Charan Sahitya Shodh Sansthan, Ajmer
Kavya Mala (v)
Front matter
Registered according to act XXV of 1867.)
(All rights reserved by the publisher.)
he
॥श्रीः॥ काव्यमाला नाम नानाविषप्राचीनकाव्यनाटकचम्पूभाणमहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः ।. तृतीयो गुच्छका। जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। मुम्बय्यां निर्णयसागराख्ययबालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । १८८७ (अस्य अन्यस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यमेको रूप्यकः ।
अनुक्रमणिका।
पृष्ठम् ।
....
९
१. गोकुलनाथविरचितं शिवशतकम्
२. पञ्चस्तवी ....
३. दामोदरगुप्तविरचितं कुटनीमतम्
४. रुद्रभटकतं शृङ्गारतिलकम्
५. माधवकविप्रणीतं दानलीलाकाव्यम्
३२
१११
१५२
....
..
काव्यमाला। महोपाध्यायश्रीगोकुलनाथविरचित शिवशतकम् । विततविविधसंप्रदायशाखाव्यतिकरवेष्टितमूर्तये नमोऽस्तु । बहुतरजगदण्डवीजपूरप्रसवफलेग्रहिपादपाय तुभ्यम् ।। १ ।। धरणिसलिलानला न वायुन खमत एव न खानि नापि वर्ण । 1 समयककुभौ न चिन्न चित्तं पुरुषपुरंदर पूरुषस्तवास्मि ॥ २ ॥ अविरतपरिहत्तदण्डकाष्ठाकुलमतुलव्यतिवर्तमानवेगम् । मयसि जगदण्डगोलमालाकलशकलापकुलाल कालचक्रम् ॥ ३॥ वनपुटकुटीरहट्यचभ्रमणसहनुवतकुंतः क्रमेण । जसि समयसूत्रमत्र मायामयपटवानविधानतन्तुवायः ॥ ४ ॥ नेगमवनवनस्पते प्रसूषे कति जगदण्डमयान्युकुम्बराणि । धति बहलजन्तुजालमन्तः पुनरपि तानि लयं वयि प्रयान्ति ॥५॥ हुतरजगदण्डभारभर्निहि महिमानमहं तवावयामि । शक इव शलादुगर्भनन्मा विटपबृहत्त्वमुदुम्बरद्वमस्य ॥ ६ विशति मन चित्तवेश्म सर्वेन्द्रियविकलः श्रुतिशिष्यमाणवा । अधिगृहतिलबिन्दुनालवहीं गलितवपुः प्रपितामहः प्रजानाम् ॥ ७ ॥ गलितवपुषं विकारवार्तारहितमनिन्द्रियमक्रियं पुराणम् । मसि तदिति चेतनाविशेषं निजपितरं निगमाः प्रबोधयन्ति ॥८॥ १. अयं पण्डितः खिस्तसंवत्सरीयवर्तमानशतकपारम्म एव बभूवत्येके; पूर्वशतक. वार्थ इत्यन्ये; किं तु पादोनवर्षशतद्वयान्न प्राचीन. भयं च मिथिलादेशान्तीतनि गरौनी संज्ञकग्रामे विद्यानिधिपीताम्बरपण्डिताज्जन्म लेमे इति मैथिलाः. अद्या- घि ज्ञाता एतत्कृता प्रन्यास्त्वेते-(१) दीधितिविद्योत. (शिरोमणिटीका), (२)न्याय- उद्धान्ततत्त्वम्, (३) पदवाक्यरलाकरः, (४) मासमीमासा, (५) मिथ्यावनिरुक्तिः, 1) रश्मिचक्रम् (चिन्तामणिटीका), (७) रसमहार्णवः, (८) लाघवगौरवरहस्यम्, १) शिवशतकम.
. - . - २. काव्यमाला। जगदिदमुपदीपयत्यविद्यातिमिररिपी त्वयि न खमप्यवमि । प्रतपति तपनातपे तपर्तो मजति यदान्ध्यमसावुलूकलोकः ॥९॥ विषमनिगमकाननान्तशाखांततिषु निलीय परानिरीक्षमाणः । परिणतिविदलजगत्कपित्यग्रसनकपे सुचिरान्निरूपितोऽसि ॥ १० ॥ सकलमपि मया स्वकर्मबीनं त्वयि चुपवाह समर्पयांवभूवे ।' तव मम चं न चेत्फलं प्रसूते कथमधुनाप्यहमेव दोषभूमिः ॥ ११ ॥ नट इव वशगो भवामि यासामहमपहस्तितसर्वभूतपूर्वः । प्रकृतिचरितनाव्यसूत्रधार भ्रमयसि मामियंतीषु भूमिकासु ॥ १२ ॥ भवदमिरुचितासु मे क्रियासु व्यवहरतोऽनुदिनं हिताहितासु । जनननिधनवन्धमोचनेषु प्रभुरसि भूतपते तवास्मि दासः ॥ १३ ॥; भवदभिमतमेव सेवमानो हितमहितं च त्वया स्थास्मि बद्धः । तदपि कतममाश्रये शरण्यं बत परवानितरः पतिस्त्वमेव ।।.१४ वरमुपहसनीयवर्णकोऽयं विविधविकारविडम्बितस्वरूपः । . तदपि कृतकहासमानतोविरम निवारय निःसहोऽस्मि मायाम् ॥१५॥ क जगति कतमाह्नि कस्य हेतोरहमिह वद्ध इति त्वमेव वेत्थ । त्वमपि यदि न चेतये न च त्वां मम करुणामय तत्र कोऽपराधः ॥१६॥ अविदितगतिना प्रमादनिद्रामुपितमतिः कितव त्वयास्मि बद्धः । कथमपि मम दृष्टिवर्त्मवर्ती भव पथतस्करबन्धने प्रमुः स्याः ॥ १७ ॥ वहुविधभवभूमिकामिरामिनटयसि नाथ यथा तथा नटामि । कुंपण गमयिता भवानविद्याजवनिकयान्तरितः कियन्त्यहानि ॥१८॥ वपसि विगतमोगभाग्य दूरान्मयि वृपवाह तवाहमुर्वरास्मि । . खपदमुपदधासि यत्र तस्मिन्भवति कडङ्गर एव कर्मवीजम् ॥ १९ ॥ प्रभवति मतये पदप्रबन्धो न तव निरत्यय नित्यचेतनस्य । न भवति करुणा सतो() पुरारे मम कृपणैः परिदेवितप्रपञ्चैः॥२०॥ सरसमपि वरं न भोक्तुमीहे हर मम शम्बलसंचयं गृहाण । उपदिश कतरदि-दूरयात्रीश्रमशमनं भववर्त्मनोऽवसानम् ॥ २१॥ . .
शिवशतकम् ।
.
.
मम भवपथिकस्य कर्म भोग्यं प्रलयनिशि त्वमवेक्षथाः शयालोः।
त्वयि सकलमकिंचनो वुभूषुः प्रहरकवेतनमेतदर्पयामि ॥ २२ ॥
श्रुतिजनक रटत्यसौ कुमारी तव दुहिता वहिरेत्य नेति नेति ।
व्यवहित निकटस्थितेऽपि तस्मात्त्वयि मिलितेऽपि ममातिथेः क्व मोगः ॥२३॥
अपरिमितविभागमूमिरेकस्त्वमसि ततो जगदण्डबिन्दुरासीत् ।
इति मुवनभरैकधुर्य जाने दश ककुभो गणितक्रमेण सिद्धाः॥ २४ ॥
कथय क इव दिग्विपर्ययेऽपि प्रभवति गन्तुमतः क संसरेयम् ।
भव भवपथिकस्य कोऽप्यपूर्वस्त्वमहमिति प्रसृतो मम प्रमोहः॥२५॥
मयि परमविभौ विशुद्धसत्त्वे यदिह शरीरतदात्मतामघासीः ।
निगमपुरुष तत्प्रतिक्रियायै त्वयि निदधामि समस्तवस्त्वभेदम् ॥२६॥
निबिडजडतदात्मताप्रमोहं विमलयति त्वदभेदविभ्रमो माम् ।
प्रकृतिमुपनयन्ति वारिधानी कतकरजांसि रजोन्तरापकर्पात् ॥२७॥
पुरि पुरि विहरामहे भ्रमन्तः पुरहर पश्यसि भोगवश्चितोऽस्मान् ।
किमिति न विहरेम नाथवन्तो, वयमितरे वमनाथ एक एव ॥२८॥
स्वपिषि न परकर्मसु प्रसक्तः परमुपभोजयतस्तव क भोगः ।
परचरितमवैषि निनिमेषः प्रकृतिदरिद्र न कोऽपि पश्यति त्वाम् ॥ २९ ॥
प्रकृतिचटुल सूक्ष्मभूतशेषे प्रकृतिविकारनिकोचभाजि काले ।
अविरतपरिवत्तिखेदखिन्ने स्वपिति जने प्रतिबुध्यसे खमेकः ॥ ३० ॥
प्रलयदहनदग्धशेषपीलुमकरशिलोच्छपवित्रवृत्तिरादौ ।
घटयसि भुवनानि तेषु जीवप्रतिचलैः परमाणुमिः शरीरम् ॥ ३१ ॥
जनशरण शरीरिणां प्रसृतैः करणगणैरुपलभ्यचेतनानाम् ।
कतिचन जनुरन्तरानुभूतिप्रसृमरवासनया स्मृतीः प्रसूपे ॥ ३२ ॥
अतिशयितविजुद्धवत्पुराणः स्मरति मुनिनिगमं हिरण्यगर्भः।
गगनपवनसंनिपातकर्ता कथमसि वा करुणानपेक्ष एव ॥ ३३ ॥
अथ कृतककलेवरद्वयेन व्यवहरता च निदेशदायिना च ।
अवगमितपदप्रवृत्तिमादौ कवयसि लोकहिताय संप्रदायम् ॥ ३४ ॥
. १ काव्यमाला। . हितविधिकपटान्निसर्गमूढमकतिरसावहितान्निवर्तनीयः । इति विषमतमेऽपि संविधाने गणयतुं कस्तव नाथ कौशलानि ॥ ३५ ॥ भवतु विधिरपूर्वकार्मतवाशयहितसाधनताभिधासु कश्चित् । तदपि मुषितदोषमन्तरा त्वांन भवितुमर्हति चोदना प्रमाणम् ॥ ३६ ॥ प्रभवति परमाप्तयो दुरन्तादपसरणाय हिते प्रवर्तनाय । सह चरति चतुभिरसंवादैनिगमकवे स तवैव सूक्तसारः ॥ ३७॥ अजिनमुसलवेदियूपशम्यादृषदुपलस्फ्यहविःकपालशूर्पः । अथ गुरुयजमानगातृहोतृप्रमृतिमिरध्वरकर्मसु त्वमिज्यः ॥ ३८ ॥ विकिरति परितो घनावलीव श्रुतिरमृतानि तवाशयादुदस्य । विलयमयमुपैति चित्समुद्र त्वयि जगतो निगमस्य चित्प्रवाहः ॥३९॥ अभिसरति परं परं पुरारे विषयमनेकमपास्य पूर्वपूर्वम् । वरुणनिलयमापगेव यावद्भजति भवन्तमसौ न चित्तवृत्तिः ॥ १० ॥ गुणगणमपनीय चित्तकूपे मम निगमैः सहसा निपातितोऽसि । अमृतकलश तिष्ठ तिष्ठ मन्ये पुनरपि जीवनमुद्धरिप्यसे नः ॥ ११ ॥ प्रथमसमयसंगमाय नैतज्जगदुपजीवति केवलं भवन्तम् । भवतु सततसन्तमन्तरा त्वां कथमनिदंप्रथमापि वस्तुसत्ता ॥ १२॥ प्रवहपवनवेगघटितोऽपि स्खलति न यज्जगदण्डपिण्डमारः । लघुगुरुतुलनातुलाप्रकाण्ड दृढिमगुणः स भवद्गुणत्रयस्य ॥-४३ ॥ त्वमखिलजगदीश षड्भिरङ्गैरुपचितवेदमजीजनः षडङ्गम् । कथय कथमसावुपैत्वसत्तां सततसतो भवतः खतः प्रपञ्चः ॥ ४ ॥ विशकलितमनुव्रजन्निचित्य स्थपतिरिव त्वमजीघटः प्रपञ्चम् । विभुरसि न च युज्यसे विकारस्त्वयि समवैतु कथं स भूतसर्गः ॥४५॥ न जगदिदमहेतुतो न शून्यादवधिमतां कथमुद्भवोऽस्त्वकस्मात् । प्रकृतिरियमधर्मधर्मरूपा पुरुषगुणः कथमारमेत विश्वम् ॥ १६ ॥ खपरपरिचयान्थ्यहेतुमेतं शिव भवदावरणीयमन्धकारम् । शमयति जगदण्डविन्दुवृन्दाम्बुद भवदेकपदा विवेकविद्युत् ॥ १७ ॥ . .
-
शिवशतकम् ।
स्मरसि कथमनन्यदेव वृत्तां प्रभवकथाविधुरो निनामवस्थाम् ।
पुनरपि न चिराजनार्दन त्वां न परिचरिष्यति चेतनो द्वितीयः॥१८॥
निमिषपरिचितो हरे समूलं हरसि विशेषगुणव्रज परस्य ।
प्रथयसि खलनामिमामपूर्वां कथयसि यद्विगुणत्वमात्मनोऽपि ॥ ४९ ॥
अलमवगलितेन्द्रियप्रवृत्तेस्तव जरतः पुरुषस्य जागरेण ।
अयमहमधुनां प्रबुद्ध्यमानः पुरुषविकारकरौं निहन्मि मायाम् ॥५०॥
असकदनटदस्मिता नटी मे निहितपदा मशके मतङ्गजे च ।
ध्रुवमुपरि तवाधिरोक्ष्यतीयं भव महतोऽपि महानणोरणीयान् ॥५१॥
विलयमुपजगाम चेदखण्डस्त्वयि जरठो जगदण्डगुल्मपिण्डः ।
क्षपयसि तदपिक्षपामनिद्रः कतिभिरसौ हि बुभूषति प्ररोहः ॥१२॥
विकिरति परदृष्टिवञ्चनाय त्वदुपरि विष्टपसर्षपानविद्या ।
तदपि निमिषमात्रनिर्गतोऽपि प्रविशति भूतगणो भवन्तमेव ॥ ५३॥
असदुपरमद्भिरङ्गमर्दैनटगणनिष्क्रमणाद्विविक्तरङ्गः ।
अविदितमुखसंधिरामुखान्तो निगमकवेस्तव नाटकप्रबन्धः ॥ ५४ ॥
भ्रमयसि जगतस्त्वमेव संज्ञापरिचयसंस्कतिरूपवेदनामिः ।
सदसदतदपोढवस्तुचिन्तालतिरिति कल्पयसे विवेकवेद्यम् ॥ ५५ ॥
त्वममृत विषयप्रवेशभूमौ भवसि दृशः पथि यस्य स द्वितीयम् ।
जगति न परिपश्यति स्म जिह्मा स्मरहर दृष्टिविषाधिका गतिस्ते ॥ १६ ॥
हृहिणभवनपद्मवीजमालामणिपरिवर्तनतत्परात्मनस्ते ।
प्रसितुमखिलमेव जन्तुजातं विजनयतो विदिता बिडालवृत्तिः ॥१७॥
अपरिमितकतेनिराश्रयस्य भ्रमरहितस्य निरस्तचेष्टितस्य ।
दृषदुदरदरीषु दर्दुराणां घटनपटोस्तव कीदृशं शरीरम् ॥ १८ ॥
भुवनभवनमासनप्रदीप न्यपतदसौ त्वयि चेतनापतङ्गी ।
क्षणमधिकमदीप्यत ज्वलन्ती पुनरजहात्मथमामपि खंसत्ताम् ॥१९॥
वमियमपवर्गरात्रिसंध्या भवति यतस्त्वयि निर्भरोऽनुरागः ।
रुचिमय चरमोऽयमञ्जलिस्ते ननु नचिराद्भविता भवानदृश्यः ॥१०॥
.
.
-
काव्यमाला।
यदपि तव वशे ममेन्द्रियाणि श्रुतिविषयावधिवर्तमानदृष्टेः ।
मुखमसि जगतस्तथापि नाथ श्रुतिमुकुरेण विना न वेदितासे ॥११॥
मतिघनमितरे: मुदीर्घनिद्राप्रवणधियस्त्वयि निक्षिपन्त्यतन्त्रे ।
उपहरणसुसंचितो न जातु व्ययमुपगच्छति चेतनानिधिस्ते ॥ १२ ॥
क्वचिदपि विषमे त्वया नियुज्य स्थितिमनवाप्य चिरस्य संसरामि ।
भवगिरिसरिदस्मि चित्समुद्र स्वमपि जहामि तदा लभे यदि त्वाम् ॥ ६३॥,
भगवति नियते विदूरयात्रासह ....संसरणाध्वनोऽयमन्तः ।
जरति विरम निःसहासि संविनगरमतःपरमद्वयोपभोग्यम् ॥ ६ ॥
-विलिखतु कथमक्षराणि-भाले स विधिरदृष्टपदार्थलेखदक्षः ।
मम हि मिलितमक्षपादपादमणिपतनेन ललाटसीनि चक्षुः ॥ ६५ ॥
उडुनि मयि वे प्रकाशलेशं व्यवधिवशादपरीक्षितो न्यधासी।
तमपहरसि संनिकर्षमेत्य त्वदुपरि तर्हि. निजं वपुस्त्यजामि ॥६६॥
भवपथपथिकोऽस्मि वाटपाटच्चर मिलितोऽसि विलुण्ठ्य संपदो मे।
अहमपि भवदन्तरं प्रविश्य ध्रुवमचिरेण हरामि ते विभूतीः ॥६॥
श्रुतिरसि पुरुषार्थसंनिवद्धस्तव चरमे प्रथमे विरौमि वत्सः ।
अमरगवि स दोग्धि कस्य हेतोरमृतमभोक्तरि पूर्तिभाजि भाण्डे ॥६८ ॥
शिव तव मम चान्तरालभूमौ विविधविधां व्यवधा व्यधाद्विधाता ।
तदपि हि मवतोऽहमेव मित्तिर्भवति उतिः सदनस्य नाजिरस्य ॥ ६९ ॥
व्यवधिरुपरराम भूविमक्ता प्रभवसि गूढमतिर्न मां प्रहर्तुम् ।
तदहमहमिकादेकशेषावधिरधुना ध्रुवमावयोविमर्दः ॥ ७० ॥
न धरणिरुपरि प्रयाति नाधः पतति न च लवते न बम्भ्रमीति ।
• नच दिवि वसति स्वशक्तियोगादपि तु भवानचलास्थिरत्वहेतुः ॥७॥
अविषमचतुरस्त्रपड्विभागां न सृजसि कन्दुकनिस्तला न सूपे।'
घटयसि एथिवीमिमां खचक्रभ्रमणकुलाल विशालदर्पणामाम् ॥ ७२ ॥
पुरहर परदृष्टिदोषशान्त्यै कति जगदण्डकगण्डकान्विर्षि ।
त्वदुपरि परिपातयन्ति दृष्टि विजहति सर्वमकिंचना भवन्ति ॥ ३ ॥
. . शिवशतकम् । परपुरममिविश्य सर्वलोक भ्रमयसि सर्वदिनेषु मूतवर्गः । भवपितृवनवाटबोधिवक्ष प्रलयनिशामु निलीय सेवते त्वाम् ॥ ७ ॥ ग्रहगृहसरसीरुहस्य राहुभ्रमरविमर्दसहार्ककर्णिकस्य । भ्रमणमिदममिव्यनक्ति लीलां तव घटितां ध्रुवनालघटनाय ॥ ७५॥ सकलगुणगणो ममोर्णनामेविलयमुपैति वितायते च भूयः । पटुजनजडतापहारहेतोः क्षणमपि न क्षमसे क्षयं गुणानाम् ॥ ७६ ॥ न खलु विघटिताः पुनर्घटन्ते न च घटिताः स्थिरसङ्गता अयन्ते । पिपतिषुमवशं रुजन्ति वंश्यास्तटतरुमाप इवापगाणकस्य(8) ॥ ७७ ॥ विगतविपरिलोपडष्टि पश्यन्वशयसि यां पुरुषप्रकाण्ड मायाम् । प्रकृतिचपलया तया विकारैर्बहुविधवर्णिकया वशीकतोऽस्मि ॥ ७८ ॥ प्रकतिचपलपीलुबीजवर्गे दलति खगोलकुशूलविप्रकीर्णम् । अघटितमितरेतरेण कल्पक्षयरजनौ समचीकलस्त्वमेकः ॥ ७९ ॥ खपुटपटलमभ्यजीर्यदाशातिरदलन्निरवादविप्रदीपः । प्रलयमवनिवास्त्वगात्तथापि क जगदगारगृहस्थ निश्यवात्सीः॥८॥ प्रसरति विषयेषु येषु रागः परिणमते विरतेषु तेषु शोकः । त्वयि रुचिरुचिता नितान्तकान्ते गुणपरिपाकशुचामगोचरोऽसि ॥ ८१ ॥ प्रतिगृहमतिथिर्गृहीतदण्डो धृतजगदण्डकमण्डलुप्रकाण्डः । भुवनवहन पात्रमात्रशेषं सतृणमिदं जगदंति कालभिक्षुः ॥ ८२॥ प्रसमनिविशमानकालसर्पप्रतिहतनिर्गमने खगोलनीडे। ' वहुविधगतयो विविक्तनायासुतजननीतनवः खगा भ्रमन्ति । अमिलापेतमथानुचिन्तितं यो हृदयगुहाशयितः शृणोत्यकर्णः । तमिममवंचनं च वाग्मिता च प्रभवति मन्त्रयितुं त्रयीभुजंगम् ॥ ८४ ॥ परिपिवति पयो भवाध्वनीनस्तनयकराबननीपयोधराच्च । व्यपगतमधुना तदाशयापि प्रसभवशादयमाशयः शुशोप ॥२५॥ स्तनकलशमुखेन वा जनन्यास्तनयकराङ्गुलिमध्यकुल्यया च । चपल पिव पयांसि यावदायर्भवति न चेतसि चेतनासमुद्रः ॥ ८६ ॥ - - काव्यमाला। . विधिवशमिलितो भवाध्वयात्रां हरसि जगचिलपेपतैलिकोऽसि । न तव पशुपते विदन्ति पाशं पिहितदृशः पशवः परिभ्रमन्ति ॥ १७ ॥ मयि फलकधिया त्वया कियत्यः प्रतिकतयो लिखितास्तथा विलुप्ताः। विरमवत निसर्गनिर्मलस्य प्रमृज रजो मम पश्य दर्पणोऽस्मि ॥ ८ ॥ क्षितिविलपतितं जरायुपेशीस्थगितमथाण्डसमुद्के निगूढम् । अविवृतमपि धातुसंचयं ते भव भवता हृतविग्रहो हरामि ॥ ८९ ॥ परिमितासुखद] कषायपाकं विरसतरं विषयान्तरं विहाय ।। निरवधिमधुरे समे समन्तात्वयि पुरुषोत्तम विश्रमोऽस्तु वाचाम् ॥ ९० ॥ अपगतपदपाटवोऽपि गर्भादुपनिपदामधुनोत्थितः प्रबन्धः । जनयतु तव कौतुकं कलेन प्रतिपदविस्खलितेन जल्पितेन ॥ ९१ ॥ प्रकृतिमलिनमृक्षलक्षलिक्षाचयचितमम्बरचीवरं वसानम् । प्रकटितबृहदण्डमत्रपं त्वां पुरुपमुदीक्ष्य हसामि चोल्लसामि ॥-९२ ।। व्यरमदवसरः स यत्र कर्मप्रकरमकाममर्त्यलेहलोमात् । • न पुनरपि पिवामि सोमपात्रामृतदधि राहुबिडालपीतशेषम् ॥ १३ ॥ खयमयमवलेढि होतुराज्यं तदनु तमाशयते सुधाम्बुबिन्दून् । अननि तु जननीपयस्तृषार्तिलयमवमुञ्चति याज्यमिज्यवर्गः ॥ ९ ॥ भ्रमयसि नवधा खमण्डलानि द्रढयसि सप्तपुटानि भूतधान्याः । उपदिशसि च पड्गतीर्घहाणां ध्रुवमसि तद्भुवयोरपि ध्रुवस्त्वम् ॥ ९ ॥ गुणमपि तव निर्गुणत्वपक्षे भ्रमयति दोषकुलाकुलं प्रवन्धः । मलिनयति नदेन्दुसुन्दराणि 'स्फटिकशिलाशकलानि काचसङ्गः ॥ ९६ ॥ किमपि निविशति प्रकाशराशौ त्वयि यमुनेव रवी विधाविवाङ्कः । असिततनु चतुर्भुजस्वरूपं यदरतरा() हृदयं हरन्ति वामा; ॥९७ ॥ इदमपरपुरं तदेव यस्मिन्नसकदहर्निरगान्निशि प्रविश्य। विगलितवरणाद्वहिविहीनात्कथमधुना सदनादितो निरीयाम् ॥ ९८ ॥ यदमिलपसि पुद्गलाननीवासुरवरनिर्जरजीवबन्धमोक्षान् । नयसि च यदनाउतान्विहंगमकतिमतस्तदुपास्यसे जिनेन्द्रः ॥ ९९ ॥ .
पञ्चस्तवी। e . प्रकतिरियमनश्वरस्वरूपा सृजति महान्तमसौ यतो विकारम् । अविकतमपि पश्यतः सतस्ते सह रमते ह्यनया सखा त्वदीयः॥ १०॥ यदि मम सहसा तवाभिसारात्कुलगुरुमिनिगमैनिवारितासौ । खयममिसर तर्हि वाचमेनां परपुरुषं निगमो न पश्यति त्वाम् ॥ १०१ ॥ मम वचनजलानि कर्णशुक्तौ तव पतितानि गतानि मौक्तिकत्वम् । विगुणविलुलितानि लाजबुद्ध्या रसयतु कुण्डलकुण्डलिप्रकाण्डम् ।। १०२॥ अपटुमिरमिधित्सितार्थबुद्धावनमिमतानपि बोधयद्भिरर्थान् । पुरमथन पराहतैरमीमिः कथय कदा विहसिष्यसि प्रलापैः ॥ १०३ ॥ न तव पुरि शिलादपुत्रवेत्रप्रततिनिरुद्धतया लमे प्रवेशम् । शिवसहचरिगौरिगोपुरेभ्यो बहिरुपविश्य वसामि नौमि च त्वाम् ॥ १० ॥ न दहति सगरान्वयं न पादात्मभवति नाप्यलिकादुदेति चक्षुः । न च किमपि शृणोति नेत्रवर्गों मम कथमस्तु तव स्तवेऽधिकारः ॥ १०॥ इति महोपाध्यायश्रीगोकुलनाथविरचितं शिवशतकम् । . पञ्चस्तवी। लघुस्तवः। ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रमा शौली कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः। एषासौ त्रिपुरा हदि द्युतिरिवोष्णांशोः सदाहःस्थिता छिन्द्यान्नः सहसा पदस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥१॥ १. दृष्टेषु बहुष्वपि पञ्चस्तवीपुस्तकेषु रचयितुः कवेर्नाम न प्राप्तम्, किं तु प्रा- चीनोऽय कश्चन कविवरः, यतः सरस्वतीकण्ठाभरणे पञ्चमपरिच्छेदे अप्रत्यत्तीयस्त- वस्थ 'लक्ष्मीवशीकरणचूर्णसहोदराणि' इत्यादि श्लोको भोजराजेनोदाहृतः. अय च तृतीयस्तवस्थ एव 'आनन्दमन्थरपुरदरमुक्तमाल्यम्' इत्यादि शोकः कुवलयानन्दे सं. सष्टिप्रकरणे, अस्यैव श्लोकस्य पादाम्बुजं भवतु मे विजयाय मञ्ज-' इत्याद्युत्तरार्धे का- व्यप्रकाशे दशमोलासे च वर्तते. लघुस्तवनानः प्रथमस्तवस्य द्विवाटीका अपि समु- पलभ्यन्ते, ताश्च सर्वा अपि तन्त्रशास्त्रानुसारिण्य इत्यनुपयुक्ता इत्यस्माभिर्न गृहीता तको नित्यानन्दनामा लघुस्तवटीकाकार. 'लघुस्तवकर्ता धर्माचार्य ' इति वदति. 1. . २ 1 प १० काव्यमाला। . . 1 . या मात्रा त्रपुसीलतातनुलसत्तन्तुस्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । । शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्यं न पुनः स्टशन्ति जननीगर्भऽभकत्वं नराः ॥२॥ दृष्ट्वा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं 'येनाकूतवशादपीह वरदे बिन्दु विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजाव ॥ ३ ॥ यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं. तत्सारखतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भ प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४ ॥ यत्सद्यो वचसा प्रवृत्तिकरणे दृष्टप्रभाव बुधै- स्ताीयं तदहं नमामि मनसा त्वद्वीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरखतीमनुगतो जाड्याम्बुविच्छित्तये गौशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥ ५॥ एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथकूमगतं यहां स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तित जप्तं वा सफलीकरोति सततं तं तं समस्तं नृणाम् ॥ ६॥ वामे पुस्तकधारिणीमभयदां साक्षस्वज दक्षिणे मक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धघंभालोकिनी ये त्वामम्ब न. शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७॥ ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टामिरामप्रमा सिञ्चन्तीममृतद्ववैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्याति वक्त्राम्बुजा- तेषां भारति भारती सुरसरित्कलोललोलोमिवत् ॥ ८ ॥ . . .
पञ्चस्तवी। ११ 'ये सिन्दूरपरागपुअपिहितां त्वत्तेजसा द्यामिमा- मुर्वी चापि विलीनयावकरसप्रस्तारमग्रामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर- छान्तास्त्रस्तकुरङ्गशावकडशो वश्या भवन्ति स्फुटम् ॥ ९॥ चञ्चत्काञ्चनकुण्डलाङ्गदधरामावद्धकाचीत्र ये,त्वां चेतसि तद्गते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्य भजन्ते श्रियः ॥ १० ॥ आव्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्त्रनं वन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनी मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ ११ ॥ जातोऽप्यल्पपरिच्छदे क्षितिमुना सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवी लब्ध्वा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभव- देवि त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥ १२ ॥ चण्डि त्वच्चरणाम्बुजार्चनविधौ विल्वीदलोलुण्ठन- त्रुध्यत्कण्टककोटिमिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुशचक्रचापंकुलिशश्रीवत्समत्स्याङ्कितै- जायन्ते एथिवीभुजः कथमिवाम्भोजप्रमैः पाणिमिः ॥ १३ ॥ विप्राः क्षोणिमुजो विशस्तदितरे क्षीराज्यमध्वासवै- स्त्वां देवि त्रिपुरे परापरमयों संतj पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विनरनिघ्नीकताः ॥ १४ ॥ शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् । १.अत्यादरेण.
. - १२ काव्यमाला। लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५ ॥ देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिःखरा- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किचिजगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्व त्रिपुरेति नाम भगवत्यन्वेति ते तत्वतः ॥ १६ ॥ लक्ष्मी राजकुले जयां रणभुवि क्षेमंकरीमध्वनि कन्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतमेतपिशाचजम्बुकमये स्मृत्वा महाभैरवी व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयष्ठवे ॥ १७ ॥ माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शांभवी । शक्तिः शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ।। १८ ॥ आईपल्लवितैः परस्परयुतहित्रिक्रमाद्यक्षरैः काद्यैः क्षान्तगतैः खरादिमिरथ क्षान्तैश्च तैः सस्वरैः। नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहतेभ्यः परेभ्यो नमः ॥ १९ ॥ वोडव्या निपुर्ण बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसंख्याक्षरैः- मन्त्रोद्धारविधिविशेषसहितः सत्संप्रदायान्वितः ॥ २० ॥ सावधं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिप्यात जनो यस्यास्ति भक्तिस्त्वयि संचिन्त्यापि लघुत्वमात्मनि ढढं संजायमानं हठा- त्वद्भक्त्या मुखरीकतेन रचितं यस्मान्मयापि, ध्रुवम् ।। २१॥ इति पञ्चस्तव्यां लघुस्तवः प्रथमः । . . .
पश्चस्तवी। १३ , चर्चास्तवः। सौन्दर्यविभ्रमभुवो भुवनाधिपत्य- संकल्पकल्पतरवत्रिपुरे जयन्ति । एते कवित्वकुमुदप्रकरावबोध- पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ १॥ देवि स्तुतिव्यतिकरे कतबुद्धयस्ते वाचस्पतिप्रभृतयोऽपि जडीभवन्ति । तस्मानिसर्गजडिमा कतमोऽहमत्र स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ २ ॥ मातस्तथापि भवती भवतीव्रताप- विच्छित्तये स्तवमहार्णवकर्णधारः। स्तोतुं भवानि'स भवच्चरणारविन्द- भक्तिग्रहः किमपि मां मुखरीकरोति ॥ ३॥ सुते जगन्ति भवती भवती विभर्ति जागर्ति तत्क्षयकते भवती भवानि । मोहं मिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः ॥ ४ ॥ यस्मिन्मनागपि नवाम्बुजपत्रगौरि गौरि प्रसादमधुरां दशमादधासि । तस्मिन्निरन्तरमनङ्गशरावकीर्ण- सीमन्तिनीनयनसंततयः पतन्ति ॥ ५ ॥ पृथ्वीमुजोऽप्युदयनप्रभवस्य तस्य विद्याधरप्रणतिचुम्बितपादपीठः । यच्चक्रवर्तिपदवीप्रणयः स एष त्वत्पादपङ्कजरजःकणजः प्रसादः ॥ ६ ॥ १. उदयनसूनो रवाहनदत्तस्य. नरवाहनदत्तकयैव वृहत्कथाया मूलभूता. .
१४ काव्यमाला। . . . . . - खत्पादपङ्कजरमःमणिपातपूर्वैः पुण्यैरनल्पमतिभिः कतिमिः कवीन्द्रः। क्षीरक्षपाकरद्कूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ ७॥ कल्पद्रुमप्रसवकल्पितचित्रपूजा- मुद्दीपितप्रियतमामदरक्तगीतिम् । नित्यं भवानि भवतीमुपवीणयन्ति विद्याधराः कनकशैलगुहागृहेषु ॥८॥ लक्ष्मीवशीकरणकर्मणि कामिनीना- माकर्षणव्यतिकरेषु च सिद्धमन्त्रः । नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि त्वदनिजनितो जयति प्रसादः॥९॥ देवि त्वदाशिनखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्दहन्ति । सेवानति व्यतिकरे सुरसुन्दरीणां सीमन्तसीन्नि कुसुमस्तवकायितं यैः ॥ १० ॥ मूर्ति स्फुरतुहिनदीधितिदीप्तदीप्त मध्येललाटममरायुधरश्मिचित्रम् । इन्चक्रचुम्बि हुतमुक्कणिकानुकारि ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥ ११ ॥ रूपं तव स्फुरितचन्द्रमरीचिगौर- मालोकते शिरसि वागधिदैवतं यः। निःसीमंसूक्तिरचनामृतनिझरस्य तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ १२ ॥ सिन्दूरपांसुपटलच्छुरितामिव द्यां त्वत्तेजसा जतुरसस्त्रपितामिवोर्वीम् । . . . . . .. .
पश्चस्तवी। 1 १५:: - यः पश्यति क्षणमपि त्रिपुरे विहाय ब्रीडां मृडानि सुदृशस्तमनुद्रवन्ति ॥ १३ ॥ मातर्मुहूर्तमपि यः स्मरति खरूपं लाक्षारसप्रसरतन्तुनिभं भवत्याः । ध्यायन्त्यनन्यमनसस्तमनपंतप्ताः प्रद्युम्नसीनि सुभगत्वगुणं तरुण्यः ॥ १४ ॥ योऽयं चकास्ति गगनार्णवरत्नमिन्दु- योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वामममिदमन्धकसूदनस्य देवि त्वमेव तदिति प्रतिपादयन्ति ॥ १५॥ इच्छानुरूपमनुरूपगुणप्रकर्ष संकर्षिणि त्वमभिमृष्य यदा विपि । 'नायेत स त्रिभुवनैकगुरुस्तदानीं देवः शिवोऽपि मुवनत्रयसूत्रधारः ॥ १६ ॥ ध्यातासि हैमवति येन हिमांशुरश्मि- मालामलद्युतिरकल्मषमानसेन । तस्याविलम्बमववद्यमनन्तकल्प- मल्पैर्दिनैः सृजसि सुन्दरि वाग्विलासम् ॥ १७ ॥ आधारमारुतनिरोधवशेन येषां सिन्दूररचितसरोजगुणानुकारि। दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं घ्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ १८ ॥ ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तवाम्ब नवयावकपङ्कपिङ्गम् । तेषां सदैव कुसुमायुधवाणभिन्न- वक्षःस्थला मृगद्दशो वशगा भवन्ति ॥ १९ ॥ 4 .
काव्यमाला। . त्वामैन्दवीमिव कलामनुमालदेश- मुद्भासिताम्बरतलामवलोकयन्तः।. सद्यो भवानि सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुलकामधेनुः ॥ २० ॥ शर्वाणि सर्वजनवन्दितपादपद्मे । पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि । निष्पापमूर्तिजनमानसराजहंसि हंसि त्वमापदमनेकविधां जनस्य ॥ २१ ॥ उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि चेतश्चिरंतनमघौधवनं लुनीहि । कारागृहे निगडबन्धनयन्त्रितस्य त्वत्संस्मृतौ झटिति मे निगडास्तुटन्ति ॥ २२ ॥ त्वां व्यापिनीति सुमना इति कुण्डलीति त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति देवि स्तुवन्ति विजयेति जयेत्युमेति ॥ २३ ॥ . उद्दामकामपरमार्थसरोजखण्ड- चण्डद्युतिद्युतिमपासितपड्डिकाराम् । मोहद्विपेन्द्रकदनोद्यतबोधसिंह- लीलागुहां भगवतीं त्रिपुरां नमामि ॥२४॥ गणेशबटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणवाणैर्युता । अनङ्गकुसुमादिभिः परिता च सिद्धस्त्रिमिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २५॥ रुद्राणि विद्रुममयी प्रतिमामिव त्वां ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् । . . - . पञ्चस्तवी। :१७ तानेत्य पक्ष्मलहशः असमं भजन्ते कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ २६ ॥ त्वपकनिरूपणप्रणयिताबन्धो दशोस्त्वद्गुण- आमाकर्णनरागितां श्रवणयोस्त्वत्संस्मृतिश्चेतसि । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि से कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ २७ ॥ स्वदूपमुसितदाडिमपुष्परक- मुद्भावयेन्मदनदैवतमक्षरं यः। तं रूपहीनमपि मन्मथनिर्विशेष- मालोकयन्त्युरुनितम्बतटास्तरुण्यः ॥ २८ ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्त्ररश्मि- स्कन्दद्विपाननहुताशनवन्दितायै । वागीश्वरि त्रिभुवनेश्वरि विश्वमात- रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ २९ ॥ यः स्तोत्रमेतदनुवासरमीश्वरायाः 'श्रेयस्करं पठति वा यदि वा शृणोति । तस्येप्सितं फलति राजमिरीब्यतेऽसौ जायेत स प्रियतमो मदिरेक्षणानाम् ॥ ३० ॥ • इति पञ्चस्तव्यां चर्चास्तवो द्वितीय. । . . . . घटत्तव । . आनन्दमन्थरपुरंदरमुक्तमाल्य मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुज़- भवतु मे विजयाय मञ्ज- मनीरशिक्षितमनोहरमम्बिकायाः ॥ १ ॥ देवि त्र्यम्बकृपनि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि । Rat- . ३ काव्यमाला। १. मे भैरवि चण्डि शर्वरि कले कालक्षये शूलिनि त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ २ ॥ वि त्वां सकदेव यः प्रणमति लोणीमृतस्तं नम- नत्याजन्मस्फुरदछिपीठविलुठकोटीरकोटिच्छटाः । स्त्विामर्चति सोऽय॑ते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरातिविधुरा ध्यायन्ति वामध्रुवः ॥३। उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव प्राप्तप्रौढमदा इवातिविरहग्रस्ता इवार्ता इव । ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रत- स्त्यक्तोपाधिविवद्धरागमनसो ध्यायन्ति तान्सुभ्रवः ॥ ४ ॥ ध्यायन्ति ये क्षणमपि त्रिपुरे हदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः। ते विस्फुरन्ति ललितायतलोचनानां चित्तकमित्तिलिखितप्रतिमाः पुमांसः ॥ ६ ॥ एतं किं नु हशा पिनाम्युत विशाम्यस्याङ्गमङ्गैनि कि वामुं निगराम्यनेन सहसा किं वैकतामाश्रये । तस्येत्यं विवशो विकल्पललिताकृतेन योषिजन किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥६॥ विश्वव्यापिनि यहदीश्वर इति स्थाणावनन्याश्रयः शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः । इत्यं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं त्वद्भक्तानपि न लिणोषि च रुषा तद्देवि चित्रं महत् ॥ ७ ॥ इन्दोर्मध्यगतां मृगासइशंच्छायां मनोहारिणी पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि भवती ध्यायन्ति ये देहिन- स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ ८ ॥ , . 0 . . . पञ्चस्तवी। १९ पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्तान्तर्निहितातितापविपदस्ते संपदं विभ्रति ॥९॥ ये संस्मरन्ति तरलां सहसोलसन्ती त्वां ग्रन्थिपञ्चकमिदं तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्ती कस्तं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ १० ॥ लाक्षारसस्त्रपितपङ्कजतन्तुतन्वी- मन्तः स्मरत्यनुदिनं भवती भवानि । यस्तं स्मरप्रतिममप्रतिमखरूपा नेत्रोत्पलैर्मूगढशो भृशमर्चयन्ति ॥ ११ ॥ स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिपम् । कदम्बमालां बिभ्राणमापादतललम्बिनीम् ॥ १२ ॥ मूर्धान्दोः सितपङ्कनासनगतां प्रालेयपाण्डत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्प्रेऽपि च । अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ १३ ॥ ददातीष्टान्मोगान्क्षपयति रिपून्हन्ति विपदो दहत्याधीन्व्याधीन्शमयति सुखानि प्रतनुते । हठादन्तर्दुःख दलयति पिनष्टीष्टविरह सरड्याता देवी किमिव निरवधं न कुरुते ॥ १४ ॥ यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय- त्यन्वेति प्रतिपद्यते कलयति स्तोत्याश्रयत्यर्चति । यश्च त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरा- तस्य श्रीन गृहादपति विजयस्तस्यायतो धावति ।। १५ ॥ J .
काव्यमाला। किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न.स्तुतायाम् । का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां कं कं योग त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १६॥ ये देवि दुर्धरकतान्तमुखान्तरस्था ये कालि कालघनपाशनितान्तबद्धाः। ये चण्डि चण्डगुरुकल्मषसिन्धुममा- 'स्तान्पासि मोचयसि तारयसि स्मृतैव ॥ १७ ।।. लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरनांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ १८ ॥ रे मूढाः किमयं उयैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिवेदविनाशिनी भगवतीपादद्वयी सेव्यता- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १९ ॥ याचेन कंचन व कंचन वञ्चयामि सेवे न कंचन निरस्तसमस्तदैन्यः । लक्ष्णं वसे मधुरममि भजे वरस्त्री- देवी हृदि स्फुरति मे कुलकामधेनुः ॥ २० ॥ नमामि यामिनीनाथलेखालंकृतकुन्तलाम् । भवानी भवसंतापनिर्वापणसुधानदीम् ॥ २१ ॥ इति पश्चस्तव्यां घटस्तवस्तृतीयः । अम्बास्तव.। - यामामनन्ति मुनयः प्रकृति पुराणी विद्येति यां श्रुतिरहस्यविदो वदन्ति । .
