Prakrit Bharati Academy, Jaipur

Shri Jambuswamicharitam

Suri, Jayshekhar · 2010/02

PDF Proofread

Front matter

॥ॐ॥
卐
श्री सम्यक्त्वशुद्धिविषये आरामनंदन कथा।
संग्राहक:-मणिविजयजी:

श्रीआत्मानन्द-ग्रन्थरतमाला-एकत्रिंशतितमं रत्नम् (२१) ॥ श्रीजयोखरमरिरचितम् ॥ Pirocure ॥ श्रीजम्बूखामिचरितम् ॥ गररि ज्ञानमति पूज्यपादप्रवर्तकनीमत्कान्तिविजयशिष्याणुश्रीचतुरविजयोपदिष्ट- -सुरतनिवासि-श्रेष्ठि-गुलावचन्द्रात्मज-दीपचन्द्रपुण्यार्थे तस्यैव द्रव्यसाहाय्येन प्रकाशयित्री-श्रीआत्मानन्दसा-भावनगर इदं पुस्तकं मुम्बय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी आत्मानंद जैन सभा भावनगर इत्यनेन निर्णयसागर मुद्रणालये कोलभाटवीथ्यां २३ तमे गृहे वा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् । विक्रमसंवन् १९६८. वीरसंवत् २४३८. PLANCE आत्मसवत् १६. म SARIEpta

।
है
वना.
प्रस्ता-
॥ प्रस्तावना ॥
इह हि विदितमेतदखिलब्रह्माण्डमाण्डोदरवर्तिभव्याङ्गिगणे यच्छुभ्रौदार्यधैर्यादम्भगाम्भीर्यागर्वगरिमायनवगीतगुणगणरनाभरणभूषितभूध-
णानां कफुप्कामिनीकमलाकमनीयतामवलोकयितुमिव प्रतिदिशं प्रचलितकीर्तिकौमुदीकानां महात्मनां चरित्रं श्रवणपथपान्थतां प्राप्तमपि प्रा-
णिनां प्रणाशयति क्षणेनापि भवकोटाकोटिसंकलितकर्मकश्मलकदम्बकम् । एतदनुसृत्य प्रथमत एव खात्मोद्धृतिमभिलष्यद्भिर्महामुनिभिः सङ्घ-
हीता अञ्चलगच्छभट्टारकश्रीजयशेखरसूरिविनिर्मितखोपज्ञोपदेशचिन्तामणीवृत्त्यन्तर्गतकेवलजम्बूकुमारकथानकस्यास्य मूलग्रन्थपृथग्भूतस्यानेके
पुस्तकादर्शा दृश्यन्ते, तदिदमैदंयुगीनमन्दमतीनां कथानकपठनपाठनाकर्णनरसिकहृदयानां भव्यसत्त्वानां परोपकृतये भविष्यतीति सफलो
ममायं शोघनकर्मणि परिश्रमारम्भः । निबन्धेऽस्मिन् निबन्धकारैर्जम्बूकुमारपूर्वभववर्णनादारभ्य खजनकजननीसुकुलजातखजायाष्टकतज्जनक-
जननीप्रभवप्रभुप्रभृतिप्रतिबोधदीक्षाग्रहणजम्बूखामिनिर्वाणगमनपर्यन्तं सर्वमपि चरित्रं संक्षेपेण निबद्धम् । कथानकस्यास्य निर्माणकालस्तु
विक्रमाब्दीयषत्रिशदुत्तरचतुर्दशशततमाब्दीयः, अनन्तरोक्तशताब्द्यामेवोपदेशचिन्तामण्या रचितत्वात्तदन्तर्भूतत्वेनास्य पूर्वोक्त एव काल इति
कथने न विरोधापत्तिः । अस्य त्रीणि पुस्तकानि पूज्यपादश्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकश्रीमत्कान्तिविजयपादानां पुस्तकसङ्ग्रहादासादितानि,
तुरीयं पुनश्छाणीनामकग्रामसङ्घसत्कपुस्तककोशत उपलब्धम् । तेष्वेकं चिरन्तनं सटिप्पणीकम् । तत्पुस्तकाधारण. क्वचित् कचित्स्थलेऽसत्क-
ल्पिताऽपि टिप्पणी निवेशिता वरीवृत्यते । एतत्पुस्तकचतुष्काधारेणेदं शोधितमपि च्छद्मस्थानामस्मादृशां दृष्टिदोषणाक्षरयोजकदोषेण वा
सुलभमेव स्खलनम् । अतो यत्र कचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं मात्सर्यमुत्सृज्य धीधनैरित्यभ्यर्थयते-
सविनयबद्धाञ्जलिः प्रवर्तकश्रीमत्कान्तिविजयपादसेवाहेवाकः
चतुरविजया मुनिः
( सुरत)
॥१॥

लितगलितचिरतृष्णः । व्रतमापृष्टस्वजनो , भवनिदेन भवदत्तः ॥७ ॥ गुरुचरणाम्बुजभजनादागममकरन्दविन्दुपा -1 ॥ अहम् ॥ ॥ श्रीमद्विजयकमलसूरिपादपझेभ्यो नमः ॥ ॥ श्रीजयशेखरमूरिरचितम् ॥ ॥ श्रीजम्बूखामिचरितम् ॥ देशोऽस्ति मगधनामा, यत्रारामा पहिः पुरे रामाः। तरुणाश्रिताः सुवयसः, सारच्छायाः सदालियुजः ॥१॥ सुग्राम इति ग्रामः, सुग्रामग्रामणीरभूत्तत्र । चित्रं नितिसुस्थो, वृतिमध्यस्थोऽपि यत्र जनः ॥ २॥ परिकलितरा- ट्रकूटान्वयोऽभवद्भामनायकस्तत्र । नाना परिणामेन च, यः ख्याति प्रापदार्य इति ॥३॥ शशिन इव रेवती तस्य वल्लभा चित्रमुदितवृपराशिः । जातौ तयोः सविनयौ, तनयौ भवदत्तभवदेवौ ॥४॥ अविरहितयोरिह तयोः, सदाचरणशोभयोः समप्रभयोः । शुभयोरुभयोर्न भयोरिव फल्गुन्या अभूद्भेदः ॥ ५॥ व्याख्यानगर्जितर्जितदुः- समयः शमितभूरिभवतापः । आगाद्धन इव गगने, सुस्थितगुरुरन्यदा तत्र ॥ ६ ॥ आदत्त तदुपदेशामृतपल्वलल- श्रीजम्बू- चरित्रम्- ॥ १॥ नरतः । भृङ्ग इव जातरङ्गः, केषु न देशेषु स चचार ॥ ८॥ कोऽप्यन्यदा मुनीन्द्रः, सूरीनापृच्छय बन्धुवोधाय । ग्रामं जगाम कञ्चन, वञ्चनरहितो नरहितोक्तिः ॥९॥ तत्कालपाणिपीडनसम्बन्धाद्वन्धुरन्ध इव सम्यक् । न तमायातमवैक्षत, वन्दनदानादि दूरेऽस्तु ॥ १० ॥ वीवाह विहस्तांभिर्वनिताभिरितस्ततो भ्रमन्तीभिः । प्रत्युत तस्य महाव्रतमुट्योद्धट्य जर्जरितम् ॥११॥ मोहमहीपतिराज्ये, विजयिनि तत्र खबोधशस्त्रस्य । प्रसरमपश्यन् वीक्षापन्नो ववलेऽथ मुनिवीरः ॥ १२ ॥ निाजे मुनिराजे, गुरोः पुरस्तात्तथैव जल्पाके । भवदत्तः माह हसँस्तारं तारुण्यदु- ललितः ॥ १३ ॥ यः करपीडनपर्वणि, चारित्रिणमतिथिमग्रजमुपेतम् । नोपालक्षयदपि तं, धिग्वन्धुं वन्ध्यमिव वृक्षम् ॥१४॥ मुनिरपरस्तं प्रोचे, कठिनेनायं न बन्धुनानच्चे । भवतोऽपि वन्धुरेकः, सविवेकस्ताचदस्ति गृहे ॥१५॥ साधुषु भक्तिबन्धावनुरक्तिस्तस्य भोत्स्यतेऽस्माभिः । शिष्यो भविष्यति यदि, त्वयि चिरमिलिते विगतमोहः॥१६॥ अभिमानी भवदत्तस्तदा व्यधत्ताश्रवं शृणुत यतयः। गुरवो मगधेषु गता, यदि तदसौ प्रबजित एव ॥ १७ ॥ समये मगधजनानामयत्नदीपायितं स गुरुमूचे। पूज्या दत्त सहायं, येनाहं वन्दये बन्धून् ॥१८॥ तेऽप्यूचुरिणितज्ञा, एकोऽपि हि गच्छ वत्स ! तत्र त्वम् । कः सिंहस्य सहायो, वने च गगने च सूर्यस्य ॥१९॥ सोऽचालीदेकोऽप्यथ, १ 'घञ्युपसर्गस्य बहुलम्' ३।२।८ इत्यनेन सूत्रेण वेदीर्घत्वम्, एवमग्रेऽपि यत्र यत्र वेर्दीर्घत्वं तत्र तत्रानेनैव सूत्रेण सिद्धिरिति । व्याकुलाभिः । ३ विलक्षः सन् । ४ 'आनः' इत्यपि । ५ ज्ञास्यते । ६ प्रतिज्ञाम् । ॥१॥ II Grega शकुनानि प्रतिपदं मृगयमाणः । ग्रामं जगाम सुग्रामनामकं नामकं विपदाम् ॥ २० ॥ पृष्टः खंजनोदन्तं, ग्राम्यः कश्चिजगाद तत्रेति । भाग्याधिकोऽसि मुनिवर !, यदवसरे त्वमिह संप्राप्तः ॥ २१॥ भ्राता तब भवदेवः, परि- णयते नागिलां कनीमद्य । इभ्यस्य नागदत्तस्य या सुता वासुकीजानेः ॥ २२ ॥ जातशिरःशूलः शूलयेव तद्वात्तया श्रुतिं गतया । दध्यौ मुनिरहह परस्य हस्यते यत्तदभ्येति ॥२३॥ किं तत्र गतेन मया, यद्वन्धुर्दारवन्धने पतितः। नूनं स इव हसिष्ये, वलितो मोधाश्रयः श्रवणैः ॥ २४ ॥ एतद्विवाहसूचकमशकुनमपि पथि न किं ममाविरभूत् । यदि वा खेदेनालं, भङ्गुरमनसोऽस्ति नहि सिद्धिः ॥२५॥ तत्र च गच्छामि गेतो, मुखरागं बान्धवस्य पश्यामि । हरिरपि न श्रियमापजलधिमनालोड्य दूरस्थः ॥ २६ ॥ एवं वितर्कतकुँ, नमयन् लेभे खवन्धुभवनं सः। तत्रा- गातामतिथि, तनयं वीक्ष्यातुरौ पितरौ ॥२७॥ केचिजजलपुरात्तेऽपि संयमे मोह एष दुरपोहः । नोचेद्वन्धुविवाहे, कथमयमागादनाहूतः ॥२८॥ केऽप्यूचुरसौ न खयमुपयेमे तेन बन्धुवीवाहम् । द्रष्टुमियाय सुनेरपि, कुतुकेनाक्षिप्यते चेतः ॥२९॥ मुनिरथ नमतां तेषां, तारखरमाशियं ददौ धाम् । आकृष्टिवरनामिव, बन्धोर्मोहान्(मनस्य ॥३०॥ पत्रलता निजवध्वाः, कपोलफलके लिखन् कुलस्थित्या । शुश्राव तां श्रुतिसुधां, भवदेवः सौधमध्यस्थः ॥ ३१॥ १ वासुकीनाम्नी जाया यस्य स तथाभूतस्तस्य । २ निष्फलप्रतिज्ञः । ३ यतिभिः 'श्रमणैः' इत्यपि 'श्रमणः श्रवणोऽपि च' इति हैमनाम- मालायाः शिलोच्छे । ४ 'घाऽभूत्' इत्यपि । ५ 'ततो' इत्यपि । ६ ‘मनालोक्य' इत्यपि । ७ गतौ त' इत्यपि । < अन्धुः कूपः ।

चरित्रम्
श्रीजम्बू
॥२॥
सम्यगवगम्य वन्धोर्ध्वनिं स नारीनिकुञ्जमध्यगतः । मेघस्येव मयूरो, नरिनर्ति स्म प्रमोदेन ॥३२॥ सोऽथ दधावे
बन्धोर्मिलनाय करीव दुर्निवारगतिः । अध्वस्थिता लता इव, वधूसखीः प्रसभमवधूय ॥ ३३ ॥ तेन प्रणयात्प्रणतः,
स्थितये चामन्त्रितो मुनिः माह । नाहमिह स्थानुरहो, गुरुसविधेऽवश्यगन्तव्यः ॥ ३४ ॥ तत्किमपि मङ्ख भैक्षं,
गृहाण निजमनुगृहाण वन्धुजनम् । इत्युक्त्वा मुनिरेनःरतेनः प्रतिलाभितस्तेन ॥३५॥ पात्रमदान्मुनिरकं, सत्यङ्कारं
व्रतस्य तस्य करे । तं प्रस्थितमथ नत्वा, नत्वा ववले कुटुम्वेन ॥ ३६ ॥ क्षणमनुभवतामेतौ, चिरात्समेतौ मिथः
कथारङ्गम् । इत्यागृह्य खजनैर्व्यत्रै वालि भवदेवः ॥ ३७॥ पात्रकयोगात्पात्रं, तमेव का मुनिर्मनसि गुढः ।
ग्रामाहूर निन्ये, बन्धुं वाक्पाशकृतवन्धम् ॥ ३८ ॥ पश्येयं सा वापी, यत्रावां चिरमकावं जलकेलिम् । बाल्ये नौ
कृतरांगं, तडागमेतत्तदेव पुरः ॥ ३९ ॥ आस्माकबालचापलसाक्षिणमुपलक्षयस्यमुं वृक्षम् । स्मरसितरामावाभ्यां,
निष्पल्लविता लता एताः ॥ ४० ॥ एता मुनीश्वरगिरो, लवमानं मुदमदुन तस्य हृदि । शल्यायते स्म यत्प्रतिपदम-
द्वैपरिष्कृता वाला ॥४१॥ त्रिभिर्विशेषकम् ॥ पूर्वं न किंचिदूचे, स्नेहानुचितं हियैव भवदेवः । ह्रीः खार्थभ्रंशक-
रीति तामपासाथ स माह ॥ ४२ ॥ बन्धो ! बन्धादंहितैर्विहिताद्भयमत्र विद्यतेऽद्य श्वः । मुनिरूचे केयं भी -
वारिभ्यो भयं दध्याः ॥ ४३ ॥ स माह पात्रकमिदं, मदङ्गभङ्गाय भारतो भ्रातः !। सोऽप्यूचे चिन्तय चिरलग्नं
१ पापचौरः । २ 'रङ्ग' इत्यपि । ३ 'लवमात्रां' इत्यपि । ४ अर्द्धविमण्डिता । ५ अरिभिः ।
॥२॥

दुष्कर्मणां भारम् ॥ ४४ ॥ स जगाद यामि साधो!, न मयाऽस्पृश्यत कदापि भूरियंती। मुनिरवदन्निगदसि किं, भ्रातर्धान्तस्त्रिभुवनेऽपि ॥४५॥ एतजन्मापूर्व, सर्व वनमित्युदीरयति तस्मिन् । मुनिरूचे संसारे, तत्किं यन्नात्मना दृष्टम् ॥४६॥ एवं मिथः कथारसवशगौ तौ जग्मतुर्गुरूपान्तम् । प्रव्राजयसे किमनुज मिति यतिभिरभाणि भवदत्तः ॥४७॥ गुरुणापि नमनूचे, भवदेवः किं व्रतार्थ्यसि स दध्यौ । एकालोचा इव किं, सर्वेऽप्येते सदृशजल्पाः ॥४८॥ मन्ये मुनिपु मनखी, मद्तसन्धां व्यधत्त भवदत्तः । सदयो बन्दिग्राह, जग्राह किमन्यथासौ माम् ॥४९॥ मा भूदयं मृपावाक, ततो गुरूक्तं तथेति मेने सः । साधुस्तव सन्धेति, प्राशंसि तदग्रजो यतिभिः ॥५०॥ निःसङ्कोचं लोचं, विधाय परिधाप्य साधुनेपथ्यम् । आसेदुपाग्रजेन समुदेक्षितो दीक्षितो गुरुणा ॥५१॥ अवस्थितममुमागत्य तित्यजन्मा व्रतं खजनवर्गः । एवमनुज्ञाप्य गुरुं, चचाल सह तेन अवदत्तः ॥५२॥ क्षणमात्रान्मात्रादिस्तत्रागात्तस्य परिजनः सर्वः । नायातौ नस्तनयौ, किमिहेति गुरूनपृच्छच्च ॥५३॥ भवदत्तो भवदेवश्चात्रायातौ तथैव यातौ च । श्रुत्वेति गुरोः सुभटश्श्युतेपुरिव स न्यवर्त्तिष्ट ॥ ५४ ॥ प्रहितैर्दिशि दिशि मनुजैस्तनुजः संशोधितः पितृभ्यां सः। न पुनर्जातः क्वचिदपि, को वा जानाति वायुगतिम् ॥५५॥ भवदेवो व्रतमचरद् , दुश्चरमपि सोदरोपरोधेन । खाट्चक्रे पुनरनिशं, हृदये सा नागिला तस्य ॥ ५६ ॥ दिवसो ययौ न रजनी, ययौ च रजनी पुनर्न दिवसोऽस्य । अर्द्धा- १ एतावती पृथिवी । २ 'गुरूपान्ते' इत्यपि । ३ खाडिति अव्यक्तानुकरणम् । V श्रीजम्बू- चरित्रम्- ॥३॥ लङ्कृतवालाविरहज्वालावलीढस्य ॥ ५७ ॥न श्रुतमपि गुरुवचनं, नाधीतमपि श्रुतं विपयवैरि । न गलितमपि तारुण्यं, मदनावेशेन स विवेद ॥ ५८ ॥ समये सौधर्माख्यत्रिदिववधूभोगभाजि भवदत्ते । भवदेवेन जजृम्भे, द्विरदेन निरङ्कुशेनेव ॥ ५९ ॥ गुरुवचनज्ञानकुलाभिमानमुख्या गुणाश्चिराद्राढिताः । चित्रं मोहमहान्धौ ररक्षुरेनं न निपतन्तम् ॥ ६० ॥ अगणितगणमर्यादः, स्मरयादःसंकुलश्चचाल मुनिः। उत्खातशीलशैलः, सोऽथ प्रलये पयो- धिरिव ॥ ६१ ॥ मोहाज्ञया जरस्यपि, तारुण्योचितविकल्पतल्पस्थः । स जगाम ग्रामं तं, व्रतेन सह मार्गमुल्लङ्घय ॥६२॥ समया ग्रामं क्वचिदपि, जिनचैये मुनिवरो विशश्राम । तत्राजगाम सा नागिला जरत्यैकया युक्ता ॥६॥ अभ्यर्च्य जिनप्रतिमां, गुरुगौरवतोऽनमन्मुनिं तं सा । सोऽपि परिविस्मृताशीस्तां पित्रोः शुद्धिमप्राक्षीत् ॥ ६४ ॥ सापि खपतिं कुशला, कुशलप्रश्नाद्वयोऽनुमानाच । तं विज्ञाय वभाषे, तौ वृद्धौ परभवमुपेतौ ।। ६५ ॥ क्षणमथ दुःखं धृत्वा, साधुः पप्रच्छ नागिलोदन्तम् । कोऽसीति तया पृष्टश्च धृष्टधीः स्पष्टमाचष्ट ॥६६॥ अहमार्यकरेवत्यो- स्तनयः सा नागिला च मम दयिता । तां मुक्त्वा व्रतमादां, तदा ववन्धूपरोधेन ॥ ६७ ॥ अधुना स्वर्गमुपेयुपि, बन्धौ मुक्त्वा गणं व्रतगुणं च । तोपयितुं तामागां, निशान्त इव पमिनीमरुणः ॥६८ ॥ लावण्यरससरयां, विज- यिन्यां प्रेमभाजने तस्मात् । हा! प्रेत इवाविरतं तृषितोऽभवदेव भवदेवः ॥ ६९ ॥ श्रुत्वेति कर्णकटुकं, मुनिवचनं १ हस्तिना। २ 'एतं' इत्यपि। ३ वृद्धया ।

