Allahabad University, Allahabad
Shushaptivrattam
Front matter
श्रीनारसिहसंस्कृतकलाशालाग्रन्थमाला-८
चिट्टिगृडूरग्रामस्थश्रीनारसिंहसंस्कृतकलाशालायाः
प्रतिष्ठापकाध्यक्षेण
श्री. ति. गु. वरदाचार्येण
प्रणीतम्
॥सुषुप्तिवृत्तम् ॥
WITH A FOREWORD
BY
Mahamahopadhyaya Vidyavacaspati
S KUPPUSWAMI S'ASTRI Avl, MAIES, (Retd)
Retired Professor of Sanskrit and Com Philology, Presidency
College Retir d Curator Oriental Manuscripts Library
Madras Honorary Professor of Sanskrit, Dean of
the Faculty of Oriental Studies, Annamalı
Universizy Annamalainagar
ग्रन्थकर्ता प्रकाशितम्
1937
[अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृता.)
283794
PEINTED BY
V VENKATESWAPA SASTRULU
OF V RAMASWAMI SASTRULU & SONS
AT THE
V4 II LA
PRFSS
MADRAS-1937
FOREWORD I have much pleasure in acceding to the request of my friend, colleague and former pupil Mr S T G Varadācārı M A, Principal, Narasimha Sanskrit College, Chittigudur Masulipatam, that I should write a short foreword to his Sanskrit poem- सुपुतिवृत्तम् as This short poem of three cantos is, as its significant title indicates, presented in the form of a sleep-muse The muser, here, is the author himself, who is a sincere and sober votary of Indian culture, more especially in its Samsbrta form of the spirit of Bhāratavarsa, embodied in India's cultural heritage The first canto describes how he ponders over the contrast between India's present and India's past-the contrast between an age of ink, paper and machine and an age of warm life, reality and free manhood , how he is greatly agitated by allowing his mind to dwell upon the social, economic and political welter in which India finds herselt to-day, mainly as a result of her sons and daughters being prone to imitate rather than create being carried away by the 11 seductive veneer of artificially engineered uniformity in the modern Indian world and losing sight of the fact that it is a far cry from uniforinity to unity and deplorably missing the potency of the spirit of a natural, free, and organic synthesis, which forms the most precious part of ancient India's bequest to modern India , and how getting tired of this mental turmoil, he resigns himself to God and goes to sleep In the second and third cantos, he describes his dream, in which he sees God and has the happy privilege of listening to His words of wise, inspiring and loving premonition and counsel closes with an appropriate and thrilling prayer in verses 35 to 39.Canto III. The poem This is a lyric which moves, with delightful effect, on the sylvan quiet, content and purity of mother India's inward life as its inntif and culminates in mahātmıc s'anta as its dominating Rasa. No Sahrdaya is likely to miss, in this poem, the telling and preponderating suggestion of the moderå type of s'anta Rasa, which may be called the Mahātmic s'anta, and with which the whole poem, and more especially the third canto, pulsates, could a Sahrdaya resist the temptation of enjoying repeatedly the forceful references, in verses 35 to 39 of canto III, to the Soul force of mother-India, as nor symbolised in the unsurpassably great personality of Mahātma Gandhi, who may be said to form a blend of the Alambana, on which hangs the Mahātmic s'ānta, the chief Rasa of the poem and the uddıpana, by which it is enkindled and kept up. Mr Varadācārı has successfully employed, in his poem, many of the good elements of Kālıdāsan Vaidarbhi, such as an appropriate tempo and a happy consonance of sound and sense. I have read this poem three times, and portions of it, many times, with a keen enjoyment of its beauties I am not exaggerating when I say that the style of this poetic composition exhibits a raciness, a freshness and a juicy vigour, which place this author far above the common run of the Sanskrit composers of the twentieth century वैदर्भीवल्लभस्येमा कालिदासस्य पद्धतिम् । पश्यन्तः स्वप्नवृत्तेऽस्मिन् दिष्ट या वर्धामहे वयम् ॥ I am sure Annamalasnagar } (sa) S KUPPUSWĀMI S'ĀSTRI.
॥ गुरुनमस्कारः ॥
परश्शतच्छात्रजनस्य यस्य
स्तुतौ गिरो मे प्रथमावभासः ।
गुरुस्स मेऽत्रैवमुपक्रमोक्त्या
शिवं ब्रवीतीति जितं मया हि ॥
इति
ग्रन्थकर्ता।
No text on this page.
