Vysaraaja Mattam

Shriiharivan'shachampu

Pand-d'itaratna Rayapaalya Raaghavendraachaarya · 2005/10/06

PDF Proofread

Front matter

No text on this page.

د اما این
تارت ) : ازع 2 .
مد
(

No text on this page.

श्री वेङ्कटरायसरिकृतयः १.
श्रीहरिवंश च म्पू:
we
मैसूरुमहाराजास्थान धर्माधिकारि
पण्डितरत्नं रायपाल्य राघवेन्द्राचार्येण संशोधिता
वि. देकोबराद् वि. ए.,
(डेप्युटी कमीप नर, बेंगळूरु)
महाशयेन प्राकाश्यमनायि ।
मैसूर
श्री जया ल य यन्त्रे मुद्रिता
१९२३.
11 Rights Reserzed)

No text on this page.

॥ अवतरणिका श्रीमतस्सकलजगदुत्पत्तिस्थितिलयकारणस्य भगवतो नारायणस्थ नाभिकमलादुद्भूतस्य भगवतैव स्वस्मिन् विनिवेशितानन्तरभाविसकलसर्जना- धिकारस्य चतुर्मुखब्रह्मणः. पुत्रेषु स्वजनकचिकीर्षितसृष्टिकर्मणि सहायतया स्वयमपिं ब्रह्मशब्देन विश्रुतेषु मरीच्यादिषु श्रीमतो भरद्वाजमहर्षेः ब्राह्मण- सन्ततिः बहुविस्तृता वरीवति । तत्र लब्धजन्मसु बहुषु महत्तमेषु श्रीमान् दासोपन्तनामा. महाशयः ऊस्तवाष्टादशशताब्द्याः अन्तिमे तबुत्तरशताब्या आदिमे च भागे श्रीमन्मैसूरुमहाराजपरिपालितदेशान्तर्गतस्य नन्दीक्षेत्रस्या- भ्यणे देवनहळ्ळिप्रभृतिस्थलेषु लौकिकाधिकारमहिम्ना महतीं कीर्तिमुपागतो: व्यराजतेति देवनहळ्ळीप्रदेशान्तर्गतहुणसेमारनहळ्ळीमठेऽद्यापि समुपलभ्यमा-. नात् ऊस्तवसप्तदशोत्तरेकोनविंशशताब्यां। श्रीमन्महाराजश्रीकृष्णराजप्रभु- सार्वभौमेण श्रीमन्तं दासोपन्तं प्रति प्रहितात् लेखादवसीयते ॥ तस्य ज्येष्ठतनूजः श्रीमान् वेङ्कप्पशर्मा . बेतमङ्गलप्रदेशे लब्धमुख्या- धिकारश्चिरमवर्ततेति सुप्रसिद्धम् । तस्य जीवितं बहुविधश्लाधनीयचरित्रैः बहुभिः स्तूयमानमभूदिति अधोलिखितात् तमुद्दिश्य केनचिद्विदुषा विरचि:-- तात् चरम-श्लोकादवसीयते । सच:- " भारद्वाजकुलं शशीव जलधि संवर्धयन् योऽभवत् सोऽयं पुत्रचतुष्टये निजगुणानिक्षिप्य रामैकधीः । चैत्रे मासि पराभवाख्यशरदः कृष्णे चतुर्थी दिने. पायादासकुमारवेङ्कटसुधीरम्भोजयोनेगृहम्" इति । तत्तादृशात् श्रीमद्वेङ्कम्पमहाशयात् श्रीमत्यां शेषाम्बिकायां लब्धजन्मसु , तृष तनयेषु ज्येष्ठः श्रीमान वेङ्कटरायसूरिशर्माद्यात्र पुस्तकान्तरे च संमू-- --- ii व्य प्रकाश्यमानानां प्रवन्धरत्नानां प्रणेतेति वक्तुमुत्कण्ठते मे मनः । सोऽयं कविः मैसूरुमण्डले स्वीयां बाल्यदशां समाप्य श्रीमतः वेङ्कटाचलाधिपतेः निकटतरवर्तिनि प्रदेशे वस्तुकाम: श्रीमत्या क्षीरसरिता परिपावितं वेदवेदाङ्ग- विद्भिः नैकशास्त्रपारदृश्वभिः ब्राह्मणप्रवरैः परिशोभित, आर्काडिति प्राकृ- तनाम्ना सुप्रसिद्धं पडरण्यक्षेत्रं वस्यावासभूमिमकरोत् । तदेतद्भिहित तेनैव श्रीनिवासयात्रानक्षत्रमालासुः- जन्म मे पश्चिमे देशे नन्दिक्षेत्रसमीपतः । वासोऽद्य दक्षिणे देशे रस्ये दुग्धधुनीतदे" इति ॥ अस्य कवेः नन्दीक्षेत्रपरिसरवासभूमिः कलवरनामको ग्रामः । तदन्ति- कवर्तिनि पापघ्नीमूलसङ्गते जडल तिम्मनहळ्ळिनामके ग्रामे तदेतत्कवेः जन- कः श्रीमान् वेङ्कप्पशर्मा चिरमुवासेति श्रूयते । तदैव सोऽयं लौकिकाधिकारे वर्तमानोऽपि वैदिकजनसमुचितमुगुणगणभाजनतया वैदिकमर्यादापात्रमयमिति बुद्ध्या तादात्विक प्रसिद्धश्रीमन्मैसूरुमहाराजमुख्यसचिववर्येभ्यः श्रीमद्भयः पूर्णय्यमहाशयेभ्यः नैकाः वृत्तीः बहुमानतयाऽलब्धेति जनश्रुतिः प्रतायते। षडरण्यक्षेत्रवर्तिषु नैकेषु विद्वद्वरेषु सुविदितात् श्रीमन्मध्वरायाचार्य- शिप्यात् श्रीमतो वेङ्कोवाचार्यनाम्नो विद्वद्वरात् समुपात्तसाहित्यप्रभृतिविद्या- वैभवः सोऽयं कविः स्वस्य पूर्वे वयसि समवृत्तमालां नौकाचरित्रं, मध्ये व- यसि हरिवंशचम्पूं, परिणते वयसि श्रीनिवासयात्रानक्षत्रमालादिस्तुति- ग्रन्यांश्च निर्मिमायेति संभाव्यते । समुचिता हि सुजनानां देवपराणां कृत- विद्यानां वयोऽनुरूपे कर्मणि प्रवृत्तिः । तथाच तदीयस्य श्रीनिवासयात्रा- नक्षत्रमालादशकस्यान्तिमे भागे तदीया भगवत्प्रार्थना: "भो श्रीनिवास करुणाम्बुनिधे विधेहि वास ह्यमूपु रुचिरप्रतिमासु नित्यम् । .

111 मटुंशजैरपि मया च गृहाण पूजा श्रीभूयुतो मम भवान् कुलदेवनं हि" इत्यादिना । एवमेव तदीयवरदराजस्तबादिभ्योऽस्य कवेरभीप्सितवरदराजयात्रासेवा हेवाकालाभनिमित्तको निर्वेदः तात्यमबद्भक्तिभरविवशस्यास्य तत्त्तव- निर्मितिः तत्र तत्तत्कालभवत्कांचीस्थलीयभगवदुत्सवगणानां मानससाक्षा- कारसमावेदनादिवर्णनं चैतदीयां भगवत्ताग्रसरतामावेदयति ॥ तदेतस्य कवेः प्रबन्धाः पुस्तकरूपेण तत्सहोईरस्य नदंतेवासिनश्च श्रीमतः कृष्णराया परनामधेयस्य दासप्पशर्मगो हस्तमासाद्य सुरक्षितं सत् चिरायावर्तति तुर५: ॥ तस्यास्य कवेरुतग्रन्थप्रणयने प्रवृत्तिः एतदीयं विनयातिशयं प्रक- ट्यति तस्यैवाधोलिखितः हरिवंशचम्पोः तृतीयश्लोक:- नाहं शास्त्रविचक्षणो नहि रसालङ्कारवेदी ततः शङ्के सेयमघोक्षजस्य करुणावेणी न वाणी मम । कान्ता कल्पलतेव या मृदुतरा मन्दारमालेव या सर्वस्मान्मधुरा मनोहरसुधाधारेव या जृन्मते " इति ।। अर्थतासां कृतीनामामूलाग्रशोधनसमये मम मनसि स्फुरिता साहि. त्यसम्पत्तिः किंचिदिव विदुषामादरजननाय प्रदर्श्यते ।। तत्र स्तुतिग्रन्याः प्रायो द्राक्षापाकेन वैदर्भीरीतिमाश्रित्य निबद्धाः। वन्धपारुप्यरहिता शब्दकाठिण्यवर्जिता । नातिदीर्वसमासा च वैदर्भीरीतिरिष्यते ॥” इति, द्राक्षापाकस्स विज्ञयो बहिरन्तरस्फुरद्रसः" इति चोक्तः । तत्र कविगतभक्तिभावस्यालम्बनविभावभूतवर्ण्यवस्तुपु विद्यमानमहिमा- तिशयरूपभावेन सम्यक्परिपोषः समर्थित इति, प्रसिद्धोपमादिसमुचिताः प्रेयोलङ्कारादयः स्कुटा इति नातिविस्तराय प्रयते ॥

Tv समवृत्तमालायास्तु उक्तामारण्योत्कृत्यन्तषड्विंशतिच्छन्दस्सु भवा- मां प्रसिद्धानां वृत्तानामुदाहरणमात्र प्रदर्शितमिति न बहु वक्तव्यम् ॥ नौकाचरित्रन्तु भगवतश्श्रीकृष्णस्य नन्दगोपसदनवाससमये गोपी- ललनाभिस्सह शृङ्गारलीलानुभवावसरे कादाचित्की नौकामधिगृह्य गोपीभि- स्सह विहरणलीलां वर्णयितुमारब्धम् । तत्र गोपीनां वासुदेवस्य चान्यो- न्यालम्बनकः, तदात्वसमुपनतविविवानुभावैः विभावैश्च समुल्लासितस्सम्भो- गशृङ्गारः सम्यगुपवर्णित इति स्पष्टमवसीयते । यथा- लावण्यं कचिदीक्षतेऽधरसुधामाकाइते च कचित् वक्षोजेषु नखक्षतिं वितनुते ज्ञावाऽऽशयं भाषते । एकान्तं भजते कचित् क्षणमसौ शेतेऽक एव क्वचित् सर्वासामपि योषितां स रमते सान्निध्य एवं प्रभुः॥ (पु. १३. श्लो. ११.) •"पश्यामोऽब्जवनं तथैव सखि हा कि वाऽपतन्त्रयोः मुग्धे! सारसकेसरः किमधरे दष्टा सखीन्दिन्दिरैः । चेलं कर्षति कोऽस्ति भीरु ! पवनः किं वापतद्वक्षसी- त्याश्लिष्टस्स भिया कयापि सुदृढं कृष्णोऽत्र योषाकृतिः।। (पु. १३. श्लो. १६.) २६"ब्रह्मापि स्वसुतां समीक्ष्य सहसा मोहाटवीं प्राविशत् वृन्दां वीक्ष्य पुरा पुराणपुरुषोऽङ्गीचकार भ्रमम् । सर्वज्ञोऽपि स दारुकावनवधूमोहान्धकारेऽपत- साशं शौरिरिहापि नस्समगमद्भाग्य वधूनामहो" ॥ (पु. १७. श्लो. ३३.) इत्यादयः तत्र तत्र विद्यमानाः श्लोका उक्तार्थे स्थेमानमादधति । हरि- बंशचम्पूस्तु श्रीमन्महाभारतशेषस्य हरिवंशनाम्नः श्रीव्यासोपज्ञप्रबन्धस्य " कथामालम्ब्य प्रवृत्तः । तत्र विद्यमानाः श्रीकृष्णकथाः संग्रहेण गद्यपध- रूपेण सङ्कलय्य रसभावानुगुणतया वर्णिताः । तत्रैकान्तेन नैका वृत्तिः, रीतिः, पाकश्चाश्रितः वर्णानुगुण्येन भेदं प्रापित इति न तत्र विस्तरावश्यकः।। अथात्र स्तुतीः समवृत्तमालां च विहाय सर्वत्र गुणालङ्काराणा का- निचिदुदाहरणानि प्रदर्श्यन्तेः- नौकाचरित्रेः- अत्र क्रीडन्मरालीततधुतगरुदुद्भूतवातावधूत- व्याकोचाज्जातजातोत्पतितमधुकरीबीतसङ्गीतविद्याम् । संश्लाघन्ते शिरोभिस्तटतरुनिवहाः पश्यताऽऽगच्छतेति प्रत्युद्गम्य प्रणीता इव मृदुमरुता तास्त्रियस्तामपश्यन् ॥ (पु. ५, श्लो. २०) अत्र चतृषु पादेषु स्वरारोहावरोहयोरतिरम्यत्वरूपो गतिगुणः स्पष्टः। "गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः" इत्युक्तेः । पूर्वार्धे समासभूयस्त्वस्योपलम्भात्, ओजोगुणोपि । तटतर्षग्रसंचलन- स्य मधुकरीसङ्गीतसममिनन्दनरूपतोत्प्रेक्षणात् उत्प्रेक्षालङ्कारश्च व्यक्तः । अभिमतार्थस्य सामग्र्येण विस्पष्ट वर्णनात् प्रसादगुणोऽपि सार्वत्रिकः । वर्ण्य- मानार्थानां सहृदयहृदयसंश्लेषितया समुपवर्णनात् माधुर्य छ । अन्येऽपि गुणाः निपुणैस्तत्र तत्र यथालक्ष्यं समुन्नेयाः ॥ स्वेद क्लिन्नमृगीमदं श्लथकचप्रभ्रंशि पुष्पोत्करें व्यालोलालकतारहारमसकृतिस्रस्तरुद्धांशुकम् । हृप्यत्कङ्कणनिकणं स्तनतटे प्रभ्रष्टचेलांचल नौकायाः परिवर्तनेन तदभूत्सर्वं वधूमण्डलम् ॥ (पु. १२, श्लो. ७.)

अत्र नौकापरिवर्तनसमयसञ्जातः स्त्रीणामवस्थाव्यतिकरः स्वभावो- त्या चारु वर्णित इति सहृदयानां सुबिशदम् ॥ एतेषु हरिवंशचम्पूग्रन्थः शृङ्गारवीररसप्रधानः धीरोदात्तमहागुणशा- लिश्रीकृष्णनेतृकः प्रायो महाकाव्योपयुक्तवर्णनशाली कैश्चिदूनोऽपि महा- काव्यं भवितुमर्हतीति सुवचम् ॥ 'नगराणवशैलतुचन्द्रार्कोदयवर्णनम् " इत्यादिनाऽऽवश्यकवर्णनीयविषयानभिधाय, "एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते । एषामष्टादशानां यैः कैश्चिदूनमपीप्यते " इत्युक्तेः । तत्तद्वर्णनस्थानानि तु अभिज्ञैः तत्रतत्र द्रष्टुं शक्त्यानीति न मम तत्प्र- यासावश्यकः । अत्रापि वृत्तिरीत्यादयः रसानुगुणा आलम्बिताः। प्रायो वृत्यनुप्रासादयश्शब्दालङ्काराः, उपमादयोऽर्थालङ्काराश्च सुस्पष्टाः । रसभा- वादिपरिपोषः रसिकजनैः समुन्नेतुं शक्य इति बहोः वक्तव्यस्य सत्त्वादति- विस्तरोऽत्र न बुधेभ्यो रोचत इति विरम्यते ।। अधुना श्रीमतः ततादृशदासप्पशर्मणः पुत्रेषु ज्येष्ठः लौकिकाल- विद्यापण्डितेषु सुगृहीतनामधेयः गीर्वाणविद्यायामपि साहित्यव्याकरणादिषु सुशिक्षितः श्रीमदानन्दतीर्थभगवत्पादोपज्ञवेदान्तनिबन्धेषु विरचितनिरन्त- रव्यासङ्गः आस्तिकशिरोमणिः श्रीमान् वि. वेङ्कोबरायशर्मा श्रीमन्- मैसूरु द्वितीयराजधान्याः मङ्गळपुर्याः (बंगळूरु) डेप्युटिकमीषनर् नामक- समुचितमधिकारमावहन् राराजति । तेन महाशयेन स्वपित्रा निजहस्ते निवे- शितं स्वगुरोः ग्रन्थजातं स्वपरमगुरुसेवारूपेण प्राकाश्यं नेतुकामेन तेऽमी प्र- बन्धाः तत्प्रकाशनसमुचितग्रन्थशोधनादिकं सर्वमपि निर्वोढुमहमलङ्कर्मीण इति सम्प्रत्ययेन तदीयविश्वासमुख्यभाजनस्य मम हस्ते सनाय॑न्त । सोहं तदर्पि- " vil तानि पुस्तकान्यामूलाग्रे सावधानमाकलथ्य तद्न्यप्रणेतरि सञ्जातबहुमाना- तिशयस्सन् तत्र मयोपलब्धान् कांश्चन प्रामादिकान् दोषान् परिदत्य, स्तु- तिग्रवन्धानेकतः, समवृत्तमालां नौकाचरितं च पुस्तकान्तरे, हरिवंशचम्पूमे- कस्मिन्नेव पुस्तके सन्निवेश्य मदीये मैसूझराजधानीवर्तिनि. जयालययन्त्रे देवनागराक्षरैः सममुद्रयम् । प्रबन्धप्रणेतुः जीवितवृत्तान्तप्रभृतितदेतद्वेकोब- रायमहाशयादन्येभ्यश्च विदितपूर्ववृत्तेभ्यो महद्भयस्संगृह्म यथाश्रुति निवेदि- तमत्र मयेति मामनुगृह्णन्तु महत्तमा इति प्रार्थये ; आशासेच ॥ एतादृक्स्तवनार्हकार्यशतमातन्वन् सदा सद्गुणैः सौजन्यादिभिरन्वितो विजयतां वेकोबरायस्सुधीः । श्रीमत्कृष्णमहीमहेन्द्रकरुणा वर्वर्द्ध चास्मिन् सदा श्रीकृष्णे परदेवभावधिषणा भोभूयतां निश्चला ॥ इति । . मै सूरु २२-१०-१९२३ एवमावेदयति, पण्डितरत्वं रायपाळ्य राघवेन्द्राचार्यः, महाराजास्थानधर्माधिकारी, अनुभूतपूर्वराजकीयप्राच्यकोशाहार- प्रधानपण्डिताधिकारश्च ।।

No text on this page.

श्रीकृष्णाय नमः- श्री हरिवंश च म्पू:- प्रथमा विलासः श्रियं नः पुष्णातु श्रितनिवयनीमहाविः पविः प्रत्यूहाद्रेः करिवरमणि कश्चन वृणी । निरातङ्कोदञ्चत्कटनिकटवलन्मधुकरी- रबामादश्लाघाचरणनिपुणोरुदरफणी ॥ १ ॥ लक्ष्मी तनोतु सदने बढ़ने च वार्गी मेधां हृदि त्रिभुवनेऽपि यशो निकामम् । मक्तष्टदः कलुपहा करुणाम्बुराशिः श्रीशो विरिञ्चिशिक्शक्रनियामको नः ।। २ ।। नाहं शब्दविचक्षणो नहि रमालेकारवटी तत- शङ्के सेयमधोक्षजस्य करुणावणी न वाणी मम । कान्ता कल्यटनब या मृदुतग मन्दारमालेव या सर्वस्मान्मधुरा मनोहरसुधाधारेव या जृम्भते ॥ ३ ॥ तार्य वीदय कुलिङ्गकोऽपि कुतुकाअयम्बरं गाहते किं दिवामृतमानयत्तदिह किं वं बाऽपि तापदिशेत ।

श्री हरिवंशचम्प्वां व्यासं वीक्ष्य करोति चेत्कृतिमसौ कि कृष्णलीलां चरेत् किं वाऽन्यामथवा कृपा यदि होः कः किं न कुर्याद्भुवि ।। क्वेदं शिशार्मम वचः क्व च कैटभारे- रत्यद्भुतानि चरितानि तथाऽपि मोऽयम् । तवर्णने परिकर शिशुता मम स्यात् नवान्यथाऽम्य रचना विभुता मुरांग ॥ ६ ॥ आनीय कोऽपि हग्विंशमुधाममुद्रात् प्राणरितो हरियामृतमेत वर्षन् । आप्याययत्यम्बिललोकममो बनोऽस्मै तुप्यन्तु केव गुणैकशी महान्तः ॥ ६ ॥ स्वच्छन्दनिम्मरदकुण्ठमृदूक्तिधन्याः ये कालिदामभवभूतिमुवाः प्रमिद्धाः । तेऽमी व पूर्वकवयः क वयं तथाऽपि मान्या गिरो मम विकुण्ठयशोविशुद्धाः ॥ ७॥ नैमिपं नैमिपं नाम वनं मुनिनिषेवितम् । तत्र शास्त्रपुराणज्ञः सौतिः प्रोवाच शौनकम् ।। ८॥ गयम्----अय स्खलु कालभव-भव-शतम समुदनिविलविविधविचित्रतर- चाचावाचनिनीगा.क्तिविविधानि पृथुपुरविशरमहनी पचित्रचरि- प्रथमो विलासः त्रविचित्रितानि अतिविपुलमहितमन्वन्तरानुसङ्कीर्तनसमेधितानि सकलसुरन- रामोदनायेचाकुकुलकथाकथनकञ्चकितानि निखिलमनोरथापूरकपितृदेवता - माहात्म्यप्रशंमामांमलानि श्रावकजनवरसुतोत्पत्तिहेतुसोमोत्पत्तिकथानिबन्ध- बन्धुराणि विचित्रतरनलेलोत्पत्त्युदन्तदन्तुराणि अतिविमलवाराणसीशवंशवि- वरणविस्तारितानि वासवानुजकृपाप्रवृद्धवृष्ण्यन्धकान्वयविमलविपुलचरितानि एतावताऽनुवर्णितानि ॥ १ ॥ तस्याद्भुतोरुचरितस्य कथां ब्रवीमि कृष्णावतारविहितामिह तामहो या।। भूतेषु कल्पलतिकेव ममीहितानि सूने यथारुचि मनाड्मनसि स्मृतैव ॥ ९ ॥ नारायणा निग्विलमगुणपूर्णदेहः सर्वेश्वरो हरिरचिन्त्यमहाविभूतिः । भूत्वोरुवा स्वयमिदं निक्लिं ममर्ज यो वै गुणत्रयविभिन्नमभिन्नरूपः ॥ १० ॥ सर्गे पुन पुनम्जन रजोभियोगाद्या वा मृजायग्विलमेव जगद्विचित्रम् । अन्ते हरत्यपि हरेण तमोभियोगा- स्मत्वन रक्षति मदा स्वयमेव देवः ॥ ११ ॥ भूमिः ग्वलोद्धग्णनिर्भयसर्वराष्ट्र- संवर्धिताश्चगनपत्तिमराभिसिना ।

श्रीहरिवंशवम्प्वा
संप्राप गहमभयाय सराजयानः
मन्नव नौः पयमि नाविकबुद्धियोगम् ॥ १२ ॥
ग-अथ शतमग्वमुग्वा. सर्वेऽपि गीर्वाणाः संघीभूय सत्वरमुरुतरभर-
ममहन्त्या शरणमभिन्टपन्त्या तया भूम्या सह मरारुहासनमग्रतो निधाय
निग्गिन्दमुनिजनमनोभीष्टपटिकाभिः सर्वतुममुदयममुज्जृम्भितामोदमोदिताखि-
लदिग्वधूटिकाभि. विविधवनवाटिकाभिः मुभृशमकृशोदरी बदरीमासेदुः ॥२॥
ग-तत्र ने मकलचराचरपरिपालनपटीयमों अतिचिरन्तनप्रेयसी का.
मंपि योगनिद्रामुद्रां भद्रामासाद्य रहसि शयानं खगेशयानं समालोक्य सवि-
नयभयमञ्जलिकमलमुद्रुहन्तो रादमीकहरमामादयन्तो निखिलश्रुतिहितरवैर्जय-
स्तवैव देवमेव प्रबोधयामासुः ॥ ३ ॥
जय जय जहि निद्रां सहलाकैकभद्रा
जगति भवतु यज्ञः प्रोत्थितो देव यस्त्वम् ।
मपदि विकमतां तो नेऽक्षिणी पुष्पवन्तौ
वयमपि तव गात्रं स्याम कामाभिपूर्णाः
॥१३॥
ग-एवं प्रबोधितो भगवान् प्रपन्नार्तिहरणविचक्षणः सरोजेक्षणः
सपदि शयनोत्तमादुत्थाय पुरतस्मविनयमुपस्थितानेतान् विधि-शतमखमुखान्
बहिर्मुखान् प्रभातसमयममुन्मिषत्कुशेशयगर्वसर्वस्वतस्करैः निद्रारुणितनिज-
नयननियन्मरीचिवीचीविस्तारैगमोदयन् सुधारममधुरधारामहचरी अपारकृ-
पाकपारनर्मकुमारी निजदरम्मितरुचिर धागमहोदरीं वाचमात्रष्ट ॥ ४ ॥

'प्रथमो विन्यासः को वा कामा भवतु भवतां देवताः म्यागते ब: का वा भीतिः कथयत कुतः कम्य किं केन कार्यम् । कन्यादानां न रूलु चरितर्जातमस्वस्ति लोके कस्जिन क्रोधः पततु, स हि मे कोऽस्तु पात्रं कृपायवः ॥ ग-एवं भगवतः कुशलानुयोगपुरम्मगे अम्भोदनिन्दगम्भीर गरां सरणिमाकार्य सपदिममेधितानन्दनीधिनिमज्जमानमानमाः सुमनसः तस्मै परस्मै घुमे विज्ञापयमासुः ॥ ५ ॥ 41 स्त्रियम् ग-भगवन् कथमस्वस्ति सम्भवद्भपादेशितानामस्माकं ; किंतु भवता समुद्धृतेषु निखिलरक्षःकण्टकेषु निरन्तरनिरन्तरायसम्पादिताभिः अ- ध्वरक्रियाभिः अनेकशः प्रतिनगरमहरहः प्रवर्धमानैः राजन्यसन्यसमुदयभरैः अतिदैन्यमापन्ना मन्ना करणिरिव शरणैषिणी धरणीयमस्याः शरणीभवता भवता भारावतरणमवश्यकरणीयमिति ॥ ६ ॥ अथ विबुधसमूहस्साकमा च सोडगा. कनकवसनवीतो द्राग्जटामन्डलाढ्यः । खगपतिमधिरूढो दिव्यरूपस्मरूपं मणिरुचिरममाढ्य मेरुशृङ्गं मुरारिः ॥ १५॥ ग-तत्र विचित्रतरतपनीयविमानवेदिकास्तम्भतोरणायुतखचितवि- विधरत्नरश्मिच्छटामण्डलैरयुतमार्ताण्डमण्डलोदयप्रकाशं सभान्तरप्रदेश प्रवि- श्य क्रिमप्युपचारपरिष्कृतमत्यद्भुतं विमानमधिरुह्य दिव्यामनमन्निविष्टे विष्टर- भी हरिवंशचम्बा श्रमसि ययाचितासनसनिविष्टेषु च त्रिविष्टपाधिपतिविशिष्टेषु देवेषु प्रति- विमानतोरणस्तम्भलम्माननमन्दारमालिकापरिमलमिलान्मलिन्दबृन्दनिरर्गलनि- गेलद्गीतमाधुरीश्रवणकुतूहलेनेव प्रकृतवार्यगौरवेण विधिना मरुन्मुखेन संरु- द्धेषु सकल कलकलेषु सूचितसमया सविन्यमुत्थाय धरणी करुणमिदमरुणतरु- णातपाक्रान्तधर्मान्तजलदगर्वसर्वस्वहारिणे स्वर्णाम्बरधारिणे शङ्खचक्रगदा- भारिणे किमपि ब्यजिज्ञपत् ॥ ७ ॥ देव त्वयैव हि पुरा परिपूर्णपस्या या मेदिनीविरपरिक्रटभोइसाऽभूत् । पृथ्वी प्रवृद्धमनुशारुभराभिविन्ना साऽहं तवाद्य चरणौ शरणं प्रपन्ना ॥ १६ ॥ दंष्ट्रा वराहवपुषस्तव यज्ञमूर्तेः यामुधार सहसा चिलयाब्धिमन्नाम् । या रक्षिता त्रिभुवनक्रमणेऽपि भूयः साऽहं तवाद्य चरणौ शरणं प्रपन्ना ॥ १७ ॥ या भागंत्रण भरनिहरणेच्छयैव संमूदिते नृषकुले क्षतजेन दिग्धा। दत्ताऽस्मि कश्यपभुवे मनवेऽथ तेन साऽहं तवाद्य चरणौ शरणं प्रपन्ना ॥ १८ ॥ एवं निशम्य भगवान् भुवनातिहारी भैः शमं ब्रजवर धरणीति सम्यक् ।

प्रथमो विलामः
गम्भीरम वचसा स महीं सुहृष्टां
तां के किनीमिव घनस्तनितेन तेने ॥ १९ ॥
•.
ग-अथ विरश्चिरपिं विदितविष्ण्वभिप्रायः प्राह पुरन्दरप्रमुखान् "देवाः
सर्वेऽपि यूयमुळें वृष्ण्यादिकुले वात्मप्रतिरूपाः प्रजाः प्रजनयध्वम् । पुरा
कदाचिदम्मोधिरोधसि काश्यपेन सह पूर्वप्रवृत्ताः कथाः प्रकुर्वतो मम पयो-
धित्त्तुङ्गतरङ्गया गङ्गया सह समरुद्धनतरङ्गवेग वेलामतिक्रम्य विजृम्भमाणः
शान्तो भवेति वदति मयि तनुत्वमापन्न: शापेन मम शन्तनुरिति भारतान्वये
सम्भूय तदनुरूपमेव भुवि प्रवृत्तायां गङ्गायां वसुषु सतसूत्पन्नविनष्टेषु अष्टमं
चिरायुवमात्मजनुषमासाद्य पुनरपि काञ्चन स्त्रियमुद्वाह्य तस्यां विचित्रवीर्य
नाम तनूजमुदपादयत् ।। ।।८।।
ग-तस्यापि धृतराष्ट्रपाण्डुनामानौ द्वौ सुतौ उत्पन्नौ साम्प्रतं भुवनमलङ्कु-
रुतः। तयोः प्रथमस्य भार्यायाः गान्धार्याः अपरस्य भार्ययोः कुन्तीमद्रतनू-
जयोरपि तनूजानामन्योन्यकलहो भविता । तेन भुवोऽस्याः भारावतरणं
भविष्यति" इति ॥९॥
ग-अथ भूरपि स्वयंभूगिरमाकर्ण्य स्वस्थचित्ता निरगात् । देवाश्च य-
थानियोगमकुर्वन् ॥ १० ॥
अथ विगुलजटावाना जिकेलीविनोदी
ज्वलदनलसपर्चा जातरूपोपवीती।
विधुकरसितवासा वेदगान्धर्ववेदी
करतलधृतवीणः केशवं नारदोऽगात् ॥ २० ॥

८ श्री हरिवंशचम-वा अधिमभमधिदेवं माधवं मन्त्रभेदी सरभममुपयातो लोकवृत्तान्तदूतः । दिशि निजवीणामानमौरभ्यवणी- विहरणमुरु तन्वन्नुजगो. नारदोऽमौ ॥ २१ ॥ सुचिरमिह रमेशम्याग्रत: माजयोने: रुचिरणितवीणादण्डनीलाम्बुदोघे । विरमति बहु वृष्ट्वा गीतसौरभ्यधासः गिरिमरिदिव जज्ञे गीरियं नारदस्य ॥ २२॥ अत्यद्भुताऽस्ति मधुरा. मधुरति. काचि- त्तीरे पुरातनपुरी मिहिरात्मनायाः । सन्तुष्टपुष्टजनशोभिक्षु शूरसेने- प्वक्ष्णोर्महोत्सवकारी कारी पुरीणाम् ॥.२३ ।। यत्रेन्द्रनीलमणिनिर्मितनाट्यशाला- नियन्मृदङ्गनिन बननादबुद्ध्या । नृत्यन्ति केकिनिवा वितता बर्हाः तनामिषिकमभूस्मितमङ्गनानाम् ॥ २४ ।। नव्यन्दुकान्तमशिनिर्मितमाशाला दिव्येन्द्रनीलभवना यमुनान्तला । सादृश्यमुद्रति या नववारियाह- रनामा विरोरुगाकमूर्नेः ॥२३॥ .

