Bharatiya Vidya Bhavan Library, Mumbai
Vedantshastramakrand
Front matter
यो ब्रह्माण विदधाति पूर्व । यो वै वदाँश्च महिणोति तस्मै ।
तहमात्मबुद्धि प्रकाशम् । मुमुक्षु शरणमह प्रपद्ये ॥
mary
न
Jia
में
श्रीमत्परमहसपरिव्राजकाचार्य योगीन्द्रय
श्रीआत्मानन्दसरस्वती स्वामिनः ।
वेदान्तशास्त्रमकरन्दप्रस्तावना। 2 ल- "भावना विपरीता या या चासम्भावना शुक । कुरुते प्रतिवन्ध सातत्त्वज्ञानस्य नापरा ॥ तन्निवृत्त्युपायः भवणादः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतेः। यद्यप्यस्य ज्ञानसाधनत्व- मवगम्यते तथाप्यप्रमाणत्वेन साक्षात्तदनुपपत्या प्रति- प्रतिबन्धादिनिवृत्तिद्वारा महावाक्यात्प्रमोत्पत्तावस्यो- पयोग इति ज्ञानसाधनत्वमुपपद्यत ततश्च प्रतिवन्ध - स्थासम्भावनादेप्रमायामन्तर्भावादवश्यमप्रमा निरू- पीयेत्यता क्रमप्राप्ता अप्रमा निरूप्यते प्रमात्वाव- च्छिन्नप्रमाभिन्न ज्ञानमप्रमेति निष्कर्षस्तेन घटनमामि नघटज्ञानेतिव्याप्तिनिरस्ता प्रमात्व नाम अनधिगत- अबाधितविपयार्थज्ञानम् । तस्य यथार्थवेदान्तवाक्या- निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिकेति व्यवह्रियते तस्यां फलरूपचतुर्धभूमौ सर्वजगदुपादा- नब्रह्मणो वास्तवं गिरिनयादिकं रूपरसादिकं जगन्मा यामयं नत्वेतवस्तुतोऽस्तीति निश्चिततत्त्वज्ञानम् । ता- (१) प्रस्तावना। दृशाप्रमेयज्ञानभूमिकाप्राप्ताः ब्रह्मविद्वारिष्टाः सर्वजगदु- पादानब्रह्मनिष्ठाः मोहातुरभ्रमद्वैतभूतवेतालपिशाचि. विशिष्ठमतिवादिभयंकरादिमत्तगजान्कवलकृित्य गर्ज- न्ति अद्वैतकेसरिवैदिकाचार्याः निष्कामनिरहंकारनिष्ण- योजननिर्द्वन्द्वबोधकसप्तमभूमिकांप्राप्ताः पार्श्वस्थयो- धिताः सन्तः। तत्त्वमसि' "अहं ब्रह्मास्मि""प्रज्ञानं ब्रह्म" "अयमात्मा ब्रो" त्यादिमहावाक्यविचारज- न्यज्ञानेन द्वैतात्मनिवृनौ विवदमानानां विशिष्टाद्वैत- माध्वनिम्बार्कादीनां द्वैतवादप्रसतानामन्यानाम- पि जीवनहाँक्यसंशयनिवर्नकं तर्कमुदाहृत्यास्मि- न्वेदान्तशास्त्रमकरन्द यानिकानि कपिलगौतमवात्स्या- य नकुमारिलकणादप्रभृतिभ्रमनिष्ठाचारशिष्टविनीता- नामपि तत्पदप्रतिपादकवेदान्तशास्त्रप्रतिकूल प्रमा- णानि तानि शिष्टकेयटादिभिनिरसितानि ब्राह्मण्यभिन्न- निमित्तोपादानकारणतया पर्यवसितान्यनाभिहितानि अपिच सदेव लान्येदमम आसीदेकमेवाद्वितीयं ब्रीं" त्यादिवचननिचयप्रामाण्यान्नानाविधभोक्तभोक्तव्यादि- भेदप्रपञ्चस्य ब्रह्मण्यविद्यापरिकल्पितत्वात् मृत्योः स मृत्यु मानोति व इह नानव पश्यति" इत्यादिनि- प्रस्तावना। न्दाश्रवणेन पारमार्थिकभेदनिराकरणात् 'तरति शोक- मात्मविदित्यादिश्रुतिशिरःशतवशेन निर्विशेषब्रह्मात्मै- कत्वविद्यया निवृत्तिवोधनात् । "तं त्वौपनिषदं पुरुष पृच्छामी" त्यादिश्रुत्यात्मन उपनिषदेकगम्यत्वावधार- णादेकान्तिकेष्टानिष्टप्राप्तिपरिहारयोरुपायभूतांब्रह्मवि- द्यामाम्नायशिरोभूता उपनिषद एव प्रतिपादयन्तीत्यत्र न काचिद्विप्रतिपत्तिः श्रुतेरन्तिमप्रमाणत्वमभ्युपगच्छ- ताम् । कठकोपनिषद्भाष्ये श्रीमच्छङ्करभगवत्पूज्यपादा उपनिपच्छन्दमेवं व्याचिख्युः "सदेर्धातोर्विशरणगत्य- वसादनार्थस्योपनिपूर्वस्य रूपमुपनिषदित्युपनिपच्छ- ब्देन च व्याचिख्यासितग्रन्थ प्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते"। मुमुक्षवो दृष्टानुअविकविषयवितृष्णाः सन्तउपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामु- पसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम- विद्यादेः संसारबीजस्य विशरणादिसनादिनाशना दित्यनेनार्थयोगेन विद्योपनिषदित्युच्यते "निचाय्य तं मृत्युमुखात्प्रमुच्यते” इति श्रुत्याप्यभिहितत्वात् । पूर्वोक्तसकलार्थप्रतिपादनाथ ग्रन्थारंभ इति ध्येय- मिति शम् ॥
मस्ताक्मा। तमीश्वराणां परमं महेश्वरम्। तं देवतानां परमञ्च दैवतम् ॥ पति पतीनां प्रथम पुरस्तात् । विदाम देवं भुवनेशमीडयम् ॥१॥ गच्छतः स्खलनं न दोषायेति वाक्यमनुस्मृत्य प्रमादान्मुद्रणदोपाद्वागतान् दोषान्परिष्कृत्य वाचयन्तु निर्मत्सरिणो विद्वांस इत्यभ्यर्थयामः ।
वेदान्तशास्त्रमकरन्दः। श्रीपार्वतीपरमेश्वराभ्यां नमः। यं शैवाः समुपासते शिव इति ब्रह्मेति वेदा- न्तिनो बौदा बुद्ध इति प्रमाणपटवः कति नैय्यायिकाः। अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं यों विदधातु वाञ्छितफलं त्रैलोक्यनाथों हारः॥ १॥ परममंगलाचरणरूपया वेदस्य नित्यत्वापारुपये- स्वसिद्धिसंभावनया कुतर्कदुर्गदुरितध्वांतस्वांतशांतेरु- पायभूतपरविद्याद्यपरोक्षज्ञानविधुराणामतिसुलभतया देवीप्रज्ञासंपत्तय' इदमनुमेयत्वाधिकरणमुपक्रम्यते, "शास्त्रयोनिस्वादि" त्यनेन सूत्रेण-अत्र प्रथमपक्षे पूर्वसूत्रोक्तजगत्कारणत्वस्यैवोपपादनायास्मानित्यसि- हाब्रह्मणो निःश्वासवदनायासेनैव वेदाः सिध्यतीत्य- भिधीयते तत्र ब्रह्म वेदकारणं न वेति संदेहे वेदस्य नित्यत्वश्रवणात् "देवतां संबोध्येत्यनया वाचा स्तुति वेदान्तशास्त्रमकरन्दे- प्रेरयेत्" इति श्रुतेः “अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा|आदो वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" इति स्मृतेश्च अतो न वेदकर्तृत्वं ब्रह्मण. इति न जगयोनित्वमिति प्राप्त ब्रूमः निःश्वसितन्यायन वेदो- त्पत्तिश्रवणात् "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति सर्यतेहूयमानायज्ञशब्दवाच्याद्ब्रह्मणो वेदजनि ब्रवीतीति कर्तृत्वं तत एव वेदयोनित्वं सिध्यति एतदनुरोधेन "विरूपनित्यया वाचे” त्याद्यु- दाहृतश्रुतिस्मृत्योरर्थवादत्वेन प्राशस्त्यवोधकत्वमा न च चेदस्य सकर्तृकत्वे पौरुषेयत्वम्, उपलभ्य विर- चितवानगीकारेणैव पौरुषेयत्वनिरासः । अस्य सूत्र- स्य द्वितीयवर्णकं हि पूर्वसूत्रे जन्मादिकथनेन घटवत् कार्यलिंगकानुमानादिप्रमाणांतरवेद्यत्वं ब्रह्मण इत्या- शंका माभूदित्येतदर्थम्, तथाहि-ब्रह्म न मानांतरवेद्य शास्त्रयोनित्वात् शास्त्रं वेदो योनिः प्रमाणं यस्मिन् तस्य भावः तत्त्वम्-"तत्वोपनिपदं पुरुष पृच्छामि" इत्युपनिषद्वेद्यत्यप्रतीतेः “नावेदविन्मनुते तं घृहं- तम्" इति श्रुत्या विस्पष्टं मानांतरनिषेधाच्च, तथा च प्रथमवर्णके कार्यलिंगकानुमानगम्यत्वाक्षेपेण संग- त्या वेदैकमेयत्वं ब्रह्मण इति राद्धांतयितुं द्वितीयवर्ण- कावतारः अथैवमुच्यते ब्रह्मणो वेद्यतैव नास्तीत्यप्र- प्रथमपरिच्छेदः। मेयत्वम् । यतो वाचो निवर्तते' इत्यादिश्रुत्या वाङ्- मनोनिरासेन स्वसंवेद्यत्वप्रतिपादनात् शास्त्रयोनित्वं शास्त्रप्रमाणकत्वं वर्णकांतरं न संपद्यते इति तदापि चिदाभासेनाप्रकाश्यताया एव' यतो वाचो ' अप्रमे- यमित्यादिश्रुतिभिः प्रतिपादितत्वात्स्वसंवेद्यत्वमबाधं परमावरणभंगाय ब्रह्माकारवृत्तिरूपायाः प्रमायाः प्रमाणापेक्षत्वाच्छास्कप्रमाणकत्वं ब्रह्मण अनाकुलम् । अन पूर्वपक्षे मुमुक्षूणां वेदान्तेष्वप्रवृत्तिः फलं । सिद्धांते तु मुमुक्षूणामुपनिषत्सु ब्रह्मज्ञानाय विचारा- त्मकप्रवृत्तिसिद्धिः फलमिति विवेकः । अथात्रेयमपरा विप्रतिपत्तिः किं वेदांता कर्मशेषतया ब्रह्मप्रतिपादन- परा उत नित्यशुद्धबुद्धमुक्तब्रह्मपरायणाः अत्र अकर्म- शेषब्रह्मपरत्वं वेदांतानामिति सिद्धांतः 'यस्य निःश्व- सित बेदा यो वेदेभ्योखिलं जगत् , निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वर' मित्याम्नानात्, अत्र संसार- तारणशक्तिमत्रोन विद्यायास्तीर्थरूपता तत्र सकला- नात्मवासनामलक्षालने सति महेश्वरस्य प्रकाशनात् विद्यायास्तावत्स्वोत्पत्तौ शास्त्रप्रमाणापेक्षणात् शास्त्र- प्रमाणकत्वं ब्रह्मणः स्पष्टमाभिधीयते तथा च-तत्त्वम- स्यादिमहावाक्यरुपक्रमोपसंहारादिपविलिंगावधृत- तात्पर्य गत्यागलक्षणया अखंडेकरसत्वेन ब्रह्मवोधः।
वेदान्तशास्रमकरन्दे- तदुक्तं भगवत्पूज्यपादेः-'संसगी · वा विशिष्टो वा वावयाथों नात्र संमतः । अखंडेकरसत्वेन वाक्याथों विदुषां मतः' इति एतेन वेदांतानां कर्तृदेवतादि- प्रतिपादकत्वेनार्थवादत्वमित्यपास्तं मुख्यार्थस्य ब्रह्म- णोपरित्यागे मानाभावात् "वर्णमात्रस्य नित्यत्वं वर्णानां संततेत । नाद्यः सर्वलये तेषां लयसंभव हेतुतः" इत्यादिभिः प्रमाणेदानामक्षरत्वप्रमाणानां वाधासंभवात् उत्पत्तिविनाशशालिवप्रत्ययस्यान्यथा- सिद्धत्वात सोयं गकार इत्यादिप्रत्यभिज्ञावलान्न वर्णानां क्षणिकत्वं किंतु आकाशादिवन्नित्यत्वमेव तच सर्गा. द्यकालीनोत्पत्तिमत्त्वं प्रलयकाले विनाशित्वं चेति नाद्वैतश्रुतिविरोधः । अत एव न तत्समुदायात्मक पदमपि क्षणिकं न च पदसमुदायात्मकं वाक्यमाप क्षणिकम् अथ च तादृशवाक्यसमुदायात्मको वेदोऽपि न क्षाणिकः। तथैवोक्तं भगवता सूत्रकारेण "अत एव च नित्यत्वम्" इति आभतसंप्लवं स्थानममृतत्वं हि भाप्यते' इत्याधुक्तरीत्या प्रलयपर्यंतावस्थायित्वं नित्यत्वमिति 'छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजा. यत "" अस्य महतो भूतस्य निःश्वसितम्" इत्या दिवेदजनिप्रतिपादकश्रुतीनामविरोधः, अबाधितं च वेदाचार्यत्वे परमेशितः वेदस्य स्वतःप्रामाण्यं च प्रथमपरिच्छेदः। च वेदस्योत्पत्तिविनाशाभ्युपगमे पौरुषेयतया स्वतःप्रामाण्यव्याहन्यतेति चेत् न पुरुषाधीनोत्प तिमत्त्वाभावेनापौरुपयत्वं "तत्तेजो असृजत तत्सृष्ट्वा तदेवानुप्राविशत् ” इत्यादिश्रुतिभिः कर्तुमकर्तुमन्य- थाकासमर्थाद्ब्रह्मणो वेदस्याविर्भावमात्रस्य प्रतिपा- दनात् सजातीयोचारणमनपक्ष्यांच्चार्यमाणत्वं हि पौ- रुपेयत्वम्, ईश्वरस्तु पूर्वपूर्वकल्पीयवेदानुपूर्वी मपे- क्ष्यैव सर्गादो वेदं विरचितवान्; इति वेदस्यापौरु- पेयत्वमक्षतमेव, तथा च श्रुतयः "धाता यथापूर्वमक- ल्पयत्""आहो विद्वानमुं लोक प्रेत्याकश्चित् समश्नुता ३उ"पुरुपतन्त्रत्वाभावादेव स्वतःप्रामाण्यमण्यव्याहतं वेदस्येत्यलं पल्लवितेन । इह खलु सर्वेषां वेदांतशास्त्र- विचारेण तदनुकूलानुमानेन चाज्ञानावरणनिवृत्ति- द्वारेण ब्रह्मसाक्षात्कारे सति सकलानर्थनिवृत्तिः परमानंदावाप्तिश्च भवतीति सिद्धांतमाश्रित्यायं ग्रंथः वेदान्तशास्त्रमकरन्दाख्यो व्याख्यारूप आरभ्यते. तत्र तावत् 'अनाद्यनंतम्' 'अजो नित्य' इत्यादिश्रुत्या ब्रह्मणोऽनादिनित्यतया ध्वंसप्रागभावयोरसंभवात् अद्वितीयत्वभुत्या ब्रह्मणस्त्रैकालिकसंसर्गाभावस्या प्यसंभवात् तत्रकालत्रयाबाध्ये ब्रह्मणि "वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । ऐतदात्म्य- (६) वेदान्तशास्त्रमकरन्दे- मिदं सर्व "तदनन्यत्वमारंभणशब्दादिभ्यः" इत्या- दिश्रुतिसूत्राभ्यां कार्यस्य कारणादव्यातिरेकात्सर्वस्य जगतः कल्पितत्वं निश्चित्य तदपोहेन 'आविशिष्टमप- याऽनेकशब्दप्रकाशितम्। एकं वेदांतनिष्णाताअखंड प्रतिपेदिरे” इति प्रमाणमूर्धन्यश्लोकसूचितमर्थं घुद्धो संगृह्य "कार्यवोधे यथा चेष्टा लिंगं हर्षादयस्तथा । सिद्धवोधेऽर्थवत्ता च शास्त्रत्वं हितशासनात्" इत्यादि वचनेन उपक्रमोपसंहारादिषद्विधतात्पर्यनिर्णायकलिं- गैरद्वितीये ब्रह्मणि निखिलवेदांततात्पर्ये निर्णीते सामान्यतो दृष्टानुमानेन श्रुत्यर्थावाधितत्वं निश्चित्य स्मृतिविरोधाभावेन हितशासनत्वमंगीकृत्य जिज्ञासा- धिकरणेन श्रवणमननाद्यात्मकविचारविधानात् अत्र मननं नाम विचारसामर्थं तच्च मनस्येव संभवति तदा पूर्वपक्षिणां मतेन मनस इंद्रियत्वावगमात्, इंद्रियत्वेनाभिमतस्य मनसो विषयत्वमतींद्रियानर्गुण- ब्रह्मणः सर्वथा श्रुतिविरुद्धम्, तथा च श्रुतयः "अश- ब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगंधवञ्च यत्" "अनाद्यनंतं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात प्रमुच्यते" "न संदृशे तिष्ठति रूपमस्य" "न चक्षुपा पश्यात कश्चनैन" मित्याद्याः प्रतिपादयंति चैताः प्रथमपरिच्छेदः। (७) श्रुतयो रूपरसादिगुणशून्यत्वं तत एव चातींद्रियत्वं ब्रह्मणः तथा च-मनस इंद्रियत्वे निर्गुणातीन्द्रियब्रह्मग्र- हणसामर्थ्याभावात् श्रवणोत्तरं मनसा ब्रह्मविषयकम- ननविधानं सर्वथाऽसंवद्धम् अर्थवद्वा स्यादिति संशयः प्रभवति तत्र मनस इंद्रियत्वेनातींद्रियब्रह्मग्रहणसाम- भिावेन मननविधानं नार्थवदिति पूर्ववादिना पक्ष प्राप्त आचार्यास्त्वेवं स्वसिद्धांतं वर्णयंति "इंद्रियेभ्यः परा ह्यर्थी अर्थेभ्यश्च परं मनः" "इंद्रियाणि पराण्या- हरिद्रियेभ्यः परं मनः” इत्यादिश्रुतिस्मृतिभिर्मनस इंद्रियेभ्यः पृथकरणान्मनो नेंद्रियं, नापि वृत्त्युपादा- नत्वात्करणं मनः पुनः प्रमाणांतरावष्टंभो वादी प्रत्य- वतिष्ठते । श्रीमद्भगवद्गीताशास्त्रकृता भगवता मनस इंद्रियत्वमुच्यते "इंद्रियाणां मनश्चास्मि देवानामरिम वासवः' इत्यत्र इंद्रियाणामिति निर्धारणषष्ठ्या मनस इंद्रियत्वप्रतिज्ञानात् अन्यत्रापि "मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्तं मुक्त्यै निर्विषयं मन" । इत्यादिष्वपि स्पष्टं विषयसंयोगि- स्वाभिधानात् योगशास्त्रेऽपि "मनःसंकल्पकं ध्यात्वा साक्षिण्यात्मनि बुद्धिमान् । धारयित्वा तदात्मानं धारणा परिकीर्तिता' इत्यत्राभिहिताया धारण्याश्चि- (८) वेदान्तशास्त्रमकरन्दे- त्तस्य देशबंधात्मकतया किंचिद्देशसंयोगित्वं मनस इत्यनायत्या इंद्रियत्वरवीकारः संस्कारोबोधकनाशान्म- नोनाशं वदता भगवता वसिष्ठेन मनस इंद्रियत्वेन परिग्रहात् अकामेनापि भवता मनस इंद्रियत्वमभ्युपे. यम् अन्नाह । नेंद्रियत्वं मनसः प्रवलश्रुतिप्रमाणविरो- धात् तथा च श्रुतिः "मनसश्चेद्रियाणां च ऐकायं परम तपः' इत्यत्र स्पष्टमिद्रियेभ्यो भनसः पृथकरणात तर्हि मास्तु मनस इंद्रियत्वं वस्तुतः तथापि “अध्यारो पापवादाभ्यां निष्प्रपंचं प्रपंच्यते" इत्यत्र यथा प्रपंचा ब्रह्मणि असन्नारोप्यते तथा मनस्यपि इंद्रियत्वारोपः किं न स्यादिति चेन्न "आत्मेंद्रियमनायुक्तं भोक्तेत्या- हुर्मनीषिणः" इत्यत्र स्पष्टमेव मनस आत्मद्रियाभि- नतया प्रतिपादनादिद्रियत्वारोपप्रतिघातः कथं तर्हि भगवता मनस इंद्रियत्वं प्रतिपाद्यते तथैव हि गीता- वचनं परिदृश्यते. "इंद्रियाणां मनश्चास्मि" इति प्रागुक्तमेव तथैव "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" इत्यनेन अर्थवत्तया प्रातिपदिकसंज्ञाविधानात इंद्रिय. रूपार्थवोधकत्वादेव मनःपदस्य प्रातिपदिकसंज्ञा ततोपि मनस इंद्रियत्वावगमः । अन्यच-"मनसः परिणामेन वृत्तित्वं याति नान्यथा" इत्यत्र मनस प्रथमपरिच्छेदः। इंद्रियार्थसंनिक सति परिणम्यमानत्वाभिधानात, यथा वा नीरक्षीरयोः सजातीययोः परस्परात्यंतसंयोगो दृश्यते नविजातीययोः नीरघटयोः कदाप्यत्यंतसंयोगो भवन् दृष्टः अतो मनस इंद्रियैः साकमत्यंतयोगात तजातीयमिति इंद्रियं मनः इति पूर्ववादिनः तद. न्यत्वात् तदल्पत्वात् तत्संकल्पविकल्पनात् तदा- कारण परिणामित्वाच प्रमाणांतरानपलंभान्मन आत्मा भवितुमर्हतीति पारिशेष्यादिद्रिय मन इत्याद्यसत्तर्कजटिलांतरालाप्राभाकरनैयायिकाद- यो भेदवादिनोपरिणामारंभमानिनः क्षणिकविज्ञान- वादिनो बौद्धाः परमाणुकारणतावादिनः सर्वे तमस्विनो जंबुकाः तावदेव कलकलायन्ते न गर्जति महाशक्तिर्यावद्वेदांतकेसरी' वेदांतपरिशीलन- जन्यब्रह्मसाक्षात्कारेण केसरीभूता गर्जति अद्वैताचार्याः शंकरभगवत्पूज्यपादादंडिताखिलकदध्वमंडलाः प्रल- यीकृताखिलद्वैतवादिनो वेदांतदर्शनभाष्यकाराः अथ च पातंजलयोगदर्शनभाष्यकारा ब्रह्ममीमां- सासूत्रप्रणेतारो भगवन्महर्षिवादरायणाचार्याश्च-तथा च प्रस्थानत्रयमौलिभूतश्रीमद्भगवद्गीताशांकरभाष्य- योः प्रतिपादितं भगवता श्रीकृष्णेनभगवत्पूज्यपा.