॥ श्रीः॥
॥ सुषुप्तिवृत्तम् ॥
॥ प्रथमः सर्गः॥
आद्यया रामभक्तानां राजमौलेर्द्वितीयया ।
तृतीयया रमावाण्योरीश्वर्यास्सीह चोदितः ॥१॥
विनिर्मलं लोकहितं विधात
वासः स्वचेतस्सदृशं वसानाम् ।
मितानुयातेन सुसंस्कृतेन
प्रहर्षयित्री वचसोपदेष्ट्रीम् ॥२॥
महात्मनानो ग्रहणे श्रुतौ च
प्रफुल्लनेत्रां विनिमीलिताक्षीम् ।
सत्सङ्गसम्मोदनिकामतृष्णां
परेगितज्ञामिह तां स्मरामि ॥३॥
सुषुप्तिवृत्तम्
नमः कपटयाचित्रे धृतवामनमूर्तये ।
पुरुषोत्तमभूताय बलिदर्पविदारिणे ॥४॥
सन्त्रातुमिष्टिं पितरं स्ववाल्ये
पितुर्वचः पालयितुं प्रजाश्च ।
प्रजास्समाराधयितुं च दारान्
तत्याज यस्तं प्रणमामि भूपम् ॥ ५॥
हौणी मया ते गमिता हि दास्य
समुज्झिता श्रीरपि सुप्रसन्ना ।
अनन्यचित्तो भवती भजामि
प्रसीद तस्मान्मयि दैवि वाणि ॥६॥
ललितामेव वितन्वन् सृष्टिं स्रष्टारमप्यतिशयानः ।
औचित्याः मूर्तिमें भजनीयः कालिदासोत्र ॥७॥
प्रथमः सर्गः
३
देशः प्रसिद्धो भरतस्य नाना
वशस्य कर्तुः कुरुपाण्डवानाम् ।
महात्मनो मानसवद्विशालो
भुवोऽस्ति मध्ये हृदयायमानः ॥ ८ ॥
नूनं जगन्नाथनिवासभूर्यो
विश्वम्भराया हृदयस्वरूपः ।
अङ्गेषु काये बहुषु स्थितेषु
हृद्येव जागर्ति परात्परो हि ॥ ९ ॥
युगे युगे सम्भवता क्षयस्य
दुष्टात्मनां व्याजवशेन विष्णुः ।
दशापि वारानवतीर्य यत्र
स्वपक्षपातं विशदीचकार ॥ १० ॥
सुषुप्तिवृत्तम्
लोकस्य तापप्रशमाय तापं
विष्णोशिशवस्यापि च धर्मपत्न्यो ।
यत्रापतुः सेतुहिमालयौ तौ
यस्यावधिदक्षिण उत्तरश्च ॥ ११ ॥
यस्याभ्रचुम्बीनि न शक्नुवन्ति
शृङ्गाणि माः सशरीरमाप्तुम् ।
हिमालयो रक्षति वत्स एषः
यमुत्तरस्या दिशि दुर्जनेभ्यः ॥ १२ ॥
यस्यात्मजाताः परिणीय सिन्धूः
तज्जानिरित्याप्तयशास्समुद्रः।
रक्षां विधत्ते न तथाऽन्यदिक्षु
पुत्राद्धि जामातुरियाविशेषः ॥ १३ ॥
प्रथमः सर्गः
दैवात्तु वायव्यदिशि प्रपन्नः
उच्चैश्शिरा नीचनगाश्रयं यः ।
मुहुर्मुहुर्ममणि भिद्यतेऽन्यैः
अपथ्यसेवीव बली रुजाभिः ॥ १४ ॥
यो जन्मनात्मानममस्त पूतं
तपस्यया पूततरं च गौर्याः ।
हिमालयस्स्थावररूपतोऽपि
सर्वोन्नतत्वं वितनोति यस्य ॥ १५ ॥
विधाय तन्वामिव रक्तनाडीः
पुष्टिप्रदा यत्र नदीविधाता ।
स्वविस्मृति वारयितुं कचित्तु
वृष्ट्यम्बुनिन्नत्वमपि व्यधत्त ॥ १६ ॥
६
सुषुप्तिवृत्तम्
क्वचिद्धिमोस्रः क्वचिदग्निरश्मिः
कचित्समांशुः सविता प्रसूय ।
यत्राखिलस्थावरजङ्गमानि
सझेपमादर्शयते धरण्याः ॥ १७ ॥
यो नूनमूधो भवति क्षिते!
रत्नौषधिक्षीरनिधानभूतम् ।
वत्सो हिमाद्रिः कथमन्यथा तु
तत्रैव नित्यं कृतसन्निधानः ॥ १८ ॥
यत्रापगाभिः प्रविदार्य मध्यं
भुवोऽपहृत्य प्रणिधाय तोये ।
समर्पितैः सिन्धुपतेः कियद्भिः
रत्नस्स रत्नाकरसंज्ञकोऽभूत् ॥ १९ ॥
प्रथमः सर्गः
७
सम्प्रेष्य वह्नर्मुखतो हविर्यो
मेघैस्ततः प्रापितवृष्टिसम्पत् ।
लोकान्तरेणापि समं प्रपेदे
चिराय योगं किमुतान्यदेशैः ॥ २० ॥
सितासितश्यावसुवर्णवर्णैः
बिभर्ति कान्ति निचितो मनुष्यैः ।
यः कैरवेन्दीवरहल्लकायैः
मनोऽभिरामस्य महाहृदस्य ॥ २१ ॥
अनादिभूताः श्रुतयश्च यत्र
कल्पेषु दृष्टा ऋषिभिर्महद्भिः ।
शास्त्राणि चापि ग्रथितानि सन्ति
त्रिवर्गमोक्षौपयिकानि विज्ञैः ॥ २२ ॥
८
सुषुप्तिवृत्तम्
श्रुत्युक्तधर्माचरणाजनानां
यः कर्मभूमिः प्रथितः पृथिव्याम् ।
श्रुत्युत्तमाङ्गप्रतिपादिता धीः
यं ज्ञानभूमिं च ततान पूर्वम् ॥ २३ ॥
उच्चावचैरास्तिकनास्तिकाद्यैः
मतैश्च भाषाव्यवहारभेदैः ।
विचक्षणा विश्वविधातृमृष्टं
यं विश्वविद्यालयमामनन्ति ॥ २४ ॥
स्वधर्मनिष्ठो महितो द्विजादिः
ज्ञानप्रदा निर्जरभारती च ।
आर्षे मतं प्रापकमात्मयोनेः
यस्य प्रतिष्ठामतुलां चकार ॥ २५ ॥
प्रथमः सर्गः
९
अयं स देशः स्पृहणीयसम्पत्
अन्याहशीमद्य बिभर्ति रीतिम् ।
भूकम्पतो नष्टपुराणभूतिः
प्रक्रान्तनिर्माण इव प्रदेशः ।। २६ ॥
विप्रस्य सम्पादयिता द्विजत्वं
संसाधकस्तस्य च भाविभूतेः ।
यस्सर्वसंस्कारमहत्तमोऽभूत्
स यज्ञसूत्रैकफलो महोऽस्ति ॥ २७ ।।
भिक्षामटन् वीतसुखो गुरोर्यः
शुश्रूषयाऽभूत्समुपात्तविद्यः ।
