Prakrit Bharati Academy, Jaipur

Padhamuktawali

Devrishikrishanbhatt · 2010/08

PDF Proofread

Front matter

राजस्थान पुरातन ग्रन्थमाला गजस्थानराज्यद्वारा प्रकाशित मामान्यतः अखिल भारतीय तथा विशेपत राजस्थानदेशीय पुरातनकालीन सन्कृत, प्राकृत, अपभ्रश, राजस्थानी, हिन्दी आदिभाषानिवद्ध विविध वाङ्मयप्रकाशिनी विशिष्ट ग्रन्थावलि प्रधान सम्पादक पुरातवाचार्य, जिनविजय मुनि [ॉनरेरि मेवर ऑफ जर्मन ओरिएन्टल सोसाइटी, जर्मनी ] सम्मान्य सदस्य भाण्डारकर प्राच्यविद्यासशोधनमन्दिर, पूना गुजरातसाहित्य-सभा, अहमदाबाद; विवेश्वरानन्द वैदिकशोधनप्रतिष्ठान, होशियारपुर, निवृत्त सम्मान्य नियामक- ( श्रॉनरेरि डायरेक्टर )-भारतीय विद्याभवन, वम्बई ग्रन्याङ्क ३० श्रीमत् कविकलानिधि देवपि श्रीकृष्णभट्टविरचित पद्यमुक तावली T प्रकाशक राजन्यान गन्धाज्ञानुमान संचालक, राजस्थानपुरातत्त्वान्वेषण मन्दिर जो ध पूर ( राजस्थान)

श्रीमत् कविकलानिधि देवर्षि श्रीकृष्णभट्ट विरचित
पद्यमुक्तावली
सम्पादक
कविशिरोमणि देवर्षि भट्ट श्रीमथुरानाथजी शास्त्री
प्रकाशनकर्ता
राजस्थानराज्याजानुसार
संचालक, राजस्थानपुरातत्त्वान्वेषणमन्दिर
जोधपुर ( राजस्थान)
,
विक्रमान्द २०१५] भारतराष्ट्रीय शकाव्द १८८० [ खिस्ताव्द १६५६
प्रथमावृत्ति १०००
मूल्य ४००
मुद्रक--श्री वालचन्द्र यन्त्रालय, दुर्गापुरा, जयपुर ।

राजस्थानपुरातनग्रन्थमाला के कुछ ग्रन्थ प्रकाशित ग्रन्थ सस्कृतभापाग्रन्थ-१ प्रमाणमञ्जरी---तार्किकचूडामणि सर्वदेवाचार्य, मूल्य ६०० । २ यन्त्रराजरचना-महाराजा सवाई जयसिंह मूल्य १.७५ । ३. महर्षिकुलवैभवम्-स्व० श्रीमधुसुदन श्रोझा मूल्य १० ७५ । ४. तर्कसंग्रह-प० क्षमाकल्याण मूल्य ३०० । ५. कारकसबन्धोद्योत-प० रभमनन्दि मूल्य १७५ । ६. वृत्तिदीपिका प० मौनिकृष्ण मूल्य २०० । ७ शब्दरत्नप्रदीप मूल्य २.०० १८. कृष्णगीति-कवि सोमनाथ मूल्य १७५ । ६ शृङ्गारहा- रावलि-हर्षकवि मूल्य २ ७५ । १० चक्रपाणिविजयमहाकाव्य-प० लक्ष्मीधरभट्ट मूल्य ३५० । ११. राजविनोद-कवि उदयराज मूल्य २२५ । १२. नृत्तसग्रह मूल्य १७५ । १३ नृत्यरत्नकोश, प्रथम भाग-महाराणा कुभा मूल्य ३.७५ । १४. उक्तिरत्नाकर-प० साधुसुन्दर गणि मूल्य ४.७५ । १५. दुर्गापुष्पानलि-पं० दुर्गाप्रसाद द्विवेदी मूल्य ४२५ । १६ कर्ण कुतूहल तथा कृष्णलीलामृत-भोलानाथ मूल्य १५० । १७. ईश्वरविलास महाकाव्य, श्रीकृष्ण मट्ट, मूल्य ११ ५० । १८ पद्यमुक्तावली-कवि कलानिधि श्रीकृष्णभट्ट मूल्य ४.०० । राजस्थानी और हिन्दी भाषा ग्रन्थ-१ काहडदे प्रबन्ध-कवि पद्यनाभ मूल्य १२.२५ । २ क्यामखारासा-कवि जान मूल्य ४ ७५ । ३ लावारासा-गोपालदान मूल्य ३ ७५ । ४ वाकीदासरी ख्यात-महाकवि वाकीदास मूल्य ' ५० | ५. राजस्थानी साहित्यसग्रह भाग १, मूल्य २.२५ । ६ जुगल-विलास-कवि पीथल मूल्य १.७५ । ७. कवीन्द्रकल्पलता-कवीन्द्राचार्य मूल्य । २००। प्रसों में छप रहे ग्रन्थ सस्कृत भापा ग्रन्थ-१. त्रिपुराभारतीलघुस्तव-लघुपडित । २ शकुनप्रदीप- लावण्यशर्मा । ३. करुणामृतप्रपा-ठक्कुर सोमेश्वर । ४. बालशिक्षा व्याकरण-ठक्कुर सग्राम- मिह । ५ पदार्थरत्नमञ्जूषा, ५० कृष्ण मिश्र । ६ ६ काव्यप्रकाशसकेत-भट्ट सोमेश्वर । ७ वसन्तविलास फागु।८ नृत्यरत्नकोश भाग २।६. नन्दोपाख्यान । १०. रत्नकोग । ११. चान्द्रव्याकरण । १० स्वयभूछद-स्वयभू कवि । १३. प्राकृतानद-कवि रघुनाथ । १४. मुग्धावबोध आदि ौक्तिक सग्रह । १५. कविकौस्तुम-प० रघुनाथ मनोहर । १६. दशकण्ठवधम्- प० दुर्गाप्रसाट । १७ रसदीर्घिका-विद्याराम भट्ट । राजस्थानी और हिन्दी भाषाग्रन्थ-१ मुहता नेणसीरी ख्यात-मु हता नेणसी । २. गोगवादल पदमिणी चक्रपई-कवि हेमरतन । ५.चन्द्रवशावली-कवि मोतीराम । ६. राजस्थानी दूहा सग्रह । ७ वीरवाण-ढाढी वादर । इन ग्रन्थोके अतिरिक्त अनेकानेक सस्कृत, प्राकृत, अपभ्रश, प्राचीन राजस्थानी और हिन्दी भाषा में रचे गये ग्रन्थोंका सशोधन और सम्पादन किया जा रहा है ।

सञ्चालकीय वक्तव्य राजस्थान के राजाओं द्वारा समय-समय पर देश के प्रमुख विद्वानों, कवियों और धर्माचार्यों को प्रश्रय एवं प्रोत्साहन मिलता रहा है । राजस्थान के विद्याप्रेमी नरेशों में कई उच्चकोटि के विद्वान और कवि भी हो गये हैं जिनके द्वारा रचित ग्रन्थरत्नों का विद्वज्जगत में समुचित आदर है । विद्याप्रेमी नरेश देश के प्रमुख पंडितों और कवियों को अपने निकट रखने के लिये भी सदा उत्सुक रहते थे। इसके लिये वे समय-समय पर प्रमुख विद्वानों को विशेषरूप में आमन्त्रित किया करते थे और उनके दरबार में विद्याचर्चा प्रायः हुआ करती थी । विद्वानों को समुचित मान सम्मान, धन और धरती भेंट करते हुए अपने राज्य में बसाने के लिये तो ऐसे नरेश सदा ही उत्सुक रहा करते थे। यही कारण है कि आज राजस्थान में उच्चकोटि का, प्राचीन साहित्य प्रचुर परिमाण मे उपलब्ध है और कई पंडित-परिवार भी राजस्थान में बसे हुए हैं। कविकलानिधि देवर्षि श्रीकृष्णभट्ट भी अपने समय के प्रमुख कवि और विद्वान हो गये है। राजस्थान के तत्कालीन कर्ता राज्यों में श्रीकृष्णभट्ट का विशेष सम्मान था। श्रीकृष्णभट्ट द्वारा प्रणीत और राजस्थानपुरातनग्रन्थमाला में प्रकाशित "ईश्वरविलास" से कवि की ऐतिहासिक काव्यप्रणयन-प्रतिभा. का समुचित परिचय उपलब्ध होता है। मुक्तक काव्यकृति “पद्यमुक्तावली' भी श्रीकृष्णभट्ट की ही कृति है, जिसका प्रकाशन राजस्थानपुरातनग्रन्थमाला में किया जा रहा है । प्रस्तुत कृति से कवि की बहुमुखी प्रतिभा का परिचय मिलता है । कवि के वंशज देवर्षि श्री मथुरानाथ जी भट्ट, कवि शिरोमणि ने इसके सटीक सम्पादन में विशेष श्रम किया है जिसके लिये वे हमारे साधुवाद के पात्र हैं। राजस्थान में रचित ऐसे ग्रन्थरत्नों को राजस्थान पुरातनग्रन्थमाला मे प्रकाशन के लिये हम सदा ही तत्पर रहेंगे । इति । राजस्थानपुरातत्त्वान्वेपणमंदिर, रेजीडेंसी रोड, जोधपुर मुनि जिनविजय दिनांक १ जनवरी, १६५६ ई० समान्य सञ्चालक

विषय तालिका-पद्यमुक्तावली
विषय-तालिका
पृष्ठ
सचालकीय वक्तव्य
भूमिका
पचमुक्तावली
अनुक्रमणिका
१-२०
१-१३३
१३४-१४६

प्रारम्भिक निवेदनम् •. स्फुरद्र चि- रसोल्लासा विलासाऽऽपूर्णविग्रहा। 'पद्यमुक्तावली' माति मञ्ज मुक्तावली यथा ॥१॥ प्रकृतग्रन्थकर्तुः श्रीमतः कविकलानिधिमहाभागस्य विस्तृतः परिचयः प्राप्तो भवेत 'ईश्वरविलास' महाकाव्यात् साहित्यसमीक्षानिपुणैः पाठकमहाभागैरिति जानीमः । यतो हि कविकज्ञानिधिमहोदयस्य प्रथमो ग्रन्थस्लदिदं महाकाव्य पुरातत्वमन्दिरादम्मादेव प्रकाशितमभूत् । अन्यकर्तु विपये काम परिज्ञातेऽपि, प्रकृतग्रन्थस्य विषयोऽवश्यं जिज्ञासितः । प्रन्योऽय राजस्थानीयानां प्रसिद्वप्रसिद्धनरेन्द्राणां समाइरभाजनस्य श्रीकविकलानिधिमहो- दयस्य 'मुक्तक'पद्यानां संग्रहरूप-इति ग्रन्थस्थाऽस्य नाम्नैव सूचितं भवति । पद्यानि चैतानि बाहुल्येन तत्समयप्रसिद्धानामैतिहासिकपुरुपाणामेव सन्ति । अतएव पद्य पठतां महाभागानां तत्सवन्धिपरिचयाय भवेदुत्कएठेति स्वाभाविक नूनम् । ततश्च-पचमुक्तावली सेयं कस्मिन् समये निगुम्फिता, भारते काऽऽसीत्परिस्थितिम्तस्मिन् समये, इति संक्षेपतः ससूच- नीयमिव । सोयमासीन्मोगलसाम्राज्यस्यान्तिमः समयः । महाराष्ट्रशक्त्या समुत्थाय दुर्बली- कृतमभून्मूलं मोगलशासनस्य । मोगलसाम्राज्यस्य स्तम्भभूताः प्रसिद्ध-प्रसिद्धराजसंस्थाना- धिपतयः क्षत्रिया अपि ओरगजेबादीनां स्वार्थ-नीत्या विमनायित्ता इव शनैः शनैरन्यमनस्का बभूवुः । समये समये मोगलशक्ति मुहुः संभालयन्तोऽपि वीरक्षत्रिया अमी तेपां कौटिल्येन, विशेषतः शैथिल्येन मनसि खिन्नाः समनायन्त । अतएव भाविनी विपदमभिलक्ष्य स्वस्व- राज्यरक्षायां तत्संवर्द्धने च मनोनिवेशमकाएः । ज्योतिःशास्त्रादिवाङ्मये कला-शिल्पा- दिपु च परमं मार्मिकः सवाईजयसिहमहाराजो (द्वितीयः) राजनीतिप्रगल्भेष्वेवविधवीर- राजन्येषु माननीयः प्रमुखश्च वभूव । येन हि राजस्थानस्यास्य श्रीवृद्धिरिव विद्यासमृद्धिरपि सुतरामक्रियत । विश्वप्रसिद्धाया जयपुरराजधान्याः प्रतिष्ठापकस्य तस्यैव श्रीजयसिहमहा- खजस्य परमेण समादरेण समागमज्जयपुरराजधानी कविकलानिधि. श्रीश्रीकृष्णभट्ट- महाभागः । अनेन हि राजाधिराजस्य श्रीजयसिंहमहाराजस्य 'अश्वमेधयज्ञा' दिप्रसङ्ग प्रचुरतरः सम्मानस्त्वधिगत एव। किन्तु तदनन्तरं स्वल्पकालस्थायिन्यपि सुसमृद्ध ईश्वरीसिंहमहा- राजस्य शासनेऽपि ग्रामादिसंपत्तिः, प्रभूतः समादरश्चाऽप्यधिगतो जयपुरराज्यसंस्थानादस्मात [ तदेतस्य विशदवृत्त 'ईश्वरबिलास' महाकाव्यादधिगतं भवेत्साहित्यमार्मिकैः ] । किन्तु नदिदं शासनं नातिष्टचिरकालं गवत् । राजस्थानीयवीरक्षत्रियाणा परस्परवैमत्येन, गृहकलहेन अकाल एव समाप्यत राज्यशासनमीश्वरीसिंहस्य । ततस्तदनुज. श्रीसाधवसिहमहाराजः समभूद् जयपुरराजसिहासनमध्यासीनः । एष हि राजनीतिचक्राण्यनुभूय मानवानां गुणपरी- क्षणेऽपि विचक्षणोऽभवत् । - २] भूमिका अतएव निखिलभारतेऽपि सुप्रसरतप्रभावस्य निजपितुः सम्माननीयस्य कविकला- निधिमहाभागस्याऽयमपि समभूनितान्त गुणप्रणयी। कलानिधिमहाभागस्य अशेपशास्त्र- पाण्डित्यम् , वैदिकक्रियाविचक्षणत्वम् , तन्त्र-मन्त्रादिकर्मठताम् , असाधारणी कवितानादि चाऽवगत्य दिनप्रतिदिनमनुरक्तो बभूव माधवेन्द्रमहाराज. । अतएव 'पितामह (बाबाजी) गौरवेण उपच्छन्दयन् उर रोत्तरमधिकाऽधिक सेवते स्म कलानिधिमहोदयम् । महता विश्रम्भेण मानसरहस्यानि प्रकाशयन् सतोपमनुभवति स्म कलानिधिमहोदयस्याऽन्तिके । अतएव 'मुक्ताबल्याम'-"एकदा माधवक्ष्माधवेन स्वहस्तेनाक्षराणि लिखित्वा यदा प्रद-- र्शितानि तदैवेद सबः पद्यमुत्पादितम् ।" इति कविकलानिविमहाभागस्य स्वहस्तेन पद्योपरि विलिखिता प्राप्यते टिप्पणी- "श्रीमाधवाम्भोनिधिसंप्रभृतरत्नानि नित्यं ललिताक्षराणि । श्रीसूर्यवंशोदितदीप्तिमन्ति जगत्समस्तं परिभूपयन्ति ॥१२२॥" एवंविधैर्विश्रम्#विवशीकृतः फलानिधिमहोदयोऽपि निजायुपः परिशेपे शान्तिविश्र- मार्थ वृदावन-तीर्थवासमपि नाशकत्परिशीलयितुम् । यतो हि हार्दिकमनुशोचनं प्राप्यते मुक्तावल्याम्- 'कालिन्दीतटनिकटस्फुटकुटजकुटीनिवाससौख्याय । व्यरचि मृपाभापणमपि न तदजनि महत्कष्टम् ॥२६६।' मिथ्याकथन-दुरत्ययनृपवरकृतरक्षणव्यथादुष्टः । हा वृन्दावन भवता संप्रति दूराद्विमुक्तोऽस्मि ॥२६७॥ राज्ञां सदस्सु गमनं कविताकरणं मृषाकलनम् । वृन्दावनवासार्थ व्यरचि, विधे किं न तदपि संपन्नम् ॥२६॥ पद्यमुक्तावली कविकलानिधिमहाभागेन ईश्वरविलास-वृत्तमुक्तावली-सुन्दरीस्तवराज-अलङ्कारकला- निविप्रभृतयो ग्रन्था यथा राजाज्ञया एकैकं विषयमवलम्ब्य प्रकरणवद्धतया पुरा निबद्धा- स्तथा पद्यमुक्तावली सेव न तावदेकतमं विषयमाश्रित्य प्रकरणवन्धपुरस्सर निगुम्फिता- ऽभूत् । एपा हि समये समये य कंचिद्वा विषयमाश्रित्य कलानिधिमहाभागस्य प्रतिभास्फूर्ति- रभवत्तेषां तेपा विषयाणा यानि यानि पद्यानि सद्यः प्रतिस्फुरितान्यभूवन तेषां संग्रहः स्वय कलानिधिमहाभागेन कृतो भवेत् , तत्पुत्रादिभिरन्यैर्वा कृतो भवेत् । किन्तु नानासमये प्रतिस्फुरितानां पद्य-गीत्यादिरचनाना सोयं संग्रह. 'मुक्तक' काव्यकोटिभुक्त इति सुस्पष्ट नूनम् । आसीदेवं समर्थकवीनां पुराऽपि मुक्तकसंग्रहः साहित्यरसिकाना विनोदाय । यथा जगन्नाथपण्डितराजस्य 'भामिनीविलास.'।

भूमिका ३] 'मुक्तक' पद्यानि हि विशेपतो रसनिर्भराणि सन्त्येव रसिकानां हृदयावर्जकाणि भवन्ति । यतो हि प्रवन्धकाव्येषु प्रचलितः कथाप्रवाहः, रसनिर्भर. स स प्रकरणसदर्भो वा, वाचयतामानन्दाऽऽधायको भवेत् । कस्मिश्चित्स्थल रसप्रवाहशैथिल्येऽपि कथाप्रवाहो भवेद वाचकानां मनोयोगाय । किन्तु 'मुक्तक'पद्य यदि रसविपये स्वल्पमपि न्यून भवेत्तर्हि सोय दोषः सर्वेषां बुद्धयारूढो भवेत् । यतो हि न तत्र कथाप्रवाहः प्रकरणसदर्भो वा सहायको भवितुमर्हति । अतएव हि मुक्तककाव्यनिर्माणं समर्थकवीनामेव कार्यमित्याहुर्ध्वन्यालोकर कारादयः । मुक्तकानि च यदि रसनिर्भराणि निष्पद्यन्ते तर्हि महती सेय साहित्यसंपत्तिः, पूर्णा च सेयं साहित्यसेविसमाजे सुप्रतिष्ठा नूनम् । यथा हि चिरात्सुप्रसिध्यति- "अमरुककवेरेकं पद्य प्रवन्धशतायते" इति । मुक्तावल्या निर्माणसमयः प्राचीनस्य श्रीमाधवसिंहमहाराजस्य शासनसमयो यो हि कलानिविमहाभागस्य आयुष: पश्चाद्भाग आसीत् , स एव पचमुक्तावल्या निर्माणसमयः । अस्यां हि नरपालेपु- जयसिहमहाराजमारभ्य माधवेन्द्रपर्यन्ताना जयपुरधराधीशानां वर्णनमुपलभ्यते । यद्यपि इतः पूर्वस्य श्रीजयसिहपितुः श्रीविष्णुसिंहघरणिपालस्याऽपि यशोवर्णनम् [ पद्यमुक्तावली श्लो. ० ३३५-३३६ ] अत्रोपलभ्यते, किन्तु प्राधान्येन राज-यशोवर्णन माधवसिहनरेन्द्रस्यैव । अन्यान्यविपयाणां यदि कानिचित् पद्यानि प्रक्रान्तानि स्युस्तर्हि चित्रकाव्यरूपेण, ऋतु- वर्णनविधया वा साघवेन्द्रमहोदयस्य यशोवर्णनपराणि पद्यानि प्रचुरमुपलभ्येरन् । चित्रेषु बहुधा कामधेनुवन्धचतुप्पुष्प--द्विपुष्पहारबन्ध-कल्पतरुबन्ध-कपाटबन्ध-गजबन्धप्रभृतीनि चित्रकाव्यानि सन्ति । एतेपामुद्धारः, चित्रलेखो वा नैतेपु पुरातनेपु पत्रेपूपलभ्यते । सत्यं त्विदमस्ति यत् तत्तेषां पुरातनपुरुषाणा पुस्तकानि अनधिकारिसन्तानानां हस्तपतितानि' दैववशादेव सुरक्षितान्यतिष्ठन् । अन्यथा प्रचुरपरिमाणे तेपा भ्रश एवाऽभवत् । अत्रापि सेयमेव दशा । राजाज्ञया निर्मितानि महामहान्ति, परमपरिश्रमप्रसूतान्यपि पुस्तकानि पूर्णरूपेण न सन्ति तत्तपां ग्रन्थकाराणां गृहेषु । तानि हि तैस्तै राजभिर्निर्मापितानीति कृत्वा तेपां सपत्तिरेव परिगण्यते स्म । अतएव पूर्णरूपेण प्रतिलिपिग्रहणमपि तत्त पां ग्रन्थानां क्रूदृष्ट्या दृश्यते स्म राजकीयैः पुरुपैः । कदाचित्प्रतिलिपिग्रहणेऽपि--यस्मै कस्मै चित्पुरुषाय तेषां प्रदर्शनमारीद् घोरोऽपराध इव ! स्वानुभूतमिदम् अच रहस्यत्वेऽपि विदुपां संसुख प्रकाशनीय भवति । येन हि चिराद्रहस्यभार विभ्रतो हृदयस्य लघुतेवाऽनुभूयते । श्रीमतो माधवसिहमहाराजस्य(द्वितीयस्य) शासने आसीद्धारतेऽस्मिन् गौरागाणा साम्राज्यम् । भारतसाम्राज्यप्रवन्धेन पुरातनसाहित्यम्य २-“पूर्वापरनिरपेक्षेणाऽपि हि येन रसचर्वणा क्रियते तदेव मुक्तक्म्" लोचनम् । २-"महाकविव्यपदेश एवंविधरचनाभिरेव भवति" ध्वन्यालोकलोचनम् | ४] भूमिका अन्वेषणार्थम् , प्राप्तानां पुरातनग्रन्थाना प्रकाशनार्थ चासीदेकः पृथगेव प्रवन्धविभागः । तद्विभागप्रेरिता पुरुपा बहुधा राजस्थानेऽस्मिन् प्राचीनसाहित्यान्वेपणार्थ प्रतिवर्पमभ्रा- म्यन् । किन्तु बहुधा ते निराशा एव पर्याटन् । न तैराकैः राजस्थानीयस्य बहुमूल्यस्य साहित्यगुप्तनिधेरनुसधानमपि प्राप्यते स्म । अह स्वानुभूतं निवेदयामि-राजकीय राजहम्यमालापुस्तकालयाऽध्यक्षैः १ वय सन्धिमुपगतः राजहर्म्यमालासु गतागतं दुर्वन पुरा निभृतनिभृतम् , किन्तु अतितीव्रतथाऽह निर्भसितोऽभूवं “यत् त्वत्पूर्वनिर्मितानीति कृत्वा पुरातनानि तत्तानि साहित्यपुस्तकानि न त्वदीयवंशजानाम् । सन्ति तानि हि राजकीयानि । अतएव तत्तेषां पुस्तकाना न यस्य कस्यचित्तमुखे अनुसधानमपि सूचनीयम् , विशेपतञ्च वैदेशिकशासकाना समक्षम् ।" एतस्य गुप्तीकरणस्य उत्तम. परिणामस्तु भवेदेव, किन्तु घातकः परिणाम अस्मत्सदृशानां पक्षे सोय प्रतिफलितोऽभृद् यद् बहवो ग्रन्था गुप्तीकृता सन्त. शनैः शनै. ऋ रकालस्य दुष्प्रभावेण सर्वदार्थ लुतीकृता एवाऽभूवन । मत्पूर्वजा सुदूरदूरतमाद् ‘सद्रास' प्रदेशाद् राजस्थानेऽस्मिन् विश्वप्रसिद्धन निज- चैदुष्येण समागता अभूवन् , पर.सहस्रमुद्रावापिकी सुस्थिरा प्रामादिसपत्तिं चाऽलभन्त तैरस्मिन् देशे आगमनादारभ्य अद्यावधि अभूतपर्वा अनितरसाध्या च साहित्यसेवा कृताऽभवत् । नेयमभिमानस्य कथा, प्रसङ्गादेव तदिद निवेदनीयमभवत्-यद् आसां पड्क्तीना लेखकपर्यन्तमपि पूर्वजप्रक्रान्ता सेय साहित्यनिवेदना [ 'लोकसेवा' ] न नाम निरुद्धाऽभूदी- श्वराऽनुग्रहेण । किन्तु पूर्वोक्तकारणेन, मध्यकाले अनधिकारिजनस्वातन्त्र्येण च, मत्सर्वज- निर्मिता अपि मदीयगृहस्य ग्रन्था न मत्सविधे। न च वहूनां ग्रन्थानामनुसघानमात्रमपि मम, मद्व शीयानामन्येपा वा अस्ति । वहतो ग्रन्या मया बुन्दीनगरे अकस्मादुपलव्या. । वहव. अत्रत्येभ्य प्राचीनपुस्तकसग्रहालयेभ्यो विदिता. । वहुतराञ्च सुदूरदूरवर्तिभ्यः "भाण्डारकर ओरिएण्टलरिसर्च इन्स्टिट्य ट, पूना" प्रभृतिभ्यः साहित्यसग्रहसस्थानेभ्यो- ऽधिगता. । सोय वृत्तान्तो मया 'साहित्यवैभव' 'जयपुरवैभव' २ प्रभृतिग्रन्थेषु निजपरिचय- प्रसङ्गात्प्रकटीकृत प्रायश.। अत्रोल्ले खस्य तदिदमेव प्रयोजन यत् ये संदर्भाः कविवरैः प्रतिभास्फूर्ती स्वस्त्रगृहेषु समये समये सगुम्फितास्ते तत्कवीनां स्वीय साहित्यसग्रह व्यतिरिच्य कुत्र वाऽन्यत्रोपलभ्येरन् ? तेषु साहित्यसग्रहस्थलेष्वेव चेद्द र्दैववशात्प्रणाशः प्रविशेत्तर्हि प्राचीनसाहित्यसंग्रहस्य का वा प्रत्याशा ? नैवविधानि पुस्तकानि कविभि. स्वयं प्रसेधितानि, वहिः प्रकाशनार्थ वा निमितानि, येन तेषां प्रतिलिपयोऽन्यत्र रसिकाना समीपात्समुपल- भ्येरन् । 'पद्यमुक्तावली' सहशानि मुक्तककाव्यानि निर्मातुः आकस्मिकं प्रतिभाविजृम्भितम् । एतानि हि तत्तत्कवीना गृहसस्थितात् संग्रहमात्रादेव प्राप्तव्यानि । ततश्च-पद्यमुक्तावल्या अप्येक पुस्तक जीर्णपुस्तकेपु तागुपलब्धं यस्य प्रारम्भे पर्यवसाने च कतिचित्पत्राणि खण्डितानि । ग्रन्थारम्भे ग्रन्थान्ते च मङ्गलादीनि यानि किल कर्तव्यानि सर्वेष्वपि साहित्य- निवन्वेपालभ्यन्ते तान्यपि मुक्तावल्यामस्या न सन्तीति विलोकयेयुः पाठकमहाभागाः । १-'पोथीवाना' । २-एतदादीनि पुस्तकानि-“मञ्ज निकुञ्ज, पृथ्वीराजरोड, जयपुर, राजस्थानम्" इति सकेते एतत्पर तीना लेखकसकाशात् प्राप्तव्यानि ।

भूमिका ५] कारणमेतस्यैतदेव, यत्कठिनतया उपलव्धे जीर्णपुस्तकसंचये यादृशं च यावञ्च याहगवस्था- पन्न च पुस्तकमिदमुपलब्ध तदेव महत्सौभाग्यमिति अभिनन्ध संगृहीतं मया । प्रकाशयितु प्रयत्नश्वाऽस्याऽक्रियत। सुक्तावल्या विशेषः - पुस्तकेऽस्मिन् महत्त्वमिदमेव यदिदं ग्रन्थकर्तुर्जीवनकालस्य मूर्तिसानितिहास इव । समयोऽपि स ताशोऽभूद् यत्र परस्परं युध्यमानयो योर्धात्रोमिथः सघर्पः, एकस्य विजयश्च स्वनेत्रयोः संमुखे दृष्टोऽभूद् ग्रन्थकारेण । द्वयोरनयोर्ये ये संवन्धिनः, मन्त्रणादातारः, प्रिय- करिश्चाऽऽसन् तैः सर्वैरेव साकं ग्रन्थकारस्य संपर्को, निकटसंपर्कश्चाऽभवत् । पुस्तकेऽस्मिन् सर्वासा तासामेव व्यक्तीनां वर्णनमुपलभ्येत । तेषां वास्तविक रहस्य तस्मिन् काले जातासु घटनास्वेवान्तर्हितम् । न तस्य रहस्यस्याऽस्मिन् समये स्पष्ठाऽवबोधस्योपायोऽप्यस्ति, तस्य समयस्य इतिहासस्याऽनुपलम्भात् । राजस्थानीयेतिहासस्य ये विशिष्य बोद्धारोऽभवन , तेऽपि करालस्य कालस्य कुटिले कोडे साम्प्रतं विश्राम्यन्ति । जयपुरीयेतिहासस्य विशेपाभिज्ञाः विद्याभूपण-श्रीहरिनारायणपुरोहितादयः परिगण्यन्ते स्म, ये हि परम्परातो जयपुरराज्यस्या- श्रिताः, स्वसमये राजकीयाऽधिकारिणश्चाप्यासन् । तेऽपि साम्प्रतं न सन्ति । जयपुरराज- कीवहस्यमालासु साम्प्रतं राजस्थानीयशासनतन्त्रस्य प्रभावः । यानि च स्थानानि जयपुरधरा- धीशस्य व्यक्तिगतसंपत्तिरूपाणि, तेष्वपि अन्याश एव रक्षाप्रवन्धः । अतएव न तेभ्योऽपि प्राचीनेतिहासपरिज्ञानस्याऽवकाशः । अतएव पुस्तकेऽस्मिन् येषां येपामैतिहासिकपुरुषाणाम् , स्थानानां वा सूचनाऽस्ति, तेषामपि परिज्ञानं यत्किञ्चिज्जातं तदेवात्र निवेदनीयं भवेत् । अवशिष्टं विशिष्ट रहस्यं कदाचित्समय एव बोधयेत्, इति कृत्वैव संतोष्टव्यं भवेत् । ग्रन्थकारस्य परिचयः परिकरश्च कविकलानिधिमहाभागस्य पूर्वजा गौतमसगोत्रीयवेल्लनाटीयतैलङ्गब्राह्मणा मद्रास- प्रान्तीय-तैलङ्गप्रदेशादुत्तरदेशेपूपगताः । व्यतिगतो यस्य भूयान् समयः । एतद्वंशपरम्परायां चैदिक कुलोत्तसः श्रीवात्रीजीदीक्षित एत्र तस्मिन् समये सर्वतः प्रसिद्धो गोत्रप्रख्यापकश्च समभवत् । अतएव एतदशवर्णनेतिहासपुस्तके "कुलप्रबन्धे" * 'बावीदीक्षितमूलकः.... जयाय भवतान्मे वंशकल्पद्रुमः ॥ ' इत्युपसंहारो दृश्यते । । . सोयं वंशो दक्षिणापथतः काशीम् , काशीतः प्रयागम् , प्रयागाच तात्कालिकेन चान्ववदेशनरेशेण देवर्षिप्रभृतिग्रामशतकं समय॑ एतद्वंशस्य प्रमुखपुरुषः श्रीमण्डलदीक्षितो निजगुरुपदे स्थापितः । ततश्च शनैः शनैः अनूपनगर [ 'अनूपशहर'] दिल्ली, भरतपुर- कामादिषु संपर्क स्थापयन्तो राजस्थान प्रापुरेतदशीयाः पूरुषाः । तत्र बुन्दीराज्ये समधिक- * 'साहित्यवैभवस्य वशवीथी द्रष्टव्या ।

६] भूमिका समानितास्ते स्वनिवास कल्पयामासुः । तनः अनिरूद्धसिंहात्मजश्रीबु-यमितन्य शासनसमये एनद्व शरत्न श्रीमान कविकलानिधिमहाभागस्तस्यों भूयानं काल यारद बुन्दीराचे । ननी राजाधिराजेन श्रीजयसिंहमहाराजेन अश्वमेधयनार्थ नविनयया बाचा याचित. 'याम्बर' - राजधानीमाययो । ततः कविक्लानिधिमहाभागन्य समचमेव जयपुरगजधान्या एतन्या. शिलान्यासोऽभवत , यस्य वृत्तान्त' कलानिधिमहोदयेन राजाजना निर्मित 'दग्दरमिलाने' विस्तृत्य वर्णितोऽस्ति। श्रीमद्वल्लभसंप्रदायाचार्याः जयपुरनिवाससमये ये ये कविकलानिधिमहाभागस्य निकटसपर्क, राजकीयपरिकरे वा ऐतिहासिकाः पुरुपा आसन् तेषां वर्णनं पचमुक्तावल्यामस्वामुपलभ्यत । तेषु सजातीव- सबन्धेन, देशप्रख्यात-सप्रदायाचार्यरुपेण च श्रीमद्वल्लभाचार्यचरणाना पीठस्थिता शुढा-- द्वैनसप्रदायाचार्या अपि कविकलानिधिमहोदयस्य वर्णनीया अभवन् । एतस्मिन समय राजस्थाने श्रीनाथद्वार-कॉकरोलीप्रभृतिपरिसरे वैष्णवसंम्प्रदायस्य प्रभाव. प्रकामं अन्नृतो- ऽभवत् । तात्कालिकाः उदयपुरस्य महाराणामहोदयाः कॉकरोलीविराजमानश्रीद्वारकाधीश- पीठ गुरुसंस्थानत्वेन समाद्रियन्त । आसीच तस्मिन् समये तत्पीठमलंकुर्वाण' श्रेब्रजभूपणलालगोस्वामिमहाभागः । महोदयोऽय न केवलं सजातीयत्वेन, अपितु देशप्रख्यातेन चैदुष्येणाऽपि कविकलानिधि- महोदय मुहुर्मुहुः संमानयति स्म । प्राप्ते ग्रसङ्गे सममादर समाह्वयनि म तेषु तेषु महामहोत्सवेषु । कविकलानिधिमहोदयस्य बहुतराः कृतयः कॉकरोलीसंस्थाने अद्याऽप्युप-- लभ्यन्ते, इति हि तत्रत्यविद्याविभागाद्विदितमभूत्प्रसङ्गन केनचित् । गोस्वामिवरश्रीब्रज- भूषणलालमहोदयस्य प्रशंसापर पद्य यथा- 'सौजन्यव्रज-सौहृदब्रज-सुहृत्कार्यव्रज-श्रीव्रज- श्रीशालिव्रज-सद्यशोब्रज-बहुश्रेयोव्रजानां भवान् । एको भूपणतां विभर्ति भुवने तेनैव सत्कीर्त्यते लोकेऽस्मिन् ब्रजभूषणेत्यभिधया जीयात्सहस्र समाः ॥१६॥" महाराजश्रीमाधवेन्द्रेण श्रीव्रजभूपणलालमहाभागस्य सकाशादेव वैष्णवसप्रदायस्य दीना गृहीताऽभूदित्यपि पद्यमुक्तावल्यामस्या समुपलभ्यते । तत्समये च श्रीद्वारकाधीशपीठे श्रीब्रजभूपणलालनहोदय एव पीठाधीशोऽभूदित्यपि तेन परिज्ञायते यथा--- ~ यथा हि वर्णित 'रावलचरित्रे' देवर्षिश्रीमण्डनकवीन्द्रण- "बुन्दीपति बुधसिंहसों लाये मुखसो नाचि । आइ रहे आम्बेर में प्रीतिरीति बहुभांति ॥"

७]
भूमिका
श्रीशालिवजभूषणप्रविदितश्रीद्वारकेशप्रभोः
पादाम्भोजयुगप्रपत्तिपरम श्रीमाधवक्ष्माधव ।
शौयौदार्यविदार्यवार्यपरहृत् प्राज्ञार्यदारिद्रयभी-
संभारद्रविणाम्बुवर्षजलदो जीयाः सहस्र समाः ॥२६२॥
कॉकरोलीस्थश्रीद्वारकाधीशस्य भूरिशः स्तुतिरुपलभ्यते । किमधिकम् , १२४ तम-
पद्यादारभ्य १३२ तमपद्यपर्यन्तमिदमकमेवास्ति । अत्र तदिदमपि चातुर्येण व्यञ्जितं यदिद
पीठमारम्भादद्यावधि पुष्टिमार्गसंप्रदायाचार्यश्रीमद्वल्लभाचार्यस्य, तदशजानां चाधिकारे
स्थितमस्तीति । यथा-
श्रीमद्वल्लभदेवलालितपदाम्भोजद्वयभ्राजितः
श्रीमद्विट्ठलनाथभावितलसल्लीलाललामाकृतिः।
तद्वशोद्भवपुत्रपौत्रनिवहैरद्यापि संसेवितः
श्रीभूशोभनशीलपार्श्वयुगलः श्रीद्वारकेशोऽवतु ॥१३१॥
स्तुतिभक्तिः प्रणतिश्चापि श्रीद्वारकेशप्रभोरद्भु तैव पद्य नैकेन प्रकटिता ग्रन्थकारण,
स्था-
'एके वाराधयन्ति द्विपहयशिविकास्यन्दनाधस्तथैके
मुक्तामाणिक्यरत्नैर्जगति, तदपरे स्वर्णभारैरनेकैः
श्रीश श्रीद्वारकेशप्रभुवर ! तव तेषां च तेषां च तेषां
स्थाने स्थाने मया त्वं ध्र वमुपचरितोऽस्येकयैव प्रणत्या ॥१०२।।'
किं च श्रीमद्वल्लभाचार्यचरणानां पुत्रस्य श्रीमद्विट्ठलनाथमहाप्रभोरपि स्तुतिरति-
भक्तिपर्णा अप वैव समुपनिबद्धा कविकलानिधिमहाभागेन । यथा--
'गोधूलौ धूलिधूम्राननरुचिररुचिश्चारयन् गाः समन्ताद्
गोपालीजालपाली कलमुकुटधरो धारयन् धाम धन्यम् ।
मन्यन्ते ब्रह्मसंज्ञं श्रुतिकुलतिलका यं वदन्तो नितान्तं
पायात्सायाह्नकाले कलिमलमथनो वाल्लभिविट्ठलेगाः ॥२२६॥

. भूमिका एतदतिरिक्तम , 'गोपेन्द्र'नाम्नाऽशितान्यपि कानिचित्पद्यानि मुक्तावल्यामुपलभ्यन्ने यथा- 'वाणी चैव सुवं च सर्वजनतादैन्याऽपहारीत्यतो धर्म चैव धनं च साधुसुहृदां दृष्टिसुधावृष्टिभिः । नित्यं पासि, बुधैरुपासितपदो भासि, प्रयासि प्रथा श्रीगोपेन्द्र इति प्रकाशितगुणो विद्गणैर्गीयसे ||५२।।' अग्रे च-"गोविन्द श्रीलगोपीजनहृदयपरानन्ददो वल्लभस्त्वम्" इत्यादिकं 'काम- धेनुवन्यात्मक पद्यमस्ति । अस्य हि अर्थस्पधीकाराभावाट्टीका नाऽभूत्साध्या । तत एव पूर्व- श्लोकात्परा '१५६' तमी पद्यसंख्यापि नात्र श्लोके प्रदत्ताऽस्ति। एतन्नामाङ्कितानि पद्यानि तस्मिन् समये विराजमानस्य कस्यचित् पुषिमार्गीयवैष्णवसम्प्रदायाचार्यस्यैव सन्नीति विवेकिनां संमति'। वर्ष परिचयाभावान्नात्र तत्परिचयोल्लेखोऽभवदिति अतुमानत पत्र संतोष्टव्यं भवेत् । । बुन्दीनरेन्द्रः श्रीवुधसिंहभूपतिः श्रीजयसिहमहाराजाधिराजस्य परमेण समादरेण जयपुराऽऽगमनात्पूर्व श्रीमान कविकलानिधिमहाभागो बुन्दीराज्ये निवासं चक्रे । किन्तु जयपुरमधिवसन्नपि सोऽय बुद्धमिह- नरपालस्य समादर न विसस्मार । अतएव प्रतिभास्फूर्तिसमये श्रीबुन्डिनरपालोऽपि बुद्धिमधि- तष्ठी। श्यते पद्यमिद मुक्तावल्याम्- "देव श्रीवुद्धसिह त्वदसिजलघरोल्लासिसत्कीर्तिनीरे तुङ्गप्राच्यादितीरे भवसरसि भवत्साधुवादोर्मिसंधे। नक्षत्राण्येव हंसाः परिलसितनभोनीलिमा शैवलौकः पूर्णेन्दुः पद्मभस्मिन्, मधुरमधु सुधा, देववृन्दा मिलिन्दाः ॥१८७१ भरतपुरभूस्वामी सूर्यमल्लः बुन्दीनरेशस्य समीपे समागमनात्पूर्व कविकलानिधिमहोदय कञ्चित्कालं भरतपुर- राज्यऽपि तस्यो । तत्र हि 'दुगांभक्तिरङ्गिणी' नामको ग्रन्यो राजेच्छया निर्मितोऽभूदिति बहूना कयनम् । एतत्सत्यमिति प्रतीयते । यतो हि पद्यमुक्तावल्या पद्यद्वय सूर्यमल्लनामाशित- मुपलभ्यते यथा- 'इतो हैन्दवी सृष्टिमानन्दयन् स्वैः' इत्यादि ।।१६१ उधन् दोपाकरस्या" ॥१७८ . - E ] भूमिका ग्रन्थकारस्य पिता श्रीलक्ष्मणभट्टमहाभागः कविकलानिधिमहोदयस्य पिता श्रीलक्ष्मणभट्टमहाभागः परमवैदिकोऽपि मीमांसा- सांश्य-योग-व्याकरणादिशास्त्राणां प्रकाण्डपण्डितोऽभूदिति मुक्तावलीतः परिज्ञायते' यथा हि- गच्छत्यान्वीक्षिकीयं चयमथ विशति व्याऋतिर्वह्निमध्ये मीमांसा मूच्छिता ऽभूदनिशमुपनिषत् खेदिता वेदनाभिः । भग्ना सा कापिली गीगुरुविरहगता योगगीभग्नभोगा याते निर्वाणमातेजितसुकृतफले श्रीगुरो लक्ष्मणरव्ये ॥ ७१ एवं 'सहैव सर्वविद्याभिः इत्यादि ॥ ८८ अविद्या प्रवादीत्-इत्यादि 11८६ 'श्रीलक्ष्मणगुरुचरणे कुर्वति कैलाशधामविश्रामम् । तद्वाञ्छयैव सकलाः साङ्गोपाङ्गा ययुर्वेदाः ।। ६०, मध्यदेशस्य विशेषतः परिचयः कलानिधिमहाभागः पूर्वदिगभागे-राजस्थाने च यथा निजपाण्डित्येन, अनुपम- कविताप्रभावेण च प्रसिद्धिं परिचयं च स्थिरीचकार, तथा मध्यप्रदेशेऽपि भूयांसं कालं यावत्तस्थौ, इति पद्यमुक्तावलीतः प्रकटीभवति । अत्र हि महाकालस्य स्तुति-गीतिर्यथा- 'मम मतिरतिविरमति' ३ भगवतः शंकरस्य सप्तविभक्तिभिः स्तुति:-"ओं तत्सद्ब्रह्मरूपः० ॥ ७२" इत्यादितः प्रारभ्य “विभक्तिसप्तकम्" ||७६ इतिपर्यन्तम् । एवं नर्मदायाः स्तुतिः । ६७ ॥ नर्मदाया नीराजनम्-"जय जय शिप्रे रेवे० इत्यादि २६६ ॥ भगवत ओंकारेश्वरस्य नीराजनम् । जय जय ओंकारेश" इत्यादि ॥२५० " मालवस्त्रीणां गति-रूप-देहलतादीनां वर्णनानि “८३-८४-८५"प्रद्यषु । यथा मन्दहास:- १०]] भूमिका तारुण्योभेदभाजां कटिचरणरणकिङ्किणीनू पुराण प्रोद्यन्मन्दानिलान्दोलितपरमपटस्पष्टनर्मस्थलानाम् । गम्भीरावर्तनाभीलसदुदरवली-रोमवल्ली--युताना- मेतासां मालवीनां कलयति मदनोन्मादनं मन्दहासः ।। ८२॥" भगवत्याः श्रीगङ्गायास्तु स्तुतिििवधेषु वृत्तेषु । "सुधासगरग" नित्यादिका शिस्त्र- रिणीछन्दस्सु श्लो. २२ तः २६पर्यन्तमष्टकरूपेण । श्लो ४३तः प्रारभ्य ५१ पर्यन्तमार्याच्छ- न्दोभि.|| "भट्टराजा"भट्टसदाशिवमहाभागः [श्लो० २०८, २०६] सदाशिवमहाभागस्य पूर्वजानां पुरा 'डूंगरपुर' प्रदेशीय सागवाडानामको ग्रामः परम्परा नाऽभिजनो बभूव । एष हे जयपुरनरन्द्रस्य श्रामाधवसिंहस्य (प्रथमस्य ) न केवलं विद्यागुरुरेव अपि तु समये समये परामर्शदापकोपि बभूव । एप हि महाभागो गुर्जरब्राह्मणा- वान्तरजातीनामौदुम्बरभट्टाना वशे प्रसूतः । सोय महोदयो मावजीभट्टस्य पौत्रः, रत्नेश्वर- भट्टस्य च सुपुत्रो बभूव । भट्टसदाशिवमहोदय: उदयपुरराज्येश्वरस्य महाराणा जगत्सिंहस्य विशेषत. कृपापात्रमासीत् । जयपुरनरेन्द्रः श्रीमाधवसिंहः कौमारावस्थायां निजमातुलस्य श्रीजगत्सिंहस्य निकटे यदा ह्युदयपुरे न्यवात्सीत्तस्मिन्नेव समये सदाशिवभट्टाभागोऽस्य विद्यागुरुरभवत् । अस्मिन्त्रिपये प्रसिद्वसस्ति यत् उदयपुरमहाराणाश्रीजगत्सिंहमहोदयेन निजभागिने- योयं माधवसिंहो यदा योग्यो, गुणगणयुक्तश्चाभिवीक्षितस्तदा माधवसिंहस्य पाठनाय श्रीसदाशियो न्ययुज्यत । किन्तु भट्टमहाभागेन प्रोक्तम्-"नाई सामान्यो जोशी (प्रारम्भिक- पाठकः)।यदि माधवसिंहो मां गुरुरिति मानवेत्तथैव च संमानयेत्, एव माधवसिंहसंततयोऽपि मत्कुलप्रसूनान् सतानगन् गुरुगौरवेण पूजयेरन्, तदैवाऽहमेतत्कर्मणि प्रवृत्तो भवेयम् ।", माधवसिंहस्तदिद सहर्ष स्वीचकार । कालान्तरे यदायं माधवसिंहो जयपुरनरपालो बभूव तदा भट्टमहाभागायाऽस्मै "भट्टराजा" इत्युपाधि, प्रभूतां च भूसम्पत्तिं (जागीर) प्रदाय, ससमानं जयपुरेऽस्मिन्नावासयन् । सोय महाभागो १८०७ तमे विक्रमसवत्सरे माधवसिंहेन सह उदयपुराज्जयपुर- नागमत् । अस्मै प्रदत्ता सेयं प्रभूता प्रामादिसंपत्तिरपि सदाशिवभट्टमारभ्य नानूलाल- भट्टपर्यन्त मप्तपुरुपेषु यथावदनुवृत्ता बभूव । किन्तु १६३१ तमे ख्रिष्टवत्सरे नानू- लालमहोदये निःसंतान स्वर्गमधिरूढे सेयं भूसंपत्ती राजसाद् बभूव । यत्किञ्चिदस्तु, सोयं सदाशिवोऽत्यन्तं प्रतापशाली, धनसमृद्विसंपन्नः प्रभाववांश्चाऽऽसीत् । ब्राह्मणेषु भूमिका ११] राजेवाऽऽसीत् ' श्रीमाधवसिंहस्य, तत्तनयस्य श्रीप्रतापसिंहस्य च समये कान्यकुब्जब्राह्मणः "शुक्ला" ऽवटङ्को यो भोलानाथकवीश्वरो बभूव, तेन हि महाराजश्रीप्रतापसिंहस्य समये, सदाशिवभट्टस्य प्रीतये “कर्णकुतूहल"नामकं नाटकं निरमीयत । तत्रापि नाटकमेतत्सम्प्रत्येव राजस्थानपुरातत्वमंदिरात प्रकाशितमस्ति । प्रस्तावनायां सायं सदाशिवो महता गौरवेण संस्मृतो बभूव यथा- सूत्रधारः-आर्ये ! समस्तसामन्तनृपचक्रचूड़ामणिः भूमण्डलाखण्डलकिरीटरञ्जित- चरणारविन्दः श्रीरत्नेशतनय. औदुम्बरकुलालड्कारो विघ्नराज इव विघ्नविध्वंसकारी सुरगुरु- रिव कूर्मवंशगुरुः श्रीमान् भट्टसदाशिवोऽस्ति"- "भूदेवेषु नतिर्मतिर्वितरणे, दीने दया भूयसी प्रीतिः पुण्यकथासु भीतिरनिशं पापात् सुनीतिनये । शूरत्वे कृतिरुन्नतिः सदसि वाक् सत्ये हरौ सज्जने भक्तिभट्टसदाशिवक्षितिपतेः सर्व परप्रीतये ॥" इत्यादि भट्टसदाशिवस्य वर्णनं 'कच्छवंशमहाकाव्ये" प्येवमुपलभ्यते- "ते ते गदाधरमुखा अपि पल्लिवाला औदुम्बरा अपि सदाशिवभट्टमुख्याः । प्राक् सेविताङ घ्रिमधुना फलदानदक्ष- मन्वीयुरेनमृभृवृक्षमिव द्विजोधाः ॥ [सर्गः१३' श्लो. २६७] उदयपुरादानीतस्य सदाशिवमहोदयस्य श्रीमाधवेन्द्रस्य समये राजकीयवर्गे भूयान् संमानोऽभवत् । सर्वेऽपि राजोपजीविनस्तमेनं नृपतिवत्संमानयन्ति स्म, अयमपि च मन्ये तेब्बौदार्यमसामान्यं दर्शयामास । अतएव ब्रजभाषायामपि बहुघा कीर्तितः सोयं कविभिः । भोलानाथकवीश्वरेण भाषाकाव्यैरपि सोयमतिशयोक्तिभिरुपच्छन्दितोऽभूत् । तेषु "वर्णिका" रूपेण कवित्वमेकं यथा- "पुण्य परताप ही को जाके द्वार डंका वाजे कहै भोलानाथ सोर लंकालों कही को है भुवभार कॉधे जाके दयाभार हीमें सदा लाजमार आँखिनमें पैजभार जीको है।

१] भूमिका नृपति सदाशिव उदंबरपुरन्दर ज्यों सुन्दर सभा को औ सिकन्दर मही को है ग्राप निरदंभ दंभ मेटति सदंभनि के राजथम्भ बिजैथम्भ जाके सिर टीको है ।। राजदत्तगौरवान् शनैःशनैर्भट्टराजा इति प्रतिष्ठां गतस्य सदाशिवमहाभागस्य यथा राजकीयवर्गे संमानोऽभूत्तथा ग्रन्थकर्तुः कविकलानिधिमहाभागस्याऽपि हौ भूरि संमानः प्रगाढश्च परिचयोऽभूत् । किन्तु नानाराजभिर्दत्तभूरितरभूम्यादिसपत्तरपि स्वातन्त्र्यप्रियस्य, आत्माभिमानिन. कविकलानिविमहाभागस्य स्वल्पेऽपि प्रातिकूल्ये जागतिस्म नैसर्गिक- मान्मगौरवप, यस्य हि परिचयः- "ज्वलतु जलधि-क्रोडक्रीडत्" इत्यादि २४५ तमपद्या- दवगम्यत । अत एव हि सीमापर्यन्तमेव सदाशिवमहाभागस्य गौरवमासीत्कविकला- निधेर्मनसि । सोनाहाइपने तु त्वरितमेव एतस्य दृपि. परिवर्तते स्म । यस्य परिज्ञान मुक्तावल्या १७० तमात् “गुणपद् गणितो गुणिना०" इत्यादिपद्याद् भवेत् । भट्टराजा' महोदयम्य स्मारकचिन्ह सम्प्रति राजवैभवसूचक महाविशालम् प्रधानराजरथ्याविराजमान गृहमेवाऽस्ति । यद्धि जयपुरनगरस्य प्रधानराजहर्म्यरथ्यायाम् ["सिरह ड्योढ़ी बाजार]" "हवामहल" समीपस्थ श्रीगोवर्द्धननाथस्य मन्दिरपृष्ठस्याऽभिमुखं, विशालतया प्राचीन रानगौरवमद्यापि जागरयति जयपुरवासिजनाना मनसि । एतद्धि भवनं सप्रति राजतन्त्राचीन श्रीहीनमिव विभाति । खेलति हि नियतिर्जनानां जीवनैर्धनैनिघनश्चति कोऽत्र किं प्रतिविधातुप्रभवेत् ।" राजराजेश्वरीप्रतिष्ठापकः श्रीहरिहरमहोदयः हरिहरमहादयश्च 'मुक्तावल्याम्' स्थाने स्थाने वर्णितः । च मुक्तावल्यां हरिहरमहाभागेन वर्णिता येयं राजराजेश्वरी भगवती निविडलताऽऽवृते मन्दिरे प्रतिष्ठापिता, तदिदं मन्दिरं जयपुरनगरस्य पर्वोत्तरदिशि वंधगोपुराद् (बंध का दरवाना) बहिः, आम्बरनगरस्य समीपदिशि विराजते । एतस्य समीप एव 'मान वाग' इति प्रथित प्राचीनमुद्यानमस्ति, यस्य जम्बूफलानि 'मानवाग का भोरेल्या' नाम्ना जयपुरनागरिकेपु पुरा चिरात्प्रथितान्यासन् । भगवत्यास्तदिदं मन्दिरमतीव प्रभावशालि विपते । एतदर्शनेनैव स्पप्टमिदमवगत भवति यदिदं स्थानमुपासकाना कृते वस्तुत मिद्धपीठम् । भगवत्या मूर्निवर्णनं तु लघीयसा मुखेन महती वार्ता । यतो हि राजराजेश्वर्या यानं तत्रापासकाना कृते परममनोहरं प्रसिद्धञ्च । वस्तुतो भगवत्याः सेयं मूर्तिरतीव मनोहारिणी, दिव्यप्रभावशालिनी च । एकवारं दृष्टा, पुनः पुनदर्शनाय प्रेरयतीव । सोयं पलान्त १७९ तने पृष्ठे विलोक्येव पाटकमहाभाग. ।

भूमिका १३] न केवलनिदमेव, अपित चित्र-काव्यद्वाराऽपि हरिहरमहाभागस्य वर्णनं कृतं ग्रन्थ- कृता । यथा हि २५४ तमे पद्य २५५ तमम् आर्यापद्यसेत्तद्वर्णनपरं निःसरति । एवमेव "हर्षादौ विहितः” इत्यादिके शार्दूलविक्रीडितपद्येऽपि चित्रविधया 'हरिहरः' इति नाम निस्सरतीति विलोक्य प्रमोदेरन् पाठकमहाभागाः । ततश्च वंविधचित्रवर्णनेन सोयं महाभागस्तस्मिन् समये राजपूजितः, प्रभावशालीति स्वयमनमातव्यं भवेत्, यावत्किल एतत्संबन्धीतिहासो न लभ्येत । पद्यमिदं १५६ तमम् । मथुरापुरी, देवोत्सवाच कविकलानिधिमहाभागस्य विवाहादिसंबन्धेषु सजातीयमहोत्सवेषु वा मथुरायां रामनाऽऽगमनायोरवसरोऽभवदित्ति परम्परातः शृणुमः । मुक्तावल्यामेतस्योपलभ्येत प्रतिभासः । श्लोकेषु १४, १५, १६ संख्यकेपु 'समुदितमुदितश्रीवैष्णवाः' इत्यादिषु दृश्यते मथुरापुर्याः प्रशस्तिः । मद्रासप्रान्तवासिनस्तैलङ्गायाः प्रायः 'थ' कारस्य 'धकारेण' परिवर्तन कुर्वन्तो दृश्यन्ते। कविकलानिधिमहाभागस्याऽपि सोयं निसर्गः प्राप्यते पोडशे पद्य- का मधुरा वत नगरी कामधुराधरणधीरधौरेयी । गलितकलङ्कामधुरा कामधुराशां जनायतो न फलवती ॥१६॥ भगवतो मत्स्यावतारस्य बलरामस्य च शब्दालंकारसौष्ठवेन साकं रुचिरैव स्तुति- रुपलभ्यते मुक्तावल्याम् । यथा मीनावतारः- 'दृष्ट्वा लीनाऽखिलार्थः समयमयमहीनाऽवबद्ध-स्वशृङ्गः पीनापीनामहीनामुदधिचरमहीनावमुच्चर्दधौ यः । चीनामीशे कवीनामथ वचसि नवीनाच्छकीर्तिः स देवो दीनान कीनाशभीनाशननिपुणमतिः पातु मीनावतारः ॥१४॥ - J वलरामस्य तु–'कम्बावुग्राऽविलम्बाऽऽरवभृतिः' इत्यादिः ॥१४६ शब्दालंकार- चाहुल्याइनयोरर्थष्टीकासहकारसाध्यः । अतएव श्लोकसंख्यानुसारेण मुक्तावल्यामेत- द्विलोकनीयम् । राजस्थानादिप्रान्तेषु भगवतः श्रीकृष्णस्य हिन्दोलामहोत्सवः प्रायशः श्रावणमास एव प्रसिद्धः, किन्तु प्रान्तान्तरेषु 'दोलोत्सवः' होलोत्संवेन सह संमिलति । कलानिधिमहा- भागेन वैष्णवसंप्रदायानुसार दोलोत्सवस्य वर्णना ताशी कृता यन्त्र फाल्गुनजातोऽपि महोत्सवो मेघघटाप्रमोदमनुभावयति भावुकान् यथा- भूमिका 'यन्त्रोद्यद्भरिकाश्मीरजरुचिररसा ऽऽसारवद्धिः समुघद्- झम्पागम्भीरनिर्घोषितयुतवनितानपुराऽऽरावकेकैः । रक्ताम्भोदायितं तदिशि दिशि चलितैः केलिधुलीसमूहै- र्लोलाऽसौ हेमदोला कलयति ललितं तत्र विद्य द्विलासम् ।।६४॥ एवम् 'धम्मिल्लोल्लासि०' इत्यादि: ।।६५ । 'अन्योन्याङ्गविलासः' इत्यादिः ॥EE भगवतः श्रीकृष्णस्य शोभावर्णन श्लो० ३१ तः प्रारभ्य ४२ पर्यन्तं सुरुचिरमालोचन । तत्रापि ३४, ३५, ३६, ३७ तमपद्य पु प्रत्येक नवीनैव शब्दालंकारविच्छित्तिरवलोक्येत । प्रकृतिवर्णनस् काव्येषु महाकवीनां यानि प्रकृतिवर्णनानि सहृदयानां चमत्कारकाणि भवन्ति तान्यपि मुक्तावल्यां प्रचुरपरिमाणे प्राप्येरन् । सन्ध्याकाले सिन्दूरवणैर्घनैर्व्याप्तमेतद् गगन शिविरपटमण्डपायितमस्ति, घनमध्यान्निःसरन्तः सूर्यस्य दीर्घाः किरणा. पटमण्डपबन्धन- रज्जव इव राजन्त इति नवीनां कल्पनामुपस्थापयति कविः । यथा- "सिन्दूराऽरुणरागरञ्जितघनश्रेणीमनोहारिणि श्रीमन्मन्मथभूमिपालशिबिरस्तोमानुकारक्षमे । पश्य व्योम्नि विभान्ति संप्रति तिरोभूते प्रतीच्या दिशो भानौ व्यायतवल्गुभूरितनिकातौल्येन सान्ध्यांशवः ॥ १८" चन्द्रवर्णनपराणि ३०६तमात्पाद्यादारभ्य ३०७-८-६ तमानि पद्यानि । एवं ३१६ तम पद्यमपि तथा। वसन्ते-मलयपवनवर्णनपराणि १३५-३६-३७ तमपद्यानि । एव १७३ तममपि । प्रीष्मवर्णनम्-२७१ मेघसमयः-३१८-१६, २०, २१, तमेपु पद्य पु रुचिरतया वर्णितः। शरत्कालः-३२२ तमात्पद्यादारभ्य ३२५ तम पद्ययावत् । मेघवटानां वर्णनं १३८ तमं पद्यमारभ्य १४२ तमं पद्य यावत् । हेमन्तर्तुस्तु–१८८तमं पद्यमालम्ध्य १८६, तथा २७५त. श्रारभ्य २८५ तमं पद्य यारत् ।

भूमिका १५]] अत्र हि कविः कुकविमिव हेमन्तं वर्णयति चेत् [२८१ तमे पद्य ], तत्रैव २८३ तमे पद्य सुकविमिव वर्णयित्वा रचनाचमत्कारमात्मनः प्रकाशयति । शब्दालंकारचमत्कारः कविकलानिधिमहाभागेन अतिविनयपुरस्सरमुक्त' यत् “मया तर्कशास्त्र साहित्य- शास्त्र' च किञ्चित्किञ्चिदधीतम्' [१०८ तमं पद्यम्] एतस्य हि स्थाने स्थाने परिचयोऽपि प्रदत्तः । व्याकरणस्य परिचयो बहिर्लापिकारूपेण दत्तो यथा "कः स्याच्छब्दो निषेधे, खलमनसि मतो को, गुग्णस्योपसर्गों को स्यातां यौ प्रकर्षा तिशयनिगदिनौ, कुत्र शस्तोद्ध रेखा ? रुत्वं क्वाऽऽनडिते, हौ प्रभवति पुरतस्तस्यतेः कि नु रूपं कोक्तिः श्रीशाय पाद्य विरचयति नले, पाणिनेः किं नु सूत्रम् ।। ? निपेधे शब्दः कः ? उत्तरम्-"न" । खलस्य मनसि गुणस्य कः ? उत्तरम्-लोपः! [ खलस्य चित्त गुणस्य सर्वदा लोपात् अभावात् ] । प्रकर्षस्य, अतिशस्य च वाचकौ उपसर्गों को स्याताम् ? उत्तरम्-"प्र-अति [ प्राति]" । ऊर्ध्वरेखा कुत्र प्रशस्ता ? उत्तरम्- "पदि [पादे] ।" कुत्र आम्रडिते [द्विरुक्त ] रुत्वं भवति ? उत्तरम्-“कान् ।" तथा हि सूत्र -"कानाम्रोडिते" । तस्यतेः ("तसु उपक्षये” इति धातोः) हौ (सिप आदेशभूते “हि" परतः ) कि रूपम् ? उत्तरम्-"तस्य" । सर्वार्थसमाहारेण पाणिनेः किं सूत्रम् ? "नलोपः प्रातिपदिकान्तस्य" । ? कर्तृगुप्तम्-१९८ क्रियागुप्तिचमत्कारः ५८ तमं पद्यमारभ्य ६४ तमं पद्य यावत् । एतदनन्तरम्-१६२ तम पथमारभ्य २०७ तमं पद्य यावत् नानाविधाः शब्द- चमत्कारा विलोक्येरन् । तेष्वपि २०२, २०७ तमे पद्य आपाततः नानाविधाभिः क्रियाभिः परिपूर्णे अपि समाप्तिश्चमत्कारपूर्णेनार्थेन भवति । २१२ तः २१४ पर्यन्तेषु पद्यषु भङ्गश्लेष- विरोध-यमकादीनां संसृष्टिश्चमत्कारमुद्भावयति । २१६-२१७ तमं पद्ययुगलं वर्णश्लेषस्य अत्यद्भुतमुदाहरणम् । अन्तर्लापिका-बहिलापिकारूपेण शब्दचमत्कारः स्थाने स्थाने विलोक्येत । तेष्वन्त- लापिका यथा- - "त्वन्नामस्मरणे नाथ यः स्यादचलसंवृतः । तस्यार्थपुण्यपापानां यः स्यादचलसंवृतः ।। २२४, भूमिका अत्र हि द्वितीय. पादश्चतुर्थेन यम्यते [अर्थाद द्वितीयचतुर्थयोरावृत्तिः] इति यमकम- अन्तर्लापिका चेति, द्वयोः सहयोग. ! अर्थस्तु- हे नाथ तव नामस्मरणे कृते य ( भक्त.) अचल ( पर्वत) यत् संवृतः गूढीकृतेन्द्रियः स्यात् अयवा अचलेषु पर्वतेपु गुप्तः स्यात् [तपो-व्यानार्थमेकान्तवासी स्यान्], तस्य पुरुपत्य अर्थाना पुण्याना पापाना "य." यकारः, क्रमेण "अकारेण, चकारेण लकारेण च सवृतः (युक्त) स्गत् [प्रय भाव.-तस्य पुरुपत्य अर्थानाम् “अयः" [आगमनम, “अयः शुभावहो विधि'] पुण्यानां चयः संचय. अर्जनम् । पापानां लय. स्यात् । अत. “यः त्यादचलसवृत." इन्यत्र शब्दकृतश्चमत्कारः अगव एवाऽनुभूयेत । कविगोष्टयां "समस्या"पूरण मार्मिकाणां चेतसि चमत्कारमुद्भावयति । अत्रापि "वर्णिका" रूपेण “शतचन्द्र नभस्तलम्" इति नानावा पर्यते । [३६२ त. ३६५ पर्यन्तम् ] तेवेक यथा- - "अतुलद्य तिभिर्देवसुन्दरीवदनोद्गतैः। अशोभिष्ट यशोभिस्ते शतचन्द्र' नभस्तलम् ॥ ३६५" देवसुन्दरीणां वदनेभ्यो निःसृतः [ देवाङ्गनाभिर्दिवि गीतैरित्याशयः] अत एवं चन्द्रवत् अनुपमकान्तिशालिभिः तव यशोभिः-गगनतलं शतचन्द्रयुक्तमिव अशोभिष तब यशश्चन्द्रवत् निर्मलशुभ्रम्, अलौकिका तिधारकं चास्ति । अतएव न केवल भूमी एच, अपि तु दिवि देवैरपि गीयते इति राजकीर्तिव॑न्यते । अन्या समस्या-“मीनो जलमपहायाऽऽरोहति तरल सकण्टक वृक्षम् ।" इति। इय- मपि बहुधा परिता । यथाहि-- "हरिलीलारसमुज्झति धावति विपयोन्मुखं यदा चित्तम् । मीनो बलमपहायाऽऽरोहति तरलं सकराटकं वृक्षम् ।। २६४" हरिलीलागानाऽऽनन्दो भक्तस्य 'कृते जीवनभूतः, त त्यक्त्वा सांसारिकविषयमार्गे [ कण्टकाकीर्णे] अविश्रान्तभ्रमणं तथा, यथा मत्स्यः स्वजीवनाधायक जलें विहाय कराटक- वृक्षमारोहेत् । एतद्धि २८ तःप्रारभ्य २६६ पर्यन्तमालोक्येत । माधवेन्द्रस्य यशोवर्णने तु स्थाने स्थाने कामधेनुबन्धादीनि चित्रकाव्यानि, तथा अन्येऽपि शब्दालकारचमत्कारा. कविना सघटिताः । यथा "श्रीमान् श्रीसाधव त्वम्" इति २१६ तमे पचे "अत्र बहूनि छन्दांसि निःसरन्ति" इति मूलपुस्तके प्राचीना टिप्पणी। किन्तु न तेपामुद्धार प्राचीनेष्वेषु पत्रेषु । शब्दचमत्कारा-२४८-४६ ३५२, प्रभृतिपद्येषु बहुत्र प्रेक्ष्येरन् ।

