनतः शिवशासनतः ॥ (सि० ५।६६ ) १. साकारस्य-पू० सं० । २. पारगात्-मु० पा० । ३. "न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात्" इति मु० पा० । ४. स्वेच्छो-मु० पा०। , गोरक्षसिद्धान्तसङ्ग्रहः २७ करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः । सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ॥ (सि० ५।६८) पुनर्वागादिना शास्त्रद्रष्टाऽनुमानात्तकमुद्रया भ्रामको गुरुस्त्याज्यः । स्वविश्रान्ति न जानाति परेषां स करोति किम् । शिलया किं परं पारं शिलाजालं प्रतार्यते ॥ स्वयं तीरें भवेद्योऽसौ परान्निस्तारयत्यलम् । (सि० ५।७३-७४) सर्वदर्शनानां स्वरूपदर्शनेन समन्वयं करोति-सोऽवधूतः स योगी स्यात् । अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः । ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ॥ जितेन्द्रियश्च भगवान् स सुधीः कोविदो बुधः । सर्वेषां दर्शनानां च स्वरूपं स प्रकाशयेत् ॥ (सि० ६।२०-२२) सर्वतो भरिताकारं निबद्धं येन' वृहितम् । चरते ब्रह्म तद्यस्तु ब्रह्मचारी स कथ्यते ॥ गृहिणीपूर्णता नित्यं गेहं व्योम सदाऽचलम् । यस्तया निवसत्यत्र गृहस्थः सोऽभिधीयते ।। सदाऽन्तःप्रस्थितो योऽसौ स्वप्रकाशमये वने । वानप्रस्थः स विज्ञेयो न वने मृगवच्चरन् । परमात्मा च जीवात्मा चात्मन्येव स्फुरत्यलम् । तस्मिन्न्यस्तः सदायेन संन्यासी सोऽभिधीयते ॥ (सि०६।३३-३७) न वन्दनीयास्तत्काष्ठा२ दर्शनभ्रान्तिकारकाः । वर्जयेत्तान् गुरून् दूराद्धीरः सिद्धमताश्रयः ॥ (सि० ६१७२) पद्मपुराणे कपिलगीतायाम्- दत्तात्रेयादि सिद्धानां नवनाथास्तथैव च । शङ्करं गुरुरूपेण बोधितश्चात्मतत्त्वभिः (१)॥ ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः । सूक्ष्मवेदो हि अध्यक्षः पञ्च वेदाः प्रकीर्तिताः ।। ईश्वर उवाच- ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः। तस्मिन्मध्ये स्थितं तत्त्वं प्रदर्शयति सद्गुरुः ।। १. निजबोधेन-म० पा०। २. स्ते काष्ठा-मु. पा.) .
२८ गोरक्षसिद्धान्तसङ्ग्रहः पच्छ - ॐ मित्येवं परं ब्रह्म सर्वतत्त्वानुदर्शनम् । आब्रह्मस्तम्बपर्यन्तं सर्वानुग्रहकारकम् ॥ तारकं च भवेद् ब्रह्मा दण्डकं विष्णुरुच्यते । कुण्डल्यां हि तथा रुद्रो अर्द्धचन्द्रः स ईश्वरः ॥ बिन्दुः सदाशिवः साक्षात्प्रणवे पञ्चदेवताः । निरञ्जनस्तदतीत उत्पत्तिस्थितिकारणम् ।। दुर्लभो विषयत्यागी दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ।। विचारदर्पणं यस्य अवलोकनमीक्षितम् । दृश्यते तत्स्वरूपं च तत्रक किं नहि ॥ हृदयं दर्पणं यस्य मनस्तत्र विलोकयेत् । दृश्यते प्रतिबिम्बन आत्मरूपं सुनिश्चितम् ।। अवधूतगीतायाम्- आब्रह्मस्तम्बपर्यन्तं सम्पूर्ण परमात्मनि । भिन्नाभिन्नं न पश्यामि तस्याऽहं पञ्चमाश्रमः ।। आशापाशविनिर्मुक्तमादिमध्यान्तनिर्मलम् । अनन्तानन्दब्रह्मज्ञः अकारं तस्य लक्षणम् ।। (८६) वासना वर्जिता येन वक्तव्यं च निरामयम् । र्तमानेषु वर्तेत वकारं तस्य लक्षणम् ।। धूलिधूसरगात्राणि धूतचित्तनिरामयम् । ध्यानधारणनिर्मुक्त धूकारं तस्य लक्षणम् ।। (८७) तत्त्वचिन्ता येन धूता चिन्ता चेष्टाविवर्जिता। तमहंकारनिर्मुक्तं तकारं तस्य लक्षणम् ॥ (८।६-०.) शिवं न जानामि कथं वदामि शिवं च जानामि कथं वदामि । अहं शिवश्चेत् परमार्थरूपं स्वच्छस्वभाव गगनोपमं च ॥ (१०२७) वेदा न लोका न सुरा न यज्ञा वर्णाश्रमौ नैव कुलं न जातिः। न धूममार्गो न च दीप्तिमार्गो ब्रह्मैव रूपं परमार्थतत्त्वम् ।। ( १।३४) व्याप्यव्यापकनिर्मुक्तं त्वमेकः सकलं यदि । प्रत्यक्षं चापरोक्षं च आत्मानं मन्यसे कथम् ॥ (११३५) १. विचारो-पू० सं०। २. सम्पूर्ण-पू० सं०। ३. आनन्दे वर्तते नित्यं-मु०पा। ४. परमार्थतत्त्वं च समस्वरूपं-मु.पा. ।
गोरक्षसिद्धान्त सङ्ग्रहः २६ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्ध इति मे निश्चला मतिः ॥ (१।४४) न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पथक् । न कर्ता नैव भोक्ताऽहं व्याप्यव्यापकवर्जितः ॥ (११५० ) न जातोऽहं मृतो वापि न में कर्म शुभाशुभम् । शुद्धोऽहं निर्गुणं ब्रह्म बन्धमुक्तो' कथं मम ॥ (१।५९) यदि सर्वगतो देवः स्थिरः पूर्ण इति स्मृतः । अन्तरं न हि पश्यामि सवाह्याभ्यतरः कथम् ॥ ( ११६०) भावगम्यं निराकारं साकारं दृष्टिगोचरम् । भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ।। ( २०१८) साकारं च निराकारं नेति नेतीति सर्वथा । भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवः ॥ दिवानक्तं न ते चित्त उदयास्तमयौ नहि । विदेहस्य शरीरित्वं कल्पयन्ति कथं बुधाः ॥ न ते च माता न पिता न बन्धु न ते च पत्नी न सुहृन्न पुत्रः । न पक्षपातो न विपक्षपातः कथं हि सत्ताऽसि रजो हि चेतः॥ धर्मार्थकाममोक्षं च द्विपदादि चराचरम् । मन्यते योगिनः सर्व मरीचिजलसन्निभम् ।। विन्दति विन्दति नहि नहि मन्त्रश्छन्दो लक्षणमिह नहि तन्त्रः । समरसमग्नो भावितपूतः प्रलपितमेतत्कथमवधूतः ॥ ( ५॥३२ ) अद्वैतरूपमखिलं हि कथं वदामि नित्यं ह्यसत्यमखिलं हि कथं वदामि । सत्यं ह्यसत्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ (३५) ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति । यद्यकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ (३२४) मायाप्रपञ्चरचना न च मे विकारः कौटिल्यदम्भरचना न च मे विकारः । सत्यानृतेतिरचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ( ३।२७) शुन्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किश्चित् स्वरूपरूपं परमार्थसत्त्वम् ।। ( ३।४५) नावाहनं नैव विसर्जनं च पत्राणि पुष्पाणि कथं भवन्ति । ध्यानानि मन्त्राश्च कथं भवन्ति समासमं सर्व शिवार्चनं च ॥ (४१) १. बन्धमुक्तौ-प० सं० । ३. प्रलयति तत्त्वं परमवधूतः-मु० पा० । २. पूर्णो निरन्तर:-मु० पा० । ४. चैव-मु० पा० ।
३० . तक 3 3 गोरक्षसिद्धान्तसङ्ग्रहः मूर्योऽपि नाहं न च पण्डितोऽहं मौनं च वार्ता' न च मे कदाचित् । वितर्क' च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ( ४।२०) अस्तङ्गतो नैव सदोदितोऽहं तमश्च तेजो न च मे विभाति । सन्ध्यादिकं कर्म कथं करोमि स्वरूपनिर्वाणमनामयोऽहम् ।। (४।२२) इह तत्त्वमसिप्रभृतिश्रतिभिः प्रतिपादितमात्मनि तत्त्वमसि । त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानस सर्वसमम् ॥ (५२) नहि कल्पितभागविभाग इति नहि रागविराग विचार इति । पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानस' सर्वसमम् ॥ (५।४ ) अविवेकविवेकमबोध इति अविकल्पविकल्पविबोध इति । यदि चैकनिरन्तरबोध इति किम रोदिषि मानस' सर्वसमम् ॥ (५।१०) बहुधा श्रुतयः प्रविदन्ति यतो वियदादिरिदं मृगतोयसमम् । यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानव सर्वसमम् ॥ (५।३१) "सविभक्तिविभक्तिविहीनपरमणुकायविका विहीनपरम् । यदि चैकनिरन्तरसर्वशिवं यजनं च कथं स्तवनं च कथम् ॥ (६२) दिनरात्रिविभेदनिराकरणमुदितानुदितस्य निराकरणम् । यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ (६४) न च आश्रमवर्णविहीनपरो न तु कारणकर्तृविहीनपरः। यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारवचांसि कथम् ॥ हठप्रदीपिकायाम्- क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ वर्जयेद्दर्जनप्रीति वह्निस्त्रीपथिसेवनम् । प्रातः स्नानोपचारादि कायक्लशादिकं तथा । चले वाते चलं चित्तं निश्चले निश्चलं तथा । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ।। ब्रह्मादयोऽपि त्रिदशा पवनाभ्यासत्तत्पराः। तेन सिद्धिं गतास्ते च तस्मात्पवनमभ्यसेत् ।। - न १.विमौनं-म० पा०। ३. मानव सर्वसमः-मूलमातृकायाम् । ५. अवि०-मु० पा०। ७.शिवः-१० सं० । ६. चन्द्रमसोज्वलनं-पू० सं० । २. वदामि-मु० पा०। ४. कारणकार्य०-मु• पा० । ६. ननु कार्य विकार्य०-मु०पा. । ८. तपनं-मु. पा.।
गोरक्षसिद्धान्तसङ्ग्रहः ३१ यावहेहे। मरुद्धद्धस्तावञ्चित्तं निरामयम् । यावदृष्टिभ्रु वोर्मध्ये तावत्कालभयं कुतः ॥ कालं पराङ्मुखीकृत्य त्रिपथे परिवर्तयेत् । का भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ एक सृष्टिमयं बीजमेका मद्रा च खेचरी । एको देवो निरालम्बश्चैकावस्था मनोन्मनी ।। सुचिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठती खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ।। (३।९५) अयं योगः पुण्यवतां धन्यानां तत्त्वशालिनाम् । निर्मत्सराणां सिध्यत न तु मत्सरशालिनाम् ।। राजयोगस्य माहात्म्यं को वा जानाति तत्त्ववित् । ज्ञानं मुक्तिः स्थितिः सिद्धिगुरुवाक्येन लभ्यते ॥ (४८) अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरसौ पश्यन्न पश्यत्यपि । मुद्रेयं खलु शाम्भवी भवति सा युष्मत्प्रसादाद् गुरो । शून्याशून्यविवर्जितं स्फुरति यत्तत्त्वं पदं शाम्भवम् ॥ ( ४।३७ ) अझैद्धाटितलोचनः स्थिरमना नासाग्रदत्तेक्षणः । चन्द्रार्कावपि लीनतामपनयान्निष्पन्भावान्तरे ॥ ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परम् । तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ।। (४।४१) चित्तं चरति खे यस्माजिह्वा चरति खे गता। तेनैव खेचरी नाम मुद्रा सिद्धैर्णमस्कृता ।। सूर्याचन्द्रमसोमध्ये निरालम्बेऽनिले पुनः । संस्थिता व्योमचक्रे या सा मद्रा नाम खेचरी ।। निरालम्बं मनः कृत्वा न किञ्चिदपि चिन्तयेत्। स बाह्याभ्यन्तरे व्योम्निघटवत्तिष्ठति धुवम् ॥ अथारम्भावस्था- ब्रह्मग्रन्थिर्भवेद्भिन्ना ह्यानन्दः शून्यसम्भवः । विचित्रः कणिको देहेऽनाहतः श्रूयते ध्वनिः ॥ ( ४७० ) १. देहो-पा०। २. भावन यः-मु० पा० । ३. बीजमखिलं-मु० पा० । ४. कणजो-मु० पा० । - गोरक्षसिद्धान्तसङ्ग्रहः - 71०। ३२ दिव्यगन्धो दिव्यचक्षुस्तेजस्वी' स्यादरोगवान् । सम्पूर्णहृदये शून्ये आरम्भो योगवान् भवेत् ॥ ( ७१।१ ) अथ घटावस्था- द्वितीयायां घटीकृत्य वायुर्भवति मध्यमः । दृढ़ासनो भवेद्योगी ज्ञानी देवसमस्तथा ॥ ७२ विष्णुप्रन्थिर्यदा भिन्नः परमानन्दसूचकः। अतिशून्यविभेदश्च भेरीशब्दस्तथा भवेत् ।। ७३ ॥ अथ परिचयावस्था- तृतीयायां ततो भित्त्वा विमायो महलध्वनिः । महाशून्यं तथा याति सर्वसिद्धिसमाश्रयम् ॥ ७४ ॥ चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः । दोषदुःखक्षुधानिद्राजरामृत्युविवज्जितः ॥ ७५॥ अथ निष्ठावस्था- रुद्रग्रन्थि ततो भित्वा सर्वपीठगतोऽनिलः । निष्पन्नो वैष्णवः शब्दः कणद्वीणाकणो भवेत् ॥ ७६ ॥ अस्तु वा माऽस्तु वा मुक्तिरत्रैवाऽखण्डितं महत् । लयामृतमिदं सौख्यं राजयोगादवाप्यते ।। ७८ ॥ राजयोगपदं प्राप्तं सुखोपाय सुचेतसाम् । सद्यः प्रत्ययसंधायी जायते नादजो लयः ॥ ८॥ नादानुसन्धानसमाधिभाजां योगीश्वराणां हृदये प्ररूढम् । आनन्दमेकं वचसामवाच्यं जानाति तं श्रीगुरुनाथ एव ।। नादकोटिसहस्राणि बिन्दुकोटिशतानि च । सर्वे तत्र लयं यान्ति यत्र देवो निरञ्जनः॥ योगिनां ज्ञानविदुषामन्येषां च महात्मनाम् । प्राप्तं तं कालपुरुषं सुविज्ञाप्यं विचक्षणैः ॥ यावन्नैव प्रविशति मरुद्विज्वरो मध्यमार्गे यावद्विन्दुर्न भवति दृढ़ः प्राणवत्सुप्रबद्धः । १. दिव्यदेहश्च तेजस्वी दिव्यगन्धः-मु० पा० । २. हृदयः शून्य-मु० पा० । ४. अतिशून्ये विमर्दश्च-मु० पा०, ५. तु विज्ञेयो विहायो-मु० पा० । ६. तदा-मु० पा० । ७. दोषदुःखजराव्याधिक्षुधानिद्रा-मु० पा० । ८. शर्वपीठ-मु. पा० । ९. पायोल्प -मु० ० पा० ।