(२)
प्रथमोः विलासः
आज्ञा वहन शिरसि रावणवंशवहः
रामस्य रत्नमकुटीमिव शत्रुइन्ता.।
शौर्योदधौ, म लवणं लवणं विधाय
यां तद्वनं मधुवने विदधे विशालाम् ॥ २६ ॥
यम्यां कदाचन पथा किल चन्द्रशाला-
जालान्तरं निशि विशन् प्रहतोऽङ्गनायाः ।
पत्रं कुचे रचयता कुपितेन केना-
प्यद्यापि नोज्झति, कलङ्कमिमं हिमांशुः ॥ २७ ॥
स्वद्योत्तमञ्चयधिया पतते खगाय
रत्नानि हन्त वितरन्ति वणिकनाराः ।।
शूद्रार्भकाचणकमुष्टिमुन्नधान्य--
राश्यग्रगा अपि रवेस्तुरगाय यम्याम् ॥ २८ ॥
काल्ये शुभैर्द्विजसुतोदितवेदघा-
स्तूर्यस्वनैरपि सदा प्रतिबुद्धसत्वाम् ।।
यामभ्युपैति सरसीषु सुखें विहां
वाहो विधेरपि दिशा€ निशामिन्दुः ॥ २९ ॥
ज्योत्स्नीषु यत्र यमुनावनवींधिकायां
विष्वक्प्रतृप्तमणिकुट्टिमवेदिकास ।
क्रीडन्ति पौरमिथुनानि तृणाय मत्वा
पौरन्दरोपवनकामविहारसौंख्यम् ॥ ३० ॥

१.
श्री हरिवंशचम्प्वां
तामावसद्गजतुरङ्गवतीं स राजा
कोऽप्युग्रसेन इति भोजकुलाब्धिरानः ।
सामन्त राजगजराजमृगाधिराजो
: यस्सम्पदा वितरणेन च राजराजः ॥ ३१
तस्यात्मनो निजभुजार्जितभूरिकीर्तिः
कंसोऽध पास्ति स महीं पितरं निरुद्धय ।
प्राक्तारकासुरजये शमितस्त्वयैव
य: कालनेमिरिति दुस्सहकालकूटः ॥ ३२ ॥
येये त्वया युधि पुरा दनुजा विशस्ता-
स्ते साम्प्रतं मनुजतामुपगम्य लोकान् ।
मनन्ति तांस्त्वमवतीर्य महीतलेद्राक्
भानुर्यथा हिमचयान् गमय प्रणाशम् ॥ ३३ ॥
अशैर्बभूवुरमरा भुवि सर्व एव
भूमेर्भरावतरणाय यथानियोगम् ।
किं तैर्भवेदनवतारवति स्वयीह
तारागणैरनुदिते शशिनीव रात्रौ ॥ ३४ ॥
यदा धर्मग्लानिर्भवति महतामुत्कटभयं
दुराचारक्रूराद् द्रुहिणवरदृप्तासुरजनात् ।
तदाऽऽत्मानं भूमौ सृनसि विबुधानामभयद-
स्त्वमेवंसङ्कल्पः कथमिह चिरायस्यवसरे ॥ ३५ ॥

प्रथमो क्लिामः
इतीरितमतीव मृद्वतुलित वचो नारदा-
द्विताय जगतो हरिनिजमतं निशम्यादरात् ।
वचोमृतमवाकिरद्विदितमेव सर्वं ममे-
त्युवाच च पुनर्विधि कनु कथं जनिमेंऽस्त्विति ॥ ३६॥
अथ विधिरिदमूचे कश्यपः शापतो मे
ह्यदितिसुरभिवाचा गा हरन् पाशिनोऽ भूत् ।
अधिमहि वसुदेवो देवकी रोहिणी ते
स भवतु तव तातो मातरो स्तां च ते द्वे ॥ ३७ ॥
ग-एवं विज्ञापितो भगवान् स्वसदनगमनाय वेधसमनुज्ञाप्य स्वय-
मवतारोन्मुखो बभूव ।। ११ ॥
अथ नारदोऽपि सत्वरं मधुरां प्रविश्य कंसेन विधिवदभ्यर्चितः सुमेरु-
शिखरवृत्तान्तमस्मै निस्विलमावंद्य देवक्याः पितृप्वसुरेव तेऽष्टमो गर्भः तव
रिपुर्भविप्यत्येतदतिरहस्यमत्याप्ततयाऽभिहितमतोऽद्यैव निखिलकामैरात्मान-
मापूरयेत्याख्याय यथागतं निरगात् ॥ १२ ॥
कंमोपि हसन् किमिदमिति किमिदन्तरेख निध्याय निजनगरमभित-
स्सघोषमाधोषयन्निव स धृटं स्पष्टमिदमाचष्ट ॥ १३ ॥
अनृतमिदमलीकं नारदः प्राह भृत्याः
दिशि दिशि विहरध्वं सत्त्वहिंसाभिरद्य ।
लसति निशि हिमांशौ कैरवाणामिवार्का-
न्मयि सति मनुजा वो माधवान्माऽस्तु भीतिः ॥ ३८ ॥

श्री हरिवंशचम्प्कों
ग--पुनरपि स भोजसूनश्चिन्तयाऽइन्सया च मुहुर्मुहुरुपकृष्यमाणः
निवचनमक्षममाणः मन्त्रिभिस्सह संमन्व्य देवकीगर्भनिभेदनमेव निजमनः-
खेदशमनममन्यत .॥ १४ ॥
इममप्युदन्तं अम्भोनासनतनूजोऽअसाऽम्भोजलोचनाय सर्वमाचंख्यौ॥१४
तदनु हरिरपि पाताळनिलयान् कालनेमिननयान् कमलासनवरेण
सर्वावध्यानपि हिरण्यकशिपोरात्मान्यतो वरार्थननिमित्तेन सापेन स्वपितृक-
ध्यान् जलगर्भशायिनः षड्दैत्यान् क्रमेण योगनिद्वया देवक्रीगर्भमुपनिनाय में
जातांस्तान् क्रमशो निकृत्य मुमुढे गर्भानुदनायुधो
व्याधोऽयल्पमृगार्भकानिब मुहुः कंसो नशिप्यन्नसौ ।
विद्युत्पातविमृद्यमानविटषी धाराधरोद्यत्पयो-
धारापातविधूननेन कुतुकी भूयान्न किं द्विक्षणम् ॥ ३९ ॥
दुर्मा सस्तवतोषिता नृहरिणा युक्ता वरैस्तर्पिता
देवक्या अपि सप्तमं समनयद्गर्भ यदा रोहिणीम् ।
गर्भोऽस्या गळितो भयादिति जना उचुस्तदा रोहिणी
प्रासूतात्मजमंशतः फपिपतेर्यश्शुक्लकेशो हरेः ॥ ४० ॥
अथ किल मधुरायामष्टमं देवकी सा
रुचिरमहनि यस्मिन् गर्भमाधत्त देवी ।
अभवदहनि तस्मिन् गर्भिणी गोकुले साऽ-
प्यधिकसुकृतभूमिनन्दपत्नी यशोदा ॥ ४ १ ॥

प्रथमो विलासः
हरिरिह वसुदेवप्रेयसीगर्भमागा-
द्विकचनलिनगर्भ श्रृंङ्गराजो यथैव ।
अपरमथ यशोदागर्मदुर्ग च दुर्गा
परिचितपरिहूता पञ्जर शारिकेव ॥ ४२ ॥
अंजमजरमनन्त श्रीशमभ्येत्य भूमौ
त्रिजगदधनहे तोर्देवकीगर्भसंस्थम् ।
हरिमुचितवचोभिः खस्थिता एवं सर्वे
विधिमुखसुरसङ्घीस्तुष्टुवुर्देवदेवम् ॥ ४३ ॥
घनतमसि निशीथ माढनिद्राविमूढे
जगति शुभमुहूर्ते देवकीनन्दपत्नछौ ।
सममथ सुषुबाते माधवं चास्य मायां
शतमखहरिदिन्दु धौर्यथा कौमुदी च ॥४४॥
न केवलं वृष्णिकुलं पवित्रित
जगत्समग्रं न परं विमोहिताः ।
आरक्षका एव निमर्गदुर्जनाः
सर्वेऽपि तत्राद्भुतबालजन्मना ।। ४२ ॥
स्थाने हि तद्यदभवद् धनपुष्पवृष्टिः
स्पर्दुन्दुभिध्वनिरथोऽप्सरसां च लास्यम् ।
हा तद् द्वयं कथमनन्तवनोदयेऽस्मिन्
- ज्योतीषि जज्वलुरलं विमला दिशश्च ॥ ४६ ॥

M
श्री हरिवंशचम्प्वां
भ्रानकिरीटमणिकुण्डलमेखलाग्र्य-
केयूरहारवरकङ्कणनूपुराव्यम् ।
इन्दीवरद्युतिमुषा वपुषाऽऽत्तदिव्य-
पीताम्बरं करधृतासिगदाजचक्रम् ॥ ४७ ॥
विद्युत्पिनद्धसबलाकसशकचाप-
मन्ध्याम्बुदद्युतिमनोहरभव्यरूपम् ।
श्रीवत्मवक्षसमुद्रेक्षत मन्दहास-
स्मेराननाम्बुरुहमानकदुन्दुभिस्तम् ॥ ४८ ॥
आनीलकुन्चितशिरोरुहशोभमान-
वक्राम्बुजं विमलपद्मदलायताक्षम् ।
बालं विलोक्य वटपत्र इव स्वमातु-
रङ्के, शयानमवदत्स हि भीतभीतः ॥ ४९ ॥
रूपं तदेतदुपसंहर विश्वमूर्ते
कंमाहिम कलुषादिव पुण्यशीलः ।
पत्नयाऽनया परमपूरुष हर्षशोक-
मध्यस्थया सह नतोऽस्मि तवाड्रिपद्मम् ॥ ५० ॥
तेनोदितस्तमुपसंहृतदिव्यरूपं
बालं निनाय शयनं स तु नन्दपत्नयाः ।
तहालिकां निजवधूशवनं च सिन्धु-
श्चन्द्रं यथा खमुदकं नवचन्द्रिकां च ॥ ११॥

प्रथमो विलामः
तन्निर्गमागमनयोर्वसुदवदव्योः
शोकायुतं विघटितं न कवाटमात्रम् ।
हर्षायुतं सुघठितं न पुनस्तदेव
तीर्णा भयाश्रुतटिनी न रवेस्सुतैव ॥ १२ ॥
ग-अथ नृशंसः कंसः वसुदेवनिवेदितदेवकीप्रसवः सरमामुत्थाव
तत्सूतिकागृहान्तिक्रमागतः पाहि पाहि दारिकेयमिति बहुशोऽर्थ पन्त्या एव
गलश्रुत्रवन्त्यास्तस्याः बालिकारूपं जगति समुन्मिषत्किमपि देवताङ्कुर
कुञ्जर इस रम्भाङ्कुरं समाकृष्य सत्सवमात्मनो यशस्यायुपि वपुति च स्वय-
मेव कुण्डलनामारचयन्निव नभसि बहुशस्तद्भामयन् शिलातले सुदृढमपो-
थयत् ॥ १७ ॥
साऽपि शारिकेव तत्करकमलपञ्जरान्निगत्य शिलातलमस्पृष्दैव गगन-
तलमुत्पतन्ती दारिकारूपमुपसंहरन्ती माहमिदमभिदूषयन्ती उच्चैः परिह-
सन्ती विविधवरायुधपरिष्कृताष्टभुजेन विमुक्तमूर्धजेन रूपेण रोदसीकुहर-
मुद्द्योतयन्ती कंस किमनेन वृथा श्रमेण स तु संवर्धत एवापरत्र यः खल्वन-
तिचिरमेव तव शोणितेन मामाप्याययिष्यतीति गिरमुदीर्य निखिलदेवैरभिष्टु-
ता वृष्ण्यभीष्टदेवता भूत्वा किमपि देवतासदनमाससाद ॥ १८ ॥
अथ कंसोऽपि भग्नप्रयत्नतया समृद्धिग्रहृदयः निजापराधं क्षमापयन्
रहसि देवकीपादमूले निकृत्तमूलः साल इव निपत्य भग्नदंष्ट्रो भुजङ्गम इव
निश्वसन् वेष्टमानः तया देवक्या दैवकृतं विज्ञाय कथंकथमुत्थापितोऽपि दूय-
मानान्तःकरण एव निजशरणमाजगाम ॥ १९ ॥

श्री हरिवंशचम्प्वाँ समथ वसुदेवप्रेरितो, नन्दगोपःः सस्तवनित एवं प्राप कंसोपकण्ठात्। तपनदुहितृतीराद्गोपगोपीमहौ- रवि दधिघृतगन्धैः परितं, गोगमृद्धम् ।। ६३. । नत्र मल्बैव गार्योपि आतकर्मादिका: क्रियाः ।। कारयामास विधिवद्रोहिणीनन्दपुत्रयोः ।। ५ ।। सामैवं स तयोश्चक्के वसुदेवपुरोहितः। सङ्कर्षणो रौहिणेयः कृष्णोऽयं नन्दनन्दनः ॥ ५५ ॥ इति हरिवंशचम्पो प्रथमो विलासः ... .

अथ द्वितीयो विलासः
जवि ववृधाते वल्लवीलोचनान्त:--
करणचयचकोरीकैवाह्लादिरूपौ ।।
शमितभुवनतापो ताविमौ बालरूपौ
शरदि विशदपक्षे शीतरश्म्यम्बुधीवा ॥..१ ॥
शिशुरपि स कदाचिच्छौरिरुत्तानशायी
पृथुमपि शकटाक्षं पातयित्वा सलीलम् ।
क्षुधित इव मनोज्ञा दर्शयन् बालचेष्टा -
निज़मृदुकरपादं प्रोत्क्षिपन्नारुराव ॥ २॥:
शकटभयविमुक्तं सक्तमझें स्वमातुः
निजसुतमवलोक्य प्रेमबाष्पं विमुञ्चन् ।
सकलभुवनरक्षादीक्षिततस्यापि नन्दः
तदुचितमनुतन्त्रैस्तस्य रक्षा वितेने ॥ ३ ॥
अथ रहसि निशीथे पूतना कंसधात्री"
गरलमदिशदस्मै स्वस्तने न्यस्य सोऽपि ।
तहपिबद्सुमिथ तां मृतां चक्रवच्च
प्रभुरहह पदेन स्वेन चिक्षेप दूरात् ॥ ४ ॥

श्री हरिवंशचम्प्वाँ
गरलमपित्रदेको नन्दगोपस्य् बालो
भुवनभयदरूपा सा मृताऽन्येति चित्रम् ।
न परमपरमेतत् स्तन्यदा सा मुकुन्दे
यदभजत विमुक्तिं, मोदमन्ये वजस्थाः ॥ ५ ॥
एकप्रमाणगतिवेषवयोविलासौ
जानुप्रसर्पणपरौ बलरामकृष्णौ ।
क्रीडाभिरध्वनि परस्परसम्प्रसक्तों
व्योम्नि प्रभाभिरिख शारदचन्द्रसूर्यौ ॥ ६ ॥
विक्रीडतोः पथि रमोभिरहीनतन्वोः
जानुद्वयेन भुवि चंक्रमणादिरूपा
लीला बभूव बहुधा बलनन्दसून्वोः
तस्मिन् बजे कलभयोरिख काननान्ते ।। ७
अथ नवनवनीत तक्रभाण्डान्तरस्थे
व्यस्जदनुचरेभ्यो बालकेभ्यो यथेष्टम् ।
मुहुरपि स हि कृष्णो व्योमभाण्डान्तरस्थं
शशिनमिव सुरेभ्यो भागशः कृष्णपक्षः ॥ ८ ॥
तकं पयो दधि घृतं स्वयमेष हृत्वा
पीत्वा यथेष्टमवशिष्टमदाच्छिशुभ्यः ।
भूयः क्वचित्पृथगमूनि यथाविनोदं
बालो व्यमिश्रयदथाप्स्वनलेऽक्षिपञ्च ॥ ५ ॥

द्वितीयो विलासः
करधृतनवनीतो देवकीसम्प्रसूतः
स्मितरुचिधवलाशो चीलवज्रप्रकाशः ।
उरुदधिकणदिग्धो बालकेलीविदग्धो
झुडुशशिकरचित्रं व्योम जित्वा ननर्त ॥ १० ॥
चत्सानपाययदुपायत एवं धेनूः
बालांश्च सोऽजयदनेकविहारभेदैः ।
ध्यादिकं च हरतो ददतोऽभकेभ्यः
नास्य स्वगेहपरगेहविवेचनाऽभूत् ॥ ११ ॥
चालानाकृष्य केशैरयमहह मिथो गोपि बध्नाति कुम्भान्
सङ्ख्यातीतान् भिनत्ति प्रसभमुरु दधि क्षीरमश्नाति नित्यम् ।
दुप्पुत्रे पश्य यामः क्वनु कथमिति सा गोपिकाभिर्यशोदा
रुद्धा मुग्धाऽतिरोषात्सुतमथ सहसोलूखले तं बबन्ध ॥ १२ ॥
स्थाने हि सन्ततमनन्तगुणैस्सुपूर्णो
देवो यतोऽभवदनन्तगुणैरपूर्णः ।
माताऽपि तस्य तत एव गुणैरवर्द्ध
बाल चकार सहसाऽत्र गुणैकबद्धम् ॥ १३ ॥
कर्षन्नुलूखलमिमं यमलार्जुनाभ्यां
रुद्धो बभञ्ज तदिमौ स समूलमेव ।
मद्रोधिनां गतिरियं सहसा भवित्री-
त्याख्यापयन्निव तदीयरवैस्त्रिलोक्याम् ॥ १४ ॥

श्री हरिवंशचम्प्वां अमुमथ समुदीक्ष्य द्राग्यशोदाऽद्य दैवा- त्वमसि तरुविमुक्तस्तात मत्पुण्यराशे। 'भनभन भुजमध्यं वत्सवत्सेति वाचा : निजतमुपगृह्य प्रेमसान्द्रा बभूव ॥ १५ ॥ अथ कृतबहुलीलौ रोहिणीनन्दवाली श्रवनिहितपिञ्छौ पल्लवापीडवाञ्छौ। हृतमधुफलमूलौ नीलपीतोरुचेलौ वनभुवि विहरन्तौ वत्सपालावभूताम् ॥ १६ ॥ क्वचिद्गायन् गेयान्यतिमधुरमालोलनयनं क्वचित्पश्यन् दध्योदनममृतकल्पं च संबलः। क्वचित्खेलन् बालैः क्वचिदपि पिवन् पेयममलं बभौ कृष्णो वत्सर्वनभुवि यथार्को दिचि करैः ॥ १७ ॥ ग-अथ पूतनाशकटसंहारिणो हरिणा निजरोमकूपेभ्य एवं स्वे- च्छया समुत्पादितैकवातैः सर्वतोऽवरुद्धेषु गोकुलप्रवृद्धेषु तृपशुमुख्येषु गोप- मुख्यो नन्दसत्वरं स्वकुलवृद्धस्सह समय व्रजमन्यतो नेतुकामः संपदि नभसः समुपस्थितेन नारदेन प्रतिपादितस्य बलकृष्णप्रभावामृतस्य 'पानेन व्यर्थीकृतवसुदेववचश्शुष्कवाथेयः तत्क्षणादेव तद्वनान्निगत्य निजाज्ञया सर्वतः प्रचलितैः घनपटलैरिव शकटेघटघरट्टोलूखलैरिन्द्रचापवटिताभिस्तटिल्लिताभिरिख विविधवस्त्रविचित्रिताभिर्गोपवनिताभिः तरङ्गान्तरेभ्य इव गोपरम्परान्तरेभ्यो मुहुर्मुहुस्सखेलमुत्पतद्भिः सलिलकणैरिव सकलगोवत्सगणैः तिमितिमिङ्गिलैरिव

द्वितीयो विलासः
२१
निखिलगोपालै रतिरमणीयं सुमुद्रमिव स्वघोष प्रकर्षन् यमुनातटघटितविधि-
धवनवीधिकापराजितपुरन्दरनन्दने अनतिदूरंगोवर्धने अक्षीगणकाष्ठजीवने
'सकलाशुबृन्दावने बृन्दावने निवेशयामास ॥१॥
तृणसलिलसमृद्धे तत्र बृन्दावने तो
प्रमुदितपशुवृन्द चेरतुश्चारयन्तौ ।
शुकपिकरमणीयैश्तपुन्नीगंजाती-
'सरलवकुलनीपैः शोभिते रामकृष्णौ ॥ १८ ॥
वातैश्शोषितवापिको दवशिखिज्वालावलीढचिल:
सन्तापैर्महिषापमृत्युरेबलावक्षोजविक्षोभदः ।
अन्धीकृत्यं तुरङ्गमानपि रवेग रजोभिर्हरन्
निद्रालस्यनिदानमूर्तिरवनौ जज्ञे निदाघो महान् ॥ १९ ॥
अथ मुवि दिवि धर्मे वर्धमाने ब्रजस्थाः
जनिवविविधरोगाः भानुजां वायुनासन् ।
नवविवरसृतासृक्चर्चितास्तेऽप्यभूवन्
द्विजम्मपशुसङ्घा ये तु बृन्दावनस्थाः ॥ २०॥
गं-तैदनु वृद्धंगोपालपण्डितैः शास्त्रसम्मतैर्मन्त्रभेषजादिभिरप्यपरि-
हार्यविक्रमै विविधव्याधिसङ्कमगतागतप्राणेष्वाबालस्थविरमखिलगोपगणेषु. नि-
प्पन्देषु च निखिलपशुबुन्देषु तमोमुकुलितेषु नीरजेषु मल्लिकाक्षथोरिवाक्षीण-
तेजसोर्बलंकृष्णयोरप्यविदितमूलयोखि स्थितयोः कोऽपि गोत्रजभाग्यशेष
इव सहसा विदेहादागतरे गोपालवर्यस्त्यक्तधैर्यानेतान् समीक्ष्य सधैर्य स्फुटै-
मवादीत् ॥ २॥

२२ "श्री हरिबंशचम्प्को ग--भोभो गोपालवर्याः अलमलमिह मन्त्रतन्त्रौषधैः कैलासनिलयः पशुपतिरेव परम गतिः पशुपालकानामस्माकं द्विजमुखेन द्विजराजशेखर तमेव सत्वरं सम्पूज्य शरणमाव्रजत स झपारव्याधिचिन्तापारतारको भव- तो भविष्यतीति ॥ ३॥ -- तदनु तेष्वपि शिपिविष्टपूजानिविष्टान् द्विजशिष्टानाहूय सम्प्रार्थयत्सु तैर्द्विजैः क्वचन देवायतने शिवं संस्थाप्य सप्ताहोरात्रमस्खलितं प्रवर्तितः पूजोपचारवर्णनैः विविधवाद्यवर्तनैः तोषितेन रजताचलनिकेतनेन सदयं सम्प्रेषितश्शङ्कुकर्णो नाम कश्चिद्भुतगधप्रविष्टः कस्मिंश्चिद्वेदविदि विप्रे कृतावेशो गोपॉन् विस्मापयन् वारिदस्तनितगम्भीरं वामदेवनिदेशमेवं प्रका- शयामास॥४॥ सञ्जातो द्वापरान्ते कलिरिह यमुनातीरभूमौ कपित्यः तत्कामिन्यश्च गावस्तदनुगनिकराः कण्टकोरुब्रुवल्ल्यः । तत्पुत्री वत्संभूताः फलसुमसमयः साम्प्रतं द्वादशाब्दात् तद्वृक्षाणां विषोर्वजमखिलमभून्मूर्छितं तिग्मगन्धैः ॥ २१ ॥ छत्तारौ तद्विषटुवततिपशुततेद्वाविमौ रामकृष्णौ भेत्तारौ सर्वरक्षःप्रवरशिखरिणां वो गतिनैतरोऽस्ति । आहैवं शूलपाणिगिरमुरुकृपया भक्तितुष्टोऽद्य गोपाः तो वक्तुं तद्विरा वस्सविधमुपगतश्शङ्कुकर्णोऽहमस्मि ॥ २२ ॥ ग–एवं चन्द्रशेखरगिरमाकण्यं यदुवंशशेखरः सङ्कर्षणेन सह निर्ग- त्य कतिपयगोपकुमारैरनुगतो यमुनातटं प्रविश्य तत्र सुरेन्द्रकेतुवत्समुच्छित.