मनसि नागिला दथ्यो । कथमीशोऽपि साधुः, प्राकृत इव वञ्चितो विषयैः॥ ७० ॥ धिग्मोहस्य विलसितं, यत्प- लितैर्द्धवलिताग्रमूर्द्धानः । मदनव्याकुलितहृदो, युवान इव बत विजृम्भन्ते ॥ ७१ ॥ केनोपायेनायं, भग्नमना मुनि- चरो मयोद्धार्यः । नहि गजपतिरवलानां, पकनिमग्नः सुखोद्धारः ॥७२॥ अथ तत्सहचारिण्या, वृद्धायाः सूनुराययो जबनः । ऊचे च मङ्ख पात्रं, किंचित्कुरु निजकरे जननि ! ॥७३॥ अद्येह पर्वदिवसे, कश्चिद्भोजनमदत्त मे श्रीमान् । अन्यो दित्सति भोजनमुपर्यदीनश्व दीनारम् ॥ ७४ ॥ न पुराणाशनपूरित-जठरो भोक्तुं नवं समर्थोऽस्मि । तद्भुक्त- मिह बमिष्यामि तच्च भोक्ष्ये पुनः क्षुधितः ॥ ७५ ॥ यतिपतिरिति वालवचो, जुगुप्समानो न्यगादि नागिलया। उक्ते सुनेऽमुनेदृशि, जुगुप्ससे खं न चिन्तयसि ॥ ७६ ॥ त्वमपि त्यक्तान् भोगान् , कामयमानो लुभुक्षसे वान्तम् । तदियं हन्त दुराशा, नाशाय भवद्वयस्य तव ।। ७७॥ भूयो भूयः सुलभ, चिन्तामणिरिव न चारुचारित्रम् । तद्वि- पयचूर्णककृते, मा धाक्षीस्त्वमपि चतुरोऽसि ॥ ७८॥ चलितं कर्णपटुत्वं, कलितं पलितैः शिरश्च निष्प्रसरम् । गलितं तत्तारुण्यं, स्खलितं तव किं मनश्चरणात् ॥ ७९ ॥ शिवनगरगमनविद्यामनवद्यां साधयन्ति ये दीक्षाम् । किं तेऽवकर- ककरणिं, रमणीकायं भजन्ति जडाः ॥ ८०॥ श्रुत्वेति तदुपदेशानूचेऽसौ साधु साधु बोधस्ते । अधुना धुनाति न मनाग्मनो मनोभूर्मम विरक्तम् ॥ ८१ ॥ इयतीमतीय भूमि, पुनर्यदर्थ समागमं सुदति । तां चेत्पश्यामि तदा, १ पामर इव । २ 'मुपरि ददानश्च' इत्यपि । ३ वान्तम् । ४ कचवरसदृशम् । ५ कामः ।

चरित्र
श्रीजम्बू-
॥४॥
समाहितः खहितमासेवे ॥ ८२ ॥ साऽप्यूचे शृणु साधो !, मुमुचे किल नागिला यदा भवता । हृतसर्वखेव तदा,
रुरोद सा रोदसीपूरम् ॥ ८३ ॥ साध्वीभ्यः श्रुततत्त्वा, घनसत्त्वा कर्मवैरिणो हन्तुम् । तेपे तपस्तथा सा, यथाऽजनि
म्लानकुसुमसमा ॥८४॥ किं तत्रास्ति विलोक्यं, मयि दृष्टायां च सापि दृष्टैच । देहेन देहिना वा, मम तस्याः कोपि
न विशेषः ॥ ८५ ॥ तत् िसैव न भवती, भवतीरस्थेति यतिनि जल्पाके। सापि तथेत्यनुमेने, मुनिरथ लज्जातुरो
दध्यौ ॥ ८६ ॥ वैशाखेनेव लतालकियते यौवनेन तनुरेषा । क्रियते तरसा जरसा, विच्छाया फाल्गुनेनेव ॥ ८७ ॥
जरया ग्रस्तस्यास्य, प्रकाशधमनिस्सस्स देहस्य । सङ्गतिरङ्गतिरोहितहृदा मयाऽहारि हा! चरणम् ॥ ८८॥ मुनि-
रूचे धर्मज्ञे !, धुरि मन्येऽहं महासतीषु त्वाम् । या खं च मां च रक्षसि, निजाज्ञया कामराक्षसतः ॥८९॥ शोभ-
यति प्रासाद, पताकिका दीपिका तमो हरति । ग्रामं च रक्षति वृति वयति जगजलदधारा ॥९॥ तारयति
तरी जलधिं, छाया तापं छिनत्ति पथिकानाम् । एवं स्त्रीजातिरपि, प्रबोधदानात्त्वमुपकुरुषे ॥ ९१ ॥ युग्मम् ॥
प्रायः पूर्यंत नदी, मेघेन तया न तु वचन मेघः। मय्यपि बोधविधानाद्विपरीतं तत्त्वया चक्रे ॥९२॥ भूयान्मिथ्या-
दुरितं, मम क्षमख व्यलीकमनलीके !। मुनिरित्युक्त्वा मनसा, बबले चारित्रधवलेन ॥ ९३॥ आलोच्य गुरोः
पुरतः, खदुरितमथ तेन तत्तपस्तेने । यदमीमिलदवसाने, सौधर्मे सोदरं तस्य ॥ ९४ ॥ इतश्च-वैदेहे पूर्वार्द्ध,
समस्ति किल पुष्कलाख्यया विजयः। विश्वप्रियोऽस्ति देशो, नवो निवेशः श्रियां तत्र ॥९५ ॥ सरसीव विपुलपद्मा,
॥४॥

तत्रास्ते पुण्डरीकिणी नगरी । निवसन्ति विशदपक्षा, यस्यां वरलाभवच्छ्रीकाः ॥ ९६ ॥ वज्रीय वज्रदत्तस्तस्यां चक्री बभूव भूरिबलः । यस्थाढौक्यत समरे, विजयेनाशेषविजयश्रीः ॥ ९७॥ तस्याजायत जाया, यशोधरा लक्षसं- ख्यललनस्य । च्युत्वा भवदत्तात्मा, तस्याः कुक्षाववततार ॥९८॥ समयेऽसूत सुतं सा, हंसायितममलवंशकम- लस्य । नाम्ना सागरदत्तश्चन्द्र इवायं ययौ वृद्धिम् ॥ ९९ ॥ उद्यौवनो नृपसुताः, पर शताः स परिणायितः पित्रा। चिक्रीड सौधमूर्द्धनि, विजिगीषुरिव श्रिया शक्रम् ॥१००॥ विद्युत्पिशङ्गबहुशृङ्गसङ्गतं चलमिव त्रिदशशैलम् । सखि- भिरिव शिखिभिरुपवननिलयैरालोकितं प्रीत्या ॥ १०१॥ असमानमानिनीमानभेदि गगनाध्वरोधसोद्रेकम् । अन्ये- धुघनपटलं, दूरोन्नतमालुलोके सः ॥ १०२ ॥ युग्मम् ॥ यावजलैघनोऽयं, प्लावयिता मेदिनीमिति स ऊचे तावचातकपातकनुन्न इव मरुद्ववौ वामः॥१०३॥ तत्मबलतया जलदे, कृषिकजनमनोरथैः सह विलीने । सागरदत्तो व्यमृशच्चपलत्वं सर्वभावानाम् ॥ १०४ ॥ वैराग्येण विमुक्ताबरोधरोधः प्रपद्य चारित्रम् । तपसा विघटितका, परिलेभे सोऽवधिज्ञानम् ॥ १०५ ॥ भवदेवोऽपि च्युत्वा, विजये तत्र पुरि वीतशोकायाम् । पद्मरथनृपतिपल्या, बनमालाया बभूव सुतः ॥ १०६ ॥ नाम्ना स शिवकुमारो, जनकन ग्राहितः कलाः सकलाः । उदवायत तारुण्ये, पञ्चशतीं नृपतिकन्यानाम् ॥ १०७ ॥ निजवैभवविभवोचितसंपन्नाऽखिलमनोरथप्रथिमा । रमणीरसानुविद्धः, सौध- स्योपरि स चिक्क्रीड ॥ १०८ ॥ मुनिरपि सागरदत्तो, विचरंस्तत्रान्यदा ययौ नगरे । प्रविवेश च भिक्षार्थ, गृहमि-

श्रीजम्बू-
चरित्रम्.
भ्यसमृद्धिदत्तस्य ॥ १०९ ॥ तेन प्रासुकभक्तैर्भक्त्या प्रतिलाभिते मुनौ वपुः । दानद्रुमस्य फलमिव, पाकपिशङ्गं
सुराः खर्णम् ॥ ११० ॥ तत्साक्षाद्वीक्ष्य शिवः, सौधाग्रस्थः प्रमोदमेदुरितः । भुक्त्वोत्थितं ववन्दे, सानन्दस्तं मुनि-
मुपेत्य ॥ १११॥ मुनिरथ तस्य प्रथयाञ्चकार संसारसागरगुरुत्वम् । तत्तारणक्षमं पुनरर्हर्द्धम्म सुपोतमिव ॥११२॥
अलपन्नृपभून पुरा, के के विलुलोकिरे मया मुनयः । त्वयि पुनरधिकस्नेहं चेतः को हेतुरिह नेतः ! ? ॥ ११३ ॥
मम नयने त्वद्वदनालोकनपीयूपपानदुर्ललिते। न चिखेलिंपतो योषिन्मुखनगरश्रोतसीदानीम् ॥ ११४ ॥ मुनिरूचे
प्राग्जन्मनि, ममानुजोऽभूरितीदृशः स्नेहः । जन्मान्तरेऽपि ऋणवत्प्रायेण प्रेम न त्रुटति ॥११५ ॥ अवदच्छिवस्तदा-
नीम+रयस्त्वं न जातु जनमेनम् । अतिदुर्विनीतमिव किं, सम्प्रति साधो! पृथक्कुरुपे ? ॥ ११६ ॥ मोहाम्बुधौ
मिमर्दू, मामुदधार्षीस्तदा मुदागत्य । तत्राकण्ठं मनं, सम्प्रति किमुपेक्षसे भ्रातः ! ? ॥ ११७ ॥ मुनिरूचे वससि
त्वं, राजकुलेऽहं तु गुरुकुले वत्स ! । कथमावयोः प्रसिध्यति, भिन्नस्थानस्थयोः नेहः ? ॥ ११८ ॥ यदि पूर्वभवा-
भ्यस्तां, द्रढयितुमभिलपसि सम्प्रति प्रीतिम् । पित्रोरनुज्ञया तद् , वत्स! समादत्व चारित्रम् ॥ ११९ ॥ गत्वा
खावसथमथ, प्रणम्य पितरौ व्रतं ययाचे सः । तच्छ्रुत्वा तौ मूर्छानिमीलिताक्षावधोऽपतताम् ॥ १२० ॥ संजात-
चेतनौ तौ, जगाद सादरमनाः शिवकुमारः । वाञ्छति महोदयं मयि, कोऽयं पितरौ ! वृथा खेदः ॥ १२१॥
१ ' भुक्तो,' इत्यपि । २ न क्रीडितुमिच्छतः । ३ मतान्तराश्रयणेन न दवादेशः ।
॥५॥

विषया विषवृक्षसखा, वनिता निरयाध्वदीपिका एताः । श्रीरपि विद्युल्लोला, तत्किं रज्ये भवे येन ? ॥ १२२ ॥ तावूचतुः किमस्मन्मनोरथं वत्स ! सपदि मृद्गासि ? । न क्षणमपि तव विरह, सहावहे दावहेतिमिव ॥ १२३ ॥ अनुकूलास्तव वध्वो, राज्यश्रीश्च स्वयंवरा सेयम् । आवां प्रणयप्रहौ, कोयमकालेऽभिलाषस्ते ? ॥१२४॥ यद्यजगाद पित्रोः, प्रसादनार्थ शिवोऽथ शिवकामः । तत्तत्तयोर्विलीनं, सन्तप्ते पात्र इव वारि ॥ १२५ ॥ अननुमतोऽथ पितृ- भ्यां, भोजनमुत्सृज्य मौनधारी सः । तस्थौ पौषधसमनि, चक्रीव त्रिदशविजिगीषुः ॥ १२६ ॥ दृढधर्माणं श्राव- कमाकार्य जगाद पद्मरथभूपः । अस्मजीवितसौध-भ्रंशे स्तम्भो भवान् भवतु ॥ १२७ ॥ तनयवदनेन्दुवीक्षण- मुक्ताः प्राणान्न शक्नुमो धर्तुम् । समयज्ञोऽसि तथा कुरु, यथा कुमारोऽचिरागुते ॥१२८॥ ओमित्युक्त्वा दृढधी- दृढधा शिवकुमारमुपतस्थे । प्रतिचक्रामेर्यामथ, वन्दनकाथै ययाचे तम् ॥ १२९ ॥ असमञ्जसं तदालोक्य मौन- मुद्रां विभेद नृपतनयः । किं भाषसे ? विवेकिन् !, वन्दनमर्हन्ति ननु यतयः ॥१३०॥ भावव्रतं तवाप्यस्ति तेन का न्यूनतेति तेनोक्ते । निजगाद शिवकुमारो, वदसि किमेवं प्रवीणोऽसि ? ॥१३१॥ क्व यतिः परिहृतसङ्गः ? क सङ्ग- कश्मलमतिर्गृहस्थश्च ? । सागरगोष्पदयोरिव, भवति विभेदो महाननयोः ॥ १३२ ॥ न गृही निगृहीतमना, अपि लभते मुनिवरस्य सादृश्यम् । श्लक्ष्णीकृतोऽपि समिता-समतां किं चिक्कसः स्पृशति ? ॥१३३॥ सुचिरं कामितमपि १ वनवहिज्वालामिव । २ 'उपतस्थौ' इत्यपि । ३ गोधूमचूर्णसादृश्यम् । ३ गोधूमचूर्णसादृश्यम् । ४ यवचूर्णम् ।

स्तपं शिवभवे विदेहेषु । तेनेदमस्य तेजस्त्रपाकरं भास्कर- चरित्रम् श्रीजम्बू- 565 तत्पश्यामि पुनः सखे ! भवेऽमुष्मिन् । पूर्वभवानादरतः, प्रकुपितमिव दुर्लभ चरणम् ॥ १३४ ॥ अवददृढधाऽदः, सत्यं पितरौ च पुनरनुलक्यौ । तन्मुञ्च कदाग्रहितां, कुरु खकार्य गृहस्थोऽपि ॥ १३५॥ भुक्ष्य प्रासुकभक्तेन मृत्युनालं खकार्यविघ्नेन । इति तद्वचः स मेने, शिष्टाः प्रायेण नाविष्टाः ॥ १३६ ॥ अथ दृढधानीतैः, शुद्धाहारैः सदैव षष्ठान्ते । मुनिरिव चक्रे पारणमाचामाम्लेन सदने सः ॥ १३७ ॥ कुङ्कुमकपिशपर शत-वनितादीसाग्नि- कुण्डमध्यस्थः । पञ्चाश्यधिकं तन्वंस्तपोऽत्यगाद्वादशाब्दी सः ॥१३८॥ निविडं विडम्वितोऽसौ, प्राच्यभवेऽनेन तेन सेय॑ इव । दृढधावष्टम्भान्निशुशुम्भ हठेन मदनमसौ ॥ १३९ ॥ इति तपसा पूर्णायुः, पर्यन्ते साधुसाधितान- शनः । पञ्चमसुरलोकेऽभूद्विद्युन्मालीति स त्रिदशः ॥ १४०॥ चतसृभिरमरवधूभिः, सह रममाणे सुरेऽत्र पञ्चशरः । प्राग्जन्मनि जर्जरितः, पुनः खमुजीवितं मेने ॥ १४१ ॥ तस्यायुषोऽवसाने, विहरन्मगधेषु वर्द्धमानजिनः। शम- वासः समवासरदुपराजगृहं जगन्नाथः ॥ १४२ ॥ विद्युन्माली नन्तुं, भगवन्तं समवसरणमायातः । त्रिदशातिशा- यितेजा, ददृशे श्रेणिकनरेशेन ॥ १४३॥ ईदृक्तेजाः किमसाविति पृष्टः श्रेणिकेन विभुरूचे । च्यवनासत्त्या साम्प्रत- १ 'नोच्छिष्टाः' इत्यपि । २ 'हं' इत्यपि । ३ जघान । ४ परिगृहीताभिः आद्यदेवलोकद्वयवासिनीभिरिति संभाव्यते । ५ रूपपरि- चारणाप्रकारेण । ६ अल्पतेजाः । ॥६॥ org Rio स्थाऽपि ॥ १४५ ॥ कोत्पत्स्यते च्युतोऽसाविति पृष्टे भूभुजा पुनर्वीरः । प्रोवाच सप्तमेऽहनि, विपत्स्यते सैप सुर लोकात् ॥ १४६ ॥ ऋपभश्रेष्ठितनूजो, जम्बूनामा भविष्यति पुरेऽत्र । अस्सामवसप्पिण्यां, चरमोऽयं केवली ज्ञेयः ॥ १४७ ॥ इति जिनवचसा मुदितस्त्रिपदी दत्त्वाथ समवसरणस्थः । जम्बूद्वीपाधिपतिः, प्रनन नादृतो देवः ॥१४८॥ भूपः पप्रच्छ विभुं, किममरनरपूरितेऽत्र तव सदसि । देवोयमेव नृत्यति, मुद्भिः स्थूलम्भविष्णुरिव ॥१४९॥ अवदत्प्रभुः पुरेऽस्मिन्निभ्योभूद्भूप! चन्द्रगुप्त इति । आस्तां द्वौ तनयौ तस्य ऋषभदत्तश्च जिनदासः ॥ १५० ॥ ऋपभः शुभपरिणामः, श्रीधाम निकामधृतगुणग्रामः । यशसा धवलितभुवनो, वभार भारं कुटुम्बस्य ॥ १५१ ॥ जिनदासः पुनरनिशं, द्यूतव्यसनी पणाङ्गनासक्तः । शरणीचके दोषैरखिलैर्ऋषभादिव उस्तैः ॥ १५२ ॥ बन्धुलेहेन सदा, हितशिक्षाऽदायि तस्य ऋषभेण । न पुनरवासि तयासी, रामठमिव चन्दनच्छटया ॥ १५३ ॥ उपदेशानह- त्वाइपभस्तं खजनभूपतिसमक्षम् । निरवासयन्निजगृहाहातापि रिपुर्गुणविहीनः ॥ १५४ ॥ अन्येधुरसौ कितवै रुद्धो लभ्यं धनं मृगयमाणैः । कलहं विदधनिशितायुधैर्निजन्ने कृपाहीनैः ॥ १५५ ॥ सोऽथ विरुद्धः कर्मणि, मर्मणि विद्धः क्षितिं द्विधा प्राप । ऋषभस्य दीनवदनो, न्यवेद्यत खजनवर्गेण ॥ १५६ ॥ लोकत्रपया कृपया, बन्धुप्रेम्णा तथेरितस्त्वरितम् । तत्राजगाम ऋषभः, क्रन्दन् यत्रास्ति जिनदासः ॥ १५७ ॥ मरणभयाद्तगर्वस्तं जिनदासो १ हिङ्गु । २ पृथ्वी हानि च । है

चरित्रम्.
श्रीजम्बू-
॥७॥
जगाद गलदथुः। वन्धो ! ममापराध, क्षमख मां विपदि त्रायख ॥ १५८ ॥ सोऽपि कृपालुःप्रोचे, भ्रातः! किं
कातरोऽसि ? भव धीरः । नीत्वा निजसदनं त्वामुल्लापयितास्मि वरवैयैः ॥ १५९ ॥ जिनदासस्तमवादीन्ममाधुना
नास्ति जीविते गृद्धिः। भ्रातस्तव मुखकमलादहमन्याराधनामीहे ॥१६०॥ जातोऽस्मि कुले विमलेऽकरवं कर्माणि
तानि तान्यनिशम् । स्मृतमात्रैरपि सम्प्रति, यैर्हदि दहनाधिको दाहः ॥१६१ ॥ ऋषभोऽभिदधे भ्रातर्द्धन्यस्तं यस्य
मतिरियं स्फुरति । प्रान्तेऽपि कृतं सुकृतं, फलदं कि धीर! विधुरोऽसि ? ॥ १६२ ॥ भुवनाभरणं शरणं, भवन्तु
जिनसिद्धसाधुधास्ते । अपराधिन्यपि जन्ती, भज मैत्री किमुत शेषेषु ? ॥१६३॥ निन्दख पापमखिलं, सम्प्रत्य-
नुमोदयख सचरितम् । परमेष्ठिपञ्चकं स्मर, कुरु सर्वाहारपरिहारम् ॥ १६४ ॥ देहेऽपि मुञ्च ममतां, विभावय श्रम-
णवीरचरितानि । एवं तव शिवलक्ष्मीरपि दूरे नास्ति किमुत द्यौः ? ॥१६५॥ इति बन्धोर्वचनामृतपानाद्यातव्य-
थामजानानः । साधितमृत्युः सोऽभूदनादृताख्यो महादेवः ॥ १६६ ॥ सोऽयमधुना खवन्धोः, सदने सुतरत्नस-
म्भवं श्रुत्वा । मम निर्मलं कुलमहो, इत्युल्लापानरीनति ॥ १६७ ॥ अथ नत्वा जिननाथ, मन्वानः खं पुरं प्रधा-
नतरम् । सौधं जगाम भूपः, प्रीत्या पश्यन्नृषभगेहम् ॥ १६८ ॥ पूर्वं तत्रैव पुरे, समागतोऽभूत्सुधर्मगणनाथः ।
विममर्श तदा ऋषभख वल्लभा धारिणी मनसि ॥ १६९ ॥ तं तं प्रसादमापं, भतुरहं न पुनरैकमपि पुत्रम् । चकर
१ पालय । २ खस्थीकारयिष्यामि । ३ वर्गः ।
॥७॥