गोरक्षसिद्धान्तसङ्ग्रहः यावद्वयोम्नः सहजसदृशं जायते नैव तत्त्वम् तावत्सर्व वदति यदिदं दम्भमिथ्याप्रलापः ॥ हठप्रदीपिकायां दशमोपदेशे-- आदिनाथोदित सर्वमष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं महतामपि ॥ पीड्यते न तु रोगेण न च लिप्येत कर्मणा । बाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम् ॥ अवं षोडशपत्रपद्मगलितं प्राणादवाप्तं हठा- दूर्खास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयेत् । उत्कल्लोलकलाजलं च विमलं धारामृतं यः पिबेत् निर्दोषः स मृणालकोमलवपुर्योगी परं जीवति ॥ यत्पाताले विशति सुषिरं मेरुमूले तदस्ति तस्मिस्तत्त्वं प्रविशति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः सवति वपुषस्तेन मृत्युनराणां तं बध्नीयात् सुकरणमथो नान्यथा कायसिद्धिः ॥ वद्धं मूलबिलं येन तेन विघ्नो विदारितः। अजरामरतां याति यथा पञ्चमुखो हरः॥ तत्रास्ति कारणं दिव्यं सूर्यस्य मुखबन्धनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः।। येन सञ्चालिता शक्तिः स योगी सिद्धिभाजनम् । किमत्र बहुनोक्तेन कालं जयति लीलया । ज्ञानं कुतो मनसि जीवति देवि यावत् , प्राणेऽपि जीवति मनो नृपते न तावत् । प्राणो मनोद्वयमिदं विलयं प्रयाति, मोक्षं स गच्छति नरो न कथश्चिदन्यः । इन्द्रियाणां मनो नाथो मनोनाथश्च मारुतः । मारुतस्य लयो नाथः स लयो नादमाश्रितः॥ अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जितः। एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ शक्तिमध्ये मनः कृत्वा शक्तिं मनसि मध्यतः । मनसा मन आलोक्य धारयेत्परमं पदम् ।। अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्ण कुम्भ इवाम्भसि ।। १. हठप्रदीपिकायाश्चत्वार एवोपदेशा उपलभ्यन्ते । ५ समाहा गोरक्षसिद्धान्तसङ्ग्रहः सङ्कल्पमात्रकलनैव जगत्समग्रं सङ्कल्पमात्रकलना हि मनोविलासः । 'सङ्कल्पमात्रकलनैव कृतिस्तु नित्या सङ्कल्पनिश्चयमवाप्नुहि चात्मशान्तिम् ।। (४५८) ज्ञेयं सर्वमतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं मनश्चैव नान्यः पन्था द्वितीयकः ॥ (४।६० ) श्री आदिनाथेन सपादकोटिर्लयप्रकाराः कथिता जयन्ति । नादानुसन्धायकमेव नान्यं मन्यामहे धन्यतमं लयानाम् ।। (४।६६) मनःस्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्योदयात्सत्यं पिण्डस्थैर्य प्रजायते ॥ न्यासतः सुप्रसन्नात्मा निर्द्वन्द्वो विजितेन्द्रियः । कुरुते युक्तकर्माणिः नित्यनैमित्तिकानि च ॥ योगेन पदमात्मानं गहायां प्राप्यते च सा । तारकं जपते नित्यं जितासुः कामवजितः ।। युक्तासने समकायशिरोधरः। नासाग्रदृष्टिरेकाकी जपेदोङ्कारमक्षरम् ॥ भूर्भुवःस्वस्मेि लोकाश्चन्द्रसूर्याग्निदेवताः । यस्य मात्रासु तिष्ठन्ति तत्परज्ज्योतिरोमिति ।। उकारश्च मकारों बिन्दुसंज्ञकः । त्रिधा मात्रा स्थिता यत्र तत्परज्योतिरोमिति ।। त्रयः कालात्रयों वेदात्रयो देवालयोऽग्नयः। त्रयो लोकाः स्थिता यत्र तत्परं ज्योतिरोमिति ।। इच्छा क्रिया तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी। त्रिधी शक्तिः स्थिता यत्र तत्पर ज्योतिरोमिति ।। वचसा च जपेद्विद्वांश्चक्षुषा च समभ्यसेत् । मनसा संस्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ शुचिर्वाप्यशुचिर्वापि यो जयेत्प्रभवं सदा । नस लिप्यति योगेन पद्मपत्रमिवाम्भसा ॥ शरीरं नो त्यजेदेव कालः कस्यापि कुत्रचित् । अन्तःशरीररक्षार्थं यत्नः कार्यस्तु योगिना ॥ ततो लक्ष्यमनोऽभ्यासमहंभावविवज्जितम् । सर्वाङ्गकल्पनाहीनं कथं कालो जयेत तम॥ १. सङ्कल्पमात्रमतिमुत्सृज निर्विकल्पमाश्रित्य-मु०पा० । २. शान्तिः-पू० सं०। ३. समं नष्ट-मु० पा०। ४. न सन्ति-पू० सं०। अकारश्च गोरक्षसिद्धान्तसङ्ग्रहः ३५ स एव काले स शिवः स सर्वो नापि किञ्चन । कः केन हन्यते तत्र म्रियते वापि कश्चन ।। ततो व्यतीते समये कालस्य भ्रान्तिरूपितम् । योगी सुप्तोत्थित इव बोधं याति निबोधतः ॥ एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः । कालं कलितसंसारं पौरुषेणाद्भुतेन च ॥ तत्रापि भवने योगी विहरत्येक एव सः । पश्यन्संसारवैचित्र्यं स्वेच्छया निरहङकृतिः ॥ द्वाराणां नवकं निरुद्धथ मरतं पीत्वा दृढं धारितम् नीत्वाऽऽकाशमपानवह्निसहितं शक्त्या समुच्चालितम् । आत्मध्यानयुतस्त्वनेन विधिना विन्यस्य मूर्ध्नि ध्रुवम्' यावत्तिष्ठति तावदेव मरुतां सङ्घन संस्तूयते ।। (वि०मा० ६.१००) दृष्टिः स्थिरा यस्य विनापि दृश्यं वायुः स्थिरो यस्य विना प्रयत्नम् । चित्तं स्थिरं यस्य विनावलम्ब स एव योगी स गुरुः स सेव्यः॥ गोरक्षोपनिषदि- आदौ देवो महानन्दानिममे देवता स्वयम् । तस्मादिच्छासुसम्पन्ना इच्छा ज्ञानं ततः क्रिया ।। ततो व्यधां वरारोहे पिण्डब्रह्माण्डबुबुदम् अव्यक्ताव्यक्तभावेन विचरामि जगत्त्रये ॥ एवं श्रीगुरुः आदिनाथः, मत्स्येन्द्रनाथः, तत्पुत्र उदयनाथः, दण्डनाथः, सत्य- नाथः, सन्तोषनाथः, कूर्मनाथः, भवनार्जिः, तस्य श्रीगोरक्षनाथः, ईश्वरसन्तान आदिना॑ह्मणः सूक्ष्मवेदी, अद्वैतोपरि सदानन्द देवता, अनाहत्तशृङ्गी, खेचरीमुद्रा । वेवेकमार्तण्डे- अन्तर्निश्चलितात्मदीपकलिकास्वाधारबन्धादिभि - र्यो योगी युगकल्पकालकलनातत्त्वं च यो गीयते । ज्ञानामोदमहोदधिः समभवद्यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तमनिशं श्रीमीननाथं भजे ॥ १. प्रणामविधिनावष्टभ्य मूर्ना भ्र व-मु० पा० । २. तावदायनगत श्रेया फलं विन्दति-मु. पा० । ५. बेधादिभिः-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः प्राणायामपरायणः। अजपानाम गायत्री योगिनां मोक्षदायिनी। अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ।। अनया सहशी विद्या अनया सदृशो जपः। अनया सदृशं ज्ञानं न भूतो न भविष्यति ॥ ( ६।३५-३७) अनया सदृशं तीर्थमनया सदृशः क्रतुः। अनया सदृशं पुण्यं न भूतं न भविष्यति ॥ अनया सदृशं स्वय॑मनया सदृशं तपः। अनया सदृशं वेद्यं न भूतं न भविष्यति ॥ एतत्कालभयाद् ब्रह्मा योगिनो मुनयः सर्वे ततो वायुं नियन्त्रयेत् ॥ यत्सर्वे द्वन्द्वयोरैक्यं जीवात्मपरमात्मनोः। समस्तनष्टसङ्कल्पः समाधिः सोऽभिधीयते ॥ अवेद्यः सर्वशास्त्राणामभेद्यः सर्वदेहिनाम् । अग्राह्यो मन्त्रयन्त्राणां योगी युक्तः समाधिना ।। हेतुदृष्टान्तनिर्मुक्तं मनोबुद्धयाद्यगोचरम् । व्योमविज्ञानमानन्दं तत्त्वं तत्त्वविदो विदुः ।। यथा घृते घृतं क्षिप्तं घृतमेवं हि जायते । क्षीरे क्षीरं तथा योगी तत्त्वमेव हि जायते ॥ यावद्विन्दुः स्थितो देहे तावन्मृत्युभयं कुतः। यावद्वद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति ॥ (६६१) बिन्दुः शिवो रजः शक्तिबिन्दुरिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ।। (६।६५) या पृथ्वी हरितालहेमरुचिरा तत्त्वं लकारान्वितम् संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी । प्राणं तत्र विलीय पश्चघटिकं चित्तान्वितं धारयेत् एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥ (वि०६।१४६) अर्द्धन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितम् यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना । प्राणं तत्र विलीय पञ्चर्याटकं चित्तान्वितं धारयेत् एषा दुःसहकालकूटजरणा स्याद्वारुणी धारणा ॥ १४७ ।। यत्तालुस्थित इन्द्रगोपसदृशं तत्त्वं त्रिकोणं ज्वलत्- तेजो रेफयुतं प्रवालरुचिरं रुद्रेण यत्सङ्गतम् ।
गोरक्षसिद्धान्तसङ्ग्रहः ३७ प्राणं तत्र विलीय पञ्चघटिक चित्तान्वितं धारयेत् एषा वह्निजयं सदा विदधती वैश्वानरी धारणा ॥ १४८ ।। यद्भिन्नाञ्जनसन्निभं मिदं वृत्तं भ्रवोरन्तरे तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता । प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेत् एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ १४९ ।। आकाशं सुविशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रो स्थितम् यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम् । प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेत् एषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा ॥ १५० ॥ स्नातं तेन सहस्रतीर्थसलिले दत्तं द्विजेभ्यो धनम् यज्ञानां च हुतं सहस्रमयुतं देवाश्च सम्पूजिताः। सत्यं तेन सुतर्पिताश्च पितरः स्वर्ग च नीता पुनर- यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोति धैर्य मनः ॥ नगुझे भीकृष्णकृतगोरक्षनाथस्तोत्रे- गकारो गुणसंयुक्तो रकारो रूपलक्षणः । क्षकारेणाक्षयं ब्रह्म श्रीगोरक्ष नमोऽस्तुते ॥ ब्रह्मणां च परं ब्रह्म रुद्रादीनां शिरोमणे । त्रैलोक्यं निर्मितं येन श्रीगोरक्ष नमोस्तु ते ॥ सर्वगुणो गुणाभावो निर्गुणश्च गुणस्थितः । साकारो वा निराकारः श्रीगोरक्ष नमोस्तु ते ।। स्वः पूजयन्ति देवास्तं मर्त्यलोके च मानवाः। पाताले नागलोकाश्च श्रीगोरक्ष नमोस्तु ते ॥ एकाकी वर्तते नित्यं भवपाशविवर्जितः । परं ब्रह्माक्षयं ज्योतिः श्रीगोरक्ष नमोस्तु ते ।। श्री गोरक्षस्येदं स्तोत्रं स्वयं कृष्णेन निर्मितम् । भक्तिभावविनिर्मुक्तो दासोऽहमिति भावयेत् ॥ आकाशं मन्दिरं यस्य नानारत्नोपशोभितम् । हस्तमध्ये स्थितं शम्भोरभयं वरदायकम् ॥ नमन्ति ब्रह्मा विष्णुश्च सुरा नृमुनयस्तथा । ज्ञानसाराखिलाः सिद्धाः श्रीगोरक्ष नमोस्तु ते ॥ श्री नाथं तु महात्मानं न जानाति स्वयं हरिः। किञ्चित्किञ्चिद्विजानाति महादेवनमस्कृतम् ॥
:- गोरक्ष सिद्धान्तसङ्ग्रहः श्रीनाथश्चाक्षयो देवो देवानामप्यगोचरः। तत्पादौ चिन्तयेद्योगी अक्षयो योगनिश्चलः ॥ कल्पद्रुमतन्त्रे श्रीगोरक्षकवचे- योगीश्वरं चादिकाथं सर्वव्याप्यं महेश्वरम् ॥ कल्पदुमतन्त्रे श्रीगोरक्षसहस्रनामस्तोत्रे शुद्धस्फटिकसङ्काशं जटाजूटं त्रिलोचनम् । निरञ्जनं निराकारं निविकल्पं निरामयम् ।। त्रिमूर्ति च त्रिलोकीशं विधिविष्णुमहेश्वरम् । विश्वरूपं सदाकारं गोरक्षं नाथदैवतम् ।। विद्यापतिमन्त्रनाथो ध्याननाथो निरञ्जनः । नित्यनाथो भूतपतिनित्यानन्दो महीपतिः।। सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः । सृष्टिनाथः स्थितिनाथो हारनाथो महागुरुः॥ रमणो रामभद्रश्च रामनाथो जनाईनः । घटस्थापनका-णि मुक्तिकार्य विशेषतः॥ विना गोरक्षमन्त्रेण न कर्तव्यं कदाचन । आगमोक्तानि कर्माणि वैदिकानि तथैव च । विना गोरक्षमन्त्रेण न सिध्यन्ति कदाचन ॥ सारसमहे ब्रह्माण्डपुराणे ललितापुरवर्णने ललिताखण्डे- तस्य चोत्तरकोणे तु वायुलोको महाद्युतिः । तत्र वायुशरीराश्च सदादानमहोदयाः ।। सिद्धदिव्यर्षयश्चैव पवनाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ।। द्वात्रिंशत्तमेऽध्याये- नाथान्तरमितिप्रोक्तं हस्तविशति चोन्नतम् । चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ।। तत्र नाथा महादेव्या योगशास्त्रप्रवर्तकाः । सर्वेषां मन्त्रगुरवः सर्वविद्या महातपाः ॥ चत्वारो योगनाथास्तु लोकानामिह गुप्तये । तुष्टाः कामेशदेवेन तेषां नामानि मे शृणु ॥ - १. सापयेतबा-प.सं.। २. मच्छण-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ... - 'मित्रीशोड्डीशषष्ठीशचर्याख्या कुम्भसम्भवाः । तैः सृष्टा बहवो लोका रक्षार्थ पादुकात्मकाः ।। दिव्यौघा तेषां नामानि मे शृणु । २मित्राद्या मानवौघाश्च सिद्धौघाः सुरतापसाः॥ प्रायः सालोक्यसारूप्यसायुज्यादिकसिद्धयः । महान्तो गुरवस्तांस्तु सेवन्ते चतुरो गुरुन् ॥ (उ०भा० उप० पा० ३७।३६-३१) स्कन्दपुराणे काशीखण्डे- मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषन्ति वै। विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ।। अध्यासतेऽन्धतामिस्रं मृतास्तेऽन्यत्र सन्ततम् । शिवनिन्दापरा ये च ये पाशुपतनिन्दकाः। विद्विषो मम ते ज्ञेयाः पतन्तो नरकेऽशुचौ । अष्टाविंशतिकोटीषु नरकेषु क्रमेण हि ।। कल्पं कल्पं वसेयुस्ते के विश्वेश्वरनिन्दकाः । विश्वेशानुग्रहं प्राप्य मुनेऽहमपि मुक्तिदः॥ मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम् । इयं वाराणसी ज्ञया पशुपातरथस्थली ॥ तन्त्रमहार्णवे- रक्तनेनं हीनछाया रक्तं गात्रं तपस्विनः । मूर्तिः प्रसन्नवदना स्वल्पवाणी च कथ्यते ॥ चतुरशीतिसिद्धानां पूर्वादीनां दिशां न्यसेत् । एकविंशतिसङ्खथाकं स्थानं नानां च कथ्यते॥ नवनाथा दिशो ह्यष्टावको मध्ये व्यवस्थितः। नवनाथस्थितिश्चैव सिद्धथागमेन कारयेत् ।। गोरक्षनाथो वसेत्पूर्व जगन्नाथवने स्थितः। क्रोशत्रये वसेन्नित्यमेको नाथः स उच्यते ।। जालन्धरो क्सेन्नित्यमुत्तरापथमाश्रितः। ज्वालामुखी पञ्चक्रोशवनमुत्तरमाश्रितः ।। १. मित्री च शोदिशश्चैव चर्याख्यः कुम्भ-पू० सं० २. दिव्यविद्यामानवौध-पू०सं० । ३. प्राप्तः। ४. संवेताश्-पू० सं० । ५. पाशुपत-पू० सं० । ६. दिमाद्यष्टा-३० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः नागार्जुनो महानाथोज्वालायेशानसंश्रितः(१)। सप्तकोशे वने चैव तपस्यति महातपः ॥ सहस्रार्जुनो दक्षिणे च गोदावरीवने स्थितः । दशक्रोशप्रमाणेन तपस्यति महातपः॥ दत्तात्रेयो महानाथः पश्चिमायां वसेदिशि । सरस्वतीपश्चिमे च नवक्रोशं समाश्रितः ॥ देवदत्तो वसेन्नित्यमग्निकोणं समाश्रितः । पञ्चक्रोशसमाने तु वायव्यां भरतो जड़ः ।। सप्तकोशप्रमाणेन आदिनाथों वसेद्भुवि । कुरुक्षेत्रे मध्यदेशे क्रोशत्रयवने स्थितः ॥ नैऋतेतु दिशां भागे मत्स्येन्द्रस्त्वेव 'वारिधेः। नाथस्थानानि वक्ष्यामि महागोप्यं न कथ्यते ॥ षोडशनित्यातन्त्रे- कादिसंज्ञा भवेद्रूपा सा शक्तिः सर्वसिद्धये । तया तैर्भुवने तन्त्रं कल्पे कल्पे विजम्भते ॥ अवसाने तु कल्पानां सा तैः साद्धं व्रजेच्चमाम् । नामपर्यायतोऽवाप्तं कालावाप्तमितिद्वयम् । प्रसिद्धं बाह्यतो यच्च त्रीणि नामानि साधके। नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धथै स्वीकृताऽनेकविग्रह ।। नवरूपाय परमार्थंकरूपिणे। सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥ स्वतन्त्राय दयाशक्तिविग्रहाय रसात्मने । परतन्त्राय शक्तानां भव्याय भब्यरूपिणे ॥ रुद्रयामले रससाधनप्रकरणे- शिवरात्रिदिने प्राप्ते आरभ्यं कार्यसाधकैः। चतुःषष्टिप्रमाणेन कोष्ठं कृत्वा तु भैरवम् ।। पाश्र्वयोर्मूर्तिमालाश्च मध्ये मूर्तिश्च विन्यसेत् । तस्याग्रे जुहुयात्पश्चाद्धेमसिद्धिः प्रजायते ॥ रक्तोपवीतवासस्तु दद्याद्वै दद्याद्वै द्विजपुङ्गवम् । कोष्ठसङ्ख्या तदर्धाद्धयोगिनीयंत्र पूजयेत् ॥ शृङ्गीनादेन ते सर्वे मनसाहादकारिणा । १. मत्स्येन्दरस्तु--पू० सं०। नवाय ।