वेदान्तशाखमकरन्दे- दाचार्यैश्च "महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ॥ इंद्रियाणि दशैकं च पंच चंद्रियगोचरा"इत्यत्र विकच- नेत्राभ्यांद्रष्टव्य-तत्र हि ज्ञानेंद्रियाणि पंच कर्मेन्द्रियाणि पंच मिलित्वा दश इंद्रियाणि एकादशं मनः परिगणित तथाच तार्किकाद्युक्तं सुखाद्यपलब्धिसाधनामंद्रियं मन इति त्वसंगतमेव । यानेव निरीश्वरवादिनः कापिलाः सांख्याश्चतुर्विंशतितत्त्वान्याचक्षतेयानेववैशेषिका आत्म गुणान् संगिरंते सर्वेप्यते क्षेत्रधर्मा एव नतु क्षेत्रज्ञस्योति भगवदभिप्रायः। महाभूतादिभेदाभिन्नं धृत्यंतं सर्वमपि क्षेत्रत्वात्क्षेत्रमित्युच्यते "तन मनसिनष्टे सति संस्का- रोबोधके नरविषाणमिव धीवृत्त्यनुदयान्मनो नश्यति' इति भगवता विद्यारण्यस्वामिनाऽप्युक्तं किंच सर्वेन्द्रि- यप्रवृतिषु सर्वत्र प्राथम्येन मन एवं नियमेन प्रवर्तते। तथा चाहश्रुतिः "सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविव- र्जितम्" इत्यादि सर्वमप्येतदात्मलक्षणं मनसि संपद्य- तेकुतः ध्येयाकाराकारित्वं ध्येयस्वरूपत्वं वा मनसो लक्ष- णमभ्युपगंतव्यं तथा च पारमाणि ब्रह्ममीमांसासू- त्राणि "सर्वत्रप्रसिद्धोपदेशात शांडिल्याविद्यायां च "दहर उत्तरेभ्यः" इति दहरविद्यायां च "यथाक्रतुर- स्मिल्लोके पुरुपो भवति तथेतः प्रेत्यभवतिसक्रतुंकुति" "दहरं पुण्डरीकं वेश्म" "तंयथायथोपासते तत्तथै- प्रथमपारच्छेदः। (११) ।'...- ini. विषया कारविकारसंस्कारजनिर हितं यदवाशिष्टमनः तनवब्रह्मसाक्षात्कारो भवति तस्मात्सर्वथाऽसंगता मनस इन्द्रियत्वकल्पनाशुष्कतर्कपटूनां वैशेषिकादीनाम् यतोहि ब्रह्मभावनामंदानामुपासनातारतम्येन फलानि दर्शयन्ति सार्टिसारूप्य सालोक्यफलानिभवंति'साम्नः, सायुज्यतां सालोक्यताञ्जयति चैवमाद्याःश्रुतयः ये पुन- विवेकवैराग्यशमदमादिषट्कमुमुक्षुताभिधानसाधनच- तुष्टयसंपन्ना विचारक्षमा अधिकारिणस्तेषां श्रोत्रियब्रह्म- निष्ठेत्यादिलक्षणदेशिकाचार्यमुखात् तत्त्वमस्यादिमहा- वाश्यश्रवणसंपत्ती मनननिदिध्यासनाभ्यासपरिपा- कबलान्मनसि पाटबेसमत्पन्ने भ्रमरकीटन्यायेन मनसः ब्रह्माकारता संपद्यते अयमेव च ब्रह्मायस्थानलक्षणो मोक्षः नहीदृशमिन्द्रियाणां सामर्थ्य यत्तत्तदुपास्याकारे- णावस्थानं ब्रह्माकारेणावस्थानं च । तथा च नेन्द्रियं मन इति सिद्धांतो वज्रलेपायितः एतदर्थप्रतिपादकाः सहस्रशः श्रुतयः " इन्द्रियेभ्यः परा पर्था अर्थेभ्यश्च परं मनः॥मनसस्तु पराबुद्धिर्बुद्धेरात्मा महान्परामहतः परमव्यक्तमव्यक्तात्पुरुषः परः॥पुरुषान्न परं किंचित्साका टासापरागतिः "अनाद्यनंतमहतः परंध्रुवं निचाय्यतं मृत्युमुखात्प्रमुच्यते" 'सर्वस्यप्रभुमीशानं मत्वाधारो वेदान्तशाखमकरन्दे- नशोचति' इत्याद्याः सन्ति तासुच इन्द्रियेभ्यः अर्थानां पृथक्त्वं अर्थेभ्यश्च मनसः पृथक्त्वमितः सुस्पष्टं मनसोऽनिन्द्रियत्वं उत्तरत्र 'निचाय्य' 'भत्वा- इतिपदाभ्यामात्माकाराकारित्वं मनसः प्रतिपाद्यते तयानिन्द्रियस्य मनसः न संभवति इन्द्रियाणामा- त्माकाराकारित्वभवनसामर्थ्याभावात् भवति विद्रि- याणां मनसि लयः तस्य चात्मनिलयः यच्छेद्वाड्म- नसी प्राज्ञस्तबच्छेज्ञान आत्मनि'वाङ्मनास संपद्यतो इत्यादिश्रुतिप्रामाण्यातू-सिद्धमेतावता मनन सामर्थ्य- मनिद्रिये मनसीति जिज्ञासाधिकरणोक्तः श्रवणमनन- निदिध्यासनात्मको विचारः संस्कृतेननिर्मलेनेंद्रिया- ध्यक्षेण केवलेन मनसा मुमुक्षुभिः सर्वानर्थप्रहाणहेतवे ब्रह्मसाक्षात्कारायावश्यं कर्तव्य एवेति सिद्धांतः । "शब्दशक्तिविषयं निरूपणं युक्तितः श्रवणमुच्यते बुधैः । वस्तुतत्त्वाविषयं निरूपणं युक्तितो मननाम- त्युदायते ॥ वेदस्य पौरुपयत्वं मनसीन्द्रियकल्पनाम निरस्यप्रथमे भागेमकरन्देपरात्परे । इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमात्मानन्दसरस्वतीस्वामिमिाव- रचितः,घेदान्तशास्त्र मकरन्दे प्रथम परिच्छेदः।
द्वितीयपरिच्छेदः। (१३) वेदान्तशास्त्रमकरन्दे द्वितीय- परिच्छेदः। वादे निरस्य निखिलप्रतिकूलपक्षं वेदान्तसंततिलतेतरतारतम्यैः। मोहान्धकारमलिनान्विमलीकरोतु वेदान्तशास्त्रमकरन्दमुपाकरिष्ये ॥ १ ॥ सरस्वती प्रणम्यादी सर्व वाक्याथ सिद्धये। वेदान्तार्थमकरन्दकुवें कालव्यतिक्रमे ॥१॥ तत्रादौ परमाणुवादपटवो जल्पति सर्वेश्वरे । साम्यं तस्य करोतिकश्चनजनो व्याप्यश्चसूक्ष्मश्चसः॥ आत्मत्वं किमिदं श्रुतेरधिगते तात्पर्यभानोदये। आत्मत्वं परमाणुता यदि भवेन्मोक्षस्यकावागतिः॥ भवेदेवयदिनिगमागमशब्दार्थप्रातिपदिकत्वेपरमाणूनां स्वरूपे प्रामाण्यं स्यात् नैवमस्ति परमाणुपरिंभापाया वेदप्रमाणागोचरत्वात् अथ चोपगम्यते"एषोऽणुरात्मा- "घालायशतभागस्य शतधा कल्पितस्य च॥जीवो भागः (१४) वेदान्तशाखमकरन्दे- इस विज्ञयः” इत्यादिश्रुत्यर्थापातदृष्टिवलादात्मनोऽणुत्वं तदा रूपवत्तया चाक्षुपप्रत्यक्षविषयत्वमेकदेशित्वम- ल्पजस्वमंशित्वमित्यनर्थपरंपरा स्यात् तथाच श्रुति शास्त्रविरोधेन परमाण्वात्मवादः कारणत्वधर्मेण साम्यतावादश्चाप्रामाणिकः कश्च स इति चेत् द्रव्य- गुणकर्मसामान्यविशेषसमवायात्मपट्पदार्थवादो वैशे- पिकः नैय्यायिकानामप्यविरुद्धो हेयत्वार्थः । तत्र गणादयो द्रव्यपरतंत्राः भावकार्य हि सर्व समाय्य समवायिनिमित्ताख्यकारणत्रयजन्यं तत्र द्रव्यमेव समवाथिकारणं द्रव्याणि तु पृथिव्यादिमनःपर्यंतानि नवैव तत्रापि पृथिव्यादिचतुष्टयानां परमाणव आका- शादिपंचकं च नित्यं परमाणुभ्यो घणुकादिकमुत्पयते इतश्च घणुकादिब्रह्माण्डान्तं सर्व कार्यातमनित्यम अवयवसमवेतत्वात् अपरुष्टमहत्परिमाणतारतम्यस्य परमहतिगगनादौ विश्रांतत्ववदणुपरिमाणतारतम्यस्य क्वचिद्विश्रांतिर्वाच्या यत्र च विश्रामः स परमाणुरिति वादिमतसिद्धांतगर्भः नचाणुपरिमाणतारतम्यस्य जालसूर्यमरीचिस्थरजसि सरेणौ विश्रांतिरस्थिति वाच्यं तस्य चाक्षुपद्रव्यत्वेन सावयवत्वानुमानेन तदवयवद्दयणुकसिद्धो चाक्षुपद्रव्यारंभकत्वेन द्वयणुक- द्वितीयपरिच्छेदः। स्यापि सावयवत्वसिद्धयापरमाणुसिद्धिः तस्यापि साव यवत्वेऽनवस्थाप्रसङ्गः स च नेष्टः अनंतावयवारब्ध- त्वाविशेषेणमेसर्पपयोः साम्यत्वप्रसंगात् परमाणु- निरवयवोभ्युपगन्तव्यः स च समवाय्यसमवायि- कारणानिरूपणादनादिःविनाशकारणाभावान्नित्यः एव- माकाशादीनामपि सर्वत्र कायापलब्ध्या विभुत्वेन निरव यवद्रव्यतयोत्पत्तिविनाशकारणाभावादुत्पत्तिविनाशशू- न्यत्वं चतो ह्यवयवेबेवावयविन उत्पत्तिरवयवना- शादवयवविध्वंसः निरवयव त्वानोत्पतिविनाशौ संभ- वत इति पृथिव्यादिचतुष्टयस्य परमाणनामाकाशादि. पंचकस्य च नित्यत्वमभ्युपेयते तार्किकैः नचोत्पत्तिश्रुते- राकाशादेः कथमनादित्वमित्याशंकनीयं । वायुश्चांत- रिक्ष वैतदमृतम्" इत्यादिप्रमाणांतरविरोधेनोत्पत्तिश्रुते- गौणत्वाभ्युपगमात् तथाच पारमर्प सूत्रं 'गीण्यसंभवात्' इति पुनरत्रेदं चिंत्यते शक्तिसादृश्यादीनामतिरिक्तपदा- र्थानां विद्यमानत्वन कथं पडेव पदार्था उच्यते नच शक्तिसादृश्याद्यतिरिक्तपदार्थसत्त्वे मानाभाव इत्या. शंकनीयं करतलानलसंयोगे सति मण्यादिसमवधाने दाहानुत्पत्त्या तदपनये च दाहोत्पत्त्या वहीं दाहा- नुकूट शक्तरुत्पत्तिविनाशशालिन्या अवश्यमभ्युपगंतव्य वेदान्तशाखमकरन्दे- (१६) त्वात् नच प्रतिबंधकाभावाभावान्न तत्र . दाहो- त्पत्तिःमण्यादीनां हि दाहोत्पत्तिप्रतिबंधकत्वं सार्वजनीनं प्रतिबंधकत्वं हि कार्यानुत्पाद प्रयो- जकत्वं तथाच प्रतिबंधकसंसर्गाभावस्य कार्यमानं प्रतिजनकत्वान्न शक्तिकल्पनावश्यकत्वमिति वाच्य तदन्वयव्यतिरेकयोः कार्यानुत्पादस्य अग्रिमसमय- सम्बन्धसंपादकत्वेनान्यथासिद्धत्त्वात् व्यापारेणं व्या- पारिणोऽन्यथासिद्धत्वनियमात् "कथमसतः सजाये तेति" श्रुत्या नासतोदृष्टत्वात्" इतिन्यायेन चाभाव- कारणत्वस्य निराकरणाञ्च कारणे कार्यानुकूला शक्ति- रवश्यमभ्युपैया एवं सादृश्यमप्यतिरिक्तः पदार्थः सामान्यवृत्तित्वे सति सामान्येतरवृत्तित्वात् अन्यच्च परमाणनां प्रवृत्तिस्वभावत्वे प्रवृत्तनित्यमेव भावात प्रलयाभावप्रसंगः । निवृत्तिस्वभावत्वे निवृत्तर्नित्यमेव भावात्सृष्टयभावप्रसंगः अपिच चतुर्विधाः परमाणवो रूपस्पर्शादिमंतो नित्या अणवश्चति वैशेपिकास- द्धांतः स नोपपद्यते । तथाहि परमाणवोऽनित्याः स्थू- लाश्चभवितुमर्हति रूपादिमत्त्वात् घटादिवत् जग- कारणस्य रूपादिमत्त्वेनानित्यत्वप्रसक्तो कारणापेक्षया स्थूलत्वावश्यकत्वादपसिद्धांतापातःरूपा- दिमत्त्वाच "विपर्ययोऽदर्शनात्" इति पारमण + द्वितीयपरिच्छेदः। (१७) सूत्रेणाणुत्वनित्यत्वविपर्ययं स्थूलत्वानित्यत्वे प्रदर्य परमाणुकारणतावादखंडनमकारि एतेन प्रधा- नमल्लनिवर्हणेन पुराणमात्रोपजीविनो विशिष्टाद्वैत- शुद्धाद्वैतद्वैतवादिनो वेदबहिर्भूता निराकृता वेदितव्याः "वाचारंभणं विकारो नामधेयं अतोन्यदातम्" इत्यादि- श्रुत्या दैतस्य निरस्यमानत्वात् सपि दैतावलंबना वादा निरस्ता वेदितव्याःनिनु श्रुत्या निरासेपि द्वैतस्य स्वयमेव सर्वलोकप्रत्यक्षसिदत्वं अयमस्मात्पृथक इति व्यवहारः भेदापरपर्याय द्वैतं स्पष्टमावेदयति । तेन च ज्येष्ठेन प्रवलेन प्रत्यक्षप्रमाणेन दुर्वलानामद्वै- तवेदांतानां वाध्यमानत्वात्प्रामाण्यमपि न स्यात् इति चेत् उच्यते, अपौरुषेयतया निदोषेण उपक्रमा दिपविलिंगावधृततात्पर्येण तत्त्वमस्यादिवाक्येन प्रवलेनाद्वैतबोधनात नांद्वतस्याप्रामाणिकत्वं नवाऽप्रा- माण्यमद्वैतवेदांतानाम् प्रत्युत प्रबलेनाद्वैतवेदांतप्रमा- णेन पौरुषेयतया भ्रमप्रमादादिदोषाकरस्य प्रत्यक्षप्र- माणस्यैव बाधितार्थविषयत्वादप्रामाण्यम् अद्वैतनिष्ठा- शून्यानामधःपातमाह स्वयं श्रुतिःतां शृणु अवधारय च. “अन्यथा संतमात्मानमन्यथा प्रतिपद्यते॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा॥ देहात्मवुद्धिजं पापं न (१८) वेदान्तशास्त्रमकरन्दे- तद्गोवधकोटिभिः" इत्यादिश्रुतिस्मृत्यादिपु अप्रत्याख्ये- यमहापापित्वश्रवणात् तेषां पुनमहाघोरनरकवासश्च श्रूयते "ताँस्ते प्रेत्यापिगच्छन्ति ये केचात्महनो जनाः" इत्यादिश्रुतिषु आत्मा च कर्तृत्वभोक्तृत्वादिराहतः सच्चिदानंदस्वरूपः तद्विपरीत कौर भोक्तारमसज्जड. दुःखात्मकमात्मानं देहतादात्म्याध्यासेन प्रतिपद्यमाना आत्महनो भवतीति श्रुत्यर्थः रूपादिविहीनस्य ब्रह्मणः प्रमाणांतरावेद्यत्वेन तत्प्रतिपादकवेदांतानां प्रमाणां- तरानपेक्षत्वात्। उपक्रमादिलिगैर्वेदांता ब्रह्म प्रतिपाद- यति तथाहि सदेव सौम्येदमग्र आसीत्" एकमेवा- द्वितीयं ब्रह्म “ आत्मा वा इदमेक एवान आसीत्" नान्यत्किंचनमिपत् इत्याापक्रमादयः स्वयमवगंतव्याः तलिगैरद्वैतं ब्रह्म प्रतिपाद्यते तद्पश्चात्मा ते च कंठगतचामीकरन्यायेन विस्मृत्या ज्ञानविमोहितानां द्वतवादप्रलापः स चोपक्रमादिलिंगावधततात्पयरद्वेत- श्रुतिभिःप्रवलप्रमाणेः पुष्टः परास्तो वेदितव्यः एतदेव सर्व स्मृत्यनवकाशदोपप्रसंगादित्यस्य व्याख्यानावसरे स्पष्टीकृतं भाप्यकता-अद्वैतसिद्धांतवोधरहितानां द्वतवादप्रसतानामर्थवादविमोहितात्मनां भ्रांतानां द्वैतवादिनामविचार्य तन्मतमनुप्रपन्नानामंधानां च द्वितीयपारच्छेदः। 