च सर्वोपायांस्तदाप्तये तेऽपि न च फेलुः ॥ १७० ॥ सम्प्रति गुरुः सुधा, समागमज्जङ्गमः सुरद्रुरिव । तत्तं नमामि कामितसिद्धिः स्थायेन न चिरेण ॥१७१॥ तनयतरणिं विना सा, विषादतमसार्दितास्यतामरसा। आरू- ढयाप्ययाना, जगाम विपिनं ननाम मुनिम् ॥ १७२ ॥ पप्रच्छ सिद्धपुत्रः, कोऽपि तदानीं प्रणम्य गणनाथम् । शाश्वतजम्बूपादपविचारमेवं च गुरुरूचे ॥१७३ ॥ उत्तरकुरुपूर्वार्द्ध, शीतासरितश्च पूर्वदिग्भागे । जाम्बूनदमयमत्र्यं, पीठं जम्बूद्रुमस्यास्ति ॥ १७४ ॥ तत्पञ्चयोजनशतान्यायामपृथुत्वयोस्त्रिगुणपरिधि । पिण्डे द्वादशयोजनमन्तः प्रान्ते द्विगन्यूतम् ॥ १७५॥ द्विक्रोशोन्नतया पञ्चचापशतविततया मणीमय्या । तदवेष्टि पद्मवेद्या, क्रीडासख्येव देवानाम् ॥१७६॥ द्वारः पीठस्य चतुर्दिशि तोरणकेतुकलशकलशोभाः। द्विकोशोचा गव्यूतिविस्तृताः शस्तरत्नरुचः ॥१७७॥ जम्ब्या आसनभूरिव, मध्ये मणिपीठिकास्य पीठस्य । योजनचतुष्कमुच्चा, प्रविस्तृता योजनान्यष्टौ ॥ १७८ ॥ तत्राऽस्ति वज्रवैडूर्यरिष्टमूलप्रकाण्डवरकन्दा । रजतोपरितनशांखा, सुवर्णशाखाप्रशाखौधा ॥ १७९ ॥ वैडूर्यदला तपनीयपत्रा वृन्ता च रत्नपुष्पफला । द्वादशवेदीगुप्ता, जाम्बूनदपल्लवा जम्बूः ॥ १८० ॥ द्विक्रोशनिमनायां, भूमौ तस्यां द्वियोजनोच्छ्रायः । द्विक्रोशपृथुस्कन्धः, शाखाश्च चतुर्दिशि चतस्रः ॥ १८१॥ एका चोर्ध्व शाखा, योजन- षट्कोन्नतास्त्युपरि तस्याः। जिनभवनं देशोनकोशोचतदर्द्धविस्तारम् ॥ १८२ ॥ पूर्वस्यां क्रोशमितं, भवनमनादृत- १ आरूढशिविका । २ 'शाला' इत्यपि ।

श्रीजम्बू-
चरित्रम्.
॥८॥
सुरस्य शाखायाम् । भवनप्रमितास्तिसृषु, प्रासादाः शेषशाखासु ॥१८३ ॥ जम्बूद्रुमेऽष्टयोजनविस्तारोन्नत्यभाजि
भूविकृतौ । नीडानीव खगानां, ध्रुवाणि भान्त्यमरभवनानि ॥ १८४ ॥ जम्बूनामष्टोत्तर-शतेन परितस्तदद्धमा-
नानाम् । जम्बूरियं परिवृता, गुरुरिव शिष्यैः प्रमाणोनैः ॥ १८५ ॥ वायव्यायं दिक्त्रयमथ रुद्धमनादृतस्य देवस्य ।
सामानिकोचितानां, चतुःसहस्रेण जम्बूनाम् ॥१८६॥ जम्बूः पूर्वस्यां दिशि, चतस्र एवैतदनमहिषीणाम् । आन्त-
रपरिषदृभूणामप्टसहस्राणि चाग्नेय्याम् ॥ १८७ ॥ मध्यमसभोगभोग्यं, दक्षिणदिशि दशसहस्रमेतासाम् । बाह्यस-
दस्त्रिदशाही, नैर्ऋत्यां द्वादशसहस्री ॥ १८८ ॥ तदनीकाधिपतीनां, जम्ब्वः सप्सैव पश्चिमाशायाम् । मुख्यतरौ
विज्ञेयौ, द्वैतीयीकः परिरयोऽसौ ॥ १८९ ॥ तनुरक्षकसुरपरिगतजम्बूनां षोडश च सहस्राणि । परितस्तृतीयप-
रिधी, त्रयस्तथान्ये परिक्षेपाः ॥ १९० ॥ जम्बूनां द्वात्रिंशल्लक्षाः प्रथमे द्वितीयके परिधौ । चत्वारिंशल्लक्षा, अष्टा-
प्रास्तास्तृतीये च ॥ १९१॥ कोट्येकाविंशतिरपि, लक्षाः पञ्चाशदथ सहस्राणि । विंशत्यधिकं च शतं, शाश्वतजम्बू-
प्रमाणमिदम् ॥ १९२ ॥ इत्यागमोक्तिमापीय, धारिणी सारणीमिव सुधायाः। लाभान्तरलाभादिव, समधिकतोषा
ननाम गुरुम् ॥ १९३॥ पृष्टेऽथ सुतोपाये, धारिण्या समयभेदपरिशङ्की । गणभृन्मौनं भेजे, मुख्या यतिनां हि
वाग्गुप्तिः ॥ १९४ ॥ निजगाद सिद्धपुत्रो, न सर्वविरता वदन्ति विदुषीदम् । अहमेव ते वदिष्यामि येन देशेन
१ 'तोष' इत्यपि।
॥८॥

- विरतोऽस्मि ॥१९५॥ आचामाम्लाष्टशतं, कुरु परमेष्ठिस्मृतौ सदा लीना । भावी च तदवसाने, सिंहखप्नेन पुत्रस्ते ॥ १९६ ॥ श्रुत्वेति सा प्रमुदिता, खसदनमागत्य तत्तपस्तेपे । येनाकृष्ट इवागाद् , विद्युन्माली तदुदरं सः ॥१९७॥ दृष्टे सिंहखप्ने, निश्चिक्ये सिद्धसूनुवचनं सा । नास्पृष्टमलयपवनः, प्रत्येति मधूदयं कोऽपि ॥ १९८ ॥ समये सासूत सुतं, मौक्तिकमुरुदीसिवंशयष्टिरिव । धारयिता सिद्धिवधूमूर्द्धनि यमनन्यरुचिमचिरात् ॥ १९९॥ उत्सवपूर्व पितरौ, जम्बूरिति तस्य नाम चक्राते । जम्बूविचारसमये, तदुपायं यजनन्याप ॥ २०० ॥ स ग्राहितः शिशुत्वे, जनकेन कलाः कलागुरोः सकलाः । उद्यौवनो मनोभूरिव मूर्तोऽमन्यत न कैस्कैः ॥२०१॥ पद्मावती समुद्रप्रिया, समुद्रश्रियं सुतां सुषुवे । पद्मश्रियं च धनिनः, समुद्रदत्तात्कमलमाला ॥ २०२॥ सागरदत्ताद्विजयश्रीजानेरजनि पद्मसेनाख्या । इभ्यात्कुवेरदत्ताजयश्रियः कनकसेना च ॥ २०३॥ विद्युन्मालिन एता, दयिताः खर्गाच्युताश्चत- स्रोऽपि । प्रेयांसमुपासितुमिव, नगरे तत्रैवमवतेरुः ॥ २०४ ॥ अन्यच नभःसेनां, कुवेरसेनादसूत कमलवती । कनकश्रियं सुषेणा, कनकरुचं श्रमणदत्ताच ॥ २०५॥ वारिमतीभ्यसुषेणप्रिया प्रसूता सुतां च कमलवतीम् । जयसेना वसुपालितकान्ता च जयश्रियं नाम ॥ २०६॥ एता अष्टौ कन्या, विज्ञातकला अवाप्ततारुण्याः। गुणम- णिखनये पितृभिर्ददिरे जम्बूकुमाराय ॥ २०७ ॥ तत्रान्यदा सुगोभिः, क्षोभितभूयस्तमा गभस्तिरिव । गणनायकः सुधा, ययौ जगज्जाड्यभेदरतः ॥ २०८ ॥ विनयावनता जनता, घनतापभिदं वने सिषेवे तम् । तत्राजगाम

श्रीजम्बू-
चरित्रम्.
॥९॥
कामपि, मुदं वहन्नृपभसूनुरपि ॥ २०९ ॥ वदनेन्दूदितदन्तद्युतिभिरकाण्डेपि कौमुदीपर्व । सदसि प्रपञ्चयन्निव,
ततो ददौ सूरिरुपदेशम् ॥ २१० ॥ अस्त्याशादृढमूलः, कुवोधकन्दः कुसङ्गतिस्कन्धः । विस्तृतकषायशाखा-
गंणः प्रमादेन पल्लवितः ॥ २११ ॥ व्यसनोरुदलो विषयच्छायावारितविवेकमिहिरकरः । अयशःकुसुमो दुर्गति-
फलश्च संसारविषवृक्षः ॥२१२॥ युग्मम् ॥ जिनशासनकाननगतविचारसुरपादपं न येऽधिगताः। पोषयति मनस्तापं,
तेषामेवैपे नान्येषाम् ॥२१३॥ एतं विवर्द्धयन्तो, जडा विचेतीभवन्त्यनेनैव । उच्छेद्य एव कुशलैस्तपःकुठारेण तत
एषः ॥ २१४ ॥ गुरुवचनमिदं भूयः, सभ्यश्रुतिसारणीः परिस्पृश्य । वापीजलमिव जम्बूहृदालवाले विशश्राम
॥ २१५ ॥ स ततः प्रोचे पितरौ, पृष्ट्वा भगवन् ! व्रतं ग्रहीष्येऽहम् । मा प्रतिवन्धं कार्पोरिति गुरुरपि तमनुमेने च
॥२१६ ॥ अथ रथमारुह्यासी, प्रावर्त्तत गन्तुमभिपुरं त्वरितः। आलोकत प्रतोली, पुरतो गजवाजिगणरुद्धाम्
॥ २१७ ॥ वेलाविलम्बीरुस्ततोऽपरं गोपुरं गतस्तत्र । यन्त्रशिलागोलकबाणवृष्टिवैषम्यमद्राक्षीत् ॥ २१८ ॥ अत्र
स्थितस्य सहसा, मा भून्मम मृत्युरकृतसुकृतस्य । इति झटिति निवृत्तोऽसौ, पुनर्ययौ गुरुपदोपान्तम् ॥ २१९ ॥
विषयविषण्णः स तदा, प्रसरत्पञ्चशरवारिधेः सेतुम् । सर्वतपसां तपोऽयं, द्रुतं व्रतं तुर्यमादत्त ॥ २२० ॥ गुरुणो
दसाह्यतासी, रेखामासोऽसि वत्स ! वीरेषु । स्मरसवयसि वयसि मतिः, सहसा समभूदियं यस्य ॥ २२१ ॥ श्रवसोः
कस्य न किल चकुरेहिरेयाहिरां गुरुवचांसि । यन्मनसि स्थिरवासो, व्यधायि तैस्ते नरा विरलाः ॥ २२२ ॥ सततः
॥९॥

क्षणमपि गुरुपदपंकजविरहं तितिक्षितुमशक्तः । पितरावनुज्ञपयितुं, व्रतेच्छुरागान्निजागारम् ॥ २२३ ॥ अश्रुतपूर्व तस्मात्पितरौ दीक्षाभिलापमाकर्ण्य । अनधिगतपूर्वमाधि, विनाणी न्यगदतामेवम् ॥ २२४ ॥ वत्सास्माकमकस्मा- हुर्विनयः कोऽपि किं त्वयाऽलोकि ? । येन स्फुटव्यलीकानिव नः परिमोक्तुकामोऽसि ॥२२५॥ मुक्ता न दहनदाहं, रम्भास्तम्भो न च क्रकचपातम् । नहि मिहिरकरस्पर्श, विनीत! नवनीतपिण्डोऽपि ॥२२६॥ भूक्षेपं न दुकूलं, न च तूलं प्रखरवायुवेगं च । जलपूरं न किशलयो, न शङ्खवलयं च घनघातम् ॥ २२७ ॥ दृष्टिन मरिचचूर्ण, मृणाल- सूत्रं न वन्धनमिभस्य । सहते न हि ते देहः, सुकोमलः संय्यमक्लेशम् ॥२२८॥ त्रिभिर्विशेषकम् ॥ जम्बुरुवाच पितरौ, दुनियो न युवयोरभूत्कोऽपि । किन्त्वपराध्यति संसार एव तत्तं मुमुक्षामि ॥ २२९ ॥ मृदुरस्मि कथं दीक्षामुरी- करिष्यामि ? नेति मे चिन्ता । हन्त ! सहन्ते हेतीर्वपुषानेनैव समिति भटाः॥२३०॥ अथ तावूचतुरङ्गज !, यथाऽपृणा बालकेलिः कुतुकं खम् । सम्प्रति पूरयसि तथा, खकरग्रहकौतुकं किं ना? ॥ २३१ ॥ तनयं कदा सदारं, सतार- मिव चन्द्रमत्र पश्यामः ? । इत्याशालतिकां नः, कटुवचनहिमेन किं दहसि ? ॥ २३२ ॥ यद्यसि पित्रोभक्तस्तदेतम- धुना कदाग्रहं मुञ्च । दृष्टखापत्यमुखो, जरसि यथायोग्यमनुतिष्ठेः ॥ २३३॥ सोऽथ प्रोचे पितरौ, शीलवतमादृतं मया तावत् । न नियमभङ्गश्च भवेत्कुलजानामौचितीं याति ॥ २३४ ॥ भोगै शमपि भुक्तैः, किं कोऽपि क्वापि १ अस्मान् । २ युद्धे । ३ अस्माकम् ।

चरित्रम्.
श्रीजम्बू-
॥१०॥
तृप्यति कदापि ? । इति विदुषोरपि युवयोही विषयास्तरलयन्ति मतिम् ॥२३५॥ तदहं युवयोः प्रीत्यै, वासरमेकं
विवाहमनुभूय । अपरेधुरथादासे, दीक्षामयमेव मे नियमः ॥ २३६ ॥ श्रुत्वेति दध्यतुस्तौ, जितमावाभ्यां यदेष
वक्त्येवम् । स्नेहग्रहिला महिलाश्चौर्यः खलु शीलरत्नस्य ॥२३७॥ स जडो यो नवयौवनवधूवृतो धर्तुमिच्छति ब्रह्म ।
प्रथमसरित्पूरगतस्तिष्ठति किमपातितः कोऽपि ? ॥ २३८ ॥ अष्टवधूनिगडनियत्रितोऽपि तत्प्रेमपाशपतितोऽपि ।
अस्मासु यामिकेष्विव, यासति कथमेष जाग्रत्सु ॥ २३९ ॥ यौवनमिदं धनमिदं, रूपमिदं ताश्च तादृशा वध्यः ।
एकैकमपि विकाराय किं पुनः समुदयोऽमीषाम् ? ॥२४० ॥ अथ ताभ्यां मुदिताभ्यामारभ्यत सुतविवाहसामग्री।
खाभिप्रायं जम्बूरजिज्ञपत् श्वशुरवर्ग च ॥२४१॥ भ्रान्ता इव मूढा इव, तेऽपि तदाकर्ण्य गलिततत्त्वधियः। किमथो
विधेयमेवं ?, वदन्त औच्यन्त कन्याभिः ॥ २४२ ॥ को जम्बूजैत्रगुणो, जम्बूद्वीपेऽपि जयति पुरुषोऽन्यः? । तन्नः
स एव शरणं, मरणं वा कोऽयमालोचः ? ॥ २४३ ॥ अस्मानद्य खपथं, स नयतु तं वा वयं तु नेष्यामः । सभ्यीभूय
च यूयं, पश्यत कः केन जीयेत? ॥ २४४ ॥ अस्ति स तावद्योगी, यावन्नास्माकमागतो विषयम् । तावद् दृढता
मदनस्य यावदनेः शिखा दूरे ॥ २४५ ॥ विशदोऽपि नागवल्या, मिलितः स्थाचूर्णकः प्रकटरङ्गः । एतदपि वीक्ष्य
ताताः!, कथं तनुध्वं मनसि खेदम् ? ॥ २४६ ॥ श्रुत्वेति ते विवाहव्यतिकरमारेभिरे खगेहेषु । आगात्त्वरितं
१ 'ही' इत्यपि । २ 'नश्यति' इत्यपि । ३ तादृशो इति स्यात् ।
॥१०॥

लमक्षणश्च किल कौतुकेनेव ॥ २४७ ॥ स्नेहेन तदाभ्यङ्ग, ददिरे मदिरेक्षणा वरस्याङ्गे । गुरुवचनवारिभिरयं, मा भेदितरामिति धियेव ॥ २४८ ॥ उद्वर्तितश्च पिष्टातकेन ताभी रराज वरराजः। खस्य मनसीव बहिरपि, निःस्ले- हत्वं ब्रुवाण इव ॥ २४९॥ कौसुम्भमथ वसानो, वसनं स वभौ भवे निवासयितुम् । वनिताविसृष्टरागेण सर्वतो दत्तवेष्ट इव ॥ २५० ॥ अङ्गेषु नवसु तिलका, न्यस्तास्तस्याऽवलाभिरजितस्य । स्मरचक्रिणः पुरोगा, इव निधयस्तम भिपेणयतः ॥ २५१ ॥ तर्कुस्थतन्तुभिरथ, स्पृष्टो दध्यौ स तर्कसूत्रमदः । भ्रमरसमध्यापयिता, मामपि कथमितर- लोकमिव ? ॥२५२ ॥ नैतासां कृतमकृतं, कुर्वाणानां क्षणोऽपि लगतीति । स क्षणतो वनितारब्धवर्णकोद्वर्णको व्यमृशत् ॥ २५३॥ क्षालयितुमिवाङ्गस्थं, वैराग्यं तं पर शतैः कलशैः । अस्त्रपयन्त युवत्यो, गायन्त्योऽनङ्गललितानि ॥२५४॥ जलसङ्गोऽस्यारक्ष्यत, ततो गुरूक्त्यैव गन्धकाषाय्या। तावदनङ्गशरा इव, पेतुः कुसुमस्रजोऽस्य हृदि ॥२५५॥ मा भैरहमस्मि समीप एव सौहृदमितीव दर्शयितुम् । शुक्लध्यानं चंदनमिषतस्तस्यालिलिङ्ग वपुः ॥२५६ ॥ सदशा- दशयोनीरागरक्तयोर्हन्त कीदृशो योगः ? । सदशे सिते परिदधे, तेन स वस्त्रे न पुनरितरे ॥ २५७ ॥ अन्तर्गुरूपदेशैर्व हिराभरणैर्महोमयोऽजनि सः। मोहतमोऽस्मादुचितं, जगाम दूरे हताशमिव ॥ २५८ ॥ आरुह्य चपलतुरगं, निनाय सरलाध्वना वशीकृत्य । स खमनश्चपलतरं, वशयितुमभ्यासकारीव ॥ २५९ ॥ स्मरसौहृदेन जेतुं, तमुपेताः सितकरा १ पक्षे जडसङ्गोऽपि ।