गोरक्षसिद्धान्तसङ्ग्रहः - रक्तो नस्वहकः । श्रेष्ठः स्कन्धाने शृङ्गमाश्रितः ।। मुखं कमलया युक्तं नेत्रे कमलभूषणम् । पृष्ठे च कमलाकारं हंसगत्या विराजितम् ।। रक्तवासोत्तरीयेन वरमन्त्रं पुरो न्यसेत् । रक्तचन्दनसंघृष्टमपूपस्योपरि न्यसेत् । स्वादयेत्पश्चदिवसं२ पश्चात्पुण्ये समर्पयेत् । रसायनी महाविद्या सिद्धिर्भवति निश्चितम् ।। तारासूक्तौ- प्रणवो निर्गुणः प्रोक्तः सर्वाद्यो वेदगोचरः। वेदमाता तु गायत्री तदायः प्रणवः स्मृतः ।। कुलार्णवतन्त्रे द्वादशोल्लासे- श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः। नास्ति शाक्तात्परो मार्गो न पुण्यं कुलपूजनात् ॥ (१२।११-१२) वायुपुराणे शिवस्तोत्रे- अप्रमेयाय गोत्रे च निर्गुणाय गुणाय च । वादप्रियाय सभ्याय मुद्रामणिधराय च ॥ वायु० २४।१४९ । देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ।। अतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् इज्याचारदमा हिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मों यद्योगेनात्मदर्शनम् ।। चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा। सा बेते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ।। पटशाम्भवरहस्ये- पृथ्वी की महादेवी नाथाः शास्त्रस्य बन्धकाः। ब्रह्मतत्त्वविदित्याद्याः शरभाद्यास्तु रक्षकाः॥ १. नम्वहकः-पू० सं० । २. सप्तदिवसं-पू० सं० । ३. नहि शाक्तात्परा दीक्षा-मु. पा० । ४. अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च । नमः प्रियाय वामाय मुद्रामणिधराय च ॥ -मु. पा० । ॥ ६ गोरक्षसिद्धान्तसङ्ग्रहः २ N सुव्रताः। नाथान्तो वा महेशानि' त्रितयं त्रितयं त्रिषु । ईशाख्यस्तु महेशानि केरलान्तर्गतो भवेत् ॥ सूतसंहितायां यज्ञवैभवखण्डे द्वितीयेऽध्याये--- विष्ण्वादीनां तु देवानां ध्यानं चाधममिष्यते । अतो मोक्षार्थिभिः प्राज्ञैः शिव एकः शिवङ्करः॥ ध्येयः सर्व परित्यज्य शिवादन्यत्तु दैवतम् । अस्मिन्नर्थे अतिः साध्वी समाप्ता वेदवित्तमाः॥ अपक्कचित्तैर्मोक्षार्थ देवाविष्ण्वादयोऽपि च । ध्येयाः पक्कैः शिवो ध्येयःसाक्षात्संसारमोचकः।। रुद्रं विश्वाधिक विष्णुं ब्रह्माणं चान्यमेव च । समं चिन्तयतः साक्षात्संसार परिवर्तते ॥ महापापवतां पुंसां पूर्वजन्मसु विष्णुः सर्वाधिको भाति न साक्षात्परमेश्वरः ॥ विष्णुः सर्वाधिको नान्य इति चिन्तयतां नृणाम् । नास्ति संसारविच्छित्तिः कल्पकोटिशतैरपि ।। तेषां नैव च मोक्षाशा कल्पकोटिशतैरपि । ब्रह्मादिदेवतानां च विश्वाधिक्यं वदन्ति ये । अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।। सू० सं० य० वै० खं० २।५३-६१) आदिनाथसंहितायाम्- कौलिकान्कुलमार्ग च कुलद्रव्यं कुलाङ्गनाः। ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ॥ येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये । ते शाकिनीमुखे यान्ति सदारसुतबान्धवाः ॥ पिबन्ति शोणितं तस्य चामुण्डा मांसमुत्त्वचः । अस्थिनी चर्वयन्त्यस्य योगिनीभैरवीगणाः॥ १. वामदेशानि-पू० सं० । २. केरलान्तरतो-प० सं० । ३. संसारे-मु० पा० । ४. अतः परं "विष्णुः सर्वाधिको भाति नारकी स न संशयः। इति पू० सं० अधिक: पाठः।
गोरक्षसिद्धान्तसङ्ग्रह ४३ - पद्मपुराणे सृष्टिखण्डे- धारयित्वा तु रुद्राक्षं म्रियते यः क्षितौ नरः । स याति मत्पुरं रम्यं सर्वदेवैः सुपूजितः ॥ (६१।२०६) शैवोवा वैष्णवश्चान्यो गाणपत्योऽथसौरकः ।। ( ६१२१५) पातालखण्डे अहं च ललितादेवी राधिका या च गीयते । अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ।। सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी। अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ।। (७॥४४, ४६) ब्रह्मवैवर्ते- महाविष्णोरहंकारो बभूव सहसेति च । सर्व मल्लोमकूपेषु विश्वान्येवाहमीश्वरः ।। संहारभैरवो भूत्वा तं जग्राह स लीलया । स्थिते मू‘वशेषेण प्रसादं च चकार सः ।। सर्वात्मानं ध्यायमानं स्तुतं भीतं कृपानिधिम् । तच्छरीरं सुसम्पन्नं पुनरेव चकार सः ।। शिवपुराणे- क च भेरी कलापश्च क च शृङ्गोरवोऽशुभः । क चानकमयः शब्दो गल्लनादः क चापि हि ॥ (रुद्र सं०, पार्वती खण्ड अ० २७।२९-३०) शक्तिसङ्गमतन्नोऽष्टमपटले- कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा। लोकसम्मोहनार्थाय स्वरूपं बिभ्रती परा ॥ कदाचिदाधा श्रीकाली सैव तारास्ति पार्वति । कदाचिदाद्या श्रीतारा पुंरूपा रामविग्रहा ।। रा शक्तिरिति विख्याता मशिवः परिकीर्तितः। शिवशक्त्यात्मकं ब्रह्म रामरामेति गीयते ।। योगासनसमारूढं जटामण्डलमण्डितम् । विभूतिभूषितं देवं त्रिनेत्रं चन्द्रशेखरम् ।। तेजःपुञ्जनिभां देवि सीतां तेजः स्वरूपिणीम् । गौरीरूपां परां सीतां महासाम्राज्यनायिकाम् ।। १. खण्डितः पाठ-पू० सं० । २. यत्परं-पू० सं०॥ ३. भवेच्छाक्तो-मु० पा. ४. मूना विशेषेणा-पू० सं० ।
गोरक्ष सिद्धान्तसङ्ग्रहः बृहदारण्ये- द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूत्तं च, मयं चामृतं च, स्थितं च यत्सत्यं च ॥ तदेतन्मूतं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मयमेतस्थितमेतत्सत्यम् ॥ तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ अथामूर्त वायुश्चान्तरिक्षञ्चैतदमृतमेतद्यदेतद्यम् ॥ तस्यैतस्यामूर्तस्य, एतस्यामृतस्यै- तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषस्तस्य ह्येष रस इत्यधि- दैवतम् । अथाध्यात्मम्-इदमेव मूतं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतस्थि मेतत्सत् । तस्यैतस्य मूर्तस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ अथामूतं प्राणश्च वायुश्चायमन्तरात्मन्नाकाश एतदमृतमेत- द्यदेतद्यम् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषोऽस्त्यह्येष रसः ।। तस्य हैतम्य पुरुषस्य रूपं यथा महाराजनं वासो यथा पाण्ड्वा- विकं यथेन्द्रगोपो यथान्यचिर्यथा पुण्डरीकं यथा सकृद्विद्यत्तं सकृद्विद्यत्तेव ह वा अस्य श्रीभवति य एवं वेद । अथात आदेशो नेति नेति, नह्येतस्मादिति नेत्यन्य- त्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् । (२,३।१-६ ई० अ० पृ० ८६) पठित्वापि च न ज्ञातं ब्रह्म ते नाविका इव । नयन्ति पार ये त्वन्यान् स्वयमर्वाचि संस्थिताः ।। शक्त्या तु सृज्यते विश्वः शिवेन परिपाल्यते । कालेन संह्रियते च मुक्ति थेन दीयते ॥ इति । ब्रह्मण्यप्राप्ते सति ब्रह्मतन्तुधारणमयुक्तम् । केचित्सूत्रधारकाः केवलं जात्यभि- मानिनः पुरुषाः। अथ च काष्ठदण्डधारका आश्रमिणो दण्डिनस्तेषां खण्डनकरणे उपनिषत्सम्मतिमाह ब्रह्मोपनिषदि- यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्राथं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमभिधारयेत् ।। सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ।। येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ।। १. “यच्च सच्च त्यच्च'-मु० पा० । २. 'सत्'-मु० पा० । - गोरक्षसिद्धान्त सङ्ग्रहः बहिः सूत्रं त्यजेद्विद्वान् योगमुत्तममास्थितः। ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः ।। धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत्। सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् ॥ अग्नेरिव शिखा नान्यायस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तै संघायंमिदं सूत्रं क्रियाङ्गं तद्धि वैस्मृतम् ।। शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ।। इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान यज्ञोपवीतो स्यात्स यज्ञः स च सर्ववित् ॥ इति ॥ (ई० अ०, पृ० १५१) परमहंसोपनिषदि- परमात्मात्मनोरेकत्वाज्ञानेन तयोर्भेद एक एव विभग्नो या सा संध्या सर्वान् वा कामान्परित्यज्याद्वैते परमस्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।। -- X x x स याति नरकान्धोरान्महारौरवमेव च ॥ इति । ( ई० अ० पृ० १५०) शास्त्रोक्तविषयाभ्यासमजानन्तः केवलं शास्त्रपाठमात्रेणैवाभिमानिनस्तान्प्रति वाक्यमेतदित्याह-द्वादशवर्षो भूत्वा विद्याभ्यासमर्हति, ततश्च यावद्द्वादशवर्ष शब्द- बोधार्थ व्याकरणशास्त्रमध्येतव्यं ततश्च यावत् द्वादशवर्षमर्थबोधार्थ न्यायशास्त्र- मध्येतव्यं ततश्च यावत् द्वादशवर्ष वेदोऽध्येतव्यस्ततश्च घटसु वर्षेषु वेदान्ताभ्यासः कर्तव्यः, एवं षट्सुवर्षेषु शास्त्रीयरीतिर्ज्ञातव्या । पुनरभ्यासश्च कर्तव्यः, एवमायुषोऽर्द्ध तु गतप्रायमेव । ततः पुनरिन्द्रियाणां शैथिल्येऽरिष्टे च सत्यभ्यासासक्तत्वं भवेत् । अतः प्रथमतः साक्षरतामात्रं पाण्डित्यापाद्य मनुष्योगाभ्यासः कर्तुमुचित इति । भेद एव-मु० पा०। १.
गोरक्षसिद्धान्तसङ्ग्रहः ये त्वाचारबाहुल्यं दधतोऽपि वैश्या उपगम्य तत्सङ्गं कुर्वन्ति तान् प्रत्यस्माक- मिदं कथनं बाह्यविषयिकामुज्ज्वलतां प्रदर्य मानसी मलिनता धार्यते । ततस्त्विदं श्रेयो यत् वेश्यासङ्गोऽपि न कर्तव्यो, 'बह्वाचारस्यापि प्रयोजनं नास्ति गौणोऽय- मित्याचारं ज्ञात्वा तस्य त्यागोऽपि न कार्यः, यथायोग्यत्वेन विवेकपूर्वक सेवनं चास्यकर्तव्यमिति । भवेयं मनुष्यो यदैकस्तु राजा यदा जन्तुरेको भवेयं मृगेन्द्रः । यदा शास्त्रमेकं तदा योगमेव यदा देव एकस्तदा नाथ एव ॥ अस्मिन् मार्गे अद्वैतोपरिवर्ती नाथो देवता, प्राप्या निराकारज्योति थो ध्येयः, साकारनाथ उपास्योऽथ च आदिगुरुः, साधनं योगः । अत्याश्रमी योगी गुरुः, मुमुक्षु: साधकः अवधूतगुरोर्मुख्यं चिह्ननादो मुद्रा भस्म- शैली ऊर्णायज्ञोपवीतमित्यादि । शक्तिर्जगत्कीं। शिवः पालकः। कालः संहारकः । नाथो मुक्तिदायकः। प्रणवो वेदः । नादः सन्तानं । नव नाथाः। बिन्दुः सन्तान- मीश्वरः । मनः शरीरं । जीवो अनुभवः । चत्वारो गुरवः -- मत्स्येन्द्र ईश्वरश्चतुरङ्गी गोरक्ष इति स्वरूपाः। अपक्षवास्तविकपक्षमङ्गीकृत्येतरकल्पितपरपक्षपाखण्ड- खण्डनमित्यादिविषयः परमहंस इति परमहंसं वदन्ति । तत्किम् , उत्कृष्टहंसोऽस्ति यतो निकृष्टहंसत्वं तु परमात्मा। उत्कृष्टहंसत्वं तु परमहंसस्य कुत आगतं यदा ब्रह्म- स्वरूपत्वं प्राप्तः। ब्रह्मस्वरूपत्वं च कुतः प्राप्तो यदि मायागुणरचितप्रारब्धकर्माणि मन्यते, एवं चायं तु निकृष्टहंस एव जीवोऽस्ति, ततश्चैतस्य हंसत्वं मरालत्वं कुतः किन्तु काकत्वमेव । यदि काकत्वं तययमेकाक्षो जातः। एकाक्षः को य एकेनैव चक्षुषा पश्यति । यद्ययं वर्ण तदा मायामेव मायादृशाऽपश्यत् यदा चाश्रमी जातस्तदाह्य- द्वैतदृशैव पश्यन् वर्त्तते । इयमप्येकैव दृष्टिस्तया पश्यति । यतो महासिद्धैर्निश्चयः कृतोऽयं काकतुल्यो यदेवमेकाक्षः कर्तव्यः । सत्यं प्रपञ्चं कुर्वन्तो ब्रह्मणश्छादनं तथा । केचिद्रजोदृशः विषयासक्तमानसाः।। मिथ्यामिथ्येति कुर्वन्तः केचिन्मायाविमोहिताः । लयं सर्वस्य कुर्वन्त आगता विश्वनाशकाः॥ देदीप्यमानस्तत्त्वस्य कर्ता साक्षात्स्वयं शिवः । संरक्षन्तो विश्वमेव धीराः सिद्धमताश्रयाः ।। तत्त्वं रक्षन्ति चाद्वैते द्वैते रक्षन्ति संसृतिम् । एकीभावे ततो भिन्नं द्वैताद्वैतविवर्जितम् ॥ मिथ्या वदन्ति यतयः सत्यं चापि विरागिणः । सिद्धानामेव सिद्धान्तः सत्यमिथ्याविवर्जितः ॥ १. बद्धाचार-१० सं० । २. पश्येत्-पू० सं० । प्राप्ता गोरक्षसिद्धान्तसङ्ग्रहः ४७ वृथा। नियते चत्कथं सत्यं वर्तते चेत्कथं वृथा । मृतिजीवनहीनं यत्कथं सत्यं कथं वृथा ॥ एककाले भवेत्सत्यमेककाले तथा कालभेदाद् वृथा सत्यं नसत्यं न वृथा पृथक् ।। मनोवागतीतो मनोवाङमयश्च नाथः १। नाथः २। शक्तिः ३। कर्ता ४ । अकर्ता ५। एतत्पञ्चकमिति, क्रमेणैतत्पञ्चकं स्तौति-- अवाच्यमुच्येत कथं पदं तदचिन्त्यमप्यस्ति कथं विचन्तयेत् । अतो यदस्त्येव तदस्ति तस्मै नमोऽस्त कस्मै वत नाथतेजसे ।। अकर्तृतत्कर्तृ च तत्परं पदं वदन्ति योगामृततृप्तचेतसः । अकर्त्तता कर्तृतया निरूप्यते न वास्तवी वस्तुनि तद्वयी कुतः ।। अवाच्यरूपा सदसद्विलक्षणा विचक्षणा सा कृतलक्षणापि सा । नमामि तां शक्तिमकर्तृतामयी स्वतः करोत्येव च कर्तृतामयीम् ।। निजेच्छया काण्डसमुद्भवाप्ययाऽमानयानु दर्शितकर्तृतं शिवम् । नमाम्यभित्तावपि चित्रितं जगद्विचित्रमेतत्त्वनपेक्ष चेतरम् ।। ममेदमस्याहमहं मदक्रियः सदैव कर्तेत्यभिसंधिपूरितम् । करोत्यकर्तारमुदारलीलया य उच्यते नाथ इति श्रियेऽस्तु नः ।। प्रसङ्गजं कर्त्त पदं विहाय यः फणीव निर्मोकमना पदास्थितम् । नमाम्यकर्त्तारमकर्तृतामयं यदस्तिसोऽस्मीत्यगुणः स्वयं स्थितः ॥ यस्य साक्षादनुभवः शास्त्रज्ञानेन तस्य किम् । चेष्टा स्वभावजास्त्रीणां कविभिर्वर्ण्यते श्रमैः ।। जातमात्रं पिबेद्वत्सो बालको वाप्यपाठितः। यथा मातुःस्तनं पक्षी न तथा पाठितोऽपिसन् ॥ पिबन्तोऽप्यमृतं नित्यममरा नामरा इह । सिद्धावधूता अमरा गृहन्तो विषया विषम् ।। ज्ञानेन छिद्यमानं तु कर्माकुरमुपाददे । तदेव योगच्छिन्नं तु यान्ति निर्मूलतां द्रुतम् ।। संचितं क्रियमाणश्च कर्म नश्यति तन्मते। प्रारब्धं न पुनस्तत्र प्रमाणं श्रुतिरुच्यते ॥ भूतकालोद्भवं कर्म भाट्टाः २ सत्यं कुर्वते । कालत्रितय कर्म त्यजत्यत्याश्रमी द्रुतम् ॥ पत्रं पुष्पं फलं शाखा छिद्यतेऽपि पुनः पुनः । न यावच्छिद्यते मूलं ताववृक्षः प्ररोहति ॥ १. महाक्रियः-पा० । २. भट्टाः-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः पुनः पुन तो वारा सूक्ष्मछिद्रेण संयुतः । कलशो रिक्तता याति विफलः श्रम एव सः ।। यान्त गङ्गां गयां यान्तु नमन्त्वश्ममयान् सुरान् । कायालये विभात्यको जगदात्मा स विस्मृतः ॥ संन्यासिनो विजानन्तु कथयन्तु च पण्डिताः । अवधूताः क्रियासिद्धास्तत्त्वरूपा निरञ्जनाः ।। योगदेहं सृजत्येतं कालभीत्या त्ववत्ययम् । हन्ति वैषयिकं देहं तन्नाथः को हरीश्वरः ॥ सृजत्यब्जो हरिः पाति हरः संहरते जगत् । तेभ्योऽन्यो मुक्तिदस्तत्र संकेतः सिद्धयोगिनाम् ।। चतुर्भिः पथिभिर्यान्ति चत्वारो ज्योतिरालये । योगिनो वैदिका लोकास्तान्त्रिका व्यवहारिणः।। योगिनो योगयज्ञेन केवलं ज्योतिरुत्तमम् । इष्ट्वा यानीष्टमार्गेण द्रुतं तत्खेचरा इव ॥ स्ववर्णाश्रमधर्मेण वैदिका समुपास्य तत् । निवृत्तिपरमा यान्ति तद्भूमाविव मानुषाः ॥ तान्त्रिकाः शुद्धविपणिं विषयान्परिहाय तत् । दुर्गमेन पथा यान्ति जरा इव जने जनाः। संसारिणस्तु संसारप्रलये प्रामवन्ति तत् । कृतयात्रमिवाधीशं सर्वे लोका निरर्गलाः ।। न कुर्याद् बुद्धिमान् प्रीतिं वृथा वस्तुनि फल्गुनि । मृगतृष्णामयं मायाजालं किं मन्यते यतः ॥ मोक्षशास्त्रकृतो नैव दृष्टा मुनिजना नृपाः । नीतिशास्त्रकृतः कान्ताः शृङ्गारग्रन्थकारिकाः ।। मूळे मोक्षस्यावधूतो नीतिमूलं नराधिपः । कान्ता शृङ्गारमूलं यद्वाचारम्भणमस्ति नः ॥ एवं ते त्रयोऽपि क्रियायामेव प्रसन्ना क्रियायुक्तेति कथनेनापि प्रसन्नाः, परन्तु न तु क्रियारहितकथनेत प्रसन्नास्त्रयेण त्रयोऽपि पुरुषाः स्वसङ्गवजितास्त. द्यथा अवधूत इति, विनानुभवेन शास्त्रारम्भकाः पुरुषा इति, राजनीतिकर्तव्यता- हीना भृत्या इति, स्त्रीजन इति, पुरुषार्थहीनाः पुरुषा इति, तानस्त्रींस्त्रयो हसन्ति, कथं एकेन केनापि पुरुषेण मन्दकामेन कस्यापि वैदचस्य गृहगत्वा तं प्रति स्वचेष्टोक्ता, तदा वैद्येनोक्तं यत्नं करिष्यामि इति । तस्य वैद्यस्य वधूः पार्श्ववर्तिनी सहासा जाता तस्या गोरक्षसिद्धान्तसङ्ग्रहः अभिप्रायोऽयम्-अयं मम भर्त्ता वैद्यः स्वयमपि नपुंसकोऽन्यस्य कामोदययत्नं कथं करिष्यतीति, स्वयमसमर्थोऽन्यसामोपायं करिष्यतीति प्रतारणमात्रमिति । ब्रह्माभूतो मुनिासो मिथ्यामायोपदेशतः ।। कृतानेकपुराणोऽभूत्तस्यै माये नमोस्तु ते॥ वशिष्ठादिमुनिव्रातस्त्यागस्यौवोपदेशकृत् ॥ स्वयमङ्गीकृतस्त्रीकस्तस्मै भोगाय ते नमः ॥ दासाः प्रेमातुरा भक्तिं पुरुषार्थे वदन्त्यहो । सशरीरे गते चित्ते भक्तिः प्रेम्णा समं गताः॥ योगः स्मार्तो वैष्णवश्च धर्मा भूपास्त्रयस्त्विमे ।। कर्मारिभ्यस्त्रिधाऽवन्ति स्वात्मदेशं त सुस्थितम् ।। वैष्णवो नृपतिर्धर्मः सत्यं प्रारब्धमात्मगम् ।। कर्मद्विषः समाश्रित्य पाति स्वं देशमात्मना । स्मार्तस्त नृपतिर्धर्मः सत्यं प्रारब्धमात्मगम् ।। कर्मारिभ्यो बलिं दत्त्वा पाति स्वं देशमात्मना ॥ योगधर्मो नृपः सर्वान् जित्वा कर्मद्विषो बली ॥ मनश्च किंकरं कृत्वा पाति स्वं देशमात्मना । एतद्ग्रन्थे बहुशास्त्राणां प्रामाण्यं दीयते तत्तु अस्मदीयार्थ वा एतन्मार्गस्य पाणां श्रद्धार्थ दीयत इति नास्ति । अस्मिन्नर्थे तु योगशास्त्रस्यैव प्रामाण्यमेतच्छास्त्र- ज्ञानेन पूर्णम् , परन्त वादिनां हिताय भो अन्यग्रन्थान्तरेऽपि भवदीय नानामता- न्तरेऽपि चायमेव मार्गः श्रेष्ठः सर्वस्य लक्ष्योऽवधूत एवेति हेतुर्न तु सिद्धान्तार्थः । अस्माकं त्वन्यप्रमाण उपेक्षेति ज्ञेयम् । अवधूतशिष्यं विनेतरसंप्रदायकशिष्या मुग्धा वर्तन्ते । अवधूतसंप्रदायस्येयं रीतिः षट्त्रिंशल्लक्षणसंपन्नो गुरुभत्रिशल्लक्षणसंपन्नः शिष्यस्ततश्चतुर्लक्षण- न्पूनः। गुरुशिष्यलक्षणं च अधिकतत्त्वो गुरुन्यूनतत्त्वः शिष्यः । एताह न्यूनत्वं तु योग्यं न तु मूर्खशिष्योऽ धिकलक्षणहीनो मोक्षभाग्भवेत् । पुराणे शौच- क्रियादिकरणपर्यन्तक्रिया उपदिशतीति तन्महासिद्धा हसन्ति । अहो बुद्धिमन्तः शिष्यास्तान् गुरुन् एतादृक्रिया अपि कथयन्ति । शिष्यस्य बुद्धेः परावधिरिति । एता- दृशशिष्यकरणे गुरूणां दोषः प्रवर्तते । अत एव महासिद्धा बहून् दीक्षितान्न कुर्वन्ति । कथं १ बहवो विवेकिनो न भवन्ति । यतः स्त्रियां भ्रष्टायां पत्युर्लज्जा, तथा शिष्ये भ्रष्टे गुरूणां लज्जा निन्दा पातकं च प्रवर्तते । अत एव बहुदीक्षिता आचार्या गुरव १. धर्मद्विषो-पू० सं०। , ७ , गोरक्षसिद्धान्तसङ्ग्रहः स्त्याज्याः, महासिद्ध एव गुरुः कर्त्तव्यः, महासिद्धरपि चतुर्लक्षणं न्यूनः शिष्यः कर्तव्यो बहवश्च शिष्या वर्जनीयाः, इति सिद्धान्तः। अथ पुरुषस्य द्वात्रिंशल्लक्षणानि लिख्यन्ते-प्रथमतो ज्ञानपरीक्षा-निरालम्बः १, निर्धमः २, निवासी ३, निःशब्दः ४ । विवेकपरीक्षा-निर्मोहः ५, निर्बन्धः ६, निःशङ्कः ७, निर्विषः ८ । विचारपरीक्षा-सर्वांगी ६, सावधानः १०, सन् ११, सारग्राही १२। निरालम्बपरीक्षा-निः प्रपञ्चः १३, निस्तरङ्गः १४, निर्द्वन्द्वः १५, निर्लेपः १६ । संतोषपरीक्षा- अयाचकः १७, अवाञ्छकः १८, अमानः १९, अस्थिरः २० । शीलपरीक्षा-शुचिः२१, संयमी २२, शान्तः २३, श्रोता २४ । सहजपरीक्षा-सुहृत् २५, शीतलः २६, सुखदः२७, स्वभावः २८ । अष्टम शून्यपरीक्षा-लयः २९, लक्ष्यं ३०, ध्यानं ३१, समाधिः ३२ । इति द्वात्रिंशल्लक्षणानि पुरुषस्य' समाप्तानि । [ पुनरपि पुरुषस्य चत्वारि लक्षणान्ये- तानि, किमपि वस्तु नास्तीत्यनवरतबोधः ३३, एतानि लक्षणानि तदितराण्यलक्षणानि तेषामुभयेषामेकीकरणं ३४, एतद्द्वयोरैक्यं यत्तत्तत्त्वमिति ३५, अतः परमप्यस्तीत्यनु- भवः ३६] । अद्वैतोपरिवर्तिनाथ उदितो यत्र ध्वनिः सन्ततो नाथो बिन्दुरुतापि शक्तिरुदिता सा चार्द्धमायात्मिका । ऊरुद्रो हरिरो विधिर्मिति स मे ध्योयोऽस्तु नित्यं महा- नोंकारोखिलशब्दबीजमबुधैरज्ञातरूपो मुदे ॥ अयमोंकारो महासिद्धानां ध्येयस्तस्य स्वरूपम्-उकारोऽत्र रुद्रस्वरूपमर्द्ध- मात्रा शक्तिस्वरूपं बिन्दु थस्वरूपमर्द्धमात्राया जातोऽकारो विष्णुस्वरूपं बिन्दोर्जातो मकारो ब्रह्मस्वरूपं ध्वनिनिराकारनाथस्वरूपं व्यापकं ध्वनिवर्णश्चोभयमपि मिलितं पूर्ण यद्वैताद्वैतविलक्षणं साकारनिराकारातीतमद्वैतोपरिवर्ति महानाथस्वरूप- मिति । किंचात्रौंकारे उकारबिन्द्वर्द्धमात्रयोर्योगादेव । बिन्दुयोगान्मकारोऽर्द्धमात्रा- योगादकार इति । तथा चौंकारे नाथशिवशक्तिरूपप्राबल्यं विष्णुब्रह्मस्वरूपयोर- प्राबल्यमत एवात्रैतद्देवतात्रयध्यानं महासिद्धैमुख्यत्वेन क्रियते, पुनर्वनिर्निराकार- नाथरूपं ध्वनिवर्णश्चोभयात्मकः पूर्णनाथस्तु सांप्रतमस्ति तथारत्येवेनि ब्रह्मविष्णु ध्यानतो नाथशिवशक्तीनां ध्यानमुत्तममुक्तं, तत्रापि नाथध्यानं बलिष्ठम् । उकारो यद्यों- कारः स्यात्तदा मात्राशक्त्येव । उकारोपि यद्योंकारःस्यात्तर्हि बिन्दुशक्त्यव, बिन्दुश्च यद्यपि वर्णस्तथापि तत्र स्वरस्याधिक्यम् , स्वरश्च वर्णापेक्षया बलवानेव । कथं तत्र ध्वनिभागस्याधिक्यात् , ध्वनिश्च नाथरूपमेवातो नाथध्यानं बलिष्ठमित्युक्तम् । तदुक्तं योगशास्त्र- १. शिष्यस्येत्यर्थः। ३. गुरोरित्यर्थः । २. [] अयमंशो नास्ति पूर्व संस्करणे ।
गोरक्षसिद्धान्तसङ्ग्रहः ५१ - ब्रह्मग्रन्थि ततो भित्त्वा विष्णुपन्थि भिनत्त्यसौ । विष्णुप्रन्थि ततो भित्त्वा रुद्रग्रन्थि भिनत्त्यसौ ॥ रुद्रग्रन्थि ततो भित्त्वा छित्त्वा मोहमयीं लताम् । उद्घाटयत्ययं वायु ब्रह्मद्वारं सुगोपितम् ॥ इति । योगसम्प्रदायं विना सर्वमते विपरीता वार्ता वर्तते । कथं ? नाथांशो नादो नादांशः प्राणः शक्त्यंशो विन्दुर्बिन्दोरंशः शरीरम् । एवं च योगसंप्रदाये शिष्यो- धिको यो नादाज्जायते', अन्यमते पुत्रोऽधिकः कथ्यते स चाधिकः कथं भवेत् । कथं वपुर्बिन्दुतो जातं, पुनः पुनर्नादांशः प्राण उक्तो बिन्द्रंशः शरीरमुक्तम् । तत्रापि प्राणाच्छरीरमुत्तिष्ठति शरीरस्याधारः प्राणो भवति । तथा च नादस्यात्मजः शिष्य एवाधिक इति । अन्यच्च कथ्यते जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः । राजपत्नी गुरोःपत्नी मित्रपत्नी तथैव च। पत्नीमाता स्वमाता च पञ्चैते मातरः स्मृताः ॥ इत्येतत्कथने प्राधान्यं पित्रोरेवायाति तत्समीचीनं न भवति । इयं तु रीतिः सांसारिकी न तु पारमार्थिको वार्ता । अतः कारणाद् गुरुरेव मुख्यो नादात्मजः शिष्य एव मुख्य इति सिद्धान्तः । किं च धर्मोऽर्थः कामो मोक्ष इति, ब्रह्मचर्य गार्हस्थ्यं वानप्रस्थं संन्यास इति, शृङ्गारोहास्यं करुणारौद्रो वीरो वीभत्सो-भयानकोऽद्भुतं शान्त इति, पृथ्वी-आपस्तेजोवायुराकाश इति, ब्रह्माविष्णुरुद्रादिश्च । एतत्प्रक्रिया- यामनुक्रमो नास्ति किंतु व्यतिक्रमो वर्तते । कित्वनुक्रमस्त्वेवंरीत्या-मोक्षो धर्मोऽर्थः कामः, संन्यासो ब्रह्मचर्य वानप्रस्थं गार्हस्थ्यम् , शान्तकरुणाद्भुतं वीरो रौद्रो हास्यं भयानको वीभत्सः शृङ्गारः, आकाशो वायुस्तेजो जलं पृथ्वीति । कथं ? आकाशा- जायते वायुयोस्तेजस्तेजसो जलं जलात् एथ्वी । पुनः शिवाभैरवो, भैरवाच्छ्रीकण्ठः, श्रीकण्ठात् सदाशिवः, सदाशिवादीश्वर ईश्वराद्वद्रो रुद्राद्विष्णुर्विष्णो- ब्रह्मा इतीयं योगसंप्रदायरीतिः सैव तान्त्रिकी। परंतु शिवभैरवश्रीकण्ठेति देवत्रयक्रमः सूत्रे न गृहीतः। पञ्चैव देवताः सदाशिवायो गृहीतास्त- त्रापि पौराणिके वैदिके देवतात्रयमेव गृहीतम् , तत्कथ्यते-ब्रह्मा विष्णू रुद्र इति पुराणप्रक्रिया। ब्रह्मा विष्णू रुद्र ईश्वरः सदाशिव एषा तान्त्रिकी प्रक्रिया । अवधूतैः कथ्यते-एषा प्रक्रिया कुत आगता ? सर्वा योगादेवागता । यतः सर्वस्य कारणं योग एव प्रवर्तते । यतोऽवधूताद्भिक्षुको जातो, भिक्षुकाद् ब्रह्मचारी, ब्रह्मचारिणो गृहस्थो १. नादांशो ज्ञायते--पू० सं० ।
