Uttarpara Jaykrishna Public Library, Hooghly

Sisupalavadha

Sastri, Gagannath, Ed. · 2007/02/21

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

THK KASHI SANSKRIT SERIES ( HARIDAS SANSKRIT GRANTHAMĀLĀ) NO., 69. (Kāvya Section, No. 9) THC SISUPĀLAVADHA By MAHAKAVI MAGHA. With two Commentaries- THE SANDEHAVISAUSADHI BY VALLABHA DEVA, and THE SARVANKASĀ BY MALLINĀTHA. Ediled by Sānityopadhyaya Anantarama s'āstri Vetār & Carried through the press by Sahityopadhyaya Jagannath S'astri Hos'ing PRINTED, PUBLISHED & SOLD BY JAI KRISHNADAS-HARIDAS GUPTA, The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gmalmandir, Benares City. 1929. Registered according to Act. XXV. of 1867. ( All Rights Reserved by the Publisher. )

SEEEEEEEEEEEEEESSS
Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.
EEEEEEEEEEEEEE
Printea by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares,
ex
gelegexgxoxoxoxlox2000x0 exolc00000CXX
Agents:
1 Otto Harrassowitz, Leipzig:
GERMANY
2 Arthur Probsthain,
Oriental & Foreign Booksoller,
London,
3 The Oriental Book-supplying Agency,
POONA.

हरिदास संस्कृत ग्रन्थमा लास मा ख्य- काशीसंस्कृतसीरिजपुस्तकमालायाः ६४ काव्यविभागे(९)नवमं पुष्पम् । || श्रीः ॥ श्रीमन्माघकविनिर्मितं शिशुपालवधम् श्रीवल्लभदेवकृतया सन्देहविषौषधिव्याख्यया तथा महोपाध्याय-श्रीमल्लिनाथकृतया सर्वकषाव्याख्यया समेनम् । साहित्योपाध्याय-वेताल-श्री-अनन्तरामशास्त्रिणा सम्पादितम् । तथा साहित्योपाध्याय-होशिङ्ग-श्री-जगन्नाथशास्त्रिणा परिष्कृतम् । प्रकाशकः- जयकृष्णदास-हरिदासगुप्तः- चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटो। १९८५ राजशासनानुसारेण सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः।

GOG SUCCC इस कार्यालय द्वारा "काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्वा संस्कृत सीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्थ. मालायें निकलती हैं तथा इन ४ सीरिजो के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है। पत्रादि प्रेषणास्थानम्- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज़” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। Googcoooooooooooooo ॥ श्रीः ॥ भूमिका। उपक्रमः। अथेदमिदानी संमुथू प्रकाशयितुं प्रस्तूयते सव्याख्यं महाकाव्यं महाकविश्रीमन्माघ- निर्मितं शिशुपालवधं नाम । काव्यमिदं मल्लिनाथकृतया सर्वकषाख्यया व्याख्यया सह मोहमय्यादिषु कतिधा मुद्रितम् , उपलभ्यते च साम्प्रतं तत्र तत्र । परमद्यावधि कुत्राप्य- मुद्रिता मल्लिनाथात्प्राचीनेन वल्लभदेवेन निर्मिता सन्देहविषौषधिर्नाम व्याख्या मुद्रायि- तव्येति मनसिकृत्य श्रेष्ठिवरश्रीजयकृष्णदासमहोदयेन प्रेरितैः सोत्साहमेतत्सम्पादनादि- कर्मणि प्रवृत्तमस्माभिः। तदिदं सपरिश्रमं संशोध्य सन्देहविषौषधि-सर्वङ्कषाख्येन व्याख्या- द्वयेन समन्वितं महाकाव्यं साम्प्रतं ससंमदं साहित्यविद्यानुरागजुषां विदुषां पुरस्ता- दुपहारीक्रियते । काव्यविचारः। तत्र पूर्व काव्यं तावदालोचयामः- यत्किल चमत्कृतिमच्छब्दश्रवणसमनन्तरमेव सहृदयानां हृदये कमप्यनिर्वचनीयं विच्छित्तिविशेषमुन्मेषयति, तन्निगद्यते काव्यम् । यशो. ऽर्थसाधनं व्यवहारचातुर्यसम्पादनमनर्थोन्मूलनं काव्यं हि शब्दार्थप्रधानेभ्यः प्रभुसुहृ. संमितेभ्यो वेदपुराणादिभ्यो विलक्षणतया गुणीभूतशब्दार्थव्यापारव्यङ्गयमर्यादया नेत्र. त्रिभागावलोकनादिभिः सरसताऽऽपादनपुरःसरं कान्तासंमितत्वेनाऽभिमुखीकृत्य सत्कार्य प्रवर्तयति निवर्तयति चाऽसत्कार्यतः सहृदयान् । एतदेव प्रतिपादित काव्यप्रकाशे- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ इत्यनया कारिकया श्रीमन्मम्मटभट्टैः । चतुर्वर्मफलप्रापके परमानन्दसन्दोहसाधने काव्यशास्त्रे च यथा सर्व एव सहृदयाः साभिनिवेशं प्रवर्तमाना दृश्यन्ते, न तथा शास्त्रा- न्तरेष्विति काव्यस्योपादेयत्वं व्यक्तमेव प्रतीयते । काव्यलक्षगादिकं तु तत्र तत्र तेस्तैः प्रतिपादितं ततस्ततोऽवगन्तव्यम् । तदिदं काव्यं दृश्यश्रव्यरूपेण भेदद्वयेन द्विविधं व्यवस्थितम् । तत्र तावदभिनयात्मक दृश्य काव्यं नाटकादिभिरष्टादशभिभिन्न, शाकुन्तल-रत्नावल्यादिकमिदानीमप्रकृतमस्माक- मनुद्देश्यम् । गद्यात्मकं पद्यात्मकं चेति द्विविधं निगद्यते श्रव्यं काव्यम् । गद्यकाव्यं हि कादम्बर्यादिकं प्रसिद्धमेव । खण्डकाव्यं महाकाव्यं चेत्युभविधं व्यवहारमालम्बमाने पद्य - काव्येऽपि-मेघदूतादिकं खण्डकाव्येषु, महाकाव्येषु च रघुवंशादिकं परिगण्यो । महाकाव्ये किल अष्टाधिकाः सर्गा अपेक्ष्यन्ते, वर्ण्यन्ते च शैलपतुपुष्पावचयजल केलिमधुपानसुरत- साय शलवन्द्रोदयप्रभातप्रकृतयो विषयाः । महाकाव्यलभगमन्यदपि तद्विषयकं वस्तु- २ भूमिका। जातमाकरशास्त्रादुन्नेतव्यम् । यत्र च गद्यपधयोरुभयोरपि संमिश्रणमुपलभ्यते, तत्काव्य चम्पूरित्युच्यते नलचम्पूप्रभृतिकम् । शिशुपालवधनामधेयं प्रस्तुतमेतन्माषकाव्यं हि महाकाव्यलक्षणलक्षितत्वेन महाकाव्यमित्येवं व्यहारं भजते माघस्य वैशिष्ट्यं, लोकोक्तयश्च । समुन्मीलत्स्वपि तेषु तेषु भूयः हरविजय-द्विसन्धानप्रभृतिषु महाकाव्येषु, रघुवंशं कुमारसम्भवं किरातार्जुनीयं शिशुपालवधं नैषधीयचरितं चेति पञ्चैव महाकाव्यानि सर्वतः प्रसिद्धिमापन्नानि पठनपाठनादिषु लोके सर्वतोमुखं प्रचारं प्राप्नुवन्ति विलोक्यन्ते। परमत्रापि पञ्चके यथा यथावत्काव्यलक्षणलक्षितं गुणालङ्कारभूयिष्ठं व्याकरणप्रयोगप्रचुरं शिशुपालवधमेव महाकाव्यमूर्धन्यतामधिगच्छति, न तथा चतुष्कम् । अत एव 'काव्येषु माघः कविकालिदासः' इति प्रथतेतरां सूक्तिः । वैलक्षण्यमिदमेवात्र काव्ये विशेषतो लक्ष्यते यत् प्रसिद्धाः सर्व एव शब्दाः कविना सनैपुणं तथाऽस्मिन्निवेशिताः, यथा तदतिरिक्ताः प्रसिद्धा नूतनास्ते नावशिष्यन्ते । प्रति- ज्ञातमेतच्च-'नवसर्गगते माघे नवशब्दो न विद्यते' इत्युक्त्या केनापि । इदं हि काव्यं माघकविना स्वस्मात्पूर्वभाविनः किरातार्जुनीयनिर्मातुः भावः स्पर्धया प्रणीतमित्येतस्मिन् काव्ये बहुत्र स्थलेषु प्रतीयते । कचित् तेनैव रूपेण, कचिच्च रूपा- न्तरपर्यायेण समुपलभ्यते शिशुपालवधे किरातार्जुनीयसादृश्यम् । तथाहि-यथा भार- विणा उपक्रमे 'श्रियः' इति पदं प्रयुज्य वस्तुनिर्देशात्मकं मङ्गलाचरणं कृतं,तथा माघेनापि । तत्काव्यं प्रतिसर्गान्तिमश्लोके 'लक्ष्मी'शब्दाङ्कितम् , इदं च 'श्री'शब्दाङ्कितम् । द्वितीयसर्गे भीमसेनोक्तो तत्रेव राजनीतिवर्णनमत्रापि द्वितीयसर्ग उद्ववोक्तौ दृश्यते । किरातार्जुनीये यथा हिमाचलवर्णनं बहुविधच्छन्दोऽलङ्कृतं चित्रबन्धाङ्कितं च वर्तते, तथैव शिशुपालवधे- पि रैवतकपर्वतवर्णनम् । उभयत्रापि-जलक्रीडावर्णनमष्टमे सर्ग प्रहर्षिणीच्छन्दसा, साय- ङ्कालचन्द्रोदयवर्णनं नवमे सर्गे, पानगोष्टीसुरतकेलिवर्णनं च स्वागताच्छन्दसा विहितं विलोक्यते । चित्रकाव्यनिर्माणकौशलीं च युद्धवर्णनप्रसङ्गे यथा तत्र प्रदर्शितवान् भारविः, तथाऽत्रापि माघः । अन्यच पडतुपुष्पावचयप्रभातवर्णनादिकं काव्यद्वयेऽपि नयनपथा- ऽतिथितां प्रयातीति । एतेन-भारविणा प्रणीतं किरातार्जुनीयमुद्वीक्ष्य तद् ध्रुवं निष्प्रभतां प्रापयितुमेव सस्पर्ध काव्यमिदं प्राणायि माघेन । तदेतत्सर्वम्-'तावद्रा भारवे ति याव- माघस्य नोदयः' इति प्रसिद्धोक्तिरेवोद्घोषयति । किञ्च-माघमासमहिम्ना हतोत्साहाना शीताऽऽतुराणां तरणिकिरणस्मरणकारिणां कपीनां यथा पदात्पदमपि प्रचलितुं नोत्साह- श्चित्ते पदं धत्ते, तथा भारवेः काव्यं सम्यग्विचार्य तदवाप्तसाहाय्यानामपि अनन्तरं परि- शीलित माघकाव्ये तत्सर्व तदधिकं चोपलभ्य भारविकाव्ये किमप्यपूर्वमपश्यतां कवीनां पदरचनासु नोत्साहशक्तिः परिस्फुरती'त्यभिप्रेत्य कस्यापि सूक्तमिदम्- माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे । स्मरन्तो भा-वेरेव कवयः कपयो यथा ॥ । । - इति ।

भूमिका। ३ अन्या अपि लोके सूक्तयः समुपलभ्यन्ते माघकाव्यविषये सर्वतोमुख्यः । ता अपि साम्प्रतं प्रदर्शयामः । 'मुरारिकवेः कृतेरतिक्लिष्टतया तदर्थावबोधार्थ यथोचितशब्दार्थज्ञान- जनन माघकाव्यं पूर्व परिशीलनीयम्, अथच मुरारेः श्रीकृष्णस्य चरणारविन्दप्राप्तिचिन्ताया. पस्थितायां पापेभ्यो मानसी प्रवृत्तिः परावर्तनीया' इत्येतमर्थ सकौशलमर्धावृत्तियमका. ऽलङ्कारविशेषेण बोधयन्ती- मुरारिपदचिन्ता चेत्तदा माघे रतिं कुरु । मुरारिपदचिन्ता चेत्तदा माघे रति कुरु ॥ इत्येवंविधा कस्यापि मुश्लिष्टा सूक्तिः समुज्जृम्भते । श्रूयते किल, कस्यापि वर्षीयसः पण्डितेन्द्रस्य समीपमुपसृप्य केनापि जिज्ञासुना 'किं तावत्परिशीलितं श्रीमद्भि- रित्थंविधपाण्डित्यप्राप्तये' इति सादरं पृष्टे सति, मेघदूतं माघकाव्यं चेति द्वयमेवाऽऽजन्म परिशीलयता 'मेघे माघे गतं वयः' इत्येवमुत्तरितं पण्डितेन्द्रेण । इदानीम्- उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इत्युक्तिमवलम्ब्य 'माघे सन्ति त्रयो गुणा" इत्येतस्योदाहारणानि माघकाव्या- दुद्धृत्य कानिचित् संक्षेपतः प्रदर्श्यन्ते । अत्र किलोपमालङ्कारास्तत्र तत्राऽतितरामुप- लभ्यन्ते । तत्र च सहृदयहृदयानन्दसन्दोहदायिन्यः काश्चिदुपमा उदाहियन्ते- विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः श्रेयान् द्विजातिरिख हन्तुमघानि दक्षं गूढार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ४.३७. निधिगणं बिभ्राणे पर्वते मन्त्रसमूहशालिब्राह्मणोत्तमसाम्यप्रदर्शनस्य कौशलमुल्लसति श्लोकेऽस्मिन् कवेः । पौराणिकी कथामनुसृत्य कविना प्रयुक्तम् , निम्बदलेन समं कवलितं चूतपल्लवमुद्वमति कस्मिश्चिदुष्ट्र म्लेच्छमध्यस्थितं मुखगतं गलं दहन्तं ब्राह्मणमुज्झित- वता गरुत्मता सादृश्यं प्रकाशयत्यपरोऽयं श्लोकः- साधं कथञ्चिदुचितैः पिचुमन्दपत्रैरास्या -याऽन्तरालगतमाम्रदलं म्रदीयः । दासेरकः सपदि संवलितं निपादैविप्रं पुरा पतगराडिव निर्जगार ॥ ५.६६. निशावसानसमये प्राप्तबुद्धिवैशद्यानां गहनमर्थजातं विचिन्तयतां कवीनां महीपतीनां च मनोहरं साम्यमन्मीलयदपरं पद्यमिदम्- क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद् दुर्विगाहे। गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ।। ११.६. प्रभाते राजभवनेभ्यो निर्यान्तीनां वारवनितानां रजनीनां च श्लेपेणौपम्यं समुद्भावय- त्ययमपरो मनोहरः श्लोक:- लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधनाः संशिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥११.२०. सर्वतोभद्रचक्रगोमूनिकादिरूपरचनाविशेषदुष्प्रवेशे चैद्यसेन्ये सर्वतोभद्रचक्रगोमूत्रिका- . - भूमिका। प्रभृतिनामधेयप्रसिद्वबन्धविशेषदुर्बोधमहाकाव्यसादृश्यप्रतिपादकमेकमिदं पचं यथा- विषम सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिव महाकाव्यं व्यूहैस्तदभवलम् ॥ १९.४१. इति । अनुत्सूत्रपदन्यासा सवृत्तिः सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ २.११२. कविरत्र श्लोके श्लाघनीयां श्लेपकौशलीमात्मनो व्याकरणविद्यावैदुषर्षी च प्रदर्शयन् कथं नाम हृदयङ्गमं राजनीतौ शब्दविद्यासादृश्यं प्राचीकशत् । इदमपरं जलधरनीलस्य मुक्तालताऽलङ्कृतस्य श्रीकृष्णवक्षसः साम्यं दुर्लभं मनसिकृत्य कविना प्रदर्शितं सम्भाव्यो- पमाया विचित्रमुदाहरणम्- उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोमपीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ३.८.. इत्यादीनि बहून्युपमायाः सहृदयहृदयङ्गमाया उदाहरणानि शिशुपालवधादुन्नेतु शक्यन्ते । अर्थगौरवमप्यत्र काव्ये पर्याप्तं विलसतीति ग्रन्थावलोकनतः स्फुट प्रतीयेत । अस्यापि कानिचिदुदाहरणान्युपन्यस्यन्ते । अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः । अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैप निम्नगाः ॥ ४.४७. 'भर्तारमुपयातु प्रचलिताः सुता इवोत्सङ्गपरिभ्रमणयोग्या नदीः समुद्रं गन्तु प्रवृत्ता अवेक्ष्य पितेव रैवतकपर्वतोऽयं वात्सल्येन पक्षिणां कृजितेनाऽनुक्रोशतीवेत्युत्प्रेक्षमाणेन कविना निर्मितोऽयं श्लोकः कथमिवाऽर्थगौरवचमत्कारमुद्भावयतीति न तावदप्रत्यक्ष सहृदयानाम् । उदयशिखरिशृङ्गप्राङ्गणेष्वेप रिखन् सकमलमुखहामं वीक्षितः पद्मिनीभिः । विततमृदुकरायः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥११.४७. अत्र किल पक्षिणां कूजितैराह्वयन्त्या जनन्या दिव उत्सङ्गे परिपततो खेर्बाल्यावस्था- विशेष परिदर्श्य कविना परमरमणीयमर्थगौरवं प्राकाशि सपदि कुमुदिनीभिर्मीलितं हा क्षपाऽपि क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेपं भ्रष्टशोभं शुचेव ॥ ११.२४. 'कुमुदिनीरजनीतारकाः प्रियपत्नीविनाशं गता अवेक्ष्य शोकेनेव कृर्श कान्तिहीन वपुरुह्यते चन्द्रमसे'त्युत्प्रेक्ष्यमाणार्थगौरवमत्र श्लोके श्लाघनीयम् । अरुणजलजराजीमुग्धहस्तानपादा बहलमधुपमालाकजलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या मतेव ॥११.४०. अन्न रजन्या सह क्षीयमाणायां प्रातःसन्ध्यायां सत्तात्वमुत्प्रेक्ष्य तदुचितमर्थगौरव कविना प्रदर्शितं साधु शोभते । अपिच- प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिप्यतः करसहस्रमपि ॥ ९.६. .. ..

भूमिका। अनुरागवन्तमपि लोचनयोर्दधतं वपुः मुखमतापकरम् । निरकासयविमपेतवसं वियदालयादपरदिग्गणिका ॥ ९.१०. रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । ज्वलनं त्विषः कथमिवेतरथा मुलभोऽन्यजन्मनि स एव पतिः ॥ ९.१३. अमीषु श्लोकेषु लोकप्रसिद्धार्थमवलम्ब्य सूर्यास्तवर्णनं कविः कथडारं सन्दरं कृतवा- निति स्वत एव सुधीभिः प्रत्यक्षीकर्तव्यम् । एवमन्यान्यपि श्लेषाद्यलङ्कारचमत्कार- साराणि भूयास्युदाहरणान्यर्थगाम्भीयं पुष्णन्ति विद्यन्ते माघकाव्ये । पदलालित्यविषये तु न विशेषतो लेखनस्याऽऽवश्यकतां पश्यामः । तत्किल यमकादिस्थलेषु तत्र तत्र बहुशो विलसति । द्वित्राणि पद्यानि केवलं दिग्दर्शनविधयोदाहियन्ते- वदनसौरभलोभपरिभ्रमभ्रमरसम्भ्रमसम्भृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलशाऽन्यया ॥ ६.१४. मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुजगे ॥ ६. २०. विकचकमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वायुः । समदमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ ११. १९. पद्येप्येतेषु पदलालित्यं कीदृशमिति तावत्प्रत्यक्षमेव । इत्येतान्युदाहरणानि उपमा- ऽर्थगौरवपदलालित्यसूचकानि सम्यगालोचयद्भिविद्वद्भिः 'माघे सन्ति त्रयो गुणाः' इति प्रसिद्धोक्तेर्वास्तविकत्वमवगन्तुं शक्येत । माघकवेः शास्त्रीयं पाण्डित्यम् । काव्यशास्त्र इव शास्त्रान्तरेष्वपि माघकयेः प्रगाढं पाण्डित्यमासादित्यपि निःशङ्क वक्तुं पारयामः । एतदप्युदाहरणप्रदर्शनेन स्पष्टोक्रियते । तत्र सांख्यशास्त्राभिमतमर्थ निबध्नतः कवेः सांख्यशास्त्रप्रावीण्यं समुल्लसति पद्यद्वयेऽस्मिन्- उदासितारं निगृहीतमानसँहीतमध्यात्मशा कथञ्चन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ १. ३३. तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः । कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यत्विजि ॥ १४. १९. योगशास्त्रप्रावीण्यं च स्वकीयं प्रकटीक्रियते कविनाऽमुना श्लोकद्वयेन- मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं च सत्त्वपुरुषाऽन्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभूतो निरोद्धम् ॥ ४.५६. सर्ववैदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवजितं पुंविशेषममुमीश्वरं विदुः ॥ १४. ६२. बौद्धशास्त्रप्रवीणताया अप्येकमिदमुदाहरणम्- सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपञ्चकम् । सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥ २. २६. - .. भूमिका। मीमांसानैपुण्यमपि स्फुटीभवत्येताभ्यां श्लोकाभ्याम्- प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धेः सामिनीरधीत्य । कृतगुरुदुरितौषध्वंसमध्वर्युव तमयमुपलोढे साधु सान्नाय्यममिः ॥ ११. ४१. शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया । याज्यया यजनर्मिणोऽत्यजन् द्रव्यजातमपदिश्य देवताम् ॥ १४. २०. मानवधर्मशास्त्रपाण्डित्यमपि विलसत्यस्मिन् पये- पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तत्र कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥ १४. ६७. सङ्गीतशास्त्रपरिशीलनकौशलमपि प्रत्यक्षीभवति पद्ययोरनयोः- रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः । स्फुटीभवद्ग्रामविशेषमूर्छनामवेक्षमाणं महती मुहुर्मुहुः ॥ १. १०. श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीन भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकिश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय॥११.१. श्लेषसौन्दर्यसमलकृतं नाट्यशास्त्रनैपुण्यस्याप्युदाहरणद्वयमिदम्- दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ २०. ४४. स्वादयन् रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः । भावशुद्धिविहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ १४. ५०. व्याकरणविद्यावैदुष्यं च 'अनुत्सूत्रपदन्यासा' इति श्लोके पूर्वोक्त प्रदर्शितमेव । अपरमपीदमुदाहरणं श्लिष्टं यथा- निपातितमुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवाऽऽलोचि धीरैस्तत्समराऽजिरम् ॥ १९.७५. राजनीतिनैपुण्यमप्यतिगाढं प्रकाशते श्लोकयुगलेऽमुष्मिन्- उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि । जिगीपुरेको दिनकृदादित्येष्विव कल्पते ॥ २. ८१. बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ २. ८४. अन्यान्यपि बहुविधान्युदाहरणानि राजनीतेरुद्धवोक्तौ द्वितीयसमें समुपलभ्यन्ते । कामशास्त्रप्रवीणताऽपि दशमे सर्ग सुरतकेलिवर्णने भूयसी समवलोक्यते कवेः । अश्वशास्त्र गजशास्त्र च समीचीनं परिशीलितमासीत् कविना । तत्र अश्वशास्त्र विज्ञानकौशलमु न्मील- यति कवेः श्लोकयोतियमेतत्- तेजोनिरोधसमताऽवहितेन यन्त्रा सम्यकशात्रयविचारविदा नियुक्तः । आरसृजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्धपुलालयेन ॥ १. १०. अव्याकुलं प्रकृतमुत्तरधेयकर्मधारीः प्रसाधयितुमव्यतिकीर्णरूपाः । सिद्धं मुखे नवस वीथिषु कश्चिदश्चं वल्गाविभागकुशलो गमयाम्बभूव ॥ ५. ६०.

। भूमिका। गजविज्ञानवैदुष्यमप्युदाहरणयोरनयोरुपलभ्यते- गण्डूषमुज्झितवता पयसः सरोष नागेन लब्धपरवारणमारुतेन । अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ५. ३६. जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरनोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न मनागवगृह्य साध्यः ॥५. ४९. इति । एवमेव उत्प्रेक्षारूपकश्लेषार्थान्तरन्यासप्रभृतयोऽलङ्कारा अपि अतितरां चमत्काराऽङकुरानुत्पादयन्ति रसिकजनमनःसु । अहो ! कियच्चिरं लिखामो माधकाव्य. स्याऽस्य विषये । यत्किमपि यावल्लिख्येत, तत्तावदल्पमेव स्यादिति तदुपसंहृत्याऽधुना माघकवेरमुष्य विषये किमपि प्रपञ्चयामः । माघकवेः परिचयः । एष किल नदीष्णः शास्त्रेषु पण्डितमण्डलीमण्डनायमानो लब्धप्रसिद्धिः माघनामा महाकविर्ब्राह्मणवंश्यो गुर्जरदेशीयः श्रीमालीनामिकामवान्तरजातिं स्वजन्मनाऽलङ्कृतवा. नित्यस्ति प्रसिद्धिः। गुर्जरदेशश्चास्य निवासभूमिरासीदित्यत्र तत्कृतं गुर्जरप्रान्तान्तिकस्थ- रैवतकपर्वतवर्णनमेव प्रमाणकोटौ निक्षेप्तव्यम् । उदयास्ताचलगामिनोः सूर्याचन्द्रमसोर्मध्यगते रैवतकपर्वते विलम्बमानघण्टायुगला- ऽलङ्कृतगजेन्द्रसादृश्यं प्रतिपादयतः- उदयति विततो रश्मिरज्जावहिमरुची हिमधाम्नि याति चाऽस्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ४.२०. एतत्पद्यस्य व्याख्यावसरे वल्लभदेवेन 'अनेनैव श्लोकेन कविना 'घण्टामाघ' इति नाम लब्धम्' इत्युल्लिखितम् । अतश्च 'घण्टामाघ' इत्युपाधिर्माघस्यासीदिति प्रतीयते । अस्य पिता दत्तको नाम धर्मशीलः क्षमावानुदात्तचित्तः सर्वेषामाश्रयभृतत्वेन सर्वेः सङ्केतित 'सर्वाश्रय' इति नामान्तरं लब्धवान् । पितामहश्च सुप्रभदेवो नाम देव एवाऽपरः श्रीवर्मलाऽभिधानस्य राज्ञो धर्मसचिव आसीत् । राजा च यस्योपदेशवचनमात्मनीन- मनुल्लङ्घनीयं मन्यते स्म(१)। अथ दत्तकपुत्रस्य सुप्रभदेवपौत्रस्य माघस्य समयनिर्णयं कर्तु प्रवृत्ताः स्मो वयम् । कस्यापि समयनिर्णयस्तावत् प्रत्यक्षप्रमाणाभावे यथोचितं किमपि प्रमाणान्तरमन्तरेण कर्तु दुःशक एव । पूर्वो किल सूरयः प्रायः स्वकीयसमयसूचनं नाम पातकमियाऽमंसत । एवं स्थितौ-एके पुनरन्वेषका यथोपलब्धप्रमाणोपष्टम्भेन यं कञ्चन समयं निश्चेतु चेष्टन्ते, तदितरे तद्भिन्नं स्वोपलब्धप्रमाणानुसारेण निर्णयन्ति समयम् । एतेन तत्तद्विचारविपर्ययेण कस्यापि यथावत्समयज्ञानं कर्तुं वञ्चिता भवन्त्युदासीनाः । इत्थमेव स्थितिरेतस्यापि माघस्य समयनिर्णयविषये समुपस्थिता सम्प्रति । तत्र तावदेके-भोजप्रबन्धे बल्लालकविकृतेन माघस्य भोजराजाश्रयप्राप्तिवर्णनेन माघम् एकादशशताब्दीसमुद्भुतस्य भोजस्य समकालीनमुदाहरन्ति । परं, बल्लालेन कालिदास- (१) एतच ग्रन्थसमाप्तो कविवंशवर्णने द्रष्टव्यम् ।

भूमिका। प्रभृतीनां सर्वेषां भोजराजाश्रयप्राप्तजीविकत्वं वर्णयता वर्णनमात्रकौतुकितया सर्ने विद्वांसः समानकालीनतां प्रापिता इति तत्तत्कविसमयनिर्णयविषये भोजप्रबन्धो न प्रमाणपक्षे निक्षेप्तुं शक्यते । एवमेव माघं भोजराजाश्रितं प्रतीपादयती प्रबन्धचिन्तामणि-प्रभावक. चरिते अपि न प्रमाणीकरणीये । एतेषु भोजप्रबन्धादिषु च भूयोभिनिर्णीतानामतिप्रसि. द्धानामपि केपाञ्चन विषयाणां वैपरीत्यवर्णनस्योपलब्धेरत्र विश्वासो नैव कर्तु युज्यते । अन्ये पुनः-'अनुत्सूत्रपदन्यासा' इत्यादिश्लोके कविकर्तृकन्यासमन्थनामोल्लेखात् न्यासकर्तुजिनेन्द्रबुद्धेराचीनोऽयं कविष्टम्यां शताब्द्यामासीदिति कल्पयन्ति । इदमपि न प्रत्ययमुत्पादयति चित्ते, जिनेन्द्रबुद्धेः पूर्वमपि न्यासग्रन्थान्तराणामुपलम्भात् तत्र तत्पूर्व- कालिकन्यासग्रन्थस्याऽप्युल्लेखसम्भवात् । इत्थमेव मिस डफ् ( Duff ) महोदययाऽपि लिखितः ८६०' इत्येवंरूपो माघस्य समयः प्रमाणाभावादुपेक्षणीयः । इदन्तु निर्विवादं कल्पयितुं शक्यम् , काश्मीरेषु ८५६-८८३ यावद्राज्यासनमधि. तिष्टतः अवन्तिवर्मभूपतेः समये विद्यमानेन ड्रीस्ताब्दीयायां नवम्यां शताब्यां सनातन श्रीमदानन्दवर्धनाचार्गेण निर्मिते ध्वन्यालोकग्रन्थे माघश्लोकोपलब्धेः नवमशताब्दीत: प्राचीनोऽयमिति । तत्रापि सूक्ष्मविचारे क्रियमाणे-एतत्पितामहसुप्रभदेवाश्रयदातुः वर्मल- नामधेयस्य महीपतेः शिलालेख एकः '६८२' संमितवैक्रमाब्दीयः साम्प्रतमाधुनिकैरन्वे. पकवविद्वद्भिरनवरतपरिश्रमेभ्यो वसन्तगढनगरेऽलभ्यत । एतेन '७८२ मिते वैक्रमाब्दे '६२५' मिते च खीस्ताब्दे वर्तमानस्य सुप्रभदेवस्य समयस्तावत् सप्तमं शतकमित्यत्र न काऽपि संशीतिः । पितामहपौत्रयोश्च समये स्वल्पमप्यन्तरं तु किमपि कल्पयितुं नाऽसा- म्प्रतम् । अतः सप्तमशतकस्याऽन्ते अष्टमशतकस्याऽऽरम्भे वा माघकविरासीदिति निःशई शक्यते वक्तुम् । अस्य च माधकवेः कृतिः शिशुपालवधादन्या नोपलभ्यते । परम् , बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्धतं कुलं हिरण्यमेवाऽर्जय निष्फलाः कलाः ॥ पद्यमिदं तत्त्वौचित्यप्रत्युदाहरणरूपं क्षेमेन्द्रेणौचित्यविचारचर्चायां समुद्धृत मावनाम्ना। सुभाषितावलौ वल्लभदेवश्च(१)- शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वहिना मा औपं जगति श्रुतस्य विफलक्लेशस्य नामाप्यहम् । शौर्य वैरिणि वजमाशु निपतत्वर्थोऽस्तु मे सर्वदा येनैकेन विना गुणास्तृणबुसप्रायाः समस्ता अमी ॥ नारीनितम्बफलके प्रतिबध्यमाना हंसीव हेमरशना मधुरं ररास । तन्मोचनार्थमिव नूपुरराजहंसाश्चक्रन्दुरातमुखरं चरणावलग्नाः ॥ पद्यद्वयमिदं माघनाम्ना समुद्धृतवान् । अतश्च कश्चिदन्योऽपि माधेन ग्रन्यो निर्मित आसीदित्यनुमीयते । सभापितस्फुटश्लोका अपि कदाचिदेते स्युरित्यपि सम्भाव्यते । (१) चतुर्दशशतकोत्पत्रोऽयं वनभदेवः प्रकृतवलभदेवादन्य एवं कथित ।

- भूमिका। व्याख्यान्तराणि, प्रकृतव्याख्यापरिचयश्च । एतेन माघकविना कृतस्य शिशुपालवधस्य व्याख्यासु-सन्देहविषौषधिनाम्नी वल्लभ- देवनिर्मिता, रङ्गराजनिर्मिता, एकनाथविरचिता, चारित्रवर्धनप्रणीता, सर्वङ्कपाख्या मलिनाथविहिता, सुबोधा नाम भरतमल्लिकविरचिता, सुबोधिनीनामिका दिनकरमिश्र- प्रणीता, हसन्तीनाम गोपालकृता चेति वसुसंख्या व्याख्या अद्य यावदवगताः सन्तीति 'निर्णयसागर'मुद्रणालये मुद्रितस्यैतद्ग्रन्थस्य भूमिकायामुल्लिखितं वर्तते। एतासु व्याख्यासु प्राचीना काश्मीरेष्वतिप्रसिद्धिं गता सन्देहविषौपधिर्नाम व्याख्या कुत्राप्यद्य यावन्न मुद्रिता । उपलभ्यते केवलमेतस्याः शर्मण्यदेशीयभाषायां विहितोऽनुवादो मुद्रितः । एषा च व्याख्या वल्लभदेवेन खण्डान्वयमवलम्ब्य तथा निरमायि यथा सुस्पष्टं तात्पर्यार्थः सर्वैरपि बोद्धं शक्येत । कवर्भापा चैतस्यां व्याख्यायां सारल्यातिशयं वहन्ती विद्यार्थिनां मनःसु सत्वरं प्रविशन्ती सन्देहदूरीकरणक्षमा सन्देहविपौषधिरिति नाम्नः सार्थकत्वं प्रकाशयति । इयं च रचनाविषये प्रौढिमानमनावहन्ती विद्वजनमनसे कदाचिन्न रोचेत, परमेतदीयं सारल्यसूचक रचनाशैथिल्यमपि मन्ये विद्यार्थिनां गुणायितं भवेत् । भाषायाः प्रौढिमानमवलोक्य विद्यार्थिनस्तात्पर्यमनवगच्छन्तो भृशं मुह्येयुरिति तेपामेवोपकाराय सरलताऽचिता रचनाशैलीमवलम्ब्य वल्लभदेवेन व्याख्येयं निर्मिता। विद्वज्जनमनःप्रीणनविषये तु मल्लिनाथकृता सर्वपाख्या व्याख्यैव व्याख्यान्तर- मूर्धन्यायिताऽतितरां प्रकाशते । एतस्याः प्रौढिमपूर्णतायां परिमितार्थसूचकतायां च न किमपि लेखनीयं नाम । तत्किल प्रत्यक्षमेव सर्वेषां विदुषां समालोचिततद्वयाख्यासौष्ट- वानाम् । एतद्वयाख्याद्वयमन्तरा नोपलभ्यते प्रायः सम्प्रति व्याख्यान्तरं शिशुपालवधस्य । इदानीं सन्देहविषौपधि-सर्वपाख्यव्याख्याद्वयप्रणेतारौ वल्लभदेव-मल्लिनाथपण्डिता. बुदृिश्य क्रमेण तयोः परिचयादिप्रदानं प्रस्तूयते- वल्लभदेवमल्लिनाथयोः परिचयः। तत्र सन्देहविषौषधिप्रणेता विद्वत्कुलालङ्कारहीरोपमो वल्लभदेवः सोऽयमानन्ददेवा. ल्लब्धजन्मा काश्मीरानध्यवात्सीत् । 'परमात्मचिन्ह' इत्यस्य नामान्तरमपि दृश्यते एतत्कृतमेघदूतव्याख्या समाप्तिसूचनिकायाम् । तत्रैव 'राजानक' इत्युपाधिरप्यानन्ददेव- स्यैतत्पितुरुपलभ्यते । एतेन सम्भाव्यते, प्रायो ब्राह्मणजातीय एष आसीदिति । वल्लभदेवस्येतस्य समयनिर्णयविषये तु-एतेन रुद्रटालङ्कारे विवरणमेकं विरचितमिति, नवमशतकस्यान्ते दशमशतकस्य चारम्भे विद्यमानात् रुद्रटादुत्तरकालिकोऽयमासीदिति वक्तुं व्यक्तमेव शक्नुमः । अत्रापि सूक्ष्मविचारे-एतत्पौत्रेण कय्यटेन प्रणीताया आनन्द- वर्धनकृतदेवीशतकव्याख्यायाः समाप्तौ वर्तमानं वक्ष्यमाणं पद्यद्वयं शरणीकरणीयम् । सा च व्याख्या भीमगुप्तनामनि काश्मीरके राजनि राज्य शासति सति, '४०७८० संमिते कलावतीते काश्मीरप्रसिद्ध वर्षे च द्विपञ्चाशन्मिते, '९७७° मिते खीस्ताब्दे निर- मायि कय्यटेन । भीमगुप्तस्य राज्यशासनसमयस्तावत् '९७६' मितखीस्तव दुपक्रम्य सपादसंवत्सरचतुष्टयीं यावदुपलभ्यते । एतेन दशमशतकस्योत्तरार्धे कय्यटस्य सत्ता ।

भूमिका। सिध्यति । पितामहस्य पौत्रस्य च समये किमन्यन्तरमवश्यमेव कल्पनीयम् । ततश्च दशम- शतकस्य पूर्वाधे वल्लभदेव आसीदित्यत्र नास्ति सन्देहस्य लेशोऽपि । अस्य पुत्रश्चन्द्रादित्यः पौत्रश्च कय्यट आसीत् । तदेतत्सर्व सूचयति- वल्लभदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामाऽरचयद्विवृति देवीशतकस्तोत्रे ॥ वसमुनिगगनोदधिसमकाले याते कलेस्तथा लोके । द्वापञ्चाशे वर्षे रचितेयं भीमगुप्तनृपे ॥ श्लोकद्वयमिदम्(१)। अस्य गुरुः प्रकाशवर्षो नाम कश्चिदासीदित्येतत्सूचकम् 'अत्राहोपाध्यायः प्रकाशवर्षः इति प्रमाणं गान्धेऽस्मिन्नुपलभ्यते । एप किर वल्लभदेवः रघुवंशकुमारसम्भवमेवहूतनामभिः प्रसिद्धाया लघुत्रप्याः प्रणी- तवान् व्याख्याम् । महाकविरत्नाकरकृतायां वक्रोक्तिपञ्चाशिकायामप्यस्य पञ्चिका व्या- ख्योपलभ्यते । आनन्दवर्धनकृते देवीशतकेऽपि संक्षिप्त विवरणमनेन कृतमित्युपलभ्यते । सूर्यशतकरवटाल मारयोरपि व्याख्ये एतन विरचित । तत्र मेघदूतव्याख्या मुद्रिता नयन- गांचरतामागता । वक्रोक्तिपञ्चाशिकायाः पञ्चिका च काव्यमालायां प्रथमगुच्छे दृश्यते मुद्रिता। स पाख्यव्याख्याकर्तुः सर्वत्र प्रसिद्धि गतस्य मल्लिनाथकविषये किं तावद्विशेपतो लेखनीयम्। रघुवंशादिपु ग्रन्थेपूपलभ्यमानाष्टीका एवैतम्य योग्यताविशेपस्य परिचयं विश्रा. गयितुं प्रभवन्ति । असौ किल 'महोपाध्याय'पदवीसमलकृतो द्राविडदेशीयो विविधा- गमपारावारपारीण आसीत् । 'कोलाचले ति विरुदमप्यदसीयं समुपलभ्यते । समयश्चैतस्य चतुर्दशी शताब्दी तत्र तत्र तेस्तरतिहासिकनिरणीयत । एनेन कृताः रघुवंश-कुमारसम्भव-किरातार्जुनीयेषु काव्येषु व्याख्या मुद्रिता उपल- भ्यन्त एवं । शिशुपालवधव्याख्या च सेयं पुरगदवास्ति । नेपधीयचरितऽप्येष टीका प्राणपीत् । मा च परिमितार्थप्रकाशिका तात्पयार्थ अटिति चित्त निवेशयन्ती 'जीवातु'. जामधंया व्याख्या ताशरूपेण साम्प्रतं नोपलभ्यते । माम्प्रतं पुस्तकपरिचयं दत्त्वोपसहियते- पुस्तकपरिचयः, उपसंहारश्च । हम्नलिखितं बल्लभदययाख्यायाः गुस्तस्मक सपरिश्रममितस्ततोऽन्विष्य चिरादुप- लन्य च नन्मुद्रयितुकामेन 'विद्याविलाम मुद्रणालयस्वामिना श्रीजयकृष्णदासमहोदयेना. ऽम्मन्युम्लाडुपन्यस्य तत्संशोधनादिकार्यभारः सानुरोधमारोपितोऽस्मासु । अस्माभिश्च स्वनिम्यारोपितं कार्यभारमङ्गीकृस्य अमुदितचरतस्तकप्रचिकाशयिषयैव कथमप्येकमेव पुस्तकमवलम्ब्य तत्सम्पादनादिकर्ममु प्रवृत्तम् । (१) अत्र विषये काव्यमालामुदिता 'वक्रोनिपञ्चाशिका टिप्पणी द्रष्टव्या ।

भूमिका। प्रस्तुते च तदोपयिके कर्मणि, लेखकमहोदयप्रसादात्पुस्तके समापतिता भूयोविधा. स्तास्ता अशुद्धीः सचिरं विचारानन्तरं ग्रन्थकारस्याशयमवबुध्य यथोचितं तत्तदक्षराद्य- नुकूलं संशोध्य स्थलविशेषे कैश्चिन्महानुभावैः सह विचार्य चाऽवशिष्टेषु विशिष्टेषु सन्देह- स्थलेषु प्रश्नचिन्हान्युपाक्षिप्यन्त । कचिच्च स्वाभिमतो विचारः कोष्टकेऽपि प्रदर्शितः । मल्लिनाथव्याख्यायाश्च पुस्तकं 'निर्णयसागर"मुद्रणालये मुद्रितमवालम्ब्यत । व्याख्याकारयोरुभयोस्तत्र तत्र विचारविपर्ययादुपलब्धेषु मूलश्लोकपाठभेदेषु वल्लभ- देवसंमतं पाठमुपरिष्टाद्विन्यस्य टिप्पण्यामुङ्कितो मल्लिनाथाभिमतः पाठः। उभयविधपाठ- विचारविषये च काशीस्थराजकीयसरस्वतीभवनस्थेन मुद्रितेन शर्मण्यदेशीयभाषाऽनुबद्ध- वल्लभदेवव्याख्यानुवादरूपेण पुस्तकेन च महत्साहायकं समजायत । कचिच्च स्पष्टार्था- ऽवबोधार्थ ग्रन्थेऽस्मिन् यथोपयोगं टिप्पण्योऽपि प्रकल्पिताः । अत्र च पुस्तके-शिशुपालवधकथा जिज्ञासुजनोपकारार्थ ग्रन्थस्यारम्भे संक्षिप्तः कथासारांशः, समाप्तौ च चित्रबन्धचक्राणि, श्लोकसूची, ग्रन्थेऽस्मिन्नुपलब्धानां तत्तद्ग्रन्थग्रन्थकाराणां नामानि चेत्येतत्सर्व समावेश्यत । अत्र च कायें यैः किल सहजस्नेहमवलम्ब्य केनापि रूपेण सहायता प्रदत्ता, तेषां स्मरणमकृत्वा भूमिकासमापनं नाम कृतघ्नतां प्रकाशयतीति श्रीमटुकनाथशर्म एम० ए० महाशयाः श्रीगङ्गाधरशास्त्रिभारद्वाजमहोदया अन्ये च केचन महानुभावाः साम्प्रतं न कथं धन्यवादार्हाः । तदुपकारप्रदर्शनार्थ च न तेषां स्मरणमिदम् , किन्तु हृदयादेव स्वतः स्फुरितं तदकृत्वा कथमपि हृदयं निर्वृति नाऽलम्बतेत्यवशतया तेषां स्मरणमिदं समा- पतितम् । अन्ते च-सर्वदा सहजं वात्सल्यभावमावहतां परमकारुणिकानां प्रतीक्ष्यचरणानां श्रीमत्पूज्यगुरुवराणां चरणारविन्दयुगलीमादरेण सविनयं भक्त्याऽभिवन्द्य, दुर्लभैतद्- ग्रन्थप्रकाशकं श्रीजयकृष्णदासमहोदयञ्चाऽऽशिषाऽभिवर्ध्य, कार्यमिदं निर्विघ्नं पूर्णतां प्रापितवन्तं श्रीमन्तं करुणाकरं परमेश्वरं च सभक्तिभावमन्तः स्मृत्वा, त्वरया मुद्रिते- ऽस्मिन् ग्रन्थे समुपलब्धा अशुद्धीः संशोध्य विद्वांसो ग्रन्थमेनमवलोकयेयुरित्यभ्यर्थयमानै- रस्माभिविरम्यत विस्तरादिति शम् ।

0000000
000000000000000000 900
900000000000000000000000000000
इस कार्यालय द्वारा इस सूचीपत्र के अलावा ४ संस्कृत ग्रन्थमालायें यथा
"चौखम्बासंस्कृतसीरिज़" "काशीसंस्कृतसीरिज़" "बनारससंस्कृतसीरिज़" तथा
"हरिदाससंस्कृतसीरिज" ग्रन्थमालायें भी निकलती हैं, सूचीपत्र पृथक् मंगवाकर
देखने की कृपा करें । इन सब सूचीपत्रों में छपे प्रन्थों के अलावा भारतवर्ष के सभी
प्रकाशकों के प्रकाशित प्रन्थ भी विक्रयार्थ प्रस्तुत रहते हैं, इसके अलावा इस प्रेस
द्वारा सर्व प्रकार की संस्कृत, हिन्दी, अंग्रेजी की सुन्दर छपाई होती है, परीक्षा
प्रार्थनीय है।
00000000000000000
--
पत्रादि प्रेषणस्थानम्-
जयकृष्णदास हरिदास गुप्तः-
चौखम्बासंस्कृतसीरिज़ आफिस, विद्याविलासप्रेस,
गोपालमन्दिर के उत्तर फाटक, बनारस सिटी।
Goonsoor
000 00000000000000

॥ श्रीः॥ शिशुपालवधस्य कथासारांशः । - उपक्रमः। श्रीमान माघनामा कविः महाकाव्यं चिकीर्षुः श्रीमहाभारतीयां श्रीकृष्णसम्बन्धिनी शिशुपालवधरूपां कथां मनसिकृत्य महाकाव्यलक्षणलक्षितं 'शिशुपालवधाख्यं महाकाव्यं श्स्य निबबन्ध । तत्र च या प्रतिसगं कथा रचिता, तस्य सारांशोऽघस्ताद्विन्यस्य पिपठिषणां यत्किञ्चित्साहाय्यं वितन्यते । प्रथमसर्गे- अथैकदा तत्रभवान् श्रीकृष्णः प्रजाः पालयितुकामः स्वपितुर्वसदेवस्य समन्यतिष्ठत् । तदा च तत्राऽनवरतभगवद्भक्तिसमासक्तचेता ब्रह्मणो मानसः पुत्रो मुनिर्नारद आकाशा- दवतीर्य समाससाद । पुराणमुनिः श्रीकृष्णोऽपि समागतमवलोक्य तं मुनि शिष्टाचार- मनुस्मरन् स्वासनादुत्थाय तमुपवेश्य सम्पूज्य चाऽादिभिस्तेन कृतप्रोक्षणः कुशल- प्रश्नपूर्वकमागमननिमित्तजिज्ञासः स्वाशयमाविष्कृतवान् । तदुत्तरदानं समीहमानो नारदमुनिरपि तं नैकविधाभिः स्तुतिभिः प्रशस्य तद्दर्शनमेव मुख्यमागमनहेतुं पुरस्कृत्य पश्चात् 'साम्प्रतं शिशुपालवधविधानमेव साम्प्रतमतस्तदर्थ प्रयत्यता मितीन्द्रसन्देश- मुपेन्द्राय समाचष्ट । तत्प्रसङ्गेन च तस्य हिरण्यकशिपुरावणरूपेण जगत्पीडनमस्य च नृसिंहरामादिरूपेण तद्वधं च सम्यगस्मारयत् । अपुषच्च स्वकीयामुक्ति मेतत्कार्य भवतैव विधेयमस्तीति ध्वनयन् । सेत्स्यति च भवत इदं पुरन्दरस्य कार्यमित्याशंसितवांश्च । श्रीकृष्णोऽपि ततो भ्रुकुटिबन्धव्याजेन चैधं प्रति क्रोधं प्रदर्शयन् नारदोक्तिमाश्रुत्य तस्मिन् प्रतिनिवृत्ते सति मन्त्रणाय तात्कालिकी सभां व्यसृजत् ॥ द्वितीयसर्गे- तदनन्तरमेव राजसूययज्ञचिकीर्षया श्रीमता युधिष्ठिरेणाऽपि साहाय्यसम्पादनाय समाहूतः स श्रीकृष्णः 'वैद्याऽभियानराजसूययागगमनयोः कतरदस्माभिरनुष्ठेयामिति संशयानो निश्चयाय स्वपितृव्यस्वाग्रजाभ्यां श्रीमदुद्धवबलरामाभ्यां सह मन्त्रयितुं तदुचितं स्थानं ताभ्यां सहैव समासदत् , परस्परं विरुद्धं तत् कार्यद्वयं च द्वयोरपि गुर्वोः पुरस्तादुक्षिप्तवान् । तत्र च 'युधिष्ठिरस्तु विनाऽप्यस्माननुजानां भीमार्जुनादीनां साहा- य्येन यागाय समर्थः, शत्रुस्तु जगदुद्वेगकारी नोपेक्ष्य' इति स्वल्पया गिरा प्रतिपाद्य व्यरमत् । ततश्च समिद्धाऽमर्षो बलराम उद्धवं वक्तुकाममपि सिद्धान्तपक्षे स्थापयन् स्वयमेव प्रोटया वाचा माधवमतं सपत्नाऽभियानरूपमेव नानाविधयुक्त्युपन्यासेन सम- पूपुषत्, बिलम्बं च तत्र नाऽसहिष्ट । तदुत्तरं च श्रीकृष्णेनाऽक्षिसङ्केतद्वारा स्वमतप्रदर्शनाय प्रार्थितः स उद्धवो नीतिनिपुणतया बलदेवोक्तीर्युक्त्या पूर्वविरुद्धबलवद्विविधराजनीत्यन्तर- ..

शिशुपालवधस्य कथासारांशः। प्रसङ्गाऽवधानाद्युपपादनेन च खण्डयित्वा युधिष्ठिरस्य यज्ञे साहाय्यदानाय गमनेनैव द्विविधमप्यस्माकं 'यज्ञे गमनं तत्र च साहाय्यप्रदानं, तत्रैव भक्त्यतिशयेन युधिष्ठिरेण करिष्यमाणाया मुख्यायाः श्रीकृष्णपूजाया जातकोपेन शिशुपालेन विहितमपशब्दो- चारणादिरूपमेतदपराधशतं सोढं पितृस्वस्रा सार्ध कृतया प्रतिज्ञया कृष्णेन शान्तिपूर्वक- मपराधमर्षणादेतस्मिन्नतिसन्तप्तमतस्तदानीमेव युद्धाय सनद्धं तं प्रति अभियान चेति कार्य सेत्स्यताति सुस्पष्टमाख्यत् । श्रीकृष्णोऽपि पितृव्यस्य श्रीमत उद्धवस्योक्ति प्रसङ्गो- चितामाकलय्य तामेव ज्यायसी मन्वानस्तथैव कर्तुमनुमेने । कार्यान्तरसम्पादनसमीहया तत्संसदो विसर्जनाय स्वासनमुत्थानेन परित्यक्तवान् ॥ तृतीयसर्गे अथ सद्यो युद्ध विचारस्य शान्ततया स्थिरतया च यज्ञगमनस्य सुतरां प्रसन्नाऽन्त:- करणः श्रीकृष्णो भगवान् प्रसाध्याऽङ्गान्यलकरणैर्गृहीतच्छत्रचामरदिव्यास्त्रादिः सपरिकरो राजयोग्यं सेनासमुदयमादाय पताकातोरणाचलङ्कृतरथ्यायाः समस्तपौरजनसमीप्सित- भगवद्दर्शनाया अत एव परिपूर्णमार्गान्तरालायाः श्रीशालिन्याः श्रीद्वारिकानगर्याः चतुर्विध- सैन्यसमारोहनिष्क्रमणादिपुरस्सरं निर्याय कल्लोलिनं रत्नादिपरिपूर्णगर्भ तटप्रान्तेषु विकसदनेकविधद्रुमततिं कृतसरिदाश्लेषं वितीर्णाम्भोधराम्भसमुच्चैर्नदन्तं पुरोविर्तमान समुद्र- मद्राक्षीत् । क्रमशश्च समन्ततस्तदीयां मनोहारिणी सुषमा लोचनाभ्यामुपोषिताभ्यामिव पिबन् पुरः प्रासर्पत् ॥ चतुर्थसर्ग- ततश्च प्रस्थितः स हरिः समुद्रदर्शनानन्तरं पुरस्तादागतं मध्येमार्गनानावर्ण. विचित्रितभागमभ्रंलिहशिरसं निर्मलसलिलविलसिताऽन्तःप्रदेशमुपभोगयोग्यं कविवचसां वर्णनीयविषयं विस्मयनीयरूपं रैवतकं गिरि सस्पृहमालोकयत् । प्रसङ्गेन च दारुकद्वारा पर्वतस्य रमणीयतमत्वं समुपस्थितस्य भगवतः कृते समुत्थानादिनैकविधकल्पनामिषेण सौन्दर्यातिशयं च वर्णयामास कविः । मध्ये एव विलम्बिघण्टाद्वयपरिवारितवारणेन्द्र- सादृश्यं पर्वते परिकल्पयामास ॥ पञ्चमसर्गे- ततो रैवतकपर्वतसुषमाकृष्टमना महामनाः श्रीकृष्णः परमरमणीयं बहुविधरम्यकुञ्ज- लतादिविलसदनेकप्रदेश तमेव महीधरं रिंसिपया ससैन्यं समाजगाम । तत्र च क्वचित् पत्तयः स्वं स्वं निवेशं व्यदधन् । कचिच्च मदाविला दन्तावलाः चरणशृङ्खलाबाकर्षणेन समुद्धतानुर्वीरुहोऽनमयन् । कुत्रचिच्च हेपादिभिः समुत्तङ्गास्तुरङ्गाः सर्वमेव तं भार्ग मुखरित व्यदधन् । अन्यतश्च स्यन्दना अपि सकलमेव तद्वनमाकुलयन् । इत्थं समन्ततः कियदवधि भगवद्वलाक्रान्त इव स शैलो व्यराजत ॥ षष्ठसर्गे- यदा हि भगवान् वासदेवः शिखरिणं समुपाश्रित्य विहारं कर्तुमियेष, तदा युगपदेव तत्र पढप्य॒तवः संसेवितुं भगवन्तं समुल्लेसः । तेषु वसन्तः पल्लवानि कोमलयन् , ।

शिशुपालवधस्य कथासारांशः । १५ । कुरबकस्तबकं समुल्ललयन, मधुकरनिकुरम्बं ध्वनयन् , युवतिजनमनांसि समाकुलयन् सर्वतः प्रसर्पन्नानन्दयत् । ग्रीष्मोऽपि शिरीषनवमल्लिकासौगन्ध्यं स्थिरयन् , प्रतिकूलेतर- दक्षिणाऽनिलप्रवाहेन यौवतमुत्कयन् , धर्मतप्तजन सरसचन्दनाद्यनुलेपनव्यवहारप्रसितमारच- यन् स्वीयं चातुर्यमदर्शयत् । एवमेव वर्षा अपि गम्भीराम्भोधरनिर्घोष स्मारं शासनपटह- मिवोद्घोषयन्त्यः, तडित्प्रकाशैमध्येमध्ये तिमिरततिमुच्छेदयन्त्यः, प्रियतमा एकान्त एव कान्ताभिसरणसमुत्सका विदधत्यः,स्वशरीरे भगवच्छरीरसाम्येन महान्तं मदमुद्भाव्य विपु- लीभवन्त्य आचकृपुः श्रीमतो वसुदेवसूनोश्चेतः । इत्थं च शरदपि जलधरकालविलुप्तं मार्ग' पुनरपि प्रकाशयन्ती, निम्नगास तनिमानं विदधती, काशादिसुमनःशोभा विस्तारयन्ती, शश- धरकरनैर्मल्येन विलासिवगें स्नेहाधिक्यमुद्भावयन्ती मुदं वितनुते स्म। हेमन्तश्च सतुहिनेन मरुता वियोगिवर्गमतिशयेन समुद्दीपयन् , सीत्कारादिशिक्षा अनुशासत्, वास्तविकमा- श्लेषमुखमुत्पादयन् मदयति स्म दयितासङ्गिनं शाङ्गिणम् । शिशिरोऽपि लोध्ररजसा दिशो धवलयन, नातिशीतोष्णेन समयेन लोकानुपकुर्वन् , हेमन्तमवस्कन्ध वसन्तायाऽवसरमुप- कल्पयन् विलसति स्म । इत्थं तत्ततुगतमानन्दमानन्दकन्दो भगवानन्वभूत् । कविरपि यमकादिचातुरीमस्मिन् सगें विशेषतः प्रादर्शयत् ॥ सप्तमसर्ग- इत्थमृतुगणविलासे प्रसृते सानुचरो भगवान् यनविहारमप्यातेने। तत्र क्वचित युवदम्पती परस्परं चरणपातमिष्टमृदुभाषणादिनाऽनुकूलौ भूत्वा वनक्रीडामनुभृतवन्तौ । क्वचिच्च परस्परं सख्य एव पुरः पश्चाद् व्रजन्त्यः सङ्घर्षाऽक्षिमीलनपुष्पावचयादिभि- रनुभूय वनसौख्यं तृप्तिमाययुः । एवं नकविधाभिः क्रीडाभिः कञ्चित्कालं. गमयित्वा जल. क्रीडऔत्सुक्यमन्ते कविः अष्टमसर्ग जलक्रीडार्थमवतीर्णासु तास काश्चित् परस्परं व्यात्युक्षिकां, काश्चन परस्परमुपरि सरसि- रुहाऽवपातनं, कतिचन सखीसिसिक्षामिषेण प्रतिप्रतियुवमनुकूलयितुमञ्जलिबन्धम् , अपराः प्रेयोभिः सह पानीयविहारमाचरन्त्यो दृशमरुणां व्यदधुः । इत्थमेव यथेच्छं तत्र सरसि विहृतमभूत् । अथ च विधाय जलकेलानिर्गत्य सरसो वासांसि परिधाय मंनिवेशमुपाजग्मुः ॥ नवमसंग एवं भगवति वनविहारजलकेलीरनुभवति सति सायंसमयः समागतः । क्रमशश्च भास्करोऽपि जलकेलिकौतुकितया निमज्जन्नम्भसि कमलिनीरपि मलिनीचकार । अन्ध- कारोऽपि प्राप्तावसरः सर्वत्रैव स्वीयं साम्राज्यं स्थिरीकतुं समन्ततः प्रससार । ततश्च तारा- गणो नभसि समुदयं लेभे । अनन्तरं च मन्दमन्दं गलहस्तिताऽन्धकारः कलाऽर्धखण्ड. पूर्णरूपेण विरहिविरोधी सर्वजनाभीप्सितदर्शनो मदनोद्दीपको निशानाथः प्रादुर्भवन् प्रौढि- मासेदिवान् । तेनच सर्वत्रैव परमानन्दः पदमविन्दत । उदिते च तस्मिन् दयितमनोहारि नेपथ्यादिविधानं दूतीप्रेषणादि च तत्र लब्धपदमभूत् ॥ न्यरूपयत् ॥

१६ शिशपालवधस्य कथासारांशः। दशमसग- विलासिनानां मधुपानं तदुपयोगिसामग्रीसंनिधानसमन्वितमुपवर्ण्य तज्जनितस्खलिता- दिनानाऽनुभावानुभवानन्तरं प्रेक्षणभाषणाश्लेषणचुम्बनात्मकं बाह्यं रतं प्रदाऽभ्यन्तरं च विनम्भविहाररूपं, सुरताऽवसानमिषेण तत्तच्चिहानुभावादिवर्णनं समाप्य पूर्वार्धमपि महाकाव्यस्य समापयत् कविः ॥ एकादशसर्गे- प्रसङ्गतः किल चन्द्रमसोऽस्तगमनं क्रमशोऽरुणोदयमन्धकारनिरसनं सवितुरुदयमति- प्रसन्नया गिरा वर्णयन् . भगवदुत्थानाय मागधाद्युपश्लोकनादि सर्व प्राभातिकं प्रदर्शयन् जगतः सुप्रभातमाचकाक्ष कविः ॥ द्वादशसर्ग- प्रभाते कृतप्रस्थानक्षमनेपथ्यविधानः ससैन्यस्तोरणाद बहिरनुद्धातसुखेन पथा गच्छन् श्रीकृष्णो मध्येमार्ग गवां विहरणं पश्यन् , गोपीनां कलमगोप्त्रीणां मधुरं गीतं शृण्वन् , राज्ञां महीभृतां च शिरसि सैन्यरेणून स्थापयन् गुरूनपि गिरीनतिक्रम्य कलिन्दप्रभवाया यमस्वसुः कृष्णाया अपि जनानां मालिन्यमपहत्याः सूर्यतनयाया यमुनायाः सौन्दर्य- मपश्यत् ॥ प्रयोदशरार्गे- अथ स हरिः कालिन्दीमतीत्य यावत् पुरस्तात् प्रचलति, तावदेव तनावमान्तमतनु- मानन्दं बिभ्रत् सानुजो राजा युधिष्ठिरः स्वनगरात् प्रभुमादरेणाऽऽनेतुमभिमुखः समाजगाम । तदानी हर्षप्रकर्षेण प्रवृत्तदुन्दुभिध्वनिबधिरितान्तराले दिगवकाशे हस्तसंशैव केवलं सङ्केत- ग्रहणाय प्रभुरभूत् । ततश्च द्वयोरपि श्रीकृष्णधर्मराजयोः परस्परं मेलनमजनि, युधिष्ठिरश्च प्रणनाम भगवन्तम् । एवं नमन्तमालोक्य तं विभुः सद्य एव वेगेन समाश्लिक्षत् , क्षिति- भुजोऽन्यानपि योग्यसत्कारैरसभाजयत् । युधिष्टिरप्रार्थनया कृतरथाधिरोहणः सह सर्वैः पुरं प्रविशन् पौरनारीभिः सप्रेमकौतुकं निरीक्षितः स कृष्णो मयनिर्मितां नवहाटकेष्टकमणिमय- प्रस्तरादिनिर्मितमलघुकान्तिनिधि सभाद्वारमासाद्य रथादवतीर्य नृपदर्शितमार्गः सदसोऽभ्य- न्तरे रुचिरमासनमलञ्चकार । तस्मिन् क्षणे तौर्यत्रिकमपि तत्राऽभवत् । नामग्राहपूर्वमाबालं सर्वानपि कुशलप्रश्नादिना सभाजयित्वा चिराय युधिष्टिरेण सह वार्तालापजन्यं सुखमनुभव- . न्नतिष्ठत् ॥ चतुर्दशसर्गे- अथ युधिष्ठिरो यज्ञकर्मसमनुतिष्ठासया स्तवेन कृष्णमभिमुखीकृत्य 'देव ! अस्ति मे यज्ञचिकीर्पा, तदर्थमेव भवानाहूतो मया, इदानीं तदनुष्टानायाऽऽज्ञाप्रदानेन मामुपकुरु, त्वयि स्थिते कीदृशोऽप्यन्तरायो न तत्रोद्भवेत् , मदीप्सितं पुनः सेत्स्यति, तत्प्रसीद' इति प्रार्थयते स्म । कृष्णोऽपि 'त्वां विहाय राजसूययागः केन विधेयः, यस्य ते निदेशे धन- अयादयो जागरूका अनुजाः, बुद्धिश्च नीतिसम्पादितसकलसम्पत् । अपि च सुदर्शनोऽपि ते सहायकः स्यात्' इत्युत्तरयामास । ततो हृष्टः स धर्मराजः शिवस्याऽष्टमूर्तिध्वन्यतमा- .

शिशुपालवधस्य कथासारांशः । १७ मष्टमी मूर्ति यजमानाख्यामासाद्य कृष्णे सर्वदष्तृत्वं विन्यस्य ऋत्विजो वृत्वा यथाविधि यागं समपादयत् । अवसिते यज्ञकर्मणि विप्रेभ्यो दक्षिणा अनादि च दत्तवान् । एवं यज्ञे प्रस्तुते धर्मशास्त्रमनुस्मरन धर्मराजः सदस्यपूजामुद्दिश्य पितामह भीष्माचार्यमपृच्छत् । स च 'स्नातकगुरुबन्धुजामातृरात्विजः पडमी, ब्राह्मणाः, क्षत्रियाश्च गुणिनः पूजनीयाः। एक एव वाऽधिकगुणराशिः पूज्यः । अत्र च सर्व एव समुपस्थिताः सन्ति, तर्हि तत्र सर्वाधिक- गुणशाली जगदुत्पत्तिस्थितिसंहृतिकर्ता भक्तवत्सलः कृष्ण एव तद) मन्मतेन' इत्यभिधाय कृष्णं स्तुतिप्रसङ्गन वराहनृसिंहवामनदत्तात्रेयपरशुरामरामकृष्णाऽवतारैरस्तवीत् । भीष्म- वचःश्रवणसमनन्तरमेव युधिष्ठिरोऽध्यां पूजां मधुसूदनस्याऽकरोत् ॥ पञ्चदशसर्गे- ततो युधिष्ठिरकृतया कृष्णपूजया परमं कुपितः शिशुपालः कराववधूय पादाभ्यां भूमिमुल्लिख्य दन्तर्दन्तान् सङ्घट्टयन् रक्तीकृतनेत्रो मुहुरुष्णं श्वसन् निष्ठुरतराऽक्षरया गभीरया वाचा धर्मराजं विनिन्द्य कृष्णमाक्षिप्य भीष्ममपि तिरस्कृत्य पुनरपि कृष्णं नानाविधैर्वचोभिरुपालब्धवान् , नरकात्मजस्य येणुदारिणो हस्ते हस्ततालं दत्त्वोच्. जहास च । श्रीकृष्णस्तु मौनमेवाऽवललम्ये, मनसाऽपराधानगणयच्च । गाङ्गेयस्तु चैद्यकृतं तन्निन्दनमसहमानः क्षुब्धोऽम्बुधिर्मरुतेव गजितेन भुवं कम्पयन् जगाद- 'अद्य मयाऽच्युतार्चा विहितेति यस्य न मता सा, स धनुरारोपयतु' इति भीष्मवचसा विकृताः शिशुपालपक्षीयाः क्षितिभृतो बाणगुमवेणुदारिदन्तवक्त्रोत्तमौजोरुक्मिणसुबल- प्रमुखा रभसादुत्थाय सदोमण्डपं त्यक्तुं सन्नद्धा अभूवन् । भूयोऽपि विषमिव वचनमु- द्वमन् युद्धाय समाहूय चैद्यः श्रीकृष्णं तस्मादास्थानानिर्गत्य सेनां समनाहयत् । तदा च भृशमशकुनानि तत्सेनासन्नाहकाले 'क्व यासि, तिष्टे'त्यादीनि समुदभवन् । पाण्डवास्तु निसर्गदक्षिणाः शान्तमनसः क्षणमपि नाऽकुप्यन् , तत्पक्षीया अपि तथैवाऽतिष्ठन् ॥ षोडशसर्ग- अथ सेनासबाहं विधाय योद्धुकामः किल चेदिपतिः कञ्चन दूनं राजसदसि कृष्णाय सन्दिशन् प्रेषयत् । स च तत्सद उपगम्य चातुर्यपूर्णया वाण्या श्लेषेण कृष्णं विनिन्दन्तं स्तुवन्तं च सन्देशं श्रावयामास । तस्य तद्वच आकर्ण्य स्थाङ्गपाणिनोदितः सात्यकिः प्रत्युत्तरयामास । भूयोऽपि स सन्देशहरः प्रतिभावान् सात्यकेरुत्तरस्यापि प्रत्युत्तरणेन खण्डन विधाय 'सर्वेभ्योऽप्यतीव शूरो विद्वज्जनसमादरणीय ईश्वरादप्यधिको भवतः सर्वान् विनिपात्य यादवाङ्गना निरलङ्काराः कुर्वन् युधि जयश्रियमधिगमिष्यति शिशुपालः' इत्य- प्यभिधाय तूष्णी बभूव ।। सप्तदशसर्गे- एतेन दूतवाक्येन श्रीकृष्णप्रमुखाः सर्वेऽपि तत्पक्षीयाः क्रोधेन महताऽऽविष्टा बभूवुः, परमुद्धवस्य मुखे न कोपि विकारः पदमलभत । कृष्णप्रेरिता चमूराजये समनह्यत । इत्थं च सा हरेरनीकिनी गच्छन्ती रिपुसैन्यस्याऽभिमुखं ययौ । सापि महताऽऽडम्बरेण स्थिता स्वशवसेनाभियान प्रतीक्षमाणा स्वं स्थानमशून्यमिव कुर्वाणा व्यराजत । इत्थं चोभयोरपि सेनयोः परस्परं युद्धमभूत् ॥

शिशुपालवधस्य कथासारांशः। - . - - अष्टादशसर्गे- उभे अपि कृष्णचैवसेने पथि सङ्गते युद्धमारेभाते । तत्र कस्यचित् करच्छेदः, कस्यचन पादाऽवलून,मपरस्य कबन्धत्वमिति हस्त्यारोहिसादिपत्तिरथिनां परस्परं यथाक्रममयथाक्रम च.तुमुलं युद्धं प्रवृत्तम् । तेन च गगनाङ्गणे वरणाय गृहीतस्रजः सरकामिन्यस्तदानी- मभीप्सितान् वरानलभन्त । युधि च पतिताः शूराणामवयवा हिंस्त्रैः शृगालादिभि- ग्रंध्रादिभिः पशुपक्षिभिः ससन्तोषं मांसरुधिराशया असेव्यन्त । एवं चिराय युध्यमानयो- रुभयोः सैन्ययोः कदाचित् शत्रुपक्षजयः, कदाचिच्च स्वपक्षजय इति दोलायुद्धमभूत् ॥ एकोनविंशसर्गे- इत्थं तुमुले रणेऽवसिते बहूनां सैन्यानां शस्त्राणां च भनेन सैनिकेषु परमप्रवीणा योधा द्वन्द्वयुद्धं विधातुं प्रावर्तन्त । तत्र वेणुदारिणं बलभद्रः, उल्मको द्रुमं, प्रद्युम्नः शत्रुच बाणं च गतप्राणमकरोत् । ततश्च क्रुद्धो महीपतिश्चैद्यो महत्या सेनया प्रद्युम्नमाक्रान्त- वान् । तदानीं च श्लोकैरिव महाकाव्यं सर्वतोभद्रगोमूत्रिकादिभिर्व्य हैविपमं तदर्ल परः पुमान् कृष्णः पञ्चत्वमनयत् । अत्र सर्ग कविना बन्धा अपि विन्यस्ताः, अन्तिम च पद्ये कवेः काव्यस्य च नाम्नोरुधारश्चक्रबन्धेन कृतः ॥ विंशसर्गे- एतावता महति सैन्ये सम्पराये शीर्णतां याते चेदिराट् केशवमात । अनन्तरं च तयोरुभयोरस्त्रैः शस्त्रैश्च चिराय समरमभूत् । अन्ते च द्वावपि तौ नियुधेनाऽयुध्येताम् । ततो वाग्बाणव्यापारमेवाऽतनोत् स शिशुपालः । ततः स मुरारिराक्रोशतस्तस्य चैद्यस्य वपुरपमूर्धमकरोत् । तुष्टा देवादयः स्तुवन्त एव चैद्यवपुषो निर्गत्य कृष्णशरीरं प्रविशत्तेजो. ऽपश्यन् , तेन विस्मिताश्च समभूवन ॥ कविवंशवर्णनस्य सारांशः । आसीत्कश्चन श्रीवर्मलाभिधानो नरपतिः, तस्य सुप्रभदेवो नाम महामात्यो बभूव । तस्य सर्वाश्रय इत्यपराख्यो दत्तकनामा पुत्रोऽभूत् । तत्सतो माघ इदं श्यडू कविकीर्ति दुराशया शिशुपालवधाख्यं काव्यं श्रीकृष्णचरितवर्णनात्मकं विहितवान् ॥ उपसंहारः। उपरि प्रदर्शितेन महाकाव्यकथासारांशेन पिपठिषणां कश्चन स्वल्पोऽप्युपकारो यदि स्याहि प्रकाशकमहोदयस्याऽभिलाषः परिपूर्णतां यायादित्यनुमीयत इति शम् ॥

॥ श्रीः॥ श्रीमन्माघकविप्रणीतं शिशुपालवधम् । वल्लभदेवकृतया सन्देहविषौषधिव्याख्यया मल्लिनाथकृतया सर्वकषाव्याख्यया च समेतम् । प्रथमः सर्गः । सन्देहविषौषधिः। यस्य भृङ्गावलिः कण्ठे दानाम्बुराजिभूपिते । भाति रुद्राक्षमालेव सवः पायाद्गणाधिपः ॥ अभीष्टफलसम्पत्तिहतुं स्मृत्वा सरस्वतीम् । शिशुपालवध काव्ये सारटीका विधीयते ॥ कृता महद्भिर्यत एव टीका ममाऽपि यत्रस्तत एव युक्तः । ब्रह्माच्युताभ्यर्चितपादपद्मो न पूज्यते किं मनुजैगिरीशः ॥ सत्यरम्याणि वस्तूनि दृषयन्त्यविमत्सराः । किन्तु केचित्प्रमाणज्ञा दृश्यन्ते पञ्चषा नराः ॥ अभिलपितसिद्ध्यर्थं मङ्गलादि काव्यं कर्तव्यमिति स्मरणात् कविः श्रीशब्दमादौ प्रयुक्त- श्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसमनि ॥ वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनि हरिः ॥ १ ॥ श्रिय इति ॥ हरिर्मुनि ददर्श इति सम्बन्धः । ननु हरयो दश संख्याता वर्तन्ते- अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गासिंहशीतांशुयमा हरयो दश ॥ कोऽसौ हरिरित्याह-श्रियः पतिः लक्ष्मीनाथो विष्णुस्त्यिर्थः । मुनि कमित्याह- हिरण्यगर्भागभुवं ब्रह्मतनयं नारदमित्यर्थः । यद्यपि ब्रह्मत्वेनासौ तदा हरिणाऽज्ञायि, येन २ सन्देहविषौषधिसर्वकषायुते- [प्रथम:- - केनचिच्छब्देन निर्देशे कर्तव्ये मुनिशब्दः प्रयुक्तः कविना ज्ञात एव, तस्य चैतद्वचनम् । कदा- द्राक्षीत् व वसुदेवसम्मनि शूरसेनपुत्रगृहे श्रीमति सर्वसमृद्धियुक्ते वसन् तिष्ठन् । कलिद्वा- परसन्धावित्यर्थः । ननु भगवान् पुरातनमुनिबंदर्याश्रमनिवासी किमिति तत्रोबासेत्याह- किं कर्तुं जगच्छासितुं त्रिभुवनं रक्षितुं पालयितुम् । एतेन कर्माधीनत्वं भगवतो निरस्तम् । कादशो हरिः जगनिवासः भुवनानां निवास: आधारः। निवसन्त्यस्मिन्निति निवासः कीदृशम् अम्बरादाकाशादवतरन्तं पतन्तम्, मुनेविशेषणम् । अङ्गभूशब्द उपचारान्मानसे- ऽपि पुत्रे वर्तते । यथा सरसिजशब्दः स्थलकमलेऽपि । तथा हि किरातार्जुनीये काव्ये- उत्फुल्लस्थलनलिनीवनादमुष्मादुद्भूतः : सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ अत्र केचिदनू नुदन्-शौरिर्जगच्छासितुं वसुदेवसमनि वसन्नम्बरादवतरन्तं नारदं ददर्श- त्यनेनैव विवक्षितार्थस्योक्तत्वात् पदान्तरोपादानं वृत्तभरणार्थमेवेति । तदसम्यक, यतोऽत्र मत्यनुप्रासः शब्दालङ्कारस्त्यक्तः स्यात् । विरोधाभासश्चालङ्कारः-यः किल साक्षात् श्रीपतिः स कथं श्रीमति गृहे वसति, यश्च जगन्निवासः स परगृहे वसतीति । मङ्गलादित्वं च काव्य- म्य प्रोक्तं न स्यात् । किञ्चित्स्वरूपप्रतिपादनाय विशेषणानि प्रयोक्तव्यानि इति केनचि- नियमः कृतः। श्रीमतीत्युक्ते कसादीनां वधः प्रतिपादितः, न हि तेषु सत्सु तद्गृहस्य श्रीमत्ता भवतीति । तथा यदि नारद इत्येतावदुच्यते ततस्तस्य पूजाहितुर्ब्रह्मपुत्रता नोक्ता म्यात् , चयस्त्विपामित्यादि निरवतारं स्यात् । इति सर्वमेव निरवद्यम् । सर्गेऽस्मिन् वंशस्थं वृत्तम् । उशन्ति वंशस्थमिदं जती जरी ॥१॥ सर्वङ्कषा। इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकलिघु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥ शारदा शारदाम्भोजवदना बदनाम्बुजे । सर्वदा सर्वदास्माकं संनिधि संनिधि क्रियात् ।। वाणी काणभुजीमजीगणदवाशासीच्च वैयासिकोमन्तस्तन्त्रमरंस्त पनगगवी गुम्फेषु चाजागरीत् । वाचामा चकलद्रहस्यमखिलं यश्वाशपादस्फुरी लोकेऽभूयदुपज्ञमव विदुषां सौजन्यजन्यं यशः ॥ मल्लिनाथः मुधीः सोऽयं महोपाध्यायशब्दभाक । विधत्ते माघकाव्यस्य व्याख्या सर्वकषाभिधाम् ।। ये शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालक्रियाशिक्षाकौतुकिनो विहर्तुमनसो य च वनरध्वान । शुन्य तरङ्गित रसमुधापूर मिमङ्कन्ति ये तेषामेव कृते करामि विवृत्ति माघस्य सर्वदुषाम् ।। नताऽस्मिन् यदुनन्दनः म भगवान्वीरः प्रधानो रसः शृङ्गारादिभिरङ्गवान् विजयते पूर्णा पुनर्वर्णन।। इन्द्रप्रस्थगमायुपायविषयश्चैयावसादः फलं धन्यो माघकविवयं तु कृतिनस्तत्सूकिससेवनात् ॥ इहान्वयमुखेनैव सर्व व्याख्यायते मया । नामूलं लिख्यते किञ्चित्रानपेक्षितमुच्यते ।।

सर्गः।] शिशुपालवधे। ३ अथ तत्र भवान्माघकविः 'कायं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सयः परनिवृतये कान्तासंमिततयोपदेशयुजे' ॥ इत्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकप्रेय:साधनता, 'काव्यालापांश्च वर्जयेत्' इति निषेधस्या- मन्काव्यविषयतां च पश्यशिशुपालवधाख्यं काव्यं चिकीर्षु श्विकीर्षितार्थाविघ्नपरिसमातिसंप्रदायाविच्छेदल- क्षणफलसाधनत्वात् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षण- त्वाच्च कात्र्यफलशिशुपालवधबीजभूनं भगवतः श्रीकृष्णस्य नारददर्शनरूपं वस्तु आदी श्रीशब्दप्रयोग- पूर्वकं निर्दिशन कथामुमक्षिपति- श्रिय इति ॥ तत्रादा श्रीशब्दप्रयोगादर्णगणादिशुद्धेरभ्युच्न यः । तदुक्कम- 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्याः म्युलिपिनो गणतोऽपि बा' ॥ इति । श्रियो लक्ष्म्याः पतिः । अनेन रुक्मिणीरूपया श्रिया समंत इति मूचितम् । 'राघववेऽभत्र- मीता रुक्मिणी कृष्णजन्मनि' इति विष्णुपुराणात् । जगनिवासी जगतामाधारभूतः । कुक्षिस्थाखिल- भुवन इति यावत् । तथापि जगत लोकं शासितुं दुष्टनिग्रहशिष्टानुग्रहाभ्यां नियन्तुं श्रीमति लक्ष्मीयुक वसुंदवसानि वसुदेवरूपिणः कश्यपस्य वेश्मनि वसन् कृष्णरूपेण निष्ठन् हरिविष्णुरम्बरादवनरन्तम् । इन्द्रसन्देशकथनार्थमिति भावः। हिरण्यस्य गर्भो हिरण्यगर्भः ब्रमा ब्रमाण्डप्रभवत्वात., तस्याङ्गभुवं तन- जम् । अथ वा तस्याङ्ग दवयवादुत्सङ्गाख्यावतीति हिरण्यगर्भाङ्गभूस्तं मुनिम् । नारदमित्यर्थः । 'उ. सङ्गानारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयंभुवः' इति भागवतात् । ददर्श । कदाचिदिति शेषः । अत्राल्पीयाम वसुदेवसअनि सकलजगदाश्रयतया महीयसा हरेराधयत्वकथनादधिकप्रभेदोऽर्थालङ्कारः । तदुक्तम्-'आ. धाराधेययोरानुरूप्याभावाऽधिको मतः' इति । जगनिवासस्य जगंदकदेशनिवामित्वमिति विरोधश्च । तथा तकारसकारादेः केवलस्यासकृदावृत्त्या जगजगदिति सकृयञ्जनद्रयसादृश्याच वृत्त्यनुप्रासभेदी शब्दालङ्कः- रो । एषां चान्योन्यनरपेक्ष्यणकत्र समावेशात तिलतण्डुलवत्समष्टिः । सर्गेऽस्मिन्वंशस्थं वृत्तम् । 'जतैः तु वंशस्थमुदीरितं जरी' इति लक्षणात् ॥ १ ॥ कीदृशं मुनिमद्राक्षीदित्याह- गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वजवलनं हविर्भुजः ॥ पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥ गतमिति ॥ जन सामान्यलोकैः इति अस्मात्कारणात् आकुलं ससम्भ्रममीक्षितमवलोकित दृष्टम् । तदेव कारणमाह-एतत् धाम तेनः अधोऽधस्तात् पतति सरति किं तत्। सर्वस्यां दिशि विसारि व्यापि किमेतत, किं वस्त्वेतद्भवदित्यर्थः । स्वरूपनिर्देशार्थ इतिरिति त्वन्ये । इतीत्य: माकुलमनिश्चितमीक्षितमित्यर्थः । कदाचित्सावित्रमेत्तत्तेजो भवेन्नेत्याह-अनूरुसारथेः खेः तिरश्चीनं तिर्यक् गतं सम्प्रसारणं प्रसिद्ध प्रतीतम् , एतच्चाधः पतति । कदाचित्कार्शानवं म्यान्नेत्याह-हविर्भुजोऽग्नेरूद्धज्वलनं प्रसिद्ध प्रतीतम् एतच्च सर्वतो विसारि, अतः किमेतत् स्यात् । प्रसिद्धशब्दोऽत्रोभयेनापि सम्बध्यते। गतमिति भावे क्तः । अविद्यमानो उरू यस्यासावनूरुः । ईक्षितमिति कर्मणि निष्टायां कर्मण्यभिहिते पूर्व क्रियापेक्षा द्वितीया । अत्रापि चोदयति-उनमिदं वाक्यं साध्याहारत्वात् । अत्र हि संशये कविना विकल्पो न निबद्धौ- द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुताशनः' । गतमित्यादि, पत- त्यधो धामेत्यादीतिपादद्वयसाध्याहारोऽयं श्लोक इति । युज्यते। एतत्केवलं संशयालङ्का- रत्वे सति । सहरालद्वारत्वे तुन कश्रिदोषः । यतः कश्चिदत्रोत्तरालङ्कारः कश्चित् संशयांशः । - ४ सन्देहविषोपधिसर्वकषायुत- [प्रथमः- । उत्तरवचनात्पूर्ववचनोन्नयनं यत्रेत्युत्तरलक्षणम् । अधो धामेति द्वे पदे ॥ २ ॥ तदानीं जनैर्विस्मयादीक्षितुं प्रवृनमित्याह - गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूरुः स सारथिर्यस्य तस्यानूस्तारयेः सूर्यस्य गतं गतिः । भावे कः। तिरश्चीनं तिर्यग्भूतम् । 'विभाषाऽश्वरदिमियाम्' इति तिर्यक्शन्दादश्चत्यन्तात्प्रातिपदिकात्स्वार्थे खप्रत्ययः । हविर्भुजोऽनेरूर्वज्वलनमूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वती विसारि धामाऽधः पतति । किमेतदिति सूर्यानिविलक्षणमदृष्टपूर्वमिदं धाम किमात्मक स्यादित्याकुलं विस्मयात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कीण भावे कः । 'प्रसि ।रविवक्षानः कर्मणोऽकर्मिक क्रिया' इति वचनात् । केचित्कर्मणि कान्तं कृत्वा ईक्षितं मुनि ददर्शति पूर्वेण योजयन्ति । अत्रापमेयस्य मुनिधाम्रः सूर्याग्निभ्यामुपमांनाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनायतिरेकः । तदु काव्यप्रकाशे-'उप- मानावदन्यस्य व्यतिरेक: स एव सः' इति । 'धाम रश्मी गृहे दहे स्थाने जन्मप्रभावयोः' इति हेमच- न्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितन द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुनाशनः' इति चरणद्वयेन सहेममेव वलोकं षट्पदच्छन्दस उदारणमाह । तत्रायचरणदयेन मन्दे- हाकारो गतमिति तन्निरासश्च बोध्य इत्युपारष्टात् ॥ २ ॥ किं यथा जनैः संशयः कृतः तथा हरिणा नेत्याह- चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विमाविताकृतिम् ॥ विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥ चय इति ॥ स विभुः सर्वव्यापी हरिरभु मुनि क्रमान्नारद इति अबोधि नारइत्वेन निश्चि. काय । तामेव परिपाटी विशेषणमुखेनाह-कीदृशममुं पुरा पूर्व त्विषां चयः दीप्तीनां पुञ्ज इत्य- वधारित लक्षितं ज्ञातं, ततः किञ्चित्सामीप्यात् विभाविताकृति लक्षिताकारं सन्तं शरीरी- स्यवधारितम् । दहवानयं पतति न तु तेज एवेत्यनेन प्रकारेण ज्ञातस्वरूपमित्यर्थः । ततोऽपि सामीप्याद्विभक्तावयवं प्रकटितश्मश्रुभुज पुमानित्यवधारितम् । पुमानयं पतति न तु पक्ष्या- दिजातिरिति बुद्धवानित्यर्थः । ततो नकव्यादमुं नारद इत्यबाधि। विभक्ता विभागेन उपलभ्यमाना अवयवा ऊर्वादयो यस्य सः तम् । इतिशब्दः सर्वत्र प्रातिपदिकार्थमात्रत्व- व्यवस्थापनार्थः । यदि हि नारदमित्यबाधि इत्युच्यत तथा सति धर्मान्तरयोग नारदम्य कर्मभावः प्रतायेत, नारदत्वेनाऽबुद्धत्ययं त्वर्थो न गम्यत । अत एव प्रातिपदिकार्थत्वे सति नारदात् द्वितीया न भवति । नारद इतीत्यतः पदसमुदायादप्यसौ नव भवितुमर्हति, अप्रा- तिपदिकत्वात् । अर्थवत्समुदायानां समासग्रहणं नियमार्थमुक्तम् । प्रातिपदिकाच विभक्तय उक्ताः । यत्तत्प्रातिपदिकं च ततो भवत्येव, यथाऽमुमिति । एवमन्यत्र । केचित्त्वनुभूत- कर्मत्व एव नारद इति नामस्वरूपनिरूपणाय प्रत्यवमृश्यते इत्याहुः ॥ ३ ॥ अथ भगवान्निरणेषीदित्याह- चय इति ॥ विभुवस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं विषां चय इत्यवधारित तेजःपुञ्ज मात्रत्वेन विनिश्चितम् । ततः प्रत्यासने विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अत एवं शरीरी चतन इत्यवधारितम् । ततो विभका विविच्य गृहीता अवयवा मुखादयो यस्य तं तथोक्तम् । अत एव पुमानित्यवधारितम्। अमुमागच्छन्तं व्यनिविशेष नारदं, वास्तवाभिमायंगेति पुंलिङ्गनिर्वाहः । क्रमा- पूर्वोक्तसामान्याविशेषज्ञानक्रमेण । लोकदृष्टयेदमुक्तम् , हरिस्तु सर्व वे देवेति तत्त्वम् । नारद इत्यबोधि । नारदं बुद्धवानित्यर्थः । नारदस्य कर्मत्वेऽपि निपातशब्दनाभिहितत्वान्न द्वितीया, तिडामुपसंख्यानस्योप- लक्षणत्वात् । यथाह धामनः-निपातनाभिहिते कर्मणि न कर्मविभकिः, परिगणनस्य प्रायिकत्वात' । .

