Allahabad University

Karanarajurnium

Sastracharaya Vindasawari Prasad Sastri · 25.06.06

PDF Proofread

Front matter

कर्णार्पुनीयम् महाकाव्या
भारत-शासन-शिक्षा मन्त्रालय-प्रदत्त-वित्तीय-साहाय्यत. मुद्रितम्
रचयिता
शाखाचार्य-विन्ध्येश्वरीप्रसादशात्री
प्राप्तिस्थानम्
स्वयम्भाति-पुस्तकालयः
४३११७ सदानन्द बाजार, वाराणसी।
कादः १८६६.
मूल्यम् २.२५

प्रकाश...
श्रीविश्वरी प्रसाद शास्त्री
जी ४३ १७, सदानन्द बाजार, वाराणसी
আবশীঘবদ্যাঝিথা।
शोधनेऽस्य श्रमो यादृक् कृतः सोऽस्त्यतिगुर्लभः ।।
मुद्रका
समीनाराम शीतला प्रेन,
बारमिली।

विपभिदपभिमानां शुभाशंसनानि श्रीमता मतिमता भव्यकाव्यकर्मवमवस्थेन परिखतमण्डन-श्रीविन्ध्येश्वरी प्रसादमिश्रशाखिमहाशयेन सन्धं कलितललितपदवन्धं प्रसन्नमपि गम्भीर प्रसिद्धम् अपि दुरूहं तुलनात्म: नातिविस्मृतं उदयप्राहि भारतपद्मपुराणप्रमुख- प्रमाणविहितोपष्टम्भ वीररसोपहितं युवजनप्रियं प्रवाहमयं शिक्षाप्रद सौम्य सुभगं स्पृहणीयतागुणगणगौरवारितं "कर्णार्जुनीयम्" नाम महाकाव्यं समनुसन्धानप्रधानं समाकलव्य नितरां प्रीणितो "भवन्ति भव्येषु हि पक्षपाता" इति न्यायेन समावर्जितोऽस्य. यशःभियं असमरामुत्तरोत्तरं निभालायितुं स्पृहयालुरदसीयं प्रचार-प्रसारं सर्वते मुखं काङ्क्षन् शुभाशंसनशतैर्ग्रन्थमन्थनटीयसः कवेः कृतिं च कमनीयां पूरयन् हस्ताहास्ति गृह्यमाणतां गुणगृध्नुभि सत्त्वरं सम्पाद्यमानां वाञ्छति। इत. पूर्व मतेन कविना "महर्षिश्रीज्ञानानन्दचरितम्" महाकाव्यं त्रयोनिंशतिसर्गात्मक सन्धम इति जास्वा नितरां प्रसीदति। महेश्वरानन्दसरस्वती काम्नाय-काशीस्थ-घुमेरपीठाधीश्वरः (पूर्वाश्रमे कवितार्किकचक्रवर्ती, पण्डितशिरोमणिः, हिन्दू विश्वविद्यालयीय- संतमहाविद्यालय भूतपूर्वाभ्यक्षः) I am glad to write that Pandit Vindhyeshwari Prasad Shastri has been personally known to me for a very long time. He has been rendering valuable service to the cause of Sanskrit Learning for about 30 years' by editing Sanskrit Journals, writing a series of books in Sanskrit and in various other ways. I wish wide circulation of his valuable book 'Karnarjuniyam'. Sd. Gopinath Kaviraj Mahamahopadhyaya, M. A., D. Lit. Late Principal, Govt. Sanskrit College, Varanasi.

कर्णार्जुनीयम् महाकाव्यम्
प्रथमः सर्गः
श्रियं समुद्धर्तुमनाः स यो निजामयोनिजां मैथिलनन्दिनीं प्रियाम् ।
विधाय मैत्री दिननाथम नुना महेन्द्रपुत्रं निजधान राघवः ॥१॥
कृतं तदालोक्य मधुच्छिदोऽप्रियं दिवस्पतिः स्वीयमनस्यखिद्यत ।
स्वयं तदभ्यर्णमुपेयुषाऽमुना हरेरुपालब्धिरनुष्ठितेदृशी ॥२॥
सतां मतस्त्वं हि पुराणपुरुषो नरेन्द्ररूपः श्रुतिसेतुपालकः ।
अहो त्वयैतत् किमकार्यशोभनं नराधमेनापि च यद् विगर्हितम् ॥३॥
नरो निषादोऽपि परापवादतो भयेन शोकार्णवविप्लुतोऽपि वा ।
अधर्म्यमस्वयंमकृत्यमीशं समाचरेनैव
निजार्थसिद्धये ॥४॥
स्वसम्मुखं नन्ति समागतान् द्विषो धनुभृतः क्षत्रियधर्मवित्तमाः ।
परेण युद्धे निरतं निरागसं निहन्ति कोऽन्यो निभृतो भवानिव ॥॥
तवास्ति चेत्स्वार्थविचेष्टितं मतं तथापि मत्स्नुवधस्तु नोचितः ।
दशाननो यस्य निदेशमात्रतो हृतां स सीतां भवते समर्पयेत् ॥६॥
समीपगं संगरकामुकं पुरा निशाचराणां पतिमात्तकामुकम् ।
निगृह्य कक्षे सुररक्ष यो बली स मे सुतः कस्य न कर्णगोचरः ॥७॥

२
[कर्णार्जुनीये
निदर्शनं क्षत्रियधर्मपालने तवावतारोऽस्ति विकर्त्तनान्वये ।
जगत्स्वमर्यादितकर्म कुर्वतो मनो ह्यधर्मत्रपया न दूयते ? ॥८॥
विकर्त्तमाकर्त्तमकर्चमीश्वरः प्रभुस्त्वमेवासि परं न मन्यसे ।
अतो निजे चेतसि यद् यदीहसे भुवीह तत्तद् विदधास्यशङ्कितः ॥६॥
विधीयमानेऽम्बुधिनन्थने पुरा जगजिहीर्षद् विषमुल्वणं त्वया ।
विनिर्गतं भूधरराजकन्या-प्रियाय दत्तं प्रमथाधिपाय तत् ॥१०॥
महीयसी. वामदृशां गरीयसी सुहासिनी विश्वजनैकमोहिनी ।
समाददाते कमलालया त्वया समस्तरत्नप्रवरश्च कौस्तुभः ॥११॥
ऋतानृतं त्वं वचनं न मन्यसे सदैव धर्मात्मतया विकत्थसे ।
स्वमायया विभ्रमशीलया जगद् विवर्तयन् मोदमवैषि चात्मनि ॥१२॥
तमात्मनीनं नियम सुविभ्रती प्रशंसनीया गणिका च गण्डकी ।
त्वयाऽपका कुटिलस्वभावतः स्वधर्मतो दंशयितुं परीक्षिता ॥१३॥
अनन्यधन्या गुणगौरवान्विता त्रिलोकमूर्धन्यमिता पतिव्रता ।
प्रसिद्धजालन्धरगेहिनी त्वया तदीयपत्यात्मभृता विगर्हिता ॥१४॥
निशम्य वाचं सुमनस्पतेरिमामुदीरितां तां रघुवंशभूषणः ।
स नैव चुक्रोध न वै विसिस्मिये भवन्ति सन्तो निगृहीतचेतसः ॥१५॥
तमुक्तवन्तं मघवानमीदृशं जगाद भूतं भवितव्यमीक्षिता ।
विधातृकृत्यं न तवास्ति गोचरं त्वयेहगस्मात् समुदीरितं वचः ॥१६॥
अयं महागाः श्रुतिविश्रदीपकुजहार पत्नीमधमोऽनुजन्मनः ।
विजानताऽतोऽस्य वधो मया कृतः स्वधर्मरक्षावतिनो हि भूभृतः ॥१७॥
सुता सुतस्यापि वधूः सहोदराऽनुजस्य जाया च समा इमा' मताः ।
विनिक्षिपेद् गर्हितदृष्टिमासु यो न तद्वधे दोषमुशन्ति साधवः ॥१८॥

३
प्रथमः सर्गः]
महौजसस्ताञ्जनताऽपकारिणः स्वधर्मगोप्ता जन-ताप-कारिणः ।
मृगान् विनिम्नन् निभृतोऽपि भूपतिर्विगीयते नैव विपश्चिता श्रुतेः ॥१६॥
अधर्मकृद् द्विड विनिपातितो मया निजो विपन्नश्च सुहृत् सुरक्षितः ।
कृतः स्वपत्नीविचयोऽपि सिद्धिदः सदाहता व्यर्थकरी मम क्रिया ॥२०॥
उभाविमौ बालिदिनेश्वरात्मजौ निबद्धवैरौ निजपूर्वजन्मतः ।
सपत्नभावेन परस्परं हतौ न मोक्षमधाप्यधिगन्तुमर्हतः ॥२१॥
प्लवङ्गमत्वं परिहत्य मुक्तिदं मनुष्यरूपं जननान्तरे यदा ।
ग्रहीष्यतो मृत्युमुपेत्य यास्यतो ध्रुवं हि निर्वाणपदं सुदुर्लभम् ॥२२॥
अयं सुकण्ठस्त्वतितिग्मतेजसो जनिष्यतेऽस्यां भुवि कर्णनामतः ।
तवात्मजो बालिरसौ पुन र्जनुः प्रपद्य नूनं भविता तथाऽर्जुनः ॥२३॥
उभौ तु दुर्धर्षधनुर्धरौ मतौ परस्परं स्वं विजयं रणाङ्गणे ।
समीहमानौ नितरां भविष्यतः सुरासुराणामपि विस्मयावहौ ॥२४॥
जनिष्यमाणौ त्रियुगात्यये विमौ द्विजन्मदौ चापि सदेकमातृकौ ।
विधेविधानेन महामहीभुजां निदानतां स्वर्गगतेर्गमिष्यतः ॥२५॥
द्वयोर्महाभारतनाम्नि संयुगेऽवलम्बमाश्रित्य मया असिष्णुना ।
क्षयेण दैत्यप्रतिरूपभूभुजां वसुन्धराभार
इहाहरिष्यते ॥२६॥
छलानृताधर्ममुपेयुषा मयाऽवतीर्य नूनं वसुदेवसद्मनि ।
तवात्मजेनांशुमदात्मजन्मवान् महाबलीयानपि घातयिष्यते ॥२७॥
प्रपूर्णसच्चिन्मुदमाप्य सम्भवं भवे न मे किञ्चिदसम्भवं भवेत् ।
अतोऽवतारेऽत्र विमुग्धचेतसो भवन्ति नित्यं बहवो विपश्चितः ॥२८॥
स्वमायया प्रत्यहमामृत्स्नया यदृच्छया पात्रचयं कुलालवत् ।
सृजाम्यनन्तं विसृजाम्यनेकधा न पारतन्त्र्यं भजते मतिर्मम ॥२६॥

४
[कर्णार्जुनीये
वचः समाकर्ण्य धरात्मजापतेस्तुतोष किञ्चिच्च जगाम वृत्रहा ।
प्रवृत्तिमेतामनुसृत्य बुध्यते स्वयम्भुवा कर्णवधो बिनिश्चितः ॥३०॥
व्यजेष्ट कर्ण यदि वीरमर्जुनस्तथाऽपि कर्णो विजयीति मे मतिः।
पराजितस्यापि यतो ह्यधर्मतः श्रुतेरभिजियः प्रकीर्तितः ॥३१॥
निपातितेऽस्मिन् वसुषेण आहवे निनिन्द पार्थ गगनेरितं वचः ।
रथाङ्गपाणिः कपिकेतुसारथिः स चापि तत्कालमभून्नताननः ॥३२॥
अनूनमस्यापि बलं, पराक्रमो धनञ्जयस्यापि च नूनमद्भुतः ।
सदद्वितीयं चरितं समुन्नतं तथापि कर्णोऽभिमतस्ततोऽधिकः ॥३३॥
महत्त्वमेतश्च समस्तमार्जुनं परस्य पुंसो हि भवत्यपेक्षितम् ।
तरिस्तदीया न च पारमाश्रयेन कर्णधारो भगवान् भवेद् यदि ॥३४॥
यदा स मध्ये स्थित पास सेनयोर्द्वयोश्च मूढत्वमुपागतस्तदा ।
गरुत्मकेतोरनुशासनादृते भवेत् तदीया वत कीदृशी गतिः ॥३५॥
यदा न चेत्स्यन्दनवाहको भवेज्जगत्पतिः श्रीवसुदेवनन्दनः ।
प्रसिद्धगाण्डीवधरोऽपि पाण्डवो मृधेन तिष्ठेद् विजयस्य का कथा॥३६॥
अशेषशक्तः किल केन्द्रमुच्यते स एव नूनं भगवानधोक्षजः ।
अवैदिदं धामनिधेस्तनूजनुः परं न विद्वानपि पाण्डुनन्दनः ॥३७॥
अरण्यमार्गाच्चरतोऽर्जुनस्य ते वनौकसो यष्टिभिरस्य कार्मुकम् ।
अनैषिषुनिष्फलतामसौ तदाऽवधारयामास महत्त्वमीशितुः ॥३८॥
समीक्षमाणस्य च तस्य सम्मुखं वनेचरन्तः समपाहरन् स्त्रियः ।
चकार तेषां न च किश्चिदप्रियं स्वरूपतो वेद तदा स शाङ्गिणम् ॥३६॥
सदैव कर्णो भगवत्प्रभावविद् बभूव चैतन्निगदन्ति सूरयः ।
द्वयोस्तु कुन्तीसुतयोर्यदन्तरं विदो महाभारतवेदिनो विदुः ॥४०॥

प्रथमः सर्गः]
५
विधेविधिश्चेन यदा प्रतीपगोऽभविष्यदेतस्य वरीयसोऽर्जुनात् ।
सुरासुरेष्वप्यतुलो महायशा न चैकवीरोऽयमघातयिष्यत ॥४१॥
वदन्ति केचित्तबलं विधेलं विपश्चितोऽन्ये पुरुषार्थमेव च ।
परेऽवगच्छन्त्युभयोः समानतामिहकमत्यं सुधियो न बिभ्रते ॥४२॥
यथैकचक्रण रथस्य नो गतिर्न चैकपक्षण खगो विसर्पति
तथैव नूनं पुरुषार्थमन्तरा न भागधेयं हि फलाय कल्पते ॥४३॥
क्रिया च दिष्टं च परस्पराश्रिते दशा तदीया भुवि बीजवृक्षक्त् ।
उभे विमे स्यन्दनरूपजीवन-प्रवाहसिद्ध्यै ब्रजतः समानताम् ॥४४॥
गुरुक्रिया देवबलानुसारिणी शिरोऽङ्कितं दैवमपि प्रबाधते ।
परन्तु भूमाविह पारमेश्वरं समीहितं व्यर्थयितुं क ईश्वरः ॥४५॥
अधर्मपक्षाश्रयणेन न ह्यसौ विपक्षभूतेन न माधवादिना ।
मृतोऽप्यदृष्टादमृतो धरातले स जीवितो यस्य जयन्ति कीर्तयः ॥४६॥
महोग्ररूपाश्रितपौरुषाग्रतो विधिप्रयुक्तं वत ननननम् ।
समीहते यश्च सुधीः समीक्षितुं स च ध्रुवं कर्णकथामृत पिबेत् ॥४७॥
स विश्वविश्वासजुषां पुरस्सरो धुरि स्थितो मानभृतां मनस्विनाम् ।
तपस्विनां शीर्षमणिर्यशस्विनां सतां मतः सूनृतसत्यवागपि ॥४८॥
निरस्तचन्द्रप्रसरद्गभस्तिभिः शिलासु चोत्कीर्णयश प्रशस्तिभिः ।
नमद्रिपुत्रात उपेन्द्रविक्रमश्चिराय कर्णः स जयत्युदारधीः ॥४६॥
चरित्रवान् साधुगुणेषु यो महान् प्रलोभनग्रस्तमतिर्न चापि यः।
अनेकशः कृष्णसुगीतसद्यशाः स एव भाग्यादधरीकृतो नृपः ॥५०॥
सुपर्वपुत्रोऽपि च सूतसम्भवो नरेन्द्रवंश्योऽपि च सारथिर्मतः ।
पराक्रमध्वस्तनृपेन्द्रमण्डलो महारथश्चार्धरथस्तु स स्मृतः ॥५१॥

w
[ कर्णार्जुनीये
स धृष्टबुद्धिगुरुभिः प्रदर्शितो विनम्रशीलो विनयी भवन्नपि ।
महात्मवांश्चापि दुरात्मतां गतः समस्तमेतद्धि विधेविडम्बितम् ॥५२॥
नरः कुलीनोऽपि च वीरपुङ्गवो विविक्तचित्तोऽपि च सत्यवागतः ।
दृढव्रतो दानिशिरोमणिश्च वा स नैव दैवं समतीत्य वर्तते ॥५३॥
निजैः सुपूर्णैरवतारमंशकैः सुबिभ्रतस्तस्य पयोधिजापतेः ।
गतिः खलोके तु निषादसायकादबश्यमेतद्धि विधेविजृम्भितम् ॥५४॥
स रामचन्द्रोऽपि परात्परो विभुर्न चाधिगत्य प्रभुणापि चार्पितम् ।
स्वयं स्वपित्रा प्रजया प्रजेश्वरैः स्वराज्यमागानिजदिष्टतो वनम् ॥५५॥
पिशाच-विद्याधर-यक्ष-सिद्धकोरगेषु रक्षो-नर-किनारेषु वा।
न कोऽपि देवेष्वसुरेषु वर्चते य ईश्वरः स्यात् स्वविधरतिक्रमे ॥५६॥
न पापसंगेन न चैव विष्णुना विपक्षपदं श्रयता न जिष्णुना ।
अदृष्टयोगेन दिनेशनन्दनो हतोऽप्यगाद् विश्वजनै कवन्द्यताम् ॥५७॥
न ना हिरण्याक्ष-तदात्मबान्धव-प्रलम्ब-मारीच-समान-नामधृक् ।
नृशंसकंसस्य च रावणस्य वा सदृक्षसंज्ञो भुवने विलोक्यते ॥५॥
न कन्यका शूर्पणखा च ताडका सदन्वयोपात्तजनुः समीक्ष्यते ।
निदानमस्त्यत्र तु पापमेव वै परन्तु कर्णस्य न तादृशी स्थितिः ॥५६॥
जगत्सु तत् कर्णपुरं सुविश्रुतं श्रुतं च कर्णैः किल कर्णनाम च ।
न चास्ति यः पञ्चमवेदवित्तमः स एव कर्णं नृपतिं विनिन्दति ॥६॥
बुलन्दनाम्नो नगरस्य सन्निधौ चकास्ति तीर्थ खलु कर्णवासकम् ।
त्रिमार्गगायाः शुचिरोधसि स्थितं स यत्र कर्णः समुपास्तिमाचरत् ॥६१॥
पवित्र तीर्थाश्रित-बादराश्रम-प्रयाण-मार्गोल्लसितं
सुखाकरम् ।
प्रयागतीर्थं विह कर्णनामतोऽनवद्यमद्यापि निवेव्यते जनैः ॥३२॥

प्रथमः सर्गः]
स्थलीयमास्ते नितरां सुखप्रदा तपोधना सततं समाश्रिता ।
इहैव भूमावलकादिनन्दया समीयते पावनकर्णगङ्गया ॥६३॥
नदीद्वयस्थास्य च यत्र सगमो विभाति कुण्डं शुचि कर्णनामकम् ।
महत्तपस्तत्र चचार सुव्रतस्तपोधनानामपि धुर्यतां गतः ॥६४॥
पुराण्यनेकानि च कर्णनामतो लसन्ति तीर्थानि मनोहराणि च ।
यशस्ततिस्तस्य भुवस्तले चिरं तदीयपित्रा सह वासमेष्यति ॥६५॥
स विग्रहे वीररसैकविग्रहोऽर्जुनेन कर्णो विनिपातितो या ।
सखायमादाय स विष्णुरर्जुनं परीक्षितुं तं म्रियमाणमागतः ॥६॥
निजस्वरूपं सुनिगूह्य भास्वरं महीसुरत्वं भजमान ऐरयत् ।
श्रुतो मया दानिषु विश्रुतो भवान् प्रदीयतां स्वर्णमिहास्ति चेत्तव ॥६७॥
ततः स ारात् स्थितमश्मखण्डकं कथञ्चिदादाय च तेन सद्दान् ।
निजान् समुत्पाव्य निगृह्य तद्गतं सुवर्णमस्मै विततार सुव्रतः ॥६॥
तदा प्रसन्नः स च विष्टरश्रवाः स्वरूपमास्थाय पुनस्तमब्रवीत् ।
अहो नु भो दानिशिरोमणे ध्रुवं यथाभिलाषं वरमर्थयाऽधुना ॥६९॥
उवाच कर्णो मम चान्तिमक्षणे भवानभूदर्शनगोचरः स्वयम् ।
इतोऽधिकं किं वरणीयमस्ति मे यतो भवदर्शनमद्य मोक्षदम् ॥७॥
चिराय सर्वे मुनयो महर्षयो गृणन्ति ते नाम विमुक्तिदं प्रभो ।
यतो भवानन्तिमकाल आगते स्मृतिं गतः स्यादपुनर्भवाय नः ॥७१॥
रणे हतो वीरगति गतस्तथा त्वमीश्वरो मेक्षिपथं समाश्रितः ।
वृणे किमन्यद् वरमात्मतुष्टये विमृश्य बुद्ध्यापि न वेम्यहं विभो ॥७२॥
तथाप्यये तत्रभवनिदेशनं विमानतां नेतुमहं न पारये ।
अतस्तवाग्रे विनये कृताञ्जलिममाभिलाषो न भवेत् कचिद् वृथा ॥७३॥

5
कर्णार्जुनीये
त्वमेव देहं किल मामकं प्रभो गतासुमेतं भुवि भस्मसात् कुरु ।
सुरासुराणां च मनुष्यरक्षसां न यत्र दाहः प्रबभूव कस्यचित् ॥७४॥
निशम्य कर्णस्य वचस्तदीदृशं न चाधिगत्य स्थलमत्र तादृशम् ।
तदर्हणीयं शवमात्मनः करे निधाय कृष्णः प्रददाह सादरम् ॥७५॥
स्वपुण्यतो विष्णुपदे चितिं श्रितः सुसंस्कृतो निई तिमेति चेचदा ।
कराजमारोप्य ददाह यं प्रभुन तस्य मुक्तावणुमात्रसंशयः ॥७६।।
तिरोहिते. चात्र जनार्दने विभौ सबान्धवः शोकपयोध्युपप्लुतः ।
धनञ्जयो मृत्युमवाप यादृशं स कस्य विज्ञातचरो न वर्चते ॥७७॥
लोके यदिहान्तरं निगदितं सर्वत्र सूर्येन्द्रयो-
स्तद्वत् तत्सुतयोश्च सम्भवमिति स्वाभाविकं विद्यते ।
यद् गीतं चरितं यथार्थमसकृत् कर्णार्जुनीयं हि तद्
व्यासेन प्रभुणा प्रदत्तसरणि-वक्ष्येऽनुरूपं मतेः ॥ ७८ ॥
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकव्ये प्रथमः सर्गः समाप्तः
अथ द्वितीयः सर्गः
शूरसेननृपतिः स्वतेजसा विश्रुतः समभवद् यदोः कुले ।
तस्य निर्मलसुधाकरानना मारिषाऽस महिषी पतिव्रता ॥१॥
एतयोर्दश सुताश्च कन्यकाः पञ्च शुभ्रयशसः प्रजज्ञिरे।
आत्मजेषु वसुदेव उत्तमः कन्यकासु च पृथा गरीयसी ॥२॥
तस्य वीरनृपतेः पितुः स्वसुः कुन्तिभोज इति नाम भूपतिः ।
संबभूव तनयोऽनपत्यकस्तेन नजतनुजा पृथा कृता ॥३॥

& द्वितीयः सर्गः] भ्रातृषु स्वभगिनीषु चापि वा ज्यायसी तु समभूत् पृथाऽभिधा । कुन्तिभोजपितरं समाश्रिता कुन्तिकेत्यपि दधार नाम सा ॥ ४ ॥ सर्वसौम्यगुणराशिसंयुतां कन्यकां स समवाप्य शोभनाम् । भार्यया निजजनैश्च संयुतः कुन्तिभोजनृप आददै मुदम् ॥ ५ ॥ होपित-स्वबदनोल्लसच्छटा-शारदीय-वर-शर्वरीश्वरी । वृद्धिमाप जनकेन सा यदा संन्ययोज्यतिथिसत्कृतौ तदा ॥६॥ सन्ततेस्तु हितकाम्यया पुरा मातरश्च पितरश्च वत्सलाः । आतिथेयपरमार्थकर्मसु प्राक्तना निजसुता न्ययुञ्जत ॥७॥ भूतभव्यपरिदर्शिनो मताः साधवो बदरवत् समं जगत् । लोकयन्ति निजसत्तपस्यया दुष्टदिष्टमपि कुर्वतेऽन्यथा ॥ ८ ॥ नास्ति पुण्यमतिथेः समर्चनादन्यदित्थमवधार्य भूपतिः ! प्रेयसी स्वतनयां पृथामिमामार्पिपत्तदनवद्यकर्मणि ॥ ६ ॥ कुन्तिकाऽपि नृपसमसंगतानादरेण महताऽतिथीन् निजान् । पर्यपूपुजदनन्यमानसा भक्तिभावितहृदा मुदान्विता ॥१०॥ एवमेव नृपतेस्तनूजया स्वातिथेस्तु तिथयः सपर्यया । स्वार्थशून्यमनसाऽतिशान्तया यापिता बहुतिथा निरन्तरम् ।। ११ ॥ एकदा तु भवितव्यतावशाद् राजगेहमृषिराडटाव्यया । आग्रहअहिलमन्युविग्रहः दृष्यवसनस्तपोधनः ॥ १२॥ तं मुनि समवलोक्य हन्त दुर्वाससं च सचिवाः शशङ्किरे । मारिषाप्रभृतयो नृपस्त्रियोऽमङ्गलागमभिया चकम्पिरे ॥१३॥ प्राससाद विषसाद चाप्यसौ भूपतिस्तु समकालमात्मनि । प्राससाद स ऋषेः समागमान्मन्युतोऽस्य विषसाद शापतः ॥१४॥ प्राप

ad
[कर्णार्जुनीये
अर्चनं स मधुपर्कमिश्रितं संविधाय नृपतिः कृताञ्जलिः।
अब्रवीदयि मुनीन्द्र किन्त्वया निःस्पृहेण मम सम पावितम् ॥१५॥
प्रत्युवाच मुनिनायकोऽप्यसौ प्राञ्जलिं मनुजनायकं त्विदम् ।
अब्दमेकमहमत्र ते गृहे वस्तुमस्मि कृतधीः समागतः ॥१६॥
तनिशम्य वचनं महामुने पतिस्तु परिशङ्कितोऽप्ययम् ।
प्रोक्तवानयि महर्षिसत्तम स्वागतं सविनयं ब्रवीमि ते ॥१७॥
मादृशोऽस्ति न हि कोऽपि भाग्यवास्तिग्मरश्मिमिव भाखरप्रभम् ।
त्वादृशं त्रिभुवनेषु विश्रुतं प्राप्तवान् यदतिथिं तपोनिधिम् ॥१८ ।
अत्यवर्षणविपन्नमानसो दीर्घकालतृषितस्तु चातकः ।
अम्बुवाड्विरहिताद् विहायसः खातिकाम्बुवरविन्दुमाप्तवान् ।।१६।।
निर्जरादिभिरचिन्त्यवैभवस्तापसोत्तमभवादशोऽतिथिः ।
न ह्यकारणमये
महीभुजः सम कस्यचिदिहोपढौकते ॥२०॥
वार्थसाधनमनेन देहिना निःस्पृहस्य भवतो न किञ्चन ।
त्वं तु दीनमुपकर्तुमागतः सन्त्युदीर्णतपसो दयालनः ॥२१॥
राजकीयमचलं चलं च यद् वस्तु सौख्यजनकं मम ध्रुवम् ।
वेदनीयमखिलं तदात्मनोऽधीनमत्रभवता
हितैषिणा ॥२२॥
आतिथेयनिलयं तपोधनं संगमय्य निखिलर्तसौख्यदम् ।
आसने समुपवेश्य शोभने प्राविशत् स निजमन्तरालयम् ॥२३॥
आजुहाव च जगाद पार्थिवस्तां पृथां वररुचा प्रथीयसीम् ।
भीषणस्य तु परीक्षणस्य ते पुत्रि हन्त समयः समागतः ॥२४॥
आगमन्मम गृहेऽद्य सोऽतिथियोऽस्ति मूर्तिरिव मन्युशापयोः ।
तं प्रसनवदनं न कोऽपि ना कोपिनं वत ददर्श भूतले ॥२५॥

: द्वितीयः सर्गः] ११ खल्पहेतुवशतोऽपि कर्हिचित् कोपनः स विकृति गतस्तदा । बालयापि नतभालया त्वया नैव शान्त्वयितुमेष पार्यते ॥२६॥ श्वः परश्व इह वासरानसौ पञ्चषानपि न वस्तुमागतः । यापयिष्यति वतैकहायनं तेन पुत्रि मम हृत्प्रकम्पते ॥२७॥ मा विषीदतु भवान् स्वसेवया तं मुनि ध्रुवमहं प्रसादये । ईदृशीं गिरमुदैरयत्पृथा शान्तिमाप धरणीपतिस्तदा ॥२॥ तामृषेः पदसरोजमानयन् सादर च नतिपूर्वमर्पयन् । स्थापयञ्छिरसि नैजमञ्जलि भक्तिविह्वलमना प्रभाषत ॥२६॥ हे मुने वियमबोधबालिकास्त्यागता तव निदेशपालिका । हस्वचञ्चदलका कनीनिका नेत्रयोर्मम तथा स्त्रियश्च मे ॥३०॥ चेत्प्रमादमपि कञ्चनाचरेदातिथेयभवदर्चने शान्तिमर्हति तपोधनस्य ते सन्मनांस्यतिमृदनि सन्ति हि ॥३१॥ क्ष्माभृता तु वचनं यदीरितं स्वाङ्गितेन मुनिना समर्थितम् । सनियुज्य ऋषिसत्कृतौ पृथां प्रस्थितः स्वनिलयं महीपतिः ॥३२॥ नव्यभव्यनवनीतकोमला कुन्तिभोजतनया यशस्विनी। आतिथेयकठिनक्रियास्वियं व्याप्ताऽऽस्त सुमतिर्मनस्विनी ॥३३॥ भूतले न हि जगत्त्रयेऽपि यः सर्वलोकविदितो विषद्रुमः । कुन्तिकार्थममृतोपमं फलं दास्यतीति क इहानुमन्यते ॥३४॥ एष्यद्भुत-विपत्सहिष्णुता-शिक्षणाय भरतान्वयस्य च। रक्षणाय मुनिपुङ्गवः स्वयम् आतिथेयमिषतः समागतः ॥३५॥ तदिनादृषिवरः कठोरखागवज्रमेव सततं सततं विनिक्षिपन् । तां परीक्षितुमनेकरूपतो व्यापृतोऽभवदसौ नृपात्मजाम् ॥३६॥ विधौ।

१२ [कर्णार्जुनीये अर्चने च सवने निरन्तरं भोजने च शयनेऽन्यकर्मणि । दोषमेव परिदर्शयन् मुनिः क्रोधकम्पिततनूरदृश्यत ॥३७॥ यद्यदादिशति तत्तदेव सा प्रेरितेव तडितोऽतिरंहसा । पर्यपूरयदियं सदा वशंवादिनी नृपतिकन्यका नृपतिकन्यका द्रुतम् ॥३८॥ हन्त तादृशसपर्यया दृषच्चेद् यदा परिदधाति विद्रुतिम् । कोमलं सुपिशितासृगुद्गतं तत् तपस्विहृदयं न किं द्रवेत् ॥३९॥ जातमद्य हि खपुष्पदर्शनं पश्चिमे समुदितो दिनेश्वरः। शश्यशृङ्गमपि दृश्यतां गतं क्रोधनास्यमभजत् प्रसन्नताम् ॥४०॥ स त्रिकालविदनन्तबोधधृग् दृष्टवान् स्वसुसमाधिमास्थितः । सन्ततिर्न च जनिष्यतेऽनया शापभृन्निजपतेः समागमात् ।।४१॥ भूप्रशस्तधनधान्यसम्पदां भोग आत्मसुखसाधनं च यत् । तत्समस्तमपि पुत्रजन्मतस्तुच्छमेव गणयन्ति मातरः॥४२॥ इत्यवेत्य मुनिना प्रसीदता व्याहृता वरय शोभने वरम् । पुत्रि तेऽस्त्यभिमतं च यद् ध्रुवं दास्यते तव मनोरथाप्तये ॥४३॥ क्रुत्प्रसचिरपि जातु नैव मे बन्ध्यतां हि भजतो नृपात्मजे । श्रद्धया च सुविविक्तया त्वया मन्त्र एष मम दत्त प्राप्यताम् ॥४४॥ एतदद्भुतमनोः प्रसादतः काम्यमान उपढौकतेऽमरः। पुत्ररत्नमपि तेन पुत्रिके प्राप्स्यसीति न हि मे वचो वृथा ॥४५॥ मन्त्रराजमुपदिश्य निर्गते दुष्यवाससि महर्षिपुङ्गवे । बाल्यभावत इमं परीक्षितुं कौतुकान्वितमनाः पृथाऽभवत् ॥४६॥ शैत्यशोभन ऋतौ समुद्गतं तिग्मरश्मिमचलैकदीपकम ।

द्वितीयः सर्गः1 १३ मन्त्रराजसुपरीक्षणाय सा बालधीरपरिहार्यनिश्चया। आस्थिता च परिशुद्धमासनं ध्यानमममनसाऽऽह्वयद् रविम् ॥४८॥ तत्क्षणात् परमकान्तविग्रहः कश्चिद्भुतवपुर्नराकृतिः । प्रादुरास सहसा तदन्तिके साऽभवत्तमवलोक्य विस्मिता ॥४॥ वासरेश्वरमुपस्थितं पुरो वीक्ष्य सा सरमसं ह्रियाऽन्विता । कुड्मलीकृतकराम्बुजा निजात् कुन्तिका समुदतिष्ठदासनात् ॥५०॥ व्याजहार विनयानतानना कम्पिताङ्गलतिकाऽतिविभ्यती। क्षम्यतामयि महामहोनिवे दोष एष मम बाल्यवापलाद् ॥५१॥ अन्तरात्मडगये त्वदागमाऽभ्यर्थने मम कदापि कुत्सिता । भावना न हि मनागपि प्रभो वर्तते सशपथं ब्रवीमि ते ॥५२॥ नूनमत्रभवतः समागमानच्यति प्रियकुमारिकाव्रतम् । उद्भवेदपि कलङ्क ईदृशः स्याद् यतो मम मृतिर्वरीयसी ॥५३॥ सवमेतदयि वोक्ष्य चेतसा त्व दयानिधिरुदात्तभावनः । धाम नैजमभिगच्छ हे विभो त्वत्पदाब्जमनघं समाश्रये ॥५४॥ आर्तभाषितमिदं हि कौन्तिकं संनिशम्य दिनकृत् स सस्मितम् । अब्रवीदखिललोकनायको दायकोऽतुलितसौख्यसम्पदाम् ॥५५॥ राजपुत्रि जनयित्रि नाकिनां भीतिरस्तु न तवान्तरात्मनि । मामको भवति पूतमानवीभागधेयजनितः समागमः ॥५६॥ मत्प्रसादमधिगत्य वन्द्यतां त्वं गमिष्यसि किलाजगत्स्थितेः। एनसामपि महामहीयसां स्यात् प्रहर्तृ तव नामधेयकम् ॥५७॥ नाशमेष्यति न ते कुमारिकाभाव इत्यपि वचो न मेऽनृतम् । सन्त्यपव्यघटनापटीयसां मादृशां न हि सदुक्तयो वृथा ॥५८।।

च [ कर्णार्जुनीये राजतनये मयरितां नैव वाचमुररीकरिष्यसे । मातरं च पितरं च मन्त्रदं शापतः सपदि भस्मतां नये ॥५॥ स्पर्शमात्रसुविलुप्तचेतना संबभूव नृपकन्यका यदा। स्वांशमाशु च तदीयकुक्षिगं योगशक्तिमवलम्ब्य स व्यधात् ॥३०॥ प्रस्थिते च निजधाम भास्करे चेतनत्वमधिगत्य सा पुनः। स्वं वपुस्तु निजतल्पमास्थितं संददर्श नृपजा तपस्विनी ॥६१॥ वासरेषु गतेषु केषुचिद् गर्भलक्षणमपूर्वमद्भुतम् । साऽन्वभूदथ रहस्यमात्मनो धात्रिकामपि च पर्यवेदयत् । ६२॥ मातृका त्वमसि, नैव धात्रिका दुःखसिन्धुशरणप्रदात्रिका । यद् रहस्यमिदमम्ब तेऽभ्यधाम् गोपनीयमनिशं प्रयत्नतः ॥६३॥ मा विषीद नृपकन्यके भिया यत् त्वयोक्तमनघे ममाधुना । प्राणदानपणतोऽपि गोपये मङ्गलं तव सदैव साधये ॥६४॥ अपिलक्ष्यमदसीयमान्तरं गर्भचिह्नमभवद् यदा तदा। मावसौधगमनं च यत्नतः संन्यरोधि हितचिन्तया तया ॥६॥ येषु येवपि च वस्तुषु प्रभोरात्मजा प्रभवति स्पृहावती । तानि तानि निखिलानि चैतया सञ्चितानि च हितानि पूर्वतः ॥६६॥ रम्यभाद्रपदमासि संगते मन्दमन्दमभिवर्षति क्षितौ । सद्रवेऽम्बुधरमण्डलेऽद्भुतं पुत्ररत्नमसकावजीजनत् ॥६७॥ किं खिदेष रविरस्ति चापरः सञ्चयश्च तपसां त्विषामपि । पावकोऽस्त्यथ महानुभावको निश्चिकाय न च तं नृपात्मजा ॥६॥ सूतिकागृहमियं स्वरोकसा पूरयन्तमखिलं निजौजसा ।

वेधसा। द्वितीयः सर्गः] १५ सर्वसुन्दरतमस्य वस्तुनः सौम्यसारमपकृष्य निर्मितः शिशुरिति स्म मन्यते भूमिनाथतनया सधात्रिका ॥७॥ वक्षसस्तु परिरक्षकं समं जन्मनैव कवचं समुद्गतम् । सा विलोक्य सहजे च कुण्डले विस्मयाम्बुधिनिमज्जिताऽभवत् ॥१॥ पूर्णचन्द्रमिव यादसां पतिः प्रोच्छलद्वरतरङ्गमालिकः । स्वात्मजाननमवेक्ष्य तन्मनो मोदपूरमदधान्न चात्मनि ॥७२॥ यह्य चिन्तयदसौ तु यन्मया दत्तमस्ति जनुरस्य कन्यया । रामतीक्ष्णशरविद्धसिन्धुवत् तन्मनोऽपि च मरुस्थलायितम् ॥७३॥ लोकजन्यमपवादमात्मनो मृत्युतोऽपि च वरं विजानती । शोकसागरनिमनमानसा मूर्च्छयाऽऽशु निपपात भूतले ॥७४॥ बोधमाप्य शिशिरोपचारतो रुद्धकण्ठमतिशोकवाष्पतः। प्राह मेऽम्ब कथयस्व धात्रिके कि विधेयमधुना मया निशि ॥७॥ धात्रिका प्रतिजगाद वत्सला राजपुत्रि भज मा विषण्णताम् । सर्वजीवनिवहस्य निश्चितं भाग्यमेव बलवत्तरं सदा ॥७६॥ नाथहीनविपिने विसर्जितो जीवतीह ससुखं स्तनन्धयः । यत्नतोऽपि परिरक्षितो गृहे नाथवत्यपि न चैव जीवति ॥७७॥ यातिरम्यवरदारुपेटिका सर्वतोऽपि विपनिवारिका। वायुसेवनसुवृत्तरन्धिका वाप्रवाहदिशमेव गन्त्रिका ॥७॥ यां निरीक्ष्य परितोऽतिभीषणा विद्रवन्ति विविधा जलौकसः । यत्र बिन्दुरपि नैति बाह्यतः सा मयात्र विरचय्य रक्षिता ॥७॥ पेटिका वत निरैक्षि चैतया पूर्णशोकजलधौ न्यमज्ज्यत । अश्रुबिन्दुभिरुपेत्य संहतिं प्रावृडम्बुधर एधितो एधितो भृशम् ॥5॥ च [ कर्णार्जुनीये अक्षतांश्च दधिकुङ्कुमान्वितान् दूर्वया च सहितान् न्यवेशयत् । कोमलास्तरणकं च विस्तृतं सा चकार शिशुमङ्गलैषिणी ॥१॥ पेटिकान्तरमसावशाययनैजममृतपयोऽप्यपाययत् । तं सरिज्जलतरङ्गमानयत् क्लेशकम्पितकरा व्यसर्जयत् ॥८२॥ हे विश्वात्मन् मम मनसि चेदेनसो नैव लेशो जातस्त्यक्तः स च जनभिया यत्र यायात्प्रसीदेत् । सेत्युक्त्वाऽऽयात् सततगतिकप्रातिकूल्यं गतस्य क्षौमं केतोरिव निजसुत चान्वगाञ्चित्तमस्याः ॥३॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकव्ये द्वितीयः सर्गः समाप्तः M अथ तृतीयः सर्गः अश्वाह्वया सरिदियं न तथा गभीरा वर्षर्तुयोगमधिगत्य तरङ्गिताङ्गी । मञ्जूषया सह तया च समुह्यमानो बालः स दीर्घतनुचम्बलसंगतोऽभूत् १ चण्डा च चम्बलनदी परितोऽतिदीर्घा चञ्चत्प्रवाहमनिशं निजमादधाना। सिञ्चन्त्यनेकविधभूमिमसाविटावासान्निध्यमेत्य भजते रविनन्दिनीं ताम् २ बालोऽपि वेगमनुकूलमुपेत्य वायोर्मात्राऽपवादभयमाप्य विसर्जितोऽपि । दिष्ट्या निदिष्ट इव दिष्टवशात् स्वपित्रा स्वीयाग्रजाङ्कशरणं तरणं प्रपन्नः ३ कालिन्दि ! नूनमसि यत्प्रवरा सपत्नी नैजे विभर्षि हृदयेऽपरकान्तकृष्णम् । शप्तास्यतोऽसिततनुर्वृषभानुपुत्र्या किंवा यमस्य भगिनीति विभासि कृष्णा४ कृष्णासि यद्यपि च ते चरितं न कृष्णं पापात्मनां त्वयि निमजनमात्रतश्च । प्रक्षाल्य पापनिवहं भुवितान्विशुद्धान्सघोविधाय विदधासि विमुक्तियोग्यान् तृतीयः सर्गः] उत्सङ्गमिद्धमकुतोभयमेत्य तस्या बालो मरालविमलः स विशालभालः । देवर्षिभिश्च मुनिभिश्च महर्षिभिश्च शश्वनिषेवितटीमभजत् त्रिवेणीम् ॥६॥ देवापगायमनधर्मसहोदरोद्यत्-कल्लोलदोलितसितासितचामराभ्याम् । यो वीज्यतेऽक्षयवटोऽपि जगद्वरेण्यं नीलातपत्रमिह यस्य स तीर्थराजः।।७ कर्मस्वरूपमनघं समुपासनं च ज्ञानेन मुक्तिजनकेन सुसंगतं सत् । एकीभवत् त्रयमिदं परमे चिदब्धौ सम्पद्यते विलयमस्य गुरोः प्रभावात्।। सोमस्य चाक्षयवटस्य च वासुकेश्च शेषस्य भूमहिततीर्थपतेत्रिवेण्याः । श्रीमाधवस्य च सुनेरपि बालकोऽसावायुष्यशम्बलमवाप्य पुनः प्रतस्थे ॥ विन्ध्यं गिरि पुनरसावुपढौकमानोमानोन्नतं प्रणमनीयविशालकायम् । आवर्तमानवरवीचिविव र्तिताङ्गः कुर्वन् प्रदक्षिणमिवैष शिशुर्जगाम ॥१०॥ विष्वक्प्रवृद्ध-परमाहित-तुङ्गसानुर्यः संबभूव परिरुद्धसहस्रभानुः। किन्वागतं गुरुमवेक्ष्य समानतः सनद्यापि पालयति स स्वगुरोनिदेशम्।। शुम्भ निशुम्भमपि दुर्दमनीयदैत्यान् हत्वा करोति जगतः परिपालनं या। विन्ध्याचलाश्रितवपुर्जगदम्बिका सा धर्मे दृढत्वमनुशास्ति शिशुं समेतम् ।। यो भारतीयशुचिसंस्कृतिरक्षकाणामायोधनप्रथितकीर्तिजुषां नृपाणाम् । सेनानिवेशवदुर्गसहायकोऽभूत् । दर्शनीयचरणाद्रिगिरिं स भेजे । तेनाऽभनन्दित उपेत्य स दूरमल्यं श्रीविश्वनाथनगरे वसतां द्विजानाम् । शुश्राव तद् वरमनादिवचः श्रुतीनां यत् कर्णयोश्च मनसश्च रसायनं सत् ॥ काशी समाश्रयदसौ त्रिजगत्प्रसिद्धां सिद्धः सदैव विश्विनिषेविताझाम् । यस्यां स जातुनिवहं प्रियमाणमेत्य शम्भुपादिशति तारकमत्रराजम्॥ काशी गिरीशतनयाऽप्यथ जाह्नवी च प्रेयरय उड़दपुपो विलरान्ति तिस्रः। काश्यां विशेषमनुरक्तइहास्ति शम्भु वान्ययोः प्रणयवान् किल तादृशोऽसौ।। ३ १८ * [कर्णार्जुनीये एषा सदा शिवसमानसुतान् प्रसूते भालेन्दुकण्ठगरलाहिधरात्रिनेत्रान् । काश्येव भूधरसुता मुनिकन्यका तु सूनुं गजास्यमथवा च षडास्यमेव ॥ मेषो वकश्च मशकः शशकः पुराऽहं मत्स्यो वृषश्व कमठश्च खगो मृगश्च । पञ्चाननास्त्रिनयना बहवोऽत्र रुद्रा नव्याः परस्परमिमां गिरमुगिरन्ति । वाराणसी निविशते न वसुन्धरायामित्थं वचः सुसमधीत्य सपुत्रपत्नीम् । विक्रीय पक्कणपतौ च तथात्मदेहमानण्यमाप नृपतिः सहरिः स चन्द्रः॥ यत्राम्बु निन्दति सुधां विबुधैकसेव्यां निःस्वोऽपि चान्त्यजजनोऽधिपतिं सुराणाम् । चिन्तामणिं स शकलोऽपि सदोपलस्य कः स्यात्प्रमुनिगदितुं मुवि तन्महत्त्वम् ॥२०॥ रिङ्गत्तरङ्गततिभिश्च शुभंयुमञ्जु-मञ्जूषयाऽऽगतशिशुं तमवेक्ष्य काशी । भेरीमृदङ्गपणवानकघर्घराञ्चद्घण्टानिनादमिषतोऽस्य शुभं जुघोष ॥२१॥ वानीरवत्सुखदतीरसमीरदीव्यत्-पीयूषहारिरसधारिंगभीरनीरा । सन्मानसोद्गतबृहद्रमणीयधारा ह्याराव्यलपि सरयू शिशुनाऽमुना सा।। प्रातर्नमस्यचरितांशुमदायनेकर्मान्धातृवीरयुवनाश्वककुत्स्थसंज्ञः। राजर्षिभिश्च मुनिसिंहवसिष्ठमुख्यर्या सेविता सततमेव सुरासुरैश्च ॥२३॥ सद्बन्धुभिश्च सहितस्य हितस्य तस्य रामस्य चापि दशकण्ठकुलद्विषश्च । क्रीडास्थली सरिदियं सह गङ्गयैक्यं भेजे शिशुः स किल तत्र समाजगाम विन्ध्याद्रिनिर्गततनुश्च सुवर्णभूमियों गैरिकाम्बुवसनं सततं वसानः । देवापगां विशति यत्र स शोणभद्रस्तं देशमेत्य स मुदं परमामवाप ॥२५ तस्माददूरमतिपावनमद्भुतं तत् सारण्यभूषणसुवर्णपुरं च यत्र । क्षेत्रं परं हरिहराभिधमस्ति पुण्यं यच्छैववैष्णवसमानसमादृतं हि ॥२६।

तृतीयः सर्गः] एका ध्रुवं प्रकृतिरस्ति हरेर्हरस्य तौ प्रत्ययान्तरवशेन विभिन्नरूपौ । ऐक्यं तयोरिह स वेत्ति सुधीश्वरो यो मूढस्तु तद्विषयकं कुरुते विवादम् ॥ अत्रैवधामनि मुनिर्भरतश्चरित्वा तीव्र तपोऽन्यजनने जडतां गतोऽभूत् । यं प्राप्य सद्गुरुवरं हिरहूगणोऽसौ लेभे विमुक्तिमिति भागवते प्रसिद्धम्॥२८ वेश्या त्रिलोकविदिता किल गण्डकीति नाम्ना बभूव नियमे सुदृढा च सत्ये नारायणेन सुपरीक्षणसङ्गताऽभूत् सृष्टौ पुरेत्विति पुराणविदोवदन्ति ॥२९ उत्तीर्णतामुपगता सुपरीक्षणे सा श्रीविष्णुना प्रमुदितेन वरं वृणीष्व । आज्ञापिता विनयबद्धकरा ययाचे त्वत्तः कदापि विरहो न भवेन्मदीयः॥३० अङ्गीकृतं भगवता वचनं तदीयमुक्ता च भामिनि मया सह संगतिस्ते । सर्गेऽग्रिमेकिलभविष्यति साम्प्रतंतु कालोऽचिराय विलयस्य समागतोऽस्ति। प्राप्ते लये सुखसुषुप्तिसमुत्थितेन वाराहनाम्नि विधिना परिसृज्यमाने । कल्पेऽत्र पुण्यसरितोयधिदैवरूपा सैवाभवत् सकलवारवधूवरेण्या ॥३२॥ तस्मादिहैव सरिति प्रबभूव शालग्रामाभिधा शुचिशिला मसृणातिरम्या। यस्यां निवासमनिशं विदधाति विष्णुरावाहनं च परिहत्य विसर्जनं च ३३ नारायणीति च तथैव दृषद्वतीति श्रीगण्डकीति च भवत्यभिधानमस्याः। एषाऽपि तद्धरिहराभिधधाम्नि गङ्गांसंगच्छते रुचिरदृश्यमिदं विलोक्यम्३४ सद्यत्नसंरचितपञ्जरिकानिलीनः श्रीराजहंसवदसौ प्रतिभासमानः । तत्रत्यवायुममृतं सुनिपीय पीनोहीनोऽभवत् किमपि चाध्वपरिश्रमेण ॥३५ अग्रेसरन्नुपससाद स रम्यरूपो भूपोत्तमैश्च सततं विबुधाग्रगण्यैः । संसेवितं प्रथितपुष्पपुरं समृद्ध रत्नाकरार्हितमहत्त्वनिदर्शकं सत् ॥३६॥ प्रोद्यत्प्रतापनिधिराजसमूहपुष्टं जुष्टं जगद्विजयिभिश्च सुधीप्रकाण्डैः। सौमित्रिमातकुलसेवितमेतदासीदव चास जमदग्निसुताश्रमोऽपि । ३७॥

२० [कर्णार्जुनीये पूर्व धरागतिरिहैव विकासिताऽभूदाविष्कृता च परमाद्भुतराजनीतिः। अत्रैवपुष्टिमगमच्च कवित्वशक्तिः सा व्याकृतिश्च परमोत्तमजन्म लेमे ३८ न्यायश्च नव्य उतवा स पुरातनोऽपि जन्माधिगत्य विससार समस्तभूमौ । अत्रव वृद्धिमगमत्स दयासमुद्रो वैदेशिकाश्च विजिता नृवरैरिहत्यैः ॥३६ ऐतिह्यविश्रुतचरं प्रथितं जगत्यामूर्जस्वि रम्यतमपाटलिपुत्रमेतत् । बालः क्रमेण समतीत्य पुरः प्रसर्पन्नङ्गप्रदेशशुभसीम्नि समाविवेश ॥४॥ अङ्गस्य चास्य विदिता भुवि राजधानी चम्पाभिधाननगरी नगरीश्वरीव । तस्याः पतिय धिरथः प्रियभार्ययाऽसौ राधाख्यया सह तथा निजसेवकैश्च।। क्रीडां तरङ्गततिभिः किल कुर्वतीव मञ्जूषिकाऽतिशयमञ्जुकलान्वितैका । आयाति चेति चकितः स समालुलोके गङ्गावगाहरसिको हि समागतःसन् साश्चर्यमैक्षत नृपः स सतृष्णनेत्रमाज्ञापयञ्च निजसेवकवर्गमेषा । आनीयतां सपदि तत्र किमस्ति वस्तु पश्यामि येन मम कौतुकशान्तिरस्तु४३ तस्याज्ञया तरणिकामधिरुह्य तूर्ण मञ्जूषिकानयनकामनया समेतैः । प्रस्थाय तैरियमनायि च तीरदेशं प्रादायि भूमिपतयेऽद्भुतपेटिका सा।।४४ उद्घाट्य तामधिरथेन निरक्षि चैको बालो मृणालवरतन्तुसमानगौरः । बालार्कवत् स्वमहसा सच पेटिकान्तर्ध्वान्तं नितान्तरमणीयवपुर्निरस्यन्४५ सद्योजनुर्बहदुरा अपि कम्बुकण्ठः स्वाभाविकं कवचकुण्डमादधानः । लावण्यवारिधिरलौकिकदिव्यमूर्तिर्लानः क्षुधाऽस्तिहिमपातहतः शशीव ।। युक्तः श्रिया खलु स सन्ततिहीनदीनो दृष्ट्वा मुदाशिशुमुदञ्चितसर्वगात्रः । राधाऽपि वञ्चिततनूजसुखाप्तमोदा जाता प्रफुल्लितमुखी परिरभ्य दोD४७ वक्षोजलब्धसुतसंगवशेन सद्यः सा प्रस्तुतस्तनयुगा समभूत् प्रसय । प्रीत्याङ्कमाविशति सौम्यशिशौ प्रकृत्यामातुस्तनौ विकिरतः किल दुग्धधाराम् तृतीयः सर्गः] प्रायो दिनद्वयबुभुक्षितबालकोऽसौ पीयूषवन्मधुरमातृपयो निपीय । मोमुद्यमानमनसा सहसा तदङ्के शोकं समाप सुखमाप च निर्विशङ्के ॥४९॥ देवापगाजलनिमजनपूतदेहं गेहं निनाय स च भूमिपतिः सभार्यः । वस्त्यादिमाङ्गलिककर्म विधाय विद्भ्योधेनूः सहस्रमपि संप्रददे सवत्सा:५० चम्पापुरे विविधरूपमहोत्सवानां हर्षप्रकर्षवरवर्षणकारकाणाम् । आलोकशब्दमपि तस्य विलोकनेन लोकाः शिशोः समवदंश्च समे समेताः दिव्यं च तत् कवचकुण्डलमात्मजाय माताऽदितिःप्रमुदिता दिवसाधिपाय व्यश्रणायत्त्वमृतवर्षि दिनेश्वरेण कर्णाय दत्तमधिगर्भमिदं प्रसन्नः ॥५२॥ यावद् द्वयं लसति तस्य शरीरलग्नं तावन्न कोऽपि विनिहन्तुमिमं समर्थः । इत्यादिशन् विधिविधानबुधास्तदीयं चक्रश्च नाम वसुषेणइतिप्रसिद्धम्५३ यत्रैव यान्ति नरवेश्मनि भाग्यवन्तस्तत्रैव सर्वविधमङ्गलमाविरस्ति । कर्णागतावधिरथस्तु बहून सुपुत्रानेकैकशो ह्यजनयद् गुणिनो गुणज्ञान ५४ राधा तथा ह्यधिरथोऽपि च दम्पती द्वौ कर्णाय संस्पृहयतोऽधिकमर्भकेषु । अभ्यहणीयगुणिनां गणनाप्रसङ्गे श्रेष्ठः स एव पितरौ भुवि येन धन्यौ ५५ वीरस्वभावसुविलक्षणबुद्धियुक्तो विप्रप्रियोऽस्त्यमितदानिशिरोमणिश्च । दीप्त्येकधामदिनकृत्समुपासकोऽसौ सत्यप्रतिज्ञ ऋतवागपि सच्चरित्रः॥५६ आजानुबाहुररुणाम्बुजपत्रनेत्रः श्रीमानुदारविपुलांसकगूढजत्रुः । सिंहोरुकन्धरधरः शुभलक्षणाढ्यः कैशोरकस्य वयसः स समीपमागात् ५७ तस्यप्रशिक्षणविधौ नृपतिश्च राज्ञी चिन्ताशतेन नितरामनुतापमाप्तौ । तावेव चात्र भुवने पितरौ मतौस्तो यद्यत्नतो हि गुणधाम भवेत्तनूजः ५८ अङ्गः स चास्तिकुरुजाङ्गलदेशमित्रं तस्यप्रियो हितकरो धृतराष्ट्र प्रासीत् । इत्थंविचिन्त्यचनिजेहृदि दम्पतीभ्यां प्रस्थापितो निजसुतोनगरीगजाख्याम्।।

