Shri Jain Swetamber Khartargacch Sangh, Jaipur
Vishistadwaitadhikaranamala
Front matter
No text on this page.
श्रीः
पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीता
विशिष्टाद्वैताधिकरणमाला
THE
Vishistadwaitadhikaranamala.
A WORK ON
VEDÁNTA PHILOSOPHY OF RÁMÁNUJA
COMPILED BY
PANDIT SUDARSHANÁCHÁRYA PUNJABI
All Right Reserved
BENARES.
AT THE TARA PRINTING WORKS,
1902
No text on this page.
श्रीः Futimoncelot प्रशस्तिपत्रिका पञ्चनदीयपण्डितवरसुदर्शनाचार्यप्रणीताऽद्वैतचन्द्रिका विशि- प्टाद्वैताधिकरणमाला चेत्यभिनवं प्रबन्धद्वयमापाततो निरीक्ष्य पेशं प्रसीदन् विरलदर्शनदर्शनप्रचारेऽपीदृशे समये प्रणेतुर्दार्शनिकविषय- व्युत्पत्तिपाटवं दुरुपपादविपयाणामपि सरलतरलेखेन स्फुटीकरण कौशलं चाभिनन्दन विस्तृततमश्रीभाज्यसकलपर्यालोचनाऽक्षमाणा- मनेन प्रशंसनीयेन प्रयत्नेन परमोपकारमवधारयन् समालोचयन्तो नव्यनिवन्धरत्नद्वयं सूतेऽद्यापि पण्डितरत्नं रत्नगर्भेति निश्चिन्वन्तु विपश्चिन्तमा इति संमन्यते- (महामहोपाध्यायश्रीसत्पं०) गङ्गाधरशास्त्री (श्रीमत्पं० ) तैलगरामशास्त्री च ( तात्याशास्त्रीत्यपरनामधेयश्रीमत्पं०) रामकृष्णशास्त्री च (श्रीमत्पं०) निसानन्दशर्मा ( ओझा श्रीमत्पं०) श्रीसङ्गमलालशर्मा (म० म० श्रीमत्पं०) सुब्रह्मण्यशास्त्री द्रविड: (श्रीमत्पं० ) त्र्यम्बकशास्त्री वैद्यः (म०म० श्रीमत्पं० ) सुधाकरद्विवेदी (श्रीमत्पं०) सीतारामशास्त्री .. श्रीहरिः शरणम् । पञ्चनददेशवास्तव्यन पण्डितश्रीसुदर्शनाचार्येणाऽद्वैतचन्द्रिका- विशिष्टाद्वैताधिकरणमाले प्राणायिपातां ते इमेअवलोक्य सानन्द महे यदसावधिगतव्युत्पत्तिरुत्साही सुलेखकः पटुर्विपयविवेचन- शक्तिरिति- (महामहोपाध्यायभट्टाचार्यश्रीमत्पं० ) कैलासचन्द्रशर्मा (म० म० श्रीमत्पं० ) स्वामी राममिश्रशास्त्री
No text on this page.
॥ श्रीः॥ विशिष्टाद्वैताधिकरणमालाया विषयानुक्रमः ASAN पृ० पं० पृ०६० विपयाः २१२ ब्रह्मजिज्ञासाधिकरणम् २१६ मथगमस्यानन्तर्यपरत्वमत.श वनस्य च कर्मज्ञानवृत्ततापरत्वम २ २२ अतःशनसाधनचतुष्टयपराम शनिरास: ३ १८ ब्रह्मशब्दस्य सविशेषब्रह्मपरत्वम ३३० जन्मायधिकरणानि । ६ १२ स्वतन्त्रप्रधानकारणवावनिरा- साधिकरणम् ७ ६ आनन्दमयादिवाक्यनां ब्रह्मपर- त्वम् ११ १४ द्वितीयपानारभिः १२ १३ सर्वखाल्वतिवाक्येनाधिकरण- योजना १३ १२ ब्रह्मणोऽत्तृत्वप्रतिपादनाधिकर- णम् १४ ५ यएषोऽक्षिणीत्यादिवाक्यानां ब्रह्मपरत्वम् १७ १ दिव्योह्यमूर्तइतिवास्यनादृश्य- त्वाविकरणयोजना २८ ९ वैश्वानराधिकरणम् १९ १४ तृतीयपादारम्भ श्रुतीनां ब्रह्म- परत्वम् २५ २ ब्रह्मोपासनासु देवतानामधि- कारसम्पादनम् २५ १८ वोपासनासु देवानामधिकार- सम्पादनम् २६ १४ ब्रह्मोपासनामु शूद्रस्यानधिकर २७ ५३ अङ्गुठमात्रत्वादिश्रुनीनां ब्रह्म- परत्वम विपयाः २८ १७ चतुर्थपाहारम्भः इन्द्रियेभ्य प. राह्यर्थेति वाक्यऽव्यक्तशब्म्य- शरीरपरत्वम् । पुन प्रकृतिवाद- निरासारम्भ ३३ १३ हिरण्यगर्भादिजीवानां परमेश्व- रत्वनिरासः ३५ १६ योगमतांनरासः । ब्रह्मण प्रप- चोपादानव च ३६ १७ सकलविरुद्धमतनिरासोपसहार ३७ १ पञ्चम्पादारम्मागपुन साङ्ख्य. स्मृतरप्रामाण्यम् ३८ ६ योगस्मृतरप्रामाण्यम् ३९ ४ प्रकृति प्रपञ्चापानानवनिरासः ४० १५ पुन. सकलविरुद्धमतनिरासोप- सहार: ४. २२ सकलप्रपञ्चस्यपरमात्मकाय- त्वप्रतिपादनम् ४१२४ प्रपञ्चस्थ ब्रह्मानन्यत्वम् ४३ २१ अन्यकारककलापानपक्षस्य ब्रह्मण लट्टत्वम् ४४ १४ निरंशस्थापि परमात्मनः परिणा- मोपपादनम् ४५ ९ सृष्टौ वैषम्यं कर्मापेक्षम् ४६ २ षष्ठपानारम्मः । प्रकृतिकारण- वाननिरासः ४७ २१ परमाणुकारणवानिरास: ४९ ६ क्षाणकावनिरास ५० १० विज्ञानवाननिरासः ५१ ६ शन्यवादनिगसः ५२-१: जैनमनिरासः २ विषयानुक्रमः पृ० पं० पृ० पं० 183 विपयाः ५३ १ पशुपतिमतनिरास: ५३ २६ भागवतमतसस्थापनम् ५५ १ सप्तमपाटारम्भः । आकागोत्प- त्तिनिरूपणम् ५६ ४ वाय्वायुवतः क्रमनिरूपणम् ५६ २३ जीवस्योत्पत्तिनिरासः ५८ ३ जावस्यज्ञातृत्वाणुत्वयोः प्रति- पादनम् ६० २९ जीवस्थ कर्नवनिरूपणम् ६२ ३ जीवकर्तत्वस्य परमात्माधीन- নিবেশ ६३. २ जीवस्य ब्रह्मागत्वनिरूपणम् ६४ १५ इन्द्रियाणासात्पत्तिककार्यत्वम ६५ ९ इन्द्रियाणामकादशवकयनम् ६५ २३ इन्द्रियाणामणुत्वनिरूपणम् ६६ २० प्राणस्य विलक्षणवायुवजीवो- पकरणत्वे ६७ २५ प्राणस्याणुत्वकथनम् ६८ २ प्राणेन्द्रियाविष्ठातृणामधिष्ठातृ- त्वं ब्रह्माचीनम् ६९ ११ प्राणशननिर्दिष्टपुमुख्यप्राणा- तिरिक्तस्येन्द्रियत्वम् ७० ४ व्यष्टिसृष्टिंप्रतिचतुर्मुखस्यकर्तृ- स्वनिरास. ७१ १ नवमपादारम्भः जीवस्यसूक्ष्म- भूतसहितस्य प्रयाणम् ७२ ३ जीवस्योपभुक्तशिष्टकर्मयुक्तस्य- देहान्तरमाप्तिः ७२ २५ विदिनप्रतिषिन्द्रकर्मणामकरण- करणाभ्यां नरकमाप्तिकथनम् ७३ १४ जीवस्याकाशादिमावस्तत्साह. क्ष्यमात्रम् ८ जावस्याकाशाने स्थितिनियम ७५ ४ जीवस्य बीह्यादिभिः सम्ले- पपक्ष. विपया: ७६ १ दश पारम्भ.। हरेःस्वमार्थक- तृत्वम ३ सुषुप्तिस्थानविचारः ७७ २९ सुप्तवरबुध्यते नान्य इति ७८ १९ माया प्यारिभ्योऽवस्था- न्तरत्वम् ७२ १० परमात्मना जीवशेपासम्बन्ध. ८. १ चिवर्गस्य ब्रह्मांशत्वम् ८१ ३ जगत्कारणात्परमात्मतापरतत्व- प्रतिषेधः ८२ १५ परमालनएवकर्मफलपरत्वम् ८३ १ एकादगारम्भ । विद्यानां- भेटाभनविचारः ८६ २० परविद्यासर्वनानन्दादिगुणो- पसंहारः ३ अप्सु प्राणवासस्वानुसंधानम् ८७ २८ विद्यानां पुनर्भगभेदविचारः ८९ ७ संभृयादिगु गानांविद्याविशेष- उपसंहारः ९० २४ श्रुक्रमविध्येयादिमन्नाणां विद्यानगत्वम् ९२ १९ पुण्यदुष्कृनचोर्दानोपादानोभय- चिन्तनम् ९३ १० मरणकाले एक कर्मपरित्यागः ९१ १२ अर्विराठिमागेंणवब्रह्मप्राप्तिः ९५ १० अस्यत्वादिगुणानां सकलप. रविद्यासु सम्बन्धः ९६ ७ पुनर्विचाभेनाभनविचारारम्भः ९८ १ कर्माङ्गाश्रितविद्यानां कर्मस्वने- यमिक उपतहार ९२ २ ब्रह्मगुणचिन्तन फालवाचि- स्तनावश्यकता ९९ १९ समालवियोपाम्यनिरूपणम् १०० २३ मनश्चिनादीनांवियोपयोगित्वम् १०१ १९ हनपाप्माविरूपेणजीवचिन्तनम् . ७४ विषयानुक्रमः पृ० पं० पृ० पं० यता विपयाः विपयाः १०२ २१ कर्माङ्गाश्रितविद्यानांसर्वशाखा १२१ १८ पुण्यस्यापिविद्याविनाश्यत्वम् सम्बन्धः १२२ ३ अनारब्धफलानामेवकर्मणां १०३ ३ वैश्वानरविद्या विद्याविनाश्यत्वम् २०४ ९ ब्रह्मविद्याः परस्परभिन्ना: १२३ १ विद्योत्पत्तेरनन्तरमाप कर्मानुष्ठे- १०४ २३ ब्रह्मप्रापकविद्यासुमध्य एका- याउपादानम् २२३ २० प्रारब्धफलनांकर्मणांभोगनाश्य- २०५ २८ ऋतौकर्माङ्गाश्रितविद्यानामनै- त्वम् यमिक उपसंहारः १२४ १४ मरणकालिकेन्द्रियादिलयवि- १०६ २२ विद्यया पुरुषार्थलाभ: चार १०७ १७ उद्गीथस्य रसत्वेनोपासना १२७ ४ विद्वदविदुषोः मरणरीतिसाभ्यम् १०८ ७ विधिवाक्येकवाक्यतापनार्थ १२७ १८ भूतानां परमात्मसंपत्तिः वानानां विधायकत्वम् १२८ ९ परमात्मसंपत्तरविभागरूपता १०८ २३ तपस्विनोपिकर्माङ्गाश्रितविद्या २२८ २३ ज्ञानिनामर्दन्यनाड्योत्क्रमणम् यामधिकारः १२९ १४ मृतस्यविदुपारविमभिरेवगमनम् १०९ १३ गृहस्थानुष्ठयविद्याया कर्मापेक्षा १३० ३ राज्यानावपि मृतस्य विदुषो खम् ब्रह्माप्राप्ति १२० १ गृहन्यस्यापि शमाद्यपेक्षा १३१ १६ अचिरानिमार्गनियम २१० १९ प्राणसशयवेलायांसर्वान्नभोजनम २३२ १८ अर्चिरानिमार्गस्वरूपशोधनम् १२२ ४ अमुमुक्षुणापि यागादिकर्तव्यता १३९ ६ अर्चिरादीनामातिवाहिकत्वम् ११२ ६ विधुगणामपि विद्यास्वधिकार २३६ २७ आत्मपरमात्मनोरुभयोरप्युपास- २२३ ६ आश्रमभ्रष्टस्य विद्यानधिकार कस्य मुक्तिः ११४ ४ ऋत्विग्भिः काङ्गाश्रितविद्या- २३८ ५ मुक्तस्य स्वासाधारणरूपाविर्भाव २३९ १ मुक्तन परमात्माभिन्नत्वेनात्मद-: नुष्ठानम् र्शनम् २२४ २८ निविण्यासनस्यविहितत्वम् १२५ १४ अदम्भावीनां विद्योपयोगित्वम १३९ २१ आविर्भूतमुक्तस्वरूपविचारः १२६ २. विद्यासिद्धिविचागरम्भः १४० १९ मुक्तस्य स्त्रसंकल्पादेवसमीहित- ११७ १० असकृदुपासनानुष्ठेयता माप्ति १९८ ६ जीवात्मनोप्यात्मत्वंनब्रह्मण उ- १४२ १८ मुक्तस्य स्वेच्छानिवन्चन शरी- पास्यत्वम् रादिसंयोगः २२८ २२ प्रतीकोपासनाविचार १४२ २७ सर्गादिव्यापारहीन मुक्तैश्चर्यम् ११९ १२ उद्गीथस्य सूर्यत्वेनोपासनम १४३ २४ ग्रन्थसमाप्ति २२० १ ब्रह्मापासनाया देशकालानिवि- चार: अध्वपुण्ड्रबन्धः । २२० २३ अतीतोत्तापापानां नाशाश्लेषा श्रीश्रीसृतियतीन्द्र वन्दना।
॥ श्रीः॥ विशिष्टाद्वैताधिकरणमालायाः शुद्धिपत्रम् । पृ० पं० अशुद्धम् ० अशुद्धम् शुद्धम् पृ० ० पं० अशुद्धम् शुहम् ३१६ चालय चाक्षय ६ ६ निवृन्गे निवृतो ६ २५ त्यादिकं त्यादिकं ७ १ मया मयो ७ १३ मभिधत मभिधत्ते ७ १४ कुत कुतः ११ २ व्युत्पत्या व्युत्पत्त्या ११ ७ पाधिका पाधिकाः १२ १० प्राण प्राणः १२ २२ वत्वं वत्त्वं १३ ३ पत्या पत्त्या १३ ४ पत्या पत्त्या १५ ५ स्पद स्पदं १५ २६ यतित्य यत्य १६ १ इंग्ल्या हरयां १६ २८ प्रितिष्टाम् प्रतिष्ठाम् १७ ६ प्रर्यायः पर्यायः १७ २० निष्फलं निष्कले १८ १३ शुभ्नो धुना १९ २२ द्यौ २१ १३ तदनति तदनाति २२ ११ तुर्य पञ्चस २२ ११ शेव्यः शव्यः २२ १८ हाणः सण: २४ २० तस्य चं तस्य च २५ २० बाद वाद २६ २७ सत्त्वे सत्त्वे २७ १६ बादाय-वादाय- णि Jणो मृ २८ १३ जीवनानु जीवनात्मनानु ३० ११ ब्रह्मात्मि ब्रह्मात्म ३९ ६ माशय माशङ्ग्य ४२ १७ श्रतिभ्यो श्रुतिश्यो ४७ १७ न्हस्व ४८ ६ स्पदं ४८ ३० सनुदाय समुदाय ४८ ३० पन्नीमीन पन्नमिति ४६ १ "असति असति ४९ १४ संहितश्च संहतंश्च ४९ २२ यमिमिति यमिति ५० ५ यतास्य यतास्या- ५०.२५ वालं चार ५१ ४ पत्यधि पत्त्यधि ५१ १० मुत्पत्या मुत्पत्त्या ५२ १२ निर्गत्या निर्गतस्या ५३ १५ पशुपत्तिः पशुपतिः द्यां:
२ शुद्धिपत्रम् ॥ . ८३ १५ निवै पृ० पं० अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् ५३ १८ रस्यैर रस्यैव ७५ २२ सुगोभि सुगेभिः ५३ २३ मुत्पत्य मुत्पत्त्य ७६ ११ वेशान्ताः वेशन्ताः ५३ २४ उत्पत्य उत्पत्त्य ७६ १४ निर्दो निर्दोष ५४ १३ नाऽविविज्ञा नाविज्ञा ७६ २१ जिघित्सो जिघत्सो ५४ १५ स्वली स्वली ८० ७ भावनेति भावेनति ५७ १२ स्वीक्रिता स्वीकृता ग्निर्व ६० १२ महत्वं महत्त्वं ८३ २४ रूपादिना रूपादीन ६० १६ वीन्दु विन्दु ६४ १५ दन्तर दनन्तर ६३ १२ कृतं ऋतं ६६ १५ मतेम मतेम ६४ १२ त्पत्यधि त्पत्त्यधि १०४ ३ जते जाते ६४ २३ द्रियाणां न्द्रियाणां १०७ ८ श्रुतिना श्रुतीना ६५ ४ चेद्रियाणां चेन्द्रियाणां १११ १७ पूर्व पूर्वः ६५ १३ मिद्रियाणां मिद्रियाणां ११२ ५ ३८ ३९ ६६ १० पितर पितरं ११५ ६ शमादयः श्रवणादयः ६७ १दुच्छास दुच्छास श्रवणादयश्च शमादयश्च ६७ २३ एभि" एभिः" ११६ २५ असिानः आसीनः ६८ १२ नेऽन्यास्या नेऽन्यस्या १२४ २० एवेति, एवति- ६८ १४ यमानि यनामानि १२६ ६ च्छासी च्छासी ६६ ७ ठाधित प्ठातृ १३२ ५ छन्दोग्य छान्दोग्य ७२ २ वादरिः १३३ १ स्वण्डे खण्डे ७२ ६ प्रयायिनां प्रयायिण १३४ १ ल एक स एव श्रूयते १३६ . २ सिद्ध सिद्धम् ७४-७५ पृष्ठयोनाहिशद्वस्थाने १४० २२ स्त्रीभिवा स्त्रीभिर्वा बीहिशब्दो शेयः। १४३.१४ संसारिक सांसारिक ७५ १६ व्रीह्याददि बीह्यादि वादरिः ७३ १६ श्रूयत .
श्रीः * श्रियै नमः * Mmme विशिष्टाद्वैततन्त्रार्थसौरभ्यभरभाविताम् । दृष्ट्वा मालामिमांज्ञानांमदिष्यन्ति मनोऽलयः 14 RALA an FICE य विज्ञप्तिः- श्रीविशिष्टाद्वैतसंप्रदायार्थप्रवोधकश्रीश्रीभाप्यार्णवावगाहनेल- समतीनां तदधिकरणार्थसंवित्तिसंपत्तौ चासीमोत्सुकानां पुण्य- भागधेयानामुपकाराय संकलितपा श्रीविशिष्टाद्वैताधिकरणमाला मयति मदीयाऽऽयासमवश्यं शङ्के कमनीयकुसुमं संपादयिष्यन्ति सन्तस्तनभवन्त इति संभावयति- पञ्चनदीयः श्रीमदीयः सुदर्शनाचार्यः। - , श्रीः श्रीहरये नमः । श्रीमते भगवद्रामानुजाचार्यमुनये नमः । अथ विशिष्टाद्वैताधिकरणमाला संसाराम्भोधिभङ्गैर्गतशिवविपये यातचेतःप्रवृत्ति जीवं ग्रीवानिधेयं मणिमिव विगुणव्यस्तहारप्रकीर्णम् । निक्त्वोन्नेतुं मुरारेः पदनलिनजला पनवासास्तीशा भूतग्रामेऽवतीर्णा जयति जननुता कापि कारुण्यसूर्तिः ॥१॥ भवाब्धिमयविह्वलाञ् जननयातनायन्त्रिताञ् जनानवति यः सदा करुणमूर्तिरामानुजः । रमामतमहार्णवे वरदरक्तिरत्नाकरे उपासनबृहत्तरेर्जयति कर्णधारो नवः ॥ २ ॥ (प्रथमं जिज्ञासाधिकरणम्) अथातो ब्रह्मजिज्ञासा १ न ज्ञेयं ब्रह्म वा ज्ञेय-सन्देहे समुपस्थिते । न ज्ञेयं पूर्वभागोक्तकर्मभिः सर्वलाभतः ॥ कर्मभिर्न हि मोक्षाप्तिः श्रूयते स्मयतेपि वा । तस्माज्ञेयं परं ब्रह्म मोक्षप्राप्तिमनोरथैः, ॥ आनन्तर्यमथेत्युक्तमतो वृत्तस्य हेतुता । ज्ञातकर्मस्वरूपस्य जिज्ञासा ब्रह्मणि स्मृता ।।
४ विशिष्टाहैताधिकरणगालायाम्- नो यतो ब्रह्म भिद्यत विशेषणविभेदतः ।। उपलक्ष्येत सृष्टयादेस्तजिज्ञासोपपत्तये । विशेषणोपसंहारोऽविरोधे न हि भेदकृल ।। इदमाम्नायते-" यतो वा इमानि भूतानि जायन्ते न जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्रम" इति । अत्रोक्तं जगतूसृष्ट्यादिकं हरेह्मण उपलक्षणमस्ति नतिमन्देहः। कि प्राप्तम् ? नेति यतो विशपणानां सृष्ट्यादीनां भदन विशेष्यं ब्रह्मभिद्येन यथा नीलपीतादिविरोपणभेदेन घटो भिद्यते । अत्रोच्यते उपलक्ष्येतति, जगतसृष्ट्यदिकं ब्रह्मोपलक्षणमेव । नै- रुपलक्षणीभूतैर्ब्रह्मण उपलक्षयितुं शक्यत्वात् । विशेषणानि परस्परं विरुद्धान्येव विशंप्यभेदमापादयन्ति यथा-नीलपीतादीनि यता नी- लघटः पीतो न भवति पीनघटो नीलो न भवतीति । यत्र हि नीलं गुरुं हढं पृथुलं नवतरं घटमानयेत्युच्यते तत्र विशेषाणभेदेपि विशेप्यभेदोन भवति तत्कस्य हेतोः? -विशेषणानां परस्पर विरोधाभावात् । एवं जगजन्मस्थितिभङ्गादयोपि कालभेदेन परस्परमविरुद्धा न ब्रह्मभेद- मापादयन्ति किं त्वेकमेव ब्रह्मोपलक्षयन्ति । तदुक्तं श्रीमदाचार्य:-"ज- गत्सएस्थितिप्रलयरुपलक्षणभूतव्रह्म प्रातिपत्तुं शक्यते” इति । किं वा "यतो वा इमानि" इत्यादि वाक्यं ब्रह्मणो लक्षणं नास्त्यथास्ति वेत्येवम धिकरणयोजना कर्तव्या। तथाहि- यतो वेत्यादि वाक्यं नो लक्षणं वास्ति ब्रह्मणः । नो यतो ब्रह्मभिद्येत विशेषणविभेदतः ॥ उपलक्ष्येत तद्वाक्यात् तजिज्ञासोपपत्तये । विशेषणोपसंहारोऽविरोधे नहि भेदकृत् ॥ - (तृतीय शास्त्रयानित्याधिकरणम्) ननु यदि ब्रह्मशास्त्र प्रमाणकं स्यात्तदा शास्त्रोक्तः सृष्ट्यादिभि- ग्रा प्रतिपत्तुं शक्येतापीत्याशङ्का हूदि निधाय सूत्रयति- प्रथमः पादः । शास्त्रयोनित्वात् ३" इति । यतो वेत्यादिवाक्यं किं प्रमाणं वा न वा हरौ । न मानं ब्रह्मणस्तस्य प्रमाणान्तरलक्षणात् ।। प्रमाणं शास्त्रमेवात्र भिन्नमानानिवेदनात् । परमात्मनि यतो वा इमानीत्यादिशास्त्रमप्रमाणं प्रमाणं वेति विशयः। किंयुक्तम्? अग्रमणमेघति यतः-"अप्राप्ते शास्त्रमर्थवत्" इति न्यायेन ब्रह्मणः प्रमाणन्तरावेद्यत्वे हि तत्र शास्त्रं प्रमाणं स्यान नैव- मस्ति प्रमाणन्तरवेद्यत्वात् । यो हि शब्देन बोध्यतेस प्रत्यक्षादिनापि प्रत्तिपत्तुं शक्यते यथा घटादिरिति प्राप्ते- चूमः प्रमाणमिति, शास्त्रमेव ब्रह्मणि प्रमाणे प्रत्यक्षाद्यविषयत्वात् । यदि प्रत्यक्षादिविषयः स्याद्रह्म तर्हि तत्प्रतिपादनाय शास्त्रं नैवमाया- स्येत । श्रूयते च त त्वौपनिषदं पुरुपं पृच्छामि"इति । उपनिपनाप्रग- म्यस्यैवीपनिपदत्वं संभवाति यदि ब्रह्मप्रत्यक्षादिवेद्यमपिस्यात्तदीपनि- पदं पुरुषमिति नियोगो न संगच्छेत । तस्माच्छास्त्रमेव ब्रह्मणि प्रमा- णमिति यतो वा इमानीत्यादिवाक्यजातं ब्रह्म बोधयत्येव । (चतुर्थ समन्वयाधिकरणम् ) क ननु स्याच्छास्त्रप्रमाणकत्वं ब्रह्मणो यदि ब्रह्म कार्य स्याच्छास्त्रस्य कार्यमात्रबोधकत्वात् सिद्धं ब्रह्म कथं बोध्येत शास्त्रेण तदुक्तम्- प्रवृत्तिा निवृत्तिानित्येन कृतकेन वा। पुंसां येनोपदिश्यत तच्छास्त्रं तूपपाद्यते” ॥ इति । इत्याशङ्ख्य सूत्रयति- 'तच समन्वयात् ४" इति । शास्त्रप्रमाणकत्वं तब्रह्मणो नास्त्यथोस्ति वा। नास्य कार्यपरत्वाद्धि, मैवमस्ति समन्वायात् ॥
विशिष्टाद्वैताविकरणमालायाम्- - ब्रह्मणः शास्त्रप्रमाणकत्वं नास्त्यस्तिवति संशये नास्तीति युक्त- मुक्तयुक्तंरिति मा बोचः, यतः संभवत्येव शास्त्रप्रमाणकत्वं ब्रह्मणः समन्वयात् वेदान्तवाक्यानां तस्मिन् भगवति बोधकत्वनान्वयातू । तुच्छतरमिदमुच्यते यद्ब्रह्म न बोधयति शास्त्रमिति । परमपुरुषार्थतया तत्प्रतिपादनाय प्रवृत्तं शास्त्रं तदेव कुतो न बोधयत् । नरपतिदर्शनाय प्रवृत्तः पुरुषः पदातिदर्शनेनानुपङ्गिकण निवृत्तो न नरपतिनिकट निरन्तरायोपि प्रयातीति निदर्शनमनुहरति प्रभाकरप्रतिपादनम् । (पञ्चमममियाधिकरणम) "ईक्षतेनी शब्दम् ५ गौणश्चेन्नात्मशब्दात् ६ तनिष्ठस्य मोक्षोप- देशात् ७ हेयत्वावचनाच्च ८ प्रतिज्ञाविरोधात् ९ स्वाप्ययात् १० गतिसामान्यात् ११ श्रुतत्वाच्च ६२ सदेवेत्यादिवाक्येन प्रधान प्रतिपाद्यते । किं वा ब्रह्म, प्रधानं भो-जगत्सारूप्यदर्शनात् । ईक्षत्यनुपपत्तेस्तु ब्रह्मैव प्रतिपाद्यते ॥ इदमानायते-" सदेव साम्यदमन आसीत् । एकमेवाद्वितीयम् । तदक्षत बहुस्यां प्रजायय। इति । अत्र सदादिशब्दः किं प्रधानं परामृश्यंत ब्रह्म वेति संदेहे प्रधानमवेति युक्तम् । यतः सत्त्वरजस्त- मोमयस्य कार्यरूपस्य प्रपञ्चस्य सत्वरजस्तमसां सान्यावस्थालक्षण प्रधानमेव कारणं युक्त कार्यकारणयोः सारूप्यदर्शनात् सदादिश- दश्चात्रजगत्कारणमेव परामृश्यते । कथं च चेतन ब्रह्म गुणत्रयाएं जडस्य गुणत्रयमयस्य कार्यस्य जगतः कारणं स्यादिति विपक्ष चावकाच्च। अत्रोच्यते सदादिशब्दैः जगत्कारणत्वेन ब्रह्मैव प्रतिपाद्यते चे- तने ब्रह्मण्येवेक्षतेरुपपत्तः । प्रधानेऽचतन ईक्षतेरनुपपत्तेश्च संभवति च तस्मात्परस्माब्रह्मण ईदशप्रपञ्चस्योत्पत्यादिकं "परास्थ शक्ति- विविधैव श्रूयते” इत्यादिश्रुतेः ।. ।
प्रथमः पादः । (षष्ठमानन्दमयाधिकरणम् ) "आनन्दमयाभ्यासात् १३ विकारशब्दानेति चेन्न प्राचुर्यात् १४ तद्धेतुव्यपदेशात १५ मान्त्रवणिकमेव च गीयते १६ नेतरो- नुपपत्तः१७ भेदव्यपदेशाच्च १८ कामाच्च नानुमानापेक्षा १९ अस्मिन्नस्य च तद्योगं शास्ति २०" ॥ आनन्दमयवाक्ये किं जीवो वा ब्रह्म वोच्यते । शारीरत्वश्रुतेर्जीवो, ब्रह्मैवाभ्यासतः परम् ॥ इदं श्रूयते-"तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तरात्मा आनन्द- मयः” इति । तत्र संदेहः किमत्रानन्दमयपदं जीवमभिधत्ते किंवा परं ब्रह्मति । जीवमिति युक्तं यतः-आन्दमयमुपक्रम्य "तस्यैष एव शारीर आत्मा यः पूर्वस्य” इति श्रूयते तस्य पूर्वस्य विज्ञानमयको- शस्यैष एवानन्दमय आत्मेत्यर्थः,विज्ञानमय इति स्वार्थिकमयटाबुद्धि- मात्रमुच्यते तस्यात्मा जीव एव भवितुमर्हतीतिजीवमेवानन्दमयपद- मभिधतं । शारीर इति शरीरसम्बधी जीवात्मैवोच्यते । इति प्राप्त- बमो-ब्रह्मवेतिब्रह्मवानन्दमयपदेनाभिधीयते कुत-अभ्यासात् । अयं भावस्तैत्तरीयोपनिपद्यानन्दवल्ल्यामष्टमेऽनुवाके “सैपानन्दस्य मी- मांसा भवति साधुयुवास्यात्साधुयुवा ऽध्यापकः” इत्यारभ्य “स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य स यश्चायं पुरुपे यश्चासा- वादित्ये स एकः 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चनेति" इत्येवमन्तेन वाक्य- निकरण प्रतिपाद्यमान आनन्दो न जीवे दुःखप्रधाने सम्भवतीति प्रतिपादितानन्दस्य परमात्मैवाश्रयः । विज्ञानमयपदेन च न बुद्धिमा- त्रं प्रतिपाद्यते किं तु तदाश्रयो जीव एव जीवस्य विज्ञानप्रधानत्व- युक्तत्वात् । जीवादान्तरस्तु परमात्मैव “स यश्चायं पुरुषे यश्चासा- वादित्ये” इति श्रवणात् । तस्मात्परमात्मैवानन्दमयः। मयट प्राचुर्या- र्थत्वात् प्राणमयादौ तु प्राणादीनां प्राणाद्याश्रयत्वासम्भवात् स्वार्थि को मयडगत्या स्वीक्रियते । किं वा प्राणमयादावपि प्राचुर्यार्थ एव मयड् ज्ञेयो न विकारार्थः । अन्नमयमात्रे एव विकारार्थत्वस्य गुक्तत्वात् ॥
विशिष्टाद्वैताधिकरणमालायाम्- . (सप्तममन्तरादित्याधिकरणम ) "अन्तस्तद्धर्मोपदेशात् २१ भेदव्यपदेशाच्चान्यः २२" य एषोन्तरादित्ये-य एपोन्तराक्षाणि च तथा वाक्ये । पुरुषपदं किं जीवं किं वा ब्रह्माभिधेत्ते तत् ॥ जीवं तनुसम्बन्धात, तद्धर्मोपदेशात्तु कृष्णं वै । इदमानायते-"अथ य एपोन्तरादित्य हिरण्मयः पुरुषां दृश्यते हिरण्यश्मश्रुहिरण्यकेश आप्रणखात् सर्व एव सुवर्णः" तथा 'य एपोन्तरक्षिणि पुरुषो दृश्यते सैवर्ष तत्साम तदुक्थं तद् यजुस्तब्रह्म" इत्यादि । अत्र किं पुरुपपदं जीवात्मानं प्रतिपादयति किं वा परमा- स्मानमिति संशयः । किं प्राप्तम् ? जीवात्मानमति कुतः ? शरीरसम्ब- न्धात हिरण्यश्मश्रुरित्यादिना शरीरसम्बन्धप्रतीतेन हि परमात्मनः शरीरसम्बन्धो युक्ततरः । इतिप्राप्ते- अभिधीयते तद्धर्मोपदेशात्तु कृष्णं वे, इति । अत्रत्यं पुरुषपदं कृष्णं परमात्मानमेवाभिधत्ते तद्धर्मोपदेशात् । उक्तं पुरुषपदप्रतिपाद्यम- धिकृत्यापहतपाप्मत्वादीनां परमात्मधर्माणामुपदेशात् । यथा-"स एप सर्वेभ्यः पाप्मभ्य उदितः, उदेति हि वै सर्वेभ्यः पाप्मभ्यो य एवं वेद" तथा "सैव तत्साम तदुक्थं तयजुस्तब्रह्म" इति । तस्मात्परमात्मैवात्राभिधीयते पुरुपपदेन ॥ (अष्टममाकाशाधिकरणम् ) "आकाशस्तल्लिङ्गात् २३” अस्य लोकस्य केत्यादावाकाशं ब्रह्म वोच्यते । आकाशं शब्दसामर्थ्याल्लिङ्गसामर्थ्यतः परम् ॥ इदमानायते-"अस्य लोकस्य कागतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्त यान्ति" इत्यादि । अत्राकाशपदन भूनाकाशमुच्यते परं ब्रह्म वा किं युक्तं भूताकाशमिति कुतः ? शब्दसामर्थ्यात् । आकाशपदं हि वि- द्वांसो भूताकाश एव प्रयुञ्जते । इत्येवं प्राप्ते- प्रथमः पादः । ९ अभिधीयते-आकाशपदेन ब्रह्मोच्यते तल्लिङ्गात् तस्य ब्रह्मणो लिङ्गात्। यदत्र जगजन्मादिकारणत्वमुक्तं तदुभूताकाशे न सम- वेतीति जगजन्मादिकारणमाकाशपदवाच्यं ब्रह्मैव परं शेयमित्यर्थः॥ . ( नवम प्राणाधिकरणम्) "अत एव प्राणः २४" भूतानि प्राणमित्यत्र प्राणशब्देन किं मतम् ? । प्राणवायुर्यतो लोकः प्राणाधीनस्थितिमतः ॥ मैवं पूर्ववत्रापि प्राज्ञ एवाभिधीयते ॥ इदं श्रूयते-“कतमा सा देवता ? प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभिन्युजिहत" इति । अत्र प्राणशब्दन किं प्राणवायुरभिधीयते किं वा परमात्मति सन्देहे प्राणवायुरेवाभिधीयते यतो जीवानां प्राणाधीनस्थितेः 'प्राण- स्यापि भूतकारणत्वं सम्भवति । प्रसिद्धेश्व-प्रसिद्धिरपि प्राणशब्दस्य प्राणवायावेवेंति प्राप्ते- अभिधीयते मैवमिति, प्राणशब्देन परमात्मैवाभिधीयते जीवानां प्राणाधीनस्थितिसत्त्वेपि न सर्वेषां भूतानां प्राणाधीनस्थितिरस्ति प्रा- णसम्बन्धस्याव्याप्यवृत्तित्वात् । किं तु सकलभूतानां परमात्माधी- नैवस्थितिरिति प्राणशब्दनात्र परमात्मैवाभिधीयते ॥ ( दशमं ज्योतिरधिकरणम्) "ज्योतिश्चरणाभिधानात् २५ छन्दोभिधानान्नेति चेन्न तथाचेतोर्पण- निगदात्तथा हि दर्शनम् २६ भूतादिपादव्यपदेशोपपत्तेश्चैवम् २७ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् २८" अतः परो दिवोज्योतिर्वाक्ये ज्योतिःपदार्थः कः । आदित्यादिः प्रसिद्धेर्नो-पादस्येत्यादितः परः॥ गायत्र्यादिकशब्दानामेव ब्रह्मणि शक्तता ॥ 2 १० विशिष्टाद्वैताधिकरणमालायाम्- पा- इदमानायते-"अथ यदतः परो दिवा ज्योतिर्दीयते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्यनुत्तमपूत्तमेषु लोकेषु इदं वाव तद् यदिदमस्मि- नन्तः पुरुपं ज्योतिः" इति तत्र मन्दिहाते ज्योत्तिप्पदार्थः किमादि- त्यादिः किं वा परमकारणभूतं ब्रह्मेति । तत्र ज्योतिप्पद लोक घुम- ण्यादावेवप्रसिद्धमिति परमात्मलिङ्गविशेपानुपलब्धिश्चेति हतो- योतिष्पदार्थ आदित्यादिरेव । तत्रोच्यते-'नो पादस्येत्यादितः परम्' इति । दिवोज्योतिरिति धुसम्बन्धितया निर्दिष्टी ज्योतिप्पदार्थः परः परमात्मैव यतः- दास्य सर्वा भूनानि त्रिपादस्यामृतं दिवि" इत्यादिना ज्योतिप्पदा- र्थस्य पादत्वन सर्वभूतान्यभिधीयन्ते सर्वभूतानां पादत्वं च परमा- त्मनिरूपितमेव सम्भवति नादित्यादिनिरूपिर्माित ज्योतिष्पदार्थः परमात्मैव ॥ जाठरज्योतिपैक्योपदेशोपि न विरुद्धः "महं वैश्वनरो भूत्वा प्रा. णिनां दहमाश्रितः" इत्यादिवचनवलात्तस्योपदेशस्यानुसन्धानवि- धायकत्वात् । एवं "गायत्री वा इदं सर्वम्" इत्यादी गायत्रीच्छन्दो- विशेषस्य सर्वात्मकत्वासम्भवातू गायत्रीपदवाच्यमपि परं ब्राँवति- विज्ञेयम्॥ (एकादशमिद्रमाणाधिकरणम् ) प्राणस्तथानुगमात् २९ न वक्तुरात्मोपदेशादिति, चेदध्यात्ममभ्व- न्धभूमा ह्यस्मिन् ३० शास्त्रदृप्ट्यातूपदेशो वामदेववत् ३१ जीवमुख्यप्राणलिङ्गान्नति चेन्नोपासांत्रविध्यादाश्रित- त्वादिह च तद्योगात् ३२" प्रतर्दनो ह वै वाक्याज्ञेयो जीवोथ वा परः। जीवः शब्दप्रसिद्धेः स्यादजरत्वादिना परः॥ इंदमानायते-"प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामो- पजगाम युद्धेन च पौरुषेण च" इत्यारभ्य देवोदार्सि प्रति “वरं वृणीष्व" इतीन्द्रेणोक्ते देवोदासिरुवाच" त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे” इति,ततश्चन्द्रेणोक्तम्-"प्राणोस्मि प्रज्ञात्मा प्रथमः पादः । ६१ तं मामायुरमृनमित्युपास्स्व” इति । अत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवो वा परमात्मा वेति सन्देहः । तत्र शब्दव्युत्पत्या इन्द्रप्राणशब्दाभ्यामिन्द्र- समाख्यो जीव एव ज्ञेयः । इन्द्रशब्दस्तु जीवविशेष प्रसिद्ध एव तत्ला- मानाधिकरण्यात् प्राणशब्दोपि तस्यैवाभिधायको ज्ञेयः । इति प्राप्ते- ब्रूमः-अजरत्वादिना पर इति । “स एप प्राण एवं प्रशात्माऽs- नन्दोऽजरोऽमृतः” इत्यादाविन्द्रप्राणशब्दाम्यां निर्दिष्टस्यानन्दाजर- त्वादयो धर्माः श्रूयन्ते ते च निरुपाधिका परमात्मन्येव सम्भवन्ति न जीव इतीन्द्रप्राणशब्दाभ्यां परमात्मैवात्र ज्ञेयो न जीव इति सिद्धम् । यथा हि वामदेवेन “अहं मनुरसवं सूर्यश्च” इति स्वात्मशरीरक परं ब्रह्म निर्दिश्योक्तो मन्वादिभावस्तथेन्द्रेणापि स्वात्मशरीरकं परं ब्रह्मैव निर्दिश्योक्तं "प्राणोस्मि प्रज्ञात्मा" इत्यादि । तस्मात्सवासा श्रुतीनां तस्मिन भगवति परमात्मन्येव समन्वय इति सर्वमनदातम् ।। ॥ इति प्रथमः पादः समाप्तः ।। अथ द्वितीयः पादः। (प्रथम सर्वत्र प्रसिद्ध्यधिकरणम् ) "सर्वत्र प्रसिहोपदेशात् १ विवक्षितगुणोपपत्तेश्च २ अनुपपत्तेस्तु न शारीरः ३ कर्मकर्तृव्यपदेशाच्च ४ शब्दविशेषात् ५ स्मृतेश्च ६ . अर्भकौकस्त्वात्तव्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्यो- मवच्च ७ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् ८।" यथाक्रतुश्रुतौ जीवो ब्रह्म वा प्रतिपाद्यते । मनःप्राणान्वयाज्जीवो, नो--ब्रह्मैव प्रसिद्धितः ।। इदमानायते-“अथ खलु ऋतुमयः पुरुषो यथाक्रतुरस्मिल्लोके पुरुपो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणश: रीरो भारूपः” इत्यादि । अत्र ऋतुपदाभिलप्यस्योपासनस्योपास्यो मनोमयः प्राणशरीगे भारूप इति निर्दिश्यते तथा च मनोमयत्वादि- गुणकः किं जीव उपास्यतया निर्दिश्यते किंवा परमात्मेति-विचि. ..