स भोगतृष्णश्च महाभिमानी
क्रीणाति विद्यां गुरुतो धनेन ॥ २८ ॥
१०
सुषुप्तिवृत्तम्
वेदास्तदङ्गानि च यानि सर्वो
द्विजन्मसु ज्ञानकृते पपाठ ।
एकस्सहस्रेषु न तान्यधीते
विद्यास्वहो वित्तकरीपु रक्तः ॥ २९ ॥
यो ब्रह्मचर्यव्रतपूरणादिः
धर्मप्रजोत्पत्तिपरावधिश्च ।
सर्वोपकारार्थमनुप्रविष्टः
निजोपभोगाय स आश्रमोऽस्ति ॥३०॥
निर्विश्य भोगाननुभूय दुःख
प्रसूतिमुत्पाद्य गृही च यत्र ।
पत्नीद्वितीयो वनमाविवेश
शान्तं प्रशान्यै प्रविलुप्त एषः ॥ ३१ ॥
प्रथमः सर्गः
११
समीक्ष्य संसारमसारमस्मात्
विरज्य संन्यस्तसमस्तसङ्गः।
यमास्थितो द्वन्द्वचयं व्यतीत्य
ब्रह्मश्रितोऽभूद्विरलोऽस्ति तुर्यः ॥ ३२ ॥
नित्याग्निहोत्रा नियतेन्द्रियाश्च
तपोधनाश्च श्रुतपारगाश्च ।
शरीरधृत्यै भृतिमीप्सवश्च
शिष्योपदेशव्यसनाभिभूताः ॥ ३३ ॥
श्वःश्रेयसायेह परत्र चापि
खेदं भजन्तस्सततं जनानाम् ।
वाक्यात्परेणाचरणेन युक्ताः
पुराग्रजा जानपदाग्रजाताः ॥ ३४ ॥
१२ सुषुप्तिवृत्तम् न ब्रह्मनिष्ठा न जितात्मता वा न यागकर्मापि न वेदपाठः। नाप्यग्निकार्य न विधिश्च सान्ध्यो विप्रस्य शिष्टं बत यज्ञसूत्रम् ॥ ३५ ॥ पित्रे च सत्याय विपर्ययाय हिसाविधेः स्वं सकलं विहाय । रामादिभिः पूततमे तु वर्णे जाता जहत्यन्त्यकृते बताद्यान् ॥ ३६ ।। त्राणाय शस्त्रं न तु पीडनाय हिंस्रान्विनेतुं मृगया मुदे न । दानार्थमर्थो न तु भोगहेतोः भोगाश्च धीरत्वयुजे न भुक्त्यै ॥ ३७ ॥ :
प्रथमः सर्गः
दण्डो न कोपाढनुकम्पया तु
नृपः प्रजाभ्यो न तु तास्तदर्थम् ।
इत्थं स्थिते पूर्वमहीशवृत्ते
विपर्ययस्तस्य तु दृश्यतेऽद्य ॥ ३८ ॥
दोहोऽस्ति यत्कामदुहो धरित्र्याः
शरीरिपोपात् स्थितिकारणं च ।
विष्णुत्वमापादयितु स्वकर्तुः
जहाँ धनार्थी कृषिकर्म वैश्यः ॥ ३९ ॥
अभ्यर्यतेऽग्निः प्रजया समं यान
द्रव्यं फलं चाध्वरकर्मणो ये ।
विभिः पशूनां परिपालन वं
लोकस्य भूयोऽपकृतं विहाय ॥ ४० ॥
सुषुप्तिवृत्तम् काचित्कवस्तुन्यपि दुर्लभत्वं अपास्य सुप्रापमिदं विधातुम् । यल्लोकहेतोर्विहितं विशां प्राक् स्वार्थाय तत्कर्म चरन्ति तेऽद्य ॥ ४१ ।। दिवानिशं पापमिव प्रवृद्धं दातृग्रहीत्रोरवसादनं च । अन्ते समूलं स्वयमेव नश्यत् विशां कुसीदं प्रथमाऽस्ति वृत्तिः ॥ ४२ ॥ मुखादिषूच्चावयवेषु सत्सु यः पूज्यते च ध्रियते च मूर्ध्नि । बिभर्ति तन्वा अतनुं धुरं यो नीचैः स्थितो मूलमिवालयस्य ॥ ४३ ।।
प्रथमः सर्गः देही च यस्मादसतोऽस्ति पगुः योऽधःस्थितावप्यथवा ततोऽत्र्यः । तस्मात्पदः प्राप्य जनि विधातुः तुर्याः कथं स्युः प्रथमभ्य ऊनाः ॥ ४४ ॥ राजा यया रञ्जयते प्रजाः स्वाः प्रमूश्च संवर्धयते प्रसूतिम् । भक्तश्च सन्तर्पयते स्वदेवं तया स्ववृत्त्यापि समर्चितास्ते ॥ ४५ ॥ तथापि मोहान्निजमूल्यमूढाः स्वमन्दभाग्यं परकीयदौष्टयम् । विगर्हमाणा जहति स्ववृत्ति समाश्रयन्ते परकीयधर्मम् ॥ ४६ ।।
१६ सुषुप्तिवृत्तम् सेवा गुना चेत्क्रियते श्ववृत्तिः विज्ञैः कृता चेन्महिता भवेत्सा। पूतं वसिष्टस्य परिग्रहेण पूत्यस्ति चाज्ञस्य पुरोहितत्वम् ॥ ४७ ।। स्वधर्मचर्याच्युविमेवमेत्य धनार्थिनः स्वार्थपराश्च सर्वे । युद्धा मिथः श्वान इवामिषाय नीताः परैस्ते स्ववशं सृगालैः ॥ ४८ ॥ तदस्य दिष्टं विषयस्य दास्यं आसीचिरेण क्रमशः परेषाम् । क्षीणे पटुत्वे जराया हि देह वश्यत्वमायाति रुजाक्रिमीणाम् ॥ ४९ ।।
प्रथमः सर्गः सुधारसस्यन्दिभिराप्तवाक्यैः आगामिभाग्योदयसूचकैश्च । अनिष्टकामानुपसान्त्वयन्ति यथात्मजातान् पितरो नृपा नः ॥ ५० ॥ वित्तादिभिस्तोपितविज्ञशूराः स्वार्थाविरुद्वं बहुधोपकृत्य । भूपाः प्रजाः स्वा अनुरञ्जयन्ति प्रजानुरागाद्धि नृपस्य भूतिः ॥ ५१ ॥ नृपा यदात्मस्थिरताविलोपि प्रजासु जिघ्रन्त्यविभेदद्वत्त्वम् । वैमत्यबीजानि वपन्ति तत्र भेदो हि नीतिर्विजये बहूनाम् ॥ ५२ ॥ 2
१८
सुषुप्तिवृत्तम्
मधुस्रवद्भिर्वचनैरहार्यान्
कृतोपकारैरवशीकृतांश्च ।
निर्भीकमावेदयतः स्वबुद्धि
निजद्विषस्ते खलु दण्डयन्ति ।। ५३ ॥
दास्यं विधित्सुस्सुचिर विधि!