२२
[कर्णार्जुनीये
सुविख्यातं चासीदधिभुवनमेतद्धि नगर
ककुब्भ्यो यत्रेताः प्रसृमरयशोराजतनयाः।
सहस्र शिक्षन्ते रणविजयविद्या बहुविधा
धनुर्वेद साङ्ग पठितुमुपतस्थावयमपि ॥६॥
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकव्ये तृतीयः सर्गः समाप्तः
अथ चतुर्थः सर्गः
दुष्यन्तनाम्नो नृपतेर्यशस्वी शकुन्तलायां भरतो नरेन्द्रः ।
अभूत् पुरा यः शरवर्षदेश्यः शार्दूलदंष्ट्रां गणयाञ्चकार ॥१॥
महाप्रतापस्य च तस्य नाम्नाध्यमार्यदेशो भुवि भारताख्याम् ।
दधाविति ज्ञानमहाब्धिमन्थाः प्रवृत्ति मैतिद्यविदो वदन्ति ॥ २॥
भूचक्रवर्ती भरतः स सम्राट चन्द्रान्वयोत्पन्ननृपेषु मुख्यः ।
तस्य प्रपौत्रोऽस्ति स हस्तिसंज्ञ आवासिता येन च हस्तिनापूः ॥ ३॥
एतस्य वंशे दशमो नृपालः प्रोद्यबुतिः शन्तनुराविरासीत् ।
तस्यात्मजो वीरशिरोमणीन्द्रो देवव्रतो भीष्म उदैन्महात्मा ।। ४ ।।
धनुर्भूतस्तस्य पराक्रमेणावधूतवीर्यः स
बभूव वीरः।
त्रिसप्तकृत्वोऽत्र महीशहन्ता रामः प्रसिद्धो जमदग्निसूनुः ॥ ५ ॥
पितुः प्रसादाय महामनस्वी स ब्रह्मचर्यव्रतमासिषेवे ।
अाजन्म तस्माद्यमनोऽपि तस्य वशंवदोऽभूदिति को न वेद ॥ ६ ॥
या वस्तुतः क्षत्रियवीर्यजाता संवर्धिता धीवरराजगेहे ।
उद्वाह्य तां सत्यवतीं मनोज्ञां द्वावध्यगाद् भीष्मपिता तनूजौ ॥ ७ ॥

२३
चतुर्थः सर्गः]
एकस्तु चित्राङ्गदनामधेयो विचित्रवीर्यश्च परो बभूव ।
आद्यः स गन्धर्वहतः कुमारः काशीशकन्ये उदुवाह चान्यः ॥८॥
रात्रिन्दिवं भोगविलाससक्तो विचित्रवीर्योऽप्यनपत्य एव ।
ममार पत्नीद्वितयी तदीया नियोगतः प्राप्तवती तनूजौ ॥४॥
प्रासोष्ट पुत्रं धृतराष्ट्रमम्बिका साऽम्बालिका पाण्डुमजीजनच्च ।
तयोस्तु दासी जनयाञ्चकार नीतिज्ञवयं विदुरं सुशीलम् ॥१०॥
ज्यायान् सुतोऽभूद् धृतराष्ट्र एव नावाप राज्यं स च जन्मतोऽन्धः ।
गुणैरुदारैर्महितः श्रियाऽऽढ्यो बभूव राज्येऽधिकृतः स पाण्डुः ॥११॥
पाण्डोः पृथा स्त्री यमवायुशयुधिष्ठिर भीममथार्जुनं च ।
अजीजनत् स्वर्गभिषग्वराभ्यां सहादिदेवं नकुलं च माद्री ॥१२॥
दुर्योधनादीन् धृतराष्ट्रभूपाद् गान्धारिकाऽसोष्ठ शतं तनूजान् ।
कालेन सर्वे परिपोषमाप्ता बाल्यं वयोऽतीयुरतिप्रसन्नाः ॥ १३॥
देवव्रतस्तानखिलान् कुमारान् संग्रामभूमौ विजयप्रदात्रीम् ।
कृपालुनाऽसौ गुरुणा कृपेण संशिक्षयामास नरेन्द्रविद्याम् ॥१४॥
द्रोणो भरद्वाजकुलप्रसूत अाबुत्त आसीत् स कृपस्य वीरः।
तस्याऽऽस कृप्यां तनुजः स चाश्वत्थामा पयःपिष्टविवञ्चितो यः ॥१५॥
रामाइते कोऽपि न जामदग्न्याद् द्रोणस्य तुल्योऽत्र धनुर्धरोऽस्ति ।
बभूव विद्वानपि सोऽर्थहीनो ह्यन्योन्यशत्रू वत ऋक्थ-विद्ये ॥१६॥
द्रोणं धनुर्वेदविदां वरिष्ठं पितामहस्तं महताऽऽदरेण ।
पुरीमनैषीद् गजसाह्वयां स्वां सर्वाहिताचार्यपदे न्ययुक्त ॥१७॥
धनुर्धराणां धुरि कीर्तनीयमाचार्यवयं तमिमं प्रसिद्धम् ।
पौत्रानसौ कौरवपाण्डवादीन् समर्पयामास सुशिक्षणाय ॥१८॥

[कर्णार्जुनीये साङ्गं धनुर्वेदमथाधिगन्तुं द्रोणस्य पादाब्जयु कुमाराः । सहस्रशोऽन्येऽन्धकवृष्णिवश्या ईयुः स कर्णोऽपि समाजगाम ॥१६॥ गुरुस्तु सर्वानतिरिच्य शिष्यान् धनञ्जयेऽभूदधिकस्पृहावा । भक्तस्य सद्भक्तिवशंवदत्व परात्परोऽप्येति स योऽस्त्यनीहः ॥२०॥ स सव्यसाची रहसि प्रपद्य प्रसाद्य वीरो गुल्माचचक्षे । भुवीह सर्वेषु धनुर्धरेषु वाञ्छाम्यहं श्रेष्ठतमो बुभूषुः ॥२१॥ सुदुर्लभो यद्यपि मामकीनो मनोरथः किन्तु भवत्प्रसादात् । भवेदवश्यं परिपूर्ण एष गुरोः कृपा किन्न विधातुमर्हा ॥२२॥ अनारतं भक्तिपरायणस्य प्रवर्तमानस्य निजे निदेशे । द्रोणः स आचार्यवरः प्रसीदन्नङ्गीचकारास्य वचोऽर्जुनस्य ॥२३॥ एकान्तमास्थाय शरासनीयवेदम्य गूढं विविधं रहस्यम् । उपादिशद् येन धनञ्जयेन संसारसहितवीरताऽऽप्ता ॥४॥ विख्यातिमेतस्य च शूरताया अव्याहतां भूमितले विधातुम् । अजीगणन्नैव गुरुः प्रसन्नो हिताहितं कस्यचिदात्मचित्ते ॥२५॥ अथैकदाचार्यवरस्य तस्य द्रोणाभिधानस्य मुनेविनीतः। निषादजातीश-हरिण्यधन्व-तनूज आगात्पदमेकलव्यः ॥२६॥ धनुःश्रुतिं शिक्षयितुं प्रपन्नः स प्रार्थयामास गुरुं तमेनम् । न क्षात्रविद्याधिगमेऽधिकारः प्रवर्त्तते ते गुरुरित्यवोचत् ॥२७॥ निशम्य तां तस्य गुरोः प्रवृत्ति न्यवर्तत स्वालयमेकलव्यः । निर्माय मृत्स्नाप्रतिमां तदीयां तत्समधावस्त्रम शक्षतासौ ॥२८॥ यदा यदाज्यं निजलक्ष्यवेधे त्रुटि प्रतीयाय मनस्विवर्यः । तदा तदाचार्यपद प्रणम्याभ्यस्यत् प्रयोगान् विविधा नपूणाम् ॥२६॥ -

चतुर्थः सर्गः]
२५
श्रद्धैव नूनं सफलत्वहेतुर्निष्ठा भवत्येव सदा फलाढ्या ।
भावः शुभः कारणमस्त सिद्धेरेतैरसाध्यं भुवने न कि श्चत् ॥३०॥
अभ्यास आचार्यपदे च भक्तर्विद्याधिगत्यां द्वितयं नदानम् ।
कालेन चास्मिन् भुवने द्वितीयो धनुर्धरोभूदयमेकलव्यः ॥३१॥
कदाचिदेते कुरुपाण्डुपुत्रा महत्यरण्ये मृगयेच्छयाऽगुः ।
मृगान् निहन्ता परमप्रवीणस्तानन्वगात् कश्चन सारमेयः ॥३२॥
सश्मश्रुकूर्चा च जटां दधानं मनुष्यमेकं यतिकृष्णकायम् ।
विनिक्षिपन्तं स्वशरानजस्र विलोक्य स श्वा नितरामबुक्कत् ॥३३॥
शरासनाभ्यासविधौ स्वकीयेऽन्तरायभूतं हि तमाकलय्य ।
विघ्नं विनिघ्नन्निव सप्त वाणांस्तदास्यमालक्ष्य निरस्यदेषः ॥३४॥
आस्यप्रविष्टाशुगसप्तकेन श्वबुक्कनं तत् सहसा निरस्तम् ।
क्षतेर्मुखस्यास्य न काऽपि जाता परन्त्वसौ व्याकुलतां प्रपेदे ॥३५॥
शुनो निवृत्तस्य दशां विलोक्य विषेदुरत्यन्तमिमे कुमाराः।
शुना सहैतेन समे समीयुर्यत्रैकलव्यो भुवि शिक्षते स्म ॥३६॥
विलोक्य चैतानुपढौकमानानातिथ्यमेषां विधिवञ्चकार ।
त्वं कोऽसि को वास्ति गुरुस्त्वदीयः स चेति पृष्टः किल तान् न्यगादीत॥
नाम्नैकलव्योऽस्मि निषादजातिौणाभिधानोऽस्ति गुर्मदीयः ।
आत्यन्तिकैकान्तमयेऽत्र देशेऽभ्यस्यामि नित्यं शरसंप्रयोगान् ॥३०॥
इत्थं वचस्तस्य निशम्य सर्वे श्वानं समाश्वास्य विपन्नवक्त्रम् ।
प्रतस्थिरे स्वं निलयं कुमारा धनञ्जयश्चिन्तितहृद् बभूव ॥३६॥
यथैकलव्यः शरसंप्रयोगविज्ञानविद्वान् न तथाहमस्मि ।
न तत्समानं मम चास्ति लक्ष्यज्ञानं शरक्षेपणकौशलं वा॥४०॥

अरण्यमध्ये २६ [कर्णार्जुनीये ततो बनान्ताद् विनिवर्तमानोऽर्जुनो विपन्नास्यपयोजकान्तिः । उपेत्य धीरो गुरुपादपद्म ननम्यमानः स तमाचचक्षे ॥४१॥ उदीरितं मे बहुशः कृपालो गुरो त्वया सत्यपरायणेन । चिकीर्षितोऽहं भुवनैकवीरो भावत्कमुक्तं नु कथं वृथाऽभूत् ॥४२॥ संसारसहितधीरवीरो धानुष्कविज्ञानविधौ पटीयान् । परोऽध दृष्टस्तव शिष्य एकः स भिल्लजातिवंत चित्रमेतत् ॥४३॥ यो भिल्लराजोत्र हिरण्यधन्वा तस्यैव पुत्रोऽस्त्ययमेकलव्यः । गुरुं भवन्तं वदति स्म पृष्टो धनुर्धरोऽसौ भुवने गरीयान् ॥४॥ मृगयागतानां समक्षमन्तेवसतां तवेयम् । आश्चर्यमूला घटनाऽघटिष्ट श्ववृत्तमुक्त्वेति गुरुं तदाख्यत् ॥४५॥ गुरुर्विसस्मार ततोऽनुदध्यौ स्मृतिं गतं तद् वच ऐकलव्यम् । तूर्णं प्रतस्थे सममर्जुनेन धनुर्धरो यत्र निषादजन्मा ॥४६॥ प्राचार्यमालोक्य समागतं तं धनुःशरं चापि निधाय भूमौ । तत्पादयोर्दण्डवदानतोऽभूदप पुजन विविधोपचारैः ॥४७॥ स दीनभावाद् विनयादुवाच भवाम्यहं ते गुरुदेव शिष्यः । प्रियं विदध्यात् किमयं जनस्ते निर्दिश्यतां तत् प्रणताय मह्यम् ॥४८॥ ब्रवीमि सत्यं भवतो निदेशं कदापि नाहं वितथं करिष्ये । देहो धनं चापि मनो मदीयं सर्वस्वमेवार्पितमस्ति तुभ्यम् ॥४९॥ न कोऽपि चास्ते भुवने पदार्थो यो मामकीनो न हि तेऽर्पितः स्यात् । धन्योऽस्म्यहं यत् तव पादपमधूलिर्विकीर्णा निलये मदीये ॥५०॥ सत्यप्रतिज्ञोऽसि यदि त्वमङ्ग ममासि शिष्यो गुरुदक्षिणायाम् । एतर्हि सद्यो निजदक्षहस्ताङ्गुष्ठं समाछिद्य ददस्व मह्यम् ॥५१॥ तं

स
चतुर्थः सर्गः]
गुरोर्वचस्तद् विनिशम्य वीरस्तीक्ष्यासिनाङ्गुष्टमसौ चकर्च ।
न्यवेदयत्तच्चरणारविन्दे प्रासीदतां द्वौ गुरुरर्जुनश्च ॥५२॥
स एकलव्योऽभवदहणीयोऽर्जुनादपि श्रेष्ठतरः पृथिव्याम् ।
न जायते वा म्रियते न को वा कीर्त्या मनुष्यो भवतीह धन्यः ॥५३॥
अकृत्यमेतादृशमर्जुनस्य श्रेष्ठत्वमिच्छुः गुरुर्विधाय।
अपूरयत्तस्य समीहितानि न चिन्तनीया महतां प्रवृत्तिः ॥५४॥
कर्णोऽपि तस्यैव गुरोः प्रकामं धनुःश्रुतेर्ज्ञानमशिक्षताऽसौ ।
एकत्र शिक्षामधिगच्छतां च विद्यार्थिनां ध्यानमभून्न तस्मिन् ॥५५॥
एकान्तवासे निरतः सदैवाचार्यस्य पार्श्व समुपेत्य नित्यम् ।
स सायकानां विविधान् प्रयोगानभ्यस्यदन्यैर्न तु संगतोऽभूत् ॥५६॥
दुर्योधनायस्थ पाण्डपुत्ररन्यैश्च वृष्ण्यन्धकराजवंश्यैः ।
घनिष्ठता नास्य विशेषतोऽभूद् विद्याऽधिगम्या रहसि स्थितेन ॥२७॥
या वीरताऽऽसीद् वसुषेणकर्णे स्वाभाविकी सा खलु जन्मजाता ।
प्रयोजनं नास्य विशेषतोऽभूदभ्यासयोगस्य सदर्हितस्य ॥५८॥
स उत्तमाभ्यासबलेन वीरो बभूव कुन्तीतनयस्तृतीयः ।
विद्यानुरक्तिर्गुरुजानुकम्पा यत्रव स स्यान्महतो महीयान् ॥५६॥
शौर्य निजं सर्वसेमक्षमेव सर्वाधिकं गौरवमात्मनश्च ।
जोघुष्यते स्मानिशमर्जुनस्तत् सेहेऽसमर्थैः खलु खिद्यमानैः ॥६॥
अन्योन्यमन्तेवसतां स्वभावात् संस्पर्धमानत्वमुपैति वर्गः ।
अखर्वगर्वं तनुजस्य पाण्डोः समे समाकर्ण्य विषेदिरेऽन्तः ॥११॥
यो जन्मतो वीर्यवतां वरेण्यो धीराग्रगण्यः सहपाठिनोऽसौ ।
प्रख्याप्यमानां निजवीरताया गर्वोक्तिमेतां नु कथं सहेत ॥६२॥

२८
[कर्णार्जुनीये
पयोदधृन्दं ध्वनदन्तरिक्षेऽभियात्युदकं कमपेक्ष्य सिंहः ।
तेजस्विनां सोऽस्ति निजः स्वभावोऽन्योत्कर्षमन्तः सहते न येन ॥६३॥
कर्णः प्रतिस्पर्धत
एनमात्मस्वभावतो
वीरवरेषु धुर्यः ।
इयेष तं जेतुमसौ सभायां जज्वाल चित्तेऽस्य विरोधवह्निः। ६४॥
विद्वेषभावं वसुषेण एष निगृहयामास निजेऽन्तरङ्गे ।
अध्येतवर्गेषु न कश्चिदन्यं विशिष्टधैर्यः कथयाञ्चकार ॥६५॥
धनञ्जयं. विश्ववरेण्यवीरं कों निविष्ट यदा तदैव ।
विद्वेषतश्चेतसि तं तदीये विजेतुमीहा प्रबलायते स्म ॥६६॥
दुर्योधनाद्या वत पाण्डवेभ्यः सदाऽभ्यसूयन्त निजस्वभावात् ।
प्रचक्रिरे तान् विनिहन्तुकामा अनेकधा गर्हितदुष्प्रयत्नान् ॥६७॥
धर्मस्य पक्षाश्रयणेन पाण्डो. सुतान् विहन्तुं न शशाक कश्चित् !
विधीयमाना अपि कौरवाणां सर्वे प्रयत्ना विफला बभूवुः ॥६॥
यस्यानुकूलो विधिरस्ति धर्मः सहायकस्तस्य न कोऽपि वैरी।
विधीयमानैः प्रबलैः प्रयत्नैरनिष्टमाकर्तुमिहेश्वरः स्यात् ॥६६॥
गुरुयंदा कौरवपाण्डवानां शस्त्रास्त्रशिक्षा सुसमाप्तिमागात् ।
कलाकौशलसत्प्रयोगप्रदर्शनार्थ व्यमृशत् स्वचित्ते ॥७॥
अन्तेक्सवृन्दमुपैति यस्य सद्गौरवं सर्वनृणां समक्षम् ।
आचार्यवर्यस्य च तस्य नान्य आनन्दहेतुर्हि ततोऽतिरिक्तः ॥७१॥
कदाचिदाचार्यवरो निजेच्छामावेदयद् भीष्मपितामहाय ।
तथा च राज्ञे धृतराष्ट्रनाम्ने प्रासीदतां द्वावपि तां निशम्य ।।७२॥
विख्यात-राजेन्द्रकुमारवर्ग-दीव्यधनुर्वेद-परीक्षणाय ।
पितामहः सर्वमतेन चैकां तिथिं प्रसन्नः सुविनिश्चिकाय ॥७३॥

पनमः सर्गः]
महाविशालादभुत-रङ्गमञ्च-निर्माण हेतोः कुशलानभिज्ञान् ।
आदिक्षदर्वाग् बहुमासतोऽपि सहस्रशोऽसौ मुदितान्तरात्मा ॥७॥
शस्त्रास्त्रविज्ञानपरीक्षणस्य निर्णीतमाकर्ण्य दिनं समेषु ।
विद्यार्थिराजन्यकुमारहृत्सु प्रमोदरत्नाकर उद्विवेल्ल ॥७॥
धनञ्जयहृदुत्थितप्रबलविष्वगञ्चन्महा-
भिमानविटपस्य से भुवि समूलमुन्मूलने ।
वरोऽवसर एपकः स्वयमहो परीक्षात्मकः
प्रतीक्षित उपागतस्त्विति स बेद कर्णो हदि ७६।।
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकव्ये चतुर्थः सर्गः समाप्तः
अथ पञ्चमः सर्गः
कुरुपाण्डुसुतान्तरात्मनो मदयन्नस्त्रपरीक्षणात्मकः ।
शुभवासर आगतोऽद्य यः सुखदो विश्वमनीषितश्चिरात् ॥ १ ॥
बहुमूल्यविचित्रवस्तुभिर्विविधैर्विस्तृतरङ्गमेदिनी ।
महती प्रचकास्ति नन्दनप्रतिमाऽऽनन्दनिदानमभुता ॥ २ ॥
अतिदीर्घतमं श्रियान्वितं परितः शादलशोभितं स्थलम् ।
रचनाकुशलैः सुविश्रुतै रचितं पूर्वत एव विद्यते ॥ ३ ॥
अमितैः शशिखेटकोडुभिर्महितां चापि नमःश्रियं पराम् ।
निशि चापि महद् वितानकं जयति प्रोज्ज्वलितः प्रदीपकैः ॥ ४॥
धरणीपतयो निमन्त्रिताः सुहृदां चापि समस्तमण्डली ।
जनताप्यखिला निरीक्षितुं सुयशोराजकुमारकौशलम् ॥ ५॥

[कर्णार्जुनीये
इह रङ्गधरातले नृणां नृपतीनानुपवेशनाय च ।
विविधं रचितं यथोचितं परिविन्यस्तमसंख्यमासनम् ॥ ६ ॥
महतां वसुशालिनां तथा श्रुतिविज्ञानविदां विपश्चिताम् ।
परिकल्पितमासनं पृथङ्नृपतिप्रश्रयवर्त्तिनां
तथा ॥ ७॥
भुवि तत्र नृपागनोचितं नृपकन्योचितमन्यतः स्थलम् ।
उपवेशनसुप्रबन्धनं कृतमास्ते
परमं मनोहरम् ।। ८॥
विलसन्ति विशालमूर्तयस्त्विह मार्गाः शतशः सुमाञ्चिताः ।
अमितक्षुमसत्त्ववासितैः परिषिक्ताः शुचिदिव्यवारिभिः ॥ ६ ॥
शुभसूचकपञ्चपल्लवं बकुलाशोककदम्बकच्छदम् ।
बहुवर्णलसवजाञ्चितं शतशस्तोरणमुच्चकैः कृतम् ॥१०॥
रमणीय-सुगन्धधग्-द्रुमोद्गत-निर्यासज-धूमसन्ततिः ।
विदधे शुचिगन्धसंयुतं विपुलं रम्यमहोत्सवस्थलम् ॥११॥
विदुरः प्रथितो महामती रुचिरं शान्तनवाज्ञया चिरात् ।
प्रविधाय महापरिश्रमं रचयामास स रङ्गमण्डपम् ॥१२॥
नयनैः सुनिपीय दर्शकैरिदमाकर्षकमण्डपस्थलम् ।
सुषमाऽपहृतान्तरात्मभिः परितृप्तिन समाददे हृदि ॥१३॥
समयेऽस्त्रकलां निरीक्षितुं जनसम्मद उपस्थितोऽभवत् ।
निजपूर्वसुनिश्चितासने द्रुतमागत्य शनैरुपाविशत् ॥१४॥
व्यलसन् क्वचिदाप्तकन्यकाः क्वचिदन्तःपुरराजयोषितः ।
क्वचिदास नृपेन्द्रमण्डली क्वचिदास्ते जनता मुदान्विता ॥१५॥
अपरत्र लसन्ति सैनिका अपि सेनापतयोऽन्यतः स्थिताः ।
पणवानकगोमुखादिभिः सहिता बाधकलाविदः क्वचित् ॥१६॥

सती। पञ्चमः सर्गः] बहुचित्रविचित्रवाससां परिधानेन नृणां मनोहरः । शुशुभेऽखिलरङ्गमण्डपो विविधोष्णीषचमत्कृतच्छविः ॥१७॥ विशदेऽगणिताः स्त्रियो नरा इह गच्छन्ति तथा विलीनताम् । वितताम्बुनिधौ सहस्रशो विलयं यान्ति यथा नदीनदाः ॥१८॥ अनुभीष्मपितामहं नृपो धृतराष्ट्रो विदुरं समाश्रितः । प्रविवेश सभास्थलं यथासमयं सभ्यजनैः समन्वित । १६॥ जनता विहितैर्जयस्वनै+नयद्भिर्विदिशो दिशो वियन् । श्रवसां कुहरं सुविव्यथेऽतिशयं विश्वदिवौकसामपि ॥२०॥ धृतराष्ट्रमहीपतेः प्रियाऽखिलगान्धारपतेः सुता नृपपाण्डुकलत्रसंगता प्रतितस्थौ प्रवरेण्यमासनम् । २१॥ कुरुपाण्डुसुता धनुर्धरा निजशस्त्रास्त्रकलाप्रदर्शकाः। खनिदिष्टवरासनेषु समुपागत्य निषेदुरन्यतः ॥२२॥ जनवर्ग-सुखोपवेशनात् परमाचार्यवरः समागमत् । संयुतो जनतासंकुलरङ्गमेदिनीम् ॥२३॥ अतिवृद्धतमोऽप्ययं सुसितश्मश्रुशिरोरुहाञ्चितः। युगलेन शुभ्रवाससा परिणद्धो धृतशुभ्रचन्दनः ॥२४॥ अनुजानुविशालबाहुकः सुदृढोरस्कविशालकन्धरः महता बलशालिना युतः स्वशरीरेण युवेव भासते ॥२॥ वरगौरविशालविग्रहो गुरुवर्यः समुपागतो यदा। उदतिष्ठदरं समन्ततो नरनारीमनुजेन्द्रमण्डलम् ॥२६॥ दधती जनता मुदं ा पाविशदाचार्यनिदेशतः पुनः । कुरुपाण्डुसुतांस्ततो गुरुयदिशदर्शयितुं स्वकौशलम् ॥२७॥ ते सकृपम्तनयेन च

सती।
३२
[कर्णार्जुनीये
कवचैश्च कुण्डलैतवीरोचितसत्परिच्छदैः ।
नरराजकुमारमण्डली
ननु
सेही
सुषुमामचूचुरत् ॥२८॥
जनता निखिला समुत्सुका प्रबलोत्साहसमन्विता
विविधास्त्रकला व्यलोकयन् परमाश्चर्यपयोध्युपप्लुता ॥२६॥
समताऽस्ति च यस्य येन वै युयुधे तेन स वीरपुङ्गवः ।
युवकास्त्रकलानिरीक्षणान्मुमुदे चेतसि दर्शकावलिः ॥३०॥
बलवत्प्रवरो घृकोदरो बलशाली प्रथितः सुयोधनः ।
अवतीर्य च सङ्गराङ्गणे गदया युद्धमुभौ प्रचक्रतुः ।.३१।।
प्रबला प्रतियोगिताऽभवद् ववृधे हन्त युयुत्सुतानयोः।
प्रहृति परिहत्य कृत्रिमा सहसान्योन्यवधार्थमुद्यतौ ॥३२॥
अवलोक्य तयोविचेष्टितं गुरुदेवः स्वतनूजमादिशत् ।
उपगम्य स तत्र तावुभौ विदधे तादृशयुद्धतः पृथक् ॥३३
सकलास्त्रनिदर्शनात्पर
गतवान्
रङ्गमहीं धनञ्जयः।
विविधं निजमस्त्रकौशलं जनतायाः पुरतो न्यदर्शयत् ॥३४॥
विबुधेन्द्रतनूजनुर्निजादचिरांशोरिव हस्तलाघवात् ।
बहुदिव्यशरप्रयोगतो
जनसम्मर्दमनांस्यरञ्जयत् ॥३५॥
अतिविज्ञतया धनुःश्रुतेरथ चात्यन्तिकहस्तकौशलान् ।
तनुजस्य दिवस्पतेर्जना जयशब्दं बहुशः स्म कुर्वते ॥३६॥
अशृणोद् विजयध्वनि यदा युवकः कोऽपि धनुर्धरो बली ।
जनताञ्चितरङ्गमएडपं सहसा स प्रविवेश
भुजदण्डमसावताडयद्धरिवचाणि जगर्ज
भीषणम् ।
विनिशम्य तदीयगर्जन जनवर्गश्चकितोऽभवत्परम् ॥३८॥
निर्भयः ॥३७॥

स
।
.
..
पञ्चमः सर्गः]
बभूव वृषेन्द्रकन्धरः सितकर्पूरसमानविग्रहः ।
सुजयोश्च तथास्य वक्षसो गुरुताऽऽस्तेऽखिलविश्वमोहिनी । ३६!।
कुलिशायितमस्य जन्मतो ह्यविभेद्य कवचं हृदि स्थितः
श्रवसोरुभयोश्च कुण्डले शुशुभाते अमृतप्रवर्षिणी । ४०॥
वपुषा सुदृढः स्वयौवनप्रखरोन्मादयुतो गजेन्द्रवत् ।
स मृगेन्द्रगतिः स्वभावतो ददृशे जङ्गमभूधरोपमः ॥ ४१ ।।
विरहय्य निजासनानि ये समभूवन मनुजा यियासवः ।
अदसीयजगद्विमोहिनी प्रतितस्थुः सुषमामवेक्ष्य ते ॥४२॥
स उपस्थितवान् यदा तदा प्रथमं वीरशिरोमणिः कृपम् ।
प्रणनाम तदीयसोदरापतिमेकं गुरुवर्यमात्मनः॥४३॥
तदनन्तरमेष दर्पितोऽर्जुनमालक्ष्य वचोऽब्रवीदिदम् ।
अयि वीर निजं सुकौशलं परिदात्मनि मोदसे वृथा ॥४४॥
विजहीह्यभिमानमात्मनो विविधायाः स्वचमत्कृतेः कृते ।
इदमस्त्यखिलं प्रदर्शनं तव साधारणमेव केवलम् ॥४५॥
प्रवरानुमतिर्यदा भवेदहमत्रैव
जनौघसन्निधौ।
परिदर्शयितुं समुत्सुको भवतश्चापि विशिष्टकौशलम् ॥४६॥
जनुषैव सुदिव्यकुण्डलं कवचं चापि दधानमद्भुतम् ।
जननी परिनिश्चिकाय सा निजकानीनमिमं पृथाऽऽत्मजम् ॥४७॥
प्रसमीक्ष्य युवानमीशं धृतवीरोचितवेषमात्मजम् ।
समसेचि च मातुरम्बरं वपुरानन्दलवाष्पवारिणा ॥४॥
स्मृतिमार्गमवातरच सा निखिला कर्णजनुःकथाद्भुता ।
मुखचन्द्रममुष्य सुन्दरं ददृशे द्यैव विसर्जनात्परम् ॥४६॥

[कर्णार्जुनीये
परिपान्यत एष राधया मम बालोऽधिरथस्य सद्मनि ।
इति पूर्वत एव वेद सा जननी कि समुपेक्षते सुतम् ॥५०॥
सुतमद्य निरीक्ष्य मातृकं शशिनं पूर्णमपां निधिर्यथा ।
हृदयं नितरामुदच्छलत् वपुषो रोमततर्मुदोद्गता ॥५१॥
अनिमेषनिरीक्षणादहो जननी नैव विरन्तुमीहते ।
प्रससाद मनस्विनी भृश मुखशोभामपिबनिरन्तरम् ॥५२॥
अभिमानवचस्तु कार्णिकं स समाकर्ण्य समक्षमात्मनः ।
चकितः समभूद्धनञ्जयः परमं मोदमगार सुयोधनः ॥५३॥
परिदर्शय कौशलं निज विति साम्रोडितमुच्चकैर्वचः ।
जनताप्रतिकुतूहलान्विता परितो व्याहरते स्म मण्डपे ॥५४॥
अचलोपम एष सुस्थिरो नयने दित्तु विनिक्षिपञ्छनैः ।
करबद्धमुवाच सादर गुरुवर्य शिरसा नतेन तम् ॥५५॥
गुरुदेव ! भवान् प्रसन्नधीनिदिशेदत्रभवांस्तदा निजम् ।
करकौशलमेष दर्शये जनसङ्घोऽपि समो दिदृक्षते ॥५६॥
अयि पुत्रक दर्शयख भो मम शिष्यस्त्वमपि प्रवर्तसे ।
इयमस्ति हि रङ्गभूमिका महितत्वादृशशूरकामिनी ॥५७॥
इति हर्षविजृम्भितं गुरोर्वसुषेणो वचनं यदाऽशृणोत् ।
परिमोदयुतेन चेतसा निजशस्त्राभूदागतः पुरः ॥५८॥
करकौशलमार्जुनीयकं सकलं चास्त्रनिदर्शनं परम् ।
वसुषेण इह न्यदर्शयद् अतिसारल्यत एव सत्वरम् ॥५६॥
अतिरिक्तमतोऽर्जुनादपि शरसन्धानकला प्रदर्शयन् ।
जनवर्गमसावमज्जयत् परमानन्दमये
पयोनिधौ ॥६॥

३५
पश्चमः सर्गः]
त्वमसि प्रवरो धनुर्धरस्त्वमहो धन्यतमोऽसि भूतले ।
इति कर्णमुपस्थिता जनाः प्रशशंसुः स्ववचोभिरुच्चकैः ॥६१॥
उपलभ्य स कर्णमीदृशम् इह दुर्योधनमाप्तवान् निधिम् ।
नितरां मुमुदे स्ववक्षसा तमथालिङ्गय वचोऽब्रवीदिदम् ॥१२॥
तव वीरवरेण्य ! शूरता-समता नास्ति जगत्त्रयेऽपि भोः ।
शरचालनकौशलं परं ननु नृणां वचसोऽतिरिच्यते । ६३॥
अहमस्मि नितान्तविस्मितस्तव दिव्यास्त्रनियोगदर्शनात् ।
विदितोऽसि मयाद्य वस्तुतो निजसौभाग्यममि सान्प्रतम् ॥६४॥
भवदीयसमीहितान्यहं पणतां प्राप्य निजानसूनपि ।
परिपूरयितुं समुद्यतः स्वकमावेदय मे मनीषितम् ॥६५।।
अखिलं मम यच्चमूबलं सकल राज्यमिद धनानि च ।
सहितं निखिलेश्च बान्धवैरहमात्मानमथार्पयामि ते ॥६६॥
अयि वीर हितैषिणं निजं त्वमिमं मामवधेहि किङ्करम् ।
अधुनैव हि कालतो ध्रुवं मम साम्राज्यपतिर्भवानभूव ॥६७॥
विनिशम्य सुयोधनस्य तद् वचन कर्ण उवाच विस्मितः ।
मनुजेन्द्र न वाच्यमीदृशं मयि दासेरकयोग्यता न ते ॥६॥
इदमेव ममास्ति गौरवं परमं भाग्यममि चात्मनः ।
वसुधाधिपतिर्भवान् मयि प्रणते तुष्यति तुच्छसेवके ॥६९॥
न धनं न च राज्यवैभवं न हि सांसारिकसोख्यमेव वा।
परिवाञ्छति केवलं तव प्रणयं शुद्धमयं जनो नतः ॥७॥
अतिगर्वयुतं धनञ्जयं सुविजेतुं समरेण भूपते ।
इह रङ्गमहोत्सवस्थले समुपस्थानमये मया कृतम् ॥७१॥

. [कर्णाजुनीये इति कर्णवचो निशम्य स व्यथितः कृष्णभुजङ्गमोपमः । सहितः प्रबलेन मन्युना विदधे फूत्कृतिमर्जुनो भृशम् ॥७२॥ भुवने य इहास्ति विश्रुतः क्षणमर्वाक् प्रवरो धनुर्धरः । सदसि प्रतिपक्षगामिना स हि कर्णेन तिरस्कृतोऽभवत् ॥७३॥ निखिलेषु धनुर्धरेषु यं गुरुवर्यः समघोषयद् वरम् । वत सर्वसमक्षमेव द्विषतैकेन नरावमानितः ॥७४॥ प्रशशंस च कर्णमेव सा समवेता जनता यदा तदा । विषसाद परं धनञ्जयो निजविद्वेषिणमब्रवीदिदम् ।।७५॥ अयमस्ति नराधमो ध्रुवं यदहो राजकुमारसंसदि। अनिमन्त्रित आगतस्तथा स्वमुखेनैव भृशं विकत्थते ॥७६॥ अखिलास्त्रविदां महत्तमं प्रवरं सर्वधनुष्मतामपि । गणयत्यवलेपतोऽधुना निजमात्मानमयं विमूढधीः ॥७॥ अविनीतमपत्रपं विमं वचसा स्वेन हि शूरमानिनम् । यमराजनिकेतनातिथिं विदधाम्यत्र सभासदां पुरः ।.७८॥ पुरुहूतसुतस्य तादृशं आकर्ण्य दिनेशनन्दनः। स्तनयित्नुगभीरगर्जनः पुनराचष्ट जनोधमध्यगः ॥७॥ अयि फाल्गुन मासि फाल्गुने प्रलपन्तीदृशफल्गु बालकाः । वितथं न परस्परं सखे विवदन्ते पुरुषार्थशालिनः ॥८॥ नृषु राजति यत्र शूरता पुरुषा येऽपि च वीरमानिनः । भुवने कृतिमाचरन्ति ते न वृथा वागशनिं प्रयुञ्जते ॥८१ अयमस्ति महोत्सवो न ते पुरुषाः सर्व इहाधिकारिणः । उपगन्तुमथात्मनः कला परिसन्दर्शयितुं निमन्त्रिताः ॥२॥ वच - पञ्चमः सर्गः] ३७ सदसो नियमानपालयम् न समुल्लचितवान् नयाध्वनः । गुरुवर्यनिदेशतो नृणामनुमत्याऽऽत्मकलामदर्शयम् ॥३॥ भुवि कर्म निजं प्रकुर्वते न च नर्दन्ति वृथा बलान्विताः । यदि शक्तिरिहास्ति ते मया सपदि द्वन्द्वरणं सहाचर ॥४॥ जततैव हि नौ बलाबलं युधि निर्णेष्यति किं विकत्थनैः। अयमस्मि समुद्यतोऽधुना प्रतिपद्यस्व रणाजिरं द्रुतम् ।।८५॥ गमितो न मया यमालयं शितशस्त्रास्त्रनिपातितो भवान् । भवितास्मि न कर्णनामको वसुधायां स्खमुख न दर्शये ॥६॥ इति कर्णसगर्वभाषितं स समाकर्य महेन्द्रनन्दनः गजयूथपतिप्रताडितः प्रचुकोपाथ जगर्ज सिंहवत् ॥८॥ स दधार निजं शरासनं कटिवासः सुदृढ़ बबन्ध च । प्रणनाम गुरोः पदाम्बुजं रणरङ्गेऽवततार सत्वरः ॥८॥ निननाद मृगेन्द्रविक्रमः प्रतिपस्फाल भुजावनेकशः। प्रतिपक्षिणमाजुहाव तं प्रतितस्था च वीरमुद्रया ॥६॥ इदमीप्सितमस्ति पूर्वतो वसुषेणो मुमुदेऽन्तरात्मनि । वरमाप समीहितं नु स स्वसुहृद्वर्गमथालिलिङ्ग च ॥१०॥ परिधाप्य जयस्रजं मुदा प्रहितोऽभूत्स सुयोधनादिभिः । पितृवद् दिननाथजन्मनः प्रचकाशे नितरां मुखद्युतिः ॥११॥ रणरङ्गमहीमुपस्थिती निजशस्त्रास्त्रसुसज्जितौ वरौ। अपजहतुरत्र तावुभौ युवसिंहद्वितयस्य सौभगम् ॥१२॥ भुवने स्त उभौ महाबलौ कृतमन्यू ऋतधर्मपालको । खजयाभिनिवेशगर्वितौ प्रथितौ संगरशास्त्रपण्डितौ ॥३॥ स

सकला
[ कर्णार्जुनीये
रमणीयसमानशोभया प्रतिभातः सहोदराविव ।
उभयोर्मधुराननकृतेर्जनता साम्यमवेक्ष्य
विस्मिता ॥४॥
कपिकेतुजयं तथाऽपरे मनुजाः कर्णजयं प्रकुर्वते ।
रणरङ्गमेदिनी जनकोलाहलविप्लुताऽभवत् ॥६५॥
जनता निखिला समुत्सुकाद्भुतकौतूहलविस्मयान्विता ।
विजयस्त्वथवा पराजयो भविता कस्य विचिन्तयत्यदः ।।६॥
अपि चैतदपूर्वमात्मनः सुतयोः संगरमीक्षितुं द्रुतम् ।
गगने समुपस्थितौ तदा दिननाथश्च दिवौकसां पतिः ॥१७॥
कृपभीष्मयुधिष्ठिरादयो गुरुवर्यश्च कपिध्वजान्तिकम् ।
धृतराष्ट्रसुतास्तथा च तत्सुहृदः
कर्णसमीपमाययुः ॥६॥
जननी परिखिन्नमानसा महिलामण्डलमध्यवर्तिनी।
निजयोस्तनुजन्मनोः पृथा न रणं प्राणहरं समीहते ॥१६॥
नयनद्वयमेव वै प्रियं भवति प्राणभृतः स्वभावतः।
न हि कोजपे सुमन्दधीरपि प्रसमोहेत निजाङ्गयोः क्षतिम् ॥१०॥
तनयो प्रतियोद्धमुद्यतावपि चाऽन्योन्यवधं चिकीर्षतः ।
इति दृष्टवती चिखेद सा निजकर्त्तव्यविमूढतां गता ॥१०१॥
न शशाक शरीरधारेण वत मूर्छामधिगत्य भूतले ।
निपपात वरासनानिजान हि कश्चित् सुविवेद तद्गतिम् ॥१०२।
विदुरस्य मतेन शीतलं समसिञ्चत् परिचारिका जलम् ।
परिबोधमिताऽपि सा तयोः प्रतिरोढुं न शशाक संगरम् ॥१०३॥
उचितं
वृत्तमेतयोर्गदितुं सर्वसमक्षमन्वभूत् ।
परमां हियमन्तरात्मनि प्रतिचक्रे न च किञ्चिदार्तिभृत् ॥१०४॥

" ३६ पञ्चमः सर्गः] उभयोहितचिन्तने रता न हि वाञ्छन्ति रणं तथापि ते । विरतेः सदुपायसंविधौ प्रभवो नैव बभूवुरञ्जसा ॥१०॥ परिहर्तुमिमं रणं कृपः कृपयाविष्ट इवाभवद् द्विजः । उदघोषयदर्जुनेन वै वसुषेणोऽधिकृतो न संगरे ॥१६॥ उदपद्यत विश्वविश्रुते महिते राजकुलेऽयमर्जुन । तनयाः प्रभवन्ति भूभुजां नृपपुत्रैः सह संगरार्थिनः ॥१०७॥ अयि वीरवरोऽसि कर्ण ते कुलगोत्रादि न विद्महे वयम् ।. पितृनाम च धाम जन्मनः सकलं वेदितुमुत्सहामहे ॥१८॥ प्रहतो वचसा कृपस्य सोशनिना सूर्यसुतोऽतिदुःखतः । मुखमानमयंस्तदाऽऽत्मनो न वचः किञ्चिदुवाच लज्जितः । १०६।' तदकालमनिष्टमागतं परिचिन्त्यैष सुयोधनस्तदा । कृपमेतमवोचदर्जुनप्रभवं वेद पुमानिह ॥११॥ य इहास्ति सुदर्शनो नरः कृपणं काणमधिक्षिपेदसौ । वत नेत्रविहीनमानुषः स कथं तं प्रभवेद् विनिन्दितुम् । १११॥ कपिकेतुरयं भवन्मते यदि राज्ञा सह योद्धमर्हति । अधुनैव हि संगराङ्गणे नृपतिं कर्णमिमं करोम्यहम् ॥११२॥ इति वाचमुदीर्य सत्वरं श्रुतिविज्ञानविदो विपश्चितः । क्षितिदेववराननेकशो द्रुतमाहूय सुयोधनो नृपः ॥११३॥ उपवेश्य सुवर्णनिर्मिते वषुषेणं रुचिरे नृपासने। रणरङ्गभुवीह चाङ्गभू - पति - चिह्न तिलकं चकार सः ॥११४॥ क्षणमात्रत एव सुन्दरे स सितच्छत्रतले व्यराजत । परिचालयतः स्म चामरे परितो द्वौ पुरुषौ शुभच्छदौ ॥११॥ न

नराः
[कर्णार्जुनीये
बहुवर्ण-महार्य-हीरकादिक-रत्नैः सुमनोहरैरयम् ।
खचितं मुकुटं सुसन्दधत् प्रचकाशेऽन्य इवोष्णदीधितिः ॥११६॥
जयकारमघोषयन्
वेदज्ञवरैर्धरामरैः।
परमां मुदमाप्तवान् समो जनसङ्घोऽपि कुतूहलान्वितः ॥११७॥
अमुना महतोपकारिणा नृपदुर्योधनसौम्यकर्मणा।
सजलाक्ष-सगद्गदस्वरो वच ऊचेऽर्कसुतः सुयोधनम् ॥११॥
कुरुराज . तवोपकारतोऽनृण आत्मा न भवेत् कदापि मे ।
भुवनेऽत्र भवादृशो नरो गुणसम्मानकरोऽतिदुर्लभः ॥११६
अहमामरणं नृणां पते भवता क्रीत इवास्मि साम्प्रतम् ।
तव मित्र निदेशपालनं विदधे यावदिहास्मि जीवितः ॥१२०॥
उपकारकृते त्वया सखे क इह प्रत्युपकार ईह्यते ।
कथयस्व निजं समीहितं तदहं प्राणपणेन साधये ।।१२१॥
विनिशम्य स कर्णभाषितं कुरुराजोऽकथयत् सुयोधनः।
अयि मित्र मया तु केवलं दृढसौहार्दमपेक्ष्यते तव ॥१२२॥
भुवनत्रयदीपकं तदा पितरं स्वं प्रविधाय साक्षिणम् ।
धृतराष्ट्रसुतेन संव्यधात् परमां प्रीतिमसावनश्वरीम् ॥१२३॥
अतिवृद्धतमो यदाऽऽगतोऽधिरथो धर्मपितास्य मण्डपे ।
वसुषेणमिमं नृपासने मुमुदे वीक्ष्य सुतं तदात्मनः ॥१२४॥
पितरं परिवीक्ष्य चागतं वसुषेणो नृपसिंहपीठतः ।
उदतिष्ठदरं स्वमस्तकं सकिरीटं पितृपादमार्पयत् ॥१२५॥
जनकोऽपि तमभ्यनन्दयच्छिर आघ्राय शुभाशिषां चयैः ।
व्यसृजन्निजनेत्रसम्भवां परमानन्दजवाष्पसन्ततिम् ॥१२६॥

पञ्चमः सर्गः]
विहसन् स तदा वृकोदरोऽवसरं प्राप्य यथेच्छमुच्चकैः ।
समवोचदयं विपक्षगो विदितः सूतसुतोऽस्ति हन्त भोः ॥१७॥
उचितं किमु चास्य साहसं ह्यतिनीचान्वयलब्धजन्मनः ।
यदर्य प्रतियोद्धमीहते नृपतिक्षत्रियसत्कुलोद्भुवा ॥१२८॥
वरकुञ्जरपोतकेन कि
किं बलिना
बलिना शूकरसन्ततेरहो।
मनुजो वत कश्चिदशृणोद् भुवने चात्र परस्पराहवम् ॥१२६॥
बलवानपि जम्बुकात्मजः किमु सिंहस्य पुरः प्रसर्पति ।
निहितोऽपि सुवर्णपजरे किमु काकः क्रतुहव्यमुग्भवेत् ॥१३०॥
बलशालिमृगेन्द्रसन्निधौ नृपतिप्रश्रयवान् सुभोज्यभुक् ।
किमुपैति सुवर्णशृङ्खलो नयनानन्दकरोऽपि कुक्कुरः ॥१३१॥
अयि पश्यत मन्दधीरयं धमः सूतसुतो भवन्नपि ।
परिवाञ्छति सव्यसाचिना सह योद्धं नितरामपत्रपः ॥१३२॥
निजगाद तदप्रियं वचोऽसहमानो नृपतिः सुयोधनः ।
ननु भीम सुसान्निपातिक-ज्वर-संश्लिष्ट इव प्रतीयसे ॥१३॥
यदि कश्चिदनीदृशो नरः प्रवदेदित्थमसौ न दोषभाक् ।
परमन्यमधिक्षिपेत् कथं य इह क्षेत्रज आत्मजः स्वयम् ॥१३४॥
सहते वचनं तवेदृशं वसुषेणो महतां महत्तमः।
अभियाति पयोधरध्वनि विरुतं वीरहरिन जाम्बुकम् ॥१३॥
नृपतिः किल कर्ण एषको नृपसिंहासनमास्थितो वरम् ।
इति यस्य न विद्यते भवेऽभिमतं तस्य हि मूर्ति मे पदम् ॥१३६॥
तमहं समरार्थमाह्वये द्रुतमायातु स वीरसम्मुखम् ।
यदि नैति निजानने तदा मसिमालिप्य पलायतामितः ॥१३७॥

४२ [कर्णार्जुनीय इति वृत्तमवेक्ष्य सर्वतो वितताऽस्मिन् किल रङ्गमण्डपे । कुतुकान्वितदर्शकावलिर्वत कोलाहलमाचरद् भृशम् ॥३८॥ निखिलाः समुपस्थिता जनाः प्रशशंसु पति सुयोधनम् । बहुवारसुदैरयन् मुदा वसुषेणः प्रवरोऽर्जुनादपि ॥१३॥ इह वीक्ष्य परस्परं मनोमलिनत्वं गुरुवर्य उत्थितः । समघोषयदेष उच्चकैर्वचनं सर्वसमक्षमीदृशम् ॥४०॥ सुकुमारकुमारमण्डलं निजवीरोचितहस्तकौशलम् । तापुरतो न्यदर्शयद् रविरस्तो भविताऽस्ति सत्वरम् ॥१४१॥ समयेऽत्र विधेय आत्मनः शुचिसान्थ्यो विधिरुत्तमो नृभिः । अत एव विसयंते मया परमानन्दकरोऽयमुत्सवः ॥४२॥ निजमासनमुत्सृजस्तदा जनसङ्घो बहुधा व्यभज्यत । विविधैः पथिमिमनोहरैरैगमत् स्वस्त्रनिकेननं प्रति ॥१४३॥ पथिषु प्रतिपद्य संहतिं वप्तषणाश्रितवीरताकथाम् । निजगाद बहुप्रकारतो मुमुदे तद्विवृतिं निशम्य च ॥१४४॥ सकला जनताऽन्वभूदिदं बभविष्यद् यदि युद्धमेतयोः । ध्रुवमेव तदा धनजयं स हि कर्णः प्रवरो व्यजेष्यत ॥४५॥ द्रोणाचार्यस्य सत्यप्रसृमरवचसा स्वानुभूत्या च यस्य विश्वासः पूर्वमासीद् यदिह हि भुवने वीर एकोऽर्जुनोऽस्ति । सोऽयं धर्मस्य सूनुः सुविमलहृदयः संविशश्वास चैत- नेवास्ते कर्णतुल्यः शरसरणपटुः सद्धनुर्वेदवेत्ता ॥१४६।। इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकव्ये पञ्चमः सर्गः समाप्तः अथ षष्ठः सर्गः स कर्णोऽन्वभूदेकदा मानसे स्वेऽहमस्म्यस्त्रशस्त्रप्रयोगे गरीयान् । परं ब्राममस्त्रं न मे ज्ञातमास्ते प्रकाण्डेन तेजस्विना धार्यमाणम् । १।। ध्रुवं विद्यते सर्वतोऽभ्यर्हितं तत् कदाचिन तस्य प्रयोगो वृथा स्यात् । उपायेन केनापि लब्धं भवेच्चेत् त्रिलोके भविष्याम्यहं वीर एकः ॥२॥ तदत्रं स मे द्रोण आचार्यों न विश्राणयिष्यत्यदस्तकयामि । यतस्तस्य तस्मिन् महान् पक्षपातोऽर्जुने विद्यते भूयसी चानुरक्तिः ॥३॥ तथाप्यङ्घ्रिपद्म तदीयं प्रपद्य मयाऽभ्यर्थनीयस्तदर्थ स पूर्वम् । प्रदद्यादसौ ब्रह्मणोऽस्त्रं तदाऽहं कृतार्थोऽन्यथा मे क्षतिर्नास्ति काचित्॥४ इदं सर्वमालोच्य कर्णः कदाचिद् वहन्नजलिं मस्तकेनातिनमः। अदीनोऽप्ययं दीनभावं प्रपन्नस्तमेकान्तसंस्थं गुरुं संन्यगादीत् ॥५॥ प्रभो त्वां समभ्यर्थयिष्यामि किञ्चित् तदर्थ निदेशं त्वदीयं समीहे । निदिष्टरतदाऽऽचार्यदेवेन कर्णों वचो व्याजहारार्थवन्नीतिगर्भम् ॥६॥ सुयोग्येषु पुत्रेषु शिष्येषु चापि गुरूणां हि दृष्टो विशिष्टोऽनुरागः। परन्त्वस्ति तेषां समानैव दृष्टिस्तनूजेषु सर्वेषु चान्तेवसत्सु ॥७॥ सदा निश्छल सेवितोऽभ्यर्थितः सनुदारो दयालुः शरण्यः समेषाम् । गुरुः प्रेमभाजां स्वकीयाश्रितानां मनःकामनां पूरयत्येव नूनम् ।।८।। विनीताय मां भवान् ब्राह्ममत्रभुपादेष्टु मर्हेत्प्रसन्नान्तरात्मा । त्वदादेशतोऽहं तपांसि व्रतानि विधातुं कठोराणि चाप्युद्यतोऽस्मि ।।६।। तदर्थं भवान् यद्यदादेष्टुमिच्छेद् ध्रुवं पालयिष्याम्यहं तत्तदेव । न तत्राणुमात्रत्रुटि संविधास्ये प्रतिज्ञायते त्वत्पदाब्जं प्रपद्य ॥१०॥ 1

[कर्णार्जुनीये
समाकर्ण्य कर्णस्य विप्रः स वाचं गरीयान् गुरुः प्रेमभावं प्रदर्श्य ।
अवादीदये तात सत्या त्वदुक्तिर्भवत्युत्तमे पक्षपातो गुरूणाम् ॥११॥
कृपादृष्टिरन्येषु शिष्येषु चापि मदीया समाना न संशीतिरत्र ।
भवेस्त्वं भवे सर्ववीरेषु मुख्यस्ततस्त्वय्यनन्या मम प्रीतिरास्ते । १२॥
तपासंशितात्मा तथोद्दीप्ततेजा धृतौ तस्य चास्त्रस्य विप्रः समर्थः ।
कुलीनोऽथवा क्षत्रियो राजसूनुरलं स्यान्न चात्रास्ति सर्वोऽधिकारी॥१३॥
अतस्त्वामहं तत् कथं शिक्षयेयं मम त्वं विजानीहि वैवश्यमस्मिन् ।
गुरोराननात् तद्वचो मर्मभेदि निशम्यैष वीरः परां ग्लानिमापत् ॥१४
भराक्रान्तवत् स्वं शिरस्त्वानमय्य ह्रिया जुष्ट आचार्यपादे निपत्य ।
अनुक्त्वै किञ्चिद् वचोऽसौ विषण्णो हताशो भवन् स्वस्य वेश्मन्यगच्छत्।।
भवेऽस्मिन् गुणग्राहिणामस्त्यभावः समे स्वार्थिनः पक्षपाते रताश्च ।
महान्तोऽपि सन्तीर्ण्ययाक्रान्तचित्ताः स इत्थं विशश्वास नैजेऽन्तरङ्गे ॥१६
तिरस्कारभाजोऽपि वीरस्य तस्य तदत्रं समादातुमीहा न चोना ।
प्रतिस्पर्धिना वायुना हन्यमाना परावर्धताऽमर्चलन्ती शिखेव । १७॥
अपूर्तावनीशो भवन् वासनायाः स्वकं मार्गमालोक्य तामिस्रपूर्णम् ।
निजोद्योगसाफल्यकामो मनुप्यः प्रवृत्तोऽनृते जायते नात्र चित्रम् ॥१८॥
असत्यार्जितं वैभवं भङ्गुरं स्यान्न सन्तिष्ठते तजगत्यां चिराय ।
उदकं तदीयं वृथा नैव वेत्ति नरः स्वार्थरूपग्रहग्रस्तचित्तः ॥१६॥
समादातुकामस्य मे ब्राह्ममस्त्र' यदा बाधकं सूतपुत्रत्वमेव ।
तदा किं न तद् गोपयित्वार्जयेयमिति स्वान्तरङ्गे स कर्णो विवेद ॥२०॥
तदखोपदेशं गुरुोणदेवो न चेत् कर्तुमिच्छत्यसौ नैव कुर्यात् ।
वदीयो गुरुस्तस्य चास्य दावा भवे विश्रुतो विद्यते जामदग्न्यः ॥२१॥

