Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )
Kavyanushasana Of Vangbhatta
Front matter
( All rights reserved by the publisher.)
Publisher-Tukaram Javejl,
the Nirnaya-sagar Press,
Printer:-Ramchandra Yesu Shedge, 23, Kolbhat Lane, Bombay,
काव्यमाला. ४३. श्रीमद्वाग्भटविरचितं काव्यानुशासनम् । तेनैव कविना विनिर्मितया व्याख्यया समलंकृतम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्वापुरवासिपणशीकरोपाहलक्ष्मणशर्मजनुपा वासुदेवशर्मणा च संशोधितम् । (द्वितीयावृत्तिः) तच मुम्बय्या निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १९१५ ( अस्य ग्रन्थस्य पुनर्मुद्रणादिविपये सर्वथा निर्णयसागरयन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं ७ आणकाः।
No text on this page.
काव्यमाला। श्रीमद्वाग्भटविरचितं काव्यानुशासनम् । तेनैव कविना विनिर्मितयालंकारतिलकवृत्तिरित्याख्यया व्याख्यया समलकृतम् । प्रथमोऽध्याय । प्रणिपत्य प्रभु नाभिसंभव भक्तिनिर्भर । विवृणोमि स्वयमहं निजं काव्यानुशासनम् ॥ प्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेयसंवन्धप्रयोजनप्रतिपादनाय च कौन्तेयकुलक- मलविकासनकभास्करस्य दुस्तरतरसमस्तशास्त्रापारपारावारगहनमध्यावगाहनामन्दमन्द- रस्य विलसत्कलिकालकेलिकमलिनीकुलमूलोन्मूलनमत्तमतङ्गजस्य सकललिपिभाषाविशे- पसमुसीनशेमुषीनुतिमुखरमुखी(मूकी)कृताशेषविशेषज्ञस्य निखिलकविकुलामानसन्मान- दानसमुपार्जितोज्झितविततकीर्तिलताव्याप्ताखण्डब्रह्माण्डमण्डपस्य दुष्टकर्माष्टकगाढकरहा- टविटपिप्रोत्पाटनपटिष्ठपरमेष्ठिपृष्ठश्रीमदरिष्टनेमिचरणकमलमधुकरस्य दुर्धरतरधर्मधुराधर- #कवन्धुरधुरधुरवरस्यागण्यपुण्यलावण्यपण्यापणिकनिपुणगणिकागणेक्षणप्रतिक्षणनिपीय. मानसर्वाङ्गसौभाग्याप्रतिमरूपसपत्पराजितरतिपतिप्रतिपन्नसेवासर्वखखयसिद्धकार्मणक- मातिपरवशरमणीयरमणीगणस्य सकलजनचेतश्चमत्कारितमेदपाटविषयप्रतिष्ठितश्रीम- त्पार्श्वजिनयात्रामहोत्सवसमुद्भूताद्भुतयश प्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरि- स्पर्धिश्रीराहडपुरप्रतिष्ठापितसुप्रतिष्ठहिमगिरिशिखरानुकारिरमणीयशुभ्रानलिहश्रीमन्ने- मिजिनवरागारोत्तुङ्गशृशोत्सझसगतसौवर्णध्वजाग्रलम्वमानकिङ्किणीझणत्कारवित्रासितरवि- रथतुरंगमस्यामन्दमन्दरायमानयानपात्रशतसहस्रमथ्यमानमहाधिमध्यसमुछसलक्ष्मील. क्षितवक्षःस्थलस्य निजभुजयुगलोपार्जितार्जितवित्तजातजनितनलोटकपुरप्रतिष्ठितत्रिभु. वनाद्भुतश्रीनाभिसभवजिनसदनप्राग्भागनिर्मापितद्वाविंशतिदेवगृहिकामण्डलस्य निजामज- वरश्रीराहडपादपकजाविचलभक्तिगुणावगणितलक्ष्मणस्य सकलसीमन्तिनीसीमन्तरत्ना- यमानसुगृहीतनामधेयश्रीमन्महादेवीकुक्षिशुक्तिशौक्तिकेयस्य श्रीमकलपाभिधानप्रधा- नदुग्धोदधिसमुद्भूताद्भुतनित्योदितनिस्तन्द्रचन्द्रस्य वसुंधरावधूहृदयहारस्य श्रीमन्नेमिकु- मारस्य नन्दनो विनिर्मितानेकनव्यभव्यनाटकच्छन्दोऽलंकारमहाकाव्यप्रमुखमहाप्रवन्ध- २ काव्यमाला। वन्धुरोऽपारतरशास्त्रसागरसमुत्तरणतीर्थायमानशेमुषीसमभ्यस्तसमस्तानवद्यविद्याविनोद- कन्दलितसकलकलाकलापसंपदुद्भटो महाकवि. श्रीवाग्भटोऽभीष्टदेवतानमस्कारपूर्वमुप- क्रमते । यथा- सर्वार्धमागधीं सर्वभाषासु परिणामिनीम् । सर्वपां सर्वतो वाचं सार्वज्ञी प्रणिदध्महे ॥ १ ॥ विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः । विदुषां हर्षपोषाय वच्मि काव्यानुशासनम् ॥ २ ॥ तद्यथा-काव्यम् । प्रमोदायानर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्ग- फललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च । चतुरचेतश्चमत्कारकारि कवे कर्म काव्यम् । तच्च कवेः श्रोतुश्च सुधानिस्पन्दसु. न्दरं प्रमोदमुत्पादयति, वाणमयूरादीनामिव रोगाद्यनर्थ निहन्ति, हेयोपादेयविवेचनाध्यव- हारकौशल्यं जनयति, तत्त्वाववोधद्वारेण नृपादिपरितोषणेन शृङ्गाररसप्राधान्येन च पुरुषार्थ- त्रयफलमाकलयति, कान्तेव सरसतापादनेन समुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणा- दिवत्' इत्युपदिशति । अयं खलु समयो महाकवीनाम् ॥ वयं तु कीर्तिमेवैका काव्यहेतु- तया मन्यामहे । यतः-तावत्प्रमोद सुलभो लाभादिनापि, अनर्थपरिहार प्रकारान्तरे- णापि, व्यवहारज्ञान चाणिक्यादिनीतिशास्त्रेभ्योऽपि, देवगुरुचरणपरिचरणतपश्चरणक- रणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्च त्रिवर्गफलसिद्धिः, कान्तातुल्यतयो. पदेशश्च कादाचित्कः स्यात् । अतः कीर्तिरेवैका काव्यहेतुः । अन्यथा कथमनेककाला- तिक्रान्ता. क्षितिपतय प्रत्यक्षा इव शास्त्रेषु प्रपश्यमाना प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति कि तैः किमप्यमरसदनादिकं कृतं न स्यात् । यदाह-'अमरसदनादिभ्यो भूता न कीर्तिरनवरी भवति यदसौ सपुष्टापि प्रण- श्यति तत्क्षये । तदलममल काव्यं कर्तुं यतेत समाहितो जगति सकले व्यासादीना विलो. क्य पर यशः ॥' व्युत्पत्त्यभ्याससंस्कृता प्रतिभास्य हेतुः । प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणध. रादीनामिव सहजा, देवतापरितोपीपधादिहेतुका कालिदासादीनामिवीपाधिकी । एता- मपि वयं कर्मक्षयहेतुकामेव मन्यामहे । प्रतिभैव च कवीना काव्यकरणकारणम् । व्युत्प- त्यभ्यासौ तस्या एव सस्कारकारको न तु काव्यहेतू । दृश्येते हि प्रतिभाहीनस्य वि. फलौ व्युत्पत्त्यभ्यासौ। व्युत्पत्तिं व्याचष्टे-~- लोके स्थावरजङ्गमरूपे तत्वरूपे च लक्षणप्रमाणसाहित्यच्छन्दोऽलं.
- १ अध्यायः ] काव्यानुशासनम् । कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषकामार्थयोगादिशास्त्रेषु च निपुणता व्युत्पत्तिः । लोकश्चतुर्दशरज्ज्वात्मकं जगत् । तच्चैकद्वित्रिचतु:सप्तचतुर्दशैकविंशतिसंख्यामतैरने- कधा भवति । तत्र चैकं यथा-'यदाज्ञया स्खलितमिदं न लङ्घते निज निजं जगदवधि क- दाचन। तयो समप्रकटितदण्डचण्डयो. किमन्तर नरपतिधर्मराजयो. ॥' द्वे यथा-'रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्त सुन्तती वैवुधं पदम् ॥' त्रीणि यथा -'स वः पातु जिन कृत्स्नमीक्षते य प्रतिक्षणम् । रूपैरनन्तरेकैकजन्तोर्व्याप्तं जगत्रयम् ॥' सप्त यथा-'सस्तम्भिनी पृथुनितम्वतटैधरित्र्या. सवाहिनी जलमुचा चलकेतुहस्तै । हर्षस्य सप्तभुवनप्रथितोरुकीर्ते प्रासादपतिरियमुच्छिखरा विभाति॥' चतुर्दश यथा-'न्याय्यख- भावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा-श्रीराहडस्य भुवनानि च- तुर्दशापि सरोहति स्म वितता खलु कीर्तिवल्लि ॥' एकविंशतिरित्यपरे–'हरहासहरावा- सहरहारनिभप्रभा । कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥' तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः । तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असंख्याता द्वीपसमुद्रा. । कविसमयश्चायम्-'जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽन्त. क्र. मोऽन्त । कौच्च शाकः पुष्करश्चेत्यथैषा वाह्यावाह्या सस्थितिमण्डलीभि ॥'लावणो रसमय: सुरोदकः सार्पिषो दधिजल पय पया' । खादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्य- वस्थिताः ॥ तत्र चैक एव समुद्र इति केचित्-'द्वीपान्यष्टादशानि क्षितिरपि नवनिर्वि- स्तृता खासखण्डैरेकाम्भोधिर्दिगन्तप्रसमरसलिल. प्राज्यमेतत्सुराज्यम् । कस्मिन्नव्याजके- लिव्यतिकर विजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्रुकोप॥' त्रय इत्यन्ये—'कान्तिश्रीहीधृतिमतिमुखा योषितोऽनेन तावत्पार्श्वे न्यस्ता किमु तदधुना दुर्भगाहं करोमि । कौन्तेयेन्दोस्तदिति सुचिर चिन्तयित्वेव सेD प्रोलक्याब्धित्रित- यमगमत्कीर्तिकान्ता परस्तात् ॥ चत्वार इत्यपरे-'भ्रान्तं चतुर्जलधिसीम्नि मया पृथिव्या- मीन देवभवनं न च मण्डपश्री । अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिमहाभ्युदयिनी लिखति प्रशस्तिम् ॥' सप्तेत्यपरे—'सावष्टम्भनिशुम्भनिर्भरनमद्भूगोलनिःपीडनन्यश्चत्क- परकूर्मकम्पविलसद्ब्रह्माण्डमाण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे व- न्दितनीलकण्ठपरिषद्व्यक्तर्द्धि व क्रीडितम् ॥' 'निमेखल वर्णमयो विशालस्थालवर्तुल. । जम्बूद्वीपस्य मध्येऽस्ति मेरुराद्यो महीभृताम् ॥' तदपेक्षया दक्षिणतो भारत वर्षमिदम् । अस्य नव खण्डानीत्येके-'मृदित्वा दोःकण्डू समरभुवि वैरिक्षितिभुजा भुजादण्डे दधुः कति न नवखण्डा वसुमतीम् । यदेव साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगी- शाना पिवसि नृप तत्कस्य सदृशम् । षट् खण्डानीत्यपरे-'षटखण्डखण्डा जगतीमण्डला- खण्डलोऽभवत् । भूभर्ता भरतो नाम नाभिनन्दननन्दन. ॥' तस्मिंश्च भरतक्षेत्रे-'वि- न्ध्यश्च पारियात्रश्च शक्तिमानृक्षपर्वतः । माहेन्द्रसह्यमलया सप्तैते कुलपर्वता. ॥ तत्र विन्ध्यादय प्रसिद्धवृत्तान्ता एव । मलयास्तु चत्वार । तन प्रथमो यथा-'एलालवन- काव्यमाला। लवलीककोल जातिमरिचजन्मपदम् । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ॥' द्वितीयो यथा-'तस्मिन्विट्ठमभूरुहः प्रतिपद वेशेषु मुक्ताफल रत्नाना खनयः पुनाति च मुनि शृङ्गाणि कुम्भोद्भवः । का'रास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां रवैर्यस्या- भाति तटेषु मौक्तिकनिधिः सा ताम्रपर्णी सरित् ॥' तृतीयो यथा-विलासभूमिवाना नृणा रोगास्पदं मुनेः । सदा पुष्पफलारामरम्यसानुः स पर्वत ॥' चतुर्थो यथा-सा तत्र चा- मीकररत्नचित्रै. प्रासादमालावलभीविटकैः। द्वारार्गलाबद्धसुरेश्वराका लङ्केति या रावण- राजधानी ॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी। तेभ्यश्चतुर्योऽपि वसन्त- मित्रमुदमुखो दक्षिणमातरिश्वा ॥' पूर्वापरयोः समुद्रयोहिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः । तस्मिंश्चातुर्वर्ण्य चातुराश्रम्यं च तन्मूलश्च सदाचार. । तत्रयो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्कलमगधमुद्गरकविदेहने- पालपौंद्रप्राग्ज्योतिषिकताम्रलिप्तकमलदलमल्लतकसुब्रह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृ- हद्गृहलोहितागिरिचकोरद१रनेपालकामरूपादय. पर्वताः शोणलोहितौ नदौ । गङ्गाकर- तोयाकपिशाद्याश्च नद्यः । लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । माहिष्म- त्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलकथकैशिकसूर्पा- रककाश्चिकेरलकावेरमुरलवानवासकसिंहलचोडदण्डपाण्ड्यपल्लवगागनासिक्यकौक्षणकोल्ल- गिरिवेल्लरप्रभृतयो जनपदाः। विन्ध्यदक्षिणपादमाहेन्द्रमलयमेकलपालामजरश्रीसह्यपर्व- तादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभीमरथीवेणीजम्बुरातुङ्गभद्राताम्रपर्यु- पलावतीरावणगङ्गाया नद्य तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता । देवसमायाः परत. पश्चाद्दे- शः। तत्र देवसभसुराष्ट्रदासेरकत्रवणभृगुकच्छककच्छीयानर्तार्बुदब्राह्मणवाहहययवनप्रभृ- तयो जनपदाः । गोवर्धनगिरिनगरदेवसभमाल्यशिखरावृंदोजयन्तशत्रुजयादयः पर्वताः। सरखतीश्वभ्रवतीवार्तघ्नीमहीहिण्डवाद्या नद्यः। करीरपीलगुग्गुलुखर्जूरकरभादीनामुत्पादः। पृथूदकात्परत उत्तरापथः । यत्र शककेकयक्काणहूणवनायुजकम्बोजबाहीकवल्हवलम्पाककु. लूतकीरतंगणतुवारतुरुष्कबर्बरहरहरकुहक्रसहुडहंसमार्गरमठकरकण्डप्रभृतयो जनपदा ।हि- मालयजालंधरकलिन्देन्द्रकीलचन्द्राचलादयः पर्वता. । गङ्गासिन्धुसरखतीशतद्रुचन्द्रभागा- यमुनैरावतीवितस्ताविपाशाकुहूदेविकाद्या नद्य.। सरलदेवदारुद्राक्षाकुलमचमराजिनसौ- वीरस्रोतोऽजनसैन्धववैडूर्यतुरङ्गमाणामुत्पादः । तेषा मध्ये मध्यदेश इति व्यवहारः । य- दाह-हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच प्रध्यदेशः स की- र्तितः ॥' तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च । तत्प्रसिद्धिसिद्धमिति न नि. दिष्टम् । 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्या' कविभिरिति गाढं न चिन्तिताः। विशसनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदि । तदपेक्षया दिशो विभजे. तेति केचित् । वय तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत । ताश्च च- तस्र इत्येके । यथा-'पुत्रो रघुस्तस्य पदं प्रशास्ति महाकतोर्विश्वजितः प्रयोका। चतु- दिगावर्जनसंमृतां यो मृत्पात्रशेषामकरोद्विभुतिम् ॥' अष्टावित्यन्ये । यथा-'एकं ज्योति- ..
- १ अध्यायः] काव्यानुशासनम् । देशी द्वे त्रिजगति गदितान्यजजास्यैश्चतुर्भिभूताना पञ्चमं यान्यलमृतुषु तथा षेट्सु ना- नाविधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाजि भानोर्यान्ति प्रारू नवत्वं दश ददतु शिवं दीधितीना शतानि ॥ दशेत्यपरे-'दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशख- पिश्रुतम् । दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विवुधाः ॥' अत्र हि देशपर्वतसरिदिशा यः क्रमस्तं तथैव बनीयात् । नान्यथा।तत्र प्राच्याना श्यामो वर्ण प्रायेण । यथा-'गण्ड- भित्तिषु गौडीना तमालदलकान्तिषु । विभ्राजन्ते स्म कार्य. पत्रवल्लयो विशेषतः ॥' दाक्षिणात्याना कृष्ण. । यथा-'इदं भासा भर्तुर्दुतकनकगोल, प्रतिकृतिक्रमान्मन्दज्योर्ति- गलति नभसो विम्बवलयम् । अथैष प्राचीन सरति मुरलीगल्लमलिनस्तरुच्छायाचनः स्तबकित इव ध्वान्तविसरः॥' पाश्चात्याना पाण्डुवर्णः। यथा-'शाखास्मेर मधुकवलनाके- लिलोलेक्षणाना भृगस्त्रीणा वकुलमुकुलं कुन्तलीभावमेति । कि चेदानीं यवनतरुणीपाण्डु- गण्डस्थलीभ्य कान्तिः स्त्रोकरचयति पदं नागवल्लीदलेषु ॥' उदीच्या गौर । यथा-'कृत्वा नूपुरमूकता चरणयोः सयम्य नीवीमणीनुद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति गौरी क्रुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीताशुरभ्यु- गतः ॥' मध्यदेशाना कृष्णः श्यामो गौरोवेति लोकखरूपमुक्तम् । अथात शास्त्रनैपुण्य- मुदाह्रियते। तत्र लक्षणे नैपुणं यथा-'कण्ठलमाः सदा स्त्रीणा खेलन्ति इह खगिका । विरामे न प्रवर्तन्ते कदाचित्सधयो यथा ॥' तर्कः षट्प्रकारः-'जिनं साख्यं शिवं भा वौद्धं लौकायतं तथा । षडेता दृष्टय. प्रोक्का शेषा पाषण्डवृत्तयः ॥' जैनं यथा-'न या- स्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिण. ॥' साख्यीयो यथा-'उदासितार निगृहीतमानसैहीत- मध्यात्मदृशा कथंचन । वहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वा पुरुषं पुराविदः ॥' शैवो यथा-'किमीह. किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति कि- मुपादान इति च । अतक्र्यैश्वर्ये त्वय्यनवसरदु स्थो हतधियः कुतर्कोऽयं काश्चिन्मुख- रयति मोहाय जगत ॥' भट्टाना यथा-'वैखर्गकाम क्रमत. ऋतूना तदग्निहोत्रं जुहुया- द्विजन्मा। इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम् ॥' बौद्धीयो यथा- 'नात्मा कश्चिदिहास्तीह प्रत्यक्षानुपलब्धितः । विज्ञानमात्रमेवैतज्जगत्क्षणविनश्वरम् ॥' लौकायतीयो यथा-'पिष्टोदकगुडादिभ्यो मदशक्तिरिव स्वयम् । वहथुवीवायुवारिभ्यो भू- तानां तनुचेतना ॥' साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्श । छन्दो- नैपुण यथा-'सद्यतिसेवितपादं वरगणधरमूर्जितप्रवरवृत्तम् । श्रीवर्धमानमादौ जयदेव भ- तितो वन्दे ।।' अलंकारनपुण यथा-'प्रसन्ना. कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भ. पन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥' अपौरुषेयं वच. श्रुतिः । तन्नैपुणं यथा-- 'निवेशयामासिथ हेलयोद्धृतं फणामृता छादनमेकमोकस. ।जगत्रयै कस्थपतिस्त्वमुच्चकैर- हीश्वरस्तम्भशिर सु भूतलम् ॥' श्रुत्यर्थमरणात्स्मृतिः-'भव्याभव्यविलोकिलोचनयुग चेतः स्मृतेः पारगं धम्मिल्ले शिरसि स्थिते वरतनोर्मुख्या द्विजाः साक्षिण. । स्वेयं नो का w काव्यमाला। - मम कालिकेति कुचयोर्द्वन्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिपतः फालं दधौ शुद्धये ॥' यथा च-'एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति । सौवर्ण रजतस्य गोलकममुं धत्तः खाभाग्योदयात्सूर्याचन्द्रमसो- मिषेण युगपत्प्रातः खयं शुद्धये ॥ वेदाख्यानोपनिवन्धनं पुराणम्-'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं धृतः किं नैवं कस्कोत्र जीवो द्रुतमुपनय रे देवसप्राप्त एव । चापं चापं न खगः किमिति हहहहा कर्कशत्वं नखानामित्थं दैत्याधिनाथं खरनखकु. लिशैर्जन्निवान्यः स वोऽव्यात् ॥' पुराणप्रतिभेद एव इतिहासः। तनैपुणं यथा-'मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम् । जगनिघत्सातुरकण्डपद्धतिर्न वालिनैवाहिततृप्तिरन्तकः ॥' मागम आप्तवचनं यथा-'प्रजापतिर्यः प्रतिम जिजीविषु. शशास कृष्यादिषु कर्मसु प्रजाः।प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदावर.॥' नाट्यनैपुणं यथा-'कार्योपक्षेपमादौ तनुरपि रचयंस्तस्य विस्तारमिच्छन्बीजानां गर्भिताना फलमतिगहनं मूढमुद्भेदयश्च । कुर्वन्बुद्ध्या विमर्श प्रसृतमपि पुनः संहरन्कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥' अभिधानकोशो नाममाला । ततो हि शब्दनिश्चयः ॥ ननु प्रयुक्तमेव प्रयुज्यते, अन्यथाप्रयुक्तत्वदोषावकाशः तरिक नाममालया । मैवम् । सामान्येन प्रयुक्तादर्थावगतिर्भवति । यथा-नीवीशब्देन जघनव- स्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः, 'स्त्रियः पुरुषस्य वा' इति संशये 'नीविराग्रन्थन नार्या जघनस्थस्य वासस.' इति नाममालापदावलोकनादेव निर्णयो भवति । कामशास्त्रे नैपुणं यथा-'सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुग्धमलमर्थवचासि । हारभूषणर- वाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥' अर्थशास्त्रनैपुणं यथा-'मत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तरैरुधुक्ताः खनियोगसाधनविघौ सिद्धार्थकाद्याश्चराः । कृत्वा संप्रति कैतवेन कलहं मौर्येन्दुना राक्षसा त्स्यामि खवनेन भेदकुशलेनैष प्रतीपं द्विषः॥' योगशास्त्रनैपुणं यथा-'मैन्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रणाशमिह लब्धसवीज- योगाः । ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धम्॥' आदिशब्दाज्ज्योतिःशास्त्रनैपुणं यथा-'क्रूरग्रहः स केतुश्चन्द्रमस पूर्णमण्डलमिदानीम् । अ- भिभवितुमिच्छति बलादक्षत्येनं तु बुधयोगः॥' गजलक्षणनैपुणं यथा-'भद्रात्मनोर्दुरधिरो- हतनोविशालवशोन्नते कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगते. परवारणस्य दानांबुसे- कसुभगः सततं करोऽभूत् ॥' अश्वलक्षणनैपुणं यथा-'निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणसुरभि स्निग्धंच रोमोगमे । पीन पश्चिमपार्श्वयो पृथुतर पृष्ठे प्रधानं जवे राजा वाजिनमारुहोह सकलैर्युक्त प्रशस्तैर्गुणैः ॥' रत्नपरीक्षानैपुणं यथा-- 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलनासविरहितत्रिलोकचि- म्तामणिर्नेमिः ॥' द्यूतशास्त्रनैपुण यथा-'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्ये- कस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह बहुकलः क्रीडति प्राणिशारैः॥ धनुर्वेदनैपुणं यथा-'स दक्षिणापाङ्गानिविष्टमुष्टिं १ अध्यायः ] काव्यानुशासनम् । नतासमाकुञ्चितसव्यपादम् । ददर्श वक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' एव- मन्यदपि। काव्यज्ञशिक्षया परिशीलनमभ्यासः । काव्यं कर्तु विचारयितुं च ये जानन्ति तेषा शिक्षया प्रवृत्तिरभ्यासः । शिक्षामाचक्षते- तत्र कविसमये सतामपि भावानां केषांचिदनिबन्धः । तद्यथा-मालया वसन्ते। यथा-'मालतीविमुखश्चैत्रो विकासी पुष्पसपदाम् । आ- श्वर्य जातिहीनस्य कथं सुमनसः प्रिया ॥' पुष्पफलयोश्चन्दनद्रुमे । अनिबन्ध इति वर्तते । यथा-'सा छाया स च सुन्दरः परिमलस्ते कोमला. पल्लवा भातश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । दृप्यद्दुष्टभुजङ्गसगतिवशादापादमूलागतैन रानीतं फलमन्यतोऽपि पथिक. साशङ्कमाखाद्यते ॥' फलस्याशोकेषु । अनिवन्ध इति वर्तते । एवमन्यत्रापि । 'किं ते नम्रतया किमुन्नततया किं वा धन- च्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया। यत्त्वन्मूलनिषण्णखिन्नपथि- कस्तोम स्तुवनन्वह न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः॥' कृष्णपक्षे ज्योत्स्नायाः । शुक्लपक्षे त्वन्धकारस्य । यथा-'परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः। एको हि सितः पक्ष कौ. मुद्या तुल्ययापि कृष्णोऽन्य ॥' कुन्दकुमलानां कामिदन्तानां रक्तत्वस्य । यथा-'व्याकोशकुन्दकुमलविमलदती यो विहाय राजिमतीम् । मुक्त्यानानुरको बभूव नेमि स व. पायात् ॥' कमलमुकुलानां हरितत्वस्य । यथा-'उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मना लावणसैन्धवेऽम्भसि मही- मुद्यच्छतो हेलया । तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवता- दलिहामं वपुः ॥ प्रियङ्गुपुष्पाणां पीतत्वस्य । यथा-'प्रियङ्गुश्यामलाझामो मुमुक्षुध्यानगोचरः । जपार्तिहरणायास्तु स सज्ञानो जिन. सताम् ॥' दिवा नीलोत्पलादीनां विकासस्य ।
८ काव्यमाला ॥ यथा-'कुमुदवनमपथि श्रीमदम्भोजपण्डं त्यजति मदमुलूकः प्रीतिमॉश्चक्रवाकः । उ. दयमहिमरश्मिर्याति शीतांशुरस्त हतविधिललितानां वै विचित्रो विपाकः ॥' दिवा शेफालिकाकुसुमानां विलंसस्य । यथा-'त्वद्विप्रयोगे किरणैस्तथोरैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःख शशिने गदन्ती शेफालिका रोदिति पुष्पवाष्पैः ॥' कचिदसतामपि भावानां निबन्धः । तद्यथा-नदीषु नीलोत्पलादीनाम् । यथा-'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहतविकाशिविसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम् ॥' जलाशयमाने हंसानाम् । यथा-'अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षण सा हंसैः कृतकौतुका चिरमभू- गोदावरीरोधसि । आयान्त्या परिदुर्मनायितमिव त्वा वीक्ष्य वद्धस्तया कातर्यादरविन्दकु- हमलनिभो मुग्धः प्रणामाजलिः ॥' पर्वतमात्रे स्वर्णरत्नगजानां निवन्धः । यथा-'क्रान्तं रुचा काचनवप्रभाचा नवप्रभाजालभृतां मणीनाम् । त्रितं शिलाश्याम लताभिरामं लताभिरामन्त्रितषट्पदामि ॥ यथा च-नीलाश्मरश्मिपटलानि महेभमुक्त- सूत्कारसीकरविसृद्धि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधि- यात्र मयूरनार्य ॥' तमसो मुष्टिग्राह्यत्वस्य । यथा-'गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्घालोके नरपतिपथे सूचिभेद्यै- स्तमोभिः। सौदामिन्या कनकनिकषनिग्घया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ज्योत्स्नायाः कुम्भोपवाह्यत्वादेः । यथा-'शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्य- च्छविः प्रागभूत् । उत्सेक्या कलशीभिरजलिपुटैाया मृणालाश्चले. पातव्या च शशिन्य- मुग्धविभवे सा वर्तते चन्द्रिका ॥' शिवचन्द्रमसो बालत्वस्य । यथा-'कपालनेत्रान्तरलब्धमार्गेयॊतिःप्ररोहैरुदितैः शिरस्तः । दिवापि निष्ठ्यूतमरी- चिभारा बालस्य लक्ष्मी ग्लपयन्तमिन्दोः॥' यशोहास्ययोः शौक्लयस्य । यथा-'कर्पूरमगर्भधूलिघवलं यत्केतकाना त्विषः श्वेतिम्ना परिभूय चन्द्रमहसा साधु प्रतिस्पर्धते । तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशः प्रालेयाचलचूलिकासु भव- १ अध्यायः] काव्यानुशासनम् । ९ तो गायन्ति सिद्धाजनाः ॥' यथा च 'गत्वा चोर्ध्व दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथि: स्या. । शृङ्गोच्छ्रायः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूत प्रतिदिशमिव त्र्यम्बकस्याहासः ॥' अयशःपापयोः काय॑स्य । यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥ यथा च-'तमश्चये महति निमज्जत सतो जनस्य सत्पथ- गतिदर्शनं दिशत् । दिगन्तरप्रथितरथाश्वसचर. प्रभाकरो भवति नरेश्वरः स्फुटम् ॥' क्रोधानुरागयो रक्तत्वस्य । यथा--"शितितारकानुमितिताम्रनयनमरुणीकृतं क्रुधा। वाणवदनमुददीपि मिये जगतः सकीलमिव सूर्यमण्डलम् ॥' यथा-'गायन्निवालिविरुतैर्नृत्यन्निव चलैदलै. । त्वद्गुणैरिव रस्तोऽसौ मोदतेऽशोकपादपः ॥' चक्रवाकानां निशि भिन्नतटाश्रयणस्य । यथा-'इह हि कुमुदकोशे पीतमम्भ सुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम् । इति रटति निशाया पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥' केषांचिन्नैयत्यम् । यथा-समुद्रेष्वेव मकराः । यथा-'रनाना निधिरित्यपा निलय इत्यत्युष्णतृष्णाज्वरैरस्माभिः श्रित एष केलिस- दनं लक्ष्मीप्रियस्येति च । को जानाति यदस्य यास्यति करक्रोडान्तरस्थ पयस्ताम्यन्मीन- मधीरलोलमकर वातापितापी मुनि ॥' ताम्रपामेव मौक्तिकानि । यथा-'यस्योत्तमा मौक्तिककामधेनुरुपत्यकामश्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहा- निधानं कुम्भोद्भवस्तं मलयं पुनाति ॥' मलयगिरावेव चन्दनोत्पत्तिः । यथा--'ये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिना जल- निधे रत्नार्जने नोद्यमः । काश्मीरप्रतिवासिनां भुवि नृणा नात्यादरः कुडमे दूरस्थस्य महार्घता परिभव. संवासतो जायते ॥' हिमगिरावेव भूर्जजन्म । यथा-'तत्सैनिकाः समासाद्य भूर्जश्रस्तरिता भुवम् । तुषाराद्रिपिटकेषु मुमुचुर्दि- ग्जयश्रमम् ॥ वसन्त एव कोकिलरुतम् ।
१० काव्यमाला। यथा-'माणं मुञ्चध देह वल्लहजणे दिहिं तरगुत्तरं तारुणं दिअहाणि पञ्च दह वा पीणत्थणत्यम्भणम् । इत्थं कोइलमजुसिञ्जणमिसा देवस्स पश्चेसुणो दिण्णा चित्तमहूसवेण सहसा (भुवणे) आण्णव्व सव्वंकसा ।' वर्षाखेव मयूरस्य नृत्यं रुतं च । यथा--'ज्योतिर्लीलावलयि गलितं यस्य बर्ह भवानी पुत्रप्रेम्णा कुवलयदलनापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादविग्रहणगुरुभिर्गर्जितै- नर्तयेथाः॥ अविशेषोक्तौ माणिक्यानां शोणतैव । यथा-'विभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः । कृतालक्तकपोतश्रीविभ्रमा- सन्नवारिदा.॥' पुष्पाणां शुक्लतैव । -'फलेषु सुखादुतरेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलग्नम् । जाने तदानीं स्मि- तपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी ॥' मेघानां कृष्णतैव । यथा-'लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्वमानसौ नीरदनीलभासः । लतावधूसंप्र- युजोऽधिवेलं बहूकृतान्खानिव पश्यति स्म ॥' कृष्णनीलहरितश्यामानाम् । ऐक्यमिति ( वक्ष्यमाणेन ) संबन्धः । एवमग्रेऽपि । यथा-'सजलजलदनीला भाति यस्मिन्वनाली मरकतमणिकृष्णो यत्र नेमिर्जिनेन्द्रः । विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न कॉस्कास्तत्पुरं राहडस्य ॥' पीतरक्तयोः । यथा--'नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणे ति भासां विता- नम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरूद्धमौर्वानलाचिः॥' शुक्लगौरयोः। -'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥' रक्तगौरयोः। १. कर्पूरमजयाँ प्रथमजवनिकान्तरे श्लोकोऽयम्. 'मानं मुञ्चत ददत वल्लभजने दृष्टिं तुरझोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थ कोकिलमञ्जु- शिजनवशाद्देवस्य पञ्चेषोर्दत्ता चित्तमहोत्सवेन सहसा (भुवने) आज्ञैव सर्वकषा ॥' इति छाया.