माः। शिशुपालवधे। । इति । बुध्यतेः कर्तरि लुकू । 'दीपजन-'इत्यादिना चिम् । चिणो लुक्' इति तस्य लुक् । अत्र विभा. विताकृति विभक्कावयवमित्यादिना आकृतिविभावनाक्यवविभावनयोः पदार्थयाविशेषणवृत्त्या शरीरित्व पुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । 'हतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुद ह. तम्' इति लक्षणात् ॥ ३॥ कीदृशममुमिति तद्वर्णनमाह- नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् ॥ क्षणं क्षणोरिक्षप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥४॥ नवानिति । कीदृशं मुनि नवान् सजलान् बृहतः स्थूलान् पयोधरान् मेघान् अधोऽधः घनानामधस्तात्समीपे भवन्तं वर्तमान, मुनि किंभूतं समूढं परिपक्वं शोधितं यत्कपरं धनसारः तस्य यः परागो रजस्तदिव पाण्डुरम् । 'शुक्लो हि नारद' इत्यागमः । पुनः कथंभूतम् अत एव शम्भुना श्रीमहादेवेन सह स्फुटोपमं सदृश, शिवसदृशमित्यर्थः । किंभूतेन शम्भुना भू- तिसितेन भस्मोद्धूलितेन, पुनः कथंभूतेन क्षणं क्षणमात्रं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना क्षणं स्वल्पकालं क्षणे उत्सवे अभिनयवशात उत्क्षिप्ता ऊोकृता भुजवनस्योपरि कृता गजेन्द्र- कृत्तिः करिचर्म येन सः तेन । पूर्व तस्य दैत्यस्य ईदृशो वरोऽस्ति-यदा किल गजासुरचर्म भूमौ लगति तदा स जीवति, अतो हरेण धृतम् । अधोऽध इति उपर्यधोऽधीनां सामीप्ये द्विता, तद्योगे च पयोधरान् इति 'अभिसर्वतसो रित्यादिना पाठ्यपवादो द्वितीया । अभितो ग्राममुभयतो ग्राममित्यादीनि बाक्यनि एतावन्त्येव प्रयोगभाञ्जिस्युः । शम्भुनेति 'तुल्याथै रिति तृतीया । अतुलोपमेति प्रतिषेधो न भवति, समासे गुणीभूतत्वादुपमा- शब्दस्य । यदेवं तृतीयाऽपि न स्यात्तुल्यार्थस्याप्रधानत्वात् । 'तनैकदिगितिज्ञापकाद्भविष्यति। अत्र हि एकशब्दः समासेऽन्तर्भत इति कथं तेनेति तृतीयाऽसमर्थविभक्तिरुत्पद्यते। प्रतिषेधे तु द्वितीयाभावः(१) । अथ वा तुलोरमाशब्दयोगे उपमेयात् तृतीया निषेध्यते न तूपमानात् । यथा-तुला देवदत्तस्य नास्ति, उपमा कृष्णस्य न विद्यते । अत्र च शम्भुपमानम् । केचित्तु शम्भुना सह स्फुटोपममिति सहाथै, अन्ये तु करणे तृतीयामाहुः ॥ ४ ॥ अथ सप्तभिर्मुनि विशिनष्टि - नवानिति ।। कीदृशममुम्। नवासद्यःसंभृतसलिलान । अतिनीलानिति यावत् । बृहतो विपुलान पयोधरामेघानधोऽध: मेघानो समीपाधःप्रदेशे। स्थितमिति शेषः । 'उपर्यध्यधसः सामीप्ये' इति द्विर्भावः, तयोगे द्वितीया । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इत्यादिवचनात् । समूढः पुञ्जीकृतः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः । कर्पूरस्य परागश्चूर्ण तत्पाण्डुरम् । अत एव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया । क्षणेषु ताण्डवोन्सवेषु । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्युभय- प्राप्यमरः । उक्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्भ येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । भूत्या भस्मना सितेन । 'भूति स्मनि सम्पदि' इत्यमरः । शम्भुना स्फुट! उपमा सादृश्यं यस्य तं स्फु. टोपमम् । स्फुटशम्भूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-'इति निषेधात्सादृश्यवाचित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यत प्राग्लिखित्वा व्याचक्षते । तेषां पुंस्त्वावधारणापाक् तेजःपिण्डमात्रस्य शम्भूपमौचित्यं चिन्त्यम् ॥ ४ ॥ . .. १) द्वितीयस्य ज्ञापकस्याभाव इत्यर्थः। तथा च स्फुटोपममित्यत्र उपमाशब्दस्य समासे गुणी- भूतत्वेऽपि तेनैकदिगिनि ज्ञापकात् शम्भुनेति तृतीयासद्भावः । प्रतिषेधस्तु ज्ञापकाभावात्र भवतीति स्पष्टार्थः।

सन्देहविषौषधिसर्वकषायुते-
[प्राम:-
१
..
दधानमम्भोरुहकेसरगुतीजंटाः शरच्चन्द्रमरीचिरोविषम् ॥
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥
दधानमिति ॥ अमुं किं कुर्वाणं जटाः दधान बिभ्राणं धारयन्त, किंभूता जटाः अम्भो-
रुहकेसरद्युतीः पद्मकिझल्कगौराः, पुनः कीदृशं शरचन्द्रमरीचिरोचिषं शरदिन्दुकिरणदीसिम् ।
अतश्वोपमीयते–धराधरेन्द्र हिमाचलं व्रततीततीः दधतं यथा कश्चित्पश्यति। किंभूता लताः
विपाकपिङ्गाः परिणामकपिशाः पक्कवर्णाः, पुनः किंभूताः तुहिनस्थलीरुहः तुहिनयुक्ता
स्थली तुहिनस्थली, तुहिनस्थलीति शाकपार्थिवादिदर्शनान्मध्यमपदलोपीसमासः । तत्र रोह-
न्ति जायन्ते इति तुहिनस्थलीरुहः । विप् , शस् । एवं द्युतीगिति । ननु हिमाधिष्ठितायां
भुवि लताः पच्यन्ते इति चिन्त्यम् । केचित् विषकीटकन्यायमाहुः-विषस्य मध्ये
कोट उत्पद्यते पश्चात्तेनैव विषाहारेण स जीवति, न हि विषोत्पन्नः कीटो विषेण म्रियते ।
तथा हिमवति हिमान्तर्लताः परिपाक गच्छन्तीति भावः । कर्मण उपमानं तद्विभक्त्यैव
निर्दिश्यत इति धराधरेन्द्रमिति द्वितीयोत्पत्तिः । न हि भिन्नविभक्तिकयोरौपम्यं घटते ।
केचित्तु तद्दर्शनक्रियापेक्षतामेवमाहुः, यथा-कश्चिदेवंविधं नागेन्द्रं पश्यति एवमसौ नारद
ददशेत्यर्थः । एवं सर्वत्र ॥ ५ ॥
दधानमिति || पुनः । अम्भोरुहकेसराती: पढ़ मकिचल्कप्रभापिशङ्गीरित्यर्थः | जटा दधानम् , स्वयं
नु शरच्चन्द्रमरीचिरिव गोचर्यस्य तम् । धवलमित्यर्थः । अत एव विपाकेन परिणामेन पिङ्गाः पिङ्गलाः
तुहिनस्थल्या तुषारभूमौ रोहन्तीति तुहिनस्थलीरूह. व्रततीततीर्लनाव्यूहान । 'वल्ली तु व्रततिर्ला
इत्यमरः । दधानम् । धराधरेन्द्रो हिमवान् , तुहिनस्थलीति लिङ्गानारदापमानत्वाच्च तामिव स्थितम् ॥५॥
पिशङ्गमौजीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनधुति ॥
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ ६ ॥
पिशङ्गेति ॥ किंभूतं मुनि पिशङ्गमौञ्जीयुज हरिद्राऽरुणां मेखलां धारयन्तं, पिशङ्गी कपि-
शा हरिद्राऽरुणा या मौजी मेखला तां युनक्तिधारयतीति पिशङ्गमौञ्जीयुक् तं, पुनः किंभूतम्
अर्जुनच्छवि शुक्लवर्णम् । किं कुर्वाणम् एणाजिनं वसानं हारिणं चर्म परिदधानं, किंभूतमेणा-
जिनम् अञ्जनद्युति कालकृष्णम् । अत एव किं कुर्वन्नं शितिवाससो नीलाम्बरस्य सीरपाणे:
बलभद्रस्य तन विडम्बयन्तं शरीरमनुकुर्वन्तं, किंभूतां तनु सुवर्णसूत्राकलिताधराम्बरां
सुवर्णसूत्रेण तपनीयदोरकेण आकलितं बद्धमधराम्बरं कटीवासो यस्यां सा ताम् । मौज्याः
सुवर्णदोरक उपमानं, कृष्णाजिनस्य नीलवासः। शितिशब्देन नीलाम्बरग्रहणम्,तद्धि नाम्नवा-
क्षिप्तम् । मुनेश्च हली । पूर्वमवगतमपि नारदशौक्ल्यं प्रतिश्लोकं कविनोपमासिद्धये तदुपादीयते ।
न चह सूत्राणि व्याख्यायन्ते येन गुरुलाघवं चिन्त्यते, उत्तरत्र वाऽनुवृत्तिर्भवति । मुनस्य
विकारी मेखला मौञ्जी। प्राणिरजतादिभ्योऽञ् । शितिर्नीलो भवेद्वर्णः ॥ ६ ॥
पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी, पिशङ्गया माज्या युज्यत
इति पिशङ्गमौनीयुक् तम् । 'सत्मद्विष-'इत्यादिना क्विप् । 'मियाः पुंवत् -'इति पिशङ्गशब्दस्य बद्भावः ।
अर्जुनच्छवि धवल कान्तिम् । 'वलक्षो धवलोऽर्जुन.' इत्यमरः । अञ्जनात्यञ्जनवर्णमेणाजिनं कृष्णमृग-
चर्म वसानमा छादयन्तम् । 'वस आच्छादने' इति धातोः शानच् । सुवर्णसूत्रेण कनकमेखलया आकलितं
बद्धमधराम्बरमन्तरीयं यस्यास्तां शितिवाससो नीलाम्बरस्य रामम्य तर्नु विडम्बयन्तम् अनुकुर्वाण-
मित्यर्थः । आायमुपमा ॥ ६ ॥

सर्गः।] .. शिशुपालवधे। विहङ्गाराजाङ्गलहैरिवायतैहिरण्मयोरुिहवल्लितन्तुमिः ॥ कृतोपवीतं हिमशुनमुश्चकैघनं घनान्ते तडितां गुणैरिव(१) ॥ ७॥ विहङ्गेति॥ पुनः कीदृशम, हिरण्मयोर्वीरुहवल्लितन्तुभिः सुवर्णलतावृक्षसूत्रैः कृतोपी- तम्, अपरं किंभूतं हिमशुभ्रं तुहिनववलं कीदृशैः तन्तुभिः विहङ्गराजागरुहैरिव आयतै; गरु- डपक्षैरिव दोधैः । तेऽपि सौवर्णा भवन्ति । अतश्योत्प्रेक्ष्यते-घनान्ते वर्षाक्षये घनमिव अभ्रमिव निर्जलमेवमिव । सितमेघसदृशमित्यर्थः । किंभूतं धनं तडितां गुणैः विद्युद्दामभिरुपलक्षितम् । कृतोपवीतमिव कृतोपवीतं समृद्धमित्यर्थः । यदि वा तडितां गणैरुपलक्षितम् । पुनः किंभूतम् उच्चकैः उन्नतम् । उभयमपि विशेषणं धनान्ते शरन्मुखे तत्र च निर्जलानामपि मेघाना विद्युतो भवन्त्येव । हिरण्यस्य विकारो हिरण्मयमिति निपातः ॥ ७ ॥ विहङ्गेति ॥ पुनः । विहङ्गराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतेदीधैः । हिरण्यस्य विकारो हिरण्म यी । 'दाण्डिनायन-'इत्यादिना मयटि यलोपनिपातः । तस्यामुळ रुहा रूढाः । इगुपधलक्षणः कप्रत्य- यः । तामा वल्लीनां तन्तुभिस्तुल्यः उपादानगुणात् हिरण्मयैः कृतोपवीतं शोभार्थ कल्पितयज्ञसूत्रं स्वयं हिमशुभ्रम् । अत एव घनान्ते शरदि तडिता गणरुपलक्षितम् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । उच्च- वोच्चकत्रतं घनं मेघमिव स्थितम् ॥ ७ ॥ निसर्गचित्रोज्ज्वलसूक्ष्मपक्षमणा लसद्विसच्छेदसिताङ्गसङ्गिना ॥ चकामतं चारुचमुरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८ ॥ निसर्गेति ॥ पुनः किंभूतं चकासतं शोभमानं केन चारुचमूरुचर्मणा, चारु मनोज्ञं यत् चमूरुचर्म चमूरवश्चित्रलमृगास्तेषां चर्मणा । चमूरुश्चित्रलमृगः । किंभूतन निसर्गचित्रोज्ज्व- लसूक्ष्मपक्षमगा निसर्गेण स्वभावेन चित्राणि नानावर्णानि उज्ज्वलानि दीप्तिमन्ति सूक्ष्माणि मृदूनि पक्ष्माणि रोमाणि यस्य तेन, पुनः किंभूतेन लसन् विलसन् स्फुरन् योऽसौ बिसच्छेदो मृणालभङ्गस्तद्वत् सितं श्वेतं यदङ्ग शरीरं तत्र सङ्गः सम्पर्को विद्यत यस्य चर्मणः तत्तेन। छेदस्य सिततरत्वादुपमानत्वम् । भावानयने द्रव्यानयनमिति स्फुटता बिसेनौपम्यमत्र न तु छेदमात्रेण । उत्प्रेक्ष्यते-इन्द्रवाहनं नागेन्द्रमिव ऐरावणमिव किंभूतं नागेन्द्र कुथेन पञ्च- वर्णकम्बलेन चकासतं शोभमान के नागेन्द्रमित्याह । इन्द्रवाहनमैरावतः 'शुक्लो हि ऐरावत' इत्यागमः। कुथोऽपि चित्रसूक्ष्मरोमा सिताङ्गसङ्गी च। कुथः स्याद्वर्णकम्बलः। यद्यपि अक्षि- गेमसु पक्ष्मा स्त्रीलिङ्गः कुथशब्द इति वररुचिस्तथापि विपर्ययो महाकवीनां दृश्यते। यथा- कामणिकउलपढेपरितनुअबुद्धिविहायोऽपीति(?), उत्सृष्टध्वजकुथकङ्कटा इति । चकासतमिति जक्षादित्वादभ्यस्तसंज्ञा । वहतीति वाहनः । कृत्यल्युटो बहुलम् , निर्देशाद् वृद्धिः ॥ ८ ॥ निसर्गेति ॥ पुनः । निसर्गात्स्वभावावे चित्राणि शबलान्युज्ज्वलानि भास्वराण सूक्ष्माणि पक्ष्मा- णि लोमानि यस्य तेन, लसन् यो बिसच्छेदो मृणालखण्डः । 'छेदः खण्डोलियाम्' इति विकाण्डशेषः। नत्सितेऽङ्गे वपुषि सजिना सकेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । इन्द्रधाहनं नागेन्द्र मैरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहनामिति स्वस्वामिभाषमात्रस्य विवक्षितत्वात् 'वाहनमाहितात्' इति न णत्वम् । यथाह वामनः- 'नन्द्रवाहनशन्दे णत्वमाहितत्वस्याविवक्षितत्वात्' इति । चकासतेः शतरि 'नाभ्यस्ताच्छतुः' इति नुमभा- वः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा ॥ ८ ॥ । .. (१) गणेरिख।

८ सन्देहविषौषधिसर्वकलायुते [प्रथम:- अजनमास्फालितबलकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिण्या ॥ पुरः प्रवालैरिव परितार्धया विमान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥ अजस्रमिति ॥ अपरं कथंभूतम् अच्छस्फटिकाक्षमालया विभान्तं शोभमानम् , झच्छा निर्मला ये स्फटिकाः चन्द्रकान्तमणयस्तेषां याऽक्षमाला जपमाला अच्छस्फटिकाक्ष- माला तया, स्फटिका एव अक्षाः पद्मबोजानीव निर्मलत्वाजपोपयोगित्वाच तेषां सक्तया, कीदृश्या अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया अजस्र निरन्तरमास्फा- लिता वादनायाऽऽहता ये वल्लकीगुणा वीणाविशेषतन्त्र्यः तैः क्षत उघृष्टोऽत एव स्वभावादु- ज्ज्वला योऽसावङ्गुष्ठनखस्तस्य अंशुभिः किरणैर्भिन्ना व्याप्ता विच्छुरिता या सा तया। अत- थोत्प्रेक्ष्यते-पूर्वस्मिन् भागे प्रवालः विद्रुमैः पूरितार्धयेव । अस्या जपमालाया अर्धा प्रवालैः प्रोतमिव, यतो नखमरीचिभिरारक्तीकृतमित्यर्थः। अच्छग्रहणं लौहित्यासादनस्यातिशय- प्रदर्शनार्थम् । निर्मलं हि नितरां वर्णान्तरं गृह्णाति । आश्रावितेऽपि यावेवादितेत्यर्थः(१)। जसेर्न पूर्वात् 'नमिकम्पिस्म्यजसकमहिंसदीपो र' इति रे कृते अजस्रमिति रूपम् ॥ अजनमिति ।। पुनः । अजस्र प्राचुर्येणास्फलितास्ताडिताः । सौष्ठवपरीक्षार्थ म्युन्जाङ्गुष्ठेन तन्त्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणाना वीणातन्त्रीणां क्षतेन संघर्षणेनोज्ज्वलैरगुष्ठनखांशुभिभित्रया मिश्रया । तदागरक्तयेत्यर्थः । अत एव पुरः पुरोमागे प्रवालविद्रुमः। 'अथ विदुमः पुंसि प्रवालं पुनपुंस- कम्' इत्यमरः । पूरितार्धयेव स्थितया अच्छस्फटिकाक्षमालया स्वच्छस्फटिकानां मालया। जपमाल. येत्यर्थः । 'अच्छो भल्लू के स्फटिकेऽमलेऽच्छाभिमुखऽव्ययम्' इति हेमचन्द्रः । तथा प्रसिउस्फटिक- ग्रहणादृषेोक्षार्थित्वं व्यज्यते । 'स्फटिको मोक्षदः परम्' इति मोक्षार्थिनां स्फटिकाक्षमालाभिधानात् । विभान्तं भासमानम् । भातेः शतृप्रत्ययः । अत्र नखांशुभिन्नयेति स्वगुणत्यागेनाभ्यगुणस्वीकारलक्षण- स्तद्गुणालङ्कार उक्तः । तद्गुण: स्वगुणत्यागात्' इति ॥९॥ रणद्भिराघट्टनया नभस्वतः पृर्थाविभिन्नश्रुतिमण्डलैः स्वरैः ।। स्फुटीभवद्रामविशेषम्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १० ॥ रणद्भिरिति ॥ पुनरपि कशंभूतं मुहर्मुहुर्वारंवारं महती सप्ततन्त्रीका वीणां विस्मयात्पुनःपुनः अवेक्षमाणम् । रुद्रस्य वीणा नालम्बो महती नारदस्य च । कच्छपी तु सरस्वत्या गणानां च प्रभावती ॥ विस्मयस्य निमित्तमाह-कथंभूतां महती स्फुटीभवद्ग्रामविशेषमूर्छनां स्फुटीभवन्त्या- ऽनुभूयमाना ग्रामविशेषस्य गान्धारस्य षड्जस्य मध्यमस्य च वा मुर्छनाः स्वरसारणा यस्यां सा ताम् । षड्जगान्धारमध्यमप्रभृतिष्विति स्वरान्तरगमनं स्वरसारणा भण्यते । कैः स्वरैः सप्तस्वरैरिति । सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । ताना एकोनपञ्चाशदेतद्नेयस्य लक्षणम् ॥ किंभूतैः स्वरैः पृथविभिन्नश्रुतिमण्डलैः पृथक् प्रामत्रयेण विभिन्नमवस्थितभेदं गतं (१) 'अवादिताऽपि या वदितेवेत्यर्थः' इत्येवमक्षरयोजनया कथञ्चिदर्थसङ्गतिरत्र कर्तुं शक्यते । परमानुसन्धानेन वाक्यमिदमुत्नरस्मिन् श्लोके यथा सङ्गन्तं भवति तथा नाति । कदाचित्तत्रत्य- मेवेदं वाक्यं लेखकप्रमादादत्र पतितं स्यात् ।

सर्गः।] शिशुपालवधे। श्रुतिमण्डलं ध्वनिचक्रविशेषो येषु ते तैः । ननु स्वरा अपि अनाहताः कथं रेणुरित्याह- किं कुर्वनिः नभस्वतः वायोः आघट्टनया आस्फालनया रणभिः शब्दायमानैः । स्वरा हि श्रुतिभिरारब्धदत्तसारणाया वीणाया वातस्पर्शात् वादिता इव । ग्रामव्यक्तया विस्मय- मानमिति श्लोकार्थः । अन्ये तु वैदग्ध्यख्यापनाय प्राहुः । तत्र श्रुतयो द्वाविंशतयः(१) । अराविनी विश्वभृता चान्द्री हेमा कदिनी । मैत्री बार्हस्पता चैतास्त्वेकविंशतिमूर्छनाः ॥ स्वराः षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषादाः सप्तस्वराः। पड्जमध्यमौ द्वौ ग्रामो गान्धारश्च । अस्य तु स्वरूपं स्वस्वरादेव ज्ञातुं शक्यते तत्स्थत्वात् । उत्तरमन्द्रा रजनी तृतीया तूत्तरायता। चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरी मता ॥ अश्वक्रान्ता तु षष्टी स्यात् सप्तमी याऽभिरुद्धता । स्वरक्रमकृता विद्यात् सप्तैता: षड्जमूर्छनाः ॥ सौवीरी मध्यमग्रामे हारिणाश्वा तथैव च । स्यात्कलोपनता चैव चतुर्थी शुद्धमध्यमा ॥ मार्गा च पौरवी चैव हृष्यका च यथाक्रमम् । सर्वास्तु पञ्च पट सप्त साधारणमतात्स्मृताः ॥ श्रुतीनां त्वयं विभागः- पड्जत्वेन गृहीतो यः पड्जग्रामे ध्वनिर्भवेत् । तत ऊध्वं तृतीयः स्यात् ऋषभो नात्र संशयः ॥ ततो द्वितीयो गान्धारश्चतुर्थो मध्यमस्ततः । मध्यमात्पञ्चमस्तद्वत् तृतीया धैवतस्ततः॥ निषादोऽतो द्वितीयस्तु ततः षड्जश्चतुर्थकः । पञ्चमो मध्यमो नाम मध्यमान्तस्तृतीयकः ॥ एवं ध्वनिविशेषान् यः सर्वान षड्जादिसंज्ञितान् । व्यवस्थितान् स्वरान् वेत्ति स वेत्ति स्वरमण्डलम् ॥ कुलकम् ॥ १० ॥ रणशिरिति ॥ पुनः । नभम्वतो वायोराचट्टनया आघातेन पृथगसङ्कीर्ण रणनिद्भिः । अनुरण- नोत्पद्यमान रित्यर्थः । श्रुत्यारब्धमनुरणनं स्वरः' इति लक्षणात् । तदुनं रत्नाकरे- 'श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वतो रजयति श्रोतुश्चिनं स स्वर उच्यते ॥ इति । श्रुतिर्नाम स्वरारम्भकावयवः शब्दविशेषः । तदुक्तम्- 'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । मा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा' । इति । विभिन्नानि प्रतिनियत संख्यया व्यवस्थितानि श्रुनीनां मण्डलानि समूहा येषां विभिन्नश्रुति- - .. (.)विशत्यादीनां शब्दानामेकत्वस्य नियतत्वादत्र बहुत्वं चिन्त्यम् ।

१० सन्देहविषौषधिसर्वकषायुते- [प्रथमः- - .. मण्डलेः। श्रुतिसंख्यानियमश्व दर्शितः-- 'चतुवतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे निषादगान्धारी त्रिभिषभधैवतौ' । पड़जादयः सप्तोक लक्षणाः । तदुक्तम्- 'श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः । पञ्चमो धैवतश्चाथ निषाद इति सप्त ते ॥ तेषां मंज्ञाः सरिगमपधनीत्यपरा मता:'। इति । तैः स्वरैः स्फुटीभवन्त्यो ग्रामविशेषाणां षड्जाद्यपरनामकानां स्वरसंघातभेदानां प्रयाणां मूर्छनाः स्वरारोहावरोहक्रमभेदा यस्यां तां महती महतीनाम्नी निजवीणाम् । 'विश्वांवसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्त कच्छपी' । इति वैजयन्ती । मुहुर्मुहुरवेक्षमाणम् । तन्त्रीयोजनाभेदलक्षणमहिम्ना पुरुषप्रयत्नमन्तरेणैवाविसंवाद धनतीति कौतुकादनुसन्दधानमित्यर्थः । अथ ग्रामलक्षणम्- 'यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते ॥ षड्जग्रामो भवेदादी मध्यमग्राम एव च । गान्धारग्राम इत्येतद् ग्राम त्रयमुदाहृतम् ॥ इति । तथा- 'नन्द्यावोऽथ जीमूतः सुभद्रो ग्रामकात्रयः । षड्जमध्यमगान्धाराखयाणा जन्महतवः' । इति । मूर्छनालक्षणं च- 'क्रमास्वराणां सप्तानामारोह श्वावरोहणम् । सा मूर्छत्युच्यते ग्रामस्था एताः सप्त सत च'|| ग्रामत्रयेऽपि प्रत्येकं सम सप्त मूर्छन। इत्यकविंशानभूठना भवन्ति । तत्रह नामानि तु 'नानपेक्षित- मुच्यत' इति प्रतिज्ञाभङ्गभयान लिख्यन्त इति सर्वमवदातम् । अत्र पुण्यापारमन्तरेण स्वराद्याविर्भावोक्त्या कोपि लोकातिकान्तोऽयं शिल्पसौष्ठवातिशयो वीणायाः पनीयते । तेन सहस्वत:प्रसिद्धातिशयस्याभेदेनाध्य बमितत्वात्तन्मूलातिशयोकिर लङ्कारः । मा च महत्याः 'व्यापार विना मू द्यसम्बन्धऽपि सम्बन्धाभिधा- नादसम्बन्धे सम्बन्धरूपतया 'व्यापाराख्यरूपकारणं विनापि मूर्छनादिकार्योत्पनियातनाद्विभावना व्यज्यत इन्यलङ्कारध्वनिरिति संक्षेप: ॥ १० ॥ निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियमाननिधिनभासदः ॥ समासदत् सादितदैत्यसम्पदः पदं महेन्द्रालयचारु नक्रिणः ॥ ११॥ निवत्येति॥ समुनिश्चक्रिणो वासुदेवस्य पदं स्थानं समासदत् प्राप । श्रीकृष्णस्य धवल- गृहसमीपं समीयादित्यर्थः। किं कृत्वा नभासदों देवान् निवर्त्य प्रस्थाप्य विसृज्य । किंभूतान् अ- नुव्रजतः पृष्टतः समागच्छतः पुनः किंभूतान् कृतानीन् विहितनमस्कारान् , कृता नतिर्मूर्ना प्रणामा यस्तान् । अनुज्ञाता हि शिरा नमयतीत्याचारः । ननु देवाः सन्तः कस्मादेवंविधं गौरवं तस्य कुर्वन्तीत्याह-यतः किंभूतो नारदः अर्तीन्द्रियज्ञाननिधिः, यस्य मुनेर्ज्ञान- मिन्द्रियाणामगोचरम् । अतीन्द्रियस्यातिक्रान्तस्य परोक्षस्य ज्ञानस्य सर्वविलक्षणस्य यस्मात्स निधिः स्थानम् । किंभूतस्य चक्रिणः सादिता नाशिता दैत्यसम्पत् दानवलक्ष्मी- पॅन क्षयनीतरिपुलक्ष्मीकस्य । इति भङ्गया आगमनस्य साफल्यकथनम् । किंभूतं पदं महे- .

सर्गः।] शिशुपालवधे । ११ . .. न्द्रालयवारु स्वर्गवम्यम् । नभसि सीदन्तीति नभासदो देवाः । समासददिति पदसं- स्कारपक्षाश्रयणेन भूतमामान्यवत्त्वम् , लुदित्त्वादडादेशश्च ॥ ११ ॥ निवत्यति ॥ अतीन्द्रिया इन्द्रियमतिक्रान्ता देशकालस्वरूपाद्विपकृष्टार्थाः । 'अत्यादयः कान्ताबर्थे द्वितीयया' इति समासः । 'द्विगुप्राप्तापत्रालंपूर्वगतिसमासेषु परलिङ्गताप्रतिषेधो वक्तव्यः' इति विशेष्यलिङ्ग त्वम् । तेषां ज्ञानं तस्य निधिः । सर्वार्थद्रष्टेत्यर्थः । कृतानतीन् कृतप्रणामाननुजतोऽनुगच्छतः नभस्या- काशे सीदन्ति गच्छन्तीति नभःसदः सुरान् । 'मत्सूद्विष' इत्यादिना क्किए । निवर्त्य प्रनिषिध्य स मुनिः मादितदैत्यसम्पदः मादिताः विश्वस्तीकृताः दैत्यानां सम्पदो येन तस्य चक्रिणः कृष्णस्य पदं स्थानं महेन्द्रा- लयचारु इन्द्रभवनमिव भासमानं समासदत् । समापर्वात्षद्लधातोर्लङ् । 'पुषादि-'इत्यङ् । अत्र नतीनती पदः पदमिति च द्वयोर्यजनयुग्मयोरमकदावृत्त्या छेकानुप्रासः अन्यत्र वृत्त्यनुप्रास इत्यनयोः संसृष्टिः ॥१९॥ पतन् (१)पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत ॥ गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥ पतन्निति ॥ यावत्तपोनिधिर्नारदः अस्य श्रीकृष्णस्य पुरोऽग्रो भुवि पृथिव्यां नव्यलीयत न तस्थिवान् नोपाविशत् , तावदेवाच्युतः श्रीवासुदेवः जवेन वेगेन पीठादुदतिष्ठसिंहासनादुत्थि- तवान् । प्रत्युत्थानं चकारेत्यादरातिशयः । यावत्तावच्छन्दौ क्रियायास्तुल्यतामाहतुः । कि- भूतात् उच्चकैः उन्नतात् , क इव कस्मादुत्थितवान् तडित्वान् मेघ इव । यथा तडित्वान् उच्चकैः गिरमेशेः पर्वतादुत्तिष्ठति । किंभूतो मुनिः पतन् आकाशादवतरन् अपरं कथंभूतः पतङ्गप्रतिमः पतङ्गेन सूर्यण तेजस्वित्वात्प्रतिमोपमा यस्य सः पतङ्गप्रतिमः, यदि वा पत- गन प्रतिमः सूर्यसमकान्तिः । व्यलीयतेति लाडो देवादिकात्कर्तरि लङ् । तडित्वानिति 'तसौ मत्वर्थे। इति भसंज्ञा, तेन पदाश्रयं दत्वं न भवति ॥ १० ॥ पतादति ॥ पतन यः पतङ्गः सूर्यः स प्रतिमोपमानं यस्य सः । 'पतञ्जन पक्षिसूर्यो च' इत्यमरः । नपोनिधिमुनिरस्य हरेः पुरो भुवि पुरःप्रदेश यावन्न व्यलीयत नातिष्ठत् । 'लीङ् गतौ' इति धातावादि- काकर्तरि लङ् । तावदच्युता हरिगिरेः शैलात् । तडितोऽस्य मन्तीति तडित्वान्मेघ इव । 'मादुपधायाश्च मतर्वोऽयवादिभ्यः' इति मतुपो मकोरस्य वकारः । 'तस। मत्वर्थे' इति भसंज्ञायामेकसंज्ञाधिकारणापदत्वात्र जश्त्वम् । उच्चकैनतात्पीठादासनाज्जवेनोदतिष्ठत् । मुनिचरणस्य भूपत्तिारोवं स्वयमुत्थितवान् । 'उर्व प्राणा द्युत्क्रामन्ति यूनः स्थाविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते' । इति शास्त्रमनुस्मरनिति भावः । 'उदोऽनुर्ध्वकर्मणि' इति नियमादिहोकणि नात्मनेपदम् । एतत्पतङ्ग इत्यत्र पतनासम्भवादियमभूतोपममेत्याचार्यदगिडप्रभृतयों बभणुः । अत एवाप्रसिद्धस्योपमा- नत्यायोगादुत्प्रक्षेत्याधुनिकालङ्कारिकाः सर्वे वर्णयन्ति ॥ १२ ॥ अथ प्रयत्नोन्नमितानमत्फणैधृते कथञ्चित्फणिनां गणैरधः ॥ न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥ अथेति ॥ अथानन्तरं धातुः मुतेन ब्रह्मगः पुत्रेण नारदेन अभिदेवकीसुतं श्रीकृष्णमभिल- क्षीकृत्य चरणौ पादौ भुवस्तले भूमिपृष्ठे न्यधायिषातां निक्षिप्तौ। यत्र कृष्णः समुपविष्टोऽभू- तत्र गगनादवतीर्ण इत्यर्थः । कीदृशे भुवस्तले अधःअधोविभागे पाताल फणिनां गणैनांगवृन्दैः कथञ्चित् महता कष्टेन एते ऊहे । किंभूतैः फणिनां गणैः प्रयत्नेन आदरातिशयेन उन्नमिता अकृिता गौरववशात् पुनरानमन्तः कुटिलाः फणाः शिरांसि येषां ते तैः । एतेनानयोर्म- (१) पतत्पतगा।

सन्देहविषौंपधिसर्वापायुते- [प्रथमः- । हापुरुषलक्षणं गौरवातिशयः प्रतिपाचते। उन्नमितेति ण्यन्तानिष्ठा अमन्तत्वान्मित्संज्ञा । न्यधायिषातामिति निपूर्वाधातेः कर्मणि लुङ् 'स्यसिच्सीयुटतासिवित्यादिना 'स्था- ध्वोरिचेति विधिपरत्वात् अजादित्वाविण्वदावः(१) । अभिदेवकीसुतमिति लक्षणेनाभिप्रती आभिमुख्ये ॥ १३ ॥ अथेति ॥ अथाच्युता-पुत्थानानन्तरं धातुः सुतेन नारदेन प्रयत्नोन्नमितास्तथापि मुनिपादन्यासभारा- दानमन्त्यः फणा येषां तैः फणिनां गणैरोऽधःप्रदेशे कथञ्चित् धृते स्थापिते भुवस्तले भूपृष्ठे । अभिदेवकीसतं देवकीसुतमभि । लक्ष्यीकृत्येत्यर्थः । 'लक्षणेनाभिप्रती आभिमुख्य इत्यव्ययीभावः । चरणौ पादौ । 'पदधि- श्वरणोऽखियाम्' इत्यमरः । न्यधायिषाला निहिती । दधातेः कर्मणि लुङ् । स्यसिसी-' इत्यादिना चिण्वदिटि युक् । अत्र फणानां नमनोत्रमनासम्बन्धेऽपि मुलेगौरवगय तत्सम्बन्धाभिधानादतिशयोक्तिभेदः ॥ १३ ॥ तमय॑मर्घा(२)दिकयाऽऽदिपूरुषः सपर्यया साधु स पर्यपूपुजत् ॥ गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥ तमिति ॥ स आदिपूरुषो भगवान् तं मुनि प्रजापतिपुत्रम_दिकया सपर्यया साधु सम्यक् यथा भवति एवं पर्यपूपुजत् अर्चितवान्। यतः किभूतम् अध्यं पूजार्हम्, अर्घमर्हतीत्य- य॑ः। दण्डादिभ्यो यः । अर्घादिकयेत्यादिग्रहणं गव्यमधुपर्काद्यर्थम् । सामान्यविशेषभावकरणं दृश्यते यथाष्ट्रासिकामासे, इति पूजयाऽसौ अपूपुजदिति वचनं न विरुध्यते । आदिपुरुषेणापि सता यद् ब्राह्मणोऽचित एतन्नायुक्तमित्यर्थान्तरन्यासेनाह-यत: कारणान्मनीषिणो विद्वांसः अपुण्यवतां निराचाराणां प्रणयात् प्रीत्या स्नेहात् गृहानुपैतुं गेहमागन्तुमभीप्सवो न भव- न्ति अभिलाषुका न जायन्ते । भगवांश्च पुण्यवान् नारदस्तु तद्गेहमागत इति युक्तमेव तस्यार्चनम् । यदि हि हरिरतिथेः सपर्या न कुर्यात् ततो मुनि गच्छेदित्यर्थः । पुरुष एव पूरुषः, 'अन्येषामपि दृश्यते' इति दीर्घः । सपर्ययेति कण्ड्वादिषु सपरशब्दस्य पठि- तत्वात् यक्प्रत्ययः । पर्यपूपुजदिति पूजेर्णिजन्ताल्लुङ् , णिश्रिद्रुभ्यः कर्तरि चङ् णिलोपः गौ चड्युपधाया हस्वः दो? लघोः हलादिः शेषः । एवमभिन्यवीविशदिति । अभीप्सवः इति ‘सनाशंसे'त्युः, उपैतुमिच्छति इच्छार्थेषु लिङ्लोटौ समानकर्तृकेषु तुमुन् । मनीषा बुद्धिः, सा विद्यते येषामिति प्रशंसायां 'ब्रीह्यादिभ्यश्चे तीन् ॥ १४ ॥ तमिति ॥ आदिपूरुषः पुराणपुरुषः । 'अन्येषामपि दृश्यते' इति वा दीर्घः । स कृष्णः अर्घ पूजा- महतीत्यर्ध्यः । दण्डादिभ्यो यः । तं नारदम् । अर्घार्थ द्रव्यमय॑म् । 'पादार्घाभ्यां च' इति यत्प्रत्ययः । 'मूल्ये पूजाविधावर्षः' 'षट् तु त्रिवर्ध्यम' इति चामरः। अर्घ्यमादिर्थस्यास्तयाादिकया । 'शेषाद्विभाषा' इति विकल्पेन का प्रत्ययः । सपर्यया पूजया । 'पूजा नमस्याऽपचितिः सपर्या हीः समाः' इत्यमरः । साधु यथा तथा पर्यपूपुजत्परिपूजितवान् । जो चङन्तं कर्तव्यम् । युक्तं चैतदित्यर्थान्तरं न्यस्यति-गृहा- निति । मनस ईषिणो मनीषिणः सन्तः। पृषोदरादित्वात्साधुः । अपुण्यकृता पुण्यमकृतवताम् । 'सुकर्मपाप- मन्त्रमुण्येषु कृत्रः' इति भूते क्विपू । गृहान्प्रणयादुतुमभी-सवः प्राप्तुमिच्छवः । आप्नोतेः समन्तादुपत्ययः । 'आपजाप्यधामीत्' इतीकारः । न भवन्ति किन्तु पुण्यकृतामेव । अनः कृतठूलभ्याः सन्तः पूज्या इत्यर्थः ॥ १४ ॥ न यावदेतावुदपश्यदुत्थिती जनस्तुषाराअनपर्वताकृती(३) ॥ वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यषीविशत् ॥ १५ ॥ (१) स्थाघ्योरिति इद्विधेः परत्वात अज्झानग्रहदृशांमध्ये आदिभूताऽच्पदग्राह्यत्वाचिण्यगाव इत्यर्थः । (२)मादिकया। (३) पर्वताविव ।

सर्गः।] शिशुपालवधे। १३ नयावदिति॥ यावज्जनो लोकः एतौ नारदनारायणौ उत्थितौ नोदपश्यत् न दृष्टवान् तावच्चिरन्तनो मुनिः श्रीनारायणः मुनि नारदमासने अभिन्यवीविशसिंहासने संमुखमुप- वेशयामास । एतेन संभ्रमः कथ्यते । किंभूते आसने स्वहस्तइत्ते निजकरढोकिते । किंभूती तौ तुषाराजनपर्वताकृती तुषारः पर्वतो हिमवान् अञ्जनपर्वतोऽअनावलस्तद्वत् आकृतिवर्गो ययोस्तौ । हिमवत्सदृशो मुनिः, अन्जनगिरिनिभः कृष्णः । उदपश्यदित्यत्र दर्शनमात्र धा- त्वर्थो न तूत्प्रेक्षा । यदि वा उत्थिततुपाराजनपर्वतसदृशावेतौ इति यावन्नोदपश्यदहं न चकारेत्युत्प्रेक्षैव धात्वर्थः । अभिन्यवीविशदिति कर्तुरभिप्रायः क्रियाफलाविवक्षायाम, 'णिचश्चेति तङभावः । 'नेविश' इत्येतत्प्रकृत्यन्तरत्वान्न ॥ १५ ॥ न यावदिति ॥ उस्थितावेतो मुनिकृष्णो जनस्तुषाराञ्जनयोः पर्वताविव यावनोदपश्यनोत्पेक्षितवान् , तावच्चिरन्तनः पुराणो मुनिः कृष्णः । 'पुरा किल भगवान् बदरिकारण्ये नारायणावतारण तपसि स्थित- वान्' इति पुराणात् । 'सायंचिरम्-'इत्यादिना ट्युप्रत्ययस्तुडागमश्च। स्वहस्तेन दत्ने आसने मुनि नारद- मभिन्यवाविशत् स्वाभिमुखनोपवेशितवान् । अभिनिपूर्वाद्विशतेय॑न्ताल्लुडि ‘णिश्रि-' इति चङ् ॥ १५ ॥ महामहानीलशिलारुचः पुरो निषेदिवान् कंसषः स विष्टरे ॥ श्रितोदयारभिसायमुच्चकैरचूचुरश्चन्द्रमसोऽभिरामताम् ॥ १६ ॥ महामहेति ॥ स मुनिः चन्द्रमसोऽभिरामतामचूचुरत् चन्द्रस्य शोभामनुचकार चोरि- तवान् । किंभूतो मुनिः कंसकृषो वासुदेवस्य पुरोऽग्रे विष्टरे आसने निषेदिवान् उपविष्टः । अनुकार एवात्र चौर्यम् । किंभूतस्य कंसपो महामहानीलशिलारुचः महती या महानील- शिला इन्द्रनीलदृषत् तद्वद्रुक् कान्तिर्यस्य सः महामहानीलशिलारुक तस्य कृष्ण- स्येत्यर्थः । किंभूतस्य शशिनः श्रितोदयाद्रेः आश्रितोदयाचलस्य, क अभिसार्य दिनान्ताभिमुखं श्रितोऽधिष्टित उदयपर्वतो येन तस्य । उच्चकैः विष्टरे । सन्ध्यासमयः कृष्णस्योपमानं नित्यकालत्वात् , मुनेः शशी, विष्टरस्योदयाद्रिः । कंसं कृष्टवान् कंसकट तस्य । अभिरमन्त एतस्मिन् मनासीत्यभिरामः, घञ् । निषेदिवानिति सदेः 'भाषायां सदवसभ्रवः' इति वसुः ॥ १६ ॥ महामहेति ॥ महत्या महानीलशिलाया: सिंहलद्वीपसंभवेन्द्रनीलोपलस्य रुगिव रुग् यस्य तस्येत्युप- मालङ्कारः । 'सिंहलस्थाकरोद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः। कंसकृषो हरेः पुरोऽये उच्चकैात्रते विष्टर आसने । 'वृक्षासनयोर्विष्टरः' इति षत्वम् । निषदिवानुपविष्टवान् । 'भाषायां सदवसश्रुवः' इति क्वसुः । स मुनिरभिसायं सायंकालाभिमुखम् । अव्ययीभावसमासः । सायंकालस्य कात्कृिष्णोपमा- नत्वम् । श्रित आश्रित उदयाद्रिरुदयाचलो येन तस्य चन्द्रमसोऽभिरामता शोभामचूचुरच्चोरितवान । प्राप्तवानित्यर्थः । 'चुर स्तेये' णिधि- इति चङ् । अन्यस्यान्यधर्मसम्बन्धासम्भवाच्चन्द्रमसोऽभिरामता- मिवाभिरामतामित्यौपम्यपर्यवसानादसम्भवस्तुसम्बन्धरूपो निदर्शनाभेदः, स चोकोपमयाङ्गानिभावन सडीर्यते ॥ १६ ॥ विधाय तस्यापचिति प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ॥ ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥ विधायेति॥ यज्वानो यायजूकास्तत्प्रियः कृष्णः याज्यत्वात्तस्य नारदस्य अपचिति पूजां विधाय प्रकाममतिशयेन अप्रीयत तुतोष हृष्टो बभूव । किंभूतस्य मुनेः प्रसेदुषः प्रस- ब्रस्य । हरिनारद प्रति कृतपूजया कस्मादप्रीयतेत्याह-हि यस्मात् महानुभावा उन्नतचित्ताः २शि०० सन्देहविपौषधिसर्वाषायुते- [प्रथमः- . । पुरुषा आर्यान् साधून मुहुर्वारंवार परिचर्यया ग्रहीतुमाराधयितुं नितान्तमर्थिनोऽभिलाषुका भवन्ति । महात्मानो गुणवदाराधनमेव वाञ्छन्तीत्यर्थः । चित्रो मावे अपचितिशब्दः । अप्रीयतेति प्रीमो देवादिकस्य कर्तरि लङ् । यज्वन्निति सुयजोर्ड वनिप् । ग्रहीतुमिति समानकर्तृकेषु तुमुन् 'अहोऽलिटी ति दीर्घः। अथिरिच्छार्थः, अर्थयन्तेऽभीक्ष्णमित्यर्थिनः । परिचरणं परिचर्येति निपातः ॥ १७ ॥ विधायोति ॥ यज्वानो विधिनेष्टवन्तः । यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोः-' इति यजिधा- तोईवनिए । तेषां प्रियो हरिः प्रसेदुषः प्रतन्त्रस्य । सदेः क्वसुः इत्युक्तम् । तस्य मुनेरपचिति पूजाम् । 'पू. जा नमस्याऽपचितिः' इत्यमरः । विधाय विशेषेण मनोवाकायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्री- यत प्रीतोऽभूत् । प्रीयतेवादिकाकर्तरि लङ्.। मुनिपूजायाः प्रीतिहेतुत्वेऽर्थान्तरं न्यस्यति-महानुभावा महात्मान आर्यान् पूज्यान्परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । 'ग्रहोऽलिटि दीर्घः' इतीटो दीर्घः । नितान्त- मर्थिनीअभिलाषवन्तो हि भवन्ति । अर्थनमर्थोऽभिलाषः स एषामस्तीति मत्वर्थ इनिन तु णिनिः । कृढ़त्त- स्तद्धितवृत्तिबलीयसी' इति भाष्यात् ॥ १७ ॥ अशेषतीर्थोपहृताः कमण्डलोनिधाय पाणावृषिणाभ्युदीरिताः ॥ अघौघविध्वंसविधौ पटीयसीनतेन मूर्ना हरिरग्रहीदपः ॥ १८ ॥ अशेषेति ॥ हरिः श्रीकृष्णः अपोऽग्रहीत् जग्राह । केन मूर्ना नतेन नम्रण, किंभूता अपः ऋषिणा नारदेन कमण्डलोः कमण्डलुतः पाणौ निधाय हस्ते कृत्वा अभ्युदीरिता अभिमुक्ताः, पुनः कथंभूता अशेषतीर्थोपहृताः निखिलपुण्यजलाशयेभ्य आनीताः, पुनः किंभूताः अघौघ- विध्वंसविधौ पटीयसीः पापपूगशमने समर्थाः । सुष्टु पटव्यः पटीयस्यः ईयसन्, तुरिष्टेमेय:मु रिति टिलोपः ॥ १८ ॥ अशषति ॥ अशेषेभ्यस्तीर्थेभ्य उपहृता आहृतास्तथा पाणी निधाय । कमण्डलोदकपात्रादुद्धृत्य पाणौ निधायेत्यर्थः । क्रियान्तराक्षिप्त क्रियापेक्षया कमण्डलोरपादानन्वम् । 'अभी कमण्डलुः कुण्डी' इ. त्यमरः । ऋषिणा-युदीरिता आक्षिता अत एवाघौघानां पापसमूहाना विध्वंस विधी विनाशकरणे पटीय- सीः समर्थतराः । पटुशब्दादीयमुनि 'उगितश्व' इति डीप । अपो जलानि हरिनतेन मूर्धाऽग्रहीत्स्वीकृत- वान् । अहेर्लुङ ॥ १८॥ स काञ्चने यत्र मुनेरनुभया नवाम्बुदश्यामवपुर्यविक्षत ॥ जिगाय जम्बूजनितश्रियः श्रियं सुमेरुङ्गस्य तदा तदासनम् ॥ १९ ॥ स काञ्चन इति॥ स भगवान् काञ्चने सुवर्णमये यत्र यस्मिन् आसने मुने रदस्य अनु- ज्ञया आदेशेन न्यविक्षत उपाविशत् उपविष्टः किंभूतो भगवान् नवाम्बुदश्यामतनुः सजलजल- ददहः; तदा तस्मिन् काले तत् आसनं सुमेरुशृङ्गस्य कनकादिशिखरस्य श्रियं जिगाय शोभा- मनुचकार । किंभूतस्य सुमेरुशृङ्गस्य जम्बूरसितवृक्षविशेषः तेन जनिता उत्पादिता श्रीर्यस्य तत् जम्बूजनितश्रि तस्य । हेमपीठस्य मेरुशृङ्गमुपमान कृष्णस्य जम्बूः । काञ्चनस्य विकारः काञ्चनमासनम्, 'अनुदात्तादञ्चति अग्, रजतादित्वाद्वान्यविक्षतेति नेविंश' इत्यात्मने- पदम् । जिगायेति जेगित्वम् ॥ १९ ॥ स काञ्चन इति ।। नवाम्बुदश्यामतनुः स हरिर्मुनेरनुज्ञया काञ्चने काञ्चनविकारे । वैकारिको प्रत्ययः । यत्रासने न्यविक्षतोपविष्टवान् । निपूर्वविशो लुडि 'नेर्विशः' इत्यात्मनेपदे शल इगुपधादनिटः क्सः । तदासनं तदा हर्युपवेशनसमये, जम्बूनलफलविशेषः । 'जम्बूः सुरभिपत्रा च राजजम्बूमहाफला' इत्य- भिधानरबमालायाम् । तया जनिता श्रीयस्य तत्तथोक्तस्य ।भाषितपुंस्कत्वात्पक्षे पुंवद्धावान्नुमभावः । सुमेरु- वर्गः।] शिशुपालवधे। १५ .. शृङ्गस्य प्रियं जिगाय । अभिभावितवानित्यर्थः । 'मम्लिटोर्जेः' इनि कुत्वम् । उपमानुप्रासयोः संमृष्टिः १९॥ स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ॥ विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसा निधिः ॥२०॥ सतप्तेति ॥ स श्रीकृष्णो विदिद्युते शुशुभे बभौ। स कीहक् तप्तकार्तस्वरभास्वराम्बरः तप्तं द्रुतं विलीनं यत् कार्तस्वरं सुवर्ण तदिव भास्वरे देदीप्यमाने पीते अम्बरे वाससी यस्य सः । अग्निपतितसवर्णमुज्ज्वलतरं भवतीति तप्तग्रहणम् । पुनः कीदृशः कठोरताराधिपला- छनच्छविः कोरोऽतिजाठः परिपूर्णो यस्ताराधिपः शशी तस्य लाञ्छनं तद्वच्छविधुतिर्यस्य मः । कृष्ण इत्यर्थः । एवंविधं चोपमानमसिद्धत्वादलकारविद्भिनेष्यते । क्षीणस्य शशिनो मलं दुर्लभं भवतीति कठोरग्रहणम् । अतश्च यदा पीतवासाः कृष्णस्तदोपमीयते । अम्भसा निधिरिव समुद्र इव, कथंभूतः समुद्रः वाडवजातवेदसः और्वाग्नेः शिखाभिर्ध्वालाभि- राश्लिष्टः आलिङ्गितः, और्वाग्निज्वालालिङ्गितसमुद्रतुल्यः। विदिद्युते इति धुतिस्वाप्योः सम्प्रसारणम् । वडवेव वाडवः स चासौ जातवेदाश्च वाडवजातवेदाः ॥ २० ॥ स तप्तति ॥ ततं पुटपाकशोधितं कार्तस्वरं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम' इन्यमरः । तद्वद्भास्वरं दीप्यमानमम्बरं यस्य सः। पीताम्बर इत्यर्थः । कठोरताराधिपस्य पूर्णेन्दौलानस्य उविरिव छविर्यस्य स इत्युपमानपूर्वपदो बहुव्रीहिरुत्तरपदलापश्च । म हरिडिवजातवेदसो वाडवाग्नः शिखा- भवालाभिराश्लिष्टो व्याप्तोऽम्भसा निधिरिव समुद्र इव विदियुते बभौ ॥ २० ॥ रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ॥ चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥ रथाङ्गपाणेरिति ॥ ऋषित्विषः विरजरे सितमुनिभासः बभुः। किंभूताः रथाङ्गमाणे- विष्णोः रोचिषां दीप्तीनां पटलेन निकरेण संवलिताः मिश्रिताः । उत्प्रेक्षते-नक्तं क्षपायां चन्द्रमसो मयूखा इव, किंभूताः तरोश्चलत्पलाशान्तरगोचराः तरोवृक्षस्य चलन्ति यानि प- त्राणि तेषामन्तर विवरान्तः गोचरो विषयो येषां ते । अंशवो वायुधूततरुपर्णमध्यप्रविष्टा इत्यर्थः । रथाङ्ग चक्रं पाणौ यस्य स रथाङ्गपाणिः । प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ । तुषारा शीतला मूर्तिः शरीरं यस्य सः तुषारमूर्तिः । नक्तमिति अधिकरणप्रधान रात्रिपर्या- योऽव्ययम् ॥ २१ ॥ रथाङ्गपाणरिति ॥ रथाङ्गं चक्रं पाणौ यस्य तस्य हरेः । 'प्रहरणार्थेभ्यः परे निष्ठामप्तम्यौ भवतः' इति पाणेः परनिपातः । रोचिषां छवीना पटलेन समूहेन संवलिता मिलिता ऋषित्विषो न रात्रौ । सात- म्यर्थेऽव्ययम् । तरोलश्चता पलाशानां पत्राणामन्तराणि विवराणि गोचर आश्रयो येषां ते, तुषारा मूर्तिर्यस्य रस्येन्दोरंशव इव विरोजिर चकाशिरे ॥ २१ ॥ प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ॥ परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥ प्रफुल्लेति ॥ तदा तस्मिन् काले तौ मुनिकृष्णौ सदृशवर्णाविवाभूताम् । किंभूतौ छुरितामलच्छवी मिश्रितोज्जवलकान्ती, कथं परस्परेण अन्योन्य कैरमोशुभिः किरणैः किम्भूतेः किरणैः प्रफुल्लतापिच्छनिभैः प्रफुल्ल विकसितं यत् तापिच्छे कालाअनिकं तमाल वा तत्तुल्यैः कृष्णैरित्यर्थः, काकतुण्डसदृशकिरणैः । । तापिच्छे तमालमाहुः । यद्वा तापिच्छः काकतुण्डिका । काम हि च्छविरसिता । तथाऽपरैः सप्तच्छइपांसपाण्डुभिः सप्तच्छदः १६ सन्देहविषौषधिसर्वकषायुते- [प्रथमः- . - समपर्णस्तरुस्तस्य पांमधूलिस्तद्वत्सितैः । सितमुनेरंशवो हि सिताः । किंभूतैः शुभैः चारुभिः अनुपहतैर्वा पापक्षयकरैर्वा ॥ २२ ॥ प्रफुल्लेति ।। प्रफुल्लतीति प्रफुल्लं विकसितम् । 'फुल्ल विकसने' इति धातोः पचायजन्तम् । फ लेनिष्ठायाम् 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातनात्प्रफुल्लमित्येवेति क्षीरस्वामी। तापि. च्छस्य तमालस्य पुष्पं तापिच्छम् । 'फले लुक्' इति तद्धितलुक् । 'द्विहीनं प्रसवे सर्वम्' इति नपुंस- कत्वम् । 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः। तेन सदृशैः प्रफुल्लतापिच्छनिभैः । नित्य- समासत्वादस्वपदविग्रहः । अत एव 'स्युत्तरपदे त्वमी' इति, 'निभसङ्काशनीकाशप्रतीकाशोपमादयः' इत्यमरः । सप्त छदाः पर्णानि पर्वसु यस्यति सप्तच्छदो वृक्षभेद । 'सप्तपर्णो विशालत्वक्शारदो विषमच्छदः' इत्यमरः । संख्याशब्दस्य वृत्तिविषये वी सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं .तापिच्छवत् । तस्य पुष्पाणि सप्तच्छदानि तेषां पासुवत्पाण्डुभिः शुभ्रेरभीषुभिरन्योन्यरश्मिभिः 'अभीषुः प्रग्रहे रश्मी' हाते शाश्वतः । परस्परेण छुरिते रूषिते अमले छवी अन्योन्यकान्ती ययोस्तो। छब्योरभीषूणामवयवावयविभावा- देदनिर्देशः । तौ हरिनारदौ तदैकवर्णाविव बभूवतुः। उभयप्रमामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासङ्गम- इव स्फटिकेन्द्रनीलमणिप्रभामेलनप्रायः कश्चिदेको वर्णःप्रादुर्बभूव। तत्रिमित्ता चयमनयोरेकवर्णत्वोत्प्रेक्षा ॥२२॥ युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सावकासमासत ॥ तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥ २३ ॥ युगान्तेति ॥ नारदागमनोद्भूताः प्रीतयः कैटभद्विषः कृष्णस्य तत्र तस्यां तनौ वपुषि न ममः, तासां बहुत्वात् । कदाचिदणीयसीत्वात् न किञ्चित्तत्र माति तन्त्र चित्रमित्याह-यस्यां तन्वां जगन्ति चतुर्दश भुवनानि सविकासं सविस्तरमसम्बाधमासत उषितानि । किंभूतस्य युगान्तकालप्रतिसंहृतात्मनः कल्पक्षयसङ्कुचितमूतैरपि। अधिक- नामाऽयमलङ्कारः । ममुरिति मातेलिट् । आसतेति आसः कर्तरि लङ् ॥ २३ ॥ युगान्तेति ॥ युगान्तकाले प्रतिसंहृनात्मनः आत्मन्युपसंहृता आत्मानो जीवा येन तस्य कैटभद्विषो हर्यस्यां तनौ जगन्ति सविकास सविस्तरमासताप्रतिष्ठन् । 'आम उपवेशने ला। तत्र तनौ देहे तपोधना- भ्यागमेन सम्भवन्तीति सम्भवाः सम्भूताः । पचाद्यच् । मुदः सन्तोषा न ममुः । अतिरिच्यन्ते स्मेत्यर्थः । चतुर्दशभुवनभरणपर्या ते वपुषि अन्तर्न मान्तीति कविप्रोटोक्तिसिद्धातिशयेन स्वतःसिद्धस्याभेदेनाध्यव- सितातिशयोक्तिः । सा च मुदामन्तःसम्बन्धेऽध्यसम्बन्धोक्त्या सम्बन्धासम्बन्धरूपा ॥ २३ ॥ निदाघधामानमिवाधिदीधिति मुदा विकासं मुनिमभ्युपेयुषी ॥ विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ॥२४॥ निदाघेति ॥ स विष्णुस्तदा पुण्डरीकाक्ष इति नाम्ना स्फुटः प्रकटोऽभवत् । अन्वर्थतया सत्यार्थो बभूवेत्यर्थः । किञ्चास्माभिरज्ञायि तस्य पुण्डरीकाक्ष इत्यत्र यथार्थसहिता संज्ञा । पुण्डरीकतुल्ये पुण्डरीकमेव वा अक्षिणी यस्य स पुण्डरीकाक्ष- इत्ययमस्मिन्नस्त्यवयवार्थः, स च भगवति विद्यते । किं कुर्वन् विलोचने बिभ्रत् चुक्षुषी धारयन् किंभूते अधिश्रितश्रिणी धृतशोभे अधिश्रिता धृता श्रीः शोभा याभ्यां ते अधिश्रितश्रिणी धृतलक्ष्मोके, किं कृतवती मुनिमभिलक्ष्यीकृत्य नारदर्समुख मुदा हर्षेण विकासं विस्तारमुपेयुषी गतवती प्रासे इत्यर्थः । नारदानात्प्रसृते इत्यर्थः । कीदृर्श मुनिम् अधिदीधितिमधिकतेजसम् । अधिका दीधितिर्यस्य अथ वा अधिगता दीधिति- येन सः त कमिव निदाघधामानमिव रविमिव, निदाघमुणं धाम तेजो यस्य सः तम्। पनस्य चायमेव स्वभावो यदादित्यदर्शनात्सविकास भवति लक्ष्म्या चाधिश्रितम् । उपेयुषीत्युपपू- ।

सर्गः । ] शिशुपालवधे। १७ वादिणः क्वसौ द्वित्वे च कृते अभ्यासदीर्घ इट्सहितत्वं निपात्यते धातोर्यणादेशः, 'नपुंसका- त्यौडः शीभावः वसोः सम्प्रसारणम् । अधिश्रितत्रिणी इति 'इकोधि विभक्ता- विति नुम् । बिभ्रदित्यभ्यस्तत्वान्नुमभावः । पुण्डरीकाक्ष इति बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् षच् ॥ २४ ॥ निदाघेति ॥ निदाघमुष्णं धाम किरणो यस्य तथोक्तम् । निदाघो ग्रीष्मकाले स्यादुष्गस्वेदाम्बुनारपि' इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिम भिलक्ष्य । 'अभिरभागे' इति लक्षणे कर्मवचनीयसंज्ञा कर्मप्रवचनीययुक्ने द्वितीया। मुदा विकासमभ्युपेयुषी उपगते । कसुप्रत्ययान्नो निपातः । अत एव अधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोके । 'इकोऽचि विभको' इति नुमागमः । विलोचने बिभ्रत् । 'नाभ्यस्नाच्छतु इति नुमभावः । स हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् , सूर्यसनिधाने श्रीविकासभावादक्षणां पुण्डरीकसाधात् । पुण्डरीके वाक्षिणी यस्यत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यकम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटो- ऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन सङ्करः॥ २४ ॥ सितं सितिना सुतरां मुनेर्वपुर्विसारिमिः सौधमिवाथ लम्भयन् ॥ द्विजावली(२)व्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥२५॥ सितमिति ॥ अथानन्तरमच्युतोहरिर्वाचमवोचत् गिरं जगाद । विशेषणसङ्ग्रहणार्थ वाग्ग्रहणम् । किंभूतां वाचम् शुचिस्मितां धवलेषद्धसितां, शुचि धवलमदुष्ट वा स्मितमी- पद्धसितं यस्याः ताम् । महात्मानो हि स्मितपूर्वाभिभाषिणः । किं कुर्वन् मुने रदस्य वपुः शरीरं सुतरामतिशयेन सितिम्ना लम्भयन् श्वेतत्वं प्रापयन् । किंभूतं सितं धवल, कैः द्वि- जावलीव्याजनिशाकरांशुभिः द्विजावलीव्याजो दन्तपक्तिच्छद्मा यो निशाकरश्चन्द्रस्तस्यांशुभिः, दन्तपक्तिच्छयकिरणैः किंभूतैः विसारिभिः प्रसृतैः । कमिव सौधमिव धवलगृहमिव । यथा निशाकरश्चन्द्रमाः सौधं सितिम्ना लम्भयति । सितिम्नेति कर्तरि तृतीया, द्वितीया तु न भवति लभेरगत्यर्थत्वात् । सितिमा वपुर्लभतेत विष्णुर्लम्भयति । (अत्र तु) 'गतिबुद्धी' त्यादिना कर्मसंज्ञाभावः । गतिफलं हि प्राप्त्यर्थः। तयोस्तु क्वचिदभेदो दृश्यते । द्विजावली व्याजो यस्य स चासौ निशाकाश्च । चन्द्रेण हि सितमपि हर्म्यतलमंशुभिः सिततरीक्रियते अवोचदिति लुङ्॥ २५ ॥ सितमिति ॥ अथोभयोरुपवेशनानन्तरमच्युतो हेतुकर्ता विसाारोभिरभीक्ष्णं प्रसरद्भिः । 'बहुलमा- भीक्ष्ण्ये' इति णिनिः । द्विजावलिर्दन्तपङ्क्तिः दन्तविप्राण्डजा द्विजाः' इत्यमरः । सेव व्याजः कपटं यस्य सः । तद्रूप इत्यर्थः । स चासौ निशाकरश्च तस्यांशुभिः किरणैः सितं स्वभावशुभ्रं मुनेर्वपुः सौधं प्रासाद- मिव सुतरामत्यन्तम् । अव्ययावादाम्पत्ययः । सिनिम्ना धावल्येन प्रयोज्यक; लम्भयन्यापारयन् । अतिधवलयनित्यर्थः । लभेरत्र गत्युपसर्जनप्राप्त्यर्थत्वेनागत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणि कर्तुन कर्मत्वम् । तथाह वामनः- 'लभेर्गत्यर्थत्वाणिच्यणौ कर्तुः कर्मत्वाकर्मत्वे' इति । प्राप्त्युपसर्जनगत्यर्थत्वे तु कर्मत्वमेवेति रहस्यम् । 'लभेश्व' इति नुमागमः । शुचिस्मिता वाचमवोचदुतवान् । ब्रुवो वच्यादेश: लुक् , 'वच उम्' इत्युमागमे गुणः । अत्र सौधमिवेत्युपमायाः सितिम्ना लम्भयनित्यसम्बम्धरूपातिशयोक्तः द्विजावलिव्याजनिशाकरेति च्छलादिशब्दैरसत्यत्वप्रतिपादनरूपापह्नवस्य च मिथो नैरपेक्ष्यात्संसृष्टिः ॥२५॥ किमुक्तवानित्याह- हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ॥ शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ २६ ॥ (१) बिजावलिः।

१८ सन्देहविषौपधिसबषायुते- [प्रथमः- .. हरतीति ॥ हे मुने ! भवदीयं दर्शनं ताकमालोकनं कालत्रितयेऽपि भूतसम्प्रतिभवि- व्यत्कालेऽपि योग्यतां भव्यतां व्यनक्ति प्रकटयति प्रकटीकरोति, केषां शरीरभाजां प्राणिनाम्। यतः-सम्प्रति वर्तमानमधं पापं हरति नुदति । किंभूतं दर्शनम् एष्यत आगमिष्यतः शुभस्य पुण्यस्य हेतुः कारणम् । पुनः किंभूत पूर्वाचरितैः अतीतजन्मोपार्जितैः शुभैः पुण्यैः कृतं विहितम् । न हि पुण्यविना त्वं दृश्यसे नापि पापिन त्वं पश्यसि । महात्मानः प्रकृत्या च पेशलभाषिणः सर्वस्य विशेषतो गृहमागतस्येति नानुचितमेतद्भगवतो वचनम् । एवमु- त्तरत्र । प्रभवति योगाय योग्यः योगाद् यच्च, अभावोनूपचारात् (?) ॥ २६ ॥ हरतीति ॥ भवदीयदर्शनं शरीरभाजाम् । दृष्ट्णामित्यर्थः। भजो विः । कालत्रितये भूतादिकाल- त्रितयऽपि योग्यता पवित्रता व्यनक्कि गमयति । कुतः-सम्प्रति दर्शनकाले अधं पापं हरति । एष्यतो भाविनः शुभस्य श्रेयसो हेतुः। तथा पूर्वाचरितः प्रागनुष्ठितैः शुभैः सुकृतैः कृतम् । एवं त्रैकाल्यऽपि कार्यस्वेन कारणत्वेन च पुंसि सुकृतसमवायमवगमयते । अत एतादृशं दर्शनं कस्य न प्रामिति भावः । अत्र हरतीत्यादिवाक्यत्रयस्यार्थस्य शरीरेत्यादिवाक्यत्रयोक्त्या वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ २६॥ जगत्यपर्याप्तसहस्रभानुना न यत्रियन्तुं समभावि भानुना ॥ प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥ २७ ॥ जगतीति ॥ अद एतत्तमो ध्वान्तमज्ञानरूपं त्वया प्रसह्य झटिति एवं बलाद्वा नुन्नं निरस्तम् । कैः तेजोभिर्धामभिः किंभूतः असंख्यैः, किन्तत् यद्भानुनापि रविणापि नियन्तुं निराकर्तुं न समभावि न सम्भावितं न शङ्कितं, तमोऽभ्यन्तरमज्ञानस्वरूपमित्यर्थः । अत एवानुत्तममनुत्कृष्टं निन्द्यमित्यर्थः । अविद्यमानमुत्तमं यस्मादित्यनुत्तम स्वकार्यसाधकत्वात्, निःकृष्ट वा पापरूपत्वात् अज्ञानरूपं वा। कथं भानुना निरसितुं न सम्भावितमित्याह- जगति अपर्याप्तसहस्रभानुना अपर्याप्तं उन सहस्रं भानवो रश्मयो यस्य सः तेन, असम्पू- सहस्रकिरणेन । जगच्छब्दन गिरिगह्वरादयोऽपि पदार्था उच्यन्ते। एतदुक्तं भवति-या र- विकिरणदशशती सा बाह्यमेव रूपादिसंस्थं तमो निरसितुं समर्था कुत आभ्यन्तरम् । त्वया त्वतितेजस्त्वात् प्रसौतदान्तरमपि तमो निरस्तम्। त्वद्दर्शनेनवयं तमोरहिताः सम्पन्नाः । उक्त च- अर्कः स्वकरसम्पर्कादिवा हन्ति बहिस्तमः । साधोस्तु दर्शनादेव बहिरन्तर्दिवानिशम् ॥ समभावीति कर्मणि लुङ्। प्रसोति बलात्कारार्थो निपातो न प्रकृतिप्रत्ययार्थोऽस्तीति । नुन्नमिति 'नुदविदोन्दनाघ्राहीभ्योऽन्यतरस्यामिति नत्वं न विभाषितम् ॥ २७ ॥ जगतीति ॥ जगत्यपाना अपरिच्छिन्नाः सहस्रं भानयोऽशयो यस्य तेन भानुनार्केण । 'भानयो- ऽकहरांशवः' इति वैजयन्ती । यत्नमो नियन्तुं निवारयितुं न समभावि न शेके । भावे लुङ् । अविद्य- मानमुत्तमं यस्मात्तदनुत्तमं सर्वाधिकमदस्तमो मोहात्मकमसंख्यतां गतैस्तेजोभिः प्रसह्य बलात्त्वया नुवं छिन्त्रम् । अतः श्लाघ्यदर्शनी भवानिति भावः । 'नुदविद-इत्यादिना विकल्पाविष्ठानत्वभावः । अत्रोपमाना- भानोर्मुनेराधिक्यप्रतिपादनाव्यतिरेकालङ्कारः ॥ २७ ॥ कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना । सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसम्पदामिव ॥ २८ ॥ कृत इति ॥ भगवन् ! प्रजासृजा ब्रह्मणा त्वं श्रुतीनां वेदानां निधिः कृतः आभयो सर्गः ।] । .. शिशुपालवधे। विहितः । निधीयते अस्मिन् इति निधिः । किंभूतः अक्षयः अविनाशी, कसदोपयोगेऽपि अ- जनशिष्यनिष्पादनेऽपि, किंभूतेन प्रजासजा प्रजाक्षेमकृता लोकहितविधात्रा । लोकानां हि वैदेः श्रेयो भवति, तत्र हि हिताहितयोविचारात् । तथा सुपात्रनिक्षेपनिराकुलात्मना सुपात्रे योग्ये निक्षेपेण न्यासेन निराकुलः स्वस्थ आत्मा चेतो यस्य । त्वयि वेदानां न्यासेन ब्रह्मा शोभते । स्थाने मया न्यासः कृत इति मनसि कृत्वा सुखमास्ते। त्वं कीदृश इति विशे- पणद्वारेण सुपात्रत्वमाह-शिष्यप्रशिष्यप्रबन्धेन सदाऽजनमुपयोगेऽपि गुरुः अक्षतिः अविद्य- माना वेदानां क्षतिर्यस्य, अनपचयः । वेदानामुपयोगः शिष्यप्रशिष्यप्रतिपादनम् , तस्मिन् सत्यप्यक्षयो यतो महान् । गुरुराचार्यः। यो हि स्वल्पचित्तस्तस्याशु व्याख्याक्षतिरुत्पद्यते । कीदृशीनां श्रुतीनां धनसम्पदामिव अभिलपितावाप्त्यार्थराशितुल्यानाम् । यो हि प्रजासृट् राष्ट्रहितकृत राजा स धनसम्पदा निधि करोति । यथा केनचित्कश्चित्पुमान् धनसम्पदामक्ष- यो निधिः क्रियते । सः अलुब्धे च तं निक्षिप्य निश्चिन्तो भवति । पूर्वविशेषयुक्तो भवताति निधिरपि गुरुत्वान्नित्योपयोगेऽप्यक्षयो भवति ॥ २८ ॥ कृत इति ॥ प्रजानां जनानामपत्यानां च क्षेमकृता कुशलकारिणा । 'प्रजा स्यात्सन्तती जन' इत्यमरः । सुपात्रे योग्यपुरुषे कटाहादिदृढभाजने च निक्षेपेण निधानेन निराकुलात्मना स्वस्थचिनेन । 'योग्यभा. जनयोः पात्रम्' इत्यमरः । प्रजामृजा ब्रह्मणा पुत्रिणा च त्वं धनसम्पदामिव श्रुतीनां वेदानां सदोपयोगे दान- भोगाभ्यां व्ययेऽध्यक्षयः । एकत्राऽऽम्रानादन्यत्रानन्त्याचेति भावः । गुरुरुपदेष्टा संप्रदायप्रवर्तक इति या- वत् , अन्यत्र महान् । निधीयत इति निधिः निक्षपः कृतः । उपसर्गे घो: किः । श्रुतिसंप्रदायद्वारा धर्मा- ऽधर्मव्यवस्थापकतया जगत्प्रतिष्ठाहेतूनां भवादृशां दर्शन कम्य न श्लाध्यमिति भावः । अत्र शब्दमात्रसाध- ात् श्लेषोऽयं प्रकृतविषय इत्याहुः ॥ २८ ॥ मुनेर्वचनावकाशप्रदर्शनायाह- विलोकनेनैव तवामुना मुने ! कृतः कृतार्थोऽस्मि निहितांहसा(१) ॥ तथापि शुश्रूषुरहं गरीयसीगिरोऽथ वा श्रेयसि केन तृप्यते ॥ २९ ॥ विलोकनेनेति ॥ हे देवर्षे ! तवामुना दर्शनेनैव कृतार्थोऽस्मि अहं कृतः कृतकृत्योऽहं सम्पादितः । किंभूतेन निबृंहितांहसा अपनीतपापेन । एवावधारणे । तथापि ते तव गरीय- सीर्गिरः शुश्रषुरस्मि श्रोतुकामोऽस्मि । नैतच्चित्रं, यतः-श्रेयसि केन तृप्यते न कश्चित् तृप्तिमु- पैति। तेन ममैतत् पिष्टपेषणं न भवतीति भावः। तवेति कर्तरि षष्ठी। एवं केनेति तृतीया। तृप्यत इति भावे लकारः । अतिशयेन गुर्यो गरीयस्यो महार्थाः। 'प्रियस्थिरेत्यादिना गरादेशः ॥ २९॥ विलोकनेनेति ॥ हे मुने ! निबर्हिताहसाऽपहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थ. कृतो- स्मि, तथाप्यहं गरीयसीरर्थवत्तराः । 'द्विवचन-' इत्यादिना ईयसुन्प्रत्ययः 'उगितश्च' इति डीए "प्रिय- स्थिर-' इत्यादिना गुरोर्गरादेशः । गिरस्तव वाचोऽपि शुश्रुषुः श्रोतुमिच्छुरस्मि । शृणोतेः सत्रन्तादुपत्य. यः । न चैतद् वृथेत्याह-अथ वा, तथा हीत्यर्थः। अथ घेति पक्षान्तरप्रसिद्भ्योरिति गणव्याख्यानात् । प्रेयसि विषये कन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्नाभावादिति भावः । भावे लिट् ॥ २९ ॥ आगमनप्रयोजनं पिपृच्छिषुराह- गतस्पृहोऽप्यागमनप्रयोजनं वदेति धक्तं व्यवसीयते यया ॥ तनोति नस्तामुदिनात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥ ३० ॥ (१)निवर्हिताहसा ।