- १२ विशिष्टाहाताधिकरणमालायाम्- कित्सा प्राप्ता । किं युक्तमङ्ग ? जीव इति यतो मनःप्राणयार्जीवोपका- रकत्वाद् मनोमयत्वादिगुणो जीवे एवो पपद्यते न परमात्मनि "अप्राणो ह्यमनाः" इति प्रतिषेधात् । स्ववाक्यस्थमनोमयगुणकम्य ची पास्यस्योपलब्धेराकाङ्केच वाक्यस्योपास्यविषयिका नास्ति येन चा- क्यान्तरादत्र ब्रह्म प्राप्यंत । इति प्राप्त- बमः-नो ब्रह्मैवति । यदुनं जीवपनोपास्यत्वेन निर्दिश्यते तन्न युक्तं यतो ब्रह्मैवात्रोपास्यत्वेनोच्यते । सकलवेदान्तवाक्येपु प्रसि- धमस्ति मनोमयत्वादिगुणवत्त्वं परमात्मनस्तथाहि-"मनोमयः प्राण- शरीरनेता स एपोन्तर्हृदयाकाशस्तस्मिन्नयं पुरुषो मनोमयः, न चक्षुपागृह्यते नापि वाचा मनसा तु विशुद्धन, प्राणस्य प्राण" इति । मनोमयत्वं = विशुद्धमनसा ग्राह्यत्वम् । प्राणशरीरत्वं प्राणस्याप्या धारत्वं नियन्तृत्वं च ॥ श्रुत्यन्तरेणाधिकरणं योजयति- सर्व खल्विति वाक्ये किं जीवो वा ब्रह्म बोच्यते । सर्वभावास्पदो जीवो, नो-ब्रह्मैव प्रसिद्धितः ॥ इदमानायते-"सर्वं खल्विदं ब्रह्म तजलानि शान्त उपासीत" इति । अस्यैव वाक्यस्य गुणोपादानार्थीनुवाद:-"स ऋतुं कुर्वीत मनोमनः प्राणशरीरो भारूपः” इति । उपादेयाश्च गुणा मनोमयत्वा- दयः । तत्र विशयः किं मनोमयत्वादिगुणान्वितो जीव एवोउपास्य- वेनोच्यते किं वा परमात्मेति । तत्रोच्यते 'सर्व भावास्पदो जीवः' इति । सर्वं खल्विदमित्यत्र सर्वभावास्पदत्वं = चतुर्मुखादिस्तम्बपर्य- न्तावस्थावत्वं जीवस्यैवोपपद्यते न किल परमात्मनोऽपहतपाप्मन इति सर्वपदसमानाधिकरणं ब्रह्मपदं जीवपरमेवेतिविज्ञायते । जीवस्यापि स चानन्त्याय कल्पत” इत्यादिश्रुतेर्ब्रह्मत्वमुपपद्यत एवेति प्राप्ते- अभिधीयते 'नो ब्रह्मैव प्रसिद्धितः' इति । सर्व खल्वितिवाक्यनो- पास्यतया ब्रह्मैव निर्दिश्यते । कुतः ? प्रसिद्धोपदेशातू-सर्व खल्विदं ब्रह्माते प्रसिद्धवदुपदेशात् । तजत्वात् तल्लीनत्वात् तदनत्वात् प्रप- श्वस्य सर्ववेदान्तेपूपास्यतया परमात्मैवोपदिश्यते-"यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तविजिज्ञासख तद्ब्रह्म” इति । तस्मात् सर्वप्रकारं सर्वशरीरं स- - द्वितीयः पादः । १३ त्मिभूतं परं ब्रह्म शान्तो भूत्वोपासीतति श्रुतिरेव परमात्मनः सर्वा- त्मकत्वमुपपाद्य तस्योपासनमुपदिशतीत्युक्त श्रुतितात्पर्यभूमिः परं ब्रह्मैव न जीव इति सिद्धम् । विवक्षितगुणोपपत्यादश्च परमात्मैवायम् । अनुपपत्यादिभिश्च न जीवः । ननु “एष मे आत्मान्तहृदये” इत्यादिनो- क्तश्रुतितात्पर्यभूमेरणीयस्त्वं प्रतीयते तच्च जीवधर्म एव न परमात्मध- मस्तस्य व्यापकत्वादिति जीव एवोक्ताधिकरणार्थोपसंहारास्पदो भवत्विति चेन्न, उपासनाविशेषप्रतिपादनाय परमात्मैवाणीयस्त्वेन व्यपदिश्यते इत्यर्थः ॥ (द्वितीयमत्रऽधिकरणम् ) "अता चराचरग्रहणात् ९ प्रकरणाच्च १० गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ११ विशेषणाच्च २२" ब्रह्मक्षत्रौदने वाक्ये जीवोऽत्ता किमु वा हरिः । कर्महेतुकभोक्तृत्वं जीवे सम्भवतीति सः । सर्वप्रपञ्चभोक्तृत्वप्रतीतेर्हरिरेव सः ।। इदमाम्नायते-“ यस्य ब्रह्म च क्षत्रं चोभे. भवत ओदनो मृत्यु- यस्योपसेचनं क इत्था वेद यत्र सः” इति । यस्य परमात्मनो ब्रह्म क्षत्र- मोदनं भक्षणद्रव्यं यस्य मृत्युरुपसंचनं-ब्रह्मक्षत्रलक्षणोदनाऽदनोप- करणं यथा मनुष्याणां द्विदलाशाकादि स परमात्मा यत्र यस्मिन् प्रकारे, इत्था-इदंप्रकारविशिष्टश्चेति को वेदेत्यर्थः। यद्यपि परमात्मनः सकलप्रपञ्च एवोदनं न ब्रह्मक्षत्रमानं तथापि प्राधान्येन निर्देशः प्रप- ञ्चे ब्रह्मक्षत्रयोरेव प्राधान्यात् । यद्यप्युक्तश्रुतौ साक्षादत्तृपदं नास्ति तथापि यस्योदनं भवति सोत्ता भवत्येवत्यत्तृत्वे विचिकित्सा-किं जीवोत्ता किं वा हरिः परमात्माऽत्तति । जीवोत्तेत्यव युक्तं, अत्तृत्व हि भोक्तृत्वं तच्च कर्मसम्बन्धं विना न सम्भवति कर्मसम्बन्धश्च जीव एवोपपद्यते नो परमात्मनीति जीव एवात्तति प्राप्त- ब्रूमः-'सर्वप्रपञ्च' इति । चराचरग्रहणात् सकलप्रपञ्चभोक्त- त्वात् परमात्मैवात्रात्ता । सकलप्रपञ्चभोक्तृत्वं हि सकलप्रपञ्चसं- हर्तृत्वं तच्च न लेशतोपि जीव उपपद्यत इति प्रकरणादिभिश्चात्रात्ता परमात्मैवेत्यर्थः॥
१४ विशिष्टाद्वैताधिकरणमालायाम्- (तृतीयमन्तगधिकरणम्) "अन्तर उपपत्तेः १३ स्थानादिव्यपदेशाञ्च १४ मुखविशिष्टाभि- धानादेव च १५ अत एव च स ब्रह्म १६ श्रुतोपनिनिपत्कग- त्यभिधानाच्च १७ अनवस्थितेरसम्भवाच्च नेतरः १८" य एषोक्षिणिवाक्ये यः पुरुषः प्रतिपाद्यते । प्रतिबिम्बः स वा चक्षुरधिष्ठाताथ वा मतः ।। जीवो वा परमात्मा वा विचिकित्साधिभेदतः । पूर्वः प्रसिद्धनिर्देशादधिष्ठाता तदाश्रयात् ।। सन्निधानप्रसिद्धः स्याज्जीवस्तत्रोच्यते परः । एष आत्मेतिवाक्योक्तार्थस्य तत्रैव सम्भवात् ॥ इदमामनन्ति छन्दोगा:-“य एपोऽक्षिणि पुरुषो दृश्यते एप आ- त्मेति होवाच, एतदमृतमेतदभयमेतद् ब्रह्म" इति । तत्र चतुर्धा वि- चिकित्सा सम्भवति-योयमक्षिपुरुषो निर्दिष्टः स किं प्रसिद्धः प्रति- बिम्बात्मैव किं वा चक्षुरधिष्ठाता देवताविशेष आहोस्विजीवात्मा- थवा परमात्मेति । अत्रोच्यते 'पूर्वः प्रसिद्ध निर्देशात्' इति, अक्षिपु- रुषत्वेन निर्दिष्टः पूर्वः-प्रतिबिम्ब एव य एपाक्षिणीति प्रसिद्धवनिर्दे- शात् । अक्षिणि प्रतिविम्बस्योपलम्भाच्च । किं वा आत्मति हो वाचे- तिश्रुत्यात्मत्वमक्षिपुरुषस्योच्यते आत्मत्वं च चेतनत्वमिति जड़स्य प्रतिविम्बस्यात्मत्वं नोपपद्यत इत्यक्षिपुरुषश्चक्षुरधिष्ठाता देवता विशेष एव तस्य चेतनत्वादात्मत्वोपपत्तेः। किं च तदाश्रयातू-चक्षुर- धिष्ठातृदेवता चक्षुप्येव निवसतीति “य एपोक्षिणि" इति वाक्येन सैव पुरुषत्वेनोपदिश्यते श्रुतिरप्याह-"रश्मिभिरेपोस्मिन् प्रतिष्ठि- तः" इति । एवमपि सन्तुष्टि स्ति, यतः-कृतं शारीरकशास्त्रे चक्षु- रधिष्ठातृदेवताप्रतिपादनेन तस्मादक्षिपुरुषोत्र क्षेत्रज्ञ एव शेयस्तदाह 'सन्निधानप्रसिद्धेः' इति । जीवात्मनोपि क्षेत्रज्ञस्य चक्षुपि विशेषण सन्निधानप्रसिद्धिरस्ति चक्षुरुन्मीलनादिना क्षेत्रज्ञानुमानप्रसरात इत्येवं विधा पूर्वपक्षं प्राप्ते- द्वितीयः पादः । १५ उच्यते 'तत्रोच्यते परः इति । परः-परमात्मैवाक्षिपुरुषत्वेनात्र वाक्ये निर्दिश्यते । कस्मादूभो ? इत्याह 'एष आत्मेति' इति । एष आत्मेति होवाच एतदमृतमेतदभयमित्यादिनोच्यमानामृतत्वादिगुण- स्य वाक्यार्थस्य तत्रव-परमात्मन्येव सम्भवात् । अन्यदपि परमा- त्ममात्रसंम्भावनास्पद गुणजातमाह श्रुतिः-"एतं संयद्वाम इत्याक्षते एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनीरेष हि सर्वा- णि वामानि नयति एप उ एवभामनीरेप हि सर्वेपु लोकेषु भाति इति । वामानि-शरीराणि पतं-परमात्मानमभिसंयन्ति-अनुयान्तीति संयद्वामत्वं परमात्मन उच्यते । एवं वामनीत्वं भामनीत्वं च ज्ञेयम् । सयद्वामत्वादिकमन्यत्र नोपपद्यत इत्युक्तश्रुतितात्पर्यभूमिः परमात्म- व । “यश्चक्षुपि तिष्ठन्” इत्यादिस्थानादिव्यपदेशोपि चक्षुरधिकरण- कोपासनोपलव्धये परमात्मप्रतिपादनेनुकूल एव परमात्मन एव चक्षुपि स्थितिनियमनादिकस्योपपत्तेरित्यादि विज्ञेयम् ॥ . (चतुर्थमन्तर्याम्यधिकरणम्) "अन्तर्याम्यधिदेवाधिलोकेषु तद्धर्मव्यपदेशात् १९ न च स्मार्तमतव- माभिलापाच्छारीरश्च २० उभयपि हि भेदेनैनमधीयते २११ अन्तर्यामिश्रुतौ जीवः परमात्माथ वा मतः । वाक्यशेषाश्रयाज्जीवः परस्तद्धर्मपाठतः ॥ इदं श्रूयते-“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एप ते आत्मा- ऽन्तर्याम्यमृतः” इति । तथा-"य आदित्ये तिष्ठन् आदित्यादन्तरो, य आत्मनि तिष्ठन्नात्मनोन्तरो, यः सर्वेषु लोकेषु तिष्ठन् सर्वपु वेदेपु” इति । अत्र विशयः-किमयमन्तर्यामित्वेन निर्दिष्टः प्रत्यगात्मा किं वा परमात्मेति । किं युक्तं जीवः-प्रत्यगात्मैवेति यतो वाक्यशेपे-“यो रेतसि तिष्ठन् रेतसोन्तरो यं रेतोन वेद यस्य रेतः शरीरं यो रतो- : न्तरो यमयतित्येष ते आत्मान्तर्याम्यमृतः, अदृष्टो द्रष्टाऽश्रुतः श्रोता- ऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योतोस्ति मन्ता नान्योतोस्ति विज्ञाता एप ते आत्मान्तर्याम्यमृतोऽतान्यदात ततो होद्दालक आरु- १६ विशिष्टाद्वैताधिकरणमालायाम- णिरुपरराम" इति वा जसनेयिनः करणायत्तज्ञानतां पठन्ति दृग्भ्या पश्यन्नेव द्रष्टेत्युच्यते करणायत्तज्ञानवत्त्वं च प्रत्यगात्मन एव लि. ङ्गमिति प्रत्यगात्मा-जीवपवान्तर्यामी । अत्रोच्यते-परस्तद्धर्मपाठतः' इति । परः परमात्मैवोक्तश्रुताव- न्तर्यामित्वेन श्रूयते तद्धर्मपाठतः-तद्धर्मव्यपदेशातू-तत् तस्य परमा- त्मनो धर्माणां व्यपदेशात् । सर्वलोकनियमनादिर्धर्मः परमात्मन्यवो- पपद्यते । किं चोक्तमन्तर्यामिणमधिकृत्य “य आत्मनि तिष्ठन्नात्मनो- न्तरः" इत्यादि पठन्ति न हि प्रत्यगात्मन एवं प्रत्यगात्मान्तरत्वमुप- पद्यते तस्मादन्तर्यामी परमात्मैव श्रीनिवासः ॥ (पञ्चमदृश्यत्वाद्यधिकरणम) "अदृश्यत्वादिगुणको धर्मोक्त: २२ विशेषभेदाभ्यां च नेतरी २३ रूपोपन्यासाच्च २४" अथ परा यया वाक्ये प्रधानं प्राज्ञ एव वा। अदृश्यत्वादिभिः पूर्वः सर्वज्ञत्वादिभिः परः ॥ इदमानायते-"अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्य- मग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं तद्भूतयोनि परिपश्यन्ति धीराः, यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोपधयः संभवन्ति यथा सतः पुरुपात केशलोमानि तथाक्षरात् संभवतीह विश्वम्, तपसा चीयते ब्रह्म ततोन्नमभिजायते अन्नातू प्राणो मनःसत्यं लोकाः कर्मसु चामृतम् । यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः तस्मादेतद्रह्म नाम रूपमन्नं च जायते" इति । अत्राक्षरशब्दः किं प्रधानपरः किं वा परमात्मपर इति विचिकित्सास्ति । तत्र प्रधानपर इत्येव युक्तं यतोऽदृश्यत्वा- दिगुणैर्विश्वयोनित्वादिभिश्व प्रधानमेव प्रत्यभिज्ञायते । इत्येवं प्राप्ते- अभिधीयते-अक्षरशब्दोत्र परमात्मपर एव वाक्यशेपेऽक्षरशब्द- वाच्यस्य सर्वज्ञत्वादिकमुच्यते नह्यचेतनस्य प्रधानस्याल्पज्ञत्वमप्यु- पपद्यते किमिति सर्वज्ञत्वं, तस्मादत्राक्षरशब्देन श्रुत्या परमात्मैव प्रतिप्राद्यते । उपक्रमेपि “स ब्रह्मविद्यां सर्वविद्याप्रितिष्ठाम्" इत्यादिना प्रकरणस्य परमात्मपरत्वमेव विज्ञायते ।
द्वितीयः पादः । १७ -- तथा- समष्टिपुरुषः प्राज्ञो वाक्षरात्परतः परः । प्रधानाश्रयणात् पूर्वः प्राज्ञलिङ्गात् स एव सः ॥ प्रथमगुण्डकप्रथमखण्डोक्तनिर्दिष्टवाक्यादनन्तरं द्वितीयमुण्डु- कप्रथमखण्डे श्रूयते "दिव्योह्यमूर्तः पुरुषः स वाह्याभ्यन्तरो हजः । अप्रापो ह्यमनाः शुद्रो ह्यक्षरात्परतः परः" इति । तत्र संदिह्यते किमत्र परपदेन समष्टिपुरुपो हिरण्यगर्भ उच्यते किं वा प्राज्ञः परमा- स्मेति । किं युक्तम्? पूर्वपक्ष एवेति, यतोक्षरात्परतः पर इत्यत्राक्षरा- त्परत इति समानधिकरणाभ्यां पदाभ्यां प्रधानमुच्यते क्षरणराहित्या- दक्षरमिति प्रधानप्रर्यायः, परत इत्यमेन तस्य विकारजातात् परत्व- मुच्यते, तदुक्तं श्रीमदाचार्यः “सर्वस्माद् विकारात्परभूतादक्षराद- स्मात् परः” इति पूर्वपक्षतया । प्रधानाञ्च परत्वं समष्टिपुरुपस्य यु- तमेव यतः समष्टिपुरुषेणाधिष्ठितमेव प्रधान महदादिविशेषपर्यन्तं विकारजातं प्रसूते समष्टिपुरुपाधीनत्वादिति यावत् तस्मादत्र पर- पदवाच्यो हिरण्यगर्भ एव । अत्रोच्यते 'प्रावलिङ्गात् स एव सः' इति । प्राज्ञस्य परमात्मनो लिङ्गानां सर्वज्ञत्वादीनामुपलब्धेः सः-अक्षरात्परतःपर स एव-प्राश एवेत्यर्थः । तथाचाक्षरात्परतः परं पुरुष प्रकृत्य श्रावयन्ति- यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योस्न्यात्माप्रति- ष्ठितः" इति सर्वज्ञत्वादिकं ब्रह्मपुरे प्रतिष्ठितत्वं च परमात्मन्येवोप- पद्यते । तथा "हिरण्मये परे कोशे विरजं ब्रह्म निष्फलं तच्छु, ज्यो- तिपां ज्योतिस्तद् यदात्मविदो विदुः" इति विरजत्वं निष्कलत्वं च परमात्मन्येवोपपद्यते । तथा "प्रणवो धनुः शरोधात्मा ब्रह्म तल्लक्ष्य- मुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्" इत्यादिना तत्प्र; करणेन परमात्मैव प्रतिपाद्यते इति ज्ञायते । किं चोपक्रमोपसंहार- साहाय्यमुतेपि "दिव्यो ह्यमूर्तः" इति वाक्यं परमात्मानमेव प्रसिपा- यति 'अप्राणो ह्यमनाः' इति पाठात् । समष्टिपुरुपो जीव एव जीव- त्वप्रयोजक च प्राणधारणत्वमेव जीव प्राणधारण इति धातोरित्य- प्राणत्वममनस्त्वं च समष्टिपुरुपप्रतिकूलं परमात्मानमेव स्ववाफ्यद- पर्यास्पदत्वेन प्रतिपादयतीति सिद्धम् ॥ ३ १८ विशिष्टाद्वैताधिकरणमालायाम्- . (पष्ठं यश्वानराधिकरणम.) "वैश्वानरः साधारणशब्दविशेपात् २५ स्मर्यमाणमनुमानं स्यादिति २६ शब्दादिभ्योन्तः प्रतिष्ठानाच्च नेति चेन्न तथाढप्युपदेशा- दसम्भवात् पुरुषमाप चैनमधीयते २७ अत एव न देवताभूतं च २८ साक्षादप्यविरोध जैमिनिः २९ अभिव्यक्तेरि- त्याश्मरथ्यः ३० अनुस्मृतेर्वादरिः ३१ संपत्तेरिति नैमिनिस्तथा हि दर्शयति ३२ आमनन्ति चैनमस्मिन् ३३" वैश्वानरीयवाक्येषु निश्चयो ना, ऽस्ति वा परे । नो वैश्वानरशब्दस्य बहुप्वर्थेषु पाठतः । मैवं वैश्वानरो ब्रह्म तदनन्यविशेषणात् ॥ छान्दोग्यस्य पञ्चमप्रपाठक इदमानायते "प्राचीनशाल औप- मन्यवः सत्ययज्ञः पौलुपिरिन्द्रद्युघ्नो भाल्लयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते है ते (पञ्च) माहाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः को न आत्मा किं ब्रह्मेति ते ह सम्पादयां च- क्रुरुदालको वै भगवन्तोयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाझ्याजग्मुः” इत्यारभ्य-"ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येपि त- मेव नो ब्रूहीति” उपसंहारे च "तान होवाचते वै खलु यूयं पृथ- गिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वतमेवं प्रादेशमात्रम- भिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति । अत्र सन्दिह्यते-किमत्रपरमात्मविपयको निश्चयो नास्ति किं वास्तीति । नास्तीत्येवयुक्तं वैश्वानरशब्दस्य चतुष्वर्थेषु प्रयोगदर्श- नात् । तत्र जाठराग्नौ यथा-"अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते” इति । महाभूते तेजसि यथा-"विश्वस्मा अग्निं भुव- नाय देवा वैश्वानरं केतुमन्हामकृण्वन्” इति । देवतायां यथा-"चै- श्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः” इति । पर- हितीयः पादः । १९ मात्मनि यथा-"तदात्मन्यव हदयेग्नौ वैश्वानरे प्रास्यत् स पप चै- भ्वानरो विश्वरूपः प्राणाग्निरुदयत" इति । यदेवं चैश्वानरशब्दस्य बहुवर्थेषु प्रयोगो दृश्यते तत्कथमत्र परमात्मैचोपक्रान्तो वैश्वानर- शन्दनति निश्चयः स्यात? । उपक्रमाधुक्तलिङ्गानां सर्वत्रैवान्वेतुं शफ्यत्वाच। छात्रोच्यते मेव मिति, वैश्वनरो ब्राझैव कुतः? तदनन्यविशेषणात तत् तस्य परमात्मनोऽनन्यविशेषणविशेषणात् विशेष्यमाणत्वात् । उपक्रमे हि "किं ब्रह्म" इत्यनेन ब्रह्मविचारारम्भः प्रतीयते ब्रह्मवि- चारेण परामृश्यमानस्य वैश्वनरस्य ब्रह्मत्वमेव युक्तम् । तस्यह चा एतस्यात्मनो वैश्वनरस्य" इत्यात्मशब्दसामानाधिकरण्यात् । तथा "तयथेपीका नृलमग्नी प्रोतं प्रदूयेतेवं हास्य सर्व पापमानः प्रयन्ते य पतदेवं विद्वानग्निहोत्रं जुहोति" इति वैश्वानरविमानफल कीर्त- नाच विज्ञायते वैश्वानरशब्देनात्र परमात्मैव प्रतिपाद्यते इति ॥ ॥ इति द्वितीयः पादः समाप्तः ॥ अथ तृतीयः पादः। (प्रथमं शुभ्वान्यधिकरणम ) 'भ्वाद्यायतनं स्वशब्दात् १ मुक्तोपमृप्यव्यपेदशाच्च २ नाऽऽनुमानमत्तच्छब्दात् प्राणभृच्च ३ भेदव्यपदेशात् ४ प्रकरणान् ५ स्थित्वदनाम्यां च ६" यस्मिन् द्यौपृथिवीवाक्ये जीवो वाऽऽयतनं परः । नाडीसम्वन्धजन्मभ्यां जीवः, शब्दातस्वकात्परः ॥ सुण्डकोपनियदि धूयत-"यस्मिन् द्यौपृथिवी चान्तरिक्षमोतं मनः सह प्राणेश्च संवः । तमेवैकं जानथ आत्मानमन्या वाचो विमु- वथ अमृनस्यैप सतुः" इति । अत्र धुभवाद्यायतनत्वेन जीवं प्रति- पादयति श्रुतिराहास्वित् परमात्मानमिति विशयोस्ति । कि युक्तं २० विशिष्टद्विताधिकरणमालायाम्- जीवमिति यत उत्तर वाक्ये "अराइवरथनामी संहता यत्र नायः। स एपोऽन्तश्चरते यहुधा जायमानः" इत्यत्र नाडीसम्बन्धजन्मनी श्रुते जीव पोपपद्यते । अत्रोच्यते 'शब्दातूम्बकात्परः' इति । अमृतस्यैप सतुः" इति परब्रह्माऽसाधारणशब्दादित्यर्थः । अमृत- मेतुन्वस्य परमात्मन्येवोपपत्तेः । “तमेवं विद्वानमृत इह भवति" इत्यादी परमात्मन एवामृतत्वप्राप्तिहेतुत्वप्रतीतेश्च ।। (मिनीयं भूमाधिकर गम) "भूमा संप्रसादादध्यपदेशात् ७ धोपपत्नेश्च ८" भूमगुणविशिष्टः किं प्रत्यगात्माथ वा हरिः । जीवः स्यात् प्राणनिर्देशात् सत्यनिर्देशतः परः ।। छान्दोग्ये सप्तमप्रपाठकस्य २३ खण्डे श्रूयते "यत्र नान्यत् प- श्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत्पश्यत्य- न्यकृणोत्यन्यद्विजानाति तदल्पम" इति । अत्र भूमंतिपदेन प्रत्य- गात्मा प्रतिपाद्यते परमात्मा वेति संदेहः किं युक्तं प्रत्यगात्मेति। अयं भावः-छान्दोग्ये सप्तमप्रपाटकस्य प्रथमखण्डे "अधीहि भ- गव इति होपससाद सनत्कुमारं नारदः" "सोहं भगवोमन्त्रविदेवास्मि नात्मवित्, श्रुतं ह्येव मे भगवहशेभ्यस्तरतिशोकमात्मवित्" इतिप्रष्णा- दनन्तरम्-"नामवैतत्, नाम वा ऋग्वेदो यजुर्वेदः” इत्यारभ्य-"प्रा- यो वा आशाया भूयान् यथा वा अरा नाभी समर्पिता एवमस्मिन् प्राणे सर्व समर्पितम्" इति भूमगुणविशिष्टस्य प्राणशब्देन निर्देशः कृत इति भूमगुणविशिष्टः प्रत्यगात्मैव । तत्रोच्यते 'सत्यनिर्देशतः परः' इति । "एप तु वा अतिवदति यः सत्येनाति वदति सोहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिशासितव्यमिति सत्यं भगवो विजिज्ञास” इति सत्यशब्दाभिधे- यस्य जिज्ञास्यत्वेनोपसंहारः कृतः सत्यशब्दाभिधेयत्वं च परमात्मन एव प्रसिद्धं “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादौ । किं च "एप संप्र- सादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभि- निष्पद्यते" इत्यादी संप्रेसादशब्दवाच्यात प्रत्यगात्मतः सत्यशब्दा- भिधेयस्य परमात्मन एवाधिकतयोपदेशोस्ति यं भगवन्तं प्राप्य प्रत्य- तृतीयः पादः। २१ गात्मा स्वेनरूपणानन्दत्वादिना निष्पद्यते कृतं तत्र भगवति सर्वो- स्कृष्टत्वसन्देहेन तस्माद् भूमगुणविशिष्टः परमात्मैवेति सिद्धम् ॥ . (तृतीयमक्षराधिकरणम्) अक्षरमम्बरान्तधृतेः ९ सा च प्रशासनात् १० अन्यभावव्यावृत्तेश्च ११। वाजसनेयिनां वाक्येष्वक्षरं प्रकृतिमता। किं वा जीवोथ वा ब्रह्म विचिकित्सा त्रिधा मता ॥ आद्यः प्रकृतिवाचित्वाजीवो वाधारताश्रुतेः । अम्बरान्तधृतेर्ब्रह्म प्रशास्तृत्वादिकश्रुतेः ॥ वाजसनेयिनां पञ्चमाध्यायस्याटमे ब्राह्मणे श्रूयते-“स होवाचै- तद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूमनण्वहस्वमदीर्घमलोहि- तमन्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्री- प्रमवागऽमनोऽतेजस्कमप्राणममुखमात्रमनन्तरमबाह्य न तदशति किं चन न तदनाति कश्मन” इति । अत्राक्षरपदेन प्रकृतिरुच्यते जीवो चा ब्रह्म वेति विचिकित्सा त्रिधास्ति । तत्र प्रकृतिरित्येव युक्तं "अक्षरात्परतः परः” इत्यादावक्षरपदस्य प्रकृतिवाचित्वदर्शनात् । पूर्ववाक्ये चाकाशस्याधारः पृष्टस्तत्रोक्तं " स होवाच” इत्यादि, आकाशस्योतत्वं प्रोतत्वं च प्रकृतावेव युक्तमित्यक्षरपदेनात्र प्रक- तिरुच्यते । किं वा कृतमत्र शक्त्या प्रकृतिपरिग्रहेण- इत्युच्यते जीव इति, उक्तवाक्ये “अलोहिमतमः" इत्यादिना रजस्तमोरहितत्वमभिलप्यमानं प्रकृतौ नोपपद्यते तस्मादक्षरपदेन जीव उच्यते युक्तं हि जीवस्य रजस्तमोरहितत्वमस्थूलत्वादिकं च । "क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इत्यादौ च जीवेप्य- क्षरशब्दप्रयोगोपलब्धेः । किं च "अव्यक्तमक्षरे लीयते” इत्यादौ प्रकृ- त्याधारत्वं जीवस्य श्रूयते तद्द्वाराकाशस्याप्योतत्वं प्रोतत्वं च जीव उपपद्यते एव । भत्रोच्यतेऽक्षरपदवाच्यं ब्रह्मैव कुतः? अम्बरान्तधृतेः । अम्बरस्या- D २२ विशिष्टाद्वैताधिकरणमालायाम्- काशस्यान्तः पारभूतमव्याकृतमम्बरातस्तस्य धृतेः । यद्यप्युक्तरी- त्याम्बरान्तधृतिर्जीवेप्युपपद्यते तथाप्यग्रिमवाक्य उक्तमक्षरमुद्दिश्य श्रूयते "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसी विकृती तिष्टतः" इति । तदेतादशं शासनकर्तृत्वं परमात्मन्येवापपद्यते न जीव इत्यक्षरपदद्वाच्यमन परमात्मवति निश्चीयते ॥ (चतुर्थमीक्षनिकाधिकरणम.) "ईक्षतिकर्म व्यपदेशात् सः १२" शैव्यप्रणोत्तरे वाक्ये पुरुषः कमलासनः । आहोस्वित्परमात्मा स्यादाद्यो लोककमान् मतः । परात्मा ह्यमृतत्वादेर्व्यपदेशात् परत्वतः ।। प्रष्णोपनिषदि तुर्यप्रष्णे श्रूयते "अथ हैनं शैव्यः सत्यकामः पप्रच्छ-स योह वै तद् भगवन् मनुष्येषु प्रायणान्तमोकारमभिध्या- यीत कतमं वाच स तेन लोकं जयतीति" उत्तरवाक्यं च "यः पुनरेतं त्रिमात्रेणैवामित्यतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेज- सि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स पतस्माजीव- घनात् परं पुरिशयं पुरुपमीक्षते" इति । अत्र ध्यानेक्षणयोः कर्मल- ह्यणः पुरुषः किं कमलासनः किं वा परमात्मेति विशयः। तत्रोकारोपासनाक्रमेण गम्यलोकक्रमनिर्देशादाद्यपक्षश्च श्रेयान्। तथा हि-“स यद्यकमात्रमभिध्यायीत स तेनैव संवदितस्तूर्णमेव जगत्यामभिसंपद्यते” “अथ यदि द्विमात्रण मनसि संपद्यते सोन्त- रिक्षं यजुभिरुन्नीयते” इति पूर्व श्रूयते तत्रैकमात्रोपासनया नरलो- कप्राप्तिमभिधाय तथा हिमानोपासनयान्तरिक्षलोकप्राप्तिमभिधाय विमानोपासनयान्तररिक्षात्परेण कमलासनलोकेनैव प्राप्तव्यं तत्र गत्वा च कमलासनस्यैवेक्षणं युक्तं तस्य तल्लोकाधिपतित्वात् । एत- स्माजीवधनात् व्यष्टिपुरुपात्परत्वमपि कमलासनस्योपपद्यते सम- टिपुरुषत्वात्तस्मादत्र पुरुषशब्दाभिधेयः कमलासन एव । अनोच्यते 'परात्मा' इति । वाक्यशेषश्लोकः श्रूयते "ऋगभिरेतं तृतीयः पादः । २३ यजुभिरन्तरिक्षं स सामभिर्यत्तत् कवयो वेदयन्ते । तमोङ्कारेणैवाय- तनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति" इति । अत्रोक्तामृतत्वादिरूपस्य परमात्मन्येवोपपत्तेः। परत्वतश्व-स एत्स्मा जीवघनातू परमित्पत्र जीवघनशब्देन कमलासनस्यापि जीवत्वेन संग्रहातू तस्मातू परत्वं परमात्मन एवोपपद्यते तस्मादत्र ध्यानेक्ष- णयोः कर्म परमात्मैवेति विज्ञेयम् ॥ (पञ्चमं दहराधिकरणम्) दहर उत्तरेभ्यः १३ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च १४ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः १५ प्रसिद्धेश्च १६ इतर- परामर्शात स इति चेन्नासम्भवात् १७ उत्तराञ्चेदा- विर्भूतस्वरूपस्तु १८ अन्यार्थश्च परामर्शः १९ अल्पश्रुतेरिति चेत्तदुक्तम् २० अनुकते- स्तस्य च २१ अपि स्मर्यते २२" दहराकाशवाक्ये किं भूतो जोवोथ वा परः । भूतः शब्दप्रसिद्धेः स्यांज्जीवो वा वाक्यशेषतः। सत्यसंकल्पतादिभ्यः परात्मा दहरो मतः ॥ इदमामनन्ति-"अथ यदिदस्मिन् ब्रह्मयुरे दहरं पुण्डरीक वेश्म दहरोस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञा- सितव्यम्” इति अत्र दहराकाशः किं भूताकाश आहोस्विजीवोथ वा परमात्मेति विशयः । तत्र भूताकाश इत्येव युक्तं यत आकाशशब्दस्य तत्रैव लोके प्रसिद्धिरस्ति, इतिचेन्न-तत्रैवाटमप्रपाठकस्य तृतीयखण्डे वाक्यशेपतया श्रूयते-“अथ य एष संप्रसादोस्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते एप आत्मति होवाच ए- तदमृतमभयमेतद्ब्रह्मति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति" इति । अत्र च वाक्यशेपे संप्रसादशब्दाभिधेयस्य जीवस्य प्रत्यगा- त्मनः परामर्शाद दहराकाशो जीव एवेति विज्ञायते ।
२४ ४ विशिष्टाद्वैताधिकरणमालायाम्- अत्रोच्यते दहराकाशो ब्रह्मैव यतस्तत्रैव सप्तमखण्डे उक्ता अप- हतपाप्मत्वसत्यसंकल्पत्वादयो धर्मा ब्रह्मण्येवोपपद्यन्ते न भुताकाशे न वा जीवेपि च । संप्रसादवाक्येप्युक्तममृतत्वादिकं सत्यनामत्वं च ब्रह्मधर्म एव "सत्यं ज्ञानमनन्तं ब्रह्म" इति प्रसिद्धेस्तस्मादहराका- सोन्वेष्टव्यतयात्र निर्दिष्टः परमात्मैव तस्यैवान्वेषणयोग्यत्वात् ।। षष्ठं प्रमिताधिकरणम्) "शब्दादेव प्रमितः २३ हृद्यपेक्षया तु मनुप्याधिकारत्वात् २४" अङ्गुष्ठमात्रमानेन जीव उक्तोथ वा परः तन्मात्रत्वश्रुतेर्जीव ईशानशब्दतः परः ।। कठोपनिपदि चतुर्थवल्ल्यामानायते “अङ्गुष्टमात्रः पुरपी मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजिगुप्तते । एत- द्वैतत् । अङ्गुष्ठमात्रः पुरुपोज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स वाऽद्य उश्वः, एतद्वैतत् ।” इति । अत्राङ्गुष्ठमात्रमानेन जीवो लक्षितः किंवा परमात्मोति विचिकित्सास्ति । किं युक्तं जीव इति, कुतः? अ- न्यत्रापि जीवस्याङ्गुष्ठमात्रमानवत्त्वश्रवणात् यथा-"प्राणाधिपः स- चरति स्वकर्मभिरङ्गुष्ठमात्रो रवितुल्यरूपः” इत्यत्र स्वकर्माधीन- संचारेणाङ्गुष्ठमात्रो जीव एव निश्चित इति स एव जीवः कठश्रुता- वङ्गुष्ठमात्र इत्यनेन प्रत्यभिज्ञायते, इति चेन्न,-ईशानो भूतभव्यस्येति सकलभूतभव्येशिनृत्वं परमात्मन एवोपपद्यते न जीवस्येत्यङ्गुष्ठमात्र- मानेन परमात्मैव लक्षितः । तस्य चं परमात्मन उपासकहृदये वर्त- मानत्वादुपासकहृदयमानसमानमानेन निर्देशः कृतोङ्गुष्ठमात्र इति । हृदयस्याङ्गुष्ठमात्रत्वात्तस्मादत्र परमात्मैव प्रतिपाद्यते ॥ (सप्तमं देवताधिकरणम्) 'तनुपर्यपि बादरायणः सम्भवात् २५ विरोधः कर्मणीति चेन्नानेक- प्रतिपत्तेर्दर्शनात् २६ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमा- नाभ्याम् २७ अत एव च नित्यत्वम् २८ समाननामरूप- त्वाचावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च २९" तृतीयः पादः । २५. ब्रह्मोपासनविद्यायामधिकारो दिवौकसाम् । नह्येवास्त्यशरीरत्वादस्त्यर्थित्वादिसम्भवात् ॥ उपासकहृदयमानसमानमानत्वेनाङ्गुष्ठमात्रत्वं परमात्मन उक्तं तत्र ब्रह्मोपासनविद्यायां मनुष्याणामिव देवादीनामधिकारो नास्त्य- स्ति वति विचार्यते। किं युक्तम्? नास्तीत्येव यतः शरीरिणामेव विवे- कविमोकाश्यासक्रियाकल्याणानवसादानुद्धर्षेतिसाधनसप्तकानुगृही- तानामधिकारः संभवति शरीरिणामेव विवेकाद्यनुग्रहपात्रत्वाद देवादीनां च सशरीरत्वे नास्तिप्रमाणमिति नास्त्यधिकारः, इति चेन्न-देवादीनामप्यर्थित्वादिसंभवादस्त्याधिकारः । अयं भावः-सर्वा- मना दुःखोपशान्तिर्हि मोक्ष एवास्ति मोक्षश्च ब्रह्मोपासनाधीन इति मोक्षार्थित्वेन समर्थत्वेन च युक्त एवाधिकारो दिवौकसां श्रूयते च “ तं देवाज्योतिषां ज्योतिरायुहोपासतेमृतम्" इति । विवेकः-कायशुद्धिः । विमोकः-कामानभिष्वङ्गः । अभ्यासः- मालम्वनसंशीलनं पुनः पुनः । क्रिया-यथाशक्ति पञ्चमहायज्ञानु- ष्ठानम् । कल्याणानि-सत्यार्जवदयादानाहिंसानभिध्याः (अभिध्या परकीये स्वबुद्धिस्तद्राहित्य संपाद्यम्) अनवसादः-मनसोऽदीन- त्वम् । अनुद्धर्पः--भगवत्प्राप्तिविषयकातिसन्तोपाभावः ॥ (अष्टम मध्वधिकरणम्) " मध्वादिष्वसंभवादनधिकारं जेमिनिः ३० ज्योतिषि भावाच्च ३१ भावं तु वादरायणोस्ति हि ३२" देवोपासनविद्यायामधिकारो दिवौकसाम् । नोऽसंभवादनन्यत्वादस्त्यन्तर्याम्युपासनात् ।। भवतु ब्रह्मविद्यायामधिकारो देवादीनां यत्र हि मधुविद्यादौ देव- ताविशेष एवोपास्यत्वेन निर्दिश्यते यथा-"असो वा आदित्यो देव- मधु" इत्यत्रादित्य एव मधुत्वेनोपास्यत्वेन निर्दिष्टस्तत्र देवदीनां नास्त्वधिकारास्ति वेति विचारसरणिमारोहति, कि युक्तं नेति यत आदित्यस्यादित्यानन्यवनोपासनस्यासंभव एवास्ति परस्यैवोपासनं भवति न हि स्वस्येत्यर्थः । नचान्यः कोप्यादित्योस्ति यः खल्वपरणा- ४ २६ विशिष्टाद्वैताधिकरणमालायाम्- दित्येनोपास्येत । किं च "तं देवा ज्योतिषां ज्योतिरायुहोपासते- ऽमृतम्” इति देवानां ब्रह्मोपासनं श्रूयमाणं मधुविद्यादावधिकारं नि- राकरोतीति प्राप्ते- बमः-अस्तीति यद्यप्युक्तयुक्त्या देवादीनां देवोपासनायां नास्त्य- धिकार इत्येव प्रतीयते तथाज्यादित्यादीनां स्वावस्थब्रह्मोपासने सं. भवत्येवाधिकारः । इदानीमादित्यत्वप्राप्ती सत्यामपि कल्यान्तर आ- दित्यत्वप्राप्तये स्वावस्थब्रह्मोपासनं मधुत्वेन युक्तीवेत्यर्थः । न हि स्वमुखनिरीक्षणं न संभवतीत्यत्र प्रमाणमस्ति ॥ (नवममपशूद्राधिकरणम्) शुगस्य तदनादरश्रवणात्तदाद्रवणात् मूच्यते हि ३३ क्षत्रियत्वा- वगतश्च ३४ उत्तरत्र चैत्ररथेनलिङ्गात् ३५ संस्कारपरामात्त दभावाभिलापाच्च ३६ तदभावनिर्धारणे च प्रवृत्तेः ३७ नव- णाध्ययनार्थप्रतिषेधात् ३८ स्मृतेश्च ३९" ब्रह्मविद्याधिकारः किं शूद्रस्यास्त्यथ वा नहि । अस्त्यर्थित्वादिभिर्नास्ति सामर्थ्यादेरभावतः ॥ ब्रह्मविद्यायां मनुष्याणामधिकार उक्तस्तत्र मनुष्यत्वाविशेषा- च्छूद्रस्याप्यस्त्यधिकारो न वति विचिकित्सा मतिसोपानमारोहति। इदमेव विचिकित्सामूलं यत्कर्मकाण्डे नास्त्यधिकारः शूद्रस्य ब्रह्म विद्यायां च मनुष्याणामधिकारः साधित इति कर्मकाण्डानधिकार- सादृश्यात् किं ब्रह्मविद्यायामप्यनधिकारः स्यात् किं वा मनुष्यत्वा विशेषादधिकारः स्याद् द्विजातिवत् । किं युक्तम् ? अस्त्य- धिकार इति यतो मोक्षार्थित्वं ब्रह्मभावनसामर्थ्य च ब्रह्मविद्याधि- कारनिदानं तच्च शूद्रस्यापि सम्भाव्यते मादृशपापजीवाहते मोक्षा- भिलाषो मोक्षोपायेषु च प्रवृत्तिः कस्य न स्यात्तस्मादस्त्यधिकारः । अग्निविद्याषु तु शूद्रस्य विद्याभावान्नास्त्यधिकारो ब्रह्मोपासनं तु मनोवृत्तिमात्रमिति तत्र कस्मान्नस्यादधिकारः । इत्येवं प्राप्ते- अभिधीयते नास्तीति । अयं भावोर्थित्वसत्वेप्यसमर्थस्याधिकारी न सम्भवति सामर्थ्य च ब्रह्मस्वरूपतदुपासनप्रकारविज्ञानाधीन तृतीयः पादः । २७ ब्रह्मस्वरूपतदुपासनप्रकारज्ञान चाध्ययनाधीनमध्ययनं चोपनयना- धीनमुपनयन च शूद्रस्य नास्त्येव "न शुद्रः संस्कारमहति" इति व- चनात् तस्मान्नास्त्यधिकारः । इतिहासपुराणश्रवणं हि शूद्रस्य पाप- क्षयार्थमेव नोपासनार्थम् । अयमभिसन्धिः "आत्मा वा रे द्रष्टव्यः" इति नियमविधिना पक्ष प्राप्तनखविदलनस्येव पक्ष प्राप्तानां वेदान्तमू- लेतिहासपुराणपौरुषेयप्रवन्धानां परिहारः क्रियते इति "श्नावयेञ्चतुरो वर्णान्” इति विधिरप्यस्तोतीतिहासपुराणश्रवणं पापक्षयफल कमि- ति कल्प्यते । “आजहार इमाः शूद्र" इत्यत्र तु शोचनाच्छूद्र इति सम्बोधनं न तु शूद्रत्वजातिप्रयुक्तं सम्बोध्यस्य जानश्रुतेः क्षत्रिय- त्वात् तस्मानास्त्यधिकारः शूद्रस्य ब्रह्मोपासनायाम् ॥ (उक्तप्रमिताधिकरणशेषाधिकरणम् ) "कम्पनात् ४० ज्योतिर्दर्शनात् ४१" अङ्गष्ठमात्रमानो हि परमात्मा प्रतीयते । यदिदं किं च वाक्योक्तधर्मस्यात्रैव सम्भवात् ॥ प्रमिताधिकरणमारभ्य मध्येधिकारविपयकाणि त्रीण्यधिकरणा- नि निर्माय भगवान् बादरायणिमृगेन्द्रावलोकितन्यायेन पुनरपि प्र- मिताधिकरणमालोचयति सूत्रद्वयेन कम्पनादित्यादिना । "अङ्गुष्ट- मात्रः पुरुषः” इति कठस्य चतुर्थवल्ल्यामानायोपसंहारे पष्ठवल्ल्यां पुनः “अङ्गुष्ठमात्रः पुरुषोन्तरात्मा” इत्यानातं मध्ये च पष्ठवल्ल्या- मेव “यदिदं किं च जगत्सर्वम्" " भयाद्स्याग्निस्तपति” पञ्चमव- ल्ल्यां च “न तत्र सूर्यो भाति” इत्याद्याम्नायत आम्नातानां चाङ्गुष्ठमा- पुरुपनिमित्तककम्पनादीनां परमात्मन्येवोपपत्तिरस्तीत्यङ्गुष्ठमात्रः पुरुषः परमात्मैव ॥ ( दशममर्थान्तरत्वादिव्यपदेशाधिकरणम् ) "आकाशोन्तरत्वादिव्यपदेशात् ४२ सुपुप्त्युत्क्रा- न्त्योभैदेन ४३ पत्यादिशब्देभ्यः ४४" आकाशो ह श्रुतौ मुक्तः परमात्माथ वा मतः । पूर्ववाक्यान्वयान्मुक्तः परस्तलिङ्गदर्शनात् ॥ ..
