North Bengal State Library, Coochbehar

Kubalayananda Ed. 2

2006/03/31

PDF Proofread

Front matter

... . ... •111. ... ... ... ..- ४॥ •1. ४ मू. डा.व्य. पञ्चरत्नगीता -कौशेयवत्रबद्धा मध्यमाक्षरा. पञ्चरत्नगीता-कौशेयवस्त्रबद्धा सूक्ष्माक्षरा. पञ्चरत्नगीता-पत्रबद्धा मध्यमाक्षरा. पञ्चदशी-विद्यारण्यकृता, रामकृष्णविरचितटीकासहिता. पार्वतीपरिणयं नाटकम्-महाकविबाणकृतम् पुष्पबाणविलासम्--(श्रीकालिदासकृतं ) पण्डितवरश्रीवेक- टसार्वभौमविरचितया व्याख्यया समेतम् . पूजासमुच्चयः-(विषयाः १०५) "ब्रह्मकर्मसमुच्चयस्य" परिशिष्टरूपः. प्रबोधचन्द्रोदयं नाटकम् –ीम का गणित्रयतिविरचितम्, नाण्डित गोरमा विचित चन्द्रिकाटीका, दीक्षितरामदा- सविरचिता प्रकाशटोका च इत्येताभ्यां सहितम् .. प्रश्नोत्तरपयोनिधिः-बलरामदासमुनि कृतः. सनराघवनाटकम्-श्रीजयदेवकविविरचितम् प्राकृतमञ्जरी-- नुनि । गी 111 गूत्रवृत्तिः. १ पातञ्जलमहाभाष्यम्-(नवाह्निकम् । ) कैयटप्रणीतप्रदीपेन नागेशकृतोद्दयोतेन पायगुण्डेकृतछायया च परिवृतम् । ... ब्रह्मसूत्रशांकरभाष्यम् -रत्नप्रभा-भामती-आनन्दगिरीय- (लयनिर्णय या यात्र योगेतम् । भट्टिकाव्यम्-भट्टिकृतं, जयमालकृतया जयमङ्गलाख्यटी- कया सहितम् (द्विनी यानिः ).... .. भामिनीविलासः-पण्डितराज जगन्नाथविरचितः, अच्युतराय. मोडककृतया प्रणयप्रकाशाख्यटीकया सहितः. भास्करोदया-तर्कसंग्रहदीपिका-प्रकाश(नीलकण्ठी)व्याख्या भोजप्रवन्धः-श्रीबल्लालविरचितः. मध्यसिद्धान्तकौमुदी-वरदराजप्रणीता, इदं पुस्तकं विपुल- टिप्पण्यादिभिरलंकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्ण- क्रमकोशसहितं च मुद्रितमस्ति. मनुस्मृतिः-कुटकभक्तमन्यर्थमुक्तावल्या सहिता मनुस्मृति- स्थपद्यानामकारादिवर्णक्रमकोशसहिता च.... महावाक्यरत्नावलिः-श्रीमत्परमहंसपरिव्राजकाचार्यरामच- न्द्रयतिकृता. अत्रोपनिषत्सारोद्धारः. महावीरचरितं नाटकम्-भवभूतिकृतं वीरावत- टीकासहितम्... महिम्नस्तोत्रम्-मधुसूदनी (शिवविष्ण्वर्थक)व्याख्यया सहितम्. ... ... ... ... १ -17 ... ... ... ... ... ... १॥

COOCH BEHAR.. - श्रीः श्रीमदप्पय्यदीक्षितप्रणीतः कुवलयानन्दः। जयदेवविरचितचन्द्रालोकव्याख्यारूपः चन्द्रालोकसहितः। श्रीमत्तत्सदुपाख्यवैद्यनाथसूरिविरचितया अलंकारचन्द्रिकाव्याख्ययालंकृतः। पणशीकरोपाह्वलक्ष्मणात्मजेन वासुदेवशर्मणा (पाठान्तरैः वर्णक्रमकोशयोजनेन च) परिष्कृतः। (द्वितीयावृत्तिः) सच मुम्बय्याख्यराजधान्यां तुकाराम जावजी इत्येतैर्निर्णयसागराख्य- मुद्रणयन्त्रालयाधिपैः स्वीयेऽनालये संमुद्य प्राकाश्यं नीतः। शाकः १८२९, खीस्ताब्दः १९०७. मूल्यं १४ आणकाः।

इदं पुस्तकं १८६७ स्य २५ तमेशानुशासनेनायित्वा
पुनर्मुद्रणादयोऽधिकारा राजनियमानुसारेण
अयित्रा स्वायत्तीकृताः सन्ति ।
अस्य

अत्रेपन्प्रास्ताविकम् । .. अथ प्रकाश्यतेऽयं कुवलयानन्दोऽलंकारचन्द्रिकया युतः सकलजनमनः- प्रमोदमाधातुम् । अथास्य कर्तुः सुगृहीतनाम्नः श्रीमदप्पय्यदीक्षितस्येतिवृत्तं न किंचित्समासादितमस्माभिरितिहाससाधनविधुरैः । केवलमैतिहमालम्च्य किंचि- दभिधास्यामः । अयं हि पण्डितो द्रविडजातीयः सकलौत स्मार्तक्रियाकलाप- निपुणः सर्वतन्त्रखतन्त्रप्रतिभः कदाचित्काशींगतः प्रभाते कृतभागीरथीलानो निवर्तितप्रातराह्निकः स्वभवनं प्रत्यागच्छन् घटे शयानं कंचिद्युवतीदत्तकण्टग्रह प्रावृताखिलशरीरमपि बहिनिःसृतविस्रसाश्वेतशिखं पुरुषमद्राक्षीत् । अवादीच तं क्रोधविस्मयकरुणाभिर्युगपदभिभूतचेताः- 'किं निःशङ्क शेषे शेषे वयसि त्वमागते मृत्यौ' इति । तदाकर्ण्य यावदुन्क्षिप्य पटमवलोकयति वक्तारं स शयानः पुरुषस्तावदिमं पण्डितराज जगन्नाथमभिज्ञाय श्रीमदप्पय्यदीक्षित उत्तरार्धमिदं पपाठ । 'अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी भवतः' इति । इति किंवदन्त्या पण्डितराजसमकालीनत्वमस्यावगम्यते । पण्डितराजस्तु 'शहाजहानाभिधयवनसार्वभौमस्य संसदि प्रवेशं लब्धवान् । अधिगतवांश्च निजविद्याचमत्कारपरितोषितात्तस्मादेव पण्डितराजपदवीम् । स्थितश्च प्रथमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनोर्दाराशिकोहस्य समीपे । शहाजहानमही- पतिस्तु १६२८ ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ ख्रिस्ताब्दे औरंगजेवनाम्ना वपुत्रेण कारागृहे निवेशितः १६६६ ख्रिस्ताब्दे च पञ्चत्वं गतः । पण्डितराजोऽपि वार्धके श्रीकाइयां मथुरायां वा गत्वा परमेश्वरा- राधनेन वयःशेषं नीतवान् । तस्मात् ख्रिस्ताब्दीयसप्तदशशतकमध्ये पण्डित- राज आसीदिति सुव्यक्तमेव' इति निर्णीतवान् गगतापरभूमि का जय- पुरस्थो दुर्गाप्रसादनामा पण्डितः । तेनास्य कुवलयानन्दस्य प्रणेतुः श्रीम- दप्पय्यदीक्षितस्य जीवनकालोऽपि ख्रिस्ताव्दीयसप्तदशशतकमेवेत्सवसीयते ।

श्रीमद्दीक्षितैश्चतुरधिकशतं १०४ प्रन्थाः प्रणीता इति श्रूयते तेषामेकतमो- ऽयमलंकारशास्त्रविषयो प्रन्थः । अत्र श्रीजयदेवप्रणीतं चन्द्रालोकमेव मूलतया परिगृह्योपमादिहेत्वलंकारान्ताः शतमलंकारा निरूपिताः । अप्रे च रसवदादयः संकरसंकरान्ताश्चतुर्विशतिरलंकाराः खातव्येणैव निरूपिताः । एतच्च मूलएव प्रन्थकृता दर्शितम्- 'येषां चन्द्रालोके हरयन्ते लक्ष्यलक्षणश्लोकाः। प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते' इति । मोऽयमलंकारशास्त्रमध्येनृणामुपयोगायालंकारचन्द्रिकाम्यया टीकया सहितः प्राचीनत्रैिः पुस्तकैः संवाद्य पाठभेदटिप्पणीभिश्च संयोज्यतदन्तर्गतानां सर्वे. षामपि श्लोकानामकारादिवर्णक्रमेण सूची च प्रदर्य परिष्कृतोऽध्येतृणामुपका- राय प्रभूयादित्याशास्ते- विदुषामनुचरः पणशीकरोपाह्वो वासुदेवशर्मा ।

चन्द्रालोकविषयक्रमः। १ ... विषयः पृष्ठं. विषयः पृष्ठं. प्रथममयूखः १. तृतीयमयूखः ३. १ तत्र काव्यहेतुः ७ काव्यविशेषलक्षणानि २ काव्यलक्षणम् ३ रूढियौगिकम् चतुर्थमयूखः ४. ४ सामान्यपरिवृत्तिसिद्धकथनम् २ ८ काव्यगुणवर्णनम्.... ५ क्रमेण तदुदाहरणानि २ पञ्चममयूखः ५. .द्वितीयमयूखः २. ९ शब्दालंकारपरिसंख्यानम् ६ काव्यदोषवर्णनम् ... ३ १० अर्थालंकारपरिसंख्यानम्... ... ८ कुवलयानन्दविषयक्रमः। विषयः पृष्ठं. / क्रमः विषयः पृष्टं. ... ... ... ४९ ... ... ... ६२ ... ... ... ... ६४ मङ्गलाचरणम्. ग्रन्थकरणप्रतिज्ञा १ उपमालंकारः २ अनन्वयालंकारः ३ उपमेयोपमालंकारः ४ प्रतीपालंकारः ५ रूपकालंकारः ६ परिणामालंकारः ७ उल्लेखालंकारः ८ स्मृत्यलंकारः ९ भ्रान्त्यलंकारः १० संदेहालंकारः ११ अपहुत्यलंकारः १२ उत्प्रेक्षालंकारः १३ अतिशयोक्त्यलंकारः १४ तुल्ययोगितालंकारः १/१५ दीपकालंकारः २ १६ आवृत्तिदीपकालंकारः ३ १७ प्रतिवस्तूपमालंकारः ९ १८ दृष्टान्तालंकारः १९ निदर्शनालंकारः ११ २० व्यतिरेकालंकारः १५/२१ सहोक्त्यलंकारः २० २२ विनोक्त्यलंकारः ... २१/ २३ समासोक्त्यलंकारः २३ | २४ परिकरालंकारः २३ २५ परिकराङ्कुरालंकारः २३ २६ श्लेषालंकारः २५ / २७ अप्रस्तुतप्रशंसालंकारः ३१२८ प्रस्तुताकुरालंकारः ३८ २९ पर्यायोक्तालंकारः... ४६.३० व्याजस्तुत्यलंकारः... ७४ ... ... ... ८४ ... ... ८७ ९१ ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... क्रमः विषयः पृष्ठं. क्रमः विषयः पृष्ठं. ३१ व्याजनिन्दालंकारः ९४६५ मिथ्याध्यवसित्सलंकारः ... १३६ ३२ आक्षेपालंकारः ९६/६६ ललितालंकारः १३७ ३३ विरोधाभासालंकारः ६७ प्रहर्षणालंकारः ३४ विभावनालंकारः ९८६८ विषादनालंकारः... १४१ ३५ विशेषोक्त्यलंकारः १०१ ६९ उल्लासालंकारः १४१ ३६ असंभवालंकारः... १०२ ७० अवज्ञालंकारः १४३ ३७ असंगत्यलंकारः १०२/७१ अनुज्ञालंकारः १४४ ३८ विषमालंकारः १०५ / ७२ लेशालंकार: १४४ ३९ समालंकारः ११० ७३ मुद्रालंकारः १४६ ४० विचित्रालंकारः ११२ ७४ रत्नावल्यलंकारः १४७ ४१ अधिकालंकारः ११३/ ७५ तद्गुणालंकारः १४९ ४२ अल्पालंकारः ११४ ७६ पूर्वरूपालंकारः १४९ ४३ अन्योन्यालंकारः... ११४ ७७ अतद्गुणालंकारः... १५० ४४ विशेषालंकारः ११५ ७८ अनुगुणालंकारः... ४५ व्याघातालंकारः ११६ / ७९ मीलितालंकारः ४६ कारणमालालंकारः ११७ ८. सामान्यालंकारः १५२ ४७ एकावल्यलंकारः ११८८१ उन्मीलितालंकारः १५३ ४८ मालादीपकालंकारः ११८८२ विशेषकालंकारः... १५३ ४९ सारालंकारः ११९ ८३ उत्तरालंकारः १५४ ५० यथासंख्यालंकारः १२० ८४ सूक्ष्मालंकारः ५१ पर्यायालंकारः १२० ८५ पिहितालंकारः १५६ ५२ परिवृत्त्यलंकारः.. १२२ / ८६ व्याजोक्त्यलंकारः ५३ परिसंख्यालंकारः... १२२ ८७ गूढोक्त्यलंकारः. ५४ विकल्पालंकारः १२३ ८८ विवृतोक्त्यलंकारः ५५ समुच्चयालंकारः... १२३ / ८९ युक्त्यलंकारः १६० ५६ कारकदीपकालंकारः १२४ ९० लोकोतयलंकारः... १६१ ५७ समाध्यलंकारः १२५ / ९१ छेकोक्त्यलंकारः १६१ ५८ प्रत्यनीकालंकारः... १२५ ९२ वक्रोक्त्यलंकारः ५९ अर्थापत्त्यलंकारः १२६ ९३ खभावोक्त्यलंकारः १६३ ६. काव्यलिङ्गालंकारः १३१ ९४ भाविकालंकारः १६४ ६१ अर्थान्तरन्यासालंकारः... १३१ ९५ उदात्तालंकारः १६४ ६२ विकखरालंकारः १३४ / ९६ अत्युक्यलंकारः... १६४ ६३ प्रौढोक्त्यलंकारः... १३५ / ९७ निरुक्त्यलंकारः ६४ संभावनालंकारः १३५ ९८ प्रतिषेधालंकारः... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

mm ... ... ... ... ... क्रमः विषयः पृष्ठं. क्रमः विषयः पृष्ठं. ९९ विध्यलंकारः ... १६६ / ११३ आत्मतुष्टिप्रमाणालंकारः १७५ १०० हेत्वलंकारः १६७ ११४ श्रुत्यलंकारः १७६ १०१ रसवदलंकारः .... १६८ ११६ अर्थापत्त्यलंकारः १०२ प्रेयोऽलंकारस्य भा- ११६ अनुपलब्ध्यलंकारः १७७ वालंकारत्वम्... १७० ११७ संभवालंकारः... १७७ १०३ ऊर्जखदलंकारः १७० ११८ ऐतिह्यालंकारः... १७८ १०४ समाहितालंकारः १७१ ११९ अलंकारसंसृष्टिः १०५ भावोदयालंकारः १७१ १२० अङ्गाङ्गिभावसंकरः १७९ १०६ भावसंध्यलंकारः १७२ १०७ भावशबलालंकारः १२१ समप्राधान्यसंकरः १८१ १७२ १२२ संदेहसंकरालंकारः १०८ प्रत्यक्षालंकारः १८३ ... १७२ १०९ अनुमानालंकारः १७३ १२३ एकवाचकानुप्रवेशसंकरः १८४ ११. उपमानालंकारः १७४ १२४ संकरसंकरालंकारः १८६ १११ शाब्दप्रमाणालंकारः... १७४ १२५ ग्रन्थावसाने कविनामादि- ११२ स्मृत्यलंकारः... वर्णनम् १८८ ... ... ... ... ... ... संपूर्णेयं कुवलयानन्दविषयानुक्रमणी।

No text on this page.

श्री॥
चन्द्रालोकः।
प्रथमो मयूखः १
श्रीगणेशाय नमः।
उचैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव-
ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका
सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥१॥
हहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा-
नेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव ।
उल्लासाय विचारवीचिनिचयालंकारवारांनिधे-
श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥२॥
युक्त्यास्वाद्यलसदसैकवसतिः साहित्यसारस्वत-
क्षीराम्भोधिरगाधतामुपद्धत्सेव्यः समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग-
जाग्रद्भास्वरपद्मकेशरशयः शीतांशुरस्माहुधाः ॥ ३॥
तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः ।
यं निपत्य प्रकाशन्ते महुणत्रसरेणवः ॥४॥
नाशङ्कनीय पूर्वेषां मतमेतेन दृष्यते।
किंतु चक्षुर्मंगाक्षीणां कजलेनैव भूष्यते ॥५॥
काव्यहेतुमाह-
प्रतिभैव श्रुताभ्याससहिता कवितां प्रति ।
हेतुर्मूदम्बुसंबद्धबीजव्यक्तिलतामिव ॥६॥
काव्यलक्षणमाह-
निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।
सालंकाररसानेकवृत्तिर्वाकाव्यनामभाक् ॥७॥
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८॥
विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते ।
रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्त्रिधा ॥९॥

२
चन्द्रालोकः ।
अव्यक्तयोगनियोंगयोगाभासैस्त्रिधानिमः।
ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १०॥
शुद्धतन्मूलसंभिन्नप्रभेदैयौगिकस्त्रिधा।
ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११ ॥
रूढियौगिकमाह-
तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् ।
नीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२॥
सामान्यपरिवृत्त्या यत्सियति तदाह-
क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति ।
विभक्त्यन्तं पदं वाक्यं तद्यूहोऽर्थसमाप्तितः ॥१३॥
युक्तार्थता तां च विना खण्डकाव्यं स इष्यते ।
वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ।।
क्रमादुदाहरति-
धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा ।
वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १५ ॥
महादेवः सत्रप्रमुखमखविघ्नैकचतुरः
सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १६ ॥
निजगच कविनिरनिने नन्दालोका कारवाम्बिचा नाम प्रथमो मयूखः ।
द्वितीयो मयूखः १
दोषनिरूपणम्-
स्याञ्चेतोविशता येन सक्षता रमणीयता।
शब्देऽर्थे च कृतोन्मेषं दोषमुद्धोपयन्ति तम १॥
भवेच्छुतिकटुवर्णः श्रवणोद्वेजने पटुः ।
विदुष्यते व्याकरणविरुद्धच्युतसंस्कृतिः ॥ २ ॥
अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम् ।
असमर्थ तु हन्त्यादेः प्रयोगो गमनादिषु ॥ ३॥
स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः ।
निहतार्थ लोहिताद्री शोणितादिप्रयोगतः॥४॥
एकाक्षरं विना भूधूक्ष्मादिकं खतलादिवत् ।
व्यनत्यनुचितार्थ यत्पदमाहुस्तदेव तत् ॥ ५ ॥
इयमुद्धतशास्त्रापलिकौतुकवानरी ।
निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥ ६॥

दोषनिरूपणम् । ३ अर्थे विदधदित्यादौ दधदाद्यमवाचकम् । धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः॥७॥ अश्लीलं त्रिविधं ब्रीडा जुगुप्साऽमङ्गलात्मना । आहादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८॥ स्याद्यर्थमिह संदिग्द्यं नद्यां यान्ति पतत्रिणः । स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥९॥ शिथिलं शयने लिल्ये मञ्चित्तं ते शशिश्रियि । मस्तपृष्ठकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥ १० ॥ नेयार्थ लक्षणात्यन्तप्रसरादमनोहरम् । हिमांशोहारधिक्कारजागरे यामिकाः कराः॥११॥ क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति । हरिप्रियापितृवार (?)प्रवाहप्रतिमं वचः ॥१२॥ अविमृष्टविधेयांशः समासपिहिते विधौ । विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ १३ ॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥ रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥ १५ ॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसंधिः पटवागच्छ विसंधिपती इमौ ॥१६॥ हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् । विशाललोचने पश्याम्बरं तारातरङ्गितम् ॥१७॥ नूनं त्वत्खङ्गसंभूतं यशःपुष्पं नभस्तलम् । अधिकं भवतः शन्दशत्यसिलताफणी ॥ १८ ॥ कथितं पुनरुक्ता वाक्छायाजश्यामलोचना । विकृतं दूरविकृतैरैयरुः : कुअराः पुरम् ॥ १९ ॥ पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः॥२०॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिबान्धवः ॥ २१ ॥ अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् । मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः। येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३ ॥ स एष लङ्कालंकारं रावणं हन्तुमुद्यतः ।

चन्द्रालोकः ।
द्विषां संपदमाच्छिद्य यः शन्समपूरयत् ॥ २४ ॥
असानलसमासभविखनमनोरमम् ।
मिथः पृथग्वाक्यपदैः संकीर्ण यत्तदेव तत् ॥ २५॥
वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते।
ब्रह्माण्ड त्वद्यशःपूरगर्मितं भूरिभूषणम् ॥ २६ ॥
आकर्णय पयःपूर्णसुवर्णकलशायते ।
भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ॥ २७ ॥
अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः।
अमत्तार्थान्तरं मुख्येऽमुख्ये वाथै विरोधकृत् ॥ २८ ॥
त्यत्तहारमुरः कृत्वा शोकेनालिकिताना ।
अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ॥ २९ ॥
विशन्ति हृदयं कान्ताकटाक्षाःखअनत्विषः।
कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसंनिभः ॥ ३०॥
व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः।
सहस्रपत्रमित्रं ते वर्क केनोपमीयते ॥३१॥
कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ।
दुःक्रमग्राम्यसंदिग्धास्त्रयो दोषाः क्रमादमी ॥३२॥
त्वद्भक्तः कृष्ण गच्छेयं नरकं स्वर्गमेव वा।
एकं मे चुम्बनं देहि तव दास्यामि कचकम् ॥ ३३ ॥
ब्रूत कि सेव्यतां चन्द्रमुखी चन्द्रकिरीटयोः।
अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ॥ ३४॥
प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ।
न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ॥ ३५ ॥
केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ।
सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा। ३६ ॥
विशेषपरिवृत्तिः स्यादयिता मम चेतसि ।
द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती ॥ ३७॥
ध्वाजाः सन्तश्च तनयं स्वं परं च न जानते।
सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय ॥ ३८ ॥
पालयिष्यति ते गोत्रमसौ नरपुरन्दरः।
पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ॥३९॥
यथानुसारमभ्यूहेहोषान्छब्दार्थसंभवान् ।
दोषमापतितं स्वान्ते प्रसरन्तं विशालम् ॥ ४०॥
निवारयति यत्रेधा दोषाशमुशन्ति तम् ।
दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति ॥४१॥

लक्षणनिरूपणम् । भवन्तमथवा दोष नवत्यत्वरज्यतमिसौ। मुख चन्द्रश्रियं धत्तेश्वेतश्मश्चकरारी॥ ४२ ॥ अत्र हास्यरसोद्देशे प्राम्यत्वं गुणतां गतम् । तव दुग्धाब्धिसंभूतेः कथं जाता कलङ्किता ॥४३॥ कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। दधार गौरी हृदये देवं हि-मकरालितम् ॥४४॥ अत्र श्लेषोदयात्रैव त्याज्यं हीति निरर्थकम्। इति श्रीजयदेवकविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः॥ तृतीयो मयूखः ३ अथ लक्षणानि- अन्स्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः। उपाकान्तेनानुगतः शूरः शौरिरय पुनः॥१॥ शोभायातोऽपि यहोषो गुणकीर्त्या निषिध्यते । मुधा निन्दति संसारं कंसारियंत्र पूज्यते ॥२॥ अभिमानो विचारश्चेदुहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीव्रः सूर्यो यदि कय निशि ॥३॥ हन्तुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम्। नेन्दुर्नार्कोऽयमौर्वाग्निः सागरादुस्थितो दहन् ॥ ४॥ प्रतिषेधः प्रसिद्धानां कारणानामनादरः। न युद्धे न भुवोः स्पन्दे नैव धीरा निवारिताः ॥५॥ निरुक्तं स्यानिर्वचनं नासः सत्यं तथानृतम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥६॥ स्थान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रनधितां नमःपुष्पस्रजं वह ॥७॥ सिडिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधि लैः॥ ८॥ युक्तिर्विशेषसिद्धिद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदः कोऽपि स्वर्ण वर्षसि यन्मुहुः ॥९॥ कार्य फलोपलम्भश्चेद्यापाराद्वस्तुतोऽथवा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १० ॥ १ अत्र स्वर्णपदेन कनकं पक्षे मुष्टु अर्णः उदकम् ।

६
चन्द्रालोकः ।
इत्यादि लक्षणं भूरि काव्यस्याहुमहर्षयः।
स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीभुजः ॥ ११ ॥
इति श्रीजयदेवकविवरविरचिते चन्द्रालोके लक्षणनिरूपणो नाम तृतीयो मयूखः॥
चतुर्थो मयूखः ४
अथ गुण:-
श्लेषो विघटमानार्थघटमानत्ववर्णनम् ।
स तु शब्दैः सजातीयैः शब्दैर्बन्धः सुखावहः ॥१॥
उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।
भीतया मानवत्येव श्रियाश्लिष्टं हरिं स्तुमः॥२॥
यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते ।
सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः॥३॥
समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा।
श्यामला कोमला बाला मरणं शरणं गता ॥४॥
समाधिरर्थमहिमा लसद्धनरसात्मना।
स्यादन्तर्विशता येन गात्रमरितं सताम् ॥५॥
माधुर्य पुनरुक्तस्य वैचित्र्यचारुतावहम् ।
वयस्य पश्य पश्यास्य चञ्चलं लोचनाञ्चलम् ॥ ६॥
ओजः स्यात्प्रौढिरर्थस्य सङ्खपो वातिभूयसः ।
रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥७॥
सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् ।
स कथाशेषतां यातः समालिङ्गय मरुत्सखम्॥८॥
उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ्मता ।
मानं मुञ्च प्रिये किंचिल्लोचनं समुदञ्चय ॥९॥
शृङ्गारे च प्रसादे च कान्त्यर्थ व्यक्तिसंग्रहः ।
अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १० ॥
तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम् ।
व्यतिरिक्तमलंकारप्रकृतेर्भूषणं गिराम् ॥ ११ ॥
विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती।
शास्त्रान्तररहस्योक्तिः संग्रहो दिक् प्रदर्शिता ॥ १२ ॥
इति श्रीजयदेवकविवरविरचिते चन्द्रालोके गुणनिरूपणो नाम चतुर्थो मयूखः॥४॥

शब्दालंकारनिरूपणम् ।
७
पञ्चमो मयूखः ५
..
शब्दालंकारपरिसंख्यानम्-
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलंकारसंनिवेशो मनोहरः॥१॥
स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः।
गौर्जगजाग्रदुत्सेकाच्छेकानुप्रासभासुरा ॥२॥
आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः।
अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमन्दिरम् ॥३॥
लाटानुप्रासभूभिन्नाभिप्राया पुनरुक्तता।
यत्र स्थान पुनः शत्रोगर्जितं तर्जितं जितम् ॥ ४॥
श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥५॥
उपमेयोपमानादावर्थानुप्रास इष्यते ।
चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६॥
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् ।
अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ७ ॥
आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कवेः।
यमकं प्रथमाधुर्य माधुर्य वचसो विदुः ॥ ८ ॥
काव्यवित्प्रघरैश्चित्रं खड्गबन्धादि लक्ष्यते ।
तेवाद्यमुच्यते श्लोकद्वयी सज्जनरञ्जिता ॥९॥
कामिनीव भवेत्खगलेखा चारुकरालिका।
काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥१०॥
शब्दालंकारानिरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां
अनुक्रमणिका लिख्यते-
उपमानन्वयावादावुपमेयोपमानता।
प्रतीपं रूपकं चैव परिणामस्ततो मतः॥१॥
उल्लेखः स्मृतिमद्धान्तिमत्संदेहा अपडुतिः ।
उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥२॥
दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् ।
प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना ॥ ३॥
व्यतिरेकः सहोक्तिश्च विनोक्तिस्तदनन्तरम् ।
समासोक्तिः परिकरस्तथा परिकराकुरः॥४॥
श्लेषो ज्ञेयोऽप्रस्तुतप्रशंसा च प्रस्तुताहरः।
पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥५॥

आक्षेपालंकृतिश्चैव विरोधाभास एवं च। विभावना विशेषोक्तिरसंभव उदाहतः॥६॥ असङ्गतिश्च विषम समं चैव विचित्रकम् । अधिकालकृतिधाल्पालंकृतिस्तदनन्तरम् ॥ ७॥ अन्योन्यं च विशेषश्च व्याघातालंकृतिस्ततः। हेतुमालैकावली च मालादीपकसाधको ॥ ८॥ यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता। परिसंख्यालंकृतिः स्याद्विकल्पस्तदनन्तरम् ॥९॥ समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम् । समाधिः प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥१०॥ काव्यलिङ्ग ततश्चार्थान्तरन्यास उदाहृतः। विकस्वरः स्यात्प्रौढोक्तिः संभावनमतः परम् ॥११॥ मिथ्याध्यवसितिश्चैव ललितं च महर्षणम् । ततो विषदनोल्लासाववज्ञालंकृतिस्ततः ॥१२॥ अनुशा शैलमुद्रा च रत्नावल्यपि तद्वणः । स्यात्पूर्वरूपालंकारोऽतहणानुगुणावपि ॥ १३ ॥ मिलितं चैव सामान्यमुन्मीलितनिमीलितौ । उत्तरं सूक्ष्मपिहितं व्याजोक्तिस्तदनन्तरम् ॥ १४ ॥ गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेष च । छेकोक्तिथैव वक्रोक्तिः स्वभावोक्तिश्च भाविकम् ॥ १५॥ उदात्तं तत्तदात्युक्तिनिरुक्तिस्तदनन्तरम् । प्रतिषेधो विधिहेतुरित्यलंकृतयः शतम् ॥ १६ ॥ इत्यलंकारानुक्रमणिका ॥

श्रीः। श्रीमदप्पैयदीक्षितविरचितः कुवलयानन्दः। అనడం अलंकार चन्द्रिकाख्यव्याख्यासमेतः । श्रीगणेशाय नमः। अमरीकबरीभारभ्रमरीमुखरीकृतम् । दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १॥ परस्परतपःसंपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२॥ अलंकारचन्द्रिका। अनुचिन्त्य महालक्ष्मी हरिलोचनचन्द्रिकाम् । कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥१॥ चिकीर्षिताविघ्नसिद्धय इष्टदेवतां स्तौति-अमरीति ॥ अत्र चरणमेव पङ्क- जमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः। चरण आरोप्यमाणस्य पङ्कजस्यारोपविषयचरणात्मतापरिणति विना दुरितदूरीकरणक्रियार्थत्वासंभवात् । 'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना' इति तल्लक्षणात् । नच पहजमिव चर- णमिति पूर्वपदार्थप्रधान उपमितसमास एवास्त्विति शङ्कयम् । अमरीणां कबरी- भारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या श्रमरी तया मुखरी- कृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति एनद्विशेषणा- वगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रतिः कविगता तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १ ॥ परस्परेति ॥ प्राञ्चौ पुरातनौ जायापती अर्थादुमामहेश्वरी स्तुमः । किंभूतौ । प्रपञ्चस्य जीववर्गस्य मातापितृ- रूपी निरुपाधिकृपाश्रयत्वाद्धितोपदेष्टत्वाच्च । तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः फलवदाचरितं परस्परखरूपं ययोस्तौ । अत्र परशब्दस्य क्रियाविनिमयविवक्षायां 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे 'पूर्व- पदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः खादेशे च परस्परशब्दव्युत्पत्तेः पार्वती- तपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिता च पार्वतीत्यर्थो लभ्य- ते। तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदत्व- लक्षणः शृङ्गारो व्यज्यमानः सौभाग्यातिशयव्यजनमुखेन शिवयोर्भावप्रकर्षे पर्यव- २ कुवलयानन्दः। [उपोद्धातः १ उद्घाटय योगकलया हृदयाब्जकोशं धन्यश्विरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥३॥ अलंकारेषु बालानामवगाहनसिद्धये । ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥४॥ येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः । स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुत्तोपमयोः संसृष्टिः । परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षणः संकर इति दिक् ॥ २ ॥ संप्रति सिविपदनिपिनानाम र कागणां व्युत्पत्तेः खतोऽपुरुषार्थतया फलत्वा- योगात्तस्या रसाखादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं शृङ्गाररसाधिदैवतं श्रीकृष्णंप्रति साखादानन्दं प्रार्थयते-उद्धाट्येति ॥ स मु. कुन्दो मे मां शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विगलि- तवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु ददात्वि- त्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसंगत्यापत्तेः । स कः । यो धन्यैर्महा- महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन हृदयाब्जस्य उरसो मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक- प्राणायामेनोर्ध्वमुखं कृत्वा चिराद्बहुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृ. वायभिमनमृध्यिानगोचरीक्रियमाणोऽपि परितः पूर्ण रूपमस्य तथाभूतोऽपरि- च्छिन्नब्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालं. कारः । औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः । अथवा योगिभिरप्यचि- न्यस्वरूप इति माहात्म्यातिशयवर्णनम् । अत्र योगिगतभगवद्विषयकरतिभावस्य फविगतं तं प्रत्यङ्गतया प्रेयोलंकारः ॥ ३ ॥ चिकीर्षितस्य ग्रन्थ प्रयोजनाभि- धेये प्रदर्शयति-अलंकारेष्विति ॥ एतच्चोभयान्वयि । कारेष्वर्थालंकारे- पूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इत्यर्थः । तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षत्वान्समासः । लक्ष्यमुदाहरण- म् । अलंकारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विष- यितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रा- सादिविशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्व- यः । शब्दार्थयोनिनिष्ठचमत्कृतिजनकताया विषयितयावच्छेदकत्वेन तद्विशेष- णीभूतानुप्रासोपमादेस्तनिष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाद्यलंकारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानम् ॥ ४ ॥ परकीयप्रन्थाप- हारशङ्कानिरासायाह-येषामिति ॥ येषामलंकाराणां चन्द्रालोके चन्द्रालोका- १ 'कौशल्येन'.

उपमालंकारः १] अलंकारचन्द्रिकासहितः । प्रायस्त एव तेषामितरेषां स्वभिनवा विरच्यन्ते ॥५॥ - उपमालंकारः १ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः। हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥६॥ ख्यग्रन्थे । त एवेत्यनन्तरं लिख्यन्त इति शेषः। स्थितानामपि केषांचिदलेखना- त्प्राय इत्युक्तम् । यथानन्तरश्लोकस्योत्तरार्धम् । तत्रैवं दृश्यते 'हृदये खेलतोरु- चैस्तन्वङ्गीस्तनयोरिव' इति । स्वयं त्वन्यदेव विरचितमिति । एवंच तदीयत्वेन कथनादाशङ्कानिरासः ॥५॥ संप्रत्यर्थालंकारेषु निरूपणीयेषु बहलालंकारघटकतया सुप्रसिद्धतया च प्रथम- मुपमालंकारं लक्षयति-उपमेति ॥ अयं च लक्ष्यनिर्देशः। शेषं लक्षणम् । सादृश्यलक्ष्मीश्चमत्कृतिजनकता । नहिशिना गमिति यावत् । धर्मधर्मिणोरभे- दोपचारालक्षणं व्याचष्टे यत्रेति ॥ यत्र काव्ये वृत्तित्वं सप्तम्यर्थः । तच्च शक्ति- लक्षणान्यतरसहकारेण बोधकत्वसंबन्धेन । उपमानमधिकगुणं चन्द्रादि उपमेयं वर्ण्यमानं कामिनीवदनादि सहृदयः काव्यभावनापरिपक्कबुद्धिः व्यङ्ग्यस्य मर्यादा प्रतीतिनियमरूपा यया सा व्यजनेत्यर्थः । अत्र चोपमानोपमेययोरिति वरूपक- थनं नतु लक्षणान्तर्गतं व्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमानत्वो- पमेयत्वयोरुपमाघटितत्वात् । एतच्चाग्रे व्यक्तीभविष्यति । इत्थं चालंकारत्वे सति सादृश्यमुपमालंकारलक्षणं बोध्यम् । एवमग्रेऽधिकार प्राममलंकारच विशेषण बोध्यम् ॥ हंसीत्यादि ॥ अत्र तावदिवार्थ सादृश्ये निरूपितत्वसंसर्गेण संस्था- देरन्वयः । सादृश्यस्य प्रयोजकत्वसंसर्गेण वर्गङ्गावगाहनाश्रयत्वरूपे साधारणधर्मे तस्य च स्वरूपसंबन्धेन कीतौ सादृश्यस्य निपातार्थतया नामार्थ प्रति साक्षात्संब- न्धेन विशेष्यत्वे विशेषणत्वे च बाधकाभावात् । तथाच हंसीनिरूपितसादृश्यप्रयो- जास्वर्गलाकर्मकावगाहनाश्रयत्ववनी कीर्तिरिति बोधः । नचैवं खगङ्गावगाहन- मिवशब्दश्चेत्याद्यग्रिमप्रन्थे धात्वर्थस्य समानधर्मवोक्तिर्विरुद्धेति वाच्यम् । तदा- श्रयत्वस्य समानधर्मत्वे तस्य 11 सोनिन विरोधाभावात् । तथा सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न । धात्वर्थनिष्ठविशेष्यतानिरूपितप्रका- रतासंसर्गेण शाब्दबोधे विशेष्यतया विभक्त्यर्थोपस्थितेहेतुत्वात् । नच निपा- तार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम् । घटो न पश्यतीत्यादौ घटाद्य- न्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः । यदि तु धात्वर्थेऽपि तात्पर्यव- शात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धान्यर्थनिष्टविशेष यनानिम्पिताकारतासंबन्धे. नान्वयबुद्धिं प्रति नजन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यती- त्यादौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक् । एवमरविन्दमिव सुन्दरवदन- मित्यादावरविन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सुन्दरपदार्थकदेशेऽपि सुन्दरत्वेऽनुभवबलादन्वयस्तद्विशिष्टस्य चाभेदेन मुखादी। इत्थं चारविन्दनिरू- १ कुवलयानन्दः। [ उपमालंकारः १ पितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः । अरविन्दसुन्दरमितिस मासे त्वरविन्दपदेनारविन्दनिरूपितसादृश्यप्रयोजकंलक्ष्यतेोतच्चाभेदेन पदार्थैकदेशे सौन्दर्येऽन्वेति । एवंचारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं वद- नमित्यन्वयबोधः । एकदेशान्वयायोगादरविन्दपदमेव लक्षणया सर्वार्थबोधकं सु- न्दरपदं तु तात्पर्यग्राहकमित्येके । अरविन्दमिव वदनमित्यत्रारविन्दनिरूपितसाद- श्यवद्वदनमिति बोधः। सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये बाधकाभावा- त् । अरविन्दमिव भातीत्यत्र भातर्ज्ञानार्थकत्वेऽरविन्दपदस्यारविन्दनिरूपित- सादृश्यप्रकारकज्ञानविषये लक्षणा । तस्य चाभेदेन मुखादावन्वयः । शेषं तात्प- र्यग्राहकम् । पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः । अ- त्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्य. प्रयोज्यारविन्दनिरूपितसादृश्यप्रकारकज्ञानविषय इति बोधः । आद्यकल्पे त्वरवि- न्दपदमेव सर्वार्थबोधकमितरत्तात्पर्यग्राहकमिति ध्येयम् । इयंच सादृश्यस्य पदार्था- न्तरत्वमते शाब्दबोधरीतिरुपदर्शिता । तस्य समानधर्मरूपत्वे तु चन्द्र इव मुख- मित्यादौ चन्द्रवृत्तिधर्मवन्मुखमिति बोधः । अत्रैवाहादकमिति समानधर्मोपादाने इवार्थस्य धर्मस्याह्लादकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठा- ह्लादकत्ववति आह्लादकपदस्य लक्षणा । चन्द्रादिपदं तात्पर्यग्राहकम् । चन्द्रसदृ- शमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः । ससंबन्धिकत्वात् । सदृशपदं वा चन्द्र- सादृश्यविशिष्टे लाक्षणिकम् । अत्रैवाह्लादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्य च सह- शपदार्थैकदेशे धर्मेऽन्वयः। तथा चाह्लादकत्वाभिन्नचन्द्रवृत्तिधर्मवदभिन्नं मुखमि- ति बोधः । सदृशपदमेव वा सर्वार्थबोधकमितरत्तात्पर्यग्राहकमित्येवंविधान्वयसर- णिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेया इत्यलं प्रसक्तानुप्रसक्तपरिचिन्त- नेन ॥ पूर्णोपमेतीत्यनन्तरमालंकारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्त- शब्दशक्तिप्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे च सति विशेषतः खनिरूढशब्दगम्यत्वं स्वपदमुपमापरम् । उपमानलुप्तायामपि लगोगमान:मिनि-1;filT शक्तीति । उपमेयलुप्तायां रवधूयन्तीत्यादा- वात्मन उपमेयस्याध्याहृतेनात्मानमिति शब्देन बोधनादुप.तात शब्दविशेषणम् । एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो. पमायामुपमानस्य च गहरा पदोपानावाद्विशेषत इति उपमेयोपमानतावच्छेदक- रूपेणेत्यर्थः । धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत इति । उपमाप्रयोजकतावच्छेदकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमा- नादिपदेनोपमावगमात्तद्वारणाय विशेषतः खनिरूढेति। उपमायां च निरूढा 'इव- वद्वायथाशब्दा' इत्याद्यभियुक्तोक्तिसंगृहीता इवादयः। अत्र निपातरूपस्येवादेरु- पसगवद्द्योतकत्वमेव । कथमन्यथा शरैरुपैरिवोदीच्यानुद्धरिष्यन्नसानिव' इत्यादा- वुस्रादिपदोत्तरतृतीयादिसङ्गतिः । उस्रादेरुद्धरणक्रिया प्रत्यकरणत्वात्, इवार्थे सा- दृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाच्च द्योतकत्वे तूलादिपदस्योस्रसह- उपमालंकारः १] अलंकारचन्द्रिकासहितः । - यत्रोपमानोपमेययोः सहृदयाहादकत्वेन चारुसारश्यमुद्भूततयोल्लसति व्यायमर्यादा विना स्पष्टं प्रकाशते तत्रोपमालंकारः । हंसीवेत्युदाहरणम् । इयंच पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दवेत्येतेषामुप- मानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । यथावा- 'गुणदोषौ बुधो गृहन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥' अत्र यद्यप्युपमानोपमेययो.कः साधारणो धर्मः । उपमाने ईश्वरे चन्द्र- गरलयोग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्लाघनं वहनमुत्त- रस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोग्रहणं ज्ञानं शपरतयोस्रसदृशः शरैरिति शरविशेषणत्वेन तृनियादिसहनिरिनि वैयाकरणमतं तु नादरणीयम् । उपास्यते गुरुरित्यादी धात्वर्थासनक्रियाया अकर्मकतया कर्मल- कारानुपपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेन दृष्टान्त- वैषम्यस्य स्फुटत्वात् । विशेषणविशेष्ययोः समानविभक्तीकतायां 'विशेष्येण सहै- कार्थ भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे॥' इत्यनुशा- सनस्येवोपमानोपमेययोरपि तस्यां 'लिङ्गसंख्याविभेदेऽपि हापमानोपमेयता। विभ- क्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृतीयादेः साधुत्वार्थतयोपपत्तेश्च । तस्माद्वाचकत्वमेवेवादीनाम् । युक्तं चैतत् । अन्यथा सक- लालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाञ्जलित्वापत्तेः । रूढिप्रयोज- नयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत्वरूप- नेयार्थत्वरूपदोषापत्तेश्च । अपिच इवादेोतकत्वनये चन्द्रादेरुपमानस्य पदार्थ- कदेशतया तत्र साधारणधर्मान्वयानुपपत्तिरिति दिक् ॥-उपमानेत्यादि । उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चोपमेय- त्वम् । साधारणत्वं च धर्मस्वारसिकमौपचारिक बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपश्चितम् । तत्र स्वर्गङ्गावगाहनस्य तथात्वमौपचारिक कीर्ती तस्य स्वारसिकत्वाभावात् । उपादानादिति वाचकस्योपादाननिर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति चिन्तनीयम् ॥साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह-यथावेति॥ गुणदोषाविति ॥ गुणदोषावर्थात्परस्य गृह्णन् जानन् बुधः पण्डितः पूर्वं पूर्वनि- र्दिष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दयति। परं परतो निर्दिष्टं दो- पं कण्ठे नियच्छति निरुणद्धि । वाचा कण्ठाद्वहिर्नोद्घाटयतीत्यर्थः । क इव । इन्दु- श्वेडो चन्द्रगरले गृह्णनुपाददान ईश्वरो हर इव । सोऽपि पूर्व चन्द्रं शिरसा श्ला- घते तत्पूर्वकं धारयति । परं च गरलं कण्ठे नियच्छति स्थापयतीति । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः ॥ शङ्कते--अत्र यद्यपीति ॥ साधारणस्तत्त्वेनाभिमतो धर्मः 'गृह्णन् शिरसा श्लाघते पूर्वम्' इत्यादिनोको यद्यपि नैको न साधारण इति योजना । गृह्णनित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा। यथाश्रुते साधा- - , ६ कुवल कुवलयानन्दः। [उपमालंकारः १ तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्लाघनं शिरःकम्पेनाभिनन्दनमुत्तरस्य. दो- पस्य कण्ठे नियमनं कण्ठादुपरि वाचानुदाटनमिति भेदात् । तथापि चन्द्र- गरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्णनि- त्येकशब्दोपादानेन भेदाध्यवसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः । व- स्तुतो भित्रयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुपादा- नं बिम्बप्रतिबिम्बभाव इत्यालंकारिकसमयः ॥ ६ ॥ वर्योपमानधर्माणामुपमावाचकस्य च । एकद्वित्र्यनुपादानभिन्ना लुप्तोपमाष्टधा ॥ ७ ॥ रणस्य साधारणत्वाभावोक्तेरसङ्गतत्वापत्तेः । साधारण्याभावे हेतुरुपमान इत्यार- भ्य इति भेदादित्यन्तेनोक्तः । समाधत्ते--तथापीति ॥ वस्तुगत्या साधारण्या- भावेऽपीत्यर्थः । चन्द्रगरलयोरित्यादि यथाक्रम चन्द्रगुणयोर्गरलदोषयोश्चेत्यर्थः । बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोभिन्नशब्दोपात्तत्व- रूपेणाभेदाध्यवसायात् । एतच्च साधारणधर्मतेत्यप्रेतनेनान्वितम् । ज्ञानादीलादिना शिरसा वहनाभिनन्दनयोः कण्ठस्थापनतद्वहिरनुद्धाटनयोश्च संग्रहः । गृह्णनितीत्या- दिना च शिरसा श्लाघते, कण्ठे नियच्छतीत्यनयोः संग्रहः ॥ अभेदाध्यवसाया- दिति ॥ अभेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः॥ साधारणधर्मतेतीति ॥ गाभाराभिमानगिनती । पूर्वस्मात्पूर्वोदाहरणादिति विशेष इत्यन्व- यः। न चैवं साधर्म्यप्रतीत्युपपादनेति । वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम् । चमत्कारविशेषप्रयोजकसाधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमा- लक्षण मियभिप्रायारिति । लोके विम्ब प्रतिविम्बभावव्यपदेशस्य गगनजलाशया- दिगतचन्द्रादिविषयतया प्रसिद्धेः कथं प्रकृते तद्वयपदेश इत्याशङ्कायामाह-वस्तु- तइत्यादि॥अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नशब्देनेत्यर्थः॥बिम्बप्र. तिबिम्बभाव इति ॥ बिम्बप्रतिबिम्बभावपदवाच्यमित्यर्थः । स य इति। स- केत इत्यर्थः ॥ ६॥ पृर्णायामुपमानादिसमग्रतानियमप्रसिद्धस्तद्विायां लुप्तोप- मायां सर्वलोपनियमाशङ्कानिरासाय लक्षणपूर्वक तां विभजते-वयेत्यादि- ना ॥ चकारो वाशब्दार्थे। तदनन्तरं च लोपे इत्यध्याहार्यम् । एवं चेतरेतरयो- गाविवक्षया, वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने लुप्तोपमा। सा च एकद्विच्यनुपादानैरष्टधा भिन्नेति पूर्वापराभ्यामुक्तं भवति । त- डिदित्याद्युदाहरणान्यर्थतो व्याचष्टे-उपमेयादीनामिति ॥ वस्तुतो लाघवात्पू- भिन्नत्वं लक्षणं बोध्यम् । लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्रमानुसारेण वि- भागं दर्शयति-यथेत्यादि ॥ वाचकलुप्तेति ॥ वाचकत्वं चात्रानुपूर्वी विशे- षवत्तयोपमाबोधने निरूढत्वम् । तच्च शक्त्या निरूढलक्षणया वा । तत्राद्यमिवा- देर्द्वितीयं तु सुहृत्पदादेरिति । तदभावात्तडिगौरीत्यादौ वाचकलोपः। समासानु- १ 'दानाद्भिन्ना'. - उपमालंकारः१] अलंकारचन्द्रिकासहितः । तडिद्गौरीन्दुतुल्यास्था कर्पूरन्ती दृशोर्मम । कान्त्या सरवधूयन्ती दृष्टा तन्वी रहो मया ॥८॥ यत्तया मेलनं तत्र लाभो मे यश्च तंद्रतेः । तदेतत्काकतालीयमवितर्कितसंभवम् ॥९॥ उपमेयादीनां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते । सा चाष्टधा । यथा-वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा- चकलुप्ता ३, वाचकोपमेवलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति । तत्रोपमानलोपरहिता- श्चत्वारो भेदास्तडिगौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन दर्शिताः । तत्र तडिगौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे 'उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात् । कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कपूरवदा- नन्दात्मकाचारार्थकस्य किप इवशब्देन सह लोपात् । अत्र धर्मलोप ऐ- च्छिकः । नयनयोरानन्दात्मकतया कपूरन्तीति तदुपादानस्यापि संभवादिति । शासनेन निम्टलक्षणावगमेऽयानुपूर्वीविपवनया शब्दविशेषस्य तदबोधना- त् ॥ शास्त्रकृत इति ॥ शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति ॥ अत्र 'स- बप्रातिपदिकेभ्यः किव्वा वक्तव्यः' इत्यनेन विहितः क्विपू लुप्तोऽपि स्मर्यमाणो धर्ममात्ररूपमाचारं वोधयति । कर्पूरपदं च लक्षणया कर्पूरसादृश्यम् । तस्य चाति- रिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे त्वभेदेन । वस्तुतस्तु विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कपूरादिशब्दा एवं कर्पूगदिमादृश्यप्रयो- जकाभिन्नं तत्सादृश्याभिन्नं वाचारं लक्षयन्तीति युक्तम् । ननु वाचकस्येवादेरनु- पादानालोपो युक्तः साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह -कर्पूरवदानन्दात्मकाचारार्थस्य क्विप इति ॥ कर्पूरस्येवेतीवार्थे वतिः । आनन्दात्मको जनकतासंबन्धेन । वस्तुगत्या आनन्दस्वरूपोय आचारस्तद्बोधकस्ये. त्यर्थः । ननु क्विब्लोपाज्ञानेऽप्याचारप्रतीतेः कर्पूरादिपदानामेव तद्बोधकत्वपक्षे कथं धर्मलोपः संगमनीय इति चेत् । अत्र प्राञ्चः । एवमपि तद्वाचकतया विहितस्य कि- पो लोपात्तल्लोपव्यपदेशः । अत एवात्र समानार्थकः क्यच नोपात्तस्तस्यालुप्तत्वादि- त्याहुः। नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽध्यानन्दन्यादिना विशेषरूपेणानु- पादानादमलोपो युक्त एव । अन्यथा इन्दुतुल्यास्येत्यादेधर्मलुप्तोदाहरणस्यासङ्गत- त्वापत्तेः । न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम् । इष्टापत्तेरित्याहुः ॥ १'तद्रते'.

कुवलयानन्दः ।। [ उपमालंकारः१ कान्या स्मरवधूयन्तीत्यत्र वाचकोपमेयलोपः । अत्र कान्स्येति विशेषणसाम- यात्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपमावाचकेनानुपादानास स्वैच्छिकः। स्वात्मानं मरवधूयन्तीत्युपमेयोपा- दानस्यापि संभवात् । काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काक- तालसमवेतक्रियावर्तिनी तेन काकागमनमिव तालपतनमिव काकतालमि- तीवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासः । उभयत्रोपमेयं स्वस्य क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च । तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति । ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे 'समासाच्च तद्विषयात्' इति सूत्रेण 'इवे प्रतिकृती' इत्य- धिकारस्थेन छप्रत्ययः । तथाच पतनदलितं तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्षुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्चात्र काकागमन- तालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा- स्मरवधूयन्तीत्यत्रेति ॥ ननु 'उपमानादाचारे' इति कर्मभूतादुपमानादाचारे क्यचो विधानात्स्मरवधू रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वेति कथं निर्ण- यस्तत्राह--विशेषणेति ॥ रत्यनुरूपाचरणस्य कान्तिकरणकत्वरूपविशेषणसा- मादित्यर्थः । कान्तेः स्वरसतः स्वीयत्वावगमादिति भावः। न चात्मन उपमेयस्य तन्वीपदेनोपादानात्कथं लोप इति वाच्यम् । तस्या द्वितीयान्ततया कर्मभूतोपमे. यासमर्पकत्वादात्मानमित्यध्याहृतेनैव तद्वोधात् । अत्रच स्मरवधूपदेन स्मरवधू- सादृश्यं लक्ष्यते । तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाचारेऽन्वयः। तथाच स्मर- वधूसादृश्याभिन्न आत्मकर्मको य आचारस्तदाश्रयस्तन्वीति बोधः ॥काकताली येति ॥ वृत्तिविषये समासविषये ॥ ज्ञापकादिति ॥ इवाथै समासाभावे तद्वि- प्रयादित्यनेनेवार्थविषयसमासानुवादोऽनुपपन्नस्तज्ज्ञापक इत्यर्थः । उभयत्र काका- गमनतालपतनयोः । उपमेयमित्यनन्तरं क्रमेणेति शेषः ॥ तेनेति ॥ काकताल- समवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेनेत्यर्थः । काकता समागमेति।। अयं भावः । काकागमनतालपतनयोरुपमानत्वे तदुपमेययोः नायगमनतन्व्यव- स्थानयोः पृथगनुपात्तत्वेनोपमेयतयान्वयायोगात्काकतालसमागम एवोपमानम् । इत्थंच काकतालसमागमसदृशं काकतालपदार्थस्तस्य चाभेदेन स्वीयतन्वीसमाग- मरूप उपमेयेऽन्वय इति ॥ तत इति ॥ तादृशसमासोत्तरमित्यर्थः ॥ इति तदर्थ इति ॥ काकतालपदलक्षितम्य काककृततालफलोपभोगसदृशस्याभेदेन तन्वीरतिलाभरूपेणोपमेयेनान्वयादिति भावः । अत्र पतनदलितमिति रहोदर्शन- क्षुभितहृदयेति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्वयाकार इति बोध्यम् । नच सकृदुचारिताभ्यां काकतालपदाभ्यां कथमुपमानद्वयावगम इति वाच्यम् । अनुभवानुसायनुशासनेन व्युत्पत्तिवैचित्र्यस्य स्फुटं प्रतिपत्तेरिति॥एवं दुरूहत्वात्पद्यं व्याख्याय तत्रोपमानलुप्तादींश्चतुरोऽपि भेदान्प्रदर्शयितुमाह-तत- श्चेति ॥काकागमनेत्यादि । काकागमनतालपतनरूपो यः समागमस्तद्रूप- अनन्वयालंकारः २] अलंकारचन्द्रिकासहितः । नात्प्रत्ययार्थोपमायामुपमानलोपः। समासार्थोपमायां वाचकोपमानलोपः। सर्वोऽप्ययं लोपश्प्रत्ययविधायकशासकृतः। भवितर्कितसंमवमिति साधा. रणधर्मस्थानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्टयावधारितव्यम् । एतेषामुदाहर- णान्तराणि विस्तरभयान लिख्यन्ते ॥७॥८॥९॥ अनन्वयालंकारः २ उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥ एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमानमपि स्वस्थ स्येत्यर्थः । इदंच काकागमनमिव तालपतनमिवेति महाभाध्यगतविग्रहवाक्यवि- रोधशङ्कापरिहारायोक्तम् । समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्त्या तस्यो- क्तार्थ एव पर्यवसानात् । विशिष्टोपमायां विशेषणोपमावगतिवत्समागमोपमा. यामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां तादृश विग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति । तत्स्थाने 'अभवतिक ब्रवीमि ते' इति पाठ इति भावः ॥ ७॥ ८ ॥९॥ इति श्रीमत्तत्सदुपाख्यरामभट्टसूरिवरात्मजवैद्यनाथविरचितायामलंकारचन्द्रि- काख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संपूर्णम् ॥ १ ॥ यद्यप्युपमाननिरूपणानन्तरं तन्मूलालंकारेषु संभवत्सादृश्योपमेयोपमैव प्रथम निरूपयितुमुचिता न त्वारोपितसादृश्यनिबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृश- व्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थि- तिकमभिप्रेत्य प्रथमं निरूपयति-उपमानोपमेयत्वमिति।। उपमानत्वमुपमे- यत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणत्वात् । विवक्ष्यत इति च शेषः । एवं चैकस्यैव वस्तुनो यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असंभवशङ्कानि- रासाय मध्ये उदाहरणोक्तिः । ननूक्तलक्षणस्य ‘भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिरशनोपमायामतिव्याप्तिः । तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेय. त्वस्य च वर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानत्वमुपमेयत्वं चेति विवक्षितमेकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायां मत्यादेश्चेष्टादिनिरूपि- तमुपमानत्वं भणित्यादिनिरूपितं तूपमेयत्वमित्येकनिरूपितोपमानोपमेयत्वविर- हान्नातिव्याप्तिरित्युच्यते । तदा 'खमिव जलं जलमिव खम्' इत्युपमेयोपमाया- मतिव्याप्तिः। तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्य च वर्णनादिति चेन्मैवम् । एकस्यैवेति विरोधद्योतकैवकारबलेन खाश्रयनिरूपित- योरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात् । अस्ति हि 'इन्दुरिन्दुरिव' इत्यनन्वये उपमानत्वमुपमेयत्वं च खाश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयो- पमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह-वर्ण्यमानमपीति ॥

१० कुवलयानन्दः । [उपमेयोपमा ३ खेन स्वाधय नान्वेतीति व्युत्पत्तेः । अनन्वयिनोऽप्यर्थसाभिधानं सरशा- न्तरव्यवच्छेदेनानुपमस्वयोतनाय । इन्दुरिन्दुरिव श्रीमानित्यु के श्रीमत्त्वेन चन्द्रस्य नान्यः सदशोऽस्तीति समान्तरम्यवच्छेदो पक्ष्यते । ततब स्वेनापि सादृश्यासंभवादनुपमेयस्वे पर्यवसानम् ॥ यथावा- गगनं गगनाकार सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्वस्य धर्मस्योपादानमस्ति । इह तु गगनादिषु वैपुल्या- देधर्मस्य तन्नास्तीति विशेषः ॥१०॥ उपमेयोपमा ३ पर्यायेण योस्तच्चेदुपमेयोपमा मता । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ ११ ॥ नान्वेतीति।न संबध्यत इत्यर्थः । साधर्म्यस्य भेदघटितत्वादिति भावः । नन्वेव सत्यसंबद्धप्रलापत्वापत्तिरित्यत आह-अनन्वयिनोऽपीति ॥ बाधितस्यापी- त्यर्थः । अर्थस्य साधर्म्यस्य अभिधानमाहामारोपम्पनया प्रतिपादनं सदृशान्त- रव्यवच्छेदेन सदृशान्तरव्यावृत्तिबोधद्वारेण । एतदेव विशदयति--इन्दुरित्या- दिना ॥ इत्थंच सदृशान्तरव्यावृत्तिसूचनद्वारानुपमत्वद्योतनरूपप्रयोजनवत्त्वादा- पाततो रुद्ररोदनार्थवादवद्दारमात्रतया सादृश्यप्रतिपादनेऽपि नासंबद्धप्रलापता- पत्तिरिति भावः । उदाहरणान्तरमाह-यथावेति ।गगनाकारं गगनसदृशम् । इवेयतः प्राक् युद्धमित्यध्याहार्यम् । उदाहरणान्तरप्रदर्शने बीजमाह-पूर्वोदा. हरणेति ॥ वैपुल्यादेरित्यादिपदाद्गाम्भीर्यदारुणत्वयोः संग्रहः ॥१०॥ इत्यनन्व- यालंकारप्रकरणम् ॥ २॥ अथोपमेयोपमां लक्षयति-पर्यायणेति ॥ अयोगपद्येनेत्यर्थः । वाक्यभेदे- नेति यावत् । तत् उपमानोपमेयत्वं विवक्ष्यत इति शेषोऽत्रापि ध्यः । उपमे- योपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मोऽर्थ श्वेत्युदाहरणम् । अर्थो धनम् । पूर्णश्रीः पूर्णसमृद्धिः । अत्र च धर्मार्थयो यो क्यभेदेनोपमानत्वमु- पमेयत्वं च वर्णितम्। तत्राद्यवाक्येऽर्थस्योपमानत्वं धर्मस्योपमेयत्वम् । द्वितीये तु तद्विपर्यासेन धर्भस्योपमानत्वमर्थस्योपमेयत्वमिति लक्षणसमन्वयः । उपमानोपमे- यत्वमात्रोक्तावनन्वयेऽतिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि 'समत्वं शरदि प्रापुरहो कुमुदतारकाः' : गभगति गमगा मामTITIN | तत्र द्वयोःकुमुद- तारकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येव न पियोगि मोगमान गम्या - र्थतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु ‘भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला' इति रशनोपमायामतिव्याप्तिः । तत्र द्वयोर्मतिचेष्टयोर्वाक्यभे- देनोपमानोपमेयत्ववर्णनादिति चेन्न । द्वयोरित्यनेन परस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायपदेनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरिति संक्षेपः ।। ।

उपमेयोपमा ३] अलंकारचन्द्रिकासहितः। द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशम्यवच्छेदार्थम् । धर्मा- थयोः कस्यचिकेनचित्साश्ये वर्णिसे तस्याप्यन्येन साहश्वमर्थसिदमपि मु- खतो वर्ण्यमानं तृतीयसरशव्यवच्छेदं फलति ॥ यथावा- खमिव जलं जकमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥ पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः । इह निर्मकत्वादिधर्मों नोपात्त इति भेदः । उदाहरणद्वयेऽपि प्रकृतयोरेवोपमानोपमेयस्वकल्पनम् । राशि धर्मार्थसमृदेः शरदि गगनसलिलादिनमल्यस्य च वर्णदीयत्वात् । प्रकृताप्रकृतयोरप्येषा संभवति ॥ यथा- गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मदधारा मदधारेवास्य निर्धारः सवति ॥ ११ ॥ प्रतीपालंकारः४ प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । त्वल्लोचनसमं पद्मं त्वद्वक्रसदृशो विधुः॥ १२ ॥ प्रसिद्धोपमानोपमेयभावप्रातिलोम्यात्प्रतीपम् । यथावा- ननूपमाप्रतीपोभयरूपाया उपमालया पाया वा उपमेयोपमाया अलंकारान्तरत्वे किं बीजमित्यत आह-द्वयोरिति ॥ तथा चार्थविशेषद्योतकतया चमत्कृति- वैलक्षण्यमेव तत्र बीजमिति भावः । कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह- धर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः । मुखतः शब्देन । तथाच प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थमिति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति भावः ॥ खमिवेति ॥ शरद्वर्णनमिदम् । खमाकाशमिव जलं कालुष्यापगमेन निर्मलत्वातिशयात् । शेषं स्पष्टम् । निर्मलत्वादीत्यादिपदेन शैत्यातिशयपरिग्रहः ॥ गिरिरिवेति ॥ अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनामनिर्दिष्ट- त्वात् । अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वाधै उच्च- कैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्त इति दिक् ॥ इत्युपमेयोपमाप्रकरणम् ॥ ३ ॥ प्रतीपमिति ॥ प्रतीपमिति लक्ष्यनिर्देशः । ननूपमानोपमेयभावस्य वैवक्षिक- तया मुखादेरप्युपमानत्वसंभवाञ्चन्द्र इव मुखमित्युपमायामतिव्याप्तिरित्यत आह -प्रसिद्धति॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम्। कुतः । प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूलत्वात् । उपमेयभावप्रानिलोम्यादिवि- सर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलत्वा- दुपमानस्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम्। नतु प्रसिद्धस्योपमा- १ 'मानस्याप्युपमेयत्व'.

[प्रतीपालंकारः ४ पोसमामकान्ति सहि म सदिम्दीवर मेघान्तरितः पिवे सब सुखायाबुकारी शशी । येऽपि त्वममानुसारिगतपस्ते राजहंसा गता- सवत्सारश्यविनोदमानमपि मे देवेन न क्षम्यते ॥ १२ ॥ अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् । अलं गर्वेण ते वक्र कान्त्या चन्द्रोऽपि तादृशः॥१३॥ अत्युस्कृष्टगुणतया वर्ण्यमानस्थान्यत्र स्वसादृश्यमसहमानस्योपमेयं किंचि- प्रदश्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशे- षशालि । यथावा- गर्वमसंवाझमिमं लोचनयुगुलेन किं वहसि भने । सन्तीदशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥ १३ ॥ नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवंविधप्रातिलोम्यस्य तृतीयपञ्चमप्रती- पभेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तत्वायोगादिति । एवं चोक्तप्रकारेणोपमान- प्रातिकूल्यस्य प्रतीपपदप्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रतीप- मिति प्रतीपपञ्चकसाधारणं सामान्यलक्षणमिति सूचितम् । अतएव पञ्चमप्रती- पव्याख्यानावसरे वक्ष्यति । उपमानप्रातिलोम्यादिति । प्रतिकूलत्वं च तिरस्का- रप्रयोजकत्वम् । एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते -यथावेति ॥ प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम् । अयि प्रिये, त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम देवेन न क्षम्य- ते ॥ एतदेव दर्शयति-यदित्यादिना ॥ त्वनेत्रयोः समाना साधारणी का- न्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले ममम् । वर्षर्तुना जलवृद्धेः । तव मुखस्य च्छायया कान्त्या अनुकारी सदृशः शशी मेधैरन्तरितस्तिरोहितः । येऽपीत्यपिर्भिन्नक्रमः । त्वद्गमनसदृशगतयो ये राजहंगास्तेऽणि "ता इति । अत्र कान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवलक्षण्यं बोध्यम् । समानादुपमेयस्या- धिक्यवर्णनारूपायतिरेकालंकारादस्य को भेदः । उच्यते । तत्र वैधयंप्रयुक्त- मुपमेयस्याधिक्यं विवक्षितमिह तूपमानतामात्रप्रयुक्तत्वात्साधर्म्यप्रयुक्तमिति ॥१२॥ प्रतीपान्तरमाह-अन्योपमेयेति ॥ अन्यदवर्ण्यमुपमानं तद्रूपं यदुप- मेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत्प्रतीपमित्यर्थः । तस्य गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्राप्त्योपमानतिरस्कृतिविशेषप्र- योजकत्वादिति भावः । अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति । अप्राप्तप्राप्तेर्ला- भशब्दार्थत्वात् ॥ विच्छित्तिविशेषेति ।। चमत्कारोत्कर्ष इत्यर्थः । उक्तरी. योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति ॥ असंवाह्यं संवह- नायोग्यम् । अपरिमितमिति यावत् । भद्रे शोभने इति संबोधनम् । नन्विति १'वर्णस्य'. २ 'चन्द्रो भवादृशः'. ..

प्रतीपालंकारः] अलंकारचन्द्रिकासहितः । १३ वर्योपमेयलाभेन तथाम्यस्याप्यनादरः। का क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि त्रियः॥१४॥ अत्युत्कृष्टगुणतया कषिप्युपमानभावमसहमानस्यावर्षस्य वर्गामुपमेयं परिकरूप तावता तस्य तिरस्कारः । पूर्वप्रतीपर्वपरीलेन तृतीयं प्रतीपम् ॥ यथावा- अहमेव गुरु सुदारुणानामिति हालाहल मास्म तात हप्यः । ननु सन्ति भवादशामि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ ४॥ वयेनान्यस्योपमाया अनिष्पत्तिवचश्च तत् । मुंधापवादो मुग्धाक्षि त्वन्मुखामं किलाम्बुजम् ॥ १५ ॥ अवार्ये धर्योपमित्स्यनिष्पतिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थ प्रतीपम् । उदाहरणे मुधापवादस्वोत्योपमित्यनिष्पतिरुद्राटिता । यथावा- आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कतव वक्रेण पामरैरुपमीयते ॥ १५॥ प्रतीपमुपमानस्य कैमर्थ्यमपि मैन्वते । दृष्टं चेद्वदनं तस्याः किं पझेन किमिन्दुना ॥ १६ ॥ उपमेयस्यैवोपमानप्रयोजनपूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यास्प- ञ्चमं प्रतीपम् । यथावा- हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह नेति भेदः ॥१३॥ वोपमेयेति ॥ अन्यस्य वर्ण्यस्य । अनादरोऽपि तथा । प्रतीपमित्यर्थः ॥ अहमेवेति॥सुदारुणानामतितीवाणाम् । गुरुः श्रेष्ठः । तातेति सानुकम्पसंबोधने । मास्म दृप्य इति । दर्प मा कृथा इत्यर्थः ॥ १४ ॥ वयेनान्यस्येति ॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्य- स्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः । उच्यमाना अनिष्पत्तिः । 'कृदभिहि- ते' इति न्यायात् । तत्प्रतीपम् ॥ मुधेति ॥ किलेति वार्तायाम् । वन्मुखाभ- मम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपवादः । अलीकार्थकत्वेनापवादस्य नि- प्रयोजनत्वम् ॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशयप्रयोजकत्वरूपेत्यर्थः ॥ मुधापवादत्वोत्येति ॥ उक्तार्थमेतत्॥ आकर्णयेति॥वचनीयमलीकतया निन्दितम् । अतएव भुवीत्युक्तम् । लोकान्तरे मुखसंनिधानेन विशेषादर्शनाद- कीकत्वमहायोगात् । संनिधानेऽपि निदोषाप्रद गा मिरि गुनम् । अत्र वचनीयं पामररिनाम्यामुपमितेरनि पनिः प्रकाश्यते ॥१५॥प्रतीपमिति ॥ कः अर्थः प्रयोजनं यस्य तत्तथा। अनर्थकमिति यावत् । तस्य भावः कैमर्थं तदपि प्रतीपं मन्वते। आलंकारिका इति शेषः। ननूपमानस्य पत्रचन्द्रादेराहादविशेषरूपप्रयो- जनसत्त्वात्कथमनर्थकत्वमत आह-उपमेयस्यैवेति ।। उपमानधूर्वहत्वेनोप- १ 'वयोपमानोप'. २ 'मिथ्यावादो हि मुग्धाक्षि'. ३ 'मन्यते'. २ .. -

कुवलयानन्दः ।
[प्रतीपालंकारः ४
तदोजसस्तयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलना विधोरपि ।
केचिदनन्वयोपमेयोपमाप्रतीपानामुपमाविशेषस्वेन तदन्तर्भावं मन्यन्ते ।
अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपस्वादाक्षेपालंकारमाहुः ॥ १६ ॥
.
मानकार्यकारित्वेन । अयं चोपमानकैमर्थ्य हेतुः । अतश्चोपमानकैमर्थ्यमित्यध्या-
हार्यम् । आह्लादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासंभवात्कैमर्थ्यमिति भावः ।
उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्या इति बहुव्रीहिः । ननु 'उ-
पमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वात्कथं
प्रतीपत्वमतआह-उपमानप्रातिलोम्यादिति । उपमानप्रतिकूलत्वादित्य-
र्थः। लत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम् । तथाच प्रतीपसामान्यल-
क्षणाक्रान्तत्वात्प्रतीपान्तर्भाव एवोचित इति भावः ॥ तदोजस इति ॥ नैष-
धीये नैषधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्च
स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्ते-
निरर्थकाविति चित्ते यदा यदा कुरुते तदा भानोर्विधोश्च परिवेषस्य परिधेः कै.
तवाच्छलात्कुण्डलना वैयर्थ्यसूचिका रेखावेष्टनां करोतीत्यन्वयः । अत्रच नायं
परिवेषः किंतु कुण्डलनेत्यपहुतौ कैमर्थ्यरूपप्रतीपस्याङ्गत्वात्तयोरङ्गाङ्गिभावलक्षण:
संकरः। यद्यत्पापमित्यादिवच तत्पदे वीप्साया अकरणं न दोष इति बोध्यम् ।
केचिद्दण्डीप्रभृतयः॥ अनन्वयोपमाप्रतीपानामिति ॥ प्रतीपपदेन चात्रा-
द्यभेदत्रयमेव गृह्यते न त्वन्त्यभेदद्वयमपि । तत्रोपमितिक्रियानिष्पत्तेरभावेनोप-
मान्तर्भावस्यासंभवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापि नोपमा तिर्युक्ता । चम-
स्कार प्रति साधर्म्यस्य प्राधान्येनाप्रयोजकत्वात् । सामर्थ्य न्धन उपमानति-
रस्कार एव हि तत्र चमत्कृतिप्रयोजकतया विवक्षितो न तु साधर्म्यमेव मुखत.
श्चमत्कारितया विवक्षितमिति सहृदयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपि
न सादृश्यस्य चमत्कारितया प्राधान्येन विवक्षा किंतु द्वितीयतृतीयसदृशव्यवच्छे-
दोपायतयेति न नयोरप्युपमान्नर्गनियुज्यने । अन्यथा सादृश्यवर्णनमात्रेणोप-
मान्तर्भावे 'धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदस्तु
वपुषवेदृशेन ते ॥' इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् । तत्र साध-
Hसमानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं न तु साधर्म्यमिति चेत्तुल्यमिदं
प्रतीपादिध्वपीति सहृदयराकलनीयम् । एतावदेवाखरसबीजमभिसंधायोक्त के-
चिदिति । अन्ये वामनादयः । अत्र चाखरसबीजं प्रागेवावेदितम् ॥ १६ ॥
इति प्रतीपप्रकरणम् ॥ ४॥

रूपकालंकारः ५] अलंकारचन्द्रिकासहितः । रूपकालंकारः ५ विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ १७ ॥ अयं हि धूर्जटिः साक्षायेन दग्धाः पुरः क्षणात् । अयमास्ते विना शम्भुस्ताीयीकं विलोचनम् ॥१८॥ शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् । अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥१९॥ रूपकं लक्षयति--विषय्यभेदेति ॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति रूपं तद्रूपमस्यासौ तद्रूपस्तस्य भावस्ताद्रूप्यं चन्द्रकार्यकारित्वादि विष- येण उपमानस्याभेदताद्रूप्याभ्यां विषयस्योपमेयस्य यद्रञ्जनमिव रजनम् । खो- परक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकमित्यर्थः।रूपकं तदित्येव पाठः। रूपक त्वति पाठे तु तदित्यध्याहार्यम् । उपानविम्बाविशिष्टविषयधर्मिकाहार्यारोपनि- प्रयविषयोभनमुणमानाभेदतादृप्यान्यनरम्पकमिति तु निष्कर्षः। मुखं चन्द्र इत्या- दौ नामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचन्द्राभेदनिश्चयाल्लक्षणसमन्वयः । मुखमपरश्चन्द्र इत्यत्र तु न चन्द्राभेदो विषयः । अपर इति भेदस्य विवक्षितत्वात्। अपितु चन्द्रकार्यकारित्वरूपं ताद्रूप्यमिति तत्रापि लक्षणसंगतिः । नच तस्य मुखे सत्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकारित्वस्यैव मुखे स- त्वादिति । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्य- कारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव । तथाप्युपमानतावच्छेदकरू- पेणाभेदभाने एवाभेदरूपकत्वं कार्यकारित्वादिरूपेणाभेदभाने तु ताद्रूप्यरूपक- त्वमिति तात्पर्यम् । अत्र 'कमलमनम्भसि कमले च कुवलये तानि कनकलति- कायाम्' इत्याद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम् । आरोपश्च निषेधा- नङ्गकत्वेन विशेषणीयः । तेनापहुती नातिव्याप्तिः । भ्रान्तिवारणायाहायति । 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति । निदर्शनावारणाय बिम्बाविशिष्टेति । मंदायोन्प्रेक्षयोनिरासाय निश्चयेत्युक्तमिति संक्षेपः ॥ आधिक्येत्यादि । आधिक्यमुपमानस्य खाभा- विकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम् । एवं न्यूनत्वमपि । अनुभ- यमाधिक्यन्यूनत्वोभयरहितमभेदतादूप्यान्यतरमात्रम् ॥ अयं हीत्यादि ॥ अयं वर्ण्यमानो राजा येन हेतुना पुरो नगर्यः। शिवस्यापि त्रिपुरदग्धृत्वात्स एवायमि- मि भावः । तार्तीयीकमिति तृतीयमेव तार्तीयीकम् 'तीयादीकक्खार्थे वा वाच्यः' इति वार्तिकानुसारान् । विलोचनं बिनेत्यन्वयः॥शम्भुरिति ।। अत्राप्ययमित्य- नुषजनीयम् । अन्यथातिशयोक्तयापच्या रूपकोदाहरणत्वासङ्गतेः । अद्य राजभा- १ 'ताद्रूप्यं'. - कुवलयानन्दः। [रूपकालंकारः ५ साध्वीयमपरा लक्ष्मीरसुधासागरोदिता । अयं कलकिनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥२०॥ विषय्युपमानभूतं पनादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण, विषयस्य रजनं रूपकम् । अन्यरूपेण रूपवत: करणात्तचकचित्प्रसिद्ध- विषय्यभेदपर्यवसितं कचिनेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवसि- तम् । ततश्च रूपकं सावविविधम् । अभेदरूपकं तादूप्यरूपकं चेति । द्विवि. धमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णने- नानुभयोक्या चैवं रूपकं षड्विधम् । अयं हीत्यादिसायश्लोकेनाभेदरूपाणि मस्या मुखेन्दुनेत्यादिसार्धश्लोकेन तादूप्यरूपकाणि । माधिक्यन्यूनस्वानुभयो. ज्युदेशक्रमप्रातिलोम्येनोदाहृतानि । येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्था वावस्थायां समदृष्टिता समसंख्यलोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति । अनेन्दुपदमिन्दुकार्यकारिपरम् । किमिन्दुनेति प्रसिद्धचन्द्राद्भेदविवक्षणात् । अत- वन्द्रताद्रूप्यरूपकमिदम् । न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखाभेद- भानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम् । व्युत्पत्तिवैचि- व्येण मुखस्य खनिष्ठाभेदप्रतियोगित्वसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिक- स्थापि विशेषणसंबन्धतायाः खामित्वस्य षष्ठ्यर्थत्ववादिभिः प्राचीनैश्चैत्रस्य धनमि. त्यादावङ्गीकारात् । एवंच मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेदरूपकापत्तिर्मुखप्रतियोगिकाभेदस्याभानादित्येवमन्यत्राप्यूह्यम् ॥असुधे. ति ॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीरियं तु न तथेति न्यूनत्वोक्तिः ॥ अतिरिच्यत इति ॥ निष्कलकतया अधिको भवतीत्यर्थः॥ लक्षणश्लोकं व्याच- टे-विषय्युपमानेत्यादि॥ विषयिणोऽभेदेन रूपेण चेति पाठः। रूपेण आहाद- कत्वादिना ताद्रूप्येण । कचित्ताद्रूप्येण चेत्येव पाठः । परमार्थतस्तु प्राम कपुस्त- केषु विषयिणो रूपेण विषय म्य जनमिति युक्ततरः पाठः । तेन तच्चे न पौनरु- क्त्यमिति ध्येयम्। हरिद्रादिना पटादिरञ्जने प्रयुक्तत्य रञ्जनशब्दस्येह प्रवृत्तौ बीज- माह-अन्यरूपेणेति ॥ रूपं रक्तपीतादिकम् । अभेदताद्रूप्ये च तथा चान्यदी- यधर्मेणान्यस्य तद्वत्तासंपादनत्वसामान्यादिह गौणरजनशब्दप्रयोग इति भावः ॥ तञ्चेति ॥रजन चेत्यर्थः॥प्रसिद्धति॥ कविसंप्रदायप्रसिद्धोपमानाभेदेन लब्धा- त्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणत्वादिति भावः । अभेदेन रूपेण चेति पाठे तु तश्चेत्यत्र चशब्दो हेत्वर्थकः । तेन पूर्वोक्तस्यैव समर्थनमिति न पौन- रुक्त्यम् । तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रातिलोम्येनेति । निर्देशकमवैपरीत्येने- त्यर्थः । एतदेव विशदयति-येनेत्यादि । विशेषणेनेति हेनौ नृतीया । पुरदग्ध. स्वविशेषणहेतुकशिवाभेदानुरजनादित्यर्थः । ननु न्यूनत्ववर्णने भेदापकर्षयोः प्र- १ 'सागरोत्थिता'.