षष्ठः सर्गः] स एव प्रयत्नान्मयोपासनीयो हृदीत्थं विचिन्त्य प्रसन्नस्तदानीम् । अविज्ञापयन्नात्मवृत्तं परेभ्यो महेन्द्राभिधानं गिरिं प्रस्थितोऽभूत् ॥२२॥ परश्वाख्यशस्त्रस्य धत्तु महर्षेः समागत्य सोऽहाय पादारविन्दम् । प्रणम्यादरेणैष साष्टाङ्गपातं विनीतोऽञ्जलिं संविधायेत्यवोचत् ॥२३॥ दयालो ! भृगोवंशजन्माहमस्मि त्वदीयश्च दासो महीदेवसूनुः । भवत्पादपाथोजभृङ्गायमाणोऽधिगन्तुं समीहे परं ब्राह्ममस्त्रम् ॥२४॥ प्रभो सन्मते त्वन्मतेनास्मि योग्योऽधिकारी तदस्त्रस्य संशिक्षणाय । तदाऽघौघविध्वंसि मे स्यादमोघं वरेण्यं भवत्पादपद्म शरण्यम् ॥२५॥ सुरूपं सुतेजः सुशीलं च तस्य सदाचारयुक्तां परां नम्रतां च । विलोक्यैव तेजखिनामग्रगण्यः स विश्राग्रणीKग्यतामाप सद्यः ॥२६॥ प्रकृष्टप्रभावोऽस्य गोत्रं च शाखां श्रुतेराशु विज्ञाय हृष्टान्तरात्मा । निजं पार्श्वमाश्रित्य संस्थातुमस्मै निदेशं ददौ सत्वरं विप्रसिंहः ॥२७॥ गुरोः सावधानेन कर्णेन तेनाद्भुतां प्रीतिपूर्णां सपर्या विधाय । तदीयान्तरङ्ग प्रसह्यापहृत्य स भूमीसुरस्तुष्टतामाशु निन्ये ॥२८॥ ततो ब्रह्मणोऽस्त्रस्य सम्यक् प्रयोगं क्षणार्धद्विषबातविध्वंसकस्य । अमन्दं तमानन्दमातो महर्षिः सुसंहारपूर्व स चोपादिदेश ॥२६॥ तदस्त्रं समासाद्य मोमुद्यमानो धनुर्धारिणां विश्ववन्धोऽपि कर्णः । अमोषान् विधित्सुः प्रयोगानिपूणां रतोऽभ्यासयोगेऽलसत्वं विहाय॥३० सुदूरे वनप्रान्तरे ढौकमान उपस्थाय नित्यं स एकान्तदेशम् । खशस्त्रास्त्रनिक्षेपमावर्तयन् सन्निनायात्मनः कालमत्र स्थितोऽसौ ॥३१॥ वनेऽभ्यस्यतोऽस्य श्रमं वीक्षमाणाः सुरा यक्षरक्षांसि विद्याधराद्याः। स्मीयुश्च ये जामदग्न्याश्रमेऽस्मिन परं विस्मयं ते समे भेजिरेऽन्तः॥३२

४६
[कर्णार्जुनीये
मनोमोहयितस्वरूपात्तदीयादुपासेदुषामाश्रमे तत्र तेषाम् ।
सदान्योन्यसम्भाषणात्तन सार्धं महान् प्रीतिभावः समाविबभूव ॥३३॥
स्वकीयां समीहां फलाढ्यां विधातुमजलं श्रमस्तेन तेने महीयान ।
परं संविधानं यदस्तीश्वरीयं प्रयत्नेन को नाऽन्यथा कर्तुमीशः ॥३४॥
समीहामहेऽन्यद् वयं कुर्महेऽन्यत् फलं प्राप्नुमोऽन्यनिदिष्ट यतोऽन्यत् ।
अतो धतवद् भागधेयस्य लोके विचित्रा गति श्यते नित्यमेव ॥३५॥
जनो ज्ञानकर्मेन्द्रियाणां मतेश्च सहायत्वमाश्रित्य कर्माणि कर्तुम् ।
स्वतन्त्रो विभातीव किन्त्वेष दैवात् प्रसक्तः प्रसद्यास्ति कर्मान्तरेषु ॥३६॥
सुखानीहमानेन याऽनुष्ठिताऽऽस्ते क्रिया सैव दुःखानि सद्यः प्रसूते ।
दुरूहां गतिं कर्मणां नैव कश्चिद् विपश्चित्परिज्ञातुमीशो धरायाम् ॥३०॥
बलिर्बन्धन प्राप दासेरकत्वं हरिश्चन्द्र प्राप्नोदसावन्त्यजस्य ।
नृगो दानिनामग्रगण्यो नृपालः सुकर्माप्यहो कार्कलासत्वमागात् ॥३८॥
असंख्या महापुण्यवन्तो नृदेवाः पुराद्यापि सन्तो महान्तो वरेण्याः।
विधाने रताः सक्रियाणां तथापि चिरं चिक्तिशुर्हन्त दिष्टं बलीयः ।।३६
कदाचित्समभ्यस्यतो वाणविद्यां महीनिर्जरस्याग्निहोत्रस्य धेनोः ।
ममारास्य वाणेन कस्यापि वत्सस्तदज्ञानतोऽपश्यतो दैवयोगात् ॥४०॥
मृतं वत्समालोक्य चिन्तातुरस्य दयालोश्च गोविप्ररक्षणाय ।
निजासूनपि प्रोज्झतस्तस्य शुद्धमचेखिद्यत खान्तमत्यार्तिभाजः ॥४॥
अभूद् यस्य विप्रस्य गोवत्स एष स चागत्य हंहो नितान्तं विषण्णः ।
पुरो हिंसकं विद्यमानं विलोक्य क्रुधा प्रज्वलन कर्णमित्थं शशाप ॥४२
अरे दुष्ट यत्त्वं व्यधाः कर्म घोरं वरः स्यात् तदर्थ तव प्राणदण्डः ।
परं ब्राह्मणोऽहं न शस्त्रं प्रयुञ्ज प्रयच्छामि शापं नृशसाय तुभ्यम् ॥४३॥

षष्ठः सर्गः] विजेतुं नरं य प्रयत्नं विधत्से परिश्राम्यसीत्थं रिपुं यं निहन्तुम् । चिर युध्यमानस्य ते तेन साधं रथाङ्गं प्रसिष्यत्यवश्यं धरित्री ॥४४॥ यथाऽसावधानोऽवधीधेनुवत्सं तथाऽसावधानस्य युद्धे रतस्य । महोग्रस्वरूपं रणे सन्दघाने विधास्यत्यवश्यं वधं ते सपत्नः ॥४५॥ अरे त्वं मनुष्याधमो नीचनीचः पराज्येष्यमाणोऽसि मे शापयोगात् महापाप गोवंशविध्वंसकारिनितो दूरमेतर्हि सद्योऽपसर्प ॥४६॥ महीदेवशापं समाकर्ण्य कर्णो विषीदन् प्रसादाय भूमीसुरस्य । विनम्रोऽतिदीनाकृतिर्भीतभीतः प्रयत्नाननेकानसौ संव्यधत्त ॥४७॥ अवोचन्मयाऽजानता विप्रदेव कृतं कर्म घोरं क्षमस्वापराधम् । व्रतं कारयित्वा तपश्चारयित्वा मदेनोविशुद्धिं कुरुष्व प्रसीद ॥४८॥ तदर्थं सवन्साः सहस्राणि धेनूर्घटोघ्नीरिदानी प्रदास्यामि तुभ्यम् । निज राज्यमैश्वर्यमप्यर्पयामि कृपा दीनदीने त्वया संविधेया ॥४६॥ क्षणार्धेन यो विप्रवर्यः प्रसीदत्यसौ प्रार्थनां राज्यसर्वस्त्रदानम् । समन्युस्तृणायाखिल मन्यमानः कथञ्चिन्न सम्प्राद्रवद्वज्रचेताः॥५०॥ स कर्णस्य भूदेव एभिर्वचोभिघृतैः कृष्णवर्मेव जाज्वल्यमानः । महत्या क्रुद्धा वेपमानाधरोष्ठोऽरुणाक्षः पुनर्व्याजहारेति वाचम् ॥५१॥ विजानासिकिरे द्विजलोभिनमां त्रिलोकस्य साम्राज्यमिच्छामि नाहम् । असत्य कदाचिन हास्येऽप्यवोचमतोव्यर्थतां नैव गच्छेन्मदुक्तिः ॥५२॥ वनेऽस्मिन् पुरो मे प्रणन्नम्यमानो निपत्य क्षितौ स्व सदा घृष्ठनासः । प्रणाश बजेः किन्तु शापापहारो विधातुं न शक्यो वृथा ते प्रयासः ॥५३॥ प्रदायास्य शाप दिधक्षन्निवाग्निस्ततः स्थानतो भूसुरो निर्जगाम । विषण्णो निजं भाग्यमाक्रुश्य मन्दं स कर्णस्तदा स्वाश्रमाय प्रतस्थे ॥५४

[कर्णार्जुनीये
पश्चात्तापं मनसि विदधे कर्मणैतेन को
यत्न चक्रे बहुविधमसौ भूसुरस्य प्रसादे ।
तस्योदर्कः कथमपि मनाङ नानुकूलो बभूव
वामे भते भवति हि विधौ सर्वयत्नो निरथः ॥५४॥
इति श्रीकविवर्यविन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये षष्ठः सर्गः समाप्तः
अथ सप्तमः सर्गः
उपससाद महेन्द्रगिरिस्थितं यदवधेर्जमदग्निसुतस्य सः।
रुचिरमावसथ रविनन्दनो निरलसो गुरुवर्य्यमनन्दयत् ॥ १॥
करगृहीतखनित्रनरो यथाऽभिमतवारि खननधिगच्छति ।
गुरुगत
गुरुसेवनतत्परो द्रुततरं परिवोधमवाप्नुते ॥२॥
समवलोक्य गुरोर्मुखपङ्कजं निखिलमेव तदीयमनोगतम् ।
विविधभावमनुक्तमपि द्रुत परिविचिन्त्य सदा समपूरयत् ॥३॥
न च स नक्तमहः प्रियमप्रिय न हिममुष्णमथापि सुखासुखम् ।
न समुपात्तमनादरमादरं गुरुनिदेशपरः समजीगणत् ॥ ४॥
अनुदिन स सुषुप्तिमगात्परं प्रथममेव गुरोविजहे च ताम् ।
विनयवानुपगत्य तदन्तिक प्रियकृदस्य मुखाम्बुजमैक्षत ॥५॥
प्रतिनियम्य निजेन्द्रियसन्तति हृदयमप्यवरुध्य तथाऽऽमनः ।
मुकुलितात्मकराङ्गुलिरुद्धतां स विरहय्य गुरु स्वमसेवत ॥६॥
गुरुवरस्य हितं प्रचिकीर्षणा रुधिरमप्यमुना स्वशरीरजम् ।
अविरतं परिवाहितमेकदा समभवत् प्रतिकूलमदाफलम् ॥ ७॥

४६
सामः सर्गः]
विधिसमीहितमात्मशिरोऽङ्कितं निजकृतैः पुरुषार्थशतैरपि ।
गमयितुं विफलत्वमनीश्वरा ददृशिरे भुवने बहवो जनाः ॥८॥
अधिगते प्रतिकूलविधि जने विलसितं पुरतः स्वपरिश्रमैः ।
मणिसुवर्णमुपार्जितमप्यहो स्पृशति सत्वरमेव मृदायते ॥६॥
सततसेवनतत्परतारति समवलोक्य कुशाग्रमति तथा।
परशुराममुनिर्दिनकृत्सुतं प्रणयभाजनतामनयनिजाम् ॥१०॥
जगति यत्र जगाम स भार्गवः सह निनाय च तत्र तमात्मना ।
विहितया निजसाधुसपर्यया भृगुवरेण्यमसौ समनन्दयत् ॥११॥
परशुराम ऋषिः प्रियभाजनाऽनुगतशिष्यवरेण सह भ्रमन् ।
अतिशयलममाप समागतः परमभीममरण्यमटाव्यया ॥१२॥
तपसि लग्नहदोऽस्य निरन्तरं वत शरीरमभूदतिदुर्बलम् ।
दिनमणेरतिभीषणतेजसा स गमने पथिषु श्रममन्वभूत् ॥१३॥
सघनसौख्यदभूरुहशीतलं सुरुचिरं तलमाश्रितवान् कचित् ।
पथि परिश्रमहेतुबशादसौ सुशयितुं समियेष मुनीश्वरः ॥१४॥
प्रियतमस्य सुशिष्यवरस्य तत्सदुपाधानमिभेन्द्रकरोरुकम् ।
समधिगत्य समोदमसंशयं श्रमयुतः स समस्खपदासा ॥१५॥
निजमसावनुकूलमवाप्तवानवसरं वसुषेणहितच्छिदम् ।
खतनयार्जुनमङ्गलसाधक परशुभद्विडहो त्रिदशेश्वरः ॥१६॥
अतिविगर्हितकर्मचिकीर्षया प्रति च कर्णमकारणमीर्ण्यया ।
अधिगतोऽपि च साधुविनिन्द्यतामलमभून्न स लजितुमात्मनि ॥१७॥
सुरपतिः कपटाचरणं न चेनिजसुतस्य कृते ह्यविधास्यत ।
त्रिभुवनेषु न कश्चिदपीडशो य इह कर्णमशक्ष्यत हिंसितुम् ॥१८॥

५०
[ कर्णार्जुनीये
न स तदुन्मुखतामगमत् क्वचिन्न युयुधे सह तेन शचीपतिः ।
वत कदर्य इवानृतमाश्रयन् प्रयतते स्म निपातयितुं हि तम् ॥१८॥
कृपणवत्पुरतो रविजन्मनो जगति योद्धुमसौ दरमन्वभूत् ।
न स बभूव समादरभाजनं सुजनसंसदि गर्हिततां गतः ॥२०॥
विजयकामनयाऽर्जुननिष्ठया रविसुतस्य पराजयहेतुताम् ।
परहितप्रतिकूलमनाश्चिरादपगतत्रप एष उपेयिवान् ।।२१।।
समघटिष्ट महेन्द्रगिरौ वरे भृगुपतेर्घटनाऽऽश्रमसन्निधौ
अनुचिता वत कर्णविरोधिनी त्रिदशराजकृतैव बभूव सा ॥२२॥
खतनयस्य विधित्सुरयं जयं रविसुतस्य हितं प्रति विद्विषन् ।
सुरपतिर्ननु शापमदापयत् कपटशास्त्रपयोधिपरायणः ॥२३॥
प्रवरकर्णपराजयकारणं गतवतोऽपि च तस्य विडौजसः ।
प्रसृतव-यपकीर्तिरनश्वरी सुयश आप दिनेशसुतो महत् ॥२४॥
खयमिमं हि विजेतुमशक्नुवन् प्रथितवीरदिनेश्वरनन्दनम् ।
अधमदेवपतिर्निजमायया कपटजालमरीरचदद्भुतम् ॥२५॥
सुरपतिप्रहितोऽतिभयावहः समसितासृगलर्कसमाह्वयः ।
कपटकीट उपेत्य शनैः शनैर्निविविशे वत कर्णवरोरुके ॥२६॥
असुहृदष्टपदोऽसुहृदस्य वा विकटकण्टकरोमसमन्वितः ।
प्रखरधामसुतस्य स निर्दयो रुधिरपानरतः समविद्यत ॥२७॥
पिशितवदूधिराशनवानसौ विषविदिग्धरदः खलकीटकः ।
अतिशयोग्रशरीरविलक्षणः स्वपिवदसृगमुष्य निरन्तरम् ॥२८॥
स पिशिते निचखान निजान्यहो वसु पदानि यदा रविज़न्मनः ।
असुखभानमभूत् परमं तदा व्यथितहत् स विचिन्तितवानिदम् ॥२६॥

सप्तमः सर्गः] यदि निहन्म्यहमेतमसृग्धयं मम तदोरुककम्पनहेतुना । गुरुवरस्य सुषुप्तिसुखं ध्रुवं सुचिरलब्धमिदं हि विनश्यति ॥३०॥ न खलु सेवकधर्मबहिर्मुखो भवितुमर्हति शिष्यजनोऽवशः। इति धियायमरुन्तुदवेदनामसहत प्रतिबोधनभीरुकः ॥३१॥ निशितदंष्ट्रभयानकजिह्वकस्त्रिदशनाथवशंवदतां गतः। रुधिरपानमवाप्य स कीटकः समभवत्परितृप्तबृहत्तनुः ॥३२॥ क्षरितरक्तकदुष्णितधारया भृगुपतेः परिषिक्तमभूच्छुभम् । . निखिलपृष्ठमसावचिरं तदा सुखदया विजहे निजनिद्रया ॥३३॥ समुदतिष्ठत दुःखितमानसः क्षणसुषुप्तिविभङ्गवशादसौ । रुधिरसिक्तकलेवरमात्मनो ह्यनुभवन् वसुषेणममभाषत ॥३४॥ क इह रे मम गात्रमिदं शुभं कथय रक्तचयैरतिदूषितैः । परमपूतहृदः स्वतपस्यया विकृतवान् विवशस्य च निद्रया ॥३॥ इनज एष निशम्य गुरोर्वचः प्रबलवेदनयाऽतिभयेन च । तरुनवच्छदकम्पितविग्रहो मुकुलिताञ्जलिरित्थमुदैरयत् ॥३६॥ सुमहिमनपराधमये न मे गणय तत्रभवन् निजचेतसि । इह निदानमवेहि भयप्रदम् असितकीटकमष्टपदं विमम् ॥३७॥ इति बचो वसुषेण उदीरयन् रुधिरपानसुपुष्टकलेवरम् । अतिनिषक्तमिमं खलमूरुके भृगुपतिं खलु कीटमदर्शयत् ॥३८॥ स भृगुवंशमणिः सहितः क्रुधा सरिसृपं हि यदैव निरैक्षत । सपदि तत्क्षणमेव निजानसूज् जहदसौ पुरतः पतितः क्षितौ ॥३६॥ वियति तत्समयेऽतिभयङ्करो निशिचरो ददृशे मुनिनाऽमुना। त्वमयि कोऽसि स पृष्ट इति क्रुधा मुनिवरं तमुवाच कृताञ्जलिः ।४।

[कर्णार्जुनीये
अहमभूवमये मुनिराट् पुरा दनुज एकपरः किल दंशकः ।
अमतिमानवशेन्द्रियसन्ततिः प्रखरपञ्चशरार्दितमानसः ॥४१॥
द्युतिमती भवदीयपितामहीं भृगुमुनेः स्त्रियमाहरमेकदा ।
ऋतगिरोऽस्य तु शापवशादिमां भयदकीटकयोनिमुपागमम् ॥४२॥
सदयहृत् स तदा मुनिपुङ्गवो विनयबद्धकरण मयार्थितः ।
सपदि सुप्रियतां गमितोऽवदत् त्वमयि मङ्गलमेष्यसि मा शुचः॥४३॥
भुवनपापपरायणराजहा परशुराम उदेष्यति मत्कुले ।
त्वमिह तस्य समन्युनिरीक्षणात्परिहरिष्यसि कीटकलेवरम् ॥४४॥
सरिसृपत्वविमुक्तिमगामहं त्वदनुकम्पनभाजनतां गतः ।
अधिगतेन च सज्जनमृत्युना भवति नूनमघौघपरिक्षयः ॥४५॥
इति वचः समुदीर्य निशाचरे गतवति स्वसमीहितधामनि ।
भृगुपतिर्वसुषेणविधानतो मनसि सन्दिदिहे भृशमात्मनः ॥४६॥
अमितसाहसतो गुरुभक्तितः सहनशीलतयाऽद्भुतया तया ।
महितयाऽस्य च वीरतया तथा परमविस्मयमाप स भार्गवः ॥४७॥
प्रणयवानपि शिष्यजने निजेऽमितदयाप्रवणोऽपि मुनीश्वरः ।
प्रति तमेष रुषेव परिज्वलन् विनयवन्तमसौ समजिज्ञपत् ॥४८॥
प्रियतमानि सुखानि वरानसन् अपि तृणाय च यो भुवि मन्यते ।
असहनीयतरेशवेदनां स . सहते ननु भूपतिवंशजः ॥४६॥
अमितधैर्यमियं च सहिष्णुता गुरुवरे च निजे प्रियतेदृशी ।
सकलमेतदतीव सुदुर्लभं द्विजवरे, वद कोऽसि मदाश्रितः ॥५०॥
अशनिनेव शतेन समाहतः परमभीतिमितो वसुषेणकः ।
त्रिभुवनेपि च वीरशिरोमणि शमकम्पत भूसुरतेजसा ॥५१॥

सप्तमः सर्गः] ५३ मनसि चिन्तितवाननृतं यदा भृगुपतेः पुरतः कथयाम्यहम् । उपलमे द्रुतमेव हि कीटवन्मृतिमतो मम सत्यकथा हिता ॥५२॥ मुकुलयन् खकराम्बुजयुग्मकं शिरसि तच्च दधद्भयविह्वलः । निपतितः सहसा भुवि दण्डवत् प्रणिजगाद स दीनमना इदम् ॥५३॥ मदपराधमिमं क्षमतां भवान् न शुचिविप्रकुले मम सम्भवः । विधिवरात्रमहं परिशिक्षितुम् अनृतवाचमुदीरितवान् प्रभो । ५४॥ जनयते धरणीसुरकन्यका नृपतिसंगमतो भुवि यं सुतम् । स्वजनिमध्यगमं च तदन्वये जनमिमं त्वमवेययि सौतिकम् ॥५॥ अधिरथोऽस्ति पिताऽपि च राधिका प्रणयशीलवती मम मातृका । गुरुरपि प्रथितोऽपरजन्मदस्तदवदं भृगुवंशजनि निजाम् ॥५५॥ यदपि सत्यवचोऽहमगोपयं मम तु धर्मपितास्ति भवानपि । सदयहृत् क्षमतामपराधिनम् इति निवेद्य दधार स मौनिताम् ॥५७॥ हृदि विमृश्य मुनिः किमपि क्षणं वचनमित्थमुवाच कृतागसम् । अतिभयङ्करशापमहं न ते परिददामि वदामि वचस्त्विदम् ॥५८।। सह समानबलेन नरेण ते यदि भविष्यति भीषणसंगरः। तव भविष्यति तत्र सुविस्मृतं विधिमहास्त्रमिदं मरणक्षणे ॥५६॥ द्रुतमितो ह्यपसर्प ममाश्रमात् स्थितिरसत्यकथस्य न तेऽस्त्विह इति निशम्य गुरोर्वचनं ततस्तमभिवन्द्य स हस्तिपुरं गतः ॥६॥ अनुपमगुरुभक्तौ साहसिक्यातिरेके मतिमति वसुषेणे प्राणदानोद्यतेऽपि । अभवदहह नैव प्रीतिमान भार्गवोऽसौ चलति हि न कदाचिद् भाग्यरेखा नराणाम् ।। ६१ ॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकव्ये सप्तमः सर्गः समाप्तः

अथ अष्टमः सर्गः
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः।
रिपुष्वपि दयावांश्च तस्मात् कर्णो वृषः स्मृतः ॥१॥
युद्धशौण्डो महाबाहुनित्योद्यतशरासनः।
केशरीवदिभान् बन्यान् मर्दयन् विचचार सः॥२॥
त्रिदशैरपि चास्यद्भिः
शरवर्ष समन्ततः।
अशक्यस्तैरयं जेतुं स्रवद्भिर्मासशोणितम् ॥ ३॥
बहुनान किमुक्तेन संक्षेपाच्छृणु भारत ।
त्वत्समं त्वविशिष्टवा कर्णं मन्ये महारथम् ॥ ४ ॥
महाभारतसम्बद्ध-द्रोणपर्वणि
विश्रुते ।
अचिन्त्य-शक्ति-सम्पन्न-श्रीकृष्णस्य वचस्त्विदम् ॥ ५ ॥
शूर एव विजानाति शौर्य शूरस्य वस्तुतः।
मघोनोऽशनिसंघातशक्तिं जानन्ति
भूभृतः ॥६॥
शत्रवोऽपि प्रशंसन्ति यस्य वीरस्य वीरताम् ।
स एव गण्यते वीर आत्मानं को विनिन्दति ॥ ७॥
धौरेयोऽखिलधीराणां धुर्यो विश्वधनुष्मताम्।
कों दरादरस्थानमभूत्सर्वमहीभृताम् ॥ ८ ॥
तात्कालिका महेष्वासा अपि वीरा महौजसः ।
तन्नाम्नैव विकम्पन्ते मन्त्रशक्त्या यथोरगाः ॥ ६ ॥
महाप्रतापी विक्रान्तस्तदानीं मगधाधिपः।
जरासन्धो महीपालोऽभवच्छूरशिरोमणिः ॥१०॥

तस्य
अष्टमः सर्गः]
बलावलेपमत्तेन तेन भूपाः
सहस्रशः।
कारागारेषु निक्षिप्ता बहवः करदीकृताः ॥११॥
दिक्सप्तकृत्वो वीरोऽसौ वीरेन्द्रयदुवशिनः।
आक्रामत् किन्तु कृष्णस्य प्रभावाद् विफलोऽभवत् ॥१२॥
पुनराक्रमणात्
प्रकृष्टबलशालिनः।
नारायणोऽपि सबल: पलायनपरोऽभवत् ॥१३॥
मथुरां परितत्याज रैवतं गिरिमाश्रयन् ।
द्वारकां शरणं चक्रे पयोधिपरिवारिताम् ॥१४॥
कपटाचारिणस्तस्य मायामानुषरूपिणः।
महाभिमानवान् सोऽभूच्छ्रीकृष्णस्य पलायनात् ॥१५॥
अभयोऽपि भयं प्राप्तः परमात्मा सनातनः।
अतस्तदभिमानस्तु किं न लोकातिगो भवेत् ॥१६॥
आयोधने प्रवृत्ते तमनन्तबलशालिनम् ।
न कोऽपि जेतुं स्यादीशो भगवानप्यमन्यत ॥१७॥
अशेषशक्तिकेन्द्रात्मा दनुजबातमर्दनः।
अशिश्रियच्छलं निन्धं यं निहन्तुमधोक्षजः ॥१८॥
वीरग्रामाग्रगण्यस्य
तस्य मागधभूपतेः।
अनुमेयमनायासं जरासन्धस्य पौरुषम् ॥१६॥
कर्णाकर्णिकयाऽऽकणि कर्णोऽप्यास्ते महाबलः।
तेनैषोऽखर्वगण द्वन्द्वयुद्ध
निमन्त्रितः ॥२०॥
तदामन्त्रणमासाथ कर्णोऽमोमुद्यतात्मनि ।
सत्वरं स जरासन्ध-राजधानीमुपेयिवान् ॥२१॥

५६
[कर्णार्जुनीये
उमाविमौ युववयो विभ्राणौ वीरपुङ्गवौ ।
परस्परमजेयत्वमानिनौ
परमौजसौ ॥२२॥
दिदृक्षमाणा उभयोः समानबलशालिनोः ।
आयोधनं समाजग्मुर्भूपाला आप्ततां गताः ॥२३॥
कालो व्यतीतोऽतिमहानुभयोर्यध्यमानयोः ।
वीराभिमानिनोस्तत्रान्योन्यं स्वविजयैषिणोः॥२४॥
जरया सन्धितखाङ्गे हतोऽन्ते मगधाधिपः ।
वसुषेणेन सबलं चकम्पे भयविह्वलः ॥२५।।
तदानीमञ्जसा सैष कर्ण सन्धानमानयन् ।
तं प्रशंसन् व्याजहार सत्यं वीरोऽङ्ग विद्यसे ॥२६॥
प्रसीदति मनो मेऽद्यानुभूय तव शूरताम् ।
मालिनी नाम नगरी निजां तुभ्यं समर्पये ॥२७॥
कुर्वाणस्तत्र राज्यं स्वं भुव भोगान् सुरोपमान् ।
विस्मृतिं न त्वया नेयो वयस्य जन एषकः ॥२८॥
कर्णोऽङ्गस्याधिपत्यं प्रागिदानी मालिनीपुरः।
राज्येऽभिषिक्तः परमां मुदमाप महीपतिः ॥२६॥
एवं सम्मानितो वीरो मागधेन स भूभुजा ।
भारतीयेषु विक्रान्तभूमिपालेषु विश्रुतः ॥३०॥
तन्वन् प्रभावमतुलमात्मनो निखिलेष्वपि ।
आजगाम प्रसन्नात्मा नगरी गजसाह्वयाम् ॥११॥
राजधान्यां कलिङ्गस्य रम्ये राजपुरे स्थले ।
तत्रत्यभूपकन्याया एकदासीत् स्वयंवरः ॥३२॥

५७
अष्टमः सर्गः]
तन्वङ्गी रूपसम्पन्ना पूर्णचन्द्रनिभानना।
द्वितीया कामपत्नीव साऽभवद् विश्वविश्रुता ॥३३॥
तस्याः
सौन्दर्य-सद्गन्ध-समाकृष्टाः
सहस्रशः।
चञ्चरीकायितास्तत्र जग्मुर्युवमहीभृतः ॥३॥
पूर्णेन्दुवदनामेनां चकोरहृदयो नृपः
दुर्योधनोऽपि कर्णाद्यैः सल्लब्धुं सहितोऽवजत ॥३५॥
कलिङ्गराजदुहिता सवयस्कसखीवृता
खकराब्जसमादत्तजयमाला यदाऽऽता ॥३६॥
तद्रूपास्सिमाकृष्टाः शलभायितचेतसः
तां समीक्ष्यैव भूपाला ययुः कामशरव्यताम् ॥३७॥
यं यं विलोकयन्ती सा त्यजन्ती परिसर्पति ।
तस्य तस्य मुखाम्भोजे पपात हिमसन्ततिः ॥३८॥
कृतस्मेराननं
बाला विस्फारितनिजेक्षणम् ।
दुर्योधनमुपागत्य परितत्याज सा यदा ॥३॥
अनुभूयापमानं स्वं भूमिपालः सुयोधनः ।
उदीची
दिशमारूढस्तिग्मरश्मिरिवाज्वलत् ॥४०॥
तां प्रसह्य समादाय नैनं स्यन्दनमानयन् ।
कौरवेन्द्रः स
दुद्राव मिषतां सर्वभूभृताम् ॥४१॥
कन्यापहरणादन्ये राजानः स्वपराभवम् ।
मत्वा संहत्य निखिलास्तामानेतुं समुद्यताः ॥४२॥
प्रादाय शितशस्त्राणि
रथानास्थाय शीघ्रगान् ।
प्रहत्तुमनसः सर्वे
यदा
तमनुदुद्रुवुः ॥४३॥

५८ उद्यभ्य [ कर्णार्जुनीये वसुषेणस्तदा वीर खशरासनम् । दुर्योधनं स्वसुहृदं रक्षितुं विदधे मतिम् ॥४४॥ संहतास्ते नृपतयः सहैव प्राहरन् क्रुधा । कर्ण किन्तु स वीरेन्द्रो मनागपि न विव्यथे ॥४५॥ तीक्ष्णनाराचसङ्घातैः सर्वेषामपि वैरिणाम् । शस्त्रास्त्रजालान्याश्वेव चकतेष महाबलः ॥४६॥ रथाः कतीनां विध्वस्ता• केषाश्चित्तु तुरङ्गमान् । निपातिता रथनुदो बहूनामपि केतवः ॥४७॥ सर्वे नृपतयस्तेन युध्यमाना रणाङ्गणे । प्रहृताः शितवाणौघैर्व्याकुलत्वं प्रपेदिरे ॥४॥ अस्त्रचालनचातुर्य कर्णस्यालोक्य तादृशम् । रणाजिरात् समे भूपाः पलायन्त भयान्विताः ॥४६॥ दुर्योधनः सकुशलः कलिङ्गनृपतेः सुताम् । आदायाम्बुजपत्राक्षी हस्तिनः पुरमाययौ ॥५०॥ शुभे मुहूर्ते सम्प्राप्तेऽनुकूलग्रहतारके। उपयमे वरारोहां तां कुरूणां पतिर्मुदा ॥५१॥ संस्तुतै रिविक्रमैः। दुर्योधनेन विन्यस्तं पदं मूर्धसु भूभुजाम् ॥५२।। दृष्ट्वा कुरुमहीपाल मुमुदे बन्धुभिः साकं कर्णस्याद्भुतकर्मणः ॥५३॥ वसुषेणेन सुहृदा सहायेन न कोऽपि माम् । शक्तो धर्षयितुं लोके विशश्वासेत्यसौ हृदि ॥५४॥ एवं कर्णस्य सुहृदः ओजोऽतिक्रान्तमानुषम् ।

अष्टमः सर्गः ] कर्णेन मम साम्राज्यं सदा निष्कण्टकं ध्रुवम् । एकातपत्रं भुवने भविष्यति न संशयः ॥५५॥ विश्वस्मिन् विश्वभूपाला मंस्यन्ते मामनुत्तमम् । सम्राजमिति तस्याभून्मतिरभ्रान्तशाश्वती ॥५६॥ कौरवेन्द्रस्य नृपते तराष्ट्रसुतस्य सा। प्रतीतिः कर्णसम्बद्धा निर्मूला नैव विद्यते ।।५७ । यावदासीन्महावीरः कर्णो दिनपतेः सुतः । प्राणान् दधदसौ तावन्न कोऽपि तमपाकरोत् ॥५८॥ धराशायिनि संयोते कर्णेऽमितपराक्रमे । सर्वसम्पद्युतोऽप्येष ययौ साहसहीनताम् ॥५६॥ प्रद्रवन् युद्वतो भीत्या महाकापुरुषोपमः। आत्मानं गोपयामास जले हन्त निमजितः॥६॥ नासीत् सम्राडसौ कर्णः किन्तु तद्वलमाश्रितः । गान्धारीतनयो लोके साम्राज्यसुखमन्वभूत् ॥६१॥ बलीयसां धुरीणस्य कर्णस्य स्थातुमग्रतः । का कथा युधि मानां देवाश्चापि न शेकिरे ।६२॥ साकं तिग्मांशुपुत्रेण पिता पार्थस्य वज्रभृत् । वृत्रघ्नोऽपि सुराधीशो विभेति स्म पुरन्दरः। ६३॥ वर्माभेद्यं कुण्डले चापि दिव्ये, मृत्युन्नान्येतानि कर्णो निजानि । दत्त्वा विप्रच्छमनेऽसौ मघोने, कार्त्ति वब्रेऽसूस्तु मेने तृणाय ॥६४॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकव्ये अष्टमः सर्गः समाप्तः

भावनया
अथ नवमः सर्गः
धृतराष्ट्रसुतो जिघांसमानो वत कुन्त्या सह पञ्च पाण्डुपुत्रान् ।
अधिवासयितुं पुरेऽत्र लाक्षागृहमेषोऽकृत वारणावताख्ये ॥१॥
व्यमृशत् स खलः स्वचेतसीत्थं यदि चेत् पाण्डुसुता निवासहेतोः ।
जतुवेश्मनि ते समागमिष्यन् स्वविधास्यं किल तांश्च भस्मशेषान् ॥२॥
अमुना विधिना मृता इमे स्युः प्रसृतं नापयशो भवे भवेन्मे ।
विषदिग्धरदा महोरगेन्द्रा निपतेयुर्न भवेच यष्टिहानिः ॥३॥
इति
समादरेणातिशयेनात्मनि सप्रमोदमानः ।
कपटालयमाश्वसौ नृशसो नृपपाण्डोस्तनयान् समानिनाय ॥४॥
कतिचिदिवसानिमे तदन्तः सुखमध्युष्य च तच्छलं विदित्वा ।
विदुरेण विबोधिताः कदाचिनिरगुस्तनिलयात् सुरङ्गदेशात् ॥५।
निजनिर्गमनात् पर शरण्यं शरणं तीव्रहविभुजा नियोज्य ।
रमणीयमपि प्रकाममेते ऽहितमित्येतद्दीपयन् समन्तात् ॥६॥
सह पञ्चभिरात्मजैरिहैका शयिताऽऽसीनिशि भिक्षुकी विपन्ना ।
जरठाऽविदिता तपस्विनी सा वत दग्धा प्रबभूव दैवयोगात् ॥७॥
तनयेषु बहिर्गतेषु पाण्डोरतिदूरं मनुजाः प्रगे समेताः।
महिला पुरुषांश्च पञ्च दग्धान् ददृशु सातिशयं विचिक्लिशुश्च ॥८॥
अवगत्य स पाण्डवान् प्रदग्धान सह मात्रा ससुहृत् सुयोधनोऽसौ ।
नितरां मनसि प्रमोदमाप्तो बहिरत्यन्तविषण्णतां प्रपेदे ॥६॥
परलोकहितप्रदं तदानीं सकलं श्राद्धविधि विधाय तेषाम् ।
निजराज्यमकण्टकं स मेने दनुजाधीशविभूतिरेष धृतः ॥१८॥

६१
नवमः सर्गः]
परिहत्य च वारणावतं ते महितव्यासमहर्षिसन्निदेशात् ।
जननीसहिता युधिष्ठिरायाः पुरमाशिश्रियुरञ्जसैकचक्राम् ॥११॥
निजगोपितजातिनामधेया विधृतब्राह्मणगोत्रशीलवेषाः।
न्यवसन्निह भिक्षया चरन्तः कतिचित् स्वानि दिनानि यापयन्तः ॥१२॥
ससुखं निवसद्भिरेभिरस्यां पुरि पाञ्चालनरेश्चरस्य पुत्र्याः।
द्रुपदस्य सुधाकराननायाः सुसमाकर्णि कथा स्वयंवरस्य ॥१३॥
शुचिना द्रुपदात्मजावरेण्याद्भुतलावण्यमयेन सौरभेण ।
बहवो भ्रमरायिता नरेन्द्रा उपतस्थुर्ह तचेतसो हरिद्भ्यः ॥१४॥
भुवि विश्रुतभूपतीन्द्रजुष्टे समवाये तनुजैः पृथाभिधायाः ।
उपढौकितमेभिरप्यमुष्मिन् प्रथितं भूसुरलाञ्छन दधानः ॥१५॥
नृपतीन्द्रसमूहसेव्यमान नगर द्रौपदिक नितान्तरम्यम् ।
त्रिदशालयमप्यदः स्वधाम्ना महता सातिशयं तिरश्चकार ॥१६॥
धृतराष्ट्रसुतः सुयोधनोऽपि द्रुपदस्यात्मसुतास्वयंवरेऽस्मिन् ।
वसुषेणसमन्वितोऽतिहृष्टः सुषमाकृष्ट इयाय राजपुत्र्याः ॥१७॥
महनीयमहाय॑वेषवन्तो रमणीयाकृतयो
नृपालमुख्याः।
निजदिव्यवरासनेष्वनेके यु पविष्टा अलमेकतो विरेजुः ॥१८॥
मुनयश्च महर्षयो महान्तः श्रुतिविज्ञानविदो विपश्चितश्च ।
परमाहणयोग्यभूसुरेन्द्रा विलसन्तः
प्रचकाशिरेऽपरत्र ॥१६॥
भुवनामररम्यवेषभानः समुपस्थाय च पञ्च पाण्डवास्ते ।
उपसंविविशुः स्वगुप्तवंशा जगतीमण्डनविप्रमण्डलीषु ॥२०॥
परितः परिनृत्यमानयन्त्र भृशमुत्तुङ्गतमैकवंशसस्थे।
कृतकः परिणाहहीनमीनो विहितोऽभून्नृवरेण लक्ष्यभूतः ॥२१॥

६२
[कर्णार्जुनिये
तदधो धनुरेककं गरीयोऽनमनीयं नितरां विशालकायम् ।
गुणहीनमनन्तसद्गुणाढ्यं शरमप्युग्रतरं निधाय भूपः ॥२२॥
द्रुपदः स जुघोष वाचमुच्चैः सगुणं तद्धनुरानतं विधाय ।
इषुणा य इहाशु लक्ष्यमेतत् ससुखं भेत्स्यति मत्सुतापतिः सः ॥२३॥
द्रुपदस्य निशम्य तां प्रतिज्ञां द्रुतमेकैकश उत्थिता नृपालाः ।
सुमुखीमभिलक्ष्य लक्ष्यभेदस्थलमागत्य व्यधुबहून् प्रयत्नान् ॥२४॥
बहुभिर्न धनुः कृतं तदुच्चैः कतिभिः श्रान्तिमुपागतैर्न सज्यम् ।
न परे विषुमीशिरे विमोक्तुं कृतकार्यों न बभूव कश्चिदेषु ॥२५॥
निखिलानसमर्थतां प्रपन्नानपि पाञ्चालपतिं च खिद्यमानम् ।
अवलोक्य वरेण्यवीरकों मुदितो लक्ष्यविभेदनार्थमागात् ॥२६॥
नमयन् स शरासनं गरीयस्तदधिज्यं विदधद् विना प्रयासम् ।
विचकर्ष च सायकं यदानी किल कर्णान्तिकमाशु सूर्यजन्मा ॥२७॥
अभवन् कुतुकान्विता नरेन्द्रा विफलाशाश्च समेऽपि पाण्डुपुत्राः ।
निजबाल्यसखीसमावृता सा नृपकन्या च वरार्थिनी चकम्पे ॥२८॥
द्रुपदात्मजया सदासमक्षं सहसाऽघोषि वचस्तदैतदुच्चैः ।
किल सूतसुतेन नाहमीहे स्वकर ग्राहयितुं बलीयसाऽपि ॥२६॥
वचनं तदथावधार्य कर्णो गुरुकं तद्धिशरासनं तथैव ।
व्यसृजत् परिलजितः समन्युस्तरणिं वीक्ष्य स कृत्रिमं जहास ॥३० ।
परिवृत्य निजासनोपविष्टे वसुषेणे मुदितो धनञ्जयोऽभूत् ।
अचिराय विधाय लक्ष्यभेदं नृपकन्यां स निनाय सद्म नैजम् ॥३१॥
सममेव नृपात्मजेन योग्यो यदपि क्षत्रिय-कन्यका-विवाहः ।
द्रुपदस्य न चास सा प्रतिज्ञा परिभूतिं किमु कर्ण एव यातः ॥३२॥

६३ नवमः सर्गः] करपीडनमस्ति नैव नियं नृपजाया यदि भूसुरेण सार्द्धम् । द्रुपदात्मसुतां विनीय याते विचिकित्सा किमिवार्जुने कृताऽभूत् ॥३३॥ किमु लक्ष्यविभेदपूर्वमेवाऽर्जुनतस्तस्य कुलादिकं न पृष्टम् । द्रुपदेन न कृष्णया न चान्यैरपि तवंशभवैः प्रधानपुम्भिः ॥३४॥ समियाय यदाऽर्जुनेन कृष्णा सह सन्देहमुपागतो नृपालः। निजपुत्रमुवाच मार्गय त्वं मनुजः कः स निनाय तेऽनुजां यः ॥३५॥ विजयी पुरुषः किमास्पदोऽसौ किमु शूद्रस्त्वय वैश्यवर्णजन्मा । स्रगियं किमये स्वभावपूता न्यपतत् सौरभशालिनी श्मशाने ॥३६॥ समुदीरितयाऽनयाऽस्य वाचा नृपतेः स्पष्टमिदं प्रतीयते यत् । तनयस्य च केनचित् पृथाया विदिता नैव हि जातिगोत्रधर्माः ॥३७॥ यदि कर्ण उदैन राजवंशे ह्यु पराजन्यसुतः स आस भूपः । अधिकारवतोऽस्य लक्ष्यभेदे निकृतिः किं न भवेदनर्थहेतुः ॥३८॥ यदि गोत्रकुलादि मृग्यमासीत् तदिदं किं न हि पृष्टमर्जुनस्य । अगमत् कथमीदृशेन इंसा सह कृष्णा विदितो न यस्य वंशः ॥१६॥ कुपितो निखिलो नरेन्द्रसङ्घोऽनुचितेनेशकर्मणा बभूव । सविशेषमसौ चुकोप कर्णः सदसि स्वीयविमाननेद्धमन्युः ॥४०॥ अभिजग्मुरिमे पृथातनूजं सकलाः कर्णपुरोगमा नृपालाः । निशितस्वशरप्रयोगददोर्जुन एतान् समरेऽभ्यगच्छदेकः ॥४१॥ चरतः समरं नृपैरनेकैः सह तस्याद्भुतविक्रमं विलोक्य । परमां मुदमाप वीरकों गुणगृह्या हि भुवीह सन्ति सन्तः ॥४२॥ वसुषेण उवाच मोदमानः प्रबलं भूसुरमेनमङ्ग किं त्वम् । भवसि त्रिदशेश्वरेषु कश्चिद् धनुषो वेद उतासि मूर्तिधारी ॥४३॥ -

[ कर्णार्जुनीये
समरेषु यतो मया त्रिलोक्यां सह योद्धं प्रभवेद् रथाङ्गपाणिः ।
अथवा त्रिदिवस्पतिः सुरेन्द्रः किमु वा तत्त्नयोऽर्जुनो न चान्यः ॥४४॥
निजगाद पृथासुतः स कर्णं विहसबाहममीषु कश्चिदस्मि ।
जगतीपतिवन्दिताङ्घ्रिपद्मोऽस्म्ययि भोः कोऽपि महीसुरस्य बालः ॥४५
विधिवत् सुनिषेविताद् गुरोर्मेऽधिगतं चास्ति समस्तमखशस्त्रम् ।
भवता सह योद्धुमुद्यतोऽहं शरसङ्घान् मयि मुश्च निर्विशङ्कम् ॥४६॥
स च सेवक आस भूसुराणां निजसर्वस्वमपि प्रदातुमेभ्यः ।
वसुषेण इहोद्यतस्तदर्थं तृणतुल्यानिव वेद चात्मनोऽसन् ॥४७॥
द्विजसर्वविधोपकारकारी स सदा ब्रह्मनिकारतोऽतिविभ्यत् ।
अभिभावयितुं न योग्यमेतद् विविद विप्रमहो महादुरन्तम् ॥४८॥
हतभाग्यनरस्य भूतलेऽस्मिन् पयसा यस्य रदच्छदोऽस्ति दग्धः ।
स सदा सभयो भवन् प्रकामं किल तक्रं स्वदते हि फुत्प्रकुर्वन् ॥४६॥
कृतभूसुरवेषमर्जुन तं हृदि सद्ब्राह्मणमेव मन्यमानः ।
विरतः प्रबभूव युद्धतोऽस्माद् वसुषेणः स महीसुरस्य भक्तः ॥५०॥
त्वरितं सुहृदा समं कुरूणामधिपेनैष सुयोधनेन कर्णः ।
रणभूमिमपास्य पूज्यविप्रो नगरं हस्तिसमाह्वयं प्रतस्थे ॥५१॥
सदसस्तु समक्षमात्मनो वै निकृति
तामनुभूय भूपतीनाम् ।
द्रुपदात्मजया स याज्ञसेन्या क्रियमाणामभवद् विषण्णचेताः ॥५२॥
परिपूचिमुपैत्यसौ कदाचिच्छितशस्त्रास्त्रनिपातलब्धजन्मा।
महतोऽपि महान् व्रणः, परन्तु न हि वागवाणसुविक्षतः कदाचित् ॥५३॥
स्वसमाननृपेषु यो निकारः परमं दुःखनिदानमस्ति नूनम् ।
हृदये सुनिखातशल्यरूपो भवति क्षार इव क्षतेऽत्यसबः ॥५४॥

६५ नवमः सर्गः] महनीयतमा महात्मवा भुवनत्यागपराश्च वीतरागाः। भुवि दुर्लभदर्शनास्तु मानेष्वपमानेषु भवन्ति ये समानाः ॥५५॥ जगतीपतयस्तु येऽभिभावानधिगत्यापि सुशेरते समोदम् । चरणाहतिमाप्य शीर्पदेशं यधिरोहत्यधिका ततोऽस्ति धूलिः ॥५६॥ अभिमानवतां महत्तमानामनुतिष्ठन्ति समादरं समादरं दरेण । निखिला अपि मानवाः स्वभावान्नृपतीनां धनमस्ति मान एव ॥५७॥ विषसाद नितान्तमेष कों हृदये स्वेऽभिभवेन याज्ञसेन्याः। असिता उरगास्तथाः क्षितीन्द्रा निकृति खां न कदापि विस्मरन्ति ॥५८ अपमानमिमं निजं परेभ्यो न स कों विदितं चकार धीरः । प्रबभूव मनः परन्तु तस्य प्रति कृष्णामपकारकश्मलाढ्यम् ॥५६॥ विधिनैव पुरा विनिर्मितोऽभूत् स महाभारतयुद्धहेतुभूतः । अत एव। सुतो रखेरनेकैः परिभूति गमितो भृशं मनुष्यैः ॥६॥ अपमान इहास्ति मानवानां निकषः सद्गुणराशिसुप्रकर्षः । मणयो द्युतिमाप्नुवन्ति वज्राः परमां शाणनिधर्षणेन नूनम् ॥६१॥ अज्ञातजातिकुलशीलनरस्य लक्ष्यभेदे तु मौनमभजद् द्रुपदस्य पुत्री । संसारवीरवरकर्णमिमं निरीक्ष्य तस्यापमानमकरोत्तदिदं न सह्यम् ॥२॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकव्ये नवमः सर्गः समाप्तः ह

अथ दशमः सर्गः
जित्वा नीता खां पुरीमेकचक्रां कृष्णा साकं बान्धवैरर्जुनेन ।
मात्राऽज्ञात्वा ते निदिष्टाः स्वगेहादानीतं यद् वस्तु भोज्यं विभज्य ॥११॥
भागान)ऽस्त्यय लब्धः पदार्थों मात्रादेशोऽप्येष नोल्लङ्घनीयः ।
एका कृष्णा पश्चपत्नी कथं स्याद् अस्माद्धेतोरुद्गतोऽभूदू विवाद:॥२॥
दिग्भ्यः प्राप्ते दिव्यदृष्ट्यर्षिसङ्घ संमान्यानां भूभृतां मण्डले च ।
एषां व्यासः प्राग्जनुर्वर्णयित्वा ह्यौद्वाहान्याज्ञापयन्मङ्गलानि ॥३॥
यज्ञोद्भूता सा शची याज्ञसेनी सन्तीमेऽपीन्द्रस्वरूपा समेऽपि ।
तस्मात् सार्धं पञ्चभिः पाण्डुपुत्रैः पाञ्चाल्येका प्राप्नुयात् पाणिपीडाम् ॥४॥
धां श्रुत्वा व्यासदेवस्य वाचं प्राप्यादेशं भूभृतां स्वानुकूलम् ।
साकं द्रौपद्यास्तु तैः पाण्डुपुत्रैरुद्वाहोऽभूच्छात्रदृष्टैविधानैः ॥५॥
श्रित्वा नीति वैदुरी धर्मगर्भा मत्वादेशं वृष्णिवंशप्रभृणाम् ।
ज्ञात्वाऽमोघं द्रौपदं च प्रभावं राज्ञा राज्यं पाण्डवेभ्योऽयतार्धम् ॥६॥
इन्द्रप्रस्थे धर्मराजः · वकीयां श्रीसम्पन्नां निर्ममौ राजधानीम् ।
साधं स्वीयैर्बान्धवैस्तैश्चतुर्भी राज्यं चक्रे धर्मपूर्व प्रजासु ॥७॥
नित्यं तुष्टं धर्मभावेन पुष्टं शान्तेर्गेहं सौमनस्यप्रहृष्टम् ।
साम्राज्यं स्वं शश्वदुद्भतिजुष्टं दृष्ट्वा राजाऽन्तः स मोमुद्यते स्म ॥८॥
शास्ता यत्र श्रौतमार्गानुयायी रक्षादक्षश्वास्ति वर्णाश्रमाणाम् ।
तत्रैवायान्ति श्रियो जागतिक्यो नद्यो यद्वत् स्यन्दमानाः पयोधिम् ॥६॥
क्षात्रं तेजो ब्रह्मवर्णोऽभिपृक्तं राज्ञां नीतिधर्मतः संगता वा ।
शत्रुञ्जह्यान्मूलतो दुष्प्रधर्षान् वायुं श्रित्वा काननानीव वह्निः ॥१०॥

दशमः सर्गः]
साम्राज्यं सर्वत्र यौधिष्ठिरं तद् भेजे भूम्यां विस्तृत सद्य एव ।
प्रीत्या नमूः कन्धरैर्भूमिपालैराज्ञा मालावत् तदीयोह्यते स्म ॥११॥
कर्षानप्राप्यैव सम्पच्यमाना भूमि/जानि प्रकीर्णान्यवाप्य ।
सर्वैः सर्वाऽलोकि सर्वतुसौम्या लोके धर्म्य शासनं किं न सूते ॥१२॥
स्वे स्वे धर्म संरताः सर्ववर्णा दृश्यन्तेऽस्मिन्नाश्रमाश्च प्रकामम् ।
सर्वे लोका जीवनस्य स्वकीयं लक्ष्यं प्रापुः सर्वथाऽऽव-शून्यम् ॥१३॥
नासीचौरोऽधार्मिको वा न कश्चित् स्वैरी नासीत् स्वैरिणी स्त्री कथं स्यात् ।
यस्मिन् देशे धर्मपालो नृपालस्तस्मिन् कश्चिन्नोद्भवेजात्वधर्मी ॥१४॥
राष्ट्र नासनीतयो भीतयो वा नेमे दृष्टा आधयो व्याधयश्च ।
हिंसोऽहिंसो जन्तुरस्य प्रतापादेकत्रव क्रीडितो दृश्यते स्म ॥१५॥
राज्यं दृष्ट्वा स्वं समभ्युन्नतं तद् भ्रात न स्वीयान् प्राणदानोद्यतांश्च ।
कामं प्राप्य स्वानुकूलान् प्रजेशानच्छद् राजा राजसूयेन यष्टुम् ॥१६॥
साक्षात् कृष्णो यस्य साहाय्यकर्ता भर्ता धर्चाऽनन्तब्रह्मारडकानाम् ।
ईहावल्ली सत् फलं तस्य पुंसः पूर्वं धरे तत्परं सुप्रसूनम् ॥१७॥
संसारेऽस्मिन् यस्य सर्वे क्षितीशाः प्रीत्या भीत्या वा भजन्ते वशत्वम् ।
ध्वस्तारातिं राजसूयाख्यमेधं कत्तुं शक्तो भूपतीन्द्रः स एव ॥१८॥
आज्ञामाप्त्वा सम्मतिं चानुकम्पा साहाय्यं स वासुदेवस्य विष्णोः।
राज्ञां सिंहः पाण्डवो धर्मजन्मा यज्ञारम्भे श्रीगणेशं नतोऽभूत् ॥१६॥
वीय्यैर्दोष्णां स्वानुजानां चतुर्णा वैकुण्ठीयैर्नीतिमत्कौशलैश्च ।
भौमा:भूपाः सर्वतो दिग्विदिनु विश्वेऽभूवन निर्जिता न्यस्तदेहाः॥२०॥
सिद्धो देशोयोऽधुनाऽमेरिकाख्यो यूरोपोऽय यः पुरा रोमकोऽभूत् ।
रूसचीनो यामकोव्यादयश्च सर्वे भेजुस्तस्य दासेरकत्वम् ॥२१॥