१ अध्यायः ] काव्यानुशासनम् । ११ यथा-'पयसि सलिलराशेर्नक्तमन्तर्निमग्नं स्फुटमनिशमतापि ज्वालया वाडवानेः। यदयमिदमिदानीमजमुद्यद्दधाति ज्वलितखदिरकाष्ठाझारगौर विवखान् ॥' चन्द्रे शशमृगयोः। यथा-'लक्ष्मीक्रीडातडाग रतिधवलगृह दर्पणो दिग्वधूनां पुष्पश्यामालतायात्रिभु- वनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममृतसरित्पुण्डरीक शशाको ज्यो- स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥ यथा वा-'किं कारणं तु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । एके मृगायमृगमादिवराहमन्ये देव त्वदनचकिता श्रयितुं खजातिम् ॥ कामकेतने मकरमत्स्ययोः । यथा--'घाणाहवव्याहतशंभुशक्तरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥' यथा वा-'स्त्रीमुद्रा झषकेतनस्य महतीं सर्वार्थसप- करी ये मूढा. प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः । ते तेनैव निहत्य निर्दय- तर मुण्डीकृता लुञ्चिताः केचित्पश्चशिखीकृताश्च जटिन. कापालिकाश्चापरे ॥' समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः । यथा-'उत्पत्तिर्जलधौ तुषारशिशिरा कान्ति· क्लमच्छेदिनी वासो जह्वसुताङ्गसङ्गशु- चिनि स्थाणोर्जटाजूटके । एतस्मॅिस्त्रितये तथापि न गत सपूर्णता चन्द्रमा पुंसा सत्य- मिदं न जन्म न गुणा नोपाश्रय सपदे ॥' यथा च–'अनिजातस्य या मूर्तिः शशिनः सज्जनस्य च । के साँवरात्रिजातस्य तमसो दुर्जनस्य च ॥' द्वादशानामप्यादित्यानाम् । यथा-साद्रियूनिदीशा दिशति दश दिशो दर्शयन्प्रारदृशोर्य सादृश्यं दृश्यते नो स दशशतदृशि त्रैदशेयस्य देशो (2)। दीप्ताशुर्व स दिश्यादशिवयुगदशादर्शितद्वादशात्मा सशास्त्यश्वॉश्च यस्याशयविदतिशयाइदशूकाशनाया ॥ क्षीरक्षारसमुद्रयोः। यथा-'ग्रावाणो मणयो हरिर्जलचरो लक्ष्मी पयोमानुषी मुक्तौघाः सिकता प्रवाल- लतिका शैवालमम्भ सुधा। तीरे तल्पमहीरह किमपर नाम्नव रत्नाकरो दूरे कर्णरसा- यनं निकटतस्तृष्णापि नो शाम्यति ॥' देत्यदानवासुराणाम् । तत्र हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनवलिवाणादयो दैत्या । विप्रचितिसंवरनमु. चिपुलोमप्रमतयो दानवा । वलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः । तेषामैक्यम् । यथा-'करोति कंसादिमहीभृता वधाजनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुर:- सरासुरद्विपद्विष प्रत्युत सा तिरस्किया ॥' यथा च-'तं संवरासुरशरासनशल्यसारके- १२ काव्यमाला। यूररत्नकिरणारुणवाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभझं मीनध्वज जितजगत्रितयं ज- येत्कः ॥ कामस्य मूर्तत्वामूर्तत्वयोः । तत्र मूर्तत्वस्य यथा-'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना वि- रहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः कर करेण परिताडय- जयति जातहासः स्मरः ॥' अमूर्तत्वस्य यथा-'तव सौरूप्यमालोक्य जगज्जनविलक्ष- णम् । लज्जयेव जगस्वामिन्ननगोऽनङ्गतां गतः ॥' चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम् । तत्र शुक्लता यथा-'जं मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिज्ञाथिद्विअ- केअअग्गिमदलद्दोणीसरिच्छच्छई। तं कप्पूररसेण णं धवलिदो जोहाअ णं पहाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो मि एत्थतरे॥ श्यामलता यथा-'तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपति । श्यामीचकार वनमाकुलदृष्टिपातैर्वातेरितोत्पलद- लप्रकरैरिवाम्भः ॥ कृष्णता यथा-'पादन्यासक्वणितरसनास्तत्र लीलावधूतै रत्नच्छाया- खचितवलिभिश्चामरैः कान्तहस्ता । वश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामो- क्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥' रक्तता यथा--'वक्र चन्द्रो नयनयुगली- पाटलाम्भोजयुग्मं नासानाल दशनवसनं फुल्लवन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बौ गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमस्या. ॥' अनेकवर्णता यथा-'ता- मुत्तीर्य व्रजपरिचितभ्रूलताविभ्रमाणा पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्द- क्षेपानुगमधुकरश्रीमुखामात्मविम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥' क्वचित्प्रतिबिम्बतया क्वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायो- पजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थ- शून्याभासादयश्च शिक्षा । तत्र यथा(त्रा)र्थः स एव, वाक्यान्तरविरचना त्वन्या । तत्प्रति- बिम्बतुल्यम् । १. 'पौष्प्या. पञ्च शराः शरासनमपि ज्याशून्यमिक्षोलता जेतव्यं जगता त्रयं स च पुनर्जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन्व्यापार सुतरां वि- चारपदवीवन्ध्यो विधिर्वन्द्यताम् ॥' इत्यपि प्रत्यन्तरे. २. कर्पूरमजयों प्रथमजवनिकाया श्लोकोऽयं वर्तते. 'यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधि- ष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्काना घनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे ॥' इति च्छाया.
१ अध्यायः] काव्यानुशासनम् । १३ . । यथा-'तेजः पुष्णातु पार्यो दुरितविजयिन• शाश्वतानन्दवीजं संक्रान्तः सप्तरन्या 'भुजगपतिफणाचक्रपर्यकभाजि । कर्माण्यष्टौ समन्तात्रिभुवनभवनोत्सजिताना जनाना य- इछेत्तुं तुल्यकालं वहति निजतनु क्लुप्तसप्तान्यरूपाम् ॥' अत्रार्थे–'पाचप्रभु. फणिफणा- मणिसप्तकान्तः सक्रान्तकान्तवपुरस्तु स व. शिवाय । कर्माष्टकं सपदि हन्तुमिवानताना य क्लुप्तसप्तविततान्यवपुर्विभर्ति ॥' कियतापि भेदेनैतस्माद्यद्भिन्नमिव प्रतिभासते । तदालेख्यप्रख्यम् । यथा-'जयति फणीन्द्रफणामणिसक्रान्तवपुर्जिन. पार्थः । सर्वमनेकान्तमिदं वस्त्वि- ह कथयनिवेति भव्यानाम् ॥' यत्र विषयभेदेऽपि नितान्तसादृश्यादभेदप्रतीतिस्तत्तुल्यदेहितुल्यम् । यथा-'प्रतिदिशमिह दोलान्दोलनव्यामृताना कुवलयनयनानामाननैरुल्लसद्भिः । वि. मललवणिमाम्भश्वन्द्रिका द्राकिरद्भिर्नवशशधरमालामालिनीवाभवढ्यौः ॥' अनार्थ- 'जिनभवनशिखाग्रन्यस्तपर्यस्तदोपस्फुरितरुचिरकुम्भोदामदीप्तिप्रतानैः । प्रतिसमयमिह- श्रीराहडेनाधिकं द्यौस्तरुणतरणिमालामालिनीव व्यधायि ॥' यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यस्तत्परपुरप्रवेश- तुल्यम् । यथा-'अलंकार शहाकरनरकपालं परिजनो विशीर्णाझो भृङ्गी वसु च वृप एको व- हुवयाः। अवस्थेय स्थाणोरपि भवति समिरगुरोविधौ वके मूर्ध्नि स्थितवति वयं के पु- नरमी॥ यथा च-'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्ब- नाय दिनभर्तुरभून पतिष्यत करसहस्रमपि ॥' पदोपजीवनं यथा-'दूराकृष्टशिलीमुख- ध्यतिकरानो कि किरातानिमानाराघातपीतलोहितमुखानिक वा पलाशानपि । पान्या केसरिण न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रिया देव- ताम् ॥ यथा च-'मा गा पान्थ प्रिया मुक्त्वा दूराकृष्टशिलीमुखम् । स्थित पन्थानमावृत्य कि किरात न पश्यसि ॥' पादोपजीवन यथा-'जातो मार्गे सुरभिकुसुम. सत्फलो नम्र- शासः स्फीताभोगो बहुलविटप. खादुतोयोपगूढ । नैवात्मार्थ वहति महतीं पादपेन्द्रः श्रिय तामापनातिप्रशमनफलाः सपदो ह्युत्तमानाम् ॥' यथा च तं चेद्वायौ वहति सर- लस्कन्धसघटजन्मा बाधेतोल्काक्षपितचमरीवालभारो दवामि । अर्हस्येनं शमयितुमलं ना- रिधारासहखैरापनातिप्रशमनफलाः सपदो धुत्तमानाम् ॥' आदिशब्दात्पादत्रयोपजीवनम- पि युज्यते परं तत्प्रकटचार्यमिति नोपदिष्टम् । उक्त्युपजीवनं यथा-'कैवर्तकर्कशकरग्रहण- घ्युतोऽपि काले पुनर्निपतितः शफरो वराक. । जालात्पुनर्निगलितो गलितो चकेन वामे विधी यत कुतो व्यसनानिवृत्तिः ॥' यथा च--'छित्त्वा पाशमपास्य कूटरचना भक्त्वा बलाद्वागुरो प्रान्तेपु ज्वलदग्मिजालजटिलानिर्गत्य दूर वनात् । व्याधाना शरगोचरादतिजते. नोत्सत्य धावन्मृग कूपान्त पतित. करोतु विगुणे किंवा विधौ पौरुपम् ॥' समस्यापूरणं का.३ १४ काव्यमाला। त्वनेकधा भवति । पादसमस्या यथा-'समुद्राद्धूलिरुत्थिता' इति चतुर्थः पादः । अत्र क्र. मशस्त्रयः पादाः । यथा-'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भस. । अध.फणीन्द्रफूत्कारै. समुद्राद्धूलिरुत्थिता ॥' पादद्वयसमस्या यथा—'स्तनावालोक्य तन्वयाः शिर. कम्पयते युवा।' इति पूर्वार्धम् । 'तयोरन्तर्विनिर्मनां दृष्टिमुत्पाटयन्निव ॥' इत्युत्तरार्धम् । पादत्र- यसमस्या यथा-'गत्वा चोर्ध्व दशमुखभुजोच्छ्वासितप्रस्थसंधेः सद्यःकृत्तद्विरददशनच्छेद- गौरस्य तस्य । कैलासस्यादिमजिनपतिं प्रार्थयेऽस्त्रं विमुक्त्यै याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन संकलितम् । यथा च- 'छन्नोपान्तः परिणतफलद्योतिभिः काननादैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । योऽयं नेमेः सदनमचल. प्रीतये यत्र ते स्याच्छीतो वायुः परिणमयिता काननोदुम्बरा- णाम् ॥' पदपरिवृत्तियथा-'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' तथा 'वाण्यर्थाविव सपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो मातरौ (2) वन्दे शर्वाणीशशिशेखरौ॥' अर्थशून्यपदाभ्यासो यथा-'आनन्दसंदोहपदारविन्दकुन्दे- न्दुकुन्दोदितबिन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनिन्द्यन्मकरन्दवन्द्यम् ॥' बवयोर्डलयोरैक्यम् । यथा-'पृथुकार्तखरपात्रं भूपितनि शेषपरिजनं देवम् । विलसत्करेणुगहनं संप्रति सम- मावयोः सदनम् ॥' यथा च-'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचिर्दण्डे क. फैशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं किल सग्रहव्यसनिता द्वेपश्च दो- षाकरे यस्यैषा स्थितिरम्वुजस्य वसतियुक्तैव तत्र श्रियः ॥' नानुखारविस! चित्रभङ्गाय । यथा-'चन्द्रेडितं चटुलितस्वरधीशसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतप कचलोपलोचम् ॥' पापतिमिरक्षयकारकायं प. श्यामि । इति हारवन्धचित्रम् ॥ कथंभूतम् । चन्द्रेडितं चन्द्रस्तुतम् । पुन कथंभूत- म् । चटुलितखरधीशसाररत्नासनं कम्पितशकोत्कृष्टसिंहासनम् । रभसकल्पितशोकजातं निराकृतशोकसमूहम् । पुनः कथंभूतम् । अल्पेतरामलतप कचलोपलोचं केशापनोद- दर्शकम् ॥ विसर्गों यथा-'नित्यं कुन्थ्वा(म्भ्या?)दिसत्त्वेष्वहिस्र कुंथ्वितिसंज्ञक । करि- राजकराकारकरो मामवताजिनः ॥' त्रिशूलवन्धचित्रं सुवोधम् । शब्दार्थो निर्दोषौ सगुणौ प्रायः सालंकारौ काव्यम् । दोपगुणालंकाराणामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः । प्राय सालंकाराविति निरलंका. रयोरपि शब्दार्थयोःक्वचित्काव्यत्वख्यापनार्थम् । यया-शून्यं वासगृहं विलोक्य शयनावु. स्थाय किचिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुसम् । विसव्धं परिचुम्व्य जातपुलामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता वाला चिरं चुम्बिता ॥' १ परसवर्णाभावमपेक्ष्येदम्.
. १ अध्यायः ] काव्यानुशासनम् । १५ तच्च पद्यगद्यमिश्रभेदैस्त्रिधा। तत्र पद्य छन्दोबन्धः । स च महाकाव्यादि । तत्र प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभापानिबद्धभिन्नान्त्यवृत्तसर्गाश्चा- सकसंध्यवस्कन्धकबन्धम् , मुखप्रतिमुखगर्भविमर्पनिर्वहणरूपसंधिपञ्चकोपे- तम् , असंक्षिप्तग्रन्थम् , अविषमबन्धम् , अनतिविस्तीर्णपरस्परसंवद्धसर्गम् , आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतम् वक्तव्यवस्तुप्रतिज्ञातत्प्रयोजनोपन्या- सकविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम् , दुष्करचित्राद्येकसर्गाङ्कितम् , खाभिप्रेतवस्त्वङ्कितसर्गान्तम् , चतुर्वर्गफलोपेतम् , चतुरोदात्तनायकम् , प्र- सिद्धनायकचरितम्, नगनागरसागरर्तुचन्द्रार्कोदयास्तसमग्रोद्यानजलकेलिम- धुपानसुरतमन्नदूतसैन्यावासप्रयाणाजिनायकाभ्युदयविवाहविप्रलम्भाश्रमन- द्यादिवर्णनोपेतं महाकाव्यम् । तन सस्कृतभाषानिवद्धसर्गवन्धं रघुवंशादि । प्राकृतभापानिवद्धाश्वासकवन्ध सेतु- वन्धादि । अपभ्रंशभाषानिवद्धसधिवन्धमधिमथनादि । ग्राम्यमापानिवद्धावस्कन्ध- वन्धं भीमकाव्यादि । प्रायोग्रहणात्सस्कृतभापायामपि क्वचिदाश्वासकवन्धो न दुष्यति, तथा आदित समाप्तिपर्यन्त कुत्राप्येकमेव छन्दो न दुष्यति । मुखसं- धिर्यथा-'यत्र वीजसमुत्पत्तिर्नानार्थरससभवा। काव्यशरीरानुगत तन्मुस परिचक्षते ॥' प्रतिमुखं यथा-'वीजस्योद्घाटन यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्र- तिमुखं स्मृतम् ॥' गर्भो यथा--'उद्भेदस्तस्य वीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषण यत्र स गर्भ इति सहित ॥' विमों यथा-'गर्भनिर्मिन्नवीजार्थो विलोभनकृतोऽपि वा। क्रोधव्यसनजो वापि स विमैप प्रकीर्तित ॥' निर्वहणं यथा-'समानयनमर्थाना मुखा- द्याना सवीजिनाम् । नानाभावोत्तराणां यद्भवेनिर्वहण तु तत् ॥' आशीर्नमस्क्रियावस्तु- निर्देशोपक्रमयुतमिति । तत्राशीर्यथा चन्द्रप्रभकाव्ये-'श्रियं क्रियाद्यस्य सुरागमे नट- सुरेन्द्रनेत्रप्रतिविम्बलाञ्छिता। सभा वभौ रत्नमयी महोत्पलै कृतोपहारेवस वोऽग्रजो जिन ॥ नमस्कारो यथा रघुवंशे-'वागर्थाविव सपृको वागर्थप्रतिपत्तये । जगतः पि- तरौ वन्दे पार्वतीपरमेश्वरौ॥ वस्तुनिर्देशो यथा-'श्रियः पतिः श्रीमति शासितुं जगज- गनिवासो वसुदेवसम्मनि । वसन्ददर्शावतरन्तमम्वराद्धिरण्यगर्भागभुवं मुनि हरि. ॥' वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप(न्यास) इति । यथा खोपज्ञऋषमदेवचरितमहाकाव्ये- 'यत्पुष्पदन्तमुनिसेनमुनीन्द्रमुख्यै पूर्व कृतं सुकविभिस्तदहं विधित्सुः । हास्याय कस्य १. 'काव्ये शरीरानुगता' इति नाट्यशास्त्रस्थपाठ. २. 'गर्भानिर्भिन्न' इति नाट्य- शास्त्रे. ३ 'र्श इति स्मृत.' नाव्य..
काव्यमाला। यथा- मनु नास्ति तथापि सन्तः शृण्यन्तु कंचन ममापि सुयुक्तिसूक्तम् ॥' कविप्रशंसा वात्रैव । -'नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः। प्रभवन्ति प्रमोदाय कालिदासः स स. स्कवि. ॥' सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणे-'गुणप्रतीति. सुजनाज्जनस्य दोषेष्ववज्ञा खलजल्पितेषु । अतः सतो नाप्यसतो निवृत्तिर्विशेषशाली भवति प्रयत्न. ॥' दुष्करस- र्गा(चित्रा)द्यकितैकसर्गत्वमिति । यथा--शिशुपालवधे एकोनविंशतितमः सर्गः । स्वाभि- प्रेतवस्त्वङ्कितसर्गान्तमिति । यथा-शिशुपालवधः श्यकः, विष्णुजयो विष्ण्वक., किरा- तार्जुनीयं लक्ष्म्यङ्कम् । चतुर्वर्गफलोपेतमिति । चत्वारो वर्गा धर्मार्थकामलक्षणव्यस्ता स- मस्ता वा तत्फलसंयुक्तम् । चतुरोदात्तनायकमिति । यथा शिशुपालवधे विष्णु. । नेमि- निर्वाणे नेमिः। प्रसिद्धनायकचरितमिति। अनेन प्रकरणादिवत्वकल्पितकथावस्तुनिषेधः । नगनगरेत्यादि । तत्र नगवर्णनं किरातार्जुनीयकुमारसंभवादौ । नगरवर्णनं शिशु- पालवधनेमिनिर्वाणादौ । अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ । ऋतुवर्णनं रघुवंशहरिवंश- शिशुपालवधादौ । चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ । उद्यानजल- केलिमधुपानवर्णनं नेमिनिर्वाणराजीमतीपरित्यागादौ । मन्त्रदूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादौ । नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ । विवाहव- र्णनं कुमारसभवादौ । विप्रलम्भवर्णनं राजीमतीपरित्यागादौ । आश्रमवर्णनं रघुवंशादी। नदीवर्णनं मेघदूतादौ । तत्रैकेन छन्दसा मुक्तकम् । द्वाभ्यां युग्मं संदानितकं च । त्रिभि- विशेषकम् । चतुर्भिः कलापकम् । द्वादशान्तैः कुलकम् । सुबोधम् । गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः । तत्र नायिकाख्यातस्ववृत्तान्ताभाव्यर्थशंसिनी सोच्छासा कन्यकापहा- रसमागमाभ्युदयभूषिता मित्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलप- घबन्धा आख्यायिका। तत्रेति । गये । आख्यायिका हर्षचरितादिः । शेषं सुबोधम् । गद्यपद्यमयं मिश्रम् । तत्र नाटकप्रकरणभाणप्रहसनडिमसमवकारेहामृगोत्सृष्टिकालव्यायोग- वीथीरूपाण्यभिनेयानि । तत्रेति। मिश्रे। नाटकादीनि दशरूपकाणि । अभिनेयानि। तेषा च भरतमुनिनोपदर्शि- तलक्षणमुपदिश्यते। यथा-'प्रख्यातवस्तुविपयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यच- १. नाट्यशास्त्रेऽष्टादशाध्याये.