२१ जनानाम् ॥ ३॥ ' पञ्चस्तवी। तामपञ्छवितशंकररूपमुद्रा देवीमनन्यशरणः शरणं प्रपद्ये ॥ १ ॥ अम्ब स्तवेषु तव तावदकर्तृकानि कुण्ठीभवन्ति वचसामपि गुम्फनानि । डिम्भस्य मे, स्तुतिरसावसमनसापि वात्सल्यनिघ्नहृदयां भवती घिनोतु ॥२॥ व्योमेति बिन्दुरिति नाद इतीन्दुलेखा- रूपेति वाग्भवतरिति मातृकेति । निःस्यन्दमानसुखबोधसुधाखरूपा विद्योतसे मनसि भाग्यवतां जनानाम् । आविर्भवत्पुलकसंततिभिः शरीरै- निःस्पन्दमानसलिलैनयनैश्च नित्यम् । • वाग्भिश्च गद्गदपदामिरुपासते ये पादौ तवाम्ब भुवनेषु त एव धन्याः ॥ ४ ॥ वक्त्रं यदुद्यतमभिष्टुतये भवत्या- स्तुभ्यं नमो यदपि देवि शिरः करोति । चेतश्च यत्वयि परायणमम्ब तानि कस्यापि कैरपि भवन्ति तपोविशेषैः॥ ५ ॥ मूलालवालकुहरादुदिता भवानि निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु- निःस्यन्दमानपरमामृततोयरूपा ॥ ६ ॥ दग्धं यदा मदनमेकमनेकधा ते मुग्धः कटाक्षविधिरडरयांचकार । धत्ते तदाप्रमृति देवि ललाटनेत्रं सत्यं ह्रियैव मुकुलीकतमिन्दुमौलिः ॥ ७॥ . . ।
२२ काव्यमाला। . - . अज्ञातसमवमनाकलितान्ववायं मिखं कपालिनमवाससमद्वितीयम् । पूर्व करग्रहणमङ्गलतो भवत्याः शंभुं क एव बुबुधे गिरिराजकन्ये,॥ ८॥ चर्माम्बरं च शवभस्मविलेपन च मिक्षाटनं च नटनं च परेतभूमौ । 'वेतालसंहतिपरिग्रहता च शंभोः शोमां बिमार्त गिरिजे तव साहचर्यात् ॥ ९॥ कल्पोपसंहरणकेलिघु पण्डितानि चण्डानि खण्डपरशोरपि ताण्डवानि । आलोकनेन तव कोमलितानि मात- लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १०॥ : जन्तोरपश्चिमतनोः सति कर्मसाम्ये निःशेषपाशपटलच्छिदुरा निमेषात् । कल्याणि देशिककटाक्षसमाश्रयेण कारुण्यतो भवति शांभववेधदीक्षा ॥ ११ ॥ मुक्काविभूषणवती नवविद्रुमामा.. ' यच्चेतसि स्फुरसि तारकितेव संध्या । एकः स एव भुवनत्रयसुन्दरीणां कंदर्पता ब्रजति पञ्चशरी विनापि ॥ १२ ॥ ये भावयन्त्यमृतवाहिभिरंशुजालै- राप्यायमानभुवनाममृतेश्वरी त्वाम् । ते लड्वयन्ति ननु मातरलङ्घनीयां ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ १३ ॥ यः स्फाटिकाक्षगुणपुस्तककुण्डिकाब्यां व्याख्यासमुद्यतकरां शरदिन्दुशुम्राम् । -- .
. पञ्चस्तवी। २३ पद्मासनां च हृदये भवतीमुपास्ते मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४ ॥ वर्हावतंसयुतबर्बरकेशपांशां गुञ्जावलीकतघनस्तनहारशोमाम् । श्यामा प्रवालवदनां सुकुमारहस्तां त्वामेव नौमि शबरी शबरस्य जायाम् ॥ १५॥ अर्धेन किं नवलताललितेन मुग्धे क्रीतं विभोः परुषमर्धमिदं त्वयेति । आलीजनस्य परिहासवचांसि मन्ये मन्दस्मितेन तव देवि नडीभवन्ति ॥ १६ ॥ ब्रह्माण्डबुद्धदकदम्बकसंकुलोऽयं मायोदधिविविधदुःखतरङ्गमालः। आश्चर्यमम्ब झटिति प्रलयं प्रयाति त्वद्ध्यानसंततिमहावडवामुखामौ ॥ १७ ॥ दाक्षायणीति कुटिलेति गुहारणीति कात्यायनीति कमलति कलावतीति । एका सती भगवती परमार्थतोऽपि संहश्यसे बहुविधा ननु नर्तकीव ॥ १८ ॥ आनन्दलक्षणमनाहतनानि देशे नादात्मना परिणतं तव रूपमीशे । प्रत्यन्मुखेन मनसा परिचीयमानं शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९ ॥ त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने वलं त्वम् । त्वं खादुतासि सलिले शिखिनि त्वमूष्मा निःसारमेव निखिलं त्वते यदि स्यात् ।। २० ॥ - .
- .२४ काव्यमाला। . . . ३ ज्योतीषि यदिवि चरन्ति यदन्तरिक्ष .. सूते पयांसि यदहिर्धरणिं च धत्ते । यद्वाति वायुरनलो यदुदचिरास्ते तत्सर्वमम्ब तव केवलमाज्ञयैव ॥ २१ ॥ संकोचमिच्छसि यदा गिरिने तदानी वाक्तर्कयोस्त्वमसि भूमिरनामरूपा । यद्वा विकासमुपयासि यदा तदानी त्वन्नामरूपंगणनाः सुकरा भवन्ति ॥ २२ ॥ भोगाय देवि भवती कतिनः प्रणम्य भ्रूकिंकरीकृतसरोजगृहासहस्राः। चिन्तामणिप्रचयकल्पितकेलिशैले कल्पगुमोपवन एव चिरं रमन्ते ॥ २३ हर्तुं त्वमेव भवसि त्वदधीनमीशे संसारतापमखिलं दयया पशूनाम् । वैकर्तनी किरणसंहतिरेव शक्ता धर्म निजं शमयितुं निजयैव दृष्टया ॥ २४ ॥ शतिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा। ऐश्वर्यमायतनमावरणानि च त्वं किं तन्न यद्भवसि देवि शशाझमौलेः ॥ २५ ॥ भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्यानले मरुति शान्तिरतीतशान्तिः । न्योन्नीति याः किल कलाः कलयन्ति विश्वं तासां हिं दूरतरमम्ब पदं त्वदीयम् ॥ २६ ॥ यावत्पदं पदसरोजयुगं त्वदीयं , 'नाङ्गीकरोति हृदयेषु जगच्छरण्ये । । -- पञ्चस्तवी। २५ तावद्विकल्पजटिलाः कुटिलप्रकारा- स्वर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ २७ ॥ यदेवयानपितृयानविहार के छत्वा मनः करणमण्डलसार्वभौमम् । याने निवेश्य तव कारणपञ्चकस्य पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८ ॥ स्थूलामु मूर्तिषु महीप्रमुखासु शंभोः कस्याश्चनापि तव वैभवमम्ब यस्याः। पत्या गिरामपि न शक्यत एव वक्तुं सासि स्तुता किल मयेति तितिक्षितव्यम् ॥ २९ ॥ कालाग्निकोटिरुचिमम्ब षडध्वशुद्धा- वाछावनेषु भवतीममृतौघष्टिम् । श्यामां घनस्तनतटां सकलीकतो च ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३० ॥ विद्यां परी कतिचिदम्बरमम्ब केचि- दानन्दमेव कतिचित्कतिचिच्च मायाम् । त्वां विश्वमाहुरपरे वयमामनामः साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१ ॥ कुवलयदलनीलं वर्वरस्निग्धकेशं एथुतरकुचमारक्रान्तकान्तावलनम् । किमिह बहुभिरुक्कैस्त्वत्स्वरूपं परं नः सकलजननि मातः संततं संनिघत्ताम् ॥ ३२ ॥ इति पञ्चस्तव्यामम्बास्तवश्चतुर्थः । सकलजननीस्तवः। अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै- रमी मायाग्रन्यौ तव परिलुठन्तः समयिनः । . .
२६
काव्यमाला।
जगन्मातर्नन्मज्वरमयतमा कौमुदि वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १॥
वचस्तांगम्यखरसपरमानन्दविभव-
प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवस्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥२॥
अनाद्यन्तामेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्वं परिणयविधौ देवि गृहिणी ।
सवित्री भूतानामपि यदुदभूः
शैलतनया
तदेतत्संसारप्रणयनमहानाटकसुखम् ॥ ३॥
ब्रुवन्त्येके तत्वं भगवति सदन्ये विदुरस-
परे मातः प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्वं समभिदधते देवि सुधिय-
स्तदेतत्चन्मायाविलसितमशेष ननु शिवे ॥ ४ ॥
लुठद्गुलाहारस्तनभरनमन्मध्यलतिका-
मुदञ्चद्धर्माम्मःकणगुणितनीलोत्पलरुवम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यान्ती शबरमहमन्वेमि शबरीम् ॥ ५॥
मिथः केशाकेशिप्रधननिधनास्तर्कघटना
बहुश्रद्धाभक्तिप्रणयविषयाः शास्त्रविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं
निरालम्वं चेतः परिलुठति पारिष्ठवमिदम् ॥ ६॥
शुनां वा वहेर्वा खगपरिषदो वा यदशनं
कदा केन केति क्वचिदपि न कश्चित्कलयति ।
अमुष्मिन्विश्वासं विजहिहि ममाहाय वपुषि
प्रपद्येयाश्चेतः सकलजननीमेव शरणम् ॥ ७॥
पश्चस्तवी। २७ तडित्कोटिज्योतिद्युतिदलितषड्वन्धिगहनं प्रविष्टं खाधारं पुनरपि सुधावृष्टिवपुषा । किमप्यष्टत्रिंशत्किरणसकलीभूतमनिशं मजे धाम श्यामं कुचभरनतं वर्वरकचम् ॥ ८ ॥ चतुष्पत्रान्तःषड्दलभगपुटान्तस्त्रिवलय- स्फुरद्विद्युद्वबिद्युमणिनियतामद्युतियुते । घडलं मित्त्वादौ दशदलमथ द्वादशदलं कलात्रं च व्यत्रं गतवति नमस्ते गिरिसुते ॥ ९॥ कुलं केचित्माहर्वपुरकुलमन्ये तव बुधाः परे तत्संमेदं समभिदधते कोलमपरे । चतुर्णामप्येषामुपरि किमपि प्राहुरपरे महामाये तत्त्वं तव कथममी निश्चिनुमहे ।। १० ॥ षडवारण्यानी प्रलयरविकोटिप्रतिरुचा रुचा भस्मीकृत्य खपदकमलप्रवशिरसाम् । वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः कुचाम्यामानम्रस्तव पुरुपकारो विजयते ॥ ११ ॥ प्रकाशानन्दाभ्यामविदितचरी मध्यपदवीं प्रविश्यैतहन्द्रं रविशशिसमाख्यं कवलयन् । प्रविश्योर्ध्व नादं लयदहनभस्मीलतकुलः प्रसादात्ते जन्तुः शिवमकुलमम्ब प्रविशति ॥ १२ ॥ मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं भवाम्भोधौ मनं त्रिगुणलहरीकोटिलुठितम् । कटाक्षश्चेदन वचन तव मातः करुणया शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १३ ॥ प्रियंगुश्यामागीमरुणतरवासःकिसलयां समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।
२८ काव्यमाला। स्तनद्वन्द्वस्फारस्तवकनमितां कल्पलतिका सरुद्धचायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥ १४ ॥ षडाधारावतॆरपरिमितमन्त्रोमिपटलै- लसन्मुद्राफेनैर्बहुविधचलदैवतझपैः । क्रमस्त्रोतोमिस्त्वं वहसि परनादामृतनदी भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १५ ॥ महीपाथोवविश्वसनवियदात्मेन्दुरविमि- वपुभिर्ग्रस्तांशैरपि तव कियानम्ब महिमा । अमून्यालोक्यन्ते भगवति न कुत्राप्यणुतमा- मवस्था प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १६ ॥ कलां मायां प्रज्ञा समयमनुभूति समरसं गुरुं पारम्पर्य विनयमुपदेशं शिवकथाम् । प्रमाणं निर्वाणं प्रकृतिमतिमूर्ति परगुहां विधि विद्यामाहुः सकलजननीमेव मुनयः ॥ १७ ॥ प्रलीने शब्दोघे तदनु विरते विन्दुविभवे ततस्तत्वे चाष्टध्वनिवपुरुपाधिन्युपगते । श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्रगहनां स्वसंविति योगी रसयति शिवाख्यां परतनुम् ॥ १८ ॥ परानन्दाकारां निरवधिशिवैश्वर्यवपुर्ष निराकारां ज्ञानप्रकतिमपरिच्छिन्नकरुणाम् । सवित्री लोकानां निरतिशयधामास्पदपदा भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ १९ ॥ जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे पुमांसं बिन्दुस्थं तमपि वियदाख्ये च गहने । तदेतज्ज्ञानाख्ये तदपि परमानन्दगहने महाव्योमाकारे वदनुभवशीलो विजयते ॥ २०॥ .
पश्चस्तवी। २९ विधे वेद्ये विद्ये विविधसमये वेदगुलिके विचित्रे विश्वाचे विनयसुलमे वेदजननि । शिवाजे शूलस्थे शिवपदवदान्ये शिवनिधे शिवे मातर्मह्यं त्वयि वितर भक्ति निरुपमाम् ॥ २१ ॥ विधेर्मुण्डं हत्वा यदकुरुत पात्रं करतले हरि शूलमोतं यदगमयदंसाभरणताम् । अलं चक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः शिवस्थायाः शस्तदिदमखिलं ते विलसितम् ॥ २२ ॥ विरिक्ष्याख्या मातः सृजसि हरिसंज्ञा त्वमवसि त्रिलोकी रुद्राख्या हरसि विदधासीश्वर दशाम् । भवन्ती नादाख्या विहरसि च पाशौघदलनी त्वमेवैकानेका भवसि कृतिमेदैगिरिसुते ॥ २३ ॥ मुनीनां चेतोमिः प्रमृदितकषायैरपि मना- गशक्यं संस्मष्टुं चकितचकितैरम्ब सततम् । श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे कथं ते विन्दन्ते पदकिसलये पार्वति पदम् ॥ २४ ॥ तडिदल्ली नित्याममृतसरितं पाररहितां मलोत्तीर्णा ज्योत्स्ना प्रकृतिमगुणग्रन्थिगहनाम् । गिरां दूरां विद्यामविनतकुचां विश्वजननी- मपर्यन्तां लक्ष्मीममिदधति सन्तो भगवतीम् ॥ २५ ॥ शरीरं तित्यम्भःप्रभृतिरचितं केवलमिदं सुखं दुःखं चायं कलयति पुमांश्चेतन इति । स्फुटं जानानोऽपि प्रभवति न देही रहयितुं शरीराहंकारं तव समयबाह्यो गिरिसुते ॥ २६ ॥ पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।
३०
काव्यमाला।
.
तदा मे मिन्दाना सपदि भयमोहान्धतमसं
महाज्योत्स्ने मातर्मव करुणया संनिधिकरी ॥ २७ ॥
सुता दक्षस्यादौ किल सकलमातस्त्वमुदमूः
सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।
अनाद्यन्ता शंभोरटथगपि शक्तिर्भगवती
विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ २८ ॥
कणास्त्वद्दीप्तीनां रविशशिकशानुप्रभृतयः
परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ।
शिवादि क्षित्यन्यं त्रिवलयतनोः सर्वमुदरे
तवास्ते भक्तस्य स्फुरसि हदि चित्रं भगवति ॥ २९॥
पुरः पश्चादन्तर्वहिरपरिमेयं परिमितं
परं स्थूलं सूक्ष्मं सकुलमकुलं गुह्यमगुहम् ।
दवीयो नेदीयः सदसदिति विश्वं भगवती
सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥ ३०॥
प्रविश्य वन्मार्ग सहजदयया देशिकहशा
षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।
परामाज्ञाकारां सपदि शिवयन्ती शिवतनुं
स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३१ ॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलाः प्रतिहतमहिनीव प्रपतः ।
उदेत्योदेत्याम्ब त्वयि सह निजैः सात्त्विकगुणै-
भजन्ते तत्वोधाः प्रशममनुकल्प परवशाः ॥ ३२ ॥
विधुर्विष्णुब्रह्मा कतिरणुरात्मा दिनकरः
खमावो जैनेन्द्रः सुगतमुनिराकाशमनिलः ।
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां
विकल्पैरेमिस्त्वामभिदधति सन्तो भगवतीम् ॥ ३३ ॥
पञ्चस्तवी। ३१ शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्रं समयिनी खमात्मा वं दीक्षा त्वमयमणिमादिगुणगणः । अविद्या वं विद्या त्वमसि निखिलं त्वं किमपरं पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ ३४ ॥ खया यो जानीते रचयति भवत्यैव सततं त्वयैवेच्छत्यम्ब त्वमसि निखिला यस्य तनवः । गता साम्यं शंभोर्वहति परमं व्योम भवती तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥ ३५ ॥ असंख्यैः प्राचीनैजननि जननैः कर्मविलया- त्वते जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम् । अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवा- नयेयं त्वत्पूनास्तुतिविरचनैरेव दिवसान् ॥ ३६ ॥ यत्पटपत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् । तस्मिन्नन्तः कुचभरनतां कुण्डलीतः प्रत्तां श्यामाकारां सकलजननी संततं भावयामि ॥ ३७॥ मुवि पयसि कशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहति कुचमराभ्यां यावनम्रापि विश्व सकलजननि सा त्वं पाहि मामित्यवश्यम् ॥ ३८ ॥ इति पञ्चस्तव्या सकलजननीस्तवः पञ्चमः। इति पश्चस्तवी समाप्ता।
- ३२ काव्यमाला। श्रीदामोदरगुप्तविरचितं कुहनीमतम् । स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः । यस्यानुरक्तललनानयनान्तविलोकनं वसतिः ॥ १ ॥ अवधीर्य दोपनिचयं गुणलेशे संनिवेश्य मतिमार्याः । कुठुन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । मुक्तामियुक्तजनता नगरी वाराणसीनाम ॥ ३ ॥ अनुमवतामपि यस्यामुपभोगान्कामतः शरीरवताम् । शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥ ४ ॥ १. अयं दामोदरगुप्तकविः कश्मीरमहीपतेर्जयापीडस्य मन्त्रिप्रवर आसीत. 'स दा- मोदरगुप्ताख्य कुटनीमतकारिणम् । कविं कवि पलिरिव धुर्य धीसचिव व्यधात् ।' (४१४९५) इति राजतरङ्गिणी. आसंश्च तत्समायामन्येऽपि महाविद्वांसो महाकवयश्च, स्वय च जयापीडनृपतिः पण्डित आसीत. 'क्षीरामिधाच्छन्दविद्योपाध्यायात्संभृतश्रुत.। बुधैः सह ययौ वृद्धि स जयापीडपण्डितः ॥' (४ । ४८०) इति, 'देशान्तरादागमय्य व्याचक्षाण. क्षमापतिः । प्रावर्तयत विच्छिन्न महाभाष्यं स्वमण्डले ॥ (1४८७) इति, 'अवस्थावेदकास्तत्र प्रथिताः पृथिवीमुजा । आन्त.करणैः श्लोकाः स्मर्यन्तेऽद्यापि सूरिमि..' (४१५४८) इति, “विद्वान्दीनारलक्षेण प्रत्यहं कृतवेतनः । मोऽमृदुद्भट- स्तस्य भूमिमर्तुः समापतिः ॥' (४ । ४९४) इति, मनोरथः शङ्खदत्तश्चटकः संधि- मोस्तथा । पमूवुः कवयस्तस्य वामनायाश्च मन्त्रिणः ॥' (४ । ४९६) इति च राजतर- गिणी. स जयापीढमहीपतिः ७५५ मितारिखस्तवत्सरादारभ्य ७८६ मितवत्सर- पर्यन्तं कश्मीरवसुबरां चुभोज. अयं प्रन्यस्तु लुप्तप्राय एवासीत. पूर्वतरे वर्षे डॉक्टर- पीटर्सनेनैकं तालपत्रलिखितमेतत्पुस्तकं खम्भातनगरादधिगतम्. पूर्ववर्षे च जीर्णे पुस्तकद्वयमस्मामिरप्यधिगतम्. किं वेतानि त्रीण्यपि पुस्तकान्यसमाप्तान्यशुद्धानि च सन्ति. संपूर्णस्य शुद्धस्य च पुस्तकस्य लामे निराशा वयमस्यातिदुर्लभप्राचीनमनोहरप्र- न्यस्य मूलच्छेदो मा भूदिति तादृशस्यैव मुद्रण कर्तु प्रवृत्ताः स्मः. आशास्महे च विक- लस्याप्यस्य अन्यस्य खण्डेन्दोरिव विलोकनं मनागपि मनोविनोदावह भविष्यति सहृदया- नाम्. २. 'शम्भलीमतम्' इति पूर्वोक्ततालपत्रपुस्तके नाम वर्तते. शम्मलो कुटनी च पर्यायशब्दो.
३ कुटनीमतम् । चन्द्रविभूषितदेहा भूतिरताः सर्दुजंगपरिवाराः। वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५॥ अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलितामिः । मञ्जरितमिव विराजति यत्र नमो वैजयन्तीमिः ॥ ६ ॥ अविरतसंचरदवलाचरणतलालक्तकद्वारुणितम् । स्थलकमलवतीलक्ष्मी विभर्ति वसुधातलं यत्र ॥ ७ ॥ यत्र च रमणीभूषणरववधिरितसकलदिडभोभागे । शिष्याणामाचार्य वा वार्यते पठताम् ॥ ८ ॥ दिव्यधराधरभूरिव या राजति मैत्तवारणोपेता । बेहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥ ९ ॥ यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः । वनपङ्किरिव संशाला तुरुष्कसेनेव बेहुलगन्धर्वा ॥ १० ॥ तारागणोऽकुलीनः प्रियदोपौ यत्र कौशिकाः सततम् । गद्ये वृत्तच्यवनं परगृहरोधस्तक्षेपु ॥ ११ ॥ शूलमृतो ध्यानस्थाः(१) पदवेदिषु यत्र धातुवादित्वम् । सुरतेवबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥ तीव्रकरत्वं भानोरविवेको यत्र मित्तसुहृदानाम्()। योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥ १३ ॥ १. चन्द्र. स्वर्णे भूषणविशेषो वा, (पक्षे) हिमाशु . २. भूतिरैश्वर्य भस्म च. ३ भुजगाः पिडाः; (पक्षे) सा. ४. मत्तवारण प्रासादवीथीनां वरण्डक; (पक्षे) सत्तगजः. ५. कृष्णपक्षरात्रिरिव. ६. धिष्ण्यानि गृहाणि; (पक्षे) नक्षत्राणि. ७.य- तगण. सन्यासिसमूह ; (पक्षे) यतिः पाठविच्छेदस्यलम्, गणाश्चाटी मगणाद्या , सद्गुणेन समुपेता. ८. सप्राकारा सम्हा वा; (पक्षे) सवृक्षा सवृक्षविशेषा वा. ६. सगा- ना साश्वा च. १०. अकुलीनः, न भूमिलीन , आकाशस्थित इति यावत् ; (पक्षे) अस. कुलोत्पन्नः. ११. दोषा रात्रि ; (पक्षे) दुर्गुणा . १२. उलूका.. १३. चारित्रमशः (पक्षे) उन्दोमह्न १४. अध्यापदक्रीडायाम्. १५. वैयाकरणेषु. १६ धातवो वैयाकरणेषु. १६ धातवो भूवादय ; (पक्ष) शारदादीनां धात्वन्तराणामप्यौपधप्रक्षेपण ये कलधौतत्व सपादयन्ति ते घातुवादिन. ते व प्रायो वश्चका भवन्तीति तात्पर्यम्. १५. नारीणाम्; (पक्षे) दुर्वलस्य. १८. सपिच्छेद- चौरकृत सधिमेदनम्: (पक्षे) सधिप्रगृह्यौ व्याकरणप्रसिद्धौ.
३४ काव्यमाला। छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः । वीणायां परिवादो द्विजनिलयेष्वप्रेसन्नत्वम् ॥ १४ ॥ अनुरूपवृत्तघटना सत्कविकृतरूपके च लोके च । रमणीवचने यस्यां माधुर्य काव्यबन्धे च ॥ १५ ॥ यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च । नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥ १६ ॥ जैन्दनवनामिरामा विबुधवती नाकवाहिनीजुष्टा । अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥ १७ तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी । आकष्टेश्वरहृदया पालेयनगाधिराजतनयेव ॥ १८ ॥ संसक्तमोगिनेत्रा मन्दरधरणीभूतो यथा मूर्तिः । उपरि गता शूलानामन्धासुरगात्रलेखेव ॥ १९ ॥ समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः। निःशेपवेशयोषिद्विभूषण मालती नाम ॥ २० ॥ (विशेषकम्) पेशलवचसा वसतिर्लीलानामालयः स्थितिः प्रेम्णः । भूमिः परिहासानामावसथो वैक्रकवितानाम् ॥ २१ ॥ सा शुश्राव कदाचिदेवलालयप्टष्ठदेशमधिरूढाः। केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥ 'यौवनसौन्दर्यमदं दूरेणापास्य वारवनितामिः । यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥ २३ ॥ १. छन्द शाने गुर्वक्षरव्याकरेखा वक्रा क्रियते. २. प्रसन्ना सुरा. ३. तापिच्छवृक्ष', (पक्षे) तिलकम्. ४. नन्दनं मनोहारि वनम्; (पक्षे) तनामक वनम्. ५. विबुधाः प- ण्डिता देवाश्च. ६. गहा. ७. विले आसत इति बिलासिनः सपः (पक्षे) विलसन- शीला भोगिन:, श्लेये बवयोरमेदः. ८. पार्वतीव. ६. ससक्तानि भोगिनां कामिना ने. वाणि लोचनानि यस्याम् ; (मन्दराचलपक्षे तु) संसक्त भोगिरूप सर्परूपं नेत्र मन्थनर- ज्जुर्यस्याम्. १०. शूलानां पण्यत्रीणाम; (पक्षे) त्रिशूलानाम्, अन्धकासुरशरीरं महादे- वेन शूलोपरि स्थापितमिति पुराणम्. ११. 'वक्रकथिकानाम्' इति पाठान्तरम्. १२. 'देवालय-इति पा०. १३. 'गायमानाम्' इति पा.
३५ . कुटनीमतम् । श्रुत्वाथ विपुलजघना मनसीद मालती चकार चिरम् । अतिसांप्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥ २४ ॥ तद्गत्वा पृच्छामो विकराला कलितसकलसंसाराम् । यस्याः कामिजनौषो दिवानिशं द्वारमध्यास्ते ॥ २५ ॥ इति मनसि सा निवेश्य हुततरमवतीर्य वेश्मनः शिखरात् । विकरालामवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥ अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् । उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकत्तितनुम् ॥ २७ ॥ गम्भीरारक्तदशं निर्भूषणलम्वकर्णपोली च । कतिपयपाण्डुरचिकुरां प्रकटशिरासतैतायतग्रीवाम् ॥ २८ ॥ सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् । तन्वीमङ्गुलिमूले तपनीयमयी च बालिकां दधतीम् ॥ २९ ॥ गणिकागणपंरिकरितां कामिजनोपायनप्रसक्तदृशम् । आसन्धामासीनां विलोकयामास विकरालाम् ।। ३०॥ (कुलकम्) अथ सा विधाय दूरात्क्षितिमण्डललीनमौलिना प्रणतिम् । परिटष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥ ३१ ॥ अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य । इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ।। विदधासि हरिमकौस्तुभमहरिं हरिमगननाथममरेन्द्रम् । अद्रविणं द्रविणपति नियतं मतिगोचरे पतितम् ॥ ३३ ॥ अयमेव बुद्धिविमवं हृतविभवस्ते पटच्चरावरणः । कामुकलोकः कथयति सत्तागारेषु मुनानः ॥ ३४ ॥ उपसंहृतान्यकर्मा धनवर्मा नर्मदाधियुगलस्य । सकलसमर्पितसंपद्यदुपेतः पादपीठत्वम् ।। ३६ ॥ १. 'तदृद्धाम्' इति पा०. २. 'विकरालोम्' इति पा०. ३. 'विकरालीभवन-' इति पा०. ४. 'पालि' इति पा०. ५. 'संनतायत-' इति पा०, ६. 'परिकलिताम्' इति पा०. ५. आसन्या वेत्रासने इत्यर्थः, ३६ काव्यमाला। यदुपगतो नयदत्तः सागरदत्तस्य मध्यमः पुत्रः । प्रीणाति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६ ॥ यल्लीलार्पितचरणौ मआर्या भट्टपुत्रनरसिंहः । परितोपं व्रजति परं मृदु मृगन्पाणियुगलेन ॥ ३७॥ यनिःशेपितविभवो दीक्षितभवदेवपुत्रशुभदेवः । निर्भसितोऽपि नोज्झति केशवसेनागृहद्वारम् ॥ ३८ ॥ अन्या अपि कामिजनं साधारणयोपितो यदाक्रम्य । विदधति कर्पटशेपं विलसितमेतत्तवोपदेशानाम्॥३९॥ (कुलकम्) हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः । उपसविता मयापि प्रकटीकतरागसौष्ठवं पुरुपाः ॥ ४० ॥ मातः किं विदधामो हतधातुमितामियोगेन । नासादयाम दृश्यं निजतनुपण्यप्रसारकेणापि ॥ ११ ॥ तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् । तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥ इति गिरमुदीरयन्ती सप्रेमामृश्य पाणिना पृष्ठे । रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥ ४३ ॥ (कुलकम्) अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः । चिकुरभरस्तव सुन्दरि कामिजनं किंकरीकुरुते ॥ ११ ॥ अयमेव ते कृशोदरि मन्दोलसितश्रुविभ्रमाघारः । अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेपः ॥ १५ ॥ इयमेव दशनकान्ती रतिकान्ताकूतमतितरां कुरुते । श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ १६ ॥ इयमेव दशनपड्डी रुचिराचिरकान्तिदामसमकान्तिः । उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥ १७ ॥ इदमेव समुल्लपितं लीलावतिविजितपरभृतध्वनितम् । तव निःशेपभुजंगव्याकर्पणसिद्धमन्त्र उच्चरितः ॥ १८ ॥ 1 कुटनीमतम् । ३७ इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि। भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥ ४९ ॥ इदमेव वाहुयुगलं मृणालतनुसुन्दरं तवाभोगि । कस्य न जनयति मदनं कनकागदभूपणं सुतनु ॥ ५० ॥ अयमेव मध्यदेशः कंददेशकरणचतुरस्ते । प्रकशोऽपि शरीरवतो दशमी प्रापयति मन्मथावस्थाम् ॥५१॥ इयमेव रोमराजिः संकल्पजचापयष्टिगुणशोभाम् । दधती विदधाति तव स्मरसायकशल्यविश्लवान्यूनः ॥ १२ ॥ इदमेव च पृथुनधनं कलधौतशिलातलाभिरमणीयम् । तव तरुणि वशीकरणं यतिसंयतिनाशकारि करभोरु ॥ १३ ॥ इदमेव तवोरुयुगं रम्भास्तम्भोपमं मनोहारि । वद सुन्दरि नाभिमतं मदनज्वरशान्तये कस्य ॥ १४ ॥ यौवनकल्पतरोस्ते कनकलताविभ्रम सुवृत्तमिदम् । जवायुगलं नेच्छति कामफलप्राप्तये क इह ॥ ५५ ॥ निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् । तव तरुणि चरणयुगलं कस्य न मानसमलकुरुते ॥ १६ ॥ दे॒पयति वारणेन्द्र हंसं हसति प्रयातमिदमेव । तव लीलावति ललितं यूनां हृदयानि मनाति ॥ ५७ ॥ तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये । आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥ ५८ ॥ खीकुरु तावत्प्रथम नृपसेवकभष्टसूनुमतियत्नात् । खाधीनामतिविपुलां यदि संपदमीहसे सुतन ॥ ५९ ॥ प्रत्यासन्नग्रामे खयं प्रमुः पितरि नित्यकटकस्थे । भसुतश्चिन्तामणिरारुष्टो भवति नियमेन ॥६० ॥ शृणु तस्य चारुहासिाने वेषग्रहणं च चेष्टितं चैव । निपतति तथा च तूर्ण प्रियमुरमिशरासनप्रसरे ॥ ६१ ॥ १. 'पृथुलजधनम्' इति पा०. २ 'सनिधाय' इति पा.
३८ काव्यमाला। स्थूलस्थापितच्डः पञ्चाङ्गुलमात्रकेशविन्यासः । लम्बश्रवणनिवेशितकरपत्तकघटितदन्तपतिश्च ॥ ६२ ॥ करशाखार्पितमुद्रिकचामीकरकण्ठसूत्रिकामरणः । परिमृष्टगात्रकुङ्कुमकिंचिपिचारितसर्वाङ्गः ॥ १३ ॥ प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोमः । अन्तर्निविष्टसिक्थकतौरुष्किकखुम्भिकादिचरणत्रः ॥ १४ ॥ नानावर्णविवेष्टितबहलदशापाशबद्धततकेशः । एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कणें ॥६५॥ उच्चण्डकनकर्मितकुलमपिचरितवैसनपरिधानः । स्थूलतरकाचचर्चकमालां च गले दधानेन ॥ ६६ ॥ वृश्चिकरजितकररुहकरमूलनिवडशङ्खचक्रेण । प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः॥ ६७॥(कुलकर्म) श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये । शूलापालस्थापितकतिपयबद्धोरुपीठिकासीनः ॥ ६८ ॥ उत्सङ्गार्पितखङ्गैरयथातथमापिभिर्मदौडत्यम् । विभ्राणैरनुनीविमिरधिष्ठितः पञ्चषैः पुरुषैः ॥ १९ ॥ चतुरतरसेवकार्पितष्टष्ठपरिक्षिप्तपूर्वदेहांशः । अन्तर्बुताम्बूलश्चोच्छूनकपोलकलितकरपर्णः ॥ ७० ॥ अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः । गाथां श्लोकप्रायां भावितचेता यथातथाधीताम् ॥ ७१ ॥ विस्मयलोलितमौलिः पार्श्वगतांस्ताङयरसावेगात् । हा कटु साध्विति वादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥ १. 'दशनपतिश्च' इति पा०. २. पिञ्जरितवसनसवीतः' इति पा०. ३. 'सिक्यस्तौ- रुष्किकखुम्भिकादिचरणान्त.' इति पा०. ४. 'विचेष्टित' इति पा०, ५. 'वस्त्रपरिधानः' इति पा०. ६. पुस्तकान्तरे 'विशेषकम्' इत्यस्ति. ५. देहाः ८. 'ताम्बूलपोत्फुलकपी- लगलित' इति पा०. - कुटनीमतम् । ३९ इदमुक्तो रहसि रुपा तातेन नृपो नृपेण तातोऽपि । इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥ पत्रच्छेदमजानजानन्वा कौशलं कलाविपये। प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरी सततम् ॥ ७ ॥ ब्रह्मोकनाट्यशास्त्रे गीते मुरजादिवादने चैव । अमिभवति नारदादीन्प्रावीण्यं भट्टपुत्रस्य ॥ ७५ ॥ वसुनन्दचित्रदण्डकमुग्धायुधखड्गधेनुबन्धेषु । त्यजति पुरतोऽस्य नित्यं भार्गवतां परशुरामोऽपि ॥ ७६ ॥ वात्स्यायनमयमबुध बाह्यान्दूरेण दैत्तकाचार्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥ प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि । सिंहस्य तस्य शौर्य त्रपाकरं भवति भट्टपुत्रस्य ।। ७८ ॥ आखेटकेऽपि कौतुकमस्त्येव जयश्च चललक्ष्ये । मतनयेन खेलति महसुतः किं त्वतिप्रकटम् ॥ ७९ ॥ इति निजसेवकनिगदितरमणीयवचःश्रवणपेरितुष्टा । अन्तर्मुदिता ब्रूते मामेव खलीकरोतीति ॥ ८० ॥ (संदानितकम्) कतमत्कतमलग्नं प्रस्थाने का च नर्तकी भर्ता । विटखटके का नृत्यति कोहलभरतोदितक्रियया ॥१॥ कीयो नयमागै धेनुकरचिते च तालके कीटक् । प्रेक्षणकादावेवं एच्छति नृत्योपदेशकं यत्नाद ।। ८२ ॥ १. कामसूत्रकर्ता वात्स्यायन प्रसिद्ध एव. २. कामशास्त्राभूतस्य वैगिकसंज्ञक- षष्ठाधिकरणस्य पृथकर्ता दत्तकाचार्यो वात्स्यायनादपि पूर्वकाले पाटलिपुत्रनगरे य- ति वात्स्यायनीयकामसूत्रतो जयमङ्गलाख्यतटीकातश्च शायते. 'दन्तिराचार्यान्' इति २. ३. राजपुत्रोऽपि कश्चन कामशास्त्राचार्य एव स्यात. किं तु नाद्यापि ज्ञातः. 'न्वति' इति पा०. ५. 'परितुष्टपा' इति पा०. ६. कोहली नाम कश्चन ना. शास्त्राचार्य . तद्वन्यस्थाः केचन श्लोका मुरारीनाटकादिटीका सूपलभ्यन्ते. भरतरतु सद्ध एव. ५. 'ईक्षे इति पा०. ८. 'तानके' इति पा०.
काव्यमाला। . सुमनोमाला कण्ठात्सादरचेता ददाति नर्तक्यै । अपनीय सताम्बूलामनवसरे साधुवादं च ॥ ८३ ॥ भुनपतनमात्रसंस्थितिलालित्योहहनपार्शवलितानि । अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरश्यं च ॥ ८४ ॥ प्रविभक्तैर्भावरसैरैमिनयभक्त्या परिक्रमैश्चित्रैः । रम्भामप्यतिशेते किमुतेतरनर्तकीलोकम् ॥ ८५ ॥ इत्यपसारकविरतादविरतमुच्छलितकण्ठमत्युच्चैः । वर्णयति भावितात्मा लक्षितपदमात्रया पातम् ॥ ८६ ॥ प्रायेण भट्टतनयो भवतीहशवेपचेष्टितो भद्रे । तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ।। ८७ ।। चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता। योज्या तस्मिन्दूती वक्रोक्तिविभूपिता प्रयत्नेन ॥ ८ ॥ समुपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्यम् । अमिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ८९ ॥ जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् । यस्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥ ९० ॥ चाटुक्रममनुरागं प्रणयरुपौ विरहजनितशोकार्तिम् । प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥ ९१ ॥ प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च । रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९२ ॥ उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः । पातयति दृशं व्रजतः स्टहया परिधानमात्रेऽपि ॥ ९३ ॥ ईत्यं दृढतरवासितमनसां पुंसामसांप्रतं पुरतः । वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९४ ॥ (कुलकम्) १. 'वातुरश्म्यश्च' इति, 'चातुरस्य च' इति च पा०. २. 'अभिनव' इति पा०. ३. 'यातम्' इति पा०. ४. 'इदम्' इति पा०. ५. 'चाटूक्ति सानुराग' इति पा०. ६. 'विदधाति' इति पा०, ७. 'गणिका च' इति पा०. ८. 'युक्तम्' इति पा०. ६. 'कु- रुते' इति पा०.
कुटनीमतम् । ४१ केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा । मुखरयति मां दुराशा दग्धवती तेन कथयामि ॥ ९५ ॥ हृदयमधिष्ठितमादौ मालत्याः कुसुमचापवाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भेजता ॥ ९६ ॥ क्षणमुत्कण्टकितागी क्षणमुल्वणदाहवेदनायत्ता । क्षणमुपजातोत्कम्पा स्वेदाईवपुः क्षणं भवति ॥ ९७ ॥ दूरविभावितका मुहुरुज्झितधीरभावमत्युच्चैः। रोदिति गायति हृष्यति मुह्यति च स्तम्भिनी भवति ॥ ९८ ॥ पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ । किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनगसंतप्ता ॥ ९९ ॥ महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा। मुभग मयूरीवासौ (जंगविद्वेपिणी जाता ॥ १० ॥ कदलीचम्पकचन्दनपड्केरुहनीरहारधनसारम् । सुन्दर शशधरकान्तं नो शान्त्यै मदनहुतभुजस्तस्याः ॥ १०१॥ अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं वाला ॥ १०२ ॥ संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोत्तिः । दृढमालिङ्गति पश्चात्तभुजापीडेन याति वैलक्ष्यम् ॥ १०३ ॥ कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि इयमियती सामग्री घटिता 'विधिनैव तद्विनाशाय ॥ १०४ ॥ १. 'हृदयम्' इत्याद्यार्या काव्यप्रकाशे दशमोल्लासेऽतिशयोक्तिप्रकरण उदाहतास्ति. तत्र काव्यप्रकाशटीकाकाराणां प्रायो भ्रम एव जात.. मालतीमाधवस्यामिमा जानन्कमला- करभट्टो व्याख्यातवान्, 'मालत्या.' इत्यस्य स्थाने 'मालव्या.' इति पाठंकल्पयित्वा माल. विकाग्निमित्रस्थामिमां कलयन्महेश्वरो व्याख्याति स्म. एवमन्येऽपि. २. 'जता' इति पा०. ३. 'मुहुरविभावितहास्या' इति पा०. ४. 'रोदिति गायति च पुन. पुनश्च मानाव- लम्बिनी भवति' इति पा०. ५. भुजगाः सर्पा विटाश्च. ६. 'घनसारा.' इति पा०. ५. 'कान्तौ' इति पा... उदाहृतेयमार्या काव्यप्रकाशस्याष्टमनवमोहासयोः.६. देवेन' इति पा०. ६ १२ काव्यमाला। अवलां बलिना नीता दशामिमां मकरकेतुना रक्ष । आपद्यवलोद्धृतये भवति हि शुभजन्मनां जन्म ॥ १०९ ॥ नो गृहन्ति यथार्थानथिन निगदिता गिरः प्रायः । मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०६ ॥ आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् । संगृह्य सा सुगात्री विश्वसृजा निर्मिता तेन ॥ १०७ ॥ उपहसति गिरिसुताया लावण्यं येन सततलनेन । न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥ १०८ ॥ शशधरविम्बार्धगतां छायामिव सैहिकेयवदनस्य । अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥ १०९ ॥ सरसिजमस्थिरशोमं विभ्रमरहितं च मण्डलं शशिनः । केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥ ११० ॥ अलिरुपरि तदीक्षणयोर्भ्रान्त्वा सौगन्ध्यसूचितविशेषः । निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥ १११ ॥ विघ्राणेऽरुणिमानं सहज जितवन्धुजीवरुचिमघरे । यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११२ ।। चित्रमिदं यदि कशता तस्या वलिपरिगृहीतमध्यस्य । अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥ ११३ ॥ आस्तामपरस्तावत्तस्याः स्मरवसतिष्टयुतरनितम्बः । श्थयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११ ॥ तस्या रम्भावपुपो रम्मोपममूरुयुगलमवलोक्य । मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ।। ११५ ॥ जघनभरालसयाता नायाता सा विलोचनावसरम् । तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११६ ॥ १. 'आपत्पतितोद्धृतये' इति पा०.२. 'संहृत्य सा सुमध्या विश्वसजा निर्मिता जगति' इति पा०. ३. 'निहिता' इति पा०. ४. 'वसतिः' इति पा०. ५. 'नो याता' इति पा०.६. कार्तिकेयः कुटनीमतम् । ४३ यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् । तेदसारमारभूतामिव लक्ष्मीमुरसि विनिहितां मनुते ॥ ११७ ॥ यदि पतति सा कथंचिट्ठीक्षणविषये हरस्य तदवश्यम् । त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११८ ।। सौन्दर्य तत्ताडशमशेषयोषिद्विलक्षणं सृजतः । यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥ ११९ ॥ सहजविलासनिवासं तस्या वपुरनमिवीक्षमाणस्य । मन्ये नाकाधिपतेः सहस्रमपि चापां विफलम् ॥ १२० ॥ शिथिलयतु कुसुमचापं लिपतु शरान्बाणधौ मनोजन्मा । संसारसारभूता विचरति भुवि मालती यावत् ॥ १२१ ॥ वात्स्यायनमदनोदयदत्तकविटपुत्रराजपुत्राद्यैः। उल्लपितं यत्किचित्तत्तस्या हृदयदेशमध्यास्ते ॥ १२२ ।। भरतविशाखिलदन्तिलक्षायुर्वेदचित्रसूत्रेषु । पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥ १२३ ॥ आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः । अभिधातुं यदि शक्तो वदनसहस्त्रेण भोगिनामीशः ॥ १२४ ॥ (कुलकम्) परिगलदालोलांशुकमपयन्त्रणमरसि मालती रमसात् । निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२५ ॥ रतिरसरमसास्फालनचलवलयनिनादमिश्रितं तस्याः। तत्कालोचितर्मणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२६ ॥ इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः । एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥ १२७ ॥ किं सौभाग्यमदोऽयं यौवनलीलामिरूपतादर्पः । सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥ १२८ ॥ १. 'तदसारभूतमेव स लक्ष्मीवपुरुरसि विनिहित मनुते' इति पा०. २. "विषयम्' इति पा०. ३. वात्स्यायनादय. कामशास्त्रकाराः. ४. 'विप्रपुत्रेषु' इति पा०. ५. 'उपरि' इति पा०. ६. 'मणित रतिकूजितम्'. 'भणितम्' इति, 'रणितम्' इति च पा०.