श्रीजम्बू-
चरित्रम्-
॥११॥
यथा, जिग्ये
इव सताराः । उपरि व मायूरे, छत्रे मुक्तायुजो मुकुराः ॥ २६०॥ गीतध्वनिवाघध्वनिवनितोलूलुध्वनीनसौ मेने ।
स्मरसेनाकलकलमिव, ततो विशिष्यावधत्ते स्म ॥२६१॥ सैष व्रतं ग्रहीष्यत्यस्माभिरपीति शुश्रुवे भगिनि ! । पुनरेत-
दसंभाव्यं, जगजयी जयति यत्कामः ॥ २६२ ॥ मूल् सोऽनेन
ननु
जेष्यते तथा स्फूर्त्या । नहि
नहि तदनुचरीभिः, को न युवा जीयते स्त्रीभिः ॥ २६३ ॥ इतरेतरतरलदृशः, प्रशमनिममामिवास्य पश्य दृशम् ।
आलापानित्यशृणोदीक्षकपौरीगणस्य वरः ॥२६४ ॥ त्रिभिर्विशेषकम् ॥ हृदि विभ्रदिष्टमर्थ, तमेव विसृजननिष्टमर्थि-
जने । स विमानमिव मनोरममद्राक्षीन्मण्डपं पुरतः ॥ २६५ ॥ यज सम्प्रति दिग्विजयं, यस्ते सहते न नाम
सोऽत्राऽस्ति । इत्साह्वयतीव चलाञ्चलकेतुकरेण यः कामम् ॥ २६६ ॥ रागाब्धेर्लहरीयितमितस्ततोरक्तवस्त्रभङ्गीभिः ।
मदनधनूयितमुचैारे मणितोरणैर्यत्र ॥ २६७ ॥ विज्ञाय मानुषीभिस्तमजय्यं मेलिता इवाप्सरसः । कामेन यत्र
रेजुः, स्तम्भेषु वर्णपाञ्चाल्यः ॥ २६८ ॥ यत्रोपेता मुक्ता, अप्यवचूलेषु बन्धनं प्रापुः । चन्द्रोदयेषु सत्खपि, ववृधे
केषां न मोहतमः? ॥२६९॥ कुङ्कुमसलिलैः सिक्ता, भूरपि यत्राजनिष्ट रागमयी। तं मण्डपमधिगस, द्वारि वरेन्द्रः
क्षणं तस्थौ ॥ २७० ॥ पञ्चभिः कुलकम् ॥ मामभ्यय॑ भवाब्धौ, क्षेसुमना वैरिपाक्षिकी सेयम् । अर्घ ददती सुदती,
कापीति वितर्किता तेन ॥ २७१ ॥ दीक्षाक्षराणि विधिना, खहस्तलिखितानि माष्टुमिव भाले । त्रिस्तं मयाँ च
१ अवगणयति स्म । २ द्रष्टपुरस्त्रीसमूहस्य ।
२ द्रष्टपुरस्त्रीसमूहस्य । ३ मन्थानकेन ।
॥११॥

काचन, पस्पर्शाचारदम्भेन ॥ २७२ ॥ युगमन्थमुसलहस्तां, तां वीक्ष्य प्रोक्षणक्षणे निरताम् । अयमेव भटो विवि- धायुधः स्मरस्येति दध्यौ सः ॥ २७३ ॥ अर्पयिता स्मरशत्रोरचेतनं मां गले निबध्येयम् । गलविलगितनीरङ्ग्या- कृष्टः स तयेति हृदि मेने ॥ २७४ ॥ सकषायमोहपुटमिव, गर्भानिशरावसम्पुटं भित्त्वा । स विवेश मातृभवनं, कर्तुमिवान्यं नमस्ताभ्यः ॥ २७५ ॥ त्रपितविलिप्तविभूषितदेहाः पूर्व निवेशितास्तत्र । लोकत्रयसाधारणविधिनि- माणानुचितरूपाः ॥ २७६ ॥ कन्या अनल्परूपाः, ससखीका अष्ट वीक्ष्य सोऽमस्त । ता एता हि ‘सभेदा, मम कर्मप्रकृतयो मूर्ताः ॥ २७७ ॥ युग्मम् ॥ नयनशरविसरमवसरमवाप्य गूढं च तासु किरतीषु । स्मरसैन्ये वाला अपि, बत योध्य इतीव स जहास ॥२७८॥ हस्तालेपं विदधे, काचित्तासां निवध्य मदनफलम् । न मनः कथमपि लिम्पति, ममेयमिति तेन न निषिद्धा ॥ २७९ ॥ समये पुरोहितगिरा, खकरेण वधूकरानुपादत्त । सकृपः स मोहपङ्के, मनास्ता उद्दिधीपुरिव ॥ २८०॥ यद्वा प्रणयिन्यो मयि, जाताश्चेत्तत्कृपोचिता एताः। इति शिवसुखमिव दातुं, स ददौ दक्षिणकरं तासाम् ॥ २८१ ॥ तारामेलकपर्वणि, वधूवरदृशो मिथोऽमिलन्न पुनः । रक्तिं च विरक्तिं च खभावसिद्धाममुञ्चन्त ॥ २८२ ॥ मा नेशन्मातृगृहादप्येष स्त्रीविरक्तबुद्धिरिति । शङ्कित इत्र मङ्ख वधूवराञ्चलान् वद्धवान् विप्रः ॥ २८३ ॥ सोऽथ गतो वेदिगृहं, ददर्श कुण्डेऽनलं नवज्वलितम् । तत्स्पर्द्धयेव चेतःकुण्डेऽस्य १ गोधूलिकलमे । २ मानेशत् मानश्यतु । 'नशेर्नेशू वाऽकि ।४।३।१०२।' इति नेशादेशः । एतच हेमाचार्यादिमतेनैव ज्ञेयम् ।

k
चरित्रम्.
श्रीजम्बू-
॥१२॥
ध्यानमुददीपि ॥ २८४ ॥ परिभोजयन्निजवधूस्ताभिः परिभोजितश्च कंसारम् । किं सारं ? धनयौवनवनितादाविति
स विममर्श ॥ २८५ ॥ परितोऽनलं चतस्त्रः, प्रदक्षिणाः स व्यधाद्वधूसहितः। प्रातः प्रदक्षिणयितुं, गणधरमभ्यास-
निरत इव ॥ २८६ ॥ शालकदेश्यः कश्चित्पादाङ्गुष्ठे तदार्षभिं दधे । दध्यौ स च चेतयतीव मामयं मोहनिद्रालुम्
॥ २८७ ॥ तत्तस्य धनं दत्त्वा, वित्तं करमोक्षणे श्वशुरदत्तम् । सुत्यजमिदमिति जगृहे, स मुक्तदुस्त्यजवधूहस्तः॥२८८॥
जम्बूकुमारचेतो, धवलत्वोच्छेदनाय धवलौघम् । विषमेव विषस्यौषधमिति नीतिविदो ददुः प्रमदाः॥२८९ ॥
कृतकृत्यैरिव मुदितैः, खजनैः सहितो वधूभिरभिरामम् । जम्बूरथ रथमारुह्य निजगृहद्वारमानंञ्च ॥ २९० ॥ तत्र
स मातृपितृभ्यां, प्रनर्त्तितो नृत्यति स्म हृष्ट इव । मम पाणिपीडनमहो, व्रतविघ्नो न्यवृतदद्येति ॥ २९१ ॥ ज्वलद-
गुरुधूमधूपितमाभरणज्योतिरुपहततमस्कम् । सिंह इव पञ्जरं वासवेश्म स विवेश सकलत्रः ॥ २९२ ॥ तत्रापि स
निश्छमा, पद्मासनयन्त्रजर्जरितमदनः । नहि जाग्रतोऽस्ति भीरिति, समाधिलीनो जजागार ॥ २९३॥ अथ नर्म-
कर्मचतुराभिरूचिरे ताः सखीभिरस्य दृशम् । साम्यनिमग्नां पश्यत, वत हारितमेव भवतीभिः ॥ २९४ ॥ नाद्य
खपिति पतिर्यो, न नर्म कुरुते रहः सहास्माभिः । ध्यायति किञ्चिदलक्ष्यं, नवरं शिवरङ्गभूरेषः ॥ २९५ ॥ ता
अप्यपवार्योचुः, सखीः खलूक्वा हलाः ! प्रियः सोऽयम् । अष्टासु पुरस्कुर्वे, कामिति ननु चिन्तयन्नस्ति ॥ २९६ ॥
१ धवलमङ्गलवृन्दम् । २ जगाम । ३ 'आ द्वन्द्वे' ३।२।३९। इत्याकारान्तादेशाकरणाचिन्त्यमिदम् । ४ निवृत्तः । ५ निषेधे क्त्वा ।
॥१२॥

अष्टौ वाला अबलाः, पतिताः स्मरसङ्कटे कटुविपाके । मुक्त्वा कथमिव यास्यति, ? सोऽयं धीरेषु धृतरेखः ॥२९॥ इदमूचे प्रियभक्त्या, नो चेत् कः क्षोभितो न युवतीभिः ? । अमरा अपि यत्पुरतः, कर्मकराः का कथा नृणाम् ॥ २९८ ॥ दत्तेऽस्मासु दृशं चेजानीमो योगशक्तिमस्य तदा । श्रुत्वेति स तर्जित इव, वीरवरः सावधानोऽभूत् ॥ २९९ ॥ देहे च ददौ दृष्टिं, तासां सौभाग्यमदमपाकर्तुम् । आकवरीक्रममेवं, विरक्तधी वयामास ॥३०॥ आसामेपा कवरी, लहरी धूमस्य वृत्तधवलिम्नः । भाले मृगमदतिलकः, शिवप्रयाणेऽहिरिव कृष्णः ॥ ३०१ ॥ गुण- मयकीर्तिपटस्फाटनाय मन्ये भ्रुवौ च कर्तरिके । नयनसमुद्ने तारामिषेण विधिना विषं न्यासि ॥ ३०२ ॥ मुष्टाः के नाऽक्षजिताः, कपोलफलकेऽत्र कामकितवेन । श्लेष्मप्रणालिके इव, नासारन्ध्र सदा विवृते ॥३०३ ॥ श्रवणे च चर्मवध्यौँ, रदच्छदौ तरुणमीनपलपिण्डौ । अस्थिशकलानि दन्ता, मुखविलकुहरोरगी रसना ॥ ३०४ ॥ खस्थित्यै श्लेष्ममलखेदैः कण्ठः कृतस्त्रिरेखाङ्कः । पञ्चाङ्गुलिपाणिदलौ, वाहू एरण्डशाखाभौ ॥ ३०५ ॥ हृत्पीनस्तनपिटकं, पट्टति दृढवद्धकञ्चकस्तत्र । तुच्छस्तु मध्यदेशस्तुच्छत्वं सूचयत्यासाम् ॥ ३०६ ॥ आसां विधिना जठरोद्धृतपल- पिण्डैः प्रपूरितावूरू । नूपुरनिगडितचरणा, एताः किं ? भ्रमणशीलत्वात् ॥ ३०७ ॥ स्नानं च मलाविलतां, विभूष- णाली प्रकृत्यशोभनताम् । परिधानं निध्यानानहत्वं वपुषि वक्त्यासाम् ॥ ३०८ ॥ तस्मिन्नेवं ध्यायति, सुप्ताखिल- १ सदाचारधवलिन्नः । २ आगमशासनस्यानित्यत्वादत्र इडभावः समाधेयः । ३ निध्यानम्, अवलोकनम् । A चरित्रम् श्रीजम्बू- ॥१३॥ परिजने गृहे तत्र । आगाद्भटशतपञ्चकसहितश्चौरप्रभुः प्रभवः ॥ ३०९ ॥ तालोद्घाटनविद्योद्धटितकपाटो ददावसौ खापम् । लोकख भूषितसावखापनविद्यया वीरः॥३१॥ यावत्तदलङ्कारांस्तरोः फलानीव गृहृते चौराः । भो! मा स्पृशत निमत्रितजनमिति तावजगौ जम्बूः ॥ ३११॥ वचसा तेन तेनवाते जाते निरुद्धसर्वाङ्गे । प्रभवः पुर- तोऽपश्यज्जाग्रतमृषभेभ्यकुलदीपम् ॥ ३१२ ॥ तं नत्वा चौरपतिय॑जिज्ञपन्मम गृहाण विद्ये द्वे । देहि स्तम्भनमत्रं, मित्रैक मा म विफलो भूः ॥ ३१३ ॥ जम्बूरप्यवददहो, स्तम्भनविद्यां न वेद साऽवद्याम् । नेच्छामि च ते विद्ये; आदास्ये यद्तं प्रातः ॥ ३१४ ॥ किं कुरुपे चौर्य त्वं, ? संदिग्धार्थ सुनिश्चितव्यसनम् । इति पृष्टस्तेनोचे, प्रभवः प्रभविष्यदुदयोऽथ ॥ ३१५ ॥ विन्ध्यगिरौ विन्ध्यनृपो, जयपुरनगरेऽस्ति तस्य तनयो द्वौ । आधस्तु तयोः प्रभवः, प्रभुरपरः परमवाहुवलः ॥ ३१६ ॥ दत्ते राज्ञा राज्ये, प्रभवे प्रभवे मयि क्रुधं दधति । नहि केनचिदारचिता, प्रीतिर्वचसापि रुचिरेण ॥ ३१७ ॥ जनकमनापृच्छय ततो, विनिर्गतश्चौर्यवृत्तिमारचयम् । खापनतालोद्धाटन-विद्ये प्रापं भुवि भ्राम्यन् ॥ ३१८ ॥ अयेह समायासिषमायासमृते श्रियं परिजिघृक्षुः। त्वयि जाग्रति भवति श्रीः, किं नः पूष्णीव कुमुदानाम् ? ॥ ३१९ ॥ अंहिस्थभ्रमरा इव, धनलवलोभाद्वयं भ्रमेम भुवम् । त्वं लब्धं धनमेतन्मुमुक्षसे किं सुधीमुख्य ! ॥ ३२० ॥ दृष्ट्वा चित्रस्त्रियमपि, दृशा पिबामः पिपासयेव वयम् । एताश्च परिजिहीर्षसि, किं बालाः कामशालास्त्वम् ॥ ३२१ ॥ जम्बूरुवाच वाचं, कृतिनोऽयं प्रभव ! कस्तव विमोहः ? । धनवनितादिविला- ॥१३॥ - EN सा, रमयन्ति जनं सुखिनमेव ॥ ३२२ ॥ नहि दुःखदावदग्धो, देहेऽपि दधाम्यहं स्पृहां वीर !। यद्यस्ति कौतुकं तन्निशृणु यथा वच्मि निजदुःखम् ॥३२३॥ सार्थ कञ्चन विन्ध्याटव्यां विचरन्तमन्तरा रुरुधुः । चौरा बलात्पला- यत, नरस्तदा कोऽपि भयविवशः ॥ ३२४ ॥ रुद्धोऽथ वन्यकरिणा, गन्तुं पदमपि पदान शक्तोऽसौ । झम्पां ददौ पुरःस्थे, महावटे गर्त इव शशकः ॥ ३२५ ॥ अवटतटविकटवटविटपिनिर्गतामवटमध्यमायाताम् । शाखां दुःखस- हायामालिङ्गत् प्रेयसीमिव सः ॥ ३२६ ॥ अपरमिव कूपमजगरमवटतले प्रसृमरास्यमैक्षत सः। कूपाच दिक्षु चत- सूपु, फणिनः पूत्कुर्वतश्चतुरः ॥ ३२७ ॥ आश्रितशाखामूलं, तेन खनन्तौ सितासितावाखू । दृष्टौ दृष्टश्च करी, स एव विस्तारयन् शुण्डाम् ॥ ३२८ ॥ तदलाभान्मत्सरिणा, करिणा परिधूनितेऽथ वटवृक्षे । मधुमण्डादुड्डीनाः, सरघा व्यलगन् वपुषि तस्स ॥ ३२९ ॥ केचिच मधुच्छत्रात्पेतुर्मधुविन्दवो मुखे तस्य । तत्खादादापदमपि, तां पुण्यफलामसौ मेने ॥ ३३० ॥ अथ कोऽपि चरन्नभसा, खचरस्तं वीक्ष्य दुःस्थमुदितकृपः । ऊचे यदि वदसि तदा, किञ्चन नगरं नयामि त्वाम् ॥ ३३१ ॥ सोऽप्यूचेऽवशरसनः, पिपतिपुरस्त्येष उपरि मधुबिन्दुः । तत्तं पास्यामि सखे !, वलमानो मां च गृह्णीथाः ॥ ३३२ ॥ खचरोऽथ गतः कृपया, वलितः पुनरपि तथैव तेनोचे । उद्विज्य ततः स ययौ, वद स जडः किमथवा विज्ञः? ॥ ३३३ ॥ जड एव स यस्तस्यामापदि मधुविन्दुलोभितो वसति । प्रभवे- १ महाकूपे । २ 'उपादद्याः' इत्यपि । परं तस्य परस्मैपदित्वे चिन्त्यम् ।

चरित्रम् श्रीजम्बू- ॥१४॥ नेति निगदिते, जगाद जम्बूः शृणु सकर्ण! ॥ ३३४ ॥ अटवी भवः स पुरुषः, संसारी मृत्युसिन्धुरारुद्धः । नृभवा- वटान्तरायुःशाखामालम्बितस्तस्थौ ॥ ३३५ ॥ नरकश्चाजगरोऽधः, क्रोधमुखाः पन्नगाश्च चत्वारः । विलगन्त्यो वपुषि रुजः, सरघाः सुखघातिकास्तस्य ॥ ३३६ ॥ आयुःशाखाभक्षणदक्षौ पक्षौ सितासितावाखू । विषया मधु- विन्दव इव, जन्तुं प्रीणन्ति कष्टेऽत्र ॥ ३३७ ॥ ईगवस्थं मामुद्दिधीपुरागाद्गुरुः खचारीव । तत्त्वं निषेधयसि किं, न गुरुः पुनरीदृशः सुलभः ॥ ३३८ ॥ धनवनिताभोगविधौ, निर्वचनः प्रोचिवानथ प्रभवः । ईदृक्कथं कुटुम्ब, जहा- सि पाषाणसमहृदयः ॥ ३३९ ॥ केचिदजीवत्खजनाः, केचिदभक्ता विरोधिनः खजनैः। खजुनर्योगः प्रायोऽसुल- भस्तत्तेन मुच्यन्ते ॥३४०॥ जम्बूरूचे भ्रातर!, भ्रमता भविना भवेऽत्र सम्बन्धाः। सर्वेऽपि सर्वजीवैरासास्तत्त्वानुर- ज्येय ? ॥ ३४१ ॥ ये भुञ्जते सह रमामारम्भभवे तु ढौकिते दुःखे । दूरे स्युः कितवा इव, कः खजनेष्वादरस्तेषु ॥ ३४२ ॥ अत्राऽपि विसंवादि, ज्ञातेयं मायिवचनमिव दृष्टम् । यदि भो ! न मन्यसे तज्ज्ञातेयकथानकं वच्मि ॥ ३४३ ॥ अस्त्यत्र पुरी मथुरा, मधुराकृतिभिषेवि या कृतिभिः । सेनेव मीनकेतोः, कुवेरसेनात्र गणिकाऽभूत् ॥ ३४४ ॥ सुषुवे कुवेरदत्तं, कुवेरदत्तां च युग्मरूपेण । स्तन्यं चाऽपीप्यत सा, दशाहमक्कानिषिद्धापि ॥ ३४५ ॥ नहि सफला पणमहिला, श्लाध्येत कदाचिदिक्षुयष्टिरिव । यौवनसर्वखहृतोस्तत्किं ते ऍत्रयोः स्नेहः ? ॥ ३४६ ॥ १ 'हृदय !' इत्यपि । २ ज्ञातिसंवन्धः । ३ अपाययत् । ४ दुहिता च पुत्रश्च पुत्रौ तयोः । ॥१४॥ S इत्यम्बोक्त्या पुत्रौ, निजनिजनामाङ्कमुद्रया सहितौ । सा निदधौ पेटायां, पेटां च मुमोच यमुनायाम् ॥ ३४७ ॥ ॥ युग्मम् ॥ माताऽतः परमनयोस्त्वमेव निहितौ ततस्तवाङ्क इमौ । मा न्यासनिह्नवं सखि! , कार्षीरिति सा जगौ यमुनाम् ॥ ३४८ ॥ कज्जलकलुपाश्रुभिरम्बु यामुनं शितितरं प्रकुर्वाणा । सा न्यवृतद्धृतदुःखा, पेटापि जगाम सौर्यपुरम् ॥३४९॥ इभ्यौ सरित्तटस्थौ, तरीमतीर्थागतामिवाकृष्य । तामुद्घाट्य शिशुद्वयमालोक्य विभज्य चाद- ताम् ॥ ३५० ॥ तो मुद्रागतनाम्ना, विख्याताविभ्ययोस्तयोर्भवने । अतिशैशवौ यथारे, अध्ययातां कलाः सक- लाः ॥ ३५१ ॥ कालेनाकलितकुलौ, तावेव विवाहितौ मिथस्ताभ्याम् । रममाणौ रतिभवनेऽवातीतरतां युगलि- धर्मम् ॥३५२॥ अन्येधुरक्षकलौ, कुवेरदत्तोऽक्षिपन्निजां मुद्राम् । वध्वाः पाणौ सापि च, मुद्रासाम्यं विलोक्योचे ॥ ३५३॥ नामाभिधानघाटैरनयोर्ननु मुद्र्योस्तथा समता । मम तापुकरं सौर्यमावयोः प्राणनाथ ! यथा ॥ ३५४ ॥ क्वचिदावामिभ्याभ्यामाभ्यामाप्तौ न चानयोस्तनयो । एतत्सर्व सशपथमेतावेवाघ परिपृच्छ्यौ ॥३५५॥ अथ तौ निजनिजपितरावपृच्छतामवदतां यथावत्तौ । निश्चितसोदरभावौ, निनिन्दतुः खं ततो दुरितम् ॥ ३५६ ॥ संसारे पशुधर्मो, मनुजानामपि भवेद्विना ज्ञानम् । इत्यज्ञानविरक्ता, कुबेरमापृच्छय पितरौ च ॥ ३५७ ॥ दीक्षामा- दत्त मुदा, कुवेरदत्ताङ्गुलीयकं तच । जगृहे सहैव गुप्तं, बन्धोर्वोधद्रुवीजमिव ॥३५८॥(युग्मम्) व्यवसायेन धनायन् , १ अत्र आडो दः परस्मैपद चिन्त्यमेवमन्यत्रापि ज्ञेयम् । २ 'यथावाप्तौ' इत्यपि । ३ 'क्षुनृड्गर्वेऽशनायोदन्यधनायम् ।४।३।११३।' इति गधे क्यन्नन्तो निपातः। - -- A