२८ विशिष्टाद्वैताधिकरणमालायाम- छान्दोग्याष्टमप्रपाठकस्य चतुर्दशखण्डे श्रूयते-“आकाशो ह चे नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्म तद्मृतं स आत्मा” इति । यद्यपि दहराकाशस्य परमात्मत्वं प्रतिपादितमित्यत्राकाशपदार्थ न युक्तः संशयः किं तु परमात्मत्वमेव विज्ञेयं तथापि मध्ये प्रजापति- वाक्यानां व्यवधानात् पूर्वखण्डे च "अश्व इव रोमाणि विधूय पापम्' इति मुक्तोपक्रमाद् युक्तः संशयः किमत्राकाशपदेन मुक्तात्मा मतः परमात्मा वेति । किं युक्तम् ? मुक्तात्मेति यतः पूर्ववाक्ये "अश्व इव रोमाणि विधूय पापम्” इति मुक्तात्मानमुपक्रस्योच्यते “आकाशाह वै" इत्यादि । नामरूपनिर्वाढत्वं च मुक्तात्मनोपि सम्भवति पूर्वज- न्मापेक्षया। अत्रीच्यते पर इति । नामरूपनिर्वोढत्वं न नामरूपधारकत्वं किं नामरूपव्याकर्तृत्वं तच परमात्मन एव सम्भवति नान्यस्य कस्य- चिदपि, जगदव्यापारानधिकृतत्वात् । श्रूयतं च "अनेन जीवनानुप्र- विश्य नामरूपे व्याकरवाणि” "तस्मादेतद्ब्रह्म नाम रूपमन्नं च जा- यते” इति । तस्मादाकाशपदेनात्र परमात्मन प्रतिपाद्यते ॥ ॥ इति तृतीयः पादः समाप्तः ।। अथ चतुर्थः पादः । (प्रथममानुमानिकाधिकरणम्) "आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च १ सूक्ष्मन्तु तदर्हत्वात् २ तदधीनत्वादर्थवत् ३ ज्ञेयत्वाव- चनाच ४ वदतीतिचेन्न प्राज्ञो हि प्रकरणात् ५ त्रयाणामेव चैवमुपन्यासः प्रणश्च ६ महडच्च ७" इन्द्रियेभ्यः परा ह्यस्मिन्न ऽव्यक्तेन किमुच्यते । प्रधान महदन्त्यत्वाद् देहोर्थक्रमतो मतः ॥ , चतुर्थः पादः । २९ कानि चिद्वाक्यानि केवलप्रधानकारणत्वप्रतिपादनपराणीव प्रतीयन्ते तेपां प्रधानकारणत्वप्रतिपादनपरत्वं निराक्रियते येनोक्तं ब्रह्मकारणत्वं दृढतरं स्यादिति तुर्यपादमारभते सूत्रकारः । इदमानायते-“इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः महतः परमव्यक्तमव्यक्तात् पुरुषः परः पुरुपान्न परं किं चित् सा काष्ठा सा परा गतिः” इति । अत्राऽब्रह्मात्मकं प्रधानमव्यक्तशब्देनाभिधीयत उत नेति संदेहे प्रधानमेवाभिधीयते महतः परमव्यक्तमिति महतः परत्वश्रवणात् । यद्यपि महतः परत्वं पुरुषस्याप्यस्ति तथाप्यन्यहितं महतः परत्वं प्रधानस्यैवेत्यव्यक्तशब्देनात्र प्रधानमेवाभिधीयते । पुरुषपदेन जीधी- भिधीयते "पुरुपान्न परं किंचित्" इत्यनेन पुरुषात् परस्य तत्त्वस्य परमपुरुपस्य प्रतिपेधात् । वुद्धेरात्मेत्यात्मशब्दो महत्समानाधिकरणो महान्तमेवाभिधत्ते पूर्वोक्ततत्त्वेषु ब्रह्मणः श्रवणाभावाच्च प्रधानका- रणवाद् एव प्रतिपादितो भवतीति, मा वोचः-नात्राब्रह्मात्मकं प्रधानमव्यक्तशब्देनोच्यते किं तु देहः । अयमभिसन्धिः-यदि वाक्योपक्रमे कारणत्वनिवन्धनं परत्वं प्रतीयेत तदात्रापि महतः परत्वश्रवणात महत्कारणलक्षणं प्रधान- मेवाव्यक्तशब्देन प्रतिपाद्यत इति प्रतीयेत न चैवमस्ति, नार्थानामि- न्द्रियकारणत्वं मनसश्वार्थकारणत्वं येन कारणत्वानिवन्धनं परत्वं स्यात् । किं तु प्राधान्यप्रयुक्तमेव परत्वं श्रूयते तथा हि-इन्द्रियाणि ह्यर्थालोचनक्षिप्तान्येव दुर्ग्रहाणि भवन्तीति तेभ्योर्थस्य परत्वमुक्तम् । अर्थासंनिधावपि मनो विषयपरायणं भवत्येवानिगृहीतमित्यर्थापे. क्षया मनसः परत्वमुक्तम् । मनसोपि बुद्धः परत्वमध्यवसायपरत्वा- त् । बुद्धपि कर्तृत्वन प्राधान्याजीवात्मा परः । आत्मनोपि सकलपु- रुपार्थप्रवृत्तिषु शरीरायत्तत्वात्तस्मादप्यव्यक्तशब्दवाच्यस्य शरीरस्य परत्वमुच्यते । शरीरस बन्धादीनामपि परमात्माधीनत्वात् तस्मादपि शरीरात् परमात्मनः परत्वमुच्यते "पुरुषः परः" इति । तस्मान्नात्रा व्यक्तशब्देन प्रधानमुच्यते किं तु शरीरम् । "आत्मा महान् परः" इत्यत्र महानित्यात्मविषेणमात्मपदेन जी- वात्मोच्यते पुरुपपदेन च परमपुरुषो ब्रह्मैवोच्यते तस्माद्रह्मकारण- वाद एव प्रतिपादितो भवति न प्रधानकारणवादः । यथा हि घटस्य मृत्पदेनाभिधानं भवति तत्कस्य हेतोः ? घटस्य मृत्कारणकत्वादेवं ३२ विशिष्टाद्वैताधिकरणमालायाम्- पूर्व-प्रतिपादनपरमिति शिरोयुक्तं यतोऽत्र साङ्ख्यतत्त्वानां पञ्चविंश- तिसङ्ख्या प्रतीयते तदुक्तम्-"मूलप्रकृतिरविकृतिमहदाद्याः प्रकृति विकृतयः सप्त । पोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः' इति। अत्रोच्यते नेति-नेदं वाक्यं साङ्ख्यतत्त्वप्रतिपादनपरमस्त्याधि- क्यात् । पञ्चभ्यः पञ्चजनेभ्यः पृथगण्याकाशात्मनोः प्रतीतिरस्ति न ह्येतत् साङ्ख्यपक्षे सङ्गच्छते तदुक्तं सूत्रे नानाभावादिति । वाक्य- शेपतश्च-"प्राणस्य प्राणमुतचक्षुपश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं म- नसो मनो ये विदुः” इत्यस्माद्वाक्यशेपात प्राणादय एव पञ्चजनपदं- वाच्यास्ते च पञ्चेति प्रतीयते । साङ्ख्यपक्षे हि पञ्चेति पदस्य पञ्च- जनपदविशेषणत्वेपि पञ्चविंशतिसङ्ख्या नोपलभ्यते पञ्चजनप- दघटितपञ्चेत्यवयवं प्रति विशेषणत्वासम्भवात् । तस्मादत्र प्रा- णादीनां (त्वगिन्द्रियादीनाम) पञ्चानामाकाशपदलक्ष्यमहाभूतानां च परमात्माश्रयत्वं प्रतिपाद्यते । प्राणशब्देन वायुसंवन्धित्वात्वगिद्रि यमुच्यते, अन्नपदन च घ्राणरसने ग्राह्ये । प्राणस्य प्राणमित्यस्य प्राणस्य = त्वच आधार इत्यर्थः । एवमग्रेपि श्रुत्यर्थो शेयः ॥ (चतुर्थ कारणत्वाधिकरणम्) "कारणत्वेन चाकाशादिपु यथाव्यपदिष्टोक्तेः १४ समाकर्पात् १५" प्रधानकारणो लोकः स्रष्टू रूपबहुत्वतः। आकाशादिनिदानत्वाल्लोकस्य ब्रह्म कारणम् ॥ पुनरपि प्रधानकारणवादी प्रत्यवतिष्ठते प्रपञ्चस्य प्रधानमेव कारणं यतः स्रष्टुहुरूपता श्रूयते यथा-" सदेव सोम्येदमग्र आसी- असद्वा इदमग्र आसीत्" इत्यादिषु स्त्रष्टुः सद्रूपत्वमसद्रूपत्वं च श्रूयते न ाकस्यैव ब्रह्मणःसद्रूपत्वमसद्रूपत्वं च सम्भवति सद्रूप- त्वेन त्वया स्वीकृतेस्तस्मात् प्रधानमेव जगत्कारणं, प्रधानस्य सदू- पत्वं स्वरूपेणोच्यतेऽसद्रूपत्वं च कार्यरूपेण । वाक्यान्तरं च प्रधान- कारणत्वस्यैवोपोइलकमस्ति-"तद्धेदं तहव्याकृतमासीत्" इत्यव्या- कृते नामरूपशून्ये प्रधाने प्रलयमभिधाय "तन्नामरूपाभ्यां व्याक्रि- यत" इत्यव्याकृतादेव प्रधानात् सृष्टिमभिदधाति । तू चतुर्थः पादः । 4 अनोच्यते आकाशादीति । "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः तत् तेजोऽसृजत” इत्यादिश्रुतेब्रह्मण एव जगत्कारणत्वं निश्चीयते।"सत्यं शानमनन्तं ब्रह्म" "तदैतत बहु स्याम्" इत्यादिवा- क्यश्रुतझानेक्षणादीनां जगत्कारणधर्माणां जडेप्रधाने कथमप्युपत्तिर्ना- स्तीति ब्रह्मैव लोकस्य कारणम् । असद्वा इदमय आसीतू" इत्य- त्रापि प्रलयकाले नामरूपविभागाभावेन नामरूपप्रतियोगिफासत्त्वेन तत्सम्बन्धित्वाभावाब्रीवासच्छब्देनोच्यते । "तद्धेदं तहव्याकृत- मासीत्" इत्यत्राप्यव्याकृतशब्देनाव्याकृतशरीरं ब्रह्मैवाभिधीयते । तदेव च ब्रह्म स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियत इत्युच्यते॥ (पञ्चमं जगहाचित्याधिकरणम् ) . "जगहाचित्वात् १६ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् १७ अन्यार्थ तु जैमिनिः प्रष्णव्याख्यानाभ्यामपि चैवमेके १८" जीव एव परं ब्रह्म सम्बन्धात पुण्यपापयोः । ब्रह्म जीवात्परं-लोके कर्मशब्दस्य वृत्तितः ॥ सम्प्रत्यपि नोपशाम्यति साजयवादी किं तु प्रत्यवतिष्ठते-यदी- क्षणादीनां चेतनधर्माणां जड प्रधान उपपत्तिर्नास्ति तदेक्षणादिधर्म- समन्वययोग्यः क्षेत्रक्ष एव ब्रह्म । आत्मा वा अरे ज्ञातव्यः प्रकृति- तो विवेक्तव्यः” इत्यादौ जगत्कारणविषयकाण्येव दर्शनादीनि सं- पाद्यत्वेन श्रूयन्त आत्मा च क्षेत्रज्ञ एवेति स एव परम्ब्रह्म न ततोर्था- नतरभूतम् । किं च “ यो वै चालक एतेषां पुरुषाणां कर्ता यस्य चै- तत्कर्म स वेदितव्यः ” अत्र मोक्षोपायवेदनकर्म जगत्कारणमेव व- क्तव्यं तस्य च जगत्कारणस्य कर्मसम्बन्धोत्र श्रूयते यस्य चैतत्कर्मेति कर्म च पुण्यपापलक्षणं तत्रैव लोके कर्मपदव्युत्पत्तेः पुण्यपापयोश्च त्वदभिमतब्रह्मणि लेशोपि नोपपद्यते क्षेत्रक्षे च स्पष्ट एव पुण्यपाप- लक्षणकर्मसम्बन्ध इति क्षेत्रज्ञ एव परब्रह्म । तथा च हिरण्यगर्भे- न्द्रादित्यादिषु मध्ये कोप्येक ईक्षणादिकर्ता मन्तव्य स एव मोक्षप्राप्तये चेदितव्यस्तत्र चातिशयितसौभाग्यवति सर्वमुपपद्यते मोक्षप्रवत्वं वा जगत्कर्तृत्वादिकं वा ।
३४ विशिष्टाद्वैताधिकरणमालायाम्- इति प्राप्तेभिधीयते 'ब्रह्म जीवात्परम्' इति । हेतुमाइ लोकद- त्यादिना । उक्तश्रुत्युक्तकर्मशब्दस्य लोके प्रपञ्चे वृत्तिरस्तीत्यर्थः । एतत्पदपरामृष्टं निखिलचिदचिन्मिथं जगत् कार्यभूतं तस्य परमा- त्मन एव कर्म= कार्य भवितुमर्हति नक्षत्रस्य। नस्मानात्र कर्मरादः पुण्यपापपरी येन क्षेत्रमः श्रुतेस्तात्पर्यभूमिः स्याद्वेदनकर्मतया । त- तश्च प्रकृतिपुरुषाभ्यामर्थान्तरं परं ब्रह्मैव निखिलजगन्कारणं तदेव च वेद्यम् ॥ (पष्ठं वाक्यान्ययाधिकरणम् ) "वाक्यान्वयात् १९ प्रतिज्ञासिलिङ्गमाश्मरथ्यः २० उत्क्रमिप्यत एवंभावादित्यौडुलोमिः २१. अवस्थितरितिकाशकत्स्नः २२" आत्मदर्शनवाक्येषु जीव आत्माथ वा परः । जीवः प्रतीतितस्तस्य वाक्यानामन्वयात् परः॥ इमानायते "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः । सैत्रेय्यात्मनि खल्बरे दृष्टे श्रुते मते विशात इदं सर्व विदितम्" "न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्म- नस्तु कामाय सर्व प्रियं भवति" इत्यारभ्य "न वा अरे सर्वस्य कामाय सर्व प्रियं भवति आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यन्तम् । तत्र यो मोक्षोपायदर्शनकर्मतयाश्रुत आत्मा स किं साङ्ख्य- संमतिसिद्धः पुरुष उत परः परमपुरुष इति विचिकित्सायामभिधी- यते-साङ्ख्यसंमतिसिद्धः पुरुषो जीव एव तस्यैव जीवस्यादिम- ध्यावसानेषु प्रतीतेः । वाजसनेयिनामुपनिषदि चतुर्थब्राह्मणे प्रथम स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति" इतिश्रूयते । मध्ये च “आत्मा वा अरे द्रष्टव्यः" अन्ते च "विज्ञातारमरे केन विजानीयात्" इति श्रूयते । आत्मशब्दस्य विज्ञातृाब्दस्य च जीवे एव प्रसिद्धिरिति जीव एवं द्रष्टव्यत्वेनोपदिश्यते । तत्रोच्यते वाक्यानामिति । वाक्यानामुक्तानां परस्परमन्वयात परमात्मैव दर्शनकर्मतयोपदिश्यत इति प्रतीयते । आत्मदर्शनं हि मोक्षोपायतया याज्ञवल्क्येन मैत्रेय्यै समुपदिष्टं मोक्षोपायभूतं च द- चतुर्थः पादः । ३५ र्शनं परमात्मदर्शनमेव "तमेवं विदित्वातिमृत्युमेति नान्यः पन्था अयनाय विद्यते" "तमेवं विद्वानमृत इह भवति" इत्यादिश्रुतेः। यदि प्रकृतिपुरुषविवेक एव मोक्षोपायः स्यात्तदा “येनाहं नामृता स्यां किमहं तेन कुर्याम्" इति चित्ताद्यनादरो न श्रूयेत यतो विचादिक- मपि प्राकृतं प्रकृतिस्वरूपं ततोप्यात्मविवेकस्य मोक्षोपायैकदेशतया- त्मनि तत्प्रतियोगिकभेदज्ञानाय वित्तादिज्ञानापेक्षणादादरएच स्था. द्वित्तादौ । तस्मात्परमपुरुपदर्शनमेव मोक्षोपायः। मोक्षोपायदर्शन- कर्मतयाभिमतः परमात्मैवात्मशब्दनात्र प्रतिपाद्यते । “न वा अरे पत्युः कामाय" इत्यादिश्रुतस्तु यथा लोक आत्मेष्टसम्पत्तये पत्याद- य उपादीयन्ते तथात्मनः परमेष्टसम्पत्तिप्रदः प्रियतमः परमपुरुष एवोपादेयस्तत्प्राप्तये च स एव द्रष्टव्य इत्यभिप्रायः ॥ ( सप्तमं प्रकृत्यधिकरणम) "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् २३ अभिध्योपदेशाच्च २४ साक्षाच्चोभयानानात् २५ आत्मकतेः २६ परिणामात् २७ योनिश्च हि गीयते २८" उपादान प्रधानं किं प्रपञ्चस्याथ वा हरिः। हरिर्नाऽपरिणामित्वात् प्रधान परिणामि तत् । हरिरेव ह्युपादानं प्रतिज्ञानादिभिः श्रुतम् ॥ योगी प्रत्यवतिष्ठते-यद्यपीक्षणादिधर्मसमन्वयात्सर्वज्ञमेव परं ब्रह्म जगत्कारणं तथापि ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादा- नत्वं हि परिणामिन एवोपपद्यते । परमात्मा चापरिणामीति श्रूयते "निष्कलं निष्क्रियं शान्तं निरवयं निरञ्जनम्” इति । प्रधानस्य च परिणामिनो युक्तमुपादानत्वम् । तस्मात्प्रधानमधिष्ठाय जगत्करोतीति परमात्मा प्रपञ्चस्य निमित्तकारणमेव । श्रयते च परमात्मनः प्रधा- नाधिष्ठानम्-"विकारजननीमज्ञामष्टरूपामजां ध्रुवां ध्यायतेऽध्यासि- ता तेन तन्यते प्रेर्यते पुनः" "मायां तु प्रकृति विद्यान्मायिनं तु महे- श्वरम्" इत्यादि । स्मर्य ते च "मयाऽध्यक्षेण प्रकृतिः सूयते सचरा- चरम्" इति ।
३६ ३ विशिष्टाहताधिकरणमालायाम्- अत्रोच्यते हरिरेवेति ।प्रपञ्चस्योपादानकारणं हरिः = परमात्मैव प्रतिज्ञानादिभिः-प्रतिक्षादृष्टान्ताभ्याम् । प्रनिशा तावत् “स्तब्धास्युत तमादेशमप्रक्ष्यो येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्" इत्येकविज्ञानेन सर्वविनानप्रतिज्ञा हि परमात्मन पव प्रपञ्चोपादानका- रणत्वं सूचयति । उपादानज्ञानेनैव सर्वतत्कार्यज्ञानोपपत्तनहि नि- मित्तकरणीभूतकुलालज्ञानेन घटादयो ज्ञातुं शक्यन्त तत्कस्य हेतोः? कुलालस्योपादानत्वाभावात् । शक्यते च ज्ञातुमुपादानस्य दो ज्ञानेन । दृष्टान्तश्च-"यथा सोम्यकन मृत्पिण्डेन सर्व मृन्मय विज्ञात स्याद्वाचारस्मणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" इत्युपादा- नज्ञानन सर्वतकार्यवर्गज्ञाननिदर्शनेन प्रपञ्चोपादानत्वं ब्राह्मण एव सूचयति श्रुतिः । अनन्तशक्तिविशिष्टस्य वासुदेवस्य परमात्मनो निमित्तोपादानकारणत्वे न कोपि विरोधः । श्रूयते चाभिन्ननिमित्तो- पादनत्वं परमात्मनः-"किं स्विद्धनं क उ स वृक्षः" इत्यारश्य "ब्रह्म चनं ब्रह्म स वृक्षः" इत्यन्तम् । वृक्षपदमुपादानवाचकम् ॥ (अष्टम सर्वव्याख्यानाधिकरणम्) "एतेन सर्वे व्याख्याता व्याख्याताः १९" पादचतुष्टयोक्तेन न्यायवर्गेण बुध्यताम् । वेदान्तैः कारणत्वेन ब्रह्मैव प्रतिपादितम् ॥ पादचतुष्टयोक्तन न्यायनिकरेण सर्वे वेदान्ता जगत्कारणत्वेन ब्रह्मैव प्रतिपादयन्ति । तस्मिन्नेव च परब्रह्मणि श्रीनिवासे सकलचेतना चेतनविलक्षण निरस्तनिखिलदोपेऽनवधिकातिशयाससचेयकल्याण- गुणगणे जीवोद्धारकाध्वरदीक्षिते मदीयपापापराधनिचयगणनाधान्ते मदीयपापापराधक्षमायां कृपणतमे समन्वयोस्ति सकलवेदान्ताना- मित्यवधार्यम् ॥ श्रियै नमः ॥ ॥ इति चतुर्थः पादः समाप्तः ॥ ॥ इति पञ्चनदीयसुदर्शननिर्मितायां विशिष्टाद्वैताधिकरणमालायां प्रथमोध्यायः समाप्तः ॥
पज्वमः पादः । ३७ अथ द्वितीयाध्यायस्य प्रथमः पाद प्रारभ्यते । (प्रथम स्मृत्यधिकरणम्) स्मृत्यनवकाशदोपप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोपप्रसङ्गात् १ इतरेपां चानुपलब्धेः २" साङ्ख्यस्मृतिः प्रमाणं किं वा ब्रह्मप्रतिपादिका । कपिलाप्तत्वतः पूर्व तासां धर्मेऽवकाशतः । ब्रह्मारूढस्मृतीनां तत् प्रमाण्यं हि बहुत्वतः ॥ पुनरपि साट्सम्यवादी प्रतिवदति-यद्यपि दृष्टविरोधे स्मृतिरना- दरणीया भवति यथा “औदुम्बरी सर्वा वेष्ट्या" इति स्मृतेः “औदु- म्वरी स्पृष्टाद्गायति" इति श्रुतंश्च परस्परं विरोधे । तथापि वेदा- न्तवेद्यस्य तत्त्वस्य दुरवबोधत्वेन स्मृतिसाहाय्येनैव कस्मिश्चित्तत्त्वे ' वदान्तानां समन्वयो वक्तव्य इति, "पि प्रसृतं कपिलम्" इत्यादि- वचनजातेन च कपिलमहामुनराप्तत्वे गृहीते तन्निर्मितस्मृतः परम- प्रामाण्यात तत्साहाय्येनैव बेदान्तानां समन्वयो युक्त इति सिद्धं साख्यमतेन । न च मन्वादिस्मृतीनां वैफल्यं तासां धर्मे= धर्मोप- बृंहणे सावकाशत्वात् । न चैवं साङ्खचस्मृतिः कचिदपि सावकाशा- स्तीति प्राप्ते- उच्यते-ब्रीति, ब्रह्मारूढस्मृतीनां ब्रह्मप्रतिपादिकानामेव स्मृ- तीनां तत्प्रामाण्यं बहुत्वतः । बह्वयः खलु मन्वादिस्मृतय एकसा- सन्यस्मृत्यनुरोधेन न हि नासामप्रामाण्यमुचितम् । नोकस्यार्थे कुलं त्यज्यते । श्रूयते च "यद्वै, किं चन मनुरवदत्तदूर्भरजम्" इति । तस्मान्मन्वादिस्मृतिसाहाय्येनैव वेदान्तानां समन्वयो वक्तव्यः मन्वादिभिश्च “भासीदिदंतमोभूतम्" इत्यादिना चिचिन्मिश्राखि- लजगत्कारणं परं ब्रवति प्रतिपाद्यते ततश्च तत्रैव भगवति श्रीनि- वासे समन्वयो वेदान्तानां युक्तः। भगवद्गीतासु च "अहं कृत्स्य जगतः प्रभवः प्रलयस्तथा" इत्याधुच्यते परमात्मकारणत्वम्, न च ३८ विशिष्टाद्वैताधिकरणमालायाम्- कपिलोक्ततत्त्वप्रक्रियाऽतीतानागतसूक्ष्मविप्रकृष्टादिसकलदर्शनसम- थैरपि मन्वादिभिरुपलब्धत्यनुमीयते तत्प्रतिपादनाभावहेतुना । अनु. पलब्धेश्च तदप्रामाण्यं जवनिकाविहीनमेव ।। (द्वितीय योगप्रत्युतयधिकरणम) "एतेन योगः प्रत्युक्तः ३५ योगस्मृतिः प्रमाणं सा प्रणीता विधिना यतः। न प्रमाणं विधेश्वापि दोपजभ्रान्तिसम्भवात् ॥ ननु मा भूत सास यस्मृतेः प्रामाण्यं योगस्मृतेस्तु युनं प्रामा- ण्यं तत्रेश्वरस्यापि स्वीकारात् । तस्याश्च वक्ता पितामहो विधिहि- रण्यगर्भः स किल सर्ववेदान्तप्रवर्तनाधिकृतः, न हि तस्मादधिकः कोपि मुनिस्तत्समो वा येन तदनुरोधेन तत्स्मृनिप्रामाण्यनिर्वधादु योगस्मृतिरप्रमाणं स्यात् । सिद्धे च प्रामाण्ये तदानुगुण्येनैव वेदान्तो- पवृहणं न्याय्यमिति निमित्तकारणमीश्वर उपादानं तु प्रपञ्चस्य प्रधानमेवेति सिद्धम् । अत्रोच्यते न प्रमाणमिति । विधिरपि जीव एवेति संभवति तस्यापि रजस्तमोलक्षणदोपजा भ्रान्तिरिति भ्रान्तिनिर्मिता योग स्मृतिरिति न तस्याः प्रामाण्यम् । यदि हि परमेश्वरो निमित्तकार- णमेव तदैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधः स्फुट एव यत उपादानज्ञानादेव तत्कार्यवर्गविज्ञानं संभवति, जडं प्रधानं तु न चेतनवर्गस्य कारणमिति प्रधानविज्ञानेनापि चेतनविज्ञानं न संभवति परमेश्वरस्तु नोपादानकारणं तव मते येन तद्विज्ञानाच्चेतनविज्ञान संभवेत् । तस्मात्परमेश्वर एवोपादानं सकलप्रपञ्चस्य निमित्तका- रणं चेति तद्विज्ञानेन सर्वविज्ञानं स्पष्टमेव युक्तम् । ततश्च ब्रह्मप्रतिपा- दिकानामेव स्मृतीनां प्रामाण्यम् ॥ (तृतीयं विलक्षणत्वाधिकरणम् ) "न विलक्षणत्वादस्य तथात्वं च शब्दात् ४ अभिमानिव्यपदेशस्तु वि- शेषानुगतिभ्याम् १ दृश्यते तु ६ असादति चेन्न प्रतिषेधमात्रत्वात् ७ पञ्चमः पादः। ३९ अपीतौ तहत् प्रसङ्गादसमञ्जसम् ( न तु दृष्टान्तभावात् ९ स्वपक्षदोपाञ्च १० तर्काप्रतिष्ठानादपि ११ अन्यथानुमेय- मिति चेदेवमप्यनिर्मोक्षप्रसङ्गात् १२" उपादानं प्रपञ्चस्य प्रधानं ब्रह्म वा मतम् । प्रधान कार्यसादृश्यादसादृश्यान्न तत् परम् ॥ उपादानं परं तत्र माक्षिकादिनिदर्शनम् । कार्यकारणभावस्य वैलक्षण्येपि दर्शनात् ॥ अपरिणामित्वेन चतुर्थपादसप्तमाधिकरणे ब्रह्मोपादानकारणत्व- माशङ्खन्य संप्रति प्रपञ्चपरमात्मनोरसादृश्यात्तस्योपादानकारणत्व- माशङ्कतेन विलक्षणत्वादित्यादिना योगीश्वर:-उपादानत्वं हिकार्य- सशस्यैव भवति यथा घटं प्रति मृदन्यथा कुलालस्याप्युपादानत्वं स्यात् । प्रपञ्चस्य हि प्रत्यक्षमेचाचेतनत्वाशुचित्वादयो धर्मा उप- लक्ष्यन्ते येषां कालत्रयेपि परमात्मनान्वयनीतिर्नास्ति त्वया हितस्य चेतनत्वं सकलदोपरहितत्वं च प्रतिपाद्यते । श्रूयते च "विज्ञान चा- विज्ञान च” इत्यादिना परमात्मप्रपञ्चयोर्महद्वैलक्षण्यं न हि विलक्ष. णस्योपादनत्वं संभवतीति प्रपञ्चसादृश्यात्तस्य प्रधानमेवोपादानम् । परमात्मा तु निमित्तकारणमेव । न च वाच्यम्-श्रुत्या प्रपञ्चस्य परमात्मैककारणत्वेऽध्यवसिते प्रपञ्चे चैतन्यानुवृत्तिरभ्युपगन्त- व्येति, अनुपलब्धिपराहतत्वात् । न हि कस्य चिदपि घटादिषु चे- तनत्ववित्तिः। "तं पृथिव्यऽब्रवीत्" इत्याद्यास्तु श्रुतयो न पृथिव्यादि- स्वरूप निवन्धनाः किन्तु तदधिष्ठातृदेवतानिवन्धना देवतनां चेत- नत्वात्सम्भापण श्रुती न कोपि विरोधः । अनाभिधीयने-उपादनं परमिति, परं ब्रह्मैव प्रपञ्चस्योपादानं न प्रधानं तन्निरपेक्षमित्यर्थः । विलक्षणयोः कार्यकारणभावो न भवतीति न वक्तव्यम्-विलक्षणादेव माक्षिकादेः कस्याद्युत्पत्तिदश- नात् । विलक्षणादेव गोमयाद् वृश्चिक उत्पद्यते । न च वाच्यम्-तत्र न विलक्षणमात्मानं प्रति गोमयस्य कारणत्वं शरीरं प्रत्यव कारणत्वं तत्सलक्षणत्वमेव गोमयस्येति, न हि वृश्चिकशरीरसालक्षण्यं सर्व- त्मना गोमयस्ति रुधिरमांसादिमयं शरीरं सर्वथा तद्विलक्षणं गोम- ४० विशिष्टाद्वैताधिकरणमालायाम्- यमन्यथा तस्य शुद्धि कारणत्वमेव न स्यात्पञ्चगव्यादिप्रणाख्या । तस्मात्परं ब्रह्मैव प्रपञ्चोपादानम् । यदि विलक्षणं सोपादानं तदा विलक्षणस्यासत एव प्रपञ्चस्योत्पत्तिर्वक्तव्या तथा चासन्का- र्यवादः प्रसक्त इति चेन्न-सलक्षणयोरेव कार्यकारणभावो भवतीति नियमः परिहतो-दृश्यते विति सूत्रेण न तु कारणात्कार्यस्य द्रव्या- न्तरत्वमपि परिहृतम् । तस्माइलैव स्वस्माद्विलक्षणजगदाफारेण परि- णमते यथा गोमयं स्वविलक्षणवृश्चिकाकारण | न चवं प्रपञ्चगना दोपा परमात्मनि प्रादुःप्युरिति वाच्यम्-यथा शरीरगतदोपाणामा- त्मनि प्रसक्तिर्नास्ति तथा प्रपञ्चगतानामपि दोषाणां निरस्तनिखिल- होपे परमात्मनि प्रसक्तिनास्ति । अपौरुषेयवंदनिवेद्यार्थे च तर्फसन्धान तु नोचितं प्रतिपुरुपं घुद्धिभेदेन भिन्न भिन्नतर्कानुसन्धानेन ताणाम- प्रतिष्ठानात् ॥ (चतुर्थ शिष्टापरिपक्षाधिकरणम् ) "एतेन शिष्टाऽपरिग्रहा अपि व्याख्याताः १३" साङ्ख्यपक्षनिरासस्य नयेनान्यनिरासनम् । स्वबुद्ध्या भावनीयं भो तर्कस्य ह्यनवस्थितेः ॥ अनेनेव साइख्यपक्षनिरासन्यायनान्येपामपि वेदपरिग्रहहीनानां घेदतात्पर्यानभिज्ञानां मतानि निरस्तानि वेदितव्यानि ॥ ( पञ्चमं भोक्तापत्यधिकरणम ) 'भोक्तापत्तेरविभागश्चेत्स्याल्लोकवत् १४" चिदचिन्मिश्रलोकस्य ब्रह्मकायत्वमेव चेत् । सकायत्वेन भोगःस्याद् दुःखादेस्तस्य जीववत् ॥ तत् प्रधानमुपादानं प्रपञ्चस्येति मन्यताम् । कर्माऽसम्बन्धतो नैवं राजाद्यत्र निदर्शनम् ॥ ननु यदि चिढचिन्मिश्रः सकलः प्रपञ्चः परमात्मशरीरं तदा परमात्मनोपि जीववत् सुखदुःखादिभोक्तृत्व स्यात् सशरीरत्वात पञ्चमः पादः । भ्रूयते च "न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति" तथा च जीवापेक्षया किमाधिक्यं ब्रह्मणि स्यात? न स्यादिति सांसारिक ब्रह्म सञ्जातमिति दोषात् प्रधानमेव प्रपञ्चोपादानकारणं ब्रह्म तु निमित्तकारणमिति प्राप्तम् । अत्रोच्यते कर्मेति । दुःखादिभोक्तृत्वे न सशरीरत्वं प्रयोजकं किं तु पुण्यापुण्यलक्षणं कर्म, अन्यथा तव मतेपि शरीरसम्बन्धेनैव बुद्धेः कर्तृत्वं भवतीति शरीरसम्बन्धेन पुरुषस्यापि कर्तृत्वं स्यानचैवं म- न्यते त्वया पुरुषे कर्तृत्वास्वीकारात् । तथा च भोक्तृत्वप्रयोजकक- मसम्बन्धाभावान ब्रह्मणो भोक्तृत्वापत्तिः । “न ह वै सशरीरस्य इति शरीरपदं कर्ममूलकशरीरपरं विज्ञेयम् । यथा हि राजभूत्ययो- रुभयोरपि सशरीरत्वे समानेपि राजनिर्दिष्टदण्डानुभवजन्यो दुःख- भोगो भृत्यस्यैव न राज्ञस्तथानापि विज्ञेयमित्याह राजेति । तथा च दुःखादिभोक्तृत्वाऽभोक्तृत्वाभ्यां निरुपाधिकसुखैकतानताऽभावसदू- भावाश्यां सिद्ध जीवब्रह्मणो_लक्षण्यमपि । तस्माञ्चिदचिन्मिश्रप्रए- चशरीरकमेव ब्रह्म, तदेव च खशरीरभूतप्रपञ्चस्योपादानकारणं तद्रूपेण परिणामादिति सिद्धम् । उपादानत्वात्परमात्मनः प्रपञ्चप- रमात्मनारनन्यत्वमपिसिद्धं तथा चैकविज्ञानेन सर्ववित्तिप्रतिज्ञादयो- प्युपपन्ना भवन्ति ॥ (षष्ठमारम्भणाधिकरणम् ) तदनन्यत्वमारम्भणशब्दादिभ्यः १५ भावे चोपलब्धेः १६ सत्त्वाञ्चापरस्य १७ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद् युक्तेः शब्दान्तराञ्च १८ पटवञ्च १९ यथा च प्राणादिः २०" अन्यत्वं वाप्यनन्यत्वं प्रपञ्चस्य परात्मनः । समयाकारसङ्ख्यानां कार्याणां बुद्धिशब्दयोः ॥ कार्यकारणया दादन्यत्वं तर्कतो मतम् । आरम्भणादिशब्देभ्योऽनन्यत्वं वेदलोकयोः ॥ ६ M তানি হানগৰং না : না রানা পান ? ????’ - শ্যা? মা: কাপ মা: নাশ । লস ৭ :: : সাধু এ বার সাপ, * যা যায় ? ? ? ?? -- া বা ? : ?? : ????? --? if ( স্থা "3" - মহা ঃ ধা। ধার - পূজা না না মমি। নি: । :: :: গান। গানটি গান 111 না ? সমা ৎ কা বা • • খ- প লন। -“না”। - {1 ; দিয়া না" কা প" " - মুখ্য প্রায় মূসা : - : - : না? : - মাসা: * * - বা '; }{পন :: trs- ও শ্রাল ৭ বাংলা Tয শাহনামান ক্যাথ। না না না স। ন ন স হ া। মান বি। এমন: খাবি : এনামান - কর্নাল:। তা প্রায় ৫ শ -র।” घटस्य मृत्तो भदो नाति ॥ ন { মাস । লহানািহগান্তিী'সা: ৭ জন মানহান ২৭ তাবিত্র দণ: ২। " लोकस्यानन्यता कृष्णाचजीवस्यापि सा तथा । हितस्याकरणादीनां दोपाणां समुपस्थितिः ॥
४३ पञ्चमः पादः ॥ ब्रह्मकारणवादोयमस्मान्नैव समञ्जसः, । अधिकं भेदनिर्देशाद् ब्रह्म तस्मान्नदुष्टता ॥ प्रपञ्चस्य कृष्णात् परमात्मनो यद्यनन्यत्वं तदा प्रपञ्चान्तर्गत- त्वेन तत्त्वमस्यादिश्रुतिभिर्विशेषतश्च जीवस्यापि परमेश्वरादनन्य- त्वमुक्तं भवति स्वीक्रियते च, तथा च हिताकरणादिदोपप्रसक्तिई- श्यते परमात्मनि, जीवो हि परमात्माऽभिन्नः परमात्मा च सर्वतन्त्र- स्वतन्त्र इति हितरूपमेव जगत् कुर्यान्न कदाप्यहितरूपम् । कथं हि स्वाभिन्नस्य जीवस्य महास्रवकटाहेपु पाकं सहेत ब्रह्म ? । तस्माद- समञ्जसोय ब्रह्मकारणवाद इतिप्राप्ते- अभिधीयते-अधिकमिति । “य आत्मनि तिष्ठन्नात्मनोन्तरो य- मात्मा न वेद यस्यात्मा शरीरम्" "ज्ञाज्ञी द्वावजावीशानीशो" इ- त्यादिश्रुतिभिर्भेदनिर्देशाजीवापेक्षयाधिकमर्थान्तरं ब्रह्म। यथा ह्यचि- वर्गस्य परमात्मस्वरूपैक्य नोपपद्यते तथैव चेतनस्यापि दुःखैक- भागधेयस्य परमात्मस्वरूपैक्यं नोपपद्यते तस्मान्नोक्तदोषः । प्रप- चोपादानस्यापि परमात्मनो जीवदुःखसम्वन्धो न भवति जीवा- न्तर्यामित्वाद् यथा कायगतं दुःखं जीवात्मनं न स्पृशति तथा नचैता- वता भेदवादानुमतिरभिमन्तव्या सकलचिदचिद्वर्गस्य परमात्मतो- भिन्नत्वात् ॥ (अष्टममुपसंहारदर्शनाधिकरणम् ) "उपसंहारदर्शनान्नेति चेन्न क्षीरवति २४ देवादिवदपि लोके २५" कारकत्रातसाहित्यात कुलालादेहि कर्तृता। सवेत्यादिवाक्यैस्तु निस्सहाय प्रतीयते ॥ ततश्च ब्रह्मणो नैव स्त्रष्टुत्वमुपपद्यते । क्षीरदध्यादिदृष्टान्तैः स्रष्टत्वमुपपद्यते ॥ लोके हि कुलालस्य दण्डचक्रचीवराधनेककारककलापसाहा- य्येन घटनमृत्व दृष्टमिति ब्रह्मणोपि कारककलापसाहाय्येनेच प्रए- ॥
४४ विशिष्टानाधिकरणामालायाम्- चस्महत्वं वक्तव्यं न च तस्य कारककलापसाहाय्यमुपलभ्यते "म- देव सौम्यदमन आसीत्" इत्यादिश्रुनिभिः प्रपञ्चान्पूर्व तत्कंवल्य- निरूपणात् । तस्मात्परमात्मनः घट्टत्वं नापपद्यन- इत्युपपाधत-क्षीरत्यादिना । यथा चीरस्य दधित्यसम्पत्ती ना- न्यकारककलापापक्षास्ति यथा च जलस्य हिमभावनम्पत्तो नान्य- कारणकलापापेक्षास्ति नथा परमात्मनोपि प्रपञ्चपरिणाम नान्याप- क्षास्ति । मन्यं निमित्तवानीरं कुलालादिकमुपला भ्रान्नोसि यदि परमात्मा निमित्तकारण स्यात्तदा युक्तं स्यात्त चाचं नवमस्ति श्री- रादिवटुपादानकारणत्वांकारादिन्युपपद्यते परमान्मनः सत्यम ।। ( नयम कन्चनमगधिकरण ) "कृत्स्नासक्तिनिरवयत्वशब्दकोपा वा २६ अनेस्नु शब्दमदत्वात २७ आत्मनि चैवं विचित्राश्च हि २८ स्वपक्षदोपाञ्च २९ नवापता च तद्दर्शनात् ३० विकरणवान्नति चत्तदुक्तम् ३१ " परिणामः प्रपञ्चश्वेत कृत्स्नस्य परिणामिता । शुद्धाभावों,ऽशतश्चेत्स्यान्निरंशत्वस्य संक्षतिः ॥ अर्थेषु श्रुतिमूलेषु तर्कस्यानवकाशतः । विचित्रशक्तियोगेन सर्व ब्रह्माणि युज्यते ॥ ननु यदि प्रपञ्चरूपेण ब्रह्म परिणमते तदा कृन्नस्य ब्रह्मणः परिणामः स्यादिति शुद्धस्वरूपाभाव एव स्यात् । तथा च तस्य नियन्तृत्वमपि न स्यात् शुद्धस्यैव नियन्तृत्वात् । यद्यशनः परिणमते फेन चिदंशेन जीवरूपतया केनचिदंशेन प्राकृतरूपतया ततो निरं- शत्वं हीयेत श्रूयते च एकमेवाद्वितीयम्' इत्यादी निरंशत्वम् । अत्रोच्यते-अथेविति। श्रीतार्थेषु तर्कल्यावकाश एव नास्ति येना- क्तचोद्यमुत्पद्येत । तदुक्तम्-"अचिन्त्याः खलु येभावान तांस्तर्केण यो- जयेत्” किं च विचित्रशक्तिमति परमात्मनि सर्वसुपपद्यते । श्रूयते च "न तस्य कार्य करणं च विद्यते न तत्ममश्चाभ्याधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविक्री ज्ञानबलक्रिया च' इति । तस्मा- ।
. पञ्चमः पादः । निरंशस्यापि परिणामे न कोपि दोषः । प्रत्युत प्रधानस्यैव निर- चयवस्य स्वतन्त्रस्य महदाधारण परिणामो न सभवति प्रधाने विचित्रशक्तियोगाश्रवणातू ।। (दशमं प्रयोजनववाधिकरणम्) "न प्रयोजनवत्त्वात् ३२ लोकवत्तु लीलाकैवल्यम् ३३ वैषम्यनै ण्ये न सापेक्षत्वात्तथा हि दर्शयति ३४ न कर्माविभागादिति चेन्नाऽनादित्वादुपपद्यते चाप्युपलभ्यते च ३५ सर्वधर्मोपपत्तेश्च ३६" प्रयोजनविहीनस्य स्रष्टुत्वं नोपपद्यते । वैषम्यं निर्दयत्वं च विषमसृष्टितो भवेत् ॥ अवाप्ताखिलकामस्य स्रष्टुत्वं लीलया मतम् । सृष्टिस्तु सृज्यमानानां कर्मापेक्षणतस्तथा ॥ ननु सर्वशक्तियोगानुपपद्यते परमात्मनः नष्टत्वं तथापि "प्रयो- जनमनुदिश्य मन्दोपि न प्रवर्तते" इति न्यायाद् महति सृष्टिकार्ये प्रयोजनमनुद्दिश्य प्रवृत्तिरेव न संभवति न च परमात्मनः सप्रयोजन- त्वसंभावनास्ति, अवाप्तसमस्तकामत्वात् । यदि जीवप्रयोजनेन स- टिरुच्येत तदा जीवानुग्रहाय सृष्टिवक्तव्या न हि खनिग्रहप्रयोजनवत्त्वं जीवस्यापि संभवतीति जीवप्रयोजनानुकूल्येन सुखप्रदेव सृष्टिरभवि प्यतू न दुःखमयी जराजन्ममरणादिना । इत्यत्राच्यते अवाप्तेति-अवाप्तसमस्तकामस्यापि लीलया सृष्टिः संभवति यथा भूमिपालानामायासप्रदापि कन्दुकादिक्रीडा भवति लीलाय तथा । ननु सृष्टौ केचिद्दुःखिनो मादृशा जना केचित् सुखिनस्त्वाद्दशा जना इति सृष्टिवषम्यात्परमात्मनि वैषम्यं स्यात् । दुःखप्रदत्वेन निर्दयत्वं च स्यादत्राह सृष्टिस्त्विति सृष्टिर्हि सृज्यमान जीवानां कर्मापेक्षा भवतीति न परमात्मनो वैषम्यं नैण्यं वा । सु- कृतिनः सुखिनः सन्ति दुष्कृतिनो दुखिनः सन्तीति कोत्र परमात्मा- पचारः । तस्मात्सर्व सुसंपन्नम् ॥ ॥ इति पञ्चमः पादः समाप्तः ॥