भूमिका १७] पायान्नः शशिखण्ड० इत्यादिकं १६२ तमं पद्यमारभ्य-१६७ पर्यन्तमगि शब्दालं- कारचमत्कारः प्रचुरो विलोक्येत । प्रधानतया वयों माधवेन्द्रमहाभागः श्रीमतो माधवेन्द्रस्य स्थाने स्थाने नानाप्रकारैः कीर्तिवर्णनमालोक्येत मुक्ता- वल्याम् । किन्तु “वसन्तेनाप्यनेन अन्यान्य-समान्यनरपालैरिव रत्नाधु पायनप्रदान- पूर्वकं सेव्यसे, संमान्यसे चे"त्याह कलानिधिमहाभागः- "उत्कूजकोकिलाश्वान् मलयमरुदिभान् भूरिचाम्पेयमल्ली-- कुन्दस्रक स्वर्णमुक्ताभरणसमुदिताडनेकपुष्पच्छलेन । रत्नान्येतानि यत्नान्मधुऋतुसमयाऽऽनीतमात्राणि ताव- व त्वं जैत्रयात्राफलसदृशतया सस्पृहागृहाण ॥१०॥ - कलानिधिमहाभागस्य प्राकृतभाषादिपाण्डित्यम् श्रीमान् कविकलानिधिमहाभागो न केवलं राजस्थाने एव, अपितु मोगलसम्राट- क्षत्रियराटपालिते समग्रेऽपि भारतेऽस्मिन्नासीदप्रतिमः प्रतिभावान महाकविः, वेदशास्त्रादि-- संपन्नः प्रकाण्डपण्डितश्च त्युक्तवानस्मि पूर्वम् । अस्य हि न केवलं संस्कृतसरस्वतीसंबद्धव सुकवितासूक्तिः समुपलभ्यते, अपि तु ब्रजभापानिवद्धा अप्यनेके कविताग्रन्था राजाज्ञया ऽवतीणीः प्रसिध्यन्ति राजस्थानीयेपु साहित्यसग्रहालयेषु । कि बहुना, प्राकृतभाषा, या हि तस्मिन् समये भारतमात्रेऽप्यप्रचलिताऽऽसीत्तस्यामपि कलानिधिमहाभागस्य प्राप्येत प्रकामं प्रौढता नूनम् । माधवेन्द्रकीर्तिवर्णनपराः प्राकृतगाथाः प्रेक्ष्येरन मुक्तावल्याम् । तासां वर्णिकारूपेण द्वित्रा यथा- 'माहवणरिन्द तुह करसमत्तकामो सुरद् मो तवइ । सुरणइकूलम्मि जडावक्कलसंभारएहि प्रावरियो ॥२३३ आणीदं विजाए माहव तुव कित्तिमुत्तिअमणग्धम् । धरिऊण इक्ककरणे पइडिया पपई हरद्धङ्ग ॥२३४ सूरो चन्दो इन्दो तुलासु माहवणिवेण संतुलिदो। अहि भुइ गुरुत्रोत्ति तुमं लहुवा अण्णे दिजादा ॥२३० । भूमिका माहवणिवकित्तीओ फुल्लिअ-विअइल्ल-मालइ-बणाई। सअलाहमहुअराणं साणन्दनियोअकारणा धुअम् ।।२२७॥ प्राकृतार्याः माधवनरेन्द्र तब करसमाप्तकामः सुरद्र मस्तपति । सुरनदीकूले जटावल्कलसंभारेराघृतः ॥२३३ आनीतं विजयया माधव तब कीर्तिमौक्तिकमनघम् । धृत्वा एककणे प्रविष्टा पार्वती हरार्द्धाङ्ग ॥२३४ सूर्यश्चन्द्र इन्द्रस्तुलासु माधवनृपेण संतुलिताः । असि भुगि गुरुक इति त्वं लघवोऽन्ये दिवं याताः ॥२३० माधवनृपकीर्तयः फुल्लबिचकिलमालतीवनानि । सकलकणिमधुकराणां सानन्दविनोदकारणानि ध्रुवम् ॥२२७ एवमिव सर्वभावेन श्रीमतो माधवेन्द्रस्य कीर्तिज्योत्स्ना प्रसारिता कलानिधिमहा- भागेन । नानालन्दासि, नानालकारा. कामधेनु-छत्र-चामरायो नानाचित्रबन्धाश्च परि- श्रमपूर्वकं निगुम्फिताः कवयित्रा । माघवेन्द्रदेवोऽपि न केवलं कविश्रेष्ठमिव, अपि तु पूज्यं पितामहमिव प्रेक्षते स्म कलानिधिमहोदयसिमम् । किन्तु स्वल्पायामप्युपेक्षायामुपाल. धुमपि नायं विस्मरति स्म, यत्-"अहं भारतमात्रे माननीयन तव पित्रा सर्वदा सर्व- भावेन संमानितोऽस्मि । अहमपि च तव यशोविस्तारणे न स्वल्पमपि प्रमाद्यामि ततश्च न त्वयाऽयं जनो जातुचिदपि विस्मरणीय" | यथा- "श्रीमद्राजाधिराजप्रविदितजयसिहाख्यभूपालवयः प्रत्यग्रोदग्रदानप्रकरकलनया पालितो लालितोऽस्मि । सोहं श्रीमाधवच्माधव जयसिंहाख्यभृपालमनो ! विस्मतु नाहसि त्वं त्वदुदयविजयाशीर्यशोगानशाली ॥१०६॥ नानानरेन्द्राणां मंमानमनुभूतवान्, नानादेशेषु नानाप्रकृतिकैनैः सह सव्यव- हारमासादितवान, कलानिधिमहोदय. प्राचीनार्योचितचा चर्यया बभूव किल भूयो विनीत ।] भूमिका एव । किन्तु सर्वशास्त्रनिष्णाते, प्रकृत्या निःस्पृहे चाप्यस्मिन् समये 'समये जागति स्म सुप्रश- स्योऽयमात्माभिमानो येनाऽस्मिन् देशे समुपागतः सोयं स्वस्याऽसाधारणबुद्धिमत्तां जातीय गौरवं च जातु प्रकाशयामासैव, यथा- "भृशं खलु दरिद्रतोऽप्यतिशयेन संतोषिणः स्फुरद्विपुलबुद्धयोऽप्यभिधनि प्रसङ्गोदिताः । कदाचिदसुहानितोऽप्यतिभया यशःकामुका वयं हृदि त उज्ज्वला दधति येन्तरादित्यकम् ॥88" 'येन्तरादित्यक्' प्रत्ययं दधति [ 'दक्षिणापश्चात्पुरसस्त्यक्' इति पाणिनीयसूत्रम् ] तथा च दाक्षिणात्या वयमित्यर्थः । एव शृङ्गारविपयिण्योऽपि वहुतरा. सूक्तयः समुपलम्येरन्, यासु ग्रन्थका नवीना कल्पना, सिकानामनुभवसाक्षिण्यः कतिचित्प्रणयघटनाश्च समुपनिबद्धाः । यथा वयःसन्धेः प्रथमं पद्यम् । मिथः प्रणयघटनापराणि पद्यानि यथा--"तोयप्रक्षेपलीलामित्यादिकानि ३०४, ३०५ इत्यादीनि । प्रसङ्गागता अन्योक्तयोऽपि रुचिराः प्रेक्ष्येरन् काव्यप्रणयिभिः । यथा-३५६, ३५८, 'मधुप विपिने' इत्यादि ३३१ सत्सङ्गादिभिरनेकैः प्रवलोपायैरपि निसर्गजो दुर्गुणो न किल दूरीभवति दुष्ट-दुई दामिति मधुरतरमाह मुक्तावली यथा- "पाटीरदु मसङ्गिनः सुरभितासंपद्धृता मारुताः सौरभ्यरिह बर्बु रे परमपाकुर्वन्तु दुर्गन्धताम् । किन्त्वेतस्य मदोत्पतन्मधुकरीपक्षच्छिदः संतपत्- सूचीतीच्णकठोरकण्टकगणाः केनापनेया भुवि ॥३६०" - कि वहुना निवेदनेन । साहित्यसारसग्राहिणः सहृदया मुक्तावलीमिमामवलो- कयेरन्नेव निर्भरम् । अत्र हि पदे पदे प्राप्यमाणाः कामधेनु-पुष्पबन्धादयश्चित्रबन्धा न किलोद्धारचित्रादिप्रदानद्वारा सरलीकर्तुमशक्यन्त । प्राचीनपत्रेषु तदुद्धाराभावात्, सरभसं मुद्रयमाणतया तत्प्रयत्नार्थ समयाऽलाभाच । किन्तु प्राचीनतमस्य कवेर्माऽस्तु सूक्तीनामकाण्ड एव विलोप इति बुद्ध्या यथाविलब्धा एव तदेते 'वन्ध' प्रवन्धाः पुस्तकेस्मिन् प्रकाश्यन्ते । स्वल्पाकारेपु पत्रेषु शीघ्रतया तावदसितानि तानीमानि पद्यानि । लेखकोऽपि-काम भाषा- काव्यवेदी भवेत् किन्तु संस्कृतविषये न तावन्मार्मिकः । अतएव बहुषु स्थलेषु अक्षरविनिर्णये समुपस्थितो भूद् भूयान् सदेह एव । किन्तु द्वितीयप्रतिरूपकाभावदशाया, कस्यचित्कवेरा- ? भूमिका कस्मिक प्रतिभाविजृम्भित कया वा विधया सशोध्यतां माहशेन मन्दप्रतिभेन ? तद् याहक्का- दगिदं साहित्यसघटन समुपस्थापित सरससूक्तिसुधासग्राहिणां महृदयानां सेवायामिति कृतं बहुना प्रजल्पनेन। 'गुणगुस्फनिका'युक्ता मुक्तावलिरियं विदाम् । साहित्योल्लाससदये हृदये राजतां चिरम् ॥१॥" एवं विवेकिविद्वत्सु विनयाद् विनिवेद्यते । देवप्यु 'पाह भट्टश्रीमथुरानाथशास्त्रिणा ॥२॥ 1 मजु-निकुञ्जः जयपुरम्। ११।२।५८ T ॥ श्रीः॥ तैलङ्गकुलजलधिकौस्तुभदेवर्षिश्रीकृष्णभट्टकविकलानिधिगुम्फिता पद्यमुक्तावली हारोद्योतिचिरत्नरत्नकिरणोच्छूनेव वक्षःस्थली चश्चच्चञ्चुचकोरशावकचमत्कारस्पृशी चक्षुपी। अन्तर्हासविलासलालसकलालोलौ कपोलौ च ते मध्यं चारुचतुष्पथस्थितमिव द्रव्यं शनैर्लीयते ॥१॥ रत्नहारे उत् उच्चैःद्योतीनि (प्रकाशमानानि ) यानि चिरत्नानि (प्राचीनानि 'बहुमूल्यानि' ) रत्नानि, तेषां किरणे: उच्छूना मांसला-प्रफुल्ला इव सेयं वक्षःस्थली (अस्ति ) । वक्षस्थल्यां यौवनोदगमेनैव न केवलं मासलता अपि तु हाररत्नकिरणाना- मेकत्र समागमात्सेयं प्रफुल्लतेति श्रालंकारिकी उक्ति. । चञ्चञ्चक्षुः ( चपलनेत्रः ) यः चकोरशिशुः, तस्य चमत्कारधारिणी ते नेत्रे । नेत्रयोरपि क्रमिकी शोभाविवृद्धिरित्याशयः । अन्तः अभ्यन्तरे (गुप्तम् , मन्दमित्याशयः.) हासः ययोस्तौ, विलासलालसौ ( क्रीडाया- मुत्कण्ठितौ ), अतएव कलालोलौ यौवनानुगुणचातुर्यसूचकौ च . ते कपोलो स्तः । अर्थात् प्रसन्नतया हास्यमन्तर्गोपायन्तौ, अतएव मांसलो ते कपोलौ अषि उपचितौ स्तः । किन्तु नगरचतुष्पथे स्थितं किञ्चिद् द्रव्यं शनैः शनैर्यथा हीयते न्यूनं भवति ( जनैरप- ह्रियते ) तथा ते मध्यं ( कटि: ) क्षीयते । सर्वशरीरे उपचयः किन्तु कटिदेशे तनुता ते भवतीति अज्ञातयौवनाया वयःसन्धिः ॥१॥ । ។ १ अन्तःसारनिरूपणोत्सुकमनाः पाणिद्वयेन स्पृश- त्येकान्ते कुतुकेन संकलयते दोभ्यां पिधचे पुनः । वारंवारमुदारहारमहसामालोकनस्य च्छला- दुद्गच्छस्मितचारुचन्द्रवदना वक्षःस्थलं वीक्षते ॥२॥ 'उच्छूनयोरनयोर्मध्ये किञ्चिद् दृढताकारणम्- (अस्थ्यादिकम् ) अस्ति न वा' इति निश्चयाय उत्कण्ठिता हस्ताभ्यां स्पृशति । एकान्तं वीक्ष्य नवोद्भिन्नत्वादन्त. स्फुरन्तौ २] श्रीकृष्णभट्टविरचिता कुचौ निजवाहुभ्यां संकलयते निष्पीडयति, पुनः शीघ्रम् श्राच्छादयति । हारस्य महसां प्रकाशकिरणानां दर्शनमिषेण, उद्गच्छता ( तत्काल नि.सरता) मन्दहास्येन सुन्दरं चन्द्रवद् वदनं यस्या ईदृशी (सा वाला ) वक्षःस्थलं मुहुर्वीक्षते, । यथा विहारी -"भावक उभरोहो भयो कछुक पर्यो भरुश्राय । सीपहरा के मिस हियौ निसदिन निरखत जाय ||" ||२|| राधे ! हन्त वसन्त एप समयो मा देहि मानं मना- गेतं चेतसि पश्य पश्य चरणद्वन्द्वानतं माधवम् । द्रागुत्थापय कान्तमान्तरममुतापं समुत्सारय प्रेमस्रोतसि मज्ज हेममणिना नीलीच संगच्छताम् ॥३॥ एतं मानम् ( अभिमानम् ) चित्ते ईषदपि मा . स्थापय । चरणयुगपतितं श्रीकृष्णं पश्य । कान्तं सान्त्वनापुरस्सरम् द्राक् शीघ्रम् उत्थापय । अस्य कान्तस्य, नव वा आन्तरं हृदयस्थितं तापं (विरहजन्यं संताप) दूरीकुरु । प्रेमप्रवाहे निमज्ज । कथं प्रणयाऽऽ- प्लुतता दर्शयेयमित्याह.-"सुवर्णेन यथा नीली ( इन्द्रनीलमणि. ) तथा स्वर्णवर्णया त्वया श्यामवर्णो माधव. संमिलतु ।” मानं विसृज्य शीबूं माधवमालिङ्गेत्याशयः ॥३॥ स किं मित्रं योऽस्मिन् जगति कुरुते शर्म सुहृदः परिज्ञाप्य प्राज्ञः, सुहृदपि स कि यो निजरुजम् । न मित्राय प्रज्ञापयति सुतरां देवशरणः तयोरेतसचं किमपि खलु तावेच भजतः ॥४॥ सः किं मित्रं यः प्राज्ञः परिज्ञाप्य मुहु संसूच्य सुहृद. (मित्रस्य ) शर्म सुखं कुरुते । मित्रोपरि कृतम् उपकारभारं मुहु. संज्ञाप्य मित्रस्य हितकरणं मित्रस्य शोभावहं नास्तीति तात्पर्यम् । सः सुहृदपि कीदृक् य. निजरुजं निजां पीडां मित्राय न प्रज्ञापयति सूचयति । अपितु दैवं शरणं करोति । एवंविधयो. द्वयोर्मित्रयोः किमपि (अनिर्वचनीयम् ) एतत् रहस्यं तौ एव सुहृदो एव भजत स्वहृदये जॉनीतः ॥४॥ भालोद्भासितभूरिभाग्यमवनो भूयःप्रभावान् भवान् भावैर्भावयते भवेऽत्र भविक भावे यशोलोभवान् । माग्वाकवराकवाकजवराकच्छिद्वराकल्पका सत्यं नाम सुधाकरोऽस्ति वसुधासंपत्सुधावर्षणः ॥५॥ , 1 १ पद्यमुक्तावली [३ भाले ललाटे प्रकाशितं बहुतरं भाग्यस्य शुभादृष्टस्य भवनं (सत्ता) यस्य सः। भूयः( अतिशयित )प्रभा( कान्ति )वान् भवान् अत्र भवे ( संसारे ) भावैः सर्व- प्रकारैः भविक कल्याणं भावयते विचारयति । कथमेतत् ? यतः भावे प्रत्येकभावे भवान यशसो लोभवान् । भवान “प्रत्येकभावेन मह्यं यश एव प्राप्नुयात्" इति कीर्तिलोभवान अस्ति । अन्यत् अस्पष्टम् ॥ ५ ॥ वराकस्य वराकस्य वरा कस्य कवेः कृतिः । श्रीकृष्णाख्यवराकस्य वरा कस्य न रोचते ॥६॥ [ उत्पत्ति-ज्ञप्ति-पुष्टि-विषये पद्यमिदम्-] वार्तालापे दर्शने स्पर्शने च दृष्ट्वा सद्यस्तत्क्षणे प्रोल्लसन्तीम् । प्रीति सीतारामयोः स्थानतोऽस्मात् सौमित्रेयः कैतवेनाऽपयातः ॥७॥ स्पर्शने नवीनपुष्प-फलादिप्रदानमिषेण अङ्गस्पर्श । सीता-रामयोः प्रोज्ज- म्भमाणां प्रीतिं दृष्ट्वा ( ज्ञात्वा ) अस्मात् स्थानात् कश्चिन् मिषमादाय लक्ष्मण: अपगतः [उत्पत्ति ज्ञप्ति-पुष्टि-विषये पयमिदम्' इति मूलपुस्तकस्य टिप्पणी] ॥ ६ ॥ वाल्यादेवाऽनुपाल्या समधिकरतितः सैव राधाऽस्मि, सोयं कृष्णः केलीसतृष्णः, सुरभिसमयजा सैव सामग्रथभीक्ष्णम् । कि त्वन्योन्यात्तहर्षाधिकसमुदयिनी कापि तर्षाप्रकर्षात् कालिन्दीकूलकुञ्ज प्रतिपदविहतिमानसान्नाऽपयाति ॥८॥ [अस्फुटालकार-रस-प्राधान्योदाहृतिः ] बाल्यकालादेव अनुपाल्या रक्षणीयाऽनुरोधा । सुरभिवसन्तसमयोद्भवा नित्यम् उपलभ्यमाना .लता-कुञ्जादिका सैव उद्दीपनसामग्री । अन्योन्यम् आत्तः स्वीकृतः यो हर्ष. तेन अधिकं यथा तथा उदयमागता । उभयोहर्षपूर्वकं प्रवृद्धा, इत्याशयः । तर्षस्य तृष्णायाः ( उत्कण्ठायाः) अप्रकर्षात् अदूर(सर्वदावर्तमान)तया, अथवा आ-समन्तात् प्रकर्षात् आधिक्यात् । कालिन्दीतटकुञ्ज प्रतिपदं यो विहारः स मानसान दूरे-भवति, स कुञ्जविहारो न विस्मृतो , भवतीत्यर्थः । उपभुक्तत्वरूपकारणसत्तायामपि अनुत्कपठा- रूपकार्यस्यानुदयाद् विशेपोक्तिः । अथवा- अनुपभुक्तत्वरूपकारणस्याऽभावेपि उत्कयठा- रूपकार्यस्योत्पत्तिरिति बिना कारणं कार्योत्पत्तिरूपविभावनालङ्कारस्य सत्तेति अस्फुटा- " L .

- ४] श्रीकृष्णभट्टविरचिता लङ्कारः । उत्कगठादिभिर्व्यभिचारिभिः परिपुष्टाया दम्पत्योः रतेः परिव्यञ्जनेति शृङ्गाररस एवात्र प्रधानम् । य. कौमार, इति काव्यप्रकाशीयोदाहरणवत् ] ॥ ८॥ महत्यां लीलायां सरसरतिशीला व्रजवध- जनाः स्त्रं स्वं गेहं समुपगतवन्तः किल ततः । रहःकुञ्ज गुञ्जन्मधुपपिकपुञ्जरितरवे स्थितौ राधाकृष्णौ समुपचिततृष्णौ विलसतः ।।६।। लीलाया समाप्तायां क्रीडाशीला: ब्रजवधूलोकाः स्वस्वगृहं गताः । अथवा लीलाया महत्वात् अतिविस्तारात् गोपीजना. सर्ने स्वगृहं गताः । इदानीम् एकान्तकुञ्ज गुजद्भि. मधुपै पिकपुजैश्च ईरितरवे उद्भावितकोलाहले [ पक्षिणां निःशङ्ककोलाहलात् स्थानस्य विविक्तत्वं ध्वन्यते । उदीपकेऽस्मिन् कुञ्ज वहो: कालात् प्रवृद्धतृष्णौ (प्रवलोत्कण्ठौं) राधाकृष्णौ विहारं कुरुत ॥६॥ . चक्षुचारुचकोरचाटवचमत्कारावहाँ चन्द्रिका चैवोदश्चितचन्द्ररोचिरुचिता पीयूपधाराधरा (री)। चित्तं चन्दनलेपमोदनकरी मानोरथीः संपदोऽ- तिक्रान्ता प्रतिभाति कापि सखि मे कान्ता पुरोगोचरः ॥१०॥ चनु. ( नेत्र ) रूपचकोराणां चञ्चलताया चमत्कारस्य च कारिणी। उदश्चितस्य चन्द्ररोचिप ( प्रकाशस्य ) उचिता। उज्जम्भमाणचन्द्रप्रकाशे समुचिता । अतएव पीयूष- धारायाः धारिणी चन्द्रिका [ सर्वतो व्याप्तास्तीति उद्दीपनसामग्री सूच्यते ] | मानोरथी: ( मनोमिलापत. कल्पिताः ) संपदः नाना आनन्दान् अतिक्रान्ता । यथेच्छं मनसा अभ्यू- हितान् आनन्दानपि अतीता । अतएव स्मरणे कृते एव चित्ते चन्दनलेपवत् आनन्दनकरी कापि ( अनिर्वचनीया ) कान्ता प्रेयसी मे पुरो गोचर इव भाति । कान्ता पुरोगोचरः, इति गोचरशब्दस्य नित्यपुंस्त्वात् अन्वयः । गोचरा इति पाठे तु यथा तथा ॥ १० ॥ अद्याऽहं चपलाऽऽयतेक्षणपतत्पीयूपधारामुर्चा. देवादेव वियोगमेनमगर्म सौन्दर्यसारश्रिया। प्राप्तोऽद्य च पुष्परेणुनिकरैराशाः समाच्छादयन् श्रीखण्डानिलमत्तवारणवलैः कन्दर्पभूमीपतिः ॥११॥ in पद्यमुक्तावली [५ देवात् 'अद्य, चपलाभ्याम् आयताभ्याम् (दीर्घाभ्याम् ) च नेत्राभ्यां पतन्ती प्रवहन्ती या अमृतधारा तस्याः प्रवाहिण्याः [अमृताप्लावकनेत्रराजितया इत्याशयः ] सौन्दर्यसारस्य लक्ष्म्या ( प्रेयस्या नायिकया ) अद्य वियोगं प्राप्नुवम् । अद्यैव च पुष्पपगगपुजैः सर्वाः आशा. ( दिशः ) व्याप्नुवन् , श्रीखण्डस्य ( चन्दनस्य ) तत्सुगन्धवाहिन इत्यर्थः ।, ये अनिलाः पवनाः ते एव मत्तवारणानां बलानि ( सैन्यानि ) नैः सह कन्दर्परूपो भूपः समायातः । अद्यैव मे प्रयस्या विरहः, अद्यैव च मलयानिलाद्यु- दीपकसामग्रीसहितः कामदेवभूपः समागत इत्याशयः ॥११॥ सुधाकर ! मुंधा करप्रकरमत्र भूमण्डले प्रसारयसि, विष्टपं प्रमुदितं किमेतावता ?। अयं तु विहगो रटन् सरिदवारगः पारग- प्रियाविरहजव्यथाविधुरचित्त उत्ताम्यति ॥ १२ ॥ हे सुधाकर ! अत्र ( अस्मिन् ) भूमण्डले निजं' करप्रकरम् (किरणसमूहम् ) व्यर्थ प्रसारयसि, एतावता किरणजालप्रसारणेन किं सकलं विष्टपं भुवनं प्रमुदितम् ? अपितु न प्रमुदितम् । यतो हि सरितः ( नद्याः ) अवारगः एतत्तीरगतः अतएव वैकल्येन रटन् विहगः चक्रवाकः ( चातको वा) नद्याः पारंगतायाः प्रियाया विरहजनितया व्यथया विकलचित्तः सन् उत्ताम्यति खिंद्यते । गर्वेण सर्वान् प्रति अवहेलां दर्शयन्तं धनिक राजादिकं प्रति खिन्नस्य तदनुजीविनोऽन्योक्तिः । चन्द्रं प्रति वियोगिन उपालम्भस्तु वाच्य एव ॥१२॥ ननु व्यरचि सा वधूरिह सुमेधसा वेधसा वशीकरणवस्तुभिस्तुहिनदीधितिक्षालितः । विलोचनसुखावहाऽवयवशालिनी यन्मनो जहार, हृदि संगता सकलमङ्गतापं च मे ॥ १३ ।। बुद्धिशालिना विधिना वशीकरणस्य . वस्तुभिः चम्पककमल-कनकादिभिः । वस्तुभिः व्यरचि निर्मिता । तान्यपि वस्तूनि चन्द्रेण क्षालितानि नितान्तं सुन्दराणि आकर्षकोज्ज्वलानि सन्ति । यतो हि नेत्रसुखकारकैः अवयवैः शोभमाना सा नेत्राभ्यां दृष्टमात्रैव मनो जहार । मे हृदि पाश्लिष्टा च सकलम् अङ्गानां संतापं च जहार । पूर्वं तु विधातैव बुद्धिमान्,' ततो निर्माणसाधनान्यपि वशीकारकाणि चन्द्रोज्ज्वलानि 2 1 - ।

६] श्रीकृष्णभट्टविरचिता चोपात्तानि । उत्प्रेक्षालङ्कारेण नायिकायाः सौन्दर्यातिशयः, ततोपि शृङ्गारश्चरमो व्यङ्गय. ॥१३॥ समुदित-मुदितश्रीवैष्णवाऽऽलोकलीला- ऽऽलपन-तपनकन्यास्नाननिःपापतापैः । प्रकृतिसुकृतिशीलैर्मानवैः सेव्यमाना मथयति मथुरेयं मान्मथं हृद्विकारम् ॥ १४ ॥ समुदिता. मन्दिरादिषु एकत्रभूता., प्रसन्नाश्च ये श्रीवैष्णवा. तेषाम् दर्शनम्, लीला ( प्रमोद. ), तै. सह आलपनं ( आभाषणम् ) एभि., तथा तपन( सूर्य )कन्याया. ( यमुनायाः ) स्नानेन च दूरीभूता. पापानि तापाश्च येषां तादृशैः । प्रकृत्या स्वभावेनैव पुण्यकार्यशीलैः मानवै. । मथुरा कामदेवसंवन्धि-हृदयविकारं नाशयति ॥१४॥ 1 उपनतजनतादृङमाधुरीमाधुरीणां सुरभयति सुवृन्दारण्यगा माधुरी याम् । प्रतिपदमथ यस्या माधुरी शस्यकीर्ति- हरिजनमिलनानि प्रातु सा माधुरी भूः ॥ १५ ॥ ॐ 'प्रतिपदसुखदा सा' व्याख्या-उपनता प्राप्ता जनानाम् (स्वमध्ये निवासिनां लोकानाम्) तादृशी माधुरीमा (माधुर्यलक्ष्मी. ) तादृशमाधुर्यसंपत्त्या धुरीणां सर्वपुरीणामग्रभागे स्थिता याम् -( माथुर- भूमिम् ) वृन्दावनगता माधुरी ( मधुरता, शोभा ) सुरभयति मनोज्ञां करोति [ सुरभि, स्यान्मनोज्ञेपीति विश्वः ] । प्रतिपदं यस्याः माथुरभूम्या. माधुरी ( मधुरता ), सर्वत प्रशंसनीयकीर्तिरस्ति, सा माधुरी 'माथुरी (मथुरासंबन्धिनी) 'भू हरिभक्तै, मिलनानि प्रातु पूरयतु ['प्रा' पूरणेऽदादि. ] । 'उपवनपवनौघा )० इत्यादि पाठान्तर तु स्पटमेव ॥१५॥ का मधुरा वत नगरी कामधुराधरणधीरधौरेयी । गलितकलंकामधुरा कामधुराशां जनायतो न फलवतीं ॥१६॥ ® उपवनपवनौधानीतसौरभ्यभारै- हरिवसतिकरी सा माधुरी नायतां भूः ॥ [ पाठान्तरम् ] - - f ‘पद्यमुक्तावली [७ सुप्रासस्था सदैव त्वमुदयविधिजे शुद्धभावाऽवदाता सुस्थानस्थामदा त्रिप्रसरण सरसा मारसारावरावा । विख्यातज्ञानगम्य प्रकरणरुचिरा भासिता भासिताभा सुप्रत्यक्षा भवास्य स्वरसति सदा भावभावानुभावा ॥१७॥' कामधेनुबन्धः] सिन्दुराऽरुणरागराजितघनश्रेणीमनोहारिणि श्रीमन्मन्मथभूमिपालशिविरस्तोमानुकारक्षमे । पश्य व्योम्नि विभान्ति संप्रति तिरोभूते प्रतीच्या दिशो भानौ व्यायतवल्गुभूरितनिकातौल्येन सान्ध्यांऽशवः ॥१८॥ सिन्दूरवत् अरुणवर्णेन राजितया धनीण्या ( मेघपक्त्या) मनोहरे । मन्मथरूपभूपस्य शिविरसमूहानुकरणयोग्ये [अर्थात् व्योम नास्ति कामदेव-भूपालस्य शिविरम् अस्ति ] ईदृशे व्योम्नि (आकाशे ) प्रतीच्याः पश्चिमायाः दिशः सकाशात् ( पञ्चमी ), भानौ तिरोभूते सति सान्ध्याः सन्ध्याकालिका अरुणवर्णाः सूर्यस्य अंशवः किरणाः, व्यायताः अतिदीर्घाः, वल्गवः मनोहराः भूरयः ( बहवः ) याः तनिकाः ( बन्धनरज्जव: 'तनी' इति हिन्दी ) तासां तौल्येन सदृशतया भान्ति । भानौ अस्तं गते, अरुणवर्णाः दीर्घाः सूर्यकिरणा. अरुणवर्णस्य व्योमरूपकामशिविरसमूहस्य (सैन्यसंनिवेश- पटमण्डपस्य) 'तनिकाः' बन्धनरज्जवः इव भान्ति, इत्याशयः ॥१८॥ श्रीमन्माधवसिंह ! भूमिवलयप्रोक्ष( यत् )प्रदीप त्वया जम्बूद्वीपमुदञ्चितेन महसा दाङ निस्तमस्कं कृतम् । किञ्चाऽमित्रपतङ्गकाः प्रतिपदं दग्धाः, विदग्धाऽवली- नानार्थप्रतिपत्तिसाधन चिरं जीव द्विजाशीगणैः ॥१६॥ भूमिवलये प्रोद्यता (उद्गतेन) प्रदीपेन सदृश हे माधवसिंह भूप ! त्वया उदञ्चितेन उच्चैःप्रसृतेन महसा निजतेजसा इदं जम्बूद्वीपं तमःशून्यं कृतम् । प्रतिपदम् अमित्र(शत्रु)रूपाः पतङ्गकाः (शलभाः) दग्धाः। अतएव विदग्धावल्याः चतुरजनसमूहस्य नानाप्रयोजनप्राप्तिसाधनभूत हे राजन् त्वं द्विजानामाशीःसमूहैः चिरं जीव ॥१६॥ -- अन्येषां चन्दनत्वं कलयति मलयः प्रोन्मिलचन्दनद्रोः सङ्गादगाऽऽतिभङ्गाय च भवति मरुन्मार्जनात्स्वेदवारः ।

१०]
श्रीकृष्णभट्टविरचिता
सा देवी गङ्गा मम दुरितभङ्गाय भवतु यस्या गङ्गाया द्रवः (जलप्रवाहरूपः)
देवः सुधामिलितः निजैरङ्गैः सम्पूर्णजनानां सर्वविधसंतापप्रसरणं तृणीकुर्वन् (तृणवत् अप-
नयन् नाशयन् ), तथा नाना प्राननानां मुखानां नयनानां च निर्माणे निपुणः । अर्थात्
एकमुखस्य स्थाने चतुणी परणा वा मुखानाम्-तथा द्वयोनयनयोः परिवर्तो त्रयाणाम, अष्टानां
सहस्राणां वा नयनानां निर्माणे निपुणः [ ब्रह्माण, स्कन्दं, शिवं, ब्रह्माणं इन्द्रादिकं वा जनं
सपादयतीत्याशयः ] । यस्या ध्यानयोजनात् कलिकालसंबन्धिना विपेण जनितां मूच्छा
दूरीकुर्वन् ( द्रवः ) ॥२२॥
भुजङ्गव्यासङ्गाजनितमुदधेरेतदमरै-
नयेदन्तं जन्तूनिति धृतविपः कुत्र गिरिशः ।
न चेन्मातर्भूयाः प्रविबलदस्या स्मररिपोः
शिरोमालाहालाहलहरणसत्कार्मणकरी ।। २३ ।।
भुजङ्गस्य आकर्षणरज्जूकृतस्य वासुकेः सङ्गात् अमरै. जलधेः समुद्रसकाशात्
जनितम् एतद् ( विपम् ) जन्तून् प्राणिनः अन्तंनयेत्.समापयेत् इति रक्षावुद्धया गिरिशः
कण्ठे धृतगरल अभूत् स विपधारणकरः शंकरः कुत्र तिष्ठेत् - यदि - हे मातर्ग) स्वं
स्मररिपोः ( शिवस्य ) विपस्य हरणे सत् कार्मणम् अभिचारकृत्या( जादू रूपं कर्म
करोति तादृशी शिरसि धृता मालास्वरूपा, पार्वत्याः- असूयामपि प्रविषह्य त्वं यदि
शिगेमाला न भूयास्तर्हि गिरिशः कुत्र ( कुत्र तिष्ठेत् )। विषहस्णे कार्मणकारिणी
शिगेमण्डनमाला भूत्वा त्वयैव गिरिशो रक्षित इत्यर्थः । भूयाः इत्याशिष्यम् ।
अतएव लिड् न ॥२३॥ -
द्रुतः किं कैलासः स्मरहरतपस्तापिततनु-
मुनेहोः किं वा जलधिजठराऽऽलम्बि सुयशः ।
सुधाधारां किं वा किरति वलिसमन्यमरराइ
दधाना नानात्वं जयति सितमूर्तिः सुरधुनी ॥ २४ ॥
जाह्रव्याः श्वेतां धारां नानाधा सन्देन्धि उत्प्रेक्षते-स्मरहरस्य तप-ऊष्मणा तापित-
मूर्तिः किं कैलासपर्वत. द्रुतः द्रवरूपं प्राप्त ?अथवा समुद्रमध्यपर्यन्तगामि जडुमुनेः एतत्सुयशः
अस्ति [ गगा हि समुद्रं प्रविशति ] अथवा अमरराट् 'इन्द्र. ब्रह्मा वा वलिसद्मनि
( पाताले ) सुधाया धारां किरति ? इति नानात्वं दधाना श्वेतमूर्ति सुरनंदी जयति ॥२४॥

पद्यमुक्तावली [११ समाना नानानां दुरधिगमनानाऽऽगमविदां ददाना नानायैर्नवनिधिविलासैरतिमुदम् । पुनाना पापानप्यवकलिततापानुरुगदै- जनानामार्तानामिह जयति गङ्गव शरणम् ॥ २५ ॥ दुरधिगमान् दुर्बोधान् नाना आगमान् ( शास्त्राणि ) विदन्ति तादृशानां समाना । नाना आयः धनागमो येषां द्वारा तादृशै. नवसंख्याकनिधीनां विलासैः अतिप्रमोदं ददती। अवकलित( अनुभूत )तापान् पापान् ( पापकारिण: ) अपि जनान् पुनाना पवित्रयन्ती । उनादैः महद्भिः रोगैः प्रार्तानां जनानां कृते इह गङ्गैव शरणं रक्षास्थानम् ॥२५॥ धृतस्रोतःस्वाना शशिकरसमानाच्छलहरी- परीता निीता निगमपथगीताऽमितगुणा । सुधासारोत्सङ्गा त्रिपुरहरसङ्गातिसुखदा गुणोत्तुङ्गा गङ्गा सुखयतु मदङ्गानि नितराम् ।। २६ ।। सततम् धृतः स्रोतसां जलप्रवाहाणां स्वानः रवः यया सा । चन्द्रकिरणसमानाभि. स्वच्छश्वेताभिः लहरीभिः परीता व्याप्ता । वेदमार्गगीता. अमिताः अपरिमिताः गुणा यस्या इति निीता सर्वैर्निश्चिता । सुधायाः सारः दृढभागः - उत्सङ्गे ( मध्ये ) यस्याः सुधातोऽपि श्रेष्ठगुणा । शिवस्य सङ्गेन अतिसुखदा, गुणैः सर्वतः श्रेष्ठा ॥२६॥ सरिज्ज्येष्ठा व्यालव्यतिकरवती भूरिवदनै- स्त्रिलोया दीव्यन्ती परिकलितताराधिपकला । त्रयस्त्रिंशत्कोटित्रिदशवरवन्याऽऽदरभरा- दनङ्गारेरगद्य तिरिव मदङ्गानि सुखयेत् ॥ २७ ।। सरित्सु प्रभावातिशयात् ओष्ठा गङ्गा । व्यालानां सर्पाणां व्यतिकरण ( संबन्धेन) युक्ता [ शिवागकान्तौ गङ्गायां च समानम् ] भूरिमुखैः दीव्यन्ती शोभमाना [ उभयत्र समम् ] धृतचन्द्रकला । आदरातिशयात् सवैर्देवैर्वन्द्या ॥२७॥ शृङ्गाभ्यामुल्लसद्भ्याममरधुनिः तटे तावके वप्रपातं कुर्वन्नन्दी प्रचण्डं स्वपुरत उरगं दष्टुमुद्यन्तमेकम् ।

11 , - %] श्रीकृष्णभट्टविरचिता माहात्म्यं मोदराशिः कलिकलुपसमाक्षालनं चापि साक्षाद् युष्मत्संवन्धतो मे धरणिसुरतरो ! भाति किं तत्र चित्रम् ॥२०॥ मलय. मलयपर्वत प्रोन्मिलतः चन्दनद्रोः चन्दनवृक्षस्य सङ्गात् अन्येपामपि वृक्षाणां चन्दनत्वं करोति । तथा मलयस्य मरुत् पवनः स्वेदवारः ( स्वेदजलस्य ) मार्ज- नात् अङ्गानाम् आतिभङ्गाय पीडानाशनाय प्रभवति । किन्तु हे धरणे ( पृथिव्याः ) सुर- तरो कल्पवृक्ष । युष्मत्सम्बन्धमात्रादेव मम सर्वत्र माहात्म्यम् ( प्रभावविशेपः ), मोद- राशिः आनन्दसमूहः, कलिजनितपातकप्रक्षालनं च चेद्भाति तत्र किमाश्चर्यम् । मलयश्च- न्दनसपर्कादन्यमपि चन्दन करोति, भवतः साक्षात् सम्बन्धान मम तु माहात्म्यादि चेद्भवति तत्र किमाश्चर्यमित्याशयः । पूज्यतमं गोस्वामि-धर्माचार्य प्रति प्ररोचना ॥२०॥ पश्चाल्लग्नपरागपुञ्जमलिनैः पुष्पावचायक्षणे वक्षोलम्बितचूर्णकुन्तलवलन्मायूरपक्षप्रभैः । खेदस्वेदविमेदवद्ध्वसनप्रव्यक्तमुक्तागुणै- रङ्गरैव बनान्तरा विहरणं व्यक्तीकृतं वाग्मिनः ॥ २१ ॥ [अत्र वाग्ग्मिपदेन प्राधान्येन न त्वं वनान्तरा विजहार ( जहर्थ ), अपितु सोल्लासवसन्तागमोद्दीपितमदन. परविलासवतीभिररसीरिति व्यज्यते । तत्र वाग्रिमपदस्यैव प्राधान्येन व्यञ्जकत्वम् . । इतरेपामगविशेषणानां वनविहारसाधारण्येऽपि ततो व्यावर्त्य तस्यैव कविसंरम्भगोचरत्वेन विवतितसुरतरूपार्थोपपादकत्वात् । तथाहि-वाग्मित्वं नाम वाचोयुक्तिपटुत्वम् । 'वाचोयुक्तिपटुर्वाग्ग्मीति' कोपात् । तत्र द्वेधापि संभवति । सत्यार्थवाचो- योजनपटुतया, असत्यार्थवाचोयोजनपटुतया च । तत्र प्रकृतेऽन्यत्र सुरतं कृत्वा समागतो नायक स्वयं मृषा संकेतोपास्किया कृतोत्कलिकया 'नितरां ' कामशरनिपीडितया कयापि नायिकया लक्षित. सोपालम्भमुक्तोऽपि यदा सुरतं नाङ्गीकरोति 'वनविहारार्थमेव गतोस्मि' इति वदति, तदा सा साकूत सखीमवादीत् 'असत्यमयं वदति, परं वाचोयुक्तिपटुतया 'मिथ्या वड़सीति' केन वक्तु शक्य. ? यस्याऽङ्गान्येव तद्विशेपणाविष्टानि वनविहारं प्रकटी- कुर्वन्ति । तथा सति सत्यार्थवाचोयोजनपटुत्वमेव स्यात् । तत्तु न सम्भवति । यतो वन- विहारे पश्चादगप्रदेशे परागसम्बन्धाऽसम्भवात् । यथा कथंचित् संभवेऽपि तैरङ्गमालिन्या- ऽसंभवात् । तेन 'नेद पश्चादगप्रदेशे परागकृतं धूसरत्वम् , किन्तु सुरत कृत्वाऽप्यतृप्ते- नामुना विपरीतमाचरितमिति भूरज सम्बन्धेन धूसरत्वमिति व्यज्यते। किञ्च - वनविहारे अधो विनम्रस्य पुष्पावचायात् चूर्णकुन्तलानां वक्षोलम्बितताऽस्तु, परतु तै. सह TR पद्यमुक्तावली [१ उष्णीषावनद्धानां मयूरपक्षाणां संवलनाऽसंभवात् इदमस्तव्यस्ततया मस्तकन्यस्त- स्रस्तचूर्णकुन्तलानां मयूरपक्षाणां च संवलनं च संवलनं कामोन्माद-सजव-सुरतावेशकृतमेवेति व्यज्यते । किञ्च-वनविहारे तस्यैच्छिकतया खेदो न संभवति, यथाकथंचित्संभवेऽपि तज्जन्यस्वेदेनाङ्गसंलग्ने वसने मुक्ताहारस्य प्राकट्यं स्यात् । अत्र तु गुणपदात् त्रुटितो मुक्ताहार इति लक्ष्यते । इदं च सावेगसुरताऽऽवेशकृतपरस्परालिङ्गन-संमर्दन-जन्यमेव मुक्ताहारस्य त्रुटितत्वमिति व्यज्यते । इदं च वाग्मिपदेन सुरते व्यञ्जिते सति सर्वेषां विशेषणानां तदानुकूल्येन सुरतरूपेकार्थव्यञ्जकत्वमिति वाच्यार्थतादशायां वाग्मित्वस्य इतरविशेषणानां च वनविहारपर्यवसायित्वेनैव स्थितिः । व्यङ्गथार्थतादशायां तु वाग्मित्वम् इतरविशेषणानि च सुरतपर्यवसायीनीति वाच्यार्थापेक्षया व्यङ्गधार्थस्य अतिशयचमत्कार- कारित्वमिति ध्वनिलक्षणादिदमुत्तमध्वनिकाव्योदाहरण ज्ञातव्यम् ] ग्रन्थकृतष्ठिप्पणी ॥२१॥ वस्तुना व्यतिरेकालंकारध्वनिः पुष्पावचयनस्य समये अङ्गानां पश्चाभागे लग्गैः पुष्पपरागपुखैः ( करणभूतैः ) मलिनीकृतैः, वनसि विलम्बिताः ये चूर्णकुन्तलाः ( बन्ध- नाद् वहिर्भूताः (अग्रतना लघुकेशाः) तेषु वलतां (संमिलताम्) मायूराणां पक्षाणां प्रभा येषु तादृशैः, तथा खेदजनितप्रस्वेदेन यो हि संमदस्तेन संश्लिष्टे-वसने प्रव्यक्ताः प्रतिच्छन्दिता मुक्तागुणाः येषामीहशैः, वाग्मिनः ( वचनपटोः ) अझैरेव वनमध्ये विहरणं व्यक्तीकृतम् । श्रीकृष्णः संकेतागतां गोपी विहाय अन्यया सह विहारं कृतवान् । संकेतिन्या गोप्या 'कुत्र गतोऽभूः' इति 'पृष्टे तु पुष्पावचयार्थ बनविहाराय गतोऽभूवम इति सांधितवान् । तस्य प्रत्युत्तरे गोप्या प्रोच्यते साकूतम्-'अवश्यं वनान्तरे विहरणं भवदङ्गैरेव सूचितम् । वने विहरणे पुष्पपरागेण अङ्गानामग्रभागे मालिन्यं स्यात् तथा नारीचूर्णकुन्तलैः सह भव- द्धारितमयूरपक्षाणां शोभा, एवम्-प्रस्विन्नेषु अङ्गेपु मुक्तास्रजामपि प्रतिफलनं (गाढाश्लेपेण यथावत्प्रतिफलनम् 'उपड आना' ) दृश्यते । ततश्च एभिरङ्गैरेव वनविहरणं व्यक्तीकृतम् ? अर्थात् वनविहारस्य मिषं कृत्वा सुरतविहाराय भवान् गतः । इति वाक्पटोस्ते अङ्गैरेव सूचितमिदम् । ग्रन्थकारकृतटिप्पण्यामपि सोयमर्थः प्रकटीकृतः । निःशेषच्युतचन्दन- मित्यादिवदत्रापि व्यङ्ग्यसंगृहनमिति मार्मिकेभ्यः किं वा वक्तव्येन ॥२१॥ सुधासोरङ्गरखिलजनसंतापसरणी तृणीकुर्वन्नानानननयननिर्माणनिपुणः । अपि ध्यानाऽऽधानात्कलिगरलमूर्छामपनयन् द्रवो, देवी गङ्गा मम दुरितभङ्गाय भवतु ॥ २२ ।।

१२]
श्रीकृष्णभट्टविरचिता
दृष्ट्वा रुष्टोऽवधीचं स तु विधुततनुः शम्भुरनाय भूत्वाऽऽ-
रूढस्तस्योपरिष्टाददयत परमः स प्रतापस्त्वदीयः ॥ २८ ॥
उल्लसद्भ्यां तीक्ष्णाग्राभ्यां शृङ्गाभ्यां वप्रपातम् भूमेः उत्खातकेलि कुर्वन् नन्दी
दशनाय उद्यान्तं एक सर्पम् अवधीत् । स सर्पस्तु त्यक्तशरीरः सन् शंभुर्भूत्वा तस्योपरि
आरूढः, नन्दिनः उपरि अदयत दयामकरोत् , न तु प्रतिहिंसाम् । अतएव हे अमरधुनि !
स त्वदीयः प्रभावः ॥२८॥
दूरादम्वैजयन्ती कलिकलुवघटास्तुङ्गवीचिच्छटाभिः
प्रोत्तुङ्गा बैजयन्ती मधुमथनपुरप्राप्तये प्रस्थितस्य ( तानाम् )।
अत्यर्थं वै जयन्ती निनविमलगुणैरापगाः किं च सर्वाः
सद्म द्राग् वैजयन्तीकुरु मम कमलावल्लभाघ्रिप्रसूते ! ॥ २६ ।।
निजाभिः तुङ्गवीचीनां छटाभिः कलिकालस्य पातकवटाः ( समूहान् ) दूगत्
एलयन्ती कम्पयन्ती नाशयन्ती । मधुमथनविष्णुपुरस्य ( वैकुण्ठस्य ) प्राप्तये
प्रस्थितानां लोकानां कृते उच्चा वैजयन्ती (विजयपताका ) । निजगुणैः सर्वाः
आपगाः ( नदीः ) वै निश्चयेन जयन्ती । कमलावल्लभस्प लक्ष्मीपतेः अंधिप्रसूते
चरणजाते ! मम सम वैजयन्तं प्रासादं कुरु । भवत्स्नानात् इन्द्रत्वं मे संपादयेत्याशय. ।
'स्यात्प्रासादो वैजयन्तः' इत्यमरः । चतुर्पु चरणेपु 'वैजयन्तीति चतुःकृत्वो नानाप्रकारेण
विन्यासः । यमकादिषु वकारवकारयोरभेदः ॥२॥
इदं श्रीकृष्णभट्टस्य मुखचन्द्रसुधोपमम् ।
अष्टकं सर्वशिष्टानां पापतापमपाक्रियात् ॥ ३०॥
अमुना यमुनाकूलवटमूलविहारिणा ।
हारिणा हरिणा हन्त हेलितं हृदयं मन ॥ ३१ ॥
यमुनाकूले वंशीवटस्य मूलदेशे विहारिणा । मनोहारिणा अमुना हरिण मम
हृदयं वशीकृतम् ॥३॥
विषयोऽतिशयोत्कर्षी महिमा न हि मादृशाम् ।
यदयं हृदयं याति यमुने न मुनेरपि ॥ ३२ ॥

पद्यमुक्तावली [१३ हे यमुने ! त्वत्तीरे भगवदवाप्तिः अयं विषयः अतिउत्कृष्टः ( अगम्यः )। तत्प- रिज्ञाने मादृशानां महत्त्वं न । यतः अयम् उत्कर्पः मुनेरपि हृदयं न याति, ज्ञान-तपश्चर्या- दिभिः संपन्नस्यापि यद्यगम्यस्तर्हि के बयमित्याशयः ॥३२॥ हरे हृदयमायाहि मायाऽहिरपसर्पतु । अनेन यदि दंशः स्यादंशस्यापि न ते स्मृतिः ॥ ३३ ॥ हे हरे भगवन् ! मम हृदयं प्राप्नुहि । अनुग्रहेण मम हृदये त्वद्ध्यानादिकमस्तु इति । मायारूपः अहिः सर्पः अपसर्पतु दूर गच्छतु । अनेन मायारूपेण सर्पण यदि दंशः ( दष्ट्रासम्बन्धः ) स्यात्तर्हि ते अंशतोऽपि स्मृतिर्न भवति । मायाच्छन्ने क्क भगवद्- ध्यानम् ? ॥३३॥ ? सुरौघबरवन्दनं व्रजवधूवरच्छन्दनं कृताऽसुरनिकन्दनं विरहितापहृच्चन्दनम् । मनोजमदमन्दनं दृशि सुधौधनिःस्यन्दनं भजे हृदभिनन्दनं पशुपभूपतेर्नन्दनम् ॥ ३४ ॥ सुरसमूहवरैः वन्दनं प्रणमनं यस्य तम् । ब्रजवधूवराणाम् ( श्रेष्ठगोपीनाम् ) छन्दनं संवरणं वशीकारकम् । तापहारकं चन्दनम् । कामदेवमदं मन्दयति (मन्दं करोति ) तादृशम् हृदयस्य अभिनन्दनम् अभितः आनन्दनम् । गोपभूपालस्य नन्दनं श्रीकृष्णम् ॥३४॥ प्रमोदभरदायकं सरववंशिकागायक कलाकुलनिचायकं सकलकामनिश्चायकम् । शुभावलिविधायकं स्वजनमोक्षणोपायक श्रयत्कुसुमसायकं भजत भानुजानायकम् ॥ ३५ ॥ सरवा रवसहिता ( वाद्यमाना ) या वंशिका तया गायकम् । कलासमूहस्य निचायक संग्राहकम् । सकलकामनानां निश्चायक निश्चयकर्तारम् । स्वजनानां मोक्षणोपायभूतम् । श्रयन् (आश्रयन् ) कामदेवो यम् , कामदेवोऽपि यमाश्रयति, कामस्यापि वशीकारकमित्यर्थः । यमुनाप्राणपतिं श्रीकृष्णम् ॥३५॥ स्फुरत्स्मरविलासकं व्रजवधूजनोल्लासकं कलाकलितलासकं भवरुजां समुज्जासकम् । ~ १४] श्रीकृष्णभट्टविरचिता विलोचनविलासकं स्वजनवैभवोद्भासकं मुखेन शशिहासकं भजत तारितोपासकम् ॥ ३६ ।। स्फुरन्तः प्रकटीभवन्तः स्मरविलासा यस्य, कामविलासैः शोभमानमित्यर्थः । कलाभिः कलितो मण्डितो लासः रासक्रीडा यस्य, यस्य रासक्रीडा नानाविधकलाभिः पूर्णे- त्यर्थः : । भवरुना सांसारिकपीडानां नाशकम् । नेत्रयोः विलासकमानन्दकम् । शशिहासकं शशिनमपि हसति ब्रीडयति । चन्द्रस्यापि विडम्बकमित्यर्थः । तारिता भवपीडातः उद्धृताः उपासकाः भक्ता येन तमित्यर्थः ॥३६॥. , निकुञ्जनवलीलनं ब्रजवधूमन-शीलनं श्रुतित्रजसमीलनं सशिखिचन्द्रिकापीलनम् । भवद्दनुजकीलनं त्रिदशवैभवोन्मीलनं भजे गगननीलनं तनुरुचा हताऽऽभीलनम् ।। ३७ ॥ निकुञ्जपु नवानि लीलनानि ( लीलाः) यस्य । ब्रजवधूमनसां शीलनम उपधारक गोपीनां मनोवशीकारकमित्यर्थः । अथवा मनसः शीलकं समाधायकम् , 'शील समाधी' । श्रुतिव्रजेन वेदमन्त्रसमूहेन समीलनम् ईडनं स्तवनं यस्य तमित्यर्थः । शिखिचन्द्रिकाः मयूरपिच्छचन्द्रकाः तत्सहितमुकुटधारकमित्यर्थः । भवत् जायमानं दनुजाना कीलनं वन्धनं पराजयनं यस्मात् । देवानां वैभवस्य उन्मीलनं विकासकम् । तनुकान्त्या गगनवत् नीलो वर्णो यस्य तम् । 'नील वर्णे' । हृतम् आभीलनंदुःख येन, 'स्यात्कष्टं कृच्छमामीलम् ॥३७॥ अद्भुतमेतदिदानीमनुरागि मनो यथा यथा मग्नम् । क्वचिदपि नीलरसे, तत्तथा तथा जातमवदातम् ॥ ३८ ॥ अनुराग(प्रणय-भक्ति )युक्तमेतत् मनः कचिद् नीलरसे नीलस्य श्रीकृष्णाख्यस्य रसे प्रणये यथा यथा मग्न वेद्यान्तरशून्यं ( अत्यन्तासत्तम् ) जातं तत् तथा तथा अवदातं शुक्लवर्ण जातम् । नीले मग्नस्य श्वेतता अदभुता । अवदातता स्वच्छता सर्वभावेन निष्पापता, इति तु परमार्थ ॥३८॥ अमगश्लेपमूलिकया वक्रोक्ल्या पद्यद्वयम् कृता केनेशी कान्त्या मानवेऽत्र प्रभावती। मानवेत्रकरा नूनं तेनेयं जयति प्रियम् ॥ ३६ ।।

? पद्यमुक्तावली १५] अस्मिन् मानवे मर्त्यलोके कान्त्या ईशी प्रभावती तेजःसम्पन्ना केन कृता ? इति प्रश्नः । 'मानवेत्र' इति एकं पदं स्थितीकृत्य-मानवेत्रकर' मानसूचकं वेत्रं करे यस्यः, संमानसूचकवेत्रधारिणी, अतएव इयं सौभाग्यवती प्रियं जयति स्ववशे करोतीति वक्रोक्त्या द्वितीयोर्थः ॥३॥ कृता केनेदृशी मृत्तिः काञ्चनी प्रतिमेव ते । प्रियलोचनयोरञ्चत्यमृतानन्दसेचनाम् ।। ४० ॥ 1 काञ्चननिर्मिता प्रतिमा ( मूर्तिः ) इव सुघटिता ते ईदृशी मूर्तिः ( तनुः ) कीदृशेन विधात्रा निर्मिता ? या प्रियतमस्य नेत्रयोः अमृतस्य अक्षयस्य आनन्दस्य सेचनां (निर्वापणम् ) अञ्चति करोति ॥४०॥ इयं चार्थश्लेष मूल-वक्रोक्तिः- कौटिल्यं विदधाति पद्मनयने केशव जस्तावको वक्रत्वं प्रकटीकरोति तरुणि त्वन्नेत्रयोः सा गतिः । काठिन्यं कुरुते भवांस्तव युगं कल्याणि ! वक्षोजयो- रित्येवं हरिराधिकासमुदिता वाचः कलाः पान्तु नः ॥४१॥ सभग्नश्लेषेण वक्रोक्तिः- राधे यस्तव मानसे बहिरसौ दृश्यो न मन्मानसे किंधेयं द्रविणं ब्रवीषि ? किमुहा नाद्रेऽनुरागस्तवकिल । हाने कस्य वदानुरक्तिरुदयत्याऽपि नन्दात्मजे सैतस्य व्रजमानवस्य नितरां चेद्वत्सि सर्व सखि ॥ ४२ ॥ प्रणमामि विश्वसारां वसुधातलक्स्फुिरत्सुधाधाराम् । हिमगिरिकृतावतारां ब्रह्मानन्दैकरूपरसधाराम् ॥ ४३ ॥ संपूर्णविश्वस्य सारभूताम् , पृथिवीतले प्रसरन्ती सुधाया धाराम् [किं वा भूतले विद्यमानस्य अमृतस्य आधारभूताम्-] ब्रह्मानन्देन. एकरूपो यो रसस्वस्य धारां (गङ्गाम् ) प्रणमामि ॥४३॥ सुन्दरतरलतरङ्गां तुङ्गामङ्गातितापभयभङ्गाम् । कलये शिवैकसङ्गां गगनाङ्गणरिङ्गणोद्गतां गङ्गाम् ॥ ४४ ॥ ra r- - , ।

१८] श्रीकृष्णभट्टविरचिता सौन्दर्यस्य प्रधानस्थानभूता प्रविलसन्ती या विद्युच्छटा ( दीप्तिप्रसरः ) तया भास्वरां जाज्वल्यमानाम् । पूर्णचन्द्रस्य कान्त्या दीप्यमाना या मुखशोभा तया दृष्टिरूप- चकोरीणां सुखकारिणीम् । लीलया लोलिते चञ्चलीकृते ये लोचनाम्बुजे तयोर्मध्ये भृतं प्रेम्णः प्रसादभूतम् अमृतम् ( अलौकिकाहादः) यस्याः तान् । कल्कि स्पहरे. ( विष्णोः) प्रियतमाम् अतएव हरेस्तुल्यां श्रियं प्रणमामि ॥ ५४ भूमौ धर्मधुरस्य विष्णुयशसो देवप्रभायास्तथा सानन्दोल्लसदीक्षणद्वयभृतप्रेम्णा सदा लालिताम् । शृङ्गारोज्ज्वलवेशपेशलपटालंकारसंशोभितां श्रीमत्कल्किहरिप्रियां हरिसमां वन्दे सुशीलां श्रियम् ।। ५५ ।। धर्मस्य धूः ( यानमुख जूडा' )भूतस्य विष्णुयशसः (यस्य गृहे जन्माऽभवत् तस्य), देवप्रभा कल्किनो माता । सानन्दम् उल्लसति (प्रमोदप्रफुल्ले) ईक्षणद्वये भृतेन प्रेम्णा । शृङ्गागर्थम् उज्ज्वले वेशे पेशलाः ( सुन्दराः, निपुणा वा) ये वस्त्राऽलंकाराः ते. शोभिताम् ॥ ५५ ॥ [अथ प्रबोव.] जय जय जय कल्कीश कलितकलिकलुपनिवारण । धर्मपथप्रथनकनिपुण मङ्गलगणकारण । संततसंनिधिवर्तिसुमतिनारदमुनिराजित । याज्ञवल्क्यमुनिसहितमहितनरसभासमाजित ।। जय जय तत्क्षणनिर्दलितगलितवेदशासनमनुज । जागरणमेहि मयि धेहि. दृशमुपसि विष्णुयशसस्तनुज ॥५६॥ महाकमलकाननान्तरविराजमानधु ति- स्फुरन्तु हिनदीधितिप्रचुरमण्डलान्तर्गतम् । परागपरिरंभणप्रभवसंभ्रमानन्दभू- निरन्तरसुधारसस्नपितमङ्घ्रियुग्मं भजे ॥५७|| कल्किरूप ईश स्वामिन् । कलितं ( कृतम् ), कलिकलुषाणां कलिकालपात- कान निवारणं येन तत्संबुद्धौ । धर्ममार्गस्य प्रथने विशदीकरणे अतिनिपुण । निरन्तरं * पूर्वार्द्ध कात्स्येन, उत्तरार्द्ध तैष्ण्वेनेति बोध्यम् । .