४४ काव्यमाला। - न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् । सा भवदथें शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥ १२९ ॥ कमलवती तीव्ररुचौ बहुभस्मनि शंभुशिरसि शशिलेखा । सा च त्वयि पशुकल्पे यदमिरता तेन मे कशता ॥ १३० ।। असरलमरसं कठिनं दुर्घहमस्निग्धमाश्रिता खदिरम् । यदुपैति वाच्यपदवी मालतिका तत्किमाश्चर्यम् ॥ १३१ ॥ अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः । स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्कः॥ १३२ ॥ मात्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग । यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ।। १३३ ।। चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला । कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ॥ १३ ॥ मदलीला हलिनेव स्तनयुगलेनेव हारलता । रम्यापि सो सुगात्री रम्यतरा भवतु संगता भवता ॥ १३५ ॥ किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् । तत्कुरु रमणीरनं प्रेमोज्ज्वलसंगतं तूर्णम् ॥ १३६ ॥ अथ तद्वचन श्रवणप्रविजृम्भितमदनमहदायादः । उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥ १३७ ॥ दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च । प्रविधेयमञ्चलेन प्रस्फोटनमनियुगलस्य ॥ १३ ॥ ईषदयत्नप्रकटितकक्षोदरबाहुमूलकुँचयुगलम् । संदर्य झटिति यास्यसि नायकढंग्गोचरात्तूर्णम् ॥ १३९ ॥ अथ पर्यसनाथं दीपोज्ज्वलकुसुमधूपगन्धाब्यम् । विततवितानकरम्यं प्रवेशितो वासकागारम् ॥ १४ ॥ १. 'अलसम्' इति पा०. २. मालतीनाम लताविशेषः. ३. मा-अत्र. ४. 'हारलतिका च' इति पा०. ५. 'साधुगात्री' इति पा०. ६. 'श्रवणात्परिचु. स्थितमदन- इति पा०. प्रविजृम्भितमदनश्चासौ भट्टदायादो भट्टसुतः. ७. 'कुचभागम्' इति पा०. .. 'दृग्गोचरा तूर्णम्' इति पा०,९. 'वासकावासम्' इति पा०.
कुटनीमतम् । ४५ मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा । अभिनन्दनीय एमिर्वचनविशेपैः प्रयत्नेन ॥ १४१ ॥ (कुलकम्) अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य । कल्याणालंकारो यदलंकृतवानिदं वेश्म ॥ १४२ ॥ अनुरूपपात्रघेटनं कुर्वाणस्याद्य कुसुमवाणस्य । सुचिराद्वत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४३ ॥ विन्यस्य शिरसि चरणं मुभगा गैणिकाजनस्य सकलस्य । सौभाग्यवैजयन्ती संप्रति वत्सा समुत्तिपतु ॥ १४४ ॥ दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् । जामातर आप्यन्ते भवादृशा यदभिसंवन्धात् ॥ १४५ ।। दृढपरिचया गुणज्ञा भवद्विधा मानदा यदपि । तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वेक्ष्ये ॥ १४६ ॥ सहजप्रेमोपनता न्यस्ता वयि मालती तथा कार्यम् । न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥ १४७ ।। मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च विभ्राणा । परिपीतधूपवर्तिः स्थास्यसि रैमणान्तिके सुतनु ॥ १४८ ॥ सस्नेहं सब्रीडं ससाध्वसं सस्सहं च पश्यन्ती । किंचिदृश्यशरीरा प्रविरलपरिहासपेशलालापा ।। १४९॥ (युग्मम्) मातरि निर्यातायां परिजनमुक्त च वासकस्थाने । अभियुखाने रमणे वामाचरणं क्षणं कार्यम् ॥ १५० ॥ रतिसंगरविहितमतावाकर्षति रभसतः पुरस्तस्मिन् । कुट्टमितमाचरन्ती जनयिष्यसि किंचिदङ्गसंकोचम् ॥ १५१ ॥ १. 'मात्रा ते गुरुलाघवसादरमपवारण कृत्वा' इति पा०. २. 'घटनाम्' इति पा०. ३. 'अचिरात्' इति पा०. ४. 'शरासनस्य श्रमः' इति पा०. ५. 'वेश्याजनस्य' इति पा०. ६. 'परितुष्टम्' इति पा०. ७. 'नार्थनाही. स्यु' इति पा०. ..'च नयनानन्दन' इति पा०. ६. 'वच्मि' इति पा०. १०. 'रमणे निजे' इति पा०, ११. 'पुन.' इनि पा०. १२. 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव यहि कुप्येद्यत्र कुट- मितं हि तत् ॥' इति.
काव्यमाला। प्रारब्धे सुरतविधी क्रमदर्शितचित्तयोनिसंवेगा। अपशङ्कमपयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥ १५२ ॥ यावद्वान्छति हन्तुं यद्रष्टुं यच्च विलिखितुं गात्रम् । तत्तदपसारणीयं सावेगं दौकनीयं च ॥ १५३ ॥ दशे सन्यथहुंचतिमामर्दै विविधकण्ठरसितानि । नैखविलिखने च सीत्कतिमाघातेषूल्बणं क्वणितम् ॥ १५ ॥ हखायासश्वासान्मुश्चन्ती पुलकदन्तुरशरीरा । स्विद्यत्सँकलावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥ १५५ ॥ (युग्मम्) परभृतलावकहंसकंपारावततुरगहृदयनि:खनितम् । अनुकार्यमुचितकाले कलकण्ठि रुतैस्त्वया रसतः ॥ ११६ ॥ मा मा मामतिपीडय मुश्च क्षणमदय नो समर्थास्मि । इति गद्गदास्फुटाक्षरममिधातव्यस्त्वया कामी ॥ ११७ ॥ अनुवन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् । सुरतेपु दर्शयिष्यसि कामुकभावं खयं बुड्ढा ॥ १५८ ॥ असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् । व्यवहारमाचरिष्यसि वृद्धिमुपेते रसावेगे ॥ १६९ ।। अविचेतितनखरक्षतिरामीलितलोचना निरुत्साहा । नायककार्यसमाप्तौ स्थास्यसि शिथिलीकतावयवा ॥ १६० ॥ झगिति नितम्वावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् । खेदालसां च दृष्टि जनयिष्यसि.मोहनच्छेदे ॥ १६१ ।। वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विविक्तभूभागे । प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥ १६२ ॥ १. चित्तयोनिः कामः. २. 'सयोगा' इति पा०. ३. 'नखरक्षतेषु सीत्कृतम्' इति पा०. ४. 'सर्वावयवा प्रचरिष्यसि रागमृद्धये' इति पा०. ५, 'निःश्वसितम्' इति पा०. ६. 'प्रौढभावसामर्थ्यम्' इति पा०, ७. 'स्फुटम्' इति पा०. ८. 'रतावसरे' इति पा.. ९. 'आवेदित' इति पा०, १०. 'समात्यै' इति पा. ११. मोहन सुरतम्. १२. 'विकृ- टभूमागे' इति पा०. १३. 'समार्य' इति पा०.
कुटनीमतम् । उपयुक्तरदनवासा शय्यामारुह्य दर्शितप्रणया । इति वक्ष्यसि तं रमणं दृढतरमालिङ्गय रभसतः कण्ठे ॥ १६३ ॥ (युग्मम्) मैसुत नूनमिष्टा तैव जाया यदनुरक्तहृदयस्य । जनयति परितुष्टिमलं नापररामापरिष्वङ्गः॥ १६४ ॥ सफलं तस्या जन्म स्टहणीया सैव सकलललनानाम् । गौरी तयैव महिता सुभगंकरणं तपस्तया चरितम् ॥ १६५ ॥ सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः । यस्याः शुभशतमाजः पाणिग्रहणं त्वया विहितम् ।। १६६ ॥ तिष्ठतु सा पुण्यवती वंशद्वयभूपणं वरारोहा । या नापयाति भवतो लक्ष्मीरिव नरकवैरिणो हृदयात् ॥ १६७ ॥ पातयसि कुवलयनिमे कौतुकमात्रेण लोचने यासु । ताअपि सत्यं सुन्दरहषाँच्छलिता नमान्ति गात्रेषु॥१६॥ (संदानितकम्) तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः । स्वार्थनिवेर्शितचित्ता केरोमि तेऽभ्यर्थनां तेन ॥ १६९ ॥ तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा। मद्भाग्यसंपदा वा दूत्या वा कौशलात्वभावाद्वा ॥ १७० ॥ योऽयं प्रेमलवांशः प्रदर्शितोऽस्मासु जीवनोपायः । बाधा नात्र विधेया गणिकाजनीवमन्यथा बुड्डा ॥ १७१ ॥ (युग्मम्) येन स्नेहः क्रोधः शाव्यं दाक्षिण्यमार्जवं व्रीडा । एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥ १७२ ॥ निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् । दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७३ ॥ १. 'वदन' इति पा०. २. 'अधिरा' इति पा०. ३. 'भद्रसुत' इति पा०. ४. 'जाया ते' इति' पा०. ५. 'सदा' इति पुस्तकान्तरे नास्ति. ६ 'तिष्टति' इति पा०, ७. 'होल्लसिता' इति पा०. ८. 'अर्थ' इति पा०, ९. 'प्रकगेम्यभ्यर्थनाम्' इति पा०.१०. 'प्रणयाद्वा' इति पा०. ११. 'हृदयम्' इति पा०.१२. 'यत्र' इति पा०.
४८ काव्यमाला । अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यदृत्तम् । अद्यापि विमति वैटो विशेषणं यदमिसंबन्धात् ॥ १७४ ॥ 'अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् । नाम्ना पाटलिपुत्रं परिभूतपुरंदरस्थानम् ॥ १७ ॥ त्रिभुवनपुरनिष्पादनकौशलमिव एच्छतो विरिवस्य । दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥ १७६ अश्रेयोमिरनाश्रितममिभूतं नामिभूतिदोषेण । ने खोकतमुपसर्गः कलिकालमलैरनालीढम् ।। १७७ ।। पातालतलं भोगिमिरम्भोधिर्विविधरत्नसंघातैः । सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुबेरस्य ॥ १७८ ॥ महिलाभिरसुरविवरं कटकं हि हिमाचलस्य गन्धर्वैः । हरिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥ १७९ ॥ तिष्ठन्तु सकलशास्त्रज्यालोकनविमैलबुद्धयो विप्राः । सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यत्र ॥ १८० ॥ कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः । तिष्ठन्निभृतोऽपि षश्चरितैरनुमीयते यत्र ॥ १८१ ॥ अपहरति पिधातुमिव खकलङ्क शशधरः प्रसार्य करान् । रात्रौ यत्र वधूनां लावण्यं वदनकोपेभ्यः ॥ १८२ ॥ तिमिरपटलासिताम्वरमपहरदभिसारिकाजनौघस्य । निजतनुकान्तिवितानं वल्लभसंभोगविहितये यत्र ॥ १८३ ॥ यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैव्रणितः । शिथिलयति पथिकलोकः खकलत्रसमागमोत्कण्ठाम् ॥ १८४ यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च। स्वच्छत्वाशये च व्यालोलत्वं विशालनेत्रे च ॥ १८५ ॥ न्यग्रोधवृक्षः. २. 'अस्वीकृतम्' इति पा०.३. 'निचयैश्च' इति पा०.४. रमणीरि इति पा०.५. 'शुद्ध' इति पा०. ६. धर्मः. ७. "विहितये' इति, 'विहतये' इति च पा ८. 'विचलन्नयनाशु' इति पा०. ६. 'आशयेपु' इति पा० .
- कुटनीमतम् । ४९ स्तनंजघनाचिकुरभारे घनता जीवेशसहजरोगे च । कुलदेवतार्चनविधौ वलिशोमा मध्यमागे च ॥ १८६ ॥ गम्भीरता स्वभावे चेतोभववाणतूणनाभौ च । विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८७ ।। हरिणायतेक्षणानां विच्छित्तिः कोपहरणमस्त्रेषु । कुटिलत्वमलकपडौ बालानां कामचेष्टितं यत्र ॥ १८८ ॥ संयमनमिन्द्रियाणामिनोपघातग्रहस्तमित्रस्य । स्तब्धत्वं तालतरौ हारलतास्तरलसंगता यस्मिन् ॥ १८९ ॥ भुजगाः पररन्ध्रदशः खण्ड्यन्ते प्रियतमाघरा यत्र सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥ १९ ॥ नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् । गुरुजनशास्त्ररतापि खभावसुभगाङ्गनाजनता ।। १९१ ।। तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां वरः । गुरुरिव विद्यावसतिर्वसति स्म पुरंदरो नाम्ना ॥ १९२ ।। धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् । हरिनामिपङ्कजभुवो नियतेन्द्रियतां जहास यः सततम् ॥ १९३ ॥ न्यकृतवष इति शर्वे याचक इति कौस्तुभाभरणे। पीडितवसुधासुत इति कपिले न वभूव यस्य बहुमानः ॥ १९४ ॥ मार्गानुगतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि । परिहतपरदारोऽपि स्वाकासितगुरुजनप्रमदः ॥ १९५ ॥ यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ । सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥ १९६ ॥ १. 'पीनपयोधरमारे' इति पा०. २. 'रागेषु' इति पा०. ३ 'मध्यदेशे च' इति पा०. ४. 'अब्जेषु' इति पा०. ५. 'सूची तु सीवनद्रव्येऽप्यागिकाभिनयान्तरे' इति मेदिनी. ६. 'प्रथमः' इति पा०. ७. 'चरितेन पङ्कजभुवो जितेन्द्रियत्वम्' इति पा०. ८. 'मा- गानुसतौ' इति पा०; (पक्षे) मार्गस्य मृगसमूहस्य. लुब्धो व्याधः. ।
काव्यमाला। पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पे च । त्रुटनं मेखलिकानां वटुकजने नो रताभिसंमर्दै ॥ १९७ ॥ श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना कलितः। तेजखिता हविर्भुजि न शमैकरतेषुः भूमिदेवेषु ॥ १९८ ॥ जरतामेव स्खलनं जैपतामेवाधरस्फुरणम् । यजतामेव सैमिट्टचिरेणाजिन एवं कृष्णसंपर्कः ॥ १९९ ॥ तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः । नाना सुन्दरसेनः कच इव वैचसामधीशस्य ॥ २०० ।। पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् । अपरमिव कुसुमचापं रतिरतये निर्ममे धात्रा ॥ २०१ ।। तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य । सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०२ ॥- कलधौतफलकशोमां विभ्राणं यस्य पृथुतरं वक्षः । दृष्ट्वा चिराय लक्ष्मीहरिहृदये दुःस्थिति “मेने ॥ २०३ ॥ कथमार्द्रता दिनकृतः शशिशकलैरथ कृतः कथं व्यथकः । इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०४ ॥ यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् । जलधरत उन्नतत्वं गाम्भीर्य यादसां पत्युः ॥ २०५॥ यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् । प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥ २०६ ॥ यो मदनः प्रमदानां तुहिनकरः साधुकुमुदखण्डस्य । निकपोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥ २०७ ॥ १. गण्डकाख्यप्राणिविशेषशृङ्गनिर्मितपात्रेण पितृतर्पण कुर्वन्ति. २. "विभागज- नितमन्यूनाम्' इति पा०. ३. 'पठताम्' इति पा०. ४. एघसा युद्धानां चामिलापः. ५. वृहस्पते. पुत्र कचः. ६. अरुन्धत्यनसूया वा. ७. 'शकलशोभाम्' इति पा०. ८. 'मनुते' इति पा०, ६. 'कथमीहग्यदि न कृतः' इति पा०. १०. "प्रियवचसाम्' इति पा..
- . - कुटनीमतम् । ५१ सज्जनगोष्ठीनिरतः काव्यकथाकनकनिकपपापाणः । प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥ २०८ ॥ जलधिरिव तुहिनमासः सहवृद्धिपरिक्षयः सुहृत्तस्य । सकलोपधाविशुद्धो बभूव गुणपालितो नाना ॥ २०९ ॥ तेन सम स कदाचित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् । केनापि गीयमानामशृणोदार्यामिमां सहसा ॥ २१० ॥ 'देशान्तरेषु वेषस्वभावमणितानि ये न बुध्यन्ते । समुपासते न च गुरून्विषाणविकैलास्त उक्षाणः ॥ २११॥ आकर्ष्याथ तमूचे वचनमिदं सुन्दरः सुहृन्मुख्यम् । शोमनमेतद्गीतं गुणपालित साधुनानेन ॥ २१२ ॥ साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् । नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१३ ॥ गुरुगूढशास्त्रतत्वं विटवृत्तं धूर्तवचनोपायान् । वारिधिपरिखां पृथ्वी जानाति परिभ्रमन्पुरुपः ॥२१४ ॥(युगलकम्) अत उज्झित्य गृहस्थितिसुखलेशं विविधलाभपरिणामे । स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१५ ॥ इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् । ऊचे सुन्दरसेनं लज्जित इव सहचरो वचनम् ॥ २१६ ॥ अभ्यर्थनानुवन्धो लज्जाकर एव मादृशां कि तु । आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१७ ॥ कर्पटकावृतमूर्ति राध्वपरिश्रमावसितशक्तिः । पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाली ॥ २१८ ॥ मातभगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि । कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥ २१९ ॥ १. 'कथासार' इति पा०. २. 'रहिता' इति पा०. ३ अमिलापानित्यर्थ. 'विन्यासान्' इति पा०. ४. 'गुरुगेहशास्त्रचर्यो घृटवचने' इति पा०. ५ 'उत्सृज्य' इति पा०. ६. 'लामरलानि' इति पा०. ७. 'कथयामि च' इति पा०.
५२ काव्यमाला। किं वयमुत्पाव्य गृहं प्रातर्गन्तार ईडगेव सताम् । भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥ २२० ॥ 'अद्य रजनी नयामो यथाकथंचित्तवाश्रमे मातः । अस्तं गतो विवखान्वद संप्रति कुत्र गच्छामः ॥ २२१ ॥ इति बहुविधदीनवचाः प्रतिगेहद्वारदेशमधितिष्ठन् । . निर्मय॑ते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२२ ॥ न स्थित इह गेहपतिः किं रटसि तथा प्रयाहि देवकुलम् । कथितेऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥ २२३ ॥ अथ यदि कथंचिदपरः पुनः पुनर्याचितो गृहखामी । निर्दिशति सावधीरणमत्र स्वपिहीति जीर्णगृहकोणे ॥ २२४ ॥ तत्र कलहायमाना तिष्ठति गृहिणी विभावरी सेकलाम् । अज्ञाताय किमर्थ वासो दत्तस्त्वयेति सह भर्ती ॥ २२५ ॥ . ईडगयं सरलात्मा किं कुमों भगिनि तावको भर्ता । स्थास्यसि गेहेऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥ २२६ ॥ इति भाजनादियाच्या बुद्धौ विनिधाय निकटवर्तिनो.गेहाद । नारीजनः समेत्य ब्रूते तामाप्तमावेन ॥ २२७ ॥ (युग्मम्) गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि । एकीभूतं भते क्षुधोपतप्तोऽध्वगो भैतम् ॥ २२८ ॥ परवशमशनं वसुधा शयनीयं सुरनिकेतनं सद्म । पथिकस्य विधिः कृतवानुपधानकमिटिकाखण्डम् ॥ २२९ ॥ इति निगदितवति तस्मिन्सुन्दरसेनस्य चोत्तरावसरे । इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३० ॥ 'निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् । कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥ २३१ ।' १. 'स्वयम्' इति पा०, २. 'इह गृहे वसतिम्' इति पा०. ३. 'यथाकचिद्वदाशु मातः' इति पा०.४. 'शीर्ण' इति पा०. ५. 'प्रहरम्' इति पा०. ६. 'भोजनादि' इति पा०, ५. 'निकटवर्तिगृहात्' इति पा०, ८. 'नारी समभ्युपेता. इति पा.. .
. कुटनीमतम् । ५३ तो च श्रुत्वा सुहृदं पौरंदरिरिदमुवाच परितुष्टः । मम हृदयगतं प्रकटितमेतेन सहैव गच्छामः ॥ २३२ ॥. अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकतचित्तः । निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ॥ २३३ ॥ पश्यन्विदग्धगोष्ठीरम्यस्यन्नायुधानि विविधानि । शास्त्रार्थानधिगच्छन्विलोकयन्कौतुकान्यनेकानि ॥ २३ ॥ जानन्पत्रच्छेदनमौलेख्यं सिक्थपुस्तकर्माणि । नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥ २३५ ॥ बुध्यन्वञ्चकनँगीविटकुलटानर्मवक्रकथितानि बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥ २३६ ॥(कुलकम्) अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचारः । निजगृहगमनाकाड्डी स शिलोच्चयमबंदं पाप ॥ २३७ ।। तत्पृष्ठदेशदर्शनलोलमति सुन्दरं परिज्ञाय । गुणपालितो वभाषे विलोक्यतामद्विराज इति ॥ २३८ ॥ एष सुतः सानुमतः स्यन्दच्छीताच्छसलिलसंपन्नः । लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥ २३९ ॥ शिशिरकरकान्तमौलिः केटकस्थितपवनभोजनः संगुहः । विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शंभोः ॥ २४० ॥ अत्र तरुशिखरसंगतसुमनस इति जातविस्मयो मन्ये । अभिलपति समुच्चेतुं तारा निशि मुग्धकामिनीलोकः ॥ २४१ ॥ आश्चर्य यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि । अथवा कस्याकष न करोति समुन्नतिर्महताम् ॥ २४२ ॥ १. 'समुपश्रुत्य च' इति पा०. २. 'सकलानि' इति पा०.३. 'आलेखम्' इति पा०. ४. 'वृत्ती.' इति पा०. ५. 'शैलोच्चयनाथमयुदम्' इति पा०. 'आयू' इति नाना प्रसिद्ध पर्वत प्रापेत्यर्थः. ६. 'लोलमलम्' इति पा०. ७. 'स्यन्दत्स्फीताच्छ-' इति पा०. ८. मरदेशे 'भारवाई' इति प्रसिद्धे. पुस्तकान्तरे 'मरौं' इति नास्ति. ६. कटकेपु नितम्वेषु स्थिता. पवनभोजनास्तपश्चर्याथै वातमात्राहारा ऋषयो यस्य, (पक्षे) कहगी- कृतसर्पः. १०. गुहामिर्गुहेन च सहितः . . अवलम्व्य निरवलम्बनमम्बरमार्ग पतंगतुरगाणाम् । अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४३ ॥ इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः । प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥ २४४ ॥ सेक्तुमिवाशाकरिणी विसृजत्ययमवनिधरणपरिखिन्नान् । निझरसलिलकणौघान्भवति हि सौहार्दमेकैकार्याणाम् ॥ २४५ ॥ हारीताहितशोभो मुदितशुको व्यासयोगरमणीयः । विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४६ ॥ अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकतयत्नाः । गन्धवहभोजना.अपि न हिंसकाः फैलभुजोऽपि न छवगाः ॥ २४७ ॥ शुभकर्मेकरता अपि पटूर्मण्यायता अपि खवशाः । अनभिमतरौद्रचरिताः श्रितप्रिया अपि वसन्ति शमनिरताः २४८(कुलकम्) मूर्तिरिव शिशिररश्महरिणवती सप्तपत्त्रकतशोभा । सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥ २४९ ॥ सोत्कण्ठेव समदना वासकसज्जेव कृततिलकशोभा । बहुहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५० ॥ अर्जुनबाणवातैः कुरुनाथवरूथिनीव संच्छन्ना। ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५१ ॥ ध्वजिनीव दानवानां मिष्टकसमधिष्ठिता(द) त्रियामेव । उद्यातरोहिणीका रम्येयमुपत्यका भाति ॥ २५२ ॥ (कुलकम) १. 'अवगम्य' इति पा०. २ 'सनिधानम्' इति पा०. ३. यतोऽयमप्यवनीधर इति भावः. ४. हारीतशुकमरद्वाजा. पक्षिविशेषाः, व्यासो विस्तार'; (पक्षे) हारी तशकव्यासभरद्वाजाख्या मुनयः प्रसिद्धा एव. ५. 'नि.शङ्काः' इति पा०. ६. 'फल भुजोऽपि शमनिरता. इति पा०. ७. इयमार्या पुस्तकान्तरे नास्ति. ८. वाहनमूतः सप्ताश्वैः कृतशोमा; (पक्षे) सप्तपत्रो वृक्षविशेषः. ९. सूर्यस्य..'चण्डभानोः इति पा०. १०. हरिरश्वः, पीलुर्हस्ती; (पक्षे) हरिवानरः, पीलुक्षविशेषः. ११. अर्जु नवाणी वृक्षविशेषौ तत्समूहै.. १२. ऋक्षाणि नक्षत्राणि; (पक्षे) ऋक्षा भटूकाः १३. 'सृष्टयाङ्क-' इति, 'अक्षाङ्क-' इति च पा०, इति दर्शयति वयस्ये मुन्दरसेने च पश्यति प्रीत्या। खप्रस्तावोपगता गीतिरियं केनचिद्गीता ॥ २५३ ॥ 'अतिशयितनाकटष्ठं पृष्ठं ये नाव॑दस्य पश्यन्ति । बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५४ ॥ आकर्ण्य च स वभाषे महात्मनानेन युक्तमुपगीतम् । शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५५ ॥ अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि । वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मरः ॥ २५६ ॥ अचिराभामिव विधनां ज्योत्स्नामिव कुमुदवन्धुना विकलाम् । रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥ २५७ ॥ हैस्त्वोलकं विधातुः (१) सारं सकलस्य जन्तुजातस्य । दृष्टान्तं रम्याणां शस्त्रं सकल्पजन्मनो क्षेत्रम् ॥ २५८ ।। विकसितकुसुमसमृद्धि गृङ्गाररसापगैककलहंसीम् । लीलापल्लववल्ली वतिनामवधानवर्मणां भल्लीम् ॥ २१९ ॥ विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूटष्ठे । रममाणां सह सख्या ललनामालोकयामास ॥ २६० ॥(कुलकम्) अवलोकयतस्तस्य स्मरसायकवेध्यतामुपगतस्य । इँदमभवन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २६१ ॥ क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं जातम् । येन विरुद्धानामपि घटितैकत्र स्थितिस्तथाहीयम् ॥ २६२ ॥ ललितवपुर्निदोषी स्फुरदुज्ज्वलतारकाभिरामा च । निर्वाच्यवदनकमला जितवीणा कैणितवाणी च ॥ २६३ ॥ १. 'जातविस्मेरः' इति पा०. २. 'हस्तोच्चयो' इति, 'अस्तौन्वये' इति च पा०. , 'अस्त्रम्' इति पा०. ४. 'विलसित-' इति पा०. ५. 'शृङ्गारसरोवरक-' इति पा.. 'पुण्य' इति पा०. ७. 'द्वयम्' इति पा०. ८. 'आसीत्' इति पा०. ६. 'भावा. भूतस्य' इति पा०. १०. 'समुपजातम्' इति पा०. ११. 'अनिदोंपा' इति पा०. 1. 'कलितवाणी' इति पा०. - .. .. ५६ काव्यमाला। प्रकटितविग्रहसंस्थितिरतिशोभाघटितसंधिवन्धा च । उन्नतपयोधराव्या शरदिन्दुकरावदाता च ॥ २६४ ॥ अभिमतसुगतावस्थितिरभिनन्दितचरणयुगलरचना च । अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोमा च ॥ २६५ ॥ आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा । सापि वभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥ २६६ ॥ तरुमूलमश्रिताया विस्मृतसकलान्यकर्मणः सपदि । तस्या गात्रलतायामङ्कुरितं सात्त्विकै वैः ।। २६७ ॥ सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं सैंमाश्रित्य । तां व्यथयितुमारेमे प्रभोहि कृत्यं करोति खलु सर्वः ॥.२६८ ॥ गात्रसिरासंधिभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः । अन्तर्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २१९ ॥ कुसुमशरनालपतिता मुहुर्मुहुर्विदधती विवृत्तानि । अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७० ॥ स्तब्धतर्नु सोत्कम्पा पुलकवर्ती स्वेदिनीं सनिःश्वासाम् । विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥ २७१ ॥ उच्छ्वासैरुज्छसनं कुचयुगले सौष्ठवं विलसितानि । अमिलपितेन प्रेम्णा स्निग्धं वचनं मनोहारि ॥ २७२ ॥ अनुरक्त्या वेचनींचं वचसि च गमने च साध्वसस्खलनम् । तस्या मदनः कुर्वन्नुपनिन्ये चारुतामवधिम् ॥ २७३ ॥ (युग्मम्) पार्श्वगतेऽपि प्रेयसि कामशरासारताड्यमानापि । न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीतौ ॥ २७४ ।। अथ विदितचित्तवृत्तिः सकदृशं प्रियतमे समाकृष्य । मदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥ २७५ ॥ १. 'कलावदाता' इति पा०. २. 'चरणरचनशोभा च' इति 'पा०. ३. 'आसिताया: ४. 'प्राप्य' इति पा०. ५. 'प्रमवनन्यम्' इति पा०. ६. 'गानसरसे- न्धनेभ्यः' इति पा०. ७. 'विलासानाम्' इति पा०. ८. स्निग्धत्वं चक्षुषोः' इति पा. ९. 'वदनसचिम्' इति पा०. १०. 'अधिकाम्' इति पा०. ११. 'भीत्या' इति पा०, - इति पा०. 1 अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभम् । सद्भावजानुरक्तिर्नहि रम्या पण्यनारीणाम् ॥ २७६ ॥ अवधीरय धनविकलं कुरु गौरवमकशसंपदः पुंसः । अस्मादृशां हि मुग्धे धनसिद्धयै रूपनिर्माणम् ॥ २७७ ॥ अमिरामेऽमिनिवेशं विदधाना विविघलामनिरपेक्षा । उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७८ ॥ येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधियेषाम् । फलितं येषां सुकृतैर्जीवितसुखितार्थिता येषाम् ॥ २७९ ॥ तेऽवश्यं स्वयमेव वामनुबन्धन्ति मदनशरभिन्नाः । नहि मैधुलिहः कशोदरि मृग्यन्ते चूतमार्या ॥२८०॥(युगलकम्) इति गदितवतीमाली कामशरासारमिनसर्वाङ्गी । अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता ॥ २८१ ॥ सखि कुरु तावद्यनं पटुतरमतिवेदनाप्रतीकारे । क्रोडीकता विपच्या न भवन्त्युपदेशयोग्या हि ॥ २८२ ॥ अस्वायत्तः प्रेयान्मृदुपवनः सुरभिमास उद्यानम् । इयती खलु सामग्री भवति क्षीणायुषामेव ॥ २८३ ॥ मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् । समुपेत्य शशिप्रमया पौरंदरिरमिदधे कृतप्रणतिः ॥ २८४ ॥ यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् । तदपि कथनीयमेव स्निग्धापदि नहि निरूप्यते युक्तम् ॥ २८५ ॥ एतावति संसारे परिगणिता एव ते सुजनाः । आपन्नपरित्राणे व्याकुलमनसः स्फुरन्ति ये बुद्धौ ॥ २८६ ।। १. 'पथ्यम्' इति पा०. २. 'विनिवेशम्' इति पा.. ३ 'मधुलेहाः सुन्दरि' इति पा०, ४. 'सिक्तसङ्गी' इति पा०. ५. 'बहुमतम्' इति पा.. ६. 'इयमियती' इति ७. सुन्दरसेन इत्यर्थ.. ८. कथितव्यम्' इति पा.. ९. 'सुजन्मान.' इति पा०.१०. 'आपत्सु परित्राणव्याकुल-'इति, 'आपनपरित्राणे कोमल-' इति च पा०. पा.. +4 ५८ काव्यमाला। यस्मिन्नेव मुहूर्ते यदवधिं दृष्टोऽसि मे सख्या । तत एवारभ्य गता विधेयतां दग्धमदनस्य ।। २८७ ॥ रोमोद्गमसनहनं मित्त्वान्तर्विग्रह परापतिताः । तैस्या मानससंभवकोदण्डविनिर्गता इषवः ॥ २८८ ।। किं वा वदतु वराकी कुत्र समाश्वसितु यातु कं शरणम् । पीडयति भृशं येस्मान्नित्यं शुचिदक्षिणो मृदुः पवनः ।। २८९ ॥ वचसि गते गद्दतामुज्झितमौनव्रताश्चिराय पिकाः । हृष्टा व्यथयन्ति सखी जातावसरा निरर्गलं विरुतैः ॥ २९० ।। स्खलिताकुलिते गमने तन्वङ्गया अगणितश्रमा हंसाः । सुचिरालब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९१ ॥ उष्णोच्छ्रसितसमीपे विदह्यमानोऽपि मधुकरस्तस्याः । अलककुसुमं न मुञ्चति कच्छ्रेष्वपि दुस्त्यजा विषयाः ॥ २९२ ॥ नो वारयति तथा मां सांप्रतमिति कथयतीव मधुलेहः । निःसहवपुषः कणे श्रुतिपूरकपुष्पसंगतो गुजन् ।। २९३ ॥ प्रशिथिलभुजलतिकायास्तस्याः पतितस्य हेमकटकस्य । यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥ २९४ ॥ रशनागुणेन विगलितमेकपदे तन्नितम्वतश्चित्रम् । पतनाय नियतमथवा निपेवणं गुरुकलत्रस्य ।। २९५ ॥ अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः । तापयति सखी तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥ २९६ ॥ वक्षसि तत्खेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् । कुचतटपतितं तस्याः प्रयागसभेदसलिलमनुकुरुते ॥ २९७ ॥ पिकरुतमलयसमीरणसुमनःस्मरमृङ्गदहनपरिकलिता । पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा वाला ॥ २९८ ॥ १. 'अस्मिन्' इति पा०. २. 'मुहूर्त चक्षुर्विपयोऽसि मम सख्या' इति पा०, ३. 'तस्याम्' इति पा०. ४. किं विदधातु' इति पा०. ५. 'यस्या नित्यशुचिर्द- क्षिण: पवनः' इति पा०. ६. 'परपुष्यः' इति पा०. ७. 'यथा' इति पा०. ८. 'य. स्मिन्' इति पा०, ६. 'मिन्नार्जवः' इति पा०. १०. सभेदो नदीसगम इत्यर्थः - कुटनीमतम् । ६९ न परापतति वराकी दशमी यावन्मनोभवावस्थाम् । त्रायस्व सुभग तावच्छरणागतरक्षणव्रतं महताम् ॥ २९९ ॥ अथ तद्वचसि कतादरमद्भूतमनोमवं समवधार्य । अवगीतिभीतचेता ऊचे गुणपालितः सुहृदम् ॥ ३०० ॥ यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि । चिन्त्यं तदपि विवेकिभिरवसानं वारयोषितां प्रेम्णः ।। ३०१ ॥ वारस्त्रीणां विभ्रमरागप्रेमामिलाषमदनरुजः । सहद्धिक्षयभाजः प्रख्याताः संपदः सुहृदः ॥ ३०२ ॥ तामिरवदातजन्मा करोति सङ्गं कथं यासाम् । क्षणढेष्टोऽपि प्रणयी रूढप्रणयोऽपि जन्मनोऽपूर्वः ॥ ३०३ ।। प्रद्युम्नः प्रधुम्नो विरूपकः खलु विरूपकः सततम् । मुस्निग्धः सुस्निग्धो रूसो रूसस्तु गणिकानाम् ॥ ३०४ ॥ यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया । उज्ज्वलवेषी रचना कामिजनारुष्टये न तु स्थितये ॥ ३०५ ॥ मांसरसाम्यवहारः पुरुषाहतिपीडया न तु स्टहया । आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदाय ॥ ३०६ ॥ रागोऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ । कुचमारेषु समुन्नतिराचरणे नाभिनन्दिते सद्भिः ॥ ३०७ ॥ जघनस्थलेषु गौरवमाकष्टधनेषु नो कुलीनेषु । अलसत्वं गमनविधौ नो मानववश्चनाभियोगेषु ॥ ३०८ ॥ वर्णविशेषापेक्षा प्रसाधने नो रैतिप्रवन्धेषु । ओष्ठे मंदनासङ्गो नो पुरुषविशेषसंभोगे ॥ ३०९ ॥ या बालेऽपि सरागा वृद्धेष्वपि विहितमन्मथावेगा। क्लीवेष्वपि कान्तदृशः साकाहा दीर्घरोगेऽपि ॥ ३१० ॥ १. मरणरूपामित्यर्थः. 3. 'उद्धतचेतोभवम्' इति पा०. ३. 'वेशयोपित.' इति पा०. ४. 'कुर्वीत समागमम्' इति पा०. ५. 'वेषावरणम्' इति पा०. ६. 'विनोद.' इति पा०. ७. 'रतिप्रसङ्गेषु' इति पा०. ८. मदनः काम'; (पक्षे) मधूच्छिष्टमित्यर्थ . 'रोगेषु' इति पा०० ६० काव्यमाला। . स्वेदाम्बुकणोपचिता ने चार्द्रता निजनिवासमनसश्च । आविष्कृतवेपथवो वजोपलसारकठिनाश्च ॥ ३११ ॥ जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च । सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१२ ।। न कुलसमुत्पन्ना अपि अजंगदर्शनसुवेदनाभिज्ञाः । कंदर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥ ३१३ ।। उज्झितवृपयोगा अपि रतिसमये नरविशेषनिरपेक्षाः । कृष्णकामिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१४ ॥ मेरुमहीधरभुव इव किंपुरुषसहस्रसेवितनितम्वाः । नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥ १५ ॥ वहुमित्रकरविदारणलब्धाभ्युदयाः सरोरुहिण्य इव । डाकिन्य इव च रक्तव्याकर्पणकौशलोपेताः ॥ ३१६ ॥ प्रतिपुरुष संनिहिताः कृत्यपरा विविधकरणकोपचिताः । बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः।।३१७॥(अर्थचतुष्टयमत्र) सादरमौकष्य चिरं कुसुमस्तवकं च नरविशेपं च । रिक्तीक निपुणाः क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१८ ॥ परमार्थकठोरा अपि विषयगतं लोहक मनुष्यं च । चुम्बकपापाणशिला रूपाजीवाश्च कर्षन्ति ॥ ३१९ ॥ पुरुपाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः। आहन्यमानजघनाः करेणवो वारयोषाश्च ॥ ३२० ॥ उचितगुणोक्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे । झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ॥ ३२१ ।। १. 'अनार्दता' इति पा०. २. जघनचपला आर्या, छन्दोमेद इत्यर्थ.. ३. 'भुजगद- शनकृतवेदनामिजा' इति पा०. ४. हिरण्य सुवर्णम्, कशिपुस्त्वन्नमाच्छादनमित्यर्थः. ५. "विविधविकरणोपेता.' इति पा. ६. 'अर्थचतुध्यवाचिनीयमायाँ' इति पा.. ७. 'आश्लिष्य' इति पा०. ८. मधुमक्षिका इत्यर्थ.. ६. वेश्या इत्यर्थः. १०. लोह- मिव पुरुषम्. ११. 'चये' इति पा०. १२. 'कलाधिकाच तुला:' इति पा०, , कुटनीमतम् । ६१. बहिरुपपादितशोमा अन्तस्तुच्छाः स्वभावतः कठिनाः । वेश्याः समुद्रिका इव कणन्ति यन्त्रप्रयोगेण ॥ ३२२ ।। वनन्ति येऽनुरागं दैवहतास्तासु वारवनितासु । ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२३ ॥ इंदमुपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते । प्रस्तावावुपगातुं गीतित्रयमभ्यधायि केनापि ॥ ३२४ ॥ "तरुणी रमणीयाकतिमुपनीतां स्मृतिमुवा वशीकृत्य । परिहरति यो जडात्मा प्रथमोऽसौ नॉलिको विना भ्रान्तिम् ॥ ३२५ ॥ इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् । लेडहनितम्बवतीजनसंभोगसुखेन याति तारुण्यम् ॥ ३२६ ॥ सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्गचः । प्रबलप्रेमप्रवणाः प्रमदाः स्टहयन्ति नाल्पपुण्येभ्यः ॥ ३२७॥" एंवमुपश्रुत्य वचः समुवाच पुरंदरात्मजः सुहृदम् । मम हृदयादिव कृष्ट्य गीतमिदं साधुनानेन ॥ ३२८ ॥ तेदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् । आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुमिः ॥ ३२९॥ अथ तत्र कापि गणिकागणयन्ती परिचितं हतद्रविणम् । प्रविशन्तमेव मन्दिरमाव्याजेन निरुरोध ॥ ३३० ॥ काचिद्वश्वकदत्तं पुखीकतनीर्णवसनमवलोक्य । वेश्या विषीदति स्म क्षपाक्षये व्यर्थकर्तव्या ॥ ३३१ ॥ दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका । ज्वलिता रुषा भुजिण्या जग्राह जवेन धावित्वा ॥ ३३२ ॥ १. 'भणन्ति' इति पा०. २. 'इत्युपदिशति' इति पा०. ३. 'उपजातम्' इति पा०. ४. मूर्ख इत्यर्थः. ५. मनोहरयुवतिरमणविनोदेनेत्यर्थः. ६. 'मार्गणमार्गण-' इति पा०. 'अथ समुपश्रुत्य वचः समुवाच पुरदरानुजः' इति पा०. ८. 'गीतिरिय केनचिनी. ता' इति पा०. ६. 'तदसमबाणसमर्पितहारलताम्' इति पा०. १०. 'गणयन्ती कापि' इति पा०, ११. 'लुण्डीकृत्य' इति पा०. १२. 'विटमेकम्' इति पा०.
काव्यमाला। - . अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्यो । समुवाच कुटनी व्रज कल्लोलाकल्पदेहेति ॥ ३३३ ।। प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् । अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥ ३३४ ॥ अन्या कामिस्पर्धावर्धितभाटी समुत्सुका चण्डी । सौभाग्यगर्वदपै समुवाह विलासिनीमध्ये ॥ ३३५ ॥ एकगणिकानुबन्धे क्रोधोद्यतशस्त्रकामिनोः कापि । संभ्रमतो धावित्वा निवारयामास कुहनी कलहम् ॥ ३३६ ॥ धनमाहृत्य बहुभ्यो भुज्यत एकेन केनचित्सार्धम् । इति धनवन्तं कामिनमावर्जयति स्म वारवधूः ॥ ३३७ ॥ गायन्मात्रागाथा द्विपदिकया सौष्ठवेन विट एकः । वज्राम पुरो दास्या विदधद्विछतीरनेकविधाः ॥ ३३८ ॥ कश्चित्पण्यस्त्रीणां विमवोपचितान्यपुरुषयोजनया । विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३३९ ॥ वयि सकेन मया गृहमुज्झितमधुना परेव जातासि । इति दौकमलभमानः कश्चिद्रणिकामुपालेभे ॥ ३४० ॥ उपितामपरेण समं वृद्धविटानां पुरः पराजित्य । त्याजयति स्म भुजंगं कश्चिद्गणिकां द्विगुणमाटीम् ॥ ३४१ ॥ दृष्ट्या त्वया विशेषकवलयकलापी शशिप्रभामुनयोः । वाढं भण भण कीटक्क्कानु तरः सोमया दत्तः ॥ ३४२ ॥ अद्य चतुर्थों दिवसश्चित्राम्बरयुगलकस्य दत्तस्य । तदपि परुपाभिधाना वद मदनक किं करोम्यत्र-॥ ३४३ ॥ स्नेहपरा मयि केली कलहंसक किंतु राक्षसी तस्याः । माता नात्मीकर्ते वर्षशतेनापि शक्यते पापा ॥ ३४४ ॥ १. 'समुच्छ्रिता' इति पा०. २. 'योजयति' इति पा०. ३. 'गणिकाद्विगुणभाटी इति पा०. ४. 'कातुतरः सोमया दत्ता' इति पा०, ५. 'खिन्नाम्बर' इति पा०. ६. 'किनरी तस्याः' इति पा..