रूपकालंकारः ५] अलंकारचन्द्रिकासहितः । - न्यूनत्वाधिक्ययोरवर्णनाखानुभयाभेवरूपकमाचम् । तृतीयकोचनप्रहाणोक्स्या पूर्वावस्थातो न्यूनताप्रदर्शनाच्यूनाभेदरूपकं द्वितीयम् । न्यूनत्ववर्णनमप्य- भेददायापादकत्वाञ्चमत्कारिविषयदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिव- स्य पूर्वावस्थातो वर्णनीयराजभावावस्थायामुष्कर्षविभावनादधिकामेवरूपकं तृतीयम् । एवमुत्तरेषु ताप्यरूपकोदाहरणेष्वपि क्रमेणानुभयन्यूनाधिकभा. वा उत्रेयाः । भनेनैव क्रमेणोदाहरणान्तराणि- चन्द्रज्योस्लाविशदपुलिने सैकतेऽस्मिन्छरवा वादघूतं चिरतरमभूत्सिद्धयूनोः कयोबित् । एको वक्ति प्रथमनिहतं कैटभ कंसमन्य- स्तत्त्वं स त्वं कथय भगवन्को हतस्तन्त्र पूर्वम् ॥ भत्र स स्वमित्यनेन यः कंसकैटभयोहन्ता गरुडध्वजस्तत्तादात्म्यं वर्णनी. यस्य राज्ञः प्रतिपाद्य तं प्रति कंसकैटभवधयोः पौर्वापर्यप्रभव्याजेन सत्तादा. स्यदायकरणात्पूर्वावस्थात सत्कर्षापकर्षयोरविभावनाचानुभयाभेदरूपकम् । वेधा द्वधा भ्रमं चके कान्तासु कनकेषु च । तासु तेष्वायनासक्तः साक्षाद्भर्गो नराकृतिः। भत्र साक्षादिति विशेषणेन विरक्तस्य प्रसिद्धशिवतादात्म्यमुपदिश्य नरा. कृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनाइयूनाभेदरूपकम् । । तीतेः कथं चमत्कारितेत्यत आह-अभेददाापादकत्वादिति ॥ विशेष- निषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुणशालिताप्रतीतौ 'ए- कदेशविकृतमनन्यवद्भवति' इति न्यायेनाभेदनिश्चयसंपादकत्वादित्यर्थः । विभाव- नात्प्रकाशनात् ॥ चन्द्रज्योत्स्नेति ॥ राजानं प्रति कस्यचिदुक्तिः। हेभगवन् , चन्द्रज्योत्स्नावद्विशदं श्वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरवाः शरयूनामकनद्याः सैकते सिकतामयदेशे कयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरकालं वादरूपं द्यूतमभू. त् । कीदृक्तत्राह । एकः सिद्धयुवा कैटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति, अन्यः कंसं प्रथमं निहतं वक्ति स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्व को हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनिप्रभृतावेव भगवनित्यामन्त्रणमुचितं न राजादौ तथापि राज्ञो भगवत्तादात्म्यवर्णनादनौचित्यं परिहरणीयम् । क्वचितु भवतेति पाठः । अत्र ज्योत्स्नापदेनैव चन्द्रिकालाभेऽपि चन्द्रपदं शारदपूर्णचन्द्र- परतया नापुष्टार्थम् । पुष्पमालेत्यत्र पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम् । वादयोग्यतासूचनाय यूनोरित्युक्तम् । अयं हीत्युदाहरणेऽभेदारोपहेतुभूतं पुरदा- हकत्वरूपं साधर्म्यमुपात्तं इह तु जगद्रक्षकन्वादिकं तद्गम्यमानमिति भेदः ॥ वेधा इति ॥ द्वेधा कान्ताधर्मिकत्वकनकधर्मिकत्वरूपविधाद्वययुक्तं भ्रमं बल- वदनिष्टाननुबन्धिसुखसाधनत्वभ्रमम् । सर्वेषामपि प्रमाणां वेधसा निर्माणेऽपि प्राधान्यविवक्षयेत्यभिधानम् । अयमास्त इत्युदाहरणे शंभुसादृश्यं गम्यमानमिह कुवलयानन्दः । [रूपकालंकारः ५ स्वय्यागते किमिति वेपत एष सिन्धु- स्त्वं सेतुमन्यकृदतः किमसौ विमेति । द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽध त्वां राजपुङ्गव निषेवत एव लक्ष्मीः ॥ अत्र त्वं सेतुमन्थकृदिति सेतोमन्थनस्य च की पुरुषोत्तमेन सह वर्णनी- यस्य तादात्म्यमुक्त्वा तथापि त्वदागमन सेतुबन्धाय मन्थनाय वेति समुद्रेण न भेतव्यम् । द्वीपान्तराणामपि त्वद्वशंवदत्वेन पूर्वववीपान्तरे जेतव्याभा- वात्, प्राप्तलक्ष्मीकत्वेन मन्थनप्रसक्त्यभावाचेति पूर्वावस्थात उत्कर्षविभाव- नादधिकाभेदरूपकम् । किं पन्नस्य रुचिं न हन्ति नयनानन्दं विधते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वकेन्दौ तव सत्ययं यदपरः शीतांशुरुजम्भते दर्पः स्थादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ अत्रापरः शीतांशुरित्यनेन वक्रेन्दोः प्रसिद्धचन्द्रा दमाविष्कृत्य तस्य च प्रसिद्धचन्द्र कार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्षयोरप्रदर्शनादनुभयं तादू. प्यरूपकम् । अचतुर्वदनो ब्रह्मा द्विवाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः ॥ अत्र हरावपर इति विशेषणाधिष्वपि तादूप्यमात्रविवक्षा विभाविता, त्वनासक्तिरूपं तदुपातमिति भेदः ॥ त्वय्यागत इति ॥ राजानं प्रति कवेरु- क्तिः । सेतुश्च मन्थश्चेति द्वन्द्वः । मन्थनं मन्थोऽमृतमन्थनम् । द्वीपान्तरेऽपीत्य. पिना सुतरामेतद्वीपे नास्तीति सूच्यते । अद्य राजभावावस्थायां शंभुर्विश्वमित्यत्र विश्वसंरक्षकत्वं सादृश्यमुपात्तमिह तु नेति भेदः ॥ किं पद्मस्येति ॥ दयितां प्रति नायकोक्तिः । तव वक्ररूपे इन्दुकार्यकारिणि सत्ययमपरः प्रथिः शीतां- शुश्चन्द्रो यदुज्जृम्भते उदितो भवति तस्मात्तव वक्त्रेन्दुः पद्मस्य र कान्ति न हन्ति किम् । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्प्रयोजनस्या- न्यतः संभवे तदुज्जृम्भणस्थासङ्गतेरिति। किं न हन्ति इति काका अपितु हन्से- वेति पर्यवसाने तदुजृम्भणं मुधेति प्रतीतिपर्यवसानम् । एवमग्रिमवाक्ययोरपि। झषो मकरः केतनं चिह्नमस्य तथाभूतस्य समुद्रस्य कामस्य च आलोकनमालो- कः प्रकाशश्च तन्मात्रेण अमृतेन दोऽभिमान उज्जम्भणहेतुः स्याचेदयुक्तमेतत् । यत इह वक्त्रेन्दौ विम्बाधरे तदप्यस्येवेति समुचितपदाध्याहारेण योजनीयम्। यच्छब्दस्योत्तरवाक्यगतत्वेन तच्छन्दाक्षेपक्षमत्वान्न तदनुपादानेऽपि न्यूनपदत्व- दोषः । कार्यकारित्वमात्रेत्यनेनाभेदव्यावृत्तिः । अस्या मुखेन्दुनेत्यत्र किमिन्दुने- ति पुनरुपादानमात्रं भेदविवक्षाज्ञापकम् । इहरममा युपादानमिगि वि. शेषः ॥ अचतुर्वन इति ॥ बादरायणो व्यासः । भाले लोचनं यस्येति व्य- रूपकालंकारः ५] अलंकारचन्द्रिकासहितः । १९ तुर्वदनस्वादिवैकल्यं चोक्तमिति न्यूनताद्रूप्यरूपकम् । इदं विशेषोत्तयुदाहरण. मिति वामनमतम् । यदाह-'एकगुणहानी गुणसाम्यदाय विशेषोक्तिः' इति किमसुभिर्क पितर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः सरः॥ अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवे- शश्रुतितात्पर्यविषयः । किंतु नलमुखचन्द्र एवेति । ततोऽस्याधिक्यप्रतिपाद- नादधिकताद्रूप्यरूपकम् । रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ - .. धिकरणत्वेऽपि गमकत्वाद्बहुव्रीहिः । ननु हरावपर इति विशेषणात्तदंशे एव ताद्रूप्यरूपकं स्यादितरांशे त्वभेदरूपकमेवेत्याशङ्कयाह-अत्रेति ॥ त्रिवपी- ति ।। एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय तात्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यमेवोचितमिति भावः । अयमेव च साध्वित्यादिपूर्वोदाह- रणाद्विशेषः । न्यूनरूपकस्य चमत्कारित्वं पूर्वमुक्तं वृद्धसंमत्या द्रढयति-इदमि- ति ॥ यदाहेत्यनन्तरं स इति शेषः। ए.गुण नागभिहिला यामिति शेषः। गुण- साम्यदाय शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः। चतुर्वदनत्वाद्येकगुणव्यतिरेकस्य प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्याथै पर्यवस्यतीति भावः । अत्रच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनत्ववर्णनस्य यु- क्तम् । गामग्रीकालीन का गीभावम्य त्वलंकारान्तरासंभित्रस्य तद्वक्ष्यमाणं युक्त- मित्यखरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति ॥ जडेति मूर्खजलमये- ति साधारणं चन्द्रसंबोधनम् । ग्लपितैनष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमय- न्त्या मनो मयि निमजतु निलीयतामिति मन्यसे किमिति सोपहासकाकुः । तेन मैवं मंस्था इत्यर्थः । अत्र हेतुमाह । किल निश्चितम् । मम विबुधः पण्डितः स्मरः तदर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोऽर्थों यस्यास्तां श्रुतिम् । नलमु- खेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति । अयं कलङ्कित इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्तं गम्य- मानं तदिति विशेषः ॥ सावयवत्वनिरवयवत्वादीति ।। आदिना समस्त- वस्तुविषयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथा- हि सावयवं निरवयवं परंपरितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकमश्लिष्टवाचक चेति क्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामन्यं चतुर्विधमित्यष्टौ भेदाः । तत्र 'ज्योत्स्ना भस्मच्छुरणधवला बिभ्रती नामान्यान्यन्नधान यमनगिन। कापालिकीयम् । द्वीपाद्रीपं भ्रमति दधती चन्द्रमुद्रां कपाले न्यस्तं सिद्धाज- नपरिमलं लाञ्छनस्य च्छलेन ॥ इति पये रात्री कापालिकीत्वारोपस्य प्रधान- तयावयविनोऽवयवरूपाणि ज्योल्माभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य कुवलयानन्दः। [परिणामालंकारः ६ परिणामालंकारः६ परिणामः क्रियार्थचेद्विषयी विषयात्मना । प्रसबेन दृगब्जेन वीक्षते मदिरेक्षणा ॥२१॥ यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगित्वेन निबध्यमानः स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतारमना परिणतिमपेक्षते तत्र परिणामालंकारः। अ. नोदाहरणं प्रसझेनेति । अत्र हि अब्जस्य वीक्षणोपयोगित्वं निवध्यते नतु दृशामयूरग्यसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न चोपमितसमासाश्र- यणेन गजमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम् । प्रसभेनेति सामान्य- धर्मप्रयोगात् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग ए- वोपमितसमासानुशासनात् । मजस्य वीक्षणोपयोगित्वं न खात्मना संभ- वति । अतस्तस्य प्रकृतहगात्मनापरिणत्यपेक्षणात्परिणामालंकारः ॥ यथावा- तीवो भूतेशमौलिनजममरधुनीमात्मनासौ तृतीय- तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय । वस्तुन आरोप्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाव्यमण्डले कुर्वते स्म कुसुमाज- लिश्रियम् ॥' इत्यत्र प्रधानस्य नभसि नाव्यमण्डलत्वारोपस्यावयवभूतं विद्युतां नर्तकीत्वरूपणमार्थ न शाब्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविव- तित्वम् । 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतम- पि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः खपिति तदहो वेदयभिनवां प्रवृत्तोऽ- स्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम् । 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तः कार्मणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरी विधेरनवधिप्रावीण्यसाक्षाकिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥' इत्यत्र च माला गं निरव- यवं बोध्यम् । एवम् 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंश- मुक्तारत्नं न कैर्भवान् ॥' इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोप- पूर्वक एव राज्ञि मुक्तारत्नत्वारोप इति श्लिष्टवाचकं केवलपरम्परितरूपकं विद्व- न्मानसेत्यादावेतदेव मालारूपम् । चतुर्दशलोकवनिकन्द इत्यत्राश्लिष्टवाचकं के- वलपरम्परितम् । 'पर्यको राजलक्ष्म्याः' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चाश्लिष्टवाचकं माला परम्परितं च द्रष्टव्यम् । विस्तरभयानेह प्रपश्यते ॥१॥ ॥१८॥ १९ ॥ इत्यलंकारचन्द्रिकायां रूपकप्रकरणम् ॥५॥ परिणामं लक्षयति--परिणाम इति ॥ विषयिनिष्ठायाः प्रकृतकार्योपयोगि- अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्या- ध्यवसायविषयता । एवंच विषयाभेदस्यैव विषयिणि विवक्षणादृगभिन्भेनाब्जेनेति खारसिक एव बोधो न तु रूपक इव दृनिष्ठाभेदप्रति योगिनाब्जेनेत्यनुयोगित्व- उल्लेखालंकारः ७ ] अलंकारचन्द्रिकीमहितः । २१ व्यामग्रामस्तनीभिः शवरयुवतिमिः कौतुकोदबदक्षं कृच्छादवीयमानः क्षणमचलमयो चित्रकूट प्रतस्थे । अत्रारोप्यमाण आतरःसौमित्रिमैत्रीरूपतापस्या गुहोपकारकलक्षणकार्योप- योगी न स्वारमना गुहस्य रघुनाथप्रसादेकाथित्वेन वेतनार्थित्वाभावात् ॥ - उल्लेखालंकारः ७ बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । स्त्रीभिः कामोऽर्थिभिः स्वर्दुः कालः शत्रुभिरैक्षि सः॥२२॥ यत्र नानाविधधर्मयोग्य वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेनानेकेन ग्रही. त्रानेकधोलिण्यते तत्रोल्लेखः । अनेकषोल्लेखने रुच्यर्थित्वभयादिकं यथाई प्र- योजकम् । रुचिरभिरतिः । मर्थित्वं लिप्सा । स्त्रीभिरित्याधुदाहरणम् । अ- त्रैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा स्त्रीमिरर्थिभिः प्रत्यर्थि. भिश्च रुच्यर्थित्वभयैः कामकल्पतरुकालरूपो दृष्टः । यथावा- मुख इति रूपकान्दो बोध्यः । असमासेऽप्युदाहरति--तीत्वैति।मुरारिनाट- कगतमेतत्पद्यम् । आत्मना तृतीयः। सीतालक्ष्मणसहित इति यावत् । असौ प्रक्रान्तो रामः भूतेशस्य शंभोमौंलिमालारूपाममरनदीं गङ्गां ती| तस्मै नावि- काय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृत- वान् उपकाररूपतया दत्तवान् । अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थित- वान् । कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्वयान्तरालेन प्रायौ तावत्परिणाही स्तनौ यासां तथाभूताभिः शवराणां व्याधानां युवतिभिः कौतुकेनोदञ्चन्ति विक- सन्त्यक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्लेशात् अतएव क्षणमन्वीयमानोऽनुगम्य- मान इत्यर्थः ॥ २० ॥ इति परिणामालंकारप्रकरणम् ॥ ६ ॥ अथोल्लेखालंकारं लक्षयति-बहुभिरिति । एकस्य बहुधोल्लेखादित्यन्वयः। उल्लेखनं विषयीकरणमुल्लेखः । हेतौ पञ्चमी । तथा चैवविधोल्लेखाद्धेतोरुल्लेख इ. प्यते । उल्लेख इति व्यवह्रियत इत्यर्थः । व्यवहार प्रति लक्षणस्य प्रयोजकत्वात् ॥ स्त्रीभिरिति ॥ खर्दुः खर्गसंबन्धी द्रुमः कल्पतरुः । कालो यमः । स प्रकृतो राजा । श्लोकं व्याचष्टे-यत्रेति ॥ नानाविधेति सौन्दर्यदातृत्वशूरत्वादिरूपे इ. त्यर्थः । तत्तद्धर्मेति ॥ रुच्यर्थित्वभयादिरूपेत्यर्थः । एतञ्च खरूपकथनं नतु लक्षणान्तर्गतम् । ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽन्या- प्तिरत आह-अनेकेत्यादि । तथाच लक्षणे बहुपदमनेकपरमिति भावः । एवंच ग्रहीतृविषयाद्यन्यतमानेकलप्रयुक्तमेकस्योलिख्यमानानेकप्रकारलमुल्लेख इ. ति लक्षणं बोध्यम् । सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायाचं विशेषणम् । तत्र प्रहीतृभेदप्रयुक्तं नानेकप्रकारलमिति नातिव्याप्तिः । वक्ष्यमाणोडेखनभेद- साधारण्यायान्यतमप्रवेशः । तद्विवेचनं तद्वयाख्यानावसरे करिष्यामः । अन्यत- मानेकत्वप्रयुक्तमेकस्योल्लिख्यमानत्वमित्येतावदुक्कौ विद्याविक्रमसौन्दर्यतपसां २२ कुवलयानन्दः। [ उल्लेखालंकारः ७ -- गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः । यथास्थित बालाभिष्टः शौरिः सकौतुकम् ॥ अन यस्तथा भीतं भक्कं गजं स्वरया त्रायते स सोऽयमादिपुरुषोत्तम इति वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः । यस्तथा चचलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वल्लभः सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैईष्टः । बालाभिस्तद्वाह्मगतरूपवेषा- लंकारदर्शनमात्रलालसाभियथास्थितवेषादियुक्तो इष्ट इति बहुधोलेखः । पूर्वः कामत्वाधारोपरूपकसंकीर्णः । अयं तु शुद्ध इति भेदः ॥ २१ ॥ एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः । गुरुर्वचस्यर्जुनोऽयं कीतौँ भीष्मः शरासने ॥ २३ ॥ ग्रहीतृभेदाभावेऽपि विषयभेदाबहुधोल्लेखनादसावुल्लेखः । उदाहरणं श्ले- षसंकीर्णम् । वचोविषये महान्पटुरित्यादिवबृहस्पतिरित्याद्यर्थान्तरस्यापि क्रो- डीकरणात् । निधिमागतम् । पश्यन्ति विबुधाः शूराः स्त्रियो वृद्धाश्च कौतुकात् ॥' इत्यत्राति- व्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचोलिमयमान प्रयास पमित्लेबाम्नु । उ- क्तोदाहरणे प्रकारस्य कम्।।' यनुपादिवानतिप्रमादिनि वाच्यम् । एवमपि 'नृ- त्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतेधूलिजालैरालोकालोकभूमीधरमतुलनिरालोक- भावं प्रयाते। विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किंच नन्दन्त्युलूकाः॥' इत्यत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैलॊककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्या- प्तेर्वारणाय प्रकारेऽनेकत्वोपादानस्यावश्यकत्वात् । 'सिानैमञ्जरीति स्तनकलश- युगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । त- लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिम- गदृशां नाप्यरण्यं शरण्यम् ॥' ने पनाम:मार्थमेक- स्येत्युक्तमिति संक्षेपः ॥ यथाहमिति ॥ स्त्रीभिः कामत्वोल्लेखे त...। रुचिरनु- रागः प्रयोजकः । अर्थिभिः कल्पतरुत्वोल्लेखे तेषां लिप्सा प्रयोजिका । शत्रुभि- र्यमत्वोल्लेखे तेषां भयं प्रयोजकमित्येवं यथायोग्यमित्यर्थः । उदाहरणान्तरमाह- यथावेति ॥ गजत्रातेति ॥ श्रीकृष्णस्य मथुराप्रवेशवर्णनम् । शौरिः श्रीकृष्णः वृद्धाभिर्गजत्रातेति दृष्ट इत्याद्यन्वयः । सकौतुकं सो कण्ट मिनि दर्शनक्रियाविशेषणं सर्वत्र संबध्यते । श्लोकं व्याचष्टे-य इति ॥ तथा महाग्राहग्रहणेन । युव- निसमृदग्गरणीगमः ॥ पूर्वमिति ॥ उदाहृत इति शेषः । उल्लेख इत्यनुषज्यते। आरोपरूपकसंकीर्ण इति पाठे आरोपवरूपं यद्रूपकं तत्संकीर्ण इत्यर्थः । आरो- परूपरूपकेति पाठस्तु स्पष्टार्थ एव ॥२१॥उल्लेखप्रभेदान्तरमाह-एकेनेति ॥ व्याचष्टे-ग्रहीत्रिति ॥ विषयमंदादित्यनन्तरमेकस्येति शेषः । विषयपद- माश्रयसंबन्धिनोरुपलक्षणम् । अत एव लक्षणे ग्रहीतृविषयादीत्यादिपदेन - स्मृतिभ्रान्तिसंदेहाः ८-१०] अलंकारचन्द्रिकासहितः। २३ शुद्धो यथा- अकृशं कुचयोः कृशं विलने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ॥ स्मृतिभ्रान्तिसंदेहालंकाराः ८-१० स्यात्स्मृतिभ्रान्तिसंदेहैस्तदङ्कालंकृतित्रयम् । पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् । पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः॥२५॥ स्मृतिभ्रान्तिसंदेहैः सादृश्याशिवध्यमानैः स्मृतिमान्भ्रान्तिमान्संदेह इति स्मृत्यादिपदाङ्कितमलंकारत्रयं भवति । तच्च क्रमेणोदाहृतम् ॥ यथावा- तत्संग्रहः कृतः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमी- निर्दिष्टस्त्वाश्रयः षष्ठ्यादिनिर्दिष्टः संबन्धीति विवेकः । गुरुरित्यस्यार्थकथनं महानिति। 'गुरुमहति वाच्यवत्' इति विश्वकोशात् । पटुरिति तु तात्पर्यपर्य- वसितार्थकथनम् । पटुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थ इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाङ्गेय इत्यर्थान्तरस्य च संग्रहः । 'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे।' इति विश्वः । कोडीकरणादेक- वृन्तगतफलद्वयन्यायेन संग्रहात् ॥ अकृशमिति ॥ कपालिनो हरस्य भागधेयं भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते आविरस्तु प्रकटीभवत्विति संबन्धः। किंभूतम् । कुचयोः कुचविषये अकृशं स्थूलम् । एवमग्रेऽपि । विलग्नो मध्यः । 'विलमो मध्यलग्नयोः' इति विश्वः । विपुलमायतम् । अधरे अधरोष्ठे अरुण. मारक्तम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणा- शालीत्यत्रापि मध्यमणिन्यायेन संबध्यते । एवम् 'तुपारास्तापसबाते तामसेषु च तापिनः । दृगन्तास्ताडकाशत्रोभूयासुर्मम भूतये ॥' इत्यादावधिकरणानेकत्व- प्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनप- तिर्धनाकाक्षिणाम् । गृहं शरणमिच्छता कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ संबन्धिभेदप्रयुक्तश्चोल्लेखो द्रष्टव्य इति दिक ॥ २२ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७॥ अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति-स्यादिति ॥ स्मृ- तिभ्रान्तिसंदेहैर्व्यवहर्तव्यतया हेतुभूतैस्तदकं तेषामकस्तदकः तदको विद्यतेऽस्मि- स्तथाभूतम् । मत्वर्थीयाच्प्रत्ययात् । अङ्कश्चिद्रं संज्ञेति यावत् । तेन तत्संज्ञासंज्ञि- तमित्यर्थः । अलंकृतित्रय व्यवहारविषयः स्यादिति योजना । एवंच स्मृतित्वभ्रा- न्तित्वसंदेहत्वानि त्रीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको १ 'प्रमत्तो मधुपः.

२४ कुवलयानन्दः । [स्मृतिभ्रान्तिसंदेहाः -१० दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उदीक्ष्य नियमिव काचिदुत्तरम्ती- मसाजकनिधिमन्धनसशौरिः । पूर्वत्र स्मृतिमदुदाहरणे साशसैव स्मृतिरत्र सहालक्ष्मीस्मृतिपूर्वक त. संबन्धिनो अकनिधिमन्यनस्वापि स्एतिरिति मेवः । पलाशमुकुलमानत्या शुक्रतुण्डे पतत्यतिः। सोऽपि जम्बूफलमानमा वम मिच्छति। अनान्योन्यविषयमान्तिनिवन्धनः पूर्वोदाहरणाद्विशेषः । जीवनग्रहणे मना गृहीत्वा पुनरुताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥ पूर्वोदाहृतसंदेहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेदः२३॥२४॥ । जातिविशेषः । भ्रान्तित्वं विशेष्यात्निप्रकारकज्ञानत्यम् । संदेहत्वं तु निश्चयभि. नत्वे सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम् । स्मृतिभ्रान्त्यादिवारणाय सत्य- न्तम् । उप्रेक्षावारणाय संभावनाभिन्न नि । चमत्कारित्वं पुनरखिलालंकारसाधारण लक्षणत्रयेऽपि निवेशनीयम् । तेन स घट इति स्मृताविदं रजतमिति भ्रान्ता- वयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम् । गाहते आकलयति । स्मरतीति यावत् । सादृश्याग्निबध्यमानरिति चमत्कारित्वोपलक्षकम् । न त्वेत. स्यापि खातब्येण लक्षणे प्रवेशः । सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि- त्वेऽलंकारताया अनिवार्यत्वात्, चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थ सादृश्यहेनुकत्वविशेषणम् । न चैतदेवोपादीयतां नतु चमत्कारित्वविशेषणमिति वाच्यम् । उदाहृतेषु माइस्यमूलकस्मृा प्वनिप्रमान वारणार्थ तस्यावश्यकत्वादिति संक्षेपः ॥ दिव्यानामिति ।माघे जलक्रीडाव- र्णनप्रस्तावे पद्यमिदम् । शौरिः श्रीकृष्णोऽम्भस्तो जलादुत्तरन्ती निर्गच्छन्तीं त्रि- यमिव श्रीसदृशीं कांचित्पुरस्तादने उद्वीक्ष्य जलनिधिमन्धनस्य अस्मार्षीत्स्मृत- वान् । 'अधीगर्थ-' इति कर्मणि षष्ठी। किंभूताम् । दिवि भवा दिव्यास्तेषां देवा- नामपि सौन्दर्यातिशयेन कृताश्चर्याम् । तथा स्फुरता अरविन्देन कमलेन चारू रमणीयो हस्तो यस्यास्तथाभूनाम् । तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं- बन्धिजलनिधिमन्थनस्मरणमिति भावः । अत्र श्रियमिवेत्युपमायाः स्मृत्यङ्गत्वा- त्तयोरङ्गाङ्गित्वलक्षणः संकरः ॥पलाशेति ॥ वक्रिमलौहित्यरूपसादृश्याान्तिः । अलिर्धमरः । सोऽपि शुकोऽपि ॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त इत्यर्थः ॥ जीवनेति ॥ जीवनं जलं प्राणसंयोगश्च । अथवा जीवन्त्यनेनेति जी- वनं धनम् । नम्रा अधोमुखा विनीताश्च । उन्नता ऊर्ध्वमुखा उद्धताश्च । घटी- अपहृत्यलंकारः ११] अलंकारचन्द्रिकासहितः । २५ अपहृत्यलंकारः ११ शुद्धापडतिरन्यस्यारोपार्थो धर्मनिह्नवः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६ ॥ वर्णनीये वस्तुनि तस्सदशधारोपफळकस्तदीयधर्मनिहवा कविमतिवि- यन्त्रमेकरज्जुसंबद्धघटमालारूपम् । भाषायां 'राहाट' इति प्रसिद्धम् ॥ कल्पि- तेति ॥ घटीयनसंबन्धिनोयेष्ठकनिष्ठयोः कोव्योरप्रसिद्धरिति भावः ॥२२॥२४॥ इत्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसंदेहप्रकरणम् ॥८॥९॥१०॥ अथापहृतिः । तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गामित्वान्यतरवान्निषेधोऽपहु- निरित्यपहुनिसामान्यलक्षणम् । निषेधश्च नादिसत्त्वे वाच्यः । क्वचित्तु तदभा- वाकैनवादिपदैः परमतत्वोपन्यासादिभिश्च व्यङ्ग्यः । तथा कचिदभेदप्रतिपत्ति- समानाधिकरणः क्वचित्तु तद्भ्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्य- माणः क्वचित्तु खाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिद्व्यञ्जनया प्रायशस्तु वा- च्यवृत्त्येति बोध्यम् । निषेधोऽपहुँतिरित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिरतोऽभे- दप्रतिपत्तिनिरूपितेत्यादिविशेषणमुपात्तम् । तत्र हि युद्धप्रवृत्तं कितवं प्रति युद्धे द्यूतत्वाभावो निर्घातोऽपि कीर्त्यमानो द्यूत एव तव प्रागल्भ्यं न तु युद्धे इत्युप- हासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम् , तस्यास्तदुपन्यासं विनापि सिद्धत्वात् । ना- प्यङ्गिभूतः। नितित्वेन तदुपायानपेक्षणादिति तद्वारणम्। अभेदप्रतिपत्तिनिरूपि- तानित्वमात्रोक्तौ शुद्धापडतिहेत्वपहुतिपर्यस्तापहृतिकैतवापह्रतिष्वव्याप्तिः । तत्र सर्वत्र 'नाय सुधांशुः' इत्यादेनिषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाङ्गित्वाभावात्। अभेदप्रतिपत्तिनिरूपिताङ्गत्वमात्रोक्तौ च भ्रान्तापहृति. च्छेकापहुयोरव्याप्तिः। तयोर्धान्तिशानिवारणरूपनिषेधस्य प्राधान्येनाभेदप्रति- पत्त्यङ्गत्वाभावादतस्तदन्यतरवत्त्वनिवेशः । तदाहुः-'साम्यायापहवो यत्र सा विज्ञेया त्वपह्नुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपह्नुतिः ॥ इति । सर्व चैत- तदुदाहरणच्याम्यानावरारे व्यक्तीभविष्यतीति न प्रपञ्चितम् । एवं सामान्यल- क्षणं मनसि निधाय शुद्धापहृत्यादींस्तद्भेदान्वक्तुमुपक्रमते-शुद्धापहृतिरिति॥ लक्षणं व्याचष्टे-वर्णनीय इति ॥ कविमतेर्विकासः स्फूर्निशालिता । तथा चोपमेय उपमानारोपफलक उपमेयधर्मत्वाभिमतनिषेधः शुद्धापह्नुतिरिति लक्षण- मिति भावः । अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्गयत्वं च निषेधविशेषणं बोध्यम् । तेन हेत्वपहुतौ कैतवापहृतौ च नातिप्रसङ्गः। 'कान्तः किं नहि नूपुरः' इति छेकापहृतावुपमेयधर्मस्य कान्तत्वस्य निपंधसत्त्वादतिप्रसङ्गवारणायाद्यं वि- शेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपार्थोऽपि तु नूपुरारोप एव शङ्कि- तकान्तत्वनिषेधार्थ इति तद्वयावृत्तिः । पर्यस्यापहृतिवारणायोपमेयधर्मेन्युक्तम्' तत्रोपमानधर्मस्यैव सुधांशुत्वादेनिषेध इति नातिव्याप्तिरिति सर्व सुस्थम् ॥ ३ कुवलयानन्दः । [अपडुत्पलंकारः ११ - कासोरमेक्षितधर्मान्तरस्यापि बिहवः शुद्धापळुतिः । यथा चन्द्र वियवदीपुण्ड. रकत्वारोपफलकखदीयधर्मस्य चन्द्रवस्थापहवः ॥ यथाषा- बकेऽपि शशविरे जलनिधेः पक परे मेनिरे सार कतिचिव संजगदिरे भूच्छायमैच्छन्परे । इन्दौ यदलितेन्द्रनीलशकलश्याम दरीश्यते तत्सान्द्र निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ अनौस्प्रेक्षिकधर्माणामप्यपहवः परपक्षस्योपन्यासादर्थसिद्धः॥२५॥२६॥ स एव युक्तिपूर्वश्चेदुच्यते हेत्वपहुतिः । नेन्दुस्तीवो न निश्यकः सिन्धोरौर्वोऽयमुत्थितः ॥२७॥ अत्र चन्द्र एव तीव्रत्वनेशत्वयुक्तिभ्यां चन्द्रत्वसूर्यस्वापह्नवो वडवानलस्वा- रोपार्थः ॥यथावा- मन्थानभूमिधरमूलशिलासहस्र- संघटनव्रणकिणः स्फुरतीन्दुमध्ये । पुण्डरीकेति ॥ 'पुण्डरीकं सिताम्भोजम्' इत्यमरः। एवंच सरोरुहपदं विशेष्य- परमिति भावः ॥ अङ्कमिति ॥ इन्दौ दलितस्य स्फुटितस्येन्द्रनीलमणेः शकल- वच्छथामं यद्दरीदृश्यते तत्केऽपि कवयोऽहं कलई शशङ्किरे शक्तिवन्तः, परे- ऽन्ये जलनिधेः पवं मेनिरे, कतिचित्पुनः सारङ्गं संजगदिरे अब्रुवन् , परे इतरे भुवो भूमेश्छाया भूच्छायं ऐच्छन् । “विभाषा सेनासुराच्छाया-' इत्यादिना क्लीब- त्वम् । वयं तु सान्द्र घनं निशि रात्रौ पीतम् अतएव कुक्षिस्थमन्धतमसं गाढ- ध्वान्तमाचक्ष्महे ब्रूमह इत्यन्वयः । औत्प्रेक्षिका उत्प्रेक्षामात्रविषयाः कलङ्काद- यः । अपिना खाभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति । 'नायं सुधा- शुः' इत्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इहतु परमतत्त्वोत्कीर्तनेन खानभिमत- त्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापहवरूपतयाप्यत्र वैचित्र्यं बोध्यम् ॥ २५ ॥ हेत्वपहृतिमाह-स एवेति ॥ शुद्धापह्नव एवेत्यर्थः । थुक्तिपूर्व इति ॥ योज्यते साध्यमनेनेति युक्तिहेतुस्तत्पूर्वस्तत्सहित इत्यर्थः। तथाच शुद्धा- पहवलक्षण एवानुक्तनिमित्त इत्यस्य स्थाने उक्तनिमित्त इत्युक्तौ हेत्वपहृतिलक्ष- णं संपद्यत इति भावः । नेन्दुरित्यादि विरहाकुलोक्तिः । तीवो दारुणो यतोऽतो नेन्दुः । निशि रात्रौ सत्त्वान्नार्कः । 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥ नैशत्वेति ॥ निशि भवो नैशस्तत्त्वमित्यर्थः । अत्रापि चन्द्रत्वं स्वाभाविको धर्मः । सूर्यत्वं त्वौत्प्रेक्षिकमिति बोध्यम् ॥ मन्थानेति ॥ मन्थानो मन्थनद- ण्डः स चासौ भूमिधरः पर्वतो मन्दरस्तस्य मूलभारो यच्छिलासहस्रं तेन संघ- हनाद्यो व्रणस्तस्य न मि:मागे स्फुरति प्रकाशते । छाया भूमेः । मृगो हरिणः । शशकः शशः इत्येषा अतिपामराणां मूर्खतमानामुक्तिः । हि यस्मात्तेषां छायादीनां तत्रेन्दुमध्यभागे कथंचिदपि केनापि प्रकारेण प्रयनिनायवः ।

अपडुस्यलंकारः ११ ] अलंकारचन्द्रिकासहितः । छायामृगः शशक इत्यतिपामरोक्ति- खेषां कथंचिदपि तत्र हिन प्रसक्तिः । भत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासंघहनव्रणकिणस्येव छायादीनां संभवो नास्तीति छायावाद्यपहवः पामरवचनत्वोपन्यासेनाविष्कृतः ॥२७॥ अन्यत्र तस्यारोपार्थः पर्यस्तापहृतिस्तु सः । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ २८॥ यत्र कचिद्वस्तुनि तदीयधर्मनिहवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्म- स्यारोपार्थः पर्यस्तापहुतिः । यथा चन्द्रे चन्द्रत्वनिलम्रो वर्णनीये मुखे तदारो- पार्थः ॥ यथावा- हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते । निपीय जागर्ति सुखेन तं शिवः स्पृशनिमां मुह्यति निद्रया हरिः ॥ पूर्वोदाहरणे हेतूक्तिर्नास्ति अन तु सास्तीति विशेषः । ततश्च पूर्वापद्धति- वदनापि द्वैविध्यमपि द्रष्टव्यम् ॥ २० ॥ 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।' इत्यमरः ॥ नास्तीति ॥ इति हेतोरित्यर्थः ॥ २६ ॥ पर्यस्तापहृतिमाह-अन्यत्रेति ॥ सः अपह्नवः । तथाच तदारोपार्थस्तस्यापह्नव इति लक्षणम् । निषेधस्य च न खाधिकरणे प्रतियोग्या- रोपार्थत्वसंभवो न वा खाधिकरणे खारोप इत्यर्थसिद्धमेवारोपस्यान्याधिकरणत्व- मन्यत्रेत्यनेनोक्तम् । अतएव पर्यस्तापह्नुति रित्युच्यते । पर्यस्ता आरोपविपरीता आरोपव्यधिकरणेति तदर्थात् । नच चन्द्रे चन्द्रत्वनिषेधस्य कथं मुखे तदारोपा- र्थत्वमिति वाच्यम् । आरोपदाद्यसंपादकत्वेन निषेधस्य तदर्थताया अनुभवसि- द्धत्वात् । अतएव दृढारोपरूपकमेवेदं नापह्नुतिरिति प्राचां सिद्धान्तस्तदनुसारे- णैव च चित्रमीमांसायां 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इत्यपहृतिलक्ष. णमुक्तम् । इह त्वलंकाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षणा- भिप्रायेणापहृतित्वेनोक्त इति निरवद्यम् ॥ हालाहल इति ॥ हालाहलो विषं नैव भवति किंतु रमा लक्ष्मीविषम् । जनाः परं केवलमत्रास्मिन्विषये व्यत्ययं वैपरीत्यं मन्वतेऽभ्युपगच्छन्ति । कुतस्तत्राह । यस्माच्छिवस्तं हालहलं निपीय सुखेन जागर्ति । हरिस्तु इमां रमां स्पृशन्सन् निद्रया मुह्यति । स्मरनिति पाठे स्मरन्नपि मुह्यति । किमु स्पृशन्नित्यर्थः । तथाच रमाया विषरूपत्वे मोहज- नकत्वं हेतुः हालाहलस्य तत्त्वापह्नवे च जागरसुखप्रयोजकत्वमिति बोध्यम् । 'हालाहलो विषे' इति विश्वः । अत्र स्पृशन्मुह्यतीति कार्यकारणयोः पौर्वापर्यवि. पर्ययरूपातिशयोक्तिरलंकारः । सा हेतूक्तिः ॥ ततश्चेति ॥ हेतूक्तितदनुक्तिरू- .. १ 'पहुतिश्च सा'.

२८ कुवलयानन्दः। [ अपहुत्यलंकारः ११ भ्रान्तापडतिरन्यस्य शङ्कायां भ्रान्तिवारणे । तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥२९॥ अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्याजुबुधा सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्वोच्या भ्रान्तिवारणं कृतम्। यथावा- नागरिक समधिकोतिरिह महिषः कोऽयमुभयतःपुच्छः । नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥ इदं संभवडान्तिपूर्षिकायां भ्रान्तापहृतावुदाहरणम् ॥ कल्पितभ्रान्तिपूर्वा यथा- जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥ अन कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोनेया पूर्वप्रश्नाभावात् । दण्डी स्वत्र तत्त्वाख्यानोपमेत्युपमाभेदं मेने । पभेदादित्यर्थः । पूर्वापानिवन्नापहतिया, द्वैविध्यं पर्यमापनि नुार्यम्ना- पहृतिरित्येवं द्विप्रकारचम् ॥ भ्रान्तापह्नुतिरिति ॥ अन्यस्य प्रकृतस्य भ्रान्ति- वारणे वार्यतेऽनेनेति वारणम् । तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः । भ्रान्तं भ्रमः । भावे क्तः । भ्रान्त्यपह्नुतिरित्यर्थः । एवंच तत्त्वकथनहेतुकभ्रान्ति- विषयनिषेधो भ्रान्तापह्नुतिरिति लक्षणं बोध्यम् । तस्य तापकारित्वरूपस्मरवृत्ता- न्तस्य ॥ नागरिकेति ॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । सम- धिका पश्वन्तरेभ्य उन्नतिरुचता यस्यैवंभूत उभयतो मुखपृष्ठभागयोः पुच्छं य- स्यैवंभूतश्च कोऽयं महिष इति । नहिनहीत्युत्तरम् । महिष इत्यनुषज्यो । अयं करिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ न्यतावतव सिद्धे करिपदमुत्कृष्टकरिबोधार्थम् । अयमस्य शुण्डादण्डो न तु पुच्छमिति । पुच्छ इति पाठोऽप्यर्धर्चादित्वात्साधुरेव । अप्रयुक्तत्वं तु तत्र परं विचार्यमिति पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्न तद्वि- षयसंदेहावगमात् । इह तु महिषत्वनिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो भेदः ॥ जटेति ॥ विरहिण्या इयमुक्तिः । हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किंतु वेणीकृतः अवेणी वेणी संपद्यते तथा कृतः कचानां कलापः, तथा गले गरल नैतदपि त्वियं कस्तूरी, एवं शिरसि नैषा शशिलेखा किंतु कुसुमम्, तथा इयमङ्गे भूतिर्भस्म न भवति परंतु प्रियविरहाजन्म यस्यैवंभूतो धवलिमा पाण्डिमेति । 'अवयॊ बहुव्रीहिळ- धिकरणो जन्मायुत्तरपदः' इति वामनसूत्रायधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥ कल्पितेति ॥ कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति ॥ निषेधस्य - अपहत्यलंकारः ११] अलंकारचन्द्रिकासहितः। १९ यदाह- न पमं मुखमेवेदं न भृङ्गो चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ २९ ॥ इति ॥ छेकापडतिरन्यस्य शङ्कातस्तथ्यनिहने । प्रजल्पन्मत्पदे लमः कान्तः किं न हि नूपुरः॥ २९ ॥ कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुतायामुक्तस्तात्पर्यान्तरवर्णनेन तथ्य- निह्नवे छेकापहुतिः । यथा नायिकया नर्मसखी प्रति प्रजल्पन्मत्पदे लन इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शकितवतीमन्यां प्रति नूपुर इति निवः । सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥ इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम् । प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यखरसोद्भावनम् । तद्बीजं तूपमाबोधकस्ये- वादेरसत्त्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २८ ॥ छेकापहृतिरिति ॥ छेको विदग्धस्तत्कृतापहृतिश्छेकापडतिरिति लक्ष्यनिर्देशो वाक्यान्यथायोजनहेतुकः शङ्किततात्त्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । संतापानातीतिवत् । अत्रच शुद्धापहृतिवारणायाद्यं विशेषणम् । 'मम किल श्रुतिमाह तदर्थकाम्' इत्यधिकतादूप्यरूपकवारणाय शङ्कितेति । नचानेनैव शुद्धापहृतिवारणाद्वाक्येत्या- दि व्यर्थमिति वाच्यम् । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे । सभृङ्गं पद्ममाघ्रासीरितापि मयाधुना ॥' इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थ- क्यात् । यद्वक्ष्यति । छेकापहृतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने नापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति तथ्यनिहवे इति तात्वि- कनिषेधे इत्यर्थः । नूपुरो मजीरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । नर्मस- खी क्रीडासखी । अत्र कान्तपरायाः 'प्रजल्पन्मत्पदे लग्नः' इत्युक्तेनूपुरतात्पर्य- कत्ववर्णनेन कान्तत्वापह्नवो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् ॥ सीत्कारमिति॥ सीत्कार तदनुकारिमुखध्वनि शिक्षयति, अधरमधरोष्ठं व्रणयति व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे 'तत्करोति तदाचष्टे' इति णिच्। तथा 'रोमाञ्चं तनोति विस्तारयतीति वाक्यत्रय नागरिकाभिप्रायेण प्रियसखी प्रति कया- प्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शकितवतीमन्यां प्रति तच्छानिवृत्तये नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापहवः । सी- कारशिक्षादिकर्तृत्वस्य नागरिक इव पवनेऽपि सत्त्वात् । तदाह-अर्थयोजन- येति ॥ विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णनयेत्यर्थः । १ 'स्तस्य निहवे. - . .

३० कुवलयानन्दः। [ अपहृत्यलंकारः ११ शब्दयोजनया यथा- पने स्वायने स्मरामि सततं भावो भवस्कुन्तले नीले मुमति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वमवचो निशम्य सरुषा निर्मितो राधया कृष्णस्तस्परमेव तब्धपदिशन्क्रीडाविटः पातु वः ॥ सर्वमिदं विषयान्तरयोजने उदाहरणम् । विषयैक्येऽप्यवस्थाभेदेन योजने यथा- - वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया। पतिं बुवा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥ २९ ॥ कैतवापहृतिय॑क्तो व्याजाद्यैर्निहुतेः पदैः । निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ ३० ॥ इदमिन्युदाहरणमिनि च जात्यभिप्रायेणैकवचनम् । हेमन्तशब्दात् 'तत्र भवः' इत्यर्थे 'सर्वत्राण च तलोपश्च' इत्यणि तलोपे च हैमन इति रूपसिद्धिः । प्रजल्प- नित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनमिह त्वनेकेषामिति भेदः ॥ शब्द- योजनयेति ॥ अर्थभेदेऽपि शब्दश्लेषमात्रेणेत्यर्थः ॥ पझे इति ॥ क्रीडाया विटो भोक्ता कृष्णो वो युष्मान् पातु रक्षत्विति संबन्धः । कीदृशः । इत्युत्खनवचः खप्ने उद्गतमुत्स्वप्नं वचनमर्थात्कृष्णस्यानुभाध्यानूद्य राधया निर्भसितः संस्तद्वचनं तत्परमेव राधापरमेव व्यपदिशन्कथयन् । इति किम् । हे पझे रमे, त्वन्नयने सततं स्मरामि । नीले भवत्याः कुन्तले केशपाशे मम भावोऽन्तःकर- णवृत्तिरूपः मुह्यति मोहं प्राप्नोति । ननु चित्तासङ्गो निवर्त्यतां तत्राह । किंक- रोमि अकिंचित्करोऽस्मि । यतस्ते तव महितैः पूज्यैर्विभ्रमैर्विलासैः क्रीतोऽस्मि मूल्येन गृहीतोऽस्मीति । किंकरोऽस्मीति क्वचित्पाठो युक्ततरः । तत्र चास्मी- त्यहमर्थकमव्ययम् । अहं किकरो दासः क्रीतोऽस्मीत्यर्थः । राधापरत्वे तु । हे राधे, इत्यर्थात्संबोधनम् । पद्मरूपे त्वन्नयने स्मरामीति विशेषः । शषं पूर्ववत् । अत्र रमासंबोध्यकस्तन्नयनस्मरणरूपो न वाक्यार्थोऽपि तु त्वत्संबोध्यकः पद्मरू- पत्वन्नयनस्मरणरूप इत्यपह्नवस्तत्परमेव तद्वयपदिशनित्यनेन प्रकाश्यते । नचा- त्रार्थस्य रमाराधासाधारणत्वमपि तु पझे इति लिङ्गवचनश्लिष्टशब्दयोजनैवेति ॥ विषयान्तरेति ॥ विवक्षितविषयभिनेत्यर्थः । अवस्था जाप्रत्स्वप्नादिरूपा ॥ वदन्तीति ।। पत्यौ भर्तरि सखीधिया सखीभ्रमेण जारवृत्तान्तं खकामुकवार्ता बदन्ती धूर्ता काचित्पतिं बुद्धवा सखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखीति पुनः संबोधनमप्रतार्यतासूचनाय । तत उत्तपना-तानन्नर प्रबुद्धा जागरणवती। अत्र नासौ जाग्रदवस्थावृत्तान्तः किंतु स्वाप्निक इत्यवस्थाभेदयोजनयापहवः सखी- त्यादिवाक्यशेषेण प्रकाश्यते ॥२९॥ कैतवापडतिरिति लक्ष्यनिर्देशः । व्याजायैः १ 'व्यक्ते व्याजाचेनिहवे'. :

उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः । १ भनासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षाः किंतु स्मरनाराचा इत्यपहवः प्रतीयते॥ रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्वजम्भितमहातपतापतप्ताः स्कन्धान्तरोस्थितदवाग्निशिखाच्छलेन जिहां प्रसार्य तरवो जलमर्थयन्ते ॥३०॥ उत्प्रेक्षालंकारः १२ संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । उक्तानुक्तास्पोद्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३१ ॥ धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् । पदैनिहुतेर्व्यक्ती अभिव्यक्ती सत्यां पै.नवापद निरिम व्यवहर्तव्यमित्यर्थः । कैत- वेनापडतिरिति व्युत्पत्तेः । व्याजाद्यरित्यनेन मिषकपटच्छलच्छद्मकैतवादयो गृ- ह्यन्ते । एवंच कैतवादिपदव्यङ्गथापहृतित्वं लक्षणं बोध्यम् । नाराचा बाणाः । दृक्पाताः कटाक्षाः । अपह्नवो निषेधः ॥ प्रतीयत इति । असत्यत्वस्य विषय- बाधाधीनत्वादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारि- णो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्यारण्यस्योदरेषु मध्यप्रदेशे- षु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्ने जम्भितः प्रवृद्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ताः संतप्ताः । किं कृत्वा । स्कन्धान्तरात्प्रकाण्डा- भ्यन्तरादुत्थितो यो दवामिर्दावानलस्तस्य या शिखा ज्वाला तस्याः छलेन । जिह्वां प्रसार्येति । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः।' इत्य- मरः । अत्र नेयं दवामिशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चान- भिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥ ३० ॥ इत्य- लंकारचन्द्रिकायामपहुतिप्रकरणम् ॥ ११ ॥ उत्प्रेक्षां लक्षयति-संभावनेति॥ अत्रोत्प्रेक्षेत्यनन्तरं सा च त्रिधेत्यध्या- हार्यम् । तथाच संभावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेनुफलरूपेण त्रि- घेत्यर्थः। वस्तुहेतुफलानां च संभावनाधर्मत्वं स्खविधेयकत्वसंबन्धेन । तेन वस्तुहे. तुफलविधेयकत्वेनेति पर्यवसितार्थः। वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भिन्नत्वम् । नातो वस्तुत्वस्य केवलान्वयितया विभागसंगतिः ॥ उक्तत्या- दि ॥ अत्र आसामुत्प्रेक्षाणां मध्ये आद्या वस्तूत्प्रेक्षा । उकं चानुक्तं चोक्तानु. के आस्पदे यस्या इति विप्रहः । आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः । सि- द्वासिद्धेत्यत्र विग्रहः पूर्ववत् ॥धूमेति ॥ तमः कोकीविरहशुष्मणां धूमस्तोमं शके १ 'फलात्मता'. २ 'पदार्थाश्च'. ३ 'विरहसोमणम्'.

.. कुवलयानन्दः । [ उत्प्रेक्षालंकारः १२ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः ॥ ३२ ॥ रक्तौ तवाङ्गी मृदुलो भुवि विक्षेपणाद्भुवम् । त्वन्मुखाभेच्छया नूनं पद्मवैरायते शशी ॥ ३३ ॥ मध्यः किं कुचयोधृत्यै बद्धः कनकदामभिः । प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३४ ॥ अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुस्प्रेक्षा । सा वस्तु- हेतुफलात्मतागोचरत्वेन त्रिविधा । मन्त्र वस्तुनः कस्यचिद्वस्वन्तरतादात्म्य. संभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते । अहेतोहेतुभावेनाफळस्य फलस्वेनो- इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणाममीनां संबन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति ॥ अत्र तम इति नभ इति च कर्तृपदम् । रक्तावित्यादि दयिताप्रति नायकस्योक्तिः । तव मृदुलौ सुकुमारावी चरणौ ध्रुवं भुवि विक्षेपणाद्धेतो रक्तवर्णाविति ॥ त्वन्मुखेति ॥ पद्मगतायास्त्व- न्मुखकान्तेरिच्छया । हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्द- वैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यङ् ॥ मध्य इति ॥ मध्यभागः कुच- यो त्यै धारणाथै कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपातिशयोक्त्या वलीभिर्बद्धः किमित्यर्थः ॥ प्राय इति ॥ अजं कर्तृ । प्रायो बहुधा त्वचरणेन सहैक्यं प्राप्तुं तोये जले तपस्यति । तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च' इति परस्मैपदम् । लक्षणं परि- कुरुते-अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्संबन्धरूपेण निमित्ते- नान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन संभावनमित्यर्थः । अन्यस्येति षष्टयर्थो विषयता धर्मितारूपा। विषयिण इति षष्ठ्यर्थस्तु विशेषणतारूपा विष- यता । अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय । तथा व विषयि- निष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषय विधेय, महार्यसंभा- वनमुत्प्रेक्षेति पर्यवसितम् । तनिष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांशस्याव्यावर्तकतया स्वम्पकथनमात्रपरन्चात् । मुखं चन्द्रं म- न्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाहादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहा- र्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादि- संभावनोत्प्रेक्षेति तद्वारणायाहार्येति । एतेन 'विरक्तसन्ध्यापरुषं पुरस्ताद्यथा र. जः पार्थिवमुजिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥' इत्यत्र रजोभरोद्गमनरूपससैन्यप्रत्युद्न्तृधर्मसंबन्धप्रयुक्तायां भरते तत्संभावना- यामपि नातिव्याप्तिः । तस्या अनाहार्यत्वात् 'संभावनं यदीत्थं स्यादित्यूहोऽन्य- स्य सिद्धये' इति वक्ष्यमाणसंभावनालंकारविषये 'यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । 'गानि जागिमौन्दर्य १ 'पा वैरायते'. - उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः । ३३ स्प्रेक्षा हेतूस्प्रेक्षा फलोत्प्रेक्षेस्युच्यते । अत्र आया स्वरूपोत्प्रेक्षा उक्तवि. षयाऽनुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषयासिद्ध- विषया चेति प्रत्येक द्विविधे । एवं षण्णामुत्प्रेक्षाणां धूमस्तोमेत्यादीनि क्रमणोदाहरणानि । रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोध. कस्वादिधर्मसंबन्धेन गम्यमानेन निमित्तेन सथः प्रियविघटितसर्वदेशस्थि- तकोकाङ्गनाहृदुपगतप्रज्वलिष्यद्विरहानलधूमस्तोमतादात्म्यसंभावनास्वरूपो- प्रेक्षा तमसो विषयस्योपादानादुक्तविषया । तमोव्यापनस्य नभःप्रभृतिभूप- यन्तसकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तमःकर्तृकलेपनतादात्म्योत्प्रे- क्षा । नभाकर्तृकाअनवर्षणतादात्म्योत्प्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा उभय- ब्रापि विषयभूततमोव्यापनस्थानुपादानात् ॥ नन्वत्र तमसो व्यापनेन निमि- तेन लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमि- तेनाञ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु । मैवम् । लिम्पति वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणी- यतया अन्यत्रान्वयासंभवात् । अतएव आख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वे. नान्यत्रान्वयासंभवादेवास्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः। शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ॥' इत्यादाव- तिप्रसङ्गवारणाय तनिष्ठेति संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र सावित्रीत- रलीकारकत्वरूपो धर्मो मुखवृत्तिर्न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग इति दिकू । वस्तुहेतुफलात्मता वस्तुहेतुफलतादात्म्यम्। ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारेणेत्थमभिधा- नादेतत्सूचनायैव लक्षणेऽत्र च तादात्म्योपादानमिति ॥ नन्वलंकारसर्वस्वकारा- दिभिः खरूपोत्प्रेक्षति व्यवहृतायास्तुरीयाया अपि सत्त्वात्रिविधेत्ययुक्तमित्याश- झ्याह-अत्रेति ॥ आसां मध्ये या प्रथमा वस्तूत्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्य- त इत्यर्थः । विसृत्वरस्येति ॥ प्रसरणशीलस्येत्यर्थः । तमस इति संभावने- त्यनेनान्वेति । षष्ठयों विषयता । तमोविषयेत्यर्थः। निगेपपादोपनिषदा प्रसरणशीलत्वस्य संग्रहः । प्रियैः पतिभिर्विघटिता वियुक्ताः । व्यापनस्येति ष- ठयन्तस्य पूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेतनस्य तमस इत्यस्यापि ॥ अनु- पादानादिति। विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः। यथाश्रुते ताभ्यामेव माझ्यावमानलक्षणयोपादानादमंगनेः ॥ उक्तविषयमेवे. ति ॥ सकृदुच्चारिताभ्यां लिम्पतिवर्षतिभ्यां शक्त्या लेपनवर्षणयोः साध्यवसान- लक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापनस्य युगपत्तिद्वयवि. रोधेनासंभवादित्याशयः । स्मृतेनिरुक्तस्मृतेः । उप्रेक्षणीयन या उत्प्रेक्षाविषयत- या अन्यत्रोत्प्रेक्षायाम् ॥ अन्वयासंभवादिति ॥ निराकात्वादिति भावः । अत एवाख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव क्वचिदतए- ..

.३४ कुवलयानन्दः। [ उत्प्रेक्षालंकारः १२ 'कर्ता यथुपमान स्थास्यम्भूतोऽसौ क्रियापदे। स्त्रक्रियासाधनव्यग्रो नालमन्यद्वयपेक्षितुम् ॥' इति । केचित्तु तमोनभसोर्विषययोस्तरकर्तृकलेपनवर्षणस्वरूपधर्मोस्प्रेक्षेत्याहुः । त- न्मते स्वरूपोत्प्रेक्षायां धयुत्प्रेक्षा धरिप्रेक्षा चेत्येवं वैविध्यं द्रष्टव्यम् । घर- णयोः स्वतःसिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतोस्तस्य हेतुत्वेन संभावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वास्सिद्धविषया । चन्द्रपमवि- रोधे स्वाभाविके नायिकाघदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्धेतुस्वसंभावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया । मध्यः स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवसिताया पलित्रयशालिताया बलात् इति मध्यकर्तृककुचश्तेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा । जलजस्य वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूतेति ॥ गुण- भूत इत्यर्थः । स्वक्रियेति ॥ क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपे- क्षितुमाकासितुं नालं न समर्थः । तथाच निराकाइत्वादुपमानत्वेनान्वयो न सं- भवतीति भावः । एतेन तमसि लेपनकर्तृत्वमुत्प्रेक्ष्यमित्यलंकारसर्वस्वकारमतम- पास्तम् । तस्यापि कर्तृपिरोपण पानिमामिवियफेन लेपनस्यैवोत्प्रेक्ष्यत्वाच । ए- वंच प्रधानभूनलेपनकियागोनग भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच युगपहृनिद्वय विरोधः शङ्कयस्तदनभ्युपगमात् । केचिदिति मत इति चाखरसो- द्भावनम्। तद्बीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः । तथा धर्म्युत्प्रेक्षा सा धर्मप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंबन्धप्रयुक्तेति लक्षणान- नुगमः । नच तनिष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेगानाननुगम इति वाच्यम् । सर्वत्र सादृदयनिमित्ताया एवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्र- युक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुत्वसं- भावनाहेनुरूपतासंभावना फलत्वेन फलरूपतया । एवमग्रेऽपि बोयम् ॥ अ- थोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते । तत्र धूमस्तोममित्यादौ गोकाङ्गनावि- रहानलसंबन्धिधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः । नगमार्थयोरभेदा- न्वयात् । एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि । नूनं मुखं चन्द्र इत्यादौ तु चन्द्र- प्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभा- वना तादात्म्यसंसर्गिक्षेत्र तथानुभवाचमत्कारप्रयोजकस्य संसर्गान्तरस्याभावा- च । नचैवं चन्द्रत्वप्रकारिका तस्य चन्द्रोपसर्जनत्वात् । एवं ध्रुवेवादिशब्दसम- भिव्याहारेऽपि बोध्यम् । लिम्पनी वे घनुनविषयो प्रेसोदाहरणे तु लिम्पतिना साध्यवसानलक्षणयां लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना रूपेणोपस्थापिते तमोव्यापने लेपनसंभावनान्वयात्सान्द्रमलिनीकारकतमःकर्तृ- काङ्गकर्मफलेपन प्रकारकर्मभावनाविषय इति बोधः । व्यजनयोपस्थिते व्यापने तादृशसंभावनान्वय इति प्रदीपकृतः। एवं वर्षतीत्यादावपि बोध्यम् । विक्षेप- गावमित्यादिहेनूप्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः ।

उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः । जकावस्थितेरुदवासतपस्त्वेनाध्यवसितायाः कामिनीचरणसायुज्यप्राप्तिन फल- मिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोस्प्रेक्षणादसिविषया फलो- प्रेक्षा। अनेनैव क्रमेणोदाहरणान्तराणि । बालेन्दुवक्राण्यविकासभावादभुः पलाशान्यतिलोहितानि । सयो वसन्तेन समागताना नखक्षतानीव वनस्थलीनाम् । अत्र पलाशकुसुमानां वक्रत्वलोहितस्वेन संबन्धेन निमित्तेन सद्यःकृतन. खक्षततादात्म्यसंभावना उक्तविषया स्वरूपोस्प्रेक्षा ॥ हेतोश्च खप्रयोज्याश्रयत्वसंबन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन संभाव- नायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्यधिकरणकविक्षेपणाभि- नहेतुकरक्तप्रकारकसंभावनाविषयावजी इति बोधः । नच तादात्म्यसंबन्धेन हे- तुविधेयकत्वाभावान्नेय हेतूत्प्रेक्षा स्यात्किंतु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रे- क्षैवेति वाच्यम् । विवक्षितविवेकेन विक्षेपणे हेत्वभेदस्योत्प्रेक्षणीयतया विक्षेपणं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्यादिरूपक इवानु- योगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वभेदभानसं- भवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षा- त्वेनैव व्यपदेशः । यथा 'दना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीता- वपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम् । नच खप्रयो- ज्यत्वसंबन्धेन खप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ खीक्रि- यतां कृतमीदृशकल्पनाक्लेशेनेति वाच्यम् । धर्मोत्प्रेक्षाङ्गीकारे दूषणस्य प्रागेवावे- दितत्वात् । अतएव 'हर्षाल्लमा (मन्ये) ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमे- व खाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक- हर्षहेतुकलगनतादात्म्यसंभावनमुचितम् । लगनस्य धर्म्युपसर्जनत्वेन संभावना- यामन्वयायोगादिति ध्येयम् । एवं त्वन्मुखाभेच्छया इत्यसिद्धविषयहेतूत्प्रेक्षाया- मपि बोध्यम् । विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात् । मध्यः किमि- त्यादिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः पूर्ववत् । फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेन तेनैव बद्ध वान्वयस्तत्तादात्म्य- संसर्गकसंभावनाया मध्ये विषयतया । एवंच कुचधरणाभिन्नफलककनकदामक- रणकबद्धत्वाश्रयसंभावनाविषयो मध्य इति बोधः । एवं प्रायोऽब्जमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं नोपदशिनरीत्योपपादनी- यमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते ॥ बालेन्दुवक्राणीति ॥ न वि- यते विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्धेतोर्बालेन्दुवत् द्वितीयाचन्द्रवद्वक्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसु- मानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं- कुवलयानन्दः। [ उत्प्रेक्षालंकारः १२ पूर्वोदाहरणे निमित्तभूतधर्मसंबन्धो गम्यः इह तूपात इति भेदः। नन्धि- वशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु । लिम्पतीवेत्युदाहरणे लेपनकर्तरुपमानत्वाईस्य क्रियोपसर्जनस्ववदिह नखातानामन्योपसर्जनत्व- स्योपमांबाधकस्याभावात् । उच्यते । उपमाया यत्र चिरिस्थतैरपि नखक्षतः वक्तुं शक्यतया बसन्तनायकसमागतवनस्थलीसंबन्धित्वस्य विशेषण- स्थानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां मखक्षततादात्म्यसंभावना- यामिवशब्दमवस्थापयति । तथात्व एव सद्विशेषणसाफल्यात् । अस्तिच संभावनायामिवशब्दो दूरे तिष्ठन्देवदत्त इवाभातीति । पिनष्टीव तरङ्गाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगणनाः ॥ अत्र तरङ्गाप्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते । समुद्रादुस्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसृताना कराणां दिक्षु ग्यापनं च समुद्रोपान्तफे- नचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपु. जीभवनं दिशा धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकिरणब्यापन- योर्विषययोरनुपादानादनुक्तविषये स्वरूपोत्प्रेक्षे । येषां तूपात्तयोः समुद्रच्च- न्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतम् । तेषां मते पूर्वोदाहरणे धर्मिणि धय॑न्तरतादात्म्योत्प्रेक्षा । इह तु धर्मिणि धर्मसंसोत्प्रेक्षेति भेदो- ऽवगन्तव्यः॥ रात्रौ रवेर्दिवा चेन्दोरभावादिव सं प्रभुः। भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥ रात्रौ रवेर्दिवा चन्द्रस्थाभावः समापि प्रतापयशसोः सर्गे न हेतुरिति तस्स तद्धेतुत्वसंभावनासिद्धविषया हेतूत्प्रेक्षा ॥ विवस्वतानायिषतेव मिश्राः स्वगोसहस्त्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ।। भूतानि नखक्षतानीव बभुः शुशुभिर इत्यन्वयः ॥ पूर्वेति ॥ धूमस्तोममित्यत्रे- त्यर्थः । ननु लोके संभावनायामिवशब्दो न दृष्ट इत्यत आह-अस्तिचेति ॥ पिनष्टीवेति ।। समुद्रस्तरङ्गाणामग्रभागैः फेनरूपं चन्दनं पिनष्टीव । इन्दुस्त- त्फेनचन्दनमादाय करैः किरणैः दिग्रूपा अङ्गना लिम्पतीव । अनुलिम्पतीवेत्यर्थः॥ समुद्रोपान्तेति ॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासां दिशां लेपनं तत्त्वेनेत्यर्थः । उभयत्र उभयोरुत्प्रेक्षयोः। येषामलंकारसर्वखकारादीना- म् ॥ रात्राविति ॥ स प्रक्रान्तः प्रभुभूपतिः भूमौ रात्रौ रवेरभावाखेतोरिव दिवा चेन्दोरभावाद्धेतोरिव सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान् । निर्मि- तवानित्यर्थः । रक्तावित्युदाहरणे भावरूपो हेतुरिह त्वभावरूप इति भेदः विवस्वतेति ॥ विवखता सूर्येण खस्य गोसहस्रेण किरणसहस्रेण समं मिश्रा मिश्रिता जनानां नेत्रापरनामधेया गावोऽप्यनायिषतेव नीता इव । यथा गोपा- उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहित । अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावा. मध्य प्रति हेतुत्वेनोस्प्रेक्ष्यत इत्यसिद्धविषया हेतूत्प्रेक्षा। पूरं विधुर्वर्धयितुं पयोधेः शकेयमेणाङ्कमणि कियन्ति । पांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति ॥ अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा तेन कृतस्य चन्द्रकान्तद्रा. वणस्य कोकाङ्गनावाष्पस्त्रावणस्य च फलस्वेनोस्प्रेक्ष्यत इति सिविषया फ- लोत्प्रेक्षा। रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ अन्नोत्तरायणस्याश्वपरिवर्तनमसदेव फलस्वेनोस्प्रेक्ष्यत इत्यसिद्धविषया फ- लोस्प्रेक्षा । एता एवोत्प्रेक्षाः । 'मन्ये शक्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥' .. लेन परकीयाभिर्गोभिर्मिश्राः स्वीया गावो नीयन्ते तथा गोपदवाच्यत्वसाजात्ये. न मिश्रिता विवस्वतापि नीता इवेत्यर्थः । खलु संभावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न त्वन्धकारैरित्यन्वयः । 'गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्रीसौरभेयीदग्बाणदिग्वाग्भूष्वप्सु भूनि च ॥' इति मेदिनी। अत्र चानायिषतेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्रे- दः । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तु क्रियारूप इत्यपि द्रष्टव्यम् । अत्र चोत्प्रेक्षाद्वयसत्त्वेऽपि हेतूत्प्रेक्षायाःप्राधान्यात्तत्त्वेनैव व्यपदेशो न तु स्वरूपोत्प्रे- क्षात्वेन । तस्या अङ्गत्वात् । एवमन्यत्रापि बोध्यम् ॥ पूरमिति ॥ अयं विधुश्च- न्द्रः पयोधेः पूरे वर्धयितुमेणाङ्कमार्ण चन्द्रकान्तं कियन्ति लोकोक्त्या अपरिमिता- नि पयांसि दोग्धीति शङ्के। तथा प्रियैः पतिभिर्विप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते । कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः। दुहे. र्द्विकर्मकत्वादेणाङ्कमणिमिति द्वितीया । एवं नयने इत्यत्रापि । मध्यः किमित्यत्रैक- स्य बद्धत्वस्य फलत्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणस्रावणयोर्द्वयोः फलत्वेन पूरवर्धनस्य तदिति भेदः । बृंहणं वर्धनं तदा वर्धनकाले तेन चन्द्रेण ॥ रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वा- हनानामश्वानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽब्जमित्यत्रैक्यस्य 'गुणस्य फलत्वेनोत्प्रेक्षणमिह तु प- रिवर्तनक्रियाया इति भेदः । नन्वलंकारसर्वस्वकारादिभिरन्येषामपि जात्यादि- भेदानामुक्तत्वान्कुतस्तेन प्रदर्शिता इत्याशझ्याह-पता एवेति ॥ उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमन्कार विशेषप्रयोजिका इति शेषः । तथाच ३८ कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३ । इत्युत्प्रेक्षाध्यक्षकत्वेन परिगणिताना शान्दानां प्रयोगे पाच्याः । तेषाम- प्रयोगे गम्योस्प्रेक्षा। यथा-स्वकीर्तिभ्रंमणश्रान्ता विवेश स्वर्गनिमगाम् ॥३२॥ अतिशयोक्यलंकारः१३ रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वानिःसरन्ति शिताः शराः॥३५॥ विषयस्य स्वशब्देनोल्लेखनं विना विषयिवाचकेवाग्देन ग्रहणं विषय- निगरणं तत्पूर्वक विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयवासिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणांच ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा- वापी कापि स्फुरति गगने तत्परं सूक्ष्मपचा सोपानालीमधिगतवती काचनीमैन्द्रनीली। जाल्यादिभेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शनमिति भावः ॥ इत्युत्प्रे. क्षेति ॥ इत्यनेनोत्प्रेक्षाबोधकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति । अत्रानुपात्तस्व- संगमनविषया स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तत्वरूपहेतू- प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इति उत्प्रे. क्षाप्रकरणम् ॥ १२॥ अतिशयोकि लक्षयति-रूपकातिशयोक्तिरिति । प्रहणमुपस्थापनम् ॥ विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चा- भेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥गतमीसमर्थात्तसिरि भिप्रायेण। एवं चानुपात्तविषयधर्मिकाहार्यनिश्चयविषयीभूतम् । विषय्यभेत : दूप्यान्यतरद्रूपका- तिशयोक्तिरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूप- कादस्यां विशेषोऽतिशय इत्युच्यते । ब्रान्तिवारणा पाहार्येति । उत्प्रेक्षावारणाय निश्चयेति ॥ नीलोत्पलेति॥अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यल- पोमयानुगत-निशेषापिगारेगोधिने कामिनीनयने शक्त्युपस्थितस्य नीलोत्पलत्वविशिष्टस्याभेदसंसर्गेणान्वयः । शक्त्युपस्थितयोः कृतीष्टसाधनतयो- रिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोस्तात्पर्यवशेनान्वयानीकारे बाध- काभावात् । एवंच नीलोत्पलाभित्रकान्तिविशेषवद्वन्द्वादिति बोधादियमभेदाविश- योक्तिरित्युच्यते । नचैवं सति रूपकादवलक्षण्यमिति वाच्यम् । रूपके विषयिभे- दव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटत्वात् । यदा त्वभेदभा- ने न तात्पर्य किंतु भेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्तादूप्या- तिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥वापीति ॥ मध्यभागमारभ्य मुखपर्यन्तं भतिशयोक्यलंकारः१३] अलंकारचन्द्रिकासहितः । ३९ भने शैली सुकृतिसुगमौ चन्दनच्छवदेशी तत्रत्यानां सुलभममृतं संनिधानास्सुधांशोः । मन्त्र वाण्यादिकाम्दै भिप्रभूतयो नियीर्णाः । मन्त्रासिकायोको रूपकविशे- पणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेमात्राप्यभेदातिशयोक्तिस्तादूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम् । तत्रा- प्याधिक्यन्यूनताविभागश्वेति सर्वमनुसंधेयम् ॥ यथावा- सुधाबमासैरुपवनचकोररनुसृतां किरयोस्खामच्छा लवलिफळपाकप्रणयिनीम् । उपप्राकाराने प्रहिणु नयने तर्कय मना. गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ - नायिकाङ्गवर्णनमिदम् । गगने सूक्ष्मतया तद्वदुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशो- भा वापी तद्वद्गम्भीरा नाभिः स्फुरति शोभते । तत्परं तदूर्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छयामा रोमावलिः स्फुरतीत्यनुषज्यते । किंभूता । काञ्चननिर्मितां सोपानपति तत्सदृशीं त्रिवलीमधिगतवती प्राप्तवती । तथा अग्रे तदूर्ध्वदेशे शैलौ नन विजाली कुचौ स्फुरत इति विभक्तिविपरिणा- मेन संबध्यते । कीदृशौ । सुकृतिनां पुण्यकृतां सुलभौ सुलभगमनौ सुलभौ च । पुनः कीदृशौ । चन्दनतरुभिः चन्दनपङ्केन चाच्छन्नो व्याप्तो देशो ययोस्तथाभ- तौ । तत्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वदाहादकस्य मुखस्य संनिधानादमृतं तद्वदाखाद्यमधरमाधुर्य सुलभमित्यन्वयः । विधानां भेदानाम् । इतीत्यस्य प्रद- शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकाभेद- स्यातिशयोक्तावभावाद्रूपकपदं रूपकसदृशपरम् । षण्मासमग्निहोत्रं जुह्वति' इत्य- त्राग्निहोत्रपदवद्धर्मातिदेशकमित्याशयः । आधिक्यन्यूनतेत्यत्रानुभयोक्तरुक्तोदा- हरणेषु प्रसिद्धतरत्वादनुपादानं बोध्यम् । यत्त्वत्र कैश्चिदुक्तं विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विषयस्य भानं न विषय्यभिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वै- विध्यमयुक्तमिति, तत्प्रौढिविलसितम् । शक्यतावच्छेदकस्य लक्ष्य पूर्वमप्रतीत- त्वेन तद्विशिष्टतया लक्षणाया असंभवात्, यद्धर्मविशिष्टे शक्यसंबन्धप्रहस्तद्धर्म- प्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुत्वालक्षणापरिहार्याया अनु- पपत्तेस्तदवस्थत्वाच्च । एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तदशादेव शक्याभे- दप्रकारकबोधेऽपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनादिति दिक् ॥सुधाबद्धेति ॥ विद्धशालभजिकाख्यायां नाटिकायां स्फटिकप्राकारशि- खरगतां मृगाकावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम् । प्राकारामसमीप नयने प्रहिण प्रेरय । मनाक् ईषत्तर्कय । अनाकाशे अनन्तरिक्षे कोऽयं शी- तकिरणश्चन्द्र इति मुखे चन्द्रगताहादकारित्वरूपतादूप्याध्यवसानम् । कीदृशः ।

कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३ इस्यत्र कोऽयमित्युक्त्या प्रसिदचन्द्रानेदखत उत्कर्षन गर्मितः । एवमन्य- प्राप्यूहनीयम् ॥३५॥ यद्यपहुतिगर्भवं सैव सापह्नवा मता। त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥३६॥ अन्न त्वत्सूकिमाधुर्यमेवामृत मित्स्यतिशयोक्तिचन्द्रमण्डलस्थममृतं न भव. तीत्यपङतिगर्भा ॥ यथावा- मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं पूर्व प्रालेयधुतिमण्डले खलु तयोरेकासिका नार्णवे। तचोदश्चति शाङ्कमूर्ति न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति त हमे येषां न सा रक्पथे। गलितश्च्युतो हरिणो यस्मात्तथाभूतम्टेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीहक् । सुधायां बद्धो पासस्तदभिलाषो यैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसृता लव- ल्याः फलपाकस्य प्रणयिनीं सदृशीमच्छां खच्छांज्योत्नां तत्त्वेनाध्यवसितां कान्ति प्रभां किरन् । प्रसारयन्नित्यर्थः । लवली लताविशेषः 'हरफारेवडी' इति भाषाप्र- सिद्धः । 'प्राकारो वरणः सालः' इत्यमरः । सभाबद्धग्रासैरिति कचित्पाठस्तत्रा- प्युक्त एवार्थः । नवलवलीति पाठे नवश्चासौ लवलिपाकश्चेत्यन्वयो बोध्यः । न- विहाभेदविवक्षैव किं न स्यादत आह-अत्रेति ॥ कोऽयमित्यनेनानितित्व- प्रकाशनात्प्रसिद्धस्य निर्मातत्वात्तद्वैलक्षण्यावगतिरिति भावः ॥ गर्मितो गलितेत्या- दिविशेषणव्यङ्गयत्वेनाभिप्रेतः ॥ अन्यत्रापीति॥ 'अनुच्छिष्टो देवैरपरिदलितो राहृदशनैः कलङ्केनाश्लिष्टो न खलु परिभूतो दिनकृता । कुहूभिनों लिप्तो न च युवतिवक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्य- यः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इलादावदिव्य- त्वरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणेष्वयमिति विषयस्योपा. दानात्कथमतिशयोक्तिरिति चेदत्राहुः । इदं त्वस्य विषयिविशेषणत्वेन विवक्षा- यामतिशयोक्तिरेव । यदा तु विषयविशेषणत्वविवक्षा तदा रूपकमिति व्यवस्था। मत एव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसंदेहसंकरे 'नयनानन्ददायी- न्दोबिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३५॥ एनां विभजते-यद्यप- हुतीति ॥ अपहुतिगर्भत्वं पर्यस्तापह्नुनिगर्भवम् । सैव रूपकातिशयोक्तिरेव । तथाच सापहवत्वनिरपह्नवत्वभेदेन द्विविधाऽतिशयोक्तिरिति भावः ॥ मुक्तति॥ तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक- ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः। तानि कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म- .. १'यदापति स अतिशयोक्त्यलंकारः१३] अलंकारचन्द्रिकासहितः । अत्राधररस एव मधुरस इत्याचतिशयोक्तिः पुष्परसो मधुरसो न भवती- स्यपद्धतिगी ॥ अलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षायां सापद्धवस्वमुदाहृतम् ॥ 'गतासु तीरं तिमिघटनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसरफेनततिच्छलेन मुक्ताहासेव विभाति शिप्रा ॥' इति । ततस्त्वियानत्र भेदः । एतत्तु शुद्धापडुतिगर्भम् । यत्र फेनततित्वमपडतं तत्रैवाहहासत्वोत्प्रेक्षणादिह तु पर्यस्तापड्डुतिगर्भस्वमिन्दुमण्डलादावपङतस्या- मृतादेः सूक्त्यादिषु निवेशनात् । इदं च पर्यस्तापडतिगर्भत्वमुस्प्रेक्षायामपि संभवति । तत्र स्वरूपोस्प्रेक्षायां यथा- जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् । द्वयोर्विशेषावगमक्षमाणां नानि अमोऽभूदनयोजनानाम् ॥ अत्र प्रसिद्धफले बिम्बतामपछुत्यातिरागेण निमित्तेन दमयन्त्यधरे तो- क्षा पर्यस्तापहुतिगर्भा । हेतूत्प्रेक्षायां तद्वत्वं प्राग्लिखिते हेतूप्रेक्षोदाहरणे एव दृश्यते । तत्र चान्धकारेवान्ध्यहेतुत्वमपकुत्यान्यत्र तशिवेशितम् । फलो- स्प्रेक्षायां यथा- रवितप्तो गजः पक्ष्यांस्तद्द्यान्बाधितुं ध्रुवम् । सरो विशति न सातुं गजनानं हि निष्फलम् ॥ धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । पुष्पं परं केवलं धूर्वहं भारवाह- कं न तु मधुरसयुक्तम् । तयोः मुक्ताविट्ठमयोः खलु निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिरैकाधिकरण्यमित्यर्थः । न त्व- णवे समुद्रे । तच्च चन्द्रमण्डलं च शङ्खस्य मूर्ध्नि मस्तके उदश्चत्युदयं प्राप्नोति । न पुनः पूर्वाचलस्योदयगिरेरभ्यन्तरे उदञ्चति । अत्र मुक्ताविद्रुममधुरसपालेययु- तिमण्डलशङ्खशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वोदाहरणे भ्रान्तत्वोक्त्या स्पष्टोऽपहवः । इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः । 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति ॥ पुरे भवाः पौर्यस्तासु विला. सिनीषु तिमीनां मत्स्यानां संघटनेन ससंभ्रमं सभयं तीरं प्रति गतासु सतीषु यत्र नगयों शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽट्टहास उद्धतहास्यं यथा तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इ. न्दुमण्डलादावित्यादिपदात्पुष्परसादिपरिग्रहः ॥ सूत्यादिग्विति ॥ सूक्तिमा- धुर्यादिवित्यर्थः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादभेदाध्यवसानात् ।। जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अतिशयितादागालौहित्यादिद- मघरखरूपमेव बिम्बमिति जाने न तु विम्बफलमित्येवकारार्थः । बिम्बस्य बि. म्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्तं स्फुटम् । कथं तर्हि विपरीता लोके प्रसिद्धिस्तत्राह। द्वयोरनयोर्विशेषस्य तारतम्यस्यावगमे बोधे क्षमाणामसम- र्थानां जनानां नानि भ्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति ॥ सूर्यकर्तृके नेत्रा- परपर्यायगोनयने इत्यर्थः । निवेशितमुत्प्रेक्षितम् ॥ रवीति ॥ रविणा संतप्तो क ।

कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३ भन्न गजस्य सरप्रवेश प्रति फले स्नामे फलस्वमपहत्य पक्ष्यबाधने तकि. बेक्षितम् । भलमनया प्रसकानुप्रसच्या प्रकृतमनुसरामः ॥ ३६ ॥ भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम् । अन्यदेवास्य गाम्भीर्यमन्यद्धैर्य महीपतेः ॥ ३७॥ मन्त्र लोकप्रसिद्धगाम्भीर्याचमेदेऽपि भेदो वर्णितः । पथावा- भन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३७ ॥ संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् । सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३८ ॥ यथावा- .. कतिपयदिवसैः क्षयं प्रयाबात्कनकगिरिः कृतवासरावसामः । गजस्तस्य रवेयान्पक्ष्यान्बन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति न तु स्नातुं स्नानार्थम् । हि यस्माद्जस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः॥ प्रसक्तानुप्रसत्येति ॥ अतिशयोक्तेः सापह्नवत्वकथनप्रसङ्गादलंकारसर्वख- कृदुक्तं खरूपोत्प्रेक्षाया शुद्धापह्नुतिगर्भत्वं दर्शितं तदनुप्रसक्त्या च त्रिविधाख- प्युत्प्रेक्षासु पर्यस्तापह्नुतिगर्भत्वमित्यर्थः ॥ ३६ ॥ भेदकेति ॥ तस्यैव तज्जाती- यस्यैवान्यत्ववर्णनं तज्जातीयभित्रत्वेन वर्णनं तच्चाहार्य बोध्यम् । एवमप्रेऽपि । तेन भ्रान्तौ नातिव्याप्तिः । इदं च लोकोत्तरत्वप्रतिपत्त्यर्थम् ॥ अन्यदेवेति ॥ अस्य महीपतेर्गाम्भीर्य अन्यदेव प्रसिद्धगाम्भीर्यभिन्नमेवेत्यर्थः ॥ अन्येयमि. ति ॥ रूपं सौन्दर्य, वैदग्ध्यं चातुर्य, धोरणी परिपाटी । एषा नलिनपत्राक्षी विधेः साधारणी सृष्टिनैवेत्यन्वयः । अत्रोत्तरार्धे नभनयाऽन्यत्ववर्णनं विशेषः ॥ ३७ ॥ संबन्धेति अयोगेऽसंबन्धे योगकल्पनं संबवर्णनम् । संबन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो प्राह्यः । तेन रूपकातिशयो. त्यादिप्रभेदेषु नातिव्याप्तिः ॥ सौधेति ॥ 'सौधोऽस्त्री राजसदनम्' इत्य- मरः । नन्वत्रैव स्पृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे गम्योत्प्रेक्षात्वमुचितम् । इवादिसत्वे या वाच्योत्प्रेक्षा सेवेवाद्यभावे गम्योत्प्रेक्षे- ति नियमात् । अन्यथा कीर्निमणधान्ते त्यादिपूर्वोदाहने पद्येऽपि गम्योत्प्रे- क्षा न स्याद्विशेषाभावादिति चेन्मैवम् । उपदर्शितनियमस्यालंकारान्तराविषय एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमित्यप्रयोगे गम्योत्प्रेक्षा- पत्तेः । एवंच प्रकृतेऽसंबन्धे संबन्धवर्णनरूपातिशयोक्त्यलंकारविषये न गम्यो- त्प्रेक्षावसरः । त्वत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूपहेत्वंशे गम्योत्प्रेक्षाभिप्रे- ता नतु खर्गाप्रवेशांश इति सर्वमवदातम् । असंदिग्धमुदाहरणान्तरमाह- यथावेति । कतिपयेति ॥ वीररुद्रदेवाख्ये नृपे वितरणशालिनि दानशालि- १'शयोक्तिः स्यात्तस्यै'. २ 'कल्पनम्'. ३ 'च भूपतेः'.

अतिशयोस्यलंकारः११ अलंकारचन्द्रिकासहितः । ४३ .. - इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ भत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोषासं- बन्धेऽपि तत्संबन्धो वर्णितः ॥ ३०॥ योगेऽप्ययोगः संबन्धातिशयोक्तिरितीर्यते । त्वयि दातरि राजेन्द्र स्वर्द्वमान्नाद्रियामहे ॥ ३९ ॥ भन्न स्वर्दुमेध्वादरसंबन्धेऽपि तदसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः। यथावा- अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ३९ ॥ अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः । आलिङ्गन्ति समं देव ज्यां शरांश्च पराश्च ते ॥४०॥ अत्र मौर्यो यदा शरसंधानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुका. र्ययोः सहत्वं वर्णितम् । यथावा- मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः । हम्मीरवीरखने त्यजति त्यजति क्षमामाशु ॥ अत्र खड्गस्य कोशत्यागादिकाल एव रिपूर्णा धनगृहत्यागादि वर्णितम् ॥४०॥ नि सति चक्रवाकी इति मुदं संतोषमुपयाति प्राप्नोति । इति किम् । कृतं वास- रस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयाया- दिति संभावनायां लिङ् ॥ ३८ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमि- त्यर्थः । स्वर्गस्था द्रुमाः कल्पवृक्षादयः । वर्द्धमेष्विति विषयसप्तमी । खर्दुमवि- षये य आदरस्तस्य संबन्धेऽप्यर्थादर्थिषु । यद्वा अर्थिषु खर्दुमविषयादरसंबन्धा- भावप्रतीतौ तत्समानवित्तिवेद्यतया ख मेष्वत्यादरविषयत्वाभावावगमाद्यथाश्रु- तमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति संबोधनम् । जम्भमाणयोर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीत्यन्वयः । अत्र बाहुलतयोरन्तरे स्तनपर्याप्तावका- शसंबन्धेऽपि तदसंबन्ध उक्तः ॥ ३९ ॥ अक्रमेति ॥ क्रमः पौर्वापर्य तदभा- वोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति समं युगपज्यां मौर्वी पृथ्वी च । पराः शत्रवः ॥ मुञ्चतीति ॥ हम्मीरसंज्ञकस्य वी- रस्य खङ्गे कोशं पिधानं मुञ्चति सत्यरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुश्च- ति, तथा खङ्गे प्रकम्पमुल्लासनं भजति सति स प्रकृष्टुं कम्पं भजति । एवं खड़े क्षमा शान्ति त्यजति सति सोऽपि क्षमा पृथ्वी त्यजतीत्यर्थः । 'कोशोऽस्त्री कुमले खङ्गे पिधानेऽर्थोघदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभङ्गथा यौगपद्य- वर्णनं विशेषः ॥ धनगृहेति ॥ धनसंबन्धिगृहेत्यर्थः ॥४०॥ चपलेति ॥ १ 'अयोगे. ।

४४ कुवलयानन्दः । [अतिशयोक्त्यलंकारः१३ चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यास्यामीत्युदिते तन्व्या वलयोऽभवदुर्मिका ॥४१॥ अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्य कार्यमुखेन दर्शितम् । यथावा- आदातुं सकृदीक्षितेऽपि कुसुमे हखाप्रमालोहितं लाक्षारअनवार्तयापि सहसा रकं तवं पादयोः। अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावह हन्ताधीरशः किमन्यदलकामोदोऽपि भारायते ॥ यामि न यामीति धवे वदति पुरस्ताक्षणेन तन्वयाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥1॥ अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४२ ॥ (अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे । आस्वामीत्युदिते तन्न्या वलयीभवदुर्मिका ।) हेतोः प्रसक्तिर्ज्ञानं तज्जन्ये कार्ये सतीत्यर्थः । यास्यामीति उदिते उक्त । प्रियेणे- ति शेषः । तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः । 'ऊर्मिका त्वङ्गुलीये स्याद्वस्त्रमङ्गतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेति ॥ अङ्गुलीयकस्य ककणपदप्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातुमिति ॥ सहजसौकुमार्यव- त्याः विरहदशायां तदतिशयवर्णनमिदम् । हन्तेति खेदे । आदातुं ग्रहीतुं सकृ. देकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताग्रमालोहितं भवतीति शेषः । अ. पिना किमु गृहीते इति गम्यते । लाक्षया यद्रलनं तद्वार्तयापि सहसाकस्मात्पा- दयोस्तलं रक्तं भवति किमु रञ्जनेनेति पूर्ववत् । एवमङ्गानां चन्तनादिना यद- नुलेपनं तत्स्मरणमप्यत्यन्तखेदकर किमुतानुलेपनम् । किमन्यद्वाच्यमिति शेषः। अलकानामगुरुधूपाद्यामोदोऽपि भारायते । भार इवाचरतीत्यर्थः । कर्तरि क्य- छ । अत्रादानादिरूपहेतुप्रसक्तिमात्रेण हस्ताप्रलौहित्यादिरूपकार्योत्पतेः साक्षा- देव वर्णनं नतु कार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययो- रपि समकालत्वं संभवतीति सूचयितुमुदाहरणान्तरमाह-यामीति ॥ धवे दयिते यामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वयाः पुरोवल. यान्यप्रिमकङ्कणानि पुरः प्रथमं गलितानि । अन्यपराण्यपि तथैव तत्कालमेव दलितानि भमानीत्यन्वयः। 'पुरोऽप्रे प्रथमे च स्यात्' इति विश्वः । अत्र वद. ति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥ ४१ ॥ अत्यन्तेति ॥ अत्र हेतुकार्ययोरित्यनुवर्तते । तत्पौर्वापर्येनि क्वचित्पाठः साधुरेव । व्यतिक्रमो- १'चपलातिशयो'. २व्यतिकमे'.

अतिशयोक्त्यलंकारः१३] अलंकारचन्द्रिकासहितः । यथावा- कवीन्द्राणामासन्प्रथमतरमेवाणभुव- अशासकाकुलकरिमदामोदमधुराः । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः। एतास्तिस्रोऽप्यतिशयोकवः कार्यशैघ्यप्रत्यायनार्थाः ॥१२॥ . ऽत्र वैपरीत्यम् । अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति ॥ कविश्रेष्ठानामङ्गणसंबन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलता चपलानां भृङ्गाणां भ्रमराणामासङ्गेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन् । पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी दृश्यमानाः कटाक्षाः पतिताः । कीदृशाः । क्षीरमुदकं यस्य तथाभूतस्य क्षीरार्ण- वस्य प्रसरन्तीनामुरुवीचीनां बृहत्तरङ्गाणां सहचरास्तत्सदृशा इत्यर्थः । 'उदक- स्योदः संज्ञायाम्' इत्युदादेशः । अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरू. पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्ताः । अथोक्तेषु प्रभेदेष्वनुगतप्र- पनिनिमिHITITrilोनियोग इति चेदत्राहुः । तावत्प्रभेदान्यत- मत्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः प्रभेदान्तरं त्वनुगतरूपाभावादलंका- रान्तरमेव । नचान्यत्वादिप्रभेदेध्वन्यत्वादिभिरभेदादीनां निगरणं संभवतीति वाच्यम् । अन्यत्वादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य- त्वादिभिरभेदप्रतीत्यङ्गीकारेऽनुभवासङ्गतेः । अन्यतमत्वं तु नालंकारविभाजको- पाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति । वस्तुतस्तु रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्त, भ्रान्निवारणायाहानि, उत्प्रेक्षानिरासाय निश्चयेति । रूपकातिशयोक्तावभेदस्य द्वितीयप्रभेदेऽन्यत्वस्य तृतीये संबन्धस्य चतुर्थे असंव- न्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथा. विधारोपविषयत्वसत्त्वात्सर्वत्र लक्षणसमन्वयः। न चैवंविधारोपस्य रूपकखभा. वोक्तिभिन्नेषु प्रायशः सर्वालंकारेषु सत्त्वादतिप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोकरप्रा- धान्येन व्यपदेशानहत्वात् । प्राधान्येन व्यपदेशा भवन्तीति न्यायात् । अलंका- रान्तराणामेव प्रधानत्वेन व्यपदेशाईत्वात् । अतएव काव्यप्रकाशकृता विशेषा- लंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तांविना प्रायेणालंकारत्वाभावात् । अत एवोकम-सैषा सर्वत्र वक्रोक्तिरन- यार्थो विभाव्यते । यमोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना' ॥ इति । .

कुवलयानन्दः । [तुल्ययोगितालंकारः१४ तुल्ययोगितालंकारः १४ वानामितरेषां वा धमक्य तुल्पयोगिता । संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥४३॥ त्वदनमार्दवे दृष्टे कस्य चित्ते न मासते। मालतीशशभृल्लेखाकदलीना कठोरता ॥४४॥ प्रस्तुतानामप्रस्तुताना वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । संकु- चन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजाना प्रकाशमीरुस्वैरिणीवदनानां च संकोचरूपैकक्रिया- दण्डिनाप्युक्तम्-'अलंकारान्तराणाम'येकमाहुः परायणम् । वागीशसहितामु- तिमिमामतिशयाह्वयाम् ॥' इति ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥ तुल्ययोगितां लक्षयति-वानामिति ॥ वर्ण्यत्वेन प्रस्तुतानामित्यर्थः । इतरेषामप्रस्तुतानाम् । एतच्चोभयमपि सावधारणम् । वानामेवेतरेषामेव वे- त्यर्थः । बहुवचनमनेकार्थकम् । द्वयोर्धमैक्यस्यापि संप्रास्यत्वात् । धर्मैक्यं धर्म- स्य ऐक्यमेकत्वम् । एको धर्म इति यावत् । स च चमत्कारकारी बोध्यः । एवं चानेकप्रस्तुतमात्रसंबढेकचमत्कारिधर्मानेकाप्रस्तुतमात्रसंबद्धकधर्मान्यतरत्वं ल- क्षणं बोध्यम् । मुखं विकसितस्मितमित्यादावतिप्रसङ्गवारणायानेकेति । अत्रच मुखे प्रेक्षितादिरूपानेकवर्ण्यसंबन्धो नैको धर्म इति तनिरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्वनिवेशः ॥ त्वदनेति ॥ प्रियां प्रति दयितोक्तिः । तवाङ्गस्य मार्दवे सौकुमार्ये दृष्टे सति कस्य चित्ते मा. लत्यादीनां कठोरता न भासते । अपितु सर्वस्यैवेत्यर्थः । शशं विभतानि शशभृच- न्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच्च तथाविधधर्मस्य प्रायशो गुणक्रियारूपत्वमित्यभिप्रेत्योकं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः । IIIIII | । यत्तु कैश्चिदेतद्वन्थदूषणलालसैर्धर्मस्य , .क्रयारूपत्वे- न लक्षणे निवेश इत्याशयमारोप्याभिहितम् । तदेतदापाततः 'शासति त्वयि हे राजनखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥' इ. त्यत्रानावरूपधर्मम्यवान्वयादिनि । निमामि न मनोरमम् । तथाहि। शासतीनि त्वदुदाहनपये निधिन्नेनेति निश्चिन्तन्यभेदः शत्रुमित्रमण्डलधर्मतयोपा- तः, स च गुणखरूप एक। चिन्ताभाववद्भेदस्य चिन्तानतिरिकत्वात् । अन्यथा चिन्ताभावाभावस्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्ब- से भवत्वेवं तुष्यतु भवान् । एवमप्यभावस्य कथं गुणबहिर्भावः । जातिक्रिया- द्रव्यातिरिकस्यैव चतुष्टयी शब्दानां प्रवृत्तिरिति वदद्भिवैयाकरणैस्तदनुसारिभि- वा रिकैर्गुणत्वाङ्गीकारात् । अतएव जातिगुणयोर्विरोधे प्रकाशकृद्भिरुदाहृतं गिरयोऽप्यनुन्नतियुज इति । तथा विद्यानाथेनापि अमदः सार्वभौमोऽपीति । वखुतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽभिप्रेत इत्यावेदितमतो न काप्य- तुल्ययोगितालंकारः१४] अलंकारचन्द्रिकासहितः। न्वयो दर्शितः । उत्तरलोके नायिकासीमावर्णने प्रस्तुतेऽप्रस्तुताना माल- त्यादीनां कठोरतारूपैकगुणान्धवः । पथावा- संजातपत्रसकरान्वितानि समुहहन्ति स्फुटपाटकस्वम् । विकस्वरावर्ककरामिमशीदिनानि पानि च वृद्धिमीदुः। नागेन्द्रहसास्वचिकर्कशस्वादेकान्तवात्कदळीविशेषाः । लसवापि मोके परिणाहि रूपं जातासर्वोरुपमानवासाः। अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पनानां वैकक्रियान्वयः। अरुवर्णनेऽप्रस्तुताना करिकराणां कदलीविशेषाणां चैकगुणान्वयः॥४॥४४॥ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥४५॥ अत्र हिताहितयोमित्रशानवयोरुत्कृष्टभूतिदानस्य पराभवदानस च श्लेषे. णाभेदाध्यवसायावृत्तितौल्यम् । यथावा- नुपपत्तिरिति । खैरिणी खेन ईरितुं शीलमस्यास्तादृशी । व्यभिचारिणीति याव- त् । 'खादीरेरिणोः' इति वृद्धिः । 'खैरिणी पांसुला च स्यात्' इत्यमरः॥ संजातेति ॥ दिनानि पद्मानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः प- त्राणां प्रकरैः समूहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा विकासिताः T: पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्वहन्तीति शत्र- न्तम् । दधानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्श- नाद्विकखराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥नागेन्द्रेति॥ नागेन्द्राणां गजश्रेष्टानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रमं त्वचि कर्कशत्वात्कठोरत्वादेकान्तेन नियमेन शैत्याच हेतोलॊके तस्याः पार्वत्या ऊर्वोरुपमानाबाह्या उपमानत्वरहिता जाता इत्यन्वयः ॥ तदीयत्वेनेति ॥ तत्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तु- वर्णनस्यैव प्रीष्मवर्णनरूपत्वादिति भावः ॥ एकक्रियेति ॥ वृद्धिप्राप्तिरूपैकक्रि- यान्वय इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यत्वरूपैकगुणेत्यर्थः ॥ ४३ ॥ ॥ ४४ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति वृत्तिर्वर्तनं व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविल- क्षणा । प्रदीयत इति । परा उत्कृष्टा भूतिः संपत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण ॥ पराभवदानस्येति ॥ शत्रुसंबन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात् । अत एव संप्रदानत्वासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी । श्लेषेण पराभूतिप- दश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था विरोधद्योतकाः ॥ अत्रेति ॥ योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमाल्याबैरर्चतीति क्रमेणेत्यर्थः । उक्तप्रकारस्य तुल्ययोगितापदवा- कुवलयानन्दः । [ तुल्ययोगितालंकारः१४ पमा निम्मे परशुना यौनं मधुसर्पिषा। यवैनं गन्धमाल्यापैः सर्वस कटुरेव सः। अन्न वृश्चति सिंचत्यति इत्यध्याहारेण वाक्यानि पूरणीयानि । पूर्वोदाह- रणं स्तुतिपर्यवसाथि, इदं तु निन्दापर्यवसायीति भेदः । इयं सरस्वतीकण्ठा- भरणोक्ता तुल्पयोगिता ॥१५॥ गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः-शको भवानपि ॥४६॥ मन्त्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा- च्यत्वे वृद्धसंमति दर्शयति-इयमिति ॥ तथाच वृद्धव्यवहारानार्थस्तुल्ययो- गिताशब्द इति भावः । अत्र केचिदाहुः-'नेयं तुल्ययोगिता पूर्वोक्ततुल्ययो- गितातो भेदमहति । वर्ष्यानामितरेषां वेत्यादिपूर्वोक्तलक्षणाक्रान्तत्वात् । एका- नुपूर्वीबोधितवस्तुकर्मकदानमात्रत्वस्य परम्परया तादृशशब्दस्य वा धर्मस्यै- क्यात् । यश्च निम्बमित्यत्रापि कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचक- पूजकधर्मत्वसंभवात्' इति । तदेतत्पेशलम् । तथाहि-यत्रानेकान्वयित्वेन ज्ञा- तो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तप्रकारः । यत्रतु हि- ताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्यो- तकतया चमकृनि जनकत्वं तत्रापर इति भेदात् । नक्षत्र पराभूतिशब्दस्य त- दर्थकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेना- ध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तत्वम् । ए- तेन 'यश्च निम्बम्' इत्यत्र कटुत्वविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजक- धर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मत्वस्यालंकारतासंपादकत्वाभावात् । अ- न्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुल्ययोगितालंकारापत्तेः । किं त्वने. कगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्ग- तिकथनमसमञ्जसमेव । अथाप्युक्तोदाहरणयोस्तथा भानमस्तीत्याग्रहस्तथापि न पूर्वोक्तलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्त्वयि राजन् विराजते।' इ. ति प्रकृनयोरुपमागामनियामिनारणार्थमने कानुगतधर्मन्वपर्याविषयिनामंब- न्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयज्ञानविषयधर्मत्वमिति विवक्षाया- स्तत्रावश्यकत्वात् , प्रकृते च हितत्वाहितत्वादेविषयस्याधिकस्यानुप्रवेशादिति वि- भावनीयम् ॥ गुणोत्कृष्टैरिति ॥ गुणैरुत्कृष्टाः श्रेष्ठास्तैरित्यर्थः । समीकृत्य सा- म्यं विवक्षित्वा । वच इति । वचनं वचः प्रतिपादनमिति यावत् । अर्थात्तत्सा- धारणधर्मस्य । अन्येति । धर्मस्य वर्ष्यावर्ण्यगतत्वादुक्तविलक्षणेत्यर्थः । पाशो- ऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः शक इन्द्रः । लोकपालपदं चन्द्रादिषु रूढम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥ १ 'गुणोत्कृष्टैः समाहृत्य'. , दीपकालंकारः १५] अलंकारचन्द्रिकासहितः । ४९ संगतानि मृगाक्षीणां तडिद्विलसितान्यपि । क्षणद्वयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥ पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्श दर्शिता । इमां तुल्ययोगिता सिद्धि रिति केचियवजहुः । यदाह जयदेवः- सिद्धिः ख्यातेषु चेनाम कीय॑ते तुल्यतोक्तये । युवामेवेह विख्याती त्वं बलैर्जलधिर्जलैः ॥ इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥ ४६ ॥ - . दीपकालंकारः १५ वदन्ति वावर्णानां धर्मैक्यं दीपकं बुधाः। मदेन भाति कलभः प्रतापेन महीपतिः॥४७॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा-कलभमहीपालयोः प्र- स्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा- संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि घनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे घनैर्मेधैरारब्धानीति च तडिद्विलसितप- क्षेऽर्थः । काव्यादर्श एतन्नामकदण्डिकृतग्रन्थे दर्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा। केचिदालंकारिका व्यवजहुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ।। युवामेवेति ॥ इह भूलोके बलैः सैन्यैः। अत्रच सैन्यजलयोः प्रसरणशीलत्वा- दिसादृश्यादिम्बप्रतिबिम्बभावेनाभेदमाश्रित्य धर्मक्यं बोध्यम् । मतान्तरेष्विति बहुवचनेन बहसंमततया दण्ड्युक्ततुल्ययोगितानामखरसो ध्वन्यते । सच दीपकतुल्ययोगितयोर्भदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ॥ ४६ ॥ इति तुल्ययोगिनाप्रकरणम ॥ १४ ॥ दीपकं लक्षयति-वदन्तीति ॥ वर्ध्यावान्वितैकचमत्कारिधर्मो दीपकमि. त्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षणपरिष्कारो बोध्यः । कलभः करिशा. वकः ॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणी- भूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ यथावेति ॥ शाणेन निक- षपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिभिरायुधैर्निहतः कृतक्षतः समरे संग्रामे विजयशीलो योद्धा मदेन क्षीणो नागो हस्ती शरत्काले श्यानानि शुष्का- णि पुलिनानि जलनिर्मुक्ततटानि यासां ताः सरितो नद्यः कलामात्रावशिष्टश्चन्द्रः सुरते मृदिता चुम्बनालिङ्गनायुपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री एवमर्थिषु याचकेषु गलितः संक्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्ना तनोः कृशस्य भावस्तनिमा कार्य तेन शोभन्त इत्यन्वयः । 'शाणस्तु निकषः १ 'मेव हि विख्यातो.

६० कुवलयानन्दः। [दीपकालंकारः १५ मणिः शाणोल्लोढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः इयानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥ अत्र प्रस्तुतानां नृपाणामप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः। प्र- स्तुतकनिष्ठः समानो धर्मः प्रसनादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकम् । 'संज्ञायां च' इति इवार्थे कन् प्रत्ययः । यद्यपि- सुवर्णपुष्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ इत्यत्र प्रस्तुतानामप्रस्तुतानां युगपद्धर्मान्वयस्तथापि प्रासङ्गिकत्वं न ही. यते, वस्तुगत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैव वर्णनस्याग्रस्तुतेऽन्वयात् । नहि दी. पस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामात्रर्थ श्रपितस्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्य- कषः' इत्यमरः ॥ शोभैकेति ॥ शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदी- पक्रमिह त्वन्तदीपकमिति भेदः । प्रस्तुताप्रस्तुतसाधारणधर्मस्य दीपकपदवाच्य- तायां बीजमाह-प्रस्तुतैकेत्यादि ॥ प्रस्तुतकनिष्टः प्रस्तुतैकपरः प्रस्तुतान्व- यविवक्षयाभिहित इति यावत् ॥ रथ्यायामिवेत्यनन्तरमुपकरोतीत्यनुषज्यते । इतीति चाध्याहार्यम् । इति दीपकसादृश्यात्समानो धर्मो दीपकमुच्यत इति शेषः । यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र सझोपकारित्वमित्याशयेन शङ्कते-यद्यपीति ॥ सुवर्णेति ॥ सुवर्णमेव पुष्पं यस्या इति विग्रहः । त्रयो गुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादि प्रत्येक चकारो नैरपेक्ष्यद्योतकः । कृतविद्यः प्रख्यात विद्यः । एतच्च प्रासङ्गिकं गद्यं यदा यत्प्रसङ्गे पठ्यते तदा तस्य नामि गोरायमिति बोध्यम् ।। युगपदिति ॥ त्रयश्चिन्वन्तीति विष्वपि युगपदन्वय इत्यर्थः । चिन्वन्तीति बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचनान्तेन पूर्वमन्वयायोगादिति भावः । समा- धत्ते-तथापीति ॥ प्रासङ्गिकत्वं प्रसझोपकारित्वम् ॥ न हीयत इति ॥ तथाच धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः । किं तर्हि प्रयोजक तत्राह-वस्तुगत्येति ॥ प्रस्तुतोद्देशेन प्रस्तुतोद्देश्यकान्वयबोधेच्छया प्रस्तुत- स्यैव पदाभिहितस्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य । तथाच चमत्कारा- य प्रस्तुताप्रस्तुतान्वितखार्थ बोधयत्वितीच्छयोचरितपदाभिहितधर्मस्योभयत्रा- न्वयेऽप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न त्वप्रस्तुते । किं तु विशेषणता- ख्यविषयतैवेति । तथाविधोद्देश्यताविरह एव प्रासङ्गिकत्वे बीजमित्याशयः । एतदेवोपपादयति-नहीति ॥ प्रासङ्गिकत्वमिति ॥ दीपसूपयो रथ्याति- १ 'प्रवृत्तस्यैव'.

आवृत्तिदीपकालंकारः१६] अलंकारचन्द्रिकासहितः। दप्रस्तुत मिति विशेषाग्रहणात्सर्वोदेशेनव धर्मान्वय इति विशेषः । अयं चा- नयोरपरो विशेषः। उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यत्राप्रस्तुतमु- पमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रह. णादैच्छिकः स इति ॥ १७ ॥ - आवृत्तिदीपकालंकारः१६ त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् । वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥४८॥ उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः। माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥४९॥ दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोवृत्तौ त्रि- विधमावृत्तिदीपकम् । क्रमेणात्रियेणोदाहरणानि दर्शितानि । यथावा- उत्कण्ठयति मेघानां मालावर्ग कलापिनाम् । यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ थिविषये प्रमलोपकारियमिलः । तथाच त्वन्मते तस्य प्रासङ्गिकत्वं न स्यादि, ति भावः । इदमुपलक्षणम् । जामातृविषये प्रासङ्गिकात्रापतिरपि बोध्या । एतदेव तुल्ययोगितातो भेदकमित्याह-तुल्ययोगितायां त्विति ॥ नन्हे- इयत्वानुद्देश्यत्वयोश्चमत्काराप्रयोजकत्वान्नालंकारभेदप्रयोजकत्वं युक्तमित्यखरसा- दाह-अयं चेति ॥ अयं वक्ष्यमाणः । अनयोर्दीपकतुल्ययोगितयोः । अत्र दीपके उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः । तत्र तुल्ययोगितायां विशेषाग्रहणात्प्रस्तुताप्रस्तुतत्वरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितःस उप- मानोपमेयभावः । नव्यास्तु नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उ- चितः । धर्मस्य सकृवृत्तित्वमूलाया विच्छित्तेरविशेषात् । अन्यथा तुल्ययोगिता- यामपि धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकार- द्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितमित्याहुः ॥ ४७ ॥ इति दीपकप्रकरणम् ॥ १५॥ त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः । वर्षतीति ॥ शर्वरी रात्रिः वर्षे वत्सर इवाचरतीत्यर्थः । कदम्बानि कदम्बकु. सुमानि उन्मीलन्ति विकसन्ति,कुटजोद्गमाः कुटजकलिकाः स्फुटन्ति विकसन्ति, तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति, शिखावला मयूराश्च माद्यन्तीत्यन्वयः। त्रै- विध्यमुपपादयन्नेव व्याचष्टे-दीपकस्येति ॥ क्रमेणेति ॥ आयेऽर्थे वर्षती- ति शब्दावृत्तिः । अलंकारसंपादकत्वाच्च न कथितपदत्वं दोषः। द्वितीये विकास- रूपस्यार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्यैव बोधनात् । तृ- तीये तु द्वयोरावृत्तिः स्फुटैवेति ॥ उत्कण्ठयन्तीति ॥ मेघानां माला पतिः ।

५२ कुवलयानन्दः । [प्रतिवस्तूपमालंकारः१७ कामयति जलधरधारा चातकपूना तूपं चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुधिम् ॥ बदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे। अरविन्दमपि च सुन्दरि निलीयते पावसा पूरे ॥ एवंचावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमा- त्रेण दीपकव्यपदेशः ॥४८॥ ४९ ॥ प्रतिवस्तूपमालंकारः १७ वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भ्राजते सूर्यः शूरश्चापेन राजते ॥ ५० ॥ यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्मः पृथनिर्दिश्यते सा प्रतिव- स्तूपमा । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्माऽस्यामिति व्युत्पत्तेः। य- थाऽत्रैव भ्राजते राजत इत्येक एव धर्म उपमानोपमेयवाक्ययोः पृथग्भिन्न- पदाभ्यां निर्दिष्टः ॥ यथावा- कलापिनां मयूराणां वर्ग समूहं उत्कण्ठयत्यूर्व कण्ठो यस्य तादृशं करोति । तथा मकरध्वजः कामो यूनां तरुणानां मानसमुन्कण्ठयन्युन्मुकं करोतीत्यर्थभेदे- ऽपि शब्दावृत्तिः ॥ शमयतीति । जलधरस्य मेघस्य धारा परिधान कनरुणा. नां चिरकालमुपनतां प्राप्तां तृषं पिपासां शमयति । वधूलोचनयोर्जलधारा अ- श्रुपतिश्च कामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोऽर्थः शब्दभेदेनोक्त इ. त्यर्थावृत्तिः ॥ वदनेनेति ॥ पाथसां जलानाम् । अत्र निलीयतेशब्दस्य तदर्थ- स्य तिरोधानस्य चावृत्तिः । ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गादप्रस्तुतोपकारि- त्वे दीपकमित्युक्तं न चावृत्तौ तत्संभवतीति कथमारनिदीपक मुत्तमिल्यावया. ह-एवंचेति ॥ दीपस्थानीयशब्दार्थयोरावृत्तौ चेत्यर्थः॥ प्रस्तुतारनुतेति॥ अम्बुदमालादीनां विरहोद्दीपकतया केवल प्रस्तुनवाञ्चन्द्रबिम्बार योश्च केव- लाप्रस्तुतत्वादिति भावः ॥ दीपकच्छायेति ॥ दीपकसादृश्येत्यर्थः । तच प्रस्तुताप्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्लेषवशेनास्तीति भावः। मात्रपदेन दीपकात्पृथगेवायमलंकारो नतु तत्प्रभेद प्रति सूचितम् । अतएव दण्डिना 'अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि । दीपकस्थानमेवेष्टमलंकारत्रयं यथा ॥' इत्युक्त्वा विकसन्तीत्याद्युदाहृतम् । दीपकस्थानं स्थानापन्नं सदृशमिति यावत् ॥ ॥ ४८ ॥ ४९ ॥ इति आवृत्तिदीपकप्रकरणम् ॥ १६ ॥ गा:मोनिपमान गनर्मोतिगम्गवा गायक प्रतिवम्नृपमालंकार लक्षयति-वाक्ययोरिति ।। द्विवचनमनेकाभिप्रायं मालानुगेधादिति बोध्य- म् । एकसामान्ये एकस्मिन्समानधर्मे सति सूरः सूर्यः । लक्षणं व्याचष्टे- योति ॥ उपमानोपमेयेति भावप्रधानम् । उपमानोपमेयभावपरयोरित्यर्थः । पृथगिति भिन्नशब्देनेत्यर्थः । अयमेव च वस्तुप्रतिवस्तुभाव इत्युच्यते ॥ - प्रतिवस्तूपमालंकारः१७] अलंकारचन्द्रिकासहितः । स्थिरा शैली गुणवतां खलबुद्धया न बाध्यते । रखदीपस्य हि शिखा वात्ययापि न नाश्यते ॥ यथावा- तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्वितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेचुरसं समीक्षते ॥ अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपभानवाक्ये अवीक्षेति धर्मभेदःप्रति- भाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहस्वादिच्छापूर्वकवीक्षाप्र- तिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम् । अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः। आवृत्तिदीपकं वैधयेण न संभवति, प्रतिवस्तूपमा तु वैधम्र्येण दृश्यते । यथा- स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः । अत्र पूर्वार्धमुपमेयवा- क्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र च नाशाभावरूपः समानधर्मः शब्दभेदे- नोपात्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात् । अयमेव च पूर्वोदाहरणाद्भेदः ॥ तवेति॥ ईश्वरं प्रति भक्तस्योक्तिः। अमृतप्रस्र- वणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यद- मृतातिरिक्तं फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् ॥ अवर्जनीयस्येति ॥ अनिष्टे- ऽपि खसामग्रीवशाजायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरि- च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष- णे हीति न्यायादिति भावः । उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामावृत्ता- वतिव्यातिमाशयाह-अर्थावृत्तिरित्यादि । शब्दावृत्तौ तु धर्मस्यैकेनैव शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता- नुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं नाम्नमा यार्थगा प्र- तिवस्तूपमेति लक्षणं बोध्यम् । शन्नालकारेऽनियानिवारणाय भिन्नशब्दबो- ध्येति । तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः । 'दिवि भाति यथा भानुस्तथा त्वं भाजसे भुवि' इत्यादिवाक्यार्थोपमायामतिव्या- प्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशा- वाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमझमरसंकीर्ण स्मरामि सरसीरुहम् ॥' इति स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्रहि दिवि भातीति वाक्या- ोपमायां गमनाधिकरणशोभाश्रयभानुसदृशो भूम्यधिकरणकशोभाश्रयस्त्वमि- ति प्रतीतिवन स्मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन वाक्यार्थगतोपमा गम्या स्यात्, किंतु स्मरणासंपृक्ता तादृशसरोरुहमदशं ताह- शमाननमिति पदार्थगतोपमैवेति तद्वारणमिति दिक् । प्रस्तुताप्रस्तुतयोश्चमत्कृ- तिविशेषाप्रयोजकतया वाऽलंकारभेदप्रयोजकत्वमित्य स्वरसादाह-अयंचेति।।

कुवलयानन्दः । [प्रतिवस्तूपमालंकारः१७
विद्वानेव विजानाति विद्वजनपरिश्रमम् ।
नहि वन्ध्या विजानाति गुवौं प्रसववेदनाम् ।।
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् ।
नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ ५० ॥
-
वक्ष्यमाण इत्यर्थः ॥ विद्वानेवेति ॥ यद्यप्यन्ययोगव्यवच्छेदार्थनवकारेणावि-
द्वान्न जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्यार्थः सधमैव तथा
पि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्याप्यावश्यकतया विद्वान्
जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधयॊदाहरणत्वं बोध्यम् ।
ननु वैधगंगोपमेनि व्याहतं तस्याः साधर्म्यरूपत्वादिति चेत्सत्यम् । वैधये॒णो-
पन्यतेन नहि वन्ध्येति वाक्यार्थेनाक्षिप्तस्यापि तु प्रसवित्र्येव जानातीति वा-
पार्थस्योपमानन्वेन विवक्षणान्मुखतो वैधयंप्रतीतावपि साधर्म्य एव पर्यवसा-
नान दोषः । वैधम्र्येणेत्यस्य च वैधHद्वारेत्यर्थः ॥ यदि सन्तीति । एक्का-
रो भिन्नक्रमः । स्वयमेव विकसन्ति । प्रकाशन्त इत्यर्थः । अत्रापि गुणाः खयं
प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वा-
क्यार्थस्तदाक्षिप्तेन किंतु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति
पूववद्वैधोदाहरणत्वसंगतिः । यत्त्वत्र कैश्चिदुक्तं विद्वानेवेति पद्यं भवतु नाम
कथंचिद्वधर्योदाहरणं यदि सन्तीति तु न युक्तम् । वैधर्योदाहरणं हि प्रस्तुतध-
मिविशेषोपारूढार्थदााय खाक्षिप्तखव्यतिरेकसमानजातीयस्य धय॑न्तरारूढ-
स्याप्रकृतार्थस्य कथनम् । यथा-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते
पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ ।
अत्र हि सङ्गविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण ना न पू-
ज्यत इति खव्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल प्रकृतार्थो
निबद्ध इति वैधयॊदाहरणत्वम् । यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणे-
त्यस्य प्रस्तुतस्यैव सजातीयोऽप्रकृतोऽर्थः । शपथेन न विभाव्यते किंतु स्वयमे-
वेति प्रकृतार्थानुरूपतयैव पर्यवमानादिति । तत्रेदं वक्तव्यम् । वंशभव इत्यादि.
भवदुदाहृतपद्येऽपि कथं वैधोदाहरणत्वम् । नहील्यादेस्तुम्बीफलविकलो म.
हिमानं न प्रयात्यपि तु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिति किं ब-
हुना सर्वत्रैव वैधयॊदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदु-
च्छेदप्रसङ्गः । अथापानानिपनेनाप्रकृतयाक्यान वैधात्तदुदाहरणत्वं तर्हि
प्रकृतेऽपि तदस्तीति तुल्यम् । यदपि प्रस्तुतेत्यादि वैधयॊदाहरणत्वनिर्वचनं
तदयुक्तम् । 'भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः' इति
वैधHदृष्टान्ताव्यापनात् नह्यत्र प्रस्तुतवाक्यार्थः खव्यतिरेकमाक्षिपति किं
त्वप्रकृतवाक्यार्थ एवेति दिक् ॥५०॥ इति प्रतिवम्तृपमालंकार प्रकरणम् ॥१७॥

दृष्टान्तालंकारः १८] अलंकारचन्द्रिकासहितः । ५५ दृष्टान्तालंकारः १८ चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः। त्वमेव कीर्तिमानाजन्विधुरेव हि कान्तिमान् ॥५१॥ यत्रोपमानोपमेयवाक्ययोभिन्नावेव धौं बिम्बप्रतिबिम्बभावेन निर्दिष्टी तत्र दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बमावः । यथावा- कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंवलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ यथावा- देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिलंचित एव वानरभटैः किं त्वस्य गम्भीरता. मापातालनिमनपीवरतनुर्जानाति मन्थाचलः ॥ नन्वत्रोपमानोपमेयवाक्ययोनिमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितस्वेन तत्र जानातीत्यनेन सागरा- दृष्टान्तालंकारं लक्षयति--चेदिति ॥वाक्ययोरित्यनुवर्तते।धर्मयोरित्यध्या- हार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे--योति ॥ यत्र काव्ये तथा चोपमानोपमेयवाक्यार्थघटकधर्मयोर्बिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृत राजविशेषेण राजन्वतीं शोभनराजवतीम् । 'राज- न्वान्सौराज्ये' इति निपातः। नक्षत्राण्यश्विन्यादीनि सप्तविंशतिः, तारास्त दितराः गोबलीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राश- स्त्ये मतुम् । अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्बप्रतिबिम्बभावः पूर्वोदाहर- णे कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरस्वती बहव उपासते हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं सरस्वतीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा क- विनितरामतिशयेन जानीते। अत्र दृष्टान्तमाह । वानररूपैर्भटैद्धिभिरब्धिलचित एव किं त्वस्याब्धेर्गम्भीरतां पातालपर्यन्तनिममा पीवरा स्थूला तनुर्यस्यैवंविधो मन्थाचलो मन्दराद्रिरेव जानातीति । दृष्टान्तोदाहरण बामनिमाराने- नन्विति ॥ वाक्ययोरिति सप्तमी। एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं, संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथाच धर्मभेदान प्रतिवस्तूपमा किंतु सारखतसार- ज्ञानसागराधस्तलावधिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकार एवेत्याशयः। 'वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इतिवत्पदावृत्तिदीपकं स्यादित्याशय कुवलयानन्दः । [निदर्शनालंकारः १९ धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । अन्नोदाहरणे पदावृत्तिदीपका- द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो द्रष्टव्यः वैधयेणाप्ययं दृश्यते। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताच नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान यावदायात्युदयाद्रिमौलिताम् ॥५१॥ निदर्शनालंकारः १९ वाक्यर्थयोः सदृशयोरक्यारोपो' निदर्शना । यद्दांतुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥५२॥ अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलकत्वस्योपमानवा- क्यार्थस्य यत्तद्यामैक्यारोपः ॥ यथावा- अरण्यरुदितं कृतं शवशरीरमुर्तितं स्थलेऽजमवरोपितं सुचिरमूपरे बर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ समाधत्ते-अत्रेति ॥ पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रस्तुताप्रस्तुतविषयः, पदावृत्तिस्तु तदन्यतरमात्रविषयेत्यर्थः । यद्यप्य- त्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशङ्कोचिता, तथापि पाठपरिवर्तनेन पदाभेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम् । अयं दृष्टान्तः ॥ कृतं चेति ॥ नृपं प्रति मन्त्रिण उक्तिः । हे राजन् , त्वया मनो गर्वस्याभिमु- खं न तु गर्वितं कृतं च । किमन्यदपेक्षितमिति शेषः । एवं शस्त्रप्रयोगादिकं विना नोऽस्माकं द्विषः शत्रवो निहताश्च न तु निहनिष्यन्ते। अंशुमान् सूर्यो यावदुदयाद्रेमौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठनि तस्मिस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगभिमगीकरणवैरि ननयोग्सुम- दुदयाचलमस्तकानागमनतमःस्थित्योश्च यथाक्रम वैधम्र्येण बिम्ब प्रातबिम्बभावः ॥५१॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८ ॥ निदर्शनां लक्षयति-वाक्यार्थयोरिति ॥ सदृशवाक्यार्थसंबन्धी यऐ- क्यारोपः उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ॥ यदातुरि- ति ॥ दातुः सौम्यतेति । यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभि- प्रायकं स्त्रीलिङ्गम् ॥ यत्तद्भयामिति ॥ यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्य- ता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः संभवति तथापि यत्तद्भयां शीघ्रं स्फु- टतया तदवगमात्तदुपन्यासः ॥ अरण्येति ॥ अबुधो मूर्यो जनः सेवितः । यदिति गुणीभूतसेवन क्रियापरामर्शः । उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षे- पात् । तदरण्यरुदितं कृतमित्याद्यन्वयः । उद्वर्तनं यवगोधूमादिचूर्णेन मलापक- १ आरोपे निदर्शना'. २ 'या दातुः'.

निदर्शनालंकारः१९] अलंकारचन्द्रिकासहितः । अनाबुधजनसेवाया अरण्यरोदनादीनां यत्तयामैक्यारोपः ॥ ५२ ॥ पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् । त्वनेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५३॥ अत्र नेत्रयुगले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा-- वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। भदृश्यत स खजूरीमअरीगर्भरेणुषु । पूर्वस्मिनुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः । उभयत्राप्यन्यधर्मस्थान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्या. हृता । यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनाक्यार्थवृत्तिनिदर्श- नायामुदाहृतस्तथापि विशिष्टयोधर्मयोरक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्था माश्रित्यासाभिरिहोदाहृतः । एवंच । र्षणम् । स्थले निर्जलप्रदेशे । अब्जं जलजम् । ऊषरे अरायोग्यक्षारभूभागे। शुनः पुच्छं श्वपुच्छमवनामितमजुतासंपादनाय नम्रीकृतम् । बधिरस्य कर्णे जप एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निर- र्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्या- रोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५२ ॥ निदर्शनान्तरमाह-प- दार्थेति ॥ पदार्थवृत्ति पदार्थसंबन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वो- क्तलक्षणाम् ॥ त्वन्नेत्रेति ।। लीलां शोभाम् । नीलाम्बुजन्मनोर्नीलोत्पलयोः ॥ वियोग इति ।। गौडदेशगतानां नारीणां वियोगे स्वकान्तवियोगकाले यो ग- ण्डतले पाण्डिमा पाण्डुवर्णों भवति स खर्जूरीणां लतानां मञ्जरीगर्भस्थेषु रेणुष्व- दृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एव ना। प्राचीनैरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्का- यामाह-उभयत्रेति ॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः । तथा चौपम्यपर्यवसायित्वस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषय- स्योपमेयत्वेन निवेशे असोजगानादिगि सा युक्तैवेति भावः । नन्वेवं सति वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्याशयवानाह--यद्यपीति ॥ वियोग- कालीनगौडनारीगण्डतलपाण्डिम्नः खजूरीमजरीगर्भरेणुदृष्टपाण्डिम्नश्च यत्तद्भया- मैक्यारोपसत्त्वादिति भावः । अर्थविशेषविवक्षयातिव्याप्ति परिहरन्नेव खाभिम- तनिदर्शनाद्वयविषयविभागं दर्शयति -तथापीति ॥ विशिष्टयोर्बिम्बप्रतिबि- म्वभावापन्नधर्मविशिष्टयोः । एवंच वाक्यार्थशब्देनैतादृशार्थविवक्षणाद्वियोग इत्यायुदाहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच्च खरूपकथ- १ 'गर्भामप्यन्ये.

कुवलयानन्दः। [निदर्शनालंकारः १९ 'स्वयि सति शिव दातर्यसदभ्यर्थिताना. मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् । चरमचरणपातदुर्घहं दोग्धुकामाः करभमनुसरामः कामधेनौ स्थितायाम् ॥' 'दोभ्यामधि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम् ॥' इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना । विशिष्टयोरै- क्यारोपसद्भावात् ॥ वाक्यार्थयोः सदृशयोरिति लक्षणावयवे वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुताप्रस्तुतधर्मयोर्विवक्षित- स्वादिति । एवंच- 'राजसेवा मनुष्याणामसिधारावलेहनम् । पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥' नम् । नत्वेवंरूपेण लक्षणे निवेशः । तादूप्यरूपकातिव्याप्तिवारणायोपमा कल्पकत्वस्यारोपविशेषणस्यावश्यकत्वेनोपमाकल्पकस्तत्तद्धर्मारोप इत्येतावत एव लक्षणस्य निर्दुष्टत्वात् । तदुक्तम्-'अभवन्वस्तुसंबन्ध उपमापरिकल्पकः' इति। ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम् । ननु त्वयि सतीत्याद्युदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यत्रारोपात्, एकवाक्यत्वेन वाक्यार्थभेदाभावाच्च । पदार्थवाक्यार्थनिदर्शनयोरसंभवादित्याश- याह-एवंचेति । उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति ॥ बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपद्ये भोः शिव, अस्मदभ्यर्थितानां दातरि त्वयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रां चिह्न दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्वरमयोः पाश्चात्त्ययोश्चरण- योः पातैर्दुर्ग्रहं दुःखेन ग्राह्य करभमुष्ट्रशिशुमनुसराम इत्यर्थके सकलकामदम- हेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुः । वि. नानगर णकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभ.पमेयकोटि- विशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं बिम्बप्रतिबिम्बभावो बोध्यः । एवम- नुसरणयोरपि । एवं दोामित्यत्राप्यब्धिगुणसमूहयोर्बिम्बप्रतिबिम्बभावो बो- ध्यः ॥ नन्वियं व्यवस्था मूलविरुद्धत्याशङ्कयाह-वाक्यार्थयोरिति ॥ ननु वाक्यार्थशब्दस्यावान्तरवाक्यार्थसाधारणानेकपदार्थपरत्वेनैवोक्तोदाहरणसंग्रह- संभवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह-एवंचेति॥ एवंविधार्थवि- वक्षणे चेत्यर्थः । अवलेहनं जिह्वया घट्टनम् । पञ्चाननः सिंहस्तस्य परिध्वज आलिङ्गनम् । व्याली भुजङ्गी । अशक्यत्वं बलवदनिष्टजनकत्वं च सा- धारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा । निदर्शनायास्तल्लक्षणस्य न क्षति - व्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः अगिधारादिभिः समं राज्ञो बिम्बप्रतिविम्बभावानविशिष्टयोपैक्यारोपादिति भावः । एवं तर्हि सदृशयो- १ 'लक्षणवाक्ये'.

निदर्शनालंकारः१९] अलंकारचन्द्रिकासहितः । . इत्यन्न प्रस्तुताप्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यार्थवृत्तिनिदर्श- नाया न क्षतिः । तयोबिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात् । अतएव निदर्शनाया रूपका दः । रूपके विशिष्टयोरेव मुखचन्द्रादिकयो- रैक्यारोपः। 'अहिदण्डो हरेरूर्वमुरिक्षप्तो बलिनिग्रहे । विधिविष्टरपन्नस्य नालदण्डो मुदेऽस्तु वः ॥' इति विशिष्टे' रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्ट- रूपता । विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशे- पणोपादानात् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्रादीनामा. नन्दकरस्वादिनेवान विशेषणयोर्बिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषयि- विशेषणानां परस्परसादृश्येन बिम्बप्रतिविम्बभावोऽस्ति । 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाटीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥' रक्यारोप इत्येव लक्षणमस्त्वित्याशङ्कयाह--अतएवेति ॥ एतादृशविशेषणवि- चक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह-रूपके इति ॥ अविशिष्टयोर्वि- म्बप्रतिबिम्बभावापन्नवस्त्वविशिष्टयोः । बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्ति दर्शयति--अद्भिदण्ड इत्यादि ॥ बलेदैत्यविशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुरिक्षप्तो हरेरद्भिदण्डो वो युष्माकं मुदेऽस्त्विति संबन्धः । कीदृशः । विधे- ब्रह्मणो विष्टर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः । विशिष्टरूपकेति।। ऊोत्क्षिप्तत्वविशिष्टानिदण्ड विधिविष्टरपद्मसंबन्धित्वविशिष्टनालदण्डसंबन्धिरूप- केत्यर्थः ॥ विशेषणेति ॥ ऊोंक्षिप्तत्वरूपोपमेयविशेषणविधिविष्टरपद्मसं. वन्धित्वरूपोपमानविशेषणयोरित्यर्थः । एवकारसूचितबिम्बप्रतिबिम्बभावव्यति- रेकं स्फुटयति--यद्दातुरिति । अभावादिति ॥ सादृश्याभावादिति भा- वः । रूपकविशेषेऽतिव्याप्तिमाशय परिहरति-यत्रत्वित्यादिना ॥ यत्र त्वित्यस्य इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा- नामारोपविषयारोप्यमाणसंबन्धिनां विशेषणानाम् ॥ ज्योत्स्रति ॥ इयं रात्रि- रेव कापालिकी योगिनी द्वीपाद्वीपान्तरं भ्रमतीत्यन्वयः । एतत्प्रधानरूपकम् । एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते । यथा ज्योत्स्नारूपेण भस्मना छु- रणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने को- तुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्तं लाञ्छनस्य छलेन सिद्धाञ्जनस्य परिमलं चूर्ण दधती धारयन्ती । दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनाना पाखण्डानां १ 'अस्तु नः'.२ 'विशिष्टरूपक'.

६० कुवलयानन्दः । निदर्शनालंकारः १९ इति सावयवरूपकोदाहरणे । तत्रापि विषयविषयिणोखद्विशेषाणां च प्रत्येकमेवैक्यारोपो न तु ज्योत्लादिविशिष्टरात्रिरूपविषयस्य भसादिविशिष्ट- कापालिकीरूपविषयिण विशिष्टरूपेणैक्यारोपोऽस्तीति । तस्मादाजसेवा म- नुष्याणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता । मतान्तरे स्विह पदार्थ- वृत्त्यैव निदर्शनया भाव्यमिति ॥ ५३ ॥ अपरां बोधनं प्राहुः क्रिययासत्सदर्थयोः। नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः॥५४॥ उदयन्नेव सविता पनेष्वर्पयति श्रियम् । विभावयन्समृद्धीनां फलं सुहृदनुग्रहः ॥५५॥ कस्यचित्किंचिक्रियाविशिष्टस्य सक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यन्निबध्यते तदपरां निदर्शनामाहुः । असदर्थबोधने उत्तरार्धमुदाहर- व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दी प्रशंसावित्यन्ये । मुद्रा चिहं तद्रूपे कपाल इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । नविशेषणानां तत्संबन्धिनां ज्योत्स्नाभस्मादीनां यथावते रात्रिकापालिकीति समासस्योत्तरपदा- थप्रधानतया ज्योत्स्नादीनां रात्रिविशेषणत्वाभावादसंगतेः । प्रत्येकमेवेति । शुद्धखरूपेनैवेत्यर्थः ॥ नत्विति ॥ उक्तयुक्त्या विशेषणत्वाभावादिति भावः । वस्तुतो भस्मादेः काणलिकी प्रत्यपि न विशेषणत्वमपि तु तत्कोटिनिविष्टत्व- मेवेत्यपि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टार्थपर- त्वमङ्गीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनात्वमुक्तमुपसंहरति- तस्मादिति ॥ उक्तलक्षणस्य व्यवस्थितत्वादित्यर्थः ॥ मतान्तरे त्विति ॥ सदृशयोर्वाक्यार्थयोरक्यारोप इति यथावतलक्षणाडीकर्तृमते इत्यर्थः । इह राज- सेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अमरपदार्थत- द्धर्मान्यतरारोप इति तल्लक्षणस्य तदभिमतत्वादिति भावः ॥ ५५ ॥ निदर्शना- न्तरमाह-अपरामिति ॥ पूर्वविलक्षणामित्यर्थः । निदर्शनामित्यनुषज्यते । क्रिययाऽसत्सदर्थयोर्बोधनमपरा निदर्शनां प्राहुरिति संबन्धः । सदसदर्थयोरिति वक्तव्येऽपि छन्दोनुरोधादित्थमभिधानम् । 'समुद्राभ्राद्धः' इत्यादिसौत्रनिर्देशेन पूर्वनिपातविधेरनित्यत्वज्ञापनात् । लक्षणं व्याचष्टे-कस्यचिदिति ॥ अत्रा- सतः सतो वेति विभागकथनं नतु लक्षणान्तर्गतम् । उदासीनार्थबोधने चम- त्कारित्वाभावेनैवानतिप्रसङ्गात् । स्वक्रियया सहकारिभूतया क्रियाविशिष्टस्य व- स्तुनः संबन्ध्यर्थस्य बोधनं बोधानुकूलो व्यापारो यन्निबध्यते वर्ण्यते सा निद- शनेति लक्षणम् । अथ 'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं यूनि मनोभवेऽपि व्यनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्या- प्तिः । अवलोकनक्रियाविशिष्टया कामिन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न । १ "विभावनं समृद्धीनो'. A निदर्शनालंकारः१९] अलंकारचन्द्रिकासहितः । १ णम् । तत्र नश्येदिति बोधवदिति बकम्ये बोधयदिखस्य गम्यमानत्वावन- योगः । ततश्च राज्ञा चन्द्रेण संह विरुष्य स्वयं नाशक्रियया विशिष्टं तमः स्वकीपनाशक्रियया दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धवेनश्यदित्यनिष्टप- यवसायिनमय बोधयदेव नष्टमिति निवन्धनादसदर्थनिदर्शना । तथा प्रचार- श्लोके सविता खोदयसमय एव पनेषु लक्ष्मीमादधानः स्वया पालक्ष्म्या- धानक्रिपया परान्प्रति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थ बो- धयशिबद इति सदर्थनिदर्शना॥ यथावा- उन्नतं पदमवाप्य यो लघुहेलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः पृषद्गणश्चारुमारुतधुतः पतस्यधः ॥ अत्र गिरिशेखरगतो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् लघोन्नतपदप्राप्तिः पतनहेतुरित्यसवर्थ बोधयन्निबद्ध इत्यसदर्थनिदर्शना ॥ चूडामणिपदे धत्ते यो देवं रविमागतम् । सता कार्यातिथयीति बोधयन्गृहमेधिनः । अन समागतं रवि शिरसा संभावयनुदयाचलः स्वनिष्ठया रविधारणक्रि- यया समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यमिति सदर्थ बोधयनि- बद्ध इति सदर्थनिदर्शना । अत्र केचित् वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शना- द्वयमसंभवद्वस्तुसंबन्धनिबन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिबन्ध. नेति च व्यवहरन्ति । तथाहि । आचनिदर्शनायां वाक्यार्थयोरैक्यमसंभव- क्रिययेत्यनेन दृष्टान्तविधया बोधनस्य विवक्षितत्वात् । उक्तोदाहरणे च लिङ्ग- विधया बोधकत्वेन तदभावात् । इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोध- कत्वं वर्ण्यमानं निदर्शनेति पर्यवसितम् । नश्यदित्यत्र बोधनस्यावर्णनात्कथमु- दाहरणत्वमत आह-तत्रेति ॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति -ततश्चेति ॥ बोधनस्य गम्यमानत्वाञ्चेत्यर्थः ॥ दृष्टान्तभूतयेति ॥ दृष्टान्ते खस्मिन् भूतया । विद्यमानयेत्यर्थः । दृष्टान्तो भूतः संजातो ययेति वा । एवं तमोवचन्द्रस्यापि राजत्वं 'सोमो वै ब्राह्मणानां राजा' इन्यादिधतिप्रमिदम् ।अ. निष्ट पनवगायिनमधं नागापा पानिग्याधनं गजयिदन्यरूपमर्थम् ॥ उन्नतमिति ॥ यो लघुरल्पबुद्धिरल्पपरिमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य हेलयैव पतेदिति ब्रुवन्कथयन् शैलशेखरगतो गिरिमस्तकवर्ती पृषद्गणो जलबिन्दुस- मूहश्चारुणा मन्देनापि मारुतेन धुतः कम्पितोऽधः पतन्युत्कर्षाद्धीयते अधोदेशे च पततीत्यर्थः । ध्रुवमिति पाठे बोधनस्य पूर्ववद्गम्यमानत्वादप्रयोगः । दृषत्कण इति पाठे पाषाणकण इत्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रवि चूडा- मणे: पदे स्थाने भस्तके धत्ते धारयति । किं कुर्वन् । गृहमेधिनो गृहस्थान्स- तामातिथेयी कार्येति बोधयन् । आतिथेयी आतिथ्यम् । अत्र उक्तनिदर्शना- و ६२ कुवलयानन्दः । [व्यतिरेकालंकारः २० त्तयोः साम्ये पर्यवस्यति । द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्ध- मिणोः साम्ये पर्यवस्यति । तृतीयनिदर्शनायां तु स्वक्रियया परान्प्रति सद- सदर्थबोधनं संभवदेव समतां गर्भीकरोति । बोधयन् गृहमेधिन इत्यादौ हि कारीषोऽग्निरध्यापयतीतिवरसमर्थाचरणे णियः प्रयोगः । ततश्च यथा कारी- षोऽग्निः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते । यथायं पर्वतः समागतं रवि शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया संभावयेदिति । अतः संभवति बोधनसंबन्ध इति ॥ ५४॥ ५५ ॥ व्यतिरेकालंकारः २० व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमलाः ॥ ५६ ॥ अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावा- पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ तब्यूनत्वपर्यवसायी यथा- रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुण- स्त्वामायान्ति शिलीमुखाः सरधनुर्मुक्तास्तथा मामपि । त्रयविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः साम्यमात्रेण चमत्कारानिष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्या- वगतिरिति भावः ॥ गर्भीकरोतीति ॥ खविशेषणत्वेन खीकरोतीत्यर्थः दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्वात् । एतदेवोपपादयनि-बोधय- नित्यादिना ॥ करीषं शुष्कगोमयं तस्यायं कारीषः । समर्थाचरणे समर्थकरणे। सामोत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन । एवं प्रदर्शिते निदर्शनात्रये मिलनानिनिमिनम्यै कम्पानापानाना एव निदर्शनाशब्द इति बोध्यम् ॥ ५४ ॥ ५५ ॥ इति निदर्शनालंकारप्रकरणम्॥१९॥ व्यतिरेकं लक्षयति-व्यतिरेक इति ॥ विशेषो वैलक्षण्यम् । उपमेयस्या- धिक्यमुत्कर्षः ॥ पल्लवत इति ॥ पश्चम्यर्थे तसित् । कल्पतरोः पल्लवतः पल्ल- वादेष वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः । एकः पल्लवः परो हस्तः कर्ण राधेयं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः । पूर्वोदाहरणे उन्नतत्वेनौपम्यं शान्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्गम्यमिति भेदः ॥ तन्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशो- कवृक्षं प्रति विरहिणः कस्यचिदुक्तिः । हे अशोक, आवयोः सर्वं तुल्यं समानम् । अहं केवलं धात्रा विधात्रा सशोकः शोकसहिनः कृतः, त्वं तु शोकरहित इत्य- .

सहोत्यलंकारः २१] अलंकारचन्द्रिकासहितः । ६३ कान्तापादतलाहतिस्तव मुदे तदम्ममाप्यावयोः सर्व सुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ अनुभयपर्यवसायी यथा- दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ . सहोत्यलंकारः २१ सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५७ ॥ शोकपदश्लेषादवगम्यते । किं तत्सर्वं समानं तत्राह-रक्त इत्यादि ॥ त्वं नू- तनैः पल्लवैः रक्तो रक्तवर्णः, अहमपि प्रियायाः श्लाघनीयैर्गुणैः सौन्दर्यादिभी रक्तोऽनुरक्तः । अर्थात्प्रयायाम् । हे सखे, त्वां प्रति शिलीमुखा भ्रमरा आ- यान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिताः शिलीमुखा बाणा आयान्ति । एवं कान्तायाः पादतलस्याघातो यथा तव मुदे संतोषाय तद्वत्तथा ममापि संतो- षायेत्यर्थः । कामिनीपादधातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः । अत्रोपमेयस्य सशोकत्वेनापकर्षः अनुभयपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानर- हितः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खड्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्व केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेवेत्यर्थः । कथं तत्राह-दृढ तरेत्यादि । दृढतरं निबद्धो मुष्टियेनेति । कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमो- चनाभावात् । खड्गपक्षे तु दृढतरं निबद्धः संबद्धो मुष्टिर्मुष्टिग्राह्यभागो यस्येत्यर्थः। कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्णः स्थित इति खड्गपक्षे । सहजमलिनः खभावमलिनः । मलिनवेषत्वात्कृपणः । खड्गस्तु कृष्णवर्णत्वादिति । पंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्म- प्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदप- कर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि खवैचित्र्यविश्रान्तमात्रमिति बोध्यम्। एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तं वेदितव्यम् । अत्यन्तासारतया तु नानुवादमर्हतीत्युपरम्यते ॥ ५६ ॥ इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥ सहोक्तिरिति लक्ष्यनिर्देशः। सहभाव इत्यादि लक्षणम् । सहभावः साहित्यम्। जनरञ्जनः सहृदयजनालादकः । एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति ल- क्षणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यर्थिभिः शत्रुभिः सह दिग- न्तमगमदित्यन्वयः । अत्रच तृतीयाया निरूपितत्वार्थकतया प्रत्यर्थिनिरूपितसा- हित्यवती कीर्तिर्गमनाश्रय इति बोधे एकधर्मान्वयित्वरूपसाहित्यबलात्प्रत्यर्थिनामपि । १ 'दुच्यते'.