पद्यमुक्तावली [१६ समीपवर्तिना सुबुद्धिना नारदमुनिना शोभित ! याज्ञवल्क्यमुनिसहितायां पूज्यस्य नरस्य तन्नामकदेवस्य सभायां सभाजित सत्कृत । किं वा नराणां सभया । तत्क्षणं विदलिताः नाशितार गलितवेदशासनाः [ गलितम्उल्लंधित वदशासनं वेदाज्ञा यैस्तादृशाः ] मनुजा नरा येन तत्सुद्धौ । जागरणम् एहि प्राप्नुहि, जागृहि । मयि दृष्टिं धेहि स्थापय, महद् यत् कमलकाननं तस्याऽभ्यन्तरे विराजमाना द्युतिर्यस्यतत् । स्फुरन् दीप्यमानो यः तुहिनदीधितिः चन्द्रः तस्य पूर्णमगडले स्थितम् । परागस्य मकरन्दस्य परिरम्भात् संमेलनात् संजातस्य संभ्रममिश्रितस्य आनन्दस्य भूमिभूतो यः सुधारसः तेन स्नपितं चरणयुगलम् (कल्किहरे.) भजे आश्रयामि ॥ ५६-५७ ।। कृष्णे हि ललिते कुजे राधिकाकलितेऽधुना । क्रियापदमदःपद्य बहुधैव गवेष्यताम् ॥५८॥ राधिकाकलिते युक्ते कुल्ले हे कृष्ण ! इहि गच्छ । ५८ ॥ ~ संचरच्चचरीकौघ-चकोरचयमण्डिते। आवां सखि निकुञ्जेऽस्मिन् गुञ्जभ्रमररञ्जिते ॥५६।। संचरन् चश्चरीकाणाम् ( भ्रमराणाम् ) समूहो यस्मिन् , चकोरचयेन ( समूहेन) मण्डिते आवाम् आ-अवाम् आगच्छम् , 'वा' गतिगन्धनयोः लङ् ॥ ५६ ॥ विपिने धृतसौन्दर्यमासाद्य सुरभिं तरुः । कोकिलालिकुलोद्गीतपत्रपुष्पसमृद्धिभिः ॥६०॥ तरुः सुरभिं वसन्तम् आसाद्य कोकिलानाम् अलीनां भ्रमराणां उद्गीतैः पत्राणां पुष्पाणां च समृद्धिमिः ( आधिक्येन ) सौन्दर्यम् अधृत अधारयत् । 'धृज्' आत्मनेपदे लुङ्॥ ६ ॥ सुरभिसमयसंपदा भृतानां मृदुमलयानिलचश्चलीकृतानाम् । अभिनवमधुराम्रमञ्जरीणामधिकमरन्दभरं मिलिन्दवृन्दाः ॥६॥ वसन्तसमयश्रिया पूर्णानाम् । आम्रमञ्जरीणाम् अभिनवम् ( सद्यस्कम् ) अधिकं मकरन्दभरं भ्रमरसमूहा अधु अपुः । 'धेट्' पाने लुड् , बहुवचनम् । [ अभिनवम् अधु. आम्रमञ्जरीणामिति च्छेदः ] ॥ ६१ ॥ ,

१६]
श्रीकृष्णभट्टविरचिता
तुद्भाम् अत्युच्चाम् । अङ्गानाम् अतिशयिता ये तापाः, भयानि च तेषां भङ्गो
यस्या. सकाशात् । अथवा तापानां भयस्य भङ्गो यया ताम् । गगनाङ्गणे यद् रिगणं
प्रवहणं तेन भृताम् । कलये भावयामि (ध्यायामि ) 'कल' कामधेनुः ॥४४॥
मातः पातकहारिणि ! भवत्पन्ति स्पृशन्ति चेदगम् ।
सद्योऽनधीतविद्या अपि विद्योतन्त एव निरवद्याः ॥ ४५ ।।
हे पापहारिके मातः ! भवत्याः पृषन्ति ( विन्दव.) चेत् अझं स्पृशन्ति तर्हि
अन्धीतविद्या ज्ञानशून्या अपि निविद्याः निधूतपापाः सन्त विद्योतन्ते दिव्यलोकेषु
शोभन्ते । 'पृपन्ति विन्दुपृपता.' अमर. ॥४५||
कलये कदा सदाऽहं मानसदाहं दृशैव दलयन्ति ।
सुखकारीणि जनानां संसृतिहारीणि तानि वारीणि ॥ ४६॥
,
.
दृष्टयैव अर्थात् दर्शनमात्रेणैव मानसदाहं मनस- दाई प्लोषं ( संतापम् ) नाश-
यन्ति ( शत्रन्तस्य बहुवचनम् ) जनानां संसृति-( भवेऽस्मिन् जन्ममरणदि )हारकाणि
तानि जलानि अहं सर्वदा कदा कलये भावयामि (अवगाहे ) ॥४६॥
चिदलितजनौषकलिलं कलिलंपटकम्पनैकपटु ।
शङ्करमौलिसलील सलिलं तव संतनोतु शिवम् ॥ ४७ ।।
विदलितानि जनसमूहस्य कलिलानि कल्मपाणि येन तत् । कलिरूपलपटस्य विटस्य
कंपने भयदाने अत्यन्तनिपुणम् । शिवमस्तके सलील लीलाकारकम् । तव सलिलं शिवं
कल्याणं संतनोतु करोतु ॥४७॥
कलहंसविततिकान्तां भूतलभृङ्गारहारलतिका ताम् ।
कलितकलि-पातकान्तां कलये-कैलासपति-कान्ताम् ।। ४८ ॥
कलहंसपङ्क्तिभि. कान्तां मनोहराम् । कलित ( कृतः) कलियुगसम्वन्धि-
पातकानाम् अन्तो नाशो यया ताम् । भूमितलस्य शृङ्गारे हारलताभूतां तां कैलासपते.
( शिवस्य ) कान्तां प्रियां ( गङ्गाम् कलये भजामि प्रणमामि वा ॥४८||
आनन्दयुतपुरन्दरविमुक्तमन्दारमाल्यवृन्दभृताम् ।
सुरनरमुनीन्द्रवन्यां श्रीसिद्धितरङ्गिणीमहं वन्दे ॥४६॥

पद्यमुक्तावली
१७]
मन्दार( देवकुसुम )माल्यानां वृन्देन समूहेन भृताम् । सिद्धिरूपां तरङ्गिणी
नदी गङ्गाम् ||४६॥
केशवपदारविन्दद्वन्द्वजमकरन्दवृन्दसंमिलिताम् ।
कल्याणकोटिकलितां कामपि कलयामि तां मनोललिताम् ॥५०॥
द्वन्द्व( युगल )जनितेन मकरन्दनिचयेन संमिलिताम् । कल्याणानां मङ्गलानाम्
उत्कर्षण, कोटिसंख्यया वा युक्ताम् । मनसः कृते ललितां (मनोहराम् ) अनिर्वचनीयां
तां ( श्रीगङ्गाम् ) कलयामि भजामि ॥५०॥
श्रीकृष्णकविमुखेन्दुप्रसृतसुधापूरविस्फुरद्वर्णम् ।
अष्टकमष्टकलाढ्य शिष्टस्य निराकरोतु भवकष्टम् ॥५१॥
प्रसृतेन ( प्रवाहितेन ) सुधापूरेण दीप्तिशालिनः वर्णाः (अक्षराणि) यस्मिन्
तत् । अष्टकलाः अष्टानुप्रासाः ॥५१॥
वाणीं चैव भुवं च सर्वजनतादैन्याऽपहारीत्यतो
धर्म चैव धनं च साधुसुहृदां दृष्टिसुधावृष्टिभिः ।
नित्यं पासि, बुधैरुपासितपदो भासि, प्रयासि प्रथा
श्रीगोपेन्द्र इति प्रकाशितगुणो विद्वद्गणैर्गीयसे ॥५२॥
[गोशब्दस्यार्थाः]
सर्वजनतायाः दैन्यस्य अपहरण( नाशन )कारी असि, अंतः दृष्टिरूपाभिः सुधा-
वृष्टभिः साधूनां सुहृदां च वाणी-भूमि-धर्मादिकं पासि ( रक्षसि ) । अतः गो ( वाणी-
भूम्यादीनां ) पालनकर्तेति 'गोपेन्द्र इति प्रसिद्धिं-यासि । विद्वद्गणैः गोपेन्द्र इति च
Cu
गीयसे ।। ५२
कादिस्वरभंगाहित रत सनययुतं प्रगत्प्रभो शाधि ।
पुंसतेजसादिकपणयलसत्प्रतापोसि माधवनरेन्द्र ॥५३॥
सौन्दर्यैकनिकेतनप्रविलसद्विधु च्छटाभास्वरां (विग्रहाम् )
पूर्णेन्दुधु तिदीप्यमानवदनश्रीहक्चकोरीसुखाम् ।
लीलालोलितलोचनाम्बुजभृतप्रेमप्रसादाऽमृतां
श्रीमत्कल्किहरिप्रियां हरिसमां वन्दे सुशीलां श्रियम् ॥५४॥

२०]
श्रीकृष्णभट्टविरचिता
दोर्दण्डकलितोदण्डमण्डलाकमण्डन ।
त्वं विपरैः सह क्षोणिरक्षार्थमदधारणम् ॥६२।।
..
दोर्दण्डे कलितः ( विधृतः ) उद्दण्डः (प्रचण्डः ) मण्डलागः ( खद्गः ) एव एक
मण्डनं यस्य तत्संबुद्धौ । त्वं क्षोणि( पृथ्वी )रक्षार्थम् विपदैः चैरिभिः सह रणम
अदधाः अधारयः अकरोः । 'धाञ्' लड्, मध्यमपुरुपैकवचनम् ॥ ६२ ॥
विभूतिधारणैरिपुरनिरिणैर्भवान् ।
पद्य प्रकटमेतस्मिन् भवत्येव क्रियापदम् ॥६३।।
नानाविधविभूतीनाम् ( वैभवानाम् .) धारणैः शत्रुपुराणा नितग दारणैः (नाशनैः)
भवान् भवति भवः शिव इव आचरति [ शङ्करायते । ततश्च अस्मिन् पद्ये 'भवति'
( भव इव पाचरति, किप् ) इत्येव क्रियापदम् । यतः शिवोपि विभूतेः भस्मनः धारणम्,
पुराणां तन्नाम्नामसुराणां दारणं करोति । इति द्वयोराचरणासाम्यम् ॥६३||
रिपूरिछत्वा श्रियं धृत्वा कृत्वा पुण्ययशो भवन् ।
अतिगुप्तमदःपद्य नामधातुक्रियापदम् ॥६४॥
-
रिपून छित्त्वा, शियं धृत्वा, पुण्ययशः कृत्वा, भवान् ‘भवन्' भय इवाचरन् ।
शंकरायमाणः । अत्रं भवन्' इत्येव क्रियापदम् ॥६४॥
परमभीषणभूरितडिल्लता-तरलतिग्मकृपाणिविकासनैः।
भ्र कुटितर्जनवर्ननगर्ननैस्त्वमधुना रिपुवीरंकदम्बकम् ॥६॥
परममीपणयः भूरयः ( वह्वयः ) याः तडिल्लताः [ लतासदृश्यो विद्युतः ] तद्वत्
तरलानां तिग्मानां [ तीक्ष्णानाम् ] च कृपाणिकानां खड्गानाम् [ खड्गार्थकस्य कृपाणस्य
लाघवार्थे स्त्रीत्वम् ] विकासनैः चमत्करणैः परिचालनैः । तथा प्रकुटिद्वारा तर्जनम् ,
वर्जनं शस्त्रं परिचालयतः शत्रोः प्रतिशस्त्रेण निवारणम् । तथा गर्जन सिंहनादः, एभि.
त्वम् रिपुवीगणाम् ( भटानाम् ) कदम्बकं समूहम् अधुनाः अकम्पयः । 'धून कम्पने'
लङ्, मध्यमपुरुषैकवचनम् । अधुनाः रिपु० रोरीति रलोपः ॥६५॥
विश्वाधारस्वरूपा सकलरसनिधिविश्वतेजोनिधानं
विस्फूर्जच्चण्डवेगा-गगनगुणमयी या मनोमात्ररूपा।
सैवोन्मत्याख्यरू(प) स्थितपरमशिवानन्दसंभेदमात्रात्
प्रत्यग्ज्योतिर्विमर्शात्मकविमलकला भाति माले स्मरारेः ॥६६॥

[२१ पद्यमुक्तावली सकलस्य तेजसो निधिः । प्रोज्जृम्भमाण: प्रचण्डो वेगो यस्याः। आकाशस्य गुणः शब्दः, तन्मयी, - शब्दात्मिका । मनोमात्ररूपा मनोवधानस्वरूपा । आनन्दसंयोगात् प्रत्यग्ज्योतिषः आन्तरिकप्रकाशस्य विमर्शात्मिका विमलल कला। शिवस्यापि संमानाव- लम्त्रः ॥६६॥ सैवाऽऽद्या मा पराख्या त्रिभुवनजनने सैव पश्यन्तिकादिः सा नित्यं विस्फुरन्ती परमशिवशिरःशेखराग्रप्रतिष्ठा । सस्यन्दे मन्दमन्दं करुणरसवशात्पालयन्ती त्रिलोकी नाम्ना सा नर्मदाभूनिगमनिगदिता सिन्धुगानां धुरीणा ॥६॥ [ त्रिलोक्याः पालनार्थम् ] आद्या-परा-पश्यन्तीरूपा । शिवशिरसः शेखराये प्रतिष्ठिता। या कारुण्यवशाद् त्रिलोक्याः पालनार्थ भूमौ द्रवरूपा प्रादृश्यत । समुद्रगामिनीनां नदीनां धुरीणा श्रेष्ठा ॥६॥ ज्वालामालाकरालाकृतिविकटतरः कोपि कालाग्निपूरः स्वस्वान्तध्वान्तहारिद्य तिविजितमहानीलमाणिक्यकान्तिः । कन्या काचिकिशोरी कुंवलयनयना चञ्चला चन्द्रवक्त्रा पुण्यैः श्रीमेकलाद्रौ घनवनदिविषत्कटंकान्तविलोक्या ॥६॥ ज्वालामालाभिः करालया भयङ्का आकृत्या अतिविकटः । अन्तःकरणस्यान्ध- कारहारिका या नीला द्युतिस्तया विजिता -महानीलमाणिक्यस्य ('नीलम' ) कान्तिर्यया । घनं वनं यस्मिन्नीदृशे दिविषत्कण्टके (अमरकण्टकः एतन्नामकः पर्वतः तस्मिन् .) काचि- किशोरी कन्या [ नर्मदा ] विलोक्या ॥६॥ . यस्वा नीरे गभीरे सकलभयहरे स्वां तनु स्तम्भयित्वा मजन्नेवाऽन्तरालोकयति परशिवानन्दसाक्षात्स्वरूपाम् । मार्कण्डेयप्रचण्डप्रचुरतरतपोराशिपुण्यच्छटाया- स्तस्याः श्रीनर्मदायास्तव-जननि-सरित्का समत्वं प्रयातु ॥६६॥ यस्या नीरे निजशरीरं स्तम्भयित्वा किञ्चित्कालार्थ स्थिरीकृत्य मज्जन् अन्तः ब्रुडन् जनः परमशिवस्यानन्दरूपां भगवतीम् नालोकयति । किं वा निजतनुं शिवस्यानन्द- स्वरूपां पश्यति भगवत्याः सायुज्यं लभते । हे जननि.मार्कण्डेयस्य तपोराशेः पुण्यधुति- रूपायाः नर्मदायाः तव का नदी समतां प्रयातु..न कापीत्यर्थः ।।६।। .

. २२] श्रीकृष्णभट्टविरचिता गोदा वीचिप्रमोदा यमभयशमनी यामुनाम्भःस्वरूपा गङ्गा रिङ्गन्तरङ्गा परिलसदमृता सारसारस्वताऽम्वुः । कावेरी चैव कृष्णा सकलभयहरा भीमरूपा भवित्री विस्फूर्जत्कोटितीर्थाश्रितबहलमदा नर्मदा नः पुनीताम् ॥७०॥ विस्फूर्जन्ति उज्जृम्भमाणनि यानि गोदावर्यादीनि कोटिसंख्यकतथिनि तदा- श्रित तत्संवन्धी प्रचुरो मदो यस्याः, सर्वतीर्थाश्रयभूता एकैव सेयमिति गर्ववाहिनीत्यर्थः तत एव तरङ्गकारणकः प्रमोदो यस्याम् । ईदृशी गोदावरी । यमराजसंवन्धिभयहारिणी, अतएव यमभगिनी-यमुनासम्बन्धिजलस्वरूपा । प्रसरत्तरङ्गा सेयमेव गङ्गा । शोभमाना- ऽमृता सेयं सारभूत-सरस्वतीसम्बन्धि-अम्बुरूपा । इयमेव सरस्वतीसम्बन्धिसलिल- वाहिनीत्याशय. । इयमेव कावेरी कृष्णा च । तत. कोटितीर्थानां माहात्म्यगर्ववाहिनी श्रीनर्मदा अस्मान् पुनातु ||७०॥ गच्छत्यान्वीक्षिकीयं क्षयमथ विशति व्याकृतिर्वह्निमध्ये मीमांसा मूञ्छिताऽभूदनिशमुपनिषत् खेदिता वेदनाभिः । मग्ना सा कापिली गीगुरुविरहगता योगगीभग्नभोगा याते निर्वाणमातेजितसुकृतफले श्रीगुरौ लक्ष्मणाख्ये ॥७१॥ आतेजितस्य उज्जृम्भितस्य परां काष्ठां गतस्य सुकृतस्य पुण्यस्य फलभूते पितृचरणे श्रीलक्ष्मणभट्टाख्ये निर्वाणं मोक्षं गते सति-आन्वीक्षिकी दण्डनीति. ( राजनीतिः ) क्षयं याति । व्याकृति व्याकरणम् । कापिली मीः सांख्यशास्त्रम् । योग( पातञ्जल शास्त्रम् । भग्न भोग. अध्ययनादिप्रचारः । विशिष्य परिचय, 'साहित्यवैभवस्य' वंशवीभ्याम् ||७१॥ ॐतत्सद्ब्रह्मरूपः परमसुखमयश्चिन्मयस्त्यक्तमायः श्रुत्यौंकान्तसारः सकलरसनिधिः सर्वसिद्ध विधाता। विश्वप्रत्यक्षसाक्षी विलसदनुभवानन्दराशिः प्रकाशः प्रत्यक्चैतन्यपुञ्जः स जयति गिरिजावल्लभो विश्वनाथः ॥७२॥ सत्तात्मक. ब्रह्मरूप , परमसुखमयः आनन्दरूपः, चिन्मयः चैतन्यरूपः, ततश्च उपनिषद्वर्णितः सचितानन्दरूप. । मायाप्रपश्चादूरगम्यः । वेदार्थानाम् एकान्ततः चरम. सारभूत वेदान्तवेद्यः । रसानामाश्रय । विश्वप्रत्यक्षसाक्षी । विलसन् अनुभव- गम्यः श्रानन्दगशिर्यस्मिन् । मायाचावरणात् पर, अतएव सर्वदा प्रकाशः ॥७२॥ -- पद्यमुक्तावली [२३ ॐकारं तारतारं तरलितभुवनं भावरूपं भवन्तं भृतं भव्यं भवानीविलसितसहितं सत्स्वरूपं चिदेकम् । आनन्दं विश्वकन्दं रतिपतिकदनं सूर्यचन्द्राग्निनेत्रं नीरूपं सर्वरूपं भवभयहरणं भर्गदेवं भजामः ॥७३॥ तारतारम् सर्वेषां तारकम् , तारकमन्त्रेण तारकं वा । तरलितानि मायाद्वारा चञ्चलीकृतानि भुवनानि येन तम् । भावना-स्वरूपम् । भवन्तं वर्तमानकालिकसत्तावन्तं, भूतं भूतकालिकसत्तावन्तम् , भव्यं भविष्यत्कालिकसत्तावन्तम् । भवान्याः श्रीपार्वत्याः आनन्दविलासेन सहितम् । चैतन्यात्मकम् विश्वस्य कन्दं मूलम् । नीरूपत्वेपि सर्वरूपम् , ब्रह्मरूपत्वाद् विरुद्धधर्माश्रयम् ||७|| 1 , । + - । - . उग्रणोग्रव्रतेन त्रिभुवनजननस्थापनोद्वासका भळ सर्वप्रियेण श्रुतियुवतिशिरोभाग्यसीमन्तकेन । स्वःसाम्राज्यास्पदेन क्षयितजनरुजा राजयोगैकभाजा योफ्ना योगीश्वरेणाद्भुतमहिमयुजा केनचित्पालिताः स्मः ॥७४ir उग्रं कठिनं भक्तोद्धरणादिव्रतं यस्य तेन । उद्वासः संहारः । श्रुति( वेद )रूपाया युवत्याः शिरसि भाग्यभूतेन सीमन्तकेन ( केशवेष 'माँग' ) । स्वर्लोकस्य साम्राज्य- स्थानभूतेन । पयिताः नाशिताः जनानां - रुजः सर्वविधाः पीडा' येन । राजयोगम् ( समाध्यात्मकम् ) सर्वदा सेवमानेन । योगेन योजनका । तथापि सर्वेषां योगिनाम् ईश्वरेण उपास्येन । अद्भुतमाहात्म्ययुक्वेन अनिर्वचनीयेन रक्षिताः स्मः ॥७४॥ शान्ताकाराय शरवद्विरचिततपसे तप्यते तापहः विश्वासमाय विश्वविभवभरभृते भव्यरूपप्रभाय । त्रैलोक्यत्राणकः सुकृतमयधिये सर्वलोकैकनेत्रे दीव्यन्नेत्राय कस्मैचिदपि परचिते दीयतां चित्तमेतत् ।।७।। T" 1 - - शश्वत् निरन्तरं कृततपश्चर्याय । तपश्चर्यायां स्वयं तप्यन् तापमनुभवन्नपि अन्येषां ( भक्तानां तापहारकः तस्मै ) विश्वानि आरमन्ति - विश्राम्यन्ति यस्मिन् , तस्मै ( अन्ते सर्वाधिष्ठानमूताय )। विश्वग् सर्वतो व्यापी यो विभवभरः सर्वविधं वैभवं तद्धारकाय । भव्यानि रूपाणि प्रभाश्च ( कान्तयश्च ) यस्य तस्मै । सुकृतमयी धीः ध्यानं यस्य तस्मै ।

२६] श्रीकृष्णभट्टविरचिता गम्भीरावर्तनाभीलसदुदरवली-रोमवल्ली-युताना- मेतासां मालवीनां कलयति मदनोन्मादनं मन्दहासः ॥२॥ तारुण्यस्य उद्भेदं नवप्ररोहं भजन्ति तासाम् । कट्यां रणन्ती किंकिणी ( रशना- घण्टिका ), चरणयो रणन्तौ नूपुरी यासा तासाम् । मन्ढानिलेन आन्दोलिते (प्रकम्पिते) परमपटे महावस्त्रे दृश्यमानानि स्तन-नाभ्यादिगोप्यस्थलानि यासां तासाम् । गम्भीरा- वर्त( गर्न )युक्ता नाभी, लसन्ती या उदरस्थिता त्रिवली, नत्समीपस्था या रोमवल्ली तयुक्तानाम् । एतासां मालवदेशवासिसुन्दरीणां मन्दहास. मदनोद्दीपनं करोति ॥८२|| शिप्राऽम्भाप्रोड्डितेभ्यः परमकरुणया राजहंसोत्तमेभ्यः स्वान्तवासिभ्य एभ्यः स्मरनिगमगणाध्यापनं निर्दिशन्ति । पादाङ्गुष्ठाऽऽङ्ग लीयाभरण-चटकिकाचारुचाटूक्तिदानै- मन्दान्येवोद्धतानि प्रविदधति मुदं मालवीनां गतानि ॥३॥ शिप्रा( नदी जलात् प्रतिवेभ्यः चलितेभ्यः (आगतेभ्यः ) स्वशिप्येभ्य एभ्यो राजहंसेभ्यः । पादाङ्गुष्ठयो , तथा अगुलीयानाम् अाभरणभूताः याः चटकिकाः ( 'चुकटी'- इतिब्रजभाषा) तासां मणत्काररूपै चाटूक्तिदानै परमया करुणया कामदेवस्य निगम- ( शास्त्र समूहस्य अध्यापनं निर्दिशन्ति उपदिशन्ति कुर्वाणानि [ निर्दिशत् इति शत्रन्तस्य प्रथमाबहुवचनम्-निर्दिशत् निर्दिशती निर्दिशन्ति इत्यादि ] एतानि मन्दानि मन्थरामि एव उद्धतानि उन्मदानि मालवस्त्रीणं गमनानि मुदं कुर्वन्ति । हंसेभ्यः कामागमोपदेशं कुर्वाणानि इमानि मालवीनां गमनानि कामागमरसिकानां स्मरं प्रबोध्य मोदं कुर्वन्ती- त्याशय ॥८॥ कुरङ्गीगभङ्गीभवनरसभङ्गीकृतिचणै- श्वकोरीणां चञ्चूपुटचतुरिमाऽऽचान्तिचटुलैः । कटाक्षेरालोक्य स्मरकरगतीकृत्य परितो मुनीनामप्यन्तर्मदयतितमां मालववधूः ॥४॥ हरिणीनां या इंग्भगी ( विलोकनमाधुरी), तस्या भवन( गृह )भूतै, तथा सस्य ( आनन्दस्य ) भङ्गीकरणचणैः प्रवाहणचतुरैः । अतएव चकोरीणाम् ( दर्शन- माधुर्यार्थ प्रभिद्धानाम् ) चञ्चुपुटस्य चतुरिम्ण चातुर्यस्य चयने चञ्चलैः 'ईदृशैः कटाक्षः पद्यमुक्तावली [२७ श्रालोक्य मालवस्त्री चन्द्रिकाऽऽचमनचातुर्यार्थ मुनीनामपि अन्तः (अन्तःकरणं ) सर्वत. स्मरस्य कामदेवस्य करगतीकृत्य कामपरवशं कृत्वा, इत्यर्थः । मुनीनामपि अन्तः अन्त.- करणं मदयति मत्तं करोति । अथवा मुनीनामपीति शेषे षष्ठी । ततश्च मुनीन् अपि रसवासनया मत्तान् करोतीत्यर्थः ॥८४॥ - - - अये ! रज्यद्वैम्बीफलवपुषि वस्तुन्युपहितै- रुदञ्चत्पूर्णेन्दुप्रसृमरविभातस्करतरैः । अदःसाक्षाद्राक्षापरिणतरसाऽऽक्षालिततरैः सुधानां स्रोतोभिर्मदयसि मनो मालवि मुधा ॥८॥ अये मालवि ! रज्यत् परिपाकेन रक्तीभवद् यद् विम्बसम्बन्धि ( किन्दूरी)- फलम् तत्सदृशाकारे वस्तुनि ( श्रोष्टरूपे पदार्थे ) उपहितैः स्थापितैः, उदञ्चन् उदीयमानो यः पूर्णचन्द्रः तस्याः प्रसृमर्याः (प्रसरणशीलायाः ) प्रभाया. अपहरणकारकैः अदः [ अमीभिः, समासे विभक्तिलोपः ] साक्षाद् द्राक्षाया. परिपक्वरसेन आसमन्तात् अत्यन्त क्षालितै. ( धोते., अतितमां मधुरैरिति भावार्थः ) । सुधानां अमृतानां द्रवैः व्यर्थमेव मन. मत्तं करोषि ! तव दर्शनमात्रेणेव मनः स्मरकरगतं भवति । इदानी च विम्बसदृश- मधुराऽरुणे अधरे प्रसृतैः, पूर्णचन्द्रकान्तिचौरै. उज्ज्वलदन्तकान्तिमिऔः सुधानाम् अमृतानां द्रवै, अर्थाद् मधुरतरैर्वचनैः किमिति सहृदयानां मानसं प्रमत्तं करोषि ! पूर्वत एव प्रमत्तीकृते मानसे एवं यत्नेन प्रमादनम् अस्थाने परिश्रम एवेत्याशयः ॥८५॥ * दयावलितलोचना भुवि सरोचना राजते सदा किमपि शोचनाऽवसरमोचना संसदि । नयाऽऽकलितवाङ्मयाऽपरसुधामयी शुद्धिदा शिवा जयति संततं मनसि शाम्भवीया तनुः ॥८६॥ दयायुक्तानि लोचनानि यस्याः । सरोचना गोरोचनावद् गौरी । सभायाम् शोचनाव- सरस्य सविपादं विचारावसरस्य मोचना दूरीकारिणी [ यस्या अनुग्रहेण तत्कालमुत्तर स्फुरति, न विचारावसरो मृग्यते, इत्याशय. ] । नयेन नीत्या युक्तं यद् वाङ्मय तदेव अपरसुधा तद्रूपा । वाङ्मयामृतरूपिणीत्यर्थः । शिवरूपा शम्भुतनुर्जयति ॥८६॥ * अत्र पद्यद्वये आर्यावृत्तद्वयम् आदिमवयं त्यक्त्वा निःसरति ।

" २४] श्रीकृष्णभट्टविरचिता सर्वलोकानाम् एकमात्राय (अद्वितीयाय ) नायकाय । दीव्यन्ति प्रकाशमानानि नेत्राणि यस्य तस्मै । कस्मैचित् अनिर्वचनीयाय परचिते परमचैतन्यात्मकाय एतत् चित्तं समर्प्यताम् , तत्रैव चेतोविश्रामो भवतु, इत्यर्थः ॥७॥ गङ्गाऽम्भोमग्नमृद्ध नः सुमधुरवपुपश्चास्चन्द्रार्द्धयुक्तान् मुक्ताच्चैतन्यरूपात्परमसुखतनोः सर्वसौन्दर्ययुक्तात् । निःशेषात्सर्वशेषाद् गिरिवरतनयाचारुवेशाद् विशेषाद् विध्वस्तक्लेशलेशाकलय शुभगति श्रीमतो भगदेवात् ।।७६॥ गङ्गाम्भसा ( जलेन ) व्याप्तो मूर्द्धा ( मस्तकं ) यस्य तस्मात् । मुक्तात् कर्म- वन्धेभ्यः अतीतात् । परमानन्दमयात् । निःशेपात् नास्ति शेपो यस्मात् परिपूर्णरूपात् । नि.शेपाणामन्ते यः शिष्यते तस्मात् “सर्वशेषात् । 'योऽवशिष्येत सोऽस्म्यहम्' इति प्रोक्तात् । विशेषात् सर्वतो- विशिष्टात् । गिरिवरतनया पार्वती एव चारवेशः सौन्दर्य- शुङ्गारो यस्य तम्मात् । अथवा गिरिवरतनयायाः . चारुः वेशः प्रवेशः (अर्धाङ्गतया स्थितिः ) यस्मिन् , तस्मात् । सर्वदेवेभ्यो विशिष्टात् । विश्वस्तः नाशितः 'क्लेशस्य लेशोपि येन तस्मात् । शुभगति कलय प्राप्नुहि ॥७६॥ सर्वाङ्गः साधितस्य प्रियसुकृतविधेः सर्वयज्ञात्मकस्य ज्ञानज्ञेयस्य शश्वद्ज्ञपनमयमहाशक्तिभाजः शिवस्य । भक्तौषत्राणहेतोः परमहितधियो भक्तिभावस्वरूप-- प्रव्यक्तस्थूलसूक्ष्माकृतिगरिमभृतः शंकरस्याश्रिताः स्मः ॥७७।। सर्ने अङ्गै. उपकरण साधनैः साधितस्य अनुकूलीकृतस्य ।. पुण्यनिधानस्य । यावन्मात्रै. ज्ञानोधैर्योध्यस्थ । किं वा अद्वैतस्वीकारात् शंकर एवं ज्ञानात्मको ज्ञेयात्मकश्च तस्य । तथा शश्वत् सर्वदा शंपन( ज्ञापन-बोधन रूपमहाशक्तियुक्तस्य । ततश्च शिव एव ज्ञान-शेय-ज्ञापनरूप इत्याशय । भक्ति-भावस्वरूप, भक्तस्य यादृशी भक्तिः अनुरक्तिः, चादृशश्च भावः, भगवानपि तादृश एव प्रतीयते । 'यो यो यां यां तनुं भक्त' इत्यनुसारम् । प्रत्यक्ता सुस्पष्टा. स्थूलाः सूक्ष्माश्च ये आकाराः तेषां गरिमाणं- माहात्म्यं विभर्ति तादृशस्य । अथवा स्थूल-सूक्ष्माकारान् गुरुत्वं च यो विभर्ति तादृशस्य ||७७॥ शम्मौ सर्वप्रकाशे सकेलगुणगृहे नि:(सहे)ष्कले निःसहाये निःसामान्ये निरीहे निस्पधिकरणे नित्यनिमुक्तमाये । , - - पद्यमुक्तावली [२५ विश्वातीते त्रिवीते त्रिपथविरमिते देवदेवेऽखिलेशे तस्मिन् कस्मिंश्चिदस्मिन् प्रमथपरिवृढे सर्वभावैर्गताः स्मः ॥७॥ मायाद्यावरकशून्यत्वात् सर्वप्रकाशे । निष्कले परिपूर्णत्वाद् विभागशून्ये । सर्वा- त्मकत्वाद् द्वितीयशून्ये । विशेषत्वात् निःसामान्ये, किंवा अद्वितीयत्वात् जात्या शून्ये । निरीहे पूर्णकामत्वात् इच्छाशून्ये । निरुपधिः निच्छला करुणा दीनेषु दया यस्य तस्मिन् । नित्यं मायाऽतीते किंवा नित्ये शाश्वते, मायातीते च । विश्वेभ्यः सर्वेभ्य. अतीते अतिक्रान्ते, सर्वाधिके । त्रिभ्यः सत्त्वादिभ्यो गुणेभ्यः वीते अतिक्रान्ते (निर्गुणे)। त्रयाणां गुणानां पथः मार्गाद् विरमिते दूरीभूते कस्मिंश्चित् अनिर्वचनीये 'तत्त्वमसि' इति महावाक्यवोध्ये अस्मिन् प्रमथानां गणानां परिवृढे स्वामिनि श्रीशिवे सर्वभावै- राश्रिताः स्म ॥७८|| विभक्तिसप्तकं सद्यः श्रीकृष्णकविनिर्मितम् । आकर्ण्य करुणासिन्धुः करोतु करुणां शिवः ॥७६।। खलवक्त्रवचःकरपत्रशतैर्विनिकृत्तहृदः कविराजवराः । स्वगुणज्ञगणप्रणयप्रसरद्रसलेपनयाऽपनयन्तु रुजम् ।।८०॥ ग्वलमुखनिर्गतवचनरूपैः 'करपत्र'( कच ) करोत'शतैः विपाटितहृदयाः कविश्रेष्ठाः, स्वस्य गुणज्ञगणानां प्रणयः ( प्रेमा ) एव प्रसरन् रसः क्षतपूरकः रसः ( महौषधम् ) तस्य लेपनेन रुजं पीडां व्यथामपनयन्तु ।।८०॥ निगमगिरमतीत्य वर्तमानाममितनिजप्रमितिप्रसादगम्याम् । त्रिभुवनमयचित्रलेखभित्तिं चिरतरचिल्लहरी विचिन्तयामः ॥८१|| अवाङ्मनसगोचरत्वात् वेदवाणीम् अतिक्रम्य वर्तमानाम् । अपरिमिता या निजा प्रमितिः ( प्रमाणम् ) तस्या अनुग्रहेण बोर्बु शक्याम् । सा यदि वाञ्छति तदैव उपा- सकेन वोद्धं शक्या-'यमेवैष वृणुते तेन लभ्यः' इति । [ त्रिभुवनरूपो यश्चित्रलेखः तस्य कृते भित्तिम् , यामाधाकारीकृत्यैव त्रिभुवनस्योत्पत्तिस्थित्यादिकमस्तीत्याशयः । चिरतरा शाश्वतीं चैतन्यलहरी [ चैतन्याधारं भगवन्तं, जगदम्बां वा ] ध्यायामः ।।८१॥ तारुण्योद्भेदभानां कटिचरणरणत्किङ्किणीनू पुराणां प्रोद्यन्मन्दानिलान्दोलितपरमपटस्पष्ट नर्मस्थलानाम् । -

२८]
श्रीकृष्णभट्टविरचिता
भयाऽऽकुलनयातिगा द्विजमनोग्रहा कौलिनी
शिवा श्रुतिषु गीयते परममुक्तिदात्री सदा ।
रमामपि वियौतु सा शुभशतावहोमोन्मुखी
मनोगति' विग्रहा परमविग्रहा दामभाः।। (परमविग्रहान्तर्मना)|७||
सहैव सर्वविद्याभिःः सहैव श्रुतिभूषणैः ।
सहव सकलैः शास्त्रैर्लक्ष्मणाख्यो दिवं गतः ||८||
श्रुति( वेद )रूपैः भूपणैः । सकलै शास्त्रैः सह । विद्या-श्रुत्यादीनि सर्वाएयेव
सन्ति, परमेतेपा विशेषतात्पर्यन. स एवासीत् । अतएव विद्या-शास्त्रादीनि तेन
सहैव गतानीति प्रोच्यते । विद्यादीनामलौकिकमर्मज्ञत्वं ध्वन्यते ॥८॥
-
--
अविद्या प्रावादीत् , अतिसुखनिनादी कलिरभूत
दुराचारोऽनादीद् , अघशतपदं दीप्तिमतनोत् ।
अवद्यानां संसत् कृतमतिरशंसत्स्वकुशलं
यदद्य श्रीलक्ष्मा गुरुरधनलक्ष्माऽऽश्रित इति ॥८६॥
--
अविद्या प्रकर्पण संलापादिकमकरोत् , लक्ष्मणे स्थिते तु अविद्याया नासीदुच्चारण-
स्यापि शक्ति । तस्या मुखमुद्रणमभूत् । कलिकालः अतिसुखेन नादकारी अभूत्
( तत्प्रतिरोधकस्य लक्ष्मणस्याऽभावात् ) । अघ( पाप )शतानां पदं स्थानं प्रदीप्तम-
भूत् , अन्यथा पापानां स्थान लुप्तप्रायमभूदित्यर्थः । अधमानां ससद् गोष्ठी कृतमतिः सती
बुद्धि स्थिरीकृत्य स्वकुशलं सूचयति । अन्यथा कुत्सितानां समाजः स्वकुशलनिवेदनस्यापि
साहसं नाऽकापीदित्यर्थः ।
यतो ह्यद्य श्रीलक्ष्मा श्रीलक्ष्मणो गुरुः (पिता)
निधनलक्ष्म लक्षणमाश्रितः । निधनं गत इति यावत् ॥८॥
,
M
श्रीलक्ष्मणगुरुचरणे कुति कैलासधामविश्रामम् ।
तद्वाञ्छयव सकलाः साङ्गोपाङ्गा ययुर्वेदाः ॥१०॥
कैलासधाम्नि विश्राम कुर्वति सति । तस्य श्रीलक्ष्मणस्य इच्छया अङ्गोपाङ्ग-
सहिता वेदा विश्रामार्थं ययुः । स एव वेदानां तद्गोपाङ्गानां च अद्वितीयो वक्ता,
प्रचारकचाऽऽसीदित्याशयः ॥६॥

r पद्यमुक्तावली [२६ मुक्ताभिः शुक्तिवृन्दं करवलयगणैर्दन्तिनोऽलक्तलेशै- वृक्षौघं क्षौमवस्त्रः कृमिकुलनिकरं गोचयं रोचनेन । कस्तूरीभिः कुरङ्गान् कनककदलिकाश्चापि कपूरलेपै- रेतास्ते तारयन्ते तव जननि तटे मालवानां वधूय्यः ॥११॥ रेनांस्ता:-- हे जननि नर्मदे तब तटे मालवानां वधूट्यः- मुक्ताभिः -( हारपरिधृतैः मौक्तिकैः ) मौक्तिकाधारभूतं शुक्तिवृन्दं भवसागरात् तारयन्ते उद्धरन्ति । करयोः विधृतैः दन्तनिर्मित- वलय( 'चूडी' )गणैः दन्तिनः गजान् तारयन्ते । एवं 'तारयन्ते' इत्यस्य सर्वत्र संबन्धः । शरीरे विधृतैः क्षौमवस्त्रैः (कृमिकोषतः समुत्पन्नः) कृमि( कीट )वंश- समूहम् तारयन्ते । पदरक्तिमाऽर्थ लिप्तैः अलक्तक( 'अलता' )लेशः अलक्तकजन्मदातारं वृक्षसमूहम् । रोचनद्वाग तदुत्पादकं धेनुसमूहम् । कुच-तिलकादिपु लिप्ताभिः कस्तूरीभिः तदुत्पादकान् कस्तूरीमृगान् । तिलकादिषु कृतैः कर्पूरस्य लेपैः तदुत्पादिकाः कनककदलीः तारयन्ते । ततश्च मालववधूट्य एताः तब सलिलस्पर्शेन शुक्तिका-दन्तिप्रभृतीन तारयन्ते ॥११॥ अवन्तीस्रवन्तीभवं तीर्थविन्दुद्रवं तीरदेशे समासाद्य कश्चित् । परं चामरान्दोलसंचारितेन्द्रः प्रपञ्चातिगो याति पञ्चाननत्वम् ॥१२॥ अवन्तीदेशस्य स्रबन्ती (नदी) नर्मदा, तद्भवं तीर्थविन्दुप्रवाहं कश्चित् समासाद्य, देहावसानसमये चामरस्य आन्दोलनेन संचारितः स्वस्य पश्चाद् भागे अनुवर्तितः इन्द्रो येन ईदृशः सन् प्रपञ्चं विश्वस्य जन्म-मरणादिकं संसारम् अतिगच्छति उल्लङ्घ- यति ईदृशोऽसौ पञ्चाननत्वं शिवत्वं याति । नर्मदाजलसम्पर्क प्राप्य नरः प्रपञ्चमुल्लड्ड्य शिवस्वरूपो भवतीत्याशयः ॥१२॥ गीति.-- मम मतिरतिविरमति चन्द्रभाले महाकाले । (ध्रुवम् ) लीलालोलव्यालमाले कलितभूमीधरवाले जटाजूटजटाले ? केलीविदलितदुःखजाले निखिलसुरावलिभूपाले सुरधुनीचूडाले । गरलनिगलनाकण्ठेकाले धत्त राऽरुणदृगजाले सुकविकलानिधिकृपाले ६३॥ + प ३०] श्रीकृष्णभट्टविरचिता अतिविरमति अतिशान्ति प्राप्नोति । चन्द्रो भाले यस्य तस्मिन् । लीलया लोला वक्षसि चञ्चलीभूता व्याल( सर्प )रूपा माला यस्य, तस्मिन् । कलिना स्वस्य अद्धाओं स्थापिता पर्वतस्य बाला ( कन्यका ) येन । जटाजूटेन जटायुक्ते । क्रीडामात्रेणैव ( अनायासम् ) विदलितं चूर्णीकृतं दुखवृन्दं येन । सुरधुनी गङ्गा एव चूडा (शिरोभाग.) यस्य । विषस्य निगरणया ( भक्षणेन ) कण्ठदेशे स्थाने । धत्तूरस्य भक्षणेन अरुण- वर्ण हगवृन्द यस्य तम्मिन् । कलानिधेः कृते कृपाले कृपायुक्ते ।।३।। बोबद्भरिकाश्मीरजरुचिररसाऽऽसारखद्भिः समुद्यद्- झम्पागम्भीरनिर्घोपितयुतवनितानू पुराऽऽरावकेकैः। रक्ताम्भोदायितं तदिशि दिशि चलितैः केलिधुलीसमूहैः लोलाऽसौ हेमदोला कलयति ललितं तत्र विद्य विलासम् ।।१४।। चञ्चला असौ हेमनिर्मिता दोला ( हिन्दोला ) ललितं विद्युत. ( चपलाया ) विलास शोभा धारयति । ततश्च हिन्दोलायां मेघाडम्बरं रूपयति । तथा हि-यन्त्रैः 'पिचकारी' इतिख्याते. उद्यन् उच्छलन् भूरिकाश्मीरजेन ( केशरेण ) रुचिर सुन्दर. सासार. जलप्रवाह तद्वद्भि । समुद्यन्ती ( वेगेन हिन्दोलनसमये उत्पद्यमाना ) या मम्पा ( वेगेन हिन्दोलायातायातम् ) तस्या झम्पाया गंभीरनिर्घोषितेन ( शब्देन ) युताः ये वनितानू पुराणाम् आरावाः शब्दा, ते एव केकाः मयूरशहा येषु तै । दिशिदिशि प्रसृत फेलिबूली( मीडार्थ वर्णयुक्ता धूली, 'गुलाल' )समूहैः रक्ताम्भोदायितं रक्तमेघसदृशमनुकरणं कृतम् । पिचकारीजलै. वर्षणधारा, "झम्पासमये नू पुरशब्दाश्च कंकायिता भवन्ति । 'गुलाल'घटा रक्तमेघसदृशी भाति । सुवर्णनिर्मिता प्रस्फरद्- दीप्तियुक्ता हिन्दोला स्वचमत्कृत्या विद्युद्विलांसं च पूरयति । एवं च फाल्गुनमांसे जात सोय दोलामहोत्सवः मेवघटाप्रमोदमनुभावयतीति सर्वस्याशय ॥६॥ . धम्मिल्लोल्लासिमल्लीपरिमलपटलान्दोलिलोलालिमालाः पार्श्वद्वन्द्वस्थिताऽऽलीजनकलितकरप्रेरणापूर्यमाणाः । केलीधुलीकदम्बारुणसकलदिगुद्भासिकाश्मीरतोया- स्ते नित्यं कीर्तिकन्यावजपतिसुतयोः पान्तु दोलाविलासाः ॥१५॥ धम्मिल्ले ( केशबन्धे 'जूडा' ) उल्लासिनी शोभमाना या मल्ली 'वेलापुष्पम्' तस्या परिमल( सुगन्ध समूहेन आन्दोलिनी इतस्ततो भ्राम्यन्ती चञ्चला अलि(भ्रमर) पद्यमुक्तावली ३१] माला येषु ते । पार्श्वद्वन्द्वे हिन्दोलायाः उभयपार्श्वयोः स्थितः यः पाली( सखी )जनः तस्य कलितया ( कृतया ) करयोः प्रेरणया [ कराऽऽघट्टनेन ] पूर्यमाणाः संपाद्यमानाः । केलीधूलीकदम्वेन 'गुलाल पटलेन अरुणासु रक्तासु सकलदिक्षु उद्भासि शोभमान काश्मीरतोयम् केशरवर्ण केशरजलं येषु ते कीर्तिसुता( राधिका )नन्दतनययोः दोला- विलासाः हिन्दोलोत्सवाः रक्षन्तु ॥६५॥ अन्योन्याऽङ्गविलासवर्द्धितमहानन्दानि मन्दानिल- स्पृष्टान्योन्यदुकूलसौरभमिलत्कुञ्जोदराणि स्फुटम् । अन्योन्यस्मितशोभितानि कलितान्युच्चैयस्याजनै- हिंन्दोलाचलितानि कीर्तितनयाश्रीकृष्णयोः पान्तु नः ॥६६॥ अन्योन्यस्य परस्परस्य अङ्गविलासैः शरीरसंस्पर्शक्रीडाभिः वर्द्धितो महान् आनन्दो येषु तानि । मन्दानिलेन संस्पृष्टे ये अन्योन्यस्य दुकूले पट्ठवस्त्रे तद्गतसौगन्ध्येन मिलन् निकुञ्जमध्यभागो येषु तानि । वयस्या( सखी )जनैः उच्चैः अत्यन्तं कलितानि शोभि- तानि । हिन्दोलायाः चलितानि आन्दोलनानि ॥६६॥ समदन्तस्तम्भयुगानलसदृशो दानवारिराजिमहेभान् । समदन्तस्तम्मयुगानलसदृशो दानवारि राजिमहेभान् ॥ तत्तद्गुणैरगाधाः सन्ति नगा धामनि स्त्रियोस्य हरेः । आधारः सखि राधा नियतमसाधारणप्रेम्णः ॥१८॥ अस्य हरेः श्रीकृष्णस्य नगा." धामनि गृहे तैस्तैः गुणैः अगाधाः गम्भीराः अतुलनीयाः अनेकाः स्त्रियः सन्ति । किन्तु हे सखि । असाधारणप्रणयस्य आधारः [ आश्रयः स्थानम् ]-नियतं निश्चितं राधा एवास्ति ॥६॥ भृशं खलु दरिद्रतोऽप्यतिशयेन संतोषिणः स्फुरद्विपुलबुद्धयोऽप्यभिधनि प्रसङ्गोदिताः । कदाचिदसुहानितोऽप्यतिभया यशःकामुका वयं हृदि त उज्ज्वला दधति ये तदादित्यकम् ॥६६॥[दाक्षिणात्या इत्यर्थः] अतिदीनपुरुपादपि अत्यन्तं संतुष्टाः । स्फुरन्ती कठिनेष्वपि सर्वेषु विषयेषु अप्र- तिरुद्धा वुद्धिर्येषां ते । अभिधनि धनिनामभिमुखेपि केनचित् प्रसङ्गेनैव उदिताः आगताः, ३२] श्रीकृष्णभट्टविरचिता न तु दैन्याद् धनलिप्सया। कदाचित् अर्थात् अवसरे समुपागते असूनां प्राणानां हानेरपि अतिभया भयमतिक्रान्ताः, निर्भया इत्यर्थ । उपरितः कदाचित् श्यामा अपि वयं हृदि ते तादशा उज्ज्वला. स्म. ये अन्तः अभ्यन्तरे आदित्यं सूर्य दधति धारयन्ति । हृदये येपा सूर्यस्य प्रकाशः प्रोजृम्भते वयं तादृशाः प्रोज्ज्वलाः स्मः । किंच वयं ते स्म. येऽन्तरादि त्यकं 'त्यक्' प्रत्ययं दधति । 'दक्षिणापश्चात्पुरसस्त्यक्' इति पाणिनीयसूत्रम् । तथा च दाक्षिणात्या वयमित्यर्थः ॥६॥ उत्कूजत्कोकिलाश्वान् मलयमरुदिभान् भूरिचाम्पेयमल्ली- कुन्दसूकस्वर्णमुक्ताभरणसमुदितानेकपुष्पच्छलेन । रत्नान्येतानि यत्नान्मधुऋतुसमयानीतमात्राणि ताव- द्देव त्वं जैत्रयात्राफलसदृशतया सस्पृहागृहाण ॥१०॥ हे देव माधवेन्द्र । उत्कूजन्तः कोकिला एव अश्वाः तान् । मलयपवना एव इभा हस्तिन तान् । भूरि चम्पा-मल्ली-कुन्द-स्रजः एतन्निर्मितमाला एव स्वर्णमुक्ताभरणानि, एपु समुदिताना राशिभूतानाम् अनेकपुष्पाणां मिपेण मधुसमयेन ( वसन्तर्तुना ) आनीतमात्राणि एतानि पुष्परूपरत्नानि विजययात्रायाः फलसमुचितानि एतानि एव, न तु पापाणरत्नानि, इति सस्पृहै. अक्षैः इन्द्रियै., अथवा सस्पृहार्जनैः ( तद्द्वारा ) उपहतानि त्व गृहाण स्वीकुरु । वसन्तेन सादरं समानीतानि पुष्पादीनि प्राकृतोपाय-- नानि, भगवत्या प्रकृत्या प्रहितानीति सस्पृहं गृहाणेत्यर्थः ॥१०॥ अञ्जनाऽऽभवनभासमप्यनोभञ्जनाऽभयकरं दिवो भुवः । रञ्जनाभरभृतवजाङ्गन कञ्जनाभमहमाश्रयेतमाम् ॥१०॥ अञ्जनाभ कजलसशो यो धनः मेघ तद्वद्भा कान्तिर्यस्य तादृशम् । अनो- भञ्जन शकटभञ्जक , तथा दिवः स्वर्गस्य भुवश्च अभयं करे यस्य स च । ततश्च अनो- भजनश्च अभयकरश्चेति द्वयो कर्मधारयः । रञ्जनायाः रञ्जनसामग्र्याः भरेण भृतं ब्रजभूमेः अंगनं ( अजिरं ) येन ईदृशम् । कञ्जनाभं पद्मनाभं हरिम् आश्रये ॥१०॥ एके लाराधयन्ति द्विपहयशिषिकास्यन्दनाय स्तथैके मुक्तामाणिक्यरत्नैर्जगति, तदपरे स्वर्णभारैरनेकैः । श्रीश श्रीद्वारकेशप्रभुवर ! तव तेषां च तेपां च तेषां स्थाने स्थाने मया त्वं ध्र वमुपचरितोऽस्येकयैव प्रणत्या ॥१०२।।

पद्यमुक्तावली
[३३
प्रथमं तेषां ( द्विपादीनाम् ), तेषां ( मुक्तादीनाम ), तेषां ( स्वर्णभारादीनाम् )
च स्थाने अर्थात् परिवर्ते एकमात्रेण प्रणामेनैव उपचरितोऽसि सेवितोऽसि । द्विपादीनां
स्थाने प्रणामेनैव त्वां परितोषयामीत्यर्थ. ॥१२॥
देव श्रीमाधवक्ष्माधववर ! भवतः प्राज्यराज्याभिषेके
के केऽनेकेप्सितार्थप्रकरवितरणान्न द्विजास्तृप्तिमापुः ।
यद्दानाऽम्भःप्रसताः सरित उदभवन् भूरिपद्माऽवताराद्
भूयःसौरभ्यलुभ्यभ्रमरसमशुभाशीनिनादोऽर्थिसार्थः ॥१०३॥
हे माधव माया. ( पृथिव्याः ) धवेषु भूपालेषु वर | प्राज्ये प्रभूतेऽस्मिन् भवतः
राज्याभिषेके, अनेकस्य अर्थानां वस्तूनां प्रकरस्य समूहस्य वितरणात् दानात् के
द्विजा ब्राह्मणाः तृप्तिं न आपु., अपितु सर्वे तृप्ति प्रापु । येषां ब्राह्मणानां दानसङ्कल्पत्य
अम्भोभ्य, जलेभ्यः प्रसूताः ( उत्पन्ना. ) सरित. नद्यः उदभवन् उदपद्यन्त । तासु
नदीपु च बहुतरकमलानाम् उद्भवात् , तेपु कमलेषु च बहुतरेण सौरभ्येण लुभ्यन्तो
ये भ्रमरा. तेषा भ्रमराणाम् आशीर्वादेन समान शुभाशीर्वादो यस्य ईदृशः तव अर्थिनां
समूहोऽस्ति । दानजलेन उत्पन्नासु नदीपु कमलसौगन्ध्येन संतुष्टा भ्रमरा यथा नादरूपम्
आशीर्वाद ददति, तथा दानेन संतुष्टा अर्थिनः तुभ्यमाशीर्वादं दृढ़तीत्याशयः ।।१०३।।
रे रे चञ्चलचञ्चरीक चतुर स्वैरं वने संचरन्
प्रोत्फुल्लाऽमलकोमलप्रसवजाऽऽस्वादा लताः स्वीकुरु ।
मीलन्म दलां न खेदयतरामान्दोलयन् पद्मिनी-
मेतां संकुचतीं विना तरणिभातारुण्यरूपाऽऽगमम् ।।१०४॥
भ्रमरान्योक्तिमाह-हे भ्रमर । त्वं चतुरोऽपि साम्प्रतं रसास्वादार्थ चञ्चलोऽसि ।
अतएव त्वां हितमुपदिशामि । त्वं वने सचरन् प्रोत्फुल्लेभ्यः अमलेभ्य. कोमलेभ्यः प्रसवेभ्य
( पुप्पेभ्यः ) जात. आस्वादः यासाम् ईदशीः लता. अगीकुरु । मीलन्ति ( संकुचन्ति,
शत) मञ्जूनि दलानि यस्याः ताम् । तरणिभा सूर्यातप एव तारुण्य( यौवन )-
संवन्धि रूपम् सौन्दर्यम् तस्य आगमनं प्राप्ति विना सकुची संकोचमवाप्ताम् एता
पद्मिनीम् आन्दोलयन् बलादुपगमेन कम्पयन् सन् मा खेदयतराम् अत्यन्तं मा पीडय ।
इयं पूर्णविकास न प्राप्ता, तवोपगममात्रेण संकोचोऽस्याः समुदेतीति साम्प्रतमिमां न
खेदयेत्याशयः ॥१०४॥

३४] श्रीकृष्णभट्टविरचिता स्कन्दस्याऽशेषदेतेयककुलविजये याः स्वयंभूर्जगाद स्वाराज्ये जम्भशत्रोः सुविहितविधिनोवाच वाचस्पतियाः । ताभिः श्रीमाधवच्माधव ! निगमसरोराजहंसीभिरुच्चै- ★दीभिर्मन्त्रवाभिर्धरणिपरिणये शश्वदाशास्महे शम् ॥ १०५ ।। स्कन्दस्य स्वामिकार्तिकस्य दैत्यसमूहविजये या वैदीः वेदप्रोक्ता मन्त्रवाचः स्वयंभूः ब्रह्मा जगाद । जम्भशत्रो जम्भनामस्य दैत्यस्य वैरिण. इन्द्रस्य स्वःगज्ये स्वर्गराज्य- समये या वाच बृहस्पति विधिपूर्वकम् उवाच, हे माधव भूपाल धणि ( पृथ्वी)- रुपाया महिष्याः परिणये विवाहे निगम( वेद )रूपस्य सरस राजहंसीभिः ताभि , वेदसंबन्धिनीभिर्वाग्भि, तव श कल्याण अाशास्महे ॥१०५ शश्वत्कान्तारसैधाः प्रसृमरपृथुकार्तस्वरैकान्तभाजः श्रीमुक्तारत्नयुक्ता विरहितवपुपो भृपिताशेपवर्या । देव श्रीमाधवच्माधववर भवतो मित्रलोका विशोका गेहे भूयोविलासप्रतिमरितकरेणत्कटद्वारदेशाः ।। १०६ ।। [मित्राऽमित्रयो श्लेपः] हे श्रीमाधव । भवत मित्रलोकाः शश्वत् निरन्तरं कान्तानां रमणीनां रस एव एघः सवर्द्धनो येषाम् , निरन्तररमणीविलासपरा । प्रमृमरं सर्वतः प्रसृतं यत् पृथु बहुल कार्तस्वरं स्वगाम नस्य एकान्तभाजः सर्वदा भाजनभूताः। श्री गजलक्ष्मी., मुक्ताः मौक्तिकानि, रत्नानि अन्यानि माणिक्यप्रभृतीनि तै? क्ता या वरस्त्रिय ताभिः अविरहितं [ तासा विरह वियोग शून्यं ] वपु येषां ते । भूपिताः अाभरणादिभि मण्डिता अशंपा श्रेष्ठा सवन्धिन येपा ते । सर्वदा विशोका. विगतशोका. । भूयोभि बहुभि बिलासै आनन्दै प्रतिभरितः, करेणुभि, हस्तिनीभि उत्कटश्च प्रभावशाली च द्वारदेशो वेषां ताशा सन्ति । भवत. अमित्र( शत्रु )लोकाश्चापि निरन्तर कान्तारे बने सेध, गमन ('पिधु गत्याम्') येपां ते । प्रसृमराः पृथुकानां बालकानाम् अार्तस्वरा. बुभुक्षादि- पीडया करुणस्वरा येषां ताशाश्च, तथा एकान्तं शून्यस्थानं भजन्ति ताशा । श्रिया राज्यश्रिया मुक्ता. त्यक्ता.। रत्नादियुक्ताभि स्त्रीभिः विरहित वियुक्तं वपु. येषां ताशाः । खट्वाद्यभावात् भुवि भूमौ उपिता. स्थिता. अशेषा. समस्ता. वा. श्रेष्ठसम्बन्धिन चेपां तान्या । विशोका विशेपेण शोक परिशोचन येषां ते । गृहे भूयोभि पद्यमुक्तावली [ ३५ बहुभि. विलासै. ( बिले आसः आसनं स्थितिः येपा तादृशः मूपकादिभिः ) प्रतिभरितकाः अतिपूरिताः रेणवः रजांसि धूलय ताभिः उत्कट भयंकरः द्वारदेशो येषां तादृशाः सन्ति [मित्राऽमित्रयोः श्लेष शाब्दः ] ॥१०६।। ? श्रीमाधव क्षमाधव वक्षसि मामादधासि गुणविज्ञ । मामेव विस्मृत इति स्फुरति चरित्रं विचित्रं ते ॥ १०७ ।। माया. लक्ष्म्या धवः पतिः माधव., राजलक्ष्मीपतिरित्यर्थ.। माधवो विष्णुश्च मां लक्ष्मी वक्षसि वहति ततश्च तदभिन्नस्त्वमपि श्रियं वक्षसि वहसि । एवं च मां श्रियं वक्षसि धारयन् कथ मां विस्मरेत् १ ॥१०७|| किञ्चिन्न्यायेऽप्यधीतं किमपि च पठितं पाणिनिव्याकृतो मे किञ्चित्साहित्यसिन्धुप्रसृमरचहरीसङ्गसंसिक्तताऽस्ति । सर्वावस्थासहायस्मरणविषयता श्रीयशोदाकुमारे जाने नैतचतुष्कादितरदहमहो नैव जाने न जाने ॥१०॥ कविः साम्प्रन विनयेन, भगवद्भावनावशादाध्यात्मिकशान्त्या वा वक्ति- न्याये वैशेषिकशास्त्रे किञ्चिदध्ययनं कृतम् । व्याकृतौ व्याकरणे । साहित्यरूपो य: सिन्धु. समुद्र. ( नदी वा ) तस्य प्रसरणशीलानां लहरीणां सङ्गेन किञ्चित् संसिक्तता आर्द्रतास्ति, साहित्यसमुद्रपग्चियात् स्निग्धहृदयताऽप्यस्ति, इति भावः । समुद्रसदृशस्य प्रसरणशीलानां पर्वताकाराणा लहरीणां सङ्गे समुपगतस्याऽपि किञ्चिदेव संसिक्तता, इति सुस्पष्टं विनय- प्रदर्शनमेव । श्रीयशोदाकुमारे श्रीकृष्णे 'सर्वास्ववरथासु अयं सहायः' इति स्मरणस्य विषयता । श्रीकृष्ण एव मम सर्वदा ऽवलम्बनम् इति सर्वदा मे स्मरण तिष्ठतीत्याशयः । पूर्वोक्तात् एतस्मात् चतुष्टयात् इतरत् अन्य वस्तु अहं नैव जानामि । जाने, इति त्रि कथन दाढयसूचनाय ॥१०८।। श्रीमद्राजाधिराजप्रविदितजयसिंहाख्यभूपालवस्ः प्रत्यग्रोदनदानप्रकरकलनया पालितो लालितोऽस्मि । सोहं श्रीमाधवक्ष्माधव जयसिंहाख्यभूपालसूनो ! विस्मतु १नाहसि त्वं त्वदुदयविजयाशीर्यशोगानशाली ॥१०॥ १-(इन्त नास्त्विदुदय ), इति पाठान्तरम् ।

३६ ] श्रीकृष्णभट्टविरचिता श्रीमान् गजाधिराज इति प्रख्यात भूपतिवसें । प्रत्यग्राणां प्रतिसमयं नवीनानाम, जग्राणाम् उन्नतानां दानानां प्रकरस्य समूउस्य कलनया क्रियया । तब उदयस्य विजयम्य च आशिपां यशसां च गानशाली ( नानकृत् , गानेन शालते शोभते ) स. अहं विस्मर्तु न अहं । व मां विमर्नु न योग्योसीत्यर्थ. । 'विस्मतुं नार्हसि त्वम्' इति पाठे तु 'अहं त्वदुदयविजयाशीर्यशोगानशाली अस्म् िअतः मां विस्मर्तु नार्हसि, इति वाक्यभेदेना- ऽन्वय ॥१०॥ श्रीमद्राजाधिराजे सति समुपकृतं भूरि रामायणेन प्रारब्धादीश्वरेऽभृत्कविविबुधगुणग्राहियोपकी । भाति प्रोच्चैररातिप्रकरहरकरः कोविदानां कवीनां भाग्यः श्रीमाधवाख्यो नरपतिरधुनाऽकारि केनोपकारः ? ॥११०॥ श्रीमद्राजाधिराजे अर्थात् श्रीजयसिंहे अम्बावतीराज्यपालके सति गमायणेन भूरि उपकृतम् । एतद्विपये सेय किंवदन्ती परिवारे प्रसिद्धा यत्-एकदा प्रमोटवार्ता- प्रसङ्गे श्रीजय िहेन प्रोक्तं यद् “यथा श्रीकृष्णेन ब्रजे शङ्गारलीला-गसविहागदिक कृत तथा श्रीगमचन्द्रेण न कृतम्" । एतदुपरि विनोदमुपगतस्य कविकलानिधेर्मुखान्नि - सृतं 'यद् गमचन्द्रस्यापि शृङ्गारलीला-विहार प्रसिद्ध' । आग्रहमुपगत्य पृष्ट राजाधि- राजेन-ईशी रचना कुत्रास्ति' । कलानिधिमहाशयेन उपेक्षया प्रोक्तं 'मन्ये काश्या दृष्टा' । पुन किमासीत् , काशीगमनोपयुक्त व्ययादिकं सादरं प्रदाय तामिमां रचनामानेतुं प्रोक्तोभूत्कलानिधिमहोदय । किन्तु गृहागतेन कविकलानिधिमहाशयेन असमंजस- मालोकितम् । ईशी रचना क्वाभूत्कुत्रापि । अस्तु, तद्दिनादारभ्यैव 'रामगीतम्' नाम्नी निर्मिति प्रारब्धा कलानिधिमहोदयेन । 'रामरासो' इति नाम्नी रचना प्रक्रान्ता इति अन्ये बदन्ति । अतु, रामविपयिणी शृङ्गाररचना जयसिंहमहाराजस्य परिचयदृढ़तायै उपचकारेवि सर्वस्य सार । ईश्वरीसिहमहाराजे तु कवीना-पण्डिताना गुणग्राहितैव उपकी अभूत् । अवुना पण्डित-कवीना भाग्य -अरातीनां वैरिणां प्रकरस्य समूहस्य हरौ (हारको ) करी यस्य, ईदृश माधवाख्यः नरपति भाति । अधुना केन उपकार. ||११०॥ [त्रिपुष्पहारबन्ध ] विद्याविभूपण पडानन नव्यभव्यभक्तिप्रथाप्रदशमाशय भूरिभूते । पद्मापतेः सरसभावकवर्य-वित्तिवित्तोवदावदनतानतभावनायाः ॥१११ ॥ कृत ?

न - पद्यमुक्तावली ३७ ] देवश्रीजयसिंहधार्मिकपतेः सनुमहाभाग्यता- भूयोभासुरभालभासितविभाषाभातिकाऽऽभाभरः । श्रीमन्माधवसिंह एष विजयी भास्वानिव द्योतते सद्योजातरुचिप्रभूतकमलामोदैकविस्तारकः ॥११२॥ धार्मिकाणा पत्युः देवश्रीजयसिंहस्य सुतः महाभाग्यतया ( अतिभाग्यशालि- तया) भूय अत्यन्तं भासुरं यद् भोलं ललाटं तस्य प्रदीप्ता या विभा कान्तिः तया भासित. प्राभातिक्याः प्रातःकालिक्या आभायाः भरः समूहः यस्य । यस्य ललाटे उदयगतसूर्यस्य कान्ति- समूहो द्योतते इत्याशयः । भास्वान् सूर्य इव सद्योजातया रुच्या कान्त्या प्रभूतानां कमलामोदानां पद्मसुगन्धाना एकमात्रो विस्तारकः । माधवस्तु रुच्या कान्त्या प्रभूतानां बहुतराणां कमलाया. लक्ष्म्याः मोदानां हर्षाणामतिविस्तारकः । सद्यः प्राप्ता लक्ष्मी अस्य संसर्गेगा प्रमोदते इत्याशयः । अतएव विजयी एषः भास्वानिव प्रकाशते ॥११२ प्रागधर्मस्तम्भमूलः सपदि सुकृतकृत् कोटिशाखाप्रसारः स्वच्छन्दानन्दलीलाविकसितसुमनोवासिताऽशेषलोकः । प्रोद्यत्कल्याणभूयःफलफलनकलाकौशलाऽनल्पकल्पः कल्पद्र: कोऽप्यपूर्वो जगति विजयते केसरी माधवाख्यः ॥११३॥ प्राग्जन्मनि कृतो यो धर्मः स एव स्तम्भः आधारदण्डः मूलं यस्य स. । प्राग जन्मनि यथा सुकृतम् तथा सपदि वर्तमानकालेऽपि पुण्यकारकः । यस्य वृक्षस्य कोटिशः शाखानां विस्तार.। स्वच्छन्दानन्दस्य ये विलासाः ते एव विकसितानि सुमनांसि (पुष्पाणि), तैः वासित. सुगन्धीकृत. अशेपो लोको येन सः । प्रोद्यन्ति (उदीयमानानि) यानि शुभकर्माणि तेभ्यो बहुतरफलानां फलनस्य विस्तारस्य या कला नैपुणं तस्मिन् अनल्प. कल्प. कल्पना क्रिया यस्य, उत्तमकार्यद्वारा मङ्गलपरिणामेन फलित इत्यर्थ. । अतएव केसरी (सिंह) माधवनामा कोऽपि अपूर्व. कल्पद्रुमोऽस्ति, यस्य मूल-फलादिक- मीहशमस्तीत्यर्थः ॥११३ अद्याऽभूदुत्तरङ्गो मनसि सुमनसां शश्वदानन्दसिन्धुः स्वान्ताऽधिध्वान्तशान्त्या सपदि दश दिशः सुप्रकाशा ममाऽछ । अद्य व द्वपिचक्रप्रकरविघटनं स्वीयरुच्यैव यस्मा- दृष्टः श्रीमत्सवाईनृपतिजलनिघेरुद्गतो माधवेन्दुः ॥१४॥ H 1 ३८] श्रीकृष्णभट्टविरचिता अद्य सुमनसां ( विदुपाम् ) मनसि आनन्दसागर उद्गततरङ्गः (तरङ्गै. उद्वेल. ) अभूत् । अद्य स्वान्तस्य चित्तस्य अधिकीभूतस्य ध्वान्तस्य अन्धकारस्य शान्त्या मम दशदिश सुप्रकाशा समभवन् । अद्यैव द्वेपि( वैरि )रूपचक्रवाकानां विघटनं वियोजन जातम् । यम्मात् सवाईनृपतिश्रीजयसिंहरूपजलनिघे. उदित माधवसिंहरूप' इन्दु स्वीयया रुच्या [ कान्त्या इच्छया च ] दृष्टोऽभूत्।।११४ मानस्तोत्रेः प्रसन्नस्थितिरुदयकरीन्द्रादिसंतोपदाना प्रोत्फुल्लाम्भोजराजन्निजपदसुपमारक्तभक्तोषचेताः । गोविन्दोदारकीर्तिस्थगितभुवनभाभासमानः समन्ता- देयादेवाऽखिलद्धिः कमनगुणनिधिः सिन्धुजे सन्मुखश्रीः ॥११५ [पद्यमिद कर्त्त कर्मकरणसप्रदानापादानसथन्धाधिकरणसवोधनक्रियापदगुप्तम् ] शमय शमनभीतिं नाशय स्थापिताणैः सकलजननितान्तश्रेयसामेकहेतुः । त्वमसि ततनुतश्रीराधिरानन्दिभानु- जय गणपशिवान्मा मुक्तिदानो भवेत्र ॥११६॥ [ आदित्यादिपञ्चदेवतानां विषये पद्यमद.] सायस्तायत्तयत्तायतितततमतद्यातबोधावधाना धावाधावातिसातिप्रतिगतिमतयो तन्मतध्वान्तहीनाः । दीनाः कीनाशनाशापथयशपथयं जातसातव्रतख्या- तन्वन्तस्वान्तकान्तद्र ततमनमना मन्युवश्या वयं वः ॥११७॥ [चतुष्पुष्पहारवन्धः] कल्याणवन्तः क्रमदानशोभिता मार्गे परैनीतसमस्तभाजनाः । भृत्यास्तवैवं विचरन्ति सर्वतः * कंपं त्वदीया दधते च वैरिणः ॥११८॥ सर्वदा शुभकार्यवन्तः, क्रमपूर्वक यदान वितरण तेन शोभिता । माग परै । अन्यैः भृन्य-भारवाहादिभि नीतानि प्रापितानि समस्तपात्रादीनि येपाम् (तव भृत्या अपि परिचारकठासादिभिरनुगना चलन्ति) । किन्तु तव वैरिण तव भयान् कम्पं वेपy - * पल्याणवन्त इत्यादि जायते इत्यर्थः ।

पद्यमुक्तावली [३६ धारयन्ति । कि च ककारस्थाने पकारं धारयन्ति । अर्थात् कल्याणवन्तः इत्यत्र पल्याणवन्तः इति स्यात् । तव वैरिण' कुम्भकार-भारवाहादिककार्यजीवन्नि, येन ते घोटक-गई- भादिषु 'पल्याण' भारवहनसाधनं 'पलाण' इति भापाप्रसिद्धं सर्वदा सह नयन्ति । ते 'प्रमदानशोभिता.', प्रमदानां कृते न शोभिता दरिद्रत्वाचे स्त्रीणामपि मनोहरा न भवन्ति । मार्गे परै शत्रुभिः [पकारस्थाने ककारकल्पनया,करैः स्वहस्तैरेव नीतानि भोजनादिवस्त्राणि वैस्तादृशा (भृत्यादीनामभावात् ] ।। ११८ ॥ यदा काव्यप्रकाशेन चन्द्रालोको विवर्जितः । कि कुर्मः कं प्रति व मः संप्रति प्रसृते कलौ ।।११६।। काव्यानां प्रकाशेन सर्वत प्रसारण प्रचारेण चन्द्रस्याऽऽलोकः सर्वत. प्रख्याप्यते क्रियते, यतो हि काव्येषु चन्द्रस्य सर्वाधिकशोभाकारित्वम् । किन्तु कलिकालविडम्बनया काव्यप्रकाशनामकन ग्रन्थेन चन्द्रालोकस्य जयदेवानिर्मितग्रन्थस्य वर्जनं (खण्डन) विरोधः क्रियते । यतोहि ‘चन्द्रालोके ' 'सालकाग्रसानेकवृत्ति वाक् काव्यनामभाक्' इति सालकारयो. शब्दार्थयो काव्यत्वं स्वीकृतम् । किन्तु काव्यप्रकाशेन 'अनलंकृती पुन, क्वापि' इति । अतएव चन्द्रालोकेन काव्यप्रकाशस्य खण्डनं 'अङ्गीकरोति यः काव्यं शब्दार्थावनलं- कृती । असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ इति कृतम् । अत्र 'काव्यप्रकाशेन चन्द्रालोको विवर्जितः ।' इति काव्यप्रकाशस्य चन्द्रालोकेन विरोध एव वक्तव्यः । खण्डनं तु न युज्यते । चन्द्रालोकस्य प्रकाशादुत्तरकालभावित्वात् ॥११६ नन्दकुलोदयशिखरारूढमिनं चक्षुपी न वीक्षते । नेक्षेतोद्यन्तमिति प्रचुरतरं वाक्यमनुरुध्य ॥१२०॥ नन्दकुलरूपम् उदयगिरेः शिखरम् आरूढम् इनं सूर्य प्रातरागतं नायकं श्रीकृष्णं खण्डिताया. चक्षुषी (नेत्रे) यथावत् (उल्लासपूर्वकम्) न वीक्षते । इत्यस्य उत्तरम् नेक्षेतो- द्यन्तमादित्यम्' इति सर्वप्रसिद्धं श्रुतिवाक्यमेव' इत्याशयः । श्रत्यैव यदा एक्माज्ञप्तं तदा मम सोल्लासदर्शनाऽभावः स्वाभाविक एवेति खरिडतायाः साकूतमुक्ति : ॥१२० [( नेक्षेतोद्यन्तमादित्यमिति ) श्रुतिः । रात्रावन्यत्र विहृत्य प्रातरागतं प्रेयांसं परमप्रेममण्डिताऽपि खण्डिता वनिता यदा सादरं न ददर्श, तदा तां प्रियसखी प्राह-'अयि विचक्षणे ! तव चक्षुषी कमले, अयं च नन्दकुलोदय- शिखरारूढः सूर्यः, तं दृष्ट्वाऽपि किमिति सोल्लासे न भवतः ? ' । तदा तां सा - ४०] श्रीकृष्णभट्टविरचिता नायिका उत्तरितवती-'सत्यं कमले, किन्तु वीक्षणक्रियायां तपोश्चक्षुरात्मतापत्तिरे- वेति व्यज्यमाने परिणामालंकारे, चक्षुःकरणकवीक्षणक्रियामेव 'नेतोद्यन्त- मादित्य'मिति श्र तिवाक्यार्थानुसारेण न्यपेधदिति व्यज्यमानाभ्याम् उत्तरश्रुति- मात्रोन्नेयप्रश्नात्मकोत्तर-परिणामालंकाराभ्यां सह नायकस्याऽन्यनायिका- संभोगरूपं वस्तु व्यज्यते' । ] ग्रन्थकर्तुष्टिप्पणी । . , . श्रीद्वारकेशकेशव केशविशेषस्तुतैकगुणलेश । श्रीशारदेशशेपप्रणतसुवेश त्वयि नतिमें ॥१२१॥ द्वारकाऽधीशरूप हे केशव (विष्णो !) क जलं तस्य ईशो वरुण , विः गरुड , शेपः, एभिः स्तुतः गुणस्याऽपि लेशो यस्य । यस्य गुणस्य लवमपि वरुणादय. स्तुवन्ती- त्यतिशयो द्योत्यते । श्रीशारदा सरस्वती, ईशः शिव , शेषा अन्ये च इन्द्रादयो देवा तैनमस्कृतो वेष दिव्यरूप यस्य तत्संबुद्धौ । त्वयि मे प्रणाम ॥ १२१ श्रीमाधवाम्भोनिधिसंप्रभृत- रत्नानि नित्यं ललिताक्षराणि । श्रीसूर्यवंशोदितदीप्तिमन्ति जगत्समस्तं परिभूपयन्ति ॥१२२।। [एकदा माधवक्ष्माधवेन स्वहस्तेनाक्षराणि लिखिस्त्रा यदा मम प्रदर्शितानि तदैवेद पद्यमुत्पादितम् । ] ग्रन्थकर्तुः टिप्पणी । इमानि ललितानि अक्षराणि माधवसिंहरूपसमुद्रात् प्रभूतानि रत्नानि सन्ति यानि सूर्यवंशात् उदिताया दीप्तः ( कान्तेः, शोभाया.) युक्तानि समस्तं जगत् मगडयन्ति ॥ १२२ धर्मस्तम्भकमृलः सुललितविलसत्कीर्तिशाखाप्रसारः प्रोद्यकन्याणभृत्पल्लवगणकलितः कामपुष्पौषपूर्णः । स्वच्छन्दानन्दवृन्दैः शुभफलफलितः श्रीशभक्त्याश्रयस्थः श्रीमान् श्रीमाघवाख्यो नृपकुलतिलकः शोभते कल्पशाम्बी १२३॥ श्रीमाधवमिहास्य कः कल्पवृक्षोऽस्ति । यस्य धर्मरूप स्तम्भ एव एक मूनमम्नि । विलसन् कीर्तिरूपाणां शाखाना प्रसारो विस्तारो यस्य । प्रोद्यन् ..