१ अध्यायः] काव्यानुशासनम् । रितं तथा च दिव्याश्रयोपेतम् ॥ नानाविभूतिभिर्युतमृद्धिविलासादिमिर्गुणैश्चापि । अप्रवेशकाढ्यं भवति च तन्नाटकं नाम ॥' (प्रकरणं तु-) 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तदुधै यम् ॥ यंदनार्षमनाहार्य काव्य प्रेकरोत्यभूतगुणयुक्तम् । उत्पन्नवीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसधिषु तु ॥ विप्रवणिक्सचिवाना पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैककृतं यत्प्रज्ञेयं प्रकरणं नाम ॥ नोदात्तनायककृत न दिव्यचरितं न राजसभो. ग । वाह्यजनसयुत तत्प्रज्ञेयं प्रकरण नाम ॥ दासविटश्रेष्टियुतं वेशस्युपचारकारणोपेतम्। मन्दस्त्रीकुलचरित काव्य कार्य प्रकरणे तु॥' (भाणस्तु-) 'आत्मानुभूतशंसी परशंसन- वर्णनायुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ परवचनमात्मसस्थैः प्रतिव- चनैरुत्तरोत्तरग्रथितै ॥आकाशपुरुषकथितरङ्गविकारैरभिनयेच्च ॥धूर्तविटसंप्रयोज्यो नाना- वस्थान्तरात्मकैश्चैव । एकाङ्को वहुचेष्ट सततं कार्यों बुधैर्भाण ॥' (प्रहसनं तु-) प्रहस- नमपि विज्ञेय द्विविधं शुद्धं तथा च सकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षण. विशेषम् ॥ भगवत्तापसविप्रैरन्यैरपि हासवादसवद्धम् । कापुरुषसप्रयुक्तं परिहासाभाषण- प्रायम् ॥अविकृतभाषाचार विशेषभावोपपनचरितमिदम् ॥ नियतगतिवस्तुविषयं शुद्ध ज्ञेयं प्रहसनं तु । वेश्याचेटनपुंसकविटधूर्ता वन्धकी च यत्र स्यु. । अनिभृतवेषपरिच्छदचेष्टि- तकरणं च सकीर्णम् ॥' (डिमस्तु-) 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । पंड्सलक्षणयुक्तश्चतुरको वै डिम' कार्य ॥ शृङ्गारहास्यवज्ये शेषैरन्यै रसै समायुक्तः ।दी- सरसकाव्ययोनि नाभावोपसपन्न ॥ निर्घातोल्कापातरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियु- द्धाधर्षणसस्फोटकृतश्च विज्ञेयं ॥ मायेन्द्रजालवहुलो वहुँसुप्तोत्थानयोगयुक्तश्च । देवभुज- गेन्द्रराक्षसयक्षपिशाचावकीर्णश्च । षोडशनायकवहुलः सात्वत्यारभटिवृत्तिसपूर्ण ॥ कार्यो डिम प्रयत्नानानाश्रयभावसयुक्त ॥'समवकारस्तु-'देवासुरवीजकृत प्रख्यातोदात्तना- यकश्चैव । व्यकस्तथा त्रिकपटस्त्रिविद्रव स्यात्रिशृङ्गार. ॥ द्वादशनायकवहुलो ह्यष्टादशनायि- काप्रमाणश्च ॥ इति । (ईहामृगस्तु-) "दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिवद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्राय. स्त्रीरोषग्रथितकाव्यवन्धश्च । सक्षोभविद्रवकृतः सस्फोटकृतस्तथा चैव ॥ स्त्रीभेदनोपहरणावमर्दनप्राप्तवस्तुशृङ्गारः। ईहा- मृगस्तु कार्य सुमैमाहितकाव्यवन्धश्च ॥ ययायोगे कार्य ये पुरुषा वृत्तयो रसाश्चैव। ईहा- मृगेऽपि यत्स्यात्केवलमत्र स्त्रियो योगः ॥' (उत्सृष्टिकाङ्कस्तु-) 'वक्ष्याम्यत परमहं लक्षणमुत्सृष्टिकाकस्य । प्रख्यातवस्तुविषयस्त्वप्रख्यात. कदाचिदेव स्यात् ॥ दिव्यपुरुषैर्वि- १. 'यदनर्थमपाहाय' 'यदनायकहार्यकार्यम्' इति वा नाट्यशास्त्रे २ 'कुरुते प्रभूत' नाट्य०. ३. 'प्रयोगे' नाट्य ०.४. विशेषेषु' नाट्य०. ५. 'द्विविधा' नाट्य०. ६. 'सस्थं' नाट्य०. ७ 'पदम्'नाट्य०. ८. षड्विंशल्लक्षणयुक्त'नाट्य०.९.'कर्तव्य 'नाट्य०.१० 'बहु- पुरुषोत्थानयुक्तश्च' नाट्य० ११ 'सपन्न.' नाट्य०. १२. 'श्चतुरङ्गविभूषितश्चैव' नाव्य०.
. १८ काव्यमाला । युक्त शेषैरन्यैर्भवेत्पुभिः । करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ॥ स्त्रीपरिदेवितबहुलो निर्देवितभाषितश्चैव । नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीन ॥ कार्य. काव्यवि- धिझै सततं घुत्सृष्टिकाङ्कस्तु ॥' (व्यायोगस्तु-) 'व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातना- यकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ वहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्त. कायस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः॥(वीथीतु-) सर्वरसलक्षणाढ्या युक्ता यजैस्त्रयोदशभिः। वीथी स्यादेकाका तथैकहा- द्विहार्या वा ॥' नाटकभेदानाटिका । यदाह-'प्रकरणनाट- 'कभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्री- प्राया चतुरङ्गा ललिताभिनयात्मका सुविहिताङ्गी । बहुनृत्यगीतवाद्या रतिसभोगात्मिका चैव॥राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया॥' एवं प्रकरणभेदात्प्रकरणिकापि विज्ञेया। सट्टकोऽपि कैश्चिदुक्तः। तद्यथा-'विष्कम्भकस्त्वे- करहितो यस्त्वेकभाषया भवति । अप्राकृतसस्कृतया स सट्टको नाटिकाप्रतिमः ॥' गेयं विभजते- डोम्बिकामाणप्रस्थानभाणिकाप्रेरणशिनकरामाक्रीडहल्लीसकश्रीगदित- 'रासकगोष्ठीप्रभृतीनि गेयानि । पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनरुक्तानि । तद्यथा- 'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः।आवज्यंते मन. सातु मसृणा डोम्बिका मता ॥ नृसिंहशूकरादीना वर्णनं जल्पयेद्यत.। नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः॥ गजादीनां गतिं तुल्या कृत्वा प्रसवनं तथा । अल्पविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ॥ बालक्री- डानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥ हा- स्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् । सख्या. समक्षं पत्युर्यदुद्धृतं नृत्तमुच्यते ॥ 'मसृणं च क्वचिद्भूर्तचरितं शिकस्तु सः । ऋतुवर्णनसयुक्त रामाक्रीडं तु भाष्यते ॥ मण्डलेन तु यनृत्तं हल्लीसकमिति स्मृतम् । एकसूत्रं तु नेता स्याद्गोपस्त्रीणा यथा हरि. ॥ यस्मिन्कुलाङ्गना पत्यु. सख्यग्रे वर्णयेद्गुणान् । उपालम्भं च कुरुते गेये श्रीग- दितं तु तत् ॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुःषष्टियुगलाद्रासकं मसृणोद्धते ॥ गोष्ठे यत्र विहरतश्चेष्टितमिह कैटमद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति त- दिच्छन्ति गोष्ठीति ॥' धीरप्रशान्तनायकोपेता गद्येन पद्येन वा सर्वभाषानुविद्धा कथा । , आख्यायिकावन्न खचरितव्यावर्णकोऽपितु धीरशान्तो नायकः। तस्य तु वृत्तमन्येन क- विना यत्र वर्ण्यते सा काचिद्गद्यमयी कादम्बरीवत् । काचित्पद्यमयी लीलावतीवत् । स- वभाषानुविद्धा सस्कृतप्राकृतेन मागध्या सौरसैन्या शच्या अपभ्रंशेन वा रचिता कथा ॥
२ अध्यायः ] काव्यानुशासनम् । १९ गद्यपद्यमयी साङ्का सोच्छासा चम्पूः । यान्यङ्कानि खनाम्ना परनाम्ना वा करोति कविः तैर्युक्ता उच्छासनिबद्धा चम्पू । यथा वासवदत्ता दमयन्ती वा ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञ- काव्यानुशासनवृत्तौ प्रथमोऽध्यायः। द्वितीयोऽध्यायः। 'निर्दोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र शब्ददोषानाह- निरर्थकनिर्लक्षणाश्लीलाप्रयुक्तासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधे- यांशविरुद्धबुद्धिकृन्नेयार्थनिहतार्थाप्रतीतग्राम्यसंदिग्धावाचकत्वानि शब्द- दोषाः पदे वाक्ये च भवन्ति । प्रकृतानुपयोगि निरर्थकम् । पदे यथा-'उत्फुल्लकमलकेसरपरागगौराते मम हि गौरि । अभिवान्छितं प्रसि- ध्यतु भगवति युष्मत्प्रसादेन ॥' अत्र हिशब्दो निरर्थक । पादैकदेशोऽपि पदमेव । सन्निरर्थकत्वमुदाहियते । यथा--'आदावञ्जनपुञ्जलिप्तवपुषा श्वासानिलोल्लासितप्रोत्सर्प- द्विरहानलेन च ततः सतापितानां दृशाम् । सप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भालीनामिव पानकर्म कुरुते कामं कुरजेक्षणा ॥' अत्र कुरशक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम् । वाक्ये यथा-'वल्यरिक्रत्वरी पाता साम्वुव्यम्वुघनोपमौ । सदृशौ काकबकाभ्या च वै हि तु च वै हि तु॥' तच्च मचोन्मत्तबालाद्युक्तौ विशेषतो रम्यम् । तत्र चैश्वर्यबलरूपतपोवय श्रुतादिभेदैर्मदोऽनेकधा भवति। तत्रैश्वर्यमदो यथा-'एहि गच्छ वतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहप्रस्तै. क्रीडन्ति धनिनोऽर्थिभिः ॥' एवमन्यदप्युदाहार्यम् ॥ शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम् । शब्दानुशासनरहितं पदे यथा माघस्य–'समूछंदुच्छृङ्खलशह्वनि खन खनुप्रयाते पट- हस्य शाहिणि । सत्वानि निन्ये नितरा महान्यपि व्यथा द्वयेषामपि मेदिनीभृताम् ॥' अत्र 'द्वयेषाम्' इति न प्राप्नोति । द्वयानामिति भवति । कालिदासस्य यथा-'दिशि मन्दायते तेजो दक्षिणस्या रवेरपि । तस्यामेव रघो पाण्ड्या. प्रताप न विषेहिरे ॥' अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोपे पाण्डव इति प्राप्नोति । तथा--'तेनाभिधातरभसस्य विकृष्य पत्री वन्द्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्मिन्नविग्रहमशोणितलिप्तगात्रस्तं पातया प्रथममास पपात पश्चात् ॥' अत्र पातयामासेति अव्यवधानेन प्रयोग प्राप्नोति। भारवेर्यथा-'उन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेस बाणनद्याः । गाण्डीवी २० काव्यमाला। कनकशिलानिभं भुजाभ्यामाजन्ने विषम विलोचनस्य वक्षः ॥' अत्र आजघ्ने इति आत्मने- पदं न प्राप्नोति । हन्तेः खानकर्मकत्वाभावात् । त्रिविक्रमस्य यथा-'सरित इव गावः पीवरोधसः' । अत्र पीवरोध्य इति प्राप्नोति । शीताया यथा-'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर कि वभाधे । प्रायो विदग्ध- वनिता नवसंगमेषु पुंसा मनः प्रचलतीति किमत्र चित्रम् ॥' अत्र मा भैषीरिति प्राप्नोति । वाक्ये यथा-'प्रदत्तं नैव यैः खीयविभवस्फीतमानतः । तपो न तपित किंचित्तेषा जन्मस्य किं फलम् ॥' अत्र प्रदत्तस्थाने प्रत्तमिति, स्वीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति । छन्दो- ऽनुशासनलक्षणरहितं पदे यथा-'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसर.' इति शिखरिणीछन्दसि षष्ठे यतिर्या नियता सा नास्ति । वाक्ये यथा-'अपि पश्यसि सौधमा- श्रितामविरलसुमनोमालभारिणीम् । अत्र वैतालीयसमपादे षड्लघवो निरन्तरा न स्युः। अयं च सर्व प्रपञ्चः श्रीवाग्भटाभिधानखोपज्ञच्छन्दोनुशासने प्रपञ्चित इति नात्रोच्यते॥ अनुकरणे न दोषः । 'नृपाभिषेके मदविह्वलाया हस्ताच्युतो हेमघटोऽवलायाः । सोपानपत्यां पतितः करोति ठ ठं ठ ठं ठं ठ ठ ठ ठ ठं ठः॥' ब्रीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्सान्यञ्जकं चेति त्रिधाश्लीलम् । तत्र त्रीण्यनुक्रमेण पदे यथा-'मनीषिता सन्ति गृहेऽपि देवतास्तप व वत्से व च तावकं वपु. । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिण ॥' 'दग्धोत्तीर्णसुवर्ण- वर्णरुचिरच्छायं वसानोऽम्बर भाखत्कौस्तुभकान्तिकर्बुरतरभ्राजिष्णु वक्षःस्थलम् । शङ्ख चक्रमसिं गदामविरतं बिभ्रच्चतुर्भि. करैरारूढो गरुडं नवीनजलदश्यामो हरिः पातु वः ॥' 'प्रासादानामुपरि वलभीजालवातायनेषु भ्रान्त्यावृत्तः परिणतसुरागन्धसभारगर्भः । माल्यामोदी मुहुरुपचितः स्फारकर्पूरवासो वायु!नामभिमतवधूसनिधानं व्यनक्ति ॥' अत्र पेलवदग्धवायुशन्दा. क्रमेण ब्रीडामङ्गलजुगुप्साव्यञ्जका.।त्रीण्यप्यनुक्रमेण वाक्ये यथा-- 'भूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥' 'पितृ. वसतिमहं व्रजामि ता सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषि- तशोकशल्यकम् ॥' 'ये विमुच्यापि वाञ्छन्ति भोगाजैनव्रतस्थिताः । छर्दित ते सम- नन्ति विष्ठामपि कुबुद्धयः ॥' अत्रोपसर्पणप्रहणनमोहनशब्दास्तथा पितृवसतिपावकाशे- षितशल्यशब्दाश्छर्दितविष्ठादिशब्दाश्च ब्रीडामङ्गलजुगुप्साव्यञ्जकाः ।। शान्तविदूषकाद्युक्तौ न दोषः। शान्तोक्तौ यथा-'उत्तानोच्छूनमण्डूकपाटितोदरसनिभे । क्लेदिनि स्त्रीत्रणे सक्ति रकमेः कस्य जायते ॥' एवमन्यदपि ॥ कविभिरनादृतत्वादप्रयुक्तम् । यथा-'शीते चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीर्णा पर्णकुटी न तन्दु- . .
२ अध्यायः ] काव्यानुशासनम् ॥ २१ . । लपुटी भूमौ च घृष्टा कटी। बृत्तिर्नारभटी प्रिया न गुमुटी सौख्ये ज.चका घंटी भूयाद्भूप तव प्रसादकरटी भडं ममापत्तटी ॥' अत्र गुमुटीति देश्यत्वादप्रयुक्तम् । यदाह-'प्र- कृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्मडहादिकथंचिन्न रूढिरिति संस्कृते रचयेत् ॥' वाक्ये यथा-'धत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगु.' । अत्र दैवतशब्दः पुंलिङ्गे कथितोऽप्यप्रयुक्त । सहस्रगुरित्यादित्य इत्यपि अप्रयुक्तम् ॥ देश्यानां प्राकृतायुक्तौ मुग्धोक्तौ च न दोषः । तत्र प्राकृते यथा-'जुन्हा ऊरियको सकंति धवले सव्वंगगंधुक्कडे णिन्विग्धं घरदीहि- यासु सरस वेवंत ओमासलम् । आसाए इसुमंजुगुंजियरवो तिगिंछिपाणासवं उम्मिल्लन्तद- लावलीपरिगऊ चंदुजए छप्पड ॥' अत्र तिगिछि मकरन्द इति देश्य । मुग्धोक्तौ यथा-'देव स्वस्ति वयं द्विजास्ततइत लानेन निष्कल्मषा. कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । तद्याचेमहि सप्तविष्टपशुचीभावकतानव्रतं सयच्छख यश सितासि- तपयोभेदाद्विवेकोऽस्तु न. ॥' अत्र वस्तीति मुग्धस्यैव ब्राह्मणस्योकौ न दोषः॥ श्लेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः । यथा-'येन ध्वस्तमनोभवेन वलिजित्काय पुरास्त्रीकृतो यश्चोवृत्तभुजंगहारवलयो- गड़ा च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामरा सोऽव्यादि. ष्टभुजंगहारवलयस्त्वा सर्वदो माधव. ॥' तदर्थप्रतिपादनाक्षममसमर्थम् । तत्पदे यथा-राजेन्द्र भवत कीर्तिश्चतुरो हन्ति वारिधीन्' । अत्र हन्तीति पदं ग- मनार्थे पठितमपि प्रतिपादनायासमर्थम् । वाक्ये यथा-'नद्या हत्वा वस्त्रं धावतीति । अत्र हन्तिशब्दो व्याख्यात । धावतीति शुद्ध्यर्थे पठितमपि तत्प्रतिपादनायासमर्थम् ॥ अनौचित्येन प्रयुक्तमनुचितार्थम् । पदे यथा--'य प्राप निवृति क्लेशाननुभूय भवार्णवे । तस्मै विश्वकमित्राय त्रिधा ना- भिभुवे नम ॥' अत्र क्लेशाननुभूयेति जिनपतिं प्रत्यनुचितम् । वाक्ये यथा-'सा जयइ कूडवरडो सिद्धनरिंदो धराइसयला । इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ॥' तच निन्दायां प्रोत्साहने च न दुष्टम् । यथा-'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मार- यति वियोगिनीश्चन्द्र ॥' प्रोत्साहने यथा-'विशन्तु वृष्णय. सर्वे रुद्रा इव महौजसः ॥' पुरुषवर्ण ( यथा) श्रुतिकटु । पदे यथा-'नियतिकृतनियमरहिता हादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरा नि- कृतिमादधती भारती कवेर्जयति ॥' अत्र हादेति श्रुतिकटु । वाक्ये यथा-'व्यप्रै- रग्र्यग्रहेन्दुप्रसनगुरुभरै! समगैरुदौ. प्रत्यप्रेरीषदुप्रैरुदयगिरिगतो गोगणगौरयन्ताम् । का.४ २२ काव्यमाला। : उद्गाढार्चिविलीनामरनगरनगं प्रावगर्भामिवाहामग्रेऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः । तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये । सिंहादिवर्णने यथा-'मातङ्गाः किमु वलिगतैः किमफलैराडम्बरैजम्वुकाः सारंगा महिषा मदं त्यजत रे शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिमारेः शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तदर्जितं गर्जितम् ॥ व्यवहितार्थप्रत्ययजनक क्लिष्टम् । पदे यथा-'मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामु- खव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥' वाक्ये यथा-'मानसौकःपतद्यानदेवासन- विलोचनः । तमोरिपुविपक्षारि. प्रियं दिशतु वो जिनः ॥' झगित्यर्पकत्वे गुणः। [ यथा-] 'एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दिताया। आरोपितं य- गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥' अत्र काचीगुणस्थानं जघनमिति प्रसिद्धम् ॥ यत्र विधातुमाँऽशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम् । तत्पदे यथा-'सस्ता नितम्बादवलम्बमाना पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासी- कृता स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥' अत्र मौर्वी द्वितीयामिवेति यु- तम् । वाक्ये यथा- शय्या शाद्वलमानस शुचि शिला ह्रमाणामध. शीतं निर्झर- वारि पानमशनं कन्दाः सहाया मृगा. । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावद्ध्यैथा स्थीयते ॥' अत्र शाद्वलं शय्येति विध्यनुवादौ । विधेयौ यथा--'त्वक् तारवी निवसन मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च । मूल दलं च कुसुमं च फल च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥' विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत् । यथा-'चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।मानसे रमता नित्य सर्वशुक्ला सरखनी ॥, अन मम वधूरिति विरुद्धा बुद्धिं जनयति । वाक्ये यथा-'अनुत्तमानुभावस्य परैरपि- हितौजसः । अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तय. ॥' अत्रापकृष्टच्छादितमकार्येषु मित्र- पूर्वो यासा ता अकीर्तय इति विरुद्धा वुद्धिमुत्पादयति ॥ लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम् । पदे यथा-'नवकुमुदवनश्रीहासकेलिप्रसद्भादधिकरुचिरशेषामप्युषा जागरित्वा । अ- यमपरदिशोऽहे मुञ्चति स्रस्तहस्त. शिशयिषुरिव पाण्डुर्लानमात्मानमिन्दु. ॥' अत्र ह- स्तशब्देन करा लक्ष्यन्ते । तेन च किरणा इति नेयार्थत्वम् । वाक्ये यथा-'सपदि पति- विहंगमनाममृत्तनयसवलितंवलशालिना। विपुलपर्वतवार्षिशितैः शरैः प्लवगसैन्यमुलुकजि- ।
। २ अध्यायः ] काव्यानुशासनम् । २३ ताजितम् ॥' अत्र पतिविहगमनामभृद्दशरथः । उलूक. कौशिकस्तेन चेन्द्रशब्दो ल- क्ष्यते । इन्द्रजितेत्यर्थः॥ उभयार्थवाचकमप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थम् । पदे यथा-'यावकरसाईपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला वि- लोक्य परिरभ्य चुम्बिता सहसा ॥' अत्र शोणितशब्दो रुधिरे प्रसिद्ध । वाक्ये यथा- सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपते. । अजरुचिभाखरस्ते भातितरामव- निप श्लोक ॥ सायकशब्द खड्गपर्यायः शरे प्रसिद्ध । मकरध्वजशब्दो जलधिपर्याय. कन्दर्पे प्रसिद्ध । क्षमाशब्दो भूपर्याय क्षान्तौ प्रसिद्ध । अब्जशब्दश्चन्द्रपर्यायः पद्मे प्रसिद्ध । श्लोकशब्द कीर्तिपर्यायोऽनुष्टुमि प्रसिद्ध ॥ अप्रतीतमागमादेव प्रसिद्धम् । पदे यथा-भान्ति धर्मगजालानस्तम्भविभ्रमकारिण । चतसृष्वपि काठासु मान- स्तम्भा महोच्छ्रयाः ॥' अत्र मानस्तम्भशब्दो जैनागमे प्रसिद्ध । वाक्ये यथा-'पश्चा- णुव्रतानि गुणास्त्रय शिक्षाव्रतानि च । चत्वारि स्युर्गृहस्थाना शुद्धसंपत्कयोगतः ॥' अ- त्राणुव्रतादीनि जैनागमे प्रसिद्धानि । असौ तु खदर्शनोको विशेषतो गुण. ॥ ग्राम्यमविदग्धजनोक्तिः । पदे यथा-'राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मन ॥' अत्र कटिरिति ग्राम्यम् । वाक्ये यथा-'ताम्बूलभूतगल्लोऽयं भलं ज- ल्पति मानव । करोति खादनं पानं सदैव तु यथा तथा ॥' तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम् । -'फुल्लुकर कलमकूरसमं वहति जे सिंदुवारविडवा मह वल्हा दे । ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥' अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम् । पदे यथा-'न संयतस्तस्य वभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षित । ऋणाभिधाना- त्खयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥' अत्र 'सयतशब्दो वद्धपर्याय , उत सयमितपर्याय' इति सदिग्धम् । वाक्ये यथा-'सुरालयोलासपर प्राप्तपर्याप्तकम्पन. । मार्गणप्रवणो भावभूतिरेष विलोक्यताम् ॥' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः सदि- ग्धा । वक्रोक्तौ गुण. । यथा-'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः । भवतोऽभिमना. समीहते सरुषः कर्तुमुपेत्य माननाम् ॥' अत्रानुशयः कोप., पश्चात्तापश्च । १ कर्पूरमञ्जर्यामेकोनविंशस्यास्य च्छाया यथा-'पुष्पोत्कर कलमकूरसम वहन्ति सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्न सदृक्षास्ते किं च मुग्धविच- किलप्रसून पुजाः ॥
२४ काव्यमाला। अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो मानना- मिति च ॥ इष्टार्थप्रतिपादनाक्षममवाचकम् । पदे यथा-'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालतकाभाप्र. सरकिसलयो म मजीरहंसः । भर्तुर्नृत्यानुकारे जयति निजतनुखच्छलावण्यवापीसं- भूताम्भोजशोभा विदधदभिनवो दण्डपादो भवान्या ॥' अत्र दधदित्यर्थे विदधदित्यवाच- कम् । विपूर्वो हि दधातिः करोत्यर्थे वर्तते । यदाह-'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' । यथा च-'उद्गर्जजलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदर- भुवः कुर्वन्प्रतिध्वानिनीः । उच्चैरुच्चरतिध्वनिः श्रुतिपथोन्माथी यथायं तथा प्राय. प्रेड- दसंख्यशङ्खधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु ग- र्जितमेव । यदाह-'ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणित वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहंगादिषु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु, ढेत्कृतं वृषभेषु, रवो मण्डूकेषु, नादः सिंहेषु, फूत्कारः स- पेंषु, बूत्कारः कपिषु, घूत्कारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गेषु, . कटत्कारो भङ्गेषु, सू. त्कारः सायकेषु, गुजाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाङ्गारो भेरीषु, केकारवः क- लापिषु, सीत्कार. कामिनीषु, झकारः किक्षिणीषु, टङ्कारो मौर्वीषु, भात्कारो झल्लरीषु, घोषो नदीवीचिषु, प्रसिद्धो नान्यत्र । तद्यथा प्रसिद्धं तत्तथैव बनीयात् । अन्यथा त्ववाच- कत्वदोषः । वाक्ये यथा-'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विपूर्वो भजिविभागे, न सेवने । आङ्पूर्वी लभिर्विनाशे, न प्रापणे । आपूर्वो वहि. करोत्यर्थे, न धारणे । प्रपूर्व. स्मरतिर्विस्मर- पोऽर्थे, न तु स्मरणे इति ॥ न्यूनपदाधिकपदोक्तपदास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गसंकी- गर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः। तत्र- विश्लेषेऽश्लीलत्वे कष्टत्वे च संधिवैरूप्यं विसंधिः । विश्लेषे यथा-'राजन् विभान्ति भवतश्चरितानि तानि इन्दोर्युतिं दधति यानि रसा- तलान्तः । धीदोर्वले अतितते उचितार्थवृत्ती आतन्वती विजयसपदमत्र भातः ॥' अश्ली- लत्वे यथा-'विरेचकमिदं नृत्तमाचार्याभासयोजितम् । चकाशे पनसप्रायैः पुरी पण्डम- हाद्वमै. ॥' अत्र विरेचकशेपपुरीषशब्दा अश्लीला । कष्टत्वे यथा-'उर्व्यसावत्र तर्वा- लीमर्वन्ते चार्ववस्थितिः । नात्रर्जु युज्यते गन्तु शिरो नमय तन्मनाक् ॥' १. 'विसंधि' इति पाठ आदौ त्रुटितो भवेत.