कुटनीमतम् । ६३ सुमनः कुड्डमवासः सज्जीकुरु किमिति तिष्ठसि विचिन्तः । अद्य तेव दयितिकायाः किंजल्कक नर्तनांवसरः॥ ३४५ ।। यदि नाम पञ्चदिवसांस्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा । तदपि न रोगवती सा कंदर्पक किं वृथा गर्वः ॥ ३४६ ॥ जीवन्नेव विलासक परिहर दूरेण मूढ हरिसेनाम् । बद्धावेशस्तस्यां व्याप्टतपुत्रो महाविषमः ॥ ३४७ ।। केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य । स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४८ ॥ कौमारकं विहेन्तु रतिसमये मदनसेनायाः । इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥ ३४९ ॥ विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा । स्वकरेण पीतशेषा मदघूर्णित मदनसेनया दत्ता ॥ ३९० ॥ कुवलयमालानिलयो लीलोदय किमिति संप्रति त्यक्तः। किं विदधामस्तस्मिन्ध्रातर्दास्या विना मूल्यम् ॥ ३५१ ॥ मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति । संवाहयतः संप्रति मञ्जीरक तिलकमबरीचरणौ ॥ ३५२ ॥ अद्यापि बालभावं निखिलं न जहाति वालिका तदपि । प्रौढिम्ना मकरन्दक सकलां ललनामधः कुरुते ॥ ३५३ ॥ कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् । हारा सुकुमारतनुः किमियं संमर्दकारिता भवताम् ॥ ३५४ ॥ नि:सारोऽभिनिवेशः शुकशावकपाठने सुरतदेवि । तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३५५ ॥ वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के । उत्थापयतां त्वरितं स्मरलीला मत्त आयातः ॥ ३५६ ॥ १. "विचित्तः' इति पा०. २. 'रङ्गवती' इति पा०. ३. 'व्यावृतपुत्रो' इति पा०. ४. 'केशवया' इति पा०. ५. 'विहातुम्' इति पा०. ६. 'किमिति श्रममद्य कारिता' इति पा०. ७. 'निःसरको' इति पा०. ८. 'भटपुत्र आयात.' इति पा०.
६४ काव्यमाला। किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे । परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥ ३९७ ॥ ईडक्शून्यमनस्त्वं किं कुर्मों मातरिन्दुलेखायाः । पानक्रीडासक्त्या पतितापि न चेतिता कनकनाडी ॥ ३५८॥ नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला । नानाति कामसेना पुनः पुनर्याच्यमानापि ॥ ३५९ ॥ श्रीवलसुतपरिपालित उर्णायुः किमनया विजेतव्यः । मुकुला मुक्तसुखस्थितिरहर्निशं मेषेपोषणे लग्ना ॥ ३६० ॥ आताम्रता सैमुपगतमुच्छूनं करतलं च तव ललिते । मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥ ३६१ ॥ अभिराम कनकमाटी प्रथममियं गृह्यते समुत्पन्ने । स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३६२ ।। ग्रहणकमर्पय तावद्यदि कौतुकमुपरि चन्द्रलेखायाः । निर्वतितकर्तव्यो दास्यसि किंचिद्यथाभिमतम् ॥ ३६३ ॥ न परमदाता मातः सूनुरसौ वासुदेवमट्टस्य । निर्लजः शठवृत्तिः पुनः पुनर्वार्यमाणोऽपि ॥ ३६४ ॥ क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः। न ददात्येकामूर्णार्मुरणः परमत्ति कर्पासम् ॥ ३६५ ॥ (युग्मम्) भगिनि न मुञ्चति वेश्म क्षणमपि पटराजपुत्रोऽसौ । भग्नान्यतरासङ्गो नमेनाधिष्ठितं तीर्थम् ॥ ३६६ ॥ इत्थंप्राया वाचः शृण्वन्विटकुटनीसमुद्गीर्णाः। . तं वेशसंनिवेशं पश्यन्प्रविवेश दारिकावेश्म ॥ ३६७ ॥ (कुलकम्) आकृष्टमिवोत्कतया स्त्रपितमिव स्निग्धचक्षुषः प्रसरैः। तमुपागतमत्यन्तं हारलता पूजयामास ॥ ३६८ ॥ १. रामसेना' इति पा०. २. 'नैप' इति पा०.३ 'उपगत प्रोच्छूनम्' इति पा. ४. मेप इत्यर्थः. लौकिकोक्तिरियम्. ५. 'भमान्यनरावसरः' इति पा०. ६. 'अत्यर्थम्' इति पा०.
. '६५ कुटनीमतम् । सुविहितसमुचितसंस्थितिरवनतशिरसा प्रणम्य तत्सख्या । इदमभिदधेऽतिननं सुन्दरसेनः शुभावसरे ॥ ३६९ ।। प्रियदर्शन किं बहुभिः स्मरपीडनवचनचाटुसंदर्भः । इयमास्ते हारलता जीवनमस्यास्त्वदायत्तम् ॥ ३७० ॥ निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् । कार्यान्तरान्तरायैरपरिहृतं यातु यौवनं युवयोः ।। ३७१ ।। निर्दयमविरतवाञ्छं स्वस्तत्रपमव्यवस्थितावरणम् । उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥ ३७२ ॥ इति दत्त्वाशिपमन्तनिर्याते परिजने तदङ्गेषु । विस्तम्भविविक्तरसो वधे कुसुमायुधः सुतराम् ॥३७३ ।। (विशेषकम्) यदमन्दमन्मथोचितमनुरूपं यत्तथानुरागस्य । यद्यौवनाभिरामं यच्च फलं जीवितव्यस्य ॥ ३७४ ॥ अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः । निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ ३७१ ॥ केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः । नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥ ३७६ ॥ विगलल्लोलं चुम्बनमवयवनिष्पपनि स्टहो मर्दः । अन्तः प्रवेशमिच्छन्निभरपरिरम्भणं यस्मिन् ॥ ३७७ ॥ यदनङ्गैरिव "विहितं रागैरिव दीप्तिमत्वमुपनीतम् । प्रेमभिरिव निस्खलितं शृङ्गारैरिव विकासमानीतम् ॥ ३७८ ॥ अप्रागल्भ्यं व्यसनं धैर्यमकार्य विवेक उपघातः । द्वेपणमगुणो यस्मिस्तत्सुरतं प्रस्तुतं ताभ्याम् ॥ ३७९॥ (कुलकम्) प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् । तस्य विशेषावस्था वक्तुमशंक्याः प्रबुद्धस्य ॥ ३८० ॥ १. 'आर्यान्तरान्तरायः इति पा०. २. 'आचरणम्' इति पा०. ३. 'मन्मथोदित' इति पा०. ४. 'सस्पृह.' इति पा०. ५. 'प्रवेशनेत्यम्' इति पा०. ६. 'पिहितम्' इति पा०. ७. 'वसनम् इति पा०. . - १॥ न वभूव तयोस्तस्मिन्नारब्धे मुरतपरिमर्दै ॥ ३८२ ॥ अत्यभ्यस्ता यान्या सुरतविधौ विविधचाटुपरिपाटी । तामालूनविशीर्णी चकार सहजः स्मरावेगः ॥ ३८३ ॥ सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् । कः परिगणनं कर्तु रतिचक्राविष्टरमणयोः शक्तः ॥ ३८४ ॥ वाला मृदुगात्रलता दृढपुरुपाक्रान्तविग्रहा न परम् । न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥३८५॥ कि रमणी रमणोऽविशदुत रैमणं सा न जानीमः । खावयवावगमस्वैप्रकाशमगमत्तयोस्तदा निपुणम् ॥ ३८६ ।। तस्या निमीलितडशो निस्पन्दतनोर्वभूव सुरतान्ते । लिगमनङ्गच्छायाजीवितसत्तानुर्मानेन ॥ ३८७ ॥ अमजलविन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या । सा शुशुभे विपरीता पर्याकुलकेशभूषणा नितराम् ॥ ३८८ ॥ निर्व्याजार्पितवपुपोनितिमयमेव गणयतोर्विश्वम् । क्षणदा विरराम तयोरक्षीणाकाढयोरेवम् ॥ ३८९ ॥ मोहनविमर्दखिन्ना विजृम्भमाणा स्खलनतिर्मन्दम् । निद्राकपायिताक्षी हारलता वासवेश्मनो निरगात् ॥ ३९० ॥ "परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा । नीता निशा कथाभिर्मोहनकार्य च यत्किचित् ॥ ३९१ ॥ अविदग्धः श्रमकठिनो दुर्लभयोपियुवा जडो विप्रः । 'अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९२ ॥ १. 'अवाप' इति पा०. २. 'प्रत्यभ्यस्तायान्यम्' इति पा०. ३. रमणमिति न जा- नीम.' इति पा०. ४. 'तु प्रकाशम्' इति पा०. ५. 'अनगावस्था' इति पा०. ६. 'मा- नेऽस्य' इति पा०. ७. 'रतविरती' इति पा०. ८. 'दोबलविमर्द' इति पा०.
कुटनीमतम् । ६७ नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियतैः । केवलमलमद्याहं कदर्थिता उद्धपुरुपेण ॥ ३९३ ॥ मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमनायाः । अविरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९४ ॥ सुकुमारसंप्रयोगः पेशलवचनः सवक्रपरिहासः । कुशलवशेन समेतो मम सखि रमणो मनोहराकारः ॥ ३९५ ॥ पल्यकाङ्कनिलीनः परामुखो मुक्तमन्दनिःश्वासः । मैद्याचनया नितरां निःस्वेदः खेदसलिलसंसिक्तः ॥ ३९६ ॥ पर्यस्तमितानगोऽप्यपगतनिद्रः क्षपाक्षयाकाली। ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितोऽद्य सखि मनुजः॥३९७॥(कुलकम्) शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् । सुरतरसमीलिताक्षी मृतेति भीतेन मुक्कास्मि ॥ ३९८ ॥ अविदितदेशप्रकृतेः शठात्मका विदग्धतोऽस्माभिः । अनुभूतो राजमुतादेधि भाण्डविडम्बनावेशः ॥ ३९९ ॥ प्रियसखि लोकसमक्ष नगरप्रभुणा हठेन नीतास्मि । ऎवं तु नो कदाचिद्विगुणार्थप्रार्थने कृतोऽन्यायः ॥ ४०० ॥ आकर्षन्ती जघनं व्रजसि यथा विलिखिता नखैस्तिलशः। मन्ये तथोपभुक्ता केरलि केनापि दाक्षिणात्येन ॥ ४०१ ॥ अधरे विन्दुः कण्ठे मणिमाला स्तनयुगे शशल्लुतकम् । तव सूचयन्ति केरलि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०२ ॥" इति शृण्वन्नुपसि गिरो निर्दृत्तनिशानियोगगणिकानाम् । सोऽपि यथाक्रियमाण प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०३ ॥ १. 'पर्य' इति पा०. २. 'मद्यादनया' इति पा०. ३. 'अवभाण्डविडम्बनाविलेश' इति पा०. ४. 'एवं तु ननु' इति पा०. ५. 'जति पथा' इति पा०. ६. इयमायी कविकण्ठामरणे क्षेमेन्द्रेणोदाहृता. बिन्दुमणिमालादीनां लक्षणानि कामसूत्र प्रसिद्धान्येव. ७. 'नियोग' इति पा०.
६८ काव्यमाला। स्वरुचितरागोपचितेः स्वीकृतमनसस्तया समं तस्य । यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥ ४०४ ॥ विस्त्रम्मकथाः कुर्वन्विचरवृद्यानवेदिकाप्टष्ठे । सहचरकरसक्तकरः सुन्दरसेनः किल कदाचित् ॥ ४०५ ॥ स्थूलघनतन्तुसंततितोलिततूलाम्बरावरणम् । यष्टिप्रान्तनियन्त्रितदलवन्तककुतुपतुम्बिककटित्रम् ॥ ४०६ ॥ त्रुटितचरणत्रसंगतसंस्फुटिताभ्यक्तपादमलिनतनुम् । त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ।। १०७ ॥ (कुलकम) प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय । साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥ ४०८ ॥ अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ । उत्क्षिप्य झटिति लेख सुन्दरसेनस्तु वाचयामास ॥ ४०९ ॥ "स्वस्तिश्रीकुसुमपुरात्पुरंदरः सुन्दरं समभिधत्ते । अन्तम्भितशोकप्रस्ताविस्पष्टवर्णपदम् ॥ १० ॥ कुलमकलत न गणितमवधीरितमग्रजन्मनामुचितम् । नोवेक्षितमवगीतं शठसेवितवमान त्वया पतता ॥ ४११ ॥ वंशेऽकुटिलगतीनां द्विजितादोपरहितचरितानाम् । अपरविनाशरतानामुत्पन्नः कथमसि भुजंगः ॥ ४१२॥ क पुरोडाशपवित्रितवेदपदोद्वारगर्भवदनं ते । क च मदिरासववासितवारवधूमुखरसास्वादः ॥ ४१३ ॥ क कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः । व च दासीरतसंगरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१४ ॥ क त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् । क्व च गणिकानिमर्सनशोकमरायातवाष्पसलिलौषः ।। ४१५ ॥ १. 'तोनितताम्बरा' इति पा०. २. 'स्फुटिताभ्यक्तान्त' इति पा०. ३. 'नापेक्षित' इति पा०.४, 'वंशेऽमलवर्णानाम्' इति पा०.
1 कुटनीमतम् । क वषटारध्वानः सत्कर्मविभूपणश्रवणपूरः । क च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१६ ॥ क्काचार्यप्रतनुलताताडनसंक्षोमसंभवः कम्पः । क च कुपितवारललनानिष्ठुरपादप्रहारविपहत्वम् ॥ ४१७ ॥ क हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः । क्व च पण्यस्त्रीगात्रस्टष्टाम्बरधारणेषु वहुमानः ॥ ११८ ॥ समिधामेव च्छेदनमभ्यस्तं शैशवात्समारम्य । शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४१९ ॥ शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् । कुटिलमतयो भुजिण्याः कथं त्वयाराधिता निपुणाः ॥ ४२० ॥ आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् । प्रकुपितवेश्यानुनये व शिक्षितं वचनचातुर्यम् ॥ ४२१ ॥ अथवा कि क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः । सदसंस्तुता भवन्ति प्रागुपचितकर्मदोपेण ॥ ४२२ ॥ त्वयि विनिवेश्य कुटुम्वं परलोकहितार्जनकविहितास्थः । स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ।। ४२३ ।। इत्यवगतलेखाथै सुन्दरसेने विधेयसंमढे । आर्यामगायदन्यः स्वावसरे गीतिपरिकलिताम् ।। १२४ ॥ 'विषयतिमिरायताणामवटे पततामहष्टमार्गाणाम् । पुंसां गुरुजनवचनद्रव्यशलाकाबनं शरणम् ॥ ४२५ ॥ उद्वेजयति तदात्वे सुखसंवृद्धि करोति परिणामे । कटुकौपधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं वचनम् ॥ ४२६ ॥ लेव्ध्वा वचसोऽवसरं मित्रमवादीत्पुरंदरापत्यम् । पुनरपि नहि खिद्यन्ते प्रियजनहितभापणे सन्तः ।। ४२७ ।। १. 'रणित' इति पा०. २. 'निपुण' इति पा.. ३. "विहिताय' इति पा०. ४. 'म. वृत्तिम्' इति पा०. ५. 'लब्ध्वापि वचोऽवसरम्' इति पा०, काव्यमाला। . अगणितसहचरवचसो दुर्व्यसनमहाधिमग्रवपुषस्ते । मन्युन्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२८ ॥ निजवंशदीपभूतः कृतचरितालंकतो महासत्त्वः । सुन्दर संप्रति तातः स्टष्टो दुप्पुत्रदोषेण ॥ ४२९ ॥ पुत्राभावः श्रेयान्न कुसुतता पुत्रिणः कुलीनस्य । अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेन ॥ ४३० ॥ सांव्यवहारित एव प्रायो लोके गुणः सुखानियतः । येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥ ४३१ ॥ विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय । नियतिवशीकतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३२ ॥ जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ४३३ ॥ नोपनिहन्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः । अभिधेयतां न गच्छन्त्यपवादविशेपिताभिधानस्य ॥ ४३४ ।। गुरुपरिचर्या जाया गुणोन्नता स्निग्धवन्धुसंपर्कः । ब्राह्मे कर्मणि सक्तिोंकद्वयसाधनं सुधियाम् ॥ ४३५ ॥ सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।। वहु मनुते तं सुजनस्तस्मै स्टहयन्ति वान्धवाः सततम् ॥ ४३६ ॥ नासादयति य एकः सत्सेवितमार्गतः परिस्खलनम् । मण्डयति चान्ववायं स निवासः शर्मणामशेषाणाम् ॥ ४३७ ॥ (युग्मम्) स भवति विनयाधारो युक्तायुक्त विवेकिता तस्य । वृद्धोपदेशवाचः श्रवणोदरपूरणं सदा यस्य ॥ १३८ ॥ प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः । आयतनं तु सुखानां संसारमुवां कुलोद्गता दाराः ॥ ४३९ ॥ १. प्रमिद्धवमार्या शाईघरपद्धत्यादिषु. १. 'महम्' इति पा०. ३. 'कुलोद्ता' इति पा..
कुटनीमतम् । ७१ निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते । प्रतिविम्बसमा कान्ता संक्रुडे केवलं भीता || ४४० ॥ यावद्वान्छितसुरतव्यायामसहाविरुद्धसंपर्का । चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४४१ ॥ सद्भावप्रेमल"संवलयावलि ईडकोऽप्यनुबन्धो यस्य विपाकोऽप्रतीकारः ॥ ४४२ ॥ (मंदानितकम्) परुष यदभिहितासि प्रणयरुषाशङ्कितेन नर्मणि वा । सुदति न तत्स्मरणीयं दुर्भापणकीर्तनोदाते ॥ ४४३ ॥ तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् । यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४४४ ।। अथ विरतवचोदयितं वाष्पभराश्लिष्टवर्णपदयोगम् । इति कथमपि हारलता संमूञ्छितवर्णभारतीमूचे ॥ ४४५ ॥ अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा । काहं रूपाजीवा क भवन्तः श्लाघनीयजन्मगुणाः ॥ ४४६ ॥ यत्त्वं विषयविलोकनकुतूहलादागतोऽसि विश्रान्तः । इयतो दिवसानस्मिंस्तन्मम परजन्मसुकतफलम् ॥ ४४७ ॥ गुरुसेवा बन्धुननं स्वदेशवसति कलत्रमनुकूलम् । अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥ ४४८ ॥ यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् । यत्तु सुखमनवगीतं तस्य स्थान निजा दाराः ॥ ४४९ ॥ ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः । नो हृदये कर्तव्यो रहसि क्षेमार्थिना भवता ॥ १५० ॥ लाघवतो यन्महतः प्रणयाद्वासाधु यन्नवाचरितम् । प्रतिकूलं तत्र मया नाथाञ्जलिरेप विरचितो मूनि ॥ ४५१ ॥ दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् । गुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥ ४५२ ॥ १. सदानितकादने किंचिश्रुटित भाति. पुस्तकद्वयेऽप्येवमेव वर्तते. २. 'यत्र' इनि पा०.
काव्यमाला। ७२ हृदयद्वय एकवं याते यूनोवियोगजं क्लेशम् । अनुभवतोरपरेण प्रसङ्गतः पव्यते पथ्या ॥ ४५३ ॥ 'अन्योन्यगूढचेष्टितसद्भावस्नेहपाशवद्धस्य । विच्छेदकरोर्मुत्यु(राणां वा परिच्छेदः ॥ ४१४ ॥ अथ तच्छ्रवणानन्तरमस्निग्धं दयितिके व्रजामीति । अभिधाय याति सुन्दरसेनेऽपि विवर्तितग्रीवम् ॥ ४५५ ॥ वटशाखालम्बिभुजां श्वसितोष्णसमीरशुण्यदधरदलाम् । पर्यस्ता विभ्राणां तन्मार्गविलोकनानिमेषदृशम् ॥ ४५६ ।। लोलायमानवेणीतिर्यकृतकण्ठभूपणविशेपाम् । गलदश्रुवारिपूर्णा पतितां संशुष्कनिःसहाङ्गलताम् ॥ ४५७ ॥ रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा । परिशोपितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥ ४५८ ॥ अङ्गीकतां विपत्त्या वशीकतां मर्मघटनैर्विषमैः । हारलतामपि रिक्तामन्तः परिकृष्यमाणभारत्या ॥ ११९ ॥ मा मा तावद्यात क्षणमेकं यावदेप निष्करुणः । वनगुल्मैन तिरोहित इत्यभिदधती जहुः प्राणाः ॥ ४६०॥ (कुलकम्) अथ वर्मनि समुपेतं पप्रच्छ पुरंदरात्मजः पथिकम् । दृष्टा शोकव्यथिता निवर्तमाना वराङ्गना भवता ॥ ४६१ ॥ स उवाच वटतरोरध उयौ पतिता विनिश्चलावयवा । तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥ ४६२ ॥ इति तद्वचनास्त्रहतो विह्वलमूर्तिः पपात भूपृष्ठे । उत्थापितश्च सुहृदा सोऽभिदधे तेन शोकविकलेन ॥ ४६३ ॥ भवतु कतार्थस्तातस्त्वमपि सुमित्रात्र सांप्रतं प्रीतः । समकालमेव मुक्ता पापेन मयासुभिश्च हारलता ॥ ४६४ ॥ हा हा हाव हतोऽसि ध्वस्ता लीला विलास किं कुरुषे । उच्छिन्ना विच्छित्तिभ्रम विभ्रम दशदिशो निराधारः ॥ ४६५ ॥ १. परिच्छेदो विवेक इत्यर्थः. २. अग्रे किंचित्रुटितमिव भाति.
७ कुटनीमतम् । किलकिञ्चित गच्छ वनं मोहायितमशरणत्वमुपयातम् । कुमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥ ४६६॥ ललितमनाथीभूतं विहृतस्य गतिर्न विद्यते क्वापि । शशधरबिम्बातिमुषि यातायामन्तकस्यान्तः ॥ ४६७ ॥ विनिवृत्त्य यामि दग्धं महिरेहान्यक्तवल्लभप्राणाम् । भवतु वराक्यास्तस्याः सप्ताचिर्दानमात्रमुपकारः ॥ ४६८ ॥ गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना । विललाप मुक्तकण्ठं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥ ४६९ ॥ एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् । उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ।। ४७० ।। विनिमील्य दशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने । त्वद्वारितगमनविधेरपराधितया न मेऽस्ति संयोगः ॥ ४७१ ॥ नाकाधिपतिपुरस्त्रीरमिभवितुं त्वयि दिवं प्रयातायाम् । सत्स्वपि शरेषु पञ्चसु निरायुधः सांप्रतं मदनः ॥ ४७२ ॥ वश्वकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः । अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥ ४७३ ॥ वर्ण्यः सतत एकस्त्रिपुरान्तकनन्दनो महासेनः । हृदयं यस्य स्पष्टं न मनागपि वामलोचनाप्रेम्णा ॥ ४७४ ॥ मन्येऽभीष्टवियोगं निमेषमपि दुःसहं समालोक्य । हरिणा वक्षसि लक्ष्मीविधृता गौरी हरेण देहाधे ॥ ४७९ ॥ अयि लोकपाल सा भुवि ललामभूता तया विना शून्यम् । विश्वमिति कि न चिन्तितमात्मस्थानं प्रियां नयता ॥ ४७६ ॥ भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य । कथमपि विहितां धात्रा धक्ष्यस्येनां जगभूषाम् ॥ ४७७ ॥ इति विलपन्तं बहुविधमैवधीर्य सुहृत्पुरंदरस्य मुतम् । काष्ठविरचय्य चितां तामकरोदग्निसागणिकाम् ॥ ४७८ ॥ १. 'मुखि' इति पा०, २. 'विरहे मुक्त' इति पा०. ३. 'अवधार्य' इति पा०. १० ७४ काव्यमाला। तस्मिन्निद्वहुताशनविनिपतने कृतमतौ शुचा कलिते । मनसि स्फुरितामायाँ पपाठ कश्चित्प्रसङ्गेन ॥ ४७९ ॥ 'अनुमरणे व्यवसायं स्त्रीध कः करोति सविवेकः । संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥ १८ ॥ श्रुत्वा सुन्दरसेनः सुहृदमवोचद्यपेतवैलव्यः । प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ! ४८१ ॥ क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते । परिवर्तिनि संसारे कः कुर्यादाग्रहं मतिमान् ॥ ४८२ ॥ यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् । अङ्गीकुर्मोऽविद्याप्रहाणसंसिद्धये नियतम् ॥ ४८३ ॥ सोऽवददमिजातजनो बाल्यात्प्रभृति त्वया न मुक्तोऽस्मि । संन्यसनबुद्धिरधुना कथमुज्झति विषयनिःस्टहं सुहृदम् ॥ ४८४ ॥ एवमिति सोऽभिधाय स्थिरमतिनियमैस्तपोधनैर्जुष्टम् । गुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥ ४८५ ॥" एवं भवन्ति वेश्याः खार्थंकरता व्यपेतसद्भावाः । अभिलपितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४८६ ॥ रमणहृदयानुवर्तनचतुरचतुःपष्टिकर्मकुशलानाम् । न स्टशति तत्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥ ४.७ ॥ वलितलुतचित्रगतिस्थितिबोधै श्चोदनानुवृच्या च । रागस्पर्शन विना विशति मनः सादिनां तुरगः ॥ ४८८ ॥ गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् । उज्ज्वलयन्त्यसमे विरुतविशेपैस्तथापि ते यूनाम् ॥ ४८९ ॥ आहितमुक्ताहार्यः सम्यक्सकलप्रयोगसंपत्त्या । भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ १९० ॥ येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे । प्रष्टव्यास्ते भवता किमळतकशिपुन्यया दाराः ॥ ४९१ ॥ १. 'जने' इति पा. २ ‘युक्ताहार्यः' इति पा०. ---- कुटनीमतम् । न च लाभ एक एव प्रवर्तते कारणं मनुप्येषु । बाणादयोऽपि(3) तासां वैशेषिकशास्त्रवेदिभिः कथिता. ॥ ४९२ ॥ का वा विभूतिराप्ता सुन्दरसेनात्तया तपखिन्या । यद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥ ४९३ ।। उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतरशक्तिः । स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥ ४९४ ॥ अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् । जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ १९ ॥ अन्या विहाय पतिगृहमविचिन्तितकुलकलङ्कजनगेहाः। रागोपरक्तहृदया यान्ति दिगन्तं मनुष्यलाभाय ॥ ४९६ ॥ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौ.स्थ्यम् । शीलक्षतये यासां तासामतिरागतोऽन्यनरसक्तिः ॥ ४९७ ॥ या अप्यचलितवृत्ता भर्तुश्चरणाब्जतत्पराः प्रमदाः । ता अपि रागविमुक्तास्तिष्ठन्यौचित्यमात्रेण ॥ ४९८ ॥ तस्मादात्माभिगमनविविधनिमित्तं विधार्यते केन । निजपरपण्यस्त्रीणां रागाधीन तु हृदयनिर्वहणम् ॥ १९९ ॥ एवंविधदृष्टान्तरुपपत्तियुतैस्तथेहशैक्यैिः । अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥ ५०० ॥ विहितखापरवोध किंचित्प्रकटीकृतश्रमं दाक्ष्यात् । उत्पादितजृम्भिकया परिरभ्य धनं निशापगमे ॥ ५०१ ॥ विघटितविनिमुद्रशा विलोक्य ककुभः सुदीर्घनिःश्वासम् । वक्तव्यमिति भवत्या रजनि खले कि प्रभातासि ॥ १०२ ।। अबला विषहेत कथं दृढशक्तिममुप्य रतिरसप्रसरम् । मदनतुलितानुरागो न विदध्याद्यदि बलाधानम् ॥ ५०३ ॥ १. 'कथितम्' इति पा०. २. 'युध्यन्ति' इनि पा०. ३. 'आमाद्य' इति पा०. ४. 'कुलप्रमदाः' इति पा०. ५ 'अवशा' इति पा०, काव्यमाला। चक्रावधूप्रियतमसंघटनसमयसंप्राप्त्या । शशिना वियुज्यमाना कुमुदिनि किं क्षीणपुण्यासि ॥ ५०४ ॥ विकसितमुरमिमनोहरसंस्थानं कुसुममप्राप्तम् । न करोति तथा पीडामाखादितविच्युति यथा भृङ्गः ॥ १०५ ॥ विज्ञापयाम्यतस्त्वां रचिताजलिमाविधाय नतिम् । परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥ ५०६ ॥ (युग्मम्) अब दीपितरागाडैरपहस्तितमार्गसंम्रमोपचितैः । मृदुनिश्चित्रानुगतरुपचारैः पातितस्य विश्वासे ॥ ५० ॥ अवलोकितोऽसि लम्पट किमपि वदन्कर्णसंनिधौ नियतम् । संकटसेनाधात्र्या अद्य मया जालमार्गेण ॥ १०८ ॥ मालत्या सह किंचिदभिदधासि सखे ममेति न विरोधः (1)। यत्तु चिरं स्निग्धशा पश्यसि तां तत्र मे शङ्का ॥ १०९ ॥ खामागता न वीक्षितुमनुवध्य न याचितः प्रयत्नेन । आहूय वद किमर्थ ताम्बूलं ग्राहिता कमलदेवी ॥ ५१० ॥ कञ्चकमपकर्षन्त्याः प्रकटीभवर्दैङ्गकुचपार्श्वम् । साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ ५११ ॥ परिहासेन गृहीता यद्यंशुकपल्लवे त्वया रामा । आच्छिद्यापक्रान्ता किं त्वामवलोक्य पृष्ठतः सहसा ॥ ५१२ ॥ विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् । नृत्यन्ती मृगदेवीं विस्फारितलोचनः पश्यन् ॥ ११३ ।। कारणमत्र न वेझ्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य । वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥ ५१४ ॥ इति सेप्यौपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः । प्रणयप्रभवैर्विहिते सामोदरि गूढरागत्वे ॥ ५१५ ॥ १. 'वधू.' इति पा०. २. 'विच्युतं तथा भृवाः' इति पा०. ३. 'शकरसेना' इति पा०. ४. 'असकुचे' इति पा०.
१ ७७ कुटनीमतम् । श्रुतिविषयेऽन्तरिततनुर्ननितस्थितिरायताक्षि सह मात्रा । परुषगिरा त्वं कुर्या इत्यं मिथ्यावचः कलहम् ॥५१६॥ (अन्तःकुलकम) अक्लेशोपनतधनः प्रेमप्रबो निरर्गलत्यागः । भहानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥ ५१७ ॥ व्यसनोपहतविवेको दानकरतिः खदारविद्वेषी । मामविगणय्य मूढे निर्भसित एव केशवस्वामी ॥ ५१८ ॥ अगणितराजापायोऽविच्छिन्नायः खभावतस्त्यागी । खकरेण परित्यक्तो वामधिया शौण्डिकाध्यक्षः ॥ ५१९ ॥ पितुरेक एव पुत्रस्तृतीयवयसो गदाभिभूतस्य । द्रविणवतः प्रभुरातो निराकतो भूरिकामया सोऽपि ॥ ५२० ॥ स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा । सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ ५२१ ॥ पुरुषान्तरसंघर्षात्मोत्साहितचित्तवृत्तिनिरपेक्षम् वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५२२ ।। चित्रादिकलाकुशलः स्मरशास्त्रविलक्षणो वृपप्रकृतिः । उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५२३ ।। चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण । पश्यन्ती बिभ्राणामयि रागिणि किं न हीतासि ॥ १२ ॥ ग्रामोत्पत्तिमशेषां पश्यन्ती सिहरागविनियोगात् । मन्मथसेनावासे लघयति ते रूपसौभाग्यम् ॥ ५२५ ॥ आस्तामपरो लाभो महाधिपनन्दिसेनतनयेन | शिवदेव्या उपचारः क्रियते यत्नेन पर्याप्तम् ॥ ५२६ ॥ पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन । कारितमनङ्गदेव्या विभूषणं पत्तनस्य सकलस्य ॥ ५२७ ।। आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् । हहपतिरामसेनप्रसादतो नर्मदा यमुपभुते ॥ ५२८ ।। १. 'नन्दिपेण' इति पा०.
काव्यमाला। पुंस्त्वाख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी । अनुवचन्नुपहसितस्त्वया जंडः स्वार्थमनपेक्ष्य ॥ ५२९ ॥ वाजीकरणकमतिर्नरनाथानुग्रहेण विख्यातः । प्रत्याख्यातः स तथा रविदेवः किंकरत्वमाकान् ॥ ५३० ॥ कि कंदर्पकुटुम्वे जातोऽसावुत वशीकरणयोगात् । कामप्यवैति सिद्धिं येनाकष्टासि सर्वभावेन ॥ ५३१ ॥ वाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता । तारुण्ये रागहता यदि गणिका भ्रमतु तद्विक्षाम् ॥ ५३२ ॥ उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन । विदधामि तीर्थयात्रामाःख सुखं प्रेयसा सार्धम् ॥५३॥ (अन्तःकुलकम) आर्यनननिन्दितानां पापैकरसप्रकाशनकनारीणाम् । एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५३४ ॥ नो धनलामो लामो लाभः खलु वडभेन संयोगः । अक्षिगतादप्तिन भवति मनसः प्रसादाय ॥ ५३५ ॥ गादानुरागभिन्नं तारुण्यसुखामृतेन संसिक्तम् । न भजति सहृदयहृदयं विभवार्जनसंभवा चिन्ता ॥ ५३६ ॥ लाभः स एव परमः पर्याप्तं तेन तृप्तास्मि । विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे स ताम्बूलम् ॥ ५२७ ॥ सुरतश्रमवारिकणान्परिमार्टि निजांशुकेन गात्रेषु । यदुरसि निधाय पैञ्जस्तस्य न मूल्यं वसुंधरा सकला ॥ ५३८ ।। शिथिलितनिजदाररतिमयि सक्तमना अनन्यकर्तव्यः । यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ ५३९॥ बहुकुसुमरसास्वादं कुर्वाणा मधुकरीव विधियोगात् । ईडक्पुरुषविशेष लभते खलु येन भवति कृतकृत्या ॥ ५४० ॥ १. 'जटे' इति पा०. २ द्वेष्यादित्यर्थः. ३. 'सङ्गस्तस्य' इति पा०, ४. 'मधुकरी विधिनियोगान' इति पा..
कुटनीमतम् । ७९ अयि सरले तावदिमा उपदेशगिरो वसन्ति कर्णान्तः । यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ ५४१ ॥ श्रीरस्तु दुर्गतिर्वा वेश्मानि वासो भवत्वरण्ये वा। खलेोके नरके वा किं बहुना तेन मे सार्धम् ॥ ५४२ ॥ इदमास्तेऽलंकरणं दुर्जननि गृहाण किं ममैतेन । तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण ॥ ९४३ ॥ उचितस्थाननियुक्तान्यपनीय विभूषणानि सविगम् । एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥१४४॥ (कुलकम्) इति रागात्स श्रुत्वा चेतसि कुरुते कदाचिदेवमिदम् । स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५४५ ॥ जननी जन्मस्थानं वान्धवलोकं वसूनि जीवं च । पुरुषविशेषासकाः सीमन्तिन्यस्तृणाय मन्यन्ते ॥ ९४६ ॥ रणशिरसि हते वजे वजोपमयत्रनिर्गतग्राव्णा । प्राणान्मुमोच दयिता न मन्त्रविधिना छतानुयारामा ()॥५४७ ।। कालवशेनायासीत्पश्चत्वं दाक्षिणात्यमणिकण्ठः । प्रेमोपगता वेश्या तेनैव सम जगाम पैञ्चत्वम् ॥ ५४८ ॥ भास्करवर्मणि याते सुरवसति वारितापि भूपतिना । तदुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५४९ ॥ ज्वालाकरालहुतभुजि ननाचार्यः पपात नरसिंहः । तस्मिन्नेव शरीर निजमजुहोच्छोकपीडिता दासी ॥ ५९० ॥ प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविका मोपगताम् । अङ्गीचकार मुक्त्वा जीर्णा खलु मिश्रपुत्रमा मृत्योः ॥ ५५१ ।। देशान्तरादुपेता प्रसादमात्रेण वीक्षिता वनिता । तत्याज न पादयुगं समरे निहतस्य वामदेवस्य ॥ ५५२ ॥ १. 'कृतानुयागमा' इति पा०. २. 'भस्मत्वम्' इति पा०. ३. 'क्रमोपनताम्' इति पा०. ४. 'मपुत्रम्' इति पा०.
८० काव्यमाला। भट्टकदम्बकतनये याते वसति परेतनाथस्य । चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ ५५३ ॥ अस्यामेव नगर्या द्रविणमदात्कालसंचितमशेषम् । प्रेम्णाकष्टा गणिका मिश्रात्मजनीलकण्ठाय ॥ ५५४ ॥ इयमपि विहितास्था मां मातृवचाकलुषिता कै गता। त्यक्त्वाभरणं सर्वं परिवर्धितमन्युसंवेगा ॥ ५५५ ॥ उत्सृष्टालंकरणां परिशेषितमातृमुक्तपरिवाराम् । संतर्पयामि संप्रति सर्वस्वेनापि हरिणाक्षीम् ॥ ६५६ ॥ गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः । संसारग्रहकारणमेका खलु मालती मम हि ॥ ५६७ ।। अमृतकरावयवैरिव घटिता या दृढतरं परिष्वक्ता । चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५५८ ॥ आविर्मवदात्मभवक्षोभक्षतधीरताद्य धृतरभसा । विगलितकुचयुगलातिरालिगति मालती धन्यम् ॥ ५५९ ॥ निर्दयतरौष्ठखण्डनसव्यथहुंकारमूर्छितं सुरते। अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ ५६० ॥ स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् । आवडसुरतसंगरविमर्दसंक्षोमिता दयिता ॥ ५६१ ।। गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसंमोहम् । शिथिलीकता तु किंचिद्विविधविकारं समुच्छसिति ॥ ५६२ ॥ सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिता वेश्याः । सृष्टानया तु नियतं विपरीतरतक्रियागोष्ठी ॥ ५६३ ॥ तन्त्रीवाद्यविशेषादुद्दामानन्यजन्मनस्तस्याः। कुहरितरेचितकम्पितसंपादननैपुणं करोति रुजम् ॥ ५६४ ॥ १. दत्तवतीत्यर्थः. २. 'भट्टात्मज' इति पा०. ३. 'नु गता' इति पा०. ४. 'घन- रमसान्' इति पा०. ५. 'तया' इति पा०.
कुटनीमतम् । ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः । पश्यनहाति कामो रतिमोहनचेष्टितेषु बहुमानम् ॥ ५६५ ॥ न ग्राम्य परिहसितं नाविभ्रमतरलिताक्षिविक्षेपः । सुरतानुद्योगविधौ दोहददानं न पुष्पवाणस्य ॥ ५६६ ॥ नार्थपरो नयनरसो न पराशयवेदने विचक्षणता । नासौष्ठवं प्रसङ्गे न चान्यगुणकीर्तनेषु भारत्याः ॥ ५६७ ॥ नापरपुरुषश्लाघा न त्यागः कालदेशवेषस्य । वैदग्ध्यजन्मभूमेगुरुजघनभरेण मन्दयातायाः॥५६८॥ (विशेषकम) चक्राहपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् । पारावतावगृहनमाचरति सुमध्यमा यथावसरम् ॥ ५६९ ॥ तहक्रवदनहास्यव्यवहृतिहतमानसस्य जायन्ते । अनुकूलसुन्दरा अपि भरणीयाः केवलं दाराः ॥ ५७० ॥ सूचयति पृथक्करणं भ्रातॄणां वक्ति विषमशीलत्वम् । विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥१७१॥ अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् । पार्श्वनिमयां जायां मानयति विमुच्य कामुकं मदनः ॥ ५७२ ।। एवं कृतेऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।' इत्यं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ९७३ ॥ गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् । नीयाते भवति सखी प्रावृड्धनकलुषिते दिशां चक्रे ।। ५७४ ॥ प्राग्ग्रीवकशयनगता स्फारीभवदात्मसंभवविकारा । त्वद्वमनिहिवनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५७५ ॥ 'यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् । घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥५७६॥' १. 'सुरतावुद्योगविधौ' इति; 'सुरतोद्योगनिघौ' इति च पा०. २. 'वा' इति पा०. ३. 'वित्तमहणाय' इति पा०, ४. 'नायाता' इति पा०. . ໑໑ ८२ काव्यमाला। आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः । या विपहन्ते दीर्घप्रियतमविरहानलासारम् ॥ ६७७ ॥ मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् । विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ १७८ ॥ उत्कण्ठयति नितान्तं समीरणो वकुलकुसुमसंनाहः । प्रच्यावयन्ति धैर्यान्मधुरध्वनिभिः कलापभृतः ।। ६७९ ॥ सतडिन्मिलद्वलाकामसिताम्बुधरावली समुद्यन्तीम् । उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥ १८० ॥ स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् । न विचारयन्ति महिला अभीष्टजनसंगतावुत्काः ॥ ५८१ ॥ क्रियतां भूषणशोमा त्वरयति मे मानसं मनोजन्मा । रञ्जयति मनो नितरां कलधौतनिवेशितं रनम् ॥ ५८२ ॥ घनजलदायतककुमि प्रदोपसमये प्रदोषगमनाय । विदधानया कुबुद्धि रागान्धे किमिदमारब्धम् ॥ ५८३ ॥ वचनप्रपञ्चसारं जायाश्रितमन्यदेशसंवन्धम् । पुरुपमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५८४ ॥ जलधौततिलकरचनां गलदम्भोलुलितकेशान्ताम् । तिम्यत्तनुलीलारतिचण्डानिलसलिलपातकण्टकिताम् ॥ ५८५ ॥ अविभावितसमविपमप्रस्खलदनि सहायकरलनाम् । पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन प्रच्छन्तीम् ॥ ५८६ ॥ अन्यस्त्रीषु च पत्यौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् । तत्कालयोग्यपरिजननिवेदितामिति विकल्पसदृशविधौ ॥ ५८७ ॥ किं प्रेम्णोऽयं महिमा किमुतात्यन्तं धनप्रलोभस्य । किं वान्यतः प्रवत्ता प्रवेपिता वातवर्पण ॥ १८ ॥ १.'अनलासगम्' इति पा०. २. 'सवाह' इति पा०, ३. 'अविरतम्' इति पा०. ४. 'यहुलापं ये' इति पा०. ५. 'अन्यस्मिन्प्रेतपती' इति पा०.