, ५२ गोरक्षसिद्धान्तसङ्ग्रहः जातः। कथं ? एकैकगुणलक्षणहीनो ह्रासक्रमेण संभूतं सन्तानमेवेति मन्यते । प्रथमतो गौणमुख्यप्रक्रिया कथिता । तत्र काचिदुत्पत्तिक्रमतो मुख्या गौणी वा ज्ञेया, काचिच्च फलवृक्षरीत्या मुख्या गौणी वेति ज्ञेयम् । एकदा श्रीमहासिद्धविचारनाथेन भर्तृहरिनृपेण व्याकरणशास्त्रोपरि लक्ष- संख्याकाः कारिकाः कृताः । नागेशेन ताः श्रुताः, तदा प्रसन्नो भूत्वा ब्रह्माण्डे विहरन् समागतो यस्तत्र स्थितो महावधूत आगत्य चादेशादि व्यवहारकर णानन्तरं तेनोक्तम्-हे स्वामिन्नहं तुष्टोस्मि यतः कांचिद्याचनां कुरु, तदा महासिद्धेनोक्तं तव मिलने सुखं जातमन्यत्तु नास्त्यपेक्ष्यं कृतकृत्य एवास्मि, पुनः पुनस्तेन शेपेणोक्तं याचनीयमेवेति । तदा भर्तृहरिणोक्तं किं याचे यदेश्वर्यच्छा भवेत्तत्त महाराज्यं त्यक्त्वावधूतो जातः। पुनर्मोक्षस्य यदि वान्छा भवेत् , सा तु अवधूतभाव सिद्ध्यत्येव संशयो नास्तीति । तदा शेषोऽसन्तुष्टो भूत्वा ममापमानः कृतो यतः शापं दद्मि, भवदीयकारिकाः प्रसिद्धा न भविष्यन्तीति । तदावधूतेनाप्युक्तं त्वदीयकृतव्याकरण- शास्त्रं कलौ वृत्त्यर्थ भविष्यति पुनर्यत्र कुत्रापि स्थले ससंशयं भविष्यति तदा मम- कारिकां विना निर्णयो न भविष्यतीति । एवं परस्परं शापो जातस्तेनाधुनिकसमये व्याकरणादिसाधनशास्त्रं परमार्थे न्यूनं भवति चातुर्यादि प्रकारं प्रायशो भवतीति । आचार आचार इति वदन्ति । य आचारोऽत्याचारः सन् कथं निर्वहति ? भोजने यद्धृतं तत्तु चर्मपात्रेणैवायाति, गमने यत्पादत्राणं तदपि चर्मजमेव स्पृश्यते, शयने स्त्रीसंगो भवति तस्य कथैव का। प्रातःकाले यद्यपि शुद्धयर्थं स्नानं क्रियते तथापि चतुर्पु प्रहरेषु करादिकस्य मुखादिस्पर्शनं स्वभावत एव सर्वदा जायते । किं च सूर्यादिग्रहणे मृत्तिकापात्राणि जलं चाशुचित्वेन त्यज्यते न त धान्यघृतादिकं वस्तु । तदा एवं ज्ञायते जलाशये जलं बहु लभ्यते कुलालानां गृहेषु मृत्पात्राणि चाल्प व्ययेन लभ्यन्ते, तेन तदशुचित्वं कथं न क्रियते । घृतधान्यादिनिवारणे तु बहुद्रव्य व्ययो भवेदित्याद्यनेकप्रकारकं किं किं लिख्यते । तस्मादाचारवस्त कल्पितमेव तद् बुद्धिमन्तो जना न किंचिदपि वस्त जानन्ति । विचार एव मुख्य इति सिद्धान्तः। तत्र चैवं न ज्ञेयमत्र सिद्धान्त आचारो नास्तीति । कथं ? आचारोऽस्माकं मरे वर्त्तते, स च विचारपूर्वक इति । अन्य आचारं कुर्वन्ति तादृशस्त क्रियत एव । नास्ति यथायोग्यास्तु क्रियाते च स चापि गौणं मत्वा क्रियाते मुख्यास्तु तत्त्वविचार इति कृत्वायमपि ब्यावहारः सर्वथा त्याज्यो नास्तीति । आचारविधिः- प्रातरुत्थाय गुरुस्मरणं कृत्वा अकालं स्मृत्वा शौचादिक्रियां दन्तधावनं स्नान च कृत्वा नाथालये गत्वा पूजा कर्त्तव्या, पूजानन्तरं भोजनं कर्तव्यं, सायंकाले र १. मन्ये-पू० सं० । २. च देशादि-पू० सं० । ।
गोरक्षसिद्धान्तसङ्ग्रहः ५३ हस्तादिकं प्रक्षाल्य सायंकालोचितरीत्या पूजा कर्तव्या । शौचं चैकादशवारं मृत्तिका- जलेन हस्तप्रक्षालनं, स्नानं चैककुम्भजलेन द्विकुम्भजलेन वा, एष आचार इतर- स्त्वत्याचारो निषेध एव । किमर्थ वृथाकार्ये गौणकार्ये समयनयनं क्रियते, तेन च मुख्यकार्यानवसरो भवेत् , खेदेन च प्राणहरणं भवेत् । प्राणरक्षां विना मनः स्थिरं न भवेत् , मनःस्थैर्घ्य विना कदापि काले मोक्षो न भवेत् । अतः कारणान्महासिद्धा योग एव तिष्ठन्ति, नत्ववास्तविके भ्रमन्तीति । यदा प्रारब्धं कर्म मन्यत एव तदा शङ्करस्य मण्डनमिश्रेण जाते विवादे शङ्करेण यत्नः किमर्थं कृतः। प्रारब्धकर्मणा किमपि भविष्यति तत्तु विनापि यत्नेन भविष्यतीति । पुनः न भविष्यति तदापि किम् ? ये तु प्रारब्धभोगोऽवश्य इति सिद्धान्तिनस्तेषां न भवनेनापि किं यत्प्रारब्धं तत्सिद्धान्तः श्रद्धयैव निश्चिततया ग्रहणीयः। किमर्थ यत्ने प्रयासः, परन्तु यत्र स्थले प्रारब्धस्याङ्गीकाराद्रुतमेव परा- जयो भवेत्तदा योगशक्तिमेव गृहीत्वा राज्ञः शरीरे जीवप्रवेशकरणादिकृतमित्यादि बहुधा प्रसिद्धमेव यतो योगाश्रयेणैव विजयो जातः । पुनः न्यासिनो मते शृङ्गारो वर्जित इति यत्तत्सत्यं कथं जातं शरीरमन्यस्य परन्तु जीवस्तु स्वयमेव ततोऽपि योगिनां सिद्धान्त एव निश्चलो भवतीति । तदुक्तं सिद्धसिद्धान्तपद्धतौ- 'क्वचिद्भोगी कचित्यागी' इति । नाथसूत्रे- आचारे ब्रह्म विचारे योगीति । ब्राह्मण आगत्याचारं प्रवर्तितवान् । योगी चागत्य विचारं प्रवर्तितवान् । यावद् ब्राह्मण आचाराद्विचारं प्राप्तस्तावद्योगी ब्रह्म- प्राप्त इति । अन्ये सांप्रदायिका आचार्या अधिकारिभेदेन सर्वस्यापि समाधान कुर्वन्ति, तत्त महासिद्धानां मते सर्वथा बाधकमेव । कथं ? अधिकारिभेदेन सर्वस्य धर्म इति कथयिष्यन्ति, तदा यवनादीनामन्त्यजानामपि तु तेषां धर्म एवेति । तथा चानर्थ एव स्याद्यतो धर्मस्तु मुमुक्षुपुरुषाणामेवान्येषां सर्वेषामधर्म एव । मुमुक्षवश्च योगाधिकारिण एव । योगभोगौ द्वौ पदार्थों, तत्र मुक्तये योगाधिकारी अन्ये वर्णाश्रमिवैष्णवबौद्धा इत्यादयः सर्वे व्यवहारिणः एवेति । कुत्रचित्स्थले केऽपि जनाः स्थितास्तेषु केनचित् पापस्य वार्ता उक्ता सा वार्ता द्वितीयनाभिनन्दिता तदा तत्पापमुक्तं कृतं तु प्रथमेणैव परन्त्वभिनन्दकत्वात्फल- भागी त द्वितीयो जात एव किं किं वा नेति । तत्त्वितरशास्त्रेऽपि “उपदेष्टानुमन्ता च साक्षात्काभिनन्दिता। .. चत्वारः फलभागिनः” इति लिखितमेव । तथाचैक उपदे- ष्टाऽपरः कर्ता एवं रीत्या चाधिकारिभेदेन समाधानमसमीचीनमिति प्रतिभाति । कृतयुगे केवलं प्रणवगायत्री योगानुसारिसाधनेन जीवो मक्तिं प्राप्तः पश्चाद- न्ययुगे सर्वेऽपि यद्येतद्धर्म वहेयुस्तदा मुक्ता एव स्युस्ताहि कथं संसारप्रवृत्तिर्भवेदिति नाथेच्छया ब्रह्मणा वेदादिशास्त्राणि प्रकटितानि । तेन स्वस्वरूपात्परावृत्तिः कृता गोरक्षसिद्धान्तसङ्ग्रहः - येन च प्रणवयोगेन स्वरूपानुभवः प्रकटितः सोऽप्रकटः कृतः। अध्यारोपापवादादि- प्रकारेण यदमायिकवस्तु तत्र मिथ्याकल्पना बहुविधानेन कृता, मिथ्यवाश्वो मिथ्र्यवा- श्ववारो मिथ्यैव धावनमिति किं जलप्यते । पङ्के हस्तनिमज्जनकरणानन्तरं पुनः प्रक्षा- ल्यते ततस्तु प्रथमं तत्र हस्तनिमज्जनमेव किमर्थमिति योगिनां सिद्धान्तो विस्मृत एव । एकदेवस्तुतावन्यदेवनिन्दा एकनिन्दायां चान्यदेवस्तुतिरित्यनया रीत्या धर्मोऽपि प्रवर्तितः। स चान्योन्यविरुद्धस्तेन सर्वे जीवा भ्रमन्तः सन्तो बन्धकारका भवन्ति । तदुक्तं नाथसूत्रे-ब्राह्मणे वेदाः प्रवृत्ताः, न्यासिनि तीर्थानि प्रवृत्तानि न कोऽपि निर्वाणभावं प्राप्त इति । कथं सूक्ष्मप्राप्त्यर्थ तु एकाक्षरः प्रणवः सूक्ष्मवेद एव कृतः । पुनः सूक्ष्मैवाक्षरद्वयात्मिका गायत्री कृता। पुनः साकारः सन्नपि साकार- स्वाभिमानराहित्येन निराकारतुल्यमेव सूक्ष्म नाथरूपं कृतवान् । तेनोपदेशः सूक्ष्म एव योगाभ्यासयोगः कृतः । तदुद्धारकः सूक्ष्म एवावधूतः कृतः। अथ मायाशबल- स्थूलब्रह्मप्राप्त्यर्थमेकाक्षरावेदादनेकाक्षराः स्थूला वेदाः कृताः। अक्षरद्वयात्मिकागा- यत्र्याश्चतुर्विंशत्यक्षरा गायत्री कृता । योगात् स्मृतिपुराणादीन्यनेकशास्त्राणि कृतानि, तदुद्धारका ब्राह्मणाः परमहंसादय इतर संसारिणोऽपि कृताः । नाथसूत्रो- एकवारं वचनं लुप्यते तेन युगे युगे लुप्यत इतिहेतोगुरुवचनं कदापि काले न लोपनीयं कर्तव्यमेव, ये पुरुषा अभ्यासहीना अभिमानेन सभायां यस्य कस्यापि देवस्य धर्मस्य वा पक्षं गृहन्ति । स पक्षः स्वार्थे त्यज्यते, तादृशः कथं मोक्षभाग्भवेत्। तादृशाश्च सद्गुरुभिरपि कथमङ्गोकरिष्यन्ते तेषामिष्टदेवोऽपि चाप्रसन्नो भवेत्, केनचित्कथ्यतेऽहं स्मार्तोऽहं वैष्णवोऽहं यः कश्चिद् । यदा मया कथ्यते त्वं स्मार्तोऽसि तर्हि स्मृत्युक्ताचरणं सर्वमपि त्वयि वर्तते ? तदा स कथयति सर्वाचरणं तु नास्ति, यदा मया कथ्यते स्मार्वोऽहमिति कथनमेवाचरणं तु नास्ति यतस्तद्धर्माना- चरणेन प्रत्यवायो न स्यात् पुनः मिथ्यादोषश्च न स्यात् तदा स कथयति अहं स्मार्तो नास्मि । यदा पुनर्मया कथ्यते स्मातकुलोत्पन्नः स्मार्तधर्मा न भवेत्तहि धर्म- विरुद्धत्वमापतेदिति । तदा स कथयति यत्प्रारब्धं तत्तादृशोऽहम् । यदा मया कथ्यते प्रारब्धे श्रद्धास्थैर्यमागृह्णाति । कथं ? प्राणिनां यत्प्रारब्धं तथैव भवेत् , परन्तु प्रथम- कथने तत्र धैर्य नायाति, कस्यापि प्रारब्धं कूपे पतनं भविष्यतीतिरूपं, स चाज्ञतया पततु नाम परन्तु यदा ज्ञायते तदा तु तस्य निवृत्तेरिवोपायं करिष्यतीति। तेन हेतुना त्वदुक्तं यादृक् प्रारब्धं तादृशोऽहमस्मीति यत्तन्न भवत्येव । तदा स पुनः कथयति- यद्गुरुराज्ञापयति तत्करोमीति, यदा मया कश्यते गुरुरुत्तमाधिकारी त्वं तु मन्दा- धिकारी, गुरुवाक्ये तव विश्वासः स्यादिति तदा तेन नोक्तमितिरीत्या बहुधालापे किमपि चिह्नं वर्णरूपमाश्रमरूपं वा स्त्रीरूपं पुंरूपं वा नयतेऽव्यक्तलिङ्गत्वमत्या- १. 'सूक्ष्म' इति नास्ति-पू० सं० । २. स्थूलवेदा-पू ० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ७ श्रमित्वमेव स्थीयते, यतः किमर्थमसत्ये वस्तुनि कल्पना क्रियते महासत्यस्वरूपमेक- मवधूतत्वमेव गृह्णीयादिति । पुनरपि सर्वाचरणं नास्ति तदा स्मार्तोऽहमिति कथं कथ्यते, तदा स कथयति कश्चन स्मार्तो धर्मो मयि वर्तते, तदा मया कथ्यते कश्चन स्मार्तो धर्मस्तहि कश्चनान्यः कस्य धर्मस्तदा स कथयति-कश्चन मनोनुकूल एव धर्मस्तदा मया कथ्यते तव मनोनुकूलो भवतु नाम धर्मः परन्तु कस्यापि तु धर्म एव स भविष्यति, तथा च धर्मसंकरोसीति । तदा स कथयति नाहं स्मातः । तदा मया कथ्यते स्मातकुलोत्पन्नत्वेन च यदि स्मार्तो न भविष्यति तहि समस्तमेव धर्म भ्रष्टं भविष्यतीति, स कथयति तात्पर्यमिदमिदं कर्म ईदृशं वर्त्तते यत्तद्वजमिति, तदा- तत्करणं विना किं भवेत् । केवलज्ञानेन कथं सिद्धिः। ज्ञानमपि कमैव वर्त्तते अन्तःकरणस्य धर्मत्वात्तत्रापि करणं वर्तते एवेति । द्वैतवादिनः कथयन्ति-अस्माभिः किं प्रेरकं प्रति कथ्यते द्वैतमिति नास्तीति, सत्यद्वैत एव परन्तु द्वैतं शरीरं, यतः शरीर-शरीरिभावेन सोऽपि द्वैत एवास्ति, इति कथ्यते । अद्वैतवादिनश्च किं कथयन्ति-अद्वैतमेवास्ति यच्छरीरं द्वैतं दृश्यते तत्त मिथ्यैवेति । महासिद्धाः कथयन्ति-चैतन्यं जडञ्च शरीरादि उभयमपि मिलित्वा एकमेव पूर्ण वस्तु, यतः परमाद्वैतं यत्किमपि नाथतेजस्तच्चक्रवर्ति सर्वोपरि वर्तते । केचित्कथयन्ति-ज्ञानिनो ज्ञानं निरपेक्षमेव कर्मणोऽपेक्षा पूर्वकालेऽपि न करोति तत्तु नास्त्येव ! भवदीयमतानि सर्वाण्यपि शास्त्राण्यूर्द्धबाहुतयैवमेव वदन्ति-कर्मणा चित्तशुद्धिः स्यादनन्तरं तत्त्यागस्त्यागाच्च ज्ञानप्राप्तिर्ज्ञानान्मुक्तिरियं घण्टाघोष- वद्विद्यत इति । गृहकर्म समासक्तमहं ब्रह्मेति वादिनम् । कर्म-ब्रह्मोभयभ्रष्टं तं त्यज्येदन्त्यजं यथा इति ॥ तदा कर्मनिरपेक्षं ज्ञानं कथं जातम् । सहस्रावधिस्थले त्वेवमेव कथितम् यदेकेन शाकरभाष्ये एकस्मिन् स्थले लिखनेन कथमप्रमाणं भविष्यतीति । वेदा गृहस्थधर्म वर्णयन्ति तस्य रीतिर्मया कथ्यते । गार्हस्थ्यं विना स्त्रियं तु प्रवर्तत एव नहि, स्त्रीमूलकत्वादेव गार्हस्थ्यस्येति । पुनः कथ्यते मासे मासे रात्रित्रयमार्तवं तत्र सन्तानार्थ- मृतदानं देयमन्यच्च सुखाय विषयसंभोगो न सेव्य इत्यपि तेषामुपदेश इति । यद्येवं तर्हि प्रथमं गृहे वासकरणं तत्राहारादिसेवनं तेन च शरीरे पुष्टिस्तत्क्रमेण शरीरे कामोद्रेकाभवनं नास्ति कदाचित्स्वशरीरं वशे क्रियते। तथापि तावत् स्त्रियाश्चित्तं त विनाकामोपभोगं क्षणमपि न तुष्टं भवेत् । कथं तासां काम एवेष्टस्ततश्च तस्याः पोषणं विना तच्चित्ते व्यभिचार एव वसति । तेन पापेन सर्व नष्टमेव भवेत् , लोके चोपहासो भवेत् । अतः कारणात् महासिद्धा गार्हस्थ्यं न कुर्वन्ति । सिद्धानामिष्टो नाथः, सोपि स्त्रियं नाङ्गीचकार । सर्वे ब्रह्मविष्णुरुद्रादयो देवाः शेषादयो नागा १. सर्ववर्ण-पू० सं०। ।