विशिष्टाद्वैताधिकरणमालायाम्- अथ द्विनीयाध्यायस्य द्वितीयः पादः । (प्रथम रचनानुपपत्यधिकरणम) "रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च १ पयोम्बुवञ्चेत्तत्रापि २ व्यत्तिरे- कानवस्थितश्चानपेक्षत्वात् ३ अन्यत्रभावाञ्च न तृणादिवत् । पुरुषाश्मवदिति चेत्तथापि ५ अङ्गित्वानुपपत्तेश्च ६ अन्य- थानुमितौ च शशक्तिवियोगात् ७ अभ्युपगमेप्यर्था भावात् ८ विप्रतिषेधाच्चासमञ्जसम् १" उत्पत्तिः प्रकृतस्तत्र लयश्च जगतां मतः । दुःखमोहसुखात्मत्वादुभयोस्तुल्यता यतः । प्रधानस्य स्वतन्त्रस्य प्रवृत्तिः स्यात्पयोम्बुवत् । जडायाः प्रकृतेनैवं प्रवृत्त्याद्युपपद्यते । कृत्स्नस्य प्रपञ्चस्यैकमेव कारणमवश्याश्युपगन्तव्यमन्यथा क- चिदपि कारणत्वस्थितिर्नस्यात् परमाणूनामपि स्वावयवभ्य उत्प- त्तिस्तेषामपि स्वावयवेश्य इत्यनवस्थानात् । वेदान्तिमतप्रसिद्ध ब्रह्माएि निरस्तनिखिलहेयगन्धं सुखदुःखमोहात्मकस्य प्रपञ्चस्य कारणं न भवितुमर्हति सदृशयोरेव भवितव्य कार्यकारणभावेन नहि मृघटस्य सुवर्ण कारणमिरि कस्य चिन्मतिर्भवति तत्कस्य हेतोः? मृद्घटापेक्षया विलक्षणत्वात्सुवर्णस्य । तथा च जगतां प्रपञ्चस्य सुखदुःखमोहात्मकस्य सुखादिकारणीभूतगुणत्रयसाम्यावस्थालक्ष- णायाः प्रकृतेरेवोत्पत्तिर्युक्ता तत्रैव च लय इति । न च वाच्यम्-चे- तनानधिष्ठातायाः प्रकृतेः प्रवृत्तिरेव न संभवति येन कारणत्वं स्या- दिति पयोम्बुवदुपपत्तेर्यथा क्षीरस्य चेतनानधिष्ठितस्यापि दधिभावेन परिणामलक्षणा प्रवृत्तिरुपपद्यते यथा च वारिदविमुक्तस्य जलस्य स्थानभेदेन चेतनानधिष्ठितस्यापि तत्तत्फलरसाद्याकारणपरिणाम- रूपा प्रवृत्तिरनुभूयते तथा जडस्य प्रधानस्थापि चेतनानधिष्ठित- षष्ठः पादः । ४७ स्यापि महदाद्याकारेण परिणामलक्षणा प्रवृत्तिरुपपद्यते न कोपि दोषः। अत्राभिधीयते-जडाया इति, जडायाः प्रकृतेरेवं स्वातन्त्र्यण न प्रवृत्त्याद्युपपद्यते । न हि जडाया मृत्तिकायाः कुलालाधिष्ठान विना घटाकारेण परिणामःसंभवति।किंच साम्यावस्थानां सत्त्वादीनामने- कालां कारणत्वाभ्युपगमात् परमाणुकारणवाद इवात्राप्यनेककारणत्वं दुर्निवारमेव । तारादीनामपिदध्याद्याकारपरिणामे चेतनाधिष्ठितत्व- मपक्षितमेवेति दुष्टं निदर्शनम् । तृणादीनामपि गवादिक्षितानामेव क्षीराकारेण परिणामोस्ति यदि स्वातन्त्र्येण परिणामःस्यात्तदा बली- वर्दभक्षितानामपि क्षीराकारेण परिणामः स्यात् । तस्मात् परमपुरु- पाधिष्ठितमेव प्रधानं महदाद्याकारेण परिणमते तच्च प्रधान परम- पुरुषपरिणाम एव तस्मिन् भगवति विचित्रशक्तियुक्ते सर्वमसंभावि- तमप्युपपद्यते । तस्मात्परमात्मत एवोत्पत्तिस्तत्रैव च लयः प्रपञ्च- स्य । तथैव श्रूयते “यतो वा इमानि भूताति जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति” इत्यादि । १ (द्वितीयं महदीर्घाधिकरणम्) "महद्दीवद्वा ह्रस्वपरिमण्डलाभ्याम् १० उभयथा न कर्मातस्तद- भावः ११ समवायाभ्युपगमाच्च साम्यादनवस्थितेः १३ नित्यमेव च भवात् १३ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् १४ उभ- यथा च दोषात् १५ अपरिग्रहाच्चात्यन्तमनपेक्षा १६" परमाणुचयेनापि नोत्पत्तिर्जगतां मता। प्रेरकस्यानिरूप्यत्वादनस्थादिदोषतः ॥ तार्किकमहाशयैः परमाणूनामेव प्रपञ्चोपादानत्वमुच्यते युक्त- मेवैतत्स्थूलदर्शिनाम् । तर्केणैव चेद्विचारणीयं तदा सर्व स्वावयवा- रब्धमुपलभ्यत इति परमाणुभिरपि स्वावयवारब्धैर्भवितव्यं तथा तैरपि स्वावयवारब्धैरिति क्वचिदपि कारणताविश्रान्तिनस्यादित्यन- वस्था प्राप्ता । यदि श्रद्धाजाड्यन स्वावयवारब्धत्वव्याप्ति परित्यज्य ४८ विशिष्टाद्वैताधिकरणमालायाम्- परमाणुपु कारणताविश्रान्तिरभ्युपगम्यते तदा वेदान्तवेद्ये परमात्म- न्येव किमिति कारण नाविश्रान्तिनीभ्युपगम्यते । अन्यथा विनिगम- नाविरहातू परमाणुष्वपि कारणताविधान्तिनस्यादवं केनापि त्रस- रेणुप्यपि कारणताविश्रान्तिरभ्युपगम्येत । परमाणूनां च सावयवत्वा- भावन तेप संयोगाद् घणुकाद्युत्पत्तित्र न संभवति । चि चाणुवं घणुकेप्यस्ति कृतं परमाणुस्वीकारेण । विलक्षणमिदमुच्यते यत्प्रथममहत्त्वं प्रति सचैवकारणमणु- परिमाणस्य कारणत्वाभावात् । एवं सर्वत्र सङ्खव परिमाणं प्रति कारणं स्यात् । किं च परमाणुसंयोगकारणीभूतस्पदं प्रति जीवादृष्टं कारणमुच्यते अदृष्टानां च परमाणुगतत्वं न संभवति परमाणूनां जड़- त्वात् । जीवगतादृष्टानां च कायं परमाणुसंयोगकारणीभूतस्पन्दं प्रति कारणत्वं स्यादन्यथा देवदत्तसमवेतादृष्टानां यज्ञदत्तसमवतसुखादि- कारणत्वमपि स्यात् । यदि च जीवपुण्यपापानुष्ठानजन्यादृष्ठनां पर- माणौ समवायस्तदा सर्वदोत्पाददात्वप्रसंगः । जीवस्य चादृष्टसम्ब- न्धरिक्तत्वात्सुखदुःखादिभोगभाजित्वं न स्यात् । यदि कयां चिद- इष्टानां परमाणौ समवायः केषां चिच्च जीव इन्युच्यते तदापि केषा- मदृष्टानां व समवायः स्यादिति विनिगमनाविरहः । सृष्टिकारणी- भूतानां जीवादृष्टानां परमाणों समवायो यद्युच्यते तदापि केपामहटा- नां सृष्टिकारणत्वमिति विनिगमनाविरहः । अदृष्टानां-स्थितिश्च समवायसम्बन्धेनोच्यते समवायस्यापि सम्बन्धान्तरणेत्यनवस्थादोपः । समवायश्च नित्य उच्यते सम्बन्धनि- त्यत्वं सम्बन्धिनित्यत्वाधीनमित्यदृष्टानां नित्यत्वेऽष्टप्रेरितपरमाणु- संयोगानां नित्यत्वेन प्रपञ्चनित्यत्वापत्तिर्न चेष्टापत्तिरपि । रूपादिम- त्त्वात्पटादीनामनित्यत्वव्याप्तेः परमाणूनामप्यनित्यत्वं विनाशित्वं च स्याद्रूपादिमत्त्वात् । यदि रूपादिहीनाः परमाणवस्तदा घटादी रूपायुपलब्धिर्न स्यात् कार्यगुणानां कारणगुणपूर्वकत्वस्वीकारात। किंबहुना सर्वात्मना वेदान्तवहिर्भूतोयं दोपैकभूमिरापातरमणीयः परमाणुकारणवादस्तन्नामग्रहणयोग्योपि नास्तीत्युपरम्यते ॥ (तृतीय समुायाधिकरणम्) "सनुदाय उभयहेतुकेपि तदप्राप्तिः १७ इत्तरेतरप्रत्ययत्वादुपपन्नोमीत चेन्न सघातभावानिमित्तत्वात् १८ उत्तरोत्पादे च पूर्वनिरोधात् १९ पष्टः पादः । ४९ ॥ "असति प्रतिज्ञोपरोधो योगपद्यमन्यथा २० प्रतिसख्यापति- सङ्ख्यानिरोधाप्राप्तिरविच्छेदात् २१ उभयथा च दो- पात् २२ आकाशे चाविशेषात् २३ अनुस्मृतेश्च २४ नासतोऽदृष्टत्वात् २५ उदासीनानामपि चैवं सिद्धिः २६" दुष्टे क्षणिकवादेपि परमाणुपरिग्रहः । जगतः कारणत्वेन, युक्तयुक्त्यात्र दुष्टता ॥ क्षणिकत्वं च भावानां कथं चिन्नोपपद्यते । अविद्यादेर्न हेतुत्वमित्यादि स्वयमूह्यताम् । परामाणुकारणवादाविशेषात्सौगतनिराकरणसमयोयम् । द्वि- विधाः सौगता वाह्यार्थास्तित्ववादिनः सर्वशून्यवादिनश्च । वाह्या- ऑस्तित्ववादिनां वादेपि परमाणूनामेवोपादानकारणत्वं तञ्चोक्तयु- क्त्यैव निरसनीयम् । प्रपञ्चितं चैतत्पूर्वाधिकरणे । क्षणिकत्वं च तैर्भावानां परमाण्वादीनामुच्यते संहितैश्च परमाणुभिः पृथिव्यादेरु- त्पत्तिरभिधीयते तत्र क्षणविनाशिनां परमाणूनां परस्परं संहतिरेव कथं स्यादिति महत्यनुपपत्तिः । क्षणिकानां च विज्ञानविषयत्वमपि नोपपद्यते यद्विषयेणेन्द्रियसंयोगे ज्ञानमुत्पन्नं स तु तस्मिन्नेव क्षण नष्टः, तदिन्द्रियसंयोगोत्पन्नं च ज्ञानं नान्यं विषयीकर्तुमर्हत्यन्यथा घटेन्द्रियसंयोगोत्पन्नेन ज्ञानेन पटोपि विषयी क्रियेत । नन्वविद्यया क्षणिकानामपिभावानां स्थिरत्वेन ग्रहणात् तज्ज्ञान- मुपपद्यते नष्टाद्भिन्नोपि विषयोऽविद्यया नटात्मत्वेन गृह्यते यथा स एवायमिमिति प्रत्यभिज्ञायाम् । तथा चाविद्यया स्थिरत्वादिगोचराः संस्कारा उत्पाद्यन्ते तैश्च चित्ताभिज्वलनरूपं विज्ञानं ततश्च पृथिव्या- दिकमित्यविद्यया सर्वमुपपद्यत इति चेन्न-अविद्यादीनां भूतभौतिक- सङ्घातभा प्रत्यकारणत्वात् । अस्थिरे स्थिरत्वबुद्धिलक्षणा ह्यविद्या स्थिरत्वग्रहणे हेतुर्भवति न तेपां परस्परसंहतो,अन्यथा शुक्तिरजतमा- हिकयाऽविद्यया शुक्रपि केनापि संहतिः स्यात् । किं च पूर्वक्षणस्य - ६० विशिष्टाद्वैताभिकरणमालायाम्- - विनष्टस्योत्तरक्षणं प्रति कथं कारणता स्यात् । अभावस्य च हेतुत्वे सर्व सर्वत्र सर्वदा चोत्पद्येत । यदि पूर्वक्षणवर्तित्वमात्रं हेतुस्तदा घटक्षणेनैव सर्वोत्पत्तिप्रसङ्गः । यदि सजानीयं प्रत्यय हेतुत्वं तदा- प्येकवीजक्षणेन सकलाङ्कुरोत्पत्तिः प्रसक्ता । इत्यादयो यहवो दोषाः सन्ति ते स्वयमूह्याः कृतमत्र तेषां साकल्येन निदर्शनेन यतास्य सन्दर्भस्याधिकरणयोजनैव प्रयोजनम् ॥ (चतुर्थमुपलध्याधिकरणम) "ना व उपलब्धेः २७ वैधाच्च न स्वप्नादिवत् २८ न भावोनुपलब्धेः २९” ज्ञानमेवार्थरूपेण परिणाम्याऽऽकृतिं गतः । नान्यथा तत्प्रकाशः स्यात्तस्माद् वाह्यं न विद्यते ॥ उपलब्ध्यास्ति बाह्यं भो ज्ञानासिद्धेश्च तद्विना ॥ विज्ञानवादी योगाचारः प्रत्यवतिष्ठते-बाह्यप्रकाशाय ज्ञानमव- श्यमभ्युपगन्तव्यं तथा च विज्ञानेनैव सर्वोपपत्तेः कृतं वाद्यपदार्थ- स्वीकारेण, ततश्च विज्ञानमेव वाह्याकारेण परिणमते साकारत्वात् । तव मतपि विज्ञान प्रकाशत एव प्रकाशश्च निराकारस्य नैव संभवती- त्याह नान्यथेति साकारत्वं विनेत्यर्थस्तस्मात् साकारस्य विज्ञानस्य वाहाकारेण परिणामे काप्यनुपपत्तिर्नास्ति यदि वाह्य स्यात्तदा विज्ञानाऽसत्त्वकालेप्युपलभ्येत न चोपलभ्यते तस्मानास्ति याद्यम् । अत्रोच्यते उपलव्ध्यास्तीति-यद्यपि विज्ञानासत्त्वकाले वाद्य नानुभूयते तथापि विज्ञानसत्त्वकाले विज्ञानाद् भेदेन बाह्यमनुभूयत एवा अन्यो गौरिति शब्दः, अन्यदूगौरिति ज्ञानम,अन्यो गौरिति विषय- इत्यवं शब्दज्ञानविषयाणां भेदस्याऽऽपामरप्रसिद्धः। किं च ज्ञानं हि स- कर्तृकं सकर्मकं चेति बाह्यमपि तस्य कर्मेति बाह्यविज्ञानसिद्धिरेव न संभवति वाा विना। ननु स्वप्नज्ञानं विषयं विनैव स्वसत्तां लभत इति चेन्न प्रत्यक्षाभासत्वात्तस्य निद्रादिदोपजन्यत्वात् । अन्यथा स्वप्नशा- नोपलव्धविषयस्य कार्यकारित्वं स्यात् । तस्मादस्ति वाह्यम् । यदि पष्ठः पादः । ६१ बाह्य वस्तु न स्यात्तदा घटज्ञानशुक्तिरजतज्ञानयोः किमिति विशेषः स्थादस्ति च विरोवो भ्रमत्वाभ्रमत्वरूपः। भ्रनाभावश्च विषयसत्त्वनि- वन्धन एव तस्मात्सिद्धमस्ति वाह्यामिति ॥ . (पञ्चमं सर्वथानुपपत्यधिकरणम्) सर्वथानुपपत्तेश्च ३०" शून्यमेव पराकाष्ठा मोक्षश्वाकृतकत्वतः । सत्त्वं प्रतीयते भ्रान्त्या, नोपपत्तेरभावः ॥ शुन्यवादी माध्यमिकः प्रत्यवतिष्ठते-शून्यमेव परमार्थस्तस्या- कृतकत्वाच्छून्यमेव मोक्षः । कृतकस्य कस्य चिन्मोक्षत्वस्वीकारे मो- क्षानित्यत्वं स्याद् घटादिवत् । यदि पदार्थानामुत्पत्यादिकं निरूपयितुं शक्येत तदा तेषां सत्त्वमपि स्यानचैवमस्ति तथा हि-न हि घटस्य भावादुत्पत्तिरस्ति मृत्पिण्डोपमर्दनैव घटोत्पत्तेरन्यथा घटकालेपि मृत्पिण्ड उपलभ्येत । न चाप्यभावात्-अभावादुत्पन्नो घटोऽभाव- रूप एव स्यात् । किं च स्वत उत्पत्तौ स्वात्माश्रया दोपः । परतश्चो- -त्पत्ती परत्वाविशेषात्सर्वं सर्वस्मात्पद्येत । तस्माच्छ्न्यमेव तत्त्वं सत्त्वं तु भ्रान्त्या प्रतीयते । अत्रोच्यते-नोपपत्तेरभावत इति । सर्वशून्यत्वस्योपपत्तिरेव ना- स्तीत्यर्थः । येन प्रमाणेन शून्यत्वं साध्यते तस्यापि शून्यत्वे तस्य साधकत्त्वं न स्याद् यदि तस्य साधकत्वसमर्थनाय सत्त्वं स्वीक्रियते तदा सर्वशून्यवादभङ्गः । किं च सर्वस्य शून्यत्वे घटादीनां शुक्तिरज- तादीनां विशेपो न स्याद् घटादिवच्छुक्तिरजतादेरपि कार्यकारित्वं स्याच्छून्यत्वाविशेषात् । तस्मादुपपत्तेरभाधान शून्यत्वं कथमपि सिद्ध्यति सर्वानुभवविरोधात् ॥ 4 (षष्टमकस्मिन्नसंभवाधिकरणम्) "नैकस्मिन्नसंभवात् ३१ एवं चात्माकाय॑म् ३२ न च पर्यायादप्य- विरोधो विकारादिभ्यः ३३ अन्त्यावस्थितेश्चोभयनि त्यत्वादविशेषः ३४" ५२ विशिष्टद्विताधिकरणमालायाम्- परमाणुमतं जैनमुक्तरीत्या निरस्यताम् । अस्तित्वं चापि नास्तित्वमेकत्रैव न युक्तिमत् ॥ वपुःपरिमिति वः पूर्त्यऽभावान्न युज्यते । अविरोधो न पर्यायादनित्यत्वादिदोषतः ॥ जैनैरपि परमाणूनामेव प्रपञ्चोपादानत्वमभ्युपगम्यते तश्च द्विती- याधिकरणन्यायेन निरसनीयम्, वैशेषिकमतापेक्षयापि दुष्टमुच्यते जैनैर्यदेकस्वभावेश्य एव परमाणुश्य पृथिव्यादिकमुत्पद्यतं पृथि- व्यादीनां परस्परभेदोहि परिणामकृत इति, एवं हि मृत्पिण्डादेव घट- वत्पटोप्युत्पद्येत घटपटयोर्विशेपो हि परिणामकृत एव भविष्यति न चैवं संभवति तस्मादयुक्तमिदं मतम् । किं च स्यादस्ति, स्याम्नास्ति, स्यादस्ति च नास्ति च, स्याद- व्यक्तम्, स्यादस्ति चाव्यक्तं च, स्यान्नास्ति चाव्यक्तं च, स्यादस्ति च नास्ति चाव्यक्तं च, इति सप्तभङ्गीनयेन सर्वमनैकान्तिकमुच्यते। तरी कोयते-गाकस्लिर झाले परस्परविरुद्धमस्तित्वं नास्तित्वं च सम्भवति । किच तैदेहपरिमाणसमानमानोऽसङ्ग्यातप्रदेशो जीव इत्युच्य- ते तदपि विरुद्धम्, एवं हि दन्तिशरीरावस्थितस्यात्मनः पिपीलिका- कायप्रवेशे ह्यपूर्तिः अपरिपूर्णता स्यात् सकलावयवैरात्मनःपिपीलि. काकाये प्रवेशोनस्याद् दन्तिदेहानिर्गस्यात्मनः पिपीलिकाकायापेक्ष- या पृथुलत्तरत्वादित्यर्थः । सावयवत्वाचानित्यत्वं स्याद्घटादि- वदात्मनः । पर्यायातू-संकोचविकासलक्षणावस्थान्तरापत्तेरप्य- विरोधो न सम्भवति देहपरिमाणात्मवादे । नाम-तस्यैवात्मनः करिकायप्रवेशे विकासो भवति पिपीलिकाकायप्रवेशे च संकोचो भवतीत्यभ्युपगमेपि विरोधस्तदद्वस्थ एव, संकोचो विकासश्च वि- कार एवति तत्प्रयुक्तमनित्यत्वादिकं प्रसज्येतैवेत्यर्थः ॥ (सप्तमं पशुपत्यधिकरणम् ) "पत्युरसामञ्जस्यात् ३५ अधिष्ठानानुपपत्तेश्च ३६ करणवच्चेन्न भोगादिभ्यः ३७ अन्तवत्वमसर्वज्ञता वा ३८" पष्ठः पादः ॥ ५३ . पशुपतेर्मतं हेयं स्पष्टं वेद विरोधतः । पत्युनिमित्तहेतुत्वं तर्कान्न ह्युपपद्यते ॥ जैनादिमतवत् पशुपतिमतमपि सर्वात्मना हेयमेव वेदविरुद्ध- त्वात् । चतुर्विधाः पशुपतिवादावलम्बिनः-कापालाः कालामुखाः पाशुपताः शैवाश्चेति, सर्वे चैते वेदावरुद्धराद्धान्तावलम्बिनः । का- पालानां मुद्रापत्कादिधारणं वेदविरुद्धम् । कालामुखानां कपाल पात्रभोजनादिकं लोकनोपि विरुद्धमशुद्धं च । ते चैते सर्वएवानुमा- नात्पशुपति निमित्तकारणं सङ्गिरन्ते । अनुमानं हि दृष्टानुसारेण प्रसरतीति लोके हि कुलालादीनां सशरीराणामेव निमित्तकारणत्व- मुपादानाधिष्ठानं च दृष्टमिति पशुपतेरपि सशरीरस्यैव निमित्तका- रणत्वमुपादानाधिष्ठान चोपपद्येत । न चेष्टापत्तिः सशरीरत्वानभ्यु- पगमात् । सशरीरत्वाभ्युपगमेपि शरीरं तन्नित्यमनित्यं वा नाद्यः शरीरस्य सावयत्वेपि नित्यत्वे प्रपञ्चस्यापि नित्यत्वं स्यात् । नाप्य- नित्य तत्कारणीभूतशरीरान्तरापेक्षायामनवस्थानात् । अनपेक्षायां च कर्तृकर्मविरोधो लोकपिच घटादिकमन्यानपेक्षमुत्पद्येत । पशुपत्तिः सव्यापारो वा निर्व्यापारो वा नाद्यः-अशरीरस्य सव्यापारत्वविरो- ; धात् । न द्वितीयो निर्व्यापारस्य कर्तृत्वविरोधात् । ननु यथाऽशरी- रस्यैर जीवस्य करणकलवराद्यधिष्ठानमुपलभ्यते तथा पशुपतेरप्य- शरीरस्य प्रधानाधिष्ठानं न विरोधावहमिति चेन्न जीवस्य करणक- लेवराद्यधिष्ठाने कर्मैव कारणम् । चेत्पशुपतेरपि प्रधानाधिष्ठाने क- में कारणं तदा सृष्टिसंहारादिदुःखभाजित्वमसर्वज्ञत्वं च स्यादित्य- युक्तं पशुपतिमतम् ॥ .. (अष्टममुत्पत्यसंभवाधिकरणम) "उत्पत्यसंभवात् ३९ न च कर्तुः करणम् ४० विज्ञानादि- भावे वा तदप्रतिषेधः ४१ विप्रतिषेधाच्च ४३" मतं भागवतं दुष्टं जीवाद्युत्पत्तिभाषणात् । ना, ऽविज्ञानेन भावस्य जीवोत्पत्तिनिषेधतः ॥
६४ विशिष्टाद्वैताधिकरणमालायाम्- उक्तकापिलादिमतानां निरासप्रक्रमेण कस्य चित्स्थूलदर्शिनः प- श्वरात्रोक्तप्रक्रियायामपि दृष्टिः कुपिता स्यादिति तन्निरासाय शक्य- ते मतमित्यादिना। “न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोयं पुराणों न हन्यते हन्यमाने शरीरे" इत्यादिश्रुतिभिर्जीवस्य नित्यत्वमुच्यते, भागवतमते च तस्य नित्यस्यापि जीवस्योत्पत्तिरभिधीयते। यथा परब्रह्मभूता- द्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसझं मनो जायते प्रद्युम्नादनिरुद्धसंज्ञाऽहद्वारा जायत इति । सङ्कर्पणाजीवा- प्रद्युम्नसंज्ञस्य मनसश्चोत्पत्तिन सम्भवति “एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च " इति परस्मादेव ब्रह्मणो मनस उत्पत्तिथ- वणात्तस्माद् दुष्टम-अयुक्तं पञ्चरात्रप्रक्रियात्मकं भागवतं मत- मितिप्राप्ते- उच्यते-नाऽविविज्ञानेनेति । भागवतं मतं न दुष्टं भावस्य-तेपां प्रतिपादनभावस्य अविज्ञानेनाविज्ञानात, भावमविज्ञायैव त्वया दुष्टत्वमुच्यत इत्यर्थः। वासुदेवाख्यं परं ब्रह्मैव स्वलीलया चतुर्धा भवति वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धश्चेति । स्वरूपाद्वासुदेवा- ख्यादनन्तरं सर्गावस्थादौ सङ्कर्षणरूपपरिग्रहाद् वासुदेवात्सङ्कर्षणो जायत इत्युक्तम् । तदनन्तरं प्रद्युम्नरूपपरिग्रहात्सङ्कर्षणात्प्रद्युम्नो जायत इत्युक्तम् । तदनन्तरमनिरुद्धरूपपरिग्रहात्प्रद्युम्नादनिरुद्धो जात इत्युक्तम् । ब्रह्मात्मकत्वं च सर्वस्य त्वयाप्यङ्गीक्रियते इति को दोषो भागवतमते । किं च तस्मिन्नपि तन्ले जीवोत्पत्तिर्निपिद्वैव यथा- "अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते । व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स हनादिरनन्तश्च परमार्थेन निश्चितः" इति । तस्माद्वेदान्तसंमत- मिदं भागवतमतम् ॥ ॥ इति षष्ठः पादः समाप्तः ॥ A सप्तमः पादः । ॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ (प्रथमं वियदधिकरणम्) "न वियदश्रुतेः १ अस्ति तु २ गौण्यसंम्भवाच्छब्दाच्च ३ स्याच्चैकस्य ब्रह्मशब्दवत् ४ प्रतिज्ञाहानिरव्यतिरेकात् ५ शव्देम्यः ६ यवाद्विकारं तु विभागो लोकवत् ७ एतेन मातरिश्वा व्याख्यातः ८ असंभवस्तु सतोनुपपत्तेः ९” वियदुत्पद्यते नो वा? नाऽमूर्त्तत्वात्तथाऽश्रुतेः । उत्पद्यते श्रुतेः सत्त्वात्तथैव पवनो मतः ॥ वेदवाह्यवादनिरासानन्तरं स्वमतदाढाय तृतीयपादमारभते भगवान् वादरायणो न वियदश्रृंतरित्यादिना । वियदुत्पद्यते न वेति सन्देहः किं युक्तम् ? नोत्पद्यते इति । यतः सर्वगतस्य निरवयवस्य कथमिवोत्पत्तिः सम्भवेदन्यथात्मनोप्युत्पत्तिः स्यात् । अश्रुतेश्च सृष्टिप्रकरणे वियदुत्पत्तिः श्रूयतेपि नो । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” इत्यादिपु तु श्रूयमाणा वियदुत्पत्तिर्वाध्यते । कि वान गौण्युत्पत्तिः समाधीयते तस्मान्न वियदुत्पद्यते । एवं पवनोपि नोत्पद्यते । अनोच्यते-उत्पद्यते इति । " तस्माछा एतस्मादात्मन आकाशः सम्भूतः इति स्पष्टतरं वियदुत्पत्तिः श्रूयते न च वाधाकाभावे गौणत्वाश्रयणं युक्तम् । तस्मादुत्पद्यते वियत् । एवं मातरिश्वा पवनोप्युत्पद्यते पवेति शेयम् "आकाशाद्वायुः” इति श्रूयमाणत्वात् ॥ (द्वितीयं तेजोधिकरणम्) "तेजोतस्तथा ह्याह १० आपः ११ पृथिवी १२ अधिकाररूपशब्दान्त- रेभ्यः १३ तदभिध्यानादेव तु तल्लिङ्गात्सः१४ विपर्ययेण तु क्रमोत ५६ विशिष्टाद्वैताधिकरणमालायाम्- उपपद्यते च १५ अन्तरा विज्ञानमनसी क्रमण तल्लिङ्गादिति चेन्नाविशेषात् १६ चराचरव्यापाश्रयस्तु स्यात्तव्य- पदेशो भाक्तस्तद्भावभावित्वात् १७" उत्पत्तिस्तेजसो वायोस्तेजसोऽपां भुवोम्भसः । स्वपूर्वस्माच्छुतेर्जन्म तथैव महदादिषु । तदभिध्यानलिङ्गाभ्यां परस्माद्ब्रह्मणो जनिः ॥ तेजःप्रभृतीनां वाय्वादिभ्य उत्पत्तिर्वा परस्माद् ब्रह्मणो वा ? किं युक्तम् ? वाय्वादिभ्य इति, वायोस्तेजस उत्पत्तिस्तेजसोऽपामुन्प- त्तिरम्भसोऽझ्यो भुवः पृथिव्या उत्पत्तिर्भवति तथैव श्यते"माका- शाद्वायुयोरग्निरनिराप अद्भ्यः पृथिवी" इति, तस्मात् स्वपूर्वस्माज- न्मोक्तश्रुतेः । तथैव महदादीनाममि स्वपूर्वस्माजन्म यथा प्रकृतेर्महान् महतोऽहङ्कार इति । ब्रह्मत उत्पत्तिस्वीकार उक्तश्रुतिवाधः स्यात् । अत्रोच्यते तदभिध्यानलिङ्गाभ्यामिति । सारम्भभवं तदभि- ध्यानं बहुभवनानुकूलः सङ्कल्पः श्रूयते " एकोहं बहुस्याम्" इति तश्च तदभिध्यानं तस्य परमात्मन पर लिङ्ग तस्मिन्नुपपत्तन वाय्वा- दीनां प्रधानादीनां वा लिङ्गं तेपु बहुभवनसंकल्पस्य वाधात् । तथा च वायुशरीरकात्परस्माद्रह्मणस्तेज उत्पद्यते, प्रधनशरीरकाश्च महानु- त्पद्यत इति परस्माद्रह्मण एव सर्वेपामुत्पत्तिवेदान्तसमता । वायु- प्रधानादिशब्दा अपि वाय्यादिशरीरकस्य तस्य परमात्मन एव स वाचकाः ॥ (तृतीयमात्माधिकरणम्) "नात्मा श्रुतेनित्यत्वाच्च ताभ्यः १८" उत्पत्तिः श्रुतियुक्तिभ्यां जीवस्य वियदादिवत् । नित्यत्वाच्छुतिवाक्याच नात्मनो जन्म युज्यते ॥
सप्तमः पादः। ५७ जीवस्योत्पत्तिर्युक्ता नवोति विचार्यते किं युक्तम्?जीवस्योत्पत्ति- रस्त्येव तथैव श्रूयते-“यतः प्रसूता जगतः प्रसूतिः । तोयेन जीवान् विससर्ज भूम्याम्” इति । युक्तिरप्यस्ति यदि परस्माद्रह्मणो जीव- स्योत्पत्तिर्न स्यात्तदैकविज्ञानन सर्वविज्ञानप्रतिज्ञा विरुध्येत । किं च "यतो वा इमानि भूतानि जायन्ते” इति श्रुतिः सामान्यतः सकल- प्रपञ्चस्योत्पत्तिमभिदधती जीवोत्पत्तिमपि क्रोडी करोति । अत्रोच्यते-नित्यत्वादिति । जीवस्य श्रुतेनित्यत्वं जन्मरहितत्वं च बोध्यते-“नित्यो नित्यानां चेतनश्चेतनानाम्" "न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोय पुराणो न हन्यते हन्यमाने शरीरे” इति । नन्वेवमेकविज्ञानेन सर्व- विज्ञान कथं स्यादत्रोच्यते जीवस्यापि कार्यत्वात् । हन्तवमुत्पत्तिः स्वीक्रिता, नेत्युच्यते यतः कार्यत्वं हि द्रव्यस्यावस्थान्तरापत्तिरेव तज्जीवस्याप्यस्ति ब्रह्मैव जीवस्वरूपं भवतीति सिद्धान्तात् । यथा हि यियदादीनां स्वरूपान्यथाभावलक्षणोत्पत्तिरस्ति तथा जीवस्य ना- स्तीति स्वरूपान्यथाभावः प्रतिपिध्यते "न जायते” इत्यादिना, न त्व- वस्थान्तरापत्तिरपि निषिध्यते येन जीवस्य ब्रह्मकार्यत्वं न स्यात् । तथा च जीवस्याप्युक्तस्वरूपब्रह्मकार्यत्वाद् युक्तमेकविज्ञानेन सर्व- विज्ञानम् । यतः प्रसूता" इति श्रुतिरप्युक्तलक्षणकार्यत्वबोधन- परा । "तोयेन जीवान्" इत्यौपचारिकः सर्गः शरीरमर्गातू, शारीरि- कोहि सर्ग आत्मन्युपचयते यथा पुनर्जातोस्मीत्यादी । १ (चतुर्थ ज्ञाधिकरणम्) "ज्ञोऽतएव १९ उत्क्रान्तिगत्यागतीनाम् २० खात्माचोत्तरयोः २१ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् २२ स्वशब्दोन्मानाभ्यां च २३ अविरोधश्चन्दनवत् २४ अवस्थितिवैशेप्यादिति चेन्नाभ्युपगमा- धृदि हि २५ गुणाढा लोकवत् २६ व्यतिरेको गन्धवत्त- था च दर्शयति २७ पृथगुपदेशात् २८ तद्गुणसारत्वा- नु तद्व्यपदेशः प्राज्ञवत् २९ यावदात्मभावित्वाच्च न दोपस्तदर्शनात् ३० पुंस्त्वादिवत्त्वस्य सतो- N । ५८ विशिष्टाद्वैताधिकरणमालायाम्- भिव्यक्तियोगात् ३१ नित्योपलव्ध्यनुपल- ब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ३२" जीवः किं ज्ञानमात्रं वा ज्ञाता ज्ञानगुणोथ वा, । ज्ञानमात्रं श्रुतेर्युक्तं, मैवं निप्फलतेन्द्रिये ॥ ज्ञानाभावात्सुषुप्त्यादौ जीवो ज्ञानगुणस्ततः, । सर्वदेहे विभुर्ज्ञानाद् देहमाने विनाशिता, ॥ ज्ञातृत्वं जीवरूपं, नो जाड्यं न ज्ञानमात्रता, उत्क्रमणादिभिश्वाणुर्ज्ञानं चन्दनवच्छ्रुतेः ॥ संप्रति जीवस्वरूपपरिमाणयोर्विचिकित्सा समुपस्थिता-कि जीवो शानमा किं वा ज्ञानगुणः (अचित्स्वरूप एवागन्तुकचैतन्य- गुणयोगी) किं वा ज्ञातेति । तत्र कपिलादिराह ज्ञानमात्रं जीवः, कुतः? श्रुतेः-श्रुतिहिं ज्ञानमात्रत्वमाह जीवस्य यथा-"विज्ञानं यज्ञं तनुते” इति । आत्मशब्दस्थाने विज्ञानशब्दश्च श्रूयते “यो विज्ञाने तिष्ठन्" इति यः परमात्मा विनाने-जीवे तिष्ठन्नित्यर्थः । तस्माज्ञा- नमात्रं जीवः । अत्राह तार्किकः-मैवमिति । यदि जीवो मानमात्र स्यात्तदा करणकलापं विनव तस्य घटाद्यर्थजातप्रतिभासः स्या- दिति निष्फलतास्यादिन्द्रिये इन्द्रियाणाम् । किं च ज्ञानमात्रत्वे सुषुप्त्यादावपि ज्ञानं स्यान्न हि स्वरूपं कदा चिदप्यपचीयते ?। न हि सुषुप्त्यादी ज्ञानमुपलभ्यत इति ज्ञानगुणो जीवः । पापाणक- ल्पोऽचितस्वरूप आगन्तुकचैतन्यगुणको जीव इत्यर्थः । अत एवे- न्द्रियाणां साफल्यं सुपुप्त्यादौ च ज्ञानाभाव उपपद्यते । किं च विभुपरिमाणो जीवः । अणुपरिमाणत्वे सकलदेवर्तिसुखदुःखादी- नां ज्ञानं न स्यादेहपरिमाणत्वे च विनाशिता स्याद् घटवतू-इत्याह सर्वदेहे विभु नादिति सर्वदेहे ज्ञानाद्विभुर्व्यापकः सर्वत्र, न तु देह- मात्रे विभुरित्यन्वयः कार्यः। अत्रोच्यते ज्ञानृत्वं जीवरूपमिति । जीवस्वरूप न जाड्यं जडत्व, नापि ज्ञानमात्रता, किं तु ज्ञातृत्वं जीवस्वरूपम् । कुतः? श्रुतेः "अथ AR सप्तमः पादः । ५९ तिः पुरुषः . यो वेदेदं जिघ्राणीति स आत्मा” "न पश्यो मृत्यु पश्यति" "विज्ञा- तारमरे केन विजानीयातू" "योयं विज्ञानमयः प्राणेषु हृद्यन्तज्यों- "तस्माद्वा एतस्माद्विज्ञानमयातू इत्याद्या: श्रुतयो जीवस्य ज्ञातृत्वं प्रतिपादयन्ति । यथा गोत्वं न गोस्वरूपं न वा गो- भिन्नं भेदेन प्रतीत्यभावात्तथा ज्ञान जीवस्वरूपमपि नास्ति जीवस्य गुणोपि नास्ति किं त्वपृथसिद्धं सज्ज्ञानं जीवगुणो ज्ञानापेक्षया भिन्नत्वाजीवस्वरूपस्येत्यर्थः । जीवस्य ज्ञानस्वरूपत्वेनुपपत्तिरुक्तैव निष्फलतेन्द्रिय इति । यदि जड एव जीवःस्यात्तदा सहस्त्रैरपि करणै- स्तस्य विपयप्रतिभासो न स्यादन्यथा घटावलोकनकाले चक्षुःसंयो- गस्तु घटेनाप्यस्तीति घटस्यापि ज्ञानित्वं स्यात् । स्वप्ने च विनैव विष- येन्द्रियसंयोग विविध ज्ञानमुत्पद्येत । न च वाच्यम्-घटे मन संयोगाभावान्न ज्ञानमुत्पद्यत इति, यस्य हि मनसोयं प्रभावो यत्तत्संयोगादप्यात्मनि ज्ञानमुत्पद्यते तस्मिन् कथं न ज्ञानमुत्पद्येत प्रत्युत मनस एव ज्ञानत्वं स्याद् यथा यत्संयो- गात्पटे राग उत्पद्यते तदेव राग इत्युच्यते मञ्जिष्ठाराग इति । एवं हि क्वोपयोगो मनस इति चेदिन्द्रियनिवेदितविपयनिवेदने मनसोस्ति समुपयोग इत्युच्यते। किं च चिपयेणन्द्रियसंयोगे इन्द्रियेण मनःसंयोगे इन्द्रियसंयुक्त- मनःसंयोगेन चात्मनि ज्ञानमुत्पद्यत इति हि भवतां प्रक्रिया, एवं हि सकलैर्विपयैरिन्द्रियसंयोगाभावे निमीलितनेत्रस्य मात्रयापि ज्ञान न प्रतिभासते प्रतिभासते च तदाप्यविशदस्वरूप ज्ञानम् । न च तत्स्मृतिरिति वक्तव्यम्, स्मृतिर्हि संस्कारजन्या संस्कारश्चोबद्ध एव स्मृतिजनकः संस्कारोबोधश्च संस्कारोबोधकसदृशपदार्था- न्तरादिदर्शनेन भवति तत्र चेन्द्रियव्यापारापेक्षास्त्येव तथा च सर्वे- न्द्रियोपरामे स्मृतिरपि न सम्भवति, प्रतिभासते च तदापि ज्ञानमिति न जडत्वमात्मनः स्वरूपम् । आत्मनो जडत्वं प्रतिपाद्यतस्तार्किक- स्यैव प्रत्युत जडत्वं प्राप्तं, तेन स्वमुखादेव चात्मनो जडत्वस्वीकारात् । सुषुप्तिजाग्रदाद्यवस्थाविशेषस्तु ज्ञानसंकोचविकासाभ्यामुपप- द्यते । यथाहात्मनः प्रियतमलाभे वैशद्यमिव प्रतिभाति तथा ज्ञान- स्यापि स्वविपयलाभकालेतिवैशयं भवति । “विज्ञानं यज्ञं तनुते" इत्यादयः प्रयोगास्तु जीवस्य ज्ञानगुणसारत्वपुरस्सराः । ज्ञानगुण- विशिष्टाद्वैताधिकरणमालायाम्- सारत्वाजीवोपि विज्ञानमिति पदनाच्यते यथा नीलो घटः खण्डो गौरिति । तस्माज्ञातृत्वं जीवस्वरूपम् । न ज्ञान ज्ञानगुणत्वं बा। यदुक्तं विभुपरिमाणायं जीवस्तदपि नापपद्यते तदाह-उत्क्रमणा- दिभिरिति । अस्य जीवस्य स्वशरीगदुत्क्रमणं श्रूयते--" तेन प्रद्यो- तेनैप आत्मा निष्कामात चक्षुषो वा मूर्ध्न वा अन्येभ्यो वा शरीरदे- शेभ्यः” “ये वै के चास्मालोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति तस्माल्लोकात्पुनरेत्यास्मै लोकाय कर्मणे" इति । युक्त्या- प्युन्क्रमणादयो विभानापपद्यन्ते तस्मादणुपरिमाणायं जीवः, धूयते च "एपोऽणुरात्मा चतसा वेदितव्यः वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्याय कल्पते" "आराग्रमात्रों वरोपि दृष्टः" इति । “स वा एप आत्मा महानजः इत्यत्र तु जीवस्य महत्वं नोच्यते परमात्मप्रकरणत्वात्तस्य ! "भणो- रणीयान् महतो महीयान्" इत्यत्राप्यणीयानिनि जीवस्त्ररूपं प्रति- पाद्यते महतो महीयानित्यनेन तु तस्यायहत्वमुच्यते । ननु जीव- स्याणुत्वे सकलस्वदेहवर्तिनां सुखदुःखादीनां प्रतिभासो न स्यादिति- चेन्न हुतुमाह चन्दनवदिति यथा हि चन्दनवन्दुिदहस्यैकप्रदेशपि स्थितः सकलदेहे सुखं जनयति बाह्यस्थितोप्यन्तरात्मानमाहादयति तथा जीवोपि हृदयपुण्डरीके स्थितः सकलशरीरवर्तिसुखादिकमनु- भवतीति न कोपि विरोधस्तस्मादपुरवायमात्मा जीवः ।। (पञ्चमं कधिरणम्) "कर्ता शास्त्रार्थवत्त्वात् ३२ उपादानाद्विहारोपदेशाच्च ३४ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ३५ उपलब्धिवदनियमः ३६ शक्तिविपर्ययात् ३७ समाध्यभावाच्च ३८ यथा च तक्षोभयथा ३९" जीवोऽकर्ताथ कर्ताऽऽद्यो गुणकर्तृतयामतः । कर्ता शास्त्रार्थवत्त्वाद् भो स्वातन्त्र्यं तक्षवन्मतम् ॥ जीवो न कर्ताथ वा कर्तति संदेहसमयोस्ति, किं युक्तम् अकति, इत्याह-आद्येति । हेतुमाह गुणकर्तृतयेति गुणानामेव कर्तृत्वं पुरुषःस्वा- सप्तमः पादः । ६१ त्मन्मन्यध्यस्थतीत्यकर्तृत्वं पुरुषस्य प्राप्तम् । तथैव श्रूयते-" हन्ता चन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभी तो न विजानीतो नाय हन्ति न हन्यते".यद्यात्मनः कर्तृत्वं स्यात्तदा नायं हन्तीति हननक- र्तृत्वं कथं निषिध्येत तस्मादकर्ता पुरुप इति प्राप्ते- उच्यते कर्तेति । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ स्वर्गकाम- मुद्दिश्य विधीयमानो यागो जीवस्य कर्तृत्व प्रतिपादयति । अन्यथा शरीरस्येह विनाशित्वात् पुरुपस्य चाकर्तृत्वाद् यागफलं स्वर्गः कं प्राप्नुयात् । न च वाच्यम्-तत्रापि गुणानामेव कर्तृत्वमिति जडान गुणानुद्दिश्य श्रुतेर्यागविधानमेव न सम्भवति । किं च कर्तुर्विशेषणं स्वर्गकाम इति स्वर्गकामत्वं च जडेषु गुणेपु नैवोपपद्यते येन यागक- र्तृत्वं स्यात् । श्रूयते च जीवस्य कर्तृत्व "विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च"इति । किं च बुद्धः कर्तृत्वे पुरुषस्य च भोक्तृत्वे कृतहाना- कृताभ्यागमदोषः स्यात् । अपि च गुणानां जीवमात्र प्रति साधारण्यात् कर्ममात्रस्य पुरुषमात्रं प्रति फलं स्यात् । नन्वात्मनः कर्तृत्वे सदैव क- मप्रवृत्तिः स्यादात्मनो नित्यत्वात्स्वरूपस्य कर्तृत्वस्य च नित्यत्वेन कदा- पि कर्मोपरमो न स्यात् ? तत्राह स्वातन्त्र्यमिति यथा तक्षा वास्यादि- करणकलापे सत्यपि कदाचित् करोति कदाचिन्नैव करोति तथात्मापि बुद्धयादिकरणकलापे सत्यपि कदाचित्करोतीति न सर्वदा कर्मप्रवृत्ति- प्रसङ्गः । किं च यथा कुलालस्य कर्तृत्वेपि न कर्तृत्वं स्वरूपं यथा च गुणानामपि कर्तृत्वे न कर्तृत्वं गुणानां स्वरूपं किं तूपलक्षणं तथैवात्म- नोपि कर्तृत्वं न स्वरूपं येन सदैव कर्मप्रवृत्तिःप्रसज्येत । किं च गुणानां कर्तृत्वेपि गुणानां नित्यत्वात्तव मतेपि कर्मोपरमो न स्यात् । नाय हन्तीत्यत्र तु पुरुषस्य न कर्तृत्वं निपिध्यते किं तु कर्तृत्व- स्वरूपत्वं निपिध्यते यतो गुणसङ्गादस्य जीवस्य कर्तृत्वं भवति यथाह-"कारण गुणसंगोस्य सदसोनिजन्मनु" इति । एवं "प्र- कृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ता- हमिति मन्यतं” इत्यत्रापि गुणसङ्गरहितं कर्तृत्वं निपिध्यते, कर्तृत्व- मात्मनः स्वरूपं नास्ति किं तु गुणसङ्गादस्य कर्तृत्वं भवतीत्यहङ्कार- विमूढात्मा सांसारिको जनः कर्तृत्वं पुरुषस्य स्वाभाविकं स्वरूपं मन्यत इत्यर्थः । तस्मात्कर्ता पुरुपः । एवं ब्रह्मोपासनादिष्वपि कर्तृत्वं ज्ञेयम् "मुमुक्षुब्रह्मोपासीत" "आत्मानमेव लोकमुपासीत" इत्यादौ ।