कुटनीमतम् । संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् । अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ५८९ ॥ लोकेन हास्यमानां बिभ्राणं वाससी जलक्लिन्ने । रूपमदमुत्सृजन्ती वैलक्ष्याद्विहसितेन नतवदनाम् ॥ ५९० ॥ पश्चात्तापगृहीतां कण्टकदर्भाग्रमिन्नपादतलाम् । अस्मद्वचः स्मरन्ती द्रक्ष्यन्यभिसारिका सुकर्माणः ॥ ६९१ ॥ इति परुषमभिदधानां मातरमवधीर्य युष्मदम्याशम् । चौरहतका व्रजन्ती विद्रावितरक्षिणः सखी मुमुषुः ॥९९२॥ (महाकुलकम्) एषा प्रपञ्चरचना यदि भवति वृथा पुरस्तस्य । वणिगिदमुपेत्य वक्ष्यति सहायसंचोदितो भवतीम् ॥ ५९३ ॥ पूर्व दत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् । परिचारिकयानीता अन्यानपि मृगयते वैयस्यकते ॥ ५९४ ॥ यत्तु घनसारकुड्डमचन्दनधूपादि मुक्तकं दत्तम् । तत्संपुटके लिखितं शृणु पिण्डलिकां करोमि ते पुरतः ॥ ५९५ ॥ एतावन्तं कालं नावसरेऽत्यथिता मया त्वमसि । रिक्त भाण्डस्थानं सांप्रतमिति याचनं क्रियते ॥ ५९६ ॥ एवंवादिनि तस्मिन्किचिल्लाजानतेक्षणं दृष्ट्वा । प्रियपूर्व प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ५९७ ॥ हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन । शेषं ततो यदन्यत्तदिवसैः पूरयिष्यामि ॥ १९८ ॥ इयमपि कपटप्रथना पूर्वसमा चेत्तदेदमभिधेयम् । आशङ्कन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ।। ५९९ ॥ अपटुशरीरे खामिनि विज्ञप्ता भगवती मया गत्वा । भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥ ६०० ॥ १. केदर इति नाणकविशेषस्य सझा इति भाति. 'केदारा.' इति पा.. २. 'य एप कृते' इति पा०. ३. 'नाचष्टे इति पा०.
८8 काव्यमाला। संपन्नवान्छितार्था बल्युपहारेण पूजयिष्यामि । सामग्रीविरहेण तु न वितीर्ण तत्र मे शङ्का ॥६०१॥ (विशेषकम्) अस्मिन्व्यर्थीभूत रिक्तीकतशून्यवेश्मनो दाहम् । उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुन्नेयः ॥ ६०२ ॥ स्निग्धत्वमलं बुद्धा सहभोजनशयनवसनलिङ्गेन । एभिरुपायद्वारैनीतिविरक्तस्त्वया कार्यः ॥ ६०३ ॥ वाधुपिककदर्थनया भोगध्वंसात्सहायवचनैर्वा । अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६०४ ॥ परुपवचोनिर्धारणमावल्यासाहठोपघातीनि (8)। यनादमी विधेया गम्यस्य विमोक्षणोपायाः ॥ ६०५ ॥ पृथगासननिर्देशः प्रत्युत्थानादिकेऽपि शैथिल्यम् । सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥ ६०६ ॥ तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनादत्तिः । वेदति प्रियमाभीक्ष्णं बहुपलापित्वदूपणाख्यानम् ॥ ६०७ ॥ वचनान्तरोपघातैस्तत्मस्तुतसंकथासमाक्षेपः । तद्वयवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥.६०८ ॥ व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने । निद्राभिभवस्वापनमुढेगः संमुखीकरणे ॥ ६०९ ॥ गुह्यस्पर्शनिरोधः खभावसंस्थापना योगेषु । चुम्बति वंदनविकम्पनमालिगति कठिनगात्रसंकोचः ॥ ६१०॥ असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु । दीर्घरते निर्वेदः स्वपिहीति रेतामियोजके भूयः ॥ ६११ ॥ तदशक्तावनुवन्धो वैदग्ध्यविनाशने तथा हासः । रात्र्यवसानस्टहया पुनः पुनामिकप्रश्नः ॥ ६१२ ॥ १. 'दाहात्' इति पा०, २. वृक्ष्याजीवी वणिग्वाधुपिक इत्युच्यते. ३. 'अवधीरिते' इति पा०. ४. 'मा हतोपघातीनि' इति पा०. ५. 'तदति' इति पा०. ६. 'शङ्कया' इति पा०. ७. 'नियोगेषु' इति पा०. ८. 'वदनवियोजन' इति पा०. ६. 'रतानि यो- . . जके' इति पा०.
कुटनीमतम् । ८५ निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया । सरमसमुदीरयन्त्या निशा प्रमाता प्रभातेति ॥ ६१३ ॥ उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् । अन्योन्यसमासतौ संस्थानमिवामिजातमणिहेनोः ॥ ६१४ ॥ यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् । स निदानससंदिग्धं सीता प्रति दशमुखस्येव ॥ ६१५ ॥ यानि हरन्ति मनांसि च ललितस्मितवीक्षितानि रकानाम् । तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६१६ ॥ विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये । इति यत्र मनः स्त्रीणां तत्रापि रमन्त एव पशुतुल्याः ॥ ६१७ ॥ यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् । तस्मिन्मुद्रितभावे पशुकर्मणि पशव एव रज्यन्ते ॥ ६१८ ॥ अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः । अमिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥ ६१९ ॥ साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य । यन्नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ २० ॥ पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् । शृण्वन्नपि यः स्वस्थः स्वस्थोऽसौ कालपाशवद्धोऽपि ॥ ६२१ ॥ अवगम्याभिप्रायं स्वामिन्याः परिजनोऽपि यं पुरुषम् । अवहसति तिरस्कार्य तस्य न मूल्य वराटिकाः पञ्च ॥ ६२२ ॥ तत्त्वातत्त्वसमुत्थव्यवहृत्योर्योऽन्तरं न जानाति । स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६२३ ॥ क्रमशितगौरवांशो रिक्ततया लाघवं परापतितः । अप्राप्तपरिच्छेदः उवतेऽसौ युवतिसरिति कुमनुष्यः ॥ २४ ॥ १. 'अवधारण- इति पा०.२ विवाहितापीत्यर्थ.. ३. 'अप्रियम्' इति पा०. ४. 'व्य- वहरति' इति पा०.५. 'तत्त्वावहासमुग्धव्यवहृतयो.' इति पा०. ६. 'हसित' इति पा०.
काव्यमाला। यत्नेन कपटघटितान्शृङ्गारोद्दीपनार्थमनुभावान् । रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥ ६२५ ॥ या धनहार्या नार्यों निर्मर्यादाः स्वकार्यतात्पर्याः । सह ताभिरपीहन्ते वत मन्दाः संगतमजयम् ॥ ६२६ ॥ अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् । कंदर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ॥ २७ ॥ व्यासमुनिनापि गीतौ द्वावेव नराधमौ लोके । धर्मः परो न विहितः कामकलायां मतिः स्थिरा यस्य ॥६२८॥ कामनवाभिनवगुणवलिः खस्य मदनरोगवतः । अर्थोऽनर्थवतोऽभिगमकामः समरतनरोपभोगेन (1) ॥ ६२९ ॥ यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः । स पुमान्सच्चरितनरैः पर्यनुयुक्तः किमाचष्टे ॥६३०॥ (संदानितकम्) कामोद्वेगगृहीतं धूर्तरुपहस्यमानशृङ्गारम् । दारिग्रहतं यौवनमबुधानां केवलं विपदे ॥ ६३१ ॥ व्यपगतकोपे रागिणि याति लयं पानमात्रलाभकते । क्षुद्रामधुकरिकाब्जे न तु गणिका चिन्तितखार्थे ॥ ६३२ ।। यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् । दर्शनमात्रशुभितैर्वच्यन्ते ताः कथं पुरुषैः ।। ६३३ ॥ क्लेशाय दुर्भगानां मानस्तुतिगात्रभङ्गविन्यासः । गणिकामिनयचतुष्टयमाकष्टयै खापतेयपुष्टानाम् ॥ १३ ॥ कि धक्ष्यति भौमोऽपि ज्वलनः खलु तादृशं कुलागारम् । यो दह्यते न विरसं विरक्तदासीतिरस्कारैः ।। ६३५ ॥ गृहमतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् । फूत्कृतमिदं सभुजया न मालती कामसत्रदानपरा ॥ ६३६ ॥ १. 'गुणवानिःस्वस्य' इति पा०. २. 'सत्वरितनरैः' इति पा०. ३. 'कामोद्वेगि' इति पा०. ४. 'लाभहते' इति पा०. ५. धनवतामित्यर्थः. ६. 'वक्ष्यति' इति पा०, ७. 'अतिविरसम्' इति पा०. . .
कुटनीमतम् । इति तूदितनिजचेटीनिगदितकटुकाक्षराण्यकतलक्ष्मा ()। आकर्णयतो वाचो दैवोपहतस्य मर्मरुनः ॥ ६३७ ॥ एवमभिधीयमानो बुध्यति यदि नो पशुनराकारः । तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥ ६३८ ॥ प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना । मातृवचोगतिक्रमणं न समर्था संविधातुमहम् ॥ ६३९ ॥ अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपिं दिनानि । पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥ ६४० ॥ निर्वासितेऽपि तस्मिन्यः कामी पूर्वमुजिमतोऽभूत्ते । तस्य प्राप्तविभूतेयक्तिरियं भिन्नसंधाने ।। ६४१ ।। उपवनलीलाविहरणहावोज्ज्वलमखुलस्य सह तेन । वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥ ६४२ ॥ इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या । मत्कण्ठाश्रितपाणिर्बभ्राम स यत्र जीविताधीशः ॥ ६४३ ॥ सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा । वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६४४ ॥ रॅणदिन्दिन्दिरवन्दे कूजत्कलकण्ठवीररमणीये । अत्रातिमुक्तकगृहे मरुदीरणविततकुसुमसंछन्ने ॥ ६४५ ॥ मयि जाताधिकरागो बलवति मदने सहायसामच्या । कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ।। ६४६ ।। प्रेखत्महरणयुक्त्या विध्यन्पार्श्वद्वयं नखैधूर्तः । चक्रे मा मदनमयी व्रतपुतमिमां समधिरूढाम् (8)॥ ६४७ ॥ स्टहणीयोऽयमशोकः स्पष्टो यदुर्लभेन हस्तेन । अस्मदवतंसकाथै नूतनदलपल्लवान्विचारयता ॥ ६४८ ॥ १. 'कामम्' इति पा०. २. 'भुङ्के' इति पा०, ३. 'संरागे' इति पा०. ४. शब्दा- यमानभ्रमरकुले इत्यर्थः. ५. वारः समूहः.
काव्यमाला। अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना। अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम्॥६४९॥ उत्यापय मानवशे दयितं चरणाग्रनिपतितं तूर्णम् । अत्यालष्टं त्रुध्यति सुदृढमाप प्रेमवन्धनं मूढे ॥ ६५० ॥ उत्तिष्ठन्नपि यातः कि तेन निवारितेन सखि पशुना । यामीति निष्पकम्पा विनिःसृता यस्य साधरे वाणी ॥ ६५१ ॥ आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः । सुन्दरि जीवितसारो रतिभोगरसामृतखादः ॥ ६५२ ॥ रम्यं कुसमस्तबकं कुरु मे प्रिय कैदिरातमवतंसम् । तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६५३ ॥ आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् । नहि नहि राजति सुतरां चूतगुममञ्जरी कणे ॥ ६९४ ॥ धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च । धिक्तद्वयमपि मन्मथशास्त्रविकासं विना सुरतम् ॥ ६५५ ॥ जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढोऽपि । अधिगतमधुना सख्या तव सत्त्वमतीत्य वर्तते मानः ॥ ६९६ ॥ वर्षशतस्य हि सारः कलेवरः प्रथममेलकस्थानम् । सचकितमागच्छन्ती सोत्कलिकैर्यत्र दृश्यते रमणी ॥ ६९७ ॥ किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः । कुसुमशरपूर्णते॒णः किमुताभवदन्य एंप कंदर्पः ॥ ६१८ ॥ नो पश्यसि यदि ककुभः प्रचुरोद्दलकुसुमसुरभिरमणीयः । परभृतकूजनमिश्र न शृणोपि यदि द्विरेफझंकारम् ॥ ६५९ ॥ गन्धं यदि च न लभसे वासितदिग्व्योम सुमनसो हृद्यम् । अनुभवसि यदि स्पर्श नो शीतलदाक्षिणात्यपवनस्य ॥ ६६० ॥ १. 'आसीनाम्' इति पा०. २. 'तरुणीनाम्' इति पा०. ३. वसन्त इत्यर्थः. ४. रक्ताम्लानपुप्पनिर्मितमित्यर्थः. ५. 'सत्यम्' इति पा०. ६. 'एवं' इति पा०. ७. 'तूर्णः' इति पा०. ८. 'एव' इति पा०.
कुटनीमतम् । वसने स्त्रियैकशेषः खल पञ्चायौं गुणेन परिभूतः (१)। नाहसि तदिति त्यक्तो निजाश्रमं गन्तुमन्यतो नितराम् ॥६६१॥ अस्मिंन्सरसि सलील करयन्त्रविनिर्यदम्बुधाराभिः। दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥ १२ ॥ पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा । उच्चिक्षेप संहासं हासितसंनिहितपरिवारः ।। ६६३ ॥ संसक्तावरणं जघनं ननु पश्यतस्तदा तस्य । प्रथमाकाङ्क्षाकूतं भेजे संभोगशृङ्गारम् ॥ ६६४ ॥ कालप्रदेशभोगव्यापारस्थितिविशेषघटनाभिः । चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६६५ ॥ सादरमर्पयतोऽङ्ग गोत्रस्खलनापराधिनस्तस्य । सख्यः स्मरामि सहसा विलक्ष्यतां क्लिष्टहसितस्य ॥ ६६६ ॥ प्रत्यग्रनखव्रणितस्तनान्तरे स्टशति लोचने स्टहया । प्रेमसिताच्छादनमकरवमहमब्जिनीपत्रम् (1) ॥ ६६७ ॥ लिप्त्वातर्कितमम्भो गर्मितनलिनीपलाशपटभावात् । आहतया यद्विरुतं स्वस्थधिया नैव शक्यते कर्तुम् ॥ ६६८ ॥ सुश्लिष्टो दूरविधिर्मदनालसगात्रजृम्भितं ललितम् । गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥ ६६९॥ नीवीबन्धविमोक्षो मुहुर्मुहुः केशपाशविश्लेषः । खाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥ ६७० ॥ साकासितं क्षिपन्त्या तरलायतलोचनं मुंहुः कान्ते । उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णशिरः ॥ ६७१ ॥ एकीभावं गतयोर्जलपयसोमित्रचेतसोश्चैव । व्यतिरेककतौ शक्तिहसानां दुर्जनानां च ॥ ६७२ ॥ येन तदा मा भूवुः (१) परिजनमुत्सार्य विधृतनटमन्युः । दर्शितहितखरूपः परपीडाकरणपण्डितः प्रथमः ॥ ६७३ ॥ १. 'कृष्ट' इति, 'धृष्ट' इति च पा०. २. 'च तथा' इति पा०. ३. 'वा' इति पा०. १२ ९० काव्यमाला। अतिकोमलमतिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः सहृदयं दहति पुनः कालकूटघटित इव ॥ ६७४ ॥ अविदितगुणान्तराणां नो दोपैः प्राप्तदेशवासानाम् । स्वाधीनकुङ्कुमा अपि यद्विधति वहुमति नीले ॥ ६७५ ॥ क महीतलरम्भात्वं न्यकृतचन्द्रप्रभा खदेहरुचा । मित्रलता क वराकी नीचैरुपसेवितारोहा ॥ ६७६ ॥ यस्या न खलु विगणिताः प्रहात्मानो महाधनाः कुलनाः। सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यरत्तेन ॥ ६७७ ॥ तामेव समाचरणां सद्भावेन प्रवर्तितां निपुणाः । विन्दन्ति तत्र कुशलाः स्नेहविरूपे प्रभेदेन ॥ ६७८ ॥ भवतु विरूढप्रेम्णः सत्कर्मविवेचने मनोवृत्तिः। मारोहतीति सैवं निवेदितं परिजनेन"..... ॥ ६७९ ॥ इति दुर्जनाभिनिःसृतवागभिपितसमस्तवपुषो मे । ईयारुपः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥ ६८० ॥ लघुहृदयतया तस्माहुर्भापितवज्रपातविहतानाम् । वर्त्मविशेपवितों न स्टशति प्रायशो मनः स्त्रीणाम् ॥ ६८१॥ प्रियमपि वदति दुरात्मा क्षिपति विपक्षखश्वनुधारे । आसाद्य प्राणहतो मृतये परिलेढि जिह्वया वहम् (1) ॥ ६८२॥ हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तन्मानम् । सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥ ६८३ ॥ परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् । अन्तर्मना असाधुर्न गणयति तदा सुखोमध्ये (1) ॥ ६८४ ॥ दिवसांस्तानभिनन्दति बहु मनुते तेपु जन्मनो लामम् । ये यान्ति दुष्टवुद्धेः परोपतापाभियोगेन ॥ ६८५ ॥ विकसितवदनः पिशुनः प्रोत्फुल्लविलोचनस्तथा भ्रमति । मन्ये यथा नराणां परहितकरणे श्रमो वन्ध्यः ॥ ६८६ ॥ १. 'नोद्देश.' इति पा०. २. 'बहुमतिलीने' इति पा०. ३. 'परिचयेन' इति पा०. .
-- कुटनीमतम् । ९१ शठमृगयुः कुसृतिशतैरज्ञातप्रतिविधीन्साधुमृगान् । अभ्यस्तलक्ष्यवेधः सनिश्चये परिश्रमं ब्रजति (8) ॥ ६८७ ॥ अनुकूलवरपुरंध्रिषु पुरुषाणां वडमूलरागाणाम् । नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ८ ॥ सावरणं बनतोऽन्यान्कौतुकदृष्टया प्रसङ्गतो दयितान् । बुड्वापि विदग्धधियो वर्तन्ते नाद्य धर्मेण ॥ ६८९ ॥ सत्य प्रेमणि वृद्ध व्यथयति हृदयं मनागपि स्खलितम् । अवहृतनिजमाहात्म्यास्तैथापि धीरा न मुह्यन्ति ॥ ६९० ॥ स्वच्छन्दः पिबतु रसं न्वा नानावनानि कुसुमेषु । अनुभूतगुणविशेषः पुनरेष्यति मालती मधुपः ॥ ६९१ ॥ मालत्यां गुणवार्ता नो सम्यग्वेत्ति मधुकरस्तावत् । अनुभवमेति न यावत्सुमनोन्तरसंगमाखादे ॥ ६९२ ।। कोमलमानकदम्बां भजमानो मनति दीप्ततामधिकाम् । संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ६९३ ॥ यः पुनरतिकोपानलसंतापवशेन दूरमारष्टः । काचमणिः खलु स यथा परिणाम खण्डखण्डमुपयाति ॥ ६९४ ॥ वेतनलाभाबहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः । विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्तेषु ॥ ६९५ ॥ मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुज्ञेयम् । तत्सुकतं यस्य फलं रभसागतवल्लभाश्लेषः ॥ ६९६ ॥ यातेऽपि नयनमार्गे प्रेयसि यस्याः स्मृतिळलीकेषु । मन्ये तां प्रति नियतं कुण्ठितशरपञ्चको मदनः ॥ ६९७ ॥ जीव्यत एवं कथंचिद्धिग्वृत्तिमिमां महद्भिरवगीताम् । विजहाति यन्न गणिका तहाञ्छितरमणलाभलोमेन ॥ ६९८ ।। १. 'नाथ' इति; 'नाट्य' इति च पा०. २. 'तदपि न धीरा विमुखान्ति' इति पा०. -३. 'भ्रान्वा भ्रान्त्वा वनानि' इति पा०. ४. 'सतप्तश्वासद्रमाचष्ट' इति पा०. ५. पुरुषा इत्यर्थः.
९२ काव्यमाला। कण्टकिनः कटुकरसान्करीरवदरादिविटपतरुगुल्मान् । उपभुजाना करभी दैवादामोति मधुरमधुजालम् ॥ ६९९ ॥ का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः । को धर्मों निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ७०० ॥ स्वाच्छन्द्यफलं वाल्यं तारुण्यं रुचिरसुरतभोगफलम् । स्थविरत्वमुपशमफलं परहितसंपादनं च जन्मफलम् ॥ ७०१ ॥ अभिदधतीमिदमालीमवगम्य गृहीतयौवनभृतेन । यौवनसुखेन साधै तनयैरेध गृहपरिच्छिन्नाः (१) ॥ ७०२ ॥ अधुनाशु (1) तापपावकमध्यगता पच्यमानसर्वाङ्गी। निष्फलजन्मप्राप्ति वत्युच्छ्रसितमात्रेण ॥ ७०३ ॥ स्थानेषु येषु युप्मत्सङ्गत्या क्रीडितं चिरं धृत्या। तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७०४ ॥ अन्यर्वेप्सेना विसंज्ञा कृतभूपणवस्त्रपत्रसंचारा । दारुमयीव प्रतिमा विदधामि विडम्बना बहीः ॥ ७०५ ॥ यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेपम् । तदपि न पुष्टिर्मुङ्गया अपिवन्त्या मधुरवृन्दमकरन्दम् ॥ ७०६ ॥ आस्तामपरो लोकः क्रीडापेक्षापरो यदि प्रीतिः । व्यसनान्तरे पतन्ती न वारिता परिजनेनापि ॥ ७०७ ॥ किं वा बहुभिः कथितैः संप्रति हि मयापि नियमिता बुद्धिः स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यभावेन ॥ ७० ॥ इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्यस्य । सारमहाभिभूतं परिमृष्टप्राङ्किराकतिस्मरणम् ॥ ७०९ ॥ प्रादुर्भुतरिरसं क्षणे क्षणे जघनदेशगतदृष्टिम् । पक्काम्रमिव विमोक्ष्यसि पूर्ववदावूप्य निःशेषम् ॥ ७१० ॥ १. 'काश्मीरप्रणयिवशा' इति पा०. २. 'सार्धे नयैव गृहम्' इति पा०. ३. 'धृत्वा' इति पा०.४.'वशेन' इति पा०. ५. 'पुष्ट' इति पा०.६. 'क्रीडापेक्षी परा यदि प्रीतः' इति पा०. ५. 'प्रादुर्भूत नितराम्' इति पा०, । कुटनीमतम् । अशरीरामिपदिग्धं चकमितदृष्टिपातमस्खलितम् । प्रक्षिप्य क्षिप्रतरं स्फुरणेन विवर्जितं सुपरिपुष्टम् (१) हस्तद्वयान्तरागतमुपचारय येन सैल्कृत्य ()। भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेपितं मत्स्यम् ॥ ७१ शृणु सुश्रोणि यथास्मिन्कमलेश्वरपादमूलमचर्या । प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥ ७१३ ॥ "आसीच्छ्रीसिंहपटो नाम्ना नृपतिर्महीयसां श्रेष्ठः । तस्यात्मजोऽधितस्थौ निवेशनं देवराजसंबंद्धम् ॥ ७१४ ॥ स कदाचिद्देषमध्वजदिक्षया परिमिताप्तपरिवारः । अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥ ७१५ ॥ पूर्वत्रिभागसंस्थितवृहदम्बरचीरकेशसंयमनः । अल्पतररागसान्द्रो धनकुङ्कुमलिप्तकर्णकेशायः ॥७१६ ॥ सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः । श्रवणनिवेशितकुण्डलटिटिभकमायकंधरामरणः ॥ ७१७ ॥ केयूरस्थानगतसुवर्णभृतमन्नगर्भजतुगुडकः । मणिबन्धनविन्यस्तचलाकुरजातरूपमणिमालः ॥ ७१८ ॥ धृतवेत्रदण्डकूर्चकपरिवेष्टितसासिधेनुखड्गश्च । मृद्धतरपटिकावरणः शब्दोल्वणचुचुराकचरणान्तः ॥ ७१९ गम्भारेश्वरदास्यां ननं किल तर वयस्य को वीरः (१) । प्राप्स्यति सापि दुराशा वर्षत्रितयेन यन्मया प्राप्तम् ॥ ७२ दर्शयति दिशः फलिता अमृतगभस्ति करेण वारयति । सुरतकतिचन्द्रवा निवर्णकवाक्प्रपञ्चेन ॥ ७२१ ॥ त्वामनुयान्तं संप्रति यामि कुरङ्गाक्षि वसुशेषम् । अनुरूपिका भविष्यसि विषमं गुडजिहिका तस्य || ७२२ १. जडम्' इति पा०. २. संकृत्या' इति पा०, ३. निदेशनरदेवसबद्धम्' इति ४. विषमध्वज' इति पा०, ५ 'वरणः' इति पा०. ६. 'प्रथला' इति पा०.७. राडूचरणत्रः' इति पा०. .. 'कोवार.' इति पा०. S. 'तारयति' इति पा०.१०. इति पा०.
काव्यमाला। वञ्चयति जनं योऽसौ हरिनिहतो भूलतामिमानेन । लिखति शुभं दशवद्ध्या स निमज्जति तरलिकावते ॥ ७२३ ॥ गृहासि यत्पटान्ते मम पश्यत एव मन्द मदिराक्षीम् । अत आवयोरवश्यं सा वक्ष्यसि नोक्तमन्तरं भवता ॥ ७२४॥ योऽयं गृहीतभूमिः कुमुदाकों विधृतदण्डकापायः । लोकस्य सा शशाङ्का कृतावसरो विलोकयन्पाचे (6)॥७२५ ॥ कुर्वाणो मौनव्रतसमुत्पादितसकलवैष्णवप्रीतिः । हरिशासन पन्नास्त्रपुरान्तकदर्शनापदेशेन ॥ ७९६ ॥ (अन्तर्विशेषकम) स्त्रैणं पश्यति युक्त्या साकाङ्क्ष वर्जितान्यजनदृष्टिः। कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥ ७२७ ॥ पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् । ते किंचित्सस्टहमाभियुक्तो भवति कीलितध्वानः ॥ ७२८ ॥ न जहाति समासन्नं नोत्सहते पार्श्वगोचरे स्थातुम् । एप मनुष्यो मन्ये निष्प्रतिभः सामिलापश्च ॥ ७२९ ॥ (अन्तर्युगलकम्) ते नीता दिवसाः खलु क्रियते नेम त्वया समं येषु । अधुनाचार्याणीत्वं पाशुपताचार्यसंबन्धात् ॥ ७३० ॥ भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् । लोलिकदासतया च द्रविणकुलं पाशिकां विशति ॥ ७३१ ॥ एवं प्रकामवाभ्यप्रसक्तविटवीटिकासमाकीर्णम् । सेवाचतुरपुरःसरविजनीकतधर्मदेवकुलम् ।। ७३२ ॥ उत्पादितहरपूजो निष्ठरयाष्टीकनियमिते लोके । त्वरितनियोगिस्थापितमध्याप्रसमरतत्वसंपूर्णम् () ॥ ७३३ ॥ अग्रोपविष्टनर्तकर्मशिग्राहप्रकाशयुवतिगणः । श्रेष्ठिप्रमुखवणिग्जनदीकितताम्बूलकुमुदपटवासः ॥ ७३४ ॥ १. "णिहतो भूनता' इति पा०. २. 'वक्षसि' इति पा०. ३. 'दण्डकोषो यः' इति पा०.४. 'प्रथयन्' इति पा०.५. 'नमक्रिया' इति पा०.६. 'यासनया' इति पा०.
९५ कुटनीमतम् । विविधविलेपनखराटित्कचक्रकघरखड्गधारिणाशून्यः (1) पृष्ठत आत्तकपाणैः शिरोभिरक्षश्च विश्वस्तैः ॥ ७३५॥ ताम्बूलकरङ्कभृता संदंशगृहीतवीटिकाग्रहणे । ईषत्टष्ठं कुर्वन्मन्द खटकामुखेन वामेन ॥७३६ ॥ पार्थावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः । प्रच्छश्च कुशलवाता सवणिग्जननर्तकप्रभृतीन् ।।७३७॥(चक्झलकम्) अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरम् । अभितुष्टाव तमित्यं प्रसन्नगम्भीरया वाचा ॥ ७३८ ॥ जय देव परबलान्तक गुरुचरणाराधनैकशुभचित्त । वरवनिताजनमोहन दारिद्यतमःप्रचण्डकरदाम ॥ ७३९॥ रणवीरवंशभूषण गुरुवसुधादेवपूजनप्रह। शरणागताभयप्रद हितवान्धवबन्धुजीवमार्गस्त्वम् ॥ ७४० ॥ ताडक्प्रतापदहनः स तावको व्याप्तगगनदिक्चक्रः । दृष्टो जलावसानो रिपुवनितातिलकशोमासु ॥ ७४१ ॥ एष विशेषः स्पष्टो वश्च त्वत्प्रतापवढेश्च । अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७४२ ॥ श्रीफलमुक्पत्रवतो विग्रहरसिको विमुक्तशस्त्ररतिः । राज्यस्थिति न मुञ्चति इतलक्ष्मीकोऽपि तव विपक्षगणः ॥ ७४३ ॥ ददतो वान्छितमर्थ दाने रक्तस्य तव गृहं त्यक्त्वा । स्त्रीचापलेन कीर्तिनग्रासक्ता गता ककुमः ॥ ७४४ ॥ भवतो भवतो धैर्य तेन हि मिन्नोऽन्तको रिपुः प्रणतः । मुक्तास्त्वयेति बहवो रिपवस्तु प्रेक्षका समरे ॥ ७४५ ॥ अटता धात्रीमखिलामिदमाश्चर्य मया परं दृष्टम् । धनदोऽपि नयननन्दन परिहरसि यदुनसंपर्कम् ॥ ७४६ ॥ १. खटकामुखो हस्तविन्यासविशेषो भरतशास्त्रप्रसिद्ध . २. 'सदनुरक्त' इति सुमा- पितावलिमुद्रितपाठस्तु छन्दोमपित.. ३ शिवादित्यर्थ..
काव्यमाला। इदमपरमद्भुततमं युवतिसहस्रविलुप्यमानस्य । वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोषस्य ॥ ७४७ ॥ अपरं विस्मयजननं धवलत्वं नोपयाति यद्भवतः । ललनालोचनकुवलयदलत्विषा शवलितस्यापि (8) ॥ ७४८ || हृदयेषु कामिनीनामेकोऽनेकेपु वससि येन त्वम् । जनकः कुसुमास्त्रभृतस्तेन त्वं विश्वरूपोऽसि ॥ ७४९ ॥ किं वहसि रथा गर्व प्रियोऽहमिति योषितां नराधीश । कान्ति स्म मुरारि पोडशगोपीसहस्त्राणि ॥ ७१० ॥ कार्पण्येन ययाचे मखसमये यो वलिं हृषीकेशः । न स भवति समो भवता दानकनिषण्णहृदयेन ॥ ७५१ ॥ भूमिभृतामुपरिस्थित उन्नतये सकलजीवलोकस्य । दृष्टः संतापहरो मेघवदासारदानदक्षस्त्वम् ॥ ७५२ ।। बहुमा! भद्रयुतः कुसृतिपरो गोत्रभेदकरणपटुः । गङ्गाजलप्रवाहः पूज्यदिशा केवलं तव समानः ॥ ७५३ ॥ दुर्व्यवहारोत्पत्तिौग्थ्यप्रसरो विवेकिताप्रसहः । एकस्त्वं दोपज्ञः कृतीतो येन कलिकालः ॥ ७५४ ॥ सुगतोऽपि नाजिविमुखो उपध्वजोऽपि न विपादितायुक्तः । उद्यतशस्त्रोऽपि रिपौ कथमसि संधासिको जातः (१) ॥ ७५५ ॥ सन्मणिरर्थकभोगो गुरुतारहः स्थिरात्मता स्थाने (1) । नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७५६ ॥ प्रकृतिलघोयेन कता जघन्यवर्णस्य गौरवापत्तिः । जघनचपला येदार्या स पिङ्गलस्ते कथं तुल्यः ॥ ७६७ ॥ कस्य न जाति त्मा नात्मज्ञानं न मानसे प्रेशमः । भवसि भवसार न त्वं केन द्वयवादिना सहशः ॥ ७५८ ॥ तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुपगुणगणस्योक्तिः । परिभाषा तत्रापि व्याकरणान्नातिरिच्यते तेन ॥ ७१९ ॥ १. 'कथमपि' इति पा०, २. 'अपि चार्यो' इति पा०. ३. 'प्रेम' इति पा०. .
कुटनीमतम् । ९७ निर्व्याजस्तवनोऽपि त्यकाक्षेपोऽपि निरुपमानोऽपि । संज्ञापकजातिगुणैर्नाथ त्वं गामल कुरुपे ॥ ७६० ॥- अन्यैव वर्णनैषा,दूराल्लोकान्तरास्थिता कापि । वासो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ॥ ७६१ ॥ पूजयसि येन गुरुजनममिनन्दसि येन साधुचरितानि । प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषभस्त्वम् ॥ ७६२ ॥ दैन्यमिदं यच्छाधा क्रियते ते रक्षसापि न समस्य । न सबलमकरोद्योषिति भवांस्तु मुझे प्रसह्य रिपुलक्ष्मीम् ॥ ७६३ ॥ लावणिका चाटुवचस्तवनं पैठामहेतुरस्माकम् । उत्पातितिखरूपे यां नीतः सन्तु सो खामी (१) ॥ ७६४ ॥ श्रुत्वोत्तरमवदत्तं बन्दिनमामिनन्द्य साधुवादेन । अस्ति किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥ ७६५ ॥ पुनरपि पठ तयुगलं गीतिकया यत्पुरा पठितम् । कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकारामे ॥ ७६६ ॥ त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे । अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७६७ ॥ एका खण्डनकुपिता विरसान्या गेयमद्वैलक्ष्यात् । काचिन्निकटतरासनमप्राप्य विभर्ति निवेदम् ॥ ७६८ ॥ अन्या कलहान्तरिता नवपरिणयलन्नया परा सहिता । रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥७६९॥(संदानितकम्) अभ्युपपत्त्यवबोधकमस्तकचलनं विधाय विकृतभ्रूः । नृत्याचार्यमवादीदेतस्मिन्कि नु संगीतम् ।। ७७० ।। सोवाचनतवो वणिग्जने नेतरोपत्रपात्राणि । गाथायनं दास्यास्ये तत्र कुतः सौष्ठवं नाट्ये (1) ॥ ७७१ ॥ १. 'रामणिका' इति पा०. .२. 'नयनालोम-' इति पा०. ३. 'यानीन. सनु सी- खानि' इति पा०. ४. 'स्मरातुरोऽपि' इति पा०. ५. 'चलनम्' इति पा०. ६. 'ततो ववणिजौते नेतरो' इति पा०, ५. 'दास्यम्' इति पा०. १३ काव्यमाला। काचिद्वलिना क्रान्ता काचिन्न जहाति कामिनं रुचिरम् । अन्या पानकगोष्ठयां नयति दिनं प्रीतकैः सार्धम् ॥ ७७२ ॥ नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् । शूलापालः कथयति लब्धोत्कोचो रजखलामपराम् ॥ ७७३ ॥ रङ्गगतापि क्षुद्रा शृणोति यत्परिचितं गृहायातम् । उद्दिश्य चापि कार्य व्रजति ततः प्रकृतमुत्सृज्य ॥ ७७४ ॥ आतारुण्योरेदात्कान्ते दृष्टिर्यथा न्यस्ता । सामाजिकमध्यस्था कथमन्या समुपयाति परमागम् ॥ ७७५ ॥ चेतोन्तरा न सत्वं सचे सति चारुता प्रयोगस्य । न भवति सा वेश्यानामल्पापि पुरुपहृतहृदयानाम् (1) ॥ ७७६ ॥ वयमपि देवनिकेतनमनगह गते त्रिदिवलोकम् । अश्रितवन्तो गत्वा तीर्थस्थानानुरोधेन ॥ ७७७ ॥ इह तु कदाचित्किचिबृत्ति निरोधामिशङ्कया निरुत्साहा । रत्नावल्यामेता विदधति करपादविक्षेपम् ।। ७७८ ॥ वत्सेश्वरभूमिकयो यमनुकुरुते नरेश्वर वयस्यः । वासवदत्ताद्वितयप्रयोगमेपा विडम्बयति ॥ ७७९ ॥ श्वसमादिप्वेवं शोभातिशयेन मदनुबन्धेन (1) अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकतौ ॥ ७८० ॥ विविधस्थानकरचनापरिक्रमं गात्रवलनलालित्यम् । काकुविभक्तार्थगिरो रसपुष्टि वासनास्थैर्यम् ॥ ७८१ ॥ सात्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् । मिश्रामिश्रे नाव्ये लयच्युति वर्णयेच्च मञ्जाः ॥ ७८२ ॥ एपाभिधानकीर्तनगुणितस्वशरीरकुसुमशररोषा । सहसोद्भिन्नमनोभवभावदशा सिन्दुवारविवरेण ॥ ७८३ ॥ १. इतः प्रति श्रीहर्षदेवकृतरलावलीनाटिकावर्णनम्. २. 'एपो' इति पा०. ३. 'उच्चसमादित्येव वशाच्छोमा-' इति पा०.
. कुटनीमतम् । ९९ पश्यन्ती वत्सेश्वरमनुकार्याकतिरमन्दपरितोषम् । साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ।। ७८४ ॥ (युगलकम्) वत्सपतिमालिखन्ती कामावस्थाक्रमेण भजमाना । वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥ ७८५ ॥ सहशेऽप्यनुभावगणे करुणरसं विप्रलम्मतो भिन्नम् । दर्शयति निरमिकाड्डितसौख्यं ननु गोचरापन्ना ॥ ७८६ ॥ अस्मिन्दर्शयतीत्यं मञ्जरिकां सामिलापमवलोक्य । पस्पर्श राजपुत्रः कि, मामिति वेत्रदण्डेन ॥ ७८७ ॥ वुड्वाथ तस्य भावं संशमयन्युवतिसंकथाकेलिम् । न्यकुर्वन्वारवधूः सचिवः प्रशशंस वैन्धकीगमनम् ॥ ७८८ ॥ दाररतिः संततये व्याधिप्रशमाय चेटिकालेपः । तत्खलु सुरतं सुरतं कच्छ्रप्राप्यं यदन्यनारीषु ॥ ७८९ ॥ खव्यापारैकमतिः परवित्तार्था न काचिदप्यस्ति । पश्यन्त्यास्त्वामीडशमद्य तु मे मानसं व्यथितम् ॥ ७९० ॥ यदि वेनि तस्य वसति सामर्थ्य यदि भवेत्ततोऽप्यधिकम् । तद्गत्वा दग्धविधि न शुभैः (१) संचूर्णयाम्यधुना ।। ७९१ ॥ वपुरिदमनुपममीढग्यदि विहितं तेन ते धात्रा। अधुनापि रमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥ ७९२ ॥ शैशवमस्तु जरा वा व्याधिर्बाह्येन्द्रियप्रणाशो वा । आकाराज्ञारुण्यं(१) न तु कुपति कदर्थनाग्रहस्तम् ॥ ७९३ ॥ केलिः प्रदहति मैज्ञः शृङ्गारोऽस्थीनि चाटवः प्राणान् । न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ७९४ ॥ कुत आगतासि कस्मिन्वेलामियती स्थिता किमर्थमिति । प्रच्छन्नस्वस्थमना जनयति "रोगी शिरःशूलम् ॥ ७९५ ॥ १. परिपोषम्' इति; 'परिमोषम्' इति च पा०. २ 'सत्त्वम्' इति पा० ३. कि- मसाविति' इति पा०. ४ 'प्रसारयन्' इति पा०. ५. 'वश्वकागमनम्' इति पा०. ६. 'कण्डूप्रशमाय' इति लोकप्रसिद्धः पाठ.. ७. 'ते हि ते' इति पा०. .. 'लज्जाम्' इति पा०. ९. 'कटव' इति पा०.१०. 'गही' इति पा०.
काव्यमाला। १०० . यदि भवति दैवयोगान्चक्षुर्विषयः समुज्ज्वलस्तरुणः। तत्रात्मानं क्रशयति जायां च रटन्गृहस्वामी ॥ ७९६ ।। सविवादे परलोके जनापवादे च जगति बहुवादे । दैवाधीने प्रणये न विदग्धा हारयन्ति तारुण्यम् ॥ ७९७ ।। दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् । तुङ्गमपि पतितकल्पं स्तनशालिनि तत्पयोधरद्वन्द्वम् ।। ७९८ ॥ पर्यतः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् । तुलयति नहि लक्षाशं त्वरितक्षणचौर्यसुरतस्य ॥ ७९९ ।। सहसा संकटवर्त्मन्यवितर्कितसंमुखागतेनापि । अमिलपितेनौद्धृष्टकमनन्यशुभकर्मणा लम्यम् ॥ ८०० ॥ प्रीतिः किल निरतिशया नेदैः (१) परलोकचिन्तकैगदिता । तस्यास्तु जन्मलामो हृदयेप्सितपुरुषसंयोगात् ।। ८०१ ॥ अतटस्थखादुफलग्रहणव्यवसायनिश्चयो येपाम् । ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ।। ८०२॥ किं प्रतिकूला ग्रहगतिरुतपरिणतमात्मदुश्चरितम् । खानुष्ठानव्यसनं किं वा तस्यात्मयोनिहतकस्य ॥ ८०३ ॥ येन वरस्त्री युवा स्तौति शरीरं त्वदनसंस्पृष्टम् ।' . त्वत्पादाक्रान्तभवे स्टहयति ककुमं त्वदीप्सितां नमति ।। ८०४ ॥ ध्यायति युष्मद्रूपं त्वन्नामकमन्त्रमालिकां जपति । एकात्मीकतचेतास्त्वदङ्गतः सौख्यसिद्धिमभिकाङ्कन ॥ ८.५ ॥ (अन्तर्युगलकम्). उत्सृज्य सकलकार्य तिर्यग्रीवं विलोकयन्भवति । कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥ ८०६ ॥ १. 'सकाश' इति पा०, २. उद्धृष्टकमालिङ्गनविशेपो वात्स्यायनादिकामशास्त्रप्रसिद्धः, 3. 'नीतिः' इति पा०. ४. 'ने।' इति पा०. ५. 'गदितः' इति पा०. ६. 'प्रपातस्त्वतटो भृगुः इत्यमरः. ७. 'स युवा' इति पा०. ८. 'उत्सष्ट' इति पा०.९. 'अवति' इति पा०.
-- कुटनीमतम् । १०१ दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्टहया । संदेश एष दत्तः प्राभृतमेतत्तैया दत्तम् ।। ८०७ ॥ शुण्यति सालममाना भवत्वते वेश्मनिर्गमावसरम् । इति चतुरशठस्त्रीमिविलुप्यते त्वदपदेशेन ॥८०८॥ (अन्तयुगलकम्) किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्याः। अनुतिष्ठ यथायुक्तं शोभा शठ जीवरक्षा च ॥ ८०९ ॥ (दूतीवचनं महाकुलकम्) कुलपतनं जनगही नरकगति प्राणितव्यसंदेहम् । अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥ ८१० ॥ स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्व च । यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ।। ८११ ।। दृष्टं यदृष्टव्यं व्यपयातं कौतुकं विदितमन्तः । इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥ ८१२ ॥ सापि च्छिन्नाच्छोटनगृहीतमुक्का विलोकयन्त्याशाः । विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्यम् ॥ ८१३ ॥ नवचारित्रभ्रंशा सुरचितकुलटोदितेषु नो निपुणा । पृष्टा व गतासि त्वं न क्वचिदिति संभ्रमाते ॥ ८१४ ॥ मितदोषे बहुरोषाः पुरुषा अपि चपलकौतुकमायाः । त्वं च ग्रहेण लग्ना कार्यविमूदात्र तिष्ठामि ॥ ८१५ ॥ इति दोलायितहृदया स्थिरीकता न्यस्तकर्मणा दृष्टाभिशङ्कमाना पदे पदे चलति पणेऽपि ॥ ८१६ ॥ अनुदिक्षु विक्षिपन्ती पदे पदे चकिततरलिते नेत्रे । प्राप्ता संकेतभुवं शतगुणितमनोरथारष्टा ॥ ८१७ ॥ भयशृङ्गारव्रीडामिश्रीभूतानुभावसंदेहम् । जनयन्ती लोलांशुकधृतकृतिकष्टा सकुचनाभिः ॥ ८१८ ॥ १. 'त्या' इति पा०. २. 'तस्य' इति पा०. ३. 'बन्नोना शश्वत्' इति पा०. ४. 'सर्वस्वम्' इति पा०. ५. 'चरणा' इति पा०. ६. 'जनयंलोलांशुक-' इति पा०, दूत्या।
१०२ काव्यमाला। नीवीश्छथनारम्भ निरुन्धती तं न यामि यामीति । निहितास्फुटामिधानः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८१९ ॥. नयतीवालेविनयं (1) असमाने वार्धसर्वगात्राणि । संश्चिण्यतेऽन्ययोपा तिक्तं तस्यामृतं पुरतः ॥ ८२०॥ (नायिकावचनमहाकुलकम) न कृतं तव रहसि पुरो वा तो वा विकृतकैम्पया वाचा (8)। गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥ ८२१ ॥ उपधानीकत्य मुजावन्योन्यं निर्विशङ्कमावाभ्याम् । संवैरितोरु न सुप्तं शिथिलाझं रतिविमर्दखिन्नाभ्याम् ॥ २२ ॥ आत्मगृहादानीतं प्रच्छाद्य स्वादुभोजनं विजने । स्वकरेण मया दत्तं निर्वतहृदयेन नाशितं भवता ॥ ८२३ ॥ न कृता चरित्ररक्षा न च भुक्तं मच्छरीरपर्यन्तम् । दृष्टादृष्टभ्रष्टा व यामि किं वा करोमि दुर्जाता ॥ ८२४ ॥ अवगुण्ठननयविरति() स्वैरालापं च मन्दसंचारम् । संप्रति मम पापायाः करपिहितमुखा हसन्ति तत्वज्ञाः ॥२५॥ यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् । ता वारयन्ति मत्तः कुसंगति तन्नियन्तारः ॥ ८२६ ॥ धिग्वादान्परिजनतः सहमाना मुहुरथाप्यधोवदना । तिष्ठामि निरभिमाना निजनिर्मितदोपदौर्बल्यात् ॥ ८२७ ॥ सद्भिविधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् । हृदयेन यमाना मूढा सौदामि शृण्वन्ती ॥ ८२८ ॥ आसन्न उपविशन्ती मां दाक्षिण्यान्नियन्तुमसमर्थाः । अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति मुखानाः ॥ ८२९ ॥ प्रकटीकतास्त्वयैवं क्षणमात्रममुश्चता गृहोपान्तम् । अस्मान्सुदृशां मध्ये प्रेमस्निग्धाननुखरता ॥ ८३०॥ १. 'निहता' इति पा०. २. 'कण्ठया' इति पा०. ३. 'संछादितोर' इति पा०, ४. न अशितं न भुक्तमित्यर्थ..