[कर्णार्जुनिये
एभ्यो देशेभ्यश्च दासेरकेभ्य आक्रान्तेभ्यश्चोत्तरेभ्यः कुरुभ्यः ।
सम्प्राप्तोऽभू यो हि राशिर्वसूनां तादृक् त्रैलोक्येऽपि चैकत्र नासीत् ॥२२
श्रावं श्रावं मङ्गलं गीतमैशीः पायं पायं कर्णपीयूषवाचः ।
दायं दायं सर्वभारं परेभ्यो मोदं मोदं मेधमारब्ध राजा ॥२३॥
दर्श दर्श यज्ञकार्य विशालं धेयं धेयं गौरवं तस्य चित्ते ।
यद्योग्यं यत् कार्यमासीन्नृपाणां तेभ्यस्तत्तद् यागकर्ताऽऽपिपत् सः ॥२४॥
दीनारामं चापि चामीकराणां संख्यातीतं राशिमृद्धीरकुप्याः ।
राज्ञां रत्नोपायनानि ग्रहीतुं दातोदारो धार्तराष्ट्रो नियुक्तः ॥६५॥
कर्णोऽभ्यर्णं यज्ञदेशेऽधमान् खान्तध्यातश्रीजगन्मात्रपर्णान् ।
आकण्यैव ब्रह्मवर्णान् स तूर्णं स्वर्ण प्रादात् सौम्यवर्ण सुवर्णः ॥२६।।
देशाद् देशेभ्योऽपि देशान्तरेभ्योऽसंख्या अश्वा हस्तिनः स्यन्दनानि ।
सौवर्णादि हपयन्तः सुवर्ण-खण्डाः प्राप्ताः कोटिराभूषणानाम् ॥२७॥
विख्यातेऽस्मिन् कौरवे सम्प्रदाये यज्ञं कर्तुर्धर्मराजस्य पश्चात् ।
सर्वश्रेष्ठश्चास दुर्योधनोऽसौ तस्माचक्रे मेधनौकर्णधारः ॥२८॥
प्रापं प्रापं स्वर्णरत्नाद्यनन्तं कामं कामं याचकेभ्यः प्रभूतम् ।
दायं दायं तच रात्रिन्दिवं हि श्रामं श्रामं नैव लेमे स निद्राम् ॥२६॥
कार्येष्वन्येष्वहणीयेषु चान्ये विश्व भूपा व्यापूताः संबभूवुः ।
श्रीमान् कृष्णः सर्वलोकैकनाथोऽवर्त्तिष्टाऽसौ पादशौचे मुनीनाम् ॥३०॥
दृष्ट्वा पूर्व धर्मराजप्रभावं सम्पत्तीस्ता जीवने स्वेऽप्यदृष्टाः ।
आश्चर्याब्धौ धार्तराष्ट्रो न्यमाङ्क्षीदीर्घोत्पन्ना पाण्डवान् प्रत्यमुष्य।।३१
उत्साहेनाभ्यहितेनैष यज्ञो मासान् साङ्गं व्याप्य सम्पूर्तिमागात् ।
लब्ध्वा मानं यज्ञकर्ता विसृष्टाः स्वं स्वं देशं प्रत्यगुर्विश्वभूपाः ॥३२॥

दशमः सर्गः]
६६
मित्रः स्वीयैर्धाभिश्चैव साद्धं गान्धारीजः स्वीया दग्धचेताः।
तस्थाविन्द्रप्रस्थपुर्यां नृपालो मानं प्राप्तोऽप्येष शान्ति न भेजे ॥३३॥
दग्ध्वाऽरण्यं खाण्डवं पाण्डवेन साहाय्येन श्रीपतेः कृष्णनाम्नः ।
तृप्तिं नीतो हव्यभुग् दानवेन्द्रो रक्षां नीतो विश्वकर्मा मयाख्यः ॥३४॥
आदायाज्ञां वासुदेवस्य विष्णोः स्वप्राणानां रक्षणात् सुप्रियाणाम् ।
राज्ञस्तस्याजातशत्रोः प्रियार्थं तेनापूर्वा निर्मिता राजससत् ॥३॥
नासीत् काचित् तत्समाना सभान्या भूलोकेऽस्मिन् संयुता सत्कलाभिः।
विख्यातां तां द्रष्टुकामाः सहस्र संगच्छन्ते स्मानिशं मानवेन्द्राः ॥३६
सद्रत्नानां सन्मणीनां प्रकृष्टा अस्यां न्यासास्तादृशाः संबभूवुः ।
आलोक्यैतान् कुट्टिमानां स्थलेषु भ्रान्तिरां तत्र बोभूयते स्म ॥३७॥
ईशस्तस्यां कारुकृचित्रितायां दीव्यदीप्त्यां सर्वशोमैकधाम्नि ।
साकं स्वीयैर्माण्डलीकैः सुहृद्भिः प्रीत्या द्रुष्टुं प्राविशत् कौरवाणाम् ॥
वासोऽलङ्कारादि विभ्रन्महाघ भ्राजद्रत्नालौकिकं सत् किरीटम् ।
मुग्धो राजा धार्तराष्ट्रोम्बुमध्ये भूमिभ्रान्त्या सम्भ्रमात् सम्पपात ॥३६
दृष्ट्वा तस्मिन् सम्पतन्तं नरेन्द्रम् आर्टिग्रस्तं सर्वतः स्विन्नगात्रम् ।
द्रौपद्याचा अङ्गना भीमकायाश्चक्रुर्मोदादुच्चहासं पुमांसः ॥४०॥
साधीयांसं मार्गमाश्रित्य यातां पुंसां भ्रान्त्या सम्भवत्येव पातः ।
अज्ञानान्धास्तत्र कुर्वन्ति हासं सन्तः शान्तेर्वाचमेवोचरन्ति ॥४१॥
कृत्येनान्यः श्रोतृवर्गोऽप्यनेन चेखियेत क्रौर्ययुक्तेन नूनम् ।
य प्रत्येतत् कर्म दुष्ट कृतं हा तस्य स्वान्तं कीदृश क्लेशमाप्नत् ॥४२॥
बाल्ये भीमः क्रीडनादावकार्षीत् कृत्यं यद् यद् दुःखदं कौरवाणाम् ।
तत् तत् सर्व कौरवेशस्तदानीं सम्यक् सस्मार व्यथाम्भोधिमग्नः ॥४३॥

[कर्णार्जुनीये
पाश्चान्या यो भीमसेनेन चापि हास्येनानुष्ठीयमानोऽपमानः ।
हेतु युद्धेऽभूत् स दुर्योधनस्य सर्वध्वंसेऽस्मिन् महाभारताख्ये ॥४४॥
मातृभ्रातुश्छद्मवत्सम्मतिं तां नीत्वाऽऽदेशं स्वीयजन्मपदस्य ।
द्यूतक्रीडार्थ नृपो धर्मराजः सन्दिष्टोऽभूद्धन्त दुर्योधनेन ॥४५॥
धू तार्थं वा केनचिद् वा रणार्थ नाहूतोऽहं स्यां कथश्चिनिवृत्तः ।
आसीदेषा धर्मराजप्रतिज्ञा दिष्टादिष्टं केन शक्यं निरोद्धम् ॥४६॥
आह्वानं सच्छद्म दौरोदरं तद् दुर्दैवात् सोऽमर्षयन्नैव राजा।
ज्ञात्वाऽप्युग्रं दुर्विपाकं तदीयं द्यूतक्षेत्रेऽवातरद् धर्मसूनुः ॥४७॥
सर्व राज्यं स्वं सुवर्णानि वाहा आत्मा स्वीया भ्रातरोऽन्ते च कृष्णा ।
राज्ञा पायं नीयमानं समस्त धूतैरेकैकं जितं छमरूपैः ॥४८॥
पाण्डोः पुत्रा. संकटाकीर्णचित्ता मोमुद्यन्ते कौरवा उच्छलन्तः ।
हा हा हन्ताऽतः परं मामकीना लेखन्यग्रे सत्तु मेषा न शक्ता ॥४६॥
हे हे मत्के लेखनि प्रेयसि त्वम् आज्ञायां मे सर्वदा विद्यसे च ।
वृत्तान्तो यो व्यासनिर्दिष्ट आस्ते तस्योद्गारे नास्ति ते दोपलेशः ॥५०
सम्मर्देऽस्मिन् द्यूतकृच्छयभाजां कृत्याकृत्यज्ञाननश्यन्मतीनाम् ।
ईर्ष्यामन्युद्वेषदन्दह्यमानो दूतं खामीत्यादिशत् कौरवाणाम् ॥५१॥
हे दूत त्वं याहि यौधिष्ठिराणां हाणामभ्यन्तरं शीघ्रमेव ।
गत्वा तत्रावेद्य कृष्णामिहत्यं वृत्त तां मत्पार्थ माश्वानयस्व ॥५२॥
गत्वा दूतो द्रौपदी प्रत्युवाच कृष्णे पार्श्व गच्छ दुर्योधनस्य ।
द्यूते क्लृप्ता तेन राज्ञा जिताऽसि दासीदानी वर्त्तसे कौरवाणाम् ॥५३॥
कृष्णा श्रुत्वा तत् तदा दूतवाक्यमाहेदानीं नास्मि संसत्समक्षम् |
गन्तुं योग्याऽस्पर्शनीयैकवस्त्रा नारीधर्मे मासिके विद्यमाना ॥५४॥

दशमः सर्गः]
-
दते तस्मिन्नागते कौरवेशः कृष्णामानं धूलिसात्कषुकामः ।
पापीयान् सोऽनुष्ठितस्वापमानात् क्रोधान्धो दुःशासन प्राह भूयः॥५५॥
हे भ्रातस्त्वं सत्वरं सर्प, कृष्णा यस्यां कस्यां वा दशायां स्थितास्ते ।
आनेतव्या, यन किमप्यस्ति तस्या वक्तव्यं तन्नः समदं ब्रवीतु ॥५६॥
आस्ते ना यः स्वप्रकृत्या च नाम्ना दुष्टः सन्दिष्टश्च राज्ञाऽग्रजेन ।
जन्मारभ्याऽऽमर्षवान् स्पैनिकारैर्याने तस्य द्रौपदी-शं कथं स्यात् ॥५७॥
आगत्यैव क्रूरराजः स कृष्णाऽभ्यणं प्राह त्वं न रे पाण्डवानाम् ।
राज्ञीमात्मानं विजानीहि दुष्टे गर्वः सर्वस्ते भवेदद्य खर्वः॥५॥
आस्माकीना साम्प्रतं दास्यसि त्वं द्रष्टाऽऽस्ते त्वां कौरवो राजराजः ।
शीघ्र' गच्छा मत्प्रभोः पार्थमास्मानोचेत्केशाकर्षतो यास्यवश्यम् ॥५६॥
साऽवोचद् भो धर्मराजस्य पत्युरस्म्याङ्ग नाधुनो गन्तुमहीं ।
आपत्तिर्या सम्पतेद् धर्मसूनौ सैवास्ते मे नास्मि भिन्ना ततोऽहम् ।।६०॥
क्रोधात्ताम्राक्षो भवन् द्रौपदीं तां गर्जन्नुच्चैरेष भूयो न्यगादीन् ।
व्यर्थः सर्वोऽपि त्वदीयः प्रलापो याया नोचेन्मार्गमन्यं श्रयिष्ये ॥६॥
कृष्णा तस्य क्रूरचेष्टां विलोक्य श्वश्वा गेहं बिभ्यती धावमाना।
मध्ये मार्ग तेन सद्यो गृहीतः चीचक्र सा हन्त रोरुद्यमाना ॥२॥
तस्याः शीर्षादञ्चलं सस्तमासीत् स्निग्धा रम्याः कुन्तलाश्चातिदीर्घाः ।
भूमौ ध्वस्तास्तान् समाकृष्य भूयो दुष्टात्माऽसौ निर्दयस्तामुवाच ॥६३॥
रे रे मूर्खे कन्वितः संप्रयासि दुःशीला त्वं पुंश्चली पञ्चपत्नी ।
मद्धस्ताभ्यां तस्तसदिग्गजाभ्यां स्मर्शव्योऽसौ मोचयेत् त्वां पुमान् यः॥६४
श्यामश्लपणादद्रितो वृष्टियोगात् सत्कुल्याभ्यां स्यन्दमाना नदीव ।
हक्कञ्जाभ्यामश्रु संवाहयन्ती केषाकर्ष द्रौपदी तेन निन्ये ॥६॥

७२
[ कर्णार्जुनीये
हस्ताभ्यां सा याति पापत्यमाना तत्पादाब्जे चापि नन्नम्यमाना ।
क्लेशाद् दीर्घ निःश्वसन्ती नताङ्गी तं प्रत्येषाऽन्ते वचो व्याजहार ॥६६
रक्षो दैत्यो रे नृशंसोऽपि चैवं नैजस्त्रीणां नापमानं विधत्ते ।
अस्पृश्यां त्वं मुञ्चमामेकवस्त्रां पापोदर्को विद्यते नाशहेतुः॥६७।
अशृण्वस्त क्रन्दनं रोमहर्ष नीचः कर्षश्चूर्णकेशांस्तदीयान् ।
पीडाग्रस्तामीहमानां स्वरक्षा संसद्देशं तामसाबानिनाय ॥६॥
दर्श दर्श हन्त संसत्समक्ष द्रौपद्यास्तां शोचनीयामवस्थाम् ।
गान्धारीजं कर्णदुःशासनादीन हित्वा सर्वे मानवाः संव्यसीदन् ॥६६॥
हेमन्तत्तौ प्राप्तवन्तो विपाकं यद्वच्छुष्काः शालयः सन्ति नम्राः ।
तद्वत् ससत्संस्थिताः म्लानचित्ता नम्रास्यास्ते सजनाः संबभूवुः ॥७॥
चीत्कुर्वन्त्या कृष्णया प्रश्न एकस्तेषां सभ्यानां पुरोऽनुष्ठितोऽभूत् ।
पण्य नेतुं मां दुरक्षप्रयोगे राज्ञश्चास्ते किं जितस्याधिकारः ॥७१॥
भीष्मो द्रोणो वा कृपो धर्मविज्ञा येऽन्ये शान्ति सन्दधुस्तत्सभायाम् ।
पापं पश्यद्भ्यः परं क्लैव्यभृद्भ्यो देया न्यकाराः सहस्राणि तेभ्यः ॥७२
द्यूतक्रीडासक्तचित्तं नरेन्द्रं धर्मात्मान धर्मसूनुं च विग्धिक् ।
यस्याधात्कर्मणो हेतुभूतान्मर्यादातो भ्रशिता भूत् कुलखी ॥७३॥
दृष्ट्वा शान्ति तत्सभायां विकर्ण उद्विग्नः सन्नुत्थितो धाराष्ट्र ।
सम्बोध्यौतान धर्मवृद्धान् समस्तान् ससत्सस्थान वाचमेतामुवाच ॥७४॥
संकोचाद् वा पक्षपाताद् भयाद् द्वा कामाल्लोभाद् वर्तमानाः समायाम् ।
ये पापा नो रुन्धतेऽधर्मकार्य लोकान् निन्द्यास्ते त्ववश्यं प्रयान्ति ॥७५
पाञ्चालीयं याचते न्यायभिक्षां धर्मज्ञभ्यो न्यायविद्भ्यो भवद्भ्यः ।
स्नेह दत्त्वा कर्णदेशे भवन्तः स्नेहं हित्वा शेरते हन्त चित्रम् ॥७६॥

दशमः सर्ग.] ७३ निन्यं धूत दीव्यतस्तस्य राज्ञः पण्ये दातुं द्रौपदी नेश्वरत्वम् । अस्त्यन्योऽन्यो वेदशास्त्रेऽधिकारो दम्पत्योः दृश्यमानः समानः ॥७७॥ ऐतिह्य वा कुत्रचिन्नैव दृष्टा पण्यं नीताऽऽसीत् स्वकीया कुलस्त्री । सुस्पष्टेऽस्मिन् न्यायमार्गे समेषां मौनग्राहः सम्भवेद् युद्धहेतुः ॥७८॥ राजा चैतेन स्वयं निर्जितेन पश्चानां या पत्निकेयं पणत्वम् । आनीता चेन्नैव सा निर्जिताऽऽस्ते धूछूते वञ्चितो धर्मराजः ॥७॥ द्रौपद्या योऽनुष्ठितोऽय निकार आस्ते नूनं नीचता पापकार्यम् । तस्मात्तर्ण मुच्यतां पाण्डवानां पत्नी साध्वी धृष्टद्युम्नानुजेयम् ॥८॥ आकएयतां गां विकर्णस्य कर्णो भुक्त्वाऽन्धोऽन्धो दुष्टदुर्योधनस्य । पक्षं श्रित्वा कर्तुकामः प्रसादं जन्पन्तं तं प्रत्यवोचद् विकर्णम् ॥८१॥ धर्मज्ञत्वं मा विकत्थस्त्र नैजं त्वं वै नूनं विद्यसे बालबुद्धिः। नीतिज्ञानां नैव सेवा कृता यैर्जन्पन्तीत्थं प्रायशो बालिशास्ते ॥२॥ सर्वस्वं चेद् धर्मराजो दुरचे नीत्वा पण्ये निर्जितोऽभूत्तदानीम् ।। पत्नी स्वीया भ्रातरः सोदराश्च किं रे तस्माद् बाह्यभूता भवन्ति ॥२३॥ धर्मात् सैषा द्रौपदी वाप्यधर्मात् स्वभ्रातृ णां पश्यतां वै पुरस्तात् । नीता पण्यं तैर्न चेद् वार्यमाणाऽस्याः स्वातन्त्र्यं को बुधः सम्प्रतीयात् ।। यद् वै प्रोक्तं ह्य कवस्त्रत्वमस्या आस्ते नूनं सा व्यवस्था सतीनाम् । पण्यस्त्रीवद् याऽस्त्यहो पञ्चपत्नी तत्सम्बन्धे सूनृता नेयमुक्तिः ॥५॥ एतये ते पाण्डवाः सन्ति दासा वश्यं प्राप्ता धार्तराष्ट्रस्य राज्ञः । तेषामर्धाङ्गस्थिते यं स्वभावाद् दासी नूनं विद्यते याज्ञसेनी ॥६॥ जेतेदानीं यद् यदिच्छेद् विदध्यात् प्राणप्रेयान् मेऽङ्ग दुश्शासन त्वम् । गृणीष्वैतत्पाण्डुपुत्रांशुकानि कृष्णावासस्तत्परं ग्राह्यमास्ते ।।८७॥

[कर्णार्जुनिये पाण्डोः पुत्रा धर्मपाशेन बद्धाः श्रुत्वा वाचं कार्णिकी सद्य एव । उत्तार्यारं रम्यरुक्माङ्कितानि सालङ्कार सन्ददुः स्वाम्बराणि ॥८॥ लोकं लोकं पाण्डवान् नमगात्राँल्लोकाः सर्वे साश्रुनेत्रा बभूवुः । दृष्ट्वा दृश्यं तच्च कारुण्यपूर्ण वज्रनावा दीर्यते रोरुदावान् ॥६॥ एकं वस्त्र धारयन्ती भया" व्याधनस्ता कम्पिताङ्गी मृगीव । कर्णोत्साहं प्राप्य दुःशासनेन सूचः कृष्णा संगृहीता रुरोद ।६०॥ स्वीये चैले गृह्यमाणे प्रसह्य स्वाङ्गान्येषा द्रौपदी गृहयन्ती । दीनां वाचं व्याहरन्त्यालुलोके सर्वान् सभ्याजानतो धर्ममर्म ॥३१॥ द्रोणाचार्यों भीष्मदेवः कृपश्च तातो वृद्धः कौरवाणां तथाऽन्ये । कर्षन्तं तद् द्रौपदीवस्त्रमेनं पापीयांसं नैव केचिन्न्यरुन्धन ॥१२॥ तस्मिन् काले भीषणे केवलैका कार्य चैतद् वैदुरी वाग् व्यरौत्सीत् । किन्त्वेतस्या दुर्बलाङ्गाश्रिताया एतेष्वासीन् नैव कश्चित् प्रभावः ॥१३॥ भत्तू न दृष्ट्वा सा निजोर्जस्वलांस्ताँल्लोको जेतून पञ्च वाचंयमांश्च । आकृष्य स्वां सर्वतश्चित्तवृत्तिं दीनानाथाऽनाथनाथं ननाथे ॥१४॥ कारुण्याब्धे श्रीपते द्वारिकाया वासिन् स्वामिन् दुःखचेतःशरण्य । भक्तानां हे भीतिहतः कृपालो गोपीमत मनोवेगगन्तः ॥१५॥ मां त्रायस्व क्लेशसिन्धौ निमनां नग्नां कतु चेष्टते दुष्ट एषः । विख्यातस्त्वं भक्तरक्षापटीन् नाथैीनामेह्यये रक्ष रक्ष ॥१६॥ श्रुत्वा कृष्णः स्वीयभक्तावाणीमन्तर्यामी वस्त्ररूपं दधार । बाहू सस्तौ दिक्सहस्रेभवीयौँ वासोह्रासो नाभवद् याज्ञसेन्याः ॥७॥ अत्याचारोऽन्याय एतादृशो वा नीचत्वं तत् क्रूरताऽसभ्यतेदृक् । लोके दृष्टाऽऽकर्णिता वा न कैश्चिद् योनिन्या हन्त कृष्णाश्रितेयम् ।'

दशमः सगः]
सन्त्यन्योन्यं धर्मतोऽधर्मतो वा शीर्षच्छेदं भ्रातरो युद्ध्यमानाः ।
किन्तु स्वासां ते च दुर्ह बधूनां कुर्वन्तीत्थं भूतले नापमानम् ॥६६॥
विज्ञा वृद्धा धर्मशास्त्रप्रवीणाः स्थाने यस्मिन् विद्यमाना समर्थाः ।
तेषां दृवस्था धर्षिता चेत्कुलस्त्री ज्ञानं धिग् धिक् पौरुषं वा तदीयम् ।।
साध्वी माता ते पिता चास्ति सूर्यः कर्ण खं रे सौतिकं दुग्धमन्नम् ।
पीत्वा भुक्त्वा वर्धितोऽभूस्तदानीं बुद्धिभ्रष्टा किं न ते बोभवीतु ॥१०१॥
पृथ्वी दीर्णा न कस्मादभवदहह रे विद्युतां किं न पात
ऐशं ने तृतीयं ज्वलदनलसमं किं न चोन्मीलितं तत् ।
वोऽमोघो मघोना किमिव न हि हरे तत्र काले प्रयुक्तः
शीर्षस्था सा सतीनामुभयकुलनुताऽधर्षि कृष्णा यदानीम् ॥१०२।।
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकव्ये दशमः सर्गः समाप्तः
अथ एकादशः सर्गः
दयामथासाद्य जगत्पतेः प्रभोस्तदंशुके विभ्रति दैर्घ्यमद्भुतम् ।
प्रभावमाकर्ण्य वधूद्भवं परं प्रसादमामोद् धृतराष्ट्रभूपतिः ॥ १ ॥
नृपानुकम्पाप्तवरेण पञ्चभिर्धवैः स्वकीयैर्दुपदात्मजा समम् ।
अपास्य दुर्योधनदासतां पुनः स्वतन्त्रतामाप निजातिनाशिनीम् ॥२॥
विनिर्जितं राज्यमनन्तवैभवं सकोषभूषाहयहस्तिसैनिकम् ।
प्रदाय वृद्धो नृपकौरवेश्वरः स्वकं पुरं प्रेरयदेष पाण्डवान् ॥३॥

[कर्णार्जुनीये
पथि प्रवृत्ताः शकुनिप्रयत्नतो दुरोदरोन्मादगृहीतचेतसः।
पुनर्निवृत्ता भवितव्यतां नरो निरोद्भुमीशः क इहास्ति भूतले ॥४॥
विधानमेतत्प्रबभूव निश्चितं विनिर्जितो यो मनुजो भवेदिह ।
वसेत् स नूनं विपिनेऽकंवत्सरांस्तथैकवर्ष सुनिगृहितश्चरेत् ।। ५ ॥
निगृहितात्मा विदितो भवेद् यदा पुनस्तदा तं नियमं प्रपालयेत् ।
परस्पराव्याहतरूप आवयोनिरन्तर संप्रचलेदयं क्रमः॥६॥
अभूद् यदाङ्गीकृत एष निर्णयो युधिष्ठिरेणानुगतात्मबन्धुना ।
दुरोदरं तत् पुनरप्यभूत्तयोईरक्षशौण्डस्य मतिविपद्यते ॥ ७ ॥
नितान्तसंविभ्रमकारिगर्हितच्छलादसौ शाकुनिकानरेश्वरः।
ऋतप्रियश्छद्मविहीनमानसः पराजितो धर्मसुतोऽभवत्पुनः ॥८॥
पृथा स्वकीयां जननी युधिष्ठिरो विहाय भूपो विदुरस्य सद्मनि ।
सबान्धवो द्वादशवर्षमेनया स कृष्णया सार्द्धमरण्यमीयिवान ॥ ६ ॥
तमन्वगुर्विद्वदनेकभूसुरा नृपं पुराणश्रुतिशास्त्रकोविदाः।
वराश्चतुर्वर्गफलार्थिनो नराः सनातनं धर्ममिवाकुतोभयम् ॥१०॥
अतन्द्रितस्तैः सहितो महीसुरैर्महीश्वरो धर्मतपोव्रतादिकम् ।
चचार सर्व विपिनेऽपि धर्मवित् स पञ्चयज्ञादिविधानतत्परः ॥११॥
सुयोधनस्तु प्रधनं स्म मन्यते बलैकमुख्य तदवश्यभाविनम् ।
पितामहद्रोणकृपादियुद्विदो ह्यतो नतो सौ धनतोऽप्यतोषयत् ॥१२॥
स्वकं प्रजावर्गममोदयद् भृश प्रजेश्वरान्माण्डलिकांश्च भूपतीन् ।
विनिर्जित कापटिकप्रयोगतो नयेन राज्य स विजेतुमैहत ॥१३॥
स पाण्डुपुत्रानपमानविह्वलान् दुरन्तदुःखाम्बुधिमनमानसान् ।
सदैव तान् दुर्गतरूपधारिणो निरीक्ष्य मोदेन बभूव तुन्दिलः ॥१४॥

एकादशः सर्गः
युधिष्ठिरोऽप्याहवदुर्निवारितां सबान्धवः स्वीयमनस्यमन्यत ।
विचिन्त्य दुर्योधनपक्षमाश्रितान् महारास्तस्य मनस्त्वकम्पत ॥१५॥
न भीष्मकद्रोणकृपादितो भयं बभूव तस्यात्मनि भीषणं तथा ।
सुपर्णकर्णस्मरणेन तन्मनोभुजङ्गमो भीतिमुपागमद् यथा ॥१६॥
स वेद कर्णस्य वरेण्यशूरतां कृतज्ञतां तस्य ऋतप्रतिज्ञताम् ।
सदैव दुर्योधनपक्षपातितां पराक्रमं चापि महान्तमद्भुतम् ॥१७॥
दिनेश्वरश्चापि निशीथिनीश्वरो यमोऽनिल पावक ईश्वरोऽप्यपाम् ।
चलेयुरेते नियमानिजात परं न कर्ण एष प्रचलेत् प्रतिश्रुतात् ॥१८॥
अवेत्य तद् धर्मसुतोऽतिचिन्तितो विजेतुमेनं वसुषेणमाहवे ।
वरेण्यदिव्यस्त्रमवाप्तुमर्जुनं पर प्रियं प्रेरयदिन्द्रसन्निधौ ॥१६॥
स देवराजोऽपि च कर्ण विक्रमात् सदैव विभ्यन्मुनिवर्यलोमशम् ।
युधिष्ठिरं सान्त्वयितुं तदन्तिकं प्रणोदयामास वनावनौ द्रुतम् ॥२०॥
ऋषिः स कान्तारमुपेत्य भूपतिं निवेदयामास निदेशमैद्रकम् ।
न कर्णचिन्ता भवता विधीयतां निवर्हण यास्यति मच्छलादसौ ॥२१॥
नृपः समाश्वासनमप्यवाप्य तन्मरुत्वतो वृत्रहरस्य वज्रिणः ।
दधार शान्ति न तदीयमानसम् उदेति भीः किं न महापराक्रमात् ॥२२॥
तदाज्ञयाऽध्युष्य दिवं शराब्दकं धनञ्जयः प्राप्य च दिव्यमस्त्रकम् ।
पराक्रमध्वस्तविभिन्नदानवो निवातपूर्वान् कवचान् निहत्य च ॥२३॥
समादृतस्तत्र स दानवारिभिर्दिवः समालिङ्गित ईश्वरेण च ।
वियोगदुःखार्दितभूतलस्थितस्ववान्धवाभ्यर्णमुपागमत्पुनः ॥२४॥
अटाटयमानः सह बान्धवैनिजैः स कृष्णया चापि युधिष्ठिरो नृपः।
सुखप्रदे द्वैतवने समागतः स्वधर्ममाश्रित्य निवासमाचरत् ॥२५॥

७८ [कर्णाजुनीये प्रयुक्तयोपासनया दिवस्पतेरवापि दिव्याशनपाकसाधकम् । सुपात्रमेकं किल तत्प्रभावतोऽन्धसा नृपोऽसंख्यनरानतर्पयत् ॥२६॥ इयं हि यावद् द्रूपदात्मजाऽशनं न संविधत्ते नृपतिर्द्विजातिथीन् । स तावदन्तेवसतः समागतानभोजयत् प्रत्यहमेव तबलात् ॥२७॥ उपेयुषो द्वैतवनं सुयोधनो निशम्य पाण्डोस्तनयान सुमन्दधीः । निजातुलैश्वर्यनिदर्शनेच्छया तदन्तिकं स प्रतिगन्तुमैहत ॥२८॥ महाभिमानान्धतमोभिरावृतो दुरन्तदर्पण स दृप्तमानसः। जगत्समग्रं तृणवद् विभावयन् सदा हृदीत्थं समचिन्तयनिजे ॥२६॥ मदन्यधन्यो न भुवस्तलेऽधुना नरेन्द्रमूर्धन्यमहामहीपतिः । क ईक्ष्यते मादृशचक्रवर्तिताऽनुयुक्तसाम्राज्यसुखानुभूतिमान् ॥३०॥ अतीतसंख्या महनीयभूभृतो मदीयपादाङ्गुलिजां नखद्युतिम् । महाग्रंचञ्चत्स्वकिरीटरत्नजप्रभाभिरर्चन्ति समेधयन्ति च ॥३१॥ अरण्यतोऽरण्यमुपागताः सदा विपूतिमद्वल्कलवस्त्रधारिणः । असह्यमौष्ण्याम्बुहिमं सवातकं निषेव्य दिष्टयाऽद्य चरन्ति पाण्डवाः ॥३२ अनन्तसवैभवशालिना मया स्वकीयसम्राड्मुकुटं सरत्नकम् । अमूल्यवस्त्राभरणं च विभ्रताऽद्य तेऽवलोक्या ननु नगमूर्तयः ॥३३॥ निरीक्ष्य तान् भिक्षुकवेषमाश्रितान् भुवीह यादृक् सुखमाप्नुयामहम् । न तत्सहस्रांशसमं ह्यपि ध्रुवं प्रशस्तमाहेन्द्रपदप्रतिष्ठितः ॥३४॥ विचिन्त्य चेत्थं हृदये सुयोधनः समेत्य दुःशासनकर्णमातुलान् । स मन्त्रयित्वा सह तैस्ततः परं प्रचक्रमे वक्तुमिदं स्वजन्मदम् ॥३५॥ गवां निजानां गणनेच्छया मया ययासुना द्वैतवनेऽद्य भूयते । तदर्थमादिश्य समित्रबान्धवं स्वमात्रया मामनुकम्पय प्रभो ॥३६।।

७६
एकादशः सर्गः]
निजस्य सूनोः कुटिलस्वभावविन्नचान्वजानात्तमसौ नरेश्वरः ।
तदाग्रहग्राहगृहीतमानसो ददावनुज्ञा स्वसुतेऽतिविह्वलः ॥३७॥
धृतेद्धरत्नाङ्कितवनभूषणः सुचोष्यलेखाद्यपदार्थसंयुतः।
विभिन्नतौर्यत्रिकवेदवित्तमैरगादसौ सहेन्द्रजालिकैः ॥३०॥
निजेन्द्रियानन्दकरान् सहस्रशोऽवभुज्य भोगान् स सनृत्यगीतकान्।
मृगव्यसत्रव्यसनो निजैः समं सुहृद्भिरन्यैश्च निनाय वासरान् ॥३६॥
अथैकदा द्वैतवनान्तरे लसत्सरोवरप्रान्तमुपेत्य दुर्मतिः ।
सबान्धवस्तत्र विहारमाचरद् धृतवता यत्र वसन्ति पाण्डवाः ॥४०॥
स तत्र भूयो विजिहीर्षया निजैः सुहृद्भिरासादयितुं समं सुखम् ।
निदिष्टवान् दासजनांश्चिकीर्षितुं विलाससौख्यप्रदमण्डपान् बहून् ॥४१॥
खबान्धवैश्चित्ररथः समन्वितः समस्तगन्धर्वपतिर्महाबलः।
अवस्थितस्तत्र विहारमाचरन् विलोक्य दासानसकावताडयत् ॥४२॥
सुयोधनो दासविपत्तिवार्त्तया विषण्णचेताः पृतनाभिरन्वितः ।
द्रुतं प्रदुद्राव स वैरिणोनृपः बलावलेपः स्मृतकर्णपौरुषः ॥४३॥
महारणं चित्ररथेन कुर्वतः सुयोधनस्यास्य समस्तसैनिकाः ।
प्रताड्यमानाः किल देवयोनिभिः प्रदुद्रुवुः संगरमध्यतो भयात् ।।४४॥
भवन्ति गन्धर्वजनास्तु मायिनो धराचराश्चापि वियच्चरास्तथा ।
भवेत्कथं योद्धुममीभिरीश्वरी यशस्करी चापि च भूचरी चमूः ॥४५॥
प्रसिद्धतेजा वसुषेण एककोऽप्यगण्यगन्धर्वगणानमर्दयत् ।
न तस्थुरेतस्य पुरो रणाङ्गणे न केऽपि विद्याधरयक्षकिन्नराः ॥४६॥
ततोऽनुदच्चित्ररथः स्वसैनिकानशेषमायाचणवेदविश्रुतान् ।
समापतन् कर्णमिमे महौजसो विचित्ररूपाणि च कोटिशो दधुः ॥४७॥

[ कर्णार्जुनीये विभिन्न विष्वक् प्रसरत् स्वमाययाऽभ्युपेत्य कर्णस्य निपातितो रथः। अजानतस्तस्य च सारथिहतो धिगस्ति तान् ये युधि विभ्रति च्छलम् ॥ रणाच कर्णे ह्यपवाहितेऽरयः सुयोधनं तस्य सहायकानपि । प्रधर्षयन्तो वियतः पथाऽदयं विनिन्यिरे खौक इमे च तत्स्त्रियः ॥४६॥ ततो नृपाभ्यर्णमुपेत्य सेवकाः सुयोधनस्य प्ररुदन्त उच्चकैः । न्यवेदयन् स्वप्रभुदुर्दशामिमां तदाऽभवद् धर्मसुतोऽतिदुःखितः ॥५०॥ निशम्य तद्वृत्तमसौ समाकुलः खबान्धवांस्तत्क्षणमादिदेश ह । सुयोधनं तंत्सुहृदं च तत्त्रियो विमोचयध्वं द्रुतमेव गच्छत ॥५१॥ वृकोदरस्यानुमतं न तद्वचो युधिष्ठिरोऽवोचत सूनृतं तु यत् । विबोधयन् भीममनेकधा नृपोऽभ्यधात्पुनस्तं स गभीरमुद्रया ॥५२॥ परस्परं नो यदि विग्रही भवेचदा वयं पञ्च शतं च कौरवाः । परैस्तु युद्ध समुपस्थिते सति शताधिकाः पञ्च वयं भवेम हि ॥५३॥ कुलं न भिन्नं न तथैव गौरवं विभिद्यते नः कुरुवंशजन्मनाम् । यदात्र कश्विनिकृतो भवेत्तदाऽन्वयप्रतिष्ठा न न नाशमाप्नुयात् ॥५४॥ प्रबोध्यमाना इति धर्मम् नुना समेऽपि संहत्य तदीयबान्धवाः । प्रचक्रिरे तैः सह भीमसंगरं ततोऽमिलचित्ररथो धनजयम् ॥५५॥ सखा स गन्धर्वपतिः पुरातनोऽर्जुनस्य दुर्योधनमत्यजद् गिरा । सदारकं चापि सवान्धवं तदा विलजितो मर्तुमसौ समुद्यतः ॥५६॥ स आत्मघाते कृतनिश्चयो नृपोऽध्वनि प्रयान्तं वसुषेणमैक्षत । तमुक्तवानाप्य निकारमीदृशं न जीवनं रक्षितुमुत्सहेऽधुना ॥५७॥ इदं समाख्याय स बान्धवं लघुस्वराज्यकार्य निखिलं व्यबोधयत् । सुहृत्समूह परिरभ्य वक्षसा कुशासनं प्राविशदन्नमत्यजत् ॥५८।।

एकादशः सर्गः] ८१ विकर्णदुःशासनकर्णमातुलादयस्तथाऽन्येऽप्यनुजीविनो नराः । यदा विबोध्यापि न सिद्धिमाप्नुवंस्तदा तदीयेऽध्वनि गन्तुमुद्यताः ॥५६॥ मृति गतेऽस्मिन् नृपतौ सुयोधने सुपर्वपक्षः प्रबलश्च दुर्बलाः । वयं भविष्याम इतिस्म दानवा विचिन्त्य यज्ञ ह्यनुतस्थुरद्भुतम् ॥६॥ ऋतौ तु तस्मिन् मनुजप्रभावतो विचित्रकृत्याऽऽप्तजनुर्विनिर्गता । तयाशु संप्रेषितया दितेः सुताः सुयोधनं दानवलोकमानयन् ॥६॥ व्यबोधयंस्तं त्वमिहात्मभीरुतांत्यजाशुदैत्याः किल कोटिशोऽधुना। नृलोकमासाद्य नरेन्द्रविग्रहेष्ववस्थितास्त्वद्धितमाचरिष्णवः ॥६२॥ गुरोश्च भीष्मस्य कृपस्य चान्यभूभृतां शरीरेषु वसन्ति दानवाः । यतः खकीयान् मनुजांश्च निर्दयं निपातयिष्यन्ति रणागणेषु ते ।।६।। स कर्णदेहे नरकासुरोऽवसत् प्रणोदितस्तेन दिनेशनन्दनः । विहाय चिन्तां वजनानाधिष्ठितां विधास्यतीन्द्रस्य सुतेन विग्रहम् ॥६४॥ बलं यथा निर्जरसां युधिष्ठरस्तथैव नचापि बलं भवे भवान् । प्रयाहि वैक्लव्यमपास्य संगरं विधेहि सन्मङ्गलमाप्स्यसि ध्रुवम् ॥६५॥ विबोध्य चेत्थं दनुजैः सुयोधनं सुनिर्भयं तं च विधाय सूक्तिभिः । पुनस्तथैवाशु तयैव कृत्यया तदास्पदं प्रापित एष भूपतिः ॥६६॥ प्रभातकाले धृतराष्ट्रजं नृपं नताननो बद्धकरः पुनः पुनः । निजास्त्रशस्वं परिगृह्य शत्रुहा प्रतिश्रुति स्वां वसुषेण ऐरयत् ॥६॥ अये सुहृत् त्वत्पदपङ्कजं स्पृशन्नृतं वदत्येष जनो न चान्यथा । स्वशक्तिमाश्रित्य वरीयसीं मया धनञ्जयेन प्रधनं करिष्यते ॥६॥ निशम्य भूपः किल कार्णिकं वचो विमृश्य तद् यद् दिविजैरुदीरितम् । निजाशनं चानशनं विहाय स प्रतिष्ठमानः पुरमाप हस्तिनः ॥६॥ ११

८२
[कर्णार्जुनीये
सुयोधनोदन्तममुं पितामहः समस्तमाकर्ण्य स कर्णसन्निधौ ।
स्वपौत्रमाहूय नरेन्द्रनन्दनं सुयोधनं वक्तुमिद प्रचक्रमे ॥७॥
हितप्रदं तात भुवीह भेषजं मनोहरं तापहरं न विद्यते ।
परं ह्यु दर्के हितकारि कट्वपि निषेवणीयं विदुषा हितैषिणा ॥१॥
गरीयसो मे जरयाऽतिजीर्यतोऽवधारय त्वं न वचोऽवधीरय ।
नराधमस्यास्य हि सूतसन्ततेविधीयतां तात न संग तेस्त्वया ।,७२॥
विकत्थतेऽयं ननु धर्मवत्तया सदैव शूरत्वमपि स्वकं भृशम् ।
प्रकाशयत्यत्र परन्तु भीतिभृत् त्यजन् भवन्त प्रपलायितो रणात् ।।७३
अहास्यदित्थ यदि नैष संगरे तदा न गन्धर्वपतिह्य नेष्यत ।
पुरी निजां त्वामिति चिन्तयन् हृदा मुखामृतं चित्तविष त्यजत्विमम् ।।७४
सुहृत्तवास्ते वचनेन केवलं सदैव कर्त्तव्यपराङ्मुखोऽधमः ।
वृथाभिमानी ह्यकुलीनसम्भवो धनञ्जयं किं समरेऽभियास्यति ॥७॥
इमं ध्रुवं कौरवपाण्डवारिता-प्रधानहेतुं गणयस्व भूपते ।
अपास्यतां दृष्टिविषस्य दंष्ट्रया क्षतो निजाङ्गुष्ठ इव प्रियोऽप्ययम् ७६।।
पितामहस्येति वचः सुयोधनो न चैव सुश्राव वचोऽमृतोपमम् ।
यथान्तकाले समुपस्थिते नरो विमन्यते सद्भिषजः सदौषधम् ॥७७ ।
अमन्यतासौ यदय हतप्रधीब्रवीति वाच निखिलामनर्गलाम् ।
प्रकृष्टबुद्धया स नरो विहीयते जरासमाक्रान्तशिरा बुधोऽपि यः ॥७॥
विभावयन् सनृतसत्यवादिनं पितामह त प्रतिकूलमात्मनः ।
स कर्णमादाय ततः स्थलात् त्वरान्वितः प्रतस्थे विमनायितो गृहम् ॥७॥
रवेः सुतः शान्तनयोक्तया गिरा निशातकुन्तक्षतहृद् बभूव सः ।
वरेण्यमान्धारनृपात्मजासुतं विवृद्धमन्युः समवोचदीदृशम् ॥८॥

एकादशः सर्गः] ३ अये महाराज जरातिमद्वपुः पितामहोज्यं तव पाल्यतेऽन्धसा । परन्तु विद्वेष्टि भवन्तमात्मनो विपक्षपक्षं श्रयते यहर्निशम् ॥१॥ वदत्ययं मां खलु मित्रबिद्विषं तथा च गन्धर्वभयात् पलायितम् । प्रतिश्रुतिं ते विदधे पुरःस्थितः शृणोतु विश्वं सनदेवदानवम् ॥२२॥ प्रचक्रिरे दिग्विजयं तु पाण्डवाः समं मिलित्वा न विचित्रमस्ति तत् । सहायमन्यं परिहाय चैकको धरां विजेष्ये सकलामिमामहम् ॥३॥ अये सुहृत् ते निखिलं भुवस्तलं विजित्य नूनं हि समर्पयिष्यते । समस्तभूमिस्थनृपेन्द्रमण्डलं त्वदर्थमेतत् करदीकरिष्यते ॥४॥ प्रचण्डदोर्दण्डबलं च पौरुषं विभिन्नशस्त्रास्त्रनियोगकौशलम् । अशेषसंसारमहाब्धिमन्थनप्रभुत्वशक्तिर्मम दृश्यतां त्वया ॥८॥ निशम्य कर्णस्य वचस्त्विदं नृपः सुयोधनो मोदपयोनिधौ पुनः । पुनय॑मजव्युदमजदात्मनः सुहृद्वरं कर्णमथालिलिङ्ग च ॥८६॥ गलत्परानन्दजवाष्पसन्ततिः प्ररुद्धकएठश्व सगद्गदखरम् । उवाच कर्णं तव मित्र संगति द्रुतं ध्रुवं मां हि कृतार्थयिष्यति ॥२७॥ ततस्तदानीं किल भूसुरोत्तमैः समोदमाशीर्वचनैः समर्चितः । अनेकबन्दीजनगीतसद्यशा मिलन समर्दिग्विजयाय निर्ययौ ॥८॥ सदुत्तरां दक्षिणपूर्वपश्चिमा दिशो विजित्याथ समस्तभूभृतः । द्वितीयहीनेन हितेन तेन वै पराजितास्ते करदीकृतास्तथा ॥८६॥ अनन्तरत्नानि सुवर्णकूटकं विशिष्टसद्वाहनवस्त्रभूषणम् । अगण्यदासा अमिताश्च दासिका नृपाय कर्णः सुविजित्य चार्पिपत् ॥१०॥ दिनेशसूनोः परमं पराक्रमं निजाधिपत्यं च समस्तभूतले । महाय॑सद्वस्तुचयं विलोक्य च पृथासुतास्तेन जिता हि मेनिरे ॥३१॥ -- [कर्णाजुनीये अथैकदैकान्तमुपेत्य भूपतिः सुयोधनः कर्णजमोदतुन्दिलः । उवाच तं मित्र ममापि मानसं विधातुमिच्छत्ययि राजसूयकम् । ६२॥ अजातशत्रोः किल यज्ञमद्भुतं निरैक्षिषि प्रोद्धतभूपसंकुलम् । ततः प्रभृत्यस्मि सदैव दुःखितो भजामि निद्रादिसुखं न किञ्चन ॥९३॥ समक्षमणोर्मम धर्मजन्मनः सुनृत्यतीवाखिलवैभवं सदा । युधिष्ठिरादप्यधिकः समादरो नृपैः कृतश्चेदहमाप्नुयां सुखम् ।।६४॥ सुहृद्वचस्तत् स महापराक्रमो निशम्य वारेश्वरनन्दनोऽवदत् । अवैतु पूर्ण स्वमनोरथं प्रभो न ते दुरापं भुवनेन किञ्चन ॥६५॥ नृपाः समस्तास्तव दासतां गतास्तवाङ्घ्रिपद्मे विलुठन्ति भृतयः । महविजो नोदय यज्ञवेदिकां विनिर्मितां कारय रम्यमण्डपाम् ॥६६॥ ऋतूपयोगीनि चिनुष्व सर्वतः समग्रवस्तूनि नृपान् निमन्त्रय । त्वदीययागोऽमितभूतिरग्रजस्य योगतश्चापि महत्तरो भवेत् ॥१७॥ स कर्णगीतामवकर्ण्य भूपतिः सुयोधनः कर्णरसायनी गिरम् । अणीयसि स्वीयमनस्यनन्तकं दधे मुदब्धि नु कथं न विद्महे ||८|| तदर्थमापृष्टपुरोहितोऽवदन्न राजसूयेऽधिकृतिनृपेन्द्र ते। कुलेऽग्रजन्मैव करोति तत्क्रुतुं न चानुजन्मेति हि शास्त्रनिर्णयः ।.६६॥ क्रतुं विधातुं यदि तेऽस्ति वासना विधेहि यज्ञं किल वैष्णवं नृप । अनूनमस्यापि महत्त्वमीरितं नृपेन्द्रसंसाधितराजसूयतः ॥१०॥ अशेषभूमण्डनराजमण्डलात् सुवर्णमाप्तं करदीकृतात्तु यत् । विचित्य तस्माच कण कणततो विनिर्मितः स्यादिह लागलोत्तमः॥१.१॥ विकृष्य तेनैव धरामनुत्तमां विधाय तत्रैव च यज्ञमण्डपम् । नरेन्द्रमुख्येन नरेन्द्रजन्मना विधीयतेऽय भुवि वैष्णवः ऋतुः ॥१०२।।

एकादशः सर्गः
८५
स एव यज्ञो भवता विधीयतां वयं सहाया इह ते भवेम हि ।
क्रतोविधानेऽस्य स ईश्वरो भवेत् समे नृपा यस्य वशवदा भुवि ॥१०३॥
सुयोधनः सम्मतिमाप्य वेदवित्सुधीश्वराणां स्वविसारिणौजसा ।
क्रतुं समुत्साहितविश्वबान्धवः समापयामास स वैष्णवाभिधम् ॥१०४॥
समिद्धदारिद्रयतनूनपान्नृणां तदीयजाम्बूनदसाधुवृष्टिभिः।
स विश्वविष्वक्ससरद्भयङ्करः शशाम सर्वोऽपि समूलमजसा ।१०५॥
नतादृशः कोऽपि नरोऽवलोकितो धनेच्छया येन नशान्तिराप्यत ।
अशेषकल्पाख्यधराधरास्तथा सदा हतिष्ठन्निह कामधेनवः ॥१०६॥
धनाप्तिसन्तुष्टमहर्चिजोऽखिलाः सुसत्कृताश्चापि समे विपश्चितः ।
समानसत्कारभुजो महीभुजो विसृज्यमानाः स्वपुराणि भेजिरे ॥१०७॥
अथैकदाऽसौ वसुषेणमैरयत् पतिः कुरूणां परिदुर्मनायितः ।
सुहृद्वर त्वत्कृपया मया क्रतुः स वैष्णवाख्यः समनुष्ठितो महान १०८॥
अहं न यावन्नृपस्यसंज्ञक क्रतुं विधास्ये किल विश्वविश्रुतम् ।
तव प्रसादेन महामहौजसो न तावदाप्स्यामि सुखं कदाचन ॥१०॥
अशेषभूभृद्विजौकहेतुकं भुनज्मि साम्राज्यमनन्तसौख्यदम् ।
परन्तु गन्धर्वपतेविमोक्षणापमानतः क्लिश्यति मे मनः सदा ॥११०॥
सुहृन्मनोभावमवेत्य वासरेश्वरात्मजो ह्य प्रभुजोऽब्रवीदिदम् ।
निहन्मि यावन्न कपिध्वजं रणे सुरां न सेवे पिशितं न चाप्यहम् ॥११॥
पदं न चान्योः किल धावयिष्यते न याचको वा विमुखीकरिष्यते ।
प्रवर्तते मे वशवर्ति वस्तु यद् ध्रुवं मया याचकसात्करिष्यते ॥११२॥
निशम्य कर्णस्य तथा प्रतिश्रुतिम् अपारदुर्योधनहर्षवारिधिः ।
तरङ्गमालालितः समुद्बभौ विलय कूल स्वमभूतपूर्वकः ॥११३॥

२६
[ कर्णार्जुनिये
उदन्तमेतं नृपतियुधिष्ठिरः स्वकीयदूतस्य मुखाद् यदाऽशृणोत् ।
दिवा च शान्त्या निशि निद्रया तथा जहे यथा कामशरादितोजनः॥११४
नृपः स कर्णस्य बलं पराक्रमं समस्तसंसारविजेत् पौरुषम् ।
तदीयशस्त्रास्त्रनियोगकौशलं स्मरंस्तदानीं परिचिन्तितोऽभवत् ॥११५॥
न भोजनायाध्ययनाय वा श्रुतेर्न चापि सत्संगतये श्रुताय वा ।
न पञ्चयज्ञाय न कर्मणेऽन्यतो मनस्तदीयं स्पृहयाञ्चकार ह ॥११६॥
सदैव तस्यामृतिसूचकं नृपो ग्रहीतुकामः कवचं च कुण्डले ।
अजातशत्रुः स ऋतप्रियोऽप्यभून्निजादधात्कुटिलप्रयोगतः ॥११॥
एकः स्वार्थपरायणोऽपि बिभृते धर्मात्मतां मानवः
कश्चिद्धन्त निजप्रतिश्रुतिकने प्राणाञ्जहाति प्रियान् ।
अन्योन्यप्रतिकूलतां श्रितवतोः पुंसोधरामण्डले
विद्वांसः स्वयमेव निर्णयत भोरुच्चावच तवयोः ॥११८॥
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये एकादशः सर्गः समाप्तः
-
अथ द्वादशः सर्गः
जगदीश्वरमायया नु कीङ ममतासंवलितो महागरीयान् ।
पितपुत्रनिबन्धनोऽतिहृद्यो भुवि सम्बन्ध इह व्यरेचि चित्रः ॥१॥
अमुमेव समाश्रयन् मनोज्ञ जगदास्थावरजङ्गमं समस्तम् ।
परिनृत्यति तद्ध्यनन्तकालात् सुखदं मायिकयन्त्रमास्थितं सत् ॥२॥
परिचिन्तयते सदैव नूनं जनको नैजतनूजमङ्गलानि ।
भुवने न हि तादृशः पुमान् यः प्रतिकृत्या निजया न मोदमेति ॥३॥

प्रबभूव निरन्तरं
द्वादशः सर्गः]
परिवाञ्छति सर्वतो मनुष्यो विजयं स्वं जगतीतलेन सर्वः ।
परमेत्य पराजयं तनूजात् परिमोदं स समेति नात्र चित्रम् ॥४॥
हृदयादधिजायते तथैव जनिमाप्तस्तनयोऽङ्गतोऽङ्गतश्च ।
इति वेदवचःप्रमाणसत्त्वात् परिगीतस्विह पित्रभिन्नपुत्रः॥५॥
सकलोऽपि जनः स्वभावतोऽस्यां निजजायोदरमाविशञ्जगत्याम् ।
समयं बहुमाप्य पुत्ररूपं परिधत्ते विति शाब्दिका वदन्ति ॥६॥
अत एव हि जन्मदस्य नैजे प्रणयस्त्वत्यधिको भवत्यपत्ये ।
असुरोऽपि सुरोऽपि वानरोऽपि कुरुतेऽधर्ममिहात्मजस्य हेतोः ॥ ७ ॥
अपि नाकपतिनिजात्मजस्य कपिकेतोः प्रियतां विधातुकामः ।
स चिन्ताशतसन्तानवितानकैकतानः ॥८॥
विजयार्थमसौ स्वसूनवेऽदाद् विविधानेकमजेयदिव्यमस्त्रम् ।
तदपि प्रशशाम नैव चिन्ता मनसस्तस्य महोग्रकर्णनिम्ना ॥३॥
वसुषेण इहास्ति सत्यवादी वितथा नैव कदापि तत्प्रतिज्ञा ।
विमुखीकुरुते न याचमानान् निजमभ्यर्णमुपेत्य भूमिदेवान् ॥१०॥
परिकल्प्य महीसुरस्य वेषं कवचं दिव्यमभौमकुण्डले च ।
यदि याचितुमेमि तत्समीपं न स ना नेति वदेव कदापि वाचम् ॥११॥
अधुनावधि नैव कश्चिदेष क्षितिदेवं विमुखं तथा हताशम् ।
विदधे परियाचितः स्ववस्तु निखिलं ब्राह्मणसाचकार सद्यः ॥१२॥
प्रतियुध्य बलान्न कोऽपि शक्तः परिहत्तुं कवचं च कुण्डले च ।
अत एव हि याचनातिरिक्तं भुवने नैव विधेयमन्यदास्ते ॥१३॥
स्वहृदीत्थमसौ विमृश्य नाकाधिपति सुरवेषमादधानः ।
कवचं च तथास्य कण्डले च वसुषेणस्य वत ग्रहीतुमैच्छत् ॥१४॥

५८
.[कर्णार्जुनीये
सकलं किल मायिनो मघोनो हृदयाकूतमवागमदिनेशः ।
अभवत् त्रिदशालयेश्वरस्य बनया क्रूरसमीहया च खिन्नः ॥१॥
प्रणयातनयस्य चेन्महेन्द्रो घृणितं कापटिकं करोति कृत्यम् ।
तदह किमु नैव सविदध्यामुचितं कर्म तनूजमङ्गलाय ॥१६॥
सुरराजसमीहितं समस्तमहित छद्मयुत विगर्हणीयम् ।
द्रुतमेत्य निजात्मजाय नूनं वसुषेणाय मया निवेदनीयम् ॥१७॥
मनसीति विचिन्त्य वासराणामधिपो भूसुरलाञ्छनं दधानः ।
अधिगत्य निशीथकालमेष सुतसोम्यं शयनप्रकोष्ठमागात् ॥१८॥
उपधानवतीन्दुकान्तिकान्ते विमले पायसफेनसाम्यसौम्ये।
परिरभ्य स जगाढनिद्रां शयनीये तनुजः शयान आसीत् ॥१६॥
शयितः खलु कर्ण ऐक्षतैकं पुरुष धामनिधिं स भूमिदेवम् ।
वसुषेणमुदैरयत् स विप्रः परिगृह्यातिथिसत्कृति वरेण्याम् ॥२०॥
अयि कर्ण हितप्रदं तवाहं वचनं वक्तुमापागतोऽर्द्धरात्रे ।
वरभेषजवत् सुधोपमं तद् भवता कर्णपुटेन पेयमास्ते ॥२१॥
तव सन्निधिमीश्वरः सुराणां समुपस्थास्यति भूमिदेववेषः ।
विजयाय कपिध्वजस्य सूनोयुधि ते हन्त पराजयाय तात ॥२२॥
यदि सोऽर्थयिता भवेत् समेत्य छु रसखाणाममुभे च कुण्डले ते ।
भवता न कदापि देयमेतदसुरक्षां परमं हि धर्ममाहुः ॥२३॥
इति रम्यवचो निशम्य कर्णो विनयेनातिशयेन सन्नताङ्गः।
प्रतिवाचमुवाच विप्रमेनं परमाश्चर्यपयोधिमग्नचेताः ॥२४॥
अहमस्म्ययि भूमिदेवतानां चरणाम्भोजपरागधारणाहः।
निजमूर्धनि विश्ववन्धपादाः क्षितिदेवा हि ममैकवन्दनीयाः ॥२५॥