२ अध्यायः ] काव्यानुशासनम् । २५ अवश्यवाच्यस्यानभिधाने न्यूनपदम् । यथा-'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभव खलु चित्तजन्मा मा लजया तव कथंचिदपह्नुतिर्भूत् ॥' विश्वस्य धात- रीत्यत्र चशब्दो युज्यते । स नास्तीति न्यूनपदत्वम् । 'परमेश्वरे च' इति तु पाठे युक्तम् । तथात्रैव 'मा लज्जया तव कथंचिदपगुतिर्भूत्' इत्यत्र खाभिप्रायस्येति न्यूनम् ॥ विक्लवाद्युक्तौ न दोषः। यथा-'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीम. नितम्वाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृतानु कि मनसि मे लीना विलीनाथवा ॥' तद्विनाप्यर्थावगमेऽधिकपदम् । 'दलत्कन्दलभाग्भूमि सनवाम्बुदमम्बरम् । वाप्य. फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजि सशब्दो युजिश्वाधिक । एतद्विनाप्यर्थावगतेः । यथा च-'विस- किसलयच्छेदपाथेयवन्त ' । अत्र 'मत्वर्थीयावर वहुव्रीहि.' इति मत्वर्थीयोऽधिकः । पाथेया इति तु युक्तम् ॥ एकस्य पदस्य द्विस्तिरभिधानमुक्तपदम् । 'नैक पदं द्विः प्रयुजीत' इति कविसमय । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरव शूराणा व्यवसाय एव हि परं ससिद्धये कारणम् । उद्गर्जद्विकटाटवीगजघटापीठे- कसचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिण ॥' अत्रैकशब्दः ॥ लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः । तत्र लाटानुप्रासे यथा-'चोल क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाट पट्टवन्धं भजति न भजते गुर्जरो निर्मराणि । चेदिर्लीलायतेऽसौ क्षितिपतितिलकः कान्यकुब्ज सकुन्जो भोज त्वत्तत्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥' गृहीतमुक्तके यथा-'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभ' । वल्लवी(भी)कृतपूर्वाशः पूर्वाशातिलको रवि ॥' विहितानुवादे यथा-'निर्द्रव्यो हियमेति हीपरिगत प्रभ्रश्यते तेजसा निस्तेजा. परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निवुद्धि क्षयमेत्यहो विधनता सर्वापदामास्पदम् ॥' असंबद्धपदन्यासोऽस्थानपदम् । यथा-'मा भावीविभ्रम भ्रूरधरविधुरता केयमस्यास्य रागं प्राणे प्राण्येव नायं कल- यसि कलहं श्रद्धया कि त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुख्यान्मरुदसुहृदसून्सहरन्नगिरह. ॥' अत्र 'व.' इति पदं 'मूर्ध्नि इतिपदयां- १. तिमिरेऽन्धका अन्धास्तेषा वल्लभः. ॥
२४ काव्यमाला। अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो मानना- मिति च ॥ इष्टार्थप्रतिपादनाक्षममवाचकम् । पदे यथा-'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकराल. प्रत्यग्रालतकाभाप्र- सरकिसलयो मजुमीरहंसः । भर्तुर्नृत्यानुकारे जयति निजतनुखच्छलावण्यवापीसं- भूताम्भोजशोभा विदधदभिनवो दण्डपादो भवान्या ॥' अत्र दधदित्यर्थे विदधदित्यवाच- कम् । विपूर्वो हि दधातिः करोत्यर्थे वर्तते । यदाह-'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' । यथा च–'उद्गर्जजलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धत. सर्वाः पर्वतकन्दरोदर- भुवः कुर्वन्प्रतिध्वानिनीः । उच्चैरुच्चरतिध्वनिः श्रुतिपथोन्माथी यथायं तथा प्राय. प्रेड- दसंख्यशङ्खधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्ध. । समुद्रे तु ग- र्जितमेव । यदाह-'ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणित वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहंगादिषु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु, ढेत्कृतं वृषभेषु, रवो मण्डूकेषु, नादः सिंहेषु, फूत्कारः स- पेषु, बूत्कारः कपिषु, घूत्कारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गेषु, . कटत्कारो भङ्गेषु, सू. त्कारः सायकेषु, गुजाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाकारो भेरीषु, केकारवः क- लापिषु, सीत्कार. कामिनीषु, झकार किङ्किणीषु, टकारो मौर्वीषु, भात्कारो झल्लरीषु, घोषो नदीवीचिषु, प्रसिद्धो नान्यत्र । तद्यथा प्रसिद्ध तत्तथैव बनीयात् । अन्यथा त्ववाच- कत्वदोषः । वाक्ये यथा-'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विपूर्वो भजिविभागे, न सेवने । आयूर्वो लभिर्विनाशे, न प्रापणे । आङ्पूर्वो वहिः करोत्यर्थे, न धारणे । प्रपूर्वः स्मरतिर्विस्मर- णेऽर्थे, न तु स्मरणे इति ॥ न्यूनपदाधिकपदोक्तपदास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गसंकी- गर्मितभमप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः। विश्लेषेऽश्लीलत्वे कष्टत्वे च संधिवैरूप्यं विसंधिः । विश्लेषे यथा -'राजन् विभान्ति भवतश्वरितानि तानि इन्दोद्युतिं दधति यानि रसा- तलान्तः। धीदोर्वले अतितते उचितार्थवृत्ती आतन्वती विजयसपदमत्र भात ॥' अश्ली- लत्वे यथा-'विरेचकमिदं नृत्तमाचार्याभासयोजितम् । चकाशे पनसप्रायैः पुरी षण्डम- हाद्रुमै. ॥' अत्र विरेचकशेपपुरीषशब्दा अश्लीला । कष्टत्वे यथा-'उर्व्यसावत्र तर्वा- लीमर्वन्ते चार्ववस्थितिः । नात्रर्जु युज्यते गन्तु शिरो नमय तन्मनाक् ॥' १. 'विसंधि' इति पाठ आदौ त्रुटितो भवेत्.
२ अध्यायः ] काव्यानुशासनम् । २५ अवश्यवाच्यस्यानभिधाने न्यूनपदम् । यथा-'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि सम परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥' विश्वस्य धात- रीत्यत्र चशब्दो युज्यते । स नास्तीति न्यूनपदत्वम् । परमेश्वरे च' इति तु पाठे युक्तम् । तथात्रैव ‘मा लजया तव कथंचिदपहुतिर्भूत्' इत्यत्र खाभिप्रायस्येति न्यूनम् ॥ विक्लवाद्युक्तौ न दोषः। यथा-'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीम. नितम्वाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृतानु किं मनसि मे लीना विलीनाथवा ॥' तद्विनाप्यर्थावगमेऽधिकपदम् । 'दलत्कन्दलभाग्भूमि सनवाम्बुदमम्बरम् । वाप्य फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजि सशब्दो युजिश्चाधिक । एतद्विनाप्यर्थावगतेः । यथा च-विस- किसलयच्छेदपाथेयवन्तः' । अत्र 'मत्वर्थीयाद्वर बहुव्रीहि.' इति मत्वर्थीयोऽधिकः । पाथेया इति तु युक्तम् ॥ एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपदम् । 'नैकं पदं द्विः प्रयुजीत' इति कविसमय । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरव शूराणां व्यवसाय एव हि परं ससिद्धये कारणम् । उद्गर्जद्विकटाटवीगजघटापीठे. कसंचूर्णनव्यापारकरसस्य सन्ति विजये सिंहस्य के मन्त्रिण. ॥' अत्रैकशब्दः ।। लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः । तत्र लाटानुप्रासे यथा-'चोल क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाटः पटवन्धं भेजति न भजते गुर्जरो निर्मराणि । चेदिर्लीलायतेऽसौ क्षितिपतितिलकः कान्यकुब्ज सकुजो भोज त्वत्तन्त्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥' गृहीतमुक्तके यथा-'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभः । वल्लवी(भी)कृतपूर्वाश पूर्वाशातिलको रवि ॥ विहितानुवादे यथा-निर्द्रव्यो हियमेति हीपरिगत प्रभ्रश्यते तेजसा निस्तेजा. परिभूयते परिभवानिर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निर्बुद्धि. क्षयमेत्सहो विधनता सर्वापदामास्पदम् ॥' असंबद्धपदन्यासोऽस्थानपदम् । यथा-'मा भाहीविभ्रमं भूरधरविधुरता केयमस्यास्य रागं प्राणे प्राण्येव नायं कल- यसि कलहं श्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुख्यान्मरुदसुहृदसून्सहरनजिरह. ॥' अत्र 'व.' इति पदं मूर्ध्नि इतिपदसा- १. तिमिरेऽन्धका अन्धास्तेषा वल्लमः, ॥
२६ काव्यमाला। निध्यादस्थाने पतितम् । यथा च-'सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्ष- णेन ॥' अत्र 'वसनम्' इति पदं पूर्वार्धमतिक्रम्यास्थाने पतितम् । 'नार्धे किंचिदसमा- तम्' इति कविसमयः । तथा 'अपि निशान्ते' इत्यत्रापि 'निशान्तेऽपि' इति युक्तम् ॥ आनुपूर्व्या हीयमानप्रकर्ष पतत्प्रकर्षम् । यथा-'अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणि. रिव गणाधिपो जयति ॥' समाप्य पुनर्गृहीतं समाप्तपुनरात्तम् । यथा-'गाहाण रसा महिलाण बिब्भमा कइप (व)राण वयणाइ । कस्स न हरन्ति हिअ वालाण य मम्मणुल्लावा ॥' अत्र 'बालाण य मम्मणुल्लावा' इति पदं संधितपु- च्छप्राय न खदते ॥ विसर्गस्यामावोऽविसर्गत्वम् । यथा-'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोसिक्ता भक्का बुद्धिप्रदायिनः ॥' अत्रोत्वेन लोपेन च विसर्गाभावः ॥ वाक्यान्तरपदैरनुविद्धं संकीर्णम् । यथा-'कायं खायइ छुहिउ कूरं व्वल्लोइ निहुरं रुहो । सुणयं गिण्हइ कण्ठे हक्केइ अनत्ति यंथेरो ॥' अत्र 'काकं क्षिपति, कूर खादति, श्वानं भेषयति, नप्तारं कण्ठे गृह्णाति' इति वक्तुमुचितम् ॥ उक्तिप्रत्युक्तौ गुणः ।। यथा-'कोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये हुंडं तर्हि विमुञ्च कातर- मते शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किराः के वय(?) इत्येवं रतिकामजल्पविषयः सोऽयं जिन. पातु व. ॥' वाक्यान्तरानुप्रवेशो गर्मितम् । यथा-'मार्गे कर्दमदुस्तरे जलभृते गर्ता(१)शतैराकुले खिन्ने शाकटिके भरेऽतिनिमृते दूरोडुरे रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रिता तर्जनीमीक्षे विषमे विहाय धवलं वोढुं क्षमः को भरम् ॥' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते ॥ प्रक्रमभङ्गो भग्नप्रक्रमत्वम् । १. 'गाथाना रसा महिलाना विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं वालाना च मन्मनोल्लापा. ॥' इति च्छाया. २. 'बुद्धिप्रभान्विता.' इति काव्यप्रदीपे. ३. 'काकं खादति क्षिपति कूरं भाषयति निष्ठुरं रुष्टः । शुनकं गृह्णाति कण्ठे आकारयति ॥ इति च्छाया. ।
२ अध्यायः] काव्यानुशासनम् । २७ यथा--'वभूव भस्मैव कृताङ्गराग कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोच- नाङ्क सिंहाजिनस्यैव दुकूलभाव ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । यथा- 'ते हिमालयमामध्य पुन. प्राप्य च शूलिनम् । सिद्धं चास्मै निवेद्याथै तद्विसृष्टा खमु. द्ययु ॥' अत्र 'अनेन विसृष्टाः' इति युक्तम् । यथा च–'पाश्चात्यभागमिह सानुषु निषण्णा पश्यन्ति शान्तमलसान्द्रतराशुजालम् । सपूर्णलब्धललनाललनोपमानमुत्सझस- शिहरिणस्य मृगामूर्ते ॥' अत्र 'उत्सगसगतमृगस्य मृगाकमूर्तेः' इति युक्तम् ।। अघटमानसंबन्धोऽनन्वितम् । यथा---'प्रज्ञापुञ्जमयाज्ञानं राधा वेधस्य कारणम् । धाराया विपरीतस्य नूनं न क्षमते प्रभुः ॥' अत्र वैपरीत्यं शब्दकृतम्, उतार्थकृतमित्यनन्वय.॥ द्वयोरपि वाक्ययोः संबद्धमर्थान्तरैकवाचकम् । यथा-'उदयमहिमरश्मिर्याति शीताशुरस्तम्। 'अत्र याति'इतिपदमुभयत्रापि संवध्यते। यत्र नेष्टसंबन्धप्रतिपत्तिस्तदभवन्मतयोगम् । यथा-'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेय. शस्त्रव्यस्तः सदनमुदधिरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठवाधा वद्धस्पर्घस्तव परशुना लनते चन्द्रहास ॥' भन भार्गवस्य निन्दा तात्पर्यम् । कृतवतेति परशा प्रतीयते । कृतवत इति तु युक्तम् ॥ कष्टापुष्टव्याहतग्राम्याश्लीलसाकाडसंदिग्धाक्रमपुनरुक्तमिन्नसहचरविरु- द्धव्यङ्गयप्रसिद्धिविरुद्धविद्याविरुद्धनिर्हेतवोऽर्थदोषाः । तन- दुरवबोधः कष्टः। यथा-'शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वक्रश्चक्रेणाकारि किं ते पवि- रवति न हि त्वाष्ट्रशनोधुराष्ट्रम् । पाकाकेशोऽब्जनालान्यनल न लभसे भातुमित्यात्तदो जल्पन्देवान्दिवौको रिपुरवधि यया सास्तु शान्यै शिवा व. ॥' प्रकृतानुपयोग्यपुष्टः। यथा-'अनणुरणन्मणिमेखलमविरतशिञ्जानम मञ्जीरम् । परिसरणमरुणचरणे रण- रणकमकारण कुरुते ॥' अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीत्य- पुष्टार्थम् ॥ पूर्वापरप्रतिबन्धोव्याहतत्वम् । यथा-'जगति जयिनस्ते ते भावा नवेन्दुकलादय प्रकृतिसुभगा सन्त्येवान्ये मनो १. "अन 'अस्सै' इतीदमा प्रक्रमात् 'तद्विसृष्टा ' इत्यत्रापि 'अनेन विसृष्टा' इत्येव वाच्यम्" इति काव्यप्रदीपे.
२८ काव्यमाला। - मदयन्ति ये । मम तु यदियं जाता लोके विलोचनचन्द्रिका 'नयनविषयं जन्मन्येकः स एव महोत्सवः ॥' अत्र नवेन्दुकलादयो भावा यं प्रति न किंचिदिव, स एवोत्कर्षार्थ चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ अविदग्धजनोचितं ग्राम्यम् । यथा-'छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम् ।' व्रीडाव्यञ्जकोऽश्लीलः। यथा-'तस्याः प्रविष्टा नतनाभिरन्ध्र रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥' अत्र मध्यमणिशब्देनाश्लीलं व्यज्यते ॥ अवश्यवाच्यार्थहीनः साकासः । यथा-'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभो. प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धच- रितो युद्धस्तया कन्यया। उत्कर्ष च परस्य मानयशसोर्विसंसन चात्मनः स्त्रीरत्नं च जग- त्पतिर्दशमुखो देव. कथं मृष्यते ॥' अत्र स्त्रीरत्नं परस्येत्याकाङ्क्षयते ॥ उभयार्थप्रतिपत्तिकृत्संदिग्धम् । यथा-'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्वाः किल भूधराणामुत सरस्मेरविलासिनीनाम् ॥' अत्र कारणाद्यभावे सदेहः ॥ क्रमपरिहाराद्यक्रमः। तुरङ्ग मातझं वा मे प्रयच्छ । रूपकं विंशोपकं वा गृहाण । भुक्त्वा स्नात्वा च देवान- ञ्चति । साहित्यं लक्षण चाधीते । शतेनाधिका विंशतिः । सचापं बाणमादत्ते । वैश्या- दयो वर्णाः ॥ कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम् । यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः। दिलीप इति राजेन्दुरिन्दुः क्षीरनि- धाविव ।।' अनेन्दुरिति पुनरुक्तम् ॥ कारणोक्तौ तु गुणः। यथा-'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥' अत्र-'अहं कुसुमायुध., हरस्तु पिनाक- पाणिः, तथापि धैर्यच्युतिं करिष्यामि' इति विशेषोक्तौ गुणः॥ १. “अत्र 'स्त्रीरत्नम्' इत्यर्थः 'उपेक्षितुम्' इत्यस्यार्थमाकासति । अन्यथा 'कथं मृ- प्यते' इत्यनेनामर्षार्थ केनान्वयाप्रसङ्गः । नहि स्त्रीरत्नमेवामर्ष., किंतु तदुपेक्षायाम् । न च 'परस्य' इत्येतदन्तर्भाव्य तदन्वयोऽस्विति वाच्यम् । तस्य जनितान्वयबोधत्वेन निरा- काहत्वात्" इत्यादि काव्यप्रदीपे. २. 'सुरालयोल्लासपर प्राप्तपर्याप्तकम्पनः । मार्ग- णप्रवणो भाखद्भूतिरेष विलोक्यताम् ॥' इति काव्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति.
२ अध्यायः ] काव्यानुशासनम् । २९ - - उचितसहचारिभेदो भिन्नसहचरत्वम् । यथा--'श्रुतेन वुद्धिर्व्यसनेन मूर्खता प्रियेणं नारी सलिलेन निम्नगा । निशा शशा. केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतवुद्ध्यादिभिरुत्कृष्टैः सह व्यसनमूर्खत्वयोनिकृष्टयोरुति ॥ विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्गयम् । यथा-'स्तुम कं वामाक्षि क्षणमपि विना य न रमसे विलेभे कः प्राणान्रणमख- मुखे यं मृगयसे । सुलग्ने को जात शशिमुखि यमालिङ्गसि बलात्तप श्रीः कस्यैषा मद- ननगरि ध्यायसि तु यम् ॥' अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते ॥ अन्यथा वर्णनात्प्रसिद्धिविरुद्धम् । यथा-'येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्क- धवला पद्मोदरे शारदी । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिना सोऽयं मृगयुवा करीरविटपे वध्नाति तुष्टिं कुत ॥' अत्र शशाकोदये पद्मविकाशोऽप्रसिद्धः ॥ शास्त्रोक्तविपर्यासे विद्याविरुद्धः । । यथा-'मृगीदृश पल्लवरागकोमलो विभाति दन्तव्रणमुत्तराधरे।' अत्र व्रणमधरा- धर एव कामशास्त्रे विहितं नोत्तराधरे ॥ अहेतूक्तौ निर्हेतुः। यथा-'चक्री चक्रारपझिं हरिरपि च हरीन्धूर्जटिवूर्वजान्तानक्षं नक्षत्रनाथोऽरुण- मपि वरुण कूवराग्र कुवेर । रंहः सघ सुराणा जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचे. सोऽवतात्स्यन्दनो वः ॥' अत्र किमर्थं चक्री चक्रारपट्टिमेव स्तवीतीति हेतु!क्त ॥ लोकप्रसिद्धौ तु न दोषः । यथा-'चन्द्रं गता पद्मगुणान्न भुते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसश्रया प्रीतिमवाप लक्ष्मीः॥' अत्र रात्री पद्मस्य सकोच । दिवा चन्द्रमसो निष्प्रभत्व च लोके प्रसिद्धम् इति हेतुं नापेक्षते । परिवृत्तनियमानियमसामान्य- विशेषविध्यनुवादादय काव्यप्रकाशादावुक्ता अपि पूर्वोत्केष्वेवान्तर्भवन्तीत्यस्माभिर्नोकाः। दोषानभिधाय गुणानाह-- कान्तिसौकुमार्यश्लेषार्थव्यक्तिसमाधिसमतौदार्यमाधुर्योजःप्रसादा दशः गुणाः। - . तत्र- लौकिकार्थानतिक्रमेणौजवल्यं कान्तिः । १. 'मदेन' इति काव्यप्रदीपे. का.५ ३० काव्यमाला । यथा-'सजलनिविडवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोच्छ्रिताभिः । रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तखस्तिकाभिर्वधूमिः ॥' अकाठिन्यं सौकुमार्यम् । यथा-'जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैगीतैः समाहृतमा- नसा । इह हि हरिणी मन्दं मन्दं प्रयाति नभःपथे समजनि मृगीनेत्रा रात्रिस्ततोऽति- गरीयसी ॥ यत्र पदानि परस्परस्फूर्तानीव, स श्लेषः । यथा-'जयन्ति वाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्विनः । सुरासुराधी- शशिखान्तशायिनो भवच्छिदस्यम्बकपादपांसवः ॥' यत्र सुखेनार्थप्रतीतिः सार्थव्यक्तिः । यथा-'वाले तिलकलेखेयं भाले भल्लीव राजते । भ्रूलताचापमाकृष्य न विद्मः के हनिष्यति ॥' अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः । • यथा-'रिपुषु सहजतेज.पुञ्जलीलायितैस्तैरजनि जनितकम्पस्तत्सुतो भूमिभर्ता । प्रतिनृपतिवधूना पल्लविन्यश्रुपूरैरधिवियदधिरूढा कीर्तिवलियंदीया ॥' अविषमबन्धत्वं समता। यथा-'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्ध्नि धर्मः कठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूमिः शिक्षिता वीक्षिता च ॥' विकटबन्धत्वमौदार्यम् । यथा-'वाचाला कनकमयध्वजाप्रसङ्गिव्यालोलस्फुरदुरुकिङ्किणीनिनादैः । चैत्याली जगति न कस्य राहडस्य प्रेक्षन्ती भवति मनःप्रहर्षणीयम् ॥' यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम् । शृङ्गारशान्तकरुणेषु क्रमे- णाधिक्य(क)म् । शृङ्गारे यथा-'प्रियतमावदनेन्दुविलोकितैरसुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तलाद्वलति याति चलत्यथ यात्यथ ॥' शान्ते यथा-'यैः शान्तरागरु- चिभिः परमाणुमिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः। तावन्त एव खलु तेऽप्यणवः पृथिव्या यत्ते समानमपरं न हि रूपमस्ति ॥' करुणे यथा-'गृहिणीसचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वं वद किं न मे हृतम् ॥' दीप्तिहेतुरोजः । वीरबीभत्सरौदेषु क्रमेण विशेषतो रम्यम् । तत्र वीरे यथा-'शैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनिस्तम्बक्षोभितभैरवार्णवभ- वत्कल्पान्तकालभ्रमम् । क्रोधान्धाः खरदूषणत्रिशिरस. प्राप्तास्त एव द्रुतं ब्रूत ब्रूत भटाः - ५ २ अध्यायः ] काव्यानुशासनम् । ३१ , क स क स नरः शम्बूकजीवाहरः॥' बीभत्से यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयासि मासान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तना- म्वत्रनेत्रात्प्रकटितदशन प्रेतरङ्कः करवादकस्थादस्थिसस्थं स्थपुटगतमपि क्रव्यमव्यप्र- मत्ति ॥ रौद्रे यथा-'चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धधनशोणितशोणशोचिरुत्तंसयिष्यसि कचास्तव देवि भीमः ॥' झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः । यथा-'पर्याप्तपुष्पस्तबकस्तनीभ्य. स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्वर- वोऽप्यवापुर्विनम्रशाखाभुजवन्धनानि ॥' इति । इति दण्डिवामनवाग्भटादिप्रणीता दश काव्यगुणाः । वयं तु माधुर्योजःप्रसादलक्षणास्त्रीनेव गुणान्मन्यामहे । शेषास्तेष्वेवान्तर्भ- वन्ति । तद्यथा-माधुर्ये कान्ति सौकुमार्य च, ओजसि श्लेष. समाधिरुदारता च, प्र- सादेऽर्थव्यक्ति समता चान्तर्भवति । यदाह-माधुर्योज प्रसादाख्यास्त्रयस्ते न पुनर्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिता ॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥' माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽस- मासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ हस्तान्तरितौ च प्रयोज्यौ । तत्र कोमलबन्धो यथा-'अमुं पुर• पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननि सूताना स्कन्दस्य मातु पयसा रसज्ञः ॥' असमासो यथा-'अमीभिः ससस्तव किमु फल वारिद घटेद्यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरव । अयं युक्तो व्यक्तं न तु सुखयितुं चातकपशुर्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥' निज- पञ्चमाक्रान्ता वर्गा यथा-'शिन्जानम मजीराश्वारुकाञ्चनकाञ्चयः । ककणाकभुजा भा- न्ति जितानङ्ग तवाङ्गना ॥' हखान्तरितौ रणौ यथा--'दारुणरणे रणन्तं करिदारणका. रणं कृपाणं ते । रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः ॥' 'टवर्गरहिताः' इति वचनावर्गो न कार्यः । यथा-'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम् । कम्बुकण्ठ्या. क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥' ओजोगुणयुक्ता गौडीया रीतिः। अस्यां च बन्धौद्धत्यं समासदैये संयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थी युक्तौ रेफश्च कार्यः । यथा-'दंष्ट्रालः स्फुटकुन्दकुमलशतैर्जिह्वाल उल्लासिभि. किं किल्लिट्ठमपल्लवैः शित- मुखै. प्रेहनख किंशुकै. । वल्लीजालविशालवालधिरसावत्रोजयन्ताचलो बन्धूकोद्धतलो- चनः प्रकुरुते शार्दूलविक्रीडितम् ॥' यथा च-'मूर्धामुद्द्त्तकृत्ताविरलगलगलद्रकससक्त- धाराधौतेशानिप्रसादोपनतजयजगजातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपि- शुनोत्सर्पिदर्पोद्भुराणां दोष्णा चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः ॥' प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धःप्रसिद्धानि च पदानि ।
३२ काव्यमाला । 'निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतवि- धिरिह सुस्थिरं किमपि ॥ एताश्वोपनागरिका परुषा कोमलेति केचिदाहुः । यदाह- 'माधुर्यव्यजकैः शब्दरुपनागरिकेष्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ केषा- चिदेता वैदर्भीप्रमुखा रीतयो मताः॥' इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासनवृत्ती दोषगुणविवेचनो नाम द्वितीयोऽध्याय.। तृतीयोऽध्यायः। अलंकाराः खलु द्विविधाः । शब्दालंकारा अर्थालंकाराश्च । तत्र तावदर्थमधिकृत्य शब्दः प्रवर्ततेऽतः प्रथममर्थालंकारा एवोदाह्नि- यन्ते । तद्यथा-जात्युपमोत्प्रेक्षारूपकदीपकान्योक्तिसमासोक्त्यप्रस्तुतप्रशं- सापर्यायोक्त्यतिशयोक्तिसहोक्त्याक्षेपविरोधार्थान्तरन्यासव्याजस्तुतिव्यतिरे- कससंदेहापगुतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयान्यापरपरिसं- ख्याकारणमालानिदर्शनकावलीयथासंख्यपरिकरोदात्तसमाहितविभावनान्यो- न्यमीलितविशेषपूर्वहेतुसारसूक्ष्मलेशप्रतीपपिहितव्याघातासंगतिहेतुश्लेषम- तोत्तरोभयन्यासभावपर्यायव्याजोक्त्यधिकप्रत्यनीकानन्वयतद्गुणातद्गुणसंकरा' आशी:प्रभृतयोऽर्थालंकाराः । तद्यथा(तत्र)- यथास्थितवस्तुखरूपवर्णनमग्राम्यं जातिः । सा च त्रस्ताकदीनतिर्य- ग्युवतिप्रभृतिषु विशेषतो रम्या । तत्र त्रस्तखरूपं यथा-'ग्रीवाभङ्गाभिरामं मुहुरनुपतति ‘स्यन्दने दत्तदृष्टि. पश्चार्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दभैरर्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्ण- वा पश्योदग्रनुतत्वाद्वियति वहुतरं स्तोकमुा प्रयाति ॥'.अर्भकखरूपं यथा-'उदय- शिखरिशृङ्गप्राङ्गणेष्वेव रिटन्सकमलमुखहासं वीक्षित पद्मिनीभिः । प्रस्तमृदुकरानः शब्दयन्त्या वयोभिः परिपतति दिवोऽके हेलया वालसूर्य. ॥ दीनखरूपं यथा-'वहविली. बहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीला. । गुजाफलप्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शवर्यः॥' तिर्यक्वरूपं यथा-'मेदखिनः सरभसापगता- नभीकान्भक्त्वा पराननडहो मुहुराहवेण । ऊर्जखलेन सुरभीमनुनिःसपनं जग्मे जयो- झुरविशालविषाणमुक्ष्णा ॥' योपित्वरूपं यथा-'उत्तालतालविचलद्वलयावलीकं सद्य. सखीजनविनिर्मितमण्डलीकम् । गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव 'नेमिकुमार कीर्तिम् ॥
३ ३ अध्यायः] काव्यानुशासनम् । चमत्कारि साम्यमुपमा । सा प्रत्ययाव्ययतुल्यार्थसमाप्तैश्चतुर्धा । चमत्कारि सहृदयहृदयहारि उपमानोपमेययोः साम्यमुपमा । यथा-'गत्या विभ्रम- मन्दया प्रतिपदं या राजहसीयते यस्या पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम् । यस्या- श्वानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया ता कुन्दाग्रदती त्यजञ्जिनपती राजीमती पातु वः ॥' चमत्कारीति वचनात् 'कुकुम्भ इव मुखम्' इत्यादौ सादृश्येषूपमा न कार्या। सा प्रत्ययाव्ययतुल्यार्थसमासभेदैश्वतुर्धा भवति ॥ तत्रापि वत्कल्पदेश्यदेशीयप्रमृतयः प्रत्ययाः । अव्ययानि इव वायथाप्रमृतीनि । 'तुल्यार्थास्तुल्यसकाशा (श)प्रकाशप्रतिरूपकाः। नीकाशसहक्सदृशसहक्षनिभसनिभा ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । हार्यनुकारीसवादिसजातीयानुवादिनः ॥ प्रति- विम्वप्रतिच्छन्दवरूपसमसप्रभा । सलक्षणसमानसाभा. सपक्षोपमितोपमा. ॥ स. वर्णतुलितौ शब्दौ प्रख्यौ प्रतिनिधी अपि । स्पर्धते जयति द्वेष्टि दृप्यति प्रति- गर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीयंत्य- सूयति ॥ तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलम्पति । तेन सार्धं विगृह्णाति तस्य कक्षा विगाहते ॥ तत्पदव्या पदं धत्ते तुला तेनाधिरोहति । तमन्वेत्यनुवध्नाति तच्छीलं तनिषेधति । तस्य चानुकरोतीति शब्दा• सादृश्यवस्तुनि ॥' समासो बहुव्रीहिप्रभृति. । यथा-चन्द्रवदनेत्यादि।सा च धर्मवस्तुविपर्यासान्योन्यनियमानियमसमुच्चयातिशयोत्प्रेक्षागु- तमोहसशयनिर्णयश्लेषसमानप्रशंसाचिख्यासाविरोधप्रतिषेधचटुतत्वाख्यानसाधारणभूता- सभावितवहुविक्रियामालावाक्यार्थप्रतिवस्तुतुल्ययोगहेतुरसनोपमादिभेदैरनेकधा भवति । तत्प्रवन्धस्तु दैण्डिनो द्रष्टव्य । इह तु ग्रन्थगौरवभयात्प्रकृतानुपयोगाच नोच्यते ॥ १. 'अम्भोरुहमिवातानं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्श- नात् ॥ राजीवमिव ते वर्क नेत्रे नीलोत्पले इव । इति प्रतीपमानैकधर्मा वस्तूपमैव सा ॥ तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी॥ त्वन्मुख कमलेनैव तुल्यं नान्येव केनचित् । इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा॥ पद्मं तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ।। समुञ्चयोपमाप्यस्ति न कान्यैव मुख तव। हादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी॥ त्वय्येव त्वन्मुखै दृष्टं दृश्यते दिवि चन्द्रमा. । इयत्येव भिदा नान्येत्यसावतिशयोपमा॥ मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनै ।पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा। यदि किंचिद्भवेत्पद्मं सुन्नु विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्धतोपमा ॥ शशीत्युत्प्रेक्ष्य तन्वनि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा मता ॥ किं पद्ममन्तर्धान्तेति किं ते नीलेक्षणं मुखम् । मम दोलायते चित्तमितीयं सं- शयोपमा॥ न पद्मस्येन्दुनिग्राह्यस्यन्दुलजाकरी युतिः । अतस्त्वन्मुखमेवेन्दुमित्यसौ ३४ काव्यमाला। लिङ्गवचनवैषम्यं हीनाधिक्यं चोपमादोषः । तत्र लिजवचनवैषम्यं यथा-'परमातेव निःस्नेहाः परकार्याणीव शीतलाः । सक्तवो भक्षिता राजन् शुद्धाः कुलवधूरिव ॥' हीनाधिक्यं यथा-'शुनीयं गृहदेवीव प्रत्यक्षान- तिभासते । खद्योत इव सर्वत्र प्रतापश्च विराजते ॥' अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा । तां चेवमन्येशङ्केच. वमित्यादिभिर्योतयेत । इव यथा-'दिशतु विरतिलाभानन्तरं पार्श्वसर्पन()मिविनमिकृपाणोत्सादृश्याङ्ग- लक्ष्मीः । त्रिजगदपगता यत्कर्तुमातान्यरूप(१)द्वय इव भगवान् वः संपदं नाभिसूनुः ॥' मन्ये यथा-'नाभेयचैत्यसदने दिशि दक्षिणस्या द्वाविंशतिं विदधता जिनमन्दिराणि । मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः ॥' शङ्के यथा-विर- निर्णयोपमा ॥ शिशिराशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वक्रमिति श्लेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्यानमालेयं सालकाननशोभिनी ॥ पद्मं वहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेक- मिति निन्दोपमा मता ॥ ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्र. शंभुशिरोधृत । तौ तुल्यौ त्वन्मु- खेनेति सा प्रशंसोपमेष्यते ॥ चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमा विदु ॥ शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिग- जितुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ मृगेक्षणाई ते वकं मृगेणैवाङ्कितः शशी । तथापि सम एवासौ नोत्कर्षीति चटूपमा॥ न पद्मं मुखमेवेदं मृगौ तु चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव। आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा । सर्वपद्मप्रभासार समाहत इव क्वचित्। त्वदाननं विना भाति तामभूतोपमा विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। परुषा वागितो वक्रादित्यसंभावितोपमा ॥ चन्दनोदकचन्द्रांशुचन्द्रकान्तादि- शीतलः । स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा ॥ चन्द्रबिम्बादिवोत्कीर्णे पद्मगर्मादि- वोद्धृतम् । तव तन्वनि वदनमित्यसौ विक्रियोपमा ॥ पूष्ण्यातप इवाढीव पूषा व्यो- म्नीव वासरः। विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमाक्रमा ॥ वाक्यार्थेनैव वाक्यार्थः कोऽपि यधुपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥वस्तु किचिदुप- 'न्यस्य व्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा । अधिकेन समा- हत्य हीनमेकक्रियाविधौ । यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ कान्त्या च- न्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ।' इत्यादिरीत्या दण्डिग्रन्थे विस्तरः. १. 'न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा । उपमा दूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति दण्डी.