६२ रिशिष्टाहताधिकरणमालायाम्- " (पष्ट परायत्ताधिकरणम् ) "परात्तु तच्छ्रुतेः ४ ० कृतप्रयबापेक्षस्तु विहितप्रतिपिद्धावयथ्यादिभ्यः ४१" स्वाधीनं वा पराधीनं कर्तृत्व पुरुषस्य तत । निषेधविधिशास्त्रेपु नियोज्यत्वात् पुरोभवः । परात्माधीनमेवास्य कर्तृत्वं प्रमतं श्रुतेः ॥ अयमत्र सन्देहः-पुल्पस्य यदुक्तं कर्तृत्वं तत् स्वाधीनं वा पराधीन वति, किं युक्तम? स्वाधीनमिति यो हि स्वातन्त्र्येण प्रवर्तते निवर्तते वा स एव विधिनिषेधशास्त्रपु नियोज्यो भवति नियाज्यत्वं च क्षेत्र- शस्य संमतमेवेति स्वाधीन पुरुषस्य कर्तृत्वमिति प्राप्त- अभिधीयते परात्माधीनमिति । अस्य पुरुषस्थ कर्तृत्वं परमा- त्माधीनमेव हेतुमाह श्रुतरिति । “यस्थात्मा शरीरं य आत्मानमन्त- रो यमयति" इनिथुतिः "ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रानहानि माया" इति स्मृतिश्च जीवस्य कर्तृत्वं परमात्माधीनमिति प्रतिपादयति । नन्वेवं विधिनिषेधशास्त्रा- नर्थक्यं स्यात् परमात्माधीनेन जीवेन कृतं कर्मति जीवस्य कर्मफला- प्राप्तेरिति चन्न परमात्मा हि जीवप्रयत्नमपेक्षते यथैव जीवस्य प्रयत्नो भवति तथैव परमात्मा जीवं प्रवर्तयतीति परमात्मानुमतिप्रदानमा- त्राधीनत्वात् परमात्माधीनं जीवकर्तृत्वं तथा च न शास्त्रानर्थक्यं प्राथमिकप्रयत्नानुकूलफलमाप्तिसम्भवात् ॥ ४- (सप्तमनंशाधिकरणम्) "अंशो नानाव्यपदेशाइन्यथा चापि दाशकितवादित्वमधीयत एके ४२ मन्त्रमवर्णात् ४३ अपि स्मयते ४४ प्रकाशादिवत्तु नवं परः ४५ स्मरन्ति च ४६.अनुज्ञापरिहारों देहसन्वन्धाज्ज्योतिरादिवत् ४७ असन्तश्चाव्यातकरः ४८ आभास एव च ४९ अदृष्टा- नियमान् ५० अभिसन्ध्यादिप्वपि चैवम् ५१ प्रदेशभेदादिति चेन्नान्तर्भावात् ५२" सप्तमः पादः । ६३ जीवोयं ब्रह्मतो भिन्नो भ्रान्तं ब्रह्माथवा मतः । ब्रह्मवोपाध्यवच्छिन्नं ब्रह्मांशोऽथेति संशयः ॥ भिन्नोयं भेदनिर्देशाद् ब्रह्मभावोक्तिभिः परः । तृतीयो वा ततश्चापि ब्रह्मभावोपपत्तितः, भेदाभेदोपदेशाभ्यामंशोयं ब्रह्मणो मतः । देहदोषा यथा जीवे प्रादुःष्यन्ति कदापि नो ॥ जीवदोषास्तथा नैव प्रादुःष्यन्ति परात्मनि । ज्योतिर्वदेहसम्बन्धात् परिहारश्च संग्रहः ॥ संप्रति जीवस्वरूपे सन्देहोस्ति किमयं जीवः परस्माद्रह्मणो- ऽत्यन्तभिन्नः किं वा ब्रह्मैव भ्रान्तं सजीव इत्युच्यतेऽथोपाध्यवच्छिन्नं ब्रह्म जीवोथवा ब्रह्मांश इति । किं युक्तम् ? भिन्न इति "ज्ञाज्ञौ द्वाव- जावीशानीशौ" "द्वा सुपर्णा सयुजा सखाया” "कृतं पिवन्तौ सु- कृतस्य लोके” “य आत्मनि तिष्ठन्नात्मनोन्तरो यमात्मा न वेद" इत्यादिभेदनिर्देशात् । किं वात्यन्तभिन्नत्व एकविज्ञानेन सर्वविज्ञा- नप्रतिज्ञाभङ्गः स्यादिति परः = द्वितीयः पक्षो युक्तः " तत्त्वमसि" अयमात्मा ब्रह्म” इत्यादिब्रह्मभावोक्तिभिः ब्रह्मात्मभावोपदेशात् । किं वा ब्रह्मणो भ्रान्तत्वं न संभवतीति तृतीयः पक्षों युक्तस्तृतीय- पक्षेपि ब्रह्मात्मभावस्योपपत्तिरस्त्येव यदुपाध्यवच्छिन्नं ब्रह्म जीव इत्युच्यते तस्य शुद्धेनैक्यं संभवत्येव । अयमपि पक्षो न युक्त उपा- धिह्मविद्या वक्तव्या न च तस्मिन् विज्ञानकघनेऽविद्या संभवतीति- सिद्धान्तउच्यते-भेदाभेदति-भेदव्यपदेशो यथा-"ज्ञाझौ द्वाव. जावीशानीशो” इत्यादिः, अभेदव्यपदेशो यथा-"तत्त्वमसि" इत्यादिः, भेदाभेदौ चांशस्यैव संभवत इति जीवोयमशो ब्रह्मणः श्रूयते चांशत्वं जीवस्य “पादोस्य विश्वा भूतानि” इत्यादि, अस्यं परमात्मनः सधै जीवाः पादः अंश इत्यर्थः । स्मर्यते च "ममैवांशो जीवलोके जीवभूतः सनातनः" इति । नन्वशत्वे जीवगता दोपाब्रह्मणि प्रादुःप्युरित्याशंक्यो च्यते देहदोपा इति यथा जीवांशस्य देहस्य दोपा जीवे न प्रादुःष्य- - ६४ विशिष्टाद्वैताधिकरणमालायाम्- न्ति तथा परमात्मांशस्य जीवस्य दोषाः परमात्मनि न प्रादुःप्यन्ति । देहस्य जीवांशत्वाभावे देहिनो जीवस्य देहित्वमेव नोपपद्येनेति जीवांशो देहः । ननु सर्वेप जीवानां ब्रह्मांशत्वनकरूपन्चे प्राप्त केपी चिद्वेदा- ध्ययनादिकर्मणि परिहारो यथा शूद्राणां केपां चित्मक हो यथा द्विजातीनामिति न स्यादित्याशङ्याह-ज्योतिदिति, यथाग्नरग्निन्वे- नैकरूपत्वपि श्माशानादेरग्निः परिहियने श्रोत्रियगृहादाह्रियते च तथैव जीवानामपि ब्रह्मांशत्वेनैकरूपत्वेपि देहसम्बन्धादुपपद्यते यथा शूद्रादिदेहसम्बन्धातू परिहरः,ब्राह्मणादिदेहसम्बन्धात्संग्रहश्चेति ॥ ।। इति सप्तमः पादः समाप्तः ।। ॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ।। (प्रथमं प्राणोन्पत्यधिकरणम) "तथा प्राणाः १ गौण्यसंभवात् तत्प्राक् श्रुतेश्च २ तत्पूर्वकत्वाद्वाचः ३० इन्द्रियाणां हि कार्यत्वं जीववच्छुतितो मतम् । प्राणो ब्रह्मेति सिद्धत्वात् कार्यत्वं वियदादिवत् ॥ इदमिदानी सन्दिह्यते यथा जीवस्योत्पत्तिराहित्येपि कार्यत्वं तथैवेन्द्रियाणामपि कार्यत्वं किं वा यथा वियदादीनां सोत्पत्तिकं कार्यत्वं तथेन्द्रियाणां कार्यत्वमिति तत्राह जीववादिति, श्रुतिर्हि "असद्वा इदमन आसीत् तदाहुः किं तदासीदिति ऋपयो वाव तेरे सदासीत्तदाहुः केते ऋपयः” इति "प्राणा वाव ऋषयः” इति प्राण शब्दश्चात्रेन्द्रियवचनो बहुवचनान्तत्वात् तेषां प्राणशब्दवाच्यानामि- द्रियाणां सृष्टेः प्रागप्यत्र सत्त्वश्रवणादुत्पत्तिरहितं जीववत् कार्य- त्वमितियुक्तम् । अनोच्यते प्राणो ब्रह्मति, प्राणा वाव ऋपयः" इत्यत्रस्यो ऋषिशब्दः परमात्मन्येव युज्यते न त्वचेतनेष्विन्द्रियेपु, ऋपिशब्दन स्वशक्त्या अष्टमः पादः । चेतनत्वक्रोडीकरणात् तत्समानाधिकरण:प्राणशब्दोपि परमात्मनि शक्तिमानस्ति"सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युजिहते” इति श्रुतेः । तस्मादुक्तश्रुतिः परमात्मन एव सृष्टेः प्राक् सत्त्वं प्रतिपादयति न त्विन्द्रियाणाम् । तथा चद्रियाणां वियदा- दिवत्सोत्पत्तिकं कार्यत्वं सिद्धम् । श्रूयते च “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति । (द्वितीयं सप्तगत्यधिकरणम्) "सप्त गतेर्विशेपितत्वाच्च ४ हस्तादयस्तु स्थितेऽतो नैवम् ५" गतेर्विशेषितत्वाच्च करणानि तु सप्त वै । एकादशैव तानि स्युहस्तादीनां तथात्वतः ।। तानीन्द्रियाणि सप्त वैकादश वेति सन्देहे सप्तेति युक्तं हेतुमाह गतेरित्यादिना “सप्त इमे लोका येषु सञ्चरन्ति प्राणा गुहाशया नि- हिताः सप्त सप्त" इत्यत्र प्राणशब्दवाच्यानामिद्रियाणां सप्तानामेव सञ्चरन्तीति गतेः श्रवणातू , "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न विचेप्टेत तामाहुः परमां गतिम्" इत्यत्र योगदशायां शानानीति विशेपितत्वाञ्च श्रोत्रत्वक्चक्षुजिहाघाणबुद्धिमनांसीति सप्तवेन्द्रियापीत्यवगम्यते । अत्रोच्यत एकादशेति, वाक्पाणिपादपायूपस्थानामपि श्रोत्रादि- वदुपकारित्वेनेन्द्रियत्वादेकादशेन्द्रियाणीति युक्तम् । श्रूयते च “द- शेमे पुरुषे प्राणा आत्मैकादशः” इति । आत्मशब्देनात्र मन उच्यते ।। (तृतीय प्राणाणुत्वाधिकरणम् ) "अणवश्च ६ श्रेष्ठश्च ७" विभवो वाऽणवः प्राणा विभवोऽनन्तताश्रुतेः । उत्क्रान्त्यादिश्रुतेः सूक्ष्मास्तेषु मुख्यस्य पूज्यता ।। प्राणशब्दवाच्यानीन्द्रियाणि किं विभुपरिमाणानि किं वाणुपरि- ६ विशिष्टाद्वैताधिकरणमालायाम्- माणानीति सन्देहे "ते एते सर्व एव समाः सर्वेऽनन्ताः" इत्यानन्त्य- श्रुतेर्विभुपरिमाणानीति प्राप्ते- उच्यते-उत्क्रान्त्यादिश्रुतेरिति "प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति" इत्युत्क्रान्तिश्रवणात परिमितत्वं प्रतीयते न चोका- न्तिकाले पार्श्वस्थैरवलोक्यन्त इत्यणुपरिमाणानीन्द्रियाणीति युक्तम्। न चोत्क्रमणं विभूनां सम्भवति । तेषु मुख्यस्य प्राणस्य पूज्यतां श्रे- प्ठतां चाह श्रुतिः-"योह वै ज्येष्ठश्च श्रेष्ठश्च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च" इत्यारभ्य “अथ ह प्राणा अहं- श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ते ह प्राणाः प्रजापति पितर एत्योचुर्भगवन् को नः श्रेष्ठ इति तान् होवाच यस्मिन् व उ- क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत सवःश्रेष्ठ इति" "अथ ह प्राण उच्चिक्रमिष्यत् स यथा सुहयः पदीशशङ्कन संखिदेदेवमितरान् प्रा- णान् समखिदत् तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्टोसि मोक्रा- मीरिति” अत्र मुख्यप्राणस्योत्क्रमणेन कायानल्पवैकल्यकलनान्मुख्य- स्यैव प्राणस्य पूज्यता प्रतीयते ॥ (चतुर्थ वायुक्रियाधिकरणम् ) "न वायुक्रिये पृथगुपदेशात् ८ चक्षुरादिवत्तु तत्सह शिष्टयादिभ्यः९ अकारणत्वाच्च न दोषस्तथा हि दर्शयति १० पञ्चवृत्तिर्मनोवद् व्यपदिश्यते ११" वायुर्वा तक्रिया प्राणो वायुर्वाथ विलक्षणः, । वायुस्तथोपदेशात्सः, प्राणशब्दप्रसिद्धितः- तत्र वायुक्रिया, मैवं पृथक् संकीर्तनात् परः। जीवोपकरणं प्राणस्तैः साकं तदुपक्रमात् ॥ संप्रति मुख्यप्राणस्वरूपे विचिकित्सास्ति प्राणः किं वायुमात्र किं वा वायुक्रिया किं वा विलक्षणो वायुरिति तत्र “यः प्राणः स वायुः” इति व्यपदेशात् सः प्राणो वायुमात्रम् । किं वा वायुमात्रे प्रा- , अष्टमः पादः । ६७ - णत्वप्रसिद्ध्यभावादुच्छासनिःश्वासलक्षणा वायुक्रियैव प्राणस्तर उक्तवायुक्रियायां प्राणशब्दस्य प्रसिद्धः। अत्रोच्यते मैवमिति प्राणो न वायुमात्रं वायुक्रिया वा किं तु विलक्षणो वायुः प्राण इत्युच्यते हेतुमाह-पृथगिति “एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी" इत्यत्र वायुतः पृथक् प्राण उपदिष्टः । यदि वायुरेव प्राणः स्यात्तदा वायोः पृथक् प्राणोपदेशो न स्यात् । नन्वेवं वायुक्रियैव प्राणः स्यादिति चेन्न न हि तेजः प्रभृतीनां किया तैः सह पृथग् द्र- व्यत्वेनोपदिष्टा येन प्राणशब्देन वायुक्रिया वायोः पृथगुपदिश्येत तस्माद्विलक्षणो वायुः प्राणः । वैलक्षण्यं च जीवधारणसामर्थ्यम् । स च प्राण उक्तश्रुतौ जीवोपकरणैर्मनःप्रभृतिभिः साकमुपगम्यते तस्मात्प्राणोपि जीवोपकरणमेव चक्षुरादिवत् ॥ (पञ्चमं श्रेष्टाणुत्वाधिकरणम् ) 'अणुश्च १२" . विभुः प्राणोथ वाऽणुःस्यात्सम एभिः श्रुतेर्विभुः । मुख्यप्राणोप्यणुज्ञेय उत्क्रान्त्याधुपदेशतः ।। मुख्योयं प्राणो विभुर्वाऽणुर्वेति विशये विभुरिति युक्तम् । कुतः? "सम एभिस्त्रिभि.कः समोऽनेन सर्वेण प्राणे सर्व प्रतिष्ठितं सर्व हीदं प्राणेनावृतम्” इति श्रुतेः । न ह्यणुपरिमाणे प्राणे सर्वप्रतिष्ठा सम्भवति, न चाप्यणुपरिमाणेन प्राणेन सर्वावरण सम्भवतीत्यमु- ख्यप्राणानामणुत्वेपि मुख्यः प्राणो विभुरेव । मैवम्-मुख्यप्राणोप्यणुरेव ज्ञेयः “तमुकामन्तं प्राणानूकामति" इत्युत्क्रान्ति श्रवणात् । न हि विभोरुत्क्रमणं सम्भवति । “सम एभि" इति श्रुतिस्तु सर्वस्य प्राणायत्तजीवनत्वेन प्राणं प्रशंसतीति विज्ञेयम् ॥ (षष्ठं ज्योतिरायधिष्ठानाधिकरणम्) ज्योतिराद्यधिष्टानं तु तदामननात्प्राणवता शब्दात् १३ तस्य च नित्यत्वात् १४" ६८ विशिष्टाद्वैताधिकरणमालायाम्- प्राणाधिष्ठातृणां प्राणेऽधिष्ठातृत्वमपावृतम् । ब्रह्मनिघमथ,स्तेषां नैरपेक्ष्येण पूर्वकः । ब्रह्मनिघं श्रुतेः सर्वमधीनं परमात्मनः ॥ मुख्यप्राणस्यामुख्यप्राणानां = इन्द्रियाणांच जीवोधिष्ठातति लो- सिद्धं श्रुतिरप्याह “एवमेवैष एतान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते” इति । किं च मुख्यामुख्यप्राणानामन्यादयो देवा अप्य- धिष्ठातारस्तथा हि श्रूयत ऐतरेयोपनिषदि द्वितीयखण्डे-"अग्निर्वा- ग्भूत्वा मुखं प्राविशत्” इति वाचोग्निर्देवता । प्राणाधिष्ठातृणाम- ग्न्यादीनां जीवस्य च यत् प्राणे = मुख्यामुख्यप्राणविषयकमधिष्ठातृत्वं तत् किमपावृतं-स्वतन्त्रं किं वा ब्रह्मानिनं-परमात्माधीनमिति विचि- कित्सायामुच्यते तेपामिति तेपामुक्तानां प्राणाधिष्ठातृणां नरपेक्ष्येण= प्राणाधिष्ठानेऽन्यास्यापेक्षाभावात् पूर्वकः- पूर्वः कल्पो युक्तः, अपा- वृतमधिष्ठातृत्वं जीवस्याग्न्यादीनां चेत्यर्थः । १ इन्द्रियमान इन्द्रियाधिष्ठातृदेवतानामानि इन्द्रियविषयनामानि मनः बुद्धिः चित्तम् अहङ्कार श्रोत्रम् त्वक चक्षुः रसना प्राण वाक पादः पाणि पायुः ( गुदम् ) उपस्थः बृहस्पति. वासुदेवः रुद्र: विक् वायु रविः वरुणः अश्विनीकुमारी अग्नि सङ्कल्पः निश्मयः चिन्तनम् गर्वः शब्द स्पर्श रूपम् रसः गन्धः भाषणम् गमनमू विष्णुः । प्रजापतिः ग्रहणमू मलत्यागः रतिभागः (मैथुनम् ) यम अष्टमः पादः । ६९ अत्रोच्यते-ब्रह्मनिघ्नमिति जीवस्याग्न्यादीनां च यन्मुख्यामुख्य- प्राणाधिष्ठातृत्वं तत् परमात्माधीनं, श्रुतेः-“य आत्मनि तिष्ठन् आ- त्मनोन्तरो यमात्मा न वेद यस्थात्मा शरीरं य आत्मानमन्तरो यम- यति" " योऽग्नौ तिष्ठरनग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीर योग्निमन्तरो यमयति भीपास्माद्वातः पवते भीपोदेति सूर्य: इत्यादिश्रुतिभ्यः सर्व परमात्माधीनमिति विज्ञायते तस्मात् प्राणा- धिष्ठातृणां प्राणाधिष्ठाधितृत्वमपि परमात्माधीनमेव विज्ञयम् ॥ सप्त (सप्तममिन्द्रियाधिकरणम्) “त इन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्टात् १५ भेदश्रुतलक्षण्याच्च १६" प्राणशब्देन निर्दिष्टा इन्द्रियाण्यखिला उत-। मुख्यप्राणातिरिक्ता वा सन्देहः समुपस्थितः ॥ प्राणशब्देन वाच्यत्वात् प्रथमः करणत्वतः । परो मुख्यातिरिक्तेषु चेन्द्रियव्यपदेशतः ॥ पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनो मुख्यप्राणश्चति पदार्था उक्तश्रुतिपुप्राणशब्देन निर्दिष्टाः “दशेमे पुरुपे प्राणाः इमे लोका येषु सञ्चरन्ति प्राणा गुहाशयाः” इतीन्द्रयाणि प्राणशब्देन निर्दियानि, एवं यः प्राणः स वायुः" ".एतस्माज्जायते प्राणः इति मुख्यप्राणः प्राणशब्देन निर्दिष्टः । तत्र सन्देहः किं प्राणशब्दनि- र्दिष्टाःअखिलाः सर्व एवेन्द्रियाणि किं वा मुख्यप्राणव्यतिरिक्ता एवे- न्द्रियाणीति किं प्राप्तम् ?सर्व एवेति, सर्वेपामेवाविशेषात्प्राणशब्दवा- च्यत्वात् करणत्वाच सर्व एव प्राणशब्दनिर्दिष्टा इन्द्रियारणीति प्राप्ते- अभिधीयते-पर इति परो द्वितीयः पक्षो युक्तः “इन्द्रियाणि दशैकं च" इत्येकादशेष्वेव मुख्यप्राणातिरिक्तध्विन्द्रियत्वव्यपदेशा- • न्मुख्यप्राणातिरिक्ता एवेन्द्रियाणि । किं च "एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च" इति भेदेन व्यपदिशति मुख्यप्राणादिन्द्रि- याणि श्रुतिः। इन्द्रियवृत्तिपूपक्षीणास्वपि सुषुप्त्यादी प्राणवृत्तेरुपल- म्भाद्वैलक्षण्यमप्यस्तीन्द्रियेभ्यो मुख्यप्राणस्य ॥
विशिष्टाद्वैताधिकरणमालायाम्- - (अष्टम सज्ञामूर्तिक्लप्त्यधिकरणम्) "सञ्ज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् १७ मांसादिभौम यथाश- शब्दमितरयोश्च १८ वेशेष्यात्तु तद्वादस्तद्वादः १९" व्यष्टिसृष्टिः क्रिया कस्य ? जीवस्यात्मभुवः श्रुतेः । त्रिवृत्करणसामानाधिकरण्यात परात्मनः॥ इयमिदानी विचिकित्सा-प्रपञ्चव्यष्ट्यात्मिका नामरूपव्याक- रणलक्षणेयं सृष्टिः कस्य क्रियास्ति ! कि समष्टिजीवरूपस्यात्मभुवो हिरण्यगर्भस्याहोस्वित् परमात्मन इति तत्राह पूर्वपक्षी जीवेति "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति जीव- स्यात्मभुवः क्रियेति श्रूयते । यदि नामरूपव्याकरणं जीवकर्म न स्यात्तदा "अनेन जीवन" इति श्रुतिरपार्था स्यात् । किं चा- न्यथा अनेन स्वेनात्मनेति चदेच्छ्रुतिः । न च हिरण्यगर्भव्यतिरि- क्तस्य नामरूपव्याकरणशक्तिसंभावनास्तीति हिरण्यगर्भस्यैव व्य- प्टिसृष्टिः क्रियेति प्राप्ते- उच्यते-त्रिवृदिति । “सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति श्रुतेस्त्रिवृत्करणस्य नामरूपव्यारणस्य च सामानाधिकरण्यम् = एककर्तृकत्वं प्रतीयते न च चतुर्मुखस्य त्रिवृ- कर्तृत्व संभवति त्रिवृत्करणात्प्राक् तभावात् त्रिवृत्करणादनन्तरं ह्यण्डमुत्पद्यते तस्मिन्नण्डे च चतुर्मुखस्योत्पत्तिः स्मर्यते " तस्मिन्न- ण्डेऽभवद्रह्मा सर्वलोकपितामहः” इति तस्मादू यस्य परमात्मन- स्त्रिवृत्करणं क्रिया तस्यैवैषा व्याटिसृष्टिरपि नामरूपव्याकरणात्मिका क्रियेति युक्तम् । अनेन जीवेनात्मनेत्यनेन हिरण्यगर्भस्य परमात्म- शरीरभूतस्य सहकारित्वं प्रतिपाद्यते हिरण्यगर्भशरीरकस्य पर- मात्मनो व्यटिसृष्टिः कर्मत्यर्थः । यथा “तत्तेज ऐक्षत" इत्यत्र तेजः- शरीरकस्य परमात्मन ईक्षणकर्तृत्वमुच्यते॥श्रीवकुलाभरणाय नमः। ॥ इत्यष्टमः पादः समाप्तः ॥ इति पञ्चनदीयसुदर्शननिर्मितायां विशिष्टाद्वैताधिकरणमालायां द्वितीयोऽध्यायः समाप्तः ॥
नवमः पादः । ७१ अथ तृतीयाध्यायस्य प्रथमः पाद आरभ्यते ॥ (प्रथमं तदन्तरप्रतिपत्त्यधिकरणम्) तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रष्णनिरूपणाम्यां १ त्र्यात्मक- त्वात् भूयस्त्वात् २ प्राणगतेश्च ३ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ४ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ५ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति७" भूतसूक्ष्माऽपरिष्वक्तो जीवो याति परां तनुम् । संपरिष्वक्त आहोस्वित् सन्देहः समुपस्थितः ॥ सर्वत्र सूक्ष्मभूतानां सौलभ्यात् प्रथमं शिरः । मैवं प्रणोत्तराभ्यां हि परिष्वङ्गशिरो मतम् ॥ प्राप्तदेहं परित्यज्य यदा प्राप्यं देहान्तरं प्रयाति जीवस्तदा भूत- सूक्ष्मरपरिष्वक्तो याति किं वा संपरिष्वक्त इति विचिकित्सायां सूक्ष्मभूतानां सर्वत्र सुलभत्वादपरिष्वक्त एव प्रयातीति प्राप्ते- अभिधीयते-मैवमिति परिवङ्गशिरः संपरिष्वक्त एव प्रयातीति पक्षो मतः, हेतुमाह-प्रष्णोत्तराभ्यामिति पञ्चाग्निविद्याप्रकरणे पा- उचालेन प्रवाहणेन जीवस्य गन्तव्यदेशेषु पुनरावृत्तिप्रकारेषु चारुणेयः श्वेतकेतुः पृष्टस्तस्योत्तरं च "पञ्चम्यामामाहुतावापः पुरुपवचलों भवन्ति" इति, तत्र प्रथमत आरभ्य होम्यानामपां तत्र तत्र जीवेन सह गमनं प्रतिपाद्यते तेन च भूतसूक्ष्मः संपरिप्वक्त एव जीवों देहान्तरं प्रयातीति प्रतीयते । न च वाच्यमपामेवाहुतिभूतानां जीवेन सत्रा गमनं तत्र प्रतिपाद्यते इति न सर्वेषां भूतसूक्ष्माणा- मिति, अपां वाहुल्यातू-"आपः पुरुपवचसो भवन्ति” इत्युच्यते वस्तुगत्या सर्वेषामेव भूतसूक्ष्माणां सह प्रयाणे तात्पर्यमस्ति ॥ (हिनीय कृतात्ययाधिकरणम् ) "रुतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ( चरणादिति ७२ विशिष्टाद्वैताधिकरणमालायाम्- चेन्न तदुपलक्षणार्थेति कार्यानिनिः ९ आनर्थक्यमिति चेन्न तद- पेक्षत्वात् १० मुस्तदुप्छने एवेति तु वादरिः ११" प्रत्यायाति पुनर्जीवोऽनुशयै रहितोथ किं । सहितो वा, शिरः पूर्व सर्वकर्मोपभोगतः । मैवं श्रुतिस्मृतिभ्यां तु सहितोऽनुशयैरिति ॥ घूममार्गेण लोकान्तरप्रयायिनां पुनरावृत्तिः श्रूयते-" यावत्सं. पातमुपित्वाथैतमवाध्वानं पुनर्निवर्तन्त" इति । तत्र किमनुशयरहि- तो जीवः प्रत्यायात्यनुशयसहितो वेति सन्देहः । उपभुक्तशिष्टं क- र्मानुशयशब्दनोच्यते संपातशब्दन चोपभोगकारणं कर्म । “ यावत् संपातमुपित्वा" इति श्रुतेस्तत्रत्योपभोगेन कृत्स्नकर्मणामुपक्षीण- त्वादनुशयरहितो जीवः प्रत्यायातीति प्राप्ते- अभिधीयते-मैवमिति " तद् य इह रमणीयचरणा अभ्याशो- इयत्ते रमणीयां योनिमापधेरन्, अथ य इह कपूयचरणा अभ्याशो- हयत्ते कपूयां योनिमापोरन्" इति श्रुतेः । ततः परिवृत्तो कर्म- फलशेपेण जातिं रूपं वर्ण वलं मेधां प्रनां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते" इति स्मृतेश्चानुशयपरिष्वक्त एव जीवः प्रत्यायातीति प्रतीयते ॥ (तृतीयमनिष्टारिकार्यऽधिकरणम्) "अनिष्टादिकारिणामपि च श्रुतम् १२ संयमने त्वनुभूयेतरेपामागेहा- वरोही तद्गतिदर्शनात् १३ स्मरन्ति च १४ अपि सप्त १५ तत्रापि तद्व्यापारादविरोधः १६ विद्याकर्मणोरिति तु प्रकृतत्वात् १७ न तृतीये तथोपलव्धेः १८ स्मर्यतेपि च लोके १९ दर्शनाच्च २० तृतीयशब्दावरोधः संशोकमस्य २१५ विहितं प्रतिषिद्धं यो न करोति करोति च । सोपि चन्द्रमसं याति ये वै के चेति हि श्रुतेः ।
नवमः पादः ॥ ७३ दौर्गती यातनां भुक्ता याति तद्गतिदर्शनात् ॥ यो जीवो विहितमग्निहोत्रादिकं कर्म न करोति यश्च प्रतिषिद्धं ब्राह्मणहननादिकं करोति स चन्द्रमसं याति न वेति सन्देहः किं 'युक्तम् ? सोपि चन्द्रमसं यातीति “ये वै के चास्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इति सामान्यतः सर्वेपां चन्द्रगति- श्रवणातू । अत्रोच्यते-दौर्गतीमिति । दौर्गती-नारकी यातनां भुक्त्वा चन्द्र मसं याति, हेतुमाह तद्गतीति तद्गतिदर्शनातू-यमवश्यतया चन्द्र- प्राप्तिश्रवणात् तत्रापि यदि किं चित्कर्म चन्द्रप्राप्तियोग्यं भवति तदा नारकी यातनां भुक्त्वा चन्द्रमसं प्राप्नोति, सर्वथा सुकृताभावे तु चन्द्रप्राप्रभाव एव विज्ञेयः ॥ । (चतुर्थ तत्स्वाभाव्यापत्त्यधिकरणम्) "तत्वाभाव्यापत्तिरुपपत्तेः २२' चन्द्रावरोहकालेऽन्भ्रादिभावः सोमभाववत् । नो-तत्सदृशतापत्तिस्तद्भावानुपपत्तितः ॥ इष्टादिकारिणामेवं चन्द्रावरोहः श्रूयत-" अथैतमेवाध्वानं पुन- निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमी भूत्वान्नं भवत्यन्ध्र भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति" इति । अत्र देवमनुष्यादिभाववदेवाकाशादिभावो भवति जीवस्यावरोहिणः किंवाकाशादिसादृश्यमात्रम् । युक्त्या पूर्वपक्षमाह-अभ्रादिभाव इति, आकाशादिभाव एव युक्तो भूत्वति प्रयोगसामर्थ्यात् । नाकाशादि- सादृश्यमात्रम् । निदर्शनं चोक्तमत्र सोमभाववदिति यथा असौ वा व लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्सयो धूमोऽहर- त्रिश्चन्द्रमा अङ्गाग नक्षत्राणि विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुन्हति तस्या आहुतेः सोमो राजा सम्भवति" अत्र श्रद्धावस्थस्य जीवस्य सोमभावता श्रूयते तथैवाविशेषादाकाशा- दिभावोपि सम्भवतीतिप्राप्तम्- १० - विशिष्टाद्वैताधिकरणमालायाम्- अत्रोच्यते नो इति। आकाशादिसादृश्यापत्तिरवाच्यते । नभा- चानुपपत्तितस्तदुभावस्थाकाशादिभावस्यानुपपत्तः सोमादिभाचा हि जीवस्य सुखदुःखोपभोगाय सम्भवत्येव,आकाशदिभावे तु सुखदुः खोपभोगासम्भवादाकाशादिसादृश्यमानापतिरेवाच्यते- "अथैत- मेव" इति श्रुत्या ॥ (पञ्चनं नातिचिराधिकरणम्) "नातिचिरेण विशेपात् २३" व्योम्नो ब्रीद्यादिपर्यन्तं स्थितेाऽनियमोऽन्यथा । नो नियमोऽविशेपात् स्यान्नियमोस्ति विशेषतः ।। इदमानायते-" तस्मिन् यावत्मपातमुपित्वाऽधैतमेबाध्वानं पु- नर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुभूत्वा धूमो भवति धूमो भूत्वान्नं भवति अन्नं भूत्वा मेघों भवति मेघो भूत्वा प्रवर्षति ते इह व्रीहियवा ओपधिवनस्पतयस्तिलमापा इति जायन्तेऽतो वै खल दुर्निष्प्रपतरं यो यो हन्नमत्ति यो रेतः सिञ्चति तद् भूय एव ? भवति" इति छान्दोग्यपञ्चमप्रपाठके। अयमत्र सन्देहः-आकाश- प्राप्तेरारभ्य त्रीह्यादिप्राप्तिपर्यन्तं तत्र तत्राकाशादी यया जीवस्य स्थितिः प्रतीयते तस्याः स्थितेरनियोमस्ति किंवान्यथा नाम कचि- दल्पकाला स्थितिः क्वचिद् दीर्घकालास्थितिरिति नियमोस्तीति । किं युक्तम्? अनियम इति, अविशेषात् = विशेषस्य नियमहेतोरभावातू ब्रीह्यादिष्वप्यल्पकाला वा स्यात् स्थितिराकाशादिष्विव, आकाशा- दावपि दीर्घकाला वा स्याद् नीहादिग्विव स्थितिरिति प्राप्ते- अभिधीयते-नियमोस्तीति । व्रीह्यादिप्राप्तौ हि " प्रतो वै खल दुनिष्प्रपतरम्” इति दुःखेन निष्क्रमणश्रवणाद् ब्रीह्यादौ दीर्घकाला स्थितिराभिधीयते तस्मादाकाशादावल्पकालास्थितिर्भवतीति सि- द्धम् । श्रीह्यादिप्राप्तेरेवानन्तरं अतो वै खलु इति श्रवणरूप- विशेषात् । तस्मादाकाशादारभ्य मेघपर्यन्तप्वचिरकालास्थितिर्भव- ति जीवस्य ब्रीह्यादिपुच चिरकाला स्थितिरिति सिद्धं विशेपेण ॥
नवमः पादः । (षष्ठमन्याधिष्ठिताधिकरणम्) "अन्याधिष्ठिते पूर्ववदभिलापात् २४ अशुद्धमिति चेन्न शब्दात् २५ रेतःसिग्योगोथ २६ योनेः शरीरम् २७" व्रीह्यादिविग्रहर्जन्म तैः संश्लेषोथ वा मतः । जायन्ते वचनादाद्योऽन्यस्तभावाभिलापतः ॥ इदं श्रूयते-" ते इह ब्रीहियवा ओपधिवनस्पतयस्तिलमाषा इति जायन्ते" अत्रावरोहतां जीवानां ब्रीह्यादिशरीरेण जन्मोच्यते किं वा तैीह्यादिभिः संप्रयोग इति सन्देहेभिधीयते-आध इति । उक्तश्रुतौ जायन्त इति वचनाजीवानामवरोहतां ब्रीह्यादिशरीरकं जन्मैव भवति । किं च यागादिफलभूतं स्वर्गादिकं भुक्त्वा यागसा- धनैकदेशस्य हिंसायाः फलं ब्रीह्यादिस्थावररूपेणानुभूयते तदुक्तम् "शरीरजैः कर्मदोपैति स्थावरतां नरः" इति तस्मादाद्यः पक्षो युक्तः। अत्रोच्यते-अन्य इति । द्वितीयः संश्लेषपक्षो युक्तः कुतः? तद्- भावाभिलापातू-यथा ह्याकाशादारभ्य मेघपर्यन्तं तदभावः संश्ले- षमात्रमभिलप्यते तथा ब्रीह्यांददिष्वपि विज्ञेयम् । यत्र हि भोगोभि- प्रेतस्तत्र भोगलाधनीभूतं कर्माभिलप्यने 'रमणीयचरणाः कपूय- चरणाः' इति । कर्माभिलापाभावादू ब्रीह्यादिप्राप्ती जीवस्य भोगा- भावः प्रतीयते भोगाभावाच्च ब्रीह्यादिसंश्लेपमात्र सिद्ध्यति न व्रीह्यादिरूपेण जन्म, जन्मनो भोगायैव जायमानत्वात् । यागसाधनक- देशभूता च हिंसा नानिष्टफलप्रदा भवति तस्य पशोः स्वर्गगमन- श्रवणात् “देवान् इदेपि पथिभिः सुगोभिः" इति । न हि तात्कालि- काल्पदुःखप्रदश्चिकित्सकः पापेनाश्लिप्यते? येन यागानुष्ठातृणां ब्रीह्या- दिशरीरेण जन्म स्यात् पशुहिंसापदेशेन ॥ ॥ इति नवमः पादः समाप्तः ॥
विशिष्टाद्वैताधिकरणमालायाम्- ॥ अथ दशमः पादः ॥ (प्रथमं सन्ध्याधिकरणम) म "सन्ध्ये सृष्टिराह हि १ निर्मातारं चैके पुत्रादयश्च २ मायामात्रं तु कास्न्य॑नानभिव्यक्तस्वरूपत्वात् ३ परामिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो ४ देहयोगद्वा सोपि ५ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ६" जीवः स्वप्नार्थक" स्यादेषु सुप्तोवति श्रुतेः । तच्छत्त्यभावाज्जीवस्य तत्कर्ता पुरुषोत्तमः ॥ इदमाम्नायते--"न तत्र रथा न रथयांगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते, न तत्रानन्दा मुदः प्रसुदा भवन्त्यथा- नन्दान्मुदः प्रमुदः सृजते, न तत्र वंशान्ताः पुष्करिण्यः सचन्त्यो भवन्त्यथ वेशन्तान् पुष्करिण्यः स्वन्त्यः सृजते स हि कर्ता" इति । तत्र-स्वप्ने। अनुकूल विषयजा प्रीतिरानन्दः । स्वकीयत्ववुद्धिजा प्रीतिर्मुत् । तद्विनियोगजा प्रीतिः प्रमुदित्यर्थः । स्वप्ने परिदृश्यमा- नानां रथादीनां कर्ता रचयिता जीव उत पुरुषोत्तम इति विचिकि- मायामुच्यत जीव इति । “य एयु सुप्तेषु जागर्ति कामं कामं पुरुयो निर्मिमाणः” इति श्रुते स्वप्नार्थकर्तृत्वं जीवस्यैव प्रतीयते । अत्रोच्यते-तच्छत्यभावादिति । जीवस्य स्वप्नार्थनिर्माणश- क्यभावात् तत्कर्ता स्वप्नार्थरचयिता पुरुषोत्तम एव । स्वप्नार्थनि- र्माणस्यहि सत्यसङ्कल्पत्वं तुःसत्यसङ्कल्पत्वं च यद्यपि जीवस्वरूप- मस्ति तथापि तस्य संसारदशायां देहसंयोगात् सूक्ष्माचिच्छक्ति- योगाहा कात्स्यैनाभिव्यक्तिर्नास्तीति या किल स्वमात्रवेद्यत्वेनाश्चर्य- रूपा स्वप्नसृष्टिस्तत्कर्तृत्वं पुरुषोत्तमस्यैवोपपद्यते न जीवस्य । “य एपु सुप्तेपु” इति श्रुतिरपि परमात्मन एव स्वप्नार्थकर्तृत्वं चदत्युपक्र- मोपसंहारयोः परमात्मासाधारणधर्मप्रतिपादनात् “तदेव शुक्र- तदूब्रह्म इत्यादिभिः॥
दशमः पादः । ७७ (द्वितीय तदभावाधिकरणम्) "तदभावो नाडीषु तच्छ्रुतेरात्मनि च ७ अतः प्रबोधोस्मात् ८" पुरीतद् ब्रह्म नाड्यश्च सुप्तिस्थानतया श्रुताः । विकल्पः संग्रहो वैषां विकल्पो नैरपेक्ष्यतः । संग्रहः कार्यभेदेनोपपत्तेश्च तथाश्रुतेः ।। स्वप्नार्थपरीक्षणादनन्तरं सुप्तिस्थानपरीक्षणावसरः प्राप्तस्तथा हि “अथ यत्रतत्सुप्तः समस्तः संपन्नः स्वप्नं न कंचन विजाना- त्यासु तदा नाडीषु सृप्तो भवति" इति श्रुते डीनां सुप्तिस्थानत्वं प्रतीयते । अथ यदा सुषुप्तो भवति यदा न कस्य चन वेद हिता नाम नाड्यो हि द्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” इति श्रुतेश्च पुरीततः सुषुप्तिस्था- नत्वं प्रतिपाद्यते । “यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति स्वपितीत्याक्षते” इति श्रुतेश्च ब्रह्मणः सुषुप्तिस्थानत्वं प्रतीयते । नाडीपुरीतह्मणां विकल्पेन सुप्तिस्थानत्वं समुच्चयेन वेति विशये परस्परं निरपेक्षत्वाद् युगपदुक्तस्थानत्रये जीवस्य वृत्त्यसंभवाच्च विकल्पो युक्तः । अत्रोच्यते-संग्रह इति। कार्यभेदेन त्रयाणामेव सुपुप्तिस्थानत्वो- पपत्तेः, तथाश्नुतेः त्रयाणामेव सुपुप्तिस्थानत्वेन श्रुतेश्च संग्रहः समुच्चयः । कार्यभेदो हि-नाड्यः प्रासादकार्य कुर्वन्ति पुरीततू खट्टा- कार्य करोति ब्रह्म च पर्यङ्ककार्य करोति । यथा हि गृहे शेते खवा- यां शेते शयने शेतेत्र गृहादीनां समुच्चयो भवति तथात्रापिविज्ञेयम् ॥ - (तृतीयं कर्मानुस्मृनिशब्दविध्यधिकरणम् ) " स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ९ सुप्तस्य मुक्तसाम्येन सुप्तादन्यः प्रबुध्यते । विध्यनुस्मृतिशब्देभ्यः : सुप्तएव प्रबुध्यते ॥ अयमत्र संशयः सुपुप्तेरनन्तरं सुप्तादन्यः प्रवुध्यते स एव सुप्तो ७८ विशिष्टाद्वैताधिकरणमालायाम्- वेति । उक्तश्रुत्या सुप्तस्य परमात्मनि संपन्नस्य मुक्तमाम्यात सुप्तादन्यः प्रवुध्यतं न हि ब्रह्मणि संपन्नस्य पुनः संसारसम्बन्धी युक्तः । अत्रांच्यते सुप्त एवेति । सुप्तस्य मुक्तत्वे मोक्षार्था विधयां- ऽनर्थकाः स्युस्तस्मात्सुप्त एव प्रवुध्यते । य एवाहं सुप्तः स पवाई प्रतिवुद्धोस्मीत्यनुस्मृतेश्च प्रतीयते य एव स्वपिति स पव प्रति- बुध्यत इति । शब्दः = श्रुतिः । “त इह व्याघ्री वा सिंही वा वृको वा वगहो वा कीटो वा पतङ्गो वा मशको वा यद् यद् भवन्ति तथा भवन्ति” यः सुपुप्तेः पूर्व व्याघ्रो भवति सुपुप्तेरनन्तरं प्रबोधसमये स व्यान एव भवतीत्येवं श्रुतेरर्थः, इति श्रुतैरपि सुन एवं प्रतियु- ध्यत इति प्रतीयते । यदि सुप्तादन्यः प्रतिवुध्यत तदान्यन मुगुप्तिं प्राप्तेन कृतं कर्मान्येन प्रतिवुद्धन भोक्तव्यं स्यादिति कृतहानिरकृता- भ्यागमो दापोपि स्यादित्युच्यते-स एव प्रतिवुध्यत इति । : (चतुर्थ मुग्धाधिकरणम्) " मुग्धेर्धसंपत्तिः परिशेपात् १०" सुप्त्याद्यन्तर्गता मूर्छा तत्प्रसिद्ध्युपपत्तितः । सुप्त्यादिभ्यः पृथङ् मूर्छाऽवस्था तु परिशेषतः ॥ किं मूळ जाग्रत्वप्नसुपुप्तीनामन्यतमावस्थाहोस्विवस्थान्तर- मिति विचिकित्सायां-सुपुप्त्यादीनामन्यतमावस्थायामेव मूत्वि- प्रसिद्ध्युपपत्तेद्छी सुषुप्त्याद्यन्तर्गतावस्थेति प्राप्तेभिधीयते-सु- प्त्यादिभ्यः पृथगिति । मूर्छा हि न जाग्रवस्था नापि स्वप्नावस्था ज्ञानाभावात् । नापि सुषुप्तिः । मूछी ह्यभिघातादिना भवति न हि सुषुप्तेः कारणमभिधातादिः । नापि मरणावस्था मूर्छ पुनरपि प्रयो- धसंभवात् । न हि मरणादनन्तरं प्रबुध्यते जीवस्तस्मात्परिंशषतो जाग्रत्स्वप्नसुपुप्तिमरणेश्यः पृथगवस्थान्तरं मूर्छा ॥ (पञ्चममुभमलिङ्गाधिकरणम् ) " न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ११ भेदादिति चेन्न प्रत्येक- मतद्वचनात् १२ अरूपवदेव हि तत्प्रधानत्वात् १४ प्रकाशवच्चाव- दशमः पादः । ७९ यात् १५ आह च तन्मात्रम् १६ दर्शयति चाथोपि स्मर्यते १७ अत एव चोपमा सूर्यकादिवत् १८ अम्बुवदग्रहणात्तु न तथात्वम् १९ वृद्धिहासभाक्त्वमन्तरभावादुभयसामञ्ज- स्यादेवं दर्शनाच्च २० प्रतितावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः २१ तदव्यक्तमाह हि २२ अपि संराधने प्रत्यक्षानुमानाभ्याम् २३ प्रकाशादिवच्चावैशेप्यं प्रकाशश्च कर्म- ण्यभ्यासात् २४ अतोऽनन्तेन तथा हि लिङ्गम् ” जीवदोषाः परब्रह्म दूषयन्ति न वाथ किम् । आद्यस्तदेहसम्बन्धात् परस्तूभयलिङ्गतः ॥ ये जीवगता दोपा अज्ञानपापजरामरणकामक्रोधादयो हेयत्व- बुद्धिविषयास्ते परं ब्रह्म दूषयन्ति न वा-परमात्मनि विद्यन्ते न वेति सन्दहे विद्यन्त इत्याद्यः पक्षायुक्तः, तदेहसम्बन्धात्, यथा हि निर्दो- मपि जीवं दूषितदेहसम्बन्धाद् दूषयन्ति दापास्तथा जीवशरीरकं जीवान्तर्यामिणमपि ते दोपा दूपयन्ति उक्तदोपदूपितजीवलक्षण- शरीरसंबन्धादिति पूर्वपक्षे- अभिधीते-पर इति न दूपयन्तीति पक्षो युक्तस्तत्कस्य हेतोः? उ- भयलिङ्गत इति । निरस्ताखिलदोपत्वेन कल्याणगुणसागरत्वेन चोभयलिङ्गमुभयलक्षणकं ब्रह्माभिधीयते यथा-"अपहतपाप्मा वि- जरी विमृत्युर्विशोकोऽविजिधित्सोऽपिपास. सत्यकामः सत्यसंक- समस्तकल्याणगुणात्मकोसौं स्वशक्तिलेशोधृतभूतवर्ग:" परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे” इति ॥ (षष्ठमहिकुण्डलाधिकरणम् ) उभयव्यपदेशात्त्वहि कुण्डलवत् २६ प्रकाशाश्रयवद्वा तेज- स्त्वात् २७ पूर्ववहा २८ प्रतिषेधाच्च २९" ८० विशिष्टाद्वैताधिकरणमालायाम- - Ans- अचिदो ब्रह्मरूपत्वं किंस्वरूपमिहायते ? । अहिकुण्डलवद् विद्यादुभयव्यपदेशतः ।। किं वैकजातियोगेन प्रभातयुक्तयोरिव । दुष्टं पक्षद्वयं तस्माज्जीवस्येवांशभावतः ॥ अचिद्वस्तुनो ब्रह्मरूपत्वं किंस्वरूपमिति जिज्ञासायामाशयते- किमचिद्वस्तुनोहिकुण्डलवद् ब्रह्मरूपत्वं किं चा प्रभाप्रभावतोरिव कि वा जीवस्येवांशांशिभावनेति, किं युक्तम्? अहिकुण्डलवदिति यथा- ऽहिकुण्डलं नामरूपाध्यामहेः पृथग भवति द्रव्यन्वनापृथग भवति द्र- व्यक्यात् तथाऽचिवस्त्वपि नामरूपाभ्यां ब्रह्मणो भिन्नं भवति द्रव्यत्वेन चाभिन्नमपि भवति, एवमेवोभयरूपेण व्यपदिश्यते- ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम्” इति तादात्म्योपदेशः। न्ताहमिमास्तिनो देवता अनेन जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति भेदव्यपदेशः । किं वा यथा प्रभाप्रभावतो- भिन्नयोरपि तेजस्त्वेनैक्यमेवमचिद्वस्तुनो ब्रह्मरूपत्वं युक्तम् । अत्राह-दुष्टमिति। यद्यहिकुण्डलदृष्टान्तेन ब्रह्मवाचिद्रूपेणावतिष्ठते तदा ब्रह्मणः परिणामित्वं स्यात् तथा चापरिणामित्ववादिन्यः श्रुत- यो भेदवादिन्यश्च बाधिताः स्युरिति प्रथमः पलो दुष्टः । द्वितीये च पक्षे गोत्ववद् ब्रह्मैव चिदचिदीश्वरेष्वनुवर्तमान सामान्यं मन्त- व्यं तथा च सकलश्रुतिस्मृतिविरोध इति द्वितीयः पक्षो दुष्टः । तस्माद् यथा जीवो ब्रह्मांशस्तथा विशेषणविशेष्यभावेनाचिद्वस्त्वपि ब्रह्मांश इत्यशत्वेनाचिद्वस्तुनो ब्रह्मरूपत्वं युक्तम् । तथा च विशिष्ट- वस्त्वेकदेशत्वेन “ब्रह्मैवेदं सर्वम्" इत्याद्यभेदव्यवहारोपि मुख्यः सं- पन्नः । विशेषणविशेष्ययोः खरूपस्वभावभेदेन " हन्ताहमिमास्ति- स्रो देवताः” इत्यादिभेदव्यवहारोपि मुख्यः संपन्नः ॥ (सप्तमं पराधिकरणम) "परमतः सेतून्मानसम्वन्धभेदव्यपदेशेभ्यः ३० सामान्यात्तु ३१ बुद्ध्यर्थः पादवत् ३२ स्थानविशेषात् प्रकाशादिवत् ३३ दशमः पादः। ८१ -- उपपत्तेश्च ३४ तथान्यप्रतिषेधात् ३५ अनेन सर्वगत- त्वमायामशव्दादिभ्यः ३६" अस्माज्जगन्निदानात् किं तत्त्वमस्ति परं न वा, । उन्मानसेतुसम्बन्धभेदानां श्रुतितोस्ति तत, ॥ उन्मानित्वमुपासार्थमसभेदाय सेतुता । प्राप्यप्रापकसम्बन्धः स्वस्य स्वयमुपायतः ।। तत्परस्य निषेधाच्च भेदोक्तेर्हेतुता न हि । तस्मादस्मात्परं नास्ति श्रुत्यर्थस्य विचारणात् ।। अस्लाजगन्निमित्तांपादानकारणाह्मणः परमपि किं चित्तत्त्व- मस्ति नवेति विशयेस्ति तदित्युच्यते हेतुरुन्मानेत्यादिर्विज्ञेयः । उ- न्मानं = परिमितिः, “चतुष्पाद पोडशकलम.” इत्यादी ब्रह्मोन्मान- व्यपदेशादस्त्यस्मात्परं तत्त्वं यद नुन्मितं स्यात् । तथा-"अथ य आत्मा स सेतुर्विधृतिः" "एतं संतुं तीळ विद्धः मन्नविद्धो भवति" इत्यादावस्य ब्रह्मणः सेतुत्वनिरूपणात । यथा लोके सेतोरत्यं प्राप्यं कुलं परं भवति तथानेन सेतुरूपेण ब्रह्मणा परमपि तत्त्वं प्राप्यमस्ती ति विज्ञायते । किं च अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् "अमृतस्यै । सेतुः" इत्यादी प्राप्यं परं तत्त्वमिदं च ब्रह्म प्रापकं से- तुवदिति प्राप्यप्रापकसम्बन्धव्यपदेशादस्ति परं तत्त्वम् । अपि च "परात्परं पुरुपमुपैतिदिव्यम्” “परात्परं यन्महतो महान्तम्" "ते. नेदं पूर्ण पुरुषेण सर्व ततो यदुत्तरतरं तदरूपमनामयम्” इत्यादी परापरतत्त्वयोर्भेदेन व्यपदेशाद्विज्ञायतेऽस्मात्परमपि तत्त्वमस्तीति । अत्रोच्यते-उन्मानित्वमित्यादि । “चतुष्पाद् ब्रह्म षोडशकलम, पादोस्य विश्वा भूतानि" इत्यादावुन्मानित्यव्यपंटश उपासार्थः, य- थाऽपरिच्छिन्नस्याप्याकाशस्य प्रकाशस्य वा घटादिस्थानभेदेन प- रिच्छिन्नत्वानुसंधानं सम्भवति तथास्य ब्रह्मणापि परिमितत्वानुसं. धान सम्भवति तच्चोपासनार्थम् । एवं लेतुत्वं च ब्रह्मणोऽनसभेदा- योच्यते लोकानामसंकरकरत्वात् । अथ य आत्मा स सेतुर्विधु- ११ (२ विशिष्टहिताधिकरणमालायाम- तिरेप लोकानामसम्भेदाय" इति श्रुतेः । सिनोति बध्नाति स्वस्मि- सर्वमिति सेतुः। न तुप्रापकत्वात्सेतुत्वमुच्यते । "अमृतस्यैप नतुः" इत्यादिप्राप्यमापकसम्बन्धो हि स्वस्य स्त्रयसुपायत्वं यातयति ब्रह्मप्राप्ती ब्रह्मवोपायर्यास्ति नान्यस्तथा श्रृयत च-"नायमान्मा प्रव- चनेन लभ्यो न मेधया न बहुना श्रुतन यमवर वृणुने तेन लभ्यस्त- स्यैष आत्मा वृणुत तनूं स्वाम" इति। न तु परतत्त्वयाननार्थः प्राप्य प्रापकसम्बन्ध.। तथा परात्पमित्यादिभेदोक्तः परतत्त्वमिद्धा हेतु- तंव नास्ति तत्रैवास्मात्परमात्मनः परस्य नत्वस्य प्रतिषेधातू- "य- स्मात्परं नापरमस्ति किं चित्" इति । तस्मात् - इन्मानव्यपदेशा- दीनामुपासनाद्यर्थकत्वादस्मात्परब्रह्मणः परं तत्त्वं किंचिदपि नास्ति किं त्विदमेव परं ब्रह्म परं तत्त्वमिति विजयम् ॥ (अष्टनं फन्दाधिकारण) फलमत उपपत्तेः ३७ श्रुतत्वाच्च ३८ धर्म जैमिनिरत एव ३९ पूर्व तु बादरायणो हेतुव्यपदेशात् ४०" पूर्वोत्तरविभागोक्तकर्मणां किं फलप्रदम् । कर्मैव साधनत्वात्तु श्रुतेर्ब्रह्मोपपत्तितः ॥ वेदस्य पूर्वभाग उक्तानां कर्मणां ज्योतिष्टोमादीनामुत्तरभाग उक्तानां कर्मणामुपासनानां च यद् यथायथं फलं स्वर्गादिकं मोक्षश्च तत्पदं किं कर्मात ब्रह्मति विचिकित्सायां कर्मवेति युक्तं साधनमेव हि स्वसाध्यफलप्रदं भवति कर्म च साधनं फलस्य तस्मात्कमेव फल- प्रदम् । अन्यथा कर्मणां वैफल्यं स्यात् । अत्रोच्यते-श्रुतेरिति, उपपत्तितः श्रुतेश्च ब्रह्मव फलप्रदम् । उप- पत्तिस्तावत् तद् ब्रह्म सर्वशं सर्वशक्तिमदिति कर्मभिराराधितं यथा- यथं फलं ददातीति । श्रुतिश्च “स वा एप महानज आत्मान्नादो वसुदानः, एपहोवानन्दयति" इति । स्मर्यते च "मुक्तिमिच्छेजना- दनात्" इति । कर्माणि तु भगवदाराधनस्वरूपाणि भगवत्प्रसादस- म्पादनमात्रेण चरितार्थानि । साक्षाद्भगवदुपासनभिन्नान्यपि कर्मा- दशमः पादः । (३ णि सूर्यादिदेवतान्तर्याम्याराधनपराणीति सकलं कर्म तत्तदेवता- शरीरकभगवदाराधनस्वरूपमिति विज्ञेयम् ॥ ॥ इति दशमः पादः समाप्तः ।। ॥ अथैकादशः पादः॥ (प्रथम सर्ववेदान्तप्रत्ययाधिकरणम्) "सर्ववेदान्तप्रत्ययं चोदनाद्यविशेपात् १ भेदान्नेति चेदेकस्यामपि २ स्वाध्यायस्य तथात्वे हि समाचारेधिकाराच सववच्च तन्नियमः ३ दर्शयति च ४ उपसंहारोथाभेदाद्विधिशेयवत् समाने च ५" अभिन्नोपास्यविद्यानां भेदो भेदकभेदतः । अभेदो रूपसंयोगचोदनाख्याऽविशेषतः ॥ उपनिषत्सु घह्व उपासनाः श्रूयन्ते यथा-"तान हो वाचैते वै खलु यूयं पृथगिममात्मानं वैश्वानर विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेष्वात्मस्वन्नमत्ति" इति छान्दोग्य५प्रपाठके श्रूयते । एपैव वैश्वानरविद्या वाजसनेयोपनिपदि श्रूयते अयमग्निवैश्वानरो योय- मन्तः पुरुषे” इति । एतयोर्वैश्वानरविद्ययोः परस्परं भेद उताभेद इति विशेये-भेदकानां प्रकरणादीनां भेदाभेद इति युक्तम् । अत्रोच्यते--अभेद इति, रूपं = उपास्यो वैश्वानरस्तस्याविशे- पातू =ऐक्यातू, एवं सयोगः = फलसम्बन्धो ब्रह्मप्राप्तिलक्षणस्तस्यै- क्यातू, चोदना उपास्त इत्याद्युपासनालक्षणा तस्या ऐक्यान्य, आख्या=वैश्वनरविद्येति नामधेयं तस्यैक्याच्च-अभिन्नोपास्यविद्यानां परस्परमभेदो विज्ञेयः । एवं छान्दोग्यप्रपाठके पञ्चाग्निविद्या श्रूयते, वाजसनेयके चाटमाध्यायस्य द्वितीयब्राह्मणे पञ्चाग्निविद्या श्रूयते तयोरप्यभेदो विज्ञेयो यत उक्तानां रूपादिनामभेदे विद्यानाम- भेदो भवति, भेद च भेदो भवतीति॥