८६ द्वादशः सर्गः] परमादरणीय पूजनीय मम सर्वस्व परेशवन्दिताङ । इदमेव निदेष्टुकाम आरात् किमु मां तत्रभवानुपस्थितोऽस्ति ॥२६॥ विदुषेऽविदुषेऽपि भूसुराय मम पाखं समुपस्थिताय नूनम् । अपरस्य तु वस्तुनः कथा का परिदद्यामपि भिक्षते निजासून् । २७॥ निजवस्तु न भूसुराय देयं श्रुतिशूलायितमस्ति ते वचो मे । अयि भो भगवन् भवान् क ास्ते नियमाद्योभुवि मां पृथक् करोति॥२८॥ समुपेत्य ऋतप्रतिश्रुतेर्मा त्वमहो च्यावयसे कथं न जाने । किमु विग्रहवान् भवान् नु धर्मो य इहोपस्थितवान् परीक्षितुं माम् । २६॥ अतिवृद्धतमस्तपखिवेषो मम कल्याणपरो भवान् क आस्ते । प्रणयातिशयं कथं तनूजे पितृवत् त्वं मयि संविभर्षि देव ॥३०॥ इति कर्णयचो निशम्य तिग्मद्युतिधामा पुनराह नैजसनुम् । जनकस्तपनोऽस्म्यहं त्वदीयो न हि संशीतिरिहास्त्वणीयसी ते ॥३॥ वचनं तदिदं ब्रवीमि सत्यं तव कल्याणमहं चिकीपुरस्मि । अयि वत्स न मे वचो जगत्यामिह कालत्रितयेऽप्यसत्यमास्ते ॥३२॥ यदि चेद् वचनं न मन्यसे मे पितरं मामपमन्यसे तदानीम् । न हितं समवाप्स्यसे कदापि त्वमहो हन्त विपत्स्यसे च नूनम् ॥३३॥ अतिनम्रतया ततः स कर्णोऽकथयद् देववरेण्य तिग्मरश्मे ! तब दुर्लभ-पूत-पुण्यधाम्नि चरणाब्जे भ्रमरायतां शिरो मे ॥३४॥ भुवि धन्यतमो भवामि नूनं सफलं जीवनमङ्ग मेध जातम् । भवदागमनेन चाभुवोऽहं बहुमानास्पदमस्मि मानवेषु ॥३५॥ भगवन् समुपासकस्तवाहं त्वमिहको मम जीवनावलम्बा । भवदन्यमहं त्रिदेवपूज्यं कमपि स्वममितोऽपि नैव जाने ॥३६॥ १२

६०
मम
[कर्णार्जुनीये
भुवनत्रयवन्धपादपद्म
कल्याणकृते मदीयसम ।
भवता समलतं दयालो न च मे गौरवकारणं ततोऽन्यत् ॥३७॥
अयि तात महोकारकारिन सततं मानसमन्दिरे विहारिन् !
भवता स्वसुतो निजप्रतिज्ञाविमुखो नैव कदापि संविधेयः ॥३८॥
भुवनेन यथा बिभेम्यसत्यान्न तथाहं समुपस्थिताच्च मृत्योः ।
अनृतं वरपातकं पुराणस्मृतिवेदेषु मतं महत्सु चापि ॥३६॥
वसुषेणवचोभिरिद्धमन्युः पुनरूचे प्रभुरेष वासराणाम् ।
अनृतस्य ऋतस्य निर्णये तेऽधिकृति स्त्ययि पुत्र मत्पुरस्तात् ॥४०॥
मनसा वचसाऽथ वा प्रयुक्तं न च सत्यं सुधियो विनिर्णयन्ति
परिणामहितप्रदं यदास्ते तदिदं सत्यमुशन्ति विज्ञवृद्धाः ॥४१॥
यदि तेऽभिमतं वरं तथापि धरणीदेवकृते तव प्रतिज्ञा ।
अयमस्ति शचीपतिः सुरेशो न हि विप्रो भवताऽवधेयमेतत् ॥४२॥
कपटी छलमाश्रयन्नसत्यः परकीयाभ्युदयं च यो विरुन् ।
अमरेशो न च भूसुरः खरः किं विधृतव्याघ्रपरिच्छदो मृगेन्द्रः॥४३॥
निगमागमतत्त्चपारदृश्वा कृतविद्वद्वरसंगतिः कृती चा
त्वमये स्वयमेव चिन्तयस्व भवसि भ्रष्ट ऋतात्प्रतिश्रुतात्किम् ॥४४॥
भवतो हठधर्मता न साध्वी प्रतिपद्यस्व हितं वचः पितुर्मे ।
बनमीयुरहो पितुर्गिरा न्ये बहवोऽसूनपि मेनिरे तृणाय ॥४५॥
निजपत्रनिदेशवर्तितैव पितृसेवा तनयस्य चास्ति साध्वी ।
वचनेऽप्यवमानिते पितृ णां भविता हन्त कथं नु पुत्रकाम्या ।४६॥
कवचे त्वथ कुण्डले शरीरे स्थिरतां यावदिहाङ्ग बिभ्रते ते ।
न हि हन्तुमहो यमोऽपि शक्तो मृतधर्मा मनुजः कथं समर्थः ॥४७॥

६१
द्वादशः सर्गः]
कनकानि महार्यरत्नराशीनपि भूमीः सकलं निजं च राज्यम् ।
निखिलं ननु भिक्षवे प्रदेयं कवचं दिव्यमुमे च कुण्डले न ॥४८॥
यदि दास्यसि मद्वचोऽत्रमत्य समरे त्वां हि हनिष्यतीन्द्रसूनुः ।
वरणीय इहास्ति नैव मृत्युभवता मङ्गलमीप्सुना कदापि ॥४६॥
गिरमित्यवधार्य कर्ण ऊचे मयि पुत्र प्रणयो महांस्तवास्ते ।
भवदुक्तवचो नितान्तरम्यं परमप्रीतियुतं च नीतिगर्भम् ॥५०॥
पितृदेव तथापि मानस मे भगवन् निर्णयमेव संसरीति ।
कपिकेतुभयं न विद्यते भो व्यथते हृन्मम सत्यभङ्गभीत्या ॥५१॥
शयितोऽपि पुरा हरिः स चन्द्रः कृतवानास निजांच यां प्रतिज्ञाम् ।
तृणवनिजपुत्रदेहदारान् परितत्याज तदीयपूर्तिमिच्छन् ॥५२॥
बलिना छलिनेऽपि वामनाय वसु राज्यं सकल तथात्मदेहः ।
गुरुणा विनिवारितेन चापि सुयशःकामनया समर्पितानि ॥५३॥
अदसीयपितामहोऽपि भक्तप्रवरो ह्यात्मनिपातभीतिमीतः।
जनकस्य निदेशमुल्ललचे भुवि सत्कीर्तिमनश्वरी प्रपेदे ॥५४॥
अथ भीष्मपितामहोऽपि वन्यो विहितां तां भुवि चात्मनः प्रतिज्ञाम् ।
गुरुणापि च भार्गवेण सार्धं युयुधे पालयितुं विदं प्रसिद्धम् ॥५५॥
अपरे बहवोऽपि विज्ञवर्या भुवनेऽकीर्तिभयानिजां प्रतिज्ञाम् ।
परिपालयितुं स्वजीवनेन सह सर्वस्वमिहापयन् सुखेन ॥५६॥
तनयेन पितुर्निदेशनेन परिहेयं ननु लोष्ठवद् वपुः स्वम् ।
भविता यदि तेन चेत्कलङ्कस्तदहो तस्य विमाननैव युक्ता ॥५७॥
इति वाचमुदीर्य वीरकर्णः पितृदेवस्य वरेण्यपादपद्म ।
निपपात जगाद भूय इत्थं न पितचालय मा प्रतिश्रुतात्स्वात् ॥५॥

६२ [कर्णार्जुनीये भवतश्चरणौ शपेऽहमध यदि मामिन्द्र उपागतोऽर्थयेत । कवचश्रुतिभूषणानि दद्यां मरणाद् वा अतिरिच्यतेऽपकीर्तिः ॥५६॥ अपि भूधरसानुतः पतेयं ज्वलदग्न्यचिषि भस्मसाद् भवेयम् । भवतो हि निदेशमाप्य किन्तु निजसत्यान्न कदापि सचलेयम् ॥६॥ धृतगाण्डिवधन्वरक्षणार्थं यदि मां वञ्चयितुं त्रिविष्टपेशः । उपयास्यति तर्हि नूनमेष स्वयमायास्यति वश्चनां विगाम् ॥६१॥ मम चाभुवनाद् वरेण्यकीर्तिः शरदः पूर्णविभावरीशशुभ्रा । विकसिष्यति किन्तु नाकनाथो भविता हन्त कलङ्कितो जगत्या ॥६२॥ इति वाचमुदीरयन्तमेनं तनयं भूय उवाच तिग्मरश्मिः । यदि पुत्र न मन्यसे ददस्त्र परमा भवतोऽप्यमोघशक्तिः ॥६३॥ न कदापि मृषास्ति तत्प्रयोगो ह्यधिगच्छेद् यदि तां भवान् सुरेन्द्रात् । अनयैव निजानसूनरिभ्यः परिरक्षिष्यसि सम्परायमध्ये ॥६॥ भुवनत्रयदीपकस्तदानीं प्रतिपन्ने तनये निजं निदेशम् । शयनीयशुभप्रकोष्ठतस्तत्परमन्तहितिमाप सुप्रसथ ॥६॥ उपसि प्रतिबुद्धवान् यदाऽसौ परमाञ्चर्यमगाद् दिनेशसूनुः । निजसान्ध्यविधि समाप्य नैशं तमुदन्तं तरणिं समभ्यपृच्छत् ॥६६॥ अहमेव समागतः क्षपायां तव कल्याणकृते तनूज सुप्तौ । वचनं समुदैरयं हितं ते ध्वनिरेषोऽम्बरतः समुच्चचार ॥६७॥ तस्मादिनात्स महता कुतुझेन युक्तो धीरो दिनेशतनयो महनीयकीर्तिः । चिन्तातुरः प्रतिदिनं जगदेकबीरश्चक्रे शचीपतिशुभागमनप्रतीक्षाम् ।।६८॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकाव्ये द्वादशः सर्गः समाप्तः

अथ त्रयोदशः सर्गः
अरुणिमसमयेऽवबुध्य रम्ये निजनिखिलं सुसमाप्य नित्यकृत्यम् ।
शुचिमति तटिनीतटे सुराणामनुदिनमैनसुतः प्रतिष्ठते स्म । १॥
विमलसुरसरित्पयोऽवगाम श्रुतिमनुमिः परिपूतसर्वगात्रः ।
परिधृतवरकौशवस्त्रयुग्मः सविधि स सान्ध्यविधि स्म संविधत्ते ॥२॥
दिनकदभिमुखं विराजमानो मनुममलं निगमस्य सारभूतम् ।
अहरहरिह संजपन्नुपाशु निरलस एष निनाय मध्यमह्नः ॥३॥
चलति दिनपतौ दिशि प्रतीच्यां समुपगते प्रहरे तृतीयके च ।
निजभवनमुपेत्य भोजयित्वाऽतिथिजनमागतमाददेष नित्यम् ॥४॥
समनिगमवरेण्यमन्त्रराज परिजपतोऽस्य समक्षमागतेन ।
इह धरणिसुरेण केनचिद् यदभिमतमर्थितमर्प्यते तदेव ॥ ५ ॥
निजनियमदृढ़ नरेन्द्रकर्ण सुरुचिरभूसुरवेषमादधानः।
कुटिलमतिशचीपतिः समागात्कवचमथार्थयितुं च कुण्डले च ॥६॥
तृणलघुरिव गण्यते कुवेरो यदि च बिभर्ति स भिक्षुकस्वरूपम् ।
त्रिभुवनपतिरीश्वरः समेषां नृपबलियज्ञमुपेत्य वामनोऽभूत् ॥७॥
धनपतय इहर्द्धिमर्थयन्तो भुवि वत दैन्यमुपाश्रयन्ति निन्द्यम् ।
सुरपतिरपि सोऽर्थनेऽस्ति दीनः किमिव हि दुःखमतः परं जगत्याम् ॥८॥
जनयति तनयं निकृष्टमोहः प्रबलतरं वरमंहसां निदानम् ।
गुणगणकवले नितान्तदक्षं प्रसृमरकीर्तिविनाशकं हि लोभम् ॥ ६ ॥
अमुमधिवसतो महीयसोऽपि पृथुलयशः समुपेयुषो नरस्य ।
अधिभुवनमनश्चरापकीर्तिः प्रसरति नूनमघौघसर्गहेतुः ॥१०॥

६४
[कर्णार्जुनीये
गुणनिधिरपि लोभपापलिप्तः वचन न निर्भयमास्थितः प्रसीदेत् ।
जगति च निखिलेऽपि तस्य शङ्का समुदयते हृदये मलीमसाढ्या ॥११॥
त्रिदशपतिरमुष्य याचनार्थं समुपगतो वसुषेणकस्य पार्श्वम् ।
स च निगमवरेण्यसारभूतं स्म जपति मन्त्रवरं तदोर्ध्वबाहुः ॥१२॥
सुरपतिरभवत् कचिनिषण्णो जपसमयान्तमसौ प्रतीक्षमाणः ।
मनुजपमखिलं समाप्य कर्णः सुरसरितः पयसः स निजंगाम ॥१३॥
समुपगतमिमं गृहीतविप्र-कपटकलेवरवज्रिणं
विलोक्य ।
अपचितिमुचितां विधाय कर्णो ह्यतिथिहित वचनं स चेत्थमूचे ॥१४॥
अयि महितपदाज भूसुरेन्द्र किमिव हितं विदधामि तेऽधुनाहम् ।
तव चरणरजो निरीक्ष्य चित्त मुदमुपयाति महीयसीं ममाघ ॥१५॥
अभिलपसि नु किं सुवर्णराशि किमुत धनान्यथ गाः पयः क्षरन्तीः ।
जनपदवरमृद्धिमद्धयसंख्यं विदसख्यातसदारकांश्च दासान् ॥१६॥
यदि परममनोहरस्वरूपं भृकुटिविलासचमत्कृतत्रिलोकम् ।
धरणिसुरकन्यकासहस्रमभिलषितं
वेत्तदर्थयस्व ॥१७॥
अभिमतसुखवस्तु यत् त्वदीयं त्रिभुवनसंस्तुतमप्यनन्यलभ्यम् ।
इह ननु समयेऽर्थितं त्वया तन्निखिलमहं भवदघिसात्करिष्ये ॥१८॥
कथमपि भवता न चिन्त्यमेतद् यदिदमिहार्थितवस्तु सैष कर्णः ।
प्रियतरमसुतोऽपि मामकीनं धरणिसुराय न चार्पयिष्यतीति ॥१६॥
यदिह भुवि मदीयवस्तुजातं यदपि च मामकविक्रमेण लब्धम् ।
सकलमपि च भूसुराय नूनं समुपगताय निजार्थिने प्रदास्ये ॥२०॥
मम निकटमुपेयिवान् किमर्थ सममपि संशयमात्मनो विहाय ।
वद निजमखिलं मनोभिलाषं ध्रुवमहमेष तमद्य पूरयिष्ये ॥२१॥

त्रयोदशः सर्गः
६५
वचनमिति निशम्य विप्रवेषस्त्रिदशपतिः समुवाच वाचमिस्थम् ।
अधिभुवनमशेषदानिधुर्य निकटमहं तव याचनार्थमागाम् ॥२२॥
त्रिभुवन इह ते हिमांशुशुभ्रा प्रसृतवती विमला वरेण्यकीर्तिः।
वितरणममृतं निषेव्य तेऽद्य निखिलमहीसुरवृन्दमङ्ग तृप्तम् ॥२३॥
तव निगदितसर्ववस्तुमध्ये मम न च कोऽपि पदार्थ इष्ट आस्ते ।
अभिलषितमहो यदस्ति वस्तु तदिह मुदापयितुं भवान् न शक्तः ॥२४॥
गिरमिति जगतीसुरप्रयुक्तां सुनिशमयन् हृदयेऽतिसंविषीदन् ।
उदतरदमुमेष संविनीतः प्रवरतमोऽखिलदानिनां नराणाम् ॥२५॥
द्विजवर तव संनिशम्य वाचं मम हृदयं भजतीह विक्रवत्वम् ।
निजनिखिलधनार्पणेन चापि समुदयते न मनागपि व्यथा मे ॥२६॥
द्विजचरणसरोरुहप्रसत्त्यै सपदि जहामि वसून्यसून समोदम् ।
अयि वद यदभीप्सितं तदद्य तव निखिलं वितरिष्यते प्रसय ॥२७॥
प्रतिवचनमिदं प्रपद्य विप्रः कपटतनुर्वसुषेणमित्यवोचत ।
अभिलषसि यदा नु मे प्रदातुं कवचमुमे त्वथ कुण्डले प्रयच्छ ॥२८॥
इति गदितवतस्त्रिविष्टपस्य मुखमधिपत्य समन्वितं ह्रियाऽभूत् ।
छलवदभिमतं निशम्य कर्णो निजहृदये परमं विनोदमापत् ॥२६ ।
विहसितवदनोऽवदत्स कर्णः किमिव हितं तव वस्तुनाऽमुना भोः ।
विगणय तदिदं मया प्रदत्तं नगरसहस्रमये लभस्व विप्र ॥३०॥
अनवसितधन सहस्रसंख्यै हपरिचारकमानवैरुपेतम् ।
सुरुचिरकलधौतमन्दिराणां शतकमनिन्द्यमये प्रतीच्छ मत्तः ॥३१॥
अतिशयरमणीयवस्खभूषाशतसहिताः कनकै सविषाणाः।
धृतरजतखुरा असंख्यधेनूः स्तननिकृतामृतसागराः प्रतीच्छ ॥३२॥

वा [कर्णार्जुनीये बहुविधवरभोगसाधन सुखकरवस्तुसमूहमर्पये ते। चिरसुखमधिगच्छ तेन साधो कववमिद न गृहाण कुण्डले च ॥३३॥ यदि किल भवदर्थितं प्रदास्ये तदिह सपत्ननरो रणाङ्गणे माम् । ध्रुवमयि विनिपातयिष्यतीति किमु फलमस्ति तवानुकूलमस्मात् ॥३४॥ उदरकुहरतः स्वकीयमातुः परिधृतवानहमुद्गतो जगत्याम् । कवचमिदमुझे च कर्णभूषे त्वचि सुनिषक्तमदत्रयं ममास्ते ॥३५॥ कथमिव तदिद प्रभो पदार्थत्रितयमहो भवते प्रदातुमीशः अत इह भगवन् दयालुवर्य स्वहृदि विचारय सेवके दयस्व ॥३६॥ निखिलभुवनराज्यमस्तविद्विद सुरपुरसौख्यमथाद्वयातपत्रम् । वितरितुमहमुद्यतोऽस्मि येन भवति चिरं सुखितो भवान् भवेऽस्मिन् ॥३७ तरणिसुतवचोऽवधार्य भूयो निजतनुजन्महितैकचित्तशक्रः । नरवरवसुषेणघातकामी व्यपगतलज उवाच वाचमित्थम् ॥३८॥ स्पृहयति न च मे मनस्तु गोभ्यो न हि च सपत्नविहीनराज्यकाय । सकनकरमणीयसौधकेभ्योऽपि च न सदारकसेवकाचितेभ्यः ॥३६।। किमपि च सुखवस्तु नान्यदीहे त्रिभुवनदुर्लभमप्यहो यदास्ते । यदि वितरितुमीहसे नरेन्द्र कवचमथ श्रुतिभूषणे ददस्व ॥४०॥ त्रितयमिदमये न दातुमिच्छा भवति यदा तव किं न सत्वरं माम् । वदसि नृपवरेण्य दानिधुर्य तव निकटाद्ध निराश आशु यायाम् ॥४१॥ तदनु स विहसन्नुवाच कर्णः कपटमते त्रिदशेश्वर त्वदीया । वत खलु नि खलापि धूर्ततेयं विदितचरी मम पूर्वतोऽस्ति निन्या : ४२॥ अहमिह हि निजप्रतिश्रुतेर्मो विचलितुमस्मि न लेशतोऽपि शक्तः । अभिलषितमितः स्ववस्तु नीत्वा किमुततवास्ति पलायनस्य वाञ्छा ४३ ६७ मम त्रयोदशः सर्गः] वितरितुमभिलाषि मे मनस्ते कवचमुझे अपि कुण्डले परन्तु । मदसु हतकृते त्वमोघमस्त्रं किमपि भवान् प्रतियच्छतु प्रसद्य ॥४४॥ त्रिदशपतिमुखं निरस्ततेजः समभवदीदृशकार्णिकप्रवृत्या । प्रतिनिगदितवानसौ तदानी दिनकरपुत्रमिमं नृदेवकर्णम् ॥४५॥ तव परमगुरुर्दिनेश्वरोऽयं हृदयस्थसमीहितावबोधे। प्रभवति न ततोऽतिरिक्त ईशस्त्रिभुवनमध्यगतोऽस्ति कोऽपि देवः॥४६ किमपि च वरमस्वमीहसे चेद् यदि च निजोपकृतेः समीहया त्वम् । कुलिशविरहितं तदर्थयस्व किमपि मदस्त्रसमूहतो यथेच्छम् ॥४७ दिनकरतनयोऽवदन्महेन्द्रं न हि तव वज्रमहं ग्रहीतुमीहे । विलसति तव या ह्यमोघशक्तिनिकटमुपैति सहस्रशो निहत्य ॥४॥ उपकृतिकरणार्थमुद्यताय यदि हि भवान् प्रतिदातुमुत्सुकस्ताम् । अहमपि भवतः समीहितं तत्त्रयमपि तुभ्यमरं समर्पयिष्ये ॥४६॥ क्षणमपि सुविमृश्य भूय इन्द्रः प्रतिवचनं निजगाद भीतचेताः। मम करविहिता तु सा सहस्रं भुवि विनिहन्ति च ते करप्रयुक्ता ॥५०॥ असुहरणकरी हि सैकशत्रोः पुनरपि मेऽङ्ग समीपमागता स्यात् । निगदितवचनं न मे वृथैतन्मनसि निजे भवता विचिन्तनीयम् ॥५१॥ भवतु च भवतोऽभिलाष एव जगति ममैकरिपोर्वधस्तु काम्यः । अयि वितर सुरेश तां स्वशक्ति गिरमिति संनिजगाद भानुसूनुः । ५२।' अभिलषसि वधं कपिध्वजस्य हृदयमहं तव वेद्मि जिष्णुरूचे । परमिह न भवान् समर्थ आस्ते मम तनुजस्य निपातने कदापि ॥५३॥ त्रिभुवनपतिरीश्वरोऽस्ति यस्य मनुतनुजस्य सुरक्षणार्थमुत्कः । क इह भुवि नरोऽपि वाऽसुरोऽपि त्रिदशवरोऽपि च तद्वधे समर्थः ।।५४ १३ 85 [ कर्णार्जुनीये प्रणिगदितमिदं सुरेश्वरस्य हृदि सुविभाव्य दिनेशनन्दनोऽसौ । वचनमिदमुदैरयन्महेन्द्रं त्वमयि समर्पय तां जहीहि चिन्ताम् ॥५५॥ व्यमृशदथ पुनर्युलोकनाथो निजहृदये ननु तामवाप्य शक्तिम् । अधिवनमुपगत्य सूर्यपुत्रो मधुरिपुसारथिमद्य संनिहन्यात् ॥५६॥ कथमिव वसुषेण एष इच्छेद् विजयमधर्ममुपाश्रितं नरेन्द्रः। निजरिपुविजयं विहाय धर्म न हि परिवाञ्छति मानवो मनखी ।५७॥ मनसि लघुतरे लघीयसी हि समुदयतेऽधमपूरुषस्य चिन्ता । सुरपतिहृदयेऽपि कर्णनिघ्न उदयमुपागतवानतः कुभावः ॥५८।। रविसुतवचनं निशम्य जिष्णुः पुनरवदद् वसुषेण मृत्युतश्च । विरहितसमये प्रयोगमस्या यदि च विधास्यसि नक्ष्यसि स्वयं हि ॥५६ ।। अधिगतरणरजाभित्रकाले निजसुसमिद्धसमास्त्रशस्त्रसत्वे । द्विषदसुहृतये न सा प्रयोज्या विपदमवाप्स्यसि चान्यथा त्वमेव ॥६०॥ तरणिसुत उवाच भूय इत्थं त्रिदशपते मृतिसंकटेऽहमेताम् । युधि समुपयुनज्मि नान्यकाले सरणिमृतां न कदापि संत्यजेयम् ॥११॥ जननदिवसतो मदीयदेहस्थित-रुधिराप्लुतचर्मणैव साकम् । त्रितयमपि वरेण्यवस्तु चैतदतिशयशक्तमिदं भवान् सुवेद ॥६२।। यदि तदहमये निकृत्य दद्यां विकृतिमवाप्स्यति मामकं शरीरम् । भवत इममतो वरं प्रयाचे मम न भवेद् विकृता शरीरशोभा ॥३३॥ वचनमिति निशम्य पाकशास्ता प्रमुदित इत्थमुवाच मत्प्रसादात् । विकृतिमुपगतं च ते शरीरं भवतु शुभं न विरूपतां प्रयातु ॥६४॥ पुनरपि तव पूर्ववत् सुवर्णसुमसृणसौम्यवरेण्यकान्तिगेहः । दिनमणिरिव सुप्रकाशमानो हृदयहरः सततं विभातु देहः ॥६५ ६६ त्रयोदशः सर्गः] अथ शितकरवालमाकलय्य सुखद-शरीरनिषक्ततत्त्रयं हि । वरकवचमुमे च कर्णभूपे सपदि निकन्तितुमेष संप्रवृत्तः ॥६६॥ निजकवचनिकृन्तनप्रवृत्तदिनपतिवीरसुताननस्य कान्तिः । व्यकसदतिशयं प्रसन्नताया वदनमुपागतवान् वरेण्यभावः ॥६७॥ कृतमिदमवलोक्य देवमहँदनुकुलजाथकितत्वमभ्युपेताः । सुववृषुरमराः सुमानि तस्मिन् सुननृतुरप्सरसां गणास्तदानीम् ॥६॥ निखिलमपि सुपर्वमण्डलं तद् दनुजनरेन्द्रमुनीन्द्रसङ्घजुष्टम् । विजयरवमनेकशश्चिराय प्रतिवसुषेणमुदैरयत् समोदम् ॥६॥ कवचमहह कुण्डले निकृत्य रुधिरचयं वमतोऽपि नैजदेहात् । सुरपतिकरसाचकार सत्यप्रियमनुजोऽयमहो महामहीयान् ॥७॥ अयमथ वसुषेणनामधेयः प्रथममभूदतितिग्मरश्मिस्नुः । तत इह दिवसात्तु कर्णभूषा-कवचनिकृन्तनतोऽभवत्स कर्णः ॥७१॥ वीराग्रगण्य निखिलोद्गतदानिधुर्य धन्यस्त्वदन्य इह कोऽस्ति पुमाञ्जगत्याम् धर्मात्मजादिभिरुपेन्द्रमहेन्द्रवर्यैः छद्म श्रितैर्ननु गत परिवञ्चितत्वम् ॥७२ वीरो भवानमरकीर्तिमवाप लोके गायन्ति ते रिपुगणा अपि पुण्यगाथाम् । त्यागित्वसत्यनिरतत्वदृढप्रतिज्ञासंपालनत्वमितरत्र नरेऽस्त्यलभ्यम् ॥७३॥ हे श्लाघनीय गुणमन्दिर सत्यसेविन् कृष्णादिसंशितयशा अभिनन्दनीय॥ त्वद्वञ्चनार्थमुपढौकितवान्महेन्द्रः सैष वयं नुपरिवञ्चिततां गतो भूत्।।७४ प्रणान्प्रियान्यदि सुरक्षितुमत्रलोके भानोनिदेशमथचेत्त्वमपालयिष्यः । सूर्यः पिता तव तथा न च तोषमैष्यद् यादृक् प्रसीदतितरां स च तेऽङ्ग कीर्त्या पुत्रे निजे तु ममता जनकस्य नूनं सर्वस्य सम्भवति किन्तु गुणप्रकर्षात् । मोमधमानहृदयो ह्यभिनन्दति त्वां पुत्र वरं सततधर्मपरं दिनेशः ७६॥

१००
[कर्णार्जुनीये
नीत्वाऽगाद्देवराजोऽविरतमपि सुधावर्षिणी कुण्डले द्वे
वक्षःसंसक्तमेतत् कवचमतिदृढ़ यत् त्रिलोकेष्वभेद्यम् ।
स्वीयामेकनशक्ति कपटपटुत्दात् तत्समाकर्ण्य भूयान
खेदोऽभूत् कौरवाणामधिहृदयमहो पाण्डवानां प्रमोद ॥७७||
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये त्रयोदशः सर्गः समाप्तः
अथ चतुदशः सर्गः
सदसि ते कौरवै—तसंनिर्जिता ऋतपराः पाण्डवाः स्वप्रतिज्ञादृढाः ।
वनमिता यापयित्वाऽर्कसंवत्सरांस्त्यधिकदिक्सम्मितो ब्दो यदोपस्थितः ।
मनसि तेऽचिन्तयन् यद् वयं साम्प्रतं परिहतस्वीयवेषाः स्वरूपान्तरम् ।
कपटमालम्ब्य कुत्रापि राज्ञो गृहे भृतकतामाप्नुयामापदं संश्रिताः ॥२॥
नृपविराटालये ते तदोपस्थिताः प्रविलपन्तश्च पाण्डोः सुतानां प्रियाः।
कृतिकराः साम्प्रतं तैर्विहीना वयं विपदि मना इति प्राब्रुवन् मापतिम्॥३॥
प्रियगुणः सैष राजा विराटः प्रभुः समुचितं कर्म यस्यास्ति तस्मै च तत् ।
परिददौ तेन सर्वे प्रमोदान्विताः समवसन् वीक्षमाणाः खकालं शुभम् ॥४॥
यमसुतो द्यूतसंसत्सदस्योऽभवत् पवनपुत्रोऽशनाध्यक्षतां प्रापितः ।
सहपरो देव एषोऽपि गोपालने नकुलकोऽसौ नियुक्तोऽश्वसंरक्षणे ॥५॥
अमरपण्यस्त्रियः शापशप्तोऽर्जुनोऽगमदयं क्लीवतामेकसंवत्सरम् ।
वसतिमाप्तः स सानन्दमन्तापुरे नृपतिकन्याश्च तौर्यत्रिक शिक्षयन् ॥६॥
द्रुपदपुत्री नरेन्द्रात्मदारालये प्रवरदासीत्वमाप्ताऽवसत् सुन्दरी ।
विदधती खात्मयोग्यां विविक्तां कृति सुजगृहे नाम नैजं चसैरन्धिकाम्॥७॥

चतुदेशः सर्गः]
नृपवरश्यालका कीचकाख्यो महाञ्जगति वीरोऽभवद् राज्यसेनापतिः ।
नृपतिसाम्राज्यसर्वस्वभूतस्तथा विजितवान् स त्रिगर्तादिदेशान् बहून् ॥८॥
द्रुपदपुच्याननप्रोज्ज्वलद्दीपकप्रसरदर्चिस्सु दुर्भाग्यतश्चैकदा ।
नरपतेर्वल्लभासोदरो दुर्मतिः पतितुमैच्छन्न कामी शिव वीक्षते ॥६॥
हितपरैर्बोधितो यज्ञसेनीतनौ वसति गन्धर्व एको बलीयानिति ।
भृशमयं किन्तु दुष्टः स नामन्यत मृतिवशः किं शृणोत्यात्मनीनं वचः ॥१०
अधम एष क्षपामध्यमासादयन् नृपतिपाण्डोः स्नुषायां कुदृष्टिंक्षिपन् ।
प्रबलभीमेन संयुध्य संसूदितो यमपुरं प्राप नैजामृगत्युद्वमन् ॥११॥
मरणमाप्ते च तस्मिन् नृपश्यालके निखिलमत्स्यप्रदेशे च देशान्तरे।
प्रसृतवानास सर्वत्र हाहाध्वनिरवगता तस्य गन्धर्वनिना मृतिः ॥१२॥
कुरुपतिः पूर्णशक्त्येष पाण्डोः सुतान् सततमेवोत्सुकोऽज्ञातवासस्थितान् ।
परविचिन्वन् बहून् प्ररया क्रूरधार्विविधदेशेषु गुप्तान निजांश्चारणान्॥१३॥
परमिमे पाण्डवा हस्तिनाम्नः पुरा निकटमेव स्थिता इत्यजानन् खलः ।
प्रयतमानोऽपि नावाप तवृत्तक भवति दीपस्य नून तमाऽध स्थितम् ॥१४
चरणशीलैनरैः कीचकस्याहति विदितवान् यहि दुर्योधनो दुर्मतिः ।
स्मृतवतः पूर्ववैरं त्रिगर्तेश्वरादलभतेत्थं सुशर्माभिधात् सम्मतिम् ॥१५॥
बलविहीनत्वमाप्तोऽधुना मत्स्यराट् प्रवरवीरे हते स्वीयसेनापतौ ।
वयममुं संलुठामो मिलित्वा रिपुमिति वदन् मत्स्यदेशं सुशर्मा द्रवत् ॥१६॥
नृपविराटेन तस्याभवत्सगरो निखिलरोमप्रहों महानद्भुतः ।
नृपतिपाण्डोः सुतानां सुसाहाय्यतो विजित आस त्रिगर्तेश्वरो भूभृता॥१७॥
तदनु ते कौरवाश्चापि वीरोद्भटैः सह समेता विराटेश्वर प्राद्रवन् ।
अगणिता गास्तदीया लुठित्वा निजं पुरमिमे प्रस्थिताः संबभूवुर्यदा॥१८॥

[कर्णार्जुनीये
नृपतिगोमोचनेच्छुषिद्धस्ततः सकलशस्त्रास्त्रसज्जा पृथायाः सुतः।
प्रणिनुदन् संयतावुत्तरस्यन्दनं सपदि गाण्डीवधन्वा तदोपागमत् ॥१६॥
इह रणे वीरतामीक्षितारः समे चकिततामापुरेतस्य शूरादिनः ।
वचनमन्योन्यमूचुर्धवं क्लीवता-तनुधरो यो विभातीह सोऽस्त्यर्जुनः ॥२०॥
निशितवाणप्रयोगैरयं वैरिणां करगत धेनुवर्ग द्रुतं मोचयन् ।
सफलकामो भवन हन्त नः पश्यतां निलयमेष्यत्यवश्यं वयं मन्महे ॥२१॥
वचनमाकर्ण्य कर्णो निजानां नृणां समरशुरः स आह स्म मा दीनताम् .
भजत तं गुप्तरूपं रिपुं ह्यदयेऽर्जुन उताहो भवेदेष वा वृत्रहा ॥२२॥
भवत शान्ताः समालम्ब्य मौनं समे वसत चैकत्र युत्कौशलं पश्यत ।
मम तथैतस्य वीरस्य चान्योन्यकं विजयमाप्स्येऽभियास्याम्यहं केवलः॥२३
इति वचःप्रोच्य युद्धं प्रकुर्वनसौ विदधदात्मास्त्रशस्त्रप्रयोगं रिपौ ।
रणमितान् कौरवान् द्रोणभीष्मादिकान् महति मोदाम्बुधौ पातयामास तान्
शरशतैरुग्ररूपैर्धनुर्निःश्रितैरशनिनिर्घोषवद्भिर्वरेण्यैनिजैः ।
अयमपि क्लैव्यरूपं दधानोऽर्जुनो व्यथितवान् कर्णमेनं महाविक्रमः ॥२५
समर आसीन्महान् वीरयोरेतयोस्तनुभृतां रोमहर्षः पर दारुणः ।
वियति देवास्तथा दानवास्तं रणं ददृशुरागत्य तौ संशशसुभृशम् ॥२६॥
उभयपार्वेऽपि दिव्यास्त्रशस्त्रं वरं स्थितमुभौ चापि विक्रान्तशुरौ समौ ।
प्रधनमन्योन्यमालक्ष्य मेने तयोः प्रलयकालः समीपस्थितो द्रष्टुभिः ॥२७
कति शशंसुभृशं कर्णमेन जनाः कति धृतक्तीववेषार्जुन तं तथा ।
विजयमिछ्वोर्मियो हन्त सनिन्नतोस्तरुणरक्तोत्पलाभां तनू जहतुः ॥२८॥
तदनुयुद्धं परित्यज्य गोचौर्यतो घृणितकार्याद् व्यरंसीत् सुतिग्मधुतेः ।
तनुजनुर्यो व्यथाम्भोधिमग्नः पुमानवदधात्येव गद्य विधेयं निजम् ॥२९॥

चतुर्दशः सर्गः]
१०३
प्रवरवीरो यदा कर्ण आयोधनादपगतस्तर्हि सर्वे जनाः संहताः।
गुरुवरो द्रोण एते च भोष्मादयो निजपतिप्रीतिकामा ययुः संगरे ॥३०॥
परमतिप्रेरिता ये विना स्वेच्छया किमपि कार्य विधातुं भवन्त्युद्यताः ।
सफलतायाः कथा दूरमास्तां सदा परिणतिस्तस्य बोभूयते हानिकृत् ॥३१॥
प्रथितवीरत्वमाप्तोऽपि लोकत्रये विजितवाञ्जामदग्न्यञ्च यः संयुगे ।
वशयमो द्रोण एषोऽपि हहो जितो दुरितकर्माश्रितानां हि शोच्या गतिः
अवधत्तूत्तरस्यानुजाया वचः प्रियतरायाश्च शिक्षाप्रदः प्रीतिकृत् ।
युधि च सम्मोहनास्त्रं प्रयुजन्नसौ विहितवान् कौरवान् बोधहीनांस्तदा ।।
अधिगतेष्वेषु सर्वेषु सम्मुग्धतां गुरुरसावुत्तरायाः स पुंस्त्वोज्झितः ।
प्रणिजगादोत्तरं गच्छ मित्र द्रुतं वसनमानीयतां कौरवाणा वरम् ॥३४॥
गमनकाले च सग्रामकामस्य मे नृपतिकन्या तव प्रेयसी चानुजा ।
अवददित्यं मदर्थे वरं वाससां ध्रुवमये कौरवाणां समानीयताम् ॥३५॥
वरतमैरंशुकैः पुत्तलीः कुर्वती चिरदिनं क्रीडितुं कामये मोदभृत् ।
भगिनिका तेऽभ्यधान्मामतस्त्व वजन हि विलम्बोत्र कार्यों विधावुत्तर
स्वरितमेवाभ्युपेत्योत्तरो दुहृदां वसनमाकृष्य गात्रेभ्य प्राश्वानयन् ।
निजरथं प्राप वीरस्तदा कौरवाः प्रययुरात्मप्रबोधं दधुः कश्मलम् ॥३७॥
शुभमतिं प्राप्य पैतामही ते तदा ततिमपास्य प्रयाता गवां स्वं पुरम् ।
विजयमाप्तौ प्रमोदाद् भृशं तुन्दिलौ नगरमेतौ च वैराटमाजग्मतुः ॥३८॥
जयरवोऽभून्महान् मत्स्यराष्ट्रेऽखिले निववृतुर्यर्हि सत्सारथियोत्तरः ।
पुलकितो मत्स्यराजः समालिङ्गय तौ शिरसि चाघ्राय मोमुद्यमानोऽभवत्
प्रकटमाप्तानिमान् पाण्डवान् भूपतिविनयगर्भेर्वचोभिः क्षमा प्रार्थयन् ।
सदुपचारैश्च संपूज्य तान् स्वगृहे परममोदान्वितोऽवासयत् सादरम् ॥४०॥

[कर्णार्जुनीये परिणयं प्रापिता सा तदानीं सुता नृपतिना मत्स्यराजेन नैजी प्रिया । शुभदवारे सुभद्रात्मजेन खयमुभयवंशे समुज्जृम्भितं मङ्गलम् ॥४१॥ अधिगता पाण्डवानां प्रवृत्तिर्यदा दुरभिसन्धिः स दुर्योधनः प्रोक्तवान् । ध्रुवमिमे गुप्तवासाब्दकाभ्यन्तरे प्रकटिताः पाण्डवा यान्त्वरण्यं पुनः ॥४२ गणनया वित्तमानां सतां पाण्डवैरवधिरुल्लपितो गुप्तवासस्य तैः इति जगुः साधवः किन्तु नामन्यत कुरुपतिर्दिष्टवृनं भवेत् किं वृथा ॥४३ विषमवादप्रचारी स दुर्योधनः सुखदसत्यं वचो नैव मेने यदा । उभयपक्षोद्भवां सांगरी घोषणां निशमयन्तोऽखिला म्लानतां भेजिरे ।। न हि नरः कोऽपि साधूरणं वाञ्छति प्रवरवीरप्रणाशं नु करचेहते । हितकतो ये पुमांसो द्वयोः पक्षयोर्भुवि बभूवुश्च ते हन्त चिन्तातुराः॥४५॥ द्रुपदभूपो विराटस्तथाऽन्ये नृपा रणनिरोधप्रयत्नान् बहूंश्चक्रिरे । हतहितं भ्रातृयुद्धं निरोद्धं प्रभुनिनपुराद् द्वारकातो डुढौके हरिः ॥४६॥ भवति यद् भाव्यमस्यां जगत्यां विमोविलसितं यच्च निर्धारितं पूर्वतः । तदनुकूला मतिर्जायते प्राणिनां परमपुंसोऽस्ति चित्रं चरित्रं ध्रुवम् ॥४७॥ यदि समीहेत योऽस्ति स्थितः प्राणिनां हृदयमध्ये स किं नैव कुर्याद् भुवि । नटयतस्तस्य सर्व जगत्स्वेच्छया क इह हाद विबो क्षमो मानुषः ॥४८॥ वचनमन्यत् तथा कार्यमन्यद् ध्रुवं हृदयमन्यत् तथाऽन्यच्च संचेष्टितम् । नटवरस्यास्य बोद्धं समीहामहो न च समीष्टे सुधीः कोऽपि कालत्रये।।४६ क्षितिभृतो ये विराटालये संगता रणमपाक कामा विषीदन्मुखाः । भयमिताः सन्ति सर्वे यतः सगरेऽगणितवीरा गमिष्यन्ति नाशं ध्रुवम् ।। परमहो केवलोऽयं स गोपीश्वरो निजजनानन्दनः परजनस्यार्दनः । निखिलसवीक्षितः सुप्रमोदान्त्रितः क इह जानाति तत्कारणं विज्जनः ॥

चतुर्दशः सर्गः] स च जनो धन्य प्रास्ते सुखी सर्वदा श्रुतिपयोजातहैयङ्गवीनस्य भुक् । यतिवरो योगिनामग्रगण्योऽप्यसौ निजरथप्रग्रहो येन कृष्णार्पितः । ५२॥ खजनमित्राणि दारास्तथा बान्धवास्तनुजनुश्वाथ माता पिता सोदराः । भुवनमेतत्समग्रं न रिक्तं भयैश्चरण एकः परस्यात्मनो निर्भयः ॥५३॥ स भगवान् धर्मराजेन संप्रेरितोऽन्वयविनाशप्रतप्तात्मनाऽहर्निशम् । निजकलङ्क जिहीर्षावताऽऽजीवनं सततमन्तःकृतेर्लानतापादकम् ॥५४॥ उपरि भावेन सन्ध्यर्थमुत्को ययौ हृदि निजे चेहते माभृतां ध्वंसनम् । भुवनभारायमाणामरद्वेषिणां वत विधेये तदीये वयं मौनिनः । ५५॥ स हि ययौ हस्तिपुऱ्या नटानां पतिः कुरुकुलाग्यं च दुर्योधनं दुर्मतिम् । प्रणयतो भीतितो वापि संभळेयन् बहुविधं कौरवांस्तांस्तथाऽबोधयत् ।।५६ भगवतस्तूपदेशं विमस्य प्रभु कुमतिरेनं जगवर्तकं श्रीहरिम् । सपदि बर्द्ध स्वकीयाञ्जनानैरयद् ध्रुवमहङ्कारभाजां मतिभ्रंश्यते ॥५॥ कमलजन्माऽथ नारायणोऽसौ मृडस्त्विह हि चर्कति बर्भति जर्हति च । जगति यस्येगितात् सोद्वितीयः पुमान् यदुपतिः प्रेमदाम्नैव संबध्यते ५८ प्रकटितभ्रूविलासप्रभावेण तान् हतधियो दुर्ह दान ध्वस्तवीर्यान् समान् । विदधदेष प्रभुः पाण्डुपत्न्या तथा निजजनैः प्रीतिपूर्व मिलित्वा ततः ५६ प्रणतिसश्लेषहस्ताग्रसंयोगतः स्मितनिरीक्षाकरोत्थापनाद्यः प्रभुः । मनुजवृन्दं यथायोग्यमानन्दयन् मतिमतामानुमत्यं गतौ प्राप्तवान् ॥६॥ करिपुरान्तं जनौधैर्मुदाऽनुद्रुतो विफलिताशः स सप्रेषितोऽभूत्तदा । तिमिरहन्तुः सुतं स्वेङ्गितेनाह्वयन निजरथे तं च संस्थाप्य संप्रस्थितः॥६१ रविसुतस्यन्दनं रिक्तमन्वग्ययौ नयगुरुः केशव कर्णमैनप्रभम् । बहुविधैः सामदामप्रभेदादिभिः शुभवचोभिः प्रभुः शिक्षयामास तम्॥६२ १०६ [कर्णार्जुनीये अखिल वित्सर्वहृत्स्थोऽपि विष्टश्रवा नृपतिकणं स नाबोधयिष्यद् यदा । ऋतपरत्वं कुपज्ञवमन्ये गुणा भुवि समेष्यंस्तदीयाः कथं विस्तृतिम् ॥६॥ सरसिजस्निग्धपाणौ निजे कोमले मृदुकरं कार्णिकं दक्षमास्थापयन् । नटपतिभक्तसत्कीर्ति विस्तारणे कृतमतिर्नीतिगर्भ वचो व्याहरत् ॥६४॥ सुहृदये कर्ण वेदादिशास्त्रं भवान् निखिलमध्यैष्ट तन्मर्मवेत्ता तथा । ऋषिमुनीनां च वर्षीयसां सेवयाऽलभत सत्सङ्गजातानलम्यान् गुणान्।६५ विनयशीलोऽसि दानीश्वरः कीर्तिमांस्तव यशःसन्ततिः ससृतौ सर्पति । अवितथं यह रहस्य मया कीर्त्यते तदिदमाकर्णनीयं त्वया ध्यानतः ।६६ त्वमसि हे तात सूतस्य पुत्रोन हि न हि च नीचान्वये ते जनुः कुत्रचित् । मम पितुः स्वसृकायास् वमाद्यः सुतो भवसि धर्मात्मजस्याग्रजो मद्गुरुः ।। भगिनिका जमदस्यैकदा सा पृथा मनुपरीक्षार्थमुत्कण्ठिता बालिशा । अजनयत् सूर्यसङ्गाद् भवन्तं सुतं वयसि कौमारके ज्ञातमेतन्न ते ॥६॥ भवसि तद्धर्मतस्त्वं हि पाण्डोः सुतस्तव लघुः सोदरोऽजातशत्रु पः । नियमतो न्यायतश्चापि सिंहासन कुरुकुलस्य त्वमेवाधिक क्षमः ॥६॥ भवितुमर्होऽन्ति सम्राट् पृथिव्या भवान् व्रजतु सार्द्ध मयैतर्हि सम्राटपदे । त्वदभिषेकं करिष्यामि चान्य पैः सह समैः पाण्डवैरन्धकैष्णिभिः ॥७०॥ उपरि ते बीजयेचामरं धर्मराण महितगाण्डीवधन्वा भवेत्सारथिः । बलिवरो भीमसेनोऽभिमन्युस्तथा नकुलदेवादयः स्युस्त्वदाज्ञारताः ।।७१॥ मम तु वंशोद्भवा मातृपक्षास्तव जनकपक्षाः समे पाण्डसम्बन्धिनः । भुवि समस्ता नरेन्द्रास्तथाऽन्ये जनावशमिताः सम्भविष्यन्त्यनायासतः७२ चितिभृतो वृष्णिवंशोद्भवाश्चान्धका युवकवीरास्त्वदाज्ञावशवादिनः । बयमपि त्वबिदेशप्रतीक्षारताः कथय किं ततोऽन्यद् भवेत् तावकम् ॥७३

३
चतुर्दशासर्गः]
तब बलं चैकमलम्बिताः कौरवाः समरमिच्छन्ति नृत्यन्ति कूर्दन्ति च ।
अगणिता वीरपत्न्यो गमिष्यन्ति चेदहह वैधव्यमस्मादसत् किं भवेत्७४
उभयपक्षस्य चैको भवान् रक्षकः कुलविनाशं त्वमेवाद्य संरोत्स्यसे ।
हितमये सगरात् कस्य जातं वद मम वचः पथ्यमेतद्धि कर्णे कुरु ॥७॥
युधि तु सम्पत्स्यते पाण्डवानां जयो विजयिन कोऽभियातुं समर्थोऽर्जुन ।
विदधतः सिंहनादं गदां बिभ्रतोऽभिमुखमायात्यये भीमसेनस्य कः ॥.६
विमृश शान्तेन चित्तेन मे सद्वचः कुरु मदीय मतं सत्वरं स्वीकृतम् ।
नृपतिसिंहासने तिष्ठ मोदख भो नय च साफल्यमत्रागमं मामकम् ॥७७।।
अवसरः शोभनो नैष सं यज्यतां शुममहो शीघ्रमेव स्वनुष्ठीयताम् ।
परदिनस्याध कृत्यं सुसम्पाद्यतां त्वदभिषेकेन युद्धानिरारुध्यताम् ।।७८॥
अमृतसंवाद वाचं समुच्चारयन् गुरुवरो वाग्मनां प्रेम संदर्शयन् ।
सरसिजस्निग्घदृग्भ्यां मनो मोहयन् वदनमेतस्य तस्थाववालोकयन् ॥७६
भगवतो देवदेवस्य दैत्यच्छिदोऽमृतमयीं वाचमाकर्ण्य कर्णप्रियाम् ।
अमजदेतस्य गम्भीरतामानन दिनमणेरात्मजस्य प्रभाभास्वरम् ।।८।।
पणमयं मौनमास्थाय तिग्मांशुजो नयनजाणि चैलाञ्चलैर्जियन् ।
श्वसनवेगेन संरुद्धकण्ठस्वरो हृदयनाथं वचो व्याजहार विदम् ॥१॥
असुभृतामन्तरात्मस्थितस्त्वं विभो तव परोक्षं न किश्चद् वरीवृत्यते ।
हृदयभावं मदीयं विजानास्यये किमभिधेय विमृश्याप नालोचये ॥८॥
हितकरं वाचमाहस्म सत्यं भवान् प्रणयमन्यः क एतादृशं दर्शयेत् ।
स्मरत एतादृशीं प्रीतिमेतर्हि ते तनुजरोमाप्युदन्ति मे सर्वतः ॥८॥
अवदधेऽहं पृथायास्तु कानीनकस्तनुजनमें पिता तेजसामीश्वरः ।
मुरमरिचोयमध्ये कहन भाग्यतोऽधिरथनाम्नाविकारुण्यतो रक्षितः॥४॥

१०८
[कर्णार्जुनीये
अहमपि क्षेत्रजो धर्मराजादिवनरपतेरात्मजश्चास्मि पाण्डोस्तथा ।
स्वमपि मन्मातुलस्यात्मजोऽसि प्रभो विदितमास्ते रहस्य समस्त मम । ८५
अनृतवाचं भवान् नैव भाषिष्यते त्वमसि सत्यस्वरूपो यतो निःस्पृहः ।
धरणिराज्यं प्रदास्यत्यवश्यं भवान् भवति संशीतिलेशोऽपि नैवात्र मे।।८६
गुरुरहं बान्धवो धर्मराजेन चेदवगतः स्यां तदा मह्यमेवार्ययेत् ।
स किल भूमण्डलस्यापि साम्राज्यकं मम मनस्येष विश्वास उत्पद्यते ।८७
अधिपतावाप्तिजो नास्ति मे संशयो नृपतिसिंहासनस्याधिकारी द्यहम् ।
भगवता मत्कृता धृष्टता क्षम्यतां निखिलमेतत् खपुष्पायित साम्प्रतम् ।।८८
कृपगुरू रङ्गभूमौ यदा पृष्टवान् मम कुलं जन्मदं गोत्रमित्यादिकम् ।
समभिधास्यन्नु सत्योत्तरं मातृका समभविष्यत् फलाढ्यं वचस्तावकम्ब
अहह मात्रा त्वहं निर्दयं वाहितो ह्यधिरथेनोद्धृतो राधया पालितः ।
अगणित क्लेशराशि सहित्वा तया तनुजनेनिर्विशेषं च संवर्धितः ॥१०॥
जनगणो वेत्ति राधेयनाम्नैव मां सदवलम्बोऽस्मि पित्रो रहं चैककः ।
कथय तौ प्राणरक्षाकृतौ तादृशौ कथमहं त्यक्तुमर्हः कृतघ्नो भवन् ॥११॥
अधिरथो जातकर्मादि संस्कारकं निजकुलस्यानुकूलं व्यधान्मामकम् ।
स च मया दत्त पिण्डं सदैवेहते पित्कृतनो भवेयं कथं त्वं वद ॥१२॥
प्रणयिनीः सूतकन्या अनेका अहं परिणयन् पुत्रपौत्रादिकाँल्लब्धवान् ।
वत परित्यज्य सर्वा अहं दुर्मति पतिवंशं कथं संश्रयिष्याम्यये ।।३॥
अगणितान् सूतवंश्यः समं भ्रातृभिरहमकार्ष क्रतूंस्ते विजानन्ति माम् ।
निजकुलाम्यर्हितं तर्हि तान् साम्प्रतं विमुखतां प्रापयिष्याम्यहं मन्दधीः६४
कुरुपतिर्मामकीनैर्हि युत्कौशलै रचितवान् संगरं भीषणं पाण्डवैः ।
अहमहो शत्रुपचं यदि ह्याश्रये सुहृदसौ किं कृतघ्नं न मां मस्यते ॥६॥