कुवलयानन्दः। [बिनोक्त्यलंकारः २२ - यथावा- छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः॥ जनरञ्जन इत्युक्तेरनेन सार्धं विहराम्बुराशेरित्यादौन सहोक्किरलंकार:५७ विनोत्तयलंकारः २२ विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥५८ ॥ यथावा- यश्च रामं न पश्येत्तु यं च रामो न पश्यति । निन्दितः स भवेल्लोके स्वात्माप्येनं विगहते ॥ अनच रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरेणैव दर्शितम् ॥ ५८ गमनान्वयप्रतीतिः । तदुक्तम्-'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्' इति ॥ छायेति ॥ ग्रीष्मौ मध्याह्नवर्णनमिदम् । छाया पान्थैरवगैः समं साधैं विटपिना तरूणां तलं मूलप्रदेशं संश्रयते । कुत इत्याकाङ्क्षायामुत्प्रेक्षते- श्रान्तेवेति ॥ श्रमश्वात्रातपातिशयकृतो बोध्यः । एवमग्रेऽपि । जडता शीत- लता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति । ग्ला- निर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैवंभूतस्य रवेर्दीधिति- स्तप्तेव संतप्तेव सती लोकैः सममपः जलानि आचामति पिबति । 'दीधितिः स्त्रियाम्' इत्यमरः । निद्रा क्लान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति । तत्रैव तदुद्भवात् । क्लान्तिस्तेजोहानिः । सौकुमात्रातिशयेन तत्सौ. लभ्याकान्तोपादानम् ॥ इत्यादाविति ॥ इन्दुमतीस्वयंवरे रघुवंशे 'अनेन साथै विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । दीपान्तगनीतलवङ्गपुष्परपाकृत- खेदलवा मरुद्भिः ॥' इति पद्यम् । अत्र सहोक्तिचमत्कारित्वान्नालंकाररूपे- त्यर्थः ॥ ५७ ॥ इति सहोक्तिप्रकरणम् ॥ २१ ॥ विनोक्तिरिति ॥ किंचिद्विना प्रस्तुतं वय हीनं दुष्टमुच्यते चेत्तदा विनोक्ति- नामालंकार इत्यर्थः ॥ विद्येति ॥ विनयसंपत्तिं विना या विद्या सा हृद्या मनोह- रापि दुष्टेत्यन्वयः। अत्र प्रस्तुताया विद्याया विनयं विना दुष्टत्वमुक्तम् ॥यश्चेति॥ यः पुरुषः खात्मा खान्तःकरणं विगर्हते निन्दति । रामदर्शनं बिनेति रामकर्मकं रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच विनोक्तिरित्यर्थग्रहणं नतु शब्दग्रहणमिति भावः ॥ ५८ ॥ प्रकारान्तरमाह- १ "विनोक्तिः स्यादिना'. - समासोक्त्यलंकारः२३] अलंकारचन्द्रिकासहितः । नोकिचिद्विना रम्यं विनोक्तिः सापि कथ्यते । विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥ ५९॥ यथावा- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैंशयाचिर्तुतभुज इव च्छिन्नभूयिष्ठधूमा । मोहेनान्तर्बरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृहृतीव प्रसादम् ॥ अत्र तमःप्रभृतीबिना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ५९ . समासोक्यलंकारः२३ समासोक्तिः परिस्फुर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः ॥६० ॥ यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प. तश्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोक्तिः कथ्यत इत्यन्वयः। इत्थंच किंचिद्व्यतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्वान्यतरवर्णनं विनोकिरिति प्रकारद्वयसाधारणं सामान्यलक्षणं बोध्यम् । यत्तु हृद्यो विनार्थसंबन्ध एव वि. नोक्तिः । हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवतीत्यर्वा- चीनरुक्तम् । तदयुक्तम् । कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारे- ऽतिव्याप्तेर्वारणाय विनार्थसंबन्धप्रयुक्तप्रस्तुतगतरमणीयत्वादेरपि लक्षणे निवेश- स्यावश्यकत्वादिति ॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शो- ऽयम् । इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यून- मुक्ता लक्ष्यते । केव । पूर्व रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुष्यापग- मात्प्रसादं नैर्मल्यं गृह्णत्याश्रयन्ती गङ्गेव । तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा मुच्यमाता रात्रिरिव । एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवं- भूता । निशि भवस्य हुतभुजो वढेरर्चिः शिखेवेति ॥ दर्शितमिति ॥ अर्थतो बोधितमित्यर्थः ॥ ५९ ॥ इति विनोतिप्रकरणम् ॥ २२ ॥ समासोक्ति लक्षयति-समासोक्तिरिति ॥ प्रस्तुते वर्ण्यमाने अप्रस्तुत- स्थाप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्चेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति ॥ इ. न्द्रस्येयमैन्द्री प्राची । मुखमादिभागो वदनं च रक्तो रक्तवर्णोऽनुरक्तश्च । चु. म्बनं संबन्धो वक्त्रसंयोगविशेषश्च । यथाश्रुतलक्षणस्य वक्ष्यमाणे अमावुदयमा- रूढः कान्तिमारक्तमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्या- दिप्रकृताप्रकृतश्लेषेऽतिव्याप्तेराह-विशेषणसाम्यबलादिति ॥ विशेषणमा- त्रसाम्यबलादित्यर्थः । एवंच विशेषणमात्रसाम्यगम्याप्रस्तुतयनान्तत्वं लक्षणं बो- ध्यम् । उदाहृतश्लेषे चाप्रकृतनृपवृत्तान्तस्थ विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य- ६६ कुवलयानन्दः । [समामोत्यलंकारः २३ रिस्फूर्तिस्तत्र समासोक्तिरलंकारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्त- योर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अन्नहि चन्द्रस्य प्राचीप्रारम्भलक्षण- मुखसंबन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्त- शब्दस्यारुणकामुकसाधारण्याधुम्बतीत्यस्य प्रस्तुतार्थसंबन्धमात्रपरस्य शक्या- र्थान्तरसाधारण्याञ्च चन्द्रमःशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन तत्प्रति- पायेन्द्रसंबन्धित्वेन चोपस्कृतादप्रस्तुतपरवनितासक्तमुरुषवृत्तान्तः प्रतीयते । यथावा- व्यावलात्कुचभारमाकुलकचं व्यालोलहारावलि प्रेस्कुण्डलशोभिगण्डयुगलं प्रखेदि वक्राम्बुजम् । शवदत्तकरप्रहारमधिकश्वासं रसादेतया यसास्कन्दुक सादरं सुभगया संसेप्यसे तत्कृती ॥ अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावल्गरकुचभारमित्यादिक्रियाविशेषणसा- म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्तिदृश्यते । यथावा- वगमानातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्शयति-समासेनेति ॥ वचनात्प्रतिपादनात । लक्ष्ये लक्षणं संगमयति-अत्रेति॥प्रारम्भ आदिभागः । साधारण्याच्छुिष्टत्वात् । यद्यपि चुम्बतीत्यत्र नपस्नथाप्यर्थद्वयबोधकन्यमाण तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र च- न्द्रमःशब्दगतेन पुंलिशन नायकत्वाभिव्यक्त्या उपस्कारः । ऐन्द्रीति खरूपपरं त- द्गतेन स्त्रीलिङ्गेन तदर्थस्य नायिकात्वाभिव्यक्त्या पन्नाइप्रतिपादनेन्द्रमंबन्धिः त्वेन च परकीयत्वाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावल्गदिति ॥ नायिकानुरक्तस्य कस्यचित्कीडालम्बनं कन्दुक प्रत्युक्तिरियम्। हे कन्दुक, सुभगया सुन्दर्या एतया नायिकया रसाप्रीति विशेषासादरमा- दरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे तत्तस्मात्कृती धन्योऽसीत्यन्वयः । क- थमित्याकाहायां संसेवनक्रियां विशिनष्टि-व्यावल्गदित्यादिना ॥ व्याव- लगन्विशेषत आसमन्ताचलन्कुचभारो यत्र तथा आकुलाः क्रीडावेशेनेतस्ततः पर्यस्ताः कचाः केशा यत्र एवं व्यालोला दोलायिता हारावलियंत्र तथा प्रेक- यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र एवं प्रस्वेदयुक्तं व- वाम्बुजं यत्र शश्वनिरन्तरं दत्तः करेण प्रहारो यत्र तथा अधिकः श्वासो यत्र तथेति । वृत्तान्तः विपरीतरतरूपः । अत्रापि कन्दुकशब्दगनपुंलिलेन ना- यकत्वाभिव्यक्तिर्बोध्या ॥ श्लिष्टानीति ॥पमूलकाभेदाध्यवसायविषयाणी त्यर्थः ॥ साधारणानीति ॥ श्लेष विनव प्रकृताप्रकृतवृत्तान्तयोरनुगतानी- त्यर्थः । तथाच लक्षणे साम्यशब्देन श्लेषकृतं खारसिकं च साम्यं विवक्षितमि- .. 4 समासोत्त्यलंकारः२३] अलंकारचन्द्रिकासहितः । पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो धनविरलभावः क्षितिरुहाम् । बहोईष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ अत्र वनवर्णने प्रस्तुते तत्सारूप्यास्कुटुम्बिषु धनसंतानादिसमृधसमृद्धि- विपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेवृत्तान्तः प्रतीयते । अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्ता- न्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थं सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चा- रुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र ति भावः । सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्येयमुक्तिः । पुरा वनवासकाले सरि- तां नदीनां स्रोतःप्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः । तथा क्षितिरुहां तरूणां धनविरलभावो विपय वैपरीत्यं यातः प्राप्तः । सा- न्द्राणां विरलता विरलानां शाखापल्लवादिवृध्या सान्द्रता जातेत्यर्थः । तथाच बहो यसः कालादनन्तरं दृष्टमिदं वनमपरमन्यदिव मन्ये । परंतु शैलानां पर्व- तानां निवेशो विन्यासविशेषस्तदेवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां द्रढयति । दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ वनसादृश्यादित्यर्थः । ग्रामादौ किं वनसादृश्यमित्याकाबायां तद्गर्भ विशेषणमाह-कुटुम्बिष्वित्यादि ॥ कुटु- म्बिषु कुटुम्बिगतो यो धनसमृद्ध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य । तथाच समृद्ध्यसमृद्धिविपर्यासवदाश्रयत्वं सादृश्य- मिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति च । ताभ्यामुत्तसादृश्यगर्भीकरणात् । एतेनैषां सादृश्यगर्भविशेषणोपस्थापि- तसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलग्नक वेदितव्यम् । अथात्राप्रस्तुतवृत्तान्तस्य विशेषणसाम्यगम्यत्वाभावादुक्तलक्षण- स्याव्याप्तिरिति चेन । विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि विशेषणसाम्यगम्य- त्वानपायात् । प्राधान्यात्तु परं सारूप्यस्य गमकत्वोपदर्शनं सारूप्यादिति ग्रन्थे- न । एवमग्रेऽपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोक्तिरपि प्राधान्याभिप्रायै- वेति निरवद्यम् । एवमलंकारं निरूप्य तद्बोधप्रकारमुपदर्शयितुं भूमिकामारचय- ति-अत्रचेति ॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति ॥ अप्र- कृतजारादिसंबन्धिनश्चुम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ । सर्वथा आ- रोपानारोपान्यतरविधया प्रस्तुतानन्वयिनः प्रकृतान्वयशून्यस्य । यद्वा सर्वथैवे- त्यस्य कवीत्यादिनान्वयः । कविसंरम्भेति खप्रतीत्युद्देश्यकशब्दसंदर्भरूपकवि- ' व्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादी समारोप इति मतं निराकरोति-नत्विति ॥ अप्रस्तुतरूपेति ॥ अप्रस्तुत- कुवलयानन्दः । [समासोक्त्यलंकारः २३ इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिण्याहारवद्रक्तश्रुम्बति चन्द्रमा इ- त्यादिसमासोक्युदाहरणे चन्द्रादौ जारत्वाचारोपहेतोतवाचकपदसमभिव्या- हारस्याभावात् । 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वाम्तचन्द्रोऽयमित्याततरं ररासे॥' इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्या- प्यभावात् । तत्रहि विषयनैरिस्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप- मयूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानुरोधात् । पयो- देऽनुक्तमपि द्रष्ट्रपुरुषस्वरूपणं गम्यमुपगम्यते । न चेह तथा निरीक्षणवत् स्वय्यागते किमिति वेपत एष सिन्धुरिति श्लोके सेतुकृत्त्वादिवचाप्रस्तुतासा- धारणवृत्तान्त सपात्तोऽस्ति । नापि श्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युनयनवत्प्राधान्यमस्ति । येन तदनुरोधात्वं सेतुमन्थकृदित्यनेव प्रस्तुतेऽनुक्तमप्यप्रस्तुतरूपसमारोपमभ्युप- खरूपत्यर्थः । कुतस्तत्राह-मुखमित्यादि ॥ तादात्म्येन चन्द्रारोपे तादात्म्य- स्यापि संसर्गविधया आरोपविषयत्वात्तस्य च चन्द्रत्वानतिरेकाच्चन्द्रत्वारोपेत्यु- क्तिः । नतु प्रकारतया चन्द्रत्वारोप उक्त इति भ्रमितव्यम् । चन्द्र इति शब्देन चन्द्रविशेषणत्वेनोपस्थितस्य चन्द्रत्वस्य मुखे विशेषणतयारोपासंभवात् । एवं जारत्वेत्यत्रापि बोध्यम् ॥ तद्वाचकेति ॥ जारवाचकेत्यर्थः । ननु जारादिपद- समभिव्याहाराभावाच्छ्रोतारोपासंभवेऽप्यार्थों जाराद्यागेपोऽस्तु । नहि तत्रापि ताशसमभिव्याहारो हेतुः । रूपकध्वनेरुच्छेदापत्तरित्याशङ्कयाह-निरीक्ष्य- ति ॥ पयोदो मेघो विद्युत्खरूपैर्नयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारा- निपातैः : सह वान्तः किं त्वयं चन्द्र इति मत्वा आर्ततरं यथा स्यात्तथा ररासे आक्रन्दनं कृतवानित्यर्थः । उदाहरण इवेति व्यतिरेकदृष्टान्त: । अत्र यथा गमकमस्ति तादृशस्य समासोक्त्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोऽप्य- नाशय इति भावः । ननु विद्युन्नयनैरित्यत्र किमप्रस्तुतारोपगमकं यदभावात्स- मासोक्तौ तदभाव इत्यतो गमकं दर्शयितुमाह-तत्रेति ॥ आनुगुण्यादानुकू- त्यात् । उपमितसमासस्य पूर्वपदार्थप्रधानतया नयनसदृशविद्युत्करणकत्वस्य निरीक्षणे संभवात्प्रतिकूलत्वमिति भावः । अनुक्तमप्यत्रौतमपि । रूपणमारोपः। नचेहेति ॥ इह समासोक्तयुदाहरणे तथा निरीक्षणवन्नयनकरणकनिरीक्षणवत्से- तुकृत्त्वादीत्यादिना मन्थनकारित्वपरिग्रहः । नन्विहापि परनायिकामुखचुम्बनरू. पस्याप्रस्तुतवृत्तान्तस्याप्रस्तुतासाधारणधर्मत्वादप्रस्तुतारोपगमकत्वं स्यादित्या- शङ्कय परिहरनि-नापीति ॥ माधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः। वृत्तान्तयोरिति निर्धारणे षष्टी । वृत्तान्तयोर्मध्य इत्यर्थः॥ विद्युन्नयनवदिति ॥ प्रस्तुताप्रस्तुतयोविद्युन्नयनयोर्मध्ये यथा नयनस्योत्तरपदार्थप्रधानसमासात्प्राधा- न्यं तथा नास्तीत्यर्थः । सेतुमन्थकृदिति पाठः । सेतुबन्धकृदिति त्वपपाठः - समासोक्त्यलंकारः२३] अलंकारचन्द्रिकासहितः । गच्छेम । तस्माद्विशेषणसमर्पिताप्रस्तुतम्यवहारसमारोपमात्रमिह चारुता- हेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह लिष्टसाधारणविशेषणसमर्पित- योभिनपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादति सममाधान्य- म्, तथाप्यप्रस्तुतवृत्तान्ताम्वयानुरोधात्र प्रस्तुतेऽप्रस्तुतरूपसमारोपोजीका- यः । तथाहि । यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव- वाप्रस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्र- धानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत ए- व प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्या दप्रस्तुतस्य गम्यत्वं समासोक्तिः । 'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते।' इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते श्लिष्ट- साधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारो- पमानस्य चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाधप्रस्तुतधर्मिग्य- अनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता- कथंचिदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहरति-तस्मादिति ॥ मात्रपदे- नाप्रस्तुतारोपव्यवच्छेदः । विद्युम्नयनवत्समासकृतश्रौतप्राधान्याभावेऽपि विशे- पणमामर्थ्यावगतस्याप्रस्तुतवृत्तान्तरल्यार्थतः प्राधान्यमस्तीति शक्कते-यधपी- तिनन्वप्रस्तुतवृतान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृतान्तस्य प्रस्तुतविशेष्येणान्व- याकथमप्रम्नुनयनान्तम्य प्राधान्य मिनि शानिरासायाह-विशेष्येणैवेति ॥ ननु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः। समाधने-तथापीति ॥ अय- माशयः । नात्र श्लिष्टादिविशेषणैः समर्पितः पग्नायिकामुग्नचुम्बनादिम्पोऽप्रस्तुत- वृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते । यद्बलादप्रस्तुतजाराद्या- रोपावगतिः स्यात् । अपितु ताटस्थ्येनावगते नम्मिन्प्रस्तुतासंबद्धम्य कविसंरम्भ- गोचरत्वायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति । नन्वेवं तर्हि प्रस्तुतवृत्तान्त- स्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु । असंबद्धाभिधानप्रसङ्गपरिहारस्य तुल्यत्वादित्याशङ्कथाह-तथाहीत्यादि ॥ एवं च योग्यतारूपविनिगमकविरहे व मास्तु तर्हि कस्याप्यन्वयस्तत्राह--अवश्यमिति ॥अन्यथासंबद्धाभिधानप्र- सङ्गापनेरिति भावः। किं तर्हि विनिगमकं तत्राह-श्रुत पवेति ॥ तथाच श्रुत- प्रस्तुतार्थोपस्कारकतया चमत्कारहेतुत्वमेव विनिगमकमिति भावः। अप्रस्तुतस्या- प्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे । विशेषणा- नामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः । प्रस्तुते समारोपार्थम् । अप्रस्तुनधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्त- विशेषणत्वार्थे तदपेक्षणान्न लक्षणामंगतिरित्याह-स्वरूपत इति॥खरूपतोs- प्रस्तुतसंबन्धित्वेनाज्ञायमानस्य । नन्यपेक्षामन्वेऽपि विशेषणसाम्यस्य तद्वयञ्जना-

कुवलयानन्दः । [समासोक्त्यलंकारः २३
हेतुः । किंत्वप्रस्तुतकामुकादिसंबन्धित्वेनावगम्यमानस्य तस्यारोपः । तथा-
भूतस्यैव रसानुगुणत्वात् । नच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति।
अतः श्लेषादिमहिना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना
तत्संबन्धिनि कामुकादावभिव्यक्त पुनस्तदीयत्वानुसंधानं तत्र भवति । यथा
स्वरूपतो दृष्टेन राजाश्वादिना तत्संबन्धिनि राजादौ सारित पुनरश्वादौ त-
दीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यजनस्था-
स्त्यपेक्षा । अतएव श्लिष्टविशेषणायामिव साधारणविशेषणायामप्यप्रस्तुतव्य-
वहारसमारोप इत्येव प्राचीनानां प्रवादः । कन्दुके व्यावलात्कुचभारत्वादि-
विशिष्टवनितासेव्यत्वस्य कामुकसंबन्धिस्वेनैव समारोपणीयत्वात् । स्वरूप.
तः कन्दुकेऽपि तस्य सत्वेनासमारोपणीयत्वात् । किंच सारूप्यनिबन्धनत्वे.
नोदाहृतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव
गम्यतया तेन रूपेण तत्र समारोपसिद्धेः । अन्यत्रापि तथैव युक्तमिति
युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥ ६० ॥
सामर्थ्या-लक्षणासंगतितादवस्थ्यमित्याशङ्कय साक्षादसामर्थ्येऽपि वृत्तान्ताभिव्य-
क्तिद्वारातत्संभवान दोष इत्याह--नचेत्यादि ॥ तदीयत्वानुसंधानं कामुकसंब-
न्धित्वानुसंधानम् । तत्र मुखचुम्बनादौ अनुसंधानं तद्वदिति पाठः । अनुसंधानव-
दिति पाठे यथेत्यस्यासंगतः। अत एवाप्रस्तुतव्यञ्जनस्यापेक्षणादेव । नन्वप्रस्तुतध-
मिव्यञ्जनानपेक्षणे ईदृशः प्रवादः कुतो न युक्तस्तत्राह-कन्दुक इति ॥ विशि-
टेत्यस्य सेव्यत्वेनान्वयः। संबन्धित्वेनैवेत्येवकारोक्तमेवार्थ सोपपत्तिकमाह-
स्वरूप इति ॥ काम नाणे वर्ग । तथा चारो-
गागंभयाना'निति भावः । श्लिष्टविशेषणायार भैन्द्रीत्यादी मु-
खचुम्बनादेः खरूपतोऽप्यारोपस्यैव सत्त्वात्साधारणविशेषगायामुपष्टम्भकत्वेन
प्रवादोपन्यासः । ननु तत्रापि तादृशवनितासेव्यत्वस्य तादृशवनिताकृतविपरीत-
रतपात्रत्वरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव संभवान्न तादृशप्र-
वादानुपपत्तिरत आह-किंचेति ॥ युक्तमिति ॥ तत्सामान्यादितरेषु त-
थात्वमिति न्यायादिति भावः ॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमु-
क्तरीत्या 'अयमैन्द्रीमुखं पश्य रक्तश्रुम्बति चन्द्रमाः' इत्यत्र शक्तिव्यञ्जनाभ्यां
प्राचीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय
इति बोधः । अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतवृत्तान्तस्य तादात्म्ये-
नाग्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचु-
बनाभिन्नप्राचीप्रारम्भमयोगाश्रयो जाराभित्रश्चन्द्र इति बोधः । एवमुदाहरणा-
न्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा ऊहनीयाः ॥ ६० ॥ इति समासो-
क्तिप्रकरणम् ॥ २३ ॥

परिकरालंकारः २४] अलंकारचन्द्रिकासहितः। ७१ परिकरालंकारः२४ अलंकारः परिकरः माभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६१ ॥ अन्न सुधांशुकलितोसंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् । यथावा- तव प्रसादारकुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुयों हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥ अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थविशेषणं च सारासारायुधत्वाभिप्रायगर्भम् । यथावा- सर्वाशुचिनिधानस्य कृतनस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि । व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्भाप्यं च नाभाषिषम् । गुणीभूतव्यङ्गयस्य प्रभेदभूतसमासोक्त्यलंकारप्रसङ्गात्तत्प्रभेदं परिकरालंकार लक्षयति-अलंकार इति ॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थत्व. मिति शङ्कानिरासार्थम् । तत्प्रपञ्चनं चाग्रे करिष्यते । साभिप्राये प्रकृतार्थोपपा- दकार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यजक इति यावत् । इत्थंच प्रकृतार्थो- पपादकार्थव्यञ्जकविशेषणत्वं लक्षणं बोध्यम् । बनावनिप्यामियारणाय प्रकृ- तार्थोपपादकेति, हेत्वलंकारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः। वक्ष्य- माणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रस- ङ्गः ॥ मुधांश्विति ॥ सुधांशुना कलितः कृत उत्तंसः शेखरो येन स इति हर- विशेषणम् । 'उत्तंसः कर्णपूरे स्थाच्छेखरे चावतंसवत्' इति विश्वः । सामर्थ्या- भिप्रायं सामर्थ्यव्यञकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः । तव प्रसादा- स्कुसुमायुधोऽप्यहं मधु वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युतिं धैर्यस्खलनं कुर्याम् । अन्ये धन्विनो धनुर्धरा मम पुरः के । अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेत्य- न्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः । अभिप्रायगर्भमभि- प्रायपूर्वकम् । अत एवावयवार्थमात्रविश्रान्तत्वाद्धरपदेन न पौनरुक्त्यमपि ॥ सर्वति ॥ सर्वेषामशुचीनां रक्तपूयरेतोविण्मूत्रादीनां निधानस्य स्थानभूतम्य कृतघ्नस्य उत्तमानपानादिकृतोपकारनाशकस्य शरीरकस्य । शरीरकस्येति निन्दा- यां कप्रत्ययः । कृते तदर्थम् । तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वा|- तानि । तस्य शरीरस्य ॥ व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव १ 'प्रायविशेषणे'. - .

कुवलयानन्दः। [परिकरालंकारः २४ . चित्रार्थी न बृहत्कथामचकथं सुत्राम्णि नासं गुरु- देव स्वगुणवृन्दवर्णनमहं कर्तुं कथं शकुयाम् ॥ भन्न श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वसिन्ध्यासाचसाधारण- कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याचभिप्रायगर्भाणि । तन्नाययोरुदाह- रणयोरेकै विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि । तत्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि च, द्वि- तीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्य- अथार्थसद्भावेऽपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे मन्मथस्य कैमुति- कन्यायेन सर्वधन्विधैर्यभञ्जकत्वे शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे स्व- स्यवर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अतएव व्य- जयस्य वाच्यपरिकरत्वात्परिकर इति नामास्थालंकारस्य । केचित्तु निष्प्रयो- जनविशेषणोपादानेऽपुष्टार्थत्वदोषस्योकत्वात्सप्रयोजनत्वं विशेषणस्य दोषा- भावमात्रं न कश्चिदलंकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासे परं वैचि- राजन्, त्वद्गुणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्नुयां शक्को भवेय- मित्यन्वयः । कुतस्तत्राह । यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेक- शाखारूपेण न विस्तारितवान् । तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते। एवमग्रेऽपि । वल्मीकतो वल्मीकाजन्मास्यास्तीति जन्मी न भवामीति शेषः । तथाच नाहं या-नीमि.रिनि । अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति । सुमहद्भाष्यं महाभाष्यं च नाभाषिषं न भाषितवानित्यनेन नाहं सहस्रजिह्वः शेष इति । चित्रो विचित्रोऽर्थो यस्यास्तां बृहत्कथां न अचकथं न कथितवानित्यनेन नाहं तद्वक्ता शिवो गुणाढ्यो वेति। सुत्रामिण इन्द्रे गुरुरुपदेश- को नासमित्यनेन नाहं वाक्पतिरिति च व्यज्यते । उक्तेषूदा रणेषु वैलक्षण्यं दर्शयति-तत्रेत्यादिना।। एकैकमेकस्य विशेष्यस्यैकमेव मनन्तरयोरनन्त- रोक्तयोः प्रत्येकमेकं विशेष्यं प्रति । तत्रापि तयोर्मध्येऽपि एकाभिप्रायगर्भाण्ये- कार्थाभिप्रायपूर्वकाणि ॥ वाक्यार्थेति ॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषट- स्योक्तरीत्या हेतुत्वेनान्तिमवाक्यार्थे बिशेषणत्वादिति भावः । एतेषु उक्कोदाह- रणेषु । ध्वनिव्यपदेशोध्वनिव्यवहारः। तत्र हेतुमाह-तापहरणेत्यादिना॥ तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः॥ उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यङ्गयभेदत्वान्न ध्वनिव्य- वहार इति भावः। नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्युतेत्यादिध्वनावति- व्याप्तिरित्यत आह-अतपवेति ॥ वाच्योपस्कारकत्वादेवेत्यर्थः । परिकरत्वा- दङ्गत्वात् । तथाच परिकरपदमहिना प्रकृतार्थोपपादकत्वस्य व्यङ्गयविशेषणस्य लाभानातिव्याप्तिरिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥ 'अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्कममाम्याः' इत्यादिनालंकारिकैरुक्तत्वादित्य- र्थः । कथं तर्हि तैरेवास्यालंकारत्वेन कथनमत आह-एकनिष्ठेति ॥ ताह.

७३ परिकरालंकारः २४] अलंकारचन्द्रिकासहितः । व्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशे- पणोपन्यास एव परिकर इति न नियमः । श्लेषयमकादिष्वपुष्टार्थदोषाभावेन सत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसनावात्परि- करोपपत्तेः । यथा- अतियजेत निजां यदि देवतामुभयतश्यवते जुषतेऽप्यघम् । क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिगुहा ॥ अत्र हि पुरुहूतपूजोधुक्तानन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्ध- मगिरिरव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पु- रुहूत इत्येवंपरं बनवतेति गोवर्धनगिरेविशेषणं काननवत्त्वान्निर्झरादिमत्त्वा- छ पुष्पमूलफलतृणादिभिरारण्यकानामस्माकमसद्धनानां गवां चायमेव र. क्षक इत्यभिप्रायगर्भम् । एवमत्र साभिप्रायैकविशेषणविन्यासस्यापि विच्छि- 'त्तिविशेपवशादस्य साभिप्रायस्यालंकारस्वसिद्धावन्यत्रापि सुधांशुकलितोतं- स इत्यादौ तस्यात्मलाभो न निवार्यते । भपिच एकपदार्थहेतुकं काव्यलिङ्ग- मलंकार इति सर्वसंमतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंका- रत्वं युक्तमेव ॥ ६॥ शेति ॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थत्वस्य दोषत्वाभावे- नेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः । विच्छित्तिश्चमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः । तत्र दोष- स्याप्रसक्तया विच्छित्तिविशेषस्य तदभावप्रयुक्तत्वासंभवात्तत्प्रयोजकमलंकारत्व- मावश्यकमिति भावः । यमकस्थले उदाहरति-यथेति ॥ निजां देवतामति- क्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्यवते भ्रश्यति, अघं पापमपि जुषते सेवते । प्राप्नोतीति यावत् । का निजा देवता तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैवतस- हिताः । स एवास्माकं दैवतमित्यर्थः। अनवताऽरक्षकेण अहिगुहा इन्द्रेण । कि प्रयोजनमिति शेषः । अहिषत्रासुरः । 'अहिवामरे सर्प' इति विश्वः। नन्वेव सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोत्तंस इत्यादावत आह- एवमिति ।। विच्छित्तिविशेषेति दोपाभावप्रयुक्तविपिछनिया नेत्यर्थः । ननु यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्यं तु पर्युद- स्तदोषाभावेनाप्युपपन्नम् । आपत्कालपर्युदस्तस्य मृच्छौचहीनतादोषस्याभावेने- व तदानीमपि मृच्छौचकर्तुरतिशयाधानमिति नालंकारत्वसिद्धिरित्यत आह- अपिचेति ॥ 'भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्प- रे गिरिसुताकान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- 'लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामो- हत्वे सुखालोकोच्छेदिनीत्येकपदार्थों हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा खी- - ७ कुवलयानन्दः। [श्लेषालंकारः २६ परिकराकुरालंकारः २५ साभिप्राये विशेष्ये तु भवेत्परिकराहुरः । चतुर्णी पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६२॥ अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामाभिप्रायगर्भम् । यथावा- फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः काहमेष क ते गुणाः ॥ फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनायभिप्रायगर्भाणि ॥ २ ॥ श्लेषालंकारः २६ नानार्थसंश्रयः श्लेषो वर्ष्यावर्यो याश्रितः । सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६३ ॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना । उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥ ६४ ॥ कृतं न तु निर्हेतुत्वदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहा. पीति भावः ॥ ६१॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥ साभिप्राय इति ।। अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववल्लक्षणं बोध्यम् । तच्च परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति-अत्रे- ति ॥ यद्यपि देवान्तरव्यावतर्कतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधा- रणदेवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदत्वमभिमतं बोध्यम् । असंदिग्धमुदाहरति-फणीन्द्र इति ॥ राजानं प्रति कवेरुक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः कार्तवीर्यः । आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मर्त्यधर्मः । अहं व ते गुणाः क्वेति क्वशब्दौ महदन्तरं सूचयतः । सहस्रमुखत्वादीत्यादिना सहस्रबाहुत्वसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभि- प्रायगर्भत्वं विशेषः ॥ ६२ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥ श्लेष लक्षयति-नानार्थेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनं श्लेष इति लक्षणम् । वयेत्यादि विभागः । वये चावयं च वर्ष्यावर्योभयं च एतत्रयाश्रि- तस्तद्विषय इत्यर्थः ॥ सर्वेति ॥ सर्वदः स माधवः पायात् । यः अगं गोवर्ध- नपर्वतं गां पृथ्वी च वराहावतारे धृतवानिति विष्णुपक्षे। हरपक्षे तु स उमाधवः सर्वदा पायात् । यो गङ्गां धृतवानित्यर्थः । हरिणेन मृगेणाङ्करूपतया आहिता कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे । हरिणा गणिनि म । उच्चरच्छत्रपा- १ 'प्रायविशेषश्चेत्'. २ 'उभयाश्रयः'. ३ 'शक्तिना'.

श्लेषालंकारः २६] अलंकारचन्द्रिकासहितः । अनेकार्यशब्दविन्यासः शेषः । सच त्रिविधः। प्रकृतानेकविषयः मप्रकृ. तानेकविषयः प्रकृताप्रकृतानेकविषयत्र । सर्वदेवादिकमेणोदाहरणानि । तत्र सर्वदो माधव इति स्तोतग्यत्वेन प्रकृतयोहरिहरयोः कीर्तनं प्रकृतश्लेषः । भब्ज कमलमब्जश्चन्द्रस्खयोरुपमानमात्रत्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः। पतिः सेनापतिः समुद्रश्च । तत्र समितौ शस्त्रप्रहारोत्पतदुधिरस्य से- नापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्लेषः । यथावा- प्रातः काकोदरो येन द्रोग्धापि करुणात्मना। पूतनामारणाख्यातः स मेऽस्तु शरणं प्रभुः ॥ नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः। सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥ असावुदयमारूढः कान्तिमानक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति । तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेषः । द्वितीये उपमानत्वेना- प्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनप्र. स्तावे प्रकृतस्य प्रत्यमोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः श्लेषः । यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्र- कृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्गयत्वाभिप्रायं न स्वप्रकृता. तैरुद्गच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां न- दीनां पतिः समुद्रश्चेति । पक्षे कीलालं जलम् । समिती संग्रामे ॥त्रात इति ॥ येन करुणायुक्तान्तःकरणेन द्रोहकर्तापि अदरो भयशून्यः काकस्त्रातो रक्षितो न तु हतः । से पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्त्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः पूतनाया राक्षस्या मारणेन ख्यात इति शेषः ॥नी- तानामिति ॥ दयितां प्रति नायकोक्तिः । तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदृशे स्त इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धि प्राप्ता- नाम् । तथा लुब्धैः लोभशीले रिभिः शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे । हरिणपक्षे तु लुब्धैः व्याधैः । कर्तृभिः । भूरिशिलीमुखै- र्बाणैः । करणभूतैः। आकुलीभावं चपलतां नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥ असाविति ॥ उदयं शैलमभिवृद्धिं च, रक्तं रक्तवर्णमनुरक्तं च, मण्डलं बिम्ब देशश्च, राजा चन्द्रो नृपश्च, मृदुलैरभिनवैरल्पैश्च, करैः किरणैाह्यध- नैश्च ॥ प्रत्यग्रोदितेति ॥ अभिनवोदितेत्यर्थः । ननु प्रकरणेनाभिधाया नियम- नादप्रकृतार्थस्य व्यङ्ग्यत्वमेवेति कथं श्लेष इत्याशङ्कयाह-यदिति ॥ अलंकार- स्येति ॥ न चैवं शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इति वाच्यम् । 'शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽ- नुदारश्च ॥' इत्यत्र शनिविरुद्धरूपे तुने::नि नागिपणा प्रतीयमानेऽपि त- न्मूलकस्य विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति वस्तुध्वनेरशनिशब्द- , ७६ कुवलयानन्दः। [श्लेषालंकारः २६ र्थस्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वा. वश्यंभावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाझटिति बुद्धिस्थे सत्येव पश्चान्नपतितद्वाह्यधनादिवाचिनाराजकरादिपदानामन्योन्यसंनिधानब- लात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रस्तुतार्थः स्फुरेत्। न चैतावता तस्य व्यङ्ग्य- त्वम् । शक्तया प्रतिपाद्यमाने सर्वथैव व्यत्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभि- धाने पश्चात्स्फुरति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढः श्लेषः। अयमतिजरठाः प्रकामगुरिलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिकरिकास्तटीविभर्ति ॥ मन्द्रमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरज सिषेविरे दोषमोषधिपतेरसंनिधौ ॥ अत्र हि समासोत्त्युदाहरणयोःप्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे विशषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते । तत्र समासो. क्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या । यथावा- रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः । व्यक्तिमूलस्य संभवात् । अलंकारस्येयस्योपलक्षणत्वात् । अन्योन्यसंनिधानबला- त्परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधिबलात् । तथा नारले मिनिसागमन भावः । एतावता पूर्वापरभावमात्रेण तस्याप्र- कृतार्थस्य गूढश्लेष इति । गूढत्वं चाप्रानन्येन द्वितीयार्थस्य शीघ्रमप्रत्ययात् ॥ अयमिति॥माघे रैवतकगिरिवर्णनम् । अयं गिरिस्तटीबिभर्तीत्यन्वयः । किंभूताः। अतिजरटा अत्यन्तं कठिनाः । प्रकामगुवरितिमहत्यः । अलघुनि लिम्बमानर्मेघे ाप्ताः । निरन्तरं प्राणिनामगम्यरूपाः । परिणता तिर्यग्द.. हारिणो दिग्गजा यासु ताः । वृद्धवेश्यापक्षे तु जरटा जीर्णाः पयोधराः कुचाः । अगम्याः सङ्गमा- योग्याः। परिणते प्रकटे दिकरिके यासां ता इत्यर्थः । दिग्वर्तुलं दशनक्षतं करिका नखक्षतम् । 'दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका।' इति यादवः ॥ मन्द- मिति ॥ ओषधीनां पत्युश्चन्द्रस्यासंनिधौ सत्यर्यमोपलाः सूर्यकान्ता मन्दीभूत- मग्निं धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरज दोषमान्ध्यं सिषेविरे। पक्षान्तरे ओषधिपतिवैद्यः । एवं मन्दाग्नित्यशोथतिमिराणि रोगविशेषाः । वृत्तान्तादिरित्यादिपदाद्रोनिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गलेष इति ॥ तथाच श्लेषस्थले व्यञ्जनाविरहादप्रकृते तत्स्वीकारे श्लेषव्यवहारः सर्वे. षामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माघ एव द्वारकावर्णनम् । यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त से- वितवन्तः । किंभूताः । रम्या इति हेतोः पताका वैजयन्तीः । प्राप्तवतीः वि- विक्ता विजनाः इति हेतोः राग रतिं वर्धयन्तीः । नमन्ति वलीकानि छादनप- - - श्लेषालंकारः२६] अलंकारचन्द्रिकासहितः। अत्र द्वितीयान्तविशेषणसमर्पितार्थान्तराणां न शब्दसामर्थ्येन वधूभिर- न्वयः विभक्तिभेदात् । नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह निबद्धमस्ति । यतः- 'एतस्मिनधिकपयाश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । पाल्मीकेररहितरामलक्ष्मणानां साधयं दधति गिरां महासरस्यः॥' इत्यत्रेवाक्षिप्तश्लेषो भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्यु- पपन्नम् । वधूषु श्लिष्टविशेषणार्थान्वयात्प्राक् द्रागप्रतीतं साम्यं नालम्बते । तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसंधानमिति गूढश्लेषः । तदनु तबलादेव समशब्दस्य साधार्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं प्रपञ्चन । तस्मात्सिद्धं श्लेषनैविध्यम् । एवंच श्लेषः प्रकारान्तरेणापि द्विविधः संपन्नः । उदाहरणगतेष्वब्जकीलालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं पदभङ्गमनपेक्ष्यानेकार्थकोडीकारादभङ्गः । सर्वदो माधवः यो गङ्गां हरिणा- हितशक्तिनेत्यादिशब्देषु परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थकोडीकारा- त्सभङ्गः श्लेष इति । तत्र सभङ्गश्लेषः शब्दालंकारः, अभङ्गश्लेषस्त्वर्थालंकार टलप्रान्ता यासां ताः । वधूपक्षे पताकाः सौभाग्यानि । “पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङ्कयोः' इति मेदिनी । रागमनुरागम् । विविक्ताः सतीत्वेन पवित्राः नमत्रिवलीकाश्चेति ॥ नचेति ॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो भवे- दित्यग्रेतनेनान्वयः ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम् । एतस्मि- निगरौ महत्यः सरस्यः वाल्मीकेर्मुनेर्गिरां साधय सादृश्यं दधति धारयन्ति । किंभूतानां गिराम् । अरहितौ संबद्धौ रामलक्ष्मणी यासु तथाभूतानां । सरसी- पक्षे अरहिताः संयुक्ताः रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनिता यासु ता इति । किंभूताः सरस्यः । अधिकां जलशोभां वहन्त्यः पवनसंभूतेन वेगेन संक्षोभं तरङ्गाकुलत्वं नीताः प्रापिताः । वामीकि.गिरस्तु । अधिकाः कपयो यासु ताः पवनभुवो हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति ॥ नन्वत्रापि सममित्यस्य तुल्यार्थत्वात्साधर्म्यनिवन्धोऽस्तीति कुतो न श्लेषाक्षेप- स्तत्राह-सममिति ॥ द्राक् शीघ्रं साम्याथै साम्यार्थकत्वम् । तथा चानुप- पत्त्यभावांत्तन्मूलक आक्षेपो न संभवतीति भावः । कथं तर्हि तदवगमस्तत्राह- अर्थसौन्दर्येति ॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसंधानात्तदन्वयता- त्पर्यग्रह इति भावः । तदनु श्लेषानुसंधानानन्तरम् । तद्बलाच्लेषबलात् ॥ साधार्थति ॥ साधर्म्यरूपार्थस्येत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादिवच्छब्दसाम्यस्य संभवादिति भावः। एवकारेण व्यङ्ग्यत्वव्यवच्छेदः । तत्र तयोर्मध्ये ॥ शब्देति ।। जतुकाष्ठन्यायेन 'शब्दयोरेव श्लिष्टत्वादिति भावः । अर्थेति शब्दाभेदादेकवृन्तगतफलद्वयन्याये- १ 'सक्तिनेति. :

कुवलयानन्दः । [अप्रस्तुतप्रशंसालंकारः २७ इति केचित् । उभयमपि शब्दालंकार इत्यन्ये । उभयमप्यर्थालंकार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ ६३ ॥ ६४ ॥ अप्रस्तुतप्रशंसालंकारः २७ अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुनाश्रया । एकः कृती शकुन्तेषु योऽन्यं शक्रान याचते ॥६५॥ यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि तत्राप्रस्तुतप्रशं. सालंकारः । अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सं- बन्धे सति भवति । संबन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा संभवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामा- न्यस्यावगतौ द्वैविध्यम् । कार्यकारणभावेऽपि कार्याकारणस्य कारणाद्वा कार्य- स्थावगतौ दैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः । यदाहुः- 'कार्ये निमित्त सामान्ये विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥' इति । तन सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसोदाहरणम् । एकः कृतीति । अत्राप्रस्तु- तचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनानिवृत्ते मानिनि पर्यवस्यति । यथावा- नार्थयोरेव श्लिष्टत्वादिति भावः । केचिदलंकारसर्वस्वकारादयः ॥ उभयम- पीति ॥ सभङ्गाभङ्गश्लेषद्वयमपीत्यर्थः । शब्दस्य परिवृत्त्यम बनान्वयव्यति- रेकाभ्यां तद्गतत्वावधारणादिति भावः । अन्ये मम्मटभटाः। पभिप्रायस्यार्थालं- कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशङ्कयाह- एतदिति ॥ यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते तथाप्यय- माशय उन्नीयते । चमत्कारेऽर्थमुखप्रेक्षित्वादर्थालंकारत्वमिति । अनुप्रासयम- कादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषामर्थालंकारत्वमपि तुशब्दवै- चित्र्याच्छब्दालंकारत्वमेवेति ॥ ६३ ॥ ६४ ॥ इति श्लेषप्रकरणम् ॥ २६ ॥ अप्रस्तुतेति ॥ सा अप्रस्तुनप्रशंमा प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन तात्पर्यविषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः ॥ एक इति ॥ कृती कुशलः । शकुन्तेषु पक्षिषु मध्ये यश्चातकः शक्रादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचः प्रतिपादनं निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य । एवं सामान्ये प्रस्तुते सति तदन्यस्य विशेषस्य विशेषे प्रस्तुते सति तदन्यस्य सामान्यस्य तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः । अन्यशब्दस्य प्रतिसंबन्धिपरत्वात् । तत्सरूपे तत्स- अप्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः । ७९ आबद्धकृत्रिमसटाजटिलांसभित्ति- रारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य । अत्र शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहा- रादिमात्रेण विद्वत्ताभिनयवति वैधेये पर्यवस्यति । यथावा- अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन्मकुरा गुणाः ॥ अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सुभ्रातृपुत्रादि- भिरन्त: कलहं कुर्वाणे पुरुषे पर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्रशंसा- शब्दः स्तुतिनिन्दास्वरूपाख्यानसाधारणकीर्तनमानपरो द्रष्टव्यः । सामान्य. निबन्धना यथा- विधाय वैरं सामर्षे नरोऽरी य उदासते । प्रक्षिप्योर्षि कक्षे शेरते तेऽभिमारुतम् ॥ अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैर दृढीकृतवता कृष्णेन त स्सिनुदासितुमयुक्तमिति वक्तव्येऽर्थे प्रस्तुते तत्प्रस्यायनार्थ सामान्यमभिहितम्। यथावा- सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुषाम् । परोक्षमिति कोऽप्यस्ति परीक्षानिकषोपलः॥ अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा स्वमुत्तमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम् ॥ विशेषनिबन्धना .. यथा- दृशे ॥ आबद्धति ॥ आबद्धाः याः कृत्रिमाः सटाः स्कन्धलोमानि तैर्जटिला व्याप्ता अंसभित्तिः स्कन्ध्रदेशो यस्यैवंभूतः श्वा शुनको मृगपतेः सिंहस्य पदवीं स्थानं यद्यारोपितः । तादृशसटायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यगनिनोर रिणा- नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः । अभिनयवत्यनुकुर्वतीति सप्त- म्यन्तम् । वैधेये मूर्खे । 'मूर्खवैधेयबालिशाः' इत्यमरः ॥ अन्तरिति ॥ छिद्राणि रन्ध्राणि दोषस्थानानि च । कण्टकाः शूकाः खलाश्च । भारा भङ्गशीलाश्च । गुणाः सौभाग्यादयस्तन्तवश्च । अत्र स्तुतिनिन्दोदासीनखरूपाख्यानमात्रमिति श्लिष्टविशेषणत्वमिति च भेदः ॥ एवंचेति ॥ उक्तोदाहरणेषु प्रस्तुतपरस्याप्र- स्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः ॥ विधायेति ॥ ये नरा मनुष्याः सकोधेऽरौ शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृणे उदर्चिषममिं निक्षिप्याभिमारुतं पवनाभिमुखं शेरते। निद्रा कुर्वन्तीत्यर्थः ॥ सौहार्देति ॥ सौहार्दानि मैत्राण्येव ८० कुवलयानन्दः । [अप्रस्तुतप्रशंसालंकारः२७ अधिरोपितमृगश्चन्द्रमा मृगलाम्छनः । केसरी निठुरक्षिप्तमृगयूथो मृगाधिपः ॥ अत्र कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण क्रूर एक ख्यातिभाग्भवति न तु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः । एवं बृहत्कथादिषु सामान्यतः कंचिदर्थ प्रस्तुत्य तद्विव. रणार्थमप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या ॥कारणनि- बन्धना यथा- हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते तगम्भीरखनीखनीलिम ॥ अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ सारांशहरणेन तस्कार्यरूपं वर्णनीयतयाप्रस्तुतं दमयन्तीवदनगतलोकोत्तरं सौन्दर्य प्रतीयते । यथावा मदीये वरदराजस्तवे- आश्रित्य नूनममृतधुतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि स्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचन्द्रकर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन तत्कार्यमनन्तकोटिचन्द्रलावण्यशालित्वमनन्यमुखसाधारणं भगव- न्मुखे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चन्द्रस्तावन्मन्त्रलिङ्गाद्वृद्धिक्षया- भ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णितः । तेनातीताश्चन्द्रा अनन्तकोटय इति लब्धम् । कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमान- यणं श्लेषमहिना भगवचरणसमाश्रयत्वेनाध्यवसितम् । भगवञ्चरणं प्रपक्षानां च देहक्षयोपस्थितौ परमपदप्रात्याभिमुख्यं तदानीमेव स्वतुह दर्गे स्वकीय- सुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्वं श्रुतिसिद्धमिति तद- नुरोधेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तः प्रा- वर्णरेखा इति रूपकम् । तासां परीक्षणे निकषोपल: परोक्षमिति संज्ञितः कोऽप्य- स्तीत्यन्वयः ॥ अङ्केति ॥ मृगलाञ्छन इत्युच्यत इति शेषः । निष्टुरं क्षिप्तानि निरस्तानि मृगयूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः॥ हृतेति ॥ धृतो गम्भीरायां खन्यां गर्ते खस्याकाशस्य नीलिमा येनेति मण्डल- विशेषणम् ॥ आश्रित्येति ॥ हे देव, प्रतिमासं भिन्ना अमृतद्युतयश्चन्द्रास्ते विष्णोः पदमाकाशमेव पदं चरणमाधिल देहस्य क्षये उपनतं संपन्नं दिव्यपदस्या- भिमुखत्वं येषामेवंभूताः संतस्त्वदास्यरूपे सुहृदि मित्रे नूनं लावण्यस्वरूपस्य पु- ण्यस्य निचयं विन्यस्य मिहिरं सूर्य प्रति यान्तीत्यन्वयः ॥ मन्त्रलिङ्गादिति 'नवो नवो भवति जायमानः' इत्यादिमन्त्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तर- सिद्धार्थानुवादकत्वादाह-वृद्धीति ॥ श्रुतीति ॥ 'तत्सुकृतदुष्कृते विधुनुते अप्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः । ८१ प्रत्यक्षसिद्धं पुण्यत्वेन निरूपितस्य लावण्यस्य प्रहारणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुत्प्रेक्षितम् । य- द्यपि सुहृद्धहुरवे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्रसादृश्यगन्धस्यास्पदा- नीति भगवन्मुखस्थेतरमुखेभ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव सर्वेषां स्वस्खयावल्लावण्यविन्यसनोस्प्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव प्रतीयते । यद्यपि श्रुतौ सूर्यमण्डलप्रायनन्तरभाविविरजानदीक्रमणानन्तर- मेव सुहृत्सुकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्यार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम् ॥ कार्यनिब- न्धना यथा- नाथ स्वदछिनखधावनतोयलमा- स्तत्कान्तिलेशकणिकां जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुदनवनीतपदं प्रपन्नाः ॥ अत्र भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरित्यलक्तकरसादिवल्लमानां तया सह समुद्रं प्रविष्टानां तनखकान्तिलेशकणिकानां परिणामतया संभा- व्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नखकान्स्युत्कर्षः प्रतीयते। यथावा- अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं सल्लापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् । तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृतम्' इति कौषीतकिश्रुतिः । 'स यावक्षिप्येन्मनस्तावदादिलं गच्छतीति रा वायुमागच्छति स तत्र विजिहीते यथा रथचक्रस्य स्खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति' इति च श्रुतौ स आदित्यमागच्छतीत्यनन्तरं 'स आगच्छति विरजां नदी तां मनसैवात्येति तत्सुकृतदुष्कृते विधुनुते' इति श्रुतौ ॥ शारीरकेति ॥ शरीरे भवः शारीरः स एव शारीरक आत्मा तत्प्रतिपादक इत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्व पापादित्यागाभावेऽचिरादिमार्गप्राप्तिपूर्वकब्रह्मप्राप्तेरसंभवेन पाठक्रमस्यार्थक्रमेण बाधादिति भावः ॥ स्थापित इति ॥ 'सांपराये तर्तव्याभावात्तथा ह्यन्यः' इति नायाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति ॥ हे नाथ विष्णो, त्वचरणन- खक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्रं प्राप्ताः । ता एव च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनी- तस्य चन्द्रस्य पदं प्राप्ताः चन्द्ररूपेण परिणता इत्यर्थः । तया तद्वारेण तदित्य- नन्तरं हेतुरिति शेषः। 1.111 गुण इत्यर्थः ॥ अस्या इति॥ अस्याः कुवलयानन्दः । [अप्रस्तुतप्रशंसालंकारः२७ भङ्गानामकठोरता यदि षत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बसाम् ॥ अत्र नायिकागतिसौकुमार्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशा- न्यादिरूपाण्यौचित्येन संभाव्यमानानि कार्याण्यभिहितानि । एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किंतु तमिरीक्षणकार्याणि । 'लजा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः। तं केशपाशं प्रसमीक्ष्य कुर्युलिप्रियत्वं शिथिलं चमर्यः ॥' इत्युदाहरणान्तरे तथैव स्पष्टम् । अङ्गानामकठोरतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नाक्षेप्यमालतीकठोरत्वे विवक्षितम् । प्रतियोगिविशेषापेक्षकठोरस्वस्य सदकार्यस्वास्किंतु तदुहेरेव । इदमपि स्वदङ्गमार्दवे दृष्ट इत्याधुदाहरणान्तरे तथैव स्पष्टम् ॥ अर्थस्य कार्य- त्व इव बुद्धेः कार्यस्वेऽपि कार्यनिबन्धनत्वं न हीयत इति । एतादृशान्यपि कामिन्या गतिसौकुमार्य दृष्टं चेदित्यध्याहारेणान्वयः । एवं संलापो भाषणं यदि श्रुतस्तदा परभृतैः कोकिलैः वाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं धार्यतां साध्यताम् । अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती दृषत्प्रायैव पाषाणतल्यैव लक्ष्यत इति । कान्तिदृष्टा चेत्तदा कमला लक्ष्मीः का- षायं वस्त्रमालम्बतामाश्रयतु । किमत्र बहुनोक्तेनेत्यन्वयः । गत्यादिषु गतिसौ- न्दर्यादिषु । संभाव्यमानान्युत्प्रेक्षमाणानि । पूर्वोदाहरणाद्वैलक्षण्यमाह- एतानीति ॥ कार्याणीत्यर्थः ॥ लजेति ॥ तिरश्चां पश्वादीनां चेतसि यदि लज्जा स्यात्तदा चमर्यो गोमृगाः पर्वतराजपुत्र्यास्तं तथा रमणीयं केशपाशं प्र. समीक्ष्य वालाः केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं व भारत्यन्वयः ॥ तथैव निरीक्षणकार्यत्वमेव ॥ अर्थाक्षेप्येति ॥ दपप्रायवः ।। पार्थाक्षिनेत्यर्थः। इदमप्यप्रस्तुतबुद्धेः कार्यत्वमपि । अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समु. चीयते । 'त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कटोरता ॥' इति तुल्ययोगितायां प्रागुदाहृतम् । ननु कार्यरूपेणाप्रस्तुतेनार्थन यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशंसोच्यते । न चोदाहतेषु तत्संभवः । मालतीकठोरत्वादेरप्रस्तुतस्यार्थस्याकार्यतायास्त्वयैव द- र्शितत्वात् । एवं प्रस्तुतस्य कामिनीगतिनिष्ठसौन्दर्यातिशयादेर्निरीक्षणस्यैव का- रणत्वेन स्वरूपतस्तस्याकारणत्वादित्यत आह-अर्थस्येति ॥ अयमाशयः । अर्थस्याग्रस्तुतत्वे सुतरां तद्बुद्धेरप्रस्तुतत्वात्कार्यत्वाच्च न तावदप्रस्तुतकार्यन्वां- शासंभवः । अर्थत्वस्य प्रयोजनाभावेन लक्षणेऽनिवेशादव्यावर्तकत्वाच्च । नापि प्रस्तुतस्य कारणत्वांशस्यासंभवः । स्वरूपतस्तस्याहेतुत्वेऽपि ज्ञानस्य हेतुत्वादिति। ननु गतिसौन्दर्यादेानमेव हेतुर्न तु ज्ञायमानं गतिसौन्दर्यादि । तदभावेऽपि मप्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः । ८३ कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहृतानि प्राचीनः । वस्तुतस्तु तदतिरेके- ऽपि न दोषः। नाप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते । संवन्धान्तरेष्वपि दर्शनात् । यथा- तापत्रयोषधवरस्य तव सितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्करचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥ अत्र प्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्यवि- शेषकडङ्करचयस्योस्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युस्कर्षः प्रतीयते । नच धान्यकडकरचययोः कार्यकारणभावादिसंबन्धोऽस्ति । अतः सहोत्पत्यादिकमपि संबन्धान्तरमाश्रयणीयमेव । एवमुपमानोपमेयावाश्रित्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्य- त्रापि दृश्यते । यथा- कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि कमा- च्छत्रोमें नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपरन्याः । मालिन्यं तर्हि कस्मादनुभवसि मिलत्कजलैर्मालवीनां नेत्राम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः॥ भत्र किमासां समजनीति मालवीनां तथा रोदनस्य निमित्त पृष्ठे तत्प्रि- यमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभि- हितमिति कारणनिबन्धना । मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते . ज्ञानमात्रात्कार्योत्पत्तेरित्यखरसादाह-वस्तुतस्त्विति ॥ तदतिरेके तस्याः प्राचीनोदाहृताप्रस्तुतप्रशंसाया अतिरेके प्रकारपञ्चकाधिक्ये ॥ तापेति ॥ हे हरे, तव निःश्वासरूपमन्दमारुतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप- स्याध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाः कडकरचयाः बुससमूहा इवैते जैवातृकस्य चन्द्रस्य किरणा जगति श्रमन्तीत्यन्वयः । तत्सारतारूपः किरण- सारतारूपः । एवमिति ॥ हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेय- पदार्थावाश्रित्य चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणत्वम् । एवमन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति ॥ नर्मदायाः समुद्रस्य च संवादोऽयम् । तत्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतं नर्मदाया उत्तरम् । हे कुम्भोद्भवागस्त्यमुने बहीति । ततः पुनः समुद्रस्य प्रतिवचनम् । अहं जल- धिर्भवामि मम शत्रो म कस्म तीति । सा पुनराह । नर्मदाहमित्यादि। ततः समुद्रः पुनराह । तर्हि कुतो मालिन्यमनुभवसीति । सा पुनराह । मिल- कजलैर्मालवदेशाङ्गनानां नेत्राश्रुभिरिति । ततः किमासां जातमिति समुद्रस्य - कुवलयानन्दः। [प्रस्तुताङ्करालंकारः२८ नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रभोत्तररूपं कार्यमभिहि- तमित्यत्रैव कार्यनिबन्धनापि पूर्वस्या प्रश्नः शाब्दोऽस्थामार्थ इति भेदः॥६५॥ प्रस्तुताङ्कुरालंकारः २८ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः। किं भृक्ष सत्यां मालत्यां केतक्या कण्टकेद्धया ॥६६॥ यत्र प्रस्तुते वय॑मानेनाभिमतमन्यत्प्रस्तुतं चोत्यते तत्र प्रस्तुताङ्करालं- कारः। उत्तरार्धमुदाहरणम् । इह प्रियतमेन साकमुद्याने विहरन्ती काञ्चि- भृङ्ग प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतस्वम् । न चानामन्त्रणीयामन्त्रणेन वाच्या- संभवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौग्व्यादिना भृङ्गादावप्यामन्त्रणस्य लोके दर्शनात् । यथा- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिद कैथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥ इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामश्रणस्यात्यन्तमसंभावितत्वाभावात् एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपालम्भरूपेण वयाः कुलवध्वाः सौन्दर्याभि- प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरन् ॥ ६५ ॥ इत्यप्रस्तुत- प्रशंसाप्रकरणम् ॥ २७ ॥ प्रस्तुति ॥प्रधानभूनप्रस्तुतान्तरांभिव्यजक प्रस्तुतवर्णनं प्रस्तुताकुराल- कारः । प्रस्तुतस्याभिव्यञ्जकत्वादङ्गुर इवाङ्कुर इति व्युत्पत्तेः ॥ किमिति ॥ हे भ्रमर, मालत्यां विद्यमानायां कण्टकेद्धया कण्टकव्याप्तया केतकया कि प्रयोजन- मिति प्रस्तुतेन भ्रमरवृत्तान्तेन मयि मनोहारिण्यां सत्यां किमु.. कारिण्या परव- नितयेति नायकवृत्तान्तः प्राधान्येन प्रस्तुतोऽभिव्यज्यते। कथमिह भृङ्गवृत्तान्तस्य प्रस्तुतत्वं तत्राह-इहेति।तथाच गंबो यकवान तान्नोऽपि प्रस्तुत इति भावः । अनामन्त्रीयामन्त्रणेन संवोध्यत्वायोग्यसंबोधनेन। वाच्यासंभवाङ्गसं- बोध्यकवाच्यार्थासंभवात् ॥ कस्त्वमिति ॥ शाखोटकतरुं प्रति कस्यचित्पथि- कस्य प्रश्नोक्तिः । कथयामीत्याद्युनरम् । वैराग्यादिव वदसीति पुनः प्रश्नः । साधु विदितमिति शाखोटकस्योत्तरम् । कस्मादिदं वैराग्यमिति पुन: प्रश्नः । कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह । वामभागेनोपलक्षितोऽत्र व- टोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभिः सेवते आश्रयति । मम पुनर्मार्गे स्थितस्यापि न छायापि परोपकार संपादिकति भूताधारत्वादिति भावः । वामेनेति मार्गेति च श्लिष्टम् । अल्यन्तमारोपेणापि । परवनितायामिति १ 'कण्टकस्थया'. २ 'दिदं भाषते'.

प्रस्तुताङ्कुरालंकारः२८] अलंकारचन्द्रिकासहितः। ८५ मानशालिन्याः क्रूरजनपरिवृत्तिदुष्पवर्षायां परवनितायां विटसर्वस्वापहर- णसंकल्पदुरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकरूपायां प्रवर्तमान प्रि- यतमं प्रत्युपालम्भो चोत्यते । यथावा- भन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि कि नवमल्लिकायाः॥ अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुत- त्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिका रतये क्लेशयति कामिनि शृण्व- ति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते ॥ यथावा- कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं धत्ते चूतलता नवं किसलयं पुस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥ अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशन दीपिकायास्तट इत्येनन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे स्वयमेव कविनाविष्कृतम् । अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः । . भप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तत्राभिधायाम- पर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्रा- भिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्वनिरेवेति । वस्तु- वेश्यायामिति च विषयसप्तमी । तद्विषय इत्यर्थः । विटानां सर्वस्खाहरणे यः संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम् ॥अन्येति ॥ हे भृङ्ग, अन्यासूपमर्दक्षमासु सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति। लोलं चपलं मनो विनोदय । लोलमिति क्रियाविशेषणं वा । नवमल्लिकाया लता- विशेषस्य बालामभिनवामसंजातरजस्कां कलिकामकाले व्यर्थ किमिति कदर्थय- सि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च ॥ शृण्वतीति ॥ एतद्व- चनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकु- लथुगलं कादम्बस्य हंसस्य चच्चा क्षतं कृतक्षतं दधाति धत्ते तथेयं चूतस्याम्र- स्य लता नूतनं पल्लवं पुरूपैः कोकिलराखादितं चर्वितं धत्ते इति दीर्घिकाया वा- प्यास्तटे मिथः परस्परं सखीजनस्य वच आकर्ण्य सा प्रस्तुता नायिका कमल. मुकुलाम्रपल्लवव्याजेनैता मदीयस्तनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञात्वा चैल- स्य वस्त्रस्यान्तेन प्रान्तेन स्तनतट तिरोदधे, बिम्बरूपमधरं च पाणिना तिरोदध आच्छादितवतीत्यन्वयः ॥ अन्यापदेशेति ॥ अन्यस्यापदेशो मिषं यत्र ताह- शमित्यर्थः । तदीयमेव ग्रन्थं दर्शयति-अप्रस्तुतेत्यादि । व्यवस्थापित- - ८६ कुवलयानन्दः। [प्रस्तुताङ्कुरालंकारः२८ तस्त्वयमप्यलंकार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम् । तृती- योदाहरणस्य त्वलंकारत्वे कस्यापि न विवादः । उक्तं हि ध्वनिकृता- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्खोच्या सान्यैवालंकृतिलनेः ॥' इति । एतान्यपि सारूप्यनिवन्धनान्युदाहरणानि संबन्धान्तरनिबन्धनान्यपि कथंचिद्वाच्यव्यङ्ग्ययोः प्रस्तुतत्वनिबम्धनेनोदाहरणीयानि । दिजात्रमु- दाहियते- रात्रिः शिवा काचन संनिधत्ते विलोचने जानतमप्रमत्ते समानधर्मा युवयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥ अत्र शिवसारूप्यमिव तदेकदेशतया तद्वाच्यं ललाटलोचनमपि शिवरा- त्रिमाहात्म्यप्रयुक्तस्वेन वर्णनीयमिति तन्मुखेन कृत्स्नं शिवसारूप्यं गम्यम् । यथावा- वहन्ती सिन्दूरं प्रबलकवरीभारतिमिर- विषां वृन्दैर्वन्दीकृतमिव नवीनार्ककिरणम् । तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ॥ अत्र वर्णनीयस्वेन प्रस्तुतायाः सीमन्तसरणेदनसौन्दर्यपरीवाहत्योत्प्रेक्ष- णेन परिपूर्णतटाकवरपरीषाहकारणीभूता स्वस्थाने अमान्ती बदनसौन्दर्यस- मृद्धिः प्रतीयते । सापि वर्णनीयस्वेन प्रस्तुतैव ॥ यथावा- अङ्गासशिमृणालकाण्डमयते भृशावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्वाहते। मिति ॥ प्रस्तुतत्वेऽपि मुख्यतया तात्पर्याभावादत्राप्यभिधा' संवसानाभावा- दिति भावः ॥ सान्यैवेति ॥ सा अलंकृति नेः म. शादन्यैवेत्यर्थः । प्रस्तुतत्वलम्भनेन प्रस्तुतत्वप्राप्त्या ॥ रात्रिरिति ॥ हे विलोचने, शिवा कल्याणरूपा काचनानिर्वचनीयप्रभावा रात्रिः । शिवरात्रिरित्यर्थः । संनिधत्ते संनिहिता भवति । अतो युवा अप्रमत्ते जाग्रतं जाग्रद्रूपे भवतम् । कुतस्तत्राह । युवयोः सकाशे समीपे अचिरेण समानधर्मा सदृशः सखा कश्चि- द्भविष्यति । तृतीयं लोचनं भाले भविष्यतीत्यर्थः । तदेकदेशतयेति शिवरात्रि माहात्म्यप्रयुक्तत्वे हेतुः । तच्च वर्ण्यते । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवं चैकदेश्येकदेशभावसंबन्धनिबन्धनत्वमत्र दर्शितम् ॥ वहन्तीति ॥ भगवत्याः नीमन्नवर्णनमिदम् । अयि शिवे, तव सीमन्तसरणिनः क्षेमं तनोत्वित्यन्वयः । कीदृशी । सिन्दूरं वहन्ती । किमिव । प्रबलानां केगपाशम्पान्धकारदीपीनां समूहैर्वन्दीकृतं बालार्ककिरणमिव । सरणिः । केव । त्वद्वदनसौन्दर्यलहरीणां परीवाहरूपा स्रोतसः सरणिरिवेति । परीवाहो जलनिर्गममार्गः । 'जलोच्छासाः परीवाहाः' इत्यमरः ॥ अङ्गेति ॥ विरहसंतापवर्णनम् । अङ्गसंबद्धं मृणालका- - पर्यायोक्तालंकारः२९] अलंकारचन्द्रिकासहितः । ८७ दत्तेयं हिमवालुकापि कुच्चयोर्धत्ते क्षणं दीपतां तप्ताय:पतिताम्बुवकरतले धाराम्बु संलीयते ॥ अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय संतापवस्कार्याणि मृणाल- मालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यत्र कार्यमुखेन कारणस्थावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किं स्वनुमानमेव । यथा- परिम्लानं पीनस्तनजधनसङ्गादुमयत- खनोर्मध्यस्थान्तः परिमिलनमप्राप्य हरितम् । इदं व्यसन्यासं प्रशिथिलभुजाक्षेपवलनैः कृमाझ्याः संतापं वदति नलिनीपत्रशयनम् ॥ पर्यायोक्तालंकारः २९ पर्यायोक्तं तु गम्यस्य वचो भयन्तराश्रयम् । नमस्तसै कृतौ येन मुधा राहुवर्धकुचौ ॥ ६७ ॥ यदेव गम्यं विवक्षितं तस्यैव मजयन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा- ण्डं भृङ्गेभ्यो विशेषरहितां तत्समा रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिकं श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणे: पदवीं तत्साम्यं गाहते प्राप्नोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं दीपरूपतां धत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलव- संलीयते । तापानिशयाच्छोपं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धन- त्वं व्यक्तम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः । अयमित्यु- पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किं कृतस्तर्हि तत्र चमत्कारोऽत आह-किंत्विति ॥ परीति ॥ रत्नावल्यां खविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशाझ्याः संताप वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसंघादुभयत ऊर्ध्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तर्मध्यभागे हरित- वर्णम् । एवं प्रकर्षण शिथिलयोर्भुजयोराक्षेपैश्चालनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशमिति ॥ इति प्रस्तुताङ्गुरप्रकरणम् ॥ २८॥ ननु प्रम्नुनकार्याभिधानमुग्वेन कारणस्य गम्यत्वमपि प्रस्तुताङ्कुरविषयश्चेत्कि तर्हि पर्यायोक्तमित्याकाङ्क्षायामाह-पर्यायोक्तमिति ॥ वचः प्रतिपादनं भङ्ग्य- न्तराश्रयं भजयन्तरप्रकारकम् ॥ लक्षणं परिष्कुरुते-यदेवेति ॥ तथाच विव- क्षितखप्रकारातिरिक्तेन चारुतरेण रूपेण व्यङ्ग्यस्याभिधानं पर्यायोक्तमिति लक्ष- • णम् । पर्यायेण भङ्गयन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति व्युत्पत्तेः । लक्षणे १ गम्यश्चेदचो भङ्गयन्तराश्रयः.