२ गोरक्षसिद्धान्तसङ्ग्रहः मन्वादयो नरा अन्ये च पशुपक्षिणो यावज्जीवं सर्वे स्त्रीजिताः, एको नाथ एव माया- जेता । तदुक्तं महासिद्धश्रीविचारनाथेन भर्तृहरिणा- शंभुस्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः॥ वाचामगोरचरित्रपवित्रिताय तस्मै नमो भगवते मकरध्वजाय ।। (शृङ्गार शतक १) अतः कारणाद् यदा गार्हस्थ्यं कृतं तदा स्त्रीपोषणमवश्यमेव कर्तव्यं यदा च विरागेच्छा तदात्ववधूतेनैव भाव्यमिति। परमहंसास्तु कामं निषेधयन्ति स निषेधो न भवत्येवं कथम् ? ? तदुक्तं श्री मीननाथेन हरकोपानलेनैव भस्मीभूतः कृतः स्मरः। अर्धगौरीशरीरो हि तेन तस्मै नमोस्तु ते ॥ अतो महासिद्धा विषयरीत्या त त्यागमेव कुर्वन्ति । पुनः प्रकृतिरपि ब्रह्मेव वर्त्तते शिवशक्त्योरस्माकं मते ऐक्यमेव वर्तते । तदुक्त-सिद्धसिद्धान्तपद्धतौ- शिवस्याभ्यन्तरे शक्तिः शक्तरभ्यन्तरे शिवः ॥ अन्तरं नैव जानीयाच्चन्द्रचन्द्रिकयोरिव ॥ (सि० ४।२६) प्रसरं भाषयेच्छक्तिः संकोचं भासयेच्छिवः ।। तयोर्योगस्य कर्ता यः स भवेत्सिद्धयोगिराट् ॥ (सि० ६६३) एवं त ऐक्यं ज्ञात्वा काममपि भजन्त्येव । अत एवोक्तम्- 'कचिद्भोगी कचित्यागी' इत्यादि । त्यागिनामपेक्षया त्याग एव एतादृश एतैः क्रियते, यादृशरत्यागिनामपि न भवेत् । कथं ? कर्मराहित्योपरि त त्यागो नास्ति तदैतैः प्रारब्धमपि त्यज्यते । शून्ये लग्नैः प्रारब्धमपि त्यज्यते । यदा च भोगं कुर्वन्ति तदा संसारिणोऽपि यादृशं न कुर्वन्ति तादृशमेत कुर्वन्ति । कथं प्रकृतिलग्नाः एतदुभयं मिलित्वा पूर्णे लग्ना अतस्तेषां रीतिर्विलक्षणैव । भोगिभिस्तु भोग एवैकः क्रियते तेषां त्यागो न भवति ।१ [ भोगिनां त्वको भोग एव भवति न त ते त्यागे समर्थाः । ] पुनस्त्यागिनो ये भवन्ति तैः प्रथममेव त्यागः कृतोऽत एव त्यागिन इति येषां नाम तैः पुनर्भोगः कथं क्रियेत । करणे च सर्वमेव नष्टं स्यादिति । अथ चावधूतास्त्या- गिनामपि लोके त्यागस्याधिक्यं दृष्टिगोचरं कृत्वा पुनः स्वेच्छया भोगमपि कदा- चित्कुर्वन्ति तथापि तेषां भोगो बाधको न भवेत् । भोगिनो भोगमेव कुर्वन्त्येवं त्यागिनत्यागमेवेत्यवधूतानां तु त्यागभोगयोईयोरपि पदार्थयोः सामर्थ्यम् । त्यागं कया रीत्या कुर्वन्ति ? युगपर्यन्तमप्याहारादिकं न गृह्णन्त्येवं त्यागिनां न भवति । १ [] नास्ति-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ? . कथं ? ते देहेन विजिता एते त देहाधीना सन्ति यत इति दिक् । अनया रीत्या- परमार्थस्तु प्रथममेव नष्टः । कथं ? यदा स्त्री गृहीता, पश्चादयं लोको नष्टः । कदा ? यदा स्त्रीग्रहणेन गार्हस्थं जातम् , तत्र च गृहस्थरीत्या प्रवृत्तो न । एवं च द्वाब पि लोकौ नष्टौ, भोगोऽपि नास्ति मुक्तिरपि नास्ति । चञ्चलेन मनसा सर्वमपि नष्टी- कृतम् । कथं गार्हस्थ्यं त्यक्त्वा श्रमान्तरं गृह्णाति । तत्रापि पुनः श्रमेण कातरो भूत्वा दुःखेन सोदन्सन प्रारब्धाङ्गीकारात् यद्यद्यथा प्रारब्धं तत्तत्सर्वमपि कर्म करोति, तदा कर्मणः सांकुरत्वादेव कदापि काले मुक्तिभाग न भवत्येव । यथा ग्राम गईभा वने वा शूकरास्तथा विषयवशो वारं वारं जन्मादि गृह्णाति । पुनश्चञ्चलेन मनसा युक्तो हस्ती ग्रामाद्वनं गच्छति, किंचित् सुखं मे भविष्यतीति, वनात् शृगालो ग्राममागच्छति मृतकास्थ्यादिभक्षणार्थमिति निर्देशः इति । यथा राजस्त्रीगणोऽनेको स्वयन्तु राजा एक एव, स तासां समस्तानां कामवृत्तिं पूर्णां कथं कुर्यात् । स्वचित्तप्रसादेनैव यथेच्छं क्रीड़ति नाम यतस्तासां तु महत्तरं दुःखमेव स्यात् तेन दुःखजनितापध्यानेन राज्ञोऽ- कल्याणमेव भवत् । अत एवोक्तं राज्यान्ते नरक इति । तथैवैतादृश एवाचार्य एक एव शिष्यास्तु बहवः कृतास्तेषु कस्य कस्य पापं संहरेत् । पापहरणासमर्थो बहूनां शिष्याणां पापेनाचार्योऽपि दुगतिमेव प्राप्नुयात् । तदुक्तं सिद्धसिद्धान्तपद्धतौ आचार्या बहुदीक्षिता इत्यादि, ते तत्त्वतो वञ्चिता इत्यन्तम् । यदा तत्त्वतो वञ्चिता- स्तदा मुख्य नरकभाज एवेत्यर्थादागतम् । अतो हेतोर्बहुशिष्यकरणं सिद्धानां मते वर्जितम् । षट् पदार्थाः यत्र भवन्ति स भगवान् । के ते षट् पदार्थाः १ अमी-सम- प्रैश्वर्य १ धर्म २ यशः ३ श्रीः ४ ज्ञानं ५ वैराग्यम् ६, इत्येषां मध्य एकोपि रुद्र- विष्ण्वादिना भगवत्पदवाच्येषु न । प्रथमं तु समग्रमैश्वर्यं योगरूपं तदेव नास्ति, कथं ? सर्व कामवशाः स्त्रीसंगिनो यान् लोकाः योगिनो कथयन्ति तेषां स्त्रीसंग एतत्तु हास्यमेव । पुनः धर्म यत्र यत्र स्थले छलः क्रियते तदा धर्मभावः कथं ? छलस्तु नारदस्य वानरमुखकरणादिना विष्णोः प्रसिद्धमेवेति । पुनः यशस्तदपि कथं रावणवधे लोककल्याणे यशो जातं तथैव स्त्रीहरणेऽपयशोऽपि जातम् । कथं ? रावणस्य पामरस्य वधेन किं तस्य बालिवानरेण बन्धनं कृतं, सहस्रबाहुनार्जुनेन च बन्धनं कृतं, पुनः रामस्तु भगवानिति कथ्यते, जगत्कर्ता च कथ्यते, तस्य स्त्रीहरण- मेतत्तु महदयशः। पुनः श्रीः यस्य परमार्थे मुक्तिर्नास्ति ऐहिके च यशो नास्ति तस्य श्रीः कथम् | पुनः ज्ञानं यदा ज्ञानस्वरूपास्ते तदा अज्ञानकार्ये संसारकार्य किमर्थ प्रवृत्तास्ततो ज्ञानं कथम् । पुनः वैराग्यं तत्तु सर्वथैवैतत् कल्पितेष्वीश्वरेषु नैव नैबेति । कथं ? पुराणे एतेषां लौकिकया त्वेवमायास्यति तत्तु वक्तुमशक्यं दास्यां वेश्यायामा- सक्ता इत्यादि किं किं लिख्यते। तदा वैराग्यं कुत्र १ अतः कारणात् षडेव पदार्था नाथेष्वत एव तिष्ठन्ति । समग्रैश्वर्यं तु योगः, स त सहजसिद्ध एव | पुनः धर्मोऽपि स गोरक्षसिद्धान्तसङ्ग्रहः एव यो मुक्तिरूपः, एनद्वयतिरिक्तस्मृत्यादिशात्राणि यं धर्म वर्णयन्ति स त्वधर्म एव। पुनः यशोऽपि यो मुक्तरूपस्तस्यैव बन्धनरूपस्य कथं यशः। पुनः श्रीः शोभापि तस्यैव यो मुक्तो बन्धरूपस्य छविः कथं भवेत् यो लौकिकसुखदुःखे मग्नः । ज्ञानं तस्यैव ज्ञानं पुनः वैराग्यं तस्यैव वैराग्यमेवं च सर्वेषामाधारो नाथ एवातः कारणा- न्महासिद्धानां तात्पर्य नाथपरमेवेति । कोऽपि कथयति-किं नाथ एव मुक्तिरूप एते ईश्वरा मुक्ता न सन्ति ? तत्त प्रथममेवोक्तं ये स्त्रीसंयुक्ताः संसारकार्ये चासक्तास्ते कथं मुक्तरूपा इत्यत एवाग्रे एतेषां मुक्तिबन्धरूपत्वं कथयिष्यते। भगवच्छब्द- निर्णयोऽपि करिष्यते। अस्माकं मते शक्तिः सृष्टिं करोति, शिबः पालनं करोति, कालः संहरति, नाथो मुक्तिं ददाति । ब्रह्मविष्ण्वोस्तु शिवशक्ति कालानामवान्तरभेदेन कर्तृत्वादि- शक्तिर्न तु स्वसत्तया। यदा शिवादयः संसारप्रवर्तका जातास्तदा बन्धरूपा एव भूताः । कथं? जीवरूपेण बन्ध ईश्वररूपेणापि बन्धनं ददाति' भेदोऽतएव जीवात्मा परमात्मेति, परन्तु शुद्ध आत्मा नास्ति, स तु शुद्ध आत्मा नाथ एव । एते संसारमज्ञानं प्रवर्त्तयन्ति । नाथस्त्वज्ञानं निवर्तयति । नाथरूपेण सृष्टि- करण उपेक्षा। आचार्याणां तु खण्डेषु पाण्डित्यं वर्तते पूर्णो धर्मो नास्ति । संसार- प्रवृत्तिकरणरूपं वस्तु चैकं पूर्णो धर्मो न तु मोक्षधर्मो यथा राज्ञामेकं स्वार्थसम्पा- दकत्वमेव पूर्ण नत्वन्ये धर्माः । धर्माश्च ते के इति ? यज्ञो वैराग्यं तपस्तीर्थ व्रतं त्यागी ज्ञानं योग इत्यादयः, शौर्यमौदार्य पुण्यं यशोभिलाषः शस्त्रधारणमित्यादयः। ब्रह्मचर्य गृहीतं पुनर्गार्हस्थ्यं करोति पुनर्गाहस्थ्यं किंचित्संसेब्य त्यागं करोत्यत एतदन्तरे यद्धर्मरहितत्वेन कालो जातस्तत्र धर्मो न्यून एव जायते तथायुपदिशति । द्वैतवादिनः क्रियावद्ब्रह्मेति२ कथयन्ति, अद्वैतवादिनो निष्क्रियं तदिति कथयन्ति तत्तु द्वयमपि निरन्तरं न भवति चाक्षरं न भवति [निश्चलं न भवति । कथं सर्वदा क्रियैव न भवति सर्वदा ह्यक्रियैव चन भवति, यूयं वयं चापि गृहेषु प्रातःकालादौ स्नानभोजनादिक्रियां कुर्मो मध्याह्नादावक्रियावसरे स्वस्वचित्तेऽक्रियतयैव स्थीयते, पुनः कार्यावसरे क्रियाकरणमेव भवेत् । तथैवेश्वरोऽपि । क्रियाक्रिये द्वेऽपि शक्ती तत्स्थ एव । निरन्तरं निश्चलमक्षरं भवति न तु एकदिशा ब्रह्म पूर्ण भवति । तदुक्त- मवधूतगीतायाम्- "अखण्डं यत्स्वाज्ञानेन खण्डयतीति । तदुक्तम् “अखण्डं खण्ड्यते कथम् ?” (अ॰ गी०१।१२) अतो द्वैतवादिनां कैलासवैकुण्ठादिस्थानमद्वैतवादिनां मायाशबलं च बन्धमुक्तिरहितपरमसिद्धान्तवादिनां योगिनां नित्यपिण्डावधूतानां तु १. दत्तम्-पू०सं० । २. क्रिया ब्रह्मेति-पू० सं० । ३. [] नास्ति-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ५६ । स्थानं, बन्धमननानन्तरं मुक्तिभवनादिति । योगिनां तु निर्गुणस्थानमथ निर्गुणसगुणातीतमवतोपरिवति यत्सर्वोपरिवत्यैव स्थानं परमहंसाः कथयन्ति । अस्मदीयं निर्गुणस्थानं तत्त कथनमात्रमेव । कथं ? एते तु निर्गुणब्रह्मणि अमायिक- ब्रह्मणि 'मायाया गुणानां च स्थापनं कुर्वन्ति पुनर्नानाप्रकारेण सृष्टिक्रियादि तत्रा- रोपयन्ति, अनेकस्तोत्रैः स्तुवन्ति च । तथा च तत्कथं निर्गुणममायिकं च जातम् ? माहात्म्यार्थं स्वप्रशंसायं च कथने निर्गुणं ब्रह्म लक्ष्यं कथयन्ति नत्वाचरणे तद् दृश्यते । पुनः कथने निगुर्णं ब्रह्म इष्ट तथापि पूर्णता न भवति, यथा योगिनामिष्टे वर्तते तया रीत्या । कथं ? प्रथमं त ब्रह्मशब्दस्य व्युत्पत्तिकरणमव स्थगितम् । ब्रह्म तु व्यापक तनिर्गुणं ब्रह्म सर्वब्यापकं न भवति कथं चैतन्यरूपेणैतद् व्यापकं कथ्यते तदा पञ्च- भूतेषु व्यापकम् । पुनः निगुणं तु शक्तिरहितमेव । तदा व्यापकधर्म एव कथं कथ्यते । एतद्रीत्या निर्गुणमेव ब्रह्मेव द्वयमपि परात्परं ब्रह्म न भवति, तस्मात् परम- हंसापेक्षयाप्यवधूता उत्तमाः । कथं ? परात्परः पूर्णो नाथो लक्ष्य इति । अद्वतोपरिवर्तिनिराकारसाकारातीतनाथात् निराकारज्योति थो जात- स्ततः साकारनाथो जातस्तदिच्छया सदाशिवो भैरवो जातस्ततश्च शक्तिभैरवी च जाता, तस्माद्विष्णुर्जातस्तस्माद् ब्रह्मा जातस्तेन सर्वा सृष्टिरुत्पन्ना । नाथाद् द्विप्रकारा सृष्टिर्जाता-नादरूपा बिन्दुरूपा च । नादरूपा शिष्यक्रमेण बिन्दुरूपा च पुत्रक्रमेण । नादानवनाथा जाताः, बिन्दुतः सदाशिवो भैरवो जातः । पुनः शब्दसृष्टिप्रकार- माह-एका सूक्ष्मरूपिणी द्वितीया स्थूलरूपिणी। सूक्ष्मरूपिणी प्रणवो महागायत्री योगशास्त्रमिति । स्थूलरूपिणी ब्रह्मगायत्री वेदत्रयीति । पुनः योगशास्त्रतस्तन्त्रशास्त्रं जातम् । वेदात्स्मृत्यादिशास्त्रं जातम् । पुनः नवनाथानां पश्चाद् द्वादशसिद्धाश्चतुर- शीतिश्च, द्वादशपन्थानोऽनन्तसिद्धाश्च जाताः। सदाशिवभैरवाद्विष्णुब्रह्मासूर्य्यश्चन्द्र- इन्द्रादिदेवता जाताः। पुनः योगात् शेषयोगसांख्ययोगादयोऽनेकयोगा अनेक भेदैर्जातास्तेन योगेन ज्योतिषन्यायादिक शास्त्रं श्रुतितः स्मृतिशास्त्रव्याकरणपुराणा- नेकेतिहासा जाता एवं विग्रहसृष्टिनिवृत्तिप्रवृत्तिरूपिणी जाता । पुनः नादसृष्टिरपि सूक्ष्मस्थूलरूपिणी प्रकारद्वयात्मिका जाता। मङ्गलश्लोकानां व्याख्या- निर्गुणमिति । निर्गुणं ब्रह्म तद् यस्य सर्वोपरिवर्तिनाथस्य वामभागे एक- व्यवहारे । वामभागेन कोऽर्थः ? यथेतरं शास्त्रं कथयति । कश्चित् पुरुष उद्ध्वगति- ब्रह्मपदं प्राप्तः तदा कथ्यते निर्गुणस्य सर्वव्यापकस्यैकरूपस्य ऊर्ध्वमध इति । भागकल्पना कुत्र कस्यां वा दिशि कुतो वा वाग्रचना। तथा च कल्पनां विना व्यवहारो न सिद्धयेत् । तया रीत्या निर्गुणं वामभागे इति । तस्य साक्षात्स्व- रूपस्य एकभाग एकव्यवहारे निर्गुणम् । पुनः सव्यभागे अद्भुता निजाच इच्छाशक्तिः १. अमायि ब्र०-३० सं० ६० गोरक्षसिद्धान्तसङ्ग्रहः सर्वसाकारब्रह्मकारणीभूता सव्यभागे एकभागे एकव्यवहार इत्यर्थः। सगुणब्रह्म- मूलभूता सा यस्येति । पुनः मध्यभागे सर्वस्याधारो वा सर्वशिरोमणियंत्र निर्गुण- सगुणमुभयमपि चैक्यं प्राप्नोति सत्यमसत्यं जडं चैतन्यं च सर्वमपि भावजातं यत्र साम्यं प्राप्नोति द्वैताद्वैतभेदो यत्र दूरीभवति । यदैतादृशः सर्वोपरिवर्ती वाङमनो- गोचरो वाङ्मनोमयश्च द्वैताद्वैतविवर्जितः। पुनः यादृश एव तादृश एवेति सर्वविल- क्षण एवैतादृशो नाथो महासिद्धानां लक्ष्यः पूर्णः स मम श्रियेऽस्तु कल्याणं करोतु । मोक्षमार्गे दक्षभागतो वामभाग उत्तमोऽस्ति तस्माद्वामभागे निर्गुणमुक्तम् । पुनः जीवाः निर्गुणास्तत्त्वरूपा अद्वैतरूपा मुक्तास्ते चरणाग्रे रमन्ते, एतद्वये तु व्याव- हारिकं दर्शितम् । तत्तु कल्पनामात्रमेवेति, वास्तविकं तु बन्धमुक्तिरहितम् इति । तत्त्वानुभाविकास्ते मुक्ता नाथस्य सर्वपिण्डे रमन्ति इति किं नाथरूपा एव न त्वन्ये । अग्रे उक्तं वामभागे स्थितः शंभुर्यो निर्गुणस्य ब्रह्मणोंऽशरूपः साकारतया संसार- कल्याणार्थं जातः स शिवो वामभागे । पुनः मध्यभागे स्वयं पूर्णो निर्गुणसगुणातीतः सर्वशिरोमणिर्नाथस्तस्य यः साकाररूपो नाथो मध्यमभागे स नाथो ज्योतीरूपो मम हृदयान्धकारनिवर्तनं करोतु । विश्वस्योत्पत्तिं करोति स्वस्याप्युत्पत्ति कथयति । एवं ब्रह्मण इच्छया पुरुषोजातः स नर इति । तेन तपस्तप्तं, नरशरीराज्जलानि नारा इति जातास्तत्र तेन शयनं कृतं तेन नारायण इति संज्ञको जातः । पुनरस्यैवावान्तररूपाणि रामकृष्णादीनि जार नि तेषामपि रामनवमी जन्माष्टमी इत्यादि जन्मकर्मोत्सवा इति मन्यन्ते तथा च य उत्त्पत्तिवान् स नाशवान् पुनयंत्र लोके गतास्ते पुनरायान्ति । कथं ? जयविजयौ शापादसुरौ जातौ तर्हि तेषां स्थानं निर्भयं कथम् ? अथ च विश्वस्योत्पत्तिकारण- मेवोक्तं तेनैवं ज्ञायतेऽन्यदेवापेक्षया संसारापेक्षया च सर्वोत्तमः शिव एव, परन्तु स्वस्मात्त निकृष्ट वेति कृत्वा मङ्गलं तु नाथात्मकमेव कृतम् । आदिनाथो गोरक्षनाथश्चांशांशिभावेन वा स्वयमक एव, परन्तु व्यवहारार्थमङ्गाङ्गिभावेन सेव्यसेवकभावेन नाथात्मकमेव मङ्गलं कृतम् । तेनैव सूचितं सर्वस्मादुत्तमः शिवः शिवादुत्तमो नाथ इति । योगे देवानामथ च संसारे सर्वोत्तमो नाथइति संकेतरीत्या। नाथस्योत्पत्तिरेव योगशास्त्रे न' कथिता, यतो जन्मकर्मापि न गीयतेऽत एव सिद्धसिद्धान्तपद्धतौ-श्रीगोरक्षनाथेन विश्वस्य कर्तृत्वं शिवस्य लिखितं नाथस्य तु न लिखितम् । कथं ? विश्वकरणे सगुणत्वमायाति, सोपाधीश्वरत्वं चायाति, नाथस्तु निगुण एव निरुपाधिरूप एव, तस्य प्राकृतिककार्यकरणेन