८४ विशिष्टाद्वैताधिकरणमालायाम्- - (मिनीयमन्ययायाधिकरणम) "अन्यथात्वं शब्दादिति चेन्नाविशेषात् ६ न या प्रकरणभेदात परो- वरीयस्त्वादिवत् ७ संज्ञातश्चत्तदुक्तमस्ति तु तदपि ८ व्याप्तिश्च समजमम् ९" उद्गीथविद्ययारेक्यं भेदकानामभेदतः । भेदो युमास्यरूपस्य प्रधानस्य प्रभेदतः ॥ दया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयमा पव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह दया उचुहन्नासुरान् यज्ञ उद्गीथनात्यचमिति" इत्यारभ्य "हममानन्यं प्राणमृचुरत्वं न उद्गायति तति तेश्य एप प्राण उगायत ने विदुरनन बैं न उद्- गात्रात्यप्यन्तीति" "ततो देवा अभवन् परामुरा भवत्यात्मना परा- स्य द्विपत् भातृव्यो भवति य एवं बंद" इत्यत्र वाजसनेयक प्रथ- माध्यायल्य तृतीयत्राह्मण उदगीथविद्यान्नाना फलं च शत्रपराभवः । देवासुरा ह वै यत्र संयतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथ- माजहुरनेनेनानभिभविष्याम इति" इन्चारश्य-"अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुरा ऋत्वा बिदध्वंसुर्य- थारमानमाखणमृत्वा विध्वंसेतू इत्येवं च शान्दोग्ये प्रथमप्रपाठकस्य द्वितीयखण्डे उद्गीथविद्याम्नाता । इत्यवमुकयोरुद्गीथविद्ययार- भेदः किमुत भेद इति संशये-ऐक्यम् = अभेद इत्युच्यते भदकानां रूपादीनामभेदात्, रूपं तावदध्यस्तप्राणभाव उद्गीथः स चोभयत्र समान एव । फलं च शत्रुपराभवः मोपि तुल्य एव । आख्या चा- दगीथविद्येति सापि समानेति विद्यैक्यमिति प्राप्त- अभिधीयत्ते-भेद इति । उपासनायामुपास्वरूपसेव प्रधान भवति तच्चोभयत्र विशिष्टमस्ति तथा हि-वाजसनेयके तावत् "अथ हममासन्यं प्राणभूचुः” इत्यनेनोद्गानकर्तरि प्राणदृष्टिान्नाता । छान्दोग्य च अथ य एवायं मुख्यः प्राणः” इत्यनेनोद्गानकर्मण्यु- दूगीथे प्राणदृष्टिराम्नातेति रूपभेदे सत्याख्यायेक्यस्याकिं चित्कर- त्वाद् भेद एव । सूत्रकारेण हापरिष्ठाद्विवैक्यमाशयान्यथात्वमित्य- नेन विद्याभेदं प्रतिपाद्य पुनरपि ' इति चंन्नाविशेषात्' इत्यनेन विद्ये क्यमुक्त्वा पुनश्च “न वा प्रकरण भेदात्" इत्यनेन विद्याभेदः सिद्धा. - Y एकादशः पादः । न्तितस्तथा च छान्दोग्य उदुर्गाथावयवस्य प्रणवस्योपासनमुक्त- मित्यपि विद्याभेदे हेतुरस्तीति विद्याभेद एव नामाऽन्या छन्दोगाना- मुद्गीथविद्या, अन्या च घाजिनामिति ॥ (तृतीयं सर्वाभेदाधिकरणम् ) सर्वाभेदादन्यत्रेमे १०" कौपीतकीनां प्राणस्य विद्या भिन्ना न वाथ किम् । भिन्ना वसिष्ठत्वादीनां गुणानामश्रुतेः श्रुतेः ॥ अभिन्नैषां गुणानां स्यादर्थादत्र प्रतीतितः। गुणानुवादमात्रेण विद्या नैव प्रभिद्यते । "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च" इत्येवं छन्दोगानां प्राणविद्याम्नायते । "यो ह वै ज्येष्टं च श्रेष्ठं च वेद ज्यष्टश्च श्रेष्ठश्च स्वानां भवति प्राणो घे ज्येष्ठश्च श्रेष्ठश्च, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येपां वुभूपति य एवं वेद" इत्यवं वाजसनेयकानां प्राणविद्याम्नायते । अथ हेमा देवताः प्रजापतिं पितरमेत्याब्रुवन् को वै न, श्रेष्ठः" इत्येवं कौपीत- कीनां प्राणविद्याम्नायते । छन्दोगवाजसनेयकयोः प्राणविद्यातः कौपीतकीनां प्राणविद्या भिन्ना किमुताभिन्नति सन्देहे भिन्नेत्युच्यते कौपीतकिप्राणविद्यायां वसिष्ठत्वादीनां वागादिसम्बन्धिनां गुणा- नां प्राणेऽन्वयाश्रुतेः । छन्दोगवाजसनेयकयोश्च प्राणविद्यायां वागा- दिसम्बन्धिनां गुणानां प्राणेऽन्वयः श्रूयते-“अथ है नं वागुवाच यदहं बलिष्ठास्मि त्वं तद्वसिष्ठोसि” इति । तस्मादेकत्र वसिष्ठत्वा- दिगुणान्वयस्याश्रुतेरन्यत्र श्रुतेश्च रूपभेदादू भिन्ना कौपतकिप्राणवि- ोति प्राप्त- अभिधीयते-अभिन्नेति । अत्र कौपीतकिप्राणविद्यायामेषां वसि- ष्ठत्वादिगुणानामर्थादेव प्राणन्वयाप्रतीयते।यैव प्राणविद्या ज्यैष्ठ्या- दिशुणयुक्तप्राणविपया छन्दोगादीनां प्रतीयते सैव प्राणविद्या को- पीतकीनामपति प्रत्यभिज्ञायते ज्यैष्ठ्यादिगुणान्वयश्रवणातू त- - ८६ विशिष्टाद्वैताविकरणमालायाम्- स्माद नुक्तस्य वसिष्ठत्वादिगुणान्वयस्यात्रार्थात्प्रतीतिर्भवति । “यद- ६ वसिष्ठारिम त्वं तद्वसिष्ट्रीसि" इत्येवं गुणानुवादमात्रं कौपीनकि- भिर्न कृतं नैतावता विद्या भिद्यते तस्मादभिन्ना कौषीतकिप्राणविद्या। ४ (चतुर्थमानन्दायधिकरणम् ) 'आनन्दादयः प्रधानस्य ११ प्रियशिरस्त्वाद्यप्राप्तिरुपचया- पचयो हि भेदे १२ इतरे त्वर्थ सामान्यात् १३ आध्या- नाय प्रयोजनाभावात् १४ आत्मशब्दाच १५ आ- स्मगृहातिरितरवदुत्तरात् १६ अन्वयादिति चेत् स्यादवधारणात् १७" परविद्यासु किं सर्वास्वानन्दाद्युपसंहृतिः । नास्ति वास्तीति सन्देहे मानाभावेन नास्ति सा। अस्ति विद्यास्वऽभेदेन गुणिनः परमात्मनः । न स्यात् कथं स्वरूपस्य प्रतीतेरनुबन्धिनाम् ॥ ब्रह्मखरूपगुणानामानन्दादीनां सर्वासु परविद्यासु ब्रह्मोपासना- सूपसंहारो नास्ति किं वास्तीति ? नास्तीति युक्तम् । प्रकरणान्त- राधीतानां गुणानांप्रकरणान्तरातोपासनासूपसंहारेप्रमाणाभावात्। अत्रोच्यते-अस्तीति, आनन्दादीनां ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोम्त्येव । गुणिनः परमात्मनः सर्वासु परविद्या- खऽभेदात् , स्वरूपप्रतीत्यनुवन्धिनां गुणानामानन्दादीनां कथं नोप- संहारः स्यात् । यथा हि यत्र यत्र घटः प्रतीयते तत्र तत्र कम्युग्री- वादिमत्त्वमपि प्रतीयते तत्कस्य हेतोः? तस्य घटस्वरूपानुवन्धित्वात् तथा यत्र यत्र विद्यासु ब्रह्मप्रतीतिरस्ति तत्र तत्र स्वरूपानुवन्धिनां गुणानामुपसंहृतिरस्त्येव । कारुण्यादीनां तु गुणानां सर्वत्रोपसंहारो नास्ति स्वरूपानुवन्धित्वाभावत् किं तु यत्र विद्यायामधीतास्तत्रैव । एवं “तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः" इत्यादिप्रियशिरस्त्वादीनामप्युपासनाविशेष पचोपसंहारो चिशेयः । आत्मनः सुखप्रतिपत्त्यर्थं रूपणमात्रमिदं ॥ ? -- एकादशः पादः । (७ - । (पञ्चमं कार्याख्यानाधिकरणम) कार्याख्यानादपूर्वम् १" आपो वास इति श्रुत्याऽऽचमनं किं विधीयते । प्राणवासस्त्वबुद्धिर्वा पूर्वस्तत्प्रत्ययश्रुतेः ।। परोऽप्राप्तविधानेन शास्त्राणामर्थवत्त्वतः ॥ इदमानायते-"किं मे वासः" इति प्राणेन पृष्टा वागादय ऊचुः "आपो वास इति तद्विद्वांसःश्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते, तस्मादवं विदशि- प्यन्नाचामेदशित्वा चाचामेदेतदेव तदन्नमनग्नं कुरुते” इति । अत्रा- चमनं विधीयते किं वाप्नु प्राणवासस्त्वानुसंधानं विधीयत इति विशये तत्प्रत्ययश्रुतेः-आचामेदिति विधिप्रत्ययश्रवणादाचसनं विधीयते । अत्रीच्यते पर इति । आचमनं तु श्रुतिस्मृतिभ्यः प्राप्त मेवास्तीति प्राप्तविधानेन शास्त्रख्यार्थवत्त्वाभावात् । अप्राप्तस्य प्राण- वासस्त्वानुसन्धानस्य विधानेनार्थवत्त्वाभापतु प्राणवासस्त्वानु- सन्धानमेव विधीयते ॥ (षटं समानाधिकरणम् ) "समान एवं चाभेदात् १९" शाण्डिल्यविद्ययोर्भेद उताभेदः, प्रभिन्नता- 1 वशित्वादिगुणानां तु प्रभेदाद्रूपभेदतः । परः संकल्पसत्यत्वाद् वशित्वाद्युपसंग्रहात ॥ वाजसनेयोपनिषद्युभयत्र शाण्डिल्यविद्यानायते-"स आत्मान- मुपासीत मनोमयं प्राण शरीरं भारूपं सत्यसंकल्पमाकाशान्मानम् इति तथा-"मनोमयोयं पुरुषो भाः सत्यस्तस्मिन्नन्तईदये यथा ब्री- हिा यवो घास पप सबस्यंशानः सर्वस्याधिपतिः" इति सप्तमा- ध्यायस्य ६ वाहाणे, उक्तयोर्विद्ययोर्भेदो वाऽभेदो वेति सन्देहे भेस्- एव युक्तो यत एकत्र वशित्वादयो गुणा न श्रूयन्ते परत्र च श्रूयन्ते त.
८८ विशिटाहताधिकरणमालायाम्- स्माइशित्वादिगु गानां भदात-रूपस्योपास्यस्य ब्रह्मणो भेदा विद्या- भेद इति प्रा। अभिधीयते-पर: इति, अभेदयतो युक्तः । यत्र म यात्मानम् इत्यादी वशित्वादिगुण कीतनं नास्ति तत्र सत्यमत्यसंकल्पन्यनगेन वशित्वादिगुगानामुपसंहारो भवति । सत्यसंकल्पत्वस्य वशित्या- दीनां चाभदात् विद्ययोरग्यभदो विज्ञेयः ॥ (सप्तम तरन्धाधिकरणम्) "संवन्धादेवमन्यत्रापि २० न वा विशेषात् २१ दर्शयति च २२" वाजिनां ये रहस्याख्योपनिषदौ श्रुते तयोः । उभयत्रोपसंहारो नियमाहा व्यवस्थितिः ॥ आद्यः शाण्डिल्यविद्यावत् परः स्याद्रूपभेदतः । एकत्र ध्येयसाक्षि परत्र रविमण्डलम् ॥ वाजसनेयके सप्तमाध्यायस्य पञ्चमब्राह्मणे श्रूयते-“य पर एत- स्मिन् मण्डले पुरुषस्तस्य भूरिति शिर एक शिर एकमेतारं भुव इति वाहू द्वौ वाहू द्वे एतेअक्षरेस्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्यो- पनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वंद" इति । तथा-"याय दक्षिणेऽनन् पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरंभुव इति चाहू द्वौ बाहू द्वे एते अक्षर स्वरिति प्रतिष्टा प्रतिष्ठे द्वे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद” इति । येत्र श्रुतेऽहरहमित्युपनिषदो तयोरुभयत्रोपसंहारो युक्तः किंवा निय- मात् = यथोक्तस्थानयोर्व्यवस्थितिरिति विचिकित्सायां-यथा शाण्डि- ल्यविद्यायां वशित्वादिगुणानामुपसंहारस्तथात्राप्युपनिषदोरुपसं- हारो युक्त इतिप्राप्ते- अभिधीयते-पर इति । नियमेन व्यवस्थितिपक्षो युक्तः । गुणोप- संहारे हि विद्यैक्यं हेतुर्विवैक्ये च रूपाद्यभेदो हेतुः शाण्डिल्यवि- द्यायां रूपाद्यभेदेन विद्युक्याद् युक्तो गुणोपसंहारो न चैवमत्र विवे. क्यमस्ति रूपभेदातू= उपास्यभेदात् । तदुच्यते एकत्रेति--एकत्र एकादशः पादः । ८९ विद्यायामुपास्यस्य स्थानमाक्ष, अपरत्रोपास्यस्थानं रविमण्डलमिति स्थानभदनापास्यभेदाद्विद्याभेदस्तथा चोक्तापनिपदोनियमन व्यव- स्थितिरव युक्ता, सूर्यमण्डलस्थोपासनायामवाहरित्युपनिषत् । अक्षिस्थोपासनायामवाहमित्युपनिषदिति ॥ (अष्टम संभृत्यधिकरणम्) "संभृतिाव्याप्त्यपि चातः २३" संभृत्यादिगुणानां किं सर्वत्रैवोपसंहतिः । कासु चिहाथ विद्यासु ब्रह्मज्येष्ठा इति श्रुतौ ॥ सर्वत्रैवेति पक्षोऽनारभ्याधीतत्त्वतो मतः । उपसंहारयोग्यायामुपसंहरणात् परः ॥ इदमानायते "ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्मा ज्येष्ठं दिवमा- ततान" इति ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्टानि, वीर्याणि पराक्रमविशपा आकाशोत्पादनादयस्तानि च वीर्याणि संभृतानि निर्विघ्नं संवद्धानि, तच ज्येष्ठं ब्रह्मान देवाद्युत्पत्तेः प्रागेव दिवं स्वर्ग- माततान व्याप्तवदित्यर्थः । अत्र वीर्यसंभृतिर्युव्याप्तिश्चंत्यादिगुण- जातं श्रूयते तेपामेपां गुणानां किं सर्वासु विद्यासूपसंहारः कार्यः किं वा कालु चिदिति विशये सर्वासूपसंहारो युक्तस्तेपां गुणानाम- नारल्याधीतत्वात् । यदि कामप्युपासनामारभ्य संभृत्यादिगुणाना- मध्ययनं स्यात्तदा तत्रैवोपासनायामुपसंहारः स्यानचैवमस्तीति प्राप्ते- उच्यते-पर इति, परः पक्षो युक्तः । यद्यपि संभृत्यादय एते गुणा अनारझ्याधीतास्तथापि यत्र तंपामुपसंहारः संभवत्येव न तत्र कथं- कारमुपसंहारः स्यात् । यथा एप मे आत्मान्तहृदये" दहरं पुण्डरीकं वेश्म" इति शाण्डिल्यविद्यायां दहरविद्यायां चोपास्य- स्थानस्यातीवाल्पत्वात्तत्रस्थोपास्ये परब्रह्मणि धुव्याप्त्यादिकं कथ- मन्धियातू, तत्संनियोगशिष्टस्य संभृत्यादिगुणस्याप्यनापसंहारो न १२ ९० विशिष्टाद्वैताधिकरणमालायाम्- युक्त इति सर्वत्रोपसंहारसामर्थ्याभावादुपसंहारयोग्यावेच कासु चिद्विद्यासूपसंहारो भवति यत्र विपुलत्वेन ब्रह्मोपास्यते ॥ (नवमं पुरुषविद्याधिकरणम् ) "पुरुपविद्यायामपि चेतरेपामनानानात् २४"" पुरुषविद्ययोरैक्यं रूपभेदाद्यऽभावतः । गुणाम्नानस्य भेदेन भेदो रूपादिभेदतः ॥ तैत्तिरीयके पुरुपविद्याम्नायते-" तस्यैवं विदुपो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिौमानि चर्हिः" इति । तथा छान्दोग्ये तृतीयप्रपाठकस्य १६खण्डेपि पुरुषविद्याम्नायते- पुरुपो वाव यज्ञस्तस्य यानि चतुर्विशति वणि तत्प्रातः सवनं चतुर्विशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वा व वसव एते हीदं सर्वं वासयन्ति" इति । अत्रोक्तयोः पुरुषविद्ययोरभेदो वा भेदो वेति संदेहः किं युक्तम् ? अभेद इत्येव यत उभयत्र पुरुषविद्येत्याख्यकैव तथा पुरुषस्य यज्ञत्वेन रूपेणो- पासनस्याविशेषाद्पैक्यमप्यस्तीति विदचयोरक्ये प्राप्ते- अभिधीयते-भेदइति । छान्दोग्ये हि पुरुपायुस्त्रेधा विभज्य तत् प्रातर्माध्यन्दिनसायसवनत्वेन रूपितं न चैवं रूपएं तैत्तिरी- यस्तीत्यादिरूपभेदातू, तथा तैत्तिरीयपुरुषविद्याया ब्रह्मप्राप्तिरेव- फलम् । छान्दोग्यपुरुषविदयायास्त्वायुर्वृद्धिरेव फलमू-" पोडशं वर्यशतं जीवति य एवं घेद” इति । तस्माद् गुणाम्नानभेदकृतरूपभे- दाद्विदचयोर्भेद एवं ॥ (दशमं वेधाधिकरणम्) "वेधाद्यर्थभेदात् २५” शुक्र प्रविध्येत्यादीनां मन्त्राणां ब्रह्मवेदने । अङ्गतास्ति न वा, चैवं प्रवादिककर्मणाम्, ॥ .
-- एकादशः पादः। ९१ विद्याऽभ्यग्रे समाम्नानादन्यत्राऽविनियोगतः । अङ्गतास्ति, न सामर्थ्यादन्यशेषत्ववित्तितः ॥ "शुक्रं प्रविध्य हृदयं प्रविध्य” इत्यादीन मन्त्रानाथर्वणिका आम- नन्ति, तथा देव सवितःप्रसुव यज्ञप्रसुव" इत्यादीन मन्त्रान् सामगाः समामनन्ति, “शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा" इत्यादीन काठकास्तैत्तिरीयकाश्चामनन्ति तेषां मन्त्राणां प्रवादीनां कर्मणां च ब्रह्मवेदने-ब्रह्मविद्याविपयकमङ्गत्वमस्ति न वेति विचिकित्सायां किं युक्तम्? अस्त्यङ्गतेति हेतुरुच्यते विद्यति तेषां मन्त्राणां विद्याश्य- ब्रह्मविद्यासन्निधौ समानानादन्यत्र तेषां विनियोगाभावाद्वैयर्थ्य स्यादिति युक्तं ब्रह्मविद्याङ्गत्वम् । एवं प्रवादीनां कर्मणामप्यङ्गत्व- मित्यत्र- उच्यते नेति । “शुक्रं प्रविध्य हृदयं प्रविध्य" इति प्रवेधनलक्ष- एमन्त्रसामर्थ्यादेव शुक्रं प्रविध्येत्यादीनां मन्त्राणामभिचारशेषत्व- प्रतीतेरभिचाराङ्गत्वमेव न विद्याङ्गत्वम् । एवं शं नो मित्र इत्यादी- ना मन्त्राणां सामर्थ्याध्ययनशेपत्वप्रतीतेरध्ययनाङ्गत्वमेव न विद्या- ङ्गत्वम् । प्रवादिकर्मणां च ज्योतिप्टोमादियागाङ्गत्वमवधेयम् ॥ (एकादश हान्यधिकरणम्) "हानी तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् २६" पुण्यदुष्कृतयोहीनोपादानोभयचिन्तनम् । विकल्पेन यथोक्तं स्यादुपसंहारतोथ बा ॥ पृथगाम्नानसामर्थ्याद् विकल्पस्तूपसंहृतिः । हानवाक्यावशेषत्वादुपादानश्रुतेमतात् ॥ छान्दोग्येष्टमप्रपाठके १३ खण्डे श्रूयते-" अश्व इव रोमाणि वि. धूय पापं चन्द्र इव राहोर्मुखातू प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि” इति । मुण्डकोपनिपदि तृतीयमुण्डकप्रथ- ९२ विशिष्टाद्वैताधिकरणमालायाम्- मखण्डे श्रूयते-“यदा पश्यः पश्यते रुक्मवर्ण कतारमीशं पुरुष ब्रह्मयोनिम् । तदा विद्वान् पुण्यपाप विधूय निरअनः परमं साम्य- सुपैति" इति । को पीतक्युपनिषदि प्रथमाध्याये थूयते-"स आग- च्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुप्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यऽप्रिया दुष्कृतम्" इति । एवं व चित्पुण्यपापयोः परित्यागमात्रं श्रूयते क चिद् विदुपा नयोः परित्यागस्त्यक्तयोः प्रियाप्रियरुपादानं च यथा कौपीतक्युपनिष- दि । तेषां हानोपादानानां सर्वविद्याङ्गत्वमस्तीनि तश्चिन्तनं कार्यम् । नश्च हानचिन्तनमुपादानचिन्तनं हानोपादानोभयचिन्तनं च विक- लपेन कार्य यथा-छान्दोग्ये मुण्डके च हानमात्रमुच्यते तत्रोक्तथि- दचासु हानमात्रचिन्तनं कार्यम् । अन्यत्र "तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्" इत्युपादानमात्रं श्रूयते तत्रोक्तविदयासूपादानमात्रचिन्तनं कार्यम् । कौपीतक्युपनिषदि हा- नोपादाने द्व एव श्रूयेते तत्रोक्तविद्यासूभयचिन्तनं कार्यमिति । किं वोपसंहारेण चिन्तनं कार्य यथा-सर्वत्र विदयासु हानोपादान- योरुभयोरेव चिन्तनं कार्यमिति । किं युक्तं विकल्पनेति, यापसं- हारेण चिन्तनमिष्टं स्यात्तदा सर्वत्र हानोपादानयोरुभयोरेव श्रवणं स्यान्न चैवमस्ति । किं वा कौपीतकिवाक्येनेवोभयो नोपादनयो- श्चिन्तनस्य प्राप्तत्वादन्यत्र हानश्रवणमुपादानश्रवण चानर्थकं स्या- दिति विकल्पेन चिन्तनं युक्तं येन केवलहानस्योपादानस्य च श्रवणं -uote सार्थकं स्यात् । अत्रोच्यते-उपसंहृतिरिति, उपसंहारेणैव चिन्तनं युक्तम् । उ- पादानवाक्यस्य हानवाक्यशेषत्वात् । अयंभावः-परेण परित्याग विनोपादानं न सम्भवतीत्युपादानमात्रोक्तिस्थले हानमर्थादाक्षिप्त भवति । परित्यक्तयोरपि विदुपा पुण्यपापयोः केन चिदुपभोगोवश्यं भावीति हानमात्रोक्तिस्थल उपादानमर्यादाक्षिप्तं भवति । सम्भवत्यां गतौ च विकल्पोन युक्तोटदोपदुष्टत्वात् तथा हि-हानचिन्तनवेला- याम-१ उपादानचिन्तनस्थले त्यक्तस्य हानशास्त्रप्रामाण्यस्य स्वीका- रः,२ स्वीकृतस्य हानशास्त्राप्रामाण्यस्य परित्यागः ३ स्वीकृतस्यो- पादानशास्त्रप्रामाण्यस्य परित्यागः,४ उपादानशास्त्रेऽविदयमानस्या- प्रामाण्यस्य कल्पनम्, एवम्-उपादानचिन्तनवेलायाम्-५ हानचिन्त- एकादगः पादः । १३ , नस्थले त्यक्तस्योपादानशास्त्रप्रामाण्यस्य स्वीकारः, ६ स्वीकृतस्यो- पादानशास्त्राप्रामाण्यस्य परित्यागः, ७ स्वीकृतस्य हानशास्त्रप्रामा- ण्यस्य परित्यागः, ८ अस्वीकृतस्य च हानशास्त्राप्रामाण्यस्य स्वी- - कार इति तस्मादुपसंहारपक्ष एव युक्तः ॥ - .. (द्वादशं सांपरायाधिकरणम) " सांपराये तर्तव्याभावात्तथा ह्यन्ये २७ छन्दत उभयाविरो- धात् २८ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः २९ उपपन्नस्तल्लक्षणार्थोपलव्धेर्लोकवत् ३० यावदधि- कारमवस्थितिराधिकारिकाणाम् ३१' सांपराये तु छन्दोगो मार्गे कौषीतकिश्रुतिः । कर्मत्यागं वदत्यस्मादुभयत्रैव संमतः । सांपराये मतोऽभावाद् भोक्तव्यसुखदुःखयोः ॥ हानोपादानविषययोः सुकृतदुष्कृतयोः क विदुषा परित्यागः क्रियत इति विचार्यते । तत्र अश्व इव रोमाणि विधूय पापम् इति छान्दोग्यश्रुतस्तु देहवियोगकाल एव कर्मपरित्यागो वुध्यते । एवं "स आगच्छति विरजां नदी तां मनसात्यति तत्सुकृतदुष्कृते विधुनुते” इति कौपीतकिश्रुतेस्तु ब्रह्मलोकस्य मार्गे कर्मपरित्यागः प्रतीयते । उभयोश्च श्रुत्योः समानवलत्वादुभयत्रैव कर्मपरित्यागः संमतस्तथा च केषां चित्कर्मणां सांपराये = देहवियोगकाले परित्या- गो भवति, अवशिष्टानां च कर्मणां मार्गे विरजानदीतीरे परित्यागो भवतीति पूर्वपक्षे- उच्यते-सांपराय इति। सांपरय एव सर्वपां कर्मणां विदुषा परित्यागः संमतः । हेतुरुच्यतेऽभावादिति । कर्मसम्बन्धो हि भोक्त- व्ययोः सुखदुःखयो गायापेक्ष्यते न च देहवियोगादनन्तरं विदुपा कर्मफलं सुखादिकं किं चिद् भोक्तव्यमस्ति यदर्थं देहवियोगादन- ९४ विशिष्टाहताधिकरणमालायाम्- न्तरमपि कर्मसम्बन्धी युक्त्यावहः स्यात् । परधामप्राप्ती च भगव- कृपत्र हेतुर्न कर्म । श्रूयते च अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः, एप सम्प्रसादोस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते तस्य तावदंव चिरं यावन्न विमाक्ष्य अथ सम्पत्स्ये” इति । देवयानेन गमनाय सूक्ष्मं शरीरं तु कर्मक्षयेपि वि- द्यावलादेव तिष्ठति । एपा चै सामान्यविदुपां वार्ता। ये च विद्वांसो- धिकारिणस्तेपां तु न देहवियोगमात्रेण प्रियाप्रियस्पर्शवियोगो भवति किं त्वधिकारसमाप्त्यनन्तरभाविदेहवियोगादनन्तरमिति शेयं तदुक्तं " यावदधिकारमवस्थितिराधिकारिकाणाम्" इति । (त्रयोदयामनियमाधिकरणम्.) "अनियमः सर्वेपामविरोधः शब्दानुमानाभ्याम् ३२" अचिरादिगतिर्यत्रोपासनेपु श्रुता तया । तन्निष्ठस्यैव तत्प्राप्तिरितरत्र तदश्रुतेः। सर्वविद्याप्रतिष्ठानां तयैव गमनं श्रुतेः ॥ क्वचिद् विद्याम्नानादन्तरमचिरादिगतिः श्रूयते यथा छान्दोग्ये पञ्चाग्निविदयायाम् । क्व चिञ्च न श्रूयते यथा तत्रैव प्राणविदया- याम् । यत्रार्चिरादिगतिः श्रूयते तन्निष्ठानामेवाचिरादिगत्या ब्रह्म- प्राप्तिर्भवति किं वा सर्वह्मविदयानिष्ठानामिति विशये तनिष्ठानामे- वेति नियमो युक्तः । इतरत्र प्राणादिविद्यासु तस्या अचिरादिगते- रश्रुतेः। यदि सर्वब्रह्मविद्यानिष्ठानामचिरादिगत्यैव ब्रह्मप्राप्तिरनुमता स्यात्तदा सर्वत्रैव विदयाम्नानावसानेप्वर्चिरादिगतिः श्रूयेत न चैवमस्तीति नियमे प्राप्ते- ब्रूमः-सर्वविदयेति ब्रह्मसर्वविदयानिष्टस्याचिरादिगत्यैव ब्र- हप्राप्तिः श्रूयते यथा-यत्र प्राणादिविद्यास्वचिरादिगति पि श्रूयते तनिष्ठानामप्यचिरादिगत्यैव ब्रह्मप्राप्तिरिति । यथा-"तद् ये इत्थं विदुर्ये चेमेरण्ये श्रद्धा तप इत्युपासते तेर्चिरभिसंभवन्त्यषिोऽह- एकादशः पादः । ९५ रन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् पडुदति मासाँ- स्तान्” इति छान्दोग्यस्य पञ्चमप्रपाठकस्य १० खण्ड । अत्र 'श्रद्धा तप इत्युपासते, इत्यनेन सर्वान् ब्रह्मोपासकानुद्दिश्य ब्रह्मप्राप्तावर्धिरा- दिगतिरुपदिश्यते । एवं वाजसनेयाष्टमाध्यायस्य द्वितीयत्राह्मणपि श्रूयते "ते ये एव मेतद्विदुर्ये चामी अरण्य श्रद्धां सत्यमुपासते तेर्चि- रमिसम्भवन्ति” इति ।। (चतुर्दशमक्षरध्यधिकरणम् ) "अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ३३ इयदामननात् ३४” सर्वविद्यास्वऽसम्बन्डा अस्थूलत्वादयो गुणाः । अस्वरूपानुबन्धित्वान्न मानमुपसंहृतौ । सर्वविद्यासु सम्बन्हा ब्रह्मासाधारणत्वतः ॥ वृहदारण्यकस्य पञ्चमाध्यायाप्टमब्राह्मणेऽक्षरविदयायाम्-"स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वस्वम्' इत्यस्थूलत्वादयो गुणा ब्रह्मणः श्रूयन्ते । तथा-मुण्डकोपनिपदि प्रथममुण्डके श्रूयते-“अथ परा यया तदक्षरमधिगम्यते यत्तदद्रे- श्यमग्रामगोत्रमवर्णम्” इति । एतेऽस्थूलत्वादयो गुणाः किं यत्रा- क्षरविदचादी श्रुतास्तत्रैव सम्बध्यन्ते किं वा यत्र प्राणपञ्चाग्न्यादि- विदयायां न श्रुतास्तत्रापि सम्बध्यन्तसौ सन्देहः किं युक्तम? यत्र श्रुतास्तत्रैव, अन्यत्र प्राणविदयादावुपसंहारे प्रमाणं नास्ति, किं चा- नन्दादीनां गुणानां सर्वत्र विद्यासूपसंहारः स्वरूपानुवन्धित्वाद्- भवति न तथाऽस्थूलत्वादीनां प्रपञ्चप्रत्यनीकानां गुणानां स्वरूपानुव- धित्वमस्तीत्याह-अस्वरूपानुवन्धित्वादिति । अनोच्यते सर्वेति । सर्वासु विद्यासु सम्वन्द्धा अस्थूलत्वादयो गुणा एपामस्थूलत्वादीनां गुणानां ब्रह्मासाधारणत्वात् । आनन्दाद- यस्तु लेशतो जीवेपि सन्त्यवेति न तेषां ब्रह्मासाधारणगुणत्वम् ।
९६ . विशिष्टाद्वैताधिकरणमालायाम- अस्थूलत्वादीनां त्वैकान्निकं ब्रह्मासाधारणगुणत्वं तस्मात् सकलासु व्रह्मविद्यासूपसंहारी युक्त एवास्थूलत्वादिगुणानामन्यथाऽसाधार- णाकारायसनायां किंगुणविशिष्टं ब्रह्मोपास्येत ॥ (पञ्चगमन्तराधिकरणम् ) "अन्तराभूतग्रामवन् स्वात्मनोन्यथाभेदानुपपत्तिरिति चेन्नोपदेशदत् ३५ व्यतिहारो विशिान्ति हातरवत ३६ सेव हि सत्यादयः ३७" कहोलोपस्तयोविद्ये भिन्ने रूपस्य भेदतः । अभिन्न उभयत्रापि यतः प्रणोत्तरे परे ॥ बृहदारण्यकस्य पञ्चमाध्याय ४ ब्राह्मणे श्रूयते-“अथ हैनमुप- स्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्यति होवाच यत्साक्षादपरोक्षाद- ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इत्यप त आत्मा मर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः ? यः प्राणेन प्राणिति स ते आत्मा सर्वान्तरः” इति । पुनश्च-"कतमो याज्ञवल्क्य सर्वान्तरः” इत्यु- पस्तेन पृष्टो याज्ञवल्क्य उवाच-"न दृष्टेष्टारं पश्येन श्रुतेः श्रोतारं गृणुयान्न मतमन्तारं मन्बीथा न विज्ञातर्विज्ञातारं विजा- नीया एप ते आत्मा सर्वान्तरोऽनोन्यदातम्" इति । "अर्थन कहोलः कोषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाब्रह्म य आत्मा सर्वान्तरस्तं में व्या- चक्ष्वेत्येप त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः? यो- ऽशनायापिपासे शाकं माहं जरां मृत्युमत्यत्यतं वै तमात्मानं विदि- त्वा ब्राह्मणाः पुत्रैपणायाश्च वित्तपणायाश्च लोकैपणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति” इति । उक्तं उपस्तकहोलविदये किंभिन्न उताभि- ने इति संशये भिन्न इत्यव युक्तम् । प्रष्णप्रतिवचनयोमदन रूपभेदात् । प्रष्णस्यैकरूपत्वपि प्रतिवचनभेदस्तु स्फुट एव पूर्वत्र प्राणादिकर्तृ- त्वेन परमात्मोपदिश्यते, उत्तरत्र त्वशनायापिपासादिरहितत्वेनोपदि- श्यत इत्येवं विद्याभेद प्राप्ते- उच्यते-अभिन्न इति । उभयत्रैव प्रष्णो तात्तरे च परमा- त्मानं विपयी कुरुत इत्यभिन्ने विदये कहोलोपस्तयाः । न चापि तथा- एकादशः पादः। ९७ रूपभेद उक्तयोरुभयोरपि प्रतिवचनयोरेकवाक्यत्वात् प्राणनकर्तृत्वा- दयशनायाराहित्यादिगुणानामुभयत्रैवोपंसहारादुभयत्रत्यगुणविशिष्ट- मेवोभयत्रीपास्यत्वन बह्मोपदिश्यते तस्माद्भिन्ने कहोलोषस्तविद्ये ॥ - (षोडशं कामाद्यधिकरणम्) "कामादीतरत्र तत्र चायतनादिभ्यः ३८ आदरादलोपः ३९ उपस्थितेऽतस्तद्वचनात् ४०" ताण्डिनां वाजिनां भिन्ने दहरोपासने न किम् । रूपभेदेन भिन्ने, नो-सत्कामाचेकरूपतः ।। ताण्डिनश्छन्दोगास्तंपामुपनिषदोष्टमप्रपाठकारम्भ दहरविदया श्रूयते “अथ यदिदमस्मिन् ब्रह्मपुर दहरं पुण्डरीकं वेश्म दहरीस्मिन्न- न्तराकाशस्तस्मिन् यदन्तस्तदन्वंटव्यं तद्वाव विजिज्ञासितव्यमिति" इति । वाजिनामुपनिषदः षष्ठाध्याय ४ ब्राह्मणेपि दहरविद्या श्रूयते- स वा एष महानज आत्मा योयं विज्ञानमयः प्राणेपु य एपोन्तहृदय आकाशस्तमिश्छेते” इति । अनयोर्दहरविदययोर्भेद एवं युक्तो रूपये- दात-छान्दोग्ये हि “एप आत्माऽपहतपाप्मा विजरो चिमृत्युर्विशोको- ऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः” इति गुणाष्टकवि- शिष्टं ब्रह्मोपास्यत्वनोपदिश्यते । वाजसनेये तु "सर्वस्य वशी सर्व- स्येशानः सर्वस्याधिपतिः” इति वशित्वादिगुणविशिष्टमुपास्यत्वे- नोपदिश्यते । अत्रोच्यते-नविति । वशित्वादयो हि गुणाः सत्यसंकल्पत्वगुण- स्यावान्तरभेदा एवेति सामान्यं सत्यसंकल्पत्वं प्राप्तं तेन च स्वसं. नियोगशिष्टा अपहतपाप्मत्वादयो गुणा आक्षिप्यन्त इति सत्यका- मत्वादिलक्षणेकरूप्यादभेदो विदचयोस्तथा-हृदयायतनत्वादिभिश्च प्रत्यभिज्ञायत उभयत्रैकैव विदयेति ॥ (सप्तदशं तन्निर्धारणानियमाधिकरणम्) " तन्निर्धारणानियमस्तद्दष्टेः पृथग्ध्यप्रतिवन्धः फलम् ४१" १३ ९८ विशिष्टाद्वैताधिकरणमालायाम्- कर्माङ्गमाश्रिता विद्याऽवश्यं नेयात्र कर्मसु । यागफलात्फलस्याऽस्याः कल्पनाऽयोगतः पृथक् ॥ विद्या नेयात्र नावश्यमविद्यस्यापि तच्छुतेः । वीर्यवत्त्वं ह्यनङ्गत्वाद्विद्यायास्तु फलं पृथक् ॥ छान्दोग्यारम्भे श्रूयते-"मित्येतदक्षरमुद्गीथमुपासीतोमिति [द्गायति तस्योपव्याख्यानम्" इत्येवमादीनि काङ्गमाश्रितानि = कर्माङ्गं य उद्गीथस्तद्विपयकाणि उपासनानि श्रूयन्ते तेषां कर्मस्व- वश्यमुपसंहारः कार्योऽनियमेन वेति विचिकित्सायामवश्यमिन्यु- च्यते, हेतुर्यागेत्यादिः, अस्या उद्गीयादिविदगया यागफलात् पृथक् फलकल्पनाऽयोगात् । इदमदंपर्यम्-प्रयाजादीनां ज्योतियो- मादिफलात् पृथक् फलस्य कल्पना न भवति तत्कस्य हेतोः? प्रया- जादीनां ज्योतिष्टोमाद्यङ्गत्वात्, एवं विद्याया अपि पृथक् फलकल्प- नामावो विदचाया प्रधानकर्माङ्गत्वं दोतयति, अङ्गानि चावश्यम- नुष्ठेयानि भवन्तीति नैयमिक उपसंहार उपासनानां कर्मसु । अत्रोच्यते-विदयेति-अत्र कर्मसु विदयावश्यं न नेया नियमेन । नोपसंहार्या, अविदयस्यापि-उद्गीथादयुपासनहीनस्यापि कर्मा- नुष्ठानचते:-" तेनोभी कुरुतो यश्चैतदेवं वेद यश्च न बेद" इनि । एवमविदयस्यापि कर्मानुष्ठानश्रुतेर्विदचायाः कर्मानङ्गत्वं प्राप्तमन- ङ्गत्वाञ्च न नियमेनोपसंहारः किं त्वच्छिकः । एवं हि विद्यायाः फलमपि गांदाहनादिवत् प्रधानकर्मफलातू पृथगेय वर्यिवत्तरत्वं विज्ञेयं तथा श्रूयते-"यदेव विदचया करोति श्रद्धयोपनिपदा तदेव वीर्यवत्तरं भवति " इति वीर्यवत्तरत्वं च कर्मफलस्याप्र- तिवन्धस्तदाह सूत्रकारः-"पृथग्ध्यप्रतिवन्धः फलम्" धियो वि- याया अप्रतिवन्धलक्षणं फलं कर्मफलातू पृथगित्यर्थः ॥ (अष्टादशं प्रदानाधिकरणम् ) प्रदानवदेव तदुक्तम् ४२" एकादशः पादः । ९९ गुणचिन्तनकाले तद्विशिष्टब्रह्मचिन्तनम् । न कार्यमथ वा कार्य नेति तच्चिन्तनं विना-॥ गुणचिन्तनसामर्थ्यात, कार्य हि ब्रह्मचिन्तनम् । गुणानां गुणिपर्यन्तं चिन्तनं विहितं यतः ।। छान्दोग्यस्याटमप्रपाठके दहरविदयायां-"तद् य इहात्मानम- नुविद्य ब्रजन्त्येतांऽश्च सत्यान् कामांस्तपां सर्वपु लोकेषु कामचारो भवति" इति दहरोपासनादनन्तरं सत्यकामत्यादीनां परमात्मगुणा- नामप्युपासनं चिन्तनं विहितम् । तत्र गुणचिन्तनकाले तत्तद्गुण- विशिष्टं ब्रह्म न चिन्तनीयं चिन्तनीयं वेति सन्दहः किं युक्तम्? न चि- न्तनीयमिति तदाह नेतीति तञ्चिन्तनं ब्रह्मचिन्तनं विनापि गुणानाम- नुसन्धातुं शक्यत्वादित्याह गुणचिन्तनसामादिति । अत्रोच्यते-कार्यमिति गुणचिन्तनसमयेपि ब्रह्मचिन्तनं कार्य ध्र- माश्रितानां सत्यसंकल्पत्वादीनां गुणानां ब्रह्मविशंपणत्वंन चिन्तन कार्य यतः-सत्यान् कमानिहात्मानमनुविदयेत्यनन गुणानां चिन्तन गुणिपर्यन्तं तद्गुणविशिष्टब्रह्मचिन्तनपर्यन्तं विधीयते । अन्यथा दहरविदयाशेष “तय" इत्यादिगुगचिन्तनविधानं न स्यात् ।। (एकोनदियं लिङ्गम्यस्त्वाधिकरणम् ) "लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ४३" सहस्रशीर्षवाक्येन किमुपास्यं विधीयते । दहरोपासनोपास्यमेकं प्रकरणं यतः ॥ सकलोपासनोपास्यं लिङ्गभूयस्त्वहेतुतः ॥ नारायणोपनिषदि थूयत-"सहस्रशीर्ष देवं विश्वाक्षं विश्वस- म्भवम्" इत्यारभ्य "स ब्रह्म स शिवः सोक्षरः परमः स्वराद" इ- त्यवमन्तम् । इत्यनेन वाक्यन किं पूर्वप्रकृनदहरविदयापास्यं ब्रह्म निर्धार्यतं किमुन वेदान्तोक्तसकलपरविदचापास्यमिति चिराय दहर- वियोपास्यमिति युक्तम् । यतः पूर्वानुवाकं दहरविदयानाता-"द- धी खरतरगच्छीय ज्ञान मन्दिर, जयपुर १०० विशिष्टाद्वैताधिकरणमालायाम्- हरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थं तत्रापि दहरं गगन विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्” इति । एतया च दहरविदयया सहोक्तबह्मस्वरूपप्रतिपादकवाक्यस्य प्रकरणक्यं । तस्मात्प्रकरणक्याद दहरविदयोपास्यव्रह्मस्वरूपं प्रतिपादयते सह- स्त्रशीर्ष देवमित्यादिना । अत्राभिधीयते-सकलेति । सहस्त्रशीर्पमित्यादिना वाक्येन सक- लपरविदयापास्यबह्मस्वरूपं प्रतिपादयते लिङ्गभूयस्त्वातू, अत्रार्थे भूयांसि लिङ्गान्युपलभ्यन्ते परविदचासु सर्वत्र शिवाक्षरशम्भु - त्यादिशब्दरेवोपास्यं निर्दिश्यते स एव सकलपरविदयापास्यं ब्रह्मात्र प्रत्यभिज्ञायतं तस्य चात्र नारायणत्वं विधीयत इति न दहरविदया- मात्रापास्यस्वरूपं प्रतिपादयत प्रमाणाभावात् । लिङ्गस्य च प्रकर- णापेक्षया बलीयस्त्वात् । दहरविदयाऽसाधारणमुपास्यं तु "तस्मिन् यदन्तस्तदुपासितव्यम्" इत्यनेनोक्तमेवेति दहरविदयायाः स्वासा- धारणोपास्ये निराकासत्वात् सहस्रशार्पमित्यादिना सकलपरवि- दयोपास्यस्वरूपं विशोध्यते न दहरविदगमात्रीपास्यस्वरूपम् ॥ (विंशतिनम पूर्वविकल्पाधिकरणम) "पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानमवत् ४४ अतिदेशा- ञ्च ४५ विद्यैव तु निर्धारणाद्दर्शनाच्च ४६ श्रुत्यादिवलीय- स्त्वाच्च न वाधः ४७ अनुवन्धादिभ्यः प्रज्ञान्तरप्थक्- त्ववद् दृष्टश्च तदुक्तम् ४८ न सामान्यादप्युपलब्ध-. मृत्युवन्न हि लोकापत्तिः ४९ परेण च शब्दस्य ताद्विध्यं भूयस्त्वान्त्वनुवन्धः ५०" मनश्चितादिवन्हीनामुपयोगः क्रियासु यत्- इष्टकैस्तु चितस्याग्नेः प्रकरणेन संग्रहः ॥ विद्यायामुपयोगोस्ति विद्यारूपत्वदर्शनात् ॥ अग्निरहस्यब्राह्मण मनश्चितादयोऽग्नयः थ्रयन्ते-"मनश्चितो वा- चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचिताग्निचितः” इति ।