२० सन्देहविपौषधिसर्वाषायुते- [प्रथमः- । गतस्पृहोऽपीति ॥ हे नारद ! एष तवागम आगमनमेव तां धृष्टतां वैयात्यं तनोति विस्तारयति, केषां नोऽस्माकम् । किंभूत उदितात्मगौरवः उत्पन्नात्मबहुमानः तथा गुरु- महान् । किमिति तनोतीत्याह-यया पृष्टतया इति वक्तुं व्यवसीयते, इतीति किम् आग- मनप्रयोजनं वद इति । कथंभूतोऽपि गतस्पृहोऽपि गताभिलाषुकोऽपि । अर्थिनां हि राज- भिः प्रयोजनमर्थः, त्वं च तपोधनस्ततः किमर्थमागतोऽसीति यदुच्यसे एष त्वदीयागमन- स्यैवापराध इत्यर्थः । उदितं कथितमात्मगौरवं येन स उदितात्मगौरवः आगमः । भव- दागमनेन यस्माकमात्मनि बहुमान उत्पन्नः । कीदृशा वयं पुण्यभाजनं यदगम्यो नार- दोऽप्यागतः, यतो गुरुमहान् दुर्लभः । अथ गुरुः परिपाट्यागमः श्रुतं सोऽवश्यं धृष्टता प्रतिभां तनोतीत्युक्तिलेशः ॥ ३० ॥ गतस्पृहोपीति ॥ गतस्पृहो विरक्कोऽपि त्वमागमनप्रयोजनं वदेति वक्तुं यया धृष्टतया व्यवसीयते उद्यम्यते । स्यतर्भावे लट् । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागमः आगमनमेव नोम्स्माकं धृष्टता तनोति विस्तारयति । तनु विस्तारे लट् । भवतो निःस्पृहत्वेऽपि प्रेक्ष.व. प्रवृत्तेः प्रयोजनव्याप्त्या सावकाशः प्रश्न इति भावः ॥ ३० ॥ इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम ! स्वथा । स्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य गुरु योगिनामपि ॥३१॥ इतीति ॥ हरिमित्येवं वचनं ब्रुवाणं स व्रती मुनिः उवाच इत्यूचे हे पुरुषोत्तम ! हे नारायण ! भवता त्वया इत्थं पूर्वोक्तप्रकारेण गतस्पृहेत्यादि न वक्तव्यम् । यतो योगिभिः कपिलसनत्कुमारादिभिरपि त्वमेव साक्षात्करणीयः प्रत्यक्षीकार्यः त्वमेव दृश्य इत्यतः अतो- ऽन्यद् गुरु कार्य किं विद्यते, यवक्ष्ये गतस्पृहोऽपि । त्वदर्शनमेव अस्माकमागमनप्रयोजन- मित्यर्थः । अन्यत्शब्दोऽत्र वाक्यार्थबलादध्याहियते । तद्योगे चाऽत इति पञ्चमी । इति हतौ। यस्त्वं प्रत्यक्षीकार्योऽतः प्रत्यक्षीकरणादन्यत् किं कार्य भवत्वित्यर्थः । योगिनामि- ति कृत्यानां कर्तरि षष्ठी ॥ ३१ ॥ इतीति ॥ इति ब्रुवन्तं तं हरिं स व्रती मुनिरुवाच । किमिति । हे पुरुषोत्तम ! पुरुषेषु श्रेष्ठ ! 'न नि- धरणे' इति षष्ठीसमासप्रतिषेधः । त्वया इत्थं 'गतस्पृहोऽपि' इति न वाच्यम् , निस्पृहस्याप्यत्र प्रयोजन सम्भवादिति भावः । तदेवाह-योगिनामपि त्वमेव साक्षात्करणीयः प्रत्यक्षीकर्तव्य इत्यतोऽस्मादन्यद् गुरु कार्य किमस्ति । न किञ्चिदित्यर्थः । तस्मात्र प्रयोजनान्तरप्रश्नावकाश इति भावः ॥ ३१ ॥ त्वमेव साक्षात्करणीय इत्येतदेव साधयितुमाह- उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् ॥ उपेयुषो मोक्षपथं मनस्विनस्त्वमप्रभूमिनिरपायसंश्रया ॥ ३२ ॥ उदोर्णेति ॥ हे पुरुषोत्तम ! मोक्षपथं मोक्षमार्गमुपेयुषः प्राप्तस्य मनस्विनस्स्व- मग्रभूमिः प्रान्तभूमिः । त्वमेव तेषां प्राप्य इत्यर्थः । भगवत्सायुज्यं साङ्गत्यं हि मोक्षः । कीदृशम् उदीर्णरागप्रतिरोधकम् उद्रिक्तविषयाभिलाषप्रतिबन्ध- कम् । उदीर्ण उद्विक्तो यो रागो विषयाभिलाषः स एव प्रतिरोधकः प्रतिबन्ध- । रागे हि सति कुतो मोक्षः । तथा जनैः सामान्य- लोकैरतिदुर्गमं नितरां दुष्प्रापं, कया अभीक्ष्णमक्षुण्णतया पुनःपुनः अधृष्टत्वेन । न हि सर्वः परां भूमिं प्राप्नोति । कीदृशी अग्रभूमिः निरपायसंश्रया निरपायो निर्बाधः परिच्युतिरहितः । - स्तस्करो यत्र सः सर्मः । ] शिशुपालवधे। २१ । । संश्रयः परिग्रहो यत्र । तां प्राप्य च्युतिर्न भवति इत्यर्थः । संसारदुःख भूयो नानुभूयते इति यावत् । यो हि दुर्गम मार्ग प्रस्थितः सोऽप्रभूमि प्राप्य स्वस्थो भवति । तत्रापि पथि उदी- र्णरागतुल्यः प्रतिरोधकश्योरो भवति । जनैश्च अवहमानत्वात् सोऽतिदुर्गमः । प्रतिरोधकचौरै- कागारिकमलिम्लुचाः स्तेनाः । उदीणं इति ऋगतावित्यस्य उत्पूर्वस्य क्ते रूपम् । क्षुद्यत इति क्षुण्णः । अतिदुःखेन गम्यत इति दुर्गमः 'ईषद् दुरित्यादिना खल् । मोक्षश्वासौ पन्थाश्चेति ऋक्पूरब्धूः पथामानक्षे ॥ ३२ ॥ यदुक्तं योगिनामपि त्वमेव साक्षात्करणीय इति, तदेव द्रढयति- उदीर्णोति ॥ उदीर्ण उद्विको रागो विषयाभिलाषः स एव प्रतिरोधकः प्रतिबन्धकः पाटचरश्च यस्मिन् । 'प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः' इत्यमरः । अभीक्ष्णमक्षुण्णतयाऽनभ्यस्तत्वेनाप्रतिहत- वेन च जनैरतिदुर्गमं मोक्षपथमपवर्गमार्ग कान्तारं चौपेयुषः प्राप्तवत: । 'उपोयवान् -' इत्यादिना क्वस्व. न्तो निपातः । मनस्विनः सुमनसः धीरस्य च । प्रशंसायां विनिः । त्वमेव निरपायः पुनरावृत्तिरहितः सं- श्रयः प्राप्तिर्यस्याः सा तथोक्ता । 'न स पुनरावर्तते' इति श्रुतेः । अग्रभूमिः प्राप्यस्थानम् । 'अप्रमाल- म्बने प्राप्ये' इति विश्वः । सोऽहम्' इत्यादिश्रुतेस्तत्माते रेव मोक्षत्वादिति भावः । तस्मान्मुमुक्षूणामपि त्वमेव साक्षात्करणीय इति सिद्धम् । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः । यथा कस्यचित्कुताश्चत्सङ्कटानिर्गतस्य केनचित्कान्तारण गतस्य किश्चिनिर्बाधस्थानप्रातिरभयाय कल्पते, तथा त्वमपि मुमुक्षेोरिति ध्वनिः ॥ ३२ ॥ इदानीं सांख्यदर्शनेन भगवतो निःक्रियत्वमाह- उदासितारं निगृहीतमानसैहीतमध्यात्मशा कथञ्चन ॥ बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ ३३ ॥ उदासितारमिति ॥ त्वां पुराविदः सनत्कुमारप्रभृतयश्चिरन्तनाः पुरातनं पुरुष विदुः पुराणपुरुषं बुबुधिरे । क्षेत्रशं त्वामामनन्तीत्यर्थः । कीदृशं पुरुषमुदासितारं निःक्रिय- म् । सांख्या हि साक्षिमात्रं पुरुषमाहुः । तथा निगृहीतमानसैर्वश्यात्मभिरध्यात्मदृशा उपनि- षद्दर्शनेन कथंकथमपि महता कष्टेन गृहीतं ज्ञातम् । न हि पुरुषः सुज्ञानः । तथा विकारेभ्यो महदादिभ्यो बहिर्बाह्य बहिर्विकारम्। त्रयोविंशतिविकारविलक्षणमित्यर्थः। तथा प्रकृतेः प्रधानात् पृथक् अन्यम् । त्वं नापि प्रकृति पि विकृतिरित्यर्थः । तदुक्तम्-'न प्रकृतिर्न विकृतिः पुरुषः, इति । सत्वरजस्तमांस्यनुद्भुतपाटवानि स्वकार्याक्षमाणि प्रकृतिशब्देनोच्यन्ते । एतञ्च सर्व योगशास्त्रादेव सुज्ञानम् । इह परमुक्तिमात्र त्वमात्मा किच न प्रकृतिविकारबाझो योगिज्ञेयः इति तु वाक्यार्थः । मन एव मानसं 'प्रज्ञादिभ्यश्चेत्यण । आत्मन्यधि अध्यात्ममिति विभक्त्यर्थेऽव्ययीभावः 'अनश्चेति टच् । तत्र दृक् स एव दृक् ज्ञानम्। विकारेभ्यो बहिर्व- हिर्विकारः 'अपपरिवहिरञ्चवः पञ्चम्याः' इत्यव्ययीभावः। विदुरिति विदो लटो वा । पुराभवं पुरातनं सायंचिरंप्राङ्गेप्रगेऽव्ययेभ्यस्तनट् । अबाधकान्यपि हि निपातनानि भवन्ति पुरा पूर्व कालं विदन्तीति पुराविदोऽतीतज्ञाः ॥ ३३ ॥ ननु प्रकृतिविविक्तपुरुषसाक्षात्कार,न्मोक्षो नास्मसाक्षात्कारादित्याशय सोऽपि त्वमेवेत्याह- उदासितारमिति ॥ पुराविदः पूर्वज्ञाः कपिलादयस्त्वा निगृहीतमानसरन्तर्निबद्धचित्तर्योगिभिः । आत्मान अधि इत्यध्यान्मम् । विभक्त्यर्थेऽव्ययीभावः 'अनश्च' इति समासान्तष्टचू । अध्यात्म या दृक् ज्ञानं तयाध्यात्मदृशा प्रत्यग्दृष्टया कथञ्चन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतामत्यत आह- उदासितारमुदासीनम् । प्रकृती स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारे- - ५२ सन्देहविषौषधिसर्वकषायुते- [प्रथमः- .. भ्यो बहिः बाहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । 'अपपरिबाहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । किञ्च प्रकृतेस्नैगुण्यात्मनो मूलकारणात्पृथग्भित्रम् । 'प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे' इति यादवः । पुराभवं पुरातनमनादिम् । 'सायचिरम्-' इत्यादिना ट्युप्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानधन विदु- विदन्ति । "विदो लटो वा' इति झरुसादेशः । यथाहु:- 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः । इति । 'अजामेकां लोहितशुल कृष्णाम्' इत्यादिश्रुतिश्च । सोऽपि त्वमेव, तत्त्वमसि' इत्यादिवाक्य- क्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ट्रकमिति भावः ॥ ३३ ।। सांख्यदर्शनेन हि निःक्रियत्वं प्रतिपाद्याधुना पञ्चरात्रदर्शनेन कर्तृत्वमाह- निवेशयामासिथ हेलयोवृतं(१) फणाभृतां छादनमेकमोकसः ॥ जगत्तूयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥ निवेशयामासिथेति ॥ उद्वृतं चलितमुर्वीतलमुन्नतेषु शेषस्थूणाकणेषु हेलया अना- स्थया अनादरेण त्वं निवेशयमासिथ नियोजितवान् । उद्धृतमिति पाठान्तरम् । कीदृक् भूतलं फणाभृतामोकसःपातालस्य एक छादनं पटलम् । त्वं कीदृशः जगनयैकस्थपतिः जग- नये त्रिभुवने एकः स्थपतिः प्रधानकर्ता त्रिभुवनैकप्रधानकर्ता । पृथ्वीतलमुच्चकैरुश्चमतिश- येन वा । त्वदर्जमन्येन न केनचित्तिभुवनं निर्मितमित्यर्थः । अन्योऽपि स्थपतिः तक्षादिः सूक्ष्मचलितं हादिच्छादनं स्तम्भेषु हेलया अवश्यमेव योजयतीत्युक्तिलेशः । ओक- इति उचरमुनि बहुलत्वात् कुत्वम् ॥ ३४ ॥ एवं भगवतो निर्गुणस्वरूपमुक्त्वा सम्प्रति प्रस्तुतोपयोगितया सगुणमाश्रित्य षड्भिः स्तौति- निवेशयामासिथति ॥ जगत्रयस्यैकस्थपतिरंकाधिपतिरेकशिल्पी । 'स्थपतिरधिपती नक्षिण बृहस्पतिसचिवयोः' इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । कणाभृतामाकसः आश्रयस्य समनश्च । 'ओकः सअनि चाश्रये' इति विश्वः । एकं छादनमावरणं भूतलमुच्च कैरुत्रतेषु अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु अग्रेषु च । फणासहरूध्विति भावः । निवेशयामासिव निवोशतवानसि । विशनर्ण्यन्ताल्लिटि थल् । 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । अत्र श्लिष्टाशिष्ट- मपकयोतुहेतुमद्रावात् श्लिष्टं परम्परितरूपकम् ॥ ३४ ॥ अनन्यगुास्तष(२) केन केवलः पुराणमूर्तेर्महिमावगम्यते ॥ मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवोच्छेदकरः(३) करोत्यधः ॥३५॥ अनन्येति ॥ हे कृष्ण ! तव या पुराणमूर्तिः तस्याः केन केवलः कृत्स्नो महिमा अवगम्यते । तब दृश्यरूपस्य यस्य तत्त्वं न बुध्यते इत्येतदप्यत्रोक्त्याऽभिहितम् । कथंभू- तायाः पुराणमूर्तेः अनन्यगुाः सर्वोत्कृष्टायाः, न विद्यते अन्या गुरुगरीयसी यस्याः सा त- स्याः । दुर्जेयाया इत्यर्थः । (४)['वोतो गुणवचनादिति ङीप विकल्पितः। समासार्थाश्रय- स्त्वनुपसर्जनाधिकारान्न भवति । अथ वा नास्त्यन्यो गुर्यस्याः। स्वयाख्याग्रहणानदीसंज्ञा दुर्लभा,ग्रामण्ये स्त्रिय इति । अनन्यगुळ इति तु अपपाठात् कप्प्रसङ्गात् । यदि वा समा- सार्थविधिरनित्यः] । तवेति पूराणमूरिति च व्यधिकरणे षष्ठ्यौ । यतो भवान् त्वं मनुष्यजन्मापि मनुष्यभावं प्राप्तोऽपि सुरासुरान् देवदैत्यान् अधःकरोति निर्जयति । कैः गुणैः ज्ञानवैराग्यादिभिः, किंभूतैः गुणैः भवोच्छेदकरैः संसारक्षयकारिभिः। सुरासुरानिति विरोधा- (१) हलयोद्धृतम् । (२) भवच्छेदकरैः । (३) गुर्वास्तव । (४) [ ] एतचिह्नान्तर्गतो ग्रन्थांशी विचारणीयः। च १ सर्गः । शिशुपालवधे। २३ भव .. विवश्यैकवद्भावाभावः शाश्वतिकाभावादिति उपाध्यायः प्रकाशवर्षः। कार्यकृतो हि देवासराणां विरोधो न जात्या । यदि वा सुरसहिता असुराः सुरासुराः इति शाकर्थि- वादित्वात्तत्पुरुषः ॥ ३५ ॥ अनन्येति ।। न विद्यतेऽन्यो गुरुर्यस्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समामापाडीनि 'नवृतश्च' इति कप्प्रसङ्गः स्यात् , पश्चात्त्वनुपसर्जनाधिकारात् 'पोतो गुणवचनात्' इति प्रानोति । "ङिति द्वस्व' इति वा नदीसंज्ञात्वात् 'आण्नयाः' इत्याडागमः । कचित्तु समासान्तविधिरनित्य इति कर्प वास्यन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलवावधारणे' इति विश्वः। महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः-मनुष्याज्जन्म यस्य स मनुष्यजन्मा भवान् । 'अवज्यों हि बहुव्रीहिय॑धिक रणो जन्मायुत्तरपदः' इति वामनः । च्छेदकरैः संसारनिवर्तकैर्गुणैज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वनिकः' इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । 'शेषे प्रथमः' इति प्रथम पुरुषः, भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः, अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृयञ्जनावृत्त्या छेकानुप्रासः ॥ ३५ ॥ मनुष्यजन्माऽपीत्युक्तम्, किमर्थमसौ देवदेवो मनुष्येष्ववतीर्ण इति भङ्गया दर्शयति- लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।। उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥ लघूकरिष्यन्निति ॥ किलेत्यागमे । हे कृष्ण ! त्वमम धरित्री लघूकरिष्यन् लघु कर्तु त्रिदिवात् स्वर्गात् अवातरः अवतीर्णः, किंभृतां भूमिमतिभारभङ्गुरां अतिशयेन भारा- क्रान्ताम् । पुनः साम्प्रतमिदानीमुदूढलोकत्रितयेन सता जगन्निवासेन सता त्वया धरित्री गुरुः श्लाव्या क्रियते गौरवास्पदं नितरां विधीयते । यत्र हि भगवान् साक्षादव वसति साऽवश्यमेव श्लाव्या भवति । अथ चोपहसनम्-किलेत्युल्लुण्ठनायाम् । यो भूमे रं निरसि- तुमागतस्तेन सा भाराक्रान्ता विधीयते । एष एवार्थो गुरुशब्दस्योभयार्थत्वात् । एतच्चार्थान्तरं प्रस्तुतार्थपरिपोषकम् । सति तस्मिन् वाक्यमेव सुतरां सालङ्कारम् । एवमन्यत्र । लघूकरिष्यन्निति 'लुट् शेषे चेति क्रियायां क्रियायामुपपदे लुट्, शतृ । क्रियतेतरामिति 'तिडवे ति तरप 'किमेत्तिङि त्यामागमः ॥ ३६ ॥ लघूकरिष्यन्निति ॥ त्वमतिभारेणोर्जेन स्वरूपेण भङगुरां स्वयं भज्यमानाम् । भञ्जभासमिदो घुरच् । भगुरः कर्मकर्तरि इति वामनः । अमूम् । भुवमित्यर्थः । लघूकरिष्यनिर्भार करिष्यन् किल । 'कृ-वस्ति-' इत्यादिना अभूततनावे च्चिः 'च्ची च' इति दीर्घः। तृतीय। यौसिदिवः स्वर्गस्तस्मात् । घार्थे कविधानम् । वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागादिवत । अबातरः अवतीर्णोऽसि । साम्प्रतं सम्प्रत्युदूढलोकत्रितयेन । कुक्षाविति शेषः। त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतरा- मातशयेन क्रियते। 'तिङश्च' इति तरप् । 'किमेनिङध्ययघात्-' इत्यादिना आमुप्रत्ययः । लघुकता गुरुकर्तेति विरोधाभासोऽलङ्कारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यत' इति लक्षणात् ॥ ३६ ॥ निजौजसोजासयितुं जगद्रुहामुपाजिहीथा न महीतलं यदि ॥ समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश ! मादृशाम् ॥३७॥ निजौजसेति ॥ हे ईश ! हे जगत्पते ! यदि चेत् त्वं महीतलं न उपाजिहीथाः पृथि- वीलोकं नागच्छेः मनुष्यलोकं नावतरः, ततो मादृशां मन्दधियां दृशः पदं कथं स्याः दृष्टि- मोचरः त्वं कथं भवेः । यतस्त्वं समाहितैरपि अनिरूपितः योगनिष्णातैरपि न दृश्यसे ।

सन्देहविपौषधिसर्वकषायुते- [प्रथमः- . - आत्मसंज्ञं हि ज्योतिः दुर्दर्शम् । किमर्थ भूतलमागतः निजौजसा स्वाभाविकेन ओजसा जगद्गुहां भुवनतापिनां दैत्यानामुज्जासयितुं हिंसितुमिति भङ्गयाऽऽगमनप्रयोजनसूचकम् । जसु ताडने इत्यस्यैतद्रूपम् । जगगयो द्रुश्यन्ति जगद् द्रुहः । 'जासिनि प्रहणे ति कर्मणि षष्ठी। एवं पेष्टुं भुवनद्विषामिति । उपाजिहीथा इत्योहाङ्गतावित्यस्य लिङ् सीयुटु 'श्नाभ्य- स्तयोरात' इति आकारलोपः। क्रियातिपत्तिर्न विद्यते तेन लडभावः । मादृशामित्यहमिव दृश्यन्ते । 'त्यदादिषु दृश' इति क्विपू 'प्रत्ययोत्तरपदयोश्चेति मादेशः, आ सर्वनाम्नः । अ- नौद्धत्यख्यापनार्थ चैतत् ॥ ३७ ॥ निजौजसेति ॥ निजीजसा स्वतेजसा जगदयो दुह्यन्तीति जगद् द्रुहः कंसादयः । 'सन्सूद्विष-' इत्यादिना क्विप् । तेषामुजासायितुम् । तान् हिसितुमित्यर्थः । 'जासिनिप्रहण-' इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम्' इति चुरादिः। महीतलं नोपाजिहाथाः यदि नावतरेश्चेत् । ओहाङ् गती लडि थासि रूपम् । ततस्तहि समाहितः समाधिनिष्टैरपि । सर्कर्मकादाप्याशितादिवदविवक्षिते कर्मणि कतरि कः। अथ वा समाहितैः । समाहितचिनैरिन्यर्थः। विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । गम्यमानार्थस्याप्रयोग एव लोप इति कैयटः । अनिरूपितो गृहीतस्त्वमीश ! मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । दृशो दृष्टेः पदं गोचरः कथं स्याः । न कथञ्चिदित्यर्थः । तस्मात्त्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः ॥ ७ ॥ ननु यतिरसमाहितः, ननु च शिशुपालवधे भवान् समर्थ इति स्तुतिमुखेन सूचयितुमाह- उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर ! विश्वमीशिषे ॥ ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमर्स नभः ॥ ३८ ॥ उपप्लुतमिति ॥ हे विश्वम्भर ! जगन्निवास ! अदः एतत् विश्वं भुवनं पातुं निष्क- ण्टकीकर्तु त्वमेव ईशिषे त्वमेव प्रभवसि नान्यः । किविशिष्टं विश्वं मदोत्कटैर्मदोद्धतैः दानवै- रसुरादिभिरुपप्लुतं बाधितं पीडितम् । अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह-युक्तोऽयमर्थः, यतः कारणात् क्षपातमस्काण्डमलीमसं निशान्धकारमलिनं नभः आकाशं रखे: ऋते सूर्य विना क्षालयितुं निर्मलीकर्तु का समर्थो भवेत् । कृष्णतरं तमः तमस्काण्डम् । मलमस्यास्तीति मलीमसम् । ईश ऐश्वयें ईन् (?) 'ईश: से' इतीट् । ऋतेयोगे पञ्चमी ॥ ३८ ॥ ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशद्धानन्यमाध्यत्वमेवाह-- उपप्लुतमिति ॥ विश्व बिभर्तीति विश्वम्भरस्तत्सम्बुद्धौ हे विश्वम्भर ! विश्वत्रातः ! 'संज्ञायां भृत- वृजि--' इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतः कंसादिभिरुपप्लुतं पीडितम् अदो विश्वं पातुं त्वमेव इशिषे शक्नोति । विश्वम्भरत्वादिति भावः । ईश ऐश्वर्य लटि थासि रूपम् । अत्र वैधर्येण दृष्टान्त- माह-पायास्तमस्काण्डैस्तमोवगैः । 'काण्डोऽमी दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । 'कस्कादिषु च' इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमित्रा-' इत्यादिना मत्वर्थीयो निपातः । नमः चालायतुं रवेः ऋते रवि विना | 'अन्या- रादितरते-' इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः । अत्र वाक्पद्वये समानधर्मस्यैकस्य इशिषे क्षमेतति शन्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वावधर्येण प्रतिवस्तूपमालङ्कारः । तदुक्तम्--सर्वस्य वाक्यार्थगतत्वेन सामान्यस्य वाक्यतयेन पृथनिर्देशे प्रतिवस्तूपमा ॥ ३८ ॥ करोति कंसादिमहीभृतां वधाजनो मृगाणामिव यत्तव स्तवम् ।। हरे ! हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥ करोतीति ।। हे हरे ! कंसादिमहीभृतां कंसकालनेमिप्रभातीनां राज्ञां वधात् जनो !

सर्गः।] . शिशुपालवधे। लोको यत् तव स्तवं करोति भवतः स्तुति विधत्ते, प्रत्युत वैपरीत्येन हासादेव सा तत्र तिरस्क्रिया निन्दा । किंभूतस्य तब हिरण्याक्षपुरस्सरासरद्विपद्विषः हिरण्यकशिपुप्रभृतिप्रधा- नदैत्यकुञ्जररिपोः कस्येव हरेरिख । यथा मतङ्गजयूथदारिणो हरेः सिंहस्य मृगाणां हरि- णानां वधात् यत् पौरुषवर्णनं प्रत्युत हासात् सा तस्य तिरस्क्रिया निन्दा। उकं च- मृगारिं वा मृगेन्द्र वा द्वयं व्याहरतां सताम् । तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥ अधिकं वचनं स्तवो न ऊनम् । अविवक्षितो लोको जनः । यदिति वाक्यार्थनिर्देशः । यमिति पाठान्तरम् । हरिः शौरिः सिंहश्च । द्वेष्टोति द्विट् शत्रुः । सेति विधीयमाना तिर- स्क्रियैव निर्दिश्यते । सर्वनामा हि कदाचिदनूद्यमानस्य लिङ्ग गृहाति कदाचिद्विधीय- मानस्य ॥ ३९ ॥ करोतीति ॥ किञ्च जनो मृमाणामिव कंसादिमहीभृनो बधाद्धेतोः स्तवं स्तोत्रम् । ततः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । करोतीति यत् । हे हरे ! हे कृष्ण ! हे सिंहेति च गम्यते ।सा स्तुस्ताकया हिर. प्याक्षपुरःसरा हिरण्याक्षप्रभृतयो येसुरास्त एव द्विपास्तेषां द्विषः । हन्तुरित्यर्थः। तस्य तव प्रत्युत वैप- सत्येन । 'प्रत्युतेत्युक्तवपरीत्ये' इति गणव्याख्यानात् । तिरस्क्रिया अवमानः । यदिति सामान्ये नपुंसकम् । मंति विधेयलिङ्गम् । गजघातिनः सिंहस्य मृगवधवर्णनमिव महासुरहन्तुस्तव कंसादिक्षुदनृपवधवर्णनं तिरस्कार एवेत्यर्थः । अत्रासुरद्विपानामिति हरिवद्धरिरिति लिष्टपरम्परितरूपकं मृगाणामिवेत्युपमया ऽङ्गाङ्गिभावेन सङ्कीर्यते ॥ ३९ ॥ इदानीं प्रकटमेव कार्य विवक्षुराह- प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ॥ तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ ४ ॥ प्रवृत्त इति ॥ हे हरे ! स्वयमेव त्वमुज्झितश्रमः परित्यक्तसमरखेदः सन् भुवनद्विषां दैत्यानां पेष्टुं निहन्तुं प्रवृत्त एवं प्रस्तुत एव । वैश्विधे न वाच्योऽसीति भावः । यद्यन्ये परं तथापि मनः कर्तृभूतं मां वाचालतया युनक्ति बहुरटितत्वेन योजयति । कथंभूतं मनः मिथः एकान्ते त्वदाभाषणलोलुपं त्वया सह आभाषणे आलपने लोलुपमत्यर्थ साभिलाषम् वाचालमित्यर्थः । रहसि त्वया सह बक्तुमिच्छतीति भावः । असम्बद्धं बहु वक्तीति वाचालः ॥ ४० ॥ एवं स्तुत्या देवमभिमुखीकृत्यागमनप्रयोजनं वक्तुमुपोद्धातयति-- प्रवृत्त इति ॥ त्वमुज्झितश्रमस्ल्याश्रमः सन् क्रमेण भुवनानि द्विषन्तीति भुवनद्विषो दुष्टास्तेषा पेष्टुम् । तान् हिसिनुमित्यर्थः । 'जासिनिप्रहण--' इत्यादिना कर्मणि शेषे षष्ठी । स्वयमपरप्रेरित एव प्रवृत्तोऽसि । एवं तर्हि पिष्टपेषणं किमिति चेताह -तथापि स्वतः प्रवृत्तेऽपि मिथो रहसि त्वदाभाषणे त्वया सह संलापे लोलुपं लुब्धम् । 'लुन्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभा' इत्यमरः । मनो मा वाचालतया सह युनक्ति। वाचालं करोतीत्यर्थः। वाचो बढयोऽस्य सन्तीति वाचालः । 'भालजाटची बहु भाषिणि' इत्यालच् । 'स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक्' इत्यमरः ॥ ४० ॥ तदिन्द्रसन्दिष्टभुपेन्द्र ! यद्वचः क्षणं मया विश्वजनीनमुच्यते। समस्तकाएँषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ ४१ ॥ तदिन्द्रेति।। तदिति वाक्योपसंहारे। कि बहुना उक्तेन । हे उपेन्द्र ! शंकानुज ! मया क्षणं मुहूर्तमेव यदच उच्यते कथ्यते तद्वचः भवता त्वया निशम्यतां श्रूयताम् । किंभूतं वचः ३ शि० ब०

।
।
२६
सन्देहविषौषधिसर्वकषायुते [प्रथमः-
इन्द्रसन्दिष्टमिन्द्रकथितं पुनः किंभूतं वचः विश्वजनीनं विश्वजनेभ्यो हितं विश्वजनीन
सार्वजनिकम् । कथंभूतेन त्वया अहिद्विषो देवराजस्य समस्तकार्येषु अशेषकृत्येषु धुर्यतां गतेन
साहाय्यं प्राप्तेन । अहिः स च वृत्रे च । विश्वे च ते जना विश्वजनाः तेभ्यो हित
विश्वजनीनम् । धुरं भारं वहतीति धुर्यः । अहिं दानवविशेष द्वेष्टीति अहिहिट् तस्य ॥४१॥
अथ स्ववाक्यश्रवणं सहेतुकं प्रार्थयते-
तदिन्द्रेति ॥ तत्तस्मादिन्दमुपगतः उपेन्द्र इन्द्रावरजः । अत एवेन्द्रसन्दिष्टम् । श्रोतव्यमिति भावः ।
किञ्च विश्वस्म जनाय हितं विश्वजनीनम् । आत्मविश्वजनभोगोत्तरपदात्तः । यहचः क्षणं नतु चिरं
मयोव्यत, तरचोऽहिद्विषो वृनधनः। 'सर्पे वृत्रासुरेऽप्यहिः' इति वैजयन्ती। समस्तकार्येषु धुर्यता धुर-
न्धरत्वं गतेन । अतोऽपि भवता निशम्यताम् । प्रार्थनायां लोट् । धुरं वहतीति धुर्यः । 'धरो यड्ढको' इति
यत्प्रत्ययः । स्फुटमत्र पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ११ ॥
तदेव वक्तुमाह-
अभूदभूमिः प्रतिपक्षजन्मनां मियां तनूजस्तपनद्युतिदितेः ॥
यमिन्द्रशम्दार्थनिषूदनं हरेहिरण्यपूर्व कशिपुं प्रचक्षते ॥ ४२ ॥
अभूदिति ॥ हे कृष्ण ! दितेस्तनूजोऽभूत् दैत्योऽजनि । किविशिष्टः प्रतिपक्षजन्मनां
मियामभूमिः शत्रुसमुत्थनां भीतीनामविषयः । शत्रुभ्यो न बिभेतीत्यर्थः । पुनः कीदृशः
तपनद्युतिः सूर्यसमकान्तिः । बहुत्वात्तेषामनिश्चये सत्याह-बुधा विद्वांसो यं दैत्यं हिरण्यपूर्व
कशिपु प्रचक्षते नाम्ना हिरण्यकशिपुं वदन्ति । किंभूतं हरेः देवराजस्य इन्द्रशब्दार्थनिषूदनं
परमैश्वर्यनाशकम् । शक्रस्य महीन्द्र इति क्रियाद्वारेण संज्ञा । इन्दनादिन्द्रः, तब तेनापास्तम् ।
हरयन राज्यं हृतमित्यर्थः । 'हिरण्यपूर्व कशिपुं प्रचक्षते' 'धनुरुपपदमस्मै वेदमभ्यादि-
देश' देवपूर्व गिरिमित्यादि काव्यमविचारितरमणीयं न त्वलङ्कारविदामभिमतम् । हिर-
ण्यादीनां शब्दपरत्वेऽपि वा विवक्षतार्थस्य कष्टकल्पनया प्रतीतेः । तनूजशब्द औणादिकः ।
निषूदतीति निषूदनः कृत्यल्युटो बहुलम् । अत्र च शिशुपालस्त्वया हन्तव्य इति बोद्धव्यम्।
यदा तु हिरण्यकशिपुरावणयोर्वर्णनं तत्तस्यैव महत्ताख्यापनाय । जन्मान्तरेऽपि तयोस्त्वमेव
वधको नान्य इत्येतत्प्रतिपादनार्थम् ॥ ४२ ॥
अथ शिशुपालो हन्तव्य इति वक्तुं तस्यावश्यव-यत्वेऽनन्यवध्यत्वज्ञापनोपयिकतया औद्धत्यप्रकट-
नार्थ जन्मान्तरवृत्तान्तं तावदुद्धाटयति -
अभादति ।। प्रतिपक्षाच्छयोः जन्म यासा तास भियामभूमिरविषयः । निर्भीक इत्यर्थः । तपनयुतिः
सूर्यतापो दितम्तनूजो देत्योऽभूत् । कोऽसावत आह-हरेरिन्द्रस्य इन्द्रशन्दार्थनिषूदनम् , इन्दतीति इन्द्रः
इदि पर मैश्वर्ये । 'ऋनन्द्र-' इत्यादिना रन्प्रत्ययान्त आणादिकनिपातः । तस्य इन्द्रइतिशब्दस्य इन्द्राति-
संज्ञापदस्य योऽर्थः परमैश्वर्यलक्षणस्तस्य निन्दनं निवर्तकम् । करि ल्युट्। हरेरैश्वर्यनिहन्तारमित्यर्थः ।
यं दत्यं हिरण्यशब्दपूर्व कशिपुशब्दं प्रचक्षते । हिरण्यकशिपुमारित्यर्थः। अत्र हिरण्यशब्दपूर्वकत्वं
कशिपुशब्दस्यैव न तु संज्ञिनस्तदर्थस्येति शब्दपरस्य कशिपुशब्दस्यार्थगतत्वेनाप्रयोज्यस्य प्रयोगादवाच्य.
वचनाल्यार्थदोषमाहुः । 'यदेवावाच्यवचनमवाच्यवचनं हि तत्' इति । समाधानमेवंविधविषये शन्द.
परणार्थलक्षणेति कश्चित्सम्पायमित्युक्तमस्माभिः ‘देव गिरि ते' इति 'धनुरुपपदमस्मै वेदमभ्यादिदेश'
इन्येत याख्यानावसरे सञ्जीबिन्यां घण्टापथे च । विशेषश्चात्राऽयम्-दैत्यमुहिश्य हिरण्यपूर्व कशिपुं
प्रचक्षते संज्ञात्वेन प्रयुङ्क्ते ॥ ४२ ॥
समत्सरेणाऽसुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् ।।
भयस्य पूर्वावतरस्तरस्थिना मनस्सु येन धुसदां न्यधीयत ॥४३॥

सर्गः।] शिशुपालवधे। २७ समत्सरेणेति ॥ हे कृष्ण ! येन हिरण्यकशिपुना घुसदां देवानां मनस्सु चित्तेषु भयस्य मीतेः पूर्वावतरः प्रथमप्रादुर्भावो न्यधीयत निहितः । प्रथम तत एव देवा बिभ्यरित्यर्थः । कीदृशेन समत्सरेण सकोपेन असोढपरोन्नतिना तथा तरस्विना बलिष्ठेन तथा असर इति नाम भवति (१) । चिरायेति चतुर्थ्यन्तप्रतिरूपको निपातः । तरस्विनेति भूम्नः प्रशंसा । दिकि सीदन्तीति घुसदः 'सत्सूद्विषेत्यादिना किम् । न्यधीयत इति कर्मणि लङ, तेनैव च कर्म- णोऽभिहितत्वादवतराद् द्वितीयाऽभावः ॥ ४३ ॥ समत्सरेणेति ॥ समत्सरेणान्यशुभषसहितेन । 'मत्सरोऽन्यशुभदूधे' इत्यमरः। अस्यतीत्यसुरः । असेहरन् । असुर इति नाम्नः चिराय चिरकालेन । 'चिराय चिररात्राय चिरस्यायाचिरार्थकाः' इत्यमरः । प्रथमाभिधेयतामुपेयुषा अन्वर्थतया मुख्यार्थतां गतेन तरस्विना बलवता । 'तरसी बलरहसी' इति विश्वः । पन हिरण्यकशिपुना दिवे सीदन्तीति युसदा देवानां मनस्सु भयस्य पूर्वाधनारः प्रथमप्रवेशः । ऋदो. रए । म्यधीयत निहितः। धात्रः कर्मणि लछ् । अम्मादेव देवानां प्रथम भयस्योत्पत्तिरभूदित्यर्थः ॥ ४३ ॥ दिशामधीशांश्चतुरोयतः सुरानपास्य तं रागहताः सिषेविरे ॥ अवापुरारभ्य ततश्चला इति प्रवादमुश्रयशस्कर श्रियः ॥४४॥ दिशामिति ॥ हे श्रीकृष्ण ! श्रियः सम्पदः तदारभ्य तद्दिनात्प्रभृति हिरण्यकशिपु- कालादारभ्य उच्चैः सर्वव्यापिनमिति प्रवाई कलई निन्दावचनमवापुलेभिरे । इतीति कि श्रियश्चलाः चञ्चला अस्थिरा एव । किंभूतं प्रवादमयशस्करमकीर्तिजनकम् । किमे- तदधीनतयैव तासां प्रवाद इत्याह-यतो यस्मात्कारणाचतुरः सुरान् इन्द्रवरुणयमधनदान चतुरो देवानपास्य परित्यज्य तमसुरं सिषेविरे भेजुः । तर्हि दरिद्रास्ते स्युनेत्याह-किवि- शिष्टान् दिशामधीशान् दिक्पालान्। कदाचिदैववशात् त सिषेविरे नेत्याह-किंभूताः राग- हृताः, 'अये ! रम्यो वीर इति तत्प्रेक्षाहृतचित्ताः । अत एव प्रवादः। या किल नारी आ- धपतिं परित्यज्य रागहृता सती पुरुषान्तर सेवते साऽवश्यमेव महान्तं प्रवाद प्राप्नोति । प्रवादो गरे । अयशस्करमिति 'अतः कृकमी ति सत्वम् ॥ ४४ ॥ दिशामिति ॥ श्रियः सम्पदो यतः यदेत्यर्थः, दिशामधीशान दिक्तीनपि चतुरः सुरानिन्द्रवरुण- यमकुबेरानपास्य त्यक्त्वा तं हिरण्यकशिपु रागहृताः रामकृष्टाः सत्यः । न तु बलादिति भावः । सिषेविरे। यतो वीरप्रियाः श्रिय इति भावः । तत आरभ्य तदाप्रभृति अयशः करोतीत्ययशस्करम् । दुष्कर्तिहेतु- मित्यर्थः । 'कृत्रो हेतुनाच्छील्यानुलोम्येषु' इति टप्रत्ययः । 'अतः कृकाम-' इत्यादिना विसर्जनीयस्य स- त्वम् । उच्चैः प्रचुरं चला अस्थिरा इति प्रवाद जनापवादमवापुः । दिगीशानामपि सर्वस्वहारित्वात्तदीद्ध- न्यस्य प्राकटयमिति भावः ॥ १४ ॥ पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि धनाश्व कञ्चुकाः ॥ स्वरूपशोभैकगुणानि(२) नाकिनां गणैस्तमाशय तदादि चक्रिरे॥४५॥ पुराणीति ॥ नाकिनां गणैर्देवसमूहैस्तदादि तत्प्रथममिदं चक्रिरे । किं कृत्वा तमसर- माशङ्कय । तस्य भयादित्यर्थः । किं कृतमित्याह-तावत्पुराणि नगराणि दुर्गाणि दुर्गरूपाणि चक्रिरे । तथा सपनाभावान्न कश्चिदायुध दध्र, तदा तु निशात तीक्ष्णमायुधं कृतम् । तथा प्र- यम भयाभावात्सर्व एव एकाकी अचेष्टत, तदा शूराणि तेजोयुक्तानि बलानि सैन्यानि चक्रिरे। तथा पूर्वतरं सन्नाहस्य नामापि कश्चिन्नामस्त, तदा तु धनाः प्रहारक्षमाः कम्युकाः (१) अत्र किश्चित् श्रुटितमिवाभाति । (२) फलानि नाकिनां गये।

२८ सन्देइविषौषधिसर्वकषायुते- [प्रथमः- . ! सन्नाहाः चक्रिरे । सर्वमेतत् यदि गुणाय बभूव तदा न केनचिदपि किश्चित्कृतमित्याह- किविशिष्टानि स्वरूपशोभैकगुणानि स्वरूपस्य शोभैव एको गुणो येषां तानि । यतः पुराणि दुर्गेणैव शोभन्ते तेषामियं स्वरूपशोभा । अन्यदायुधं तीक्ष्णमेव भाति । चित्रवत् स्वरूपशोभैव बभूवेति न कार्यक्षमता, तदपि पराभूता इत्यर्थकथनम् ॥ ४५ ॥ पुराणति । किञ्च नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्कय बाधकत्वेनोत्प्रेक्ष्य स कालः आदिस्मिस्तदादि तदाप्रभृति स्वरूपशोमवेकफलं मुख्य प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्का- नि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । नपुंसकमनपुंसकेन-' इत्यादिना नपुंसकशेषः । पुराणि दुर्गा णि प्राकारपरिवादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' इति गमेर्डः। आयुधं निशात निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः। शो तनूकरणे' इति धातोः कः। 'शाच्छोरन्यतरस्याम्' इतीत्वविकल्पा- पक्षे आत्वम् । बलानि भन्यानि शूराणि शौर्यबन्ति चक्रिरे सम्पादितानि । कञ्चुका वारबाणा: । लोहव- माणीत्यर्थः । 'कञ्चुको वारबाणोऽमी' इत्यमरः । घना दुर्भदाश्चक्रिरे । इत्थं नित्यसत्रद्धा जाग्रति स्मेत्यर्थः।' . स सञ्चरिष्णुर्भुवनान्तरेषु यां यद्च्छयाऽशिश्रियदाश्रयः श्रियः ।। अकारि तस्यै मुकुटोपलस्खलत्करैत्रिसन्ध्यं त्रिदशैदिशे नमः ॥ ४६ ॥ स इति ॥ हे कृष्ण ! सोऽसुरः स दैत्यः हिरण्यकशिपुः भुवनान्तरेषु त्रिभुवनमध्येषु संक्रमितुकामः सन् यदृच्छया स्वेच्छया यां दिशमशिश्रियत् भेजे तस्यै दिशे त्रिदशैर्देवैः त्रिसन्ध्यं नमोऽकारि प्रणामो विहितः । उक्तं च- हिरण्यकशिपू राजा यां यां दिशमुदक्षत । तस्यै तस्यै नमश्चक्रुदेवाः ऋषिगणैः सह ॥ किविशिष्टोऽसरः श्रियामाश्रयः सम्पदामाधारः । किंभूतैः त्रिदशैः मुकुटोपलेषु स्खल- न्तः ततः सम्भ्रमवशाल्लुठन्तः करा हस्ता येषां ते तैः । शिरसि बद्धाञ्जलिभि- रित्यर्थः । सञ्चरिष्णुरिति साधुकारिणि ताच्छील्ये वा इष्णुच् । अन्यानि भुवनानि भुवना- न्तराणि तेषु । यदृच्छाशब्दः स्वेच्छार्यो व्युत्पत्तिरहितः । न ह्यत्रावयवानुसारिणी व्युत्प- तिर्विद्यते । तिहणां सन्ध्यानां समाहारस्त्रिसन्ध्यम् तद्धितार्थोत्तरपदसमहारेषु संख्यापूर्वो द्विगुः द्विगुरेकवचनं स नपुंसक हस्वो नपुंसके प्रातिपदिकस्य कालाध्वनोरत्यन्तसंयोगे द्वितीया । नमः पूजायां, तद्योगे च 'नमःस्वस्तीति चतुर्थी ॥ ४६ ॥ स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः । सञ्चरिष्णुः सञ्चरणशीलः । 'अ. लंकृञ्-' इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः यदृच्छया स्वैरवृत्त्या । 'यदृच्छा स्वैरवृत्तिः' इत्यमरः । यो दिशमाशश्रियदगमत् । श्रयतेलुइ 'णिश्रि-' इत्यादिना चहि द्वि- भांकः इयादेशः । मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः : उपलः प्रस्तरे रत्ने' इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि जन्मसत्तावृद्धयो वा येषां तैनिदर्शदेवैः । यद्वा त्रिर्दश परिमाणमेषामिति 'बहुव्रीही संख्येये डजबहुगणात्' इति समासान्तः । तिस्रः सन्ध्याः समा- हृताभिसन्ध्यम् । 'तद्धितार्थोत्तरपद-' इत्यादिना समाहारे द्विगुः, द्विगुरेकवचनम् । वा टावन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करै हस्तैः । 'नमःस्वस्ति-' इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृत्रः कर्मणि लुङ् । 'चिण भावकर्मणोः' इति चिण् । सन्ध्यावन्दनेऽपि दिङ्गनियम परित्यज्य तदागमनभयात्तस्य दिशे नमस्कारः कृत इति भावः ॥ ४६ ॥ सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह ! सैंहीमतर्नु तनुं त्वया । स मुग्धकान्तास्तनसङ्गमङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥४७॥ ..

सर्गः11 - शिशुपालवधे। सटाच्छटेति ॥हे नृसिंह ! त्वया स हिरण्यकशिपुनामा दैत्यः उरोविदार प्रतिव- स्करे वक्षो विदार्य विक्षिप्तः । मारित इत्यर्थः। कैरिति नखैः कथंभूतैर्नखैः मुग्धकान्तास्तन- सङ्गभङ्गुरैः मुग्धा नववयःकामा मनोज्ञा अभिनवा याः कान्तास्तासां स्तनसङ्गः कुन- सम्पर्कस्तेन भङ्गुरैर्वक्रः, इत्ययत्नो दर्शाते । किं कुर्वता त्वया सैंही तनुं विधता सिंहस्य तर्नु धारयता किंविशिष्टां तनुमत प्रौढतरी, किंभूतेन त्वया सटाच्छटाभिन्नघनेन सटाच्छटा- भिः केसरप्रान्तभिना विदारिता घना अभाणि येन सः तेनेति उच्चत्वोक्तिः । सटाशब्दः पुंस्यपि वर्तते । तेषां छटा प्रान्तो विच्छित्तिा प्रहारोऽपीति केचित् । श्रेष्ठो ना नृसिंहः, प्रशंसावचनम् । उरोविदारमिति दृधातुः द्वितीयायां स्वाङ्गे ध्रुवे परि क्लिश्यमाने चेति णमुल । प्रतिचस्करे इति कर्मणि लकारः किरतौ लबने 'हिंसायां प्रतेश्चेति सुडागमः॥४७॥ अथ सोऽपि त्वयव हत इत्याह- सदाच्छटेति ॥ हे नृसिंह ! नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंहश्शेत्यपि, प्रस्तावात् । सिंह- स्येमा सैंही तनुं कार्य विभ्रता । नृसिंहावतारभाजेत्यर्थः । किंभूनाम् अतनुं विस्तीर्णाम् । अत एव सटा- च्छटाभिः केसरसमूहैः भिन्ना घना मेघा येन । अभ्रकपविग्रहत्वादिति भावः। 'सटा जटाकेसरयोः' इति, 'तनुः काये कृशेऽल्पे च' इति च विश्वः । त्वया स देत्यः मुग्धौ नवौ । 'मुग्धः सौम्ये नवे मूढे' इति वैजयन्ती । यौ कान्तास्तनी तयोः सङ्गेनापि भगुरैः कुटिलैखैरुरोविदारमुरो विदार्य । 'पारी - श्यमान च' इति णमुल्प्रत्ययः। प्रतिचस्करे हतः। किरतेः कर्मणि लिट् । 'अच्छत्यताम्' इति गुणः । 'हिंसायां प्रतेश्च' इति सुडागम: । वन कठिनोऽपि नखैविदारित इति वाजनसयोरेगोचरमहिनस्ते किमसा- ध्यमिति भावः ॥ १७ ॥ विनोदमिच्छन्नथ दर्पजन्मनो रणेन फण्ड्वास्त्रिदशैः समं पुनः ॥ स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥४८॥ विनोदमिति ॥ हे कृष्ण ! अथ कदाचित् काले सरति स एव हिरण्यकशिपुरेव दैत्येन्द्रो भूयः पुनरपि रक्षो बभूव, किंनाम रावणो नाम। किंभूतं रक्षः निकामभीषणमतिशयभयावह दशकण्ठविंशतिभुजत्वात्, तथा दिवः स्वर्गस्य क्षतरक्षणं, क्षणु हिंसायां क्षतप्रयोगः । क्षता निर्जिता रक्षणा दिवः पालका देवा येन तत्, जितपरिपालकम् । अथ वा क्षतं रक्षगं येन । सर्वस्याऽयत्नप्राप्तस्तदा स्वर्गोऽभवदित्यर्थः । किं कुर्वन् किमिव जन्मान्तरमाश्रयदित्याह- कण्ड्वाः कण्डूतेः विनोदं विनाशमिच्छन् अभिलपन केन रणेन संग्रामेण, कथं त्रिद- शैः समं देवैः सार्ध' कथंभूतायाः कण्ड्वा दर्पजन्मनः मदोत्थितायाः । पूर्व तस्य युद्धश्रद्धा न निवृत्तासीत्, सम्प्रति तु रक्षोरूपण तामपासितुकाम इत्यर्थः । रावणरक्ष:- शब्दयोराविष्टलिङत्त्वाद्भिनलिङ्गत्वेनापि सामानाधिकरण्यम् । नामशब्दोऽयं प्रसिद्धिद्योतको निपातः । भीषयतीति भीषणं नन्यादिभ्यो ल्युः ॥ ४८ ॥ अथास्य जन्मान्तरचेष्टितान्याचष्टे- विनोदमिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । 'साकं साध समं सह' इत्य- मरः। रणेन दर्पादन्तःसाराज्जन्म यस्यास्तस्याः कण्ड्वा: भुजकण्डूनर्विन दमपनादामेच्छन् । प्राग्भवनख- तैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । अतारक्षणमित्यर्थः । सापेच- त्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम्। भीषयत इति भीषणम् । नन्दादित्वात् ल्युः। ‘भियो हेतुभये षुक्' इति षुक् । निकाम भीषणम् । 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्ध रक्षा बभूव । राक्षसयोनौ जात इत्यर्थः । विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः । 'तस्यापत्यम्' इत्याण -- ..

सन्देहविषौषधिसर्वरूपायुते-
[प्रथमः-
-
कृते विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । : तदुक्क-
मुस्तरकाण्डे-
'यस्माल्लोकत्रयं चैतद्रावित भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्रा वीरो भविष्यसि ॥
इति । रोतेयन्ताकर्तरि ल्युट् । रावणरक्षसोनियतलिङ्गत्वाद्विशेषणविशेष्यभावेऽपि स्वलिङ्गता ॥ १८ ॥
कीशोऽसाविति इदानी तवर्णनमाह-
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाहशमं चिकनिषुः ॥
अतर्कयद्विप्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४ ॥
प्रभुरिति ॥ यो रावणः पिनाकिनः श्रीमहादेवस्य प्रसादं शिवप्रसादं वरदानलक्षणं
विघ्नमेव अतर्कयत् अन्तरायतुल्यं विवेद व्यचारयत् , किं कर्तुमिच्छुः अतिरागात् भक्त्यति-
शथात् दशमं शिरश्चिकतिषुः छेत्तुकामः । शिरश्छेदे किं कारणमित्याह-किविशिष्टः भुव-
नत्रयस्य प्रभुः बुभूषुः त्रिभुवनस्य स्वामी भवितुमिच्छुः । त्रिभुवनैश्वयेंच्छया नवापि
शिरांसिछित्त्वातिरमसाइशमं शिरोऽपि चिच्छित्सुरित्यर्थः। तर्हि प्रसादः स्वल्पो भविष्यति
नेत्याह-किंभूतं प्रसादमिच्छासदृशमभिलषितानुरूपम् । तर्हि कुत एव शिरः छेत्तुकामो
विचारात्प्रसादं विघ्नमिवातर्कयदित्याह-यतः किंभूतः इष्टसाहसः अभीष्टाभिमानः।अविचार्य
प्रवृत्तिः साहस, हिताहितमनपेक्ष्य यत्कर्म तत्साहसम् । इष्टं साहसं यस्य सः ॥ ४९ ॥
अथास्योद्धस्यमष्टादशश्लोक्याऽऽचष्टे-
प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुभवितुमिच्छुः । भुवः सन्नान्तादुपत्ययः ।
अतिरागादुत्साहात , न तु फलविलम्बननिदादिति भावः । दशमं शिरः चिकतिषुः कर्तितुं छेत्तुमिच्छुः ।
'कृती छेदने' इति धातोः मन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः अत एवेच्छासदशमिच्छानुरूपं पिना-
फिनः प्रसादं वरं विघमिवातकयदुत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि
यच्छन्दम्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु 'न चक्रमस्याक्रमताधिकन्धरम्' इनि
उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां च परार्थत्वात्' इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानाच-
यिना मिथः सम्बन्धायोगादित्यलं शाखाचक्रमणेन । पुग किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय
नव शिरांस्यसो हुत्वा दशमारम्भ सन्तुष्टात्तस्मात्रलोक्याधिपत्यं वने इति पौराणिकी कथात्रानुसन्धया ॥४९.६
समुत्क्षिपन् यः पृथिवीभृतां वरं वरप्रदानस्य चकार शुलिनः ॥
सत्तुषाराद्रिसुताससम्भ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥
समुत्क्षिपन्निति ॥ यो रावणः शूलिनः महादेवस्य सम्बन्धिनो वरप्रदानस्य
प्रसादस्य निष्क्रयं निष्कृतिं चकार संशुद्धिमिव विदधे । प्रतिमोचनात्पर्वतोच्चालनात्
तत्प्रत्युपकारः कथं भवतीत्यत आह-केन त्रसनुषाराद्विसुताससम्भ्रमस्वयङ्ग्रहाश्लेषसखेन
बसन्ती पर्वतकम्पादिभ्यती याऽसौ तुषाराद्रिसुता तया ससम्भ्रमं सचकितं स्वयङ्ग्रहेण प्रा-
र्थनया य आश्लेषः परिष्वङ्गः स एव सुखं निर्वृतिः तेन, सभयस्वयंदत्तालिङ्गनसखेन। किंकु-
वन् पृथिवीभृतां वरं कैलासं समुत्क्षिपन् उन्मूलयन् उत्पाटयन् । उक्तं च-दशवदनचण्डदो-
दण्डमण्डपोच्चलितकैलासशृङ्गचलनभयचकितरणरणितमणिनूपुरमधुररवमुखरितगौरीकुचकल-
शकुडकुमपङ्कलाञ्छितशरीरः स ईशः नित्याभिमानी । स्वयमहं वर्जयित्वा अन्य ईश्वरस्य
प्रत्युपकारो न । ग्रहणं ग्रहः अप् ॥ ५० ॥

सर्गः11 शिशुपालबचे। ३.१ - ॥ अथ कैलासोपणवृत्तान्तमाह- समुत्तिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुत्क्षिपन् । दादिति शेषः । लिनो वरप्रदानस्य पूर्वोतस्य । असन्त्याः शैलचलनेन बिभ्यत्यास्तुषारादिसुनायाः पार्वत्याः ससम्भ्रमो यः स्वयमहः प्रियप्रार्थना विना काठग्रहणम् । 'सुप्सुपा-' इति समासः । तेन आश्लेषः सम्मेलनं तेन यन्सुखं तेन । प्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रय प्रत्युपकारनिर्गतं चकार । ' निष्क्रयो बुद्धियोगे स्यान्सामर्थे निर्गतावपि' इति वैजयन्ती । यद्वा निष्क्रयं चकार क्रयेण व्यवहारेण याज्ञादोपदैन्यं ममा- जेत्यर्थः । अत्र सुखवरदानयोविनिमयात्परिवृत्तिरलङ्कारः ॥ ५० ॥ पुरोमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हराऽमराङ्गनाः विगृह्य चक्रेनमुचिद्विषा वशी(१)य इस्थमस्वास्थ्यमहर्निशं दिवः ॥५१॥ पुरीमिति ॥ यो रावणः अहर्निशमहोरात्रं दिवः स्वर्गस्य स्वर्गवासिनाम् इत्थममु- ना प्रकारेण अस्वास्थ्य चक्रे उपद्रवं चकार, किं कृत्वा नमुचिद्विषा इन्द्रेण सह विगृह्य वैरं विधाय । किं किमस्वास्थ्यं चकारेत्याह तावत्-पुरीमवस्कन्द अमरावती बभञ्ज । अभिषेणयामासेत्यर्थः । अपरं नन्दनं लुनीहि देवोद्यानं लुलाव चिच्छेद, तथा रखानि पुष्प- कप्रभृतीन्युत्कृष्टवस्तूनि मुषाण मुमोष चोरयामास । अपरम् अमराङ्गना देववधूहर जहार । सत्यप्सरसा रत्नत्वे प्राधान्यख्यापनाय पृथगुपादानम् । कथमेवं तस्य घटते इत्याह-किंभूतः वशी जगद्विश्वं वशं नयतीति वशी समर्थः । अवस्कन्देत्यादौ क्रियासमभिहारे अतीते काले पञ्चम्या(२) मध्यमैकवचनम् । कालकारकविभक्तिविशेषावगमस्तु अनुप्रयोगवशात् । अनुप्रयोगस्तु चक्रे इति 'समुच्चये सामान्यवचनस्येत्यनेन । ये तु प्रैष एव लोटमाहुस्ते- ऽविशेषविदोऽनुत्तरार्हाः । एवं मुषाणेति हल: श्नः शानज्झौ। अभीक्ष्णमीष्टे वशी । अह- दिवमिति पाठे वीप्सायां निपातः । अहन्यहनीत्यर्थः ॥ ११ ॥ पुरीमिति ॥ यो बली बलवान्रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्दावरू- रोध । नन्दनमिन्द्रवनम् । 'नन्दनं वनम्' इत्यमरः । लुनीहि चिच्छेद । 'ई हल्यघोः' इतीकारः । रत्नानि श्रेष्ठवस्तूनि मणीन्या । 'रत्नं श्रेष्ठे मणावपि इति विश्वः । मुषाण मुमोष । मुष स्तेये, 'हल: इनः शान- ज्झौ' इति इनः शानजादेशः । अमराङ्गनाः हर जहार। सर्वत्र पानःपुन्येनत्यर्थः । इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । 'अचतुर-' इत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्वे समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपदवं चके । अत्रावस्कन्देत्यादी 'क्रियासमभिहारे लोट् लोटो हिस्वी वा च तःबमोः' इत्यनुवृत्तौ 'समुच्चयेऽन्यतरस्याम्' इति विकल्पेन कालसामान्ये लोट् । तस्य यथोपग्रह सर्वतिङदेशो हिस्वी च । प्रकरणादिना त्वर्थविशेषावसानम् । अतो हेः' इति यथायोग्यं हिलुक् । पौनः- पुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमामिहारः । तत्सा. मान्यस्य करोतेः 'समुच्चये सामान्यवचनस्य' इत्यनुप्रयोगः चक्र इति । 'अत्र तिब्वैचित्र्यासोशब्दाख्यो गुणः । 'सुपा तिडा परावृत्ति: सौशब्दम्' इति लक्षणात् । समुच्चयालङ्कारः ॥ ५१ ॥ सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् ॥ अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ ५२ ॥ सलीलेति ॥ बलस्य शत्रुर्देवराजः अभ्रमोर्भर्तुरैरावतस्य केवलम् अलीलगमनाय शीघूतां प्रशशंस ऐच्छत् वेगवत्तामभिललाष न सलीलयातानि न सविलासगमनानि । तथा उच्चैःश्रवसो देवाश्वस्य केवलं शीघूतामैच्छत् न चित्रं पदक्रम नानाविधं पदक्रम पाद- . (१)बली' 'महदिवम् । (२) पञ्चमीशन्देन लोटो ग्रहणं, २ सर्गे ६५ श्लोक तथैव सहेतितत्वात् ।

३२ सन्देहविपौषधिसर्वकषायुते- [प्रथमः- .. न्यासम् । अश्वानां गतिविशेषः पदक्रम इत्यन्ये । यतः-संपति संपामे तेन रावणेनामुनुतः अनुगतः द्रुताऽटितः । तदा वेगयानमेव तस्य प्रियं बभूवेत्यर्थः । अधमुरैरावर्णसहवरी आ- दिजा करेणुः । यातशब्दो भावसाधनः ॥ १२ ॥ सलीलति ॥ संयति युद्धे । 'समुदायः मियां संयत्समित्याजिसमिद्युधः' इत्यमरः। येन रावणेन अनुदुतोऽनु- धावितः बलस्य शत्रुरिन्द्रः अनमोर्तु रैरावतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस । तथा उच्चैः- अवसः स्वाश्वस्य चित्रं नानाविधं पदक्रम पादविरूपम् । अर्धपुलायितादिगतिविशेषमित्यर्थः । न प्रशशंस । किन्तु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्रं मामास्कन्ध ग्रहीष्यतीति भयादिति भावः ॥ ५२ ॥ अशक्नुवन् सोदुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ॥ प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यदिवसानि कौशिकः ॥ ५३ ॥ अशक्नुवन्निति ॥ आदित्यतुल्यस्य यस्य रावणस्य दर्शनं कातरनयनत्वात् सो- दुमशक्नुवन् असहमानः सन् कौशिकः इन्द्रो मेरुदरीगेहविवरं प्रविश्य दिवसान्निनाय सभयत्वादतिवाहयामास, किंभूतः बिभ्यत् सभयः । यस्य कस्येव सहस्ररश्मेरिख । यथा कौशिकः उलूकोऽपि अपटुनयनत्वात् भास्करालोकमसहमानो गुहान्तरे एव दिवसान्नयते । सोडमिति शक्याथें तुमुन् । सहस्र रश्मयो यस्य सः । बिभ्यदित्यभ्यस्तत्वान्नुमभावः पुनपुंसकलिङ्गन्योः स्थितः । कौशिकः इन्द्र उलूकश्च ॥ ५३ ॥ अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिराष्टः कोशिको महेन्द्रः उलूकश्च । 'महेन्द्रगुग्गुल्लू कन्या- लग्राहिषु कौशिकः' इत्यमरः। सहस्त्ररश्मः सूर्यस्येव यस्य रावणस्य विक्रमकर्मणो दर्शन सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तवापि वेपमान एव । बिभेतेः शतरि 'नाभ्यस्ताच्छतुः' इति तुम- भाषः । दिवसानि वासराणि निनाय । 'वातु कीबे दिवसवासरौ' इत्यमरः । यथा पेचकः सूर्योदये भीत: सन् तिष्ठति तथा सोऽपीति भावः। कौशिक इत्यभिधायाः प्रस्तुनैकगोचरत्वेनोभयश्लेषेऽपि विशेष्यश्लेषास- म्भवादुलूकविषयशन्दशकिमूलो ध्वनिः । सहस्ररश्मेरिवत्पुपमाननिर्वाहकत्वाद्वाच्यासिध्यङ्गम् ॥ ५३ ॥ बृहच्छिलानिष्ठरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषाम(१) । जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरम् ॥ ५४ ॥ बृहच्छिलेति ॥ अस्य सुरद्विषां प्रभो राक्षसेश्वरस्य अधिकन्धरं ग्रीवायां वैष्णवं चक्र सुदर्शन नाम न आक्रमत प्रतिहतं बभूव। नष्टशक्ति कुण्ठोऽभूदित्यर्थ:(२)। कदाचिन्नित्यमेवा- सामर्थ्य स्यान्नेत्याह-जगदप्रसहिष्णु भुवनान्यभिभविष्णु । ऋद्धं सज्जगदपि भस्मीकर्तु क्षममित्यर्थः । एवमस्यां व्याख्यायां न वस्तुनि दोषो नापि शब्दे । कीदृशं तर्हि ग्रीवा- संस्पर्शवशादभूदित्याह-बृहच्छिला इव अखण्डपाषाणवनिष्ठुरः कठिनो यो रावणीयः कण्ठ- स्तस्य तत्र वा घटना संश्लेषः प्रतिघातस्तया विकीर्णा उद्वान्ता लोलाः प्रसारिणोऽग्नि- कणा वह्निस्फुलिङ्गा येन तत्तथोक्तम् । क्रमतेरुदात्तत्त्वात् 'वृत्ती'त्यादिनात्मनेपदम् । वृत्तिरप्रतिबन्धः । कन्धरायामधि अधिकन्धरमिति विभक्त्यर्थे 'अव्ययीभावश्चेति नपुं. सकत्वम्, हस्वः ॥ १४ ॥ बृहच्छिलेति । बृहति शिलेव निष्टुरे कण्ठे घटनादभिघाताद्विकीर्णा विक्षिप्ताः लोलाचाग्निकणाः स्फुालेङ्गा यस्य तत् । अत एवाप्रसहिष्णु अनभिभावकम् । प्रसहनमभिभव इति वृत्तिकारः । 'अलं- कृञ्-' इत्यादिना इष्णुन् । वैष्णवं चक्रं सुदर्शनं जगत्प्रभोः सकललोकैकस्वामिनः अस्त्र सुरद्विषो रावणस्य कन्धरायामधि अधिकन्धरमधिग्रीवम् । विभक्त्यर्थेऽव्ययीभावः । 'अव्यवीभावश्च' इति नपुंसक- (१) द्विकीर्ण.........द्विषः । (२) पुंस्त्वं चिन्त्यम् ।

सर्गः ।] शिशुपालवधे। ३३ त्वात् 'हस्थो नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वम् । 'कण्ठो गलोज्य ग्रीवायां शिरोधिः कन्धेरत्यपि' इत्यमरः । नाक्रमताप्रतिहतं न क्रमते स्म न प्रवत ते स्म । किन्तु प्रतिहतमेवेत्यर्थः । 'वृत्तितर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ।। ५४ ॥ विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीच मनुष्यधर्मणः ॥ निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ ५५ ॥ विभिन्नेति ॥ स रावणोमनुष्यधर्मणो धनदस्य मानसं मनो न न प्रकम्पयामास अपि धैर्यादचालयदेव । अभीषयतेत्यर्थः। क इव दन्तीव । यथा हस्ती ऐरावणो नाम मानसं सरः क्षोभयति। अधुना श्लेषः। कीदृशः सः विभिन्नो युध्यमानस्ताडितः शङ्को निधियेन, अन्यच्च अपास्तोऽपहृतः पुष्पको धनदविमानं येन। गजोऽपि शङ्खाख्यान प्राणिनो सानसेऽवचूर्णयति। अथ वा विभिन्नौ मदवशात् स्फुटितौ शङ्खौ कपोलौ यस्य सः विभिन्नसशः स्रुतगण्डः । अपास्तानि इतस्ततः क्षितानि पुष्पाणि माला येन सोऽपास्तपुष्पकः । मनः कीदृशं मदेन दर्पण रावणीयेन मुहुः कलुषीभवत् क्षुभ्यत्। बलीयसा हि बलवानभिभूतः कलुषीभवति । तथा निरस्तं त्यक्तं गाम्भीर्य चेतोगुणो येन यस्मिन् वा । यस्य प्रसादादाकारक्रोधहर्षभयादयः । भावस्था नोपलक्ष्यन्ते तगाम्भीर्यमुदाहृतम् ॥ सरोऽपि मदेन दानाम्बुना कलुषमाविलं भवति । निरस्तं गाम्भीर्य निश्चलत्वमगाधत्वं वा येन तन्निरस्तगाम्भीर्यम् । अगाधेऽपि सरसि ऐरावणो न ब्रुडति । तडागादिलुठनत्वा- द्वा गाधत्वाभावः ॥ १५ ॥ विभिन्नेति ॥ स रावणो मदेन दर्पण इभदानेन च । 'मदो दभदानयोः' इति विश्वः । दन्तीव गज इव विभिन्नो विघट्टितः शो निधिभेदः कम्बुश्च येन सः सन् । 'शङ्खो निभ्यन्तरे कम्बुललाटास्थिन. खेषु च' इति विश्वः । अकलुषं कलुषं क्षुब्धमाविलं च भवत्कलुषीभवत् । निरस्तं गाम्भीर्यमविकारित्व- मगाधत्वं च यस्य तत् । अपास्तानि पुष्पाणि पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिक: कप्प्र- त्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः ।, 'धर्मादनिच् केवलात्' इत्यनिच् । मानसं चिनं तदीयं सरश्च । 'मानसं सरसि स्वान्ते' इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न । किन्तु कम्पयामासैवेत्यर्थः । कुवेरस्य महामहिमतया सम्भाविताप्रकम्पित्वनिवारणाय नदयम् । 'सम्भाव्यनिषेधनिवर्तने नद्वयम्' इति वामनः । अत्र दन्तिरावणयोः प्रकृताप्रकृतयोः श्लेषः॥५५॥ रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ॥ प्रहर्तुरेवोरगराजरजवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ ५६ ॥ रणेष्विति ॥ तस्य रावणस्य युद्धषु प्रचेतसा वरुणेन उरगराजरज्जवो नागपाशाः क्षिप्ताः सत्यः प्रहर्तुरेव वरुणस्यैव जवेन वेगेन कण्ठं गलं प्रपेदिरे प्राप्ताः। वरुणमेव बब. न्धुरित्यर्थः । भये कारणमाह-कथंभूताः सत्यः सरोषहुङ्कारपराङ्मुखीकृताः सरोषो यो हुङ्कारो हुमितिशब्दस्तेन पराङ्मुखीकृताः प्रतिनिवर्तिता अतः सभयाः ॥ ५६ ॥ रणेविति ॥ किञ्च रणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महासस्तेि रजव इव उर. गराजरज्जवः । नागपाशा इत्यर्थः। तस्य रावणस्य सरोषहुङ्कारेण पराङ्मुखीकृता व्यावर्तिताः अत एव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एक कण्ठं प्रपेदिरे प्राप्ताः । अत्र पहिंसाप्रयुक्तस्या- युधस्य वैपरीत्येन स्वकराठग्रहणादनर्थोत्पनिरूपो विषमालङ्कारः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य व वा भवेत्' इति लक्षणात् ।। ५६ ॥ । ..

४ । सन्देहविषौषधिसर्वकषायुते [प्रथमः- परेतभर्तुमहिषोऽमुना धनुर्विधातुमुत्वातविषाणमण्डलः ॥ हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः॥५॥ परेतुभर्तुरिति ॥ परेतभर्तुः प्रेतपतेर्यमस्य सम्बन्धी महिषो वाहनं दुःखेन कृच्छ्रेण शिर उवाह दधे, यतो भृशानतमत्यर्थमधोगतम् । कदाचिद्राराक्रान्तं तत्स्यादित्याह-भारे हृतेऽपि । कथमपनीतभारमित्याह-अमुना रावणेन उत्खातविषाणमण्डल: उद्धृतवलया- कारशृङ्गः, किमर्थ धनुर्विधातुं कोदण्डं कर्तुम् । तर्हि कथमानतमित्याह-महतो लज्जाभ- रात् । यद्यपि अलघीयान् विषाणभारोपास्तस्तथापि तदपासनाद्दुःसहो वोडाभार आरो- पितः । तथापि तद्वशात्भृशानतं शिरः कथमप्युवाह । जानीत(?)कथमिदानीमेतन्न पतती- त्यर्थः । अत्र च अपाभरादिवोत्प्रेक्षा बोद्धव्या । यो एपमानितः सोऽवश्यमेव परिभूतत्वात लज्जयाऽधोमुखो भवति । एतेन चत्वारो लोकपालास्तेनोपद्रुता इत्युक्तं भवति । भृशो भरः, भृणातेर्भारः ॥ १७ ॥ परतभर्तुरिति ॥ अमुना रावणेन धनुः शाई विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शङ्गयो- मण्डलं वलयं यस्य सः परतभर्तुर्यमस्य महिषः । वाहनभूत इति भावः। भारे विषाणरूपे । भूत्रो घञ् । हृतेऽपि महतमपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भूधातोः कैयादिकात्' ऋदोरप्' इत्या प्रत्ययः। भृशमत्यर्थमानत ननं शिरो दुःखेनोवाह वहति स्म । 'असंयोगालिट् कित्' इति कित्त्वात् 'वचिस्वपि- इत्यादिना सम्प्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदतुप्राणिता चेयमवनतिहेतुत्वसाधा- अपाभरत्वोत्प्रेक्षा ॥ ५॥ स्पृशन्सशङ्कः समये शुचावपि स्थितः करात्रैरसमप्रपातिभिः ॥ अधर्मधर्मोदकबिन्दुमौक्तिकैरलञ्चकाराऽस्य वधूरहस्करः ॥ ५८ ॥ स्पृशन्निति । अस्य रावणस्य वधूर्भार्याः अहस्करो दिवाकरोऽलकार अभूषयत् । केः अधर्म शीतलं यत् धर्मोदकं स्वेदवारि तस्य ये बिन्दवः कणास्त एव मौक्तिकानि कुट- म्बास्तः । एतेन एतावन्मानं रविस्तपति येन परं स्वेदोदबिन्दव उत्पद्यन्ते इत्युक्तं भव- ति । कदाचित्तुषारकालः स्यात् तन्न चित्रमित्याह-शुचावपि समये आषाढमासेऽपि स्थितः, ग्रीष्मकालेऽपीत्यर्थः । कीदृशोऽहस्करः असमग्रपातिभिरसकलपतितैः कराप्रैः मयू- खपर्यन्तैः स्पृशन् आमशन् ,यत:-सशङ्कः । तीक्ष्णात सति रावणाद्भयमाशङ्कते । अन्योऽपि शुचावपि समये शुद्धेऽपि आचारे स्थितो निशान्ते नरपतिवधूमौक्तिकैरलङकुर्वन् असमग्र- पातिभिः कराग्रैः स्पृशति सशङ्कश्च ईश्वरभयात् । न हि सेा गुणिनमगुणिनं वा विचार- यन्ति । मुक्तानां समूहो मौक्तिकम् , स्वार्थे वा विनयादिभ्यष्टक् । अहस्कर इत्यहः रः वि- मर्गः 'अतः कृकमिकसकुम्भे'त्यादिना सकारः ॥१८॥ स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । 'दिवाविभानिशा-' इत्यादिना टप्रत्ययः । कस्कादि- त्वात्सत्वम् । शुचौ समये ग्रीष्मकाले अनुराहते आचारे च स्थितोऽपि । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात-.' इति विश्वः । 'समया: शपथाच रकालसिद्धान्तसंविदः' इत्यमरः । असमनपातिभिः । सकुचित- वृत्तिभिरित्यर्थः । कराणामंशूनां हस्तानां चामः । 'बालहस्तशिव. कराः' इत्यमरः । सशङ्कः स्पृशन । अविश्वासभयादिति भावः । अधर्मा अनुष्णा घोंदकबिन्दवः । 'मन्यौदन-' इत्यादिना विकस्गदुद- कशब्दस्योदादेशाभावः । तैरेव मतिरस्य वधूरलञ्चकार । ग्रीऽमे तद्भयानासा तपतीत्यर्थः । अत्र प्रस्तुतसूर्यविशेषण मात्रसाम्यादप्रस्तुनप्रसाधकप्रतीते: समासोकिरलङ्कारः ॥ ५८ ॥ - सर्गः । शिशुपालवधे ।। कलासमग्रेण गृहानमुञ्चता मनस्विनीरुस्कयितुं पटीयसा ॥ विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिन्यमकारि नेन्दुना ॥९॥ कलासमणेति ॥ तस्य विलासिनः शृङ्गारिणः इन्दुना चन्द्रेण नर्मसाचिय क्रीडासचिवत्वं न न अकारि, अपि तु कृतम् । पीठमर्दविटविदूषकानयो नायकस्य क्रीडा- सहाया उक्ताः। अत्र तु पीठमर्दक एव विवक्षितस्तस्यैवोक्तगुणयोगात् । कीदृशेन्दुना कला- समग्रेण अनूनेन । अखण्डमण्डलेनेत्यर्थः । तथा गृहानमुञ्चता सदैव तत्र वसता, तथा मन- स्विनीर्मानिनीः उत्कयितुमुन्मनीकर्तुपटीयसा चतुरेण । चन्द्रोदये हि मानःशैथिल्यमुपैति । अत एव रति वितन्वता रावणस्य प्रीतिमुत्पादयता । एतेन सर्वाभिः कलाभिः सर्वदा चन्द्र इत्युक्तं भवति । यो हि नर्मसचिवः स एवंविध एव भवति। कलाभिर्गेयवाद्यादिभिः समग्रः सर्वकलाभिज्ञ इत्यर्थः। गृहे च नायकस्य नित्यसनिहितः कुपितकामिनीप्रसादनोपायचतुरश्च । अत एव विलासिरतिजनकः। उत्कान् करोति उत्कयति। विलसितुंशीलो विलासी । उक्तं च- सेवाभिज्ञः कलादक्षः शुचिवेश्मरतः सदा । स्यान्नमसचिवस्तस्य कुपितस्त्रीप्रसादकः ॥ कलासममेणति ॥ कलाभिः षोडशाश: शिल्पविधाभिश्च समप्रेण सम्पूर्णेन । 'काले शिले वित्त- वृद्धौ चन्द्राश कलने कला' इति वैजयन्ती । गृहानमुञ्चता सदा तद्गृहेष्वेव वसता । दण्डभयात्मेवाधर्म- त्वाच्चेति भावः । मनस्विनीर्मानिनीरुत्का उत्सुकाः कर्तुम् उत्कयितुम् । 'उत्क उन्मनाः' इति निपातना- दुत्कशन्दात् 'तत्करोति-' इति ण्यन्तात्तुमुन् । पटीयसा । मानभेदचतुरेणेत्यर्थः । कुतः-रति वितन्वता चन्द्रिकाभिश्चतुरोनिभिश्च रागं वर्धयता इन्दुना विलासिनो विलसनशीलस्य । 'वी कपलस-' इत्यादिना घिनुण्प्रत्ययः । तस्य रावणस्य नर्मसाचिव्यं क्रीडासम्बन्ध्यधिकारित्वे सचेष्टत्वम् । 'लीला क्रीडा च नर्मच' इत्यमरः । नाकारीति न । किन्त्वकार्ये वेत्यर्थः । अनौचित्यात्प्रामनसाचियनिषेधनिवारणार्थ नञ्जयम् । सम्भाव्यनिषेधनिवर्तने नन्द्रयम्' इति वामनः । अत्रेन्दोः प्रकृतस्याप्रकृतेन नर्मसचिवेन श्लेषः॥५९॥ विदग्धलीलोचितदन्तपत्रिकाचिकीर्षया(१) नूनमनेन मानिना ॥ न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ ६०॥ विदग्धेति ॥ इह विनायकस्य गणपतेदंष्ट्रा दन्तो देवैः केनचित् कारणान्तरेणोत्खा- तोऽद्यापि न जायते । अयं तु कविर्नारदमुखेनोत्प्रेक्षां चक्रे-वैनायकमेकं विषाणं दन्तो नूनं निश्चितमनेन रावणेन मानिना साहङ्कारेण न त्वन्त्येनोत्पाटितं सत् अद्यापि जातु कदा- चिदपि पुनर्न प्ररोहति न जायते । पुनरुत्खननभयात् समूलोद्धरणाद्वेति भावः । किमर्थ- मनेनोत्खातमित्याह-कया विदग्धा अग्राम्या याऽसौ लीला वेषः, अथ वा विदग्धानां नागरिकाणां लीला विलासस्तत्र उचिता योग्या दन्तपत्रिका दन्तपत्रलता कर्णाभरणवि. शेषो वा तस्याश्चिकीया विधातुमिच्छया। शोभनो दन्तः क विद्यते येन दन्तपत्रिका करोमीति चिन्तयित्वा तेन नूनमस्य समूलं विषाणमुत्खातमित्यर्थः ॥ ६० ॥ विदग्धति ॥ मानिनाऽहङ्कारिणा अनेन रावणेन विदग्धलीलाः । चतुरविलासिन्य इत्यर्थः । दासा- मुचिताश्च ता दन्तपत्रिकाव कर्णभूषणानि । 'विलामिनीविभ्रमदन्तपत्रिका' इति साधीयान् पाठः । अन्यथा विप्रकृष्टार्थप्रतीतिकत्वेन कष्टाख्यार्थदोषापनेः । 'कष्टं तदर्थावगमो दूरायत्तो भवेत्' इति लक्षणात् । विला- सिनीनां या विभ्रमदन्तपत्रिका विभ्रमार्थानि यानि दन्तमयपत्राणि । विभ्रमदन्तशब्दयोः षष्ठीसमासपर्यवसा. नाता दयलाभः । तास विधित्सया विधातुमिच्छया । विपूर्वाधातेः 'सनि मीमा-' इत्यादिना अच इस् । (१) विधित्सया। ..

सन्देहविषौषधिसर्वकषायुते- [प्रथमः- 'मः सि' इति नकारः। 'अब लोपोऽभ्यासात्य इत्यभ्यासलोपः । ततः 'बियाम्' इत्यनुवृत्तौ 'अप्रत्ययात्' इत्यकारप्रत्यये टाप् । नूनं निश्चितं जातु कदाचिदपि । 'कदाचिजातु' इत्यमरः । उद्धृतमुत्पाटितं विना- यकस्य गणेशस्येदं वैनायकमेकं विषाणं दन्तः । विषाणं पशुशृङ्गं स्यात्क्रीडाद्विरददन्तयोः' इति विश्वः । अद्यापि पुनर्न प्ररोहति न प्रादुर्भवति। प्रपूर्वात् 'रुह प्रादुर्भाधे' इत्यस्माल्लट् । किमन्यदकार्यमस्येति भावः । एतदन्यथा कथं गजाननम्यैकदन्तत्वमुत्प्रेक्ष्यते नूनमिति ॥ ६ ॥ निशान्तनारीपरिधानधूननस्फुटागसाऽप्यूरुषु लोलचक्षुषः ॥ प्रियेण तस्यानपराधबाधिताः प्रभञ्जनेना(२)नुचकम्पिरे सुराः ॥ ६१ ॥ निशान्तेति ॥ प्रभञ्जनेन वायुना सुरा देवा अनुवकम्पिरे अनुकम्पिता आश्वा- सिताः दयया स्पृष्टाः । किंभूताः यतोऽपराधाभावेन बाधिताः रावणेन अपराधरहितपीडि- ताः। वायुना तु स्फुटागसा प्रकटापराधेनाऽपि तस्य रावणस्य प्रियेग वल्लभेन । परिभूतश्च अपरिभूतेन सब्रह्मचारिणाऽवश्यमेवानुकम्मया दृश्यते । केचित्वनुकम्पयांचक्रिो इति ण्यर्थमाहुः । कोहशेन वायुनेति सापराधत्वमाह-निशान्तनार्यः शुद्धान्तमहिलास्तासां परिधानधूननेन वासश्चालनेन स्फुट प्रकटमागोऽपराधो यस्य तेन । कथं तर्हि तस्य प्रिय- इत्याह--उरुषु लोलानि दर्शनलम्पटानिचक्षू षि यस्येति रावणविशेषणम् । यद्यसौ महिषीणां चासांसि न धुनुयात्तत् कथं हाटकशिलासपीवरोरुदर्शनं तस्य घटते । अत एव च तस्य प्रियः । तदेतेन तत्प्रभुत्वं ख्याप्यते-ये सापराधास्ते न बाधिता निरागसस्तु पीडिता- इति । निशान्तमहणेनात्र अपराधवत्त्वं सूच्यते । निशान्तनार्यो नतु यत्रतत्रस्थाः । केचितु रात्र्यवसानं निशान्तमाहुः ॥ ६१ ॥ निशान्तति ॥ निशान्तं गृहम् । 'निशान्तं गृहशान्तयोः' इति विश्वः । तत्र या नार्यः। शुद्धान्तभिय- इत्यर्थः । तासा परिधानान्यन्तरीयाणि । 'अन्तरीयोपसंव्यानपरिधानान्यों शुके' इत्यमरः । तेषां धूननं चालनम् । धूलो ण्यन्ताल्ल्युट् । धूनीजोर्नुग्वनव्य' इति नुक् । तेन स्फुटागसा यक्कापराधेनापि । अन्तःपुरद्रोहस्य महापराधत्वादिति भावः । उरुषु तासां सक्थिषु लोलचक्षुषः सतृशदृष्टेः। 'सविथ क्लीवे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव रावणस्य प्रियेण प्रमोदास्पदभूनेन । अङ्गीकृता म्लानिर्न दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरु- रिति शेषः । सुरा अनुचकम्पिरे । स्वयमुपायेनान्तः प्रविश्यानपराभवापानिवेदनेन मोचयता वायुनाऽनुक- मिता इत्यर्थः । एकस्य वेदाध्यादहवो जीवन्तीति भावः ॥ ६१ ॥ तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् ॥ बभार बाष्पौवगुणीकृतं तनुस्तनूनपाद्धमवितानमाधिजैः ॥ ६ ॥ तिरस्कृत इति ॥ तनूनपादमिळूमवितानं धूमपुजं बभार दभ्रे, कोशम् आधिजैः शोकोत्थैर्मनःपीडितोत्पन्नैर्बाष्पैरश्रुभिर्द्विगुणीकृतं घनीकृतं घनत्वमापादितम् । जलेन हि बहु- लतरो धूमो भवति । अत एव तनुरल्पोऽपि । कीदृशोमिरिति शोककारणमाह-तस्य राव- णस्य महसां तेजसां महिना माहात्म्येन मुहुः शश्वत् तिरस्कृतः, किंभूतः किंभूतानां महसां महीयसां प्रचुराणामुदप्रप्रभावाणां, किंभूतेन महिन्ना जनाभिभाविना लोकपराभव- कारकेण । अग्निहि नित्यमेवाभिमानी तस्मात्तीक्ष्णस्तेजस्वी नास्त्यन्यः। यदाऽनेन तेजसा निःप्रभावीकृतः तदा शोकादोदिति । अत एव तनुः । यः किल नरः परिभूतः सोऽवश्यमेव धूयमानो रोदिति दुर्बलश्च स्यात् । अतिशयेन महान् महीयान् ॥ ६२ ॥ (१) प्रकम्पनेना।

सर्गः1] शिशुपालवधे। .. तिरस्कृत इति । किञ्च तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसा तेजसा महिना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' इतीमनिचू । मुहुस्तिरस्कृतः अत एव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राट-' इत्यादिसूत्रेण निपातनात्रो नलोपाभावः । आधिजैर्दुःखोत्थैर्वाष्पैः निःश्वासाष्मभिः । 'बाष्पो नेत्रजलोष्मणोः' 'पुंस्या- धिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य म द्विगुणः। ततश्चिः । विगुणीकृतं द्विरा- वृत्तम् । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' हात वैजयन्ती । धूमवितानं धूममण्डलं बभार । अग्निरपि तत्सनिधी निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासम्बन्धे सम्बन्धाभिधा- नादतिशयोक्तिः ॥ ६२॥ (१)तदीयमातङ्गघटाविघट्टितः कटस्थलप्रोषितदानवारिभिः ॥ गृहीतदिक्कैरपुननिवर्तिभिश्विराय याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥ तदीयेति ॥ दिग्गजैराशाद्विरदैश्विराय चिरेण कल्पान्तं यावत् याथार्थ्यमन्वर्थ- त्वमलम्भि सार्थकत्वं लब्धं, किंविधैः गृहीतदिक्कैः आश्रितदिग्भिः। अत एव सार्थक नाम बभूव । पुनः कीदृशैः तदीयमातङ्गघटाविघट्टितैः रावणीयकुअरपंक्तिप्रेरितः भनेः, अपरं किंभूतैः कटस्थलादू गण्डतलान्नष्टमदजलैः, प्रोषितं व्यपगतं दानं बाहुल्याद्वारीवदानं वारि । अन्यत्किंभूतैः अपुननिवर्तिभिः नव्याधुटितैः भयादिक्षु एव स्थितैः। अत एव दिग्गज इति नान्नः सार्थकत्वमासीत् । पुननिवर्तन्तेऽभीक्ष्णमिति पुनर्निवर्तिनस्ततो नसमासः । अर्थे- ऽनुगता यथार्था इत्यर्थपदेन विग्रहः । तद्भावो याथार्थ्यम् ॥ ६३ ॥ तदीयेति ।। नदीयमातङ्गाना घटाभियूहैः विघट्टितेराभिहतैः । 'गजानां घटना घटा' इत्यमरः । अत- एव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः । गृहीताः पलाय्य संश्रिता दिशा यस्तैहीत- दिक्कैः । शेषाद्विभाषा' इति कप । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितदिग्गजे: चिराय याथार्य दिक्षु स्थि. ता गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेर्ण्यन्ताकर्मणि लुङ् । 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमागमः ॥ ६३ ॥ परस्य मर्माविधमुज्झतां निजं द्विजिहतादोषमजिह्मगामिभिः ॥ तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥ परस्येति ॥ फणिनां कुलैः सर्पाणां समूहैः तं रावणमाराधयितुं भुजङ्गता न भेजे सर्प- धर्मो नाश्रितः। कीदृशं तमिद्धमुप्रप्रतापं प्रचण्डरूपं किंभूतैः कुलै: सकर्मकैः उपदेशग्रहणावहि- है: सावधानः सेवाकुशलैः । भुजङ्गधर्माभावं दर्शयति-किं कुर्वतां फणिनां निज स्वाभाविक द्विजिह्वतादोषं दशनात्मकमुज्झतां त्यजताम् । द्विजिताया दोषो द्विजिह्वतादोषः । कथंविधं तं दोषं परस्य दष्टस्य मर्माविधमरुन्तुर्दै पीडाजनकं, किंभूतैः कुलैः अजिह्मगामिभिः नित्यमेव तत्रस्थैः निषिद्धकुटिलगामित्वैः । गमनं ह्या प्राधान्येन निषिध्यते, तस्मिंश्च निषिद्ध कुटिलगामित्वमेव निषिद्धं भवति । अथ वा अकुमृतिव्यवहा- रैस्तथा सकर्णकैविदग्धैरुपदेशग्रहणावहितैरित्यर्थः । अत एव सर्पत्वं न भक्तम् । चक्षुःश्रवसो येतद्विलक्षणा भवन्ति । अथ चोक्ति:-अन्योऽपि यः किल सकर्णकः प्राज्ञः स हवं राजानं तो- षयितुं भुजङ्गतां विटतां सहेलत्वंन सेवते, परस्य च मर्मस्पृशं द्विजिह्वतामेव दोष पैशुन्यं त्यजति, अथ जिह्मत्वं च न याति । मर्माणि विध्यतीति मर्मावित् 'नहिवृतिवृषीति दीर्घः ॥ ६४ ॥ । (१) मशिनाथीयव्याख्याया ६३-६४ श्लोकयोः ६५-६६ श्लोकयोश्च पौर्वापर्यविपर्ययः। ४शि०व० सन्देहविषौपधिसर्वरूपायुते- [प्रथम:- . । . : परस्येति । किञ्च इद्धं दीप्तम् उपमित्यर्थः । इन्धी दीप्ती कतरि कः। तं राबगमाराधायितुं सेवितु परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि कुलाचारवतानि च विध्यति भिननीति ममावित् । विध्यतेः क्विप् 'अहिज्या-' इति सम्प्रसारणम् । 'नहिवृति -' इत्यादिनः पूर्वम्य दीर्घः। तं मर्माविध निज स्वीय द्विर्जिबनाया संपत्वे यो दोषो दृष्टिविषत्वादिस्तम् । अन्यत्र द्विजित रा पिशुनता 1: 'द्विजिह्वो सर्पसूचकी', इत्यमरः । सैव दोषस्तमुज्झता त्यजता फणिना सम्बन्धिभिरजिह्मगामिभिः करचरणादिमद्विग्रहधारित्वादजु. गतिभिस्तैः । अकपटचारिभिश्च । तथा कर्णाभ्यां मह वर्तन्त इति सकर्णकास्तः। चक्षुःश्रवस्त्वं विहाय आवि- 'कृतक रित्यर्थः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । शेषाद्विभाषा' इति कप् । अन्यत्र कर्णयति सर्व शृणोतीति कर्णको नियन्ता । कर्णयतेवुल । ततः पूर्ववत्समासे सकर्णकैः । मनियामकैरित्यर्थः । फणिना मरणां कुलैर्वगर्भुजङ्गता सर्पता विटत्वं च । 'भुजङ्गने विटसर्पयोः' : इति हलायुधः। न भेजे त्यता । भुजैर्गच्छन्तीति भुजङ्गाः । गमे सुपि खच् च डिदा वाच्यः । तस्मित्रियन्तरिः खल खलत्वमपि मः सर्पत्वमपि विहाय वेनभावक्रियाभिः सौम्यत्वं बिनामिन्यर्थः । अत्र प्रस्तुतसर्पविशेषणसाम्याद - प्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ।। ६४ ।। तपेन वर्षाः शरदा हिमागमो वसन्तलक्षम्या शिशिरः समेत्य च ॥ प्रसूनक्लुप्तं (१)ददतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥६५॥ तपेनेति ॥ ऋतवो वसन्तायाः अस्य रावणस्य पुरे नगरे सदा वास्तव्यकुटुम्बितां ययुः । दधुः पाठे बभुः । वसन्तीति वास्तव्याः वसेस्तव्यत् । ते च कुटुम्बिनश्च तनाव दधुः कुटुम्बित्वं बिभ्रतो नित्यमूषुरित्यर्थः । किं कुर्वतः प्रसूनक्लुप्तं ददतः प्रसून पुष्प- फलं तदेव क्लृप्तं भाटकं ददतो ददानाः । कुटुम्बिधर्ममाहुः । किं कृत्वा तपेन ग्री- प्मेण पुंसा वर्षाः स्त्रियः समेत्य मिलित्वा, तथा शरदा नार्या सह हिमागमो हेमन्तो भर्ता मिलित्वा, तथा वसन्तलक्ष्म्या सह शिशिरः समेत्य । एतेन कुटुम्बिधर्म उक्तः । कुटुम्बिनो हि सकुटुम्बाः परावसथे वसन्तो भूपतये क्लृप्तं गृहभाटकं ददति । कुटुम्ब- दाराः षड्ऋतवः स्वचिह्नान्विता अजस्रं तत्र संनिहिता इति श्लोकार्थः । प्रसूयत इति प्रसूनम् 'उदितश्चेति निष्ठानत्वम् ॥ ६५ ॥ तपेनति । मदा नित्यं नतु यथाकालं प्रसूनक्लति कुसुमसम्पत्तिम् । 'प्रसून कुसुमं सुमम्' इत्यमरः । दधतो धारयन्तः ऋतको वर्षाः प्रावृट् तपेन ग्रीष्मेण । 'उग उमागमस्तपः' इति, 'मियां प्रावृट् लिया भूनि वर्षा अथ शरमियाम्' इति चामरः । तथा हिमागमो हेगन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यकर्तरि णिच्च' इति तव्यत्प्रत्ययः । ते च कुटुम्बिनश्च तेषो भावं तनाम् । प्रतिवासित्वमित्यर्थः । ययुः । समेत्य युयुरिति समुदायसमुदायिनारभेदविवक्षया समानकर्तृत्वम् । अत्र पुरे युगपसपर्तुसम्बन्धाभिधानादस- म्बन्धे सम्बन्धरूपातिशयोक्तिः ।। ६५ ।। अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिर्यथा ॥ सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलापवनैर्न निर्वयो ॥ ६६ ॥ अभीषणमिति ॥ तस्य यातुधानस्य वपुः शरीर यथा येन प्रकारेण सुरेन्द्रबन्दीश्वसि- तानिलैः सुराधिपगृहिणीनिःश्वासपवननिर्ववौ निवृति भेजे, तया न जलापवनैः । सजलं वासो जलार्दा जलार्द्रायाः पवना जला पवनाः तैः । श्रीखण्डाम्बुयुतं वस्त्र जलाढ़ें- त्यभिधीयते । हृता हठान्नारी बन्दी भण्यते । बाहुल्येन कविभिः स्त्रीलिङ्गानिपातः कथितः । (१) क्लनि दधतः । . ..