किं माहात्म्यं किं वा श्रीरिति । यदि पुनः शिव एव मुख्यो देवो भवेत्तर्हि मङ्गलं शिवात्मकं किमर्थन कृतम् , एवंरीत्या कथनं महासिद्धानां सिद्धान्तो वर्त्तते न तु स्थूलरीत्या । प्रवृत्तिरीत्या कथन १. योगशास्त्रेण-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ६१ , ? रीतिः । कथमेते तु निर्गुणा ऐश्वर्य बहुधा गुप्तं कुर्वन्ति, अन्ये त्वैश्वर्य प्रकटीकुर्वन्ति । अहो अहो विपरीता वार्ता तस्याः श्रवणेऽपि ज्ञानेऽपि चाप्रियं भवति । अस्मिन्मते अतिर्न साधिका वेति वार्ता । अतिश्चास्माकं मते साधिका न भवेत् , भवेदपि चेत्तर्हि- मेरुः कम्पते पृथ्वी चलति? आकाशात्सर्वं जायते तत्तु पृथिव्या एव सर्व जायते पितुः पुत्रो जायते स पिता पुत्राज्जायते चैवं सर्वमपि कार्य विपरीतरीत्या भवेत् । यत एवं न वक्तव्यं यन्महासिद्धानां तात्पर्य तदेव श्रुतिर्वक्तुमिच्छतीत्यू बाहुर्ध्वनि चिकीर्षति, परन्तु नानाकर्मनिरूपणात्तत्त्वस्याप्यन्यथा कथनात् सूक्ष्मास्थूलरूपनिरूपणात्पात- किनी जाता भाराकान्ता च जाता तेन तत्तात्पर्य वक्तुं न शक्यते । यदि किंचिद् वक्तुं शक्यते तन्महासिद्धानां तात्पर्यमेव वदेत् । या श्रुतिः प्रणवानुसारिणी सा त्वस्माकं मतानुसारिण्येव, या च प्रणवविरोधिनी श्रुतिः कर्मज्ञानप्रतिपादिका सास्माकं मतानुयायिनी मा भवतु नाम, किन्तु सूक्ष्मस्थूलस्य निरूपणम् । प्रथमत उक्तं श्रुतिरस्माकं मते साधिका न साधिकेति द्वयमपि न स्यादिति । कथं ? तदाह-न साधिका भवेत्तत्त्ववमस्माकं तु प्रयोजनमेव नास्ति, कथम् ? वयन्तु महावेदयोग- माश्रितास्तेन च न कस्याप्यपेक्षां कुर्मः, परन्तु येषां मते स्थूलवेदाः परमपदार्था इति मन्यन्ते ते च यदि साधका न भवेयुस्तदास्माकं मते दूषणारोपणं कुर्वन्ति, यथा स्त्रीजनो मुनीन् प्रति कथयति भो मुने भवान् सकाम' इति । एवं कथयन्मुनीनां तु सकामत्वं दूषणमेव परन्तु तस्य त्विष्टमेवेति कृत्वा मनसा तु मुनिस्तुष्यत्येव परंत तदभिप्रायेण यो बाह्यवृत्त्याऽतुष्ट एव भवेत् । कथं ? यस्य यदि सङ्गः क्रियते तदा तु तस्योपयुक्तवार्ताकरणं विना यो भूषणोऽपि दूषणमारोपयति । यतो हेतोर्न साधिके त्युक्तं तद्वर्जनं चैतद्रीत्येति । पुनः साधकत्वे को वा दोष ति चेत् , कथ्यते -साधिकेति तु ये कथयन्ति ते पुराणस्मृतिकिंकरा वयं तु स्थूलवेदानां पितृकारणस्य महावेद- स्यानुसारिणो योगसिद्धान्तिनस्ते कथं तदाश्रित्या भवमेति रीत्या साधकत्वमपि- वर्जितम् । तत्र कथ्यते तृतीया वातैव क्रियत तदा कथ्यते पूर्वमप्युक्तमेव वयं तु महावेदयोगानुसारिण इति । अथ च श्रुतिर्यद्वदति तदस्माकं महासिद्धानां यन्मतं तदेव वदति, सकलाया अपि श्रतेस्तात्पर्य प्रणवयोगपरमेव तथा च याः श्रतयः प्रणवानुसारिण्यस्ताः तु योगमेव वदन्ति ये च ये च श्रुत्यनुकूलास्ते ते प्रथममेव प्रयुक्ता इति । पुनः ब्रह्म वेदस्यैकोनविंशतिरुपनिषदो माण्डूक्यक्षुरिकाकैवल्यप्रभृतयः छान्दोग्यवृहदारण्यमैत्रायण्यादयोऽन्यवेदस्यापि योगपरा एवैतास्तु सर्वाः प्रत्यक्षतः । पुनः, वेदवेदान्तादिः सर्वः परोक्षवादो यतो हेतोस्तात्पर्ये तात्पर्य रक्षति, प्रत्यक्षतः । कथं ? तस्य तन्मर्यादा नास्ति यतो हेतोः कर्मोपासनां ज्ञानं च वर्णयति परन्त क्रमतः सर्वस्य तात्पर्य योग एवेति । १. अकाम-पू० सं० ।
६२ गोरक्षसिद्धान्तसङ्ग्रहः कैश्चित्कथ्यते ब्रह्मा विश्वं सृजति विष्णुः पालयति रुद्रः संहरति स त्वनुक्रमो नास्ति, योगस्य त्वनुक्रमो यो वर्तते स प्रथममुक्त एव, यदि चैतेषामेवानक्रमो रक्षित- स्तदा त्वयमपि चानक्रमो व्यतिक्रम एव यदा भवेत्तदा कं वानक्रम करिष्यामि । कथं ? 'अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः' इत्यादौ । तेषां मध्ये भोक्ता तु रुद्र एवोक्तः स एव बलिष्ट एतौ त भोज्यमिति । तथैव रुद्रः संहरतीत्यत्र महाप्राब- ल्येन नैर्गुण्येन नित्यमुक्तस्वरूपेण च तदोषाद्वारको न भवति तदन्यौ त गुणपर्य- वसानौ गुणावधीयत एतत्कार्यकरणं तद्वाधकमेव भवति । बद्धास्तास्त्वग्रे वक्ष्यन्ते इति । सर्वे सम्प्रदायाः कथयन्ति सहस्रशो ग्रन्था जाता इति, तान्प्रति मया कथ्यते-यदि ममोपदेशो मन्यतां तर्हि सर्वे ग्रन्थाः कूपे निपा- त्यताम् । कथं? आधुनिकसमये स्वयमपि मुक्ता न भवन्ति तेह्यन्येषां मोक्षोपदेशे कथं समर्था भवेयुयंतश्चातुर्यार्थमभिमानार्थं च जीविकाक्षं च यस्य कस्याप्यभिलाषार्थ यत् शास्त्रं करोति तत्परमार्थिक पुरुषाणामो कथं शोभनीयं भवेत् , तदुक्तं श्रीगोरक्ष- नाथेन-शिलया किं परंपारमित्यादि । अतः कारणादाधुनिका अयुक्त पुरुषास्तैः कृतानि सहस्रशः शास्त्राणि तानि त्याज्यानि, एतच्छास्त्रस्याभिमानो भवद्भिर्न- रक्षणीय इति । शङ्करसम्प्रदाये विद्यारण्यस्त्यागी जातः पश्चाद्वेदभाष्यं कृतं तदनन्तरं काशी गत्वा कस्यापि पण्डितस्याने स्वकृतभाष्यवार्ता कृता, तदा तेन स निन्दितः । कथं त्यागी भूत्वा पुनरपि व्यवहार उद्यक्तः ? तदा पुनः परमहंसेनोक्तम्- मदीयः श्रमस्त्ववलोकनीय इति । यदा पण्डितेन दृष्ट्वाऽशुद्धिबाहुल्यमित्युक्तं तदा परमहंसो विरागो जातः। पुनः कदाचिद्वनभ्रमणे कस्यचित् प्रेतस्य कृपया व्यास मिलनं जातम् । तेन भाष्यं कमण्डलौ धृत्वाऽशुद्धिर्दूरीकृता, इति वार्ता प्रसिद्धा । पुनः कौमुदीकारो भट्टोजिदीक्षितः, सोऽपि प्रेतत्वं गतः, षुनः वैष्णवसंप्रदाये ताताचार्येणाप्पय्यदीक्षितोपरि कोऽपि अभिचारः संचारितः, सतु तेन शिवभक्तेन शिवस्मरणे कृते तस्यैव मरणाय जातः। एवं यदा, तदा मया कथ्यते यादृशानि प्रेतरूपैः प्रेतप्रसादाभिलाषिभिः पुरुषैः कृतानि शास्त्राणि मोक्षाय कथं भवेयुरित्यतः कारणात् महासिद्धानां मते विद्याभ्यासेन कोपि ग्रन्थं न करोति किंतु योगाभ्यासेन सिद्धो भूत्वा सिद्धत्वेन च शास्त्रं करोति, स स्वयमपि मुक्तोऽन्येषामपि मुक्तिं ददातीति सिद्धान्त इति । ग्रन्थस्य प्रकरणबन्धनमादिरन्तोऽ. पि च न क्रियते । कथम् ? इयमप्याशैव भवति नियमश्च भवति ज्ञाने तु क्षणस्यापि नास्ति तर्हि एतावत् सङ्कल्पः क्रियेत तस्याप्यहंकारविलसितत्वात्तद्रूपमपि कर्मेव लग्नं भवेत् । पुनः क्षणेन मरणे सत्यन्यत्कार्य, तावन्मात्रस्तु बन्धो जात एव यस्माद्यत १. धर्माथि-पू० सं० । २. 'व्यास' इति नास्ति-पू० सं० । , ?
गोरक्षसिद्धान्त सङ्ग्रहः - आरम्भः कृतः स एवादियनकृतं तत्रैव समाप्तिः । स्वतन्त्राणां पुरुषाणां क्षणमात्रमपि बन्धनं प्रियं न भवेत् । पुनः संस्कृतो वर्तते । सोऽप्यघटितपदार्थस्तु नास्ति सर्वव्यापकोऽपि नास्ति । कथं १ स्वभावकर्मापि नास्ति । तदा शिष्यते तदायाति । पुनः यश्च शब्दः सोऽघटितोऽस्ति, विनापि शिक्षां यत आयाति संभेद व्यापको नास्ति यत्परात्परमघटितस्वरूपं तथैव तदंश एष शब्द एवादिघटितो दृश्यते स एव ग्राह्य इति । अतः कारणादेव श्रीनाथेन शब्दमयी गिरेतिकत्वा सर्वाभिरपि गिराभिः सर्वाणि शास्त्राणि कृतानि, सा च संस्कृतप्राकृतनागरमागधीभाषाभिरथ च यवन- भाषापर्यन्ताभिरपि यत एतेन व्यवहारे तु सर्वज्ञत्वं सूचितं सिद्धान्ते शब्द एव मुख्य इति सूचितम् । योऽघटितपदार्थो विशेषव्यापकः स एव न तु संस्कृतो वा अन्योऽपि यः कश्चित् एकः सांकेतिकभाषाशब्दःस एव सिद्धान्त इति न किन्तु शब्द एव सिद्धान्त इति, शब्दे ब्रह्मणि शुद्धत्वाशुद्धत्वेन स्वाऽव्यक्तलिङ्गोपर्येव तात्पर्यमिति यतस्तत्प्रकारेण सर्वमेकपदादेव चिन्तनीयम् । यदा देवश्चिन्तनीयः तदा तेषां शास्त्रपठनेनापि किं, तदुक्तं भर्तृहरिण- तार्किका घटपटेति रटेयुः शाब्दिकाः खफछठेति पठेयुः ।। मादृशां तु सततं स्मरणीयौ चन्द्रचूडचरणौ रमणीयौ ।। इति । पुनः अवधूतेषु 'कैश्चिदोषारोपणं क्रियते निश्चितं तथा कुर्वन्तु नाम, ततो धूतानां मनोविकारस्तदुक्तं भर्तृहरिणा- चाण्डालः२ किमयं द्विजातिरथवा शद्रोऽथवा तापसः। किं वा तत्त्वनिवेश पेशलमतिर्योगीश्वरः कोऽपि किम् ।। इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनै- नों क्रुद्धाः पथि नैव तुष्टमनसो गच्छन्ति ते योगिनः ।। (वैराग्य श.५५) गालिप्रदानेऽपि नावधूतानां क्रोधादिरिति भर्तृहरिणोक्तमेव ददतु ददत गालीलिमन्तो भवन्तो वयमिह तदभावाद्गालिदानेऽप्यशक्ताः। जगति विदितमेतद्दीयते विद्यमानं न हि शशकविषाणं दीयते यद्वदान्यैः । पुनः क्रोधो न क्रियते, इदमपि नास्ति । कथं ? अक्रोधस्त परमहंसानां धर्मः पुनः क्रोधकरणमिति गृहस्थानां धर्मः। अस्माकं त द्वयमपि धर्म एवेत्यत एव । नाव- - , १. किंचिद्-पू० सं० । ३. किं-मु. पा.। ५. यान्ति स्वयं-मु० पा० । २, चण्डाल:-प० सं० । ४. विवेक-मु० पा०।
६४ गोरक्षसिद्धान्तसङ्ग्रहः एकदा भर्तृहरिः स्वेच्छया सिद्धस्वरूपः कापोतीमाश्रित्य पण्यवीथिकायां कणा- नादाय चर्वन्नृपतिना विक्रमार्केण दृष्टः स ज्येष्ठो भ्रातैव तदापि सिद्धरूपस्तेनाज्ञातो यत उक्तम्-अहो अस्यापि जननी ययैतादृशः पुरुषो जनितो यश्च स्वोदरभरणेऽप्यसमर्थ इति । तच्छुत्वा किमुक्तं सिद्धेन-अहो तस्यापि जननी धिक् यः समर्थोऽपि परोप- कारकरणेऽसमर्थ इति । यदा चैवं विवेकवचनं श्रुत्वा राजा महान् विचक्षणः स्वकीयं जेष्ठभ्रातरं परमं पुरुष ज्ञात्वा स्वतःशीघ्रमेवावतीयं तच्चरणे पतितस्तदा श्रीभर्तृहरिणो- पदेशो दत्तस्तदनन्तरं परोपकारकरणे नृपतिः प्रवृत्तस्तेन च महाप्रतापवान् जातः । ततः कथ्यते महासिद्धा अकामिनोऽप्यक्रोधिनो जिताहंकारास्ते वचनसहनं कथं न कुर्वन्ति, परन्तु परमहंसरीत्येमेतु परमहंसा न सन्ति गृहस्था अपि न सन्ति, यथा काक उल्लूक इति । तयोरेकस्तु दिन एव पश्यति तदन्यो रात्रावेव पश्यतीमे तु योगिनो यौगिक- परमहंसा मराला दृष्टिद्वयेनापि पश्यन्तो मुक्तिमुक्ताफलं गृहन्ति शिवशक्त्योर्द्व यमपि चैकीकृत्य चरन्ति तेऽवधूतयोगिनो भवन्ति इति सिद्धान्तेन सर्वदा रमन्ते* । गृहस्थः क्रोध एवासक्तः परमहंसश्चाक्रोध एवासक्तो यत एतयोरेकैकस्मिल्लोकेऽवज्ञा भवेत् । गृहस्थस्य क्रोधादिकरणे परो लोको न सिध्येत् । परमहंसस्याक्रोधादिसेवनेनेहलोके सुखं न स्यात् । एते तु परमहसाधिकाः क्रोधालोकष्टिगोचरा इतिकृत्यालौकिक सेवनादयं लोकोऽपि रक्षतेऽक्रोधादिना परलोकोऽपि साध्यते । परमावस्थायां भेदा. भेदपरे द्वैताद्वैतपरे न कोऽप्ययं लोको न कोपि परो लोकोऽयं तु तेषां परमः सिद्धान्त इति । वैदिकः स्मार्तस्तु कुमारीकन्या यस्योपरि चित्तमासज्येत तमेव वृणोति । अवधूतः परमहंसः शैवः शाको वा यः कश्चित् स कथं इष्टो मुख्यतया न मतो यदि मुख्यतया मतो भवेत्तदा परिणीतः स्यात् । यदा ये तूपरिलिखितास्तेषां वेष आश्रितो भवेत् । पुनः अन्यस्येष्टोऽन्यस्य पतिर्न भवेत् , तदा स भ्रष्ट एव स्यात् । यथा पुरुषः कोऽपि यवनो भवेत्तदा केन वार्यते । पतञ्जलिना शास्त्राणि त्रीणि कृतानि-योगसूत्रं, व्याक- रणभाष्यं, वैदि[ध]कशास्त्रमिति' । तेन तच्छिष्याः प्रशंसां कुर्वन्ति अस्माकं गुरुणा शास्त्रत्रयेण त्रयाणां दोषा जिताः, योगेन मनसो मालिन्यम् , व्याकरणेन वाङमालि- न्यमशुद्धता, वैदि[ध] केन शरीरमालिन्यमनामयतेति । यदावधूतशिष्याः कथयन्ति शास्त्रत्रयेण त्रयाणां दोषा जिताः एतत्त्रयस्य प्रयासः कृतस्तीकेन योगेनैव ते दोषाजिताः स्युस्तत्रैव किमर्थं न कृतः । कथं ? योगेन मनोमालिन्यं दूरीभवति तत्तु तेनैवोक्तं, पुनः व्याकरणेन यदुक्तं तद्योगेन किं न भवति ? यादृशं यद्योगे न स्यात्तत्तादृशं त्वन्येन न भवत्येव । कथं? शब्दब्रह्मास्य योगिन इष्टमेव हि भवति, योगिनः सिद्धवाचो भवन्ति, पद्वदन्ति तदेव भवति । वैयाकरणो न कोऽपि दृष्टः सिद्धवागिति । पुनः वैदि[द्य] केन रीररोगनिवर्त्तनं भवति तद्योगेन कथं न भवेत् । योगिनस्तु शरीरममृतं कुर्वन्ति, ? ? , * एतावदेव पूर्वसंस्करणे मुद्रितम् । १. चरकाख्यमायुर्वेदशास्त्रमित्यर्थः ।