चतुर्दशः सर्गः] स्थितवता नापि साम्राज्यसिंहासनेऽमितसुखं चान्वहं साधु सम्भुज्यते । विरहता कौरवेशं मयाऽऽश्रीयते नृपतिपीठं तदा दुर्यशः प्राप्यते ॥६६॥ उपनते युद्धकाले यदा चेदहं दलमिदानी भजे पाण्डवीयं तदा । नृपगणो भीतिमन्तं रणापद्रुत मनसि नैजेऽवधास्यत्यवश्यं नु माम् ॥१७॥ धनुरिद गाण्डिवं बिभ्रदेषोऽर्जुनो भयमितः कर्णतो राज्यलोभेन तम् । निजदल चानयच्चेति वा मस्यते जनतया हन्त तेनायशः स्याद् द्वयोः८ तव गिरा चेदह पाण्डुपुत्रो भवन् नरपतेः पीठमेतर्हि चेदाश्रये । नृपतिवृन्द ध्रुव मस्यते स्वे हृदि परमनीच महालोभिन मां तदा ॥६६॥ व्यतिगत नैव चिन्त्यं त्वयाऽन्त शाऽभिमतमेवास्ति ते मामुपालम्भसे। कथमहो पूर्वतो यद्धि निर्धारितं भगवता किं हि तद् व्याहत स्याद्भुवि । मधुरिपो त्वं हि सर्वासुभृञ्चालक; क इह जीवस्त्वदाज्ञापहन्ता भवेत् । परिजहन सन्धिवाता विधत्तां तथा रणनिनादो यतः स्यात् समुज्जृम्भितः दनुजसंभूतिजाः मानवा भूतले क्षितिपवंशं समाश्रित्य चोत्पेदिरे । रणहतांस्तान् विधायाशु नाकस्थितान् भवगतिः संविधत्तां भवान् सत्वरम् न हि भयं मेऽर्जुनाद् भीमसेनात्तथा विजयमाप्स्यामि नूनं भवांश्चेद् यदा । परिहरेत्पाण्डवानां दलं वाऽऽश्रयेद् व्रतमुदासीनताया द्वयोः पक्षयोः ।। इह रणे स्याद् ध्रुवं पाण्डवानां जयः प्रभुरमीषां यतस्त्व हि पक्षे स्थितः । भगवदादिष्टकृत्य च यत्पूर्वतः भवति का प्राणधारी विहन्तुं क्षमः।।१०४ मरणतो भीतिरास्ते न मे काचनार्जुनशरान्मृत्युमाश्याम्यहं तेऽग्रतः । द्रुपद्जो द्युम्नको धृष्टपूर्वः प्रभो युधि भविष्यत्यसौ द्रोणहन्ता ध्रुवम् १०५ वत शिखण्ड दधानं विधायाग्रतो निधनमानेष्यते भीष्ममेषोऽर्जुनः । कुरुपति धाराष्ट्र सह भ्रातृभिर्गमयिता भीमसेनो यमस्यालयम् ॥१०६, [पर्णार्जुनीय मम मनः प्रेक्षते नर्तनं भीषणं प्रधनचण्डीकृतं दुष्टराजान्तकम् । तव कपातोऽवशिष्टा भवियन्ति ते सुकृतपक्षस्थिताः पाण्डवाः केवलम् ॥ इदमये प्रार्थये त्वत्पदाब्जे नतो वदतु मवृत्तमेतन्न धर्मात्मजम् । स शृणुयाच्चत्तदा मह्यमेवापयेद् भुवनराज्यं प्रतीतिर्मदीयेदृशी ॥१०॥ प्रतिकृतज्ञत्वभारेण चास्म्यानतः कुरुपतेस्तेन लब्ध खसिंहासनम् । ध्रुवमहं त्वर्पयिष्यामि तस्मै ततो महदनर्थत्वमायादियं मेदिनी ॥१०६।। नृपपदस्योपयुक्तो न दुर्योधनः परमनीचोऽस्ति धर्मप्रतीपस्थितः । भवतु सम्रा धरित्र्याः स्वयं धर्मराण मुदमवामोतु तेन प्रजामण्डलम् ।। प्रधनहेतुं प्रधानं किमेतं जनं निरदिशस्त्वं सतां सर्ववित् सम्मतः । जगदिदं चालयन् प्राणिनां सर्वदा हृदयदेशेवशेषेषु संराजसे ॥१११॥ वयमिमे यन्त्रसाम्य भजामः समे त्वमसि यन्त्री जगत्पुत्तलीनर्तकः । अभिमतस्यात्र संसाधनाथ हि ते जगति नः केवलं विद्यते सम्भवः ।। मम हृदाविध्यते सूचिकानां शतै पदपुत्री कुवाच्येन संपीडिता । नृपतिपाण्डोः सुताश्चापि दुर्योधनप्रणयलोमेन दुर्वाक्यवाणार्दिताः ।। त्वमखिलप्राणिनामन्तरात्मालयेष्वसि भवन्तं समर्श किमावेदये । मयि दया संविधेया त्वया चेदृशी निजकृतात्पातकान्मे विमुक्तिभवेत् ॥ भगवदालिङ्गितो रोरुदावानयं निजरथे संस्थितः स्वालय प्रस्थितः। . गरुडकेवाज्ञया सोऽपि सर्वेश्वरो नृपबेराटस्य वव्राज सत्पत्तनम् ।।११५ वंशध्वंशभयेन धर्मतनयः सम्प्रेरयन्माधव प्रामान पञ्च वताधिगन्तुमसको दुर्योधनस्यान्तिकम्। दूतः सन्धिकृते भवन् स भगवान् वैल्यमासादय- भायातश्चिखिदुस्तदाऽधिहृदयं श्रीधर्मराजादयः ११६॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकाव्ये चतुर्दशः सर्गः समाप्तः

अथ पञ्चदशः सर्गः
संग्रामं ध्रुवमवगत्य वीरमाता श्रीकुन्ती मिलितुमियेष पुत्रकर्णम् ।
अन्योऽन्य बहुश इहानयो निरीक्षा सम्पन्नाऽभवदुभयोन किन्तु वार्ता १
अद्राक्षीनिजजननीं यदैव यत्र प्राणसीनतशिरसा तदैव कर्णः ।
स्नेहेन च रितपयोधराऽपि माता त दृष्ट्वा प्रवचनमाशिषां न्यगादी ॥२॥
दुर्भाग्याद्धृदयमिव द्वितीयमेनम् आलिङ्गन्नहि जननी जनापवादात् ।
मातुः सोऽपिचचरणौ समानतः सन् वैश्याद् गलितमना न वा चुचुम्बा, ३॥
सामीप्ये सुनिवसतः स्म मातृपुत्रौ मध्यस्थोऽभवदिव भूधरो हिमानाम् ।
पार्थक्यादपि तनुतोऽनयोनचासीद् विश्वस्मिन्नसुखदहार्दिकान्तरालः ॥४
पञ्चानां तनुजनुषां द्विसप्तकेभ्यो वर्षेभ्यः शुभमुखदर्शन विधातुम् ।
श्रीकुन्ती परमसमुत्सुका परन्तु श्रुत्वा तां गिरमिह सामरी चिखेद ॥५
युभीमा परिण तेमाकलय्य मातुर्मुग्ध हुन परमविषण्णतां प्रपेदे ।
युद्धेऽस्मिन् भवति जय पराजयो वा कस्येतन हि सुविवेद कोऽपि विद्वान्
श्रीकृष्णस्वधिगतयुद्धसन्निदेशं वीराणां प्रसवित चाप्यदः कठोरम् ।
संग्रामं रचयितुमुत्सुकं जनन्याः स्नेहाद्रं हृदयमनिष्टमाशशङ्के। ७॥
शूराणामुभयदलान्तरस्थितानां सर्वेषां युधि च बलाबल स्मरन्त्या।
सर्वेऽपि प्रसृमरकीत्तयो वरेण्या योद्धारो नयनपथ समीयुरस्याः ॥८॥
स द्रोणः सवपपितामहस्तथाऽन्ये नातन्वन् प्रवरभयं तदन्तरङ्गे।
एक तं तरणितनूजमेव कर्ण सं मृत्याभवदियमार्तिभृद् विषण्णा ॥ ६ ॥
द्रोणो वा रणचतुरः पितामहो वा तन्वाते प्रणयमनारतं सुतेषु ।
सत्प्रीति नृपतिसुयोधनस्य वाञ्छन् सनूनामसहरणेऽलमस्ति कर्णः ॥१०॥

[कर्णार्जुनीये कार्य तद्धथपरमतोऽस्ति किं नृशंसं यद् भ्राता प्रियनिजसोदरान निहन्ता । नैवास्ते भुवि विषयेऽत्र कर्णदोषो जानामि स्वकृतमहाग एव हेतुम्॥१॥ आत्मानं निजहदि वेत्त्यसौ तपस्वी राधेयं ह्य धरथसूतपुत्रमेव । तद्गत्वा सपदि तदीयपार्श्वमद्य तस्मै स्वं परिचयमर्पयामि सत्यम् ॥१२ सम्बोध्यावितथवचो विहाय लजां स्वीयां तन्निकटमुपस्थिता भवन्ती । सत्स्वान्तैर्विरहितबन्धुभिः स्वकीयैर्जातं तं ध्रुवमहमद्य मेलयिष्ये ॥१३॥ एतत् स्वे मनसि विचिन्य वीरमाता वैदु-निलयनतो विनिर्गता सा । सर्वेषां नयनपथं च वञ्चयित्वा स्वीयानां सचकितनेत्रमुच्चचाल ॥१४! सच्छुभ्रं परिदधती दुकूलमेकं श्वेतेनापरवसनेन गुप्तदेहा । सन्तप्ते दिनमणिदीधितेः प्रतस्थे सत्कूले सुरसरितः पदातिरेषा ॥१॥ उत्साहो मनसि विवर्द्धयत्यमन्दमानन्दं सुतमिलनार्थलब्धजन्मा । वक्षोजक्षरितपयोऽपनोदयन् या ह कम्पो जनयति खेदमप्यनन्तम् ॥१६॥ मां कश्चित् किमिह नु पश्यती ते भीत्या तिष्ठन्ती वत परिवृत्य शङ्कमाना । आयान्ती विविधविचारसिन्धुमना दृष्ट्वा स्वं तनुजनुषं प्रसादमापत् ॥१७॥ शालाभावुपरि मुमुत्थितौ विशालावुष्णांशोर्निजमसृणौ करौ प्रसन्ना । स्तुत्यर्थं विदधतमेनमान्मपुत्रम् संदृश्यातिशयमुदा ययौ च तस्थौ । १८॥ सौवर्णे सुरुचिरकङ्कणे दधानं कौशेयं मृदुतरपीतवस्त्रयुग्मम् । शोभाढ्यामतिविमलां च वज्रमाला प्रासीदत् किल जननी विलोकयन्ती विस्तीर्ण कवचविभूषितं ह्य रोऽस्य हृच्चौरं कुलिशकठोरकन्धरं च । भूषे च क्षरितसुधे श्रवास्थिते द्वे आलोक्य प्रमुदितमानसा बभूव ॥२०॥ तिग्मांशो: किरण नेपातनातदीयं संरेजे वरमुखमण्डनं प्रदीप्तम् । शाखाम्या सुमसृणहेमनिमिताभ्यां संयुक्त पर इव भूरुहे दिनेशः ।।२१।।

पञ्चदशः सर्गः] सर्वस्मानिजमनसो निरुध्य वृत्तिमेकानां विदधदयं प्रयत्नवर्जम् । कञ्जामं नययुगं च मुद्रयित्वा गायत्रीमनुमिह संजपन् रराज ॥२२॥ अघिभ्यामतिशयकोमलामलाभ्यामायाता ह्यभवदियं विषण्णभावा । प्रस्वेदैः खतनुसमुद्गतैः प्रकामं स्विन्नाऽऽसीज् जरयातिजीर्णदेहा ॥२३॥ छायायां तनुजनुषोऽतिनिःश्वसन्ती स्वश्रान्तेरपनयने कृतप्रयत्ना। कारुण्याद् गलितहृदा प्रतीक्षमाणा संतस्थे मनुजपनान्तकालमस्य ॥२४॥ ईशोऽह्वां निजकिरणैः प्रताप्य शीर्षमारेभेऽसुखयितुमस्य पृष्ठदेशम् । ज्ञात्वैतत्तदनु निवर्तिताननस्य पूज्याया उपरि सुसंपपात दृष्टिः ॥२५॥ साश्चर्य सवित पुतो निरीक्ष्य कुन्ती तामम्बां प्रति नतकन्धरोऽञ्जलिं स्वम् । आवद्ध्य प्रणयगिराईचित्तवृत्तिाजह वचनमिदं स हेतुगर्भम् ॥२६॥ राधेयोऽधिरथजनिश्च सूतवंशे संभूतः प्रणतिततिं ब्रवीमि नीचः । त्वं माता कुरुकुलजातभूमिपानामागत्याः किमिह निदानमस्ति तेऽध२७ श्रुत्वा तत्प्रणतिवचो विलजमाना कुन्ती स्वं नयनयुगं चकार भूमौ । विक्रान्तं नरवरकर्णमेनमेषा सद्वाचं गदितुमथ प्रवर्त्तते स्म ॥२८॥ हे प्रेयः पुनरपि नैव वाच्यमित्थमुत्पत्तिर्न हि तव नीचसूतवंशे । अद्याहं विदितचरी जनुःप्रवृत्तिं सत्यां ते पुरत इहागतास्मि कर्तुम् ॥२६॥ कन्याऽऽसं पिनिलये निजे वसन्ती दुर्वासा मुनिवर पागतः कदाचित् । तं नित्यं निरलसमङ्ग सेवमाना सन्मन्त्र मुनिकृपयैकमध्यगच्छम् ॥३०॥ तन्मन्त्रातिशयशुभप्रसादजन्यं जन्माभूद् दिनमणिदेवसंगमात्ते । मत्कुक्षेस्त्वमयि विनिर्गतोऽसि पुत्र सन्देहोऽणुरपि न चात्र संविधेयः ३१ अज्ञानादधमसुयोधनस्य शिक्षा दुर्बद्धः परिणतिदुःखदा विमत्य । भ्रातृभ्यो विनतसहोदरेभ्य एभ्यो विद्वेषं त्यजतु भवांस्तु पाण्डवेभ्यः३२ १५ . [कर्णार्जुनीये त्वां सर्नेऽवदधतु चाद्य पाण्डुपुत्रं कौन्तेयं न हि वत सूतवंशजातम् । ज्यायांस्त्वं सकलसुतेषु मामकेषु साम्राज्यास्पदमधिगत्य भुव भोगान्।। राधाते न हि जननी कदापि, कुन्ती माताऽस्मिञ्जगति जनिप्रदातृकाऽस्मि पुत्राणां परमहिताऽस्ति चैकसेवा वाक्ये समुपनते मता स्वपित्रोः ॥३४ एह्य हि द्रुतमयि जात बान्धवैः स्वैः संमिल्याऽमितसुखभोगिनी कुरुष्व । मां स्नेहात् पुलकितसर्वगात्रयष्टिं वृद्धाया मम वचनं वृथा न कुर्याः ॥३५ भोज्यान विविधरसाढ्यचोष्यलेह्य सुस्निग्धं सुत परिविष्य भोजयन्ती । षड्-भात नहमुपवेश्य चैकपङ्क्तावानन्दं तव दययैव संभजेयम् ॥३६॥ कुन्त्युक्तं निखिलवचोऽस्ति सत्यमेतत् सम्मान्यं तव हितदं च सर्वथैव । सौख्याप्तिः प्रभवति मेऽस्य पालनेन वागेषा दिनमणिमण्डलादुदञ्चत् ३७ मात्रुक्तां दिनकरमण्डलाच वाचमायान्ती श्रुतियुगलेऽमृतं चरन्तीम् । आकाभवदयमुत्थवाष्पराशिः स्वे नेत्रे सपदि विमृज्य तां न्यगादीत् ॥ देवि त्वं वदसि तदेतदस्ति सत्यम् एष स्यां तव तनुजो न मेऽप्रतीतिः । नावेदीस्त्वमिदमम्ब भीमसेनः सौतिं मां सदसि यदायु दाजहार ॥३६॥ त्वं चासीः परिषदि तत्र विद्यमाना तिग्मांशुर्नभसि च वर्तमान आसीत् । एतस्मिन् ववसर आगते युवाभ्यां ज्ञात्वत्तं कथमिव मौनमाललम्बे ४० न त्वं वा न हि च दिनेशमण्डलं वा चक्षाथे यदहमये न चास्मि सौतिः। उद्योगादपि शतशश्च सत्फलाढ्य आस्ते कि समयमतीत्य बीजवापः ४१ दृष्टौ ते जननि मृतिं गतोऽहमस्मि नोदासीदहह दयेषदप्यबोधे । बालेऽस्मिंस्तव मलमूत्रनिर्विशेषो निःस्नेहात् पयसि विसर्जितो वराकः ।। श्रात्थ त्वं न हि जननीं ब्रवीतु चैनां पोषं या स्तनपयसा च मामनैषीत् । किं कृत्यं तनयहितं त्वया व्यधायि येन स्यां तव वचनं हि मन्यमानः ४३

पञ्चदशः सर्गः]
११५
स्वं कार्य ह्यफलितमाकलय्य चित्ते हन्त त्वं वदसि तनूजधर्ममद्य ।
कर्त्तव्यं निखिलमिहास्ति पुत्रकाणां मातृ णां न भवति किन्तु नैजधर्मः ॥
क्षिप्त्वा मां पयसि तु देवि राजमानात् सत्कीर्तेरपि नृपसंस्कृतेर्निपात्य
वार्थानामिह हि सुसाधनार्थमुत्का सन्मैत्रीमुपदिशसि समेत्य नैजपुत्रम् ४५
नोद्वाहोऽभवदयि राजकन्यकाभिर्नाध्यस्तं वत नरराजसिंहपीठम् ।
छत्रं वा सितमथ चामरे च शुभ्रे त्वद्धतोरधिगतवानहं न मातः ॥४६॥
पश्चाहं समरकृतेऽवशिष्यतेऽद्य सम्प्राप्ता कथयसि मेलनस्य वार्ताम् ।
निःस्नेहा त्वमयि विधाय पुत्रघातं कत्तुं मामुपदिशसीह मित्रघातम्॥४७
यत् सौख्यं बहुविधमस्ति राजयोग्यं सम्मानं नरपतियोग्यमप्यनन्तम् ।
भोगानां शतमुपभुज्य युद्धकाले भ्रातृणां शरणमुपैमि किं कृतघ्नः ॥४८॥
स्यादेवं मदुपरि मानिनो मनुष्या राजानः समरमुपागताश्च सर्वे ।
सावसं वत रजसां निपातनं भोन्यकारान् विदधत उग्रमाचरेयुः ॥४॥
संसारेऽर्जुनवरवीरता प्रसिद्धा गाण्डीवं धनुरसको दधात्यमोघम् ।
स्पा मां प्रति कुरुते रणे सदैव श्रीकृष्णः प्रभवति तत्सहायकश्च ॥५०॥
संग्रामं यदि समयेत्र संत्यजेयं तजिष्णोः परमपराक्रमस्य सूनोः ।
वीरा मां भयवशवर्त्तिनं विदित्वा मंस्यन्ते समुपगतं विपक्षपक्षम् ॥५१॥
तस्मात् स्याद् यदि च सहोदरोममायंगाण्डीवी त्वमपि च जन्मदा मदीया
संग्रामे ध्रुवमहमर्जुनादिवीरान् स्वभ्रातृन् युधिसमुपस्थितान् हनिष्ये।।५२
मात्राज्ञाप्रतिहतिदोषभाग भवेयं बन्धूनामपि वधजमहैनसां च भागी।
मातस्ते चरणमहं शपामि, किन्तु नाहं भो विपदि जहामि धाराष्ट्रम्५३
इत्थं संगदितवतोऽस्य वक्त्रकञ्ज रक्ताभं भ्रुकुटिविलासदीप्तमन्यु ।
दुर्दर्श तरणिकराञ्चितं विलोक्य मताऽवाक् सपदि भयानता बभूव ॥५४॥

११६ [कर्णार्जुनीये पश्यन्ती धरणिमिमां तथा च दृगभ्यां मुञ्चन्ती ह्यसकृदियं कदोष्णमश्रु । आहेनं पुनरपि सा क्षणं विचिन्त्य माकार्षीः प्रिय सुत मामये निराशाम् स्वौ कौँ सुपिहितवांस्तदैव कर्ण आकालपितमिदं स चाह भूयः । मावादीरिति वचनं हि मत्समक्षं नाकार्ष कमपि समर्थितो निराशम्॥५६ संग्रामे समुपगत धनञ्जयं हि संहन्यां किमुत स एव मां निहन्यात् । नान्येषां तनुजनुषांतवास्तिभीतिस्तान् प्राप्यापि च न निहन्मि वच्मि सत्यम् मातस्ते जगति तथाप पञ्च पुत्राः स्थास्यन्तीति न वचनं मृषा मदीयम् । देवि त्वचरणसरोरुहं प्रपद्य संयाचे प्रणयवती मयि प्रसीद ॥१८॥ श्रुत्वा कर्णमुखाद् विनिर्गतमिदं सत्यं वचः सा पृथा स्वाशिःसंवलितैर्वचोभिरसकृतं ह्यभ्यनन्दन्मुदा॥ प्रोद्यञ्चण्डसहस्रदीधितिकरैःसन्तप्ततीरात्ततो गङ्गायाः पुनरागता स्वनिलयं केनाप्यदृष्टा सती ॥ ५ ॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकाव्ये पञ्चदशः सर्गः समाप्तः अथ षोडशः सर्गः श्रीनारदश्च विदुरोऽप्यथ भार्गवश्च द्रोणः कृपश्च धृतराष्ट्रनृपश्च भीष्मः । युद्धं निरोद्धुमसकृन्मुनयस्तथाऽन्ये दुर्योधनं बहुविधं समशिक्षयन्त ॥१॥ निर्धारितं भगवता परमेण पुंसा यत्तद् विहन्तुमिह को मनुजः क्षमेत । प्रायोऽनुधावति सतामपि चित्तवृत्तिहित्वा प्रयत्नमखिलं भवितव्यतां हि ॥२ ११७ पोडशः सर्गः] केषाञ्चनापि नृपतिः परिबोधवाक्यं नासावमन्यत मदापहृतान्तरात्मा। कर्णस्य विक्रममनारतमस्य चेतः संस्मृत्य नैजविजयं परिमन्यतेस्म ॥३॥ तं निश्चित समयमागतमाकलय्य वीरा दलद्वयत एव हि संगरस्य । क्षेत्रे कुरोरुपगता अवलम्बमानाः स्वं स्यन्दनाश्वगजसङ्घमथास्त्रशस्त्रम् ४ अक्षौहिणी कुरुपतेरिह रुद्रसंख्या सप्तैव राजति चमूस्तदजातशत्रोः । सेनाद्वयी वितनुते स्म समग्रपुंसां संविभ्रमं जलनिधेः श्रितवाडवाग्नेः ॥५ पुत्रो वृतोऽस्ति नृपते? पदस्य धृष्टद्युम्नाह्वयः सकलशूरवराग्रगामी । द्रोणाहतिस्त्विह तदीयकरण नूनं संपत्स्यते विधिविदः प्रवदन्ति यस्मात् किन्त्वेष यः सकलशत्रुदलापहन्ता भीमो बभूव बलतोऽपि च नामतश्च । यौधिष्ठिरप्रधनपक्षसमाश्रितायाश्चम्वाः प्रधानपतिकः स नियोजितोऽभूव७ दुर्योधनेन कुरुवृद्धपितामहोऽसौ भीष्मो व्यधायि निजसैनिकवर्गमुख्यः । नाम्नैव यस्य समरस्थितमानवानां वज्रायितानि हृदयान्यपि कम्पमापुः८ भीष्मोऽभवत् प्रमुदितः परमं परन्तु सुस्पष्टमाह वचनं नृपधाराष्ट्रम् । पृष्टस्तु पाण्डवदलेन हिताहितं स्वं वक्ष्ये यतो हि निखिलाअपि मत्प्रिया स्थ सेनापतेस्तु न हि योग्यमिदं यदेष संश्रावयेद् युधि सपत्नहिताहितानि । छिद्रं स्वकं न कथयेत् कथमप्यरिभ्यस्तेषामनिष्टमपि नैव निवेदयेच्च१० भाग्यं बलीय इति हन्त सुयोधनेन भैष्म वचोऽहितकरं तदपि प्रपेदे । प्रायो नृणां निकटवर्तिविनाशकाले मुह्यन्ति यान्ति मलिनत्वमहो मनांसि ये प्रायशो नरवराः पतयो ध्वजिन्या दुर्योधनस्य नृपतेह दयानि तेषाम् । कल्याणसाधनपराणि हि पाण्डवानां देहास्तु कौरवहिते निरता अभूवन् देहस्य चेन्द्रियगणस्य च नर्तकं हि सर्वस्य जन्तुनिवहस्य मनः प्रदिष्टम् । बच्चेद् विपक्षवशवर्चि भवेचदानीं राज्ञो हितं शशकङ्गविषाणतुल्यम् १३ [कर्णार्जुनीये सेनाधिपः सकलवीरवरेषु धुर्यों भीष्मोऽब्रवीदयि सुयोधन कर्ण एषः । चे स्थास्यतीह कुटिलो मम सैनिकेषु नाहं कदापि शृणु भो प्रधनं विधास्ये नाय शृणोति किमपि स्वबलावलेपान्मत्कं सदैव वचनं सुविमन्यते च । हेतोरतः प्रथममेष करोतु युद्ध किं वाऽविनीतहृदयः किल मत्परस्तात् १५ रोषावरोधनपुरस्सरमेष कर्णः शुष्क विहस्य निजकञ्जकरौ निबध्य । ऊचे, पितामह भवानयि पूर्वमेव संयुध्यतां तदनु युद्धमहं करिष्ये ॥१६॥ उत्साहनाय रथिनाच महारथानां स्वं पक्षमास्थितवतां नरपुङ्गवानाम् । जिज्ञासितः कुरुकुलस्य नृपेण भीष्म एकैकशोऽस्य निकटे गणयाश्चकार ।। काणांश्च संगरगतानपि पुत्रपौत्रान् मध्ये ह्यजीगणदसौ खमहारथानाम् । किन्तु क्रुधा ज्वलितमानससौम्यवृत्तिः कर्णं निरीक्ष्य तु वताईरथं तमाह सेनापतिनिजशताधिकवाक्यवाणैमर्मन्तुदैः प्रहृतवान् वसुषेणमेनम् । ताम्राक्षतामुपगतोऽपि च मन्युवेगात् सेहेऽखिलं वसुहृदो हितभङ्गभीत्या आशृण्वतामखिलवीरमहारथानां शूराग्रगण्यपुरुषस्य तथाऽपमानः । नैवोचितः परमसौ न तमाह किञ्चिद् वृद्धप्रवृत्तिरिह नैव विचारणीया २० दुर्योधनः कुरुपतिगृहयुद्धभीतो बद्धाजलिविनयगर्भवचः प्रयुञ्जन् । भीष्मं च कर्णमपि सत्वरमानिनाय शान्ति रणाजिरगतो निजमङ्गलेच्छुः ।। आयोधनेत्र परितोऽप्युपज़म्भमाणे स्वीयां प्रतिश्रुतिमसावनुसृत्य कर्णः । ताटस्थ्यमाप शिविरे न्यवसत् स्वकीये मन्त्रौषधिप्रहतवीर्य इवाहिराजः॥ वीराग्रणीरनुपमो रणरङ्गधीरो ताटस्थ्यभृत् परपुमानिव दर्शनार्थी । युद्धस्थलं समुपगत्य यदा कदाचिच्छन् निरीक्ष्य परिगर्जत आप खेदम् तालस्वरानुसृतसल्लययुक्तवाद्यग्रामेषु मूर्छनशतं परितो ध्वनत्सु । नामोति चेदवसरं निजगेयगीतेश्चेखिद्यतेऽधिहृदयं हि यथा कलाकृत् ।२४

षोडशा सर्गः]
११६
सद्व्यञ्जनाञ्चितसुभोज्यपदार्थसत्त्वेनामोति चेद् यदिबुभुक्षितमानवोऽनम्
किं वा पिपासितनर सरितः सुराणानेष्टे ग्रहीतुमधिगत्य च बिन्दुमेकम् ।।
संग्रामवाद्यनिवहेषु नदत्सु तद्वच्छूराग्रगो नहि य आहवमातनोति ।
मर्मव्यथं स्वहृदि दुःखमनन्तमाप्तः सन्तिष्ठते हरिरिवायसशृङ्खलस्थः ॥२६
भावान् विपक्षविजयाय रणोद्गतान स्वान् संरुध्य युद्धविमुखः प्रबभूव कर्णः
स्वीयं प्रसह्यमपमानमयं सहित्वा दुर्योधनस्य सुहृदः प्रियकृद् बभूव २७
स्वानुष्ठितां समनुसृत्य किल प्रतिज्ञा भीष्मो महामहिमविक्रमशालिधुर्य्यः
संयाति यत्र दिशि संगरमाचरिष्णुस्तामेव शात्रवबलै रहितां चकार ।२८॥
स्वं मूलकैश्च मृदुगृञ्जनकैश्च तुल्यं चेच्छिद्यमानमिह भीष्मपितामहेन ।
लक्ष बलं प्रतिदिनं प्रविलोक्य राजा कुन्तीसुतस्तु समवाप विषादमन्तः
श्रीदेवकीतनयसम्मतिमाप्य धर्मसूनुः पितामहमुवाच नतेन मूर्ना ।
हे माननीयवर कौरववंशवृद्ध त्रैलोक्यवीरम हितोऽसि भवान् न चान्या३०
त्रिःसप्तवारमनृपं भुवनं व्यधाद् यो रामः स्वयं परशुभृत् स्वगुरुस्त्वयैव ।
संस्तुत्यसामरिकमात्मवलं प्रदर्श्य सन्तोषितो जगति संगमीहमानः३१
स्वब्रह्मचर्यमहसा समुपार्जितेन यस्यागमत् खलु यमोऽपि वशम्वदत्वम् ।
तंचोग्ररूपमिह संयति धारयन्तमीशोऽभिगन्तुमपरस्तु जगत्त्रये कः॥३२
स त्वं प्रसीद भगवन् स्वयमेव नैजमृत्योरुपायमुपदिश्य कृतार्थयस्व ।
आपद्गतः प्रणतपाल जनोऽयमन्यं धर्मस्य रक्षणकृते कमुपाश्रयेत ॥३३
भीष्मोऽवदद् य इह चास पुरा वत स्त्री पुत्रत्वमाप नृपतेढुं पदस्य यश्च ।
कृत्वाऽग्रतस्तमिममद्य शिखण्डिनं हि संयुध्यतां सह मयाऽमरनाथसूनुः।।
एवं कृते-हमपहाय निजास्त्रशस्त्रं स्थास्याम्यखेदमनुसृत्य निजां प्रतिज्ञाम्
मत्कातिश्रुतिवचः परिरक्षयन्तं कृष्णं ममाभिमुखमानयताऽर्जुनेन ॥३५॥

१२० [कर्णार्जुनीय घानिष्यतेऽधमशरीरभृदेष वैरी नान्योऽस्ति कश्चन मदीयवधस्य पन्थाः। इत्यादिशामि निजपूर्ववचोऽनुसृत्य कल्याणमीप्सुरचरं भज मनिदेशम् ॥ भैष्मी गिरं सपदि ता प्रतिपद्यमानः कुन्तीसुतो द्रुपदपुत्रशिखण्डिनं हि कृत्वा पुरोऽमरपतेस्तनुजः स भीष्मं हा हन्त हन्त विगतोत्रमशाययत् तम् ऊर्जस्विगाण्डिवधनुर्निसृतैनिशातै राचकैः कुलिशव कठिनैरसंख्यैः । रेजे वपुः कुरुकुलेन्द्रमहारथस्य भुव्यंशुकोटिभिरिवाचितमैनविम्बम्।।३८॥ श्रीशन्तनोर्निजपितुर्वरदानतोऽयमिच्छामृतिं ह्यधिगतः शितवाणशय्याम् प्राप्तोऽपि वीरपुरुषो न ममार भीष्मो दिग्वासरानुपरराम निहत्य शत्रून् पन्थानमाश्रितवता युदधर्मपूर्ण कुन्तीसुतेन वत कायरतां गतेन । भीष्मं रणाङ्गणशयानमवेत्य कर्णो मर्मान्तदुःखमसको मनसि प्रपेदे ॥४० स्वीय ततः शिविरमेष विहाय तूर्णं मुश्चन् व्यथातिशयतोऽविरताश्रुधाराम् धावंश्चचाल परिवन्धपितामहस्य सन्दर्शनाय रणरङ्गमहीं गतस्य ॥४१॥ यो मानवेन्द्रदनुजेन्द्रसुरेन्द्रसधै योधनेषु मिलितैरपि निर्जितोऽभूत् । स्वार्थान्धबुद्धिमिरिमं हि पृथातनूजैर्धर्म समुझय विनिपातितमालुलोके ४२ संवेष्टितं परिखया परितो महत्या संसेवितं बहुबलैरिह पङ्क्तिबद्धैः । शस्त्रास्त्रभृद्भिरनुविद्धमसंख्यवाणैर्ध्याने रतं भगवतः परमस्य पुंसः ॥४३॥ कण्ठेन गद्गदरवेण दुरन्तदुःखादाह स्म भो कुरुकुलेश्वर तेऽप्रियोऽहम् । राधेयसूततनयो वसुषेणनामा त्वत्पादयोः स्वसकिरीटशिरोऽर्पयामि । ४४ सूर्यो यथा प्रसृतदीधितिरप्रमेयः पूर्णों यथा त्वथ च शारदशर्वरीशः । पृथ्वीं गतो लसति तद्वदयं महात्मा ध्यानस्थितः स्वनयने उदमीलयच ।। उन्मील्य नेत्रयुगलं कुरुवंशवृद्धभीष्मेण संभृतसमाधिकयोगिनेव । कणों विनीतहदयोमहतोऽऽ दरेख हग्भ्यामपीयत चिराय पिपासिताभ्याम् १२१ षोडशः सर्गः] प्रेमाश्रुवृन्दमभितः परिवाहयन् स्वं स्वीयेङ्गितैः प्रहरिवर्गमपास्य दूरम् । एकान्तमाप्य तु तदा स महानुभाव प्रात्यन्तिकप्रणयपूर्वकमाह कर्णम् ॥ आलिङ्ग पुत्र वसुषेण दृढं ममाङ्गमाप्यायितं कुरुमहाव्यथयाऽभ्युपेतम् । त्वामध साधु सुपरिष्वजतो ममान्तर्दाहश्चिराय विलयं सपदि प्रयातु ४८ पूर्णाद्य चास्तु चिरसश्चितवासना मे त्वत्सुन्दराङ्गपरिरम्भणमीहमाना । इत्यादिशन् करुणया परया समेतोऽभ्यर्णं स कर्णमिममात्मन आजुहाव४६ तूर्णं ययावनुपितामहदक्षकक्षं कर्णस्तदा तमसकृत्स्वकरेण .भीष्मः । वामेन वक्षसि निजे परिरभ्य गाढं नेत्राश्रुवारिभिरसौ धरणीमसिञ्चत् ५० यद्वत् सवङ्गमशिशुर्निजमातृवक्षःश्लेषं समञ्चति तथैव दिनेशसूनुः । पर्यष्वजद्धृदयमस्य पितामहस्य खोष्णाश्रुविन्दुभिरसिञ्चदसावनस्पैः ॥५१ प्रोञ्छन् निजाश्रुनिवहं गलितं कथञ्चिदुत्थाय वारिजनिभेन परामृशत् सः। हस्तेन तत्सितशिरोरुहम शीर्ष नाराचसङ्घपरिभेदजशोणिताम् ॥५२ ऊचे पितामह इमं स सकण्ठकम्पमेतहि यत् त्वमयि मनिकटं प्रयातः । तेनास्म्यहं हि नितरां त्वयि तुष्टिमाप्तः पुत्र त्वया प्रियविधेयमनुष्ठितं मे ५३ एक रहस्यमिदमङ्ग शृणु प्रबुद्धो राधाजनिर्न हि भवान् न च सूतपुत्रः । कुन्तीसुतोऽसि दिनकुञ्जनकस्तवास्तीत्युक्त्वा पुरातनकथां कथयाञ्चकार५४ त्वं पाण्डुभूपतनयोऽसि ममासि पौत्रस्त्वं धर्मसू नुनृपतेः प्रवरोऽसि बन्धुः। सत्यं ब्रवीमि भवतोऽद्य समक्षमेतन्नास्ते मदीयवचनेऽनृतगन्धलेशः॥५॥ मत्तोऽधिकं च महता स्वपराक्रमेण त्वां वेम्यहं निखिलविश्ववरेण्यवीरम् विद्वष्टि नैव हृदयं हि कदापि मत्कं सम्मानमाचरति तेऽत्यधिकं प्रसीदव धर्मात्मशूरवरसत्यपराक्रमस्त्वं दानीश्वरो भुवनवन्धधनुर्धरश्च । तं मागधेश्वरमजेयमपि प्रयुध्य वीराग्रगण्यमपि निर्जितवांस्त्वमेव ॥५७॥ १६ १२२ [कर्णार्जुनीये एकस्त्वमेव किल दिग्विजयं विधाय सश्चित्य मेरुसदृशं च सुवर्णराशिम् । दुर्योधनस्य चिरवाञ्छितवैष्णवाख्यं यज्ञं फलाढ्यमकरोः स्वपराक्रमेण५८ ज्ञात्वा मया तव वतातुलबाहुवीयं यन्निन्दितोऽसि बहु तन्न मदीयमागः । चित्ते कुरुष्व, हितबुद्धितया जगत्या युद्धं निरोद्धुमनसा विहितं मया तत् प्राप्स्यन्न ते सहमतिं यदि कौरवेशः प्रारप्स्यतैष न रणं कुलधूम्रकेतुम् । तस्मात्तदीयसहयोगनिवारणार्थं पथ्यं वचोऽगदसमं कटुकं प्रयुक्तम् ॥६० त्वं वैरिमर्दनविधावसि कृष्णतुल्यो धर्मात्मनां धुरि सदैव हि कीर्तनीयः । निष्कल्मषप्रथितशारदपूर्णचन्द्रज्योत्स्नेव भाति भुवने तव शुभ्रकीर्तिः ६१ नोवाञ्छितं मम परस्परमस्ति युद्धं हन्त प्रसह्य तदिदं सहसाऽभ्युपेतम् । तत्राप्यहं प्रथमसंगरकर्णधारो दिष्टस्य दुर्विलसितं क इहावरुन्ध्यात् ॥६२ आयोधनक्रतुरयं सुसमाप्तिमेतु पूर्णाहुतिं मम हि केवलमाददानः । वृद्धोऽहमस्मि यमराजनिकेतनस्य श्वो वाऽद्य वाऽतिथिरवश्यमहं भविष्णुः सर्वे स्थ यूयमिह राजसुखोपभोगयोग्या ममास्य जरठस्य जहीत चित्ताम् । आश्लिष्य वाक्षसनिपीडनमद्य नूनं षड् भ्रातरो मिलत पाण्डुसुताःप्रसन्नाः स्फूर्जबलप्रबलशंबलमादधानाः सर्वे विपक्षनृपमर्दनतत्पराः स्युः । त्वं चार्जुनश्च मिलितौ भुवि किं त्रिलोक्यां शत्रूनलं हि निखिलानपि संविजेतुम् मोदान्विताः प्रणयपूर्वकमद्य सर्वे वैरं निरस्य मम सन्निधिमभ्युपेताः । धर्मप्रभञ्जनवृषामरवैद्यपुत्रास्त्वं च प्रसद्य मिलिताः सुखमर्पयध्वम् । ६६॥ युष्मान् निरीक्ष्य निखिलानिह चोपविष्टान् सौहार्द्रभावनिरतान् प्रमुदंप्रपन्नान् सन्तुष्टमानसिकवृत्तिरहं सुखेन त्यच्यामि नश्वरमिदं समये शरीरम् ।६७ त्वञ्चावलम्बनमये कुरुपाण्डवानां ज्यायांस्त्वमेव सकलादरभाजनश्च । सिंहासनं समधिगच्छ यशोलभस्व व्यर्थ कुरुष्व वचनं न कदापि मत्कम् षोडशः सर्गः] १२३ तां स्नेहभावसहितां महितां हितां च व्याख्याय वाचमखिलैरभिनन्दनीयाम् शुष्यद्गलः खलु बभूव पितामहोऽसौ वाचंयमत्वमपि हन्त ततः प्रपेदे ६६ पैतामहौ स चरणावसकृन्निपीड्य वन्द्यौ विनीतहृदयस्तमुवाच कर्णः । त्वं यद्धि कौरवकुलेन्द्र वचो ब्रवीषि तस्मिन् हितानि निहितानि हि मामकानि कश्चित्पुमान् स्वपुरुषार्थवलेन दैवं नासम्भवं भुवि विधातुमिहेश्वरः स्यात् एतत्समस्तनिगमागमतत्त्ववेत्ता विद्वत्समागमरतोऽत्रभवान् सुवेद ॥७१॥ इन्द्रात्मजेन सह योद्धमहं प्रतिज्ञां कृत्वा ततोऽद्य विरतिं कथमाश्रयिष्ये। प्राणप्रदानपणतोऽपि सुरक्षणीया स्वीया प्रतिश्रुतिरिति क्षितिपालधर्मः ।। जानेऽर्जुनं नहि विजेतुमहं समर्थ कृष्णो यतोऽस्ति भगवान युधि तस्य गोप्ता ज्ञात्वापि कारण मिदं मम चित्तवृत्तिरुत्साहभङ्गमधिगच्छति नाणुमात्रम् ७३ भीतिर्न मेऽणुरपि पाण्डवपक्षगेभ्यो नैवार्जुनादपि तथा यदुनन्दनाद् वा । किन्त्वस्त्रशस्त्रमहमय तदा ग्रहिष्ये आज्ञापयिष्यति भवान् यदि मां प्रसन्नः श्रीमत्पदाब्जयुगलं प्रणिपत्य भूयो भूयो निवेदयति दासजनस्तवायम् । आदिश्यतामिति रणाय वचः प्रयुञ्जस्तत्पादयोः पुनरसौ स्वशिरोन्यधत्त आकर्ण्य कर्णवचनं परिमुञ्चताऽश्रूण्याकृष्य सूर्यतनयं परिरभ्य दोाम् । ऊचे वचोऽहमपि तात नवेशि नैतद् रोद्धन कोऽपि पुरुषः प्रधन समर्थः युद्धेऽत्र जागतिकवीरवराः असंख्या नूनं रणाग्निषु नृपाः शलभायितास्ते यास्यन्त्यमून् सुविरहय्य सुरेन्द्रलोकं सर्वासुचालकसमीहितमेतदेव । त्वं याहि वीर समरे विजयस्व शत्रून् एधस्व शस्त्रपरमास्त्रसमन्वितः सन् । क्षात्रं समाश्रय हि धर्ममनुत्तमं स्वमाज्ञापयामि मुदितो न भजस्व चिन्ताम् सर्वस्वमस्तिभगवान् वसुदेवसूनु कृष्णो यथाऽत्र हितकृद् युधि पाण्डवानाम् तद्वत् त्वमप्यसि सुयोधनपक्षगानामेकावलम्बनममङ्गलहत् समेषाम् ।।७।।

१२४
[कर्णार्जुनीये
सोत्साहमर्जुनमुपेत्य विधेहि युद्धं त्वन्मङ्गलं युधि भविष्यति नूनमेव ।
जित्वा रिपूनधिगमिष्यसि राज्यसौख्यं मृत्वाऽपुनभर्वपदं च निवर्त्तशून्यम्
धैर्य च शौर्यमतुलं बलपौरुषं च तेजस्वितां समवलोक्य मनस्वितां च ।
सूर्यः पिता समरमध्यमुपागतस्य दद्याजयं किमुत ते विमलं स्वरूपम् ८१
उक्त्वेति भाषितमृतव्रतधारिधुर्यः सद्ब्रह्मचर्यनिरतश्च पितामहोऽसौ ।
आघाय कार्णिकशिरो नितरांप्रसीदन् स्वाशीभिरर्चितमिमं व्यसृजद्र रणाय
प्राज्ञापितः स वसुषेण उवाच भूयो हे भारताभिजनविश्वनृपालवत्य ।
हेहे पितः पितुरपि प्रणतस्तवाधिं याचे प्रमादजनितं क्षमता ममैनः८३
उदीर्यकरुणान्वितो नयनवारिधारी वहन्,
वचः कृतप्रदक्षिणः पितृपितुश्च पादौ स्पृशन् ।
सुयोधनविपक्षिणामखिलभूभृतां मानिना-
मसुक्षयसमुद्यतः शिविरमायादसौ सत्वरम् ॥४॥
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये षोडशः सर्गः समाप्तः
अथ सप्तदशः सर्गः
महारथे सैन्यपतौ पितामहे सुरेन्द्रपुत्रणे रणे निपतिते ।
अनाथया कौरवसेनयाऽनया शुचो महत्यो विभराम्बभूविरे ॥१॥
ऋते बलीयोऽपि च सैन्यनायकं भवेन संयोद्धुमलं बलं कचित्
इति स्म चिन्ताशतमाकुला दधे सुयोधनस्यातिहता पंताकिनी ॥२॥
विभर्ति भैष्मीं समतामिहैककः स एव कर्णः प्रवरो न चापरः
यदाऽऽवजेदेष विपक्षदर्पहा तदास्मदीयं कुशलं न चान्यथा ॥३॥

सप्तदशः सर्गः.]
१२५
निशम्य सर्वध्वजिनीमुखस्थितं समाह्वयं स्वं शिविराद् विनिर्गतः।
स कर्ण आयोधनवैरिभीतिदं दधार वीरोचितवेषमात्मनः ॥४॥
उरःशिरोदोःप्रभृतिस्वविग्रहा-वनोपयुक्तं रणवस्तुसञ्जयम् ।
धनुः सतूणीरमथास्त्रशस्त्रकं दधन्निजस्यन्दनमास्थितोऽभवत् ॥५॥
सुदुस्सहैरात्मरथोत्थघर्घरस्वनैर्धरित्रीमखिला प्रकम्पयन् ।
युगान्तकालक्षयकारकान्तकोपमानतां विभ्रदसौ व्यराजत ॥६॥
रणार्थमायान्तमिमं महाबलं प्रसेदुरालोक्य निजा रणस्थिताः।
क्षिपन्त उच्चरिह वस्त्रमायुधं मुदान्विताः स्वागतमस्य चक्रिरे ॥७॥
स्वशङ्खमुच्च सरकौ निनादयन् विपक्षिणां सञ्जनयन् पर भयम् ।
उपागमत् कौरववंशभूपतिं निरस्तसन्तापचोऽब्रवीदिदम् ॥८॥
उपायमादिष्टवता मृतेः स्वय हितं भवन्निनमुपेक्ष्य चात्मनः ।
महेषुपर्यङ्कतलं समाश्रितं पितुस्तु पित्रा भवितव्यतेदृशी ॥६।।
त्रिलोकवन्धं कुरुवंशपङ्कजप्रभाकरं वृद्धमजेयपौरुषम् ।
प्रपद्य तं शान्तननं महामतिं रणार्थमद्यास्मि निदेशमाप्तवान् ॥१०॥
यथा मृगेन्द्रो मृगवृन्दमोजसा महीयसा हन्ति वनान्तरेऽञ्जसा ।
बलान्यहं सम्प्रति धर्मजन्मनो निपत्य मथ्नामि रणाङ्गणे तथा ॥११॥
प्रगर्वमाखर्वयतः स्वविद्विषां स्वसैनिकान् हर्षयतः समन्ततः ।
नृपः स कर्णस्य तु कर्णसौख्यदां प्रवृत्तिमाकर्ण्य बभूव मोदभृत् ॥१२॥
अवोचदालोकवच पुरस्सरं सुयोधनो मित्रवरेण्य साम्प्रतम् ।
त्वदीयसन्दर्शनमाप्य विक्रवाः समुच्छ्वसन्तीव चिराय मेऽसवः ॥१३॥
विधेयमेतर्हि किमस्ति मामकं निदेशदानेन कुतार्थयस्व माम् ।
हितानुबन्धी परमः सहायकश्चमूपतिर्वा सचिवस्त्वमेव मे ॥ १४ ॥

१२६
[ कर्णार्जुनीये
समस्तराज्यं सह बन्धुबान्धवैर्मदीयसर्वस्वमये स्वदर्पितम् ।
ब्रवीतु सेनाधिपतेः पदेऽहिते प्रतिष्ठितः कः पुरुषो भवेदिति ॥१५॥
निशम्य दुर्योधनभाषितं त्विदं जगाद कर्णो विनयाञ्जलिं वहन् ।
स्वयं भवानस्ति नृपेन्द्र बुद्धिमानवैति सम्यक् स्वहिताहितानि च ॥१६॥
अनेकशः सन्ति निबद्धसौहृदास्त्वयि प्रगल्भाश्च रणाङ्गणे भृशम् ।
कुलीन-धर्मज्ञ-महास्त्र-शस्त्रभृद्वरेण्य-वीरा महनीयकीर्तयः ॥१७॥
विचित्य तेषां यदि कोऽपि पूरुषः प्रतिष्ठितः स्याद् ध्वजिनीपतेः पदे ।
तदाऽपरे मानभृतोऽपमानतः समाचरिष्यन्ति मुदा न संगरम् ॥१८
न संविधास्यन्ति हि ते समादरं न मानयिष्यन्ति निदेशमस्य च ।
पुरैतदालोच्य चमूपतेः पदेऽभिषेचनीयः सकलैः समादृतः ॥१६॥
यदाऽस्ति काम्या मम सम्मतेस्तदा स एष आचार्यवरोऽस्त्वधीश्वरः ।
बलस्य तेऽसौ प्रवयाः सदस्त्रविद् यतः समेषामपि धर्मतो गुरुः ॥२०
नृपाः
समे तस्य पदाब्जवन्दनं प्रकुर्वतेऽक्ष्णां पथमभ्युपेयुषः ।
वलाधिपत्यं गमिते गुरौ ध्रुवं प्रसादमाप्स्यन्ति समस्तभूभृतः ॥२१॥
ग्रहीष्यते माल्यमिवानुशासनं तदीयमन्तर्मुदितैनताननैः।
नरेन्द्रवय्यः प्रथमैर्मनस्विनामतोऽभिषेच्यः स बलाधिपास्पदे ॥२२॥
गिरं स कर्णस्य निशम्य सूनृतां प्रधानसेनापतिसत्पदे गुरुः ।
सुयोधनेनाप्तमुदाऽभ्यषिच्यत महान्तमानन्दमधुः समे नृपाः ॥२३॥
नवीनमुत्साहमुपेत्य कौरवी चमूस्तदाचार्यवरेण चालिता ।
समस्तवीराहतकर्णरक्षिता भियानमातन्वत वैरिमण्डले ॥२४॥
गृहीतशस्त्रास्त्र उपस्थितो रणे दिनेशपुत्रोऽखिलवैरिमर्दनः ।
अतीतसंख्यान नृपतीन् बलीयसश्चकार कीनाशनिकेतनातिथीन् ॥२५॥

सप्तदशः सर्गः]
प्रयुध्यमानस्य पताकितीपतेः स भीमसेनस्य रथं ससारथिम् ।
हयान् कृपाणांश्च गदां शरासन व्यचूर्णयत् तत्य समस्तमायुधम् । २६॥
निगृह्य भीमं हतसाधनं तदा यमालयं प्रेषयितुं स ईश्वरः ।
परन्तु मात्रेऽर्पितमात्मनो वचो नुसृत्य हित्वा तमथाब्रवीदिदम् ॥२७॥
इतः पलायस्व वृकोदर द्रुतं भटो मतस्त्वं परमोऽसि भोजने ।
पुनः समायाहि न कर्णसन्निधावितस्ततो दर्शय विक्रमं निजम् ॥२८॥
समाश्रय त्वं नृपते महानसं तदाधिपत्यं च कुरुष्व केवलम् ।
विभीषयस्वाश्रितदासपूरुषान् विहाय संग्राममितो ब्रज द्रुतम् ॥२६॥
शरासनस्योत्कटकोटितः पुनः पुनस्तदीयोदरमेष तुन्दिलम् ।
निहत्य संयत्यवमत्य पाण्डवं प्रभञ्जनापत्यममुं समत्यजत् ॥३०॥
तदेद्धकोपोऽतिरथोऽर्जुनात्मजोऽभिमन्युनामाऽवतरद् रणाङ्गणे ।
तदीयमालोक्य महापराक्रमं महारथाश्चापि विमूढतां ययुः ॥३१॥
प्रधानसेनाधिप ईश्वरो बलीयसां स प्राचार्यवरोप्युपेयिवान् ।
नितान्तमाश्चर्यमतः प्रचक्रमे महौजसस्तस्य वधाय कोपनः ॥३२॥
चमूपतेयूहममेयमप्यसी विवेद मेनुं किल चक्रनामकम् ।
युधिष्ठिराज्ञां समवाप्य वालकः विभिध चान्तः प्रविवेश निर्भयः ॥३३॥
महेशलब्धाद् वरदानतो बली जयद्रथस्तत्र गतो महारथः ।
युधिष्ठिरं स्वीयवरेण्यसैनिकैः सहानुयान्तं रुरुधे प्रसह्य सः ॥३४॥
जयद्रथ-द्रौणि-कृतादिवर्मभिः कृपाह्वय-द्रोण-दिनेशनन्दनैः ।
अनेकशोऽन्यैः प्रबलैर्महारथैरसावधिव्यूहमरुध्यतार्भकः ॥३॥
निरहशस्त्रो विहितः पुरा ततो रणान्तराले मिलितैर्महाबलैः ।
अहोवतासावसहाय एककोऽतिनिर्दयस्तैर्वियुतः कृतोऽसुभिः ॥३६॥

१२८
[कर्णार्जुनीये
प्रधानहेतुं निधने जयद्रथं धनञ्जयोऽवेत्य निजात्मजन्मनः ।
निहत्य तं केशवकूटनीतितः प्रतिश्रुतिं स्वां स च पर्यपूरयत् ॥३७॥
ततोऽभवद् युद्धमतीव भीषणं दलद्वयेऽन्योन्यजयस्य वाञ्छया ।
जगन्ति विष्वक् प्रलये जिपत्सितुं करालचण्डीकृतरौद्रनृत्यवत् ॥३८॥
अलायुधः कौरवपक्षमाश्रितो घटोत्कचो भीममतो ह्यविद्यत ।
समस्तमायाचणराक्षेश्वरौ महाबलौ द्वावपि तौ वभूवतुः ॥३६॥
अलायुधम्य प्रियबन्धुरेकदा सुतेन वायोर्विनिपातितोऽभवत् ।
अशर्म मर्मान्तमुपेयुषा ततः क्रुधाऽमुना भीमवधः प्रतिश्रुतः॥४०॥
सुयोधनप्रेरित एष संगरे निहन्तुमागाद् वत वातनन्दनम् ।
तदा निजं वातमसौ घटोत्कचः सुरक्षितुं संयुयुधे स्ववैरिणा ॥४१॥
प्रचक्रतू राक्षसपुङ्गवावुभावतन्द्रितौ चाविरतौ दिवानिशम् ।
विवृद्धमन्यू प्रधनं परं महद् यतः परां ग्लानिमिदं जगद् ययौ ॥४२॥
स्वमायया प्रसृतयाऽतिघोरया निकृत्य शस्त्रास्त्रमलायुधस्य सः ।
न्यपातयत् तं प्रबलो घटोत्कचश्चमूस्ततः सुप्रससाद पाण्डवी ॥४३॥
वपुः करालं पुनरेष संदधन्महारवो मन्दरभूधरोपमः ।
उपद्रवन् कौरवसैन्यसागरं प्रसह्य तं प्रोन्मथितुं प्रचक्रमे ॥४४॥
निशाचरस्यास्य कृतैर्भयावहैर्महाप्रहारैरतिजर्जरीकृतम् ।
शुचाऽतिमम्लौ युधि कौरवं बलं मदच्युतेभेन यथाऽऽविलं सरः ॥४५॥
निशातशस्त्रास्त्रसमूहवर्षणैररुन्तुदैस्तेन कृतै निरन्तरम् ।
बलानि संग्राममपास्य दुद्रुवुः सुयोधनस्योन्मथितानि सर्वतः ॥४६॥
पलायमानानपि सैनिकान् रिपूनधर्ममायोधनवर्जमाश्रयन् ।
जपान भीमात्मज एष निर्दयो भवन्त्यधर्माचरणा हि राक्षसाः ॥४७॥