८८, कुवलयानन्दः। पर्यायोक्तालंकारः २९ वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्यकारकत्वेन रूपान्तरेण स एवाभिहितः। लोकं पश्यति यस्याङ्गिः स यस्याविन पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥ अन गौतमः पतअलिश्च स्वासाधारणरूपाभ्यां गम्यो रूपान्तराभ्याम- भिहितौ । यथावा- निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् । पादौ कियदूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ अत्र कियहूरं जिगमिषेति गम्य एवार्थों रूपान्तरेणाभिहितः । यथावा- देवं वन्दे जलधिशरधि देवतासार्वभौम व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः । भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपालाः शतमखमुखाश्चन्दनदुर्मनोभूः ।। खपदं व्यङ्ग्यपरम् । नच व्यङ्ग्यस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका- रभेदात् । तदुक्तम्-'यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोच्यते' इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिर छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छे- दकारित्वरूपव्यङ्ग्यमादायैव पर्यायोक्तं वक्तुमर्ह न तु विशेषणसामर्थ्यलभ्यं वासुदेवत्वमादायेति । तदयुक्तम् । राहुशिरश्छेदकारित्वस्य वाच्य मिध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्यं प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् । 'राहुस्त्रीकुचनष्फल्यकारिणे हरये नमः' इत्यत्र तु राहुशिरश्छेदकारित्वमेव विव- क्षितं व्यङ्ग्यमिति युक्तं, न दादार गगीयोक्तमिति विभावनीयम लोकमिति ॥ यस्याक्षपादस्यार्लोिकं पश्यति । अथ च स लोको यस्य अले: शेषावतार- स्यानिं न पश्यति उरगत्वात् । ताभ्यामक्षपादपतञ्जलिभ्यामपरिच्छेद्या अना- कलनीया ॥ निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः । कर्तृ । निग; निगान गागानी इमौ पादौ कियदूरपर्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतनिवेद्यताम् । कथ्यतामित्यर्थः ।। देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जल- धिरेव शरधिस्तूणो यस्य तथाभूतं त्रिपुरसंहारे शरीकृतस्य विष्णोविश्रान्नि- स्थानत्वात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्टोऽग्यो येषां ते व्यास- प्रमुखा वसिष्टाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति । 'पुरोगाग्रेसरप्रष्ठाग्रतःसरःपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणत्वात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रो- द्माधारत्वात् । शतमख इन्द्रस्तत्प्रमुखा अम्यादयो दिक्पालाः शाटीपालना- धिकृताः दिगम्बरत्वेन दिशामेव शाटीरूपत्वात् । मनोभूश्चन्दनतरुः चन्दनस्था- पर्यायोनालंकारः२९] अलंकारचन्द्रिकासहितः । ८९ . अत्र यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि वद्वाक्यार्थव्यवस्थितौ वे. दत्वाचाकोरण गम्या एव वेदादयो ज्यासप्रमुखविनेयत्वासाकारेणाभिहिताः परंतु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावम्यत्यासेन प्रतिपा- दिताः । अत्रालंकारसर्वस्वकृतापि पर्यायोक्तस्य संप्रदायागतमिदमेव लक्षण- मङ्गीकृतं गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्कमिति । 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिङ्गनोहामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥ इति प्राचीनं तदुदाहरणं त्वन्यथा योजितम् । राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यत इति । एवंच गम्यस्यैवाभिधा- नमिति लक्षणस्यानुपपत्तिमाशङ्कयाह । यद्गम्यं तस्यैवाभिधानं लक्षणे विवक्षि- तमिति लक्षणं क्लिष्टगत्या योजितम् । लोचनकृता 'पर्यायोक्तं यदन्येन प्रका- रेणाभिधीयते' इतीदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभिहि. तेन कारणं व्यङ्गय प्रदर्य तत्र लक्षणं लक्ष्यं नाम च क्लिष्टगत्या योजितम् । वाच्यादन्येन प्रकारेण व्यङ्गयेनोपलक्षितं सचदभिधीयते तत्पर्यायेण प्रकारा- न्तरेण व्यङ्गयेनोपलक्षितमुक्तमिति सर्वोऽयं क्लेशः किमर्थ इति न विश्नः । नीयभस्मसंबन्धित्वात् । मदनभस्मना शिवेनाङ्गानामनुलेपनस्य पुराणेषु प्रसिद्धेः। अत्र लक्षणं संगमयति-अत्रेति ॥ व्यवस्थितौ विवक्षायां सत्याम् । अवगम्या व्यङ्ग्या ॥ विनेयत्वेति ॥ शिक्षणीयत्वेत्यर्थः । आदिना पाताल- गुप्तत्वादिपरिग्रहः ॥ अभिहिता इति ॥ वाहाद्यधिकृतत्वादिना व्यासादिप्रति- पत्तौ समानवित्तिवेद्यत्वेन व्यासादिविनेयत्वादेरपि तेष्ववगमादिति भावः । साक्षादेव व्यामादिबिने यन्वाद्याकारेण किमिति न निर्दिष्टा इत्याशङ्कयाह- परंत्विति ॥ यद्यप्युक्तविशेष्यविशेषणभावेऽपि देवतासार्वभौमत्वमवगम्यते तथापि स्फुटप्रतिपत्त्यर्थं तद्वैपरीत्यं कृतमित्यर्थः ॥ चक्रेति ॥ यो देवः सुदर्श- नचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य सुरतोत्सवमालिङ्गन- स्योद्दामा उद्भटा ये विलासास्तर्वन्ध्यं रहितं चुम्बनमात्रावशेष चकारेत्यन्वयः । विशिष्टेनोक्तविशेषणविशिष्टेन । एवं चेदृशोदाहरणयोजने च॥अनुपपत्तिमिति ।। गम्यस्य राहुशिरश्छेदस्य भङ्ग्यन्तरेणानभिधानादव्याप्तिमाशयेत्यर्थः ॥ अभि- धानायोगादिति॥अयमाशयः । अत्रहि राहुशिरश्छेदकारीति वासुदेव इति वा व्यङ्ग्यं राहुवधूजनसंबन्धितादृशरतोत्सवकारित्वेन प्रकारान्तरेणाभिधीयत इति न वक्तुं शक्यम्। धर्मिणो वासुदेवस्य प्रकान्तत्वेन यच्छब्दाभिहितत्वेन च व्यङ्ग्य- त्वायोगात् । व्यङ्ग्यस्य च राहुशिरश्छेदकारित्वस्य वासुदेवत्वस्य वा धर्मस्य प्रकारान्तरेणानभिधानात् । तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्तं वेति लक्षणार्थः । अभिधानमाक्षेपो ध्यअनं वा ॥ पर्यायोक्तमिति ॥ क्वचित्पर्या- योक्त इति पाठस्त्वयुक्तः । व्यङ्गयेनोपलक्षितमुक्तमिति व्याख्यानग्रन्थविरोधात् ॥ न विश्व इति ॥ यच्छब्दाभिहितस्यापि भगवतो वासुदेवत्वादिना रूपान्तरेण

९..
कुवलयानन्दः । [पर्यायोक्तालंकारः २९
प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि पक्राभि-
घातप्रसभाशयैवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरे-
णाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्त-
रीत्या प्रस्तुताङ्कर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनवन्ध्य-
त्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपे.
णावगमनं पर्यायोकस्य विषयः॥
पर्यायोक्तं तदप्याहुर्यन्याजेनेष्टसाधनम् ।
यामि चूतलता द्रष्टुं युवाभ्यामास्यतामिह ॥ ६८॥
अन्न नायिका नायकेन सङ्गमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या
तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथावा-
देहि मस्कन्दुकं राधे परिधाननिगृहितम् ।
इति विस्रंसयबीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥
व्यङ्ग्यतया यथाश्रुते बाधकाभावादिति भावः । न चाभिधाविषये कथं व्यञ्जनेति
वाच्यम् । वासुदेवत्वादिना प्रतीयमाने भगवत्यभिधाविषयत्वासंभवात् । तस्याः
खावच्छेदकधर्मेणैव बोधकत्वात् । अत एवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते
भवति लक्षणा।' इति । इह तु लक्षणाहेत्वभावाद्यन्जनोपगम्यत इति । ननु
प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्र-
तीतो चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति । तच्चालोच्यमानप्रस्तुतप्रशंसा-
या असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव खीकर्तव्यमित्याशयाह-यत्त्विति ।।
अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्करस्याप्यलंकारान्तरत्वादेवंविधशब्द-
खारस्यभङ्गेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः । संक्षेपतो दर्शितमपि
पर्यायोक्तविषयं विशदयति-प्रस्तुतेनेत्यादिना ॥ यत्तु भगवद्रूपेणावगमनं
विशेषणमर्यादालभ्यत्वेनासुन्दरं पर्यायोक्तस्य विषय इति तदा रितरमणीयम्।
नहि पर्यायोक्तव्यङ्ग्यसौन्दर्यकृतो विच्छित्तिविशेषः किंतु भङ्गयन्तराभिधानकृत
एव। व्यङ्ग्यं तु भङ्गयन्तराभिधानतो सुन्दरमेव प्रायशो दृश्यते । यथा इहागन्त-
व्यमिति विवक्षिते व्यङ्ग्ये अयं देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादावत-
स्तदसुन्दरत्वोद्भावनमकिंचित्करमेव । अलंकारसर्वस्वकारप्रन्थविरोधोद्भावनं तु
तच्छिक्षाकारिणं प्रति न शोभते उपजीव्यत्वाद्भावनमपि प्रन्थस्याकिंचित्करमेव ।
युक्तिविरोध इति परोत्कर्षासहिष्णुत्वमात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण
॥६७ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति-पर्यायोक्तमिति ॥ रमणीयेन
व्याजेन मिषेण स्वस्य परस्य वा इष्टस्य यत्साधनं संपादनं तदपि पर्यायोक्तम् ।
पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ संपादनेति ॥ संपादनरूपं यदिष्टं
तत्साधनं तत्करणमित्यर्थः ॥ देहीति ॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छा-
दितमित्यर्थः । एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम्॥६॥
इति पर्यायोकप्रकरणम् ॥ २९ ॥

व्याजम्नुत्यलंकारः३०] अलंकारचन्द्रिकासहितः । पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविलंसनव्याजेन स्वेष्टसाधन- मिति भेदः ॥ ६८॥ व्याजस्तुत्यलंकारः ३० उत्तिाजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वधुनि विवेकस्ते पापिनो नयसे दिवम् ॥ ६९॥ साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७० ॥ निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वधु- नीत्युदाहरणे विवेको नास्तीति निन्दाव्याजेन गङ्गा सुकृतिवदेव महापातका- दिकृतवतोऽपि स्वर्ग नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्तुतिः । साधु दूतीत्युदाहरणे मदर्थे महान्तं केशमनुभूतवत्यसीति व्याजरूपया स्तुत्या मदर्थे न गतासि किंतु रन्तुमेव गतासि । धिक्त्वा दूतिकाधर्मविरुद्ध- कारिणीमिति निन्दावगम्यते । यथावा- कस्ते शौर्यमदो योद्धं स्वय्येकं सप्तिमास्थिते । सप्तसप्लिसमारूढा भवन्ति परिपन्थिनः ॥ अर्धे दानववैरिणा गिरिजयाप्य शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥ उक्तिरिति । अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुत्या स्तुतेश्वोक्तिर- भिव्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोाजरूपा स्तुति- रिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्य- क्तिर्व्याजनिन्दाख्यमलंकारान्तरमित्यने वक्ष्यते । अत एवमाये प्रकारद्वये स्तुति- निन्दयोः समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो भेदाः । अन्त्यस्तु भिन्नविषयस्तुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दाभि- नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तुतिनिन्दान्यतरत्वं सर्वानुगतं बोध्यम् ॥ कस्त इति ॥ नृपं प्रति कवेरुक्तिः । त्वयि योद्धूमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः। त्वया संमुखाहताः सूर्यमण्डलं भित्त्वा दिवमुपगता इति स्तुतौ पर्यवसानम् ।। अर्धमिति ॥ शिवस्य देहाध दानवानां वैरिणा हरिणा आहृतम् । हरिहरात्म- १ 'पापिनं नयसे'.

९२ कुवलयानन्दः। [व्याजस्तुत्यलंकारः३० अत्राघोदाहरणे सप्तसप्तिपदगतश्लेषमूलनिन्दाव्याजेन स्तुतिय॑ज्यते । द्वि- तीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु- ध्यादि दारिद्यादि सर्व जाननपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते । सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहर- णम् । भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा- कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यातः कुत्र पुरागतः स हनुमानिर्दग्धलङ्कापुरः । बद्धो राक्षससूनुनेति कपिभिः संताडितो भसितः स वीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥ अत्र हनुमनिन्दया इतरवानरस्तुत्यभिव्यक्तिः ॥ स्तुस्या निन्दाभिव्यक्तिर्यथा- यद्वक्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम ततं तपः ॥ अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दाभिव्यज्यते । अयमप्र- स्तुतप्रशंसाविषय इत्यलंकारसर्वस्वकारः । तेनहि सारूप्यनिबन्धनाप्रस्तुत- प्रशंसोदाहरणान्तरं वैधयेणापि दृश्यते । यथा- कस्यैकस्य विग्रहस्य प्रसिद्धः। एवं गिरिजयाप्यवशिष्टार्धमाहृतम् । हे देव राजन्, इत्थमुक्तप्रकारेण जगतीतले स्मरहरस्याभावे समुन्मीलति प्रकाशमाने सति गङ्गा सागरं प्रत्यगमदित्याद्यन्वयः । नागाधिपः शेषः क्ष्मातलं पातालम् । त्वामिति पूर्वान्वितम् ॥ वैदुल्यादीति ॥ विद्वत्तादीत्यर्थः । आदिना तपःशीलादिपरिग्रहः । दारिद्यादीत्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः । नचात्र राजवर्णनप्रस्तावे कथं स्तुतेाजरूपत्वमिति वाच्यम् । स्तुतिपर्यवसानविवक्षायां खकायभिक्षाटनो- द्घाटनस्यासंगतत्वेन स्तुतेरुक्तनिन्दारूपोपालम्भपर्यवसानस्यानुभवसिद्धस्यावि. रुद्धत्वात् ॥ कस्त्वमिति ॥ अङ्गदं प्रति कस्यचिद्राक्षसस्य प्रश्नः । रामरूपस्य राज्ञो भवने लेखार्थस्य संदेशस्य वाहकोऽस्मीत्युत्तरम् । षुरा पूर्वमागतो निर्दग्ध- लकापुरः स हनुमान् कुत्र यात इति पुनः पूर्वस्य प्रश्नः । बद्ध इत्याद्युत्तरार्ध- मङ्गदस्योत्तरम् । राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिर्वानरैः सम्यक् ताडितस्तर्जितः स वनमृगो हनुमान् ब्रीडया लजया आत्तः प्राप्तः पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः॥ यदिति ॥ हे कुरङ्ग, यद्यस्माद्धनिनां मुखं मुहुर्मुहुर्वारंवार नेक्षसे न पश्यसि । मृषा मिथ्या चान् प्रियशब्दान्न वदसि । यति सर्वत्र संबध्यते । एषां धनिनां गर्वयुक्तवचन न शृणोषि । तान्धनिकान्प्रति आशया धनाशया न धावसि । परं केवलं काले १ 'संताडितस्तर्जितः'.

व्याजस्तुत्यलंकारः३०] अलंकारचन्द्रिकासहितः ।
धन्याः खलु वने वाताः कालाराः सुखशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्स्यनिवारिताः ॥
अन्न वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधम्र्येण प्रस्तुतोऽर्थः
प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति
दण्डी । यदाह-
'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥
अर्थैरयत्नसुलभैजेलदर्भाङ्कुरादिभिः ।
सेयमप्रस्तुतैवान मृगवृत्तिः प्रशस्यते ॥
राजानुवर्तनक्लेशनिर्विण्णेन मनखिना।' इति ।
वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तु-
तप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धग्याजस्तुत्युदाहरणेष्व-
प्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याज-
स्तुतिमात्रमप्रस्तुतप्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिवि-
वक्षयान्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्य-
स्तुतिरित्यर्थानुगमसद्भावात् । यथा-
शिखरिणि क नु नाम कियचिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥
अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिय॑ज्यते ॥ ७० ॥
-
क्षुधासमये खादसि भक्षयसि । निद्राया आगमे च निद्रां प्राप्नोषि । तत्तस्मात्कुत्र
तीर्थे किं नाम तपस्तप्तं तद्ब्रहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य । तेन हीत्यस्य
इति व्युत्पादितमित्यग्रेतनेनान्वयः ॥ धन्या इति ॥ कहारं जलपुष्पविशेषः
तत्संबन्धिनः काहाराः सुखयन्तीति सुखाश्च ते शीतलाश्चेत्यर्थः ॥अप्रस्तुतेति॥
अप्रकाण्डे अप्रस्तावे । तथा चाप्रस्तुता नासौ प्रशंसा चेति व्युत्पत्तिरिति भावः ।
न परसेविनोऽपरसेविनः । प्रशस्यते स्तूयते । मतद्वयेऽप्यखरसबीजं दर्शयति-
वस्तुतस्त्विति ॥ अभिव्यक्तिरिति ॥ योऽप्रस्तुतप्रशंसातो वैचित्र्यस्य
विषय आलम्बनभूतो विशेष इत्यन्वयः । अन्यथा ततो वैचित्र्येऽपि तदन्त-
र्भावाङ्गीकारे ॥ एवंचेति ॥ अन्यगतस्तुतिनिन्दाभ्यामन्यगतनिन्दास्तुत्यभि-
व्यक्तयोर्व्याजस्तुतित्वसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति ॥
नायिकां प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के ।
कनु कस्मिशिखरिणि पर्वते कियत्कालं चिरं किमभिधानं किंनामकं तपः
अकरोयेन हेतुना तवाधरवत्पाटलं रक्तवर्ण बिम्बफलं दशतीत्यन्वयः ॥ ७० ॥
इति व्याजस्तुतिप्रकरणम् ॥ ३०॥

कुवलयानन्दः । [व्याजनिन्दालंकारः ३१ व्याजनिन्दालंकारः ३१ निन्दाया निन्दया व्यक्तिव्जनिन्देति गीयते । विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः॥७१॥ अन हरनिन्दया विषमविपाकं संसारं प्रवर्तयतो विधेरभिव्यङ्गया निन्दा व्याजनिन्दा । यथावा- विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥ अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारच्याजस्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा । ननु यत्रान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दायाश्च प्रतीतिस्तत्र व्याजस्तुतिव्याजनिन्दालंकारयोरभ्युपगमे स्तुतिनिन्दारूपा प्रस्तुतप्रशंसोदा- हरणेष्वप्रस्तुतप्रशंसा न वक्तव्या । तेषामपि व्याजस्तुतिग्याजनिन्दाभ्यां कोढीकारसंभवादिति चेदुच्यते । यत्राप्रस्तुतवृत्तान्तारस्तुति निन्दारूपात्तत्स- रूपः प्रस्तुतवृत्तान्तः प्रतीयते अन्तश्छिद्राणि भूयांसोत्यादौ, तत्र लब्धाव- काशा सारूप्यनिबन्धनाप्रस्तुतप्रशंसा अत्रापि वर्तमाना न निवारयितुं शक्या । अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याज- निन्दे भपि संभवतश्चेत्कामं ते अपि संभवेताम् । न त्वस्याः परित्यागः । य- द्यपि विधिरेव विशेषगर्हणीय इति श्लोके विधिनिन्दया तन्मूलकाकनिन्दया चाविशेषज्ञस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा प्र. तीयत इति तत्र सारूप्यनिबन्धनाप्रस्तुतप्रशंसाप्यस्ति । तथापि सैव व्याज- निन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा । एवं व्याजनिन्दामूलकव्या- व्याजनिन्दा लक्षयति--निन्दाया इति ॥ यत्रान्यनिन्दयान्यस्य निन्दाया अभिव्यक्तिः पर्यवस्यति सा व्याजनिन्दा, इतरनिन्दाव्याजेन निन्देन व्युत्पत्तेः॥ विधे इति ॥ हे विधे ब्रह्मन् , प्राक् पूर्व ते तवैकमेव शिरो । अहरत् अ- च्छिनत् स एवार्थात् हरो निन्द्य इत्यन्वयः । निन्दयेत्यभिव्यङ्गयेत्यनेनान्वितं निन्दयाभिव्यङ्ग्यया विधेनिन्दा व्याजनिन्देत्यन्वयः । विषमविपाकं दारुणपरिणा- मम् ॥ विधिरेवति ॥ विशेषतो गर्हणीयः निन्दनीयः । हे करट काक, त्वं रट रटनं कुरु । योऽसौ विधिः आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवासं तव च- कारेत्यन्वयः । ननु केनाप्यालंकारिकेणानुक्काया व्याजनिन्दायाः कथमलंकारत्वे- नाङ्गीकरणमित्याशझ्याह-प्रतिबन्दीति ॥ तुल्ययुक्त्या प्रतिबन्दीस्थानीये- त्यर्थः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमाभावादनन्त वे पृथगल मारताना मामिलामा चीनैरनुक्तापि स्वीकर्तुमुचितेत्याशयः । प्रागुक्तयोरेकः कृती शकुन्तेष्वित्याबद्ध- कृत्रिमेत्यनयोरप्रस्तुतप्रशंसोदाहरणत्वासंगतिमाशङ्कते-नन्विति ॥ क्रोडीकारः खविषयीकरणम् । अन्यत्र लब्धात्मकस्यालंकारद्वयस्य क्वचित्संकरेऽपि न दोष इत्याशयेन समाधत्ते-योति ॥ एतच इत्यादावित्यनेनान्वितम् । अस्या अप्रस्तु- - व्याजनिन्दालंकारः३१] अलंकारचन्द्रिकासहितः । ९५ - जनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः। एवमेव व्याजस्तुतिमूलक- व्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते । यथावा- लावण्यदविणव्ययो न गणितः क्लेशो महानर्जितः खच्छन्दं चरतो जनस्य हृदये चिन्ताको निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्वेतसि संहृतोऽत्र विधिना तन्वीमिमां तन्वता ॥ अत्राप्रस्तुतायातहण्याः सृष्टिनिन्दाग्याजेन तबिन्दाग्याजेन च तत्सौन्दर्य- प्रशंसाप्रशंसनीयत्वेन कविविवक्षितायाः स्वकवितायाः सृष्टिनिन्दाग्याजेन तन्नि- न्दाव्याजेन च शब्दार्थचमत्कारातिशयप्रशंसायांपर्यवस्यति। अस्य श्लोकस्य वा- च्यार्थविषये यद्यपि नात्यन्तसामञ्जस्य, नहीमे विकल्पावीतरागस्येति कल्पयितुं शक्यम् । रसाननुगुणत्वाद्वीतरागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापि रागिण इति युज्यते । तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्ग- लोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्यात्यन्तमनुचितत्वाच स्वात्मनि तदनुरूपतासंभावनायामपि रागित्वे हि पशुप्रायता स्यात् । तथापि विवक्षितप्रस्तुतार्थतायां न किंचिदसामञ्जस्यम् । अतएवास्य श्लोकस्याप्रस्तु- तप्रशंसापरत्वमुक्तं प्राचीनः । वाच्यासंभवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥७॥ तप्रशंसायाः । सैव अप्रस्तुतप्रशंसैव॥लावण्येति ॥ इमां तन्वीं तन्वता सृजता. वेधसा चेतसि कोऽर्थः कामना विषयभूतो विनिहितोऽभिसंहितः । किं प्रयोजन- मुद्दिश्येयं निर्मितेत्यर्थः । नन्वनायासेनातिसुन्दरतन्वीनिष्पत्तिरेव प्रयोजनं तद- भावेऽपि वा लीलामात्रेण तन्निर्माण स्यादत आह-लावण्यत्यादि ॥ यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः । महान्क्लेशोऽर्जितः कृतः खे- च्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः । एषापि वराकी दीना स्वगुणानुरूपस्य वरस्याभावाद्धतेव हता नष्टप्राया। तथाच बह्वा- याससाध्यत्वादनिष्टानुबन्धित्वाच न तन्व्याः प्रयोजनत्वं नापि लीलामात्रेण त- निर्माणं च संभवतीति भावः । तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन । तत्सौन्द- र्यप्रशंसाशब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यतीत्यन्वयः । तनिन्दाव्याजेन खकवितानिन्दाव्याजेन । कविता सौन्दर्यरूपा । प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्क- थमस्य पद्यस्य तत्परत्वमित्याशङ्कामपनेतुं भूमिकामारचयति-अस्येत्यादि । रसाननुगुणत्वादिति ॥ वीतरागे शृङ्गारस्यासंभवादिति भावः । ननु शृङ्गा- रासंभवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषादस्त्येव रसानुगुणत्वमत आह-वीतरागेति ॥ नापि रागिण इत्यनन्तरमिमे विकल्पा इत्यनुषज्यते ॥ विवक्षितेति ॥ खकवितासौन्दर्यरूपेत्यर्थः । अतएव वाच्यार्थासामन्जस्यादेव वाच्यासंभवेऽपि वाच्यसामञ्जस्यासंभवेऽपि । तथाच वाच्यार्थासामञ्जस्यमेवा- १ वेधसा विनिहितस्तन्वी '.

कुवलयानन्दः। [आक्षेपालंकारः ३२ - आक्षेपालंकारः ३२ आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७२ ॥ अत्र प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसत्वेनानर्थक्यं विचार्याथवेत्यादि- सूचितः प्रतिषेध आक्षेपः । यथावा- साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥ सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् । रवेषु लुप्तेषु बहुध्वमत्रद्यापि रवाकर एव सिन्धुः ॥ अत्र प्रथमश्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोल्लिखितवैचि- त्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७२ ॥ निरोधाभाममा बुधाः केचन मन्वते । नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥ ७३ ॥ केचिदलंकारसर्वस्वकारादय इत्थमाहुः । न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः समर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः। यथा दूत्या उक्तौ नाहं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालो- •चितकैतववचनपरिहारेण यथार्थवादिस्वे पर्यवस्यनिदानीमेवागत्य नायिको- जीवनीयेति विशेषमाक्षिपति । यथावा- स्फुटेऽप्यप्रस्तुतार्थे तात्पर्य गमयतीति भावः ॥ ७१ ॥ इति ब्याजनिन्दाप्रक- रणम् ॥ ३१ ॥ आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य किंचिनिमित्तमभिसंधाय प्रतिषेध आक्षेपः ॥ सूचितेति ॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिपनियतत्वादिति भावः । नचात्र कैमर्थ्यरूपपञ्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम् । तस्यात्र प्रतिषेधप्रतिनिमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति-साहित्येति ।। हे कविश्रेष्ठाः, साहित्यसमुद्ररूपाणां भारतादीनां मन्थनादिव परिशीलनादुत्थित- मुत्पन्नं कर्णयोरमृतमिवाह्लादकं काव्यं रक्षत । यद्यस्मात्तस्य लुण्ठनार्थं दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः ॥ गृह- न्त्विति ॥ यदि वेल्यथवेत्यनेन समानार्थ । लुप्तेषु अपहतेषु ॥स्वोल्लिखितेति ॥ म्वयमुद्रावितेत्यर्थः । वैचित्र्याणामर्थवैचित्र्याणाम् ॥ ७२ ॥ अर्थान्तरपर्यवसित: अर्थान्तरप्रतियोगिकत्वेनावस्थितः । विशेष व्यङ्ग्यार्थविशेषम् ॥ संघटनेति ॥ संयोजनकाले उचितं यत्कैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः । नाहं दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादित्वविशिष्टं लक्ष्यते । तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यत्वात्तत्पर्यव- १ 'चन्द्रं संद'. २ 'नायं दूती'.

आक्षेपालंकारः३२] • अलंकारचन्द्रिकासहितः । .4 नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनतेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः सं. धिकालोचितकैतववचनपरिहारेण अर्थवादित्वे पर्यवस्थन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति ॥ ३ ॥ आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते । गच्छ गच्छसि चेत्कान्त तत्रैव स्वाजनिर्मम ॥ ७४ ॥ भत्र गच्छेति विधिय॑क्तः । मा गा इति निषेधस्तिरोहितः कान्तोद्देश्य- देशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्मीकृतः । यथावा- न चिरं मम तापाय तव यात्रा भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥ अत्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गमननिषेधो गर्मी- कृतः ॥ ७४॥ सानोक्तिः ॥ नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुक्तिः । नरेन्द्राणां राज्ञां मौलि: श्रेष्ठः ॥ संधीति ।। संधिकाले उचितं यत्कैतववचनं तत्परिहारे- णोपलक्षिते इति पूर्ववदर्थः । अत्राहुः-संदेशहारिषु तनिषेधस्य बाधात् संदेशहारिपदेन कैतववचनप्रयोक्तत्वविशिष्टं लक्ष्यते । तनिषेधेन च सत्यवादि- त्वरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपाल- कस्येत्यादिविशेषो निषेधेन केवलेनाक्षेप्तुं शक्यते । तस्य जगत्कुटुम्बिन इत्युत्त- रार्धगम्यत्वात् । एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति । तत्रोच्यते। न वयमिति निषेधाभावे केवलादुत्तरार्धात्रोक्तविशेषावगतिः स्यात् । संधिकालो- चितकैतववचनत्वेनैव संभाव्यमानत्वात् । अपितु नत्कालीन संयभिप्रायमात्रा- वगमः । निषेधेन तु तत्परिहारे युक्त उक्तविशेषावगम इत्यनुभवसाक्षिकमेतत् । सत्यवादित्वादिकं तूक्तविशेषे व्यन्जनीये द्वारभूतं नतु तदेव विशेषरूपमचम- कारित्वात् । अतएव नाहं दूतीत्यत्र वस्तुवादित्वादिर्विशेषो व्यज्यत इत्यलंका- रसर्वखकारः । वस्तुवादित्वमादिौरभूतं यस्य तादृशो विशेष इति तदर्थ इति । एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम् ॥ ७३ ॥ अस्यैव प्रभेदान्तर- माह-आक्षेपोऽन्य इति ॥ प्रार्थनया मरणसूचनद्वारेण गर्भितो व्यङ्ग्यत्वे. नान्तर्भावितः । एतच तिरोहित इत्यस्यार्थकथनं तदेवमपहुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम् ॥ ४ ॥ इत्याक्षेपालंकारप्रक- रणम् ॥ ३२॥ १ न्यविधी व्यक्त प्रतिवेषतिरोहिते'.

कुवलयानन्दः। [विभावनालंकारः ३४ । विरोधाभासालंकारः ३३ आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि हारेण वक्षोजी तव हारिणौ ॥ ७५ ॥ अत्र हाररहितावपि हारिणौ हृयाविति श्लेषमूलको विरोधाभासायथावा- प्रतीपभूपैरिव किं ततो भिया विरुद्धधमैरपि भेत्तृतोमिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारहवचारगप्यवर्तत ॥ अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वसाढ़ेदः ॥ ७५ ॥ . विभावनालंकारः ३४ विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अयंलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ।। ७६॥ आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरो- धाभासो नामालंकारः । आभासत इत्याभासः । विरोधश्वासावाभासश्चेति व्यु- त्पत्तेः ईषदर्थकेन चाङा भानस्यापातरूपत्वमर्थान्तरपरिहार्यत्वरूपं बोध्यते। तथा चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोधर्मयोराभासमानाप- र्यवसनविरोधत्वं लक्षणं द्रष्टव्यम् । शनिरशनिश्च तमुच्चरित्यादावतिव्याप्तिवारणा- यायं विशेषणम् । 'अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्' इति विभावनावा- रणाय द्वितीयम् । पर्यवसितस्य विरोधस्य दोषत्वादपर्यवसन्नत्वं विरोधविशेषण- मिति दिक् ॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः । मनोहारिणावित्यर्थेन तत्परिहारः ॥ प्रतीपेति ॥ तस्मानलाद्भयेन कृत्वा प्रतिकूलनृपैरित्र विरुद्धधमैं- रपि भेत्तृता भेदकारिता त्यक्ता किमित्युत्प्रेक्षा । यस्मात्स नल अमित्राणां श- त्रूणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत्। अथच मित्रजिदेव न मित्रजिदिति विरोधः । चारदृष्टिरपि विचारे दृष्टिर्यस्य तादृशः विगतचारदगिति च विरोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भन्ममिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसारम् । विरोधभानमन्तरेण विरुद्धधर्मेरपीत्याद्युत्प्रेक्षाया एवानुत्थानेन श्लेषमूलमाभास- मानं विरोधमुपजीव्यैव विरोधल्यागोन्प्रेक्षाया अर्थान्तरानुगृहीतायास्तत्समाधान- त्वेन पश्चादवस्थितत्वादिति ॥ ७५ ॥ इति विरोधाभासप्रकरणम् ॥ ३३ ॥ विभावनेति ॥ प्रसिद्ध कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः। विभा- व्यते कारणान्तरं यस्यामिति व्युत्पत्तेः । कारणाभावश्च शाब्द आर्थो वेति सर्वत्र लक्षणसमन्वयो बोध्यः । एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य- १ 'मभासत्वं'. २ 'अपि लाक्षा'.

विभावनालंकारः३४] अलंकारचन्द्रिकासहितः । भत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन विरोधपरिहारः । यथावा- अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्ब जगदासीन्मनोरमम् ॥ अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम् । विभाव्यमानशर- समयहेतुकत्वेन विरोधपरिहारः । यथावा- वरतनुकबरी विधायिना सुरभिनखेन नरेन्द्रपाणिना । अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा ॥ अत्र वल्लयों पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्त- सौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध- परिहारः ॥ ७६ ॥ हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगजयति मन्मथः ॥ ७७ ॥ अत्र जगजये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । यथावा- उद्यानमारुतोद्भूताश्शूतचम्पकरेणवः । उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥ लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्राद्यं दर्शितमेव । द्वितीयं तु कार- णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति विविच्य न दर्शितम्। प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा- रणायान्वितेति । तत्र प्रतिबन्धकस्य वस्तुतः कारणाभावरूपस्य कथनेऽपि न कार- णान्वितत्वेन कथनमिति तन्निरासः । प्रकारपञ्चकेऽपि कारणान्विताभावस्यार्थतो गम्यत्वात्कथनेति ॥ अप्यलाक्षेति ॥ लाक्षारसेन आसमन्तासिक्तं लाक्षारसा- सिक्तम् । पश्चान्नसमासः । तस्याः कामिन्याः ॥ अपीतेति ॥ आपीताः पान- शून्याः क्षीबा मत्ताः कादम्बाः कलहंसा यत्र तथा असंमृष्टं संमार्जनशून्यममल- मम्बरमाकाशं यत्र एवमप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्म लध्वम्बु यत्र एवंभूतं जगन्मनोहरमासीदित्यन्वयः । परमार्थ- तस्तु शुद्धाम्ब्वित्येव काव्यादर्शे दृष्टः पाठः ॥ विभाव्यमानेति ॥ वर्ण्यमाने- त्यर्थः ॥ वरेति ॥ वरतनोः केशपाशरचनासंपादकेनात एव सुरभिनखेन राज्ञो हस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासक्तभ्रमरा संजातेत्यर्थः ॥ ७६ ॥ हेतूनामिति ॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्संबन्धस्य वा वैकल्ये सति । अस्पैरिति धर्मवैकल्योदाहरणम् । संबन्धवैकल्ये उदाहरति-उद्यानेति॥ विलोचने कर्मभूते । उदनयन्ति । उद्गताश्रूणि कुर्वन्तीत्यर्थः ॥ क्रियेति धात्वर्थत्वाभिप्रायं स्पर्शनस्य संयोगरूपत्वात् । इमां द्वितीयप्रकाररूपां विभावनाम्॥

१०० कुवलयानन्दः। [विभावनालंकारः ३४ अन्न बाप्पोद्मनहेतूनामसमग्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषो- क्तिरिति दण्डी व्याजहार । यबस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिश- यरूपो द्वितीयोदाहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्या- प्यत इति । अमाभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता ॥ ७७ ॥ कार्योन्पनिम्ननीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७८ ॥ अन्न नरेन्द्रा विषयाः सर्पदंशप्रतिबन्धकमत्रौषधिशालिनः श्लेषण गृ. होता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथावा- चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सृज्य सातपत्रं द्विषद्रणम् ॥ ७८॥ अकारणात्कार्यजन्म चतुर्थी स्वाद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ७९ ॥ अत्र शङ्खशब्देन कमनीयः कामिनीकण्ठस्तन्त्रीनिनादत्वेन तद्गीतं चाध्य- वसीयत हत्यकारणात्कार्यजन्म । यथावा- तिलपुष्पात्समायाति वायुश्चन्दनसौरमः । इन्दीवरयुगाचित्रं निःसरन्ति शिलीमुखाः ॥ ७९ ॥ विरुद्धाकार्यसंपत्तिदृष्टा काचिद्विभावना । शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ॥ ८०॥ अत्र तापनिवर्तकतया तापविरुद्धैरिन्दुकिरणस्तापजनिरुता । यथावा- उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम् । व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेष्यदर्शनायैव सा विशेषोति रिप्यते ॥' इति ग्रन्थेन व्यवहतवानित्यर्थः । एतेन प्रथमप्रकारा- द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति वदन्नपास्तः । वैलक्षण्याभावे हि प्राचा- मलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात् । अस्ति च स्वरूपतः कारणा- भावकथनात्कारणगतधर्मवैकल्यद्वारेण नविशिष्ट कारणाभावकथने सहृदयसिद्धो विच्छित्तिविशेषः । प्रकारान्तराखीकारे लाघवमिति तु म्बीयलाघवोद्रावन मिति कृतमधिकेन ॥ ७७ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्ति- कथनं तृतीया विभावना ॥ नरेन्द्रानिति ॥ 'नरेन्द्रो वार्तिके राज्ञि विषवैद्ये- ऽपि कथ्यते' इति विश्वः । असिः खड्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप एव तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम् । आतपत्रेण सहितं सा- तपत्रम् ॥ ७८ ॥ अकारणादित्यस्य सुगमत्वान्न व्याख्यानम् ॥ ७८ ॥ उदित १ 'सत्यतिप्रति'.२ 'तन्वि हन्त'. ३ 'माम्'. - .

विशेषोत्त्वलंकारः३५] अलंकारचन्द्रिकासहितः । १०१ मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्यानि । यथावा- अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्रयम् । श्रुतिप्रणयिनोरक्ष्णोरयुक्त जनमारणम् ॥ पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रण. यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना । यशः पयोरोशिरभूत्करकल्पतरोस्तव ॥ ८१ ॥ यथावा- जाता लता हि शैले जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ८१॥ विशेषोत्यलंकारः ३५ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्सरदीपे ज्वलत्यपि ॥ ८२ ॥ यथावा- अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८२ ॥ इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्य उदिते सति कोः पृथिव्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणां पाणिक- मलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥ अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्लिष्ट- त्वात् । कुचयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परि- चयः ॥ ८०॥ यश इति ॥ कर एव दातृत्वात्कल्पतरुः । अत्र पयोधिजन्या- कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ॥ जातेति ।। जातुः कदा- चित् कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८१ ॥ इति विभावनाप्रकरणम् ॥ ३४ ॥ विशेषोक्तिं लक्षयति-कार्याजनिरिति ॥ पुष्कले सहकारिसंपने कारणे सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्थाजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतिर्यत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु. १ 'कार्याश्चेत्कारणोत्पत्तिर्दृष्टा'.२ पयोधिरभवत्करः'.

१०२ कुवलयानन्दः। [ असंगत्यलंकारः ३७ असंभवालंकारः ३६ असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८३॥ यथावा अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ।। ८३ ॥ असंगत्यलंकारः ३७ विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥ ८४ ॥ ययोः कार्यहेत्वोमिनदेशत्वं विरुद्धं तयोस्तलिबध्यमानमसंगत्यलंकारः । यथात्र विषपानमूच्छंयोनिदेशत्वम् । यथावा- अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ कचिदसंगतिसमाधाननिबन्धनेन चारुतातिशयः। यथावा- अजसमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यझ्यानात्तव स्वन्मयतामवाप्य ॥ रागो रक्तिमा रतिश्च । पुरःसरोऽग्रवर्ती आज्ञाकरश्च । पूर्वोद'. णेऽनुक्तिनिमि- त्ता इह दैवगतिवैचित्र्यस्य निमिनम्योपादानादुक्तनिमिनेनि भदः ॥ ८२ ॥ इति विशेषोक्तिप्रकरणम् ॥ ३५ ॥ असंभव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्ववर्णनमसंभवो नामालंकारः । गोपशिशुको गोपाबालकः । निन्दायां स्वार्थे वा कप्रत्ययः । उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम् । श्रित आश्रितः मुनिरगस्त्यः एनं समुद्र क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः । कीदृशम् । निजकरपुटी कर- संपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च यस्यैवंभूतमित्यर्थः ॥ ८३ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६ ॥ विरुद्धमिति ॥ अष्टमित्यर्थः । भिन्नदेशत्वं भिन्नाधिकरणत्वम् । विषं जलं हालाहलं च । संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजनमिति ॥ १ 'संभव्यत्व'. २ 'विरुद्धभिन्नदेशत्वं कार्यहेतो.'.

असंगत्यलंकारः ३७] अलंकारचन्द्रिकासहितः । विरुद्धमिति विशेषणाचन कार्यहेत्वोभिन्नदेशत्वं न विरुद्धं तत्र नासं- गतिः । यथा- भ्रूचापवल्ली सुमुखी यावनयति वक्रताम् । तावत्कटाक्षविशिखैभिद्यते हृदयं मम ॥ ४ ॥ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८५ ॥ अपारिजातां वसुधा चिकीर्षन्यां तथाकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥ ८६ ॥ अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र करणी- यमपारिजातत्वं दिवि कृतमित्येकासंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि श्ले- पोत्थापिता । यथावा- स्वत्खड्गखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु करणमथोरुषु पन्त्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ दमयन्तीं प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसंबन्धिनी दूरमत्यन्तं दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजस्रं निरन्तरमारोहसि । स पुनर्न- लोऽधिकं श्वासान्वर्षति मुश्चतीति यत्तव ध्यानात्त्वन्मयतां त्वत्स्वरूपतामवाप्ये- त्यन्वयः । अत्र चतुर्थपादेनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्ली भूस्वरूपधनुर्लताम् । यावदिति परिमाणार्थम् । वक्रतां नयति। आकर्षतीति यावत् । तावत्परिमाणम् । हृदयं भिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोभिन्नदेशत्वमेव दृष्टमिति नासंगतिरलंकारः ॥ ८४ ॥ अन्यत्रेति॥ अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति- रित्यनुषज्यते । तथा अन्यत्कार्य कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं तृतीया असंगतिः । अपगतमरिजातं यस्यास्तां द्यां वर्गम् । तथा पारिजाततरहि- तामकृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृ- त्तोऽपि त्वं गोत्राणां पर्वतानामुद्भेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्था- पिता श्लेषमूलकाभेदाध्यबसायोत्थापिता ॥ यथावा ॥ त्वत्खड्नेति ॥ हे भुवनैकवीर चोलदेशाधिप सिंहसदृश, तव खङ्गेन खण्डिता ये सपत्नाः शत्रव- स्तद्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु करणं वलयं भवतीत्यनुषङ्गः । अथेति समुच्चये । ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि- १ 'कृतिश्च यत्'. २ 'पुरोऽकरोत्'.

१०४ कुवलयानन्दः। [असंगत्यलंकारः ३७ मोहं जगमयभुवामपनेतुमेत- दादाय रूपमखिलेशर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥ अत्राघोदाहरणे करणादीनामन्यन्त्र कर्तब्यस्वं प्रसिद्धमिति नोपन्यस्तम् । भवतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः॥४५॥८६॥ कारचना । करपल्लवेषु तिलयुक्त कं जलमेव ललाटभूषणमिति ॥ मोहमिति॥ हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीर- मादाय मर्यादातिक्रान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्धयसीत्यन्वयः ॥ अत्रेति ॥ अनयोर्मध्य इत्यर्थः । आद्योदाहरणे इति लक्षणानुगतिरित्यन्वयः । भवतिना भवत्यर्थेन । भवनेनेति यावत् । भावनारूपा भवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्वयान्तर- कथनमयुक्तम् । अपारिजानामिन्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य कार्येण पारिजातराहियेन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वेलक्ष- ण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमानं प्रति हेतुत्वात् । एवं नेत्रेषु कङ्कणमित्यादौ ककणत्वनेत्रालंकारत्वयो- विरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं गोत्रोद्धारप्रवृ- तोऽपीन्युदाहरणे विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावने न्युक्तविभावनाप्रकारेणीव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । मोहमित्यादावपि मोहनिर्वर्तकत्व- मोहजनकत्वयोर्विरुद्धयोरेकत्र वर्णनाद्विरोधाभास एवेति कैश्चिदुक्कं तदसंगतम् । उक्तसंबन्धेन चिकीर्षाया हेतुत्वासिद्धेः । नहि यदधिकरणे कार्यचिकीर्षा तदधि- करणमन्तर्भाव्योक्तसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं ताधिकसंगतं युक्तं वा । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन व्यभिचारात् । अत एवैवंवि- धवैयधिकरण्यस्य विरुद्धत्वादपि न प्राथमिकासंगत्यन्तर्भावसंभवः । वस्तुतस्तु 'विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गनाः' इत्यत्रेव नात्र कार्यकारणवैयधि- करण्यप्रयुक्तो विच्छित्तिविशेषोऽपि त्वन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेति सहृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कलणमित्यत्र सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन कृप्तालंकारभावान्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या निराकर्तुम् । एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रो- ट्रेदम्पकाविरुदत्यादिसला कार्यसंपत्तिरपि विभावनेत्यपि न युक्तम् । गोत्रो- द्धारप्रवृत्तेर्गोत्रोद्भेदनिवर्तकत्वाभावेन तद्विरुद्धत्वाभावात् । कथंचित्तदभ्युपगमे- ऽप्यन्यत्कार्य कर्तुं प्रवृत्तेन तद्विरुद्धकार्यान्तरकरणरूपासंगतिरपि मोहं जगत्रय- भुवामित्यादौ चमत्कारित्वेन लब्धात्मिका न निवारयितुं शक्यते । नचा- त्रापि मोहनिवर्तकान्मोहोत्पत्तेः सैव विभावनेति वाच्यम् । मोहनिवर्तकस्य सिद्ध- :

विषमालंकारः ३८] अलंकारचन्द्रिकासहितः । १०५ विषमालंकारः ३८ विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः । केयं शिरीषमृदङ्गीक तावन्मदनज्वरः ॥ ८७॥ अत्रापि मृदुत्वेनातिदुःसहस्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । .. अभिलषसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्त्वं च तस्या मुखं क ॥ पूर्वत्र वस्तुसती घटना । अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता घटनेति भेदः८७ विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८८॥ अत्र कारणगुणप्रक्रमेण विरुद्धाच्छयामाद्धवलोत्पत्तिः । कार्यकारणयोर्निर्व- त्यनिर्वर्तकस्वे पञ्चमी विभावना। विलक्षणगुणशालिवे स्वयं विषम इति भेदः ॥ ८८॥ अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । भक्ष्याशयाहिमञ्जूषां दृष्ट्वाखुस्तेन भक्षितः ॥ ८९ ॥ वदप्रतीतेः । अतएव न विरोधाभासोऽपि विशेषोक्तिकथनं त्वत्रासंगतमेव । नहि गोत्रोद्धारविषयकप्रवृत्तिरूपकारणसत्त्वेऽपि गोत्रोद्धाररूपस्य कार्यस्यानुत्प- त्तिरिह प्रतीपाद्यते । किंतु विरुद्धकार्योत्पत्तिरेवेति विभावनीयम् ॥ ८५॥८६॥ इत्यसंगतिप्रकरणम् ॥ ३७॥ विषममिति॥परस्परमानुरूप्यरहितयोः पदार्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमनामालंकारः। संबन्धश्च संयोगादिः उत्पाद्योत्पादकभावश्चेति सर्वप्र- कारसाधारणमेतलक्षणं बोध्यम् ॥ अभिलपसीति । अझं कलङ्गं संक्षालय प्रक्षालय । अथ प्रक्षालनानन्तरम् । नो चेत्तस्या मुखं व त्वं क इति वदेत्य- न्वयः । वस्तुसती वस्तुगत्या विद्यमाना ॥ चन्द्रेति ॥ चन्द्रश्च वदनलक्ष्मीश्च तयोरित्यर्थः ॥ ८७ ॥ विरूपकार्यस्येति ॥ कारणविलक्षणवरूपस्येल्यर्थः । कृपाणिका खड्गः ॥प्रक्रमेणेति ॥ प्रक्रमः परिपाटी। खजातीयकार्यगुणोत्पाद- कत्वरूपा विरुद्धा कार्यसंपत्तिरिति पञ्चमविभावनाप्रकारेणाभेदमाशङ्कयाह- कार्येति । अयं विषमः उक्तविषमालंकारप्रभेदः ॥ ८८॥ तृतीयप्रकारमाह- अनिष्टस्यापीति ॥ अपिभित्रक्रमः । इष्टार्थसमुद्यमादनिष्टस्यावाप्तिरपि च त- १ 'अवाप्तिश्चेत्तदिष्टार्थ'. - कुवलयानन्दः। [विषमालंकारः ३८ - इष्टार्थमुंद्दिश्य किंचित्कारब्धवतो न केवलमिष्टस्यानवाप्तिः किंतु ततो. ऽनिष्टस्यापि प्रतिलम्भवेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दृष्ट्वा प्रविष्टस्य मूषकस्य न केवलं भक्ष्याकाभः किंतु स्वरूपहानिरपीति । यथावा- गोपाल इति कृष्ण त्वं प्रचुरक्षीरवान्छया। श्रितो मातृस्तनक्षीरमप्यलभ्यं स्वया कृतम् ॥ 'इदमर्थावाप्तिरूपेष्टार्थसमुचमादिष्टानवाप्तावनिष्टप्रतिलम्भे चोदाहरणम् । अनर्थपरिहारार्थरूपेष्टार्थसमुचमात्तदुभयं यथा- दिवि श्रितवतश्चन्द्रं सैहिकेयभयाद्भुवि । शशस्य पश्य तन्वनि साश्रयस्य ततो भयम् ॥ अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्याप्यनर्था- वाप्तिरिति दर्शितम् । परानिष्टप्रापणरूपेष्टार्थसमुघमात्तदुभयम् । यथा- दिधक्षन्मारुतेर्वालं तमादीप्यद्दशाननः । आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥ पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति श्लोकेऽनिष्टावाप्तेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेना- न्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति । तत्र केवलानिष्टप्रतिलम्भो यथा- द्विषमित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्च- यार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आखुर्मू- षकस्तेनाहिना भक्षित इत्यन्वयः । यत्तु प्रविष्ट इत्यस्यागम्यमानत्वान्यूनपदत्वमिति केनचिदुक्तं तदभिनिवेशदुष्टखहयानुभवविकत्थन मित्युपेक्षणीयम' अनिष्टस्यापि प्रतिलम्भ इत्यत्राप्यपिभिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ कृष्ण, त्वं गो- पाल इति हेतोर्बहुदुग्धवाञ्छया श्रित आश्रितः । त्वया तु मातृस्तनदुग्धमप्यलभ्यं कृतम् । मुक्तिदानेनेति भावः । पूर्वत्रेष्टानवाप्तिरथंगम्या इह त्वपिशब्दगम्येति विशेषः । इदमिति उदाहरणमिनि च जातावेकवचनम् ॥ दिवीति । भुवि सें- हिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहितस्य ततः सैंहिकेयाद्राहोर्भयमेतत् हे तन्वङ्गि । पश्येत्यन्वयः॥ परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । नाम-मित्रानमा नि प्तिद्वयम् ॥ दिधक्षन्निति ॥ दशाननो रावण: मारुतेर्हनुमतो वालं पुच्छं दग्धु- मिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति ।। अपिना इष्टानवा- प्तिसमुच्चिताया अनिष्टावाप्तर्विषमपदेनान्वयः समुच्चीयते। विषमपदेन विषमपरा- मर्शकेन तत्पदेन । तथाच तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः । यत्त्वनिष्ट- स्यैव तदुत्तरापिशब्दसमुच्चिताया इष्टानवानेरप्यानोतिनैवान्वयो न नु तत्पदपराम- प्टेन विषमेणाव्युत्पत्तेरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम् ॥ - विषमालंकारः३८] अलंकारचन्द्रिकासहितः। १०७ - पद्यातपनरसिके सरसीरहस किं बीजमर्पयितुमिच्छसि वापिकायाम् । कालः कलिर्जगदिदं न कृतज्ञमझे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम् ॥ भत्र पातपत्रलिप्सया पनबीजावापं कृतवस्यास्तल्लामोऽस्त्येव किंतु मुख- शोभाहरणरूपोत्कटानिष्टप्रतिळम्भः। केवलेष्टानवाप्तिर्यथा- खिन्नोऽसि मुच शैलं बिभृमो वयमिति वदरसु शिथिलभुजः । भरभुमविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिरपि प्रसक्ता तथापि भगवत्करा. म्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमात्रम् । यथावा- लोके कलङ्कमपहातुमयं मृगाको जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥ अनानिष्टपरिहाररूपेष्टानवाप्तिः । यथावा- शापोऽप्यदृष्टतनयाननपनशोभे सानुग्रहो भगवता मयि पातितोऽयम् । पझेति ॥ दयितां प्रति नायकोक्तिः । पद्मस्यातपत्रं छत्रं तत्र रसिके हे तन्वि, वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितुं किमितीच्छसि । यतः हे अज्ञे, क- लियुगरूपः कालः, इदं जगत्कृतमं च न भवति । ततः किं तत्राह । इदं सरसी- रुहं स्थित्वा तवैव मुखस्य लक्ष्मी हरिष्यति न त्वन्यस्या इत्यर्थः ॥ खिन्नो- ऽसीति॥ बिभृमो धारयामः । वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण शैलभारेण भुग्ना वक्राः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ॥ अत्रेति ॥ नच भरभुनेत्यनेन बाहुगतास्थिसन्धिभङ्गरूपानिष्टप्राप्तेः साक्षादुपात्त- वात्सर्वाङ्गचूीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात् कथमिष्टाप्राप्तिमात्र- मित्युच्यत इति वाच्यम् । अस्थिसंधिभङ्गस्याशब्दार्थत्वाद्भगवद्धजशैथिल्यप्रयुक्त- भाराधिक्येन वक्रतापात्रस्य शब्दोपात्तस्य च क्लेशविशेषानाधायकत्वेनानिष्टव्यप- देशानहत्वात्, सुहृद्भूतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्च । अतएव न स- वोङ्गचूर्णीभावेऽपि गम्यः गर्वप्रसक्त्यभावाञ्च न तदपहारोऽपि । यतश्विरका- लशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवद्यम् ॥ लोक इति ॥ हे तन्वि, लोके प्रसिद्ध कलङ्कमपहातुं निवारयितुं मृगास्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि हि यस्मानार्यः समाश्रितजनं खाश्रितजन कलदिनं कुर्वन्तीत्यन्वयः ॥ शापो- ऽपीति ॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन त्वमपि पुत्रशोकान्मरिष्यसीति .

१०८ कुवलयानन्दः। [विषमालंकारः ३८ कृष्यां दहमपि खलु क्षितिमिन्धनेदो बीजप्ररोहजननी दहनः करोति ॥ अत्र परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महा- पुरुषार्थपुत्रलाभावश्यंभावगर्मतया दशरथेनेष्टस्वेन समर्थितत्वात् । यत्र के नचित्स्वेटसियर्थ नियुक्तनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्वेटं साध्यते तत्रा- पीष्टानवाप्तिरूपमेव विषमम् । यथा- यं प्रति प्रेषिता दूती तसिव लयं गता । सख्यः पश्यत मौख्यं मे विपाकं वा विधेरमुम् ॥ तसिव लयं गतेति नायके दूत्याः स्वाच्छन्नं दर्शितम् । यथावा- नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ एतानि सर्वथैवेष्टानवातेरुदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकं तदनवा. प्तिर्यथा मदीये वरदराजस्तवे- भानुर्निशासु भवदनिमयूखशोभा- लोभाप्रताप्य किरणोस्करमाप्रभातम् । तत्रोद्धते हुतवहारक्षणलुप्सरागे तापं भजत्यनुदिनं स हि मन्दतापः ॥ यथवा- स्वद्वसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपतृस्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ शापे दत्ते तं प्रति दशरथस्येयमुक्तिः । अदृष्टपुत्रमुखपङ्कजशोभे मयि भगवता त्वया पातितोऽयं शापोऽपि सानुग्रहो भवति । खलु निश्चितम् । इन्धनैरिद्धो दीप्तो दहनः कृषियोग्यां क्षितिं दहन्नपि बीजाङ्कुरजननी करोतीति दृष्टान्तः॥परेति ॥ परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं नम्यानवातिरानापसस्येत्यर्थः । कुतस्त- त्राह-खत इति ॥ नियोक्तः प्रेषयितुः ॥ यं प्रतीति ॥ मौढ्यं मूढस्वम् । एवंविधायामाप्तत्वबुद्धेर्विधेर्दैवस्य विपाकं परिपाकम् । फलमिति यावत् ॥ भानुरिति ॥ हे हरे, भानुः सूर्यों भवञ्चरणकिरणशोभाया लोभात्स्वीयकिरणस- मूहं निशासु प्रभातपर्यन्तं प्रताप्य रात्री सूर्यकिरणानामनौ प्रवेशात्तापयित्वा तत्र तस्मिन्किरणोत्करे हुतवहादग्नेः सकाशादुद्धते सति रकतादर्शनान्मन्दसं- तापः सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सस्यनुदिनं तापं भजतीत्यन्वयः ॥ त्वद्वक्रेति ॥ हे हरे, अयं विधुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुकालः स एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेनात्ता ..

विषमालंकारः ३८] अलंकारचन्द्रिकासहितः । १०९ अनावश्लोके सूर्यकिरणानां रात्रिष्वग्निप्रवेशनमागमसिद्धम् । सूर्यस्य नि- जकिरणेषु भगवचरणारुणिमप्रेप्सया तस्कृतं तेषामनौ प्रतापनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तारु- णिमानुवृत्तिं परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जा. यते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीयश्लोके चन्द्रस्य भगवन्मु- खलक्ष्मी लिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेषवशात्सूर्य परिकल्प्य तस्किर- णस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेर्भगवन्मुखलक्ष्मी- निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भ- गवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूपं च परिकल्प्यैतावतापि प्र. यत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । कचिदिष्टानवातावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथावा- बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशक्ताकुलाङ्गी। क्षित्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदप्रसक्तैर्मधुकरपटलै—मशङ्कां करोति ॥ अत्र प्रभूताग्निसंपादनोयोगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यास- मुखेन निबद्धः॥ गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मित्रकराः सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्कृप्त्या लाभेन त्वद्वक्रस्य कान्ति लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन् अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः ॥ अत्रेति ॥ आगमसिद्ध 'तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्तम्' इति श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्य उत्प्रेक्ष्य एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः । एवमग्रेऽपि सुहृत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानु- प्रवेशं च शास्त्रसिद्धं सुहृत्पाणेर्यथोक्तविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, त्वच्छत्रुनगरे संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराङ्गारस्य शङ्का भ्रान्तिस्तया व्याकुलाजी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्त्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसक्तैरागतैर्धमरसमूहै—मशतां करोतीत्य- न्वयः ॥ प्रभूतेति ॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पाद्योत्पादकभावरूपसंबन्ध- गर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्वचिच्चे- टोत्पादकत्वेनाभिमतस्य कारणस्येष्टानवाप्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावा- सामान्यलक्षणसमन्वयो बोध्यः ॥ ८९ ॥ इति विषमालंकारप्रकरणम् ॥ ३८ ॥ १० ११० कुवलयानन्दः। [ समालंकारः ३९ समालंकारः ३९ समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः। स्वानुरूपं कृतं सैन हारेण कुचमण्डलम् ॥ ९० ॥ प्रथमविषमप्रतिद्वन्द्वीदं समम् । यथावा- कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥ चित्रं चित्रं बत बत महचित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता विधाता । यनिम्बानां परिणतफलस्फीतिरास्वादनीया यचैतस्याः कवलनकलाकोविदः काकलोकः ॥ पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ १० ॥ सारूप्यमपि कार्यस्य कारणेन समं विदुः । नीचप्रवणता लक्ष्मी लजायास्तवोचिता ॥ ९१ ॥ इदं द्वितीयं विषम प्रतिद्वन्द्वि समम् । यथावा- दवदहनादुस्पनो धूमो घनतामवाप्य वस्तम् । यच्छमयति तयुक्तं सोऽपि च दवमेव निर्दहति ॥ यथावा- आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शम्भोनिटिलमहसा बद्धमैत्रीनिरूढः । प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥ सममिति ॥ अनुरूपयोरित्यनन्तरसंबन्धस्येति शेषः । पपरमनुरूपयोः संबन्धस्य वर्णनं समं नामालंकारः । सद्म स्थानम् । शशिखण्डमण्डनं चन्द्रकला- भूषणं हरम् ॥ चित्रमिति ॥ अत्र चित्रबतशब्दयोर्वीप्सा विषयातिशयद्योत- नाय । परिणतं एकम् । स्फीतिः समृद्धिः। एतस्याः फलसमृद्धेः कवलनकला भक्षणचातुर्य तत्र कोविदः पण्डितः ॥ ९० ॥ सारूप्यमपीति ॥ कार्यस्य कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता ज- लजायाः समुद्ररूपजलाजातायाः। उचितेति । जलस्य तादृशत्वादिति भावः ॥ दवेति ॥ घनतां मेघरूपतां वर्जलवर्षणैः शमयति नाशयति । हि यस्मात्सोऽपि दवदहनोऽपि दवमेव खोत्पादकं विनिर्दहति । तथाच कारणस्य स्वोत्पादकनाश- कत्वात्कार्यस्यापि धूमस्य तथात्वमुचितमित्यर्थः ॥ आदाविति॥ विरहिण्या इय- मुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः । यः १ 'वर्ण्यते यत्र'. २ 'स्वस्य हारेण'. ३ 'कार्य स्यात्कारणेन'. ४ 'लक्ष्मि जलजायाः'.

समालंकारः ३९] अलंकारचन्द्रिकासहितः। पूर्वत्र कारणस्वभावानुरूप्यं कार्यस्यात्रागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ ९ ॥ विनानिष्टं च तत्सिद्धिर्यदर्थं कर्तुमुद्यतः । युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः॥ ९२॥ इदं सममनिष्टस्याप्यवाप्तिश्चेत्यर्थसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रति- द्वन्द्वि । इष्टावाप्रनिष्टस्याप्रसङ्गाच्च । अत्र गजार्थितया राजानमुपसर्पन्तं त- दौवारिकार्यमाणं प्रति नर्मवैचनमुदाहरणम् । नचात्र निवारणमनिष्टमाप- अमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तद- गीकृत्य प्रवृत्तस्य विषमालंकारोदाहरणेष्विवातर्कितोत्कटानिष्टापत्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्वे श्लेषमहिम्ना इष्टार्थत्वप्रतीतिस्तत्रापि समालं- कारोऽप्रतिहत एव । उच्चैगजैरटनमर्थयमान एवं त्वामाश्रयनिह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदैव मामद्य नैव विफला महतां हि सेवा ॥ अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार- स्तथापि प्राथमिकस्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते । एवं आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बद्ध्या संवद्ध्या मैत्र्या निरूढः प्रसिद्धः प्रौढो युवा । राहोर्मुखसंबन्धिभिर्विषैरन्तरङ्गीकृतः। ग्रहणकाले संपर्कातिशयादन्तरङ्गतां प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपत्वम् ॥ ९१ ॥ भेदान्तरमाह-विनेति ॥ अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सिद्धिरपि सममि- त्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चेत्यर्थः ॥ युक्त इति ॥ वा- रणं निवारणं वारणो गजश्च युक्तो न स्यादपि तु स्यादेवेत्यर्थः । शोभत इति क्वचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य । नर्मवचनं परिहासवच- नम् । अत्रेष्टावाप्तिः श्लेषकल्पिता बोध्या ॥ इष्टार्थप्रतीतिरिति । इष्टार्थत्वेन प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वे- नाप्रतिभासादिति भावः ॥ उच्चैरिति ॥ गजैरटनं तदारोहणपूर्वकं गमनम् । इह त्वनगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहण विषमालंकारस्फूर्त्या निन्दायां पर्यवसानम् । एतेन वैषम्यस्य निन्दारूपस्य व्याज- स्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपत्वाभा- १ 'विना यत्नेन तत्सिद्धिर्यदर्थः'. २ जातस्ते वार'. ३ 'प्रतिपत्तिः'. .. - ११२ कुवलयानन्दः। [विचित्रालंकारः ४० यत्ष्टार्थावाप्तिसस्वेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालंका- रस्य न क्षतिः । यथा- शस्त्रं न खलु कतर्व्यमिति पित्रा नियोजितः । तदेव शसं कृतवान्पितुराज्ञा न लविता ॥ अत्र पितुराज्ञा लवितेत्यनेन विरोधालंकाराभिव्यत्यर्थ न खल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सवेऽपि नखं लुनातीति नखल्वित्येकपदेन वस्तुसदर्थान्तरपररूपान्तरमादाय समालंकारोऽप्यस्त्येव । श्लेषलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम् । यथा- सत्यं तपः सुगत्यै यत्तहवाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिमजं त्वत्पदजन्मनि समस्तकमनीयम् ॥ १२ ॥ विचित्रालंकारः ४० विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९३ ॥ यथावा- मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते । मित्रालादं कर्तुं मित्राय द्रुह्यति प्रतापोऽपि ॥ ९३ ॥ वादिति । इष्टार्थावाप्तिसत्त्वेऽपि वास्तविकेष्टार्थप्राप्तिसत्वेऽपि ॥ नक्षतिरिति ॥ अनिष्टप्रतीतेराभासरूपत्वेनापर्यवसानादिति भावः ॥ शस्त्रमिति ॥ तदेव न- खल्वेव । एकपदत्वेनेत्युपलक्षणे तृतीया । एकपदत्वोपलक्षितं यद्वस्तु सदर्थान्त. रपरं रूपान्तरमित्यर्थः । अर्थान्तरं च वास्तविक पदव्युत्पत्तिकथनेज दर्शितमेव ॥ श्लेषलब्धेति ॥ श्लेषेण लब्धा असती वस्तुतोऽविद्यमानाष्टावाप्तिप्रतीति- व्यवच्छेदः । युनो वा लामो मिति.विदनिपगौना व चोत्कटानिष्टस्य प्रतीतिसत्त्वादुदाहरणान्तरमाह-यथेति ॥ नायिकां प्रति नायकस्योक्तिः । हे तन्वि, तपः शोभनगत्यैव भवतीति सत्यं यद्यस्मादब्ज कमलमम्बुषु जलेषु रविं, प्रतीक्षते तादृशं सत्तावा तपः कृत्वा त्वत्पदरूपे जन्मनि समस्तेभ्यः कमलेभ्यः कमनीयं सुन्दरं सत्सुगति शोभनां गतिमनुभवतीत्यन्वयः । अत्र कमलम्योत्तमलोकर पगतिप्राप्तये तपस्यतस्तदलाभेऽपि शोभनगमनस्य गतिशब्द- श्लेषबलादिष्टत्वेन प्रतीतेरिष्टावाप्तिप्रतीतिमात्रं न पनि गिनामोगी ॥९२ ॥ इति समालंकारप्रकरणम् ॥ ३९ ॥ विचित्रमिति ॥ फलेच्छया विपरीतः प्रयत्न वेद्विचित्रं नामालंकारः । इष्ट- विपरीताचरणमिति यावत् । नमन्तीति । नम्रीभवन्तीत्यर्थः । समुन्नतिमुच्च- ताम् ॥ मलिनयितुमिति ॥ मलिनीकर्तुमित्यर्थः । विमलयति विमलीकरोति । १ विपरीतफलेच्छया'.

अधिकालंकारः४१] अलंकारचन्द्रिकासहितः । ११३ अधिकालंकारः ४१ अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥९४॥ अत्र यत्र महाजलौघेऽनन्तानि ब्रह्माण्डानि बुहुदकल्पानीत्याधारस्याति- विशालत्वं प्रदर्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथावा- युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥ ९४ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् । कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥९५॥ अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोकानां गुणानां विश्राम्यतीत्यसंबाधा- वस्थानोत्तयाधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम् । यथावा- अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशियदत्र ते ॥ अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वारब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवस्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणय. शोराश्यधिकरणत्वेनाधिकरवं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत.. गुणयशोराशिप्रशंसायामेव पर्यवस्थति ॥ ९५॥ जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९३ ॥ इति विचित्रालंकारः४० अधिकमिति ॥ पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णन- मेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः खस्किँल्ल्यं प्रापित आत्मा स्वविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्यां तनौ तपोधनस्य नारदस्याभ्यागमात्संभवो यासां ता मुदः प्रीतयोन ममु- रित्यन्वयः ॥ ९४ ॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकम् ॥कियदिति॥ अपरिमितमित्यर्थः। वाक् शब्द एव ब्रह्म । इयं च परमेश्वरं प्रति भक्तस्योक्तिः॥ असंबाधेति ॥ असंकटेत्यर्थः ॥ अहो इति ॥ माति समाति । मातुमशक्यो- ऽपरिमितः । अत्र भुवनत्रयोदरे । नन्वाधारयोः शब्दब्रह्मभुवनोदरयोरप्रस्तुतत्वे- नाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशङ्कयाह-अत्रेति ॥ न चात्राप्रस्तु- तप्रशंसा शङ्कनीया । प्रस्तुतस्याप्यभिधानादिति । इत्थं चाधाराधेयान्यतरस्य तनो- रप्याधिक्यवर्णनमिति सामान्यलक्षणं बोध्यम् ॥ ९५॥ इत्यधिकालंकारः॥४१॥ १ 'तदपि वर्ण्यते'.

११४ कुवलयानन्दः। [अन्योन्यालंकारः ४३ अल्पालंकारः ४२ अल्पं तु सूक्ष्मादाधेयाबदाधारस्य सूक्ष्मता । मणिमालोमिका तेऽद्य करे जपवटीयते ॥ ९६ ॥ अत्र मणिमालामयोर्मिका तावदङ्गुलिमात्रपरिमितत्वात्सूक्ष्मा सापि विर- हिण्याः करे ककणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्त्या ततोऽपि करस्य विरहकार्यादतिसौम्यं दर्शितम् । यथावा- यन्मध्यदेशादपि ते सूक्ष्म लोलाक्षि दृश्यते । मृणालसूत्रमपि ते न संमाति स्तनान्तरे ॥ ९६ ॥ अन्योन्यालंकारः ४३ अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया॥१७॥ यथावा- यथोर्वाक्षः पिबत्यम्बु पथिको विरलाकुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥ अत्र प्रपापालिकायाः पथिकेन स्वासत्तया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलषन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयदानानुवृत्तिसं- पादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमु- अल्पमिति ॥ यदिति सामान्ये नपुंसकम् । स्वापेक्षया सूक्ष्मादाधेयादाधा- रस्य सूक्ष्मता यत्तदल्पं नामालंकारः ॥ मणीति ॥ मणिपतिरूपा ऊर्मिका अङ्गुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः वटीशब्दस्य गुटिकापर्यायवान् । अतिसूक्ष्मता माया.. गाणिस ता॥ यदिति॥ हे चञ्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्म दृश्यते तत् मृणालमृत्रमपि तव स्तनयोरन्तरे मध्ये न मातीत्यन्वयः ॥ ९६ ॥ इत्यल्पालंकारः ॥ ४२ ॥ अन्योन्यमिति ॥ यत्र परस्परमुपकारः स्यात्तत्रान्योन्यं नामालंकारः । त्रियामा रात्रिः ॥ यथेति ॥ ऊर्ध्वाक्ष ऊर्ध्वनयनः प्रपापालिका प्रपादानाधिकृता काचिद्वनिता । धारां जलधाराम् । तनुं सूक्ष्माम् ॥ अत्रेति ॥ प्रपापालिकायाः पथिकेनोपकारः कृत इत्यन्वयः । खासक्तयेत्यादि प्रपापालिकाया विशेषणम् । संपादनेन करणभूतेन । एवं प्रपापालिकयापि पथिकस्योपकारः कृत इत्यन्वयः। यत्तु खमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाबोधकत्वमेव न्याय्यं न पान्थबोधकत्वं यद्विशेषणघटकत्वेन खनिजादिशब्दा उपात्तास्तद्वोधका इति व्युत्पत्तिरिति कैश्चिदुक्तम् । तदयुक्तम् । मुख्यविशेष्यविशेषणघटकस्यैव स्व- निजादिशब्दस्य मुख्यविशेष्यमात्रगामित्वव्युत्पत्तेः । यथा देवदत्तस्य पुत्रः ख- मातृभक्त इत्यादौ खशब्दस्य तादृशपुत्रगामित्वम्, नतु गुणभूतदेवदत्तगामित्वम् ।

विशेषालंकारः ४४] अलंकारचन्द्रिकासहितः । ११५ खावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं- पादनेनोपकारः कृतः । अनोभयोापाराभ्यां खस्त्रोपकारसगावेऽपि परस्प- रोपकारोऽपि न निवार्यते ॥ ९७ ॥ : विशेषालंकारः४४ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥९८॥ यथावा- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ अनाये सूर्यस्य प्रसिद्धाधारस्थाभावेऽपि तत्कराणामन्यत्रावस्थितिरुक्ता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थिति- रुक्ता । कचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशं विनवाप्रलयमवस्थिते- वर्णनं दृश्यते । यथावा- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्धाः ॥ अत्र कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देशं विनवाप्रलयमवस्थिति- वर्णिता ॥ ९८ ॥ विशेषः सोऽपि यद्येक वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ ९९ ॥ अत एवेशस्थल एव 'निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि- नवो दण्डपादो भवान्या' इत्यत्राभवन्मतयोगत्वं दूषणमुदाहृतं मम्मटभट्टैः काव्य- प्रकाशिकायाम् । अन्यत्र तु न स्वविशेष्यगामित्वनियमः । खाश्रितानां विप्राणा- मयं पालकः खाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं खदाररतानां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति॥९॥इत्यन्योन्यालंकारः॥४३॥ विशेष इति ॥ ख्यातं प्रसिद्धम् । तदुक्तम् ‘विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रात्रावादित्य- स्याग्नौ प्रवेशश्रवणाद्दीपस्थत्वम् ॥ कमलमिति । अत्र कमलत्वादिना मुखादेर- ध्यवसानं बोध्यम् । कुवलये नेत्रे एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्य- न्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि पामन पगुणगणयुत्ता गिरः आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः॥९८॥प्रभेदान्तरमाह- ( कुवलयानन्दः। [ व्याघातालंकारः ४५ यथावा- - हृदयाघापयातोऽसि विक्षु सर्वासु श्र्यसे वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ ९९ ॥ किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः। त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥१०॥ यथावा- स्फुरद तरूपमुष्प्रतापज्वलनं त्वां सृजतानवद्याविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ अत्राचे राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्स्वनन्तरकृतिः । द्वि- तीये राजसृष्टयारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०॥ व्याघातालंकारः ४५ सांद्याधातोऽन्यथाकारि नथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः॥१०१॥ यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्या- घातः । यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्वि- रुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः । तत्राध उदाहृतः । द्वितीयो यथा- दशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १० ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनः । दया चेद्वाल इति मय्यपरित्याज्य एव त ॥१०२ ॥ यदीति ॥ ९९ ॥ तृतीयं प्रकारमाह-किंचिदिति ॥ किंचित्पदार्थारम्भेणा- शक्यस्य वस्त्वन्तरस्य कृतिः करणं च स विशेषः । त्वामिति प्रभुं प्रति याच- कोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽग्निमर्यस्येत्यर्थः । उक्तवि- शेषणं त्वां सृजता विधिना भुवि नवो मनोभवादिः ससृजे सृष्ट इति सत्यमित्य- न्वयः । अत्र चोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १०० ॥ इति विशेषालंकारः ॥ ४४ ॥ स्यादिति ॥ तथाकारि लत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्य- साधनं चेक्रियेत तदा व्याघातोऽलंकारः स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्ष- बिभ्रमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः । विरूपाक्षस्य हरस्य जयिनीविजयकारिणीः । स्तुवे स्तौमि ॥ १.१॥भेदान्तरमाह-सौक- १ 'दृश्यते'. २ 'स्यादुधातो'. ३ 'कार्याविरो'.

कारणमालालंकारः४६] अलंकारचन्द्रिकासहितः । ११७ कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादादन्येन कार्यविरोधि- क्रियासौकर्येण समर्थ्यते चेत् सोऽपि व्याघातः । कार्यविरुवक्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम् । यथा जैत्रयात्रोन्मुखेन राज्ञा युवराजस्य राज्य एव स्थापने यत्कारणत्वेन संभावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयन- स्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते । यथावा- लुब्धो न विसृजत्यर्थं नरो दारिद्यशङ्कया। दातापि विसृजत्यर्थ तयैव ननु शङ्कया । अत्र पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०२॥ कारणमालालंकारः४६ गुम्फः कारणमाला स्थायथा प्राक्प्रान्तकारणैः। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः॥१०३।। उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो गुम्फः कारणमाला । आद्योदाहता । द्वितीया यथा- भवन्ति नरकाः प्रापात्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्माद्दानपरो भवेत् ॥ १०३ ॥ - येणेति ॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता । कार्यविरोधिनी पराभिमतकार्यविरुद्धा ॥ दयेति ॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराज- स्योक्तिः । बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हे- तोरहं तवापरित्याज्य एव किंतु खेन सह नेतव्य इत्यर्थः ॥ अर्थादिति ॥ हेतो पञ्चमी । अन्वयश्चास्य समर्थ्यते इत्यनेन अन्येन वक्रा ॥ जैत्रेति ॥ जयसाध. नेत्यर्थः ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्यशङ्कयैव । ननु निश्चितम् । अत्र पूर्वार्धे लुब्धस्य दानाभावसाधकत्वाभिमतदारिद्यशङ्कारूपपूर्वपक्षनिरूपणम् । दा- तुस्तु सैव विरुद्धदानसाधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्धे । यद्यपि दारिद्यस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शङ्का भिन्ना तथाप्यभेदाध्यवसा- यान्न लक्षणासमन्वय इति बोध्यम् । सामान्यलक्षणं पूर्ववदन्यतमत्वघटितमनु- संधेयमिति दिक् ॥ १०२ ॥ इति व्याघातालंकारः ॥ ४५ ॥ गुम्फ इति ॥ रचनेत्यर्थः । कैस्तत्राह-यथेति ॥ प्राक् च प्रान्तं च प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्रोक्प्रान्तं यानि कारणानि तैः । पूर्व पूर्व प्रति कारणैरुत्तरोत्तरं प्रति कारणैश्चेत्यर्थः । एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमु- दाहरणक्रमानुरोधेनेति ज्ञेयम् ॥ १०३ ॥ इति कारणमालालंकारः ॥ ४६ ॥ १ 'यदा'. २ 'भवत्' ११८ कुवलयानन्दः । [मालादीपकालंकारः ४८ एकावल्यलंकारः४७ गृहीतमुक्तरीत्यार्थश्रेणिरेकालिर्मता। नेत्रे कर्णान्तविश्रान्ते कौँ दोस्तम्भदोलेनौ ॥१०४॥ दोस्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ । जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥ १०५ ॥ उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृही- तमुक्तरीतिः । तत्राद्यः प्रकार उदाहृतः । द्वितीयो यथा- दिक्कालारमसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तस्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु नोमूर्तयः ॥१०४॥१०५॥ । मालादीपकालंकारः ४८ दीपकैकावलीयोगान्मालादीपकमिष्यते । सरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१०६ ॥ अन स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि । अतो दीपकम् । गृहीतमुक्तरीतिसद्भावा- देकावली चेति दीपकैकावलीयोगः । यथावा- गृहीतेति ॥ वक्ष्यमाणया गृहीतमुक्तरीत्या निबद्धार्थपतिरेकावलि 'लंकारः नेत्रे इति ॥ तस्य भूभुज इति सर्वत्र संबध्यते । दोस्तम्भयोर्भुज भयोर्दोलि- तमान्दोलनं ययोस्तौ । दोलनाविति पाठे दोला दोलनं ययोर स्ताति विग्रहः । रत्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिक्कालात्मभिस्तुल्या यस्याकाशस्य वि- भुतः । यश्च तत्राकाशे विशेषेण द्योतते सूर्यः । यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति । स च चन्द्रो यासामपां राशेः समुद्रादभूत् । यश्चा- निस्तासामपां पित्तं भवति । 'शुचिरप्पित्तम्' इति कोशात् । यश्च यजमान उषःसु प्रातःकालेऽप्यस्य वहेर्ह विषे हविर्दानाय भवति । यश्च वायुः प्राणरूपस्तस्य यज- मानस्य जीवातवे जीवनौषधाय भवति । यस्याश्च पृथिव्या गुणं गन्धमेष वायु- र्वोढा ता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मान्पान्त्वित्यन्वयः॥१०४॥१०५॥ इत्येकावल्यलंकारः ॥ ४७ ॥ मालादीपकमिति ॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्व- यीत्यनेनान्वितम् ॥ अत इति । एतावन्मात्रेण दीपसादृश्याद्दीपकं नतु प्रागुक्त- १ 'वली मता'. २ 'दोलितो'. ३ 'प्रलम्बण'. ४ 'महीभुजः'. ५ 'मुच्यते'.