नूनं परेभ्योऽदित यन्त्रशक्तिम् ।
यदुर्वराया बहवोऽत्र जाता
द्विरहि भुक्तं गणयन्ति भोगम् ॥ ५४ ॥
जलाय
मेघ
दहनाय वह्नि
अन्नाय गाश्च द्युतये च सूर्यम् ।
ययाचिरे ये किल मानवास्ते
सिद्धेप्सिताः कामदुधात् स्वयन्त्रात् ॥ ५५ ॥
प्रथमः सर्गः
स्थले जले व्योनि समं चरन्तः
त्रैविक्रमं प्रक्रममाप्नुवन्ति ।
दूरस्थितस्य श्रुतिदर्शनाभ्या
योगं विना योगिन एव सन्ति ॥ ५६ ॥
देशस्य कालस्य च विप्रकर्ष
व्यतीत्य जित्वाखिलदुर्बलांश्च ।
विच्छिद्य तद्वृत्तिचयं च ताश्च
वितन्वते स्वोदरपूरणं ते ॥ ५७ ॥
यन्त्रं सहस्रैस्सुचिरं विधेयां
क्षणे क्रियामेककमेव कुर्वत् ।
तज्जीविकाच्छेदमहाघदुष्टं
स्वस्वामिनेऽथ बहुलं प्रदत्ते ॥ ५८ ॥
२०
सुषुप्तिवृत्तम्
गृहादनिप्क्रम्य निजात्स्ववृत्तीः
ग्रामेषु ये प्रागवलम्ब्य तस्थुः ।
निर्जित्य तानद्य तु तेषु मुख्यान
बन्दीकरोति स्वगृहेषु यन्त्रम् ।। ५९ ।।
स्ववृत्तिविच्छेदवशात् क्षुधातैः
कैश्चिजनैः कैरपि निर्गतैश्च ।
ग्रामोऽद्य यक्ष्मादतिकार्यमाप्तः
अङ्गैर्गतौजोभिरिवास्ति मर्त्यः ॥ ६० ॥
पुष्टेश्च तुष्टेरपि निवृतेश्च
शान्तेश्च यो वेश्म बभूव तत्र ।
क्षुरक्षोभनैराश्यविपादभावाः
प्रामेऽवकाशं पृथुलं लभन्ते ॥ ६१ ॥
प्रथमः सर्गः २१ अस्याः प्रतीकारविधौ विपत्तेः देशस्य दैव्या न नरस्य शक्तिः । विपादमल्पेतरमाप्त एव अगा कदाचिन्महदाकुलत्वम् ।। ६२ ।। शोकेन चान्तस्तमसा वहिश्व नैशेन लुप्ताखिलशेमुषीकः । मत्वा परज्योतिष एव रक्षा जगाम निद्रां परतोऽर्धरात्रात् ॥ ६३ ॥ इति श्रीवरदाचार्यकृतौ सुपुतिवृत्ते भारतदेशवर्णन नाम ॥ प्रथमस्सग ॥
॥ द्वितीयः सर्गः॥
अथ क्षपायाश्चरमे विभागे
संस्कारदायन हृदोऽन्यथा वा ।
त्राणाय यद्याचितमात्मनासीत्
दूरान्मया ज्योतिरदर्शि तादृक् ॥ १ ॥
जगत्स्वभासा विमलेन लिप्त्वा
शोभामपूर्वामुदपीपदद्यत् ।
अपूर्ववर्णेन पुराणचित्र
नवत्वमापादयितेव शिल्पी ॥ २ ॥
यत्सूर्यभासा प्रविभास्वरत्वं
इन्दुद्युतीनामपि शीतलत्वम् ।
बिभ्रत्तमोहन्तु सुधाभिवर्षि
यथा गभीरं रसवञ्च काव्यम् ॥ ३ ॥
द्वितीयः सर्गः
२३
अनेन चन्द्रार्कमरीचिमत्ता
सुखानुमेयापि बभूव यस्य ।
यत्कैरवाम्भोरुहसञ्चयोऽभूत्
पार्श्वहृदस्थो युगपत्प्रफुल्लः ॥ ४ ॥
क्रमादिदं ब्रह्मण एव तेजो
न भौतिक चेति विनिश्चित यत् ।
हृत्पुण्डरीकस्य ममापि यस्मात्
अभूतपूर्व विदधे विकासम् ॥ ५ ॥
स्वदेशरक्षा प्रति याचित यत्
एतत्परं ज्योतिरिति प्रतीतः ।
मुदा विवृद्धो विनयाद्विनम्रो
मुहुस्तदानी क्रमशोऽहमासम् ॥ ६ ॥
४
सुषुप्तिवृत्तम्
तत्रैव चेतो नयने च बद्ध्वा
निवृत्तोपेन्द्रियवृत्तिरेव ।
कृताञ्जलियोगिभिरण्यगम्यं
तत्सन्निधि प्रामुमहं प्रवृत्तः ॥ ७ ॥
आसीदतेदं हि मया पदार्थः
आरोहयुक्तः परिणाहवाश्च ।
ततः कराद्यावयवैश्शरीरी
क्रमाद्विबुद्धं पुरुषोत्तमश्च ॥ ८ ॥
मनोरथस्यापि न गोचरो यः
कथं स सिद्ध्येत्स्वभुवोऽवलोकः ।
इत्यात्मभाग्ये क्षणमप्रतीतो
वीतप्रमोदो वितथत्वबुद्ध्या ॥ ९ ॥
द्वितीयः सर्गः
२५