चरित्रम्.
श्रीजम्बू-
॥१५॥
कुबेरदत्तो जगाम मथुरायाम् । काले गलितविरागः, पुरुषाः प्रायेण कठिनहृदः ॥ ३५९ ॥ तत्राभिगम्य जननी,
कुवेरसेनां गभस्तिरिय पूर्वाम् । दधदधिकं रागमसौ, सत्यापयति स्म कौलमतम् ॥ ३६० ॥ फलमिव भवविषवल्ले,
कृमिरिव दुरपोहमोहपङ्कस्य । पल्लव इव पापतरोः, क्रमेण जज्ञे तयोस्तनयः ।। ३६१॥ विज्ञाय तदसमञ्जसमवधि-
ज्ञानात्तपोधना सापि । मथुराममन्थरगतिमहत्तरानुज्ञया प्राप ॥ ३६२ ॥ तस्थौ वेश्यावेश्मनि, कपोपले सा सुवर्ण-
रेखेव । तं वालं पालनकस्थितं रुदन्तं जगादेति ॥ ३६३॥ मम पतिसोदरदेवर रे वद किं रोदिषि ? वाल!।
एकोदरसात इति भ्रातर्भालविशाल ! ॥ ३६४ ॥ मम च सपल्या जात इति त्वं तनयोऽपि ममासि । अजनि
सपल्या मम जनकस्तव पौत्रस्तेनासि ॥ ३६५ ॥ मजननीप्रियसोदर हे ! त्वं मम भवसि पितृव्यः । त्वं मम सोदर-
तनय इति भ्रातृव्योऽप्यसि भव्यः ॥ ३६६ ॥ तव माता मातैव मम नहि सुन्दर संशीतिः। पितामही सा मम
जननीप्राणप्रियजननीति ॥ ३६७ ॥ श्वश्रूरपि सा मम सुमते ! मत्प्रियजननी येन । मम च सपत्नीसुतदयिता
साथ वधूरपि तेन ॥ ३६८ ॥ अजनि जनी मातुरिति, प्रजावती मम सा तु । मम पतिदयिता सम्प्रति यत्तेन
सपल्यपि भातु ॥ ३६९ ॥ पितामहो मे स तव पिता, त्वं मम येन पितृव्यः । मजननीपतिरिति विदितः स मम
पिता भणितव्यः ॥ ३७० ॥ मम तस्य च न पृथग् जननी तेन स वन्धुरमायः । मत्पतिमातुः पतिरिति स श्वशुरो
१ इतः परं नव पद्यानि पद्धडिकाच्छन्दसा ज्ञेयानि । २ भ्रातृजाया।
RRENESAMk
॥१५॥

मे निरपायः॥ ३७१॥ मत्करपीडनपाटवतः स ममाजनि भद्मपि । स मम सपन्या ननु तनयस्तनयस्तेन ममापि ॥ ३७२ ॥ श्रुत्वेति कुबेरस्तामूचे किं साध्वि ! विसदृशं वदसि ? । यदि वा किमुच्यते ते, या त्वं गणिकागृहे वस- सि ? ॥ ३७३ ॥ पश्यसि परस्य दोपं, खं च विचिन्तयसि न पुनरित्युक्ता । सापि ततस्तस्य करे, तदार्पयन्मुद्रिका- रत्नम् ॥ ३७४ ॥ मुद्रारत्ने वासररत्न इवालोकिते विलीनतमाः। खस्य निनिन्द स मोहोपज्ञं पुण्याध्वनो भ्रंशम् ॥ ३७५ ॥ त्रपमाणः खचरित्रेण पापशुद्धयै गृहीतचारित्रः। धीमान् कुवेरदत्तो, ययौ वनं यौवनस्थोऽपि ॥३७६॥ जगृहे गृहिणां धर्म, विप्लवभीता कुवेरसेनापि । प्रभवेशि संसारे, ज्ञातेयकथा वृथा सुधियाम् ॥ ३७७ ॥ प्रभवः प्रोचे प्रभवो, भवन्त एवात्र वच्मि पुनरेषः । यूयं तावदपुत्राः, कथं गतिः स्यादपुत्राणाम् ? ॥ ३७८ ॥ जम्बूरुवाच पुत्रा, गतिमूलमहं तु गतिविरक्तोऽस्मि । यदि पुत्रैः सुगतिः स्वादस्तु तदा कुक्कुरादीनाम् ॥ ३७९ ॥ कालविवर्तेन सुता, अपि शत्रुत्वेन पर्यवस्सन्ति । यदि न प्रत्येपि तदा, वदामि ते सुतकथां प्रभव ! ॥ ३८० ॥ अत्रास्ति ताम- लिप्ती, पुरी परीता धनाड्यलोकेन । तत्र महेश्वरदत्तो, बभूव मिथ्यामतिः श्रेष्ठी ॥ ३८१ ॥ कुमतिसरित्पूरप्लुतशील- तटा नागिला वधूस्तस्य । धावति निरङ्कुश इव, प्रतिपुरुष यन्मनोद्विरदः ॥ ३८२ ॥ स श्राद्धपर्वणि पितुः, कदापि महिपं निहत्य तत्पिशितैः । अङ्कस्थं निजमगजमभोजयत्रीतिविस्मेरः ॥३८३॥ तत्रायातः कश्चन, ऋषिर्व- भापे तदा पितुः पिशितैः । द्विषमङ्कस्थं पुष्णन्नहो ? जडः श्राद्धमाधत्ते ॥ ३८४ ॥ इत्युक्त्वाऽवलत यतिस्तच्छुत्वा

चरित्रम्
श्रीजम्यू
॥१६॥
सोऽपि कोपतो दध्यौ । मलदिग्धवपुः श्रमणो, मलीमसं कीदृशं वक्ति ॥ ३८५ ॥ यद्वा कोपेन कृतं, पृच्छयः पर-
मार्थमष एव मया । इति मुनिमभ्येत्य जगाविभ्यः किमिदं वदसि ? साधो ! ॥ ३८६॥ तं च प्रबुबोधयिषुः,
प्रोचे करुणाखनिर्मुनिवरोऽपि । सुन्दर ! कुर्वन्ति न किं, जीवा मिथ्यात्वहतमनसः ? ॥ ३८७ ॥ अवधीरवधीरि-
तभीर्यस्त्वमुपपतिं पुरा खदयितायाः। स च तत्कुक्षौ तत्क्षणमुक्तेऽवततार निजवीर्ये ॥ ३८८ ॥ जातः खक्षेत्रज
इति, सोऽयं मेने त्वया ख एव सुतः। यश्चाद्य हतो महिषः, समुद्रदत्तः स ते जनकः ॥ ३८९ ॥ महिषास्थिभक्ष-
णरता, येयं द्वारे शुनीमिमां विद्धि । वहलाख्यां निजजननीमर्त्तिवशात्पशुभवमुपेताम् ॥ ३९० ॥ ज्ञानेनैतज्ज्ञात्वा,
तव वोधायागमं न भैक्षाय । जलदानामिव यतिनां, प्रवृत्तिरन्योपकारफला ॥ ३९१ ॥ प्रत्येषि न चेदेतत्तदिमां
सरमां नय खसौधान्तः । दर्शयिता प्राग्निहितं, तव धनमेषा निमेषार्द्धात् ॥ ३९२ ॥ तेन ततः सा सरमा, परमा-
दुतशालिना गृहं नीता । प्राचीकटद्भुवि धनं, विवेकरनं च तन्मनसि ॥ ३९३ ॥ नैर्ग्रन्थीभिरथासौ, कथाप्रथाभि-
स्तथाभवज्जैनः । न यथा सुरासुरैरपि, धर्माश्यत मेरुरिव ॥ ३९४ ॥ एवं गहनेऽत्र भवे, न सुतैर्जनको न तेन ते
चापि । प्राप्येरन् गतिमनघां, किन्तु खकृतेन सुकृतेन ॥ ३९५ ॥ ऊचेऽथ किञ्चिदवनतमुखी सखीप्रेरिता समुद्र-
श्रीः । वालललनासमुचितः, कदाग्रहस्ते प्रभो ! कोऽयम् ॥३९६॥ वेदं सुरभवनसखं, गृहिणां वनिताधनोपभोगसु-
खम् । । कण्टकशाखामईनतुलितं वतिनां व चारित्रम् ? ॥ ३९७ ॥ प्रातः प्रदीपकरणं, मन्त्रजपादौ विसर्जनावा-
॥१६॥

RE क्यम् । सुतजन्मनीव जलदानमनुचितं यौवने हि तपः ॥ ३९८ ॥ अपराधः कोऽस्माकं, येन सदा स्मरसि मुक्ति- येवैकाम् । तां बहुरतामरूपामगुणामपि मन्यसे पश्चात् ॥ ३९९ ॥ तामपि लभसे क्रमशः, शंसन्ति कापि न त्वरां चतुराः। रामसिकः खलु पुरुपो, विपीदति यथा कुटुम्बी सः ॥ ४०० ॥ ग्रामे सुसीमनामनि, बभूव कौटुम्बिको जडः कोऽपि । प्रापि वपति स्म स कङ्गुकोद्रवप्रायधान्यानि ॥४०१॥ तस्यानन्देन सहोदितेषु धान्येषु जलदसिक्तेषु। खजनदिदृक्षुर्मालवभुवि स ययौ पूरणग्रामम् ॥ ४०२ ॥ तत्र घृतखण्डमण्डितमण्डकनिवहं सुभोजितः स्वजनैः। दुर्जग्धिदग्धजठराय स स्वदेशाय शपति स्म ॥ ४०३ ॥ तुन्दं स्पृशन्नथोचे, स स्वजनान् यूयमेव भो! धन्याः। खाकृतामृतरसं, नित्यमिदं भोजनं येषाम् ॥ ४०४ ॥ तद्दत्त खण्डमण्डकवीजं वितनोम्यहं स्वदेशेऽपि । तेऽपि ततस्तस्य ददुः, स्वमिक्षुगोधूमयो/जम् ॥ ४०५ ॥ ज्ञपितश्च सादरं तैरिक्षुक्षेत्रारघट्टकर्मापि । कल्लोलयन् कदाशा, वलितः खग्राममाप मुदा ॥ ४०६ ॥ स निवारितोऽपि तोकैलोकैश्च सुजातकल्पमपि धान्यम् । मण्डकरसविव- शात्मा, लुलाव सद्योऽपराधीव ॥ ४०७ ॥ तत्र स्थूलस्थलभुषि, स प्राच्यधनेन कूपमारेभे । नाविरभूत्तत्र जलं, किन्तु दृशोरव तद्भूयः ॥ ४०८ ॥ मूढो मण्डकद्धया, यथा लुनानः करस्थमन्नं सः। तेभ्यस्तस्मादपि च भ्रष्टः परिहस्यते म जनैः ॥ ४०९ ॥ त्वमपि तथा मुक्तिकृते, सुखेषु समुपस्थितेषु सद्वेषः । उभयभ्रष्टो भूत्वा, यास्यसि जनहाखतां १ उदरम् । कचित्तु 'प्रमुद' इति पाठः, तत्र प्रहर्षे स्पृशन्दवत् इत्यर्थों ज्ञेयः । २ 'कदाशाम्' इत्यपि । ३ अपत्यैः । PRSAEEG श्रीजम्बू- चरित्रम्. ॥ १७॥ नाथ ! ॥४१०॥ जम्बूः कम्बूदारध्वनिरध्वनि निर्वृतेः प्रवेशयितुम् । तामूचे तव चक्रे, वाचामाचार्य केन ? ॥४११॥ शृणु गेहिनां सुखं यत्, तजन्मजराधिरोगमृत्युहतम् । विषमिश्रमिव सितोदकमग्राह्यं हन्त हितकामैः ॥ ४१२ ॥ यद् यतिनां तदुःखं, तच्च शुभोदकमिति न गणयामः । नहि फलति दुःखभीरोर्व्यवसायं कृषिप्रमुखमखिलम् ॥ ४१३ ॥ पृथ्वीपतिप्रसादे, धनार्जने वा निधानलाभे वा । किं कालमकालं वा, कुशलाः कलयन्ति धर्मे च? ॥४१४ ॥ अस्तु शिवश्रीर्यादृक्तादृग् यदि मानिता महापुरुषैः । मान्या ममापि तदसौ, पन्था हि महाजनक्षुण्णः ॥ ४१५ ॥ सप्रमदाः प्रमदानां, ये सेवन्ते वपुः सुरूपमिति । ते जीवितादवश्यं, भ्रश्यन्ति यथा स काकोलः ॥ ४१६ ॥ लघुरिव विन्ध्यो विन्ध्याटव्यामासीजरी करी कोऽपि । ग्रीष्मे लूकाभिहतो, रेवातीरे व्यपद्यत सः ॥ ४१७ ॥ तं प्राप्याक्षयनिधिमिव, मुदमधिकामादधौ शृगालकुलम् । चक्रे च पलाकरपावृतं तदुदद्वारम् ॥४१८॥ गजदेहे निर्जीवे, तेन द्वारण कोटिशः करटाः । विविशुर्निरगुश्च दिवा, चौरा निर्नाथ इव नगरे ॥ ४१९॥ एवं तेषु गतागतकारिपु कोपि द्विकोऽधिकं गृद्धः। तस्थौ तत्रैव स्थिरमन्तर्गतमांसनिघेसरसः ॥ ४२ ॥ तस्मिन्नथ मध्यस्थे, मिलिते ग्रीष्मातपैर्गुदद्वारे । आगाद्वर्षाकालः, काकोलस्यास्य काल इव ॥ ४२१ ॥ प्रथमघनवृष्टिवर्द्धितपूरमदा नर्मदा करँटिनं तम् । उपलमिव वारिराशी, वीचीनिचयैर्निचिक्षेप ॥ ४२२ ॥ खकलत्रनर्मदानुगकरिदेहविडम्बकं १ काकः । २ अम्रियत । ३ काकाः । ४ काकः । ५ निघसो भक्षणम् । ६ हस्तिनम् ॥१७॥ स रुपेवाब्धिः । निरसारयट्विकं तं, विवृत्य सलिलैर्गुदद्वारम् ॥ ४२३ ॥ निःसृत्य वायसः प्रतिदिशं दृशं निक्षिपन्निरै- क्षिष्ट । जलमयमिव जगदखिलं, ततोऽमुचजीवितव्याशाम् ॥ ४२४ ॥ क्षणमुड्डीय निराशो, निवृत्य तस्थौ पुनः स तत्रैव । पश्यत एवास्याब्धौ, तत्कुणपममजि लहरीभिः ॥ ४२५॥ सोऽपि तदाधारत्वान्निममज्ज सहैव दैवपरतत्रः। स्त्रीतनुगृद्धस्तद्वन्नाहं मलयामि भवजलधौ ॥ ४२६ ॥ पद्मश्रीरवददथ श्रेयांल्लोभो न मुक्तिविषयोऽपि । सर्वापदाप- गानां, प्राहुलॊमं महाशैलम् ॥ ४२७ ॥ अधिकाधिकलोभकृतः, कृतिन् ! नरा हारयन्ति मूलमपि । तल्लोभगदमहौ- पधमाकर्णय वानरस्य कथाम् ॥ ४२८ ॥ अस्त्यापगा त्रिपथगा, विकासिनालीकनयनमालाभिः । या पश्यतीव केलीकलह कलहंसमिथुनानाम् ॥ ४२९ ॥ वानरमिथुनं तत्राभवदाभववद्धरागमन्योन्यम् । कृतरति सरितो विपिने, घनवानीरेऽथवा नीरे ॥ ४३० ॥ आरुह्य तीरवेतसमेकं निपपात वानरोऽन्येयुः। हित्वा सविकल्पनरत्वमयमभूनि- विकल्पनरः॥ ४३१॥ तीर्थस्यास्य महिम्ना, मम भर्ता वानरो नरो जातः । इति तस्माद्वानीरात्पतिताऽऽसीद्वानरी नारी ॥ ४३२ ॥ रेमे चिरं वनान्तस्तदयोनीसम्भवं मनुजयुग्मम् । दृष्ट्वा तमेव वेतसमूचे वानरनरोऽन्येधुः ॥४३३॥ एप नरतां पशोमहिममचुलो वक्षुलो यथा दत्ते । दास्यति तथा नराणां, दयिते ! देवत्वमपि मन्ये ॥ ४३४ ॥ एहि पुनर्वानीरादतो निपत्यामरौ भवेवावाम् । न नराणां हि सुराणामिव दृष्टं कामचारसुखम् ॥ ४३५ ॥ 'मनुजत्वेऽपि न्यूनं, किमस्ति लोभो भृशं न च क्रियते' । इति वारितस्तया तां, कातरहृदयेत्यवगणय्य ॥ ४३६ ॥ झम्पां स ददौ RS चरित्रम्- श्रीजम्बू- ॥१८॥ तस्माद्वानीराद्वानरत्वमेवाप । दुःखेन तेन पतितः, पुनर्नरत्वाय न नरोऽभूत् ॥ ४३७॥ युग्मम् ॥ मानुषतां मोचयितुं, चाटूनि चिरं चकार स च तस्याः। न तथा तया वितेने, कः प्राप्तं त्यजति जात्यमणिम् ? ॥४३८॥ स्मरविरहितर- तिरिव सा, गाङ्गे पुलिने कदापि खेलन्ती । ददृशे भूपनरैस्तैरादायादायि भूपाय ॥ ४३९ ॥ पिण्डितमिव लावण्यं, संचितमिव सकलसुन्दरीसारम् । तां हस्तिनागपुरपतिरन्तःपुरिकेश्वरी चक्रे ॥ ४४० ॥ कपिरपि केनापिधृतो, नरेण नृत्यं च शिक्षितः स तथा । तत्कलया विवशोऽस्मै, यथा जनोऽदत्त भूरिधनम् ॥ ४४१॥ आगात्तदेव नगरं, स नरः खकवानरस्य नृत्ये(त्ते)न । विस्माययन धनाढ्यान्, जगाम भूमीभुजः सदसि ॥४४२॥ तत्र न ननर्त्त दुर्नट, इव स कपिस्तेन नर्त्तितोऽपि भृशम् । राज्ञा समासनस्थां, तां राजी वीक्ष्य पुनररुदत् ॥ ४४३॥ रणभुवि भट इव तुरगे, प्रतिकूले वानरे नृपसभायाम् । विषसाद यदा भिक्षुर्मङ्घ तदा राजदयितोचे ॥ ४४४ ॥ यो भवति यथा का- लस्तं च तथा वानरेन्द्र ! सेवख । किं वञ्जलतरुपतितः, पुनः पुनः स्मरसि मानुष्यम् ? ॥ ४४५ ॥ राज्येति बोधि- तोऽसौ, राजानमरजयानृत्य कपिः । दत्त्वा सोऽपीष्टधनं, सवानरं तं नरं व्यसृजत् ॥ ४४६ ॥ पप्रच्छ नृपो राजी, कोऽयं मत्रस्त्वया प्रिये ! पठितः। येनैष कपिरनृत्यत्ततो जगौ सा निजं चरितम् ॥ ४४७ ॥ अथ राजाधिकलोभं, दूषणमपि तस्य गुणमिवामस्त । नहि मनुजे सति तस्मिन्नभविष्यदमुष्य दयिता सा ॥ ४४८ ॥ वानर इव भववा- सोचितं सुखं प्राप्य निर्वृतिसुखेच्छुः । मूलादपि मा स्म पतस्तव हितकामा वयं वच्मः ॥ ४४९ ॥ जम्बूरुवाच ॥१८॥ SHEE s वाग्ग्मिनि !, सन्तः शंसन्ति लोभमपि धर्मे । यन्मुक्तिकामनं खलु, तदौषधं लोभरोगस्य ॥ ४५० ॥ यो जातमोह- निद्रः, प्रमद्वरः शिवसुखाय न यतेत । स भ्रष्टमनुजजन्मा, शोचति किल पुण्यसार इव ॥ ४५१॥ भोगपुरमस्ति नगरं, गृहनिवहरमापमानितविमानम् । तत्र विपरीतनामा, कुलपुत्रः पुण्यसारोऽभूत् ॥ ४५२ ॥ पितरौ यद्भरण- भयाक्रान्ताविव शैशवे विपेदाते । यो मातुलैरवद्धर्यत, जनलज्जातो न च स्नेहात् ॥ ४५३ ॥ तैरेव च व्यवाह्यत, शीलवती कन्यकां तदनुरूपाम् । वृत्तिं प्राप तदौकसि, सदा सदारः स दास्पेन ॥ ४५४ ॥ सन्ति मणयः सुघृणयो, विविधा वारां निधाविति श्रुत्वा । गोष्ठ्यां वचन स मूर्यो, हर्षोत्कर्षाजगादेति ॥ ४५५ ॥ यद्यचिरेण पयोनिधि- मुदश्य न च सञ्चिनोमि मणिनिचयम् । तदहं निरहङ्कारो, वक्तव्यः पापसार इति ॥ ४५६ ॥ अथ स निषिद्धः पत्या, तां प्रोचे किं विषीदसि वराकि! । अब्ध्यानीतै रनैस्तवैव भूषा भविष्यन्ति ॥ ४५७ ॥ मन्ये मुधा न भवतां, गृहदास्यं कोऽपि मां विना कुरुते । इत्युल्लण्ठ इबोचे, स मातुलानपि निषेधयतः ॥ ४५८ ॥ अथ कुण्डी- मादायायसीमसौ जलनिधिं ययौ जवनः। किं करकलितकमण्डलुरगस्तिरयमिति जनैातः ॥४५९ ॥ दुर्द्धरपूरपरः- शतपतयालुसरिजलैरपूर्णेच्छम् । कुण्ड्या तया तटस्थः, स वारिधिमुञ्चितुं लग्नः ॥४६०॥ मुञ्च मणिजालमधुनाऽपि मुच्यसे जलपते ! मया कृपया । इति तर्जयन् स जलधिं, कैः कैर्न विहस्यते स्म जनैः ॥ ४६१ ॥ लोकैरपि स निपिद्धो, जगौ न मे सम्पदं किमु सहध्वम् ? । तावन्नाहं भवतां, दायादो वा विरोधी वा ॥ ४६२॥ एवं त्यक्ताऽ-