कुटनीमतम् । १०३ परगृहविनाशपिशुनाः सुभगमन्यामिरूपकृतदर्पाः । ककलासतुल्यभागा भवन्ति युष्मद्विधा एव ॥ ८३१ ॥ अनमीष्टव्यवहारप्रभवरुषा पीडिताक्षरा इत्यम् । सोपालम्भा वचनं (1) धन्याः शृण्वन्ति बन्धकीवाचः॥८३२॥(कुलकम्) परतरुणीसंमारस्नेहार्पितनयनमागदृष्टस्य । वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणकल्पाः ॥ ८३३ ॥ उपनयति रतिमहोत्सवमाराधितदेवताविशेषाणाम् । वचनमपि प्रेमाई स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥ ८३४ ॥ का गणना विषयवशे पुंसि वराके वराङ्गनास्टहया । व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥ ८३५ ॥ शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः। परदाररसारष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८३६ ॥ अप्सरसः कि न वशा वैदग्ध्यवतां च किं न धौरेयः । येन चकारासक्ति गोविन्दो गोपदारेषु ॥ ८३७ ॥ त्रैलोक्यगता वेश्याः खाधीना यातुधानस्य । तदपि जहार कलत्रं दशरथतनयस्य रामभद्रस्य ॥ ३८ ॥ अथ मचर्या जननी निनपक्षसमर्थने कृतोत्साहा । आक्षेप्तुमाचचक्षे नृपमुतसचिवाश्रितां वाचम् ॥ ८३९ ॥ घटयुवतिषु प्रगल्भः सागरिकादशनहृतपुंस्त्वः । ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विषोऽवश्यम् ॥८४०|| नार्दयति मनः पुंसामवगाहितमीनकेतुना स्त्रीणाम् । नखदशनक्षतहीनं जीवत्पतिवन्धकीसुरतम् ॥ ८४१ ॥ स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् । सुरतोपक्रम ईडग्ग्रामीणकतरुणमिथुनानाम् ॥ ८४२ ॥ बहलोशीरविलुप्तस्थितजूटककरुणमलिकामाल्यः । पामरनार्या दृष्टः स्मरोऽहमिति मन्यते विटग्राम्यः ॥ ८४३ ॥ १. रामदेवस्य' इति पा०.
C १०१ काव्यमाला। गृहकर्मकतायासां प्रस्विन्नां सलिलकार्यनिर्याताम् । उपपतिरुपैति हर्षान्निशागमे पामरी प्राप्य ॥ ८४४ ॥ कूपक्षिप्तघटाया नास्तित्काष्ठनिहितचरणायाः । वलितग्रीवं वीक्षितमुन्नमति ग्रामवासिनो यूनः ॥ ८१५ ॥ लनोऽसि यत्र गात्रे कथमपि देवेन देवयात्रायाम् । अद्यापि तन्न मुश्चति पुलकोद्गमकण्टकं तस्याः ॥ ८४६ ॥ उच्चेतुं कार्पासं प्रविष्टया शून्यवाटिकागहनम् । टंकारितेन संज्ञा कता तया त्वं च वेत्सि नो मूर्खः ॥ ८४७ ॥ आलिङ्गितमुसलायास्त्वय्येव निविष्टचेतसस्तस्याः । आवृत्त्या भ्रमति पुरो जातः खलु शालिकण्डने विघ्नः ॥ ८॥ त्वां लोष्टमाक्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् । गृहकर्तव्यं त्यक्त्वा पश्यति सा द्वाररन्ध्रेण ॥ ८४९ ॥ त्वयि मार्गनिकटवर्तिन्यविचेतितखेदया तया सुभग । प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥ ८५० ॥ इति चतुरदूतिकोदित उपचितसौभाग्यगर्वपूर्णस्य । मिसहस्रोल्लसितं भवति मनो ग्राम्यखिगस्य ॥ ११ ॥ विनिर्वाय तत्प्रवर्तितवाच्यविकास नतोत्तमाङ्गेन । श्रीसिंहमटस्य मुतः समुवाच वचोऽथ नर्तकाचार्यम् ॥ ८५२ ।। नायकभूमौ भवतः कुशीलवाः कोहलादयो मुनयः । अप्सरसः स्त्रीलास्ये गान्धवै कमलजन्मनस्तनयः ।। ८५३ ॥ सुपिरखरप्रयोगे प्रतिपादनपण्डितो मतङ्गमुनिः। यदि रजयति भवतो भूमि स्टशतां कुतः शक्तिः ॥ ८५४ ॥ अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनों भवति । आश्रितनर्तकवृत्तेविशेषतो विजितरङ्गस्य ॥ ८५९ ॥ विज्ञापयाम्यतस्त्वां नरेन्द्रनाट्यप्रजासदृशम् । अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८५६ ॥ १. 'खण्डने इति पा०. २. 'स्पृशतः' इति पा०, ३. 'जीविताम्' इति पा.. .
कुटनीमतम् । १०५ इति कथयन्नरभर्तुः पुत्रेण स चोदितो भुवोन्नतया । रचिते सकलातोये नियोजयामास स प्रैकतम् ॥ ८५७ ॥ वांशिकदत्तकस्थानकतद्भावितमिन्नपञ्चमे सम्यक् । प्रावेशिक्यवसाने द्विपदीग्रहणान्तरे विशति सूत्रीम् ॥ ८५८ ॥ उत्साहभावयुक्तः सामाजिकहृदयरबनं कुर्वन् । कविनैपुणवत्सेश्वरचरितस्य विधेयदाक्ष्यसामग्र्या ॥ ८५९ ॥ अष्टकलापरिमाणां ध्रुवां च परिकल्प्य तानलययुक्ताम् । आहूय नटी कृत्वा तया समं स्वगृहकार्यसंलापम् ॥ ८६० ॥ सूचितपात्रागमनः किंचिद्गत्वा पदानि निपुणानि । निश्चक्राम गृहिण्या सार्ध निःसरणगीतेन ॥ ८६१ ॥ आश्रित्य पदोद्धातं प्रविवेश तसः सविस्मयोऽमात्यः । दुर्घटघटनेन क्षितिनाथस्योदयं नमुद्दिश्य () ॥ ८६२ ॥ प्रासादमारुहन्त कुसुमायुधपर्वचर्चरीं द्रष्टुम् । निर्दिश्य वत्सराजं समनन्तरकार्यसिद्धये निरगात् ।। ८६३ ॥ विस्मयति स्म नरेन्द्रः प्रासादगतः समं वयस्येन । अवलोकयन्प्रगाढं समुदितचेताः स्वसैन्यसंपन्या ॥ ८६४ ॥ विस्मयभावाकष्टः प्रोत्फुल्लविलोचने ततो विसृजन् । नृत्यति पौरजनौघे प्रोवाच वयस्य पश्येति ॥ ८६५ ॥ तुल्यशिशुतरुणई समगुप्तागुप्तयुवतिसविचेष्टम् । अगणितवाच्यावाच्यं क्रीडन्ति जनाः प्रवृद्धहर्षेण ॥ ८६६ ॥ पिष्टातकपिञ्जरितं रुचिरोच्छ्रितविविधकुसुमनि!हम् । गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपटवासम् ॥ ८६७ ॥ तूर्यरवच्यामिश्रितकरतालरनुजनं प्रनृत्यन्तम् । मुहुरुपवत्सवलनं संदर्शितदा_सौष्ठवं सुचिरम् (१) ॥ ८६८ ॥ १. 'प्राभृतम्' इति पा०. २. इत. प्रभृति श्रीहर्षदेवकृतरलावलौनाटिकानुरुल- नाट्यवर्णनम्. ३ अमात्यो यौगन्धरायण इत्यर्थः : १४ . -- काव्यमाला। अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषात् । इति गायन्ती रभसादालिङ्गति मदक्शात्तरुणी ॥ ८६९ ॥ क्रीडन्त्या श्रमरहितं शृङ्गकसलिलेन ताडितस्तरुणः । सीमन्तिन्या गायति हष्टात्मा सुभगमात्मानम् ।। ८७० ।। भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनाद । • अग्लानोक्तिजलौघो निर्यातः केन वार्यते प्रसरन् ॥ ८७१ ॥ तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् । आर्यानार्यावगमं मदनावृतिजापिका कुरुते ॥ ८७२ ।। अथ सहचरनिर्दिष्टे मदंगरणघटितानिनयना (6)। वासवदत्ताप्रहिते नृत्यन्त्यो प्रविशतश्चेव्यौ । ८७३ ॥ दर्शितसरोजवर्तनगात्रामिनये शरेक्षिनेतन्ये (6)। निदधाने वीरदशामायुधमात्रां समाश्रित्य ।। ८७१ ।। चलितनयनवृत्तिः कौतुकहतमानसो नराधिपतिः । निजगाद निर्भरमहो क्रीडितमनयोविलासिन्योः ॥ ८७५ ॥ करपीडनोपमर्दव्यतिकरसमकदर्थ्यमानोऽपि । स्तनमण्डले स्थितोऽहं त्वं पुनराकण्य कुत्रचित्क्षिप्तः(1) ॥८७६॥ अधुना त्वरयसि मामिति कोपादिव वाणवारममिरामाम् । वर्णचित्रपदन्यासर्वदन्त्याहन्तिहार उच्छलितः ॥ ८७७ ॥ चूतलताधम्मिलनानच्युतशेखरेन्दवे वाध्यम् । अधृतपतनियुहं न च समदनिकां वाणीम् ॥ ८७८ ॥ स्तनमारावनतस्य प्रतनोर्मध्यस्य नास्ति तेऽपेक्षा । इत्यमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥ ८७९ ॥ वहति स्म यानि तवं सपाणिकृच्छ्रेण मन्दसंचारम् । कलयति तन्नूनमयं जयति मनोजन्मनो महिमा ।। ८८० ॥ . १. अतीवाशुद्धमेतत्सर्वम्, पुस्तकद्वये समानं च.
कुटनीमतम् । १०७ उदयनसमनुज्ञातो नयमन्तन वसन्तकोऽपि मुदितात्मा। दास्योन्नयाभिरामं चर्चरिकाधैन तन्मध्ये ॥ ८८१ ॥ धीरोद्धतललितपरैः क्रीडित्वा ते चिराय नरनाथम् । प्रद्योतस्य सुतायाः संदेशमथोचतुः समुपगम्य ॥ ८८२ ॥ आदिशति देव देवीत्यधोके सलज्जमन्योन्यम् । अवलोक्य मुखं नहि नहि विज्ञापयति प्रणम्य विनयेन ॥ ८८३॥ मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् । पृथिवीमण्डलमण्डन समीहते मे मनोरत्तिः ।। ८८४ ॥ प्रियरतिमोगो मदनो दयितवसन्तो मदसिवसनाम् । भावेन भवान्सृष्टो लोकस्थित्या नु कुसुमशरपाणिः ॥ ८८५ ॥ इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रोन्वा । ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ।। ८८६ ॥ अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेव्या । अविदितरत्नावल्या पूजोदितवस्तुहस्तयानुगता ॥ ८८७ ॥ अथ बुवा सागरिकां प्रमादतः परिजनस्य निन्दित्वा । काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥ ८ ॥ प्रेषय कन्यामनामवरोधं त्वं गृहाण कुसुमादि । यावन्न भवति विषये वीक्षणयोभूमिनाथस्य ॥ ८८९ ॥ उपगम्य ततश्चेटी तामभ्यवदत्किमर्थमायाता। मेधाविनीं विमुच्य वन तस्मिन्मा विलम्बख ।। ८९० ॥ विहिते देव्यादेशे मनसीदं संविधाय सा तस्थौ । विहगी सुसंगताया हस्ते दत्ता मनोभवसपर्याम् ।। ८९१ ॥ १. 'कृत्वा अअलिमद्याविष्टे' इति पा०, २. मेधाविनी नाम काचित्सारिका रला- वल्या प्रसिद्धा.
१०८ काव्यमाला। अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन । तातान्तःपुरिकामियथार्च्यते किं तयैतदुत नेति ॥ ८९२ ॥ पिण्डीकतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् । समुपेत्य वत्सराजं जगाद सा जयति देव इति ॥ ८९३ ॥ परिभुक्तमपि नवत्वं शृङ्गाररसं मदनपर्वणा नीतम् । भजमानो भजमानां स्वागतवचसाभिनन्ध तामूचे ॥ ८९४ ॥ भर्गविलोचनपावकदाहात्यधिको मनोमवो मन्ये । प्राप्स्यति तव करसंगमसुखविरहसमुत्थितां पीडाम् ।। ८९५ ॥ सा मन्मथमभ्यर्य क्षितिनाथं तदनु साधिकं तस्याम् । परमां मुदं वहन्त्यां विग्रहवन्मनसि कन्यायाम् ।। ८९६ ॥ शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ । तारमधुरस्फुटार्थ ननाचार्यः पपाठ नेपथ्ये ॥ ८९७ ॥ नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव । सायंतन आस्थाने क्षितिपतयः सन्त्युदयनं द्रष्टम् ।। ८९८ ।। उच्चारितेऽन्यनाम्नि त्रिदशपतौ तत्क्षणाच्युतपदायाम् । उत्पन्नविस्मयपैरा मानं दधे नरभर्तुरात्मजा हृदये ॥ ८९९ ॥ अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मिन् । हन्त परप्रेपणमपि न निष्फलं सांप्रतं जातम् ॥ ९०० ॥ यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि । इति कथमपि नायकतो हत्वा दृशमुत्ससर्न रङ्गभुवम् ॥ ९०१॥ कंदर्पमहमहोत्सवहृतहृदयविधारितोऽस्मामिः । संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥ ९०२ ॥ उदयनगान्तरितमियं प्राची सूचयति दिड् निशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९०३ ।। १. 'आसण्डलम्' इति पा०. २. 'परतिमि' इति पा०. ३. 'अथ उदयनः' इति पा०. ४. रत्नावलीस्थितवेयमार्या गृहीता.
कुटनीमतम् । १०९ देवि त्वन्मुखपद्म पद्मान्विदधाति पश्य विच्छायान् । अलयोऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥ ९०४ ॥ एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा । निष्कामपादुकया विनिर्ययौ नायकोऽपि सह सर्वैः ॥ ९०५ ॥ अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते । प्रेक्षणकगुणग्रहणं नृपसूनः प्रववृते कर्तुम् ॥ ९०६ ॥ नाट्यप्रयोगतत्वे मतयो न विशन्ति मादृशां प्रायः । वाहनयानपदातिप्रामादिककार्यदत्तहृदयानाम् ॥ ९०७ ।। आस्ते ह्यालिखितोऽयं गृहाण सर्व प्रदेशबहुमूमिम् । वासय तत्रावासं भवसि ततन्नकुरो(१) दिवसः ॥९०८ ॥ कृतजीवनसंस्थो हि त्वमपि किमर्थं करोपि विज्ञप्तिम् । अर्पय वा यदि नेच्छसि कुरु स्थिति हस्तदानेन ॥ ९०९॥ न च पत्तयो न सप्तिनं च पोण्यजनस्तथाप्यसंतुष्टः । लममानेऽपि स दायं चिरंतनत्वाभिमानेन ॥ ९१०॥ विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः । तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्य प्रतीहारात् ॥ ९११ ॥ यूयं कुटुम्बमध्ये व गम्यते गोत्रपुत्रसामान्याः । आदाय संविभागं गृह एव स्थीयतां यथा सौख्यम् ।। ९१२ ॥ अभ्यन्तरव्ययार्थेन विलम्बो यो महांस्तुङ्गः (१)। अत्रापि न न वचो मे नो जाने कि करोमीति ।। ९१३ ॥ प्रथमं चरमविकल्पितमन्मपि कलजीवनप्रदेशस्थम् । अद्यापि ते न यातं नियोगितानां मदन्तरताम् ॥ ९१४ ॥ एवं प्रायैरनुदिनलामोदयमोहकारिभिर्वचनैः । फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ।। ९१५ ॥ १. "पिदधाति' इति पा०. २ अनैव रत्नावलीप्रयमाङ्कसमाप्तिः. ३. 'मति न तस्य कुरो' इति पा०. ४. इत. प्रभृत्यशुद्धमस्ति पुस्तकद्वयेऽपि, ११० काव्यमाला। एतद्विषमं नैपुणमत्र तु भूमीमृतां समाश्रित्य । मुखरतया कथयामो जडमिव सामाजिकोचितं किंचित् ॥९१६॥ समाश्रयः स महात्मा सशरीरस्त्रिः प्रमाणपरिमाणे । यत्नाद्विलोक्य धृष्टो व्यस्तसमस्तैस्त्रिनिर्विनिष्पायः ॥ ९१७ ॥ स्वर्गसाराधिक्यक्रियदुपरखकरञ्जितो विविधवृत्तिः । आदाय त्वममयैर्भावः संपादितः प्रयोगोऽयम् ।। ९१८ ।। गम्भीरमधुरशब्दं परिबृहितगीतविविधमङ्गयुतम् । दर्शयते वैचित्र्यं तद्रयवाहकस्तलकालः ॥ ९१९ ॥ अविभक्ततद्यानम्य काकुपरस्यास्फुटापदम् । अभिरामाविश्रान्तं पठितं निरवद्यभाषासु ॥ ९२० ॥ नियमितदीपनगमनं द्रुतमध्यविलम्बि तानलययुक्तम् । तमवखगेययनं तत्साम्यं सादिभिर्विहितम् ॥ ९२१ ॥ प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामच्या । अभिनयकरणे नीता सिद्धिद्वयसंपदाचारम् ॥ ९२२ ॥ नवसुरतैरुपदिष्टं क्षितिपतिजनुषावबोधकाराणाम् । ता अपि नाव्ये सर्वाः शोभासंदोहसादृशं नापुः ॥ ९२३ ॥ आश्लिष्टसंधिवन्धं सत्पात्रसुवर्णयोजितं सुतराम् । निपुणपरीक्षकदृष्टं राजति रत्नावलीरतम् ।। ९२४ ॥ एवंविधगुणकयनं यसदादिविमावितार्था तं पतये । पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९२५ ॥ संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभावनामिरतिः । आच्छोटनामियोगः कुलविद्या राजपुत्राणाम् ॥ ९२६ ।। एतद्वस्तुनि नाते स्तुतिमाजां नृपतिनन्दनो रमसात् । आरभ्य कथाच्छेदकमाखेटं वा....... ॥ ९२७॥ १. एतावानेव, अन्यः प्राप्तः शृङ्गारतिलकम् । २११ श्रीरुद्रभट्टकृतं शृङ्गारतिलकम् । प्रथमः परिच्छेदः। शृङ्गारी गिरिजानने सकरुणो रसां प्रवीरः स्मरे वीभत्सोऽस्थिभिरुत्फणी च भयकन्मूर्खाद्भुतस्तुङ्गया। रौद्रो देशविमर्दने च इसकन्नमः प्रशान्तश्विरा- दित्यं सर्वरसाश्रयः पशुपविर्भूयात्सवां भूतये ॥ १ ॥ आख्यातनामरचनाचतुरस्रसंधि सद्वागलंकृतिगुणं सरसं मुवृत्तम् । आसेदुषामपि दिवं कविपुंगवानां तिष्ठसखण्डमिह काव्यमयं शरीरम् ॥ २॥ काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः कश्चिद्वणो भवति यद्यपि संपतीह । १. अयं रुद्रमः पञ्चतन्त्रसग्रहकर्तुर्विष्णुशर्मण. प्राचीन . यतः, अत्रत्यप्रथमपरिच्छे- दस्था 'साथै मनोरथशतैस्तव धूर्त कान्ता' इत्यादिश्लोकः पञ्चतन्त्रस्य लब्धप्रणाशनानि चतुर्थे तन्त्रे वर्तते. विष्णुशर्मापि खिस्तसवत्सरीयाष्टमशतकमध्यमागतो न प्राचीन:. यत , कुटनीमतप्रन्थस्य 'पर्यः स्वास्तरणः' इत्याद्यार्या पश्चतन्त्रस्य प्रथमे तन्ने दृश्यते. शृङ्गारतिलककर्ता रुद्रट इति तु बहूनां भ्रमः, केषुचित्पुस्तकेष्वपि तथैव लिखितमस्ति. किं तु ग्रन्थसमाप्तौ 'त्रिपुरवघादेव गतामुल्लासमुमा समस्तदेवनताम् । शृङ्गारतिलकवि- धिना पुनरपि रुद्रः प्रसाधयति॥' इत्येतस्यामार्यायां शृङ्गारतिलककर्ता रुद्र., न तु रुद्रटः, इति स्फुटमेव. केषुचित्पुस्तकेष्वियमार्या न वर्तते. अस्मलव्धेष्वतिप्राचीनपुस्तकेच. स्त्येव. शृङ्गारतिलकटीकाकर्ता गोपालमोऽपि टीकाप्रारम्भे 'आशीरूप मद्दलं निव- भाति रुद्रकविः-शृङ्गारीति ।' इति वदति. तस्मादुद् एव भृङ्गारतिलककर्तेति शेयम्. 'त्रिपुरवधादेव गताम्' इत्याद्यार्यया 'त्रिपुरवध नामकः कोऽपि प्रन्यो रुद्रभटेन कृत इत्यपि सूच्यते. शाईघरपद्धति-सूक्तिमुक्तावलि-साहित्यदर्पणादिष्वपि भृङ्गारतिलकलोका लभ्यन्ते. गोपालमकृता रसतरङ्गिण्याख्या शृङ्गारतिलकस्य व्याख्यापि वर्तते. सा चास्मामिः संपूर्णा न लब्धा. २. 'दक्षविमर्दनेन'. ३. 'सर्वरसात्मकः. ४. 'सुरसम्'. ५. 'सप्रति यद्यपीह'.
११२ काव्यमाला। . कुर्या तथापि सुजनार्थमिदं यतः किं यकाभयेन परिधानविमोक्षणं स्यात् ॥ ३ ॥ सानन्दप्रमदाकटाक्षविशिखैर्येपां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैनिःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं तेपामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ४ ॥ प्रायो नाट्यं प्रति प्रोक्ता भरतायै रसस्थितिः । यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥५॥ यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागानो वाणी भाति नीरसा ॥ ६ ॥ सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी स्खे हर्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवम् । दुष्पापः स तु.कोऽपि कोविदपविर्यद्वाग्रसग्राहिणां पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥७॥ तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरम् । अन्यथा शास्त्रविद्गोष्ठयां तत्स्यादुद्वेगदायकम् ॥ ८॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः। वीभत्साहुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ ९ ॥ रति सश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमा स्थायिभावाः प्रकीर्तिताः॥१०॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः। आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥११॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १२ ॥ १. 'सानन्दम्. २. 'नाध्ये'.
१ परिच्छेदः] गृङ्गारतिलकम् । ११३ सुप्तं प्रवोधोऽमर्षश्चाप्येवहित्था तथोग्रता। मतियाधिस्तथोन्मादस्तथा मरणमेव च ।। १३ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिम् ।। १४ ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ १५ ॥ भावा एवातिसंपन्नाः प्रयान्ति रसताममी। यथा द्रव्याणि भिन्नानि मधुरादिरसात्मता ॥ १६ ॥ संभवन्ति यथा वृक्ष पुष्पपत्रफलादयः । तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥ १७ ॥ पायो नैकरसं काव्यं किंचिदत्रोपलभ्यते । वाहुल्येन भवेद्यस्तु स तदृत्त्या निगद्यते ॥ १८ ॥ कैशिक्यारभटी चैव सात्वती भारती तथा। चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ १९ ॥ धर्मादर्थोऽर्थतः कामः कामात्मुखफलोदयः । साधीयानेष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥ २० ॥ चेष्टा भवति पूनार्योर्या रत्युत्थाविरक्तयोः । संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ २१ ॥ संयुक्तयोश्च संयोगो विप्रलम्भो वियुक्तयोः। प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥ २२ ॥ 'मदनकुञ्जरकुम्भतटोपमे स्तनयुगे परितः स्फुरिताङ्गुलिम् । सकरजक्षतवाममपि प्रिया दयितपाणिममन्यत दक्षिणम् ॥' १. स्वप्नावबोधौ'; 'सुप्तं विबोध'. २. 'अवहित्यम्.' ३. अस्माच्लोकादने केषुचि- न्मूलपुस्तकेष्वन्यच्छोकद्वय दृश्यते-'विमावेनाहितो योऽर्थस्त्वनुभावश्च गम्यते । वाग- इसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ बहवोऽर्था विभाव्यन्ते वागगामिनयाश्रिताः। अनेन यस्मात्तदयं विभाव इति संज्ञित. ॥ ४. 'कौशिकी' इति केचित्पुस्तकेषु पाठः प्रामादिक एव. ५. 'सूचिकाः'. ६. 'मत'. ५. 'कुचयुगे'. १५ 1 ११९ काव्यमाला। 'संतप्तः स्मरसंनिवेशविवशैः श्वासैर्मुहः पञ्चमो- द्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः । एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागिता संप्रत्युद्धतवद्विवारिविपमं मन्ये व्रतं सेवते ॥ 'कान्ते विचित्रसुरते क्रमवद्धरागे संकेतकेऽपि मृगशावडशा रसेन । तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुकूजितलावकोषैः ।।' 'किंचिहक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन- व्यायामाञ्चितकञ्चुकं मृगहशस्तस्यास्तदालोकितम् । वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथा हंहो मानस किं स्मरस्यमिमताः सिद्धचन्ति पुण्यैः क्रियाः ।। सागी कुलीनः कुशलो रतेषु कल्पः कलावितरुणो धनाढ्यः । भन्यः क्षमावान्मुभगोऽभिमानी स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥ २३ ॥ तस्यानुकूलदक्षिणशठधृष्टा ईत्थमत्र चत्वारः। भेदाः क्रिययोच्यन्ते तदुदाहृतयश्च रमणीयाः ।। २४ ॥ अतिरक्ततया नार्या सदा सक्तपराङ्गनः। सीतायां रामवत्सोऽयमनुकूलः स्मृतो यथा ॥:२५ ॥ 'अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । १. 'अनुशन्दित-'. २. 'स्तनोद्वर्तन-'. ३. 'मुग्धमधुराः', 'भावमधुराः'. ४. एतच्छोकचतुष्टयं क्रमेण संभोग-विप्रलम्भ-प्रच्छन्नसंमोग-प्रच्छन्नविप्रलम्भानामुदाह- रणम्. ५. 'भव्यः क्षमी स्थिररुचिः सुमगोऽभिमानी स्त्रीणां मतः शुभवचा इह नायकः स्गत् । अयं पाठः केचित्पुस्तके[पलभ्यमानोऽपि पूर्वार्घस्य मिन्नवृत्तत्वादुपेक्ष्य.. ६. 'इत्यमुत्र'. ७. 'अनुकूलतया'.
. १ परिच्छेदः] शृङ्गारतिलकम् । ११५ किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निःक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ यो गौरवं भयं प्रेम सद्भाव पूर्वयोपिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥ २६ ॥ 'सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्म मधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणी चे भवती तं वक्ति दोपाविलं किं स्यादित्यमहर्निशं सखि मनो दोलायते चिन्तया ।' पियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥ २७ ॥ 'सहजतरले आवां तावद्बहुश्रुतिशालिनी पुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि । प्रणयिनि पुनर्युक्त रन्तुं न वेति बतावयो- ध्रुवमुपगते की प्रष्टुं कुरङ्गशो दृशौ ।' अपि च । 'कोपात्किचिर्नुपानतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बड्वा दृढम् । भूयो यास्यसि तगृहानिति मुहुः कण्ठाघरुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताब्यते ॥ निशङ्कः कृतदोषोऽपि विलक्षस्तजितोऽपि नो। मिथ्यावाग्दृष्टदोषोऽपि धृष्टौ सौ कथितो यथा ॥ २८ ॥ १. 'दुःखितम्'. २ 'इति'; 'इव'. ३. 'मुक्तापरायचेष्टस्तु शठोऽय कथितो यया'. ४. 'छावा'. ५. केषुचित्पुस्तकेषु नास्ति. ६ 'उपागतोऽपि'. ७. 'कोपाकोमल. लोलबाहुलतिकापाशेन पद्धा दृढं नीत्वा मोहनमन्दिर दयितया साय सखीना पुरः। भूयोऽप्येवमिति स्खलन्मृदुगिरा ससूच्य दुश्चेष्टित धन्यो हन्यत एव निहुतिपरः प्रेयान्र- दत्या हसन् ॥' इत्यस्यामरुश्लोकस्य च्छायाभूतोऽय श्लोक.. 'ताजतो हसन् 'तजितोऽपि सनू'. 5. 'अयम्'.
११६ काव्यमाला। 'जल्पन्त्याः परुप रुपा मम बलाचुम्बत्यसावाननं गृह्णात्याशु करं करेण बहुशः संताज्यमानोऽपि सन् । आलीनां पुरतो दधाति शिरसा पादप्रहारान्नतो नो जाने सखि सांप्रतं प्रणयिने कुप्यामि तस्मै कथम् ॥' अपि च । . 'धिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यता यस्याः पादतलाहात तव हृदि व्याख्यात्यसौ यावकः । इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जना मिथ्यावादविचक्षणः किमपरं कुर्यो वयस्ये तदा।' गूढमत्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः। स्थानमसचिवस्तस्य कुपिवस्त्रीप्रसादकः ॥ २९ ॥ पीठमर्दो विटश्चेति विदूपक इति त्रिधा । स भवेत्लैथमस्तत्र नायिकानायकानुगः॥३०॥ एकविद्यो विटः प्रोक्तः क्रीडापायो विदूपकः । खवपुर्वेपभापाभिर्हास्यकारी च नर्मवित् ॥ ३१ ॥ एपा प्रवन्धविपयो व्यवहारः प्रायशो भवेत्लचुरः । प्रत्येकमुदाहृतयस्तथापि काश्चिनिगद्यन्ते ॥ ३२ ॥ 'विमुश्चामुं मानं सफलय वचः साधु सुहृदां मुधा संतापेन ग्लपयसि किमङ्गं स्मरभुवा । प्रियं पादप्रान्तप्रणतमधुना मानय भृशं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ 'प्रणयिनि भृशं तस्मिन्मानं मनखिनि मा कृथाः किमपरमितो युक्तायुक्तैर्विना ह्यमुना तव । १. पीठमर्दः. २. 'नायको नायिकानुगः. ३. 'कर्मवित्'. - ४. 'स्वकर्मविषये', ५. 'प्रसादे वर्तस्व प्रकटय मुदं सत्यज रुप प्रिये शुध्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधान सौख्यानां क्षणममिमुखं स्थापय मुखं नमुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः।।' अतिप्राचीनस्य कश्मीरदेशोद्भूतचन्दककवेरय श्लोकः. - . १ . १ परिच्छेदः] शृङ्गारतिलकम् । ११७ अयमपि भवेत्संप्रत्येव क्षयानलसंनिमः सरसबिसिनीकन्दच्छेदच्छविमंगलान्छनः ॥ 'दूरात्कन्दलितैर्हदि प्रविततैः कण्ठे लुठगिहठा- द्ववे संकटनासिकातरलिनिर्यद्भिरत्यूष्ममिः । निःश्वासैः प्रथुमन्मथोत्थदवथुर्व्यक्तं तवावेदितो मिथ्यालम्बितसौष्ठवेन किमतः कोपेन कान्तं प्रति ॥ स्वकीया परकीया'च सामान्यवनिता तथा । कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः॥ ३३ ॥ पौराचाररता साध्वी क्षमार्जवविभूषिता । मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥ ३४ ॥ मुग्धा नववधूस्तत्र नवयौवनभूषिता । नवानगरहस्यापि लज्जापायरतियथा ॥ ३५ ॥ 'गतं कर्णाम्यणे प्रसरति तथाप्यक्षियुगलं कुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्मनरुची । नितम्बप्राग्मारो गुरुरपि गुरुत्वं मृगयते कथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगशः ॥' 'यथा रोमाञ्चोऽयं स्तनमुवि लसत्स्वेदकणिको यथा दृष्टिस्तिर्यस्पतति सहसा संकुचति च । तथा शेङ्केऽमुष्याः प्रणयिनि दराखादितरसं न मध्यस्थं चेतः प्रैगुणरमणीयं न च दृढम् ॥' "विरम नाथ विमुश्च ममाञ्चलं शमय दीपमिम समया सखी। इति नवोढवधूवचसा युवा मुदमगादेधिका सुरतादपि ॥ १. 'प्रथममरुणच्छायस्तावत्ततः कनकाकृतिः प्रभवति ततो ध्वान्तक्षोदक्षमः क्षण- दामुखे । तदनुविरहोत्ताम्यत्तन्वीकपोलतलद्युति सरसबिसिनीकन्दच्छेदच्छविर्मगला. न्छनः॥' अयमपि प्राचीनः श्लोकः. २. व्यक्तः, ३. एतच्छोकत्रय पीठमर्दादीनां क्रमेणोदाहरणम्. ४. 'तस्येति'. ५. 'जाने. ६. 'सगुण'. ५. 'इयम्'. ८. समीपे. ९. अधिकम्'.१०. श्लोकत्रयंक्रमेण नवयौवन-नवानगरहस्य-लज्जापायरतीनामुदाहरणम्, ११८ काव्यमाला। सकम्पा चुम्बने वक्त्रं हरत्येपोपगृहिता । परात्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥ ३६ ॥ 'अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम् । वदति च यदलक्ष्यं किंचिदुक्तापि भूयो रमयति सुतरां तच्चित्तमन्तनवोटों ॥ मुग्धामावर्जयत्येप मृदूपायेन सान्त्वयन् । नातिभीतिकरै वैनिवन्धैर्वालभीपेकैः ॥ ३७ ॥ 'सरति सरसस्तीरादेपा भ्रमद्भमरावली सुमुखि विमुखी पझे मन्ये तवास्यपिपासयाँ । इति निगदिते किंचिद्रीत्या विवर्तितकंधरा वदनकमले भर्ना वाला चिरं परिचुम्बिता ॥' अन्यां निपेवमाणेऽपि यदि कुप्यति सा प्रिये । रोदित्यस्याग्रतः स्वल्पमनुनीता च तुष्यति ।। ३८ ॥ 'मन्यौ कते प्रथममेव विकारमन्यं नो जानती नववधू रुदती परं सा । धूर्तेन लोचनजलं परिमृज्य गाढं संचुम्व्य चाधरदले गमिता प्रसादम् ॥' आरूढयौवना मध्या प्रादुर्भूतमनोभवा । . प्रगल्भवचना किंचिद्विचित्रसुरता यथा ॥ ३९ ॥ १. 'सलज्जा'. २. 'अवगृहिता'. ३. अस्माच्छ्लोकादने 'दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता' इत्यादि नागानन्दनाटकद्वतीयाङ्कस्यश्लोकः केचिन्मूलपुस्त- केषु सटीकपुस्तके च वर्तते. ४. 'चित्र'. ५. 'भीपितैः'. ६. 'इदमपास्य विरागि , परागिणीरलिकदम्बकमम्बुरुहां ततीः । स्तनमरेण जितस्तषकानमन्नवलते चलते- ऽभिमुख तब ।।' इति शिशुपालवधे (६।११) माघः ७. 'प्रथमजनिते मन्यौ वाला विकारमजानती कितवचरितनारोप्याङ्क विनम्रमुखैव सा । चिवुकमलकं चोनम्योच्चैरक- त्रिमवित्रमा नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ॥' इति कस्यचित्पद्यम्, 4. "विराजद्वित्रमा'. .
१ परिच्छेदः] शृङ्गारतिलकम् । ११९ 'तरत्तारं चक्षुः क्षपयति मुनीनामपि दृशः कुचद्वन्द्वाक्रान्तं हृदयमहृदः कान्न कुरुते । गतिर्मन्दीभूता हरति गमनं मन्मथवता- महो तन्व्यास्तुल्यं तरुणिमनि सर्व विजयते ॥' 'दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभानो गिर. कामं कुन्तलमालिकाविरचने त्यक्तान्यकर्मा करः । वक्षः संव्रियते पुनःपुनरिद लीलालसं गम्यते जाता सुच मनोरमा तव दशा कस्मादकस्मादियम् ॥ 'सुभग कुरबकस्त्वं नो किमालिङ्गनोक्तः किमु मुखमदिरेच्छुः केसरो नो हदिस्थः । त्वयि नियतमशोके युज्यते पादधातः प्रियमिति परिहासात्पेशलं काचिदूचे ॥ 'कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः ॥ गाढं व्याप्रियते कान्तं पिवतीव रतावियम् विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥ ४०॥ 'कृत्वानेकविधां रसेन सुरते केलि कथंचिच्चिरा- माप्तान्तःसुखमीलितालियुगला स्विद्यत्कपोलस्थली। सुप्तेयं किल सुन्दरीति सुभगः खैरं तथैवाखन- द्रादानङ्गविमर्दनिःसहवपुर्निद्रा सहैवागतः ॥' सा धीरा वक्ति वक्रोक्त्या मियं कोपात्कृतागसम् । मध्या रोदित्युपालम्भैरधीरा परुपं यथा ॥४१॥ १ . 'कर्माग्रह '. २. 'तत्कूजितं मृदु. ३. 'गृहशकुन्त-'. ४. एतच्छोकचतुष्टयं क्रमेणारूढयौवना-प्रादुर्भूतमनोभवा-प्रगल्भवचना-विचित्रसुरतानामुदाहरणम्.५. 'वदति'.
- १२० काव्यमाला। 'उपेत्य तां दृढपरिरम्भलालसश्चिरादभूः प्रमुपितचारुचन्दनः । धृताञ्जनः सपदि तदतिचुम्बनादिहैव ते प्रिय विदिता कृतार्थता ।। 'यत्राऊयितमिन्दुना सरसिजैरङ्गारपुजायितं क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितम् । कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विपात्माधुना धिक्त्वां धूर्त विनिर्यदभुरवला मोहं रुदन्ती गता ।' 'सार्ध मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिममावरम्या। अस्माकमस्ति न कथंचिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनामि': ।' लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा । आक्रान्तनायिका वाढं विराजद्विभ्रमा यथा ॥ ४२ ॥ 'सेयं पङ्कजिनी मृणाललतिकामादाय यस्याः प्रियो हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचम् । वन्धूकं च तदेतदालि विदलद्यत्तेन सीमन्तितं सर्वाशाविजिगीषुपुष्पधनुपो बाणश्रियं धास्यति ॥' 'यत्र स्वेदलवैरलं विललितालुप्यते चन्दन स्वच्छन्दैमणितैश्च यत्र रणितं नियते नूपुरम् । यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतां सख्यस्तत्सुरतं भणामि रतये शेपा तु लोकस्थितिः ॥ 'स्वामिन्मङ्गुरयालक सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसँखिता संपूर्णचन्द्रानना स्टष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥ १. धीरा-मध्या-धीराणां क्रमेणोदाहरणत्रयम्, २. 'तदेतदेव विलसत. ३. 'स- च्छेदः'. ४. 'धृतये'. ५. 'भगुरितालकम्'. ६. पयोधरयुगे'. ७. 'इत्युक्ते'. 1. 'मुपिताप्यापूर्ण-'. .
न १ परिच्छेदः] शृङ्गारतिलकम् । १२१ 'मधुरवचनैः सबूभः कृताङ्गुलितर्जन- रलसवलितैरङ्गन्यासैमनोभववन्धुभिः । असकदसकत्स्फारस्फारैरपाङ्गविलोकितै- स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ।। निराकुला रतावेषा द्रवतीव मियाङ्के । कोऽयं कासि रतं किं वा न वेत्ति च रसायथा ॥४३ ।। 'धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्व्य धैर्य महत् । अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं कोऽयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥ कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा। आकारसंति चापि कृत्वोदास्ते रतौ यथा ॥ ४४ ॥ 'यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतः प्रत्युत्थानमिदं स्वहस्तनिहितं यद्भिन्नमप्यासनम् । उत्पश्यामि यदेवमेव च मुहुष्टिं सखीसंमुखी तच्छङ्के तव पङ्कजाक्षि बलवान्कोऽप्यप्रसादो मयि ॥' 'यत्पाणिर्न निवारितो निवसनग्रन्थिं समुद्न्थय- न्भ्रूभेदो न कतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे । यन्निःशङ्कमिवार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥' मध्या प्रतिभिनत्त्येनं सोलुण्ठं साधुभाषितैः। अधीरा पैरुपैर्हन्ति संतय॑ दयितं यथा ॥ ४५ ॥ 'कतं मिथ्यावादैविरम विदितं कामुक चिरा- त्मियां तामेवोच्चैरभिसर यदीयैर्नखपदैः । १. लब्धायत्यादीनामुदाहरणचतुष्टयम्. २. 'अनुकूलरतावेगावतीव तदंगके. ३. 'काहम्'. ४. 'साग्रहम्'. ५. 'च रुपा'. १६ १२२ काव्यमाला । विलासैश्च प्राप्तं तव हृदि पदं रागवहुलै- मैया कि ते कृत्यं ध्रुवमकुटिलाचारपरया ॥ 'सा वाढं भवतेक्षितेति निविडं संयम्य वाह्वोः सजा भूयो द्रक्ष्यसि तां शठति दयितं संतM संतय॑ च । आलीनां पुर एव निट्ठातपरः कोपाद्रणन्नूपुरं मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥ एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयो। अतिसूक्ष्मतया भेदः कविभिनं प्रदर्शितः॥ ४६ ॥ मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते । एका ज्येष्ठा केनिष्ठान्या नायकप्रणयं प्रति ॥ ४७ ॥ उपरोधातथा स्नेहात्सानुरागोऽपि नायकः। चेष्टते तां प्रति प्रायः कलाम कुशलो यथा ॥४८॥ 'त्वदक्षिणी कुवलयबुद्धिरेत्यली रुणम्यहं तदिति निमील्य लोचने । ततो भृशं पुलकितगंण्डमण्डलां युवा परां निभृतमचुम्बदङ्गनाम् ॥' संपत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति । या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः॥ ४९ ॥ अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते पिये दर्शनाच्छूवणाद्वापि कामाते भवतो यथा ॥ ५० ॥ 'किमपि ललितैः स्निग्धैः किंचित्किमप्यतिकुञ्चितैः किमपि 'वलितैः कंदपून्हसद्भिरिवेक्षणैः । अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा ललितकुशलोऽप्यालीलोको यथातिविसिस्मये ।' १. 'परुप समस्यै; 'दयितं समर्त्य'. २. 'निहुतपरम्,' ३. 'एकाकाररता'. ४. 'द्विधासौ'; 'द्विविधा'.५. 'कनिष्ठा च नायक-'; 'कनिष्ठा स्यानायिका-.६ गल.७. 'माणे च'. ८. 'पुण्यकारिणाम'. ९. 'चापिर. १०. 'अनिश्चितैः', ११. 'चलितः'. १२. 'ललन', 'कलन'.