एकादशः पादः । १०१ किमेतेषां मनश्चितादयग्नीनां क्रियासूपयोगः किं वा विदयासुक्रि- यारूपा वा विदयारूपा चेत्यर्थः । उक्तसन्देहे क्रियासूपयोग इत्युच्यते यत् = यस्माद्धेतोः पूर्वत्रेटकचिताग्निः प्रकृतोस्ति तस्य च प्रकरणेन मनश्चितादयोपि संगृह्यन्ते प्रकरणैक्यातू । तथा चेष्टकचितस्याग्नंः क्रियाङ्गत्वात् क्रियासु यथोपयोगस्तथा मनश्चितादीनामपि क्रिया- सूपयोगः । न चैकस्मिन्नेव प्रकरण उक्तेष्वग्निविष्टकचितस्य क्रिया- सूपयोगो मनश्चितादीनां विदयासूपयोग इति वैपम्यं युक्तम् । अत्रोच्यते-विदयायामिति मनश्चितादीनामग्नीनां विदयाखेवो- पयोगी विदयारूपत्वमित्यर्थः । प्रकरणापेक्षया श्रुतिर्वलीयसी तया चैपां विद्यारूपत्वमुच्यते-"ते हैते विदयाचिता एव विदयया हैवैते एवं विदश्चिता भवन्ति" इति । विदयारूपत्वदर्शनात्-विदयारूप- त्वश्रवणात् । विदयारूपे एव ऋतावेषामुपयोगः श्रूयते-"ते मनसै- वाधीयन्त मनसैवाचीयन्त मनसैपु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसा संशन मनसा पश्यति यत् किं चिद यज्ञे कर्म क्रियते यतू किं च यज्ञीय कर्म मनसैव तेषु मनोमयेपु मनश्चित्सु मनोमयमक्रियत" इति ॥ (एकविशं शरीरे भावाधिकरणम) एक आत्मनः शरीरे भावात् ५१ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ५२" चेतनत्वादिरूपेण हतपाप्मादिनाथ वा । जीवस्य चिन्तनं कार्य ब्रह्मचिन्तनतत्परैः । आद्यः शरीरसम्बन्धाद् यथाक्रतुनयात् परः ॥ संप्रज्ञातोपासनं हि ध्येयं ध्यानं ध्यातेति त्रिपुटीलक्षणं भवतीति संप्रति ध्यातुर्जीवस्य स्वरूपचिन्तनं प्रस्तूयते-ब्रह्मचिन्तयता जनेन जीवस्य स्वस्य किं चतनत्वादिना-ज्ञातृत्वभोक्तृत्वादिनैव रूपेण चिन्तनं कर्तव्यं किं वाऽपहतपाप्मत्वादिना रूपेण यदुक्तम्-"अयमा- मापहतपाप्पा” इत्यादिरूपम् । किं युक्तम् ? आदयः पक्ष इति शरीरे वर्तमानस्यात्मनोपहनपाप्मत्वादिना रूपेण चिन्तनमेव न स- ૦૨ विशिष्टाद्वैताधिकरणमालायाम्- म्भवति शरीरस्यैव पाप्मनिदानत्वात् । ज्ञातृत्वादिरूपणापि चिन्तने कृते तत्फलसिद्धिरुपपदयते । अत्रोच्यते-यथाक्रतुनयादिति । यथाक्रतुन्यायात् यथानुसन्धी- यते तथैव प्राप्यत इति अपहतपाप्मत्वादिना रूपेणानुसन्धानाभावे- ऽपहतपाप्मत्वमात्मनो रूपं प्रत्यापि नोपलक्ष्यत । तदाह श्रुतिः-"यथा- क्रतुरस्मिल्लोके पुरुषां भवति तथेतः प्रेत्य भवति" इति । यथाक्रतुः यथोपासनः। तस्माद् यथा ज्ञातृत्वादिना रूपेणानुसन्धेयस्तथान्माप- हतपाप्मत्वादिनापिरूपणावश्यमनुसन्ध्रयस्तेपामप्यात्मस्वरूपत्वात् ॥ we (द्वाविंशमलावबद्धाधिकरणम) "अङ्गाववद्धास्तु न शाखामुहि प्रतिवेदम् ५३ मन्त्रादिवद्वाऽविरोधः ५४" कर्माङ्गमाश्रिता विद्याः स्वोक्तशाखासु यन्त्रिताः । तत्तत्स्वरयुतोद्गीथादिर्यतस्तत्र यन्त्रितः । सर्वशाखासु सम्बद्धा उद्गीथाद्युपलब्धितः ॥ "मित्येतदक्षरमुद्गीथमुपासीत, लोकेषु पञ्चविध सामोपा- सीत" इत्यादयः कर्माङ्गाश्रिता उपासनाः श्रूयन्ते, ताः किं स्वयमु- क्ता यत्र शाखासु तत्रैव यन्त्रिता=नियताः किं वा सर्वासु शाखासु यत्र यत्र तासां विषय उद्गीथादिरस्ति तत्र तत्र सम्बध्यन्ते । किं युक्तम् ? यत्र शाखासु श्रुतास्तत्रैव नियता यतस्तासामुपासनानां तत्तत्स्वरविशेषयुत उद्गीथादिरेव विपयः स च तत्रैवोपलभ्यते, अन्यत्र शाखासु तुद्गीथादिर्न तत्तत्स्वरविशेषयुत उपलभ्यते अन्य- शाखासूदूगीथस्य स्वरान्तरपुरस्कृतत्वादिति नियमे प्राप्ते- अभिधीयते-सर्वेति, सर्वशाखासु विदयाः सम्बद्धाः। यतः “ो. मित्येतदक्षरमुद्गीथमुपासीत" इत्यादिश्रुत्योद्गीथादिमात्रस्योपासना- कर्मत्वमुकं न तु तत्तत्स्वरविशेषपुरस्कृतस्योद्गीथादेः। तस्मात् यत्र यत्र शाखासूदगीथादय उपलभ्यन्ते तत्रतत्र कर्माङ्गाश्रिता विद्याः प्राप्नुवन्त्येव । यथान्यत्रोक्तानामपि मन्त्रादीनामन्यत्र विनियोगो भवति तथात्रापि विज्ञयम् ॥
एकादश: पाद: । १०३ (त्रयोविशं भूमज्यायस्त्वाधिकरणम ) "भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ५५" वैश्वानरस्य व्यस्तस्योपासनं स्याद् दिवादिना । व्यस्ताङ्गेपूपदिष्टत्वात् फलस्योपासनस्य च ॥ पृथक् तत्फलनिर्देशात् समस्तश्चाप्युपास्यताम् । अष्टानामपि खण्डानां वाक्यैक्येन समस्तकः ॥ छान्दोग्यस्य पञ्चमप्रपाठक एकादशखण्डमारभ्याष्टादशखण्ड- पर्यन्त चैश्वानरविदद्यान्नाता तस्य त्रैलोक्यशरीरस्य वैश्वानरस्य दयातूंधा, आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ, इत्येवं रूपणं श्रूयते-"सूर्धा त्वंप आत्मनः, चक्षुस्त्वतदात्मनः" इत्यादिः । अयमत्र सन्देहः किमयं वैश्वानरो दि- वादिभागैर्व्यस्त एवोपास्यः किं वा व्यस्तश्च समस्तश्चाहोस्वित् समस्त एव । पूर्वपक्षी वदति व्यस्त एवेति व्यस्ताङ्गेपु= व्यस्तेष्वङ्गेषु मूर्धादिरूपदिवादिपूपासनस्य तत्फलस्य चोपदिष्टत्वाद् यथा-" औ- पमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजनिति हो- वाचप वै सुतजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमालुतं कुलं दृश्यते, अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेप आत्मन इति होवाच” इति । अपरस्तु प्रतिपादयति व्यस्तवत् समस्तोपि-दिवादिरूपमूर्धा- दिपादपर्यन्तं सकलावयवविशिष्टोप्युपास्यः । व्यस्तोपासनफलवत् समस्तोपासनफलस्यापि पृथङ् निर्देशात् तथा हि-" तान् होवा- चते वै खलु यूयं पृथगिबेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ, यस्त्वेतमेवं प्रादशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति । सिद्धान्ती निर्दिशति-समस्तक इति समस्त एव वैश्वानर उपा स्यः । एकादशखण्डमारभ्याष्टादशखण्डपर्यन्तमष्टानामपि खण्डाना- मेकवाक्यत्वात् । तथा च व्यस्तोपासनफलनिर्देशः समस्तोपास- ۳ १०४ विशिष्टाद्वैताधिकरणमालायाम्- नफलनिर्देशस्यैकदेशानुवादमात्रमवगन्तव्यम् । यथा पूर्वमीमांसायाः प्रथमाध्यायचतुर्थपादस्य द्वादशाधिकरण-"वैश्वनर द्वादशकपाल निर्वपत्पुत्रजने” इत्यत्र " यदष्टाकपालो भवति गायव्यवनं ब्रह्मवर्च- सेन पुनाति" इत्याद्यवान्तरनिर्वापफलकीर्तन दशकपालंटिव संस्तूयन तथात्रापि व्यस्तोपासनफलनिर्दशैः समस्तांपासनं मंस्तू- यतं ॥ (चतुर्विशं शमादिभवाधिकरणम् ) " नाना शब्दादिभेदात् ५६" सर्वासां ब्रह्मविद्यानामैक्यं रूपाऽप्रभेदतः भेदो रीतिगुणाख्यानां फलादीनां च भेदतः ॥ संप्रति सकला ब्रह्मविदया उद्दिश्य विचार्यते सभृमदहरादया- ख्यानां सकलशाखागतानां ब्रह्मवियानामैक्यं वा भदो वेति । ऐक्य- मित्येवात्र युक्तं यत उपासनेपूपास्यस्यैव प्राधान्यं भवति, उपास्य च सर्वत्र परं वयैवेति रूपाऽभेदतो विदयगनामप्यभेदो विज्ञेयः । अत्र वदति सिद्धान्ती-भेद इति सर्वासां ब्रह्मविद्यानां परस्परं । भेद एव । यतो विदद्यानां परस्परं रीतिरनुष्टानप्रकारो भिन्न एव, तत्र तत्रोपास्यव्रह्मगुगा अपहतपाप्मत्वादया भिन्ना एव, आख्या च दहरविदया भूमविदयेत्यादिलक्षणा भिन्नैव, फलान्यपि भिन्नानि, चोदना च भिन्नति विदयानामपि परस्परं भेद एव ॥ (पञ्चविंशं विकल्पाधिकरणम्) "विकल्पोऽविशिष्टफलत्वात् ५७ काम्यास्तु यथाकामं समुच्चियेरन्न वा पूर्वहेत्वभावात् ५८" ब्रह्मप्रापकविद्यानामेकेनापि समुच्चयः । स्वर्गसाधनवत्कार्यो, मैवं तुल्यफलत्वतः । ब्रह्माप्राप्तिफलानां तु यथाकामं समुच्चयः ॥
एकादशः पादः । १०५ एवमत्र संदिह्यते-किमेकेनापि पुरुषेणोपासकेन ब्रह्मप्राप्तिमि- च्छता ब्रह्मप्राप्तिफलानां विद्यानां समुच्चयः कार्यः समुच्चयन सक- लान्युपासनान्यनुष्ठेयानि किं वा विकल्पन तेप्पासनेषु कस्य चि दनुष्ठान कार्यमिति । तत्र समुच्चयपक्षो युक्तो यथा स्वर्गसाधनानां ज्योतिष्टोमवाजपेयादीनां समुच्चयो भवति, एक एव स्वर्गकामोऽने- कान् यागान् करोति तथैकोऽपि ब्रह्मप्राप्तिकामोऽनकानि ब्रह्मोपासना- नि करोतु । अत्राच्यते-मैवमिति । नास्ति समुच्चयः किं तु विकल्प एव युक्तः । सातिशयत्वरहितं ब्रह्म यदेवैकेनोपासनेन प्राप्यं तदेवापरे- णापासननापीति किमर्थनुपात्तोपासनादपरमुपासनमुपादीयेत ? किं तूपात्तस्यैवोपासनस्यादरेणाभ्यासः कार्यः । युक्तः स्वर्गसाधनानां तु समुच्चयः स्वर्गस्य सातिशयत्वात् । ब्रह्माऽप्राप्तिफलानांह्मप्रा- तिव्यतिरिक्त फलानां तु विद्यानां यथाकामं युक्तः समुच्चयोपि तदाह- "काम्यास्तु यथाकाम समुच्चीयेरन्” इति सूत्रकारः ।। (षड्विशं यथाश्रयभावाधिकरणम् ) "अङ्गेषु यथाश्रयभावः ५९ शिष्टेश्च ६ ० समाहारात् ६१ गुणसा- धारण्यश्रुतेश्च ६२ न वा तत्सहभावाश्रुतेः ६३ दर्शनाञ्च ६४" कर्माङ्गमाश्रिता विद्या उपादेया दृढं ऋतौ । उद्गीथादिरिवाङ्गत्वाद विद्यानां यास्तदाश्रयाः । तत्साहित्याऽश्रुतेर्नास्त्यङ्गतैवाऽनियमस्ततः॥ "डोमित्येतदक्षरमुद्गीथमुपासीत" इत्यादिकाः कर्माङ्गाश्रिता विद्याः श्रूयन्त ताः ऋतुपु नियमेनोपादेया अनियमेन वति विशये दृढं नियमेनोपादेयाः, या उद्गीथाद्याश्रया विद्यास्तासां विद्याना- मप्युद्गीथाङ्गत्वेनोगाथादिवत् तद्वारा क्रत्वङ्गत्वात् । अङ्गस्य चा- वश्यमुपसंहारा भवत्येवेत्यत्र- उच्यते-तत्साहित्याश्रुतरिति विद्यानामङ्गत्वमेव न थूयते यन नियमेनोपादयत्वं स्यात् । प्रत्युत "यदेव विद्यया करोति श्रद्धयांप- १०६ विशिष्टाहताधिकरणम.लायाम्- - निषदा तदेव वीर्यवत्तरं भवति" इत्यनेन विद्यानां पृथक् फलश्रत्र- णात् गोदोहनवदैच्छिक्युपादेयता तदुच्यतेऽनियम इति । किं च एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्विजोभिरक्षनि" इति श्रुत्या बृह्मण एवोपासकत्वप्रतीतेरन्य पामनुपासकत्वादनियम उपा- सनायां प्रतिपाद्यते। अन्यथा यजमानादीनामप्युपासकत्वे स्वस्य स्वयमेवाभिरक्षकत्वप्राप्त्या ब्रह्माभिरक्षाति श्रुतिरपार्थास्यात्तस्माद- नियम एव मुख्यः सङ्गतश्च पक्षः निरूपितश्चायमर्थः समदशाधिकरणे तदादाय पुनरप्युक्तः ॥ ॥ इत्येकादशः पादः समाप्तः ॥ ॥ अथ द्वादशः पाद आरभ्यते ।। २ (प्रथमं पुस्पार्थाधिकरणम) "पुरुषार्थो:तः शब्दादिति बादरायणः १ शेषत्वात पुरुषार्थवादी यथा- न्येप्विति जेमिनिः २ आचारदर्शनात ३ तच्छ्रुतेः ४ समन्वारम्भ- णात् ५ तद्वतो विधानात् ६ नियमात् ७ अधिकोपदेशानु वाद- रायणस्यैवं तद्दर्शनात् / तुल्यं तु दर्शनम् ९ असार्वत्रिकी १० विभागः शतवत् ११ अध्ययनमात्रवतः १२ नावि- शेषात् १३ स्तुतयेऽनुमतिवां १४ कामकारेण चके १५ उपमर्दै च १६ उर्ध्वरेतस्मु च शब्दे हि १७ परामर्श जेमिनिरचोदनाच्चापवदति हि १८ अनुष्ठेयं बादरायणः साम्यश्रुतेः १९ विधिर्वा धारणात् २० विद्याङ्गकर्मणा लभ्यः पुरुपार्थोथ विद्यया । श्रुत्यभिप्रायतः परः ॥ विदयाभेदाभदचिन्ताया अनन्तरं संप्रति पुरुषार्थावाप्तिचिन्त- नसमयायम । पुरुषार्थ किं विदयाङ्गकेन कर्मणा लभ्यते किं वा कर्मप्राधान्यतः पूर्वः द्वादशः पादः । १०७ अश्व- विद्ययेति संदेहस्तत्र प्रथमपक्षी प्रतिवदति पूर्वः-कर्मणेति पतिः केकयः किलात्मवित्तमस्तद्विज्ञायांपगतांस्तानृपीन् प्रत्याह यक्ष्यमाणो ह वै भगवन्तोहमस्मि यदेव विदया करोति श्रद्धयो. पनिपदा तदेव वीर्यवत्तरं भवति" "कुर्वन्नेवेह कर्माणि जिजीविषे- च्छत । समाः” इत्यादि श्रुतिवाक्येभ्यः कर्मणः प्राधान्यावगमात् विदयाङ्गकातू कर्मण एव पुरुषार्थो लभ्यते । अत्र सिद्धान्ती वदति पर इति विदयया पुरुषार्थो लभ्यत इत्येष पक्षो युक्तस्तथैव च श्रुतिनामभिप्रायस्तथा श्रूयते-" ब्रह्मविदाप्नोति " " तमेवं विद्वानमृत इह भवति" नान्यः पन्था विदयते- ऽयनाय” इत्यादिः । कर्मत्यागोपि श्रूयते-"ऋषयः कावपेयाः कि- मर्था वयमध्येप्यामहे किमर्था वयं यक्ष्यामहे” इति । विदयायाः कर्मानङ्गत्वगन्न विदयापेक्षया कर्मणां प्राधान्यम् । “कुर्वन्नेवेह' इत्यादी हि विद्वान् कर्म कुर्वन्नपि विदयामाहात्म्यान्न लिप्यते इति विद्यैव स्तूयते । एवमन्यत्रापि द्रष्टव्यम् ॥ परम् इयमेव जुहूः (वित्तीयं स्तुतिमात्राधिकरणम्) स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् २१ भावशब्दाच २२" एषरसानां वाक्येन किमुद्गीथः प्रशस्यते । अध्वराङ्गेऽथ वोद्गीथे रसदृष्टिविधीयते ॥ स्वर्ग इतिवाक्यमिव स्तुतिः रसादिरूपेणाप्राप्ते रसदृष्टिविधीयते ॥ एप रसानां रसतमः परमः पराद्धोऽष्टमो य उद्गीथः" इत्येन वाक्येन किमुद्गीथः स्तूयते किं वात्रोद्गीथे रसदृष्टिर्विधीयते । किं युक्तम् ? स्तुतिरिति । यथा “इयमेव जुहूः स्वर्लोकः" इत्यनेन जुहूः स्तूयते तथात्रापि रसतमत्वेनोद्गीथःस्तूयते- अत्रोच्यते-रसादीति । यदि रसतमत्वरूपेणोद्गीथः प्रमाणान्त- रात्प्रतिपन्नः स्यात्तदा तमुद्दिश्य स्तुतिरपि संभवेन्न चैवमस्तीति रसदृष्टिविधीयते रसतमत्वरूपेणोद्गीथस्योपासना कार्येत्यर्थः ।
१०८ विगिष्टाडेताधिकरणमालायाम्- 4 " इयमेवं जुहः स्वर्लोकः” इत्यत्र तु उपासातत्यादयुपासनविधिरपि नोपलभ्यते जुहः स्वरलोकत्वं चासंभवील्यगत्या स्तुनिपरत्वं वाक्य- स्याधीयते । एवमन्येपामपि वाक्यानां विधायकत्वं विक्षयम् ॥ (तृतीवं पारिवाधिकरणम् ) "पारिप्लवार्था इति चेन्न विशेषितत्वात् २३ तथा चैकवाक्योपवन्धात् १४" वेदान्ते सर्वमाख्यानं भूतार्थस्यैव बोधकम् । विधिवाक्यैकवाक्यत्वात् किं चिद् विद्याविधायकम् ॥ वेदान्तेपु "प्रतर्दनो ह वै देवादासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तं हेन्द्र उचाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव वरं वृणीव यं त्वं मनुष्याय हिनतमं मन्यसे" इत्यादीन्याख्यानानि श्रूयन्ते तानिच सर्वाणि किं भूनार्थशंसकानि किं वा विदयविधायकानीति विचिकित्सायाम्-भूतार्थबोधकानीति, युक्तम् । आख्यानानां भूतार्थवोधकत्वस्वाभाव्यात् । तस्मान्न विद्या- विधिपराणीति प्राप्तम्- तत्रोच्यते-विधिवाक्येति । प्रतर्दनो ह वे इत्यादीनि कानि चि- दाख्यानानि आत्मा वारेद्रष्टव्य इत्यादिविधिवाक्येनकवाक्याद्विद्यावि- धायकान्येव, परमात्मन अायुष्वनामृतत्वेनोपासनं विधीयतत्र । “म- नुवै चैवस्वतो राजा" इत्यादीनि त्वाख्यानानि भूतार्थशंसकान्येवेति विज्ञेयम् ॥ - (चतुर्थमग्नीन्धनाधिकरणम्) "अत एव चाग्नीन्धनाद्यनपेक्षा २५" कर्माङ्गाश्रितविद्यायां नोधिकारस्तपस्विनः । अग्न्यभावाच्, छुतेस्तस्याधिकारोंस्त्येव संमतः ॥
द्वादशः पाद: । १०९ याः कर्माङ्गमाश्रिता विद्या उक्तास्तासु तपस्विनां परिवाजां नास्त्यधिकारोग्न्यभावात् । यल्य कर्मण्यधिकारस्तस्यैव तदनाधि- तायां विद्यायामधिकारो युक्तो न तपस्विनां यागाधधिकारशून्याना मिति चेतू- न, तस्य तपस्विनोपि श्रुतेरधिकारः संमत एव तथा श्रूयते- ब्रह्मसंस्थाऽमृतत्वमेति" "ये चेमेऽप्ये श्रद्धा तप इत्युपासते इति । तस्मात् कर्माङ्गाश्रितविद्यानुष्ठानेऽग्न्याधानादेरपेक्षा नास्ति किं तु स्वाश्रमविहितकर्मानुष्ठानमात्रस्य । यो वै देवानां प्रियः स्वा- श्रमोचितकर्माणि नानुतिष्ठति मादृशो जन्तुस्तस्य तु नवास्ति विद्या- यामधिकारः॥ - (पञ्चमं सर्वापक्षाधिकरणम् ) " सर्वापेक्षा च यज्ञादिश्रुते रश्ववत् २६ गृहस्थाऽमृततां विद्या कर्महीनापि साधयेत्- मुनेरिव, न च श्रुत्या कर्मापेक्षत्वबोधनात् ॥ यदि यागादिहीनापि विद्या मुनेरकृतत्वं साधयति तदा तद्वद् गृहस्थस्याप्यमृतत्वं यागादिहीना विद्या साधयेदिति चेन्न गृह- स्थस्य विद्याया अमृतत्वसाधने श्रुत्या कर्मापेक्षत्ववोधनात् । तथा हि-"तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तप- सानाशकेन" इति वेदनं प्रत्येव यागादीनामङ्गत्वं बोध्यते न तु प्रत्ययार्थमिच्छां प्रति । युक्तिश्चात्र वेदान्तधर्मे श्रुत्यनुकूलैव प्रसरति न तु श्रुतिप्रतिकूला येन मुनेरिव गृहस्थस्याप्यमृतत्वं यागादिहीना विद्या साधयेत् ॥ (षष्ठ शमदमायधिकरणम्) "शमदमायुपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेपामप्य- वश्यानुष्ठेयत्वात् २७ " ११० विशिष्टाहताधिकरणमालायाम्- शमदमाद्यनुष्ठानं न कार्य गृहिणा कृतः । द्वेपाद्, विषयभेदेन कर्तव्यमविरोधतः ॥ यदि गृहस्थोचितं कर्मानुष्ठानं मुनिना न कार्य नदा मुन्युचित शमदमाद्यनुष्ठान गृहिणापि न कर्तव्यं यतः करणव्यापाररूपं हि कर्म तद्विपरीताश्च शमादय इति कर्मणां शमादीनां परम्परं विरो- धात् । कथं कर्मिभिर्गृहस्थैः शमादयोऽनुष्ठीयरन्? इति चन्न-विषय- भेदेन विरोधाभावात् । विहितविषयकं हि कर्म कर्तव्यम् । अविहि- तविषयकाः प्रयोजनशून्यविषयकाश्च शमदमादयोनुष्ठेयाः । श्रुतिश्च शमाद्यनुष्ठानं प्रतिपादयति-"तस्मादेयं विच्छन्तोदान्त उपरतस्ति तिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्” इति तस्माद् गृहस्थ- नापि शमदमाद्यनुष्टानं कर्तव्यमेव ॥ (सप्तम सर्वानानुमन्यधिकरणम् ) "सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् २८ अवाधाच्च २९ अपि स्मयते ३० शब्दश्चातोऽकामकारे ३१ सर्वान्नं सर्वदा भुज्याद् विशेषाऽप्रतिपत्तितः ।। प्राणसंशयवेलायां सर्वदा न श्रुतेः स्मृतः ॥ वाजिनां छन्दोगानां च प्राणविद्यायाम्-"न ह वा अस्याननं जग्धं भवति नानन्नं परिगृहीतं भवति न ह वा एवंविदि किं चनाननं भवति" इति प्राणोपासनवतः सर्वान्नभोजनानुमतिः संकीर्यते त- स्मात् सर्वदा सर्वान्नं भुज्यादु विशेषस्याप्रतीतेरित्यत्रोच्यते- प्राणसंशयवेलायामिति-प्राणसंशयवेलायामेव सर्वान्नभक्षणं श्रु- तिः स्मृतिश्च वोधयति न सर्वदा तथा हि-"स हेभ्यं कुल्मापान खादन्तं विभिः" इत्यादिश्छान्दोग्यप्रथमपाठकस्य दरामखण्डे श्रृय- ते । स्मृतिश्च-"प्राणसंशमापन्नो योन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा" इति । “आहारशुद्धी सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” इति प्राणसंशयवेलायामेव सर्वान्नभोजन- मनुमन्यते ॥
हादशः पादः । १११ ( अष्टम विहितलाधिकरणम् ) "विहितत्वाचाश्रमकर्मापि ३२ सहकारित्वेन च ३३ सर्वथापि त एवोभयलिङ्गात् ३४ अनभिभवं च दर्शयति ३५" न कार्याण्युत कार्याणि यागादीन्यऽमुमुक्षुणा । नित्यानित्यत्वसंयोगविरोधात् प्रथमं शिरः । नित्यवाद्विहितत्वाच्च सहकारितया परस् ।। विद्यायां यागादीनां कर्मणामङ्गत्वमस्तीति "तमेतं ब्राह्मणा विविदिपन्ति यज्ञेन" इत्यादिवचनैः प्रतिपादितम् । तत्राङ्गिन्यां विदयायां गृहस्थस्य मुमुक्षोरभिलापा भवतीति तेन यागादीन्यपि विदयाङ्गान्यनुष्ठेयानीति युक्तम् । अमुमुक्षुणा च गृहिणा यागादीनि नानुष्ठेयान्युतानुष्ठेयानीति संदेहे नानुष्ठेयानीत्येव युक्तं नित्यानित्य- संयोगविरोधप्रसक्तेः । यदा हि नानुष्ठेयानि तदा मुमुक्षुणा विदयासं- पत्त्यर्थमनुष्ठेयानीत्यनित्यत्वं-कादाचित्कप्राप्तिमत्त्वं कर्मणां स्यादिति युक्तमेव । यदात्वमुमुक्षुणाप्यनुष्टेयानि तदाश्रममात्रप्रयुक्तत्वान्नित्य- प्राप्तिमत्त्वं स्याद् विद्याप्रयुक्तत्वादनित्यप्राप्तिमत्त्वमपि स्यादिति नित्यानित्यसंयोगविरोधः प्रसक्तः स च न युक्तः संभवत्यां गतावि- त्यमुसुक्षुणा यागादीनि नानुष्ठेयानीति पूर्वपक्षः । सिन्तिपक्षस्तु-अमुमुक्षुणापि गृहस्थेनानुष्ठेयानि यागादीनीति। श्रुतिर्हि नित्यत्वं वोधयति कर्मणाम्-"यावजीवमग्निहोत्रं जुहोति" इति । विदयोत्पत्तिद्वारेण विदयासहकारितयाप्यनुष्टेयान्येव यागा- दीन्यमुमुक्षुणापि । सिद्ध हि नित्यानित्यसंयोगविरोधः प्रसज्यते यथा नित्यं सद्ब्रह्मानित्यं न भवितुमर्हति, अनित्य सन्नित्यं न भवितु- महतीति, नह्येवं व्यापाररूपेषु कर्मसु नित्यानित्यसंयोगविरोधः प्रभ- वति यथा-"अतिराने पोडशिनं गृह्णाति नातिराने पोडशिनं गृह्णति" इत्यत्र विकल्पेन व्यवस्था तथात्रापि विद्याङ्गतयानुष्ठेयानामनित्यत्वम्, अकरणे प्रत्यवायविभीपिकयानुष्ठेयानां नित्यत्वं चेति । एकस्यापि कर्मणो व्यक्तिभेदेन नित्यत्वमनित्यत्वं च युक्तं यथाग्निहोत्रस्य ।
११२ विशिष्टद्वितात्रिकरणमालायाम्- - तदुक्तम्-"सिद्धं हि स्याद्विराधोयं न तु माध्ये कथं चन । विध्य- धीनात्मलाभस्मिन् यथाविधि मता स्थितिः" इति ।। (नवम विधुराधिकरणम् ) अन्तरा चापि तु तद्दष्टेः ३६ अपि स्मर्यंत ३७ विशेषानु- ग्रहश्च ३८ अतस्त्वितरजज्यायो लिङ्गाच्च ३८" विधुराणामुपासासु नोधिकारोस्त्यभावतः-1 आश्रमयोग्यधर्माणाम्, अस्ति दृष्टेः श्रुतेः स्मृतः ॥ " विधुरा मृतदारा अकृतदारा द्विजयोपितश्चेत्यादयस्तेषां ब्रह्मोपा- सनास्वधिकारो नास्ति वास्ति वेति विचिकित्लायां नास्तीति युक्त यतो गृहस्थस्य ब्रह्मविद्याया आश्रमधर्माङ्गकत्वमुक्तमाश्रमधर्माश्च न विधुरैः कर्तुं शश्यन्ते दाराभावात् सदारस्यैव यागादिप्वधिकारात् ।, अत्रांच्यते-अस्तीति, विधुराणामनाश्रमिणामपि मैत्रेयीगार्गी- रकभीष्मसंवर्तादीनां ब्रह्मविदयानिष्ठत्वदर्शनात् = श्रवणातू-"स हो- चाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम्' अथ हनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच" "अथ ह याज्ञवल्क्य- स्य द्वे भार्ये वभूवतुः मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव” इति वाजसनेये ६ अध्याय ५ ब्राह्मणे। श्रुतिश्च-“तपसा ब्रह्मचर्येण श्रद्धया विदययात्मानमन्विप्येतू" "दानेन तपसानाशकेन" इत्येवमाश्रमधर्मभिरपि विधुरैरनुष्ठातुं शक्यैस्तपोदानादिभिर्वि- दयासम्पत्ति प्रतिपादयति । स्मृतिश्च-" जप्येनापि च संसिद्धय- ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा अर्यान्मत्रों ब्राह्मण उच्यते" इति जपदयादिनापि धर्मेण विधुरयोग्येन विदयासिद्धिं वदति । मित्रे भवो मैत्रः सर्वभूतदयावान, ब्राह्मणों ब्रह्मनिष्ठः । तस्माद- स्ति विधुराणामप्यधिकारस्तैश्च विधुरैर्ब्रह्मविदया दानादिनोपस्कर- पीया॥
हादशः पादः । ११३ ( दशमं तद्भूताधिकरणम् ) तद्भूतस्य तु नातभावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ४० न चाधिकारिकमपि पतनानुमानात्तदयोगात् ४१ उपपूर्वम- पायेके भावमनशनवत्तदुक्तम् ४२ बहिस्तूभयथापि स्मृतराचाराच्च ४३% नैष्ठिकाद्याश्रमभ्रष्टा विद्यार्हा विधुरादिवत् । नैष्ठिकाद्याश्रमाप्तानां धर्मसत्त्वं नियम्यते । प्रायश्चित्तं न तद्वानौ विद्यार्हा नैव ते ततः ॥ नैष्ठिको ब्रह्मचारिविशेपो यो गुरुकुल एवात्मानमवसादयेन्न गृहस्थाश्रमं प्राप्नुयात् । तदुक्तं याज्ञवल्क्येन-"नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावस्य तनये पत्न्यां वैश्वानरोपि वा इति । तेषु नैष्ठिकवानप्रस्थपरिव्राजकाश्रमेषु ये प्राप्ताः पुनश्च तत्त- दाश्रमधर्मलोपेन परिभ्रष्टास्ते ब्रह्मविद्यार्हाः सन्ति न वेति विचार्यते किं युक्तम् ? तेपि विद्यार्हाः सन्त्येव विधुरादिवत् = यथा विधुराणां दानादिभिः पुरस्कृता ब्रह्मविद्या सम्पद्यते तथैपामपि ब्रह्मविद्या स- म्पत्स्यते । किं च यथा गृहस्थानां धर्मलोपे सति प्रायश्चित्सेन शु- द्धिर्भवति तथैपामपि शुद्धिः स्यात् श्रूयते च ब्रह्मचारिणो धर्मलोपे प्रायश्चित्तम्-"ब्रह्मचार्यचकीणी नैर्ऋतं गदर्भमालभेत" इति । तस्मा- नैष्ठिकाद्याश्रमभ्रष्टानामप्यस्ति ब्रह्मविद्यायामधिकारः । अत्रोच्यते-नैष्टिकाद्याश्रमाप्तानामिति । नैष्टिकाद्याश्रमं प्राप्तानां तद्धर्मसत्त्वं शास्त्रण नियम्यते=अवश्यकर्तव्यत्वेन वोध्यते-"ब्रह्मचा- र्याऽचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयेत्" "अरण्यमियात्ततो न पुनरेयात्" "संन्यस्याग्निं न पुनरावर्तयेत्” इति। तद्धानौ = नैष्ठिकाद्याश्रमधर्महानौ सत्यां प्रायश्चित्तमपि नास्ति तथा स्मयते-"आरूढां नैष्टिकं धर्म यस्तु प्रच्यवते द्विजः। प्रायश्चित्तं न पश्यामि येन शुद्धयेत् स आत्महा" इति । अवकीर्णिगर्दभालम्भस्तु नैष्टिकव्यतिरिक्तब्रह्मचारिणः प्रायश्चित्तं भवति । तस्मान्नैष्टिकाद्या- श्रमभ्रष्टानां नास्त्येव ब्रह्मविद्यायामधिकारः ।। १५ विशिष्टद्धिताधिकरणमालायाम- (एकादश म्याग्याधिकरण) "स्वामिनः फलश्रुतेग्त्यिात्रेयः ४४ आत्विज्यमित्याडलोमिस्तस्मै हि परिक्रियते १५" कर्माङ्गमाश्रितोपासां यजमानः प्रसाधयेत् । फलोपासनयोरेकाश्रयत्वप्रतिपत्तितः ॥ ऋत्विजां साङ्गयागस्य सिद्धयर्थ क्रयणादमी ॥ कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानः प्रसाधयेदुत ऋत्विजः प्रसाधयन्तु । इत्यत्र यजमान इत्येव युक्तं फलोगासनयोरे- काश्रयत्वदर्शनात् फलं चौपासनस्य यजमानेनैव समीह्यत इति यज- मान एवोद्गीथाद्युपासनं करोतु । अत्रोच्यते-ऋत्विजामिति ऋत्विजां क्रयणं हि सानयागस्य सि- ध्यर्थ कृतमिति वीर्यवत्तरत्वलक्षणाप्रतिवन्धरूप फलसंपादकत्वादु- द्गीथाद्युपासनस्यापि यागाङ्गत्वमवेत्यमी ऋत्विज एवोद्गीयाद्युपा- सनं प्रसाधयन्तु। (द्वादशं तहकार्यन्तरविध्यधिकरणम् ) "सह कार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ४६ कृत्स्नभावात्तु गृहिणोपसंहारः ४७ मौनवदितरेपामप्युपदेशात् ४८" अथमुनिरितिश्रुत्या मौनमुक्तमनूद्यते- विधायकपदाभावात्, अप्राप्तत्वाद्विधीयते ॥ इदमानायते बृहदारण्यके-"तस्माद् ब्राह्मणः पाण्डित्य निर्विद्य वाल्येन तिष्ठालेद् वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमान मौन च निर्विद्याथ ब्राह्मणः" इति । ब्राह्मणो विद्वान्, पाण्डित्यं पण्डा- ऽध्ययनजा ब्रह्मबुद्धिस्तद्वान् पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणम्, निर्विद्य संप्राप्य, वाल्येन तिष्ठासेद् मननशीलोभवेतू, मननं श्रवण च संप्राप्य मुनिर्भवेत् मौनं निदिध्यासनं संपादयेतू, अमौनं मौन- भिन्नं श्रवणादिकं विद्यासहकारिणं मौनपद्वाच्यं निदिध्यासनं च हादशः पादः । ११५ लब्ध्वा ब्राह्मणःब्रह्मनिष्ठो भवति विद्यायाः पराकाष्ठांप्राप्नोतीत्यर्थः । अत्राथमुनिरित्यनेन मौनमनूद्यते किं वा विधीयते इति विशये विधायकपदस्याभावातू, मौनपाण्डित्ययोश्च ज्ञानार्थत्वेन पाण्डित्यं निर्विद्येत्यनेवैव मौनस्य प्राप्तत्वादनूधत इति युक्तम् । अत्रोच्यते-अप्राप्तत्वादिति यदि मौनं प्राप्तं स्यात्तदाऽनूदित मेव स्यान्न च प्राप्तमस्ति पाण्डित्यबाल्याश्यां मौनस्य व्यतिरिक्त- त्वात् । यथा हि "तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेत दानेन" "श्रोतव्यो मन्तव्यः "शान्तो दान्तः” इत्यादिना विद्या- सहकारिणो यागादयः शामादयः श्रवणादयश्च विधीयन्ते तथात्र विद्यासहकारि मौनं विधीयते विधायकपदाभावप्यप्राप्तस्य विधेय- त्वं स्वीक्रियत एव ॥ (त्रतोदशमनाविष्काराधिकरणम्) "अनाविष्कुर्वन्नऽन्वयात् ४८" बाल्येनेत्यत्र बालस्य कामचारादि गृह्यताम् । अदम्भादिविशेषस्य ग्रहणे हेत्वभावतः ॥ अदम्भाचेव विद्यायां तस्यैवान्वयसंभवात् ॥ उक्तश्रुतौ “बाल्येन तिष्ठासेत्” इत्यत्र बाल्यपदेन किं ग्राह्यम् ? किं बालस्य सर्व कर्म कामचारादि किं वा दम्भराहित्याद्यवेत्यत्र दम्भराहित्यादिविशेषस्यैव ग्रहणे सानाभावात् सर्व बालकम काम- चारादिकमदम्भित्वादिकं च विदुषा ग्राह्यमुपादेयमिति युक्तम् । अत्रोच्यते-अदम्भाद्येवेति दम्भराहित्यादिकमेव यद् विद्योप- योगि बालकर्म तदेव ग्राह्य न तु कामचारादिकं, श्रुत्या हि विद्यासह- कारि विधीयते न च कामचारादीनां विद्यासहकारित्वं संभवति येन तेषामुपादेयत्वं स्यात् । अदम्भित्वादेस्त्वस्ति विद्यासहकारि- त्वमिति तदेव विदुषा संग्राह्यम् ॥ (चतुर्दशमहिकाधिकरणम् ) " ऐहिकमप्रस्तुतप्रतिवन्धे तद्दर्शनात् ५०" ११६ विशिष्टाद्वैताधिकरणमालायाम्- अभ्युदयफला विद्या साधकैः पुण्यकर्मभिः । सिद्ध्यत्येवाविलम्बेन विलम्बे हेत्वभावतः । नियमव्यभिचारण विलम्बेनाप्यनन्तरम् ॥ द्विविधा विद्याऽभ्युदयफला मोक्षफला च तत्राभ्युदयफला विद्या स्वसाधकः पुण्यकर्मभिरविलम्बनैव सिद्धयनि किं वा कदा चित् काप्यविलम्बेन कापि विलम्वेनेत्यनियमस्तत्रविलम्ब काराणाभावाद- विलम्बनच सिद्ध्यन्युत्पद्यत इति, न हि कारणादनन्तरं कार्यविलम्बो युक्त इति प्राप्तम् । तत्राह -नियमव्यभिचार पति, साधकैः पुण्यकर्मभिस्तेषामनन्तर- मविलम्ब व विदयात्पद्यत इति नियमस्य व्यभिचारण कदा चिद्वि- लम्चेन कदा चिदविलम्चेनोत्पद्यते । तत्र प्रचलकर्मान्तरकृतप्रतिवन्धे सति विलम्चेन, प्रतिवन्धाभावे चाविलम्बनेति विज्ञेयम् । अभ्युदय- फला च विद्या यथोद्गीथाद्युपासनम् ॥ . (पञ्चदा मुक्तिफलाधिकरणम.) "एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ५१ " विद्या मोक्षफला सिद्धयेत् सद्यः साधनकर्मभिः । प्राबल्यात सर्वकर्मभ्यस्तविद्याहेतुकर्मणाम् ।। पूर्वकृतापचाराणां संभवाद् विदुषामपि । पूर्ववन्नियमाभावाद् विलम्बेनाप्यनन्तरम् ॥ मोक्षफला विद्या दहरादिलक्षणा स्वसाधनभूतकर्मभिः सद्य एव सिद्ध्यति किं वा कदा चित् सद्यः कदा चिद्विलम्वेनेति विशये 'मोक्षफलप्रदविद्याहेतुकर्मणां सर्वेभ्यः कर्मभ्यः प्रावल्यात् कर्मान्तर- कृतप्रतिवन्धासंभवेन सद्य एवेति पूर्वपक्षः। सिद्धान्तस्तु-विदुपामपि पूर्वकृतानामपचाराणां संभवात् पूर्व- वदनियम एव । यस्य हि विदुपः पूर्वकृतोऽपचारो न भवति तस्य मोक्षफला विद्याऽनंतरमेव--तत्साधनीभूतकर्मानुष्टानादनन्तरमेव सद्य हादशः पादः । ११७ एव सिद्ध्यति, यस्य तु पूर्वकृतोऽपचारोस्ति तस्य विलम्चेन । पूर्वकृतापचाराणां सत्त्वासत्त्वे च विद्योत्पत्तौ विलम्बाऽविलम्वाभ्या- मनुमेये ॥ श्रीमते रामानुजाचार्यमुनये नमः ।। इति द्वादशः पादः समाप्त: इति पञ्चनदीयसुदर्शननिर्मितायां विशिष्टाद्वैताधिकरणमालायां तृतीयोऽध्यायः समाप्तः । अथ चतुर्थाध्यायस्य प्रथमः पाद आरभ्यते । ॥ (प्रथममावृत्त्यधिकरणम्) आवृत्तिरसदुपदेशात् १ लिङ्गाच्च २" ब्रह्मविद्या ह्यनुष्ठेया सकृद्वाथ पुनः पुनः । आद्यो वेदनमात्रोक्तरदृष्टविषयत्वतः, ध्यानोपासनपर्यायवेदनस्योपदेशतः । प्रति ब्रह्मापरोक्षत्वं दृष्टोपायत्वतः परः ।। "ब्रह्म वेद ब्रह्मैव भवति" "आत्मा वारे द्रष्टव्यः" इत्यादिका ब्रह्मोपासना श्रूयते सा च ब्रह्मोपासना सकृदेवानुष्ठेया पुनः पुनर्वति विचिकित्सायामुच्यत आद्य इति, उक्तप्रभृतिवचनेषु वेदनमात्रमुक्तं नत्वसकृदावृत्तं वेदनं येनासकृदनुटानं स्यात्तस्मादसकृदावृत्ती मानाभावात्, वेदनस्यादृष्टविषत्वाच्च दृष्टविपयं बवघातादि "त्री- हीनवहन्ति" इति प्रतिपादितं तण्डुलनिष्पत्तिपर्यन्तमनुष्टीयते पुनः पुनर्न चैवं ब्रह्मोपासनाया दृष्टविषयत्वम् = दृष्टोपायत्वमस्तीति सक- देव ब्रह्मोपासना विधेयति प्राप्ते- उच्यते-ध्यानोपासनेति, “मनो ब्रह्मेत्युपासीत" "ब्रह्मवेद ब्रह्मैव भवति" "आत्मा चारे द्रष्टव्यः" इत्यादौ ध्यानापासनादिपर्यायैर्वेद- नमुपदिश्यते, यदि सकृदावृत्ती शास्त्रस्याभिप्रायः स्यात्तदा ध्यानो- पासनादिपर्यायैर्वेदनं नोपदिश्येत । किं च वेदनं हि ब्रह्मापरोक्षत्वं ,