पद्यमुक्तावली [४१ प्रोज्जम्भमाण, शुभफलरूपः यः पत्रसमूहः तेन युक्त' । कामरूप: यः पुष्पौष. कुसुमसमूहः तेन पूर्णः । स्वच्छन्दानि [ केनचित् अपरिभूतानि ] यानि आनन्दवृन्दानि तद्रूपैः शुभफलैः फलितः, आनन्दरूपफल इत्यर्थः । श्रीशस्य भक्तिरेव एकः आश्रय अवष्टम्भ. तेन स्थित ॥१२३ श्रीमद्व कुण्ठशिक्षागुणगणविलसद्दारकार्यमाण- श्रीशालिस्यन्दनस्थं करकलितगदापनकम्बूग्रचक्रम् । प्रोन्मीलयादवस्त्रीललितवलितहक्कैरवाऽऽनन्दिचन्द्र कारुण्याम्भोधिमे नवधनरुचिरं द्वारकेशं भजेऽहम् ।।१२४॥ श्रीमतो चैकुण्ठस्य (दिव्यलोकस्थितस्य भगवतो विष्णोः) शिक्षासम्बधिगुणगणे: विलसन् शोभमानो यो दारुक. एतन्नामक सारथिः तेन प्रेर्यमाणो यः शोभाशाली स्यन्दनो रथ. तस्थितम् । करेषु कलितानि धारितानि गदा-पद्म-कम्बु (शङ्ख) उग्र (प्रचण्ड) चक्राणि येन तम् । प्रोन्मीलन्ति प्रकर्पण विकसन्ति यादवक्षत्रियस्त्रीणां ललितवलितानि (मधुरवत्राणि) यानि दृक(दृष्टि रूपाणि करवाणि (रात्रिविकासीनि कुमुदानि) तेषाम् आनन्ददायक. चन्द्र., तम् । दयासमुद्रम् । नवीनमेघवद् रुचिरं दृशो. आनन्ददायकं श्रीद्वारकाधीशम् आश्रयामि ॥ १२४ पार्योद्यभीमपुत्री-सुललितकमलाचारुसात्राजिती- स्वच्छन्दानन्दराधाभिधमधुरतरप्रीतिलीलात्मिकाभिः । नित्यौत्सुक्याद्वधभिस्तिसृभिरनुगतः श्रीकुरुक्षेत्रसङ्ग- प्रत्यग्रप्रेमदर्शी कलयतु कुशलं भूरिशो द्वारकेशः ॥१२॥ पार्श्वे उद्यन्ती उदीयमाना [आगच्छन्ती ] या भीमपुत्री रुक्मिणी, कमला (लक्ष्मी)- वत् चार्वी या सात्राजिती सत्राजित' पुत्री तथा स्वच्छन्दानन्दयुक्ता या राधानामिका (वधूः), मधुरतरप्रीनिदायक्लीलारूपाभिः एताभिः तिसृभि वधूभिः, उत्कण्ठाक्शात् अनुगतः (युक्तः) । श्रीकुरुक्षेत्रस्य समागमे प्रत्यग्रस्य नवीनस्य प्रेम्णः दर्शी प्रत्यायका द्वारकाधीश: कुशलं करोतु ॥१२५ प्रोद्यत्पीताम्बरश्रीरुचिरतरतडिच्चाकचक्याभिरामः स्वच्छन्दानन्दधारापरिलसितसुधासारसंदोहवी ।

४२ ] श्रीकृष्णभट्टविरचिता प्रत्यग्रोदग्रभावप्रमुदितहृदयान् स्वीयभक्तान् मयूरान् भूयः संतोषयन्त्रः कलयतु कुशलं श्रीपतिारकेशः ॥१२६।। प्रोद्यतः उदीयमानम्य पीताम्बरस्य या श्री. शोभा सेव रुचिरतरा तडित् विद्युत, तस्या चाकचक्येन चमत्कारेण सुन्दर । आनन्दधारायां परिलसितो य, सुधासारः अमृतसारभागः तस्य समूह वर्पति तच्छील । प्रत्यग्रेण नवीनेन प्रबलन भावेन प्रमुदितहृदयान् भक्तरुपान् मयूरान् भूय. अत्यन्त संतोषयन् प्रसादयन् । वः युष्माकं कुशलं करोतु ।। १२६ द्वाराधीश त्वढीयान् प्रचुरतरगुणान् कः पुमान् स्तोतुमीशः श्रौतीनां भारतीनां मुनिवरमनसां चापि दूरे स्थिता ये । किन श्रीविठ्ठलेशप्रभुवरगदितप्रेमनिष्ठैकसेवा- तन्मात्रानन्दमग्नः प्रभवतु सततं कीर्तिगाने जनोऽयम् ॥१२७॥ हे द्वारकाधीश ' तर गुणा श्रौतीनां श्रुति(वेद) संवन्धिनीना भारतीनां वाणीनाम्, तथा मुनिवराणां मनसां चित्ताना चापि दूरे स्थिता आगम्या. सन्ति । किन्तु श्रीविठ्ठलेशेन ( श्रीवल्लभाचार्यपुत्रेण, गोस्वामीतिप्रथितेन ) गदिता प्रेमनिष्ठा या एका भगवत्सेवा, तन्मात्राऽऽनन्दे मग्न (एकतानः) अयं जन तव कीर्तिगाने समर्थो भवतु इति 'लोट् लकारेण प्रार्थ्यते ॥ १२७ सच्चेतश्चातकालीसरसतरमनोहारिंगम्भीरशब्दः सोत्साहं भक्त केकावरततिभिरलं वीक्षितः सस्पृहाभिः । उन्मीलनीलकान्तिप्रतिलसिततडिच्चारुचश्चद्द कूल: प्रोद्यत्पीयूपधारः स्फुरतु नवघनश्यामलो द्वारकेशः ॥१२८|| नवीनधनबत् श्यामलो द्वारकेश. (चेतसि ) स्फुग्तु दीप्यताम् । चेतोरूपायाः चातकपड्क्ते सरसतरस्य मनस हारी आकर्षक गम्भीरशनो यस्य तादृशः। सस्पृहाभि, मोत्कराठाभिः भक्तरूपाणा केका(वाणी)धगणां मयूराणा ततिभि, पङ्क्तिभिः चीक्षित उन्मीलन्त्या शोभमानाया भगवतो नीलकान्त्यां प्रतिलसिता था तडित् विद्युत् तद्वत् चारुतया चञ्चन् शोभमानो दुकूल. (पीताम्बरम्) यस्य सः । प्रोद्यन्ती उद्गच्छन्ती अमृतधारा (वर्यास्थानीया) यस्य सः ॥१२८ [ . पद्यमुक्तावली [४३ प्रोदञ्चत्प्रावृषेण्यप्रघन घनघटासच्चमत्कारिविद्यु द्- विद्योतद्योतितान्तर्वलिततरुलतासान्द्रकुञ्जप्रदेशे । प्रोन्मीलन्मल्लिबल्लीसरससुरभिते सालिहस्तान्जलोलां हिन्दोलान्दोललीला सततमनुभवन् पातु वो द्वारकेशः ॥१२६॥ प्रोदश्चन्ती उदीयमाना या प्रावृपेण्या ( प्रावृट्संवन्धिनी ) घनघटा मेघसमूह. तम्मिन् सत् यथा स्यात्तथा चमत्कारिणी विद्युत् , तस्याः विद्योतेन प्रकाशेन द्योतिताभिः चमत्कृताभिः अन्तर्वलिताभिः अभ्यन्तरे निविडाभिः वृक्ष-लताभि. सान्द्रे निविडे गाढव्याप्ते कुञ्जप्रदेशे । कीदृशे ? विकसन्तीभिः मल्लि('राजवल्ली' 'रायवेल')लताभि: सरसं यथा तथा सुगन्धिते, अलिभि: भ्रमरैः, प्रालिभि. सखीभिर्वा, सहिते ये हस्ताब्जे हस्तकमले ताभ्यां लोलां चञ्चलां परिचाल्यमानां हिन्दोलायाम् आन्दोलस्य प्रेखोलनस्थ लीला सततम् अनुभवन् ।। १२६ उच्चैरुड्डीयमानैः प्रघनघनघटामेदुरै रङ्गधूली- संदोहर्माधवीनां करकमलचलैः केलिशोभाभिरामे । यन्त्रोद्यन्नीरशोभावति मधुसमये लोलदोलाविलास- भ्राजिष्णुर्दाक्षिणात्यानिलकलितसुखः पातु वो द्वारकेशः ॥१३०॥ उच्चै ऊर्ध्वपर्यन्तम् उड्डीयमानैः घनघटावत् मेदुरैः पुष्टै. सान्द्रैः, माधवीनां मधुवनीवासिनीनां माधवसंवन्धिनीनां वा करकमलेभ्यः चलैः परिचालितैः उड्डायितैः रङ्गधूलीना ('गुलाल') समूहैः क्रीडाशोभया अभिरामे मनोहरे । यन्त्रेभ्यः पिचकारी' तिख्यातेभ्यः उद्यतः उच्छलत नीरस्य रङ्गजलस्य शोभाधारके वसन्तसमये । लोलायाः ढोलाया. (हिन्दोलाया) विलासेन राजितः । दाक्षिणात्योऽनिलः मलयपवन तेन कृतसुखः द्वारकाधीरा ॥ १३० श्रीमद्वल्लभदेवलालितपदाम्भोजद्वयभ्राजितः श्रीमद्विट्ठलनाथभावितलसल्लीलाललामाकृतिः । तद्वशोद्भवपुत्रपौत्रनिवहैरद्यापि संसेवितः श्रीभूशोभनशीलपार्श्वयुगलः श्रीद्वारकेशोऽवतु ॥१३१॥ (अष्टकम्) पुष्टिमार्गीयवैष्णवसंप्रदायाचार्येण लालितेन पदकमलयुगलेन राजितः । श्रीविठ्ठलेन तत्पुत्रेण भाविताभिर्लीलाभिः सुन्दराकृतिः। श्री (लक्ष्मी), भूः (पृथ्वी) आभ्यां शोभनशीलं पार्श्वयुग्मं यस्य सः ॥ १३१ - . ४.] श्रीकृष्णभट्टविरचिता शेषश्रीद्वारदेशप्रणतपदयुगः केशवश्चारुकेशः केशस्तुत्यः सुरेशप्रचुरजयकरः क्लेशहृद्ध्यानलेशः। दिव्यादेशैकदेशश्रुतिकुलकथिताशेषशेषैकदेशः स्यादेष द्वारकेशः शुभकृदिह लसद्व पशोभाविशेषः ॥१३२॥ शेपेण (अनन्तेन) श्रिया च द्वारदेशे एव प्रणत पद्गुगलं यस्य । सुन्दरकेशयुक्तः केशव इति कीर्त्य ' केशाभ्याम् क. ब्रह्मा, ईश शिव , एताया स्तवनीय । सुरेशस्य इन्द्रम्य पूर्णजयकर । सांसारिकक्लेशहारक ध्यानस्य लेशोऽपि यस्य । दिव्यः आदेश: (प्रेरणावाक्यम्) एकदेश एकमन यम्य ईदृशेन श्रुतिकुलेन वेदगशिना कथित. अशेपः सपूर्ण , शेप प्रलये यः सर्वसंहारक शिष्यते स , एकदेश एकावयवश्व यस्य सः । लसन् शोभमानः वेवस्य शृङ्गारस्य शोभाविशेपो यम्य ईश द्वारकाधीश. शुभकारकः म्यात् भवतु ॥ १३२ यन्मुक्तासुरुचिं विमति यदलं सन्मानस गाहते यद्धचे चरणानुरागमपि यदत्त द्विजेभ्यो मुदम् । नित्यं निर्मलपक्षधारणविधौ यद्व त्ततामक्षतां श्रीमन्माधवसिंह तद्विजयते हंसीव कीर्तिस्तव ॥१३॥ तब कीर्ति: हंसीव, यतो हि हसी मुक्तासु मौक्तिकेषु (भोज्येपु) रुचिम् इच्छा धारयति । कीर्तिस्तु मौक्तिकवत् रुचि कान्ति विभर्ति । यच्च अल यथा तथा उत्तम मानसाग्व्यं सर गाहते विलोडवति, कीर्तिस्तु सतां मानसं चित्तम् आकर्षति । हंसी चरणयो पदयो राग रक्तवर्णं धारयति, पीर्तिस्तु 'च,' रणे विजययुद्धे अनुराग प्रमाणं धारयति, वीरता- सबन्धात । हसी द्विजेभ्य' हसपक्षिभ्य मोद ददाति । कीर्तिः शुभशसकेभ्यो विद्ब्राह्मणेभ्य । यच्च-निर्मलयो पक्षयोः ( गरुतोः ) धारणे अक्षतां पूर्णा वृत्तता वर्तमानता धाग्यति (हसी) । कीर्तिस्तु-निर्मलस्य निर्दोपस्य पक्षधारणे पक्षपोपणे पूर्गा वर्तमानतां धारयति ।। १३३ अभूत्याज्यं राज्यं जगति तमसां कालमनसां द्विजाचार'शो न किल कमलानामधिगमः । मदा नक्षत्राणां तनुरुचिरदोपाननुदयो विध, वैपम्यादशिशिरकरेऽस्तं गतवति ।।१३४॥ .

पद्यमुक्तावली
[४५
विधातुवैषम्यात् ( वामतया) सूर्येऽस्तं गते सति । जगति कृष्णहृदयानाम
अन्धकाराणां पूर्ण राज्यमभूत् । द्विजानाम् (ब्राह्मणानाम्, पक्षिणां च ) आचारस्य
(आचरणस्य, संचारस्य च) भ्रंशः नाश. । कमलाना अधिगम. न, संकुचितत्वात् ।
किञ्च व्यङ्मयपक्षे कमलानां लक्ष्मीणां प्राप्तिः कस्याऽपि न । नक्षत्राणां तारकाणां तनुः
दुर्बला रुचि. कान्तिः । अदोषायाः अरावे. अनुदयो न । अपितु रात्रे. उदय, । व्यङग्यपक्षे
दानसहिता. ये तत्राः क्षत्रिया. तेषां दुर्वला रुचि. कान्तिः, दानशौण्डानां क्षत्रियाणां
असंमानः इत्याशयः । अदोपाणां निर्दोषाणाम् अनुदयः पराभवः, निर्दोषा. पीड्यन्ते
इत्यर्थ. । समासोक्तिविधया सूर्यसदृशे जयसिंहादिके कस्मिन्चन राज्ञि अस्तंगते सति
अप्रवन्ध–विप्रदुःख-धनाभाव-क्षत्रियपराभवादयो जायन्ते इति व्यज्यते ।। १३४
चञ्चत्कञ्जपरागमण्डलतया चर्मप्रकाण्डं वहन्
भास्वभृङ्गपरम्परामसिलतामुल्लासयनिर्भरम् ।
अन्तः पान्थजनस्य हन्त महतीं भीतिं समुज्जृम्भय-
नभ्येति स्मरभूपतेर्मलयजो वीरः समीरः स्फुटम् ।।१३।।
मलयज समीरः कामभूपतेर्वीरः ( सैनिक.), अभ्येति अभिमुखम् आगच्छति ।
अतएव-चञ्चन् चलन् कञ्जानां कमलानां परागस्य मण्डलं चक्रं यस्य तत्तया । समीर-
द्वारा कमलपरागो मण्डलाकारेण भ्रमति, स एव श्रेष्ठं चर्म 'ढाल' अस्ति, तद्वन् । भृङ्ग-
परम्परां पक्तिम् खगलता उल्लासयन् चमत्कारयन् । समुज्जम्भयन् वर्धयन् ।। १३५ ॥
न्यक्कृत्य क्वापि कान्ताकुचतटवसन चन्दनाऽऽमोदमस्मा-
दाकृष्योत्तु गरिङ्गत्कुटिलतरसरिभङ्गसंघप्रसङ्गः।
माद्यन्मलिन्दमालामिलितमधरयन् पङ्कजानामरण्यं
मन्दं मन्दं समन्तादयमबनिरहान्नर्तयन् वाति वायुः ॥१३६॥
कान्ताकुचतटोपरिगतं वस्त्रं न्यक्कृत्य अपसार्य । अस्मात् कुचतटात् चन्दनगन्धम्
प्राकृष्य । उत्तुङ्गाः उन्नताः रिगन्त. चलन्त , कुटिलतराः वक्राः ये सरिभङ्गाः नदीतरङ्गाः
तेषा संघस्य समूहस्य प्रसङ्गः सम्बन्धो यस्य । माद्यन्ती मत्ता या मिलिन्दमाला भ्रमरपंक्ति,
तया मिलिंत युक्तं कमलानी वनम् अधरयन् कम्पयन् । मन्दं यथा स्यात्तथा अवनिरुहान
वृक्षान् नर्तयन् कम्पयन् [ ततश्च-चन्दनसम्बन्धेन सुगन्धिः, नढीतग्गसंगेन शीतल,
वृक्षाणां नर्तनाथ रोधनेन मन्दश्चायं वायुरिति व्यज्यते ॥ १३६ ॥

४६] श्रीकृष्णभट्टविरचिता चञ्चच्चाम्पेयजाम्बूनदनिकरसमाकृष्टसंपूर्णसाराः पद्मश्रीसमपातोत्थितमधुपगणारम्भिताऽऽरावधाराः । प्रेयःसंयुक्तमुक्तप्रचलितबनितावासाकर्षधुर्या निर्यान्ति प्रातरेते पवनकपटतः कामदुःस्वामिचौराः ॥१३७ चम्पापुष्परूप यत् जाम्वूनद सुवर्ण तत्समूहात् आकृष्ट सपूर्ण सारभागो यैस्ते । ( चौग गृहगत सुवर्णादिसार आहरन्ति )। पद्मशोभाया सद्म कमलं, तत्र पातात् उत्थिता ये मधुपगणा, तैगरम्भिता तद्द्वारा उपक्रान्ता अारावाणां गुञ्जाशब्दानां धारा यै । पवनै भ्रमरद्वारा गुञ्जाशब्द प्रारम्भित इत्याशयः । प्रियतमै संभुक्ता. तदनन्तर मुक्ता त्यक्ताश्च, तत्स्थानात् प्रचलिता या स्त्रिय. तासां वासस वस्त्रस्य आकर्षे पटवः । कामरूपम्य दुष्टस्वामिन ( दस्युश्रेष्ठस्य ) चौराः पवनव्याजेन प्रातनिर्यान्ति । कामदेवरूपो दस्युः स्वानुगतान् पवनरूपान् चौरान प्रेषयति । ये हि सुवर्णमाहरन्ति, वस्त्रमाकृष्य पलायन्ते । येपा पश्चाद्भागे भ्रमरा कोलाहलमपि कुर्वन्तीत्याशय ॥ १३७ ॥ प्राचीनः प्रोचलद्भिः सततमतिजवरश्ववीरैः समीर- युक्तो, माद्यबलाकावलिललितयुगश्वञ्चलोद्ध तकेतुः । अम्भोदव्याजधारी प्रसरदुरुपयोविन्दुवाणौघवषीं कन्दर्पस्यात्यमन्दोऽखिलजगदुपरि प्रखति स्यन्दनोऽयम् ॥१३८॥ प्राचीनः प्रादिशिभवैः समीर पवनैः अतिवेगयुक्तै. अश्वेपु वीरैः (वीराश्वैरि- त्याशय) युक्त । व्यस्तरूपकम् । समीररुपै. अश्वैर्युक्त. । माद्यन्ती या बलाकाऽवलि बकपक्तिः सैव ललितं युगम् आकर्षणदराडो ('जूडा') यस्य स । चञ्चला(विद्युत्) रूप उद्धृत स्फुरितः केतुर्ध्वजो येन । प्रसरन्तो ये उरव (स्थूलाः) पयोविन्दवः तद्रूपान् बाणौघान् वर्पति तच्छील । सोयम् अम्भोदस्य मिष धारयन् ऋदर्पस्य (कामस्य) अति अमन्द. (उत्तम , त्वरितगामी) स्यन्दन सपूर्णस्य जगत उपरि प्रेडखति परिभ्रमति । मेयो नान्ति, विन्दुरूपान् बाणान् वर्षन् सोय कामस्य रथोऽस्तीत्याशय ॥ १३८ प्राग्वाताधोरणाधोवशितमदझरीविस्फुरद्वारिवा- स्ताविचातकालीप्रघनघनघनघोरघण्टानुघोपाः । पल्लवेलद्वलाकाबलिविपुलरदाश्चञ्चलाकेतुमन्तः पीत्वाऽऽयाताः पयोधेः स्मरधरणिपतेः सिन्धुरा मेघसङ्घाः १३६।। , पद्यमुक्तावली [४७ प्राग्वात(पौरस्त्यपवन रूपेण आधोरणेन हस्तिपकेन अधो वशीकृताः, तथा मदारीस्थानापन्ना विस्फुरन्ती परितः प्रसरन्ती वारिवर्पा चेपाम्, परितः प्रसरन्ती जलवर्षा नास्ति, अपितु सेयं मेघरूपाणां कुञ्जराणां मदनिझरी अस्तीति भाव. । तर्षेण तृपया विध्यन्ती पीड्यमाना या चातकाली सैव प्रकण घनघनेति घनन्तीनां घोरघण्टानाम् अनुघोप. (नाद) येषां ते । वल्गु मनोहरं यथा स्यात्तथा उवेल्लन्ती उपनि उद्गच्छन्ती या बकपङ्क्ति. सैव विपुलौ रदौ दन्ती • येषां ते । चञ्चला (विद्युद्) केतुः वजो येषां ते मेघसमूहाः कामभूपते. सिन्धुग हस्तिनः सन्ति, ये जल पीत्वा पयोधे समुद्रात् याताः सन्ति ॥ १३६ श्यामाः पीता वलक्षाः कतिचन हरिताः शोणिमानं वहन्तः प्रागवातैरश्वपालैरिव करकलिताः सर्वतः संचरन्तः । अघिप्रत्युप्तलोहा तिरुचिरचमत्कारिविद्युत्समूहाः कन्दर्पक्षोणिभतु स्तुरगवरघटाः प्रोच्छलन्त्यो विभान्ति ॥१४॥ वलक्षा. श्वेताः । शोणिमानं वहन्त., शोणा. रक्तवर्णी । अश्वपालैरिव स्थिते. प्राग्वातैः पूर्वपवनैः करे कलिताः हस्ते गृहीता। ततोपि चञ्चलतया सर्वतः प्रसरन्तः । अनिपु चरणेषु प्रत्युप्तस्य जटितस्य लोहस्य द्युतिवत् रुचिरचमत्कारकारी विद्युत्समूहो येषा ते । सुन्दरचमत्कारी तडित्समूहो नास्ति, चरणेषु जटितस्य लोह नालस्य' सेयं द्युतीरस्तीत्याशयः । कन्दर्पभूपतेः प्रोच्छलन्त्यः एता. तुरगवराणां घटाः समूहा, विलसन्ति । एते मेघाः श्रेष्ठाश्वसमूहाः सन्ति । मेघान् आरोपविषयान् अनुक्त्वा (निगीर्य) तुरगवरघटा इति विपयिमात्रनिर्देशात् साध्यवसाना ।। १४० . प्रारूढप्राकसमीरप्रबलभुजसमाकृष्टमाघद्वलाका- वल्गद्वल्गानुवन्धाः सरलखुरसमाक्रान्तभूम्यन्तरिक्षाः । आविभूतेन्द्रचापप्रसृतमणिमयाऽतुल्यपल्याणवन्तः कामक्षोणीन्द्रसैन्या इव दधति रुचिं बारिवाहाऽच्छवाहाः ॥१४॥ आरूढः पूर्वपवनः (घोटकस्थानापन्नः) यैः ते । एवम् प्रबलभुजेन समाकृष्टा माद्यन्ती बलाका (बकपक्ति.) एव वल्गन्ती (चलन्ती) वल्गा मुखरज्जुः 'लगाम', तस्या. अनुबन्धः संवन्धो येषां ते । सरलैः खुरैः समाक्रान्ता, भूमेः अन्तरिक्षस्य च भागाः यस्ते । आविर्भूतः यः इन्द्रचापः (इन्द्रधनु.), स एव प्रसृत. व्याप्तः मणिमयः अनुपम , ४८ ] श्रीकृष्णमविरचिता पल्याणः पृष्ठासनं 'जीन' येषा ते । एते बारिवाह(मेघ)रूपा अच्छा उत्तमा वाहा घोटका., कामदेवरूपस्य क्षोणीन्द्रस्य (राज.) मैनिका इव शोभा धाग्यन्ति ॥१४१|| उच्चैराच्छादयत्युद्गतसलिलभरैः प्लावयन् सर्वदेशान् खद्योतैरिन्द्रगोपैविविधमणिमयः स्वर्णपश्च कीट। वर्षाव्याजप्रकर्षात्प्रसृमरचपलाबाडवाग्निप्रकाशः प्रोवेलोऽयं पयोधिः परिणतविभवो मानिनीमानभूमिः ॥१४२।। मानिनीनां मानभूमिः [अर्थात् मानकारक ], पूर्णवैभशाली, वर्पाणा [प्रावृऋड्तो छलातिशयात् प्रोद्वेलः (वेलाम् मर्यादामप्युल्लङ्घयन्) अयं पयोधि. समुद्रोऽरित । अय वर्षासमयो नास्ति सोयं समुद्रोस्तीत्याशयः । तथाहि-उच्चै. अत्यन्तम् उद्गतैः (उपरि उत्थितै) सल्लिभरै. सर्वदेशान् प्लावयन् जलमयान् कुर्वन् आच्छादयति आवृणोति । खद्योते., इन्द्रगोपै. वर्षाकीटः ( 'सावन की डोकरी'), स्वर्णवर्णपक्षयुक्तैः कीटैश्च विविधवर्णमणियुक्तः, तथा चमत्कारशालित्वात् । प्रसृमरः सर्वत्र प्रसरणशील. चपल(विद्युदरूपः बाडवाग्निप्रकाशः यस्य । विद्युत्प्रकाशो नास्ति सोयं वाडवान्लग्य नकाशोऽस्तीति वक्तव्यसार । ततश्च वर्षामिषात् सोयं समुद्रोस्तीति समर्थनम् ॥१४२॥ सुधाधारास्वादोज्झितशशिकलाशीतलरसं सुरैर्मानाधानान्मनुजततिभिः पीतमनिशम् । भुजङ्गानामङ्ग गरलभरसंतापहरणं त्रिलोक्यां संव्याप्त प्रजयति सदा राघवयशः ॥१४३॥ । त्रिलोक्या सर्वतो व्याप्त राघवस्य यश. प्रकर्षेण जयति । तथाहि-सुधाधागणाम् आस्वादन उन्मितः त्यक्तः शशिकलानामपि शीनलो रसो यस्मिन् यथा स्यात्तथा सुरै देवै पीतम् । शुक्लपक्षे चन्द्रकिरणानां रस विहाय राघवयश एव शैत्यातिशया चै. पीतमित्याशयः । मानस्य आदरस्य आधानात् स्थापनात् मनुजसमूहैरपि च पीतम् । एव तद् यशः सर्पाणां शरीरे विषसंजातस्य सतापस्य हारकम् , अतएव अमृतगुणधारक राघवयश त्रिजगति व्याप्तम् । शशिकलारसपराभवात् आकाशे, मनुष्यसमूह- कर्तृकपानात् पृथिव्याम्, भुजङ्गानं विषताण्हरणात्पाताले, इति त्रिलोकी व्याप्ता ॥१४३॥ - पद्यमुक्तावली शक्षा सुधासाराऽऽसासनवरतविसाराऽवसरदं पयःपारावारानुकृति सविहारामलखगम् । स्फुरन्मुक्ताहाराऽभरणसुरदारातिरुचिरं सुखोचारादाराज्जयति हरिनारायणयशः ॥१४४॥ हरिनारायणस्य यशः सुधासारस्य यः आसारः धारासंपातः तस्यापि निरन्तरविसारे परित्यागे अवसरदायकम् अस्ति । सुधासारस्य निरन्तरप्रपातमपि परित्यज्य हरिनारायणयश, संश्रयन्ते इत्यर्थः । पुनः तद्यशः पयसो दुग्धस्य य. पारावारः समुद्रः तस्यानुकरणकारकम् । सविहाराः विहारेण प्रमोदक्रीडया सहिताः उत्तमाः खगाः हंसादवो यस्मिन् । स्फुरत् देदीप्यमानं मौक्तिकहाररूपम् आभरणं येषां, तादृशाः ये सुग्दाराः देवाङ्गनाः [दाय. पुंसि], तेभ्योपि अतिरुचिरम् मनोहारकम् । कथमेतत् ? यतो हि सुखोच्चारात् । इदं यशः सुख- पूर्वकं जनैर्गीयते । अतएव पूर्वोक्तपदार्थेभ्योपि तदिदं यश अारात् दूरतः जयतीत्यर्थः- 'बारादुरसमीपयोः' ।। १४४ ॥ इहाधीतं स्फीतं त्रिदिवमुपनीतं मुनिजनै- यशोगीतं गीतं सितमधुरशीतं सुरगणैः । सदा तस्योच्चारादजनि सुखसाराय धिषणा सुधाधारा नाराधयति हरिनारायण विभो ॥१४॥ हे हरिनारायण ! भवतो यशोगीतं स्फीतं विशदं मुनिजनैः इह (भूमौ) अधीतम् । तथा त्रिदिवं स्वगंमुपनीतं सितं श्वेतं, मधुरं, शीतं च तद् ( यशोगीतं ) सुरगणैर्गीतम् । तस्य गीनस्य उच्चारणात् ( उच्चारयिताम् ) धिषणा बुद्धिः सारभूतसुखाय अजनि जाता । तान् गायकान् सुधाधारापि नाराधयति न प्रीणयति ।। १४५ ॥ सदाचाराचाराकलितमविचारादतितरां धराधर्माधारावधृतधृतिधारार्पितधियाम् । सुधासारासारास्वदनजिततारापतिमहो महोदारानागज्जयति हरिनारायणयशः ॥ १४६ ॥ -- सताम् ये आचाराः तेषाम् आचरणैः आकलितं युक्तम् । धर्मस्य आधारेण अवै. भृतायां धृति( धैर्य धारायाम् अर्पिता धीः यैस्तेषाम् । धराया पृथिव्या. धर्माधारे ५० श्रीकृष्णभट्टविरचिता धैर्यधारकाणां सज्जनानामित्याशयः । सुधायाः अमृतस्य सारभागस्य य. आसारः (धारा- प्रवाहः ) तस्य श्रास्वदनेन जितं तारापसेः चन्द्रस्य महः प्रकाशो येन तत् । अमृतसारभाग- म्बाददायितया चन्द्रप्रकाशस्यापि तद् यशो विजित्वरमियाशयः । ईदृशं हरिनारायणस्य यशः भूमौ अत्यन्तोदारतया प्रसिद्धानपि पुरुषान् दूरादेव जयति ॥ १४६ ॥ यावन्तो वनवासिनः खलु मृगास्तेषां महीयान् गज- स्तस्मादप्यधिक मृगेन्द्रमखिलो लोकः सदा मन्यते । किन्तु द्वावपि यत्र मून्यकरणे नीतौ न तत्राऽपरं कोऽप्यङ्गीकुरुते, करी पुनरसौ राज्ञां वरैराहतः ।।१४७॥ मृगाः अग्णयवासिन' श्वापदाः तेषां मध्ये गजः महीयान् अतिशयेन महान् । गजा- पेक्षयाऽपि सर्वो लोकः मृगेन्द्र सिंहम् अधिक मन्यते । मूल्यकरणे मूल्यनिर्धारणार्थ यस्मिन, स्थाने गज-सिंहौ द्वावपि नीयेते तत्र अपरं द्वितीयं ( सिहम् ) कोऽपि न अङ्गीकुरुते । पूर्व करी गजस्तु राजश्रेष्ठैरपि आदृतः संमानेन स्वावासे स्थापित. ॥ १४ ॥ लीनाग्विलार्थः समयमपमहीनावबद्धस्त्रशृङ्गः पीनापीनामहीनामुदधिचरमहीनावमुच्चेर्दधौ यः । बीनामीशे कवीनामथ वचसि नवीनाच्छकीर्तिः स देवो दीनान् कीनाशभीनाशननिपुणमतिः पातु मीनावतारः ॥१४८॥ जलप्रलयसमये लीनाः अखिलाः समग्राः अर्थाः द्रव्याणि यस्य सः । अहीना सारणम् इन. श्रेष्ठो यः शेष. तेन अक्बद्धं स्वशृङ्ग यस्य सः । शेषरूपया रज्ज्वा पृथिवीरूपा नौः मत्स्यावतारस्य भगवतः शृङ्गायिते पृष्ठभागे बद्धेति पुराणकथा । ईदृशः अयं मीनावतारः ममयं प्रलयावसरं दृष्ट्वा । पीनम् आपीनं अधोभागो यस्याः 'ऊधस्तु क्लीवमापीनम् इत्यमरः । अतएव 'अहीना हीनेतरां श्रेष्ठाम् । उदधि( प्रलयसमुद्र )चराम् मही(पृथ्वी) रूपा नावम् नौकाम् यः उन्चैर्दधौ धारयामास | जलमयतादशायां मीनावतारस्य शृङ्ग- सहशे स्कन्धे महीरूपा नौका शेष रज्जु कृत्वा न्यवध्यत, इति पुराणकथा । वीनाम पक्षिणाम् ईशे गरुडे, अथ कवीनां वचसि वाण्याम् । स्तावस्य गरुडस्य वारयां, कवीना स्तुतिपु च नव-नवा स्वच्छा कीर्तिर्यस्य सः। कीनाशस्य यमस्य भी( भय )नाशने निपुणमति । यमराजभयनिवारक स मीनावतारः मादृशान् दीनान् पापभीत्या दयापात्र- भूतान् पातु ॥ १४ ॥ दृष्ट्वा पद्यमुक्तावली [५१ कम्बाबुग्राऽविलम्बारवभृति समरेग्वेत्य संवाधितारिः संवाधश्यामलम्बाऽलकवलितमुखः संततं वालकेलिः । अम्बाचक्षुःकदम्बायितबहलवलो भूरिशम्वाऽस्त्रदर्प- स्तम्बाक्रीडौघजम्बालजविगतिहरः स प्रलम्बारिरव्यात् ॥१४६।। उग्रम् अविलम्बम् ( शीघ्रजातम् ), आरवं शब्दं विभर्ति ताशे, उग्राऽविलम्बा- ऽऽरवभृति, प्रचण्ड-तू गाणीदकारिणि कम्बौ शङ्के वाद्यमाने सति । समरेषु युद्धेपु आगत्य, संबाधित( पराजित )शत्रुः । संवाधाः निबिडाः घनीभूताः श्यामाः लम्बाश्च ये अलका. केशाः तैरावृतमुखः । युद्धेष्वपि बालक्रीडावत् निरायासं प्रवर्तमानः । अम्बाचक्षुषोः मातु- नेत्रयोः कृते कदम्बवृक्षायितं बहलं बलं वीर्य सैन्यं वा यस्य सः । वलं विलोक्य मातृनेत्रे प्रफुल्ले भवत इत्याशयः । शम्बः वज्रम् अत्र यस्य सः शम्बास्त्रः इन्द्रः । भूरि. यः शम्बा- स्त्रम्य दर्प. स एव स्तम्बाक्रीडौघ. अर्थात् गुल्मानाम् (प्रकाण्डरहितानां बालवृक्षाणाम् ) आक्रीडौषः उद्यानसमूहः, तद्रूपे जम्बाले कर्दमे जाताया विगतः दुर्गतेः हारकः । इन्द्राभि- मानेन जाताया लोकपीडाया हारक इत्याशयः । ईदृशः प्रलम्बासुरस्य शत्रुः बलरामः श्रीकृष्णो वा नः अव्यात् पायात् ।। १४६ ॥ दारान् रक्षतु दारमध्यलसितो मोदः प्रमोदप्रद- स्तद्वत्पातु सुतान् सुतान्तरगतो ज्ञानाकृतिर्ज्ञानदः । रातूच्चै रतिमध्यगो निजरति मापः स मापालको मावस्थः कुरुतामधर्मदलनं धर्माणि धर्मादिमः ॥१५॥ [ दामोदरः । सुज्ञानतः । रमाहतिः । माधवः । इति गुप्तार्थेनान्तापश्लेषः ] दा र इति अक्षरद्वयमध्ये लसित. आनन्ददायको 'मोदः । ततश्च 'दामोदरः' इति संपन्नम् । दामोदरः दारान् रक्षतु । सु त इति अक्षरमध्यगतः ज्ञानदायकः 'ज्ञान' इत्या- कारकः । ततः 'सुज्ञानत.', सुन्दरेण 'ज्ञा' ज्ञानेन नतः नम्रः, ज्ञानप्रदो बुद्धादिभगवान सुतान् रक्षतु । र ति' इति अक्षरद्वयमध्ये गतः 'मापः' कीदृशः स. मापालक: मायाः लक्ष्म्याः पालकः । ततश्च रति इति मध्ये 'माप' शब्दसंनिवेशे रमापतिः इति जातम् । स. निजरति निजप्रीतिं रातु ददातु । रमापति निजभक्तिं ददातु इत्यर्थः । ‘मा व' इत्यत्र स्थ. स्थितः, धर्मादिमः धर्मस्य आदिमः वर्ण 'ध', ततश्च 'माधवः' इति निष्पन्नम् । स माधवः अधर्मस्य दलनं नाशनं कुरुताम् । धर्माणि च कुरुताम प्रसारयतु । ततश्च सेयमन्तापिका प्रहेलिका ।। १५० ॥

श्रीकृष्णभट्टविरचिता बबन्ध ] मारसारसमासेच्या व्यासेमानहतानुमा । मानुता परमायामा मायामानातिसारमा ॥१५॥ प्राधियास्यां स कामाननमाकामादिमादिका। काडिमान्याभिकाम्या सा साम्याकाराप्रियाधिका ॥१५॥ प्रकृतिरमरमापा शब्दशास्त्रेण सिद्धा प्रकृतिमनुसरेत्तत् प्राकृतं गीः शिशूक्तिः । तदुभयमनुसृत्य प्रोत्थिता वैखरी सा विविधजनमुखोत्था लोकभापति सोक्ता ॥१५३।। शब्द( व्याकरण )शास्त्रंण सिद्धा देववाणी (संस्कृतम् ) प्रकृतिः प्रकृतिसिद्धा भाषा । प्रकृति संस्कृतम् अनुसरति, अर्थात् संस्कृतस्यैव कालक्रमेण अशक्त्यादिना, देश- कालप्रभावात् कण्ठताल्वाद्यभिवातविकारेण 'प्राकृत नाम्नी गीः वाणी निष्पन्ना, या संस्कृतम्याग्रे शिशूनाम् उक्तिः। उक्तं च भामहेन 'प्राकृतप्रकाशे'-"प्रकृतिः संस्कृतम् , नत आगतं प्राकृतम्” अर्थात् संस्कृतं प्रकृति स्वस्वरूपम् आधारं कृत्वा, निष्पन्नं प्राकृतम् । मंस्कृत-प्राकृतेति उभयं द्वयम् अनुसृत्य या प्रोत्था निष्पन्ना। अर्थात् संस्कृतात् कालक्रमण उचारणादिविकार सति प्राकृतम् । काले याति प्राकृतस्यापि शनैः शनैः अपभ्रंशजनित- न्यरूपनिप्पत्या तत्तत्प्रान्तीयभाषास्वरूपेण सेयं ब्रजभाषा, तत्रापि देशकालप्रभावात् सेयं लोकभाषा हिन्द्यादिनिप्पन्नेति संक्षिप्ताशय.॥ १५३ ॥ चतुरग्निचयनकारी पञ्चाधिकशतशुभाश्वमेधकरः । श्रीसर्वमेधयाजी जयतु सवाईमहीपतिः सम्राट् ॥१५४॥ येन चत्वारश्चयनयागा. कृता । पश्चोत्तरं शनं च अश्वमेधा. कृताः। तदनन्तर मयजनात्मक मर्वमेध विहितवान । अयं हि सर्वमेधश्चतुस्त्रिशदिनसाध्य, सोमयाग । प्रथमं दिनमग्निष्टोमवस्थम् । ततो दिनत्रये इन्द्रस्तुन् , सूर्यस्तुत् , वैश्वदेवस्तुन् इति उसध्यसंस्था. । ततो महानतमह इत्यादि मीमांसातोऽभिक्षेयम् । जयसिंहमहागजस्य मम्राट्वम् 'ईश्वरविलास महाकाव्येऽपि अनेनैव रूपंग प्रो प्रकृतग्रन्थकारेण । यथा हि द्वितीयनर्गस्य १-१० ग्लोयी- पद्यमुकावली [५३ "तस्यात्मज कीर्तितपुण्यकर्मा श्रीमत्सवाईजयसिंहवर्मा । बभूव सम्राट् चतुरग्निचिद्यः पञ्चाधिकप्राप्तशताश्वमेधः ।। चक्रे स सर्वयजनात्मकसर्वमेधं दधे पुनः पुरुषमेधविधेर्विधानम् । सोमांश्चकार शतश. प्रतिवर्षमेव पूर्णस्य धर्मजलधेः परपारमाप ।।" एवं यागकरणे सम्राट् इति प्रख्यायते । अत्रत्यो विशेपो जिज्ञासुभिः 'ईश्वरविलास' महाकाव्यात् , तट्टीका विलासिनी'तश्च वोध्यः ॥१५४|| राधारदच्छदकपोलगन्तविम्ब- पूर्णेन्दुरङ्क रुचिचुम्बनलालसो यः। गोपीकुलाऽऽकलितकेलिकलाकलाङ्गः कौलव्रतक्षतजगा वतिः स वोऽव्यात् ॥१५॥ राधाया रंदच्छदः अधरः, कपोलौ, हगन्तविम्बश्च एते कीदृशा. पूर्णेन्दु- ग्डुरुचयः । अर्थात् मुखरूपे पूर्णचन्द्रे रंकु. लाञ्छनरूपो मृगः तत्कान्तिः, सकज्जलो नेत्रप्रान्तः अस्ति । अयं श्रीकृष्णः राधामुखे तादृशरंकुकान्तिचुम्बने लालसोऽस्ति | किञ्च गोपीकुलेन ( समूहेन) आकलिता युक्ता या केलिकला क्रीडाविनोदः, तेन कलानि सुन्दराणि अगानि यस्य सः । निजकुलव्रतात् नियमात् क्षताः दूरीकृताः जगतो युवतय जागनाः येन, ईदृशः सः भगवान् श्रीकृष्णः वः अव्यात् रक्षतात् । गोपीनां स्वं स्वं कुलवतं तासां तत्तन्मानुषसंबन्धित्वात् लौकिक्रमासीत् । किन्तु अनुगृहीतानां तासां लौकिकं संवन्धं दूरीकृत्य भगवान् स्वेन संवन्धमलौकिकं स्थापितवान् । ततश्च ता' नित्यलीलाया स्वीकृतवानिति भगवतोऽनुग्रहातिशयः सूच्यते । उक्त च श्रीमद्भागवते- या दुस्त्यजं स्वजनमार्यपथं च हित्वा मेजुर्मुकुन्दपदवी श्रुतिभिर्विमृग्याम् ॥ इत्यादि । १५५ ॥ - “ हर्षादौ विहितो, यशोभरसरिच्चारित्रकारित्वयो- मध्ये संकलितः, कवित्वकलना कौतूहलोपान्त्यगः । यः संसारविसारसारविसरस्येकोऽवधिः संस्तुतः सोयं भाति गुणौघरञ्जितचतुर्वर्णप्रमोदप्रदः ॥१५६॥ हरिहर इति] हर्षस्य आदौ को विदितः ? 'हः' । यशोभरसरित् , चारित्र, कारित्वयो मध्ये संकलित. ( स्थित. ) का ? 'रि' । कवित्वकलनाको मूहलस्य उपान्त्ये अर्थात् अन्त्यस्य ?

५४] श्रीकृष्णभट्टविरचिता 2 . समीपगतः क ? [अन्त्ये ल , तत्समीपे 'ह' ] | 'संसार, विसार, सार, विसर, बनेपाम् अवधि' अन्त्य. क ' 'र.' । ततश्च सर्वसंकलने 'हरिहर' इति निष्पद्यते । अर्थश्चापि-हर्पादौ मङ्गलभाव हरिहर इति भगवन्नामैव सहायकम् । ततश्च हर्षादिवस्तुनिचये भगवान् विदित । यशोभरसरित्-चारित्रकान्तिा, एतयोर्मध्येऽपि भगवान् हरिहर संकलितः स्थित.। भगवदनुग्रह विना न यशोराशिलभ्यते, न च चारित्र्यनिर्माण भवति । तथा कवित्वकलना( निर्माण )कौतुकस्यापि हरिहरभगवानेव उपान्त्यगः । संसारविसार(त्याग)स्य सारविसर. सारभूतः कः, अर्थात् संसारत्यागावसरे सारभूत क. १ हरिहरभगवानेव । सोयं हरिहर. गुणसमूहैः रञ्जित. शोभितः, ब्राह्मण- क्षत्रियादिचतुर्णानां प्रमोददायकश्च । किञ्च चतुर्भिवणैः (अक्षरैः) स्मरतां कीर्तयता प्रमोदप्रद. हरिहर एव भाति । इति साधारणतया अर्थः ।। १५६ ॥ [भाषासस्कृतयो श्लेष] सातदिनाकरलीनमहा गिरजापरमोरुकुतूहलकारी कण्ठहराहरकीलकुटी तनुनीलमसी रुचिरञ्जनकारी । कामदयारिहितो वरगोपतियान उदारकलानिधिभारी भावनिजाचित सर्वसुराधिक एतु मनो नितरामहिहारी ॥१५७।। अय भाषा-संस्कृतयोर्यथा श्लेषः, तथा वर्णनीयविषयेऽपि श्लेषः । अर्थात् हिन्दी- भाषायां वर्णनीयः श्रीकृष्णचन्द्र, संस्कृते तु भगवान् शङ्करः । दृश्यता ब्रजभाषाऽर्थाऽऽनु- कृल्येन पदच्छेदादिभिर्विलिख्यमानं तदिदं पद्यम्- सातदिनां कर लीन महागिरि जा पर मोरु कुतूहलधारी कण्ठ हरा हर कीलकुटी, तनु नीलमसी रुचि रंजनकारी। कामद, यारहितो वर गोपतियान उदार कलानिधि भारी भावनि जाचित सर्वसु राधिक ए तुम नोनित रामहि हारी॥ . ( "सप्तदिनावधि करे येन महागिरि ( गोवर्द्धनः ) गृहीत , यदुपरि मम कुतूहलं दधाति । कराठे हार (वनमाला), कीलकुट्याः दावानलजालस्य योहर अर्थात् हारक., वढेढे- यो लकीलो' । यस्य तनु नीलमणिवत् स्वकान्त्या रञ्जनकारिणी । कामदः (अभीष्टमनो- रथदः, अथवा कामोत्पादक ), मित्रेषु हितः, (वर) कोष्ठकश्रेष्ठासु (गोपनियान ) गोपपत्नीषु पद्यमुक्तावली [५५ दार', श्रेष्ठश्च । कामकलानां निधिः । भावैः यस्य चित्ते सर्वस्वं राधिकाऽस्ति । अयि त्वं नवनीतस्य, (महि) दध्नश्च हारी असि एवंप्रायोब्रजभाषायामर्थः ] संस्कृते तु- तया सातदिनान सुखदिनाना आको समूहे लीनं महस्तेजो यस्य, सातदिनाऽऽकरलीन- महाः । अर्थात् यस्य तेजः (प्रभावः) सुखदिनकारी, कालं शुभं निर्मातीति यावत् । शर्मसा- तसुखानि च' । यः शिवः गिरिजायाः परमोरु ( महत् ) कुतूहलं धरति । कण्ठे या हला- हलस्य कीलकुटी ज्वालरेखा, तया तनुः सूक्ष्मा या नीलमसी( स्याही )वत् रुचिः, रखनकारी । कामोपरि दयारहितः । वरः श्रेष्ठो यो गोपतिनन्दीश्वरः स यानं यस्य । उदार निष्कलङ्गं क्लानिधि चन्द्रं विभर्ति सः । भावेन निज स्वयम् आचिताः एकत्र स्थापिता ये सर्वे सुराः तेषु अधिकः । ईदृशः अहिहारी ( सर्पभूषणः ) नितरां सर्वदा मनः एतु अधितिष्ठतु-अयमर्थः स्यात् ] ॥१५७ ॥ . , समधिकरवाणि भक्तौ भक्तौषकृतानि सरसमधिकरवाणि । करवाणि कीर्तनानि प्रमीद कृष्णस्य शुभरसाकरवाणि ॥१५८॥ कृष्णस्य कीर्तनानि कीदृशानि? भक्तौ समधिक-वाणि, समधिको खः नादो येषु तानि, अर्थात् उच्चैः स्वरेण कलितानि । भक्तौघेन कृतानि कीर्तनानि अहम् सरसं सानन्दं यथा स्यात्तथा अधिकरवाणि अधिकृतानि करोमि । स्वाधिकारमुक्तानि करवाणि, इति प्रार्थना । 'प्रार्थनायां लोट् । हे शुभरसानाम् आनन्दानाम् आकर(खनि)भूते हे वाणि । त्वं प्रसीद 1 अहं कृष्णस्य कीर्तनानि ( नामसंकीर्तनानि ) करवाणि, इति प्रसन्नाया. त्वत्तः प्रार्थये ॥ २५८ ॥ गोविन्द श्रीलगोपीजनहृदयपरानन्ददो वल्लभस्त्वं गोपेन्द्र क्ष्मीललोपी घनसदयतरामन्दगो मल्लभश्व । गोविन्द हीलरोपी विलसदयनरानन्दको म भक्ता गोपेन्द्र त्रीलनोपीडयमदयवराश्चर्यदो वल्लभश्रीः [अय च कामधेनुवन्धः] नवनीलधनं धनतापतरं भज भावभरैरभिरामतरम् । भवभोलहरं जनजापभरं व्रजदावचरैरभिकामवरम् सवशीलधनं सनलापकरं गजरावहरं हरधाम परम् ।। जवलीलवनं वनभायधरं जयधावधरं दरयाम सरम् ।। [अयमपि कामधेनुबन्धः] ५६ ] श्रीकृष्णभट्टविरचिता ललिताललितालिशतावलिता गुणिताकलिताफलितासुलता। सुहितासुहितावृषतापिसुता निहिता हृदि तापमुता धुनुतात् ॥ [अय च कपाटादिवन्ध.] वरतरनरवरकरसरखरतर करवारधारपरदरभारः । स्थिरतरमतिरतिसीमा श्रीमाधव भव विभाविभासितसातः ॥ [अयं कपाटहारादिबन्धः] वरतरनरवरकरसरखरतरकरवारधारपरदरभारः । स्थिरतरमतिगतिरतिसीम श्रीमधुमथनजनमान जयनमयकायः ।। [अय चतुष्पुष्पहारबन्ध ] जागृहि जागृहि वीरवर्य वृन्दारकवन्दित । जागृहि जागृहि धीर धरणिकृतधर्मानन्दित जागृहि जागृहि विष्णुयशोवंशालयमण्डन । जागृहि जागृहि देवभागहरधनवनदण्डन । जागृहि जनलोचनजातसुख जागृहि जय लक्ष्मीनिधे । जागृहि माहितनिजविभव कल्किरूप गुणवारिधे ॥१६४॥ वृन्दारकै. देवै वन्दित ! धरण्या पृथिव्या कृतेन धर्मेण आनन्दित ' विष्णुयशो- नामकस्य पितुः कुलभुवनस्य मण्डनभूत ! देवानां भागहारका ये दैत्यादय ते एव धनं ( निविडं ) वनम् तस्य दण्डदायक ! [ दण्डयतीति दण्डन. कर्तरि ल्युः ] । लोचनज ते.। कृते सुख! अथवा लोचनानां कृते जातं सुवं यस्मात्तत्संबुद्धौ। लोचनसुखकारक, इत्याशयः । मायाः लक्ष्म्याः हिते निंजो विभवो यस्य तत्संबुद्धौ । लक्ष्मीलीलार्थ सर्ववैभवशालीत्यर्थ । जागरणार्थ मङ्गलगीतिः ॥ १६४ ॥ जय जागृहि वीर जयैकनिधे ! जप जागृहि सद्गुणवारिनिधे ! जब जागृहि जातशुभैकविधे । जय जागृहि संततनम्रविधे ॥१६॥ जयस्य अद्वितीयनिधानभूत ! जाताः शुभैके शुभमात्राः विधय विधानानि कार्याणि यस्य यस्माद् वा तत्संबुद्धौ । सृष्टे. कृते मङ्गलकार्यकारिन्नित्याशयः। संततं नम्रो विधि विधाता यस्मात् , विधाताऽपि त्यां नमतीत्याशय. ॥ १६५ ॥ - ५७ ] पद्यमुक्तावली भुवि विष्णुयशोभुवनाभरणम् । कमनीयमशेषमनोहरणम् । न भवन्तमुपेत्य भवे विहरे । जय जागृहि जागृहि कल्किहरे ॥१६६।। विष्णुयशसः तन्नामकस्य पितुः भुवनमात्रे आभरणं मयडनम् । सुन्दरम् , अतएव सर्वेपा मनोहारकम् । भवन्तं प्राप्य, भवत्सांनिध्यसुयोगं प्राप्य भवे संसारे न विहरे । त्वत्संपर्कमात्रेण संसारे याताऽऽयातं समाप्यते इत्याशयः ॥१६॥ जागृहि जागृहि कल्किहरे । दिविषद्रमणीकमनीयविलोचन ! जागृहि जागृहि सत्वनिधे ! विलसत्कलिदोषकदम्बक्रमोचन ॥१६७॥ दिविपदा देवानां रमणीनां कृते कमनीये सुन्दरे लोचने यस्य तत्संबुद्धौ । हे सत्वस्य वलस्य निधानभूत ! विलसतां कलियुगदोषकदम्बकानां ( समूहानाम ) मोचन दूरीकारक ! ॥१६॥ जागृहि जागृहि दुर्नयखण्डन शत्रुचमूचयचण्डविरोचन । जागृहि जागृहि वक्त्ररुचैव विभातविकासिसरोरुहशोचन ॥१६॥ दुर्नयस्य दुष्टनीतेः खण्डनकारक ! शत्रुणां चमू सेना चयस्य ( समूहस्य ) कृते चण्डविरोचन प्रचण्डसूर्य ! वक्त्रस्य मुखस्य कान्त्यैव विभाते प्रातःकाले विका- सिनां सरोरुहारणां कमलानां शोचन तिरस्कारक ! सवाईजयसिहमहाराजेन जयपुरे प्रतिष्ठापितस्य श्रीकल्किदेवस्य प्रातःकाले जागरणमङ्गलम् । विशेषाऽवबोधाय ईश्वर- विलासस्य षष्ठः सर्गो विलोकनीयः ॥१६॥ राजीवं समुदीतवासरमणिः सोल्लासमानन्दय- त्याशा मांसलयन्यहो वरदया भासा स भासांनिधिः। विप्रो दानिवरं समाश्रयति स त्वामात्तभक्त्यञ्जलि: किं चेतो दयते प्रभात इतरानाप्यायिनी लोकतः ॥१६॥ [रवि-दान्त्रोः श्लेषः] समुदितः वासरमणिः सूर्यः राजीवं फमलं सोल्लासं यथा स्यात्तथा आनन्दयति विकासयति । 'समुदीत' इति 'ईड' गतौ इति देवादिकात् क्तप्रत्यये बोध्यः । यथा लक्ष्मीसहस्रे-'उदीता दुग्धाब्धेः कुवलयपरीतापशमिनी' इति । भासानिधिः (सूर्यः )

५६
श्रीकृष्णभट्टविरचिता
स कामपूरिकया भासा कान्त्या आशा दिश. मांसलयति पुष्टाः करोति । हे सूर्य !
आत्तः गृहीतः भक्ते, अञ्जिलियन ईशः स विप्रः दानिवरं त्वां आश्रयति । किन्च-
इन. प्रभाते आप्यायन ( पूरण-बद्धन ) कारणात् नीलोकतः विलोकनात् इतरान् जनान्
अपि दयते दयया सरक्षति । 'नीलोक.' इति 'उपसर्गस्य घन्यमनुप्ये बहुलम्' इति
उपसर्गदीर्घाद् भवेत् । सूर्यस्य, दातुश्च श्लेष इति ग्रन्थकर्तुराशयः ॥१६६।।
गुणवद्गणितो गुणिनां शृणुयादेवैप सुमधुरा वाचः ।
यद्यस्य कर्णलग्नो न स्यादौदुम्बरो मशकः ॥१७०।।
-
गुणवद्भिर्गणित: संमानितः, अथवा गुणवत्सु गणिनः प्रतीनित अयं गुणिजनानां
वाचः शृणुयादेव । किन्तु-गोदुम्बर• उदुम्बरफलान्निष्क्रान्तः मशक अस्य कर्णलग्नो
ऽस्ति । अतएव तस्य मन्द-कर्णध्वनिना अयं वाचो न शृणोति । गुर्जरब्राह्मणेषु औदुम्बर-
भेदवान् कश्चिद् ब्राह्मणो ग्रन्थकारस्य आलोचनाविषयः । अतएव मशकायतोऽपि स
पिशुनता कुर्वन् अस्य राजादे कौँ उपजपति, न चायं ग्रन्थकारस्न बहुमन्यते । अतएन
सावहेलमिदमुक्तम् ॥१७॥
सारङ्गाः स्वाङ्गभङ्गात्कृतबहलभियो यान्तु नैश्चिन्त्यमन्तः
कोलाः संभ्रान्तिलोलाः किमपि न दधतां भीतिमत्तां भवन्तः ।
नायं सायंतनोद्यद्घनसदृशलसत्कुम्भिकुम्भाऽसृगन्त:-
संभारस्नानसंभावितसुखनखरः साभिलापो भवन्सु ।।१७१॥
"
स्वस्य अङ्गभङ्गात् कृता वहला प्रचुरा भीः यैस्ते । निजागभङ्गहेतुको भीति
कुवारणाः सारङ्गा कृष्णमृगा. निश्चिन्तता यान्तु । संभ्रमेण चञ्चला. कोलाः : वराहा'
भवन्त. किञ्चिदपि भीतिमत्तां भययुक्तता न दधतां धारयन्तु । दधातेर्लोट. प्रथमपुरुष-
बहुवचनम् । सायंकालभवस्य उद्यत उदीयमानस्य घनस्य मेघस्य सदृशम् , कुम्भिकुम्भस्य
( कुञ्जरंगण्डस्थलस्य ) यत् असृक् ( रक्तं रुधिरम् ), तस्य अन्त-संभारे अन्तःप्रवाहे
रुविरराशौ ] स्नानेन संभावितसुखा. ( उत्पादितप्रमोदाः ) नखाः यस्य ईदृशः अय
सिह भवत्सु ( मृगादिपु युष्मासु) साभिलाषो नास्ति । अयं मृगेन्द्रः कुञ्जरेन्द्रस्य
कुम्भगलद्रुधिरे निजनखानां स्नानाभिलाषुकोऽस्ति । भवद्रुधिरसाभिलाषो नास्ति ।
अन्योक्तिः ॥१७॥