सर्गः1] शिशुपालवधे। ३९ कदाचिद्धदनमारताः शीतला भविष्यन्ति । किंभूतैः अभीक्ष्णमतिशयेन उष्णैरपि। दुःखितस्य हि निःश्वासा अत्यर्थतता भवन्ति । तहि पटुमारुताःउष्णा भवेयुः । कथंभूतैः सचन्दनाम्भ:- कणकोमलैः सचन्दना ये अम्भःकणा जलबिन्दवः तैः कोमलैः मृदुभिर्मनोहः । तहि कथमेष विपर्ययः, कथंभूतस्य सोष्मणःसदर्पस्य बलोष्मणा ध्मातस्य । मानिनश्चैतदेवाधिकं सुखं यत्तु नार्यों बद्धा दन्ति । न तु पराभिभूतस्य विषयोपभोगः। निर पूर्वो वातिरुपशमे वर्तते ॥६६॥ अभीक्ष्णामिति ॥ उष्मणा स्मरज्वरण सहितः सोमा तस्य सोमणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुगैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्यः मियः तासां श्वसितानिलनिःश्वासमारुतैर्यथा निवा निर्वृतम । निर्वाण निवृतौ मोक्षे' इति वैजयन्ती । तथा सचन्दनाम्भ:कणाः चन्दनोदकबिन्दुसहिताः ते च ते कोमला मृदुलाश्च तैर्जलाणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । 'धवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत् । जलेनाईजला स्यात्-' इति वैजयन्ती ।अत्र सन्तप्तस्योष्णोपचारानितिरिति कारणविरुद्धकार्योत्पनिरूपो विषमालङ्कारः ॥६६॥ अन्यच्च कीशोऽसावित्याह- अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ॥ मुमोच जाननपि जानकी न यः सदाभिमानकधना हि मानिनः ॥६७॥ अमानवमिति ॥ यो रावणः अजं विष्णुं मनोः कुले जातं कार्यार्थ सूर्यवंशे राम- रूपण अवतीर्ण जाननपि जानकी न मुमोच सीतां न तत्याज, कथंभूतम् अमानवममनु- व्यं देवरूपिणं तथा अजम् । विरुद्धं चैतत्-यो हि जातः स कथमजो भवेत् , यश्च मनुवंशे समुत्पन्नः स कथममानवः । तथा प्रभाविनं शक्तमत एव आत्मनः अन्तमवसानकारक भा- विनं भविष्यन्तम् । यदि सः अजमात्मनोऽन्तं भाविनमवसानकारक भविष्यन्तमज्ञासीत् विष्णुरयं मद्वधार्थमेव भूमावुत्पन्नः इत्यमस्त, तर्हि कुतो न मुमोच इत्याह-होति हेतो, यतो हेतोः मानिनोऽभिमानवन्तः सदा अभिमानकधनाः, अभिमान एव एकं धनं येषां ते तथा । ते हि मृत्यावपि प्राप्त मानं न त्यजन्तीत्यर्थः ॥ ६७ ॥ स चायमासन्नविनाशस्तुभ्यमपि दुग्ध्या पुनस्त्वयैव हत इति युग्मेनाह- अमानवमिति ।। मनोरयं मानवः । 'तस्येदम्' इत्यण्प्रत्यये पर्यवसानाजातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्नामिति विरोधः । स चाभासत्वादलङ्कार इत्याह-प्रभाविनामिति । महानुभावे तस्मित्र कश्चिविरोध इति भावः । 'आमाक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः। भव. न्तामति शेषः । आत्मनः स्वस्यान्तम् । अन्तं करोतीत्यन्तम् । अन्तशब्दात् 'तत्करोति-' इति ण्यन्ता- पचायच् । भाविनं भविष्यन्तम् । भविष्यति गम्यादयः । जानन्नपि यो रावण: जनकस्यापत्यं भी जानकी सीता तीन मुमोच नामुञ्चदिन्यन्वयः। जनतोऽप्यमोचने कारणमाह -मानिनः सदा प्राणात्ययेऽप्यभिमानएवैक मुख्यं धनं येषां ते । प्राणात्ययेऽपि न मानं मुञ्चन्तीत्यर्थः। कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥६॥ स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ॥ पयोधिमाविद्ध(१)चलज्जलाविलं विलक्ष्य लङ्कां निकषा हनिष्यति ६८ स्मरतीति ॥हे कृष्ण! भवान् अमुं रावणं लङ्कां निकषालङ्कायाः समीपेहनिष्यति अव- धीत,अदः स्मरति एतदभिजानाति । किं कुर्वन् दाशरथिः दशरथस्यापत्यं रामनामा भवन् .. (१)मावद्ध।

१० सन्देहविषौषधिसर्वकषायुते- [प्रथम:- ज्ञायते । सन् किं कृत्वा पयोधि विलय समुद्रमुत्तीर्य । काका प्रभमाह-कीदृशमम बनान्तात् दण्डकारण्यसमीपात् वनितापहारिणं सीताचोरं, कीटश पयोधिमाविद्धचलजलाविलम् आ- 'विद्धं पर्वतन्यासोत्क्षुभितम् अत एव चलत् यत्तोयम् तेन आविलं कलुषम् इति भङ्गया सेतुं स्मरयति । निकषासमयाहाधिकअन्तरान्तरेणयुक्ते द्वितीया । हनिष्यती'त्यभिज्ञावचने लूडिति भूते लूट । यच्छब्दयोजना चात्र न कार्या 'न यदी ति लनिषेधप्रसङ्गात् । भवन्निति 'अत्वसन्ते'त्यादिना दीर्घः कथं न स्यात् । (?) तथा च- शत्रदन्तकिबन्तानां कसन्तानां तथैव च । तृजन्तानां तु लिङ्गानां धातुत्वं नोपहन्यते ॥ ॥६८॥ म्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । 'अत इञ्' इताभ- त्ययः । भवन् रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताहण्डकारण्याइनितापहारिणं सीतापहर्तार- ममुं रावणम् । आबद्धः प्रक्षिनादिभिर्बद्धसेतुः अत एव चलन्ति जलानि यस्य स च । अत एव आविलव नमाबद्धचल जलाधिलं पयोधि विलय लङ्का निकषा लङ्कासमीपे । 'समयानिकषाशब्दो सामीप्ये त्वव्यये मनौ' इति हलायुधः। 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । हनिष्यति अवधीत् । अभि. ज्ञावचने लट्' इति भूने लट । अदोहननं भवान्स्मरनीति काकुः । प्रत्यभिजानासि किमित्यर्थः शेिषे प्रथम ॥६॥ अथोपपत्ति छलनापरोऽपरामवाप्य शैलूष इवैष भमिकाम् ॥ तिरोहितात्मा शिशुपालसंशया प्रतीयते सम्प्रति सोऽप्यसः परैः ॥ ६९ ॥ अथेति ॥ अथानन्तरमनन्ने सरति काले एष रावणोऽपरामुपपत्ति जन्मान्तरमवा- ध्य रूपान्तरं प्राप्य सम्प्रति इदानीं सोऽपि सन् परैः असः प्रतोयते लोकैरन्यो कथंभूतः शिशुपालसंज्ञया तिरोहितात्मा संवृतदेहः स्थगितात्मस्वरूपः, यतः किंविधः छलनापरः वचनाप्रधानः । भूयोऽपि रावण एवं शिशुपालरूपेणावतीर्णः लोकान् बाधितुमि- त्यर्थः । क इव कामवाप्य स एवान्यो बुध्यत इत्यत आह-क इव शैलूष इव नट इव । यथा शैलूषो नटोऽपरां भूमिका पात्रान्तरत्वं प्राप्य सोऽपि सन् लोकैः असः प्रतीयते । भीमसेनभूमिकातो ह्यर्जुनभूमिकां प्राप्तोऽपि नटोऽन्य एष इति भ्रान्तिर्भवति । सोऽपि छलनापरः चमत्कतिजनकः सामाजिकानाम् । अपरां भूमिका पात्रान्तरत्वं प्राप्य तिरो- हित आत्मा येनेति कार्यसिद्धये योजनीयम् ॥ ६९ ॥ अथेति ॥ अथ राक्षसदेहत्यागानन्तरं सम्प्रति छलनापरः परप्रतारणापरः एष रावणः शैलषो नटः तस्य भूमिका रूपान्तरमिव । 'शैलूषो नटभिल्लयोः । भूमिका रचनायो स्यान्मूर्त्यन्तरपरिग्रहे ' । इति विश्वः। अपरामुग्पत्तिम् । जन्मान्तरमित्यर्थः । अवाप्य शिशुपाल संज्ञा तिरोहितात्मा तिरोहितस्व- रूपः सन् सोऽपि रावण एव मन्त्रपि परितरः स न भवतीत्यसः तस्मादन्य एव । 'ना' इति नसमासः । अत एव 'एतत्तदोः सुलापो-' इत्यादिना न सुलोपः । प्रतीयते ज्ञायते इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एवं शैलूषो रूपान्तरमास्थाय तदेशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिमहादन्य इव भानि । दर्जन्यं तु नदेवत्यवश्यं संहार्य इति भावः ॥ ६९ ॥ स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभत्रिलोचनः ।। युवा कराकान्तमहीभृदुश्चकैरसंशयं सम्प्रति तेजसा रविः॥ ७० ॥ स बाल इति ॥ हे कृष्ण ! सशिशुपाल: बालः सन् वपुषा शरीरेण चतुर्भुज आसीत् .

सर्गः।] शिशुपालवधे। ४१ । .. चतुःप्रकोष्ठः सातः। अपरं मुखेन त्रिलोचन: विभिनयनैः युक्तः किंभूतः पूर्णेन्दुनिभः शशितुल्यः अखण्डशशितुल्यवदनः । अन्यत् सम्प्रति साम्प्रतं युवा तरुणः. सन् असंशयं निश्चितं तेजसा रविरासीत् सूर्यतुल्यो बभूव, कथंभूतः उच्चकैरतिशयेन कराक्रान्तमहीभृत् करेण दण्डेनाक्रान्ताः पराभूता महीभृतो येन सः । अथ वा उच्चकैः उन्नतः, करैर्बलिभिः आत्मवशं नीता महीभृतो राजानो येन । रविः कीदृशः कराक्रान्तमहीभृत् करैः किरणस- मूहैः आक्रान्ताः सन्तापिता महीभृतः पर्वता येन सः । उक्तं च- शिशुपालः पुरा जातत्रिनेत्रश्च चतुर्भुजः । पितरौ वाथ तं दृष्ट्वा हातुं वै चक्रतुर्मतिम् ॥ उच्चचाराथ नभसि वागेवमशरीरिणी। नैष त्याज्यो महाराज ! श्रीमान् वीरो भविष्यति ॥ स चास्य वधको भावी यं दृष्ट्वा निपतिष्यतः । बाहू नेत्रं च सहसा तद् बुद्ध्वा पाल्यतामयम् ॥ अत्र च अर्थान्तरप्रतीत्या तस्य सर्वदेवमयत्वमुक्तम् । चतुर्भुजो नारायण इन्दुः शशी त्रिलोचनः शिवो रविरादित्यः । रविरपि करैः महीभृतः आक्रमते अधितिष्ठतीत्यवयव- श्लेषोऽयम् ॥ ७० ॥ अथेतदौर्जन्यं विभिराविष्करोति- सवाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवानासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः । बालविशेष. णासम्प्रति तत्सर्वमन्तर्हितमिति भावः । सम्पति तु युवा सन करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः अन्यत्रांशुव्याप्तशैलः । 'बलिहस्तांशवः कराः' इत्यमरः । उच्चकैस्तेजसा रविरसंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । वपुषा मुखेन चेति येनाङ्गविकारः' इति तृतीया, हानिवदाधिक्यस्यापि विकारत्वात्। तथा च वामन:-'हानिवदाधिक्यमध्यङ्गविकारः' इति । तेजसे. ति 'प्रकृत्यादिभ्य उपमंख्यानम्' इति तृतीया । कराक्रान्तत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा । रविरसंशय- मिति तस्य पूर्णन्दुनिभ इत्युपमया संसृष्टिः । हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ॥ ७० ।। स्वयं विधाता सुरदैत्यरक्षसामनुग्रहापग्रहयो(१)र्यदृच्छया ।। दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥ ७१॥ स्वयमिति ॥ असौ शिशुपालो दशाननादीन् रावणहिरण्याक्षप्रभृतीन् सुरशत्रून् हसति अशक्तान् मन्यते । यतः कारणात् सरदैत्यरक्षसां देवासुरनैतानां यदृच्छया स्व- च्छया अनुग्रहापग्रहयोः प्रसादापमानयोः स्वयं विधाता आत्मनैव कर्ता । देवादीनां प्रभु- रित्यर्थः । किंभूतान् दशाननादीन् अभिराद्धाभिस्तपसा तोषिताभिः देवताभिर्दत्तविक्रमस- म्पदः इति । महीयानेष विशेष:-यो हि देवानांप्रभुर्यस्य तु ते ईश्वरास्तयोः कोहगन्तरम्। देव एव देवता । वीरेषु साधु वीयं यदि वा वीरस्य भावः कर्म वा वीर्यम् । निपातना- दृघरभावः ॥ ७१ ॥ स्वयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामर्थेन । न तु देवताप्रसादवलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानामनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपालः अभिराद्धाभिराराधिताभि- सन A (१)वग्रहयो ।

४२ सन्देहविषौषधिसर्वकषायुते- - [प्रथम:- देवताभिरीश्वरादिभिर्वितीणों दत्तो वातिशयः प्रभावातिशयो येषां तान्दशाननादीन्हसति । अनन्यप्रसाद -लब्धेश्वयें मयि कथं याचकैस्तुल्यतेति गर्वाद्धसतीत्यर्थः ॥ ११ ॥ बलावलेपादधुनापि पूर्ववत्प्रवाध्यते तेन जगजिगीषुणा ॥ सतीव योषित्प्रकृतिः सुनिश्विता(१) पुमांसमन्वेति भवान्तरेष्वपि ॥७२॥ बलेति ॥ तेन जिगीषुणा मानिना शिशुपालेन पूर्ववत् हिरण्यकशिपुरावणवत् अधुनापि साम्प्रतमपि जगद्विश्वं प्रबाध्यते त्रिभुवनं दूयते । कस्मात् बलावलेपात् बलं शक्तिः सम्पत्तिः अवलेपः परेष्ववज्ञा, बलं च अवलेपश्च बलावले तस्मात् । युक्तोऽयमर्थः । यतः कारणात् सुनिश्चिता प्रकृतिःसदभ्यस्तः स्वभावो भवान्तरेष्वपि जन्मान्तरेष्वपि पुमां- समन्वेति अनुयाति पुरुषं प्राप्नोति । अन्यथा कथं पूर्ववदिदानीमपि जगदाधते इति भावः । का इव सती योषिदिव । यथा सती योषित् भर्तृशरणा नारी भवान्तरेष्वपि पुमांसमात्मीयभर्तारं लभते ॥ ७२ ॥ बलेति ॥ जिगीषुणा नित्योत्साहवतेत्यर्थः । तेन शिशुपालन बलावलेपालगर्वादधुनापि पूर्ववत्पूर्वज- मनीव जगत्प्रवाध्यते । तथा हि-सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुसिमभ्यति । 'पति या नाभिचरति मनोवाकायसयता । सा भर्तुर्लोकमानोति सद्भिः साध्वीति चोच्यते ।। इति मनुः । उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः ॥ ७२ ।। तदेनमुल्लवितशासनं विधेविंधेहि कीनाशनिकेतनातिथिम् ।। शुभेतराचारविपक्तिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥ तदेनमिति ॥ तदिति वाक्योपसंहारे । किं बहुनोक्तेन हे कृष्ण! एनं वैद्यं कीनाश- निकेतनातिथिं यमगृहगामिनं विधेहि कुरु । व्यापादयेत्यर्थः । कथंभूतं विधेर्दैवस्योल्लधि- तशासन प्रजाबाधनात् उल्लवितं त्यक्तं शासनमाज्ञा मर्यादा येन सः तम् । दैवमगणय- न्तमित्यर्थः । अथ यद्यसौ त्यक्तमर्यादः एतावता मम किं, येनाहं व्यापादयामीत्याह-हि यस्मात् सतां सद्भिः असाधवो व्यापादनीया हन्नव्या एव दुष्टा निग्रहणीयाः। कृत्यानां कर्तरि षष्टी । यतः कीदृशा असन्तः शुभेतराचारविपक्त्रिमापदः शुभादितरः पापो य- आचारो व्यवहारस्तेन विपाकेन निर्वृत्ता आपदो येषाम् । अशुभेन विपाकं गतमरणा य- इत्यर्थः । यतस्तेषामयं पापोपभोगकालः, सद्भिश्च पापा निग्रहणीयाः । तेन भवांस्तं मार. येदित्यर्थः । एनमिति द्वितीयादौ एनादेशः । तमेवमिति पाठान्तरे तं चैवमेवं पूर्वोक्तेन प्रकारेण विधेस्त्यक्ताज्ञमिति योज्यम् । विधहि इति पुत्वमभ्यासलोपश्च । विपाकेन नि- वृत्ता विपक्त्रिमाः । सर्गो हि वंशस्थवृत्तेन जगतीच्छन्दोभेदेन ॥ ७३ ॥ तदनामीति ॥ तत्तस्माद्विधेर्विधातुरप्युल्ला तशासनम् । स्वयं विधातेत्यायुक्तरीत्यातिकान्तदवे शास- नमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। एनं शिशुपालं कीनाशनिकेतनातिथि कीनाशो यमस्तस्य निकेतनं गृहं तत्रातिथि प्राधुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । 'कीनाशः कर्षके क्षुद्दे कृतान्तोपा- शुघातिनोः' इति विश्वः । न चैतमाघुणिकहस्तेन सर्पमारणं, भवादृशामवश्यकर्तव्यत्वमादित्याह-शुभेतरा- चारेण दुराचारेण विपवित्रमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । 'ड्वितः क्विः' इति पचेः विघप्रत्ययः । 'कर्मम्नित्यम्' इति तद्वितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवाशा (१) सुनिश्चला पुमांसमभ्येति । । . .. ..

सर्गः।]. शिशुपालवधे । जगन्नियन्तृणां निपातनीयाः वध्या हि । न च नैघृण्यदोषः । स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्मा- कमिन्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २३ ॥ एवं सति यत्फलं सम्पद्यते तदिन्द्रस्याशीारेण वाक्यसमाप्तावाह- हृदयमरिवघोदयादवाप्त(१)द्रढिम दधातु पुनः पुरन्दरस्य ॥ घनपुलकपुलोमजाकुचाप्रदुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ । हृदयमिति ॥ हे विष्णो ! पुरन्दरस्य इन्द्रस्य हृदयं वक्षः पुनर्भयो घनपुलकपुलो- मजाकुचाग्रदुतपरिरम्भनिपीडनक्षमत्वं दधातु प्रियतमसंस्पर्शवशात् घनपुलको संहतरोमा- जौ अतिकण्टकितौ यो पुलोमजाकुचौ इन्द्राणीस्तनौ तयोरगं प्रान्तः तेन द्रुतं शीघ्र रमसात् यः परिरम्भः आलिङ्गनं तेन निपीडनं समुपमर्दः तत्क्षमत्वं तत्सहत्वं पीडनसा- मथ्यं दधातु धारयतु । कीदृशं वक्षः अस्विधोदयात् अवाप्ताढिम अरे: शिशुपालस्य वधेन य उदयोऽभ्युदय उत्पत्तिर्वा तस्मात् प्राप्तदृढत्वम् । अथ वा अरिवधोदयात उपोढद्र- ढिम अरेश्चैवस्य वधेन य उदय उत्पत्तिस्तेन वा उभयोः अभ्युदयः स एव वा उदयस्ते- नोपोगदिम प्रासदायम् । अद्य हि चैथेनोपद्रुतत्वात् हृदयं मृदु, तस्मिन् हते निःशल्य- त्वात् प्राप्तदाळम् । दृढस्य भावः द्रढिमा 'वर्णदृढादिभ्यः ष्योति इमनिच् । अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पितामा । अत्र मुनेः शृङ्गारवर्णनमनुचि- तिमिति केचिद् दोषमुद्भावयन्ति, तमन्ये परिहरन्ति । स्वयं करणं यतेरनुचितं न तु वर्णनं दोषायेति ॥ ७४ ॥ किञ्चैवं दुष्टनिग्रह शिष्टानुग्रहः स्यादित्याह- हृदयामिति ॥ अरिवधोदयाद्रिपुनाशलाभात उदूढद्राढिम नैश्चिन्त्याद् धृतदाळम । स्वस्थमिति यावत् । पृथ्वादित्वाद् दृढशन्दादिमनिच्प्रत्ययः। र ऋतो हलादेर्लेघोः' इति कारस्य रेफादेशः। पुरः शत्रुपुराणि दारयः नीति पुरन्दर इन्द्रः । 'पूःसर्वयोरिसहोः' इति खच्प्रत्ययः । 'खचि हस्वः' इत्युपधाह्रस्वः । 'वाचंयमपु- रन्दरौ च' इति निपाननाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयोऽपि । पूर्ववेदेवेति भावः । घनपुलकयोः मान्द्ररोमाञ्चयोः, पुलोम्नो जाना पुलोमजा शची तस्याः कुचाग्यो?तपरिरम्भ • औत्सुक्याच्छीघ्रालिङ्गन तत्र यत्पीडनं तस्य शमत्वं सहत्वं दधातु । प्राश्चित्तविक्षपात्त्यकभोगेन शक्रेण सम्प्रति त्वत्प्रसादानिष्क- प्टकं स्वकीय राज्यं भुज्यतामित्यर्थः । अत्र दायपदार्थस्योदूढढिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदयनिपीडनक्षमत्वसबन्धेऽप्यसम्बन्धोक्त्या सम्बन्धेऽसम्बन्ध- रूपातिशयोक्तिरित्यर्थालङ्कारो वृत्त्यनुप्रासश्च तैरन्योन्यं समृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेकतो यकारो युजि च नजी जरगाश्च पुष्पिताम्रा' इति लक्षणात् ॥ ०४ ।। ओमित्युक्तवतोऽथ शाङ्गिण इति व्याहृत्य वाचं नभ. स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ॥ शत्रणां नितरां(२) विनाशपिशुनः कर्तुमति(३) संयति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥ ७५ ॥ इति श्रीमाघकृती शिशुपालवधे महाकाव्ये कृष्णनारद- सम्भाषणं नाम प्रथमः सर्गः ॥१॥ (१)दुदूढ। (२) शत्रणामनिशम् । (३) कुद्धस्य चैध प्रति ।

सन्देहविषौपपिसर्वकषायुते-
[ प्रथमः--
प्रोमिति ॥ अथानन्तरं शाणिो नारायणस्य वदने मुखे केतुरुत्पात आस्पदं
चकार प्रतिष्ठा बबन्ध । उत्प्रेक्षा । केन भृकुटिच्छलेन भ्रूभगव्याजेन कीशस्य शाङ्गिणः'
ओमिति उक्तवतः एव । * इति अङ्गीकारे । चैद्यवधं प्रति कृतप्रतिज्ञस्येत्यर्थः । यतः की-
दृशस्य संयति संग्रामविषये मति कर्तुः इच्छां विधातुः । कदा केतुरुदियायेत्याह-
तस्मिन् मुरसुनौ नारदे पुरोऽग्रतः इति पूर्वोक्तां वाणी व्याहृत्य अभिधाय नम आकाशम-
त्पतिते सति किंभूते सरमुनी इन्दोः श्रियं बिभ्रति चन्द्रतुल्ये, किंविधः केतुः शत्रूणां
रिपूणां नितरामस्पथं विनाशपिशुनः अभावसूचकः । नारदे गते सति हरेः शिशुपालं
जिघांसोः कोपवशान्मुखे या भ्रुकुटिरुत्पादिता सा ज्ञायते चैवस्य विनाशसूचकः उत्पात-
इत्यर्थः । किंभूते मुखे व्योम्नीव कृष्णत्वादाकाशोपमे । अन्यस्यापि केनचिद्वधे विधि-
त्सितेऽवश्यमेवाकाशे केतुरभावसूचकः स्थितिं करोतीति । विभ्रतीति सप्तमी । कर्तुरिति
तृन्नन्तः । शार्दूलविक्रीडितं वृत्तम्-म्सौ ज्सौ तौ गुरुकं च सूर्यतुरगैः शार्दूलविकीडितम् ।
सूर्याचैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । अत्रोत्प्रेक्षोपमासङ्करोऽलङ्कारः । श्रीशब्द-
रम्यः काव्यं वेदः । प्रतिसर्गान्तं श्लोके श्रीशब्दप्रयोगः इति भद्रम् ।
इत्यानन्ददेवायनिवल्लभविरचितायां शिशुपालवधसारटीकायां सन्देहविषौषधि-
व्याख्यायां नारदागमनं नाम प्रथमः सर्गः ।
---
..
..
प्रोमिति ॥ तस्मिन्सुरमुनी नारदे इति इत्थंभूनां वाचं व्याहृत्योक्त्वा नभ उत्पतिते समुद्रते पुरोऽ
इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरमोमित्युक्तवतस्तथास्त्वित्यङ्गीकृतवत: । 'ओम्प्रश्नेऽङ्गी-
कृती रोषे' इति विश्वः। चेदीनां जनपदानामयं चैयः शिशुपालः। 'वृद्धक सलाजादाञ्या' इति व्यङ्प्रत्य-
तयः । प्रति क्रुद्धस्य शाणिो वदने व्योम्नीवानिश सर्वदा । अव्यभिचोरेणत्यर्थः । शत्रूणां विनाशस्य पिशुन
सूचकः । 'चन्द्रमभ्युत्थितः केतुः क्षितीशाना विनाशकृत' इति शास्त्रादिति भावः । केतुरुत्पातविशेषः ।
'केतुर्युतो पताकायां ग्रहोत्पानारिलक्ष्मसु' इत्यमरः । भृकुटिच्छलेन भ्रभङ्गव्याजनास्पदं प्रतिष्ठा स्थिति
चकार । 'आस्पदं प्रतिष्ठायाम्' इति निपातनात्मुडागमः । अनन वाक्यर्थभूतस्य वीररससहकारिणो रौद्र-
स्य स्थायी क्रोधः स्वानुभावेन भृकुट्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूनस्य स्थायी प्रय
लोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसन्धेयम् । इन्दाः श्रियं बिभ्रतीत्यत्र मुनरिन्दुभियोऽयोगात्तत्सादृश्यावे-
पादसम्भवद्वस्तुसम्बन्धरूपो निदर्शनालङ्कारः । वदने व्योम्नीवेत्युपमा। भृकुटिच्छलेन केतुरिति छलादिशब्द-
नासत्यत्वप्रतिपादनरूपोऽपहनः। तत्र शत्रुविनाशसूचक स्वपेक्षितेन्दुसानध्यव्योमावस्थानसम्पादकत्वे निद-
शनोपमयोरपह्नवोपकारसत्त्वादङ्गाङ्गिभावेन सङ्करः । चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लो-
केषु श्रीशब्दप्रयोगः। यथाह भगवान भाष्यकारः-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शामाणि
प्रथन्ते, वीरपुरुषाण्यायुध्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्ता भवन्ति' इति । शार्दूलविक्रीडितं वृत्तम्।
'सूर्याश्वमसजस्तताः सगुरवः शार्दूलविक्रीडितम् इति लक्षणात । सर्गान्तत्वादसभेदः । यथाह दण्डी-
'मगैरनतिविस्ताणः श्राध्यवृत्तः सुसन्धिभिः ।
सर्वत्र भिन्नसर्गान्तरुपेतं लोकरञ्जकम्' ।। इति ॥ ५ ॥
अथ कविः कावकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्ति कथयति-इतीति । इतिशब्दः समाप्त।। माघ-
कृताविति कविनामकथनम् । महाकाव्ये इनि महच्छन्देन लक्षणसम्पत्तिः सूचिता। शिशुपालवध इति
काव्यनामकथनम् । प्रथमः सर्ग इति । समाप्त इतिशेषः । एवमुत्तरवापि द्रष्टव्यम् ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वकषास्ये प्रथमः सर्गः ॥ १ ॥

सर्गः। शिशुपालवधे। ४५ । द्वितीयः सर्गः अधुना मन्त्रविचार। स चानेककार्यसंनिपाते भवत्यतः कार्यद्वयमत्र सगे मन्त्रा- वतारणार्थमाह- यियक्षमाणेनाहूतः पार्थेनाऽथ मुरं(१)द्विषन् । अभिचैधं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ १ ॥ यियक्षमाणेनेति ॥ अथ अनन्तरं मुरं द्विषन् मुरारिः कार्यद्वयाकुलः आसीत् । तदेव कृत्यद्वयमाह-किविशिष्टः यियक्षमाणेन यज्ञ कर्तुमिच्छता पार्थेन युधिष्ठिरेण आहूतः निमन्त्रितः, अपरम् अभिचैर्य प्रतिष्ठासुः शिशुपालमभिलक्ष्यीकृत्य विग्रहार्थ सेनया अमि- यातुमिच्छुः अभिषिषेणयिषुः । कार्यद्वये आपतिते यदि पाथं पूर्व ब्रजति ततश्चैव- उपेक्षितो भवति, अथैनमास्कन्दति ततः पाण्डवो रुष्यति । अत एव कार्यद्वयाकुल: आसीत् । किमिदं करोमि किमिदमिति सन्दिग्धमना बभूवेत्यर्थः। यष्टुमिच्छति यियक्षते । आहूत इति हृञ् धातुः आपूर्वः, सम्प्रसारणम् । पृथाया अयं पार्थः 'तस्येदमित्यण । द्विषन्निति 'द्विषोऽमित्र' इति शत, तद्योगे च मुरमिति 'न लोकाव्ययनिष्ठाखलर्थतना मिति कर्मणि षष्ठीनिषेधः । चेदीनां जनपदानां राजा चैद्यः वृद्धत्कोसालाजादान ज्यङ्, तस्य राजन्यपत्यवत् । लक्षणेऽभिः कर्मप्रवचनीयसंज्ञः। प्रस्थातुमिच्छुः प्रतिष्ठासुः 'सनाशंसे ति उः, इण्कोः 'आदेशप्रत्यययोरिति षत्वम् । 'अस्तिसिचोऽपृक्त इति लङीडागमः। कार्यमिति ऋहलोय॑त् । सर्गेऽस्मिन् अनुष्टुप्छन्दः ॥ १ ॥ अस्मिन्सर्गे मन्त्रवर्णनाय बीजं पति- यियितमाणेनेति ॥ अथेन्द्रसन्देशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सचन्ताल्लट: शानच् । पार्थेन पृथापुत्रेण युधिष्टिरेण । 'तस्येदम्' इत्यण् । अन्यथा मीभ्यो ढक् स्यात् । ततः पार्थेय- इति स्यात् । आहूत आकारितः। ह्वयतेः कर्मणि के सम्प्रसारण! । तथा अभियं शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'अभिरभागे' इति कर्मप्रवचनीयत्वे तयोगे द्वितीया वा । प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठते: सत्रन्तादुप्रत्ययः । मुरं द्विषन्मुरारिः। द्विषोऽमित्रे' इति शतृप्रत्यये 'न लोका-' इत्यत्र 'द्विषः शतुर्वा' इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्यसुहृत्कार्यरूपेणा- कुलो विप्रतिषेधादावश्यकत्वाच्च द्वयोः सन्दिहान आसीत् । अतो मन्त्रस्यायमवसर इति भावः ॥ १ ॥ गुरुकाव्यानुगां बिभ्रद्यान्द्रीममिनमः श्रियम् ।। सार्धमुद्धवसीरिभ्यामथाऽसावासदत्सदः(२) ॥२॥ गुरुकाव्येत ॥ अथ पश्चात् असौ हरिनिश्चयार्थमुवसीरिभ्यां साधं पवनव्याधि- हलधराभ्यां सह सदः समासदत्मन्त्रमण्डपं प्राविक्षत प्रविष्टः। किं कुर्वन् अभिनभः आकाशे चान्द्रीं श्रियं शशिशोभा बिभ्रत्धारयन् , किंभूतां श्रियं गुरुकाव्यानुगां गुरुर्वृहस्पतिः काव्यः शुक्रः तौ अनुगच्छति अनुयातीति गुरुकाव्यानुगा ताम् । जीवशुक्रसंयुतेन शशिना सदृश- इत्यर्थः । हरेश्चन्द्र उपमानम् , उद्धवस्य गुरुः, हलिनः काव्यः, मन्त्रावरकस्य नमः । शून्ये हि मन्त्रः कार्यः । अभिनभ इति सप्तम्यर्थे अव्ययीभावः । 'लक्षणेनाभिप्रती आभिमुख्य इति वा । आसददिति लुङ् , दिवादङ् ॥ २ ॥ (१) द्विषम्भुरम् । (२) व्याख्यान्तरे च बलोकाम्यं पूर्वोत्तरार्धव्यत्यासन पाठतः। - सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- - .. .. - एवं मन्त्रीजसन्दहमुपन्यस्य मन्त्रोचित देशमाह- सामिति ॥ अथ सन्देहानन्तरमसौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकायौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । 'गोष्यतिर्षिषणो गुरुः' इति, 'शुक्रो दैत्यगुरुः काव्यः' इति चामरः । चन्द्रस्येमा चान्त्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शना- भेदः । उद्धवसीरिभ्यां सार्धमुद्धवरामाम्या सह सदः सभामासददगमत् । राजसदसः पासादत्वादिति भावः । सदेलुडि 'पुषादि -'इति च्लेरडादेशः । अत्र मनु:- 'गिरिपृष्ठं समारुह्य प्रसादं वा रहो गतः । अरण्ये निःशलाके वा मन्त्रयगावभाविनौ' । इति ॥२॥ जाज्वल्यमाना जगतः शान्तये समुपेयुषी ॥ व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥ जाज्वल्यमानेति ॥ असौ नरशिखित्रयी प्रभावातिशयात् नरा एव शिखिनो वतयः तेषां त्रयी त्रिसंख्या असौ नरशिखित्रयी हरिहल्युद्धवाख्या व्यद्योतिष्ट शुशुभे, क सभावेद्यां सभैव वेदिः अग्निस्थानं तत्र। किंविधा नरशिखित्रयी जाज्वल्यमाना परैरप्रतिहततेजस्त्वात् देदीप्यमाना, तथा जगतः शान्तये समुपयुपी त्रिभुवनसंरक्षणार्थ सङ्गतवती मङ्गलार्थ मिलि- ता । मन्त्रेण च जगद्रक्षा भवति । शिखिनोऽपि त्रयो दक्षिणाग्न्याहवनीयगार्हपत्याख्या वेद्यां जगतः शान्तये जाज्वल्यमानाः सङ्गताः सन्तोऽत्यर्थ द्योतन्ते । व्यद्योतिष्टेति अनुदात्तेत्त्वादात्मनेपदं सिच् इडागमः ॥ ३ ॥ जाज्वल्यमानोति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्वल्यमाना भृशं ज्वलन्ती । धातोरकाचो हलादेः क्रियासमभिहारे यङ् । ततो लटः शानजादेशे टाप् । असो नराः पुरुषा एव शिखि- नोऽनयस्तेषां त्रयी । 'द्वित्रिभ्याम्-' इत्यादिना तयस्यायजादेशे कृते 'टिड्ढाणञ्-' इत्यादिना की । सभा आस्थानी सैव वेदिः । वेदि परिष्कृता भूमिः' इत्यमरः। तस्यो व्ययोतिष्ट दीप्यते स्म । 'युदयो लुडि इति वा तर । रूपकालङ्कारः ॥ ३ ॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ॥ एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ ४ ॥ रत्नेति ॥ ते अयोऽपि चकाशिरे बभुः, कीदृशास्ते रत्नस्तम्भेषु संक्रान्तप्रतिमाः प्रति- बिम्बितशरीराः। अतश्योपमीयन्ते-एकाकिनोऽप्यन्योन्यापेक्षया असहाया अपि परितः सम- न्तात् पौरुषेयवृता इव नरवृन्दयुक्ता इव । चकाशिरे इति लिट् । एक एव एकाकी । एका- किन्शब्दोऽसहायार्थः, बहुत्वाद्बहुवचनम् । यथा-एकादाकिनिश्वासहाये । परित इति 'पर्य- भिभ्यां चाति तसिल् । पुरुषाणां समूहः पौरुषेयं 'पुरुषाद्वधविकारसमूहतेनकृतेष्विति कर्तव्यामिति ढज ॥ ४ ॥ रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासविशेषे पर्यवसानाद्विकारार्थत्वम् । तषु संक्रान्तप्रतिमा. संक्रान्तप्रतिबिम्बाः । 'प्रतिमान प्रतिबिम्ब प्रतिमा-'इत्यमरः । ते त्रय एकाकिनोऽसहाया अपि । 'एका- दाकिनिश्चासहाये' इत्याकिनिच्पत्ययः। परितोऽभितः सर्वतः । पर्यभिभ्यां च इति नसिल्प्रत्ययः । स च सर्वोभयार्थाभ्यामिष्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात्पुरुषसमूहेनावृता इवेत्युत्प्रेक्षा । चकाभिरे । सर्व- पुरुषाभ्यां गढयो 'पुरुषाधिकारसमूहतेनकृतविति वक्तव्यम्' इति समूहे ढप्रत्ययः। एतेन विज- नत्वमुक्तम् । यद्यपि- 'निस्तम्भ निर्गवाक्षे च निर्भिस्यन्तरसंश्रये । प्रासादाने त्वरण्ये वा मन्त्रयेदावभाविन।' - सर्गः। - शिशुपालवधे। .. .. .. इति कामन्दकीये मन्त्रभूमेः स्तम्भप्राचुर्यनिषेधो गम्यते, तथापि तस्यापि विजनोपलक्षणत्वाददोष- इति भावः ॥ ४ ॥ अध्यासामासुरुत्तुङ्गहमपीठानि यान्यमी ॥ तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥५॥ अध्यासामासुरिति ॥ अमी त्रयोऽपि यानि उत्तुङ्गहेमपीठानि उच्चकनकासनानि अध्यासामामुः आरुहुः उपविष्टाः, तैर्विष्टरैः केसरिक्रान्तत्रिकूटशिखरोपमा सिंहाधि- ष्ठितमुवेलशृङ्गसादृश्यमूहे । आसनानां त्रिसंख्यत्वात् यथार्थनाम त्रिकूट उपमानम् । अध्या- सामासरिति दयायासश्च । यानीति अधिशीस्थासां कर्म । ऊहे इति कर्मणि वहेर्लकारः॥५॥ अध्यासामासुरिति ॥ अमी त्रयो यान्युत्तुन्हे मपीठान्यासनानि अभ्यासामासुरधितष्टुः । येषूपविष्टा- इत्यर्थः । 'अधिशीस्थामा कर्म' इति कर्मत्वम् । 'आस उपवेशने' लिट् । 'दयायासच' इत्याम्प्रत्ययः । 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । भाम्प्रत्ययवत्कृतोऽनुप्रयोगस्य' इति कृत्र एवेति नियमादस्त- नात्मनेपदम् । तैः पाठः केसरिभिः सिंहैः क्रान्तानां त्रिकूटस्य त्रिकूटाः शिखराणामुपमा सादृश्यमूह उठा। वहेः कर्मणि लिट् सम्प्रसारणम् । त्रीणि कूटान्यस्येत्यन्वर्थसंज्ञा । 'कृटोऽस्त्री शिखरं शृङ्गम्' इत्य- मरः । उपमालद्वारः ॥ ५ ॥ गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ॥ हरिविप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥ गुरुद्वयायेति ॥ अथानन्तरं हरिः श्रीकृष्णः तयोः पूर्वोक्तयोरुभयोः कार्ययोस्त विप्रतिषेधं विरोधं गुरुद्वयाय गुरुरूपाय हलिने उद्धवाय च आचचक्षे कथयामास । किंभू- तयोः कार्ययोः गुरुणोः महतोः अननुष्ठेयत्वात् कर्तुमशक्यत्वात् युगपदनुष्टातुमशक्यत्वात् । महाऽनवस्थानलक्षणोऽत्र विरोधः । यत्र बहुकार्याणां मध्यादेकं कायं कर्तु मनसि अनिश्चयो भवति स विप्रतिषेधः । किंभूतो हरिः विचक्षणो विद्वान् आचारज्ञः । प्रष्टव्या हि गुरव- इति पृच्छति, न तु अज्ञानतयेत्यर्थः। अन्योऽपि विचक्षणो वैयाकरणो गुरवे पण्डिताय द्वयो- विरोधमाचष्टे कथयति । गुरूभयस्मै इति पाठे गुर्वोरुभयं गुरूभयं तस्मै गुरूभयस्मै । क्रियाग्रहणमपि कर्तव्यमिति सम्प्रदानसंज्ञा । सर्वादित्वात् सर्वनामत्वमिष्यते । तत्र तदन्त- विधिः, सर्वनाम्नः स्मै । गुरुणोरिति 'इकोऽचि विभक्काविति नुम् । आचचक्षे इति 'वा लिटी ति ख्याण विभाषितः । विचक्षणः इति 'अके अने चेति प्रतिषेधः ॥ ६ ॥ गुरुदयायेति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वका । कर्तरि ल्युडिति न्यासकारः। असनयोश्च प्रतिषेधो वक्तव्यः' इति चाक्षिकः ख्याादशाभावः । हरिगुर्वोरुद्धवरामयोः पितृव्यज्येष्ठभ्रात्रो- पाय । द्वाभ्यामित्यर्थः । गुरुणोर्महतोरुभयोः कार्ययोः पूर्वोक्तयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यात- वान् । तुल्यबलविरोधो विप्रतिषधेः ॥ ६ ॥ द्योतितान्तःसभैः कुन्दकुड्सलाप्रदतः स्मितैः ॥ स्नपितेवाभवत्सस्य शुद्धवर्णा सरस्वती ॥ ७॥ घोतितेति ॥ तस्य हरेः श्रीकृष्णस्य युवतः सरस्वती वाक् शुद्धवर्णाऽभवत् । शुद्धा दोषरहिता वर्णा अक्षराणि यस्यां सा । किंभूतस्य हरेः कुन्दकुड्मलाग्रदतः कुन्दस्य कुइ- मलं कलिका तस्याग्रं प्रान्तस्तदिव शुक्लत्वात्तीक्ष्णत्वाच दन्ता यस्य । अपान्तेति दत्रादेशः । उत्प्रेक्षते-स्मितैः स्नपितेव उल्बगहसितैः क्षालितेव । महात्मानो हि स्मित- । .. ॥

४८ सन्देहविषौपपिसर्वाचायुते- [द्वितीयः-- - .. पूर्वामिभाषिणः । यच वस्तु क्षाल्यते तत् शुद्धवर्ण धवलणं भवति । किविधैः चोति- तान्तःसभैः घोतिता प्रकाशिता अन्तर्मध्ये सभा यैस्तानि तैः ।। योतितेति ॥ कुन्दै माघभव: पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः । कुन्दकुड्मलामाणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदनः । 'अपान्तशुद्धभ्रवृषबराहेभ्यश्च' इत्यप्रान्तपूर्वपदबहुबाहेः समासान्तो वैभा- बिका दतादेशः । तस्य हरेः सरस्वती अन्तःप्रधाना सभा अन्त सभा। सपाभ्यन्तरमित्यर्थः । मा घोतिता प्रकाशिता येस्तैः स्मितः खपितेव क्षालितेव । लातर्ण्यन्तात् कः । अतिही-' इत्यादिना पुगागमः । मिता हस्वः । शुद्धवर्णा स्फुटाक्षरत्वात्स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धः लानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः ॥ ७ ॥ किमुवाच, प्रथम तावत् गुरूणामले पूर्वाभिभाषितदोषपरिजिहीर्घरिदमाह- भवद्भिरामवसरप्रदानाय वचांसि नः ॥ पूर्वरङ्ग प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥ भवद्विरामिति ॥ हे गुरो ! नोऽस्माकं वांसि वचनानि भवद्विरामवसरप्रदानाय भवद्वाचा प्रस्तावदानार्थम् । युवां वाचयितुमहं वच्मीत्यर्थः । एतदेव दृष्टान्तेन द्रढ- यति-यतः कारणात् पूर्वरङ्गः प्रथमनाव्यारम्भः नाटकीयस्य वस्तुनः प्रसङ्गाय प्रस्तावदा- नाय भवति । आदावेव तु यन्नाट्यं पूर्वरङ्गः स उच्यते । यथा नाटकीयस्यार्थस्याव- सराथं पूर्वरङ्गः, न तु स एव तत्र साध्यः । पूर्वरङ्गो गेयवाद्यनृत्यान्विता देवस्तुतिः । पूर्वरङ्गः प्रत्याहारमार्जनीगीतिविधिताण्डवयोगब्रह्मयोगाचारप्रवचनाद्याख्यैरङ्गैर्युतः। तथा सम्प्रेक्षणीयस्यार्थस्यावसरदानार्थः : स्यात् । उक्तंच- पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । ट्त्रिंशल्लक्षणोपेतं नाटकं कवयो विदुः ॥ रज्यतेऽस्मित् इति रहः । नाटके भवो नाटकीयः वृद्धाच्छः ॥ ८ ॥ कार्यविप्रतिषघं निवेद्य तत्र स्वमतमोवदयिष्यन्पण्डितमानित्वं तावत्परिहरति- भवाहिरामिति ॥ भवद्विरा युष्मद्वाचामवसरप्रदानाय । प्रसञ्जनायेत्यर्थः। नोऽस्माकं वासि सिद्धा- स्तोत्रयनार्थमुच्यन्ते । न तु सिद्धान्तत्वेनेत्यर्थः । तथा हि-पूर्व रज्यतेऽस्मिनिति पूर्वरङ्गः नाटयशाला, तत्स्थं कर्मापि पूर्वरङ्ग इति दशरूपके । अतः पूर्वरङ्गो नाम रङ्गप्रधानाख्यो रङ्गविधशान्तिकारी नान्दीपाठ- गीतवादित्रायनेकाडावशेषो नाट्यादौ कर्तव्यः कर्मविशेषः । तदुक्तं वसन्तराजीये- 'यत्राट्यवस्तुनः पूर्व रङ्गाविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥ इति । स पूर्वरङ्गः, नाटके भवं नाटकीयम् । तत्र वर्ण्यमित्यर्थः । वृद्धाच्छः । तस्य 'आयने-'इती- यादेशः । तस्य वस्तुनः प्रवृत्तस्य प्रसङ्गाय प्रसननाय । प्रवर्तनायेति यावत् । अतः प्रथमवादो न दोषा- येति भावः । बूर्वरङ्गः प्रस्तावनति रजराजः । तच्चिन्त्यम् । 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तदपरः काव्यमास्थापयेनटः ॥ प्रथमं पूवरङ्गः ततः प्रस्तावनति च । आरम्भे सर्वनाटयानामेनसामान्यमिष्यते ॥ इति दशरूपकायुकभेदविरोधादिति । अत्र हरिवाक्यपूर्वरङ्ग-योः प्रसञ्जकत्वस्वरूपसामान्यस्य वा- क्यद्वये शन्दान्तरे पृथनिर्देशात्प्रतिवस्तूपमालङ्कारः । ताक्षणं तूकम् ॥ ८ ॥ . .. ..

सर्गः । शिशुपालवधे। इदानी कार्यद्वयं कथयनात्मीय मतमुपन्यस्यति- करदीकृतभूपालो भ्रातृभिर्जित्वरैदिशाम् ॥ विनाऽप्यस्मदलं भूष्णुरिज्यायै तपसः सुतः ॥९॥ करदीकृतेति ॥ तपसः सुतो धर्मात्मजो युधिष्ठिरः अस्मद्विनापि अस्मानन्तरेणापि इज्यायै अलं भूष्णुः यागाय समर्थो भवति । कथंभूतः भ्रातृभिः भीमार्जुनयमैः करदी- कृतभूपालः करदीकृता वशं नीता भूपाला राजानो येन सः, कीदृशैः भ्रातृभिः दिशा जित्वरैः ककुभां जयनशीलैः । तस्मात्तत्र न बजामीति भावः । केचित्तु-'इज्यायै अलं समर्थो यतो भूष्णुः साधुर्भवति स भाक्युक्त इत्यर्थः इति व्याचक्षते । जित्वरैरिति सृजीण नशां करप् । अस्मदिति पञ्चमीबहुवचनम् । भूष्णुरिति ग्लाजिस्थश्च स्नुः । हज्याय इति ब्रजयजो वे क्यप्, नमःस्वस्तिस्वाहेतियोगे चतुर्थी ॥ ९ ॥ सम्प्रति स्वमतमाह- करदीकृति ॥ दिशा जित्वरैर्जयनशालेः । इनशाजसर्तिभ्यः करप् । कृयोगात्कर्मणि षष्ठी । श्रा- तृभि मादिभितुभिः करदा: षष्ठभागप्रदाः । 'भागधेयः करो बलि:' इत्यमरः। ततश्चिः। 'र्या- दिच्चिडाच' इति गतिसंज्ञायां 'कुगतिपादयः' इति नित्यसमासः । अकरदाः करदाः सम्पयमानाः कृताः करदीकृता भूपालाः यस्य सः वशीकृतराजमण्डलः तपसः सुनो धर्मपुत्रः। 'तपश्चान्द्रायणादौ स्थाद्धर्मे लोका- स्तरेऽपि च' इति विश्वः । अस्मद्विना । अस्माभिविनापीत्यर्थः । 'पृथग्विनानाना-'इत्यादिना तृतीया- विकल्पात्पञ्चमी । इज्याय यागाय । यजीवेऽपि क्यप् । 'वचिस्वपि-'इत्यादिना सम्प्रसारणम् ।,'नमः- स्वस्ति-'इत्यादिना चतुर्थी । अलं समर्थो भूष्णुर्भवनशीलः । 'भूष्णुविष्णुभविला' इत्यमरः । 'ग्ला- जिस्थश्च ग्स्नुः' इति गस्नुपत्ययः । 'डिति च' इत्यत्र गकारप्रश्लेषाद् गुणाभावः। तथा च जयादित्यः- तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते । अतो जैत्रयात्रैव कार्यान यज्ञयात्रेति भावः ॥ ९ ॥ (१)तथा धर्मः । अतश्च एव यातव्य इत्येतदाह- उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता॥ समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ १० ॥ उत्तिष्ठमान इति ॥ तु पुनः पुरुषेण परः शत्रुः उत्तिष्ठमानो वर्धमानो नोपेक्ष्यः न प्र- तीक्षितव्यः,किं कुर्वता पथ्यमिच्छता आत्मनो हितमभिलाषुकेण । हि यस्मात् कारणात् शिष्टेः चरकचाणक्यादिभिः पण्डितैः एतौ द्वौ वय॑न्तौ वर्धिष्यमाणो समौ आम्नातौ तुल्यौ कथितौ। दौ को आमयो रोगः स च शत्रुश्च । व्याधिवत् शत्रुर्वृद्धाववयं इत्यर्थः । एतदुभयं वर्ध- मानं नोपेक्ष्यम् । उक्तं च भारविणा-अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपो- विवृद्धिः । योऽपि पथ्यमिच्छति सोऽपि व्याधि वर्धमानं नोपेक्षते । उत्तिष्ठमान इति उदोऽनू चेष्टायामात्मनेपदम् । वय॑न्ताविति 'वृद्धयः स्यसनो रिति आत्मनेपदं विभाषितम्, 'न वृद्भयश्चतुर्व्य' इतीडभावः । आमयतीत्यामयः अच् । पूर्वस्माद्धि- शेषात् पार्थपुरगमनं न युक्तम्, अनपेक्ष्यमित्यर्थः ॥ १० ॥ ननु यशान्ते जैवयात्रायामुभयानुसरणं स्यात्नत्राह- उसिटमाम इति ॥ उत्तिष्ठमानो वर्धमानः । 'उदोऽनूर्वकर्मणि' इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्य हितमारोग्यं चेच्छता ! पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन इष्टव्यः । कुतः--हि - (१) अत्र वाक्यांशस्त्रुटितः प्रतिभाति । ५शि०व० सन्देहविपौषधिसर्वापायुते- ५. - [वितीयः- । . यस्माद्वय॑तौ वर्धिष्यमाणौ । 'लटः सदा' इति सदादेशे 'वृद्धयः स्यसनोः' इति विभाषया परस्मैपदम् । 'न वृद्धयश्चतुर्यः' इतीडभावः । आमयो व्याधिः । 'रोगव्याधिगद्दामया' इत्यमरः । सः शत्रुश्च शिष्टैनीतिः समी तुल्यवृत्ती आम्नातावाख्यातौ। 'अल्पायसोऽध्यरेवृद्धिर्भहानर्थाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुमृतिः कुतः ॥ इति भावः । उपमालङ्कारः॥ १० ॥ न तु स्वकार्ये वैरायमाणस्य ममैष यत्र इति दर्शयितुमाह- न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ॥ यतु दन्दह्यते लोकमतो (१) दुःखाकरोति माम् ॥ ११ ॥ नेति ॥ सात्वतीसूनुः शिशुपालः यत् महमपराध्यति मयि विषये सापराद्धः, अतोऽहं न दूये न खिचे । तु पुनः यदसौ लोकं दन्दह्यते गर्हितं दहति निःकारणमुपता- पयति निरागसं लोकं पीडयति, अतो मां दुःखाकरोति पीडयति । प्रातिलोम्येन दुःखय- तीत्यर्थः । दूये इति दूङः कर्मकर्तरि लकारः । सत्वतोऽपत्यं स्त्री सात्वती श्रुतश्रवा नाम क्षत्रिया भगवतः कृष्णस्य पितृष्वसा । उत्सादिभ्योऽञ् । तस्याः सूनुः । मसमिति 'ऋधद्रुहे ति सम्प्रदानत्वम् । गर्हितं दहति दन्दह्यते 'लुपसदचरेत्यादिना यङ् 'जपजभ- दहदशमअपशां चेति नुक्, ततः कर्तरि लट् । दुखाकशेतीति 'दुःखात्प्रातिलोम्ये इति डाचप्रत्ययः ॥ ११ ॥ नन्येवं स्वार्थपरत्वदोषः स्यादिति चेत्र , लोकानुग्रहार्थत्वादस्याः प्रवृत्तरित्याशयेनाह- नेति ॥ सत्वतोऽपत्यं मी सात्वती नाम हरः पितृवसा । उत्सादिभ्योऽञ् । तस्याः सूनुश्चैयः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । 'क्रुधगुह-'इत्यादिना चतुर्थी। तत इति शेषः, यत्तदोर्नित्यसम्बन्धात् । न ये न परितये । दूजे देवादिकाकर्तरि उत्तमपुरुषैकवचनम् । किन्तु लोकं दन्दह्यत । गर्हितं यथा स्थादेवं दहतीति यावत् । 'लुपसदचरजप- इत्यादिना गर्हाया यछ । 'जपजभदहदशभञ्जपशा च' इत्यभ्यासस्य नुगागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखात्प्रातिलोभ्ये' इति डा.प्रत्ययः । अतश्चैद्य एवाभियातव्य, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ।। ११ ॥ अथोपसंहरबाह- मम तावन्मतमदः (२)श्रूयतामङ्ग! वामपि ॥ ज्ञातसारेऽपि(३) खल्वेकः सन्दिग्धे कार्यवस्तुनि ॥ १२॥ ममेति ॥ अब्गेति प्रियाह्नाने आमन्त्रणे । हे गुरो ! तावदिति. वाक्योपसंहारे । तावन्ममादः एतन्मतम् । अहमभिलषामीत्यर्थः । वामपि युवयोरपि मया मतं श्रूयताम् । इदानीं युवामपि जुवातामित्यर्थः । ननु भवान् । (निजमेव मतं कस्मान करोति किमस्मदीयम- तेन, इदानी स्वभणितं दृष्टान्तेन द्रढयति-खलु यस्मात्कारणात् कार्यवस्तुनि कृत्यशरीरे ज्ञातसारेऽपि अवगतपरमार्थेऽपि एकोऽसहायः सन्दिग्धे संशयं कुरुते । इति क्रियागोपित- कोऽयम् । तस्माकि कर्तव्यमेतन्न वेति कथ्यताम् । उक्तंच- सविमृष्टे स्वयं सम्यक् सहद्भिः सुपरीक्षिते । नैवारम्भे विपन्नेऽपि वाच्यतां यान्ति सूरयः ।। - । (१)लोकमदो। (२) मिदम् । (३)शातसारोपि।

सर्गः1] शिशुपालवधे । .. । । कार्यमालोचितापायं मतिमनिर्विवेचितम् । न केवलं हि सम्पत्तो विपत्तावपि शोभते ॥ कायं च तद्वस्तु च कार्यवस्तु ॥ १२ ॥ स्वमतं निगमयन्परमतं शुश्रषुः पृच्छति- ममेति । तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः । मम मतमिदम् । अनेत्यामन्त्रणेऽव्ययम् । 'अथ सम्बोधनार्थकाः । स्युः प्याट् पाडङ्ग है है भोः' इत्यमरः । वा युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-' इत्यादिना वामादेशः । मतं श्रूयताम् । विधी लोट् । तदिदं मया श्रोतव्यम् । अन्यथा सन्देहाऽनिवृत्तेरिनि भावः । विदुषस्ते कुतः सन्देहस्तषाह-शातसारः ज्ञाततस्वार्थोप्येक एकाकी कार्यवस्तुनि कर्तव्यार्थे मान्दिग्धे संशेते । खलु निश्चये । अतो मयापि सन्दिह्यत इत्यर्थः । दिह उपचये कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोर्थान्तरन्यासः ॥ १२ ॥ यावदर्थपदां वाचमेवमादाय माधवः ॥ विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥ यावदिति ॥ माधवः श्रीकृष्णः विरराम मौनं भेजे, किं कृत्वा एवं पूर्वोकप्रकारेण चाचमादाय उक्त्वा । कीदृशां वाचं यावदर्थपदां, यावदों यावदथं यावदर्थ पदानि यस्याः सा ताम् । यावदवधारणे । यावदर्थस्तावन्ति पदानि। वाच्यसमपदाम् । छन्दःपूरणार्थ- मनुपकृतं यस्यां न किञ्चिदुकमित्यर्थः । निरर्थकपदरहितामित्यर्थः । अल्पैरक्षरै रेतेन वाध्यमुक्तम् न बहुभिरित्यत्रार्थान्तरमाह-यतः कारणात् महीयांस उत्तमाः प्रकृत्या स्व- भावेन मितभाषिणः । निरर्थकं कदाचिदपि न जल्पन्तीत्यर्थः ॥ १३ ॥ यावदिति ॥ माधवो हरियावानों यावदर्थम् । 'यावदवधारणे' इत्यव्ययीभावः । यावदर्थ पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः। एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विराम तूष्णीमास । 'व्यापरिभ्यो रमः' इति परस्मैपदम् । तथा हि-महीयांस: उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलङ्कारः ॥ १३ ॥ अष्टाभिः कुलकम्- ततः सपस्नापनयस्मरणानुशयस्फुरा ॥ ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥ ततइति ॥ ततो भगवद्वचनान्तरं रामो जगाद बलभद्र उवाच, किंविधो बलभद्रः ओष्ठेन उपलक्षितः । किंभूतेन ओन सपनापनयस्मरणानुशयस्फुरा सपत्नस्य वैरिणः शिशुपालस्य योऽपनयः अपराधो लोकबाधा तस्य स्मरणमनुध्यान तेन योऽनुशयः कोपः तेन स्फुरति कम्पते यः सः तेन, चैत्रापराधस्मरणकोपेन क- म्पिना । एतेन वीरत्वकथनम् । पुनः किंविशिष्टेन रामोष्ठबिम्बचुम्बनचुच्चुना रामा कान्ता रेवती तस्या ओष्ठबिम्बे यत् चुम्बनं तेन चुन्चुर्विदितः प्रसिद्धः प्रतीतो यः तेन तेन वित्तश्चअपचणपौ, वित्तस्थाने चुच्चुः क्रियते । ओष्ठो लौहित्यात् बिम्बफलमिव । ओष्ठबिम्बम् 'उपमितं व्याघ्रादिभिरि ति समासः । एतेन विलासित्वकथनम् ॥ १४ ॥ अथाष्टभिः कुलकेन राम वर्णयस्तद्वाक्यमवतारयति- तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः । सपनो रिपुः । रिपी वैरिसपनारि-इत्यमरः । त. स्थापनयोऽपकारः तस्य स्मरणेन योग्नुशयः पश्चात्तापः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इनि विश्वः । तेन स्फुरतीत्यनुशयस्फूः तेन स्फुरा । ओष्ठो बिम्बामिवेत्युपमितसमासः । रामाया ओष्ठ- .

५२ सन्देहविषौषधिसर्वश्यायुते- [द्वितीयः- बिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुचुः । तेन वित्तश्चुञ्चुपचणपो' इति चुचुप्रत्ययः । ओवोष्ठयोः समासे वा पररूपं वक्तव्यम् । तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः। उपमानुप्रासयोः संसृष्टिः॥ १४ ॥ विवक्षितामर्थविदस्तत्क्षण(१) प्रतिसंहताम् ॥ प्रापयन्पवनव्याधेगिरमुत्तरपक्षताम् ॥ १५ ॥ विवक्षितामिति ॥ किं कुर्वन् पवनव्याधेः उद्धवस्य वाणीमुत्तरपक्षतां प्रापयन् सिद्धान्तता नयन् । किंभूतां विवक्षिताम् उद्धवेन वक्तुमिष्टां वक्तुमारधाम्, अपरं तत्क्षण प्रतिसंहृतां तथैव निवर्तितां, यतः किंभूतस्यार्थविदः प्रवीणस्य । मूर्खः कोपनश्चायमनर्थ करिष्यति, तावच्छृणुमः पश्चाद्वयं वक्ष्याम इति हृदि कृत्वाऽऽस्ते ॥ १५ ॥ विवक्षितामिति ॥ विवक्षिता वृद्धत्वाभिमानादने वक्तुमिष्टाम् । वचेजो वा समन्तात्कमणि कः। तत्क्षणे विवक्षाक्षणे एव । इत्यविलम्बोक्तिः। प्रतिसंहृता रामानुरोधानुरुद्धाम् अर्थविदा कार्यज्ञस्य अत एव पवनव्याधेरुद्धवस्य गिरमुत्तरपक्षता सिद्धान्तपक्षता प्रापयन् । स्वयमसत्पक्षावलम्बित्वादिति भावः । अनेन रामस्य व्यपतोका ॥ १५ ॥ घूर्णयन्मदिरास्वादमदपाटलितद्युती । रेवतीदशनो(२)च्छिष्टपरिपूतपुटे दशौ ॥ १६ ॥ घूर्णयन्निति ॥ अपरं किं कुर्वन् जगाद दृशौ घूर्णयन् चक्षुषी भ्रमयन् । किंभूते दृशौ मदिरास्वादमदपाटलितद्युती वारुणीपानेन यो मदः क्षीबता तेन आरक्तीकृत- कान्ती, पुनः किंभूते रेवतीदशनोच्छिष्टपरिपूतपुटे रेवत्याः सम्बन्धि यत् दशनोच्छिष्टं दन्त- पदं तेन परिपूतौ मनोशौ पवित्रीकृतौ पुटौ कपाटौ ययोः ते, दन्तपदैहि नितरां शोभने । उच्छिष्टशब्दः पदपर्यायः ॥ १६ ॥ घूर्णयनिति ॥ पुनः। मादिरास्वादन मधपानेन यो मदस्तेन पाटलिता इषदकीकृता युतिर्ययोस्त, रेव. त्या देश्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि । अक्षिचुम्बनसंक्रान्तामिति भावः। तेन परिपूते शुद्धे पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयनिति मद्यविकारोक्तिः। उच्छिष्टपरिपूते इत्यत्र 'तिकाले मुखं मीणां शुद्ध- मानेटके शुनाम्' इति स्मरणात् उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाविरोधाभासोऽलङ्कारः। 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ १६ ॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।। ग्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥१७॥ आश्लेषेति ॥ अपरं किं कुर्वन् अभिमानोष्णैः अभिमानसोष्मभिर्मुखानिलैर्मुख श्वासैर्वनमालां नीलोत्पलमयीमापादपनमालां म्लापयन् म्लानां कुर्वन् । किंभूतां मालाम् आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् आश्लेषे आलिङ्गनविषये लोलुपा साभिलाषा या या वधूः रेवती तस्याः स्तनकार्कश्यसाक्षिणी साक्षाद्दष्ट्रीम् । तद्वर्जमन्येन केनचित् कुचकार्कश्यस्य अननुभूतत्वात् । भन्येन कुचकार्कश्यं न दृष्टमित्यर्थः ॥ १७ ॥ आभ्लेषति ॥ पुनः । आश्लेषे लोलुपाया आलिङ्गनलुग्धाया वयाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणीमुद्रष्ट्रीमा नित्यं पीडयनामिति भावः । 'साक्षादृष्टरि संज्ञायाम्' इति साक्षाच्छन्दादिनिप्रत्ययः। वनमालामभिमानोष्णरहारततर्मुखानिलैः निश्वासमारुतम्लापयन् ग्लापयन् । म्लायतेय॑न्ताल्लंटः शत्रा- देशः । 'आदेच-'इत्यात्वे पुगागमः । अम्लाने म्लानसम्बन्धादतिशयोनिः ॥१०॥ . .. (१)तत्क्षणप्रतिका (२)बदनो।

सर्गः।] शिशुपालवधे। . दधसन्ध्याऽरुणव्योमस्फुरचारानुकारिणी॥ द्विषद्वेषोपरकाङ्गसङ्गिनीः स्वेदविग्रुषः ॥ १८ ॥ दधदिति ॥ अपरं किं कुर्वन्. जगाद स्वेदविषुषः दधत् धर्माम्बुकमान् धारयन् । श्रीलिङ्गविशेषकाः । किंभूताः द्विषद्वेषोपरक्ताङ्गसङ्गिनीः द्विषवेषेण रिपुकोपेन उपरक्त लोहितमङ्ग वपुस्तत्संयोगोयासांताः,अपरं किंविधाः सन्ध्याऽरुणव्योमस्फुरत्तारानुकारिणीः सन्ध्याकालेऽरुणमारक्त यत् व्योम आकाशं तत्र स्फुरन्त्यो यास्तारा नक्षत्राणि ताः अनुकुर्वन्तीत्येवंशीलाः सन्ध्याऽरुणव्योमस्फुरत्तारानुकारिण्यः ताः ॥ १८ ॥ दधादति ॥ पुनः। सन्ध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोकाः । कुतः--द्विषतः शत्रो द्वेषण क्रोधेनोपरनेऽङ्गे वपुषि सङ्गिनीः सनाः स्वेदविषः स्वेदबिन्दून । 'पृषन्तिबिन्दुपृषताः पुमांसो पिग्रुषः सियाम्' इत्यमरः । दधदधानः । 'नाभ्यस्ताच्छतुः' इति नुमभावः । उपमालङ्कारः ॥१८॥ प्रोल्लसत्कुण्डलप्रोतपरागदलत्विषा । कृष्णोत्तरासगरचं विदधच्चतपल्लवीम्(१) ॥ १९ ॥ प्रोल्लसदिति ॥ अपरं किं कुर्वन् कृष्णोत्तरासङ्गाल्वं कृष्णोत्तरीयकान्ति चूतपल्लवी पीतां विदधत् । नीलवर्णमध्येपीतत्वं प्रापयन्त्रित्यर्थः। आभीरदेशे नीलपीतं वासः चूत- पल्लवी भण्यते अन्ये तु चूतपल्लवस्येव आम्रतरुप्रवालस्येवेर्य चौतपल्लवीत्याहुः । एतचास्य कवेर्न विवक्षितम् । अत्र तडिताया रुचिर्वर्तते । कया प्रोल्लसत्कुण्डलपोतपद्मराग- दलत्विषा प्रकर्षेणोलसन्ति दीप्यमानानि यानि कुण्डलानि तत्र प्रोतानि यानि पद्मराग- दलानि हीरकखण्डानि तेषां त्विट तया ॥ १९ ॥ प्रोलसादीत ॥ पुनः । प्रकर्षेणोल्लसता कुण्डलयोः प्रोतानां स्पूनाना पद्मरागदलानां माणिक्यश- कलानां विषा कान्त्या । पोतेति प्रपूर्वाद्वनः कर्मणि कः । यजादित्वात्सम्प्रसारणम् । कृष्णोत्तरासङ्गो नीलांतरीयम् । 'द्वौ प्रावरोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च-' इत्यमरः। तस्य रुचं चूतपल्लवस्येमा चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लवपद् धूमा कुर्वत्रित्यर्थः । 'धूमधूमलौ कृष्णलोहिते' इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्याक्षेपात्रदर्श- नालद्वारः ॥ १९॥ ककुमिकन्यावतान्तर्वासलब्धाधिवासया ॥ मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥ ककुप्रीति ॥ अपरं किं कुर्वन् मुखामोदमुद्वमन् वदनसौरभ्यमुद्विरन् । कीदृशं मुखामोदं मदिरया कृतानुव्याधं सुरया कृतोऽनुव्याधः सम्पर्को गन्धातिशयो यस्य, सुरया विहितपरिमलातिशयम् । किंभूतया मदिरया ककुमिकन्यावक्त्रान्तर्वासलब्धाधिवासया ककुभिकन्याया रेवत्या वक्त्रान्तर्वासेन मुखमध्यावस्थित्या लब्धोऽधिगतः प्रातोऽधिवासः सौरभ्यं यया मदिरया सा तया । माल्यैर्गन्धैश्च संस्कारमधिवासं विदुर्बुधाः । एवंप्रकृतिसरमिरेवतीवदमातिशयसरमितमुखसरया सरभितरीकृतवदनवासितमन्त्रमण्डप इति वाक्यार्थः ॥ २०॥ (१) चौतपल्लवीम् ।

सन्देहविषौषधिसर्वपायुते- [द्वितीय:- कुकुवाति ॥ पुनः। कुकुमिकम्याया रेवत्या पकस्यान्तरभ्यन्तरे वासेन स्थित्या लब्धोऽभिव.सो वासना यया तया । तन्मुखसौरभवासितयेत्यर्थः। संस्कारो गन्धमाल्यावैराषिवासनमुच्यते । मदिरया कृता- नुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । 'व्यधजपोरनुपसर्ग-' इत्यनुपसृष्टादप्पत्ययविधानादुप- मृष्टायधेर्घञ्प्रत्ययः। मुखामादं स्वमुखगन्धविशेषम् । 'आमोदः सोऽतिनिहरी' इत्यमरः । उदमन्नुहिरन् । अत्र मदिसराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतण्डूषमयगन्धस्वीकारागद्गुणयोस्तोत्तरस्या- त्मविशेषकत्वेन पूर्वसापेक्षत्वादङ्गाङ्गिभावेन मरः । तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणातू ॥१०॥ जगाद वदनच्छन्नपझपर्यन्तपातिनः ॥ नयन्मधुलिहः श्वैत्यमुदंशु(१)दशमांशुभिः ॥ २१ ॥ जगादेति ॥ किं कुर्वन् मधुलिहो भ्रमरान् श्वैत्यं नयन् श्वेतत्वं प्रापयन् । जीवत्वोरिति (?) कर्मसङ्केतः ।कैः उदंशुदशनांशुभिः उर्दशव उन्नतात ये दशनास्तेषामंशुभिर्मयूखैः उज्ज्वलदन्तकिरणैः, किंविधान् भ्रमरान् वदनच्छापमपर्यन्त- पातिनः वदनच्छन मुखव्याज यत् पर्व तस्य पर्यन्तः प्रान्तस्तत्र पतन्तीत्येवंशीला: तान् । पुण्डरीकभ्रान्त्या मुखसमीपगतान् अलीन् सितदशनकिरणैः शुक्लान् विदधदि- त्यर्थः । उत्प्रेक्षासंशयगुणजातिविरोधानां साङ्कर्यात् सङ्करालङ्कारोऽयम् कुलकम् । ॥२१॥ जगादति ॥ वदनमेव उद्म कपटं यस्य तत्पद्यम् । वदनमेव पद्ममित्यर्थः। छद्मशब्देनासत्यत्वप्रति- पादनरूपोपहवः । तस्य पर्यन्तपातिनः प्रान्तसञ्चारिणः मधु लिहन्तीति मधुलिहस्ता-मधुपान् । विए। उदबरुच्छ्रितैः दशनाशुभिः श्वैत्यं धावल्यं नयत्रेवं जगाद । तद्गुणालङ्कारः। तस्य मधुपसान्निधापकवद नापलवसापेक्षत्वात्तेन सदुरः । कुलकम् ॥ २१ ॥ किमुवाचेत्याह- यद्वासुदेवेनाऽदीनमनादोनवमीरितम् ॥ वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥ यदिति ॥ सिद्धान्तसूत्रमेतत् । यद्वचः वासुदेवेन श्रीकृष्णेन ईरितमुच्चरितं, तस्य वचसः सपदि तत्कालमेव क्रियैव केवलमुत्तरं कर्तव्यतैव उत्तरम् । अनुष्ठेयमेतदित्यर्थः । कथंभूतं वचः अदीनमुद्धतम् ओजस्वि, अत एव अनादीनवं निर्दोषम् । नैतत् लज्जावह महितं चेत्यर्थः । सत्यमेतत्कर्तव्यमेव ॥ २२ ॥ रामो जगादेत्युक्तम् । कि तदित्याकालायामाह- यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं नादीनवोऽस्येत्यनादीनवं निर्दोषम् । 'दोष आदीनवो मनः' इत्यमरः । यदच ईरिलम् । 'उनिष्ठमानस्तु परः' इत्यादिपक्षमाश्रित्य यदुकमित्यर्थः । सस्य सपदि क्रिया केवलं मघोनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोकत्वादिति भावः ॥ २२ ॥ अथ तदेव प्रतिपादयिष्यननन्यातिशयतयोपस्करोति- अत्र द्वित्रिश्लोकः स्वल्पमुक्त हरिणा । अतो वाक्प्रपञ्चे नसत्यत्वात्कथमनुष्ठेयमित्याह- नैतल्लम्वपि भूयस्या वचो वाचाऽतिशय्यवे॥ इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥ नैतदिति ॥ उद्धवमुद्दिश्याह-एतद्भगवदुक्तं वचः अन्यया वाचा नातिशय्यते जेतुं न शक्यते नातिक्रम्यते । वाचस्पतेरप्येतदलळ्यमित्यर्थः । कथंभूत लध्वपि स्वल्प- (१)मुन्न।

सर्गः 1. शिशुपालवधे। ५५ मपि, कर्मभूतया वाचा भूयस्या सविस्तरया । अत्र साधकदृष्टान्तमाह-यतः कारणा- दग्निर्वैश्वानरः विषा कान्त्या पूर्ण न अत्येति सूर्य नातिकामति । अग्निना न कदाचिदपि विवस्वान् जीयत इत्यर्थः । कीदृशोऽग्निः इन्धनौषधगपि दारुसमूहदाहको- ऽपि । दहतीति धक् कि दादेर्धातोः 'एकाचो बशो भए अषन्तस्य स्ध्वोरिति धः, झलां जशोऽन्ते । पूषणमिति सौ चेति वचनादीर्घाभावः ॥ २३ ॥ नैतक्षिति ॥ लघु संक्षिप्तमप्येतचो भूयस्या बहुतरया । विस्तृतयाऽपीत्यर्थः । द्विवचन विभज्य-' इत्यादिना ईयसुनि बहलोपो भू च बहो' इतीकारलोपो बहोच भूरादेशः। वाचा नातिशय्यते नातिरि- च्यते । गुर्वर्थत्वादिति भावः । शीड कर्माण लटि यक्। 'अयक् यि विङति' इत्ययादेशः । तथा हि- इन्धनौघान्दहतीतीन्धनौषधक काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वे भष्भावः । अप्रिस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयोसमपीति भावः । न अत्येति नातिकामति । तेजसः प्रभावत्वमिव बचसोऽथ. वत्त्वमलङ्ग्यत्यहेतुरित्यर्थः । अब समानधर्मबिम्बितया दृष्टान्तालङ्कारः ॥ २३ ॥ उद्धवमुद्दिश्यात्मनो वाग्विभवस्यावसरदानाय सन्दानितकमाह- विरोधिवचसो मूकान्वागीशानपि कुर्वते । जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः(१) ॥ २४ ॥ संक्षिप्तस्याप्यतोऽस्यैव पाक्यस्यार्थगरीयसः ॥ सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २५ ॥ विरोधीति ॥ युग्मम् । कृतिनां प्रवीणानां गिरोवाण्यः वागीशान सर्वज्ञान वाचालानपि पुरुषान् मूकान् निर्वचनान् कुर्वते । यतः किंविधान् विरोधिवचसः विरुद्धवचनान् । निश्चिता- र्थनिषेधकानित्यर्थः । प्रकृतार्थविरोधोद्भावनादिति भावः । कृतित्वाद्वि ना तावदुग्राहयति, यावत्पण्डितवचनं युक्तमपि मूर्खचित्ते विरुद्धरूपं विपरिणमति । अपरं जडानपि मादृशान् मूर्खानपि प्रवाचः कुर्वते प्रकृष्टवाणीकान् कुर्वते, किंविधान् अनुलोमार्थान् सम्बद्धाभिभाषि- णः । अनुलोमार्थः युक्ताभिधेयः । प्रकृष्टा वाक् येषां ते । 'अन्येषामपि दृश्यत' इति किम् , दीर्घः । प्रतिवादिनस्तावदुग्राहयन्ते यावद्विरुद्धमपि पक्षवचनं त्याज्यम् । तद्भावनेना- नुलोमार्थान् कुर्वन्तीत्यर्थः । तदेतदुक्तं भवति-यग्रह हरिवाक्यस्य भाष्यं न करोमि ततोऽयमुद्धवः कृतित्वात् युक्तमप्येतद्वचनं विघटयते । विवरणे तु कृत्यर्थावबोधेन प्रत्यु- तैतन्मनसैवास्माभिष्यते । तस्मान्मम वचनस्यायमवसरः । शास्त्रेण वर्धिता धोयेषां ते कृतिनः सुनीतिशास्त्रविद उपदिशन्ति । विचार्य राज्ञा व्यवहर्तव्यम् । तन्मन्यतां ताव- त्किं हरिणा युक्तमुक्तमुतान्यथेति । तत्कथमुच्यते तस्य वचसः सपदि क्रिया केवलमुत्तरमि- त्याह-संक्षिप्तस्येत्यादि । यतः प्रवीणानां गिरः इदं पूर्वोक्तं कुर्वते, अतोऽस्मात्कारणा- दस्यैव कृष्णोक्तस्य वाक्यस्य संक्षिप्तस्यापि लघुनोऽपि अतिविस्तृतत्वात् सविस्तरतरा मे मम वाचोऽन्येषामविघटनाथं भाष्यभूता भवन्तु विवरणरूपाः सम्पयन्ताम् । अवि- वृतं शास्त्रमबुद्ध्वा सर्वो दूषयतीत्यर्थः । कथंभूतस्य वाक्यस्य संक्षितस्यापि लघुनोऽपि, अपरं पुनः अर्थगरीयसः महार्थस्य । अपि विस्मये । संक्षिप्तं हि न तथा महाथं भवति । (1) सर्वदूषायां तु संक्षिप्तस्य, विरोधिवचसः, षड्गुण':, अनिर्लोठितकार्यस्य, सर्वकार्यशरीरेषु' इ. त्येवं क्रमो दृश्यते।

सन्देहविषौषधिसर्वकषायुते- [ द्वितीया- -- : अन्यस्यापि कात्यायनादिकृतस्य लघुनोऽपि महार्थस्य वाक्यस्य भाष्य पतञ्जलिप्रभृतिभिः कृतं भवति । एतेन सीरपाणिरपि तमेवार्थ विस्तस्मारोपयतीत्यर्थः ।। २४-२५ ॥ यदि हरिवर्च' नातिशय्यते, अलं तर्हि तवापि वागारम्भरत पाह- इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदि निधाय त्रिभिः प्रन्याचष्टे- विरोधीति ॥ कृतिनो कुशलानां गिरः कः विरोधिवचसः प्रतिकूलवादिनो वागीशान्वाक्पतीनपि । 'वागीशो वाक्पतिः समौ' इत्यमरः। मूकानिर्वाचः कुर्वते । जडयन्तीत्यर्थः। अनुलोमोऽनुकूलोयोऽभिधेयः येषां तेऽनुकूलार्थी अनुकूलवादिनः तान् जडान्मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतोस्मद्गिरः प्रवाच्या इति भावः । अत्र वागीशानां मूकीकरणाजडाना प्रवाक्त्वकरणाच शक्यवस्तुकरणरूपो विशेषो- ऽलङ्कारः असम्बन्धे सम्बन्धातिशयोक्ति प्रतिभोत्थापित इति सारः ॥ ४॥ नवात्मनीनेन स्वामिना 'बुद्धेः फलममाग्रहः" इति न्यायेन ' शामवचनं प्रतिकूलमपि प्राद्य. मेवेत्याशड्याह- संक्षिप्तस्येति ॥ अतो. हरिषचसोम्नतिशयनीयत्वादेव सुविस्तरतराः प्रपञ्चराः । 'प्रथने वावशन्द' इति घनःप्रतिषेधः । 'ऋदोरप्' इत्यप् । मे वचसः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः। सूबकल्पस्येत्यर्थ । 'अल्पाक्षरममन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्रविदो विदुः ॥ इति लक्षणात् । अस्यैव वाक्यस्य नाम्यस्य भाष्यभूना भाध्यः समाः । नित्यसमास: । 'क्ष्माद। जम्ता भूनं क्लीब समेऽनीते चिरे त्रिषु' इति वैजयन्ती। व्याख्यानरूण भवन्तित्यर्थः । सूबव्याख्यान - विशेषो भाष्यम् । 'सूत्रस्थं पदमादाय वाक्यः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ।। इति। मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, नवतिशयाय प्रत्याख्यायते इत्यदोष- इत्यर्थः। उपमालङ्कारः ॥ २५ ॥ सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपञ्चकम् ॥ सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥ २६ ॥ सर्वेति ॥ हे श्रीकृष्णोद्धवौ ! महीभृतां राज्ञां सर्वकार्यशरीरेषु समस्तकृत्यदे हेषु अङ्गस्कन्धपञ्चकं अङ्गान्येव स्कन्धपञ्चकं मुक्त्वा पञ्चाङ्गमन्त्रं वर्जयित्वा अन्यो मन्त्रो नास्ति मन्त्रान्तरं न विद्यते । कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गो राजमन्त्रः । सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारो मन्त्रः पञ्चाङ्ग इष्यते ॥ इति कामन्दकः । एतद्वर्जमन्यो मन्त्रो नास्ति, तत किमत्र मन्त्र्यते। केषां यथा केषु किंवज किमन्यन्नास्तीत्याह-केषामिव सौगतानामिव बौद्धानामिव । यथा- बौद्धानां रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणं स्कन्धपञ्चकं मुक्त्वा वर्जयित्वा सर्वशरीरेषु अन्य आत्मा न विद्यते । बौद्धा हि रूपादिव्यतिरिक्तमात्मानं नेच्छन्ति न मन्यन्ते । रूपमाकारः, वेदना सुखदुःखानुभवः, संज्ञा चैतन्य, संस्कारः शास्त्रादिवपुरलङ्कारः, अधीतस्याविस्मरणं विज्ञानम्, अङ्गम् । इत्यर्थः शास्त्रज्ञानां भणितः । छगते बुद्ध भक्तिरेषा ते सौगताः बौद्धाः ॥ २६ ॥ - ।