सारालंकारः ४९] अलंकारचन्द्रिकासहितः ।
११९
संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥
अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समा-
सादितपदं कोदण्डेन शरा इत्यादिपु षट्स्वपि विवरणवाक्येषु तत्तदुचितलि-
ङ्गवचनविपरिणामेनान्वेतीति दीपकम् । शरादीनामुत्तरोत्तरविशेषणभावादे-
कावली चेति दीपकैकावलीयोगः ॥ १०६ ॥
सारालंकारः ४९
उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते ।
मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः॥१०७ ।।
यथावा-
अन्तर्विष्णोत्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते
सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार ।
धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र
त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥
अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोरकर्षों यथा-
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥
उभयरूपो यथा-
गिरिमहानिगरेरब्धिमहानब्धेर्नभो महत् ।
नभसोऽपि महब्रह्म ततोऽप्याशा गरीयसी ॥
दीपकालंकारः । प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तदङ्गीकारादिति भावः ।।
संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासा-
दितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितो
भवता कीर्तिरासादिता कीर्त्या च लोकत्रयं समासादितमित्यनुषङ्गेणान्वयः
॥१०६ ॥ इति मालादीपकम् ॥ ४८ ॥
सार इति ॥ सारो नामालंकारः । तस्याः सुधातः ॥ अन्तरिति ॥ वि.
ष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी सोऽपि विष्णुरपि फणिनां ना-
गानामीश्वरे शेषे शेते निद्राति । सोऽपि शेषोऽपि सिन्धोरेकदेशे तिष्ठतीति
शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यश्चलकयांचकार पीतवान् । अयमग-
स्त्योऽपि नभसि गगने खद्योतशोभां धत्ते'। इदं गगनमपि प्रेक्षणीयं सुन्दरं त्व-
कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूल: कासः । प्रकृतार्थाशायां
प्रकृतार्थरूपायामाशायाम् ॥ १०७ ॥ इति सारालंकारः ॥ ४८ ॥

- १२० कुवलयानन्दः। [ पर्यायालंकारः ५१ अत्र ब्रह्मपर्यन्तेषु महत्वं श्लाघ्यगुणः । प्रकृतार्थाशायामश्लाघ्यगुणः॥ १०७॥ यथासंख्यालंकारः ५० यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः । शत्रु मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०८ ॥ यथावा- शरणं किं प्रपनानि विषवन्मारयन्ति वा । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ अमुं क्रमालंकार इति केचिंद्याजहुः ॥ १० ॥ पर्यायालंकारः ५१ पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवर्दनोपमा ॥ १०९॥ अनकस्य कामिनीवदानसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठतो नोक्तं तथापि पद्मं मुक्त्वेति तत्परित्या- गोत्तथा प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः । अतएव- 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पन्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्र स्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ।' यथासंख्यमिति ॥ क्रमिकाणां क्रमेणोक्तानां पदार्थानां तेनैव क्रमेणान्वयो यथासंख्यनामालंकारः ॥ शरणमिति ॥ कृपणेन धनानि यत् न त्यज्यन्ते तत्कि तानि शरणं प्रपन्नानि, यच्च न भुज्यन्ते तत्किं विषवन्मारयन्तीति क्रमेणान्वयः । केचिद्वामनादयः ॥ १०८ ॥ इति यथासंख्यालंकारः ॥ ५० ॥ पर्याय इति ॥ पर्यायेण क्रमेण । अनेकसंश्रयोऽनेकाश्रितत्वम् । तदुक्तम्- ‘एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्रौ पद्मसंकोचात्त्यागः । अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव ॥ श्रोणीति ॥ जघनबन्धस्तनुतां कृशतां त्यजति । मध्यभागस्तां सेवते आश्रयति । वक्षःस्थलं कुचसचिवतां कुचसहितत्वं धत्ते । वकं त्वद्वितीयम् । अत्र पूर्व वक्षमोऽहिनीगन्यावगमा पर्यावगंभवी ज्ञेयः । अद्वितीयत्वं द्वितीयरहितत्वमनुपमत्वं चैकत्वेनाध्यवसितम् । एवं चोदाहरणद्व- येऽपि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयणं शाब्दमिति । सर्वत्र सर्वा- १'धवजह्वः'. २ 'वदनप्रभा'.

- - पर्यायालंकारः ५१] अलंकारचन्द्रिकासहिनः । १२१ इत्यत्र पर्याय काव्यप्रकाशकृदुदाजहार । सर्वत्र भादः पर्यायो यथा- नन्वाश्रयस्थितिरियं तव कालकूट केंनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥ सर्वोऽप्ययं शुद्धपर्यायः । संकोचपर्यायो यथा- प्रायश्चरित्वा वसुधामशेषां छायासु विश्रम्य ततस्तरूणाम् । प्रौढिं गते संप्रति तिग्मभानौ शैत्यं शनैरन्तरपामयासीत् ॥ अत्र त्यस्योत्तरोत्तरमाधारसंकोचात्संकोचपर्यायः। विकासपर्यायो यथा- बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥ अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः १०९ एकमिन्यधनेकं वा पर्यायः सोऽपि संमतः। अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि ॥ ११० ॥ यथावा- । पुराभूदस्माकं प्रथममविभिन्ना तनुरियं ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः। धारसमाश्रयणांशे ॥ नन्विति ॥ हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः । हृदयेऽभ्यन्तरे । अवस इति शेषः । अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे । अधुना पुनरिति संबन्धः । शुद्धः संकोचविकासामिश्रितः ॥ प्राय इति ॥ शैत्यं प्रायोऽशेषां वसुधां हेमन्ते चरित्वा ततो वसन्ते तरूणां छायासु विश्रम्य संप्रति ग्रीष्मे तिग्मभानौ सूर्ये प्रौढि प्रागल्भ्यं प्राप्ते सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छति स्मेत्यर्थः ॥ बिम्बोष्ठ एवेति ॥ बिम्बफलसदृशे ओष्ठे। रागो रक्तिमा अनुरागश्च । एष रागः । अत्र रागस्य भेदेऽप्यभेदाध्यवसायादेकत्वम् । यत्तु एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायपदप्रयोगाच्छोणीबन्ध इति प्रकाशकाने तथैव दृष्टत्वाच्च बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्तमिति केनचिदुक्कं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थनाद्धान्तप्रलपनमि- वोपेक्षणीयम् । आलंकारिकपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकि- चित्करत्वाचेति दिक् ॥ १०९॥ भेदान्तरमाह-एकस्मिन्निति ॥ पर्यायेणे- त्यनुवर्तते । एकस्मिन्नाधारे क्रमेण यद्यनेकं भवति सोऽपि, पर्यायालंकारः संमत इत्यर्थः ॥ पुरेति ॥ अस्माकमिति ‘अस्मदो द्वयोश्च' इति द्वयोरपि बहुवचनम् । पुरेत्यनेन स्थूलोऽतीतकाल उच्यते । तत्रापि प्रथमं तनुरविभिन्नाभूत् । ततो १'श्रोतः'. ११ १२२ कुवलयानन्दः। [परिसंख्यालंकारः ५३ इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम् ॥ अत्र दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिमाव इत्याधेयपर्यायः ॥ ११०॥ परिवृत्त्यलंकारः ५२ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम् ॥ १११॥ यथावा- तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दु किरणोज्वलं यशः ॥ ११ ॥ परिसंख्यालंकारः ५३ परिसंख्या निषिध्यैकमेकसिन्वस्तुयत्रणम् । स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥ ११२ ॥ यथावा- विलङ्घयन्ति श्रुतिवमै यस्यां लीलावतीनां नयनोस्पलानि । विभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः॥ भाघोदाहरणे निषेधः शाब्दो द्वितीये त्वार्थः ॥ ११२ ॥ - नु वितर्के । त्वं प्रियतमः वयं प्रियतमाः । इदानीं तु त्वं नाभः पतिः वयं भार्याः । इतोऽपरं किमिष्टमिति शेषः । कुलिशं वाम् । अत्र त्वं शानित्येकवचने- म एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेनानेकरूपतयतिरेक इति बोध्यम् ॥ ११० ॥ इति पर्यायालंकारः ॥५१॥ परिवृत्तिरिति॥न्यूनाधिकयोमिथः परस्परं विनिमयः परिवृत्तिरलंकारः॥ जग्राहेति ॥ कटाक्षपूर्वकमेकं शरे मुक्त्वा रिपोः श्रियं जग्राहेत्यर्थः ॥ तस्य चेति ॥ प्रवयसो वृद्धस्य जटायुषो गृध्रविशेषस्य वर्ग गतवतः किमिव शोच- नीयं न किंचित् । जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्माद्यशः क्रीतम् । शरीरं दत्वा यशो गृहीतमित्यर्थः ॥ १११ ॥ इति परिवृत्त्यलंकारः ॥५२॥ परिसंख्येति ॥ एकं वस्तु प्रतिषिध्यापरस्मिन्वस्तुनो नियन्त्रणं नियमनं परिसंख्यालंकारः ॥ स्नेहेति ॥ स्नेहस्तैलादिस्निग्धद्रव्यमनुरागश्च । खान्तेषु चि- तेषु ॥ विलक्यन्तीति ॥ यस्यामुज्जयिनीपुर्याम् । श्रुतिः कौँ वेदश्च । वम १ 'कटाक्षान्स'. २ 'रिपुस्त्रियाम्'.

समुच्चयालंकारः५५] अलंकारचन्द्रिकासहितः । १२३ विकल्पालंकारः ५४ विरोधे तुल्यालयोर्विकल्पालंकृतिर्मता । सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११३।। अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्क- तुमशक्ययोर्विकल्पः । यथावा- पतत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥ प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसंभव इति तयोराशंसायां विकल्पः ॥ ११३॥ समुच्चयालंकारः ५५ बहूनां युगपद्भावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः ॥११४॥ अविरोधेन संभावितयोगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथाबा- बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेडति भ्राम्यत्युल्ठति प्रणश्यति गलत्युन्मूर्च्छति शुव्यति ॥ अन कासांचिरिक्रयाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रिशतभेदन्या- येन यौगपद्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः ॥ ११॥ मार्ग वक्रिमाणं कौटिल्यं वक्राकारतां च । महाकाल इति तत्रैव ख्यातं शिवलि- नम् ॥ ११२ ॥ इति परिसंख्यालंकारः ॥ ५३ ॥ संधिविग्रहप्रमाणेति॥संधिविग्रह्योः कर्तव्यताबोधकप्रमाणेल्यर्थः॥११३॥ इति विकल्पालंकारः ॥ ५४ ॥ बहूनामिति ॥ युगपद्भावो भवनं तद्भाजां बहूनां गुम्फो निबन्धः । वर्णन- मिति यावत् । स समुच्च यालंकारः॥विभ्राणेति ॥ नायकं प्रति दूत्या इयमुक्तिः। हे साधो, त्वया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता वि. रहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षाया- माह-शेते निद्राति । ताम्यति ग्लानिं प्राप्नोति । प्रकर्षेण म्लायति । प्रेति चलति स्यति । नैर्बल्यातिशयेन मृतप्राया भवति । गलति खेदा- तिशयात् । त्रुट्यति क्षीणा भवतीति । कासांचिच्छयनभ्रमणादीनाम् । शत- १ 'दाजां भावगुम्फः'. २ 'भ्रश्यन्ति च तव द्विषः'.

१२१ कुवलयानन्दः । [कारकदीपकालंकारः५९ अहंप्राथमिकाभाजामेककार्यान्वयेऽपि सः। कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम् ॥ ११५ ॥ यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि यद्यहमहमिकया खलेक- पोतन्यायेन तसिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेकं समग्रं कारणं ताहगेव रूपादिकमपि तत्साधनत्वेनावतरतीति । यथावा- प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि- निरुत्सेको लक्ष्भ्यामनभिभवगन्धाः परकथाः। प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११५ ॥ - .. कारकदीपकालंकारः ५६ ऋमिकैकगतानां तु गुम्फः कारकदीपकम् । गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११६॥ यथावा- निद्राति नाति मुक्त चलति कचभरं शोषयस्यन्तराते दीव्यत्यक्षैन चायं गदितुमवसरो भूय आयाहि याहि । इत्युदण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना- नमान्पश्याब्धिकन्ये सरसिरहरुचामन्तररपाङ्गः ॥ पत्रस्य कमलस्य पत्रशतं दलशतम् ॥ ११४ ॥ अहंप्राथमिकेति ॥ अहं- पूर्विकेत्यर्थः । 'अहं पूर्वमहं पूर्वमित्यहपूर्विका स्त्रियाम्' इत्यमरः ! एककार्यान्वये एककार्यसाधकत्वे । स समुच्चयालंकारः । अहमहमिकया राहंकारेण । आभिजात्यं कुलीनत्वम् । समग्रं पुष्कलम् ॥ प्रदानमिति ॥ प्रच्छन्नं गुप्तं गृहं प्रत्युपगतेर्स्थादतिथौ । लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः । अभिभवो निन्दा तद्गन्धशून्याः । मौनमनुद्घाटनम् । सदसि सभायां परेण कृताया उपकृतेः कथनम् ।श्रुते शास्त्रश्रवणे। सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः। भभिजातं कुलीनम् । प्रथयति कथयति ॥ ११५ ॥ इति समुच्चयालंकारः॥५५॥ क्रमिकेति ॥मि काणाम जि.ाणामे . कागानां गुमो निबन्धःकार- कदीपकं नामालंकारः । तदुक्तम्-'सैव क्रियासु बढीषु कारकस्येति दीपकम्' इति । सैव सकृवृत्तिः । पश्यति सार्थम् । पृच्छति मार्गम् ॥ निद्रातीति ॥ हे अब्धिकन्ये, प्रभूणामुद्यतदण्डैभरि अधिकृतैभरपालैरित्यसकृद्वारितान् अतएव दीनानस्मान्सरसीरुहद्युतीनां परमपरिचितैरपाझैः कटाक्षः पश्येत्यन्वयः । इति किम् । प्रभुर्निदातीत्यादि । अन्तः अन्तःपुरे । अक्षैः पाशैर्दीव्यति क्रीडति। १ 'प्रथमिका'. २ 'न्वयोऽपि'. ३ 'शीलं'. ..

प्रत्यनीकालंकारः५८] अलंकारचन्द्रिकासहितः । भाघोदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्सैकस्य गमनादिष्वन्वयः, द्वितीये स्वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दी- पकच्छायापच्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥ ११६ ॥ समाध्यलंकारः ५७ समाधिः कार्यसौकर्य कारणान्तरसंनिधेः। उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥११७॥ यथावा- मानमस्या निराकर्तु पादयो, पतिष्यतः। उपकाराय दिष्ट्यैतदुदीर्ण धनगर्जितम् ॥ केनचिदारिप्सितस्य कार्यस्य कारणान्तरसंनिधानाधत्सौकर्य तत्सम्यगा- धानात्समाधिः । द्वितीयसमुच्चयप्रतिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येकं समर्थानां खलेकपोतिकान्यायेन युगपत्कार्यसाधनत्वेनावतारः । अत्र त्वेकेन कार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्व- मात्रम् । अत्रोदाहरणमुस्कण्ठितेति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता त्वन्धकारेण तत्सौकर्यमानं कृतमिति । एवं द्वितीयो. दाहरणेऽपि योज्यम् ॥ १७ ॥ . प्रत्यनीकालंकारः ५८ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः। जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधाकृतौ ॥ ११८ ॥ भूयः पुनः । छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण संभवादिति भावः। प्रतिद्वन्द्वि विपरीतम् ॥ ११६ ॥ इति कारकदीपकालंकारः॥५६॥ समाधिरिति॥ कारणान्तरसंनिधेर्वशात्कार्यस्य सुकरत्वं समाधिरलंकारः । उत्कण्ठिता नायकसमीपं गन्तुम् ॥ मानमिति ॥ मानं निराकर्तुमस्याः पादयोः पतिष्यतो ममोपकाराय दिष्ट्या भाग्येनेदं धनगर्जितमुदीर्णमुद्गतमित्यन्वयः। समु- बये कारणानां तुल्यकक्षत्वमिह तु तद्विपरीतमतुल्यकक्षत्वमिति प्रतिद्वन्द्वित्वं तत्रे- त्यादिना दर्शितम् ॥ ११७ ॥ इति समाध्यलंकारः ॥ ५७ ॥ प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः परा- क्रमस्तत्प्रत्यनीकं नामालंकारः । अनीकप्रतिनिधिरूपत्वात् ॥ जैत्रेति ॥ उत्प- लाभ्यां खजयकारिनेत्रानुसारिणौ कर्णावधःकृतौ तिरस्कृतौ । अवतंसतया तदु- १ 'कुलटा'.२ 'वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति' इत्येनेन.

१२६ कुवलयानन्दः । [अर्थापत्त्यलंकारः ५९ ययावा- मम रूपकीर्तिमहरडुवि यस्तदनु प्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु ता मदनः । एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थि- ते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा- मधुव्रतौधः कुपितः स्वकीयमधुमपापानिमीलनेन । बिम्बं समाक्रम्य बलात्सुधांशोः कलकमके ध्रुवमातनोति ॥ ११ ॥ अर्थापत्त्यलंकारः ५९ कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥११९॥ अत्र स इत्यनेन पनानि येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पद्मानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पारू- पस्यार्थस्य संसिद्धिः काव्यार्थापत्तिः । ताधिकाभिमतार्थापत्तिव्यावर्तनाय का- व्येति विशेषणम् । यथावा- अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः । भन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥ परि स्थितत्वादधतात्कृतौ चेति श्लेषः ॥ ममेति ॥ भुवि भूलोके मम रूपख्या- तिं यो हृतवान् तस्मिन्ननुप्रविष्टमनुरक्तं हृदयं यस्याः तस्यानुप्रविष्टं हृदयं यस्यां वा तादृगियमिति त्वयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करोतीत्यन्वयः । अत्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्र- तिपक्षसंबन्धिबाधनं प्रत्यनीकालंकारस्य विविक्तो विषय इति बोध्यम् । अतएव म्मटभट्टैरपि–'त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरका । पञ्च- भिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥' इत्युदाहृतम् । एवंच हेतूत्प्रे. क्षयव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हतीति कस्यचिदूचनमनादेयम् ॥ कैमुतिकेति ॥ तत्संबन्धिबाधनापेक्षया साक्षात्तद्धाधने विशेषादिति भावः ॥ मध्विति ॥ श्रमरौधः स्वकीयमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन् सुधांशोर्बिम्बं बलात्समाकृष्य तस्याङ्के मध्यभागे कलङ्क ध्रुवमातनोतीत्यन्वयः ॥ ११८ ॥ इति प्रत्यनीकालंकारः ॥ ५८ ॥ कैमुत्येनेति ॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलंकाररूपार्थापत्तिः काव्यार्था- पत्तिः ॥ दण्डापूपिकेति ॥ दण्डाकर्षणे तदवलम्बिनामपूपानामाकर्षणं यथा- थसिद्धं तद्वदित्यर्थः ॥ व्यावर्तनायेति ॥ लक्ष्यतावारणायेत्यर्थः ॥ अधरो- ऽयमिति ॥ बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्च यत्त्वेतल्लक्षणमयुक्तम् । कैमुतिकन्यायस्य न्यूनाविषय वनाधिका पत्तावन्या- ः । यथा-'तवाग्रे यदि दारिद्यं स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यप्रे काव्यलिङ्गालंकारः६०] अलंकारचन्द्रिकासहितः । १२७ स्वकीयं हृदयं मिरवा निर्गतौ यो पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ ११९ ॥ काव्यलिङ्गालंकारः ६० समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । जितोऽसि मन्द कन्दर्य मञ्चित्तेऽस्ति त्रिलोचनः ॥१२०॥ मन्त्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः । तस्य मश्चित्ते- ऽस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलि. गम् । व्याप्तिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं वाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा- भस्मोलन भद्मस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते । तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिम्ना राजाने दारिद्यस्थित्यपेक्षया सूर्याने तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापद्यते । ननु कैमुति- कन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम् । केनचिदर्थेन तुल्यन्यायत्वादर्थान्तर- स्यापत्तिरपत्तिरिति नदुतलक्षणमयुक्तम् । का वार्ता सरसीरुहामित्यादिकैमु- त्यन्यायविषयार्थापत्तावव्याप्तः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्या- यत्वाभावादापादनाप्रतीतेश्चेति । न चात्र कैमुत्यन्यायतामात्रं न त्वलंकारत्वमि- ति युक्तम् , अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन तस्यालंकारतासिद्धेश्च । इत्थंच त्वदुक्तार्थापत्त्युदाहरणे वक्ष्यमाण: संभावनालंकारो योऽन्यैर्यद्यर्थोक्तौ च कल्पनमिति यद्यर्थातिशयोक्तित्वेनोक्तः । यद्यर्थातिशयोक्तावापाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् , इह त्वापादकस्य सि. द्धत्वमापाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायाः साधकं न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीत्यलं विस्तरेण ॥ ११९ ॥ इत्यर्था- पत्त्यलंकारः ॥ ५९॥ समर्थनीयस्येति ॥ समर्थनापेक्षस्यार्थस्य समर्थनं काव्यलिङ्गमलंकारः । अर्थान्तरन्यासवारणाय समर्थनापेक्षस्येति। यदा त्वर्थान्तरन्यासप्रकरणे वक्ष्यमा- णरीत्या सामान्यविशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम् । दुष्करविषयत्वात् दुष्करविषयरूपत्वात्समर्थनापेक्षस्येत्यनन्तरमर्थस्येतिशेषः ॥ नैयायिकेति ॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति ॥ भस्मोडूलनेति संबोधनम् । शुभमस्त्विति शेषः। गिरि सुनाकान्तम्य शिवस्यालयः प्रासादस्तदलंकारभूते सोपानपङ्के इत्यपि संबोधनम् । हेति दैन्ये। विभुना प्रभुणा शिवेन । युष्माकं या सपर्या पूजा तत्सुखस्यालोकः प्रकाशस्तदुच्छेदके - १२८ कुवलयानन्दः। [काव्यलिङ्गालंकारः ६० अधाराधनतोषितेन विभुना युष्मत्सपर्यासुखा. लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ।। अन्न मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थों हेतुः । कचित्पदार्थवाक्याथों परस्परसापेक्षौ हेतुभावं भजतः । यथावा- चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्विभर्ति सा। पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि याम्धिमा र्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः । कञ्चित्समर्थनीयार्थसमर्थनार्थे वाक्यार्थे पदार्थों हेतुः। वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न कापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रेत्यहमतनुरग्रेऽप्यनतिमा- नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ अन्न तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात् । तत्समर्थनं च पूर्वा. परजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवाक्यार्थेऽत- नुवमेकपदार्थों हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थों वा हेतुः । कचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ॥ असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विनम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने स्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकराः केशपाशाः । विदुषी पण्डिता । सा दमयन्ती। अपुरस्कृतेनानादृतेन पुरोभागेऽनिहितेन च । पदा- र्थश्वानेकपदार्थश्च ॥ वपुरिति ॥ पुरा पूर्वस्मिन्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवान् । इतीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति रसन्नतिं कुर्वन्मुक्तः । अतनुरशरीरः । अतोऽहमग्रेऽप्यनतिमान्नतिरहितः। अत्रेति ॥ समर्थनीय हेतुकथनेनोपपादनीयम्। अस्पष्टार्थत्वादस्पष्टहेतुकत्वात्। अत्रानयोर्वाक्यार्थयोर्मध्ये द्वितीयवाक्यार्थे अग्रेऽप्यनतिमानिति वाक्यार्थे । अ- त्राप्यतनुत्वेऽपि । नमन्मुक्त इत्यस्यावाक्यत्वादाह-अनेकपदार्थो वेति ॥ असोढेति ॥ तपस्यन्तीमुमा प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोर्ब्रह्मचारिणो वेषस्तस्यापनयने त्यागे त्वराशैथिल्याभ्यां युगपदभियुक्त आक्रान्तः । त्वराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु- १ 'संप्रत्यतनुरहमग्रे'. का काव्यलिङ्गालंकारः६०] अलंकारचन्द्रिकासहितः। १२९ ." मत्र शिवस्य युगपरकृत्रिमब्रह्मचर्यवेषापनयनवरातदनुवर्तनेच्छयोर्विह- योः क्रमाद्विरिजातीव्रतपसोऽसहिष्णुत्वं तत्संलापकौतुकं चेत्युभावयौं हेतु- स्वेन निबद्धौ । कचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक. एव हेतुः । यथा- जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥ अन्न विफलस्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधरर- सास्वादो हेतुः । इदं काव्यालङ्ग हेत्वलंकार इति केचियाजदुः॥ हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कवि- वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरतिं गतः। एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥ इत्यत्र ब्रह्मणः प्रापणं कथं गोदावर्या कर्तव्यमित्यसंभावनीयार्थोपपादक- स्यार्णवमध्येत्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति 'श्लेषो विघटमा- नार्थघटकार्थस्य वर्णनम्' इति श्लेषलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्व. त्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थवा- क्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे पदार्थवाक्यार्थबलात्प्रतीयमानार्थों वाच्योपस्कारकता भजतः । काव्यलिङ्ग तु . पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्या- दिपदार्थहेतुककाव्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुक- काध्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्य- पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतु- कोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोव्यनुप्रवेशो दृश्यते । पशुनेति वि. भवनसहभावो दुःसहत्वमर्थाद्गौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्यायाः कथानां विस्रम्भेषु विश्वासेषु रसिकश्चेति । ब्रह्मचर्य ब्रह्मचारिवेषः॥ जीयादिति ॥ अम्बुधेस्तनयाया लक्ष्म्या अधररसमाखादयन्नयं मुरारिजर्जीया- सर्वोत्कर्षेण वर्तताम् । कीदृशः । समुद्रमथनक्लेशमेवंविधाङ्गनालाभात्सफलं कलयन् जानन् एतदधरमाधुर्ये सत्यमृतस्य वैयर्थ्याद्विफलं च कलयन्नित्यर्थः । हे गोदावरीति ॥ अत्रार्णवमध्येत्यादिब्रह्मविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे त्वदीयतीरभूमौ कलिङ्गाख्यः कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरक्तिं मुक्तिम् । एनां सरखती ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशं । अर्णवमध्ये सुप्तो यो मुरभि- न्मुरारिस्तन्नाभिकमलस्थम् । श्लेषोऽविघटमानेत्यत्राकारप्रश्लेषः । अविघटमान- स्थानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्य- र्थः । पदार्थहेतुकं समस्तपदार्थहेतुकम् । पदार्थवाक्यार्थति द्वन्द्वः । प्रतीयमानो- ।

१३० कुवलयानन्दः। [काव्यलिङ्गालंकारः ६० वेकित्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिदेश्यत्वात्रिलोचन इति च कद- पंदाहकतृतीयलोचनस्वाभिप्रायगर्भ कन्दपंजयोपयोगित्वात्तस्य । सत्यम् । तथापि न तयोः परिकर एव किंतु तदुस्थापितं कायलिझमपि ॥ प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य प्रतीयमा- नकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च वाक्या- र्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोहेतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्वारमस्ति । यथा सर्वाशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम्। तथाच वाक्यार्थपरिकरोदाहरणे पयायोक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं नाहं व्यास इत्यादि तमात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाध्य- स्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्थानमेव । यथा-'यत्वक्षेत्रसमानकान्ति सलिले मनं तदिन्दीवरम्' इत्यनेकवाक्यार्थ. हेतुककाव्यलिङ्गोदाहरणे स्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसवि. शेषणानि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुकका- व्यलिङ्गे पदार्थहेतुकाव्यलिङ्गमङ्गमिति न तयोः काव्यलिङ्गोदाहरणत्वे काचि- दनुपपत्तिः ॥ १२०॥ ऽर्थो व्यङ्गयोऽर्थः । प्रतिनिर्देश्यत्वादिति ॥ निर्दिश्यते उच्चार्यत इति निर्दे- शः शब्दः तेन । विपरीतार्थशब्दत्वादित्यर्थः । तस्य तादृशतृतीयलोचनत्वस्य । तथा चोभयत्र परिकरालंकारसत्त्वात्काव्यलिङ्गोदाहरणत्वमनुपपन्नमिति भावः। तयोः पशुनेत्यायुक्तोदाहरणयोः । तदुत्थापितं परिकरोपपादितम् । व्यङ्ग्यस्य हे. तुकोटावेवानुप्रवेशादिति भावः ॥ एतदेव विवृणोति-प्रतीयमानेति ॥ वाच्य- स्यैवेत्येवकारसूचितं व्यङ्गयाद्वारकत्वं न हीत्यादिना विवृतम् । अमर्थः । यदि पश्वादिपदव्यङ्ग्य केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर एव स्यान्न काव्यलिङ्गम् । न त्वेवमस्ति पनुपम नीनानि कि वमात्रेण साम्या- भावस्योपपादनासंभवात् । किंतु नविशिष्ट पशुपुरम्मतन्याभाव एव साक्षादुपपा- दक इति तत्कोटिनिविष्टं व्यङ्ग्यं काव्यलिङ्गरूपस्य तस्याङ्गमेव । व्यङ्ग्यान्तरं तु भोक्तकाव्यलिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्गमिति । ननु खयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क दृष्टमित्याशयोदाहरति-- यत्त्वन्नेवेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुके- ति ॥ पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुत्वमिति ज्ञेयम् ॥ हेतुभावो पपादकानीति ॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शन- स्य देवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुत्वासंभवादिति भावः । समाहित- मर्थमुपसंहरति-इतीति ॥ तयोः पशुनापीति मच्चित्तेऽस्तीत्येतयोः ॥१२॥ इति काव्यलिङ्गालंकारः ॥ ६॥ - अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः। १३१ अर्थान्तरन्यासालंकारः ६१ उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनूमानब्धिमतरदुष्करं किं महात्मनाम् ॥ १२१॥ गुणवद्वस्तुसंसर्गाद्याति खल्पोऽपि गौरवम् ।। पुष्पमालानुषङ्गेन सूत्रं शिरसि धार्यते ॥ १२२ ॥ सामान्यविशेषयोर्द्वयोरप्युक्तिरर्थान्तरन्यासस्तयोश्चैकं प्रस्तुतमन्यदप्रस्तुतं भवति । ततश्च विशेषे प्रस्तते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते तेन सहाप्रस्तुतविशेषरूपस्यार्थान्तरस्य न्यसनमर्थान्तरन्यास इत्युक्तं भवति। तत्राधस्य द्वितीयाधमुदाहरणं द्वितीयस्य द्वितीयश्लोकः । नन्वयं काव्यलि- आमातिरिच्यते । तथाहि । उदाहरणद्वयेऽप्यप्रस्तुतयोः सामान्यविशेषयोरु- कि प्रस्तुतयोर्विशेषसामान्ययोः कथमुपकरोतीति विवेक्तव्यम् । नहि सर्व- थैव प्रस्तुतानन्वय्यप्रस्तुताभिधानं युज्यते । न तावदप्रस्तुतप्रशंसायामिव प्रस्तुतव्यञ्जकतया, प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्तत्वात् । नाप्यनुमानालंकार इव प्रस्तुतप्रतीतिजनकतया, तद्वदिह व्याप्तिपक्षधर्मता- घभावात् । नापि दृष्टान्तालंकार इव उपमानतया, 'विस्रब्धघातदोषः स्ववधाय खलस्य वीर कोपकरः । नवतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥' इत्यादिषु सामान्ये विशेषस्योपमानत्वदर्शनेऽपि विशेषे सामान्यस्य क्वचि- दपि तददर्शनात् । उपमानतया तदन्वये सामञ्जस्याप्रतीतेश्च । तस्मात्प्रस्तु- तसमर्थकतयवाप्रस्तुतस्योपयोग इहापि वक्तव्यः । ततश्च वाक्यार्थहेतुकं का. व्यलिङ्गमेवात्रापि स्यान त्वलंकारान्तरस्यावकाश इति चेत् ॥ अत्र केचित् । समर्थनसापेक्षस्यार्थस्य समर्थने काव्यलिङ्गं निरपेक्षस्यापि प्रतीतिवैभवात्स- मर्थनेऽर्थान्तरन्यासः ॥ नहि यत्त्वनेत्रसमानकान्तीत्यादिकाव्यलिङ्गोदाहरणे. विव, प्रस्तुतव्यञ्जकतयेति ॥ अप्रस्तुताभिधानं युज्यत इत्यनुषज्यते । एवम- ग्रेऽपि ॥ विस्तब्धेति ॥ खलस्य विश्वस्तघातरूपो दोषः खस्यैव वधाय भवति। यतो वीराणां कोपकारकः । सिंहनिद्रापहारी नवतरुभङ्गजन्यध्वनिः करिणो वाय यथेत्यर्थः । तददर्शनादुपमानत्वादर्शनात् । ननु महापुरुषाकृतिरिव गम्भीरेनम- स्याकृतिरित्यादी सामान्यस्याप्युपमानता दृष्टेत्यरुचेराह-उपमानेति ॥ इवा- द्यभावात्तात्पर्याभावाचोपमानतयाऽन्वयस्य सामञ्जस्येनाप्रतीरित्यर्थः । इहापी- त्यपिना काव्यलिङ्गसमुच्चयः । प्रतीतिवैभवात्प्रतीतिदायरूपप्रयोजनवशात् । प्र- योजनस्यापि हेतुत्वविवक्षया पञ्चमी ॥ उक्तवैलक्षण्यमुदाहरणनिष्ठतया दर्शयति- नहीत्यादिना ॥ इत्यादिकाव्यंलिङ्गोदाहरणेष्विव ॥ अथेति ॥ अथेत्याद्यर्था- १ 'दुस्तरं किं. २ 'नुसंगेन'. ..

१३२ कुवलयानन्दः । [अर्थान्तरन्यासालंकारः६१ 'भथोपगूढे शारदा शशाके प्रावृख्ययौ शान्ततडित्कटाक्षा । कासा न सौभाग्यगुणोऽजनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपने ममस्वमुच्चैःशिरसामतीव ॥' इत्यापर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनापेक्षत्वमतीति । वस्तु तस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थ- नानपेक्षवेऽपि सामान्य विशेषेण समर्थनमपेक्षत एव निर्विशेषं न सामान्य- मिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधक' इत्यादि सामान्पत्य 'तृणैरारभ्यते रज्जुस्तया नागोऽपि बध्यते' इत्यादि संप्रतिपक्षविशेषावतरण विना बुद्धौ प्रतिष्ठितत्वासंभवात् ॥ न च तत्र सामान्यस्य कासा न सौभाग्यगुणोऽङ्गनानामित्यादिविशेषसम. र्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिहि- तत्वं संभवतीति श्लोके तथ्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस्य सर्वत्र लोकसंप्रतिपनत्वनियमाभावात् । नहि यो यो धूमवान् स सोऽमि. मानिति व्याप्तिरूपसामान्यस्य लोकसंप्रतिपातया यथा महानस इति त. द्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धब्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैव सामान्येन विशेषस- मर्थनस्थलेऽपि कचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारो- हाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । भत्रैव विषये विकस्वरालंकारस्थानुपदमेव दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपि न सर्वत्र समर्थनसापेक्षस्वनियमः । 'चिकुरप्रकरा जयन्ति से' इत्यत्र तदभावा- न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थित्वं नास्तीति संबन्धः । वारदा शशा- के उपगूढे आलिङ्गिते सति । अथानन्तरम् शान्तास्तडिद्रूपाः क्षा यस्याः सा प्रावृट् ययौ गतवती । उक्त विशेषरूपमर्थ मामान्गरूपेणार्धान्तरेण समर्थयति। परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा मेघाश्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः । ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च । समर्थनार्थित्वं समर्थनापेक्ष- त्वम् । अयमर्थान्तरन्यासे समर्थनानपेक्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौ प्रति- ष्ठितत्वासंभवादित्यनेनान्वयः ॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशे- षावतरणं विशेषावगमम् । तत्र बाहूनामित्यादौ सामान्यस्येति विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं संभवतीत्यप्रिमेणान्वितम् । तन्न्यसनं तृणैरित्यादिविशेष- न्यसनम् । नन्वेवमप्यर्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिङ्गे तु सर्वत्र सेत्यस्तु भेद इत्याशझ्याह-किंचेति ॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्त- त्वेन तदास्यदास्ये नलमुखदास्ये पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्दः। न विषेणेत्यादेः स्त्रियः कृता इत्यनेनान्वयः । अपि तु स्त्रीभिरेव । यतः प्रती- ।

अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः । दुपमानवस्तषु वर्णनीयसाम्पाभावेन विन्दावा कविकुलक्षुण्णत्वेनात्र सम- थनापेक्षाविरहात् । बहि विदासदासेऽपि गतोऽधिकारियन शारदः पार्व- णशर्वरीश्वरः' इत्यादिषु समर्थनं पश्यते । 'न विषेण न शस्त्रेण मानिना न च मृत्युना। अप्रतीकारपारुष्याः सीमिरेव स्त्रियः कृताः॥' इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽपि अप्रतीकारपारवा इत्या. दिना समर्थनदर्शनास । नहि तन्त्र खीणां विषादिनिर्मितत्वाभावप्रतिपादन समर्थनसापेक्षं प्रसिद्धत्वात् । तमादुभवतो व्यभिचारात्समर्थनापेक्षसमर्थने काम्बलिज तधिरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किंतु सामर्थ्य समर्थकयोः सामान्यविशेषसंबन्धेऽर्थान्तरन्यासस्तदितरसंबन्धे काव्यलिङ्ग मित्येव व्यवस्थावधारणीया। प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः । एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम् । प्रकृतेनाप्रकृतसमर्थनं यथा- यदुच्यते पार्वति पापवृत्तये न रूपमित्यम्यभिचारि तद्वचः । तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ यथावा- दानं ददत्यपि जलैः सहसाधिरूले को विरामानगतिरासिनुमुन्सहेत । यइन्तिनः कटकटाहतटाम्मिमसो- मक्षुदपाति परितः पटलैरलीनाम् ॥ १२१ ॥ ११२॥ काररहितं पारुष्यं क्रौर्य यासां तथाभूताः । उभयतोऽन्वयव्यतिरेकाभ्याम् । समर्थनापेक्षायामपि तदास्यदास्येऽपीत्यादौ तदभावात् । न विषेणेत्यादावपेक्षा- विरहेऽपि समर्थनसत्त्वात् ॥ अप्रकृतेनेति ॥ आये महात्मनां सर्वसुकरत्वे- नाप्रकृतेन सामान्येन हनुमदग्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीये पुष्प- मालासूत्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सङ्गप्रयुक्तपूज्यत्वस्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति ॥ हे पार्वति, रूपमाकृति- सौन्दर्य पापवृत्तये दुष्टाचरणाय न भवति यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायादिति यदुच्यते तद्वचनमव्यभिचारि यथार्थम् । तथाहि उदारं रमणीयं दर्शनं यस्यास्तथाभूते पार्वति, तव शीलमाचरणं तपखिनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेपेणाप्रकृतस्य सामान्यस्य समर्थनम् ॥ दानमिति ॥ दानं वितरणं मदजलं च । जलैरुदकैर्जडैश्च । लडयोरभेदात् । अधिरूढे आक्रा- न्ते सति । विद्यमानगतिः सगतिको बुद्धिमाश्च कः आसितुं स्थातुमुत्सहेत् शक्नुयात् । यस्मान्मिमहोर्मजनं कर्तुमिच्छोदन्तिनो गजस्य कटो गण्ड एव कटा- हस्तस्य तटादप्रादलीनां पटलैः समूहैः परितो मङ्गु शीघ्रमुदपाति उत्पतितमि- १२ कुवलयानन्दः। [विकस्वरालंकारः ६२. विकखरालंकारः ६२ यसिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१२३॥ यन्त्र कसाचिद्विशेषस्य समर्थनार्थ सामान्वं विन्यस्य तत्प्रसिदावण्यपरि- तुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविध- या वा विन्यस्यते तत्र विकस्वरालंकारः । उत्तरार्ध यथाकथंचिदुदाहरणम् । इदं तु व्यकमुदाहरणम् । अनन्तरत्नप्रभवस्य यस्प हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेविवाद। इदमुपमानरीत्या विशेषान्तरस्य न्यसने उदाहरणम् । अर्थान्तरन्यासवि. धया यथा- कारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिका नेपालक्षितिपालभालपतिते पङ्के न शकेत कः॥ - त्यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्धोक्केन प्रकृतेन विशेषेण समर्थितम् ॥ १२१ ॥ १२२ ॥ इत्यर्थान्तरन्यासालंकारः ॥ ६१॥ यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात् । निबध्यत इति शेषः । समर्थ्यसम- र्थकभावापन्नत्वं तु न लक्षणे निवेशनीयम् । तद्विना चमत्काराभावेन चमत्का• रित्वविशेषणमवश्यवक्तव्येनैवानतिप्रसङ्गात् । एवमर्थान्तरन्यासलक्षणेऽपि बोध्य- म् ॥ स नेति ॥ स प्रकृतो राजा न जिग्ये न जितोऽर्थानि शेषः । तत्समर्थनं महान्तो हि दुर्धर्षा अनाक्रमणीया इति सामान्येन तस्यापि सागरा इवेति विशेषोपमयेति ज्ञेयम् । प्रसिद्धरल्पत्वात्तत्रापरितोषो बोध्यः॥ यथाकथं. चिदिति ॥ महतामनाक्रमणीयत्वस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाचन्द्रा- लोकगतमेतन समजसमिति भावः । इदं वक्ष्यमाणम् ॥ व्यक्तमिति ॥ गुण- समुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्षमिन्दोरित्यादि विशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः ॥ कर्णेति ॥ हे काक, कर्णयोररुन्तुदं पीडाजनकं रसितं शब्दितमन्तरेण विना खयं मकरन्दः पुष्परसस्तच्छालिनं माकन्दमाम्रवृक्षं गाहख आश्रय । इहाम्रतरौ त्वां वयं कोकिलं मन्महे जामी- महे यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति सामान्येन पूर्वोक्तविशेषसमर्थनम् । अत्रापि तदाकाङ्क्षायां विशेषरूपमर्थान्तरं न्यसति । नेपालभूमिपालस्य भाले पतिते पके कस्तूरिकां को न शङ्केत, अपि तु १ 'दुर्दः'.

संभावनालंकारः६४] अलंकारचन्द्रिकासहितः। मालिन्यमशशिनोमधुकिटकलङ्की धत्तो मुखे तु तव किलकाजनामाम् । दोषावितःकचन मेहनतो गुणत्वं बतुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२३ ॥ प्रौढोक्यलंकारः ६३ प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतृत्वप्रकल्पनम् । कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥ १२४ ॥ कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैल्याति- शायाहेती यमुनातटरोहणे तदेतत्वप्रकल्पनम् । यथावा- कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशङ्खानाम् । रचितो रजोभरपयस्तेजःश्वासान्तराम्बरैरेषः ॥ अन्न कल्पवृक्षायेकैकवितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ क. ल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्धेतुस्वप्रकल्पनं प्रौढोक्तिः ॥ १२४ ॥ - संभावनालंकारः ६४ संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ १२५ ॥ सर्व इति ॥ मालिन्यमिति ॥ मधुलिट् भ्रमरः कलङ्कश्चैतावब्जशशिनोर्मालिन्यं धत्तः कुरुतः । तव मुखे तु दृक् च तिलकाञ्जनं च तयोराभां शोभां धत्त इत्यनु- षज्यते । अजनाभे इति पाठे द्वितीयाद्विवचनम् । उक्तमर्थ सामान्येन समर्थय- ति । दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणत्वमितः प्राप्नुत इति । कथमेतत्तत्राह । हि यतः वक्तुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भव- तः। घटवति घटाभावं निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्त वाक्ये प्रमा- जनकत्वात्तयोर्गुणत्वमिति भावः ।। १२३ ॥ इति विकखरालंकारः ॥ ६२ ॥ प्रौढोक्तिरिति ॥ उत्कर्षस्याहेतावुकर्षहेतुत्वकल्पनं प्रौढोक्तिः । कलिन्दजा यमुना । स्तोमः समूहः । मेचकाः श्यामाः। रोहणे उद्भवे ॥ कल्पेति ॥ एष , राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभी रचित इत्यन्वयः । धनदः कुबेरः । शो निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्धम् । श्वासः प्रसिद्धः । अन्तराम्बरं शङ्खाभ्यन्तरमाकाशम् । अतिशायीत्यग्रिमवितरणेना- न्वितम् । अहेतौ पञ्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२४ ॥ इति प्रौढोक्त्यलंकारः ॥ ६३ ॥ संभावनेति ॥ ऊहस्तर्कः ॥ कस्तूरिकेति ॥ अहं यदि सृष्टिकर्ता स्यां १ 'रुत्कर्षहेतो'. २ 'संभावनं यदित्य', १३६ कुवलयानन्दः। मिथ्याध्यवसित्यलंकारः६५ यथावा- कस्तूरिकामृगाणामण्डाद्वन्धगुणमखिलमादाय । यदि पुनरहं विधिा स्यां खलजिह्वायां निवेशयिष्यामि । यद्यक्तिौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२५ ॥ मिथ्याध्यवसित्यलंकारः ६५ किंचिन्मिथ्यात्वसिद्ध्यर्थ मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्त्रजं वहन् ॥ १२६ ॥ भन्न वेश्यावशीकरणस्यात्यन्तासंभावितत्वसिद्धये गगनकुसुममालिकाधा- रणरूपान्तरकल्पनं मिथ्याध्यवसितिः । यथावा- अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः किलाकीतयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा. न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥ अनायोदाहरणं निदर्शनागर्भ द्वितीयं तु शुद्धम् । असंबन्धे संबन्धरूपा- तिशयोक्तितो मिथ्याध्यवसितेः किंचिन्मिथ्यात्वसियर्थ मिथ्यार्थान्तरकल्पना- स्मना विच्छित्तिविशेषेण भेदः ॥ १२६ ॥ . तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवे- शयिष्यामीत्यन्वयः ॥ १५ ॥ इति संभावनालंकारः ॥ ६४ ॥ किंचिदिति ॥ कस्यचिदर्थस्य मिथ्यात्वसिद्ध्यर्थे मिथ्याभूतान्तिरकल्पनं मिथ्याध्यवसितिरलंकारः । वेश्यामित्युदाहरणम् । खस्रजं गगनमालाम् । अत्र खपुष्पमालाधारणमिव वेश्यावशीकरणमिति निदर्शनापि बोध्या .. अस्येति॥ परार्धपरया पराधसंख्यामतिकान्तया। लक्षीकृता उपलक्षिताः । प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्च ता बधिरश्राव्याश्चेति कर्मधारयः । कलयता कुर्वता । प्रक- रेण समूहेन । कूर्मरमणी कच्छपी। रोधसि तीरे । मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः । कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशेषेण । कल्प- गात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसंकरेऽप्युपाधेरसंकरात् । विच्छि- त्तिविशेषेणेति च तस्यैव विशेषणम् । विच्छित्तर्विशेषो यस्मादिति, विच्छित्ति विशेषयति व्यावर्तयतीति वा व्युत्पत्तेः । एतेन प्रौढोक्त्यैव गतार्थतामाचक्षाणा निरस्ता वेदितव्याः । नच मिथ्याध्यवसितेरलंकारान्तरत्वे 'हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥' इत्यादौ हरि. चन्द्रादिसंबन्धाद्गुणानां सत्यताप्रतीतेः सत्याध्यवसितिरपि तथा स्यादिति वा. च्यम् । सत्यताप्रतीत्यर्थ कस्याप्त्यर्थम्य कविप्रतिभाकल्पितन्वाभावेन शब्दमात्रेणा- लंकारताया असंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः काव्ये अलंकारपदा- ललितालंकारः ६६ ] अलंकारचन्द्रिकासहितः । ललितालंकारः ६६ वये स्याद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम् ।' ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२७ ॥ प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिविम्बरू- पस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णन कलितम् । यथाकथंचिदाक्षिण्यसमाग- ततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासतनायकानयनाथ सखी प्रेषयितु. कामा नायिकामुद्दिश्य सख्या पचनेन तव्यापारप्रतिविम्बभूतगतजलसेतुब. अवर्णनम् । नेयमप्रस्तुतप्रशंसा प्रस्तुतधार्मिकत्वात् , नापि समासोकि प्रस्तु. तवृत्तान्त वर्धमाने विशेषणसाधारण्येन सारूप्येण वाप्रस्तुतवृत्तान्तस्फूर्यमा. वात् , अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्बत्वात्, नापि निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एष तखाः समुन्मेषात् । यदि विषयविषयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो विषयिमात्रीपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यभेदरूपाया अतिशयोकेर. पि विषयमाक्रामेत् । ननु तयंत्र प्रस्तुतनायकादिनिगरणेन तत्र शब्दोपात्ता. प्रस्तुतनीराधमेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु । एवं तर्हि सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविषयेऽपि सैवातिशयोकि स्थात् । अप्रस्तुतधर्मिकस्वान भवतीति चेत् । तत्राप्यप्रस्तुतधर्मिवाचकपदस्थापि प्रसिद्धातिशयोक्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसंभवात् ॥ नन्वप्रस्तुतप्र- शंसायां सरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोकाविव विषयवाचकैस्तत्तत्पदैविषयां लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु- स्पदमिति विषमालंकारप्रकरणे त्वयैवाभिधानादित्यलं विस्तरेण ॥ १५६ ॥ इति मिथ्याध्यवसित्यलंकारः ॥ ६५ ॥ प्रस्तुत इति ॥ ललितमिति लक्ष्यनिर्देशः । निर्गत इत्युदाहरणम् । दाक्षि. ण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायकविशेषणम् । दाक्षिण्यमनुरोधशीलत्वम् ॥ तयापारेति ॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैर- र्थक्यम् । कृप्तालंकारेष्वन्तर्भावमाशङ्कय निराकरोति-नेयमित्यादिना ॥ प्रस्तुताप्रस्तुतेति ॥ तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानानिदर्शना न युक्तेति भावः । ननूभयोः शब्दोपात्तत्व इवाप्रस्तुतमात्रस्य तत्त्वेऽपि निदर्शना- स्त्वित्याशङ्कयाह-यदिति ॥ प्रतिबन्द्या तावत्परिहरति-तर्हि सारूप्येति। 'एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते' इत्यादावित्यर्थः॥ अप्रस्तुतेति ॥ अप्रस्तुतस्य शकुन्तादेस्तत्र वर्णनीयत्वादतिशयोक्तिस्थले च वापी कापीत्यादौ वापीत्वादिना प्रस्तुतनाभ्यादेर्वर्ण्यत्वान्नातिशयोक्तिस्तत्रापादयितुं शक्येति भावः। अप्रसिद्धोऽयं हेतुरित्याह-तत्रेति ॥ प्रसिद्धति ॥ वापी कापीत्यादिसर्वसंम- १ 'प्रस्तुते वर्ण्यवाक्यार्थ'.

कुवलयानन्दः। [ ललितालंकारः ६६ . तयतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपों वाक्यार्थोऽवग. म्यत इत्येवातिशयोक्तितो भेदोऽस्तु । वस्तुवस्तु- 'सोऽपूर्वो रसनाविपर्ययविधिवत्कर्णयोश्चापलं रष्टिः सा मदविस्मृतवपरदिकिं भूयसोकेन वा । पूर्व निश्चितवानसि भ्रमर हे यद्वारणोऽधाप्यसा. वन्तः शून्यकरो निषेव्यत इति प्रातः क एष प्रह।' इत्याचप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यात्प्रस्तुतवाक्या. योऽवगम्यत इत्येतन घटते । भप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णधापक- मात्रस अमरनिराकरणहेतुस्वसंभवेऽपि रसनाविपर्ययाम्तःशुम्परत्वबोहै। सुवासंभवेन मदस्य प्रत्युत तस्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थ वारणपदख दुष्प्रभुरूपविषयकोडीकारेणैव प्रवृत्तेवकव्य. स्वात् । एवं सत्यपि यचप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुतप्रध- साया अतिशयोक्तितो भेदो घटते तदात्रापि प्रस्तुतं धर्मिणं स्वपदेन नि- दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुतरां घटते ॥ 'पश्य नीलोत्पलद्वन्द्वानिःसरन्ति', 'वापी कापि स्फुरति गगने तत्पर सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादति- शयोक्तिरेव । एतन गतजलसेतुबन्धवर्णनादिष्वसंवन्धे संबन्धातिशयोक्तिर- स्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः कथयामीत्यादावपि तत्प्रसङ्गा- तेत्यर्थः ॥ तद्गतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां क्वचित्प्रस्तुताप्रस्तु- तयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते । ललिते तु न का. पीति सुतरामतिशयोक्तितो भेद इत्याह-सोऽपूर्व इत्यादिना । रसनावि- पर्ययः अग्निशापात्करिणां जिह्वापरिवृत्तिः पूर्व विपरीताभिधानं ५ । कर्णचापलं प्रसिद्ध पिशुनप्रतार्यत्वं च । मदः प्रसिद्धः गर्वश्च । तेन विस्मृता खपरयोर्दियार्ग आप्तानाप्तविभागश्न यया सा दृष्टिः । वारणो गजो वारकश्च । शून्यः सरन्ध्रो धनरहितश्च । करः शुण्डा हस्तश्च । ग्रह आग्रहः । कुतो न घटते तत्राह- अप्रस्तुत इति ॥ एतच्च भ्रमरासेव्यत्व इत्यस्य विशेषणम् । भ्रमर- *निरासफरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः । खार्थेन सममभेदाध्य- वसायः अप्रस्तुतसंबोधनादिति। आदिना सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगति- परिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति ॥ चमत्कारितारू- पाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः ॥ कस्यचिनेत्रद्वन्द्वादेः । खवाचकेन नेत्रादिपदेन । अनिर्दिष्टत्वादप्रतिपादितत्वात् ॥ अतिशयोक्ति- रस्तीति ॥ अतिशयोक्तिरेवास्तीत्यर्थः । तत्प्रसङ्गात्संबोध्यत्वोच्चारयितृत्वयोरस- बन्धेऽपि संबन्धवर्णनादतिशयोक्तिमात्रप्रसङ्गात् । अलंकारान्तरं कस्त्वमित्या- दावप्रस्तुप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेति॥ प्रस्तुतार्थप्रति- नी प्रहर्षणालंकारः १७ ] अलंकारचन्द्रिकासहितः । सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छितिविशेषालंकारान्तरकल्पनं विहापि तुल्यम् । तस्मात्सर्वालंकारविलक्षणमिदं ललितम् । पथावा- कसूर्यप्रभवो वंशकचाल्पविषया मतिः। तितीर्घदुतरं मोहादुडुपेनामि सागरम् ॥ भत्रापि निदर्शनाभ्रान्तिर्न कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णषि- तुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागर तितीपुरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन व केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथावा- अनायि देशः कतमस्त्वयाध वसन्तमुक्तस्य दशां वनस्थ । त्वदाप्तसंकेततया कृतार्थी श्राव्यापि नानेन जनेन संज्ञा ॥ अत्र कतमो देशस्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुफस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाललितालंकारः॥१२०॥ प्रहर्षणालंकारः ६७ उत्कण्ठितार्थसंसिद्धिविना यत्नं प्रहर्षणम् । तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ १२८ ॥ उत्कण्ठा इच्छाविशेषः। 'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठा कवयो विदुः॥' इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसंपादनयत्नं विना सिद्धिः प्रहर्षणम्। उदाहरणं स्पष्टम् । यथावा- बिम्बरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्धे विषमेति ॥ खमतिसूर्यवंशयो- रत्यन्ताननुरूपत्वरूपेत्यर्थः । तात्पर्यस्य तादृशमतिकरणकसूर्यवंशवर्णनेच्छाभि- प्रायस्य ॥ अनायीति ॥ नलं प्रति दमयन्त्या उक्ति: । हे नल, अद्य त्वया कतमो देशो वसन्तमुक्तस्य वनस्य दशामनायि प्रापितः । त्वयि प्राप्तसंकेततया कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राव्या न श्रवणाऱ्या अपितु श्राव्यैवेति । अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्र- स्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः । नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्श, युक्तति वाच्यम् । तत्र पूर्वार्धन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपान- दर्शनासत्त्वेऽप्यत्र तदनुपादानेन तद्यङ्ग्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललि- तालंकारस्यैवोचितत्वात् । एतेन दशापदलक्षितनिःश्रीकत्वरूपकार्यद्वारेण कार- णस्य राजकर्तृकत्यागकर्मत्वस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम् । उपधेयसं- करेऽप्युपाधेरसंकराचेति संक्षेपः ॥ १२७ ॥ इति ललितालंकारप्रकरणम् ॥६६॥ तामेवेति ॥ दूतिकामेवेत्यर्थः । निसृष्टा प्रेषिता। ससंकल्पा मनोरथसहिताम्॥ १ 'विसृष्टा'. .

कुवलयानन्दः । [प्रहर्षणालंकारः ६७ मेधैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालहुमै- नक मीरयं त्वमेव तदिम राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चकितयोः प्रत्यध्वकुजदुर्म राधामाधवयोर्जयन्ति यमुनाकूले रहाकेला मन्त्र रार्धामाधवयोः परस्परमुत्कण्ठित्वं प्रसिद्धतरमने - अन्धकारेण निवमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२८॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च महर्षणम् । दीपमुद्दयोजयेद्यावत्तावद युदितो रविः ॥ १२९ ॥ स्पष्टम् । यथावा- चातकनिचतुरान्पयःकणान्याचते जलधर पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १२९॥ यत्नादुपायसिर्छर्थात्साक्षाल्लाभः फलस्य च । निध्यञ्जनौषधीमूलं खनता साधितो निधिः ॥१३०॥ फलोपायसिद्ध्यर्थाधनान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्फकरीब लाभो. ऽपि प्रहर्षणम् । यथा निध्यञ्जनसियर्थ मूलिका खनतस्तत्रैव निधेलाभः । यथावां-- उचित्य प्रथममधःस्थितं मृगाक्षी पुष्पौधं श्रितविटपं ग्रहीतुकामा । भारोळ पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥ मेधैरिति ॥ मेदुरं तुन्दिलम् । नक्कं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्द- स्थाज्ञावशात् । प्रत्यध्वकुजगुममध्वसंबन्धिकुञ्जद्रुमं द्वमं प्रति । अन्यकारेण गीतगोविन्दकृता ॥१२८॥ चातक इति ॥ यत्तु चातकस्य त्रि गुरकणमात्रा- थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादयुक्तमुदाहरणमिति तत्तुच्छम् । हेत्वसिद्धेः । नहि क्षुदुपशमाय तत्पर्याप्तानमात्रार्थिनस्तदधिकाबलामे हर्षाधिक्यं नास्तीति वक्तुं शक्यते । तदानीमुपयोगाभावेऽपि खस्यैव कालान्तरे तदुपयोगसत्त्वात् । नच चातकस्य जलसंप्रहानुपयोगाद्वैषम्यं शहनीयम् । -मनकवृत्तान्तस्याप्रस्तुततया तक्ष्यनये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यष- सानादिति ॥ १२९॥ तृतीयं प्रभेदमाह-यत्नादिति ॥ प्रहर्षणमित्यनुवर्तते ॥ निध्यञ्जनेति । निधिदर्शनसाधनं यदजनं तत्साधनौषधीमूलमित्यर्थः । साधितो लब्धः । उञ्चित्येति ॥ अधःस्थितं वृक्षस्यांधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । श्रिता आश्रिता विटपाः शाखा येनेति पुष्पौषविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः। तेन पादापावेन। पुनरप्यामूलं पुष्पिताभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तल्लाभ १ दीपमुद्दीपयेधावत्'. २ सिद्धार्थात्'. ३ 'चेत्'. ४ 'खलता'. ५ 'भासादितो'.

उल्लासालंकारः ६९] अलंकारचन्द्रिकासहितः । बन्न पुष्पग्रहणोपायभूतारोहणसिधास्पदनिधानासव पुष्पमहण- विषादनालंकारः ६८ इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः॥ १३१ ॥ यथावा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उजहार ॥ १३ ॥ . उल्लासालंकारः ६९ एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि । अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी॥१३२॥ काठिन्यं कुचंयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः ॥१३३॥ तदभाग्यं धनस्यैव यन्नाश्रयति सजनम् । लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३४ ॥ . इति प्रकारत्रयसाधारणं सामान्यलक्षणं बोध्यम् ॥ १३९ ॥ इति प्रहर्षणालंकार- प्रकरणम् ॥ ६७॥ इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः । उद्योजयेदुद्दीप्तं कुर्यात् । उद्योजयेद्यावदित्यनेन तदिच्छामात्रं न तु तत्करणमिति विषमाद्भेदः । एवमप्रि. मोदाहरणेऽपीच्छामात्रं न त्विष्टोत्पत्त्यनुकूलाचरणमिति ॥१३१ ॥ इति विषादन- प्रकरणम् ॥ ६८॥ एकस्येति ॥ एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्ला- सालंकारः ॥ अपीति ॥ अपिः संभावनायाम् । साध्वी पतिव्रता सात्वा मां पावयेदिति जाहवी इच्छतीत्यन्वयः । तब धाटीषु युद्धयात्रासु कुचयोः सृष्टं का. ठिन्य पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातार निन्दन्तीत्यन्वयः । स्रष्टुमिति पाठे कुचयोः काठिन्यं पादयोः मधुमिच्छन्त्य इत्यन्वयः ॥ कामोऽयमिति १ 'प्राप्तिश्च'. २ 'मुद्दीपयेत्'. ३ 'तावनिर्वाण एव सः'. ४ 'कुचयोटुं'. 'विश्वधातार'.

१४२ कुवलयानन्दः। [ उल्लासालंकारः ६९ यन्त्र कस्यचिदुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासः ॥ द्वितीयार्धमाघस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन सदीयमानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदा- हरणम् । तत्र राज्ञो धाटीषु वने पलायमानानामरातियोषितां पादयोर्धाव- नपरिपन्थिमार्दवदोषेण तयोः काठिन्यमसृष्ट्वा व्यर्थ कुचयोस्तत्सृष्टवतो धातु- निन्यस्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सजन- महिमगुणेन धनस्य तदनाश्रयणं दोषत्वेन राज्ञः क्रौर्यदोषेण तत्सेवकानां वधं विना विनिर्गमनं गुणत्वेन वर्णितम् ॥ अनेनैव क्रमेणोदाहरणान्तराणि । यदयं रथसंक्षोभादसेनांसो निपीडितः। एकः कृती मदङ्गेषु शेषम भुवो भरः ॥ अन्न नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो वर्णितः॥ लोकानन्दन चन्दनदुम सखे नासिन्वने स्थीयतां दुवैशैः परुषैरसारहृदयैराकान्तमेतद्वनम् । ते मन्योन्यनिघर्षजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमहो सर्वं दहेयुर्वनम् ॥ अत्र वेणूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेण वननाशरूपदोषो वर्णितः। दानार्थिनो मधुकरा यदि कर्णतालै- दूरीकृताः करिवरेण मदान्धबुधा । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ भत्र भ्रमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वार्णतः । भानातं परिचुम्बितं परिमुहुर्तीदं पुनश्चर्वितं स्यकं वा भुवि नीरसेन मनसा तत्र व्यथा मा कृथाः। हे सदन तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णाकृतं नाश्मना । भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः ॥ यदयमिति ॥ रथस्य संक्षोभाञ्चलनाद्यदयमंसोंऽसेनार्थाद्दयिताया निपीडितः संघृष्टो ममाङ्गेषु मध्ये- स एवैकः कृती कुशलः । अवशिष्टमङ्गं भूमे रमित्यर्थः। दुवैशैर्दुष्टवेणुभिर्दुष्कुलैश्चे त्यादिः श्लेषो बोध्यः । वननाशरूपो वनसंबन्धिनाशरूपः । वनस्येति युक्ततरः पाठः । तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि- ति ॥ मुहुः परिलीढमाखादितम् । नीरसेन मनसा करणभूतेन । वानरेण । १ 'मिदं सर्वे'.

अवज्ञालंकारः ७०] अलंकारचन्द्रिकासहितः । भत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुणत्वेन वर्णितः । मन्त्र प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः ॥१४॥ अवज्ञालंकारः ७० ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा । खल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् ॥ मीलन्ति यदि पानि का हानिरमृतयुतेः॥ १३५ ।। ताभ्यां गुणदोषाभ्यां । तौ गुणदोषौ । अत्र कस्यचिद्गुणेनान्यस्य गुणालामे द्वितीयाधमुदाहरणम् । दोषेण दोषस्थाप्राप्तौ तृतीयार्धम् । यथा- मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्थादलसपुरुषानादरमरैः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते ॥ त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिन हेनामपि । मूर्धन्यं कुरुषे सितांशुमयशः किनाम लोकत्रयी- दीपस्थाम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ अनाये कवितारमणीगुणाभ्यामरसबालकयोर्हृदयोल्लासरूपगुणाभावो व. र्णितः । द्वितीये परमेश्वरानगीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो वर्णितः ॥ १३५॥ कम् । तत्र तस्मिन्सति । विचारणव्यसनिना विचारणतत्परेण । अश्मना पाषा- णेन । प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति भेदयोः । उल्लास उल्लासश- ब्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः ॥ छत्रि- न्यायेनेति ॥ केषुचिच्छत्रसंबन्धाच्छत्र्यच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि- त्यर्थः ॥ १३२ ॥ १३३ ॥ १३४ ॥ इत्युल्लासालंकारः ॥ ६९ ॥ प्रस्थं प्रस्थपरिमाणपात्रम् ॥ मदुक्तिरिति ॥ ममोक्तिः कविता । सुधियो- ऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसानां नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यात् । न किंचिदित्यर्थः । क्वचिदल. सेति पाठः । परमरमणीयापि । केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणह: रणं कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः ॥ त्वं चेदिति ॥ शिवं प्रति कस्यापि कवेरुक्तिः । चन्द्रं पक्षे जडांशुम् । अम्बुजबान्धवःसूर्यः। उल्ला- सरूपगुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३५॥ इत्यवज्ञाप्रकरणम् ॥७॥ १ 'पान्थं प्राप्यापि'.

कुवलयानन्दः। [लेशालंकारः ७२ अनुशालंकारः ७१ दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः॥१३६ ॥ यथावा- मय्येव जीर्णता यातु यवयोपकृतं हरे। नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥ इयं हनुमन्तं प्रति राघवस्योक्तिः । मन्त्र प्रत्युपकारामाबो दोषसदभ्युपग- मेहेतुर्गुणो विपत्याकाङ्काया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामा- न्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता । यथावा- व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाय माथामहे । भवद्भवनदेहलीविकटतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिमिर्भूयते ॥ १३६ ॥ लेशालंकारः ७२ लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥ शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३७ ॥ दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः । उदाहरणं राहो. ऽभिमते विदुषि पुग्ने चिरं राजधान्या प्रवसति तदर्शनोस्कण्ठितस्य गृहे स्थि- तस्य पितुर्वचनमप्रस्तुतप्रशंसारूपम् । तत्र प्रथमाघे इतरविहानामवकृत्व- दोषस्य खच्छन्दचरणानुकूलतया गुणस्वं कल्पितम् । द्वितीयाचे मधुरभाषि- स्वस्य गुणस्य पजरबन्धहेतुतया दोषत्वं कल्पितम् । न चात्र म्याजस्तुतिरा- दोषस्येति ॥ अभ्यर्थना इच्छा । तत्रैव दोष एव। अनुज्ञेति लक्ष्यनिर्देशः। शश्वनिरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति ॥ जीर्णतां प्रत्युपकाराक्षम- ताम् । हरिशब्दो वानरार्थः ॥ व्यतिरेकमुखेति ॥ वैधर्म्यमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति ॥ वैधर्म्यविपर्यये प्रत्युपकारानभि- लाधी विपत्तिं नाकाहुतीत्यर्थपर्यवसानादिति भावः ॥ ब्रजेनेति । हे प्रमथनाव 'हर, पैशाचिकी पिशाचसंबन्धिनी प्रकृति पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम । अमरसंपत्तीः किमिति प्रार्थयामहे । यतो मघवदादिभिरि- न्द्रप्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकु- टानभूयत इत्यर्थः ॥ १३६ ॥ इत्यनुज्ञाप्रकरणम् ॥ १ ॥ १ 'यत्त्वयैव कृतं'. २ 'अस्य क्वचित्पूर्वार्धोत्तरार्धयोवैलोम्येन पाठः'. ३ 'संपदं'.

लेशालंकारः ७२] अलंकारचन्द्रिकासहितः । शङ्कनीया । नपत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दा- व्याजेन स्तुतौ च तात्पर्यम् । किंतु पुत्रदर्शनोस्कण्ठितस्य दोषगुणयोर्गुणदोष- स्वाभिमान एवान श्लोके निबद्धः । यथावा- सन्तः सचरितोदयव्यसनिनः प्रादुर्भवत्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पममतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ दण्डी त्वत्रोदाजहार- 'युवैष गुणवानाजा योग्यस्ते पतिरूर्जितः । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ चपलो निर्दयश्चासौ जनः किं तेन मे सखि । आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥' अनाद्यश्लोके राज्ञो वीर्योत्कर्षस्तुतिः । कन्याया निरन्तरसंभोगनिर्विवर्ति- षया दोषत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजि. हीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदअतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमा- नया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णितः । नचाद्यश्लोके स्तुतिनिन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया । राजप्रकोपादिपरिहारा- र्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्धाटनेन ततो विशेषादिति । वस्तुतस्त्विह ब्याजस्तुतिसद्भावेऽपि न दोषः । न तावता लेशमात्रस्य व्या- जस्तुत्यन्त वः प्रसज्जते । तदसंकीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात् । नापि व्याजस्तुतिमात्रस्य केशान्तर्भाव: प्रसज्जते । भिन्नविषयव्याजस्तुत्युदा- लेश इति लक्ष्यनिर्देशः । प्रवसतीति सतिसप्तम्यन्तम् । शुकस्य निन्दायाः निन्दाव्याजेन स्तुतौ चेत्यन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तझ्यस- निनस्तत्पराः प्रादुर्भवद्यन्त्रणं स्वेच्छाचरणनिरोधो येषां ते । सर्वत्रैव विषये। दुःखमिति क्रियाविशेषणम् । युपत्रमागनिगुणनिः । सता समीचीनेन कृ- तेनाचरणेन प्राकृतो नीचः ॥ युवैष इति ॥ वरार्थिनीं कन्यकां प्रति सखीव- चनम् । चपल इत्यादि च नायिकायाः सखी प्रति । उत्सेक इति पाठेऽप्युत्कर्ष एवार्थः। कन्याया दोषत्वेन भासतामित्यन्वयः। निवर्तितुमिच्छा निविवर्तिषा त- द्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम् । कुतस्तर्हि गुणत्वेन वर्णनं तत्राह-राजप्रकोपेति ॥ अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम्।। लेशत एवेति ॥ तदुक्तं दण्डिनैव । 'लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृ- इति । लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्याद्योः ॥ भिन्न- १ 'निर्विवित्सोर्दोषत्वेन'.

कुवलयानन्दः। [मुद्रालंकारः ७३ हरणेषु 'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यह मुहुरीक्षसे न धनिना बूषे न चाटूम्मृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्या- भावात् । तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः॥ विषयैक्येऽपि 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- दिकागानां मदजलमपीभाजि गण्डस्थलानि । अवाप्युर्वीवलयतिलक श्यामलिनानुलिसा- न्याभासन्ते वद धवलितं किं यशोभिस्वदीयैः ॥' इत्याधुदाहरणेषु लेशास्पर्शनात् । तन्त्र हीन्दुलक्ष्म्यादीनां धवलीकरणाभा- वदोष एव गुणस्वेन न पर्यवस्थति किंतु परिसंख्यारूपेण ततोऽन्यत्सर्व धव- लितमित्यन्यो गुणः प्रतीयते । कचियाजस्तुत्युदाहरणे गुणदोषीकरणसरले. ऽपि स्तुतेविषयान्तरमपि दृश्यते । यथा- सर्वदा सर्वदोऽसीति मिथ्या संस्तूयते बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ अत्रहि वाच्यया निन्दया परिसंख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते । एवंच येषूदाहरणेषु करते शौर्यमदो योद्धमित्यादिषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुति- रूपतयावतिष्ठते, तत्र लेशब्याजस्तुत्योः संकरोऽस्तु । इस्थमेव हि ब्याजस्तुस्य- प्रस्तुतप्रशंसयोरपि प्रासंकरो वर्णितः ॥ १३७ ॥ मुद्रालंकारः ७३ सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः। नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥ १३८ ॥ विषयेति ॥ अन्यनिन्दयान्यस्य स्तुतिरन्यस्तुत्यान्यनिन्देत्येवमादिपेत्यर्थः। ननु तथाप्येकविषयाव्याजस्तुतिन लेशाद्भिद्यतेत्याशङ्कयाह-विषयेऽपीति ॥ लेशास्पर्शनादित्यप्रेतनेनान्वयः॥ इन्दोरिति ॥ हे उर्वीवलयतिलकरूप राजन्, त्वदीयैर्यशोभिः किं धवलितं तद्वद । यतोऽद्यापि इन्दुलक्ष्मादीनि श्यामलिना श्याम- वर्णेनानुलिप्तान्याभासन्ते इत्यन्वयः । लक्ष्म लाञ्छनम् । दिङ्नागानां दिग्गजानां मदजलमेव मषी तद्भाजि तद्युक्तानि ॥ परिसंख्येति ॥ एतान्येव श्यामा- मोत्येतंरूपेत्यर्थः । विषयान्तरं दोषीकृताद्भिग्नं गुणरूपमालम्बनम् ॥ सर्वदेति ॥ अरयः पृष्टमर्थात्तव न लेभिरेऽप्राप्तवन्तः पलायनाभावात् । दीनारः परिमाणवि- शेषपरिच्छिन्ना सुवर्णमुद्रा । एवंच लेशय्याजस्तुत्योरसंकीर्णविषयमन्ये च गुण- दोपीकरणादिकमिन्यादिपदेन दोषगुणीकरणसंभवः । येष्वित्युपक्रमात्तत्रेति पाठो युक्तरः । अत्रेयपि युक्त एव । इदमोऽपि यच्छब्दार्थपरामर्शकत्वात् ॥१३॥ इति लेशालंकारः। ७२ ॥ सूच्याति ॥ सूचनीयस्यार्थस्येत्यर्थः । मुदेति लक्ष्यनिर्देशः । हग्युग्मं १ 'रामचन्द्रभवने'.