१२०
विशिष्टाहताधिकरणमालायाम्-
नियमाभावतो ध्यायेत् परं ब्रह्म यथा तथा, ।
आसीनः सम्भवाद, देशे काले चैकाग्रताकरे ॥
ध्येयतया यदुक्तं ब्रह्म तत् यथा तथा आग्नीनः शयानस्तिष्टन्
गच्छन्नित्यनियमन ध्यायेदिति चेन्न । आसीनस्यैव ध्यानसम्भवा-
दासीन पर ध्यायदित्याह-आसीन इति । कस्मिन् देश काल च
ध्यायेदित्यत्रोच्यते देश इत्यादिना चित्तकाग्रताकरे देशे काल च
ध्यायेत् । स्मरन्ति च-"शुची दशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छृतं नातिनीचं चैलाजिनकुशोत्तरम् १ तत्रैकाग्रं मनः कृत्वा
यतचित्तेन्द्रियक्रियः । उपविश्यासने युज्या योगमात्मविशुद्धये"
इति ॥
१
(पष्ठमामायणाधिकरणम् )
'आप्रायणात्तत्रापि हि दृष्टम् १२"
उपास्यो हरिरेकाहे तावता शास्त्रपालनम् ।
आमृतेरनुवर्तेतोपासनं सर्वदा श्रुतेः ।।
यदिदं प्रस्तुतमुपासनं तत् किमेकस्मिन्नेव दिने संपाद्य किं वा
मरणपर्यन्तमिति संशय एकस्मिन्नपिदिन उपासनसम्पत्त्या शास्त्रस्य
पालन शास्त्रस्य चरितार्थता भवत्येवेत्याह हरिरंकाह एवोपास्यइति।
अत्रोच्यते-आमृतरिति मरणपर्यन्तमुपासनं सर्वदा कर्तव्यं तदाह
श्रुतिः-“स खल्वेवं वर्तयन् यावदायुपं ब्रह्मलोकमभिसम्पद्यते” इति,
एवं उपासनया सह यावदायुपं वर्तयन् ब्रह्मलोकं प्राप्नोतीत्यर्थः ॥
(सप्तमं तदधिगमाधिकरणम् )
"तदधिगम उत्तरपूर्वाधयोरश्लेपविनाशौ तव्यपदेशात् १३”
अतीतोत्तरपापानां नाशाऽश्लेषावुपासनात् ।
फलं नो वाथ वास्त्याद्योऽभुक्तकर्मक्षयाऽमतेः ।
अस्त्युपासनमाहात्म्याद्, गतिरेषा प्रमादजे ॥
त्रयोदशः पादः। "तद् यथेपीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पापमानः प्र- दूयन्ते” “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यादी विदुपामतीतपापानां क्षयः श्रूयते । तथा-" तद् यथा पुष्करपलाश आपा न लिप्यन्त एवमेवं विदि पाप कर्म न लिप्यते” इत्यादी विदोत्तरभाविधापानामश्लेषः श्रूयते । तौ नाशाश्वेपाबुपासनात फलरूपो न भवत उत भवत इति चिन्तायां " नाभुक्तं क्षीयते कर्म कलरकोटिशतैरपि" इत्यादिवचनाज्ञायते विद्ययाऽतीतोत्तरपापा- नो नाशालेपौ न भवत इति । तत्रोच्यते-अस्तीति, अतीतोत्तरपापानां नाशालेपलक्षण फलं उपासनाद् भवत्येवोपासनमाहात्म्यात् । उपासनमाहात्म्यं च श्रूयते- "एवं विदि पापं कर्म न लिष्यते” इत्यादि । तदिदं नाशाश्लेपलक्षणं फलं प्रमादजकर्मविषयकं विज्ञेयं, न तु वुद्धिपूर्वकं कृतानां पापानां नाशाश्लेयौ भवतः किं तु भोगस्तस्मात्सावधानस्तत्रभवद्भिर्विद्भि- भवितव्यम् । कथं च तस्य सुभगभागधेयस्य विदुपः पापाचरणा- यावकाशः स्यादू यस्य मुकुन्दपदारविन्दे विलग्नं मनः ॥ (अष्टममितराधिकरणम्) "इतरस्याप्येषमसंश्लेपः पाते तु १४" पुण्यस्य विद्यया नाशोऽनुकूलत्वान्न सम्मतः । विद्याविरोधसामान्यादस्ति किं तु मृते सति ॥ ननु "क्षीयन्ते चास्य कर्माणि" इत्यादी विद्यया कर्ममात्रविना. शः श्रूयते, तत्र विद्यया पुण्यस्य नाशो न भवति भवतीति वा सन्दे- हे नेति युक्तं पुण्यस्यानुकूलत्वादिष्टत्वात्तस्य विद्यया नाशो न युक्त इति चन्न-पुण्यस्यापि विद्यया विनाशो भवत्येव, यथा हि पापं नि- रयादिसंपादकत्वाद्विद्याविरुद्धं तथा पुण्यमपि स्वर्गादिसंपादकत्वा- द्विद्याविरुद्वमेव । श्रूयते च-"तत्सुकृतदुष्कृते विधुनुतः” इनि । किं तु शरीरयात्रानिमित्तं पुण्यमपेक्ष्यत इति मरणे सति शरीरवियोगा- दनन्तरं पुण्यं कर्म क्षीयते ॥ १६ १२२ विशिष्टाद्वैताधिकरणमालायाम्- ( नवममनारख्यकार्याधिकरणम् ) "अनारब्धकार्य एव तु पूर्वे तदवधेः १५" सर्वेषां कर्मणां नाशो विद्यातः पूर्वभाविनाम् । विशेषश्रवणाभावाद् देहस्य भ्रमिवत् स्थितिः ॥ अनारब्धफलानां यदवधिः श्रूयते मृतिः । कृष्णकृपातिरिक्तोयं संस्कारो नोपलभ्यते ॥ विद्योत्पत्तेः पूर्वजातानां कर्मणां विनाश उक्तस्तत्र किं तेषां स- वैपां विद्यया विनाशो भवति किं वाऽनारब्धफलानामेवेति विचिकि- सायाम-"क्षीयन्ते चास्य कर्माणि” इत्यादी सामान्यतः कर्मक्षयश्र- वणा सर्वेषामेव क्षयो युक्तः। देहस्थितिस्तु कुलालचक्रभ्रमिवदापि संस्कारवशादुपपद्यते । अत्राह-अनारब्धफलानामिति । अनारब्धफलानामेव कर्मणां वि- द्यया विनाशो भवति यत् = यस्माद्धेतोप॑तिरेव प्रारब्धफलानां कर्म- णामवधिः श्रूयते-“तस्य तावदेव चिरंयावन्न विमोक्ष्येऽथ सम्पत्स्ये" इति । अत्र विद्योत्पत्तौ सत्यामपि ब्रह्मसम्पत्तौ प्रारब्धविमोक्ष एव विलम्बःप्रतिपाद्यते। यदि विद्यया सर्वेपामेव कर्मणांविनाशः स्यात्तदा विद्योत्पत्तिसमनन्तरमेव विद्वान् ब्रह्म संपद्येत 'यावन्न विमोक्ष्ये' इति नोच्येत । तस्मादनारब्धफलानामेव विद्यया विनाशः श्रुतिसम्मतः । देहस्थितिसम्पादको यो वै परेण संस्कारविशेषः स्वीक्रियते तस्मि- न संस्कारे भगवदनुग्रहव्यतिरिक्ते मानं नास्ति । तस्मात्प्रारब्धकर्म- जन्यभगवत्कृपयैव शरीरादिस्थितिर्भवतीति न प्रारब्धफलानां कर्म- णां विद्यया विनाशः किं तु भोगेनेति विशेयम् ॥ - (दशममग्निहोत्राधिकरणम् ) "अग्निहोत्रादितु तत्कार्यायैव तद्दर्शनात् १६ अतोन्यापि ह्येकेपामुभयोः १७ यदेव विद्ययेति हि १८" - त्रयोदशः पादः । १२३ अग्निहोत्रादिकर्माणि नानुष्ठेयानि तत्फले । श्लेपशक्तेरभावेन विदुषस्तदनिच्छया ॥ अनुष्ठेयानि तेनैव विद्याकार्यविवृद्धये । विद्या न स्याद्विनश्येहा स्वाश्रमधर्मलोपतः ॥ इतरेषां विद्योत्तरभाविनां कर्मणामसंश्लेप उक्तोऽसंश्लेषश्च कर्म- णां फलाजनकत्वमेव, तत्र-अग्निहोत्रादिकर्माण्याश्रमधर्मरूपाणि वि- द्योत्पत्तेरनन्तरं विदुपा नानुष्ठेयान्यनुष्ठेयानि वेति विशये नानुष्ठेया- नीति युक्तं यतः फलसम्बन्धायैव कर्माण्यनुष्ठीयन्ते न च विद्योत्प- तरनन्तरं फलसम्बन्धः सम्भवति कर्माग्लेषप्रतिपादनादित्याह श्ले- पशक्तेरभावेनेति । किं च विदुपस्तत्फलेच्छापि नास्तीति किमित्यनु- प्टेयानि कर्माणि । अत्र चूमः-अनुष्ठेयानीति, तेनैव-श्लेषशक्तेरभावेनैव हेतुनानुष्ठे- यानि । यदि विद्योत्पत्तेरनन्तरमप्यनुष्ठितकर्मलेपः स्यात्तदा विद्या- विरोधित्वादाश्रमधर्मपरित्यागः स्यादपि युक्तो न चैवमस्ति। तस्माद , विद्याख्यकार्यस्य विवृद्धयेऽनुष्ठेयान्येवाश्रमकर्माणि । आश्रमधर्मलो- पतो दूपितान्तःकरणस्य सा ब्रह्मविद्या नोत्पद्येतोत्पन्ना च विनश्येत तस्मादनुष्ठेयान्याश्रमकर्माणि ॥ (एकादशमितरक्षपणाधिकरणम् ) "भोगेनत्वितरे क्षपयित्वाथ सम्पद्यन्ते १९" विद्यायोनिशरीरस्य तस्य देहान्तरस्य वा- अन्ते प्रारब्धकार्याणां कर्मणां क मतः क्षयः ।। तस्य तावदितिश्रुत्या तच्छरीरावसानके । मैवं भोगेन तन्नाशोऽनियमादत्र सम्मतः ॥ अश्लेषविनाशविषयव्यतिरिक्तानां प्रारब्धफलानां कर्मणां क- कदा क्षयः संम्मतः ? किं विद्यायोनिशरीरस्यान्ते किंवा तच्छरी- १२४ विशिष्टाद्वैताधिकरणमालायाम्- रस्यान्तेऽथ वा शरीरान्तरान्त इत्यनियमसंशये तच्छरीरेत्युच्यते "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इतिश्रुत्या त- च्छरीरावसाने प्रारब्धफलकर्मणां विनाशावगमात्तथैव स्वीक्रियते । सिद्धान्तमतमाह-मैवमिति-भोगेनैव प्रारब्धफलकर्मणां नाशा- दनियमेन नाशः सम्मतस्तथा हि-यदि प्रारब्धफलकर्मणां फलमेक- शरीरोपभोगयोग्यं भवति तदा तच्छरीरावसान एष तेषां क्षयः । यधनेकशरीरोपभोगयोग्यं भवति तदा शरीरान्तरावसाने तेपांक्षयः। प्रारब्धफलकर्माण्येवोद्दिश्य स्मर्यते-"नाभुक्तं क्षीयते कर्म कल्पको- टिशतैरपि" इति ॥ ॥ इति त्रयोदशः पादः समाप्तः ॥ ॥ अथ चतुर्दशः पादः आरभ्यते ॥ (प्रथमं वामधिकरणम् ) "वाङ्मनसि दर्शनाच्छब्दाच्च १ अत एव सर्वाण्यनु २" लयो मनसि वाग्वृत्तेर्वाचो वा,ऽप्रकृतित्वतः । हृदो वाचः शिरः पूर्व, द्वितीयं दर्शनाच्छ्तेः ।। वाचा सहैव सर्वेषामिन्द्रियाणां लयो हृदि । संप्रति प्रयतात्मनां प्रयाणप्रकारश्चिन्त्यते-इमानायते-"अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनास संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्” इति । अत्र वाग्वृत्तिमात्रस्य मनसि लयः संपत्तिः समता किं वा स्वरूपतो वाच एत्रोत, विशये-स्वप्रकृता- वेव लयो भवति हृदः मनसश्च वाचो प्रकृतित्वात् पूर्व शिरोयुक्तम्- वाग्वृत्तमनसि लयो युक्तो वागादिवृत्तीनां मनोधीनत्वात् । अत्राभिधीयते-द्वितीयमिति द्वितीयं शिरो युक्तम् । वागिन्द्रिय उपरतेपि मनःप्रवृत्तिहश्यते न तु मनस्युपरते वाक्प्रवृत्तिरित्याह दर्शनादिति । अथ मनस्युपरते वाक्प्रवृत्यभावेन वाग्वृत्तरेव मनसि चतुर्दशः पादः । १२५ संपत्तिः सिद्धा न तु वाचस्तञ्च स्वीकृतमेव पूर्ववादिनेत्याशङ्ख्यो- च्यते श्रुतेरिति 'वाङ् मनसि संपद्यते' इति श्रुत्या हि स्वरूपन एव धाचो मनसि संपत्तिः प्रतिपाद्यते न तु वाग्वृत्तः । वाचा सह च सर्वाण्येवेन्द्रियाणि मनसि लीयन्ते-"तस्मादुपशान्ततेजा अपुर्नभ- वमिन्द्रियर्मनसि संपद्यमानैः” इति श्रुतेः ।। - " ملح - (द्वितीयं मनोधिकरणम् ) तन्मनः प्राण उत्तरात् ३" प्राणा पाथोमया आद्भिः सृष्टमन्नं मनस्तथा-1 अन्नमयं, ततः प्राणे मनसो लय उच्यते ॥ अहङ्कारान्मनो जातं प्राणा सूक्ष्मभूतजाः- कार्यकारणभावान्नो लयस्तस्माच् छुतेर्मतः ॥ उक्तश्रुतौ "मनः प्राणे” इत्यनेन प्रलीनसर्वेन्द्रियं मनः प्राणे संप- द्यते स्वरूपेण, न मनोवृत्तिमात्रम् । तत्रापि "अन्नमयं हि सोम्य । मनः" इन्यनेन मनसोऽन्नमयत्वम् । “ता अन्नमसृजन्त" इत्यनेनान्न- स्याऽस्मयत्वं सिद्धं "आपोमयः प्राणः” इत्यनेन च प्राणस्याम्मयत्वं सिद्धं एवं च परंपरया मनःप्राणयोः कार्यकारणभावोस्तीति तन्मूल एव मनसः प्राणे लयः शाव्यते न तु कार्यकारणभावविहीनः श्रुति- मात्रसिद्धो मनसः प्राणे लयः । अत्रोच्यते-अहङ्कारादिति मनोऽहङ्काराजातं प्राणाश्च सूक्ष्मभू- तेभ्यो जाता इति तयोः कार्यकारणभाव एव नास्ति येन तन्मूलो लयः स्यात्प्राणे । किं तु “मनः प्राणे” इति श्रुतेरेव मनसः प्राणे लयः प्रतिपाद्यते । तदाह सूत्रकारोपि 'उत्तरातू' इति । उत्तरातू 'मनः प्राणे' इति वाक्यान्मनसः प्राणे लयोवगम्यते, न तु कार्यकारणभाव- त्वानुकूलयुक्त्या ॥ (तृतीयमध्यक्षाधिकरणम्) "सोध्यक्षे तदुपगमादिभ्यः ४ " १२६ विशिष्टाद्वैताधिकरणमालायाम्- का प्राणस्तेजसि वा जीवे लीयते ? तेजसि श्रुतेः । पूर्वापरश्रुतीनां तु पक्षो मीमांसया परः ॥ प्रलीनमनसः प्राणस्य कि तेजति लयो भवति किंवा जीव इति विशये "प्राणस्तेजसि" इति श्रुतेस्तेजस्येव प्राणो लीयत इति चन्न पूर्वापरश्रुतीनां मीमांसया जीवे प्राणो लीयते तथा हि-"एवमेवेम- मात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रतर्बोच्छासी भवति” “तमुत्क्रामन्तं प्राणानुक्रामति" इत्यादिश्रुतिघु जीव एव प्राणलयः प्रतिपाद्यते तस्माज् जीवसंयुक्तस्य प्राणस्य "प्राणस्ते- जसि” इति श्रुत्या तेजसि लयः शाव्यते न तु केवलस्य प्राणस्य । (चतुर्थ भूताधिकरणम्) 'भूतेषु तच्छ्रुतेः ५ नैकस्मिन् दर्शयतो हि ६ प्राणस्य जीवयुक्तस्य शुद्ध तेजसि किं लयः । संसृष्टसर्वभूते वा तेजोमात्रश्रुतेस्तथा । सर्वभूतमयत्वोक्तेर्जीवस्य परसंमतिः ॥ जीवसंयुक्तस्य प्राणस्य "प्राणस्तेजसि” इति श्रुत्या तेजसि लय उक्तस्तत्रायं सन्देहः किं शुद्ध तेजसि-तेजोमात्र जीवसंयुक्तप्राणस्य लयः संमतः किं वा सर्वैर्भूतैः संसृष्टे तेजसीति किं युक्तम् ? “प्राण- स्तेजसि" इत्यत्र तेजोमाने लयश्रुतेस्तथा तेजोमात्र एवलयः संमत इति। अत्रोच्यते-सर्वेति “पृथिवीमय आपोमयो वायुमय आकाशमय- स्तेजोमयः" इतिश्रुत्या वाजसनेये६अध्याय ४ब्राह्मणे जीवस्य सर्वभूत- मयत्वोक्तेस्तयुक्तस्य प्राणस्य संसृष्टसर्वभूत एव तेजसि लयो युक्त- इत्याह-परसंमतिरिति परस्य पक्षस्य संमतिः ॥ (पञ्चममासृत्युपक्रमाधिकरणम्) "समाना चामृत्युपक्रमादमृतत्वं चानुपोप्य ७ तदापीतेः संसारव्यपदे- चतुर्दशः पादः । १२७ शात् ८ सूक्ष्म प्रमाणतश्च तथोपलव्धेः ९ नोपमर्दैनातः १० अस्यैव चोपपत्तरूपमा ११ प्रतिधादिति चेन्न शारीरात्स्पष्टोकेपाम् १२ स्मर्यते च १३" उक्ता प्रायणरीतिस्त्वविदुषो विदुपश्च यत् । अत्रैवामृतताप्राप्तिईयोरासृत्युपक्रमात् ॥ उक्तैपोत्क्रमणरीतिः किमविदुप एवोत विद्वदविदुपोईयोरेवेति विशये-अविदुप एव यद् यतो विदुपस्तु "अथ मोऽमृतो भवत्यत्र ब्रह्मसमष्णुते” इति श्रुत्यात्रैचामृतत्वप्राप्तिः प्रतीयते । अत्रोच्यते-द्वेयोरिति विद्वदविदुपोईयोरेवैपोत्क्रमणरीतिः स- मना,आकृत्युपक्रमात् = गमनोपक्रमातू-"शतं चैकाच हृदयस्य नाड्य- स्तासांसू नमभिनिस्सृतका तयोर्ध्वमायनमृतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति" इत्यत्रोमायन्निति सर्वेषामेकरूपेणैवोक्तोत्क्रम- परीतिः श्रूयते । तदनन्तरं तु विशपोपि श्रूयते-"तेन प्रदयोतनेनेष आत्मा निष्क्रामति चक्षुपो वा सूर्यो वा अन्येभ्यो वा शरीरदेशेभ्यः" इत्यत्र विदुपो मूओं निष्क्रमण प्रतिपादयते ॥ (षष्ठं परसम्पत्त्यधिकरणम्) "तानि परे तथा ह्याह १४" जीवयुक्तानि भूतानि यान्ति कृतय आत्मनः । यथाकामं यथाविद्यं, किं वाथ परमात्मनि ॥ आद्यः परात्मसंपत्तावऽभोगात् सुखदुःखयोः । पर:-तेजः परस्यां देवतायामित्यतः श्रुतेः ॥ जीवयुक्तस्य प्राणस्य संस्कृष्टसर्वभूते तेजरिल संपत्तिरुक्ता तत्र- जीवयुक्तानि तानि स्नूक्ष्मभूतानि किं यथाकामं यथाविदयमात्मनः स्वस्य कृतये कार्याय यान्ति किंवा परमात्मनि यान्ति-संप- - १२८ विशिष्टाद्वैताधिकरणमालायाम्- दयन्त इवि संशये परमात्मसम्पत्ती सुखदुखोपभोगी न सम्भवती- ति यथाकाम यथाविदयं स्वकार्याय सुखदुःखोपभोगाय प्रयान्तीति प्राप्तम्। मैवम्- "तेजः परस्यां देवतायाम्" इति श्रुतेः परमात्मनि संप- त्तिरेव विज्ञायते तस्मात् प्रथमं परमात्मसंपत्ती जातायां तदनन्तरं यथाविदयं यथाकामं स्वकार्याय प्रयान्तीति युक्तम् ॥ (सप्तमविभागारिकरणम् ) "अविभागो वचनात् १५" कारणापत्तिरूपा किं संपत्तिः परमात्मनि । अविभागोथ वा, पूर्वः-यतोयं सर्वकारणम् । अविभागोऽनुषङ्गेण संपद्यत इति श्रुतेः ।। येयं परमात्मनि संपत्तिरुक्ता जीवयुक्तानामणुभूतानां सा कि प्राकृतलयवत् कारणापत्तिरूपा किं वाऽविभागोऽपृथग्भावतारूपेति विशये पूर्वः पक्षो युक्तो यतोयं परमात्मा सर्वेषां कारणं तस्मिन् कारणस्वरूपे परमात्मनि धा संपत्तिः सा कारणापत्तिरूपैवयुक्ता। अत्र ब्रूमः-अविभाग इति । परमात्मसंपत्तिः परमात्मतोऽविभा- गरूपैव यतः “वाङ्मनसि संपद्यते" इत्यत्रत्यं संपदयत इतिपदमुत्त- रवाक्येषु सर्वत्रानुपज्यते तेन च संपदयत इतिपदेन संसर्गविशेष एव प्रतिपादयते न तु कारणतापन्तिस्तस्मादविभागपक्षः सिद्धः॥ ( अष्टमं तदेकोग्रज्वलनाधिकरणम् ) " तदेकोग्रज्वलनं तत्प्रकाशितहारो विद्यासामर्थ्यात् तच्छेपगत्य- नुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया १६ " कवेर्मूईन्यया नाड्या गमने नियमो नहि । भूयस्त्वादतिसूक्ष्मत्वान्नाड़ीनां दुर्विवेकतः । नियमोऽनुग्रहादैवान्नाडीविज्ञानसंभवात् ॥
चतुर्दशः पादः । १२९ उत्क्रान्तावविद्वदपेक्षया विदुपो विशेषप्रतिपादनमेवास्याधि- करणस्य फलम् । कवितुपो गमनं प्रयाणकालं किं यया कया चि. नाड्येत्यऽनियमः किं वा मूर्द्वन्यया नाड्यति नियम इत्यत्र नाडीनां भूयस्त्वादतिसूक्ष्मत्वाद् दुर्विवेचनत्वाचानियमपक्षो युक्त इति चेतू- न-नियमपक्ष एव युक्तस्तथैव श्रूयते-"शतं चैका च हृदयस्य नाझ्यस्तासांमृर्द्धानमभिनिस्सुका तयोर्ध्वमायनऽमृतत्वमेति वि- वन्या उत्क्रमणे भवन्ति" इति मूर्धन्ययैव नाड्या विदुष उत्क- मणं प्रतिपादयते । नाड्यविज्ञानानुपपत्तिरपि न युक्तिमती यता दै- वात्परमात्मसम्बन्धिनोनुग्रहान्नाडीनां विज्ञानमपि सम्भवत्येव । यस्य भगवतोऽनुग्रहेण तस्यातिसूक्ष्मतम दुर्वियमपि स्वरूपं पश्य- ति विद्वान् का कथा तस्यानुग्रहेग नाडीनां दर्शनस्य ? ॥ (नवमं रम्यनुसाराधिकरण) "रश्म्यनुसारी. १७" आदित्यमण्डलं विद्वान् प्रयात्यनियमादिव । रश्मीनां निश्यऽभावेन, नियमादेव रश्मिभिः ॥ एवकारश्रुते रात्रौ तापाद्रश्म्यऽनुमानतः ॥ मूर्द्वन्यनाड्या निर्गतस्य विदुर आदित्यमण्डलगमनं श्रूयते-"अथ यत्रतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूमाक्रामति" इति । तत्र विद्वान् रश्मिभिरेवादित्यमण्डल प्रयातीति नियमः किं वाऽनि- यम इति विशये रात्री रश्मीनामभावानियमपक्षो न युज्यते रश्मि- भिर्गमनं हि दिने सम्भवत्येवेति पाक्षिकगमनानुवादोयम्-"रश्मि- भिरूमाकामति" इति । अत्रोच्यते-नियमादेवोति रात्रावपि तापेन रविरश्मीनामनुमान- तः सिद्धिरस्त्येव किं चानियमपक्षे “अथैरेव रश्मिभिः" इत्येवका- रश्रुतिरपार्था स्यात् तस्मादिनं वा स्यान्न तं वा स्याद् विद्वान्निर्गतः शरीराद्रश्मिभिरेव रविमण्डलं प्रयातीति नियम एव ।। १७ १३० विशिष्टाद्वैताधिकरणमालायाम्- (दशमं निशाधिकरणम्) "निशि नेति चेन्न सम्बत्यस्य यावदेहभावित्वादर्शयति च १८" निशिमृतो हरिं नैति निन्दितं मरणं निशि, । अविद्वद्विषया निन्दा कर्मबन्धनमोक्षतः । निशि मृतोपि तद्ब्रह्म याति विद्वांस्तथाश्रुतेः ॥ निशि मृत विद्वान् ब्रह्म न प्राप्नोति किं वा प्राप्नोतीति चिन्तायां निशि.रश्मिद्वारादित्यमण्डलप्राप्निसम्भवपि “दिवा च शुक्लपचश्च उत्तरायणमेव च मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्" इत्या- दिवचनैर्निशामरणस्य निन्दितत्वात् निशि मृतो न हरिं प्राप्नोति । अन्यथा किं प्रयुक्तं निशामरणं निन्दितं स्यात् ? | अत्रांच्यते-अविद्वद्विषयेति निशामरणनिन्दा हविद्वाद्विपयास्ति किं च निशि मरणस्य निन्दितत्वमधोगतिप्रदत्वेन वक्तव्यं न च विदुषोऽधोगतिः संभवति विद्यया पूर्वकर्मणां विनाशादुत्तरकर्मणा- मश्लेषात्प्रारब्धकर्मणां चोपभोगेन क्षीणत्वात् तस्मानिशि मरणम- विदुषां निन्दितं न विदुव इति निशि मृतोपि विहाँस्तब्रह्म श्रीवैकु- ण्ठाधिपति यात्येव तथैव श्रूयते-"तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये” इति । तस्य विदुषः । यावन्न विमोक्ष्ये या वत्प्रारब्धकर्मक्षयो न,भवतीत्यर्थः ।। ... (एकादा दक्षिणायनाधिकरणम्) "अतश्रायनपि दक्षिणे १९ योगिनः प्रति स्मर्यते स्माते चैते २०" दक्षिणेप्ययने विद्वान् ब्रह्म नैत्येति वा मृतः । नैति-तत्र मृतेर्निन्दा चन्द्रं गत्वा निवर्तते । अविद्वद्विषया निन्दा विद्वान् ब्रह्मेति चन्द्रतः ।। दक्षिणायन मृतो विद्वान् परं धाम न प्राप्नोति किं वा प्रामोतीति चिन्तायाम्-नतात्युच्यतेन प्राप्नोति यतस्तत्र दक्षिणायने मृतेमरणस्य क चतुर्दशः पादः । १३१ निन्दास्ति--"दिवा च शुक्लपक्षश्च उत्तरायणमेव च मुमूर्पता प्रश- स्तानि विपरीतं तु गर्हितम्" इति । तस्मादक्षिणायन मृतां विद्वान् चन्द्रमण्डलं गत्वा पुनर्भवसागरे निवर्तते-"अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छति" इति चन्द्र- प्राप्तिः श्रूयते । चन्द्रं प्राप्तानां च “यदा तत् पर्यवेत्यथैव मंचाध्वानं पुनर्निवर्तन्ते" इति पुनरावृत्तिः श्रूयते । अत्रांच्यते-अविद्वद्विषयति । दक्षिणायने मरणस्य निन्दा त्वविद्वद्विपयास्ति । चन्द्रं गत्वा पुनरावृत्तिरप्यविद्वद्विपर्यवझया "तस्माद्रह्मणो महिमानमाप्नोति" इति वाक्यशेषात् विद्वांस्तु चन्द्र- मपि गत्वा ब्रह्म प्राप्नोत्यवति सिद्धान्तः । प्रारब्धफलकर्मणां भोगेन क्षीणत्वात् प्रतिवन्धकोपि नास्तीति पूर्वोक्तमनुसंधेयम् ॥ इति चतुर्दश पादः समाप्तः ॥ अथ पञ्चदशः पाद आरभ्यते । (प्रथममचिरायधिकरणम्) "अर्चिरादिना तत्प्रथितेः १" अनेके ब्रह्मणो मार्गा अथ वैकोऽचिरादिकः । आद्यः श्रुतिषु मार्गस्याऽनेकै रूपैः प्रबोधनात् ॥ परः श्रुतिषु सर्वत्र मार्गक्यप्रत्यभिज्ञया । विद्वांसो यान्ति ते नैव परंब्रह्मार्चिरादिना ॥ विदुपो ब्रह्मप्राप्तिरुक्ता तस्याश्च ब्रह्मप्राप्तेरनेके मार्गाः सन्ति किं चा एक एवाचिरादिको य एव पक्षः सिद्धः स्यात्तदनुसारेणव ब्रह्मप्राप्ती मार्गस्य नियमानियमौ विनेयाविति चिन्तायाम् ।
१३२ विशिष्टाद्वैताधिकरणमालायाम्- "मथ यदु चास्मिञ्छव्यं कुर्वन्ति यतु च नार्चिपमेवाभिसंभव न्त्यषिोऽहरन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान पडुदङडति मासाँस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याश्चन्द्रमसं चन्द्रमसो विदुचतं तत्पुरुपोऽमानवः स पतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथः” इत्येवं छन्दोग्यचतुर्थप्रपाठकस्य पञ्चदशस्त्रण्डे ब्रह्ममार्गः श्रूयते । “स एतं देवयानं पन्थानमापदधाग्निलोकमा- गच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोक स प्रजापतिलोकं स ब्रह्मलोकं” इत्येवं कौषीतक्युपनिषत्प्रथमाध्या- यस्य तृतीयानुवाके ब्रह्ममार्गः श्रूयते । इत्येवं ब्रह्मप्राप्तिमार्गस्य श्रुतिध्वनेकै रूपैः प्रबोधनादनेके ब्रह्मणो मार्गा इति युक्तं तथा च कोपि विद्वान् केन चिन्मार्गेण ब्रह्म प्रयाताति मार्गानियमः प्राप्तः । अत्रोच्यते--पर इति श्रुतिषु सर्वत्र तस्यैव मार्गस्य प्रत्यभि- शानादेक एवाचिरादिको ब्रह्मप्राप्तिमार्गस्तेनैवार्चिरादिना मार्गेण परब्रह्म प्रयान्ति विद्वांसः । एकस्यापि तस्य मार्गस्य कचित् कापि विशेषः श्रूयते क्वचित्कोपीति नैतावता मार्गभेदः संपद्यते ॥ . (द्वितीयं वाय्वधिकरणम्) "वायुमव्दादविशेषविशेषाभ्याम् २" छन्दोगा वत्सरं प्राहुर्मध्य आदित्यमासयोः । वाजसनेयिनो देवलोकं तस्माद्विकल्प्यताम् ॥ युक्तोस्त्यत्रोपसंहारो मार्गक्यप्रत्यभिज्ञया । मासात्संवत्सरं प्रैति देवलोकं ततः सुधीः ॥ देवलोकमरुल्लोको भिन्नौ लोकप्रसिद्धितः । ततः संवत्सरात् काप्येकत्रैतु स्वेच्छया कविः॥ अविशेषविशेषाभ्यां निर्देशादेक एव सः । ततः संवत्सरादूर्ध्व वायुमेवैति कोविदः ।।
पञ्चदशः पादः । १३३ छान्दोग्यचतुर्थप्रपाटकस्य पञ्चदशस्त्रण्डे-"मासेभ्यः संवत्सरं संवत्सरादादित्यम्" इत्येवं क्रमेण परंधाम गच्छतो विदुषः मासा- दित्ययोर्मध्ये संवत्सरप्राप्तिः श्रूयते । वाजसनेयाटमाध्यास्य द्विती- यत्राह्मणं तु "मासेभ्यो देवलोकं देवलोकादादित्यम्" इत्यवं मासा- दित्ययोर्मध्ये देवलोकप्राप्तिः श्रूयते । देवलोकसंवत्सरी च भिन्नावे- वेति तयोर्विकल्पोयुक्तस्तस्मात् कोपि विद्वान् मासेभ्यः संवत्सर संवत्सरादादित्यमण्डलं प्रयाति,कोपि च विद्वान् मेसेभ्यो देवलोकं देवलोकादादित्यमण्डलं प्रयातीत्याह विकल्प्यतामिति । सिद्धान्तमाह-युक्त इति । सकलश्रुतिषु ब्रह्मप्राप्तिमार्गस्यैकत्वेन प्रत्यभिशयात्रोपसंहारो युक्तः ये विशेषा एकत्र नोक्ता अपरत्र चो. क्तास्ते विशेषां अनुक्तिस्थलप्युपसंहरणीयास्तस्माच्छान्दोग्योक्तमार्गे संवत्सरादनन्तरं देवलोकस्य निवेशः कार्यः, वाजसनेयोक्तमार्गे च मासेश्योनन्तरं संवत्सरस्य निवेशः कार्य इति 'मासेश्यो संवत्सरं संवत्सराइवलोकं देवलोकादादित्यमण्डलं सुधीविद्वान् प्रयाति ब्रह्म- मार्ग इत्यवधेयम् ॥ संप्रति प्रधानोधिकरणविषय मारभ्यते-देवलोकमरुल्लोकावि- त्यादिना । अयं भाव:-उक्तवाजसनेयवाक्ये-"मासेभ्यो देवलोकं देव- लोकादादित्यम्" इत्यत्रादित्यात्पूर्व देवलोकप्राप्तिरुच्यते, पुनश्चान्यत्र वाजसनेयिनः- “यदा वै पुरुषोस्माल्लोकात्प्रति स वायुमागच्छति तस्मै स तत्र विजिहीपते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इत्येवमादित्यात पूर्व वायुप्राप्तिं श्रावयन्ति । कौषीतकिनश्च-"अग्निलोकमागच्छति स वायुलोकं” इत्यादिनाच्या. दित्यात्पूर्व वायुप्राप्ति श्रावयन्ति तत्रोक्तश्रुतिभिरादित्यात्पूर्व देवलो- कस्य वायुलोकस्य च प्राप्तिः प्राप्ता तौ च देवलोकवायुलोकी लोक- प्रसिद्धितो भिन्नाववेति कोपि विद्वान् संवत्सराद्देवलोकं देवलोका- दादित्यं प्रयातु कोपि च संवत्सराद्वायुलोकं वायुलोकादादित्यं प्रया- त्वित्यनियमः प्राप्तः। सिद्धान्तं वच्मि-अविशेषेति-वायुरपि देव एव तस्मात्तस्यैव वा- योर्विशेषतया निर्देश वायुरित्युच्यते सामान्यतया निर्देशे देव इत्यु- च्यते एवमत्रापि देवलोकमित्यविशेषतया निर्देशो वागुलोकमिति १३४ विशिष्टाद्वैताधिकरणमालायाम्- विशेषतया निर्देश इति य एव वायुलोकः स एक देव लोक इत्या- हैक एवेति ततश्चसंवत्सरादनन्तरं सामान्यनिर्देशेन देवलोकपद चाच्यं वायुलोकमव प्रयाति विद्वानिति नियमो विक्षयः ।। (तृतीयं वरुणाधिकरणम् ) तडितोऽधिवरुणः संबन्धात् ३" वरुणस्य निवेशः किं वायोरग्रेथ विद्युतः । कार्ये क्वचिन्निवेशे स्यादाद्यः पाठक्रमेण सः ॥ परो ह्यर्थक्रमेणात्र बाधात्पाठक्रमस्य तु । संबद्धा वरुणे विद्युत् तत इन्द्रः प्रजापतिः । अर्चिरहः सितः पक्ष उत्तरायणवत्सरौ । मरुद्रवीन्दवो विद्युद्वरुणेन्द्रचतुर्मुखाः । एते द्वादश धीराणां परधामातिवाहिकाः ॥ "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्” इत्येवं वरुणलोकप्राप्तिं श्रावयन्ति कौषीतकिनस्तत्रायं सन्देहः किं पाठक्रमेण वायोरने वरुणस्य निवेशः कार्यः किं वार्थ- मेण विद्युतोऽय इति । वरुणस्य कचिदपि निवेशः कर्तव्य एनेति पाठक्रमेणव वायोरने सः-निवेशः स्यादित्याद्यः पक्षो युक्तः। तत्रोच्यते पर इति-पाठक्रमस्यार्थक्रमेणात्र बाधोभवतीति वि- शुतोऽय एवं वरुणस्य निवेशः कार्यः । अर्थक्रमप्रावल्ये हेतुमाह स- म्बद्धा वरुणे विद्युदिति वरुणन विद्युतः सम्बन्धो लोकवेदयोः प्र. सिद्ध एवास्तीति वरुणस्य व चिन्निवेशे कर्तव्ये विद्युतीय एव निवेशो युक्तः । तस्माश्च वरुणलोकादिन्द्रलोकमिन्द्रलोकात् प्रजापतिलोकं प्रयाति विद्वानित्याह तत इति ।
पञ्चदशः पादः। १३५ . उक्तमार्गक्रमं संगृहामि-अर्चिरह इत्यादिना । तथोक्तं श्रीमद्वर- दमित्रैरपि-“अर्चिरहस्सितपक्षानुदगयनाऽब्दमरुदन्दून् । अपि वै- धुतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः” इति द्वादश ब्रह्मप्रापकाः ॥ (चतुर्थमातिवाहिकाधिकरणम् ) "आतिवाहिकास्तलिङ्गात् ४ वैद्युतेनैव ततस्तच्छ्रुतेः ५" चिन्हभूता हरेर्धाम्नो मार्गस्याथाचिरादयः । भोगस्थानानि वा यातां तेषां किं वातिवाहिकाः॥ आधस्तथोपदेशस्य मार्गचिन्हेषु दर्शनात् । द्वितीयो लोकतोक्तेः स्याल्लोका भोगस्य भूमयः॥ परः परमसिद्धान्त आतिवाहिकलिङ्गतः। वैकुण्ठप्रापिका विद्युद् वरुणादेस्त्वनुग्रहः ॥ एतेचिरादयः परधाममार्गस्य चिन्हभूता किं वा भोगभूमयः ज वा ब्रह्मप्रेप्सतामातिवाहिका इति विचिकित्सायामाद्यः पक्षो युक्तो यथाहि लोकेऽमुकं वृक्षममुकं ग्रामं गत्वा गन्तव्ये ग्रामे त्वया गन्तव्यमिति मार्गचिन्हानामुपदेशो दृश्यते तथैवात्रापि “अर्चिषोऽ- हरन्हः” “स वायुलोकं स वरुणलोकम्” इत्यादि मार्गचिन्हानामे- वार्चिरादीनामुपदेशः प्रतीयते । परस्त्वाह द्वितीय इति कालविशेषतया प्रसिद्धानामहरादीनां मार्गचिन्हत्वं नोपपदयते तस्मादेते भोगभूमय एव । “दवलोकं वायुलोकम्” इत्यादिश्यते लोकत्वं च भोगभूमीनामेव प्रसिद्ध यथा-स्वोंको भूलांक इति । सिद्धान्तस्तु पर इत्यादिः, अर्चिरादयो हि ब्रह्म प्रयातामाति वाहिकाः अतिवोढारः-गमयितारः। आतिवाहिकलिङ्गात्वान्तृणां गमयितृत्वमेवातिवाहिकानां लिङ्गं गमयितृत्वं चैषां श्रूयते-"तत्पु- रुषोऽमानवः स एतान् ब्रह्मगमयति" इति । गमयतीतिपदवाच्यस्य :
विशिष्टाद्वैताधिकरणमालायाम्- गमयितृत्वस्य चिदुयतः पूर्वरप्यर्चिरादिभिः संबन्धास्तीति तपा मप्यातिवाहिकत्वं सिद्ध । चन्द्राद्विदुचतं प्राप्त विद्वांसं यदयपि विदुयत्पुरुष एव-ब्रह्म प्रापयति "तत्पुरुपोऽमानवः स एतान् ब्रह्म गमयति" इति श्रुतेर्बरुणादीनां च तत्रानुग्राहकत्वमात्रमेव तथाप्य- नुग्राहकत्वादेव वरुणादीनामातिवाहिकत्वमित्याह चंकुण्ठप्रापिके- त्यादिना ॥ ( पञ्चम कार्याधिकरणम्) "कार्य वादरिरस्य गत्युपपत्तेः ६ विशेपितत्वाञ्च ७ सामीप्यात्तु तद्व्यपदेशः ८ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ९ स्मृतेश्च १० परं जैमि- निर्मुख्यत्वात् ११ दर्शनाञ्च १२ न च कार्ये प्रत्यभिसन्धिः १३ अप्रती- कालम्बनान्नयतीति बादरायण उभयथा च दोपात् - तत्क्रतुश्च १४विशेष च दर्शयति १५" विधेरेवाथ कृष्णस्य परमात्मात्मनोरथ । उपासकमतो नेता गणस्तत्राचिरादिकः ॥ आद्यः सर्वगतस्यास्य गम्यत्वानुपपत्तितः । परो ब्रह्मपदस्यात्र मौख्याद् गत्युपपत्तितः ।। तृतीयो बादरेर्दोषादुक्तपक्षद्वयेपि तु । तत्क्रतुन्यायतस्तत्र नियमः श्रुतिसम्मतः ॥ अयमचिरादिको गणः किं विधः-हिरण्यगर्भस्यैवोपासकमतोलो. कातू नेता नयतीत्यर्थः किंवा कृष्णस्य-परमात्मन एवोपासकं नर्यात त्मकतयोपासकं चोभावेव नयतीति नियमस्तत्राद्य एव पक्षोयुक्तः सर्वगतस्यास्य परमात्मनः गन्तव्यत्वानुपपत्तेहिरण्यगर्भप्राप्तये च तल्लोके गतिरुपपद्यते तदुपासकस्येति हिरण्यगर्भस्यैवोपासक पञ्चदशः पादः । १३७ नयारादिगणः। परस्त्वाह पर इति द्वितीयः पक्षो युक्तो ब्रह्मशब्दस्यात्रैव-पर- मात्मनि मौख्यात मुख्यत्वातू = मुख्यवृत्तत्वात, श्रुतिश्च-"ल एना- न ब्रह्म गमर्यात" इति ब्रह्मप्रापणमेवाभिधत्ते । यदुक्तं परमात्मोपास- फस्य तत्प्राप्तये गति!पपद्यते तत्रोच्यते गत्युपपन्तित इति परमा- त्मनः सर्वगतत्वेपि विवुपो विशिष्टदेशगतस्यैवाऽविद्यानिवृत्युपपत्ते- गतिरप्युपपद्यते । यथा हि "तमेतं वेदानुवचनेन विविदिपन्ति" इति श्रुतर्विद्योत्पत्ती वर्णाश्रमधर्मशौचाचाराद्यपेक्षा प्रतीयते तथा "ल एनान् ब्रह्म गमयति" इति श्रुतेरविद्यानिवृत्ती विशिष्टदेशगत्यपेक्षा प्रतीयते । स एव विशिष्टो देशो यत्र विद्वांसमर्चिरादिगणो नयति । बादरेः सिद्धान्तमाह तृतीय इति यो वै परमात्मानपास्ते प्रत्य- गात्मानं च प्रकृतिवियुक्ततया ब्रह्मात्मकतया चोपास्ते तमर्चिरादिग- णो नयति । उक्तं पक्षद्वयेपि दोषोस्ति-प्रथमपक्षे तु "अहमाच्छी- रात्समुत्थाय परं ज्योतिरूपसपद्य " इति श्रुतेः प्रकोप एव दोषो यतोत्र परमात्मप्राप्तिरेवाभिधीयते न तु हिरण्यगर्भप्राप्तिः। परमात्मो- पासकानेव नयतीति द्वितीयपक्षे तु तद् य इत्थं विदुर्य चमेरण्ये श्रद्धा तप इत्युपासते तेर्चिषमभिसंभवन्ति" इति श्रुतिप्रकोप एक दोपो यतोत्र पञ्चानिविदयानिष्ठस्य तत्र गतिरभिधीयते पञ्चाग्नि- विदया च प्रत्यगात्मन एवोपासना । “यथाऋतुरहिमल्लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति तत्क्रतुन्यायात प्रकृतिवियुक्तप्रत्य- गात्मोपासन युक्तं, तथोपासनयव तथाप्राप्तिसंभवादन्यथा शुद्ध- स्वात्मस्वरूपप्राप्तिन भविष्यति । तत्र उभयविधोपासकानयत्यर्चि- रादिको गण इति पदं श्रुतिसंमतो नियमो विज्ञेय. स चोक्तः ॥ ॥ इति पञ्चदशः पादः समाप्तः ॥ १८