चरित्रम्,
श्रीजम्बू-
॥१९॥
नोदकमभग्नमनसं च पभिरपि मासैः। तं वीक्ष्य वारिधिपतिः, सुस्थितदेवस्तुतोपतराम् ॥ ४६३॥ अपवादभीरुणा
तेन तस्य रत्नाकराजलं कृषतः। चिन्तारत्नमदर्यत, दारिद्रयध्वान्तदिनरत्नम् ॥ ४६४ ॥ जितकाशी तद्रलं, मलदि-
ग्धपटचराञ्चले वढ्वा । वलितः फलितक्लेशः, स तितर्जयिपुर्निपेद्धजनम् ॥ ४६५ ॥ वचन ग्रामे भिक्षालब्धान्ननिर-
स्तचिरतरबुभुक्षः। शिश्ये निशि निद्रागलितचीवरः पान्थकुट्यां सः ॥ ४६६ ॥ पदलग्नं तद्वसनग्रन्थिं पथिको
व्यमुद्रयत्कोऽपि । सुररत्नं चालोकत, दुरासदं भाग्यहीनानाम् ॥ ४६७ ॥ तद्वन्दिमोक्षमाधाय तत्पदे ग्रावखण्डमा-
वध्य । यदलिप्सत तल्लेभे, स ततः सततं समभ्यर्च्य ॥ ४६८ ॥ जागरितस्तरणिकरैः, सोऽपि दरिद्रो गृहीतनिज-
वसनः। प्रेरित इव हर्षोर्मिभिरतीतमार्गों ययौ खगृहम् ॥ ४६९ ॥ पल्याऽमेलयदखिलास्तत्र खजनानुवाच ताने-
वम् । चिन्तामणिमहमापं, जलधेर्युष्मनिषिद्धोऽपि ॥ ४७० ॥ अथ तत्पुरतः पश्यति, यावदन्थिं विमुद्रय स
वराकः । दारिद्रयकेलिकन्दुक, इवोपलस्तावदाविरभूत् ॥ ४७१ ॥ भवदुचितोऽयं चिन्ता-मणिर्भवत्येव मा श्लथं
मुञ्च । तैरिति हसितः सगलित-जीवित इव किमपि न जजल्प ॥ ४७२ ॥ स इव क्लेशालब्धं, नरभवचिन्तामणि
भवाम्भोधौ । नहि मोहनिद्रयाहं, निर्गमयन् हासयिष्ये खम् ॥ ४७३ ॥ अवददथ पद्मसेना, प्रिय ! कायः प्राप्तव-
स्तुना तोषः । उच्चतरुशिरसि नो चेत्फलानि दृष्ट्वा स्फुटति हृदयम् ॥ ४७४ ॥ यल्लब्धं तन्मुञ्चन्नलब्धमधिकं नरो
मृगयमाणः । उभयभ्रष्टो भूत्वा, सीदत्यनु स इव गोमायुः॥ ४७५ ॥ एकः परितः सरितं, मुखविन्यस्तामिषो वने
॥१९॥

क्वाऽपि । पङ्किलभूतललीनं, मीनं प्रददर्श गोमायुः॥ १७६ ॥ मुक्त्वा स मांसखण्डं, दधाव जलचारिणं जिघृक्षु- स्तम् । निममज तिमिर्धन्यामितः शकुन्या पलं जहे ॥ ४७७ ॥ अथ तं व्यथितं हृदये, क्रन्दन्तं जम्बुकं जगौ कोऽपि । तल्लोभोद्रेकविलोकनेन कौतूहली पथिकः ॥ ४७८ ॥ प्रविहाय मांसपेशी, वदनगतां धावितस्तिमि धर्त्तम् । भ्रष्टस्त्वमामिपादनिमिपाच किं रोदिपि शृगाल ! ॥ ४७९ ॥ तद्वत्करगतभोगेष्वनादरः सादरश्च शिव- सौख्ये । कर्मवशेन विघटिते, द्वयेऽपि मा भूः परैः शोच्यः ॥ ४८० ॥ अथ तां जगाद जम्बूः, सुभगे ! क्षेमकरी मम त्वमसि । उपदिशसि लब्धपालनमेतत्कस्मै न रोचेत ? ॥ ४८१॥ लब्धोऽपि परं धर्मो, विनाश्यते योषिदु- क्तिचौरीभिः । ताश्च पराजित्याऽहं, स्यां विद्युन्मालिना न समः ॥ ४८२ ॥ अस्ति गिरौ वैताढ्ये, भूरिशुभं गगनव- लभं नगरम् । यत्र मणिभवनभित्तिपु, जनबिम्बेनैव चित्राणि ॥४८३॥खचरौ(रो) विद्युन्माली, मेघरथश्चात्र सोदरा- वास्ताम् । तौ प्रापतुः कदाचन, मातङ्गीनामवरविद्याम् ॥ ४८४ ॥ परिणीय श्वपचसुतां, श्वपचस्थाने कृताश्रयः सततम् । वावधि धृतशीलैः, पुम्भिरियं साध्यते विद्या ॥ ४८५ ॥ निर्णीयेति मिथस्तौ, खगाविव तरोगिरेरवात- रताम् । विहितश्वपाकवेपो, वसन्तपुरपत्तनमगाताम् ॥ ४८६ ॥ गत्वा श्वपाकपाटकमभजेतां तौ श्वपाककुलवृद्धम् । तेनापि को युवामिति, पृष्टौ स्पष्टं न्यगदतां च ॥ ४८७ ॥ आवां श्वपाकनायक-तनयौ जनकापमानतः खिन्नौ । पाटलिपुत्रादत्राजग्मिय नाथं निरीक्ष्य त्वाम् ॥ ४८८ ॥ तौ भक्तौ गुणयुक्तौ, खसुताभ्यां स व्यवाहयन्मुदितः। k

चरित्रम्-
श्रीजम्बू-
॥२०॥
अथ मेघरथोऽजिलब्रह्मधरोऽसाधयद्विद्याम् ॥ ४८९ ॥ अपरस्तु पिकः काकीमिव श्वपाकीमकामयत कामम् ।
साऽधत्त ततो गर्भ, घनसिक्ता भूरिवाङ्करम् ॥ ४९० ॥ वर्षेण सिद्धविद्यो, ज्ञात्वैतत्तं जगाद मेघरथः । सुकुलस्य च
सकलस्य च, वान्धव ! तव विप्लवः कोऽयम् ? ॥ ४९१ ॥ सोऽपि त्रपानतमुखः, प्रोचे भ्रातः ! क्षमख मम
मन्तुम् । अनुनेष्याम्यथ विद्या, मम चिन्तां वर्षतः कुर्याः ॥ ४९२ ॥ अथ स गतः सुगत इव, ब्रह्मपदं निजपुरं
स्मरविजेता । वर्षान्ते ववले स्त्रीबन्धान्निजवन्धुसुद्धर्तुम् ॥ ४९३ ॥ तत्र स बन्धुमपश्यद्वालं परिलालयन्तमङ्कस्थम् ।
पुनरपि तां मातङ्गीमङ्गीकृतगर्भभारां च ॥४९४ ॥ मेघरथस्तं न्यगदद्भातः ! किं निरपोऽसि विकलोऽसि ? । अस्यां
नगरश्रोतसि, हंस इव त्वं यदनुरक्तः ॥४९५॥ सोऽपि जगौ भ्रातर्म, खलेषु रेखा तवोपकारिषु च । मामीदग्दश-
मपि यो, भूयो भूयः प्रबोधयसि ॥ ४९६ ॥ ब्रज पुनरेयाः साधितविधं वर्पण मां समुद्धर्तुम् । तेनेत्युक्तः स ययौ,
ववले संवत्सरेण पुनः ॥ ४९७ ॥ वालद्वयपालनरतमुदरिण्यों सङ्गतं च मातङ्गया । विद्युन्मालिनमालोक्य तस्य
दोदूयते स्म मनः ॥ ४९८ ॥ उद्भज्य ततः सगतस्तथा यथा न न्यवर्तत च भूयः । तद्वन्नारीवशगो, न खेदयिष्ये
गुरूनेषः ॥ ४९९ ॥ ऊचेऽथ कनकसेना, मृतोऽतिकामाद्विचित्रवीर्यनृपः । अतिकोपात्कौरव्या, अत्यभिमानाद्दशै-
ग्रीवः ॥ ५०० ॥ नलभूपोऽतिद्यूतादतिनैस्त्रिंश्याच परशुरामोऽपि । अतिलोभाच विनङ्ख्यसि नाथ ! त्वं शङ्खधमक
१ अदूषित । २ अपराधम् । ३ साधयिष्यामि । ४ आगच्छेः । ५ ' उदरिण्यां मातङ्गयां' इत्यपि । ६ पाण्डवपूर्वजः । ७ रावणः ।
॥२०॥

CAMERA ३ - इव ॥ ५०१ ॥ शालिग्रामे ग्रामे, बभूव कौटुम्बिकः पुरा सुभगः । क्षेत्रं स ररक्ष सदा, शङ्खध्वनिना मृगादिभ्यः ॥ ५०२ ॥ अन्येद्युः स निशायां, शङ्खकरो रक्षितुं ययौ क्षेत्रम् । तत्र च निशाऽवसाने, दध्मौ सुप्तोत्थितः शङ्खम् ॥ ५०३ ॥ क्षेत्रमभितो ब्रजन्तः, केचिच्चौरा गृहीतधेनुधनाः। तेन ध्वनिनाऽकस्मात्राप्तानारक्षकान् विविदुः॥५०४॥ मुक्त्वा गोधनमखिलं, खदेहमपि भारकारि मन्वानाः। ते तत्रसुर्दिशो दिशि, धृत्वा ध्वान्ते वयस्य॑धियम् ॥५०५॥ प्रातः परितः क्षेत्रं, भ्रमँस्तदैक्षिष्ट गोकुलं सकलम् । स हली गोपविहीनं, लोकमिव खैरसञ्चारम् ॥ ५०६ ॥ ग्राम नीतात्तस्मालेभे स धनं यशश्च लोकेभ्यः। लोभात्ततः स नित्यं, क्षेत्रे धमति स्म निशि शङ्खम् ॥ ५०७॥ चौरास्त एव यान्तस्तेनैव पथा कदाचिदात्तधनाः। तत्रैव शङ्खशब्द, श्रुत्वा सत्त्वाधिकाः प्रोचुः॥५०८ ॥ अत्रैव शङ्खनादः, पुराऽभवन्मन्महे ततः खधिया । अत्राऽऽसन्नक्षेत्रे, कोऽपि नरः शङ्खधमकोऽस्ति ॥५०९॥ प्रागपि शङ्ख धमताऽमुना वयं त्याजिता ध्रुवं धेनूः । तद्धांत्योऽयमिति ध्वनिमनुसृत्य क्षेत्रमीयुस्ते ॥ ५१० ॥ तत्र प्रयत्नतः शङ्खवादिनं तस्क- रास्तमालोक्य । भङ्क्त्वा शङ्ख चक्रुः, परासुकल्पं घनाघातैः ॥५११॥ चेदकरिष्यल्लोभ, न सोऽधिकं तद्वयपत्स्यत न चैवम् । तत्त्वमपि लब्धभोगैस्तोपं कुरु किं शिवस्पृहया ? ॥ ५१२ ॥ श्रीजम्बूरवददथो, न भोगसन्तोषयोः प्रिये ! मेलः । नहि भोगान् भुक्तवतः, स्यात्कस्यापीह सन्तोषः ॥ ५१३ ॥ सङ्गो यथा यथा स्यान्मजयधिकं तथा तथा १ मित्रमतिम् । २ घातनाहः । ३ मृतप्रायम् । ४ व्यपत्स्यत विपत्तिं न प्राप्स्यत् । AGRORMASS

श्रीजम्बू-
चरित्रम्.
॥२१॥
जन्तुः। कपिरपि न किं स नष्टः, कुर्वन्नधिकाधिकं सङ्गम् ? ॥ ५१४ ॥ अस्ति गिरिविन्ध्य इति, क्रीडासदनं
समग्रसत्त्वानाम् । तत्रैकः कपिरभवधूथपतिर्लपितपरचक्रः ॥ ५१५॥ कोऽपि कपिश्चपलतरस्तद्दयितां चानरी
रहश्चकमे । तज्ज्ञात्वा यूथपतिस्तमधावत्वोधनो हन्तुम् ॥ ५१६ ॥ सोऽपि कपिः खीत्कारं, कुर्वाणो ग्रावगोलका-
न्वर्पन् । पृष्ठस्थापितदयितस्तमनुदधावे कुधाविष्टः ॥ ५१७ ॥ न समरकेलीः केनापि शिक्षितौ वापि नैव दृष्टचरौ ।
तौ युयुधातेऽन्योन्यं, सविस्मयं बीक्षितौ व्याधैः ॥ ५१८ ॥ स जरी यूथाधिपतियूंनाऽजय्योजसा जितस्तेन ।
नश्यन्नातपतापात्पथश्रमाचाभवत्तृपितः ॥ ५१९ ॥ विपुलशिलामिलितशिला-जतुनि मुखमवाहयजलधिया सः।
तत्तत्र लममुद्धत्तमक्षमः सोऽक्षिपत्पाणी ॥ ५२० ॥ तावप्युद्धत॒मथो, चरणौ चिक्षेप तावपि विलग्नौ । स ततः
सर्वावयवं, कीलित इव मृत्युमानञ्च ॥ ५२१ ॥ शैलेयरसप्रतिमा, भोगास्तेष्वेवमहमपि चिलग्गः । तृष्णाकृतम-
तिमोहो, न विपत्स्ये वत्सले ! स इव ॥ ५२२ ॥ एवं प्रियासु चतसृषु, चतुरं प्रतिवोधितासु ननु मेने । श्रीजम्बू-
वीरेणार्द्धभेदितं कामभटकटकम् ॥ ५२३ ॥ भणति स्म नभःसेना, प्रिय ! जाने शिवसुखे धृतानन्दम् । मुनिवृन्दं
वीक्ष्य भवानपि ताम्यति तन्मनास्तस्मै ॥ ५२४ ॥ न स्पर्द्धया कृतं स्यात्कार्य परिणामसुन्दरं प्रायः । अत्रार्थे जर-
तीयुगदृष्टान्तमुन्ति किल सन्तः ॥ ५२५ ॥ नन्दिग्रामे सिद्धिर्बुद्धिश्चोभे स्त्रियौ पुराभूताम् । जरसा दारिद्रयेण च,
१ निहतारिबलः । २ कामयाञ्चके । ३ 'शिलाजीत' इति प्रसिद्धिः । ४ प्राप । ५ 'गैरेय' इत्यपि । ६ न मृत्युमाप्स्यामि । ७ वाञ्छन्ति ।
॥२१॥

ra
युक्तं समभूत्तयोः सख्यम् ॥ ५२६ ॥ आराधितोऽथ सिद्धया, दारिद्रयभयार्त्तयानुभावनिधिः । दीनारद्वयम-
नुदिनमदान्मुदा भोलिगो यक्षः ॥ ५२७ ॥ मधुमाधवमायामिव, दीनाराभ्यां जगनियाभ्यां सा। भेजे जरती
वल्लीपल्लवितेव श्रियं परमाम् ॥ ५२८ ॥ बुद्धिस्तामप्राक्षीदावां सखि ! सन्निभे पुराऽभूव । किं वस्त्राभरणैस्त्वं,
सम्प्रति परिवर्तितेवाऽसि ॥५२९॥ उक्ते तया सरलया, यक्षकृते खविभवे ततो बुद्धिः। भक्त्याऽऽरराध यक्षं, सिद्धे-
श्वाऽयाचत द्विगुणम् ॥ ५३० ॥ प्रत्यक्षो यक्षोऽदात्तस्यै चतुरः सदा स दीनारान् । सरसीव मृदुसमीरैः, सापि
विलासानशिक्ष्यत तैः ॥ ५३१ ॥ द्विगुणं ततोऽपि सिद्धिलेंभे नित्यं निषेविताद्यक्षात् । आराद्धो बुद्धेरपि, तद्विगुणं
धनमदाद्यक्षः ॥ ५३२ ॥ स्त्रीसङ्कटे निपतितं, विषण्णमिव वीक्ष्य यक्षमथ सिद्धिः। आराध्य बलात्तेन, खकमेकम-
काणयचक्षुः ॥ ५३३ ॥ परिचर्य ततो बुद्धया, गतवुद्धया सिद्धितोऽर्थितो द्विगुणम् । तां यक्षश्चक्षुर्युगविकलां चक्र
विरोधीव ॥ ५३४ ॥ उपचितपुष्कलविभवापि सा ततः प्राप कमपि सन्तापम् । त्वमपि शिवेच्छैर्मुनिभिर्वद्धस्पर्द्ध-
स्तथाऽऽप्नोपि ॥ ५३५ ॥ जम्बूरवाच मानिनि !, लभते तव वचनपद्धतिः सेयम् । उन्मीलति भविनस्तत्त्वलोचने
पांशुवृष्टितुलाम् ॥ ५३६ ॥ परमपरे ते मुञ्चन्ति सत्पथं ये भवादृशां वचनैः । नाहं मोक्ष्यामि पुनस्तं प्राजनकैः स
वाजीव ॥ ५३७ ॥ अस्ति पुरं साकेतं, सङ्केतस्थानमखिललक्ष्मीणाम् । बाह्यान्तरारिजेता, जितारिरिति तत्र भूपाल:
॥ ५३८ ॥ तस्य प्रसादसदनं, जिनदासः श्रावकोऽभवत्तत्र । न्यासीकृतं स राज्ञा, हयरत्नमपालयत्प्रयतः॥ ५३९॥

श्रीजम्बू-
चरित्रम्.
॥२२॥
इभ्यगृहे तस्य हयस्याङ्गोपाङ्गेषु वर्द्धमानेषु । ववृधे नृपस्य सम्पद्विपच वैरिक्षितीन्द्राणाम् ॥ ५४० ॥ अन्वहमारुह्य
हयं, तं सरसि निनाय नीरपानाय । वलमानश्च जिनगृहे, प्रदक्षिणात्रयमदादिभ्यः ॥ ५४१ ॥ स हयस्थ एव देवं,
नत्वागान्निजगृहं ततस्तुरगः । नान्यं विवेद मार्ग, खगृहसरोजिनभवनवर्जम् ॥ ५४२ ॥ लग्नोपजिह्वमिव नः, किं
राज्यं त्रुटति वैरिभूपालैः ? । इति पृष्टे निजसंसदि, भुवि गूढचराश्चराःप्रोचुः ॥ ५४३ ॥ खप्रभुराज्यरसायनमरि-
कुललक्ष्म्याः क्षयामयः स हयः । यावजयति जितारेः, कथमुदयस्तावदपरेषाम् ? ॥ ५४४ ॥ अचिरात्तं तुरगमहं,
हृत्वा नेष्याम्यदः प्रतिज्ञाय । प्राशंमन्यः कश्चित्तत्सचिवः प्राप साकेतम् ॥ ५४५ ॥ कपटश्रावकवेषं, कुर्वन्तम-
शेषजैनविम्बार्चाम् । साधर्मिकवात्सल्याजिनदासस्तमनयत् खगृहम् ॥ ५४६ ॥ तत्राभ्यर्च्य जिनेन्द्रान् , भुक्त्वा
सोऽलीकनियमसंयमितः । जिनदासस्याग्रहतो, निशि तस्थौ धर्मवार्ताभिः ॥ ५४७ ॥ केनाऽपि तदा सुहृदा,
खविवाहमहोत्सवे समभ्यर्थ । आहूतो जिनदासः, क्षणमासीत्तुरगचिन्तार्तः ॥ ५४८ ॥ तं गोप्यागोप्यतरं, तुरगं
तनयादिकेऽप्यविश्वासी । दत्त्वा कपटश्राद्धस्य रक्षितुं तस्य स चचाल ॥ ५४९ ॥ साध्यं सिद्धं ध्यायन्नथो निशीथे
स गोमुखव्याघ्रः । आरुह्य तं तुरङ्गं, खपुरमभि प्रेरयामास ॥ ५५० ॥ पूर्व सरस्ततो जिनमन्दिरमागस चतुरगस्तु-
रगः । चक्रे प्रदक्षिणात्रयमथ निजमन्दिरमुपेयाय ॥ ५५१ ॥ पुनरपि नुन्नस्तेने, तेन हयो भूयसीभ्रंमीरेवम् । स
ननाश तिमिरनाशं, प्रत्यूषेऽश्वं विमुच्य ततः ॥ ५५२ ॥ निखिलनिशानमिजातक्लेशः प्रविवेश मन्दुरामश्वः । पौरैः
॥२२॥