। ३ अध्यायः ] काव्यानुशासनम् । ३५ कसध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुनिहीते । शङ्के हनूमत्कथितप्रवृत्ति प्रत्युद्गतो मा भरतः ससैन्यः ॥' ध्रुवं यथा-'क्लम ययौ कन्दुकलीलयापि या तया मुनीनां चरितं वि. गाह्यते । ध्रुवं वपु. काञ्चनपद्मनिर्मितं मृदुप्रकृत्या च सुरार(१)मेव च ॥' नूनं यथा-- 'यदानारूपसरूपताया. कंचिद्गुणं भेदकमिच्छतीभिः । आराधितोद्धामनुरप्सरोभिश्चक्ने प्रजाः खा. सनिमेषचिहा.॥' सादृश्या देनारोपो रूपकम् । सादृश्याद्धेतोर्भेदेन विषयविषयिणोर्निर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यव- सायो रूपकम् । सादृश्यादिति वचनादायुघृतमित्यादौ कार्यकारणभावादारोपे न रूपकम् । भेदग्रहणादभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम् । तचैकानेकमालासमस्तव्यस्तख- ण्डाखण्डयुक्तायुक्तविषमविशेषहेतुश्लेषोपमाव्यतिरेकाक्षेपसमाधानरूपकत्वापहवरसनापर- म्परितादिभेदैरनेकधा। तत्रैकविषयं यथा-विश्वेभ्यो भूर्भुव.स्व. शतमखमुकुटश्लिष्टमुका- मयूखनाता. श्रीनाभिसूनो क्रमनखमणयो मङ्गलानि क्रियासुः । येषामुत्सङ्गविद्या शुचि- रुचिलहरीताण्डवाडम्बराया संक्रामन्दुग्धसिन्धो. स्मरसि मुहुरसौ यामिनीकामिनीश..' अनेकविषयम्-'कामं संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुशस्तनयुग्महेमक- लशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुरा सर्वे नेमुरनर्ति- धुर्जगुरगुर्वैतालिकत्वं पुर ॥' एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूह्यम् ॥ आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसंगति- स्तद्दीपकम् । जात्या यथा-'उत्साहसंपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसत्तम् । शूरं कृतज्ञ दृढसौहृदं च लक्ष्मी. स्वयं मार्गति वासहेतो. ॥' क्रियया यथा--'शाव्येन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्या परुषेण नारी वाञ्छन्ति ये व्यक्तमपण्डि- तास्ते ॥' गुणेन यथा-'जवो हि सप्ते प्रथम विभूषणं त्रपाङ्गनायाः कृशता तपखिनः । विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥' द्रव्येण यथा--'विष्णुना विक्रमस्थेन दानवाना विभूतयः । कापि नीता. कुतोऽप्यासन्नानीता देवतर्द्धय. ॥ अस्य व कारणमालैकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति । तत्र कारकदीपकं यथा-'एते मेलककन्यकाप्रणयिनः पातालमूलस्पृश सत्रास जनयन्ति विन्ध्यभिदुरा धारा प्रवाहाः पुरः । हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरितत्यकवीकृतनिद्भुतप्रक- टितप्रोद्भूततीरद्वमाः ॥ इत्युत्तरार्धे कारकदीपकं यथा। एवमन्यदपि ॥ उपमेयस्यैवोक्कावन्यप्रतीतिरन्योक्तिः । यथा-'न्यग्रोधे फलशालिनि स्फुटरस किंचित्फलं पच्यते वीजान्यवरगोचराणि क. तिचित्सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदकुरवरो वनाति तामुन्नतिं जनः खमातरमिव क्लान्तिच्छिदे धावति॥' सा चिनिन्दारूपा ३.६ काव्यमाला। र्जितं यदपि च प्रोद्दामसौदामनीदामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः । तेषा पर्य- वसानमीदृशमिदं जातं यदम्भोधर द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ता• पयोविन्दवः॥' क्व- चित्स्तुतिरूपा यथा-'क्षुत्क्षामोऽपि जराकृशोऽपि शियिलप्राणोऽपि कष्टा दशामापनो- ऽपि विपनदीधितिरपि प्राणेषु गच्छत्वपि । मत्तेभेन्द्रविशालकुम्भदलनव्यापारवद्धस्पृह. कि जीर्ण तृणमत्ति मानमहतामग्रेसरः केसरी ॥' उभयरूपा यथा-'निष्कन्दामरवि- न्दिनी स्थपुटितोद्देशा कशेरुस्थलीम् । जम्वालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी॥ उपमेयश्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः । यथा-'उपोढरागेण विलोलतारकं तथागृहीतं शशिना निशामुखम् । यथा समस्तं तिमिराशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥' उपमेयस्य किंचिदुक्तावप्रस्तुतप्रशंसा । यथा-'लावण्यसिन्धुरपरैव हि केयमत्र यत्रापरे कदलिकाण्डमृणालदण्डाः। यत्रोत्प- लानि शशिना सह सप्लवन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र ॥' ध्वनिताभिधानं पर्यायोक्तिः । वाच्यादिव्यतिरिकस्यार्थस्य प्रतीतिर्ध्वनितम् । तस्याभिधानं पर्यायेण समीहितार्थोक्तिः पर्यायोक्तिः । सा च वाच्ये विधिरूपे कचिनिषेधरूपा यथा-भम धम्मिअ वीसत्थो सो सुणहो अज्ज मारिओ देण। गोलाणइकच्छकुडङ्गवासिणा दरिअसींहेण ॥' अत्र विश्रब्धो भ्रमेति विधिवाक्ये साप्रतं तत्र सकेतस्थाननिकुञ्ज सिंह. समायातोऽस्तीति खया तत्र न गन्तव्यमिति निषेधः प्रतीयते ॥ क्वचिनिषेधे विधिर्यथा-'एकाकिनी यदवला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् । किं याचसे तदिह वासमियं वराकी श्वश्रू- र्ममान्धवधिरा ननु मूढ पान्थ ॥' अत्र वास किं याचसे समीहितक्रीडादिकमपि कुरुष्वेति विधिः प्रतीयते ॥ क्वचिद्विधौ विघ्यन्तर यथा-'मध्याहेऽतिखरे निदाघसमये तापं रवी मुञ्चति शीते कुब्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम् । एकाकी च भवानहं च त- रुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ॥' अत्र विश्राम्यतामिति विधौ मामुपभुड्क्ष्वेति विध्यन्तर प्रतीयते ॥क्वचिनिषेधे निषेधान्तर यथा- 'वयं बाल्ये डिम्भास्तरुणिमनि यून. परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थिति- रियम् । त्वयारब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोने पुत्रि क्वचिदपि सतीलाञ्छ- नमभूत् ॥' अत्र नास्मत्कुले सतीकलकोऽभूदिति निषेधे नैकभर्तृतत्परतया त्वयापि स्था- तव्यमिति निषेध. प्रतीयते ॥ क्वचिदविधिनिषेधे विधिर्यथा-'शुभे वृद्धः कोऽयं गृहपरि- ॥ १. 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' इति च्छाया.
३ अध्यायः ] काव्यानुशासनम् । ३७ वृढ किं तव पिता न मे भर्ता रानावपगतहगन्यच्च बधिर । हुहुहुं श्रान्तोऽहं शिशयि- पुरिहैवापवरके व यामिन्या यामि खपिमि ननु निर्देशमशके ॥' अत्राहं त्वदर्थी अत्रैव स्थास्यामीति विधि प्रतीयते ॥ क्वचिदप्यविधिनिषेधे निषेधो यथा-'चभणियाइ कत्तो कत्तो अद्धछिपि छियव्वाइं । उससि यंपि मुणिज्जइ छइल्लपुरे हयग्गामे ॥' अत्रास्मिन्वि- दग्धजनमये प्रामे प्रच्छन्नकामुक प्रति त्वया रतिर्न कर्तव्येति कयाचित्का प्रति निषेध क्रियते ॥ क्वचिद्विधिनिषधेयोर्विघ्यन्तरं यथा-'आसन्नकुडंगेजनादेउलेव हुनदेउलेज- याणसकिण्णे । थेरुत्तिपइ मा रुअसु पुत्ति दिण्णासि सुग्गामे ॥' अत्र मा रोदीः, सुग्रामे दत्तासीति विधिनिषेधयोस्त्वया खैर वर्तितव्यमिति विध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनि- षेधयोनिषेधान्तरम् । यथा---'उच्चिणसु पडिअ कुसुमं मा धुन सेहालिअं हलिअसुन्हे एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥' अत्र पतितं कुसुममुच्चिनु मा शेफालिका धुनीहीति विधिनिषेधयोरभिधाने सखि, चौर्यरते प्रसक्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तर प्रतीयते ॥ क्वचिद्विधावनुभयं यथा-'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्त समासादितम् । आनीतं पुरत शिरोंऽशु. कमघ तृप्ते चले लोचने वाचा तच्च(त्र) निवारितं विव(प्रस)रणं संकोचिते दोलते ॥' अत्र तयैतत्कृतमिति विधौ सानुरागिणीवेति न प्रतीयते ॥ क्वचिनिषेधेऽनुभयं यथा--- 'नि.शेषच्युतचन्दनं स्तनतट प्रोन्मुक्तरागोऽधरो नेत्रे दूरमनाने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि दृति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुन- स्तस्याधमस्यान्तिकम् ॥' अत्र त्व तस्यान्तिक न गतासीति निषेधे प्रतीयमानेऽपि स त्वया मत्प्रिय. कामित इति व्यज्यते ॥ क्वचिद्विधिनिषेधयोरनुभयं यथा-'चन्द तुमं न गणिज्जसि जाव इमो बहलपत्तलछाओ। गामस्स तिलअभूओ सहइ वडो किण्हपरकुव्व ॥' चन्द्र त्व न गण्यसे यावदेष वट' शोभते इति विधिनिषेधयोरुक्तवनेनापि वटेन चौर्यरता- दिगोपन भवतीति व्यज्यते ॥ क्वचिदविधिनिषेधे तूभयं यथा-'अत्युच्चाः परितः स्फु- रन्ति गिरय. स्फारास्तथाम्भोधयस्तानेतानपि विभ्रती किमपि न लान्तासि तुभ्य नम । आश्चर्येण मुहुर्मुहु स्तुतिमिति प्रस्तौमि यावद्धवस्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्रिता ॥' एवमादिभेदैर्ध्वनितोक्तिर्भवति । पर ग्रन्थगौरवभयादस्माभिर्नोदाह्रियते । स प्रपञ्चस्त्वानन्दवर्धनादवगन्तव्य.॥ अत्युक्तिरतिशयोक्तिः। यथा-'त्वदारितारितरुणीश्व सितानलेन समूच्छितोर्मिषु महोदधिषु क्षितीशाः । अन्त- १,२. अनयोश्छाया न स्फुटा. ३. 'उच्चिनुष्व पतितानि कुसुमानि मा धुनु शेफालिका हलिकस्नुषे । एषोऽवसानविरस श्वशुरेण श्रुतो वलयशब्द ॥' इति च्छाया. ४ 'चन्द्र त्वं म गण्यसे यावदेष बहलपत्रच्छायः । ग्रामस्य तिलकभूतः शोभते वटः... ""॥ इति च्छाया. का.६ .
३८ काव्यमाला । ठुलगिरिपरस्परशृङ्गसङ्गघोरारवैर्मुररिपोरपयाति निद्रा॥ यथा च–'उभौ यदि व्योनि पृथ- क्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥' सहभावकथनं सहोक्तिः। यथा-'संह दिअसनिसाइँ दीहरा सासदण्डा सह मणिवलएहिं वाहधारा गलन्ति । तुह सुहअ विओए तीइ उन्विग्गरीए सह अ तणुलदाए दुव्वला जीविदासा ॥' प्रतिषेधपुरःसरोक्तिराक्षेपः। यत्रोक्तौ कस्यचिदुपमानादेर्वस्तुनः प्रतिषेध प्रतीयते स आक्षेपः। यथा-'तद्वकं य- दि मुद्रिता शशिकला तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्रोि धि- मधु । सा चेत्कान्तिरतन्त्रमेव कनकं कि वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरस. सृष्टि- क्रमो वेधसः ॥' यथा च-'ऐ एहि कि पि कीएवि कए णिकिव भणामि अलमहवा । अविआरिअकनारम्भआरिणी मरउ ण भणिस्सम् ॥' अयं च भूतभविष्यद्वर्तमानधर्मका- रणकार्यानुज्ञाप्रभुत्वानादराशीर्वचनपरुषसाचिव्यपरवशोपायरोषानुशयार्थान्तरप्रतिषेधादि- भेदैरनेकधा भवति । तस्य च नात्र विस्तरः ॥ अविरोघेऽपि विरोधप्रतीतिर्विरोधः । साक्षाद्विरोधे तु काव्यत्वास- भवात् । यथा-'दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधू- मसंचयो मलीमसः शुक्लतरं निजं यशः ॥' यथा च–'ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयु- कोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचित्तः को वा तादृग्दृश्यते श्रू- यते वा ॥' विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः । साधर्म्यण वैधयेण च । तत्र साधर्म्यण यथा-'अधिकुचतट पौष्पं दाम श्रुती किसलार्चिते बिसवलयिती पाणी श्रोणीलता रसनाञ्चिता । तदपि च तनोर्लक्ष्मीरस्याः स्फुरत्यपदं गिरा प्रकृतिसुभगे पात्रे वेषो य एव स एव वा॥' वैधय॒ण यथा-'अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्या. सुहृदा पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गता. ॥' अयं च श्लेषाविद्धविश्वव्यापिविशेषस्थविरोधवदयुक्तकारियुक्तायुक्तादिभेदैरनेकधा भवति । तत्र श्लेषाविद्धो यथा-'दिवाकराद्रक्षति यो गुहासु लीन दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चै शिरसा सतीव ॥' १. 'सह दिवसनिशादीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तवं सुभग वियोगे तस्या उद्वेगशीलाया' सह च तनुलताया दुर्वला जीविताशा ॥' इति च्छाया २. 'अये एहि किमपि कस्या अपि कृते निष्कृप भणाम्यलमथवा । अविचारितकार्या- रम्भकारिणी म्रियतां न भणिष्ये ॥' इति च्छाया. - ३ अध्यायः] काव्यानुशासनम् । ३९ स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याजस्तुतिः । स्तुतौ निन्दा यथा-'हे हेलाजितवोधिसत्त्व वचसा किं विस्तरैस्तोयधे नास्ति त्व- सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्यजनोपकारघटनावैमुख्यलब्धायशोभा- रप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥' निन्दाया स्तुतियथा-'कीर्तिस्तव काल- पात्मजेन्दो भ्रमतितरा मुवनं समग्रमेतत् । अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः ॥ यथा च-'अस्माकं परमन्दिरस्य चरितं वक्तुं न युक्तं भवेत्स्वामी त्व कथ- यामि तेन भवतः किचित्प्रियादूषणम् । स्वामिन् राम कृतस्त्वया रणगृहे पाणिग्रहः सादर यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ॥' साम्यस्य भेदकारणस्य चोक्तौ यद्वयोर्भेदकारणं स व्यतिरेकः । यत्र साम्यस्य सादृश्यस्योक्कावनुको वा भेदकारणस्य च धर्मस्योकावनुतौ वा यहयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः । तत्र सादृश्यभेदयोरुतौ यथा-'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यै प्रियाया गुणैस्त्वामायान्ति शिलीमुखा स्मरधनुर्मुक्का सखे मा- मपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशीक कृतः ॥' स च सदृशखजाति एकानेक श्लेषाक्षेपहेतुभेदैरनेकधा भवति । तत्र सदृशव्यतिरेको यथा-'वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी । भ्रमद्रमर- मम्भोज लोलदृष्टिमुख तु ते ॥' 'विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा सगी- ताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्रा. प्रासादा. स्त्वा तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥' खजातिव्यतिरेको यथा-'असमृतं मण्डनमायष्टे- रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्न वाल्यात्पर साथ वय. प्रपेदे॥' सादृश्यात्प्रतिपत्तुः संशयः ससंदेहः । स च केवलो निर्णयान्तश्च । तत्र केवलो यथा-'अस्या. सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारक- रसः खयं तु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजड कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनि ॥' निर्णयगर्भो यथा-'अयं मार्तण्ड किं स खलु तुरगैः सप्तभिरित. कृशानु: किं सर्वा. प्रसरति दिशो नैष नियतम् । कृतान्तः कि साक्षान्महिषवहनोऽसाविति चिर समालोक्याजौ त्वा विदधति विकल्पान्प्रति- भटाः ॥' निर्णयान्तो द्विधा हेतोरुक्कावनुक्कौ च । तत्र हेतोरुको यथा-'कि नन्दी किं मुरारि किमु रतिरमण कि हरः किं कुवेरः किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नल कि कुमारः । नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष क्रीडा कर्तुं प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेव ॥' प्रकृतस्य सदृशेनापलापोऽपढुतिः । यथा--'वाले नैते पयोदा. सुरपतिकरिणो नावकाः (१) कर्णपूराः, सौदामन्योऽपि ४० काव्यमाला। नैताः कनकमयमिदं भूषणं वारणानाम् । नैतत्तोयं नभस्तः पतति मदजलं वारिधाराव- धूतं तत्किं मुग्धे वृथा त्व मलिनयसि मुख प्रावृडित्यश्रुपातैः ॥' समेनासमेन वा व्यत्ययः परिवृत्तिः । निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृत्तिः । यथा-'लतानामेतासामु- दितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम् । लतास्त्वध्वन्याना. महह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् हेतोरर्थप्रतिपत्तिरनुमानम् । यथा-'सानुज्ञमागमिष्यनूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावक- रसतिलकपटिरियम् ॥ सदृशदर्शनात्पूर्वार्थस्मरणं स्मृतिः । यथा-'तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैल• कनककदलीवेष्टनप्रेक्ष- णीयः । मद्धेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ यथा च–'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी- चकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रति विगलितबन्धे केशपाशे प्रियायाः ॥' मिथ्याज्ञानं भ्रान्तिः । यथा-'वृक्षश्रेणीछन्नसमस्तान्तरमार्गे रम्योद्याने कालपसूनो भवदीये । मेघभ्रान्त्या- भानुकरौघादर्शिनो(१)मी केकायन्ते मत्तमयूरास्ततवहींः ॥' यथा वा--'पन्थानमाशु वि- जहीहि पुरा स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः। स्तम्बेरम. परिणिनं सुरसा- वुपैति शृङ्खैरगद्यत ससंभ्रममेवमेका ॥' असंभावितसंबन्धः कार्याभावेऽनर्थश्च विषमम् । यत्रासंभावितस्याघटमानस्यार्थस्य सबन्धः क्रियते, तद्विषमम् । यथा--'क चायं भूभागः क्व च गगनमेतब्यवहितं तथाप्यम्भोराशिर्विकसति सिताशो समुदये । वृथा प्रत्यासत्ति. किमु किमपि मृष्यं तदपर यदत्यन्तं भावान्घटयति विदूरानपि मिथः ॥' यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम् । यथा-'प्रणयकुपितां दृष्ट्वा देवीं ससभ्रमविस्मितस्त्रिभुवनगुरुीत्या सद्य प्रणाम- परो भवान् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतत्यक्षस्यैतद्विलक्षम- वस्थितम् ॥ औचित्येनोत्कृष्टापकृष्टयोर्योगः समम् । उत्कृष्टयोर्यथा-'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्वकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्य विवत्रु.॥' निकृष्टयोर्य- ३ अध्यायः ] काव्यानुशासनम् । ४१ ४ था-'न खलु वयममुष्य दानयोग्या. पिवति च पाति च यासको रहस्त्वाम् । व्रजवि- टपममुं ददख तस्यै भवतु यतः सदृशोश्चिराय योग ॥' हेतोर्हत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुञ्चयः । यथा-'पैउरजुवाणो गामो महुमासो जोव्वणं पइ छेरो।साहीणा जुण्णसुरा असही मा होउ किं मरउ ॥ यथा च-'स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वा सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्य सविता वृहस्पतिश्च ॥' अनेकेषामेकत्र निबन्धस्त्वन्यः । यथा-'माहिषं दधि सशर्कर पयः कालिदासकविता नवं वयः। शारदेन्दुरवला च कोमला वर्गशेषमुपभुजते जना. ॥' गुणक्रियायां युगपदभिधानमपरः । यथा-'अलसलुलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्सरतारै.। हृदय- मशरणं मे पक्ष्मलाक्ष्या कटाक्षैरपहृतमपविद्धं पीतमुन्मूलित च ॥' पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसंख्या । यथा-'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तर- लत्वं नयनयोर्वसति ॥ पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला । यथा-'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्पो विनयादवाप्यते । गुणप्रकर्षेण जनो ऽनुरज्यते जनानुरागप्रभवा हि सपद ॥' प्रस्तुतार्थप्रसिद्ध्यै निदर्शन दृष्टान्तः । साधर्म्यण वैधयेण च । यथा-'महीमृत पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोहिं चूते द्विरेफमाला सविशेषसना ॥ यथा च-'नवाहवे साहसकर्मनर्मण. पाणिं कृपाणान्तिकमानिनीपत । भटा. परेषा विशरारुतामगुर्दधत्यवाते स्थिरता हि पासव ॥' पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली । यथा-'पुराणि यस्या सवराङ्गनानि वराङ्गना रूपतिरस्कृताशयः । रूपं समुन्मीलित- सद्विलासमस्त्रं विलासा. कुसुमायुधस्य॥ यथा च-'न तज्जलं यन्न सुचारुपयन पहज तद्यदलीनपट्पदम् । न पट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन जहार यन्मन ॥' उद्देशकमेणार्थाना प्रतिनिर्देशो यथासंख्यम् । यथा-'मृगमीनसज्जनाना तृणजलसतोपविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निः- कारणवैरिणो जगति ॥ १. 'प्रचुरयुवा प्रामो मधुमासो यौवन पति स्थविर । खाधीना जीर्णसुरा असती मा भवतु किं म्रियताम् ॥' इति च्छाया.
- ४२ काव्यमाला। साभिप्रायविशेषणैर्भक्तिः परिकरः। यथा-'वल्मीक किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्वं साध्वथ [सं] रुणद्धि विरहक्षामस्य रामस्य चेत्त्वदन्ताकि- तवालिकक्षरुधिरक्लिन्नाग्रपुलं शरम् ॥' वस्तुसंपत्त्या महदुपलक्षणेन च वर्णनमुदात्तम् । यथा-'उच्चीयन्तेऽस्य वेश्मन्यवि . रहिते यत्नत.श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचक्षुकोटिच्युतानि । यस्मिन्दातयकस्माच्चटुलबहुकराकृष्टहारावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः ॥' यथा च-'मुक्ताः केलि विसूत्रहारगलिता' संमार्जनीभिर्हताः प्रात प्राङ्गणसीन्नि मन्थरचलद्वालानिलाक्षारुणाः । दूराद्दाडिमवीजश- तितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम् ॥' महदुप- लक्षणं यथा- 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्च- कार रक्ष क्षयं रामः कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम् । यथा-'मनखिनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावन्नवाम्भोधर- धीरनादप्रबोधितः सौधशिखी चुकूज ॥' कारणाभावेऽपि कार्योपक्षेपो विभावना । यथा-'अनाहूतसहायस्त्वं त्वमकारणवत्सल.। अनभ्यर्थितसाधुस्त्वं त्वमसंबन्धवा- न्धवः ॥' यथा च-'वनेचराणा वनितासखानां दरीगृहोत्सङ्गनिषक्तभास.। भवन्ति यत्रौषधयो रजन्यामतैलपूरा. सुरतप्रदीपाः ॥' यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम् । यथा-'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशो भाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥' नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् । नित्येन यथा-'तिर्यक्प्रेक्षिततरले सुस्निग्धे च खभावतस्तस्या.। अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत ॥ आगन्तुकेन यथा--'मदिरामदभरपाटलकपोलतललोचनेषु वद- नेषु । कोपो मनखिनीनां न लक्ष्यते कामिभिः प्रभवन् ।' प्रसिद्धाधारं विनाप्याथ्यावस्थान विशेषः । -'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥' १. 'रुक्ति.' इति काव्यप्रदीपे.