स्वप्नः किमेपोऽस्ति किमिन्द्रजालो
माया भवेद्वा मतिविभ्रमो वा ।
विकल्प्य चैवं परमार्थमाप्तः
कृपाप्रकर्षात्परमस्य पुंसः ॥ १० ॥
यथा प्रनष्टं प्रतिपद्य राज्य
राजा प्रमोदेन विलुप्रसंज्ञः ।
मोहाद्विनष्टस्य चिदात्मकस्य
लाभात्प्रष्टोऽपरमोहमापम् ।। ११ ॥
स्वस्थस्तमानन्दमय निपीय
पिपासिताभ्यामिव लोचनाभ्याम् ।
रसातिरेकादभव प्रमत्तो
मधाविवालिमधुना नवेन ॥ १२ ॥
सुषुप्तिवृत्तम्
संज्ञा प्रपन्नो दयया दयालो
जगत्पतेर्दण्डवढानतस्सन् ।
तत्पादपङ्केरुहलग्नचेताः
अयासिपं मोहवशं पुनश्च ॥ १३ ॥
उत्तिष्ठ वत्सेति निशम्य वाक्यं
गम्भीरमभ्रस्तनितं यथाऽहम् ।
उत्थाय तेनाभिहितो विधात्रा
वत्स प्रसन्नोऽस्मि विभुस्तवेति ॥ १४ ॥
सुधामय तद्वचनं निशम्य
मुक्तोऽहमस्मीति पर प्रहृष्य ।
सर्वेश्वरस्य स्तुतिकैतवान्मद्-
आनन्दमुद्गातुमहं प्रवृत्तः ॥ १५ ॥
द्वितीयः सर्गः
२७
न भाति भानुर्न च वाति वायुः
नाप्येति दाहं दहनो न जन्तुः ।
प्रजायतेऽल चलितुं तृण नो
विना तवाज्ञां परमेश्वरस्य ॥ १६ ॥
चारास्तवास्मच्चरितावगत्यै
भूतानि पञ्चेति मृपोद्यमेतत् ।
नास्ति तस्य प्रणिधेरपेक्षा
यस्तत्प्रवृत्तिं प्रतिपत्तुमीष्टे ॥ १७ ॥
आन्ध्येन नेत्रस्य यथा धनस्य
नैरव्येन भासश्च तमोभरेण ।
बुभुत्सवोऽसन्निधिना तथा ते
महोपकारं बत वञ्चिताः स्मः ॥ १८ ॥
सुषुप्तिवृत्तम्
फलानुमेयं सदपि प्रतीमो
दुर्योधमेवेति महीशकर्म ।
वेद्यं न विश्वेश फलं यदीय
कीहक्तवारम्भ इति स्तुवीमः ॥ १९ ॥
कुर्वाणमेक सरसं च काव्यं
स्रष्टारमाहुर्विबुधाः कवीन्द्रम् ।
अनन्तरूपं च विचित्रमेतत्
जगत्स्सृजन्तं क इतीमहे त्वाम् ॥ २० ॥
वाचोऽप्यतीतो मनसोऽप्यगम्यः
पदे परस्मिन्विहितस्थितिस्त्वम् ।
अनन्यचित्तस्य बुधस्य वाचि
चित्ते च जागर्षि तदाश्रवस्सन् ॥ २१ ॥
द्वितीयः सर्गः
२९
जगद्विभासी सतत स भास्वान्
शेपोऽनिशं भूवहनैकढीक्षः ।
खं कर्मदाक्ष्यं स्वमिवाप्नुतस्त्वत्
सर्गस्थितिप्रत्यवहारहेतोः ॥ २२ ॥
स्वचित्तवृत्तीरनुरुध्य मूढाः
तत्तत्स्वरूप तप कल्पयन्ति ।
प्राज्ञास्तु चिन्तामणिवद्भवन्तं
विदन्ति विश्वाधिप विश्वरूपम् ॥ २३ ॥
शरीरहेतुर्जननी पिता च
गोप्ता नृपश्चात्महितो गुरुश्च ।
उदीरिता देहभृतां महाप्ताः
तत्सन्निपातः क इवासि न त्वम् ॥ २४ ॥
३०
सुषुप्तिवृत्तम्
सदा तवाज्ञावशवर्तिनं यत्
तनोपि ते तुल्यमिदं हि युक्तम् ।
पापेऽपि सा वृत्तिरूपाश्रितेति
वृत्तिस्तु विस्माययते तवैषा ॥ २५ ॥
कध्वगस्सन्ननुकम्पनीयः
तवाभिनन्द्यश्च गतस्तु मार्गम् ।
यथात्मजन्मा जनकस्य रुग्णो
जातः पुनर्मृत्युमुखानिवृत्त्य ।। २६ ॥
आजन्मनश्चान्तमनन्यनिनोऽ-
प्यवैति मयों न तवोपकारम् ।
त्वां च स्वमूलं गमयत्यभावं
निवर्तसे नोपकृतेस्तथापि ॥ २७ ॥
द्वितीयः सर्गः
सर्ग चिकीर्षुश्च नवं मनोज्ञं
त्वं जीर्णलोकप्रलय विधत्से ।
निर्मातुकामो हि नवीनसौध
निपातयत्येव पुराणगेहम् ॥ २८ ॥
त्वं लोककल्याणमपेक्षमाणः
कदापि भव्य क्षपयन्निवासि ।
विधित्सया कि सलिलाशयस्य
न खन्यते
भूः
कलमप्ररोहा ॥ २९ ॥