'अंधेनैव नीयमाना यथांधा' इतिन्यायेनानतोऽवा- रितश्च गर्तपातो भवतु । अर्थवादत्वं विध्यपेक्षितार्थ- वोधकत्वं प्रमाणांतरसिद्धार्थवोधकत्वं प्रमाणांतर- सिद्धत्वं वा तच्च न वेदांतानां तत्प्रतिपादितप्रमेयानां वा संभवति । एवमर्धवैनाशिकानां वैशेषिकानां मते निरस्ते संपूर्णवैनाशिकानां मुक्तकच्छानां चौद्धानां विवसनानामार्हतानां च स्मृतत्वात् स्मृतत्वे सत्युपेक्षानहत्वरूपप्रसंगसंगत्या बुद्धिस्थं मत निराक्रियते । 'बुद्धरात्मा महान्परः' 'असंगो ह्ययं पुरुधः' इत्यादिश्रुतिपुबुद्धिसाक्षित्वप्रतिपादनादसंगस्य पारणामासंभवाच्च क्षणिकविज्ञानवाद आहेतपरिणा- मानकांतिकवादश्चाप्रामाणिको वेदितव्यः तेषां बुद्धि- धर्मेणाज्ञानेनावृतज्ञानत्वादन्यथा प्रतिपत्तिर्मुमुक्षूणा मनुपादेया । तथाचोक्तं भगवता' अज्ञानेनावृतं ज्ञानं तेन मुह्यति जंतवः 'अत्र भगवता मिथ्याज्ञानावरण- कार्यमोहपिशाचिकयापहृताद्वैतात्मतत्त्वस्वयंप्रकाश- स्फुरणाः प्रजल्पत्युन्मत्तवत्सपि दैववादिनः स्वपर- विनाशकाः भविष्यन्तीत्युक्तम् । तत्र जडकारणता- वादसाम्येन निरीश्वरवादिनो कापिलाः सांख्या अपि भ्रांता एव तेषां मतेऽचेतनस्यैव प्रधानस्य (२०) वेदान्तशास्त्रमकरन्दे- Pavanartetntriate स्वर्गापवर्गार्थं स्वतंत्राप्रवृत्तिरित्यंगीकारः सच सर्वथा लोकप्रसिद्धानुभवविरुद्धः तथाहि लोके रथादेरचेतन- स्य चेतनाग्रधिष्ठितस्यैव प्रवृत्तिदृश्यते एवमचेतन- स्थापि प्रधानस्याधिष्ठात्रा चेतनेनावश्यं भवितव्यमिति केवलप्रधानकारणतावादः पराकृतो वेदितव्यः । अस्तु तावत् अस्मदादीनां श्रुतवेदांतपरमोदारचित्तानाम. द्वैताचार्यरुपापात्रत्वादद्वैतब्रह्मनिष्ठापरवमिव सयां भारतीयानामद्वैतपरब्रह्मणिसमर्पितांतरत्वमित्यभ्यर्थ- यामो महेश्वरं सांजलिवंधमन्यथा 'यथा गुरुस्तथा शिष्य' इति न्यायेनाधःपातो दुष्परिहार एवाब- गंतव्यः तथात्र नेय्यायिकाभिमतसाधनसमानाधिका रणात्यंताभावप्रतियोगितानवच्छेदकं तदवच्छिन्नसा- मानाधिकरण्यमिति सिद्धांतव्याप्तिलक्षणे साध्यताव- च्छेदकहेतुतावच्छेदकसम्बन्धप्रतियोगिवैय्यधिकरण्या- दिप्रवेशवाग्जालजटिलाटवीप्रवेशनं ब्रह्मजिज्ञासूनां मोहायैव भवेदित्यनादरणीयमेवांतर्मुखैरात्मनिछेः कल्पयति तार्किका तद्धि केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि च तन्न संगच्छते यतः वृत्तिमदत्यंताभावाप्रतियोगित्वं केव: लान्वयित्वं तच्च सर्वथा श्रुतिविरोधाकुलं ब्रह्मभिन्नस्य पुनरनुमानत्रैविध्यं द्वितीयपरिच्छेदः। सर्वस्यैवानित्यत्वेन कल्पितत्वात् कल्पितस्य चाधि- छाननिष्ठात्यंताभावप्रतियोगित्वमेवेति केवलान्वयित्व- मसिद्धम् । नच प्रमेयत्वादीनां तथात्वात्कथमसिद्धि- रिति वाच्यं प्रमाविषयत्वं हि प्रमेयत्वं प्रमाया भिन्न भिन्नविषयत्वेन प्रमानिरूपितविषयताया अपि भिन्नत्वात् न कस्यापि केवलान्वयित्वं वक्तुं शक्यम् ईश्वरप्रमाया विषयत्वेऽपसिद्धांतः तस्या ईश्वराविषयत्वे कुतः केवलान्वयित्वं नचाकाशात्यंताभावस्य केवलान्वयित्वमिति वाच्यम् आकाशेऽसत्वेन केवलान्वयित्वव्याघातात् यथा प्रतियोगितदभावयोः सामानाधिकरण्यवत् प्रतियोग्यभावयोराधाराधेयभा वस्याप्यनंगीकारात् अथ यथाकथंचिदंगीकारेपि श्रुति- सिद्धांते ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वादाकाशाभावस्या- ध्यभावसत्त्वेनात्यंताभावप्रतियोगितमेवेति कुलस्तस्य केवलान्वयित्वमिति निरूपितं केवलान्वयित्वम् अन्यच्च व्यातिप्रकारकपक्षधर्मताज्ञानादनुमितिरितिनैय्यायिका मन्यते तत्र साधनाभावनिरूपितायाःसाध्याभावनिष्ठाया व्यातःसाधननिष्ठत्वाभावेन केवलव्यतिरेकस्थले व्याप्ति- प्रकारकपक्षधर्मताज्ञानासंभवादनुमित्यनुपपत्तिः किंच साध्यप्रसिद्धेरनुमानांगत्वेन पृथिवीपक्षकेतरभेदसा- (२२) वेदान्तशाखमकरन्दे- ध्यकानुमानस्थले न कुत्रापि साध्यप्रसिद्धिरित्यतोनुपप- त्तिः स्यादेव अप्रतिद्धशशशृंगसाध्यकानुमानेन शशवि- पाणानुमितिस्वीकारप्रसंग आपद्येत नैय्यायिकानाम् नच घटादावितरभेदः प्रत्यक्ष इति न साध्या प्रसिद्धि- रिति वाच्यं प्रत्यक्षसिद्धेर्थेऽनुमानानवकाशः प्रसज्येत अनुमिति प्रति साध्यसिद्धेः प्रतिबंधकत्वात् पक्षता- व्याधातः तस्माद्वयतिरेक्यनुमानकल्पनं सर्वथा उपपन्न- मेवपुनरत्र तार्किकाणामसत्प्रलपनमुदाह्रियते तथाहि यथा पृथिव्यादयः पद् पदार्था इति पटवसंख्याप्रति- ज्ञानं शक्तिसादृश्याद्यतिरिक्तपदार्थसत्याऽसंगतं तथा नव द्रव्याणीति द्रक्ष्याणां नवत्वसंख्याप्रतिज्ञानमय- संगतमेव प्रतीयमानस्य तमसो भाववेनाभावत्वकल्प- नायां मानाभावात नीलं तमश्चलतीत्यादि प्रत्यक्षप्रती- त्यातमसो नीलरूपादिमत्त्वेन चलनादिनियावत्वेन द्र. व्यत्वलंभवात् गुणवतो क्रियावतश्च तार्किकैव्यत्वस्वी- कारस्यावश्यकत्वात् अथ च क्रियावत्त्वेन सावयवस्वा- दपि द्रव्यत्वं तमसः संभवतांति द्रव्याणां नवत्वप्रसं- ख्यानं सर्वथासंगतमेव तथैवात्मनो व्यत्वं नैय्या- यिकाभिमतमसंगतमेव तत्र प्रमाणाभावादयं तार्कि- काणामात्मद्रव्यत्ववादः स्वकपोलकल्पितोऽपसिद्धांतः .. - द्वितीयपरिच्छेदः। (२३) tatta नायमसतर्कः प्रामाण्यमइनुवीत 'श्रुतिस्मृतिविद्वेदन- भवव्याकोपेनात्मनो द्रव्यत्वकल्पनाया अप्रामाणि करवात् मताभिनिवेशेन वलात्तदभ्युपगमे गुणवत्त्वाद्य- भ्युपगमोपि आवश्यकः द्रव्यस्य गुणक्रियाश्रयत्वनि- यमात् “निर्गुणनिष्क्रियम्'इत्यादिश्रुतिविरोधप्रसंगः । अथ चात्मनो द्रव्यत्वे गुणक्रियादिपारतंत्र्येणात्मनो स्वातंत्र्यव्याघातः स च नेष्टः यतो ह्यात्मनः सर्वकल्प- नाधिष्ठानत्वे सर्वप्रेरकतया श्रुतिभिः सिद्धांतितत्वा- न पारतंत्र्यकवलितं द्रव्यत्वमात्मनःकदापि मंतुं शक्यं तथाच नैय्यायिकानांनवद्रव्यकल्पना आत्मनश्च द्रव्य- खकल्पना सर्वथैवासंगता प्रमाणविरुद्धाचा पुनरयं दोष स्तार्किकाणां मतं खंडयति तथाहि अतोन्यदात'मित्या- दिश्रुतिभिब्रह्मभिन्नस्य निखिलप्रपंचस्थानित्यत्वप्रति- पादनात् कथमाकाशादीनां परमाणूनां च नित्यत्वं तेषा- मपि प्रपंचांतर्गतत्वादानित्यत्वमेव एवं पृथिव्यादिचतु- ष्टयपरमाणूनामल्पत्वात्परिच्छिन्नत्वादनित्यत्वं तस्या उपचरितार्थत्वं प्रमाणांतरेविरोधापातादिति परमाण्वाकाशादीनां कारणत्वनित्यत्वाधभिमानः शत- शः खंडयितुं शक्य इति किम वक्तव्यं तस्य सकलवेद- प्रमाणबहिर्भूतत्वात् नच विभुत्वेन निरवयवत्वान्नित्य- नच (२४) वेदान्तशास्त्रमकरन्दे- . स्वमिति शंक्यम् । उत्पत्तिश्रुत्या नित्यत्ववाधनिश्चयात् विभुत्वस्यापि कार्यापेक्षितत्वात् परमाणूनामल्पानाम- नित्यत्वस्य ब्रह्मणोपि दुरुद्धरत्वात् परमाणूनां जन्यतया यज्जन्यं तदानित्यमिति न्यायेनानित्यत्वम् अव्याप्यत्वा- स्परमाणूनां कुतो विभुत्वम् आकाशादीनां विभुत्वेनाभि- मतानामुत्पत्तिं श्रुतिराह "तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इत्यादिउदाहृतशास्त्रविरोधातन पर- माणूनां नित्यत्वमिति आत्मसाम्यानवकाशः तार्किका- भिमतम् आत्मनो द्रव्यत्वं सर्वथा श्रुत्यनुभवविरोधाद- संगतमेव नायमात्मा द्रव्य इति सिदं नैय्यायिकानां मते आनित्या कार्यरूपा नित्या परमाणुरूपा तत्र पर- माणूनां नित्यत्वं खडितमेव यच्च कार्य तत्समवाय्य- समवाथिनिमित्तेतिकारणत्रितयजन्यं ताशकारणनि- तयजन्यत्वं नात्मनः अनादित्वात् तस्मादात्मा न कार्यमिति नित्य एवात्मति सिद्धम् । नैय्यायिकानां समवाय्यसमवायिकारणपरिभाषापि वेदवाहर्भूतत्वा- दप्रामाणिकी । कुतस्तर्हि कार्योत्पत्तिरिति चेत् उपा- दाननिमित्तकारणाभ्यामिति निरूपयिष्यामः॥ सम- वायस्याप्यसंभवो वक्ष्यते । परमाणूनाम् उत्पत्तिवि- नाशशालित्वे कुतः ब्रह्मणोपि वन्न स्यात् । तस्यापि द्वितीयपरिच्छेदः । (२५) कारणमित्यनवस्था स्यादिति ब्रह्मणो नोत्पा. दविनाशशालित्वमिति ब्रह्मणो नित्यत्वं शतशः श्रुतयः प्रत्रुवन्ति वेदांतसिद्धांते ब्रह्मभिन्नस्य प्रपंचस्या- त्यताभावीतयोगित्वेनानित्यत्व"योवै भमा तदमृतम् अतोन्यदात” इत्यादिश्रुतयोनुसन्धेयाः वैशेषिकमते परमाणुकारणतावादो अज्ञानकारणतावादप्रतिपक्षि- स्वेनोपन्यस्यते स किं मानमूलो वा भ्रान्तिमलो बति सन्देहे मानमूल इति पूर्वपक्षे भ्रांतिमूल एवेति सिद्धांतः परमाणुकारणतायाः सर्वप्रमाणवहिर्भूतत्वात् किंच वैशेषिकाः खलु सृष्टेः पूर्वं निश्चलयोः परमानो क्रियया संयोगे द्वषणुकाद्युत्पत्तिं वदन्ति तत्र ते प्रष्टव्या भवंति कर्मणः किञ्चिन्निमित्तमभ्युपग- म्यते न वा आद्य कर्मनिमित्तत्वेन प्रसिद्धजीवप्रय. नव्याघातादिकमंगीकर्तव्यं तन्न संभवति सृष्टयुत्तर- कालीनत्वात्तस्य द्वितीये कर्मानुत्पत्तिः 'अत उभ- यथापि न कर्म' अतः कर्माभावात्तदभावः द्वयण- कादिक्रमेण सृष्टद्युत्पादाभाव इत्यर्थः । पुनरन्यदत्र विचार्यते किं संयोगश्चाणोरण्वंतरेण सर्वात्मना वा स्यादेकदेशेन वा स्यात् सर्वात्मना चेदुपचयानुपप- तेरणुमात्रत्वप्रसंगो दृष्टविपर्ययश्चप्रदेशवतो द्रव्यस्य (२६) वेदान्तशास्त्रमकरन्दे- प्रदेशवता द्रव्यांतरेण संयोगस्य दृष्टत्वात् एकदेशेन चेत् सावयवत्वप्रसंगादनित्यत्वमापद्येत यदि चोच्येत कल्पिताः परमाणूनां प्रदेशास्तर्हि कल्पितानामवस्तु- त्वादवस्त्वेव संयोग इति न तस्यासमवायिकारणत्वं स्यात् तथा च द्वयणुकादिकार्योत्पत्तिस्तस्मादनुपपन्नो- परमाणुकारणतावादः पुनश्चायमत्र दोषः तथाहि पुराणे स्मर्यते "आकाशः शब्दमानं हि स्पर्शमात्रं समावि. शाद्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको भवेत्॥१॥ रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौत्रिगुणस्तु ततो वह्निः सशब्दस्पर्शवान्भवेत् ॥ २॥ शब्दः स्पर्शश्च रूपं च रसमानं समाविशत् ॥ तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ३ ॥ शब्दः स्पर्शश्च रूपं च रसश्चेद्धमाविशत्। संहतान्गंधमात्रेण तानाचष्टे मही- मिमामातस्मात्पंचगुणा भूमिः स्थूला भूतेपदृश्यते। परस्परानुप्रवेशाद्वारयति परस्परम्।" इत्यागमबलात्पर- स्परं संहन्यमाना गंधादयः पृथिव्यादयः यथायथा सहन्यमानानामुपचयस्तथातथा संहतरय स्थौल्यं यथा- यथापचयस्तथातथा सोक्षम्यमित्यनुभवागमाभ्याम- वस्थितोोंनिच्छद्भिरपि वेशेषिकैरभ्युपगंतव्यः तथा .. सन्तारुका द्वितीयपरिच्छेदः। mamttarai च वैशेषिकैः शब्दस्य पृथिवीगुणत्वानंगीकारात् गंधर- सरूपस्पर्शगुणा पृथिवी स्थूला रूपस्पर्शरसगुणाः सूक्ष्मा आपः रूपस्पर्शगुणं सूक्ष्मतरं तेजः स्पर्शगुणो वायुः सूक्ष्मतमः तद्वत्परमाणवो व्युपचितापचितगुणाः कल्प्येरन्न वा उभयथा च दोषानुषंगः तथा च पारमष सूत्रं उभयथा च दोषात्' इति अन्न पार्थिवपरमाणु- राधिकगुणः तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्पनमायपक्षः तदंगीकारे उपचितगुणानां स्थौल्यादपरमाणुत्वप्रसंगः मूर्युपचयमंतरेण गुणा- पचयो भवतीति वक्तुं न शक्य कार्यभूतेषु गुणोपचय एव मूर्युपचयो दृश्यते । उपचितापचितगुणत्वं न कल्प्यते इति द्वितीयपक्षे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्वे एकैकगुणाः कल्पयंते तदा तेजसि स्पॉपलब्धिर्न स्यात् अप्सु च रूपस्पर्शयोः पृथिव्यां च रूपस्पर्शरसानां कारणगुणपूर्वकत्वं हि कार्यगुणानां अथ सर्वेपि चतुर्गुणाः कल्प्यते तदा अप्स्वपि गंधो- पलब्धिः स्यात् तेजसि गंधरसयोः वायो गंधरूपर- सानां न चैतादृशो लोकानुभव इत्युभयथापि दोपात परमाणुकारणतावाद अनुपपन्नः । अयमीतः पर- . (२८) वेदान्तशास्त्रमकरन्दे- माणुकारणतावादो न कैश्चिदपि शिष्टः केनचिदं- शेनापि परिगृहीत इत्यत्यंतमनादरणीय एव वेदनि- टावनिर्मुमुक्षुभिरित्यलं पल्लवितेनेति शिवम् ॥ परमाणुकारणविवादमतं परास्तम् । वेदान्तशास्त्रमकरन्दगतद्वितीये ॥ वादप्रसङ्गदुरतिक्रमविक्रमाद्याः । नैय्यायिकादिजाटिलाःकुटिलाश्च तेषाम्॥ इति श्रीमपरमहसपरिमाजकाचार्ययोगीन्द्रर्यभामानन्दसरस्वती- सामिभिरिचितो "वदान्तशास्त्रमकरन्दे" परमाणु कारणतानाद- निरासपरो द्वितीयपरिच्छेदः ।
तृतीयपरिच्छेदः । श्रीविघ्नेशानाय नमः। अथ वेदान्तशास्त्रमकरन्दे तृतीयपरिच्छेदः। नमस्कृत्य गुरुं देवं शर्व सर्वेश्वरं हरम् । अम्बां तां शारदां नत्वा चक्रुः सांख्यविचा- रणाम् ॥ १॥ येषां गिरोऽज्ञानतमोहराश्च श्रुतौ गताःपुण्यवशेन लभ्याः॥गुरूंश्च ता- नात्मविदांवरिष्ठानमामिनित्यं प्रतिवोधरू- पान् ॥२॥ प्रचंडपाखंडविखण्डनोद्यतंत्र- यीशिरोर्थप्रतिपादने रतम्॥ बुधैर्नुतं योग- कलाभिरावृतं नमामि नित्यं गुरुशंकरा- र्यम् ॥ ३॥ पूर्वपरिच्छेदे परमाणूनां प्रवृत्तिस्वभावत्वे प्रलया- भावप्रसंगः । निवृत्तिस्वभाववे सृष्ट्यनुत्पादप्रसंग इत्यादिदोषैः परमाणुकारणतावादस्य भ्रांतिमूलत्वं समर्थितं पुनश्च रूपादिमत्त्वात्परमाणवो नित्या नाप्यणवः किंतु स्थूला अनित्याः घटपटादिवत् इत्याद्यनुमानैः परमाणुकारणतावादस्य भ्रांतिनूलत्वं न :
(३०) वेदान्तशास्त्रमकरन्दे- सम्यक् प्रदार्शतम् इदानीं जडकारणतावादसाम्येन स्मृतत्वात्प्रधानमल्लत्वेन उपेक्षानहत्वात् तत्त्वप्रसंख्या- नार्थ प्रवृत्तस्य सांख्यस्य जगत्कारणत्वांशेपि श्रुतिसं. मतत्वभ्रमो माभूदित्येतदर्थं प्राधान्ये सांख्यानां तदितराणामोतानां पुराणमात्रोपजीविनां चनिरासो- ऽस्मिन् तृतीयपरिच्छेदे क्रियते ॥ केचित् कापिलनास्तिका इह जिना बोद्धे न्धनो माधवो चार्वाको कपटप्रबंधरचना- वाग्वैखरीशालिनः ॥ सर्वेषां हितकाम्यया श्रुतिमुखेनाद्वैतविद्वेषिणां तत्वज्ञानसुखो- पदेशमधुना कर्तुं प्रवृत्ता वयम् ॥१॥ तत्रताबदर्धनाशिकखंडनेनोपस्थिताः पूर्णवेना- शिका चौद्धादयः कंटका इव प्रथममुद्राभियंते तत्र माध- वावतारेण बुद्धमुनिना चौदागम उपदिष्टः ते चतु- विधाः सौत्रांतिकवभाषिकयोगाचारमाध्यामिकाभि- सर्वास्तित्वविज्ञानमात्रास्तित्वसर्वशन्यत्ववा- दिनो प्रतिपत्तिभेदादभवन् तदुक्तं वोधिचित्तविवरणे धानाः तृतीयपरिच्छेदः। : "वोधना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यते बहुधा लोक उपायैर्बहुभिः पुनः ॥ गंभीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाऽभिन्ना शून्यता. द्वयलक्षणा" इति ये च सर्वास्तित्ववादिनो बाह्यमांतरं च वस्त्वभ्युपगच्छति सौत्रांतिकवैभापिकयोरियाने भेदः ते च भूतभौतिकचित्तचैत्ताख्यं पदार्थचतुष्टयं मन्यते तत्र भूतं पृथिव्यादयः भौतिकं रूपादयः चित्तचैत्ताश्च रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पंच स्कंधाः तत्र विज्ञानस्कंधश्चित्तरूप आत्मेति मन्यते, सविषयेंद्रियाणि रूपस्कंधः सुखाद्यनुभवो वेदना- स्कंधः गौरव इत्येवनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः यत्सत्तक्षणिकं यथाविशुदादीत्येवरूपां व्याप्तिमवष्टभ्य तेषां क्षणिकत्वमामनंति नाय सिद्धान्तो मानमलो भवितुमहतीत्यभिधीयते "समुदाय उभयहेतुकेऽपि तदप्राप्तिः” अनायमाभिसंधिः योयमुभयहतुक उभय. प्रकारको भूतभौतिकसहतिरूपः पंचस्कन्धीरूप- समुदायः परेपामभितः स न संभवति समुदायिना- मचेतनत्वात् अन्यस्य कस्यचिदपि चेतनस्य भोक्तः प्रशासितुः स्थिरस्प संहतेरनभ्युपगमात् निरपेक्ष- (३२) वेदान्तशास्त्रमकरन्दे। प्रवृत्त्यभ्युपगमे प्रवृत्तेरनुपरमादनिक्षिप्रसंगः । अथ मन्यसे संघाताः संसारेऽनादिसंतत्याऽनुवर्तते तदापि संघातासंघातमुत्पद्यमानं नियमेन सहशमे- वात्पद्यते विसदृशं वा सादृश्यनियमाभ्युपगमे मनुष्य- पुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् अनियमे मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा मनुष्यो वा भवेदिति प्राप्नुयात् अपि च यद्भोगार्थ संघातः अभ्युपेयते स च भोक्ता क्षणिक इति तवाभ्युपगमः तथाच भोगापवर्गप्रवृत्तिः कस्य कस्य वा भोगापवा स्याता अन्यद्भुक्तमन्यद्वांतमि- त्यनियमः प्रसज्येत । प्रत्यभिज्ञानानुपपत्तिरित्यतः सर्वथाऽनुपपन्नःस्वकपोलकल्पनाकल्पितो बौदानां सम- यावलिवः शून्यवादिनस्तावदाचाद्भावोत्पात मन्यते तेषां मते सर्वत्राभावत्वाविशेषात् नियतकारणात्का. योत्पादप्रयासो व्यर्थःस्यात् अतिप्रसंग आपोत कारणी- भूताभावान्वयित्वेन सर्व नास्तीति प्रतीयात् सर्वथाऽनु- पपन्नः शून्यकारणतावादः। तथैव स्वभावानुत्पद्यते अकस्मादेवोत्पद्यते इत्यभ्युपगमोपि स्वातिरिक्तकारणा- शून्यत्वं वा कारणसामान्यशून्यत्वं वेत्यादिविकल्पाकु- लत्वादनुपादेय एवेति निरभ्रो ब्रह्मकारणत्वसिद्धांतः TETTE पत्रकार तृतीयपरिच्छेदः । श्रौतः इदानीं श्रुतिसंमतत्वाभिमाननिरासायेश्वराव- मानिनो प्रधानकारणतावादिनः कापिलस्य तन्मतो- पन्यासपूर्वकं खंडनमुपक्रम्यते तत्र सांख्याः कूटस्थ- ब्रह्मणो ज्ञानक्रियाशक्त्यभावान्न जगत्कारणत्वमिति बदन्ति । प्रधानस्य तु तत्सत्त्वाजगत्कारणत्वमुपपद्यते वेदांतसिद्धांतेपीश्वरस्य साहाय्यभूतमवश्यमव्यक्तश- ब्दोदितं श्रोतं शक्यपरपर्यायमभ्युपगंतव्यमेव केवल- स्याकारणत्वसिद्धांतात् तथाच श्रुतिः 'देवात्मशक्ति स्वगुणैर्निरूदी' 'मायां नु प्रकृति विद्यात्' इति श्रुति- सिद्धमीश्वरसहकारिभूतमव्यक्तमवश्यमंगीकर्तव्यं न- हि शक्तिरहित ईश्वरः कार्यलेशं वा कर्तुं योग्यः असंगत्वादपिकारित्वाच्चेति तात्पर्यम् । अथैवमुच्यते कापिलैः सदेव सौम्येदमग्र आसीत्' इत्यत्र सच्छ- ब्दवाच्यं प्रधानमेव जगत्कारणत्वेनोपदिश्यते कुतो यानि वेदांतवाक्यानि सर्वज्ञस्य सर्वशक्तजगत्कारण- स्वप्रतिपादकानि सर्वाणि तानि प्रधान एव संभवद- र्थानि भवन्ति प्रधानादेव त्रिगुणात्मिकां जगदुत्पत्ति- माह श्रुतिः 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः' इत्यत्राजायास्त्रिगुणास्मि- कायाः सकाशाजगत्सर्जनाभिधानात् एतदेवोपपद्यते tatt....... ३ (३४) वेदान्तशास्त्रमकरन्दे- कार्यस्य जगतः सुखदुःखमोहान्वितस्य त्रिगुणात्म- प्रधानकार्यत्वौचित्यात् तथाच प्रधानस्यैव स्वकार्यविषय सर्वशक्तिमत्त्वं सर्वथोपपद्यते यतः कारणमेव कार्ये शक्तं नाकारणं ब्रह्म क्रियाशक्तिमत्वाभावादपरिणामित्वाच तथा सर्वज्ञमपि प्रधानमेव न ब्रह्म यतः ज्ञान हि सवधर्मः ‘सत्त्वासंजायते ज्ञानम्' इति स्मृतेः तच ज्ञानजनकसत्त्वं प्रधानस्य गुण इति प्रधानस्यैव सर्वज्ञत्वं न ब्रह्मणो निर्गुणत्वात् अपिच प्रधानस्यैवाने- कारमकस्य परिणामसंभवाजगत्कारणत्वमुपपद्यते नकात्मकस्य ब्रह्मणः इति तत्सर्वथानुपपन्नं यतः सांख्यमते त्रिगुणसाम्यावस्था हि प्रधानमिति तेपा- मंगीकारः । यदि च गुणसाम्ये सति सत्त्वव्यपाश्चयां ज्ञानशक्तिमाश्रित्य सर्वज्ञत्वमभिधीयते तदा कामं रज- स्तमोव्यपाश्रयां ज्ञानप्रतिबंधशक्तिमाश्रित्य किंचि- ज्ज्ञत्वमपि वक्तव्यं स्यात् तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् इतोपि न प्रधानमचेतनं जगत्कारणं भवितुमर्हति ईक्षणपूर्वकदृष्ट्यभिधानात् “स ईक्षत लोकान्नुसृजा"इति 'सईक्षांचक्र" "स प्राणमसृजत" "यः सर्वज्ञः स सर्ववित्"इत्याद्यागमाः 'ईक्षतनशिब्द' इति पारमर्प सूत्रं तच्चक्षणपूर्वकं सत्वं नाचेतनस्य वृत्तीयपरिच्छेदः । प्रधानस्य भवति. 'न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते' "अपाणिपादो जवनो ग्रहीता" "पश्यत्यचक्षुः सशृणोत्यकर्ण: "स वेत्ति वेयं नच तस्यास्ति वेत्ता""तमाहुरय्यं पुरुषं महांत"मित्या- दिश्रुतय ईश्वरस्यैव शरीराद्यनेपक्षतामनावरणज्ञानवत्त्वं च दर्शयति तस्माद्ब्रह्मैव जगत्कारणं न प्रधानं अथै- यमुच्यते अचेतनपि प्रधाने औपचारिकमीक्षितत्व- मुपपद्यते कूलं पिपतिषीत्यादिवत्. श्रुत्याचेदमौ- पचारिकमेवेक्षितृत्वमभीप्सितं तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इत्यादावापचारकेक्षणाभिधानात्तदपि न संभवतीत्येतत् शंकानुवादपूर्वकं खंडयाति सूत्रकारः 'गौणश्चेन्नात्मशब्दात्' इति अस्मिन्सूने आत्मशब्दो चेतनस्वरूपवचनोऽचेतनं प्रधानं निराकुर्वन् चेतनमेव जगत्कारणं प्रगृह्णाति तथैव श्रुतापक्रमः "आत्मा वा इदमेक एवाग्र आसीत् सदेव सौम्येदमन आसी- दित्यादि" तस्मादनात्माप्रधानं न जगत्कारणं अथ चोच्यते अचेतनेप्यात्मशब्दःप्रधाने संभवति कुतःप्रधा- नस्य सर्वात्मकार्यकारित्वात् यथा राज्ञःसार्थकारिणि भृत्ये ममायमात्मति यथोहि राज्ञः संधिविग्रहादिपकु- वाणो भृत्यस्तथा प्रधानमात्मनो भोगापवर्गों कर्वदपका- वेदान्तशास्त्रमकरन्दे । रकं अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भवति, भूतात्मा इंद्रियात्मेति बहुशः प्रयोगदर्शनात् चर्थक एव ज्योतिःशब्दः ऋतुज्वलनविषयः तस्मात् प्रयान- मेव श्रौतं जगत्कारणमिति अत्रोत्तरभूतं तन्निष्टस्य मोक्षोपदेशात्' इति पारमपं सूत्रम् अस्यायमभिप्रायः नह्यचेतनं प्रधानमात्मशब्दालंयनं भवितुमर्हति कुतः 'स आरमा' इति सद्रूपामात्मानमुपक्रम्य 'तत्त्वमसि श्वेतकेतो” इति सद्ब्रह्मात्मनिष्ठामुपदिश्य 'आचार्य- वानपुरूपो वेदतस्य तावदेव चिरं पावन विमोक्ष्ये