३ अध्यायः ] काव्यानुशासनम् । ४३ ॥' अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम् । यथा-'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लम लोच- नविषय त्वया भजता ॥ कार्यकारणयोरभेदो हेतुः। यथा-'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्द. । रम्योऽयमति संप्रति लोकोत्कण्ठाकरः काल• ॥' समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम् ।। यथा--'ससारे मानुष्यं सारे मानुष्यके च कौलीन्यम् । कोलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम् इङ्गिताकारलक्ष्येऽर्थे सूक्ष्मम् । यथा-'अद्यापि तन्मनसि सप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुण्या । जीवेति मङ्गलवचः परिहत्य कोपात्कणे कृतं कनकपत्रमनालपन्या ।' कार्यतो गुणदोषविपर्ययो लेशः । तत्र गुणस्य दोषीभावो यथा--'द्विनै पाणिसरोव्हं त्रिचतुरैर्धम्मिल्लमाल्यखजः कण्ठान्मौकिकमालिकास्तदनु च क्षिप्ता पदै पञ्चषैः । हित्वा भारपरम्परामिति जचा- त्वदर्शनोत्कण्ठिता तन्वझी निरुपायमध्वनि मुहु श्रोणीभर निन्दति ॥' दोषस्य गुणीभावो यथा-'सन्त. सच्चरितोदयव्यसनिन प्रादुर्भवद्यन्त्रणा सर्वत्रैव परापवादचकितास्तिष्ठ- न्यहो दुष्करम् । अव्युत्पन्नमति कृतेन न सता नैवासता च्याकुलो युक्तायुक्तविवेक- शून्यहृदयो धन्यो जन प्राकृतः ॥' निन्दासमता वोपमानेनोपमेयस्य भङ्गया स्तुतिर्वा प्रतीपम् । निन्दा यथा-'वदनमिदं सममिन्दो सुन्दरमपि, ते कथं चिर न भवेत् । मलिन- यति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥' समता यथा-'गर्वमसंवाह्यमिमं लो- चनयुगलेन वहसि किं भद्रे । सन्तीदृशानि दिशि दिशि सर सु ननु नीलनलिनानि ।' एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तपिहितम् । यथा-'अनन्तरत्नप्रभवस्य यस्य हिम न सौभाग्य विलोपि जातम् । एकोऽपि दोषो गुणसनिपाते निमज्जतीन्दो किरणेष्विवाङ्गः ॥' १. काव्यप्रदीपे तु कार्यकारणयो पौर्वापर्यविवर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम्, २. "नन्वेवमत्र कार्यकारणभावालंकृतिप्रपञ्चनप्रसङ्गेन हेत्वलंकारोऽपि लक्षणार्ह । उक्तश्चायं महोद्भटेन-'हेतुमता सह हेतोरभिधानमभेदतो हेतु ' इति । तत्कि न लक्षितः-इति चेत् 'भायुघृतम्' इत्यादिरूपस्यास्य वैचित्र्याभावेनालकारत्वस्यैवाभावात् ।" इत्यादि कारणमालालकारप्रकरणे काव्यप्रदीपे द्रष्टव्यम्.
४४ काव्यमाला। एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघातः । यथा-'दशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरुपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥' यत्र कार्यकारणयोर्युगपद्भिन्नदेशतयोंपलम्भः सा असंगतिः । यथा--'अनया जघनापायभयमन्थरया तया। अन्यतोऽपि ब्रजन्त्या हृदये निहितं पदम् ॥ विकारहेतावप्यविकृतिरहेतुः । यथा-'निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपदं पराप्ते । श्लथीकृताश्लेषरसे भुजंगे चचाल नालिङ्गनतो नताशी ॥' विशेषोक्तिरिति काव्यप्रकाशः । एकस्मिन्वाक्येऽनेकार्थता श्लेषः । यथा-'उदयमयते दियालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रा प्रवर्तयति श्रियम् । रचयतितरा खैराचारप्रवर्तनकर्तनं वत क्त लसत्तेजःपुञ्जो विभाति विभाकरः॥' अत्रैकस्मिन्पक्षे विभाकरो नाम राजा। प्रकृतमुत्क्षिप्य वक्ता यदन्यथा मन्यते तन्मतम् । यथा -'यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भेदं किचित्पुलकमिदमाहुः किल जनाः। मतिस्त्वेषास्माकं कुचयुगतटीचुम्वकशिलासमावेशाकृष्टस्मरशरशलाकोत्कर इव ॥' उत्तरवचनश्रवणात्प्रश्नोन्नयनमुत्तरोत्तरम् । यथा-'गतं तिरश्चीनमनूरुसारथे प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वत. किमेतदित्याकुलमीक्षितं जनै ॥' सामान्यं सामान्येन यत्समर्थ्यते स उभयन्यासः । --'आपत्समुद्धरणधीरधिय. परेषा जाता महत्यपि कुले न भवन्ति सर्वे । विन्ध्याटवीषु विरला. खलु पादपास्ते ये दन्तिदन्तमुशलोल्लिखितं सहन्ते ॥' यत्र प्रतीयमानोऽर्थो वाच्योपयोगी स भावः । यथा-'ग्रामतरुणं तरुण्या नववजलमजरीसनाथकरम् । पश्यन्या भवति मुहुर्नितरा मलिना मुखच्छाया ॥ एकमनेकसिन्क्रमेण भवति स पर्यायः । यथा-'तेनामरवधूहस्तसदयालूनपल्लवा । अभिज्ञाछेदयाताना क्रियन्ते नन्दनद्रुमाः॥' उद्भूतवस्तुनश्छद्मना निगृहनं व्याजोक्तिः । यथा-'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोलसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्या. यामभङ्गाकुल. । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मित शैलान्त पुरमातृमण्ड- लगणैर्दष्टोऽवताद्व. शिवः ॥' यथा- ३ अध्यायः ] काव्यानुशासनम् । ४५ आधारादाधेयस्या(धेयादाधारस्य वा)धिक्येऽधिकम् । तत्राधारादाधेयस्याधिक्यं यथा-'युगान्तकालप्रतिसहृतात्मनो जगन्ति यस्या सवि- काशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसभवा मुदः॥ आधेयादाधा- रस्याधिक्यं यथा-'नवेन्दुना तनभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कु- हमलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥' प्रतिपक्षबाधाशक्तौ तदीयतिरस्कारे प्रत्यनीकम् । यथा-'चक्रेण विष्णो. कृतशीर्षशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः। राहु समानाख्य- तयैव वध्यान् तमोमिषः सन् भजति स चक्रान् ॥' एकस्यैवोपमानोपमेयत्वेऽनन्वयः । यथा-'गगनं गगनाकारं सागर. सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥' यत्र वस्तु खगुणमुत्सृज्यान्यगुणयोगात्तद्गुणतामेति स तद्गुणः । यथा-'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या परित. स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं खामानिन्यिरे वशकरीरनीलैः ॥' तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्गुणः । यथा-'सज्जणसङ्गेण विदुजणस्स कसुसिमानओसरई । ससिमण्डलमभपरिहिउहि किस णुब्विय कुरंगो ॥' खातयेणाङ्गत्वेन संशयेनैकपद्येन वा अलंकाराणामेकत्रावस्थानं संकरः । तत्र परस्परनिरापेक्ष्यं स्वातन्त्र्यं यथा-'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधि- तमेधया । मधुकराशनया मुहुरुद्धतध्वनिमृता निमृताक्षरमुजगे ॥' अत्र यमकानुप्रा. सयो शब्दालंकारयो सकरः। 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ । असत्पुरुषसे- वेव दृष्टिनिष्फलता गता ॥'अत्रोत्प्रेक्षोपमयोः ॥ यथा—'हुतहुताशनमर्मरचूर्णता दधुरि- वाम्रवणस्य रज कणाः । निपतिता. परित पथिकवजानुपरि ते परिते पुरतो भृशम् ॥' अत्र यमकोत्प्रेक्षयो शब्दार्था)लंकारयो । उपकारकत्वमङ्गत्वम् । यथा-'हरिरिव बलिवन्ध- करस्त्रिशक्तियुक्त पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृप ॥' अत्र श्लेष उपमाया अङ्गम् संशय एकतरस्यानिर्णय । यथा-'नयनानन्ददायीन्दोर्बिम्बमेतत्प. सीदति । अधुनापि निरुद्धाशमविशीर्णमिदं तम ॥' अत्र मुखेन सहाभेदारोपात्किमति- शयोक्ति । किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम् । कि मुखनैर्मल्यप्र. स्तावेऽन्योक्ति. । अथैतयो. समुच्चयविवक्षाया दीपकम् । कि प्रदोषवर्णने विशेषणसाम्या- समासोक्ति । कि मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालंकारसशय । एक- स्मिन्पदेऽर्थशब्दालंकारयोरनुप्रवेश एकपद्यम् । यथा-'प्रथममरुणच्छायस्तावत्तत. कन- का. ७ ४६ काव्यमाला। . कप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदा- मुखे सरसविसिनीकन्दच्छेदच्छविमंगलाञ्छनः ॥' अत्र जात्यनुप्रासयोः॥ इष्टार्थस्याशंसनमाशीः। यथा-'अजस्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्निग्धां जननिच. यरोचिः कचचयः। प्रशस्तिप्रागल्भ्यं वहति मदमोहारिविजये श्रियं व. स श्रीमान् प्रथम जिननाथः प्रथयतु ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासन- वृत्तौ अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः । - . - - चतुर्थोऽध्यायः । अर्थालंकारानुक्त्वा शब्दालंकारानाह- चित्रश्लेषानुप्रासवक्रोक्तियुक्तियमकपुनरुक्तवदाभासाः षट् शब्दालं- काराः। क्रमेण लक्षयति- आकारगतिखरव्यञ्जनस्थाननियमच्युतगुप्तादिभेदैरनेकधा चित्रम् । ब- न्धस्य खड्गधनुर्बाणमुसलशूलशक्तिहलच्छत्रपद्ममुरजचक्रवस्तिकाद्याकार- सादृश्यादाकारचित्रम् । तत्र खगवन्धो यथा-'भव्यानां परमानन्दकन्दोद्भेदधनाधनः । नतामरशिरोरत्नवि. वर्धितनखप्रभा ॥' 'भवाब्धिपरपारान्तप्रापणा पोतसनिभा । भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः॥ धनुर्बन्धो यथा---'अनन्तज्ञानसताननिध्यातभुवनत्रयः। यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः ॥' बाणबन्धो यथा-'मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः सुरलोकनत श्रियम् ॥' मुसलबन्धो यथा-'सदाशान्तिर्जगन्नाथः श्रियं शान्ति तनोतु नः। नतशान्तशचीनाथ कृतशान्त्यर्चनो हि सः॥ शूलबन्धो यथा- 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्र कुन्थ्वितिसज्ञकः । करिराजकराकारकरो मामवताजिनः ॥' शक्तिवन्धो यथा-'पदं श्रियामराभिख्यो भित्कारेर्जिनः परः । रदनच्छेदधामोमो मो- दायास्तु शिवप्रदः ॥' अस्य व्याख्या-अराभिख्योऽराभिधानो जिनो मोदायास्तु । क- थंभूतः । मित्कारेभिनत्तीति भित् भेदक । कस्य । कर्मारेः कर्मरूपशत्रोः। पुनः कथंभूतः । रदनच्छेदधामोम. रदनच्छेद्धामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्यस्य स तादृश । शेषं सवोधनम् । हलबन्धो यथा-'श्रियं वितनुतां मल्लिसखा जिनमतल्लिका । कामं कु- न्दविभोदाररदाशुहततामसः ॥ जिनमतल्लिका जिनप्रधानं तमसा समूहस्तामसम् ॥ छ- त्रवन्धो यथा-'श्रिये श्रीसुव्रतो देवः श्रितो मुनिभिरस्तु व । नरामरनमन्मौलिलिह्यमा- नक्रमो जिनः ॥' पद्मवन्धो यथा-'एनश्छिनत्तु न इनः सुनयेन पुनः पुनः। ध्यानज्ञान १ अध्यायः ] काव्यानुशासनम् । ४७ - धनस्थानः खनमिवनदन स्वनः॥' तिष्ठन्यस्मिनिति स्थानः। अधिकरणेऽत्रानप्रत्ययः। ध्यानझानधनस्थान' शब्दायमानशकटखनः । अत्र कविनात्मशक्त्यतिशयात् गोमूत्रिका- चित्रमप्यन्तर्भावितम् ॥ मुरजवन्धो यथा--'नेमिनाथ जिना विघ्नं शमिनां तनु नाविभ । भविना नुत नागश्रीस्त्वां विनाथ धनागसाम् ॥' व्याख्या-हे नेमिनाथ जिन शमिना- मविघ्नं विघ्नाभावं तनु । कथंभूत । नाविभ न नि'प्रभ अपि तु सप्रभ । तथा भविना ससारिणा नुत । भविनेति जातावेकवचनम् । तथा त्वां विना घनागसां घनपापाना पु- रुषाणा न अगश्रीभवति । न गच्छतीति अगा अविनश्वरेत्यर्थः । अयमभिप्राय:--स- पापा अपि पुरुषास्त्वां सेवमाना• पापमुक्केरगश्रियं लभन्ते । कविनामाङ्कितो य उरश्चक्रवन्धो यथा-'सर्व कृन्ततु कल्मषं स भवतो वाग्भसितासौहृदः सद्रीतिश्रितवि- श्वपार्श्वभवहत्कूटस्थिरोऽमर्महा । निर्मार• परवारिदप्रभतनुर्यस्य स्फुटा हारभाभात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥' व्याख्या-भवं हरन्तीति भवहजिन.पार्थाभि- धानो । भवहृत् पार्श्वजिन इत्यर्थ । सांते शोभना रीतिर्यस्य स सदीतिः।श्रितं विश्वं जग- द्यस्य स श्रितविश्व । सद्रीतिश्चसौ श्रितविश्वश्च सद्रीतिश्रितविश्वः । स चासौ पार्श्वभवहृच सद्रीतिश्रितपार्श्वभवहत् भवतः सर्वं कल्मष कृन्ततु छिनत्तु । कथभूत. । कूटस्थिरः । कूटं गिरिशं तद्वत्स्थिरो निश्चल । पुन कथंभूत । अमर्महा । न मर्माणि हन्तीति अमर्महा । निर्मारो निष्कंदर्प. । परवारिदप्रभा श्यामवर्णा तनुर्यस्य । पुनः कथंभूतः। वाग्भसितासौहृदः । वाचा वचनेनापि भत्सितं निराकृतमसौहृदमवात्सल्यं येन । यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीर्तिरभात् । कथंभूता सकलेऽवनितले दत्तेशहा. सप्रभा ईशस्य हासप्रभा धवलितेत्यर्थ । सा दत्ता. यया सा तथोका । खस्तिकवन्धो यथा-'प्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददख श्रेयः प्रधानायय स- यश. ॥' हे वीर स प्रसिद्ध । सेति वीरस्य विशेषणम् । प्रसीद । कथभूत । रजोम्बुद । तथा मा प्रति श्रेयो ददख । प्रधान उत्तम । तथा सद्यश आयय प्रापय । 'अय गतौ'। अयमानं प्रयुत आययति । आदिशब्दादष्टारद्वादशारचक्रसप्तचक्रिकगोमूनिकानन्यावर्त- भृङ्गारचामरघण्टाप्रमृतीनि तत्सदृशनामान्यूह्यानि ।। गतिचित्रं सर्वतोभद्रगतप्रत्यागतगोमूत्रिकाधभ्रमरथपदतुरगपदगजपदा- दिभेदैरनेकधा भवति । तत्र सर्वतोभद्रं यथा-'देवाकानिनि कावादे वाहिकाखखकाहि वा। काकारेभभरे काका निस्वभव्यव्यभवनि ॥, 'वारणागगभीरा सा सारामीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ॥' एवमन्यदपि ॥ एखादिखरनियमो खरचित्रम् । १. किरातार्जुनीये पञ्चदशसर्गे पञ्चविंशोऽयं श्लोकः. २. शिशुपालवधैकोनविंशसर्ग- चतुश्चत्वारिंशोऽयं श्लोक । + ४८ काव्यमाला॥ न्यथा-'जय मदनगजनमन वरकमलभगतमन । गतजनन मदमरण भव भयग- नरशरण ॥' अत्र सर्वत्र हखोऽकारः । एवं हखेनेकारादिना दीर्घेणाकारादिना द्विच्या. दिखरैश्चोदाहार्यम् ॥ एकद्विव्यादिव्यजननियमो व्यञ्जनचित्रम् । एकव्यजनं यथा-'किकांकुकुं ककेका केकिकौकैककः ककः । ककुको कः कका काकः काकाकुकुक का ककुः ॥' द्विव्यञ्जनचित्रं यथा-'दूरादारदरोदार दूरोदरदुरादुरः । दरदी दद्गुरदरा दारं दारं दरैरदान् ॥' एवं व्यादिव्यञ्जनचित्रं उदाहार्यम् ॥ कण्ठतालुमूर्धदन्तौष्ठादिस्थाननियमः स्थानचित्रम् । यथा-'सूनुसूनूदितिसूनुं निन्युर्युभूमिमुभितुम् । स्थितिमूत्वुः श्रुतिनीतिस्मृती इषु रुजीशी ॥' अकण्ठ्योऽयम् । 'आसाद्य सात्वतो वाणं प्राणति कृष्णसर्पवत् । तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः ॥' अतालव्योऽयम् । 'भौमसूनुं समायान्तं समायान्तं महाभुजः । अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा ॥' अमूर्धन्यः । 'उभयोः शररा- जीभिरराजीभिश्चमूकयोः । अर्काशुश्रीः पराभाजि पराभाजि च खाजिरे ॥' अदन्त्यः । 'नाचालीत्सात्यकिः शौर्यात्स तेन निहतस्तथा । गिरि• कररदाघाते. करिणा कीर्तयेऽत्र किम् ॥' निरौष्ठय.॥ मात्राबिन्दुर्वर्णादिभेदैश्च्युतमनेकधा । तत्र मात्राच्युतकं यथा-'भूतियोजितभर्तव्यः कृपणाकान्तमण्डलः । महापद- शुभावास वत्समः कुपतिः कुतः ॥' अत्र कृपणेति आकारस्य च्युतिः । बिन्दुच्युतकं यथा-'सहसा नलिनी ताराशारिता गगनावनि. । शोभते भूमिपालानां सभा च विबुधाश्रिता ॥' सह हंसेन वर्तते सहसा । वर्णच्युतकं यथा-'परहिततत्परो दुरित- वारहरो भगवान्भयनाशको जगति वीर इति सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्भवो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्र. थितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः ॥'अत्र सिद्धिछन्दसि नेमिनाथस्तुतिः । अत्र चान्तरवृत्तम्-'परहिततत्परो दुरितवारहरो भ- गवान्भवभयनाशको जगति वीर इति । सुरवन्दित. प्रथितशान्तिरलं मदनापहः शिव. सुखं तनुताम् ॥' अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुति । 'दुरितवारहरो भगवा शिवो जगति वीर इति प्रभवः श्रियाः। प्रथितशान्तिरलं वृषभो जयी शिवसुखं तनुता भवता मुहुः ॥' अत्र द्रुतविलम्बितछन्दसि वृषभनाथस्तुतिः ॥ गुप्तकं क्रियाकारकसंबन्धविषयत्वेन चतुर्धा । तत्र क्रियागुप्तकम्-'प्रत्यक्षेपि परोक्षेपि येन वीर्य महीभृताम् । तस्य देवतुरुष्कस्य के गुणग्रहणे वयम् ॥' अत्र प्रत्यक्षेपीति किया। कारकगुप्तकं यथा-'केनेमो दुर्विदग्धेन १-५.श्लोका अनवगतार्थाः, ६. एतदुदाहरणपद्यानि दुर्बोध्यानि. - ४ अध्यायः] काव्यानुशासनम् । ४९ हृदये विनिवेशितौ । पिवतस्ते शरावेण वारि कलारशीतलम् ॥' अत्र शराविति कर्मणो गुप्तत्वम् । सवन्धगुप्तकं यथा-'न मया गोरसाभिज्ञ चेत कस्मात्प्रकुप्यसि । अस्थान- रुदितैरेभी रत्नमालोहितेक्षणे ॥' अत्र न मे अगोरसाभिज्ञमिति सवन्धगुप्तकम् । पादगु- तकं यथा-'धुवियद्गामिनी तारसरावविहतश्रुति । हेमेषु माला शुशुभे ।' अत्र 'वि- धुतामिव सहति.' इति चतुर्थपादस्य गुप्तत्वम् । आदिशब्दात्प्रश्नोत्तरप्रहेलिकादुर्वचका- दयोऽपि भवन्ति । पर कष्टकाव्यत्वात्क्रीडामात्रफलत्वान्नात्र प्रपञ्चिता ॥ परोक्तस्य श्लेषेण काका वान्यथोक्तिर्वक्रोक्तिः । तत्र श्लेषवक्रोक्तिर्दिधा भनश्लेषेणाभङ्गश्लेषेण च। तत्र भङ्गश्लेषेण यथा सद्वा. प्रेयसि दीयता प्रियतम द्वार किम(मु)च्छाद्यते सत्कं सुन्दरि याचितं कथय मे कि कस्य सत्कं प्रिय । श्रीनाभेयजिनस्य मैजनजलं कस्त्व जन कि जलं दम्पत्यैरिति जल्पितं जिनपतेः स्नानोत्सवे पातु व ॥' अभङ्गश्लेषे यथा-'कोऽयं द्वारि, हरि., प्रयायुपवन शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, बिभेमि नितरा कृष्णादहं वानरात् । कान्तेऽहं मधु- सूदनो, ब्रज लता तामेव मध्वन्वितामित्थं निर्विषयीकृतो दयितया ह्रीतो हरि. पातु व ॥ यथा च-भर्नु पार्वति नाम कीर्तय न चेत्त्वा ताडयिष्याम्यहं क्रीडाब्जेन शि- वेति सत्यमनघे किं ते शृगाल पति । नो स्थाणु किमु कीलको नहि पशुखामी तु गोप्ता गवा दोलाखेलनकर्मणीति विजयागौर्योर्गिर पान्तु व ॥' भिन्नकण्ठो ध्वनि. काकु । तद्वक्रोक्तिर्यथा-'लाक्षागृहानलविषानसभाप्रवेशै. प्राणेषु वित्तनिचयेषु च न प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान्वस्था भवन्ति मयि जीवति धार्तराष्ट्रा ॥' यथा च- 'अपि चण्डानिलोद्भूततरङ्गस्य महोदधे । शक्येत प्रसरो रोर्बु नानुरक्तस्य चेतस. ॥' अदूरान्तरितावृत्तिरनुप्रासश्छेकवृत्तिलाटभेदेन त्रिधा । आवृति पुन पुनर्निवन्ध. । अर्थाद्वर्णाना पदाना वा । सररसाद्यनुगत प्रकृष्टो न्यासोऽनुप्रास ॥ स च त्रिधा भवतीत्साह- सकृद्धावृत्तिश्छेकानुप्रासः । वर्णावृत्तिरिति समस्तं पदम् । यत्रैकस्य यथा-'ततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगल्लपाण्डुताम् ॥' अनेकवर्णाना यथा-'निरानन्दः कौन्दे मधुनि विधुरो वालवकुले न साले सालम्वो लवमपि लवङ्गे न रमते । प्रियझोनों सङ्ग रचयति न चूते विचरति स्मरॅलक्ष्मीलीलाकमलमधुपानं मधुकर. ॥' १. व्यजनपरस्यैकस्यानेकस्य वा समानव्यञ्जनस्योचारणे श्रवणयोर्विशेषाभावस्य 'दीडो युडचि-' इति सूत्रभाष्यसमतत्वेन जलद्वारार्थकता. २. 'सुखशीर्षजलेषु कम्' इति मेदिनीतो जलार्थकशब्दस्य सुखार्थत्वमपि ३. स्नानजलमित्यभिप्रायवतो मज्जन- जलशब्दस्य 'मम जनस्य जलम्' इत्यभिप्रायेण प्रश्न , .
काव्यमाला। असकृद्वत्त्यनुप्रासः । वर्णावृत्तिरित्यनुवर्तते । यथा वर्णस्य 'वाचाटाकटपूतनाचटुपट्टः कापट्यकोटी. पुटी विस्पष्टा नृतनाटिकानटभटी लाम्पट्यसाटाटवी । व्याचष्टे प्रकटं जनाश्रुतिपुटी तट्टीकते वो मुचा साटोपे भुवि नाभिभावकभटे मट्यत्र वर्तिन्यपि ॥' अनेकस्य यथा---'स्वच्छ. न्दोच्छलदच्छकच्छकुहरच्छातेतराम्वुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाहाय वः । भिद्यादुद्यदुदारदर्दुरदरी दीर्घादरिद्रुमद्रोहोद्रेकमयोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' सकृदसकृद्वा पदावृत्तिाटानाम् । अत्रापि पदावृत्तिरिति समस्तं पदम् । तेन पदस्य पदाना वा सकृत् असकृद्वा आवृ. त्तिाटाना प्रियत्वालाटानुप्रास । पदस्य यथा-'निशाकरकरस्मेरैर्गुणैर्गुणवता मतैः। जने जनयति प्रीतिं प्रीत्यानतनृपो नृपः ॥' असकृद्यथा-'सम्यड् निषेध्य चतुरश्चतुरोऽप्युपाया- लित्वोपभुज्य च भुव चतुरब्धिकाञ्चीम् । विद्याचतुष्टय विनीतमतिर्जितात्मा काठामवाप पुरुषार्थचतुष्टये यः ॥' अनेकस्यासकृद्यथा-वस्त्रायन्ते नदीना सितकुसुमधरा शक्रसं. काश काशाः काशाभा भान्ति तासा नवपुलिनतटे स्त्रीनदीहंसहंसा । हंसाभाम्भोद मुक्त स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्क. शारदस्ते जयकृदुपनतो विद्विषा काल- काल ॥' पदात्मकत्वाद्वाक्यस्य तस्याव्या(प्या)वृत्तिर्यथा-'त्वमेकश्वेतसि न चेत्तपो- भिस्तदलं नृणाम् ॥ एकेनानेकस्यार्थस्य युगपदुक्तिः श्लेषो भगाभङ्गाभ्यां द्विधा । एकेन पदेन वाक्येन वा अनेकस्य द्वयोख्यादीना वा अर्थानामभिधान श्लिष्यन्ति शब्दा अत्रेति श्लेषः । हरिप्रभृतय शब्दा अनेकार्थाभिधायिन. सन्तीत्याह-युगपदे- कस्मिन्प्रयोगे । स च भनाभङ्गाभ्या द्विधा । भगश्लेषोऽभङ्गलेषश्च । तत्र खण्डनाद्भगश्लेषः । स वर्णलिङ्गवचन विभक्तिप्रत्ययपदभाषाभेदैरनेकधा भवति । तत्र वर्णश्लेषो यथा-प्रति- कूलतामुपगते हि विधौ विफलत्वमेति वहुसाधनता । अवलम्बनाय दिनभर्तुरभून पतिष्यतः करसहस्रमपि ॥' अत्र विधिविधुश्चेति इकारोकारयोर्वर्णयो. श्लेष.। लिङ्गश्लेपो यथा- 'भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्वनता समाविनिरतैीते हितप्रा- प्तये । लावण्यस्य महानिधी रसिकता लक्ष्मीदृशोस्तन्वती युष्माकं कुरुता भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' वचन श्लेपो यथा-'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददता नितात्मान आद्योऽन्येऽपि मुदं जिना.'। अत्रैकपक्षे एकवचनम् । द्वितीयपक्षे वहुवचनम् । स्यादीना त्यादीना च भङ्गाद्विभक्तिलेपो यथा-'विपं निजगले येन चक्रे च भुजगप्रभुः । देहे येनाझजो दग्धो(2) जाया च स जयत्यजः ॥' प्रकृतिश्लेपो यथा-'विहितापर(चि)ति. १. लिङ्गवचनयो. श्लेपो यथा-' इति काव्यप्रदीपे २. 'प्राज्यप्रभा., व , निवृतात्मा न.' इलपि पदच्छेद.. ३. 'चके' इति कृञ्धातोलिटि, चक्रशब्दात्सप्तम्या च समानम्. ४. 'देहे' इति दहधातोलिटि, देहशब्दस्य सप्तम्या च.