- पद्यमुक्तावली [ समुदज भवसागरतः कमलाभतः : समुदज भवसागरतः ब्रजधव सकला लीला माताऽमाती ब्रजधव सकला लीला कामनापूरिका स्वानां नास्वाकामितसेवका। कावसेयापि कान्या मा मान्याकाराधिनामका ॥ [कमलवन्धः ] हे कमलाभतः लक्ष्मीपते ! भवरूपात् सागरात् समुदज सम्यक् उत्क्षिप उद्धर । 'अज गतिक्षेपणयोः' । हे ब्रजधव ब्रजपते ! ॥१७२। लीलालोलितनूतनूतनलतालालित्यनित्योत्सवः कार्णाटीकुचकुम्भसंभ्रमपरीरम्भस्फुरत्सौरभः । गत्वाऽन्तर्मलयाऽद्रिसुन्दरदरीसंक्षोभकारी मुहु- जातोऽयं हृतनर्मदाऽम्बुरधुना वातोऽपि शातोदरि ! ॥१७॥ हे शातोदरि कृशोदरि ! लीलया लोलिता, कम्पिताः ये नूताः चूताः ( आम्राः) नूतनलताश्व, तेषां लालित्येन ( सौन्दर्येण ) नित्यम् आनन्दयुक्तः । कुचकुम्भयोः संभ्रमेण ( आनन्दाऽऽवेगेन ) परीरम्भः आलिङ्गनं तेन दीप्यमानसौगन्ध्यः । मलयान्तः गत्वा, तस्य मलयाचलस्य सुन्दरगुहानां संक्षोभ( विचलन )कारी, अयं वातः अपि संप्रति तम् आनीत नर्मदायाः अम्बु ( जलस्य शीकरा. ) येन तादशः, शीतः, मन्दः, सुग-- न्धिश्च जात इत्यर्थः ॥१७३॥ आरादापत्तिभारापहरणनिपुणा रत्नहाराऽभिरामा स्वाराज्यानन्दसाराधिकसुखवसतिः सर्वदाऽऽराध्यरूपा । कारागाराधिकीर्तिप्रदभवहरणा ज्ञानधाराऽभिरम्या माराऽरातेविहाराऽऽस्पदमवतु शिवा निर्विकाराशयान् वः ॥१७॥ दूगदेव आपत्तीनां भारस्यापहरणे निपुणा । स्व:-राज्यस्य स्वर्गराज्यस्य य आनन्दः, तस्य यः सारभागः, ततोऽप्यधिकम्य सुखस्य निवासभूता । अाराध्यं उपासनीय रूपं यस्या. सा। काराऽऽगारादप्यधिकायाः कीर्तेः ख्याते प्रदः य. भवः ( संसारः, संसारे जन्म-मरणयोर्वन्धः ) तस्य हरणः । जानिनः कारावासादप्यधिक क्लेशं भवस्य प्रख्यापयन्ति । ज्ञानधारया अमितो रम्या । मारस्य अराते. शत्रोः ( श्रीशिवम्य ) विहारस्थली, शिवा पार्वती निर्विकारहृदयान् युष्मान् अवतु ॥१७५।। " ६.] श्रीकृष्णभट्टविरचिता सार सानन भारा धा धारामा नन सारसा। तव नाम नदी तार रतादीनमना वत ॥१७६॥ [ गतप्रत्यागतवन्धः इतो हैन्दवीं सृष्टिमानन्दयन् स्वै- गुणौद्य स्ततो यावनी सृष्टिमुच्चैः । महेन्द्रास्पदे श्रीयुतः सूर्यमल्ल- स्तटद्वन्द्वसंयत्तरङ्गः समुद्रः ।।१७७॥ स्वैः गुणसमूहैः इतः हिन्दुप्रजाः आनन्दयन् , तत, यवनप्रजा. अानन्दयन् । महेन्द्रास्पदे तस्मिन्काले तन्नाम्ना प्रथिते स्थाने सूर्यमल्ल. [ सूरजमल जाट इति इतिहास- प्रसिद्भः ] तटद्वये संयन्तः संमिलन्त. तरङ्गा, यस्य, ईश. समुद्र. अस्ति । समुद्रतरङ्गा यथा पूर्वपश्चिमयोस्तटयोर्मिलन्ति तथा अस्य गुणाः हिन्दु-यवनप्रजाः प्रीणयन्ती- त्याशयः । सवाईजयहिस्य समयमारभ्य माधवसिंहदेवस्य शासनं यावत् आगरा-दिल्ली- परिसरे प्रवर्धमानः सोयं जट्टराजः, यस्य राज्यं कालक्रमेण 'भरतपुर प्रान्तनाम्ना प्रासिध्यत् । ग्रन्थकारो जट्टराजस्य राज्येऽपि संमानमधिगत्य 'दुर्गाभक्तिरङ्गिणी' नामक ग्रन्थं प्रणिनायेति बहुनामुक्तिः । 'ईश्वरविलासेऽपि किञ्चिद्वृत्तान्तोऽस्य समुपल- भ्यते ॥१७॥ उद्यन् दोषाकरस्याऽप्यथ निजचरणैकाश्रयस्य प्रभावं तन्वानः किंकराणां किमुत गुणवतां रज्यतामम्बुजानाम् । भाति ख्यातः प्रमातोदयगिरिगदितोद्दामविद्योतरश्मि- प्रोदञ्चन्मण्डलाग्रप्रचुरतररुचिः श्रीयुतः सूर्यमल्लः ॥१७॥ उद्यन् उदीयमानः यः सूर्यः दोषाणा खनिभूतस्य, खनिभूतस्य, वास्तवे तु दोपाया: रात्रे. कारकन्याऽपि चन्द्रस्य निजपादा एव एकः आश्रयो यस्य । वास्तवे तु पादाः रश्मयः आश्रयो यस्य । सूर्यस्य किरण एव शुक्लपक्षे यथाक्रम चन्द्रे संगत्य चन्द्र प्रकाशयन्तीति ज्योतिर्वैज्ञानिकानां प्रसिद्धि. । ततश्च दोषाकरत्यापि चन्द्रस्य निजपादाश्रयत्वात्सोयं सूर्यः प्रभावं प्रकाशादिमाहात्म्य तन्वान. विस्तारयन् भाति, इति । गुणयुक्तानाम् , वास्तवे तु गुण ( तन्तु ) युक्तानाम् । रज्यताम् अनुरक्तानाम , वस्तु- तस्तु राग ( 'रङ्ग' ) चुक्तानाम् किंकगणां सेवकानां अम्बुजानां किमुत ? दोपावरस्यापि यदा प्रभाव विस्तारयति तदा गुणयुक्तानाम् अनुरक्तानाम् कमलानां विषये किं वक्तव्यम् । अर्थात्तपां तु पोपणं वृद्धिं च कुर्यादेव । प्रभाते उदयगिरौ उदयाचले गदिता, कीर्तिता - पद्यमुक्तावली उद्दाम विद्योतरश्मिपु प्रचण्डप्रकाशकिरणेषु प्रोदञ्चतः प्रोज्जम्ममाणस्य मण्डलाग्रस्य निज- विम्बाग्रभागस्य प्रचुरतग रुचिः ( कान्तिः ) यस्य ईदृशः मल्ल इव सूर्यः भाति । सूर्य- मण्डलस्य प्रभूता कान्तिः उदयाचलस्योपरि प्रचण्डप्रकाशस्य, तत्किरणानां मध्ये भवति या हि सवभावेन कीर्त्यते । अयं च सूर्यमल्लनामा जट्टराजः पूर्वदिशि प्रख्यातस्य उवय- पर्वतस्य उपरि, प्रचण्डतेज प्रकाशस्य मध्ये, चञ्चत' चमत्कुर्वतः मण्डलाग्रस्य खड्गस्य प्रचुरतरा कान्तिः यस्य (सूर्यमल्लस्य ) भवति तादृशोऽस्ति । "कौक्षेयको मण्डलायः करवाल. कृपाणबत्" इत्यमरः । कबिनाधिष्ठितात् राजस्थानतो भरतपुरप्रदेशः पूर्वस्यां दिशि वर्तते । अतएव प्रभाते वय॑स्य राज्ञः खड्गस्य कान्तिः उदयपर्वतस्य परितः प्रकाश- मानस्य रश्मिजालस्य मध्ये भातीत्याशयः ॥१७८|| - उन्मीलन्मल्लिबल्लीमिलदलिपटलीतारझांकारचारु- प्रोद्दामोद्यानदीव्यत्कनकमणिमहामण्डपे रत्नवेद्याम् । उच्चः संस्थापितेयं त्रिभुवनजननी राजराजेन्द्रविद्या दद्यादद्याऽनवद्या हरिहर भवतः सर्वसौभाग्यलक्ष्मीम् ॥१७६।। उन्मीलन्तीषु विकसन्तीषु मल्लिबल्लीषु मिलन्तीनां अलि( भ्रमर )पटलीनां तारेण झांकारेण (तदनुकारिशब्देन) चारुणि, प्रोद्दामे विशाले उद्याने आरामे दीव्यन् राजमानो यः कनकमणिमयो महान् मण्डपः तस्मिन् । रत्नजटितवेद्याम् संस्थापिता राजराजेश्वरी महाविद्या अथ अनवद्या निर्दोषतया सर्वप्रशस्यां सर्वसौभाग्यसंपदं भवतः सर्वसौभाग्यसंपदं भवतः दद्यात् ददातु हे हरिहर ! ।। इद राजराजेश्वरीमन्दिरं 'गङ्गापोल'गोपुराबहिः, 'मानवाग' इति प्रसिद्धस्यो- द्यानस्य समीपे अस्तीति जाने । 'मानवागस्यास्य' जम्बूफलानि जयपुरे 'मानवाग का भौरेल्या' इति प्रासिध्यन् ॥१७॥ पायादुद्दण्डचण्डभ्रमित भुजमहामारुताऽऽवनवर्ति- त्रस्यद्वतालजालप्रकटितविविधस्तोत्रविस्मेरवक्त्रः । न्यक्कुर्वनिर्जरीणां कुचकलशपटानुद्भटाभिर्जटाभि- जीवातुश्चण्डिकायाः प्रकटितनटनभ्रान्तिकृत् कोपि देवः ॥१८॥ उद्दण्डा., चण्डं यथा स्यात्तथा भ्रमिताश्च ये भुजाः तेषां महत: (प्रचण्डस्य ) मारुतस्य ( पवनात्य ) आवर्ते चक्रे वर्तमानम् त्रस्यद् भयमुपगच्छद् च यत् वेतालानां भूतादिवदेवयोनिविशेषाणां जालम् , तेन प्रवर्तितेन विविधस्तोत्रेण विहसत् मुखं यस्य ६२] श्रीकृष्णभट्टविरचिता मः । उद्भटाभिः प्रचण्ड प्रस्फारिताभिः जटामि. देवागनाना कुचकलशयो. पटान ( वस्त्राणि ) न्यक्कुर्वन् उड्डाययन् , प्रकटितायाः नाट्यभ्रान्तः ( भ्रमणस्य ) कारक, श्रीचण्डिकायाः जीवातुः जीवनौषधिभूतः ( प्राणप्रिय.) कोपि देव. भगवान् शहर पायात रक्षतात् ।। १८०॥ जीवातुर्जीवाऽऽतुरजीवंजीवाङ्गनानां या । शरदिन्दुशालिनी सा शिव शिव न निशा कृशा भवति ॥१८१।। जीवने आतुराः याः जीवजीवानां चकोराणाम् अङ्गना. चकोर्य , तायां या जीवातु: जीवनौषधि ( अस्ति ), शरचन्द्रेण शोभमाना सा निशा हन्त न कृशा भवति, न क्षीयते, न समाप्यते [ वियोगिन उक्ति. ] ॥ १८१ ॥ श्रौतस्मातविचारचारुमतयो विद्याऽनवद्याऽऽशयाः सद्यः स्वधु नितोयपुण्ययशसः श्रेष्ठाः पुनः संततम् । यूयं सद्गुणवृन्दवारिनिधयः सभ्याः सतां संमता युष्माकं खलु संगतः सुकृतिनां लोकेषु धन्या वयम् ॥१८२॥ विचारे निपुणबुद्धयः । अनवद्य निर्दोप. ( स्वच्छ उदार ) आशय अन्न करण येषां ते । स्वर्धनी( गङ्गा )जलवत् पावनकीर्तय । पुन सर्वप्रकार श्रेष्ठा । सद्- गुणसमूहानां सागराः, सभासु हिता., यूय सज्जनानां सर्वती मानिता । युष्माक सगत संगात् (तसिल ) सुकृतिनां पुण्यवता लोकेषु मण्डले वयमपि धन्याः यशम्या जाताः ॥ १८२ ॥ यूयं कल्पतरुप्रमूनसदृशाः पुण्या, वयं पट्पदा यूयं भानुसमा वयं परिलसत्पद्मावलीसंनिभाः । यूयं सन्त इमे वसन्तसमयास्तत्सभिवृक्षा वयं यूयं चन्द्रकरा वयं च कुमुदस्तोमाः, स्वयं मन्महे ॥१८३॥ प्रसूनानि पुष्पाणि तत्सदृशाः पुण्याः पवित्रा, भवढाधारेण मोढमाना वय भ्रमरा } पद्मावली कमलराजि तत्सदृशा इमे यूयं सन्त प्रशंसनीया वसन्तस्य समयाः स्थ. वय तत्सगिनो वृक्षाः । चन्द्रस्य करा. किरणा, वय च कुमुदानां कैरवाणा स्तोमा समूहाः, इति वयं स्वयं मन्यामहे ॥१८॥ - पद्यमुक्तावली [६३ सुराणामादिस्यः शुभमतिनिधानान्तरगतः कवीनामाद्यत्वं सुकृतनिकरस्याऽप्यवधिताम् । परिप्राप्तो विद्वान् समुदितचतुर्वर्णसुखदः स कश्चिद्विख्यातस्त्रिजगति विपश्चिद्विजयते ॥१८४॥ सुराणाम् आदौ स्थितः 'सु' इति । शुभमते यत् 'निधानं' तस्य अभ्यन्तरगतः 'या' इति । कवीनाम् श्राद्यः 'क', सुकृत( पुण्य ) निकरस्य' अवधितां अन्तता प्राप्त 'र' इति । समुदितैः चतुर्भिर्वर्णैः अक्षरैः सुखकारकः । किञ्च समुदितानां चतुर्णा ब्राह्मणक्षत्रियादिवर्णानां सुखदः । विपश्चिद् विद्वान् । ततश्च 'सुधाकरः” इति ॥१४॥ विवुधानामास्वाद्या सुधासमुद्भासिसरसकवितैव । तस्यास्त्वमाकर इह श्रीरत्नाकर भवो भवे भवसि ॥१८॥ विबुधानां देवानां पण्डितानां च । सुधा( अमृत )वत् समुद्भासिनी शोभमाना सरसा कवितैव ( अस्ति) । हे रत्नाकर ! तस्याः कवितायाः त्वम् आकरः खनिभूत. भवे संसारे भवः शंकरः इव भवसि । केचितु रत्नाकरभवः रत्नाकरजातः पुत्रः, यः विबुधानाम् आस्वाद्या सुधा, तस्याः श्राकरः 'सुधाकरः' इति कल्पयन्ति ॥१८५॥ इति राजसि मादृग्जनजीवंजीवैकजीवातुः । सुचिरं जीव सुभाग्यैर्मार्कण्डेयायुरवनिमार्तण्ड ! ॥१८६॥ मादृशजनरूपा ये जीवजीवाः चकोराः तेषामेकमात्रो जीवनौषधिस्त्वम् चन्द्र इव इति पूर्वोक्तप्रकारेण शोभसे । हे मार्कण्डेयवदायुःशालिन् त्वं सुन्दरैर्भाग्यैः सुचिरं जीव ॥१८६॥ देव श्रीवुद्धसिंह त्वदसिजलधरोल्लासिसत्कीर्तिनीरे तुङ्गप्राच्यादितीरे भवसरसि भवत्साधुवादोर्मिसंघे । नक्षत्राण्येव हंसाः परिलसितनभोनीलिमा शैवलोद्यः पूर्णेन्दुः पद्ममस्मिन् , मधुरमधु सुधा, देववृन्दा मिलिन्दाः ॥१८७ तव असिरूपेण जलधरेण उल्लासिनी (प्रवाहिता ) सत्कीतिरेव नीरं यस्मिन् ताशे। प्राची दक्षिणेत्यादयो दिश. तुङ्गानि तीराणि यस्मिन् । भवतः त्वत्सम्बन्धिना साधुवादाः ( प्रशंसाः ) एव ऊर्मि( तरङ्ग )समूहो यस्मिन् । अस्मिन् जगरूपे ६४] श्रीकृष्णभट्टविरचिता सरोवरे नक्षत्राणि ताराः एव हसाः, आकाशस्य नीलता शैवालसमूहः. सुधा मधुर मधु, देवसमूहाः भ्रमराः सन्ति ये प्रत्यहं तदमृतं जुषन्ति ॥१८७॥ वह्निभूमितलं विवेश, दिवसैदौर्बल्यमासादितं सूर्यो वीक्षितमात्र एव कलयत्यस्ताचलान्तर्गतिम् । प्रालेयोद्भववेदनातिविषमे हेमन्तकालेऽधुना रात्रि रिकुहेलिकाकणमिषाद्वाष्पोदकं मुञ्चति ॥१८८|| प्रालेयस्य हिमस्य प्रपातपीडया कठिने अस्मिन् हेमन्तौ अमिः पातालं प्रविवेश । यतः उपरि हिमपातो ) भवति । शीतपीडया दिवसा दुर्बलाः ( लघवः ) जाताः सूर्यो यत्किश्चिद् दर्शनं दत्त्वैव अस्ताचलस्य अभ्यन्तरे गति कलयति ( करोति ) । शीघ्रमस्तं गच्छतीत्याशय. । इयं रात्रिः बहुतरकुहेलिका( 'कुहासा' अोस )विन्दु- व्याजात् वाष्पजलं मुञ्चति । नेमे अवश्यायविन्दवः, अपि तु रात्रेरश्रुजलं तदेतदित्याशयः ॥१८॥ आग्नेयीं दिशमाश्रितोऽप्युदयते सङ्गोपिताङ्गो रविः (मूहु ) भस्मस्तोममिषेण वस्त्रपिहितस्वाङ्गोऽद्य वैश्वानरः । आवीतेन समन्ततः स्वशरणे शीतेन भीतोष्णता तन्त्रि त्वत्कुचमण्डलैकशरणे भूयश्चिरं जीवतु ॥१८६।। उष्णतालव्धये अग्निसम्बन्धिनी दिशम् आश्रितोऽपि रविः कुज्झटिकाच्छन्न- तया वस्त्रादिना गोपिताङ्ग एव उदयते । भस्मस्तोम( समूह )व्याजेन वैश्वानर अनिरपि वस्त्रैः पिहितानि अगानि यस्य तादृशः । अमिरपि भस्माच्छन्नतया वस्त्रा- च्छादित इव न स्फुटं ज्वलतीत्याशयः । [ समन्ततः आवीतेन आच्छादनेन स्वशरणे स्वस्य उष्णताया शरणे रक्षके ] शीतेन भीता उष्णता ( उष्मा ) तव कुचमण्डलमेव एक शरणं रक्षादायकं यस्या एवंभूता सती भूयः चिरकालं यावत् जीवतु । चिरकालं यावत् त्वत्कुचयोरुष्णता जागर्नु, त्वं स्थिरयौवना भूयाः, इति व्यङ्गम् ॥१८६।। सौजन्यव्रज-सौहदव्रज-सुहत्कार्यव्रज-श्रीवज- श्रीशालिव्रज-मद्यशोव्रज-बहुश्रेयोव्रजानां भवान् । एको भूषणतां विभर्ति भुवने तेनैव सत्कीयते लोकेऽस्मिन् व्रजभूपणेत्यभिधया जीयान्सहस्त्र समाः ॥१६॥ [ भगवतो नामोपरि] - r ॥ , पद्यमुक्तावली [६५ सुजनता-सौहार्द मैत्री)-मित्रकार्य-साधन-सम्पत्ति( अथवा शोभा)- श्रीयुक्तपुरुष-सत्कीर्ति-बहुकल्याण, एतद्ब्रजानां ( गणनाम् ) भवान् भूषणतां धार- यति । ततश्च एतेषां व्रजानां भूषणमिति ब्रजभूषणनाम्ना भवान् सहस्रवर्षाणि यावत् जीवतु । कांकरोलीसंस्थानस्य पूर्वगोस्वामिमहोदयस्य कीर्तिरियम् ॥१०॥ श्री मतामसमतामता नवा नम्रनम्रनरभक्तिभव्यभ । क्षोभयेदमदवादसादरं मह्यमत्रमनमस्तदासदा ॥११॥ [ हारवन्धः] पायानः शशिखण्डमण्डि तशिराः कैलासकेलीधरः कैवल्याहितवैभवः कुशलकृत् कामाहितैकप्रदः । साराधायकहृद् विरूपनयनानन्दी. सदामोदरो रुद्राणीकृतदानवेशसुभगः श्रेयाननाद्याऽक्षरः ॥१६२॥ [विष्णुशिवयोः श्लेपः। अनाद्यः [नास्ति आद्यो यस्मात् , सर्वादिमः ] चासौ अक्षरश्च स शिवः पायादिति दृश्यमानोऽर्थः । किन्तु सर्वेषु पदेषु अनाद्याऽक्षरः आद्याक्षररहितः । ततश्च सदामोदरः [आद्याक्षरराहित्येन दामोदरः], शिखण्डमण्डितशिराः, लास( नृत्य') केलीधरः, बल्याहितवैभवः ( बलेः सकाशात् आहितं गृहीतं वैभवं येन सः ), शलकृत् ( शलं तन्नामकं कंसस्य मल्लं कृणन्ति हिनस्ति सः ), माहितैकप्रदः (मायाः लक्ष्म्याः हितस्य एकमात्रः प्रदाता ), राधायकहृदू (राधाम् अयति हृद् हृदयं यस्य सः ), रूपनयनानन्दी (रूपेण नयनयोः आनन्दजनकः ), द्राणीकृतदानवेशसुभगः (द्राणीकृताः विद्राविता दानवेशाः श्रेष्ठदानवाः येन, अतएव सुभगः ), इति दामोदरपक्षेऽर्थः ॥१२॥ त्वय्यर्चिते ऽखिलसुरान् सुनुते जनोऽयं ग्राम्यस्य नैव कुरुते क्वचन प्रसक्तिम् । त्वद्विप्रयोगलव एव समभ्युदीते तापः समस्तनिगमांस्तव नाम्न्यधीते ॥१६३॥ तव वियोगस्य लेशमात्रे एव समभ्युदौते [ उदिते सति, 'ईड् गतौ' अस्मात् क्तः ], वापः संतापः खेदः समभ्युदीते अभ्युदेति आगच्छति । तव वियोगप्रसङ्गे एव जाते सर्वथा तापः उदेति । क्तान्तसप्तमी, लट्प्रथमपुरुषैकवचनं, एकमेव भवतीति -- ६६ ] श्र कृष्णभट्टविरचिता चमत्कार. । तब नाम्नि अधीते पठिते सति समस्तनिगमान् वेदान् अधीते पठति, इङ् अध्ययने । लडेकवचनम् , अत्रापि विष्णुशिवयोरर्थश्लेप. स्यात् ॥१३॥ . न सा राजमांनापि सा राजमाना नभोगावलाभापि भोगावलामा । अहोरातमोदापि होरा तमोदा न नाभीकलापापि नाभीकलापा ॥१४॥ . [विरोधाभास सा राजमानाऽपि नसा नासिकया राजमाना शोभमाना । सा राजमाना, नसा- राजमाना इति विरोधाभासः । नभति गच्छति सा नभोगा, नभोगा च सा अवला स्त्री देवाङ्गना, तदाभा, तत्सद्दशी । अपि सा भोगार्थ या अवला तदाभा, किं वा भोगानाम् अवलाभः प्राप्तिर्यस्याः सकाशात् सा । होरा तमोदा, अन्धकारदायिनी होरा ( घण्टात्मक कालः ) ऽपि अहनि रातः दत्तः मोदः यया सा । दिवसे दत्तानन्दा । न नाभ्यां कलापो भूषणं ( काञ्च्यादिकं ) यस्या ईदृश्यपि नाभी कलापा नास्तिभी. भय यस्य सः अभीक , न अभीक नाभीक. [ ने शब्देन समासः ] नाऽभीक, अर्थाद्. अनिर्मयः सखीत्वाद भयशाली लापः लपनं संभाषणं यस्याः । नाभ्यां भूषणरहिताऽपि अनिर्भय[ सभय ] लापिनी, इति कदाचिदर्थः स्यात् । अत्रापि विरोधालंकारः ॥१४॥ .. अकलितघनसारेऽपि श्रीफलवत्कलितघनसारे । हाररहितेऽपि हारिणि महदाश्चर्य त्वदीयकुचयुगले ॥१६शा . - न कलितः चर्चितः धनसारः कर्पूरो यस्मिन् कर्पूरलेपरहितेऽपि, श्रीफल( विल्व ) यत् कलितः घन. निविडः सारो दृढभागो यस्मिन् । अर्थाद् - विल्वफलवत् निविड- कठिने । हारेण रहितोऽपि हारी मनोहारी तस्मिन् त्वदीयकुचयुगले महत आश्चर्यम् ॥१९॥ माधवेन्द्रद्विपद्वामाः क्षामाः कामार्तितो दधुः । वाप्पौधान्तरितौ सायं चक्रवाकाविव स्तनौ ॥१६॥ माधवेन्द्रस्य द्विपद्वामा. वैरिस्त्रियः कामार्तित: कामजपीडया क्षामा दुर्वला' अतएव रोदनात् वाष्पौधेन अन्तरितौ आच्छादितौ सायंकाले चक्रवाको इव स्तनौ दधुः धारयामासुः । चक्रवाको चक्रवाकदम्पती अपि सायंकाले परस्परं वियुक्तौ भवतः । एवम् इमौ वैर्यङ्गनास्तनौ अपि अश्रुधारावशान् मिथः अन्तरितौ भवतः ॥१६६॥ Aam पद्यमुक्तावली - [ ६७ तेजस्विनो विदलितास्तव प्रतापेन माधव विमुक्तौ द्वौ । बाडवतया किलोवों मित्रतया चित्रभानुरपि ।।१६७।। हे माधवसिंह ! सर्वेऽपि तेजस्विनः तव प्रतापेन विदलिताः खण्डिताः शमित- तेजप्काः कृताः । केरलं द्वौ त्यक्तौ । बाडवः ब्राह्मणः इति कृत्वा और्वः बडवनलः ( सामुद्रोऽमिः ), मित्रतया सुहृत्तया ( मित्रमिति मत्वा ) चित्रभानुः सूर्यः । 'द्विजाग्र जन्म-भूदेववाडवाः'. 'और्वस्तु वाडवो वडवानल' इति कोशः। द्युमणिस्तरणिमित्रश्चित्र भानुविरोचनः, 'मित्रो रवावपि' इति च कोषः ॥१६॥ किञ्चिद्दवसहायेन पुरुषार्षे यतेत भोः । नेह गुप्ततमः कर्ता स्फुटं पद्य विलोक्यते ॥१८॥ देवेन सहायेन (सहायकेन ) पुरुषार्थे पौरुषे यत्नं कुर्यात् । 'नेह गुप्ततमः' अत्र 'ना इह', इति ना इति कतैव गुप्तः । ततश्च ना मनुष्यः दैवं सहायकं कृत्वा पुरुषार्थे यतेत, इत्यर्थः ॥१६॥ मूद्ध नि जाग्रति विधौ किल वक्रे या दशा भवति सैव ममापि । भस्मधूलनदिगम्बरतादि वेनि निग्रहमनुग्रहणं वा ॥१६॥ मूर्ध्नि विधौ चन्द्रमसि वक्र जाग्रति । शिवमूर्धि चन्द्रस्य कला, अतएव चन्द्रस्त वक्र: । किञ्च विधौ विधातरि मूर्द्धनि वक्रे प्रतिकूलतया जाग्रति लोकस्य या दशा यथा' शिवस्य भस्मना उद्ध्लनम् , दिगम्बरता ( नग्नता), इत्यादिः सा दशा ममापि । तामेतां दशां निग्रहम् ( पराभवम् ) अनुग्रहणं कृपां वा वेनि जानामि ? अत्र विधुविधि . इति इकार-उकारवर्णयोः श्लेषः ॥१६॥ कृषीष्ट फलसंपदं धन इबाऽति भूयान्मनों . महीतलरसप्रदस्तदमृतं सदासीष्ट नः । क्रियादरमहो भवान् कुशलमाशु देयादहो वरादपि परं तमो हर दयाम्बुधे यावलम् ॥ २०० ॥ [कृषीष्ट दासीष्ट त्यादि क्रियापदम् ] अतिभूयान् अतिबहुलो घन इव मेघ इव फलसंपदं फलसंपति कृषीष्ट क्रियात् इति आशिष्यते [ आशीर्लिड-कृनः आत्मनेपदम् ] | महीतलाय पृथिवीतलाय G ६८] श्रीकृष्णभट्टविचिता पृथ्वीतले वा रसप्रद. सूर्यरश्मिद्वारा रसानां सर्वविधरसानां प्रदाता सः ( विष्णु शिवो वा) न अस्मभ्यम् तत् अमृतं दासीप्ट देयात् इति आशी. प्रार्थ्यते । [ ददातेरात्मनेपदे- आशीलिङ् ] अहो हर भवान् अस्मभ्यम् अलं पर्याप्तं यथास्यात् तथा कुराल क्षेमं कल्याणं क्रियात् कुरुतात् इति आशिष्यते [ श्राशीर्लिङ् ] । अहो वगत् वरदानात् अपि परम् उत्कृष्टं वस्तु निर्वाणादिकं भवान् देयात् दत्तात् इत्याशा क्रियते [आशीर्लिङ् ] । हे दयाम्बुधे हर ! अलं पर्याप्तं तम. अज्ञानम् यातु गच्छतु निवर्तताम् । ॥२०॥ भूयान्मोदस्त्वदीयात्पटुतरभजनान्मे स्तुतोराहतस्य प्रोद्यद्भूयोभवाब्धेरपनयतु दमस्यादमस्यादमत्वम् । सद्योदारादिमायां शमय, शमनजां भीतिमुग्रां हरोच्चैः कामेनावाध्यमानं दयय जनमिमं स्त्रं विहायाऽन्यसक्तम् ।। २०१॥ [अत्रापि] भवतः स्तुती स्तोत्राणि आहतस्य आदरं कुर्वतो मे त्वदीयात् पटुतरभजनात् अतिनिपुणतया सेवनात् मोदः आनन्दः भूयात् भवतु [इति प्रार्थ्यते ] । प्रोद्यतः प्रवर्द्धमानात् भूयसः विस्तृतात् भवाब्धेः भवसागरात् माम् अपनयतु । दार( पत्नी ) पुत्रादीनां मायां मोहबन्धनं सद्यः शमय शान्तं कुरु । शमनात् यमात् जाताम् उग्रां भीति उच्चैयथा तथा हर अपनय । 'शमनो यमराड् यमः' इति कोशः । कामेन कामदेवेन आ समन्तात् बाध्यमानं पीड्यमानं विवशीकृतं इमं स्वं स्वकीयं ( त्वद्भक्तम् ) जनं दयम दयया स्वीकुरु । दयतेर्णिजन्तातू लोटि मध्यमपुरुषैकवचनम् । अन्यसतं अन्येषु पदार्थेषु सक्तं आसक्तं लग्नं [इमं जनं विहाय दूरे कृत्वा, दयय दयया स्वीकुरु) ॥२०१।। ललाष्ट चत्वराऽऽश्रय प्रकर्ष मोदमानय प्रभाहि माहि मा तप प्रसर्प चारु चन्दिरे । अये. ह. सज्ज. नाधमो. झव, प्रसाधयामृतं रसा, वहा. वधान. हृत् स्वमानके सदाशिवे ॥ २०२ ।। पञ्चचामरवृत्तेज.याः क्रिया एकविंशतिः । ता विद्ध येकाधिकरणे परमात्मनि शंकरे ।। २०३ ।। अग्रिमपद्ये सूचनानुसारम्-एकविशतिक्रियाणामधिकरणम् (आधार ) सदाशिवः । ततश्च सदाशिवं 'लल' अभिलप । तत्समीपम् 'अट' (शरणमागच्छ) । च-वर, .

~ पद्यमुक्तावली [ ६६ तस्य शरणग्रहणार्थ 'वर' (त्वरस्व)। सदाशिवम् 'आश्रय' । सदाशिवं 'प्रकर्ष', भत्त्या, तमेव प्रकर्पण आकर्ष, निजसमीपमाह्वय । अथवा तदाश्रयेण 'प्रकर्ष', उत्कर्ष लभस्व । सदाशिवव्याने 'मोद' ( मोदस्व, आनन्दितो भव ) सदाशिव 'मानय' अर्चय । अथवा स्वरक्षकं 'मानय' स्वीकुरु । सदाशिवस्याश्रयेण 'प्रभाहि' (शोभस्व, 'भा दीप्तौ)। सदाशिवभक्तेषु 'माहि' अभ्यन्तरो भव 'तनौ ममुस्तत्र न कैटभद्विपस्तपोधनाऽभ्यागमसंभवा मुदः' इति माघः । सदाशिवार्थे 'तप' तपस्यां कुरु । तत्समीपे 'प्रसर्प' उपसर । तदन्तिकम् 'अ', उपगच्छ । सदाशिवप्रसादनाय 'ईह' ( ईहस्व, चेष्टस्व ) । अथवा वाञ्छ । तत्सेवाय 'सज्ज' संनद्धो भव । सदाशिवं 'नाध' ( नाथ, याचस्व ) । 'आधम-उद्भव' इति च्छेदे तन्नामानि 'श्राधम' शब्दायस्व, कीर्तय । सदाशिवस्य भक्तये 'उद्भव' निर्ज जन्म मानयेत्यर्थः । सदाशिवस्य सेवने एव आत्मानं 'प्रसाधय' अलंकुरु । सदाशिवं 'रस' ( रसय-तत्रैव रसास्वादमनुभव ) अथवा 'रस' कीर्तय, 'रस शब्दे, भ्वादिः' । सदाशिवम् 'आवह' स्वसंनिकर्षे प्रापय । आनके जीवनदायके [अानयति जीवयतीति आनकः, जीवकः तस्मिन् , 'अण-प्राणने' ] तव जीवनदायके सदाशिवे स्वं हृत् हृदयम् 'आवधान' अावद्धं कुरु, श्रीशंकरे हृदयं संयोजयस्व | श्लोकस्य साधारणतः सोयमर्थः स्यान्मम मतेरनुसारम्-ललाट( भाग्य रूपचत्वरस्य आश्रयभूतः यः प्रकर्षः ( अभ्युदयः), तत्कार- णात् मोदम् आनन्दम् . आनय धारय । चारुचन्दिरे चारुः ( मनोहरः ) चन्द्रो यस्मिन् ईशे सदाशिवे असर्प शरणं गच्छ । तादृशभगवत्प्रपत्त्या प्रभाहि प्रकृष्टभा (शोभा) युक्तो भव । माहि. आनन्दोवेलतादशायामपि आत्मनि सुस्थिरो भव । मा तर, तापम् मा अनुभव ! न अधमोद्भव ! उत्तमकुलसंभूत (हे सुजन ) इह अय गच्छ- अमृतं मोक्ष प्रसाधय प्रकर्षण सिद्धं कुरु । हे रसावह ! हे रसलोलुप ! स्वं स्वकीयं हृद् हृदयं आनके सर्वभूतानां जीवके सदाशिवे प्रावधान आवद्धं कुरु । भगवद्भावनयां हृदयं संयोजयेत्याशयः ॥२०२-२०३।। भवे तनुत निष्ठामातनु संतोषकारिणीः । रुचीरायाथनोमुक्ति चिदानन्दपदोज्ज्वलाम् ॥ २०४ ॥ .. भवे श्रीशिवे निष्ठां दृढां श्रद्धां तनुत कुरुत । आतनु शरीगन्तं यावत् ( यावद्दे- हस्थितिस्तावत् ) संतोपकारिणीः रुचीः तनुत कुरुत । आत्मसंतोपोत्पादिकाः इच्छाः एव कुरुत । आत्मसंतोषविरुद्धाः इच्छा एव मनसि न आनयत, अन्यथा [एतद्विरुद्धाचरणे] ७० ] श्रीकृष्णभट्टविरचिता चिदानन्दपदोन्ज्वलां चैतन्यानन्दस्थानप्राप्त्या उज्ज्वला प्रशंसनीयां मुक्तिं ( मोक्षम् ) न आयाय न प्राप्नुथ २०४॥ गोविन्द मास्मदानन्दमंदिरानन्दमण्डन । विमुक्ति भवतो नश्येद्भपतो विरुदं न चेत् ॥ २०५ ।। । क्रियागुप्तमाह-भवतः विरुद्ध 'भक्तवत्सलः, दीनदयालुः' इत्यादिप्रशंसासूच- अमवदानम् ( कीर्ति.) चेत् न नश्येत्तर्हि नन्दस्य ( व्रजगोष्ठाधिपतेः ) मन्दिरे आनन्दस्य ( प्रमोदस्य ) मण्डनभूत हे गोविन्द ! ( मह्यम् ) भवतः भवात् संसारात् वि मोक्षं मा स्म दाः मा देहि । दाधातो स्मोत्तरो माड् । अतएव स्मोत्तरे लड् च' इति चात् कुड् । 'न माड्योगे' इति अडागमाभाव. । भवतः दयानिधित्वादिविरुदस्य हानिन स्यात्तर्हि मह्यं संसारात् मोहं मा देहि । यदि तु स्वकीर्तिरक्षा भवतः कामनीया तर्हि माशाय दीनाय विमुक्तिमवश्यं दास्यसि, इति भावार्थः । क्रियागुप्तचमत्कारस्यो- दाहरणम् ॥२०॥ तथामानाथ संसारं चरणौ भजतस्तव । यथा हदि निजानन्दवृन्दं वितनुषे मम ॥ २०६॥ [एतानि क्रियागुप्तानि 1 .. पुनः क्रियागुप्तमाह- हे नाथ ! तव चरणौ भजत: ( सेवमानस्य ) मम संसार तथा 'अमाः' परिमितम् अकरोः यथा मम हृदये निजस्य अानन्दसमुदयं वितनुषे करोपि । मम संसारो भवता तथा कृतः यथा मम हृदये त्वद्भजनजन्यः आनन्दः. समुत्पद्यते । तव चरणध्यानान्मम संसारेऽप्यस्मिन् आनन्दभरः स्वच्छन्दमुदेती- न्याशय. २०६॥ - अत नुहि तनु तस्य त्रस्य दीक्षाऽऽसुर स्य प्रकट फल समस्योत्कर्ष हर्षाऽऽल यस्य । पद्गुणरतिमाया स्वाध रूपाय दोपा- श्रय हृदय नयाई नाम विष्णोगृहाण ॥ २०७ ।। [पूर्वभागे क्रियापदानि, उत्तरमागे तेषा,कारकाणि ) पद्यमुक्तावली [७१ "श्लोकस्य पूर्वाद्ध क्रियापदानि । उत्तरार्द्ध तेत्रो कारकाणि" इति ग्रन्थकारस्य मूलपुस्तके टिप्पणी । तदनुसारम्-अत, नुहि, तनु-इत्यादि क्रियासु-पद, गुण, रति- इत्यादिकारकाणि समन्वयन्ति । ततश्च- - - - पदं विष्णो: चरणम् अत शमां गच्छ । 'अत-सातत्यगमने भ्वादिः विष्णोः गुणान् नुहि ( स्तुहि )। विष्णौ रति प्रीति तनु (कुरु )। मायां विष्णोः मायां तस्य उपक्षिणु [दूरे कुरु, 'तसु उपक्षये दिवादिः ] । स्वाघात् त्रस्य, निजकृतपातकात् त्रस्य विभेहि । रूपाय दीक्ष ( दीक्षस्व ), रूपदर्शनार्थ दीक्षां गृहाणेत्यर्थः । अयाय शुभ विधये आसुर दीप्तः ( दीप्तिशाली ) भव । 'अयः शुभावहो विधिः' इत्यमरः । 'पुर दीप्तौ' तुदादिः । दोषान् स्य नाशय 'षो अन्तकर्मणि' दिवादिः । आश्रयं प्रकट, प्रकर्षेण वृणु । 'कटे वर्षावरणयोः' भ्वादिः । हृदये फल फलितो भव । जयं समस्य ( उपक्षिप उपसंहर ) जयलाभार्थ यत् त्वं प्रपञ्चमारभसे तम् उपसंहरेत्याशयः । अहैं। उत्कर्षयौग्यजनैः उत्कर्ष लभस्व । नाम्ना हर्ष, भगवन्नामग्रहणेन हृष्टो भव । विष्णोः नाम्ना अल भूषितो भव । 'अल-भूषणपर्याप्तिवारणेपु' भ्वादिः । गृहाणाय (गृहस्य प्राणार्थ जीवनार्थ 'अन प्राणते' जुहोत्यादिः।) यस्य प्रयत्न कुरु । 1 श्लोकस्य समन्वितोऽर्थस्तु-अतनुहितनुतस्य अतनवे महते हिताय हितलाभार्थ नुतस्य पूजितस्य । तथा त्रस्यदीक्षाऽसुरस्य त्रस्यन्तः त्रासं ( भयं ) प्राप्नुवन्तः, ईक्षामात्रेण [ईक्षण ( दर्शन ) मात्रेण ] असुराः दैत्या यस्मात् तादृशस्य । यस्य विलोकनमात्रेय असुरा भीतभीता भवन्ति ताशस्य । प्रकटफलसमस्य प्रकटं फले फलदाने समस्य समानस्य । दीने धनशालिनि चेत्युभयस्मिन् समानफलदायकस्य, भूतमात्रे समदर्शित्वात । पुनः उत्कर्पहर्षालयस्य, उत्कर्षस्य ऐश्वर्यस्य, हर्षस्य च आलयस्य स्थानभूतस्य । भगवानेव ब्रह्माण्डगत-ऐश्वर्यस्य, आनन्दस्य च आधारभूत इत्याशयः । पदस्य राज्याधुच्च- पदस्य, गुणानां विद्या-पराक्रमादीनाम् , रते. कान्तादिविषयकप्रीतेश्च या माया ( पदादीनां लाभाय यो मोहः, अज्ञानम् ), सा मायैव स्वस्य अधं पातकम् तद्रूपाय ( पातकाय )। अथवा-उच्चपदेषु-गुणेषु या रतिः प्रीतिः सैव माया ( मोहः ) एव स्वाघ निजं पातक तद्रूपाय । तादृशमोहरूपनिजपातकनिवृत्तये इति यावत् । दोपाश्रय ! नानादोषाणाम आश्रयभूत हे हृदय ! जयाह सर्वविधविजयदानयोग्यं श्रीविष्णोः नाम गृहाण जप । हे हृदय ! त्वं नानादोपामाश्रयोऽसि, अतएव सांसारिकदोपनिवृत्तये, ततः शाश्वत- ७४ ] श्रीकृष्णभट्टविरचिता हे माधवेन्द्र ! भवतः कीर्ती (शुक्रे यशति ) त्रयः त्रिदशा देवाः [ब्रह्म-विष्णु- महेशा : ] यानस्य रथस्य, शय्याया., प्रालयस्व गृहस्थानस्य प्राशया-यारो णाय, शयनाय, उपवेशनाय च इच्छन्ति । ब्रह्मा श्वेतां कीर्ति विलोक्य स्वयानस्य सस्य भ्रमेण आरोढु- मिच्छति । शेपनागभ्रमेण विष्णुः शयितुं वाञ्छति । शंकरस्तु श्वेतकैलासभ्रान्त्या कीता स्थातुं वाञ्छतीत्याशयः ॥२११॥ सखि न वनवादरोपि प्रथितो बनवादरोपीह । भूयो ननन्दनन्दनगीतोपि सनन्दनन्दनसुगीतः ॥ २१२ ॥ सखि स कृष्णः नित्यनवेन श्रादरेण युत्तोऽपि वनवादस्य आरोपी 'धनविहारः अतिहितकृत्' इति वनवादस्य स्थापकः ( आरोपी ) । यः न वनवादरोपी ( वनवादरोपि- त्वेन न प्रथितः ) सः वनवादरोपी कथं स्थादिति विगेधः । 'नव-नवादरोऽपि' इति तत्परिहारः । नन्दनानि आनन्दननकानि गीतानि यस्य सः नन्दनगीतः, ततो नन्दनगीतः स: नन्दनन्दनेन श्रीकृष्णेन सुगीतः प्रसितः सन् ननन्द अनन्दितो बभूव । अन्यः प्रशस्तो.पि सुबल-सुदामादिः कश्चित् श्रीकृष्णसुहृत् आनन्दजनकगीतोऽपि सन् नन्दनन्दनेन श्रीकृष्णेन यदा श्लाघितः, तदैव ननन्द आनन्दमनुभूतवान् । यः न नन्दनन्दनगीत: अर्थात् नन्दनन्दनेन न गीतः सः नन्दनन्दन्सुगीतः [नन्दनन्दनेन सुष्ठु यथा स्यात्तथा गीतः प्रशस्तः कथं स्यात् ? ] इनि विरोधः । नन्दनगीत. ओनन्द- जनककीर्तिः सः नन्दनन्दनेन श्रीकृष्णेन सुगीतः, इति तत्परिहारः । ततश्च विरोधालकारः सोयम् ||२१२॥ ? सदामोदरतो नुत्यः सदामोदरतो भवः । सदामोदरतोपास्यः सदामोदरतोरगैः ॥ २१३ ।। तत्सु आमोदेन आनन्देन रतः अर्थात् सतां भक्तानां मध्ये श्रानन्देन प्रसन्नः य. भवः ( शिव ) सः दामोदरत. श्रीकृष्णतः श्रीकृष्णद्वारा नुत्यः स्तव ीय अस्ति । तृतीयार्थे सार्वविभक्तिकस्तसिः । स शिवः श्रात्मारामत्वात् सदा आमोदे रतै: [ अर्थात् आत्माऽऽनन्दनिर्भर. ] योगिभि. उपास्यः, तथा तस्य शिवस्य उरगैः सः सदामोदरता दामोदरसमानता [ दामोदरेण समान. सदामोदर., तद्भाव. सदामोदरता] समानस्येति योगविभागान् समानशब्दस्य 'संभाव':२१३॥ - । पद्यमुक्तावली अत्रिलोचनजभृत्रिलोचनो नाकपालभृदहो कपालभृत् । उग्रहाऽपि सदनुग्रहाऽऽकृतिः शं करोतु मम शंकरोऽतुलम् ॥ २१४ ॥ श्रीशंकर:-अत्रिमहर्षेः लोचनात् जातः, अतः अत्रिलोचनजः चन्द्रः तं विभर्ति तशः सन्नपि त्रिलोचनः त्रिनेत्रः । य. घ(न)त्रिलोचनजभृत् सः त्रिलोचनः (त्रिलोचन- भृत् ) कथं स्यादिति विरोधः । अत्रि-लोचन-जातचन्द्रधारकोऽपि सः त्रिलोचनयुक्तः इति तत्परिहारः। कपालभृत् कपालधारकोऽपि सः शिवः नाकपालस्य इन्द्रस्य भृत् ( भरणकारकः )। उग्राण, प्रचण्डानां दैत्यानां हननकर्ताऽपि सः (शिवः ) सत्सु अनुग्रहस्य कृपायाः कारिणी आकृतिः मूर्तिर्यस्य तादृशः । भगवान् शंकरः लोकानां कृते उग्राणां संकटकारिणां दैत्यानां हन्ताऽपि सन् सत्सु देवमुनिगन्धर्वादिपु अनुग्रहकारि- मूर्तिधारकः [ दयालुस्वभावः-सौम्यमूर्तिधारकः ] । ईदृशः करः मम अतुलम् असदृशम् ( अत्यन्तम् ) शं कल्याणं करोतु । 'करोतु शं करोतु' इति यमकम् । ततश्च विरोधेन सह यमकंस्य संसृष्टिः ॥२१४॥ श्रीमन्माधवभूमिपाल ! तव निष्कङ्क निरङ्क यशः शंसद्विष्णुरपि प्रयातु समतां किं नाम दोषाकरः । स्यात्तद्विन्ध्यमहीध्रशृङ्गविचरचौरियोपादृशो- राक्षेपाय पतेत्प्रसह्य यदि तत्सङ्गी कुरङ्गशिशुः ॥ २१५ ।। हे माधव भूमिपाल ! तव यशः निष्कत (निष्कण्टकम् निरवकरम् ), निरङ्क निश्चिह्न च अस्ति [ श्वेते यशसि, कीदृशोऽपि अङ्कः 'दाग, धब्बा दिकं नारित ] शंसद्विष्णुः विष्णु स्मारयन्नपि दोषाकरः, दोषाणामाकरः [वास्तवे तु दोषायाः रात्रेः कारकः ]चन्द्रः किं तस्य समता प्रयातु ? अपितु न । यतो हि चन्द्रोपि विधुः' [विरहिणो विध्यतीति विधुः ] इत्युच्यते । एवं 'विधुः श्रीवत्सलाञ्छनः' इति विष्णुरपि कोषेषु 'विधुः' इत्युच्यते । इति नामसाम्येन विष्णु सूचयन्नपि चन्द्रः तव यशसः साम्यं प्रयातु किम् ? नैतत्संभवेत् । यतो हि स दोषाकरः । किंतु 'स्यात्', इदं संभवेत् यदि तत्सङ्गी तस्मिन् चन्द्रे स्थितः अङ्कत्वकारकः मृगशिशुः तव वैरिरमणीशोपरि श्राक्षेपाय आक्रमणाय पतेत्, 'चन्द्र च स्वेन शून्यं कुर्यात् । एवं सति चन्द्रस्यापि मृगराहित्ये निरङ्कत्वात् इदं साम्यं स्यात् । ननु वैरियोषा( रमणी )णां दृशोः ( नेत्रयोः ) उपरि चन्द्रस्थितमृगशिशोः पातः कथं स्वादिति चेत्, शृणु, लत्पराक्रमेण पराजिता वैरिणः ७२] श्रीकृष्णभट्टविरचिता कल्याणलाभार्थं च जनैरर्चितस्य । दैत्यभयदूरीकारकस्य । सर्वेभ्यः शुभफलदायकस्य । ऐश्वर्य-आनन्दालयस्य । श्रीविष्णोः सर्वतो विजयप्रदं नाम जप, येन सर्वविधशुभफल- प्राप्तिरूपः ते विजय अनायासं भवतीति सर्वस्याशयः ॥२०॥ श्रीकण्ठः स्वभिरामनामसुखदः कामप्रदः सर्वदा नन्दिस्थः सततं त्रिलोचनतया सर्वज्ञताभुपितः ! सानन्दो गिरिकूटवासनरुचिः प्रीतद्विजेन्द्रालिका श्रीमानेष सदाशिवोऽद्य विवुधश्रेणीषु संराजते ।। २०८ ।। श्लेपेण श्रीशंकरः, सदाशिवनामा पण्डितश्चेत्युभयं वगर्यम्-तत्र-श्रीमान एप सदाशिव. श्रीशकर विचुधाना देवानां श्रेणिपु संराजते। तदेवाह-श्रीशंकरः श्रीकण्ठ इति ख्यात 'उग्र कपर्दी श्रीकराठ शितिकण्ठः कपालभृत्' इत्यमरः । स्वभिराम नामसुखदः सुतराम् अभिरामेण न म्निास्मरणकारकेभ्यो भक्तेभ्य, सुखद.। कामस्य कामदेवस्य प्रकर्षण दः ( खण्डन-दहनकारकः ) 'दो अवखण्डने, दाप् लवने' वा । नन्दिस्थ तन्नामके वृपे स्थितः । त्रिलोचनतया सर्वज्ञतया च भूपितः । स्वात्मारामतया सानन्दः । कैलासरूपस्य गिरे. वासने वासेन अलंकरणे रुचिः प्रीतिर्थस्य । प्रीतः (वालतया कलाक्षयरूपभयनिवृत्त्या प्रसन्नः ) यो द्विजेन्द्रः चन्द्रः सः अलिके ललाटे यस्य सः । सदाशिवनामा कश्चित्पण्डितस्तु-श्रिया शोमया युक्तः कण्ठो यस्य [सुकराठ., विद्वत्तया सुमुख इति तात्पर्यम् ] | 'सदाशिवः' इति सुन्दरनाम्नैव सर्वेषा सुखकारकः । कामप्रदः सर्वदैव लोकानां कामानाम् अभिलाषाणां दायकः पूरकः । सर्वदाऽऽनन्दिस्थः सर्वदा आनन्दिषु प्रसन्नचित्तेषु जनेषु स्थितः । त्रिलोचनतया द्वे लोचने दृश्यमाने, एक लोचनं च शास्त्रमिति त्रिलोचनतया, विद्वानयं सर्वज्ञतया च भूषितः । गिरिशिखरे निवासने रुचि अभिलाष' यस्य सः । प्रीतद्विजे० प्रीता प्रसन्ना द्विजेन्द्राणां ब्राह्मण- श्रेष्टानाम आलिः पड्क्ति. ( समुदाय.) यस्मान ताश. । ब्राह्मणजनानां सर्वदा सतोपकर इत्याशय. । ईशः सदाशिव. विबुधानां पण्डितानां श्रेणीषु संराजते ॥२०८|| सत्यं नाम सदाशिवस्त्वमुदयशागीरथीसंश्रयः श्रेयो भूमिसुपर्वणां गिरिजया नन्देन युक्तः सदा । प्रोद्दीप्तत्रिपुरप्रतापमहिमा सन्मन्त्रिणां वल्लभ- स्तारस्कारतरप्रसारविदितो धर्माधिनन्दिप्रियः ॥२०६।। - m ७३ जयदोमुक्तावली सत्यमिदं यत् त्वी सर्वदी कल्याणकारकः । उदयन्याः उपरितः आगच्छन्त्या गङ्गायाः आश्रयः । भूमेः ( पृथिव्याः ) सुपर्वणां देवाना"च श्रेय, कल्याणस्वरूपः । गिरिजया श्रीपार्वत्या (श्रीपार्वत्याः कारणात् आनन्देन युक्तः । प्रोद्दीप्तेषु भालस्थ- वह्निना दग्धेषु, त्रिपुरेपु ( तन्नामकोऽसुरेपु ) ( प्रथितः ) प्रतापस्य महिमा माहात्म्यं यस्य ताश. । सतां मन्त्रिणां मन्त्रसाधकानां कामपूरकत्वात् वल्लभः प्रियः ।' तारेण दीर्घतया व्याप्तेन, स्फारतरेण अतिस्फीतेन, प्रसारण ( सर्वतः प्रसिद्धया ) विदितः सर्वजगत्सु परिज्ञातः श्रीशंकरः । सदाशिवनामा पण्डितस्तु-सदा शिवः कल्याणकारकः । उदयन्त्याः समीपे वसन्त्या भागीरथ्याः संश्रयो निवासो यस्य, गङ्गातटस्थप्रान्तवासीत्यर्थः । भूमिसुपर्वणां ( भूदेवानां ब्राह्मणानां ) श्रेयः कल्याणस्वरूपः । आराध्यया श्रीगिरिजया ( भगवत्या, एतत्कारणेन ) आनन्देन 'सदा युक्तः । प्रोद्दीप्तः सर्वतः प्रकाशितः त्रियु पुरेषु जयपुगे दयसपुरजोधपुरेपु प्रताप( प्रभाव )महिमा यस्य' सः । पूर्वाक्तेपु त्रिष्वपि पुरेपु यस्य राजपूजितत्वादिप्रभावमाहात्म्य जानन्तीत्याशयः । सतां मन्त्रिणां राज्ञोऽमात्यानां प्रियः । तारः दीर्घः स्फारतरः अतिनिर्मलश्च यः प्रसारः परित. कीर्तिप्रसरणं, तेन प्रसिद्धः । धर्माधिनन्दिनां धर्माश्रयतः आनन्दिना [ धार्मिकाणाम् ] जनानां प्रियः । अथवा 'धर्माधिकारि' इति जात्यां प्रसिद्धः तस्य प्रियः । इति ( सर्वम् ) नाम ( क्लि ) सत्यम् उपपन्नमस्ति ।२०६॥ जना - माधवेन्द्रद्विपत्कान्ताकुचौ ताडनमेचको । शैलाविव वहन्तौ स्वां मेघच्छन्नामधित्यकाम् ॥ २१० ॥ माधवेन्द्रस्य वैरिस्त्री-स्तनौ निजदयितवियोगवेदनया यत्ताडनं ( वक्षसः ) कुहनं तेन मेचकौ श्यामौ । अत एव मेघे: आच्छादितां स्वकीयाम् अधित्यकाम् ऊर्ध्वभूमि वहन्तौ शैलौ पर्वतौ इव स्तः । शिखरेषु तिष्ठद्भिः सजलैः मेघैः श्यामाम् ऊर्श्वभूमिं वहन्तौ यथा पर्वतौ भवतः तथा पतिवियोगताडनात्. श्यामौ इमौ स्तनौ पर्वताविव विशाली स्त. ॥२१॥ भ माधवेन्द्र भवत्कीतौ यानशय्याऽऽलयाशया । आरोढुंशयितुं स्थातु वाञ्छन्ति त्रिदशास्त्रयः ॥ २११ ।।

७६7 श्रीकृष्णभट्टविरचिता स्वनगरं परित्यज्य भीताः सन्तः विन्ध्यगिरिवनेषु भ्रमन्ति । तासा योपा अपि भीरुस्वभावाः स्वरक्षणाय विन्ध्यगिरिशिखरेपु भ्राम्यन्ति । ततश्च गगनचुम्विपु विन्ध्य- शिखरेपु स्थिताना तासा रमणीना नेत्राणि मुग्धकुरङ्गीवत् सन्ति । अत एव स्वनेत्रशोभाड पहरणेन ईर्ष्याकषायितो मृगशिशुः चन्द्रस्योत्सझं विहाय यदि रमणीनेत्रयोः पतेत्तर्हि मृगशून्यश्चन्द्रः निरङ्कत्वात् तव यशसः साम्य लभेत । इति सर्वस्याशयः ।। २१५ निमग्नतां हरेः पादतरौ तरणसाधने । मज्जेत्कथं हरेः पादतरौ तरणसाधने ।। २१६ ॥ हे भगवन् मम संसारेऽस्मिन् या निमग्नता [अत्यन्तं संलग्नता] तां तरणसाधने संसारसमुद्रादुत्तरणसाधने तव पादतरौ चन्णरूपकल्पवृक्षे हरे. लाकर्पः । मम आसक्ति तव चरणं प्रति आकर्षेः, यतो हि सः संसारात् तरणस्य उपकरणम् । कश्चित् पदार्थ तरणस्य साधने प्लवनस्य असाधारणोपकरणे हरेः पाद( चरण रूपाया तरी (तरणौ, नौकायाम् , 'स्त्रियां नौस्तरणिस्तरिः' अमरः ) (वर्तमानायाम्) क्थं मज्जेत् , अपितु न मज्जेत्, इत्याशयः । पूर्वार्दै हरेरिति क्रियापदम् । 'तरौं' इति तरुशब्दस्य सप्तम्येकवचनम् ॥२१॥ , , . - 1 १ जितेन्द्रियस्य पुंसः स्यान्न मनस्तरुणीकटौ। सत्यमाभापि तरुणीकटौं कस्य मनो भवेत् ।।.२१७ ।। जितेन्द्रियस्य पुंसः ( पुरुषस्य ) तरुण्याः कटौ श्रोणिभागे मनः न स्यात् । जितेन्द्रिय पुरुषो रमण्या अङ्गेषु न आसज्यते इत्याशयः । पूर्वोक्तमिदं कथनं सत्यमस्ति, यत रमणीरूपे कटौ कटु( तिक्त )पदार्थे कस्य मनः स्यात् । कटुपदार्थ को वा विवेकी अभिरोचयेत् ? पूर्वार्द्ध 'कटि' शब्दस्य सप्तम्येकवचनम् , उत्तरार्द्ध तु कटुशब्दस्य, इति वर्णश्लेष ॥२१७ मधव्यजनसंजातविपर्यय विचालनम् । मर्मधर्मकृतिर्यस्य शर्मेहाऽमुत्र सोऽश्नुते ॥२१८॥ 'म--६' इति व्यञ्जनयो. संजातस्य विपर्ययस्य [ विपरीतक्रमस्य ] - विचालन विपरीतकरणं यस्य पुरुषस्य मर्मधर्मकृति: अस्ति, स पुरुषः इह, अमुत्र परलोके. च शर्म सुखम् अश्नुते अनुभवति । अर्थात्-'मर्मधर्मकृति.' अस्मिन् पदे मकार-धकारख्यक- - الا पद्यमुक्तावली नयोः विपर्यय. पूर्वपश्चादभावोऽस्ति, यस्तु पुरुषः विपर्ययस्य विचालनं विरुद्ध-चालनम् अर्थात् तस्य विपरीतक्रमस्य अनुकूलं क्रमं करोति-पुनर्यथावभावं करोति, सः इहलोके परलोके च सुखं प्राप्नोति । मकारस्य स्थाने धकारं करोति, तेन 'धर्म--मर्म कृतिः' इति जातम् । ततश्च-यस्य कृति धर्मस्य मर्मस्वरूपा तत्त्वभूता भवति स एव उभयलोके सुखभाग भवति । यतो हि धर्ममर्म अर्थात् 'धर्मस्य मर्म तत्त्वं किमस्ति ? इति प्रश्नस्य सः उत्तरं ददाति 'कृति.' अर्थात् काय परिणमनमेव धर्मस्य तत्त्वमस्ति । केवलं मनसि विचारणं, मुखात् कथनं वा, धर्मकृतिः धर्मस्य मर्म तत्त्वं नास्ति । तथा च "यस्य धर्ममर्म कृतिः, काय परिणमनं 'कर्मयोग.," सः उभयत्र सुखाधिकारी । 'यस्य मर्म अर्थात् संसारे तत्त्व धर्मकृतिः धर्मकार्यकरणमिति विचार., सः तथा पुण्याधिकारी न भवतीति सर्वस्याशय. ॥२१॥ श्रीमान् श्रीमाधवत्वं ससकलसुखदः कीर्तिगायिव्रजानां क्षोणीकल्पद्रु रेको य इह सुसुलभः सत्वया यित्वकानाम् । चीरो धीरः प्रसन्नो यतनसमुदयः सज्जयार्थिवजानां भूयाः पनापतिश्रीललितविलसितस्तिग्मतेजः स्वभासा ॥२१६ (अत्र बहूनि छन्दासि निःसरन्ति) अरातिभूरितापदोऽपि रातिभूरितापदो नवाजिलब्धसज्जयोऽपि वाजिलब्धसज्जयः । नदीनमानवारणोऽपि दीनमानवारण- स्त्वमद्भुतं तनोपि तन्महीन्द्र माधवप्रभो ॥ २२० ॥ अरातीनां शत्रूणां भूरि(बहु)तापदायकोऽपि यः 'रातिभूः, इतापदः' ; रातेः दानस्य [ राति, दानम् 'रा'धातो. क्तिन् ] भूः भूमि. अर्थात् वितरणस्य स्थानम् । इताः गताः दूरीभूता. आपदा [श्रावन्तः] यस्मात्, आपद्रहित: [सर्चसंपत्सहितः] । नवाः याः अाजयः (युद्धानि, समराः) 'समित्याजिसमिद्युधः' इत्यमरः, तासु लब्धः सन् प्रशंसनीयः जय येन तादृश. । अर्थात् नित्यनवीनेष्वपि युद्धेपु येन सर्वप्रशंसनीयो विजयः प्राप्तः इत्याशय । ईदृशः सन्नपि वाजिना अश्वेन लब्धः सन् जय. येन, अर्थात् वाजिमात्रोप- करणोऽपि वीरतया महान्तं विजयं लब्धवान् । नदीनाम् इनः स्वामी समुद्रः, तस्यापि मानं समानं, परिमाणं वा निजगंभीरतया वारयति, समुद्रतोऽपि गभीर इत्याशय., । एवंविधोपि ? , ७८] श्रीकृष्णभट्टविरचिता दीनानां दरिद्राणां मानं मिति संख्यां वारयति निवारयति, अर्थात् दानिना येन दीनानां संख्यैव निवारिता । सर्वेऽपि दीना. येन धनिनः कृताः । तस्मात् हे माधवेन्द्र । त्वम् अद्भुतम् आश्चर्यकार्य करोषि । अरातिभूरितापदः स. रातिभूरितापदः, न वाजिलब्ध- सज्जय वाजिलब्धसज्जय , नदीनमानवारणः सः दीनमानवारणः कथं स्यात् ' इति प्रत्यक्ष- विरोध , किन्तु उपर्युक्तप्रकारेण भवान् आश्चर्य क्रोति । विरोधालंकारः ॥ २२० विहारभासुरोचितोपि हारभासुरोचितो नवालकबजाननोऽपि वालकवजाननः । ननन्द गोपयःप्रियोऽपि नन्दगोपयःप्रियो नदानवर्द्धिधीरपीह दानवद्धिधीरसि ॥ २२१ ॥ (विरोधाभामः) . विहारेण विलासक्रीडया भासुर दीप्तिशाली, तथा उचितः, सर्वथा समञ्जस कारी, एवं सन्नपि हारस्य मौक्तिकहारस्य भया प्रभया सु (सुतराम् ) रोचितः शोभितः । 'स्यु प्रभारुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' कोपः । नवः अलकत्रजः (केशसमूहः) आनने यस्य, ईदृश' सन्नपि वालकब्रजस्य वालकसमूहस्य आनन(मुख)भूतः । सर्वेषां वजस्थवालकानां नायक इत्याशय. । य न नन्दगोपय प्रियः स्यात् सः नन्दगोपय. प्रियः कथं स्यात् ? इति विरोधः । किन्तु-ननन्द इति पृथक् । ततश्च गो-पयस गो-दुग्धस्य प्रियोऽपि य. नन्दनामकस्य व्रजपते गवां पयस. प्रियः [ नन्दधेनूनां दुग्धपानस्य प्रियः ] नन्दस्य गवां दुग्धपानम् अभिरोचयति । स श्रीकृष्ण. ननन्द श्रानन्दम् अनुभूतवान् । न दानवर्द्धिधी दानवानां दैत्यानाम् ऋद्धौ समृद्धौ धीः बुद्धिः न अस्ति । अथवा दानवानाम् ऋद्धिं ध्यायति सः दानवर्द्धिधीः ( ध्यायते. क्विप् ) यः तथा न, स न दानवर्द्धिधी । एवं सन्नपि दानवर्द्धिनी ( दानं वितरणं वर्धयति ) ताशी धी बुद्धिर्यस्य तादृश. न अति । अत्रापि विरोध ॥२२१॥ नास्ति यः स तु तवास्त्वसमस्तो भूय एव स तवाऽस्तु समस्तः । तावुभौ खलु परस्परहेतू स्तां महीभृदसमस्तसमस्तौ ॥ २२२ ॥ उदयाचलमारुह्य स्थित्वा चन्द्राङ्क अोकसि । अस्ताचलस्य दुराचं शशशृह विलोकय ॥ २२३ ॥ (समस्या) 'शशशृङ्गं विलोकय' इति असंभवार्थविषयिका समस्या । एतस्या. पूरणमसं- भवार्थविषयमेवाऽऽदाय ग्रन्थकृता कृतम् । तथा हि-उदयाचल-अस्ताचलौ हि 'यस्मिन् , पद्यमुक्तावली [ ७६ क्षितिजे सूर्य उदयन् दृश्यते स गगनविभाग. उदयाचलः, 'यत्र चास्तं गच्छन् लक्ष्यते स च अस्ताचल' इति विदुपां कल्पना । ततश्च यः असंभूतः, केवलं कत्पितः, तस्मिन् आरुह्य-कविकल्पिते चन्द्रस्य अङ्करूपे अोकति स्थाने स्थित्वा-अस्ताचलस्य ( कल्पित- मात्रस्य ) दूरात् त्वम् असंभूतं शशशृङ्गं विलोकय--इत्याशय । यदि तु चन्द्रविम्वस्थितस्य शशस्यैव शृङ्ग दर्शयितुमिष्टं तर्हि--चन्द्राङ्कः शशरूप एव । तस्मिन् स्थित्वा पुनः कस्य शशस्य शृङ्गं विलोक्यताम् , इति पुनराश्चर्यार्थकल्पनेत्याकूतं स्यात् ॥२२॥ त्वन्नामस्मरणे नाथ यः स्यादचलसंवृतः । तस्यार्थपुण्यपापानां यः स्यादचलसंवृतः ।। २२४ ।। - हे नाथ त्वन्नामस्मरणे यः ( भक्तः ) अचल( पर्चत )वत् संवृतः गूढी- कृतेन्द्रिय. स्यात् । अथवा अचलेषु पर्वतेपु गुप्तः स्यात् [ एकान्तवासी स्यात् ] तस्य पुरुषस्य अर्थानां पुण्यानां पापानां 'यः' ( यकारः ) क्रमेण अकारेण, चकारेगा, लकारेण च संवृतः ( युक्त ) स्यात् । अर्थानाम् 'अय! [ आगमनम्-'श्रयः शुभावहो विधि.'], पुण्याना चयः संचयः, पापानां लयः स्यादिति तात्पर्यम् । 'यः अचलसंवृतः स्यात्' इत्यन्तापिका । यः स्यादित्यादि द्वितीयश्चतुर्थेन चरणेन यम्यते इति यमकम् ॥२२४॥ जय शोभासम्यत्संशोभित लक्ष्मीरमण हरे। भुजदण्डस्फुरदुद्दण्डधु तिमण्डित विद्यु चण्डद्योतितकरवालकरालाकलनकला- पटुपाणे। खलयवनमहावलपालप्रमथनशक्तसुभीमाकृतिविशेष कल्किनरेश श्रीशेपप्रणत हरे । कलुपभीतमुनिजनगीत त्रिभुवनकधामोदीत श्रुतिगञ्जनभञ्जनरञ्जिपुरन्दरादिक लेख श्रीचेतोरमणसुरेखस्फुटकिरीटजटितविशालप्रचुरहीररुचिविस्फुरणक्षणविनष्ट- तिमिरसमूहाविततजनरञ्जनवहुलप्रभावविस्तार प्रसभातिप्रणताखिलदैवतविनोदिसद्- गुणजालस्फुरदखर्वपर्वोदितशीतलमयूखम लगानत्रिभुवनमण्डन रिपुभण्डन जग- दघखण्डन रणचण्डनसमुदित गुणगणवरधामस्वामिन् भवतरणतरे ।। २२५ ॥ [प्रबन्धोऽयं तेनैव न पादनियमः । अपितु तालानुसरणम् ] कल्किनः स्तुतिः-शोभाभिः (विविधाभि, } संपद्भिश्च संशोभित ! भुजदण्डयो: स्फुरन्ती या उद्दण्डा (अदमनीया ) गुतिः तया मण्डित ! विद्युदिव प्रचण्ड यथा स्यात्तथा चोतितः चमत्कृतः यः करवालः खड्ग. तस्य कगला भीषणा या याकलनाला भ्रमरण- .. [८० श्रीकृष्णभट्टविरचिा चातुरी तस्यां चतुरः कर (पाणि ) यस्य, करेण खड्गभ्रामणपटो ! इत्यथः । खलयवनानां दुष्टम्लेच्छानां महान्तो ये सैन्यपालाः तेषां प्रमथने ( नाशने ) शक्त ! अतिभीमः प्राकृतिविशेषो यस्य [ तत्संबुद्धिः ] । श्यिा लक्ष्म्या शेपेण च प्रणत ! पापेन भीतैः मुनिजनै. गीता, त्रिभुवनस्य एकस्मिन् भुवने उदीताः प्रकटिताः ['ईड्- गतौ' अस्मात् क्तिन् । 'उद्दीता दुग्धाव्धेः कुवलयपरीतापशमनी' इति वेंकटावरी ] या श्रुतयः (वेदाः) तासां गञ्जन( खण्डन ) कारिणा म्लेच्छानां भजनेन रञ्जिताः अनुरक्तीकृता. पुरन्दरादिका लेखा ( देवा--'लेखा अदितिनन्दनाः' ) येन तत्सं० ! श्रिया. लक्ष्म्या. मनोरञ्जनकारिणीभिः सुन्दगभि; रेखाभिः [ रचनाभिः ] स्फुट प्रकाशितं यकिरीट ( मुकुटविशेप ) तत्र जटिताः खचिताः विशाला' प्रचुराश्च ये हीगः ( हीरकाः, मणय. ) तेपा रुचिविस्फुरणेन कान्तिप्रसरणेन क्षणादेव विनष्टः तिमिरसमूहो यस्मात् तादृश ! प्रविततानां ( परितः प्रसूतानाम् जनानां रञ्जनः बहुलश्च प्रभावविस्तारो यस्य ताश । प्रसभं ( बलात् ) प्रणतानि यानि समस्तदैवतानि (देवाः) तेपा विनोदकारका सद्गुणजालः ( समूहः ) यस्य ताश । स्फुरन् दीप्यमानः, अखर्वः महान् , ( यतो हि ) पर्वगिा पूर्णिमायाम् उदितः यः शीतलमयूखः ( चन्द्रः) तद्वत् मञ्जुलं मनोहरं गानं ( कीर्तिगानम् ) यस्य ! त्रिभुवनाना मण्डन अलङ्कारभूत ! रिपूणां भण्डन (तिरस्कारक, 'भडि परिभाषणे तिरस्कार') जगतः अघानां पापाना खण्डन ! रणे चण्डन (प्रचण्ड) समुदितानां गुणगणानां श्रेष्ठधाम(स्थान)भूत ! भवस्य संसारथ्य तरणाय तरिः नौका, तत्सं- बुद्धौ हे कल्किनरेश 17 "प्रवन्धोऽयं तेनैव न पादनियमः, अपितु तालानुसरणम्” इति ग्रन्यकर्नुष्टिप्पणी ॥ २२.५ ॥ प्राकृतार्याः- घेत्त ण जाणसेज्जासदणं माहवनरिन्दकित्तीए । विहिहरितिलोणाणं चढणसअणट्टिा सुहं भोदि ॥ २२६ ॥ संस्कृतम् - गृहीत्ला यान शय्या-सदनं माधवनरेन्द्रकीर्तेः। विधिहरित्रिलोचनानाम् आरोहणशयनस्थितानि सुखं भवन्ति ॥ २२६ ।। कीर्ते. सकाशात् यानम् ( वाहनम् ) शय्यहं स्थानं च गृहीत्वा ब्रह्मादिदेवानाम् आरोहणशयनादीनि सुखपूर्वकं भवन्ति । कीर्तिः इंस-क्षीरसागर-कैलासवत् शुभ्रास्तीत्या- रायः ॥ २२६॥ माहवणिचकित्तीयो फुल्लिअविअइलमालइवणाई। सूअलाइमहुअराणं साणन्द्रविणोअकारणाई धुअम् ।। २२७ ।।