अथ संपत्स्ये' इति मोक्ष उपदिश्यते अन पूर्ववादि- मतानुसारेण पूर्वमेव चेतसं संत मुमुक्षु त्वं तदसीत्य- चेतनप्रधानात्मत्वं ग्राहयत्शास्त्रमनर्थाय कल्पेत अथ च प्रमाणभूतं शास्त्रं श्रदधन जडात्मबुद्धिं न परित्य- जेत् तथा चान्धगोलांगूलन्याय आपतेत् तथाहि कश्चन दुष्टात्मा महारण्ये भ्रमंतं नगरं जिगमिपुमंधं मदो- न्मत्तवृपभलांगूलं ग्राहयन्नवादीत् अयं त्वां नगर नेष्यतीति स च श्रदधानस्तदत्यजन्महतीमनर्थपरं- परां प्राप्तः तद्वदेव -मुमुक्षुर्जडमात्मतया गृह्णन सप्तारानर्थपातमवारितासियात् तस्मात्सांस्यकल्पनं प्रतारणामात्रमवगंतव्यम् यथा वा घटशरावादि- तृतीयपरिच्छेदः । (३७) के कार्य मृदाद्यन्वीयमानं मृत्कारणकं तथा प्रपंचोपि सुखदुःखमोहान्वयितया त्रिगुणप्रधानकारणकः इत्य. वोचतर्कबलापूर्ववादी कापिलः किं तेन नेदमवलोक्यते तकिमिति चेत्पश्य लोके हि नाचेतनं चेतनानधि. प्ठितं किमपि कार्य का प्रभवति यतः गेहप्रासादश- यनासनविहारभूम्यादयो हि चेतनेनैवाधिष्ठात्रा रचिता दृश्यते तथेदं विचित्ररचनारूपमनककर्तृभोक्तृसंयुक्तं लौकिकेन केनापि मनसाप्याकलयितुमशक्यं कथं काष्ठलोप्टकल्पनाचेतनन चेतनानाधिष्ठितेन कर्तुं शक्यामित्यनीश्वरवादिना सांख्येन किमिति न विचार्यते तिहि प्रधानकारणतावादिनो सांग्याचार्या भ्रांता भविष्यंति श्रुतिस्ताक्कपिलाचार्यस्य ज्ञानातिशयं दर्शयति । "ऋषि प्रसृत कपिलं यस्तमने ज्ञानेर्विभर्ति जायमानं च पश्येत्" इति श्रुतिगीतमाहात्म्यसा- ख्याचार्यकपिलमहर्षिमतं तविष्टब्धं कथमप्रमाणमि- त्यवगंतव्यं भवेत् तथाच परमप्रमाणसांख्यस्मृति बलात्प्रधानमेव जगत्कारणं न परमेश्वरः तत्रेयं कारिकानुसंधेया । "सांख्यस्मृत्यास्ति संकोचो न वा वेदसमन्वयोधर्म वेदः सावकाशःसंकोचोनवकाशया॥" तथाच सांख्यानां पूर्वपक्षः संपन्नः कपिलमहर्पिप्रणी- (३८) वेदान्तशास्त्रमकरन्दे- तशिष्टपरिगृहीतस्मृतीनामनवकाशदोषप्रसंगात् वेदां- तानां प्रधाने समन्वयःइति एनं पूर्वपक्षमनुवदन्खंडयति भगवान् सूत्रकारः । "स्मृत्यनवकाश दोष प्रसंग इति- चेन्नान्य स्मृत्यनवकाशदोषप्रसंगात्" अथात्र सिद्धांतः प्रतिपाद्यते यदि च सांख्यवादिना कापिलस्मृत्यन- वकाशवलेन ईशारकारणतावाद आक्षिप्यते तदा परम- प्रमाणभूता ईश्वरकारणतावादिन्यो मन्वादिस्मृतयः अनवकाशाः प्रसज्येरन् ताश्च स्मृतयः "अहं कृत्स्नस्य जगतःप्रभवः प्रलयस्तथा"इति भगवद्गीतासु भगवान् वासुदेवः तथा भगवानापस्तंबोपि "तस्मात् कायाः प्रभवंति सर्ने समुलं शाश्वविकः सनित्यः" इति एवं पुराणेपि “अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्व- मिदं पुराणः ससर्गकाले च करोति सर्व संहारकाले च तदस्ति भूयः" इत्यादिस्मृतय ईश्वरकारणतावा- दिन्यो विरुध्येरन् दर्शितं च पुरस्तादेव श्रुतीनां ईश्वर- कारणतायां तात्पर्य तस्मात् श्रुतिप्रामाण्यावष्टंभात मन्वादिस्मृतय एव प्रबलाः “यद्वै किंचन मनुरवद- त्त पज" मित्यादिश्रुतिः स्वातंत्र्येण मन्वादिप्रामाण्यं ब्रवीति । इदं तु कंटकेनव कंटकमिति न्यायमाधि- त्योकं अन्यथा ईश्वरकारणतावादिनीनां श्रुतीनां तृतीयपरिच्छेदः। विरोधेन कापिलस्मृतीनां प्रामाण्यं दूरतोपास्तं तथाच महर्षिजैमिनीयं सूत्रम् "विरोधे वनपेक्ष्यं स्यादस- तिह्यनुमानम्" अस्यायमर्थः यदि स्मृतीनां श्रुतिभिः साकं विरोधे सर्वथाऽप्रामाण्य माविरोधे हि तासां प्रामाण्यं नचातींद्रियाणामर्थानां श्रुतिशरण्यमंतरा न किंचिदभ्रांतोपलब्धिसाधनमस्ति कपिलादिसिद्धाना- मपि धर्मानुष्ठानसापेक्षवाप्रतिहतज्ञानासिद्धिः धर्मों हि चोदनालक्षणः श्रुत्यधीन इति न श्रीतसिद्धांत बाधितुं क्षमते अर्वाचीनस्मृतयः तत्रेयं सिद्धांतप्रतिपा- दिका कारिका "प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥ अमूला कापिली बाध्या न संकोचो नयायतः। नचैवं कपिलस्य ज्ञानातिशयं प्रदर्शयंती श्रुतिरप्रमाणं स्वादिति शंकनीयं श्रुतिवाक्ये हि वैदिकः कपिलो वासुदेवनामा पष्ठिसहस्त्रसंख्यानां सगरपुत्राणां भस्मी- भावहेतुः । सांख्यप्रणेतुरवैदिकात्कपिलादन्य एव स एव सिद्धानां कपिलो मुनिः' इत्यत्रभगवद्गीतायामुक्तः अयंच सांख्यदर्शनकर्ताअवैदिककपिलः सर्वश्रुतिस्मृ. तिसंमत सर्वात्मत्वदर्शनं नानुमन्यते आत्मभेदाभ्यु- पगमो हि सांख्यानामिष्टस्ततोपि वेदविरुद्धं कापिलं सांख्यदर्शन "एक एव हि भूतात्मा भूतेभुते व्यव- (१०) वेदान्तशास्त्रमकरन्दे- startstatement स्थितः । एकं संतं वहुधा कल्पयंति ॥ सूर्यो यथा सर्व- लोकस्य चक्षुर्न लिप्यते चाक्षुपैर्वाह्यदोषैः। एकस्तथा सर्वभूतांतरात्मा" इत्यादिश्रुतयः, 'सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी बै स्वाराज्य मधिगच्छति' इत्यादि मन्वादिस्मतयश्च सर्वत्रैकात्मतां दर्शयति । तस्माद्वेदस्मृतिविरोधात्सांख्यदर्शनं कैवल्ये- प्सुभियमेव-तथैव प्रधानं तत्परिणामित्वेन महदादी- न्यपि गर्वाण्यवैदिककल्पनादूषितानीति परिहर्तव्यान्येव "इतरेषां चानुपलब्धेः" इत्यनेन सूत्रेण प्रधानपरिणा मित्वेनसांख्याभिमतानि महदादितत्वान्यपिखण्डित- वान्सूत्रकारः अस्मन्मते ब्रह्मव्यतिरिक्तस्य सर्वस्याधि- छाननिष्टात्यंताभावप्रतियोगित्वेन मिथ्यात्वेन सिद्धां- तितत्वात् प्रधानस्यापि तथास्वेन तस्य स्वीकारे ब्रह्माणि परतंत्रता स्यात् तथा च श्रुत्तिविरोधः । तस्मात्स्वतंत्र- प्रधानवादपरिग्रहो सांख्यानां दूपितःसमन्वयाधिकरणे भाप्यकृच्छंकरभगवत्पूज्यपादैः स्वतंत्रस्य ब्रह्मणो जग- कारणत्वं सर्वश्रुतीनांसमन्वयेन दर्शितं ब्रह्मैवस्वशक्तय भिधेयप्रकृतिमाश्रित्य लोकान् सृष्ट्वान्तर्यामितया ईश्व- रत्वेनाभिधीयते तथाच "तत्सृष्ट्वा तदेवानुप्राविशत्।।" इति तदनुप्रविश्य "निरुक्तंचानिरुक्तं च। निलयनचा- तृतीयपरिच्छेदः। निलयनं च विज्ञानंचाविज्ञानं च। सत्यंचानृतं च सत्य मभवत॥"तथा ऐतरेऽपि ॥ ' स ईक्षत इमाँल्लोकान्नस- जत' इति ॥ आसु प्रकतेभिन्नाया अप्रतिपादनात् प्रधानकारणतावादो भ्रांतप्रलपनमात्रं नचान शंक्यमी क्षणादिश्रुतेः चक्षुःसंयोग विना ईक्षणकर्तृत्वायोगात् ब्रह्मणोपि चक्षुरादिइंद्रियस्वीकारप्रसंगःइति “ पश्य- त्यचक्षुः स शृणोत्यकर्णः” इत्यादि श्रुतिवलान्माया- वृत्यात्मकेशसंकल्पस्यैवेक्षणपदार्थत्वस्वीकारात् नहि स्वतंत्रस्य सर्वशक्तिमतो कुलालक्त् दंडचनादिसाधन- पारतंत्र्यमस्ति अमुमेवार्थं मनसि कृत्याभिन्ननिमित्तो पादानत्वं श्रतिवते न चैतददृष्टचरं ऊर्णनाभ्यादेरभि- ननिमित्तोपादानस्य दृष्टत्वात् तथाच श्रुतिः 'यथो नाभिः सृजते गृह्यते च यथा पृथिव्या ओषधयः संभवंति । यथासतः पुरुषात् केशलोमानि भवंति तथा क्षरात्सम्भवतीह विश्वम्'इत्यादिश्रुत्या ब्रह्मण एवाभि- निमित्तोपादानत्वं निर्धारितमित्यलंसांख्यखंडन- विस्तरेण । अत्रानर्थनिवारणमद्वैतवोधमेव प्रतिपादयति भग- वंतो गौडपूज्यपादाचार्याः तत्रेयं मांडूक्योपनिष- पद्वयाख्यानकारिका"अनादिमायया सुतो यदा जीवः प्रवुध्यते । अजमनिद्रमस्वप्नमद्वैत बुध्यते तदा वेदान्तमाखमकरन्दे- तस्मान्मोक्षकामः पुरुपेरद्वेतात्मवोध एवोपनिषद विचारेण संपादनीयः न देतदुर्गन्धकचरंमेदशासं स्वप्नप्याघ्रातव्यं धर्मार्थकाममोक्षेषु पुरुषार्थेषु चरम एव ज्यायान् तस्यैव "न स पुनरावर्तते"॥ इतिश्रुत्या निस्यत्वावगमात् स एव समक्षणां साध्यः तरसाधने प्रत्यग्ब्रह्मात्मकत्वाविज्ञानं तच उपनिपद्भ्य एवं पूर्वोक्त- विवेकादिविशेषणविशिष्टानामधिकारिणां जायते सेव पराविद्येत्यभिधीयते 'अथ परायया तदक्षरमधिगम्यते' साच विवेकादिसाधनसंपत्तिः शुद्धान्तःकरणानां संभ. पति अंतःकरणशुद्धिनिकामकर्मानुष्ठानसाध्या तय कर्मानुष्ठान धर्मज्ञानेन सम्यक् भवति तादृशधर्मशानहे- तभूतानां पडंगसाहितानां कर्मकांडानामपरविद्यार तत्र तविशिष्टादेतजेनचाफिनिघायरामानुजमाप- लभकुलादीनां दिकपरंपराविरोधिनी परापरविद्या सर्वथानाधिकारः । तेषां समुसरणायेशमभ्यर्थयामः । कलिकृतकुमनीपागदीविपाको- न्मदजनमथनोत्यध्यांतलीढोपगृढान् । अभित अनुकृतार्का यन्मुखांभोजवाचः श्रुतिगतिमतितकः प्रीणयंतुस्वधमान् ॥
तृतीयपरिच्छेदः। (४३) - अध्यात्मब्रह्मविद्या तु सर्वविद्याभरणमौलिभूत उप- निपदर्थविज्ञान परविद्यारूपा भगवन्महर्पिव्यास- सिद्धांत दर्शनानुसारेण परपक्षखंडनपूर्वकं सूचिता आत्मविद्योपायतया भगवन्महर्षि जेमिनिप्रणीता- धर्मज्ञानरूपाऽपविद्यारूपाप्यस्माकमभिसंमता परंतु विशिष्टाद्वैताद्यधुनातनानां वादानामार्पदर्शनेषु कुत्रापि मूलमनुपलभ्य वसिष्टहारीतपराशरादिस्मृतिषु भार्ग वपुराणादिपु देवद्विजनिंदापरा वहवो विभागा विरच्य प्रक्षेपिताः येषु बहूनामपरिशीलितश्रुतिस्मृतिकानां सत्यत्वभ्रमो जायते तेः पाराशरादिस्मृतिष यथेष्टं कल्पिता मंत्राः "श्रीमन्नारायणचरणौ शरणं प्रपद्ये" "श्रीमते नारायणाय नमः।।इति तथा श्रीक्षणः शरणं मम" इत्यादयो मंत्रा आनुपूा वेदवर्हिभूता अष्टाक्ष- राद्याः सर्वथा आर्षमूलान भवत्येवेति सिद्धांतः ॥ "विनाद्वयेन वै विप्रो चांडालत्वमवाप्नुयात्" इत्या- दिवचनात् अपराण्यपि रतिरहस्यलीलाप्रदर्शन- मंत्ररूपाणि वचनान्यनिर्वचनीयानि गायत्रीमंत्र- वद्विजैःप्रत्यहमुपास्यमानामिपरिदृश्यते न तानि मंत्र- वचनानि वेदमूलानि न परमहर्षिप्रणीतार्पस्मृतिम लानीति सर्वथा अवैदिकत्वमिदानींतनानां संप्रदायानां Ste (४४) वेदान्तशाखमकरन्दे- कल्पितानामिति किं पृथक्वक्तव्यं भवेत् अथ च वेद- मुलहीनानां कुमतप्रचारविलासबालानां कामिनां कुतः वेदमान्यत्वं स्यात् "नाविरतो दुश्चरितानाशांतो नासमाहितः' इत्यादिना कामाद्याचारस्य सर्वथा निंदितत्वात् तैः श्रुतिस्मृतिप्रतिपादिता सनातनमर्या- दापिदरतोपास्ता परिदृश्यते यतः "वैश्वदेवविशुद्धो- सो विष्णोरन्नं निवेदयेत् "यज्ञशिष्टाशिनः संतोमुच्यते सर्व किल्बिपैः ॥ भुंजते ते त्वघं पापा ये पचंत्यात्म- कारणात्" इत्यादिस्मृतयः । श्रुतिरपि “मोघमन्नं विन्दते अप्रचेताः सत्यंत्रवीमिवथाइत्सतस्य नार्यमणं पुष्यति नो सखाय केवलायो भवति केवलादी" इत्यादि अकृतवैश्वदेवादिपंचमहायज्ञानां पापमात्रा- शित्वं वक्ति इदमुपलक्षणं श्रोतानां स्मार्तानां नित्यक. मगां द्विजैनित्यकर्माण्यवश्यमनुष्टेयानाति प्रजापति- वचनार्थः। "पंचसूना गृहस्थस्य ताभिःस्वर्ग न विंदति । पंचसूनाकृतं पापं पंचयज्ञयपोहति" " स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्र तत्॥ इत्यादिश्रुतिस्मृतयोऽवैश्वदेवानंपापरूपमेवेत्युद्धोपयंति न तधिरैः श्रूयते किं वेदा हि इष्टानिष्टप्रातिपरिहारा नकूलमलौकिकमुपायमुपदिशंतो जीवजातमाखिलमनु- " तृतीयपरिच्छेदः। (४० uttitu tatta गृह्णन्ति प्रत्यक्षेणानुमित्या वा यस्तूपायो न वुध्यते एवं विदति वेदेन तस्मादिस्य वेदत्ता ॥ न खलु ज्यो. तिष्टोमादिः परमेष्टेहतुः कलंजभक्षणादिरनिष्टहेतुार- त्यमुमर्थ वेदव्यतिरेकेणानुमानसहस्रेणापि तार्किक- शिरोमणिरप्यवगन्तुं शक्नोति तत्र च श्रुतिलिंगवामय प्रमाणान्येवोपयुज्यंत अथच कर्मकांडीयश्रौतस्मार्तधर्मा रंभे प्रथममेव सर्वेपि सनातनाः वेदनिष्ठाः गणेश पूंजनमविरोधेन कुर्वन्ति सर्वे लौकिका वैदिकाश्चन कदापि विप्रतिपन्ना भवंति तथा च स्मृतिः ॥“अष्टा- दशपुराणषु दशभिर्गीयते शिवाचतुर्भिीयते विष्णा- दाभ्यां शक्तिश्च विघ्नपः " इति स्नृत्या अष्टाद शपुराणषु शिवविष्णशक्तिगणेशानामविरोधेन प्र तिपादनमकारि भगवता व्यासेन तत्रापि "ज्येष्टराज ब्रह्मणां ब्रह्मणस्पति गणानां त्वा गणपति ५ हवामहे कविं कवीनां मुपमश्रवस्तमम्' इत्याद्याःशतशः श्रुतयः श्रीगणेशाद्यपूजनमाहुः तथैव पुराणे त्रिपुरसंहारकाले श्रीमहादेवेनोक्तं "शवस्वीयरुत वैष्णवेश्च शाक्तच सोयैरपि सर्वकार्ये । शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथम प्रयत्नात्" इत्यादिस्मृतिबलात गणेशपूजनं विना न कोपि श्रौतस्मातकरिंभ इति । PARAN समा (४६) चेदान्तशालमकरन्दे- स्थितम् "तदा जानीहि भो योगिन् ब्रह्माकारों श्रुते- मुंखात । तयोः स्वामिगणेशश्च योगरूपेण संस्थि- तः॥ २ ॥ इत्यादिनापि श्रीगणेशप्रशंसनात् तगणेशपूजनमकुर्वाणानां विशिष्टाद्वैतादिमताभिनि- वेशिनां श्रोतस्मार्तसनातन कर्ममर्यादाभ्रष्टत्वमेवेति सिद्धम् । अथच विशिष्टाद्वैतादिवादिभिः जीवेश्वरयो- भेदः अंगीकृतः स किं स्वामिभूत्ययोरिवोपकार्योंए- कारकभावेन संमतः उत अग्निविस्फुलिंगयोरिवा- शांशिभावेन उभयथापि न संभवति भेदस्य श्रुत्यानिरालात् 'तत्त्वमसि' 'अहंब्रह्मास्मीति' अभेद- प्रतिपादनात् जीवो ब्रह्माभिन्नः सच्चिदानंदस्वरूपात यन्नैवं तन्नेव मित्यनुमानाचात्मनःश्यसिद्धिःजीवत्वं चात्मनि उपाधिसंबंधेन कल्पितं आत्मा ब्रह्मैव नतु ब्रह्मात्मनोभेंदः । दर्शयति च भयं श्रुति ददर्शिनः "मृत्योः स मृत्युमाप्नोति य इह इनानेव पश्यति" "य एतस्मिन्नु दरमंतरं कुरुते अथ तस्य भयं भवति" तस्मान्न जीवब्रह्मणोस्तिवो भेदस्तहि कुतस्तयोः स्वामिसेवकभावः वास्तव मुपजीव्यमानः भवतु तर्हि ब्रह्मात्मनोरंशांशिभावः "यथाग्नेर्विस्फुलिंगा व्युञ्चरंति" इत्यादिश्रुत्या : वस्तुतः स्वरूपेण तृतीयपरिच्छेदः। "ममैवांशो जीवलोके जीवभूतः सनातनः" इत्यादि- स्मृत्या च जीवस्य ब्रह्मांशत्वप्रतिपादनात् नायं विचारसहः सिद्धांतपक्षः संभवति यतः निरवयवस्य ब्रह्मणो वास्तवांशासंभवात् सावयवत्वे घटवन्नाश- प्रसंगात अपि च "तत्सृष्ट्वा तदेवानुप्राविशत्" अनेन जीवनात्मनानुप्रविश्य "नामरूपे व्याकरवाणि" इत्यादिश्रुतिभिः ब्रह्मण एवं जीवरूपेण घटा- काशादिवज्जीवरूपेणावस्थानं अंशत्वकल्प नागधोपि युक्तः अंशत्वप्रतिपादकश्चात स्मृतयस्तु अविद्यायपाधिसंबंधनिमित्तां जीवत्वक- ल्पनां घटाकाशवदवच्छेदवादेन जलसर्यप्रतिविम्धवदा- भासवादेनाचक्षते वस्तुतः 'तत्त्वमसि'अयमात्माब्रह्म' इत्यादिश्रुतिबलात् जीवभावच्युदासेन जीवस्य ब्रह्मत्व- मेव प्रतिपादयति यथा वा सौरश्वांद्रमसो वा प्रकाश अंगुल्याद्युपाधिसंबंधेनजवकभावमिव प्रतिपद्यते यथा वाकाशादिषु घटादिसंबंधात् गमनादिक्रियावभासः कल्पते यथा वोदशरावादिकंपने सूर्यः कंपमानइव कल्पते तथा कार्यकरणसंघातरूपोपाधिसंबंधाद्ब्रह्मणि जीवभाव प्रकल्प्य प्रकाश्यकर्तृत्वभोक्तृत्वादिप्रमुखः सं. सारः कल्प्यते न वस्तुतः जीवत्वं संसारित्वं वा तथा च .. (४८) वेदान्तशास्त्रमकरन्दे- atatisthatatatate "ब्रह्मदाशा ब्रह्मदासा ब्रह्मैवेमे कितवाः॥ त्वं स्त्री पुमा- नसि त्वं कुमार उत कुमारी त्वं जीणोंसि भवसि विश्वतो मुखः' इत्यादि शुतयो कल्पनयैव चारितार्थाः तेन ब्रह्मणो न निर्विकारस्वरूपत्वहानिःतस्मादेश एव सर्वेषां भूतानामंतरात्मा जीवभावनावस्थित इति सि- द्धम् । ननु जीवो यदि ब्रह्मरूपस्तहि ब्रह्मणो विधिनिषेधातिवात् ब्रह्माभिन्नस्य जीवस्यापि तथा- स्वात् एते अनुज्ञापरिहाराः कस्य भवेयुः । तथाहिं 'अहरहः संध्यामुपासीत""गृहस्थः सदृशी भार्यामु- पेयात्" 'ब्राह्मणो न हंतव्यः' 'गुर्वगनां नोपगच्छेत्' 'न हिंस्यात्सर्वाभूतानि' "अग्नीपोमयिं पशुमालभेत" इत्यादयः सहस्त्रशो विधिनिषेधा अनवकाशाः प्रसज्येरत् तस्माद्विधिनिषेधाधिकारी जीवो ब्रह्माभिन्नः प्रतिक्षेत्रं भिन्नः अभ्युपेयः इत्यापे समाधान 'देहसम्बन्धाज्योतिरादिवत्' अत्र देहसम्बन्धो नाम देहादिरयं संघातः अहमेवेत्यात्मनि विपरीत- प्रत्ययोत्पत्तिः दृष्टा च सा सर्वप्राणिनाम् अहं गच्छाम्यहमागच्छा म्यहमन्धोहंबधिरो मूकोह मित्या- दिरूपा न ह्यस्या भ्रांतेः सम्यवज्ञानादन्यन्नि- वारकमस्ति तस्मादविद्यानिमित्तदेहायुपाधिसम्बन्धा- तृतीयपरिच्छेदः। (४९) तथा "देवा. जीवात्मनो विधिनिषेधनियोज्यत्वमवकल्पते तादृशो- पाधिसम्बन्धनिमित्व सुखिस्वदुःखित्वबदमुक्तत्वादि- व्यवस्थेत्यात्मकत्वमनवद्यम्। मायाभासेनजीवेशौ करो तीति श्रुतत्वतः कल्पितावेव जीवेशौ ताभ्यासर्व प्रकल्पि तम्' इत्यादिवाक्यैर्जीवेश्वरत्वे कल्पिते एव मायया स्वा. धिष्ठाने ईश्वरत्वं कल्प्यतेअथचा विद्यया जीवत्वं कप्ल्य- ते नन्वसंगस्वप्रकाशात्मनि कथम विद्याकल्पनेति चेत्, न जानामीत्यनुभवसिद्धस्य अज्ञानस्य दुरपह्नवत्वात्- " ते ध्यानयोगानुगता अपश्यन् ।। त्मशक्तिं स्वगुणैर्निगूढामित्यादिश्रुतिप्रसिद्धा च "अज्ञा नेनावृतं ज्ञानंतेन मुह्यंति जनयः ज्ञानेन तु तदक्षानं वेषां नाशितमात्मनः। तेपामादित्ययज्ज्ञानं प्रकाशयति । तस्परम्"॥ इत्यादिभगवद्गीतावचनानि श्रोत्रियनानि टोपदिष्टतत्त्वमस्यादिमहावाक्यविचारजन्यापरोक्षसा- क्षात्कारेण बाध्यमानाबारवरूपावरकतया कल्प्य. माना मायेत्यर्थमयबोधयंति इत्येतत्सर्वमनिच्छता श्रुति दर्शनांधेन नास्तिकेन सांख्यतार्किकबलिवर्देन सर्वथे- प्टव्यमेवेति ब्रह्मसाक्षात्कारनिवर्त्यभावरूपाज्ञानतिद्धिः ननु तर्हि जगतः बीजरूपं प्रागवस्थात्मकं अव्यक्त- शब्दार्ह भावरूपमज्ञानं वेदांतसिद्धांते अभ्युपेयते ।
(५०) वेदान्तशास्त्रमकरन्दे- प्रधानकारणतावाद एव सांख्यानां संमतः स्वीकृत एव यतः सांख्यैर्जगतः प्रागवस्थारूपस्य त्रिगुणा- त्मकभावरूपस्य प्रधानत्वेनाभ्युपगमात् अत्रोच्यते यदि वयं वेदांतिनः स्वतंत्रां कांचिज्जगतः प्रागव- स्था कारणत्वेनाभ्युपगच्छेम प्रसंजयेम तदा प्रधान- कारणतावादनच तथाभ्युपगमः परमेश्वराधीना हि नगतःप्रागवस्थाऽऽस्माभिरभ्युपगम्यते न स्वतंत्रा सा चावस्था श्रुतिपु क्वचिन्मायाशब्देन क्वचिदव्यक्त- शब्देन क्वचिचाक्षरशब्देन निर्दिश्यत इति न सांख्या- भिमतस्वतंत्रप्रधानकारणतावादापत्तिवेदांतसिद्धांतिना मिति सांख्यमतनिरासो वज्रलेपायित इत्यलं विस्तरेण। कापालिकक्षपणवौद्धजिनादिसर्पा । निर्जित्य कंककुलिकाँश्च निरीश्वराद्यान् ॥ अन्यानि कापिलमतानि तिरस्कृतानि । वेदान्तशास्त्रमकरन्दतृतीयभागे ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्ययोगीन्द्रवर्यारमानन्दसरस्वतीस्वामि- मिविरचितो "वेदान्तशास्त्रमकरन्दे" निरीश्वरवादिसारख्यमत निरासपरोनाम तृतीयपरिच्छेदः ।।
चतुर्थपरिच्छेदः। वेदान्तशास्त्रमंकरन्दे चतुर्थः श्रुति- सिद्धान्तपरिच्छेदः। @KHor नन्वनेकप्राणिजीवगुणविशिष्टब्रह्मविषयकं ब्रह्मो- पासनं विधीयते यथारण्याद्यनेकवृक्षविशिष्टं तत्र व्यष्टि- समष्टिभेदेन एकानेकत्वं प्रतीयते तथैव ब्रह्मणि अने- कत्वप्रतीतेः "एकमेवाद्वितीयं ब्रह्मे" त्यादिश्रुतिविरोधः स्यादिति चेन्न अत्र श्रुतिसमन्वये अखण्डसच्चिदानन्द- स्वरूपत्वप्रतिपादनासंसर्गविशिष्टाद्यनर्थासम्भवस्येव ब्रह्मणि पर्यवसितत्वात् । ननु सत्यादिपदानामनेक- लक्षणत्वात्तेषां ब्रह्मलक्षणालीकारे बहुत्वं स्यादिति चेन्न । एकब्रह्मतात्पर्यप्रतिपादकत्वेन अखण्डैकब्रह्म- बोधकत्वात् । तथाचोकमाचार्यः श्रुतिस्तात्पर्यदृष्ट्या भागत्यागलक्षणया ब्रह्म बोधयति ननु वेदांतानां कर्तृदे- वतादिप्रतिपादकविधिसापेक्षवेनार्थवादत्व कथं न स्या दिति चेन्न अपूर्वार्थप्रतिपादकत्वेन सापेक्षत्वाभावात्परम परुषार्थतायाः परब्रह्मप्रकरणस्थत्वाच्च । विधिरहिताना- मपि तेषां तात्पर्येण परिपूर्णब्रह्माखण्डैकत्वप्रतिपादि- वेदान्तशास्त्रमकरन्दे- तान्विता) शक्तिग्रहादपि वेदान्तानां विध्यपेक्षितत्वं नास्ति प्रकरणान्तरसिद्धत्वेन तत्सतिपादितप्रमेयानां जन संभवति स्वप्रकरणस्थत्वेन प्राधान्यात् । अपूर्व- प्रतिपादकत्वेन च सापेक्षत्वाभावात् केवलान्वयित्वे शन्तिमदर्शनात् । तस्मान्न क्रियापरा वेदांताः । रज्जरिय नायं सर्प इति सिद्धबोधेनापि दाखनिवृत्ति- वर्शनात् । ननु वेदान्तेभ्यो ब्रह्मासिद्धिमिच्छता वृत्ति काराणां भर्तप्रपञ्चादीनामुपासीत ध्यायीत इत्याच- पासनाविधीनां विषयतया वेदान्तबोधकामामुणसना- धांधकत्वेन कार्य स्वार्थसिद्धिरिति च सर्वसाक्षितया नित्यचिद्पपरिपूर्णवमातिरिक्तवस्वभावामुरयाद्वैत एव वेदान्तमहावाक्यान तात्पर्यात्ततत्त्वज्ञानामपि तत्रैव संमतत्वाच्च । उपासनापरत्वं हि गोणत्ममन- थत्यं च न्यादान्तानान्तञ्चानिष्टं लधियकिनाम् । तयाची सर्वतत्त्वविच्छेष्टवार्तिककारैः। "भावना फलं यत्स्यात् यच्च स्यातकर्मणः फलम् ॥ न तत्स्था- यति मन्तव्यं परस्त्रीगमनं यथा ॥ तस्मान्नोपास- नावोधकत्वमपि मुख्यत्वेन वेदान्तानाम् । ज्ञानस्य वस्त्वधीनत्वादपि तथाहि । यद्वस्तु यादृशं वर्तते तद्विपयकं ज्ञानमपि तादृगेव जायते तदेव च प्रमा-
चतुर्थपरिच्छेदः ।
ज्ञानं वरतु नान्यथा करोति घरज्ञानं घटाकारमेव
जायते न पटाकारं यथार्थवोधी हि प्रमा । अनधिगता
बाधितज्ञानत्वं स्मृतिव्यावृत्तं तु व्यावहारिकम नच
वेदान्तानां कमोपासनयोधकरवं मुख्यं सर्वतत्त्व
शसंप्रदायवहिर्भूतत्वात् । अहं ब्रह्मास्मीति ज्ञानस्य
ज्ञानातिरिक्तकालाव्यवधानतया जायमानत्वेनाविद्या-
ध्वंसकत्वाद्धाधकत्वाञ्च न कर्मोपासनावोधकत्वं बेदान्ता
नामपि तु प्रत्युत द्वैतस्योपमईकत्वमेव एवं च यादृशं
ब्रह्म अद्वितीयं वस्तु परिच्छेदरहितं शुद्धमस्ति तदेव
वृत्तिज्ञानलहं ब्रह्मास्मि बोधयति चिन्मानं सन्तं
ब्रह्माद्वितीयं जडं द्वितीयभेदसहितं जीवभिन्न सन्त
ब्रह्मभिन्नत्वेन योधयेच्चेत्तदा वेदान्तानां प्रामाण्यमेव
व्याहन्येत द्वतस्य स्वयमेव सर्वलोकसिद्धत्वादयमस्मा-
स्पृथगिति वेदान्तानामपूर्वत्वं च न सिद्धये चथाचोक्तं
भगवता वेदव्यासेन महाभारते “अन्यथा सन्तमा-
स्मानमन्यथा मतिपद्यते । किं तेन न कृतं पापं वारणा.