द्वितीयो विलासः सत्यन्तररिणाहमतिक्षारकटुगन्धदुस्सहं कपित्थभूरुमाप्ताद्यः सहुंभारवमासा-- दितेषु गोबृन्देषु बलभद्रेण, काष्ठपाषाणगणविक्षेपणैर्दिशो दश, विद्रावितेष्वपि तद्वत्सगणैः खरतरखुरविषाणकोटिकुट्टनैर्विद्भावितेषु, निखिलमोपकुमारेषु स्व- यमनुद्विग्न एवैकैकशः पदे प्रगृह्य निभृतमाविद्धय, वियति सुविसृष्टैरप्यसुविसृष्टै- स्तैरेव. तत्तरुमखिलमधः पातयित्वा तमपि, वरुवरं, तत्परिवारतरुभिस्तदन्तरल- तागुल्मैश्च सह निजकरकुठारविहारेण: शकलीकृतं. तदखिलं समूलमनलसा- स्कृत्य, तत्कर्मणाऽतिहृष्टैगंगननिविष्टैस्सैरस्सस्तवं सदुन्दुभिनिनदं, कल्पद्रुमकुसु- मसमूहैः कीर्यमाणः गोपालकैस्सह यमुना प्रविश्य निर्वतितविविधजलविहारो गोपदारोपहृतं विविधमन्नमनन् आसायं विश्रम्य ततो निर्गतः पथि सभ्रूवि- जृम्भहासनर्तनमाननप्रवर्तितः पटहवेणुवीणादिवाद्यरर्वैरनिमिषानप्यानन्दयन निजनिवासमाससादः ॥ ५॥ इति विषतरुदाहध्वंसिताशेषदोषे. शुभगुप्मरमणीये तन्त्र, बृन्दावनान्ते । सुखमखिलनिदाघ, रौहिणेयेन साकं, चिरमरमतः कृष्णश्चारयन् गोसमूहम् ॥ २३ ।। अथ मुवि घनकाल: प्रादुरासीद्यदा भूः नवसलिलमुवृष्टा शोभिता: रम्यगन्धैः ।। स्फुटकुटजकदम्बैर्वासिता सिन्धुहारा मदशिखिकलगीमि; गायतीबाब्जनामम् ॥ २४ ॥ साटोपं क्लयीकृतेन्द्रधनुषा सोदर्जितज्यारवं वेगात्तेन विदिक्षु दिक्षु किरता विद्युत्पृषत्कावलीः ।

श्री हरिवंशचम्प्वाः प्रावकालमहास्थेन सहसा धर्माभियाति शं भूयोऽध्यच्युतभाग्य एव स यतो लीनस्स्तने योषिताम् ॥ २९ ॥ ग. एवं मयूरसमुदयमहोदयं धनोदयं समीक्ष्य सङ्कर्षणस्सहर्षमनुज- मिदमभाषत ॥ ६ ॥ त्वत्कीर्तिविक्रमजितौं दिवि चन्द्रसूर्यो। युक्त हिया, विचरतो मुहुरभ्रलीनौ ।। कान्त्या जितोऽपि मलिनोंऽम्बुद एव तेऽग्रे कृष्ण प्रसर्पति मुहुर्धिगिमं विलजम् ॥ २६ ॥ विद्युदङ्कुशविद्धस्य सोग्रस्तनिववींकृतम् ।। काराशुण्डाप्रसारोऽयमाभाति घनहस्तिनः ॥ २७ ॥ इत्यादिषलभद्रस्य भाषितं भावभूषितम् ।। शृण्वन्नेव स दाशार्हस्सुखं बृन्दावनेऽवसत् ॥ २८ !lth अथ पुरि मिथिलायां कुम्भको नाम गोपः: कुवृषमदनहेतोर्नन्दजायानुजन्मा ।। ब्यसृजदतुलबुद्धिर्नन्दगोपाय दूतं. शुभगिरमभितो द्राग्घोषयापास चैवम् ॥ २९ ॥ भोभो गोपाः सुदुनिशिचरचरितभूपकोपास्पदानां सतानामेतदक्ष्णां प्रभवति दमने यस्त्विदानीं बलिष्ठः ।। तस्य ग्रीवाविभूषा भवति नहि मृषा कुम्भकस्यात्मजेषा नीला लावण्यहेलाविहसितचपला चारुतारुण्यलीला ॥ ३० ॥"

द्वितीयो विलासः २६ ग-अथ नन्दगोपोऽपि दूतमुखेन विदितनीलास्वयंवरः निस्लिगो- पगोपिकाभिस्सह स्वत्रनान्निर्गत्य मध्येमार्गमारचितविविधकलभलीलाभ्यां सव- योगणसंवृताभ्यां बलदामोदराभ्यां तोषिताखण्डलमुग्वबहिर्मुखमण्डलो दिङ. मण्डलात्स्वयंवरागतैस्तदण्डकुण्डलैः गोपाल मण्डलैरतिनिविडीकृतेन राजमार्गेण सदारज्ञातिपत्रकेण कुम्भकेन यथायोग्यमभ्युद्गतो विवुधजनवर्णनीयरामणीय- काद्यखिलगुणगणैरशिथिलां मिथिलामाविवेश ॥७॥ तत्र यथोचित समानितेन नन्दगोपेन सह सदसि संनिविष्टस्य स्वज- नकख्य कुम्भकस्याज्ञया श्रीदामनाम्ना निजपूर्वजेन सभान्तरमुपनीतां सदाचा- रेषु मात्रा धर्मदयेव यौवनविलासेजु लज्जयातीव विनीता प्रत्यङ्गसौष्ठवसंसू- चितपरमेष्ठिदृष्टिचातुर्यविशेषां धृतविविधविवाहवेषां शचीमिव सहस्राक्षलाल- नीयां श्रियमिव मन्मथोत्पादनशीला नीलां विलोक्य विषमशरशरोमिभिरिख कुम्भकोक्तिभिः प्रोत्साहितानां सप्तमहोतसमक्षमासादितानां केषु चिदधीरेषु त- दीयहंभारवश्रवणविगलितेन धैर्येण गलदुदकुम्भायितेषु,कतिपयवीरेषु निजक- टिगिरिकूटेषु खरतरखुरैराचरितशतकोटिविभ्रमाणां तेषां दशगुणं प्रतिकर्तुमि- च विषाणकोटिषु यावच्छरी रैर्विहितसहस्रकोटिविभ्रमे ,अवशिष्टेप्वपि रजोन्ध- कारनिर्लज्जसुलभपलायनेषु सस्मित नन्दनन्दनो रोहिणीनन्दनमिदमभाषत ॥६॥ कालनमिसुता ह्येते मां हन्तुमिह सङ्गताः । निहन्तव्या मया राम गोपालान् रक्षता वृषाः ॥ ३० ॥ ग-एवं सङ्कर्षणेन सह समन्व्य सङ्कपणानुजो भगवान् समिति सन्न- द्धनात्मानं जिवांसया युगादापतितेभ्यस्तेभ्यस्ससम्यो महावृषेभ्यस्तदीयपटुप. दास्यविषाणकोगाभिनयमनोहरसमरदेशीयलास्यानुरूपमृपारितोषिकं प्रदातु- श्री हरिवंशचम्प्वा काम इव पृथक्पृथ निजयुमुष्टिवितीर्णविलक्षणमोक्षः स्वपितृसमक्षमखिलगोपा- लकुलमालादयन् आत्तमूर्तिमात्मकीर्तिमित्र. प्रकृतिनिर्मलां नीलां. सत्वरं प्रत्यग्रहीत् ॥९॥ तदनु नन्दः स्वसम्बन्धिता कुम्भकैन सुतार्थ समपितं बहुगोधनं स्व- सुतोदयप्रवर्धितगोसमृद्धिप्रशंसनेन तस्मिन्नेव प्रत्ययं तदमुमतस्सवलनीलमान जं पुरोधाय सदारज्ञातिबान्धवसुहृद्वनः स्वबजमाजगाम ॥ १० ॥ तंतः-- वर्षापाये निर्मलयोमतोय छायाकान्ते तंत्र बृन्दावनान्ते । रमे मित्रैरन्वितो गोपपुत्रैः पश्यन् देवः पादपान् वासुदेवः ॥ ३१ ॥ छयामण्डलशाम्यदातपंकथः शाखाशिखासम्भव- दिग्रोधोऽखिलशाखिनामधिपतिश्चेतोहरोऽथो वने । बृन्दं चारयतो गवां निजसखैः भाण्डीरनामा महान् न्यग्रोधोऽग्रजसंयुतस्य नूहरेः क्रीडावरोधोऽजनि ॥ ३२ ॥ ग-तत्र कहाचिगोपालदारकैः सह विरचितबहुविहारयोः रोहिणेय- नन्दकुमारयोः दिायात्रार्थभित्र तीर्थयात्रार्थ नभोमध्यमिव वनमध्यमध्वना गता- वहारावित्र वा कृशावपि तेनमा अकृशौ वामदेवभरद्वाजौ यमुनामार्गप्रद- शतमात्रमाकाङ्क्षाणो हरिमुपससर्पनुः ॥ ११ ॥ ततस्ताविई फलपदो दध्योदनमेतच्च पायसादिकं गृह्यतामयमहं नन्दनन्दनः कृगोऽसौ मइयनो राम इत्यादरवचोभिराराधयन्तमतिविनयं तं द्वितीयो विलासः साग्रज शक्रावरज सं.मी त्ये काविभाविति सपदि समासादितसमाधियोगसाक्षा- स्कृतभगवदवतारमहिमानी सानन्दाश्रुनुलकगद्दमिदमवादिषाताम् ॥ १२ ॥ ॥ त्वमादिविश्वस्य त्वमसि निखिलं त्वद्गतमिद त्वमीशस्सर्वेषामजिस परिपूर्णोऽसि नहरें अनन्तैर्मत्स्यायैर्भुवनमर्वतारैरवसि भो विभो हन्तुं दश्यूनिह यदुकुलं प्राप्य'चरसि ॥ ३ ॥ नमस्तस्मै तुभ्यं निटिलगतनीलालकरुचे सरोजाक्षायोरस्स्फुरितवनमालाय'नुहरे ।। कृ. पापारावार प्रबलतपसा दुर्लभमिद वास्तेपश्यन्तस्सततमिह धन्या हि पशुपाः ॥ ३४॥ विविहितविविधविष्णुसंस्तवयोस्तयोर्मुनिपुङ्गवयोस्तीर्थनिषेव- गाय तद्वनान्निष्ट न्तियोर्गोपालां अपि गोद्विजसुरनिकरहृयैर्विचित्रवाद्यैस्त्यद्भुतै, गीतैश्च यथायोगं फोगिध्येयचरणमपारकरुणमेनमाराधयामासुः ॥ १२॥ अथ कदाचितुलसालरसालतालहिन्तालतमालकृतमालतिलकामलक- वकुलवञ्जुळकुटजलिकुचत कोलाङ्कोलादिविविधतरुनिवहनिविडोभयतटर्बनमध्य-- विहारिणीं सकलजनामनोहारिणीं शुभेसलिलबिहारसैंततासक्तसिद्धाङ्गनास्तन-. तटविनस्तकुङ्कुमक्षोदकल्पितोत्तुतिलको भ्रमदभ्रमरबृन्दालको अतिनिबिड- नीलशैवालवेणीसंविधसंचलन्मानिनेत्रस्फुरत्फुलपाथोमवदेनों दरव्यक्तफेनरदनां मुहुर्मुहुर्हसगरुदमलदुकूलाञ्चलाच्छाद्यपानकुमुदकुमलपयोधरां अभिनववय:- श्री. वसं वियत्तलसमानावलग्नभासमानावर्तनाभिकुहरां मृदुतरङ्गावलीपनोहरां.

२८ श्री हरिवंशचम्वा घनपुलिनजवनश्रोगि मण्डलोद्भासिराकासुधाकरकिरणमञ्जरीप्रकाशकाशपुप्पाव- लीवसनां विष्वक्प्रकीर्गविविधतुमवासनां कलक्वणितरुचिरकलहंसविराजमान- पद्मचरणां अवौवहरणसंस्मरणां याद:पतियोषां यमुनां अखिलजगदुरितदूरी- करणनिपुणप्रणामैनात्मना नोपेक्षणीयं कालियगरलजनितमात्मजाहृदयसङ्कट- मिति तत्परिहरणेच्छयाऽऽगतो रविरिव हरिगोसहस्रैरुपससार ॥ १४ ॥ तत्र गाश्चारयन्नेव चचार हरिरव्ययः । कुर्वन् पद्यां महीं धन्यां दृशा सर्वांश्च तद्भवान् ॥३५॥ ग–स हरिरेकदा सकलसलिलाशयावसथविविधविहङ्गवर्जित जित- प्रलयकालानलगरलकीलिकीलावरणदुस्तरं तरङ्गनिकरदुर्गतापेयतोयच्छायाप- राजितवियत्तलं तलविचरदुरगदम्पतिचटुलबिहारसंसूचकतरलपृथुलबुहुदोपपन्न पन्नगाशनभयत्यक्तायोधिनिलयकालीयफणिवरशरणप्रदं निकषैकयोजनमुरुता रारण्यभीकरेषु तीरेप्वपि दुरासदं यामुनहदमुपसृत्य महीधरशिखरलम्बमाननी- लाम्बुदनिकरमपहसन्निव तत्तट्घटितकदम्बभूल्हाशखरमधिरा तस्मात्स्वविन- हसुषुमाविशेषतस्करोभयपुष्करोदरं विग्रहव्यापारेणैव क्रमेण निभत्तुकामइव निबद्धपरिकरो गगनतलमुत्पत्य मध्येसलिलमशनिरिख निपपात ॥ १५॥ उदपतदतिवेगतोऽभ्रमम्भो विशति हरौ चकितं रवौ रवैस्तत् । निजपितरि निवेदनाय नूनं न्यपतदमुं शरणं पुनर्विचिन्त्य ॥ ३६ ॥ ग-तदानीमखिलनगदवनबद्धादरो दामोदरो हृदपयसि निपति- तनिजतनुवज्रनिर्धातघोषश्रवणकुपितेन तत्क्षणाद्विलसदनमपहाय बहिनिर्गतेन द्वितीयो विलासः २९ निखिलक्लिनिश्श निस्सरत्सरीयसहस्रसंसेवितपार्श्वयुगलेन निर्गमनसमय- संशोभितलिलकडोलकञ्चुकिकुलप्रतिनिवर्तितकलिन्दजामहौधेन अतितरल- भीकरतारकारसनानयनाननावलीसमुल्लसदोषविषानलज्वालेन भस्मीकृततटनि- करविटपिपचयेन कालीयमहाफणिना सहजबलदंशितेष्वङ्गेषु आत्तदशनभङ्ग- तया द्विगुणितरोषयोगेन भोगेन परिवेष्टितो नभसि धनपटलनिगीर्णनी- लाचलशिविरलीलां निमिषमापुपोष ॥ १६ ॥ शय्या शेवफगी गृहं च विषधिः जाया विषस्यानुजा यस्याभूत्सततं यदायवलात् वेलं हरश्चापिबत् । तस्नित् सचिराचरात्ननि हरौ व्यालस्य तत्साहसं चित्त चित्रपयोनिधौ लिपति मे यद्भोगदन्तैः कृतम् ॥ ३७॥ ग-वनक्षीगमहिमक्षमावति भगवति भोगिबन्धमुपगतवति सति ॥१॥ भोगिभोगसुखस्पर्शनिच्छन्निव हरिर्वभौ । तदपूर्वतनुस्पर्शसुखेच्छुरिव चाहिराट् ॥ ३८ ॥ ग-तनु केनें चिद्गोपालकेन सभयकम्पमभिहितं हृदयं तुदन्तं त- भिममुदन्तमाकय॑ त्वरितमावालस्थविरं व्रजादापतितैनन्दादिनिखिलगोपगोपी- गगैरतिनिविडे हृद्तटे तादृशी दशामापन्नमात्मानमालोकयतां तेषां सकरुणमु- स्थिौविलपितरवैरापूरिते च दिगन्तरे नभोन्तरे च किमिदभिति सपदि मिल- दुदकभवभवशिवशतमखमुखसकलसुरनिकरदन्तुरे 'कृष्ण बलिइमन दमय फणि- राजनेनं ; कुाइल डूलं गाय शोकनधिविलीनं दीनं जनमिमम् । इति बल- देवसूक्तिसुधयाऽभिवृष्टो हृष्टो भक्तजनभवबन्धभजनो भगवान् स्ववलशिथिलि. तादहिबन्धनाबहिर्निर्गत्य करतलकलिाभोग एव सन् तस्य फणामण्डले अखि- .

श्री हरिवंशचम्बा
लसुरनरपशुमण्डलं संप्रहर्षयन् प्रावृषि वृषनीलमणिमयप्रासादान्तरात्तच्छिश्वर-
मधिरूढो मधुर इव चरणयुगलेन सुचिरमाननत ॥१८॥
जगति विविधभेदः कल्पितो येन लास्ये
स विधिरिदमुदीक्ष्य स्वेच्छया संप्रवृत्तैः ।
सहितममरवाद्यैर ताब्धौ निमग्नः
तदिह दिवि च लास्यं वर्णयेत्को नु विष्णोः ॥३९॥
हरिचरणाम्यां भुनशीपो भुजङ्गः
पयसि रुधिरधारा उद्गिरन् पञ्चवक्रया ।
अतिमृदुगिरमेवं प्राह देवं प्रयत्ना-
त्कृतनतिरतिदीनः शोच्यरूपोऽध्यरूपम् ॥४०॥
श्रीश प्रसीद करुणार्णव जीविते में
तच क्षमस्व यदकारि मयाऽधुनाऽऽगः ।
त्वामेय यामि शरणं वद किं करोमि
कृष्ण क यामि जलधौ गरुडाद्विमेमि ॥४१॥
फणिफशितिमिमां निशम्य शीर्ष-
स्फुरितपदं तमिदं जगाद शौरिः।
बज निजपरिवारसंयुतो द्रा-
ग्अलधिमितो हि रिपो नतऽस्ति भीतिः ॥४२॥
गतदनु तथेत्यन्तर्हिते तस्मिन्नहिपतौ धनविपदो विमुक्तमुडुपति-
मिव तं समागतमच्युतं वीक्ष्य नन्दमानन्दपरवशं प्रशस्य गोपाः ताभ्यामद्भु-
तानन्दाभ्यां सह समेताः सर्वे स्वघोषमुपजग्मुः ॥१९॥

द्वितीयो विलासः अथ कदाचिद्गोभिन्सह गोवर्धनगिरिपरिसरमनुसरन्तौ वृषपोताविव स्वच्छन्दमितस्ततो विचरन्तौ रामकृष्णौ स्वर्धनीजनितपद्मिनीकर्षणकुतूहला- दूर्व प्रसारितकरैः करिनिकरैरिव पर्वसु फलागेषु च कालैस्तालैनिविडं किम- पि महद्वनमद्राष्टाम् ॥ २० ॥ अथ घ्राणहारिणा तत्कलगन्धेन सन्निरुद्ध इव सङ्कर्षणो दामोदरगिरा तत्तरून् प्रकम्पयन् तेभ्यः पक्वानि कतिचित्फलानि पातयामास ॥२१॥ तद्रवश्रवणादेव दैत्यो बलमुपाद्रवत् । तद्वनारक्षकः कोऽपि व्यात्तानन इवान्तकः ॥ ४३॥ रोषेण स खराकारो बलस्योरसि धेनुकः । दशनैरदशत्सद्भ्यां पश्चिमाभ्यामथाप्यहन् ॥ ४४ ॥ ग-अथ तच्चरणयुगलनिगलीभूताङ्गुलिनिकरण निजकरण रुषितेन रौहिणीयेन रथचरणविभ्रमेण सम्भ्रमेण तत्तरूपरि परित्यक्तस्सवलतेजश्शम- नागतो दैत्यस्त्यक्तासुरवनौ निःपतन् सहपतितैस्तत्तालफलैरमुष्य क्रोधमेव शमयामास ॥ २२ ॥ अथ तज्ज्ञातिप्यपि तद्गतिमुपगतेषु, चित्र मधेनुकमभाद्विधेनुकमपि क्षणात् । सफलं विफलं चोप्रैस्तद्वनं गोपविक्रमैः ॥ ४५ ॥ ग-ततो बलरामाच्युतावनुलरे!भिश्च सह ततो निर्गत्य शशिवि वस्वन्ताविव दिशो दश विद्योतयन्तौ वसनशोभयाऽञ्जनकनकपर्वताविव स्वा- श्री हरिवंशचम्प्वां श्रयविपिनमतीव शोभयन्तौ सप्रतिनिनदमुच्चैः श्वेलन्तौ मुहुर्मुहुर्नामभि- र्गास्समाह्वयन्तौ श्रवणामृतानि गीतानि असकृदुद्गायन्तौ अमानुषश्वपि मानुषदीक्षया वयस्स्यैस्सह वन्यवेषेण विरचितविचित्रविहारौ क्वचिदप्य- पराजितावेव पुनरपि बहुलच्छायं भाण्डीरं नाम बहुविटपसङ्घटितसकलदियोधं न्यग्रोधमासेदतुः ॥२३॥ प्रलम्बो नाम दैत्यो ऽगाच्छिद्रान्वेषी तयोस्तदा । गोपालवेषमास्थाय वन्यपुप्पविभूषितः ।। ४६ ॥ ग-तत्र चान्दोलिकाभिः युद्धमार्गश्च सुचिरं विहृत्य द्वन्द्वक्रीडाप- रायणेषु गोपेषु क्रीडाजितेन श्रीदामनाम्ना गोपेन सन्धार्यमाणे गोविन्दे बलोपि प्रलम्बेन सह विक्रीडमानः जितेन तेन सत्वरमुदूह्यमानः कुटिलधिया द्रिय- माणः घनमिव वर्धमानं पवनमिव पलायमानं दारुणाकृति-तमवलोक्य तच्च- रित सन्दिहानः स्वानुजगिरा स्मारितामात्मावेशकलितशेषतामात्मनि सञ्चिन्त- यन् प्रवर्धमानवलपौरुषः परुषतरेण निजमुष्टिना शिरसि प्रहृत्य तमरिं यम- सदनमुपनीय यथास्थानमाजगाम ॥ २४ ॥ बलेन निहते तस्मिन् प्रलम्बे दिवि देवतैः । बलदेवेति नामास्य श्रावितं तज्जना विदुः ॥ ४७ ॥ इति श्रीहरिवंशचम्पो द्वितीयो विलासः समाप्तः तृतीयों विगतः सिंहासनमलङ्कुर्वाणे च राझि रङ्गान्तरमानितेषु च मल्लेषु वल्लवाग्र्यौ पासुदेव- बलदेवौ च विमलवस्त्रालङ्कृतौ वादियोपण वलितास्फोटितरवेण च रङ्गद्धा- रमुपगम्य तत्र चाधोरणेनात्मनिधनाय चोदितं कुण्डलितकर कुञ्जरवरं निरी- व निमिषभतिष्ठताम् ॥ २० ॥ हरिरथ करिणं निरीक्ष्य रोषा- दुपरि पतन्तममुष्य दन्तकुन्तम् .. सपदि पृथुलमुबह दो| करिणमहन्नमुनैव साधिरोहम् ॥ २१ मच करिणि हते निषादियुक्ते.. विपुलभुजेन निजाग्रजेन शौरिः। सुररिपुभयदैसम्वसिंहनादैः समविशदाशु समाजमावाभम् ॥ २१ ॥ अथ तौ रामकृष्णौ रङ्गान्तरमुपगम्य निखिलनयनभृझेरास्वाद्यमान- लीलासौन्दर्यमदौ महागजाविव. विचरतुः ॥ २१ ॥ ततो भोजपतिरपि भुजशिरोनिक्षिप्तगनदन्तत्या खण्डेन्दुकलितगिरि शृङ्गमिव विभ्राजमान गोवर्धनधरमवलोक्य वर्धमानमन्युरन्तेन सह नियुद्धाय चाणूरमादिदेश ॥ २२ ॥ तदनु मल्लयुद्धविशारदावेतौ हृषीकेशचाणूरों समेत्य सुरासुराणां नि- युद्धसरणिमनुदर्शयन्तौ धनाविव विनदन्तौ गजाविव प्रमर्पन्तो गण्डशैलाविष समाश्लिषन्तौ बनवराहाविध संलुठन्तौ भुजनानुशिरो मुष्टिभिः कुंट्टयन्ती कन्तुकाविव मुहुर्मुडुस्सपुत्पतन्तौ महाशनिसदृशं निप्पतन्तौ महीं प्रचालयन्ती निरीक्ष्य भयात्प्रस्विन्नमुखेन कंसेन कदननिवारणाय निवारितेऽपि मादिनानि ३२ श्री हरिवंशचम्प्वां श्रयविपिनमतीव शोभयन्तौ सप्रतिनिनदमुच्चैः श्वेलन्तौ मुहुर्मुहुर्नामभि- र्गास्समाह्वयन्तौ श्रवणामृतानि गीतानि असकृद्गायन्तौ अमानुषावपि मानुषदीक्षया वयस्स्यैस्सह वन्यवेषेण विरचितविचित्रविहारौ क्वचिदप्य- पराजितावेव पुनरपि बहुलच्छायं भाण्डीरं नाम बहुविटपसङ्घटितसकलदियोधं न्यग्रोधमासेदतुः ॥ २३ ॥ प्रलम्बो नाम दैत्यो ऽगाच्छिद्रान्वेषी तयोस्तदा । गोपालवेषमास्थाय वन्यपुप्पविभूषितः ।। ४६ ॥ ग-तत्र चान्दोलिकाभिः युद्धमार्गश्च सुचिरं विहृत्य द्वन्द्वक्रीडाप- रायणेषु गोपेषु क्रीडाजितेन श्रीदामनाम्ना गोपेन सन्धार्यमाणे गोविन्दे बलोपि प्रलम्बेन सह विक्रीडमानः जितेन तेन सत्वरमुदूह्यमानः कुटिलधिया द्विय. माणः धनभिव वर्धमानं पवनमिव पलायमानं दारुणाकृति तमवलोक्य तच्च- रिते सन्दिहानः स्वानुजगिरा स्मारितामात्मावेशकलितशेषतामात्मनि सञ्चिन्त यन् प्रवर्धमानवलपौरुषः परुषतरेण निजमुष्टिना शिरसि प्रहृत्य तमरिं यम- सदनमुपनीय यथास्थानमाजगाम ॥ २४ ॥ बलेन निहते तस्मिन् प्रलम्बे दिवि दैवतैः । बलदेवेति नामास्य श्रावितं तज्जना विदुः ॥ ४७ ॥ इति श्रीहरिवंशचम्पो द्वितीयो विलासः समाप्तः तृतीया विलासः सिंहासनमलङ्कुर्वाणे च राज्ञि रङ्गान्तरमारतेषु च मल्लेषु वल्लवात्र्यो पासुदेव- बलदेवौ च विमलव-त्रालङ्कृतौ वादिप्रयोगण वलितास्फोटितरवेश च रङ्गद्धा रमुपगम्य तत्र चाधोरणेनान्यनिधनाय चोदितं कुण्डलितकर कुञ्जरवरं निरी- च निमिषमतिष्ठताम् ॥ २० ॥ हरिरथ करिणं निरीक्ष्य रोषा- दुसरि पतन्तममुप्य दन्तान्तम् । सपदि पृथुलमुबह दोनों करिणमहन्नमुनैव साधिरोहम् ॥ २१ ॥ अथ करिणि हते निषादियुक्ते विपुलगुजेन निजामजेन हरिः। सुररिपुभयदेव सिंहनादैः समविशदाशु समाजमर्शवाभम् ॥ २२ ॥ अथ तौ रामकृष्णौ रङ्गान्तरमुपगम्य निखिलनयनभृङ्गेरास्वाद्यमान- कीलासौन्दर्यमदौ महागजाविव विचेरतुः ।। २१ ।। ततो भोजपतिरपि भुजशिरोनिक्षिलगजवन्तत्या त्यण्डेन्डुकलितगिरि शृङ्गमिव विभ्राजमानं गोवर्धनधरमवलोक्य वर्षनानमन्पुरतेन सह नियुद्धाय चाणूरमादिदेश ॥ २२ ॥ तदनु मल्लयुद्धविशारदावेतौ हृषीकेशचाणूरो सगेत्य सुरासुराणां नि- युद्धसरणिमनुदर्शयन्तौ घनाविव विनदन्तौ गजाविव प्रमन्तिौ गण्डशैलाविय समाश्लिषन्तौ वनवराहाविव संलुठन्तौ भुजजानुशिरो मुष्टिभिः कुंट्टयन्ती कन्तुकाविन मुहुर्मुडासमुत्पतन्तौ महाशनिसदृशं निष्पान्तौ महीं प्रचालगन्तौ निरीक्ष्य भयात्प्रस्विनमुखेन कोसेल कदानिवारणाय निवारित विभादिनानि