---
पद्यमुक्तावली
[८१
माधवनृपकीर्तयः फुल्लविवकिलमालतीवनानि ।
सकलकविमधुकराणां सानन्दविनोदकारणानि ध्रुवम् ॥ २२७ ।।
फुल्लानां विचकिलानां मालतीनां च वनानि । 'विचकिलं द्विपुटा मल्लिका, दमनकं
च' इति हेमचन्द्रः । कीर्तयः विचक्लिादिवनसदृश्यः । शुभ्रास्तीत्याशयः ।। २२७ ।।
सीमाहरणिवकित्ती रेहइ फिर सुच्छसुच्छमं वसणम् ।
तस्स हि फरदो जोजा भासइ गामीणथूलचेलं व्च ॥२२८
श्रीमाधवनृपकीर्ती राजति सिल स्वच्छसूक्ष्मं वसनम् ।
तस्य हि: पुरतो ज्योत्स्ना भासते ग्रामीणस्थूलचेलमिव ।। २२८ ।।
कीर्तिः स्वच्छं विशदं सूक्ष्मम् अतिलघु ( 'महीन' ) वसनं राजति [कीर्तिः वसनम्,
इनि त्पकम् ] । ग्रामीण ग्रामजातं स्थूलं दसनम् रेजा' इति राजस्थानभाषा', भासते
प्रतीयते ॥ २२८॥
सरसगुणकच्चमजले जेत्तानो सुकइकण्ठअम्मि संठविया ।
तेत्ताणं उवमाणं तुम सि माहव णरिन्द दप्पणो ॥ २२६ ।।
J
सरसगुणकाव्यमध्ये यावत्यः सुकविकण्ठे संस्थिताः ।
तावतीनामुपमानां त्वमसि माधवनरेन्द्र दर्पणः ॥ २२६ ॥
रसैः गुणैश्च सहितस्य काव्यस्य मध्ये यावत्यः उपमाः सुकवीनां कण्ठे स्थिताः,
तासा त्वं दर्पणः असि । ताः त्वयि सुम्पष्टं प्रतिफलन्ति, इत्याशयः । त्वं सर्वोपमाविराज-
मानोऽसीति तात्पर्यम् ॥ २२६ ।।
सूरो चन्दो इन्दो तुलासु माहाणिवेण संतुलिदो ।
अहि भुइ गुरुप्रोत्ति तुमं लदुवा अराणे,
दिजादा ॥ २३० ॥
सूर्यश्चन्द्र इन्द्रः तुलासु माधवनृपेण संतुलितः ।
(असि) अधिशुवि गुरुक इति त्वं लघवोऽन्ये दिवं याताः ॥ २३० ।।
तुलायां गुरु. पदार्थो नीचैस्तिष्ठति, लघुश्च उच्चैरुत्तिष्ठति । अधिभुवि स्थितस्त्वं
सूर्याद्यपेक्षयापि गौरवभाजनमसीत्याशयः ॥२३०॥

२] श्रीकृष्णभट्टविरचिता माहवणरिन्द पुव्यससिणो राकव्व णम्मदा जात्रा | तुह असिअणम्मदाए जादा जसपुगणससिकोडी ।। २३१ ।। माधवनरेन्द्रपर्वशशिनो राकेव नर्मदा जाता। तब असिनर्मदाया जाता यशःपूर्णशशिकोटिः ॥ २३१ ।। पर्वशशिनः पूर्णिमाचन्द्रात् राका इव यथा पूर्व नर्मदा नदी उत्पन्ना । तथा तव खड्गरूपायाः नर्मदाया' सकाशात् यशोरूपाणां पूर्णचन्द्राणां कोटि: ( संख्याविशेपः ) उत्पन्ना । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका' इति नर्मदोत्पत्तिं प्रति चन्द्रः कारणम् । अत्र तु कार्यात् नर्मदारुपात् कारणस्य शशिनः उत्पत्तिरिति कार्यात्कारणा- जन्मरूपा षष्ठी विभावना । तत्राध्यातिशयः सोयं यत् न केवलमेक एव चन्द्रो जात अपितु चन्द्राणां कोटिसंख्येति ॥२३१॥ 7 अरुणग्गमो व तिमिरं तुह लोअणकोणसोणदाभासो। माहवणरिन्द जुज्झम्मि ऐस णासेइ पडिवक्खम् ॥ २३२ ॥ अरुणोद्गम इच तिमिरं तव लोचनकोणशोणताभासः । माधवनरेन्द्र युद्ध एष नाशयति प्रतिपक्षम् ॥ २३२ ॥ अरुणस्य सूर्यस्य उदयः यथा तिमिरम् (अन्धकारम् ) तथा तव लोचनकोणे शोणताया आभास एव (स्वल्पा शोणता, अथवा नाममात्रार्थ रक्ततापि ) प्रतिपक्ष शत्रु नाशयति । नेत्रशोणतया यत् किञ्चिदनुभाव्यमानोऽपि ते क्रोधः शत्रून् संहरतीति व्ययम् ॥२३२॥ माहवणरिन्द तुह करसमत्तकामो सुरद्द मो तबइ । सुरणइकूलम्मि जहावकलसंभारएहिं आवरियो ।। २३३ ।। माधवनरेन्द्र तब करसमाप्तकामः सुरद्र मस्तपति । सुरनदीकूले जटावल्कलसंभारैरावृतः ॥ २३३ ॥ हे माधवनरेन्द्र ! तव करेण समाप्तः कामः मनोरथ. [अर्थिनामभित्लापपूरणरूप. यत्व, ईशः । अतएव जटावल्कलरूपैः संभारैः उपकरणे आवृतः दिवि देवनदीतटे तपति ।

पद्यमुक्तावली [८३ तपस्यां कुर्वन् जनः कञ्चिद्वरं लभते, तथा कल्पद्रुमोपि गङ्गातटे तपस्यन् हे माधवेन्द्र ! तवसदृशी ततोऽधिका वा कामपूरकता लब्धुमिच्छतीति व्यङ्गयेन माधवेन्द्रस्य दान- चीरतातिशयो द्योत्यते ॥२३३॥ आणीदं विजाए माहव तुव कित्तिमुत्तियमणग्यम् । धरिऊण इक्वकरणे पइडिया पवई हरद्धङ्ग ॥ २३४ ।। आनीतं विजयया माधव तब कीर्तिमौक्तिकमनर्घम् । धृत्वा एककणे प्रविष्टा पार्वती हराद्धोङ्ग ॥ २३४ ॥ विजयया विजयादशम्या श्रानीतं कीर्तिरूपं मौक्तिकम् एकस्मिन् कणे धृत्वा, साहशस्य मौक्तिकस्य द्वितीयस्य असंभवमालक्ष्य एककर्याघटिते हरस्य अर्धाङ्गे प्रविष्टा । विजयानाम्नी गौर्याः सखी, दशमी चात्र सुखं प्रतीयते इति सूक्तिचातुर्यम् ॥२३४॥ - करतालणसामचं तुह रिउतरुणिस्थणेसु डहाण । उरणअजलहरजालं महिहरसिहरम्मि को ण तक्कई ।। २३५ ॥ करताडनश्यामत्वं तव रिपुतरुणीस्तनेषु दृष्ट्वा । उन्नतजलधरजालं महीधरशिखरे को न तर्कयति ॥ २३५ ।। प्रियतमवियोगदुःखात् कगभ्यां ताडनजन्यं श्यामत्वं दृष्ट्वा पर्वतशिग्वरे उन्नतं मेघसमूहं सर्वोऽपि जनः ऊहते । स्तनयो पर्वतवद् विशालत्वं, वय॑स्य विक्रमाति- शयश्च ध्वन्यते ॥२३॥ चकइभअहिसुकेथिं थणगइरोमालिवाणगहिया गहणे । माहवाणिव रिउनारी मुहकटिकचवलअमरगएँ हि विमुक्का ॥ २३६ ॥ चक्रइभअहिशुकैः स्तनगतिरोमालिवचनानि गृहीतानि गहने । माधवनृपरिपुनारी मुखकटिकचवलयमरकतैविमुक्ता ॥ २३६ ।। चक्रवाक-इभ (हति अहि( सर्प )शुकैः गहने ( वने) माधवेन्द्रस्य रिपुनार्याः स्तन-गति-रोमालि-वचनानि गृहीतानि । चक्रवाक स्तनौ, इभ. गतिः [ मत्ततया गमनम् ] स रोमराजिः, शुकैः आकर्षक मधुरवचनं गृहीतम् ।

८४ ] श्रीकृष्णमट्टविरचित एवमेव-चक्रवाकै. वर्तुलं मुखम् , गंजे. गमन्सामयिकी कटिः, सर्पः कचाः, शुदः वलयस्थिता हरिता मरकतमण्यो गृहीता., ततश्च माधवेन्द्र-रिपुनारी एभिर्विमुक्ता ॥२३६|| प्रणमत निरवद्यनित्यलीलं ब्रजललनाजन-जानकीललामम् । अभिनवजलदाभमप्रमेयं यदुरघुवंशविभूषणं महस्तत् ।। २३७ ।। ग्घुवंशविभूषणं तत् मर ( तेज. ) श्रीरामचन्द्रम् , यदुःशविभूषणं तत् मह: ( तेजः ) श्रीकृष्णचन्द्रम् प्रणमत । योरेव निरवयेत्यादिभिः चतुर्भि. विशेषण साम्यमाह-निग्वद्या ( निर्दोपा ) नित्या च लीला (क्रीडा ) यस्येति रामचन्द्रश्रीकृष्ण- चन्द्रयो समानम् । श्रीकृष्णं व्रजललनाजनस्य ललामम् ( भूपणम् ), श्रीगमं जानक्या भूषणम् । अभिनवजलद ( मेघ )वत् याभा कान्तिः यस्य, अर्थात् श्यामवर्णम् । इति उभयत्र समानम् । अप्रमेयम् अज्ञेयम् [ वाड्मनसाऽतीतमिति उपनिपदादिमि. सूचितम् । उभयत्र समानमिदमपि ॥२३७|| भज भाव मोदयन्तं धुरि पुंसामसुसमं समुद्गीतम् । शोभितरमङ्गयुक्तं रुरुध्वजं गम्यमानदैत्यजयम् ॥ २३८ ।। हे भाव ! मोदयन्तं सर्वान् पुरुषान् शृङ्गारविलासै प्रहर्षयन्तम् । पुंसां धुरि पुरुषाणामग्रभागे [ ये पुरुषत्वशालिनः तेषां पुरत' सर्वतोऽप्यधिकं ] असुलमं प्राणैः संमानं संमाननीयम् । अतएव सर्वैरपि पुरुषत्वशालिभिः पुरुषकर्तव्यार्थ समुद्गीतं सर्वेषु काव्यादिपु कीर्तितम् । शोभि-तरम् अत्यन्तं शोभमानम् , [ शोभि इति एयन्तात् अतिशये तरप्_] अङ्गयुक्तं सागम् । [ न तु अनङ्गम् ], गम्यमानः प्राप्यमाणः दैत्यानां जयो यस्मात् । दैत्यानां विजयाय स्त्रीसम्बन्धिनी काञ्चित्कामवासनामवलम्ब्य देवैः साफल्यं लब्धम् । ततश्च दैत्यविजयः अस्मात् कामदेवान् एव प्राप्यमाण' इति सूच्यते । ईशं रुरुध्वजम् ऋष्यकेतुम् भज सर्वप्रधानत्वेन आश्रयं ।' 'ब्रह्मसूर्ऋप्यकेतु. स्यात्' इत्यमरः । ऋष्यश्च- 'एणः कुरगमो रिष्य. स्याध्यश्चारुलोचन.' इति त्रिकाण्डशेषात् मृगदाची। एवं 'रुरु' अपि 'कृष्णसाररुरुन्यड्ड-रङ्क-शम्वररौहिषा.' इत्यमरे मृगनामसु परिगणितः । द्वितीयोऽर्थस्तु-हे भाव ! हे वन्धो ! "क्रियालीलापदार्थेषु विभूतिवन्धुजन्तुपु, भावः” इति मेदिनी । मोदयं त घुरियु, मकारस्य उदयः योगः यस्मिन् ईदृशं मोदयम् अर्थात् 'भकार' युक्त 'धुरिपुं । रतश्च मधुरिपुं भज । कीदृशं तम् , सामसु शाखायुक्तेषु सामवेदेषु समं तुल्यं यथा स्यात्तथा समुद्गीतं स्तूयमानम् । शोभितरमं शोभिता रमा पद्यमुक्तावली [5 लक्ष्मी. यस्मिन् । ग्युक्तं रुरध्वजम् अर्थात् गकारसंयुक्तं 'रुरध्वज' ततश्च ‘गरुर' ध्वजम् । श्लेपमागे रडयोरभेदः । तथा च गरुडध्वजम् , प्राप्यमाणो दैत्यानां जयो यस्मात् ईदृशम् । एवं च दैत्यारिं सामभिः समुद्गीतम् मधुरिपुं मज । इति सर्वसंकलितोऽर्थः ॥ २३८ ॥ गोधूलो धूलिधूम्राननरुचिररुचिश्चारयन् गाः समन्ता- द्गोपालीजालपालीझल मुकुटधरो धारयन् धाम धन्यम् । मन्यन्ते ब्रह्मसंझं श्रुतिकुलतिलका यं बदन्तो नितान्तं पसयात्सायाहनकाले क लमलमथनो वाल्लभिविट्ठलेशः ।। २३६ ।। गोचारणवेलायाम्-गवां चरणन्यासैः गोधूलो उड्डीयमानायाम्, धूलिभिः धूम्रा धूसरा [ धूसरवर्णा ] आननस्य रुचिरा रुचिः कान्तिः यस्य । सर्वतः गाः चारयन् वने तृण- मक्षणाय भ्रामयन् । गोपाली गोपानां या आली पंक्तिः तस्याः जालं समूहः, तस्य पाली पालकः ( पालयतेणिनिः )। तथा गाः पालयति पुं० गोपालः, स्त्री,गोपाली गोपी (गोपस्त्री) तासां गोपालीनां ( गोपीनां ) जालं समूहं पालयति गोपीसमूहपालकः ( गोपीनाथ ) 'जालं समूह अानायगगक्षक्षारकेष्वपि' इत्यमरः। कल( सुन्दर )मुकुटधारकः । धन्यं दुर्लभ धाम (तेजः ) धारयन् । यं वदन्तः ( बोधयन्तः ) श्रुतिकुलतिलकाः वेदान्ताः वेद- चोद्धारो विद्वांसो वा, ब्रह्मसंज्ञं साक्षात् परं ब्रह्म मन्यन्ते । सः श्रीवल्लभस्य (अपत्यं पुमान् ) तनयः श्रीविठ्ठलनाथ. [ गोस्वामीति संप्रदाये प्रथितः ] कलिकालस्य दुरितानां दूरीकारक: सायाह्नकाले रक्षतात् । पुप्टिमार्गीयसंप्रदायाचार्यश्रीवल्लभाचार्यतनयः 'गुसांईजी' इनि ख्यातः श्रीकृष्णस्वरूप इति भक्ताना मावनानुसारमेतत् ॥ २३६ ॥ श्रीलश्रीलमदारिदावकरकन्याजव्रजध्यानतो नव्याजमलनिस्वजस्वल्हसदः सन्यासयासक्षप । गोपव्यापनयज्ञसज्ञसजितां तां तांबुजज्ञाजन, व्यामाव्यान् मधुवन्धुहासरसबन्धस्साधसामप्रम ॥ २४० ॥ अस्मिन् हारवन्धे । श्रीश्रीकरिवरच्याप्तध्याता व्याघ्रनिजह्रदः । न्यायाक्षगोप्यानज्ञज्ञजिता बुज्ञानमामय ॥ २४१ ।। इतिअनुष्टुवाधन्तपुष्पाक्षरैनिस्सरति । २४० तमं पद्य हारवन्ध.' । अस्मिन् बन्धे मध्याक्षरं त्यक्त्वा श्राद्यन्तपुष्पाक्षर श्रीश्रीकरि०' २४१ तमम् अनुष्टप्पा निःसरति ॥ २४१ ॥ । - - ८६] श्रीकृष्णभट्टविरचिता वन्धस्योद्धारो न प्राचीनपुस्तके। अतएव अर्थोऽप्यनयोः पद्ययोः पाठकमहाभागै- रेव उन्नेयः । मध्यपुष्प त्यक्त्वा वन्धनाम च । तवामी नवामीलदम्भोजभासो महाशोचनामोचना लोचनान्ताः । अकम्पानुकम्पासमुद्रा मम द्रागभद्राणि रुद्राणि विद्रावयन्तु ॥ २४२ ॥ न मीलन्ति सकुचन्ति यानि अम्भोजानि ( कमलानि), नवानि (सद्यस्कानि) च तानि । ततश्च नवाऽमीलदम्भोजानि कमलानि, तद्वत् भा. ( कान्तिः ) येपाम् ते । नवीन- प्रफुल्लकमलवत् कान्तिशालिनः । महद् यत् शोचन (शोक.), तस्य ग्रामोचना. दूरीकारका । पुनः अकम्पायाः सुस्थिरायाः [ सर्वदा स्थायिन्या. ] अनुकम्पायाः ( दयाया. ) समुद्रभूता, तव अमी लोचनान्ताः कटाक्षा., रुद्राणि भीपणानि मम अभद्राणि अमङ्गलानि ( दुरितानि) द्राक् झटिति विद्रावयन्तु नाशयन्तु । भगवन्तं प्रति सविनया प्रार्थना ॥ २४२ ॥ अयं नन्दवालः सदालापशाली किशोराकृतिर्नीलपङ्करुहश्रीः । धृतो येन गोवर्द्धनाद्रिः कराग्रे गवां पालकः पातु लम्बालकस्त्वाम् ।। २४३ ॥ सद्भिः उत्तम. मधुरतया आकर्षकैः आलापैः शोभमानः । नीलकमलवत् मेचकमधुरा श्री शोभा यस्य । लम्बालकः प्रलम्ब( कुञ्चित )केश. गवां पालक. अयं नन्दवाल. ( श्रीकृष्ण. ) त्यां पातु ॥ २४३ ॥ दलत्कुन्ददन्तश्चलत्त न्दमन्तर्वलत्सुन्दरोद्दण्डशुण्डाऽभिरामः | अलं बोधहेतोविलम्रो न यस्मिन् स लम्बोदरो मङ्गलं वो विधत्ताम् ॥२४४॥ यस्मिन् कर्मणि दलत् ( विकसत् ) कुन्दपुष्पवत् दन्तो यस्य सः । चलत् स्थूल- तया कम्पमानं तुन्दं (स्थूलमुदरं ) यथा स्यात्तथा । अन्त. अभ्यन्तरभागे वलन्ती [आमोटिता ] सुन्दरा उद्दण्डा ( वैरिणां कृते प्रचण्डा ) या शुण्डा ('सूड') तया अभि- राम सुन्दर । अलं पर्याप्तं यथा स्यात्तथा, बोधार्थ बानप्रदानार्थ यस्मिन् ( गजानने ) विलम्ब कालक्षेपो नास्ति, ईश. स. लम्बोदर गणेशः वः मङ्गलं विधत्तां करोतु ॥२४४॥ ज्वलतु जलधिक्रोडक्रीडत्कृपीटभवप्रभा- प्रतिभटपटुज्वालामालाकुलो जठरानलः ।

[८७ पद्यमुक्तावली तणमपि वयं सायं संफुल्लमल्लिमतल्लिका- परिमलमुचा वाचा याचामहे न महेश्वरान् ॥ २४५ ।। आत्माभिमानं सूचयन्नाह-जलधेः ( समुद्रस्य ) क्रोडे ( उरसि, मध्यभागे 'न ना क्रोडं भुजान्तरम्' अमरः ) क्रीडन् प्रचलन् यः कृपीटभवः (अग्निः, वडवानलः ), "कृपीटयोनिचलनो जातवेदास्तनूनपान्। तस्य वडवाग्नेः प्रतिस्पर्द्धिन्यः (तत्समानाः ) पटवः प्रचण्डाश्च या. ज्वालामाला. (शिग्वापक्तयः ) ताभिः (ज्वालामालाभिः) श्राकुलः ध्याप्त. ( प्रचण्ड: ) जठरानलः उदराग्निः कामं ज्वलतु प्रचण्डो भवतु नाम । किन्तु वयं महेश्वरान् महतः ईश्वरान् धनिकान् “इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता" इत्यमरः । सायंकाले संफुल्ला विकसिता या मल्लिमतल्लिका श्रेष्टा मल्लिका राजवल्ली' (रायवेल, 'वेला' ) मल्लिकामतल्लिकादिप्रशंसावाचकैः शब्दैः सह जातिवाचकमल्लिशद्वस्य 'प्रशंसावचनैश्च' इति समासः । तत्परिमलमुचा तत्सौगन्ध्यवाहिन्या अस्माकं वाचा वारया वयं तृणमात्रमपि न याचामहे न प्रार्थयामहे । अस्माकम् उदरे कीदृशोऽपि जुधाऽग्निः ( सामुद्राग्निवत् प्रचण्डः ) ज्वलतु, किन्तु धनिकान् प्रति वयं तृणमात्रस्याऽपि याचना न कुर्मः, का कथा धनादिकस्येति सर्वस्याशयः ॥२४५॥ निजनिजपतिप्रेमाऽपास्तप्रियान्तरसङ्गमा विजहतु कथं धन्यास्तीत्रं सतीव्रतधारणम् । हिमकरपरीरम्भादम्भोजिनी न विज़म्भते न च दिनमणिद्योतादुच्चैरुदेति कुमुदती ।।२४६॥ निजनिजपतीनां प्रेमवशात् अपास्तः दूरीकृतः प्रियान्तराणाम् अन्यप्रियाणां ( पुरुपाणाम् ) संगम' याभिः ताः। अत एच धन्याः ( प्रशस्याः ) सतीमहिलाः तीनं कठिनं सती( परिव्रता )व्रतधारणं कथं विजहतु त्यजन्तु । अम्भोजिनी कमलिनी हिम- करस्य चन्द्रस्य परीरम्भात् ( स्पर्शात् ) न विजृम्भते न विकसति । सा तु सूर्यस्यैव संस्पर्शन प्रफुल्लति । कुमुदती ( रात्रिविकासिनी कमलिनी) दिनमणे: सूर्यस्य द्योतात् प्रकाशात् उच्चैः न उदेति, न विकसति । यथा कमलिन्याः सूर्यसंसर्गादेव प्रसन्नता, तथा पतिव्रताना निजनिजपतीनां प्रेमैव जीवनावलम्बनमित्याशयः ॥२४॥ नित्यज्यारूढचापा स्थिरतरवरधानुष्कता सध्वजाऽऽत्या निःसानश्रीः समन्ताद्वशितजनमना व्योम्नि नग्नासिधास !

,
7]
श्रीकृष्णभट्टविरचिता
प्रोदञ्चच्छक्तिलीला सद्गजगतियुक् जैत्रवाद्याऽनुनादा
जाग्रत्कामाधिराज्या जयति जयपुराख्या नवा राजधानी ॥२४७॥
प्रोदञ्चन्ती प्रकण उदीयमाना शक्के सामर्थ्यस्य, भगवत्याश्च लीला ( चेष्टा )
यस्या एताशी जयपुराख्या नवा राजधानी जयति सर्वोत्कर्पण वर्तते । ततश्च पद्ये
उक्तानि विशेपणानि देव्या राजधान्यां च युज्यन्ते । नित्यं ज्यायां (प्रत्यञ्चायाम् )
पाण्ड. चापो ( धनुः ) यस्याः, युद्धार्थ सज्जकार्मुकेत्यर्थः, उभयत्र समानप्रायम् ।
मुस्थिरा वरा धानुष्कता धनुर्धारकता यस्याः दृढधनुर्धारिणीति यावत् । समानमुभयत्र ।
उत्तमध्वजयुक्ता । निसानानां सैन्यवाचाना ध्वजानां च श्रीः शोभा यस्याम् । समानम् ।
समन्तात् वशीकृतानि जनानां मनांसि, हृदये अधिष्ठानात् शोभाविशेपाच्च यया । आकाशे
नग्ना कोपावहि कृता असि( खङ्ग )धारा यया ( युद्धार्थ सज्जीकृतखङ्गा ) ।
मदयुक्तानां गजानां गत्या गमनेन युक्ता नगरी, तद्वत् मन्तगामिनी भगवती । विजय-
वाघानाम् अनुनादो यस्याम् , ( समानम् ) । जाग्रती 'कामा' नगर्याः अधिराजता यस्यां
मा नगरी [ पुरा कामा-संस्थानाधीशो जयपुरे अधिराजोऽभवत् ], इनानीमिदं संस्थाने
भरतपुरराज्यान्तर्भुक्तमस्ति । जाग्रती कामदेवस्य अधिराजता यस्यां सा भगवती ॥२४॥
सीमा श्रीमाधवस्तावजातः ख्यातश्रियां धियाम् ।
भव्यनव्यभवद्धावस्तव्यभव्यवतां सताम् ॥२४॥
श्रीमाधवः, भव्यव्य , नित्यं नवीनो भवन् भावः ( भावोदय. ) येषाम् , अतएव
न्तवनीय-भव्च ( कल्याण ) भाजनानां सज्जनानां ख्यातश्रियां सुप्रसिद्धशोभानां बुद्धीनां
सीमा( पराकाष्ठा )भूतो जान. । सज्जनानां बुद्धीनां परकाष्ठामधितिष्ठति, परमबुद्धिमा-
नित्याशयः ॥२४॥
सारसारस्वकश्लोकतारहारसमक्षम ।
सानन्दनन्दनो दानोल्लासवासलसद्रस ॥२४॥
सारात् अपि साग्भूतो य. स्वक स्वकीय श्लोक ( कीर्तिः, 'पचे यशसि च
श्लोक.' इत्यमर ) तेन ( श्लोकेन ) तारेण उन्नतेन हारेण सम समान, क्षम समर्थ ।
'उत्तमचीतिकारणात् प्रशस्तहारवत् कान्तिशालिन् समर्थ च ! दानानां नानाविधवितरणाना
य उल्लासः स्कर्प, तस्य वालेन ( सत्तया ) लसन्ती रसा पृथिवी यस्य, दानातिशयेन
पृथिवीं शोभयन् ! हे माधवेन्द्र ! त्वं सानन्दा. आनन्दसहिता. नन्दना. पुत्रा यस्य,
सुप्रसन्नपुत्रयुको भवेत्याशी ॥२४॥

[e । पद्यमुक्तावली त्वमक्षामतमक्षेमधामग्रामविभक्तभ । जीवजीव चिरं स्वैरं नन्द नन्द नयप्रिय ॥२५॥ . अक्षामतमम् अतिशयेन अक्षामं ( अदुर्बलम् , पुष्टम् ) यत् क्षेमं मगलं तस्य धाम स्थानभून ! ग्रामेषु विभक्ता भा ( शोभा, कीर्तिः ) येन ताश ! हे नय( नीति )- प्रिय ! त्वं चिरं जीव जीव, यथेच्छं च नन्द नन्द । द्विरुक्त्या आशीर्वादस्यातिशयो द्योत्यते ॥२५०॥ , यामतामतसत्प्रासकारिणीरितसाध्वसा। सक्तभक्तवशश्रीशदयाऽनायासया तया ॥२५१॥ [द्विपुष्पहारवन्धः] यामे प्रहरे प्रहरे यः तामः तान्तिः ( परिश्रान्तिः ) तेन तसता उपक्षयं गच्छतां प्रासकारिणी दूरीकारिणी । अतिदुर्वलानां पृथक्कारिणीति यावत् । अतएव ईरितं दूरीकृतं साध्वसं भय यया, 'भीतिीः साध्वस भयम्' इति कोपः । भक्तानां भयनिवारिणीति भावः । सनानाम् आसक्तानां भक्तानां वशीभूतो यः श्रीशः लक्ष्मीपतिः तस्य दया, तेऽस्तु इति भावः । अनायासया स्वाभाविक्या ( स्वतोजातया ) तया ( दयया ) अग्रे वणितं तव अाशास्यमस्तु, इति शेषः ॥२५॥ दत्तखङ्गसुप्रहारगञ्जितारिवर्गमाद दर्शनीयनव्यरूपतात्तमन्मथैकवाद । दर्शने विभासि वीर माधव ध्रुवप्रसाद दर्पितातिदम्यताप्रकार भूरिसादनाद ॥२५२।। दत्ता ये खड्गस्य सुप्रहाराः [ चातुर्येण प्रहारा. ] तै: गञ्जितः दमित: अरिवर्गस्य मादः उन्माद मदः येन तत्संबुद्धौ । खड्गद्वारा दूरीकृतशत्रुजनमद । । तथा दर्शनीया या नव्यरूपता [ नवीनरूपशालिता] तया अस्तः गृहीतः हृत इतियावत्, 'मन्मथ. एकः अस्तीति' वाद. येन, तत्संबुद्धौ । दर्शनीयेन अनुपमेन रूपेण त्वया, 'मन्मथः ( कामदेवः ) एक: अम्तीति जनप्रबाटो दूरीकृतः, त्वमपि कामदेवसमानरूपशालीत्यर्थः । सर्वदार्थ स्थायी प्रसादः अनुग्रहो यस्य, एकवारं यस्योपरि प्रसीदसि, सर्वदार्थ स हि राजाऽनुगृहीतो भवतीत्याशयः । ईदृश हे वीर माधव । त्वं दर्शने विभासि शोभसे । दर्पः गर्वः संजातो ये ते दर्पिताः, दर्पितानां गर्विष्ठानाम् अतिदम्यताप्रकारेण अतिद- . . ध्रवः ६०] श्रीकृष्णभट्टविरचिता मनीयता [ एकान्तम् अधीनीकरणम् ] तादृशप्रकारेण अत्यन्तम् साद( अवसाद-विपगणता कारी नादः (सैन्यानां सिंहनाद, ) यस्य तादृश ! [हे वीर माधव ! त्व विभासि ] इत्यन्वयः ॥२५२॥ पाटीरवाटीमवगाह्य पम्पासम्पातशीतः फणिभिगृहीतः । आयाति वायुः सुदृशां व मानो धन्यायुवानो ह्यधुना धरण्याम् ॥२५३।। पाटीराणां चन्दनद्रुमाणा वाटीम् ( उपवनम् 'बाडी' इनि लोकभापा ) अवगाह्य [ आलोड्य ] तदनन्तरं पम्पासरोवरे संपातेन संगमेन शीतलः । तत. फणिभिः गृहीतः पीतः। चन्दनसम्बन्धेन सुगन्धिः, पम्पासंपातेन शीतलः, पन्नगैः पीततया मन्दीकृत , एव शीतल-मन्द-सुगन्धिश्चायं वायुरित्याशयः ।. ईशः अयं मलयपवनः, आयाति, अधुना सुदृशां स्त्रीणां मानः क ? उद्दीपनसमयेऽस्मिन् मानस्य का कथा इत्याशय । इदानी पृथिव्याम् इमे युवकाः धन्याः ( भाग्यवन्तः,) यतः मानं दूरीकृत्य सुदृशः एतेषु अनुरज्य- न्तीति भावः ॥२५३॥ श्रीलहयरिक्तहर्म्यरन्तिभव्यवन्धतन्त्र वेणुलासवेपलासि सुद्य वेदलापसुज्ञ ! गौचरीणगौर्यरीणगौणरीत्यनाश्लथ त्व या यथोक्तिधिष्ण्यजातपक्षतिः सपालयात्र ॥२५४॥ श्रीहरिहरं भवन्तं वेलावेलासुवेलासु । गौरी गौरी गौरीनाथः पाथोधिजापतिः पायात् ॥२५॥ श्रिया. ( लक्ष्म्याः ) लहरीभिः प्रवाहैः ( स्वच्छन्दविहरणैः ) अरिक्तं ( प्रशू- न्यम् , श्रीपूणमितियावत् ) यत् हर्म्य (प्रासाद ) तत्र या रन्ति. ( रमण, 'वैदिक- शब्द सोयम् ) तया भव्यं प्रशस्यम् , अन एव सर्वे, वन्द्यं तन्त्रं ( प्रबन्धः ) यस्य तत्सवुद्धौ । लक्ष्मीविलासिन्नपि प्रबन्धचतुर । वेणुवादनस्य लासस्य ( नृत्यस्य) च यो वेपः तेन लासी। स चासौ सुवेदलापसुज्ञः च सुष्ठु सुखिनी द्यौः देवलोको "सुरलोको द्योदिवौ द्वे स्त्रियाम्" इत्यमरः ] येन, ईदृशो यो वेढः [ आम्नाय. ] तस्य लापे सुविज्ञ ! । लास्यादिविलासेपु चतुरोऽपि यो वेदपाठे सुनिपुणः, इत्याशयः । उत्तरार्द्धमस्पष्टम् । कृष्णावतारे विलासनिपुणोऽपि त्वं वेदवाणीप्रचारक इति पद्ये वयं पालय, इति पपस्याशयः प्रतीयते। - . . पद्यमुक्तावली [६१ अस्मात् '२५४' संख्यकात् पद्यात् एकैकस्य अक्षरस्य त्यागे [ यथा-श्रीलहर्य- रिक्तहर्म्य, अत्र आद्याक्षरस्य 'श्री' इत्यस्य ग्रहण 'ल' इत्यस्य त्यागः, पुनः, W इत्यस्य त्यागे कृते, 'रि' इत्यस्य ग्रहणम् । एवं रीत्या-'श्रीहरिहरं' इत्यादि २५५ तमं पद्यं नि.सरति । पद्यस्य चार्थः- गौरी गौरवर्णा या गौरी, भगवती पार्वती, तथा गौरीनाथः श्रीशंकरः । एवं पाथोधिजा श्रीलक्ष्मी., तन्नाथः श्रीविष्णुश्च । वेलासु ( सर्वेषु कालेपु), वेलासु सर्वासु मर्यादासु, वेलासु समुद्रस्य तटेषु च श्रीहरिहरं भवन्तं पायात् रक्षतात् [ 'अब्ध्यम्बुविकृती वेला कालमर्यादयोरपि' इत्यमरः ] हरिहरश्चायं पूर्व १५६' तमे श्लोके, अन्यत्राऽपि कीर्तितः कश्चित् कवेर्जीवनकाले प्रसिद्धः पुरुषः । सत्युपलम्भे एतवृत्तान्तो भूमिकायां सूच्येत ॥२५५॥ अमृतमनृतेनाप्नु वाञ्छन्त्यघेन सुखात्मतां बहुलभपणैः पाण्डिन्यं च च्छलैरतिसौहृदम् । कपटवचनैर्लोकज्ञत्वम्, ऋणैश्च सभाग्यता- महह कलिना भ्रान्तो लोकोऽन्यथैव समीहते ॥२५६॥ अनृतेन मिथ्याभाषणेन अमृतं मोक्ष प्राप्तुं वाञ्छति । अधेन पापेन सुखात्मतां सुखपूर्णः आत्मा यस्य तत्ताम् । दुरितं दुःखजनकं किन्तु भ्रान्ताः पापेनाऽपि सुखात्मताम् इच्छन्ति । बहुलैः भपणै: [श्वरवैः, कुक्कुरसदृशैः कर्णकटुभिर्दुवचनैः ] पाण्डित्यम् । कपटव्यवहारैः अत्यन्तं मित्रताम् , कपटवाक्यैः लोकवृत्तान्तवेदित्वम् , ऋणं कृत्वा लब्धैः धनैः भाग्यवत्ताम् , 'आप्तु वाञ्छन्तीति' सर्वत्रान्वयः । अहह आश्चर्यम् , कलिकालेन भ्रमितमतिः अयं लोकः अन्यद्वारा अन्यप्रकारं वाञ्छति । दुःखसाधनेनाऽपि सुखं प्राप्तुं वाञ्छतीत्याशयः ॥२५६॥ ज्ञानदक्षताहितस्वभासमानरम्यकाय- कामरामामधामयुद्धरुद्धशत्रुपक्ष । दानदक्षताहितस्वभासमाननम्यमाय धामधामनामनामशुद्धबुद्धवीतलक्ष । जानदक्षताहितस्वभासमानगम्यदाय कामनामयामयामनव्यभव्यमानकक्ष । ....

१४] श्रीकृष्णभट्टविरचिता श्रीशाली यः व्रजभृपणः तन्नामको गोस्वामी, गोस्वामी, तद्वारा प्रविदितस्य ग्यापितस्य [ पूजितस्य इति तात्पर्यम् ) श्रीद्वारकाधीशम्य भगवतः पादाम्भोजयुगे या प्रपत्ति. ( शरणागति. ) तया परम अत्यन्तं भाग्यशालिन् । हे माधवच्माधव ( भूपते । शौर्यगा ( वीरतया ) औदार्येण ( वढान्यतया ) च विदार्याः [ विदारगीया. निवारयाश्च ) ये परे ( शत्रव ) तेषां हत् संहारक. सन् [शत्रच. शूरतया विपाटनीयाः उदारतया च निवारणीयाः, यतो हि प्रोदाथैरण विमुग्धाः प्रजाः स्वयमेव त्यामाथित्य, रान दूरे कुर्वन्तु इति अाकूतम् । प्राज्ञानाम् श्रार्याणां ( सभ्यानाम् ) च या दारिद्रयभीः निर्धनता- कृता भीति , तस्या निवृत्तये संभाग्( समारोह )पूर्वकंम् । द्रविगारूपस्य अम्बुन (जलन्य) वर्षको जलद मेघ सन् । द्रविणमेव अम्बु तदर्पतीति द्रविणाम्बुवर्ष , कर्मण्यण् । सहस्त्र समा' सहलवत्सरपर्यन्तं जीयाः जयशाली भूयाः । समाः इनि अत्यन्तसंयोगे द्वितीया । 'हायनोऽस्त्री शरत्समा.' इत्यमरः [ उदयपुरनरेशाना गुरुसस्थानतया 'कॉकगेली' नगाव- स्थितं श्रीद्वारकाधीशमन्दिर चिरात्मथितम् । श्रीजगत्सिहराणासमये तत्सम्याने श्रीब्रजभूपगा- गोस्वामी महाभागः पीठाधीपतिरासीत् । उदयपुराधीशानां मातृलादीना सहवासात् श्रीमाधव- सिंहदेवोऽपि श्रीद्वारकाधीशसंस्थानाधिपतेः श्रीब्रजभूपणलालगोस्वामिमहोदयस्य सकाशाद् वणवदीक्षां, 'कराठी' च जग्राह इति ग्रन्थकर्तुरक्षरैः सूचित भवनि ] ॥२६२।। नानाज्ञानाविधानावरतरतरमानाथदानावधाना वकाशशीलामल भासमान । भानाभानासमानाभिमतमतसमानाथगानावसाना सकाशलीलाचललासमान । मानामानावमानावगतगततमानाथमानाबहाना प्रकाशकीलाकलनासमान। कानाकानागमानावयतयतयमानाथमानापमाना यकाशभीलोभलतासमान ॥ [ कामधेनुवन्धः] माने सज़म्भां वनितामजीहसत्प्रियोङ्गलीशब्दपुरस्सरं ततः । चित्रं स्वरान्तोऽपि विकस्वरो मुहुर्मानो हसान्तः स बभूव योषितः ॥२६॥ प्रिग्तम' मानाभ्यन्तरे सजृम्भां मुखबिकासनयुक्तां दयिताम् । अडगुलीशब्द ('छोटिका') पुरस्सरम् अजीहसत् अहासयत् । हसते एयन्तात् लुङ् । मानिन्या नायि- पद्यमुक्तावली [६५ काया यदा जृम्भा समायाता, तदा धर्मशास्त्रादिनियमानुसारं प्रियः छोटिकाम् ("चुटकी') अदात् । प्रियस्य छोटिकादानसामयिकी मुद्रां दृष्ट्वा प्रियतमाया अकस्मात् हास्यमुदभवत् इत्याशयः । ततश्च स्वरान्तः सुस्वरः हृदयगमकरठरवयुक्तः अपि प्रियायाः स मानः, हसः हसनम् अन्ते यस्य, अर्थात् हासान्तः बभूव । नायिकाया मानस्य अन्ते हासः प्रादुर्वभूवेति सर्वस्य सारः । शब्दचमत्कारस्तु-मानः स्वरान्तः अकाररूपः स्वरः (अच्) अन्ते यस्य, अर्थात् अजन्तोऽपि हसान्तः [ हलन्तो ] बभूव, इति चित्रम् । यः स्वरान्तः ( अजन्तः ), स हसा- न्तः हलन्तः कथं स्यादिति विरोधः । किन्तु स्वरः 'खिल खिल्' इत्यादिहास्यसामयिक- स्वरयुक्तः स मानः हसान्त: हास्यान्तः बभूवेति तत्परिहार. । सारस्वतादिव्याकरणे अजन्तः स्वरान्तः, हलन्तश्च हसान्तः प्रोच्यते ॥२६४॥ या माया सदयावहा ननु महाकालाबलाकालिका करालवेशाकलिता विलासिनी। या माया सदयावहा दनुजहा वाला कलाशालिका भरालकेशा चलितातिलामिनी । या माया सदयावहा तनुमहामालामलापालिका विशालकेशावलिता विकासिनी । या माया सदयावहा तनुवहा भालामलालालिका रसालदेशा फलिता विभासिनी ॥२६॥ [अयं च कल्पतरुकामधेनूभयबन्धः] यो माया (भगवती) सन् उत्तमः यः अयः शुभविधिः तस्य आवहा प्रापिणी । महाकालस्य अवला रमगी। या माया सदयानां दयाशीलानां प्रापिका । दनुजानां हन्त्री कलाभि. शालिकर शोभिनी। चलितः यः अतिलासः ( नृत्यम् ) तयुक्ता । या माया सदया ( दयाशालिनी ) सर्वसुखानाम् अाहवा प्रापयित्री । अतनुः स्थूला, पुष्टा, महती माला पुष्प-रत्नादीनां यस्याः । अथवा तनूनां शवशरीराणां महती मालिका यस्याः सा । अमला मोहमायादिदोषेभ्यो दूरीभूता । त्रिजगतां पालिका पालनकी। चिशालै. पादान्तावलम्बिभि: केशैः वलिता व्यामा । विकासिनी सर्वतः प्रक्टस्वरूपा । या माऽऽया- सव्यावहा माया. लक्ष्म्याः आयासस्य, दयायाश्च आवहा प्रापयित्री, लक्ष्मीरपि मूर्त्यन्तर चैभवेन यामनुवर्तते इत्यर्थः । भक्तानां कृते तनुवहा शरीरधारिणी । भाले ललाटे अमला १२ ] श्रीकृष्णभट्टचिरचिा हानदक्षताहितस्वभासमानयम्यगाय यामयामकाममाम हव्यकव्यभनरक्ष ॥२५७॥ अयं च कल्पतरुवन्धः जाने या दक्षता प्रजापतिता तस्याम् आहित संयोजितः स्वः [आत्मा ] येन सः । स चासौ भासमानरम्यकायश्च । भासमानः दीप्यमान: रम्यः कायः शरीरं यस्य तत्संबुद्धौ । ज्ञानगौरवाद वाह्यशरीरेऽपि दृश्यमानप्रभावः इत्यर्थः । कामं यथा स्यात्तथा अभिराम सुन्दर', तथा वामं शत्रूणां कृते भयावहं धाम ( तेजः ) यस्य, तथा युद्धे निजवलेन निरुद्धः शत्रूणां पक्षः समुदायः येन तत्संबुद्धौ । दानस्य या दक्षता चतुरता तद्वशात् हिताः हितकारिणः स्वाः आत्मीया. यस्य तत्संबुद्धौ । 'स्वो बातावात्मनि स्वं त्रिष्यात्मीये स्वोऽस्त्रियां धने'- इत्यमरः । दानदक्षताहितस्वः चासौ भासमाननम्यमायः, भासमाना प्रतीयमाना प्रणम्या माया प्रभावो यस्य तत्सबुद्धौ। धामनि धामनि गृहे गृहे, नामनि नामनि ( प्रत्येकनामग्रहणे ) शुद्ध निर्मायः प्रबुद्ध. प्रबोधशाली, वीत. निरस्तः लक्ष ('अमुको मे प्रियः' इत्यादि अनुसंधानं ) यस्य, सर्वेपु समानदीत्याशयः । जानन्ति ज्ञानशालीनि (बाधातोः शत, 'जानत्' शब्दात् क्लीवे प्रथमावहुवचनम् ) अक्षाणि इन्द्रियाणि यस्य तद्भावः जानदक्षता। तया हित , सर्वेभ्यो हितकारी, अतएव स्वय भासमान., गम्य सर्वैः प्राप्य: ढाय ( दानम् ) यस्य तत्संबुद्धौ । कामपूरकं नाम यस्य तत्सवुद्धौ । यामे यामे ( प्रहरे प्रहरे, सर्वदा इत्यर्थ. ) नव्य सर्वदा भव्यश्च यः संमानः तस्य कक्ष( गृह )भूल । 'हा' इति दयया परिशोचनम् । नदेन नादेन क्षतम् अहितानां स्वं धन येन ताशश्वासौ भासमानयम्यगायश्च । भासमान सर्वत्र दीप्यमानः (प्रकट. ) यम्य यमयितु ग्रहीतुं शक्य गायः ( कीर्तिगानम् ) यम्य तत्संबुद्धौ । यामे यामे कामः पर्याप्त यः भाम. ( कोपः ) तेन तद्वशात् हव्यकव्ययो. ( देव-पितृभोज्ययो.) भक्षक ! ( हे प्रभावशालिन् । ) अस्मान् ‘रक्ष' त्रायस्व ॥२५७॥ याग्राज त रङ्गपट्टनगतं श्रीरङ्गराजप्रभो- दिग्निकटनामबैभवयुतं प्रोद्भासि शेपाचले । पुण्यस्तम्भपुरे च यादृगुदितं श्रीविठ्ठलेशस्य तद् दिव्यं तादृगिहास्ति माधवविभोर्लक्ष्मीपतेर्मन्दिरम् ॥२५८|| - याहग मन्दिरं रङ्गपहनगतं ( श्रीरङ्गम् ) श्रीरङ्गरानप्रभोः राजति । यादृक् च मन्दिर शेपाचले वेक्टनाम्न. वैभवयुतं प्रोद्भासि (दीप्यमान) शोभते । पुण्यस्य स्तम्भभूरे पद्यमुक्तावली [६३ ( 'पूना' इतिख्याते ) याग. मन्दिरं श्रीविठ्ठलनाथस्य उदितम् उदीयमानमस्ति । इह ( जयपुरे ) श्रीमाधवेन्द्रस्य तादृग् दिव्यम् उत्तमं श्रीलक्ष्मीपतेः ( विष्णोः ) मन्दिरम् अस्ति ॥२५८॥ तत्रानेन स्वभक्त्या कनकमणिमये रामगोपालनामा स्वेष्टः संस्थापितो यस्त्रिभुवन विलसत्कोटिकल्याणदाता । सोयं दद्यात्सवाईजयपुरसदने सर्वदा राजमानो भूपे श्रीमाधवाख्ये हरि गुरुदयया सर्वमाङ्गल्यमालाम् ।।२५६।। कनकेन मणिभिः ( रत्नैश्च ) खचिते तत्र (तस्मिन् मन्दिरे) अनेन (माधवेन्द्रेण) स्वस्य इष्टदेवः रामगोपालनामा स्वभक्त्या संस्थापितः, यः ( देवः ) त्रिभुवने विलसतां सुप्रसिद्धानां कोटिकल्याणानां (शुभानां ) दाता अस्ति । सवाईजयपुरनामनि भवने सर्वदा राजमानः सः अयं ( रामगोपालनामा देवः ) श्रीहरेः, गुरोश्च दयया श्रीमाध- वाख्ये भूपे सर्वमाङ्गल्यानां माला समूहं दद्यात् इति ग्रन्थकर्तुराशी. ॥२५६।। कामक्षामतमभ्रमज्जनमनस्तेन स्वनक्ष्मीलना लक्ष्मीलक्ष्यलसामलामलमहामत्येकलोकस्वक । ओकस्येहि वहिर्नहि प्रहिणुनः स्वानध्वनध्वानभू- नस्थानस्थन रानथावभवतो वश्यं वतश्रीपते [चतुष्पुष्पहारबन्धः] उत्तु झोत्तुङ्गशुण्डाप्रसरससरसः सानदादानसामा मोबंधाधावभीमाः सरुततरुसमा वारिदादारिवामाः । संरम्भाभारसंभावितममतविभामासभाभासमानाः शोभन्ते तेभशोमाः समितितिमिसभा हेमभासा महेभाः ।। [गजवन्धः] श्रीशालिव्रजभूपण प्रविदितश्रीद्वारकेशप्रभोः पादाम्भोजयुगप्रपत्तिपरम श्रीमाधवक्ष्माधव । शौयौदार्यविदार्यवार्यपरहत् प्राज्ञार्यदारिद्रयभी- संभारद्रविणाम्बुवर्षजलदो जीयाः सहस्र समाः ॥२६२।। ...

६६ ] श्रीकृष्णभट्टविरचिता दीप्यमाना । दीनभक्तानां लालिका पालिका (लालनकी)। रसालदेशे आम्रवेष्टिते स्थले आ समन्तात् फलिता विकसिता व्याप्ता प्रसन्ना । विभासिनी समन्तात् फलिता विकसिता व्याप्ता प्रसन्ना । विभासिनी समन्तात् तेजोयुक्ता ॥२६॥ कालिन्दीतटनिकटस्फुटकुटजकुटीनिवाससौख्याय । व्यरचि मृषा भाषणमपि न तदजनि महत्कष्टम् ॥२६६।। कालिन्दी( यमुना )तटस्य निकटे स्फुटैः विकचैः कुटजपुष्पैः युता या कुटी वासार्थ पर्णशाला तस्यां निवाससौख्याय । [ राज्ञां वैभवादिवर्णनार्थम् ] मिथ्याभापण- मपि व्यरचि अकारि । किन्तु तत् (निवाससौख्यम् ) न अजनि जातम् । अत एव तदिदं महत् कष्टम् ॥२६॥ मिथ्याकथन-दुरत्ययनृपवरकृतरक्षणव्यथादुष्टः । हा वृन्दावन भवता संप्रति दूराद्विमुक्तोऽस्मि ॥२६७॥ मिथ्याभाषणम्, दुरत्यययोः दुर्धर्षयोः पराक्रमशालिनीः द्वयो. नृपवरयोः ईश्वरी- सिंह-माधवसिहयोः इति ग्रन्थकर्तुराकूनम् ] कृतस्य रक्षणस्य व्यथया दुष्टः दोषयुक्त. । परस्परविरुद्धाभ्यां द्वाभ्यां नरेशाभ्यां स्वरक्षणे यदयं कविः स्थापितः सेयमन्त.परितापिनी गुहा पीड़ा, तया दूपित. [ अयं जनः ] दूरादेव परित्यक्तोऽस्मि । वृन्दावनवासो मे न सपन्न इत्याशयः ॥२६७|| राज्ञा सदस्सु गमनं कविताकरणं मृपाकलनम् । वृन्दावनवासार्थ व्यरचि, विधे किं न तदपि संपन्नम् ॥२६॥ सदस्सु सभासु । मृषाऽऽकलनं भाषणम् , 'कल' कामधेनु. । पूर्वोक्त सर्व वृन्दा- वनवासार्य व्यरचि कृतम् । हे विधातः ! तदपि किं न संपन्नम् ? एतत्तु पूरणीयमासी- दिति याकूतम् ॥२६॥ .. जयदेवि जयदेवि । जय जय जय शिन रेवे त्वामहमिह सेवे । नादितनिर्मलनीरे विरलितपानीरे । दुरितनिवारणधीरे निधिकुशभृततीरे ॥ जय० सगरिमगुणजितगङ्गे संततसतरङ्ग । ओंकारेशविहारे धरणीतलसारे । नृपमांधातुरगारे राजितशतधारे ।

- पद्यमुक्तावली [६७ ससहस्रार्जुनलीले बहुमङ्गलशीले । उन्मूलितकलिकीले कुबलबहलनीले ॥ जय० अमृतापूरे (नित्यं ) सुमनोरथपूरे । सिद्धीनामिह पूरे रिपुशातनशूरे ।। विन्ध्याचलकृतवासे नित्यनिराभासे | तत्तत्तटकृतरासे कलितकलित्रासे ॥ जय० अखिलनदीकुलहासे नित्यनिराभासे । ब्रह्ममयाऽमृतलासे त्वाऽहमिहोपासे ।। जय रेवे मेकलकन्ये हरदेहाऽनन्ये । धरणीमण्डलधन्ये त्वामहमिह मन्ये ॥ जय० रेवाऽष्टकमिदमेकं पठ जन सविवेकम् । कृष्णसुकविसुखसेकं न वशीकुरुते कम् ? ॥ २६६ ।। जय० नर्मदाया नीराजनम्-नादित कलकलनादेन युक्तं निर्मलं नीरं यस्या, तत्संबुद्धौ । विवलिता. जलवेगेन आभुग्नीकृता. वानीरा चेतसवृक्षा, यस्याम । पापाना निवारणे धीरे अविचले । निधिसदृशै कुशै. (8.) भृतं तीरं यस्या । गरिम्णा गौरवेण युक्ता ये माधुर्य- पावित्र्यादयो गुण तद्द्वारा जिता गङ्गापि यया तत्सवु० । सतत्त सतरङ्गे ( तरङ्गैः सहिते ! ) ओकारंशस्य तन्नाम्ना अभ्यर्चितस्य शंकरस्य विहारो यस्याम् । नृपस्य मांधातु. गृहे राजिताः शतं धाराः यस्या , "प्रीता नर्मदा माधातुर्भदने शतधारामि: प्रवाहितेति" पुराण कथा । सहस्रार्जुनस्य ( कार्तवीर्यस्य ) लीलाभि विहारै. सहिते ! उन्मूलित. कले. कालस्य कील. ज्वाला, शङ्कुर्वा यया । 'शङ्कावपि द्वयोः कीलः' इत्यमरः । कुवलैः बदरी- विशेपैः अत्यन्त नीले । नीलवर्णे 'कोलं कुवलफेनिले' इत्यमरः । अमृतं मोक्षं आपूग्यति समर्पयति तच्छीले । सुमनोरथानां पूरणकत्रि ! अणिमादिसिद्धीनां पूरे ! प्रवाहभूते घने निबिडे वने विलासयुक्ते । तटे कृत रासः विलासः यया । अखिलं नदीकुलं समू- हम् ) हसति शोभया अतिशेते । अथवा अखिलस्य नदीसमूहस्य हासः प्रमोदः यया तत्संवु० । ब्रह्ममयस्य अमृतस्य ( अद्वैतानन्दस्य ) लास. विलासः यस्याम् । अह त्वाम् इह उपासे सेवे । 'त्या' आदेशः । हरदेहात् अनन्ये अपृथग्भूते । श्रीकृष्णकवे सुखसे कम् सुखवर्षकम् (अष्टकम् ) क न वशीकुरुते ? अपि तु सर्वम् ।।२६६॥ जय जय ओंकारेश जय रेवाजलमण्डितमन्दिरमजलरूप । जय विबुधावलिपावन जय भुवनत्रयभूप ।। जय चश्चन्मृदुचन्द्रिक चन्द्रकलाञ्चितभाल । जय भुजगावलिभूपित जय पदनतभूपाल ।। जय करुणावरुणालय तरुणाऽरुणसंकाश । - -- ?

८]
श्रीकृष्णभट्टविरचिता
अरुणानुजकेतुस्तुत शरणागतहतपाश ।।
जय धृतजटिलजटागण जय भव हर जगदीश।
पञ्चानन चतुरानन विविधानन वागीश
जय वपुरोहितनवनारी नाथनशील ।
जय विश्वोदयसंस्थितिसंहारामितलील ।।
जय जय यजुरन्धित सामगवेदशिरस्यधिरूढ ।
आनन्देत्यात्मेति ब्रह्मति श्रुतिरूढ ।।
गिरिजापतिरिति शिव इति शंकर इति गायन्ति ।
कः क्व च कुत इति पारं कथमपि दुधा न यन्ति ।।
ज्योतिलिङ्गमनादिं त्वामहमसकृन्नौमि ।
निगुण निरुपम निष्कलमन्यत्किमिह स्तौमि ।।
अष्टपदीयमुदारा कृष्ण सुकत्रिकलितेति ।
ॐकारेश्वरकृपया कस्य न हृदि सुखमेति ॥२७०॥
रेवाजलेन मण्डितं शोभित मन्दिरं यस्य, अत एव मञ्जुलरूप ! विबुध( देव-
विदृत् ) पड्क्तीना पावन ( पवित्रीकारक ! ) । चञ्चन्ती ( शोभमाना ) मृदुः ( स्वल्पा )
क्लावस्थात्वात् ) चन्द्रिका यस्या, ईशी या चन्द्रकला तया अञ्चित शोभितं भालं
यम्य । पढयो प्रणता भूपाला ( गजान ) यस्य । तरुण य अरुण' ( सूर्य )
तत्सदृश ! म्फुरत्तेजोयुक्त ! अरुणानुज (गरुड ) केतौ यस्य ईशेन विष्णुना
स्तुत ! शरणमागतस्य हृताः सर्वविधाः पाशाः ( बन्धनानि ) येन । धृत (शिरसि
स्थापितः ) जटिल परस्परमुद्ग्रथित जटागण. येन । पञ्चप्रभृतिभि, आन.. शोभित !
वाचाम् ईश स्वामिन् ! वयुप- शीरस्य अद्धभागे श्राहिता स्थापिता नवा सुन्दरी नारी,
तम्या नाथनं वशीकरण शीलं यस्य तत्स० । विश्वस्य जगत उदय. उत्पत्ति , स्थितिः,
सहारश्चेति अमिता ( अनेया ) लीला यस्य । यजुपा यजुर्वेदन अन्विताभ्या ऋक्-साम-
वेदाना शिरसि उत्तमभागे ( वेदान्ते वा ) अधिरूढ वर्णितेत्यर्थ । इत्यादिपु श्रुतिपु रूढ,
वर्गित क' कीकस्वरूप , कुत्र कस्मिन्नाधारे, किंकारणादिति तत्त्ववोधे बुधाः पण्डिता
अपि पारं न यन्ति गच्छन्ति । ज्योतिष तेजस लिनस्वरूपम् अनादि सर्वत आदिभूतं
त्वाम् असकृद् पुनः पुन• नौमि स्तौमि । कस्य हृदये सुख यथा स्यात्तथा न एति
तिष्ठति ॥२७०॥

पद्यमुक्तावली | ग्रीष्मवर्णनम् घृताङ्गारग्रामानिव कठिनधामा करगणान् दिशासु द्रागेव द्रढिमदुरुपास्यान् किरति यत् । समीरस्तानेतान् द्विगुणयति दावाग्निकवली- कृतोद्गीर्णक्षोणीहगणपरीरम्भनिपुणः ॥२७१॥ धृत. अशारग्रामः ( समूहः ) थैः ईदृशान् इव किरणसमूहान् कठिनधामा (तीक्ष्ण धाम तेज यस्य, ईशः चण्डरश्मिः सूर्यः) यत् किरति प्रक्षिपति । द्रढिम्ना (तीक्ष्णतया) दुरुपास्यान् असह्यान् ( किरणगणान् ) तान् विरणसमूहान् । दाचाग्निना पूर्व कवलीकृता भक्षिताः, तत उद्गीर्णाः उद्वान्ताः ये क्षोणीरुहगणाः वृक्षसमूहाः तेपा परीरम्भे श्रालिङ्गने निपुण समीर चायुः ( तान् किरणसमूहान् ) द्विगुणीकरोति । सूर्येण ये किरणा क्षिप्ताः तान् वायुर्द्विगुणिततैदण्यान् वर्षति । सूर्यापेक्षयापि वायोः संतापः सुतरामसह्यो भवती- त्याशय. 1 तत्र ग्रीष्मे च वृत्ता अपि एकवारं दावाग्निना भक्षिताः, तत उद्धान्ता इव भवन्तीत्यर्थ. ॥ २७१ ।। अगस्त्येश यस्ते यशस्तेजसीव प्रशस्त समस्तेश वस्ते पदाब्जे । समस्तेन कस्तेन उच्चैस्तपस्यामधस्तेन तस्मान्नमस्ते नमस्ते ॥२७२।। स्फुरजघननालकेगुलिदलावलीमण्डिते प्रसन्ननखकेसरे कनकभूषणोत्कणिके । मनोमधुपमन्दिरे मधुरतामधूलीभरे जनार्दनपदाम्बुजे हृदयतापहृत्यै भजे ॥२७३॥ स्फुरद् दीप्यमानं जघनं जवाऽधोभाग एव नालो ययोः ते । अङ्गुलय एवं दला- वली पत्रसमूहस्तेन मण्डिते । प्रसन्नाः स्वच्छा नखी एव केसराः किंजल्का ययोः ते । कनक- भूपरणान्येव उत् उन्नता कर्णिका ययोः ते । मनोरूपस्य मधुपस्य मन्दिरभूते । मधुरता माधुर्यमेव मधूलीभरः मधु-रसभरः ययो: ते। ईशे जनार्दनभगवतः पादाम्बुजे चरणरूप कमले हृदयतापस्य हृत्यै हरणाय भजे सेवे ॥ २७३ ।। मनोमधुरिमाम्बुधिं तरुणिमैकमोदालयं मनोजमदमन्थरीकरणकार्मणश्रीभरम् । मनोरथलताफलस्फुरदनुक्षणप्रक्षणं बजाङ्गणविचक्षणं हृदि जनार्दनं भावये ।।२७४॥ .