दुष्टात्मनो दौष्ट यमपास्य भद्रं
विधित्सुरुत्पादयसेऽस्य दुःखम् ।
रुग्णस्य जन्तोः कुशलं चिकीर्षुः
वैद्यस्तदङ्गानि निकृन्ततीह ॥ ३० ॥
३२
सुषुप्तिवृत्तम्
कदाचिदार्ति परिकल्प्य साधोः
परीक्षसे त्व तमिति ब्रुवन्ति ।
सर्वज्ञतामङ्गभिया वय ते
लोकोपदेशार्थमिट वदामः ॥ ३१ ॥
आत्मानमात्मस्थितमप्यविद्या-
च्छन्ना वय त्वां न हि बोद्भुमीशाः ।
न जातु गृह्णाति विलुप्तदृष्टिः
निधि पुरस्ताद्विनिवेशितं हि ॥ ३२ ॥
ईक्षामहे त्वां सदयो यदि त्वं
नेक्षामहे त्वां वित्यो यदि त्वम् ।
दोषस्य नो मूलमिम स्वकीयं
सम्भाव्य तं
प्राकू
परिवर्जय
त्वम् ॥ ३३ ॥
द्वितीयः सर्गः दया तवोपेत्य न जन्म जन्मी प्राप्नोति भूयो यदि सत्यमेतत् । किमर्थमद्यापि वयं निमग्नाः संसारकीलालनिधौ दयाब्धे ॥ ३४ ॥ को हेतुरत्रेति विचिन्त्यमाने न पारतव्यं घटते त्वयीशे । न निर्दयत्वं क्षममत्र वक्त दयामये गोप्तरि दीनबन्धौ ॥ ३५ ॥ सर्वस्य मुक्त्या सह मेऽपि मुक्तिः सृष्ट पादिकात्कर्मण इत्युदीक्ष्य । स्वीयाधिकाराच्युतिमीहमानो जगद्धितं नूनमुपेक्षसे त्वम् ।। ३६ ॥ 3 सुषुप्तिवृत्तम् एकान्तयोगेन समं त्वया नो भवयवज्ञात्र वय न निन्द्याः । प्रिया गताऽङ्क सतत प्रियस्य प्रकल्पते नैव हि तस्य रुच्यै ॥ ३७ ॥ प्रीतिः प्रजायां जनकस्य याऽस्ति न सा प्रसूतेः पितरीह लोके । नैसर्गिक धर्ममिम चरन्तो वय विधातस्त्वयि नाधिदोषाः ॥ ३८ ॥ प्रीणातु दोषैस्सहिताऽपि मेऽसौ भक्तस्य भक्तप्रिय सन्नुतिस्त्वाम् । अवन्ति तातं शिशुजल्पितानि परं वचोभ्यः सुकवेर्हि लोके ॥ ३९ ॥ इति श्रीवरदाचार्यकृतौ सुषुप्तिवृत्ते परज्योतिर्दर्शनं नाम ॥द्वितीयस्सर्ग ॥
॥ तृतीयः सर्गः॥
श्रुत्वा दयालुः सदयं ममोक्तीः
प्रफुल्लनेत्रो विकसत्कपोलः ।
शुचिस्मितावर्धितदन्तकान्तिः
उवाच वाचं मधुरस्वरेण ॥१॥
स्वदेशदास्यं प्रविचिन्त्य खिन्नो
मामेव गच्छन् शरणं हृदि त्वम् ।
साक्षात्कृति वत्स मम प्रपन्नः
आवर्जनीयस्य मदेकचित्तैः ॥ २॥
मदर्शने दर्शितभक्तिचेष्टः
त्वत्पारवश्यं जनयन् शिलासु ।
कृतोपकारोऽसि सचेतनानां
बुधो यथा बोधविधौ प्रवृत्तः ॥३॥
सुषुप्तिवृत्तम्
प्रसन्नमेवं तव मत्परोक्तिः
प्रीत च मां प्रीततर चकार ।
हृत्कायवाचाबहुपाशरजवा
भक्तया निवद्धस्तव वश्य एव ॥४॥
धन्योऽसि यस्मान्निजदेशदुःखैः
दुःखं महद्भिर्महदागतस्त्वम् ।
न यान्ति सत्वं परकीयभावः
अभावितान्तःकरणा न मां च ॥ ५॥
उत्पत्तिबाल्ये युवताजरान्ताः
अशेषसृष्टेरपि या अवस्थाः।
काले भवन्त्यो न बुधैर्विशोच्याः
नोपेक्षणीया विपरीतभूताः ॥ ६ ॥
तृतीयः सर्गः
३७
ससङ्गह मद्वदतो निवोध
देशस्य ते दुस्स्थितिकारणानि ।
तेषा प्रतीकारविधामपि त्वं
मत्तः परो नास्ति तवोपदेष्टा ॥ ७॥
अनादरं द्वेषमपि स्वकीये
प्राप्याखिले वस्तुनि वीतबुद्धिः ।
परस्य सम्बन्धिनि बद्धरागो
नीचैःस्थितावत्र जनोऽस्ति मूलम् ॥८॥
शब्दप्रमाणं च तथापवर्गः
परप्रताराय खलस्य सृष्टिः ।
इत्यन्यमात्मानमपि प्रतार्य
नीचैःस्थितावत्र जनोऽस्ति मूलम् ॥ ९ ॥