सर्गः।] शिशुपालवधे। . इत्थं पागुण्यादिपाठमान मन्त्र इति सिद्ध सम्प्रति स्वयं मन्त्रस्वरूपमाह- सर्वेति ॥ सर्वाणि कार्याणि सन्ध्यादीनि तानि शरीराणी वेत्युपमितसमामः । सौगतानामिवेति । लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येष्वित्यर्थः । अङ्गानि स्कन्धा हवेत्युपमितसमासः । तेषां पञ्चकं मुक्त्वा । स्कन्धपञ्चकमिवाइन्पञ्चकं हिस्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति कप्रत्ययः। सुगतो भक्तिर्भजनीय एषा सौगता बौद्धाः । 'भक्तिः' इत्याप्रत्य- यः । तेषामन्य आत्मेव महीभृतामन्यो मन्त्री नास्ति । कर्मणामारम्भोपायः, पुरुषव्यसम्पत् , देशकालवि- भागः, विपत्तिप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दक:- 'सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपश्ची वेदनास्कन्धः, आलयविज्ञानसन्तानो विज्ञानस्कन्धः, नामप्रपञ्चः सज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्तमानो ज्ञानसन्तान एवात्मा इति बौद्धाः। एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धाञ्चका- तिरिक्त आत्मा नास्ति, तथा राज्ञामगपञ्चकातिरिनो मन्त्रो नास्तीत्युपमालङ्कारः । तच्चास्माकं समग्र- मेवेत्ययमेव यात्राकाल इति भावः ॥ २६ ॥ ननु अन्योऽपि षड्गुणादिको मन्त्रोऽस्ति तत्कथं मन्त्रान्तरं नास्तीति भवानाह- षड्गुणाः शक्कयस्तिनः सिद्धयश्चोदयात्रयः ॥ ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधतोऽप्यलम् ॥ २७॥ षडिति ॥ दुर्भधसोऽपि जडधियोऽपि इति व्याकर्तुमित्येतत् व्याख्यातुमलं समर्थाः, किं कृत्वा ग्रन्थानधीत्य चाणक्यादीनि अर्थशास्त्राणि पठित्वा । इतीति किम् , यत्- षड् गुणाः, सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षड् गुणाः । पणबन्धः सन्धिः, विग्रहोऽप- कारः, यानमभ्युचयः, आसनमुपेक्षणं, परस्योपसर्पणं संश्रयः, एकेन सह सन्धायाऽपरेण सह विग्रहकरणं द्वैधीभावः । तिस्रः शक्तयः प्रभुमन्त्रोत्साहलक्षणास्तिस्रः शक्तयः । कोशो दुर्गः दण्डसम्पत् प्रभुशक्तिः । कोशो भाण्डागारः, दुर्गः प्राकारः, दण्डश्चतुरङ्गबलम् । विज्ञानसम्पत् मन्त्रशक्तिः । पराक्रमसम्पदुत्साहशक्तिः । तिस्रः सिद्धयः भूहिरण्यमन्त्र- लक्षणाः । शक्तित्रयजनितानि त्रीणि सुखानि । अपरं चयापचयस्थानलक्षणात्रय उदयाः । चयो वृद्धिः, अपचयः क्षयः, चयापचयरहिता अवस्था स्थानम् । इति व्याख्यातुं जडधि- योऽप्यलम् । षड्गुणादिविज्ञानं तावद्वाकसंस्कारमात्रफलं न तूपादेयम् । मन्त्रस्त्वङ्गपञ्च- कमेवेत्यर्थः । षड्गुणादिभ्यो नारदवद् द्वितीया न भवति ॥ २७ ॥ पाडीत ॥ दुष्टा मेधा येषां ते दुर्मेधसः मन्दबुद्धयोऽपि । 'नित्यमसिप्रजामेधयोः' इति समासान्तो- ऽसिमस्ययः । ग्रन्थानौशनसादीन् अधीत्य पठित्वा, 'गुण : सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः षट्। शकयः प्रभुत्वमन्त्रोत्साहाख्यास्तिस्रः । सिद्धयः पूर्वोक्तशाक्तत्रयसाध्याः पुरुषार्थलाभात्मिकाः । ताश्च ति- सः प्रभुसिद्धिमन्त्रसिद्धिरुत्साहसिद्धिश्वेति । उदयाः वृद्धिक्षयस्थानानि छत्रिन्यायनोदया उच्यन्त । तत्र वृद्धि- क्षयौ स्वशक्तिसिद्धयोः पूर्वावस्थानादुपचयापचयौ स्थानं ते च त्रयः इति व्याकर्तुं व्याख्यातुमलं समर्थाः । 'पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । पञ्चाङ्गनिर्णयशक्तिविकलानां सन्ध्यादिरूपसंख्यामात्रपाठकाना- मशानशत्वादुद्धपादयो न ग्राह्यवचना इत्यभिसन्धिः । प्रचामरः- 'संधिर्ना विग्रहो यानमासनं धमाश्रयः । षड् गुणाः शक्तयस्तितः प्रभावोत्साहमबजाः ।। क्षयः स्थानं च वृद्धिश्व त्रिवर्गो नीतिवेदिनाम्' ।। - सन्देहविषौषधिसहिपायुते- [वितीयः- इति । तपारिवजिगीष्योर्व्यवस्थाकरणमैक्य सन्धिः । विरोधो विग्रहः । विजिगीषोररि प्रति यात्रा यानम् । तयोमिथः प्रतिबद्धशकयोः कालपतीक्षया तूष्णीमवस्थानमासनम् । दुलप्रबलयोर्वाचिक- मात्मसमर्पण द्वैधीभावः। आरेणा पीडयमानस्य बलवदाश्रयणं संश्रयः। कोशदण्डोत्थं तेजः प्रभावः । कर्तव्यार्थेषु स्थयान्प्रयन उत्साहः । षड्गुणचिन्तनं मन्त्रः । गतमन्यदिति सलेमः ॥२०॥ अलं बहुना, रटनेन किं प्रयोजनम् । सर्वथा कार्यतत्वमेवावगन्तव्यमित्येतदर्शयितुमाह- अनिलोंठित(१)कार्यस्य वारजालं वाग्मिनो वृथा। निमित्तादपराद्धषोर्धानुष्कस्येव पल्गितम् ॥ २८ ॥ अनिर्लोठितेति ॥ वाग्मिनो वावदूकस्य वाचालस्य वाग्जालं भारतीप्रपञ्चो वृथा निरर्थकं, कशंभूतस्य वाग्मिनः अनिर्लोठितमनिष्टङ्कितं भिन्न ननिश्चितं कार्य येन सः तस्य अपर्यालोचिंतकृत्यस्य अस्पष्टकृत्यस्य । अज्ञात कार्यासारे मन्त्रः प्रलाप इत्यर्थः । कस्येव धनुर्धरस्येव । यथा धानुष्कस्य वलिंगतं वृथा वल्गनिका निरर्थका । शरव्यमभक्त्वा अङ्गभङ्गादिकं खलूपहासायैव । कथंभूतस्य निमित्तात् अपरादेषोध्यात् भ्रष्टसायकस्य । स भवेदपराद्धेषुषर्यस्य लक्ष्यात च्युतः शरः। धनुः प्रहरणमस्य धानुष्कः 'प्रहरण मिति 'प्राग्वहतीति धनुषष्टक् , इसुसुक्तान्तात्कः ॥ २८ ॥ ननु शामोकार्थव्याख्यातैत्र शामज्ञः, स एव ग्राह्य वचनश्चेत्याशङ्कयाह- अनिर्लोडितेति ।। अनिलोडितं नालोकितं कार्य येन तस्य । कार्याकार्यमजानत इत्यर्थः । वाचोऽस्य सन्तीति वाग्मी वावदूकः । 'वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्करि' इत्यमरः । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । तस्य वाग्जालं वागाडम्बरो निमित्ताल्लक्ष्यात् । 'वेध्यं लक्ष्य निमित्तं च शरव्यं च समं विदुः' इति वैजयन्ती । अपराद्धेषोः स्वलितवाणस्य । धनुः प्रहरणमस्यति धानुष्को धन्धी । 'प्रहरणम्' इति ठक् । इसुसुक्का तात्कः । 'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः । धन्वी धनुष्मान्धानुष्क:-' इत्यमरः । तस्य वल्गितमिव वृथा निष्कलम् । कार्यज्ञस्य वची ग्राह्यं न तु वाचालस्येति भावः॥२८॥ किन मन्त्रशक्तिर्दोषायेति दर्शयितुमाह- मन्त्रो योध इवाधीरः सर्वाङ्गः कल्पितैरपि(२) ॥ चिरं न सहते स्थातुं परेभ्यो भेदशया ॥ २९ ॥ मन्त्र इति ॥ मन्त्रश्चिरं बहुकालं स्थातुं न सहते दीर्घकालं न क्षमते, कैः सर्वाङ्गैः कल्पितैरपि कर्मोपायादिभिः पञ्चभिः सन्नद्धैरपि । यतः किंविधः अधीरः बहुकालावस्था- ऽसहः, कया परेभ्यो भेदशङ्कया। चिरकालमन्त्रकरणात् कदाचिन्मन्त्रभेदो भवति । भेद- ऊहश्रुतिः । मन्त्रभेदाद्विनष्ट कार्य दुःसाध्यं भवति । क इव अधीरो योध इव । यथा अधीरः कातरोः योधः सर्वाङ्गः हस्तशिरःपादादिभिः सकलावयवैः कल्पितैः सन्नवैरपि प्रतियोधप्रहारशङ्कया चिरं स्थातुं न शक्नोति । तस्मान्मुहूर्तमान मन्त्रो विधेयः । युध्य- तीति योधः पचादित्वादच् । स्थातुमिति 'शकवृषेति तुमन् ॥ २९ ॥ अथ मन्त्रितार्थक्रियाविलम्ब दोषमाह-- मन्त्र इति ॥ संवृतेर्गुतैः सर्वाङ्गैः पूर्वोकैरुपायादिभिरुरःस्थलादिभिचोपलक्षितोऽपि । सर्वाङ्गसं- (१) अनिलोडिन। (२) संवृतैरपि । - :

सर्गः।] ५४ तोऽपीत्यर्थः । मन्त्रो विचारः अधोरो भीरुः, युभ्यत इति योधो भट इव । पचायच् । परभ्योऽन्येभ्योऽरि- भ्यश्च । 'पर इरान्यमुख्येषु परोपरपरमात्मनोः' इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च तस्य शहूया चिरं स्थातुम् । विलम्बितुमित्यर्थः । न सहते न शमः । 'शकधृष-'इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम्, अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः ॥ २९ ॥ ननु मन्त्रकरणं नीतिरिति बुधैर्व्यवस्थापितं, तत्कथं भवता निषिध्यत इत्याह- आत्मोदयः परज्यानिय नीतिरितीयती॥ तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥ आत्मोदय इति ॥ इति हयती नीतिः इयानेष नयः । इति किं यद् द्वयं, किं तद् द्वयम् आत्मोदयः स्ववृद्धिः परज्यानिः शत्रुक्षयः । तस्मादेतद्वयातिरिकाऽन्या नीतिन काचि- द्विद्यते । एष एव मन्त्रः इत्यर्थः । कृतिभिः प्रवीणैः तद् द्वयमूरीकृत्य अङ्गोकृत्य वाचस्पत्यं वागीशत्वं प्रातायते विस्तार्यते । द्वयमेतद्वीजभूतं गृहीत्वाऽत्रैवोपचर्य नान्यदुच्यते इत्यर्थः । एतस्माचाकं वियते इति दर्शयिष्यते । तस्मात्कालक्षेपेण न किञ्चित्प्रयोजनमिति भावः । ज्यानिशब्दः औणादिकः । इदं परिमाणमस्या इयती किमिदंभ्यां वों घः। जरीकृत्येति 'ऊर्यादिच्चिडाचश्चेति गतिसंज्ञा । प्रतायत इति कर्मणि लकारः । तनोतेर्यकि वा आत्व- म् । विभवाथ युद्धमिह, स त्वमित्र स्वल्पोऽस्ति इत्याशङ्कय एतचास्माकमस्ति तस्मा- त्कालक्षेपो न विधेय इत्यर्थः ॥ ३० ॥ कि नीतिसर्वस्वपर्यालोचनयाऽपि न विलम्बः कार्य इत्यभिप्रेत्याह- आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोानि निः । 'वीज्याहाज्वरिभ्यो निः' इत्यौ- गादिको निःप्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । "किमिदभ्यां वो घः' इति मतुपो वस्य घन । 'उगितश्व' इति डीप् । नीतिनीनिसाहः । एतद्वयातिरिको न कश्चित्रीतिपदार्थोऽस्ती. त्यर्थः । यदन्यत्वाड्गुण्यादिवर्णनं तसवमस्यैव प्रपञ्च इत्याह-तदिति । तद् द्वयमूरीकृत्याङ्गीकृत्य । 'उरी- कृतमुररी कृतमीकृतम्' इत्यमरः । 'उर्यादिच्चिडाचश्च' इनि गतिसंज्ञाया 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक्सत्वे । 'षष्ट्याः पतिपुत्र-' इत्यादिना सत्व. मिति स्वामी तन्त्र, तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वादावे ब्यब्प्रत्ययः । प्रतायते विस्तीर्यते । कणि लट् । 'तनोतेयांक' इत्यात्वम् । तस्मादात्मोदयाधिभिरविलम्बाच्छवच्छत्तव्यः, तपान्तरीयत्वा- त्तस्येति भावः ।। ३०॥ ननु उदयाथं परेषु यात्रोदयः पराभिसन्धानस्य प्रधान प्रयोजन, स चास्माकं विद्यत- एवातः परज्यानिर्मा भूदिति कि यात्रयेत्याह- तृप्तियोगः परेणापि महिना न महात्मनाम् ॥ पूर्णश्चन्द्रोदयाकानी हृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ तृप्तियोग इति ॥ महात्मनां विपुलमतीनां पुरुषाणां परेणापि उत्कृष्टेनापि महि- ना आधिपत्येन न तृतियोगः न वितृष्णया सम्बन्धः तृप्तिन जायते । तव तु कियानु- दयो येन सन्तुष्यते किमत्र । निदर्शनमाह-अत्र अस्मिन् अर्थे महार्णवः समुद्रो दृष्टान्तः निदर्शनम् । कीदृशः पूर्णः सम्पूर्णोऽपि, अपरम् अधिकवृद्धये चन्द्रोदयाकाक्षी । चन्द्रोद- यमिच्छतीत्यर्थः । यदि हि वृद्धिमात्रेणैव सन्तोषः स्यात् तत्कथमर्णवो महान् पूर्णस्तु शश्युद्गर्म प्रार्थयेत् । अर्णो जलं विद्यते यस्येत्यर्णवः अर्णसः सलोपो वश्च । ध्यान्तः प्रकृतार्थनियोऽस्मिन्निति । दृश्यते तन्निदर्शनम् ॥ ३१ ॥ .. - सन्देहविपधिसर्वनायुते- [वितीयः- - । ननु लन्धोदयस्य किं पराच्छित्यत्याह- तृप्तियोग इति ।। महीयसा महात्मना परेणापि प्रभूतेनापि महिमा ऐश्वर्येण वृतियोगः सन्तोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्दादयाकाली । वृष्यर्थमिति भावः। महार्णवो वृष्टान्त: । दृष्टः अन्तो निश्चयों यस्मिन् दृष्टान्तो निदर्शवम् । उपमानमिति यावत् । राज्ञा वृद्धौ अलंबुद्धिन कार्या । 'असन्तुष्टा हिजा नष्टाः सन्तुष्टाश्च महीभुजः। समज्जा गणिका नष्टा निलंग्जा च कुलाना' । इति न्यायादिति भावः । नायं दृष्टान्तालङ्कारः । बिम्बप्रतिविम्बभाषेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किन्तु दृष्टान्तशम्देन तस्याभिधानादुपमालङ्कारः। अत एव दृष्टान्तोदाहरणनिदर्शनरूपाः शन्दी न प्रयोकव्याः "पौनरुक्त्यापत्तरित्येकावल्यलङ्कारः ॥ ३१ ॥ किञ्च सन्तुष्टस्योदय एव न भवति इति दर्शयितुमाह- सम्पदा सुस्थितमन्यो(१) भवति स्वल्पयाऽपि यः ॥ कृतकृत्यो विधिमन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥ सम्पदेति ॥ यः पुरुषः स्वल्पया अपि सम्पदा उनया अपि विभूत्या सुस्थितं. मम्यो भवति । सुस्थितं सुखिनमात्मानं मन्यते सस्थितमन्यः आत्ममाने संशप्रत्ययः । अहंमन्यो जायते । विधिदैवं तस्य पुरुषस्य तां समृद्धि न वर्धयति बहुलां न करोति यतः कीदृशो विधिः कृतकृत्यः विहितकार्यः । विधिना हि सर्वस्येच्छा पूरणीया । यत्र सन्तोषेणाधिकं न कामयते तस्याधिकदानेनाऽसौ न क्लेशमनुभवति, उपकाराभावात् । वाक्यार्थस्य कर्मत्वादत्र द्वितीयाभावः ॥ ३२ ॥ तथापि सन्तोष दोषमाह- सम्पदेति ॥ यः स्वल्पयाऽपि सम्पदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' इति खरप्रत्यये मुमागमः । तस्याल्पसन्तुष्टस्य ता स्वल्पसम्पदं कृतकृत्यस्तावतैव कृतार्थों विधिदेवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनादेवमपि जुगुप्सते, सत्मवृत्नेः पारादिति भावः ॥१२॥ यत्तु भवान् आत्मोदयश्रेत्परो नाऽभिसन्धेयः, किं शबुगमनेन तन्त्र । यतः अरिक्षयहेतुक- एवात्मोदय इति दर्शवितुमाह- समूलघातमनन्तः परामोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥३३॥ समूलेति ॥ मानिनः पुरुषाः परान् शत्रून् समूलघातमध्नन्तः आमूलादविनाश- यन्तोऽनुन्मूलयन्तः सन्तो न उद्यन्ति उदयं न कुर्वते । शत्रुक्षयः सम्पदा कारणमित्यर्थः । उक्तंच- असन्तुष्टा द्विजा नटाः सन्तोषेण तु पार्थिवाः । सलजा गणिका नष्टा निर्लजाश्च कुलखियः ॥ एतेन भूपतिना सता सन्तोषो न कार्यः । तत्र तस्मिन्नथें भगवान् रविः उदाहरण दृष्टान्तः, किभूतो रविः प्रध्वंसितान्धतमसः क्षपिततमस्काण्डः । स हि भगवान् तम- श्छेदपूर्वकमुदेति नान्यथा । तदुक्तम्-अविभिद्य निशाकृतं तमः प्रभया नामता- ऽप्युदीयते । समूलघातमिति समूले हन्तेर्णमुल् क्त्वास्थाने, कषाविषु यथाविध्यनुप्रयोगः । (१) सुस्थिरंमन्यो। - -- ।

सर्गः।] शिशुपालवधे। .. - धातंशब्दार्थवान न विद्यते। समूलमध्नतः इत्ययमेव यत्रार्थः । अघ्नन्त इति शतृ । उद्य- न्तीति इणो यण । अन्धयतीति अन्धः अन्धवत्तमोऽन्धतमसम्, अवसमन्धेभ्यस्तमसः । उदाहियतेऽनेनार्थयोः साध्यसाधनभाव इत्युदाहरणम् । दृष्टान्तः इत्यर्थः ॥ ३३ ॥ किश्च पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह- समूलति।मानिनोऽभिमानिनः परान् शत्रून् समूलं हत्वा समूलघातम् अनन्तः अनुन्मूलयन्त इत्यर्थः 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इति णमुलप्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' इति हन्तेरनुप्रयोगः। नयान्ति । किन्तु हत्वैवोद्यन्तीत्यर्थः । तत्र हत्येवोदये, अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढे- ऽवतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' इत्यच्प्रत्ययः । प्रध्वंसितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः। अत्रापि 'दृष्टान्तोऽत्र महार्णवः' इतिवदुपमालङ्कारो न तु दृष्टान्त इति दृष्टव्यम॥३३॥ अलब्धोदयेन सपत्नोच्छेदमन्तरेणावस्थानं दुर्लभमिति दर्शयितुमाह- विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥ विपक्षमिति ॥ खलु यस्मात् कारणात् विपक्षं शत्रुमखिलीकृत्य समूलमनुन्मूल्य अचूर्णयित्वा प्रतिष्ठा दुर्लभा, खलु पूर्वोक्ताक्षेपं कुर्वन् अवधारणे । आस्तां तावदुदयः, पदबन्ध एव दुरासदः इत्यर्थः । अत्र दृष्टान्तमाह-यतः कारणादुदकं कर्तृ धूलिं कर्म पङ्कताम् अनीत्वा कर्दमत्वमप्रापय्य न अवतिष्ठते अवस्थानं न बध्नाति । समवप्रविभ्यः स्थः आत्मनेपदम् । 'व्यवस्थायामसंज्ञाया'मिति ज्ञापकात् प्रतिष्ठाशब्दे 'स्थागापापचों भावे इत्यङपवादः तिन् न भवति । सामान्यापेक्षवत् ज्ञापकं स्यादेतत् ॥ ३४ ॥ किञ्च अनुच्छित्रशत्रो:प्रतिष्ठेव दुर्घ टेत्याह- विपक्षामिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलनुत्सनमकृत्वा । अनुमूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथा हि-उदकं कर्तृ धूलिम् । स्वपरिभाविनी मिति भावः । पनामनीत्वा। नाधःकृत्येत्यर्थः । नावतिष्ठते । किन्तु नीत्वैव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बन! - पेक्षो दृष्टान्तालकारः ॥ ३४ ॥ अन्ये अरयो न स्युः शिशुश्चैकः किं करिष्यति इति चद्दर्शयितुमाह- ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् ॥ पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरदुहाम् ॥ ३५ ॥ ध्रियत इति ॥ दूरे तिष्ठन्तु बहवोऽमित्राः, यावदेकोऽपि रिपुर्धियते एक एव विपक्षी जीवति तावत्कुतः सुखं कुतः श्रेयः । लब्धोदयस्यारिलेशः सन्नपि दुःखायैव भवति । हि यस्मात् असरद्गुहां देवानां पुरोऽग्रतः सैहिकेयो राहुः सोमं चन्द्रमर्स क्लिश्नाति ग्रसत- एव । सोमग्रहणमुपलक्षणं, रविमपीत्येवम् । तस्माच्चैद्यं याम इति भावः ॥ ३५ ॥ नन्ध यं शिशुपाल एकाकी नः किं करिष्यतीत्याशक्याह- ध्रियत इति ॥ एकोऽपि रिपुर्या वद् ध्रियतेष्वतिष्ठते। धूङ् अवस्थाने' इति धातोस्तौदादिकाकर्तरि लट् । " रिशयग्लिक्षु' इति रिजादेशः । तावत्तदवधि सुखं कुतः । यावत्तावच साकल्येऽवधी' इत्यमरः । तया हि- सिंहिकाया अपत्यं पुमानसहिकेयो राहुः।'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः' इत्यमरः । श्रीभ्यो ढक् । असुराहो देवानां पुरो ने सोमं क्लिभाति धावते । प्राचुर्यात्सोमग्रहणम् । सूर्य चति भावः । तस्मादे. कोपि शत्रुरुच्छसव्य इति भावः । 'अग्नेः शेषमृणाच्छेषं शत्रोः शेपं न शेषयत्' इति तालर्यम् । विशेषण सामाग्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५ ॥ ६ शि०० : ।

६२
सन्देहविषौषधिसर्वकषायुते-
-
[ द्वितीयः-
-
स्यादतन्न चैद्योऽस्माकं रिपुः स्वाभाविकोऽपि तु कृत्रिमोऽपि लघुस्तकोऽस्य पैतृष्वस्त्री-
यस्योपरि क्षोभ इत्याशङ्कय गरीयस्त्वमेव प्रतिपादयितुमाह-
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ॥
स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥ ३६ ॥
सखेति ॥ इह शास्त्रे त्रिविधौ मित्रामित्रौ उक्तौ, सहजो प्राकृतौ कृत्रिमौ चेति
तत्र सहजं मित्रं मातुलतुल्यमातृष्वस्रीयादिकम् । प्राकृतं मित्रं शत्रुविषयानन्तरं पितृप-
रम्परागतं वा । कृत्रिमं मित्रं सामदानाचावर्जितम् । शवरपि त्रिविधः । सहजशत्रुः
कुल्यः पितृव्यस्तत्सुतादिः । प्राकृतः स्वविषयानन्तरः । अपराद्धोऽपराद्धा वा कृतिमः ।
एतयोः सहजप्राकृतकृत्रिममित्रामित्रयोर्मध्यात्सखा मित्रं शत्रुश्च कृत्रिमो गरीयान् कृत्रिमः
प्रधानः । हि यस्मात्कारणात् तौ कृत्रिमौ मित्रामित्रो कार्यतः कार्यवशात् अमित्रो मित्रे
च स्यातां न केवलं तौ कृत्रिमौ मित्रामित्रौ अपरं सहजप्राकृतावपि कार्यवशात् अमित्रो
मित्रे च स्याताम् । अत एव कृत्रिमावेव मित्रामित्रौ प्रधानौ । इदं व्याख्यानमपरेषाम् ।
अस्मन्मते तु प्रियहितकारी अप्रियहितकारी च कुत इत्याह-यस्मात्तावपि सहजप्राकृती
मित्रामित्रो कार्यतः प्रयोजनवशात् अमित्रौ च भवेतां मित्रे चेति कृत्रिमत्वं प्रधानम् ।
अतश्च कृत्रिमौ मित्रामित्रौ बलवत्तरौ बलवन्तौ । तथा च भगवान् पाराशर्यः-
नास्ति जात्या रिपु म मित्रं नाम न विद्यते ।
कार्ययोगाद्विजायन्ते मित्राणि रिपवस्तथा ॥
मित्रं च शत्रुतामेति कदाचित्कालपर्यये ।
शत्रुश्च मित्रतां याति स्वार्थो हि बलवत्तरः ॥
अमित्रो मित्रतां याति मित्रं चापि प्रद्रुह्यति ।
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः ॥
इति कृत्रिमत्वमेव प्रधानं नान्यत् । अन्यच्च कृत्रिम एवं शत्रुमित्रे बलवती । लोके
चैतदुक्तमपि दृश्यते । शत्रुरपि उपकारयोगान्मित्रीभवति । मित्रमप्यपकारसम्बन्धादमिती-
भवति । तदेतेन मित्रामिनयोस्त्रिधा बलाबलत्वं चोक्तमनित्यता च रागद्वेषयोः । अपिश-
ब्दोऽत्र भिन्नक्रमो विस्मये, तावित्यस्यानन्तरं बोद्धव्यः । हिहंतौ ॥ ३६ ॥
ननु क्षुद्रोऽयं चैयः किं नः करिष्यतीत्याशय तल्य बलवत्ता वक्तुं मित्रामित्रबलाबलविवेक
नावकरोति-
सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । वितः तिः कर्मनित्यम् ।
मत्वा सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतः--हि यस्मात्तौ कृत्रिममित्रशघ्र कार्यत उपकारापकाररूप कार्य-
धशात् । निर्वृत्ताविति शेषः । उक्त कार्योपाधेर्यावज्जीवमनपायात् अनयोर्मित्रांमित्रभावोऽप्यनपायीति गरीयां-
त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सह जातः सहजः एकशरीरावयवत्वात् । तत्र
महजं मित्रं मातृष्वसैयपितृष्वसेयादि । सहजशत्रुन्तु पितृभ्यतत्पुत्रादिः। प्रकृत्या सिद्धः प्राकृतः। पूर्वोत.
महजकृषि मलक्षणरहित इत्यर्थः । तत्र विषयानन्तरः प्राकृतः शत्रुः। तदनन्तरः प्राकृतं मित्रम् । भपि
न्वर्थे । ती सहजप्राकृतौ शत्रुमित्रे च स्याना तावात्मकार्यवशादनियमेनोभयरूपतामापयेते न कृत्रिमशत्रु-
मित्र । कृत्रिमः शत्रुः शत्रुरेव मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामिना गरीयांसौ । न तु सहजी
नापि प्राकृतांवित्यर्थः । अनेन कृषिमत्व सर्वापबादीति सिद्धम् ॥ ३६ ॥

सर्गः।]
शिशुपालवधे।
wr
इदानीमेतयोरेव ग्राह्याग्राह्यत्वमाह-
उपकारिणा सन्धिर्न मित्रेणापकारिणा ॥
उपकारापकारी हि लक्ष्यं लक्षणमेतयोः ॥ ३७॥
उपकषेति ॥ अरिणा सह सन्धिविधेयः, किंभूतेन उपकर्ता उपकारकेण । अपरं
मित्रेण सह सन्धिर्न कार्यः, कीदृशेनापकारिणा द्रोहकारिणा । उक्तं च-
यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते ।
अर्थयुक्तिं समालोच्य स महद्विन्दते फलम् ॥
यतः कारणात् एतयोः मित्रामित्रयोरुपकारापकारी लक्षणं लक्ष्यं ज्ञातव्यं न त्वन्यत् ।
अरिमित्रेति अत्र परप्रसिद्धयोक्तम् । यथा वर्णेषु ये वर्णेकदेशास्ते वर्णग्रहणेन गृह्यन्त इति।
अपकर्तृणेति पाठे 'इकोचि इति नुम् ॥ ३७ ॥
एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्सन्धातव्यो न तु यातव्य इत्यत आह-
उपकति ॥ उपकर्बोपकारकारिणा अरिणापि सहजेन । प्राकृतेन चेति शेषः । सन्धिः कार्यः ।
अरित्वापवादन कृत्रिममित्रताया बलीयस्या यावज्जीवभाविन्यास्तत्रोत्पत्रत्वादिति भावः । एवमपकारिणा
मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । सन्धिर्न कार्यः। मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या
यावज्जीवभाविन्यास्तत्रोत्पत्रित्वादिति भावः । ननु साक्षादरिणा सन्दध्यात् मित्रेण कथं विरुध्यादित्या-
शक्य क्रियया तयोवैपरीत्याददोष इत्याह-हि यस्मादुपकारापकारावेव तयोमित्रामित्रयोर्लक्षणं स्वरूप
लक्ष्यं द्रष्टव्यम् । उपकर्तेव मित्रम् अपकर्तेव शत्रुरित्यर्थः । तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रियया शत्रु-
त्वाद्यातव्य एवेति भावः ॥ ३७॥
एवं सामान्येनैतदभिधाय प्रकृते औद्यस्य कृत्रिमशत्रुत्वं दर्शयन्नाह-
त्वया विप्रकृतश्चैद्यो रुक्मिणी हरता हरे ! ॥
बद्धमूलस्य मूलं हि महद्वरतरोः स्त्रियः ॥ ३८ ॥
त्वयेति ॥ हे हरे ! त्वया चैद्यः शिशुपालो विप्रकृतः पराभूतः, किं कुर्वता रुक्मिणी
हरता पित्रा तस्मै दत्ता त्वया हृतवता । रुक्मिण्या विष्णोः पुरस्तादिति कथापितम्-
यदहं रुक्मराज्ञो गृहे रुक्मिणीरूपण लक्ष्मीरवतीर्णास्मि । यदि मां कोऽप्यन्यः परिणेष्यति
तदहं तदुपरि आत्मघातं करिष्यामि । ततोऽनन्तरं विष्णुना बलभद्रेण च तत्र गत्वा
चैद्याय प्रदत्ता सती आहूता इति वार्ता । अथ यदि नाम कन्याऽपहृता त्वया, न दोष
इत्याह-हि यस्मात्कारणात् वैरतरोविरोधपादपस्य स्त्रियो महन्मूलं दृढकारणम् । चतु-
विंशतिसहस्त्रं रामायणं सपादलक्षं श्रीमहाभारतं स्त्रीतः सञ्जातम् । किंभूतस्य वैरतरोः
बद्धमूलस्य दृढप्रतिष्ठस्य । स्त्रीभिर्मूलभूताभिर्बद्धं महद्वैरमित्यर्थः । बद्धमूलस्य कारणान्तरेण
लब्धप्रतिष्ठस्य वैरतरोर्नार्यो महन्मलं प्रधानं कारणमिति त्वन्ये । वैरं समूलत्वात्तरुरिव,
उपमितसमासः ॥ ३८ ॥
अथ चैद्यस्य कृत्रिमशत्रुत्वं चतुर्भिराह-
त्वयोति ॥ हे हरे ! रुक्मिणी हरता । बन्धुभिस्तस्मै प्रदत्ता राक्षसधर्मेणोद्वहतेत्यर्थः । 'राक्षसो युद्धहर-
गाव' इति वाज्ञवल्क्यः । 'गान्धर्वो राक्षसश्चैव धौ क्षत्रस्य तौ स्मृतो' इति मनुः। त्वया चैयो विप्र-
कृतः विप्रियं प्रापितः। तथा हि बद्धमूलस्य रूढमूलस्य वेरतरोः मियो महत्प्रधानं मूलम् । हि निश्चये। रूप-
कसमष्टोऽयं सामान्येन विशषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३८ ॥

सन्देहविषौषधिसर्वकषायुते-
[द्वितीयः-
-
।
तदेतेन त्वया स बाधित इत्युक्तम् , इदानी तेनाप्युपद्रुतस्त्वमिति दर्शयत्राह-
त्वयि भौमं गते जेतुमरोत्सीत्स पुरीमिमाम् ॥
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥
त्वयोति ॥ हे कृष्ण ! स सिशुपालः इमां पुरी द्वारावतीमरौत्सीत् अवेष्टयत् , क
सति त्वयि भौमं नरकासुरं जेतुं गते सति । यतो लब्धावसरोऽयम् । क इव अन्धकार-
इव । यथान्धकारो मेरोः कनकशिखरिणः तटी रुणद्धि, कथंभूतां तटीं प्रोषितार्यमणमस्त-
मितसूर्यम् । शौरः सूर्य उपमान, चैद्यस्य ध्वान्तं, पुरः उत्कृष्टत्वात् मेरुतटी । प्रोषितो-
ऽस्तमितोऽर्यमा रविर्यस्या असौ प्रोषितार्यमा । 'अनो बहुव्री हेरिति हीवभावः । 'साविति
नियमाहीर्घाभावः ॥ ३९ ॥
अथ तेनापि त्वं विप्रकृन इत्याह-
स्वयीति ॥ त्वयि भूमेरपत्यं पुमांसं भौमं नरकासुरं जेतुं गते सति सचैद्य इमां पुरी द्वारका
प्रोषितोऽर्यमा सूर्यो यस्यास्ता मेरोस्ती सानुमन्धकार इवारौत्सीत् रुद्धवान् । रुधेरनिटो लुछि मिचि
वृद्धिः । उपमालङ्कारः ॥ ३९ ॥
क्रोधोद्दीपनार्थमपराधान् स्मारयन्नाह-
आलप्याऽलमिदं बभ्रोर्यत्स दारानपाहरत् ॥
कथाऽपि खलु पापानामलमश्रेयसे यनः॥ ४० ॥
पालप्येति ॥ हे कृष्ण ! स चैद्यो बभ्रोविष्णुवंश्यस्य दारान् कलत्रमपाहरत् जहार, इदं
दारापहरणमालप्य अलं पूर्यताम् उक्त्वा न वक्तव्यम् । 'अलं खल्वोरिति क्त्वा । यतः
कारणात् खलु निश्चयेन पापानां दुरात्मनां दर्शनसहवासादिकमास्तां, कथापि कीर्तनमपि
अश्रेयसे अकल्याणायाऽशुभाय अलं समर्था । अश्रेयसे अलमिति 'नमःस्वस्ति'इत्यादिना
चतुर्थी । खलु वाक्यालङ्कार ॥ ४० ॥
अपकारान्तरमाह-
-
अालप्योति ॥ स चयः बभ्रोर्यादवभेदस्य दारान्भार्याम् ! 'भार्या जायाऽथ पुंभनि दाराः स्यानु कुटु-
म्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योच्चार्याऽलम् । अनालपनीयमित्यर्थः । 'अलंख-
वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्यये समासे ल्यबादेशः । यत: पापानां पाप्मनां कथनमुच्चारण.
मपि । 'चिन्तिपूजिकाथिकुम्बि' इत्यङ्प्रत्ययः । अश्रेयसेऽनर्थायालं समर्थ खलु । 'नमःस्वस्ति-' इत्यादिना
चतुर्थी । अत्र निषिध्यमानालपन निषेधनसमर्थनात्कार्येण कारणसमर्थकोऽर्थान्तरन्यासः ॥ १०॥
कृत्रिमत्वमथोपसंहरन्नाह-
विराद्ध एवं भवता विराद्धा बहुधा च नः ॥
निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥४१॥
विराद्ध इति ॥ हे कृष्ण ! स श्रुतश्रवसः सुतः सात्वतीसूनुः क्रियया अरिनिर्वय॑ते
क्रियानिवृत्तः शत्रुः कृत्रिमशत्रुः सम्पद्यते, न सहजः प्राकृतो वा । तेनाऽऽस्कन्ध इति
भावः । कथंभूतः एवं पूर्वोक्तप्रकारण भवता त्वया विराद्ध उपद्रुतः रुक्मिणीहरणात् ।
अपरं च पुनः सोऽपि नः अस्माकं बहुधा विराद्धा द्रोग्धा अनेकप्रकारेण विरोधयिता ।
आत्मनस्तु सापराधः अत एव सोडुं न युक्तम् । विग़द्ध इति तान्तः, विराद्धा तृजन्तः ।
श्रुतश्रवा दमघोषगृहिणी ॥ ४१ ॥

सर्गः ।] शिशुपालवधे। ६५ .. - फलितमाह- विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोऽस्माकं च विराद्ध विप्रकर्ता, श्रुतश्रवा नाम हरेः पितृष्वमा तस्याः सुतः । पैतृष्वसेयत्वात्सहजमित्रमपीति भावः । स चैद्यः क्रिय- या पूर्वोकान्योन्याऽपक्रियया अरिनिर्वय॑ते कृत्रिमः शत्रुः क्रियते। अतो बलीयस्त्वादनुपेक्ष्य इति भावः ॥४१॥ एवमपि च तुल्येऽपराधे तस्येवास्माकमपि नोद्यमो युक्त इत्याह- विधाय वैरं सामर्षे नरोऽरौ य उदासते॥ प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् ॥ ४२ ॥ विधायेति ॥ हे कृष्ण! ये नरः सामर्षे सक्रोधे अरौ शत्रौ वैरं विधाय उदासते उदा- सीना भवन्ति निरुधमाः तिष्ठन्ति ते पुरुषा अभिमारुतं वाताभिमुखं वातमभिलक्षी- कृत्य कक्षे तृणसमूहे उदर्चिषं जाज्वल्यमानमनिं प्रक्षिप्य शेरते शयनं कुर्वन्ति । कक्षे अग्निं प्रज्वाल्य स्वपनं यथा स्वविनाशाय, एवं निःक्रियस्य बलवद्विरोध इत्यर्थः ॥४२॥ अत्राप्युपेक्षाया दोषमाह- विधायेति ॥ ये नरः पुमासः । स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः। सामर्षे प्रा- गेव सरोषेऽरी वरं विधाय । स्वयं चाऽपकृत्येत्यर्थः । उदासते उपेक्षन्ते ते नरः कक्षे गुल्मे । 'कक्षस्तु गुल्म दोर्मूले पापे जीर्णवने तृणे' इति वैजयन्ती। उदर्चिषमधिकज्वालमनिं प्रक्षिप्य अभिमारुतम् । आभि- मुख्येऽव्ययीभावः । शेरते स्वपन्ति । तन्नाशहेतुरित्यर्थः । 'शीडो रुट्' इति रुडागमः । अत्र ये उदा- सते ते शरते इति विशिष्टौदासीन्यशयनयो क्यार्थयोनिर्दिष्टैकत्वासम्भवात्सादृश्यलक्षणायामसम्भवस्तुम- म्बन्धो वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाशेपे तस्योत्था- नात् । अत्र तु वाक्यार्थे वाक्यार्थममारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलङ्कारसर्वस्वकारः ॥ ४२ ॥ किञ्च तस्य पौनःपुन्येन अत्यर्थमपराधित्वादुच्छेद्यत्वं दर्शयन्नाह- मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी॥ क्रियासमभिहारेण विराध्यन्तं क्षमेतः कः ॥ ४३ ॥ मनागिति ॥ हे कृष्ण ! यः पुमान् क्षमी क्षमावान् स मनाक ईषद् वा अनभ्यावृत्त्या अपौनःपुन्येन विराध्यन्तं द्रुह्यन्तं पुमांस काममित्यनुमतौ क्षाम्यतु सहताम् । तस्य तत्स- हनमनुमन्यत इत्यर्थः । पुनः क्रियासमभिहारेण क्रियाभ्यावृत्त्या पौनःपुन्येन भृशं वा वि- राध्यन्तमपकुर्वन्तं कः पुमान् क्षमेत सहेत । अपि तु न कोऽपीत्यर्थः । तव चासौ क्रियास- मभिहारेणापराध्यति,तस्माद्गम्यत इतिभावः । पौनःपुन्यं भृशार्थता वा क्रियासमभिहारः। काममित्यनुमतौ । क्षमीति शमित्यष्टाभ्यो घिनुण । क्रियाग्रहणमत्राधिकप्रायम् ॥ ४३ ॥ तथापि बान्धवत्वात्सोढव्य इत्याशङ्कयाह- मनागिति ॥ यः क्षमी सहनः । 'शमित्यष्टाभ्यो घिनुण्' इति घिनुण्प्रत्ययः । स सोढा मनागल्पम् । अभ्या वृत्तावीति भावः । अनभ्यावृत्त्या सकछ। । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं काम भृशं क्षाम्यतु क्षमताम् । सम्भावनायां लोट् । शमामष्टानां दीर्घः श्यनि । क्रियासमाभिहारेण भृशं पौनः- पुन्येन चत्यर्थः । न च पुवाक्येष्वनकार्थत्वं दोषाय । विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ्-' इति शक्याथै लिङ् । 'क्षमू सहने' देवादिको भौवादिकश्च ॥ ४३ ॥ स्यादेतत्, यद्यपि सापराधः तथापि क्षमास्थानं भविष्यतीत्याह- भन्यदा भूषणं पुंसः शमो(१) लज्जेव योषितः॥ पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥४४॥ - ! (१)क्षमा ।

-
सन्देहविषौषधिसर्वकषायुते [द्वितीव:-
अन्यदेति ॥ पुंसः पुरुषस्य अन्यदा परपरिभवाभावे सति शमो भूषणं क्षमैव
मण्डनम् । अपरं शत्रूणां परिभवे सति पराक्रमो भूषणं पौरुषमाभरणम् । कस्या इव
योषित इव केष्विव सुरतेष्विव । यथा योषितः स्त्रियः अन्यदा गुरुजनसन्निधौ लजा
भूषणम् । अपरं सुरतेषु वैयात्य भूषणं संभोगकालेषु सृष्टता निर्लजत्वं भूषणम् । तादृशे
क्षन्तव्यं येनापराधोऽपि कृतो न परिभव इत्यर्थः । भूषणशब्द आविष्टलिङ्गः सामान्य-
शब्दोऽभेदान्नात्र भिन्नलिङ्गानामौपम्यं दोषायेति रुद्रटः । वियातो राष्ट्र उच्यते ॥ ४४ ॥
ननु सर्वदा क्षमैव पुंसो भूषणम् , अतोपराधेऽपि क्षन्तव्यमत आह-
अन्यदति ॥ अन्यदा सुरतव्यतिरिक्त काले योषितो लज्जेव पुंसोऽन्यदा अपरिभवे क्षमा शमो भूषणम् ।
परिभवे तु योषितः सुरतेषु वैयात्यं धाय॑मिव । 'धृष्टे धष्णुर्वियातश' इत्यमरः । पराक्रमः पौरुषे भूष्यते-
ऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वानियतलिङ्गत्वाद्विरोध इति वल्लभोकं प्रत्युतम् ॥ १४ ॥
अमुमेवार्थ श्लोकत्रयेण पोपयितुमाह-
मा जीवन यः परावज्ञादुःखदग्धोऽपि जीवति ॥
तस्याऽजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥
मा जीविनिति ॥ यः परावज्ञादुःखदग्धोऽपि जीवति स मा जीवन् । परावज्ञा रिपु-
परिभवः स एव दुःखं तेन दग्धः सन्तापितो जीवति स म्रियताम् । माल्योगे त्वाक्रोशे
शतृ । असम्बद्धानिहितं (?) मा जीवन्निति । तस्याऽजननिरेव अजन्मैव अस्तु भवतु ।
मैवाऽसावुत्पादीदित्यर्थः । कथंभूतस्य जननीलेशकारिणः । मातृप्रसवदुःखं वर्जयित्वाऽन्यन्न
किञ्चित्तस्योत्पत्ती फलमित्यर्थः । उक्तं च-
दाने तपसि शौये च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुचार एव सः ॥ ४५ ॥
अथ परिभवेऽप्यपराक्रमे त्रिभिर्निन्दामाह
मा जीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद् दुःखं तेन दग्धस्ततोऽत एव मा जीवनगार्डन-
जीवी सन् । 'माङयाक्रोशे' इति लटः शत्रादेशः। जीवति प्राणान्धारयति । जनन्याः केशकारिणो गर्भधा-
रणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्या अजननमजननिरनुत्पत्तिरेवास्तु । जन-
नीलेशनिवृत्त्यर्थमिति भावः । 'आक्रोशे नव्यानः' इति नपूर्वाजनिधातोरनिप्रत्ययः ॥ ४५ ॥
पादाहतं यदुत्थाय मूर्धानमधिरोहति ॥
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः॥४६ ॥
पादेति ॥ अपमानेऽपि स्वस्थात् निश्चिन्तात् शत्रुभवात्परिभवात्सुखिनो देहिनः
पुंसः पात् तत् रज एव वरं धूलिरपि श्रेष्ठा । तत्कि रजः यदजः पादाहतं चरणाक्रान्त
मत् उत्थाय मूर्धानमधिरोहति अतिक्रामति । यदुत्तमाङ्गाक्रान्त्या शतगुणं भवति तद्रजो
निश्चेतनमपि पराभवं न सहते इति वाक्यार्थः । एवकारो भित्रक्रमः, असहन तत् रज-
एव वरमिति ॥ ४६ ॥
पादेति ॥ यद्जो धूलिः पादेनाहतं सदुत्थायोड्डीय मूर्धानमाहन्तुरेव शिरोधिरोहत्याक्रमति तद्जः।
अचेतनमपीति भावः। अपमाने सत्यपि स्वस्थात्सन्तुष्टाहिनश्चेतनावरं श्रेष्ठम्। व्यतिरेकालहारः॥१६॥
असम्पादयतः कञ्चिदर्थ जातिक्रियागुणैः ॥
यद्च्छाशब्दवत्पुंसः संबायै जन्म केवलम् ॥ ४७ ॥

सर्गः।]
-
सा-
..
शिशुपालवधे।
असम्पादयत इति ॥ तस्य पुंसः पुरुषस्य जन्म केवलं संज्ञायै देवदत्तादिनाम-
करणायैव । निरर्थकमित्यर्थः । किं कुर्वतः जातिक्रियागुणैः कञ्चिदर्थमसम्पादयतः अनिष्पा-
दयतः । जात्या ब्राह्मणादिकया, क्रियया अध्ययनादिकया गुणेन शौर्यादिकेन न किञ्चि-
त्प्रयोजनं निष्पादयतः । स नाममात्रेणैव पुरुष उच्यते इत्यर्थः । किंवत् यदृच्छाशब्दवत् ।
यहच्छाशब्दस्य डित्थडवित्थरूढशब्दस्य उत्पत्तिः केवलं संज्ञायै। सोऽपि जातिक्रियागुणैः
गोपाचकशौक्ल्यशब्दवत् कञ्चिदर्थ न साधयति । संज्ञा तस्य केवलं प्रवृत्तिनिमितम् ।
शब्दानां हि प्रवृत्तिश्चतुष्टयी चतुःप्रकारा, द्रव्यजातिक्रियागुणमयीत्यर्थः ॥ ४७ ॥
असम्पादयत इति ॥ किञ्च जातिाह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः
धनैः । करणे तृतीया । कञ्चिदर्थ सुकृतकादिपौरुषार्थम्, अन्यत्र गोत्वपाचकत्वशौक्ल्यादिभिः स्वाभि-
धेयभूतैः करणैः कञ्चिदर्थ व्यवहाररूपं प्रयोजनमसम्पादयतः। उभयत्र तादृग्जात्यायसम्भवादिति भावः।
पुंसो जन्म सत्तालाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्यादिशब्द-
स्येव । 'तत्र तस्यैव' इति वत्तिप्रत्ययः । 'स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चति ते समाः' इति केश
वः । संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किञ्चित्राममात्रमनुभवितुम् , अन्यत्र तादृतामनुभ-
वितुमित्यर्थः ॥ ४॥
तदेतेन निरीहत्वं निरस्तमधुना तेजस्वित्वमाह-
तुङ्गत्वमितरा नादौ नेदं सिन्धावगाधता ॥
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥
तुङ्गत्वमिति ॥ मनस्विनि पुरुषे गुरुकार्योद्वहनसमर्थे पुंसि तदुभयं द्वयमेवास्ति ।
किंभूतमुभयम् अलङ्घनीयताहेतुः अनाक्रमणीयताकारणम् । स्थावररूपेषु गिरिसमुद्रप्रभृ-
तिषु तदेकैकमप्यस्तीत्याह तावत्-अद्रौ पर्वते तुङ्गत्वमुच्चैस्तरत्वमलधनीयताहेतुः । एकमेव
औन्नत्यमस्ति इत्यर्थः । न तु इतरा अगाधता । तथा सिन्धौ समुद्रे अगाधता गाम्भी-
Zमलधनीयताहेतुः न तुङ्गत्वम् । मनस्विनि पुनरुभयमपि बोद्धव्यम् ॥ ४८ ॥
एवमपौरुषं दूषयित्वा पौरुषं भूषयति-
तुङ्गत्वामीत ।। अद्रौ पर्वते तुङ्गन्त्वम् । औनत्यमस्तीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्य-
म्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतरागाधता नाम्नि । सिन्धी समुद्रेऽगाधता
गम्भीरताऽस्ति, इदं तुङ्ग-त्वं नास्ति । मनास्वनि वारे त्वलनीयताहेतुरलइयत्वकारणं तदुभयं तुजत्वम-
गाधता च । तस्माददिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालङ्कारः ॥ १८ ॥
भूयोऽपि अन्वयव्यतिरेकाभ्यां तेजस्विताया गुणवत्तामाह-
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्
हिमांशुमाशु प्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ ४९ ॥
तुल्ये इति ॥ हे कृष्ण ! यत् स्वर्भानुः सैहिकेयः तुल्येऽपराधेऽपि समानेऽप्यागसि
भानुमन्तं श्रीसूर्य चिरेण असते कवलयति, चिरकालेन विरलमेव सूर्यग्रहणं भवति । अपर
हिमांशु चन्द्रमसमाशु शीघ्र असते निरन्तरमेव कवलयति, तत्स्फुट निश्चितं म्रदिम्नः
फलं. मार्दवस्य विपाकः मृदुतायाः स गुणः । यदि शीतरश्मिस्तीक्ष्णोऽभविष्यत् तद्रविमिव
तमपि चिरेणाऽनपिशाचो निरगरिष्यत् । अमृतविभागकाले देवरूपी राहुरकेंन्दुभ्यां मुरमथ-
नाय विष्णवे कथितस्ततस्तेनाऽनिगीर्णमृतस्यैव तस्य शिरः कृत्तमित्युभयोस्तुल्योऽपराधः।
'तदादि वाऽसौ वैरेण तौ निजेगिल्यते' इत्यागमः ॥४९॥

सन्देहविषौषधिसर्वकषायुते- - [द्वितीयः- -- - सम्प्रति शत्रौ मार्दवमनायेत्याह- तुल्ये इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण प्रसते, हिमांशुं चन्द्रमाशु शीघ्र असते गिलतीति यत् । 'प्रसिते गिलितं गीणम्' इत्यभिधानात् । तन्मदिम्नो मार्दवस्य फलं स्फु. टम् । 'पृथ्वादिभ्य इमनिच्' इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीवेण भवितन्यम् , अन्यथा मृदुः सर्वत्र बाध्यते इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रायते इत्यप्रस्तुतप्रशंसाभेदोऽयम् ॥४९॥ 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्याद्विनियन्त्रिता' ।। इति लक्षणात् ॥ १९ ॥ स्यादतदेवमपि सन्धिर्वरं, युद्धस्य संशयविनाशादिदोषदुष्टत्वादित्याह- स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि ॥ निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥ स्वयमिति ॥ यो नरः स्वल्पेऽपि परवायौ रिपुप्रभञ्जने उपयुषि आगते सति स्वय- मात्मनैव प्रणमते प्रार्थनां विना प्रबो भवति सन्धि करोति, स पुरुषोऽसाराणां भीरूणां तुच्छतया निदर्शनं दृष्टान्तः। कीदृशः लघुः अतितुच्छः दीनः । अत एव कीदृशः बहुतृणम् । स्वभावात्तृणतुल्य इत्यर्थः । तृणादृनो बहुतृणम् । ईषदपरिसमाप्त तृणमिति बहुच् प्रकृतिलिङ्गकः । तृणमपि लघुत्वान्मदवायुयोगात् नम्र भवति । असाराणां वा अकठिनानां निदर्शनम् । परः शत्रुरेव वायुरुपरि आगमनात्, परवायुः रिपुवातः । तृणादूने बहुच स च पूर्वश्च । प्रणमते इति कर्मवदावेन आत्मनेपदं यक् तु 'न दुहस्नुनमा'- मिति निषिद्धः ॥ ५० ॥ एतदेव भङ्ग यन्तरेणाह-- म्वयमिति ॥ असाराणां दुर्बलाना निदर्शनं दृष्टान्तः । अत एव ईषदममान तृणं बहुतृणम । तृण- कल्पमित्यर्थः । 'विभाषा सुपो बहुपुरस्तातू-' इति बहुच्प्रत्ययः प्रकृतेः पूर्व च भवति । 'स्यादीषदसमा. लौ तु बहुप्रकृतिलिङ्गके' इति वचनात्प्रकृतिलिङ्गता। लघुनि पौरुषो नरोऽल्पेऽपि, परो वायुरिवत्युपमि- तसमास: । बहुतृणमिनि । स्पष्टोपमासाहचर्यात्कल्पन्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादीनामाप- म्यवाचकेवभिधानात् । तस्मिन्नुपेयुषि प्राने सति स्वयं प्रणमते स्वयमेव प्रवीभवति । 'कर्मवत्कर्मण तुल्यक्रियः' इति कर्मवद्भावात् 'भावकर्मयोः' इत्यात्मनेपदम् । न दुहस्नुनमा यविचणी' इति यक्प्रतिषे- धः । वायुना तृणमिवाल्पीयमापि रिपुणा लघुरक्ले शेन परिभूयत इत्यर्थः । उपमालङ्कारः ॥ ५० ॥ भूयोऽपि तंजीमहिमानमाह- तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ॥ पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥ ५१॥ तेजस्वीति ॥ तेजस्वी तेजोऽधिको दवीयानपि दूरतरोऽपि तेजस्विगणनायां प्रस्तु- तायां तेजस्विमध्ये गण्यते संख्यायते । दूरस्थादपि ततो भीयत इत्यर्थः । माह-यथा पञ्चतपसो मुनिविशेषस्य चतुर्णा जातवेदसां मध्ये पञ्चमोऽग्निः तपनः सूर्यो दूरस्थाऽपि आकाशस्थोऽपि गण्यते । तस्मात्तेज आश्रयितव्यं न मार्दवम् । पशामिकं नाम तपो भवति । यस्तु ग्रीष्मकाले चतुषु अग्निषु मध्ये उपरि च आदित्ये चरति स पञ्च- तपा उच्यते । प्रकृष्टो दूरः दवीयान्, गुणादिष्ठेयसू, ईयसन् । 'स्थूलदूरेत्यादिना अन्त- स्थरेफलोपो गुणश्च ॥ ११ ॥ दृष्टान्त- सर्गः ।] शिशुपालवधे। : - .. पुनः पौरुषे गुणमाह- तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर-' इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेज- स्विना मध्ये गण्यते संख्यायने । तथा हि-पञ्चानिसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोकर्को जातवेदसामग्नीनो पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः। विशेषण मामान्यसमर्थनरूपोर्थान्तरन्यासः ॥ ५१ ॥ किञ्च यो यः शूरस्तस्य मार्दवेन यश एवं न भवतीति दर्शयितुमाह- अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् ॥ कथंकारमनालम्बा कीर्तिमधिरोहति ॥ ५२ ॥ अकृत्वेति ॥ कीर्तिः कथंकारं किं कृत्वा केन कारणेन यां स्वर्गमधिरोहति, कथंभूता कीर्तिः अनालम्बा निरालम्बा । किं कृत्वा उच्चैरुन्नतेषु शत्रूणां मस्तकेषु हेलया अनायासेन लीलया पादमकृत्वा । यो हि कुत्राप्यधिरोहति स आलम्बनभूतेषु सोपानेषु पदं विधने । शत्रवो हि यदि बलान्नाभिभूयन्ते ततो दुर्लभ यश इति वाक्यार्थः । अत्र च कीर्तिकीर्ति- मतोरभेदविवक्षायां कीर्तिमत्पुरुषस्य व्यापारारोपणात् समानकर्तृत्वसद्भावः । कथंकार- मिति 'अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चे दिति णमुल । दिवासमानार्थो योशब्दोऽपि विद्यते, तस्यैव 'औतोऽम्शसो रित्याकारे एकादशे कृते चामिति भवति ॥ ५२ ॥ गुणान्तरं च व्यतिरेकेणाह-.. अकृत्येति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । 'अनपूर्वे' इति निषेधा- समासेऽपि न स्यबादेशः। कीर्तिः कथंकारम् | कथामित्यर्थः । 'अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चतू' इत्यनर्थकादेव करोतेः कथंपूर्वाणमुल । अनालम्बा निराधारा कीर्तिर्या दिवमधिरोहति । न कथञ्चिदि- त्यर्थः । किञ्चिनिःश्रेण्यादिकमनाक्रम्य उच्चसोधस्य दुराराहत्वादिति भावः । तस्मात्कीर्तिमिच्छता पौरुषमेवा- श्रयणीयमिति इलोकतात्पर्यम् । कीर्तिनद्वतोरभेदोपचारासमानकर्तृतानिर्वाह:। अत्र प्रस्तुतायाः कीविष- यमहिम्ना अप्रस्तुतप्रासादारोहणनीव्यवहारप्रतीतेः समासोक्तिः ॥ ५२ ॥ किञ्च शत्रूणां यथा बलादाक्रमणं श्रेयो न तथा सन्धिरिति दर्शयितुमाह- अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।। केसरी निष्ठुरक्षिप्तमृगपूगो(१)मृगाधिपः ॥ ५३ ॥ अङ्केति ॥ हे कृष्ण ! चन्द्रमा अङ्काधिरोपितमृगः सन् मृगलाञ्छन उच्यते । सम्प- कोत् शश एव तस्य मलं सम्पन्नमित्यर्थः । अपर केसरी सिंहो मृगाधिप उच्यते । तर्हि स मृगान् पालयते, कीदृशः निष्ठुरक्षिप्तमृगपूगः सक्रोधं मुगपूगं क्षिपति क्षिणोति वा सः निर्दयहतहरिणसमूहः । तदेतदुक्तं भवति-यदि त्वं चैधेन सह सन्धत्से तत्ते लोके कीर्तिनश्यति यतः समूलभूतः । अथ तं क्षिपसि तत्सप्रभुरुच्यसे । अत्र शशिमृग- राजो निदर्शनम् ॥ १३ ॥ पौरुषमेवाश्रयणीयमित्यवान्वयव्यतिरेकदृष्टान्तावाचष्टे- अङ्केति ॥ अङ्कमुत्सङ्गामधिरोपितो मृगो येन स चन्द्रमाः मृगलाञ्छनः मृगाङ्कः । तथा निष्ठुरं यथा नया क्षिप्तो हतो मृगयूथो मृगसमूहो येन स केसरी सिंहो मृगाधिपः । उभयत्रापि ख्यात इति शेषः । तस्माच्छनी मार्दवं दुष्कीर्तये, पौरुष तु कर्तिये इति भावः । अत्राप्रस्तुतकथनात्प्रस्तुतार्थप्रतीतेरप्रस्तु- तप्रशंसा ॥ ५३॥ (१) पूयो। .. - सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- - आस्तां तहि सन्धिस्तथापि पूर्व पूर्वोपायप्रयोगो युक्त इत्याशङ्कामसहमान आह- चतुर्थोपायसाध्ये तु शत्रौ(१) सन्त्वमपक्रिया ।। स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ५४॥ चतुर्थोपायेति ॥ तु पुनश्चतुर्थोपायसाध्ये दण्डवशे शत्रौ विषये सान्त्वं सामवादः अपक्रिया अपायः अपकारः । अद एव द्रढयति-यतः कारणात् कः प्राज्ञः पुरुषः आम- ज्वरमपक्कज्वरं तरुणज्वरमम्भसा पानीयेन परिषिञ्चति, अपि तु न कोऽपि । कथंभूतं स्वयं स्वेदाईमुष्णोपचारमाध्यम् । शीतोपचारस्तस्यापक्रियेत्यर्थः । स्वेद्यमिति अहे कृत्यतृ- चश्च। आम इति 'अम रोग' इत्यस्य णिचि सिद्धिः, मित्त्वं च 'न कम्यमिचमा मिति वच- नान्न भवति । पचायच् ॥ १४ ॥ ननु सामादि सुकरोपायमपेक्ष्य किं पाक्षिकसिद्धिना दण्डेन । यथाह मनुः- 'साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयततारीन युद्धेन कदाचन' ।। इति । तस्मात्सान्त्वमेव युक्तमित्याशय द्वाभ्यां निराचष्टे-- चतुर्थोपायति ॥ चतुर्थोपायसाध्ये दण्डसाध्ये रिपो सान्त्वं साम । 'साम सान्त्वमुभे समे' इत्यमरः । अपक्रियापकारः । तथा हि-स्वयं स्वेदार्हम् । स्वेदनकार्यमित्यर्थः। 'स्वेदस्तु स्वेदने धर्मे' इति विश्वः । आमज्वरमपक्वज्वरं पाप्य । 'आमो रोगे रोगभेदे आमोऽपक्के तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डि- तोऽम्भसा जलेन परिषिञ्चति । न कोम्पीत्यर्थः । ज्वरितस्याम्भःसेकवद्धस्य सान्त्वमुद्दीपनकर स्यात् । अतो दण्डय एवेति भावः । वाक्यभेदेन प्रतिबिम्बकरणापेक्षो दृष्टान्तालङ्कारः ॥ ५४ ॥ किञ्च क्रियते सान्त्वं यदि स बहु मन्यते च, न तत् गृह्णातीति दर्शयितुमाह- सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ॥ प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥ सामवादा इति ॥ तस्य चैद्यस्य चतुर्थोपायसाध्यस्य शत्रोः सकापस्य सतः साम- वादाः प्रत्युत वैपरीत्येन दीपका भवन्ति कोपवर्धका न तु शान्तये । के इव तोय- बिन्दव इव । यथा प्रतप्तस्य कथितस्य अभितप्तस्य सर्पिषो घृतस्य सहसा पाकानन्तरं वेगेन तोयबिन्दवः शीता अपि प्रत्युत दीपका भवन्ति ॥ ५५ ॥ सामवादा इति ॥ सकोपस्य रूढवरस्य तस्य चैयस्य सामवादाः प्रियातयः सहसा प्रतप्तस्य क्वथितस्य सर्पिषों घृतस्य तोयाबिन्दव इव प्रत्युत वैपरीत्येन दीपकाः प्रज्वलनकारिणः। न तु शान्तिकरा इत्यर्थः! तस्माइण्डय एव सः । मनुवचनं त्वारूढवैरविष्यामिति भावः ॥ ५५ ॥ ये त्वत्र सन्धि मन्यन्ते ते मूर्खाः परिहर्तव्या इत्युद्धवोद्देशेनाह- गुणानामायथातथ्यादथं रिप्लाययन्ति ये॥ अमात्यव्यजना राक्षां दुष्यास्ते शत्रुसंशिताः ॥५६ ॥ गुणानामिति ॥ ये सचिवा अमात्या गुणानां सन्धिविग्रहादीनामायथातथ्यात् असम्यक्प्रेरणात् विपर्ययेण प्रयोगात् राज्ञां प्रभूणामयं विप्लावयन्ति विघटयन्ति । कार्य विनाशयन्तीत्यर्थः। तेऽमात्यव्यञ्जना अमात्या अधमा भृत्याः सचिवाः । अतश्च ते दूष्याः निन्याः त्यक्तव्याः । यतः ज्ञबुसंशिताः रिपुतुल्याः। विपक्षोऽपि सर्थनाशं चिकी- (१)रिपो। - सर्गः।] शिशुपालवधे। ७१ ति । अत एव रिपुतुल्याः । अन्ये त्वमात्यव्यजनमुभयवेतनमाहुः । उभयमूल्यग्राहकाः अत एव दूष्याः। शत्रुसंहितं च शत्रूणामैकार्यमापन्नम् । अतश्चैवं व्याख्यायते-गुणानामायथा- तथ्यावेऽथ विनाशयन्ति, ते उभयव्यञ्जनदृष्याः उभयवेतनलक्षणं दोषं ग्राहयितव्याः । भेचा इत्यर्थः । यतस्ते शत्रूणां संहिता मिलिताः तत्त्वतः शत्रुसंहिताः । तस्यैव तु कार्यार्थ सेवन्ते इत्यर्थः । आयथातथ्यादिति यथातथायथापुरयोः पर्यायेण ॥ १६ ॥ एवं स्थिते यदि केचिदुद्धवादयः प्रत्याचक्षीरस्तान्प्रत्याह--- गुणानामिति ।। सन्ध्यादीनां गुणानामायथातथ्यात् । तथात्वमनतिक्रम्य यथातथम् । यथायोग्य- मिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः । यथार्थेऽव्ययीभावः। 'स नपुंसकम्' इति नपुंसकत्वम् । बस्वो नपुंसके-' इति स्वत्वम् । ततो नसमासे अयथातथं, तस्य भावः आयथातथ्यम् । बामणादित्वात् 'यप्रत्ययः । 'यथातथायथापुग्योः पर्यायेण' इति विकल्पानपूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायो. ग्यत्वात् । अन्यकालेऽन्यप्रयोगादित्यर्थः । अर्थ प्रयोजनं ये विप्लावयन्ति निघ्नन्ति । कार्यहानि कुर्वन्ती- न्यर्थः । अमात्यानां व्यञ्जनं चिह्नं येषां ते तथोक्का: । तद्वेषधारिण इत्यर्थः । अवयॊ बहुव्रीहियधिकरणो जन्मायुत्तरपदः' इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां सञ्जाता शत्रुसंजिताः शत्रव एव ते कूट- मन्त्रिणो राज्ञां दूषयितुमर्हाः दूया गर्दाः । त्याच्या इति यावत् । 'कृत्यानां कर्तरि वा' इति कर्तरि षष्ठी। अतः स्वोकं न प्रतिरोद्धव्यामिति भावः ॥ ५६ ॥ स्यादेतद्यथा सन्धिरयुक्तस्तथा यात्राऽपीति तद्भवता न युक्तमुक्तमित्याह- स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥ स्वेति ॥ इह केचिदर्थशास्त्रज्ञाः स्वशक्त्युपचये निजशक्तिसमृद्धौ सत्यां यानमाहुः यानं गमनं प्रयाणं कथयन्ति । यदा स्वशक्तेः प्रभुशक्तेः कोशदण्डलक्षणाया उपचयो वृद्धिः परस्याऽऽपद्भवति, तदा यात्रा विधेया । अपरे नीतिज्ञाः परस्य शत्रोः व्यसने आपदि यानं प्रयाणमाहुः । अन्ये त्वाः-शनोश्च व्यसन शक्तिक्षयः स्वशक्त्यनपेक्षमेवाऽसावास्कन्धः । तत् द्वयं त्वामुत्थापयति उद्यमयुक्तं करोति । कीदृशं त्वाम् आसीनमालस्ययुक्तम् । निरुद्योगमित्यर्थः । एतदुभयमस्तीति भावः । आसीनमिति आसः । द्वयमिति द्वित्रिभ्यां तयस्याऽयच ॥ १७॥ ननु यातव्योऽपि काले यातव्य इत्याशङ्कय अयमेव काल इत्याह-- म्वेति ।। केचिद्धाः स्वस्य शक्त्युपचये सामर्थ्यातिरेके यानं यात्रामाहुः । यथा कामन्दक:- 'प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनाऽनपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥ इति । अपरे वृद्धाः परस्य शत्रार्यसने विपदि । 'व्यसनं विपदि ग्रंशे' इत्यमरः । यानमाहुः । अत्र मनुः तदा यायाद्विगृयव व्यसने चोस्थिते रिपोः' इति । तद् द्वयमुक्तपक्षश्यं कर्तृ आसीनमनुयुञ्जानम् । ईदासः' इति शानजाकारस्येकारादेशः। त्वामुत्थापयति प्रेरयति । तदुभयलाभादी दृकालो न कदापि लक्ष्यत इत्यर्थः ॥ ५॥ अत्रा स्वशक्त्युपचर्य तावदाह- लिलचयिषतो लोकानलच्यानलघीयसः।। यादवाम्भोनिधीन रुन्धे वेलेव भवतः क्षमा ।। ५८ ॥ लिलयिषत इति ॥ हे कृष्ण ! भवतः क्षमा त्वदीयतितिक्षा तवालस्यं यादवा- म्भोनिधीन् यादवा एव समुद्राः तान् रुन्धे पराक्रमान्निवर्तयति। कीदृशान् यादवाम्भो- -

सन्देहविपौषधिसर्वकषायुते-
[द्वितीयः-
निधीन् लोकान् जगन्ति लिलब्धयिषतः लङ्घयितुमिच्छतः आक्रमितकामान् , कीदृशान्
लोकान् अलठ्यान् अनतिक्रमणीयान् अन्यैरजेयान् , यतोऽलघीयसः गुरुतरान् बहुन् । त्वं
चेदनुजानासि तदधुनैव अरयो जिता इत्यर्थः । केव रुणद्धि वेला इव । यथा वेला मर्यादा
अम्भोनिधीन् समुद्रान् रोधयति । वेला प्रजापतिविहिता। कीदृशान् समुद्रान् लोकान्
लिलधयिषतः । पूर्ववत् विशेषणानि ॥ १८ ॥
तत्र स्वशक्त्युपचयं तावल्लक्षयति-
लिलहयिषत इति ॥ लोकाल्लङ्घायतुमिच्छतो लिलयिषतः । लख्यतेः समन्ताल्लटः शतरि शम् ।
अलङ्यान्स्वयं दुर्लङ्यान् । कुतः-अलघीयसोऽतिगुरून् । अत एव यादवा अम्भोनिधय इत्युपमित-
समासः, वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन्भवतः क्षमा तितिक्षा वेलेव कूलमिव । 'वेला कुलेऽपि वा-
रिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्व संहरेयुरिति भावः ॥ ५८ ॥
नार्य कश्चित्तवायासो येन फ्लेशभयानानुमानासीति दर्शयितुमाह-
विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ॥
फलभाजि समीक्ष्योके बुद्धर्भोग इवात्मनि ॥ ५९ ॥
विजय इति ॥ सेनायाः सम्बन्धी विजयः त्वयि विषये अपदिश्यतामुद्धोष्यता-
म् । कृष्णो जयतीत्युच्यतामित्यर्थः । कीदृशे त्वयि साक्षिमात्र उदासीने तथा फलभाजि,
फलमाधिपत्यलक्षणं भजत इति फलभाक् तस्मिन् । एतदुक्तं भवति-त्वं केवलं वीक्षस्व
यत्कर्तव्यं तदखिलं सेनैव करिष्यति । विजयश्च लोके तवैव न तु सेनायाः । तत्फलं
त्वमेव भजसे न चमू । क इव बुद्धः सम्बन्धी भोग इव । यथा बुद्धेर्धियः सम्बन्धी
भोगोऽनुभवः संसारापवर्गलक्षणः समीक्ष्योक्ते सांख्योक्ते बौद्धशास्त्रनिर्दिष्टे अपदिश्यते ।
तत्रा हीदं दर्शनम्-आत्मा वेदयिता बुद्धिवेद्या । बुद्धिर्बध्यते मुच्यते सर्वमनुभवति । आ-
मा नैव बध्यते न किञ्चिदुपभुङ्क्ते । परमित्युच्यते-पुरुषो बद्धः पुरुषो मुक्तः आत्मनः
सुखमात्मनो दुःखम् । इत्येवं बुद्धर्भोगः साक्षिमात्रे दृष्टमात्रो उदासीने क्षेत्राशे आत्मनि क-
थ्यते । एवं सेनाया विजयः त्वय्युदासीने योज्यताम् , न कश्चित्तवायासः ॥ ५९॥
अभ्युच्चयश्चायमपरो यदक्लेशेनैव ते विजयलाभ इत्याह-
विजय इति । सेनायाः का विजयः साक्षिमात्र उदासी ने एव फलभाजि त्वयि समीक्ष्योके सा-
ङ्ख्यो । 'साम्ख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धमहत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य
का: भोगः सुखदुःखानुभव इवापदिश्यतो व्यवहियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः ।
साङ्ख्या अन्याहुः 'कर्तेव भवत्युदासीन' इति, सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः' इति च ॥५९॥
अथ व्यसनमाह-
हते हिडिम्बरिपुणा राशि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ ६०॥
हते इति ॥ हिडिम्बरिपुणा भीमसेनेन द्वैमातुरे राज्ञि जरासन्धे युधि संग्रामे हते
सति दमघोषजः शिशुपालः सदमः साम्प्रतं सुखेन जीयते सुखसाध्योऽस्ति । मुखेन दम्यते
जीयत इति सुदमः । कीदृशः चिरस्य सदैव मित्राव्यसनी जरासन्धबधदुःखमयापि तस्य
विद्यते । द्वयोर्माखोरपत्यं द्वैमातुरः मातुरुत्संख्यासम्भद्रपूर्वायाः । चिरस्येत्यनेनैव एतदर्श-
यति-तल्याचापि न तादृशं मित्रमस्ति ॥ ६० ॥

सर्गः ।] शिशुपालवधे। ७३ .. - . अथ परस्य व्यसनमाह- हते इति ॥ हिडिम्बरिपुणा भीमेन व्योर्मात्रोरपत्यं पुमान्द्रमातुरः । 'मातुरुत्संख्यासम्भवपूर्वाया' इत्याप्रत्ययः उकारश्चान्तादेशो रफपरः । तस्मिन्राज्ञि जरासन्धे । स हि द्वाभ्या पत्नीभ्यामशः प्रसूनो जरया नाम पिशाच्या सन्धितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । 'चिराय चिररात्राय चिर- स्यायाचिरार्थकाः' इत्यमरः । मित्रत्र्यसनी मित्रभ्रंशवानिति यावत् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । दमघोषाज्जातो दमघोषजश्चद्यः मुखेन दम्यत इति सुदमः । एकाकित्वात्सुसाध्य इत्यर्थः ॥ ६० ॥ एवं नीत्या परमतेन यानं प्रतिपाद्य विक्रमैकरसिकतया आत्ममतेन प्रतिपादयितुमाह- नीतिरापदि यद्न्यः परस्तन्मानिनो हिये । विधुविधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१॥ नीतिरिति ॥ हे श्रीकृष्ण ! इति नीतिः एप न्यायः-यत् परः शत्रुः आपदि गम्य: व्यसने सति हन्तव्यः, तत् मानिनः साहङ्कारस्य हिये प्रपाकरणाय भवति । पुनः स रिपुः पूर्णः सन् परिपूर्णः समृद्धः सन् उत्सवाय हर्षाय भवति । कस्येव विधुन्तुदस्येव राहोरिव । विधुन्तुदस्य राहोविधुश्चन्द्रमाः पूर्ण एव उत्सवाय भवति न खण्डः । पूर्वाध- ऽत्र व्याख्याथे परामर्शकसम्बन्धापादनाय इतिशब्दोऽध्याहारार्थः, अन्यथा ह्यखण्डवाक्य- मेतत् स्यात् । तत् स एव वाक्यार्थो यच्छब्देन निर्दिश्यते । नीतिशब्देन स एवोच्यते । आप दि परो गम्य इति नीतिरित्यर्थः । विधं तुदतीति विधुन्तुदः विध्वरूषोस्तुदः अरु- विषदजन्तस्य मुम् ॥ ६१ ॥ कष्टश्चायं पक्षोभ्युपेत्यवादेनोक्तः, वस्तुतस्तु शूराणामग्रिमपक्ष एवेष्टः शामसंवादी । यथाह कामन्दक:- 'यदा समस्त प्रसभं निहन्तुं पराक्रमादूर्जितमध्यमित्रम् । तदाऽभियायादहितानि कुर्वन्नुपान्ततः कर्षणपीडनानि' ॥ इति । इत्यभिप्रेत्याह- नीतिरिति ॥ परः शत्रुरापदि गम्यो गमनाईनीतिरिति यत् तदापदि गमनं मानिनः शौर्याभिमानिनों हिये । लज्जाकरमित्यर्थः । किन्तु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः, विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुन्तुदो राहुः । 'विध्वरुषोस्तुदः' इति खरप्रत्यये मुमागमः । तस्येवोत्सवाय । अत एव बलिना बलवानेन यातव्यः, बलिनश्च वयामिति भावः ॥ ६१ ॥ यद्येवं तर्हि शास्त्रोलधनं कृतमिति निराकर्तुमाह- अन्यदुच्छृङ्खलं सत्त्वमन्यच्छाननियन्त्रितम् ॥ सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ २ ॥ अन्यदिति ॥ उच्छृङ्खलं सत्त्वं स्वतन्त्रं प्राणी पुरुषगुणो यदुच्यते तदन्यत् । यब शास्त्र नियन्त्रितं स्वतन्त्रीकृतं, तदन्यदेव । एतेन कश्चित् प्राणी निरर्गलो भवति अन्यः प्राणी शास्त्रप्रयुजितो भवति । रुर्भेदात् कश्चिन्नीतिमपेक्षते कश्चिन्नेत्यर्थः । अथ किमति अन्ये भवतः उभे अपि नैकस्मिन् शास्त्रे तिष्ठतः, अत्र दृढीकरणायार्थान्तरन्यासः- हि यस्मात्कारणात् तेजस्तिमिरयोः प्रकाशतमसोः कुतः सामानाधिकरण्यं सहभावः । यथा तेजस्तिमिरे वैलक्षण्यादेकस्मिन् आधारे 'नावतिष्ठेते, तथा स च शास्त्रनियन्त्रिते- त्यर्थः । एतेन वयं तेजोरूपा नीतिशास्त्रं न मन्यामह इति तात्पर्यम् ॥ ६२ ॥ तहि पूर्वोदाहृतमन्वादिशामविरोधः स्यादित्याशक्याह- अन्यादति ॥ अन्यदुधालमनर्गलम् । प्रसद्य पाडनक्षममिति भावः। सत्त्वं बलमन्यत् । शामेग ७शि०५० - सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- . मन्वादिशामेण नियन्त्रितमुदाहृतं परत्र्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षणलक्षण्यमन्य- शब्दार्थः । तयोः सापेक्षत्वनिरपेक्षत्वाभ्यां मिथो विरोधात्रैकशासत्वं सम्भवतीत्यर्थः । अत्र दृष्टान्तमाह-- तेजस्तिमिरयोः, समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः। न कुतश्चित् , तयोः महाऽवस्थानविरोधादिति भावः । तस्मादुभयोरुदिताऽनुदितहोमवादिनविषयत्वादितरेतरशामविरोधो न बाध- क इति भावः ॥ ६२॥ एतदेव उपसंहरन् प्रकृतं वक्तुमाह- इन्द्रप्रस्थगमस्तावस्कारि मा सन्तु चेदयः॥ आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३ ॥ इन्द्रप्रस्थेति ॥ हेकृष्ण ! तावत् त्वया इन्द्रप्रस्थे गमो मा कारि युधिष्टिरपुरगमनं मा क्रियताम् । कर्मणि लुङ् । किं तर्हि विधेयमित्याह-चेदयो डाहलदेशाः शिशुपाल- नगराणि आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः सन्तु अस्मदीया ये दन्तिनो गजा- स्तनकटयेन वामनीभूता हस्वत्वं प्राप्ता भूरुहो वृक्षा येषु ते तथोक्ताः । एतेन नगरीरोधो विधीयतामित्युक्तं भवति । तन्निरोधावसरे वृष्णिमहेभास्तरुषु बध्यन्ताम् । अस्माक- मिमे आस्माकाः तस्मिन्नणि च युष्माकास्माकौ ॥ ६३ ॥ नहि नः किमिदानी कार्यमत आह- इन्द्रप्रस्थति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्चिगमश्च' इत्यप्रत्ययः । ताद- दानी, मा कारि तावत् । न क्रियतामेवेत्यर्थः । यावत्तावत्परिच्छेदे कार्ये मानावधारणे' इति विश्वः । कृञः कणि लुङ । 'माङि लुङ' इत्याशीरर्थे । 'न मायोगे' इत्यातिषेधः। किन्तु चेदयश्चदिदेशाः । अस्माकर्मिमें आस्माकाः । 'युष्मदस्मरन्यतरस्यां खञ्च' इति विकल्पादण्प्रत्ययः । तस्मिन्त्राणि च युष्माकास्माको' इत्यस्माकादेशः । सन्निधिरेव सानिध्यम् । स्वार्थे ष्यप्रत्ययः । आस्माकाना दन्तिना सानिध्याद्रामनीभूताः शाखाभङ्गाखर्वीभूता भूरुहो वृक्षा येषा ते तथोकाः सन्तु । चेदियाचैव क्रियता मित्यर्थः । सा च प्रस्तुता प्रस्तुतनैव स्वकार्येण गम्यते इति पर्यायोकालङ्कारः । 'कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन सम्बन्धात्पर्यायोकः स उच्यते' ।। इति लक्षणात् ॥ ६ ॥ तदाह- निरुद्धवीवधासारप्रसारां (१)गा इव वजम् ।। उपरुन्धन्तु दाशार्हाः पुरी माहिष्मर्ती द्विषः ॥ ६४ ॥ निरुद्धति ॥ दाशार्हा यादवाः माहिष्मती पुरीं शिशुपाल(नगरी) द्विषः शत्रून् उपरु- न्धन्तु । माहिष्मत्यां पुर्या शत्रून् वेष्टयन्त्वित्यर्थः। कां इव गा इव । यथा कश्चित् गोपालः अजं गाः रुणद्धि बजे घोषे गा उपरुणद्धि इत्यनायासः प्रतिपाद्यते । रुधिढिकर्मकः 'अक- थितं चाति पुर्या ब्रजस्य कर्मसंज्ञा । केचित्तु 'त इव व्रज मिति पठन्ति । ते चेदयो व्रज- मस्मद्घोषं यथोपरुरुधुः एवं द्विषः सम्बन्धिनी पुरी यादवाः उपरुन्धन्त्विति व्याचक्षते । युज्यते एतत् , किन्तु विशेषलक्षणं त्यक्तं स्यात् । अयं च कविः प्रायशः तच्छीलः । की- दृशी पुरीं निरुद्धवीवधासारप्रसारां, वीवधशब्दः पथि पाथेये च वर्तते । आसारो मित्रबलं प्रसारी जनाजीव्यघासकाष्टादि,एते निरुद्धा यस्यां ताम् । वेष्टनवशानिवृत्ता इत्यर्थः ॥६४॥ (१) प्रसारा।