१०० ] श्रीकृष्णभट्टविरचिता मनस ( कृते ) मधुरिमण: माधुर्यम्य समुद्रम् । तरुणिम्न. तानण्यस्य ( यौवनम्य) एकं प्रयानं मोढम्य आनन्दस्य भवनभूनम् । जनार्दने एव तरुणिमा गृहे इव अानन्द- पूर्वकं निवसतीत्यर्थ. । कामदेवमदत्व मन्थरी( मन्दी )करणाय कार्मण( वशीकरण, 'जादू') भूत श्रीमरः शोभासमूहो यस्य तम् । मनोरथल्पाया लतायाः फलस्य म्फुरत् प्रकटीभवत अनुक्षण प्रतिक्षण वीक्षण( दर्शनं यो मन् । मनोरथलतायाः फल यस्मिन् क्षणे क्षणे एव वीक्षित भवतीत्याशयः । ब्रजभूमौ विचक्षणां धीमन्तम् ( अद्भुतम् ) जनार्दनं भगवन्तं विष्णु दि ध्यायामि ।। २७४ ।। हेमन्तः चञ्चच्चन्द्रकचन्द्रचन्दनचमत्कारप्रचारापहं पद्मोल्लासपराङ मुखप्रकृतिभिर्दोपावलीभिः श्रितम् । नीहारप्रहतप्रभाकरविभासंदोहमन्दोद्यम हेमन्तं गुणवन्तमद्य भवती कतु समर्था प्रिये ॥२७॥ चञ्चन्तः स्फुरन्तः (शोभमानाः ) ये चन्द्रक( कर्पूर ),चन्द्र-चन्दनाः तेपां चमत्का- रस्य प्रभावस्य प्रचारविघातकम् । हेमन्ते शीतलगुणानामेपां चमत्कारो जनैर्नाऽनुभूयते इत्यथ । पद्मानां कमलानाम् उल्लासाद् विकासात् परामुग्वी प्रकृतिः ( स्वभावः ) यासाम् ईशीभि दोपावलीभिः दोषसमूहैः [कि वा दोपालीभि, रात्रिसमूहैः] शितं युक्तम् । हेमन्ते कमलानामुल्लासो न भवतीति सुप्रसिद्धम् । 'दोपा च नक्त च रजनाविति' इति कोपः । नीहारेण हिमेन प्रहत अभिभूत य प्रभाकरः सूर्यः तम्य विभा( कान्ति )संदोहस्य (समूहस्य ) मन्द उद्यम प्रचार प्रभाव यस्मिन् ईदृशं हेमन्नतु हे प्रिये ! भवती गुण- यन्तं संपादयितुं समर्थास्तीति प्रियतमस्योक्ति । य ऋतु प्राकृतशोभाविघातकतया शृङ्गार- प्रतीप , अत एव दोपवान्, तादृशमपि त गुणवन्त संपादयितुं भवती एव प्रभवतीति प्रियां स्वाभिलापाभिमुखी संपादयत. प्रियतमस्यातम् 'अद्य' इति पदेन ध्वन्यते ॥२७॥ असोढविधुमण्डलप्रसरदातपत्रद्य ति- दिनेशकरचामरप्रकरनित्यसंबीजितः । तुषारयशसोज्ज्वलः स्मरशरप्रतापोन्नतो हिमतु पृथिवीपतिः पुरि पुरि प्रसपत्यसौ ॥२७६।। न सोढा न मर्पिता विघुमण्डलरूपस्य प्रसरतः आतपत्रस्य छत्रस्य धुतिः येन । (अन्यस्य राज्ञ छत्रद्युतिर्न सोढा ) । दिनेशकरा एव चामरप्रकर ( चमरसमूह. ), तेन पचमुक्तावली [१०१ नित्यं संवीजितः । तुपार( हिम )रूपेण यशसा उज्ज्वलः । कामस्य शराणां प्रतापेन उन्नतः (कामप्राबल्ययुक्तः ) हेमन्तरूपः अयं भूपतिः नगर्या नगर्या प्राबल्येन प्रसरति ॥२७६॥ उत्तालोत्तवातवीतिनिवहप्रोवत्खुराग्रोद्धतः पालेयोत्कटधूलिधोरणिधनव्यालुप्तदिङ मण्डलः । कूर्पासप्रकरप्रभृतकत्रचच्छन्नै नैवेष्टितः सेनानीर्मदनस्य शीतसमयो जागर्ति जित्वा जगत् ॥२७७॥ उत्तालाः उद्धता. ये उत्तरदिशो वाताः ( पवनाः) ते एव वीतिनिवहः अश्वसमूहः तस्य प्रोवद्भिः उच्छलद्भिः खुराग्गैः उद्धतः प्रचण्डः । 'घोटके चीतितुरगतुरङ्गाश्व- तुरनमा.' इत्यमरः । प्रालेय( हिम )रूपा या उत्कटा धूलिधोरणी (शकटिः ), सैव धनः मेघः, तेन व्यालुप्तम् अदृश्यं दिड्मयडलं यस्मिन् । हिमप्रपातयुक्तः इत्याशयः । कूसिकानां चोलानां ( 'रजाई' ) प्रकरः समूह एव प्रभूतानि कवचानि, तदाच्छन्नै (तद्वेष्टिते.) जनेयाप्तः । शोतसमयः मदनस्य सेनापतिः जगद्विजयं कृत्वा विजृम्भते ॥२७७|| कपू रोज्ज्वलदीपवतिफलिते लक्ष्मीविलासाश्रिते पक्षापूरिततूलिकाट्यशयनन्यस्तोपधानद्वये । तारुण्यासवपूर्णमाननयनस्त्रीसुन्दरे मन्दिरे हेमन्तागमसंततोत्सवकरीः सन्तो नयन्ते निशाः ॥२७८।। कर्पूरेण उज्ज्वलाः या दीपवर्तयः ताभिः प्रभासिते । पतैः गरुद्भिः ( कोमलैः ) आपूरिता या तूलिका पास्तरणी 'गद्दा' तया आढथे ( युक्त ) शयने शयनीये, विन्यस्तं स्थापितम् उपधान( गेंदुक )द्वयं यस्मिन् , तारुण्यरूपेण पासवेन ( मद्यन ) घूर्ण- माननयनया स्त्रिया सुन्दरे ( सौख्य-शोभाशालिनि) मन्दिरे सन्तः ( भाग्यवन्तः ) हेमन्त ऋतोः आगमनेन संततम् आनन्दकारिणीः निशाः गमयन्ति ॥२७८॥ सद्गुणोधकलितं श्रितरागं शीतभीतिहरणं सुखसङ्गम् । तन्त्रि दीव्यदतनु स्पृहयामस्तूलकञ्चुकमिदं च तवाङ्गम् ॥२७६।। सन् उत्तमः यः गुणौधः सूत्रसमूहः तेन युक्तम् , श्रितः रागः ( रगः अरुणादिवर्णः ) येन तत् , सुखकारकः सनो यस्य तत् । दीव्यद् अतनु (घुतियुक्तं चापि अतनु पुष्टम् ) ।

सर्वत. १०२] श्रीकृष्णभट्टविरचिता इदं तू नभृतं कचुकं गात्रवस्त्रम् । हे तन्वि ! इदं तव अगमपि सन् प्रशस्यः सौन्दर्य- सौकुमार्यादिगुणसमूहः, तेन युक्तम् । श्रितः रागः अनुराग. स्नेहः येन तत् । दीव्यन् प्रसरन् अतनुः अनङ्गः यस्मिन् , एवंविधं तव अझं च स्पृहयामः । शीतभीत्यादि- विशेषणानि स्पष्टार्थानि ॥२७६।। हे हेमाङ्गि महेभकुम्भविलसद्वक्षोजभाराञ्चिते यस्मै दास्यसि मुद्रिकाञ्चितरुचा हस्तेन ताम्बूलिकाम् । खेदस्वेदविभेदमेदुरचलत्काश्मीरपङ्कऽङ्गके तस्य ग्रीष्मसमां करिष्यसि पुनः पौषत्रियामामिमाम् ॥२८०|| हेम( सुवर्ण )वत् अङ्गं यस्याः तत्संबुद्धौ । महन्तौ यो इभकुम्भौ (गज शिरोभागौ ) नद्वत् विलसतोः शोभमानयोः वक्षोजयो. ( स्तनयोः) भारेण अञ्चिते शोभिते । यस्मै ( भाग्यवते पुरुषाय ), मुद्रिकया अङ्गुलीयकेन अञ्चिता शोभिता रुक कान्तिर्यस्य [ अङ्गुलीयकशोभितेन ] हस्तेन ताम्बूलिकाम् ( वीटिकाम् ) दास्यसि । खेदस्य ( विषादस्य ), स्वेदस्य प्रस्वेदस्य च विभेदे दूरीकरणे मेदुरः ( सान्द्रश्च स्निग्धश्च ), चलन् प्रसरन् काश्मीरपङ्कः ( केसरखव. ) यस्मिन् ईदृशे तव अङ्गके (मृदुनि शरीरे ) पौपस्य त्रियामां रात्रिमपि ग्रीष्मर्तुसमानां करिष्यसि । स्वाङ्गप्रभावेण पौषरात्र्यामपि ग्रीष्मरात्रिवत् तवाङ्गसङ्गेन खेद-स्वेदादयो भविष्यन्तीति हेमाङ्गथा. अतिशयो द्योत्यते ॥२८०॥ महादोपाकान्तः प्रतिपदमहोरूपरहितः सदा जाग्रजाड्यो ननु च तुहिनाच्छादितरसः । गलद्गत्युत्कर्षों वहलतरचलावृतिहितः कथं सोढुं शक्यः कुकविरिख हेमन्तसमयः ॥२८॥ • महद्भि दोपै. च्युतसंस्कृत्यादिभि. आक्रान्त.( कुकवि. ),महतीभिः दोषाभिः रात्रिभि श्राक्रान्त व्याप्त. (हेमन्त.), प्रतिपदम् अहो ( खेदे, आश्चर्य वा ) रूपै. शब्दधा- त्वादीना यथावद्रूपैः रहित (अथवा रूपेण शब्दसौन्दर्येण ) रहितः [ कुकवि. ], हेमन्त- समयस्तु अहोरूपेण दिनस्य रूपेण रहित । अर्थात् दिनस्य आगमनं न प्रतीयते । यथाऽऽह विहारी-"आवत जात न पेखियत तेजहि तजि सियरान । घरह जमाईलौं घट्यो खरो पूसदिनमान ||"। सदा जाग्रती स्फुरन्ती जडता ( स्थूलता, मूर्खता ) यस्य (कुकवि),

पद्यमुक्तावली
[१०३
सदा जाग्रत् वर्तमानं जाव्यं शीतानिशयकृतम् अचलत्वं यस्मिन् (हेमन्तः )। ननु-च-तु-
हि-न-इत्यादिभिः च्छन्द.पूरणप्रयोजनैः पदैः आच्छादितः (अन्तरितः, निगूढीकृतः )
रस शृंगारादियेन ( कुकवि. ), ननु च निश्चयेनैव तुहिनेः हिमैः आच्छादिता रसा (पृथ्वी)
येन ईदनः ( हेमन्तः ), गलन् शिथिलीभवन् गतेः रचनायाः उत्कर्पः अतिशयः यस्य,
यस्य रचनायाम् उत्तरोत्तरं प्रवाहशैथिल्यं प्रतीयते ( कुकविः ), गलन् न्यूनीभवन् गतेः
गमनस्य उत्कर्प. (शैव्यम् ) यस्मिन् ईदृश: (हेमन्त.)। वहल( बहु )तराणां चैलानाम्
अधमप्रयोगाणाम् श्रावृत्यां आवरणे हितः लग्न,
पूर्वमेवंविधान प्रयोगान् करोति येषां-
ढोपाऽऽवरणार्थ भूरितरो यत्नः कर्तव्यो भवति ईदृशः ( कुकविः ) । बहुतराणा चैलानां
वस्त्राणाम् श्रावृत्त्या आवरणेन हितः सुखकारकः ( हेमन्तः )। 'चैलं वस्त्रेऽधमे त्रिषु'
इत्यमरः । कुकविः हेमन्तश्च अतिकष्टेन ( संयमेन ) सोढुं शक्यः ॥२८॥
हसन्तीभियुक्तः सततखरतामूर्तिभिरथो
द्विजेशासह्यत्वात्सुविहितहितस्तिग्मरुचिना।
चिरादत्तोद्वगः श्रुतिशतपिधानककुशलः
कलिः किं हेमन्तः कलितबहुदौपैकमहितः ॥२८२॥
सज्जनान् उपहसन्तीभि., सततं खरतायाः दुष्टतायाः मूर्तिभि. दुष्टतायाः प्रत्यक्ष-
मूर्तिभिरिव खलयवनादिभि.] युक्त (कलि) । निरन्तरं तीक्ष्णतायाः तापस्य मूर्तिभिः हस-
न्तीभि. (अङ्गारधानिकाभि 'अँगीठी', 'अङ्गारधानिकाऽङ्गारशटकट्यपि हसन्त्यपि' इत्यमरः)
( हेमन्तः ).। अनाचारवाहुल्यात् द्विजेशानां ब्राह्मणश्रेष्ठानाम् असह्यतया क्रूररुचिना
( स्वातन्त्र्यप्रियेण जनेन ) सुविहितानि हितानि यत्र । ब्राह्मणा अनाचारमनभिरोचयन्तो
नात्राभिमुखा भवन्ति, ततश्च कुरेच्छेन जनेन यथेच्छ हितसाधनं क्रियते इत्यर्थः । द्विजेशस्य
चन्द्रस्य शीतजनकतया असह्यत्वात् तिग्मरुचिना तीक्ष्णकान्तिना ( सूर्येण ) सुविहितानि
हितानि सौख्यानि यस्मिन् ईदृशः ( हेमन्त )। उत्तः उद्वेगः हृदयदु खं येन ईदृशः
( कलिः ) । शीताधिक्याद् दत्तपीड. (हेमन्त)। श्रुतिशतस्य वेदमन्त्रशतस्य पिधाने अमि-
भवे (त्यागे) एक. कुशल (कलि)। श्रुत्योः द्वयोः कर्णयोः पिधाने वस्त्रावरणादिमिवेष्टने
अतिकुशलः ( हेमन्तः )। कलितै राशीभूतैः बहुभिर्दोपैः ( संस्कारत्याग-अनाचारादिभिः)
वहुभिः दुरितैः एकः गरीयान् (कलि:) । कलिताभिः वहीभिः दीर्घाभिः दोषाभिः (रात्रिभि.)
एक. महित. गरीयान् (हेमन्तः) ॥२८२॥

१०४] श्रीकृष्णभट्टविरचिता अन्तः संदेशरुच्या सकलरससमास्वादकामप्रमोदी श्लाघायुक्तार्थमान्यव्यतिकरसुखकृन्मुक्ततापक्षपाती । जातश्रीकृष्णवासमहिमरचनाच्छादिताशेपविश्यो नायं हेमन्तकालः प्रसरति सुकवेः कस्यचित्काव्यवन्धः ॥२८३।। गुप्तसंदेश-(नायकयोः परस्परं समागमसकेत रुचिपूर्वक संपूर्णत्त्य ( न तु साऽवश- पस्य ) रसस्य समास्वादेन कामजनित. प्रमोदो यस्मिन्, यस्मिन् ऋती मिथ. संदेशपूर्वकं पूर्णो रसानुभवो भवतीति कामानन्दपूर्ण. सोयमित्याशयः। श्लाघायुक्त प्रशंसनीय अर्थमा सूर्यो यस्मिन्, सूर्यातपो यत्र ऋतौ प्रियो भवति । अन्यव्यतिकरेपु यात्रा-श्रम-वस्त्रधारणा- दिव्यापारेष्वपि सुखकारकः । मुक्त. उन्मुक्तः अवारित. तापः वह्निसेवनं यासु एवंविधाभि क्षपामि रात्रिमि अतति व्याप्नोति, रात्रिपु वहिसेवनादिनैव यत्र सुखं भवतीति तात्पर्यम् । जातश्रीकृष्णवां, जाता श्री: सुखसपद् यस्मात् ईरा. कृष्णवर्मा अग्नि यस्मिन् , यस्मिन् ऋतौ कृष्णवर्त्मनः अग्नेः सकाशादेव श्री सौख्यलक्ष्मीरस्तीति भाव । "वर्हि शुप्मा कृष्णवमा शोचिप्केश उपर्बुधः इत्यमर । असमा अर्थाद् विपमा या हिमरचना प्रालेयपात तेन आच्छादित अशेपविश्वं यस्मिन् ईश हेमन्तकाल. नास्ति, अपितु कस्यचित्सुकवे. काव्यरचनास्ति । काव्य- वन्ध अपि अन्तः गुप्तरूपेण (व्यङ्गयरूपेण) रामादिवद् वतितव्य न तु रावणादिवद् इति उपदेशरूपेण सकलानां रसानां शृङ्गार-बीरादीनां समास्वादनेन काम यथेच्छं प्रमोद(अनिर्वचनी- यानन्द)कारी । श्लाघायुक्ताः सर्वप्रशस्या अतएव आयें. श्रेष्ठै मान्या ये व्यतिकरा. कथान- करूपेण वर्णिता घटना. ताभि. सुखकारकः । दुःखादिभ्यो या मुक्तता तस्या. पक्षपाती । आनन्दजननेन दु खदूरीकारक , अथवा शान्तरसाद्युपदेशेन मुक्ते. पक्षपाती । जात श्रीकृ- प्णस्य वर्त्म मार्गः यस्मिन् , श्रीकृष्णेति उपलक्षणम् । श्रीकृष्ण-श्रीरामादिभि आदर्शपुरुप यत् चरित्र प्रवर्तितम् तद्दारैव यस्मिन् काव्यबन्धे मार्गदर्शनं क्रियते, तादृश सुकवे. काव्य- वन्ध इति तात्पर्यम् । अतएव समहिम-रचनाभि माहात्म्यशालिनीभि वशीकृतसमस्तविश्व काव्यवत्व इति तात्पर्यम् ॥२८॥ दीव्य योहसन्तीभृतदहनमहावाडवस्तूलवस्त्रो द्वीपस्थैरखपः प्रविततरजनीचारिणां स्थानभूतः । प्रोद्यत्नालेयपूरैः परिहृततरणिप्रक्रमः पूर्णपद्मो नासौं हेमन्तकालः प्रसरति परितः प्लावनार्थ पयोधिः ॥२८४॥ दीयन्तीषु (प्रज्वलन्तीपु) हसन्तीपु भृत पूर्ण, य दहन (अग्नि ) स एव महान् वाडव बडवानलो यस्मिन् । तूलस्य ( 'ई' इतिख्यातस्य ) वस्त्राणि यस्मिन् (हेमन्त पद्यमुक्तावली [ १०५ कालः), पयोधिस्तु 'मस्तूल' इति ख्यातस्य नौकाध्वजस्य वस्त्रं यस्मिन् । द्विर्गता: आपः (-जलानि ) यस्मिन् , परितो जलप्रदेशवासिभिजनैः दूरतः परिहृतः ( हेमन्तः )। पयो- धिरपि द्वीपवासिभिर्जलप्लवनभयाद् दूरतो वर्व्यः । प्रवितता ( दीर्घा ) या रजनी ( रात्रिः ) तच्चारिणां रात्रिचराणां श्वापद-पक्षि-प्रभृतीनां स्थानभूतः हेमन्तः । [ शीतरात्रौ इमे जन्तवो वाहुल्येन भ्रमन्ति ] । समुद्रस्तु रजनीचराणां राक्षसानामालयभूतः । प्रोद्यद्भिः उद्गच्छद्भिः ( प्रवलेः ) प्रालेयपूरैः ( हिमपातैः ) परिहृतः दूरीकृत' तरणेः सूर्यस्य प्रक्रमः संचारो यस्मिन् (हेमन्तः) । पयोधिस्तु-प्रोद्गच्छद्भिः हिमपातैः दूरीकृत: तरणे: नौकायाः संचारो यस्मिन्नीदृशः । पूर्णानि समाप्तिं गतानि पद्मानि कमलानि यस्मिन् ईदृशः हेमन्तकालः । पयोधिस्तु-पूर्णा पद्मा ( लक्ष्मीः ) यस्मिन् (लक्ष्मीजनकत्वात् )। ततश्च ताशधर्मशालित्वात् अयं हेमन्तो नास्ति, अपितु सर्वेषां द्रावणार्थम् अयं पयोधि- रस्तीत्यर्थः ।२८४ उष्णकालविभवप्रतिकूलं वह्निसेवनविधावनुकूलम् । सर्वभोगविलसद्रसमूलं सूपकारमिव पश्य सहस्यम् ॥२८५ उपणकालस्य (ग्रीष्मस्य ) ये विभवाः जलक्रीडादयः तस्य विरुद्धम् (सहस्यम्- पौषम् )। सूपकार. पाचकः अपि उष्णकालवैभवात्प्रतिकूलः, उष्णकालं न अभिरोचयति सततमग्निसेवनात् । वहिसेचनं वहिप्रवर्द्धनं तस्य अनुकूलम् (उभयमपि)। सर्वेषां भोगानां विलसन्तो ये मधुरादयो रसाः तेषां मूलं जनक (सूपकारम् )। सर्वविधेषु भोगेषु सुखोप- भोगेषु विलसन्तो ये रसाः शृङ्गारादयः तेषां मूलम् । रसोपभोगायाऽनुकूलम् । “पोषे तैपसहस्यौ द्वौ” इत्यमरः ॥२८५॥ अस्मिन्नम्भोदमध्योल्लसदखिलनिशानाथविम्बाऽनुकारे मा कोक व्याकुलीभूः कलितनिजवधूसङ्गकेलीविमोकः । धचे योजसाऽसौ विकसदसनभावहिवेगेन कर्षन् धूलीधारान्धकारान् जयधरणिपतेर्यन्त्रतोलोऽहंगोलः ॥२८६॥ आम्भोद(मेघ) मध्ये उल्लसन् दीप्यमानः यः अखिल. पूर्णः निशानाथस्य चन्द्रस्य विम्व. ( मंडलम् ) तदनुकारे तत्सदृशे [ मेघमण्डलमध्यगतपूर्णचन्द्रसदृशे ] अस्मिन् (गोलके ), कलितः कृत: निनवध्वाः सङ्गकेल्याः ( संगमक्रीडायाः ) विमोकः त्यागः येन ईदृश त्वं हे कोक हे चक्रवाक ! मा व्याकुलो भू. । निजप्रियतमायाः संगमक्रीडां

१०६ ]
श्रीकृष्णभट्टविरचिता
विमुच्य व्याकुलो मा भूः । यतः ( अयं चन्द्रः नास्ति, अपितु ) विकसन् सर्वतः प्रसरन्
असनभाया. प्रक्षेपणप्रभायाः वहिवेगो यस्य, ईशेन तेजसा धूलिधारारूपान् अन्धकारान्
आकर्षन् जयधरणिपतेः, ( जयभूमिपतेः, जयसिंहस्य ) यन्त्रतोलः [ 'तोम' रूपाद् यन्त्राद्
तोलनम् उत्क्षेपणं यस्य ईशः ] अहंगोलः (श्रेष्ठगोलक.) असौ पूर्वोक्तान अन्धकारान्
धत्ते । हे चक्रवाक ! प्रियया सह संगमकेलेवियोगकारणीभूत. मेघमध्यगतः अय
चन्द्रो नास्ति, अपितु प्रक्षेपणजन्यवहिना अरुणीभूतः अयं जयसिंहस्य गोलकः अस्ति ।
इमेऽपि मेघा न सन्ति, अपितु धूलीधारारूपा अन्धकाराः सन्ति, इति सर्वस्या-
शय ॥२८६॥
कः स्याच्छब्दो निषेधे खलमनसि मतो को गुणस्योपसर्गों
को स्यातां यो प्रकर्षाऽतिशयनिगदनौ कुत्र शस्तो रेखा।
रुत्वं वाम्रोडिते, हो प्रभवति पुरतस्तस्यतेः किं नु रूपं
कोक्तिः श्रीशाय पाद्य विरचयति नले, पाणिनेः किं नु सूत्रम् ॥२८७।।
?
निषेधे निषेधार्थ कः शब्दः ? 'न' । खलमनसि गुणस्य कः ? 'लोपः' । यतो हि
दुष्टपुरुषस्य मानसे गुणस्य प्रवेश एव न भवति । ईशौ उपसर्गों को स्यातां (भवेताम् )
यौ ( उपसर्गों ) प्रकर्षस्य अतिशयस्य च निगदनौ वाचकौ स्याताम् ? 'प्र-अति' ।
ऊर्ध्वरेखा कुत्र शस्ता (प्रशस्ता ) ? 'पदि' अर्थात् पादे । क आमेडिते रुत्वं भवति ?
कान्' । [ तथा हि सूत्रं 'कानानेडिते' ] ! 'हो' पुरतः अग्रे प्रभवति सति, तस्यते.
( 'तसु उपक्षये'.) इत्यस्य-कि रूपम् ? 'तस्य' ['तस्य तस्यतात् तस्वातं तस्यत' इत्यादीनि]
श्रीशाय लक्ष्मीकान्ताय पाद्यं पाढार्थमुदकं विरचयति प्रदाने नले का उक्तिः ? 'नलः अपः
प्राति पदि कान्तस्य' अर्थात् राजा नलः कान्तस्य श्रीकान्तस्य पदि पादे अपः जलानि
प्राति पूरयति । 'प्रा-पूरणे' अदादि । पाणिने. किं सूत्रम् ? 'नलोपः प्रातिपदिकान्तस्य' ।
ततश्च सेयं वहिापिका 'समस्तद्विर्व्यस्तप्रसिद्धजाति,' इति ग्रन्थस्था प्राचीना
टिप्पणी ॥२८॥
मीनो जलमपहायाऽऽरोहति तरलं सकराटकं वृक्षम् ।
तदपि न धर्मधराणां भवत्यधर्मोन्मुखं मनः क्वापि ॥२८॥
?
मीनस्य जलत्यागपूर्वकं सकराटक्वृक्षारोहणरूपमसंभवं कदाचिद् भवेत् किन्तु
धार्मिकाणां मन अधर्माय उन्मुखं कदापि न भवेत् ॥२८॥

पद्यमुक्तावली [१०७ सक्षोभपुलकमसुरं शंख कामति हरौ जनैरूचे। मोनो जलमपहायाऽऽरोहति तरलं सकण्टकं वृक्षम् ॥२८६ ।। क्षोभ (विह्वलता) जन्यरोमाञ्चयुक्तं शंखाऽसुरम् हरौ आक्रामति प्रागेहति सति । शंखस्य क्षोभाद् यः कम्पः तेन [ तरलम् ( चंचलम् ) ], यश्च रोमाञ्चः, तेन सकपटकम् । शंखासुरः जले निहत इति 'जलमपहाय', उपर्याक्रमणेन आरोहतीति ॥२८॥ गच्छति मदने जेतु विल्वाग्रमधिष्ठितं मुनि कमपि । मीनो जल० ॥२६॥ बिल्ववृक्षस्याग्रे अधिष्ठाय तपस्यन्तं मुनि कामदेवो जेतुं (तत्र विघ्नं कृत्वा तपस्यातो निवतितुं) गच्छति स्म । तत्र कविः कथयति कामदेवस्य ध्वजे स्थितो मीनः संकण्टक बिल्व- वृत्तमारोहतीति ॥२६॥ त्वयि सति, मयि दत्तायां चैद्याय किमद्भुतं त्रु वे कृष्ण ! । मीनो० ॥२६१॥ कृष्णं विहाय चैद्याय (शिशुपालाय ) रुक्मिणीसमर्पणं जलं त्यक्त्वा करटकवृक्षा- ssरोहणमिदं मीनस्य ॥२६१॥ कादम्बरीविघूर्णितनयनः कोऽप्येष तूर्णमभिधत्ते । मीनो० ॥२६२ मद्यविघूर्णितनयनस्य प्रमत्तस्येदमसंभवं वक्तव्यमितिपूर्तिः ॥२६२॥ कुम्भोद्भवेन मुनिना गमितेऽजलिमम्बुधौ भृशं पातुम् । मीनो० ॥२६३।। अगस्त्यमुनिः तप.कर्कशः सकण्टकः । पातुम् अम्बुधौ अञ्जलिं गमिते (प्रापिते) सति, इत्यन्वयः ॥२६३॥ संत्यज्य कृष्णचरणौ भजते यद्यन्यदैवतं चित्तम् । मीनो० ॥२६४॥ हरिलीलारसमुज्झति धावति विषयोन्मुखं यदा चित्तम् । मीनो० ॥२६॥ दयालुर्भगवान् प्राणिनां जीवनः । तम् अपहाय अन्यद् दैवतं [ यत्र हि स्वल्पेऽपि अन्यथाचारे कृते अनिष्टशङ्का ] भजते तदा पूर्तिः ॥२६४-२६५॥ जित्वा वरुणं, कामे गच्छति विल्वाऽग्रगं मुनि जेतुम् । मीनो० ॥२६६॥ जलाध्यक्षो वरुण, तम् अपहाय कण्टकिवृक्षस्थिते गमनम् ॥२६६।। म

१०८ ]
श्रीकृष्णभट्रविरचिता
तटतरशपान् विहङ्गान् मोक्षयितु सुरधुनौ यान्त्याम् । मीनो० ॥२६॥
उद्धारार्थ यदा श्रीगङ्गा तटस्थितकरटकवृक्षारूढान् पक्षिणः प्रति याति ॥२६॥
चित्रमदृष्टाऽथ तमिदमदशि मे निद्रया किमपि । मीनो० ॥२६॥
निद्रया स्वप्ने-अदृष्टम् अश्रुतपूर्वमिदं दशित यत् मीनस्य कगटकवृक्षारोहः ॥१८॥
श्रीमाधवेन्द्रसंभवगुणगङ्गां गदति विल्वगे गोपे । मीनो० ॥२६॥
विल्ववृक्षे स्थित्वा गोपः श्रीमाधवेन्द्रस्य गुणरूपां गङ्गा गायति, तदा नगरविहा-
रिणी कीर्तिरिति हृदि कृत्वा मीनो जलं त्यजति कण्टकं चारोहतीत्यादि ।।२६६।।
कोटिब्रह्माण्डसंस्थापनकरकमलाकान्तकेलीनिदानं
वेदोद्यद्धर्मवेश्मव्यतिकरणकलाकोविदाः संमता ये।
क्षीराऽऽकूपारपारप्रसृमरविलसत्कीर्तिवल्लीवितान-
स्तम्भाऽऽरम्भापदम्भा जयधरणिपते भान्ति ते यज्ञयूपाः ॥३००॥
कोटिसंख्यकानां ब्रह्माण्डानां स्थापनकरो य. लक्ष्मीपतिः तस्य क्रीडायाः कारण-
भूताः । वेदात् उत्पद्यमानं यद् धर्मरूपं भवनं तस्य व्यतिकरण ( निर्माण )कलाया ये को
विदा निपुणा । क्षीरस्य अकूपारस्य (समुद्रस्य) पारे प्रसृमरा ( प्रसरन्ती) विलसन्ती च
या कीर्तिरूपा वल्ली तस्या विस्तारार्थ स्तम्भानाम् अवष्टम्भदण्डानाम् आरम्भाय स्थापनाय
अपदम्भा निष्कपटाधारभूताः । हे जयधरणिपते ! ते यज्ञस्तम्भाः भान्ति । ते यज्ञस्तम्भा
विष्णोः क्रीडाकारणम् , धर्मभवननिर्माणनिपुणाः,कीर्तिवल्लीविस्तारस्तम्भाधारा सन्तीति
सर्वस्याशयः ॥३०॥
-
आयाम्यति प्रियतमेति निवार्य वेणुध्वानं पुराततनुर्यमुनानिकुञ्ज ।
तत्र प्रयातघृपभानुसुतामुखाजमाकुञ्चिताक्षि परिचुम्वति कृष्णचन्द्रः ॥३०१॥
'प्रिया श्रीराधा आयास्यति' इति क्रीडार्थ वेणुध्वनि त्यक्त्वा कुठे गोपितनिजतनुः
श्रीकृष्णः अतिष्ठत् । तत्र आयाताया श्रीराधाया. आकुञ्चितनयन मुखकमलम् आकु-
ञ्चितनयनं यथा स्यात्तथा श्रीकृष्ण, परिचुम्वति ॥३०१॥

[[१०६
पद्यमुक्तावली
रोमाञ्चप्रकरण पूर्णवपुषौ पीयूषपाथोनिधि-
प्रोदञ्चन्मनसौ स्वसंनिधिलसच्चित्राऽनुकारक्षमौ ।
एकस्मिन् शयने परस्परतया संवीक्षणं, कामिनौ
कुर्वाणो नलितं निमेषकलनान्निन्दा विधेश्चक्रतुः ॥३०२।।
एकस्मिन् शयनीये शयानौ परस्परं विलोकयन्ती, प्रेमातिशयात् मिथोदर्शने विघ्नभूतं
निमेषं निन्दन्तो, निमेवनिर्माणं कुर्वतो विधातुनिन्दां चक्रतुः 'किमिति विधात्रा चक्षुषो-
रुपरि पक्ष्मणी ('पलक' ) निर्मिते' इति । पीयूषसमुद्रस्य मध्ये प्रतरत् मनः ययोस्तौ ।
स्वस्य संनिधौ लसतः चित्रस्य (चित्रलिखितस्य द्वितीयस्य ) अनुकरणे समर्थौ । कस्य-
चिन्मते-"दम्पतिभ्यां नायकयुगलस्य अन्यत् चित्रं समुखे स्थापित"। तस्य युगलस्यैव
इमो अनुकरण कुरुतः । अतएव चित्रदर्शनोद्दीप्तकामौ रोमाञ्चितावभूताम् । ललित
संवीक्षण कुर्वाणी, निमेषनिर्माणात् विधेर्निन्दां चक्रतुः इत्यन्वयः ॥३०२॥
दयितभुजयुगान्तरस्थिताया मृदुदयिताभुजवल्लरीवृतस्य ।
क्षयमपि हृदयायदि स्मरस्य क्षरति शरस्तृणयेत्सुरस्त्रियः कः ॥३०३
+
प्रियतमभुजयुगलमध्यभागे ( वक्षसि.) स्थितायाः (नायिकायाः), दयितायाः
भुनलतिकया वृतस्य (नायकम्य ) च हृदयाद् यदि कामवाणः दूरीभवति तर्हि देवाना-
अपि को जनः तृणवत् तिरस्कुर्यात् ? कामबाणस्यैव सोयं प्रभावो यन्मानवः एवमवस्थायां
देवाङ्गनामपि तृणीकरोति, न किञ्चिन्मनुते ॥३०॥
तोयप्रक्षेपलीलामिह पयसि समातन्वतोरावयोश्चेन
मध्ये त्याहं जयेयं झटिति निधुवनं तचया मे विधेयम् ।
एवं कृत्वा प्रविष्टौ महति सरसि तौ, तत्र सैवाऽभिभूता
व्यामे कान्तो गृहीत्वा व्यथितकुचयुगस्तत्र चक्रे विलासम् ॥३०४॥
'आवयोश्चेत् त्वामहं जयेयं तर्हि अस्मिन् सरस्येव मया सुरतं कार्यम्' एव
कृत्वा प्रविष्टौ । सैव च अभिभूता । ततः व्यामे भुजयुगमध्ये तां गृहीत्वा, आलिङ्गनेन
निष्पीडितकुचयुगल. तया सह सुरतविहार चक्रे । "च्यामो बाहोः सकरयोस्ततयोर्मह-
दन्तरम्" इति कोषः ॥३०॥

११० ]
श्रीकृष्णभट्टविरचिता
विहारे प्रारब्धे नलजलपरिक्षेपणतया
पराभूति याता युवतिरथ कान्तेन हसती ।
पणे प्राप्ते देयं सुरतमिति वाचा भुजयुगे
गृहीत्वा तां धन्यो विहरति यथेच्छं सरसि सः ॥३०॥
नल( 'पिचकारी' )द्वारा जलप्रक्षेपणात् कान्तेन हसती (हसन्ती) युवती पराभव
याता । वाचा 'देयं सुरतम्' इति वाचः अनुसारम् । सः सरसि विहरति ।।३०५॥
चकोरैरुत्कण्ठाकलितहृदयैः पीतमखिलं
निशायां पीयूपं भवति तत एव क्षतरुचिः ।
अयं प्रातःकाले रजनिदयिती, वासरपतौ
वृथैव द्रष्टव्यं कथयति जनो लाञ्छनमिदम् ।।३०६॥
उत्कण्ठायुक्तहृदयैः चकोर: रात्री अखिलमपि पीयूषं पीतं भवति । ततः प्रातः
काले रजनिदयितः ( चन्द्रः) क्षतरुचिः (क्षता नष्टा रुचिः कान्तिर्यस्य-नष्टदीप्तिः )
भवति । वासरपतौ सूर्ये द्रष्टन्यं लाञ्छनं वृथैव कथयति जनः । पीतपीयूषः स्वत एव
चन्द्रः प्रातर्निष्प्रभो भवति । सूर्य-प्रभावाद् हीनकान्तिश्चन्द्रो भवतीति सोयं कलङ्कः सूर्ये
वृथा, इति भावः ॥३०६॥
कृताः सर्वे कोकाः समुपगतशोकाः, कमलिनी-
वनं निद्रां नीतं, सुरतसुखमीतं मृगदृशाम् ।
गणं जातं यातं पुनरतुलघातं स्मरशरै-
विधुः प्राविर्भावे सखि कुशलमावेदयति किम् ॥३०७॥
सर्वे चक्रवाका. गतशोका. कृताः। निद्रा नीतं, मुद्रितमित्यर्थः । मृगहशां रमणीनां
सुरतसुखम् ईतं गतम् , “ईङ् गतौ” क्त. । यूना समूहः कामशरैः अतुलं वेदनामुपयात
[प्राचीनपुस्तकेन न स्पष्टीभूतोर्थः ] अयं चन्द्र स्वस्य उदयकाले किं कुशलं सूचयति ?
एवंविधं क्लेशकर कृत्वा किं कुशलमिति विरहिण्या. स्याटुक्तिः ॥३०७॥
- कान्तं विलोक्य सहसोपगतं मृगाक्षी किञ्चिद्विचार्य चतुरेति चकार चेष्टाम् ।
नेत्रे निमील्य चिकुरप्रकरैर्ललाटपट्ट वृतं प्रकटिते च धुते कराब्जे ॥३०॥

पद्यमुक्तावली [१११ 'कदा समागमो भावी' ति संकेताय समुपगतं कान्तं चेष्टितेन सूचयामास । नेत्रनिमीलनेन सर्वेषां शयनोत्तरम् , चिकुरैर्ललाटावरणेन-चन्द्रे अस्तं गते, करकमल- धूननेन-नाधुना स्थित्यवसरः, गम्यताम् , अयमेव संकेतः स्यादित्यनुमीयते ॥३०८|| जयति चन्द्रमसौ दिवसेश्वरः शशधरस्तपनस्य किमाचरेत् ? अपितु तत्परमप्रियपङ्कजप्रकरमेव करोति कदथितम् ॥३०६॥ सूर्यो दिवसस्य ईश्वरः, दिने तस्यैव प्राबल्यम् , अतएव सूर्यस्तं जयति । अयं सूर्यस्य किं कुर्यात् ? सूर्यस्य परमं प्रियं पङ्कजप्रकरं ( समूहम् ) एव कदर्थितं तिरस्कृतं मुकुलित करोतीत्यर्थः, प्रत्यनीकम् ॥३०॥ संकेतितलतिकागृहविराजमानाऽपि सदृशकान्तित्वात् । दयितेन परिभ्रमता न वीक्षिता तालिकां ददौ हसती ॥३१०॥ सदृशीषु लतासु लतासवर्णा नायिका न अदृश्यत नायकेन, अतएव कौतुकाद हसन्ती तालिकां ददौ ॥३१०॥ कोट तरकोटरं कमपि संश्रितोऽस्मिन्वने सुखेन कुरुतान्मतिं मदितरो न कश्चित्खगः। चलत्सुरसरोजक्चरण किङ्किणीमञ्जुल- ध्वनौ किमिह गर्वितो भवसि राजहंसबजे ॥३१॥ बकोट ! तुच्छबक ! तरुकोटरस्थितः त्वं 'मदितरः कश्चित् पक्षी नास्ति' इति मति सूखपूर्वकं कुरु । कुरुतात् इति 'तात प्रयोगेण शून्ये स्थितस्त्वं सदा एवं कुर्याः, इत्यहमाशिषो ददामीति क्रोधो व्यज्यते। किन्तु त्वं चलन्ती या सुरसरोजक् (देवागना) तस्याश्चरणगता या किङ्किणी क्षुद्रघण्टिका ('धुंधरु' ) तद्वत् मन्जुलशब्दे राजहंसानां ब्रजे समूहे गर्वितः किं भवति ? शून्यस्थाने ते गर्वः कामं भवतु, किन्तु मञ्जुलध्वनौ हंससमूहे ते गर्वः केवलमुपहासायैवेत्याशयः ॥३११॥ देव त्वद्यशसा सितं क्षितिभृतं वीक्ष्य क्वचित्पर्यटन कैलासो रजतस्य वा गिरिरयं केनात्र संस्थापितः । ज्ञात्वेत्थं नृप तत्र याति पुनरप्यायाति यातीत्यहो सर्वज्ञोऽपि महेश्वरः शिशुकवद् भूयः परिभ्राम्यति ॥३१२॥ t .. . ११२ ] श्रीकृष्णभट्टविरचिता अय मे कैलास, अन्यो वा रजतस्य कश्चिद् गिरिरिति भ्रमेण याति, पुनः परिवृत्य आयाति, पुनश्च तत्रैव याति, इति सर्वज्ञोपि महेश्वरः शिशुकवद् परिभ्राम्यति । कीरति- शयः, तेन च गज्ञो महिमा द्योत्यते ॥३१२॥ कलङ्की शीतांशुर्विषमतुरगः केवलमपि प्रचण्डो, मन्दाक्षात्किल सुरपतिः स्वर्गवसतिः । अतस्तुल्याभावान्नरपरिवृढ़ ! त्वं त्वमिव तद् बदामश्चत्सत्यं जगति जयतादेकविजयी ।। ३१३ ॥ शीतांशुः कलयुक्त, विपमतुरगः ( सप्ताश्वः, सूर्य. ) केवलं प्रचण्डः उग्र., गुण- निजित सुरपतिः इन्द्र मन्दाक्षात् ( लज्जावशात् ) उपरि स्वर्गे निवासी जातः । अतः हे माधवेन्द्र ! त्व त्वमिव असि । ततश्च एकमात्रो विजयी त्वं सर्वान् जयतात् , 'मन्दाक्षं हीस्त्रपा ब्रीडा लज्जे' त्यमरः ।।३१३॥ . अयि तब वदनं सरोजतुल्यं कथमहमज्ञ इव ब्रवीमि कान्ते ! । परिहृतकमलागतो मिलिन्दः किमयमिहैव च तत्परिव्यनक्ति ॥ ३१४ ।। अयि कान्ते । तव वदनं कमलतुल्यमिति किम्-अहम् अज्ञ इव ब्रवीमि ? अपितु न । परिहृतात् त्यत्तात् कमलात् आगतः- अयं मिलिन्दः भ्रमरः किं तत् परिव्यनक्ति ? कमलं व्यक्त्वा तव मुग्वपरिसरे भ्रमन् भ्रमर. कमलतुल्यता किं न सूचयति ? ॥३१४॥ तापं चापयतः सुखं कलयतो मालिन्यमुर्वीतले तत्कालं नयतः किमन्यदसकृद् व्रमः सुधादीधितः । देवस्य क्षणदापतेरयमहो लोकः शशाङ्कति यन् नाम प्रस्फुटलच्म मुञ्चति न तद्भूयः करोतु प्रियम् ॥ ३१५॥ उर्वी(-पृथिवी )तलस्य सुखं कलयत ..( कुर्वत..). तापं. ( वियोगादिषु संतापं) च आपयतः ( प्रापयत:.), अस्तमनोत्तरं तत्कालं च मलिनतां प्रापयत' सुधादीधितेः सुधाकरस्य- असकृद् ( वारं वारम् ) अन्यत् किं ब्रूम. ? या रात्रि क्षणस्य सुखस्य . दात्रीति कथ्यते, तस्याः सोय स्वामी० । ततश्च एवंविधगुणस्यापि देवत्याऽस्य, प्रस्फुटं सुस्पष्ट लक्ष्म चिन्ह ( कला ) यस्य, एवंविधं शशाङ्केति [ शशः अङ्को यस्य ] यन्नाम न मुञ्चति न त्यजति, तद्कामं भूय अत्यधिकं प्रियं करोतु, किन्तु शशाङ्केति नाम्ना - सर्वेषां कलङ्कस्य स्मरणं भवतीति भावः ॥३१५॥ ?

। पद्यमुक्तावली [ ११३ चन्द्रोऽयं धवलीकरोतु धरणी, तापं धुनीतात्करै-- रानन्दं वितनोतु दीव्यतु दिवि स्वच्छत्विषा, किं ततः । अस्य स्फूर्जदनल्पलक्ष्मघटितं दोषाकरेत्याख्यया- साकं नाम शशीति यत्तदिह किं लोके जनस्त्यज्यते ? ॥३१६।। धवलीकरोतु श्वेतीकरोतु । धुनीतात् कम्पयतात् (दूरीकुरुतात् ) । स्वच्छया विषा कान्त्या दिवि आकाशे दीव्यतु द्योततां ( चमत्करोतु )। ततः किम् सम्पन्नम् १ ., 'दोषाणाम् आकरः' इत्यर्थस्यापि स्मारिकया ( दोषाया. रात्रेः कर. ) इति आख्यया नाम्ना साकं सह, स्फूर्जता दीप्यमानेन अनल्पेन बहुतरेण लक्ष्मणा ( अङ्केन, कलङ्कन ) घटित युक्तं 'शशी' ति यन्नाम तत्किम् अस्मिन् लोके जनैः त्यज्यते ? अपितु न । यावच्च कलङ्क- स्मारकं शशीति नाम, तावत् धरणीधवलीकरणादिभिरपि गुणैर्देवस्य को वा गुणोदय, सिध्येत् ? यतो हि पुरा रूढा प्रसिद्धिगुणानपि मन्दमभिवीक्षते नूनम् ॥३१६॥ ~ , हास्यं पुष्पाकरस्ते शशिमुखि सुरते ग्रीष्मकालो वियोगे वर्पा वक्त्र, तदग्रयो वचसि, भृशसमुल्लासिहेमन्तकालः । अङ्गस्पर्शे च कान्ते तव वसति, ऋतुः शैशिरस्तज्जनो यः संधचे संनिधिं ते स भवति षडतद्भाव्यभोगैकभर्ता ॥३१७॥ पुष्पाकरः वसन्त', हास्यस्य श्वेतत्वात् । सुरते ग्रीष्मकाल , यतो हि ऊष्मा, स्वे- दादयश्च प्रतीयन्ते । विरहे सति मुखे ( अर्थात् नयनयोः ) वर्षा, अश्रद्गमात् । तदग्र्य. शरहतुः, वचने श्वैत्यात् । हे कान्ते तव अगस्पर्श ( प्रालिङ्गने ) भृशसमुल्लासी अत्यन्त- मुद्दीप्यमानः हेमन्तकाल., तथा शैशिर. ऋतुः, वसति [ यतो हि कम्प-रोमाञ्चजाब्यादि- क जायते ] । ततश्च यो जनस्तव संनिधि सामीप्यं संविधत्ते (स्थापयति) सः पट्सु ऋतुपु उद्भाव्या. जन्याः ये आनन्दोपभोगाः तेषाम् एकमात्रो भर्ता भोक्ता भवति । एकमात्रा त्व सर्वेपु ऋतुपु सर्वविधान् भोगान् अनुभावयसीति प्रेयस्या. प्रशंसा प्रकटीक्रियते ॥३१७|| अहं ते साहाय्यं मदन वितनोमीति तनुतात् प्रहारानुद्दीप्य द्विगुणमिति नादेन कथयन् । स्वयं प्रोद्यद्विद्युत्पहरणसमाकम्पनकरो विरोधी कान्तानामयमुपगतो मेघसमयः ॥३१॥ C 1 ११४] श्रीकृष्णभट्टविरचिता हेमदन । अहं तव साहाय्यं वितनोमि, इति हेतोः द्विगुणम् उद्दीप्य [ अत्यन्ता- त्यन्तमुद्दीपनं कृत्वा ] शरप्रहारान् तनुतात् ( करोतु ) इति नादेन गर्जनेन कथयन् । अर्थात् मेवस्य सोयं नादो नास्ति, अपि तु मानिनी-स्त्रीणां विरोधी मेघसमयः कथयति यत्-'अहं तव सहायतायां सज्जः, अतएव अधिकाधिकाः शरप्रहाराः एतासु कार्याः' इति स्वय अयम् ( मेघसमयः ), प्रोद्यत् प्रकर्पण उद्दीप्यमानं यद् विद्युद्रूपं प्रहरणम् श्रायुधं, तस्य समाकम्पनकर. परितो भ्रामणकरः कान्तानां विरोधी अयं मेघसमयः ( प्रावृट् ) स्वयम् उपगत प्राप्तः । अन्योऽपि यो विरोधी भवति स प्रहारकर्तारं साहाय्यघोपणया प्रोत्साह्य, स्वय खड्गादिकं वीरविक्रमेण भ्रामयन् विरोधिनः समीपे समुपगच्छति ॥३१८|| हरित्कान्ति क्षोणीतलमखिलमेतन्नवतरै- स्तृणैर्जातं, कूजन्त्यतिरुचि निकुञ्जषु शिखिनः । घनस्तोमोम प्रसृतनिविडेभूरि समभू- दिनैत्रैिः केयं जगति गतिरानायि विधिना ॥३१६॥ अखिलमपि एतत् क्षोणी( पृथ्वी )तलं नवतरै अत्यन्तं नवोनैः ( सद्यः समु- त्पन्नः ) तृणै हरित्कान्ति ( हरितवर्णा कातिः यस्य ) तादृशं जातम् । शिखिनः (मयूराः) अतिरुचि यथा स्यात्तथा अत्युत्कण्टापूर्वकम् कुञ्जपु शब्दायन्ते । प्रसृतैः सर्वतो व्याप्तै- श्च, तथा निविडै धनीभूतैः (गाढतमै) घनस्तोमैः मेघससूहै व्योम आकाशं व्याप्तमभूत् । अहो ! द्वित्रैरेव दिनै विधिना ( विधात्रा ) जगति का इयं गति अवस्था आनायि आनीता । अतित्वरितम् उद्दीपनविभावैर्जगत. परिस्थितिरेव परिवृत्ति यातेति प्रावृषः प्राबल्य प्रकटीक्रियते ॥३१६॥ - , विषं मेघस्तोमस्त्यजति, कुसुमेषुर्वितनुते प्रहारं कादम्बर्नयनसुभगैरेव कुसुमैः । मयूरेष्वाविष्टः कथयति समुद्व गवचनं न जाने क्व प्राप्ताः सरसिजशां मानविधयः ॥३२०॥ मेघसमूह विषमिव विषं जलं त्यजति वर्षति, अत एव मेघवितानतले सर्वेऽपि तत्प्रभावाऽऽविष्टा यथेच्छं घूर्णन्ते । कुसुमेपुः पुप्पधन्वा ( कामः ) नयनयो. सुभगतया प्रतीयमानै एव कादम्बै कदम्बवृक्षसजातैः कुसुमैः कामिषु प्रहार वितनुते । मयूरेषु मन्ये कुसुमेष आविष्ट , अत एव प्तमुद्दीप्तस्य उद्वेगस्य वचनं कति । किंवा मयुरेषु पद्यमुक्तावली [११५ श्राविष्टः आवेशं प्राप्तः कामः कामिनः उद्वेगवचनं कथयति लापयति [ कथयतेः प्रेरणार्थ- * को णिच् ] कामिनः उद्विग्नवचनानि स्वयं न बते, अपितु मयूरेपु अाविष्टः स्मरः एतानि वचनानि वक्तुं प्रेरश्यति वक्तुं परवशान् करोति, इति मेघ-मयूगाद्दीपनप्राबल्यमुखेन शृङ्गारातिशयो ध्वन्यते । एवमवस्थायां स्त्रीणां मानविधय. क गताः ? मानकरणस्य संप्रति स्थानं नारीत्याशय. । 'गति का गच्छेयुर्विरह विधुरा पङ्कजश.' इति पाठे तु मृगशा- मुद्दीनजन्यबिट्टन नामाशङ्कर उद्दीपनविभाववैभवातिशयेन शृङ्गारसमृज्जम्भणं ध्वन्यते ||३२०॥ अहं मन्ये मन्दं चलति यदयं, मन्दमथ च प्रयान्त्यो मन्दत्वं दधति यदमूमार्गधुनयः । तदाकृष्टैर्मानर्जलरुहमुखीग्यो रतिपतेः शरैः प्राप्तैरेव स्थितिरपि च कुत्रापि तु भवेत् ॥३२१।। यत् अयं मारुतः मन्दं चलति, अमू: (इमा ) मार्गस्य धुनय, नद्यः प्रयान्त्यः सत्यः यत् मन्दत्वं धारयन्ति, तत् अहं मन्ये जानामि, अनुमिनोमि यत् जलरुह( कमल ) मुखीभ्यः आकृष्टै. मान, मदनस्य प्राप्त. वाणैः (अर्थात् मानिनीभ्यः परावर्ति तै.) चापि कुत्र तु परिस्थितिर्भवेत् । साम्प्रतं मान-मदनबाणादीनां साधारणी परिस्थितिरित्यर्थः ॥३२१॥ , - क्षितिश्चञ्चच्चन्द्रद्य तिसदृशकाशैर्व्यतिकृता तरङ्गिण्यो व्योमप्रतिमसलिलास्ताः समभवन् । स्फुरत्ताराकारैललितकुमुदैश्चापि निभृताः शरत्कालः प्राप्तस्तदतुलसुखस्तोमजनकः ॥३२२ चञ्चतः (चमत्कुर्वत) चन्द्रस्य या द्युतिः ( चन्द्रिका ) तत्सदृशैः काशपुष्पैः पृथ्वी व्यतिकृता, विमिश्रा, व्याप्ता । व्योम आकाशम् तत्प्रतिम, तद्वन्नीलसलिला तरङ्गिरायः ( नद्यः ' समभवन् । तथा ता ( तरङ्गिण्यः ) स्फुरन्त्यः या तारा नक्षत्राणि तद्वदाकारैः ललित कुमुदैः कैरवैः ( चन्द्रेण विकासनीयैः) चापि निभृताः व्याप्ताः । तत् अतुलसुख- स्तोमस्य ( समूहस्य ) जनकः शरत्कालः प्राप्तः ॥३२२॥ घनच्छेदोच्छूनच्छविशशधरोद्भूतपरम- श्रिया राजन्त्येते कुमुदनिकरास्तेन, कलये।

११६ ] श्रीकृष्णभट्टविरचिता सरोजानां नाशान्निजपतिरिपूणामुपगतः सुखैः, किं वा धात्रा तदपहृतसारैविरचिताः ॥३२३॥ घनानां छेदेन अभावेन उच्छूना पुष्टा उपचिता छवि शोभ' यस्य, ईशो य शशधरश्चन्द्रः तस्माद् उद्भूतया उत्पन्नया परमया शोभया एते कुमुदसमूहा राजन्ते । तेन अह कलये अनुमिनोमि यत् निजस्य पतिः चन्द्रः, तस्य रिपूणां विरुद्धानाम् सगेजानां क्मलाना नाशात् [ यतो हि कमलानि चन्द्रं दृष्ट्वैव मुकुलितानि भवन्ति ] ततश्च कमलाना पराभवात् प्राप्तैः सुखै ( वैरिणां पराजये सति मानसप्रमोदेन शरीरोपचयो भवति इति निसर्ग.)। किवा तेभ्य कमलेभ्यः अपहृतैः आच्छिन्नै परागादिसारैः इमे (कुमुदनिकरा) विधात्रा निर्मिता । कमलानां नाशे सति कुमुदानि उपचीयन्ते, अत एव कमलानां सारै- रिमानि विरचितानीति तत्रोपपत्तिः । तदुपहृतसारै' इति पाठे तु-कमलेर्निजपराभवाऽवसरे स्वकीयः सार विजेतृभ्य कुमुदेभ्य स्वयमुपहृतः [ 'उपदा', 'बलि' रूपेण समर्पितः ] तद्- द्वारैव धात्रा त इमे निर्मिता , इत्यर्थः स्यात् ।।३२३॥ स्फुरत्कान्तिश्चन्द्रः कुमुदततिरुत्तानितदला कला हंसश्रेणी, विशदरुचयो भान्ति यदमूः । तदेतज्जानीमः प्रसृतमिदमत्यर्थममलं यशोवृन्दं गीतं कविभिरिह लोकेऽस्ति शरदः ॥३२४॥ . स्फुरन्ती सर्वतः प्रसरन्ती कान्तिर्यस्य ईश चन्द्र उत्तानितानि ऊर्ध्वमुखतया विकसितानि दलानि यस्याः, ईशी कैरवपक्तिः । क्ला मनोहरा । संसारे यत् इमा, विशदा. मेघावभिभवाऽभावात् स्वच्छाः चन्द्ररुचयः भान्ति तत् अत्यर्थं निर्मलं कविभि- गीत शरद इद यशोवृन्दम् [ कीर्तिपटलम् ] इह लोके प्रसृतं सर्वतो व्याप्तम् अस्ति, तदेतत् जानीमः । प्रथम तु शरदेव श्वेता । ततस्तस्या कीर्तिस्ततोऽपि श्वेततरा, अत एव श्वैत्यघटा सेय परितो विच्छुश्तेित्याशय ॥३२४|| सखि चयमखिलाः सरोजमुख्यो ललिततरा अपि तस्य तत्र याताः । तदपि कृततृपः स राधिकार्थे समुपगताटकलः शशीव जातः ॥३२॥ वय सर्वा अपि सरोजमुख्य [ सुन्दर्य ], राधिकाऽपेक्षया ललिततरा अनितरामा- कपणशालिन्यः, स्वयं तस्य ( कृष्णस्य) सविधे वय 'तत्र' तस्यान्तिकदेशे याता । किन्तु गधिकार्थे ( राधिकाविरहे ) कृततृपः कृतस्पृहः 'इच्छाकांक्षा स्पृहेहा तृड्' इत्यमरः ।

। [ पद्यमुक्तावली [११७ समुपगताः अष्ट कला यस्य ईदृशः, अर्थात् अष्टाभिः कलाभियुक्तश्चन्द्रो यथा अर्द्ध- शरीरो दुर्वलः संजायते, तथा सोयं जात इति विरहातिशयो व्यज्यते । 'कृततृपः' इति 'तृषा' शब्देन, राविकां विना तस्य शोपो न निवर्तिष्यते इति साकूत सूच्यते । 'शशि' पदेन-पूर्णकलत्वेऽपि, परितः कान्तिविस्तारकत्वेऽपि, 'शश संबन्धजन्या कलङ्कख्याति स्मरणमुपगच्छत्येव जनस्येति ववतु. सेय॑त्वमभिव्यज्यते ॥३२५॥ असि मधुकरमन्द काननेस्मिन् क्वचिदुपलभ्य मरन्दलेशमेकम् । किमलघुमिव मानमातनोपि, स्मृतसहकारतर्न लज्जसे त्वम् १ ॥३२६।। हे मन्द मधुकर ! अस्मिन् कानने 'क्वचित्' कस्मिंश्चिद् दुर्लभे स्थाने, क्वचित् कस्मिंश्चित् अवसरे, कस्मिंश्चित् अप्रसिद्धे पुष्पे लेशमात्रम्, एकविधं मकरन्दस्य लवमात्र प्राप्य अस्मिन् कानने 'असि' । तव सत्ता अत्र उपलभ्यते [ यदि लवोऽप्ययं न अमि- लिप्यत्तर्हि तव अत्र वने स्थितिरेव नाऽभविप्यत् ] । एतावन्मात्रस्य, अतिदुर्लभस्य, कदा- चिटुपलभ्यस्य कृते अस्मिन् शून्यकानने वर्तमानोऽसि । न केवलं वर्तमान एवासि, अपितु अत्र वर्तमान एव त्वम् अलघु महान्तं मानम् ( अभिमानम् ) आतनोषि । न करोषि, अपितु श्रा-समन्तात् तनोषि विस्तारयसि । तव अभिमानस्य कथा दूरे दूरे विदिता । किंतु-एवं किम् अातनोपि ? अभिमानस्य का कथा । म्मृतः सहकारस्य आम्रस्य तरुः येन, ईदृशस्त्वं कि कदाचित् न लज्जसे ? य. सहकारवृक्षस्त्वयि सुगन्धं, मकरन्द, स्नेहवन्ध च सुदृढमावबन्ध, तस्य स्मृतिमात्रमपि न करोषि ? दूरे स्नेहस्य कथा। किञ्च यदि स्मरणं कृत्वा साधारणी सुजनतापि न त्वया प्रकटीकृता, तर्हि एतजन्या लज्जा तुत्वयि सभावनीया आसीत, वितु सहकारस्य गुणान् स्मृत्वा, तदुपकारभारमाननाऽभावे लज्जापि तव नास्ति, हन्त का तव सुजनता वर्णनीया ? अाम्रादिपदस्थाने 'सहकार' पदविन्यासेन आम्रण त्वयि गन्ध-मरन्दादयः केवलं प्रमोदसामग्री एव न वितीर्णा, अपितु 'सह-कार' पदस्वारस्यस्मारणेन सर्वदा सहकार्यकर्तृत्वं सहस्थायित्वं-साह्यदानं च सूच्यते । एवंविध सुदृढसौहृद, नानारूपेण कृतोपकारमपि त विस्मृतवानसीति लज्जैव ते समुचिता। सापि ते नास्तीति किं वा वदामि ॥३२६॥ प्राप्य क्वापि पुराणपङ्कजवने लेशं परागस्य किं मानोद्भावनमागतोऽसि मनसि त्वं निन्ध पुष्पन्धय ! आलस्यादसकृत् तदानमधुनः पानं लसन्मञ्जरी- पुजे तद्वसनं तब्जहसनं स्मृत्वा न तेऽस्ति त्रपा ॥३२७॥ , ११८] श्रीकृष्णभट्टविरचिता हे पुष्पन्धय ( भ्रमर ! ) कुत्राऽपि पुराणे पङ्कजानां बने परागस्य लेशमात्रं प्राप्य मनति अभिमानोभूतिम् किम् आगतोऽसि ? बालस्यवशात् तत्रैय स्थितेन त्वया यत् असकृत् पुनः पुनः अाम्रसंवन्धि मधुन: पानं कृतम् , लसन्तीना शोभमानानां मञ्जरी गा समूहे यद् वसनं ( निवासः ), तस्मिन् स्थाने स्थित्वा तद् अजानां कमलानां हसनं विकासं दृष्ट्वा तव त्रपा लग्ना नाऽस्ति ? पुरातनानुपकारान् स्मृत्वा ते लज्जा साम्प्रतमुचिता, किंतु सापि ते नास्तीति धन्यं ते सौजन्यं १ ॥३२७|| अहो मे पाण्डित्यं सफलमिदमद्य व समभू- न ते काव्यालापाः किमपि परितापार्थमभवन । यतः साक्षात्कुर्वे कमपि पुरुपं सन्तमुपदी- कियां यस्मिन्सर्वाः सकलनिजविद्वत्कविकलाः॥३२८॥ अहो मम पाण्डित्यम् अद्यैव कृतार्थमभूत् । मम अद्यावधि संघटिता ते काव्य- वन्धा. मे परितापाय न अभवन् । यतः किल सन्तं ( सजनं ) कमपि ( अनिर्वचनी- यगुणगौरवम् ) पुरुष साक्षात्कुर्वे मम समुखस्थं पश्यामि । यस्मिन् ( पुरुपे ) सकला अपि निजस्य विद्वत्त्वस्य कवित्वस्य च कलाः ( नैपुण्यविशेपान् ) उपढीक्रियाम् उपहाररूपेण समर्पयेयम् । “उपायनमुपग्राह्यमुपहारस्तथोपदा ।" इत्यमर. । यदि उपायनोचितो महापुरुषः नालप्स्यत, तर्हि मे पाण्डित्यं विफलमभविष्यत् । मम काव्यबन्धाश्च अनुतापाय अभविष्यन्नित्यर्थः ॥३२८॥ शाणः शीतांशुरेपः स्मरशरकपणाऽकाण्डतीक्ष्णत्वहेतो- स्तस्माद्भूमौ पतन्तः स्फुटकिरणगणा लोहचूर्ण तदेतत् । सिन्धोर्हालाहलाम्भः किमपि यदलिपद् वाडवज्वालमाला- मध्ये यत्तापयामास च तदुदयतः शोणिमानं विधचे ॥३२६॥ स्मरशराणा कपणेन (घर्षणेन) अकाण्डे एव ( सहसैव ) तीक्ष्णत्वोत्पादनाय एष शीताशु (चन्द्र ) शाण कपः ( घर्षणचक्रम् )। घर्षणं कृत्वा कामवाणानां तीक्ष्णत्वं क्रियते । घर्षणचक्रं च सोयं चन्द्रमा । 'शाणस्तु निकष कप.' इत्यमर । तस्मात् ( शाणाद् ) भूमौ पतन्तः स्फुटा' स्पष्टा अमी किरणसमूहाः लोहस्य एतत् चूर्णम् । शाणे लौहपदार्थस्य कपणसमये यथा घर्पणजन्यं लौहचूर्ण पतति तथा शीतांशुरूपाद् घर्षण- चक्रान किरणरूपेण लौहचूर्ण पततीत्याशय । सिन्धोः ( समुद्रस्य ) सकाशात् हालाहलस्य

पद्यमुक्तावली
[ ११६
( विपस्य ) अम्भः यत् अलिपत् लिम्पतिस्म, वाडवाग्नेर्वालामध्ये च यत् तापयामास
तत् (तापित तीक्ष्णीकृतं स्मरशस्वृन्दम् ) उदयतः उदयात् [उदयस्य समये शोणिमान
रक्तत्वं विधत्ते ( करोति )। वाडवाग्निज्वालात: उत्थापितं शरवृन्दम् श्रारम्भिकम् अरुण
प्रकाशं परितो विस्तारयतीत्यर्थः । कामबाणानां चन्द्ररूपे शाणे तीक्ष्णत्वं, विपलेपवत्
उन्मादकरत्वं च ध्वन्यते ॥३२६॥
तरुणि ! भवनात्स्नातु याता यदा सरसीं तदा
तव मुखमिदं मोदेयुक्तं मया समदृश्यत ।
किमिदमधुना मुद्रामुक्तं मितेतरसंमद
समजनि समं हत्वा सारं स्थिताऽसि सरोरुहाम् ।।३३०
स्नानाय यदा सरोवरं याता तदा ततः प्रत्यागमनसमये तव मुखम् आनन्दरति-
तरां युक्तम् अलक्ष्यत । तत्र कारणं कल्पयति-कमलानां समं सर्व सारं हृत्वा त्वं स्थितासि,
अत एव अधुना तव मुखम् मितात परिमितात् इतरः अपरिमितः संमदः श्रानन्दः यस्य,
अत एच मुद्रातः मुक्तम् अमुद्रम् उन्मुक्तशोभम् समजनि । उपमानभूतानां कमलानां
संपूर्णसार हृत्वा त्वमागतासि, अतएव तादृक् प्रमोद-शोभायुक्तमभवदिति मया
ज्ञातम ॥३३॥
मधुप ! विपिने वीथीवीथीश्चरन् मधुलोभतः
क्वचिदपि तव स्वान्तं विश्रान्तभावमुपागतम् ? ।
विरतिमधुना गच्छ द्वित्रैदिनमधुना वनं
परिमलघनं भाव्यं गन्ता तृषा, न तु दीनता ॥३३१॥
.
..
मधुलोभात् वीथीतो वीथीं चरतः तव स्वान्तं चित्तं कि कचिदपि विश्रान्तं भावम्
उपागतम् ? अपितु विश्रान्ति नोपागतम् । किन्तु अधुना विरति विरामं गच्छ। द्वित्रैरेव
दिनैः ( अत्तिशीघ्रमित्याशयः ) इदं वनं मधुना वसन्तेन परिमलैः [विमर्दजन्यैः सुगन्धैः ]
निविडीभूतं व्याप्तं भाव्यं ( भविष्यति ), अत एच तव तृषा तृट् ( स्पृहा) गन्ता
गमिष्यति । अनद्यतनभविष्यत् (लुट् ) प्रयोगेण ध्वन्यते यत अद्य न चेत् इतोऽग्रे
शीघ्रमेव तव -इच्छापूर्तिर्भविष्यति' । किन्तु तथापि तव दीनता न गमिष्यति । यतो हि
प्रतिवीथिभ्रमणं तव स्वभाव एव संपन्नः ॥३३॥

१२० श्रीकृष्णभट्टविरचिता स्फुरत्कीर्तिज्योत्स्नावलिधवलिताऽशेषभुवनो हरन् दुःखध्यान्तं नयनकुमुदोल्लासनकरः । प्रतिक्ष्माभृत्कोकप्रथितपुरुशोकः परतर- स्थितिभूमीपाल त्वमिह तुहिनांशुर्विजयसे ॥३३२।। स्फुरन्ती दीप्यमाना या कीर्तिरूपा ज्योत्स्नावलि. चन्द्रिकापटलम् तया श्वतीकृतम अशेष भुवनं येन स । दुखरूपम् अन्धकार हग्न् । प्रजानां नयनरूपाणां कुमुदानां (कैरवाणां) प्रफुल्लताकारकः । प्रतिपन्थिन क्ष्माभृत. ( गजानः ) एव कोकाः चक्रवाका तेषु प्रथित प्रसाग्नि पुरु पृथु ( भूवान् ) शोको येन । अत एव परतरा अत्युत्कृष्टा स्थिति स्थानं यस्य ईशः त्वम् । हे भूमिपाल । त्वं तुहिनांशु. शीतांशु. चन्द्र असि, अतएव त्वं विजयसे सर्वोत्कर्पण वर्तस ॥३३२॥ मृदुतरचरणाऽसि हन्त राधे ब्रज शनकैद्यथिता भविष्यसि त्वम् । अयि मधुरतरस्मितो मुखेन्दुर्मम सखि नन्दसुतस्य लोकनीयः ॥३३३।। राधा तदुत्तरमाह-अतिमधुरं स्मितं ( मन्दहास्यं ) यस्य ईदृशः नन्दसुतस्य मुख- चन्द्र. मया लोकनीयः । तद्विलोकनेन मम मार्गजन्य. सर्व खेद., सर्वाऽपि च व्यथा प्रशममेष्यति, अमृतकरस्पर्शजा नवीनता, उल्लासश्च उदेष्यति ॥३३३॥ मुखं यस्याश्चन्द्रो नयनयुगलं पद्मयुगलं धनुर्धे : पञ्चेपोरथ कुचयुगं तस्य पटहो। रतिः साक्षाद् या च प्रहितसुरपंकेरुहमुखी अपां सा मां दृष्ट्वा कलयति कदा वक्षसि निजे ॥३३४॥ यस्या भ्रू पञ्चेपो कामदेवस्य धनुः । तस्या कुचयुगलम् अधोमुखीकृतौ पटहौ ('नगारा')। प्रहिता सुरपङ्के-रुहमुखी, विधात्रा प्रेपिता सुराङ्गना । सा मां दृष्ट्वा निजे वक्षसि त्रपा, (लज्जाम्) कहा करोति, तया सह मम समागमावसर. कदा स्याद् यदा हि तां लज्जितां वित्तोकयेयमिति नायकस्योत्कराठा घोत्यते ॥३३४॥ 3 महाराजो विष्णुसिंह 'कलानां सर्वासां प्रभवनखनिमुख्यभवनं द्य तीनामानन्दो निखिलधरणीमध्यजनुपाम् । - . .