१२०
सप्तदशः सर्गः]
प्रपीड्यमानाः पिशिताशनेन ते भयात्प्रचक्रन्दुरशर्म विभ्रतः ।
भवेम हा हन्त विनष्टजीवनास्त्वमेहि कर्ण द्रुतमेहि रक्ष नः ॥४८॥
उपेत्य कर्णो रुरुधे निशाचरं स्वसैनिकांस्तान् प्रहरन्तमायुधैः ।
विपक्षिणोऽन्यान् समपास्य रक्षसा समं तदानीं युयुधे क्रुधान्वितः ४६
क्षपाचरः सोऽखिलमायिनां वरश्चकार युद्धं न नरोचितं खलः ।
अशिश्चियद् विष्णुपदं कदाचन कदापि चायुध्यत भूमिगोचरः ॥५०॥
क्षणाददृश्यः प्रभवन् स्वमायया क्षणादसंख्यातवपूंषि धारयन् ।
क्षणेन रूपं विकरालमुद्वहंश्चमूममथ्नानितरां स कौरवीम् । ५१॥
गताः समे हन्त महाभयान्धतां परखकज्ञाननिरस्तबुद्धयः ।
रिपूनिरस्य स्वबलान्यपीड़यन् विवेकशून्याः किल मद्यपा इव ॥५२॥
निशीथमासाद्य निशीथिनीचरो महाबलीयान् भवति स्म दर्पितः ।
तमस्युदीर्णेऽसुररक्षसां बलं प्रकाशभीतिं दधतां प्रवर्धते ॥५३॥
भजत्सु निद्रां शिविरेषु निर्भयं चकार दुर्योधनपक्ष-योद्धृषु ।
सुयन्त्रविभ्रन्नलिकास्त्रनिर्गतप्रभूतचञ्चद्गुडकावर्षणम् ।।५।।
दिनेशजाश्वासनदानतोऽप्यहो व्यपेतधैर्य प्रबभूव तबलम् ।
भयेन चक्रन्द रुरोद दुःखनं जगाद संगोपय कर्ण नोऽधुना ॥५५॥
सुरेन्द्रदत्तां निजशक्तिमञ्जसा जहि प्रयुज्येति निशाटनं त्विमम् ।
नितान्तविभ्यत्प्रसरत्वसैनिकातिनादमाकर्ण्य स दुःखितोऽभवत् ॥५६॥
विमोहितः श्रीयदुनाथमायया सुरक्षितामर्जुनघातिनीमसौ ।
अमोघशक्तिं रिपुनाशविश्रुतां सुरेन्द्रलब्धां प्रयुयुज राक्षसे ॥१७॥
तदीयविस्फूर्जितवीर्ययोगतो विनष्टमायावल एप दुर्मतिः ।
पपात भूमावुरुभूधरोपमः सहस्रशः खण्डितनैजविग्रहः ॥८॥

१३०
[कर्णार्जुनीये
प्रकम्पितमापतिवीरमानसे महोग्रशत्रौ प्रहते घटोत्कचे ।
समुविवेल्लातिशयं सुयोनाश्रितध्वजिन्या हृदि मोदवारिधिः ॥५६॥
महेन्द्रशक्तिर्वसुषेणहस्ततो विनिर्गता शत्रुवधं प्रकुर्वती ।
द्रुतं पुनर्जिष्णुवचोडनुसृत्य सा सुरेश्वरं नाकपति समाश्रिता ॥६॥
रवेः सुतस्तन्मघवाप्तशक्तिदुष्प्रयोगविभ्रान्तिमसौ यदाऽस्मरत् ।
तदाऽभवत् पूर्वकृतप्रतिज्ञया धनजये चिन्तितचित्तवृत्तिकः ॥३१॥
अजातशत्रुः सह बन्धुबान्धवैर्घटोत्कचे भीमसुते निपातिते ।
अपारशोकाम्बुधिमनमानसः प्रकाममुच्चैः प्ररुरोद दुःखितः ॥६२॥
निवर्तमानं प्रतिरध्य शत्रु भर्निजाग्रजस्यात्मजनाशवार्तया ।
शुवा परिक्लान्तमथार्जुनं हरिः पुनः पुनस्तं हि समोदमास्वजत् ॥६३ ।
महाबले वैरिमनोव्यथाकरे हते च तस्मिन् युधि भीमनन्दने ।
रुदत्सु सर्वेषु युधिष्ठिरादिषु बभूव कृष्णः स मुदा परेप्लुतः ॥४॥
कपिध्वजो माधवमुक्तवान् हरे गतिविचित्रा तव दृश्यते प्रभो ।
दुरन्तदु खाम्बुनिधौ निमजतो निरीक्ष्य मोदातिशयं वेभर्षि नः ॥६५॥
विहस्य चालिङ्ग्य पुनः पुनर्मुदा हरिः प्रपन्नार्तिहरो जगाद तम् ।
महाभयाद् भानुतनूजसम्भवान् सखे त्वमद्यैव विमुक्तिमाप्तवान् ॥६६॥
त्वदर्थमिन्द्रः कवचं च कुण्डले जहार कर्णस्य ऋतात्मनः पुरा ।
तदीयविश्राणितशक्तिरप्यसौ निहत्य भैमि प्रथिता तमत्यजत् ॥६७॥
तथापि धर्मात्मधुरि प्रतिष्ठितं महौजसं तं किल धर्मसङ्गरे ।
सुरेश्वरो नास्त्यभियातुमीश्वरो भवादृशां हन्त नृणां तु का कथा ॥६॥
धनुः शरं वाप्यथ शस्त्रमत्रक ग्रहिष्यते यावदमुष्य पाणिना ।
न तावदेनं प्रधनार्थमुद्यतं सुरासुराश्चापि निहन्तुमीश्वराः ॥६६॥

अष्टादशः सर्गः]
प्रसक्तचित्तोऽन्यविधौ भवेदयं न शस्त्रमस्त्रं विभृयात् करोऽस्य च ।
तदा स वध्यो भवता ममाज्ञया स्वमानसे धर्मविचारमुज्झता ॥७॥
वरेण्यवर्णाश्रमधर्मरक्षिणां नृणां विपक्षक्षयमत्र भूतले ।
वदन्ति लाभं परमं विपश्चितो महानुभावा विधया कयापि च ॥७॥
स्वकीयमादेशमिमं धनञ्जयं प्रपद्यमानं शिरसा नतेन सः।
भृशं परिष्वज्य रथं नुदन् हरियवर्तत खप्रणतप्रसादकत् ॥७२॥
अपास्य खां शक्ति परमरिपुहन्त्रीमधिगतां
सुरेन्द्राकर्णोऽसावितथनियोगां रणभुवः।
निवृत्तः किन्त्वस्यागुरपि न चोत्साहविरतिः
सदा शूरस्वान्तं जयमजयमेकं हि मनुते ॥७३॥
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये सप्तदशः सर्गः समाप्तः
अथ अष्टादशः सर्गः
एष आचार्यदेवोऽप्यहःपञ्चकं कौरवाशेषसैन्यानि सञ्चालयन् ।
युद्धभूमावसंख्यातवीरचयं संव्यधादुग्रशौर्य निजं दर्शयन् ॥ १॥
मत्स्यराज विराटं महाविक्रम द्रौपदीवातपाञ्चालराजं तथा ।
युद्धकृवैरिवीराननेकानसौ स्वर्गवास्तव्यतामञ्जसा प्रापयत् ॥ २॥
शूरसेनापतिर्दोण आयोधने युद्धभूमावयं यां हुढौके दिशम् ।
सैव विध्वस्तवीराऽभवत् सत्वरं सर्वशस्त्रास्त्रचुञ्चु गुरु का श्रयेत् ॥३॥
चिन्तया ग्रस्तचेता भवन् माधवः पाण्डवानाह्वयत् तानगादीदिदम् ।
यावदाचार्यहस्ते धनुःसायकौ स्तो न तावत् सुरेन्द्रोऽपि तं जेष्यति ॥४॥

१३२
[कर्णार्जुनीये
योत्स्यते चेत् पुनश्चैष एक दिनं तर्हि युष्माकमेकोऽपि सैन्येष्वहो ।
ख्यातवीरो ध्रुवं नावशिष्टो भवेद् बाध्यते चिन्तयाऽतो मदीयं मनः ॥५
धर्ममप्युझ्य वाऽसत्यमाश्रित्य वा कौशलेन च्छलस्यापि वा छमनः ।
येन केनाप्युपायेन जह्यादसून् एष, एतर्हि पन्थाः स श्राश्रीयताम् ।।६
प्राणतोऽप्यात्मजं स प्रिय मन्यते तस्य मृत्युं समाकर्ण्य सद्यो ध्रुवम् ।
हास्यति स्वीयमस्त्रं गुरुः संगरे हन्यतां शोकमग्नस्तदानीमसौ । ७
द्रोणपुत्रस्त्वजेयोऽजरश्चामरः शक्तिरास्ते न कस्यापि हन्तुं विमम् ।
तद् रहस्यं विदित्वाऽपि मायापतिस्तान् न्यगादीदिदं भक्तसन्तापहा ॥८॥
श्रीपतेः सम्मति. सात्वधर्माश्रिता पाण्डवेभ्योऽखिलेभ्योऽपि नारोचत ।
वैरिदोपहा वीरचूडामणिर्जिष्णुसूनुनिंजे हृद्यचेखिद्यत ।। ६ ।।
धर्मराजोऽवदत् का कथा विद्यते भूर्भुवर्लोकयोः कृष्ण साम्राज्ययोः ।
प्राप्नुयाञ्चेत् त्रिलोकाधिपत्यं यदा नानृतां वाचमुच्चारयेयं क्वचित् ॥१०
क्षीरनिध्यात्मजायाः पतेर्मायया भ्रान्तदेवर्षिपित्राद्ययाऽचिन्त्यया ।
जीवने यः सदा सत्यसेवी नृपः सोऽप्यभूत सत्यशत्रुर्विचित्रं न तत् ॥११
बोधयित्वा पुनर्भीमसेनं हरिः प्राह सेनापति कौरवाणां द्रुतम् ।
द्रोणमाख्याहि पुत्रस्त्वदीयो हतः किं विधत्से त्वमेतर्हि युद्धं वृथा ॥१२॥
इन्द्रवर्माह्वयस्य प्रसिद्धो द्विपो मालवेन्द्रस्य च द्रौणिनामाऽभवत ।
तं गदापाततो घातयित्वाऽवदद् द्रोणमागत्य भीमो निदिष्ट हरेः ॥१३॥
भीमवाचं निशम्यापि सेनापतेश्चेतसि प्रत्ययो नाणुरप्युद्वभौ ।
भर्त्सयित्वा तु शश्वद्गतेरात्मजं संगरे व्यापृतोऽसावबोभूयत ॥१४॥
ब्रह्मवावनिनामप्रसिद्धरसौ दिव्यशस्त्रास्त्रपुञ्जः प्रमथ्नन्नरीन् ।
ईशमायाहृतात्माऽमरेऽप्यात्मजे प्राणनाशस्य सन्देहमासादयत् ॥१५॥

मष्टादशः सर्गः]
१३३
द्रोण आचार्य आम्नाति चित्ते निजे यत् स धर्मात्मजो नानृतं संवदेत् ।
भौमराज्यस्य वार्ता तु दूरस्थिता चेत् त्रिलोकाधिपत्यं च लब्धं भवेत् १६
धर्मराजं स पप्रच्छ हे सत्यवाग वायुपुत्रो वदत्येष यो सुतः ।
युद्धभूमौ हतः किन्तु तस्योदिते नैव चेतस्युदेति प्रतीतिर्मम ॥१७॥
सत्यमूर्तिस्त्वमस्यङ्ग धर्मे रतो नानृतं वाक्यमुक्तं कदाचित्त्वया ।
मामतो ब्रूहि किं मे सुतः साम्प्रतं जीवितो वा मृतो वेति सत्य वद ॥१८
सच्चिदानन्दधामा स्वयं माधवः स्वाङ्गितेनानृतव्याहृतौ प्रेरितः ।
चिन्तया ग्रस्ततामैत् स धर्मात्मजो नैजकर्तव्यतामूढतामाप्तवानं ॥१६॥
वायुपुत्रस्तदोपेत्य धर्मात्मजं प्राह मन्दस्वरं नानृतं भूपते ।
किञ्चिदत्रास्ति यन्मालवेन्द्रद्विपस्तत्सनामा हतोऽसौ मया साम्प्रतम् ॥२०
सत्यवादी स धर्मात्मजो नैहतासत्यवाचं प्रयोक्तुं परन्त्वैश्वरीम् ।
को नु मायामतीयानरो भूतले धर्मसूनुस्तया मुग्धतां प्रापितः ॥२१॥
स्वीयसाम्राज्यलोभाजयेषी नृपो दीर्घमाह स्म यच्चाश्वयुक्त्थामकः ।
मृत्युमाप्तस्ततः प्राह हस्ती शनैः शौरिरेतर्हि शङ्खध्वनि प्राकरोत् ॥२२॥
हस्तिशब्दं न शुश्राव सेनाधिपः स्वात्मजं मृत्युमाप्तं प्रतीत्याऽप्यसौ ।
पूर्ववद् ध्वंसयामास विद्विट्चमू भीमसेनस्तदा भर्त्सयामास तम् ॥२३॥
द्रोण भो एक एवास्ति ते पुत्रकः सोऽपि शेते हतो हन्त युद्धस्थले ।
जानताऽपि त्वया साम्प्रतं युध्यते त्वं ध्रुवं निर्दयः क्रूरकर्माऽधमः ॥२४
नीच एतादृशो भूसुराणां कुले कः समुत्पत्स्यते योऽन्धसां लोलुपः ।
आत्मजे प्रेयसि स्वर्गलोकं गते घोरहिंसाविधाने य आस्ते रतः ॥२५॥
आर्षकाचा स्वयं चाप्यवेत्यान्तिमं कालमास्थाय पद्मासनं सत्वरम् ।
अस्त्रशस्त्रं परित्यज्य संस्थो रथे ब्रह्मणो ध्यानमेषोऽन्वतिष्ठद् यदा ॥२६॥

[कर्णार्जुनीये
पृष्ठतः क्रूर भागत्य पापात्मको द्रौपदिः सञ्चकर्ताथ तन्मस्तकम् ।
ब्रह्म धाम प्रतस्थे नुतः सोऽमरैस्तच्छरीरं रथात् संपपात चितौ ॥२॥
कौरवाणां तथा पाण्डवानामपि म्लानचेतांसि दुःखं परं मे जिरे ।
वाहिनी तस्य दुर्योधनस्यार्तिभृद् सर्वतः संप्रदुद्राव भीता सती ॥२८॥
स्वगते द्रोणदेवे स दुर्योधनः सन्दिहानः स्वकीये जयेऽभून्नृपः ।
एतदीया जयाशा तदा केवलं निर्विभयेकवीर दिनेशात्मजम् ॥२६॥
भूत्रये सोऽस्ति कर्णो महीयान् बली मन्यते मत्प्रियार्थं तृणं स्वानसन् ।
चिन्तयित्वति दुर्योधनो भूपतिः कर्णकाभ्यर्णमागात् सह द्रौणिना ॥३०॥
सन्दधानः परां नम्रतां सोऽब्रवीन्मित्र हे कर्ण हे शत्रुसम्मर्दन ।
युद्धपोतस्य मे कर्णधारो भवांस्तारयस्वाऽथ वा मजयस्वाऽथ वा ॥३१॥
वीरचूडामणिर्भीष्मदेवोऽधुना सायकानां स पर्यङ्कमालम्बते ।
ध्वस्तदेवासुरः सर्वशस्त्रास्त्रविद् द्रोणदेवोऽपि हाहन्त शेते मृतः ।३२।।
वीरुदालम्बते मे जयाशाभिधा त्वत्कमूर्जस्विनं बाहुकल्पद्रुमम् ।
सिच्यतां वाऽथवा ग्लानिमापाद्यतां त्वत्कृपा यादृशी तादृशी तद्गतिः३३
कर्ण आकर्ण्य वाणी स दौर्योधनीं तं न्यगादीदये मित्र चिन्तां त्यज ।
युद्धभूमौ सकृष्णानहं पाण्डवान् नूनमेतान् विजेष्येऽन्यशत्रूनपि ॥३४॥
दीनतां क्लीवतां शोकमोहौ तथा खेदमन्तर्विषादं जहीहि द्रुतम् ।
शत्रुसेना प्रमथ्नामि गत्वा रणे सैनिकान स्वान् प्रकामं समुत्साहय ॥३५
सूर्यसूनोगिरोत्साहसम्पूर्णया धार्तराष्ट्रः स आश्वस्तचित्तो भवन् ।
द्रोणजन्मानुमत्या धरित्रीसुरान् संस्तुतान् वेदविज्ञान् समानाययत् ॥३६
आत्मसेनाधिपत्यास्पदेऽभ्यहिते कर्णमेनं प्रसन्नाननो भूपतिः ।
वेदमन्त्रैः शुभैः प्रत्यतिष्ठापयत् तेन सर्वे प्रसेदुर्विषेदुः परे ॥३०॥

अष्टादशः सर्गः]
१३५
औपलक्ष्येऽभिषेकस्य दुर्योधनो भूसुरान् भोजयामास संख्यातिगान् ।
कोव्यतीताश्च दीनारमुद्रास्तथा संव्यतार्षीच तेभ्यः प्रमोदान्वितः ॥३८॥
वैदिकानां मुखेभ्यः समुच्चारिताः स्वस्तिवाचः समाकर्णयन्नग्रतः ।
स्यन्दनं स्वं समारुह्य सिंहध्वनि व्याचकार द्विषद्गर्वविध्वंसकम् ॥३६॥
द्यौर्धरित्री च भूयः पराकम्पत ज्ञायते यल्लयः किं स्विदाविर्वभौ ।
ससृति संजिहीर्षावदम्भोनिधिः साम्प्रतं सर्वतः किं जरीजृम्भते ॥४॥
किं स्विदेष प्रचण्डानिलप्रोद्धताम्भोधराणामुपाढौकते मण्डलः।
अन्तकृत् किं कृतान्तोऽथवायात्ययं प्राणिवर्ग समाहर्तुकामः स्वयम् ॥४१
भीष्मकद्रोणयोर्यन्महाप्राणयोर्वन्धयोर्देवताभिश्च धर्मात्मनोः ।
गर्हितां रीतिमाश्रित्य किं हिंसया क्षात्रधर्मः क्रुधाऽऽयात्ययं देहभृत् ॥४२
ढौकमानेऽतितिग्मथुतेरात्मजे संगरायेति नृणामभूद् विभ्रमः ।
कर्णमेनं विलोक्यैव यौधिष्ठिरं भीतमत्यन्तमन्तश्चकम्पे मनः ॥३३॥
धर्मजन्माऽर्जुनं प्राह दीनं वचो द्रोणभीष्मौ बहून् सोदरान् वैरिणः ।
शत्रुशूरानपि त्वं रणेऽपातयः किन्तु कर्णो बलीयानयं जीवति ॥४४॥
एष कर्णो महेष्वास आस्ते क्षितौ देवदैत्या. मिलित्वाऽपि तं संगरे ।
नैव जेतुं क्षमा इत्यतो मानसं क्षुब्धमामोति कम्पं ममाहनिशम् ॥४५॥
दानवीरश्च सत्यप्रतिज्ञोऽप्ययं कीर्जनीयश्च धर्मात्मनामग्रतः ।
द्रोणतो वा तथा भीष्मतो वा रणेऽभ्यर्हितो धीरधोरेय आस्ते ध्रुवम् ४६
द्वादशेभ्यः स संवत्सरेभ्यः सदा तीक्ष्णशल्योपमो मेऽतिदुःखप्रदः ।
यद्ययं हन्यते वैरिमूर्ध्नि स्थितः सम्भवेत् तर्हि नूनं मदीयो जयः ॥४॥
केवलं तबलेनैव दुर्योधनो युद्धमारब्धवान् कूदते हर्निशम् ।
निर्जितेऽस्मिंस्त्वया शत्रुचूडामणौ निर्जितं धाराष्ट्र हि सम्भावये॥४८॥

१३६
[कर्णार्जुनीये
भूपते त्वं कदाचिन चिन्तां भज वासुदेवस्य साहाय्यतो वैरिणम् ।
कर्णमेनं हनिष्याम्यहं संगरे स्वांग्रजं वाक्य मत्थं जगादार्जुनः ॥४॥
अर्धचन्द्राकृतिं व्यूहमारीरचत् सव्यसाची निजं तस्य सन्धिस्थले ।
देववैद्यात्मजौ भीमसेनादयो वीरमूर्धन्यभूता व्यवस्थापिताः ॥५०॥
ऊष्णरश्मेस्तनूजोऽपि तद्वद् वरं व्यूहमत्यन्तदुर्भद्यमेषोऽरिभिः ।
संरचय्य प्रधानस्थले स्वान महास्यन्दनान् स्थापयामास वीरेश्वरान् ॥५१
व्यूहकस्याग्रभागे धनुःसायकं वक्षसो रक्षकं सन्दधानो दृढम् ।
एष कर्णो यदा स्यन्दनस्थो भवज्ञायते वीरनामा रसो देहभृत् ॥५२॥
दिव्यरूपं महोत्साहपूर्ण रणे विभ्रतं स्वीयसेनापतिं नूतनम् ।
तं विलोक्यैव दौर्योदनी वाहिनी पाण्डवाजेतुकामा मुदाऽभ्याययौ ५३
शूरमूर्धन्ययोर्भीष्मकद्रोणयोमृत्युमेषा विसस्मार मोदान्विता ।
पाण्डवांस्तान् पराजेतुमिच्छावती सिंहनादैः प्रतिध्वानयामास खम् ५१
मानवव्याघ्र आत्मप्रतिज्ञावचः पालयत्येव घोरासु चापत्स्वपि ।
स्वार्थबुद्ध्या नरो यस्तु नद् बाधते गण्यते साधुभिः सोऽधम. पूरुषैः५५
मन्यते संस्तुतात्मा स धर्मात्मभिर्येन चापत्तिकाले नरोपस्थिते ।
रक्ष्यते स्वीयधर्मो जयो वाजयः सम्भवत्येव पुंसां सदा संगरे ॥५६॥
युध्यते धर्मरक्षाकृते क्षत्रियः क्रोधविद्वेषबुद्धिः परित्यज्यते ।
नाप्यधर्माश्रिता रीतिराश्रीयते वीरतायाः कलङ्कस्वरूपा हि सा ॥१७॥
भूपतिः कौटिली नीतिमालम्बते बक्ति चान्यद् विधत्तेऽन्यदायोधने ।
किन्तु कर्तव्यबुद्धया स्वधर्म श्रयन् हन्यते वा पराजीयते सोऽर्हितः।।५८
पाएडवा अस्य चत्वार आसन वशे तं विहायार्जुनं किन्तु सूर्यात्मजः।
स्वप्रतिज्ञामनुसृत्य मात्रेषितां प्राणदानं विसृष्टाः क इत्थं चरेत् ॥५६॥

अष्टादशः सर्गः]
१३७
षोडशाहे ध्वजिन्याधिपत्यं गतः सनिपूणां महावर्षणैः पाण्डवीम् ।
छादयामास सेनां प्रमाथी द्विषामग्रतः प्राप युद्धाथिनं नाकुलम् ॥६॥
धर्मसूनोलघुर्वन्धुरेषोऽवदत् त्वं समायाहि रे सूतपुत्राधम ।
सर्वदाऽहं त्वदन्वेषणे संरतो भाग्यतस्त्वामरे नीच सम्प्राप्तवान् ॥६॥
वैरभावस्य मूलं त्वमन्योन्ययोर्भारतीयान्वयस्यैकविध्वंसका ।
धर्मराजं नृपं त्वां निहत्याऽधुना कामये संविधातुं प्रमोदान्वितम् ॥६२॥
तस्य वाचं निशम्य प्रसन्नाननोऽवोचदुच्चैर्विहस्यांशुमाल्यात्मजः ।
क्षात्रधर्मोचितामङ्ग वाणीं तवाकये मोमुद्यते सौम्य मत्कं मनः ॥६३॥
शत्रुवर्गस्य युद्धार्थमावाहनं तेन साकं च संग्रामचर्या तथा ।
क्षत्रियाणां परो धर्म आम्नायते त्वद्वचो वीरशोभास्पदं मन्महे ॥६४॥
किन्तु योऽम्भोधरो गर्जति प्रोद्धतो नैव वर्षत्यसौ प्रायशो दृश्यते ।
कृत्यनुष्ठानहीनो नरो भूतले केवलं हन्त शब्दायतेऽपत्रपः ॥६॥
पौरुषं क्षात्रतेजश्च चेत् तावकं तर्हि नूनं समायाहि युद्धं कुरु ।
त्वां हनिष्यामि नाहं तथापि त्वया पूर्यतां वासना युद्धजन्याऽऽत्मनः ६६
इन्द्रजन्मानुजः कर्णवाचं तदाकण्यं तस्योपरीषून निरस्यनिजान् ।
आगतान् वीक्ष्य मध्ये निजैः सायकैः कयामास तिग्मांशुसूनुस्तु तान्॥
द्वाविमौ वीरधुय्यौँ महापौरुषौ युध्यमानावभिख्यानमाजहतुः ।
संविनिय॑न्मदोन्मत्तयोः कुञ्जरश्रेष्ठयोर्वाञ्छतोः स्वं जयं संगरे ॥६॥
विग्रहप्रेक्षणार्थ द्वयोर्वीरयोरेतयोस्त्यक्तयुद्धाः परे सैनिकाः ।
संनिममा महाश्चर्यपाथोनिधावाययुस्ते समन्ताच संतस्थिरे ॥६६॥
पाण्डुपुत्रा कदाचिद् रणे प्राभवत् तं कदाचिच्च वीरोऽतिशेतेऽपरः ।
एवमेवानयोर्दीर्घकानं महान् संगरः संबभूवातिभीतिप्रदः ॥७॥

१३८
[कर्णार्जुनीये
योधयित्वा रिपुं तिग्मरश्मेः सुतः स्यन्दनं चूर्णयामास शत्रोस्ततः ।
सारथिं घोटकानगरक्षाकृतः सूदयामास तीक्ष्णाशुगैभीषणैः ॥७॥
द्विट ततोऽसौ पदातिः कृपाणं दधे मुद्गरं तत्परं घोरमप्यायसम् ।
तद्वयं युध्यमानस्य संछिद्य स वीरकों जघानाशुगै.रिणम् ॥७२॥
वेगतः प्रद्रुतं तं सपत्नं रणाद् धावमानः स जग्राह सूर्यात्मजः ।
तद्गलेस्वां धनुःसिञ्जिनीमर्पयन् प्राह रे प्राणलोभिन् कथं लायसे ॥७३
पाण्डवो ब्रीडयाऽधोमुखोऽवस्थितः किंचिदूचे न कर्णस्तदानीमसौ ।
वाडयित्वा भृशं शिक्षयित्वा ततो हस्तगं सत्प्रतिज्ञो व्यमुञ्चद् रिपुम् ७४
व्यसृजदयमरिं तं पाण्डवं सूर्यसूनु-
शमुपनतमेतं स्वप्रतिज्ञाविधातात् ।
अतिशयितसुपर्वा यस्त्रिलोकैकशूर-
स्त्रितयभुवनमध्ये तत्तुलां को बिभर्ति ॥ ७५ ।
इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये अष्टादशः सर्गः समाप्तः
अथैकोनविंशः सर्गः
प्रियाऽऽस माद्री नरराजपाण्डोस्तत्सोदरो मद्रपतिर्महीयान् ।
पराक्रमी योद्धुमजातशत्रोः पदं समाश्रित्य समागतोऽभूत् ॥ १॥
दुर्योधनः सात्मजनो नृपालो व्यवत्त तस्याध्वनि सत्सपर्याम् ।
तयाऽऽसमोदः स च मद्रभूपो वरं ग्रहीतुं तमथाऽऽदिदेश ॥ २॥

६॥
एकोनविंशः सर्गः]
स धाराष्ट्रस्तमुवाच-"राजस्त्वं पाण्डवानामयि मातुलोऽसि ।
यथा, तथैवासि ममापि साधो वरं ददस्वेति यदासि तुष्टः ॥ ३ ॥
उपेक्ष्य पक्षं नृप पाण्डवानां पक्षं मदीयं समुपाश्रितः सन् ।
युध्यस्व" राजा खवचोऽनुसृत्य दौर्योधनीं तां गिरमभ्युषेदे ॥ ४ ॥
कृतानतिं तत्परमेष भूपं धर्मात्मजं स्वीयपुरोऽभ्युपेतम् ।
निजाशिषं कामयमानमेनं मद्राधिपः शल्य उवाच भूयः । ५॥
दौर्योधनं पक्षमुपेत्य योद्धु प्रतिश्रुतं तात मयास्ति, तस्मात् ।
भिन्नं यदिच्छेस्तदहं वचस्ते संग्रामभूमौ प्रतिपालयिष्ये ॥ ६
निशम्य तद्वाचमसाववोचत् “युध्यस्व भो मातुल सप्रमोदम् ।
पदं समाश्रित्य सुयोधनस्य कृतिं त्वमेकां मम संविध्याः ॥ ७॥
रथाश्वसञ्चालन-निष्ठ-विद्याप्रवीण आस्ते न भुवीह कश्चित् ।
भवादृशः, केवलमेककृष्णो जगत्पतिस्त्वत्समतां बिभर्ति ॥८॥
कर्णोऽनुमन्येऽर्जुनतो युयुत्सुध्रुवं विदध्यानिजसारथिं त्वाम् ।
वचोभिरुप्रैः परुषैस्तदानीं भवान् हतोत्साहमिमं प्रकुर्यात् ॥ ६ ॥
पुनः पुनर्निन्दितविक्रमत्वात् तेजोविहीनो विहतानुभावः ।
भवेदतोऽसौ प्रधनं न कुर्याद् विवृद्धमन्युः स्वबलानुरूपम्" ॥१०॥
स्वभागिनेयस्य वचो नृपालः प्रत्यग्रहीत् दुष्टमतिः स शल्यः ।
ततः प्रतस्थे निलयं स्वकीयं मोमुद्यमानो नृपधर्मराजः ॥११॥
आयोधनात् सप्तदशेऽह्नि कर्णः सुयोधनं प्रातरुवाच-"सौम्य ।
मया हतः स्यादयमर्जुनो वाऽथवाद्य तेनैव रणे हतः स्याम् ॥१२॥
धनञ्जयो मत्समतां न धत्ते शौर्येऽथवा सायकसम्प्रयोगे ।
अभ्यहितैर्दिव्यगुणैर्जगत्यामेभिर्गरीयान् मदषेचयाऽसौ ॥१३॥

[कर्णार्जुनीये
हुताशनः खाण्डवदाहकाले दिव्यं रथं संविततार तस्मै ।
संयुक्त आस्ते कपिकेतुना यो न भिद्यते केनचिदायुधेन ॥१४॥
सुशिक्षिताः सन्ति तदीयवाहा गाण्डीवमास्तेऽनुपमं धनुश्च ।
सारथ्यमेतस्य च संविधने पूर्णावतारो भगवान् मुकुन्दः ॥१५॥
गाण्डीवतश्चापि कठोरमुग्रं शरासनं राजति मामकीनम् ।
दृढो रथोऽप्यस्ति परन्तु मित्र मनोनुकूलो न हि सारथिर्मे ॥१६॥
पक्षं श्रितो यस्तव मद्र भूपः स चाश्वसञ्चालनसुप्रवीणः ।
गुणी गुणज्ञोऽथ महाबलीयांस्तथा च सारथ्यविधौ पटीयान् ॥१॥
त्वया निदिष्टो यदि सारथिम भवेदसौ क्षत्रियराजवर्यः ।
तदाहमद्यार्जुनमङ्ग युद्धे ध्रुवं विजेष्ये, न हि संशयोन" ॥१८॥
कर्णोक्तिमाकर्ण्य सुयोधनेन न्यगादि हे कर्ण ममावलम्बः ।
भवानिहैकोऽस्ति, परं न जाने, भवत्कृपातो भविता जयो मे ॥१६॥
शूराग्रगण्येषु मृति गतेषु संख्यामतीतेष्वपि मामकेषु ।
त्रिलोकविख्यातमहौजसं त्वां निरीक्ष्य चैकं विजयं समीहे ॥२०॥
अन्तर्बहियोंऽस्त्यसितो हि तेन प्रणुधमानाश्वरथं सपत्नम् ।
गाण्डीविनं चेत् कपिकेतुमेनं निपातयेः, पूर्णमनोरथः स्याम्" ॥२१॥
वचस्तदुक्त्वा धृतराष्ट्र-सूनुरुपेत्य मद्राधिपति विनीतः।
नमोवचः पूर्वमुदीर्य भूयः प्रशस्य तं वाचमिमां न्यमादीत् ॥२२॥
विख्यातवीरेषु महारथेषु पुरस्सरो मातुल वर्चसे त्वम् ।
पितामहस्याथ गुरोरभावं भवन्तमालच्य न चिन्तयामि ॥२३॥
योद्धाऽद्वितीयोऽस्ति भवाजगत्यामन्वेष्टुमिच्छोरपि यत्लतो मे ।
भवत्समो वीरखरो विपक्षपत्रेषु चाक्ष्योविषयी न कश्चित् ॥२४॥

एकोनविंशः सर्गः]
आयोधनस्याद्य चिकीर्षुरन्तं समीहते कर्ण उदीर्णधन्वा ।
तन्सारथिः स्या यदि मातुल त्वं तरिजेन्मे प्रधनाब्धिवारम् ॥२५॥
स कर्णसारथ्यगिरं निशम्य दुर्योधनस्यास्यविनिर्गतां ताम् ।
जज्वाल शन्यो नितरां समन्युः श्रितः सहस्रांशुरिवोत्तराशाम् ॥२६॥
भ्रुवोः कुटी स्वे कुटिले नृपालो विधाय दुर्योधनमित्थमाह-
"ववस्त्वयोक्तं न विमृश्य हीनसमागमाद्धीयत एव बुद्धिः ॥२७॥
आशास्यते नैव मया यदेवमाहूय यत्नेन विमन्यसे माम् ।
भूत्वा कुलीनो प्यकुलीनवाणी समुगिरन् यासि कथं न लजाम् ॥२८
अहं हि राजर्षिकुलप्रसूतो मूर्धाभिषिक्तोऽपि च भूमिपालः ।
स सूतवंश्यः, किमु जम्बुकस्य दासेरकत्वं भजते हरीशः ॥२६॥
श्रुतौ स्मृतौ ब्राह्मणपुङ्गवानां निदर्शिता राजहिता सपर्या ।
प्रसिद्धधामा नरराजजन्मा कि सेवते हीनजन जघन्यम् ॥३०॥
निमन्त्रितोऽहं समरे त्वयाऽद्य सपत्नशूरानिह संविजेतुम् ।
न मे परस्यन्दनसम्प्रणोदविधेयमास्ते धमदासयोग्यम् ॥३१॥
त्वमेधि निश्चिन्त इह प्रशान्तो व्रजामि युद्धे किल केवलोऽहम् ।
विपक्षिणस्तद्वलमप्यनन्तं विनाशये तूलमिवाग्निरिद्धः ॥३२॥
वर्णाधमो हन्त जघन्यकर्मा सेनापतिश्चेद् यदि सूतजन्मा ।
कुलाभिमानी नरराजधर्मा करिष्यते नैव कदापि युद्धम् ॥३३॥
वचो मदीयं यदि मंस्यसे त्वमन्यं कमप्युत्तमराजवंश्यम् ।
विधास्यसे सैन्यपतिं तदाऽहं समस्तशāस्तव संहनिष्ये ॥३४॥
नोचेदहं पक्षमुपेक्ष्य तेऽद्य स्वधाम संगन्तुमितः समीहे ।
उक्त्वेति वाचं सहसा नरेन्द्रो मद्राधिपोऽसावुदतिष्ठदस्मात् ॥३५॥

[कर्णार्जुनीये उच्चैर्निजं सारथिमाह भूयो मत्स्यन्दनं शीघ्रमिहानयस्व । सेनाः समस्ता अपि मद्देश्या मया सह स्वं निलयं प्रयान्तु ॥३६॥ दुर्योधनो मातुलपादपद्म' प्रपद्य सद्यः प्रणतेन मूर्ना । जगाद-हे मानवसिंह नैतद् वचोऽब्रुवं त्वां हि विमन्तुमिच्छुः ॥३७॥ गुरुर्मदीयोऽप्यथ पूजनीयः संरक्षकश्चापि शरण्य एव । ओजस्विनां त्वं प्रबरो मतो मे त्वमेकमेवास्यवलम्बनं च ॥३८॥ बालोपमानेन धनञ्जयेन न शोभते ते प्रधनं कदापि । भवान् गरीयानत एव कर्णो विनिश्चितो यो मनेन सार्धम् ॥३६॥ दामोदरः स्यन्दनचालकोऽस्ति धनञ्जयस्येति विदन्ति सर्वे । एको भवांस्तत्समतां विधत्ते पराक्रमी नीतिविदां वरिष्ठः ॥४०॥ यथाऽभवत् पाण्डुसुताश्रयोऽसौ तथा भवानाश्रयदो ममाऽध । सुसम्मतिं प्राप्य सहायतां ते कर्णो ध्रुवं जेष्यति जिष्णुसूनुम् ॥४१॥ यथाऽत्र कर्णश्च कपिध्वजश्च समानवीयौं वसुधाधिप द्वौ । सबुद्धिविद्याबलपौरुषेषु तथैव कृष्णश्च भवांश्च तुल्यौ ॥४२॥ गुणेष्वनेकेषु भवान् गरीयान् विज्ञायते सम्प्रति वासुदेवात् । सुनीतिवित्सर्वसमर्थबुद्ध समानतां नाईति तेच कश्चित् ॥४३॥ कार्य स्खया कारयितुं समीहे तदेव यत् संविदधाति कृष्णः । कल्पद्रुमस्येव तवैष कर्णः छायां समाश्रित्य रिपुं विजेता ॥४४॥ स्वामी शरण्यो युधि कर्णधारो भवान् ममास्ते परमो हितैषी । त्वया सनाथोऽस्मि विपत्सु मग्नमेतर्हि मामुद्धर मातुल त्वम् ॥४॥ नृणां समक्षं मधुसूदनेन स्वं साम्यमाकर्ण्य स तुन्दिलोऽभूत् । मोदेन शल्यः कुरुराजमेनं प्रसन्नता इति वाचमूचे ॥४६॥ -

[कर्णार्जुनीये
मद्रप्रजेशश्च नरेन्द्रकों दिव्यं शुभं स्यन्दनमास्थितौ तौ ।
निजैर्महोभिर्महितप्रभावी व्यराजतां द्वाविव तिग्मरश्मी ॥५॥
उच्चार्यमाणेषु महीसुरेन्द्रर्वचस्सु सन्माङ्गलिकेषु शल्यः ।
स्वसेव्यशल्योपमतां दधानः कर्णस्य दिव्यं रथमैरयत् सः ॥५६॥
पथि व्रजन् वीरवरः स कर्ण उच्चैरवोचद् --"यदि कोऽपि योद्धा ।
प्रदर्शयेदर्जुनमत्र तस्मै दास्यामि तद्याचितमर्थराशिम् ।। ६० ॥
भवेन्महेन्द्रो यदि तच्छरण्यस्तद् रक्षकः स्यादथ वासुदेवः ।
तमर्जुनं नूनमहं करिष्येऽतिथिं हि कीनाशनिकेतनस्य ॥६१॥
गृहीतयौधिष्ठिरमन्त्रदीक्षः क्रूरः सुहृच्छद् मधरोऽतिजिह्मः ।
परिच्छदावाप्तसुखाधिवासस्तं दष्टुमारब्ध स शल्यसर्पः ॥६२॥
त्वं सूतजातो-स्यकुलीनवृत्ती राजेन्द्रजन्मा स च सव्यसाची ।
त्वं युद्धमेतेन न कत्तु म) मृषाऽवगच्छामि विकत्थनं ते ॥६३॥
यदन्तरं जम्बुकसिंहयोश्च शशस्य चैरावतहस्तिनश्च ।
तदन्तरं तेऽधिरथात्मजस्य नृपेन्द्रपाण्डोस्तनयस्य चापि । ६४।
शरोऽसि शस्त्रास्त्रविद्प्यसि त्वं प्रशंसितो वीरवरैः परन्तु ।
त्वया न जीयेत महेन्द्रसूनुश्खागात्मजो नैव वृकं निहन्यात् ॥६॥
गाण्डीवकोदण्डसमुत्थघोषमाकर्य ते कर्ण हि कर्णरन्ध्र ।
विदीर्यमाणे खमये न शक्तो रणाङ्गणे स्थातुमपि प्रकामम् ॥ ६६ ॥
अतीतसंख्यालयाम्बुदानां निरस्यतो भीमरवं रथस्य ।
श्रुत्वैव ते घरिघोषमुग्रं स्यादग्निदत्तस्य हृदि प्रकम्पः ॥६७ ॥
श्रीवासुदेवेन सहोपविष्टं श्वेताश्वसंयुक्तकपिध्वजे तम् ।
रथे स्थितं द्रक्ष्यसि पाण्डुपुत्रं भविष्यसीशो न तदाऽऽत्मनस्त्वम् ॥६॥

एकोनविशा सर्गः] १४५ हविर्भुजं प्रज्वलितं निरीक्ष्य पतङ्गमाला भासितावशेषम् । प्रपद्यते हन्त यथा तथैव त्वमप्यये यास्यसि नाशमद्य ॥६॥ ग्रहीतुमिच्छोरिव वामनस्य भग्नोरुकस्योडपति शशाङ्कम् । दशां विचित्रामवलोक्य तेऽद्य न जायते कस्य नरस्य हासः ।।७।। मृत्युनरीनति शिरःस्थितस्ते भ्रष्टा मनीषा तव बोभवीति । अजातशत्रोः समुपेक्ष्य पक्षं धयं यतस्त्वं प्रधनं करोषि ॥७१॥ अरुन्तुदं तद्वचनं निशम्य वित्रीयते स्मात्मनि सूर्यसूनुः । अवोचदेनं त्वमये मदीयोऽहितोऽसि मद्रश हितच्छलेन ॥७॥ वीर्य च सत्पौरुषमात्मनीनं प्रभावमुत्साहबलं विहन्तुम् । सम्बन्धमाक् त्वं रिपुपाण्डवानां नराधमः कामयसे मदीयम् ॥७३॥ मत्तो द्विपेन्द्रः समुपेक्षमाणःश्वबुकनं स्वाध्वनि संप्रयाति । तथैव सम्प्रत्यवमत्य वाचमग्रेसराम्यत्र रणे त्वदीयाम् ॥४॥ धनञ्जयं तं विनिपात्य पूर्व ततोऽधर्म त्वां च निपातयिष्ये । सहिष्यते को नु विपक्षपक्षप्रशंसकस्यानृतभाषितानि ॥७॥ सद्बठ्यौ कृतकलहयोरेतयोः कृष्णवणे क्रोधाज् जिह्मे, नयनयुगले रक्तिमानं दधाने । चित्रां श्रेणीमिव मधुलिहामुत्पलेष्वीक्षमाण- स्तत्रायातश्चकितचकितो धार्तराष्ट्रोऽतिखिन्नः ॥७६॥ तं तिग्मधामतनयं निजमातुलं च मद्राधिपं विनयवाग्विभवो विनीतः। बद्धाञ्जलि कुरुपति. कलहान्निवार्यस्वाभीष्टलाधनपरः स निनाय शान्तिम् ॥७७॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकाव्ये एकोनविंशः सर्गः समाप्तः

अथ विंशः सर्गः
शल्यः समुत्साहहतं व्यचेष्टत कर्ण विधातुं बलिनं परन्त्वसौ ।
स्वीयाद् व्यरंसीत्सुदृढान निश्चयाद्व्यूह रणार्थ विरचय्य नियौ ॥१॥
कल्पावसाने प्रलयार्थमुद्यतं तिग्मांशुधामानमिवापरं नृपः।
संतिष्ठमानं परमाद्भुते रथे तं धर्मसूनुः सहसा व्यलोकत ॥ २॥
साकं वरेण्येन स शल्यभूभृता सारथ्यकर्माद्धुतकीर्तिशालिना।
प्रक्लप्तवीरासनवेषदारुणं राजा तमालोक्य बभूव चिन्तितः ॥ ३ ॥
ऊचे स पार्श्वस्थमिदं धनञ्जयं पश्याङ्ग कणं पुरतः स्थितं रिपुम् ।
संग्राममिच्छु सबलं सुसज्जितं मद्वक्षसः शङ्कुमिवातिदुःखदम् ॥ ४॥
अद्यैव ते तात परीक्षणात्मको वारश्चिराभ्यर्थित आगतोऽस्त्ययम् ।
एनं निहत्य प्रवरं धनुष्मतां स्वाम्यं ममाशुद्धृतकण्टकं कुरु ॥ ५॥
अस्मिञ्जिते वैरिणि वीरपुङ्गवे दुर्योधनाद्या निखिला महीभृतः ।
आयोधने येऽत्र समागता द्विषः संनिर्जिताः सन्ति महारथाः समे । ६॥
मत्पक्षमालम्ब्य युयुत्सवो नृपाः साकं विपक्षैः स्वसमानपौरुषः ।
कुर्वन्तु युद्धं रथिनो रथस्थितैः सर्वे स्वसाम्यं भजतोऽभियानि वह ॥७॥
वं कर्णमेनं अभियाहि दुर्मदं युध्येऽहमाचार्यकृपेण साम्प्रतम् ।
भीमोऽपि दुर्योधनमेत्य युध्यतां निनन्तु पाञ्चालनराश्च मद्रकान् । ८॥
उक्त्वेत्यसौ चैकत आत्मसैनिकान दुर्योधनः स्वीयबलानि चान्यतः ।
उत्साहयन्तौ धरणी नभस्तलं संनादयामासतुरुप्रसंरकैः ॥ ६ ॥
वीराः पराजेतुमिह स्ववैरिणः पक्षद्वयस्यापि तृणाय मेनिरे ।
प्राणानिजानस्त्रसमूहवर्षणैर्निन्युदिनं चापि निशासमानताम् ॥१०॥

१४७ विशः सर्गः] छिन्तैनमेतं परिभिन्त सायकैगृहीत जीवन्तमिमं विपक्षगम् । खीयैः कृपायां कृपणैः कृपाणकैरेषां कुरुध्वं हि वपूंषि खण्डशः ॥११॥ हहो इमे स्यन्दनचालका हता भग्ना रथा आयसनिर्मिता अपि । यूयं समेऽग्रेसरत द्विषबलं सम्मदयन्तो रथवाजिकुञ्जरैः ॥१२॥ पृष्ठानि नो दर्शय तस्वशत्रुभिः संग्राममद्यानयतान्तमुद्यताः । स्वर्ग मृता गच्छत वा जयश्रियमालिङ्ग्य शश्वत् परिमोदमाप्नुत ॥१३॥ इत्थं प्रवृद्धैर्ध्वजिनीमहारवैराशाः समस्ताः प्रतिदध्वनुस्तदा । माघद्रणोन्मादगृहीतचेतसः शूरा न कस्यापि वचः सुशुश्रुवुः ॥१४॥ अश्वद्विपस्यन्दनघोरनिःस्वना भीमं रणं हुकृतयः प्रकुर्वताम् । कोदण्डघोषा व्यथितात्मनां रवा रन्ध्रेषु शूलं श्रवसां वितेनिरे ॥१॥ कर्ण समालोक्य युधिष्ठिरः क्रुधा जाज्वल्यमानोऽतिजगर्ज दर्पितः । रे सूतपुत्राधमनीच कौरवा अत्याचरन् नस्तव पौरुषं श्रिताः ॥१६॥ पारेभिरे युद्धमिदं च भीषणं त्वबाहुवीर्याण्यवलम्व्य निर्भयाः । त्वामद्य नूनं विनिपात्य संगरे राज्यार्थिनस्तान विदधेऽफलानिह ॥१७॥ व्याहृत्य वाचं त्विति धर्मसूनुना नाराचराजिर्ववृषे समन्युना । कर्णोऽपि कर्णान्तलसद्धनुर्गुणो विव्याध मर्मस्थलमस्य सायकैः ॥१८॥ प्रावोचदेनं प्रविलजयन् पुनर्धर्माभिमानत्वमये परित्यज । आचार्यहन्तास्यनृतस्य भाषणाद् गन्तास्यवश्यं नरकान् सुदुःसहान । १६ धिक् त्वां स्वराज्यार्थमसत्यवादिनं यः स्यन्दनस्ते स्पृशति स्म न क्षितिम् । संयाति सोऽयं धरणी मिमां स्पृशन् ब्रीडां मनस्यानयसे न, युध्यसे ॥२० न त्वां हनिष्यामि परन्तु संयुगस्यास्वादयिष्यामि सुखं मया सह । त्वं सावधानो भव, पापकर्मणामुग्रो विपाको भुवि भुज्यतामिह ॥२१॥ Hot -

[कर्णार्जुनीये
उक्त्वेति तस्योपरि वाणवर्षणं कर्णो व्यवत्तापरिमेयपौरुषः ।
कुन्तीसुतेनापि निजैर्महेषुभिः सूनुर्दिनेशस्य कृतोऽतिविह्वलः ॥२२॥
संमूछितः शल्यकृतोपचारतो भूयः स्वबोधं प्रतिपय सत्वरम् ।
वाणैः करालाद्धनुषो विनिर्गतैरुपैरजातारिमशातिमानयत् ॥२३॥
आसादिते निर्बलतां स पाण्डवे तत्स्यन्दनं चापि बभञ्ज सायकैः ।
सम्प्रद्रुत युद्धमपास्य भूपतिं संघर्तुकामस्तमनुप्रधावितः ॥२४॥
पाञ्चालवीराः प्रतिरो माययुः कर्ण, परन्त्वम्बुनिधेर्महोर्मयः ।
शक्या निरोढुं न हि कोटिभिर्भटः शूराग्रगण्यैरपि हस्तहेतिमिः ॥२५॥
क्षिप्रं प्रधावन् निगृहीतवानसौ धर्मात्मजं, तर्हि स मद्रभूपतिः ।
चिन्तां अपनो निजभागिनेयकं संक्षितुं वाचमुवाच तं तदा ॥२६॥
सौते त्वया धर्तुमयं न शक्यते धर्मावतारः क्षितिपालभूषणः ।
संप्रेक्षणेनापि निजेन भस्मसाद कत्तु स शक्नोति भवन्तमञ्जसा ।।२७॥
धर्मात्मजं पीडयितुं न चैहत सूर्यात्मजो ब्रीडयितुं त्वियेष तम् ।
संल्लज्जित वीक्ष्य पृथासुतं स्वयं पर्यत्यजद् वीरवरो महात्मवान् ॥२८॥
तं पाह-राजन्ननभिज्ञ एव भो संग्रामकार्येऽसि ततो बहिदुतम् ।
संयाहि सेवस्व तपोवने क्वचिद् धर्म, महर्षीनतिथींश्च तर्पय ॥२९॥
आज्याक्तशुद्धः सुसमिद् भिरन्वहं गव्यैः करीषैर्युतभुक्समर्चनम् ।
विप्रार्चनं निर्जरविग्रहार्चनं त्वद योग्यमेतं हि विभावये विधिम् ॥३०॥
स्वीयावह पितवारिजन्मना रम्याक्षमालाकृतियोग्यपाणिना।
वाणं धनुस्तीमरशक्तिमुद् गरान् कर कृपाणं न विमर्तुमर्हसि ॥३१॥
धर्मात्मज त्वद् रुचिराननेन भो धयं वचो वर्णितमेव शोभते ।
राहवाहानमनन्वदुःखदं ब्रीडास्पदं वीरजनैः प्रतीयते ॥३२॥

विंशः सर्गः]
पद्भ्यां सुपर्वप्रतिमापरिक्रमा कार्य भवदयोग्यमवैमि भूपते ।
निन्ये श्मशाने मृतदेहसंकुले यात्रा रथेनात्र न संगता तव ॥३३॥
शीघ्र पलायस्व रणाजिरादितो नायाः पुनर्मादृशशूरसम्मुखम् ।
उक्त्वेति कर्णेन विमुक्तजीवनो राजा प्रदुद्राव स पाण्डवाग्रजः॥३४॥
श्रालोक्य भीमस्तु महापराक्रमः कर्णेन संत्रासितमात्मवान्धवम् ।
अन्यैश्च युद्धं परिहृत्य सत्वरमभ्यर्णमेतस्य स यो माययौ ॥३५॥
भ्राजत्करेणुप्रतिमां जयश्रियं संप्राप्तुकामौ बलशालिनावुभौ ।
घोराहवं चक्रतुरिद्धकोपनौ तौ भीमकर्णावगजौ गजाविव ॥३६॥
तत्राशु वीरो नकुलः समागमत् स्वीयाग्रजस्यास्य सहायताकृते ।
देवः सहादिश्च ततश्च संगतो भूयोऽप्युपाढौकत धर्मराडपि ॥३७॥
तिग्मांशुसूनुः सकलैरयुध्यत तैः सार्द्धमेकः प्रथितो महाबलः ।
नाशक्नुवंस्तेऽस्य पुरः प्रसर्पितुं नागा मृगेन्द्रस्य यथा बलीयसः ॥३८॥
कुन्त्यै प्रदत्तं वचनं स संस्मरंस्तानावधीत् स्तुत्ययचःपराक्रमः ।
अद्यात्मशस्त्रास्त्रवरेण्यकौशलं सन्दर्शयामास महारणाङ्गणे ॥३६॥
संचूर्णयामास रथांश्च सारथीन् सप्रेषयामास कृतान्तसमनि ।
सम्पातयामास तुरङ्गमांस्तथा तेषाञ्चकाराशु धनूंषि खण्डशः ॥४०॥
बज्रायितैः खीयधनुर्विनिर्गतै राचसंधैश्चतुरोऽपि पाण्डवान् ।
संछादयामास दिनेशनन्दनः शल्यस्तदा ग्लानिमवाप्तवान् पराम् ॥४१॥
चिन्तातुरः कर्णमुवाच मद्रराड् राधेय धुर्योऽसि धनुष्मतामिह ।
वध्या न पाण्डोस्तनया इमे त्वया शौर्य महत्त्वेव करोति यो महान् ॥४२
पश्यैष वीरप्रवरो धनञ्जयः श्वेताश्वसंयुक्तरथे विराजितः ।
श्रीकृष्णनेत्रा सह सेऽद्य अंगरे योद्धव्य आस्ते पुरनो ह्यवस्थितः ॥४३॥

१५०
[कर्णार्जुनीये
चेदोजसस्तेऽत्र भवेदपव्ययस्तीक्ष्णांशुगानामपि संहति सेत् ।
संयत्यवश्यं हि तदाऽर्जुनेन ते संभाव्यतेऽनर्थकरः पराभवः ॥४४॥
धर्मात्मजादींश्चतुरोऽपि निन्नतः कार्य न ते किंचिदपि प्रसिध्यति ।
दुर्योधनः स्यान्न च सिद्धकामनः कीर्तिस्त्वदीयापि भवेन विश्रुता ॥४५॥
संबोधितस्तेन निजां प्रतिश्रुतिं सस्मृत्य चैतान विरहय्य जीवितान् ।
अन्यत्र संग्रामचिकीर्षया गती विस्मापयन् वैरिजनान् स सस्मितम् ॥४६
चक्रुस्तदा ते सहसा पलायनं संगोपयन्तः परमप्रियानसून् ।
आलोक्य चैतान् रणतः पराङ्मुखांस्तत्सैनिकाश्चापि भयात् प्रदुद्रुवुः४७
सेनाधिपास्तान् रुरुधुः पलायितांस्तान् धर्मराजस्य भयारीसैनिकान् ।
अन्यत्र कर्ण प्रविलोक्य निर्गतं ते युद्धभूमौ पुनरप्यवातरन् ।॥४८॥
अत्यन्तशोच्या नृपतेरभूद्दशा क्रूरेण कर्णेन कृताऽद्य संगरे ।
मित्वा हृदस्त्राणमनेकसायकाः संतस्थिरे मर्मणि तस्य कोमले ॥१६॥
जञ्जन्यते स्मास्य महाव्यथा तनौ सम्माननाशेन पराजयेन च ।
संत्रीडितः साहसशून्यतां गतो नैराश्यमासादितवान् निजे जये ॥५०॥
क्षेत्रं रणस्य प्रविहाय सत्वरम् औदास्यभावं गमितेन चेतसा ।
विश्रान्तिमिच्छुः शिविरं समाश्रयन्नध्यास्त पर्यङ्कतलं स कोमलम् ॥५१॥
अङ्गेषु चैतस्य निसक्तसायका निःसारिताः शल्यचिकित्सकैर्वृतम् ।
सान्धानिकैश्चापि विशल्यकारिभिनिन्ये स नैरुज्यमरं सदौषधैः ॥५२॥
किन्त्वस्य तीक्ष्णा अवमानवाच्छराः कर्णप्रयुक्ता न्यविशन्त मर्मसु ।
तैः पीब्यमानोऽसहनीयदुःखदैर्नासावशान्तो लभते स्म नितिम् ॥५३॥
यद्यप्यमुष्य हसति स्म वेदना शारीरिकी किन्तु न मानसी व्यथा ।
सा वर्धते स्म प्रवत्ता चणे चणे शल्यायिता कानिकारसम्भवा ॥५४॥