सुषुप्तिवृत्तम्
प्रत्यक्षमानं च तथानुमान
प्रमाणयन् कुत्सिततर्कधीरः ।
कामार्थयोरेव निबद्धदृष्टिः
नीचैःस्थितावत्र जनोऽस्ति मूलम् ॥ १० ॥
मदात्मजातेषु जनेषु काश्चित्
उपेक्ष्य शक्तावपि दुःस्थितान्यः ।
दयाविहीनो निजकर्मभोजी
नीचैःस्थितावत्र जनोऽस्ति मूलम् ॥ ११ ॥
आत्मोचनीचस्थितिरात्मनैव
परो भवत्यत्र निमित्तमात्रम् ।
पयस्समाकामति निम्नदेशम्
तमुन्नमन्तं विजहाति सद्यः ॥ १२॥
तृतीयः सर्गः
३९
गुणक्रियाभेदवशात्पुरेदं
सृष्टं मया वर्णचतुष्कमासीत् ।
उद्घोषितं यद्यपि युद्धभूमौ
मया बतेदं न जनाः स्मगन्ति ॥१३॥
न लोकयात्रौपयिकक्रियासु
न्यूनाधिकत्वं प्रविचिन्तनीयम् ।
स्वीयेऽतिसम्पर्कवशादवज्ञा
प्रीत्यै परत्राधिकता न तत्र ॥ १४ ॥
पुराकृतेनैव भजन्ति लोके
जायाः स्वकीया मनुजाः क्रियाश्च ।
खीयासु तुष्टा वशिनो भवन्ति
वामा भवेयुः विटशब्दभाजः ॥ १५ ॥
सुषुप्तिवृत्तम्
वर्णा भजन्तो विहितक्रियाः स्वाः
नन्दन्ति भार इवात्मपत्नीः ।
सीदन्ति रक्तास्तु परक्रियासु
नरा इवान्यप्रमदासु नूनम् ॥१६॥
क्रिया न कर्तुं विहितापि शक्या
नरेण सम्यकथमन्यदीया ।
एकां जहत्यक्ष्यति नापरां न
फलं क्रिया स्वा स्थिरता च भग्ना ॥ १७ ॥
अनन्यगामित्वमुपेयिवद्भिः
क्रियाः प्रसीदन्ति निषेव्यमाणाः ।
प्रसूय चाभीप्सितमर्थजातं
प्रसादयन्ति स्वपरिग्रहीतॄन् ॥ १८ ॥
तृतीयः सर्गः
००
पितुर्गुणाः रूपगुणाः क्रियासु
नैपुण्यमप्यात्मजमाप्नुवन्ति ।
पितुः क्रिया ऋद्धिमिवाभुवीत
विरुद्धवृत्तिर्भवितैव मूर्खः ॥ १९ ।।
कुलक्रमोपस्थितयः क्रियाश्च
जनश्च हृष्यन्ति मिथोऽनुरक्ताः ।
प्रजाः प्रजानामपि रक्षितेव
सङ्गोऽनुरागाय हि सानुबन्धः ।। २० ।।
शरीरबुद्ध्यात्मसु मानवस्य
यथोत्तरं भद्रकरी हि वृद्धिः ।
एकान्तपोषेण तु पूर्वपूर्व
विनाशमुत्पादयतेऽस्य नूनम् ॥ २१ ।।
४२
सुषुप्तिवृत्तम्
विहाय बुद्ध्यादिकमात्मदेह
संवर्धयन्नस्ति पशोरभिन्नः ।
उपेक्षितात्मा गमयंस्तु बुद्धिं
पुष्टिं परा राक्षस एव जातः ॥२२॥
शरीरबुद्धी ववशे निधाय
पुष्णाति यः स्वात्मगुणान्महात्मा ।
भवाब्धिमुत्तीर्य स एककोऽपि
जगन्ति संरक्षति राक्षसेभ्यः ।। २३ ।।
कालेऽद्य बुद्धेविभवेन दृप्ताः
जानन्ति न स्वं न परात्परं माम् ।
सृष्टिर्विधातुर्विदिता जिता चे-
त्यामोदमुन्मादमपि प्रयान्ति ॥ २४ ॥
तृतीयः सर्गः oc तेषा किलाजायत तीक्ष्णबुद्धौ यन्त्रं यदूना मुसल पुरेव । येन प्रशान्ते सुखिते च लोके क्षोभं च दुःख जनयन्ति तेऽद्य ॥ २५ ॥ अनेन विज्ञेयमहाप्रभावं यन्त्रं स्ववीर्याहृतमन्त्रकीर्ति । प्रकल्पितं सत् करण नरेण तनोति यत्तं करण स्वकीयम् ॥२६ ।। न केवलं पौष्टिकमेव यन्त्रं अस्त्यप्यल मन्त्र इवाभिचारे । साक्षात्कृतं यत्तु महासमीके वृत्तेऽपि भीति जनयत्यमेयाम् ॥ २७ ।।
४४
सुषुप्तिवृत्तम्
तस्मान्महीशास्तदुपासतेऽद्य
मन्त्रं यथा प्राञ्जलयस्समौनाः ।
आदावुपैतुं स्वयमेव ऋद्धिं
तद्धारिणो मारयितु ततोऽन्यान् ॥ २८ ॥
ध्रुवं ध्रुवं युद्धमपूर्वमेष्यत्
कुर्यात्क्षयं नातिचिरेण लोके ।