रत्नावल्यलंकारः ७४] अलंकारचन्द्रिकासहितः। १४७ भन्न नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्व- रूपसूच्यार्थसूचनं मुद्रा । यद्यप्यन्त्र ग्रन्थे वृत्तनानो नास्ति सूचनीयत्वं तथा- प्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तछन्दःशासमध्यपातित्वेन तस्य सूचनीयत्व- मस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरसमाकायां तत्तद्रवनामनि- वेशेन तत्तशामकजातिसूचनम् । नक्षत्रमालायामम्यादिदेवतानामभिर्नक्षत्र- सूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि ॥१३॥ रत्नावल्यलंकारः ७४ ऋमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः। चतुरास्यः पतिर्लक्षम्याः सर्वज्ञस्त्वं महीपते ॥ १३९ ॥ अत्र चतुरास्यादिपदैवर्णनीयस्य ब्रह्मविष्णुरुदात्मता प्रतीयत इति प्रसि- सहपाठानां क्रमेण निवेशनं रनावली । यथावा- रत्याप्तप्रियलान्छने कठिनतावासे रसालिङ्गिते प्रह्लादैकरसे क्रमादुपचिते भूभृगुरुत्वापहे। कोकस्पर्धिनि भोगभाजि जनितानङ्गे खली नोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने । विपुलं यस्याः सा । अत्र ग्रन्थे अस्मिनलंकारग्रन्थे । रत्नमालाशब्देन भगवत्स्तु- तिपद्यावलीविशेष उच्यते । रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाश- ब्दार्थोऽपि पूर्वोक्त एव । अम्यादिदेवतानामभिर्नक्षत्राणां तद्देवत्यानां सूचनं बो- ध्यम् ॥ वक्ष्यमाणेति ॥ यथा अनर्घराघवे 'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुश्चति ॥' इति सूत्रधार- वचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति बोध्यम् ॥ १३८ ॥ इति मुद्रालं- कारः ॥ ७३ ॥ ऋमिकमिति ॥ प्रकृतार्थानां ऋमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादनं रत्नावलिरलंकारः। प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्वं बोध्यम् ॥ चतुरे- ति ॥ चतुरमास्यं यस्य सः चतुर्मुखश्च ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदृशे । रतावाप्तं प्राप्त प्रियस्य लाञ्छनं चिह्न नखक्षताङ्गरागादिकं येन तथाभूते । कठिनताया आवासे स्थानभूते । रसेनालिङ्गिते । प्रकृताहादे एकरसे तत्परे । क्रमादरामलकादिप- रिमाणलाभेनोपचित प्रबुद्धे । भूभृतां पर्वतानां गुरुत्वमपहन्ति नाशयति तादृशे, ततोऽपि महत्त्वात् । चक्रवाकस्पर्धाशीले तत्सदृशत्वात् । भोगः सुखं शरीरं वा तद्भाजि । जनितमदने । खेष्विन्द्रियेषु लीना आसका उन्मुखा यस्मितादृशे । एतैरेव विशेषणैरवतारदशकरूपतापि खनस्य बोध्या। तद्यथा-रत्या आप्तः प्रियः १ 'क्रमिका'. २ 'रत्नावली'. ३ 'कुम्भावभौ'.

११८ कुवलयानन्दः। [रत्नावल्यलंकारः ७४ यथावा- लीलानानां नयनयुगलदाधिमा दत्तपत्रः कुम्भीवेतौ कुचपरिकरः पूर्वपक्षीचकार । विभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- द्वज्योत्स्ना शशधररुचं दूषयामास यस्याः ॥ अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बुधजनप्रसिद्धक्रमेण न्यस्तानि । प्रसिद्धसहपाठानां प्रसिद्धक्रमाननुसरणेऽप्ययमेवालंकारायथावा- 'यस्य वह्निमयो हृदयेषु जलमयो लोचनपुटेषु मारुतमयः श्वसितेषु क्षमा- मयोऽङ्गेष्वाकाशमयः स्वान्तेषु पञ्चमहाभूतमयो मूर्त इवाश्यत निहतप्रति- सामन्तान्तःपुरेषु प्रतापः।' एवमष्टलोकपालनवग्रहादीनां प्रसिद्धसहपाठानां यथाकथंचित्प्रकृतोपमानोपराकतादिप्रकारेण निवेशने रत्नावल्यलंकारः । प्र. कृतान्वयं विना क्रमिकतत्तबाना श्लेषभङ्ग्या निवेशने क्रमप्रसिद्धरहितानां प्रसिद्धसहपाठानां नवरत्नादीनां निवेशनेऽप्ययमेवालंकारः ॥ १३९ ॥ । कामस्तस्य लाञ्छनं मत्स्यस्तद्रूपे । कठिनताया आवासे कूर्मे । रसया पृथिव्या खोद्धरणकाल आलिङ्गिते वराहे । प्रह्लादे एको रसः प्रीतिर्यस्य तस्मिन्नृसिंहे। क्रमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्ध वामने । भूभृतां राज्ञां गौरवनाशके भार्गवे । कोकस्पर्धिनि सीतावियोगातुरतया चक्रवाकशापदे रामे। भोगः फणा तद्भाजि शेषावतारे बलभद्रे । जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगल्या- गसमाधिप्रभृति येन तस्मिन् बुद्धे । खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति॥ क्रमाननुसरणेऽपीति ॥ तथाच प्रसिद्धसहपाठानामर्थानां न्यसन रत्नावलि- रति सामान्यलक्षणम् । सक्रमाक्रमत्वे जमेनामिति भावः ॥ यस्येति ॥ यस्य प्रतापो निहतानां प्रतिशत्रुभूतानामन्तःपुरेषु पश्चमहाभूतमयो मूर्त इवादृश्यतेत्य- न्वयः । पञ्चमहाभूतमयत्वमेव विशेषणैर्दर्शयति--वह्निमय इत्यादि ॥ अङ्गेषु क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । खान्तेष्वन्तःकरणेषु आकाशमयः तेषां शून्यताश्रयत्वात् ॥ यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोपमानेत्यादि। -उपमाल चोपरञ्जकं चोपमानोपरजके तयोर्भावस्तत्ता । प्रकृतं प्रत्युपमानता उपर- जकता चेत्यर्थः । उपरजकता चारोप्यमाणता । तदुक्तम्-'उपरञ्जकतामेति विषयी रूपकं तदा' इति । तत्रोपमानता रविरिव प्रतिदिवसोपजायमानोदय इ. त्यादिवत् । उपरञ्जकता तु चतुरास्य इत्यायुदाहरणे वह्निमय इत्यादिप्रतापवर्णने च स्पष्टेति ॥ प्रकृतान्वयं विनेति ॥ 'मित्र चन्द्रमुखी बाला लोहिताधरपाल- वा' इत्यादाविति भावः । क्रमिकेत्युपलक्षणम् । तदभावेऽपि 'गुरुणा जघनेनैषा तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति बोध्यम् ॥ १३९ ॥ इति रत्ना- वल्यलंकारः ॥ ७४ ॥ ..

पूर्वरूपालंकारः७६] अलंकारचन्द्रिकासहितः । १४९ तंदुणालंकारः ७५ तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४०॥ यथावा वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति वनभुवि निजकररुहरुचिखचितानि पाण्डुपत्राधिया ॥१४॥ - पूर्वरूपालंकारः ७६ पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ १४१ ॥ यथावा- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ अयमेव तद्गुण इति केचिद्व्यवजहुः ॥ १४ ॥ पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः ॥ १४२ ॥ तहण इति ॥ खगुणत्यागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ प- झेति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीत्यर्थः । वीरेति ॥ हे वीर, त्वदरिकामिनी वनभुवि परिधान कर्तु पल्लवानि करेण संस्पृश्य पाण्डुप- त्रबुद्ध्या न हरति न गृह्णाति । कीदृशानि । निजकररुहाणां नखानां रुच्या श्वेत- कान्त्या खचितानि व्याप्तानीत्यर्थः ॥ १४० ॥ इति तद्गुणालंकारः ॥ ७५ ॥ पुनरिति ॥ खगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरे- ति ॥ नीलोऽपीति युक्तः पाठः ॥ विभिनेति ॥ माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वं- शाङ्कुरवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा स्वां रुचं नीरगतिमानिन्यिरे आनीत- वन्तः । रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यस्वरसबीजं तु पद्मरागायत इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः । अनुभवसिद्धचमत्कारस्य निरालम्बनत्वापत्तेरित्यूहनीयम् । अथवायं तद्गुण एवेत्येवकारक्रमभङ्गेन काव्य- प्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम् । तैरत्र तद्गुणस्योदाहृतत्वात् । अ- त्रहि पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरत्नैरुभयेषां तद्गुणत्वमिति तद्गुणद्व- यमिति तेषामभिमतम् ॥१४१॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्यपि पूर्वा- १ शेषस्तु शशिना सितः'.

१५० कुवलयानन्दः। [ अतद्गुणालंकारः ७७ लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदानुत्तिः । यथाषा- द्वारं खङ्गिमिरावृतं बहिरपि प्रविनगण्डैगजै. रन्तः काबुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शायनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ . अतद्गुणालंकारः ७७. संगैतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरंरागिणि मच्चित्ते निहितोऽपि न रजसि ॥१४३॥ यथावा- गण्डाभोगे विहरति मैदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वअनानि प्रमार्टि । यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥ ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावशालंकाराभ्यां तद्- णातद्गुणयोः को भेदः । मुच्यते । उल्लासावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिप- क्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणा- संक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्यनुत्पत्तिवत्तद्गुणजन्यत्वेन संभावितयोर्गुणान्तरयोरुत्पत्त्यनुत्पत्ती । तद्गुणातद्गुणयोः पुनर्गुणशब्दो रूपर- सगन्धादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रकस्फटिकवस्त्रमालि- न्यादिन्यायेनान्यदीयगुणेनैवानुरजनाननुरञ्जने विवक्षिते । तथैव चोदाहर- णानि दर्शितानि । यद्यप्यवशालंकृतिरतद्गुणश्च विशेषोक्तिविशेषारय । 'कार्या वस्थाया अनुवृत्तिरपि पूर्वरूपमलंकारः। महः प्रकाशः॥ द्वारमिति ॥ हे राजन् , तव तद्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिमर्यादा। अस्तीति शेषः। यतो द्वार खङ्गिभिर्गण्डकाख्यपशुभिरेव खड्गधारिभिरावृतं बहिरपि भूमयो मदप्रखिन्नगण्डैर्गजैरध्यासिताः । अन्तःपुरभूमयो विलसन्मणिधारिभिः कञ्चुकिभिः सपैरेव सौविदल्लैरभ्यासिताः । शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्रीभिराक्रान्तमित्यन्वयः ॥ १४२ ॥ इति पूर्वरूपालंकारः ॥ ७६ ॥ संगतेति ॥ संगतः खसंबद्धो योऽन्यः पदार्थस्तदुणानङ्गीकारमतद्गुणालंका- रमाहुः ॥ चिरमिति ॥ रागिण्यनुरागिणि मजिष्ठादिरञ्जनद्रव्ययुके च । निहि- तोऽपि त्वं न रजसि रक्तोऽनुरागयुक्तश्च न भवसीति लिष्टम् ॥ गण्डेति ॥ हे श्रीमन्नृसिंहाख्यभूपते, एषा तव कीर्तिमदैः पिच्छिले पहिले दिग्गजाना गण्ड- प्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यजनानि प्रमार्टि १ 'राश्रितं'. २ 'सानुगणा'. ३ 'निहितापि न रज्यसि'. .

मीलितालंकारः७९] अलंकारचन्द्रिकासहितः । १५१ न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तस्सामान्यलक्षणाक्रान्तावान् । तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषाकारणालंकारान्तरतया परिगणितावि- . ति ध्येयम् ॥ १४३ ॥ अनुगुणालंकारः ७८ प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षरतिनीलताम् ॥ १४४ ॥ यथा- कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥ अत्र कपित्वजात्या स्वतःसिद्धस्य वैकृतस्य मयादिभिरुत्कर्षः ॥ १४४ ॥ मीलितालंकारः ७९ मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४५ ॥ यथावा- मल्लिकामाल्यभारिण्यः सर्वाङ्गीणाईचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ अत्राचे चरणालक्तकरसयोररुणिमगुणसाम्या दानध्यवसायः । द्वितीयो- दाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्या दानध्यवसायः ॥ १४५॥ PIN प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी खस्तीत्याहेत्यर्थे 'तदाहेति माशब्दादिभ्यष्ठग्वाच्यः' इत्यनेन ठक् प्रत्ययः । तत्स- दृशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ॥ विशेषाकारेणेति ॥ प्राग्लक्षि- तविशेषरूपेणेत्यर्थः ॥ १४३ ॥ इत्यतद्गुणालंकारः ॥ ७७ ॥ प्रागिति॥ परसंनिधिवशात्पूर्वसिद्धस्य खगुणस्योत्कर्षोऽनुगुणो नामालेकारः। नीलोत्पलानि कर्णावतंसीकृतानि ॥ कपिरिति ॥ कापिशायनं मद्यम् ॥१४४॥ इत्यनुगुणालंकारः ॥ ७८ ॥ मीलितमिति लक्ष्यनिर्देशः ॥ रस इति ॥ खभावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः ॥ मल्लिकेति ॥ क्षौमं दुकूलं तद्धारिण्यः ॥ १४५ ॥ इति मीलितालंकारः ॥ ७९ ॥ १ 'सिद्धस्वगुणो', 'सिद्धेः स्वगुणो'. २ 'दृश्यते'. ३ 'मालभारिण्यः'.

१५२ कुवलयानन्दः। [सामान्यालंकारः ८० सामान्यालंकारः ८० सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पमाकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४६ ॥ यथावा- रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । लक्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥ मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रियते । सामान्यालंकारे तु भिन्मस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः । मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुकं यावकादि न भा. सते । सामान्योदाहरणे तु पद्मानां मुखानां च व्यच्यन्तरतया भानमस्त्येव । यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंस्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवमासे सामान्यमित्युभयोरप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिखलीयसा तदन्यस्य स्वरूपति- रोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्या दतिरोधाने सामान्यम् । एवंच- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदनन मदोदयः कृतपदोऽपि संलक्ष्यते ॥ इत्यत्र मीलितालंकारः । अत्रहि दृक्तारल्यादीनां नारीवपुषः सहजधर्म- त्वान्मदोदयकार्यत्वाच्च तदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिना वपुषा म. दोदयस्य स्वरूपमेव तिरोधीयते । लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् । सामान्यमिति ॥ सामान्यमिति लक्ष्यनिर्देशः । विशेषो व्यावर्तकधर्मः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति ॥ वालिसूनुनाङ्गदेन एकेन चरणज्योत्स्ना- दिना । अपरस्य लाक्षारसाभिसारिकादेः ॥ भिन्नस्वरूपेति ॥ मुखपद्मादेर्भि- अस्य खरूपस्यावभासेऽपीत्यर्थः । उक्तमेवार्थमुदाहरणारूढतया विशदयति- मीलितोदाहरणे हीत्यादिना ॥ वस्त्वन्तरत्वेन न भासत इत्यन्वयः । तत्प्रतिबिम्बानां च व्यक्त्यन्तरतया भानमस्त्येवेत्यनुषङ्गः । केचिदित्यस्याहुरित्य- ग्रिमेणान्वयः । केचित्प्रकाशकारादयः । तदुक्तम्-'समेन लक्ष्मणा वस्तु वस्तुना यन्निगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥' इति । तयोर्मध्ये एवं चेत्यस्येत्यत्र मीलितालंकार इत्यग्रेतनेनान्वयः॥अपाङ्गेति ॥ अपाङ्गस्तरलो ययोस्ते । तरलाः सत्वरोच्चारणात् वक्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो १ 'नैवलक्ष्यते'. २ 'संक्रान्तः'. ..

उन्मीलित-विशेषालंकारौ] अलंकारचन्द्रिकासहितः । १५३ मल्लिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः । तन्मते पनाकर- प्रविष्टानामित्यादौ भेदाध्यवसायेऽपि व्यावर्तकास्फुरणेनार्ककारान्तरेण भा. ' व्यम् । सामान्यालंकारान्तरभेदेन वा पूर्वसिन्मते खरूपतिरोधानेऽलंकारा. न्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥ १४६ ॥ उन्मीलित-विशेषालंकारौ ८१२८२ भेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषको । हिमाद्रिं त्वद्यशोमनं सुराः शीतेन जानते ॥ लक्षितान्युदिते चन्द्रे पानि च मुखानि च ॥१४७॥ मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतोऽपि हेतोभैदस्फूती मीलितप्र- तिद्वन्युन्मीलितम् । तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कार। णाद्विशेषस्फूर्ती तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम् । तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा- वाक्यरूपाः । इति प्रकारेण मृगदृशामङ्गके लीलया खतः खभावात्फुरितं प्रकटी- भूतं तत्तस्मादत्राङ्गके कृतपदः कृतस्थितिः ॥ भेदाध्यवसायेऽपीति ॥ मुख- पद्मयोर्भेदावभासेऽपीत्यर्थः । व्यावर्तकास्फुरणेन हेतुना ॥ अलंकारान्तरेणे- ति ॥ खरूपातिरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभ- वादिति भावः ॥ सामान्येति । तथाच गुणसाम्याद्विशेषाग्रह इति सामान्या- लंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्यनन्तरं भावमित्यनुषज्यते ॥ पूर्वस्मिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्त- चन्द्रालोककृन्मत इत्यर्थः । स्वरूपतिरोधानेऽपाङ्गतरल इत्यादिवरूपतिरोधान- स्थले ॥ अलंकारान्तरणेत्यादि ॥ खरूपतो ज्ञायमाने सादृश्याद्भेदाग्रहणं मीलितमित्यङ्गीकारे प्रथमः पक्षः । सादृश्याद्भदाग्रहणमित्येतावन्मात्रमीलितल- क्षणाङ्गीकारेण द्वितीय इति भावः ॥ १४६ ॥ इति सामान्यालंकारः ॥ ८॥ भेदेति ॥ वैशिष्ट्यं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमेणालंकारौ । मनं भेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्य- रीत्या सामान्यालंकारन्यायेन । एवंच 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥' इत्यपि विशेषकोदाहरणं बोध्यम् । यत्त्वनुमानालंकारेणैव गतार्थत्वान्नानयोरलं. कारान्तरत्वमिति । तदयुक्तम् । उदाहृतस्थले भेदविशेषस्फूर्योर्विशेषदर्शनहेतुक- प्रत्यक्षरूपत्वात् । अथापि स्वकपोलकल्पितपरिभाषयानुमानालंकारतांबेषे तथापि सादृश्यमहिना प्रागनवगतयोर्भेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलित- सामान्यप्रतिद्वन्द्विना युक्तमेवालंकारान्तरत्वम् । अतद्गुणावज्ञयोरिव विशेषोक्त्य १५४ कुवलयानन्दः। [उत्तरालंकारः ८३ नृत्यनाहहासप्रसरसहचरखावकीनेशोमि- र्धावस्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र । मेहग्योष नाभीकमलपरिमळमौदिमासादयिष्य- देवानां नाभविष्यकथमपि कमळाकामुकथावबोधः ॥ कांकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राले काकः काकः पिक: पिकः॥ इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दो काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ ॥ यथावा- वाराणसीवासवतां जनानां साधारणे शंकरलान्छनेऽपि । पार्थप्रहारव्रणमुत्तमाकं प्राचीनमीशं प्रकटीकरोति ॥ १७॥ उत्तरालंकारः ८३ किंचिदाकूतसहितं स्याद्गुढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ॥ १४८ ॥ सरित्तरणमार्ग पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुले स्वाच्छन्द्यमित्याकूतगर्भम् । यथावा- ग्रामेऽस्मिन्प्रस्तरमाये न किंचित्पान्थ विद्यते । पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥ आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम् । स्तनोचतिं दृष्ट्वा रस्तुमि- च्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्नामे कश्चिदवगमिष्यतीत्येतादृशं प्र- लंकारादित्यलं विस्तरेण ॥ नृत्यदिति ॥ नृत्यं कुर्वतो भर्गस्य हरस्व योऽहास- स्तत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदृशैरित्यर्थः । ईक्कीर्तिवच्छुक्ल एष कमलाकामुको नाभिकमलपरिमलस्य प्रौढिं समृद्धिं यदि नासादयिष्यन्नाधा- रयिष्यदित्यन्वयः । यत्तु तद्गुणस्यात्र निर्बाधकत्वात्कथं तत्प्रतिद्वन्द्वित्वमुन्मीलि- तस्येति तदनुक्तोपालम्भरूपत्वादुपेक्ष्यम् । तद्गुणेन भेदानध्यवसायमात्रस्योक्त- त्वात् ॥ वाराणसीति ॥ तृतीयलोचनादिचिह्ने साधारणेऽपि सतीत्यन्वयः । पार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाझं शिरः । पूर्वत्र खाभाविकगुणसाम्यमिह त्वागन्तुकगुणसाम्यमिति भेदः ॥ १४७ ॥ इत्युन्मी- लित-विशेषकालंकारौ ॥ ८१॥ ८२ ॥ किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसी वेतसलता । सुखेन तरितुं योग्या सुतरा ॥ ग्राम इति ॥ प्रस्तरप्राये पाषाण- बहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात् । किंचिदास्त- रणादिकं समागमप्रतिबन्धकं च । पयोधरो मेघः स्तनश्च । कश्चिदवगमि- ष्यति ज्ञास्यतीत्येतादृशमित्यादिरूपम् । उमेयः कल्प्यः प्रभो येन । - सूक्ष्मालंकारः ८४ ] अलंकारचन्द्रिकासहितः। तिबन्धकं किंचिदपि नास्तीति हृदयम् । इदमुझेयप्रभोदाहरणम् । निबद्धप्र- ओत्तरं यथा- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति । योमानाननारमनुतप्ताया नायिकायाः सखीमागतां प्रति तेस्याः कुशल- मिति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवत्याः कुतः कुशल- मिति तदभिप्रायः । अन्यत्पृष्टमन्यदुत्सरमिति नायकस्य पुनः कुशलं पृच्छा. मीति प्रश्नः । पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीत्युक्तमिति सख्या वच- नम् । सखीवचनस्याभिप्रायोद्घाटमार्थ पुनरपि तदेव कथयसीति नायक- स्याक्षेपः । मृतां नु कथयामि या श्वसितीति स्वामिप्रायोद्घाटनार्थम् । सति मरणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरस्सु कथं मृतां कथयेयमित्यभिप्रायः ॥ १४८॥ प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते । के दारपोषणरताः के खेटाः किं चलं वयः ॥ १४९ ॥ अत्र केदारपोषणरता इति प्रभामिनमुत्तरं के खेटाः किं चलमिति प्रभद- यस्य वय इत्येकमुत्तरम् । उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि १४९ सूक्ष्मालंकारः ८४ सूक्ष्म पराशयाभिज्ञे तरसाकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥१५०॥ कामुकथावलोकनेन संकेतकालप्रभभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्ये संकेतकाल इत्याकूतम् । यथावा- संकेतकालमनसं विटं ज्ञात्वा विदग्धया । आसीनेत्रार्पिताकृतं लीलापनं निमीलितम् ॥ १५० ॥ तादृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चात्तापयुतायाः ॥ १४८ ॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्या. न्तरे ताभ्यामभिन्न मुनरं चित्रमित्युच्यत इत्यर्थः ॥ के दारेति ॥ दाराणां पो- षणे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम् । के खेटाः खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति तत्कि चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभित्रम्॥१४९ ॥ इत्युत्तरालंकारः८३ सूक्ष्ममिति ॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायं चेष्टितं सूक्ष्मालं. कारः । पराशयाभिज्ञश्चासावितरश्च तस साकूतचेष्टितमर्थात्परविषय इति चार्थः॥ संकेतेति ॥ संकेतकाले मनो यस्य तजिज्ञासुमिति यावत् । विटं जारं नेत्रा- १५६ कुवलयानन्दः । [ व्याजोत्यलंकारः ८६ पिहितालंकारः ८५ पिहितं परवृत्तान्ताज्ञातुः साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥१५१॥ रात्रौ सपत्नीगृहे जागरणेन शान्तोऽसीति तल्पकल्पनाकृतम् । यथावा- वक्रस्पन्दिस्वेदविन्दुप्रबन्धैर्दष्टा भिन्नं कुडुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खगलेखां लिलेख ॥ अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥१५१॥ व्याजोपयलंकारः ८६ व्याजोक्तिरन्यहेतूतया यदाकारस्य गोपनम् । ' सखि पश्य गृहारामपरागैरसि धूसरा ॥१५२ ॥ अत्र चौर्यरतकृतसंकेतभूपृष्ठलुण्ठनलमधूलिजालस्य गोपनम् । यथावा- कस्य वा न भवेदोषः प्रियायाः सव्रणेऽधरे । सभृङ्गं पनमाघ्रासीरितापि मयाधुना ॥ उपपतिना खण्डिताधराया नायिकायाः सकाशमागच्छन्तं प्रियमपश्यन्त्येव सख्या नायिका प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम् । छेकापहृतेरस्थाश्चायं विशेषः । तस्यां वचनस्यान्यथानयनेनापह्नवः । अस्यामा. कारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनानि चोक्तिग्रहणमाका- रस्य गोपनार्थ हेस्वन्तरप्रस्यायकव्यापारमात्रोपलक्षणम् । ततश्च आयान्तमालोक्य हरिं प्रतोल्यामाल्याः पुरस्तादनुरागमेका रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैन । इत्यत्रापि ब्याजोक्तिरेव । तत्र ह्यनुरागकृतस्य रोमाञ्चद्याकारस्य भक्तिरू- भ्यामर्पितमाकूतं यस्मिन् तादृशं लीलासंबन्धि पद्मम् । नेत्रेत्यादि क्रियाविशेषणं वा ॥ १५० ॥ इति सूक्ष्मालंकारः ।। ८४ ॥ पिहितमिति लक्ष्यनिर्देशः । तल्पं शयनम् ॥ वक्रेति ॥ वके प्रस्रवणशी- लग स्वेदबिन्दूनां प्रबन्धैर्धाराभिः कण्ठे भिन्नं लग्नं कुङ्कुमं दृष्ट्वा क्वापि वयस्या सखी स्मित्वा स्मितं कृत्वा पुस्त्वं व्यञ्जयन्ती सती तन्व्याः पाणौ खगलेखां लिले. खेत्यन्वयः । सूक्ष्मालंकारे पराभिप्रायमंवगत्य साकूतचेष्टितेनोत्तरसमर्पणम् । पिहितालंकारे तु गूढं परवृत्तान्तं ज्ञात्वा साकूतचेष्टया तत्प्रकाशनमिति भेदो बोध्यः ॥ १५१ ॥ इति पिहितालंकारः ॥ ८५ ॥ व्याजोक्तिरिति लक्ष्यनिर्देशः । चौर्यरते कृतं यत्संकेतभूतभूमिपृष्ठलुण्ठनमि- त्यन्वयः । उपपतिना जारेण । तस्यां छेकापहृतौ ॥ आयान्तमिति ॥प्रतोल्यां रथ्यायाम् । एका काचिद्रामा वनिता सख्याः पुरस्ताद्रोमाञ्चकम्पादिभिरनुभावैर्व्य- गूढोक्त्यलंकारः८७ ] अलंकारचन्द्रिकासहितः । १५७ पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि चे. ष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च । नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः । इति मम संकेतभुवि ज्ञात्वा भावं तदाब्रवीदालीम् ॥ इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र श्लोके तावकिमावयोः संकेत- स्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा. सखी प्रति साकूतमुक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मर- कतपात्रप्रतिष्ठितशुक्तयुपमया तस्या निश्चलस्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनस्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचान ध्वनिराशङ्कनीयः । दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वो. क्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदत्रावधे- यम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितव्याजोत्तयुदाहरणेषु भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तबोद्धव्यविशेषविशेषि- तागुम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिमावास्पदत्वात् । प्राचीनैः स्वो- क्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्यं हि यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति वृच्छन्तमध्वानं का- मिन्याह ससूचनम् ॥' इत्याधर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिखितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगू. हेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५२ ॥ . गूढोक्त्यलंकारः ८७ गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः॥ १५३ ॥ यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचित्प्रति श्लेषे. णोच्यते चेत्सा गूढोक्तिः । वृषेत्याधुदाहरणम् । परकलत्रं भुजानं कामुकं ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्य. ज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमित्यर्थः । उदाहर्त- व्यमिति ॥ यथा वक्रस्पन्दीति पद्य एव 'आली बालां सस्मितं प्राह मन्दं मु. ग्धाक्षि त्वामद्य पश्यामि नाथम्' इत्युत्तरार्धनिर्माणे नाथमित्युक्त्या प्रकाशनमिति बोध्यम् ॥ वस्तुसौन्दर्येति ॥ वेतसी निकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभा- वास्पदत्वाद्धनित्वाश्रयत्वात् ॥ उपसंहरति-अत इति ॥ येष्वित्यस्य भावावि- करणमस्तीत्यनेनान्वयः ॥ १५२ ॥ इति व्याजोक्त्यलंकारः ॥८६॥ गूढोक्तिरिति ॥ यदन्योद्देश्यकं वाक्यं तत्तदन्यं प्रति कथ्यते चेद्ढोक्तिरलं- १ न्योद्देश्याशीर्यदन्यं'. १४ . १५८ कुवलयानन्दः। [विवृनोक्त्यलंकारः ८८ प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य 'कथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यङ्ग्यत्वाभावात् । नापि श्लेष- मात्रम् । भप्रकृतार्थस्य प्रकृतार्थान्वयिस्वेनाविवक्षितत्वात् । तस्य केवलमि- तरवशनार्थ निर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथावा- नाथो मे विपणि गतो न गणयत्येषा सपतीचमा त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राला गृहाभ्यन्तरम् । शय्यामात्रसहायिनी परिजनः मान्तो न मां सेवते खामिनागमलालनीय रजनी लक्ष्मीपते रक्ष माम् ॥ भत्र लक्ष्मीपतिनानो जारस्थागमनं प्रार्थयमानायाखटस्थवसनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५३ ॥ विवृतोत्यलंकारः ८८ विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति समूचनम् ॥ १५४ ॥ श्लिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः । वृषापही. त्युदाहरणे पूर्ववर्तं वस्तु ससूचनमिति कविनाविष्कृतम् । यथावा- वस्से मा गा विषादं श्वसनमुरुजवं संत्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि । कारः । क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति ॥ अयं भावः । प्रकृताप्रकृतश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता- र्थोपमानतयान्वयः स्वीक्रियते । सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं- बन्धार्थाभिधायकत्वापत्तः । अतः प्रकृतेऽपि श्लेषवादिनाप्रकृतस्य प्रकृतसंबन्धो वाच्यः । स च न संभवति विवक्षाविरहादिति ॥ कुतखहि प्रकृतार्थकथनं तत्राह-तस्येति ॥ अप्रकृतार्थस्येत्यर्थः । ननु तादृशविवक्षाविरहेऽपि नानार्थ- विन्यासमात्रेणास्तु श्लेष एवेत्याशङ्याह-विच्छित्तिविशेषेति ॥ तथाच श्लेषसत्त्वेऽपि विच्छित्तिविशेषाद्ढोक्तिरवश्यमङ्गीकार्येत्याशयः । अतएव श्लेष- मात्रमिति तन्मात्रनिराकरणमेवोपक्रान्तं नतु श्लेषनिराकरणमिति ॥नाथ इति ॥ विपणि: पण्यवीथिका । पुष्पिणी रजखला । आगमेन वेदेन लालनीयः स्तुत्यः, आगमनेन लालनीयश्च । रजनी व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५३ ॥ इति गूढोक्त्यलंकारः ॥ ८७ ॥ क्लिष्टगुप्तमिति ॥ श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु- तेत्यादौ संग्राह्यत्वात् ॥ वत्ले इति ॥ वत्से लक्ष्मि, विषादं खेदं हरे च उरुजवं महावेगमू प्रवृत्तं श्वसनं श्वासं पवनं च संत्यज, क जलं पातीति तथा वरुणः कम्पश्च गुरुर्महान् बृहस्पतिश्च बलं प्रसिद्ध तद्भिदा नाशकेन बलाख्यदैत्यनाशके- नेन्द्रेण च । अत्र श्रीकृष्णसंनिधौ याहि इति प्रकारेण भयनिवारणव्याजेन सुराणां .

विवृतोत्यलंकारः८८] अलंकारचन्द्रिकासहितः । १५९ प्रत्याख्यानं सुराणामिति भयशमनछमना कारयिस्था यसै लक्ष्मीमदाद्वः स दहतु दुरितं मन्यमुग्धः पयोधिः ॥ इदं परवञ्चनाय गुसाविष्करणम् । त्रपागुप्ताविष्करणं पथा- रष्टया केशव गोपरागहतया किंचित्र रटं मया तेनेह स्खलितामि नाथ पतिता किनाम नालम्बसे एकस्त्वं विषमेषुखिचमनसा सर्वावलानां गति- रौप्यैवं गदितः सलेशमवतारोटे हरिर्वविरम् ॥ अत्र कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथिस्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय- मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर- णम् । इदं शब्दशक्तिकोडीकृतगुताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्क- रणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पपते किं चैवं विजनस्थयोहतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिष्यन्पुलकोत्कराञ्चिततनुर्गोपी हरिः पातु वः॥ अन्न गच्छाम्यच्युतेत्यामन्त्रणेन त्वया रन्तुं कामेच्छया स्थितं तम लब्धमि.. त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतस्कविनिबद्धवक्तृगुप्ता- विष्करणोदाहरणम् । प्रत्याख्यानं वर्जनं कारयित्वा मन्थो मन्थनं तेन मुग्धः पयोधिः यस्मै लक्ष्मी- मदात्स वो दुरितं दहत्वित्यन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करण- मित्यर्थः ॥ अपेति ॥ लज्जया गुप्तस्येत्यर्थः ॥ दृष्टयेति ॥ गोपे त्वयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागैधूलिभिर्व्याप्तया च। गोपेति संबोधन वा । किंचित्समविषमं युक्तायुक्तं च इह त्वयि भूमौ च पत्युर्भावः पतिता तां पतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेषु संकटेषु खिन्नमनसां च । अबलानां स्त्रीणां बलरहितानां च सलेशं ससूचनं गोष्ठं गोस्थानम् ॥ चेतो नलमिति ॥ लङ्का न अयते न गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थो गुप्तस्त-- दाविष्करणं च हीणा हृष्टा चेत्यनेनेति बोध्यम् । शब्दशक्तीति ॥शदावशेने- त्यर्थः । क्रोडीकृतः संगृहीतः ॥ गच्छामीति ॥ अच्युत मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं त्वद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं- भोगेनेत्यर्थो गुप्तः । विजनस्थयोरेकान्तगतयोः । हतश्चासौ जनश्च अन्यथा र- त्यर्थे स्थिताविति संभावयति । तेन द्वयोरकीर्तिनिव वृथैवात्मानं वश्चयाव इति गुप्तार्थः । आमन्त्रणस्याच्युतेत्यादेर्भङ्गया रचनया सूचितो यो वृथावस्थानखेदस्खे. नालसाम् ॥ कविनिबद्धेति ।। कविनिबद्धेन वका गुप्तस्येत्यर्थः ॥ सुभु त्व- N ..

१५८ कुवलयानन्दः। [विनोन्यलंकारः ८८ : प्रति वक्तव्यं परक्षेन्ने सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य कथ्यते । नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यङ्गथत्वाभावात् । नापि श्लेष- मात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्य केवलमि- तरवचनार्थ निर्दिष्टतया विच्छित्तिविशेषसनावात् । यथावा- नाथो मे विपणि गतो न गणयत्येषा सपनी च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राहा गृहाभ्यन्तरम् । शय्यामात्रसहायिनी परिजनः प्रान्तो न मां सेवते खामियागमलालनीय रजनी लक्ष्मीपते रक्ष माम् ॥ भत्र लक्ष्मीपतिमानो जारस्यागमनं प्रार्थयमानायास्तटस्थवचनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५ ॥ विवृतोक्यलंकारः ८८ विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति समूचनम् ॥ १५४ ॥ श्लिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः । वृषापही. त्युदाहरणे पूर्ववगुप्तं वस्तु ससूचनमिति कविनाविष्कृतम् । यथावा- वस्से मा गा विषादं श्वसनमुरुजवं संत्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि । कारः । क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति ॥ अयं भावः । प्रकृताप्रकृतश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता- र्थोपमानतयान्वयः स्वीक्रियते । सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं- बन्धार्थाभिधायकत्वापत्तः । अतः प्रकृतेऽपि श्लेषवादिनाप्रकृतस्य पतसंबन्धो । स च न संभवति विवक्षाविरहादिति ॥ कुतस्तहिं प्रकृतार्थकथनं तत्राह-तस्येति ॥ अप्रकृतार्थस्येत्यर्थः । ननु नादविवक्षाविरहेऽपि नानार्थ- विन्यासमात्रेणास्तु श्लेष एवेत्याशझ्याह-विच्छित्तिविशेषेति ॥ तथाच श्लेषसत्त्वेऽपि विच्छित्तिविशेषागूढोक्तिरवश्यमशीकार्येत्याशयः । अतएव श्लेष- मात्रमिति तन्मात्रनिराकरणमेवोपक्रान्तं नतु श्लेषनिराकरणमिति ॥नाथ इति ॥ विपणि:-पण्यवीथिका । पुष्पिणी रजखला । आगमेन वेदेन लालनीयः स्तुत्यः, आगमनेन लालनीयश्च । रजनी व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५३ ॥ इति गूढोक्त्यलंकारः ॥ ८७ ॥ क्लिष्टगुप्तमिति ॥ लिटन्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु- तेत्यादौ संप्रास्यत्वात् ॥ वत्से इति ॥ वत्से लक्ष्मि, विषादं खेदं हरं च उरुजवं महावेगमूर्ध्वं प्रवृत्तं श्वसनं श्वासं पवनं च संत्यज, कं जलं पातीति तथा वरुणः कम्पश्च गुरुमहान् बृहस्पतिश्च बलं प्रसिद्ध तद्भिदा नाशकेन बलाख्यदैत्यनाशके- नेन्द्रेण च । अत्र श्रीकृष्णसंनिधौ याहि इति प्रकारेण भयनिवारणव्याजेन सुराणां वाच्यः विवृतोतयलंकारः८८] अलंकारचन्द्रिकासहितः । प्रत्याख्यानं सुराणामिति भयशमनच्छमना कारयित्वा यसै लक्ष्मीमदाद्वः स दहतु दुरितं मन्धमुग्धः पयोधिः ॥ इदं परवञ्चनाय गुलाविष्करणम् । त्रपागुप्ताविष्करणं यथा- दृष्टया केशव गोपरागहतया किंचित्र ष्टं मया तेनेह स्खलितास्मि नाथ पतितां किंनाम मालम्बसे। एकस्त्वं विषमेषुखिनमनसा सर्वावलानां गति- रौप्यैवं गदितः सलेशमवतागोडे हरिर्वविरम् ॥ अन्न कृष्णस्य पुरतो विषमे परिस्खलनममिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथिस्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय- मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम् । एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर- णम् । इदं शब्दशक्तिकोडीकृतगुप्ताविष्करणम् । अर्थशक्तिमूलगुप्तार्थाविष्क- रणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं चैवं विजनस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामश्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिष्यन्पुलकोत्कराञ्चिततनुर्गोपी हरिः पातु वः ॥ अत्र गच्छाम्यच्युतेत्यामश्रणेन त्वया रन्तुं कामेच्छया स्थितं तत्र लब्धमि.. त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम् । सर्वमेतत्कविनिबद्धवक्तृगुप्ता- विष्करणोदाहरणम् । प्रत्याख्यानं वर्जनं कारयित्वा मन्थो मन्थनं तेन मुग्धः पयोधिः यस्मै लक्ष्मी- मदात्स वो दुरितं दहत्वित्यन्वयः ॥ परेति ॥ परवञ्चनाय गुप्तस्य आविष्करण- मित्यर्थः ॥ त्रपेति ॥ लज्जया गुप्तस्येत्यर्थः ॥ दृष्टयेति ॥ गोपे त्वयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागै—लिभिर्व्याप्तया च। गोपेति संबोधनं वा । किंचित्समविषमं युक्तायुक्तं च इह त्वयि भूमौ च पत्युर्भावः पतिता तां पतनं प्राप्तां च । विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेषु संकटेषु खिन्नमनसा च । अबलानां स्त्रीणां बलरहितानां च सलेशं ससूचनं गोष्ठं गोस्थानम् ॥ चेतो नलमिति ॥ लङ्का न अयते न गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थे। गुप्तस्त- दाविष्करणं च होणा हटा चेत्यनेनेनि बोध्यम् ॥शब्दशक्तीति॥शब्दश्लेषवशेने- त्यर्थः । कोडीकृतः संगृहीतः ॥ गच्छामीति ॥ अच्युत मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं त्वदर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं- भोगेनेत्यर्थो गुप्तः । विजनस्थयोरेकान्तगतयोः । हतश्चासौ जनश्च अन्यथा र- त्यर्थं स्थिताविति संभावयति । तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वश्चयाव इति गुप्तार्थः । आमन्त्रणस्याच्युतेत्यादेर्भझ्या रचनया सूचितो यो वृथावस्थानखेदस्वे- नालसाम् ॥ कविनिबद्धेति ॥ कविनिवद्धन वका गुप्तस्येत्यर्थः ॥ सुभु त्व.

१६० कुवलयानन्दः। [ युक्त्यलंकारः ८९ कविगुताविष्करणं यथा- सुश्रु त्वं कुपितत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव विवर्जिताः सुरमयः स्नग्गन्धधूपादयः। कोप रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सत्यं तद्विरहानवम्ति दयिते सर्वा ममान्धा दिशः॥ अत्र तावदीर्ध्यामानकलुषितदयिताप्रसादनव्यापारविधिः प्रतीयते । दृष्टि- रोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षिताः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारगेन संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं कविगुप्तं स्वप्रौढिकथनार्थमिति भेदः ॥ १५४ ॥ युक्त्यलंकारः ८९ युक्तिः परांभिसन्धानं क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् ॥१५५॥ अत्र पुष्पचापलेखनक्रियया मन्मथो मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवञ्चन विवक्षितम् । यथावा- दम्पत्योर्निशि जल्पतोगुहशुकेनाकर्णितं यद्वच- स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमानं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चऋपुटे व्रीडा विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥ पत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूषुजनवञ्चनं कृतम् । व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्क्या गोपन मिह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ॥ १५५ ॥ मिति ॥ शोभनभूर्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च । रागिण्यनुरागिणीति । अवनते नम्रे इति च मयीत्यस्य विशेषणम् । पक्षे रागिणि रक्तिमशीले नम्र इति दृक्संबोधनम् । एवं दृष्टे इत्यपि ॥ उच्चारणेनेति ॥ खरविशेषसहकृतोच्चारणेनेत्यर्थः ॥ १५४ ॥ इति विवृतोक्त्यलंकारः सुक्तिरिति ॥ खस्य मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वञ्चनं सा युक्तिरलंकारः ॥ त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ।। दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थं निगदत इति संबन्धः । फल- शब्दो बीजपरः । गोपनीयविषयभेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह-यद्वेति॥ नन्वेवं सत्यायान्तमालोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशब्याह- एवंचेति ॥ यद्वेति पक्षाङ्गीकारे चेत्यर्थः। एवंच पूर्वग्रन्थ आद्यपक्षाभिप्रायेणेति भावः ॥१५५॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः॥८९॥ १ 'परातिसंधानं'. ८८ ॥ .

छेकोतयलंकारः९१] अलंकारचन्द्रिकासहितः । १.६१ लोकोतयलंकरः ९० लोकप्रवादानुकृतिर्लोकोक्तिरिति मण्यते । सहस्व कनिचिन्मामान्मीलयिन्वा विलोचने ॥१५६॥ अत्र लोचने मीलयित्वेति लोकवादानुकृतिः । यथावा-मदीये वरदराजतवे- नामैव ते वरद वान्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । विश्वप्रसिद्धतरविप्रकुलप्रसूते- यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥ अनोत्तरार्धे लोकवादानुकारः ॥ १५६ ॥ . छकोत्यलंकारः ९१ छेकोक्तियदि लोकोक्तेः स्यादर्थान्तरगर्भिता । भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५७ ॥ केनचित्कस्यचिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृ. त्तान्तं जानातीरयुक्तवतोऽयमहेः पादानहिरेव जानातीति लोकवादानुकारः। अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदित- विषयतया लोकोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनङ्गव्यापारे तस्यायं सहचर इति मर्मोद्धाटनमपि तेन गर्भीकृतम् । यथावा- मलयमरुतां नाता याता विकासितमल्लिका- परिमलभरो भग्नो ग्रीष्मस्त्वमुस्तहसे यदि । घन घटय तं त्वं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिमं स एव धनंजयः ॥ अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एवं गवां निवर्तने प्रभवति स एव धनंजय इत्यान्ध्रजातिप्रसिद्ध लोकवादानुकारः । अत्रातिसौन्दर्यशा- लोकेति ॥ अनुकृतिरनुकरणम् ॥ सहस्वेति॥अर्थाद्विरहं मासानभिव्याप्ये- त्यर्थः ॥ नामैवेति ॥ हे वरद, तव नामैव वाञ्छितदातृत्वमाख्याति कथति। अतस्त्वं वरदानमुद्रां इतरदैवतवन धारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्रसू- तिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५६ ॥ इति लोकोक्त्यलंकारः ॥९॥ छकोतिरिनि लक्ष्यनिर्देशः । अर्थान्तरव्यजकता । समीपस्थं यद्वृत्तान्तः पृष्ट- स्तत्समीपस्थम् ॥ स चायं चेति ॥ पृच्छयमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः । तेन लोकोक्त्यनुवादेन ॥ मलयेति ॥ वाताः समूहाः । याता गताः। विका- सिनां मल्लिकाकुसुमानां परिमलस्य भरो यस्मिन् तादृशो प्रीष्मो भग्नो नष्टः । हे १ 'कथ्यते'. २ 'यत्र लोकोत्तैः'. ३ 'गर्भता'.

भत्र मान मुख प्रयाता रात्रिरित्याशयेनोकार्या व १६२ कुवलयानन्दः। [वक्रोत्यलंकारः९२ लिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञस्वाद्रोप्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकस्वादित्य- र्थान्तरमपि गर्मितम् ॥१५७ ॥ वकोत्यलंकारः ९२ वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्प। मुश्च मानं दिन प्राप्तं नेह नन्दी हरा के ॥ १५८ ॥ मुछेत्यर्थान्तरं श्लेषण परिकल्पितम् । यथावा- अहो केनेरसी बुदिदारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् ॥ इदमविकृतश्लेषोक्तेरुदाहरणम् । विकृतश्लेषवक्रोक्तेर्यथा- भवित्री रम्मोह त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यस्युचैर्विपदमधुना वानरचमू- कंधिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ॥ सर्वमिदं शब्दश्लेषमूलाया वक्रोकेरुदाहरणम् । अर्थश्लेषमूलाया वक्रो- केर्यथा- मिक्षार्थी स क यातः सुतनु बलिमखे ताण्डवं काय भद्रे मन्ये वृन्दावनान्ते कनु स मृगशिशुनैव जाने वराहम् । घन, त्वं यद्युत्सहसे उत्साहवान्भवसि तदा तं निःस्नेहं नायकं घटः नया संयो- जय । गवां निवर्तने परापहतानां व्यावर्तने य एव प्रभवति स एक धनंजयोऽर्जुन इत्यन्वयः । लिप्सया प्रोषितस्य याजना तत्सखीवचन इति संबन्धः। आन्ध्रास्तै- लङ्गाः । इमां मत्सखीम् । गोप्रायो गोतुल्यः ॥१५॥ इति छेकोक्त्यलंकारः ९१ वक्रोक्तिरिति । काकुनेर्विकारः। अपरार्थम्याभिप्रेतादादान्तरम्यानन्दी हरस्य गणविशेषः॥ अहो इति॥दारुणा क्रूरेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं , च कस्यचिद्वर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥सीतां प्रति रावणोक्तिः पाद- त्रयं। चतुर्थस्तं प्रति सीतायाः। ते तव पतिः स रामो युधि संग्रामे पुरतोऽप्रतो न स्थाता स्थास्यतीत्यर्थः । अतिशयेन लघुर्लधिष्ठस्तत्संबोधनम् । इदं पादत्रयं पष्टाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्रतादृशं पुनः पठेत्यर्थः॥ शब्दश्लेषेति ॥ शब्दस्य परिवृत्त्यसहत्वादिति भावः ॥ भिक्षेति ॥ जलनिधिश्व हिमांश्च तत्कन्ययोर्लक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मियोभाषणं नो- ऽस्मान् त्रायतामित्यन्वयः । इत्थं कीहक् तदाह-भिक्षार्थीति । हरमभिप्रेत्य १ 'मपूर्वार्थप्र. . , स्वभावोक्त्यलंकारः९३] अलंकारचन्द्रिकासहितः । बाले कञ्चिन्न दृष्टो जरठवृषपतिऍप एवास्य वेत्ता लीलासलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः॥ काका यथा- असमालोच्य कोपस्ते नोचितोऽयमितीरिता। नवोचितोऽयमिति तं ताडयामास मालया ॥ अन्न नैवोचित इति काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम् ॥१५॥ स्वभावोत्यलंकारः ९३ स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् । कुरजैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुंदीक्ष्यते ॥१५९ ॥ यथावा- तौ संमुखप्रचलितौ सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ । पाोपसर्पणमुभावपि भिन्नदिकं कृत्वा मुहुर्मुहुरुपासरतां सलजम् ॥ १५९ ॥ . लक्ष्म्या वाक्यम् । बलेर्दैत्यस्य मखे यते इति वामनाभिप्रायं पार्वत्याः । भद्रे शो- भने, ताण्डवं नृत्यमद्य व वर्तत इति लक्ष्मीप्रश्नस्योत्तरं वृन्दावनस्यान्ते मध्ये इति श्रीकृष्णाभिप्रायम्। मृगशिशुमहादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्' इति ध्यानश्रवणात् । इदं लक्ष्म्या वाक्यं नैवेति पार्वत्याः। 'मृगः पशौ कुरङ्गे च' इति विश्वः । कचिदिति प्रश्ने। जरठो जीर्णः वृषपतिषश्रेष्ठ इति हरवृषभाभि- प्राय लक्ष्मीवाक्यम् । गोपो गर्वा पालक इति कृष्णाभिप्रायमुत्तरमिति । अत्र भिक्षादिपदानां परिवृत्तिसहत्वादर्थश्लेषमूलत्वम् ॥ असमालोच्येति ॥ अविचा- येत्यर्थः । मालया पुष्पमालया । 'भिक्षुः क्वास्ति बलेर्मखे पशुपतिः कास्ते परं गोकुले वास्ते पन्नगभूषणः सखि सदा शेते च शेषोपरि । मुग्धे मुञ्च विषादमे- नमधुना नाहं प्रकृत्या चलास्मीत्येवं गिरि जागमुटतन बाहाम्यो नमः पातु वः ॥' अस्मिन्नपि पद्येऽयमेवालंकारः ॥१५८ ॥ इति वक्रोक्त्यलंकारः ॥ ९२ ॥ खभावोक्तिरिति लक्ष्यनिर्देशः । जात्यादिस्थस्य जात्यादिसंबन्धिनः। आदिप- देन क्रियादिपरिग्रहः । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः॥ताविति॥ तौ प्रक्रान्तौ वधूवरौ गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्ग- प्रदाने चोरभमो वेगरलेन स्खलितं श्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि भिन्नदिकं वामदक्षिणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृत्वा सलज्जं यथा स्यात्तथोपसरता उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरजाति- १ 'तीरितम्'. २ 'रुदीक्षितम्'.

१६४ कुवलयानन्दः। [अत्युक्त्यलंकारः ९६ भाविकालंकारः ९४ भाविक भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः॥१६०॥ स्थानभीषणोद्भावनपरमिदम् । यथावा- अद्यापि तिष्ठति शोरिदमुत्तरीय धर्तुं पुरः स्तनतटास्पतितं प्रवृत्ते । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ १६० ॥ उदात्तालंकारः ९५ उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानो यस्याभवद्युद्धं तद्भूर्जटिकिरीटिनोः ॥ १६१ ॥ इदं श्लाघ्यचरितस्यान्याङ्गत्वे उदाहरणम् । अवथुदाहरणं यथा- रत्नस्तम्भेषु संक्रान्तः प्रतिबिम्बशतैर्वृतः । ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्वतः ॥ १६१ ॥ अत्युक्त्यलंकारः ९६ अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः॥१६२॥ खभाववर्णनमत्र सलजक्रियाखभाववर्णनमिति भेदः ॥ १६९ ॥ इति खभावो- त्यलंकारः ॥ ९३ ॥ भाविकमिति लक्ष्यनिर्देशः ॥ अद्यापीति ॥मम नयनं नयनमिति तस्या वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धर्तुं पुरः प्रवृत्ते मयि सति तदा आय- ताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्ठतीत्यन्वयः । अत्र नयनपदेन स्ववाचकत्वरूपशक्यसंबन्धेन नेत्रपदं लक्ष्यते तस्माच वस्त्रप्रतीतिः । किंवा खवाचकवाच्यत्वरूपशक्यसंबन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरिया- दिवलक्षितलक्षणा वा बोध्या। 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६० ।। इति भाविकालंकारः ।। ९४ ॥ उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः । तथा श्लाघ्यं चरित- म् । अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा। सानौ शिखरे यस्य पर्वतस्य । किरीटी अर्जुनः कृच्छ्रात्कष्टात् । आञ्जनेयेन हनूमता ॥ १६१ ॥ इन्युदानालंकारः॥१५॥ अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारूपम् । अकूपाराः १ 'समृद्धिं च'. २ 'यत्राभवत्'. ३ 'संक्रान्तः'. ४ 'तथ्यं'. ५ 'याजकाः'.

: निरुक्त्यलंकारः९७ ] अलंकारचन्द्रिकासहितः । इयमौदार्यात्युक्तिः । शौर्यास्युक्तिर्यथा- राजन्सप्लायकूपारास्वत्प्रतापानिशोषिताः । पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः॥ संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्ताबत्युक्यलंकार इति भेदमाहुः अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे । अल्पं निर्मितमाकाशमनालोच्येव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ इति सदसदुक्तितारतम्येनातिशयात्युक्त्योर्मेदः ॥ १२ ॥ निरुत्त्यलंकारः ९७ निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६३ ॥ यथावा- पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६३ ॥ समुद्राः ।। आहुरिति ॥ स्वमते तु तथ्यत्वातथ्यत्वाभ्यां भेद इति भावः । अ- तथ्ये अद्भुतत्वविशेषणस्य कृत्यं दर्शयति-अनयोरित्यादि ॥ एतत्पद्यं यो- गेऽप्ययोगोऽसंबन्धातिशयोक्तिरित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्ये- नेति ॥ अनयोरित्यत्रासदुक्तिमात्रम् । अल्पमिति पद्ये त्वत्यन्तासदुक्तिरिति ता- रतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादत्यन्तातथ्यरूपत्वलाभान्नातिशयोक्ता- वतिव्याप्तिरिति भावः । अतएवानयोरिति पद्यानन्तरं दण्डिनोक्तम्-'इति सं- भाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति । एवम् 'लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्ता अल्पं नि- मितमित्याद्युदाहृत्य इदमत्युक्तिरित्युक्तमिति च॥१६२॥ इत्युक्त्यलंकारः ॥१६॥ निरुक्तिरिति लक्ष्यम् । योगवशानाम्नामर्थविशेषाभिधायिनामर्थान्तरोपवर्णन- मिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द्रं प्रति विरहिण्या उक्तिः । ईदृशैर्जनसंता- पनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च ॥ पुरेति ॥ कनिष्ठिकाङ्गुलिवि- शेषः । अधिष्ठितः कालिदासो यस्यां सा लिविशेषरूपा । अर्थवती न विद्यते कविनाम यस्यां सेत्यन्वर्थनामवती ॥ १६३ ॥ इति निरुक्त्यलंकारः॥ ९७ ॥ १ 'त्वद्वैरिराजवनिता'.

१६६ कुवलयानन्दः । [ विध्यलंकारः ९९ प्रतिषेधालंकारः ९८ प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६४ ॥ निर्शातो निषेधः स्वतोऽनुपयुक्तरवादर्थान्तरं गर्भीकरोति । तेन चारुता- न्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरले प्रत्यवतिष्ठमान शाकुनिकं प्रति विदग्धवचनम् । तत्र युद्धस्याक्षयूतत्वाभावो निति एव कीर्त्यमानस्त- त्रैव तव प्रागल्भ्यं न युद्ध व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कि- तवेनाविष्कृतम् । यथावा- न विषेण न शस्त्रेण नामिना न च मृत्युना । अप्रतीकारपारुष्याः स्त्रीमिरेत खियः कृताः ॥ अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषा- थतिशायि क्रौर्यमिति । अमुमर्थ व्यक्तीकरोतीति स चाप्रतीकारपारुष्या इति प्रतीकारवयो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः॥१६॥ विध्यलंकारः ९९ सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् । पञ्चमोदश्चने काले कोकिलः कोकिलो भवेत् ॥१६॥ नितिविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विपिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्त सदतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तच्च पञ्चमो- दश्चने इति कालविशेषणेनाविष्कृतम् । यथावा- हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनी कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न- सौताप्रवासनपटोः करुणा कुतस्ते ॥ कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या- चमत्कारित्वात्कथमलंकारत्वमत आह-निर्मात इति ॥ शकुनैः पाशकैर्दीव्य- तीति शाकुनिकः । आविष्कृतमिति ध्वनित्वशङ्कानिवारणम् । एवमग्रेऽपि ॥१६४॥ इति प्रतिषेधालंकारः ॥ ९८ ॥ पञ्चमस्य खरविशेषस्योदञ्चनमाविष्करणं यत्र तादृशे काले कोकिल: कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीयकोकिलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमित- त्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितये- ति शेषो बोध्यः । पूर्ववद्धनित्वाशङ्कानिवारणाय तश्चेत्यायुक्तम् ॥ हे हस्तेति ॥ १ 'ऽभवत्. २ 'निवास', 'विवास'.

हेत्वलंकारः १०० ] अलंकारचन्द्रिकासहितः । १६७ अत्र रामस्य स्वहस्रं प्रति रामस्य गात्रमसीति वचनमनुपयुकं सद्रामस्ये- त्यनेन खस्यात्यन्तनिष्करुणत्वं गर्भीकरोति । तच्च निर्भरत्यादिविशेषणेनावि- कृतम् । यद्यप्यनयोविधिनिषेधयोरुदाहरणेषु व्यङ्ग्यान्यर्थान्तरसंक्रमितवा- व्यरूपाणि तथापि न ध्वनिमावास्पदानि । स्वोत्त्यैव व्यङ्ग्यविशेषाविष्कर- णात् । व्यङ्ग्याविष्करणे चालंकारत्वमेवेति प्राक्प्रस्तुताकुरप्रकरणे व्यवस्थित- स्वात् । पूर्व बाधितौ प्रतिषेधौ भाक्षेपभेदत्वेनोक्तौ । इह तु प्रसिद्धौ विधि- प्रतिषेधौ तत्प्रतिद्वन्द्विनावलंकारत्वेन वर्णिताविति भेदः ॥ १६५ ॥ हेत्वलंकारः १०० हेतोर्हेतुमता साध वर्णनं हेतुरुच्यते । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १६६ ॥ यथावा- एष ते विद्रुमच्छायो मरुमार्ग इवाधरः । कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हियां स्वातध्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्य गते । तृष्णे त्वामनुबनता फलमियत्प्राप्त जनेनामुना यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ इत्युदाहरणम् ॥ १६६ ॥ शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबालके मृते तद्वधोद्यतस्य रामस्य खहस्तं प्रतीयमुक्तिः । जीवातवे जीवनाय । शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि- कृपाणं खङ्गं विसृज निक्षिप । यतो रामस्याकरुणस्य गात्रंशरीरमसि । निर्भरम- तिशयेन गर्भखिन्नायाः सीतायाः प्रवासनं निर्वासनं तत्र पटोदृढस्येत्यर्थः । अत्र रामपदमकरुणत्वरूपार्थान्तरसंक्रमितम् । तदतिशयो व्यङ्ग्यः। स चात्यन्तमित्यने- नोक्तः । ध्वनिभावास्पदानि ध्वनित्वप्रयोजकानि ॥ व्यवस्थितत्वादिति ॥ 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालकृति+नेः ॥ इति ध्वनिकारवचनेन निर्णीतत्वादित्यर्थः ॥ उक्ताविति॥ 'निषेधाभासमाक्षेपं बुधाः केचन मन्वते । आक्षेपोऽन्यो विधौ व्यक्त निषेधे च तिरोहिते ॥' इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावि- त्यर्थः । प्रसिद्धत्वाद्बाधितप्रतिद्वन्द्वित्वम् ॥ १६५ ॥ इति विघ्यलंकारः ॥ ९९ ॥ हेतोरिति ॥ हेतुमता कार्येण । मानच्छेदः कार्यम् ॥ एष इति ॥ विद्रु. मच्छायः प्रवालकान्तिर्विगततरुच्छायश्च मरुर्निर्जलदेशः ॥ माने इति ॥ माने नेच्छति अनिच्छति सति । एवमुपशमे वारयति सति । हियो लजायां क्षमा भू. मिमालिखन्त्याम् । भूम्युल्लेखनस्य तदनुभावत्वात् । खातव्ये च परिवृत्य परा- मुखीभूय तिष्ठति सति धैर्ये करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधून- । - १६८ कुवलयानन्दः। [रसवदलंकारः १०१ हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६७ ।। अत्र च कार्यावश्यंभावतच्छैयादिप्रस्यायनार्थः कार्यकारणभेदव्यपदेशः ॥ यथावा- आयुर्दानमहोत्सवस्य विमतक्षोणीभृतां मूर्तिमा. विश्वासो नयनोत्सवो मृगहशां कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ अन्न दानमहोत्सवायुष्करत्वादिनाध्यवसिते राज्ञि तदायुष्ट्वादिव्यपदेशः १६७ इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः। प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥१६८॥ रसवदलंकारः १०१ रसभावतदाभासभावशान्तिनिबन्धनाः। चत्वारो रसवत्प्रेय ऊर्जस्विच्च समाहितम् ॥ १६९ ।। भावस्य चोदयः संधिः शबलत्वमिति त्रयः । अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ।। नं कृत्वा गते सति हे तृष्णे, त्वामनुसरतामुना जनेनैतावत्फलं प्राप्तम्। यत्पादे- नापि यो न स्पृष्टः स एव चरणौ खीयौ स्प्रष्टुं न सम्यक् मन्यते अनुजानाती- त्यन्वयः । अत्र तृष्णारूपहेतुतत्कार्ययोः स्पष्टमभिधानम् ॥१६६॥ भेदान्तरमाह- हेतुहेतुमतोरिति ॥ केचिद्भट्टोद्भटप्रभृतयः । तदुक्तम्-'हेतुमनः सह हेतो- रभिधानमभेदता हेतुः' इति ॥ लक्ष्मीति ॥ कटक्षा विदुषां लक्ष्मीविलासा इत्यन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाह-अत्रेति ॥ कार्यावश्यंभावश्च तच्छैघ्यं चेति विग्रहः । आदिना अपथ्याशनं रोग इत्यादी कार्यगतोपादेयत्वानुपादेयत्वादिसंग्रहः ॥आयुरिति ॥ वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः । कीदृशः । दानरूपस्य महोन्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानमेवमग्रेऽपि । विशेषेण नतानां क्षोणीभृतां राज्ञां कलिताकृतिधृताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतनं स्थानम् ॥ १६७ ॥ इति श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्सदुपाख्यभट्टविट्ठलसूरिवरात्मजश्रीरामच- न्द्रसूरिसूनुना वैद्यनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्द- टीकायां हेत्वलंकारप्रकरणं संपूर्णम् ॥ १० ॥ भावस्येति ॥ निर्वेदादेर्व्यभिचारिभावस्येत्यर्थः। प्रत्यक्षप्रमुखाः प्रत्यक्षाद्याः। १ 'कंचित्'. - रसवदलंकारः १०१] अलंकारचन्द्रिकासहितः। एवं पञ्चदशान्यानप्यलंकारान्विदुर्बुधाः ॥ १७० ॥ तन्त्र विभावानुभावव्यभिचारिमिय॑जितो रतिहासफोकादिमिश्चित्तवृत्ति- विशेषो रसः । स यन्त्र परस्साकं भवति तन्त्र रसवदलंकारः । विभावानुभा- वाभ्यामभिव्यअितो निर्वेदादिनयरिश दो देवतागुरुशिष्यद्विजपुत्रादाब- भिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्गंस प्रेयोऽलंकारः ॥ अनौचि. स्येन प्रवृत्तो रसो भावश्च रसाभासो भावाभासनेत्युच्यते स यत्रापरस्याङ्गं तदूर्जखित् । भावस्य प्रशाम्यदवस्था भावशान्तिः । तस्याः पराङ्गत्वे समा. हितम् । भावस्योगमावस्था भावोदयः । द्वयोर्विरुद्धयो वयोः परस्परस्पर्धा भावसंधिः । बहूनां भावानां पूर्वपूर्वोपमर्दैनोत्पत्तिर्भावशबलता । एतेषामि- तराङ्गत्वे भावोदयादयस्त्रयोऽलंकाराः । तत्र रसवदुदाहरणम्- ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतिह्याख्याः ॥ विभावे. त्यादि ॥ रत्यादेरालम्बनोद्दीपनरूपाणि नायिकाचन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्त्या विभावपदेनाभिधीयन्ते । कार्याणि च कटाक्षरोमाञ्चादीनि । तथाविधान्येवानु पश्चाद्भवन्तीति व्युत्पत्त्यानुभावपदेन । एषामेव कार्याणां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनि च व्यभि- चारिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः । एवं रतिरासक्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः विकृतविदूषिकादिचेष्टादर्शनज- न्या । चित्तस्य विकासरूपा वृत्तिर्हासः । इष्टनाशानिष्टलाभादिजन्या चित्तवृत्तिः शोकः प्रसिद्धः । आदिपदेन क्रोधोत्साहभयजुगुप्साविस्मयनिदाख्यानां षण्णां परिग्रहः । विशेषपदेन च रत्यादेः स्थायित्वप्रयोजकं परिपुष्टत्वं कान्ताविषयत्व- मितरानङ्गत्वं च विवक्षितम् । तदुक्तम्-'रत्यादिश्चेन्निरङ्गः स्याद्देवादिविषयोऽथ । अन्याङ्गभावभाग्वा स्यान्न तदा स्थायिशब्दभाक्॥' इति स्थायिन एव चा- भिव्यक्तरसत्वम् । यदाहुः-'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादे: स्थायिना लोके तानि चेन्नाव्यकाव्ययोः ॥ विभावा अनुभावास्तत्कथ्यन्ते व्यभि- चारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥' इति । अभिव्य- कानां च रत्यादीनां रसरूपाणां क्रमाच्छङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्सा- द्भुतशान्तरूपविशेषसंज्ञा बोध्याः ॥ निर्वेदादिरिति ॥ 'निर्वेदग्लानिशङ्काल्या- स्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रा विस्मृतिरेव च ॥ खप्नो विवोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥' इति भरतेनोक्ताः । लज्जादिना विकारगोपनमवहि- त्थाख्यो भावः । देवतेत्याद्यपरिपुष्टत्वादेरुपलक्षणम् । रतिरिति चापुष्टहासादेः ॥ अनौचित्येनेति ॥ एतच्चोदाहरणे दर्शयिष्यामः ॥ मुनिरिति ॥ कुम्भसंभ- १५ १७० कुवलयानन्दः । [ऊर्जखदलंकारः १०३ सुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनकचुलके रष्टौ दिव्यौ तौ मत्स्यकच्छपौ। अत्र मुनिविषयरतिरूपस्य भावत्याद्भुतरसोशम् । यथावा- भयं स रसनोत्कर्षी पीनस्खनविमर्दनः। नाभ्यूरुजवनस्पर्शी नीवीविस्तूंसनः करः। अत्र करुणस्य शृङ्गारोऽङ्गम् ॥ प्रेयोलंकारस्य भावालंकारत्वम् १०२ प्रेयोऽलंकार एव भावालंकार उच्यते । स यथा- कदा वाराणस्याममरतटिनीरोधसि वस. न्वसानः कौपीनं शिरसि निदधानोऽअलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ॥ अत्र शान्तिरसस्य कदेतिपदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम् । यथावा- अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तामि यावद्धव- स्वावदिनदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ अत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतिभावोजाम् ॥ ऊर्जस्वदलंकारः १०३ अर्जखि यथा- स्वत्प्रस्यर्थिवसुन्धरेशतरुणीः संत्रासतः सत्वरं यान्तीरि विलुण्ठितुं सरभसं याताः किराता बने । वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोर्मत्स्यकूर्म- योर्दर्शनेन गम्योऽद्भुतरसो मुनिप्रभावातिशयपर्यवसन्नतया तद्विषयरतिपोषक- त्वात्तुदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूना- मुक्तिः । स पूर्वानुभूतोऽयं करः यः काञ्चीसमाकर्षणशीलः । नीवी वसनप्रन्थि- स्तस्या विख्रसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थया करुणरसपरिपोषः । कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः । कीदृशः । काश्यां ग- जातीरे वसन् । अये इत्यादेरिति क्रोशन्नित्यनेनान्वयः॥अत्युचा इति ॥ स्फा- रा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः । इमां भुवं बिभ्रद्धारय- माणः ॥ त्वत्प्रत्यर्थीति ॥ हे वीर, संत्रासतो भयाद्वने सत्वरं गच्छतीस्तव १प्रेमभावातिशय'.