३
श्री हरिवंशचम्प्यां
स्वने दिवि सङ्गतेन देवतूर्यरवेण द्विगुणितत्रलपौरुषो प्रवर्धमानसमरौ समा-
लोक्य लोकत्रयमाश्चर्यभयनीरघौ निर्ममन्न ॥ २३ ॥
अथ दिवि देवर्षिसङ्घः प्रयुज्यमानाभिर्जयाशीनिस्संवर्धित इव आशी-
विषमर्दनः स्वबलमप्रतिम प्रकाशयन् तमरिं भुवि पातयन् वक्षसि जानुना
विष्टम्भयन् अशनिकल्पेन मुष्टिना तन्मूर्धनि नारिकेलफलप्रहारकेलीमार-
चयन् सपदि विहारभूमेनोपहारमुपजहार ॥ २३ ॥
तदनु मुष्टिके च बलमासाद्य वज्रसदृशेन तन्मुष्टिना पिष्टातीकृते
आन्ध्रतोसलकयोश्च कृष्णसङ्कर्षणाभ्यां सजम्बीरक्षेपमुत्क्षिप्य भुवि निपात्य
निजचरणसङ्घर्षणेन मत्कुणदशामापादितयोः निमिषेण रङ्गमखिलमपि निर्मल-
समाजं चानन्दाश्रुसलिलसमुलसन्नयनमवलोक्य रोषपरका कसः कृष्णरामयोः
कार्णायसनिगलबन्धनं वृद्धस्य वसुदेवस्य तदुनहतीक्ष्णदण्ड दामोदरपरा-
यणानां नन्दादिगोपानां मवादिधनापहरणं च शिक्षा व्यादिदेश ॥२५॥
देण्डेषु दारुणेष्वेव भुपक्तृप्तेषु तत्क्षणात् ।
देवकीमविशच्छोकः कालः कंसं रुडच्युतम् ॥ २३ ॥
सदनु तुझासनसन्निविष्टः कसः रङ्गान्तरादनिमिषैरप्यलक्षितेन प्लुतेन
निजामपतितं तमच्युतं खच्युतमशनिमिव मन्यमानः प्रसारितभुनाग्रेणं तेन
हरिणा केशेषु पराखाष्ट एव भूताविष्ट इव तद्भयाद्विनष्टचेतनः प्रभ्रष्टमकुट-
मणिहारखगम्बरमासनादपकृष्यमाणः पश्यतामेव सकलसुरनरासुराणां पन्नग
इव पन्नगारिणा रङ्गमुवि बहुशो विकृष्यमाणस्सन्नायुषोऽन्तमिव समाजसीमा-
न्तभुवमाससाद ॥ २६॥
तत्सुतैस्सह तहाताऽपि बलदेवेन सुचिरं नियुध चिरनिद्रामध्य
॥ २७॥

तृतीयो बिलामः ततस्तौ कृष्णबलभद्रौ निजपित्रोः देवकीवसुदेवयोः पादयुगले प्रण- म्य ताम्यामानन्दाश्रुमरितनत्राभ्यां गाढमाश्लिष्टौ यादवानपि यथोचितं सम्मान्य तैस्सह जनकसदनमाजग्मतुः ॥ २८ ॥ अथ विदितकेसनिनधनवृत्तान्तानां गृहान्ताहहिनिर्गत्य तच्छवशरीर- स्योपरि निपत्य, हा नाथ! त्रिमुवनविख्यातविक्रम ! तवास्मद्विनये विध्वं- सितजरासन्धबलस्य निर्जितयक्षस्य शक्रेण सह गङ्गातट्सङ्गते सायकसगरे निजरैरप्यनिर्जितस्य रत्वसर्वस्वहरणे शरवृष्टिभिरक्षोभ्यमुदधि विक्षोभ्य वशी- कृतवरुणस्य मन्दवृष्टौ मार्गणप्रकरपाटितपर्जन्यस्य मानुषमात्रात् कथमीदृशी दशा समापतितेति बहुशो क्लिय सस्वरं रुदन्तीनां स्रवदश्रुत्रवन्तीनां कुर रीणामिव तदन्तःपुरनारीणां परिदेवनरवैरापूरितेषु दिगन्तरेषु, कसजनन्यामपि हा वस्स! वृद्धामिमामषहाय क्व गतोऽसीति शोकसागरनिरमायां, अह्रामधिदे- बतायां च तासां दुरवस्यां द्रष्टुपतमानाशामिद चरमसागरनिमनायामुग्रसेनो- हृदयः वसुदेवसदनमुपेत्य यदुसदसि वसुन्धराभारं वासुदेवे समर्थ्य कंसस्य प्रेतसंस्कारमात्रमपेक्षमाणः, स्वगुणपरितुष्टेन तेन कृष्णेन पुनरपि सान्त्वपूर्वपत्यर्षितराज्यभरो निहितमकुटभरस्तदाज्ञया परेयुः पुत्रस्य प्रेत्य ग- तस्य पश्चिमसंस्कार विरचय्य यदुनन्दनेन सह निरन्तरनिवासभाग्योदयेन दूरादधरितस्वाराज्यं स्वराज्यं यथापुर पर्यपालयत् ॥ २९ ॥ मधुरा मधुरैवासीद्विधुरा विभुदुर्गुणैः । - अनन्तसुगुणैर्जुष्टा नष्टकंसोमसेनगा ॥ २४ ॥ इति हरिवंशचम्पो तृतीयो बिलासः अथ चतुर्थो विलासः। अथ गुरुकुलवारां कामाणौ कदाचि- न्मुरहरबलभद्रौ प्राप्य सान्दीपनि तौ । सपदि गुरुमवन्तीवासिनं साधु तस्मा- दनतिचिरमवत्तां सर्वविद्याः प्रमोदात् ॥ १ ॥ अथ कृष्णन गुरुवनं किं ददानीत्यभ्यर्थितस्सान्दीपनिस्तत्प्रभावज्ञ- त्या प्रभारातीर्थयात्रायां लवणोदपयसि तिमिनाऽपहृतं मृतं पुत्रमेकं पुनरान- येति तमादिदेवा ॥१॥ हरिरपि तथेति तां गिरमुत्तमाङ्गेन प्रगृह्य पयोनिधि प्रविश्य प्राज- लिना तेन सन्दर्शितं गुरुसुतापहारिणं तिमिरूपिणं पञ्चजनाभियं दैत्य नित्य तस्मिन्नलक्षितान्वेषिततयेव सम्प्राप्तदरो वैवस्वतं विजित्य तेन पञ्च- जनविनिमयने। कथंचित्प्रत्यर्पितमात्मशक्त्या प्राप्तनिजप्राक्तनतनुवयोरूप- वैभवं गुरुतनूभवमब्धिलब्धैरनव्यरत्नस्सह गुरवे समर्प्य सत्यप्रतिज्ञोऽभूत् ॥२॥ शस्त्रास्त्रतोमरगदापरिघादियुद्धे- प्वत्यद्भुतावसदृशावतुलप्रकाशौ। भूयोऽप्युपेत्य मधुरां यदुवीरमुख्यौ त्रोग्रसेनसविधे सुखमूपतुस्तौ ॥२॥ अथ कदाचिज्जरासन्धः कंसानीभ्यामस्तिप्रास्तिनाम्नीभ्या माकर्णि- कर निधनोग्रसेनराज्यप्राप्त्युदन्तः अन्तकड़व रोषाग्निना संज्वलन्निजप्रता-

तुर्थी दिलामः
भावनतै पैस्सह रथचरणसमुद्भूतरजःपटलभिषेण भीत्या विधिसदनं प्रति
प्रस्थितां पृथ्वी निवार्य प्रतिनिवर्तयतुभिवोद्भतर्श्वजनिवहैः हेलितवेलितादि-.
स्वैरपि रोदोन्तरनिरोधिन्या वरूथिन्या मधुरामुपरुरोध ॥ ३ ॥
ततस्तत्क्षणमेव रणायात्तप्रहरणैर्यादवगणैः प्रत्युद्गतेषु प्रत्यर्थिसैनि-
केषु रामकृष्णावपि कालप्राप्तमतिथिमिव तं जरासन्धमनुसन्धाय विपुलमपि
तलं प्रविश्य भृशमयुद्धथताम् ॥ ४ ॥
तयुद्धमभवद् घोरें वृष्णिमागधसेनयोः ।
चतुर्दश दश त्रीणि दिनान्यनुपमं समम् ॥ १ ॥
तेदाऽन्तरिक्षावतेरुरुया
दिव्यायुधानि त्रिदशार्चितानि ।
रणे हृषीकेशकरप्रदत्त-
क्षोणीशमांसेष्विव सस्पृहाणि ॥ १ ॥
हों संवर्तकं नाम तत्राहवकुतूहली ।
सोनन्दं नाम मुसलमपि लेभे बलो बली ॥ ५ ॥
शारे नाम धनुः श्रेष्ठं नाना कौमोदकी गदाम् ।
तद्द्यं चाद्वयं भेजे नैजमेव बलानुजः ॥ ६ ॥
तदनु ताम्यामात्तायुधान्यां निर्दयमद्यमानान् रणमुनि स्थातुमक्ष-
तया दिशिदिशि पलायमानान् पार्थिवपुङ्गवान्प्रतिनिवर्त्य तैस्सह जरासन्धो
धाराधर इव धरेन्द्रमतुलशरधाराभिस्तायध्वजरथं कृष्णमभिगम्य तद्वाणना-
लेम्सुभृशमभ्यर्दितोऽभूत् ॥ ५ ॥

१ श्री हरिवंशचम्प्याँ अथ तत्सेनान्या चित्रसेनेन मह गोविन्दस्य कैशिकेन सह बल. भद्रस्य तदितर्जरासन्धयोधैस्सह वृष्णीनां च महारणे प्रवृत्ते लब्धसंज्ञो जरासन्धोऽप्यच्युताग्रजमुपेत्य निजशस्त्रास्त्रवैशारद्यमपि दर्शयन् तदस्बैनिहता- श्वसूतं स्यन्दनमपहाय गदापाशिरबनाववतस्थे ॥६॥ तदनु बलदेवोऽपि प्रगृहीतगदस्तेन सह सुचिरं नियुध्य निध्यायतामेके निखिलदेवर्षिसङ्घानां सन्दर्शितानिजशौर्यचातुर्येऽपि स्वस्मिन्नपराजिते तस्मि- स्नात्तमनोगदः स्वगदां निरस्य विद्विषामायुस्समापनकुशलं मुसलमग्रहीत् ॥७॥ अथात्तमुसले बले निखिलभूभुजां शृण्वता- मभूद्गनवागियं वनगभीरगर्जीपमा। जरासुतकृते श्रमैरलमसौ न वध्यमस्वया यदस्य विहितोअरः प्रबलमृत्यु/तले ॥ ७ ॥ तदनु मागधोऽप्यासनमृत्युश्रवणाद्विमना भूत्वा पराजितराजन्यराज मिस्सह स्वयमपराजित इव रंणादपक्रान्तोऽभूत् ॥ ८ ॥ वृष्णिवीरास्ततो हृष्टाः देवा गगनसङ्गताः । खच्युतायुधपूगाश्च स्वस्वं स्थानमुपागताः ॥ एवं मुहुर्मुहुरात्मदुहितयुगलवैधव्यदशासंस्मरणसञ्जातमन्धुना मगधे- श्वरेण सप्तदशकृत्वः सम्प्रातसमरेषु वृष्णिवीरेषु पुनरम्यष्टादशसमरोद्यो- गिनं तमवगम्य मन्त्रयव्र विक नाम यादवः विदितात्मनो व्यासादवगत- निनकुलसमुद्भवस्सविनयमप्रसेनस्य शृण्वत एव गोवर्धनधरमिदमकथयत् ॥ इक्ष्वाकुसम्भवो धीमान् हर्यश्वो नाम पार्थिवः । भ्रात्रा निरस्तो ज्येष्ठेन त्यक्त्वाऽयोध्यां वनं ययौ ॥९॥ . .

चतुर्भो विलासः ते तु पुन्या समानीतं मधुमत्या स्वयं मधुः। सम्मान्य तस्मै स्वं राज्यं इत्वाऽगात्तपसे उनम् ॥ १० ॥ हर्यश्वस्य सुतो जज्ञे यदुर्नाम महायशाः । राज्यं शशास धर्मेण पित्रा दत्तं स वै चिरम् ॥ ११ ॥ स एकदा सागराम्भसि वधूजनस्सह सलिलक्रीडां वितन्वानो धूम्र- वर्णनाम्ना पन्नगराजेन वनगरमानीय तत्र देवदानवमहर्षिपन्नगानां समुद्भवो- ऽस्मिन्वंशे तव भवितेत्युक्त्वा स्वस्य यौवनाश्वस्य भगिन्यामुत्पन्नाः पञ्च कन्या अपि प्रतीच्छ, यासु वरपुत्राः पञ्च प्रजायन्त इति सम्प्रार्थ्यमानः भैमकुक्कुरभोजाम्धकयादवदशाहवृष्णिभेदेन सप्तधा ख्याता भवद्वंश्या भवि- प्यन्तीति वरैस्सह तत्प्रदत्तास्ताः पञ्च कन्या अपि प्राजापत्यविधिना परिगृह सपञ्चतारश्चन्द्र इव सागरान्निगत्य निजपुरमासादितवान् ॥ १० ॥ मुचुकुन्दः पयवर्णो माधवस्सारसस्तथा । हरितश्चेति पश्चासन् तासु शूरा यदोस्सुताः ॥ १२ ॥ तत्र मुचुकुन्दो नाम राजर्षिर्नर्मदातीरे माहिष्मतीपुरी, तत्सविष एक विन्ध्यक्षवतोः पादे पुरिकां नाम पुरीं च, पद्मवर्णस्सह्यपृष्ठे वेण्णतीरे पद्मावत- नाना जनपदेन सह करवीरपुर, सारसश्च वनवासिनाम्ना जनपदेन सह कौञ्चपुरं, एवं पुत्रत्रयेऽपि निजाज्ञया दक्षिणस्यां दिशि पुरचतुष्टयं निर्माय पालयति, हरितेऽपि हरिति पश्चिमायां मत्स्यमांसमोजिभिर्दाशैः परिकल्पितेन मौक्तिकप्रवालादिरत्नराशिनिवहेन दीप्यमानमब्ध्यन्तरद्वीपमधिवसति. सति बदुरपि क्रमेण स्वराज्यं माधने निवेश्य खर्गतोऽभूत् ॥ ११ श्री हरिवंशत्रम्वा मात्रात्सात्वतो जज्ञे तम्माद्धीमोऽन्धकस्ततः । 'य इमां लगनेन निर्मितां बुभुजे पुरीम् ॥ १३ ॥ अन्वादेवतस्तसगाडो जोऽद्रिमूर्धनि । रैबतब ततस्सोम्न्तिदा रेवतकोऽभवत् ॥ १४ ॥ रैवतस्यात्मजो गजा विश्वगर्भो महायशाः । तस्य भार्यानु तिषु चत्मारो जज्ञिरे सुताः ॥ १५ ॥ तैरेव क्सु-अभ्र-सुषेण-समाक्षनामभिः यादववंशोऽयं प्रवर्धितः; तत्र वसुर्वसुदेव भवत्पितरं पाण्डोनहिषी कुन्ती चेदिराजल्य दमघोषस्य पत्नी सुप्रभा व जनवामास ॥ १२ ॥ इति मुवि निरवृद्धा यादवा माधवाय प्रबलरिपुविरोधाद्राष्ट्रनाशं स्वनाशम् । हृदि बत कलयन्तश्चिन्तयन्त्यल्पसैन्याः त्वमसि गतिरमीषां त्वन्मनीषाशिषां नः ॥ १६ ॥ इति विकट्टैणा गदितं स्वजनकेन वसुइनानुमोदित सम्मतमिदमखि-- ल्यादवानां निशम्य देशकालानुकूलमिदं राजधर्मोचितं भवद्भिर्विचिन्तित- मिति प्रत्युदीर्य साग्रजो गदाग्रज. सपदि मधुरां परित्यज्य निजचरणसंचर- रणेन दक्षिणापथमहीं धन्यां वितन्वन् सह्यपृष्ठमुपगम्य तत्र करवीरपुरपरि- सरे वेणातटवटमूळे तदैवागत्योपविष्टं जटामकुटमण्डितं भार्गवमुनिं विलोक्य तद्धोमधेनुपयःपानप्रशमिताध्वश्रम: निशमितनिजवृत्तान्तेन तेन सह तद्दर्शि-- लेन फ्था निर्गत्य यज्ञगिरावेकां निशां नीत्या निकषोपलभूषितां खटाङ्गनिझमां

(७)
चतुर्थो विलासः
तीर्थ्यो तपोधनजनसन्दर्शनेन दृशौ सार्थयन् क्रौञ्चपुरवासिनं स्ववंशज महा-
कपिनामानं राजानमनवेक्ष्यैव तत्र गमितैकनिशः तटवनमृङ्गीसङ्गीतसारायित-
विपुलनिर्झरं अजातदावसंचारं अविदितवज्रप्रहारं सुरदम्पतिविहारोचितानां
निजमणिशिखराणां रश्मिभिर्दिशो दश विद्योतयन्तं. वनगजगजितैस्संजातस्वा-
श्रयतस्शाखाप्रक्षोभमुत्पततां पतत्रिणां कलकलैस्वागमनमभिनन्य साभिनय-
मात्मानमाह्वयन्तमिव स्थितमुच्छ्रायेण मन्दरगिरिश्रियमुद्रहन्तं गोमन्त, नामा
सानुमन्तमासाद्य, तच्छिखरवरं खगैरपि दुरारोहमारुरोह ॥ १३ ॥
भविष्यति निजायुधध्वजसमागमोऽत्र द्रुतं.
जयिष्यसि रिपून रणे. सबल एव तं.त्वामियम्
प्रतीक्षत इहाऽऽश्रुतं प्रति धरैकवेणीधरा.
स्मरेति हरिमीरयन् झडिति जामदग्न्यो ययौ ॥ १७ ॥
अथ. तो चेरतुस्तत्र शिखरे मधुरथियो ।
बलकृष्णेन्दुजीमूतौ जगदानन्दवर्धनौ ॥ १८ ॥
तत्र बलभद्रस्त्वेकदा गदाग्रजमपहाय, स्वयमकाकी संचरन् कमपि
कदम्बतरुमासाद्य तृष्णया, तत्कोटरसम्भवां कादम्बरी नाम मदिरामासेव्य
तन्मदारुणितलोचनः तत्समयसमुपस्थिताभिः वारुणी-श्री-कान्तिसंज्ञाभिस्त्रिम्-
भिस्समर्पितनिजलगम्बराभरणः पूर्णेन्दुखि विरराज. ॥ १४ ॥
कृष्णोऽपि क्षीरसागरद्वीपवासिना स्वेनैव पुरा सन्धारितं सुप्त इव
स्थिते स्वस्मिन् शक्ररूपेण बलिनाऽपहृतं तद्विज्ञाय युधि बलिं निर्जित्य गरुत्म-
ताऽऽनीय स्वशिरसि विमुक्तं निजमकुटमासाद्य मेरुशृङ्गोपचितमहेन्द्रनीलशैल-
श्रियमाबुमार ॥१५॥

श्री हरिवंशचम्प्वा यादवगणैरभ्युद्तः स्वविजयोत्सवमधुरों मधुरां प्रविश्य तत्पुरपुरन्ध्रीकटाक्ष- संसद्विगुणितदेहरुचिः निजभवनमभजत ॥ २२॥ शक्रदेवः स्वपितुः प्रेत्य गतस्य पश्चिमसंस्कारं निवर्त्य स्वराज्यममुबभूव ।। चेदिपतिर्दमघोषोऽपि दामोदरेण सहाध्वन्येकरात्रोषित एव प्रतिनिव- तोऽभूत् ॥ २४॥ रामाच्युतौ तु मधुसमुपगम्य रम्याँ राज्ञा विरेजतुस्लं जगतस्सुखाय । कीटोद्भवस्य गुरुणा किरणाभिपूर्णी खे रेवतीमुपगताविव चन्द्रसूयौँ ॥ २१ ॥ अथैकदा बलभद्रः पुरान्निर्गत्य वन्यवेषेण व्रजमुपगतस्वागमनसमेधि- तानन्दैः गोपबृन्दैः सादरमभ्यर्चितस्तैस्सह बृन्दावनभुवि पानवशतया यशा- वल्लभइव-संचरन्नदूरवर्तिनीं यमुना मदारुणितचक्षुषोद्वीक्ष्य तत्सलिलावगाहन- कुतूहलेनाह्वयन्त्रनामा तामतिरुषा बलेन सम्प्रकर्षन् स्वसविधमागतां वेपथुम- ती रुदन्ती सतीरूपसुपगृह्य शरणमुफ्गतवती तां विसृज्य तस्या वेणीमिव स्व- नामाङ्कितां वेणीमेकां तत्र निर्माय निखिलभूतैरप्यभिष्टुतबलस्ततः पुनरपि पुरीमाजगाम ॥२५॥ सदनमुपगतोऽसौ स्वानुजेनैव दृष्टः- सपदि तदुपनीते स्वासने संनिविष्टः । तदनु कुशलमस्मै सर्वमाख्यांय तुष्टः तृणजलवनगोषु स्वेषु गोपेषु पृष्टः ॥ २२ ॥ इति हरिवंशचम्पौ चतुर्थो विलासः -* समाप्त अथ पंचमो विलासः॥ तो हरिभीष्मकराजपुत्री- स्वयंवरे श्रोत्रमुपागते द्राक् । उपागतः कुण्डिनपत्तनं स रथेन युक्तो यदुभिस्समस्तैः ॥ १ ॥ स्मृतोपयातेन गरुत्मता युतः स कैशिकेनादरपूर्वमर्चितः । पुरीं प्रविश्याद्भुतमन्दिर विशन् उवास तत्र स्वगिरी यथेश्वरः ॥ २॥ हरि समीक्ष्यागतमद्भुताकृति सवैनतेयं निजयादवैर्युतम् । जरासुतादिक्षितिपालमण्डली व्यचिन्तयत्तत्र सभाग्रता परम् ॥ ३॥ अयं तु साक्षारिरेव नापरः पुरा सुरारीनिह चावधीद्धली । कथं खगेशोऽन्यवशः स्वयंवरः कथं भवेद्वेति जरासुतोऽवदत् ॥ ४ ॥ विचार्य गोमन्तगिरौ गरुत्मता विनाऽपि युद्ध नृहरेस्तदद्भुतम् । 40 ५४ श्री हरिवंशचम्प्वां सुनीथ आह स्मृतताक्ष्यविक्रमो जरासुतो न मृषेति बुद्धिमान् ॥ ५ ॥ जनार्दने दोषलवं न लक्षये विनाऽस्मदाहानमसौ न युध्यति । कलिस्ततो यत्र वयं समानितः प्रसीदतीत्याह च दन्तवक्रकः ॥६॥ अयं च विष्णुर्दितिजा वयं च नो भयं च तस्मादिति सिद्धमेव हि । वृतस्य कन्याऽत्र तु युद्धचिन्तना वृथति साल्वोऽववाहवोद्धतः ॥ ७ ॥ इति ब्रुवाणेषु नृपेषु भीष्मको निरुत्तरोऽन्तर्मनसो व्यचिन्तयत् । सुंतस्य दौरात्म्यमतीव रुक्मिणो, हरेश्च सामर्थ्यमपि स्मरन् परम् ॥ ८ ॥ ततो विनिश्चित्य हरेः प्रसादनं स रुक्मिरक्षाविषये सुसाधनम् । समेत्य तं वाचमिमामदीनव- क्रथेन साकं निशि कैशिकोब्रवीत् ॥ ९॥ धन्यौ स्म देव भवता गृहमागतेन पूज्योऽसि पात्रमसि राज्यमिदं भज त्वाम् ।

पंचमो विलासः आवामुपेन्द्र इति शबकराभिषिक्तं राजेन्द्र इत्यपि सदस्यभिषेक्तुकामौ ॥ १० ॥ अस्मत्प्रदत्त भन राज्यलक्ष्मी श्वो मागधाक्षेपलवित्रमेतत् । एवं न चेदासनसङ्कटं ते सर्वज्ञ राज्ञां हि भवेत् समाजे ॥ ११ ॥ इति विज्ञाप्य तं कृष्णं प्रसृष्टेनान्तरात्मना । निशां नीत्वाऽगमत्प्रातः पूर्ण नृपसभं नृपः ॥ १२ ॥ तत्र सिंहासनारूढान् नृपान् वीक्ष्य स भीष्मकः । स्वासनं दातुकामोऽस्मि कृष्णायेत्यब्रवीद्वचः ॥ १३ ॥ ततस्तत्क्षणमेव क्षणप्रभाभासुरविचित्रतररत्नखचितकनकमयनूत्नसिंहा- सनमेकं सलेख कैशिकस्य पुरतो निधाय चित्राङ्गदो नाम पुरुहूतदूतः स्वय- मदृश्य एव पुन:पुनः पाकशासनशासनमिदमुच्चैर्व्याजहार ॥ १ ॥ देव विदर्भाधिपते! कृतमनुजावतारस्य हरेरस्मत्पतेरासनमन्यासितं दातमनुचितमिति विश्वकर्मनिर्मितमिदमासनं वासवेन सम्प्रेषितमस्मिन् सन्नि- विष्टं विष्टरश्रवसं वैश्रवणसम्प्रेषितैः नियंशसम्भवैः काञ्चनरत्नपूर्णैरमीभिरष्ट- भिः कलशैरपि राजेन्द्रपदेऽखिलराजमण्डलीपरिवृतः सुखेन शीघ्रमभिषिञ्चात् समागतेषु यः कोपि न कुरुतेऽस्य शासनं स तस्य वध्य एव भविष्यति । भोभो भूपतयः! त्रिभुवनफ्तेरिन्द्रस्य शासनमिद राजेन्द्राभिषेचनाधिकार- वर्तिभिर्भवद्भिरवश्यानुष्ठेयमिह रङ्गे तु जरासन्धसुनीथरुक्मिसात्वाश्चत्वारः शून्यहेतोस्तिष्ठन्तु तदितरे सर्व एव ऋथलैशिकाभ्यां सह सभां गत्वा यथोक्त- मच्युतमभिषिञ्चतेति ॥ २ ॥ •

श्री हरिवंशचम्प्यां
श्रुत्वाऽभ्रजनितां वाचं घनमोपमामिमाम् ।
विमनस्कैर्वितेजस्कैदिनदीपायित. नृपैः ॥ १४ ॥
तस्मिन् दूते गते भूपाः भीष्मकेनैव सान्त्विताः ।
मागधेनाप्यनुज्ञाता रमादुत्तस्थुरञ्जसा ॥ १५ ॥
अथ सर्वेऽपि नृपनयः शनशापभयात्सबला एव निर्गत्य क्रयकैशिकों
परोधाय पुरं प्रविष्टाः तत्र समुच्छ्रितपताकाध्वजमालिनी दिव्यनग्दामशा-
लिनी विचित्रतरविमानयानावलीपरिवृतां सिद्धचारणगन्धर्वविद्याधरमहर्षिगण-
संसेविता मप्सरोगणनर्तनानुकूलविविधसुरवरवादित्रघोषा मच्युतसेवासमेधि-
तामितनयनसम्प्रेक्षणीयतेनोविशेषां स्थानहेतोर्मुवमुपगतां नरदेवभवनपुरतः
स्थितां शुभां देवसभां प्रविश्य, विस्मयाविष्टहृदया बभूवुः ॥ ३॥
तदनु विमानवरमारुह्य दिक्पालैस्सह वियत्तलमलङ्कुर्वाणे गीर्वाणपरि-
वृढे सभातलमुपाशिवं सर्वभङ्गलापूजितं परममङ्गलविंग्रहं यद्वहं नवरत्नखचित-
दिव्यसिंहासनारूदं महेन्द्रोपलमिव मेरूशृङ्गाग्रसंरूढमम्बुद्गणैस्सलिलैरिखाम्बर-
चरैस्सहकारदलसहकारिभिः कलशैः काञ्चनमणिकुसुमगन्धचूर्णादिभिः सतू-
यस्तवरवमभिषिच्यमानमासेव्य तद्वितीर्णवस्त्राभरणसमलङ्कृतविग्रहाः. तत्कृत-
विग्रहस्मरणशतितमतयो नृपतयस्ते पत्युर्दिवस्पतेरपि हरेः' पुस्तो. रवेरिव
प्रहाः सङ्कुचितविग्रहा एव तदृगन्तपरिदर्शितेषु स्वोचितासनेषु यथानियोगं.
सन्निविष्टा बभूवुः ॥ ४॥
अथ हरिमिदमूचे भीष्मको भीतभीतः
प्रणतशरणद त्वां प्रार्थयेऽहं प्रसीद ।
खथि कलुषमनन्ते मर्त्यभावेन पूर्व
बरपतिभिरमीभिर्यत्कृतं तत्क्षमस्व ॥ १६ ॥