१ परिच्छेदः] शृङ्गारतिलकम् । १२३ 'निशमय्य बहिर्मनोहरं खरमैक्षिष्ट तथापरा यथा । तिलमात्रकमप्यभून्नहि श्रवणेन्दीवरलोचनान्तरम् ॥ 'कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तं दृष्ट्वाधिगतरतेनिमीलिताक्ष्याः । निस्सन्दं वपुरवलोक्य सौविदल्लाः संतेपुर्विधुरधियो निशान्तवध्वाः ।' 'काय॑जागरसंतापान्यः करोति श्रुतोऽप्यलम् । तमेव दुर्लमं कान्तं चेतः कस्मादिक्षसे ।' साक्षाचित्रे तथा स्वप्ने तस्य स्याहर्शनं त्रिधा । देशे काले च भङ्गन्यां च श्रवणं चास्य तद्यथा ॥५१॥ 'सत्यं सन्ति गृहे गृहे प्रियतमा येषां मुजालिङ्गन- व्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः । प्रेयान्कोऽप्यपरोऽयमत्र सैकती दृष्टेऽपि यस्मिन्वपुः स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्रामोति कांचिद्दशाम् ॥ 'चित्रं चित्रगतोऽप्येष ममालि मदनोपमः । समुन्मूल्य वलालज्जामुत्कण्ठयति मानसम् ॥' 'मुग्धा खमसमागते प्रियतमे तत्पाणिसंस्पर्शना- द्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपोत्किल । मा मां वल्लम संस्टशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता संचिन्तमसकत्संशोचिता प्रत्युत ।' 'स्फारस्फुरत्नदीपं सौधं मधु सोत्पलं कलं गीतम् । प्रियसखि सकलमिदं तव सफलं खलु यदि भवेत्सोऽत्र ।' 'विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु । चुम्वत्यम्बरमिन्दौ तव तेन विना रतिः कीटक् ॥ 'अजननिरस्तु दृशोस्तव कुचयोरभवनिरलं भवतु । यदि दृश्यते न स युवा निर्भरमालिङ्गयते नो वा ॥' १. 'मनोगतं चिरम्'. २. 'तस्य'.. ३. 'नियतम्' ४. 'मुहुः. ५. 'कम्पात'. ६. 'सचित्रम्'. ७. "विफल यदि नो भवेत्सोऽत्र'. ८. 'सुभ्र'. ६. 'ते'.१०. सुमुखि यदि श्यते न स.
१२१ काव्यमाला। द्रष्टुं वक्तुं च नो कन्या रक्ता शनोत्यतुं स्फुटम् । पश्यन्तमभिजल्पन्तं विविक्तेऽपि हिया यथा ॥५२॥ 'कामं न पश्यति दिक्षत एव भूम्रा नोक्तापि जल्पति विवक्षति चादरेण । लज्जास्मरव्यतिकरण मनोधिनाथे वाला रसान्तरमिदं ललितं विमति ।। विज्ञातनायिकाचित्ता सखी वदति नायकम् । नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥ १३ ॥ 'कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् । तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शम् ॥ 'संतापयन्ति शिशिरांशुरुचो यदेते संमोहयन्ति च विनिद्रसरोजवाताः । यत्खिद्यते तनुरियं च तेदेप दोपः सख्यास्तवैव सुतनु प्रचुरत्रपायाः ।।' अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्षते । दादालोकयत्येवें सखी स्वजति निर्भरम् ॥५४॥ निनिमित्तं इसन्ती च सखीं वदति किंचन । सव्याज सुन्दरं किंचिद्गात्रमाविष्करोति च ॥ ५५ ॥ सख्यादि स्थापितां मालां काश्यादि रचयेत्पुनः । चेष्टां च कुरुते रम्यामङ्गभङ्गैः शुभैर्यथा ॥ ५६ ॥ 'अभिमुखगते तस्मिन्नेव प्रिये बहुशो वद- त्यवनतमुखं तूणमिव स्थितं मृगनेत्रया । अथ किल वैललीलालोलं स एव तथेक्षितः कथमपि यथा मन्ये दृष्टया कृतं श्रुतिलईनम् ॥' 1 १. 'मां मोहयन्ति'. २. 'स एप'. ३. 'अपश्यन्ती तु सा कान्तं स्फुरिताक्षी'. 'एपा'. ५. 'पाला'. ६. 'पुरता. ७. 'वलज्जीवं याता'.
• १ परिच्छेदः] शृङ्गारतिलकम् । १२५ 'तिर्यग्वर्तितगात्रयष्टिविषमोवृत्तस्तनास्फालन- त्रुप्यन्मौक्तिकमालया सपुलकखेदोल्लसद्भण्डया। दूरादेव विलोकयत्यभिमते तद्वक्त्रदत्तेक्षणं दुर्वारस्मरतापया सहचरी गाढं समालिङ्गिता ॥' 'अनिमित्तं यद्विहसति निष्कारणमेव यत्सखी वदति । दयितं विलोक्य तदियं शंसति तदधीनमात्मानम् ॥' 'प्रादुण्यदुजमूलकान्तिललितामुद्यम्य दोर्वकरी वल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरम् । अङ्गुल्या प्रचलत्करायवलयस्वानोपहूतस्मरं तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनम् ॥ स्रजोऽवतंसं रशनां च किंचित्मियं समालोक्य समासजन्ती । पुनस्तरां सा मुहृदो ददाति प्रत्यङ्गमावासमिव स्मरस्य ।। ५७ ॥ 'व्याजृम्भणोछसितदन्तमयूखजाल- व्यालम्बिमौक्तिकगुणं रमणे मुदैव । ऊर्ध्व मिलढुजलतावलयप्रपञ्च- सत्तोरणं हदि विशत्यपरा व्युदास ।' अन्योढापि करोत्येव सर्वमुद्धतमन्मथा । दुरवस्था पुनः कान्तमभियुक्ते स्वयं यथा ॥ ५० ॥ 'उल्लड्यापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिमरं निरस्य च निनं सौभाग्यगर्व मनाक् । आज्ञा केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ।।' चक्षुर्मीलति सानन्दं नितम्वः प्रस्रवत्यपि । वेपते च तनुस्तन्वी तस्यास्तदर्शने यथा ॥ ५९ ।। १. 'स्फालनानृत्यन्'. २. 'गल्ल्या'. ३. 'चलन्'. ४. 'भगुल्यप्रचलत्'. ५ 'मम. भवत्कर्णस्य'. ६. 'रमणम् . ७. 'अपराध्युवास'. ८. 'दुःखावस्था'. ६. 'भित्त्वा'. १०. 'तन्व्या.
- १२६ काव्यमाला। 'मीलन्मन्थरचक्षुपा परिपतत्काचीग्रहव्यग्रया गाढानगमरस्रवन्नघनया कम्पोपरुद्धागया । सर्वाङ्ग चटुकारकोऽप्यवलया संकेतके कौतुका- दास्तां रन्तुमहो निरीक्षितुमपि प्रेयान्न संभावितः ॥ नाभियुझे स्वयं कन्या मुग्धत्वादुस्थितापि तम् । । तदवस्थां तु कान्ताय तत्सखी कथयेद्यथा ॥ ६०॥ 'निश्वासेपु स्खलति कदलीवीजनं तापसंप- नेत्राम्भोमिश्छेमिति पतितैः सिच्यते च स्तनान्तः । तस्याः किंचित्सुभग तदभूत्तानवं वंद्वियोगे येनाकस्माद्वलयपदवीमङ्गुलीयं प्रयाति ॥ अनन्यशरणा स्वीया धनाहार्या पैराङ्गना । अस्यास्तु केवलं प्रेम तेनैपा रागिणां मता ।। ६१ ॥ सामान्यवनिता वेश्या सा वित्तं परमिच्छति । निर्गुणेऽपि न विद्वेपो न रागोऽस्या गुणिन्यपि ।। ६२ ।। तत्स्वरूपमिदं प्रोक्तं कैश्चिद्रमो वयं पुनः । वर्णयन्त्यनया युक्त्या तासामप मप्यनुरागिताम् ॥ ६३ ॥ शृङ्गाराभास एव स्याद्यदि ता रागवर्जिताः । तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो वकैः ॥१४॥ तस्मातासामपि कापि रागः स्यात्कि तु सर्वथा । धनार्थं कृत्रिमैर्भावाम्यं व्यामोहयन्ति ताः ॥ ६५ ।। लिङ्गी प्रच्छन्नकामश्च नरंमन्यश्च षण्ढकः । मुखमाप्तधनो मूर्खः पितृवित्तेन गार्वतः ॥६६॥ इत्यादीन्मथमं ग्राम्याज्ञात्वाकृष्य च तद्धनम् । अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥ ६७ ॥ १. 'श्रवद्रमणया'. २. 'स्थगिति'. ३. 'ताम्यते'. ४. 'त्वद्वियोगात्'. ५. 'वरा- हना'. ६. 'बलवत्यानया'. ७. 'शृङ्गाराभाव'. ८. 'भावश्च'. ६. 'दपितः. १०. 'इत्यादि प्रथम ज्ञात्वा सम्यकर्षति तद्धनमू-तस्मादेता विपोपमा..
. १ परिच्छेदः] शृङ्गारतिलकम् । १२७ किं तु तासां कलाकलिकुशलाना मनोरमम् । विस्मारितापरस्त्रीकं मुरतं जायते यथा ॥ ६८ ॥ 'गाढालिङ्गनपीडितस्तनतट खिद्यत्कयोलस्थलं संदष्टाधरमुक्तसीत्कृतममिभ्रान्तभ्रु नृत्यत्करम् । चाटुप्रायवचो विचित्रमैणितं घातै खैश्याङ्कितं वेश्यानां धृतिधाम पुष्पधनुपः प्रामोति धन्यो रतम् ॥' ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनाम् । वेश्यामु चैतद्वितयं प्रसिद्धं सर्वस्वमेतास्तदहो स्मरस्य ॥ ६९ ।। कुप्यत्पिनाकिनेत्राग्निज्वालामस्मीकृतः पुरा । उज्जीवितः पुनः कामो मन्ये वेश्याविलोकितैः ॥ ७० ॥ आनन्दयन्ति युक्त्या ताः सेविता नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥७१ ॥ स्वाधीनपतिकोत्का च तथा वासकसज्जिका। संचिता विपलब्धा च खण्डिता चाभिसारिका ॥७२॥ पोषितप्रेयसी चैवं नायिकाः पूर्वसचिताः । ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥ ७३ ।। . यस्या रतिगुणाकृष्टः पतिः पार्थ न मुञ्चति । विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥ ७४ ॥ 'लिखति कुचयोः पत्रं कण्ठे नियोजयति स्त्र तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारं वारं वपुः परितः स्टश- विरहविधुरो नास्याः पाच विमुञ्चति वल्लभः ।। उत्का भवति सा यस्याः संकेतं नागतः प्रियः । तस्थानागमने हेतुं चिन्तयन्याकुला यथा ॥ ७५ ॥ १. किंचित्'. २. 'नृणाम्'. ३. 'मणि'. ४. 'रुतै .. ५. 'अमिसधिता 'अतिसविता'. १. 'सा स्वाधीनपति... ७. 'कुण्डलम्'. ८. 'आकुलक्षणा. .
१२८ काव्यमाला। . 'किं रुडः प्रियया कयाचिदथवा सख्या योद्धेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्राम्बुजं दीर्घ निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्त्रजः ।।' भवेद्वासकसज्जासौ सैज्जितागरतालया। निश्चित्यागमनं भर्तुारेक्षणपरा यथा ॥७६ ॥ 'दृष्ट्वा दर्पणमण्डले निजवपुर्भूपां मनोहारिणी दीपार्चिःकपिशं च मोहनगृहं त्रस्यत्कुरङ्गीडशा । नौ सुरतं भविष्यति चिरादेद्येति सानन्दया कामं कान्तदिक्षयातिललिता द्वारे हगारोपिता ॥ निरस्तो मन्युना कान्तो नमन्नपि यया पुनः। दु:स्थिता तं विना सातिसंघितीभिमता यथा ॥ ७७ ।। 'यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः । पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति- प्रालेयाम्बुसमीरपङ्कजविसर्गात्रं मुहुर्दह्यते ।।' प्रेप्य दूती खयं दवा संकेतं नागतः प्रियः । यस्यास्तेन विना दुःस्था विपलब्धा तु सा यथा ॥ ७८ ॥ 'यत्संकेतगृहं प्रियेण कथितं संप्रेप्य दूर्ती स्वयं तच्छून्यं सुचिरं निपेव्य सुदृशा पश्चाच्च भग्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्राअनैलॊचने- भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ।। कुतश्चिन्नागतो यस्या उचिते वासके प्रियः। तदनागमसंतप्ता खण्डिता सा मता यथा ॥ ७९ ॥ १. 'मम'. २. 'सज्जितागा रतालये'. ३. 'उचे'. ४. 'कथिता'. ५. कोपस्य'. ६. 'गत्वा'. ७. "ध्यातम् .
१२९ १ परिच्छेदः]] शृङ्गारतिलकम् । 'सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सवाष्पं चिरं चक्षुर्दिा निवेशितं सकरुणं सख्या समं जल्पितम् । नागच्छत्युचितेऽपि वासकविधौ कान्ते समुनिया तत्तत्किचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥' या निर्लज्जीकृता वाढं मदने मदनेन च । -अभियाति प्रिय साभिसारिकेति मता यथा ॥ ८० ।। 'नो भीतं तडितो दृशा जैलमुचा तद्दर्शनाकाडया नो गर्जिर्गणिता भृशं श्रुतिसुखं तहाचि संचिन्त्य च । धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं वाञ्छन्त्या दयितामिसारणविधौ तन्व्या परं तत्परम् ॥ कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः। दत्त्वावधि भृशार्ता सा प्रोषितप्रेयसी यथा ।। ८१ ॥ 'उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थला- द्विलिण्यद्वलयप्रपातभयतः प्रोद्यम्य किंचित्करौ । द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरवला तत्कालमालिङ्गचते ।। निवाससंतापसखीवचोतिचिन्ताश्रुपातादियुताः सखेदाः। वाच्या प्रलब्धागतभरीकोत्कातिसंधिताः खण्डितया सहात्र ॥२॥ विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका । तथा वासकसजापि सा किं त्वागन्तुकमिया ॥ ८३ ।। कुलजान्याङ्गना वेश्या त्रिधा स्यादभिसारिका। यथैवोक्तास्तथैवान्याः स्वाधीनपतिकादयः ॥ ८४॥ कुलजा संहता त्रस्ता संत्रीडा च द्रुतं व्रजेत् । नायक परनारी च समन्तादनवेक्षिता ॥ ८६ ॥ १. निर्लज्जा कृता'. २. 'स्वयम्'. ३. 'जलमुचा'; 'जमुचाम्'. ४. 'मता'. ५. "विश्लिष्टात. ६. 'वचोमि.'. ७. 'वाण्याः'. ८. 'अभिसंषिताः. ९. 'च'.१०. 'सबीडं तहम्'. ११. 'सदान्यैरप्यवीक्षिता'. - काव्यमाला। . सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शकिता। सशब्दामरणा कामं वेश्या सरति नायकम् ।। ८६ ।। त्रयोदशविधा स्वीया द्विविधा च पराङ्गना। एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्र ताः॥ ८७ ॥ पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाघमा । इत्थं शतत्रयं वासामशीतिश्चतुरुत्तरा ॥८८॥ दोपानुरूपकोपा यानुनीता च प्रसीदति । रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ।। ८९ ॥ 'कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवे- कोऽयं सुन्नु परस्त्वमेव दयिते दासोऽस्मि कस्ते परः। इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥' दोपे स्वल्पेऽपि या कोपं धत्ते कष्टेन सुश्चति । प्रयाति कारणादागं मध्यमा सा मता यथा ॥ ९० ॥ 'विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खल- दर्माम्भःकणिकापि मङ्गुरतरभ्रूमेदभूषाप्यलम् । पादान्तप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रिया केशारमन्नूपुण्डली वलितानुन्मोचयन्ती शनैः॥ या कुप्यति विना दोपं निह्यसनुनय विना । निर्हेतुकप्रतिश्च चलचित्तापि साधमा ॥ ९१ ॥ 'यंत्राधाकृतकामकार्मुककैथो भ्राम्यद्भुवोर्विभ्रमः सद्यः प्रोद्तचन्द्रकान्तिजयिनी यस्मिन्कपोलच्छविः । यत्र स्वेदकणावलुप्तमहिमा हारोऽप्युरोजस्थले कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥' १. 'यथा'. २. 'पुनस्तास्त्रिविधाः'. ३. 'तुष्यति'. ४. 'प्रस्फार-'. ५. 'मपलितान्, 'वलयितान्'. ६. 'दोपै. ५. 'चलचित्तेति'. ८. 'यः क्रुद्धः. ६. 'कथोड्राम्यद्रमः १०. 'प्रोम्भितचन्द्रविम्ब'. ११. 'कणावलिस-'.
२ परिच्छेदः] शृङ्गारतिलकम् । १३१ जातिकालवयोवस्थाभावकंदर्पनायकैः । इतरा अप्यसंख्याः स्युनॊक्ता विस्तरभीतितः ॥ ९२ ।। इसादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदाम् । कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥९३ ॥ रोमाञ्चवेपथुस्तम्भस्वेदनेत्राम्बुविभ्रमाः । वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥ ९४ ॥ संवन्धिमित्रद्विजराजतीक्ष्णवर्णाधिकानां प्रमदा न गम्याः । व्यङ्गास्तथा प्रव्रजिता विभिन्नमन्त्राश्च धर्मार्थमनोभवः ॥९॥ अनेन मार्गेण विशेषरम्यं संभोगशृङ्गारमिमं वितन्वन् । भवेत्कविर्भावरसानुरक्तो विदग्धगोष्ठीवनितामनोज्ञः ॥ ९६ ॥ इति श्रीरुद्रमविरचिते शृङ्गारतिलकामिधाने काव्यरसालकारे संभोगशृङ्गारो नाम प्रथमः परिच्छेदः । द्वितीय. परिच्छेदः। विमलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः । पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ १ ॥ दंपत्योदर्शनादेव समुत्पन्नानुरागयोः । ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ चे दशा यथा ॥ २ ॥ 'किं चन्दनै रचयसे नु मृणालशय्यां मा मा ममालि कुरु कोमलतालवन्तम् । मुखाग्रहं विकचपङ्कजयोजनेषु तत्संगमः परमपाकुरुते स्मराग्निम् ॥ 'यत्सारैरिव पङ्कजस्य घटितं यच्चन्द्रग दिव प्रोत्कीर्ण यदनगसायकशिखामासेव संवर्धितम् । यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतं तद्भूयोऽपि कदा सरोरुहशः पश्यामि तस्या मुखम् ॥' १. 'जातिरूपकला-'. २. 'सयोग'. ३. 'करुणा यया'. ४. 'प्ररूढगुरुरागयोः'. ५. 'या'. ६. 'रचय मुच'. ७. 'धुनु'. ८. 'दर्शने.
१३२ काव्यमाला। मृणालकदलीचन्द्रचन्दनाम्बुरुहादिकम् । तत्रानयोः सरातङ्कशान्तये नैव सेवितम् ॥ ३ ॥ आलोकालापसंरूढरागाकुलितचेतसोः । तयोर्भवेदसंप्राप्तौ दशावस्थः स्मरो यथा ॥ ४ ॥ अभिलापोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनम् । उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥ ५ ॥ जडता मरणं चैव दशमं जायते ध्रुवम् । असंप्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥ ६॥ व्यवसायो भवेद्यत्र वाढं तत्संगमाशया। संकल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथा ॥ ७॥ 'प्रविशति यथा गेहेऽकस्माद्वहिश्च विचेष्टते वदति च यथा सख्या सार्धं सहासमिहोत्सुका । दयितवदनालोके मन्दं यथा , चलत्यसौ मृगशि तयैतस्यां मन्ये स्मरेण कृतं पदम् ॥' कथं स वल्लभः प्राप्यः किं कुर्यामस्य सिद्धये । कथं भवेदसौ वश्य इति चिन्ता मता यथा ॥८॥ 'सत्यं दुर्लभ एप वल्लभतमो रागो ममास्मिन्पुनः कोऽप्यन्योऽस्ति गुरुन चातिनिपुणाः सख्योऽस्य संबोधने । संचिन्त्येति मृगीदृशा प्रियतमे दृष्ट लयां मेखला वनन्त्या न गतं स्थितं न च गैलद्वासो न वा संवतम् ॥' द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् । श्वासमनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥९॥ 'इन्दु निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे । १. 'कन्द'. २. 'संगमाशयः'. ३. 'यथाकस्मातहम्'. ४. 'प्रचलति'. ५. 'शहे. ६. 'तुष्टये'. ७. 'भवत्'. ८. 'एव'. ९. 'तथा'. १०. 'लसत. ११. 'कन्दल- दली', 'कन्दकदली. .
२ परिच्छेदः] शृङ्गारतिलकम् । श्वासैः केवलमेव खेदिततनुर्ध्यायत्यसौ बालिका यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुष्याः स्थितः ॥ सौन्दर्यहसितालापै स्वन्यस्तत्समो युवा । इति वाणी भवेद्यत्र तदिथं गुणकीर्तनम् ॥ १० ॥ 'तेद्वक्र हसितेन्दुमण्डलमिति स्फारं तदालोकितं सा वाणी जितकामकार्मुकरवा सौन्दर्यमेतस्य तत् । इत्यं संततमालि वल्लभतमध्यानप्रसक्तात्मन- श्वेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥' यस्मिनम्यमरम्यं वा न च हर्षाय जायते । द्वेषः माणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ ११ ॥ 'अन्यागारं कलयसि पुरश्चक्रवाकीव चन्द्र बद्धोत्कम्पं शिशिरमरुता दासे पद्मिनीव । प्राणान्धत्से कथमपि चिराद्गच्छतः शल्यतुल्यां- स्तत्केनासो सुतनु जनितो मान्मथस्ते विकारः ।। बम्भ्रमीति मनो यस्मिन्रत्यौत्सुक्यादितस्ततः । वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ १२ ॥ 'इत्यं तेन निरीक्षितं न च मयाप्येवं समालोकितं तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया । तत्सत्यं कथयालि किं स सुभगः कुंप्येत मय्युच्चकै- रित्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥ श्वासपरोदनोत्कम्पमुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ १३ ॥ 'देवीवोनिमिषक्षणा विलिखति क्षोणी श्वसित्युच्चकैः किंचिद्ध्यायति निश्चला चे वलवद्रोमाञ्चिता कम्पते । १. "खिद्यति तनुता'. ३. 'सखि'. ३ 'यद्वक्त्रम्'. ४. 'संचित'; 'चर्वित'. ५. 'यत्र. ६. 'किंचन'. ७. 'प्राणानामिव सदेह'. ८. 'कस्मान्मुग्ये मनसि विषम- स्तन्यते विप्रयोगः. ९. 'समालोकितः.'१०. 'कुप्येन मयं गते'. ११. 'वसुधालेखन.. १२. 'दीपे वानिमिषेक्षणा'. १३. 'चलचलद्रोमाञ्चिता'.
१३४ काव्यमाला। रोदित्यङ्कगतां विलोक्य सुचिरं वीणामपि व्याटता स्वल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता ॥' संतापवेदनामायो दीर्घश्वाससमाकुलः । तनूकततनाघिरटमोऽयं स्मृतो यथा ॥ १४ ॥ 'तापः शोपितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः कर्पूराभिमवप्रचण्डपटिमा गण्डस्थले पाण्डिमा । म्लायद्वालमृणालनालललिता प्राप्ता तनुस्तानवं तन्वङ्गयाः कथितः स्मरेण गुरुणा कोऽप्येप कष्टक्रमः ॥' अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः। श्वासाः समधिकाः कार्य जडतेयं मता यथा ॥ १५ ॥ 'दृष्टिनिश्चलतारकाधरदलं श्वासैः छतं धूसरं प्राप्तं वासरचन्द्रबिम्बपदवी वक्र विनष्टा स्मृतिः । हुंकारः परमेक एव वचनस्थाने स्थितः सांप्रतं मन्येऽस्याः कुसुमायुधः सशिविरः प्रत्यङ्गमावासितः ।। उपायैर्विविधर्नार्या यदि न स्यात्समागमः । कंदर्पशरमिन्नाया मरणं जायते ततः ॥ १६ ॥ पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवात् । मरणं किं त्वसौन्दर्यात्तयोः कैश्चिन्न वैध्यते ॥ १७ ॥ अन्ये तदपि वनन्ति प्रत्युज्जीवनकोसया । . वृत्तानुवादे तच्छस्तमुत्पाद्ये प्रायशो नहि ॥ १८ ॥ एकस्मिस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन । का स्नेहगणना तत्र म्रियते चैन संगमः ॥ १९ ॥ पूर्व नारी भवेद्रक्ता पुमान्पश्चाचदिङ्गितैः । ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥ २० ॥ १. 'वीणामति'. २. 'अष्टमो जायते'. ३. 'कुपितस्मरेण'. ४. 'स्मृता'. ५. 'तलम्'. ६. 'भावेशितः... 'जनितः. ८. 'गद्यते'. ९. 'वाञ्छया'.१०, 'न समन्ततः'. .
. २ परिच्छेदः] शृङ्गारतिलकम् । १३५ अन्यथापि न दोषः स्याद्यदि प्रेम समं द्वयोः । रक्तापरक्ता वृत्तिश्वेच्छृङ्गाराभास एव सः ॥ २१ ॥ अयं च प्रायशस्तज्ज्ञैरित्थं हास्येषु वध्यते । निद्रव्येण मया साधं वेश्ये मानय यौवनम् ॥ २२ ॥ अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनम् । सान्ना मानेन दानेन वाढमावर्जयत्यसौ ।। २३ ॥ तस्याने तत्कथां कुर्वन्स्वाभिप्रायं प्रकाशयेत् । सदभावे प्रेयुजीत काश्रित्मवजिवादिकाः ॥ २४ ॥ तबारेण समाख्यातस्वभावो ज्ञाततन्मनाः। उपचारैः परैलेख साधयेत्तामतन्द्रितः ॥ २५ ॥ सवो दृष्ट्वा विविक्के वामिन्द्रजालकलादिमिः। प्रयोगैललितैः स्वैरं विस्मयं परमं नयेत् ॥ २६ ॥ धात्रीसखीवेश्मनि रात्रिचारे महोत्सवे तीव्रतमे भये च । निमन्त्रणे व्याधिमिषेण शून्ये गेहे तयोर्नूतनसंगम: स्यात् ॥२७॥ यदा रागो गुरुः सा च लभ्यते नैव याचिता। क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥ २८ ॥ परस्त्रीगमनोपायः कविभिर्नोपदिश्यते । मुन्दरं किं तु काव्याङ्गमेतत्वेन निर्दयते ॥ २९ ॥ वामता दुर्लभत्वं च स्त्रीणां यों च निवारणा तदेव पञ्चवाणस्य मन्ये परममायुधम् ।। ३० ॥ वहुमानाद्भयाद्वापि नृणामन्यत्र योषिति । प्रच्छन्नकामितं रम्यं संतामपि भवेद्यथा ॥ ३१ ॥ १. 'तयो.'. २. 'अनुयुजीत'. ३. "किंचित्प्रव्रजितादिकम्'; 'काचित्प्रव्रजितादिकाम्'. ४. 'समाख्याताः स्वभावज्ञातमन्मथ'. ५. 'दोषै.. ६. 'तीव्रमये वने च'; 'तीव्रतमे वने च'. ७. 'मिषाच'... 'नारी साधयेत्तामतन्द्रितः.. 'निर्दिश्यते'.१०. 'या तु- निवारणम्'. ११. 'ता एव'. १२. 'तासामपि'. - काव्यमाला। 'जीण तार्णकुटीरकं निवसनं तत्पीकृतं स्थण्डिले नीरन्ध्र तिमिरं किरन्ति सलिलं गर्जन्त एते धनाः । गच्छामीति वदत्यसावपि मुहुः शङ्काकुला केवलं चेतश्चित्रमहो तथापि रमते संकेतके कामिनाम् ॥' स मानो नायिका यस्मिन्नीग्रंया नायकं प्रतिः। धत्ते विकारमन्यस्त्रीसङ्गदोपवशायथा ॥ ३२ ॥ 'किचिद्वाप्पजलावलेपललिते नेत्रे समाकुञ्चिते रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः । कम्पश्चाधरपल्लवे विरचितः, कामं कुरङ्गीडशा नो जाने किमयं प्रिये प्रकटितः कोपोऽमिलापोऽथवा ॥' स प्रायशो भवेत्रेधा कामिनीनां मियं प्रति । अवक्ष्य दोपमेतस्य गरीयान्मध्यमो लघुः॥३३॥ प्रतिनायौं गते कान्ते खयं दृष्टे नखाङ्किते । तहासोदर्शने गोत्रस्खलिते चै गुरुर्यथा ॥ ३४ ॥ 'बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा यातस्तिर्यगमू दृशौ च वलवयुग्ममुद्राम्यति । इत्यं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते जातोऽयं प्रणतीरपास्य सुतरामेतद्दिक्षुर्यथा ॥' दृष्टे भियतमे रागादन्यया सह जल्पति । सख्याख्यातेऽथवा दोपे मानोऽयं मध्यमो यथा ॥ ३५ ॥ 'वाचो वाग्मिनि किं तवाद्य परुपाः सुन्नु ध्रुवोर्विभ्रमो- ऽप्युट्रान्तः कुत एप लोलनयने कि लोहिते लोचने । नास्त्यागो मयि कि मुधैव कुपितेत्युक्ते पुरः प्रेयसा मानिन्या जलविन्दुदन्तुरपुटा दृष्टिः सखीप्वाहिता ॥ १. 'अपि'. २. 'तया'. ३. 'स्यात्'. ४. 'भ्रमो विभ्रमो भ्राम्यतिक तव लोल एष नयने.
. . २ परिच्छेदः] शृङ्गारतिलकम् । १३७ सविलासं स्फुरचक्षु वीक्षमाणे परां प्रिये । किंचिदन्यमनस्केव जायते स लघुर्यथा ॥ ३६ ।। 'मामेव ताडय नितम्बिनि यद्यकस्मा- कोपो भवेत्तव मुखं तु निजं किमेतत् । आनीयते शशधरानुकति कपोल- पालीलुतेन घनकज्जलनेत्रवारा ॥' देशकालवलात्कोपः प्रायशः सर्वयोपिताम् । जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ।। ३७ ।। प्रज्वलितोज्ज्वलदीपं रतिगृहमिन्दुज्ज्वलं च सौषतलम् । मधुविधुरीकृतमधुकरमधुरध्वनिवोधितं च कमलवनम् ॥ ३८॥ इत्यादिषु प्रदेशेषु मानिनीनामसंशयम् । मन्युशुरुतरोऽप्याशु मुखसाध्यो भवेद्यथा ॥ ३९ ॥ 'दृष्ट्वा चन्द्रमसं मनोमववधूकेलिक्रियाकन्दुकं प्रोन्मीलनवमालतीपरिमलं चाघ्राय मानौषधम् । दीपाचिःकपिशां विविक्तवलमीमालोक्य लोलशा मानिन्या चटुमात्रकेण रमणे मानो मनाङ्मन्दितः ॥' मधुसमयशशधरोदयकंदर्पमंदाधिकेषु कालेषु । मानो मनस्विनीनामतिमुखसाध्यो भवेन्ना ॥ ४० ॥ 'चन्द्रश्चन्द्रमुखीक्ष्यतां क्षणमियं संभाव्यता मञ्जरी चूतस्य स्मरविद्विपि प्रियतमे कोपेऽपि केयं रतिः। इत्युक्ते रुचिरेऽपि तत्करतलं पादाप्रसंवाहने धुन्वन्त्याः सुदृशो बलात्पुलकिते जड्ढे च दोर्वलरी ॥' तीजनस्स पुरतो लघुरपि दोषो गुरूयते प्रायः । अभिनवदोषावसरे तथैव वनिताजनस्य यथा ॥ ४१ ॥ १..'प्रायः सर्वोऽपि'. २. 'साध्यस्तु कामिनाम'. ३. 'मधुरी-'. ४. 'मधुरध्वनि योषितावचनम्'. ५.'च चित्रवडमी-'. ६. मात्रकेऽपि. ७. महादिकेषुः'; 'मदादिकपु. ८. 'इत्युक्त्वा रुचितेन'. ६. 'संवाहनाचुम्वन्या... . १८ १३८ काव्यमाला। 'चरणपतनात्पत्युमन्यौ मनाक्शिथिलीकते त्यजति च किमप्युत्कम्पत्वं घनस्तनमण्डले । ददपि विसरत्सारङ्गाक्ष्या चिरानुनयेच्छया कथमपि पुरो दृष्ट्वा दूती पुनर्भुकुटी कता ।' 'चतुरवचनैर्गादाश्लेषैर्हठात्परिचुम्बनै- रलकवलनैर्वारं वारं गतोऽप्यतिमन्दताम् । अपरवनितासङ्गालग्नं विलोक्य विलेपनं कुवलयदृशः कोपः कान्ते पुनर्नवतां गतः ॥' साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा। तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥ ४२ ॥ तस्याः प्रसादने सद्भिपायाः षट् प्रकीर्तिताः । मुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥ ४३ ॥ अविनीतोऽपि पाल्योऽहं त्वया सुर्घ क्षमामृता । इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥ ४४ ॥ 'सत्यं भामिनि दुर्जनोऽस्मि दयिते पाल्यस्तथापि त्वया यो दोषः स लघुर्मंगाक्षि नियतं दीनस्य मे क्षम्यताम् । इत्यं जल्पति वल्लभे मृगढशा चक्षुर्नले संवृतं रक्तत्वं विरलीकृतं च वदने दत्तं च किंचिद्वचः ।।' अलंकारादिकं दैद्यानायको यत्र तुष्टये । उद्दिश्य कारणं किंचिदानं लुब्धासु तद्यथा ॥ ४५ ॥ 'प्रणयिना निजहारलता स्वयं किल नवेति निवेश्य कुचस्थले । पुलकभाजि पुरा कुपिताप्यसौ तकचग्रहणं परिचुम्बिता ।।' यस्मिन्परिजनं तस्याः समावर्य प्रसादतः। तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥ ४६॥ १. 'किमप्युक्त पत्रम्'. २. 'चतुरचतुरैः . ३. 'चुम्बितैर्मधुरवचनैः'. ४. 'सततम्'. ५. 'गल'. ६. "विमली-'... 'कुर्यात'. ८. 'कुच-. ६. 'प्रसादितम्'.
. २ परिच्छेदः] शृङ्गारतिलकम् । 'धुन्वाना करपल्लवं विदधती दृष्टि रुपा रागिणी तन्वाना वचनानि निष्ठुरतरं मा गाः शठेत्यं मुहुः । दूरादायतिमीतिमत्यभिमते स्वैरं खसंज्ञाकता पूर्वावर्जितया चकोरनयना सख्यैव संबोधिता ।' प्रसादनविधि सक्त्वा वाक्यैरन्यार्थसूचकैः । यस्मिन्प्रसाद्यते योषिदुपेक्षा सा मता यथा ॥ ४७ ॥ 'एतत्कि ननु कर्णमूषणमैयं हारः स काञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः । प्रत्यङ्ग स्टशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकै तन संमोचिता ।' केवलं दैन्यमालम्ब्य पादपावानतिर्मता । अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥ ४८ ।। 'कुड्डुमाकुचकुम्मलिङ्गितं वीक्ष्य पृष्ठमपराङ्गनाश्रयम् । शंसदूनरसमाशु सा मुदं प्राप पादपतितस्य कामिनः ॥' अकस्माजायते यत्र भयहर्षादिभावना। सोऽयं प्रसङ्गविध्वसः कोपभ्रंशात्मको यथा ।। ४९ ॥ 'कथं ममोरसि कतपक्षनिःखनः शिलीमुखोऽपंतदिति जल्पति प्रिये। निवृत्त्य किं किमिदमिति ब्रुवाणया ससाध्वसं कुपितमेलोकि कान्तया ॥' यथोचरं वलीयांस इत्युपायाः प्रसादने । आयास्त्रयो धन कार्या विदग्धैः पश्चिमाः कचित् ।। ५० ॥ नातिखेदयितव्योऽयं पियः प्रेमदया कचित् । मानश्च विरला कार्य प्रणामोत्सवसिद्धये ॥ ५१ ।। इत्युपायान्मयुजीत नायिकापि मियं प्रति । कुलजा नेयते किं तु तत्रान्यत्कारणं भवेत् ॥ ५२ ॥ १. 'प्रसाधन-. २. 'प्रसाध्यते'. ३. 'इयं हारं च'. ४. 'ललिताः श्लाघ्या'.५.'वि- म्बितम्, ६. 'सङ्गभूतरसम्'. ७. 'विभ्रंश:... 'अगल'. ६. 'अमोचि'. १.. 'प्र. साधने'. ११. 'प्रमदमानस. १२. 'कुल नोपेक्षते'.
. - - 4 १४० काव्यमाला। स्नेह विना भयं न स्यान्मन्मथो नेय॑या विना । तस्मान्मानपकारोऽयं द्वयोः प्रीतिमवर्धनः ॥ ५३ ।। प्रियमुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः । दयित मनोरम रमणीजीवित इसादि नाम स्यात् ॥ ५४॥ भीती भर्तरि सुदृशामप्रीतौ पुनरमूनि शठधृष्टौ । निर्लज्जदुराचारी निष्ठरदुःशीलवानादि ॥ ५५॥ गद्यसनत्यागाद्विप्रियकरणाच निष्ठुरालापात् । लोभादतिप्रवासात्त्रीणां द्वेष्यः प्रियो भवति ।। ५६ ॥ परदेशं जेद्यस्मिन्कुतश्चित्कारणालियः । स प्रवास इति ख्यातः कटावस्थो द्वयोरपि ॥ ५७ ॥ 'दृष्टं केसरधूलिधूसरमिदं व्योम क्रमाद्दीक्षिताः कच्छान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः । सख्यः संरणुताश्रु मुञ्चत भयं कस्मान्मुधैवाकुला एतानप्यधुनापि वजघटिता नूनं सहिष्ये धनान् ।' 'कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनां मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विपस्यन्दिनः । उन्मीलन्नवकन्दलावलिरसौं सह्याप्यसह्यायते तत्कि यद्विपरीतमत्र न कृतं तस्या वियोगेन मे|" कार्यजागरमालिन्यचिन्ताधं यत्र जायते । अवस्था विविधाः स्त्रीणां मृत्युश्चेवधेः परः ॥ ५८ ॥ 'अद्यैव यत्प्रतिपदुद्गतचन्द्ररेखा- सख्यं त्वया तनुरियं गमिता वराक्याः । कान्ते गते कुसुमसायक तत्मभाते वाणावली कथय कुत्र विमोक्ष्यसि त्वम् ॥ १. 'प्रीतिप्रकाशक.. २. 'रुचिर'. ३. "निष्ठुरारवणात'. ४. 'गतः कान्तः कुत. थित'. ५. 'अधुनाति-'. ६. कामिनाम्'. ७. 'सप्यौप्यशय्यायते'. ८. 'त्रिविधा, .
२ परिच्छेदः ] - शृङ्गारतिलकम् । १४१ 'निःश्वासैः सह सांप्रतं सखि गता वृद्धि ध्रुवं रात्रयः साध लोचनवारिणा विगलितं यत्मातनं मे सुखम् । प्राणाशा तनुतामुपैति च मुहुर्नूनं तनुस्पर्धया कंदर्पः परमेक एव विजयी यातेऽपि कान्ते स्थितः ।। 'नीरागोऽधरपल्लवोऽतिमलिना वेणी दशौ नाचिते मलायद्बालमृणालिकाधवलतामालम्बतेऽङ्गच्छविः । इत्यं सुन्नु विसंस्थलापि विरहव्यापद्विमर्दादियं सख्येव स्थिरशोभया दृढतर प्रत्यङ्गमालिङ्गिता ।' 'किं तत्र नास्ति रजनी किं वा चन्द्रो न सुनुरुचिः । येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ॥' 'प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्नाशाः कामं मनोभव जृम्भताम् । अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कयां हृदयमधुना किंचित्कर्तु ममान्यदिहेच्छति ।।. इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः। कंदर्पशरपीताद्या मा भूवन्वैरिणामपि ॥ ५९ ॥ यत्रैकस्मिन्वैिपनेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेभेम्णा करुणोऽसौ स्मृतो यथा ॥ ६० ॥ 'दग्धा स्निग्धवधूविलासकदली वाणी समुन्मूलिता पीता पश्चमकाकली कवलिता शीतयुतेः कौमुदी । छुष्टः स्पष्टमनेकरत्ननिचयो नाहं रतिः केवलं कंदपै दहता हरेण भुवनं निःसारमेतत्कृतम् ॥ 'वकं चन्द्रुमसा दृशौ मृगगणैः केशाः कलापिनने- मातङ्गैः स्तनमण्डलं अजयुगोल्लासो मृणालैरपि । १. 'यत्याक्तनैः ककणै.'. २. 'च्यालम्वा तु मृणालिकाधरलता'; 'व्यालम्पालक- मालिकाधवलता'. ३. 'सुष्टु'. ४. 'न किं च सोऽप्यरुचि'. ५. 'घातात. ६. 'मृते- ऽप्यन्यो'..७. 'मीलिता'... 'भुजलतालासश्चलत्पल्लवैः', 'भुजलतोल्लासो लतामण्टपै; 'भुजलतोल्लासैलतामण्डपै. , मूछी हरामि सा तव गतपुण्या नयनसलिलेन ।' 'पाशो विपाशित उपाहित एष सान्द्रः कर्पूररेणुरुपगूढमुरो नताङ्गि। पापेन येन गमितेति दशाममुष्मि- न्म विरामललितं मयि धेहि चक्षुः ॥ ग्लानो मुक्ताश्रुरुद्विमः सस्ताङ्गो मुक्तचेतनः। सचिन्तो दैन्यभागस्मिन्नेवंपायो जनो भवेत् ॥ ११ ॥ केपांचित्करुणभ्रान्तिः कारुण्यादैत्र जायते । एतस्य मिथुनावस्था विस्मृस रतिमूलजाम् ॥ ६२ ।। स्त्रीपुंसयोमवेदेप सापेक्षः संगमे पुनः । शृंगारवचनमायः करुणः स्यात्स चान्यथा ॥ ६३ ॥ तस्माच्छृङ्गार एवायं करुणेनानुमोदितः । सौन्दर्य सुतरां धत्ते निवद्धो विरलं बुधैः ।। ६४ ॥ कारुर्दासी नटी धात्री प्रातिवेश्या च शिल्पिनी । वाला प्रत्रजिता चेति स्त्रीणां ज्ञेयः सखीजनः ॥६५॥ कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः। माधुर्य नर्मविज्ञानं वाग्मिता चेति तहणाः ।। ६६ ।। विनोदो मण्डनं शिक्षोपालम्भोऽथ प्रसादनम् । संगमो विरहाश्वासः सखीकर्मेति तद्यथा ॥ ६७ ॥ 'मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी- वचः श्रुत्वेत्युच्चैर्विनिहितदशा चित्रफलके । १. 'द्रुतम्'. २. 'स्पासितः'. ३. 'इह'. ४. "विस्मारयति गूढताम्. ५. 'श्रीपुंसोश्च भवत्येष'. ६. 'साक्षेपः'.७'शृङ्गारवचने'.