स्मापहारिणा” इति । श्रुत्यामप्येवमुक्तम् " तास्ते
प्रेत्याभिगध्यन्ति ये केचात्महनो जना" इति आत्मा
राञ्चिदानन्दाद्वितीयः कर्तृत्व भोक्तृत्वरहितस्तं विपरीत
भन्यमाना आत्महनो भवन्तीति श्रुत्यर्थः क्रियावि-
सकासासका
वेदान्तशास्त्रमकरन्दे- तान्यितार्थ शक्तिग्रहादपि वेदान्तानां विध्यपेक्षितत्वं नास्ति प्रकरणान्तरसिद्धत्वेन तत्प्रतिपादितप्रमेयानां न संभवति स्वप्रकरणस्थत्वेन प्राधान्यात् । अपूर्व- प्रतिपादकावेन च सापेक्षत्वाभावात् केवलान्वयित्वे अशलिमहदर्शनात् । तस्मान्न क्रियापरा वेदांताः रज्जुरियं नायं सर्प इति सिन्द्वबोधेनापि दुःखनिवृत्ति- दर्शनात् । ननु वेदान्तेभ्यो ब्रह्मसिद्धिमिच्छता वृत्ति काराणां भर्सप्रपञ्चादीनामपारसीत ध्यायीस इत्याच- पासनाविधीनां विपयतया पदान्तयोधकानामुणसना- योधकत्वेन कथं स्वार्थसिद्धिरिति चेन्न सर्वसाक्षितया नित्यचिद्रुपपरिपूर्णब्रह्मातिरिक्तवरत्वभावान्मुख्याति एवं वेदान्तमहावाक्यान तात्पर्यास्ततत्त्वज्ञानामपि तत्रैव संमतत्वाच्च । उपासनापरत्वं हि गोणत्यमान- थत्वं च न्यावेदान्तानान्तच्चानिष्टं सर्वविवकिनाम् । तथाचोक्तं सर्वतत्त्वविच्छ्रेष्टवार्तिककारैः। "भावनार्ज फलं यत्स्यात् यच्च स्यात्कर्मणः फलम् ॥ न तत्स्था. योति मन्तव्यं परस्त्रीगमनं यथा ॥” तस्मान्नोपास- नाबोधकत्वमपि मुख्यत्वेन वेदान्तानाम् । ज्ञानस्य वस्त्वधीनत्वादपि तथाहि । यद्वस्तु यादृशं वर्तते तद्विषयकं ज्ञानमपि तादृगेव जायते तदेव च प्रमा- चतुर्थपरिच्छेदः। ज्ञानं वस्तु नान्यथा करोति घटज्ञानं घटाकारमेव जायते न पटाकारं यथार्थबोधो हि प्रमा। अनधिगता वाधितज्ञानत्वं स्मृतिच्यावृत्तं तु व्यावहारिकम् नच: वेदान्तानां कर्मोपासनयोधकत्वं मुख्यं सर्वतत्त्व- संप्रदायवहिर्भूतस्यात् । अहं ब्रह्मास्मीति ज्ञानस्य ज्ञानातिरिक्तकालाव्यवधानतया जायमानत्वेनाविद्या- ध्वंसकत्वासाधकत्वाच्च न कोपासनावोधकत्वं वेदान्ता नामपि तु प्रत्युत द्वैतस्योपमर्दकत्वमेव एवं च यादृशं ब्रह्म अद्वितीयं वस्तु परिच्छेदरहितं शुद्धमस्ति तदेव वृत्तिज्ञानमहं ब्रह्मास्मि बोधयति चिन्मानं सन्तं ब्रह्माद्वितीय जडं द्वितीयभेदसहितं जीवभिन्नं सन्तं ब्रह्मभिन्नखेन वोधयेच्चत्तदा वेदान्तानां प्रामाण्यमेव व्याहन्थेत द्वैतस्य स्वयमेव सर्वलोकसिद्धत्वादयमस्मा. त्पृथगिति बेदान्तानामपूर्वत्वं च न सिद्धये तथाचोक्त भगवता वेदव्यासेन महाभारते “अन्यथा सन्नमा- स्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरणा. स्मापहारिणा" इति । श्रुत्यामप्येवमुक्तम् " तास्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जना" इति आत्मा सच्चिदानन्दाद्वितीयः कर्तृत्वभोक्तृत्वरहितस्तं विपरीतं भन्यमाना आत्महनो भवन्तीति श्रुत्यर्थः क्रियावि- (६४) वेदान्तशाखमकरन्दे- न लक्षणत्वादप्यात्मस्वरूपस्य वेदान्तानां कमोपासन- बोधकत्वं मुख्यत्वेन न संभवति तथा हि नात्मनःकर्मत्वं क्रियाजन्यफलशालिवाभावादसङ्गत्वाच्च । यथा घट उत्पत्त्यादिक्रियाशाली न तयारमा मूतवाभावाद्वयाप- कत्वाच्च। आत्मन्युत्पत्त्यादिक्रियाफलसंवन्धाभावात्सर्व- साक्षित्वादात्मत्वादेव च कर्मत्वाभावस्तथेव विकार्यत्वमप्यात्मनः अन्यथाभावो विकारस्तद्वा- विकायों यथा दुग्धादधि अविकृतपरिणामोपिन संभ- वति,कटकादिवत् तत्रापि कियासत्वनाधिकारित्वं न सम्भवति किंच स्वानरज्जुलादिवच ब्रह्मविवत्तोऽय प्रपञ्चः अतात्विकान्यथा भायो विवर्त इति लक्षणस- स्वात् गुणाधानलक्षणसंस्काराऽभावान्न गुणाधानमात्म- नस्तद्धि गुणाधानं नाम गुणोत्पादनं यथापनयनसं- स्कारादिना द्विजन्मनो वेदाध्येतृत्वरूपगुणाधान न तथात्मनो ह्यसङ्गत्वात् । नापि दोपापनयः संस्कारो ब्रह्मणा यथादर्श मलनिवृत्तिरूपा क्रिया सम्भवति न तथान तस्य सदाशुद्धत्वादात्मनो "नित्यशुद्धमुक्त" इत्यादिश्रुतेः । तथै "वेकमेवाद्वितीय" मित्यादिश्रुत्या- स्मनोऽद्वितीयत्वाच न वेदान्तानां कर्मापासनाप्रति- पादकत्वं किन्त्वखण्डेकरससच्चिदानन्दाद्वितीययोधक- चतुर्थपरिच्छेदः। (५५) त्वमेवति ब्रह्मसमन्वयबोधपदार्थ इति यावत् । तस्मा- दुपक्रमादिलिर्वेदान्तानां ब्रह्मपरस्वमेवेति सिद्धम् । उपक्रमे हि सदेव सौम्येदमग्र आसीत् "एकमेवा- द्वितीयम्" "आत्मा वा इदमेक एवाग्र आसीन्नान्य- किंचनमिपत्" "अयमात्मा ब्रह्म सर्वानुभः" " ब्रह्मै- बेदममृतं पुरस्ता" दित्याद्याः श्रुतयस्तदर्थश्च सदित्य- स्तिमात्रं बोध्यते एवेत्यवधारणे किं तदध्रियते तदाह इदमिति। यदिदं व्याकृतं जगदने उत्पत्तेः प्राक् सदेव आसीत् अव्याकृतं सत् कारणात्मकं सदेव आसीदि- त्यर्थः । हे सौम्य प्रियदर्शनोति पित्रा पुत्रः संवोध्यते यद्धिग्राह्यं स्थूलं पृथिव्यादिप्रागुत्पत्त भूदन्यत्त मह- दादिसूक्ष्ममासीदेवेति नेत्याह एकमिति।सतोऽन्यत्कार्य नासीदेवेत्यर्थः । तथापि मृदो घटाकारपरिणाम- पितृकुलालवज्जन्यानिमित्तं सतोऽन्यदासीत्याशंदयाह अद्वितीयमिति सताऽपि चित्वं विना प्रधान- वन्न हेतुत्तेत्याशंक्य श्रुत्यन्तरमुदाहृतम् । “आत्मा वा इदमिति" आप्नोतीत्यारमा मूलकारणम् । वैशब्देन प्राग्वत्स्मर्यते अवशिष्टमुक्कार्थम् । तस्य नि- विशेषत्वार्थं श्रुत्यन्तरं तदेतदिति तच्छन्देन, 'इंद्रो- मायाभि' रिति प्रकृत्यात्मोक्तः विधेयं ब्रह्मापेक्ष्यन- वेदान्तशास्त्रमकान्दे । .. पुंसकमेतद् यत्तद् ब्रह्मेत्यर्थः । तत्कि लक्षणं तत्राह अपूर्वमिति । पूर्वं कारणं यस्य नास्ति तदपूर्वमकार्य- मित्यर्थः । अपरं कार्य वास्तवं यस्य नारतीत्यनपर- मक्षारणमित्यर्थः अनन्तरं नाम जात्यन्तरालमन्तराले यस्य नास्तीत्यनन्तरमेकरसमित्यर्थः । इत्येवं वैदि- कलौकिकप्रतिपादितोऽद्वैतसिद्धान्त आत्मज्ञानफल- प्रातिरनेकजन्मार्जितपुण्यपुञ्जपरिपाकवशादात्मैक्यज्ञा- नं शुद्धविद्योपासनया च लभ्यते तत्र प्रमाणानि यथा “आचार्यवान्पुरुपो वेद" 'यस्य देवे परा भक्ति- यथा देवे तथा गुरौ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदार्शन' 'श्रद्धावाँल्लभते ज्ञानं ज्ञानिनो लभन्ते मोक्षमित्याद्याः श्रुतिस्मृतयोऽपि बहुशः गायन्ति मोक्षधर्मान् । ज्ञान- परिपाकदशायां जीवन्मुक्तिः श्रुतिस्मृत्युक्तक्रमण गुरुमुपसृत्य तत्प्रसादात्तदुपदेशेन ब्रह्म तत्पदार्थ त्वंप- दार्थ च विचिन्त्य पेदान्तप्रतिपादनानुकूलप्रमाण- साध्यसामानाधिकरण्यन्यायेन ब्रह्मणि पर्यवसितो भवेत्कृतकृत्यश्च भवेत् तत्र स्मृतिप्रमाणमयतरति 'अणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति । अन्ये तु 'तमेवं वेदानुवचनेन ब्राह्मणा विविदिपन्ति 1 चतुर्थपरिच्छेदः। (५७) RAIGADE चोदितानामपि कर्मणां संयोगपृथक्त्वे ब्रह्मभावानां ज्यातिष्टोमादि- कर्मणां निश्चितवेदान्तस्य स्वर्गाद्यल्पफलकामनाया निराकरणं निश्चित्य न कर्मणा न प्राया धनेन इत्यागेनक अमृतत्वमानशुः' 'वेदान्तविज्ञाननिश्चि- तार्थाः संन्यासयोगाद्यतयः शुद्धसत्या. इत्याद्याः श्रुतिस्मृतयः ज्ञानकाले ब्रह्माभ्यास प्रवृत्तानां मुसुक्ष्णां त्याग एवं कर्मणां स्वल्पकालसुखदातृत्वेन तुच्छत्वा- दित्यत्र पूर्वोक्तप्रमाणानीति वदन्ति । अतएव आनंद ब्रह्मणो विद्वान्न विभेति कुतश्चने' त्यादिश्रुतेः साक्षा- त्कारप्रमाणमंगीकृत्य परविद्याविषयब्रह्मविज्ञानार्थमु- त्तरो ग्रन्थ आश्यते ननु 'मृणानि भीण्यपाकृत्ये' ति मनुवचने कर्मज्ञानयोरपाकृत्येति ल्ययन्तेन पौर्वा- पर्यभावो द्योत्यते तथा च ऋणमोचनबाणां कर्मणां पूर्वीपेक्षितत्वे भाष्यकारणेदं प्रागधीतवेदान्तस्य ब्रह्म- जिज्ञासोपपत्तेरिह क्रमविवक्षा नास्नीत्यतं तन्न सङ्गच्छेतेति चेन्न शुकादिजीवन्मुक्तादीनां फर्मादि. कस्य गुरुवेदान्तश्रवणादिकस्य वातीतजन्मनि सगा- तत्वातास्मिञ्जन्मनि ऋणानुबन्धनं केवलात्मनि. ठया तल्लाभादिति तद्विषये तथा त्वपि सर्वत्र (५८) वेदान्तशास्त्रमकरन्दे- वक्तुमशक्यत्वादन्तःकरणशुद्धिद्वारा पूर्व कर्मण उप- योगात्तदनन्तरं ज्ञानप्राप्तेश्च । “आत्मक्रीडा आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः' "तरति शोकमात्म- वित्" "तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इत्यादिश्रुतिप्रामापयन शेपशेषित्वाधिकृते फलजिज्ञा- स्यभेदाचेत्यादिनानुगृहीता महान्तो ज्ञानिनस्तथापि कर्मब्रह्मविद्या फलयोवलक्षण्येपि शरीरं वाचिक मानस च कर्मश्रुतिस्मृतिसिद्धं धर्माख्यं यद्विपया जिज्ञासा ब्रह्मणि पर्यवसितेत्युक्तत्वात् "अविद्यापनयमन्तरेणा- नाविर्भावा" दितिश्रुत्युक्तश्च कर्मज्ञानप्रतिपादनपरयोः श्रुत्योर्विरोधपरिहारः सुस्पष्ट एवेति विदाकुर्वन्तु किंच ब्रह्मोपासनपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्ध- वुद्धत्वादिब्रह्मात्मता जीवस्य स्वाभाविकीत्यवगतेपि "मुने तथैव तिघामि कृपणः किं करोम्यह" मिति योगवासिष्टे उपशमप्रकरणस्याचसाने वसिष्टं प्रति रामचन्द्रेणोक्ने "परख्यसनिनी नारी व्यग्रा हि गृहक- मणि । तदेवास्वादयत्यन्तः परसंगरसायनम् ॥ एवं तत्त्वे परे शुद्ध धीरो विश्रान्तिमागतः। तदेवास्वादय. त्यन्तर्बहिर्व्यवहरन्नपि ॥इति वसिष्ठोक्तिमवलम्ब्य ज्ञा- नकालपि तथैव व्यवहरन्नपिन दोपभागित्यनुसन्धेयम् चतुर्थपरिच्छेदः । (५९) तत्र परतत्त्वज्ञानं द्विविध स्थितमस्थितं चेति"स्थितप्र- ज्ञस्यकाभाषा समाधिस्थस्य केशव। स्थितधीःकिप्रभा- षेत किमासीत ब्रजेत किम्" इत्यर्जुनोक्त “प्रजहाति यदा कामान्सर्वान्यार्थमनोगतान्।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते" इति भगवतोते बुद्धेः परमान- न्दरूपेणात्माभिमुखत्वात्तथावगन्तव्यम् । न चात्र संप्रज्ञातसमाधाविव आत्मानन्दोमनोवृत्त्युपाख्यालभ्यः किन्तु स्वप्रकाशचिद्रूपेणात्मना सन्तोषश्च न वृत्तिरूपः अपि तु तत्संस्काररूपस्तथा चैवविधैर्लक्षणवाचकः शब्दैः समाहित भगवता भाष्यते "दुःखेवनाद्विग्नम नाः सुखेषु विगतस्पृहः । वीतरागभयत्रोधः स्थितधी मुनिरुच्यते ॥" अत्र किमाशयेन भगवतोक्तमिति विचारे दुःखं रागादिनिमित्तजन्यरजोगुणविकाररूपा सन्तापास्मिका प्रतिकूला चित्तवृत्तिः । सादृश्ये दुःखे प्राप्ते सत्यहं पापी धिङ्मां दुरास्मानमित्यनुसन्तापास्मि- का तमोगुणविकारत्वेन भ्रान्तिरूपा चित्तवृत्तिरुद्वेगः । "प्रावसंस्कारपरम्परापरिणतं प्रायो मनः प्राणिनां कस्तभ्यः प्रकात निरस्य सहजां कर्नान्यथा स्या- नरः ॥ दौर्गन्ध्यं लशुनादिकस्य सहजं यत्नात्समुन्मा- रयेत्सौरत्यं वितनोति कः सुरभितां कर्पूरमुख्यस्य वा ।।
वेदान्तशास्त्रमकरन्दे- तव शरण गच्छं सर्वभावेन भारत । तत्प्रसादा. तरी शान्ति स्थान प्राप्स्यति शाश्वतम् ॥" इति भगवदुक्तेश्चानेकशः श्रुतिस्मृतिसिद्धान्तपरैक्यिः संन्यास एव प्रतिपादित इति प्रतीयते ननु अष्टविषय- चोदनापामाण्यादात्मकर्तव्यं गोणेदेहेन्द्रियात्मभिः क्रियत इति चेन्न अविद्याकृतात्मकत्वात्तेषां न गौणा- आत्मनो देहेन्द्रियादयः किन्तर्हि मिथ्याप्रत्ययेनैवासंग- स्यात्मनः सङ्गात्मत्वमापद्यन्ते तद्भावे भावात्तदभावे चाभावात् । अविवेकिनां ह्यज्ञानकाले बालानां दृश्यते दीघोह गौरोहमिति देहादिसंघातेहप्रत्ययो नतु विवकिनामन्योऽहं देहादिसंघातादिति ज्ञानवता तत्काले देहादिसंघातेऽहंप्रत्ययो भवति । तस्मान्मि- थ्याप्रत्ययाभावेऽभावात् तत्कृत एव न गौणः। कर्म- विधिश्रुतिवद्ब्रह्मविद्याविधिश्रुतेरशामाण्यप्रसंग इति चेन्न वाधकप्रत्ययानुपपत्तेः यथा ब्रह्मविद्या- विधिश्रुत्यात्मन्यवगते देहादिसं घातप्रत्ययो वाध्यते तथात्मन्येवात्मायगतिर्न कनचिदपि वाधित शक्या फलव्यतिरेकावगर्यथाग्निरुष्णः प्रकाश- कश्चेति । नच कर्मविधिश्रतेरप्रामाण्यं पूर्व- पूर्वप्रवृत्तिनिरोधेनोत्तरोत्तरापूर्वप्रवृत्तिजन्यस्य प्रत्यगा- चतुर्थपरिच्छेदः । ॥ . अन्तरंगज्ञानदशायां "अनायं पुरुषः स्वयं ज्योतिर्भ- वति” "अजो नित्यः शाश्वतोयं पुराणः” 'आकाशव- सर्वगतश्च नित्यः' क्षेत्र क्षेत्री यथा कृत्स्नं प्रकाश- यति भारत' 'नित्यस्सर्वगतः स्थाणु' रित्यादिश्रुति- स्मृतिभिरात्मनश्चेतनत्यनित्यत्वावगमात् । तद्वपरी- त्यानुभवादज्ञानमनात्मैवेति सिद्धम् । एतेन शून्यमा- मेचि प्रत्युक्तम्। तस्यापि साक्षिभास्यत्वात् । कार्य पुनर्देहादीनामहमनुभव विषयत्वादनात्मत्वमुच्यते । हादीनां चिदात्मनश्चान्योन्याभ्यासादेहादीनामहम- नुभवाविषयत्वं मृतदेहे तददर्शनात् । अन्यथान्यत्रापि प्रसंगात् । तस्मादहंकारादिप्वात्मत्वानुसन्धानमयथा- त्मस्मरणमिति सर्व निरबद्यम् ॥ कस्तहि आत्मेति चेत् "त्रिपु धाम योग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मानोहं सदाशिवः ॥ साक्षी चेता केवलो निर्गणश्च" इत्याद्या देहाद्य- ज्ञानान्तविलक्षणं स्वप्रकाशं चिद्रूपं साक्षिणं दर्शयन्ति तत्र प्रमाणं यथा-"अज्ञानतत्कार्यतदीयभेदाध्यक्ष- यन्ती निजसत्तयैव । स्मां च विस्मर्तमहो न शक्या सुप्त्यादिषु स्वप्रभयास्मि सञ्चित्" । अकति भग- .. (६२) वेदान्तशास्त्रमकरन्दे- Youtatistate वताप्युक्तः प्रकृत्यैव च कर्माणि कियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति॥" "अनादि- स्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोपि कौन्तेय न करोति न लिप्यते" ॥ इति च तस्मादस- श्चिद्रूपः "स्वप्रकाशो ह्यकर्ता" इत्यादिश्रुतिप्र- तिपादितः कस्तार्ह कत्तेति विचारिते "साभासान्तःकरणमहंकारः कतैति वदामः" । "स्मृ- तिभिन्नं ज्ञानमनुभूतिः ययार्थश्चायथार्थश्चेति भेदाद् द्विविधा सा निरूपिता" "बाधितविषयानुभूतिरयथा- " "तचिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ॥ एतदेकपरत्वं च ज्ञानाभ्यासः प्रकीर्तितः" इत्येवं यथार्थप्रजया बोधाभ्यासो जायत इति सिद्धमत्र प्रमाणमाह स्मृतिः"सर्गादावेव नात्पन्नं दृश्यं नास्तीति सर्वथा । इदं जगदहं चैव चोधाभ्यासं विदुः परम् ॥" इति कारणस्मृतिस्त्रानुसन्धेया। "नित्यकर्म परित्यज्य विदान्तश्रवणं विना । वर्तमानस्तु संन्यासी पतत्येव न संशयः॥" इत्यकरणे प्रत्यवायश्रवणात् । “आसुप्से- रामृतेःकालं नयेद्वेदान्तचिन्तया।"