पंचमो विलासः
५७
एतदाकर्ण्य प्रहसितबदनः पुण्डरीकनयनः क्षत्रधर्मोचितमेव भवद्धिः
कृतं तन्न कलुषमिति स्वहृदयनैर्मल्यमावेदयन्निखिलमपि नृपमण्डलं समाश्वा-
स्य कैशिकमुखमालोकयामास ॥५॥
सोऽपि स्वतनयदुनयेन सुतास्वयंवरारम्म इति स्वदोषमपि निरूप्य
समानिधि तमजं क्षमापयामास ॥६॥
अथ हरिरपि शृण्वतामेव सकलभूभृतां विदर्भाधिपतिमिदमवादीत् ।।
स्वयमतिमृदुगात्री सैव दुग्धाब्धिपुत्री
द्रुहिणवचनकी तेऽद्य पुत्री बभूव ।
न हि नृपतिवरैषा भानुषी सत्यगेना
भुवि वरमनुरूपं प्रेक्ष्य तस्मै प्रयच्छ ॥ १७ ॥
।
नृपवर दश पूषो राज्यदानन महा.
तव दिवमुपयाताः सांप्रतं ह्युत्तराश्च ।
दश दिशि दिशि कीर्ति प्राप्य यास्यन्ति सर्वे
चिरमिह कृतराज्यः प्राप्स्यसे त्वं च, धन्यः ॥१८॥
इह वस पुस्मेतत्पालयन् भूपते त्वं
ह्यहमपि मधुरां तो. यादवैर्यामि वस्तुम् ।
नव सततममीषु प्रेमपात्रेषु पूर्णा
पितुरिव निजपुत्रेष्वच्युता प्रीतिरस्तु ॥ १९॥
इत्युक्त्वा नृहरिनै विश्वरूपं च दर्शयन् ।
तेन सम्पूजितो भक्त्या ताक्ष्येण सहितो ययौ ॥२०॥

श्री हरिवंशचम्प्यां
अथ कृष्णसम्मानिता अपि नृपाः सुदूर तमनमनुव्रज्य प्रतिनिवृत्ताः
पुनरपि रङ्गं प्रविश्य कैशिकनानुज्ञाताः विज्ञातकार्यास्तन्नगरायथायथे
निर्ययुः ॥ ८ ॥
तत्र जरासन्धादय: केचन कैशिकस्यान्तरनभिप्रायमवगन्तुकामास्सन्नि-
विष्टास्तेन भीष्मकेण निजतनयदुनयेनैवं प्रवृत्तमिति बहुशः क्षमापिता बभूवुः।।
तदा सौभपतिस्साल्वोऽपि शौरिशौर्यमवार्य संस्मृत्य सुतचेष्टानुशोचि-
ने विदर्भाधिपतिमिदमवादीत् ॥ १० ॥
राजन्नलं खेदेन; रुग्मिणोऽस्य मुजवीर्य निखिलैः केशवान्यैरनिवा-
यम् ; असौ भार्गवास्त्रतेजसा दुर्जयोऽपि सकलशास्त्रवित्तया वासुदेवं विबुध-
प्रति विदित्वैव तं न योधयति ॥ ११ ॥
तथाऽपि-
अस्ति प्रतपसो गाादोप्या रुद्रप्रसादज ।
स कालयवनो नाम कृष्णजेताऽपि भूले ॥ २.१ ।।
%
-
स खलु माधुराणामवध्य-सद्योऽस्माभिर्दूतगखेन सम्प्रेरितो यदि मधु-
रामुपैतितरा मधुसूदनं विजेष्यतीति ॥ १२ ॥
एतदाकर्ण्य मगधेश्वरस्स्वशौर्यग्लानिशङ्कया सङ्कुचितमना अपि सुनी-
अप्रमतिभिस्सम्बोधितस्सौभपतिमेव कालयवनप्रेरणाय सम्प्रेषयन्निजनगर-
माससाद ॥१३॥
शान्ते स्वयंवरे रुग्मी चिन्तामाप सकैशिकः ।
कान्तो मे कृष्ण इत्येव मुदमेवाप रुक्मिणी ॥ २२ ॥

पंचमो विलासः
५९
ततस्सौभपतिरपि तदैवान्तरिक्षपथेन यवनपुरीमुपेत्य कालयवनेन बहु-
शस्सम्मानितस्सकलनृपमण्डलीपरिवृतस्य मागधस्य गिरमसहायशूरयोल-
कृष्णयोर्हलमुगलगदाचक्रतेजसा दुर्विषहं दोर्वीय च निवेद्य विग्रहेण तन्नि-
ग्रहशक्तिर्भवतो भवज्जनकतपःपरितोषितभवप्रदत्तमाधुरावध्यत्ववरादस्तीत्यपि
प्रस्तुवन् तस्मिन् तथैवेति मागधगिरं शिरसा प्रगृह्य महता सैन्येन मधुरां
प्रति प्रस्थिते ततस्स्वपुरमाजगाम ॥ १४ ॥
अथ वैनतेयोऽपि विदर्भनगरादोजपतिपुरं बनतो हरेरनुज्ञामध्वन्येव
सम्प्राप्य पश्चिमाब्धितटगतरेवतकाद्रिमुपगम्य राजेन्द्रनिवासयोग्यराजधानी
निर्माणोचितभुवोऽन्वेषणाय निर्गतोऽभूत् ॥ १५ ॥
ततो हरिरपि स्वस्य राजेन्द्रपदाभिषेकं निशम्य निस्तुलानन्दजलधिम-
नेनोग्रसेनेन महावै नवेनाभ्युद्गतः सुरनगरीमिव सुधर्मोपेतां सुकविगिरमिव
नानालङ्कास्मधुरां मधुरां प्रविश्य सुरनरवरैः स्तूयमानगुणवैभवस्सुमेरुशिखरमिक
समुन्नतं नरदेवभवनमिव समलङ्कृतं वसुदेवभवनमभजत ॥ १६ ॥
तत्र पित्रोः गदद्वन्द्वे नत्वाऽऽनन्दाश्रुसेचितः ।
येन सहितः सुखेन न्यवसद्धरिः ॥ २३ ॥
अथ सुपर्णस्समागत्य रहसि वासुदेवमेवं व्यजिज्ञपत् ॥ १७ ॥
कुशस्थली नाम शुभस्थली ते
निवासहेतोरपराब्ध्यनूपे।
अदूरसंस्थाद्भुतरैवतादिः
लब्धा निवासोऽत्र हरे प्रशस्तः ॥ २४ ॥

श्री हरिवंशचम्प्वा
एवमाख्याय गतवति गरुडे गरुडध्वजेऽपि तन्निवासाय निजाग्रजेन
विचिन्तयति विदितवृत्तान्तेन भोजपतिना यादवैश्च तदनुगमनमेव निश्चित-
मभूत् ॥१८॥
एतस्मिन्नेव काले तु जरासन्धः स्वसेनया।
मधुरां रोद्भुमारेभे यवनोऽपि समाययौ ॥ २५ ॥
हरिस्स्वदूतं विससर्ज तस्मै
कालाहिपूर्ण कलशं प्रदाय
पिपीलिकापूर्णममु विधाय
सम्प्लेषयामास पुनश्च सोऽस्मै ॥२६॥
ततो हरिरपि नारदमुखाद्विदिवतद्वरस्तं कालयवनमजय्यं विज्ञाय तत्-
संणमेव सर्वयादवैस्सह मधुरामपहाय ससैन्य एव निर्गतः पश्चिमोदधेरनूप-
देशे स्वेच्छयैव विनिर्मितां द्वारवती नाम पुरीमाससाद ॥ १९॥
तत्र रैवतकशैलसमीपे
सागरोदरसमीरसनाथे।
स्थानमापुरकुतोभयमेते
यादवा भुवि यथा दिवि देवाः ॥ २७ ॥
अथ मधुसूदनः पुनरपि मधुरामासाद्य तत इतस्सञ्चरन् कालयवनह-
पथमागतः प्रभीत इव पुरान्निर्गत्यं पलायमानो जिघृक्षुणा तेन सुदूरमनुगम्य-
मानो योगवशात्तत्करमनुपगत एव कामपि गिरिगुहामाविवेश ॥२०॥
यत्र दैवासुरे युद्धे कृतकर्मा महाबलः ।
मुचुकुन्दी वरादैन्द्रादशेत चिरनिद्रितः ॥ २८ ॥

पंचमो विलासः १ स्वोत्तरीयेण तं सम्यगाच्छाद्य भगवान् हरिः । शिरोदेशे विलिल्येऽस्य तद्गुहायाँ गुहाशयः ॥ २९ ॥ तदनु यवनेश्वरोऽपि तां गुहामनुविशन् मान्धातृतनयं तं मुचुकुन्दं मु- कुन्दबुद्धया स्वाङ्कितलेन सङ्घट्टयन् प्रबुद्धस्य तस्य नयनसमुल्लसदोषशोचि- केशरोचिषा शलभ इव निर्दग्धस्सहसा भस्मसादभूत् ॥ २१ ॥ तदनु मुचुकुन्दोऽपि कथितनिजवंशेन वासुदेवेन विहितसल्लापो विदि- तयुगद्वयातिक्रमकलिसंक्रमस्तेन सह गुहां विज्य बहिर्निर्गतस्स्वराष्ट्रमन्यवशं निशम्य निशाम्य च निखिला महीं हस्वमनुजसंसेवितां तत्र बीतस्पृहः तम- जमामन्त्र्य प्रालेयगिरिमुपेत्य तपसि स्थितस्ततश्चिरेण दिवमास्थितोऽभूत् ।। अथ मधुसूदनः पुनर्मधुरामुपेत्य तो यवनवाहिनीं मृतनाथां सर्वो स्वर्वाहिनीं भगीरथ इव संगृह्य द्वारकामाससाद ॥ २३ ॥ ततस्स्मृतिमात्रसन्निहितेन विश्वकर्मणा सागरोदरदेशे निजभवननिवेशेन विस्तारितां निजयोगेन शङ्खनाम्ना निधीन्द्रेण प्रतिसदनं प्रवर्षितमहाधनां मारुतेन च सपदि समानीतसुधर्माल्यसुरसभामपहसितामरावतीं तां द्वारावती यादवैस्सह समलङ्कुर्वाणेन हरिणा यथा मधुरायामुप्रसेनादिका एव नृपादिप- देषु निवेशिता बभूवुः ॥ २४ ॥ अथानुजानुमत्यैव रेवतस्यात्मजां बलः । उपयेमे विधानेन रेखतीं गुणपार्वतीम् ॥ ३० ॥- ततः पुनरपि जरासन्धप्रभृतिषु नृपतिषु रुक्मिणीस्वयंवरार्थं विदर्भन- गरमागतेषु निजसुता, तां चेदिनृपालबालस्य शिशुपालख्य दातृकामे च भी श्री हरिवंशचम्प्वां ग्मके हरिस्स्वयमपि स्वपितृप्वसुः प्रियार्थमिव बलेन सह सयादवक्लस्तन्नगर- मासाद्य बहिनिविष्टो निजजनककारितसकलकौतुकमङ्गलामाहतसर्वमङ्गलां शि- विकामारुह्य निस्तुलवैभवेन पुराबहिरागत्य शचीमभ्यर्च्य तद्गृहाबहिर्निर्गतामन- ल्पाभरणमणिप्रभाधिक्कृतमार्ताण्डमण्डलप्रभा वैतानशिखिशिखासप्रभा,स्वलाव- ण्यसरिद्वरवेणीमिव सन्धारिताभरणश्रेणी वेणी स्वर्णाम्बररुचिरभोणिदेशे निज- करेण सन्दधानां रुचिरतरत्रग्विणी रुक्मिणी तां विग्रहवतीं निजविजयलक्ष्मी- मिव समुद्रीक्ष्य विजिताक्ष इव तत्सविधमुपागतस्तया च मूर्तस्वार्चितशक्रसती- प्रसाद व समुद्रीक्ष्यमाणस्सवालजनसमक्षं हाहेति प्रेक्षक्षेत्रनेत्राणामेव तद्रक्ष- काणां घन इव तटिल्लतां मृदुतनुलतां तां परिगृह्य श्यामलनिजभुजल- तान्दोलिकया धारयन् तस्या मनोरथमिव स्वस्थमपि सम्पूरयन् सपक्षशि- खिनिवहमाहादयन् विपक्षवनरुहप्रहर्षमुन्मूलयन् स्वाग्रजे बलदेवे च स्वानुजे गदे च तदितरेषु वृष्ण्यन्वकवीरेषु च निहितसमितिभरस्स्वपुरीमाजगाम ॥ ततोऽद्भुततरो रणो विविधशस्त्रवर्षी महा- नभूहलजरासुतप्रमुखयोर्नृपानीकयोः । सतूर्यरवमुद्रजस्तिमिरमम्बरे यादवैः जितं जितमिति क्षणादिविषदां वचोऽप्युत्थितम् ॥३१॥ रुग्मी च रोषपरवशस्तदा भीष्मकस्य पुरतः 'प्रतिज्ञामिमामकरोत् ।। अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्रवीमि ते ॥ ३२ ॥ इति विरचिताशक्यप्रतिज्ञो वाग्मी रुग्मी सपदि निजवरूथिनीमादाय य स्थेन निर्गतस्तदितरैर्भीष्मकसुतैः क्रयकैशिकमुख्यैरप्यनुगतस्सुदूरमुपगम्य पंचमो विलासः ३ रेवान्तिके रोहिणीरमणमिव रुक्मिणीहरणमासाद्य स्वयमेकाकी तेन सह द्वैर- युद्ध प्रवर्तयन् तच्छरशकलिताध-सूत-ध्वजायुधतया जडीकृते खस्मिन् , घ- नसमूहेप्विव समापतत्सु ससैन्यस्वानुयायिव्यूहेष्वपि तदाशुगपरस्परया तूला- यमानेषु, पुनरपि निजशस्त्रास्त्रनैपुण्यं सन्दर्शयन् तदीयशरनिकृत्तशरासनस्स्व- स्यन्दनात्तत्स्यन्दनोपरि सचर्मासिरवप्लुतोऽन्तरी तन्नाराचनिवहसमर्पितहेति- चेतनः तद्रथचरणे शरणमुपगत इव भूमौ निपतन्निनभगिनीप्रार्थनथैध तैनावि- योजितप्राणः प्रयाते तस्मिन् कथमपि लब्धसंज्ञो हीनप्रतिज्ञतया कुण्डिन- नगरविमशन् विदर्भेषु भोजकटमित्यन्यत्पुरं निवेश्य तत्रस्य एव दक्षिणामा- शामन्वशात् ॥ २७॥ अथ. बलदेवेन सह वृष्णिवीरेष्वपि जरासन्ध निर्जित्य द्वारकामुपगतेषु, तत्रासीत्सुमुहूर्त एव सुमहान्नित्यावियुक्तात्मनोः ब्रह्माद्यैरमरैमहर्षिनिकरैस्सेव्यो विवाहोत्सवः । सौन्दर्यामृतसेवने पथि मिथः संसक्तनेत्रान्तयोः भैप्मी केशवयोद्विषां च सुहृदां खेदाय मोदाय, च ॥२३॥ रेमे तयाऽऽत्मरमणोऽपि सुतान् दशैकां लेभे सुतामपि गृही स हरिमहिण्याम् । कृत्वैवमेव महिषीरपि सप्त. चान्या बह्वीर्वशी भवमहाम्बुनिधौ विजहे ॥ ३४ ॥ इति श्री हरिवंशचम्पौ पञ्चमो विलासः -*समासः *-

अथ षष्टो विलासः ।।
-:0:
तदा सत्राजिदादित्यमुपास्य. तपसोज्ज्वलं ।
मणिं श्यमन्तकं नाम लेभे रविमिवापरम् ॥ १॥
.
अथ सदसि तमन्यवेक्ष्य जात-
स्पृह इव स बभूव पूर्णकामः ।
नृहरिरमुमदान्नृपो न तस्मै
परमिह निदधे च निजेऽनुजे प्रसेने ॥ २ ॥
अथ कदाचित्सोऽयं प्रसेनस्समणिविजने, वने मृगयां वितन्वन् केन
चित्पञ्चास्येन पञ्चतामनायि ।। १ ।।
अथ सत्राजिता निजानुजवधः शमन्तकमणिहेतोः शौरिणा कृत इति
समुत्पादित मिथ्यापवादं परिनिहीर्घः परमपुरषोऽयं कतिपययादवैस्सह निज-
पुरान्निर्गत्य वचन कान्तारमुवि सिं निहतं प्रसेन तददूरत एवं ऋक्षनिषू-
दित सिंहं च निरीक्ष्य तदृक्षपदपदव्या व्रजन्नेव तदर्मकमुपलालयन्त्याः धान्याः
मण्यागमक्रमावेदिकया गीतिकया निश्चितां तद्गुहां स्वयमेकल एवं प्रविशन्
ददर्शाग्रतो बन्दीकृतान्धकारनिकरुम्वमित्र. तनूरुहबृन्दमुद्दहन्तं भानुमन्तमिव
खतेजसा ज्वलन्तं जाम्बवन्तम् ॥ २ ॥
युध्वा तेन हरिश्चिर स्थिरतरं शौर्य तदीयं विदन्
स्वीयं चास्य निदर्शयन्वसदृशं वीर्य निजां स्मारयन् ।
रामाख्यां च तनूमजय्यमथ चात्मानं परं वेदयन्
भक्त्या तेन समर्पिते मणिपुते सङ्गृह्य गेहं ययौ ॥ ३ ॥

षष्ठो विलासः ततः प्रागेव समज गुहाया बहिनि दिनानि प्रतीक्ष्य निरशतया प्रतिनिवृत्य पुरमुपागतान् यादवानवलोक्य शोकसमाकुलस्य स्वकुलस्य पूर्णे- न्दुवत्स्वस्य पौप्येव जाम्बवत्या सहोदयेन शुष्कीभवन्तमानन्दजलधिमुद्रेलयन्तं सदसि मणिमुज्ज्वलं तं पुरोधाय, चलितमुदन्तं. निगढन्तं भगवन्तमवलोक्य लज्जया सङ्कुचन् सत्राजिंदात्मापराधं. क्षमापयन्निजदुहितरं मणिना सह तस्मै प्रदाय निर्मलमना बभूव ॥ ३॥ हरिरपिं तं मणि प्रत्ययं सत्राजिते तत्सुता सत्यभामामेव समग्रहीत् ।। 'ततश्चासाबात्मने निश्चितां सत्यामच्युतायादादिति रुषा. शतधन्वा नाम: यादवस्सत्राजितं निहत्य मणिमरे निवेशितवान् ॥ ५ ॥ अथ सत्यामुखेन विदिततद्वधे, भगवति निजभयाद्धावमानं. शतधन्वा- न स्वामजेन सह सुदूरं विद्राव्य ततास्वयमेकाकितयैव तं. निहत्य तस्मिन्मणि-- मनवेक्ष्य नास्तीति वदति सति, स तस्मिन्विशक्षितो बलभद्रो निजमनुज पुरं चापहाय हायनानि कतिचत मैथिलेनाभ्यर्चितो.मिथिलायामेब सुखमवात्सीत् ॥ ततो मणिभयादक्रूरोऽपि पुरादपक्रान्तः पुनरपि विषयविषक्तावग्रहनि-- ग्रहाय कुकुरान्धकैरानीतस्सुनीतिमत्या मत्याऽऽत्मनः कन्या स्वसारं च वासु- देवाय, समय शान्तचित्तोऽभूत् ॥७॥ अथ योगेन नृहरिः मणिमऋरगं विदन् । आनाय्यानुनयेनैव पुनस्तस्मै समार्पयत् ॥ ४ ॥ तदनु तन्मणिप्रकाशेनेव शमितमनस्तमोमले बले यथापूरं स्वपुरमु- पेयुषि, ...

kar
श्री हरिवंशचम्प्वां
.
रुक्मिण्यामभवत्पुत्रः प्रद्युम्न इति यो हरेः ।
स तदा प्राप वैदर्भी रुग्भिपुत्रीं स्वयंवरे ॥९॥
रेमे सह तया धीमान् दमयन्त्या नलो यथा ।
अनिरुद्धमिति ख्यातं लेभे. तस्यां सुतं च सः ॥ ६ ॥
ततो हरिस्स्वपौत्रार्थे वरयामास भीष्मकम् ।
रूपिणीं रुग्मिणः पौत्री विवाहोऽपि तयोरभूत् ॥ ७ ॥
ततः श्वशुरवचसा स्वसतीप्रार्थनया च जितोऽस्मीति वादिना वासुदेवेन
भावुकेन तद्देव्या भगिन्या च सह ससैन्यो. वादिवघोषेण पितृपुरं प्रविश्य
पूर्णप्रतिज्ञो रुग्मी. दक्षिणापथवासिभिर्वेणुदारिप्रभृतिभिः राजभिरक्षक्रीडार्थ
सुसम्बोधितः तैस्सह सभा निर्माय हरिणा सह सुखेन स्वपन्तं बलें तें बला-
दानाय्य तेन सह समारब्धालद्यूतः क्वाप्यपराजिते तस्मिन् बले स्वाक्षपरा-
जिते वयस्यैः कृतकोलाहलो हृतसर्वस्वं जिमशरीरवाण्याऽपि विबुध्य स्वाव-
शेषितबालरोषमात्रेणैव विजृम्भमाणस्य तस्य पदघट्टनया पृथिव्यां मशकशिशु-
कुदशामाससाद ॥९॥
विनाशकाले विपरीतबुद्धि-
भवेदिति मातलगः प्रवादः ।
न वै मृषा यत्स सदा हरेटि
हितेऽद्य सक्तो हलिना, हतोऽभूत् ॥ ८ ॥
अथ सुतोत्थितो नृहरिरग्रज बल किमपि नब्रुवन् विधेविक्रमं दुरति-
ऋमं विदन् भैष्मी भीष्मकमपि बहुशो विलपन्तौ सान्त्वयन् सधननिचय-
स्सानुगस्स्वपुरीनाजगाम ॥१०॥

षष्टो विलासः
तत्पूर्वमेव कदाचिदुर्योधनसुतां हरमाणो जाम्बवतीसुतस्साम्बो राज-
भिनिगृहीत इति रुषाऽऽगत्य नागसाहयनगरवप्रोपरि निजहलं प्रसार्य तन्नगरं
गङ्गाम्भसि प्रक्षेप्तुमारभमाणे प्रलम्बपरिपन्थिनि प्रविह्वलमतिः धार्तराष्ट्रस्स-
भार्य शौरिसुतं समुत्सृज्य गदाशिक्षार्थमात्मानं तच्छिप्यतामुपनिनाय ॥११॥
ततः-
अहरदहह भौमः कुण्डले मे जनन्याः
जहि तमिति महेन्द्रेणार्थितोऽमुं मुकुन्दः ।
स्वमुतमपि निहन्तुं तत्पुरं द्राक् प्रतस्थे
स गरुडमधिरूढः सत्यया सार्धमीशः ॥९॥
अथ स गदाग्रजो निजमुनाप्रलसद्दासिदरचक्रशोभया निस्तुलनग
म्बराभरणशोभया च तारासरणिमवभासयन् गरुडगरुदुद्भूतेन वातेन वियच्चर-
विमानावलीरम्बुदपालीखि सुदूरमपसारयन् दक्षिणां दिशमनुसरन् निजा-
ध्वनिरोधिनीं- रक्षोवरूथिनीं विध्वंसयन् विद्विषतामनुत्पादितभौमजयाशान्
मौरवपाशान् विच्छिद्य मुरमपि सपुरस्सर संहरन् शिलासङ्घानतीत्य निसुन्दं
निषूद्य देवैस्सह सहसपरिवत्सरानारचितमहासमरं हयग्रीवाभिधासुरवरं विबु-
धजनमनोगदौ विरूपाक्षपञ्चनदौ च पञ्चतां प्रापथ्य प्राग्ज्योतिषं पुरमुपगतः
तज्जनान् पाञ्चजन्यनिनदैः बधिरीचकार ॥ १२ ॥
अंथ हविरिव भौमस्तायवेदीसमिद्धे
समरयजनभूमौ विष्णुवैतानवहौ।
अनुचरसुसमिद्भिश्चक्रधारोस्कीले
सुरवरनुतिमन्त्रैर्द्राग्जुहावात्मदेहम् ॥ १० ॥

श्री हरिवंशचम्प्या अथ भगवानपि भूम्या प्रत्यर्पिने अदितिमणिकुण्डले समादाय स्वनि- हतस्य महीसुतस्य तस्यान्तःपुरं प्रविश्य तत्र तत्सम्भृतं किचित्रमणिभूषणा- धनेकवस्तुसमृदयं धननिचयं गजाश्वयूथं च निजपुरं नेत, तदारक्षकगणाना- ज्ञापयन् कमपि मणिशैलमारुह्य तत्र मरुद्भिरा देवर्षिवचसा च निजागमनं विज्ञाय नियमतस्तपस्यन्तीरात्मानमागतं विलोक्य पत्नीत्वेनात्माग्रहणमर्थय- न्तीरसुरवरभुजबलोपनीताः गन्धर्वासुरकन्यकाः नैका अंपि तद्रक्षकासुरवर- किङ्करवाहितामिः शिबिकाभिर्द्वारका प्रति प्रस्थापयन्मणिमयं तगिरिशिखर च वारुण छत्रं च खगपंतिपृष्ठमारोप्य सभार्यस्वयमपि तमास्थाय प्रस्थितो गगनपथेन सुमेरुगतदेवतायतनश्रेणीमालोकयन्नेव त्रिदशपुरमासाद्य पुरन्दरस- दुनबाह्याङ्गण एव सत्यया सह निजरथावततार ॥ १३ ॥ 6 तौ दम्पती सुरपतिः परिगृह्य चके पूजां पुलोमसुतया सह भक्तियुक्तः । गत्वाऽदितेर्गृहममी घरकुण्डले ते दुत्वा प्रणम्य तत आपतुराशिषोऽत्र्याः ॥ ११॥ तदनु तदनुज्ञामादाय महिण्या सह यथापुर खगपतिस्कन्धमास्थाय निजपुरं प्रति प्रस्थितो निखिलसुरर्षिभिस्स्वर्चितः सरयमच्युतस्स पथि नन्दने वनमखिलमात्मना विद्योतयन्तं स्वसविधं प्रसर्पतां तनूभृतां पूर्वगन्धमपूर्वगन्धं च मनोघ्राणयोरुत्पादयन्तं सदोदितप्रसूनजातं पारिजातं तरुमवलोक्य तं महा- गज इव महाभुजः समुत्पाट्य निजस्थं निश्शङ्कमारोपयन्नलक्षिततदारक्षकसुर- निकरसमितिसमुद्यमो निखिलचराचरप्रपञ्चप्रेक्ष्यमाणाद्भुतवैभवो यथावैभवं या- दुवगणैरभ्युद्गतः विविधसम्पदा विबुधमनःपूरका द्वारकामाससाद ॥१४॥ पुनरपि पुरन्दरप्रार्थनया स्वस्तरस्स्वस्थानमुफ्गतोऽभूत् ॥१५॥ ततः पछो विलासः ६९ अथ हरिरुपयेमें षोडश स्त्रीसहस्रा- प्यपि भुवि विधिपूर्व तासु रेमे यथेष्ठम् । प्रतियुवतिनिशान्तं सर्वदाऽप्येकरूपः प्रतिकुमुवनान्तं पूर्णरूपश्शशीव ॥ १२ ॥ अथैकदा भीष्मकसुताया उपवासनियमान्ते रैवतकवनान्ते स्वदारसु- तपौरमण्डलीमिस्सह विविधान्नपानपात्राभरणवासतां प्रदानेन सुविहितसर्व- सर्वसहासुरमण्डलीसन्तर्पणे भगवति वासुदेवे, ॥ १६ ॥ अस्तौषीत्सुरमुनिरेत्य रुक्मिणी तां पार्श्वस्थां श्रियमवलोक्य लोकभर्तुः । दत्वैकं प्रियमुरु पारिजातपुष्पं तत्तस्याः शिरसि बभौ यथेन्दुखण्डम् ॥ १३ ॥ सत्कारस्सदसि तथाविधस्सपल्याः • सत्यायाश्श्रवणमगात्फणीव भूम्याः । फूत्कारस्सपदि ततस्सखीसमाजे यस्तस्यास्स च नृहरेर्यथा महादेः ॥१४॥ 3 ततस्तत्क्षणमेव स सर्वतश्चक्षुः वीक्षामात्रतस्सन्नद्धं स्वरथमास्थाय रैव- तकान्निर्गतः द्वारकायां सत्यागृहद्वारमुपगतस्स्यन्दनादवरुह्य शनैश्शनैश्शङ्कि- तहृदय एव तत्सखीजनैरन्तःप्रवेशितोसंवृत एव महीतले वियच्च्युतविद्युल्लता- मिव तनूलतामुद्वहन्तीं दक्षेतरकरकमलनिक्षिप्तकपोलमूलतोऽक्षिमुकुलयुगले- नाश्रुत्रवन्तीमविरलमुत्सृजन्तीं सदसि संवृत्तं तं सपत्नीसन्मानमेव मनसि मुहुर्मुहुः विचित्य पुनःपुनः निश्वसन्ती निरस्तकर्णाभरणतया निजापरक-