गोरक्षसिद्धान्तसङ्ग्रहः असंख्ययुगकालपर्यन्तं शरीरं रक्षन्ति च, यदि शरीरं नीरोगं भवेत्तदा कथं ताव- त्तिष्ठति । एतादृग्वैदि[य]कं न किमपि दृष्टं येनैकयुगमपि शरीरं रक्ष्यते । तथा चाव- धूतशिष्य एव भवतु, तेनैकेन योगेनैव सर्वसिद्धिर्भवति । पुनः पुनर्योगः प्रशंस्यते, तत्त प्रशंसनमनया रीत्या । कथं ? योगपदार्थस्त्वात्मधर्मः कथं स्वदेहे न भवेत् । स्वतन्त्र एव, मुख्य एव, पुरुषार्थ एव च । कया ? आसनप्राणायामध्यानधारणासमाधय एतेषां मध्ये इन्द्रियदमनं सहिष्णुता सत्यमिति सर्वेऽपि चागतास्ते सर्वे स्वत एव भवन्ति । अत आत्मधर्म एव स महाश्रेष्ठः । अन्यत्त यज्ञादिकर्म द्रव्येण साध्यते ! पुनः बहुपुरुषैर्मिलितैः साध्यते । पुनरन्यत्तीर्थाटनं व्रत त्यागस्तपो विरागो ज्ञानमिति यद्यप्यात्मधर्म एव तथापि सुकरत्वात् संसारिभिरपि जनैः क्रियते, यतो बहवो दृष्टिगोचराः। तीर्थयात्रिणो व्रतकारकास्त्यागिनश्च तस्मादेतेऽपि संबन्धधर्मतुल्या एव दृश्यन्ते, न त्वात्मधर्मस्तत्र दृश्यताम् । पाणिनीयव्याकरणाश्रितानां जनानां पण्डितानामग्रेऽपि दृष्टं किमप्येकं प्रमाणं नियतं नास्ति । वैष्णवा यया रीत्या व्याख्या कुर्वन्ति तां तु स्मार्ताः कथयन्तीयं व्याकरणरीत्या शुद्धा नास्तीति । यद्वैकशास्त्रावल- म्बिना बहुधैकधर्मिणां पुरुषाणां मध्येऽपि चैवं भवेत्तर्हि मया तु सिद्धव्याकरण- शैवव्याकरणावलम्बिनां तेषां धर्मतो भिन्नधर्मिणा तत्तत्कथनमेव किं गण्यते, तेषां भेदं दृष्ट्वा दृश्यते चेति । अर्जुनमिश्रकृतभारतटीकायाम्- यान्युज्जहार माहेशाद्वथासो व्याकरणार्णवात् । तानि किं पदरत्नानि मान्ति पाणिनिगोष्पदे ।। भर्तृहरिक्यिपदीये- शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । समारम्भस्तभावानामनादि ब्रह्म शाश्वतम् ।। (वा० २।२३३) नीत्युपाये यथा राज्ञां धर्माःशौर्य तेजो बुद्धिर्भाग्यं स्वातन्त्र्यशक्तिरिति, एभ्यो यादृशी राज्यकार्येषु सिद्धिर्भवति, यज्ञाश्च भवन्ति, तथा मन्त्रिबुद्धितः सेनासंपत्तिः शत्रूणां द्रव्यसमाधानमित्यादेः संबन्धधर्मान्न भवति । एवं शृङ्गारेऽपि तारुण्येन, पराक्रमेण, रूपेण च यादृशं सुखं स्त्रीजनानां प्रीतिश्च भवति तादृगनेकभूषणेन द्रव्येण हादिसामग्रीविशेषेणानेकगुणैरैश्वर्येण बुद्धिकुलीनतावेषरचनारागरचनादिभिश्चे- त्यादिसंबन्धधर्मेण न भवति । यद्यपि सर्वेऽपि संबन्धधर्मा मिलिता अपि कार्यकरा भवन्ति इति विशेषः । एवं च योग एव श्रेष्ठ आत्मधर्मस्तद्वन्तं मुक्तिरङ्गीकरोति । यथा पूर्वोक्त शौर्यादिः श्रेष्ठ आत्मधर्मस्तद्वन्तं राजानं पृथ्वी अङ्गीकरोति, यथैव च पूर्वोक्ततारुण्यादिः श्रेष्ठ आत्मधर्मस्तद्वन्तं स्त्रीजनः शृङ्गारेऽङ्गीकरोति । केचिन्नारायणात्सर्वोत्पत्ति कथयन्ति । सा च तदधिकारिणामुपासकानामेवार्थे न तु मुख्यतया । तदुक्तं शिर उपनिषदि- १. अनागमविकल्पा तु स्वयं विद्योपवर्तते-मु० पा० । - , - १ गोरक्ष सिद्धान्तसङ्ग्रहः ? - "अक्षरात्संजायते कालः कालाद्वथापक उच्यते । व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उछवसिते तमो भवति तमस आपो अप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मध्यमानं फेनो भवति फेनादण्डं भवति । अण्डाद् ब्रह्मा भवति ब्रह्मणो वायुयोरोंकार ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।” ( अथर्वशिर उ० ६, ई० अ० उ० पृ० १५७) अत्र तु विष्णोर्नामगणनापि नास्ति । कथं ? स तु रुद्रस्यांशावतारगणनेऽपि तदवान्तरत्वेनोक्त इति । विशेषरीतिस्तु शिवरहस्ये सविस्तरं लिखिता- सर्ववेदानां सर्वसंसारिणामपि च गुरुर्नाथ एव सर्वशास्त्रप्रसिद्धोऽत एव तन्त्रोक्तेऽपि गुरुकवचे गुरुमण्डल निरूपणे मुख्यतया नाथस्यैव गुरुत्वमुक्तं श्रीनाथादि गुरुत्रयमित्यादिना। श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धेभ्यो बटुकत्रयं पदयुगं इतिक्रमं शोभनम् । वीरेशाष्टचतुष्टषष्टिनवकं वीरावलीपञ्चक श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ महेशसंहितायाम- सत्यं केचित्प्रशंसन्ति तपः शौचमथापरे। क्षमा केचित्प्रशंसन्ति तथैव शममार्जवम् ।। केचिदानं प्रशंसन्ति पितृकर्म तथापरे। केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम् ॥ केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः। अग्निहोत्रादिकं कर्म तथा केचित्परं विदुः॥ एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम् । निरीश्वरमिदं प्राहुश्चेश्वरं च जगत्पते ॥ वदन्ति त्रिविधा भेदैः सद्युक्त्या स्थितिकारकाः । एते चान्ये च मुनयः संज्ञाभेदात्पृथग्विधाः ॥ शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः। एतद्विवादशीलानामलं वक्तु न शक्यते ॥ भ्रमन्त्यस्मिन् जनाः सर्वे मुक्तमार्गवहिष्कृताः। आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥ इदमेकं सुनिष्पन्न योगशास्त्रामृतं परम् । यस्मिज्ञाते सर्वमिदं ज्ञातं भवति निश्चितम् ॥ अस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम् । योगशास्त्रमिदं गोप्यमस्माभिः परिभावितम् ।।
गोरक्षसिद्धान्तसङ्ग्रहः ६। आचारस्य संस्कृतशब्दस्य प्रबन्धकरणस्य शुद्धशब्दस्य चेत्यादि सर्वपदार्थान निषेधकरणेनैवं वादिभिः कदाचिदपि न ज्ञायतां यदेतेषां मते त्वाचारो नास्ति, संस्कृर शास्त्रं च नास्ति, प्रबन्धो वा नास्ति, शुद्धशब्दस्योच्चारणं नास्ति, इति । कित्वस्माकं म त्वाचार ईदृशो वतते यस्तु प्राणान्तेऽपि न त्यज्यत आचारः । अन्येषां तु मत एवम कथ्यते शरीरार्थ कदापि काले हयधर्ममपि ग्राह्यम् किमर्थं १ यदिशरीरमरोगं भवति तदापुनरपि तेन धर्म संपाद्य तमधर्म निवर्त्य पुनर्धर्म करिष्यते येन सर्वश्रेयो भविष्य तीति । अस्माकं तु मते यदा कष्टे विपत्तौ वा शरीरार्थमधर्म गृह्णाति तदायं कीशोधर्म यः कष्टे त्यजते धर्मस्तु स एव यः प्राणान्तेऽपि न त्यक्तो भवेदिति हेतोर्योगिनो योग एव सर्वदा तिष्ठन्ति क्षणमपि न योगं त्यजन्ति । अत्र योगेन योगाभ्यासो ग्राह्य इति तत्कमैव कर्माचारं यन्न त्यज्यते । ननु वेदेऽपि लिखितं यावज्जीवमग्निहोत्रं जुहोति, अहरहः सन्ध्यामुपासीते त्यादि । पुनः संस्कृतशब्दरीतिस्त्वन्यैव । संस्कृतरीतिं रचयन्ति पुनः प्रबन्ध इति प्रबन्धस्तु य एतादृशो यद्वाक्यं मेरुश्चलति तथापि तन्न चलति वाक्यम् । पुनः शुद्धमिति शुद्धमेतादृशं यच्छुद्धाशुद्धैकीकरणं तन्मोक्षरूपम् । शुद्धमेव स्यात्तच्च कदापि काले नाशुद्ध भवेदित्येतद्रीत्या ह्याचारादयः पदार्था एतैर्योगिभिरेतादृशाः क्रियन्ते याहशा अन्यै कत्तु न शक्यन्ते परं त्वयं सिद्धान्तो नास्तीति । आचारो ह्यनाचार इति संस्कृतमिति प्रबन्धो प्रबन्ध इति । शुद्धमशुद्धमिति । द्वन्द्वमिलनेनैव सर्व सिध्यति न त्वेकेनेति एकेन तु ब्रह्मादयोऽपि किमपि कत्तु न शक्नुवन्ति तच्च कदापि काले न भवत्येवेति एतेन बारंबारमस्माभिरेवं प्रदयते । अव्यक्तलिङ्ग एव अघटितपदार्थ एर अत्याश्रम एव निश्चलो भवति नवितरकलितपदार्थो निश्चलः क्षणमपि दृश्यते यद्वारंवारं कथनेनाव्यक्तलिङ्गस्यात्याश्रमस्येदंकरणं श्रोतारस्त्वैश्वर्योण मत्ता भूता एकद लिखनेन जानन्त्यपरेषां मत एते यदा न भवन्त्येवेति तन्नास्ति सर्वस्मादप्योतेऽधिक भवन्ति निषेधकरणे न तु अव्यक्तलिङ्गे तापर्यमिति सिद्ध क्रियत इति । प्रथममुक्ते योगेन योगाभ्यास उक्त इति । तदा कोऽपि जानीयात् योगाभ्यासो योगश्चेति कियदर्थ द्वयमायातीति तत्र कथ्यते योगस्तु जीवात्मपरमात्मनोरैक्यमेव योगाभ्यासस्तु तस्र योगस्य प्राप्त्यर्थं मानसप्राणायामाद्यभ्यासकरणमिति । पुनः प्रथमं यावज्जीवमग्निहोत्री त्युक्तं तत्त्वन्यशास्त्रस्यापि रीतिरुक्ता नत्वेतदग्निहोत्रादि कर्म योगाभ्यासरूपं कर्मचैक मिति ज्ञेयं तत्तु निष्कर्म इदं तु महोत्तममिति । अत एव श्रीगोरक्षनाथेनोक्तं गोरक्षो पनिषदि-आदिब्राह्मण इति । को वा ब्राह्मण इति । ब्रह्म जानाति स ब्राह्मण इति वैष्णवा ब्राह्मणाश्च रामकृष्णादयोऽपीतरं ब्रह्म । एवं जीवात्मापि चानुक्रमानुक्रमते जीवो ब्रह्मेति कथनं भवतीति । एतया रीत्या अंशांशब्रह्म भजन्तस्ते मायाशबलं ब्रह्म पर्यायनारायणे समन्वयं व्रजन्ति । पुनः वैदिकाः परमहंसाश्च ये ते मायाशबल ब्रह्म भजंतो निर्गुणब्रह्मणि समन्वयं ब्रजन्तीत्येवं भवतु मा भवतु परन्त्वे गोरक्षसिद्धान्तसङ्ग्रहः ते कथयन्ति । महासिद्धास्तु निर्गुणं भजन्तो निर्गुणातीते पूर्ण नाथे समन्वयं ब्रजन्ति । अथो त्रयमप्येतत्केन मार्गेण ब्रजन्ति, तत्राह-वैष्णवाः पुराणपाञ्च- रात्रायनुसारिणस्तदुक्तोपासनेन कर्मणा । वैदिकाश्च परमहंसाः स्थूलवेदानुसारिणो यज्ञादिकर्मकरणानन्तरत्यागज्ञानेन । महासिद्धाः सूक्ष्मवेदानुसारिणो योगकर्मणेति । एवं च यदा वैष्णवास्तु पुराणपाश्चरात्रादीनां वेदमूलकत्वात् वैदिकब्राह्मणान्तर्भूता अतस्तेषां कथने किं प्रयोजनमथ च वैदिका ब्राह्मणाः परमहंसास्ते स्थूलवेदानुसारिणो मायाशवलं ब्रह्मोपास्य निर्गुणं ब्रह्म जानन्ति यतो हेतोब्रह्म जानन्तीति ब्राह्मणा इति । पुनः महासिद्धाः सूक्ष्मवेदानुसारिणो निर्गुणब्रह्मभजनेन पूर्ण ब्रह्म जानन्ति यत एते आदिब्राह्मणा इति । ब्राह्मणा ब्राह्मणा वैदिका वैदिकाः कथ्यन्ते । यदेते किंतु ब्राह्मणा वैदिका न वत्तेन्ते एते तु महाब्राह्मणा महावैदिकाः। अथ चैवं रीत्यास्माभिः कथ्यते तद्यथार्थमेव ज्ञेयं नत्वेते ज्ञातिब्राह्मणा ब्रह्म जानन्ति यतो ब्राह्मणा इति । एकदण्डिनः परमहंसानिदण्डिनश्च परमहंसाः क्रियावद्ब्रह्मेति दृष्ट्रा एकयैव दृष्टया पश्यति । एक- दण्डिनो निष्क्रियं ब्रह्मेत्येकयैव दृष्टया पश्यन्ति । यदा एकयैव दृष्ट्या । एकयैव व्यवस्थयात बहुबारमुक्तं चञ्चलत्वमेव तिष्ठति नतु निश्चलत्वं याति तदा मोक्ष भाक्त्वं न भवेत्तेषां च बन्धनमेव वर्तेत तदा गर्भो नरकश्च कथम्' १. पुर्वमुद्रितासंस्करणादेतावन्ति पत्राण्यधिकान्युपलभ्यापि ग्रन्थोऽयमपूर्ण एव प्रतिभाति ।
उद्धृतग्रन्थानुक्रमणी अमनस्कम् ३,९ अमृतबिन्दूपनिषत् ५ अवधूतगीता १,९, २८, ५८ आत्मोपनिषत् ५ आदिनाथ संहिता ४, ४२ उत्तरगीता ६, १८, १९ कपिलगीता २७ कालाग्निरुद्रोपनिषत् ८ कावषेयगीता १८ कुलार्णवतन्त्रम् ४१ कैवल्योपनिषद् ३,६ क्षुरिकोपनिषत् ७ खेचरीसंहिता ४ गुरुकवचम् ६० गोरक्षकवचम् ३८ गोरक्षनाथस्तोत्रम् ३७ ( कल्पद्रुम तंत्रोक्तं ) गोरक्ष- सहस्रनामस्तोत्रम् ३८ गोरक्षोपनिषत् ८, ३५, ६२ छान्दोग्योपनिषत् ७, २२ तन्त्रमहार्णवः ३९ तारासूक्तिः ४१ तेजोविन्दूपनिषत् ३ ध्यानविन्दूपनिषत् ४ नाथसूत्रम् ४६, ५३,५४ पद्मपुराणम् १७, ४३ परमहंसोपनिषत् ४५ पुराणम् २३ बहवृच ब्राह्मणम् २१ बृहदारण्यकोपनिषत् ७, २२, ४४ ब्रह्मबिन्दूपनिषत् २. ९ ब्रह्मवैवर्तपुराणम् ४३ ब्रह्मोपनिषत् ९, ४४ भगवद्गीता २, ७, १७, १८, २३ भर्तृहरि (शतकम्).६३ भागवतम् २२ मनुस्मृति: ६ महाभारतटीका ( अर्जुन मिश्रकृता) ६५ महाभारतं मोक्षधर्म पर्व १८ महार्णवः ७ महेशसंहिता ६६ माण्डूक्योपनिषत् २१ मार्कण्डेयपुराणम् ६ मीननाथः ५६ मुण्डकोपनिषत् ५ योगबीजम् २४, २५ योगशास्त्रम् ५० राजगुह्यम् ९ रुद्रयामलतन्त्रम् ४० वाक्यपदीयम् ५९, ६५ वायुपुराणम् ६, ४१ विवेकमार्तण्डः ४, ६, ३५ वैराग्यशतकम् ५७ शक्तिसंगमतन्त्रम् १०, ४३ + २ गोरक्षसिद्धान्तसङ्ग्रहः शाबरतन्त्रम् १४ ( अथर्व ) शिखोपनिषत् २१ (अथर्व) शिर उपनिषत् ६५ शिवपुराणम् ४३ शिवरहस्यम् ६६ श्रुतिः १९, २१, २३ शृङ्गारशतकम् ५६ षट्शाम्भवरहस्यम् १५, १६, ४१ षोडशनित्यातन्त्रम् १५, ४० सनत्सुजातीयम् १९, २२, २३ सर्वोपनिषत्सारः९ ( ब्रह्माण्डपुराणोक्तः ) सारसङ्ग्रहः ३८ सिद्धसिद्धान्तपद्धतिः (गोरक्षनाथकृता ) १, ४. ७ १०, १४, २६, ५३, ५६, ५७ ६०, ६२ सिद्धसिद्धान्तपद्धतिः (नित्यनाथकृता) ९, ४६ सूतसंहिता १, ४२ स्कन्दपुराणम् (काशीखंडः ) ३९ स्मृतिः २३ हठप्रदीपिका ११, ३०, ३३ उद्धृतनामानुक्रमणी अतिकालः १४ अप्पयदीक्षितः ६२ अर्जुनमिश्रः ६५ अनादिः १४ अवद्यः १५ अवधूत: १, १५ आङ्गिरसः ५ आदिनाथः ९,१४, ३३, ३५, ४० ईश्वरः २६, ४६ उग्रभैरवः १३ उड्डीश: ३९ उदयनाथः ३५ कन्थाधरः १५ कपिल: १० कराल: १४ कापालिकः १३, १४ काल: १४ कालभैरवनाथः कूर्मनाथः ३५ कृष्णः१६, ३७ गोरक्षनाथः ९, १५, ३५, ३७, ३८, ३९,४६ चत्तुरंगी ४३ चर्पटनाथः १५ चर्यानाथः ३९ जड़भरतः१५ जालन्धरः १५, ३९ ताताचार्यः ६२ तारानाथः दण्डनाथ:३५ दत्तात्रेय:४० दुर्वासा १८ ३ गोरक्षसिद्धान्तसङ्ग्रहः रुद्रः २६, ५१ ललिता ४३ वटुकः १४ देवदत्तः ४० नागार्जुनः १५, ४० नागेश: ५२ नाथः १,८, ९, १४-१७, ३७, ३८, ४१, ४६,४७, ५०, ५५ नारदः १८ नित्यनाथः ९ नृसिंहः १३, १६ पतञ्जलिः ६४ पद्मपादाचार्यः १३ परशुरामः १६ ब्रह्मा १२, २६, ५१ भट्टोजिदीक्षित:६२ भर्तृहरिः ५२, ५६, ६३-६५ भवनाजिः ३५ भीमनाथः १५ भूतनाथः १४ भैरवः १३, २६,५१ मण्डनमिश्र: १४ मत्स्येन्द्रनाथः ( मीननाथः ) ३५, ४०, वसिष्ठः ४९ विकरालः १४ विक्रमार्कः ६४ विद्यारण्यः ६२ विरोचनः २१ विष्णुः १२, २६, ५१ वीरनाथ: १४ बैराग्यः १५ व्यासः ४९.६२ शक्तिः १३ शङ्कराचार्यः १३, १४, २०, ६२ शिवः १३, २६, ५१ शौनक: ५ श्रीकण्ठः १४, २६, ५१ षष्ठीशः ३९ सत्यनाथः १५, ३५ सदाशिवः २६, ५१ सनत्कुमारः८ सन्तोषनाथ: ३५ सुरेश्वराचार्यः १४ सहस्रार्जुनः ४० सीता ४३ हरिश्चन्द्रः १५ मलयार्जुनः १५ महाकाल: १४ मित्रीशः ३९ राधिका ४३ रामानुजः