इति स्मृत्या "याव- ज्जीवमग्निहोत्रं जुहुयादि"ति यथा गृहस्थस्य तथा "निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः चतुर्थपरिच्छेदः । : .. कचिन्नावसरं दत्त्वा चिन्तयारमानमात्मनि" ॥"ते ब्रह्मलोके तु परान्त्यकाले परामृतात्परिमुच्यन्ति सर्वे इत्याद्याः श्रुतिस्मृतयः आत्मप्राप्तये यतनशील. मुमुक्षूणां श्रवणादिसाधनेन परप्राप्तिरित्यत्र प्रमाण- भूताः संन्यासिनां नित्यकर्त्तव्यतां वोधयन्तीत्यवगन्त- व्यम् । कैमुतिकन्यायेन वेदान्तसिद्धान्तादर्शविधिका- ण्डनिष्ठानां साध्यतया वेदान्तश्रवणमनननिदिध्यासन- मेव कुर्यादिति नियमविधिरत्रानुसन्धेयः । वेदान्तश्रव- णव्यतिरिक्तं न कुर्यादितिपरिसंख्याविधिर्वा तदुक्तम् । "नियमपरिसंख्या वा विध्यर्थो हि भवेद्यतः । अना- त्मदर्शनेनैव परात्मानमुपास्महे" ॥ "यतो चाची निवर्तन्ते" "यन्मनसा न मनुते येनार्मनो मत" मित्यादिश्रुत्या ब्रह्मणो वेदान्तव्यतिरिक्तवाङ्मनसो- रविषयतायाः कथनेन तज्ज्ञानं प्रति साध- नत्वायोगादिति बालाः प्रवदन्ति न ज्ञा इति विस्पष्ट- मामनन्ति । "तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" "तथा नातः परं वेदितव्यं हि किंचित् तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति" इत्याद्याः श्रुतयः “कपाये कर्मभिः पक्के तपोज्ञानं प्रव- तते" इति स्मृतिश्च मुमुक्षौवंदान्तश्रवणे मनसि ज्ञान- (६४) वेदान्तशालमकरन्दे- वैराग्याभ्यां निदिध्यासनेन साक्षात्कारे सति संसार- अनिवृत्तिरानन्दावाप्तिश्च भवतीति वोधयन्ति तदा"ब्रह्म- विद् ब्रोव भवती"त्यपरोक्षसाक्षात्कारेण परमात्मान सजातिमत्वेन एकत्वमात्मैक्य वेदान्त-सिद्धान्तपर्यवः सितं नावेदविन्मनुते ते वृहन्त" मित्यायुक्तार्थ बोधयतीत्वधेः "संपदार्थविवेकाय सन्यासः सर्वकर्म. णाम। श्रुत्याभिधीयते यस्मात्तत्त्यागी पतितो भवेत्। इत्यादिवचनकदम्बर्वेदान्तविचारमन्तरा क्षणमपि सन्यासिभिर्न स्थेयमिति प्रतिपादितं भवति तथैव विदित्वा मनिर्भवती त्यत्र का प्रत्ययस्य ज्ञानोत्तरका- लवाचकत्वेन ताशज्ञानसम्पन्न ब्राह्मगे मुनित्वप्रसिपा दकपरं वाक्य बाह्मणशब्दो न जातिवाचकः ब्रह्मविद्या चिनी ब्राह्मणशब्दस्य कावःप्रसङ्गाद्वाक्यशेपे पाण्डि- त्यवाल्यानशब्दाभिधेयः श्रवणमनन निदिध्यासनेः ताचब्रह्मसाक्षात्कार इत्यभिप्रेत्य ब्राह्मण इतिपदल्या- भिहितत्वाच । अन्यथा कथमथ बामण इति साधना- नुष्टानोचरकालवाचिशब्द प्रयुओत । अथ मुनिस्वं मननशीलत्वं बच्चासति कर्तव्यान्तरे एव संभवतीत्य- चाशः संन्यासस्तस्य चेयं कत्र्तव्यतीत स्पष्टमेवा- भिहितत्वादिति विद्वत्सन्यासो विविदिपा सन्यासश्च PRATRAINE चतुर्थपरिच्छेदः । स्पष्टं निर्दिष्टः संगच्छते नत्वत्र मुनित्वेन फलेन प्रलोभ्य विविदिषा सन्न्यासादयं फलरूपसन्यास इति ब्रूमः । किन्तु सम्यगनुष्ठितश्रवणमनननिदिध्यासनैः परतत्त्वं विदितवद्भिः सम्पाद्यमानो विद्वत्संन्यासो भिन्न एव इति । तत्रतत्र प्रमाणं यथा “संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रवजन्त्यकृतोद्वाहाः परं वैराग्यमास्थिताः॥ प्रवृत्तिलक्षणो योगो ज्ञान संन्या- सलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह चुद्धि- मान् ॥ इत्येवंविधानि वाक्यान्यनुसन्धयानि "भियते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥"इत्यादीनि स्मृतिवाक्या- न्यप्यवगन्तव्यानि त्वंपदतरपदार्थबांधे स्थाणुर्वा पुरुषो वेतिवदात्मसंशयो ह्यनेकविधस्तथाहि ब्रह्माद्वितीयं स- द्वितीयं वा तत्राद्वितीयत्वे श्रुतिसिद्धान्ता अनेकशः । आत्मा देहायतिरिक्को न वा देहाद्यतिरिक्तत्वेऽपि कर्ता अकर्ता वा अकर्तृत्वेऽपि चिद्रूपोऽचिद्रूपो वा चिद्रूपत्वेपि आनन्दात्मको न वा इत्यादिवंपदवाच्यजीवगतःसंशयः सम्भवति जीवस्य सच्चिदानन्दरूपस्वेऽपि परमात्मना सहक्यं सम्भवति न वेति चरमः संशयस्तथाच तत्र दैतमोहनिद्रान्तर्गतप्रमाधिव्याधिगतानां हस्ताभ्यां (६६) वेदान्तदास्त्रमकरन्दे- astraktar विमृद्य नेत्रे निमील्य सोंप्येष प्रलापस्तस्यैतस्याष्टवि- घसंशयप्रश्नस्य वेदान्तशास्त्रविचारमन्तरा नेत्रयोरु- न्मीलनमशक्यमेतदर्थमुत्तरमीमांसाशास्त्रमकरन्दाशयः प्रभवति नान्यस्तथाहि "सदेव सौम्येदमय आसीत्" "तत्त्वाचापरस्य" तिश्रुतिसूत्राभ्यां प्रागुत्पत्तेः कार्यस्य कारणात्मना सत्त्वप्रतिपादनेन प्रागभावस्य दुर्मिरू- पितत्वात्यागात्मज्ञानात्कार्यस्य निरन्वयनाशानङ्गीका- रेण ध्वसस्यापि दुर्निरूपितत्वमवसेयम् । तदुक्तम् । "स्वानुभतावविश्वासे तर्कस्याप्यमवस्थितः । कथं का तार्किकम्मन्यस्तत्त्वनिश्चयमाप्नुयात् ॥” तस्मात्प्रति- योग्यक्येपि प्रमाणवलेन प्रागभावादिभेदासिदिरना- दिनित्ये कालिकात्यन्ताभावान्योन्याभावसत्त्वेऽदेत- श्रुतिविरोधापत्तरतोऽत्यन्ताभाव एक एव "नेह ना- मास्ति किंचने"त्यादिश्रुतिप्रतिपादितः प्रपश्चात्यन्ता. भावः पारमार्थिकः स चाधिष्ठानस्वरूपोऽधिष्टानाति- रिक्त इति केचित् । घटाद्यत्यन्ताभावो व्यावहारिका इयमेव भेदप्रतियोगितले भूतलं घटो नेत्यादि- प्रतीति। ब्रह्मज्ञाने निवर्त्यत्वात्सर्वेप्यनित्या एव । अन्ये लौकिकतन्त्रान्तरबुद्धिमनुसरन्तो जमिनिवात्स्या- चतुर्थपरिच्छेदः। (१७) यनन्यायतर्कवार्तिककारादयः केवलं मोहनमसाहसा- दीनङ्गीकुर्वन्तस्तिरकारमेवाहन्ति भूय इति वेदान्तिनां मतगर्भितमपि च परोक्षप्रमयाऽसत्त्वापादकमा ढयाज्ञा- ननिवृत्तिरपरोक्षप्रमया चाभानापादकाज्ञाननिवृत्ति- रिति परमप्रयोजनमुपवर्णितमेतावताग्रन्थसन्द- भैण तदुक्तम् "भिन्नप्रकरणाल्लिंगपट्काच ब्रह्मबोधकाः । सति प्रयोजनेऽनहानेऽनुष्ठानतोऽत्र किम् ॥” इति ब्रह्मनिष्ठाविषयविवेचने ब्रह्म सर्वज्ञ सर्वशक्तिसमन्वितं जगत्पत्तिस्थितिलयकारणं बेदा- तशास्त्रादेवावगम्यते इति बोध्यम् । एवं वेदान्तशास्त्र- श्रवणमनननिदिध्यासने ब्रह्मावती चित्तकाय्यापेक्षतया ताशचित्तशुद्धिसम्पादने कर्मोपास्तिप्रतिपादकवाक्यः कर्मण उपासनायाश्च साधनत्वं बहुशः पूर्वं समर्थित तद्योगस्यापि योगवासिष्ठोक्तवासिष्ठरामचन्द्रसं- वादेऽनेकशः प्रमाणभूतानि वाक्यान्युपलभ्यते तत्रापि श्रौतस्मार्तिकर्मकाण्डे कोलमार्गस्य यथा निन्द्यत्वं तथैव ऋतम्भरप्रज्ञानयोगे हठयोगभागो निन्द्य एवेत्यपि प्रदर्शितं योगस्यावश्यकत्वप्रतिपादकप्रमाणान्तराणि यथा "उत्पद्यमाना रागाद्या विवेकज्ञानवाहिना । तदा तदेव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥ यदा पञ्चावति- (६८) वेदान्तशास्त्रमकरन्दे- टन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेप्टेत तामाहुः परमां गतिम् ॥ तां योगमिति मन्यन्ते स्थि- रामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययो ।” अन्यत्रापि सूत्रकारभाष्यकाराभ्यामु- दाहृतनामधेयलक्षणाभ्यां "प्रत्यक्षानुमानागमाः प्रमाणानी"ति प्रदर्य प्रमाणविपर्ययविकल्पनिद्रास्मृ- तिरूपपंचवृत्तिनिरोधसाधनं सूत्रयात स्म भगवान्पत- अलिः "अभ्यासवैराग्याभ्यां तन्निरोधः" अस्मिन्सूत्रे यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कूल्याप्रणयनेन क्षेत्राभिमुख यस्तियप्रवाहांतर उत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यायासन प्रशान्तः प्रवाहः सम्पाद्यते । मंत्र- जपदेवताध्यानादीनां क्रियारूपत्वेनावृत्तिलक्षणो- भ्यासः संभाव्यते स एव पूर्वाभ्यासः । तेन दृढीकृत. चित्तानां पूर्वसाधननिरपेक्षया सर्वव्यापारोपरतस्य दृढभूमिकायां स्वयमेव समाधिर्भवेत् अस्मि- पक्षे ज्ञानयोगप्रामाण्यासिद्धिः तथाचाक्तं" संशान्तदुःखमजडात्मकमेकरूपमानन्दमन्थरमपेतरज- स्तमो यत् ॥ आकाशकोशतनवोतनवो महान्तस्तस्मि- पदे गलितचित्तलवा भवन्ति । अन्यत्र स्मृती चतुर्थपरिच्छेदः। (६९) जीवन्मुक्ता न मुह्यन्ति सुखदुःखरसस्थितौ । प्राकृ- तेनार्थकारेण किश्चित्कुर्वन्ति वा न वा ॥ इत्यादिषु अस्पष्टमेव प्रदर्शितं तस्मादिदानीन्तनकाले योगाभ्या- सशीलिनां ज्ञानसाधनत्वेन वासनाक्षयमनोनाशप्रस- वत्या बहुकालाभ्यासेन जीवन्मुक्तिसिद्धौ प्रारब्धकर्म- भोगक्षये कालान्तरण कैवल्यप्राप्तिरिति व्यवस्था वर्णिता अनेनैवाशयेन ह तः "तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छ प्रतिष्ठा” इत्यादि स्पष्टमेव ननु वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत । अनुष्ठानो- पयोगित्वाकादिप्रतिपादकाः ॥ इत्याधिकरणे वेदान्तानां कर्तृदेवतादिप्रतिपादकत्वेन कर्मप्रतिपाद- कत्वमेव कुतो न ततश्च ब्रह्मयोधकत्वं कथमिति स्पष्टमभिहितत्वात् किंच "प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा। पुंसां येनोपदिश्यत तच्छात्रमभिधीयते" इति वेदान्तानामपि शास्त्रत्वात्प्रवृत्तिनिवृत्तिपरतयैव प्रामाण्यं न प्रवृत्तिनिवृत्तिशून्यसिद्धब्रह्मपरतया "तद्भू- तानां क्रियान समाम्नायः" "आम्नायस्य क्रियार्थ- स्वादानर्थक्यमतदर्थाना" मिति सूत्राभ्यां प्रतिपादना- " (७०) वेदान्तशाल मकरन्दे । प्रतिपत्तिविधिविषयतयैव शानप्रमाणकं ब्रह्माभ्युपग- न्तव्यमिति चेन वेदान्ताःन विधिपराः स्वार्थे फल- वत्त्वे सति नियोज्यविधुरत्वान्नायं सर्प इति वाक्यव- दित्यनुमानेन विधिपरत्वस्य निराकरणाद “तत्त्वमसि" "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" इत्यादि ब्रह्मात्मै- कत्ववस्तुपराणां श्रुतीनां समन्वयानुपपत्तेश्च तस्मा- द्विधिवाक्यबन्न पुरुषव्यापारतन्त्रा ब्रह्मविद्या किन्तु प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रति सिद्ध ब्रह्मणः शास्त्रेकप्रमाणकत्वं यस्माद्योहि बहिर्मुखः प्रव- चते पुरुषः मच तत्रात्यान्तकं पुरुषार्थ लभते तमात्य- न्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणसंघात प्रवृ- त्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्त्तयन्ति विधिच्छायानि "आत्मावारे द्रष्टव्यः" इत्यादिवाक्यानि अन्तर्मुखेन कृतवेदान्तविचारः सर्वानहानाय जीवन्मुक्तिसुखावाप्तये च भवति । तत्त्वज्ञानमनो नाशवासनाक्षयैर्जीवन्मुक्तस्तदुक्तं " जीवन्नेव हि विद्वान्ममर्याभ्यां विमुच्यते इति ब्रह्मसाक्षा- त्कारपर्यन्तायां तत्त्वनिष्टायामसमर्थास्ते निर्ग- णब्रह्मतत्त्वोपास्त्या मुच्यन्ते तथाच पारमर्पसूत्रं 'स्मृतेश्च' इति अत्र हि "ब्रह्मणा सह ते सर्वे संप्राते चतुर्थपरिच्छेदः। (७१) प्रतिसंचरे । परस्यान्ते कृतात्मानःप्रविशन्ति परं पद" मिति निर्गुणब्रह्मतत्त्वोपासका महाप्रलये तत्रोत्पन्नस. म्यग्धियो मुच्यमानेन ब्रह्मणा सह परम्पदं प्रवि- शन्तीत्यर्थः । तस्मात्सिद्धं केवलाद्ब्रह्मतत्त्वज्ञाना. न्मोक्ष इति । अत्र प्रमाणश्रुतयः सहस्रशः 'ज्ञानादेव तु कैवल्यं कर्मणा बध्यते' 'न कर्मणा न प्रजया' इत्याद्याः संति विस्तरभयान्नेहोपन्यस्यन्ते विद्वद्भिर- त्रानुसन्धेयानि। ननु तत्पदप्रतिपादितवेदान्तानां प्रामाण्य प्रयोजनोपपत्तेानविधिपरत्वे ज्ञानसाध्यस्य मोक्षस्यस्वर्गादेरिवानित्यत्वं प्रसज्यतअष्टजन्यभावका यस्यानित्यत्वनियमानचतदिष्टं सर्वे मोक्षवादिनो मोक्ष नित्यमभ्युपगच्छन्ति ततश्च सर्वतन्त्रविरोधः 'अना- वृत्तिः शब्दा' दिति सुत्रविरोधश्चापि च मोक्षो नाम ब्रह्मभावो वाऽज्ञाननिवृत्तिर्वा सर्वथापि तस्य ज्ञानः कसाध्यत्वेन विधेयज्ञानजन्या पूर्वस्यानुपयो- गित्वान्मोक्षस्योत्पत्त्याद्यसम्भवेन वाज्ञानविधेर्निरर्थक- त्वप्रसंगादुत्पत्त्याद्यन्यतमस्य विधिफलवादभिव्य. क्तिश्च प्रमाणजन्या श्रवणादिजन्या वा न सम्भवति ब्रह्मणो विधेयज्ञानविषयत्वायोगादिति चेन्न 'तत्त्वमसी' त्यादिमहावाक्यस्थतत्त्वंपदलक्ष्यार्थब्रह्मणो ज्ञानविषय-
(७२)
वेदान्तशास्त्रमकरन्दे-
.
तया तदनुसन्धानस्यैव यथार्थस्मरणतया विधानाद्विरो-
धाप्रसक्तेः । "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधादि"
ति सूत्रव्याख्यानावसरे उक्तलक्षणब्रह्मणोऽभिन्ननि-
मित्तोपादानत्वं समर्थितं तद्यथा-ब्रह्म तु मायोपहितं
सत्प्रपञ्चस्योधिप्राधान्येनोपादानकारणं स्वप्राधान्ये-
न च निमित्तकारणं च भवति तश्रुतिप्रमाणं यथा तदै-
क्षत बहुस्यां प्रजायेय" "जन्माद्यस्य यतः"इत्यस्मि-
नधिकरणे च ब्रह्मणस्तटस्थलक्षणप्रतिपादनपरे जगत-
स्तथा कारणतया निर्णीतमेतावता स्वरूपतटस्थलक्षण-
कं ब्रह्म जगतोऽभिन्ननिमित्तोपादानकारणतया प्रतिपा-
दकप्रमाणभूतश्रुतौ "यथोर्णनाभिः सृजते गृह्यते च"
इत्यायुक्ततयोर्णनाभ्यादेरभिन्ननिमित्तोपादानकारण
टान्ततया प्रसिद्धत्वाल्लोके बहुश उपवर्णितं भवतीति
विरम्यते।
विस्तारितं श्रुतिशिरः प्रणवप्रमाणम् ।
कैवल्यकन्दपरिचिन्तनमद्वितीयम् ॥
वेदान्तशास्त्रमकरन्दचतुर्थभागे।
संचिन्त्यतां सपदि सन्ततमन्तरंगे ॥ १॥
(७३)
साङ्ख्यप्रधान परिणाममतानियानि ।
चतुर्थपरिच्छेदः।
अम्बासमस्तजननी परदेवतासा।
श्रीशारदामतिगतिप्रभव प्रभावा ॥
धन्यार्चिताद्धिकमला विमला जगत्याम् ।
वागीश्वरीविहित शास्त्रलताधिरूढा ॥१॥
अद्वैतशङ्करजगद्गुरु शिष्यशिक्षाम् ।
पियुद्भवप्रवर पुत्र निबन्धचेष्टाम् ॥
आल्मांशकत्व कथनार्थ तयामदीयाम् ।
जानन्तुतेऽत्र सुधियो न परोऽनहेतुः ॥२॥
वेदोह्यनित्य इतिनो न चपौरुषेयः ।
मानं प्रसाध्य जगतां मन इन्द्रियंनो ॥
पूर्व ततोऽत्र परमाणुमतं परास्तम् ।
वेदागमादिरहिता विहितं च तेषाम् ॥३॥
वेदान्तशास्त्रमकरन्द विरोधिनाये।
चार्वाककापिलजिनादिनिरीश्वराद्याः ॥
नैय्यायिक प्रभृतयश्च जितानितानि ॥४॥
(७४) वेदान्तशाखमकरन्दे- श्रुत्यामनर्थरचना न कदापियुक्ता । शिष्टस्मृतावपितथान महत्प्रसादात् ॥ गद्यप्रवन्धरचना श्रुतिभाष्यकारा। ध्वानं विसृज्यपदमप्यगतिननीता ॥५॥ शास्त्रार्थ कौशलमहत्वमहोऽत्रकीर्तिम् । वाञ्छामिनेव हिममाप्यनधीत शास्त्रः॥ वेदान्तशास्त्रमकरन्द विधो समर्थः । आचार्यपादकरुणा किरणप्रभावात् ॥६॥ वेदान्तशास्त्रमकरन्दगतंसुगीतम् । नीतं समस्तनिगमागमसुप्रकाशम् ॥ नेदं विवाद पर पक्षस्वपक्षकृत्यम् । मृत्युञ्जयस्वपरितोपकरन्तथास्तु ॥७॥ इति श्रीमत्परमहसपरिमाजकाचार्ययोगाद धीमारमानन्दसरस्वतीरशामिल मिरिचितः वदान्तशाब मकान्दामा चाप परि ।