श्री हरिवंशचस्प्वा
पोलस्थली निस्तारशारदनिशानभस्स्थलीमिव सन्दर्शयन्तीं पतिचरितं प्रत्या-
स्मनो मोहमनुस्मृत्यासकृत्स्मयमानां सात्राजितीमालोक्य कथमिति चिन्तयाऽ-
वस्थितस्सखायमिव तेन सहागतं पारिजातगन्धमाघ्राय विस्मयाविष्टहृदयतया
दिशिदिशि दत्तनेत्रान्तया तया सरोपास्यादुःखातिरेकमालोकितः निर्दयम-
तिनिष्ठुरया गिरा निर्भसितस्खापराधं कमपि स्वयमजानान इव स्वात्मन-
स्तदेकायत्ततामेवानुवर्ण्य कथमपि तयैव प्रकाशितापराधः स च देवर्षिणोत्सा-
दित इति निजनिष्कलङ्कतामापाद्य साम्रैव बहुशः प्रार्थयन्नप्यलब्धप्रसादस्तां
पुनराश्वासयन् तत्सखीसमक्षं सस्मितमिदमभाषत ॥१७॥
प्रादात्प्रिये कलहकल्पतरुस्स भैष्म्यै
यस्यैकमद्भुततमं कुसुमं सुरषिः ।
'न पारिजाततरुमेव तवाहरामि
सत्यं ब्रवीमि सुभगे! मयि सम्प्रसीद ॥ १५ ॥
इति सशपथमुक्तया रोषादिदोषपरिमुक्तया भक्तया तया सपदि पर-
मादरेण सम्पूजितस्संक्रन्दनानुजः तत्रैव निजगृह्यकर्मणि सन्निविष्टोऽभूत् ॥
अथ नारदोऽपि भीष्मकसुतामामन्व्य तया सहैव द्वारवतीं प्रविश्य
सात्राजितीसदनमुपगतस्तया सह केशवेन यथाविधि परिपूज्य परमासने स-
निवेशितस्तदनुयोगेन तत्पारिजाततरोः प्रभवं प्राभव चेत्थमकथयत् ।।१९ ॥
असृजददितिहेतोः कस्यप: पारिजातं
तमदितिरपि शच्याः पुण्यहेतोः सुतेऽदात् ।
अथ हरवरतोऽभूत्तस्य शच्यथर्थमेव
स्थितिरुपवनदेशे सर्वदा वासवस्य ॥ १६ ॥

पष्ठो विलासः
विविधकुसुमगन्धान् गीतवादिननादान्
धनकनकमणीनां भूपणानां च गशीन् ।
दिशति निखिलकामान् कामरूपी स वृक्षः
सुरनरवरभोग्यानन्नपानादिकांश्च ॥ १७ ॥
अथ. हरिरिदमूचे पारिजातं द्रुमं तं
सुरपतिमभियाचे सोऽनुजे, चेत्कृपालुः ।
वितरति बत नो चेदाशु कौमोदकी मे
विहरति युधि नीचेत्यस्य वक्षस्यनीचे ॥ १८॥
एतदाकर्ण्य तद्राि पुनः सुरमुनिस्त्रिविष्टपं प्रविष्टः शिपिविष्टमहो-
सवै सदसि. समुपविष्टस्य हरिहयस्याग्रतो हरिगिरमुद्विरन् रहसि मुहुर्मुहुनय-
मुपदिशन्नप्यसम्बुद्धनिहिते तस्मिन् पुनरपि कुशस्थली, प्राप्य, नूहरेः पुरः
पुरन्दरगिरमेवं. व्याजहार ॥ २० ॥
मम सकलसद्धिस्सोऽनुजश्वेत्तदीया
भवतु हरतु नैतं. पारिजातं त्वयुध्वा ।
बत बत कथमेकं वत्सर वा सहेऽहं
दिवि भुवि गुणसाम्यं कारितं स्त्रीजितेन ॥ १९॥
-
एतदाकर्ण्य कृतसमितिनिश्चये श्रीपतौ कलहविशारदो नारदः कृत-
कृत्य इव ततोऽन्यतोऽभूत् ॥ २१ ॥
तमुदन्तं समाकर्ण्य सुरेन्द्रगुरुणोदितम् ।
कस्यपोऽस्तुवदीशान भाव्यं च बुबुधे ततः ॥ २० ॥

श्री हरिवंशचम्वा
अथ मधुसूदनो मृगयामिण रैवतकगिरिमुपगतस्तत्र ससारथिं निजरथं
निक्षिप्य पक्षीन्द्रमधिला. सात्यकिरोक्मिणेयाभ्यां सह विवध्वना विबुधो-
पवनमाश्रितः तत्रत्यं पराजितनिजाश्रितारिजातं पारिजानं तरुमुत्पाट्य पतग-
पतिमलङ्कुर्वाणस्तदारक्षकसुरनिकरहाहारवाडूतनिखिलगीर्वाणगणैस्सविस्मया-
तिशयमीक्ष्यमाणस्तत्ताहरणाय मुहुर्मुहुरापतन्तौ प्रवरजयन्तौ पक्षिप्रवरपक्ष-
यसहायाम्यां सात्यकिप्रद्युम्नाम्यां पराजित्य स्वयमैरावतगजस्कन्धवर्तिना
सहस्राक्षेण सह सुरुचिरं सुचिरं शस्त्रास्त्रपरम्परामिविरचितायोधनः वैनतेयप-
दाहारविह्वलिताङ्गेन मातङ्गेन सह पारियात्रमहीधरशिरसि निष्पतन्तं सुरर्ष-
मंत जन्झानिल इव जलधरमनुससार ॥२२॥
.
नत्रापि युद्धमभवन्महदद्भुतं चः
विक्रान्तयोर्तृहरिवासवयोगान्ते ।
श्रान्तोऽभवत्सुरपतिस्स' यदा दिनान्ते
शान्तं ततो दिविषदः परिवनुरेनम् ॥ २१॥
अथ तत्यामेव निशायां पुष्करपरिमरे कृष्णेन स्वर्धनीरोधसि बिल्वों-
दकैनावाहितो बिल्बोदकेश्वरः सपदि परमादरेण पारिजातकुसुमैरात्मानं स-
म्पूज्य संस्तुघन्तं. हरिं तं जयतरेणाभिनन्छ, क्वचिदन्तर्धरणीदेशसंछन्नानव-
ध्यान् षट्पुरनगरवासिनो दानवान् हन्तव्यानावेद्यान्तर्हितोऽभूत् ॥२३॥
अप गिरेरपि हरिस्सर्वदा स्वनिवासमावेदितवान् ॥२४॥
ततः प्रभाते पुनरपि बयोरिन्द्रोपेन्द्रयोः महायुद्धे प्रवृद्धे ब्रह्मणोऽनु-
ज्ञया देवमात्राऽदित्या सह कखपः कदनभुवमाजगाम ॥ २५ ॥

(१०) षष्ठो विलासः दृष्ट्वा तौ पितरौ विसृज्य सहसा शस्त्राणि धात्रीं गतौ प्रेक्ष्योवाच सुतौ तदाऽदितिरिद प्रेम्णा परिष्वज्य तौ । सौभ्रात्रं युवयोस्सदाऽस्तु नहरे सत्यामुदे वत्सरं भूमौ तिष्ठतु पारिजातसुतरुः पश्चादिवं गच्छतु ॥ २२ ॥. अथ हरिरपि तद्विरं तथैवेत्यनुमोदमानः शच्या सह सुरेन्द्रेण, मातृ- गिरा समर्पितैः दिव्याभरणजातैस्सह पारिजातं सात्यकि- प्रद्युम्नौ च पतगे- न्द्रस्कन्धे पुरस्कृत्य परिपूर्णमनोरथः स्वरथेन निजनगरमासाद्य तत्सर्व सत्या-- सदनमनीनयत् ॥ २५॥ देवस्त्रीणां हिमक्ष्माधरवरतनया द्विधानं पुरों, भैष्म्यादीनां पुरस्तादमरमुनिरपि प्राह पृष्टो, यदाभिः । यत्कर्तव्यं सतीभिः परमनियमतः सुव्रतं पुण्यकाख्यं तत्कर्तुं सत्यभामा व्यवसितहृदया हर्षयुक्ता बभूव ॥ २३ ॥ सा वीक्ष्य विस्मितव्रती वरपारिजातं सस्मार. तं सुरमुनि समुपागतेऽस्मिन् । * सम्पूज्य ते. तरुममुं च सुरर्षिमस्मै प्रादारिं सुरतरौः सुमदामबद्धम् ॥ २४ ॥ अथ. नारदोऽपि त प्रतिगृह्य निजानुगं विधाय तस्मिन्निननियोग, कञ्चिददर्शयत् ॥ २७ ॥ कृष्णोऽवदत्तदनु देवमुनिं वशेऽस्मि किं ते प्रियं स्मर करोमितरामितीशः।।

Gg
श्री हरिवंशचम्प्वां
प्रीति स्वलोकविनिवासमयोनिजत्वं
विप्रत्वमप्यदिशदीप्सितमेव तस्मै ॥ २५ ॥
सत्या यथेष्टमखिलान्यपि सा सपत्नी-
सङ्केभ्य एव विविधाभरणानि दत्वा ।
कामैस्सुपूर्णहृदया सुतरां विजहे
पाञ्चालराजसुतया च सुभद्रया च ॥ २६ ।।
हरिरपि ससुहृद्धिातिसंवन्धिवगैः
पुरजनपरिखारैस्संयुतो द्वारकायाम् ।
नवरदुरवापैः कामभोगैर्विचित्रैः
निमिषमिव स रेमे यापयन्नन्दमेकम् ॥ २७॥
अथ गरुडेन तं तर त्रिदशवनभुपनयन् पुण्डरीकनयनः सहस्रनयन-
मिदमवादीत् ॥ २८॥
शर्वादिष्ट तदिह सहसा कर्तुकामोऽस्मि वनि-
नन्तभूमौ रहसि वसतो दानवान् यामि हन्तुम् ।
देवावच्या द्रुहिणवस्तो मायिनस्ते. च दैत्या:
मायावेदी प्रवर इह यस्सोऽस्तु साके मयाऽद्य ॥२८॥
तथेति बलशत्रुणा सपदि दत्तमेने नयन्
किरीटमपि कुण्डले शिरसि कर्णयोस्संवहन् ।
सहस्रमिहिरोदयश्रियमथाम्बरे दर्शय-
नवाप नगरी निजां निजरथेन नारायणः ॥ २९ ॥

षष्ठो विलासः
आवष्यास्तटभुवि तदा देवदत्तस्य गत्वा
यज्ञारम्भे द्रुतमनुचरैः पटपुरस्थो निकुम्भः ।
सोमं कन्याः प्रदिश मणिभिनस्त्वमस्यान्थथात्वे
यज्ञो मा भूदिति तमरुणत्कन्यकाश्चाजहार ॥ ३० ॥
तमुदन्त हरिज्ञात्वा वसुदेवेन च स्मृतः ।
प्रद्युम्नं प्रेषयामास तत्र पश्चात्स्वयं ययौ ॥ ३१ ॥
प्रद्युम्नोऽपि स ता: कन्यामायाकन्यामिरुद्धतम् ।
निकुम्भ वञ्चयन्वेगापित्रन्तिकमनीयत ॥ ३२ ॥
अथ विधिसुतवाग्भिः प्रेरितोऽसौ निकुम्भः
शरणमुपगतोऽभूत् क्षत्रबृन्दं समेतम् ।
यदुगणरणभीतस्तत्र यज्ञोपहूतं
दुदुरभयममुष्मै पार्थिवाः पाण्डवान्ये ॥ ३३ ॥
अथ हरिरतिवेगात्सेनया भीमयाऽगा-
दवितुमरिनिरोधादेवदत्तस्य यज्ञम् ।
ऋतुभुवमभितोऽधात्पाण्डवान् भूरिसैन्यात्
दिवि सुतमपि मायावेदिन-रौक्मिणेयम् ॥ ३४ ॥
निहितनिखिलसैन्यः षट्पुरद्वारदेशे
प्रवरमपि जयन्तं व्योमरन्ध्रे निवेश्य ।
स्वयमपि धृतशाङ्गः शौरिराशीविषारेः '
मुजशिरसि विरेजे सीरभृत्सात्यकिभ्याम् ॥ ३५ ॥

श्री हरिवंशचम्प्वों
ततस्तत्क्षण एव तत्सैनिकाभिहतभेरीमृदङ्गादिरवमसहमानेष्विव नि-
कुम्भप्रमुखदानवयोधेषु विविधायुधान्यादाय विचित्रतरवाहनैगुहामुखारहि-
निर्गतेषु, ॥ २९॥
पादाघातचलन्महीपृथुमरश्रान्ताष्टंदिग्वारणो
ज्याघोषैश्च जयाट्टहासनिनदैर्ब्रह्माण्डमापूरयन् ।
नानासस्त्रशरप्रहर्षतिमिस्न्यापारमृग्यारुणो
भूमौ यादवदानवप्रकरयोरासीद्रणो दारुणः ॥ ३६ ॥
अथ युधि यादवानीकं निर्जित्य तत्र कांश्चन गुहान्तरे विनिर्बध्य
वियति विजृम्भमाणानां दानवानां रणरङ्गसकतेषु केषु चिच्छाङ्गिशिखिशरा-
चिषि शलभायितेषु दिवि फ्लायनपरेष्वपरेषु प्रवरशरप्रकरनिकृत्तकन्धरेषु
दिशिदिशि धावमानेष्ववशेषितेष्वपि जयन्तशरपरम्परासंचूर्णितेषु, ॥ ३० ॥
समरभुवि निकुम्भः कुम्भवत्पूर्णवेगान्
हरिशिरसिं शरौघान् पातयन् जृम्भमाणः ।
तदतिनिशितबाणैर्भिन्नगात्रोऽन्तरिक्ष
न्यविशत स जयन्तस्तेन युद्धं प्रचक्रे ॥ ३७॥
अथ निकुम्भः कुम्भ इव जयन्तेन भुवि निपात्य निगृहीतोऽपि तस्मा-
स्कथंकथमवमोचितः मुकुन्देन सह समरमाकाङ्क्षमाणः प्रद्युम्नेन मायागुहायां
पशुपतिपाशनियन्त्रिततया प्रतिश्रुतमुपेक्ष्य पेटिकायामहिबृन्दमिव निजपटवा-
टिकायां निष्पन्दं क्षत्रबृन्दं निर्भर्त्य निष्ठुरतरप्रहारविह्वलीकृतबल-कृष्ण
पाण्डको वितथीकृतपार्थप्रयत्नः स्वगुहामाविवेश ॥ ३१ ॥

प्रष्ठो विलासः ७७ अथ कृष्णोऽपि निजैस्सह तद्गुहामनुक्शिन् तत्र पुरोपरुद्धान् यादवान् पुत्रोपरुद्धानन्यान् राजन्यांश्च प्रविमोचयन् निकुम्भेन तेन सह विरचितविचि- बायोधनः तच्छिरश्शरैरभेद्य गगनंगिरा निजारिधारयोत्कृत्य शतक्रतुश्शत- धारधारया गिरेः शृङ्गमिब भुवि न्यपातयत् ॥ ३२ ॥ तत:- दिवि सुरवरसङ्घर्दिन्यवादिननादैः हरिशिरसि विसृष्टा पुष्पवृष्टिः प्रकृष्टा । भुवि च सुजनसङ्खस्तद्वदत्यन्तमोदैः निजवपुषि विसृष्टा बाष्पवृष्टिः प्रकृष्टा ॥ ३४॥ - कन्यारत्नैश्च रत्नैः प्रतिसदनगतैः षट्पुरे दानवानां सर्वान् राजन्यसङ्घानपि निजसुहृदः पूर्णकामान् विधाय । स्थानेऽस्मिन् स्थापयित्वा ह्यथ सुकृतमखं देवदत्तं पुरीं स्वां प्रायाद्विल्वोदकेशं स्तुतिनतिनटनैस्तोषयन्नाप्तकामः ॥ ३९ ॥ देवावध्यं दितिय मुवि बत सुषुवे कश्यपं तोषयित्वा योऽसौ लोकांश्च सर्वान् सुरमुनिवचसा मन्दरं चोन्ममर्द । तस्मिन् घ्वस्तेऽन्धके प्राक्रिपुरविनायन: शूलपातेन यद्व- तद्धदू ध्वस्ते निकुम्भे सपदि जगदभूद्विज्वरं चातिहृष्टम् ॥४०॥ इति श्री हरिवंशचम्पौ षष्ठो विलासः -* समाप्तः*-

अथ सप्तमो विलासः॥
-::-
हरिरवर्ती प्राप्य मुमोद यदुभिर्वृतः ।
सुरेन्द्रस्स्वपुरौं प्राप्य सुरैरिव गतज्वरैः ॥ १॥
पुर्या निवेश्य वसुदेवमथाहुकं च
यात्रा कदाचिदुदधिं प्रति संप्रवृत्ता।
सान्तःपुरस्य नूहरेर्यदुभिर्वृतस्य
सर्वेश्च पौरमिथुनैर्गणिकागणैश्च ॥ २॥
क्रीडा बभूव लवणाम्बुधितोयमध्ये
द्राग्द्वन्द्वशो विहरतां यदुपुङ्गवानाम् ।
दिव्याम्बरामरणरूपवयोविसासैः
रम्या गुणैर्वियति विस्मयदा सुराणाम् ॥ ३॥
गलगतवनमालः पानलोलाक्षितारः
सुरुचिरमदखेलः स्कन्धविस्रस्तचेलः ।
विधुरिव बलदेवस्तत्र विक्रीडमानो
जलधिपयसि सोऽभाद्रेवतीरम्यरूपः ॥ ४ ॥
हरिरिह तु विरेजे हासनानाविलासैः
प्रतियुवतिकदम्ब स्त्रीसहस्त्रैः परीतः ।
विमलपयसि सिन्धोर्व्यक्ततारासहस्र-
एंडुपतिखि राकाशर्वरीष्वभ्रमध्ये ॥ ५॥

सप्तमो विलासः
पुनरपि स विरेजे फुल्लनीलाम्बुजाभैः
हसितलसितकान्तारत्नसंयोगरम्यैः ।
प्रतियुवति, विभिन्नैरात्मरूपैरनन्तैः
प्रतिफलितसतारव्योमखण्डैरिवाब्धौ ॥६॥
यदि बहु गलदघ्नं जानुदन्नं मिते चेत्
सुरमिलमतिशुद्ध रत्नयादोऽनुविद्धम् ।
अभवदलघुदीचीवज्रपर्यङ्कमम्भः
प्रविशति महिषीभिर्माधवे सर्वतोऽब्धिम् ॥ ७ ॥
जलधिपसि सर्वे रत्नशैलं वनाढ्यं
मणिभवनविमानव्यूहमन्नादिकं च ।
अथ च सकलभोगान् प्राप्य हृष्टा यथेष्टं
प्रियरतिपरितृप्ता गानसक्ता बभूवुः ॥ ८॥
इति सुरनरचेतस्तत्र सन्दिम्धमासीत्
स्थल-जल-वन-लीलाशैल-सद्मादिरूपैः ।
जलनिधिरुपतस्थे किं नु लक्ष्मीपतिं तं
मुरुरिपुरथवा तैः स्वाश्रितं स्त्रीकदम्बम् ॥९॥
रुचिरखचरयादोरूपदारुप्लवैस्ता
विविधगतिविदग्धाश्चेरुरब्जायताक्ष्यः ।
करघृतजलयन्त्रैस्नापयन्त्यो मिथोऽधौ
मुहुरपि धुरि शौ रेः सूक्ष्मवृस्रावृताशयः ॥ १०॥

श्री हरिवंशचम्प्वां
सुरमुनिरपि चित्रं तत्र शौरेः पुरस्तात्
करधृतजलयन्त्रैस्सत्यया. सिक्तगात्रः ।
पिक. इव सुविपञ्चया पञ्चमं गायमानः
शुक इव शुभवाचं, व्याहरन् वैः चचार ॥११॥
P
जलधिरथ विमानैः खे सुराणां सहस्त्रैः
पयसि पृथुपताकाशोभितैनौंसहस्त्रैः ।
यदुयुवतिमहरप्सस्स्त्रीसहस्रैः
वृत इव स तदाऽभाञ्चन्द्रतारासहस्त्रैः ॥ १२ ॥
..
रासो लास्यं द्वयमतितरां तालमानानुसारि
व्यूहे व्यूहे समजनि हरेः कीर्तिचर्वानुकारि ।
भूयोभूयः प्रतिसुरनर तद्वभूवातिरम्यं
चित्राम्भोधौ मृडमुखजगन्मन्नमासीत्तदानीम् ॥ १३ ॥
पार्थोऽपि तत्र पुरुषोत्तमपार्थ एव
स्थित्वा तदा सुविधरन् ससुभद्र एव ।
स्वर्गापवर्गसुखमल्पममंस्त धीमान्
स्वानन्दमद्भुततमं परमं प्रपन्नः ॥ १४ ॥
नन्दोऽपि तत्र सह गोरगणैरकस्मा-
द्गाश्चारयन्नुपगतोऽम्बुनिधेस्तटान्तम् ।
सम्मानितोऽथ हरिणा सहसा निजैस्तैः
क्रीडन् जले मुदमवाप परैर्दुरापाम् ॥ १५ ॥

सप्तमो विलास
एवं विहृत्य सलिले स हरिस्सुरौधै-
स्तूर्यस्वनेन जलदैरिव पुप्पवर्षेः ।।
वृष्टः प्रहृष्टमनसा तटमाप सिन्धोः
पूर्वाद्रिमिन्दुरिव तत्किरणा इवात्ये ॥ १६.03.
पौरोगवस्य वचनादथ सूदसङ्घः
कृप्तं समस्तमुपभुज्य सभक्ष्यमन्नम् ।
मांसादिकं च मिलिता यदवोऽङ्गनाभिः
पीत्वा च पेयमतुलं हृषिता बभूवुः ॥.१७.10.
गान्धर्वमत्र महदद्भुतमाविरासी-
द्रङ्गेषु दिव्यमखिलागमसारवर्षि ।
तत्रैव मग्नहृदया यदवो निशाया,
मात्मानमप्यहह नो. विदुरन्यदास्ताम् ॥ १८ ॥
एतदन्तस्मासाद्य निकुम्भों नाम दानवः ।
पुरे भानुमती. कन्यां जहार निजमाययाना. १९ -
वसुदेवाहुकाम्यां च विज्ञापिततदक्रमः ।
ससुतस्सार्जुनोऽगात्त. गरुडेन त्रिविक्रमः ॥ २० ॥
सनिकुम्भोऽपि तां. कन्यां मह्याममुञ्चन्नेव निजगदा तेषु विमुञ्चन्।
तच्छरपरम्परया निर्दयमद्यमानो माययाऽन्तहितोऽपि तैरनुगत एव पुनः शकु-
नीभूय सर्वो मुवं परिभ्रमन्. गोकर्णस्योपरिचयद्गापलिनेः कन्यया सहा
पसात.॥१॥
एतदन्तस्मासाद्य प्रद्युम्नः शीघ्रविक्रमः ।
जहार भानुपुत्रीं तां सुधामिव सुरर्षभः ॥ २१ ॥

१२ श्री हरिवंशचम्प्वा असुरश्शरजालेन कृष्णाम्यामर्दितस्तदा । ज्ञातीनामालय प्राप षट्पुरं स वृथोंद्यमः ॥ २२ ॥ ततस्तां. कन्यां निजपुरं प्रापय्य प्रत्यागतेन प्रद्युमेन संह षट्पुरद्वार- मुपरुध्य गर्नति सर्वांसवात्मनें वसुदेवात्मजे ॥ २ ॥ निर्ययौ स बिलात्तस्मान्महागिरिरिवासुरः । वासव्याद्यास्तमासेदुः शरजालैरिवाम्बुदाः ॥ २३ ॥ अथ महासुरो निकुम्भः सपदि निजगदाप्रहारैविसंज्ञौ प्रद्युम्नपार्थों, कमेण रणभुवि पातयन् कौमोदकीविलसितविग्रहेण हरिणा सह दुरिणा- ग्रहेण सुचिरमारचितगदारणने निजरणचातुर्यमदमाधुर्यपरवशीकृतनिर्जरद्विरेफ- निकरकरम्वितगगनरङ्गाङ्गणो वारण इव विजृम्भमाणः तद्दाप्रहारेण विसंज्ञ इव विद्योतमाने भगवति वासुदेवे तस्मिन् सोयं सेवाममय इति वासवेन सामृतेन गगनगङ्गाम्भसा संसेविततया प्राप्तप्राण इव सरमसमुत्थाय निजवधायात्तचक्रे प्राणरिरिक्षिषया मृत इव भुवि निजां. तनुमपहाय माययान्तर्हितोऽभूत् ॥३॥ अथ हरिरपि प्राप्तसंज्ञाभ्यां पार्थरौक्मिणेयाभ्यां सह सम्भाषमाणः तदसुरशरीर शनैश्छेत्तुमारभमांणो दिवि च भुवि चायुतमयुतं निकुम्भानां पुनस्तद्गृहीतानां धनंजयादीनामात्मनां च समीक्षमाणो मायाविनस्तस्य निजस्थितिमनवेक्षमाणो विमुह्यन्निव निमिपमितस्ततो वीक्षमाणः क्षणेन पु- नस्तमरिं दिव्येनैव चक्षुषा तत्त्वतो निरीक्ष्य निजारिधारया तच्छिर आन- हार ॥४॥ एवं निहत्य स निकुम्भममुं द्वितीय संसान्त्वयन् स्वसालमर्जुनमन्जनामः ।

मतमो विलास
सार्ध मुसेन गरुडेन समूह्यमानः
म्दामाजगाम नगरी परिपूर्णकामः ॥ २४ ॥
तदनु स निकुम्भारातिः नारदगिरा तस्याः भानुमत्याः दानवग्रहण-
मोचनहेतुभूतं रैवतकोद्यानभुवि संप्रवृत्त महर्षेः, दुर्वाससः शापानुग्रहोदन्त
विज्ञाय तां कन्यां माद्रीसुताय सहदेवाय दापयामास्त ॥ ५ ॥
तत्पूर्वमेव कदाचिद्वज्रनाभो नाम दानवः कश्चन चतुराननवरादमरा-
वध्यतां किमपि मणिमयं वायोरप्यसुलभप्रवेशनिर्गमं वज्रपुरमपि संप्राप्य
दुर्मतिरतिदुवीरेण गर्वेण सुरपतिमासाद्य कश्यपसुतसाधारणी त्रिभुवन-
राज्यलक्ष्मी सम्प्रार्थ्य पित्रनुज्ञामपेक्षमाणे तस्मिन् काश्यपमुपगतः तेनापि
यज्ञसमयमोख्याय सम्प्रेपितः तद्यज्ञान्तसमयमनुपालयन्निजनगरमाससाद ॥
शतक्रतुरपि सत्वरं द्वारकामुपगम्य विखिलमपि तमुदन्तं शौरये
निवेद्य निजालयमुपागमत् ॥ ७ ॥
तदैव वसुदेवस्य वाजिमेधे महाक्रतो ।
भद्रो नाम नटः कश्चिन्नाटयेनातोषयन्मुनीन् ।॥ २५ ॥
सर्वदिग्गमने शक्तिमवध्यत्वादिकं च सः ।
वरं प्राप्य मुनीन्द्रेभ्यश्चचार निखिला मुंवम् ॥ २६ ॥
तदनु, महेन्द्रप्रेरणया केषु चिद्रानहंसेषु त्रिविष्टपाद्वननगरमासाद्य
वज्रनाभानुमतेन तदन्तःपूरोपभोग्यासुः योग्यासु वापीवितस्ततस्सन्चरत्सु ॥.
मानुषालापिनस्तांस्तु वीक्ष्य सर्वेऽपि रेमिरे ।
स्त्रियो. विशेषात्तत्रापि राजपुत्री प्रभावती ॥२७॥