भावोलंकारः १०५] अलंकारचन्द्रिकासहितः । १७१ विडन्ति तिमिताः प्रस्डपुलका विस्मृतोपक्रमा- खासामुत्तरलैः स्तनरतितरां कोरपाझैरपि । भत्र प्रभुबिषयरतिभावस्थ शाररसामासोाम् । यथावा- स्वपि कोषनगोचरं गते सफर जन्म नृसिंह भूपते । अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः । मन्त्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयविषणरतिरूपो भावामा- सोनम्। समाहितालंकारः १०४ समाहितं यथा- पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बित किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविकक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे सब्याज हसितं मया इतिहरो मुक्तस्तु बाष्पस्तया ॥ भत्र शुजारस्य कोपशान्तिरङ्गम् ॥ भावोलंकारः १०५ भावोदयो यथा- तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी । अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः ॥ भन्न नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम् । .. प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीविलुण्ठितुं याताः किराता भिल्लाः तासां तरुणीनामुत्तरलैरतिचपलैः स्तनैरतितरामतिशयेन लोलैश्चञ्चलैरपार्नेत्रप्रा- न्तैश्च तैः स्तिमिताः स्तब्धाः प्रोद्गतरोमाश्चा विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता- दृशास्तिष्ठन्तीत्यन्वयः । अत्र शृङ्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन प्रवृत्तिरित्याभासरूपत्वम् ॥ त्वयीति ॥ अजनिष्ट अभूत् । युधि संप्रामे ।। तद्विषयेति ॥ प्रभुविषया द्विषद्गणस्य या रतिस्तद्रूप इत्यर्थः । अत्र शत्रुविषय- कत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम् ॥ पश्याम इति ॥ नायकस्य खमित्र प्रति नायिकालान्तोक्तिः । मयि तूष्णीभूते किमियं प्रपद्यते कुरुते तत्प- श्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमङ्गीकृतम् । पश्याम इति बहुवचनं सखीसमानाभिप्रायम् । एवं तयाप्ययं खलु शठो मां किमिति नालप- ति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे । सव्याजं निमित्तान्तरव्याजसहितम् ॥ तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण समः स - १७२ कुवलयानन्दः। [प्रत्यक्षालंकारः १०८ . भावसंध्यलंकारः १०६ भावसंधियथा- एकाभूस्कुसुमायुधेषुधिरिव प्रध्यक्तपुडावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षी क्षणमात्रमाविविरहक्लेशासहां पश्यतो दागाकर्णयता वीर भवतः प्रौढाहवाडम्बरम् ॥ भन्न रमणीप्रेमरणौत्सुक्ययोः संधिः प्रभुविषयमावस्याङ्गम् । - भावशबलालंकारः १०७ भावशबलं यथा- काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वमेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ अत्र वितकोत्सुक्यमतिमरणशङ्कादैन्यतिचिन्तानां शबलता विप्रलम्भ. शृङ्गारस्याङ्गम् ॥ प्रत्यक्षालंकारः १०८ प्रमाणालंकारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भन्नबालसहकारसुगन्धौ । स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ मप्रियो नल: पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥ एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाद्भावी यो विरहक्लेशस्तदसहिष्णुं लोलाक्षों दयितां पश्यतस्तथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्रं पुलकैः कुसुमायुधस्य मदनस्येपुधिस्तरुणीव प्रत्यक्ता पुलावली शरपुलपतिर्यत्र तथाभूताभूत् । अन्या द्वितीया जेतुर्जयशीलस्य मङ्गलपालिका मङ्गलरूपा पालि- का या कुशकाशादिनिर्मिता उभयपार्श्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्ताया रतेरपरिपुष्टत्वाद्भावरूपत्वं बोध्यम् ॥ का. कार्यमिति ॥ शुक्रकन्यां देवयानी दृष्टवतो राशो ययावेरियमुक्तिः । अकार्य ब्राह्मणकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः । अयं वितर्कः । तदुपमर्दैन भूयोऽपीत्यौत्सुक्यम् । एवमग्रेऽपि । श्रुतं शानश्रवणमिति मतिः । अहो कोपेऽपीति स्मरणम् । अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्य- न्तीति शङ्का । स्वप्नेऽपीति दैन्यम् । हे चेतः, खास्थ्यमुपैहीति धैर्यम् । कः खलु धन्यो युवा तरुणोऽधरं धास्यति पास्यतीति चिन्ता । विप्रलम्भो वियोग इति पर्यायौ ॥ क्रान्तेति ॥ इन्द्रियाणां वर्गः समूहः । मधुनि मद्ये निर्ववार निर्वृतिं प्राप ।

अनुमानालंकारः १०९] अलंकारचन्द्रिकासहितः । १७३ यथावा- किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैकसहवासिना परोक्षः ॥ पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेदः॥ अनुमानालंकारः १०९ अनुमानं यथा- यथा रन्ध्रव्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ यथावा- यत्रता लहरीचलाचलडशो व्यापारयन्ति अवौ यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापपुडितशरप्रेङ्गुत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ॥ पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः। शुद्धानुमानं यथा- कथंभूते । संकान्तप्रियमुखप्रतिबिम्बे । भग्नकोमलाम्रपल्लववत्सुगन्धौ स्वादुनि आखाद्ये प्रकृष्टनादयुक्तभ्रमरयुते शीतस्पर्शे चेति । अत्रेन्द्रियतृप्त्या तजन्यप्रत्य- क्षमलंकारः ॥ किमिति ॥ आरादूरे । इति क्षणं संदिह्य कश्चिद्धकसहवासिना कमलानां परोक्षरदृश्यैर्बिब्बोकैः मानात्प्रियकथालापे 'बिब्बोकोऽनादरक्रिया' इ. त्युक्तलक्षणावविशेषैर्मुखमिति निश्चिकाय नितिवान् । इति प्रत्यक्षम् ।। यथेति ॥ यथाशब्दा अनुमानार्थाः। 'यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमा- नयोः' इति विश्वकोशात् । तथाच चपलजलदरूपो धूमो व्योम्न आकाशस्य रन्ध्रमवकाशं यस्मात्स्थगयति तस्माच्च कीटमणयः खद्योताः स्फुलिङ्गानां रूपं द- धति धारयन्ति । यस्माच्च विद्युपाभिर्खालाभिरुल्लसिताः प्रकाशीभूताः परितः पिङ्गवर्णाश्च ककुभो दिशस्तस्मात्पथिकरूपाणां तरूणां खण्डे समूहे स्मरलक्षणो दवाग्मिलग्न इति मन्ये इत्यन्वयः । प्रयोगस्तु पथिकतरुखण्डं स्मरदावानलवत् व्योमन्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रता इति ॥ लहरीवञ्चलाचला- श्वश्चला दृशो यासां ता एताः कामिन्यो यत्र जने भ्रूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविषय एव यद्यस्मादमी मर्मस्पर्शिनो बाणाः संततं पतन्ति तत्तस्मा- न्मण्डलीकृते चापे पुहिता योजितमुखा ये शरास्तेषु प्रेजश्वपलः करो यस्य ता- : स्मरः शासनमाज्ञा तद्धारक आसामग्रतो धावतीति सत्यमित्यन्व- यः॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः । प्रयोगस्तु दृशः क्रोधनः १७४ कुवलयानन्दः । [शब्दप्रमाणालंकारः१११ - विलीयमानैविहगैनिमीकनिख पाजैः। विकसन्त्या च मालया गतोऽखं ज्ञायते रविः॥ यथावा- सौमित्रे ननु सेव्यतां तस्तलं चण्डांशुरूजम्मते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता भत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि । उपमानालंकारः ११० उपमानं यथा- तां रोहिणी विजानीहि ज्योतिषामन्त्र मण्डले । यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् । शैलराजमिव धैर्यशालिनं वेनि वेष्टपति महीपतिम् ॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थ- सादृश्यप्रत्यक्षरूपमुपमानं फळेन सह दर्शितमिति विशेषः॥ शब्दप्रमाणालंकारः १११ शब्दप्रमाणं यथा- विवृण्वता दोषमपि व्युतारमना स्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ एताश्चक्रीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिवाणपालाश्रयभ्रूसंज्ञा- स्थानकत्वादिति बोध्यः । एवं निलीयमानैरित्यत्रापि । अयं काल: सूर्यास्तमय- वान् पक्षिनिनी समानतायाधयन्यादि ।। रविरस्तगमनवान् तादृशकालसंबन्धि. त्वादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति ॥ विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्तिः । अत्राप्ययं चन्द्रः कुरङ्गधारित्वादिति प्रयोगः । इत्यनुमानम् ।। तामिति ॥ तारकाणां न्यासः संनिवेशः शकटस्याकार संस्थानमाश्रितस्तां रोहिनी विजानीहीत्यतिदेशवाक्यार्थज्ञानमिहोपमानम् । इयं शकटाकारनक्षत्रव्य. तिः रोहिणीपदवाच्येत्युपमिति प्रति करणत्वात् ॥ अत्रेति ॥ अत्र एषु राजसु मध्ये मन्मथमिवातिसुन्दरं महीपति वेङ्कटपतिसंज्ञं वेनीत्याद्यन्वयः। दानवारि. विष्णुः शैलराजं हरं धैर्यशालिनं मदनशासकत्वात् ॥ प्रत्यक्षरूपमिति ॥ सा- दृश्यविशिष्टपिण्डप्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणत्वादिति भावः । फलेन उपमितिरूपेण । इत्युपमानम् ॥ विवृण्वेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोष प्रकाशयतापि स्खलितान्तःकरणेन त्वया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं पागाष्टिपमाणाार] अलंकारचन्द्रिकासहितः । १७५ अत्र शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम्। एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि । - तत्र स्मृत्यलंकारः ११२ तन्त्र स्मृतियथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः। सर्वान्चलकृतानर्थानकृतान्मनुरब्रवीत् ॥ पूर्व श्रुतिरभिमतार्थे प्रमाणस्वेनोपन्यस्ता । इह तु स्मृतिरनमिमतार्थे तहषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्टयोरपि मीमांसकोक- धर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः । तत्राचारप्र- माणं यथा- महाजनाचारपरम्परेशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति । आत्मतुष्टिप्रमाणालंकारः ११३ आत्मतुष्टिप्रमाणं यथा- असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः॥ अन्न दुष्यन्तेनात्मतुष्टया शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमी- यते । एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं संभवदिहोदाहर्तव्यम् । साधूक्तम् । यतो यमीशमात्मभुवो ब्रह्मणोऽपि कारणमामनन्ति वेदाः। स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य ताहग्भविष्यतीत्यन्वयः । विवक्षवेति कचित्पा- ठः वक्तुमिच्छतेति तदर्थः ॥ बलादिति ॥ नास्तिकोक्तिरियम् । हे जनाः, पापानि बलात्कुरुत । तानिच पापानि वो युष्माकमकृतान्येव भवन्तु । यतो बलात्कारेण कृतान्स- निन्मिनुरकृतानब्रवीदित्यन्वयः । तद्दूषणपरेण सर्वाभिमतार्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिवैकल्पिके विषये 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्' इत्यादौ प्रमाणमित्युक्तम् ॥ महाजनेति ॥ दमयन्तीं प्रति नलस्योक्तिः । नाम वितर्के । नाददते न गृह्णन्ति । आचारमुचमाचारत्यागिनं विगायति निन्दति ॥ असंशयमिति ॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या । यत आयें श्रेष्ठ मम मनो यस्यां शकुन्तलायामभिलाषशीलम् । पदेषु विषयेषु ॥

. १७६ कुवलयानन्दः। [श्रुत्यलंकारः ११४ श्रुत्यलंकारः ११४ तत्र श्रुतिर्यथा- त्वं हि नान्नव वरदो नाधत्से वरमुद्रिकाम् । नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः॥ अत्र करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्व सम- थितम् । लिङ्गं यथा- विदितं वो यथा स्वार्था न मे काश्वित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः । अत्र शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याधष्टमूर्तिपरिग्रहलिङ्गेन तत्प्र. वृत्तीनां लोकानुग्रहकप्रयोजनस्वं समर्थितम् । लिङ्गस्य मूलभूतवेदानुमापक- तया वैदिकशब्दप्रमाण एवान्तर्भावः । एवं लौकिकलिङ्गानामपि लौकिक- शब्दोमायकतया लौकिकशब्दप्रमाण इवान्तर्भावः । अतः। लोलहूलतया विपक्षदिगुपन्यासे विधूतं शिर- स्तद्वृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः ईषत्ताम्रकपोलकान्तिनि मुखे दृष्टया नतः पादयो- रुत्सृष्टो गुरुसंनिधावपि विधिर्वाभ्यां न कालोचितः ॥ इत्यादि चेष्टारूपं प्रमाणान्तरं नाशकनीयम् । कचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा- किमसुभिर्कपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थकां नलमुखेन्दुपरां विबुधस्सरः॥ अत्र नियमाणानां मनश्चन्द्रं प्रविशतीत्येतदर्थिकायाः श्रुतेर्नलमुखचन्द्र- विषयत्वे कल्पिते तथा व्याख्यातृस्मरवाक्यं प्रमाणतयोपन्यस्तम् । त्वं हीति ॥ वरमुद्रिकां वरमुद्रां नाधत्से न धास्यसि । श्रुति दसंज्ञारूपा लिङ्गं गमकम् । पक्षे श्रुत्या तृतीयादिरूपया प्रकर्षेण शीघ्रं सिद्धेऽर्थे अझाङ्गीभावे सति लिङ्गमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथा 'ऐन्या गार्हपत्यमुपतिष्ठते' इति श्रुत्या गार्हपत्योपस्थाने विनियुक्तस्य मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिङ्गे- नेन्द्रोपस्थाने विनियोगो नाद्रियत इत्यर्थः । करिगिरीश्वरः कालहस्तीश्वरः ॥ विदितमिति ॥ इत्थंभूतः पराबैंकप्रवृत्तिकः । अत इत्यस्य चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयमित्यप्रेतनेनान्वयः ॥ लोलदिति ॥ गुरूणां संनिधावपि द्वाभ्यां नायकाभ्यां समयोचितो विधि!त्सृष्टः । यथा लोलद्धूलतया नायिकाया विपक्षस्य सपन्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सूचने कृते नायकेन नेति सूचनाय शिरो विधूतं संचालितम् । ततस्तद्वृत्तान्तपरीक्षणे नायिकया कृते सत्यकृतनमस्कारो विलक्ष्य एव स्थितः । तत ईषत्ताम्रा कपोलकान्तिर्यस्य तादृशे नायिकाया मुखे कोपातिशयाजाते सति तत्पादयोईटिपातेनैवानतः प्रणत इति ॥ किममुभिरिति ॥ व्याख्यातं प्राक् ॥ तथेति ॥ नलमुखचन्द्र- संभवालंकारः११७ ] अलंकारचन्द्रिकासहितः । १७७ अर्थापत्तिरलंकारः ११५ भांपत्तिर्यथा- निणेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथा नोपपोत पयोधरभरस्थितिः ॥ यथावा- व्यक्त बलीयान्यदि हेतुरागमादपूरयत्सा जलधि न जाह्ववी। गङ्गौघनिर्भसितशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ॥ - अनुपलब्ध्यलंकारः ११६ अनुपलब्धिर्यथा- स्फुटमसदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥ संभवालंकारः ११७ संभवो यथा- अभूतपूर्व मम भावि किं वा सर्व सहे मे सहजं हि दुःखम् । किं तु त्वदने शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥ विषयत्वव्याख्यातुः स्मरस्येत्यर्थः । तच्चासिद्धत्वात्कल्पितमिति भावः । इति शब्दः॥ निर्णेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति ॥ हेतुस्तकः । यदि व्यक्तं प्रकटं बलीयान् तदा सा जाह्नवी जलधिं नापूरयत् । अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गगौधैर्निर्भत्सितं तिरस्कृतं सच्छम्भु- कण्ठसमानवणे नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥ : स्फुटमिति ॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तदवलममनुपल- भमाना अपश्यन्तस्तवावलमं मध्यमसदिति स्फुटमेव निश्चिन्वते। कुलबर्वतश्रे- ष्टयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधार विना यदास्ते तत्त्विह मकरध्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः । इत्यनुपलब्धिः ॥ अभूतेति ॥ ईश्वरं प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्व तादृशं मम किं वा भावि । न किंचित् । सर्वं शीतातपादि द्वन्द्वं सहे । हि यतो मम सहजमेव दुःखमस्ति । किंतु हे नाथ, ते तव शरणगतानां भक्तानां त्वदले पराभवो नानु- रूपो नोचित इत्यन्वयः । अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादेः संभ- १७८ कुवलयानन्दः। [ऐतिघालंकारः ११८ - ये नाम केचिदिह नः प्रथयन्यवहां जानन्ति ते किमपि तान्प्रति नैष यनः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो पायं निरवधिर्विपुला च पृथ्वी ॥ यथावा- प्रातः पान्य कुतो भवामगरतो वाती नवा वर्तते बाढ़ भूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः कि किन संभाव्यते ॥ अनाघोदाहरणे अभूतपूर्व मम भावि किं वेति संभवप्रमाणसिद्धार्थों दर्शि- तः। द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तृती- योदाहरणे तु संभवोऽपि कण्ठोक्त इति भेदः । ऐतिह्यालंकारः ११८ यथा- . कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ अत्र लौकिकी गाथैयमित्यनिर्दिष्टप्रवक्तकप्रवादपारंपर्यरूपता दर्शिता । भथैतेषामलंकाराणां यथासंभवं कचिन्मेलने लौकिकालंकाराणां मेलन इव चारुवातिशयोपलम्भामरसिंहन्यायेन पृथगलंकारावस्थितौ तनिर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः। वाख्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुक्तिः । नामेति कुत्सने। 'नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने' इत्यमरः । किमपीति कः । न कि- मपीत्यर्थः । एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्प- त्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मानिरवधिरयं काल: पृथ्वी च विपुलेति क्रमेण योज्यम् । अत्र कालो हायमिन्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपद. र्शितम् ॥ भ्रातरिति ॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्तरमागत इति शेषः । नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः । बाढ मिन्युनरमजी- कारे । अस्तीत्यर्थः । ब्रूहीति पूर्वस्योक्तिः । युवेत्यादि पान्थवचनम् । सत्यं जीव- तीति पुनः पूर्वस्य प्रश्नः । जीवतीत्यादि सर्व पान्थवचनम् । इति संभवः ॥ अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः । एवं चैतदेवनियलक्षणमिति दर्शितम् ॥ इति प्रमाणालंकारप्रकरणम् ॥ यथासंभवमिति ॥ संसृष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभव- मित्यर्थः ॥ स्फुटेति ॥ स्फुटमवगम्यमानो भेदो येषामिति विग्रहः । एकस्मि- न्याचकेऽनुप्रवेशोऽवस्थितिः । एतत्सर्वमुदाहरणे व्यक्तीभविग्यति ॥

अझाङ्गिभावसंकरः१२०] अलंकारचन्द्रिकासहितः। १७९ नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः । स चामलीभावेन सममा- धान्येन संदेहेन एकवाचकानुप्रवेशेन चतुर्विधः । एवं सिंहाकाराः. पळालंकार। अलंकारसंसृष्टिः ११९ तत्रालंकारसंसृष्टियथा- कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोलकलोलरशान्यया । अत्र शब्दालंकारानुप्रासयमकयोः संसृष्टिः। लिम्पतीव तमोऽङ्गानि वर्षतीवाअनं नमः । असत्पुरुषसेवेव रष्टिर्निष्फलतां गता ॥ अनोस्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः । आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौकी हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्ज- मीरसिञ्जितमनोहरमम्बिकायाः ॥ अत्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः । अङ्गाङ्गिभावसंकरालंकारः १२० अङ्गाङ्गिभावसंकरो यथा- तलेष्ववेपन्त महीरहाणां छायास्तदा मारुतकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥ कुसुमेति ॥ माघे ऋतुवर्णने पद्यमिदम् । अन्यया कयापि वनितया चलि- तया कलखरो मेखलायाः काश्याः कलकल: कोलाहलो विदधे । किंभूतया । कुसुमसौरभलोभेन परिभ्रमतां भ्रमराणां संभ्रमेण त्वराविशेषेण संभृता समृद्धा शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति ॥ आन- न्देति ॥ आनन्देन मन्थरं यथा स्यात्तथा । पुरन्दरेणेन्द्रेण मुक्तमर्पितं माल्यं यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोझं मचीरस्य नू- पुरस्य सिञ्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदृशं चरणं नोऽस्माकं विजयाय भवत्विल्यन्वयः। अत्र पादाम्बुजमिन्युपमितसमाम एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति । तथा सत्यम्बुजप्राधान्ये मजी- रसिञ्जितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः॥ तलेग्विति ॥ तदा मारुतकम्पिनानां महीरुहाणां तलेषु छाया अवेपन्त क- म्पमाना आसन् । तत्रोत्प्रेक्षते । शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षण- गजानां शरीरखण्डा इवेति । गुणानां चेति तार्तीयाधिकरणसूत्रम् । अस्यार्थः ।

.." १८० कुवलयानन्दः । [अङ्गाङ्गिभावसंकरः१२० षणस्य अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यन्त्र शशाङ्क एव सिंहस्तमास्येव गजा इति मयूरव्यंसकादिसमासाश्रयणेन रूपकवच्छ- शाङ्कः सिंह इव तमांसि गजा हवेत्युपमितसमासाश्रयणेनोपमापि वकुंश- क्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशे- प्रधानेन सहान्वयेन भाव्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वा- च्छशाकस्य तमसां च प्राधान्यं भवेत् । तत्र न विशेषेण मुख्यार्थान्वयस्वार- स्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसंभवेऽपि मु. ख्यार्थान्वयस्वारस्यमेवादरणीयम् । स्वरूपनाशकोडीकरणप्रवृत्तया लक्षणामूलातिशयोच्या रूपकसिद्धिः। तच्च रूपकमुस्प्रेक्षाया भङ्गं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगानखण्डा इवावेपन्तेत्येतावदुक्तावुपमैच सिद्ध्येत् । वेपनादिसाधान छायानां सद्यः कृत्तगात्रखण्डतादात्म्यसंभावनारूपोत्प्रेक्षा । ननु शशाङ्केन लूनाकृतीनां तम- सां गानखण्डा इवावेपन्तत्येतावदुक्तावपि सिध्यत्युत्प्रेक्षा । तादाम्यसंभाव. नोपयुक्तलूनाकृतित्वरूपाधिकविशेषणोपादानात् । सत्यम् । तथोक्तावाकृति- लवनादिधर्मरूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त- समारोपरूपा समासोतिरपेक्षणीया । एवमुक्तौ रूपकमिति विशेषः । एवम- त्रातिशयोक्तिरूपकोत्प्रेक्षाणामनाङ्गिभावेन संकरः । ', गुणानां गुणभूतानां पदार्थानां परार्थत्वान्मुख्यप्रधानार्थत्वात्परस्परमसंबन्धः । कुतः । समत्वादप्रधानत्वसाम्यादिति । यथा भाष्यकारमते पावमानेपीनामाधा- नस्य चाहवनीयाद्यर्थत्वात्परस्परं नाङ्गाङ्गीभावसंबन्धः। यथा वार्तिककारमतेऽग्नि- समिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति सक्षेपः । एतद- धिकरणपूर्वपक्षसिद्धान्तौ प्रकृतानुपयोगान्न दर्शितौ ॥ स्वरूपनाशेति ॥ स्वरू- पनाशरूपमुपचरितं गौण यदाकृतिलवनमित्यर्थः ॥ नन्वेवमपि तमोशेऽस्य विशेषणस्यान्वयात्कथंरूपकसिद्धिरित्याशङ्कयाह-स्व- रूपेति ॥ क्रोडीकारेण निगरणेन ॥ लक्षणामूलेति ॥ साध्यवसानलक्षणामूले. त्यर्थः तुथाच तमोशे उपचारेणान्वय इति भावः । नचैवं सन्युपमाङ्गीकारेऽपि किं बाधकमिति वाच्यम् । तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तद- पेक्षयाऽप्रधाने तमोशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति ॥ न छायानामि- ति ॥ सिद्ध्येदित्यनुवर्तते । उत्प्रेक्षा न सिद्ध्येदित्यन्वयः । इवशब्दस्य सादृश्ये प्र. सिद्धतरत्वेनासति तात्पर्यग्राहके संभावनाबोधकन्यामभवादिति भावः । रूपकं विनाप्युत्प्रेक्षायां तात्पर्यग्राहकमस्तीति शङ्कते-नन्विति ॥ एवमुक्तौ तमोग- जानामित्युक्तौ । तथाच साधकान्तरस्य गाधकान्तरादृषकन्यापकस्योत्प्रेक्षामन्व- मविकृतमिति भावः ॥

समप्राधान्यसंकरः१२१] अलंकारचन्द्रिकासहितः। १८१ - समप्राधान्यसंकरालंकारः १२१ समप्राधान्बसंकरो यथा- भवतु नः सवितुस्तुरगावली समतिललिततुङ्गपयोधरा । स्फुरितमध्यगतारुणनायका मरकतैकलतेव नमःश्रियः । अत्र पयोधरादिशब्दश्लेषमूलातिशयोक्त्यानभूतयोत्थाप्यमानेच सवितृतु- रगावल्यां मरकतैकावलीतादात्म्योत्प्रेक्षा । नभोलक्ष्म्यां नायिकाव्यवहारसमा- रोपरूपसमासोक्तिगर्भवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् । तत उत्प्रेक्षासमासोक्त्योरेकः कालः परस्परापेक्षया चारुत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् । यथावा- अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः । कुल्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ अत्राङ्गुलीभिरिति वाक्योक्तोपमया तत्प्रायपाठान्मुख्यकुडालीकरणलिङ्गा- नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपम- याङ्गभूतयोस्थाप्यमानैव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनोर्दा- म्पत्यव्यवहारसमारोपरूपसमासोक्तिगभँवोत्थाप्यते । उपमयोरुभयत्रोत्थापक- स्वाविशेषात्समासोक्तिगर्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च । तत- श्चात्राप्युत्प्रेक्षासमासोत्तयोरेककालयोः समप्राधान्यम् ॥ यद्यप्यत्रोपमाभ्यां शशिनिशागतावेव धर्मों समय॒ते न तु शशिनायकयोः निशानायकयोश्च सा- धारणधौं । साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोत्त्योरपेक्षितम् । उत्प्रेक्षायाः प्रकृताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोक्तविशेषणसाम्यमूल- - अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वप!िऽस्मानवतु । केव । नभःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीवेत्युत्प्रेक्षा । सूर्यतुर- गाणां हरितवर्णत्वात् । कथंभूता । सम्यगनिलसिनाम्नुमा उच्चाः पयोधरा मेघा यया । एकावलीपक्षे पयोधरौ स्तनौ । तथा स्फुरितो दीप्तिमान् मध्यगतोऽरुण- रूपो नायको नेता सारथिर्यस्याः । पक्षे अरुण आरक्तो नायको हारमध्यमणिः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । अनिशयोनया मेघानां स्तनत्वेनाध्यवसानरूपया। गर्भवेत्यनेन तिलतण्डुलन्यायेन स्फुटावगम्यमानभे- दायाः संसृष्टेः सकाशाद्वैलक्षण्यं दर्शितम् ॥ एवमत्रेति ॥ एकस्य चमत्कृतिज नने परापेक्षत्वादङ्गाङ्गिभावमाशङ्याह-परस्परेति ॥ अङ्गुलीभिरिति ॥ शशी अङ्गालीभिरिव मरीचिभिः केशसंचयमिव तिमिरं संनिगृह्य कुङ्मलीकृतसरो- जलोचनं लोचनमिव सरोज यत्र तादृशं रजनीमुखं चुम्बतीवेत्यन्वयः॥ तत्प्रा- येति ॥ उपमाबहुले संदर्भ पाठादित्यर्थः ॥मुख्येति ॥ मुख्यार्थरूपं यत्कुमली- करणरूपं लिङ्गं पुष्पासाधारणधर्मस्तस्यानुकूल्यादित्यर्थः । उत्थापकत्वाविशेषत्वाद- अत्वाविशेषात् ॥ चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहारसमारोपात्मकसमासो- क्तौ चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयोस्तदा त्वमिति १८२ कुवलयानन्दः । [समप्राधान्यसंकरः१२१ . करवाच । तथापि वाक्योकोपमायामिवकारल मरीषिभिरिवेत्यन्वयान्तरम- भ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरेकैकविषयस्यार्थद्वयस्थ समासोकोपमा- यां सरोजसदृशं कोचनमिति समासान्तरमभ्युपगम्य समासभेदलब्धार्थद्वय- स्य चाभेदाध्यवसायेन साधारण्यं संपाद्य तयोरुपेक्षासमासोक्योरङ्गता निर्वा- या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाकुलीकेशसंचयलोचनानां च तनुदीर्घावरणस्वनीलनीरन्ध्रत्वकान्तिमस्वादि- ना सहशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चान्न विवक्षित एव भेदाभेदोभयप्रधानोपमेस्यालंकारिकसिदान्तात् । तत्र- च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाय प्रधा- नभूतोत्प्रेक्षा समासोत्तयङ्गतानिर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा ॥ एवमनभ्युपगमे च 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरकसानुः सनिझरोद्गार इवाद्रिराजः ॥' इत्याधुपमापि न निर्वहेत् । न यत्रादिराजपाण्ड्ययोरुपमानोपमेययोरनु- गतः साधारणधर्मों निर्दिष्टः । एकत्र बालातपनिर्झरावन्यन्त्र हरिचन्दनहारा- विति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोनिझरहारयोश्च सहयोरभेदां- शोपजीवनमेव गतिः। शकते-यद्यपीति ॥ मरीचिभिरिवेति ॥ मरीचिभिरिवाङ्गुलीभिस्ति मिरमि- व केशसंचयमित्येवंरूपमित्यर्थः । एकैकविषयस्यार्थद्वयस्याभेदाध्यवसानेनेत्यन्वयः। तयोर्वाक्यसमासोक्तोपमयोः ॥ आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्न- रसमासान्तरकल्पनागौरवेणेत्याशयेनाह-यद्वेति ॥ तनुदीर्घत्यादौ पूर्वनिपात. नियमानुरोधेन यथासंख्यक्रमपरित्यागः । तथा चाङ्गुलिमरीच्योत्सनुत्वनीरन्ध्रत्वा- भ्यां तिमिरकेशसंचययोरावरणरूपत्वनीलत्वाभ्यां सरोजलोचनयोर्दीर्घत्वकान्तिम- त्त्वाभ्यां च सादृश्यं बोध्यम् । प्रातिखिकरूपेण अङ्गुलित्वमरीचित्वादिना ॥अनु. गतेति ॥ अनुगतं यत्सादृश्यप्रयोजकं रूपं तनुत्वादिकं तेनेत्यर्थः । एतच्च साह- श्यमतिरिक्तमित्यभिप्रायेण ॥ सिद्धान्तादिति ॥ तदुक्तं साधर्म्यं त्रिविधं भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेत्युपक्रम्य विद्यानाथेन उपमानन्वयोप- मेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलत्वमिति । ननु भेदाभेदरूपांश- द्वयोपेताया उपमाया भेदांशस्यानुपयोगात्कथं तस्या उत्प्रेक्षाधुपयोगित्वमित्याश- कय परिहरति-नहीति ॥ प्रकाशश्च शीतापनयनं चेति द्वन्द्वः । शीतालुः शी- तातः 'शीतोष्णतृप्रेभ्यस्तदसहने' इति वा लुः । उक्तसिद्धान्तस्य नियुक्तिकत्वे- नाश्रद्धेय इयत्वमाशङ्कमानं प्रत्याह-एवमिति ॥ पाण्ड्योऽयमिति ॥ पाण्ज्य- नामायं नृपः अद्विराज इवाभाति । कथंभूतः । अंसयोरर्पितो लम्बो हारो येन सः । तथा हरिचन्दनेन रक्तचन्दनेन कृप्तः कृतोऽरागोऽनुलेपनं येन तथा- संदेहसंकरालंकारः१२२] अलंकारचन्द्रिकासहितः । 'पिमष्टीव तरजाप्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगणनाः ॥' इत्यत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयो- पात्तत्वात् । तदादायेति फेनचन्दनस्पकमानोपजीवनेन पूर्वोत्प्रेक्षानपेक्ष- णात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवदुस्प्रेक्षाद्वयस्य संसृष्टिरेवैयमिति वा- च्यम् । लौकिकसिद्धपेषणलेपनपौर्वापच्छायानुकारिणोत्प्रेक्षाद्वयपौर्वापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्मादर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसंकरोऽपि व्याख्यातः॥ संदेहसंकरालंकारः १२२ संदहसंकरो यथा- शशिनमुपगतेयं कौमुदी मेघमुक्त जलनिधिमनुरूपं जलुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवछः ॥ अत्र इयमिति सर्वनाम्ना ययजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्वभावापन्नधर्मविशिष्टयोः सदृशयोरक्यारोपरूपा निदर्शना यदि तेन सा स्वरूपेणैव निर्दिश्यते बिम्बभूतो धर्मस्तु पूर्वप्रस्तावात्समगुणयो- . गप्रीतय इति पौरविशेषणाचावगम्यते तत्र प्रस्तुते धर्मिणि तद्वृत्तान्तप्रतिबि- म्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायात्संदेहः । विलीयेन्दुः साक्षादमृतरसवापी यदि भवे- स्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । ततः स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुश्चयं मदनशिखिपीडापरिभवम् ॥ .. भूतः । अद्रिराजः कीदृक् । बालातपेन रक्तानि सानूनि प्रस्थानि यस्य सः । तथा निर्झरस्योद्गारेणोद्गमेन सहितः ॥ पिनष्टीति ॥ व्याख्यातं प्राक् ॥ पौर्वापर्ये- णेति ॥ तथाच चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन भेदानवभासासंसृष्टिवैलक्ष- ण्यमिति भावः । दर्शादिवद्दर्शपौर्णमासादिवत् । अयंच भिन्नकालीनयोरपि सम- प्राधान्ये दृष्टान्तः । फलं तत्र खर्गः । प्रकृते तु चमत्कृतिविशेषः । शशिनमिति ॥ अत्र अजस्येन्दुमत्या खयंवरे ममगुण गोरजेन्दुमलोयोगेन प्रीतिर्थेषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्ध- रूपमेकमेव वाक्यं विवत्रुरुच्चारयामासुरित्यन्वयः । तेन सर्वनाम्ना सा इन्दुमती बिम्बभूतो धर्मः अजकर्मकं वरणम् । तत्र तस्मिन्पक्षे ॥ विलीयेति ॥ अ- मिसंयोगेन घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः । विकचं विकसितम् ।

. १८४ कुवलयानन्दः । [एकवचनानुप्रवेशसंकरः मन्त्र यद्येतावरसाधनं संपचेत तदा तापः शाम्यतीत्यर्षे कविसंरम्भश्वेत्तदै- तदुपात्तसिद्ध्यर्थमूह इति संभावनालंकारः । एतावत्साधनं कदापि न संभ- वत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भशेदुपात्तमिथ्यात्व- सियर्थ मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। एवम्- 'सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः । मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥' इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः॥ - एकवचनानुप्रवेशसंकरः १२३ मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी । फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥ भत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूतखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः । यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोर- गवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा । यद्वा वर्ण्यमानमहोरगवृत्तान्तकीर्तनेन स- मीपस्थितखलमर्मोद्धाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुतार इति संदेहः । एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा का- व्यप्रकाशकार उदाजहार ॥ स्पष्टोच्छुसस्किरणकेसरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम् । श्लिष्टाष्टदिग्दलकलापमुखावतार• बद्धान्धकारमधुपावलि संचुकोच ॥ भत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालं. कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति । अलंकारसर्वस्वकारस्तु जडभावः शैत्यम् । मदन एव शिखी वह्निः । संरम्भस्तात्पर्यम् ॥ सिक्तमिति ॥ स्फटिककुम्भान्तःस्थित्या श्वेतीकृतैर्जलैः सिक्तं मौक्ति कमियन्वयः ॥ मुखेनेति ॥ संदोहः समूहः ॥ लक्षयित्वेति ॥ स्फुटमेकत्र विषये शब्दा- र्थालंकृतिद्वयमिति सूत्रेणेत्यर्थः ॥ स्परेति ॥ अथो अनन्तरं दिवसरूपमरविन्दं कमलं संचुकोच संकोचमगमत् । कीदृक् । स्पष्टमुच्चसन्त उल्लसन्तः किरणा एव केसराणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत् । श्लिष्टाः प्रकाशाभावेन परस्पर मिलिता अष्ट दिश एव दलानां कलापस्तन्मुखे- नावतारो यस्यास्तादृशी बद्धा अन्धकाररूपा मधुपावलियेन तथाभूतमित्यर्थः । पदभेदेनेति ॥ 'सो णत्थि एत्थ गामे जो एअं महमहंतलाअण्णम् । तरुणाणं- हिअअलुडिं परिसप्पन्ति णिवारेइ' ‘स नास्त्यत्र प्रामे य एतां स्फुरलावण्या तरु- एकवचनानुप्रवेशसंकरः] अलंकारचन्द्रिकासहितः । १८५ . एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाध्यप्रतियोगि कत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार । सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये । उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते । अन नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्य श्लेषः, मन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिभिवशब्देऽनुप्रवि- ष्टमिति तदपि न मन्यामहे । सत्पुष्करस्यादिविशेषणेऽपि श्लेषभित्तिकाभेदा- ध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्द- साम्यस्य तदप्रतिपाद्यत्वात् । श्लेषभित्तिकाभेदाध्यवसायेन धर्मसाम्यमतानगी. कारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणस- मासोत्त्युदाहरणे विशेषणसाम्याभावेन समासोक्त्यभावप्रसङ्गात् । शब्दसा- म्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्राया श्लेषवाचकत्वाभा- वाच । शब्दतोऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्वविधेऽप्युपमालंकार- स्वीकारात् । अन्यथा- 'यथा प्रह्लादनाञ्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥' इत्यत्राप्युपमा न स्यात् । नानान्वर्थनामरूपशब्दसाम्यं विना किंचिदर्थ- साम्यं कविविवक्षितमस्ति । तस्माद्यत्रैकस्मिन्नर्थे प्रतिपाद्यमाने अलंकारद्वयप्र- तीतिस्तत्र तयोरलंकारयोरेकवाचकानुप्रवेशः ॥ .. णानां हृदयलुण्ठनं परिसर्पन्ती निवारयति' इति संस्कृतम् । अत्र पूर्वार्धेऽनुप्रास- स्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥ वाच्यप्रतियोगिकत्वादिति ॥ वाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिकं तत्त्वादित्यर्थः । एवंच काव्यावाच्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाचकानुप्रवेश इति वक्तुं युक्तमिति भावः ॥ सत्पुष्करेति ॥ यस्या नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगृहे रमन्ते कीडन्ति । कीदृशैः । समीचीनः पुष्करः कमलैः द्योतिनो ये तरङ्गास्तच्छो. भावति । गृहपक्षे समीचीनैः पुष्करवाद्यभाण्डमुखैोतितो यो रङ्गो नृत्यभूमिस्त- च्छोभिनीत्यर्थः । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योनि खनफले पद्म' इत्यमरः ॥ श्लेषभित्तिकेति ॥ श्लेषो भित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥ रागवतीति ॥ रागोऽनुरागो रक्तिमा च । अम्बरमाकाशं वस्त्रं च । नन्वत्र विशेषणसाम्यायाभेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्यु- पमोपपत्तेर्न तदपेक्षेत्यत आह-शब्देति ॥ शब्दतोऽर्थतो वेति । शब्दप्रयुक्त- मर्थप्रयुकं वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे । यथेति ॥ 'चदि आह्लादने' इति धात्वनुसाराचन्द्रपदमन्वर्थम् । अन्वर्थोऽन्वर्थ- नामा। तस्मान्मतद्वयस्याप्ययुक्त्वात् ॥

१८६ कुवलयानन्दः । [संकग्मंकगलंकार:१२४ : विधुकरपरिरम्भादात्तनिष्पन्दपूर्णैः शशिषतुपकृसैरालवालस्तरूणाम् । विफलितजलसेकमक्रियागौरवेण व्यरचि स हतचित्तस्तत्र भैमीवनेन ॥ अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसा- रादुदात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिश- योक्तिश्च । नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसंपत्समृ. द्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौयौदार्यदारिद्यादिविषयवर्णनेदात्ता- स्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोश्वेहार्थवशसंप- समावेशयोनाङ्गाङ्गिभावः । एकेनापरस्यानुस्थापनारस्वातत्र्यपारतच्यविशे- षादर्शनाच्च । नापि समप्राधान्यम् । यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे संबन्धरूपस्य प्रतिपाद्यमानतया भिनप्रतिपाद- कशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः । एकालंकारकोव्यां त- दन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानु- प्रवेशलक्षणः संकरः। संकरसंकरालंकारः १२४ कचित्संकराणामपि संकरो दृश्यते । यथा- मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राणसीम्नि मन्थरचलदालाशिलाक्षारुणाः । दूराहाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका- स्वद्विद्वनवनेषु मोजनृपतेस्तरयागलीलायितम् ।। अत्र तावद्विदुषां संपत्समृद्धिवर्णनमुदात्तालंकारस्तन्मूलको बालाझिलाक्षा- रुणा इत्यत्र तदुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्स्युपपादकः । पदार्थहेतुककाव्य- विधुकरेति ॥ स हंसस्तत्र भैमीवनेन दमयन्त्या उद्यानेन हृतचित्तो व्यरचि कृतः । कथंभूतेन । चन्द्रकिरणाश्लेषोदात्तरङ्गीकृतैर्निष्यन्दैः पूर्णेश्चन्द्रकान्तघटित- स्तरूणामालवालविफलीकृतजलसेकप्रकाररूपगारवेणेत्यर्थः ॥ शब्दव्यवस्थि- तेति ॥ शब्दप्रयुक्तत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रति- क्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपी विरोधः ॥ मुक्ता इति ॥ विदुषां भवनेषु मन्दिरेषु केलौ सुरतक्रीडायां विच्छिमसूत्रा- द्धारांगलिताः संमार्जनीभिरपसारिताः प्रातःकालेऽणसीमान्ते मन्दं चलतां बा- लानां चरणलाक्षारसेनारुणा मुक्ताः दूरादाडिमबीजशस्तिधियः क्रीडाशुका यत्क- पन्त्याकर्षन्ति तद्भोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यन्वयः । तत्रैव बाला- शिलाक्षारुणा इत्यत्रैव ॥ पक्ष्यमाणेति ॥ शक्तिधिय इति वक्ष्यमाणेत्यर्थः ।

संकरसंकरालंकारः१२४] अलंकारचन्द्रिकासहितः । १८७ लिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरस्तन्मूलः शङ्कितधिय इत्यच भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारचारुतां नीत इति तयोश्च तस्य चा-. जाङ्गिभावसंकरः । एवं विद्वद्नेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्चाभेदकथनं हेत्वलंकारः । स च राज्ञो विवरणविलासस्य निरतिशयो- त्कर्षाभिव्यक्तिपर्यवसायी । एतावन्मात्रे कविसंरम्भश्चेदुक्तरूपोदात्तालंकारप- रिष्कृते हेत्वलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिशयै- श्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्भश्चेत्का- यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः । कार्यस्यापि वर्णनीयत्वेन प्रस्तु- तत्वाभिप्राये तु प्रस्तुतारे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंक- रः। किंच विद्वद्गृहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तरुदा- त्तालंकारेण सहकवाचकानुप्रवेशसंकरः । निरतिशयवितरणोत्कर्षपर्यवसायिनो हेत्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनास्मिकयात्युक्त्या सहैकवाचकानुप्रवेशसं- करः । तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्करस्य वा राजसंपत्सम- द्धिवर्णनात्मकोदात्तालंकारेण सहकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमानपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेश- संकराणां समप्राधान्यसंकरः । न ह्येतेषां परस्परमन्यबाङ्गत्वमस्ति । उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्ग- तयानपेक्षणात् । एवमत्र श्लोके चतुर्णामपि संकराणां यथायोग्यं संकरः । एवमन्यत्राप्युदाहरणान्तराण्यूह्यानि ॥ .. तयोस्तद्गुणकाव्यलिङ्गयोः । तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमभ्याम् । तयोः संकरभ्रान्तिमतोः । तस्य उदात्तस्य हेतुमतः कार्यस्य अभेदकथनं तत्त्या- गलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यभेदकथनम् ॥ त- दीयेति ॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मू- लकस्येति ॥ वितरणोत्कर्षपर्यवसायिहेत्वलंकारमूलकस्येत्यर्थः । ननु राजसं- पत्समृद्धेयंजनागम्यत्वेनावाच्यत्वात्कथं तद्वर्णनात्मकोदात्तालंकारेण सहकवाच- कानुप्रवेशकथनमित्याशङ्कायामाह-वाचकशब्दस्येति ॥ त्रयाणामिति॥ एक उदात्तातिशयोक्त्योरपरो हेत्वत्युक्त्योरन्यो व्यङ्ग्योदात्ताप्रस्तुतप्रशंसाप्रस्तुता- करान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः॥ उदात्तालंकारस्य हेत्वलंकाराङ्गतायाः पूर्वमुक्तत्वादुदात्तातिशयोक्तिसंकरस्यापि तदङ्गत्वमिति शङ्कां निरस्यति-उदात्तादिमात्रस्यैवेति ॥ उदात्तादीत्यादि- पदेन हेत्वलंकारपरिग्रहः । हेत्वलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः । तत्रापि निरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनो हेत्वलंकारस्यैव तादृशवितरणरू- पकार्यपरिष्कारद्वारा तद्गम्य प्रस्तुतराजसंपत्कर्षप्रशंसापायामप्रस्तुतप्रशंसायाम- गत्वं न त्वद्रुतातथ्यवर्णनारूपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमि- १८८ कुवलयानन्दः। [ उपसंहारः उपसंहारः। अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः ॥ १७१ ॥ चन्द्रालोको विजयतां शरदागमसंभवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ॥ १७२ ॥ इति श्रीमदद्वैतविद्याचार्यश्रीमद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्व रीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥ ति ॥ तथाहि उदात्ततद्गुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाङ्गिभाव- संकरस्य चाङ्गाङ्गिभावे च संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्यो- दात्ताङ्गकहेत्वलंकारादिसंदेहसंकरस्य चाङ्गाङ्गिभावेन संकर इति सूक्ष्ममतिभिरू- हनीयम् ॥ खकीर्त्यनुवृत्तये ग्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति-अमु. मिति ॥ खग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह-चन्द्रालोक इति ॥शरदा- ' गमसंज्ञकश्चन्द्रालोकमूलभूतो ग्रन्थः। शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः। तस्माच्च कुवलयानन्दः खग्रन्थोऽभूत् । कुवलयस्य कुमुदस्यानन्द इति च श्लेष इति शिवमास्ताम् । विद्वद्वन्दमहामान्यरामचन्द्रात्मजन्मना । विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥१॥ एनां कुवलयानन्दप्रकाशनविशारदाम् । विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः ॥२॥ असौ कुवलयानन्दश्चन्द्रालोकोत्थितोऽपि सन् । प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥ ३ ॥ . इति श्रीमत्पदवाक्यप्रमाणज्ञतत्सद्रामभट्टात्मजैवद्यनाथकृतालंकार- चन्द्रिकाख्या कुवलयानन्दटीका संपूर्णा ॥

कुवलयानन्दपद्यानामकारादिकोशः। अलं. पृष्ठं. अन्योन्यं नाम पत्र अप्र. पृष्टं. श्लोकः, श्लोकः. अलं. १०० अकारणात्कार्यजन्म विभा. ११४ अन्यो. २३ अकृशं कुचयोः कृशं उल्ले. १२ अन्योपमेयलाभेन प्रती. अक्रमातिशयोक्तिः स्या. भति. ६० अपरां बोधनं प्राहुः निद. २६ अङ्घ केऽपि शशङ्किर अप.) १५२ अपाङ्गतरले दृशौ तरल. सामा. ८० अङ्काधिरोपितमृगः अप्रस्तु. ११३ अपारिजातां वसुधां असंग. ८६ अङ्गासङ्गिमृणालकाण्ड. प्रस्तु. ९९ अपीतक्षीबकादम्ब. विभा. १८१ अङ्गुलीभिरिव केशसंचयं सम. ७८ अप्रस्तुतप्रशंसा स्यात् ५९ अनिदण्डो हरेरूच निद. ९३ अप्रस्तुतप्रशंसा स्याद्. व्याज. १८ अचतुर्वदनो ब्रह्मा रूप. ७४ अखेन त्वन्मुखं तुल्यं श्लेषा. १०२ अजसमारोहसि दूरदीर्घा असंग- १०५ अभिलषसि यदीन्दो विष. ७३ अतियजेत निजां यदि परि. १७७ अभूतपूर्वं मम भावि संभवा. ४४ अत्यन्तातिशयोक्तिस्तु अति. १ अमरीकबरीभार. उपो. १६४ अत्युक्तिरद्भुतातथ्य. अत्यु. १८८ अमुं कुवलयानन्दं उपसं. १७० अत्युच्चाः परितः स्फुर. प्रेयो. २३ अयं प्रमत्तमधुपः स्मृति. १७४ अत्र मन्मथमिवा. उप. ७६ अयमतिजरठाः प्रकाम. श्लेषा. १३२ अथोपगूढे शरदा अर्थान्त. १०२ अयं वारामेको निलय. असं. १६४ अद्यापि तिष्ठति दृशो. भावि. १७० अयं स रसनोत्कर्षी. १२६ अधरोऽयमधीराक्ष्या अर्था. १५ अयं हि धूर्जटिः साक्षात्. रूप. ११३ अधिकं पृथुलाधारा अधि. ५६ अरण्यरुदितं कृतं निद. १३४ अनन्तरत्नप्रभवस्य यस्य विक. ९३ अथैरयत्नसुलभैर्जग. व्याज. ४३ अनयोरनवद्याङ्गि अति. ९१ अर्ध दानवरिणा गिरि. व्याज. १६५ अनयोरनवद्याङ्गि अत्यु. २ अलंकारेषु बालानां उपो. १३९ अनायि देशः कतमस्त्व. ललि. ७१ अलंकारः परिकरः परि. १०५ भनिष्टस्याप्यवाप्तिश्च विष. ११४ अल्पं तु सूक्ष्मादाधेया. अल्पा. १०१ अनुरागवती संध्या विशे. १६५ अल्पं निर्मितमाकाश. अत्यु. ११९ अन्तर्विष्णोत्रिलोकी नि. सारा. १८१ अवतु नः सवितुस्तुरगा. सम. ७९ अन्तश्छिद्राणि भूयांसि अप्र. १०१ अविवेकि कुचद्वन्द्वं विभा. ११३ अन्यत्र करणीयस्य असंग. १६३ असमालोच्य कोपस्ते वक्रो. २७ अन्यत्र तस्यारोपार्थः ७५ असावुदयमारूढः श्लेषा. ८५ अन्यासु तावदुपमर्दसहा. प्रस्तुः १२८ असोढा तत्कालोल्लस. काव्य. ४२ अन्येयं रूपसंपत्तिः अति. १०२ असंभवोऽर्थनिष्पत्ते असं. रस. अप.

. अप्र. पृष्ट. श्लोकः. अलं. पृष्ठं. श्लोकः. अलं. १७५ असंशयं क्षत्रपरिग्रह. आत्म. २ उद्घाट्य योगकलया उपो. १३६ अस्य क्षोणिपतेः परार्ध. मिथ्या. ९९ उद्यानमारुतोद्भूता विभा. ८१ अस्याश्चेतिसौकुमार्य. अप्र. ६१ उन्नतं पदमवाप्य यो. निद. १३ अहमेव गुरुः सुदारुणा. प्रती. ५. उन्मीलन्ति कदम्बानि आवृ. १६२ अहो केनेशी बुद्धि. वको. ९ उपमानोपमेयत्वं भन. १०२ अहो खलभुजङ्गस्य असंग. ३ उपमा यत्र सादृश्य. उपमा. ११३ अहो विशालं भूपाल अधि. १२१ एकसिम्ययनकं वा पर्या. १२४ भहंप्राथमिकामाजा. समु. १४१ एकस्य गुणदोषाम्या उल्ला. १३ आकर्णय सरोजाक्षि प्रती. १७२ एकाभुत्कुसुमायुधेषुधि, भावसं. ९७ आक्षेपोऽन्यो विधी भाक्षे. २२ एकेन बहुधोल्लेखे ९६ भाक्षेपः स्वयमुक्तस्य आक्षे. ७७ एतम्मिन्नधिकपयःधियं श्लेषा. १४२ आघ्रातं परिचुम्बितं परि. उल्ला. १६७ एष ते विद्रुमच्छायो हेत्व. ४४ आदातुं सकृदीक्षितेऽपि अति. ४२ कातिपयदिवमैः क्षयं अति. ११० आदौ हालाहलहुतभुजा समा. १७० कदा वाराणस्याममर. प्रेयो. १७९ आनन्दमन्थरपुरन्दर. असं. १५१ कपिरपि च कापिशायन. अनु. ७९ आबद्धकृत्रिमसटाजटि. ११५ कमलमनम्भसि कमले विशे. ९८ आभासत्वे विरोधस्य विरो. १३४ कर्णारुन्तुदमन्तरेण रणितं. विक. १५६ आयान्तमालोक्य हरिं व्याजो. कर्ता यापमानं स्यात् उत्प्रे. १६८ आयुर्दानमहोत्सवस्य हेत्व. १२५ कल्पतरुकामदोग्ध्री प्रौढो. ६५ आविर्भूते शशिनि तम. विनो.. १७८ कल्याणी बत गाथेयं ऐति. ८० आश्रित्य नूनममृतातयः अप्र. ४५ कवीन्द्राणामासन्प्र गत. अति. १६८ इत्थं शतमलंकारा हेत्व. १३६ कस्तूरिकामृगाणामण्डाद्. संभा. १४६ इन्दोर्लक्ष्म त्रिपुरजयिनः लेशा. ९१ कस्ते शौर्यमदो योद्धं व्याज. १४१ इध्यमाणविरुद्धार्थ. विषाद. १५६ कस्य वा न भवेदोषः व्याजो. १३१ उक्तिरर्थान्तरन्यासः अर्थान्त. ९२ कस्त्वं वानर रामराज. व्याज. ९१ उक्तियाजस्तुतिर्निन्दा व्याज. ८४ कस्त्वं भोः कथयामि दैव. प्रस्तु. १४० उञ्चित्य प्रथममधः स्थि. प्रहर्ष. १५४ काकः कृष्णः पिकः कृष्णः उन्मी. १११ उच्चैर्गजैरटनमर्थयमान. समा. १४१ काठिन्यं कुचयोः स्रष्टुं उल्ला. ५१ उत्कण्ठयति मेघानां आवृ. ५५ कामं नृपाः सन्ति सहस्र. दृष्टा. १३९ उत्कण्ठितार्थसंसिद्धिः प्रहर्ष. १०१ नोनि' विशे. ११९ उत्तरोत्तरमुत्कर्षः सारा. १०१ कार्याकारणजन्मापि विभा. ६. उदयमेव सविता ७८ कार्ये निमित्ते सामान्ये अप्र. १६४ उदात्तमृद्धश्चरितं. उदा. १०.कार्योत्पत्तिस्तृतीया स्था. विमा. १०० उदिते कुमारसूर्ये विभा. ८३ कालिन्दि ब्रूहि कुम्भो. अप्र. निद.

समा. दृष्टा. पृष्ठं. श्लोकः. अलं. पृष्ठं. श्लोकः. अलं. १५४ किंचिदाकृतसहित उत्त. ११८ गृहीतमुक्तरीत्यार्थ. ११६ किंचिदारम्भतोशक्य विशे. ९६ गृह्णन्तु सर्वे यदि वा यथेष्टं. आक्षे. १३६ किंचिन्मिथ्यात्वसि. मिथ्या. ११६ गोपाल इति कृष्ण त्वं विष. १७३ किं तावत्सरसि सरोज. प्रत्य. १५४ ग्रामेऽस्मिन्प्रस्तरप्राये उत्त. १८ किं पद्मस्य रुचिं निहन्ति रूप. ८९ चक्राभिघातप्रसमाज्ञयैव पर्या. १९ किमसुभिग्लपितजंड. रूप. १७ चन्द्रज्योत्स्नाविशदपुलिने रूप. १७६ किममुभिग्लपितजंड. श्रुत्य. १८८ चन्द्रालोको विजयतां उपसं. १५५ कुशलं तस्या जीवति उत्त. ४४ चपलातिशयोक्तिस्तु अति. १७९ कुसुमसौरभलोभपरिभ्रम. अ.सं. १४५ चपलो निर्दयश्चासौ लेशा. ५६ कृतं च गर्वाभिमुखं दृष्टा. १४० चातकस्त्रिचतुरान्पयः, प्रहर्ष. ३० कैतवापहतियक्ती कैतवा. १२८ चिकुरप्रकरा जयन्ति ते काव्य. १२६ कैमुत्येनार्थसंसिद्धिः अर्था. ११० चित्रं चित्रं बत बत ८५ कोशद्वन्द्वमियं दधाति प्रस्तु. १०० चित्रं तपति राजेन्द्र विभा. ११० कौमुदीव तुहिनांशु. समा. ६१ चूडामणिपदे धत्ते निद. १२४ ऋमिकैकगतानां तु कार. ५५ चेद्विम्बप्रतिबिम्बत्वं १४७ क्रमिकं प्रकृतार्थानां रखा. ६४ छाया संश्रयते तलं सहो. १७२ क्रान्तकान्तवदनप्रतिबि. प्रत्य. २९ छेकापह्नुतिरन्यस्य १३९ व सूर्यप्रभवो वंशः ललि. १६१ छेकोक्तिर्यदि लोकोक्तेः छेको. १७२ क्वाकार्य शशलक्ष्मणः भावश. २८ जटा नेयं वेणीकृतकच. अप. ११ खमिव जलं जलमिव खं. उपमे. १०१ जाता लता हि शैले विभा. १०७ खिन्नोऽसि मुश्च शैलं विष. ४१ जानेऽतिरागादिदमेव अति. १० गगनं गगनाकारं अन. १२९ जीयादम्बुधितनयाधर, काव्य. १५९ गच्छाम्यच्युत दर्शनेन विवृ. २४ जीवनग्रहणे नम्रा. स्मृति. २२ गजत्रातेति वृद्धाभिः उल्ले. ५९ ज्योत्स्नाभस्मच्छरणधव. निद. १५० गण्डाभोगे विरहति मदैः अत. ६५ तच्चेत्किंचिद्विना रम्यं विनो. ४१ गतासु तीरं तिमिघटनेन. अति. ७ तडिगौरीन्दुतुल्यास्या. उपमा. १२ गर्वमसंवाह्यमिम प्रती. १४१ तदभाग्यं धनस्यैव उला. ११ गिरिरिव गजराजोऽयं उपमे. १७१ तदद्य विश्रम्य दयालु.. भावो. ११९ गिरिमहान्गिरेरब्धिः सारा. १४ तदोजसस्तद्यशसः प्रती. ५ गुणदोषौ बुधो गृह्णन् उपमा. १४९ तद्गुणः स्वगुणत्यागात् तद्गु. १३१ गुणवद्वस्तुसंसर्गात्. अर्थान्त. १७९ तलेष्ववेपन्त महीरुहाणां अङ्गा. ४८ गुणोत्कृष्टैः समीकृत्य तुल्य, ७१ तव प्रसादात्कुसुमायुधो. परि. ११७ गुम्फः कारणमाला. कार. ५३ तवामृतस्यन्दिनि पाद. प्रति. १५७ गूढोक्किरन्योद्देश्यं चेत् गूढो. १२२ तस्य च प्रवयसो जटायुषः परि. छेका.::

श्लोकः. . पर्या. अप. प्रति. . अप. पृष्टं. श्लोकः. अलं. | पृष्ठं. अलं. ८३ तापत्रयौषधवरस्य तव अप्र. ९० देहि मत्कन्दुकं राधे पर्या. १४३ ताभ्यां तौ यदि न स्या. उप. ५८ दोामब्धि तितीर्षन्त. निद. १७४ तां रोहिणीं विजानीहि उपमा. १४४ दोषस्याभ्यर्थनानुज्ञा अनुज्ञा. १०० तिलपुष्पात्समायाति विभा. ११८ दोस्तम्भौ जानुपर्यन्त. एका. २० तीवा भूतेशमौलिस्रज. परि. १५० द्वारं खङ्गिभिरावृतं ब. पूर्व. ११९ तृणालघुतरस्तूलः सारा. ९३ धन्याः खलु वने वाताः व्याज. १६३ तौ संमुखप्रचलितौ सवि. स्वभा. ३१ धूमस्तोमं समः शके उत्प्रे. ७५ त्रातः काकोदरो येन श्लेषा. ९७ न चिरं मम तापाय आक्षे. ५१ त्रिविधं दीपकावृत्ती आवृ. १२१ नन्वाश्रयस्थितिरियं ४६ त्वदनमार्दवे दृष्टे तुल्य. २९ न प मुखमेवेदं १४३ त्वं चेत्संचरसे वृषेण अवज्ञा. १०८ नपुंसकमिति ज्ञात्वा विष. १०३ त्वत्खड्गखण्डितसपत्न. असंग. ९७ नरेन्द्रमौले न वयं आक्षे. १७० त्वत्प्रत्यर्थिवसुन्धरेशतरु. ऊर्ज. १५७ नलिनीदले बलाका. व्याजो. १०८ त्वद्वसाम्यमयमम्बुज. विष. १३३ न विषेण न शस्त्रेण अर्थान्त. १७१ त्वयि लोचनगोचरं गते ऊर्ज. १६६ न विषेण न शस्त्रेण ५८ त्वयि सति शिवदातरि निद. २८ नागरिकसमधिकोन्नति. १८ त्वय्यागते किमिति रूप. ४७ नागेन्द्रहस्तास्त्वचिकर्क. तुल्य. १७६ त्वं हि नाम्नव वरदो श्रुत्य. ८१ नाथ त्वदनिनखधावन. १६. दम्पत्योर्निशि जल्पतोः युक्त्य. १५८ नाथो मे विपणिं गतो गूढो. ११० दवदहनादुत्पन्नो धूमो ७४ नानार्थसंश्रयः श्लेषो श्लेषा. १४२ दानार्थिनो मधुकरा यदि उल्ला. १६१ नामैव ते वरद वाञ्छित. लोको. १३३ दानं ददत्यपि जलैः अर्थान्त. १२४ निद्राति नाति भुले चल. कार. ११८ दिकालात्मसमैव यस्य एका. ९४ निन्दाया निन्दया व्य. व्या.नि. १०६ दिधक्षन्मारुतेर्वालं ६८ निरीक्ष्य विद्युन्नयनैः समा. ११५ दिवमप्युपयातानामाक. विशे. १६५ निरुक्तियोगतो नान्ना. निरु. १०६ दिवि श्रितवतश्चन्द्र विष. १७७ निर्णतुं शक्यमस्तीति अथी. १३२ दिवाकराद्रक्षति यो अर्थान्त. ८८ निवेद्यतां हन्त समापय. पर्या. २४ दिल्यानामपि कृतविस्म. स्मृति. ९६ निषेधाभासमाक्षेप आक्षे. ११८ दीपकैकाबलीयोगा. माला ७५ नीतानामाकुलीभावं श्लेषा. ६३ दृढतरनिबद्धमुष्टेः कोश. व्यति. १५४ नृत्यद्भर्गाहासप्रसरसह. उन्मी. ११६ दृशा दग्धं मनसिज व्याघा. १२३ पतत्यविरतं बारि विक. १५९ दृष्टया केशव गोपरागह. वि. ५७ पदार्थवृत्तिमप्यके निद. ८८ देवं वन्दे जलधिशरधिं. पर्या. १०७ पद्मातपत्ररसिके सरसीरु. विष. ५५ देवीं वाचमुपासते दृष्टा. ३० पद्धे त्वन्नयने स्मरामि. छेका. अप्र. समा. विष.

परि. . ९० पर्यायोक्तं तदप्याहुः काव्य. . पृष्ठं. श्लोकः अलं. पृष्ठ लोकः अलं. , परस्परतपःसंपत्. ७४ फणीन्द्रस्ते गुणान्वक्तुं २० परिणामः क्रियार्थश्चेत् परि. १७५ बलात्कुरुत पापानि स्मृत्य. ८७ परिम्लानं पीनस्तनजघन. प्रस्तु. १०९ बल्लालक्षोणिपाल विष. १२२ परिवृतिर्विनिमयो. परि. २१ बहुभिर्बहुधोल्लेखात् उल्ले. १२२ परिसंख्या निषिध्यैके. परि. १२३ बहूनां युगपद्भाव, समु. १. पर्यायेण द्वयोस्तचेत् उपमे. ३५ बालेन्दुवक्राण्यविकास. उत्प्रे. पर्या. १२३ बिभ्राणा हृदये त्वया वि. समु. ८७ पर्यायोक्तं तु गम्यस्य पर्या. १२१ बिम्बोष्ठ एव रागस्ते पर्या. १२० पर्यायो यदि पर्याये पर्या. १७७ भवन्ति नरकाः पापात् कार. २४ पलाशकुसुमधान्या स्मृति. १६२ भवित्री रम्भोरु त्रिदश. वक्रो. ६२ पल्लवतः कल्पतरोरेष व्यति. १२७ भस्मोद्धूलन भद्रमस्तु १७१ पश्यामः किमियं प्रपद्यत समा. १०८ भानुर्निशासु भवदभि. विष. १८२ पाण्ड्योऽयमंसार्पित. समप्रा. १६८ भावस्य चोदयः संधिः रस. ३६ पिनष्टीव तरङ्गाप्रैः उत्प्रे. १६४ भाविकं भूतभाव्यार्थ. भावि. १८३ पिनष्टीव तरङ्गाप्रैः समप्रा. १६२ भिक्षार्थी स क यातः वको. १५६ पिहितं परवृत्तान्त. पिहि. ४२ भेदकातिशयोकिस्तु भति. १४९ पुनः स्वगुणसंप्राप्तिः पूर्व. १५३ भेदवैशिष्टययोः स्फूर्ता. उम्मी. १६५ पुरा कवीनां गणनाप्रसङ्गे निरु. १७८ भ्रातः पान्थ कुतो संभ. १२१ पुराभूदस्माकं प्रथममवि पर्या. २८ भ्रान्तापह्नुतिरन्यस्य अप. ६७ पुरा यत्र स्रोतः पुलिन. समा. १०३ भ्रूचापवल्लीं सुमुखी असंग. ३७ पूरं विधुर्वर्धयितुं पयोधेः उत्प्रे. ५० मणिः शाणोल्लीढः दीप. १४९ पूर्वावस्थानुवृत्ति पूर्व. १४३ मदुक्तिश्चेदन्तर्मदयंति अव. ११ पृथ्वाधेवायदाधारा. अधि. १२६ मधुव्रतौधः कुपितः स्व. प्रत्य. १६६ प्रतिषेधः प्रसिद्धस्य प्रति. | ३२ मध्यः किं कुचयोऽत्यै उत्प्रे. ९८ प्रतीपभूपैरिव किं ततो विरो. | २६ मन्थानभूमिधर अप. "प्रतीपमुपमानस्य प्रती. ७६ मन्दममिमधुर्यमोपला श्लेषा. १३ प्रतीपमुपमानस्य प्रती. ३७ मन्ये शङ्के ध्रुवं प्रायः उत्प्रे. १२५ प्रत्यनीकं बलवतः प्रत्य. १२६ मम रूपकीर्तिमहरद्भुवि प्रत्य. १२४ प्रदानं प्रच्छन्नं गृहमुप. समु. १४४ मय्येव जीर्णतां मातु भनुज्ञा. १५५ प्रश्नोत्तरान्तरामिष उत्त. १६१ मलयमरुतां वाता याता छेको. ८४ प्रस्तुतेन प्रस्तुतस्य प्रस्तु. ११२ मलिनायितुं खलषदनं विचि. १५१ प्राक्सिद्धत्वगुणोत्कर्षो अनु. १५१ मल्लिकामाख्यभारिण्यः मीलि. १२१ प्रायवरित्वा वसुधामशे. पर्याः | १७५ महाजनाचारपरम्परेट. स्मृत्य. १३५ प्रौढोकिरकर्षाहतौ प्रौढो. १२५ मानमस्या निराकर्तु समा.

पृष्ठं. अलं. अति. श्लोकः. अलं. | पृष्ठं. श्लोकाः. १६७ माने नेच्छति वारयत्युप. हेत्व. ४३ योगेऽप्ययोगः संव. १३५ मालिन्यमब्जशशिनोर्मधु विक. ६२ रक्तस्त्वं नवपल्लवैरह. व्यति. १५१ मीलितं यदि सादृश्या. मीलि. ३२ रक्तौ तवाजी मृदुलौ उत्प्रे. १८६ मुक्ताः केलिविसूत्रहार. संकर. १५२ रत्नस्तम्भेषु संक्रान्तैः सामा. ४० मुक्काविद्रुममन्तरा अति. १६४ रत्नस्तम्भेषु संक्रान्तः उदा. १८४ मुखेन गरलं मुश्चन् एकाव. १४७ रत्याप्तप्रियलाञ्छने क. रत्ना. ४३ मुश्चति मुञ्चति कोश अति. ३७ रथस्थितानां परिवर्त. उत्प्रे. १७० मुनिर्जयति योगीन्द्रो रस. ७६ रम्या इति प्राप्तवतीः श्लेषा. १४० मेधैर्मेदुरमम्बरं वनभुवः प्रहर्ष. ४१ रवितप्तो गजः पक्ष्यां. अति. १०४ मोहं जगत्रयभुवामपने. असंग. १६८ रसभावतदाभास. ७ यत्तया मेलनं तत्र उपमा. १६५ राजन्सप्ताप्यकूपारा अत्यु. १७३ यत्रता लहरीचलाचल. अनु. ५८ राजसेवा मनुष्याणां निद. १४० यत्रादुपायसिद्ध्यर्था. प्रहर्ष. १४१ रात्रिर्गमिष्यति भविष्य. विषाद. १२ यत्त्वनेत्रसमानकान्ति प्रती. ८६ रात्रिः शिवा काचन प्रस्तु. १८५ यथा प्रह्लादनाचन्द्रः एकव. ३६ रात्रौ रवेर्दिवा चेन्दोः उत्प्रे. १७३ यथा रन्ध्रव्योम्नश्चलजल. अनु. ३१ रिक्तेषु वारिकथया कैत. १२० यथासंख्यां क्रमेणैव यथा. ३८ रूपकातिशयोक्तिः स्यात् अति. १४४ यथोर्वाक्षः पिबत्यम्बु अन्यो. ८२ लज्जा तिरश्चां यदि चेत. अप्र. १४२ यदयं रथसंक्षोभा. उल्ला. ९५ लावण्यद्रविणव्ययो न व्या.नि. ५४ यदि सन्ति गुणाः पुसां प्रति. १७९ लिम्पतीव तमोरङ्गानि अ.सं. १३३ यदुच्यते पार्वति पाप. अर्थान्त. १४८ लीलाब्जानां शनयुगल रत्ना. ४० यद्यपद्दतिगर्भत्वं अति. ११७ लुब्धो न विसृजत्यर्थ व्याघा. ९२ यद्वक्र मुहुरीक्षसे न व्याज. १४४ लेशः स्याहोषगुणयोः लेशा. ११४ यन्मध्यदेशादपि ते अल्पा. ८४ लोकं पश्यति यस्याभिः पर्या. १०८ यं प्रति प्रेषिता दूती विष. १६१ लोकप्रवादानुकृति. लोको. ४८ यश्च निम्बं परशुना तुल्य. १४२ लोकानन्दन चन्दनद्रुम उल्ला. ६४ माश्च रामं न पश्येत्तु विनो. १०७ लोके कलङ्कमपहातुमयं विष. १३४ यस्मिन्विशेषसामान्य. विक. १७६ लोलझूलतया विपक्षदि. श्रुत्य. ४४ यामि न यामीति धवे अति. १६२ वक्रोक्तिः श्लेशकाकुन्या. वक्रो. १६० युक्तिः पराभिसन्धानं युक्त्य. १५६ वक्रस्यन्दिखेदबिन्दुप्र. पिहि. ११३ युगान्तकालप्रतिसंहृता. अधि. १५८ वत्से मा गा विषादं श्व. वि. १४५ युवैष गुणवात्राजा लेशा. ५२ वदनेन निर्जितं तव आवृ. १७८ ये नाम केचिदिह नः संभवा. ४९ वदन्ति ववर्ष्यानां दीप. २येषां चन्द्रालोके उपो. ३० वदन्ती जारवृत्तान्तं छेका. :

अलं. पृष्ठं. . अर्थान्त. प्रति. प्रति. पृष्ठं. श्लोकः, श्लोकाः. अलं. १२८ वपुःप्रादुर्भावादनुमित. काव्य. १५८ विवृतोक्तिः श्लिष्टगुप्तं विवृ. ९९ बरतनुकबरीविधायिना विभा. ६९ विशेषणानां साम्येन. समा. ४६ वर्ष्यानामितरेषां वा तुल्य. ११५ विशेषः ख्यातमाधारं विशे. १३ वयेनान्यस्योपमाया प्रती. ११५ विशेषः सोऽपि यद्येकं विशे. १३७ वर्षे स्याद्वर्णवृत्तान्त. ललि. १०५ विषमं वर्ण्यते यत्र विष. ६ वोपमानधर्माणां उपमा. १५ विषय्यभेदताद्रूप्य १३ वयोपमेयलाभेन प्रती. १३१ विस्रब्धघातदोषः ८६ वहन्ती सिन्दुरं प्रबलक. प्रस्तु. १४९ वीर त्वद्रिपुरमणी परि. तद्गु. ५२ वाक्ययोरेकसामान्ये १७ वेधा द्वेधा भ्रमं चक्र रूप. ५६ वाक्यार्थयोः सदृशयोः निद. १७७ व्यक्तं बलीयान्यदि हेतु. अर्था. १४० वान्छितादधिकार्थस्य प्रहर्ष. ६२ व्यतिरको विशेषश्चेत् व्यति. ३८ वापी कापि स्फुरति अति. १५६ व्याजोक्तिरन्यहेतूक्त्या व्याजो. १५४ वाराणसीवासवतां उन्मी. ६६ व्यावल्गत्कुचभारमाकुल. समा. ११२ विचित्रं तत्प्रयत्नश्चेत् विचि. ७१ व्यास्थं नैकतया स्थितं परि. १७६ विदितं वो यथा स्वार्था श्रुत्य. १४४ व्रजेम भवदन्तिकं प्रकृ. अनुज्ञा. ५४ विद्वानेव विजानाति ८६ शब्दार्थशक्त्याक्षिप्तोऽपि प्रस्तु. ७९ विधाय वैरं सामर्षे ५२ शमयति जलधरधारा ९४ विधिरेव विशेषगर्हणी. व्या.नि. आवृ. १५ शंभुर्विश्वमवत्यद्य रूप. १८६ विधुकरपरिरम्भादा. एकव. १११ विनानिष्टं च तसिद्धि. समा. १२० शरणं किं प्रपन्नानि यथा. ६४ विनोक्तिश्चेद्विना किं. विनो. १८३ शशिनमुपगतेयं संदेह. ९८ विभावनाविनापि विभा. ११२ शस्त्रं न खलु कर्तव्यं १४९ विभिन्नवर्णा गरुडाग्रजे. पूर्व. १०७ शापोऽप्यदृष्टतनयानन. विष. ५७ वियोगे गौडनारीणां निद. ९३ शिखरिणि क नु नाम १०२ विरुद्धं भिन्नदेशत्वं असंग. २५ शुद्धापडतिरन्यस्या. अप. १०० विरुद्धात्कार्यसंपत्ति. विभा. १२० श्रोणीबन्धस्त्यजति तनु. पर्या. १०५ विरूपकार्यस्योत्पत्ति. विष. २६ स एव युक्तिपूर्वश्चेत् १२३ विरोधे तुल्यबलयो. विक. १५५ संकेतकालमनसं विट. सूक्ष्मा. १२२ विलयन्ति श्रुतिवर्ल्स परि. ४९ संगतानि मृगाक्षीणां तुल्य. १७४ विलीयमानैविहगै. अनु. १५० सङ्गतान्यगुणानगी १८३ विलीयेन्दुः साक्षादमृत. संदेह. | ११९ संग्रामाङ्गणमागतेन ३६ विवखतानायिषतेव उत्प्रे. ४७ संजातपत्रप्रकरान्विता. तुल्य. १७४ विवृण्वता दोषमपि च्यु. शब्द. | १८५ सत्पुष्करद्योतितरङ्ग एकव. अप्र. समा. व्याज. अप . भत. माला. १ इदं पद्यं भवद्भवनदेहली' इत्यारभ्य पूर्वोत्तरार्धवैलोम्येन केचित्पठन्ति ।

८ अलं. पृष्ठं अलं. श्लोक: श्लोकः, ११२ सत्यं तपः सुगौ यत्ता समा. ५० सुवर्णपुष्पां पृथिवीं दीप. १४५ सन्तः सच्चरितोदयव्यसं. लेशा. १५५ सूक्ष्म पराशयाभिशे सूक्ष्मा. ४२ संबन्धरतिशयोक्तिः अति. १४६ सूच्यार्थसूचनं मुद्रा मुद्रा. १३५ संभावना यदीत्थं संभा. १३८ सोऽपूर्वो रसनाविपर्यय. ललि. ३१ संभावना स्यादुत्प्रेक्षा उत्प्र. ११६ सौकर्येण निबद्धापि व्याधा. ११. समं स्याद्वर्णनं यत्र समा. १७४ सौमित्रे ननु सेव्यता अनु. १२७ समर्थनीयस्यार्थस्य काव्य. ७९ सौहार्दवर्णरेखाणामु. अप्र. १२५ समाधिः कार्यसौकये समा. ५३ स्थिरा शैली गुणवतां प्रति. ६५ समासोक्तिः परिस्फू. समा. १८४ स्पष्टोच्छुसत्किरण. एकव. १४६ सर्वदा सर्वदोऽसीति लेशा. १७७ स्फुटमसदवलग्नं तन्वि अनुप. ७१ सर्वाशुचिनिधानस्य परि. १३९ सर्वेन्द्रियसुखाम्वादो प्रहर्ष. ११६ स्फुरदद्भुतरूपमुत्प्रताप विशे. ६३ सहोक्तिः सहभावश्चेत् सहो. २३ स्यात्स्मृतिभ्रान्तिसंदे. स्मृति. ९. साधु दूति पुनः साधु व्याज. ११६ स्याव्याघातोऽन्यथा. ज्याधा. १६ साध्वीयमपरा लक्ष्मीः रूप. १२७ स्वकीयं हृदयं भित्त्वा अर्था. ७५ साभिप्राये विशेष्ये तु १६३ स्वभावोक्तिः स्वभावस्य स्वभा. १५२ सामान्यं यदि सादृश्य. सामा. २७ हालाहलो नैव विषं अप. ११. सारूप्यमपि कार्यस्य समा. ४७ हिताहिते वृत्तितौल्य सुल्य. ९६ साहित्यपाथोनिधिमन्थ. आक्षे. ८० हृतसारमिवेन्दुमण्डलं अप्र. १८४ सिक्तं स्फटिककुम्भान्तः संदेह. ११६ हृदयानापयातोऽसि विशे. १६६ सिद्धस्यैव विधानं विध्य. १२९ हे गोदावरि देखि काव्य. ४९ सिद्धिः ख्यातेषु चेना. तुल्य. | १६८ हेतुहेतुमसारक्यं हेस्व. २९ सीत्कारं शिक्षयति छेका. ९९ हेतूनामसमग्रत्वे विभा. ३९ सुधाबद्धप्रासैरुपवन. अति. १६७ हेतोहे तुमता सार्ध १६० सुभ्रु त्वं कुपितेत्यपास्तम. विवृ. १६६ हे हस्त दक्षिण मृतस्य विध्य. परि. . समाता चेयं कुवलयानन्दश्लोकसूची।

१॥.. ... ... ... . १॥ ... १ २ 1. ४ मू० डा.व्या माधवनिदानम्-श्रीमन्माधवकरविरचितम् , श्रीमद्विजयरक्षित- श्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. १ . मालतीमाधवनाटकम्-भवभूतिकृतम् , त्रिपुरारिकृत टीकया नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् २ मालविकाग्निमित्रं नाटकम्- कालिदासकृतम् मुद्राराक्षसं नाटकम्-विशाखदत्तविरचितं, धुण्डिराजकृत- टीकया सहितम्. मुहूर्तमार्तडः–मार्तडवल्लभाख्यया व्याख्यया सहितः मुहूर्तचिन्तामणिः-(पीयूषधाराख्यव्याख्यासहितः।) मृच्छकटिकम्-शूद्रककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् मेघदूतकाव्यम्-कालिदासकृतम्. ... याज्ञवल्क्यस्मृतिः-( मिताक्षराख्यव्याख्यासहिता.) योगरत्नाकर:-अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषग्गणमा- न्योस्ति । अत्र सर्वेषां रोगाणां गिfiti सविस्तरा चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसाय- नपापानवारिगवले...गुटिका पादीनां प्रक्रियाप्रमाणानु- पानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ रघुवंशकाव्यम्-कालिदासकृतं, मल्लिनाथकृतया संजीविन्या- ख्यया टीकया सहितं, स्थूलाक्षरम्. १॥ 600 रत्नावलीनाटिका-श्रीहर्षदेवकृता. ... राक्षसकाव्यम्-(सटीकम् ) श्रीकालिदासकृतम्. लक्ष्मीहृदयं नारायणहृदयं च-(कौशेयबद्धम्.) लघुयोगवासिष्ठम्-आत्मसुखकृतया वासिष्टचन्द्रिकाटीकया सहितम्. लघुधातुरूपसंग्रहः- 6॥ लौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः लौकिकन्यायाञ्जलिः-द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. लौकिकन्यायाञ्जलिः-तृतीयो भाग: वाल्मीकिरामायणम्-आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं, रामकृततिलकटीकया सहितम्. •ma विक्रमोर्वशीयं नाटकम्-कालिदासकृतं, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्.... विश्वगुणादर्शचम्पू:-नीमा रिवि1िपदार्थचन्द्रिका- ख्यव्याख्यासहिता. विष्णोर्नामसहस्रम्-प्रथमं मूलश्लोकाः, तदधोभागे एकपा मूलश्लोकगतानि नामानि, तत्समुर, द्वितीयपार्थे च नामा- ... ... ... ... ... १. ... ... ... ... ... ... ...

Kubalayananda Ed. 2

Author
Not Available
Title
Chandralok Sahit
File name
Kubalayananda Ed. 2
Text
OCR done
Citation
1907
Published
2006/03/31
Publisher
Tukaram Javaji, Bombay
Language
Sanskrit
Pages
216
Library
North Bengal State Library, Coochbehar
Classification
Literary Studies
Keywords
Alankar Chandrika
DLI number
344926
Barcode
4990010216658.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
gt94QG5kCZh
Download PDF

Kubalayananda Ed. 2