४ अध्यायः] काव्यानुशासनम् । महीयसा द्विषतामाहितसाध्वसो वलै । भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमामृ- ताम् ॥' अनापचितिरिति चायेश्विनोतेश्च रूपम् । प्रत्ययश्लेपो यथा---'येन ध्वस्तमनो- भवेन वलिजित्काय पुरास्त्रीकृत' । अत्र अस्त्रीकृत. स्त्रीकृतश्चेति चिडीप्रत्यये श्लेष । पदश्लेषो यथा-'जननीतिमुदितमनसा नित्यं सुखामिना कृतानन्दा । सा नगरी नग- तनया गौरीव मनोहरा भाति ॥' सस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणा सकरे भाषाश्लेष । तत्र सस्कृतप्राकृतयोर्यथा-'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरह विरहायास सोढ तव चित्तममहं मे ॥' सस्कृतमागधयोर्यथा-'शूलं शलन्तुशं वा विशन्तु शवला वशं विशङ्का वा। भशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' सस्कृतपैशाचिकयोर्यया-'चम्पककलिकाकोमलकान्तिकपोलाथ दी- पिकानङ्गी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' सस्कृतसूरसेन्योर्यथा –'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिवन्तु सुपीचरपरिणा- हिपयोधरारम्भे ॥' सस्कृतापभ्रंशयोर्यथा-'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिह- न्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥ षण्णामपि भाषाणा योगो यथा- 'आलोलकमले चित्ते ललाम कमलालये । पाहि चण्डि माहामोहभङ्गभीमवलामले ॥' अखण्डितभेदैरभङ्गश्लेषः । यथा-'कि तनास्ति निरन्तर न भवत सङ्ग कुरङ्गीदृशा कि वा तत्र तथा पयोध- रपरिष्वङ्गोऽपि नाहादक । यन्मामत्र विहाय नितिमना नायोज्जयन्तं गत. पायाद्वो- ऽभिहितः स भोजसुतया देवः शिवानन्दन.॥' तुल्यं श्रुतिक्रमा क्षरावृत्तिर्यमकम् । तच्च श्लोकश्लोकार्धपादभागभेदैरनेकधा। तत्र लोकयमकं महायमकं यथा-'सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्व- दारणमानैषी दावानलसमस्थितः ॥' असावेव पृथगर्यतया द्वि परावर्तनीयः । अर्धा- त्या अर्धयमकं समुद्कं यथा-निनाम लोको विदमानवेन मही न चारित्रमुदारधीरम्'। इदमर्ध पृथगर्थतया द्वि पैरावर्तनीयम् ॥ पादयमकं मुखं संदंश आवृत्तिगर्भसंदष्टकपुच्छपतिपरिवृत्तियुग्मकभे- दैवधा। १ , तत्र प्रथम द्वितीययो पादयोरावृत्त्या मुखयमक यथा--'चक्र: दहतार चक्रन्द ह तारम् । खडेन तवाजी राजन्नरिनारी ॥' प्रथमतृतीययोरावृत्त्या संदंशः । १. दमयन्तीकथास्थोऽयं श्लोक . २ 'स त्वार भरतोऽवश्यमबल विततारवम् । स- वंदा रणमानपीदावानलसमस्थित ॥ इति काव्यप्रदीपे रुद्रटालकारे. च, स्फुटः नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम्'इति रुद्रटालंकारे. .
५२ काव्यमाला। यथा- --'सारंगवयसांनिध्यराजत्काननमग्रतः। सारजवयसांनिध्यदारुणं शिखरे गिरेः॥' प्रथमचतुर्थयोरावृत्त्या संदंशः। यथा आवृत्तिः-'आसन्नदेवा नरराजराजिरुच्चैस्तटानामियमत्र नादौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥' द्वितीयतृतीययोरावृत्त्या गर्भः । यथा-'यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव । समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥' द्वितीयचतुर्थयोरावृत्त्या संदष्टकम् । यथा-'अमरनगरस्मेराक्षीणाप्रपञ्चयति स्फुरत्सुरतरुचये कुर्वाणानां वलक्षमरंहसाम् । इह सह सुरैरायान्तीना नरेश नगेऽन्वहं सुरतरुचये कुर्वाणाना वलक्षमरंहसाम् ॥' तृतीयचतुर्थयोरावृत्त्या पुच्छम् । - 'उत्तुङ्गमातङ्गकुलाकुलो यो व्यजेष्ट शत्रून्समरे सदैव । स सारमानीय महारि- चक्र ससार मानी यमहारिचक्रम् ॥' चतुर्णामपि परस्परावृत्त्या पतिः । यथा- रैम्भारामा कुरु बककमलारम्भारामाकुरुबककमला । रम्भारामाकुरुबकक- मला रम्भारामाकुरुबककमला ॥' प्रथमचतुर्थयोद्धितीयतृतीययोरावृत्त्या परिवृत्तिः । । यथा-मुंदा रतासौ रमणी यता या स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलं- कुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥' प्रथमद्वितीययोस्तृतीयचतुर्थयोरावृत्तिर्युग्मकम् । यथा--'विभाति रामापरमारणस्य विभाऽतिरामा परमा रणस्य । सदैवतेजोर्जित- राजमाना सदैव तेजोऽर्जितराजमाना ॥ पादभागयमकानि अनयैव रीत्यानेकधा भव- न्ति । तानि च काव्यहृदयशङ्खत्वानोक्तानि ॥ भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः । यथा-'स लं सम्यक् समुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेना वाहिनीमुदकम्पयः ॥ इति श्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासनवृत्तौ शब्दालंकारविवेचनश्चतुर्थोऽध्यायः । १. 'स्मेराक्षीणा' इति शोभनम्. २-३. 'मासीय' इति पाठ आसीत्. तथापि रुद्र- टालंकारस्थोऽयं पाठः साधीयान्धृत- ४. अस्य श्लोकस्यार्थोऽनवगत . ५. रुद्रटालंकार- स्थोऽयं श्लोकः. ६. सप्तम्यन्तत्वेन दोषाभाव.. ७. अरीणामिति सेनाविशेषणम्, ५ अध्यायः ] काव्यानुशासनम् । ५३ यथाच- पञ्चमोऽध्यायः। दोषमुक्तं गुणयुक्तमलंकारभूषितं शब्दार्थरूपमुक्त काव्यशरीरम् । परं तत्त्वप्राणिशरीर- मिव निरात्मकं न प्रतिभासते । अतः काव्यस्य प्राणभूतानसानाह । यदाह-'यामिनी- वेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागान वाणी भाति नीरसा ॥' -'साधुपाकेऽप्यनाखाद्य भोज्य निर्लवणं यथा । तथैव नीरस काव्यमिति बमो रसान् (खल) क्रमात् ॥' तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रतिहासशोकक्रोधोत्साह- भयजुगुप्साविस्मयशमाः स्थायिनो भावाः, क्रमेण शृङ्गारहास्यकरुणरौद्र वीरभयानकबीभत्साद्भुतशान्ता नव रसा भवन्ति । परस्परमास्थाबन्धात्मिका रति. । हासश्चेतोविकाश । वैधुर्य शोक । तीक्ष्णत्वं क्रोध । सरम्भो वैक्लव्यम् । भयं सकोचः । जुगुप्सा चित्तविस्तार.। [आश्चर्य] विस्मयः । तृष्णा- क्ष्यः शमः ॥ अथ क्रमेण रसालक्षयति- स्त्रीपुंसयोः परस्परावलोकनमाल्यर्तुहर्म्यपुरशैलनदीचन्द्रोपवनोद्यानदी- र्षिकाजलक्रीडाविलेपनादिविभावा जुगुप्सालस्यौग्र्यवर्जसर्वव्यभिचारिभावा रतिः । स्थायीभावश्चर्वणीयतां गतः शृङ्गारः । 'स्त्रीपुसयो' इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयो सप्रयोगसुखैषिणो- यूनो स्त्रीपुरुषयोर्या परस्पर रति• स एव शृक्षार. । देवगुरुमुनिपुत्रादिविषया तु रतिरनु- भाव एव, न पुनः शृङ्गारः । तत्र देव विषया यथा--'नो मुक्त्यै स्पृहयामि नाथ विभवै. कार्य न सासारिकै कि त्वायोज्य करौ पुन पुनरिद त्वामीशमभ्यर्थये । स्वप्ने जाग- रणे स्थिती विचलने दु खे सुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ।।' एवमन्यदपि । ये चास्यानुगता कटाक्षभुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रप. ध्यमानत्वान्नात्र विस्तर ॥ स च संभोगविप्रलम्भाभ्यां द्विधा । सत्र सभोगमाह- एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाञ्चखेदकम्पाश्रुमोचनमेखलास्ख- लनध्वसितसाध्वसकेशवन्धवस्त्रसंयमनाभरणादिमाल्यादिसम्यग्निवेशनविचि- त्रेक्षणचाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोक- नाद्यनन्तभेदः संयुक्तयोः संभोगः । यथा-'वकेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रिय बाहू कण्टककोरकाण्यविभृता का.८ ५४, काव्यमाला । प्राप्तं गिरो गौरवम् । किं नाङ्गानि तवातिथेयमसृजन्स्वस्खापतो याचितं संप्राप्ते मयि नै- तदुज्झति कुचद्वन्द्वं पुनः स्पर्धताम् ॥' अथ विप्रलम्भमाह- औत्सुक्यमदग्लानिनिद्रासुप्तप्रबोधचिन्तायासाश्रमनिर्वेदमरणोन्मादजड- तान्याधिस्वप्नापसारादिव्यभिचारी संतापजागरकार्यप्रलापक्षामनेत्रवचोव. क्रतादीनसंचरणानुकारलेखलेखनवाचनखभावनिववार्ताप्रश्नस्नेहनिवेदन- सात्विकानुभवनशीतप्रयोगसेवनमरणोद्यमसंदेशदानाद्यनुभावो वियुक्तयोर्वि- प्रलम्भः । स चाभिलाषमानप्रवासभेदाविधा । दैवात्(पितृमातृस्वामि)पारवश्यादभिलाषविप्रलम्भो द्विधा । तत्र देवाद्यथा-'नगरपरिघदीघो वाहुदण्डौ ममैतौ विजितकनककुम्भा सा च तस्या. कुचश्रीः । तव शिशिरसमीरश्चैष नीहारसारस्त्रितयमपि समेतं दुर्लभं रावणेन ॥ पितृ- मातृपारवश्याद्यथा--'ज्वलतु गगने रात्रौ रात्रावखण्डकल शशी दहतु मदन किंवा मृत्यो परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥' स्वामिपारवश्याद्यथा---'स्मरनवनदी पूरेणोढा मुहु- गुरुसेतुभिर्यदपि विधृता दु खं तिष्ठत्यपूर्णमनोरथा । तदपि लिखितप्रख्यैरङ्गैर्मुहुर्मुहुरुन्मुखा नयननलिनीनालानीतं पिबन्ति रस प्रिया. ॥' मानः प्रणयभङ्गेाभ्यां द्विधा । तत्र प्रणयभङ्गाद्यथा-'गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रा- वशमुपगतो धूर्णित इव । प्रणामान्तः कोपस्तदपि न जहासि क्रुधमहो स्तनप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥' ईय॑या यथा-'सध्या यत्प्रणिपत्य लोकपुरतो बद्धाञ्ज- लिचसे धत्ते यच्च नदी विलज्जशिरसा तच्चापि सोढ मया । श्रीर्याताम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मा स्पृशेत्यभिहतो गौर्या हरः पातु व. ॥' कार्याच्छापादेवात्पारवश्याच प्रवासः । कार्याद्यथा-'याते द्वारवतीं तदा मधुरिपौ तद्दत्तस(झ)म्पानता कालिन्दीतटरूढवजुल- लतामालिनथ सोत्कण्ठया । तद्गीतं गुरुवाष्पगद्गदगलत्तारस्वर राधया येनान्तर्जलचारि- भिर्जलचरैरप्युक्तमुत्कूजितम् ॥' शापाद्यथा--'शापान्तो मे भुजगशयनादुत्थिते शाईपाणी शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावा विरहगणित तं तमात्मा- भिलाष निर्वेक्ष्यावः परिणतशरम्बन्द्रिकासु क्षपासु ॥' दैवाद्यथा-'आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेशालिङ्ग क्षपयरजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कु- पितो नानुरागच्युतो वा दैवास कस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥' पारवश्याद्यथा- १. 'नागानि' इति पाठः. २. 'त्रिधा' इति तूचितम्. .
५ अध्यायः ] काव्यानुशासनम् । 'उद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्या स्कन्धावारं जिगमिषुरयं मत्प्रियो मा विहाय । सेय जाता जगति सकले सुप्रसिद्धा जनोक्तिरग्रग्रासग्रसनसमये मक्षिकासनिपात. ॥' अथ हास्यरसमाह- विकृतवेषादिविभावो नासौष्ठकपोलस्यन्दनदृष्टिब्याकोशनापकुञ्चनस्वेदा- स्वरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थतन्द्रात्रपालस्यादिव्यभिचारी हासा- भिधानस्थायीभावश्चर्वणीयतां गतो हास्यरसता याति । स चोत्तमानां स्मि- तरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति । तन स्मितमीषद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति । विहसितं पुनराकुञ्चिताक्षिकपोलमीषदुद्भूतमुखरागं भवति । अपहसितं त्वस्थानहसितं साश्रुकणाकान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति । तत्र सामान्यहासोदाहरणम्-'त्रस्त समस्तजनहासकर करेणोस्तावत्स्वर प्रखरमुल्ल- मयाचकार (१) । यावच्चलासनविलोलनितम्बबिम्वविस्रस्तवन्नमवरोधवधू पपात ॥' अथ करुणमाह- इष्टवियोगानिष्टस[प्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखश्लेष- स्वरभेदाश्रुतपातवैवर्ण्यप्रलयस्तम्भ[वै]कम्पभूलुठनविलापगात्रांशाद्यश्रुभाव. निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारा- लस्यमरणप्रभृतिदुःखमयव्यमिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायि- भावश्चर्वणीयतां गतः करुणरसतां याति । यथा-'हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो धिक् प्राणान् पति- तोऽशनिहुंतवहस्त्वनेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणा पौरागनाना गिरश्चित्र- स्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ।' अथ रौद्रमाह- हारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनखभृत्याविक्षेपोपहास- वाक्याभाष्यद्रोहमात्सर्यादिविभावो नयनरागभृकुटीकरुण(ण)दन्तौष्टपीडन- गण्डस्फुरणहस्तामनिःशेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराक- घेणच्छेदनाद्यनुभाव औठ्यावेगोत्साहविबोधानर्थचापलादिव्यभिचारी क्रोषा- भिधानः स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामामोति । १. काव्यप्रकाशे तु 'स्तेङ्गेषु' इत्युपलभ्यते.
५६ काव्यमाला। यथा--'उत्कृत्योत्कृत्य गर्भानपि शकलयत क्षत्रसंतानरोपात्कामं निःसप्तकृत्वो जगति विशसत. सर्वतो राजवशान् । पिङ्गय (2) तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमा- नक्रोधाने. सर्वतो मे न खलु न विदितः सर्वभूते. स्वभावः ॥' अथ वीरमाह- प्रतिनायकवर्तिनमविनयसंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधि- क्षेपादिविभावः स्थैौदार्यधैर्यगाम्भीर्यशौर्यविशारदाद्यनुभावो धृतिस्मृत्यौत्र्य- गर्वामर्षामांवेगहर्षादिव्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति । स च त्रिधा । दानवीरो धर्मवीरो युद्धवीरश्च । तत्र दानवीरा चलिजीमूतवाहनादयः। तद्यथा-'स्वस्ति खागतमर्थ्यहं वद विभो कि दीयतां मेदिनी का (किं) मात्रा मम वि- क्रमत्रयमिद दत्तं गृहीत मया । मा देहीत्युशनाह किं हरिरयं पात्र किमस्मात्परमि- त्येवं बलिनार्चितो मखमुखे पायात्स वो वामन ॥ यथा च–'शिरामुखै. स्यन्दत एव रक्तमद्यापि देहे मम मासमस्ति । तृप्तिं न पश्यामि तवैव तावता कि भक्षणात्त्वं विरतो गरुत्मन् ॥' धर्मवीराः श्रीपार्श्वमहावीरप्रभृतयः । ‘दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिर- प्यवलोकितानि ॥ यथा च—'शठकमठविमुक्ताग्रावसघातघातव्यथितमपि मनो न घ्यानतो यस्य नेतुः । अचलदचलतुल्यं विश्वविश्वकधीर. स दिशतु शिवमीशः पार्श्वनाथो जिनो वः ॥' युद्धवीरा रामादयो मन्तव्या. ॥ अथ भयानकमाह- पिशाचादिविकृतवरश्रवणतदवलोकनखजनवधबन्धादिदर्शनशून्यगृहा- रण्यतमआदिविभावः करकम्पचलदृष्टिनिरीक्षणकरस्पन्दशुष्कौष्ठकण्ठमुखवै- वर्ण्यखरभेदाद्यनुभावः शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचानां खाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको रसः॥ यथा-'जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमान. सुरैः सद्य.स्तम्भितकर्णतालच. लनादिग्दन्तिनः कम्पयन् । जन्तूना जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूयेनेदं स्फुटतीव निर्मरमृतं ब्रह्माण्डमाण्डोदरम् ॥' -, अथ वीभत्समाह- अहृद्यानामुद्धान्तवणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावोऽङ्गसको- चहल्लासनासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावोऽपस्माररौद्यमोहगदा- - ५ अध्यायः ] काव्यानुशासनम् । ५७ दिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामाप्नोति । यथा-'अन्त्रप्रोतवृहत्कपालनलकक्रूरक्वणत्कङ्कणप्रायप्रेतितभूरिभूषणरवैराघोषयत्यम्ब- रम्। पीतच्छर्दितरक्तकर्दमधनप्राग्भारघोरोल्लसद्वयालोलस्तनभारभैरववपुर्दोद्धतं धावति॥' तथागुतमाह- दिव्यदर्शनेप्सितमनोरथावास्युपधूतदेवकुलादिगमनसभाविमानमायेन्द्र- जालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमेषप्रेक्षणरोमाश्चाश्रुखेद- साधुवाददानाहोकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षवेगजडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्भुतरसतामानोति । -‘पादाङ्गुष्ठनिपीडितामरगिरित्रुट्यत्तटीविभ्रमद्भूगोलातिभरासहाहिनिवहाश्यामा- स्यनिर्यगृहत् । नि श्वासोच्छलिताब्धिवारिलहरीविभ्रष्टतारावलि पायाद्वो जिनवीरशैशवव- योव्यापारलीलारस ॥ यथा च- 'यत्राभ्रलिहभूरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवो- ऽपि द्युमणि प्रयाति महता कष्टेन ताराध्वना । बाढ शैशवमक्षिमीलनकलामात्रेण संलङ्घय- ता यात्रा कालपनन्दनेन विदधे श्रीपार्श्वनाथप्रभो ॥' यथा- अथ शान्त - वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागचरणपरिचरणपरमेश्वरानुग्रहादिवि- भावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृति (निश्चेष्ट)मत्यादि- व्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसता याति । यथा-'अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसा कदा पुण्येऽरण्ये जिन जिन जिनेति प्रलपत ॥" विभावैरनुभावैर्व्यभिचारिभिश्चाभिव्यक्ता इत्युक्तम् । तत्र व्यभिचारिणो ब्रूते- धृतिस्मृतिमतिव्रीडाजाङ्यविषादमदव्याधिनिद्रासुप्तौत्सुक्यावहित्थाशङ्का- चापलालस्यहर्षगाग्र्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मार- निर्वेदावेगवितर्कासूयामृतयः शान्तिस्थित्युदयप्रशमशबलत्वधर्माणत्रयस्त्रिंश- व्यभिचारिणः । तत्र धृति. सतोषः स्मृति स्मरणम् । मतिरर्थनिश्चयः । ब्रीडा चित्तसकोचः । जा- ध्यमांप्रतीति । विषादो मन.पीडा । मद आनन्दसमोहसभेदः । व्याधिर्मनस्ताप । निद्रा मन.समीलनम् । सुप्तं निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्था- १. चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्णीतत्वादत्रास्य पाठ प्रक्षिप्त. प्रतीयते.