श्री हरिवंशचम्वा
ततश्शुचिमुखी नाम राजहंसी प्रभावतीम् ।
कथाभिरभिरामाभिः प्रीणयन्तीदमब्रवीत् ॥ २८ ॥
अयि सखि ! चारुहासिनि स्वयंवरानुमोदिनि कुतो नाद्यापि देवा-
सुसुरकुलसमुद्भवेषु स्वानुरूपरूपिणं पति कमपि कामयसे; किमर्थमेतद्गमयति
शैव यौवनं ; कथं नायापि श्रुतिपयमागतस्तत्र कुलरूपशीलसम्पदामनुरूपक.
प्रद्युम्नः ॥९॥
देवेषु देवमसुरेष्वसुरं वरिष्ठं
मत्येषु मर्त्यमुरुधैर्यमवार्यशौर्यम् ॥
धन्याऽसि चन्द्रमुखि शम्बरघातिनं ते
कामं प्रकाममिह कामयसे यदि त्वम् ॥ २९ ॥
एवं निशमितरौक्मिणेयरूपगुणवैभवा तत्प्रभावमेव मुहुर्मुहुर्मनसि मा-
क्यन्ती तत्समागममभिलषन्ती तदुपायमर्थयन्ती स्मृतमपि तत्पितृवैरमगण-
यन्ती सा निनसख्याः शुचिमुख्याः कथाकौशल्यं तत्प्रार्थनया स्वपित्रे
न्यवेदयत् ॥ १०॥
अथ वज्रनाभोऽपि तत्कथाश्रवणकुतूहलेन तां हसीं निजगृहं प्रत्यान-
यन् विविधाः कथाः कथयन्त्यास्तस्याः कथान्तरे महर्षिभिः प्राप्तवरस्य भद्र-
नाम्नो नटस्य देवगन्धर्वगेयेंषु गानेषु च नानाविधेषु नाट्येषु च महतीं निपु-
तामाकर्ण्य तदानयनाय काश्चन राजहंसानचोदयत् ॥ ११ ॥
८. तेऽपि मरालास्तत्क्षणमविरलकुतूहलेन तत्पुरान्निर्गत्य तमुदन्तं महे-
द्राय निवेद्य तदाज्ञया द्रावतीमुपेत्य तत्सर्व माधवाय व्यजिज्ञपन् ॥१२॥
अथ कृष्णेन सन्दिष्टाः प्रद्युम्नाद्याश्च यादवाः ।
बटण संछन्नाः प्रापुर्वजपुरं कमात् ॥३०॥

सप्तमो. विलास : नटीभिर्वारमुख्यामिः प्रद्युम्नायैनृपैरपि । विदूषकेन लाम्बेन वादकेन नगदेन च ॥ ३१ ॥. यादेपा तत्सहायैश्च सारदेन सहात्मना । नाकयाचिरा वजनाममाया तत्र रामायणं ते तु गङ्गावतरणं तथा । रम्भाभिंसार कौबेरं प्रायुञ्जन्नाटकं नटाः ।। ३३ ।। सदग्निं समुपविष्टैः वज्रनाभस्य तुष्टै- .. रसुरकुलविशिष्टै नटेभ्यो विसृष्टैः । सुरचिरवसनानां राशिभिभूषणानां विरचित इव सेतुर्गीतमाधुर्यसिन्धौ ॥ ३४ ॥ अथ ते नटाः प्रावृत्ताका इव परिपूर्णजीवनाः राज्ञा वज्रनाभेन तद्- न्तःपुरजनेन च बहुशस्सम्मानितालहत्तानि धनकनकवस्तुवाहनादीनि च संग्र- ह्य तत्रैव मणिमयभवनेषु सुरुचिस्मरमन्त ॥ १३॥ । तदैव राजसुता प्रभावती निजसख्या हंसनन्दिन्या द्वारवत्यास्स्वागम. नमावेद्य 'चिन्तितं सफलम् ; अद्य प्रदोष एव प्रद्युम्नेन सह सङ्गच्छसे' इत्य- भिहिता प्रमोदाम्बुधिमुपगता हर्योपरि तदागमनाय कृतसंविधाना विचित्रा- भरणपरिधाना प्रियागमनं प्रतीक्षमाणा तस्मिन् चिरयति सति तद्विरहानलेन विप्लोष्यमाणा तां सखीं.गदमिदमवादीत् ॥१४॥ हा! कष्टमद्य मदनः किरतीह बाणान् प्राणान् हरत्यपि मृदुः श्वसनो ममैषः ।

श्री हरिवशचम्प्या
चन्द्रोऽपि पुष्कलमसौ स्वमयूखजालैः
दावाग्निमुत्सृजति हा सखि! किं करोमि ॥ ३५ ॥
..
हा! किं विमुह्यति मनो मम जातकम्प
का वा सखि प्रजनिता रुगनौषधेयम् ।
'पश्यामि चेन्न मुखमिन्दुसखं प्रियस्य
यास्यामि तां गतिमवाप कुमुदती याम् ॥ ३६॥
अथ प्रद्युम्नोऽपि तत्पूर्वमेव स्मृतहंसनन्दिनीसन्देशः स्वावासदेशान्नि-
क्रम्य राजपुत्र्यै नीयमानं माल्यमनुसरद्भिः षट्पदैस्सह स्वयमपि मायया
षट्पदीभूय हृान्तरं प्रविष्टः सायमिति निर्गतेषु तेषु सहचरभृङ्गेषु तत्कर्णा-
वसकुवलयं प्रविश्य तत्रैव निलीयमानस्तस्यास्तादृशीमवस्थामसहमानः स्वा-
गमनं तत्सख्यै सूचयन् तदनुमत्या तस्याः प्रभावत्याः पुरः प्रादुरभूत् ॥१५॥
सा तं निरीक्ष्य सहसा महसाऽस्य दिग्धा
मुग्धा विनम्रवदनाऽर्धनिमालिताक्षी।
नोवाच किंचन निरुद्धनितान्तहर्षा
कादम्बिनी भृतजलेव निरुद्धवर्षा ॥ १७ ॥
तां प्रसाद्याथ यत्नेन गान्धर्वविधिनैव सः ।
सङ्गृह्य रेमे तत्रैव तया' सह चिरं सुधीः ॥ ३८ ॥
तद्वजपुरवृत्तान्तमिन्द्राय हरयेऽपि च ।
प्रत्यहं प्रापयामासुः हंसास्ते हि मनोजवाः ॥ ३९ ॥
भ्राता तु वजनाभस्य सुनाम इति दानवः ।
आसीय च शौर्ये च तस्मादनक्मो बली ॥ ४० ॥

सप्तमो विलासः
तस्य कन्याद्वयं चासीदेका चन्द्रवतीं तयोः ।
अन्या गुणवती ताभ्यां. दृष्टा सैषा प्रभावती ।। ४१ ॥
रतिसक्तक सा दृष्टा पश्चात्पृष्टा च वीमती ।
सखीभ्यां प्राह ते कन्ये सुधासिंक्तमिदं वचः ॥ १२ ॥
निवसति मयि विद्याऽलम्भि दुर्वाससो या
सकलमिदममुष्याः प्राभवादेव लब्धम् ।
यदि रुचिरिह वां तां दातुमीशे यदाप्तथा
मुवि निजक्सगास्स्युर्देवगन्धर्वयक्षाः ।। ४३ ॥
ते कन्ये तां गिरं श्रुत्वा विद्यां तां परिगृह्य च ।
गर्द साम्बं च संम्प्राप्य रतिमापतुरुत्तमाम् ॥ ४४ ।।
अथ जलदसमूहैः कान्तरोदोतराला:
अविरलजलधाराच्छन्नदिक्कनवालाः ।
स्पुटकुटजकदम्बाः केऽपि कादम्बदूरा
मुवि मुदितमयूरा, वासराः प्रादुरामन् ।। ४५गी
नभावत्या युतः काणिः चन्द्रवत्या युतो गदः ।
गुणवत्या युतस्साम्बस्तत्र ते रेमिरे परम् ॥ ६ ॥
वजनाभोऽथ यज्ञान्ते कश्यपं. वीक्ष्य काशितम् ।
ब्रुवन् व्यर्थे तदर्थे तु दिग्जयाय मनो दधे ॥ ४७ ॥
ततः
स्वप्रियासु सगर्भासु भीतास्ते यादवास्सुतान् ।
इन्द्रोपेन्द्रवरात्प्रापुः सद्यः सम्प्राप्तयौवनान् ॥ १८ ॥

श्री हरिवंशचम्प्वाँ - प्रद्युम्नस्तु प्रभावन्तं गदश्चन्द्रप्रभं तथा । साम्बस्तु गुणवतं च पुत्रोंस्ते. प्रापुरुत्तमान् ॥४९॥' तदनु होपरि प्रवर्धनानांस्तान् हरीच्छया. तत्पुरंगगतरुक्षिणो निरी- क्ष्य सम्भ्रान्ताः सादि दिग्विजयैषिणे दामनेन्द्राय न्यवेदयन् ॥ १६ ॥ एतदाकर्ण्य विस्मितमतिरसुरपतिः किमिदमिति मनसि विचिन्तयन्। मुरमुनिमुखादाकर्णितनिखिलवृत्तान्तः कृतान्त इव संज्वलन् सस्वरमात्मसेनांच सनह्या तत्कमटनटकुक्कुटान् गृह्णीध्यमिति निजभटानाज्ञापयामास.mon अथ यादवा अपि स्वस्वयुवतिभ्यो जयाशीनिस्सह समासातिसमुर ज्वलहेतयो, दावानय, इव दानवसेनागहनमभजन्त ॥ १८ ॥ अथ युद्धे प्रवृद्धत, पानवयोस्खयो प्रद्युम्नतेजसा कीर्णा मही दानवमस्तकैः ॥ ५० इन्द्रोऽत्र सामरगणसहसोपसृत्य मायारथेन दिवि दानवसैन्यमूर्ध्नि । विष्वक्चरन्तमममस्य. रणे सहायं पुत्रं जयन्तमद्विशत्प्रजमाद चैवम् ॥ ११ ॥ सुतेन. मातलिसुतेन, युतं रथं, मेः दास्यामि युद्धयतु गदस्तमवाप्य दैत्यैः ।। साम्बोऽपि गच्छतु, मम प्रवरेण युक्तं दिव्य गजं. समधिरुह्य रणाय वीरः ॥ ५२ ।। अथ ता गिरमाकर्ण्य कागिस्तत्क्षणएव, जयन्तेन सह तां दानवचयूँ निर्मिय हान्तमागतो गदसाम्बयोस्तो रथगजौ प्रदाय हरिरपि पुरेऽद्य (१३) ससमो विलास रुद्रोपहारं सम्पूर्य श्वस्समेष्यतीत्यभयमभिधाय दानवोपसृष्टं विशिष्टं तमस्स्व- मायया सपदि नाशयन् निजसमरसामर्थ्येन विबुधपतिमपि विस्मापयामास ॥ एवमेव निशि नीतायां निखिलायाम् ॥ २० ॥ कारें क्रुधैव दितिनैस्सह युध्यमाने सन्ध्यामुपास्क सुरसिन्धुनले. जयन्तः । तत्राजगाम निजकर्मणि तं निधाय सोऽप्येवमेव विदधे यदुवीरसूनुः ॥ १३ ॥ कृष्णोऽथ. तार्क्ष्यमधिरुह्य सुरर्षिवाचा पार्श्व ययौ सुरपतेर्बुमणिर्ययाऽद्रेः । दध्मौ च शङ्खममरासुरहर्षशोक- संवर्धनं निजकराम्बुजराजहंसम् ॥ ९४ ॥ तदनु तदनुज्ञया रौक्मिणेयः खगपतिस्कन्धमधिरुह्म वज्रनार्मेन सह विरचितगदाविग्रहस्तस्मै. निनसमरचातुर्यमत्यर्थ प्रकाशयन् तस्कृतमदाघात- प्रचलितचेतनतया सुभृशमापन्नस्तत्समयसमुश्चितन शार्ङ्गधरशङ्खरवामृतेन पुनः प्रकृतिमापन्नस्तन्नियोगेन. सपदि निजकरमुपगतवता चक्रेण तदसुरपति- शिरस्सञ्चकर्त ॥ १२॥ निहते. वज्रनाभे तु सुनाममवींद्गदः । । निकुम्भस्तु तदा प्राप षट्पुरं नूहरेर्भयात् ।। ५५ ।। अथ महेन्द्रोऽपि केशवेन सह समन्व्य तद्राज्यं तद्तानि नगगणि धनमणिविविधवस्तुवाहनादीन्यपि चतुर्धा विभज्य, तत्र प्रथममंशं विजयाय नयन्तात्मनाय, द्वितीयं तु प्रभावते प्रद्युम्नपुत्राय, तृतीय पुनर्गुणवते साम्ब. सुताय, चतुर्य चन्द्रप्रभाय मदनन्दनाय च इत्या, तेषां सर्वेषाम दिवि गम- श्री हरिवंशवावा .. नांगमनशक्तिं सर्वभूतावध्यत्वं च वर प्रदाय, तद्रक्षणाय वज्रपुरे पुनर्जयन्तम-- भिषिच्य तेभ्यो राजभ्यः पुनर्दिव्यानैरावणकुलसमुद्भवान्नागानुच्चैश्श्रवस्सन्तति- सम्भूतानश्वान् प्रदातुमप्याज्ञापयन् प्रमुदितहृदयः सुरैस्सह स्वपुरीमुपजगाम. अथ कृष्णोऽपि द्वारकामुपगतोऽभूत् ॥ २३ ॥ अथ सुरपतिगीर्भिर्बोधितो विश्वकर्मा व्यरचयदिव नून द्वारकां स्वप्रयत्नैः । सततमपि यथेषा प्रेक्षणीया सुरैः स्यात् दशशतमुखवाग्भिर्वर्णनीयाऽतियत्वैः ।। ६६ ।। तामुपेत्य हरिस्तत्र यथावदभिपूजितः। वृष्णिवीरैस्समां प्राप दिवं चन्द्र इवोडुभिः ॥ १७ ॥ त्रिदशनगरतोऽगातां च. देवर्षिवर्यः स सपदि यदुवीरैः पूजितोऽभूद्याहम् अकथयदय रम्य व्यासकृतं पुराण सदसि हरिचरित्रं प्रार्थितो ह्याहुकेन ॥ ५८ ॥ भवदवशिखितप्तान भक्तबर्हिप्रबर्हान् हरिचरितसुधामिहर्षयन्नेवमन्याम् । दिशमपि स विधातुं दिव्यतो निर्गतोऽभू-. स्कुवलयहितकासी कोऽपि देवर्षिमेघः ॥ ५९॥ अथ पुरि महिषीणामन्यसीमन्तिनीना- मपि बत सुतसङ्घस्तत्सतीपुत्रसङ्घः । निनगृहमतिपूर्ण वीक्ष्य विश्वम्भरोऽसा- तिमुझपयातस्स्वस्य सिद्धां विशुद्धः ॥ ६ ०. -* इति हरिवंशवपौ सतमो विलासः *---- .

अष्टमो विलासः॥ तस्य पुत्रेष्वनेकेषु प्रेमपात्रेषु सत्वपि । प्रद्युम्न एव परमप्रेमपात्रमभूद्धरेः ॥ १ ॥ यः खलु पुरा भावतो वासुदेवात् रुक्मिण्या जातमात्रस्सप्तमदिवस एव निशीथे कालवशमुपजिगमिषता कालशम्बरेण ऋक्षवन्तं नाम निजनगर- मुपनीतः पोषणाय निजयुक्त्याः मायावत्याः करे सन्निवेशितः हरवरेण विज्ञा- 'तभविष्यत्कार्यया असुरमोहनाय मायाप्रतिच्छन्ननिजरतिरूपया तया च का- तंधिया धात्र्याः करेण परमरसायनप्रयोगेण सत्वर सर्धितः सकलशस्त्रास्त्रवि- 'घाममा विविधमायारहस्येषु च नितान्त सम्प्रवेशितः सम्प्राप्तयौवने स्व- स्मिन्निजतरुणीविलासमुल्लासयन्त्यास्तस्याश्चरितं प्रति विशङ्कितस्तन्निरूपितनि- जागमनप्रकारनिश्चय खयमशरीरवाण्याऽपि विबुध्य गिरिशिखरमिव समुन्नतं निजरिपुगृहतोरणसङ्गत सिंहध्वज विध्वंसयन तत्कार्यमसहमानेन तेन शम्वरेण महताऽऽडम्बरेण रणाय सम्प्रेषित तत्पुत्रशतमपि शरैस्संचूर्णयन् सुमनोगण- मनोरथानप्सरोगणमनोरयानपि युगपदेव सम्पूरयन् भेरीमृदङ्गादिविविधरव- भङ्गैरतिभैरवं सेनार्णवं निजाशुगपरम्परामिर्गगनतलमुत्किरन् इन्तरसन्दर्शि- तेषु तत्सचिवेषु चतूर्षु रणभुवि दुर्धरं दुर्धरं विश्वंसिताशरण शरण, अलक्षित- चनमालिनं केतुमालिनं पाटितरिपुशिरश्चक्रेग चक्रेण, मृत्योरपि युधि नि- हन्तारं शक्रहन्तारमपरिमितशक्त्या शक्त्या, सर्वदा सुरनिकरमर्दनं प्रमर्दन संवर्धितवैरिजनमनोगदया गया च संहत्य, शरपरम्परामिण रोपारि मुहमत- स्तस्य विद्विषतः शस्त्रास्त्रपरम्परां स्वस्य शस्त्रास्त्रसमूहैनिर्भिद्य, माययोपसृष्टं द्रुमवर्षमाग्नेयास्त्रेण, शिलावर्ष वायव्येन च निवार्य, पुनस्तन्मायावलेन विस्- श्री हरिवंशचम्प्या धान् सिंहशार्दूलतरवादिहिंस्रमृगान् गान्धर्वेण संशमयन् , पुनरपि बहुधा संप्रवृत्तासु तन्मायासु हस्तिमयीं मायां सिंहमय्या तया, सिंहमयीं शरभम- च्या, सर्पमयीं सौपर्णा च निरस्य, संमोहिनीमपि संज्ञास्त्रेण प्रशमयन्नपारचिं- न्तापरवशेन तेन प्राणापदि सन्धारितं गिरिजाप्रसाइपरिलब्धं कालदण्डमिव सुसंरब्धं शुम्भनिकुम्भयोर्वधेन देवासुरहत्कर्णयोः कीर्णमुद्रं कमपि मुद्गरं निरीक्ष्य, पुरन्दरगिरा तत्क्षणमवनिमुपगतात् नारदात् देवीस्तवमात्मनः पूर्व- स्मृति चाभेद्यतनुत्रवैष्णवास्त्रे च संपाप्य, सपदि निजसंस्तवसन्तोषितायाः पार्वत्याः प्रसादवलेन निजगलपुष्करमालायिते तस्मिन्मुद्रे सशपथमुत्सृष्टेन वैष्णवास्त्रेण शम्बरम, निहत्य, विबुधपतिनतीव हर्षयन् विजयतौर्यत्रिकेन सह वियत्यम्बरचरकरकमलविसृष्टैस्सुरद्रुमकुसुमसमूहैरभ्यर्चितस्तत्क्षणएव तत्पुरा- द्वगनपथैनैव निर्गत्य मायावत्या सह पुनः केशवान्तःपुरे प्रपतितोऽभूत् ॥११॥ यं वीक्ष्य विस्मयरसेन भयेन जुष्ट- मन्तःपुरं ह्यमबदन समेत्य कृष्णः । व्याख्याय नारदगिरं सकलत्रमेव प्रत्यग्रहीत्सपदि शम्बरशत्रुमेनम् ॥२॥ यस्मै ददौ स्तवमनुत्तममात्मरक्षा- सिद्धयर्थमाशु निखिलश्रुतिसारभूतम् । सङ्कर्षणोऽखिलचराचरसारवेदी जप्त्वा तमात्तविजयो युधि यश्च नित्यम् ॥ ३ ॥ अथ कदाचिन्नागसाहयपुरे दुर्योधनस्याध्वरे सङ्गताः पाण्डवप्रमुख- सकलभूपाला: अनिमिषैकभोग्यां तादृशीं माधवश्रियं श्रुतीनामिव दृशामपि गोचरयितुं सञ्जातकुतूहलाः दूतमुखैर्विरचितंविचित्रसन्धानाः धार्तराष्ट्रासह अंष्टको विलासी कुवन्यहीनानाय रेवगिरि भितः पश्चिमादधरनकान् प्रातानधान् सुजन्त इस निविष्टसेना बभूवुः ।। २ ।। अथ केशवोऽपि सकलयादवैस्सह निजनगरानिमत्य रैवतकोद्यानमण्ड- लीमिलितनृपतिमण्डलीमध्यगत मेरुशि वरमिव महोन्नत निजमणिसिंहासन- मलङ्कुर्वाणः विकचकालपण्डमण्डलोइञ्चन्मार्ताण्डमण्डलथियमनुकुणिस्तत्र यथोचिां प्रापि कुशवानुयोगसत्कारैर्यादवगणेन सह समधिगतविचित्रकथा- प्राक्तिभिरखिलराजभिरभितस्समावृतः महर्षिगणेन सह कृतसुकृतविचारैस्सु. रनिकरैः परिवेष्टितः परमेष्ठीव परमशोभत ॥ ३॥ - तत्राजगाम सहसेन्द्रसखो. महात्मा देवर्षिरभ्रपटलावृतमन्तरिक्षम् । निर्मिद्य निस्तुलजटामकुटप्रमाभिः विद्योतयन्नृपसमै खकरात्तवीणः ॥ ४ ॥ स्वमाश्चर्योऽसि धन्योऽसि कृष्णेत्युक्तस्सुरर्षिणा । हरिस्सपदि तं प्राह दक्षिणाभिस्सहोमिति ॥ ५ ॥ एतदाकर्ण्य पर्याप्तवाक्यतया सम्प्रस्थितं सुरमुनिमवलोक्य तद्विजि- ज्ञासुभिनपतिभिरथितो भगवान्नारायणस्तद्विवरणाय तमेव मुनिमासने संन्य- वेशयत् ॥ ४ ॥ सोऽप्येवमकथयत्-भोभो! भूपतयः! श्रूयतां यथाहममुष्य प्रश्नस्य पारमासादितवान् तथाविधं वचनं; एकदा त्रिषवणातिथिरहं गङ्गाम्भसि गिरिसंनिभं महाकूर्ममवलोक्य त्वमाश्चर्योऽसि धन्योऽसीति यदवादिषं, तास कूर्मः प्रत्याह, तत्तावन्मादृशनानाग्रहाणामाश्रयभूतायाः गङ्गाया एव न ममेति।

औ हरिवंशचम्वों तदनु गङ्गां चेदमब्रवम् ; साऽप्याह , तदेतन्मादृशीनामनेकसरितामाश्रयभूतस्य महोदधेरेव न ममेति । अथ महोदधिमुल्य नदिदमवादिषम् ; सोऽध्याह, तत्तावन्मदाश्रयभूताया मह्या एव न ममेति । ततश्च महीमुपगम्येदमवदम् ; सा चौह, तदेतन्मदायभूतानां भूधराणामेव न ममेति। तदनु तानपि भूध- रानुपेत्य एतदवोचम् ; तेऽप्याहुः, तत्तावदस्मादृशनिखिलजगत्स्रष्टुब्रह्मण एव भास्माकमिति। ततो ब्रह्माणमुपेत्य तदिदमब्रवम् , 'सोऽप्याह, तत्तावद्यन्मयौं- हं तेषां वेदानामेव न ममैति । अयं वेदानुपेत्य तदिटमेवादिषम् ; तेऽपि वेदाः तत्तावद्यदर्थमुपसृष्टा ब्रह्मणा वयं तेषां यज्ञानामेव नास्माकमिति जगदुः। अथ यज्ञानहमिदमवादिषम् ; तेऽप्याहुस्तत्तावद्यद्गतिका वयं यद्दत्तं हविरादिक- मनीमस्तस्य विष्णोरेव नास्माक्रमिति । अथ तमिममुपगम्येदमवादिषम् । सचाह भवतां शृण्वतामेव, तत्तावदक्षिणाभिस्सहोमिति । अतस्सकलयज्ञान विष्णुरेव सदक्षिणो गतिरिति समाप्तवान्यतया प्रस्थितोऽस्मीति ॥ ५ ॥ एवमुक्त्वा गते वगै नारदे पृथिवीक्षितः। 'कृष्णमामन्च्य निर्याताः स्वस्वं राष्ट्र मुदाऽन्विताः ॥६॥ नृहरिरथ कदाचित्प्राविशद्यज्ञदीक्षा द्विजमणिरिह कश्चित्पाहिपाहीति चागात् । अभयमपि च दत्त देवदेवेन तस्मै असुकरमितरैर्यत्तद्विजः कार्यमाह ॥ ७ ॥ तत्कार्य त्रीण्यपत्यानि प्रजातानि हृतानि मे । पत्नथाः प्रसवकालेऽद्य चतुर्थ त्रायतामिति ॥८॥ , एतदाकर्ण्य विचिन्तयति भगवति वासुदेवे ॥ ६.!