सर्गः।] शिशुपालवधे। . निरुदति ॥ क्रिञ्च दाशार्हा यादवावीवधो धान्यादिप्राप्तिः, आसारः सुहृवलम् , प्रसारस्तृण. काष्ठादेः प्रवेशः। धान्यदेवविधः प्राप्तिरासारस्तु सुहदूलम् । प्रसारस्तृणकाष्ठादेः प्रवेश:- इति वैजयन्ती। ते निरुद्धा यैस्ते तथाकाः, अन्यत्र निरुद्धौ धीवधानां पर्याहारापरनाम्नां स्कन्धवा- ह्मवीराबाहरणसाधनभारविशेषाणामासारप्रसारी प्रवेशनिर्गमा यस्ते तथोक्काः। विवधी वीवधो भारे पर्या- हाराध्वनोरपि' इति हेमचन्द्रः । बज गोष्ठम् । 'बजः स्याहोकुलं गोष्ठम्' इति वैजयन्ती । गा इव माहिष्मती पुरीं द्विषोऽरीनुपरुन्धन्तु । बजे गा इव माहिमत्यामरीनावृण्वन्त्विस्यर्थः । 'दुहियाचिरुधि-' इति द्विकर्मकत्वम् । तत्र पुरीबजावकथितं कर्म, अन्यदीप्सितं कर्म ॥ ६४ ॥ नन्वेवं सति युधिष्ठिर उपेक्षितो भवति इत्याशङ्कयाह- यजतां पाण्डवः स्वर्गमवविन्द्रस्तपस्विनः । वयं हनाम द्विषतः सर्वः स्वार्थ समोहते ॥६५॥ यजतामिति ॥ तावत् पाण्डवो युधिष्टिरो यजतां यज्ञं करोतु, अपरम् इन्द्रः स्वर्गमवतु रक्षतु, अपरम् इनः सूर्यस्तपतु घोतताम् , वयमपि द्विषतः शत्रून् हनाम । मतः सर्वः कोऽपि स्वार्थ समीहते इच्छति स्वार्थ प्रत्यात्मोद्देशेनेहते चेष्टते न परार्थम् । प्रतीयत इति पाठः । स्वार्थ प्रतीयते प्रतिपद्यते अनुतिष्टति, न परार्थम् । अर्केन्द्र- तुल्योऽस्माकं युधिष्ठिर इत्यर्थः । पार्थेन्दुसूर्याः यज्ञादि कुर्वन्तु । इङ् गताविति देवादि- कस्य कर्तरि लकारः। तदेतेनैतदुक्तं भवति-यथाकेंन्द्रपार्थाः स्वकार्याण्यवतिष्ठमानाः परार्थ नापेक्षन्ते तथा वयमपि स्वकार्यमपेक्षामहे । तद्वदकेंन्द्रयोरपि कथं साहायके न याम इति । हनामेति प्राप्तकाले लोट् पञ्चमी, यजतामित्यादावपि । सर्वेषां कामचारानुज्ञानमिति सर्वे यागादि कुर्वतां यथेष्टं वा । न तेषामास्माको चिन्ता नाप्यस्माकं तदीयेत्यर्थः ॥६५॥ तर्हि पार्थप्रार्थनायाः का गतिरित्याशक्य, उपेक्षेव गत्तिरित्याह- यजतामिति ॥ पाण्डवो युधिष्ठिरो यजता यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोहर्कः 'इनः पत्या नृपार्कयोः' इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन्ह नाम मारयाम । 'आडुनमस्य पिच्च' इत्याडागमः । सर्वत्र प्राप्तकाले लोट् । तथा हि-सर्वो जनः स्वार्थ स्वप्रयोजनं समर्माहतेऽनुसन्धते । इन्द्रा- दिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः ॥ ६५ ॥ अथ वा वचनसमाप्तावाशिषः प्रयुक्ते प्रार्थयते वा- प्राप्यतां विद्युतां सम्पत्सम्पर्कादर्करोचिषाम् । शस्त्रद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ ६६ ॥ प्राप्यतामिति ॥ तावत् शस्तौरस्मदायुधैर्विद्युतः सौदामिन्याः सम्पत् शोभा प्रा- प्यतां, कस्मात् अर्करोचिषां सम्पर्कात् रविकिरणसंयोगात् । ननु शस्त्राणि कृष्णानि भव- न्ति, किंभूतैः द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः द्विषतां यानि शिरांसि तेषां यः छेदस्तेन प्रोच्छलत्तिर्यगूर्व प्रसरत् यच्छोणितं तेनोक्षितैः स्नापितैः । प्राप्यतामिति कर्मणि आशिषि लोट् प्रार्थनायां वा । सर्वकाले वा रुधिररससिक्तं हि शस्त्रां तेजः- सन्निधौ सौदामिनीसहर्श भवतीत्यर्थः ॥ ६६ ॥ प्राप्यतामिति ॥ कि द्विषता शिरश्छेदेन प्रोच्छलतोद्रच्छता शोणितेनोक्षितः सिक्तैः शबरकरी- चिषां सम्पर्कात्सम्बन्धाद्वियुतां सम्पल्लक्ष्मीः प्राप्यतामिति निदर्शनालङ्कारः ॥ ६६ ॥ - ७६ सन्देहविपौषधिसर्वपायुते- [द्वितीयः- इति संरम्भिणो वाणीबलस्यालेख्यदेवताः ।। सभाभित्तिप्रतिध्वानर्भयादन्यवदन्निव ॥ ६७ ।। इतीति ॥ आलेख्यदेवताः कर्तृभूता बलस्य बलभद्रस्य इति पूर्वोक्ता वाणीः अन्ववदन्निव अनूचुरिव, कैः सभाभित्तिप्रतिध्वानैः मन्त्रागृहकुख्यप्रतिशब्दैः। अङ्गीकरणार्थ- मेवमेतदिति । उक्ताः कस्मादनुवादं कुर्वन्ति, भयात् । मूर्योऽयं मारयिष्यति । किंभूतस्य बलस्य संरम्भिणः कोपात् साटोपस्य हलधरवाचो वेगोक्या मन्त्रामण्डपकुड्येषु प्रतिफ- लिताः । तत्रा कश्चिदुत्प्रेक्षां चके-इति पूर्वोक्ता अस्य वाचः सदःकुख्यप्रतिश्रुत्या भि- त्तिचित्रादेवता भयेन अन्वदन्निव । यतोऽसौ हलधरः क्रुद्धः, ताः यदि नाङ्गीकुर्वते तचूर्णय- ति। संरम्भशब्दे 'रभेरशब्लिटोरिति रभेर्नुम् ॥ ६ ॥ इतति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताचित्रलिखितदेवताः सभायाः मदोगृहस्य भित्तीनां प्रतिध्वनैः । प्रतिध्वनिव्यानेत्यर्थः । भयादन्यवदन्नन्वमोदयत्रिवेत्युत्प्रेक्षा ॥ ६ ॥ निशम्य ताः शेषगवीरभिधातुमधोक्षजः ॥ शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दशा ॥ ६८ ॥ निशम्येति ॥ अधोक्षजः श्रीकृष्णो बृहतां पत्युः बृहस्पतेः शिष्याय उद्धवाय अभि- धातुं वक्तुं प्रस्तावमदिशत् अवसरं ददौ, कया दृशा दृष्टया । किं कृत्वा ताः शेषगवी: निशम्य बलभद्रवाणीराकर्ण्य । भणेत्यक्षिनिकोचनेन, हलिगौरवार्थ नावोचदित्यर्थः। शेषस्य गावः शेषगव्यो रामवाचः, गोरतद्धिताभिधेये । शेषावतारत्वात् शेषः ॥ ६८॥ निशम्योति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बल- भद्रस्य गा: वाचः शेषगवीः । 'गोरतद्धितलुकि' इति टन् । टित्वान्डीपू । निशम्य श्रुत्वा । "निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः। तत्र शाम्यतेरिदं रूपम्। अन्यथा निशमय्येति स्यात् । अत एव वामनः–'निशम्यनिशमग्यशब्दो प्रकृतिभेदात्' इति । बृहना वाचा पत्युदृहस्पतेस्तस्य शिष्यायोखवाया- भिधातुं वक्तुं दृशा दृक्तजया प्रस्तावमवसरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥ ६८ ॥ भारतीमाहितभरामथाऽनुद्धतमुद्धवः ।। तथ्यामुतथ्यानुजवजगादाऽग्रे गदाग्रजम् ॥ ६९॥ भारतीमिति ॥ अथ भ्रूक्षेपानन्तरमुद्धवो गदाग्रज भारती जगाद विष्णु वाच- मवोचत् । गदिरुभयकर्मकः । क्व अग्रे विष्णोः पुरस्तात् । वागुपादानं विशेषणयोगा- र्थम् । तदाह-किंभूतां भारतीम् आहितभरामर्पितवाग्गौरवामुत्पादितमहार्था' वा अभिप्रानसम्पदा भरः । कथं यथा भवति अनुद्धतं सौम्य सप्रश्रयं यथा स्यात् । न तु हलधरवत् कोपेन । पुनः कोही तथ्यां सत्यां नीतिशास्त्रानुसारिणी, किंवत् उतथ्यानु- जवत् बृहस्पतेरिव । एतेन मन्त्राप्रावीण्यमुक्तम् । उतथ्यो बृहस्पतेज्येष्ठो भ्राता । गदस्तु हरेः कनीयान् । गुरुजनशीलमनुसरन्ति प्रायेण शिष्याः ॥ ६९ ॥ भारतीमति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तो तथ्यां यथार्थी भारती वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रज कृष्णम् । अग्रे पुरत इति प्रागल्भ्योक्तिः, उत- ध्यस्य महर्षेरनुजो बृहस्पतिः । 'उतथ्यावरजो जीवः' इति विश्वः । तद्वत्तेन तुल्यं जगाद । 'तेन तुर्त्य क्रिया चेतिः' इति वतिः । तद्धितगेयमुपमा ॥ ६९ ॥ - मर्ग:1] शिशुपालवधे। ७७ अनुद्धतं जगादेत्युक्तम् , तदाह- सम्प्रत्यसाम्प्रतं वक्तुमुक्के मुसलपाणिना ॥ निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥ सम्प्रतीति ॥ हे कृष्ण ! इदानी सम्प्रति मुसलपाणिना बलभद्रेण उक्ते सति अस्माकं वक्त मसाम्प्रतमयुक्तम् । एतेन सर्वमुक्तमित्यर्थः । तदेव दृष्टान्तेन द्रढयति-खलु यस्मात् लेखेन अथें निर्धारिते सति कायें निर्णाते निश्चिते सति वाचिकं वचनसन्देश- मुक्त्वा खलु न वक्तव्यम् । अल खलु एतौ प्रतिषेधवाचकौ । खलु पूर्यताम् । लेखहार- केण लेखादेवार्थावगते या वाच उक्तिस्तत्पिष्टपेषणम् । अपि च मुसलपाणिरिति सामि- प्रायमत्रा नाम, मुशलमस्य पाणौ। वहनाय योग्यो, न तु मन्तक्षमोऽयम् । यदेतेनेदमिदमु- क्तं तदेव मया । न किञ्चित् प्रयोजनमित्यर्थः। सम्प्रत्येव साम्प्रतं 'प्रज्ञादिभ्यश्चेत्यण । स्व- भावाचायं युक्तार्थः क्रियाभिधायीच तेन वक्तुमिति तुमुन् विरुध्यते । लिख्यतेऽस्मिन्निति लेखः 'हलचे ति घन । खलूक्त्वेति 'अलंखल्वोरिति क्त्वा । वाचिकमिति 'वाचो व्याहृतार्थायामिति स्वार्थे ठक् ॥ ७० ॥ किं जगादेत्याह- सम्प्रतीति ॥ सम्प्रति मुसलपाणिना बलभद्रेग । केवलं शरेणेति अनिः। उके सति वक्तुमसाम्प्र- तमयुक्तम् । साधूकत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति ध्वनिः । साम्प्रतशब्दस्यार्थित्वात्नयोगे 'शकधृष' इत्यादिना तुमुन् । तथा हि लेख्येन पत्रणार्थे वाच्ये निर्धारित निर्णीते सति वाचिक न्याहनार्थी वाचम् । सन्देशवचनमित्यर्थः । सन्देशवाग्वाचिकं स्यात्' इत्यमरः । 'वाचो व्याहृनार्थायाम्' इति ठक् । खलु । न वाच्य खल्वित्यर्थः । खलुरायः प्रतिषेधे,अन्यो वाक्यालङ्कारे । 'निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु' इत्युभयत्राप्यमरः । 'अलंखल्वोः प्रतिषेधयोः प्राची क्त्वा' इति क्त्वाप्रत्ययः। इह न पादादौ खल्वा- दय इति निषेधस्योद्वेजकाभिप्रायत्वात् नअर्थखलुशन्दस्यानुक्रेजकत्वात् नवदेव पादादी प्रयोगो न दुष्य- न्यनुसन्धेयम् । लिखितार्थे वाचिकमिव बलोक्त मदुक्तिरनवकाशति वाक्यार्थप्रतिबिम्बकरणात् स्पष्टस्ता- बद् दृष्टान्तः । स्तुतिव्याजेन निन्दावगमाद् व्याजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते ॥ २० ॥ तयदि खलूक्त्वा, तन्मूक इवास्तां किमारटितेनेति वचनावकाश दित्सराह- तथापि यन्मय्यपि ते गुरुरित्येष(१) गौरवम् ।। तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥ तथापीति ॥ हे कृष्ण ! यद्यपि एवं वचनं न्याय्यं, तथापि यत् ते तव मयि स्वल्प- बुद्धौ विषये इति गौरवं सन्मान आदरातिशयो वर्तते । इतीति किम् एष गुरुः अपि निश्चयेन । मम जल्पतो भणतः सतः तत्प्रयोजककर्तृत्वमुपैति । हेतुकर्तृत्व प्राप्नोति । य- न्मां जल्पयतीत्यर्थः । प्रयोजकश्चासौ कर्ता च प्रयोजककर्ता । द्विविधो हि कर्ता स्वतन्त्रो हेतुप्रेरकवृद्धश्च । अपिशब्देन आत्मनो हीनत्वं प्रयुजन्ननौद्धयं प्रकाशयति । इति स्वरूप- निर्देशे, एवावधारणे । गुरुत्वेनैव तु सचिवत्वान्नेत्यर्थः । नो चेतावदह मूर्खः कथविदापि वक्तुं जानामि । अपरं गौरवमेव मां वक्तुं प्रेरयतीत्यर्थः ॥ ७१ ॥ ताई कि तूष्णीभूतेन भान्यं नेत्याह- तथापीति । तथापि बलेन निर्णीतपिते नव मय्यपि। बलभद् इवेत्यपिशब्दार्थः । गुरुरित्येक उक्त्वा .. । (१) रित्यस्ति।

७८ सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- .. यगौरवमादर: यहौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे प्रयोजककर्तृत्वं प्रेरकत्वमुपैति। अतो वक्ष्यामी- त्यर्थः । न हि पण्डितः सादरं पृष्टस्य विशेषज्ञस्याऽशवत्तूष्णींभावो युक्त इति भावः ॥ १ ॥ ननु च भणितव्यं विद्यते इति वाङ्यविस्मयद्वारेण प्रतिपादयितुमाह- वर्णैः कतिपयैरेव प्रथितस्य स्वरैरिव ।। अनन्ता वाङ्मयस्याहो ! गेयस्येव विचित्रता ॥ ७२ ॥ वर्णैरिति ॥ अहो विस्मये, वाङ्मयस्य विचित्रता अनन्ता न विद्यतेऽन्तो यस्याः सा । अनेकरूपं कदा कारणबाहुल्यं स्यात्तत्र चित्रामित्याह-कथंभूतस्य वाङ्मयस्य कति- पयै रेव वर्णः द्विपञ्चाशदक्षरैः प्रथितस्य बद्धस्य, यदि परं शिषष्टि; वर्णाः । अथ च वेदा- दिभेदेन अपारं वाड्यं न क्वचिदपि सादृश्यम् । कस्येव गेयस्येव । यथा गेयस्य गानस्य विचित्राता अनन्ता। कीदृशस्य कतिपयै रेव स्वरैः पड्जादिभिर्यथितस्य। स्वरा अपि सप्त। तदपि गेयं समुद्रवदनन्तं यथा, तथा वाङ्मयमपि अनेकरूप विचित्रमित्यर्थः । यद्यपि हलि- नोक्तं, तथाप्यहमन्यदेव विचित्रतरं वच्मि इति तात्पर्यार्थः । उक्तं च- गयताणघडयअवहीण ते दीसन्ति कहं वि पुल्सा । जे विषूमावियाणं अछावास कविवाणीणम्(?) ॥ वाचा विकारोऽवयवो वा, एकस्वरान्नित्यमयट् । गीयते इति गेयम् अची यत् । उपमानयोरुपमेययोश्च द्वित्वात् इवशब्दावपि द्वावेव न्याय्यौ। यत्रा वेवविध विषये एव स प्रयुज्यते ता वाक्यार्थस्यौपम्यं बोद्धव्यम् । एवमन्यत्र ॥ ७२ ॥ ननु रामेणैव सर्व प्रपञ्चेन.क्तम् , तम्प्रति किं ते वाच्यमस्तीत्याशय वृथा प्रपञ्चोऽयमिति हृदि निधाय स्तुवन्नाह त्रयेण- वर्णैरिति ॥ कतिपयैः परिमितर्वणः पञ्चाशतैव मातृकाक्षरः, कतिपयैः सप्तभिरेव स्वरे- निषादा दिभिप्रथितस्य गुम्फितस्य वाङ्यस्य शब्दजालस्य । 'एकाचोऽपि नित्यं मयटमिच्छन्ति' इति स्वार्थ मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता अपरिमिता भवतीत्यर्थः । अहो। अतस्तेन साधूनेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येका भावः । तस्य दुरुतत्वान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादनेकैवेयमुपमा ॥ ७२ ॥ अथ हलधरवचनाक्षेपद्वारेण आत्मवचनस्य ग्राह्यत्वमाह- बहपि स्वेच्छया कामं प्रकीर्णमभिधीयते ॥ अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥ बह्वपीति ॥ कामं निश्चितं स्वेच्छया आत्ममनीषया नीतशास्त्रव्यतिरेकेण प्रकीर्ण- मसमञ्जसमसम्बद्ध बह्वपि धनमप्यभिधीयते उच्यते । परं प्रबन्धो नीतिशास्त्रक्रमो दुरुदा- हरः दुःखेन वक्तुं शक्यते । कीदृशः प्रबन्धः अनुन्मितार्थसम्बन्धः अनुमितोऽपरित्यक्ता- ऽर्थसम्बन्धः कार्यानुक्रमो यत्र । उतं च- वासंयमो मे नृपते ! सुदुष्करतमो मतः । अर्थवच विचित्रां च न शक्य बहु भाषितम् ॥ तदेतेन-सारिणा लाकुटिन्यायेनोक्तं, मया नीतिशास्त्रान्वितमभिधीयते इत्युक्तं - .. ! भवति ॥ ७३ ॥ बहपाति ॥ स्वेच्या स्वप्रतिभानुसारेण प्रकीर्णसमजतं बहपि कामं यथेष्टमाभिधीयते । किन्तु सर्गः।] शिशुपालवधे । ७६ । अनुज्झितीर्थसम्बन्धः पदार्थसङ्गतिर्यस्मिन्स प्रबन्धः सन्दर्भः दुरुदाहरो दुर्वचः। हरतेः जल्प्रत्ययः । रामेण तु सङ्गतमेवोक्कमिति स्तुतिः, असङ्गतमेवोक्तमिति निन्दा च गम्यते ॥ ७३ ॥ सामान्यद्वारेण आत्मवचनस्तुतिमाह- नदीयसीमपि घनामनल्पगुणकल्पिताम् ॥ प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ।। ७४ ॥ म्रदीयसीमिति ॥ हे कृष्ण! कुशला नीतिविदः एवंविधां वाचं प्रसारयन्ति विस्तारयन्ति । वदन्तीत्यर्थः । कथंभूतां म्रदीयसी कोमलां प्रसन्नत्वात् सुबोधामपि धनां महार्थाम् । यच धनं दाादिना तन्मृदु न भवति । विरोधच्छायाप्रतिपादनोऽपिशब्दः । पुनः कीदृशीम् । अनल्पगुणकल्पिताम् अनल्पैर्महद्भिर्गुणैर्माधुर्यौदार्यादिभिः कल्पिता रचिताम्, अपरं कीदृशीं चित्रामनेकरूपां नानाशास्त्रानुगतत्वादाश्चर्यकारिणीम् । कामिव पटीमिव । यथा केचित् कुशलास्तन्तुवायाः पटी विस्तारयन्ति विधानाय वितानयन्ति तथा वाचं केचिदेवेत्यर्थः । कीदृशी नदीयसीमपि सुकुमारामपि धनां दृढां, तथा बहु- भिर्गुणैस्तन्तुभी रचितां तथा चितां नानावर्णाम् । चित्रापटी हैमनो वासोविशेषः ॥७४॥ प्रदीयसीमिति ॥ कुशलो वतारो पदीयसीमतिसुकुमाराशरा लक्षणतरी च तथापि घनामर्थगु म् , अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः तन्तुभिश्च कल्पिता रचितां निर्मिता च चित्रां शब्दादिविचित्र विचित्ररूपा च वाचं पटीं शाटीमिव प्रसारयन्ति । रामवाग- प्येवंविधेति स्तुतिः, रामवाक्तु नैवंविधेति निन्दा च गन्यते । अत्र श्लेषस्य शुद्धविषयासम्भवेन सर्वालद्वार- बाधकत्वादुपमाप्रतिभोत्थापितः प्रकृताप्रकृतश्लेषोऽयमित्यलङ्कारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विर- यत्वप्रसङ्गात् श्लेषप्रतिमोत्थापितेयमुपभैवेत्यन्ये ॥ ७१ ॥ इदानी भगवतो नुतिद्वारेणात्माऽनौद्वत्यमाह- विशेषविदुषः शास्त्रं यत्तवाग्राह्यते पुरः ॥ हेतुः परिचयस्थैर्ये वतुर्गुणनिकैव सा ॥ ७ ॥ विशेषेति ॥ हे कृष्ण ! यत्तव पुरोऽघ्रो शास्त्रमुद्ग्राह्यते उच्यते, किंभूतस्य तव विशेष- विदुषः विशेषज्ञस्य । सा वाणी वक्तुः उद्ग्राहयितुः पुरुषस्य गुणनिकैव अविस्मरणार्थ- मभ्यास एव । विद्याभ्यासो गुणनिका । किंभूता परिचयस्थैर्यहेतुः विद्याया अविस्मरणे स्थिरत्वे कारणं प्रकर्षदृढबन्धत्वे कारणम् । गुणनेनैव हि शास्त्रस्याविस्मरणार्थभ्यास कुर्मः । त्वमेव विशेषविद्वान् तस्य विशेषज्ञस्य । अथ विशेषेणातिशयेन विद्वान् पण्डित इति तु केचित, तस्य विशेषविदुषः । वसोः सम्प्रसारणम् । हेतुराविष्टलिङ्गः । परिचयो बोधप्रकर्षः तस्य स्थैर्यमविस्मरणम् । गुणनमेव गुणनिका अभ्यासः, संज्ञायां कन् ॥ ७९ ॥ अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन् स्तुत्या गर्व परिहरन् हरिमभिमुख करोति- विशेषेति ॥ विशेषानवान्तरभेदान्वनि विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादि- पाठाद् द्वितीयासमासः। तव पुरोऽग्रे शामं नीतिशासमुद्ग्राह्यत उपन्यस्यत इति यत् । 'उद्माहितमुप- भ्यस्तम्' इति वैजयन्ती । सा । तदुग्रहणमित्यर्थः । विधेयप्राधान्यात्त्रीलिङ्गत्वम् । वक्तुरुग्राहयितुः परिचयस्थैर्येभ्यासदायें हेतुर्गुणनिका । आडितमेवेति यावत् । न तु वैदुष्यप्रकटनमिति भावः । गुण भाडने चौरादिकात 'ण्यासश्रन्थो युच' इति युन् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः ॥ ७५ ॥ एवं वचनावकाशं दत्वा प्रकृतमथं विवक्षुराह- प्रोत्साहावतः स्वामी यतेताधातुमात्मनि ॥ तो हि मूलमुदेष्यन्त्या जिगीषोरात्मसम्पदः ॥ ७६ ॥ । -

-
!
सन्देहविषौषधिसर्वकषायुते-
[ द्वितीयः-
प्रक्षेति ॥ हे कृष्ण ! स्वामी विजिगीषुरतोऽस्मात्कारणात् प्रशोत्साही नीतिपरा-
क्रमौ आत्मनि आधातुं यतेत उत्पादयितुं यत्नं कुर्यात् । द्वादशराजमण्डलीनाभिग-
तो राजा विजिगीषुः । मन्त्रशक्तिः प्रज्ञा, पराक्रमसम्पदुत्साहः । हि यस्मात्कारणात्
जिगीषो राज्ञ उदेष्यन्त्या उदयं गमिष्यन्त्या आत्मसम्पदः प्रभुशक्तेः तो प्रोत्साहौ
बुद्धिपराक्रमौ मूल कारणम् । मन्ाशक्तयुत्साहशक्तिभ्यां प्रभुशक्तिर्यतो भवत्यस्तते अर्थ-
नीये इत्यर्थः । तावेव प्रभुशक्तेर्बोजमित्यर्थः । जिगीषुर्नयज्ञो भवन् जेतुमुद्यतो राजन्यक-
प्रधानमुच्यते ॥ ७६ ॥
सम्प्रति स्वमतमुपन्यस्यति-
प्रज्ञेति ॥ अतोऽस्मात्कारणात् स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामित्रैश्वर्य' इति निपातः। प्रज्ञा-
साहौ मन्त्रोत्साहशकी आत्मनि स्वस्मित्राधातुं सम्पादयितुं यतेत । स्वयमुभयशकिमान्भवेदित्यर्थः ।
कुतः-हि यस्मात्तौ प्रज्ञोत्साही उदेष्यन्त्याः वय॑न्त्याः जिगीषोरात्मनः सम्पदः प्रभुशर्मुलं निदानम् ।
अत्रोत्साहग्रहणं दृष्टान्तार्थम् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह हात बलभदापवादः ॥७६॥
प्रज्ञोत्साहौ मूलमित्युक्तम् , तत्र प्रज्ञाया मूलत्वं स्तुतिद्वारेण श्लोकचतुष्टयेन वक्तुमाह-
सोपधानां धियं धीराःस्थेयसी खट्वयन्ति ये ॥
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥
सोपधानामिति ॥ हे कृष्ण! ये धीरा अव्याकुला धियं बुद्धि खट्वयन्ति व्यवहार-
यन्ति व्यापारयन्ति । अभिलषितसिद्धये विनियुक्षत इत्यर्थः । कीदृशीं सोपधानां युक्ति-
युक्ताम्, अपरं किंभूतां स्थेयसी स्थिरतरां निश्चलाम् । ते पुरुषाः तत्रा तस्यां बुद्धौ आनिश
निषष्णाः सन्तस्तत्परायणा आसक्ताः कृतावस्थाना सन्तो जातु कदाचिदपि धर्म न जानते
आयासं नावगच्छन्ति । विचारपूर्वस्य कार्यस्य साफल्यादिति भावः । अथ चोक्तिलेशः-ये
किल खट्वयन्ति खट्वामारोहन्ति खट्वामिव कुर्वन्ति खट्वां कुर्वते, तेऽपि तस्यां खट्वाया-
मानिश दिवारात्रिं यावद्वा निषण्णाः सन्त उपविष्टाः सन्तः श्रम न जानन्ति खेदं न
विन्दन्ति । किंभूतां खट्वां सोपधानां सगण्डकामुच्छीर्षकसहिता, पुनः कीदृशी स्येयसी-
मस्फुटां दृढाम् । तत्र खट्वोपसर्जनभूता, तया बुद्ध्या विभज्य विशेषयोगो बोद्धव्यः ।
अतिशयेन स्थिरा स्थेयसी 'प्रियस्थिरे ति स्थिरस्य स्थ आदेशः । खट्वां करोति 'तत्क-
रोतीति णिच् । निशाया आ आनिशम् 'आङ् मर्यादाभिविध्यो रिति समासः ॥७॥
उत्साहवत्प्रज्ञापि ग्राह्येत्युकं तस्याः प्रयोजनमाह-
सोपधानामिति ॥ ये धीरा धीमन्तः सोपधाना सविशेषाम् । युक्तियुकामित्यर्थः। अन्यत्र सगेन्दुकाम् ।
सोपबाँमित्यर्थः । 'उपधानं विशेष स्यानेन्दुके प्रणयेऽपि च' इति विश्वः । स्थेयसी स्थिरतरामचपलां
इढीयसी च । स्थिरशन्दादीयमुनि प्रियस्थिर-इत्यादिना स्थादेशः। धियं खान्ति खट्या पर्या
कुर्वन्ति । आश्रमन्तीत्यर्थः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । 'तत्करोति तदाचष्टे'
इति णिच् । ते धीरास्तत्र धीखट्वायामनिशमश्रान्तं निषण्णा विधान्ताः सन्तो जातु कदाचिदपि प्रमं
खेदं न जानते न विदन्ति । श्रमः खेदो रत्यादेरिति लक्षणम् । धीपूर्वक एवोत्साहः सेन्यो न केवल इति
सर्वथा धीराश्रयणीयेत्यर्थः । अब धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामा-
लङ्कारः । 'आरोष्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् ॥ ॥
स्पृशन्ति शरवत्तीक्ष्णा: स्तोकमन्तर्विशन्ति च ॥
बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७ ॥

सर्गः।] शिशुपालवधे। ८१ . स्पृशन्तीति ॥ हे कृष्ण ! तीक्ष्णाः कुशाग्रवत्तीक्ष्णबुद्धयः प्रज्ञाः स्तोकं स्पृशन्ति च अन्यत् अन्तर्विशन्ति तत्त्वमालोचयन्ति कार्यतत्त्वस्याभ्यन्तरं प्रविशन्ति । स्वल्पं अवन्तः कार्यतत्त्वशरीर सकलं जानते इत्यर्थः । किंवत् शरवत् । यथा शरा मनाक स्पृशन्ति स्तोकं वणं कुर्वते पुनरन्तर्विशन्ति च देहस्याभ्यन्तरं प्रविशन्ति द्वितीयं पावं यावन्निस्स- रन्ति । परं स्थूलेन जडबुद्धिना मूर्खेण बहुस्पृशाऽपि बहुभाषिणा ऽपि बहिः स्थीयते । तेन बहु रट्यते पुनः कार्यतत्त्वं न विद्यते । तत्रापि कार्यशरीरादहिः स्थीयते । निःशेषमपि कार्यमालोचयतो नैव तस्य हृदयं बुध्यते इत्यर्थः । किंवत् अश्मवत् । यथा अश्मना यन्त्रपाषाणेन बहु स्पृश्यते पर बहिः स्थीयते शरीराभ्यन्तरं न प्रविश्यते । एतेन प्रज्ञा- विशेष उक्तः ॥ ७८ ॥ अथ प्रज्ञाप्रज्ञयोर्वाभ्यां वैषम्यमाह- स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृशन्ति, अन्तः कार्यस्य चातरं विशन्ति । अल्पायासेन बहु कार्य साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना, स्थूलेन मन्देन बृहता च अश्मनोपलेन तुल्यमश्मवत् । तेन तुल्यं क्रिया चद्वतिः। बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयास करोति । मूषकग्रहणाय शिखरिखनन परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा ॥ ०८ ।। आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ॥ महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७ ॥ प्रारभन्त इति ॥ अज्ञा मूर्खा अल्पमेव कार्यमारभन्ते परं काममतिशयेन व्यग्रा आकुला भवन्ति दीपवत् । पुनः कृतधियः शास्त्रज्ञा महारम्भा महोदय कार्यमारभन्ते अथ निराकुलास्तिष्ठन्ति अव्यग्रा भवन्ति सूर्यवत् । न जानन्तीति अज्ञाः । शास्त्रेण कृता वर्धिता धीयेषां ते कृतधियः शास्त्रपरिणतबुद्धयः ॥ ७९ ॥ प्रारभन्त इति ॥ किञ्च अज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते काममत्यन्त व्यग्रा: त्वरिता भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षित बुद्धयस्तु महारम्भा महोद्योगा भवन्ति निरा- कुला अव्यग्राश्च भवन्ति । पारं गच्छन्तीति मावः ॥ ७९ ॥ न चात्मबुद्धिमदात्प्रमादो विधेय इति दर्शयितुमाह- उपायमास्थितस्यापि नश्यन्स्यर्थाः प्रमाद्यतः ॥ हन्ति मोपशयस्थोऽपि शयालुर्मुगयुर्मुगान् ।। ८० ॥ उपायमिति ॥ प्रमाचतो निरवधानस्य पुंसोऽर्था नश्यन्ति कार्य विघटन्ते । तर्हि उपायरहितो भविष्यति, कर्थभूतस्य उपायं सामादिकमास्थितस्यापि आश्रितस्यापि । इत्यर्थे दृष्टान्तमाह-यतो मृगयुर्लुब्धको मृगं हरिणं न हन्ति, किंभूतो लुब्धकः उपशय- स्थोऽपि समीपस्थस्तथा शयालुः अजागरूकः सुप्तश्च । तस्मात् प्रमादो जिगीषुणा न विधेयः । एतन यदुक्तम्-नीतिरापदि यद् गम्यः, तदपास्तम्। शेते तच्छीलः शयालुः आ- लुचि शील्महणम् ॥ ८० ॥ अथ प्रज्ञानावपि न प्रमादित्याह- उपायमिति ।। उपायमास्थितस्य प्रातस्यापि । उपायनैव कार्य साधयतोऽपीत्यर्थः । किमुत व्यग्र- तयेति भावः । प्रमायतोऽनवधानस्य । 'प्रमादोऽनवधानता' इन्यमरः । अर्थाः प्रयोजनानि नश्यन्ति । तथा हि-शयालुनितालुः । आलुचि शीडो वक्तव्यत्वादलुन् । मृगान् यातीति मृगयुर्व्याधः । 'मृगवादयश ८२ सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- । इत्यौणादिकः कुप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयुलुन्धकसम' इत्यमरः । उपशेरतेऽस्मि. त्रिन्युपशयो मृगमार्गस्थायिनो व्याधस्यात्मगुप्तिस्थान गर्नविशेषः । 'एरच्' इत्यच्प्रत्ययः । तत्र तिष्ठनी- न्युपशयम्योऽपि मृगान् न हन्ति । विशेषेण सामान्यसमर्थनरूपोर्थान्तरन्यासः ।। ८० ॥ एतत्प्रदर्य साम्प्रतमुत्साहं प्रस्तोतुमाह- उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ॥ जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥ उदेतुमिति ॥ द्वादशस्वपि राजसु मध्ये जिगीषुरेक एव कल्पते प्रधानः सम्पद्यते समर्थो भवति, किं कुर्वन् उदेतुमुदयाय ईहामत्यजन् उत्साहमपरिहरन् । जिगीषुर्जेतुमिच्छनिरीहश्च कथं जयतीति भावः । केष्विव आदित्येष्विव । यथा द्वादशसु आदित्येषु अदितिसुतेषु शक्रादिषु मध्यात् दिनकृत् एक एव सम्पद्यते अहस्कर एक उदेति सम्भवति । य उद्ग- च्छति स एव दिनकृदुच्यते, अन्ये त्वदिनकृत एव । यतः यो दिनं कुरुते स दिनकृत् । तत्रेमे द्वादशादित्याः- इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोर्यमा । अचिर्विवस्वांस्त्वष्टा च सविता विष्णुरेव च ॥ द्वादशादित्यानां नामानि । द्वादशराजमण्डलीमाह-अरिः, मित्रम् , अरेमित्रं, मित्र- मित्रम् , अरिमित्रमित्रं, विजिगीषुः, पणिग्राहः, आक्रन्दः, पाणिग्राहासारः, आक्र- न्दासारः, मध्यमो भुम्यन्तरः, उदासीनश्चेति । भवन्ति चात्र श्लोकाः- अरिमितमरेमित्रं मित्रमितमतः परम् । तथाऽरिमितमित्रं च विजिगीषोः पुरः स्मृताः॥ पाणिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरः । आसारावनयोश्चैवं विजिगीषोश्च पृष्ठतः ॥ अरेश्च विजिगीयोश्च मध्यमो भूम्यन्तरः । अनुग्रहे संहतयोय॑स्तयोश्च वधे प्रभुः ॥ मण्डलाबहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥ विजिगीषोनाभिस्थानीयराजचक्रस्य पाणिग्राहमिव यो गृहाति स पाणिग्राहः । तन्निरोधाद्विजिगीषुसहाय आक्रन्दा, आक्रन्दविरोधाच पाणिग्राहासारः, एतन्निरोधाच आक्रन्दासारः । एवंविधराजमण्डलीमध्ये जिगीषुरेक एव भवति ॥ ८१ ॥ एवं प्रज्ञाया आवश्यकत्वमुकम् , तथोत्साहस्थाप्याह- उदंतामति ॥ जतुमिच्छुर्जिगीषुरेक एव द्वादशस्वपि राजमु मध्ये द्वादशस्वादिन्येषु दिनकृद् यो दिन करण व्याप्रियमाण आदित्यः स इव ईहामुन्साहमत्यजन्प्रयुञ्जान एव । न तु निरुयोग इति भावः । उदतु कल्पने उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशकरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूना नानासूर्य- त्वम्' इति श्रुतेः । प्रतिमासमादित्यभेदाद् द्वादशत्वं, तच्चैकस्यैव द्वादशात्मकत्वम् । द्वादशात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोका द्रष्टव्यः । राजानस्तु- 'अरिमित्रमरेमि मित्रमित्रमतः परम् । तथाििमत्रमित्रं च विजिगीषोः पुरस्सराः ॥ पति शेषः।

सर्गः।] शिशुपालवधे। ८३ 'पाणिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयो श्चैव विजिगीषोस्तु पृष्ठतः'। पाणिग्राहासारः, आक्रान्दसारश्चेत्यर्थः । अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुदर्शमः। 'अरेच विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे। मण्डलाहिरेतेषामुदासीनो बलाधिकः' । इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः। पूर्णोपगा ॥ ८ ॥ कथमसावेको विजिगीषुः कल्पते इति तस्य मण्डलचिन्तामाह- तन्त्रावापविदा योगैमण्डलान्यधितिष्ठता ॥ सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः (१) ॥ ४२ ॥ तन्त्रेति ॥ एवं विधेन नरेन्द्रेण शत्रवः मुनिग्रहाः सुखेन दमयितुं शक्याः । कीदृशेन तन्त्रावापविदा । स्वशक्त्युत्पत्तिविधानलक्षणं तन्त्र परशक्तीनामात्मन्यध्यारोपणमावापः, तो वेत्तीति तन्त्रावापविदा, पुनः किंभूतेन यौगैः प्रच्छन्नप्रणिधिभिः मण्डलानि परराष्ट्राणि अधितिष्ठता आक्रमता । एवंविधन उत्साहेनाऽसौ विजिगीषुः सम्पद्यत इत्यर्थः । के यथा केन मुनिग्रहा इत्याह-के इव फणीन्द्रा इव सर्पा इव । यथा नरेन्द्रेण गारुडिकेन फणीन्द्राः सर्पाः सुनिग्रहा अकृच्छ्रेण दमयितुं शक्यन्ते। तेनापि कीदृशेन तन्तावापविदा, तन्त्रं गारुडं शास्त्रम् आवापः सर्षपादिक्षेपः तौ वेत्ति इति तन्तावापवित् तेन । जाङ्गुलीविद्यया सर्षपाक्षेपः क्रियते, सर्पाणामावृष्टिर्भवति । तथा योगानः सामादिभिः मण्डलानि वाय- व्यादीनि अधितिष्ठता आक्रमता ॥ ८२ ॥ उपायमास्थितस्येत्यत्र राजा न प्रमादित्युक्तम् , अप्रमादपकारमाह- तन्नति ॥ तन्त्रावापी स्वपरराष्ट्रचिन्तनम् , अन्यत्र तन्त्रावापं शामौषधप्रयोगं च वोन यस्तेन तन्त्रावापविदा। 'तन्त्र स्वराष्ट्रचिन्तायामावापः परचिन्तने । शामऔषधान्तमुख्येषु तन्त्रम्-' इति वैजयन्ती । योगः सामाधुपायः, अन्यत्र देवताध्यानश्च । 'योगः संनहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । मण्डलानि स्वपरराष्ट्राणि माहेन्द्रादि देवतायतनानि च अधितिष्ठताऽतिक्रमता नरेन्द्रेण राज्ञा विषवैयेन च । 'नरेन्द्रो वार्तिके राज्ञि विषवैये च कथ्यते' इति विश्वः। शत्रवः फणीन्द्रा इव सुनिग्रहा: सुखेन निग्राह्याः । एवं च प्रकृताप्रकृतविषयः श्लेषः । उपमैवेति केचित् ॥ ८२ ॥ यदुक्तं तौ हि मूलमुदेष्यन्त्या इति दर्शययति- करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् ।। प्रक्षाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८३ ॥ करेति ॥ उत्साह एव पादपो वृक्षः पराक्रमवृक्षः प्रभुशक्ति फलति कोशं चतुरङ्ग बलं फलति जनयति । कीदृशीं करप्रचेयां करेण दण्डेन प्रचीयते वर्धते करप्रचेया तां दण्डवर्ध- नीयां, तथा प्रथीयसीमतिमहतीम् । कीदृशः उत्तुङ्गः उन्नतः महाप्रभावः, तथा प्रज्ञाबलबृह- न्मूलः प्रज्ञाबलं मन्तृशक्तिस्तदेव बृहन्मूलं कारणं यस्य । मन्तूसहितेनोयमेन प्रभुशक्तिर्ज- (:)अयमनिमश्च श्लोको मल्लिनाथीयटीकायो 'स्थायिनोऽर्थे प्रवर्तन्ते' इत्यस्यानन्तरं दृश्यते । -- सन्देहविषौषधिसर्वपायुते- [द्वितीयः- . पादपः .. न्यते इति वाक्यार्थः । पादपो वृक्षो महती फलसम्पत्ति जनयति । किंभूतः उत्तुङ्गः उन्नतः तथा बृहन्मूलन, किभूतां फलसम्पत्ति करप्रचेयां हस्तप्राप्यां, सम्पसि फलदानलक्षणाम् । (१)अपि बृहन्मूलो भवति ॥ ८३ ॥ 'प्रज्ञोन्साहावतः स्वामी' इत्यत्रैव तावेव प्रभुशर्मूलमित्युक्तं, तदेव व्यनकि- करेति ।। उत्तुङ्गले महोत्रतः प्रज्ञावलं मन्त्रशकिोष बृहत्प्रधानं मूलं यस्य सः उत्साह एव करेण बलिना प्रचेया वर्धनीयो हस्तग्राह्या च 'बलिहस्तांशवः कराः' इत्यमरः । प्रथीयसी पृथुनराम् । 'र ऋतो हलादेः' इति रेफादेशः । प्रभुशति तेजोविशेषम् । 'म प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम' इत्यमरः । फलति । प्रसूते इत्यर्थः । फल निष्पत्ती । मन्त्रपूर्वक एवोत्साहः फलति । विपरीतस्तु छिन्त्रमूलो वृक्ष इव शुष्यतीति भावः । रूपकालङ्कारः ॥ ८३ ॥ शक्तित्रययोगै राजशब्दः प्राप्यते नान्यथेति दर्शयितुमाह- बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।। चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ ८४ ॥ बुद्धिशस्त्र इति ॥ एवंविधो यः कोऽपि पुरुषः स पार्थिवो राजा न सर्वः । पुरुष- विशेषः कोऽपि राजन्य उच्यते, बुद्धिशस्त्रादियोगे सति राज्ञा भूयत इति यावत् । इतश्च षड् गुणा इत्यादिना शक्तीनामाग्रह्यत्वमुक्तमिति भावः । अथ चैवंविधो यः पार्थिवः स कोऽपि पुरुषः पुरुषलक्षणोऽसौ बोद्ध व्यः इति वक्रोक्तिः । तमेव विशेषमाह-किंभृतः बुद्धिशस्त्रः बुद्धिः प्रशैव शस्त्र प्रहरणमस्य सः। अन्यो यायुधेन जिघांसति, स तु बुद्ध्यैव इति विशेषः । उक्तं च- एक हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्ठा हन्याद्राष्ट्र सराजकम् ॥ पुनः कीदृशः प्रकृत्यङ्गः प्रकृतय एव पौरा अमात्या एव अङ्गानि यस्य सः । अन्य. स्य हि पाणिपादादीनि अङ्गानि भवन्ति, स तु तत्कर्म प्रकृतिभिरेव कुरुते । उक्तंच- स्वामी जनपदोऽमात्यः कोशो दुर्ग बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः सम्प्रचक्षते ॥ अपरं कथंभूतः घनसंवृतिकानुकः घना या सवृतिर्मन्त्रगोपनं सैव कामुकः सन्नाहो य- स्य सः । अन्यस्य हि सन्नाहः शस्त्रमयो भवति, स तु मन्त्ररक्षयैवात्मानं रक्षति । अपरं कीदृशः चारेक्षणः चाराः प्रणिधय एव ईक्षणे चक्षुषी यस्य सः । अन्यस्यापि स्वमुखे एवं चक्षुषी भवतः, स तु चारैरेवाखिलमवलोकयति । उक्तंच- गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति वाडवाः । चरैः पश्यन्ति राजानश्चक्षुामितरे जनाः ॥ दूता एव मुखं यस्य । अन्यस्य हि शरीरलग्नं मुखं भवति, स तु मुखकार्य भाषणा- दिकं दृतत एव कुरुते । अत एव पुरुषः कोऽपि पार्थिवः । तदेतेन यो मन्त्रशक्त्या युक्तः स राजोच्यते नान्य इत्युक्तं भवति ॥ ८४ ॥ विमृष्यकारिणस्तु विश्वमपि विधेयं स्यादिति त्रयेणाह- बुद्धिशन इति ॥ बुद्धिरेव शमं यस्य स बुद्धिशमः । अमोघपानित्वात्तस्या इति भावः । प्रकृतयः, (१) इदमधिकं भाति । । ।

सर्गः । ] शिशुपालवधे। ८५ . .. ॥ स्वाम्यादिराज्यानानि । 'राज्यागनि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः। तद्वैकल्ये राज्ञे। वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिमन्त्रगुतिरेव कञ्चुकः कवचो यस्य स तथोकः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः । पचायच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थिकोऽप्र. त्ययः । 'चारश्च गूढपुरुषः' इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारेक्षणः। अन्यथा स्वपरमण्डलवृना- तादर्शनात् । 'अन्धस्यवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः सन्देशहरः । 'स्यात्सन्देशहरों दूतः' इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिदी तत्साध्या- साध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षण: पुमानित्यर्थः। अतो राज्ञा बुट्यादिसम्पनेन भवितव्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानि: स्यादिति भावः । अत्र कोऽपीति राज्ञो लोकसम्बन्धेऽपि तदसम्बन्धोक्या तपातिशयोक्तिः। सा च बुद्धि- शल इत्यादिरूपकनियूं ढेति तेन सहाङ्गाङ्गिभावेन सङ्करः ॥ ८४ ॥ इदानीं केवलतेजःसमाश्रयणेन यदभिहितं मा जीवन्निति दूपयितुमुपक्रमते- तेजः क्षमा वा नैकान्तात(१) कालबस्य महीपतेः नैकमोजः प्रसादो वा रसभाग(२)विदः कवेः॥ ८५ ॥ तेजति ॥ कालशस्य समयज्ञस्य महीपतेः राज्ञ एकान्तात् निरन्तरं न तेजः शो- र्यम् , वा अथ वा एकान्ततो निरन्तरं न क्षमा न मार्दवम् । कस्येव कवेरिव । यथा कवेः काव्यकर्तुः एकं केवलं न ओजः, वा अथवा केवल एव न प्रसादः । बहु समासवती वृत्ति- रोजः, असमासवती वृत्तिः प्रसादः । किंभूतस्य कवेः रसभागविदः रसभागज्ञस्य । रसाः- शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । वीभत्साद्भुतशान्ताश्च ॥ तेषां भागो विषयः तं वेत्तीति रसभागवित् तस्य । यश्च रसभागं कविर्जानाति तने- क एव गुणः ओजः प्रसादो वा नाश्रयणीयः । यथा शृङ्गारकरुणयोः प्रसाद एवं शोभा- मावहति, रौदै तु ओज एव इति जानातीत्यर्थः । केचित्त रसभावविद इति पठन्ति, तत्पुनर्न युज्यते । रसभावयो रेकयोगक्षेमत्वात् । भाव एव रसो भवति। किच रसेष्वेव रीतयो विभक्ता न च भावेषु ॥ ८६ ॥ चतुर्थोपायसाध्य इत्यादिना यक्षाश्रमेव कर्तव्यमुक्तं तत्रोत्तरमाह- तेज इति ॥ काल जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः । आतोऽनुपसर्ग कः, न तु 'इगुपध-' इत्यादिना कविधिः । समासे कर्मोपपदस्यैव वलावभाषणात् । तस्य महीपतेस्तेजः क्षात्र मेवेति वा एकान्तं नियमो न नास्ति । किन्तु यथाकालमुभयमप्याश्रयणीयमित्यर्थः । तथा हि-र- सान् शृङ्गारादीभावान् निदादींश्च वोने यस्तस्य रसभावविदः । भावग्रहणं सम्पातायातम् । कवेः कवितुरेक कवलमोजः प्रौढप्रबन्धत्वं वा, एकः प्रसादः सुकुमारप्रवन्धत्वं वा न । किन्तु तत्र हि रसानुगुण्येन यथायो ग्यमुभयमप्युपादेयम् । दृष्टान्तालङ्कारः ॥ ८५ ॥ न चाप्यकाले तेजस्विता फलवती भवतीति दर्शयितुमाह- कृतापराधोऽपि(३) परैरनाविष्कृतविक्रियः ॥ असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ।। ८६ ॥ कृतापराध इति ॥ यो विचक्षणः स परैः शत्रुभिः कृतापराधोऽपि विहितदोहोऽपि काले प्राप्ते कोपं कुरुते लब्धबलः सन् तेजस्वितामाश्रयति । यतस्तदा असावसाध्यः (१) नैकान्तम् । • (२) रसभाव। (३) पचारोऽपि । ८ शिव० .. ..

८६ सन्देहविपाषाधिसर्वपायुते- [द्वितीयः- अजय्यः, पूर्वमुपद्रतोऽप्यशक्तित्वात् । कथंभूतः सः अनाविष्कृतविक्रियः अदर्शितक्रोधः । तेन यदा शक्तिसम्पद्भवति तदाऽपराधिषु तैक्ष्ण्यमाश्रयणीयम् , न सर्वदेत्युक्तं भवति । उक्तं च- वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः तमेव चागते काले भिन्द्याद् घृष्टमिवाश्मनि ॥ क इव गद इव । यथा गदो रोगः जनैः कृतापथ्योऽपि काले प्रासे सत्यनुच्छेद्यत्वात् कोपं कुरते विकारं प्रकटयति तथा रीत्या राजा इति ॥ ८६ ॥ यदुनं 'क्रियासमभिहारेण विराध्यन्तं क्षमेत कः' इति, तत्रोत्तरमाह-- कृतापचार इति ॥ परैः शत्रुभिः कृतः अपचारोऽपकारः अपथ्यं च यस्य सः, तथाप्यनावि-कृ. न विक्रियोऽन्तर्गठविकारः। अत एवासाध्योऽप्रतिसमाधेयः सन् गदी यथा रोग इव । 'इवता यथाशब्द'- इति दण्डी । काले बलक्षयावसरे प्राप्त सति कोपं कुरुते । प्रकुष्यतीत्यर्थः । तदुक्तम्- 'बहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । तमेव चागते काले भिन्याद् घटमिवाश्मना' ।। इति ॥ ८६ ॥ न चाप्यकालेष्वेकान्ततो दारुणेन भवितव्यमिति दर्शयितुमाह- मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ॥ प्रदीपः स्नेहमादत्ते दशया घन्तर(१)स्थया॥ ८७॥ मृद्विति ॥ तेजः शौर्य मृदुव्यवहित मार्दवमिश्र सत् अर्थान् भूम्यादीन् भोक्तुं प्रक- ल्पते समर्थ भवति । युक्तोऽयमर्थः । हि यस्मात्कारणात् प्रदीपः तेजःस्वभावोऽपि अन्त- रथया दशया स्नेहमाधत्ते मृदच्या मध्यवर्तिन्या सत्या वा तैलं गृह्णाति । मृदुगुण- वती दशां विना तेजोवानपि दीपः तैलं भोक्तुमल न स्यात् । उक्तं च- मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः । एतद् बुद्धवा महाराज ! मा तीक्ष्णो मा मृदुर्भव ॥ इतश्च क्षन्तव्यमिदानीमित्याह माहिति ॥ मृदुना मृदुवस्तुना व्यवहितमन्तर्हितं तेजः अर्थान्भोक्तुं प्रकल्पते प्रभवति । तथा हि- प्रदीपोऽभ्यन्तरस्थया मध्यस्थया दशया वा । 'दशा वर्ताववस्थायां स्नहस्तैलादिके रस' इति विश्वः । स्नेह तैलादिकमर्थमादत्ते । अन्यथा स्वयमेव निर्वायादिति । ततः शान्तिपूर्वमेव सायं फलतीति सर्वथा प्रथमं अन्तव्यमिति भावः । विशेषेण सामान्यसमर्थनादर्थान्तरन्यासः ॥ ८॥ नापि दैवमुलध्य समारभ्भयितव्यमिति दर्शयितुमाह- नालम्बते दैष्टिकता न निषीदति पौरुषे । शब्दार्थी सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८८ ॥ नालम्बत इति ॥ यो हि विद्वान् शास्त्रज्ञः स द्वयमपेक्षते आश्रयति। तदेव स्वरूपेण दर्शयति-दैष्टिकतां देवपरतां शास्त्रकविषयं केवलं नालम्बते नाश्रयति, नापि पौरुषे पुरुष- कारे निषीदति अवतिष्ठते । क इव सत्कविरिव । यथा सत्कविर्वाणप्रभृतिढा शब्दार्थों का- व्यवपक्षते । न हि केवलान् शब्दालङ्कारान् उपादत्ते नापि केवलान् अर्थालङ्कारानपि तु निरवधं स्वकाव्यं कर्तुं द्वयमपि अपेक्षते । उक्कं च-'शब्दार्थो काव्यामिति । तत्केवलेन - - । (१) भ्यन्तर।

सर्गः । शिशुपालवधे । पौरुषाश्रयेण चैयो न जेय इत्युक्तं भवति । दिष्टे मतिरस्य दैष्टिको देवशरणोऽत्र विविक्षितः 'अस्ति नास्ति दिष्टं मतिरिति ठक् । पुरुषाणां कर्म पौरुषं युवादित्वादण् ॥ ८८ ॥ तर्हि पौरुषं मा भूनित्यं क्षममाणस्य दैवमेव श्रेयो विधास्यतीत्याशङ्कयाह- नालम्बते इति ॥ विद्वानभिज्ञः दिष्ट मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । 'दैवं दिष्टं भाग- धेयम्' इत्यमरः । 'अस्तिनास्तिदिष्टंमतिः' इति ठक् । नद्भावं दैष्टिकता मेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः । तथा पौरुष केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः। न निषीदति न तिष्ठति । देवप्रातिकूल्ये तस्य वैफल्यादिति भावः । किन्तु सत्कविः सत्कविता शब्दार्थाविव । तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः-'अदोषो सगुणौ सालङ्गा शब्दार्थों काभ्यम्' इति । द्वयं पौरुषं दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम्, किन्तु काले कर्तव्यमिति विशेषः । पौरुषाऽदृष्टयोः परस्परसापेक्षत्वादिति भावः ॥ ८८ ॥ जिगीषुरेकः कल्पते इत्युक्तं, तत्रैव किं नाम जिगीषुत्वमुच्यते यस्योपरि नेतर इति तद्- गुणानाह- स्थायिनोऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा ॥ रसस्यैकस्य भूयांसस्तथा नेतुर्महीभुजः(१) ॥ ८ ॥ स्थायिन इति ॥ हे कृष्ण ! यथा सञ्चारिणी व्यभिचारिणो भावा निवेदादयस्वाय- त्रिंशत्संख्याकाः स्थायिनः स्थिरतस्य रसस्य अर्थ कायें प्रवर्तन्ते। भावा एवातिसेविताः सन्तो रसतां यान्ति रसीभवन्ति । तथा तेन प्रकारेण नेतु यकस्य जिगीषोरणे कायें एका- दशसंख्याकाः महीभुजो राजानी वर्तन्ते । किंभृतस्य नेतुः स्थायिनः एकदेशस्थस्य महीभुजः, कीदृशाः सञ्चारिणः घटनशीलाः। तथा नेता नायको विजिगीषुर्यों महीपः स्थायी स्थिर- एकादशस्थो वा तस्यार्थे प्रयोजनेऽन्ये सञ्चारिणो घटनशीला राजानः प्रयतन्ते । यथा स्था- यिनो रसस्यैकस्यार्थेऽन्ये सञ्चारिणो भावाः । उक्तं च- दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेया न त स्थायित्वमागताः ॥ व्यभिचारिणो भावा निदादयस्त्रयस्त्रिंशत् । उक्तं च- निवेदोऽथ तथा ग्लानिः शङ्काऽसूयामदभ्रमाः । आलस्यं चैव दैन्यं च चिन्ताऽपस्मार एव च ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रा मोहः स्मृतिधृतिः ॥ स्वप्नं विबोधोऽमर्षश्चाप्यवहित्थं तथाग्रता । मतिाधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितश्च विज्ञेया व्यभिचारिणः । प्रयस्त्रिंशदिमे भावाः समाख्याताश्च नामतः ॥ अत्र तु रसहेतुत्वात् स्थायीभावः उत्पादको रसो विवक्षितः । तथा च- रतिहासश्च शोकन क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ (१)महीभृतः ।

सन्देहविषौषधिसर्वकषायुते- [ द्वितीयः- . चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽपि ते ॥ रसाः शृङ्गारादयो नव-शृङ्गारहास्यरौद्रकरुणा वीरभयानकाः बीभत्साऽमुतशान्ता- ख्याः । निवेदादयो भावाः, ते स्थायिनं भावं रसीभवन्तं पोषयितुं प्रवर्तन्ते । अथ वा शृङ्गारादिवचन एव रसशब्दः स्थायिभावहेतुत्वात् , तस्य स्थायित्वं यथाश्लोकम् । स्था- यिन इति षष्ट्य कवचनम् । ये तु जसन्तमाहुः, स्थायिनो भावाः सञ्चारिणश्चेति व्याचक्षते। तदयुक्त, यत एकस्य रसस्य स्थायी एक एव भावोऽथे प्रवर्तते न च बहवः । स्थाय्येव रसीभवेदिति विरुद्ध स्यात् । उपमेयसाम्यं न स्यात् , तत्र स्थायिशब्दस्य एकवचनान्त- त्वात् । तदेतेन विजिगीषुमहिमा कथितः ॥ ८९ ॥ अथ शान्तः फलमाह- स्यायिन इति ॥ रस्यते स्वाद्यते इति रसः शृङ्गारादिः, रसतेः स्वादनार्थत्वाद्रस्यन्त इति ते रसा इति निर्वचनात् । तस्य रसस्य रसीभवत: स्थायिभावस्य रत्यादेः । 'रति सच क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ इत्युक्त्वात् । एकस्यैवार्थे स्वादुभावरूपे प्रयोजन भूयासः सञ्चारिणो व्यभिचारिणो भावा निर्वेदादयः । विभावादीनामुपलक्षणमेतत् । यथा प्रवर्तन्ते । तदुक्तम्- 'विभावरनुभाव सात्त्विकैयभिचारिभिः । आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥ इति । तथा स्थायिनः स्थिरस्य । सान्त्या कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतुर्विजिगीषोर्नायक- स्यार्थ प्रयोजने भूयासो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कार्य साधयन्तीत्यर्थः । ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाश्रित्य यथा सञ्चारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनःस्थि. रस्यैकस्य मुख्यस्यार्थे प्रवर्तन्ते. तथास्मिन्नव काव्ये वीरस्य शृङ्गारादय इति त्र्याचक्षते । उपमालङ्कारः॥८९॥ अथ कथं ते नेतुरथे प्रवर्तन्ते इत्याह- अनल्पत्वात्प्रधानत्वादश(१)स्येवेतरे स्वराः ॥ विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥१०॥ अनल्पत्वादिति ॥ विजिगीषोपचक्रनाभितुल्यस्य राज्ञोऽन्ये नृपतयः परिवारता प्रयान्ति परिच्छदत्वं व्रजन्ति । कर्मकराः सम्पद्यन्त इत्यर्थः । कस्मात् अनल्पत्वात् अखिलशक्तियोगात अपरं प्रधानत्वात् । राजगुणयोगात् प्रधानत्वम् । क इव इतरे स्वरा- इव । यथाऽन्ये स्वरा अनुदात्तादयः अंशस्य अंशाभिधानस्वरस्य उदात्तस्वरस्य बहुल. ध्वनेः परिवारतां गच्छन्ति । सोऽपि सकृदुष्चारणादनल्पो भवति । उक्तं च योऽत्यन्तबहुलो यत्र वादी चांशस्य तत्र स' इति । अत एव प्रधानत्वम् । इतरस्वरपरिभावुकत्वेन वा इत- रस्वरात् परिभवति । अत एवं प्रधानश्च ॥ ९०॥ शान्तिपक्ष एव गुणान्तरमाह- अनल्पत्वादिति। अनल्पत्वात्प्रज्ञोत्साहाधिकत्वादत एवं प्रधानत्वान्मण्डलाभिज्ञत्वात, अन्यत्राल्पत्वादु- च्चस्तरत्वात् प्रधानत्वान्नायकस्वरत्वाच्च वंशस्य वंशवायस्वरस्य इतरे स्वरा वीणागानादिशब्दा इव । अथ वा आश्रयत्वादश इव वंशस्तकालविहितः म्वर उच्यते । तस्य स्वरस्थेतराः षड्जादयः विजिगीषोर्नृपत. । (१)द्वंश०।

सर्गः।] शिशुपालवधे। दह तत्मा- - । योऽन्ये मण्डलपरिवर्तिनो राजानः परिवारता पोष्यतो प्रयान्ति । तत्कायमेव साधयन्तीत्यर्थः । द्विमृष्य कर्तव्यमित्यर्थः ॥ ९ ॥ एतदेवोज्ज्वलयति- अप्यनारममाणस्य विभोरुत्पादिताः परैः॥ वजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥९१ ॥ अपीति ॥ विभोविजिगीषो राज्ञोऽनारभमाणस्यापि निःक्रियस्यापि अर्था भूम्या- दयो गुणतां व्रजन्ति उपकरणतां यान्ति । तदीया भवन्तीत्यर्थः । किंविधाः परैरन्यै राज- भिरुत्पादिता अर्जिताः । क इव शब्दा इव । यथा शब्दा ध्वनयो विहायस आकाशस्य गुणतां व्रजन्ति । शब्दो ह्यम्बरगुणः । कीदृशाः शब्दा अन्यैः पटहादिभिर्वादित्रैरुत्पादिताः, किंभूतस्य अनारभमाणस्यापि उदासीनस्यापि । अन्यहि पटहादिभिः शब्द उत्पाद्यते विभोः सर्वव्यापिनो निःक्रियस्य चाकाशस्य गुण इति कथ्यते । तदेतेन प्रभुत्वे महिमानं दर्शयित्वाऽऽश्रयणीयत्वमुक्तम् । विभुः प्रभुः शक्तियुक्तः सर्वव्यापी वा । अपि विस्मये ॥११॥ अपीति ॥ किञ्च अनारभमाणस्य स्वयमकिञ्चित्कुर्वाणस्यापि विभोः प्रभोः व्यापकस्य च पररन्यै- पतिभिः शङ्खभेर्यादिभिश्च उत्पादिताः, सम्पादिताः जनिताश्चार्थाः प्रयोजनानि विहायस आकास्य शब्दा इव गुणतां विशेषणता कारणत्वाद् गुणत्वं व्रजन्ति । शको हि राजा स्वयमुदासीन एवाकाशवत्स्वमहिम्नव कार्यदेशं व्या नुवन् शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः। 'गुणरत्वावृनिशन्दादिज्येन्द्रियामुख्य- तन्तुषु' इति वैजयन्ती ॥ ११ ॥ इत्यादीनां तेजस्वितामाह- यातव्यपाणिग्राहादिमालायामधिकद्युतिः ॥ एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥ यातव्येति ॥ नायको विजिगीषुर्यातव्यपाणिग्राहादिमालायां नायकायते तरल- मणिवदाचरति । तेजोयुक्तो राजा सर्वेषां प्रधान इत्यर्थः । यातव्योऽभिगम्यः प्राकृतोऽरिः, पाणिग्राहः पाश्चात्यो राजा । आदिग्रहणमाक्रन्दाद्यर्थम् । माला पङ्क्तिः सैव माला सक् तस्यां नायकायते नायको मध्यमणिस्तरल इवाचरति । कर्तुः क्यङ् । तत्र यातव्यः अर्यादिकः, पाणिग्राहादि मध्यमादि । किंभृतायां मालायामकार्थतन्तुप्रोतायाम् । एक- श्वासावर्थश्च एकार्थः पृथ्वीलक्षणः स एव तन्तुः तत्र प्रोतायां लग्नायाम् । माला अपि तन्तुभिः सह सम्बध्यते । यतः कीदृशो नायकः अधिकातिः उत्कृष्टतेजाः । तदेतेन पृथि- व्यर्थिनां राज्ञां स एव सार्वभौमो भवति यस्तेजस्विताया अधिकातिर्भवति इति तेज- स आश्रयणीयत्वमुक्तम् ॥ १२ ॥ यातव्यति । किञ्च एकार्य एकप्रयोजनं स एव तन्तुः सूत्रं तत्र प्रोतायाम् । एकाभीष्टाभिलाषिण्या- मित्यर्थः । अपूर्वाञः कर्मणि कः । 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । यातव्योऽभिषेणयितव्योऽरिः पाणिं गृह्णातीति पाणिग्राहः पृष्ठानुधावी । कर्मण्यण् । तावादी येषां ते पूर्वोक्ता : पङ्क्ति शः स्थितास्त. एव माला रत्नमालिका तस्यामधिकातिर्महातेजा नायकः शक्तिसम्पन्नो जिगीषुर्नायकायते मध्यमाणरिवा- चरति । स्वयमेव सर्वोत्कर्षेण वर्तते इत्यर्थः । तस्माद्विमृष्य कर्तव्यमिति भावः । 'नायको नेतरि श्रेष्ठे हार. मध्यमणावपि' इति विश्वः । 'उपमानादाचारे' इति क्यङ् । 'अकृत्सार्वधातुक-'इति दीर्घः । नायकायते इत्युपमा, अन्यथाऽनुशासनविरोधात्। एकार्थतन्त्वित्यत्र तु रूपकम् । अधिष्ठानतिरोधानेनारोप्यमाणतन्तुन्व- स्थवोटत्वात्प्रोतत्वसिद्धस्तदेव युक्तम् । तद्बलास्पाणिग्रहादिमालायामित्यत्रापि रूपकमेव । तदनुप्राणित चेयमुपमेत्यङ्गाजिभाषन तयोः सदूरः ॥ ९२ ॥ ..

। । सन्देहविषौषधिसर्वपायुते [द्वितीयः- पाडगुण्यादि भूषयितुमाह- पाडण्यमुपयुञ्जीत शक्यपेक्ष(९) रसायनम् ॥ भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ १३ ॥ पाड्गुण्यमिति ॥षाड्गुण्यपमुयुञ्जीत षडेव गुणाः सन्ध्यादयः तेषां भावः षड्भावः पागुण्यं तदुपयुजीत व्यवहरेत् । कथं शक्त्यपेक्षं यथाशक्ति शक्तनतिक्रमेण, न राभसिक- तया न तु दण वा । आत्मसामयं बुद्ध्वा य एवं गुणो हितः सन्धिर्वा विग्रहादिर्वा, स एव विधेय इत्यर्थः । कीदृशं षाड्गुण्यं रसायनम् , अय्यते प्राप्यतेऽनेनेति अयनं रसाया भुवोऽयनं रसायनम् । पृथिवीप्रापकमित्यर्थः । षाड्गुण्येन हि विचार्य प्रयुक्तेन पृथिवी प्राप्यते । किमेवं सति सिध्यतीत्याह-एवं यथाबलं षाड्गुण्यप्रयोगे सति अस्य राज्ञो- ऽङ्गानि प्रकृतयः स्थास्नूनि अविचलानि बलवन्ति समर्थानि च भवन्ति । अन्यथा तु तानि अट्येयुः । शास्त्रपूर्वको व्यवहार उदयायेति तात्पर्यार्थः । उक्तं च- मतिभेदतमस्तिरोहित गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ अथ चोक्तिः-रसायनमिव रसायनं, यथा कश्चित् षड्रससंयुक्त रसायनमौषधं शरीर- शक्तिमपेक्ष्योपयुक्ते । तस्याऽप्यङ्गानि पाणिपादादीनि सबलानि भवन्ति ॥ ९३ ॥ अथ विमृष्यकरणप्रकारमाह- पाड्गुण्यमिति । शक्ति प्रभावादित्रयं बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचायच । 'शक्तिले प्रभावादी' इति विश्वः । षडू गुगा एव षाडगुण्यं सन्धिविग्रहादिषट्कम् । चातुर्वर्णादित्वात्स्वार्थे व्यञ्ज्ञत्य- यः । तदेव रसायनमौषधविशेषमुपयुञ्जीत सेवेत । 'रसायन विहङ्गेऽपि जराव्याधिभिदोषधे' हाते विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । 'स्वामी जनपदोऽमात्यः कोशो दुर्गबल सुहृत् । राज्य सप्तप्रकृत्य नीतिज्ञाः सम्प्रचक्षते ॥ इति । गात्राणि च स्थास्नूनि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । 'ग्लाजिस्थश्व-'इति गस्नुः । बल- दन्ति च परपीडाक्षमाणि च भवन्ति । पिलटारम्परितरूपकम् ॥ २३ ॥ अथ शक्यनपेक्षमारम्भतः किं भवतीति स्थानवृद्धिक्षयाख्यास्त्रय उदया विद्यन्ते तन्निरूपयितुमाह- स्थाने शमवतां शत्या व्यायामे वृद्धिरङ्गिनाम् ॥ अयथाबलमारम्भो निदानं क्षयसम्पदः ।। ६४ ॥ स्थाने इति ॥ अगिनां राज्ञां स्थाने चयापवयरहितायामवस्थायां वृद्धिर्भवति । मप्त प्रकृत्यङ्गानि येषां तेऽङ्गिनो राजानस्तेषाम् , किंभूतानां शमवतां श्रितसन्धिगुणानां सन्धिगुणयुक्तानां पुनरपरम् अङ्गिनां राज्ञां शक्त्या व्यायामे विग्रहे सति वृद्धिर्भवति । यथास्थानावस्थाभेदात् शम आश्रयणीयः । यदा तु शक्तीः पश्येत्तदोदयाय पौरुषमाश्रयणी- यमित्यर्थः । पुनः अयथाबलं शक्यतिक्रमेण आत्मबलमनवलोक्य आरम्भो यत्, तत् क्षय- सम्पदो निदानं महत्या: आपदः कारणम् । अशक्ति विग्रहे सति नाशः प्राप्यते इत्यर्थः । अथ चाक्तिः-यः किल अङ्गो शरीरपोषकः स स्थाने स्त्रीमद्यादौ शमी भवति । स्त्र्यादिन (१) शक्यपक्षो।

सर्गः।] - शिशुपालवधे। ६१ सेवत इत्यर्थः । व्यायामे शमे सति शक्त्या सहितो भवति, तस्य वृद्धिः कायस्थौल्यं भवति । यस्तु देहबलमनपेक्ष्य व्यायामस्तेनासौ क्षयं प्राप्नोति ॥ ९४ ॥ स्थाने इति । किञ्च स्थाने शक्यविषये शमवता क्षमावतामङ्गिनां सप्ताङ्गनां राज्ञा शरीरिणां च शक्त्या प्रभावशयनुसारेण बलेन च व्यायामे व्यापार घाड्गुण्यप्रयोगे गमनादौ च । सतीत्यर्थः । वृद्धिरु- पचयः । राज्यस्य शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यातक्रमेण । 'यथा सादृ- श्ये' इत्यव्ययीभावे नसमास: । आरम्भो व्यायामः क्षयसम्पदोऽत्यन्तहाननिदानमादिकारणम् । अङ्गाना- मिति भावः । तस्मादस्माकमकस्माच्चैयास्कन्दनमश्रेयस्करामिति भावः। अत्र विशेषस्यापि श्लिष्टत्वात् शब्दशक्तिमूलो वस्तुना वस्तुवनिः । अतो यानामङ्गिनामौपम्यं च गम्यते इति संक्षेपः ॥ ९४ ।। एवं च सामान्यरूपेण नीतिशास्त्रमभिधाय प्रकृते योजयितुमाह- तदीशितारं चेदीनां भवांस्तमवमस्त मा । निहन्त्यरोनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥ तदिति ॥ यतोऽयथाबलमारम्भो निदानं क्षयसम्पदः, तस्मात्तत् । तदिति वाक्यो- पसंहारे । किं बहुनोक्तन, हे कृष्ण ! भवान् त्वं तं चेदीनामोशितारं चैधं शिशुपालं मा वर्मस्त असमर्थोऽयमिति मा वज्ञासीत् । अशक्त एष इत्यवहेलनं तं प्रति मा त्वं वृथा कृथाः इत्यर्थः । यश्चैवं, यथा उदात्तस्वरः अन्यान् स्वरान् एकपदे एकस्मिन् पदे निह- न्ति, तथा वैद्य उदात्त उन्नतो महाबलः सन् अरीन् युगपदेव निहन्ति हिनस्ति । 'अनु- दात्तं पदमेकवर्जमिति । तस्मादामसिकतया चैथो नावस्कन्ध इति भावः । अवमस्तेति माडि लुङ्॥ ९॥ फलितमाह- तादति ॥ तनस्मादशवपार्थस्याकार्यत्वानं चेदीनामिशिनारं शिशुपालं भवान्मा वमस्त नावमन्यस्य । मन्यतेाडि लुङ् । अनुदानत्वानेडागमः । कुतः-यश्चैयः उदात्तः स्वरान नुदानानिवारीनेकपदे एकस्मिन् पदन्यासे सुनिङन्तलागे च निहन्ति हिनस्ति नीचैः करोति च । अतिशूरत्वात् , 'अनुदानं पदमेक- वर्जम' इति परिभाषाबलाच्चति भावः ॥ १५ ॥ न चासौ स्वशक्त्यैव युक्तः किन्तु बाह्यबलेनापीति दर्शयितुमाह- मा वेदि यदसावेको जेतव्यश्चेदिराडिति ॥ राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥ मा वेदीति ॥ हे कृष्ण ! त्वया इति मा वेदि मा ज्ञायि ईदृशं न ज्ञातव्यम् । इति कि, यदसौ चेदिराट् एकोऽसहायो जेतव्यः एकत्वाजय्यः इति मा ज्ञायताम् । यतः कारणात् म चैधो महीभृतां महीभुजां समूहः स्थानं चयः । क इव राजयक्ष्मेव । यथा राजयक्ष्मा क्षय- व्याधिः रोगाणां व्याधीनां समूहः । क्षये हि सर्वव्याधयो रोगाः अरोचकाऽऽलस्यातीसारा- दयः संमिलन्तीति भावः । मा वेदोति लुङ् लकारः । कर्म तु वाक्यार्थः। च्लेश्चिण 'चिणो- लुगिति लुक् । चेदिपु राजत इति चेदिराट् । इतिशब्दो वाक्यार्थपरामर्शकः, क्रियान्तर- सम्बन्धो यथा स्यात् । अन्यथा हि जेतव्यः चेदिराट् भवता मा वेदीत्यात्मीवार्थः । यथा परतन्त्रवाक्ययोर्दशदाडिमादिवाक्यवदसम्बद्धता स्यात् ॥ ९६ ॥ न चायमेकाकी किं नः करिष्यतीति मन्तव्यमित्याह- मा वेदीति ।। असौ चेदिराट् एकः एकाकी अनो जैतन्यः सुजय इति मा वेदि मा ज्ञायि । वन:

सन्देहविषोषाधसर्वरूपायुते- [ द्वितीयः- ! कर्मणि माडि लुङ् । यत् यस्मात्स चेदिराट् , राजबन्द्रस्य यक्ष्मा राजा चासौ यक्ष्मति वा राजयक्ष्मा क्षयरोग रोगाणामिव महीभृतां समूहः समष्टिरूपः । यथाह वाग्भट: अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ।। नक्षत्राणां द्विजानां च राज्ञोऽभूयदय पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः' ॥' इति । अतो दुर्जय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोषजः' इति निरस्तम् ॥२.६ ।। तामेव सहायसम्पदं स्वरूपेण दर्शयितुमाह- सम्पादितफलस्तेन सपक्षः परभेदतः(१) । कार्मुकेणेव गुणिना बाणः सन्धानमेष्यति ॥९७ ॥ सम्पादितेति ॥ हे कृष्ण ! बाणो बाणासुस्तेन सह सन्धानमेष्यति ऐक्यं यास्य- ति । कथंभूतो बाणः सम्पादितफलः कृतोपकारः पूर्व चैयेन दत्ताश्वगजदेशः, पुनः कीदृशः सपक्षः सपरिवारः, कस्मात् परभेदतः परभेदात् । परभेदेनैव सम्पादित प्रयोजनं यस्य । बाणस्यापि त्वं शत्रुग्व । अतो यदासौ इति ज्ञास्यति यत् चैद्यस्य तव भेद उत्पन्नः, ततो मे चैद्येनोपकृतमितिमत्वा तेन सह सन्धि करिष्यति । कथंभूतेन तेन गुणिना शौर्यादिगुणयुक्तेन, केनेव कार्मुकेणेव । यथा कार्मुकेण धनुषा सह बाणःसन्धानमेति। किंभूतः शरः सम्पादितफ- लः योजितफलकः । सतोमर इत्यर्थः । तथा सपक्षः सपुतः सवाजश्च पिच्छसहितः । पर- भेदतो लक्ष्यभेदार्थ सन्धानं कुरुते । कीदृशेन धनुषा गुणिना सज्येन गुणदोरसहितेन ॥९॥ अथास्य सर्वराजसमष्टितामेव द्वाभ्यां व्याचष्टे-- सम्पादितति ।। सम्पादितं फलं लाभो बाणाग्रं च यस्य सः । 'फलं लाभशरामयोः' इति शाश्वतः। मपक्षः ससृहृत कङ्कादिपत्रयुनश्च । परेषां भेदकः शत्रुविदारणः । बाणो बाणासुरः शरश्च । गुणिना शौर्या- दिगुणवता अधिज्येन च तेन चैन । कर्मणे प्रभवति कार्मुकम् । कर्मण उकन्न । तेनैव सन्ध नं सन्धिमेष्यति । अती नेकाकीति भावः । अत्राप्युपमा श्लेषो वा मतभेदात् ॥ १७ ॥ भूयोऽपि सहायसम्पत्तिं दर्शयन्नाह- ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।। तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥ ९८ ॥ ये चेति ॥ हे कृष्ण ! य एते कालयवनशाल्वरुक्मिद्रुमादया राजानः तेऽपि एनं चैद्य- मनुयायिनः पश्चादागमिप्यन्ति, किंभूतमनं प्रदोषं प्रकृष्टदोषम् । राजानः कीदृशाः तमः- म्भावाः क्रोधप्रकृतयः तामसाः । सदृशाः शशैयुज्यन्ते । अथ च प्रदोषं रात्रिमुखं तमां- म्यवश्यमेवानुयान्तीत्युक्तिशः। न चैते राजानस्त्वय्यनुकूलाः, येन तं न यास्यन्ति । यथा वृक्षाः प्रदीपं सन्ध्यासमयमनुयान्ति, कीदृशाः तमःस्वभावाः कृष्णच्छवयः ॥ ९८ ॥ ये चंति ॥ ये चान्ये कालयवनशाल्वरुक्मिदुमादयो रामानस्तमःस्वभावास्तमोगुणात्मका अत एवं तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषो दुष्टराध्यशी' इति वैजयन्ती । तामसमवेनं चयमनुयायिनोऽनुया- स्यन्ति । सादृश्यादिति भावः । भविष्यति गम्यादयः' इति णिनिर्मविष्यदर्थे । 'अकेनभिविष्यदाधमर्ण्ययो: इति षष्ठीप्रतिषेधाद द्वितीया । यथा वान्तं रजनीमुखमनुयाति तदिति वस्तुनालद्वारम्वनिः ।। ९८ ॥ (१)परभेदनः।

सर्गः ।] शिशुपालवधे। - । .. .. न च तस्य तानात्मीकर्तुं कश्चित् क्लेश इति दर्शयति- उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।। आशु दीपयिताल्पोऽपि सानीनेधानिवानिलः ॥ ९९ ॥ उपजाप इति ॥ हे कृष्ण ! तेन चैधेन भवता सह उपजापो भेदः कृतः प्रपञ्चो विहितः, भेद उपजापः प्रपञ्चः कथ्यते । सोऽल्पोऽपि तान् कालयवनादीन् नृपान् आशु झटिति दीपयिता क्षोभयिष्यति । यतः कीदृशान् आकोपवतः सक्रोधान् त्वयि विषये, क इव अनिलो वायुरिव। यथाऽल्पोऽनिलः साग्नीन् सवैश्वानरान् एधान् इध्मान(१) दीप- यति ज्वलयति ॥ ९९ ॥ ननु बाणादयोऽस्माभिः कृतसन्धाना इदानीं न विराध्यन्तीत्यत आह- उपजाप इति ॥ तेन चयन कृतोऽल्पोऽप्युपजापो भेदः। भेदोपजापी' इत्यमरः । त्वय्याकोपवतस्तान् बाणादीन् अनिलः साग्नीनधानिन्धनानीव । 'काष्टं दाविन्धनं त्वेध इध्ममेधः समित्मियाम्' इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपर्यन्ताल्लुट । अन्तराः संहिताः आपदि सति रन्ध्र सयो विश्लिष्यन्तीति भावः ॥ ९९ ॥ एवं च स्वयं दुर्बलेनाऽसहायत्वादसावजय्य इति दर्शयितुमाह- बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ॥ सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १० ॥ बृहदिति ॥ हे कृष्ण ! क्षोदीयानपि तनुरपि बृहत्सहायः सन् गुरुमित्रवलः सन् कार्यान्तं प्रयोजनपारं गच्छति । यतः कारणात् नगापगा पर्वतनदी स्वल्पाऽपि महानद्या विस्ताराधिकया सरिता सह सम्भूय मिलित्वा अम्भोधिमभ्येति समुद्र प्राप्नोति । अति- शयेन क्षुद्रः क्षोदीयान् ईयसुन् 'स्थूलदरेत्यादिना गुणो रेफलोपश्च स्यात् ॥ १० ॥ नतः किमत आह- बृहदिति ।। बृहत्सहायो महासहायवान्क्षदीयान्क्षुद्रतरोऽपि । 'स्थूलदूर-' इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथा हि-अप समूह आपम् । 'तस्य समूहः' इत्यण । तेन गच्छतीत्यापगा नगापगा गिरिनदी महानया गङ्गादिकया सम्भूय मिलित्वाम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैवस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥२०॥ ननु दानमानादिभिरावर्जितत्वात् गौरवेण च मामेव सर्वे पार्थिवास्तिष्टन्ति, तस्य तु कतिपय इति कीहशी तस्य सहायसम्पदित्याशङ्कयाह- तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः। अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ।। १०१ ॥ तस्येति ॥ हे कृष्ण ! ते राजानः एनं चैर्य गन्तारः गमिष्यन्ति सहाया भविष्यन्ति, किंभूतं चैवं त्वया अभियुक्तम् उत्तम (१) ग्रहीतुमारब्धम् । के ते ये तस्य मित्राणि तव तु न केचित् । तथा ये तवापि अमित्राः रिपवः, तस्य तु न केचित् । ये च उभये द्विरूपा नृपास्तस्य मित्राणि तव चामित्रास्तस्य च मित्रामित्राणि तव च अमित्रामित्राणि, तेऽपि पुन चै गमिष्यन्ति । एभ्यो येऽन्ये राजानः ते त्वामनुयास्यन्ति, ते के तव मिताणि तस्य तु न केचित् । तथा ये तस्य अमित्रास्सव तु न केचित् । ये च उभये तवापि मि- (१) अत्र क्लीबत्वं युक्तम् ।