५८ काव्यमाला। कारगुप्तिः । शहानिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुपार्थेष्वनादरः । हर्षश्चेत.प्रसादः । गर्व. परावज्ञा । अत्युग्रता चण्डता । प्रबोधो विनिद्रत्वम् । ग्लानिर्वला- पचय । दैन्यमनौजस्यम् । श्रमः खेद । उन्मादश्चित्तस्य विप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्ष. प्रतिचिकीर्पा । त्रासश्चित्तचमत्कारः । अपस्मार आवेश । नि. र्वेदः स्वावमाननम् । आवेग सभ्रम । वितर्क सभावना । असूया अक्षमा । मृतिम्रिय- माणता । एते च शान्तिस्थित्युदयप्रशमशवलत्वधर्माण । तत्र निद्राया स्थिति(शान्ति)र्यथा-'प्रत्यग्रोन्मेषजिह्वाक्षणमनभिमुखी रत्नदीपप्रभा- णामात्मव्यापारगुर्वीजनितजललवाक्षम्भणैः स्वागभङ्गै । नागाक(ई) मोक्तुमिच्छो शयनगु- रुफणाचक्रवालोपवान निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा व ॥' स्थिति- यथा-'लीनेव प्रतिविम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युत्तेव च वज्रलेपघटितेवान्त- निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्वेतोभुवः पञ्चभिश्चिन्तासततितन्तुजालनि- विडस्यूतेव लग्ना प्रिया ॥' अत्र वितर्कस्य स्थिति । उदयो यथा-'कृतगुरुतरहारच्छे. दमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छयमाने । विगलितनवमुक्तास्थूलबाष्पाम्बु- बिन्दुस्तनयुगमवलायास्तत्क्षणाद्रोदितीव ॥' अत्र विषादस्योदय संधिर्यथा-'एकेना- क्ष्णा प्रविततरुषा पाटलेनास्तसस्थ पश्यत्यक्ष्णा स्वजललुलितेनापरेण खकान्तम् । अह्न- श्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीणौ रचयति रसौ नर्तकीव प्रगल्भा ॥' अत्र रोषदैन्ययो संधिः । शबलता यथा-वाकार्य शशलक्ष्मणः क्व च कुल भूयोऽपि दृ. श्येत सा दोषाणा प्रशमाय न. श्रुतमहो कोपेऽपि कान्त मुखम् । कि वक्ष्यन्यपकल्मषाः कृतधिय स्वप्नेऽपि सा दुर्लभा चेत खास्थ्यमुपैहि क खलु जनो धन्यो धुर धास्यति ॥' अत्र वितकौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्ताना शबलत्वम् । एवमन्येष्वपि व्यभि- चारिषूदाहार्यम् ॥ अथ सात्विकानाह- स्तम्भखेदोऽथ रोमाञ्चः खरभङ्गश्च वेपथुः । वैवाश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः ।। यथा-'वारंवार तिरयति सुधावुद्गतो बाष्पपूरस्तत्सकल्पोपहितजडिमस्तम्भमभ्येति गात्रम् । सद्यः खिद्यन्नयनविरतोत्कम्पलोलाडलीक. पाणिर्लेखाविधिषु नितरा वर्तते कि करोमि ॥' अत्राश्रुस्तम्भखेदवेपथुरूपाश्चत्वारः सात्त्विकभावाः । 'सर्वाङ्गीणविसारिभूरिपु- लकोद्भेदत्रुटत्कञ्चका. खाकूतं गुरुवाष्पगद्गदगिरा सख्यै गिरन्त्यो मुहु । प्राप्तव्य क- थमेष वल्लभ इति म्लायन्मुखास्त्वाममू श्रीमद्वाग्भट वीक्ष्य चित्रलिखिसप्रख्या मृगाक्ष्यो- १. अत्र 'क्वाकार्यम्' इति वितर्क., 'भूयोऽपि' इत्यौत्सुक्यम्, 'दोषाणाम्' इति मतिः, 'कोपेऽपि' इति स्मृति., 'किं वक्ष्यति' इति शङ्का, 'स्वप्नेऽपि' इति दैन्यम्, 'चेत. खास्थ्यम्' इति धृतिः, 'क. खलु' इति चिन्ता,स्फुटं पूर्वपूर्वोपमर्दैन प्रतीयमाना शबलता चम- त्कारभूमिः' इति काव्यप्रदीपे स्पष्टमुक्तम् ५ अध्यायः] काव्यानुशासनम् । ऽभवन् ॥' अत्र रोमाञ्चस्वरभेदवैवर्ण्यप्रलापाश्चत्वार सात्त्विकभावाः । एव च नव स्था- यिनस्त्रयस्त्रिंशद्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद्भावा बभूवु ॥ अथैतानभिधाय तदाभासानाह- तत्र वृक्षादिष्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः । यथा-'मधुद्धिरेफ कुसुमैकपात्रे पपौ प्रिया स्वामनुवर्तमान । शृङ्गेण सस्पर्शनिमी- लिताक्षी मृगीमकण्डूयत कृष्णसार ॥' अनौचित्येन यथा--'तद्वकं यदि मुद्रिता शशिकथा तच्चेस्मितं का सुधा सा दृष्टियदि हारित कुवलयैस्ताश्चेगिरो धिमधु । सा चेत्कान्तिरत- त्रमेव कनकं कि वा वहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुख सर्गक्रमो वेधस ॥' अत्रानु- रागविमुखाया सीताया रावणस्योक्ति । आदिशब्दाचन्द्रादीना यथा-'अङ्गुलीभिरिव केशसचयं सनिरुध्य तिमिर मरीचिभि । कुमलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' अस्मिनुदाहरणद्वये सभोगशृङ्गाररसाभास । एवमन्येऽपि रसाभासा भावाभासा- श्चोदाहर्तव्या ॥ अथ रसानभिधाय दोषानाह- खशब्दोक्तिविभावादिप्रातिकूल्यप्रकृतिव्यत्ययविभावानुभावक्लेशव्यक्तिपु- नःपुनर्दीयकाण्डप्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्गयननुसंधानानशामिधाना दश रसदोषाः । रसस्थायिव्यभिचारिणा खशब्देन वाच्यत्वं स्वश- ब्दोक्तिः। तत्र रसाना खशब्दोपादानं यथा-'शृङ्गारी गिरिजानने सकरुणो रत्या प्रवीर• स्मरे वीभत्सोऽस्थिभिरुत्फणी च भयकृन्मू.द्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्ननः प्रशान्तश्विरादित्थं सर्वरसात्मक पशुपतिर्भूयात्सता भूतये ॥' स्थायिना यथा-'रूपनि- र्जितकन्दर्प नयनानन्ददायिनि । अभूत्तस्या रति• कापि प्रिये चाटुविधायिनि ॥' अत्र रतिशन्दा । व्यभिचारिणा यथा-'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जळुसुतावलोकन विधौ दीना कपालोदरे पार्वत्या नवसगमप्रणयिनी दृष्टि शिवायास्तु व ॥' अत्र व्रीडादय । कचित्संचारिणां न दोषः । यथा-'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्वन्धुवधूजनस्य वचनै- नताभिमुख्यं पुनः । दृष्ट्वाने वरमात्तसाध्वसरसा गौरी नवे सगमे सरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु व ॥' अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रती- तिकृत् ॥ यत्र विभावानुमावादयः प्रतिकूला(स्त)द्विभावादिप्रातिकूल्यम् । यथा-'त्यजत मानवलंवत विग्रहैन पुनरेति गतं चतुर वय । परमृताभिरितीवमु- काव्यमाला। " दीरिते स्थमिते रमते स्म वधूजनः ॥' अत्र 'न पुनरेति चतुरं वय.' इति पदमनित्यता प्रकाशयन् शान्तस्य विभावता याति शृङ्गारस्य नोपयोगि । यथा-'प्रच्छन्नकामुकं दृष्ट्वा गुरूणा मध्यतो वधू । विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्पृहाम् ॥' अत्र सकलव्यासङ्ग- विमोचनवनस्पृहे शान्तस्यानुभावौ ॥ परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोषः। तत्र परस्परवाध्यत्वं यथा-'स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्वलाका घना वाता. सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र धैर्यापस्मारौ परस्पर- वाध्यवाधकभावेनोपनिवद्धौ विप्रलम्भरसोपकाराय । 'लायुव्यासनिवद्धकीकसतनु नृत्य- न्तमालोक्य मा चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे । हीमुद्रामपनुद्य यद्विहसितं चित्रं समं शंभुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥' अत्र वीभत्सहा- स्यरसयोर्भिन्नाश्रयत्वेन निबद्धयोर्न दोषः । अन्यरसैर(न)न्तरितत्वे यथा-'भूरेणुदिग्वान- वपारिजातमालारजोवासितवाहुमध्या । गाढं शिवाभि. परिरभ्यमाणान्सुराशनाश्लिष्टभुजा- न्तराला. ॥ सशोणितै क्रव्यभुजा स्फुरद्भि. पक्ष खगानामुपवीज्यमानान् । सवीजिता- श्वन्दनवारिसेकसुगन्धिभि कल्पलतादुकूलै ॥ विमानपर्यतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमाना ललनाङ्गुलीभिवीरा खदेहान्पतितानपश्यन् ॥' अत्र वीभ- सशृङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान दोष । अङ्गत्वे व यथा--'कोपा- त्किंचिदुपागतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिर दयितया हारेण बद्धा दृढम् । भूयो यास्यसि तद्गृहानिति मुहु कण्ठावरुद्धाक्षरं जल्पन्त्यश्रुवणोल्लखेन(१)सुकृती कश्चिद्रहस्ताड्यते ॥' अत्र केशाकर्षणवन्धनताडनादयो रौद्रानुभावा अपि रूपकवलादारो- पिता. शृङ्गारस्याङ्गत्व भजन्ति ॥ प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निबन्धनं प्रकृतिव्य- त्ययः । तत्र प्रकृतयोऽनेकधा भवन्ति तद्यथा । तत्र दिव्या माः पाता- लीयाः । तथा दिव्यमर्त्या दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपाता- लीया च । दिव्या यथा-'स्मृत्वायं निजवारवासगतया वीणासमं तुम्बरोरुगीतं नलकूवरस्य विरहादुत्कञ्चल रम्भया । तेनैरावणकर्णचापलमुपा शकोऽपि निद्रा जहद्भूयः कारित एव हासिनि शचीवके दृशा विभ्रमम् ॥' मा यथा-'निक्षिप्योत्क्षिप्य यत्नाविणमिह मुहुर्मा स्म सफ्लेशयस्त्वं पृथ्वी खं च प्रकामं शृणुत हितमिदं सावधान धनेशाः । नैवेयं शाश्वती श्री. प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्व राहडस्य प्रसभमभिनवा त्याग- धर्मादिलीलाम् ॥' पातालीया यथा-'कर्कोट कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि - ५ अध्यायः] काव्यानुशासनम् । बक्षु सज्ज सेवाञ्जलिस्ते कपिलकुलकयो स्तौति च स्वस्तिकत्त्वाम् । पद्म सौष भक्के- रवलगति पुन कम्बलोऽयं वलोऽय सोत्सर्प सर्पराजो ब्रजतु निजगृहं प्रेष्यता शङ्खपाल ॥' दिव्यमा यथा-'वहिजेऽपि सति सत्यपि दन्तवके प्रेमोपधानमवधूय पिनाक- पाणि । हस्तेन नित्य वृतवासुकिकंकणेन प्राज्ञ प्रिय स्पृशति भार्गवमेव पृष्ठे ॥' दिव्य- पातालीया यथा-'भस्माङ्गरागधवलीकृतसर्वगात्रौ य कण्ठदेशे वरपन्नगावृत• (2) । च- न्द्रेण भासुरजटामुकुटस्थितेन शंभुर्ददातु नियत तव सुप्रभातम् ॥' मर्त्यपातालीया यथा- 'आस्ता खस्तिकलक्ष्म वक्षसि तनौ नो लक्षित कक्षुको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुसात् । तिस्रस्तीव्रविपाग्निधूमपटलव्याजिह्मरत्नद्विपो नैता दुःसहशोकसूत्कृ- तमरुत्स्फीता फणाः पश्यसि ॥' दिव्यमर्त्यपातालीया यथा-'आस्तीकोऽस्ति मुनिः सविस्मयकृतः पारिक्षितीयान्मुखान्त्रावा()लक्षकलक्ष्मण फणभृता वशस्य शक्रस्य च । उद्वेलन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रम फणिवधूवृन्दैर्यशो गीयते॥' तथा धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता वीररौद्रशृङ्गाररसप्र- धानाश्चत्वारो नायकाः । तत्र धीरोदात्ता रामादयः । धीरोद्धता भीमसे- नादयः । धीरललिता नलादयः । धीरप्रशान्ता जीमूतवाहनादयः। तत्र धीरललितश्चतुर्धा भवति । अनुकूलः शठो धृष्टो दक्षिणश्च । तत्र स्थिरप्रेमा एकस्या रतोऽनुकूलः । यथा-'अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वका गतिरुद्धतं न हतितं नैवास्ति कश्चिन्मदः । कि त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दु स्थितम् ॥' प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः । यथा--'दृष्टैकासनसगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितकीडा- नुवन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसामन्तहाँसलसत्कपोलफलकां धूर्तोऽपरा चुम्वति ॥ कृतदोषोऽपि निःशङ्को धृष्टः । यथा--'लाक्षालक्ष्म ललाटपटमभितः केयूरमुद्रागतं वफे कजलकालिमा नयनयोस्ता- म्यूलरागोऽपर । दृष्ट्वा कोपविधायि मण्डनमिद प्रातश्चिरं प्रेयसे लीलातामरसोदरे मृगदृश. वास समाप्ति गत ॥ अन्यचित्तोऽपि यः पूर्वस्यां सौख्यभयप्रेमादि न त्यजति स दक्षिणः। यथा--'सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीति. सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोपाविल कि स्यादित्यमह- निश ससि मनो दोलायते चिन्तया ॥' का.९ काव्यमाला। बुग्यहि मतिप्रज्ञाशौर्यौदार्यगाम्भीर्यधैर्यस्थैर्यमाधुर्यकलाकुशलत्वविनी- तत्वकुलीनत्वनीरोगित्वशुचित्वाभिमानित्वयोषिदभिमतत्वप्रियंवदत्वजनानु- रागित्ववाग्ग्मित्वमहावंशजत्वतेजखित्वदृढत्वतत्त्वशास्त्रज्ञत्वाग्राम्यत्वशृङ्गारि- त्वसुभगत्वादयो नायकगुणाः । व्यसनी पापकृदन्यायी लुब्ध. स्तब्धः क्रोधी धीरोद्धतश्च प्रतिनायकः । यथा रामस्य रावणः । युधिष्ठिरस्य दुर्योधनः । त्रिपृष्ठस्य हयग्रीवः । विष्णोर्जरासंधः । नायकस्य च नर्मसचिवपीठमर्दविटविदूषका अनुचराः । तत्र कुपित- स्त्रीप्रसादको नर्मसचिवः । नायकगुणयुक्तस्तदनुचरः पीठमर्दः । एकविद्यो विटः । क्रीडनकप्रायो विदूषकः । नायिका निधा--खकीया परकीया सामान्या च । तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा-मध्या- प्रौढाभेदेन त्रिधा खकीया । तत्र मुग्धा यथा-'अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पतेच प्रकामम् । वदति च यदलक्ष्य किचिदुक्तापि भयो रमयति सुतरा सा चित्तमन्तर्नवोढा ॥' उद्भिद्यमाननवयौवना मध्या । यथा-'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिनः प्रागल्भ्यं स्तनजघनमुन्मुद्र- यति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारजाक्ष्यास्वरुणिमनि गाद परिचयः ॥ वयःकलाकौशल्यपरिपूर्णा प्रौढा । यथा-'नितम्बो मन्दत्वं जनयति गुरुत्वाद्रुतगती महत्त्वादुद्वृत्तः स्तनकलशभार. श्रमयति । विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥' एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र ग्रन्थगौरवमयानो च्यन्ते (यथा)॥ परकीया परस्त्री कन्या च । परस्त्री यथा-'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशो पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्या यथा-'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयो शोभा नवामीहते । नो धत्ते गुरुता तथाप्युपचिता'. नितम्बस्थलं तन्व्या स्वीकृतमन्मथं विजयते नेत्रैकपेय वयः॥' १. 'सत्वर' इति. २ 'तनुमा' इति साहित्यदर्पणे, - ५ अध्यायः] काव्यानुशासनम् । ५ कलाकलापकुशला वैशिकाचारचतुरा धूर्ता चिकबद्धचित्ता सगुण- निर्गुणयोः साधारणी गणिका सामान्या । यथा-'गाढालिङ्गनपीडितस्तनतट खिद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्धा- न्तोरुगलस्थलम् । चाटुप्रायवचो विचित्रमणित घातै रुतैश्चाङ्कित वेश्याना धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥' एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः । सर्वासामपि योषिता प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति । खाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्क- ण्ठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः । यस्याः सौभाग्यबद्धः पतिः पार्श्व न मुञ्चति सा खाधीनपतिका । यथा---'लिखति कुचयो. पत्रं कण्ठे नियोजयति सजं तिलकमलके कुर्वनगण्डादुद- स्थति कुन्तलान् । इति चटुशतैर्वारवार वपु. परितः स्पृशन्विरहविधुरो नास्या. पाच विमुञ्चति वलभः ॥ केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभर्तृका । यथा-'श्वासा वाष्पजलं गिर सकरुणा मार्गे च नेत्रार्पण केनेदं न कृतं प्रियस्य वि. रहे कस्यासवो निर्गता । सख्येवं यदि तेन नास्मि कलिता पान्थ कथ प्रोषित प्राणा. सप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥' मानकलहेन निर्गते भर्तरि तत्संगमसुखेनान्तरिता कलहान्तरिता । यथा-'उच्छ्वासा वदनं दहन्ति हृदय निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुख नक्तदिन रुद्यते । अङ्ग शोपमुपैति पादपतित. प्रेयास्तथा(थो)पेक्षित. सख्य. कं गुणमा- कलय्य दयिते भान वयं कारिता. ।' उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा । यथा-'कस्तूरी परिमर्दय प्रियसखि श्रीखण्डमत्रानय माला गुम्फ विधेहि केलिशयन सज्जं प्रदीप कुरु । सप्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्र यत प्राचीनाचलकाननानि भजते देवस्तमीवल्लभ ॥' चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता । यथा--'किं रुद्ध प्रियया कयाचिदथवा सख्या ममोद्वेजित कि वा कारणगौरव कि- मपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वाम्बुजं दीर्घ नि श्व- सित चिर च रुदितं क्षिप्ताश्च पुष्पस्रज ॥ १. "विन्यस्य' इति साहित्यदर्पणे.
काव्यमाला। केनापि कारणेन संकेतमनागतेन प्रियेण वञ्चिता विप्रलब्धा । यथा-'यत्संकेतगृहं प्रियेण कयितं संप्रेक्ष्य दूती स्वयं तच्छून्यं सुचिर निषेव्य सुदृशा पश्वाच्च भन्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राजनैरश्रुभिर्भूमावक्षरमालिकेव रचिता दीर्घ रुदन्त्या शनैः ॥' या सरार्ता कान्तं स्वयमभिसरति तमभिसारयति वा साभिसारिका । यथा-'निशा वा वृष्टिा तिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिन- वसरिता श्रेणिरथ वा । यथेष्ट चेष्टन्ता यदि न दयित प्रेमविमुखः प्रदीप. स्नेहाट्यो न खलु शलभौधैर्विरमति ॥' अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डिता । यदाह—'निद्राकषायमुकुली- कृतताम्रनेत्रो नारीनखबणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृह- मेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥' यथा-'नवनखपदमन गोपयस्यंशुकेन स्थगय सि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रति- दिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्ध केन शक्यो वरीतुम् ॥' ईर्ष्यायाः प्रति कारणं सपत्नी'नायिका । यथा रुक्मिण्या सत्यभामा, वासवदत्ताया. सागरिका, गौर्या गङ्गा च । योषिद्गुणाना च लीलादीना ग्रन्थगौरवभयानात्र विस्तरः ॥ अथ दश कामावस्था आह- अभिलाषचिन्तास्मृतिगुणकीर्तनोद्वेगप्रलापोन्मादव्याधिजडतामरणाख्या दशावस्थाः । स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति । अथ कालाद्यौचित्यमाह- तत्रानाद्यन्तः सुषमदुःषमादिद्वादशारचक्रपरिवर्तनेन कालो मन्तव्यः । स च काष्ठादिभेदभिन्नः । तद्यथा -पञ्चदश निमेषाः काष्ठा । त्रिंश- काष्ठाः कला । पञ्चदश कलाः घटिका । द्विघटिको मुहूर्तः । त्रिंशन्मु- हूर्तोऽहोरात्रः । तत्र चैत्राश्वयुजोर्मेषतुलासक्रान्तौ समरात्रिंदिवम् । चैत्रा- त्परं मौहर्तिकी दिनवृद्धिर्निशाहानिश्च । मासः परावधिः । ततः परं मौहूर्तिकीदिवसहानिर्निशावृद्धिः । अश्वयुजः परतः पुनस्तदेव विपरीतम् । १ तथा चोक्त हेमाचार्येणाभिवानचिन्तामणौ—'अवसर्पिण्या षडरा उत्सर्पिण्या त एव विपरीता । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥' इति. २ वहुवचनान्तमिदम्, तेन मासत्रयमित्यर्थः.
५ अध्यायः] काव्यानुशासनम् । ६५ पञ्चदशाहोरात्रः पक्षः । कृष्णशुक्लपक्षद्वयरूपो मासः। द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः । षड्भिर्मासैरयनम् । तच्च वर्षादि दक्षिणायनम् । शिशि- राधं तूत्तरायणम् । व्ययनः संवत्सरः। स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरिति लोकयात्राविदः । तत्र श्रावणो भाद्रपदश्च वर्षाः । अत्र च शल्लकीशालशिलिन्ध्रयूथीलागलीकुटजदम्ब- सर्जार्जुनकेतकीप्रभृतीना पुष्पोद्गमः । इन्द्रगोपचकोरचातककुरङ्गदर्दुरोरगशिखण्डिमद्- कङ्कप्रमृतीना मद. । तथा वलाकासु गर्भाधानम् । वशाङ्कुराणामवृद्धिः । रज प्रशमः । नृपयात्रानिवृत्तिः । नीलीदलश्यामला वनभूमि. । वारासारक्षालनतो गिरीणा रम्यत्वम् । नदीना जलपूरै रोधोभेद. । यतिचारनिवृत्तिः । कामिनीजनावलोकितकान्तमार्गल ख- स्थानं प्रति चलितपान्यसार्थत्वम् । जलदनिकुरुवान्धकारितनभस्तलत्वम् । विद्युदुद्यो- ताद्योतमानदिङ्मुखत्वम् । घनगर्जिताद्वैडूर्यमूभिषु रत्नकन्दलोद्भेद. । कामिनीभिः सहोद्यान- यात्रा हर्म्यशिखराप्रशय्या । मृगनाभिगर्भचतु समविलेपनम् । कृषीवलकुटुम्बिनीनिकुरम्ब- रासकाडम्बरो दूर्वाष्टमी पर्वोत्सवश्च वर्णनीयः। तथा दग्धोर्वरागन्धवन्धुर्घनतुषारकणवाही कदम्बकुसुमामोदमासल. पाश्चात्यपौरस्त्य उत्तरो वायुः । आश्विनश्च कार्तिकश्च शरत् । अत्र च कुररद्विरेफकारण्डवकादम्बकखजरीटचक्र- वाकसारसक्रौञ्चवृषभकुम्भिकमठवकोटशफरप्रभृतीनां मदोद्भेद. । पद्मकुमुदोत्पलकहार- वन्धूकवाणासनकुङ्कुमशेफालिकासप्तच्छदकाशभाण्डीरसौगन्धिकमालतीना कुसुमोद्भेदः । तथा मयूराणां मदापनोद हसयूथागमनम् । अगस्त्योदयात्ययः । प्रसाद. । मुक्ताशुक्ति- गर्भाधानम् । तरुशृङ्गात्यागो नभ.प्रसत्तिः । सुरवीथीदर्शनम् । शुभ्राम्रखण्डमण्डितमख- (नभश्च)रमण्डल धवलतमचन्द्रिकावभासमाननिशामुखत्वम् । महानवम्यां निखिलास्त्रपू- जोत्सव. । वाजिभटद्विपाना नीराजनविधिः । नृपाणा यात्रोद्यमः । मार्गेषु पयशोषः। भास्करकराणा दु सहत्वम् । माधवप्रवोध. । केदारेषु शालिपाको गोपीगीतयश्च । परि- पाकापन्नैर्वारुकगन्धोद्गम । जरत्रपुसीफलसौन्दर्य कृषीवलगेहाजिरेषु चलद्वलयावलीवा- चालभुजलतोल्लासितमुशलोच्छलितकलमशालिणि(नि)ण(१)कगन्धवन्धुरत्व नदीपूरप्राचु- र्यापगमश्च वर्णनीय । वायुश्चात्रानियतदिक्कः । मार्गशीर्ष पौषश्च हेमन्त । अत्र च कुन्दमचकुन्दलयलीफलिनीरोध्रपुनागानां पुष्पो- द्गमः । भ्रमरसर्पमयूरादिजीवाना मदापनोद । कामिनीना कुङ्कुमसित्थुकगन्धतैलाद्युप- चार । सर्षपकन्दलवराहवन्ध्रप्रमृतिशाकप्राचुर्यम् । दना सनद्धरसता । कामिनीकुचाना कवोष्णता । कोष्णाम्भसा मानविधिः । दुर्भगाणामपि गाढतराङ्गपरिष्वङ्ग । व्याघ्रीणा प्रसूति । नदीपुलिनेषु गोधूमयवादिधान्योद्गम । सर कूपपयसा कवोष्णता। धान्यप- रिपाकपेशला वहिभूमय । लवणानां पाकः । पत्रीप्रमृतिजन्तुयात्रोद्यमहानिर्वैश्वानरप्रिय. त्वम् । कर्कन्धूनागरङ्गफलाना पाकोद्रेक । पुण्ड्रैक्षुखण्डाना रसपरिपूति(१)मन्दिरगर्म- ।
काव्यमाला। शय्या । उत्तुजतरपीवरपयोधरवन्धुरमधुरसुन्दरीभुजपारान्तरसेवनं च वर्णनीयम् । वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः । माघः फाल्गुनश्च शिशिरः । अत्र सर्वे हेमन्तववर्णनीयम् । विशेषतश्च मातङ्गहरिण- वराहमहिषाणामुत्कर्षः कुङ्कुमगन्धतैलादिसाध्यः प्रचण्डो मरुत् । विचित्रसुरतोपभोगयो- ग्याश्च यामिन्यः । दन्दह्यमानकालागरुधूपधूमस्तोमेपु स्पृहा । सुरतसमर्दनिपीतशीतानां पादप्रान्तपुञ्जीकृततलपटानां यूना शयनावस्थानम् । चन्दनेष्वरुचि. पयसामतिशायि शै- त्यम् । तुहिनानलयोहात्मकत्वेनाभेद । दुर्भगासुभगयोरालिङ्गनेन विशेषः । शशिभा- स्करयोः शैत्येन समता । मरुवककुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपे- शलत्वम् । औदीच्यपवमानस्त्यानीभूतपानीयपटलान्तरनिलीनदीनमीनासु नालावशेषन- लिनीवनो दीनमधुरकरझकरासकारमुखरितदिमण्डलासु वापीष्वनादरः । करीपाग्निसमीप- शयितदयितकुटुम्बकत्व च वर्णनीयम् । चैत्रवैशाखौ वसन्त । अत्र च शुकसारिकाहारीतमधुव्रतदात्यूहपुंस्कोकिलादीनां मदः । सहकारकर्णिकारकाञ्चनारकोविदारसिन्दुवाररोहीतककेतककिरातमधूकमोचामाधवीदमन- काञ्जनकुरवकतिलकाशोकवकुलगुवाकविचकिलनालिकेरहिन्तालपाटली किशुकखजूरताड- ताडीप्रभृतिद्रुमाणामुद्भेदः । तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपानं स्मरपू- जाप्रक्रमो गौरीचरितगान चम्पकपुष्पाभरणानि प्रत्यमरमन्दिर यात्रोत्सवो (व्यात्यु)चारु- चन्दनागरागो धौतधवलवसनसेवनं जगजनजिगीषुमकरध्वजमहाराजविजययात्राडिण्डि- मायमानकोकिलकुलकलकलकलोद्यानरामणीयकं वर्णनीयम् । वायुश्चात्र करिकलभदश- नोद्भिद्यमानचन्दनद्रुमामोदमेदुरस्तरलितकेरलीधम्मिल्लवन्धो नागवल्लीवेल्लनपटुर्मानिनी- मानतुङ्गमतङ्गजः पञ्चमप्रपञ्चविपश्चनाचतुरो दाक्षिणात्यः । ज्येष्ठाषाढी प्रीष्मः । अत्र हि नवमालिकाकाशिकाशिरीषकाञ्चनकेतकीधातकीख- जूरजम्बुपनसप्रियालपूगीफलनारिकेलप्रभृतीना पुष्पफलोद्भेदः । करभसरभरासभप्रभृ- तीना मदोद्भेदः । नदीसर.कूपादिषु निरम्भस्त्वम् । सक्तुधानैर्वारुषु पानकेषु रतिः । पान्थपूर्णाः प्रपाः । प्रातः सायं च वहमानमार्गत्वम् । कायमानेषु माध्याह्निकी निद्रा । दिवसावसाने स्नानविधिः । रात्रिशेष सुरतक्रीडा । चन्दनादिशीतलद्रव्यसेवा । निशासु चन्द्रकरनिषेवणम् । उत्तुङ्गसौधशृङ्गाग्रविनिर्मिते विशालवायन विवरविहरमाणजगत्प्रा- णनिर्वाप्यमाणधर्मत्वम् । सहकारभङ्गाखादः। तालवृन्दजनितोदबिन्दुवृष्टिसरःस्थलस्थायि- स्थूलमुक्ताफलहारप्रायाभरणत्वम् । जलाोपवनजलक्रीडापाटलापरिमलवहलितशीतलज- लोपभोगो विविधविचकिलस्रज एकदेशोपविष्टवैणिकविपच्यमानवसन्तध्वनिश्रवणं सश- कराधृतदुग्धपान मलयजरसदिग्धोद्भुरपयोधरमधुरवधूविविधविधायमाननिधुवनविधिवि- धीयमानधूतधनधर्मत्वं वर्णनीयम् । तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि तप्यन्त इव पासवः, आध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टिकाकीर्णा वनभूमि., सर्वतोवहदरघट्ट- घटीयन्त्रचीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः । चीरी.
५ अध्यायः] काव्यानुशासनम् । ६७ नादवन्तो वनान्ताः । दाधिकाभ्यवहार । पकान्त ठनाव्यग्रं कोलकुलम् । रोमन्थम- न्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम् । लोलज्जिह्वा. समग्रश्वापदसंदोहा । पक्षि- णामंसदेशप्रकर्षों वर्णनीय । वायुश्चात्र तरुणतरतरणिकिरणसपर्ककर्कश शर्कराकणवाही अझारप्रकर किरनिव कुतूहलकणान् वर्षन्ति वातिसारितजगनन्तुजातदाहहडम्बरो नै तोऽनियतादिक्षिपो वा(१) वर्णनीय । वसुरवस्थश्च ॥ ऋतोः संधिः । शैशवं प्रौढिरनुवृत्तिश्च । तत्र शिशिरवसन्तयोः सधिर्यथा—'विंधुढे मयणं नदिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अगंमि कुप्पासयं । जंवाला मुहु कुंकुम मिवयणे विद्वंति डिल्लायरा संमत्ते शिशिर विणिजिय वला पत्तो वसतस्य उ ॥' वसन्तस्य शैशवं तथा—'ग- भग्रन्थिपु वीरुधा सुमनसो मध्येङ्कुर पल्लवाश्छायामात्रपरिग्रह पिकवधूकण्ठोदरे पञ्चमः। कि च त्रीणि जगन्ति जिष्णुदिवसैईित्रैमनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यास- वश्य धनुः ॥' प्रौढिर्यथा-'संपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान्सनद्ध परितो निरन्तरदलद्रोणीनिवेशैस्त्रिभि । प्रीतभ्रान्तमधुव्रती चलपितंस्त च स्तिभीसकटे गन्ध- प्राधमवाह्यवृत्ति वलति क्रीडावने केतकम् ॥' वर्षासु ग्रीष्मलिज्ञानुवृत्तिर्यथा—'खं वस्ते कलविककण्ठमलिनं कादम्विनीकम्वलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् । गन्धं मुश्चति सिक्कलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहा- सेन भासा पति ॥ इदमन्यच्च यद्यथोक्त कविसमयप्रसिद्धं तत्तथैव निवनीयात् । अ- न्यथा तु प्रकृतिव्यत्ययो नाम दोषः ॥ विभावानुभावयोः क्लेशेन यत्र व्यक्तिर्भवति सा विभादानुभावक्लेशव्यक्तिः। यथा-'परिहरति रतिं मतिं लुनीते स्खलतितरा परिवर्तते च भूयः । इति वत विषमा दशास्य देहं परिभवति प्रसनं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावा- दीना करुणादावपि सभवात्कामिनीरूपो विभावो यत्नप्रतिपाद्यः । यथा च –'कर्पूरधूलि- धवलद्युतिदूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यून । लीलाशिरोंशुकनिवेशविशेषक्ल. प्तिय॑क्तस्तनोन्नतिरभूनयनावनौ सा ॥' अत्रोद्दीपनालम्बनरुपा शृङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना ॥ अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः । यथा वालरामायणे उन्मत्तदशाननेऽङ्के(१) पुन पुनश्चय॑माणो विप्रलम्भो रस उपभु- कमाल्यवच्च वैरस्यमाकलयति ॥ अकाण्ड विस्तरोऽकाण्डप्रथनम् । यथा कर्पूरमअर्यो द्रुमदोहददानादिव्यावर्णनम् ॥ असमयत्यागोऽकाण्डच्छेदः ।
काव्यमाला। यथा, वीरचरिते द्वितीयाके राघवभार्गवयोः परमकाष्ठाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः ॥ अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः । यथा कादम्वर्या रूपविलासेत्यादिना महाविप्रलम्भवीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अ- टवीशबरेशाश्रममुनिनगरीनृपादिवर्णनाखेतिम(१)प्रसङ्गाभिनिवेशाः । यथा च शिशुपाल- वधे उत्क्षिप्तप्रतिद्वन्द्विविजयवीजेन वीररसानुवन्धेऽपि प्रवर्तमाने,तदन्यशृङ्गारागभूतर्तुवन- विहारपुष्पावचयजलकेलिमधुपानसुरतचन्द्रोदयादिप्रभातादिवर्णनायासत्यासक्तिः । प्रधानस्याङ्गिनोऽनुबन्धेऽङ्गयननुसंधानम् । यथा रत्नावल्यां चतुर्थेऽहे बाभ्रव्यागमनेन सागरिकाया विस्मृतिः ॥ अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम् । यथा कर्पूरमजयो नायिकया खामिना च वसन्तवर्णनमादृत्य वन्दिवर्णने तस्य राज्ञः प्रशंसनम् ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानो(?)लंकारः ॥ नव्यानेकमहाप्रबन्धरचनाचातुर्यविस्फूर्जित- स्फारोदारयशःप्रचारसततव्याकीर्णविश्वत्रयः । श्रीमन्नेमिकुमारसूनुरखिलप्रज्ञालुचूडामणिः काव्यानामनुशासनं वरमिद चके कविर्वाग्भटः ॥
No text on this page.