भटमो. विलास तत्कार्य कियदद्य यामि सहसा रक्षामि विप्रात्मनं. माभैषीनिपुङ्गवेति गदिते भीभत्सुनोच्चैस्तदा । विप्रः प्राह तदेतदच्युतमृते केनापि नैव क्षम नैनं. प्रेषय, कृष्ण, सोऽद्य विपुलश्रान्तो वृथा. गर्जति.॥९॥ इति गिरमतितीवां विप्रगाण्डीविनोस्तों श्रुतिपुटमुपयातां स्थैर्यधैर्योपजाताम् । अधरपुटनटद्भिस्स स्मितैरेव रुन्धन स्वबलमबलपूत्रं प्राहिणोत्सार्जुन, द्राक् ॥ १०.in , द्विजगृहमवबुद्धं तेन पार्थेन वेगा- प्रतिदिशमुपरुद्धं सैन्यशस्त्रास्त्रजालैः । तदपि वियति नीतं यत्प्रसूतं निशीथे दृशि, न पतितमेतनिश्चितं. हेति शब्दैः ॥ ११ ॥ एवं विप्रसुतस्यार्थे, मोघींकृतपराक्रमः फल्गुनः कृष्णमासाद्य लज्जयाऽवनतोऽभवत् ।। १३. ४ -सितिसुरखरंगीर्भिर्दारितः खिन्नरूपः. सुरपरिवृढसूनुर्वैष्णवीं प्राप्य विद्याम् । दिवि भुवि च विचिन्वन् दिक्पतीनां पुरीषु द्विजसुतमविदित्वा सोऽग्निमैच्छत्भवेष्टुम् ॥ १३ ॥ अथ भगवान् वासुदेवः कथमपि सनिवारितवासवात्मजवहिप्रवेशः सान्त्व- बचनसन्निा वियोगविह्वलविप्रवरशोकावेशः निजनियोगेन दारुकेण धुरि संप्रवेशित ब्यमुग्रीवमेद्यपुष्पललाहकाख्यैश्चतुर्भिरश्वैः सुयोजितं समुच्छूित-- श्री हरिवंशचण्या . तायध्वजोपशोभितं निजाथमत्यद्भुतं द्विजेन सह सन्यस्मधिरूढः केवलमात्म- श्रियोगूढः कशाग्रचलननियननीयरथ्ये सारथ्ये सन्निवेशितश्वेतवाहनः उ- दीची प्रति समुत्सृष्टरथवाहनः समतीतसकलवनगिरिसरिदुर्गदुर्गमाखिलमही- पारः प्रापिताकपारः स्मृतिमात्रेण ससम्भ्रममुपस्थितैस्तत्तज्जलधिपर्वतैनिश्शङ्क प्रदत्तस्थासरणितया अतिक्रान्तसतद्वीपारकुलगिरिचक्रवाला निजकरचक्रेण पथि संप्रवृत्तं तमश्चक्रमुत्कृय स्थाश्वेभ्यः सन्दर्शितगगनान्तरालः झडिति तत्तमसः पारमासाद्य तत्रं प्रज्वलित किमपि तेजोमण्डलं. स्वयमेव प्रविश्य द्विनकुमारांश्चतरेम्सङ्ग्रह्य ततः प्रतिनिवृत्तः तान् सुतान् स्वरथमारोपयन् सा- पितार्थौ तविनपार्थी हर्षवाधौं निमजयन् क्षणेन. पुनस्तेनैव. पथा यथापूर स्नपूरमुपगतोऽभूत् ॥ ७॥ हरिः पुत्रैर्युतं विप्रं भोजयित्वा यथेप्सितम् । धनेन तर्पयित्वा च ग्रह प्रास्थापयत्तदा ॥ १४ ॥ सर्वानुपैति पुरुषार्थचतुष्टयेऽन्त्य- मिच्छन् पुमानिति निजानवबोधयन्नु । शङ्केऽहमन्त्यसुतमर्थयते द्विनाय शौरिददौ दिवि हृताश्चतुरोऽपि पुत्रान् ॥ १५ ॥ ततः- क्षणेन महतोऽध्वनो मतिविनिर्गती भूभृतां नतिः प्रवणतोदधेरपि महस्तमस्सान्द्रता । किमद्भुतमिदं वदेत्यजमपृच्छदेषोऽजुनः स चाह सकलं हरिस्सुहृदि शृण्वति प्रश्रयात् ।। १६ ॥ * इति श्री हरिवंशचम्पो अष्टमो विलासः- नवमो विलासः तदैव शोणितपुरे वाणो नाम महासुरः । ज्ये उपुत्रो बलेरासीहली बाहुसहस्त्रवान् ॥ १ 4. यस्तूप्रमुग्रतपसा परितोप्य तस्मा- दाक्षायणीतनुजतां च गुहाहन्नां चन बहिध्वजं शरवणेऽग्निजजन्मभूमौः रम्येऽत्र शोणितपुरे वसतिं च लेभे ॥२॥ तेन पुरि सन्निहितेन योऽसौ युधि प्रचुरवीर्यमदेन सिक्तः । गन्धर्वयक्षपतगोरगसिद्धसाध्यान् नित्वा मुहुर्मुहुरहो विरतिं न लेभे ॥ ३ ॥ स हि मरमलब्ध्वा क्वापि कण्डूलबाहुः स्मरहरमुपगम्य प्राह महाहुपतेः । भवति यदनुरूपं तत्सुयुद्ध मम स्या- यदि जमिरमुधेति प्राहसत्सोऽपि शम्भुः ॥ ४ ॥ स च सुतमिहमूचे प्राप्स्यसे युद्ध निपतति भुवि भग्नं, यहि बहिध्वज ते।. तमथ करसहस्रेणार्चयनिर्गतोऽभू- समरसमयमेतं काङ्खमाणोऽतिहृष्टः ॥ ५ ॥ 13.

Headline औं हरिवंशययों अथ वाणः पुरं प्राप्य पश्यन् कुम्भाण्डमग्रतः । नियमावदयिष्यामीत्यत्रवीत्सचिवं मुदा ॥ ६ ॥ अथ सचिवोऽपि, तमेवं प्रत्यवादीत् ॥ १ ॥ बलिः किमवमुच्यते शतमखोऽथवा बध्यते घुराज्यमुत भुज्यते किमु होभयं त्यज्यते । कमद्य वरमाप्तवानसि हराद्नुहाद्वा विभो, कुतस्तव मुखाम्बुजे रमति हर्षजाश्रुत्रवः ॥ ७ ॥ इति कुम्भाण्डवचनमाकये समरायतिम् । आणे ब्रुवाणे न्यपतच्छाशनिहतो ध्वजः ॥ ८ ॥ ध्वजस्य पातं दृष्ट्वा ता वप्युत्पातशतं भयात् । धैर्याच खेदमोदान्यां. संयुतौ जोषमूषतुः ॥९॥ अर्थकदा तत्पुरपरिसरे परिसरन्त्याः पुण्यत्रवन्त्याः तटभुवि सम्प्रति ष्ठिता सर्वर्तुममुदयसमुज्ज्वलातु मधुकरनिकरझङ्काररवमुरसरिताशामुखासु शुरुपिकप्रमुखरुचिरखगकुलसंचाररमणीयवीधिवासु विचित्रोपवनवाटिकासु अम्बरचरकरकल्पितैः कश्पद्रुमकुमसम्पातैरसर्वतस्राजातैः वेणुवीमादि- विविधवाधरवातिद्ध्यदिव्याप्सरांगणगीतजातैस्सह सम्प्रवृत्ते शशधरचूडक्री- डाविहारे तत्पार्षदगणैस्सह यथारुचि विहरमाण वासरोगणेषु पत्त्या सह वन- भुवि विरचितविचित्रकामविहारा हैमवती स्वसविधवर्तिनी, मनप्ति पत्या राह. इतिज्ञाभिठवन्तीनुमानानी बाणकन्यां सत्वरं सदयमित मवादीत् ।। २ . स्कुरति मनस्ति यत्ते माणकन्येऽद्य धन्ये झदिति भवति तत्त्वां पुष्पकाले निशान्ते ।

नवमा दिलासः अनुभवति हठायः स्वामष्टा भवत्याः स भवति पनियों काऽस्ति धन्या त्वदन्या ॥ १० ॥ इति गिरिवरपुत्रीवाक्यसम्फुल्गात्री कुचलंयदलनेत्री दानवेन्द्रस्य पुत्री। अतुलितगुणजाना सा मुदीभिः प्रणीता 'निनसदनममीता विस्मृतार्यागीता ॥ ११ ॥ हॉरतिथिरिति योऽभून्माधवे मासि तस्मिन् निजरुचिरनिशान्ते सा निशान्ते प्रसुप्ता । अमहशगुणशीला स्वप्नलब्धेन पुंसा हतिदृढमुपभुक्ता रक्तसिक्ता बभूव ॥ १२ ॥ ततः प्रबुद्धाऽपि साऽसङ्गलिनपरिधानतया चकितमतिः किमिदमिति सखीभिस्सह विचिन्तयन्ती स्वप्नलब्धमदो न दोपायेति ताभिर्निगदिताऽपि निजकुलसौशीत्यमाख्याय स्वचरितमतीव गर्हयन्ती स्वप्राणानपि समुत्स्रष्टुम्- भिलपन्ती नतस्पल्या शनैश्शनस्स्मारितमृडानीवचनतया स्वात्मानमात्मनैव सुभृशमावालयन्ती सखी प्रति तदानयनोपायमर्थयन्ती स्वप्नसङ्गतस्य तस्य चानयनमज्ञाततस्कुलनामभिरसाध्यमिति कुम्भाण्डदुहितृगिरा ब्रह्माण्डगतसक- लसुरासुरनरवरयुवरूपचित्रलेखनाय चित्ररेखा वराप्सरसमन्वयुङ्क ॥३॥ साऽप्यनतिचिरमेव तथा चकार ॥ ४ ॥ तस्याश्चित्रपदे क्रमादुपगतं दृष्ट्वाऽनिरुद्धं ह्युषा होत्फुल्लविलोचनाऽभवदसौ कान्तो मभेत्याह च ।

श्री हरिवंशचम्चा
पृष्टा प्राह कुलं च नाम च यशरतस्याप्सरास्सादरं
चौर्यादानानं स्वसाध्यमिति च व्यक्तं तदा ब्यक्षरम् ॥१३॥
तदनु दनुजकन्या प्रार्थयन्ती नितान्तं
शरणमुरगता त्वां प्राणदात्री भवति ।
धनुरिख मुवि नन्ना चित्ररेखाधिमूले
वियति जलद्मूले चन्द्ररेखेव साऽभूत् ॥ १४ ॥
तदनु तत्प्रार्थनासमुदयसमुद्दाझ्या सैपा चित्रलेग्दा सखीमध्यात्सपंदि
"समुत्थाय निजयोगविद्यया वियति विद्युल्लतेवान्तहिता सती अतुलितमनोज-
वन मुहूर्तत्रयमात्रेण सन्त्रालद्वारकानगरद्वारदेशा तत्र स्मरणमात्रसन्निहितेन
देवर्षिणा प्रदत्ता प्रकृतोपयोगिनी कामपि तामसी विचामासाद्य विरचित-
तत्पुरप्रवेशा तत्र वचन विचित्रभवनान्तरे नृत्तगीतप्रसक्तैः योषासहस्रैः निरू-
द्धमप्यनिरुद्ध गगनान्तरे तारासहस्त्रैः परिवृतं कुमुद्वतीसखमिव स्वप्नसङ्ग-
तायामुषायामेव सन्निहितमनोरथं तमवलोक्य देवर्षिविद्यया संमोहितसकल-
योषायुता मल्लापेन विहिनतन्मनोरथा सद्य एव तमोन्तर्हितमेनमादाय यथा-
गमतीव वेगेन रुविरपुरं पुनः प्रविश्य सकलससीसमक्षमुवाहर्म्यमुप-
निनाय ॥ ५॥
सैषा निरोक्ष्य टल्यादिव भूच्युतं ते
कन्दपकोटिगदृशं रतिकोटिरम्या ।
मोदाम्बुधौ मलवायितमानमाऽभू-
सोऽप्येवमेव नदहो घटना मृडान्याः ॥ ६ ॥
ततो गान्धर्वविधिना सङ्गतौ रतिसम्मतौ।
उपानिरुद्धौ तनोभौ रमेते स्म यथासुखम् ॥६॥

अनवमो विलासा
तदनु तत्पुररलिमिनरावेदितकायान्तःपुरोदन्तो दृष्टदन्तः कुला-
वमानात्सञ्चलितप्राणो बाणः तत्क्षणमेव किङ्करानाम निजनिकटवर्तिनो दान-
वान्निनविद्विषः प्राथुन्नेः निग्रहाय प्राहिणोत् ॥ ६ ॥
तेऽपि गदामुसलपट्टसाधायुधपाणयो दानवाः उपाहर्म्यमभितस्तमरि
म्यरुन्धन् ।1-७ ॥
तदाऽनिरुद्धोपि तत्कलकलैसंप्रबुद्धस्सिह इव सुसंक्रुद्धः निजनिधन-
शङ्कया वेपथुपती स्वसती समाश्चास्य गिरिकन्दरादिव तद्गृहान्तराहहिर्निर्ग-
तो रणभुवि मृगरिव तलिङ्कौस्सन्निरुद्धोऽभूत् ॥ ८ ॥
तदा समरसम्भीता चित्ररेखाऽप्युषासखी ।
सस्मार नारदमुनि सोऽभ्येत्य खगतोऽभवत् ॥ १७ ॥
अथ दितिसुतमुक्तैरापुस्ताडितोऽलं
सुरमुनिमतिवेलं तोषयंस्तूर्णमानौ ।
परिवमतुलवेगं पातयन् सोऽनिरुद्धो
मरुदिव जलदोघान द्वादयामास दैत्यान् ।। १८ ॥
अर समरनिवृत्तान् किङ्करान भर्सयस्तान्
स्यकपरमनीयं प्राहिणोझानवेन्द्रः ।
तापि बहुलमेको द्रावयामास वेगा-
स युधि तदपि दृष्ट्वा नारदः खे ननत ॥ १९ ॥
तदनु दशशताश्वोजिते स्यन्दने व
विगुलभुजसहयोतिनानायुधेऽस्मिन् ।
स्फुरति समरभूमि प्राप्य बाणे ययुाक्
कुतुकभयरुपस्तानान्दोवानिरुद्धान् ॥ २०॥

श्री हरिवंशचन्दा
असुरशरसहस्त्रैरर्दितस्सोऽनिरुद्धः
ख्यमपि शरजालैरर्दयामास बाणम् ।
मुहुरपि च रथेपामच्छिनख्य रोषा-
समसिमुसलशूले छादयामास दैत्यः ॥ २१ ॥
स झंडिति स्थपाचे यादवसम्प्लुतोऽभू-
दसुरपतिरमुञ्चद् घोरशक्तिं तदास्मै ।
चटुलगतिरमोघां माधयन् काणिसूनुः
ज्यसृजदयममुष्मै तां गृहीत्वा जवेन ॥ २२॥
तदा बलिसुतश्शन्या विद्वः प्राद्यान्नला रणे ।
रथयष्टिमवष्टभ्य मुमोह जुबुधे पुनः ॥ २३ ॥
अथ कुम्भाण्डवचसा मायामाश्रित्य दानवीम् ।
बबन्ध नानपाशेन बाणः प्राधुम्निमञ्जसा ॥ २४ ॥
तदनु मायाभुजगनियमितविग्रहम्य तस्य प्रादुन्नेजिघांसया करकलित-
कृपागं बाणमवलोक्य तत्सारथिरलौ कुम्भाण्डस्सविनयमिदमभाषत ॥९॥
सुविद्वितकुलनामा शिक्षणीयोऽहणीयः
स भवतु तव तावदक्षणीयो मतो मे।
बतबत यदि नैवं प्राप्तलोकापवादा
बद तव दुहितेयं कुत्र देया क नेया ॥ २६ ॥
इति ब्रुवति कुम्भाण्डे तं त्यक्त्वा रक्षिणां वशे ।
बाणस्वसदन प्रायान्नारदः कृष्णसन्निधिम् ॥ २६॥
ततः स्तवेन सन्तुष्टा दुर्गा स्थित्वा हि बन्धने ।
ररक्ष रतिपुत्रं तं धुषाऽप्यनमसान्त्वयत् ॥ २७ ॥

नवमो विलासः अनिरुद्धे हृते तस्मिन् द्वारकायां. तु तद्गृहे । मोहात्प्रबुद्धास्तद्योषास्तमदृष्ट्वा व्यचिन्तयन् ॥ २८ ॥ अहह निशि निशाटैः खे विनीतो विनीतो मुरहरवरपौत्रस्सोऽनिरुद्धो निरुद्धः । इति हि रुदितमासीत्तन्निशान्ते निशान्ते. तदथ विदितमासीद् द्वारवत्याऽत्रवत्या ॥ २९ ॥ दिशिदिशि वनशैलश्वभ्रवापीतटाकान् प्रतिपरणि रटन्तः पर्यटन्तोऽनिरुद्धम् ।। अगणिततनुखेदा यादवा मार्गमाणा मनसि कलुषमापुःक्वापि नप्रेक्षमाणाः ॥ ३० ॥ तदा जगाइ सेलानी रनावृष्टिरिदं वचः । हरि हरिहयत्तत्कृत्यमित्यथ सोऽब्रवीत्.॥ ३१ ।।। नहिनहि शतमन्योः कृत्यमेतत्सुबुद्धेः मयि निहितजयोऽसौ मत्परा एव देवाः ।। त्वमिह वदसि बाल्याद्धिग्धियं ते प्रसुप्तां ध्रुवमसुरकुलोत्थं पुंश्चलीकृत्यमेतत् ॥ ३२ ॥ एतदाकर्ण्य कृष्णस्य भापितं परमाद्भुतम् । अक्रूरः प्राह तं देवा न क्षुद्रा इति माधवम् ॥ ३३ ॥ ~* इति हरिवंशवम्यौ नवमो विलासः *---

दशमो विलासः
अथ हरिसदनोत्थैः पुण्यवादिनानोपैः
पुलकित इव भासा जुम्भगाणे सौ खे ।
हदि गतमपनेतुं दागलीकं यदूनां
सुरमुनिरपि शो रेः प्रादुरासीत्पुरस्तात् ॥ १ ॥
अथ नारदमुखादाकर्णितनिजपौत्रवृत्तान्तो भगवान्नारायणः स्मरगन-
मात्रेण पुरतोऽवतीर्ण तुपर्ण समान्य तस्मै सादरमावेदितशोणितपुरप्रयाणः
सुमेरोरिख समुन्नतस्य नायतिशयन सेनतस्य सर्वाभरणभूषितस्य तस्य स्क-
न्धदेशमतिरयेण प्रलम्बरिपुशम्बरारिम्यां सह खड्गचर्मारिदरगदाशा दिशो-
भितपार्श्वद्वयः स्वयमलङ्घर्माणः राकेन्दुकविसहस्त्रसंयुतस्य सूर्यायुतस्य शोभा
विभ्राणः दिवि भुवि च सपदि समुन्मिद्भिर्विविधवादितनिस्वनैवन्दिमागध-
जनजयसंस्तवस्वनैरपि दिग्दन्तिनामभयमाचक्षागः अहमहमिकया' सङ्गतैर-
खिलभोजवृष्ण्यन्धकैनिखिलवृन्दारकैरपि सस्पृहं वीक्ष्यमाणः मुहुर्मुदुर्गन्धचू-
गैलाजैरप्यवकीर्यमाणः स्वानुज्ञया सासनगिरिजलधिविक्षोभं वियत्तलमुत्प-
तता निजगरुघातेन गगनचरघनविमानावलीदिक्तटीवटितविचित्रतरसोपाना-
वलीः कलयता तारासरणिसञ्चरत्तिकूटशोभामुद्रहता गरुत्मताऽतिक्रान्तकाद-
शसहस्रयोजनपथः वाणनगररक्षणाय तत्पुरमभितस्संज्वलतोऽमेराहवनीयस्य
तेजसा सन्निरुद्धो बभूव ॥ १ ॥
तार्योऽथ कृष्णवचसा धृतकामरूपः
ख संप्रविश्य निजवक्रसहस्त्रनीतैः ।
सिञ्चन्मुहुर्मुहुरनन्तधुनीजलोवै-
रनिं प्रशान्तमतनोत्तमनन्तशक्तिः ॥२॥

दशमी विलासः ततः पुनरपि यथापुरमन्तरिक्षपर्थमनुसरति गरुत्मति पथि रणाय सकतेषु रुद्रानुचरेषु केषु चिदग्निषु निजशराहतोरसमङ्गिरसं विलोक्य पला- व्यमानेषु सुरर्षिसन्दर्शितानि स्मरहरक्रीडास्थानानि विलोकयन्नेव रुधिरपुरम- भिगच्छन् स्वशङ्खमधरेपुटमारोपयन्निशाकरमुद्गिरन् वातोद्भूतो जलद इव ग- मनतलमतीव शोभयन् जलजमिममापूरयन् तद्रवैर्निजधुरि विचित्रायुवैवियो- समानमरिबलमखिलमाकुलीचकार ।॥ २ ॥ तदा समरदुर्दिने नृहरिदानशानीकयो स्ततैर्हरिसुताशुगैवियति तोयधाराषितम् । बलस्य मुसलेन च प्रपतनाऽन्तरोल्कायितं सृतैरसुरशोणितैर्भुवि जलप्रवाहायितम् ॥ ३॥ हलमुसलनिपातस्तत्र नीलाम्बरस्य द्विरसनकुलशत्रोः सतुण्डप्रघातैः । हरिपुरशरघातैश्चक्रपातैग्जस्य ह्यसुरबळमशेषं ध्वस्तमासीत्तदानीम् ॥ ४॥ अंध बलमभिगच्छन् द्राग्ज्वरो दृष्टरोमा भसितनिशितहेतिर्जुम्भमाणोऽरुणाक्षः । मुचिररचितयुद्धस्तेन तद्गात्रयष्टिं ह्यविशदथ बलोऽभूद्भग्नशक्तिः क्षणेन ॥ ५॥ हरिरथ बलमुच्चैः क्रन्दमानं दिदृक्षुः स्वयमपि स यदागात्तदशामेव तूर्णम् । ज्वरमपरमजोऽसौ वैष्णवं द्राक्ससर्ज क्षुभिततनुरनेन व्यत्वकस्थ ज्वरोऽभूत् ॥ ६ ॥ हरिरपि स तमौ पाहिपाहीति पादौ शरणमुपमतं द्राङ् मोचयन्नार्तिसिन्धोः ।

श्री हरिवंशचम्प्वा ज्वरमुपशमयन् स्वं श्रेष्ठ्यमस्मै मुदादा- द्वरमपि बहुरूपैः स्थावरादीन् प्रवेष्टुम् ॥ ७ ॥ अथ दृशि बढुंशोण बाणमादाय रुद्रे प्रमगणसमुद्र कार्तिकेयेन साकम् । मुरहरमुपयाते शैलशस्त्रास्त्रवर्षी पुनरपि सुरसङ्घः प्रेक्ष्यमाणो रणोऽभूत् ॥ ८ ॥ हरिहस्वरयुद्धे भूरिमारांनता भूः द्रुहिणमुपगताऽभूद्रक्षणार्थ स तस्याः । स्मरहरमिदमूचे तेऽद्य कृष्णेन युद्ध न हितमिति ततस्तौ त्यक्तयुद्धावभूताम् ॥ ९॥ कचिदय विधिना तो स्वनदृष्टावमिन्नौ मुहुरिह मुनिबृन्दैस्संस्तुतौ नामभिस्खैः । पत निमिषमभूतां नित्यमन्योन्यमिन्ना वपि सकलमुनीनामात्मदृष्टेरभिन्नौ ॥ १० ॥ अथ गुहोऽपि नानाविधप्रहरणैः प्रमथगणैः परिवृतः रणभुवि ताय- ध्वजमुपगतः तस्मिन्निनशस्त्रास्त्रपरम्परामुत्सृजन् तस्यां हरिशरपरम्परया व्य- र्थायी महोग्रं ब्रह्मशिरोमिधमत्रं प्रयुञ्जानः तस्मिन्नपि चक्रतेजसा प्रशमिते स्वकीयाममोघां शक्ति प्रमुञ्चन् तस्यामपि हरिणा हुङ्कारेणैव निरस्तायां निनसुतवधोद्यतं चक्रमुदीक्ष्य दाक्षायण्या प्रहितया लम्बानाम्नया कोटव्या कृष्णसंमुखादपवाहितोऽभूत् ॥ ३ ॥ अथ बाणोपि स्वरथमारुह्य भेरीप्रमुखविविधवादिनरवेण सर्वतश्चलित निजबलजलधिमलङ्कुर्वाणः खगपतिमारुह्य रणायाभियान्तं नृहरिमासाद्य सह- म बाहुना मया समरमंष्टबाहोस्तव न क्षममिति नहुशः स्वशौर्यमेवासकृदुवा दशमों विलासः १०७ गः निजमर्मभेदिमिस्तत्सायकैरेव रणकर्मणि प्रेर्यमाणः शस्त्रास्त्रवर्षिभिस्वबा- इमिररेव जृम्भमाणः हरावपि निजशस्त्रास्त्रवर्वियति ततोप्यतिशयेन विज- म्भमाणे स्वस्य समरैनैपुण्यं बाहुबाहुल्यं चाप्रयोजक मन्यमानः प्रासादशिरसि हर्षातिरकेण सहासं नृत्यतः समरसाक्षिणो देवर्षे: पारितोषिकं प्रदातुकामेन कृष्णेन निशिततररिजालेनापहृतनिजध्वजाश्वच्छत्रमणिमकुटतनुत्राणः ताय- तुण्डप्रहारविह्वलितवाहनमयूरतया वाहनान्तरमपेक्षमाणः स्मरहरगिरा सपदि नन्दिनानीतं त्र्यम्बकरर्थमारुह्य महो ब्रह्मशिरोत्रं प्रयुञ्जानः हरिकरसहस्रा- रतेजसा प्रशमिते तस्मिन् उद्यते च हरिणा पुनस्तद्रिपुर्वधार्य सहस्रार्कसमते- नसि तस्मिन् चक्रे देवीगिरा पुनरपि हरेः पुरतः प्रवृत्तायाः लम्बायास्तद- बनप्रार्थनया प्रमुक्तेनापि तेन सुदर्शनेन परिहतधूनसहस्रबाहुँः भक्तनिधनश- क्या महादेवेन गुहेन च संप्रार्थिततयां मुकुन्देन तेन कथमपि प्राणैरवियो- जितः नन्दीश्वरेण शोणिताप्लुत एव स्थाणुसमक्षमानीतः हतशेषेण भुजद्वये- नैव सामिनयं विरचितविचित्रनृत्यः सन्तुष्टेन तेन शम्भुना पुनःपुनः सम्प्राप्त तद्भक्तताजरतामरतादिविविधैवरस्सन् विज्वरोऽभूत् ॥ ४ ॥ अंथ कृष्णेऽपि नारदगिरा चित्रलेखया च सन्दर्शितं बाणिकन्यान्तः- पुरं प्रविश्य तत्र तार्क्ष्यसन्दर्शनेनैव विगलितेषु विषधरबाधनेषु तदनिरुद्धम- निरुद्ध प्रशमितमनोरोषामुषां च निजचरणौ वन्दमानौ संप्रेक्ष्य मुहुर्मुहुस्तयो- विहितविविधाशीर्वचनः अभयागताय कुम्भाण्डाय समर्पिततद्राज्याधिप 'त्यः तदुपकल्पितैरुद्वाहसम्भारेस्तयोरुषानिरुद्धयोस्तत्त्व निर्वर्तितविवाहोत्सवः ताभ्यां सर्वंयस्याम्यां बलप्रद्युम्नाभ्यां च सह सुपर्णमधिरुमार्णकोपरि निर्ग- च्छत् वरुणवशवर्तिबाणगोधन सत्यामुदे नेतुमात्मनाज्ञप्ते गरुत्मति तदुशमं विज्ञाय तटमुवि सञ्चरत्सु गोत्रजेषु तेषु जलधिं विशत्सु गरुडेपि निज- गरुद्घातेन सन्दर्शितपथमपांनिधि तं प्रविश्य तद्बोधनं निखिलमपहर्तुमारभ- माणे सपदि रणाय तत्र सन्नद्रं वारुमं बलमखिलमात्मशरपरम्परया विद्राब- श्री हरिवंशचम्प्या यन् वरुणमपि निनास्त्रधारिणं सपदि निजवैष्णवास्त्रेण संस्तम्भयन् बाणेन सह जीवन्नमोक्ष्यामि त्वद्गोधनमिति स्वसमयबन्धमाख्याय स्वचरणौ शरणमुपगते स्तुतिरवमुखरितदिङ्मुखे तस्मिन् प्रचेतसि कृपया विहाय तद्बोधनं विहाय- सैव निजैस्सह निजरथेन गरुत्मता शतमखमुखैरखिलबहिर्मुखैरनुगत एव म- हर्षेठिरमिव नानालङ्कारवती द्वारवतीमाससाद ॥ ५ ॥ अथ दिवमुपयाते सर्वदेवस्सहेन्द्रे सदसि विशदयंस्तद्वाणयुद्धं यदूनां । भुखमरमत कृष्णः पुत्रपौत्रैः परीतो निजपुरि बसुदेवं तोपर्यन्नाहुकं च ॥ ११ ॥ उपया च युतस्तंत्र रेमे रतिसुतोऽपि सः । कुम्भाण्डकसुतां प्राप्य साम्बोऽपि समनन्दत ॥ १२॥ एवंविधानि चरितानि हरेबिचित्रा- प्रयच्यानि सन्ति शिशुपालवधादिकानि । सन्दर्शितान्यपि रणे कुरुपाण्डवानां तान्यत्र नैव कथितानि पुरा श्रुतानि ॥ १३ ॥ इत्युक्त्वा स पुनः प्राह सूतः कल्पेऽपि पौप्करे । वाराहे नारसिंहे च यद्वृत्तं वामनेऽखिलम् ॥ १४ ॥ इति श्री भारद्वाजकुल जलधिचन्द्रेण दासप्पार्यपौत्रेण वैकप्पार्यपुत्रेण वैकोवाचार्यशिष्येण वेंकटसूरिणा विरचिते हरिवंशचम्पा दशमो विलासः ।। ---* समाप्तोऽयं ग्रन्थः *- अनेन भारतीरमणमुख्यप्राणान्तर्गत कृष्णवेदव्यासात्मक श्री श्रीनिवासः प्रियताम् . श्री कृष्णार्पणमस्तु *- soup

No text on this page.

Shriiharivan'shachampu

Author
Pand-d'itaratna Rayapaalya Raaghavendraachaarya
Title
Shriiharivan'shachampu
File name
Shriiharivan'shachampu
Text
OCR done
Citation
1923
Published
2005/10/06
Publisher
Shrii Jayaalayayantra Maisuuru
Language
Sanskrit
Pages
114
Library
Vysaraaja Mattam
Classification
Language. Linguistics. Literature
Keywords
pand-d'itaratna rayapaalya raaghavendraachaarya
DLI number
368667
Barcode
5010010017999.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
gz1kJPHae8c
Download PDF

Shriiharivan'shachampu