।
[ १२१
श्रीकृष्णभट्टविरचिता
विधेः कीर्तिः कीर्तेबहुलतरमामयुतिगति-
वपुष्मान् धर्मोऽयं जगति जयताद्विष्णुनृपतिः ॥३३॥
सर्वासां (चतुःषष्टिसंख्यानां) शिल्पादिचातुर्याणां प्रभवनखनिः उत्पत्तेराफरः ।
अस्मादेव नृपात्ता जगति विस्तारं जग्मुरित्याशयः। कान्तीनां प्रधानं स्थानम्, अत्र स्थान
लम्वा कान्तिभिः प्राधान्यकृता शोभाऽधिकृता। निखिलानां धरणीमध्यजन्मनां लोकानाम्
आनन्दः, एनं दृष्ट्वैव सर्वे प्रमुदिता भवन्तीत्याशयः । विधातुः कीर्तिः, एतस्य नरेशस्य
सृष्टिकरणेन विधातुः प्रशंसा सर्वतः प्रसृता, यद्विरच्चेः सृष्टौ एवंविधा अपि महापुरुषाः
समुत्पन्ना इति । कीर्तेस्तस्याः बहुतरम् आयुः, अयं यावदाना तावद्विधातु. कीर्तिरनघा
नीवति । मतेर्बुद्धः गतिः, अस्य चेष्टां दृष्ट्वा बुद्धिः किं किं करोतीति तस्या गतिरनुमीयते ।
मूर्तिधारी साक्षाद् धर्म. । विष्णुसिंहः सवाईजयसिहमहाराजस्य पिता [चरित्रमस्य 'ईश्वर-
बिलासे विलोक्यम् ।।३३५॥
एप द्वपिपुरप्रतापनमहादेवो गम्भोरुह-
प्रोल्लासधु मणिः सुरालयमहत्संचारदेवाधिपः ।
लक्ष्मीसंततधारणामधुरिपुर्दानावलीधारणा-
मातङ्गो धरणीतले विजयते श्रीविष्णुसिंहो नृपः ॥३३६॥
--
द्वेपिणां वैरिणां प्रतापनो ज्वालनो महादेवः (शंकरेण त्रिपुरासुरो दग्धः) । लोकानां
दृष्टिरूपाणां अम्भोल्हाणां प्रोल्लासे प्रफुल्लीकरणे द्यमणिः सूर्यः । सुरालयस्य स्वर्गस्य महतः
संचारस्य (स्वाच्छन्द्यस्य) कृते यथा देवाधिपः इन्द्र., तथा सुगलयानां राज्ये स्थापितानां
मन्दिराणां प्रचारविपये । लक्ष्म्याः कमलालयायाः संततं धारणायां वक्षसि
स्थापनायां यथा मधुरिपुः विष्णुः, तथा राजलक्ष्म्याः शोभाया वा धारणाया साक्षाद्विष्णुः ।
दानानां मदाना अवलेः ( प्रवाहस्य ) धारणायां मातङ्गः हस्ती। यथा हस्ती सर्वदा मद-
राजि धारयति तथा नानाप्रकाराणां दानानां ( वितरणाना ) धारणायां प्रचारणायां सोयं
हस्ती, सर्वदा, सोयं ग्राम-तुला-भूमिदानादीनि करोतीत्याशय. । अत एव विजयते सर्वो-
कर्षण वर्तते ॥३३६॥
धृतबहुलतरा तिर्वितन्वन् द्विजनिचयेषु दरिद्रभावमुद्राम् ।
अनभिमतबलप्रकर्तनेन्द्रो जयति जगदलयेत्र विष्णुसिंहः ॥३३७॥

- . [ १२२ पद्यमुक्तावली ता बहुलतरा द्युतिः ( गजतेजः ) येन सः । द्विजनिचयेषु ब्राह्मणसमूहेषु दरिद्र- तायाः कृते मुद्रां निमीलन मुखमुद्रणं वितन्वन् ( कुर्वन् ) [ कस्यचिद् भवनादेः द्वारशृङ्ख- लादिषु यथा राजमुद्रा तस्योद्घाटनसमाप्तिं जनयति तथा विष्णुसिंहो द्विजानां दरिद्रयो- परि मुद्रां कृत्वा सर्वदार्थ दारिद्रयं निमीलयतीत्यर्थः ] अनभिमतस्य शत्रुभूतस्य वलस्य पराक्रमस्य सैन्यस्य वा प्रकर्तने छेदने इन्द्रः श्रीविष्णुसिंहः भूमौ सर्वोत्कर्षण वर्तते ॥३३७॥ , वियोगदुःखतिमिरप्रचारणनिवारणः । दृष्टोऽयं तव वच्नेन्दुः कुत्र मार्गश्रमव्यथा ॥३३८॥ विरहजन्यस्य दु.खरूपस्याऽन्धकारस्य प्रचारनिवारकः तव वक्त्र( मुख )रूपः इन्दुः दृष्टः, इदानी मार्गश्रमजन्या व्यथा कुत्र । चन्द्रोदये जाते यथा अन्धकार., मार्गखेदः, उष्मजन्या व्यथा च स्वतः परिशाम्यति तथा सर्वमिदं त्वयि दृष्टे एव मे निवृत्त- मित्यर्थः ॥३३८॥ लोचनचकोरचन्द्रो दीपोऽयं भुवनभवनस्य । गुणमणिगणनलराशिविराजते विष्णुसिंहनृपः ॥३६॥ लोचनरूपाणा चकोराणां कृते चन्द्रः भुवन( लोक )रूपस्य भवनस्य कृते दीप., धैर्य-वीर्यादिगुणरूपाणां मणि( रत्न गणानां कृते जलराशिः समुद्रः विष्णुसिंहो नृपः विगजते । मालारूपकम् ॥३३६॥ विकसितसुमितस्मितप्रसूना स्तनलसितस्तवकद्वयीमनोज्ञा । नयनमधुकरस्य मोदहेतुमृगनयना लतिकेव कापि हेम्नः ॥३४॥ विकसितानि.परिमितानि [ कुलागनात्वात् ] स्मितानि ( मन्दहास्यानि) एव प्रसूनानि पुप्पाणि यस्या. सा । स्तनौ एव लसिता शोभिता स्तवकद्वयी (पुष्पगुच्छ द्वितथी ), तया मनोज्ञा-मनोहरा । मृगनयना हेम्न सुवर्णस्य कापि अनिर्वचनीया लतिका अतिमृदुला लता इव । अल्पार्थे मृदुलत्वार्थे कन् ॥३४०॥ - लोकः पश्यति कीदृशोज विपयांस्तद्व्र हि किं चाक्षर- द्वन्द्व सार्द्ध मुपानयोपरि ततः किं स्यान्निषेधार्थकम् ।

- १ 1 श्रीकृष्णभट्टविरचिता १२३ ] किं षष्ठीद्विवचोनिरूपणमथ प्राप्त्यर्थकं पञ्चल- प्राप्यं मध्यगतं किमस्ति वदतात्पाण्डित्यमानो यदि ॥३४१॥ द्विपद्वलपराभूतिप्रभूतगरिमोद्गमः । पुरन्दर इव श्रीमान् विष्णुसिंहो महीपतिः ॥३४२॥ द्विषन् शत्रुर्यः वलः तन्नामकः असुरः तस्य पराभूतये पराभवाय ('पराजयाय) प्रभूतः अतिवहुलः गरिम्णः गौरवस्य उदयो यस्य, बलासुरस्य विजयाय अतिगौरवं यस्य सर्वतः प्रसिध्यति इत्यर्थः । विष्णुरिहस्तु द्विषतां शत्रूणां वलस्य पराक्रमस्य ( सैन्यस्य ) वा, पराभवाय प्रचुरतरगौरवशाली। अत एव विष्णुसिंहो महीपतिः पुरन्दरः ( इन्द्रः) इवास्ति । 'बलारातिः शचीपतिः', "स्थौल्यसामर्थ्यसैन्येपु बलं ना काकसीरिणोः" इति चाऽमर. ॥३४२॥ सखि ! मदनपतत्रिभिः सखित्वं व्रजपतिनन्दनगद्वयस्य नूनम् । इति यदि न भवेत्तदा कथं तैः सह भवनं भजतामिदं स्वपाते ॥३४३॥ ब्रजपतिनन्दन (श्रीकृष्ण स्य हगवयस्य ( नेत्रयुगलस्य ) कामबाणैः सह मित्रत्वं निश्चितमस्ति । यद्येवं न भवेत्तर्हि इदं भयनद्वयं स्वपाते स्वस्य नयनद्वयस्य पाते अर्थात् नयनद्वारा विलोकनसमये एव तैः सह मदनबाणैः सह भवनं गृहं कथं भजताम् यथैव नन्दसुतथ्य नेत्रद्वयं पतति तथैव कामबाणा अपि तेन सह तद्गृहं प्रविशन्ति । अत एव श्रीकृष्णनेत्रयुगलेन सह कामवाणानां मैत्री निश्चितमनुमीयते । नेत्रद्वयस्य कामो- हीपकत्वं वशीकारकत्वं च व्यज्यते ॥३४३॥ खलवचसि मनाग्विजृम्भमाणे वितथमयं शिततागुरुत्वगर्वः । इति कलितमितेतरत्रपः किं विशति सदा गृह एव चन्द्रहासः ॥३४४॥ खलानां वचने प्रसृते [प्रभावयुक्त ] सति 'अयं मे शितताया. तीक्ष्णतायाः गौरवस्य च [किं वा तीक्ष्णतासंवन्धिगौरवस्य गर्वः वितथं मिथ्या कथा ।' इति विचार्य कलिता धारिता मितेतरा अपरिमिता पा लज्जा येन (अतिलज्जितः सन् ) किं चन्द्रहासः खड्गः सदा गृहे [ कोपे ] एव प्रविशति । दुष्टवंचनानां तीक्ष्णतया लज्जित एव किमयं खड्गः कोपे सदा निजात्मानं गोपयति ? ॥३४४॥ हैम हेमगुणस्यूतमेकीभूतं तनुत्विषा । 'यथार्थनामतां याति गाङ्गेयाङ्गिः; तवाङ्गदम् ॥३४॥ ?

[ १२४ पद्यमुक्तावली [. गाङ्गेयं सुवर्णमिव अझं यस्याः [हे सुवर्णाङ्गि !] हेमनिर्मितं, हेमगुणैः सुवर्ण सूत्रैः ( 'कलावस्तू' इतिभाषा) स्यूतं प्रथितं च तव अगदं (केयूरम्') तव तनुत्विपा शरीर- कान्त्या एकीभूतं मिलितम् , अत एव यथार्थ नाम यस्य, तत्तां यथार्थनामतां याति-'अङ्गं ददाति' इति अगदम् । सुवर्णवत् तव अङ्गम् , अगदं चापि सुवर्णस्य, अत एव तदिदं सुवर्णवत् ते अङ्गं ददातीत्यर्थः । 'केयूरमझदं तुल्ये, 'तपनीय शातकुम्भं गाङ्गेयं भर्म कव॒रम्' इत्यमरः ॥३४५॥ विद्यायाः प्रथमावस्था नवोढाया इव स्त्रियः । तत्राऽसौन्दर्यमापन्ना परं रोचिष्यते किमु ॥३४६॥ विद्यावा प्रथमा अवस्था प्रारम्भिकी परिस्थितिः नवोढायाः स्त्रिय इव भवति । तस्या प्रथमावस्थायाम् असौन्दर्यम् अनाकर्षकताम् प्राप्ता परम् अग्रे कथं हृदयहारिणी स्यात् ? ॥३४६॥ भालेपोऽयं वपुषि विहितः कौङ्कमैरङ्गरागैः कृत्वा पीताम्बरपरिवृतं तत्र मां प्रापयेथाः। तत्संदेशैरलमलमियं याति सन्ध्या पिशङ्गी- त्यालापेन प्रियसखि महत्कौतुकं मे बभूव ॥३४७॥ कौड्डुमैः कुकुम ('केसर')निर्मित : अगस्य रञ्जनकारिभिर्वर्णैः शरीरे आ-समन्तात् लेपो विहितः । इदानीं पीताम्बरेण वेष्टितं मां कृत्वा, मामेव तत्र नयेथाः। संदेशदान- द्वारा समयहरणेन अलम् । यतो हि पिशङ्ग 'पीत'वर्णा सन्ध्या इयं याति व्यतिगच्छति । इति प्रियतमायाः सविधे गन्तुमुत्कण्ठितस्य श्रीकृष्णस्य आलापेन मम महत् कौतूहलं वभूव, इति सखी प्रति सख्या उक्तिः ॥३४७॥ वेणीनासाभरणकवरीनूपुरादीन् वहन्त्याः लोलायन्त्या नयनलसितैः कान्तमालापयन्त्याः तत्र ज्ञातो न खलु स गुरुभूरि भेदो भवत्या (6) तस्मादेव प्रियसखि मया वीक्षिता साभ्यसूयम् ॥३४८॥ .. वेणीप्रभृतीन नारीशृङ्गारान् धारयन्त्याः । कवरी शृङ्गारिता वेणी । 'कवरी केश- वेपोऽथ धम्मिल्ल. संयता. कचा. " इत्यमर । लोलायन्त्याः चञ्चलताभावं दर्शयन्त्याः ।

श्रीकृष्णभट्टविरचिता १२५ ] नयनचेष्टितैः कान्तं संलपन्त्याः । अर्थात् नयनयोश्चेष्टां कृत्वा कान्तेन सह संलापं कुर्वत्याः भवत्याः तव स गुप्तो भेदः ( रहस्यम् ) मया पूर्व न ज्ञातोऽभवत् , अत एव हे सखि ! मया त्वं तस्मिन् समये अभ्यसूयया सहितं सेर्प्य यथा स्यात्तथा वीक्षिता । यदि प्रियतमेन सह सप्रेमसंभापणवृत्तान्तः तव मया अज्ञास्यत, तर्हि असूयापुरस्सरं त्वां न अवालोकयिष्यम् । ततश्च मम सख्ये न संदेहस्त्वया कार्य इत्याशयः ॥३४८॥ चञ्चच्चित्ताऽभिलाषा निपुणतरनटी, रङ्गभूमीचरित्रं, गोपालीमोहलीला लुलितजलनिधेरग्रवेलाविलासः । विस्फूर्जत्कोटिकामावतरपरिमिलन्माधुरीणां धुरीणा संपत्तिः, प्रादुरास्ते भवदधरपुटीचुम्बिवंशीनिनादः ॥३४६॥ चञ्चन् सर्वतः प्रसरन् चित्ताभिलाषो य याः ईदृशी अतिनिपुणा नटी। अय वंशी- निनाद. अतिनिपुणा नटीव, यस्याश्चित्ताभिलाप: सर्वतः प्रसरति । रङ्गभूमेश्चरित्रमिव मूर्तिमत् , वंशीनिवादं श्रुत्वा रङ्गभूमौ का का लीला विहितेति' प्रत्यक्षमिव भवति । गोपालीनां गोपीनां मोहजनितलीलारूपः क्षुभितः ( तरहसंकुलः ) यो जलनिधिः तस्य अग्रभूताया वेलायाः (तटस्य) विलास.-शोभा। गोपीनां मोहसमुद्रमुत्तरङ्ग निरोर्बु वंशीनाद. वेलास्थानीय इत्याशयः । विस्फूर्जतां विजृम्भमाणानां कोटिसंख्याक-कामदेवानाम् अवतरणसमये या माधुर्य. मधुरताः ( मधुरिमाणः ), तासां मधुरतानां धुरीणा श्रेष्ठा संपत्ति । वंशीनादसमये कोटि-कोटिकामानां माधुर्यलक्ष्मीरुल्लसतीति, तात्पर्यम् । ईदृशः, हे श्रीकृष्ण ! भवतः अधरपुट्या. चुम्बी [ अधरपुटे निधाय भवता श्वासवायुभिः उद्भा- वितः ] वंशीनिनादः प्रादुरास्ते प्रादुर्भूयः सर्वतः प्रसरति ॥३४६॥ नसि श्रुत्योरक्ष्णोरसि हृदि मध्ये चरणयो- स्त्वदीयं सौन्दर्य सकलमियमुद्भावितवती वशीकुर्याद्यान्न तव दयितं नन्दतनयं नताङ्गि त्वं तावचरितमभिसारं विरचय ॥३५०।। ] - नसि नासिकायाम् [ पदन्नोमासिति नासिकाया नस् आदेशः ] कर्णयोः, अक्षणो: (नेत्रयोः), मध्ये ( कटिदेशे) एतेषु अङ्गेषु सा (कृष्णस्य अभिनवा प्रेयसी), सकलमपि तब सौन्दर्यम् उद्भावितवती । तबाऽनुकरणेन तेषु तेषु पूर्वोक्तेषु अङ्गेषु तवेव सौन्दर्य सा प्रकटितवती । ततश्च तव सौन्दर्य सर्व तदने प्रकटीकृत्य नन्दतनयं ( श्रीकृष्णम् ) यावन्न [ १२६ पद्यमुक्तावली वशीकुर्यात् [ तव सकाशान्न अपहरेत् ] तावत्त्वम् अभिसारम् (कृष्णं प्रति अभिसरणम्) विरचय कुरु । इति श्रीराधिका प्रति तां शीघ्रगमनाय प्रेरयन्त्या दूत्या उक्तिः ॥३५०॥ अविकलमुखचन्द्रस्पर्शिपूर्णाप्रदोपः स्तनविनिहितमुक्तापुञ्जगुजौघभावः । उदयति रसराजस्याऽयमन्येषु रोपः कथमर्यामह चक्षुःकोणयोः शोणिमा ते ॥३५१॥ अविकलं (संपूर्णरूपेण ) मुखचन्द्रस्य स्पर्शी पूर्णायाः (पूर्णिमायाः) प्रदोपः [ रजनीमुखम् , सन्ध्या ] । तव चनु कोणयोः शोणिमा रक्तता, (क्रोधजन्यः अरुणरागः) तथा प्रतीयते यथा पूर्णिमाचन्द्रे प्रदोपजन्योऽ रूणराग इत्यर्थ. । स्तनयोः विनिहिते स्थापिते मुक्तापुञ्ज ( मौक्तिकहारे ) गुञ्जोधत्य कृष्णलासमूहस्य 'चिरमी' 'चिरमिठी' पुञ्जस्य भावः स्वरूपं, सत्ता । नयनयोः शोणिमा मुक्ताहारे गुञ्जापुञ्जतां संपादयति । सोयं शोणिमा रसराजस्य शृङ्गारस्य अन्येषु जनेषु रोप. उदयति । नयनशोणिमा नास्ति मन्ये शृङ्गारस्य अन्यान् प्रति सोयं रोषोस्ति [ कविसम्प्रदाये रोपस्य रक्तो वर्ण.] । एवमुत्रे भिता ते नयनयो शोणता कथमभूत् ? कथमकाण्डे कुपितासि ? ॥३५१|| अन्यावलम्बविलसवृषभानुकन्या- गोपेन्द्रनन्दननिरीक्षणनिर्निमेपा । चन्द्रावली चटुललोचनकोणशोण- कान्या निवारितवती विशती वयस्याम् ॥३५२॥ राधा कृष्णौ कुञ्जे मिथप्रेमनिरीक्षणं कुर्वन्तौ चन्द्रावली सावधानं ददर्श | कुछ च काचित्सखी प्रवेष्टुमैच्छत् । अतएव तामिनां चन्द्रावली निवारयामासेत्याह-अस्य श्रीकृष्णस्य गात्राऽवलम्बपूर्वकं विलसन्ती शोभनाना या वृषभानुक्रन्या, तथा गोपेन्द्र- नन्दन. ( श्रीकृष्ण ) च अनयो प्रेमलीलानिरीक्षणे निमेपशू या चन्द्रावली चटुलयो लोचनयो. शोणया कान्त्या (अर्थात् किञ्चित्कोपपूर्वकम् ) कुळे प्रविशन्ती वयस्यां 'अस्मिन् ममये तृतीयेन न गन्तव्यम्' इति निवारयामास ॥३५२|| करालगरलादपि प्रसभवचपातादपि प्रचण्डपवनादपि अलनकील जालादपि ।

श्रीकृष्णभट्टविरचिता
१२७ ]
त्वदीयविरहादपि स्मरनरेन्द्रकोपादपि.
त्वदक्षिपुटचर्चितो दहति पर्णवीटीरसः ॥३५३॥
नायकस्य नेत्रे ताम्बूलवीटीरसश्चर्चितस्तत्प्रियतमया, दृष्टः ! सोयं रसः सपत्नी-
कृतनयनचुम्बनेनैवेति नायिका ब्रूते-प्रसभं ( वलात् ) वनस्य पतनात् अपि । ज्वलनस्य
अग्नेः कीलजालात् ज्वालासमूहात् अपि । 'वहेर्द्वयोर्खालकीलो' इति कोषः । त्वदीयो
विरहोऽपि चेदुपतिष्ठेत्तदापि तावती पीडा न भवति यादृशी पीडा सपत्नीसंगमं विदित्वे-
त्याशयः । तव अक्षिपुटे नेत्रोपरिभागे चर्चितः लिप्तः । दहति, इति अङ्गविशेष-
संवन्धमनुक्त्वा सामान्यतः
कथनेन-'सपत्नी संबन्धः सर्वाङ्गज्वाला संपादयतीति'
संसूच्यते ॥३५३॥
दैन्यं सौन्दर्यभाजां मधुरिमनगरीसीम्नि निःसीमभावो
लास्यं लावण्यलक्ष्म्याः समहिममहसामुद्गमस्याऽवकाशः ।
सौभाग्यं स्नेहवृत्तेः फलफलनकला कामनाकामवल्ल्याः
केयं कैशोरलीला सलिलकमसिनीकोरकोल्लासलक्ष्मीः ॥३५४
सुन्दर्याः कैशोरलीला [ बाल्यं समाप्य युवतिभावे पादन्यासलीला ] केयम् अर्थात्
अनिर्वचनीया । सौन्दर्यभाजां [ या. सुन्दर्यः आत्मनि लावण्यगर्व वहन्ति स्म तासाम् ]
दैन्योपदेशः । माधुर्यरूपनगर्याः सीमाप्रदेशे निःसीमभावः (वयःसन्धिकृतं माधुर्य
निसीम भवतीत्याशयः)। एवमवस्थायां लावण्यशोभा प्रत्यक्षं नृत्यतीव । समहिम०
माहात्म्ययुक्तानां तेजसाम् उदयस्याऽवसरः। वयःसन्धितोऽनन्तरं सुन्दर्या तेजःप्रादुर्भावः
सहैव च किचिद् गौरवभावस्योदयश्चेति भावः। स्नेहवृत्तेः सौभाग्यम् , यस्य जनया-
ऽस्या स्नेहसंबन्धः, तस्य हि पूर्णो भाग्योदयो यो हि एतादृश्यां स्नेहमाबद्धवानिति ।
कामनारूपायाः कामवल्ल्याः फलोत्पादनकला फलप्रसवनचातुरी। या कामना ( 'चाहत'
इति हिन्दीभाषा )रूपा ' कामसंवन्धिनी लता आरोपिता, तया अद्य फलं दर्शित-
मित्याशय. । सेयं कैशोरलीला सलिले कमलिन्याः यत् कोरकमासीत् तस्य उल्लासलक्ष्मीः
विकासशोमा। कोरकभावेन स्थितस्य कमलस्य अधुना विकासः प्रारब्ध इति तात्पर्यम् ।
'सलिले कमलिनी' त्युक्त्या सलिलस्थिताया एव विकास इति सद्यस्कत्वं संसूच्यते ।
'लक्ष्मी.' इत्युक्त्या सोयं नवयौवनोद्गमः एका संपत् , भाग्यवतां कृते एका अपूर्वा
लक्ष्मीरित्याशयः ॥३५४॥

. , , , [१२८ पद्यमुक्तावली अङ्गानामतियौवनोन्नतिजुषां भूपामणीनामथ स्वच्छन्दप्रमदप्रमोदजनुषां मन्दस्मितानामपि । कान्त ! त्वन्नखचन्द्रचञ्चिलरुचो वर्धिष्णभिः कान्तिभिः कस्याः कामविलाससौधशिखरे दीपोऽद्य मन्दायितः ॥३५॥ यौवनेन अत्युन्नतिजुपाम् अङ्गानाम्, भूषणजटितानां रत्नानाम् , स्वच्छन्दं यः प्रमदः ( प्रकृष्टो मदः, यौवनजनित उन्मादः ) तेन सजातो यः स्वाभाविको हर्पः तस्मात् जनुः उत्पत्तिर्येषाम् ईदृशानां मन्दहास्यानां चाऽपि । तथा हे कान्त ! तव चरणयोः ये नखचन्द्राः तेषां चञ्चलायाः रुचः कान्तः सकाशात् प्रसरन्तीभिः कान्तिभिश्च कस्या भाग्यवत्याः कामविलासार्थ निर्मिते हhशिवरे अद्य दीपः मन्दीकृतः ? "रात्रौ कस्या भाग्यवत्या विलासभवने त्व गतवान् ” इति स्पष्टं प्रश्नमनुक्त्वा कस्या नायिकाया विलासहर्ये त्वया निजाङ्गानाम् , निजभूपणानाम् , यौवनोन्माद-प्रमोदजातानां मन्द- स्मितानाम् , चरणनखानांकान्तिभिश्च गृहस्थितो दीपः मन्दप्रभः कृतः इति व्यङ्ग्यमुच्यते । ततश्च भङ्गयन्तरेण व्यङ्गयस्यैवाऽत्राभिधानमिति पर्यायोक्तालंकार. ॥३५॥ अये कस्याः केलीभवनशिखरेऽद्य व्यवसितः प्रदीपं संपूर्णा रजनिमयमुज्जागरयिता। इदानी वा कस्या हितमतिमतिक्रम्य भवने मदीये संप्राप्तः परिमृदितपीताम्बरधरः ॥३५६॥ पुनस्तयैव विधया-'कस्या विलासभवने रात्रि व्यतिगमितवान्' इति सपत्न्या गेहे रात्रिनिवासेन ईर्ष्याकषायिता काचिदाह-अये कस्याः - ( भाग्यवत्या ) केलीभवनस्य शिखरे अद्य संपूर्ण रात्रिं यावत् अयं त्वम् प्रदीपम् उज्जागरयिता प्रचालयिता व्यवसितः सनद्धो जातः १ दीपं प्रज्वाल्य कस्या वा अगसौन्दर्य निमालयन् विलासेन रजनी गमित- वालि ? किञ्च प्रात कालेऽपि कस्या भवने गमनं निश्चितमासीत् । भवांश्च स्या ( तस्या ) हितां मतिम् उल्लड्ध्य मदीये गृहे प्राप्तः ? किन्तु रात्रौ त्व तया सह निश्रब्ध- विलासं कृतवानिति ते सुरतसंमर्दैन मृदित पीताम्बरमेवाऽऽवेदयति, यतो हि त्वं स्पष्टं 'परिमृदितपीताम्बरधरः' । गतां रात्रिं सपत्न्या सह विलसितवान् अद्यापि अन्यस्या भवने ते गन्तव्यमनीषितमासीत् । एवमवस्थायामपि मन्दभागिन्या मद्गेहे आगतः, किन्तु 'परिमृदितपीताम्बर वः' ' "अहो ते दाक्षिण्यम् ?” इति कयाचन साकूतोपालम्भ- मावेद्यते प्रियतम ॥३५६।। ?

श्रीकृष्णभट्टविरचिता
१२६]
गर्वालापः कलानां विधिरचनकलाकौशलानां कलापः
साक्षात्कारः सुखानां कुसुमशरधनुर्विक्रमस्याऽवतारः।
रूपावेशो रुचीनां सरससुरभितासंपदां सारसंघः
सिन्धुः सौन्दर्यसीम्नां समुदयति वपुःसंनिवेशो मृगाच्याः ॥३५७॥
मृगाच्याः वपुःसंनिवेशः (अगसंघटनम् ) कलानां शिल्पचातुर्याणां परस्परं
गर्वपूर्वकमालापः । प्रत्येकाङ्गस्य निर्माणकला आत्मानं सर्वोत्कृष्टां कथयति, तेन च
सर्वाङ्गसुन्दरता सूच्यते। विधातुः निर्माणे यानि यद्विधानि च कलानां कौशलानि,
तेपामेकत्र दर्शनार्थ निवेशः। फामदेवस्य धनुषो विक्रमदर्शनस्य अवतारः । एवंविधं
शरीरसंनिवेशमालम्ब्यैव कामदेवस्य धनुर्निजपराक्रमं दर्शयतीत्याशयः । रुचीनां नाना-
विधानामिच्छानां रूपं प्रति आवेशः । सर्वविधरुचिशालिनोऽपि ईदृशे वपुःसंनिवेशे
आविष्टा इव रूपं प्रति आकृष्टा भवन्तीति तात्पर्यम् । सरसाः सुरभिताश्च (सुगन्धिताश्च)
या: संपद: तासामेकत्र संघटितः सार-समूहः । सौन्दर्यपराकाष्ठानां समुद्रः, इतोऽधिकं
कीइंगपि सौन्दर्य न भवितुमर्हतीति परीक्ष्यतामेकत्र ॥३५७॥
एते दिवाकरनिशाकरभार्गवाद्याः
प्रोद्यन्तु हृद्यवपुषः शतशोऽन्तरिक्षे ।
गम्भीरघोपरुचिरं मुदिरं विहाय
दत्त मयूरमनसि प्रमुदं न कश्चित् ॥३५८।।
आकाशे सूर्यचन्द्रभार्गव( शुक्र )प्रभृतयः हृद्यवपुषः दर्शनीयशरीराः शतशः
एव काम प्रोद्यन्तु ( उदयन्ताम् ) किन्तु गंभीरेण घोषेण रुचिरं सुन्दरं मुदिरं ( मेघ )
विहाय मयूरस्य मनसि कश्चिदपि प्रकृष्टां मुदं (प्रीतिम् ) न दन्ते, मेघस्य गम्भीरघोषं
श्रुत्वैव मयूरस्य मनः प्रमाद्यतीति वक्तुस्तात्पर्यम् ॥३५८॥
स्काराकारास्तारास्तारापतिसंमुखाः समुद्यन्तु ।
केन भवेत्सुखधारा विनात्र धाराधरं शिखिनः ॥३५६।।
तारापतेः चन्द्रस्य संमुखस्थाः स्फाराकाराः बहुविधाऽऽकाराः ताराः कामं समुद्यन्तु
उदयन्ताम् किन्तु धाराधरं मेघं विना शिखिनः मयूरस्य सुखधाग अविच्छिन्नः सुखप्रवाहः
केन भवेत् ? केनापि न भवेत् । चन्द्रः, नानाकारास्ताराश्च गगने उदयन्ते किन्तु मयू-
रस्य सुखप्रवाहो मेघेनैवेत्याशयः ॥३५६॥

1 [१३० पद्यमुक्तावली रेरे खद्योत विद्योतितदहनकणद्योत सद्यो विसर्पन विद्योतेथास्तमिस्रानिशि, न च भवता स्थीयतां वासरेऽपि । अस्मिन्नुच्चण्डरोचिनिचयविरचितध्वान्तधाराधरान्तो रात्रीकान्तोपशान्तोद्ध रकिरणरुचिर्योततेऽसौ दिनेशः ॥३५६।। विद्योतितः प्रकाशितः दहनकणस्य अग्निरफुलिङ्गस्य द्योतः प्रकाशो येन, त्वया अग्निकणस्येव प्रकाशः प्रकटीकृतः, अतएव शीबूं शीबू प्रसर्पन् सन्. [ न तु स्थिरतया, तथा सति कौतुकं न स्यात् ] तमिस्रानिशि अन्धकाररात्र्यां विद्योतेथाः, शुक्लपक्षरात्र्यां न तावानवसरः । ततश्च रात्रिवत् वासरेऽपि भवता न स्थीयताम् । यतो हि अस्मिन् ( वासरे ) उच्चण्डेन प्रचण्डेन रोचिर्निचयेन प्रभासमूहेन विरचितः ध्वान्त( अन्धकार) रूपस्य धाराधरस्य ( मेघस्य ) अन्तो येन । रात्रिकान्तस्य ( निशापतेः चन्द्रस्य ) उपशान्ते उपशमने उधुरा संनद्धा किरणानां रुचिः प्रकाशो यस्य, ईदृशः असौ दिनेशः दिनकरः सूर्यः विद्योतते । अय सूर्यः प्रकाशते येन न केवलं अन्धकारस्यैवान्तः कृतः अपि तु चन्द्रसदृशस्यापि किरणकान्तिरुपशमिता । ततश्च त्वत्सदृशस्य कणमात्र- प्रकाशस्य का वा गणनेत्याशय ॥३५॥ - । पाटीरद्र मसंगिनः सुरभितासंपद्धता मारुताः सौरभ्यैरिह बर्बु रे परमपाकुर्वन्तु दुर्गन्धताम् । किं त्वेतस्य मदोत्पतन्मधुकरीपक्षच्छिदः संतपत्- सूचीतीच्णकठोरकण्टकगणाः केनाऽपनेया भुवि ॥३६०॥ पाटीरद्रुमाणां चन्दनवृक्षाणां सङ्गिन' सहचरा', सौरभ्यसंपदा पूर्णा मारुताः ( पवना ) वर्वरे 'बबूले' इति भापाप्रसिद्ध वृक्ष, सौरभ्यैः निजसौगन्धैः तस्य दुर्गन्धतां [ दुर्गन्धयुक्तताम् ] अपाकुर्वन्तु दूरे कुर्वन्तु । किन्तु एतस्य ववुलवृक्षस्य मदेन उत्प- तन्तीनाम् उड्डीयमानानां भ्रमरीणां पक्षच्छेदकाः संतपत्( संतप्यमान ) सूची( लोह- कण्टिका 'सूई' )वत् तीक्ष्णा. ( निशिता' ) कठोग निष्ठुराश्च कण्टकसमूहाः केन अप- नेयाः अस्या भुवि केन दूरीकरणीयाः ? न कोप्येतत्पृथक्कतुं समर्थः। सत्सङ्गेन श्राधेय- गुणाऽऽधानेपि स्वाभाविको दुर्गुणो न केनापि निवारयितुं शक्यः, इत्यन्योक्ति ॥३६०|| यथा तब कलावृद्धिस्तथा नक्षत्रसंक्षयः । नक्षत्राधिप नैषा ते स्वनामोचाटनोचिता ॥३६॥ ?

१३१], श्रीकृष्णभट्टविरचिता चन्द्र प्रत्यन्योक्तिः-हे नक्षत्राधिप ( नक्षत्राणां पालनकर्तः, चन्द्र ! ) यथा, यथा तव कलानां वृद्धिर्भवति तथा तथा नक्षत्राणां तारकाणां संक्षयः [ तव प्रकाशेन तेषां विलोपः ] । एषा स्वनाम्नः रवीयानां नाम्नः स्वकीयजनानां चिह्नस्यापि उच्चाटना उद्वासना निवर्तना नोचिता । स्वस्योन्नतौ स्वीयानां वृद्धिरेव कर्तव्या, न तु तेषामुच्चाटना, इति स्वार्थिनं कञ्चिदधिकारिणं प्रति व्यङ्गथमर्यादया प्रोच्यते ॥३६१॥ - शरत्कालस्य माहात्म्याद् बभूव हरिणीदृशाम् । भवद्विरहजव्याधिशतचन्द्र नभस्तत्लम् ॥३६२॥ विरहे एकोऽपि चन्द्रः संतापाय भवति वियोगिनाम् । किन्तु अस्मिन् शरत्काले हरिणीशां (सुन्दरीणाम् ) विरहजनितेन व्याधिना एकचन्द्रयुक्तमपि नभस्तलं शतचन्द्रयुक्तमिव बभूव । दुःसहस्ते विरहजो व्याधिरित्याशयः ॥३६२॥ नृप त्वद्यन्त्रनिर्यद्भिलोहितोहगोलकैः। अराजततरामुघच्छतचन्द्र नभस्तलम् ॥३६३॥ तव 'तोभ'नामकाद् यन्त्रात् निःसरद्भिः वह्नितापाद्र लौहितैः रक्तवर्णैः लोह- गोलकैः, नभस्तलं उद्यद्भिः शतसंख्याकैः चन्द्रेर्युक्तमिव अराजततराम् । आकाशे रक्ताः दीप्तियुक्ताश्च गोलका. चन्द्राः इव प्रतीयन्ते स्म, इत्याशयः ॥३६॥ रामावताराऽवतरन्नारदाद्यगरोचिपा । व्याप्यमानमतो रेजे शतचन्द्र नभस्तलम् ।।३६४॥ श्रीरामस्य अवतारसमये तदनुगमाय अवतरतां नारदादिदेव-मुनीनानामग- कान्त्या व्याप्यमानम् ( व्याप्तम् ) अभूत् , अतएव शतचन्द्रयुक्तमिव रेजे शुशुभे । नारदादेः चन्द्रसाम्यं माघादिभिरप्युक्तम् ॥३६४|| अतुलद्यु तिभिर्देवसुन्दरीबदनोद्गतैः । अशोभिष्ट यशोभिस्ते शतचन्द्र नभस्तलम् ॥३६॥ देवसुन्दरीणां वदनेभ्यो निःसृतैः [ देवागनाभिर्गीतै रित्याशयः ] अतएव अनुपम- कान्तिशालिभिः तव यशोभिः शतचन्द्रयुक्तमिव अशोभिष्ट । तव यशश्चन्द्रवत् शुभ्रम् , असाधारणद्युतिधारकं चास्ति । तञ्च न केवलं भूमौ जनैरेव, अपितु दिवि देवैरपि गीयते इति राजस्तुतिळगया ॥३६५॥ 1 - [१३२ पद्यमुक्तावली प्रोद्यत्कपूरपूरप्रकरपरिलसत्पाण्डिमानं हसद्भि- स्त्वत्कीर्तीनां समूहर्जयति जगदिदं निस्तमस्कं समस्तम् । किंच न्यश्चच्चकोरीचटुलतरचलचञ्चुपूर्णप्रसर्प- त्पीयूपाभिः प्रभाभिर्दिनमकृत शरश्चन्द्रचान्द्रीमयत्वम् ॥३६६॥ इति श्रीमत्तैलङ्गान्वयायमङ्गलमहोदधिराकासुधाकर-नानानरेन्द्र- मणिमुकुटकिर्मीरितपादारविन्द-देवर्पिश्रीकृष्णभट्ट- कविकलानिधिगुम्फिता- पद्यमुक्तावली-समाप्ता प्रोद्यन् प्रसर्पन् यः कर्पूरपूरस्य कर्पूरपटलस्य प्रकरः राशिः (महान् य, कर्पूरराशिरित्या- शयः ) तस्य कर्पूरराशेः पाण्डिमानं श्वेततां हसद्भिः । कर्पूरराशितोप्यधिकशुभैः स्वकीर्ति- समूहै. । न एकदेशे एव, अपितु समस्तमिदं जगत् निस्तमस्कं तमो( अन्धकार )रहितं जातम् , अत एव जयति, सर्वोत्कर्षेण वर्तते । किञ्च न्यश्चन्तीनां कीर्तिप्रभापानार्थ नीची भवन्तीना चकोरीणां चटुल तरं ( अतिचञ्चलं ) यथा स्यात्तथा चलन्तीभ्यः चम्चुभ्य. पूर्णतया प्रसर्पत् ( निपत्य परित प्रसरत् ) पीयूषम् ( अमृतम् ) यासाम् , एतादृशीभिः- कीर्तिप्रभाभि । दिन, शरत्कालस्य यश्चन्द्र., तस्य या चान्द्री [ चन्द्रस्येयम्, चन्द्रिका ] तन्मयत्वम् तत्पूर्णम् अकृत अकार्षीत् [ कृत्रः आत्मनेपदे लुइ] । त्वत्कीर्तिसमुहै. सर्वदा दिनं चन्द्रिकासुशोभितमिव अलक्ष्यत, इत्याशयः ॥ ३६६ ॥ . एतावत्येव सेयं वत समधिगता पद्यमुक्तावली द्राक् प्रारम्भे चाऽवसानेऽपि च परिरहिता पत्रकैः कैश्चिदत्र । शब्दार्थानां चकासचिररुचिरचमत्कारपूर्णा तु सेयं संमोदायैव सिध्येज्जयनगरगतैः प्राच्यवृत्रनर्घा ||१|| विषयविभागविमुक्ता मुक्ता च कथाप्रसङ्गन । युक्ता मुक्तावलिरियमामुक्तकपद्यमुक्ताभिः ॥२॥ यत्पद्मवन्धादिकचित्रकाव्या- न्यत्र प्रदिष्टानि यतस्ततोऽपि ।

श्रीकृष्णभट्टविरचिता १३३ . नोद्धार एषामिह सूचितस्तद् ग्रन्थान्तरेभ्यस्तदिदं प्रसाध्यम् ॥३॥ सहसैव मुद्रितेयं सहैव टीकाऽपि सृज्यमानासीत् । तद् यादृक्तादृगिदं विद्वद्वृन्दे निवेदितं विनयात् ॥४॥ मुक्तावलीमनर्घा पुराणपत्रेषु निह्नतां सुचिरात् । सेयं 'गुणगुम्फनिका' प्रकाममापादयेत्प्रकाशगताम् ॥५॥ जयपुरनरेन्द्रपूजितसुकविकलानिधिकुलप्रसूतेन । देवष्युपावभट्टश्रीमथुरानाथशास्त्रिणा कलिता ॥६॥ भुवनगगनजननयनप्रमिते ( २०१४ सं०) विक्रममहीपतेर्वर्षे । 'गुणगुम्फनिका' मुक्तावलिटीका पूर्तिमुपनीता ॥७॥ श्रीमद्गौतम-वर्यवंशविलसह वर्षिचूडामणि- श्रीकृष्णाभिधमूरिसत्कविकलानिध्यन्ववायोद्भवः । काव्य-व्याकरणानुषङ्गिबहुलप्रौढप्रबन्धादिकृत् टीकां निर्मितवानिमां लघुतमा श्रीमजुनाथाभिधः ।।८।। इतिश्रीजयपुरमहाराजाधिराजसंमानित-तैलङ्गकुलजलधिकौस्तुभायमान- कविकलानिधिश्रीकृष्णभट्टान्ववायसंभूत-मञ्जुनाथोपनामक- कविशिरोमणि साहित्यवारिधि- देवर्षिभट्टश्रीमथुरानाथशास्त्रिसाहित्याचार्यनिर्मिता पद्यमुक्तावलिटीका 'गुणगुम्फनिका' समाप्तिमगात् । - पद्यानामनुक्रमणिका लोकसख्या पृष्ठसख्या १. १६५ ६६ २ ६६ ३ अकलितघनसारेऽपि अगस्त्येश यस्ते यशस्ने अङ्गानामतियौवनोन्नतिजुषा अञ्जनाभघनभास अतनुहि तनु तस्य ३५५ १.८ ३२ ४. १०१ ५ ८७ ६. अतुलद्युति १३१ ३६५ २१४ ३८ १४ 8. ३७ १०. ११४ ११ २८३ १०४ ११. १२ २ १ १३. २० ७ १४ ६६ ३१ १३४ ४४ १५ १६. ३१ अत्रिलोचनजभृत्रिलोचन अद्भुतमेतदिदानी अद्याभूदुत्तरङ्गो अद्याऽहं चपला अन्त. सन्देशरुच्या अन्तःसारनिरूपणो अन्येषां चन्दनत्वं अन्योन्याङ्गविलासवर्धित अभूत्प्राज्य राज्य अमुना यमुनाकूल अमृतमनृतेनाप्तुम अयं नन्दवाल सदालाप- अयि तब वदन सरोनतुल्य श्रये कस्या - अये रज्यम्बी अरुणग्गमो व्ध तिमिरं अरुणोद्गम इन तिमिर अरातिभूरितापदोऽपि अविद्या प्राचादीद् अवन्तीसवन्तीभवं १२ ६१ १८ २४३ ३१४ १६ ११२ २०. १२८ २१. २७ २२ २३२ ८२ २३. २२० ८ २८ २६. ६२ २६ ।

१३५ श्लोकसंख्या पृष्ठसंख्या १२६ २७. १०० २८. १२६ २६ ११७ ३०. ३१. ३२. ३५१ २७६ ३५२ ३२६ २८६ ३१८ ३२१ ३२८ १८६ १०५ ११३ ११५ ११८ ३३. ३४. ६४ ३५. ३६. ३७ २३४ ८३ ४६ १६ ३८. २३४ ८३ ३६. ४०, अविकलमुखचंद्र असोढ़विधुमण्डल अस्यावलम्व असि मधुकरमंद अस्मिन्नम्भोदमध्यो अहं ते साहाय्यं अहं मन्ये मन्दं अहो मे पाण्डित्यं आग्नेयीं आणीदं विजआए आनन्दयुतपुरन्दर आनीतं विजयया माधव प्रायास्यति प्रियतमा पारादापत्तिभारा आरूढ़-प्राक-समीर आलेपोयं वपुषि इति राजसि इतो हैन्दवीं इदं श्रीकृष्णभट्टस्य इहाऽधीतं स्फीतं उग्रेणोग्रव्रतेन उच्चैराच्छादय उच्चैरुड्डीयमानै उत्कूजत्कोकिलाश्वान् उत्तु गोत्तु गशुण्डा उत्तालोत्तरवातवीति उद्यन् दोषाकरस्याऽप्यथ उपनतजनताहङ् माधुरी उन्मीलन्मल्लिबल्ली ३०१ १७५ १४१ ५६ ४१. ४२. ३४७ १२४ ४३. ६३ ६० ४४. . ४५. १८६ १७७ ३० १४५ ७४ १२ ४६. २३ ४८. ४६. १३० ४३ ३२ २६१ ६३ १०१ ५२. ५३. १७८ ५४. १५ ६ १७६ १३६ श्लोकसंख्या पृष्ठसंख्या १०५ . २२२ १०२ ३२. १३२ ५६. १ १२६ २३ २२ ३५८ ७३ ७२ १४६ ३५३ २३४ १२६ ६३ -२३५ ३१३ ५६. उष्णकालविभवप्रतिकूल उदयाचलमारुह्य ५८. एके त्वाराधयन्ति एतावत्येव सेयं वत ६०. एते दिवाकरनिशाकर ६१. ऑकारं तारतार ६२ ओतत्सद्ब्रह्मरूपः ६३. कम्वावुग्रा ऽविलम्बारवभूति करालगरलादपि ६५. करताडनश्यामत्व ६६. करतालण सामत्त ६६. अ. कपूरोज्ज्वलदीपवर्ति ६७. कलङ्का शीतांशुर्विषम ६८. कलहसविततिकान्तां ६६. कल्याणवन्तः क्रमदानशोभिता कलये कदा सदा ऽह कादिस्वरभंगाहित कादम्बरीविधर्णितनयन कान्तं विलोक्य सहसा ७३. श्र. कामक्षागतमभ्रमज्जन का मधुरा वत नगरी कालिन्दीतटनिकट ७६. किं पष्ठीद्विवचोनिरूपण किञ्चिद्दवसहायेन किचिन्न्यायेप्यधीतं कुभोद्भवेन मुनिना कुरगीगभद्गी ८१. कृता केनेहशी कान्त्या कृता केनेशी मूर्तिः १०१ ११२ १६ ३८ ४८ ११८. ७०. ४६ ६ ५३ ७२. ૨૨ १७ १०७ ११० -२५६ ६३ ६ ७५. १६ २६६ ३४१ १६८ ६६.. १२३ ६७ - १२८ २६३ 1 ३५ १०७ २६ १४ ८०. -- १५ १३७ श्लोकसंख्या पृष्ठसंख्या २३. कृताः सर्वे कोकाः ३०७ ८४. २०० ६. १६ ८५. मक ३०० १०८ ४१ १५ ८६. २८७ १०६ ११५ ६०. ३२२ ६१. २५ ६.२. १२३ ३४४ ७६ ६३. २४ १४. १०७ ७१ २२ ह. ३५७ १२६ ६७. कृषीष्ट फलसंपदं कृष्णे हि ललिते कुजे केशवपदारविन्द कोटिब्रह्माण्डसंस्थापन कौटिल्यं विदधाति कः स्याच्छन्दो निषेधे क्षितिश्चचच्चन्द्रद्यु खलवक्त्रवचः खलवचसि गङ्गा ऽम्भोमग्नमूनः गच्छति मदने जेतु गच्छत्यान्वीक्षिकीयं गर्वालापः कलानां गुणवद्गणितो गृहीत्वा-यानशय्यासदन गोदा वीचिप्रमोदा गोधूलो धूलिधूम्रानन गोविन्द मास्मदा नन्द गोविन्द श्रीलगोपी घनच्छेदोच्छून घेत्तू ण जाणसेज्जासदण चकोररुत्कण्ठाकलितहृदयः चक्कइभबहिसुकेथि चक्रइम अहि शुकै चक्षुश्वारुचकोर चञ्चच्चन्द्रकचन्द्रचन्दन चञ्चच्चाम्पेयजाम्बूनद चञ्चच्चित्ताऽमिलाषा १७० ६८. २२६ ६६. २२ २३६ १००. १०१. १०२. ११५ . १५६ ३२३ २२६ ३०६ २३६ ११० ८३ १०३. १०४. १०५. १०६. १०७. १०८. १०६. ११०. १११. - २७५ १०० ४६ १३७ ३०६ १२५ .

१३८ श्लोकसख्या पृष्ठसख्या - ४५ १३५ १५४ ५२ ११२. ११३. ११४. ११५. ११६. ३१६ १३ २६८ १०८ २७० ६७ ११७. ११८. ५६ १६५ ३०६ २६८ ११६. १८- ५६ १११ ६६ १३३ १२०. wr १२१. १२२. २२५ ७६ १२३. ५६ १२४. १२५. १२६. चञ्चत्कञ्जपराग चतुरग्निचयनकारी चन्द्रोऽय धवलीकरोतु चित्रमदृष्टाऽश्रुत जय जय ओंकारेश (गीतिः) जय जय जय कल्कीश जय जागृहि वीर जयति चन्द्रमसौ जय देवि, जय देवि (गीतिः) जयपुरनरेन्द्रपूजित जय शोभासम्पत्संशोभित जागृहि जागृहि जागृहि जागृहि कल्किहरे। जागृहि जागृहि दुर्नयखण्डन जितेन्द्रियस्य पुसः जित्वा वरुण काले गच्छति जीवातुर्जीवाऽऽतुर जीयं ज्ञानदक्षताहितस्वभासमान बलतु जलधिक्रोडक्रीडत् ज्वालामालाकराला तटतरुशयान् विहङ्गान तत्तद्गुणैरगाधा तत्रानेन स्वभक्त्या तथामानाथ ससारं तरुणि भवनात्स्नातुं तवामी नवामीलदम्भोजभासो तापं चापयतः सुखं कलयतो तारुण्योभेदभाजां तेजस्विनो विदलितास्तव १६४ १६७ १६८ २१७ १२७. २६६ १८१ ७६. १०७० ६२ १२८. १२६. ६१ १३०. २४३ ८७ १३२. ६८ २१ १३३. २६७ १०८ ३१ १३४. ६८ + २५६ ६३ १३५. १३६. ७० २०६ ३३० १३७. २३८. २४२ ११६ ८६- ११२ १३६. ३१५ २५ १४०. १४१. १६७- ६७ श्लोकसंख्या पृष्ठसंख्या १४२. १०७ ३०४ २१४ १४३. ७८. १४४. २५० ८६ . १०७ १४५. १४६. २६१ १६३ ६५ १४७. २५२ ८९ १४७. १४८. ३०३ १०७ १५०. २४४ ८६ १५१. तोयप्रक्षेपलीला त्वन्नामस्मरणे त्वमक्षामतमक्षेमः त्वयि सति, मयि दत्तायां त्वय्यर्चितेऽखिलसुरान् दत्तखड्गसुप्रहार दयावलितलोचना दयितभुजयुगान्तर दलत्कुन्ददन्तश्चलत् दारान् रक्षतु दीव्यद्भूयोहसन्ती दूरादम्बैजयन्ती दृष्ट्वा लीनाखिलार्थः देव त्वंद्यशसा सितं देव श्रीजयसिंह धार्मिकपतेः देव श्रीबुद्धसिह देव श्रीमाधवक्ष्माधव दैन्यं सौन्दर्यभाजां दोर्दण्डकलितोदण्ड १५० १५२. २८४ ५१ १०४ १२ १५'. २७ १५४. १४८ ३१२ ११२ १५५. १५६. १११ ३७ १५७. १८७ १५८. १०३ ३५४ ६२ ६३ ३३ १२७ द्रुत. किं कैलासः २४ १५६ १६०. १६१. १६२. १६३. १६४. १० ५२ १२३ ३० ४० द्वाराधीश त्वदीयान् द्विषद्वलपराभूति घम्मिल्लोल्लासिमल्ली धर्मस्तम्भैकमूल धृतस्रोतः स्वाना धृताङ्गारग्रामानिव ननु व्यरचि सा वधू नवनीलघनं न सा राजमानापि १२७ ३४२ ६५ १२३. २६ २७१ १३ १६० १६४ ११ १६५. १६६. १६७. १६८. १६६. १७०. ६४ " ५., " ६६ १४० श्लोकसंख्या पृष्ठसंख्या १७१. -- १२५ १७२. ६४ २६४ 1. २२२ १७३. १७४ १७५. १७६. नसि श्रु त्योरक्ष्णोरुरसि नानाज्ञानाविधाना ( कामधेनुवन्धः) नास्ति यः स तु निकुञ्जनवलीलनं निगमगिरमतीत्य निजनिजपतिप्रेमा, नित्यज्यारूढ चापा, निमग्नतां हरेः पादतरी २५ २४६ १७७. २४७ ७६ १७६. .२१६ • ३६३ १३६ नृप त्वद्यन्त्रनिर्य न्यकृत्य क्वापि १३१ १८० ४५ २०३ ६८ ६५ २० १८१. १८२. १८३. १८४. पाटीरद्र १३० ३६० ०५३ १८० १२५ १८५, ६१ ४१ १८६ ५२ १८७. १८. २३७ ८४ १८६.' , १६०. पञ्चचामरवृत्तेऽत्र याः परमभीषणभूरि मसंगिनः पाटीरवाटीमवगाह्य पायादुद्दण्ड पार्योद्यभीमपुत्री प्रकृतिरमरंभापा प्रणमत निरवद्यनित्यलीलं प्रणमामि विश्वसारां प्रमोदभरदायकं प्रागधर्मस्तम्भमूल प्राचीन.प्रोच्चलद्भि. पश्चाल्लग्नपरागपुल प्रागवाताधोरणा प्राप्य क्वापि-पुराण प्रोदञ्चत्मावृपेण्य प्रोद्यकपूरपूर प्रोद्यत्पीताम्बर वकोट तरुकोटरं १३ १६१. ३५ ११३ १३८ ३७ ४३ १६२. १६३- १६४. २१ . १६५- ११७ १६६. १३६ ३२७ १२६ ३६६ १२६ १७. १६. ४३ . १३२ ४१ १६६. ३११ .१४१ - श्लोकसंख्या पृष्ठसंख्या २००.. बाल्यादेवानुपाल्या .६ ३ २०१. २३८ *2 २०२.। २०३. ६६ २०४. २ २३ १० २०५, २०६. १३३ २०७. १६६ २०६ १८ २०६. २०१ ६८ ३१ २१०.. ६६. ३३१ ११६ २१२.. ६६ - २१३०, ६३ २६ २१४.. भज भाव मोदयन्तः भयाकुलनयातिगा भवे तनुत निष्ठामातनु भालोद्भासितभूरि भुजङ्गव्यासङ्गाजनित भुवनगगनजन भुवि विष्णुयशोः भूमौ धर्मधुरस्य भूयान्मोदस्त्वदीयात् भृशं खलु दरिद्रतो मधुपविपिने मनोमधुरिमाम्बुधि मम मतिरति विरमति महत्यां लीलायां महाकमलकानना महादोषाक्रान्तः महाव्यञ्जनसजान माधवनरेन्द्र तव कर० मातः पातकहारिणि माधवनरेन्द्रपर्वशशिन. माधवनृपकीर्तय. माधवेन्द्रद्विषत्कान्ताकुचौ माधववेन्द्रद्विषद्वामाः माधवेन्द्र भवत्कीतों मानस्तोत्र प्रसन्नस्थिति माने सभां वनिता मारसारसमासेव्या माहवणिबकित्तीओ २१५, १८ 1- २१६. २८१ १०२ २१७. - २१८ ७६ २३३ २१६. २१६. ४५ २२०. २३१ २२१. -२२७ ८१ । २२२. २१० २२३. १६५ ७३ ६६. ७३ २२४.. २२५..- ३८ ११५ २६४ १ २२६.. २२७.. २२८. ५२..

१४२ श्लोकसंख्या पृष्टसंख्या २२६. २३१ २३०. २३१. २३२. २६७ १६ १०६ २८८ ६१ २६ २३३. २३४. ५ १३३ १२० २३५. २३६. ३३४ १६६ ३३३ ६७ २३७. २२१ २३८. ३ ०३६- ३६१ १३२ १३० ६६ ३० २४०. ११६ २४१. ६४ २४२. ४४ माहवणरिन्द जुज्झम्मि माहवणरिन्द तुह कर० मिध्याकथनदुरत्यय मीनो जलमपहाया मुक्ताभिः शक्तिवृन्द मुक्तावलीमनघा मुखं यस्याश्चद्रों मूर्द्धनि जाग्रति मृदुतरचरणाऽसि यत्पद्मवन्धादिक यथा तव कलावृद्धिस्तथा यदा काव्यप्रकाशेन यन्त्रोद्यद्भरिकाश्मीरज यन्मुक्तासुरुचिं यस्या नीरे गभीरे याहगं राजति रङ्गपत्तनगतम् यामतामतसत्प्रास: या माया सदद्यावहा [वन्धः] थावन्तो वनवासिनः यूय कल्पनरुप्रसूनसदृशाः राजीवं समुदीत राज्ञां सदस्सु गमनं राधारदच्छदकपोलगन्तविम्ब राधे यस्तव मानसे राधे हन्त वसन्त रामावतार रिपू श्चित्वा रे रे खद्योत रे रे चंचलचचरीक १३३ ६६ २४३. २१ २४४. २५८ ६२ २४५.. २५१ ८४ २४६. ६५ २४७. २४८- २६५ १४७ १८३ २६४ २६८ ११५ २४६ २५०. ६६ २५१. ४२ १५ २५३- ३ २ २५४. ३६४ १३१ २५५. ६४ २० २५६. १ + . १३० ३५८ - १०४ २५७. ३३. , श्लोकसंख्या पृष्ठसंख्या २५८. रोमाञ्चप्रकरण पूर्ण ३०२ २५६. २०२ २०६ ६८ ५६ ललाटचत्वराऽऽश्रय ललिता ललिता लीलालोलित १६१ १७३ ५६ २६०. २६१. २६२. २६३. वरतरनखरकरसरखरतर १६२ ५६ ६ ३ २६४. १८ ६४ १७ २६५. ५२ ३ ४७ २६६. २६७ २६८. २६६. १११ १६ ३६ १२४ ३४६ २७०. ६० १६ ६३ २७१. १८५ २७२. ६६ २५ २७३. २० w २७४. ६६ वराकस्य वराकस्य वहिभू मितलं वाणीं चैव भुवं च वार्तालापे दर्शने विदलितजनौकलिल विद्याभूषण षडानन विद्यायाः विपिने धृतसौन्दर्य विबुधानामास्वाद्या विभक्तिसप्तकं सद्यः विभूतिधारणैरि विश्वाधारस्वरूपा विपयविभागविमुक्ता विपयोऽतिशयोकी विपं मेघस्तोमस्त्यजति विहारभासुरोचितोपि विहारे प्रारब्धे वेणीनासाभरणकवरीनू शमय शमनभीति शम्भौ सर्वप्रकाशे शरत्कालस्य शश्वत्कान्तारसैघाः शाणः शीतांशुरेषु शान्ताकाराय शश्वत् २७५. २ १३२ २७६ १२ २७७. ११४ ३२. ३२० २२१ ३०५ २७८. २७६. ११० २८०. ३४८ ११६ ३८ २८१. २८२. २४ २८३. ३६२ १०६ २८४. १३१ ३४ ११८ २८५. ३२६ २८६. ७५ ૨૩ 1 १४४ श्लोकसंख्या पृष्टसख्या २८७. ८३ २६ ११ २८म. २८ २८६. ४४ १३२ १४० २६०. ४७ २६२. २०८ ७२ २६.३. ५१ २६.४. १२१ ४० २६५. ११२ ६५ २६६. १३३ २६७. १३१ ४३ . २६८. १२४ ४२ ३६ २६६ १०६ ११० ३००. ३६ ३०१. २१५ शिप्राम्भ.प्रेखितेभ्य. शृङ्गाभ्यामुल्लसद्भ्या शेप श्रीद्वारदेशे श्यामाः पीता वलक्षा श्रीकण्ठ.स्वभिरामनाम श्रीकृष्णकविमुखेन्दु श्रीद्वारकेशकेशव श्रीमतामसमतामता श्रीमद् गौतम-वर्य वश श्रीमद्वल्लभदेवलालित श्रीसद्वै कुराठशिक्षा श्री महाराजाधिराज श्रीमद्राजाधिराजे श्रीमन्माधवभूमिपाल श्रीमन्माधवसिह श्रीमाधवक्षमाधव श्रीमाधवनृपकीर्ती श्रीमाधवाम्भोनिधि श्रीमाधवेन्द्र संभवगुणगङ्गा श्रीमान श्रीमाधवत्ता श्रीलक्ष्मणगुरुचर गे श्रीलश्रीलकदारिदावकरक श्रीलइयरित हर्म्य, श्रीश्रीकविवर व्या'त ध्याता श्री हरिहरं भवन्तं श्रौतस्मार्त्तविचार स किं मित्र योस्मिन् सखि न वनवादरोपि सखि वयमखिलाः १६ १०७ ३५ २२८ १८ ३०२. ३०३. ३०४. ३०५. ३०६. ३०७. १२२ २६६ १०६ २१६ ३०८. ६० २८ ३०६. २४० ८५ ३१०. २५४ ६० ३११. २४१ . ३१२. २५५ " ३१३. १८२ ६२ ३१४ २ २११ ३१५. ३१६. ३२५ ।

, १४५ श्लोकसंख्या पृष्ठसंख्या ३१७. २८६ २०७ ३१८. १११ ३१० १२८ ३१६ ૪૨ ३२०. ५६ १६ २०६ ३२१ ३२२ ३२३. १४६ ४६ २१३ ७४ ३२४ ३२५. ३२६. २६४ १०१ २०७ ३१ ३२७ १५८ ११ ३२८ ३२६. ३३०. १४ सक्षोभपुलक मसुर सकेतित लतिकागृह सच्चेतश्चातकालीस सञ्चरचञ्चरीकोध सत्यं नाम सदा शिव सदाचारा चारा सदामोदरतो नुत्यः सद्गुणोधकलित सत्यज्य कृष्णचरणौ समदन्तस्तम्भयुगानन समधिकरवाणि समाना नानाना समुदज भवसागरत समुदितमुदित श्री सरसगुणकञ्चमज्मे सरसगुणकाव्यमध्ये सरिज्ज्येष्ठा व्यालव्यतिकरवती सर्वाङ्गः साधितस्य सहसैच मुद्रितेयं सहैव सर्व विद्याभि सातदिनाकरलीनमहा सायस्तायत्तयत्तायति (हारबन्ध सारङ्गा. स्वाङ्गभङ्गात् सारसारस्वकश्लोक सारसाननभारा सीमा श्रीमाधवत्तावत् सिन्दूरारुणरागराजिन सीमाहव णिवकित्ती सुधा कर मुधा कर २२६ ८१ ११ ३३१ ३३२. ३३३. ३३४. ३३५ ३३६ ३३७ : १३२ २८ ५४ ३३८. १५७ ११७ १७१ ३८ ३३६ २४६ ३४०,, ३४१. १७६ ६० ३४२ २४७ ३४३. १८ १ ३४४ २२८ ८१ ३४५ १२ ५ श्लोकसख्या पृष्ठसंख्या ३४६. ४६ १४४ १४३ ३४७. ३४८. २२ है ३४६. ५ ३५०० ३५०० १६ ६१ १८४ ३५१. ६३ १३ ३५२. ३४ ३५३. ८१ ३५४. ३५५. ३५६. २१ १६० ६४ ३५७. सुधासाराऽऽसारा सुधाधारास्वादो सुधासगरगरखिल सुन्दर तरलतरङ्गा सुप्रासस्था सदैव सुरमिसमयसपदा सुराणामादिस्थः सुरौघ वरचन्दन सूरो चन्दो इन्दो सूर्यश्चन्द्र इन्द्र. सैवाऽद्या सा पराख्या सौजन्यत्रत सौन्दर्यैकनिकेतन स्कन्दस्याशेषदेतेय स्फाराकारास्तारा स्फुरत्कांतिश्चन्द्रः स्फुरत्कीर्तिज्योत्सना स्फुरत्स्मरविलासकं हरित्कांति हरे हृदयमायाहि हर्षादौ विहितो हसन्तीभिर्युक्त हारोद्योतिचिरत्न हास्य पुष्पाकरस्ते हे हेमाद्भि महेभकुंभ हैमं हेम-गुणस्यूत १७ ३५८. १०५ ३४ ३५६. ३२४ ३६०. ३६१ १२६ ११६ १२० ३३२ ३६२. ૨૬ १३ ३६३. ३१६ ११४ ३६४. ३६५. १३ ३३ १५६ ५३ ३६६. २८२ १०३ १ १ ३१७ ११३ ३६७- ३६८- ३६६. ३७०- २८० १०२ ३४५ १२३

No text on this page.

Padhamuktawali

Author
Devrishikrishanbhatt
Title
Padhamuktawali
File name
Padhamuktawali
Text
OCR done
Citation
1959
Published
2010/08
Publisher
Jodhpur, Rajasthan Oriental Research Institute
Language
Sanskrit
Pages
172
Library
Prakrit Bharati Academy, Jaipur
DLI number
326243
Barcode
99999990002383.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
gYmXjlPhBeA
Download PDF

Padhamuktawali