पृष्टश्चेभ्यः, किं निशि वाहस्त्वयाऽवाहि ? ॥ ५५३ ॥ चकितः स लोकवचसा, तत्र गतः श्रान्तमश्चमालोक्य । अवगतकितवश्रावकवृत्तः खं सुकृतिनं मेने ॥ ५५४ ॥ लपयित्वा हर्षाश्रुभिरथाथमिभ्यो विशिष्य सचक्रे । स्फुट- दृष्टा हि पशोरपि जायन्ते गौरवाय गुणाः ॥ ५५५ ॥ तद्वद्गुरुणाभिहितां, खहितां चिद्दर्शनक्रियारूपां । अजहत्रि- पथीमहमपि, कस्य न मान्यो भविष्यामि ॥ ५५६ ॥ अलपदथो कनकश्रीः, प्राणप्रिय ! कृषिरपि मात्फलति । पन्थाः क्रमशो लक्ष्यः, क्रमशः शैलानमारोह्यम् ॥ ५५७ ॥ गन्तव्यं शिवनगरं, क्रमशः क्रमशो व्रतं ग्रहीतव्यम् । अक्रमकारी त्वरया, परिशोचति पुण्यहीन इव ॥ ५५८ ॥ अस्ति नगरी जयन्ती, निजश्रिया सुरपुरीमपि जयन्ती। शैशवमृतपितृवन्धुस्तत्राभूत्कोऽपि कुलपुत्रः ॥ ५५९ ॥ स च मातुलेन निन्ये, निजगेहे तदपि वह्निना देहे'। धृत- देहेवालक्ष्मीस्तेनापि ततोऽयमत्याजि ॥ ५६० ॥ स जगाम तामलिप्ती, कस्यचिदट्टे स्थितोऽल्पलोभेन । तदपि निशायां पापिषु, परमैः परिमोषिभिरमोषि ॥५६१॥ तस्य ततोऽदायि जनैरन्वर्थं पुण्यहीन इति नाम । दारिद्रय- भिदे तयाँ सोऽन्तर्यादःपंति विवेश ॥ ५६२ ॥ ववले धनलवलाभप्रमनाः स मनाक्तदा च खरवातैः। तत्सङ्गान्म- लिनं खं, शोद्धमिवान्धौ ममज तरी ॥ ५६३ ॥ फलकालिङ्गनतीर्णाऽकूपारः पारमाप्य स कथमपि । कान्तारं कान्तारसमत्तव्योले व्यलकिष्ट ॥ ५६४ ॥ द्वीप इवारण्याब्धी, पुरतो वरतोरणे महायतने । यक्षं निरीक्ष्य दौःस्थ्य, १ दग्धम् । २ चौरैः । ३ नावा । ४ समुद्रमध्ये । ५ व्यालो दुष्टगजः ।

चरित्रम्
श्रीजम्बू-
॥२३॥
दलयितुमनिशं सिषेवे सः ॥ ५६५ ॥ भक्तिवशस्तं प्रोचे, दयालुहृदयालुनायको यक्षः । एकः केकी नित्यं, नृत्यं
पुरतः करिष्यति ते ॥ ५६६ ॥ सौवं सौवर्णमसौ, यत्पिच्छं मुञ्चति ब्रजन्नेकम् । वत्स ! तदादद्यास्तन्निवहो हि
श्रीकरीभवति ॥ ५६७ ॥ अथ तेन यक्षवचसानुदिनं शिखिपिच्छमेकमाददता । दधेऽन्यदा कलापी, समं समस्तानि
तान्प्रातुम् ॥ ५६८ ॥ तस्याशुचिकरसङ्करमवाप्य केकी स वायसो जातः । आत्तचरोण्यपि पिच्छानि काकपिच्छ-
त्वमानक्षुः ॥ ५६९ ॥ सोऽरिचमूमिव कमलामभ्यायान्तीं निषिध्य सर्वत्र । विधिना विहितं निःखप्रभावमाभवम-
नुवभूव ॥ ५७० ॥ एवं त्वमाश्रमादिक्रमलोपात्प्रथममेव तपसि रतः । प्राच्यादपि पुण्यचयात्, च्युतश्चिरं लप्स्यसे
दुःखम् ॥ ५७१ ॥ जम्बूरुवाच स क्रममाश्रमविषयं विचारयेचतुरे ! । सौहृदमिह निर्व्याजं, यस्य स्यादन्तकेन सह
॥ ५७२ ॥ ये लब्धां सामग्री, परिजनमोहेन हारयन्ति जडाः । निविडानुतापतस्तेऽवश्यं क्लिश्यन्ति कमैठ इव
॥ ५७३ ॥ कादम्बिन्यस्त्यटवी, पतिशिरःक्ष्माभूदविरलपलाशा। परितोऽमितद्गुरुद्धा लङ्केवाप्टापदनिवासा ॥५७४॥
एकस्तत्रास्ति नदो, वहुयोजनविस्तृतः सदासलिलः । यस्स दृढकुट्टिमायितमूर्य सेवालपटलेन ॥ ५७५ ॥ तस्यान्तः
१ आत्मीयम् । २ पूर्वप्राप्तानि । ३ कच्छप इव । *पसौ श्रेणौ ये शिरःक्ष्माभृतः मुख्यवृक्षा वटादयः, तैः सहाविरलाः सान्द्राः पलाशाः
किशुका अस्यांसा। परितोऽमितद्रुभिः बहुसंख्यवृक्ष रुद्धा । अष्टापदा हिंस्रजीवविशेषास्तेषां निवासो यस्यां सा । लङ्कापक्षे-पशिशब्दो दशसंख्या-
वाची, तेन पतिशिरा रावणः मामृदू नृपः, तेन सहाविरलाघनाः पलाशा राक्षसा यस्या सा। मितद्रुणा समुद्रेण रुद्धा। अष्टापदनिवासा स्वर्णगृहा ॥
॥२३॥

कूर्मोऽभूत्परिष्कृतः पुत्रपौत्रदौहित्रैः । नदकुहरनिलीनत्वाद्विस्मृत इव यो यमस्यापि ॥५७६॥ स कदापि वातदा- रितशेवालच्छिद्रवर्मनोद्रीवः । शारदमिन्दुं वारिदविरहितमुडमण्डितमपश्यत् ॥ ५७७ ॥ तादृशमदृष्टपूर्ती, विस्म- यरसनिर्भरं चिरं वीक्ष्य । खज्ञातेनयनोत्सवमाधातुमधोऽगमत्कमठः ॥ ५७८ ॥ यावत्परिजनयुक्तस्तत्रागात्तावदुरुम- रुन्मिलितम् । शैवलपटलमधत्तानुद्धाटकपाटपटिमानम् ॥ ५७९॥ आलोडयन्नपि नदं, नासौ तं शशिनमैक्षत वराकः। तद्वत्कुटुम्बमोहाद्गुरुचन्द्रमहं न मोक्ष्यामि ॥ ५८० ॥ ऊचेऽथ कनकवत्या, न मन्यते यो हितां खजनवाचम् । तस्यासन्ना विपदः, खगस्य मासाहसस्येव ॥ ५८१ ॥ ददृशे केनापि नरेणान्तर्वणचारिणा हरिः सुप्तः । तत्कालहत- द्विरदामिपसुहितो व्यात्तमुखकुहरः ॥ ५८२ ॥ कोऽपि खगो मासाहसमिति निगदन्मांसलेशलोभेन । प्रविशंस्तन्मु- खकूपं, तेन निपिद्धोऽपि न च तस्थौ ॥ ५८३ ॥ जागरितोऽथ हरिस्तं, जीवनस्तं चपेटया चक्रे । तद्वत्तवापि दयिता- हितोक्तिविमुखस्य नहि कुशलम् ॥ ५८४ ॥ जम्बूर्जगाद सुभगे!, जीवोऽयं रक्ष्यते क्षित]न । वन्धुः स एव हित- कृत्किं शेपैरापदि तटस्थैः ॥ ५८५ ॥ न वपुर्न कुटुम्ब वा, शरीरिणो रक्षणक्षमं विपदि । अत्रार्थे मित्रत्रयकथानक किं न चिन्तयसि ? ॥५८६॥ देशोऽस्ति निरवसानो, भ्रमनिरतानन्तजन्तुसन्तानः।यस्य न लेभे पारः, कैश्चन बहुनापि कालेन ॥ ५८७ ॥ तत्तद्वयतिकरकीण, तत्रास्ते नरसमुद्रमिति नगरम् । यन्नररत्नोत्पत्त्या, पत्या स्तूयेत देवानाम् १ सहितो' इत्यपि । अर्थस्तु 'तृप्तः' इत्युभयत्रापि । २ हानितः। ३ देवानां पत्या इन्द्रेण । -

श्रीजम्बू-
चरित्रम्.
॥२४॥
॥ ५८८ ॥ तत्रोप्रशासन इति, क्षमापो यत्तोषरोपपरतन्त्राः । केऽपि लभन्ते दिव्यामृद्धिं नरकव्यथां केऽपि ॥५८९॥
आपातालसुरालयमाकुन्थुसुरेन्द्रमाजननमरणम् । यस्यादेशं बलिनो, लवतोऽपि न लवते लोकः ॥ ५९० ॥ धनदौ-
स्थ्ययौवनजरासुखदुःखयशोऽयशःप्रमुखमखिलम् । लोकस्य पर्यवस्थति, यस्मिन्नेकप्रभौ जगतः ॥ ५९१ ॥ अमरा
अपि नैरयिकास्तेऽप्यमरा द्विजवराः श्वपाकाश्च । तेऽपि द्विजाः क्रियन्ते, येन खैरं निजवलेन ॥५९२॥ तस्य सचिवः
सचेतन, इति येन खप्रभुः प्रभूतधिया । निन्ये वृद्धिमुपायैस्तैस्तैरारम्भसिद्धेन ॥ ५९३ ॥ यः खर्गनरकसीमां, भ्रा-
म्यति भूमि प्रभोः प्रसादेन । न त्यजति तस्य सेवां, तेनैप सुखेऽपि दुःखेऽपि ॥५९४ ॥ तस्य बभूव सुरूपः, सुहृदा
जन्मोपजातसंयोगः । स्वयमास्ये निक्षिप्तः, कवलैोऽवर्द्धि तेनैव ॥५९५ ॥ तस्य खानविलेपनविभूषणाभ्यङ्गभोजना-
दीनि । खसुखायैव सचेतनसचिवो मेने परप्रीतिम् ॥ ५९६ ॥ व्यवहाराभ्यवहारस्थितिगतिशयनं स तेन सह चके।
तत्तस्य ददे लौकैरभिधानं नित्यमित्रेति ॥ ५९७ ॥ अन्येद्युश्च दयितया, मतिमत्यावसरमाप्य स प्रोचे । जागर्यते
हि पुरुषः, प्रमद्वरो जात्यजायाभिः ॥ ५९८ ॥ योऽयं धव ! तव सर्वया, मन्येऽहं स बहिरेव रमणीयः । अन्तर्मलि-
नात्माऽयं, त्वयि मयि विघटिष्यते प्रान्ते ॥ ५९९ ॥ आसन्नविपदि काले, मित्रेऽस्मिन् विघटिते परः कोऽपि ।
भावी न तव सखा किं, लग्नेऽग्नौ खन्यते कूपः ? ॥६०० ॥ एकं चक्षुरचक्षुर्मुखे रथे चक्रमेककमचक्रम् । तत्कमपि
१ हे भर्तः।। २ मित्रम् ।
॥२४॥

सुहृदमपरं, कुरु सम्प्रति यदि हितेच्छुरसि ॥६०१॥ स प्रेरित इति पत्न्या, मित्रं खजनाभिधं विधत्ते स्म । प्रीणा- ति परप्रणयः, पर्वणि पर्वणि तदाकार्य ॥६०२॥ पर्वसुहृदिति प्रथिते, नामनि तस्य प्रियाऽवदद्दयितम् । पूर्वस्मा- देप सखा, सुखाय भविता विपत्तौ ते ॥६०३॥ अयमपि न पुनः सम्यक्, प्रभविष्यति रक्षितुं क्षितिं नाथ ! । खाराधमचलसौहृदमत्र्यवलं तत्कुरु सखायम् ॥ ६०४ ॥ स च विश्वहितः श्रीमान् , सुलभः प्रायेण साधुशालासु । इति तद्वचसा चक्रे, तमेव मित्रं महामात्यः ॥ ६०५॥ अध्वनि दृष्टं नमति, ध्यायति सद्भावपूर्वकं तं सः। स च तावतापि तुष्यति, भावग्राह्या हि वरसुहृदः॥६०६॥ स ततः प्रणाममित्राख्यया जनैरोच्यताच्युतस्नेहः । एवं मित्र- त्रययुग, निजं स जन्म व्यतीयाय ॥६०७॥ स कदाचन यमकल्पे, नृपतौ कुपिते जगाद सहमित्रम् । मित्र ! त्वय्येव मया, न्यस्तमभूत्प्रेमसर्वस्खम् ॥ ६०८ ॥ विपदि तदुपस्थितायामस्यां साहाय्यमारचय्य मम । अवदातमञ्जय यशः, पुनः पुनर्नदृशोऽवसरः ॥ ६०९ ॥ श्रुतमप्यश्रुतमिव तद्वचनं कृत्वा धृतावहेल इव। तूष्णीको नित्यसुहन्यपतदचेष्टो महीपीठे ॥६१०॥ परिवृत्ते सहमित्रे, म्लानास्यमनौजसं सचिवधुर्यम् । अवगतराजविरोधस्तमवददभ्येत्य पर्वसखः ॥ ६११॥ मित्र! विपीदसि कस्माद्धनेन देहेन वा यतिष्येऽहम् । किं क्रियते ? भूपोऽयं, खैराचारो दुराराधः॥ ॥ ६१२ ॥ उपकारास्तव वहवस्तेषामनृणः कथं भविष्यामि ? । श्रुत्वेति नित्यमित्रात्पवेसखममुं स बहु मेने ॥६१३॥ तस्मिन्नथ यतमाने, प्रवर्द्धमाने भये च भूमिपतेः । आगात्प्रणामसवयाः, सावष्टम्भं जगादेति ॥ ६१४ ॥ मित्राग- ARH

श्रीजम्बू-
चरित्रम्
॥ २५॥
तोऽस्मि सोऽहं, त्वत्पन्या प्रेरितोऽद्य मतिमत्या । किं शोचसि ? मयि निकटे, प्रभविष्णुर्विष्णुरपि न स्यात् ॥६१५॥
वर्षन्ति ममादेशाजलदाः सीमां भिनत्ति न च जलधिः । प्रादुर्भवन्ति निधयः, स्फुरन्ति मणिमन्त्रमहिमानः ॥६१६॥
दुःस्था अपि धनवन्तः, कुधियोऽपि बुधा मृगा अपि व्याघाः । रङ्का अपि चक्रधरा, मया यथेच्छं विधीयन्ते ॥६१७॥
मा धा मनसि यदस्मै, न चकर कञ्चन कदापि सत्कारम् । नाहं भाटकवश्यो, वश्योऽहं शुद्धभावानाम् ॥ ६१८ ॥
भावस्तवाऽपि शुद्धः, स्यामद्य तवाऽनृणः प्रणामस्य । एलेहि नयामि त्वां, सदयितमनुपद्रवं स्थानम् ॥ ६१९ ॥
विश्वहितं खहितं तं, सोऽपि पुरस्कृत्य सप्रियः प्रचलन् । तस्माद्देशाचक्रे, वासकममरालये वचन ॥६२०॥ तमचा-
लयत्ततोऽपि, प्रणतिसखो घनसुखावगाढमपि । नहि राजविरुद्धानां, स्थितिरेकत्रोचिता प्रायः ॥ ६२१ ॥ पुनरपि
पदं गमयितुं, तं मूलपुरं निनाय विश्वहितः । तत्राप्यभुत भोगान्, सचिरं तस्यानुभावेन ॥ ६२२ ॥ मा ज्ञासीदत्र
स्थितमेतं नृपतिश्चरैरिति वयस्यः। परिवर्तितवेषं तं, प्रयतं सार्थेशमुपनिन्ये ॥ ६२३॥ सार्थेशस्तमवादीद्वत्स ! सभा-
ग्योऽसि यस्य सुहृदेपः । वयमप्यस्यैव बलात्कुप्रभुमेतं मुमुक्षामः ॥ ६२४ ॥ मा भूः कदापि विमुखोऽमुष्य त्याज्यो
न जातु सार्थोऽयम् । उत्तिष्ठेते पथि यौ, व्याघौ ताभ्यां न भेतव्यम् ॥ ६२५ ॥ दवशैलवंशजालीगा गयन्तराय-
मिह ये स्युः । ते प्रशममार्दवार्जवसंवरमन्त्रैः सुखं वार्याः ॥ ६२६ ॥ न च सच्छाये विपिने, स्थेयं जेयं बलेन चौर-
१ अहं न चकर, नाऽकरवमित्यर्थः ।
॥२५॥

MOGASSOS बलम् । लब्धासेऽभिमतपुरं, शिक्षामेतां वहन् वीर! ॥६२७॥ सोऽपि तदादेशरतः, सरलेन यथा तथा चचालाथ। येनातीतारण्यो, निर्विघ्नं प्राप शिवनगरम् ॥ ६२८ ॥ विश्वहितस्तमवादीन्मित्र! तदेतत्पुरः पुरं पश्य । यत्रोग्रशा- सननृपान्निवसन्त्यकुतोभया लोकाः ॥ ६२९ ॥ नित्ययुवा मृत्युभवातङ्कविमुक्तः सहानया पत्न्या। कालमनन्तमिह त्वं, भुञ्जीथा निस्तुपं सौख्यम् ॥ ६३० ॥ अथ तत्र पुरे प्रवरे, प्रवेश्य तं वन्धुमनुपंधिस्नेहः। विश्वहितोऽवलत यतस्तस्योद्धार्थ जगन्निखिलम् ॥ ६३१ ॥ शृणु सुदति ! कथातत्त्वं, देशोऽयं संसृतिः पुरं नृभत्रः । राजा कम- विपाकः, सचिवो जीवः प्रिया बुद्धिः ॥ ६३२ ॥ तनुपरिजनधाख्यं, क्रमेण मित्रत्रयं यथोद्दिष्टम् । नृपकोपो मृत्युदशा, तस्यास्त्राणं न देहेन ॥ ६३३ ॥ देहेऽनुपलक्षित इव, निश्चेष्टीभूय मञ्चकारूढे । समुपैति वन्धुवर्गों, धनेन वचनेन यतमानः ॥ ६३४ ॥ तदपि प्रवर्द्धमाने, मृत्युभये चालितः स धर्मेण । वासकमेकं कुरुते, दिवि जीवो नृभ- बमेति पुनः ॥ ६३५ ॥ सार्थो गणस्तदीशः, सुगुरुर्दीक्षा च वेषपरिवर्तः । उपदेशास्तच्छिक्षा, रागद्वेषौ पथि व्याघ्रौ ॥ ६३६ ॥ वार्याः प्रशमादीनां, दवादयो येऽत्र ते किल कषायाः । विपयाः सच्छायवनं, परीपहाश्चौरसेना च ॥६३७॥ मोहोऽरण्यं मोक्षः, पुरमिष्टं विद्धि तन्धि ! तेनाहम् । देहकुटुम्बस्नेहं, विहाय निषिपेवि धर्मम् ॥६३८॥ ऊचे ततो जयश्रीरेवमलीकैः खचित्तसङ्कल्पैः । प्रिय ! ऋजुहृदयाः कस्मादस्मान् वञ्चयसि चट्ट इव ॥ ६३९ ॥ ग्रामे १ श्वस्तन्या युप्मदर्थैकवचने रूपम् । लप्स्यसे इत्यर्थः । २ निष्कपटलेहः । ३ यत्तं कुर्वाणः । ४ ( धर्म ) सेवितुमिच्छामि ।