६४ सन्देहविषापाधिसर्वकषायुते- [द्वितीयः- आणि तस्य चामित्राः, तव च मित्रमिताणि तस्य चामित्रमिताणि, ते त्वामनुगमिष्यन्ति । तस्मान्न तवाधिका सहायसम्पदिति भावार्थः । पूर्व बाणादीनामुपन्यासः प्राधान्यख्याप- नार्थः । गन्तार इति लुट् ॥ १०१ ॥ किन न केवलं शत्रोरसाध्यत्वं मित्रविरोधश्वाधिकोऽनर्थकर इत्याह द्वयन- तस्येति ॥ ये च तस्य चैद्यस्य मित्राणि नृपाः, ये च ते तवामित्रा नृपास्ते उभये त्वया- ऽभियुक्तमभियातमेनं चैद्यं गन्तारो गमिष्यन्ति । गमेः कर्तरि लुट् । अतः परे उक्तोभयव्यतिरिकाः । तर 'मत्राणि तस्यामित्राश्वेत्यर्थः । त्वा गन्तारः ॥ १०१ ।। एवं सत्यपरोऽनर्थ आयातीति दर्शयितुमाह- मखविघ्नाय सकलमित्थमुत्थाप्य राजकम् ।। हन्त ! जातमजातारः प्रथमेन त्वयारिणा ॥ १०२॥ मखेति ॥ इन्त इति खेद, हे कृष्ण ! अजातारः युधिष्ठरस्य प्रथमन अरिणा त्वया जातम् आद्येन शत्रुणा भवता सम्पन्नम् । किं कृत्वा इत्थममुना प्रकारेण सकलं राजकमुत्थाप्य समग्रं नृपसमूह क्षोभयित्वा चालयित्वा, किमर्थं मखविघ्नाय यज्ञविध्वंसनाय न तु कार्या- न्तरार्थम् । तस्य हि अजातशत्रुरिति सार्थकं नाम । यदा तु स्वं सकलराजन्यकक्षोभद्वारेण यज्ञं विध्वंसयसि विघ्नयसि तदा तस्य त्वमेव प्रथमः शत्रुः, तत्कार्यकारणात् । राजां समूहो राजकम् 'गोत्रोक्षोष्ट्रारभ्रराजराजन्ये ति अकञ् । जातमिति भावे क्तः । हन्तेति खेद ॥ १०२ ॥ ततः किमत आह- मखेति । इत्थमनेन प्रकारेण । 'इदमस्थमः' इति थम्प्रत्ययः । मखविनाय मखविघाताय सकलं. राजकं राजसमूहम् । 'गोत्रोक्ष-' इत्यादिना वुत्र । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातार- रजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे कः ॥ १०२ ।। न च तवैतत्साम्प्रतमिति दर्शयितुमाह- सभाव्य त्वामतिभरक्षमस्कन्धं सुबान्धवः(१।।। सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३ ॥ सम्भाव्येति ॥ हे कृष्ण ! धर्मराजो युधिष्टिरोऽध्वरधुरा विवक्षते यज्ञभारं वादुमि- च्छति, किं कृत्वा त्वां सहायं सम्भाव्य निरूप्य । कीदृशं त्वाम् कीदृशं त्वाम् अतिभरक्षमरकन्ध महाभारसहस्कन्धम् । सहाय उत्साही वा तस्य । अन्योऽपि विपुलं साहायकन भारं वहति । कीदृशो युधिष्ठिरः सुबान्धवः शोभना बान्धवास्त्वादृशा यस्य सः । तदेतन 'विनाऽप्यस्म- दलं भूष्णुरिति, यजतां पाण्डव' इति च निराकृतम् । अध्वर एव धूर्भारोऽध्वरधूराताम् ॥१०॥ अस्तु सोऽपि शत्रुः को दोषस्तत्राह- सम्भाव्यति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य अमः स्कन्धी यस्य स तम् । समान- स्कन्धमिन्यर्थः । त्वां सहायं सम्भाव्याभिसन्धाय । अवय धुरमवाधुरम् । 'वपूर-' इत्यादिना समासा- न्तोऽच्चत्ययः । समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवनिङ्गत्वे टाप् । विवक्षते वोटुमिच्छति । वहते स्वरितेतः सन्नन्तल्लिट । तथा हि विरोधे विश्वासघातो बन्धुद्रोहश्च द्वौ स्यातामिति भावः । विशेषण- साम्यात्यस्तुतयागधर्मप्रतीतेः समासोक्तिः ॥ १०६ ।। ! (१)स बान्धवः।

सर्गः 1]] शिशुपालवधे। ६५ महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि ।। सपत्नीः प्रापयन्स्यब्धिं सिन्धवो नगनिम्नगाः ॥ १०४॥ महात्मान इति ॥ महात्मानो विपुलधियः पुरुषा रिपूनपि शत्रूनपि भजमानान् आश्रितान् अनुगृह्णन्ति अङ्गीकुर्वन्ति । दृष्टान्तमाह-यथा सिन्धवो महानद्यः कर्व्यः सपनी- रपि नगनदीः आश्रितत्वादब्धि प्रापन्ति । नगनदीनामपि समुद्रः पतिः । समानः पतिरासां नाः सपत्रीः 'नित्यं सपत्न्यादिष्विति डीपनकारौ प्रत्ययौ । आपो धीयन्तेऽस्मिन्निति अब्धिः 'कर्मण्यधिकरणे चेति किः । निम्नं गच्छन्तीति निन्नगाः अन्यत्रापि डप्रत्ययः । नथा च भारविः-अल्पीयसोऽप्यामयतुल्यवृत्तेमहापकाराय रिपोर्विवृद्धिः। इति चैद्य- गमनमेवानुष्ठितमिति दर्शितम् ॥ १०४ ॥ ननु प्रतिश्रुत्याऽकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत आह- महात्मान इति ॥ महात्मानो निग्रहानुग्रहसमर्था भजमानान शरणागतान रिपून यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति--सिन्धवो महानद्यः समान एकः पतिर्यासा ता: सपनोः । नित्य मपन्यादिषु' इति डीप नकारश्च । नगनिम्नगा गिरिनिर्झरिणीब्धि प्रापयन्ति । म्बमभान्यं ताभ्यः प्रय- गन्तीति भावः । अतः परिहारोऽप्यनर्थ इति भावः ॥ १०४ ॥ चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ॥ छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः ॥ १५ ॥ चिरादपीति ॥ हे कृष्ण ! बलिनः पुरुषस्य चिरादपि कालान्तरेणापि अरिषु शत्रुप विषये बलात्कारः पौरुषं सिद्धयेऽभिमतनिष्पत्तये भवति । कालान्तरेणापि बलिष्टः शत्रून् उत्साहेन वशीकरोतीत्यर्थः । ये पुनः सुहृदो मित्राणि पूर्व विमनीकृता रोषिताः, ते छन्दानुवृत्तिदुःसाध्याः । कोपयित्वा छन्दानुवर्तनेन आराधयितुं न शक्यन्ते इत्यर्थः । तदे- तेन 'उत्तिष्ठमानस्तु पर' इत्यादि परिहृतम् । पौरुषपर्यायोऽयं बलात्कारशब्दः पृषोदरादि- त्वात्साधुः। चिरादिति पञ्चम्यन्तप्रतिरूपको निपातः। अविमनसो विमनसः कृता विमनी- कृताः अमनश्चक्षुश्चेतोरहोरजसां लोपश्च, 'अस्य च्वा वितीत्वम् ॥ १०६ ॥ तर्हि सम्प्रत्युपेक्षायामपि पश्चात्प्रार्थनया पार्थमार्जवयेयमित्यत आह-- चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डचिराच्चिरकालेनापि । सयो मा भूदिति भावः । सिद्धये वशंवदत्वसिद्धये। भवतीति शेषः । अविमनसो विमनसः सम्पद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । 'अरुमनश्चक्षुश्तोरहोरजसा लोपच' इति चिप्रत्ययलोपौ । 'अस्य च्वौ' इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । 'सुहृद् दुहृदो मित्रामित्रयोः' इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः । आर्जवयितुमशक्या इत्यर्थः। 'अभि- प्रायश्छन्द आशयः' इत्यमरः । शनैः शत्रुर्दण्डनापि वशो भवति, मित्रं वैमनस्ये न साम्ना- ऽपीति भावः ॥ १०५ ॥ यत् कृष्णेन पूर्वमुक्तं 'न दूय' इत्यादि तत्प्रत्युत्तरं दित्सराह- मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति ॥ पुरोडाशभुजामिष्टमिष्टि (१)कर्तुमलन्तराम् ॥ १०६ ॥ मन्यस इति ॥ हे कृष्ण ! त्वं नाकिनां देवानां प्रीतये हिताय इति मन्यसे एवं - - (१) मिष्टं।

सन्देहविषांपाधिसर्वकषायुते- [द्वितीयः- । .. विचारयसे, यत अरिवधश्वनाशः श्रेयान् पार्थगमनामव्य इति मन्यसे इति काकु- प्रयोगः । असजानासीत्यर्थः । यतः कारणात्पुरोडाशभुजां देवानामिष्टिं कर्तुं यज्ञं विधा- तुम् अलन्तरामतिशयेन इष्टमभीष्टम् । यज्ञकरणमेव तेषां वल्लभमित्यर्थः। ते चेष्टिपिण्डाशिन: यागे च तैर्भवितव्यम् । बुभुक्षितो हि किं शत्रुनाशेन कुरुते इति भावः। इतिर्वाक्यार्थ- परामर्शकः । द्वितीयाभावः पूर्ववत् । अन्ये तु इष्टमिति पाटं पठन्ति । एकोऽत्र इष्टश- ब्दो यागपर्यायो यजेर्भावसाधनः । अपरोऽभिमतार्थः इष्टकर्मसाधनः । कर्तुमिति समान- कर्तृकेषु तुमुन् ॥ १०६ ॥ ननु सुहृत्कार्यात्सुरकार्य बलीय इत्यत्राह -- मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयाप्रशस्ततरः । 'प्रशस्यस्य श्रः' इति श्रादेशः। इति मन्यसे घेतर्ह पुरोडाशभुजा हविर्भोजिनाम् । अत एव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि कः । इष्टमिष्टिः । याग इति यावत् । यजेवि कः । 'वचिस्वपि--' इत्यादिना सम्प्रसारणम् । अल-तस- मतिपर्याप्तम् । अव्ययादामुप्रत्ययः। शत्रुवधादतिप्रियकरो याग एव । नाकिना भुक्त्वापि शत्रुवधस्य सुक- रत्वादिति भावः ।। १०६ ॥ यतो युधिष्ठरस्य त्वया कृत्वा यज्ञभङ्गेन देवानां महद् दुःख भविष्यतीति अमृतनैव देवास्तृप्ता इति चेद्दर्शयितुमाह- अमृतं नाम यत्सन्तो मन्त्रजिषु जुहति ।। शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥ अमृतमिति ॥ नामशब्दोऽवधारणेऽभ्युपगमे वा । अहो ! सन्तः षट्कर्माणो यत् मन्त्रजिह्वषु जुह्वति हविर्ददति तदेवामृतम् । तद्वाऽमृतमभ्युपगतमित्यर्थः । ननु समु- द्रादुत्पन्नममृतं श्रूयते नान्यदित्याह-यतो मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना शोभैव मन्दर- क्षुब्धेन मन्दराचलमन्थनेन क्षुभितस्य विलोडितस्य अम्भोधेः समुद्रस्य वर्णना सा शोभव। तदलङ्कारमात्रमित्यर्थः(१) । मन्दर एव क्षुब्धो वैशाखः । क्षुभ्यते मथ्यतेऽनेन इति कृत्वा क्षुब्धः 'स्वान्तध्वान्ते ति इडभावः । क्षुभित इत्यत्र भवत्येवार्थान्तरत्वात् । क्षुब्धीति पाठे क्षोभः क्षुब्धिः ॥ १०७ ॥ तथाप्यमृताशिनां तेषां देवाना किमेभिः पिष्टभक्षणप्रलोभनैरत आह--- अमृतमिति ।। अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिहा येषां तेषु मन्त्रजिह्वेष्वनिषु । 'मत्रजिह्वः सप्तजिह्वः सुजिह्वो हव्यवाहनः' इति वैजयन्ती । यत्पुरोड शादिकं जुह्वति । तदेवोत शेषः । यत्तदानि- त्यसम्बन्धात् । मन्दर एवं क्षुब्धो मन्धनदण्डः। 'क्षुब्धध्वान्त--' इत्यादिनास्मिन्नर्थे निपातनासिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधवर्णना शोमवालङ्कार एव । अब्धिमन्यनेनामृतमुत्पादितमिति यतः कीर्ति- मात्रम् , अतो हुतमेवामृतमिति भावः । वाक्यार्थयो तुहेतुमद्भावाद्वाक्यार्थ हतुकं कायलिङ्गमलङ्कारः ॥१०॥ आस्तां तावनीतिशास्त्रं कारणान्तरेणापि भवतश्चैवगमनं न युक्तमिति दर्शयितुमाह- सहिष्ये शतमागांसि प्रत्यौषीः (२) किलेति यत् ।। प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वा प्रतिश्रुतम् ॥ १०८ ॥ सहिष्य इति ॥ हे कृष्ण ! यत्वं पितृष्वस्त्रे श्रुतश्रवसे इति प्रत्यौषीः अङ्गीकृत- वान् । इतीति किम् , किलेति सत्ये अहं तव सुतस्य शतमागांसि सहिष्येऽपराधशत क्षमि- (१) 'मदकाव्यमेतादित्यर्थः' इत्यादर्शपुस्तके । (२) सूनोस्त इति यत्त्वया ।

सर्गः। शिशुपालवधे। .. चामि । तदङ्गीकृतं तत्प्रतिश्रुतं त्वया प्रतीक्ष्यं त्वया प्रतिपालनीय, पूज्यत्वात् । कीदृश्यै पितृष्वस्ने प्रतीक्ष्यायै । शतं च स्वाभाविकमिति, आगांसि शतमिति सामानाधिकरण्यं न विरुध्यते । प्रत्यौषीरिति लुङ् । प्रतिश्रुतोऽभ्युपगतः । किलेति सत्ये । इतिः क्रिया- न्तरसम्बन्धे वाक्यार्थपरामर्शकः । ‘सूनोस्त इति यत् त्वया' पाठः । इतीति किम् , यत्तु ते तव सूनोः पुत्रस्येति सम्बन्धः ॥ १०८ ॥ यात्रायाः प्रतिबन्धः कश्चिद् दुस्तरस्तवास्तीत्याह- सहिष्य इति ॥ प्रतीक्ष्याथै पूज्याय । 'पूज्यः प्रतीक्ष्यः' इत्यमरः । 'पितृवा पितृभगिन्यै । 'विभाषा स्वसृपत्योः' इति विकल्पादलुगभावः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । न तव मूनोः शतमागांस्यपरा- धान् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । सहिष्ये मोढाह इति यत्त्वया प्रतिश्रुतं प्रतिज्ञातं तत्प्रतीक्ष्यं प्रति- पालनीयम् । अन्यथा महादोषस्मरणादिति भावः ॥ १०८ ॥ न चैतद्वचनमनुपालयिष्ये इति वक्तुं न तव युज्यते इति दर्शयितुमाह- तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ॥ नोपतापि मनः सोम वागेका वाग्ग्मिनः सतः॥ १०९ ॥ तीक्ष्णेति ॥ यतः कारणात् सतः साधोर्वाग्ग्मिनोऽपि एका अद्वितीया सत्या वाक् सत्यभाषणम् । विरुद्धं चैतत्-यो हि वाग्मी विश्वलवाक् भवति तस्य कथमेकसंख्या वाक् भवेत् । अविरोधस्तु अर्थान्तराश्रयणेनोक्त एव । अतः सत्यवादिन इत्येतावदथे प्रकृतार्थ उपयोगी । तीक्ष्णेत्यादि प्रसङ्गाददोषस्य विधित्सया चोक्तम् । तथा सतः साधोर्बुद्धि- स्तीक्ष्णाऽपि नारुन्तुदा, तीक्ष्णा कुशाग्रीया सूक्ष्मार्थदर्शिन्यपि न मर्मावित् न पीडाकारिणी। यञ्च तीक्ष्णं शस्त्रादि तन्मर्मावित् भवतीति विरोधः । यथा सतो बुद्धिस्तीक्ष्गापि नारन्तुदा एवं वाग विश्रङ्खलाऽप्येकेत्यौपम्यम् । एवमन्यत्र । अपरं साधोः कर्म प्रतापवदपि शान्त प्रतापवद्विपक्षोद्वेगजनक शान्तं हिंसादिरहितम् । यश्च प्रकृष्टप्रतापयुक्तो भवति अग्न्या- दिः, स कथं शान्तस्तापरहितः स्यादिति विरोधः। अपरं साधोर्मनश्चित्तं सोमापि सा- भिमानमपि न उपतापि अपीडाकरम् । यच्च सोष्म उष्णं सूर्यादि, तत्सन्तापकरं भवतीति विरोधः । औपम्य पूर्ववत् ॥ १०९ ॥ सत्यमस्ति प्रतिश्रुतं, किन्त्वस्योन्मत्तत्वादीद्धत्यादपि जिहासितमत आह- तीक्ष्णति ॥ सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विद्धीत्यध्याहारः। एवमुत्तरत्रापि । तथाप्यरुस्तुदतीत्यरुन्तुदा शमवन्मर्मच्छदिनी न भवेत् । अहिंसयैव परं पीडयदित्यर्थः । कर्म व्यापारः प्रतापवत्तेजस्वि भयदं स्यात् , तथापि शान्तं स्यात् । न तु सिंहादिवद्धिस्त्रं भवेदित्यर्थः। मनश्चित्तं सोष्म अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि अग्न्यादिवत्परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागेका एकरूपा स्यात् । वाग्मी सत्यमेव वदेदित्यर्थः। अतः सत्यसन्धस्य प्रतिश्रुनार्थहानिरनहेंति भावः । अत्र प्रकृताया वाचोऽप्रकृताना बुद्धिक्रममनसा च तुल्यधर्मादौपम्यावगमाहोपकालङ्कारः । 'प्रकृतापकृतानां च साम्ये तु तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ इति लक्षणात् । बुट्यादीनां शमादिव्यतिरेको व्यज्यते ॥ १०९ ॥ अतश्च सत्यवाक्त्वात् यावत् आगःशतं न सम्पूर्ण तावन्नासौ वधार्ह इति दर्शयितुमाह- स्वयकृतप्रसादस्य तस्याहो भानुमानिव ॥ समयावधिमप्राप्य नान्तायाऽलं भवानपि ॥१०॥ ९शिव० 8८. सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- । - . स्वयतैति॥ हे कृष्ण! तस्य चैत्रस्य अन्ताय वधाय भवानपि नालं न समर्थः, किं कृत्वा समयावधिमप्राप्य वचनसीमानमसमाप्य । यावदागःशर्त न पूर्णमित्यर्थः । समयो वचनं कालश्च । किंभूतस्य स्वयमात्मनैव त्वया कृतप्रसादस्य विहितानुग्रहस्य। क इव भानुमान् इव । यथा भानुमान् श्रीसूर्यः अहो दिवसस्य अन्ताय वधाय न अलं न समर्थ: समयावधि सन्ध्यासमयमप्राप्य । तेनापि तस्य स्वयमेव प्रसादः प्रसन्नत्वं विधीयते । यदि झसौ नोद्गच्छेत् तत्कथं तन्निस्तमो भवेत् ॥ ११० ॥ अशक्यश्चाऽकाले चैद्यवध इत्याह- स्वयकृतति ॥ किञ्च अह्ना भानुमानिव स्वयं कृतः प्रसादोऽनुग्रहः प्रकाशश्व यस्य तस्य चद्य- स्यान्ताय समयावधि नियतकालावसानमप्राप्य भवानपि नालं शक्को न । तथा च वृथाऽपकीर्ति रेव । अन्यन्न किञ्चित्फलं स्यादिति भावः ॥ ११० ॥ एवं चैद्यं प्रति यात्रां निषिध्य तस्यानुपेक्षामाह- कृत्वा कृत्यविदस्तो!रन्तः(१) प्रणिधयः पदम् ॥ विदाकुर्वन्तु महतस्तलं विद्विषदम्भसः ॥ १११ ॥ कृत्वेति ॥ यतोऽसौ नावस्कन्धः, अतोऽस्मात्कारणात् अतोऽनन्तरं वा । हे कृष्ण ! प्रणिधयश्चरा विद्विषदम्भसो रिपुहृदयस्य तलं विदांकुर्वन्तु प्रतिष्ठां जानन्तु । कीदृश्यः कियत्यो वाऽस्य शक्तय इत्यन्तरं गवेषयन्त्वित्यर्थः । कैस्तीर्थः विप्रश्रमणादि- विशेषैरष्टादशभिः पदमवस्थान विधाय । कीदृशाश्चराः कृत्यविदः कार्यज्ञाः, अथ कृत्याः क्रुद्धलुब्धभीतावमानितास्तान् विदन्ति कृत्यविदः । केऽस्य क्रुद्धाः केऽस्य लुब्धाः केऽस्य भीताः केऽस्यावमानिता इति ये जानते इत्यर्थः । क्रुद्धान् साम्ना, लुब्धान् दानेन द्रव्येण, भीतान् त्राणेन, अवमानितान् सन्मानेन तान् कार्यान् इति जानन्तीत्यर्थः । किंभूतस्य विद्विषदम्भसः महतः अगाधस्य । यथा कश्चित्पुरुषः अगाधस्याम्भसस्तीथैः सोपाने: पदं कृत्वा तलं जानाति, तथा त्वं रिपूणां चरैर्जानीहि इत्यर्थः ॥ १११ ॥ तर्हि किमयमुपेक्ष्य एव नेत्याह- कृत्वति ।। किन्तु कृत्यविदः कार्यज्ञाः विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिणः। 'प्रणिधि गूटपुरुषः' इति हलायुधः । तरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादशस्थानानि जलावताराश्व । 'योनौ जलावतारेच मन्त्र घटादशस्वपि । पुण्यक्षेत्र तथा पात्र तीर्थ स्यात् ।। इति हलायुधः । तेष्वन्तःपदं स्थानं पादप्रक्षेपं कृत्वा महतो दुरवगाहस्य पूज्यस्य च विद्विषन . शरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । विदाकुर्वन्तु विदन्तु । विद ज्ञाने लोट् । 'विदाकुर्वन्त्वित्यन्यतरस्याम्' इति विकल्पादाम्प्रत्ययनिपातः । शत्रो: कृततीर्थस्य सुप्रवेशत्वात्प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परितरूपकम् ॥ ११९ ॥ प्रणिधयश्चावश्यं राज्ञा विधेया इति तत्प्रशंसामुखेनाह- अनुत्सूत्रपदन्यासा सवत्तिः सन्निबन्धना ।। शब्दविद्येव नोभाति राजनीतिरपस्पशा ॥ ११२ ॥ अनुत्सूत्रेति ॥ राजनीतिः पार्थिवस्थितिः एवं गुणयुक्ताऽपि अपस्पशा चररहिता नो (१) स्तीथेवन्तः। । अम्भस इक सर्गः।] शिशुपालवधे। भाति न शोभते। अपगताः स्पशाश्वरा यस्यां सा । कोशी राजनीतिः अनुत्सूत्रपदन्यासा सूत्र नीतिशास्त्र तदुत्क्रान्तोऽतिवृत्तः उत्सूत्रः न उत्सूत्रोऽनुत्सूत्रः पदेषु सामादिषु न्यासः पदन्यासः अनुत्सूत्रः सूत्रानुवर्ती पदन्यासो यस्याः सास्वीकरणादिनियोगो यस्याःसा तथो. का। यत् यस्य पुरुषस्यसामादेवस्थानमर्थशास्त्रैनिर्दिष्टं तत्तत्रैवयस्यांनिर्दिष्टमित्यर्थः। उक्तंच- धार्मिकान् धर्मकायेंषु अर्थकार्येषु पण्डितान् । क्लीबान् स्त्रीषु नियुञ्जीत नीचान् नीचेषु कर्मसु ॥ तत्र साम प्रयोक्तव्यं साधुषु गुणवत्सु च । दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥ दण्डः सर्वेषु पतत्सु नित्यकालं दुरात्मसु । अन्यत् कीदृशी सद्वृत्तिः सती प्रधाना वृत्तिापारो यस्याः सा, अथ वा सती पूर्णा वृत्तिः जीवनोपायो यस्याम् । पुनः किंविधा सन्निबन्धना सन्ति रम्याणि निबन्धनानि शासनपटकादीनि यस्यां सा । निबध्यते निश्चिलीक्रियते स्थितिरेभिरिति निबन्धनानि । केव नो भाति शब्दविद्येव नाद्रियते । यथा शब्दविद्या व्याकरणविद्या सद्गुणापि अप- स्पशा अनुक्तप्रयोजना न शोभते प्रयोजनप्रन्थरहिता सती न भाति । अविद्यमानः पस्पशः प्रयोजनग्रन्थो यस्याः सा अपस्पशा । यावद्यथा नतत्रोक्तम्-'रक्षोहागमलध्वसन्देहाः प्रयो- जनामिति, तावन्न तथा तत्र गौवं स्यात् । प्रयोजनग्रन्थं विना व्याकरणं न प्रतिभाति । सा कीदृशी अनुत्सूत्रपदन्यासा सूत्रं पाणिनिप्रणीतमष्टक, पदं शेषाहिरचितं भाष्यं, न्यासो जिनेन्द्रकृतः, पदं च न्यासश्च पदन्यासौ सूत्रमुत्क्रान्ती उत्सूत्रौ न उत्सूत्रौ अनुत्सूत्रौ अनुत्सूत्रौ सूत्रानुगतौ पदन्यासौ यस्यां सा । पुनः किंभूता सद्वृत्तिः सती वृत्तिः काशिका यस्याः सा, सन्निबन्धना सन्ति शोभनानि निबन्धनानि धातुपाठोणादिशिक्षापरिभाषा- व्यञ्जनधातुकादीनि यस्याः सा। केचिनु पदं वाक्यमाहुः, निबन्धनं भाष्यम् । एवंविधाऽपि शब्दविद्या अपस्पशा नो भाति । उक्तं च- सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥ इति ॥ ११२ ॥ आवश्यकं चैतदित्याह- अनुत्सूत्रति ॥ उत्सूत्र उच्छासो नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपोऽपि । स्वल्पव्यवहारो- पीति यावत् । स नास्ति यस्यां माऽनुत्सूत्रपदन्यासा । नीतिपूर्वकसर्वव्यवहारेत्यर्थः। अन्यत्रानुत्सूत्रपद- न्यासा अनुत्सृष्टसूत्राक्षरः इष्ट्युपसङ्ख्याननरपेक्ष्येण सूत्राशरैरेव सर्वार्थप्रतिपादको न्यासो वृत्तिव्याख्यान- अन्धविशेषो यस्यां सा तथोना । तथा सनी यथार्थ कल्पनया शोभना वृत्तिभृत्यामात्यादीनामाजीविका यस्यां सा सानः, अन्यत्र सती वृत्तिः काशिकापसूत्रव्याख्यानप्रन्थविशेषो यस्यां सा। 'वृत्तिर्मन्य- जीवनयोः' इति वैजयन्ती । सन्ति निबन्धनान्यनुजीच्यादीनां क्रियावसानेषु दनानि गहिरण्य दिशाश्वत- पारितोषिकदानानि यस्यां सा । एतच्च 'दत्त्वा भूमिनिबन्धं चेत्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सनिबन्धनं भाष्यग्रन्थो यस्यां सा । एवंभूतापि राजनीती राजवृत्तिः । अपगतः स्पशः चारो यस्याः साऽपस्पशा चेत् । 'यथार्थवर्णो मर्मज्ञः शो हरक उच्यते' इति हलायुधः । अन्यब अविधमानः पस्पशः शामारम्भसमर्थक उपोदातसन्दर्भग्रन्यो यस्याः सा आस्पशा । शन्दविद्या व्याकरणवियेत्र नो .. ।

सन्देहविषौषधिसर्वकषायुते- [द्वितीयः- भाति न शोभते । तस्माचरप्रेषणमावश्यकम् , तद्रहितस्य राज्ञोऽधप्रायत्वादिति भावः। अत्रापस्पशेन्यत्र अतुकाष्ठवच्छन्दयोरेव लिष्टत्वाच्छन्दश्लेषः । सद्वृत्तिः सनिबन्धनेन्यत्रकवृन्तावलम्बिफलस्यवदर्थश्लेषः। अनुन्सूधपदन्यासेत्यत्र तूमयसम्भवादुभयश्लेषः । शब्दविद्येवेति पूर्णार्पमा व्यनैव । तयोः सापेक्षत्वात्सङ्करः ॥ शत्रुशक्ति बुद्ध्वा ततस्त्वया भेदोऽनेन विधिना प्रयोक्तव्य इति वक्तुमाह- अज्ञातदोषैर्दोषरुद्दृष्योभयवेतनैः।। भेद्याः शत्रोरभित्यक्त(१)शासनः सामवायिकाः ॥ ११३ ॥ अज्ञातेति ॥ विजिगीषुणा राज्ञा शबोरिणः सामवायिकाः प्रधाना भेयाः चाल- नीयाः । समवायं समूह समवयन्ति प्रविशन्तीति सामवायिकाः । कथमिति तदुपदेश- माह-किं कृत्वा उदृष्य दोषमुद्राव्य । दोषाध्यारोपणं तेषां विधाधेत्यर्थः । : कृत्वा उद्दूष्य उभयवेतनैः । ये तत्त्वतो जिगीयुसम्बन्धिनस्तत्कार्यसिद्धये शत्रुमण्डले प्रविश्य सेवका इव तिष्ठन्ति ते उभयवेतनाः उच्यन्ते । उभयस्मात् वेतनं येषां ते तैः । कीदृशैः अज्ञातदोषैः अज्ञातः अविदितः दोषः उभयवेतनलक्षणो येषां ते तैः। 'खलीकृतास्तेन वयमतो भवन्तं शरणार्थिनः आगताः' इत्याद्युपदिश्य तथा तैः विधेयं यथा तदोष न जा- नाति । तेषां कृतं दोषमरिन लक्षयतीत्यर्थः । अपरं कथंभूतैः दोषज्ञैः परदोषावहितैः । तेऽपि कथं दूषयन्तीत्याह-कैः अभित्यक्तशासनैः । केनचित्कारणेन येवध्या ते ऽभित्यक्ता- उच्यन्ते । तेषां हस्ते शासनानि व्यवस्थापत्राणि अभित्यक्तशासनानि, तैः शासनैः पत्तलैः पत्तलादिभिर्व्यवस्थापत्रः करणभूतैः । एतदुक्तं भवति-जिगीषुरुभयवेतनैः सह सम्प्रधार्थ प्रपञ्चं विधाय वध्यहस्ते रिपुसचिवानां पत्तलाः प्रेपयेत् । 'इमानि वो जीवनानि, एवं वच:- प्रतिपत्तिरिति शासनलिखितमित्यर्थः। ताश्च तैरङ्गीकृता अनभ्युपगता वा उभयवेतनों रिपोर्दर्शयेदेवंविधास्तवैते सामवायिका इति । तत्क्षणं चासौ तान् परित्यजति बन्धयति वा तमभित्यक्तं धातयति । एवं जिगीपो दः सिद्धो, वध्यश्च हतो, लोके वा न परो जि- सम्बन्धिनस्तत्कायं सिद्धमिति । अथ वा अभित्यक्तशासनैः शासनं लिखित्वा राज- द्वारे त्यजन्ति, पश्चात् तत् नृपस्य दर्शयन्तीत्यर्थः । अथ वा अभिव्यक्तशासनैः स्पष्टव्यव- स्थापत्रैः।राजादेशिनोऽस्माकं चटिता इत्याह (2)। अभिव्यक्तशासनैरितीदानीन्तनः पाठः एतेन चरैः शवशक्तिमवगम्येत्थं भेदो भवता विधेय इति प्रकृते उक्तं भवति ॥ ११३ ॥ न केवलं चारमुखेन वृत्तान्तज्ञानम् , अपि तूपजापश्च कर्तव्य अज्ञातेति ॥ किञ्चाज्ञातदोषैः परैरज्ञातस्वकर्मभिदोपज्ञः स्वयं परमर्म रभिव्यक्तानि भेयस्याने प्रक- टितानि शासनानि तदमात्यायविश्वासकराणि कूटलिखितानि येषां तेः उभयवतनैरूभयत्र भेये स्वामिनि च वेतनं भृतियेषां तैरुभयजीविकासाहिभिः । भेधनगरवास्तव्यश्चरेरित्यर्थः । 'भृतयो भर्म वेतनम्' इत्यमरः शत्रोः सम्बन्धिनः समवायं समवयन्तीति सामवायिकाः मङ्घमुख्याः सचिवादयः । 'समवायान्समवैति' इति टक् । उद्दृष्य द्विषामेते दत्तहस्ता अस्माभिरेषां लिखितान्येव गृहीतानीत्युच्चर्दूषयित्वा भेद्याः विघटनीया:११२ युधिष्टिरपुरगमने चरविधाने च गुणान्तरमाह- उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् ।। राजन्यकान्युपायरेकार्थानि चरैस्तव ॥ ११४ ॥ उपेयिवासीति ॥ हे कृष्ण ! तव चरैः त्वदीयप्रणिधिभिः राजन्यकानि नृपवृन्दानि गीषुः, । इत्याह- (१)रभिव्यक्त ।

सर्गः ।].. शिशुपालवधे। १०१ . एकार्थानि कर्तारः त्वत्कार्यपराणि करिष्यन्ते । किंविधानि आजातशात्री यौधिष्टिरी पुरीमुपेयवासि आगतानि । यत्र यज्ञे यानि मिलितानीत्यर्थः । चराः करमेकार्थानि कुई- न्तीति विशेषणद्वारेण कारणमाह-कीरशैश्वरैः आयज्ञैः सामादिप्रयोगेषु कृत्याकृत्यकुशलैः। क्रुद्धोऽयं ततः साना वश्यः, लुब्धोऽयं ततो दानेन वश्यः, भीतोऽयं ततः त्राणेन वश्यः इत्यादि ये जानन्ति इत्यर्थः । एवं च ते तत्रैव भवतो मिलिष्यन्तीति सहायसम्पदर्शिता । उपेयिवांसीति कस्वन्ताजसः शिः । कार इति कर्मणि लुट् , चिण्वद्रावो विकल्पि- तः । अजातशत्रोरियम् आजातशात्री 'अनुशतिकादीनां चे'त्युभयपदवृद्धिः । राजन्याः अत्रियाः असराश्च, राजन्यानां समूहो राजन्यकम् ॥ ११४ ॥ उपेयिवांसीति । किञ्च उपायज्ञैः कार्यसाधनकुशलैस्तव चरन्तीति चरैगूढचारिभिः । पचायच् । एकार्थानि त्वया सहकप्रयोजनानि राजन्याना समूहा राजन्यकानि । 'गोत्रोक्ष-' इत्यादिना वुञ् । अजा. तशोरिमामाजातशात्रवी पुरीमिन्द्रप्रस्थमुपेयिवासि । 'उपेयिवान्-' इत्यादिना वसुप्रत्ययान्तो निपातः । कर्तारः करिष्यन्ते । कृत्रः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्य भविष्यति तदवरयात्राब्याजेन सत्र- द्धरागन्तव्यमिति गूढं सन्दिश्य तत्र सर्वे मेलयितव्या इत्यर्थः ॥ ११ ॥ एवं च यदस्माभिः कर्तव्यं तद्रिपव एवं करिष्यन्ति इति दर्शयितुमाह- सविशेष सुते पाण्डोकिं भवति तन्वति ।। वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥ सविशेषमिति ॥ हे कृष्ण ! परे शत्रवः स्वयं वैरायितारः आत्मना वैरं करिष्यन्ति । क सति पाण्डोः सुते युधिष्टिरे सविशेष सादरं यथा भवति एवं त्वयि भवति विषये भक्ति पूजां वितन्वति विस्तारयति सति । अतः कीदृशाः मत्सरिणः साऽहङ्काराः तरलाश्चपलाः असहिष्णवः । युधिष्ठिरः त्वामुपतिष्टति, तेषां किं नष्टं यत्कलहायन्ते । सविशेषग्रहण तेषामपमानितां गमयति । सविशेषत्वाचाक्षमा । सुत इति सप्तमी विषये। वैरं करो- ति वैरायते , शब्दवैरकलहादिभ्यश्च आयः, तत आत्मनेपदम् ॥ ११५ ॥ ननु तत्रावरकर्मणि को युद्धावकाश इत्याशक्य तत्रैव महत्कलहंबीजं सम्पादयति- सविशेषामिति ॥ पण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्ति तन्वति सति नरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायतारो वैरं कर्तारः। 'शब्दवैरकलह-' इत्यादिना क्यत् । ततः कर्तरि लुट् ॥ ११५ ॥ एवं च तत्साधनस्यार्थसिद्धिरित्याह- य इहात्मविदो विपक्षमध्ये सहसंवृद्धियुजोऽपि भूभुजः स्युः॥ बलिपुटकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥ य इति ॥ हे कृष्ण ! इह अत्र एवंविधे वैरे सति विपक्षमध्ये ये आत्मविदः प्राज्ञा भूभुजो राजानः स्युः वर्तन्ते, तैर्नुपरस्माच्चैवात् अचिरेण तत्क्षणादेव पृथक् भाविता भविष्यते । आत्मानं विचिन्त्य ते तं हास्यन्ति इत्यर्थः । कीदृशाः भूभुजः सह संवृद्धि- युजोऽपि सहपांसक्रीडिता अपि सहवृद्धा अपि । कैः नृपः, कैरिव कस्मादिव पृथक् स्थीयते अन्यपुष्टैबलिपुष्टकुलादिव । यथा अन्यपुष्टैः कोकिलैर्बलिपुष्टकुलात् काकसमूहात् सहवृद्धैरप्यात्मवित्त्वात् स्वजातिपरिज्ञानात् पृथक् भूयते । अन्यपुष्टा अपि सहसंवृद्धा- आत्मविदः स्वजातिज्ञाश्च भवन्ति खलु । पिकशिशृन् ध्वांक्षा धारयन्तीति विधिनियोगः, . - ।

१०२ सन्देहविषौषधिसर्वकषायुते- [द्वितीयः-- अत एव अन्यपुष्टाः । सहसंवृद्धिः 'सुपसुपे'ति समासः तां युजन्तीति सहसंवृद्धियुजः किम् , शस् । मावितेति कर्तरि तृतीया । वृत्तमौपच्छन्दसिकम् ॥ ११६ ॥ किं तेऽपि सर्वे वैरायिष्यन्ते नेत्याह- य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैयेन सहैश्वर्यं गता अपि । 'सत्सूद्विष'- इत्यादिना क्किए । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनः स्युः, यद्वा स्वात्मरूपवेदिनः स्युस्तै - भुग्भिः बलिपुटकुलात्काककुलात । 'काके तु करटरिष्टबलिपुष्ट सकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृत- रिवाचिरेण सयोऽस्माद्विपक्षमध्यात् । 'अन्यारात्-' इत्यत्रान्यशब्दस्यार्थपरत्वात्पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिवदिटि वृद्धिः । तेष्वपि कचिदस्माभिः सङ्गच्छन्ते इत्यर्थः। औपच्छन्दसिकं वृत्तम् ॥ ११६ ॥ एवं सति यत्फलं सम्पद्यते तदाशी- रेण दर्शयितुमाह- सहजचापलदोषसमुद्धतश्चलितदुबलपक्षपरिग्रहः ।। तव दुरासदवीर्यविभावसी शलभतां लभतामसुहृद्गणः ॥ ११७ ।। सहजेति ॥ हे कृष्ण ! असुहृजनो वैरिवर्गः तव दुरासदवीर्यविभावसौ दुरभिभवपरा- क्रमवह्नौ दुर्धर्षपौरुषदहने शलभतां लभतां पतङ्गत्वं प्राप्नोतु । दह्यतामित्यर्थः । शलभा ह्यग्नौ पतन्ति । कीदृशः सहजचापलदोषसमुद्धतः स्वाभाविको यश्चापलाख्यो दोषस्तेन समुद्धतः प्रेरितः अवलिप्तो वा । पुनः कीदृशः चलितदुर्बलपक्षपरिग्रहः चलितो दुर्बलत्वात् पक्षपरिग्रहः सहायकसंश्रयो यस्य भेदितदुर्बलपरिवारः । पक्षपरिग्रह इति कर्तरि षष्ठी । अशक्त- त्वात् यस्य सहायाश्चलिता इत्यर्थः । पतङ्गो हि निजचापलदोषप्रेरितो वह्नौ पतति, अग्नि- पतितश्च दुर्बलपक्षपरिग्रहो भवति । चपलस्य भावः कर्म वा चापलं, युवादित्वादण् । दुःखेना- साद्यतेऽभिभूयते दुरासदः । लभतामित्याशिषि लोट् । द्रुतविलम्बित छन्दः ॥ ११७ ॥ अथ फलितं निगमयनाशिषं प्रयुक्त- सहजेति ॥ सहजं स्वाभाविकं चापलं दुविनीतत्वम् अनवस्थितत्वं च । 'चपलः पारदे शीघे दुर्वि- नीतेऽनवस्थित' इति वैजयन्ती । तेनैव दोषेण समुद्धतेो दृप्तः पक्षः महायो गरुच्च । 'पक्षः पार्श्वगरु- साध्यसहायबलभित्तिषु' इति वैजयन्ती । चलितोऽस्थिरो दुर्बलएक्षपरिग्रहो यस्य सः असुहृदणः शत्रु वर्गस्तव दुरासदवीयवभावसी दुःसहतेजोवही 'वीर्य शुक्र प्रभावे च तेजःसामर्थ्ययोरपि' 'सूर्यवह्नी विभा- वसू' इति विश्वामरौ । शलभता पतङ्गत्वम् । 'समी पतनशलभी' इत्यमरः । भावे तल् । लभता गच्छतु । रूपकालङ्कारः । दुतविलम्बितं वृत्तम् ॥ ११७ ॥ इति विशकलितार्थामौद्धवीं वाचमेना- मनुगतनयमार्गामर्गलां दुर्नयस्य ॥ जनितमुदमुदस्थादुश्चकैरुच्छितोर:- स्थलनियतनिषष्णश्रीश्रुतां शुश्रुवान् सः॥ २८८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥ इतीति ॥ भगवान् उदस्थात् उत्थितः । किं कुर्वन् औद्धवीम् एनां वाचमुद्धवोक्तां वाणी शुश्रुवान् अङ्गीकुर्वन् । अनुमतमशृणोदित्यर्थः । तत्र विशेषणद्वारण कारणमाह-कोही वाचमिति पूर्वोक्तप्रकारेण विशकलितार्थी निर्लोचितार्थी पर्यालोचितकार्याम् , पुनः किवि- धाम् अनुगतनयमागी नीतिशास्त्रानुसारिणीम् , अपरं कथंभूतां दुर्नयस्य अर्गलामसार- सर्गः।] शिशुपालवधे। १०३ टितस्य प्रतिपन्थिनीम् । अत एव किंविधां जनितमुदमुत्पादितहर्षाम्, अपरं कीदृशीम् उच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुताम् उच्छ्रितं विशालं विकटं यत् उःस्थलं तत्र नित्य- मेव निषण्णा उपविष्टा या श्रीलक्ष्मीः तया श्रुतामिति मन्त्रगुप्तिः । सदा सन्निहितत्वात् परं लक्ष्म्यैव श्रुतां न त्वन्येनेत्यर्थः । किंभूतो भगवान् उच्चकैः आजानुभुजः । दुर्नयस्येति उप- सर्गप्रतिरूपको निपातो दुःशब्दः, तेन णत्वाभावः । उदस्थात् लुङ्, तेन णत्वाभावः । उदस्थात् लुङ्, ऊर्ध्वक्रियात्वात् तभावः ‘गातिस्थेति सिचो लुक् । विशेषरूपस्योस्त्वस्याऽज्ञातत्वात् उच्चकैरित्यत्र 'अज्ञाते' इत्यकच् । शुश्रुवान् इति 'भाषायां सदवसश्रुव' इति लिटः क्वसुः ।मालिनी वृत्तम् । सर्वगुणयुक्तत्वादुद्धवगुरुनिरूपितं हरिरङ्गीकृत्य युधिष्ठिरगमनायोदचलदिति श्लोकार्थः॥११८॥ इत्यानन्ददेवायनिकायस्थवल्लभदेवविरचितायांमाघकाव्यटीकायां द्वितीयः सर्गः । इसीति ॥ स हरिरित्थं विशकलितार्थी विवचितार्थामनुगतनयमार्गा नीतिमार्गानुसारिणी दुनयस्य बलभदायुक्तस्येत्यर्थः। अर्गला निवारयित्रीमिति वैध]ण रूपकालङ्कारः । तद्विष्कम्भोऽर्गले न ना' इत्यमरः । अत एव जनितमुदं हरेः कृतानन्दाम उचित उत्रते उर:स्थले नियंत निषण्णया अविश्रान्त- माश्रितया श्रिया श्रुता नान्ययति मन्त्रगुप्तिः । उद्धवस्येमामाद्धवीमेनां पूर्वोकां वाचं शुश्रुवाञ्चमवान् । 'भा- षायां सदवसश्नुवः' इति क्वसुः । उच्चैरेवोच्चकैरुत्रतः सन् । 'अन्ययसर्वनाम्रामकच्याक्टेः' इत्यकच्प्रत्ययः। उदस्थादासनादुस्थितवान् । 'उदोऽनूर्वकर्माण' इत्यस्य प्रत्युदाहरणमेतत् । रूपकानुपासालङ्कारी । मालिनी वृमम् ॥ १२८॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथसूरिविरचिते शिशुपालवधव्याख्याने सर्वदूपाख्ये द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः । कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।। अपेतयुद्धाभिनिवेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥ १॥ कौबेरेति ॥ अथ मन्त्रानन्तरं हरिविष्णुरिन्द्रप्रस्थं यौधिष्ठिरं पुरं प्रतस्थे गन्तुमारेभे । कीदृशो हरिः अपेतो निवृत्तो युद्धाभिनिवेशो रणरसिकत्वं तेन सौम्यः निवृत्तरणरसिकत्व- निराकुलः । पूर्व युक्तमासीत कार्यद्वयाकुलः । क इव सौम्य इत्याह-उष्णांशुरिव । यथा सूर्यः कौबेरं दिग्भागमपास्य उत्तराशां त्यक्त्वा आगस्त्यमगस्त्यर्षिसेवितं मार्ग दक्षिणां दिशमवतीर्णः प्राप्तः सौम्यो भवति तेजोऽतीक्ष्णत्वात् दृश्यः। युद्धाभिनिवेशस्य कौबेरो मार्गः, हरिप्रस्थस्य त्वागस्त्यः । विष्णोः सूर्य उपमानम् । यथा सूर्यः उत्तरस्याः प्रदेश परित्यज्य आगस्त्य मार्गमवतीर्णश्चलितः सन् रम्यो भवति । सोम इव सौम्यः, शाखादि- भ्यो यः। प्रतस्थे इति समवप्रविभ्यः स्थः । सगेऽत्र उपजातिच्छन्दः ॥१॥ कौबेरोति । अथोद्धववाक्यश्रवणानन्तरम् अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः । शान्तक्रोध- इत्यर्थः । अत एव सौम्यः प्रसन्नः। अत एव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः। 'मियाः पुंवत्' इत्यादिना पुंवदावः । तमपास्य त्यक्त्वाऽगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत. इत्यर्थः। उष्णरिव स्थितः । अनेन हरेः क्रोधः कार्यवशादाकालमन्तः स्तम्भितो, न त्वेकान्ततो .

१०४ सन्देहविषौषधिसहायुते- [तृतीयः- निवृत्त इति सूचितम्। हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । 'इन्द्रो दुश्च्यवनो हरि इति हलायुधः। 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा प्रकर्मणाम्' इति गन्तव्यस्य कर्मत्वम् । उपमालङ्कारः। सर्गेऽस्मिन्निन्द्रोपेन्द्रवजामिश्रणानुपजातिवृत्तम् । 'अनन्तरो- दारितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ १॥ इदानी प्रयाणमेव वर्ण्यते । आतपनिवारणार्थ भगवतः छत्रं धृतमिति कश्चिदज्ञासी- दिति कविर्भक्त्यतिशयप्रतिपादनायाह- जगत्पवित्रैरपि तं न पादैः स्पष्टुं जगत्पूज्यमयुज्यताऽर्कः ॥ यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभराम्बभूवे ॥२॥ जगदिति ॥ अर्कः सूर्यः तं कृष्णं पादैः किरणैः स्प्रष्टुं छोप्तुं न अयुज्यत योग्यो न बभूव । कथंभूतं तं जगत्पूज्यं त्रैलोक्यवन्धं, पादै किंविधैः जगत्पवित्रैरपि विश्वपावनसमर्थ- रपि । अतः कारणात् तेन तस्य कृष्णस्य आतपत्रं बिभराम्बभूवे । किंभूतं बृहन् बृहन्मण्डलो यः पार्वणचन्द्रःप्रातिपदश्चन्द्रः तद्वचारु मनोहारि, शैत्यशौक्ल्यादियोगात्नत्वातपसहत्वेन । यत इति पूर्वा योज्यम् । यत्तदोनित्यसम्बन्धार्थ तेनेत्यध्याहार्यम् । यदि वा तस्यातपत्रं तं यतोऽर्कस्तं पादैः स्प्रष्टुं न युक्त इति योजनीयं, न किञ्चिदध्याहार्यम् । तथा त्वन्ये व्याचक्षते-अर्कस्तं पादैः स्प्रष्टुं नायुज्यत योगं न ययौ समर्थो न बभूव, यतः कारणात् आत- पत्रं छत्रं बिभराम्बभूवे । तथा न किञ्चिदुक्तं भवेत् । यस्य हि छत्रं प्रियते तस्यावश्यमेव रविकिरणयोगो न भवति । एतस्य चार्थस्यास्मद्व्याख्यानपरिपोषकत्वेन व्याख्यायाः(?) । कदाचित्सूर्यकिरणाः अपावनाः स्युनेत्याह-जगत्पवित्रैः। तर्हि स न योग्य इत्याह-जगत्पू- ज्यमिति । यो हि गुणैः सर्ववन्धस्तस्य कथमन्यैः पवित्रमपि पादस्पर्श कतुं युक्तमिति कवि- रतिभक्तत्वात् शब्ददुष्टं पादस्पर्श न सहते । कीदृशं सम्पूर्णेन्दुमण्डलरम्यम् । बृहदिति वा पृथक् पदम् । पर्वशब्देनात्र पौर्णमासी लक्ष्यते । पर्वणि भव इति लक्षणवाक्येनाऽण भवाथें । काला?ञ् यच्च । तत्र सन्धिलादिषु पार्वणः पाठः । तदैव शशिनश्चारुत्वयोगात् । यतो बृहत्पार्वणचन्द्रचार हात पाठे अतो बृहत्पार्वणचन्द्रभासम् । अयुज्यतेति कर्तरि लङ् । आतपात् जायत इति आतपतम् । बिभराम्बभूवे इति कर्मणि लिट् 'भीहीभृहुवां श्लुवति आम् कर्तर्येव भवति इति न सर्वगतम् । बभूव इति मूलपाठो ज्ञातव्यः । इत्येवमन्यत् ॥२॥ अथास्य प्रस्थानसन्नाहं वर्णयत्रादौ छत्रधारणमाह- जगदिति ॥ अर्को जगत्पूज्यं तं हरिम् अत एव जगत्पवित्रैरपि पादैश्वरणैः किरणैश्च स्पष्टुं नायुज्यन नाहत । युजेवादिकाकर्तरि लङ् । कुतः-यतस्तस्य हरेहद्विपुलं पार्वगचन्द्रचारु पूर्णेन्दुसुन्दर मित्यु- पमालङ्कारः । भातपात् घायत इत्यातपत्रं छत्रम् । 'सुपि' इति योगविभागाकः । बिभराम्बभूवे दो। भृत्र: कर्मणि लिट् 'भीही हुवाम्'-- इति विकल्पादाम्प्रत्ययः । आतपत्रान्तहितस्य द्वयैरपि पादैः स्पष्टु- मशक्यन्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः ॥ २ ॥ मृणालसूत्राऽमलमन्तरेण स्थितश्चलचामरयोईयं सः ।। भेजेऽभितःपातुकसिद्धसिन्धारभूतपूर्वी रुचमम्बुराशेः ॥ ३ ॥ मृणालेति ॥ स देवोऽम्बाशेः समुद्रस्य रुचं भेजे शोभामाप । कीदृशो हरिः चल- चामरयोईयमन्तरेण एतत्प्रकीर्णकद्वयस्य मध्यस्थितः वर्तमानः, कीदृशं चामरयोईयं मृणा- लसूत्राऽमलं बिसतन्तु शुभ्रं पमिनीतन्तुवनिर्मलम् । कथंभूतस्याम्बुराशेः अमितः पार्थद्वये :

सर्गः 1] शिशुपालवधे। पातुकसिद्धसिन्धोः पक्षद्वये प्रविशत्तिपथगस्य । ननु प्रवाहद्वयं न कदाचिदपि गङ्गायाः समुद्र पतति, तत्कथमसदुपमानंदीयते इत्याह-कथंभूताम् अभूतपूर्वी पूर्व भूता भूतपूर्वा न भूतपूर्वा अभूतपूर्वा ताम् उत्पादनीयां कृत्रिमप्रयुक्ताम् । यधुभयतः पातुका गङ्गाऽब्धेवेत् , ततस्तेन चामरद्वयमध्यस्थः कृष्ण उपमीयते । द्वयमिति 'अन्तरान्तरेण युक्ते' इति द्वितीया । अन्तरा- ऽन्तरेणयुक्तयोः पृथग्विभक्तिनिर्दिष्टयोद्वितीयेति तत् सर्वमतं, सूत्रे वाक्ये वा निर्देशात् । अतू चामरयोयमिति कथं भेदनिर्देशः, तदस्येत्यनुवृत्त्या विहितया तस्यावयविना सामा- नाधिकरण्यं न्याय्यम् । यथा द्वयी गतिः चतुष्टयी शब्दानां प्रवृत्तिरिति । अत्रोच्यते-अत्रा- पि समुदायधर्मो वाच्यः । द्वाववयवौ यस्य समुदायस्य तद् द्वयं, द्वयात्मकसमुदाय इत्यर्थः । कयोश्चासौ समुदाय इत्याशङ्कायां बुद्धिकृतं भेदमाश्रित्य चामरयोरिति विशेषनिर्देशः । यदा च साक्षादवयवी निर्दिश्यते तदा अवयवस्य धर्मलिङ्गत्वम् । यथा द्वयी गतिः उभये देवमनुष्या इति । यदा तु धर्ममात्र द्वितीयान्तनिदेशावयविसामान्यं प्रातीतिक, तदा स्त्री- स्थितिरन्तरङ्गत्वमेव (१) । यथा भुवनानां त्रयं वेदानां चतुष्टयमिति साधु । पतन्ति पातुकाः 'लषपते'त्युकर । सिद्धसिन्धुदेवनदी गङ्गा ॥ ३ ॥ अथ चामरधारणमाह- मृणालेति ॥ मृणालसूत्राऽमलं बिसतन्तुविशदमित्युपमा । चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । स हरिराभितःपातुका उभयतःपातिनी सिद्धसिन्धुराकाशगङ्गा यस्य स तथोक्तः । 'पभिभ्या च' इति तसिल्पत्ययः । 'सर्वोभयार्थवर्तमानाभ्यामिष्यते' इत्युभयार्थत्वम् । 'सुसुपेति समासः । पातुकेति 'लषपत--' इत्यादिनोकञ् प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वी पूर्वमभूनाम् । 'सुप्सुपेति समासः । रुचं कान्ति भेजे। अत एव निदर्शना । सा चाम्बुराशेः सम्भावनामात्रोक्त्या अभितःपातुकसिद्धसिन्धु. सम्बन्धमूलया असम्बन्धे सम्बन्धरूपातिशयोक्त्या स्वोपजीवकसयो गेन सङ्कीर्यत इति संक्षेपः ॥ ३ ॥ चित्राभिरस्योपरि मौलिभाजां भामिर्मणीनामनणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याऽऽकृतिरन्वकारि ॥ ४ ॥ चित्राभिरिति ॥ मणीनां भाभिर्मरीचिभिर्गोवर्धनस्य पर्वतस्य आकृतिरन्वकारि साह- श्य पृतम् । रूपमनुकृतमिति भावः । ननु मणयः कस्युः, किंभूतानां मणीनाम् अस्य श्रीकृ- ष्णस्य मौलिभाजां मुकुटावबद्धानां, किंभूताभिर्भाभिः अनणीयसीभिः सान्द्राभिः बहुलाभिः पुनः कीदृशीभिः चित्राभिः नानारूपाभिः, अपरं किंभूताभिः उपरि लमाभिः उर्ध्वप्रसृताभिः । किंभूतस्य गोवर्धनस्य अनेकधातुच्छुरिताश्मराशेः अनैकर्ड हुजाती- यैर्धातुभिः गैरिकमनःशिलादिभिः छुरिता मिश्रीभूताः सम्भिन्ना अश्मराशयः शिलासङ्घा यस्य सः तस्य । गोवर्धनस्य कृष्णः उपमानं, भासां तु धातवः । यद्येवं, भासां धातव एवानुकतुं न्याय्यं, न तु गोवर्धनः । स हि कृष्णेनैवानुक्रियते । अतश्चैवं वक्तुं न्याय्यम्-मौलिमणिमरीचिभिरस्योपरि लग्नाभिः छुरिता गोवर्धनधातवो नानाविधा- अन्वकारिषत । यदि वा मौलिमणिमरीचिभिः भूषितेन कृष्णेनानेकधातुभिश्छुरिता- श्मराशेर्गोवर्धनस्याकृतिरन्वकारीति। सत्यमेतत् ,किन्तु विचित्राः कविसूक्तयः, वस्तु सर्वथा ग्रार्हा, सर्वासां भासामुक्तीनां वस्तु न भियते । अतिशयत्वविशिष्टात् अणुशब्दादीयमुनि टिलोपे कोपि नसमासे च कृते अनणीयसीभिरिति रूपम् । अन्वकारीति कर्मणि लुङ्॥४॥ . ।

सन्देहविषौषधिसर्वपायुते- - [तृतीयः- । अथाष्टभिरस्य प्रसाधनविधि वर्णयन्मुकुटधारणमाह-- चित्राभिरिति ॥ अस्य हरेरुपy देशे मौलिभाजा मुकुटगताना मणीनामनणीयसीभिर्महनीभि- श्चित्राभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्मभिः । 'स्युः प्रभारुमुचिस्विड्भामाश्छवियु निदीतयः' इत्यमरः । सान्तपक्षे 'भोभगो-' इत्यादिना रोर्यकारे तस्य 'हलि सर्वेषाम्' इति लोपः । अनेकैर्धातुभिर्गेरिकादिभि- छुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्धकार्यनुकता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपपेयम् ॥ ४ ॥ तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।। अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥ तस्येति ॥ तस्य श्रीकृष्णस्य उरो वक्षः बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिव अवाप बालत्वयोग्यमयूरबर्हचामरबन्धनमिव लेभे । शौरिवक्ष इन्द्रनीलरुचा मयूरपक्षसम्पर्क- मिव भेजे । बालभावे हि मयूरपिच्छानां मुखर्चिका बध्यते । कया अवाप उल्लसत्का- ज्जनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा उल्लसन्ती देदीप्यमाने ये काञ्चनकुण्डले सुवर्णकर्णिके तयोर्यदग्रं प्रान्तं तत्र प्रत्युप्ते स्यूते ये गारुत्मतरत्ने मरकतमणी तयोर्भासा दीप्त्या, बाल्ये शैशवे उचितं योग्यं यन्नीलकण्ठपिच्छं चन्द्रकिचन्द्रकं तदवचूडं चिहं तेनाकलना योजना तामिव प्राप्तवत् । अनेकदीप्तियोगात् बुध्यते मयूरपत्रं तमनेनेत्यर्थः। गारुत्मतं मरकतम् । बालशब्दाद् ब्राह्मणादित्वात् ष्यम् ॥ कुण्डले च धृते इत्याह-- तस्येति ॥ तस्य हरेरुरः उरस्थलमुल्लसन्त्या काश्चनकुण्डलाग्योः प्रत्युप्तानां खचितानां गारुत्मत- रत्नानां मरकतमपीनां भासा दीप्त्या । उरसि प्रसरन्त्यति भावः । बाल्यं शैशवम् । ब्राह्म गादित्वात् प्यञ् । तोचितमभ्यस्तं यत्रीलकण्ठपिच्छं मयूरबर्हम् । 'अभ्यस्तेऽप्युचितं न्याय्ये' इति यादवः । 'पिच्छबेर्डे नपुंसके' इत्यमरः । तेन निर्मितावडा गलिका तस्याः कलनामामोचनमवमोचनं वा अवापेत्युत्प्रेक्षा । 'यत्रान्यधर्मसम्बन्धादन्यदेवोपतर्कितम् । प्रकृते हि भवेन्प्राज्ञास्तामुत्प्रेक्षा प्रचक्षते' ।। इति लक्षणात् ॥ तम दे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ॥ बहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ ६ ॥ तमङ्गदे इति ॥ अङ्गदे तं श्रीकृष्णं चकासयामासतुः केयूरे आदीपयताम् । किंभुते अङ्गदे उल्लसन्ती देदीप्यमाने चकासमाने, केन मणीनां दीप्तिवितानकेन तेजःपुजेन, कथं- भूतेन बहीयसा घनेन बहुलेन । अतिशयेन बहुलो बहीयान् ईयसुन् 'प्रियस्थिरेत्यादिना बहुल- स्थान बहादेशः । बहीयस्त्वस्य कारणमाह-कया मन्दरकूटकोटिव्याघहनोत्तेजनया मन्थाचलशृङ्गामघर्षणोत्तेजनया मन्दराचलशृङ्गाग्रेण या घटना आहननं तेन या उत्तेजना नैर्मल्यं तेन हेतुना बहुलतरेण । अमृतमथनकाले हि हरिवाहवो मन्थिता जाताः । तदा मन्दरशृङ्गाग्रसम्पषवशात् उज्ज्वले सम्पन्ने । उत्तेजनात्तेजः प्रादुर्भवति । चकासयामासतुः अङ्गदे, चकास दीप्ताविति ण्यन्तादाम् ॥ ६ ॥ तमङ्गदे इति ॥ तं हरि मन्दरकूटके टिव्याघट्टनं मन्दराचलशिखरामसङ्घर्षण सवोत्तेजना शाणाल्ले. खना नया बहीयसा बहुतरेण । 'प्रियस्थिर-' इत्यादिना बहुलशन्दस्येयसुनि बहादेशः । मणीनां दीप्ति- वितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । 'आच्छीनचोर्नुम्' इति नुमागमः । अङ्गन्दे केयूरे । 'केयूर- सर्गः ।] शिशुपालवधे। १०७ .. . मदं तुल्य' इत्यमरः । चकासयामासतुः शोभयाचक्रतुः । अङ्गदे धृतवानित्यर्थः । चकारतेय॑न्ताल्लिटि आम्प्रत्ययेस्तेरनुप्रयोगः : अत्राङ्गादयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोकिमुत्प्रेक्ष्य तयोर्मन्दरकूटकोट्यसम्ब. ग्वेऽपि सम्बन्धोक्या द्वयोरतिशयोक्त्योः सङ्करः॥ ६ ॥ निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाप्रैः ॥ अद्योतता(२)ऽद्यापि सुरारिवक्षोविक्षोभजाऽसक्नपितैरिवासौ ॥७॥ निसर्गेति ॥ असौ श्रीवासुदेवः नखाप्रैः करप्रान्तैरद्योतत शुशुभे। किंभूतैः निसर्गरक्तैः पुनः कीदृशैः वलयावनद्धताम्राश्मरश्मिच्छुरितैः कङ्कणप्रोतपनरागमणिकिरणसम्मिलितैः । उत्प्रेक्षते-अद्यापि साम्प्रतमपि सुरारिवक्षोविक्षोभजाऽमृक्तपितैरिव हिरण्यकशिपूरोविदा- रणोत्पन्नरुधिरक्षालितैरिख । अपि विस्मये । अद्योततेति लङ् ॥ ७ ॥ निसर्गति ॥ असो हरिनिसर्गरक्तः स्वभावलोहितः, किञ्च वलये कटके । 'कटकं वलयोऽस्त्रियाम्' इत्यमरः । तयोरवनद्धाना प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः । अत एवाद्यापि सुरारे- हिरण्यकशिपोवक्षसो विक्षोभेण विदारणेन जाता याऽसक तया स्नपितैः सिकरिव स्थितरित्युप्रेक्षा। स्नातेW- न्तात् कः । 'अतिही-' इत्यादिना पुगागमः । मिता ह्रस्वः । नखाप्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः ॥२॥ उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ॥ तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८॥ उभाविति ॥ यदि चेत् आकाशगङ्गापयसः स्वर्गनदीजलस्य उभौ प्रवाही व्योनि आकाशे पृथक् पतेतां भिन्नौ वहेतां, तत्तेन नभसा सह अस्य श्रीकृष्णस्य वक्षः उपमीयेत उपमां प्राप्येत । किंभूतं वक्षः तमालनीलं तमालाख्यतरुश्याम पुनः कीदृशम् आमुक्त- मुक्तालतं बद्धमौक्तिकहारम् । सदृशीक्रियतेति तु उपमा । उत्पाद्यानाम उपमेयम् । कृष्ण- वक्षसः आकाशमुपमान, मुक्तावल्या गङ्गाप्रवाहो ॥ ८ ॥ उभाविति ॥ तमालवनीलम् आमुक्ने आसञ्जिते मुक्कालते लतादीर्घत्वसाम्येन भौतिकहारी यस्मिस्तत् अस्य हरेर्वक्षः, आकाशगङ्गायाः पयम उभौ प्रवाही व्योम्नि यदि पृथक्पतेता प्रवहेता चेत् । सम्भावनायां लिङ्। तेन ब्याम्नोपमीयेत समीक्रियेत । नास्योपमान किश्चित्पश्याम इति भावः । मुक्ताहारं धृतवा- नित्यर्थः । अत्र व्योम्नो गङ्गाप्रवाहवयासम्बन्धेऽपि सम्भावनायां सम्बन्धकथनादतिशयोक्तिः। तदेतत् 'पुष्पं प्रवालोपहितं यदि स्या'दित्यायुदाहृत्याऽलङ्कारसर्वस्वकारः स्पष्टींचकार ॥ ८ ॥ तेनाम्भसा सारमयः पयोधेर्दभ्रे मणिर्दीधितिदीपिताशः ।। अन्तर्वसन् बिम्बगतस्तदने साक्षादिवालक्ष्यत यत्र लोकः॥६॥ तेनेति ॥ तेन श्रीकृष्णेन मणिर्दधे रत्नं धृतम् । ननु मणयो बहबः सन्ति, कोऽसौ मणिः पयोधेः समुद्रस्य अम्भसां सारमयः प्रधानभूतः। अन्तःसारकौस्तुभ इत्यर्थः । शुद्ध स्वार्थे मयड वाचकः । स च दुर्लभः कीदृशो मणिः दीधतिदीपिताशः दिनकरकरनि- सितदिकः । यत्र यस्मिन् मणौ लोकः साक्षादिव अलक्ष्यत दृष्टः । कथंभूतो लोकः तदङ्गे कृष्णशरीरेऽन्तर्वसन अन्तरे निवसन् , अपरं किंभूतो लोकः बिम्बगतः । मणिदेहं प्रविष्ट इत्यर्थः । उत्प्रेक्षते-तदङ्गे देवशरीरे वसन् । अन्तरे वसति यो लोकः स एव तत्र वसन् साक्षादिवाऽलक्ष्यत प्रत्यक्ष इव अदृश्यतेत्यर्थः । बिम्बं गतो बिम्बगतः। दधे इति कर्मणि लिट् । एवमलक्ष्यतेति लङ् ॥ ९ ॥ (१)व्यद्योतता। ।

- सन्देहविपौषधिसर्वकषायुते- १०८ [ तृतीयः- तेनेति ॥ तेन हरिणा दीधितिभिदीपिता आशा येन सः । दिगन्तविश्रान्ततेजा इत्यर्थः । पयोथे- रम्भमा सारस्य विकारः सारमयो मणिः । समुद्रमन्थनोत्थः कौस्तुभाख्य इत्यर्थः । दः धृतः । धूत्र धारणे । कर्मणिं लिट् । यत्र मणौ बिम्बगतः प्रतिबिम्बगतो. लोको बाह्यप्रपञ्चस्तदने तस्य हरेः शरीरे साक्षात् । बहिः प्रत्यक्षेण लक्ष्यमाण इत्यर्थः। अन्तर्वसनन्तर्गतो लोक इवालक्ष्यत । यत्र मणौ प्रतिबि- म्बितो बाह्यलोकस्तदङ्ग एवं नैर्मल्यावहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यतेत्युत्प्रेक्षा ॥ ९ ॥ मुक्तामयं सारसनावलम्बि भाति स्म दामाऽऽप्रपदीनमस्य । अङ्गुषनिष्ठ्यूतमिवोर्ध्वमुञ्चस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥ मुक्तामयमिति ॥ अस्य श्रीकृष्णस्य मुक्तामयदाम मौक्तिककलापः मौक्तिकहारो भाति स्म शुशुभे । मुक्ताः प्रकृताः प्राचुर्येण प्रोता यत्र तन्मुक्तामयम् , प्रकृतवचने मयट् । किंभूतं दाम सारसनावलम्बि सारसनं कटिसूत्रं तदवलम्बते भजते इति । दोरेण प्रथितमि- त्यर्थः । पुनः कथंभूतम् आप्रपदीनं पादान्तप्रापि । अतीव दीर्घमित्यर्थः । आप्रपदं प्राप्नो- तीति । उत्प्रेक्ष्यते-त्रिस्रोतसः गङ्गाया ऊर्ध्वम् अङ्गुष्ठनिष्ठ्यूतमङ्गुष्ठनिःसृतं सन्ततधार- मविच्छिन्नप्रवाहमम्भ इव । उत्प्रेक्षा एषा नोपमा । सदुपमानमुपमा, असदुपमानमुत्प्रेक्षा । तेनोवं गमनमम्भसो न सम्भवतीति न चोधम् । त्रीणि स्त्रोतांसि प्रवाहा यस्याः सा त्रिपथगा विष्णुपदी । कथंभूतस्य हरेः उ:-उन्नतस्य । अथ कीदृशं दाम उच्चैः उन्नतं, कथंभूतं पयः उच्चैः उच्चस्तरम् । उच्चैर्दाम पयो वा भगवतो वा ॥ १० ॥ मुक्तामवमिति ॥ अस्य हरेर्मुक्कामयं मुक्ताप्रचुरम् । तत्प्रकृतवचने मयत् । सारसने कटिसूत्रेऽव- लम्बते इति सारसनावलम्बि । 'क्ली बे सारसनं चाथ पुंस्कटयां शृङ्खलं त्रिषु' इत्यमरः । आप्रदीनम् । आ समन्तात्प्रपदं प्राप्नोतीति खश प्रत्ययः । 'पादाग्रं प्रपदं पादः' इत्यमरः । दाम मुक्तासरः, अगुष्टेन निष्ठतम् । विसृष्टमित्यर्थः । गौणार्थत्वादप्राम्यत्वम् । यथाह दण्डी- 'निष्टयूनोङ्गीणवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र प्राम्यकक्षा विगाहते ॥ इति । उर्ध्वमूलप्रवाहमुच्चरुन्नतं त्रिस्रोतसो मन्दाकिन्याः सन्ततधारमविच्छिन्नसंपातमम्भ इव भाति स्मेत्युत्प्रेक्षा ॥१०॥ स इन्द्रनीलस्थलनीलमूर्ती रराज क—रपिशङ्गवासाः ॥ विसृत्वरैरम्बुरुहां रजोभियंमस्वसुश्चित्र इवोदभारः ॥ ११ ॥ स इति ॥ अथ वास कृष्णः भगवान् रराज शुशुभे यमुनोदकपुञ्ज इवाभादित्युपमा । कस्मादित्याह-किंभूतः इन्द्रनीलस्थलनीलमूर्तिः इन्द्रनीलस्थलमसितमणिकुटिम तद्वन्नीला श्यामा मूर्तिर्यस्येति सः असितमणिकुटिमश्यामदेहः । साधारणं विशेषणम् । पुनः कर्थ- भूतः करपिशङ्गवासाः । सुवर्णपीतवस्त्र कर्चुरे काञ्चनं गन्धद्रव्यविशेपो वा, तदिव पीते- वाससी यस्य सः । काञ्चनमध्यसुगन्धद्रव्यादिक्षोदः कर्चुरो वा । उत्प्रेक्षते-यमस्वसः यमुना- या उदभार इव उदकपुञ्ज इव । सोऽपि कीदृशः इन्द्रनीलस्थलनोलमूर्तिः, तथा अम्बुरुहां रजोभिश्चित्रः हेमकमलरेणुभिरनेकप्रकारः पिङ्गः, किंभूतैः रजोभिर्विसत्वरैः विसारिभिः प्रसरणशीलैः । रजोभिः पिङ्ग इत्यर्थः । मूर्ती राजेति रलोपो दीर्घश्च । विसृत्वरैरिति इण्नशजिसतिभ्यः करप् । यमस्वसा कालिन्दी । उदकस्य भारः उदभारः 'मन्यौदन- सक्तुबिन्दुवजभारे ति उदादेशः ॥ ११ ॥ .

सर्गः। शिशुपालवधे। १०६ .. स इति ॥ इन्द्रनीलस्थलमिव नीलमूर्तिः क्यामाङ्गः । संहितायां 'रोरि' इति रेफलोपः। 'ठूलोपे पूर्व- स्य-' इति दीर्घः । कर हरितालमिव पिशङ्ग वासो यस्य सः पीताम्बरो हरिः । 'हरितालं तु कचूरम्' इति वैजयन्ती । स हरिविमृत्वरैविसमरैः । इनशजिसर्तिभ्यः करप् । अम्बुरुहामम्बुजानाम् । रुहेः विपू। रजोभिः परागैश्चित्रश्चित्रवर्णो यमस्वसुर्यमुनाया उदकस्य भारः पूर उदभारः स इव रराज । 'मन्थौदन-' इत्यादिनोदकस्योदादेशः ॥ ११ ॥ प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ॥ वपुष्यशेषेऽखिललोककान्ता साऽनन्यकामा(१)पुरसीतरा तु ॥१२॥ प्रसाधितस्येति ॥ मधुद्विषः श्रीविष्णोः इति पूर्वोक्तप्रकारेण प्रसाधितस्य अलङ्- कृतस्य सतः, अथानन्तरं यदन्यैव द्वितीया लक्ष्मीरभूत् एतत् युक्तमुचितमेव । अवर्ण- नीयैव कान्तिर्यदभूत तयुक्तं भूषितत्वादिति भावः । अथ च अन्यैव लक्ष्मीद्वितीया श्रीरिति शब्दच्छलेनार्थान्तरप्रतीतिः । तदेव अन्यत्वं युक्तं चाह-हि यस्मात् कारणात सामान्या लक्ष्मीःशोभात्मिका श्रीःअशेषे वपुषि समस्तशरीरे अखिलशरीव्यापिनी, अपरम् अखिललोककान्ता सर्वजनामिलषणीया अखिलानां समप्राणां च लोकानामिष्टा । भग- वच्छोभा हि सर्वस्यैव हृदयहारिणी, सर्व एव वा अस्य देहभूषां कामयते । तु पुनः इतरा लक्ष्मीः हरिप्रिया उरसि स्थिताऽखिले वपुषि । अपरम् अनन्यकामा न अन्यैः काम्यत अन्येषां न अभिलपणीया अनन्याभिलपणीया। न हि भगवतः ऋते कश्चित् कामयते । तस्मादन्यत्वं युक्तमेव । एतदेवालीढं कपाटेत्यादिपाठान्तरश्लोकान्तरं विद्यते । तदेतेनैव व्याख्यातप्रायम् ॥ १२ ॥ प्रसाधितस्थेति । प्रसाधितस्यालकृतस्यास्य मधुद्विषो हरे: अन्यैवासदृशी विभित्रा च । 'अन्यैः विभत्रासदी' इति वैजयन्ती । लक्ष्मीः शोभा पद्मा च । 'शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरपि गयते' इति विश्वः । अभूदित्येतयुक्तम् । कुतः-हि यस्मात्सा प्रसाधनरूपा लक्ष्मीरशेषे वपुषि । वसतीति शेषः । किजाखिललोकस्य कान्ता प्रिया। इतरा नित्या त्वन्यस्य कान्ता प्रिया न भवतीत्यनन्यकान्ता। किन्तु तस्यैवेत्यर्थः । उरसि । उरस्येव वसतीत्यर्थः । अत्र हरेः प्रसाधनादसाधारणी शोभा जातेति पार- मार्थिको वाक्यार्थः । अत्र लक्ष्मीशब्देन श्लेषमहिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहा- ऽभेदाध्यवसायादियमन्यव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलङ्कारः ॥ १२ ॥ कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ॥ आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १३ ॥ कपाटेति ॥ तस्य हरेरपरैव द्वितीया लक्ष्मीर्बभूव । कथंभूता सर्वाङ्गसङ्गिनी समस्तदेहावतीर्णा, पुनः कर्यभूता आनन्दिताशेषजना हर्षनीतसमस्तलोका । कथंभूतस्य तस्य कपाटविस्तीर्णमनोरमोर स्थलस्थितश्रीललनस्य कपाटविस्तीर्णमनोरमे उसस्थले स्थिता श्रीललना लक्ष्मीकान्ता यस्य सः तस्य । ललना कान्ता ॥ १३ ॥ भनमेवार्थ भन्यन्तरेणाह- कपाटेति ॥ कपाटवद्विस्तीले मनोरमे चोरतस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरे- रामन्दिताशेषजना सर्वाङ्गसहिनी सकलदेहव्यापिनी अत एव अपरेवासाधारण्येव श्री देव्या अन्यैव लक्ष्मी: शोभा रमा च बभूव । स एवानहारः । प्रायेणैकार्थमध्यनेक लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः । यथा हि नैषधे-आदाब 'मिपीयेत्यादि श्लोकाय, तथा 'स्वकोलिलेशे'त्यादि लोकायं चेति ॥ १३ ॥ (१)काता। १०शि०१० - ॥ । सन्देहविषौपापिसर्वकषायुते- [ तृतीय:- दैत्याधिपप्राणमुषां नखानामुपेयुषा (१)भूषणतां क्षतेन ॥ प्रकाशकार्कश्यगुणो दधानाः स्तनौ तरुण्यः परिवबुरेनम् ॥ १४ ॥ दैत्याधिपेति ॥ तरुण्यो नायिका एन विष्णु परिवः वेष्टयामासः । किंभूताः स्तनौ दधाना धारयन्त्यः । स्तनाविति प्रत्येकं सम्बन्धविवक्षायां द्विवचनम् । कोशौ स्तनौ नखानां क्षतेन नखवणेन उल्लिखितो, किंभूतेन नखक्षतेन भूषणतामुपेयुषा भूषणत्वं प्राप्तेन । कदाचितरजाः कोमलाः स्युनेंत्याह-किंविशिष्टानां नखानां दैत्याधिपहिरण्यकशिपुहृदय- विदारिणाम् । अत एव किंविधौ स्तनौ प्रकाशकार्कश्यगुणौ प्रकाशः प्रकटो लोकख्यातः का- कश्यगुणोऽतिकाठिन्यं ययोस्तौ । यदैत्येन्द्रो विदारितस्तेषां नखाना क्षतं शोभा ययोः अकारि, तौ कठिनावित्यवश्यमेव सर्वेण सुज्ञानम् ॥ १४ ॥ अथ देवीसहचरस्यैवास्थ यात्रेति सूचयन्प्रसाधनविधेः फलमाह-...' प्राणोति ॥ भूषणतामुपेयुषाम् । न तु प्रहरतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदा प्राणमुषां प्राणापहारिणाम् । यतादपि कठोराणामित्यर्थः । नखाना सतेन व्रणेन प्रकाशो व्यक्तः कार्कश्य- मेव गुणो ययोस्तों स्तनौ । स्तनानित्यर्थः। जातावेकवचने प्राप्त जातिभूयस्सु स्तनादिषु जाते- द्वित्वविशिष्टत्वाद् द्विवचनम् । यथाह वामनः-स्तनादीना द्वित्वविशिष्टा जातिः प्रायेण' इति । दधाना- स्तरुण्यो युवतयः । 'क्यासि प्रथमे' इति डीप् । एनं हरिं परिवत्रुः । अत्र हारनखाना नरहरिनखभेदे- ऽन्यभेदोक्त्या स्तनयोश्ताकाठिन्यासम्बन्धेऽपि तत्सम्बन्धोक्त्यातिशयोक्ती, तयोश्च सापेक्षत्वात्सदुरः ॥१४॥ आकर्षतेवोर्ध्वमपि कशीया(२)नभ्युन्नतत्वात् कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वमाजा नितान्तमाकान्त इवाङ्गनानाम् ॥१५॥ आकर्षतेवेतिः॥ याभिरसौ परिवृतस्तासामङ्गनानां मध्यो ननाम स्त्रीणामुदरमनमत् । उत्प्रेक्षते-कुचमण्डलेन नितान्तमाक्रान्त इव भारनमित इव । अत्र रूपान्तरारोपणरूपो. त्प्रेक्षा । किंभूतेन कुचमण्डलेन अतिगुरुत्वभाजा अतिशयस्थूलेन, कीदृशो मध्यः क्रशीयान् कृशतरः मुष्टिग्राह्यः । कृशत्वान्नम्रभावमवहदित्यर्थः। किंभूतेन कुचमण्डलेन अभ्युन्नतत्वा- दूर्ध्वमिव आकर्षता । यः किल अतिकृशः स भाराक्रान्तोऽवश्यमेव नमति । अत्यर्थोचैर्मु- खत्वादूर्ध्वमाकर्षता इव उत्प्लावयतेव मध्यमिति उत्प्रेक्षान्तरम् । अपिशब्दो विरोधप्रति- पादनार्थः । अदमप्याकृष्ट इव तत्रापि मध्यो ननाम । यो घुत्प्रवते तेनोन्नतेन भवित- व्यम् । अन्योऽपि क्रशीयान् दरिद्रः केनचिदभ्युनतत्वान्महाप्रभावत्वादूर्ध्वमाकृष्टो महा- सम्पदं प्रापितो नमतीत्युक्तिलेशः । क्रशीयानिति र ऋतो हलादेर्लघोः । अतिक्रशीयानिति इदानीन्तनानां पाठः । मध्यमर्धवाचि ॥ १५ ॥ आकर्षतेवेति ॥ अत्युनतत्वाद्धेतोः उर्ध्वमाकर्षतेव, नमन्तं मध्यमुत्रमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरत्वमतिभारत्वम् अतिप्रवृद्धत्वं च भजतीति भाक् । भजो ण्विः । तेनाइनानां कुचमण्डलेना- तिक्रीयानत्यन्तकृशतरः तनीयान् क्षीणश्च । 'र ऋतो हलादेर्लघोः' इति रफादेशः । मध्यो नितान्त- माक्रान्तः पीडित इव ननाम नतः प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीषुराज- प्रतीतेः समासोक्तिः । तथा वाच्ययोः प्रतीयमानाभेदनाक्रमणक्रियाकर्मकर्तृभावसम्भावितयं नमनस्या- क्रमणहेतुकत्वात्प्रेक्षा, इत्यनयोः सङ्करः। उत्प्रेक्षयोस्तु नरपेक्ष्यादसंसृष्टिरे वेति विषकः ॥ १५ ॥ .. (१) प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषाम् । (२)मतिकशीयानत्युनतत्वात् ।

सर्गः।] शिशुपालवधे। यां यां प्रियः प्रेक्षत कातराक्षी (१) सा सा हिया नम्रमुखी बभूव ॥ निशमन्याः सममाहितेय(२)स्तत्रान्तरे जन्नुरभु कटाक्षः ॥ १६ ॥ यां यामिति । प्रियः श्रीकृष्णः अर्थात् तासामेव अङ्गानानां मध्यात् यां यां कात- राक्षी सारङ्गलोचनां प्रेक्षत अद्राक्षीत् , सा सा स्त्री हिया लजया नम्रमुखी बभूव अधो- मुखी सजाता । स्वभाव एवार्य स्नेहस्य, यत्कान्तावलोकनेन अवनतवदनत्वम् । अन्या नार्यः पुनः तत्रान्तरे तत्रावसरेऽमुं श्रीकृष्णं समं युगपदेव कटार्जघ्नुः कथं यथा भवति निःशङ्ख नियं यथा स्यात् । किंभूतः कटाक्षः आहितेष्यैः समत्सरैः । अन्याविशेषणं वा, या भगवता नैक्षिषत ता एनमताडयन् ॥ १६ ॥ यांयामिति ॥ प्रियो हरियायामङ्गनाम् । 'नित्यवीप्सयोः' इति वीप्सायो द्विर्भावः, एकपदम् । प्रेक्ष. तालोकयत सासा । पूर्ववद् द्विर्भावः । कातराक्षी साध्वंसाचकितलोचना सती हिया ननमुखी बभूव । एतेन कार्यद्वारा लज्जासाध्वसभावोदय उक्तः अभ्यासामीाभावोदयमाह-अन्या अपेक्षिताना. आहिताः कृताक्षमाः सत्यः । 'परोत्कर्षाक्षमा स्यात्' इति लक्षणात् । तत्रान्तरे तस्मित्रीक्षणावसरे । 'कीबेन्तरे चावकाशे तादर्थेऽवसरेऽवधी' इति वैजयन्ती । निःशदं तदनीक्षणादेव विखधं यथा तथा समं युगपत्कटाक्षरमुं हरि जघ्नुः प्रजघ्नुः सरोषमद्राक्षुः ॥ १६ ॥ तस्याऽतसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त वैकबाहुः ॥ १७ ॥ तस्येति ॥ तस्य हरेरेको बाहुः रेजे शुशुभे, केन चक्रेण सुदर्शनेन । कीदृशेन भ्राम्य- न्मयूखावलिमण्डलेन देदीप्यमानकिरणपटलेन, कथंभूतस्य अतसीसूनसमानभासोऽतसीपुष्प- समकान्तेः । एकबाहुरूत्प्रेक्ष्यते-यमुनाजलौघ इव कालिन्दीनीरनिकरनिभः। किंभूतो जलौघः स्फुरन्महावर्तः भ्राम्यत्कुम्भिनीकः । भ्राम्यत्कल्लोला हरेर्यमुनापमान, बाहोर्जलौघः, चक्रस्या- वर्तः । यथा स्फुरद्भिर्महावर्तर्यमुना चकास्ति एवं तस्य सुदर्शनेन बाहुर्बभावित्यर्थः । अत्रा- वलिशब्दमलङ्कारविदः प्रायेणाधिकं मन्यन्ते, मण्डलशब्दनैव तदर्थस्योक्तत्वात् । एकश्चासो बाहुश्चेति 'पूर्वकाले ति समासः ॥ १७ ॥ अथास्य पञ्चभिर्दिव्याससविधानमाह- सस्थति ॥ अतसीमूनेन धुमाकुसुमेन समानभासस्तुल्यकान्तेः । स्निग्धश्यामस्येत्यर्थः । 'अतसी स्यादुमा क्षुमा' इत्यमरः । तस्य हरेरेकबाहुः, भ्राम्यदावर्तमानं मयूखावलीनां मण्डलं चक्रवालं यस्य तेन चक्रेण सुदर्शनेन स्फुरन्महानावों भ्रमो यस्य सः । 'स्यादावर्तोऽम्भसा भ्रमः' इत्यमरः । यमुनाजलाना- मोघः पूर इव रेजे । चक्रं दधाविन्यर्थः ॥ १७ ॥ विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती । नित्यं हरेः सान्नहिता निकामं कौमोदकी मोदयति स्म चेतः ॥१८॥ विरोधिनामिति ॥ कौमोदकी गदा. हरे: श्रीकृष्णस्य चेतश्चित्तं निकाममतिशयेन मो- दयति स्म अत्तुषत् अपिप्रीणत् तोषयमास । किंभूताकौमोदकी नित्यं सन्निहितासदैव हरेः करस्था, तथा विरोधिनां शत्रूणां विप्रहभेददक्षा शरीरमथनसमर्था, अपरं कीशी कचिदपि अस्सलन्ती अप्रतिहता सर्वत्र लब्धप्रसरा । अतश्च ज्ञायते उत्प्रेक्ष्यते-मूर्ता इव देहधारिणी शक्तिरिव भगवतो वपुःसामर्थ्य मिव । साऽपि रिपुविरोधविनाशचतुरा सदा समीपस्था (१)कातराक्षी। (२) माहिता ..