यत्राश्रयस्य प्रलयेन नूनं
यन्त्रं प्रशान्तं हुतभुग्यथा स्यात् ॥ २९ ॥
तज्जागृतोत्तिष्ठत मोहसुप्तेः
मा भूत लोभाख्यपिशाचवश्याः ।
आत्मानमात्मस्थमवेत शश्वत्
पुष्णीत बुद्धिं च जगच्छिवाय ॥ ३० ॥
तृतीयः सर्गः
तत्सर्वथैवं परिहार्यतैव
यन्त्रस्य सिध्येदिति नाववोध्यम् ।
आदेशभावं प्रविहाय कर्तुः
यदागमस्तन्न तदास्ति दुष्टम् ॥ ३१ ॥
समुद्ररुद्धाम्बु विमोच्य वर्षन
बहुत्र जीमूत इवास्तु यन्त्रम् ।
बहूपभोग्यं परिमुष्य लुब्धे
रुणद्धि यत्तन्मम सम्मत न ॥ ३२ ॥
इत्थं वदन्तं जगता पति तं
कोलाहलः कोऽपि कलश्चकर्ष ।
एकां प्रियां दक्षिणमालपन्त
हूतिर्यथाकालमिवान्यदीया ॥ ३३ ॥
सुषुप्तिवृत्तम्
दूरस्थमुद्भूः
निकट प्रजन्तं
शुश्राव य फुल्लमुखाब्ज एपः ।
मच्छेयसश्चान्तमनन्तसूक्तेः
दिदेश योऽभूत्स जनस्य गीतिः ॥ ३४ ॥
जय जय दुष्टनिबर्हण
जय जय शिष्टजनावन ।
जय जय हप्तविमर्दन
जय जय पातितपालन ॥३५॥
जय जय भारतमण्डल
जय जय भूतमहोदय ।
जय जय भगुरदुःस्थित
जय जय सुस्थिरभाविक ॥ ३६ ॥
तृतीयः सर्गः हन्तयहिसा विषमे च सत्यं जये च नम्रत्वमुपादानम् । दोष द्विषन्तं न तु दोषवन्तं मृष्यन्तमात्मन्यपभाषमाणम् ॥ ३७ ॥ खं शोषयन्तं परपोषणाय स्वतोऽल्पवस्त्रं परवस्त्रवृद्धये । पत्नीद्वितीयं स्वजितात्मतायै परत्र दोपे कथितात्मदोषम् ॥ ३८ ॥ स्वय तरन्तं परतारणाय पुनानमात्मानमथान्यशुद्धौ । जगत्प्रदीपं यशसा सुगन्धि भद्राय नः पातु स देवदेवः ॥ ३९ ।।
सुषुप्तिवृत्तम्
इत्यैककण्ठ्येन विमुक्तकण्ठ
उद्गीयमाना सुजनेन गीतिः ।
ईशस्य तत्रानुमतिं विवक्षोः
प्रतिश्रुताभून्मुखकन्दरायाः ॥४०॥
आवृत्तिभाजा नितरां हृतस्सन्
गीतेन तेनैव निमीलिताक्षः।
समाधिनिष्ठः परमात्मदर्शी
योगीव योगीश्वर एष आसीत् ॥ ४१ ।।
दृष्ट्वाऽहं महदिदमद्भुतं विसंज्ञः
सम्बोधात्परिचितकण्ठनिखनेन ।
तेनैवाखिलजनिहेतुना प्रबुद्धः
तद्वृत्तं त्ववगतवान् सुषुप्तिवृत्तम् ॥ ४२ ॥
तृतीयः सर्गः ४९ न ददृशे स मया पुरुषोत्तमः श्रुतिपथं न ययौ मम तस्य वाक् । तद्भवच्छृतमेव तु गीतक बहिरगामथ गातृदिक्षया ॥४३॥ गच्छत्यस्तं शशिनि विपदीवैकतो जन्मभूमेः उद्यन्मूर्ती विलसति रवौ श्रेयसीवान्यतोऽस्याः । मन्द वाते चलति सुरभी दाक्षिणे मित्रवञ्च प्रीत्या सिक्वा नगरतरुणैर्भूषिते राजमार्गे ॥४४ ॥ शुभ्रज्योत्स्नाधवलवसनाच्छादिताङ्गान्प्रबुद्धान शूरान्दान्तान्भगवति गुरुष्वात्मदेशे च रक्तान् । भूमेरस्यास्सुचरितफलानीव वीक्ष्याहमासं मन्दोत्कण्ठः परमपुरुषे गायतः पौरमुख्यान् ॥४५॥ 4 सुपुसिवृत्तम् देव्या ललितया वाचा ययात्राऽहं प्रवर्तितः । तस्याश्च धीमतांतुष्टचा कृतेः सात्कृतिता च मे ॥४६॥ इत्यनन्यहृदयेन सेवया तोषिता विवुधभारती ददौ । यं वरं हि वरदाय सत्कृति तत्सुषुप्तिचरितं समापितम् ॥ ४७ ॥ इति श्रीवरदाचार्यकृतो सुषुप्तिवृत्ते पुस्पोत्तमसन्देशो नाम ॥ तृतीयस्सग ॥ ERRATUM Page Line For Read ११ जराया जरया १६ २२ विमलेन लिप्ता ऽमलया विलिप्य Vavilla Press, Madras