चरित्रम्
श्रीजम्बू-
॥२६॥
कौशिकनामनि, चट्टोऽजनि तापसो महामूर्खः । भस्मोद्धूलननिरतस्य यस्य वाचोऽपि किल रूक्षाः ॥६४०॥ मोदक-
निकरनिरुद्धं, स्वप्ने खमठं निरीक्ष्य बुद्धेन । पशुजित्वरजडिमानः, प्रातस्तेनोचिरे शिष्याः॥६४१॥ वत्साः ! शृणुत
जनानां, गृहेषु वयमाप्नुमः सदा भिक्षाम् । न तु सामग्रीन्यूनैरस्माभिर्भोजितः कोऽपि ॥ ६४२ ॥ सातशक्तिरद्य,
खैरं सन्तर्प्य लोकमखिलमपि । पङ्क्तौ निवेशयिष्ये, खं बलिकर्णाादाराणाम् ॥६४३॥ तद्रचयत शुचिमण्डपमा-
हयत द्रुतमशेषमपि लोकम् । इति तेनोक्ताः शिष्या, वितेनिरे तत्तथा सर्वम् ॥ ६४४ ॥ अथ विस्मयादकस्मान्मि-
लिते लोके क्रमान्निषण्णे च । पुरतः स्थालेषु निवेशितेषु शिष्याअगौ चट्टः ॥ ६४५ ॥ हंहो विमृश्यते किं ?, मठो-
दरान्मोदकान् समानयत । तप्पयत कङ्गुकोद्रवधान्यरसज्ञं च जनमेतम् ॥ ६४६ ॥ तेऽपि विवृत्य द्वारं, परमोदक-
शून्यमन्तरेक्षन्त । तं जीर्णकूपमिव मठमेतद्गुरवे निजगदुश्च ॥६४७॥ चट्टः सभ्रूभङ्ग, जगाद रे मूर्खशेखराः! खपित ।
येनैतानीक्षध्वे, दृष्टाः खग्ने मयाप्यते ॥ ६४८ ॥ श्रुत्वेति जनाः कृत्वा, कलकलमुत्तालतालदानेन । निजसम ययु-
मुक्त्वा, मोदकगृद्धिं बुभुजिरे च ॥ ६४९ ॥ तं खमतिशिल्पिकल्पितभोजनदानाद्यथा जहास जनः । तद्वदलीक-
सुखाशां, तन्वंस्त्वमपि प्रभो! मा भूः ॥६५० ॥ जम्बूरवदद्दयिते!, किं त्वां कलुषयति विषयतृष्णेयम् । स्मरति न
किं ते गर्भान्धकूपवासव्यथा विदुषि!॥६५१॥ त्रस्यन्ति त्रिदशा अपि, यस्मात्तं गर्भकूपमुन्मुच्य। किं तत्र पुनः पित्ससि,
१ पतितुमिच्छसि ।
॥२६॥

तुच्छमतिः स इव ललिताङ्गः ॥ ६५२ ॥ सुमनःश्रेणीसारं, पुरमस्ति वसन्तवद्वसन्तपुरम् । चित्रं यत्र न गोप॑तिकराः कठोरत्वमभजन्त ॥ ६५३ ॥ निशितायुधरसिको युधि, शतायुधस्तत्र समभवद्भूपः । तस्य वधूनवयौवनबलदुर्ललिता ललितदेवी ॥ ६५४ ॥ वातायनस्थिता सा, कदाचिदैक्षिष्ट मदनमिव साङ्गम् । ललिताङ्गं नगरान्तः, समुद्रदत्तेभ्य- कुलतिलकम् ॥ ६५५ ॥ दुर्वलगवीच पङ्के, तदृष्टिस्तस्य वर्मणि निमग्ना । अज्ञायीङ्गितविज्ञा, न चतुरया चतुरिका सख्या ॥ ६५६ ॥ सरसां सच्छायान्तामालोक्य चिरं स्थितो युवा सोऽपि । मरुपान्थः सरसीमिव, सहकारलता- मिवान्यभृतः ॥ ६५७ ॥ वनमानञ्च कदाचन, विलोकितुं कौमुदीमहं नृपतिः । तस्थौ लब्धावसरा, शिरोर्त्तिदम्भेन राज्ञी च ॥ ६५८ ॥ आनीतः सोऽपि युवा, कामप्रतिमाच्छलेन चतुरिकया । चिरविरहतापममुचद्राजीतनुसरसि रममाणः ॥ ६५९ ॥ रतिलुलिते ललिताङ्गेऽथ सौविदैः कोविदैर्मनाक्ककितैः । ऊचे कृतवनकेलिस्तदैव नृपतिः समायातः ॥ ६६० ॥ दयिता पतिव्रता ते, वयमपि न च्छलदृशः प्रजापाल!। परमन्तःपुरमीक्षितुमर्हसि दददभ- यमस्मासु ॥ ६६१ ॥ निःशब्दं सिद्ध इवाययौ तदन्तःपुरं महीनाथः । द्वारे च दत्तदृष्टिन्यवेदयचतुरिका राज्य ॥६६२॥ गतकामा कामपि भियमन्तर्दधती सखीयुता राज्ञी । चिक्षेप दृपदमिव तमशुचिकूपे जालमार्गेण ॥६६३॥ कृमिकुलसङ्कुलमिचिकिलंपिच्छिलमुत्तालवमनलालौघम् । प्राप्तः स कूपगर्भ, ययौ तुलामशुचिकीटस्य ॥ ६६४ ॥ १ गोपतिः सूर्यः पक्षे राजा, तस्य कराः किरणा देयभागाश्च । २ 'अत्र' इत्यपि । ३ मिचिकिलः कर्दमः । VESCARE

चरित्रम्-
श्रीजम्बू-
॥२७॥
प्रतिदिवसमसौ राख्या, भुक्तविमुक्तेन भक्तनीरेण । स्वस्य प्राणाधारं, कुकुर इव कल्पयामास ॥६६५॥ भोक्ष्ये भोगा-
नस्मान्मलकूपानिर्गतो न पुनरेषः । विमृशन्निति नारकवजिजीव स च जीवितोद्विग्नः ॥ ६६६ ॥ प्रावृषि जलध-
रसलिलैः, प्रवाह्य मलकूपतस्ततोऽनायि । कचवर इव नगराद्वहिरपौरुषः स परिखामध्यम् ॥ ६६७ ॥ सलिलोच्छू-
नशरीरः, क्षिप्तः परिखातंटे स वीचीभिः । तत्रागतया धात्र्या, ददृशे सत्कर्मदशयेव ॥६६८॥ ज्ञातः शरदेव तया,
नीतः स्वगृहं स हंस इव कमलम् । अभवत्पुनर्नवीनः, स्नानाद्यैलालितो ललितः ॥ ६६९ ॥ तं पुष्टाङ्गं दृष्ट्वा, कदापि
राज्ञी स्मरातुरा सैव । यद्याह्वयति तदा किं, युक्तं गन्तुं निषेधुं वा ॥ ६७० ॥ जानाति मन्दधीरपि, न तस्य तत्रो-
चितं पुनर्गमनम् । इति ताभिः सममुक्ते, जगाद जम्बूः कथातत्त्वम् ॥ ६७१ ॥ योऽयं किल ललिताङ्गः, स ज्ञेयो
भोगलोलुपः प्राणी । विषयसुखं मुखमधुरं, नृपाङ्गनाभोगसममत्र ॥ ६७२ ॥ कूपे वासो गर्भे, स्थितिर्विघसभोजनं
च यत्तस्य । जननीभुक्तान्नोदकरसनिस्सन्देन सा वृत्तिः ॥ ६७३ ॥ यत्कूपतलात्कथमपि, निर्गमनं जन्म तत्परि-
ज्ञेयम् । यत्परिखावस्थान, वासोऽसौ सूतिकाभवने ॥ ६७४ ॥ या धात्री सा विश्वोपष्टम्भकरी सुकर्मणां स्फातिः ।
परिपाल्य यया क्रियते, जीवोऽयं यौवने सुभगः ॥ ६७५ ॥ तन्नामगर्भकूपावस्थानविडम्बनाः स्मरंस्तास्ताः । विपयो-
पभोगगृद्धिं, सचेतनः कः पुनः कुरुते ? ॥ ६७६ ॥ सति संयमपीयूपे, विषयेषु रमेत कः सुधीरत्र । क्षारोदकमिव
१ 'परिखावटे' इत्यपि ।
॥२७॥

राजा भुक्ताः, प्रत्युत जनयन्ति ये तृष्णाम् ॥ ६७७ ॥ तस्मातस्य विषयत्रातस्य विपाकमाकलय्य हृदि । यत्स्यादायति हृद्यं, तदेव सेवध्वमिद्धधियः ॥६७८॥ तेन प्रबोधिता इति, ताः प्रोचुः प्रिय ! जितं जितं भवता । यदि वा दिवा- न्धवध्यः, स्पर्द्धन्ते किं दिनकरेण? ॥ ६७९ ॥ आश्रीयत यः पन्थास्त्वया प्रियास्माभिरपि हि संश्रेयः। न वचन पृथक् पान्थाः, शकटस्य च शकटिकानां च ॥ ६८० ॥ मुक्त्वामानष्टौ द्रुतमेकामेकान्ततो वुवूर्षसि याम् । तामद्य सपत्नीमपि, वयं दिदृक्षामहे मुक्तिम् ॥६८१॥ अबला मन्थरगतयस्त्वामेकं शरणमभ्युपेताः स्मः। तद्रायाः शिवमार्गे, प्रतीक्ष्यपादाः! प्रतीक्ष्य वयम् ॥६८२॥ प्रभवोऽभ्यधत्त जम्बूकुमार! सुकुमार! मारसारहर!। वीक्ष्येदं तव चरितं, चौरा अपि चमदॉर्म वयम् ॥ ६८३ ॥ सवला गजास्ततोऽपि, क्षुधा ततः कणगणस्ततोऽपि शिला । यत्पुत्रवला- दवलास्तं सकलं शकलयन्ति किल ॥ ६८४ ॥ लोहं ततस्ततोग्निस्ततोऽपि मेघस्ततश्च घनपवनः। तस्माच दीजि- बस्ततो गरुत्मांस्ततो विष्णुः ॥ ६८५ ॥ तस्माचक्री तस्मात्रिदशा इन्द्रस्ततस्ततः कामः । तं च जयतस्तव अँजस्था- मोपमिमीमहे केन ? ॥ ६८६॥ तव सुरसरितेव गिरा, ममापि खलु विषयतृष्णया गलितम् । शान्तं च मोहरजसा, मनसा हंसेन मुदितं च ॥ ६८७ ॥ अहमपि पृष्ट्वा वन्धूनादासे व्रतमितीरयन् प्रभवः । मा प्रतिवन्धं कापीरिति १ उलूक्यः । २ आश्रयणीयः। ३ परिणेतुमिच्छसि । ४ पूज्यचरणाः । ५ चमत्कारं प्राप्ताः सः। ६ यस्याः शिलायाः पुत्राः पेपण्यादयः खण्डनसामग्री, तहलात् । ७ बाहुबलम् ।

चरित्रम्
श्रीजम्बू-
॥२८॥
तेनोक्तश्च निरियाय ॥ ६८८ ॥ जम्बूरिव मोहभरं, हरंस्तमोऽथा हिमाशुरुदियाय । व्रतनिश्चयमज्ञासिपुरस्य श्वशु-
राश्च पितरौ च ॥ ६८९ ॥ वाल्येऽपि तद्वतास्था, निरीक्ष्य तेऽपि व्रतार्थमयतन्त । नहि वर्त्मकर्षके सत्येकस्मिन्
दुर्लभः सार्थः ॥ ६९० ॥ स्लपितस्ततः स रेजे, वर्णमयैः खर्णसां भृतैः कलशैः। जितमदनत्वाद्वरभटजातौ जाता-
भिषेक इव ॥ ६९१ ॥ सवलान्तरङ्गरिपुवलमस्यैव वलेन मम सुजेयमिति । निजदेहं वीरमिव, व्यलेपयचन्दनेनासौ
॥ ६९२ ॥ अन्तर्बलतो ध्यानानलस्य तेजोभिरिव बहिःस्फुटितैः। भूरिमैयैराभरणैर्भूरिभिरभितो व्यभूष्यत सः
॥ ६९३ ॥ कलपरिमलमिलदलिकुलकलकलवाचालमालभारी सः। विरराज सह वहन्निव, जितमन्मथमुक्तशस्त्राणि
॥६९४॥ हन्तुमिव कटुविपाकश्वपाकतुलपापपटलमालिन्यम् । क्षीरोदधिकल्लोलैवासोभिरशोभि तस्य वपुः ॥६९५॥
शिवनगरगमनविद्या, साधयतो मेऽस्तु मङ्गलमितीव । आनर्च स जिनराज, नियाजं तत्तदुपहारैः ॥ ६९६ ॥ सर्वः
श्रिया विमुच्येत तां च मोक्ष्याम्यहं पुनः प्रसभम् । अव्ययदिति धनमखिलं, सदानवीरो नवक्षेत्र्याम् ॥ ६९७ ॥
शिवगृहसोपानमिवानुपमानं याप्ययानमारूढम् । तमवेष्टयदेकमनाः, क्षणात्पितृश्वशुरवर्गोऽपि ॥ ६९८ ॥ मूर्तस्येव
चरित्रस्य वामपार्थे धृतासनास्तस्य । अष्टौ प्रवचनमातर, इव व्यराज्यन्त दयितास्ताः ॥ ६९९॥ मदने जिते तदनु-
१ स्वर्णसा शोभनजलानाम् । २ सौवर्णैः । ३ मालेषीकेष्टकस्याऽन्तेऽपि भारितूलचिते ।२।४।१०२। इति मालाशब्दस्य भारिशब्दे
परे हवः । मालां भर्तु शीलमस्येति मालभारी, ताच्छिल्यिको णिनिः । उपपदसमासः ।
॥२८॥

गैर्घनैः स विद्युद्भिरासिपेवे सः। भीतैरिव नवकाञ्चनमयदण्डश्रीकरीमिषतः ॥७०० ॥ नाटकपाटप्रकटितपटुपट- हध्वानवधिरितदिगन्तम् । ऋभुणाऽनादृतनाम्ना, कृतनिष्क्रमणोत्सवाभोगः ॥७०१॥ शुश्रुम वयं पुराणा, न पुराणा- दिष्वपीदृशं वचन । इति पौरगिरः शृण्वन् , बन्दिभिरभिवर्ण्यकामजयः ॥ ७०२ ॥ कनकैरर्थिषु वर्षन् , शृण्वन्ना. शीर्वचांसि पौरीणाम् । तद्वनमवाप जम्बूर्यत्रास्ते श्रीसुधर्मगुरुः ॥ ७०३॥ त्रिभिर्विशेषकम् ॥ तचरितं विश्वत्रयवि- लक्षणं वीक्ष्य यौवने तस्य । अधुनत सविस्मया इव, मौलीन्मरुदीरितास्तरवः ॥७०४॥ निजनिजनीडनिलीनास्तचरितं भावयन्त इव मनसा । विहगा अपि मौनजुषः, प्रीत्या ददृशुस्तमायान्तम् ॥ ७०५ ॥ निर्मुक्तयाप्ययानः, सपरिकरो व्रतविलम्बभीरुरथ । दत्तप्रदक्षिणात्रयमभिनम्य गुरुं जगौ जम्बूः ॥ ७०६ ॥ रत्नाकरं भवन्तं, दौर्गत्यभयादहं प्रप- नोऽस्मि । चारित्रं चिन्तामणिमिव दत्त्वा तत्प्रसीद विभो! ॥ ७०७ ॥ जिनमतसरसि रसाढ्यं, पिवतः समयामृतं सतृष्णस्य । मम तव पादच्छाया, छायोद्भवसम्भवं तापम् ॥ ७०८ ॥ प्राग्वत्तदापि मुक्ताभरणं विकाननं श्रुतार्थ- रसम् । सपरिकरं गुरुरन्तःप्रमदी तमदीक्षयन्मनु ॥७०९॥ मृतयोः पित्रोभक्ताः, सुता अभक्ताश्च जीवतोः प्रायः। खस्य शमराज्यहेतुं, शशंसतुस्तं ततः पितरौ ॥ ७१० ॥ प्रायः श्वशुरकुलश्रीसरितां ग्रीष्मातपो हि जामाता । १ सिद्धान्तपीयूषम् । २ 'छो छेदने' इति धातोराशिषि रूपमिदम् । छिद्यादित्यर्थः । ३ तदा दीक्षासमये मुक्ताभरणं त्यक्तमूषणमपि प्राग्वत् पूर्ववत् मुक्ताभरणं मौक्तिकभूषणम् । ४ तदा विकचाननं विगतकेशमुखमपि प्राग्वद् विकचाननं प्रसन्नमुखम् । अन्यत्स्पष्टम् ।

श्रीजम्बू- चरित्रम् ॥ २९॥ स दत्ते नः शमनिधिमयमिति स श्वशुरानमोदयत ॥ ७११ ॥ भर्ताभरणैर्भायों, भवोदधौ भारयन्निमजयति । तारयते नः पुनरयमिति जहपुस्तस्य पन्योऽपि ॥ ७१२ ॥ सायं दीपद्युतिरिव, घनवृष्टौ वाहिनीप्रवाह इव । वरभुवि वृक्षा- कुर इव, तस्य तदाप्यायि संवेगः ॥ ७१३॥ सन्ततुमनङ्सङ्गतमाचक्रामोचितं स मोहनृपम् । आसीदुरुप्रसत्त्या, स हि सवलो द्वादशाङ्गेषु ॥ ७१४ ॥ स चतुर्दशभिः पूर्वं, रतैरिव निधिसमैश्च नवतत्त्वैः । संयुक्तो युक्तमधारक्षमाभूतां क्रवर्तित्वम् ॥ ७१५ ॥ प्रभवः पृष्टस्वजनोऽन्यदा प्रवत्राज गणधरमुपेत्य । शिष्यत्वेन स तेनाप्यदायि जम्बूमुनी- द्राय ॥ ७१६ ॥ श्रीवीरे मोक्षगते, विंशत्यब्दैः सुधर्मगणराजः । समभूत्केवलकमलालीलागृहममलकीर्तिभरः लि१७॥ अष्टौँ समास्ततोऽभूयुगप्रधानः प्रधानगुणकलितः । निश्चिन्त इव शिवश्रियमभजद्दत्वा गणं तस्मै ॥७१८॥ बूरतीत्य वीरप्रभुनिर्वाणात्समाश्चतुःषष्टिम् । प्रभवं श्रुतकेवलिनं, चक्रे गणभारधौरेयम् ॥ ७१९ ॥ समये त्रिजग- नताविनतांहियुगस्य केवलज्ञानम् । निर्वृतिपथप्रदीपं, तस्योत्पेदे तमोभेदि ॥ ७२० ॥ सत्यं स्याद्वणिजां परीक्षण- ला जम्बूकुमारोऽत्यजजाया अष्ट मनोहरा अपि वहिर्यन्मुक्तिकान्ताकृते । चक्रे सापि कृतज्ञतोचितमिमं प्राप्यैक- चित्तं वरं, नान्य कञ्चन भारते नरमसी वबे यतस्तद्दिनात् ॥ ७२१ ॥ ॥ इति श्रीजम्बूखामिचरित्रं समाप्तम् ॥ १ क्षमामृतां सहनशीलानां, राज्ञां च । २ दशभिवर्षरित्यपि । कचित्तु द्वादशवर्षेरिति पाठो दृश्यते । Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Sri Jain Atmanand Sabha, Bhavanagar, and Printed by B. R Ghanekar at the Nirnaya-sagar Press, 23, Kolbhat Lane Bombay. । 1॥ २९॥ NOTL

पं० श्री मुक्तिविमलजी जैनग्रन्यमाला ग्रन्थाङ्क ७
जगत्पूज्य-क्रियोद्धारक सूरिपुरन्दर-श्रीमद् ज्ञानविमलसूरिविरचितवृत्त्युपेतम्
प्रश्नव्याकरणसुत्रम्
प्रकाशक:-सुक्तिविमलंजैनग्रन्थमाला व्यवस्थापका-शांतिलाल हरगोविंददास
देवीशाहनो पाडों अमदावाद
22
that

Shri Jambuswamicharitam

Author
Suri, Jayshekhar
Title
Shri Jambuswamicharitam
File name
Shri Jambuswamicharitam
Text
OCR done
Citation
1911
Published
2010/02
Publisher
Shri Aatmanand Sabha, Bhavanagar
Language
Sanskrit
Pages
62
Library
Prakrit Bharati Academy, Jaipur
DLI number
322199
Barcode
99999990245037.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
gjFBLDQKJOl
Download PDF

Shri Jambuswamicharitam