. २ परिच्छेदः] शृङ्गारतिलकम् । १४३ न वक्तुं तन्वङ्गया शकितमथ चोदामविदल- कदम्बाकारेण प्रिय इति समाख्यायि वपुपा ।।' 'प्रत्यङ्गं प्रतिकर्म नर्मपरया कृत्वातिरूढस्मरा- दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च । सख्या यावकमण्डनं विरचितं पादे कुरङ्गीशा सस्मेरं विशदच्छदे च शयने दृष्टिः समारोपिता ॥' 'नीरन्ध्र परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्वाढं क्रियते यदस्य रुचितं चाटूच्चकैस्तन्यते । सख्या मुग्धवधूरियं रतिविधौ यत्नेन संशिक्षिता निन्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥' 'सुभग भगवता हृद्येतस्या ज्वलत्स्मरपावके- ऽप्यमिनिविशता प्रेमाधिक्यं चिरात्प्रकटीकतम् । तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥' 'कोपं विमुच्च कुरु नाथ वचो मदीय- माश्वासय स्मरकशानुकशां कशाङ्गीम् । एकाकिनी कठिनतारकराजकान्त्या पञ्चत्वमाशु ननु यास्यति सा वराकी ।' 'अमुं दधेऽशुकमहमत्र पादपे युवामलं निभृतमिहैव तिष्ठताम् । रहःस्थयोरिदममिधाय कामिनोः स्वयं ययौं निपुणसखी लतान्तरम् ।।' 'स्फुरति यदिदमुच्चैलोचनं तन्वि वाम स्तनतटमपि धत्ते चारुरोमाञ्चमालाम् । कलयति च यदन्तःकम्पतामूरुकाण्ड ननु वदति तदद्य प्रेयसा संगम ते ॥' १. 'चातुर्यमस्याः पुन.. २. 'कुरहीदृशः. ३. 'रुचिरं चाटुत्वमातन्यते'. ४, 'ता. रकनाथ-'. ५. 'रहस्तयो.. ६. 'पुर. ५. 'अमियत्ते.
. ११४ काव्यमाला। इसादि विविध सख्यो व्यापारं कुर्वते सदा। योपितां मत्रसर्वसनिधानकलशोपमाः ॥ ६८ ॥ इत्थं विरचनीयोऽयं शृङ्गारः कैविभिः सदा । अनेन रहितं काव्यं मायो नीरसमुच्यते ॥ ६९ ॥ इत्थं विचार्य प्रचुरमयोगान्योऽमुं निवनाति रसं रसज्ञः । तत्कान्यमारोप्य पदं विदग्धवक्रेपु विश्वं परिवम्भ्रमीति ॥७॥ इति श्रीरुद्रमविरचिते शृङ्गारतिलकामिधाने काव्यरसालंकारे विप्रलम्भो नाम द्वितीयः परिच्छेदः । तृतीयः परिच्छेदः । विकृताङ्गवचा कृत्यवेपेभ्यो जायते रसः । हास्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥१॥ किंचिद्विकसितैर्गण्डैः किंचिद्विस्फारितक्षेणैः । किंचिल्लक्ष्यर्द्विजैः सोऽयमुचमानां भवेद्यथा ॥२॥ 'पाणौ कङ्कणमुत्फणः फणिपतिनैत्रं ज्वलत्पावकं कण्ठः कुण्ठितकालकूटर्कटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सभगो वेपो वरस्येति मे गण्डोल्लासविभावितः पशुपतेर्हासोदमः पातु वः ॥' मध्यमानां भवत्येप विटताननपङ्कजः । नीचानां निपतद्वाष्पः थ्रयमाणध्वनिर्यथा ॥ ३ ॥ 'मुग्धे त्वं सुभगे न वेरिस मदनव्यापारमद्यापि तं नूनं ते' जलजैपिणायमलिना दृष्टो न भर्तीधरः । संख्यैवं हसितं वधू प्रति तथा सानन्दमाविर्भव- द्वक्त्रान्तर्गतसीधुवासरसिकैम॒ङ्गैर्यथा धावितम् ।।' १. 'योपितामत्र सर्वस्व निधानकलगोपमम्'. २.. 'कविना'.. ३. केपुचित्पुस्तके- प्वस्माच्छोकादने 'तव नाथानुरागोऽयं मद्विधैः कथमुच्यते। येनकापि प्रिया नीता पचव पुण्यकारिणा ।।' भय श्लोको वर्तते. ४. 'हासः. ५. 'ईक्षणः'. ६. 'द्विजः'. ७. 'पाण्यो.', 'याही'. ८. 'घटित.'. ६. 'ते जलजेक्षणेयम्', 'तेऽजदलैषिणायम्'. १०. 'सख्येत्यम्'. ११. 'वक्रान्तर्घन-'; 'वक्रान्तनव-'.
. ३ परिच्छेदः ] शृङ्गारतिलकम् । 'त्यक्त्वा गुअफलानि मौक्तिकमयी भूषा स्तनेष्वाहिता स्त्रीणां कप्टमिदं कृतं सरसिनं कण न वैर्हिच्छदम् । इत्यं नाथ तवारिधान शवरैरालोक्य चित्रस्थिति वाप्पाींकतलोचनैः स्फुटरवं दारैः समं हस्यते ॥ अस्मिन्सखीकरापातनेत्रोल्लासाङ्गवर्तनम् । नासाकपोलविस्पन्दो मुखरागश्च जायते ॥ ४ ॥ शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयात् । तत्रेत्थं नायको दैवहतः स्याहुःखभाजनम् ॥ ५॥ 'भर्ता संगर एव मृत्युवसति प्राप्तः समं वन्धुमि- यूनी काममियं दुनोति च मनो वैधव्यमावादृधः । वालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥' मूपातो दैवनिन्दा च रोदनं दीननिःसनः । शरीरताडनं मोहो वैवयं चात्र जायते ॥ ६ ॥ क्रोधात्मको भवेद्रौद्रः प्रतिशत्रू मर्पतः। रेखाभायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥ ७॥ 'यैः प्राणापहतिः कता मम पितुः क्षु युधि क्षत्रिय रामोऽहं रमणीविहाय बलवनिःशेषमेषां हठात् । भाखत्मौदकुठारकोटिघटनाकाण्डत्रुटत्कंधरा- स्रोतोऽन्तःस्नुतवित्रशोणितमरैः कुर्या कुधा निर्देतिम् ॥ मुखरागायुधोत्क्षेपखेदकम्पाघरग्रहाः । शक्तिशंसा कराधातो भृकुटी चात्र जायते ॥ ८॥ उत्साहात्मा भवेद्वीरो दयादानामिपूर्वकः । त्रिविधो नायकस्तत्र जायते सत्वसंयुतः ॥९॥ 1. 'बईच्छदम्. २ 'लोचनम्'. ३. 'सखि'. ४. 'नि स्पन्द... ५ 'पीडानाम- निशम्'. ६. 'लाभात्'. ७. 'भाषणम्'. ८. 'अमर्षण.'. ९ 'क्रुद्धप्राय.. १९. 'गुरो.. ११. 'क्रुषः'. . १९ १४६ काव्यमाला। . गाम्भीर्यौदार्यसौन्दर्यशौर्यधैर्यादिभूपितः । आवर्जितजनो जन्यनियूंढमौढविक्रमः ॥ १० ॥ 'अयि विहंग वराक कपोतकं विसृन घेहि धृति मम मेदसा । शिविरहं भवता विदितो न कि सकलसत्त्वसमुद्धरणक्षमः।।' 'सुखितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण । बैलिरथितदोऽस्मि यतो न याचितः किंचिदप्यधिकम् ॥ 'यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितं वजेणापि विकीर्णवह्निततिना मार्णालनालायितम् । मद्वसस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वजिणा युद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावणः ॥' धृतिगौद्धसमतिस्मृतिरोमाञ्चा भवन्ति चामुष्मिन् । विविधा वाक्यक्षेपाः सोत्साहामर्पवेगाश्च ॥ ११॥ भयानको भयस्थायिभावोऽसौ जायते रसः। शब्दादेविकृताद्रो वालस्त्रीनीचनायकः॥ १२ ॥ 'श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितवाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशुधूलिधूसरितः ।। 'प्रणयकलहसङ्गान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि । नवजलधरगर्जेीतयासौ कयाचि- श्रुटिततरलहारं सखजे प्राणनाथः ॥' 'कम्पोपरुद्धसर्वाङ्गैर्गलत्स्वेदोदविन्दुभिः । त्वया रुद्वैर्महीपाल वैरिभिर्वनितायितम् ॥' वैवर्ण्यमश्रु संत्रासो हस्तपादादिकम्पनम् । स्वेदास्यशोपदिक्प्रेक्षासंभ्रमाश्च प्रकीर्तिताः ॥ १३ ॥ १. 'वाढम्'. २. 'बलिरथितोऽस्मि नियतम्'. ३. 'यत्रैरावततीव्रदन्त'. ४. 'भी- सुक्य-'.५. 'गाटम्'. ६. 'चलित-'. ७, सर्वाङ्गगलन-'. ८. 'वया लव्धैः', 'व. यारब्धः.
३ परिच्छेदः ] शृङ्गारतिलकम् । १४७ जुगुप्साप्रकृति यो वीभत्सोऽहृद्यदर्शनात् । श्रवणात्कीर्तनाद्वापि पूत्यादिविषयाद्यथा ॥ १४ ।। 'लुठत्कमिकलेवरं स्त्रवदसृग्वसावासितं विशीर्णशवसंततिप्रसरदुग्रगैन्धान्वितम् । भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया- प्रवीणगुणकौणपं परिवभौ परेताजिरम् ।। नासांमच्छादनं वक्त्रकूणनं गात्रसंशतिः। निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥ १५॥ विस्मयात्माहतो ज्ञेयो रसो रसविचक्षणैः। मायेन्द्रजालदिव्यस्त्रीविपिनायुद्भवो यथा ॥ १६ ॥ 'सत्यं हृता त्वया हंस वनितानामियं गतिः । भ्रमन्त्येतास्तथाप्येतदिन्द्रजालं तदद्भुतम् ।।' गद्गदः साधुवादश्च स्वेदः पुलकवेपथू । दृष्टेनिश्चलतारत्वं विकासश्चात्र जायते ॥ १७ ॥ सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु । गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥ १८ ॥ 'धनमहरहर्दत्तं स्वीयं यथार्थितमर्थिने कृतमरिकुलं नारीशेषं स्वखङ्गविजृम्भितैः । प्रणयिनि जने रागोद्रित रतिर्विहिता चिरं किमपरमतः कर्तव्यं नस्तनावपि नादरः ॥' निरालम्वं मनो खैत्र वाढमात्मनि तिष्ठति । मुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥ १९ ॥ अष्टावमी रसाः पूर्व में प्रोक्तास्तत्र निश्चितम् । प्रसनीको रसौ द्वौ द्वौ तत्संपर्क विवर्जयेत् ॥ २० ॥ १. 'गन्ध्यदितम्'. २. 'नृत्यक्रियाप्रवीणकुणप परम्'. ३. 'गतेयः'. ४. 'यथायथम्'. ५. 'स्वपाहु-'. ६. 'यत्र'. ५. 'प्रोत्तास्तत्र विनिश्चितम्'; 'यथोक्तास्तत्र निश्चितम्'.
११८ काव्यमाला। , शृङ्गारवीभत्सरसौ तथा वीरभयानको । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥ २१ ॥ हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः । अद्भुतश्च तथा वीराद्वीभत्साच भयानकः ॥ २२ ॥ यो जन्यजनकावेतौ रसायुक्तौ मनीषिभिः । युत्त्या कृतोऽपि संभेदस्तयोर्वाद न दुप्यति ॥ २३ ॥ केचिद्रसविभागेषु भावाः पूर्व प्रदर्शिताः। खातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः॥ २४ ॥ रसादय इमे भावा रसाभिमायसूचकाः । पञ्चाशत्स्थायिसंचारिसात्त्विकास्तानिवोधत ॥ २५ ॥ शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः। प्रसेकं स्थैर्यतोऽन्ये च त्रयस्त्रिंशच्चराः स्मृताः ॥ २६ ॥ प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः । वाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः ॥ २७ ॥ शङ्कासूया भयं ग्लानिाधिश्चिन्ता स्मृति तिः । औत्सुक्यं विस्मयो हर्षी वीडोन्मादो मदस्तथा ॥ २८ ।। विपादो जडता निद्रावहित्थं चापलं स्मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ २९ ।। श्रमश्चपलता निद्रा स्वप्नो ग्लानिस्तथैव च । शङ्कास्यावहित्यं च हास्ये भावा भवन्त्यमी ॥ ३० ॥ दैन्यं चिन्ता तथा ग्लानिनिर्वेदो जडतास्मृतिः। व्याधिश्च करुणे ज्ञेया भावा भावविशारदः ॥ ३१ ॥ हर्षोऽसूया तथा गर्व उत्साहो मद एव च । चापल्यमुग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥ ३२ ॥ १. 'धर्मत.. २. 'द्वी'. ३. 'ये च'. ४. 'यथा'. ५, 'मति.. ६. 'भ्रमः'. ७. 'स्वमो हाँ ग्लानि.'. ८. 'जडताधृतिः', 'जडता मृतिः'. ६. 'वाच्या.. .
३ परिच्छेदः] शृङ्गारतिलकम् । १४९ अमर्षः प्रतिवोधश्च वितर्कोऽथ मतिधृतिः । क्रोधोऽसूयात्रु संमोह आवेगो रोमहर्षणम् ॥ १३ ॥ गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी। संत्रासो मरणं चैव वचनीयं भयानके ॥ ३४॥ अपस्मारो विषादश्च भयं वेगो मतिर्मदः। उन्मादश्चेति विज्ञेया भावा वीभत्ससंभवाः ॥ ३५ ॥ आवेगो जडता मोहो विस्मयो हर्षणं मतिः । इति भावाभिवनन्ति रसेऽस्मिनद्भुते बुधाः ॥ ३६ ॥ एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः। सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयः ॥ ३७ ॥ या नृत्यगीतप्रमदोपभोगवेषाङ्गसंकीर्तनचारुवन्धा । माधुर्ययुक्ताल्पसमासरम्या वाणी स्मृतासाविह कैशिकीति॥३८॥ शृङ्गारहास्पर्करुणरसानां परिवृद्धये । एषा वृत्तिः प्रयोक्तच्या प्रयत्नेन बुधैर्यथा ॥ ३९ ॥ 'सौन्दर्य शंशलाञ्छनस्य कविनिर्मिथ्यैव तद्वय॑ते सौभाग्यं क नु पङ्कजस्य रजनीसंभोगर्भनत्विषः । इत्यालोच्य चिराय चारु रुचिमत्रस्यत्कुरङ्गीहशो वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननम् ॥' 'हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं सौभाग्यैकगृह विलासनिकषो वैदग्ध्यसिद्धिध्वजः । साक्षीदं मर्दैवान्धवस्य निभृतं कस्यापि लीलानिधेः कक्षान्त खमण्डनं सखि नवं प्रच्छाद्यतां वाससा.॥ १. 'प्रतिवेगश्च'. २. 'अथ सहर्षः'. ३. 'शोकमर्षणम्', 'शोकहर्षणम्'. ४. 'इति'. ५. 'सर्वरसस्थिताः'; 'सर्वरसान्विता.'. ६. अस्माच्लोकादग्ने 'कैशिक्यारभटी चैत्र' इत्यादि प्रथमपरिच्छेदागत. श्लोकः केचित्पुस्तकेषु दृश्यते. ७. 'भौगैर्देशाङ्क: ८. 'कारुण्यरसातिशयसिद्धये'. ९. 'प्रयत्लेन प्रयोज्या विबुधैर्यया'. १०. 'भृग-. ११. 'शोभैव', 'शोमेहक्. १२. "भिन्न-'. १३. 'भोगस्यैव ग्रहम्'. १४. 'मधु-'. १५. 'लीलावधि... १६. 'सगच्छताम्'.
१५० काव्यमाला। 'समुछसत्काञ्चनकुण्डलोज्ज्वलप्रभापि तापाय बभूव येवलम् । विलासिनीरम्यमुखाम्बुजन्मसु प्रजज्वलुस्तेष्वकशाः कृशानवः ॥' या चित्रयुद्धभ्रमशस्त्रपातमायेन्द्रजालप्लतिलवितान्या । ओजस्विक्षरवन्धगाढा ज्ञेया बुधैः सारभटीति वृत्तिः॥४०॥ रोते भयानके चैव वीभत्से च विचक्षणः । काव्यशोभाकरी त्तिरियमित्थं प्रयुज्यते ॥ ११ ॥ 'शस्त्रोद्दारितकुम्भिकुम्भविगलद्रताक्तमुक्ताफलं स्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चचतुप्कायितम् । क्रोधोडावितधीरधोरणलसत्खड्डाप्रमुयाग्रह युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरम् ।।' 'नायं गरिवो गभीरपरुपं तूर्य तदीयं त्विदं नैते भीमभुजंगभोगरुचयो मेघा इमे तद्गजाः । इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुला म्लायद्वक्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥' 'पिबन्नसक्खंदन्मांसमाकपन्नन्त्रमालिकाम् । कबन्धसंकुले क्रोष्टा भ्रमत्येप महारणे ॥' इर्पप्रधानाधिकसत्त्वत्तिस्त्यागोत्तरोदारवचोमनोज्ञा । आश्चर्यसंपत्सुभगा चं या स्यात्सा सात्वती नाम मतात्र वृत्तिः॥४२॥ नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा । वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेपा मता यथा ॥ ४३ ॥ 'लक्ष्म्यास्त्व जनको निधिश्च पयसां निःशेषरत्नाकरो मर्यादानिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् । किं त्वकस्य गृहं गतस्य वडवावः सदा तृष्णया लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥' १. केवलम्'. २. 'वर्णोद्भुतदुर्विगाढा'; 'गुर्वक्षरदुर्विगाढा'. ३. 'रीति.. ४. 'चतु- प्काचितम्'. ५. 'मुक्ताग्रहम्'. ६. 'अदन्मांसम्'. ७. 'नदति'. ८. 'वृत्त्या'. ६. 'स. शाखा'.१०. 'लयशब्दा'.११. 'फ्रान्तस्य'. .
३ परिच्छेदः] शृङ्गारतिलकम् । १५१ 'स्फारितोत्कटकठोरतारकाकीर्णवतिकणसंततिः क्रुधा । दुनिमित्ततडिदाकतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः । 'अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्वपि जगन्ति । रक्तान्करोति सुहृदो मलिनयति च वैरिवदनानि ॥' 'निवृत्तविषयासङ्गमधुना सुचिराय मे । आत्मन्येव समाधानं मनः केवलमिच्छति ॥' प्रधानपुरुषमाया सद्वक्रोक्तिनिरन्तरा । भारतीयं भवेत्तिरिहास्याहताश्रया ॥ ४४ ॥ 'जन्मदेहवधन्धनादिकं तुल्यमेतदितरैः समं सताम् । यत्तथापि विपुलाचलाः श्रियः साहसैकपरतात्र कारणम् ॥' 'यशोदाकतरक्षस्य शासितुर्भुवनगृहाम् । वाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥' 'निर्भयोऽप्येष भूपालस्तद्ददाति द्विपां युधि । असत्तेषु यशः शुभ्रमादत्ते चेदमद्भुतम् ॥ इत्यादि रम्याः प्रविलोक्य वृत्तीदृष्ट्वा निवन्धाश्च महाकवीनाम् । आलोक्य वैचित्र्यमिदं विदध्यात्काव्यं कविः सज्जनचित्तचौरम् ४५ विरसं प्रसनीकं च दुःसंधानरसं तथा । नीरसं पात्रदुष्टं च काव्यं सद्भिर्न शस्यते ॥ ४६ ॥ विहाय जननीमृत्युशोकं मुग्धे मया सह । यौवनं मानय स्पष्टमिसादि विरसं मतम् ॥ ४७ ।। प्रवन्धे नीयते यत्र रस एको निरन्तरम् । महतीं वृद्धिमिच्छन्ति नीरसं तच्च केचन ॥४८॥ नखक्षतोच्छलत्यूतिठुतगण्डस्थलं रतौ । पिवामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥ ४९ ॥ १. 'स्पष्टितोत्कट-'. २. 'मधुरम्'. ३. 'वेदनादिकम्'. ४. "विपुलाचला श्रिय'; 'चटुला वरश्रिय.', 'विपुलाचलाश्रय'. ५. 'यशोदाहित-'. ६. 'आलोच्य चौचित्य- ७. 'यथा'. ८. अयं श्लोकः केषुचित्पुस्तकेषु नास्ति. ९. 'उल्लसत्पूतिमत्या'. १०. 'स्म- रामि'. ११. 'प्रत्यनीकमिद भवेत्', 'प्रत्यनीकरस यथा'.
१५२ काव्यमाला। तामेवानुचितां गच्छ ज्वलिता त्वत्कृते तु या । . किं ते कृत्यं मया धर्त दुःसंधानरसं त्विदम् ॥५०॥ दुर्जनो दयितः काम मंनो म्लानं मनोभवः । कृशो वियोगततायास्तस्या इत्यादि नीरसम् ॥ ५१ ॥ मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ । कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्विदं मतम् ॥ २॥ अन्येष्वपि रसेष्वेते दोपा वा मनीपिभिः । यत्संपर्कान्न यात्येव काव्य रसपरम्पराम् ॥ ५३ ॥ इति मया कथितेन पथामुना रसविशेपमशेपमुपेयुपा। ललितपादपदासदलंकृतिः कृतधियामिह वाग्वनितायते ॥ ५४॥ शृङ्गारतिलको नाम अन्धोऽयं ग्रथितो मया। व्युत्पत्तये निषेवन्तु कवयः कामिनच ये ॥ ५५॥ कान्या काव्यकथा कीडग्वैदग्धी को रसागमः । किंगोष्ठीमण्डनं हन्त शृङ्गारतिलक विना ।। ५६ ।। त्रिपुरवधादेव गतामुल्लाससुमा समस्तदेवनताम् । शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रेसादयति ॥ ५७ ॥ इति श्रीरुद्रमविरचिते शृङ्गारतिलकाभिधाने काव्यरसालंकारे हास्यादिरसनिरूपण नाम तृतीयः परिच्छेदः । भट्टश्रीमाधवकविप्रणीतं दानलीलाकाव्यम् । अस्ति स्वस्तिकरी समस्तजगतां निर्वाणगर्वापहा क्षोणीमण्डलमध्यभूपणमणिः काचित्पुरी माधवी । १. 'अत्र'. २. 'मानम्लानः'; 'गतो ग्लानिम्'. ३. 'कविपरम्पराम्'. ४. 'स्वयम्'. ५. 'वैदग्ध्यम्'. ६. 'मण्डलम्'. ७. 'तिलकाहते'. ८. 'विबुधनुताम्'. ९. 'प्रसाधयति'. केपुचित्पुस्तकेयु 'त्रिपुरवधादेव' इन्याद्यान्तिमार्या नास्ति. १०. कर्देशकाली प्रन्यान्ते स्फुटावेव.प्रणयिमाघवचम्पू-सुमद्राहरणादिप्रन्यकर्तुमण्डलेश्वरमहसूनोाघवभादय मिन्नो माधवमह.
दानलीलाकाव्यम् । १५३ रम्या कृष्णतरङ्गिणीसहचरी कर्मद्रुमोन्मूलिनी सत्यानन्दचिदात्मनोऽनवरतस्वेच्छाविहारस्थली ॥१॥ स्निग्धच्छायतरुप्रसूनविलसन्माधुर्यलोमभ्रम- कालिन्दीपुलिनोपर्ति पवनप्रालेयितप्राङ्गणम् । ब्रह्मेन्द्रादिसुरेन्द्रमृग्यमहिम प्रेमैकलम्यं पर पूर्णब्रह्मरहोविहारभवनं तत्रास्ति बन्दावनम् ॥ २ ॥ नित्यानेकफलप्रवालसुमनःशीतोष्णवर्षादिमि- यस्मिन्कालगुणैस्त्रिकालविदुषां याता मतिर्मुग्धताम् । श्रीराधामुखकर्णभूषणलसन्माणिक्यचन्द्रांशुम- नित्योद्यत्किरणैः क् एप समयो निर्णेतुमित्यजसा ॥ ३ ॥ ये राधारतिकान्तकोमललसत्पादारविन्दद्वय- प्रस्यन्दन्मकरन्दपानमुदितखात्मेन्द्रियेन्दिन्दिराः । धर्मादित्रितयं चतुर्विधमपि श्रेयस्तृणीकुर्वते तेषामेव परं मनः सुकतिनां यस्मिन्नरीनृत्यते ॥ १ ॥ क्रीडाकौतुकमीक्षितुं भगवतः सर्वे सुनन्दादयो ब्रह्मामर्त्यमुनीन्द्रसिद्धविबुधा नन्दबजानन्दिनः। भूत्वा चन्द्रकिकीरकोककलरुत्कादम्बमुख्यद्विना यस्मिन्कृष्णमृगादयो मृगवरा निर्वैरमध्यासते ॥ ५॥ तत्र श्रीरमणः कलिन्दतनयातीरोल्लसन्मालती- वल्लीपल्लवमल्लिकावलयितद्योतन्निकुन्जालिषु । वंशीगदविनोदनोदितमनोजन्मोपनीतव्रज- क्षामाङ्गीमिषवेदशेखरगिरां वृन्दैरलं क्रीडति ॥ ६ ॥ तल्लीलेक्षणविस्मतेक्षणगणरेणादयानादिव भ्रश्यद्भिर्भगणैरनगरभसादेणीढगानन्दिनः । त्रुध्यन्मौक्तिकदामकाञ्चनरणत्काञ्चीक्वणन्नूपुरैः ख्रसत्कुन्तलमालिकादिसुमनःसंधैर्बभौ केलिभूः ॥ ७ ॥ इत्यं मञ्जतरस्थलीषु नलिनीगेहेषु कल्लोलिनी- कूलान्तःपुलिनेषु च प्रमदयन्सोऽरीरमद्रात्रिषु । - २० .
१५४ काव्यमाला। - नानाकामकलाविनीतवनितामावैरनेकर्मुहु- मुष्णन्तीहृदयंगमैरपि मनः कंदर्पदापहः ॥ ८ ॥ आमीरार्भकमण्डलैः परिरतो वृन्दं गवां चारय- न्वृन्दारण्यपुरंदरोऽरुणभुवस्तीरे मनोहारिणि । गुञ्जावहंदलप्रसूनविहितप्रत्यङ्गभूपोत्सवो गायन्वेणुरवैर्दिवापि कृतिनः संलालयन्क्रीडति ॥ ९ ॥ एकस्मिन्दिवसेऽव्रजगजपति!पात्मजैरन्वितः प्रातर्नैव कृताशनो मुरलिकामापूर्य रम्यं वनम् । तत्र स्मैत्य वनस्थलीषु विहरन्प्रत्ययनानाविध- स्वेच्छाकल्पितकेलिभिर्विलसति प्रेमैकलभ्यो हरिः ॥१०॥ ऊचुर्गोकुलपालकाः क्वचिदमुं कृष्णं सुवासंलताः किंचिच्चिन्तय तत्र तान्त्रजपतिः प्रत्यब्रवीत्पश्यत । विक्रेतुं ब्रजसुन्दरीर्दधिपयो यान्तीः पुरं चेत्तदा याचध्वं पुरतः करं यदि न ता दास्यन्त्ययो लुण्ठत ॥११॥ श्रुत्वैवं वचनानि गोकुलपतेरारुह्य केचिद्रुमा- न्दूरादेव विलोक्य गोपयुवतीर्मन्द्रक्वणपुराः । धम्मिलग्रथितप्रसूननिकरैर्वीथीरलंकुर्वती- गोस्तन्यामृतपूर्णभाजनलसन्मौलीमुदावातरन् ॥ १२ ॥ वक्रोक्तिप्रखराः स्वभावचपला नन्दात्मजं संश्रिता- स्तस्थुगोकुलयोपितां तत इतः संवृत्य केचित्पुरः । पन्यानं प्रतिरुध्य कण्टकिलताकीर्णद्रुमैः संकुलं बोत्तंसवनप्रसूनसुभगा वेत्रकहस्तास्ततः ॥ १३ ॥ तावन्मुग्धवधूजनः कलरवं गायन्यशः श्रीपतेः काञ्चीनादविभिन्ननूपुररणत्कारैर्मुनीनामपि । अन्तः पञ्चशरानुगं विरचयन्नन्योन्यहासोक्तिमि- हस्तान्दोलनतालिकाभिरभितः खेलशनैरम्यगात् ॥ १४ ॥ १. यमुनातटे. २. अन्त:करणम्.
1 दानलीलाकान्यम् । १५५ आयान्तीजसुन्दरीः कलपदं स्वच्छन्दमुद्रीक्ष्य ता गायन्तीः प्रतिवीथि गोपएथुका वेत्रोल्लसत्पाणयः । वल्गन्तश्च मुहुः सहासशपथं संत्रासयन्तश्च ता धावन्तश्च ततस्ततो रुरुधिरे प्रत्येकमत्युद्धताः ॥ १५ ॥ काश्चित्वापि निलिलियरे तत इतो निर्गत्य काश्चिद्ययुः काश्चित्संभ्रमवीक्षणाश्च चकिताः काश्चित्पुनः प्रत्ययुः । सर्वास्ताः प्रतिषिध्य काश्चन पुनस्तानब्रुवन्निर्भया रेरे ब्रूत निरुन्ध केन युवतीः के कस्य वान्तर्बजे ॥ १६ ।। किं प्रबहमिर्वयं विधिकराः सूनोर्बजाधीशितु- दीनीनस्य विहारिणो वनभुवि खैरं रस ऽमुना। आदातुं दधिदुग्धयोः करमितः सर्वे वयं पिता- स्तबृहीत सुखेन गोपवनिता दत्त्वा स्वकीयान्पथः ॥ १७ ॥ तच्छ्रुत्वा परिहस्य ता अपि मिथः संवीक्ष्य तानूचिरे तिर्यकुश्चितकंधरैः करतलैर्दत्त्वासछत्तालिकाः । एतैरेव मुखैरभीप्सथ पयः पातुं दधि खादुम- त्तत्मक्षाल्य निजान्यमूनि न चिरादागच्छतागच्छत ॥ १८ ॥ काचिद्रोपनितम्बिनी निजकरणोद्धृत्य किंचिद्दधि खीयं पश्यत जक्षतेति वचनं व्याहृत्य वक्रान्तिकम् । गत्वा गण्डतले विलिप्य झटिति प्रत्यागमत्तान्तरं दृष्ट्वा तज्जहसुभृशं करतलैरुच्छरदुस्तालिकाः ॥ १९ ॥ काचित्पाणितलेन कंचिदपरं हत्वा कपोलस्थले निर्भत्स्यैष कर ग्रहीष्यति मुखं शक्ति च पश्यन्विति । जल्पन्ती पुरतः कैराङ्गुलिपति सदर्शयित्वा मुहुः सर्वाभिः सममन्यतः प्रचलिता मार्ग परित्यज्य तम् ॥२०॥ गच्छन्तीरपथेन वीक्ष्य जहसुः संकूर्य गत्वा पुरो याता यूयमिति प्रजरप्य शिरसः पात्राणि चापाहरन् । १. दानिना प्रमोः. २. अगष्ठम्, १५६ काव्यमाला। मूढास्तिष्ठत दूरतः किमुत नो नानीथ दासीस्तदे- त्यूचुस्तान्वृषभानुगोपजनुपः किं वा न तां पश्यत ॥ २१ ॥ कण्ठं श्रीमणिरनमौक्तिकसरैर्नानावतंसैरपि प्रत्यङ्गं वलयैः सुवर्णलशुनै रत्नाङ्गुलीयैरपि । हारैः काञ्चनचन्द्रकाविधुभिः सीमन्तसंदर्मित- भ्रानच्चम्पककुमलैश्च तिलकैरुद्दीपयन्ती स्मरम् ॥ २२ ॥ नानारत्ननिबद्धकाञ्चनलसत्पर्णच्छदैर्मक्षुलै- मुक्ताभिः परितो लसत्तनुतरं चित्राश्चलं बिभ्रती । अन्तः कृत्रिमपुत्रिकाविरचनैर्हमैश्च रौप्य रसै राजन्नीलदुकूलमुत्कलयती नीवीं करेण क्वचित् ॥ २३ ॥ खेलत्खननलोचना नसि लसन्मुक्ताग्ररत्नान्तर- भ्राजिष्णु प्रसरत्सुवर्णकुसुमा बन्धूकरम्याधरा । संसर्पदशनांशुभिर्दश दिशोऽप्युद्धासयन्ती मिथः क्रीडन्ती ललितादिभिः प्रियसखीवृन्दैः समं सस्मिता ॥२४॥ केशप्रन्थिसुरङ्गदोरकमिलत्सौवर्णपथ्यामणि- द्योतन्मौक्तिकगुच्छवेल्लितगतद्योतन्नितम्बाम्बरा । अन्तः सेयमयाविरास शनकर्मबीरम स्वनै राधा माधवमाकुलं कलयती नेत्राञ्चलान्दोलनः ॥ २५ ॥ (चतुर्मिः कालापकम् ) मौलौ चन्द्रकशेखरं श्रवणयोरर्कप्रमे कुण्डले मुक्ता नस्यलिके ललामतिलकं कण्ठे मणि कौस्तुभम् । पाण्योः कङ्कणमङ्गदं च हृदये हार तथा मौक्तिकं कौशेयं कनकप्रभं कटितटे विभ्रवणत्काञ्चिकम् ॥ २६ ॥ दृष्ट्वा तां निजवल्लभामतिरसादागत्य धृत्वाश्चलं नीलेन्दीवरकान्तकोमलतनुः किंचिछललोचनः । शिजबूपुरमञ्जुलैर्निजपदैरुलासयन्भूतलं सर्वाङ्गे वनमालया विलसितः सस्मेरमूचे हरिः ॥२७॥(युग्मम्) १.नासिकायाम्.
दानलीलाकाव्यम् । १५७ मुग्धे त्वं बहुभिर्दिनैरसि मया प्राप्ताद्य चौर्येण य- नित्यं यासि सहालिभिर्दधिपयो विक्रीय विक्रीय वै । विज्ञेयं कमलाक्षि तत्परमतो मत्तेमकुम्भस्तनि त्वां मुश्चामि तदैव सुन्दरि यदा सर्वस्य दद्याः करम् ॥२८॥ इत्याकर्ण्य कशोदरी कलपदं मन्दाक्षमन्दाक्षरं प्रत्यूचे वचनानि सस्मितमुखी त्वं तस्करो वा वयम् । तन्नानासि न कि त्वमेव जननीवद्धो यदोलूखले त्वां किचिन्नवनीतचोरमजहात्तत्कि त्वया विस्मृतम् ।। २९ ।। रे रे चञ्चल मुश्च मेऽवलमलं कि लोचने नर्तयेः सख्यः पश्यत पाष्टर्यमस्य महितां यन्नात्मनो रक्षति । , इत्युक्त्वा करतोऽपहत्य वसनं वंशी च गत्वा हुतं पश्चादेहि गृहाण चेत्यभिदधे साङ्गुष्ठदर्शस्मितम् ॥ ३० ॥ किं कुर्मः सखि नन्दगोकुलपतिर्जात्याभिजात्यादिभि- यायांस्तत्तनयस्ततोऽप्यतितरां मान्यो ह्ययं मादृशाम् । इत्यालोच्य मयानपाश्रितमते रागोऽस्य संस्थीयते नो चेदद्य तथा क्रियेत पुनरप्येवं न कुर्याद्यथा ॥ ३१ ॥ तत्तस्याः प्रसमीक्ष्य हेलनममी लज्जानमत्कंधरं गोविन्द स्मितरोषसुन्दरमुर्ख तिर्यक्चललोचनम् । दृष्ट्या चोद्तमन्यवः कतधियस्तन्नोदिता लुण्ठितुं धावन्तः परितः पुरंधिनिचयं संत यांचक्रिरे ॥ ३२ ॥ जक्षुः केचन नव्यगव्यमितरेऽमत्राणि जगुस्ततः श्रीदामाद्यनुगा व्रजेशजनुषो व्यानेनिरे वल्लवीः । इत्थं संभ्रमिता बृहत्कलकलैरूचेऽथ काचिद्वधू- रायाता किमु लुण्ठितुं करमुतादातुं समादत्त तत् ॥ ३३ ॥ वाचो नः शृणुतान्यतोऽस्त्यपि करो गव्यस्य जातु क्वचि- द्रीतिः काचन कल्पिता नवनवा युष्माभिरत्रैव वा । कस्तूरीघनसारकं मलयजं चैलालवङ्गादयो विद्यन्तेऽत्र कर ग्रहीष्यति पुनः कस्यान तत्कथ्यताम् ॥३४॥ - .
१५८
काव्यमाला।
अस्त्येतद्विपिनं वयं युवतया द्रव्यं च गव्यं परं
कंसश्चोग्रनृपोऽनयं कुरुथ यत्तन्नैव युक्तं ततः ।
किंचान्यत्पथिकाः कचित्कलपदं गायन्ति लोलेक्षणा
वक्षोनेषु च विभ्रति क्वचिदहो गत्वाञ्चलं योपिताम् ॥ ३५॥
श्रुत्वा तद्वचनानि गोकुलपतिः प्रत्यव्रवीत्सस्मितं
दचा यात करं मदीयमखिलं गत्वा नृपस्याग्रतः ।
ब्रूताहं न ततो विमेमि दलिका चूर्णस्य चैपास्ति व-
स्तस्यापि त्वरितं प्रयात कुरुत खंखं मनोभावितम् ॥ ३६ ॥
ऊचेऽन्याथ तदा त्वमेव नृपतिः साधूच्यतां तत्करः
कस्यायं च कियान्व्रजेश वनिताहल्लोचनानन्दन ।
कर्णाम्यां परिपीय-तत्कलगिरः संजातरोमोद्मा
तस्यापाङ्गतरङ्गभङ्गिननितानगातुराङ्गी वधूः ॥ ३७॥
मौलौ गुम्फितमल्लिकामुमनसां नेत्राञ्जनानां तथा
कर्णवर्णजपर्णयोश्च मधुनो विम्बाधरस्यन्दिनः ।
हारस्यापि च मौक्तिकस्य लुठतः कण्टे कटिप्रक्कण-
त्किकिण्याश्च करं प्रयच्छत रणन्मखीरयोः कोटिशः ॥३८॥
तद्भावं मनसावगाह्य मदनेनाविद्धचित्ता भृशं
स्मेरास्या न च भापितुं समगकंछज्जानमत्कंधराः ।
ईपत्कुचितलोचनाञ्चलशरैर्चन्त्यो मुहुर्माधवं
धृत्वा धैर्यमवोचिर कुचपटैरावृत्य किचिन्मुखम् ॥ ३९ ॥
श्याम श्यामतमालमखुलतनो दास्यस्तवाज्ञापय
खच्छन्दं तदशान गोरसमिमं साकं स्वकैः किकरैः।
अन्यचापि यदीप्सितं तव हि तद्वक्तुं न शक्ता वयं
गन्तुं चापि. भवत्पदाम्बुजरजः काहामहे केवलम् ॥ ४० ॥
नीलेन्दीवरलोचनः स भगवानाकर्ण्य तत्सादरं
ताभिर्दत्तमथाजजक्ष सखिभिः साकं दधि स्वादुमत् ।
एतस्या मदमत्तवारणगतेः स्निग्धं निरम्बूज्वलं
मृष्टं नैव तवेति संपरिहसन्नानाविनोदैविभुः ॥ ४१ ॥
दानलीलाकाव्यम् । १५९ भुक्त्वा तद्दधि मक्षुकुलसदनं गत्वा रहः केलिमिः कृत्वा तल्पमनल्पकल्पकुसुमैर्दच्चा सुधामाधुरीम् । पीत्वा च स्वरतोऽप्यरीरमदलं धृत्वा हृदा राधिका श्रित्वा मन्मथकोटिजित्वरवपुर्तुत्वा नितम्बाम्बरम् ॥ १२ ॥ रसावेशादेषा धृतसुभगवेषा वरतनु- वरं वारंवारं विततनयना वल्लववधूः । निरीक्ष्य प्राभ्यन्मदनकदनक्लान्तवदना न रन्तुं गन्तुं वा गृहमलमभूद्विस्मृतगतिः ॥ ४३ ॥ इत्यं तन्महदद्भुतं व्रजभुवा भाग्योदयं वीक्ष्य ते ब्रह्मेन्द्रप्रमुखाः सुराः सुमनसां उन्दैमुदावाकिरन् । एतैः किं चरितं तपः श्रुतिशिरःसंगीततत्त्वेन य- स्वच्छन्दं विहरन्ति जन्म सफलं कुर्वन्ति चेत्यस्तुवन् ॥४४॥ धन्येयं धरणी ततोऽपि मथुरा तत्रापि वृन्दावनं तत्रापि ब्रजवासिनो युवतयस्तत्रापि गोपाङ्गनाः। तत्राचिन्त्यगुणैकधामपरमानन्दात्मिका राधिका लावण्याम्बुनिधिस्त्रिलोकरमणीचूडामणिः काचन ॥ ४५ सौभाग्यं भगवत्मियापि नियतं वक्षःस्थलस्थायिनी मुक्तिश्चापि पदारविन्दमधुनः सौगन्ध्यमाकाहति । यस्याश्योपनिषद्रहस्यमपि तद्ब्रह्माद्वयं केवलं विज्ञानात्मकृपावलोकनमतस्तां वर्णितुं कः क्षमः ॥ १६ ॥ मदनरसिकमौलेबलवीभिः सहैवं विविधललितलीलाकौतुकालापितानि । भगवति रतिमन्तः शृण्वतामादरेण बनविपिननिवासं संविध्यर्जनानाम् ॥ १७ ॥ तपनतनयातीरे गुञ्जन्मधुव्रतमञ्जुल- प्रसवनिकरैजत्कुलेऽम्बुजद्युतिरञ्जिते ।
म्॥४८॥ श्चित्कणोटांवद्यावनवसतिरभूद्विष्णुशमा द्विजन्मा सोमेनेष्ट्वा च येनोत्तरवयसि पुनर्मुक्तिदामेत्य काशीम् । मोनिर्वाणसामन्यनुपमविधिभिः कीर्तिमास्थाप्य लोके संन्यस्याशेषकर्माध्यगमि पदमहो नैति यस्मिन्मनोऽपि ॥ ४९ ॥ अजनिषत तनूजास्तस्य षड् यः कनीया- नखिलगुणगरीयांस्तत्र यज्ञेश्वराख्यः । अजनि च तनयोऽस्माद्वाचिदेवोऽस्य चास्ता- मगणितगुणधामा लक्ष्मणो माधवश्च ॥ ५० ॥ आद्यो वंशावतंसः मुरुगुरुसदृशः प्रज्ञया विष्णुदेवः ख्यातो यश्चक्रवर्तीत्यनुपमकवितालब्धकीर्तिः कवीनाम् । वृन्दारण्येन्दुनन्दात्मजपदनलिनद्वन्द्वनित्यानुवृत्त्या प्राप्तान्तःप्रेमभक्तिप्रमुदितहृदयो नन्दनो माधवस्य ॥ ४१ ॥ तस्यासंस्तनयास्त्रयोऽपि सुधियो रामः क्षमाचन्द्रमाः श्रीमान्विश्वपतिश्च माधव इति ख्याता गुणाम्भोधयः । तत्राकारि कनीयसा सुकृतिना चेतश्चमत्कारक काव्यं कृष्णकपामिलापमनसा श्रीदानलीलाभिधम् ॥ १२ ॥ वसुकररसेन्दु(१६२८)वर्षे पक्षे शुक्ल चतुर्दश्याम् । चन्द्रे तपसि कतेयं वारीग्रामे सुराज्ञि शूरजने ॥ १३ ॥ इति श्रीमदृन्दावनचन्द्रचरणारविन्दमकरन्दास्वादमुदितमनोमधुकरण भश्रीमन्माधवेन कृत दानलीलामिध काव्य समाप्तम् । . ।
No text on this page.