विशा सर्गः]
१५१
पावस्थितौ तौ नकुलः सहादिको देवश्च भीमेन रणाङ्गणे तदा ।
संप्रेषितौ तेन विषएणचेतसा खभ्रातृसाहाय्यकृते दयालुना ॥५५॥
नावेच्य युद्धे नृपति युधिष्ठिरं चित्तां प्रपेदे महतीं धनजयः ।
दुःस्वास्थ्यमेतस्य निशम्य भीमतोऽhणं प्रतस्थे सह माधवेन सः ॥५६॥
बन्धुं निरैक्षिष्ट सुतल्पमास्थितं शुष्यन्मुखं रक्तचयाचिताङ्गकम् ।
दीर्घ श्वसन्तं भयचिन्तयाऽतुरं प्राप्तव्यथामुद्रितनेत्रपङ्कजम् ॥५७॥
द्वावेत्य संपस्पृशतुः पदाम्बुजं कृष्णार्जुनौ धर्मसुतस्य धीमतः।
आश्वासयामास कपिध्वजो भृशं जिज्ञासितं चापि शमस्य भूमृतः ॥५८
ऊचे तथा युद्धमपास्य साम्प्रतं कृष्णः सखाऽहं च दिक्षयाऽऽगतौ ।
उन्मीन्य नेत्रे हतशोकसन्ततिस्तूर्ण निरीक्षस्व दयालुमानसा ॥५६॥
आश्वस्तचेता भव, कापि मानसे चिन्ता विधेया न धरापते त्वया ।
श्रीवासुदेवे सति कोऽपि किं रिपुः स्थातुं समर्थः प्रबलोऽपि भूतले ॥६०
विक्रान्तवीरस्य विचारयन् मृति हर्षप्रकर्ष स जगाम भूपतिः ।
कर्ण निहत्यैष समागतोऽधुना कृष्णस्य साहाय्यत इत्यमन्यत ॥६१॥
पीयूषनिस्यन्दि वचो निपीय तद् विस्मृत्य दुःखान्युपविश्य सत्वरम् ।
उन्मीलितादोद्गतरोमसन्तती राजा प्रसीदन् गिरमित्यवोचत ॥६२॥
मित्रेण साकं वसुदेवस्नुना सुस्वागतं वच्मि कपिध्वजस्य ते ।
दृष्ट्वा युवामाप्तजयौ मनोव्यथा देहव्यथा चापि विनाशमाप्नुतः ॥६३॥
द्रोणस्य वा भीष्मपितामहस्य वा चिन्ता मनागप्यभवन मे हृदि ।
नाम्नैव कर्णस्य दुराध्यपानिधिः कूलं विभिद्याशु सदा समैधत ॥६४॥
भीत्या महत्या वसुषेणजन्यया पर्याप्तमन्नस्य जलस्य सेवनम् ।
नानुष्ठितं द्वादशहायन मया निद्रासुखं वापि च नान्वभ्यत ॥६५॥

१५२ [ कर्णार्जुनीये आसीत् यमोऽसौ विकरालविप्रहः संहर्तकामः परिपन्थिमानवान् । देवैः समस्तैः सह लोकपालकैरिन्द्रोऽपि तं जेतुमलं न संगरे ॥६६॥ देहो मदीयस्तितऊपमानतां वेभिद्यमानो गत एतदाशुगैः । मामय जीवन्तमसौ समत्यजत् तस्यानुकम्पा महतीं विभावये ॥६७।। हहो शरीरी किमसौ पराक्रमो वीरो रसो वा किमु विग्रहं श्रितः । अद्यापि मे तस्य भयङ्कराकृतिर्नु त्यत्यजस्र किल नेत्रसन्निधौ ॥६॥ आक्षेपवाचा तु पितामहोक्तया दिग्वासरानस्त्रमुपाददे न सः। रात्रिन्दिवं तस्य तदापि विग्रहः संराजते स्म प्रवरोत्र विग्रहे ।६६॥ अनन् पिबन् हन्त चलन स्वयंस्तथा सर्वत्र कर्ण हि सदा निरैक्षिषि । संग्रामभूमौ स यदा ह्यवातरद् यान्ति स्म नैवास्य पुरो महारथाः ॥७॥ आकर्य सैहीं समरेऽस्य गर्जनां रोमाण्युश्चन् हि युधिष्ठिरस्य मे । मामभ्युपेतः स रणे पुनः पुनते स्म हत्या बहु कुत्सितं वचः । ७१॥ श्रुत्वाऽस्य दुर्वाक्यमहं समुच्छ्वसन प्राप्तोऽस्म्यवश्यं मृतकस्य तुल्यताम् । आरक्षि शल्येन निजा प्रतिश्रुतिस्तस्योपदेशाद् रिपुणाऽस्म्युपेक्षितः।।७२ लोकेऽत्र यद्यप्यसको न विद्यते किन्त्वेष मद् दृष्टिपथे विराजते । तत्तुल्यवीरो न मया विलोकितो ह्यद्यापि सर्वत्र स एव भासते । ७३॥ श्रीवासुदेवस्य सहायतामृते तं स्याः कदाचिन्न निहन्तुमीश्वरः । युद्ध हतोऽसावथवा ममास्ति किं भ्रान्तिः, किमेतद्य रिरङ्ग जीवति ।७४ उन्मादजं वा पवमानहेतुकं व्याधि प्रपन्नो लपतीह मानुषः । तथैव जल्पन नृपतिनिरर्गलं श्रान्तः स भूयोऽप्यधितल्पमस्खपत् ॥७॥ अाकर्ण्य वाचं नृपतेर्धनञ्जयः प्राह स्म- राजन् वितथं न ते वचः । राधेयकर्णः : स महापराक्रमी लोकत्रये नास्ति हि तादृशो बली ॥७६।।

१५२
[कर्णार्जुनीये
आसीद् यमोऽसौ विकरालविप्रहः संहर्चकामः परिपन्थिमानवान् ।
देवैः समस्तैः सह लोकपालकैरिन्द्रोऽपि तं जेतुमलं न संगरे ॥६६॥
देहो मदीयस्तितऊपमानतां वेभिद्यमानो गत एतदाशुगैः ।
मामय जीवन्तमसौ समत्यजत् तस्यानुकम्पा महतीं विभावये ॥६७॥
हंहो शरीरी किमसौ पराक्रमो वीरो रसो वा किमु विग्नहं श्रितः ।
अद्यापि मे तस्य भयङ्कराकृतिर्नु त्यत्यजत्रं किल नेत्रसन्निधौ ॥६॥
आक्षेपवाचा तु पितामहोक्तया दिग्वासरानस्त्रमुपाददे न सः।
रात्रिन्दिवं तस्य तदापि विग्रहः संराजते स्म प्रवरोऽत्र विग्रहे ॥६६॥
अनन् पिबन् हन्त चलन स्वयंस्तथा सर्वत्र कर्ण हि सदा निरैक्षिषि ।
संग्रामभूमौ स यदा ह्यवातरद् यान्ति स्म नैवास्य पुरो महारथाः ॥७॥
आकर्ण्य सैंहीं समरेऽस्य गर्जनां रोमाण्युदश्चन् हि युधिष्ठिरस्य मे ।
मामभ्युपेतः स रणे पुनः पुनब्रूते स्म हत्या बहु कुत्सितं वचः । ७१॥
श्रुत्वाऽस्य दुर्वाक्यमहं समुच्छ्वसन प्राप्तोऽस्म्यवश्यं मृतकस्य तुल्यताम् ।
आरक्षि शल्येन निजा प्रतिश्रुतिस्तस्योपदेशाद् रिपुणाऽस्म्युपेक्षितः।।७२
लोकेऽत्र यद्यप्यसको न विद्यते किन्त्वेष मद् दृष्टिपथे विराजते ।
तत्तुल्यवीरो न मया विलोकितो ह्यद्यापि सर्वत्र स एव भासते । ७३॥
श्रीवासुदेवस्य सहायतामृते तं स्याः कदाचिन निहन्तुमीश्वरः ।
युद्ध हतोऽसावथवा ममास्ति किं भ्रान्तिः, किमेतय रिरङ्ग जीवति ।७४
उन्मादजं वा पवमानहेतुकं व्याधि प्रपन्नो लपतीह मानुषः ।
तथैव जल्पन नृपतिनिरर्गलं श्रान्तः स भूयोऽप्यधितल्पमस्खपत् ॥७॥
आकर्ण्य वाचं नृपतेर्धनञ्जयः प्राह स्म- राजन् वितथं न ते वचः।
राधेयकर्णः स महापराक्रमी लोकत्रये नास्ति हि तादृशो बली ॥७॥

विंशः सर्गः] वीरोऽस्मदीयेषु न सैनिकेषु यस्तन्नामतो भीतिमुपैति नात्मनि । दृष्ट्वैव तं हन्त रणे समागतं द्रेऽपसर्पन्ति महारथा अपि ॥७७॥ श्रान्ति न संयाति कदापि संगरे कृत्तन् रिपून् गृञ्जनमूलकोपमान । अग्रेसरत्येव यथोन्मदः करी स्वं पृष्ठदेशं न च दर्शयत्यसौ ॥७॥ संख्यामतीतान् नृपतीन् महारथान् विख्यातवीरान् रणपण्डितानसौ । द्रोणात्मजस्यानुमतोऽद्य वैरिणः सम्प्रेषयामास यमस्य सद्मनि ॥७॥ वर्षाण्यसीदाम चतुर्दश प्रभो यस्यानुमत्या विवशा बनान्तरे । यः संसदि प्राह सुर्वचं वचः कृष्णा कुलीनां द्रुपदात्मजां वधूम् ॥८॥ एकाकिनं शस्त्रविहीनमात्मजं क्रूरोऽनुकम्पारहितो रणाङ्गणे । सौभद्रमूनं वत षोडशाब्दतो व्यापदयामास महारथैश्च यः ॥८१॥ स्पर्द्धा दधन्मामधिलोकसम्मुखं जेतुं रणे यस्य समीहितं सदा । दुर्योधनं तोषयितुं सदैव यो वादानवाच्या प्रयुयुज नः प्रति ॥२॥ वर्णाधमो गर्हितसूतवंशजो राधेय एतद्यपि नास्त्यसौ मृतः । आशीर्वचोम्वाप्य तवाद्य संगरे कृष्णप्रभावात् स हनिष्यते ध्रुवम् ॥८३॥ सम्पीडयामास भवन्तमद्य यो धर्मावतारं च जगाद दुर्वचः । गत्वा रणे तं विनिपातयाम्यहं सम्प्रत्यनुज्ञा भवता प्रदीयताम् ।।८४॥ अवेत्य युधि जीवित ह्यधिरथस्य तस्यात्मज स समलोकयन सकलमेव शून्यं जगत् न्यमजदतिदुर्गमे द्रुतमशातिवारान्निधौ जगच निखिलं तमस्ततिभृतं नृपोऽमन्यत ॥५॥ इति श्रीकविवर्य-विन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये महाकाव्ये विंशः सर्गः समाप्तः पुनः २० अथैकविंशः सर्गः अथ नृपतिरुदस्थात् क्रोधताम्राननश्रीः कुटिलभृकुटियुक्तो दन्तनिष्पीडितौष्ठः। इव वपुषि समन्ताद् विद्युदापूर्यमाणो वचनमिदमवोचनन्दसूनोः सखायम् ॥ १॥ अयि वत कपिकेतो कर्णमेनं निहन्तुं प्रबलनिजविपक्षस्यैकमात्रावलम्बम् । समरभुवि कृतास्तेऽनेकधा ते प्रतिज्ञा मनसि विमृश नै सा न वैयर्थ्यमागात् ॥२॥ सुविदितमभविष्यद् दुष्टदुर्योधनस्य प्रधनवरसहायं न हि सति समरे त्वं संविजेतुं समर्थ- स्तदहमिह बनान्तान्नैव हन्तागमिष्यम् ॥३॥ बहुविधमपमानक्लेशमन्द सहित्वा नृपतिवरविराटस्यालये गुप्तवेषः। परदकवलजीवी सारमेयोपमानो निकृतिशतमुपेक्ष्याहं मुधा किं न्यवत्स्यम् ॥४॥ निजगिरमनुधावन्नवर्षाण्युषित्वा . वनजजननिषेव्ये घोरकान्तारदेशे। प्रकटितनिजदेहो गुप्तवासान्तराले पुनरपि विपिनेऽहं द्वादशाब्दानयास्यम् ॥५॥ सर्वशूराग्रगण्यम् । - एकविशः सर्गः] क्रममिति वत वारं वारमत्रानुसृत्या- खिलमपि निजमायुः कानने यापयित्वा । अगणिततनुपातं सत्तपांसि प्रकुर्वन मुनिरिव फलमूलान्याहरिष्यं सदैव ॥६॥ मनुजपतिवरेण्यान् मत्स्यपाश्चालदेश्यान् अपरनृपतिवान कोटिशो वीरधुव्न् । इह हि समरभूमौ स्वीयसाहाय्यहेतोः कथमपि बहुमान्यान नाहमामन्त्रयिष्यम् ॥७॥ अधिरथसुतबीर्यान्न्यक्कृताशेषधैर्या- दनुभवति मनो मे पुर्वतो भीतिमुग्राम् । न हि तब मुखनिर्यच्छौर्यमाकर्णयिष्यं रणमिममहमज्ञो नाचरिष्यं कदापि ॥८॥ प्रथितकुरुकुलोद्यधूम्रकेतोः सहायं कपटविकृतबुद्धर्धार्तराष्ट्रस्य कर्णम् मम मतिरियमासीद् घातयिष्यत्यवश्य- ममरपतितनूजः सा समूलं हताऽभूत् ॥६॥ अपमितिमनुतिष्ठन् युद्धभूमाविदानी प्रतिहतमनसो मे भूयसीं तामसद्याम् । सदयहृदय एषोऽसुप्रदानं विधाय जनमिममजहात् तन्मृत्युतो नातिरिक्तम् ॥१०॥ निकृतिमरिकृतां तां भीषणां चापि सोदवा- ऽत्यजमहमिह नासन यन्मदीयोऽनुजन्मा।

[कर्णार्जुनीये
की
समरशिरसि हत्वा मामकीनं सपन्न
मम मनसि निषक्तं शल्यमुद्धर्जुमीशः ॥११॥
अधिरथतनुजाताद्
भीतिमन्तर्दधानः
पवनसुतमिहक त्वं परित्यज्य युद्ध ।
इह गमनमकार्षीरथ नूनं सबन्धु-
मम कुशलमिषेण स्वासुसंरक्षणार्थी ॥१२॥
जगति विहितपूर्वां यः स्वकीयां प्रतिज्ञा-
मवति न हि जनोयः सोऽस्त्यनार्योंऽतिनिन्द्यः।
जननमपि तदीयं व्यर्थमुच्चार एव
भवति निजजनन्याः सर्वदोपेक्षणीयः ॥१३॥
अहह तव समक्षं यो विनाशं विधत्ते
स्वसभयपृतनायाः सैनिकानामजस्रम् ।
द्रुम इव परिशुष्कस्त्वं च सन्तिष्ठमानो
न च तमयि निरुन्धेश्चेत्तवास्ते कलङ्कः ॥१४॥
अधिजलनिधि नीत्वा कर्णधारायमाणः
समरतरणिमेतां संपरित्यक्तवांस्त्वम् ।
अनुभवति न सौख्यं घट्टके वा गृहे वा
रजकनिलयवासी सारमेयस्तपस्वी ॥१५॥
परिचितिरभविष्यत् त्वं पुमान् नासि, नाहं
कथमपि रणचर्या शोकदामाचरिष्यम् ।
विगतविजयमोहस्त्यक्तराज्यप्रलोभः
स्वमुखमपि जनेभ्योऽदर्शायिष्यं न चैव ॥१६॥

पकविंशः सर्गः] विततवरभुजी ते व्यर्थनिर्जीवशुप्यन्- द्रुमविलसितशाखातुल्यतां सन्दधानौ । भुवनविजयि चैतद् गाण्डिवं सुप्रसिद्ध क्षयरहितनिषङ्गं चापि धत्से मुधैव ॥१७॥ तव धिगमितमोजो गाण्डिवं ते धिगस्तु विलसति यदरिक्त धिक् च तूणीरमेतत् । हविरदनवितीर्ण स्यन्दनं ते च विधिक सुहृदमपि च धिक् त्वां देवकीनन्दनस्य ॥१८॥ इति वचनमुदश्चन् धर्मराजो विमोहं व्यगमदतिशयातॊऽशिश्रियत् स्वीयशय्याम् । वसनपिहितवक्त्रस्त्यक्तधैर्यस्तदानीं शिशुरिव स समुच्चैरुच्छ्वसन संरुरोद ॥१९॥ जनकसमगरीयोभ्रातुरत्यादारं हि सततमपि विधत्ते संविनीतोऽर्जुनोऽयम् । उचितमनुचितं वा तद्वचः सर्वदैवा- सिहत मुदितचित्तः साधुकर्माऽनुजन्मा ॥२०॥ परमिह विहिताऽऽसीत् तेन पूर्व प्रतिज्ञा यदि मम धनुषो ना कोऽपि गाण्डीवनाम्नः। अधिभुवनमनह निन्दन चेद् विदध्यात् सपदि मम कृपाणः कर्त्तयेत्तस्य शीर्षम् ॥२१॥ परनिजगणनाऽऽस्ते नैव हन्त प्रतिज्ञा- समबनवरकृत्ये वीरधौरेयपुंसाम् ।

[कर्णार्जुनीये
निजवचनसुरक्षाकार्यहेतोरनेके
प्रियतमसुतदारानत्यजन् सत्यकामाः ॥२२॥
समभजदत एव ह्यर्जुनः क्रोधमिद्धं
महितमहिमबन्धोमस्तकं चेत्तुमिच्छन् ।
निशितनिजकृपाणं कर्षयन् कोषतोऽसौ
त्वरितमुपगतोऽभूदग्रतोऽजातशत्रोः ॥२३॥
अभिमतमवगच्छन् वासुदेवोऽर्जुनस्य
गिरमतिशयरम्यां व्याहरनज्ञतुल्यः ।
सुहृदमिममपृच्छद् भो भवान् खगमेतं
समुदधरदकाले तदरहस्यं न जाने ॥२४॥
रणरणनमपीदं विद्यतेऽत्यन्त
कुरुनृपतितनूजा अत्र नागन्तुमर्हाः
अधिरथतनुजन्माऽपीह नायाति कश्चिद्
रिपुरपि तव सम्प्रत्यस्ति नैवात्र दृष्टः ॥२५॥
द्विषदहितकदेष क्रूरकर्मा कृपाण
इह कथमिव कोषादुद्धृतोऽभूत् त्वयेति ।
समुचितमभिधातुं चेद् भवेन्मत्समक्षं
सपदि कथय साधो विद्धि मां नात्मभिन्नम् ॥२६॥
अचरचरपतेः सद्भाषितं तन्निशम्य
सुरपतितनुजन्मा सैष गाण्डीवधन्वा ।
अवददयि सुहृतेऽवाच्यमास्ते न किञ्चित्
त्वमसि हि मदभिको गोपनीयं न तेऽस्ति ॥२७॥

एकविशा सर्गः] १५६ परममहिमवन्धो श्रूयतां भो कदाचित् तव चरणशरण्योऽहं प्रतिज्ञामकार्षम् । यदि मनुजनिरिह कश्चिद् गाण्डिवं मे विनिन्देव तदहमचिरमेतं संहनिष्यामवश्यम् ॥२८॥ पितृसमबहुमान्योऽयं सतामग्रगण्यः शुभचरणवरेण्यो मत्कसर्वस्वभूतः । स इह धनुरनिन्दन्मामकं साम्प्रतं यत् तदहमनृतभीतो धर्मस्नु निहन्मि । २६॥ प्रथममहमिदानीमेनमाहत्य पश्चात् प्रबलतममरिं तं सूतपुत्रं हनिष्ये सुहृदयि विषयेऽस्मिन् किन्नु धर्माकूल तव मतमिति वेत्तुं प्रार्थये त्वां प्रपन्नः ॥३०॥ वच इति सुनिशम्य स्वीयभक्तार्जुनस्य प्रणतहितकृदात्मा सत्यदर्शी परात्मा । अहसदतिमनोज्ञं तत्परं वाक्यमूचे सुदृढतरमिदं तं शिष्यभूतं सखायम् ॥३१॥ अवगतमिदमासीद् बुद्धिमान् नीत्यभिज्ञ- स्त्वमसि परमिदनी बुध्यसेवोषबालः । श्रुतिगदितरहस्यं धर्ममर्म प्रकृष्टं न हि तव विदितं भो त्वद्वचो व्यर्थमेतत् ॥३२॥ सुविदितपरमार्थाः सत्यकामा अलूक्षाः कथितवचनमात्रां मेनिरे न प्रतिज्ञाम् ।

१६० [कर्णार्जुनीये परिणतिरिह यस्याः सद् गतेः साध्यभूता स्वजन हेतविधात्री सा प्रतिज्ञा प्रतिज्ञा ॥३३॥ क्वचिदपि परिणामेऽधर्मकर्मापि धर्मः क्वचिदपि भुवि धर्मोऽधर्मरूपं विभर्ति । अत इह विबुधानां संहतिवर्णमात्रां प्रतिहतसदुदर्का मन्यते न प्रतिज्ञाम् ॥३४॥ विबुधजननिषेवी नैजमिथ्याप्रतिज्ञा- परवशमुपयातो हन्तुकामस्त्वमेनम् । जनकमिव वरेण्यं सत्यमूर्ति श्रुतिशं कथय वत ततोऽन्यत् पातकं किञ्चिदास्ते ॥३॥ कुटिलहृदयतो वा क्रौर्यतो द्वेषतो वा मनसि विकृतभावं संदधानो रिपुर्यः । धनुरिदमतिरम्यं गाण्डिवं चेद् विनिन्देव स भवति वघयोग्यस्त्वत्प्रतिज्ञाशयोऽयम् ॥३६॥ सततमृतपरो यो धर्मशीलो दयावान् हितरिपुसमभावः सर्वदा ते हितैषी । अधिरथजजितः संस्तत्कृताच्चापमानाद् वचनसिदमवोचन्नात्र गाण्डीवनिन्दा ॥३७॥ अवदधदयमास्ते त्वां विना नैव कर्ण- मिह हि जगति कश्चिद्धन्तुमीशो मनुष्यः । त्वदहितमतिदुःखात् तावकोत्तेजनार्थ- मलपदयमजानस्ते पुराणी प्रतिज्ञाम् । ३८॥

एकषिशा सर्गः]
यदपि ऋतमदो वै किन्तु नैजं वचोऽपि
भवति हि परिपाल्यं सत्यपालेन पुंसा ।
कथितमृतवरेण्यैः श्रौतविज्ञानविदुभिः
कटुकवचनमुक्तं घाततुल्यं गुरूणाम् ॥३६॥
अत इममतिपूज्यं धर्मराजं नृनाथं
त्वमिति कथय मान्यं मानहीनां कटूक्तिम् ।
जगति महितपंसामुक्तशब्दापमानो
मरणसदृश आस्ते शास्त्रनिष्कर्ष एषः॥४॥
तदपमतिकृते त्वं तत्पदानं प्रपद्य
निजकृतमपराधं शामयेर्लानचेताः ।
अतिगहनगति तां सोऽपि धर्मस्य जानन्
हृदयविनयभाजस्तेऽपराधं
गगनगपतिकेतो षितं शास्त्रसिद्ध-
मवदधदधिचित्रं विज्ञवर्योऽर्जुनो यम् ।
गुरुसमबहुमान्य
भ्रातरं धर्मसर्नु
निकृतिनिरतवाचं वक्तुमारब्धवांस्ताम् ।।४२॥
अयि नृप कटुवाक्यं मां वृथा त्वं न्यगादी-
न हि निजकृतमहः पश्यति प्रान्तचेताः ।
अपरशरणसंस्थं नाशयत्यन्धकार
खतलविलसितं तं हन्ति नैव प्रदीपः॥४३॥
व्यरचयदिह धाता द्रष्टुमीशानि खानि
निजपुरत उदञ्चद्वस्तुजातानि सत्यम् ।
समेत ॥४१॥

१६२
[कर्णार्जुनीये
निभृतनयनयुग्मः कोऽपि विज्ञाग्रगण्यो
निजहृदयनिविष्टं वीक्षते दोषराशिम् ॥४४॥
अतिशयमवगीतान् वेदविद्भिर्दुरक्षा-
स्त्वमधम परिदीव्यन् राज्यमात्मानमस्मान् ।
द्रुपदनृपतिपुत्रीं द्रौपदी चापि साध्वीं
महति वत दुरन्तेऽमज्जयः क्लेशसिन्धौ ॥४५॥
निजकुलवरवध्वास्त्वं निकारस्य हेतु-
स्त्वमसि च कुलघाती द्यूतसंसक्तचेताः ।
त्वदधिगतनिदेशात स्वीयसर्वस्वनाशो
विहित इह तथापि त्वं विनिन्दस्यनिन्धम् ॥४६॥
हितवितथविचारस्त्वं सदाचारहीन
उपकृतिमपि न त्वं मन्यसे गर्हितात्मा ।
प्रभवितुमचलायास्त्वं न नाथोऽसि योग्यो-
ऽधिभुवनमुदासीः क्षत्रियाणां कलङ्कः ॥४७॥
इति विविधमयोग्यं दुर्वचो भाषमाणो
गलितनयननीरो लजयाऽऽकृष्टखनः।
नृपकृतमपमानं संस्मरन् संविषीद-
नमरपतितनूजो हन्तुमात्मानमैच्छत् । ४८॥
अथ पुनरयमूचे देवकीनन्दनेन
कथमयि कुरुषे त्वं कार्यमज्ञस्य भूयः ।
गुरुकुतनिकृतेश्चेदात्मघाते प्रवृत्त-
स्तदसिकृतवधान्ते ब्रूहि किं त्वं विदध्याः ॥४६॥

सर्गः] शृणु निजमुखतश्चेदात्मनः शंसनं य- दभिदधति बुधास्तचात्महत्यासमानम् । पुरत उपगतः सन् भ्रातृवर्य्यस्य चास्य प्रकुरु निजमहत्त्वाशंसनं तद्वधस्ते ॥५०॥ मतमिदमवधार्य श्रीधवस्यार्जुनोऽयं प्रियतरमुपदिष्टं पालयन् व्याजहार । अयि नृपवर किं मां बुध्यसेऽहं किलैका सफलतरमकार्ष राजसूयं क्रतुं ते ॥५१॥ विजयमपि जगत्याः संव्यधामेककोऽहं पुरि नृपतिविराटस्याखिलान कौरवांश्च । गुरुवरसहितांस्तान् भीष्मकर्णादियुक्ता- नधिसमरमथैकः संनिरास्थं सपत्नान् ॥५२॥ सुरपुरमधि गच्छन् दानवायान् निवात- कवचसमभिधानान भीतनाकाधिपेन्द्रान् । अहमचिरमनायासेन तान् संनिपात्य त्रिदशपुरवरेण्यैरस्मि संगीतकीर्तिः ॥५३॥ चितिपतिमपि सद्यो भिक्षुकं कर्तुमर्हो हतविधिमपि भिक्षु शक्त ईशं विधातुम् । अतुलितपुरुषार्थ पश्य राजन् मदीयं प्रबलतमविपक्षं कर्णमधैव हन्मि । ५४॥ अधिरथजनुषश्चेल्लोकपालाः समस्ता अवनमिह विधातुं संहताः सम्भवेयुः। me

[कार्जुनीये
1
--
तदपि समरभूमावागतं सूतसुनु
यमनसदनसंस्थं संविधास्येऽद्य नूनम् ॥५५॥
गिरमिति समुदीर्य ह्यर्जुने याति मौनं
प्रकृतिमधिगतः सन् रोरुदावान् नरेन्द्रः ।
व्यलपदनुज सत्यं मत्समः कोऽस्त्यधन्यो
जगति परमपापः क्रूरकर्मा नृशंसः ॥५६॥
अनुसरणपरा मे भ्रातरो यूयमेते
प्रतिवनमघशून्या हन्त बम्भ्रम्यमाणाः ।
त्र्यधिकदशमिताब्दान् दुःखदग्धा मयैव
न्यवसत सह सर्वे मामहो सेवमानाः ॥५७॥
नृपतिवरतनूजै राजवंश्यैर्भवद्भि-
निजकुल विपरीतां भैत्यचर्या चरद्भिः ।
अगणितनरगेहान् नित्यमाटाव्यमान-
स्तुणमिव निजदुःखं मत्प्रसादाय मेने ॥५॥
अहह सदसि नना क्लेशसिन्धौ निमग्ना
यु भयकुलवरेण्या द्रौपदी स्वैरिणीति ।
यदतिकुटिलचित्तैरभ्यधायि प्रकाश-
मयमहमिह हेतुः पापकर्माऽधमोऽस्मि ॥५६॥
अधिगतरणशिक्षो मान्य आचार्यवयों
भरतकुलनृसिंहो भीष्मदेवोऽपि वन्यः ।
अनृतकपटरीत्या राज्यलोभाद् घृणाद्ि
यमसदननिषेच्यौ तौ मयाऽकारिषाताम् ॥६॥

स] १६५ भवितुमहमयोग्यो भूतलस्यास्सि शास्ता कुरुनृपतितनूजान कर्णमन्यांच शत्रून् । इह युधि विनिपात्य स्वाग्रजो भीमसेनः सकलभुवनवन्ध राज्यपीठेऽभिषेच्यः ॥६१॥ अभिदधदिति राजा हन्त रोरुद्यमानो विरहितशयनीयो सौ तपस्तप्तुकामः । कचिदपि सुविविक्तेऽरण्यदेशे यियासु- रुदचलदिति दृष्ट्वा हन्त सर्वे व्यसीदन् ।।२।। वनगमनपर तं वासुदेवोऽनुधावन् विनयविनतमोलस्तत्पदाब्जे विलुण्ठन् । सकरुणहृदयः वं दैन्यभानं दधानो न्यवददयि दयालो नार्जुनस्यापराधः ॥६॥ अनुमतिमनुसृत्य प्रेरणां चास्मदीयां त्वदनुजवरेण्यो गाण्डिवं विभ्रदेषः । अनभिमतमनेकं प्रोक्तवान् दुर्वचस्ते स ननु मदपराधो मर्षणीयस्त्वयाऽद्य ॥६४॥ विवशमतिक आसीत् स प्रतिज्ञाप्रपूत्तौं तदिदमिह विदित्वा तं भवान् क्षन्तुमर्हेत् । इह च मयि च सद्यः संप्रसन्नान्तरात्मा भवतु वदतु राशीन भूयसः स्वाशिषाश्च ॥६५॥ तदनु मघवसनुधिषस्येङ्गितको नृपतिचरणयोः स्नं भातमारोप्य भक्त्या ।

[कर्णार्जुनीये
निजकृतमपराधं क्षामयन् संययाचे-
ऽधिरथसुतवधार्थं भ्रातुराशीर्वचांसि ॥६६॥
सपदि गलितमोहोऽजातशत्रुः प्रसीदन्
निजमनुजनिमेनं सर्वदा वश्यभूतम् ।
चरणमधिशयानं तूर्णमुत्थाप्य दौ|'
सदयहृदयदेशे पोडयन सौख्यमापत् ॥६७||
उभयसहजयोः संदृष्टसत्प्रीतिभावो
मिल पसुरवैरी धर्मरक्षाप्रवीणः।
प्रणतजनकृपालुर्योगिवयों निरीक्ष्य
विकसितवदनोऽसौ मोदमग्नो बभूव ॥६॥
पितृसमनिजबन्धोः पादपद्म स्पृशन् सन्
विबुधवरतनूजो मन्युना दीप्तमूर्तिः ।
समधिकबलमाद्यच्चेतसः सूतसूनो-
रखिलपतिसमक्ष प्रत्यजानाद् विनाशम् ॥६६॥
अनुजमवनिपालः संविनीत निजाशी-
स्ततिभिरभिमताभिः खर्चयन स्नेहपूर्वम् ।
कुनृपनिधनहेतो विष्णुना जन्मभाजा
सह रिपुवधमिच्छन प्रेरयद् युद्धभूमौ ॥७॥
अतिशयरमणीयः सूर्यतुल्यः प्रभाभि-
विलसितकपिकेतुश्चञ्चलावेगगामी ।
कुलिशसुदृढरूपो वह्निना संवितीर्णः
र्सितहयसमुपेतः स्यन्दनस्तूर्णमागात् ॥७१॥

द्वाविंशः सर्गः]
सततमृतपरस्य भ्रातुरात्माग्रजस्य
महितविनययुक्ता प्रादिमदक्षिणां सः ।
आतशयितसुरौजाः स्वं धनुः सन्दधानो
मधुदनुजनिहन्त्रा साकमैन्द्रिश्वकार ॥७२॥
अश्वानां संस्तुतानां प्रखररवजुषां प्रग्रहे धार्यमाणे
श्रीकृष्णेन प्रकामं प्रणतहितकृता सारथीनां वरेण।
पौनःपुन्येन कण ध्रुवनिधनकृते स्वप्रतिज्ञां प्रकुर्वन
संशृण्वन् स्वस्तिवाचं श्रुतिसुखजननीमर्जुनः सम्प्रतस्थे ।।७३।।
इति श्रीकविवर्यविन्ध्येश्वरीप्रसादशास्त्रिविरचिते कर्णार्जुनीये
महाकाव्ये एकविंशःसर्गः समाप्तः।
अथ द्वाविंशः सर्गः
निजसपत्नेन कर्णेन साकं यदा समरमिच्छन् सुरेशात्मजः प्रस्थितः ।
दरमयं तस्य शस्त्रास्त्रसत्कौशलाद् धृदि बुढौके परं हस्तयोर्लाघबात् ॥१॥
पथि च शुष्यन्मुखः सुपरिविभ्यन्मनाः सहजमप्यात्मधैर्य तदा सन्त्यजन्।
परमशरोऽपि धीराग्रगण्योऽप्यसौ मनसि चेत्थं सुनासीरजोऽचिन्तयत्।।२
अधिरथस्यात्मजः सर्ववीराग्रणीजगति विद्यते धर्मशीलो महान् ।
भुजबलेन स्वकीयेन विश्वौकसां विहितवानेकका क्षत्रियाणां जयम् ॥३॥
मुधुपुरी पैत्रिकी राजधानी विभुभयमितो यस्य कृष्णोऽत्यजत् साग्रजः।
मगधभूपं प्रकृष्टं तमूर्जस्विनां व्यजययातासवज स कर्णो मृधे ॥४॥

१६८ कर्णार्जुनीये युधि न जेष्यामि राधासुतं वैरिणं प्रतिवलं शत्रुसैन्येऽतिदुर्धर्षकम् । यदि तदाज्यायसो भ्रातुरेत्याग्रतो निजमुखं दर्शयिष्याम्यलजः कथम् ॥५ विमृशतस्तस्य कर्णस्य शौर्य महन् सुकपिकेतोरुदश्चच्च रोमावलिः। समुदभूत्स्वेदराजि वपुष्यस्य तत् करधृतं गाण्डिवं संस्रते स्मायतम् ॥६॥ प्रबलराधेयभीतं सखायं खकं समवगत्यान्तरजस्तदानीं हरिः । रथहयान् मन्दयनस्य शौर्य भृशं प्रकटयन्नर्जुनं तं तचे वचः ॥७॥ ध्रुवमसौ सूतपुत्रो बली विद्यते परममुं त्वं समथोंऽसिजेतुंरणे । विरचयामास पद्मोद्भवस्त्वां सखे निधनकर्तारमेतस्य सौतेरिह ॥८॥ भुजसहस्र वधानोर्जुनो विक्रमे प्रथित आसीत् समस्तेऽपि भूमण्डले । शिवसमाराधनाप्तेन नैशात्यभृत्परशुना येन याम्यं पुरं प्रेषितः ॥६॥ भुवनमाहिण्डमानोऽखिलं ह्ययद्वयो द्विदशवारं य एकाधिकं भसुरः । निहतवान् पत्रियान् वीरविश्वौकसस्तमपि युद्धेऽवधूतं विधत्ते स्म यः॥१० तमिह भीष्मं त्रिलोकैकवीरं रणे दशदिनं योधयिस्खा महाविक्रमम् । परमतोऽशाययः स्वेषुपर्याङ्क के कथय सार्द्ध त्वयाऽलं क आयोधने ॥११ गुरुवरद्रोणवाणान् निरोद्धं क्षमः क इह दृष्टस्त्वदन्यो नरः संगरे । नृपतिसूये क्रतौ भूतलस्मृनु पैस्तव निदेशोऽखिलैर्माल्यवत् स्वीकृतः ॥१२॥ भगवतो वाक्यमाकर्ण्य तस्याननानिजबलं चापि सर्वाधिकं शृण्वतः । प्रतिचकाशेर्जुनस्य स्ववक्त्रद्युतिनिखिलमङ्गं तदीयं च पर्यस्फुरत् ॥१३॥ धृतशरीरः स वीरो रसोऽज्ञायत रथनुदा बोधितः सन्दिदीपे भृशम् । पुनररिं कर्णमन्वेष्टुकामः क्रुधा सकल देवक्षिणी चात्मनः प्रेरयत्।।१४ सम्भृणोद् यत्-कृपद्रौणिवीरादिभिः सततमुत्साहितोऽसौ महास्यन्दनः । स्वतनुजैः सत्यसेनादिभिः संयुतः कदनमारब्धवानस्ति विद्वेषियाम् ॥१५ द्वाविंशः सर्गः] अथ महासंगरं वीक्ष्य सौतेः समे नृपतिवर्मात्मजस्याश्रिताः सैनिकाः । समरभूमि परित्यज्य संदुद्रुवुर्दिशि विदिश्यात्मरक्षाकृते विभ्यतः ॥१६॥ विजयविश्वासमेतेऽत्यजन् पाण्डवा निखिलवीरास्तदीया विषादं गताः। चिखिदुरत्यन्तमन्तर्धरित्रीभृत उदचरद्धन्त सर्वत्र हाहाध्वनिः ॥१७॥ निजचमूनां समालोक्य तां दुर्दशामवददेषोऽर्जुनः स्वीयसत्सारथिम् । अयि कृपालो नयस्वातिशीघ्रं रथं मम विपक्षस्य कर्णस्य तस्यान्तिकम् १८ सुमहता कौशलेनार्जुनस्यन्दनं सपदि संप्रेरयन् युद्धभूमौ हरिः । अनयदत्युद्धतो यत्र कर्णः कृपाविरहितो युध्यते स्मारिदापहा ॥१६॥ उभयपने युयुत्स्वोवं जिन्योर्महान् गगनभेदी रवः पर्यशोश्रूयत । रणमृतानां नृणां दुःस्थितेश्चिन्तया यदुपतेर्मानसं चाप्यदोयत ॥२०॥ समरचण्डीमहन्नतनोज्जृम्भणं परिविलोक्याखिलं विश्वमत्तुं कृपाम् । वत जहत्याः करान्यास्तु काल्याः कृतिः स्मृतिपथं सा प्रसह्याध्यरोरुह्यत रुधिरसंवाहिनीनां नदीनां रये मृतजनच्छिन्नशीर्षाण्यसंख्यान्यहो । विदधते सन्तरस्कूर्मकवातजं समरभूमौ तदानीं नराणां भ्रमम् ।। २२।। ध्वजमथालोक्य दूरात लवङ्गाङ्कितं मनसि मोमुद्यमानः स कर्णोऽभवन् । निजरथप्रेरकं मद्रदेशाधिपं परमवीरो न्यगादीदिमां भारतीम् ॥२३॥ चिरदिनाभ्यर्थिता मे मनःकामना गतवती पूर्तिमेषोऽर्जुनः साम्तम् । सहित आयाति कृष्णेन युद्धाषिां मम समीपं पतङ्गायमानः स्वयम्।।२४ ध्रुवमिमौ घातयित्वा महाविक्रमावधिगमिष्याम्यहं दुर्लभं सद् यशः । किमुत वा मोक्षमाप्स्यामि ताभ्यां हतो युधि परावर्तिशून्यं पदं योगिनाम् समरमिच्छोर्ममाभाति हस्तद्वये बहुमतं स्वादुमद् दुर्लभं मोदकम् । विजयलक्ष्मी वरिष्याम्यहं चान्यथा रणमृतो मोक्षलक्ष्मी द्वयं मत्प्रियम् २६ २२

१७०
कर्णार्जुनीये
वचनमाकर्ण्य कर्णस्य दुर्हत्समो हृदयशल्योपमः शल्य श्राहस्म तम् ।
बदसि मिथ्याभिमानस्त्वमित्थं कथं मृगपतेः सम्मुखं याति किं जम्बुक:
त्वमुदभूगर्हिते सूतवंशेऽधमे बुदितवान् सोऽस्ति विख्यातभूपान्वये ।
कथमयं संगतः स्याद् रणो वामये जगति युद्धं समानान्वये शोभते ॥२८
यदुपतिस्तस्य बाह्यासुतुल्यः स्थितः सततमेवार्जुनेत्राधिकं स्निह्यति ।
न हि कथञ्चित्स गाण्डीवधन्वा त्वया परमवीरो विजेतुं क्षमः संगरे॥२६॥
अहितवाचं निशम्याथ शल्यस्य तां निजरिपोर्मातुलस्यान्तरङ्ग विदन् ।
गिरिरिव व्याहतोऽम्मोनिधेरुम्मिभिर्न विजहौ धैर्यमूचे च सूर्यात्मजः३०
तव मनोभ्रान्तिरेषा वरीवृत्यते ध्रुवमहं संविजेष्ये सपत्नार्जुनम् ।
अयि मदीये महोत्साहवारानिधिह दि समुज्जृम्भते कूलमुज्झन्निव ।।३१।।
यदि मृतः सम्भविष्याम्यहं संगरे भगवता रक्षितेनार्जुनेनाऽद्य चेत् ।
तदपि कीर्तिर्मदीया शरत्पूर्णिमाशशिविभेवोदगता स्याज्जगन्मण्डले ३२
दशमितो विद्यते सप्तमो वासरो व्यतिगतः संगरस्यास्य शूरार्दिनः ।
उभयपक्षीयनिर्णीतिमद्यैव भो ननु जये वाऽजये वा विधास्याम्यहम् ॥३३॥
इति गिरामन्तराले हि कर्णस्य सन्निकटमानीतवानर्जुनस्यन्दनम् ।
यदुपतिस्तर्हि कर्णः प्रपेदे परां स्वहृदये-भूतपूर्वा प्रमुत्सन्ततिम् ॥३४॥
तमुभयोर्द्रष्टुकामा रण वीरयोरुपगताः सैनिकास्तत्र पक्षद्वयात् ।
वियति संख्यातिगा सद्विमानावलिः सकलनाकोकसां संरराजे तदा॥३५
सुरपतेः सूनुरास्तेऽर्जुनश्चैकतो परत आभाति कर्णो दिनेशात्मजः ।
कुशलकामौ द्वयोश्चापि जन्मप्रदौ निजविमानस्थितौ खे तदा रेजतुः ३६
उदरजातावुभौ तौ पृथाया जगत्प्रथितपत्न्यास्तु पाण्डोधरित्रीपतेः ।
यमबलौ गौररूपी समानाकृती हतहदा राजचिह्नने संभूषितौ ॥३७॥

द्वाविंशः सर्गः] १७१ सिततुरङ्गौ सुवर्णप्रभामण्डितप्रविलसत्स्यन्दनौ छत्रशोभान्वितौ । कवचयुक्तौ तथा वीजितौ चामरधु तकिरीटौ लसत्कुण्डलौ राजतः ॥३८॥ समभवद् दिव्यशस्त्रास्त्रशिक्षोभयोः सुरथसञ्चालकौ कृष्णमद्राधिपौ । रणकृतोः स्यन्दनौ चालयित्रोस्तथा समरभूमौ दृशोऽन्योन्यमालिङ्गिताः॥ सहजयोयुद्धमत्यद्भुतं भीषणं परमदुर्धर्षयोद्धधजञ्जन्यत । पर्वयक्षामराः किनरा अपि नरा द्रष्टुकामाः समेत्राययुः॥४०॥ नरवरौ तौ कदा सायकान् कर्षतो धनुषि चारोप्य वाऽऽकृष्य तानस्यतः । इति न कश्चिन्निरैक्षिष्ट तत्र स्थितोऽसुरसुराणां गणश्चाप्यमोमुह्यत ।।४।। प्रलयकालीनमेघावली यादृशीढिरदशुण्डायिता वारिधाराः सदा । किरति तद्वत्तयोः वज्रकोदण्डकौ कुरुत उग्रां प्रवृष्टिं हि शैलीमुखीम् ॥४२ मधुसपत्नानुशिष्टप्लवङ्गध्वजप्रहितमप्यत्रकं ब्रह्मनामामृतम् । विफलयामास वीरेन्द्रकों यदा चकितता जग्मुराकाशसंस्थाः समे ४३ तदनु कर्णः स्वकर्णान्तमाकृष्य सत्-स्वधनुरत्यन्तभीमं च वज्रोपमम् । दशशरांस्तान्निशातांस्तदा प्राक्षिपद्धतशरीरस्तु यैर्माधवो व्याकुलः ॥४४ अतिशयं क्रोधमाप्तेन दैत्यारिणा सपदि संबोधितः संनिरस्यन्निघून् । नृपतिपाण्डोः सुतोऽच्छादयत् खं यतो निखिलविश्वं ममजान्धकारेभृशम् प्रखरमुद्धाकामो निषङ्गादिषू दिनमणेरात्मजोऽभूत् समन्युर्यदा । अवसरे तत्र नागोऽश्वसेनः पुराऽर्जुनकृतं विप्रियं संस्मरन् प्राविशत् ।।४६ न हि विवेदस्म नागस्य तस्यागति निजशरं दिव्यमेषोऽक्षिपद् विद्विपि । मधुरिपुस्तद् रहस्यं विदित्वा विभुनतमकार्षीत् तदा पाण्डवस्यन्दनम्।।४७ उरगसंसक्तवाणेन जिष्णवर्पित मुकुटमस्यार्जुनस्यात्यमेयं च तत् । सपदि संचूर्णितं सद् धरित्रीतले पवितमालोक्य कष्णोऽप्यभूद् विस्मिनः

[कर्णार्जुनीये
फणियुतः सायकः सारथे कौशलाद् विफलतामाप्तवास्तर्हि भूयः फणी ।
शरममोघं प्रवेष्टुं समैच्छत् तदा विदितवांस्तच्छलं तिग्मरश्मेः सुतः । ४६
त्वमयि कोऽसीति पृष्टः पुराकालिकार्जनकृतं चापराचं समुद्बोधयन् ।
फणिपति. प्राह कर्ण मदीयं वचः शृणु सखे त्वद्धितं कर्तुमिच्छाम्यहम्
त्वदरिण खाण्डवं भस्मसात्कुर्वता विपिनमस्मजनुत्रिका घातिता।
प्रभृति तस्मादिनाद्धन्तुमिच्छामि तं स्ववसरं प्राप्तवानस्म्यहं साम्प्रतम् ॥
गरुडकेतोविंदग्धत्वहेतोरहं मुकुटमेवास्य संभक्तुमीशोऽभवम् ।
पुनरपि स्वाशुगे मां समारोपय ध्रुवमहं कयिष्यामि शीर्ष रिपोः ॥५२
भवदरिं कोऽपि लोकत्रये नाधुना सकलदेवेषु सरक्षितुं स्यात् क्षमः ।
त्वमयि मां प्रेरयस्वैकवारं पुनर्वधमुपैष्यत्यवश्यं सपत्नोऽर्जुनः ॥५३॥
निशमयंस्तगिरं मन्युताम्रक्षणो ह्यभिदधे पन्नगं भर्त्सयन् भानुजः ।
अवदधनीचतां नैव कुर्यामहं भुजबलस्यावलम्बो निजस्यास्ति मे ॥५४॥
निकृतिमाप्तः स कर्णेन नागः पुनर्व्यथितचित्तो भृशं हन्तुकमोऽर्जुनम् ।
परिगृहीतास्वरूपो महादीप्तिमान् गगनगो विक्षितः सर्वविद्विष्णुना ॥५५॥
अभिदधे तेन पाण्डो: सुतोऽतिप्रियो वियति योऽयं विसर्पन समागच्छति
अतिनिशातेन नाराचराजाऽऽत्मनो जहि मदीयं वचो मन्यमानः सखे ५६
तदनु पार्थो निषङ्गान्महासायकं त्वरितमाकृष्य कर्णान्तिकं प्राक्षिपत् ।
विषधरो लक्षधा तेन संचूर्णितो व्यपगतप्राण एषोऽपतद् भूतले ॥५७॥
भगवता साधुवादाः पृथासूनवे परिवितीर्णाः शतं मोदमाविभ्रता ।
मघवजन्मा समुत्थाय चालिङ्गितः प्रथमदुर्गो जितश्चेत्यसौ व्याहृतः।।५८
समरमातन्वता भीषणं शत्रुणा सह तदानीमकस्माद् रवेः सूनुना ।
भगुसुतेनार्पितं ब्राह्ममस्त्रं वरं तदिह संविस्मृतं शापतस्वन्मुनेः ॥५६॥

१७३
द्वाविशः सर्गः]
तदनु जग्राह तत्स्यन्दनाङ्गान्यहो वसुमती तयपि स्वीयमोजो महत् ।
परिदधद् वोरवयं स धैर्य निजं न हि जहौ तत्र संयुध्यमानो रणे । ६०॥
पुनरपि ब्रह्मणोऽस्त्रं तमत्यद्भुतं प्रति युयुञ्जेऽर्जुनस्तच्च भूयोर्कजः ।
विफलयन्नुग्रनाराचसङ्घान् स्वकानतिनिशातान् प्रचिक्षेप मूर्ध्नि द्विषः॥६१
शिततमैः कर्णसनोदितैः सायकैरुदधिजायाश्च पत्या समं पाण्डवः ।
अतिशयव्याकुलत्वं प्रपेदे तथा स्वविजये चापि नैराश्यमापत्तदा ॥६२॥
सुहृदमुं स्व हतोत्साहमालोकयन् वचनमुच्चारयञ्छ वान्त्वनायाः प्रभुः ।
उचितधैर्य समालम्बयन् व्याहरत् कथमये त्वं विमूढत्वमापसे ॥६३॥
श्रुतचरादय सल्लक्षिताल्लक्षणादयमरिः खानसूस्तूर्णमुज्झिष्यति ।
निरलसोऽजस्रमेतर्हि तस्मात् सखे विकिरतु प्रत्यमुं शत्रुमुग्राञ्छरान् ॥६४।
रथनुदा प्रेरितोऽसौ क्षिपन् सायकानभिदधे भानुजेनार्जुनो वीर भोः ॥
त्वमसि धर्मज्ञधुर्यो न यावन्मया स्वरथचक्रः क्षितेरूध्वमानीयते ॥६५॥
रणनिरोधस्त्वया तावदापाद्यतां नियम आयोधनस्यैष वेविद्यते ।
विपथमाश्रित्य गच्छेन्नरस्त्वादृशो यदि कथं धर्मसेतुर्भवेद् रक्षितः । ६६॥
निगदितं तन्निशम्यार्जुनः सद्वचो दिनपतेः सूनुना त्यक्तयुद्धोऽभवत् ।
परमसौ धर्ममर्मज्ञ प्रात्मा सतां व्यहसदुच्चैस्ततो धर्म्यमूचे वचः ॥६॥
अनृतमार्गं च धर्मात्मभिर्गहितं श्रितवतो धार्तराष्ट्रस्य धर्मद्रुहः ।
स च सदादक्षिण बाहुरेतद्वधे तव महान् धर्म आस्ते सतां सम्मतः॥६८
वसति योऽधार्मिकाणां सदा संगतौ प्रकुरुते तनिदेशस्य संपालनम् ।
भवति सोऽप्याततायी वधार्हो नरः श्रुतिपुराणादिशास्त्रष्वयं निर्णयः ६६
अधम एतादृशोऽवस्थिति कामपि यधिगतोऽप्याशु वध्योऽस्ति धर्मात्मना।
अयमतः सत्वरं हन्यतां न त्वया किमपि चित्ते समालोचनीयं सखे ॥७॥

[कर्णार्जुनीये असुरहन्तुनिदेशेन संप्रेरितं शरततिं प्रक्षिपन्तं पृथायाः सुतम् । धरणिसस्थोऽजन्मा निशातैः शरैर्व्यथितवास्तं तथा सारथिं माधवम्।।७१ स्वरथनेमि धराग्रस्तमप्यन्तरा प्रववृते सोऽतियत्नेन निष्कासितुम् । सुरपतेः किन्तु पुत्र स्वकीये विधौ समवलोक्यान्तरायं युतो मन्युना।।७२ उरसि तस्यातितीव्र शरं न्यक्षिपन्निपतितो मूर्च्छितः स्यन्दने स्वेऽर्जुनः। तदनु स स्वं रथाङ्गं क्षितेरूवंगं किल विधातुं प्रयत्ने प्रवृत्तोऽभवत् ॥७३ प्रबलया स्वीयशक्त्याऽथ सम्पूर्णया निजकृतौ व्यापृतो भानुजन्माऽभवत् । अतिगतो बोधमत्रान्तरे पाण्डवो निदिदिशेऽसावधानं निहन्तुं रिपुम् ।।७४ अपरकार्ये प्रसक्तं हरे वैरिणं न रणधर्मेण हन्तुं समादिश्यते । इति वचो ह्यर्जुनीयं निशम्य प्रभुर्विदित प्रास्ते न ते धर्म इत्युक्तवान् ॥७५ अतिशयं धर्मतत्त्वं सुसूक्ष्मं सखे ह्यहमये वेद्मि तन्मे निदेशस्त्वया । सपदि संपान्यतां शीघ्रमेवान्यथा युधि न संजेष्यते मन्यतां मद्वचः ।.७६ आज्ञामिमां भगवतः समवाप्य विष्णोरारोपयन् धनुषि वाणमसौ करालम् । संस्मृत्य सर्वविबुधान् भगवत्प्रपन्नो वक्षो रिपोः समभिलक्ष्य निरास पार्थः।। पीच्चक्रुर्दिक्करीन्द्रा महिपतिसुधृता काश्यपी सञ्चकम्पे संक्षोभं प्रापुरुग्रं वत जानधयो भूधराः कम्पमाताः । हाहाकारैजनानामखिलमपि वियन्मण्डल व्याप्तमासीद् यस्मिन् कालेऽन्यकार्ये रतरवितनयं जिष्णुजन्मा जघान ॥७८ इति श्रीकविवर्यविन्ध्येश्वरीप्रसादशास्त्रिविचिते कर्णार्जुनीये महाकाव्ये द्वाविंशः सर्गः समाप्तः। --- समाशोऽयं प्रत्या पं० श्री विन्ध्येश्वरीप्रसाद शास्त्री जी से मैं चिरकाल से परिचित हूँ। आप वाराणसी के उन गिनेचुने संस्कृत विद्वानों में हैं, जिन्होंने संस्कृत के प्रचलित अध्ययनाध्यापन के साथ-साथ संस्कृत में नवीन रचना का भी काम किया है । साथ ही आपने दश संस्कृत पुस्तकों का और चार हिन्दी पुस्तकों का भी प्रणयन किया है। इसके अतिरिक्त 'सूर्योदयः" और "सुप्रभातम्" नामक उच्चकोटि की सस्कृत-पत्रिकाओं का सम्पादन भी आप बड़ी योग्यता के साथ चिरकाल तक करते रहे हैं। यह सर्वविदित है कि संस्कृत में उपादेय नवीन ग्रन्थों का प्रणयन अच्छे पंडितों के लिए भी साध्य नहीं होता। आपको सुमधुर संस्कृत भाषा पर अधिकार है और आपने अपनी रचनाओं से देववाणी की प्रशसनीय सेवा की है। आप विद्याप्रेम के लिए वाराणसी के पण्डितों में विशेष स्थान रखते हैं। मैं आपके इस "कर्णार्जुनीयम्” महाकाव्य का सर्वथा प्रचार चाहता हूँ। (डाक्टर) मंगलदेवशास्त्री Ex-Vice-Chancellor, Sanskrit University, Varanasi, .

Karanarajurnium

Author
Sastracharaya Vindasawari Prasad Sastri
Title
Karanarajurnium
File name
Karanarajurnium
Text
OCR done
Citation
1889
Published
25.06.06
Publisher
Sadanand Bazar Varanasi
Language
Sanskrit
Pages
179
Library
Allahabad University
Classification
Literature(sanskrit)
DLI number
485234
Barcode
5990010098299.00
Scanning centre
IIIT, Allahabad
VMLT id
hBPkoTUNFSg
Download PDF

Karanarajurnium