१ । । सन्देहविपीपपिसर्वमायुते- [तृतीयः- अस्खलिता व । विग्रहः शरीरं वैरं च । अस्खलन्तीति असमर्थसमासः, नमः क्वविछब्देन सम्बन्धात् । यथा असूर्यम्पश्या राजदारा इति । कचिदस्खलन्तीकचिदपि न स्खलन्ती- त्यर्थः । अन्यथा तु कचिदस्खलन्ती न सर्ववेत्युक्तं स्यात् । अथ चेदपिशब्दाध्याहार- इति क्वचिदप्यस्खलन्तीति, सर्व सुस्थम् । कुमोदको विष्णुस्तस्येयं कौमोदकी ॥ १८ ॥ विरोधिनामिति ॥ विरोधिना वैरिणां विग्रहभेदे शरीरविदारणे दक्षा । 'शरीरं वम विग्रहः' इत्य- मरः । क्वचिकाप्यस्खलन्ती । सर्वत्राप्रतिहतवृत्तिरित्यर्थः। नित्यं सन्निहिता अनपायिनी । अत एव मूता मूर्तिमती शक्तिः सामर्थ्य मिव स्थितेत्युत्प्रेक्षा। कौमोदकी गदा हरेश्वेतो निकामं मोदयति स्म । स्वसनि. धानेनेति भावः ॥ १८ ॥ न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ॥ अत्यर्थमुटेजयिता परेषां नानापि तस्यैव स नन्दकोऽभूत् ॥ १६ ॥ न केवलमिति ॥ यः खड्गः अनन्यसाधारणतां भगवदेकविषयत्वं दधानः सन् ने केवलं स्वतया आत्मीयत्वेन मुरारेः श्रीवासुदेवस्य नन्दकोऽभूत्। नन्दयतीति नन्दकः । अ- परं नाम्नाऽपि तस्यैव हरेर्नन्दकोऽभूत् । तमेवानन्दयदित्यर्थः । यतः परेषां शत्रूणामत्यर्थ- मुद्वेजयिता परं खेदजनकः। नन्दकशब्दयोरुभयार्थत्वात् दोषो नोक्तः । नन्दकस्य हि उभय- रूपतास्ति, विष्णोः सम्बन्धित्वमानन्दकत्वं च। यतो नन्दयतीति नन्दक: व्युत्पत्तिः । तत्र कश्चिद् बुध्यते मुरारेरयं केवलमात्मीयत्वेनैव सम्बन्धी, नन्दकस्तु सर्वस्यैवेति कविराह-न केवलमित्यादि । हरेर्नन्दकः इत्यत्र न केवलं शेषलक्षणैव षष्ठी, भगवदपेक्षया यावत्कर्म- षष्ठ्यपीति तात्पर्यार्थः । दधान इति शानजन्तः । ये तु दधारेति पठन्ति तैस्तभावे यु- क्तिर्वक्तव्या, घङ आत्मनेपदित्वात् दधे इति भवितव्यम् । यथा प्रियते। तुदादावपि 'धि धारणे' इतीकारान्तस्य पाठः । धयतीति रूपं, यथा स्यात् क्षियतीति ॥ १९ ॥ न केवलमिति । अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तता तो दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेनन्दको न किन्तु परेषा शत्रूणामत्यर्थमुटेजयिता भीषयिता सन् , अत एव नाम्नापि चन्द्रादिवनन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोजकत्याच तस्यत्र नन्दको नन्दयिता चेत्यर्थः । म नन्दको नन्दकाख्यः खड्गोऽभूत् । सन्निहितोऽभूदित्यर्थः । सम्बधानुबादेन सत्रिधानमेवात्र विधेयं, प्रकर- णात् । अत्रानन्यसाधारणत्वपरोद्वेजकत्वपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनात्पदार्थहेतुर्क काव्यलिङ्गमलङ्कारः ॥ १९ ॥ न नीतमन्येन नति कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु ॥ विधेयमस्याऽभवदन्तिकस्थं शाङ्ग धनुमित्रमिव द्रढोयः ॥ २० ॥ न नीतमिति॥ शाजधनुः अस्य हरेः अन्तिकस्थमभवत् समीपस्थ बभूव । स्थ- स्योपरि स्थापितमित्यर्थः । कीदृशं धनुः अन्येन भगवर्जमन्येन असामर्थ्यात् केनचित्क- दाचिदपि नतिं न नीतं नम्रतां न प्रापितं सज्यं न कृतम् , अपरं कथंभूतं कर्णान्तिकमा- सगुणं कर्षणवशात् कर्णान्तिकमपाङ्गप्रदेश प्राप्तो गुणो ज्या यस्य, श्रवणसमीपागतमौक, तथा क्रियास परघातनादिषु विधेयं वश्यम् आक्रष्टुं भगवता शक्य, तथा द्रढीयः अभङ्गु- रम्। अत एव किमिव अन्तिकस्य बभूव मित्रमिव तुल्यम् । यथा मित्र मित्रस्य अन्ति- कस्य भवति, एवमस्य तदभूदित्यर्थः । तदपि किंभूतम् अन्येन इतरेण काचिदपि नति ।

सर्गः1] शिशुपालवधे। - न नीतं न ननीभूतम् , अन्येन मित्रद्विष्टेन न कदाचिदपि नतिं नीतम् । तथा कर्णान्तिक- प्राप्तगुणं गुणाश्च तदीया अद्रोहौदार्यादयः कर्णान्तिकमागच्छन्ति श्रूयन्ते । तथा क्रियास गतादिकास विधेयं वश्यमादेशकरं भवति, तथा ढीयः अविचलं सबलं वा । र ऋतो इलादेलघोः ॥ २०॥ न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं प्रापितम् , क्रियासु रणकर्मसु हिताहितकृत्येषु च कर्णान्तिकं कर्णगोचरं प्राप्तो गुणो मौष आप्तताधर्मश्च यस्य तद्विधयं क्रियासु वायं द्रढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शाई नाम धनुः मित्रमिवास्य हरे- रन्तिकस्थ समिहितमभवत् ।। २० ।। प्रवृद्धमन्द्राऽम्बुदनादधीरं(१) कृष्णार्णवाभ्यर्णचरैकहंसः ॥ मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ २१ ॥ प्रवृद्धेति ॥ पाञ्चजन्यः शङ्को निध्वानं शब्दं दधानः सन् अश्रूयत आकर्णितः । पाञ्च- जन्यशब्दश्रवणादुपचारेण स एवाऽश्रूयत इत्युक्तम् । किविध शब्द प्रवृद्धमन्द्राम्बुदनादधीर दीर्घमधुरमेघघोषगम्भीर प्रवृद्धो दीर्घो मन्द्रो गम्भीरो यो मेघघोषस्तद्वत् धीरं गम्भीरं, तथा मन्दानिलापूरकृतं स्वल्पनिःश्वासपवनाध्मातजनितं मन्दवातसमन्तात्पूरितम् । समरसमये हि जवेन शङ्खो ध्मायते । किंभूतः पाञ्चजन्यः कृष्ण एव महत्त्वात् अर्णवस्तस्याभ्यर्णचरः समी- पवर्ती सचासौ एकहंसश्चेति विशेषणसमासः, विष्णुसमुद्रनिकटस्थराजहंसः। यथा कश्चिद- दब्धिनिकटस्थस्य राजहंसस्य मेघनादमिश्रं शब्दं शृणोति एवमसौ श्रुत इत्यर्थः । अभ्य- र्णः अभ्यः क्तः, 'अभेश्वाविदूर्ये' इतीडभावः । रदाभ्यां निष्ठातो नः पूर्वस्य च दः नत्वम् । अश्रूयतेति कर्मणि लङ् । पञ्चजने भवः पाञ्चजन्यः 'बहिर्देवपञ्चजनेभ्यश्चेति भ्यः॥ २१ ॥ प्रवृदेति ॥ षियं रातीति धीरो मनोहरः मन्द्रो गम्भीरोऽम्बुदस्य मेघस्येव धारश्च नादः प्रवृद्धो येन सः प्रवृद्धमन्द्राम्बुदधारनाद इत्युपमा। कृष्ण एवार्णवः समुद्रस्तस्याभ्यर्णचरोऽन्तिकचरः । 'उपकग्ठान्ति- काभ्यर्णा-' इत्यमरः। स चासावेकहंसश्चेति श्लिष्टपरम्परितरूपकम् । मन्दानिलस्यापूर आपूरणं तेन कृतं जनितं निध्वानं दधानः । अनाध्मातोऽपि मन्दमारुतप्रवेशादेव ध्वनतीति पाटवादतिशयोक्तिः, ध्वन्यस- म्बन्धेऽपि सम्बन्धकथनात् । पञ्चजनो नाम कश्चिदसुरस्तष भवः पाञ्चजन्योऽस्य शङ्कः । 'बहिवपञ्चजने- भ्यश्च वनव्यम्' इति व्यप्रत्ययः । अश्रूयत श्रूयते स्म । पाञ्चजन्योऽपि सनिहितोऽभूदित्यर्थः । वाणी श्रू- यते, पुष्पाण्याघ्रायन्ते इत्यादिवद्धर्मधर्मिणोरभेदोपचारात्पाञ्चजन्यस्य श्रवणोक्तिः ॥ २१ ॥ रराज सम्पादकमिष्टसिद्धः सर्वासु दिश्वप्रतिषिद्धमार्गम् ॥ महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ २२ ॥ रराजेति ॥ स्थानी भगवान चक्रपाणिः पुष्यरथमधिरूढ आरूढः सन् रराज शुशुभे । क्रीडारथः पुष्यरथो भण्यते । असंग्रामिको मङ्गलरथः । किंभूतं पुष्यस्थम् अर्थसिद्धरभिल- पितनिष्पत्तेः साधकं सम्पादक निष्पादक समर्थ, तथा क्षिप्रमाशुगामिनम्। अत एव सर्वास दिक्षु अप्रतिषिद्धमार्गमशेषास्वाशास अनिषिद्धमार्ग चतुर्दिक्षु सर्वत्रापि अनिवारितपथम् । किंभूतो रथाङ्गी महारथः । सर्वयुद्धव्यवहार यो वेत्ति शूरः स महारथः । क इव क्षपानाथ- इव। यथा क्षपानाथश्चन्द्रमाः पुष्यरथमधिरोहति पुष्यनक्षत्रे याति । पुष्यमेव स्थः पुष्य- स्थः । चन्द्रोऽपि पुष्यस्थसम्बद्धः शोभते । कथंभूतम् अर्थसिद्धेः सम्पादकम् । पुष्येन्दुयोगे .. (१) धीरनादः।

सन्देहविपौषधिसबवायुते- [ तृतीयः- प्रारब्धं कार्य न निष्फलं भवतीत्यर्थः । पुष्यन्त्यस्मिनों इति पुष्यः । सर्वाड दिक्षु अप्र- तिषिद्धो मार्गों येन, यात्रिको सौ। तथा क्षिप्रं जवनं चेति ॥ २२ ॥ राजति ॥ महानथो यस्य स महारथो रथिकविशेषः । 'आत्मानं सारथि चाश्वारक्षन्पुध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुनीतिकोविदाः ॥ इति । रथाङ्गं चक्रमस्यास्तीति रथाङ्गी हरिः इष्टसिद्धेः सम्पादक लक्षणवत्त्वात । 'पुष्यः सर्वार्थसा- धकः' इति शामादिति भावः । सर्वासु विश्वप्रतिषिद्धमार्गम् । अनिषिद्धगमनमित्यर्थः । अधिष्ठानशक. निरकुशवात् । 'पुष्यो हम्तो मैत्रमप्याश्विनं च चत्वार्याहुः सर्वदिग्द्वारकाणि' इति शामादिति भावः । वि. पंक्षिप्रगामिनम्, अन्यत्र शिपनामकम् । 'क्षिप्रं चाविवदिनेशपुष्यम्' इति शामात । पुष्यरथं क्रीडारथम् । 'असौ पुष्यरथचक्रयानं न समराय यत्' इत्यमरः । अधिरूढः मन् , पुष्यो रथ इव तं पुष्यरथमधिरूढः पुष्यनक्षत्रगतः क्षपानाथश्चन्द्र इव रराज ।। २२ ॥ ध्वजाप्रधामा दद्दशेऽथ शौरेः संक्रान्तमूतिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विविशनिव पनगारिः ॥ २३ ॥ ध्वजाप्रेति ॥ अथानन्तरं पनगारिर्गरुडो ददृशे । कथंभूतः शौरे: श्रीवासुदेवस्य ध्वजाग्रधामा पताकाग्रस्थितः, चिह्नकोटिषु वसति । पुनः कीदृशः मणिमेदिनीषु संक्रान्त- मूर्तिः स्फकिककुहिमेषु प्रतिबिम्बितशरीरः । उत्प्रेक्ष्यते-रसायास्तलं पातालं विविक्षन्निव प्रवेष्टुकाम इव । किं कर्तु फणावतस्त्रासयितुं सान् भीषयितुम् , यतोऽसौ पन्नगाऽसि । ददृशे इति कर्मणि लिट् । फणाशब्दः स्त्रीलिङ्गोऽपि कविभिरनुमीयते । मेदिन्यास्तलं पाता- लं विविक्षन् भगवदादेशं याचमानः अध्वं विलोकितवान् इत्यर्थः । 'रसातलानागकुलानि जित्वाऽत्यर्थ प्रयास्यन्निव पन्नगारिस' पाठान्तरम् ॥ २३ ॥ ध्वजामति ॥ अथ रथारोहणानन्तरं शौरेः कृष्णस्य ध्वजा धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टिमेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पत्रगाऽरिर्गरुत्मान् फणावतः समासयितुं द्रावायतु रसायास्तले पातालं विविक्षन् । प्रवेष्टुमिच्छत्रित्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः। ददृशे दृष्टः । सोऽपि सनिहितोऽभूदित्यर्थः ॥ २३ ॥ यियासतस्तस्य महीधरन्ध्रभिदापटीयान्पटहप्रणादः। जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयाञ्चकार ॥ २४ ॥ यियासत इति ॥ तस्य श्रीकृष्णस्य पटहप्रणादः दुन्दुभिशब्दः शब्दान्तराणि अश्व- इषितगजगजितरथचीत्कारादीनि अन्तरयासकार अपजुहवे अपललाप । किं कुर्वतो हरेः यियासतः इन्द्रप्रस्थं जिगमिषतः। कोहशो निनादः महीधरन्ध्रभिदापटीयान् प्रतिशब्दतया गिरिकन्दरविदारणसमर्थः । भिदेति किवन्तात् तृतीया । यदि वा भङ्ग एव मिदेत्यङ- न्तः । महान् शब्देन नगरन्ध्राणि विदारयति, सोऽपि पर्वतविवरविदारणसमर्थः । ब्रै तृती, महीं ध्रापयन्ति महीधाः, मूलविभुजादित्वात्कः । 'बहुलमन्यत्रापि संज्ञाछन्दसोरिति णिलुक् । भिदेति 'मिदिर विदारणे' इत्यन्तः ॥ २४ ॥ यियासत इति ॥ यातुमिच्छतो यियासतः । यातेः समन्ताल्लटः शमादेशः । तस्य हरेः सम्बन्धी, महीं धरन्तीति महीनाः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । यदाह वामनः-'महीधादयो मूलविभुजा- दिदर्शनात्' इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । विद्भिदादिभ्यः । तस्या पटीयान्समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौपः समुदस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । 'सुप्सुपेति .. . ..

सर्गः ।] शिशुमालवधे। समासः । अन्यान शब्दान् शम्दान्तराणि । पूर्ववन्समासः । अन्तरयाश्चकाराऽताईतानि चकार। छादया- मासेत्यर्थः । अन्तरशन्दादन्तर्धानार्थात् 'तत्करोति-' इति ण्यताल्लिंट् । 'अन्तरमवकाशावधिपरिधाना- न्तर्षिभेदतादर्थे' इत्युभयत्राप्यमरः ॥ २४ ॥ यतः स भर्ता जगतां जगाम धर्चा धरियाः फणिनां ततोऽधः॥ महाभराभुग्नशिरासहस्रसाहायकव्यप्रभुज प्रसस्ने ॥ २५ ॥ यत इति ॥ स जगतां भर्ता जगनिवासः यतो येन प्रदेशेन यस्मिन् मार्गे वा जगाम ततस्तेन प्रदेशेन तस्मिन् प्रदेशेवा अधः अधोविभागे पाताले फणिना सण प्रसस्ने प्रसृतम् । किंभूतेन फणिना धरित्र्या ध; भूमेः वोढ़ा । शेषेणेत्यर्थः । कथं यथा भवति महाभरा- भुमशिरःसहनसाहायकव्यग्रभुजं यथा स्थात् महाभरेण गौरवेण आभुनं वक्रीकृतं कुब्जी- भूतं निःसहं यत् शिरःसहस्र फणादशशतं तत्र साहायके साहाय्ये व्यग्रो व्याकुलो भुजौ बाहू यत्र । प्रसारणे महापुरुषलक्षणं गुरुत्वमित्याहुः । अत्र जगद्धारण गुरुवे हेतुः । प्रसस्र इति भावे लिट् ॥ २५ ॥ यत इति ॥ जगतां भर्ती धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । म हरिर्यतो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धा धारयि- त्रा । पूर्ववषष्ठी । फणिना शेषेण महता भरेण आसमन्ताद् भुग्नस्य कुजीभूतस्य शिरःसहस्रस्य साहायके महायकर्माण । योपधाद् गुरूपोत्नमादुञ् । व्यग्रास्त्वरमाणा भुजा यस्मिंस्तयथा तथा प्रसखे प्रमृतम् । भावे लिट् । हरिश्चचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः ॥ २५ ॥ अथोश्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।। क्रियोफलानीव सुनीतिमाज सैन्यानि सोमान्वयमन्वयुस्तम् ॥२६॥ अथेति ॥ अथानन्तर सैन्यानि तं सोमान्वयं सोमवश्यं श्रीकृष्णमन्वयुः अनुजग्मुः । पश्चाद्भूतानीत्यर्थः । किंभूतानि सैन्यानि उसकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि उच्च- कैरुदतं यत्तोरणं तेन यः सङ्गः सम्पर्कः तस्माद्यो भङ्गो विनाशः ततो यद्यं दरस्तेन अव- नम्रीकृतानि केतनानि ध्वजाः यैः । कानीव क्रियाफलानीव । यथा कर्तव्यफलानि सुनीति- भाज नयज्ञमनुयान्ति। हरिमेव वा सुनीतिभाजं यथा क्रियाफलान्यनुयान्तीति योज्यम् । सेनां समवयन्ति सैन्यानि, परिषदो ण्यः सेनाया वा । सामान्यविवक्षायां क्लीबत्वम् । के- चित् स्थितिलिङ्ग सैन्यशब्दमाहुः । सामूहिकस्त्वत्र दुर्लभः । अन्वयः प्रबन्धः। अन्वयुरिति यातेर्लङ्, 'लङः शाकटायनस्येति अर्जुश्च ॥ २६ ॥ अयति ॥ अथ हरिचलनानन्तरमुच्चकैरुनते तोरणे द्वारदारुणि सङ्गेन भगस्तस्माद्येनावनम्रीकृतानि केतनानि यैस्तानि सैन्यानि, सोमस्यान्वयः सन्तानः तं सोमान्वयं हरिं सुनीतिभाजं मुठुनीतिमन्तं, क्रि- या सामायुपायप्रयोगास्तासां फलानि हिरण्यभूमित्रादिलाभा इवान्वयुरन्धगच्छन् । यातेर्लङ् 'लङः शा- कटायनस्य' इति झर्जुम् ॥ २६ ॥ श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ॥ आनेमिमग्नैः शितिकण्ठपक्षशोदद्युतश्चुक्षुदिरे रथौघैः ॥ २७ ॥ श्यामेति ॥ रथौधैः स्यन्दनसमूहैः काञ्चनभूपरागाः सुवर्णोर्वीरजांसि चुक्षुदिरे क्षुण्णाः पिष्टाः चूर्णिताः । 'चुक्षुभिरे' पाठे क्षोभिताः उत्प्राविताः । किंभूताः काञ्चनभूपरागाः वारणदानतोयैः करिमदाम्बुभिः आलोडिताः पङ्किताः पङ्कत्वं प्रापिताः, किंभूतैर्दानतोयैः ..

[ तृतीयः- । .. । सन्देहविषौपधिसर्वकषायुते- श्यामारुणैः नीललोहितः। अत एव किंविधाः शितिकण्ठपक्षक्षोदयुतः मयूरबर्हचूर्णतयः। कथंभूतै स्थौधः आनेमिमग्नैः चक्रपर्यन्तं यावत् बुडितैः । चक्रधारा प्रधिर्नेमिः । श्यामानि च तानि अरुणानि इति 'वर्णो वर्णेने ति समासः । क्षुभिरत्रान्तर्भूतण्यर्थः सकर्मकः । यथा राजयुध्वा इति युधिः । चुक्षुदिरे इति न्याय्यः पाठः ॥ २७ ॥ श्यामेति ॥ श्यामानि चारुणानि च : श्यामारुणेः कृष्णलोहितः । 'वर्णों वर्णेन' इति समासः । धारणदानतोयर्गजमदोदकैरालोडिताः संमिलिता अत एव शितिकण्ठपिच्छलोदा मयूरबर्हचूर्णा इव योतन्त इति तथोक्ताः । क्विप् । उपमालद्वारः । काञ्चनस्य भूः काञ्चनभूस्तस्याः परागाः पासवः । आनेमि नेमि. मभित्र्याय । 'चक्रं रथाङ्गं तस्यान्ते नेमिः मी' इत्यमरः । 'आइ मर्यादाभिविध्योः' इत्यभिविधावव्ययीभा- वः । मग्ने रथौधैः चक्षुदिरे । पिष्टा इत्यर्थः । परागाणा विशिष्टपेषणासम्बन्धेऽपि तत्सम्बन्धोक्तरतिशयो- तिः । तथा च महती गजरथसम्पत्तिय॑ज्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ २० ॥ न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ॥ अचेष्टताऽष्टापदभूमिरेणुः खुराहतो(१) यत्सदशं गरिम्णः ॥ २८ ॥ नेति ॥ अष्टापदभूमिरेणुः सुवर्णमहीपरागः खुराहतः सन् यत् गरिम्णः सदृशं गुरु- त्वस्योचितं, तत् अचेष्टत चकार। उत्थित एव गौरवादधो जगामेत्यर्थः । किमचेष्टतेत्याह तावत्-महाजनानां शिरांसि जनताया मस्तकानि न लङ्घयामास नाधिरुरोह, अपरम् उद्ध- तिं नैवाजगाम उत्प्लुर्ति न ययौ। अथ च गरिम्णो विपुलहृदयस्य यदनुरूपं तब- कारेत्युक्तिः । यो हि महान् स कोपितोऽपि साधूनामवमानं न कुरुते, नाप्युद्धतं क्षोम याति ॥ २८॥ नति ॥ अष्टसु धातुषु पदं प्रतिष्ठा अस्येत्यष्टापदं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽसि- याम्' इति सुवर्णपर्यायेवमरः । तस्य भूमिस्तस्या रेणुः काञ्चनभूरजः पदाहतः । रथाश्यादिचरणताडि- तोऽपि सनित्यर्थः । महाजनानां बहुजनानां पूज्याना च शिरोसि न लडयामास नाकामति स्म । कि बहुना उद्धतिमुत्पवनं दर्प च नैवाजगाम । कुतः-यद् यस्मादरिम्णो गुरुत्वगुणस्य माहात्म्यस्य च । 'प्रि- यस्थिर-' इत्यादिना गुरोगरादेशः। सदृशमनुरूपं यथा तथाऽचेष्टत । अलनव्यवहारे गुरुत्वस्यौद्धत्य- प्रतिबन्धकत्वादिति भावः । अत्रानौद्धत्यादिप्रस्तुतसुवर्णपरागविशेषणसाम्यादप्रस्तुतसुजनप्रतीतेः समासो- किरलारः ॥ २८॥ निरुध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुशिक्षिपुरग्रपादान् ।। ध्रुवं गुरुन्मार्गरुधः करीन्द्रानुल्लध्य गन्तुं तुरगास्तदीषुः ॥ २९ ॥ निरुध्यमाना इति॥ अग्रे हस्तिनो नीयन्ते पश्चादश्वा इति प्रयाणस्थितिः। स्वभाव- एव जात्यश्वानां, यश्चलत्वम् । अत्र कविरुत्प्रेक्षाञ्चके-तुरगा अश्वा यदुभिर्यादवैः कथशि- न्महता कष्टेन निरुध्यमाना आकृष्यमाणाः संयम्यमाना यत् मुहुः वारंवारमप्रपादौ उचिक्षिपुः चरणौ ऊर्वीचक्रुः, तत् ध्रुवमुत्प्रेक्षायाम् । अहमिति शङ्के, निश्चितं वा गुरून् करीन्द्रान् उल्लङ्घ्य गन्तुमीषुः यातुमभिलेषुः, किंभूतान् मार्गरुधः गुरुत्वादध्वानमावृत्य स्थि- तान् । गमनप्रतिपन्थिन इत्यर्थः । अग्रे पादौ अग्रपादौ, अपौच तो पादौ इति वा। यत- दो हेत्वों । ईषुरिति इच्छान्तः ॥ २९ ॥ निरुध्यमाना इति ॥ तुरगा यदुभिः । आरूलैरिति भावः । कथग्निदतिपयनेन निरुध्यमाना वल्गाक- र्षणेन वार्यमाणा अपि यत् यस्मात् अमाश ते पादास तानप्रपादान् । 'हस्तामापहस्तादयौ गुणगुणिनोरभेद- (१)पादाहतो।

सर्गः । शिशुपालवधे। ११७ .. भेदयोगात्' इति वामनः। सामानाधिकरण्येन समासः । मुहुरूविक्षिपुरुक्षिप्तवन्तः तत्तस्मान्मार्ग रुन्ध- तीनि मार्गरुषो मन्दगमनेन मार्गरोधिनः । क्लिप । गुरून्महतः पूज्याश्च । अलग्यानपीति भावः। करी- न्दानुल्लङ्घय गन्तुमीषुरिच्छन्ति स्म । ध्रुवमित्युत्प्रेक्षायाम् । गुरवोऽपि सन्मार्गरोधकाः परैरुल्लड्यन्त- इत्यलारेण वस्तुवनिः ॥ २९ ॥ अवेक्षितानायतवल्गमने तुरङ्गिभिर्यलनिरुद्धवाहैः ।। प्रक्रीडितान् रेणुभिरेत्य तूर्ण निन्युर्जनन्यः पृथुकान्पथिभ्यः ॥३०॥ प्रवेक्षितानिति ॥ जनन्यो मातरस्तूर्णमेत्य त्वरितमागत्य मथनभयात् पथिभ्यो मार्गेभ्यः पृथुकान् डिम्भान् निन्युः अपास्थन् । किंविधान् रेणुभिः प्रक्रीडितान् धूलिभि- विहृतान् , तथा तुरङ्गिभिरश्ववारैरग्रेऽवेक्षितान् निरूपितान् , कथं यथा भवति आयतवलगं यथा स्यात् आयता आकृष्टा वल्गा रश्मिर्यत्र । अवेक्षणक्षणे स्तम्भयित्वा रशितानि- त्यर्थः । किंभूतैः तुरङ्गिभिः यवनिरुद्धवाहैः यत्नरताः। वाह्यन्ते इति वाहाः अश्वाः वहेय॑न्तात् अच् । तूर्णमिति च त्वरेः क्तः । वा 'हष्यमत्वरसंधुषाऽऽस्वनामितीडभावः, पक्षे 'ज्वरत्वरे'त्यूठादेशः ॥ ३० ॥ अवेक्षितानिति ।। आयता आकृष्टा वल्गा मुखरज्जुस्मिन्कर्मणि तपथा तथा यनेन दुर्वारवेग- न्वादतिप्रयत्नन निरुद्धा वाहा वाजिनो यस्तैः । 'वाजिवाहार्वगन्धर्व' इत्यमरः । तुरङ्गिभिरश्वसादिभिरने पुरोदेशेऽवक्षितानालोकितान् रेणुभिः प्रक्रीडन्तीति प्रक्रीडितान्पांसुक्रीडाकरान् । कतरिक्त । पृथुकान् शियन् । 'पृथकः शावकः शिशुः' इत्यमरः । जनन्यस्तूर्णमेत्य पथिभ्यो निन्युः अपसारयाञ्चकुरिति स्वभावोक्तिः॥३०॥ दिद्वक्षमाणाः प्रतिरथ्यमायु(१)र्मुरारिमारादनघं जनौघाः ॥ अनेकशः संस्तुतमप्यमल्पा नवनवं प्रीतिरहो ! करोति ॥ ३१ ॥ दिद्वक्षमाणा इति ॥ जनौधा लोकपूगाः अनघं पुण्यभा हरिं द्रष्टुकामाः सन्तः प्रतिरथ्य प्रतिमार्गम् आरात् दूरादपि आयुः आजग्मुः । आरादू दूरसमीपयोः । ननु सर्वे एव नगरनिवासिनोऽहर्निशं भगवन्तमीक्षन्ते, तस्किमिति तेषां तदालोकनकुतूहलमित्या- शङ्कय पूर्वार्थसाधकमर्थान्तरमाह-अहो ? चित्रम् , अनल्पा महती प्रीतिः अनेकशो- ऽनेकवारान् संस्तुतमपि परिचितमपि नवनवं करोति प्रत्यग्रीकुरुते । तेन तेषां हरिदर्शनहर्षो युक्तः इति भावः । दिदृक्षमाणाः इति सनि 'शाश्रुस्मृदृशां सन' इत्यात्मनेपदम् । प्रति- रथ्यमिति वीप्सा । विस्तृतत्वात् रथमहतीति रथ्या 'दण्डादिभ्य' इति यत् । आयुरिति आङ्- पूर्वात् लङ् । नवनवमिति मकारप्रश्लेषः । अन्यथा कर्मधारयत्वात् सुब्लुकि सति नवनव- मिति च स्यात् । द्वित्वं वाऽऽदेशिकम् ॥ ३१ ॥ दिहक्षमाणा इति ॥ अनघमकलई मुरारि दिदक्षमाणा द्रष्टुमिच्छन्तः । दृशेः सचन्ताल्लटः शान- जादेशः । 'ज्ञाश्रुस्मृदृशा सनः' इत्यात्मनेपदम् । 'आराद् दूरसमीपयोः' इत्यमरः । ईयुर्जग्मुः । इणो लि- द। दीर्घ एणः किति' इत्यभ्यासदीर्घः । ननु नित्यपरिचिते का दिदत्यत्राह-अनेकश इति । अनेकशो बहुवारमित्यर्थः । 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' इति शस्प्रत्ययः। संस्तुतं परिचितमपि वस्तु । जनेनेति शेषः। 'संस्तवः स्यात्परिचयः' इत्यमरः । अनल्पाधिका प्रीतिः प्रेम की, नवनवम् । भाभी- दण्येन नवं करोति । 'नित्यवीप्सयोः' इति विर्भावः । अहोशब्दः पुराणस्यापि नूतनत्वमित्याश्चर्ये । यथा पर- प्रेमास्पद वस्तु नित्यदृष्टमप्यदृष्टचरमिव प्रतिक्षणं दिदृश्यते, भगवानपि तथैवेति भावः । सामान्येन विशेष- समर्थनरूपोर्थान्तरन्यासः ॥ ३१॥ . (१)मीयु०।

। .. सन्देहविषौषधिसर्वाषायुते [तृतीयः- उपयुषो वर्त्म निरन्तराभिरसो निरुच्चासमनीकिनीमिः॥ रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥३२॥ उपयुष इति ॥ असौ विद्वान् हरी स्थस्य यातं गमनं न विवेद नाबुद्ध, यतस्तस्यां पुरि दत्तचक्षुः निहितलोचनः । द्वारावतीगतहृदय इत्यर्थः । कीदृशस्य स्थस्य शनैर्मन्द वर्त्म मार्गमुपेयुषः गतवतः, किंभूत मार्गमनीकिनीभिर्निरुच्छ्वासं पूर्ण सङ्कट, किंभूताभिः निरन्तराभिः बहुलाभिः । सङ्कटे च जवेन यातुं न युज्यते । सङ्कटे हि शनैर्गम्यते, अतो यातं न युज्यते । सङ्कटे हि शनैर्गच्छन्चाहो याति न वेति न बुध्यते । स्थस्य यातं शनै: किजिदपि न विवेदेति योज्यम् । विद्वान् न विवेदेति विरोधाभासः। अविद्यमानमन्तरं वि- वरमासामिति निरन्तराः संहताः । निरुच्छ्वासं पूर्णम् । उच्छ्वासोऽपियत्र न वर्तते इति, कृत्वा निर्गत उच्छ्वासोऽपि यत्र वर्तते इति वा निरुच्छ्वासम् । विद्वानिति विदेः शतुर्वसुः । विदामासेति तु उपविदजागृभ्यो वा आम् । यातमिति भावे क्तः ॥ ३२ ॥ उपयुष इति ॥ विद्वानभिज्ञः अत एव तस्यां पुरि नगर्या दत्तचक्षुर्निसृष्टदृष्टिरसौ हरिनिरन्तरामिनीर- न्ध्राभिरनोकिनीभिः सेनाभिर्निरुच्यासमतिसङ्कटं वोपयुषः प्राप्तस्य रथस्य निर्यात सम्बन्धनिबन्धनं मन्दगमनं न विदामास न विवेद । 'उषविदजागृभ्योन्यतरस्याम्' इत्याम्प्रत्ययः। व्यासादसंवेदनं न तु तत्त्वाज्ञानादिति भावः । व्यासस्य पदार्थत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ३२ ॥ तस्यां पुरीत्युक्तमिति सा काऽसावित्याह- मध्येसमुद्र ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ॥ तुरङ्गकान्तामुखहव्यवाहज्वालेव मित्त्वा जलमुल्ललास ॥ ३३ ॥ मध्येसमुद्रमिति ॥ या मध्येसमुद्रं समुद्रमध्ये जलं भित्त्वा उल्ललास दिदीपे, तस्यां पुरीति योज्यम् । किंभूताऽसाविति तद्वर्णनम्-या पुरी काञ्चनवप्रभासा सुवर्णप्राकार- दीप्त्या दिशः पिशङ्गीः पीताः कुर्वती कुर्वाणा उल्ललासेति सम्बन्धः । अतश्चोत्प्रेक्ष्यते-जलं भित्वा तुरङ्गकान्तामुखहव्यवाहज्वालेव तोयं विदार्य वडवानलज्वालेवोत्थिता । सापि दिशः स्वर्णरुचा पिशङ्गन्यति । तुरङ्गोऽश्वस्तत्कान्ता वडवा तत्तुल्यं मुखं यस्य हव्यवाहस्यानेः स वडवानलः । अलङ्कारविदामनिच्छयैवमुक्तिः । मध्येसमुद्रमित्येकम् । पारे मध्ये एदन्त, पप्ठ्या समासः । पिशङ्गीरिति 'पिशङ्गादुपसंख्यानामिति कीप् । हृयते इति हव्यं हवि- स्तद्वहतीति हव्यवाहः ॥ ३३ ॥ अथैकत्रिशच्छ्लोकारका वर्णयति- मध्येसमुद्रमिति ।। समुद्रस्य मध्ये मध्ये समुद्रम् । 'पारे मध्ये षठ्या वा' इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्सत्वम् । काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गल- वर्णाः। गौरादित्वान्सी । कुर्वती या पूः जलं समुद्रोदकं भित्त्या । उस्थितेति शेषः। तुरङ्गाकान्ताया बड- वाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः। कर्मण्यम्प्रत्ययः । तस्य वाडवाग्नीलबोल्लल्लास उदभासे। अत्र समुद्रान्तलीनायां वडवानलज्वालाया कदाचिन्सम्भाव्यमानस्य मध्यासनस्य पुरि दर्शनाभेदाध्ययसा- यनास्या ज्वालात्वमुत्प्रेक्ष्यते । इवशब्दोऽयमुत्प्रेक्षाया एव व्यञ्जको नोपमायाः । ईदृग्ज्यालाया अप्रसिद्धत्व- नोपमानत्वायोगात् । 'मन्य शध्रुवं नूनं प्राय इत्येवमादिभिः । उत्प्रेक्षा व्यज्यते शन्दैविशन्दोऽपि तादृशः ॥ इत्याचार्यदएडी ॥३३॥ ..

सर्गः ।] . शिशुपालवधे। अन्यच कीशी असौ इत्याह- कृतास्पदा भूमिभृतां सहस्त्रैरुदन्वदम्भःपरिवीतमूर्तिः ॥ अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३४ ॥ कृतास्पदेति ॥ स्निग्धाञ्जनश्यामेति यावविशवश्लोकैः सा एव वर्ण्यते । अनि- विदा अनिविण्णेन खेदरहितेन प्रजासृजा या पृथ्वी विशाला चक्रे कृता । किविशिष्टा भूमिभृतां सहस्रः कृतास्पदा विहितावस्थितिः, तथा उदन्वदम्भःपरिवीतमूर्तिः समु- इजलवेष्टिततनुः । किंभूता, उत्प्रेक्ष्यते-पृथिव्याः प्रतियातनेव प्रतिबिम्बमिव भुप्रतिबिम्ब- तुल्या। सापि महीधरैविहितप्रतिष्ठा समुद्रमेखला विस्तीर्णा च । निर्विद्यते उद्विज्यते इति निर्वित् , न निर्वित् अनिर्वित् तेन 'सत्सूद्विषेति कि । विदधे इति कर्मणि सकारः । प्रतियातना प्रतिच्छन्दः ॥ ३४ ॥ कृतास्पदेति ॥ भूमिभृतां राज्ञा गिरीणां च सहसैः कृतास्पदा कृताधिष्ठाना । 'आस्पदं प्रतिष्ठायाम' इति निपातः । उदकमस्यास्तीत्युदन्वानुदधिः । 'उदन्यानुदधिः सिन्धुः' इत्यमरः । 'उदन्यानुदधौ च' इति निपातनात्साधुः । तस्याम्भोभिः परिवीता परिवेष्टिता मूर्तिः स्वरूपं यस्याः सा, पृथ्वी पृथुः । 'वोतो गुणवच- नात्' इति डीप् । एवंभूता या पूः न निविद्यते न विद्यते इत्यनिर्वित् । विदेओनार्थत्वानिःपूर्वात् 'सत्सूद्विष.' इत्यादिना विप । तेनानिविदा अखिन्न । अन्यथा शिल्पसौश्वासिद्धेरिति भावः। विधात्रा, प्रथत इति पृथिवी भूः । प्रथेरोणादिकः षिवन् । 'बिहीरादिभ्यश्च' इति डोष् । तस्याः प्रतियातना प्रतिकृतिरिव विदधे विहिता । 'प्रतियातना प्रतिच्छाया । प्रतिकृतिः' इत्यमरः । भूप्रतिनिधित्वोत्प्रेक्षया पुरो वैचित्र्याविस्तारा- दिवस्तु व्यज्यते ॥ ३४ ॥ त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसरस्य सीमा । अदृश्यताऽऽदर्शतलाऽमलेषु छायेव या स्वर्जलधेर्जलेषु ॥ ३५ ॥ त्वष्टुरिति ॥ तथा आदर्शतलाऽमलेषु दर्पणपृष्टसच्छायेषु. उदधिजलेषु या पुरी अदृश्यत जलवेष्टिता जलनिधिनी रेष्वपि क्षिप्ता दृष्टा । समुद्रमध्ये या तिष्ठतीत्यर्थः । अतश्यो- त्प्रेक्ष्यते-स्वः स्वर्गस्य छायेव प्रतिबिम्बमिव । या त्वष्टुर्विश्वकर्मणः सम्बन्धिना सदाऽभ्या- सेन गृहीतस्य शिल्पविज्ञानसम्पत्प्रसरस्य क्रियाकौशलातिप्रयोगस्य सीमा मर्यादा । ततो न्यन्न किञ्चिद्भुतले विधात्रा सुन्दर निर्मितमित्यर्थः। यतश्च जले एवंविधं वस्तु प्रतिबिम्बी- भवत्यतो ज्ञायते सुरपुरमेवात्र प्रतिच्छन्दितमिति क्रियाविशेषणम् । प्रसरः प्रवृत्तिः कार्येषु योजिता । सीमेति. 'मन' इति डीबभावः । अदृश्यत भावे लकारः । स्वःशब्दो- ऽव्ययम् ॥ ३५ ॥ त्वद्युरिति ॥ त्वष्टुर्विश्वकर्मणः सदाभ्यासेन गृहीतो लब्धो यः शिल्यविज्ञानसम्पदः प्रसरः प्रकर्षस्तस्य मीमाध्यधिः । अप्रतिमेति यावत् । या पूरादर्शतलामलेषु दर्पणपृष्ठ स्वच्छेषु । 'दर्पणे मुकुरादर्शी' इत्यमरः । जलधेर्जलेषु स्वः स्वर्गस्य । 'स्वरव्ययं स्वर्गनाक-' इत्यमरः । छाया प्रतिविम्बमिवादृश्यतेत्युप्रेक्षा । "छाया त्वनातपे कान्ती प्रतिबिम्बार्कजाययोः' इति वैजयन्ती ॥ ३५ ।। रथाङ्गभऽभिनवं वराय यस्याः पितेव प्रतिपादितयाः ॥ प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३६ ॥ रथाङ्गेति ॥ अम्बुधिर्यस्याः पुर्याः उपकण्ठं समीपे प्रेम्णा स्नेहन मुझुवारवाई. रत्ना- वलीमणिपरकीराबबन्ध व्यरचयत्, किंभूतायाः अङ्कमाजः मध्यवर्तिन्याः । अत एव एकत्र ।

१२०
सन्देहविषौषधिसर्वस्यायुते [ तृतीयः-
वासात् प्रेम रथारुभत्रे चक्रपाणये हरये बराय सर्वश्रेष्ठाय अभिनवं तत्कालं यथा भवति
प्रतिपादितायाः दत्तायाः। क इव पिलेब। यथा वराय दत्तायाः कन्यायाः पिता स्नेहेन रत्ना-
वलीरसकृदुपकण्ठं कण्ठे योजयति । उपकण्ठ समीपे कण्ठे च ॥ ३६ ॥
रथांति ॥ अम्बुधिः पितेव वराय श्रेष्ठाय जामात्रे च । 'वरो जामातरि श्रेष्ठे' इति विश्वः।
रथाङ्गभ चक्रधराय हरयेऽभिनवं यथा तथा प्रतिपादितायाः, अङ्कः समीपम् उत्सङ्ग ताजः । 'अङ्क
समीप उत्सने चिह्ने स्थानापराधयोः' इति केशवः । यस्याः पुर उपकण्ठमन्तिके । अत्यन्तसंयोगे
द्वितीया । अन्यत्र कण्ठे। विभक्त्यर्थे न्ययीभावः । मुहुः प्रेम्णा रत्नावलीराबबन्ध आसमन्ताद् बबन्ध
श्लेषानुप्राणितेयमुपमेति सङ्करः ॥ ३६ ॥
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छकुलाकुलेन ॥
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रोऽन्वहमन्वकारि ॥ ३७ ॥
यस्या इति ॥ यस्या वप्रेण प्राकारेण सुमेरुवप्रो मेल्तटोऽन्वहमनुदिनमन्वकारि
अनुकृतः । कोशेन स्खलत् क्षुभ्यत् यद्वारिधिवारि समुद्रार्णः तस्य या वीचिच्छटाः कल्लोल-
विच्छित्तयः ताभ्योऽन्वहमहर्दिवम् उच्छलनिर्यत् शङ्ख कुलं कम्बुपूगः तेन आकुलं व्याप्तम् ,
तेनेत्यर्थः । कीदृशो वप्रः पर्यन्तचरोडुचक्र: उच्चत्वात्पर्यन्तचर निकटवर्ति उडुचक्रं तार-
कानिकरो यस्य सः तथोक्तः । शहानामुडून्युपमानम् । अहनि अहनि अन्वहम् इत्यव्य-
यीभावः, 'अनश्चति टच् समासान्तः । अन्वकारीति कर्मणि लुङ्॥ ३७ ॥
वस्था इति ॥ चलन्तीनां वारिधिवारिवाचीनां छटासु परम्परासूच्छलदिरुत्पतद्भिः शनानां कुलै-
राकुलेन सङ्कीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य :
मुमेरोर्वप्रः सानुः। 'सानुप्राकारयोर्वपम्' इत्युभयवापि सज्जनः । अहन्यहनीत्यन्वहम् । 'अव्ययं विभ-
कि-' इत्यादिना यथार्थेऽव्ययीभावः । 'अनश्च' 'नपुंसकादन्यतरस्याम्' इति समासान्तोऽच् । अन्वका-
र्यनुकृतः । तत्साम्य प्रापित इत्यर्थः । मेरूपमानादप्रस्य तत्तुल्यमौनत्यं व्यज्यते ॥ ३० ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ॥
लोलैरलोलद्युतिभाजि मुष्णन् रत्नानि रत्नाकरतामवाप ॥ ३ ॥
वणिक्पथे इति ॥ यत्र यस्यां पुरि अम्बुराशिः समुद्रः रत्नानि मुष्णन् मणीनपहरन्
रत्नाकरतामवाप मणिनिलयत्वं लेभे न तु स्वभावत इत्युत्प्रेक्षा विनापि इवेन युज्य-
ते । तदर्थस्तु सामर्थ्याद् गम्यते । किं भूतानि रत्नानि वणिक्पथे हटे पूगकृतानि राशी-
कृतानि, तथा अलोलयुतिभाजि अलोलां स्थायिनी युति प्रकाशं भजन्ते सेवन्ते इत्यलो-
लयुतिभाम्जि । कैर्मुष्णन् अम्बुभिः, कीदृशैः प्रमागतैः जलनालकप्रविष्टः, तथा लोले:
प्रसारिभिः । यः किल लोलनपलः स मुष्णाति चोरयति । वणिजां पन्थाः वणिक्पथः ।
ऋक्पूरग्धूः पथामानक्षे । अपूगाः पूगाः कृताः 'श्रेण्यादयः कृतादिभिरिति समासः ।
रत्नाकरतां मणिनिलयत्वं लेभे, (तथा) विश्वविभावितः । आकरः स्थानम् ॥ ३८॥
वणिकपये इति ॥ यत्र यस्यां पुरि वणिज पथि वणिक्पथे आपणे अपूगाः पूगाः सम्पद्यमानानि
कृतानि पूगकृतानि पुजीकृतानि । 'श्रेण्यादयः कृतादिभिः' इति समासः । 'श्रेण्यादिषु व्यर्थवचन मितिः
च्व्यर्थता । अलोलयुतिभाखि स्थिरप्रभावन्ति रमांनि लोलैशलः । अत एव भ्रमागर्जलनिर्गममार्गादागतः
'भ्रमात्र जलनिर्गमाः' इत्यमरः । अम्बुभिर्मुष्णनपहरनम्बुराशिरर्णवः । जलमानसारोपीति भावः । रमा-
करामबाप प्राप। न तु मागिति भावः । अधुराकोः प्राक् रमसम्बम्प्यसम्बन्धोकरतिशयोकिः। तथा
च पुर्यामुदातिशायिनी रनसमूर्षिस्तु म्पज्यते ॥ ३८ ॥

सर्गः ।] - शिशुपालवधे। १२१ अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः॥ यत्रातपे दातुमिवोपतल्प(१) विसारयामास तरङ्गहस्तः ॥ ३६॥ अम्भश्च्युत इति ॥ यत्र यस्यामपानिधिः समुद्रः तरङ्गहस्तैः कल्लोलकरैरुपतल्प- महसमीपे कोमलरत्नराशीन् उत्तमरत्नपूगान् विसारयामास विचिक्षेप । उत्प्रेक्ष्यते- आतपे दातुं शोषयितुमिव निरास्त । यतोऽम्भश्च्युतः सलिलस्राविणः, तथा फेनपिनद्ध- भासः डिण्डीराच्छादितदीप्तीन् । क्लिन्नं हि वस्तु अवश्यमातपे स्थाप्यते ॥ ३९ ॥ अम्भश्च्युत हात ॥ यत्र पुरि अपानिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्च्युतो जलस्रा. विण : अत एव फैनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वब्रह्मतेः कर्मणि कः, 'वष्टि भागुरिरल्लोपम- वाप्योरुपसर्गयोः' इत्यपेरकारलोपः। कोमलानुत्कृष्टान रत्नराशीनातपे दातुं शोषणार्थ निधातुमिवेति फलो- प्रेक्षा । तल्पेष्वट्टेषु अधिनल्पम् । 'तल्पं शय्यादारेषु' इत्यमरः। विभक्त्यर्थेऽव्ययीभावः । तर रेग हस्तै- विस्तारयामाम प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः सङ्करः ॥ ३९ ॥ यत्साल (२)मुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ॥ महोर्मिभिर्व्याहतवाञ्छितार्थे/डादिवाभ्याशगतैर्विलिल्ये ॥ ४० ॥ यत्सालमिति ॥ सागरस्य अब्धेः महोमिभिः कल्लोलैर्दूरात् उदस्थीयत उत्थित, किं कर्तुम् उत्तुङ्गतया यत्साल विजेतुम् उच्चत्वेन यस्याः प्राकारं परिभवितुं लघूकर्तुमिव उत्प्रेक्षा । अनन्तरं तदभ्याशगतैः सालोपशयस्थैः समीपस्थैर्विलिल्ये विलीनम् । नष्टमि- त्यर्थः । उभयत्रापि भावे लकारः। उत्प्रेक्ष्यते-व्रीडादिव । यतो व्याहतवाञ्छिताथैः अ- सम्पन्नमनोरथैरिव बीडया विलिल्ये । यः किल केनचिद् गुणेन जिगोषितं न जयति सो- ऽवश्यमेव हिया अदर्शनं याति । व्रीडाशब्दः स्त्रीपुंसोः ॥ ४० ॥ यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । 'प्राकारो वरणः शाल.' इत्यमरः । उत्तुङ्गलया औनत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थी. यतोत्थितम् । भावे लङ् । अभ्याशगतेः समीपगतैः । 'समापे निकटाभ्याशसनिकृष्टसनीडवत्' इत्यमरः । व्याहतो वाच्छितार्थः शल विजयरूपो येषां तैः । विजयाक्षमैरित्यर्थः । अत एव ब्रीडादिवति हेतूत्प्रेक्षा। उर्मिभिर्विलिल्ये विलीनम्। लीयते वे लिट् । अत्र शक्तस्याप्यविजिगीषोडिानुदयात्सापेक्षत्वनो- प्रेक्षयोः सदूरः ॥१०॥ कुतूहलेनेव जवादुपेतः(३) प्राकारभित्त्या सहसा निषिद्धः ॥ रसन्नरोदीदु भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ४१ ॥ कुतूहलेनेवेति ॥ अम्बुवाहो जलधरो यस्या बहिः रसन् गर्जन् अम्बुवर्षव्याजेन वारिधारावृष्टिच्चलेन भृशमत्यर्थमरोदीत् अश्रु तत्याजेत्युत्प्रेक्षा। किमित्यरोदीदित्याह- कौतुकेनेव वेगादागतः सन् यतः सालेन कुड्येन सहसा झटिति बलान्निषिद्धः निवारितः। यः किल कौतुकादागतः प्रवेशान्निषिध्यते सोऽवश्यमेव परिभवात्सशब्दं रोदिति । जवादु- पेत्यारोदीदिति पौर्वकाल्यमत्र । अरोदीत् इति लङ् 'रुदश्च पञ्चभ्यः' इतीडागमः ॥ ४१ ॥ कुतूहलेनेवति । अम्बु वहतीत्यम्बुवाहो मेघः । कर्मण्यम् । कुतूहलेनान्तःप्रवेशकौतुकेनेवेति हेतू. स्प्रेक्षा । जवादुपेत्य यस्याः प्राकारभिच्या सहसा निषिद्धो निवारितः अत एव बहिरेव रसन्गर्जन् । दुःखात क्रन्दश्चेति श्लेषः । अम्बुवर्षव्याजन भृशमरोदीदणि मुक्तवान् । रुदिर् अश्रुविमोचने लङ् 'रुदश्च पञ्चभ्यः' इतीडागमः । भवाम्बुवर्षव्याजेनोत्पादकस्याकेश्लेषोत्प्रेक्षासापेक्षत्वात्सङ्करः ॥ ११ ॥ (१) मिवाधितल्पं विस्तारयामास । (२) यच्छाल। (३) दुपेत्य। ११ शि०व० - .

१२२ सन्देहविषौषधिसर्वकषायुते- [ तृतीयः- यदङ्गनारूपसरूपतायाः कश्चिद् गुणं भेदकमिच्छतीभिः ॥ आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषनिहाः ॥४२॥ यदङ्गनेति ॥ मानव्यः प्रजाः स्वभावतः सनिमेषास्तत्र कविनिमित्तान्तरारोपरूपामुत्प्रे- क्षामकरोत्-अद्धा निश्चितम्, अप्सरोभिराराधितो मनुः प्रजापतिः : स्वाः प्रजाः आत्मीयाः मानुषीलक्षणाः सनिमेषचिह्नाः सङ्कोचविकासोपलक्षिताः चक्र व्यवत्त । नन्वेवमेव किमर्थ स्वर्गस्त्रीभिस्तोषितः इत्याह-यदङ्गनेत्यादि । यस्यां द्वारावत्यां वसन्त्यो या अङ्ग- नास्तासां यद्रूपं लावण्यातिशयो वपुर्वा तेन यत्सारूप्यं सादृश्य ततः कश्चिभेदकं विशेष- कारिणं गुणं कामयमानाभिः अप्सरोभिराराधितो मनुरन्तरं चकार । एतेन पुरस्त्रीभ्योऽप्सर- सामनिमेषत्वं विशेषो, न त्वन्यः इति रूपातिशयस्तासामुक्तः । कटाक्षेक्षणादियोगाच्च भड़या तासामेवाप्सरोभ्यो विशेषो ध्वनितः । निमेषणं निमेषः स्थगर्न तदेव चिन्हं, सह तेन वर्तन्ते इति सनिमेषचिन्हाः ॥ ४२ ॥ यदङ्गनेति । यस्यां पुर्यामङ्गनानां रूपं सौन्दर्यमाकारो वा । 'रूपं स्वभावे सौन्दर्य आकारश्लेषयो- रपि'इति विश्वः । तस्य सरूपतायाः सारूप्याद्भदकं व्यावर्तकं कञ्चिद् गुणं धर्ममिच्छतीभिरपेक्षमाणाभिः । 'आच्छनिद्यार्नुम्' इति विकल्पान्नुमभावः । अप्सरोभिराराधितः प्रार्थितो मनुर्मानुषसृष्टिकर्ता स्वाः स्वकीयाः प्रजाः, निमेषः पक्ष्मपात एव चिह्व व्यावर्तकं तेन सह वर्तन्त इति सनिमेषचिह्नाः। तेन सहेति तुल्ययोगे इति बहुव्रीहिः। चक्रे, अद्धा तत्त्वमित्युत्प्रेक्षा । 'तत्त्वे त्वद्धाऽञ्जसा द्वयोः' इत्यमरः । अत्र स्वाभाविकनिम- षस्याप्सरसः प्रार्थनाहेतुकत्वोत्प्रेक्षया द्वारकाङ्गनानां निमेषमात्रभित्रममानुषं सौन्दर्य वस्तु व्यज्यते ॥ ४२ ॥ स्फुरत्तुषारांशुमरीचिजालैर्विनिर्वृताः स्फाटिकसौधपकोः ।। आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन् ॥ ४३ ।। स्फुरदिति ॥ यस्यां नार्यः स्त्रियः क्षणदासु रात्रिषु नभोगता देव्य इव स्वःस्थदेवता- इव व्यराजन् बभुः, उत्प्रेक्षा । किं कृत्वा स्फाटिकसौधपतीरारुह्य स्फटिकोपलरचितप्रा- सादमाला अधिरुह्य । यतो हावलयः स्फुरत्तुषारांशुमरीचिजालैः उल्लसच्छिशिरकिरण- करनिकरैर्विनिनुता आच्छादिताः सारूप्यादलक्ष्यतां नीताः । श्वेतत्वं प्रापिता इत्यर्थः । इति तद्गुणोऽलङ्कारः । अतश्च हादि न दृश्यते । ताश्च सञ्चरन्त्यो लक्ष्यन्ते । अतो शायन्ते आकाशस्था देवता इति ॥ ४३ ॥ स्फुरदिति ॥ यस्यां पुरि क्षणदासु रात्रिषु नार्यः स्फुरद्रिस्तुषाराशोश्चन्द्रस्य मरीचिजालैश्चन्द्रिकाभिः विनि हनुता अपनुताः । तदेकरूपतापत्रगृह्यमाणा इत्यर्थः । अत एव सामान्यालङ्कारः। 'सामान्यं गु- नसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । स्फाटिकानां स्फटिकविकाराणां सौधानां पङ्कनरारुह्य नभो- गता देव्यो देवाडना इव । देवशब्दस्य पचादिषु देवडिति पाठात् 'टिड्डाणञ्-' इत्यादिना डीप् । व्यरा- जन् । साधानामग्रहणादभ्रदूषत्वात् तत्र लक्ष्यमाणाः मियः खेचर्य इव रेजुरित्यर्थः । अत्र नभोगतत्वोत्प्रे मायाः पूर्वोत्तसामान्यसापेक्षत्वात्सङ्करः ॥ १३ ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षप हऱ्यातलेषु यत्र ॥ उच्चैरधःपातिपयोमुचोऽपि समूहमूहुः पयसां प्रणाल्यः ॥ ४४ ॥ कान्तेति ॥ यत्र प्रणाल्यो द्रोण्यः प्रतिक्षपमनुनिश हऱ्यातलेषु सोधपृष्ठेषु पयसा समूह प्रवाहं जलराशिमूहुः बभ्रुः । कदाचिन्मेघपयः स्यादित्याह-कीदृश्यः प्रणाल्यः अधः- पातिपयोमुचोऽपि अधःप्रसरजलधराः अधःप्रसरज्जलधरा अपि कुत इत्याह-किंभूतेषुहम्येषु .

सर्गः।] शिशुपालवधे। १२३ । चन्द्रकरव्यतिष- उनतेषु । कथं तहि क्षरन्तीत्याह-पुनः किंभूतेषु कान्तेन्दुकान्तोपलकुष्टिमेषु कान्तानां सच्छायानामिन्दुकान्तोपलानां चन्द्रकान्तमणीनां कुटिमेषु कुट्टनेन निवृत्तेषु हऱ्यातलेषु रम्य- चन्द्रकान्तमणिबद्धभूमिषु। तत्र हि भूमिः इन्दुकान्तमणिनिर्मिता । रात्री ङ्गात्ते जलं स्यन्दन्ते । अतश्च तत् प्रणाल्यो बिभ्रति । आर्थश्च शशिकरव्यतिकरः क्षपाग्रह- णेनाक्षिप्तः, अन्यथा न किञ्चित् प्रतिस्फुटमित्यनेनोक्तं स्यात् । हुरिति वहेर्लिट् ॥४४॥ कान्तेति ॥ यत्र पुरि क्षपासु रात्रिषु प्रतिक्षपम् । विभक्त्यर्थेऽव्ययीभावः । कान्तानि रम्याणीन्दुका- न्तोपलाना चन्द्रकान्तमणीनां कुट्टिमानि बद्धभूमया येषु तेषु । 'कुाट्टम बद्धभूमिः स्यात्' इाते हलायुधः । हर्म्यतलेषच्चैरुत्रताः प्रणाल्यो जलमार्गाः । 'द्वयोः प्रणाली पयसः पदव्याम्' इत्यमरः। अध:पातिनोऽध- श्रराः पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः। विरोधालङ्कारः । पयसां समूहं पयःपूरमूहुर्वहन्ति स्म । चन्द्रकान्तनिष्यन्दैरिति भावः । वहेर्लिट् । 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौनत्यपयःपूरासम्बन्धेऽपि तत्सम्बन्धोक यातिशयोक्तिः । रतौ हिया यत्र निशम्य (१)दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः । बिभ्युबिंडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४५ ॥ रताविति ॥ यत्र नगर्यो गृहिण्यः कामिन्योऽधिगृहं गृहेषु वैदूर्यकुड्येषु शशिद्युतिभ्यो बिभ्युः चन्द्रकान्तिभ्यः भीताः, कथंभूताभ्यः जालागताभ्यः गवाक्षविवरं प्रविष्टाभ्यः । यानि वैदूर्यकुड्यानि वैदूर्यभित्तयस्तत्र या गवाक्षप्रविष्टाश्चन्द्रभासस्ताभ्यो बिभयाम्बभूवुः भयं चक्रः । न तु ज्योत्स्नाभ्यो भयम् । कीदृशीभ्यः इत्याह-बिडालेक्षणभीषणाभ्यः इति । वैदूर्य शितिवणं तत्सम्पर्काच्च ज्योत्स्नास्तदाकारत्वमागताः, अतश्च मुग्धत्वात्ता जानन्ते मार्जारनेत्राण्येतानि । अथ किं प्रकाश्यं तत्र नास्ति येन शङ्काकुलास्ता इत्याह- कि कृत्वा दीपानिशम्यापि बिभ्युः । किमिति प्रद्योतिका: शमिता इत्याह कया हिया । लज्जाया अपि किं कारणमित्याह-क रतौ । सुरतसमये हि रमणैः वसनापहाराल्लज्जिताः सत्यस्ताः दीपान् शमयन्ति । अतश्चालोकाभावान्न पदार्थानां सम्यक् ज्ञानम् । प्रशम- य्येत्यत्राथें निशम्येति नोपपद्यते इति शब्दार्थविदः । गृहेष्वधि अधिगृहमित्यव्ययीभावः, तृतीयासप्तम्योर्बहुलम् । बिभ्यरित्याम् विभाषितः । भीषण इति भियः षुक् । शशिधु- तिभ्य इति भीत्रार्थानां भयहेतुः ॥ ४५ ॥ रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रती रतिकाले ह्रिया दीपानिशाम्य निर्वाप्य । शमर्मित्वादम्बादशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रवि. ष्टाभ्यः । 'जालं गवाक्ष आनायः' इति विश्वः । विदूरात्प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः 'वैदूर्य बालवायजम्' इति विश्वः । 'विदूरारुभ्यः' इति व्यत्ययः । अत्र विदूरशन्द। बालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा । तेन बालवायाहिररेसौ प्रभवति न विदूरानगरात् । तत्र तु संस्क्रियन इत्याक्षपः प्र- त्युक्तः। यदुक्तम्- 'बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तरैति चेद् ब्याज्जित्वरीवदुपाचरेत्' । इति। तेषां कुडयेषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्त्या पैङ्गल्याविडालेशणव- द्वीषयन्त इति भीषणाभ्यो भयङ्कराभ्यः । नन्यादित्वात्करि ल्युप्रन्यये टाप् । शाशयुतिभ्यो बि-युर्भीताः (1) निशाम्य ।

१२४ सन्देहविषौषधिसर्वरूपायुते- [ तृतीयः- । मौम्यादिति भावः । बिभतेलिट् । अत्र लज्जावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चो- पत्रमित्यनर्थोत्पत्तिरूपो विषमभेदः । 'विरुद्धकार्यस्योत्पत्तिर्यवानर्थस्य वा भवेत् । विरूपघटना या स्याद्विधमालकृतिर्मता' ।। इति लक्षणात ॥ १५ ॥ यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ॥ चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४६॥ यस्यामिति॥ यस्यां पुरि युवानस्तरुणा गृहेषु वेश्मसु रत्नभित्तीः सजीवचित्रा इव चक्रुः सप्राणालेख्या इव व्यधुः । किंभूता रनभित्तीः प्रतिबिम्बिताङ्गाः प्रतिबिम्बितमङ्ग शरीरं यासां यास वा प्रतिफलितशरीराः । अथ किं मणिकुड्येषु रागो न कृतो येन प्रतिफलितम- ङ्गमित्याह-किं कुर्वन्तः आलेख्यं विधातुमशक्नुवन्तः चित्रं कर्तुमसमर्थाः,कया अतिश्लक्ष्ण- तया अतिमहणतया। रत्नभित्तीनां श्लक्ष्णतया तूलिका पदं न बध्नाति । अतश्च आलेख्यं कर्तुं न शक्यते । ते च प्रतिबिम्बिताः, अतो ज्ञायते सजीव चित्रमाभिः कृतमिति ॥४६॥ यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रान्तमूर्तयः मन्तो रत्नभित्नीः सजीवाचत्राः स. चेतनचित्रवतीरिव चक्ररित्युत्प्रेक्षा ॥ ४६ ॥ सावर्ण्यभाजः प्रतिमागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः(१) ॥ यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पगश्रीः ॥ ४ ॥ सावण्येति ॥ यस्यां कलधौतधामस्तम्भेषु सुवर्णगृहस्थूगेषु तरुण्याः कोलमणि- दर्पणश्रीभेजे स्फटिकादर्शशोभा प्राप्ता। कीदृश्यास्तरुण्याः प्रतिमागतायाः प्रतिबिम्बि- तायाः, तथा सावर्ण्यभाजः कलधौतनैव सदृशवर्णायाः। गौर्या इत्यर्थः । कथं तर्हि त. तुल्यवर्णाः प्रतिफलिता इत्याह-स्मरापाण्डुतया लक्ष्यैः कन्दर्पस्य आसमन्तात्पाण्डुरत्वेन दृश्यैरीक्षितुं शक्यैः । यद्यपि ता गौर्यस्तथापि कपोला: कामवशात् पाण्डुराः, अतो वैव- यात् प्रतिफलिताः सन्तः 'रनादर्शाः काञ्चनस्तम्भेष्वेत कृता' इति ज्ञायन्त इत्यर्थः । स्तम्भेषु हि सर्वत्रमणिमुकुराः क्रियन्ते । केवलो मणिशब्दः प्रायशः स्फटिके वर्तते कपोलैरिति जातौ बहुवचनम् । भेजे इति कर्मणि लकारः, 'तफलेत्यादिना एत्वाभ्या- सलोपो ॥ ४७ ॥ सावण्येति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । 'कलधौत रौप्यहम्नोः' इति वि. स्वः । प्रतिमागतानां प्रतिबिम्बगताना सावर्ण्यभाजाम् । नत्सावर्यादगृहीतभेदानामित्यर्थः । अत एव सा- मान्यालङ्कारः । 'सामान्य गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । अङ्गनाना स्मरापाण्डुत या ल- क्ष्यैः। विभिन्नवर्णत्वा देने गृह्यमाणरित्यर्थः। कपालमणिदर्पणानां स्कटिकमुकुराणां श्रीरिव श्रीभैजे प्राप्ता इति निदर्शना । सा चोक्नसामान्यप्रसादलब्धेति तेनास्याः सदूरः ॥ ४ ॥ शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ॥ यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ ४८ ॥ शुकाङ्गेति ॥ यस्यां पुरि मुग्धाङ्गना मुग्धनार्योऽलिन्देषु प्रघाणेषु गोमयमुखानि (1) सावर्ण्यभाजा प्रतिमागताना लक्ष्यः स्मरापाण्डुतयाऽजनानाम् । । - सर्गः।] शिशुपालवधे। १२५ गोपुरीषानुलेपनानि न विदधुरेव । यतो गृहदेहलीनां भासा लिप्तेषु छुप्तेषु । देहली गृह- स्थानविशेषः, यामतिक्रम्य गृहे प्रविश्यते। यस्या लोके 'न्यास' इति प्रसिद्धिः। अलिन्दस्तु गृहादहिः । गोमुखमनुलेपनम् । कीदृशानां देहलीनां शुकाङ्गमिव ये नीला अश्मानो मा- फताख्यास्तनिर्मितानां रचितानाम् । तत्र हि देहल्यो मरकतमय्यस्तासां नीलया रुचा अलिन्दाः छुरिताः । अतश्चाप्रौढा नार्या जानते कृतमेवात्र गोमयेन लेपनमन्यथा कुतो नीलमिति श्लोकार्थः ॥ ४८ ॥ शुकाङ्गति ॥ यस्यां पुरि मुग्धाङ्गनाः शुकाङ्गवत्रीलोपला नीलमणयः । मरकतानीत्यर्थः । 'उपलः प्र. स्तरे मणौ' इति विश्वः । तनिर्मितानां गृहाणां देहल्यो गृहद्वारशाखाधारदारूणि । 'गृहावग्रहणी देहली' इत्यमरः । तासा भासा लिप्तेष्वालिन्देषु दारबहे गेषु । 'पघाणपघणालिन्दा बाहिरिप्रकोष्ठ के' इत्यमरः । गोः पुरीषं गोमयम् । 'गोश्च पुरीषे' इति मयट् । तस्य गोमुखानि विलग्नानि । 'गोमुखं कुटेलाकारे वाद्यभाण्डे विलपने' इति विश्वः । न चकुरेव । मरकतभायां विलेपनभ्रान्त्येति मावः । अत एव भ्रान्ति- मदलङ्कारः । 'कविसंमतसादृश्याद्वम्त्वन्तरमतिर्हि यत् । स भ्रान्तिमान्' इत्यलङ्काररसर्वस्वकारलक्षणात् ४८ गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ॥ हरिन्मणिश्यामतृणाभिरामैहाणि नी]रिव यत्र रेजुः ॥ ४६॥ गोपानसीविति ॥ यत्र पुरि आलम्बिभिदोघेः चन्द्रकियां बहिणां कलापैहर्वेश्मा- नि रेजुः गृहाणि बभुः, नो]रिवाच्छादनैर्यथा । कीदृशानां मयूराणां गोपानसीषु चन्द्रशा- लिकासु मनाक स्थितानां, कलापैः कीदृग्भिः हरिन्मणिवत् मरकतवत् श्यामानि यानि नृणानि तद्वदभिरामैः मनोहरैः नीलैः इन्द्रनीलतृणरमणीयैः । तीवाण्यपि नीलतृणैः रम्या- णि भवन्ति । वलभी छादनं दारु वक्र गोपानसी विदुः । असितानामिति कर्तरि 'गत्यर्था- कर्मकश्लिषशीस्थासे ति क्तः । गृहशब्दो नार्यादिः ॥ ४९ ॥ गोपानसीविति ॥ यत्र पुरि गृहाणि गोपानसीयु वलभीषु । छादनाधारेषु वंशपञ्जरेग्वित्यर्थः । अत- एवं 'गोपानसी तु वलभी छादने वक्रदारुणि' इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षगमीषत्का- लम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामामीनाना, चन्दकाः । 'समौ चन्द्रकमेचकी' इत्यमरः । तद्ना चन्द्रकिणी मयूराणामालम्बिभिर्लम्बमानैः कलापब: । 'कलापो भूषणे बढे' इत्यमरः । हरिन्मणयो मर- कतानि । 'गारुत्मतं मरकतमश्मगर्भो हरिन्माणः' इत्यमरः । तद्वच्छचामैस्तृणैराभरामाणि । हरिततृण - मयानीत्यर्थः । तेनीधेः पटलप्रान्तैरिव रेजुः । 'वलीकनधेि पटलपान्तेऽथ पटलं छदिः' इत्यमरः। छादन- पर्यायी पटलच्छदी । छयश्चलवाचिनी वलीकनीधे ।छदेराधारो वंशगञ्ज गोपानसीति विवेकः । अत एवं हरितत्वालम्बनादिगुणक्रियानिमित्तत्वात्रीचैरिवति जातस्वरूपोत्यक्षा ॥ ४९ ॥ बृहत्तुलैरप्यतुलैर्वितानमालाऽवन?(१)रपि चाऽवितानैः ॥ रंजे विचित्रैरपि या सचिौगुहैविशालैरपि भूरिशालैः ॥ ५० ॥ वृहदिति ॥ या पू: गृहै।श्मभिः रेजेऽभासत । कीदृशैः बृहत्तुलैर्महास्तम्भैर्महाप- टैर्वा, तथा अतुलैरसदृशैः सर्वोत्कृष्टैः । विरुद्ध चैतत् , यत्र हि बृहत्यस्तुला विद्यन्ते तत्र कथं ता एव न स्युः, न सन्ति चेत्-न तर्हि बृहत्तुलैरिति । सर्वत्रैकार्थोद्भावनेन विरोधः, भिन्नार्थाश्रयेण तु परिहारः । तथा वितानमालावनद्धैः करकराजियुक्तैः उल्लोचराजिसहितः, अवितानैः अशून्यैः । धनिजनपरिपूर्णरित्यर्थः । यत्र वितानाभावः तत्र कथं तयोगः । तथा (१) पिन?०। .. ..

१२६ सन्देहविषौषधिसर्वपायुते- [तृतीयः- .. .. विचित्रः अनेकविच्छित्तिरचितैः सचित्रैः सालेख्यैः। यत्र च चित्रं विगतं, तत्र कथं तदेव भवेत् । यदि वा चित्राभावः, कथं चित्रमिति विरोधः। तथा विशालैः विस्तीर्णैः भूरिणा सुवर्णेन शालन्ते श्लाघन्ते इति भूरिशालैः । यदि वा भूरिशालैः प्रभूतगृहैः। अथ वा सुवर्ण- प्राकारैः । यत्र शाला न सन्ति तत्र कथं ता एव बह्वयः स्युरिति शाब्दो विरोधः । अपिशब्दो विरोधप्रतिपादनार्थः । रेजे इति 'फणां च ससाना मित्येत्वाभ्यासलोपौ ॥५०॥ वृददिति ॥ या पू: बृहत्यस्तुला उपरिस्थाप्यदाधिारभूतानि स्तम्भारपीठानि येषु तेः बृहत्तुलै- स्नथाप्यतुलैस्तदहितैरिति विरोधः । अनुपमैरिन्यविरोधः । 'तुला माने पलशते सादृश्ये राशिभाण्डयोः। गृहाणा दारुबन्धाय पीठ्याम्-' इति हैमः । वितानानामुल्लोचाना मालाभिः पङ्क्तिभः पिनद्धराच्छादितः तथाप्यवितानस्तदहिते- ति विरोधः । अशून्यरित्यविरोधः । मनस्तवस्तुसमृद्धरित्यर्थः । अनी वितानमुल्लोचः' 'वितानं त्रिषु तुच्छकम्' इत्युभयत्राप्यमरः । विचिौरालेख्यरहितैरपि सचिौः तत्सहितैरिति विरोधः । विचिौरद्भुतै- रिति परिहारः । 'आलेख्याश्चर्ययोचित्रम्' इत्यमरः । विगताः शाला गृहकदेशा येषा तानि । 'शाला गृहे तरुस्कन्धे शाखागारैकदेशयोः' इति विश्वः । तेः विशॉलरपि भूरिशालैः प्रचुरगृहकदेशविशिष्टैरिति विरोधः । विशालैः पृथलैरित्यविरोधः । 'विशालं पृथुलं महत्' इत्यमरः । वेः शालच्छटचे।' इति शाल- प्रत्ययः । गृह रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासा विरोधालद्वारः । 'विरोधः सोऽविरोधेऽपि वि- रुद्धत्वेन यद्वचः' इति काव्यप्रकाशलक्षणात् ॥ ५० ॥ चिकंसया कृत्रिमपत्रिपङ्क्तः कपोतपालीषु निकेतनानाम् । मार्जारमप्यानत(१)निश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५१ ॥ चिसयेति ॥ यस्यां पुरि जनो लोको मार्जारमपि कृत्रिममेव मेने तावत् किमपि कृत्रिममेवाज्ञासीत् । किंभूतं निकेतनानां कपोलपालीषु आनतनिश्चलाङ्ग गृहाणां प्रदेश- विशेषेषु आनतं नम्रीभूतं निश्चलमप्रकम्पमग कायो यस्य तम् । छादनस्याधस्तद्धारणार्थ कुटिलानि काष्टानि क्रियन्ते, येषु तक्ष्णा सिंहादयः पक्षिणश्चोत्पाद्यन्ते । सा कपोतपालीति भण्यते । यस्या लोके 'सिंहवाटिकति प्रसिद्धिः । तात्रिकं मार्जारं कस्मालोकः कृत्रिममे- वाऽबोधीत्याह-यतः आनतनिश्चलाङ्गम् । किमर्थमेवंविधमित्याह-कृत्रिमायाः पत्रिपङ्क्तः पक्षिमालायाः चिक्रसया चिक्रमिषया जिघृक्षया । कपोतपाल्यां हि कृत्रिमा पक्षिमालाम- वबुध्यमानेन ह्योतुना जिघांसया जातिस्वभावात् वक्रितं निश्चलीकृतं शरीरम् । अतो जनो जानीत अयमपि कृत्रिम इति वाक्यार्थः। चिक्रसयेति चिक्रसयेति 'स्नुक्रमो रितीडभावश्चिन्त्यः । जिघांसयेति इदानीन्तनः पाठः । करणेन निवृत्तः कृत्रिमः, वित्रः मप नित्यम् ॥ ११ ॥ चिसयति ॥ यस्यां पुरि निकेतनाना वमनाम् । 'वेश्म सद्म निकेतनम्' इत्यमरः । कपोतान पक्षिण: पालयन्तीति कपीतपाल्यो विटद्वापरनामानः स्तम्भाग्रप्रसारिता दारुविशेषाः । 'कतिपालिकाया तु विटङ्क पुनपुंसकम्' इत्यमरः । कर्मण्यणि डीप । तामु कृत्रिमपत्रिणी दारुमयपक्षिणा परकेः। कर्म- णि षष्ठी । चिक्रसया क्रमितुमिच्छया । जिघृक्षयेत्यर्थः । कमेः सन्नन्तात् 'अप्रत्ययात्' इत्यकारप्रत्यये टाप् । 'स्नुक्रमोरनात्मनेपदनिमिने' इतीडागमो न भवति । अत्र क्रमवृत्त्यादिव्यतिरिकार्थेऽपि 'अनुपसर्गा- द्वा' इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवाक्षिकस्य सम्भवात् । आयतमानतं वा निश्चलम यस्य तं माजोर बिडालमपि । 'ओतुर्बिडालो मार्जारः' इत्यमरः । जनः कृत्रिम क्रियानिवृत्तमेव मेने । । (१)मयायत ।

सर्गः।] . शिशुपालवधे। १२७ न तु वास्तवमित्यर्थः । 'ड्वितः क्रिः' 'कर्मम्नित्यम्' इति मप्रत्ययः । अनेन कृत्रिमाकृत्रिमभेदो दुर्ग्रह- इति शिल्पहानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमाकृत्रिमेषु विपरीतमतिवर्ण- नाद् भ्रान्तिमदलङ्कारः ॥ ५१ ॥ क्षितिप्रतिष्ठोऽपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ॥ अतीतनक्षत्रपथानि यत्र प्रासादङ्गाणि मुधा(१)ऽध्यरोहत् ॥ ५२॥ क्षितीति ॥ यत्र कामिनीलोको भूमिस्थोऽपि वदनकमलैः शशिनमधश्चकार जिगाय व्यजेष्ट । विरुद्ध चैतत् , यो हि भूमिस्थः स कथं खस्थमिन्दुमधः कुर्यात् । प्रांशुप्रासादा- रोहणं तर्हि तासामनर्थकम् , अतीतेत्यादि । अतीत उल्लवितो नक्षत्रपथो ज्योतिर्मार्गो यैस्तानि प्रासादशृङ्गाणि हर्म्यशिखराणि मुधा निरर्थकमेबाध्यरोहत् । ऊस्थमिन्दु- मधःस्थो जनोऽधः कृतवान्-शब्दच्छलेन एषोक्तिर्न तु तत्त्वतः । न ह्यसौ चन्द्राधश्चिकी- र्षया सौधान्यारूढः, अपि तु उपभोगेच्छया ॥ १२ ॥ क्षितीति ॥ यस्यां पुरि वधूजनः क्षिती प्रतिष्टा यस्य स भूमिस्थितोऽपि चन्द्रम्। दिवि स्थितमिति भावः । तत्रापि मुखरेवारविन्दैरधश्चकारेति विरोधः । स्वलावण्यमहिम्नाऽधरीचकारेति परिहाराविरोधालङ्कारः । अती- नानि नक्षत्रपथमतीतनक्षत्रपथानि । 'अत्यादयः कान्तायर्थे द्वितीयया' इति समासः । 'द्रिगुप्राप्तापत्रा- इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रामादशङ्गाणि वृथा अभ्यरुशदधिरोहति स्म । अनधिरुह्येवाधःकरणा- दिति भावः । रोहते छ । 'शल इगुपधादनिटः क्सः' इति च्ले क्लादेशः। अधाधःकरणवाक्यार्थस्य प्लेषविरोधोपजीव्यधैयर्थे हेतुत्वात्सवीर्णः काव्यलिङ्गभेदः ॥ ५२ ॥ रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः॥ यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५३॥ रम्या इति ॥ यस्यां द्वारका तरुणा वधूभिः समं कान्तासहाया वलभीरुपरि वसतीभेजिरे। कीदृशीः रम्या इति रम्यत्वात् वैजयन्तीः प्राप्ताः, तथा विविक्ता इति अनु- पहतत्वात् निर्जनत्वात् रागं कामं चित्रार्थ वा मनःशिलासिन्दूरादिकं वर्धयन्तीः । शोभने हि स्थानेऽसकृद् बहुविचित्रं क्रियते । तथा नमत् कुटिलं वलीकं छादनान्तो यासु । इति- शब्दावत्र हेत्वर्थो । अथ चवधूभिः समं वलभी जिरे वधूरपि सिपविरे इत्यर्थान्तरप्रतीतिः । कीदृशीः यतो रम्या इति एवं पताकां कीर्ति प्राप्तवती: । पताका नाटकायंशे ध्वजे सौ- भाग्यचिह्नयोः। इतिशब्दः स्वरूपनिर्देशे। तथा विविक्ता रूपवेषान्विता इति राग- मुत्कण्ठा वर्धयन्तीः, तथा नमन्त्यो निम्ना वलयो मध्यरेखा यासां ता नमवलीकाः । 'नवृतश्चेति कप् । अर्थवशाद्विभक्तिविपरिणामः ॥ १३ ॥ रम्या इति ॥ यस्या पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवती । उत्क्षिप्तध्वजा- इत्यर्थः। अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः। 'पताका वैजयन्त्या च सौभा- ग्ये ध्वजेऽपि च', 'इति हेतौ प्रकरणे प्रकारादिसमातिषु' इत्युभयत्रापि विश्वः । विविका विजना विमलाश्च इति हेतो रागं वर्धयन्तीः। 'विविक्ती पूतविजनौ' इत्युभयत्राप्यमरः । नमवलीका नमनीयाः । 'वलीकनीधे पटलपान्ते' इत्यमरः। अन्यत्र नमन्त्यो वल्यमिवल्याख्या मध्यरेखा यासा ता नमवलीकाः। 'नवृतश्च' इति कष्पत्ययः । 'वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु' इति वैजयन्ती। वलभीः कूटागाराणि । 'कूटा. गारं तु बलभी' इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः। अप वधूना बलभीनां च प्रकृतानामेव धर्मसाधय॑णौपम्यावगमान्केवलप्रकृतगोचरा तुल्ययोगिता, न श्लेषः। तत्र विशेष्यस्यापि लिष्ट- . (१) वृथाध्यक्षत।

१२८ सन्देहविषौषधिसर्वकषायुते- [तृतीयः- - । । त्वनियमात् । यथाहु:- 'प्रस्तुताना तथान्येषां केवलं तुल्यधर्मतः। औपम्यं गम्यते यत्र सा मता तुल्ययोगिता' ॥ इति ॥ ५३ ॥ सुगन्धितामप्रतियत्नपूर्वीं बिभ्रन्ति यत्र प्रमदाय पुंसाम् ॥ मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमोयुः ।। ५४ ॥ सुगन्धितामिति ॥ यत्र मधूनि मयमै रेयादीनि युवतीनां च मुखानि आमोदकर्मणो विभावनक्रियाया व्यतिहार विनिमयमीयुः जग्मुः । वक्त्रैर्मधूनां मधूमिश्च वक्त्राणां सौग- न्ध्यं यताधिकं कृतमित्यर्थः । कीशि तानि प्रियाणां प्रोत्यै अप्रतियत्नपूर्वा स्वाभाविकी सुगन्धितां सौरभ बिभ्रन्ति वहमानानि इत्युभयविशेषणम् । असतो गुणान्तरस्योपादनं प्र- तियत्नः । बिभ्रन्तीति शतृ, जसः शि 'वा नपुंसकस्य' इति नुम् । ईयुरिति इणो लिट् । 'ग- न्धस्येदुत्पूतिससरभिभ्यः' इति सुगन्धिता ॥ १४ ॥ सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृषिमाम् । स्वाभाविकीमित्यर्थः । 'प्रतियत्नम्तु संस्कारः' इति वैजयन्ती । शोभनो गन्धो येषां तेषां भाव स्तना ना सुगन्धिता सौरभ्यम् । 'गन्धस्येत्-' इतकारः । बिभ्रन्ति बिभ्रगानि । 'वा नपुंमकस्य' इति नुमागमः । मधूनि मद्यानि कामिनीनां वक्त्राणि च यूनां प्रमदाय प्रीत्यै आमोदकमण! वासनाधानस्य व्यतिहारं परस्प- रकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिट् । अत्रापि मधूना वक्त्राणां च प्रकृत. त्वानपूर्वक एव तुल्ययोगिताभेदः। तेन यूना मधुवासितवधूवदनपानं वदनवासितगण्डूषपानं च वस्तु व्य- ज्यते । तेन च निरातभोगाः पौरा इति गम्यते ॥ ५५ ॥ रतान्तरे यत्र गृहान्तरेषु वितर्दिनियूहविटङ्कनीडः ॥ रुतानि शृण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥१५॥ रतान्तर इति ॥ यत् वयसां पक्षिणां शुक्रसारिकादीनां वृन्द स्फुटमखाई कामिनी- नामन्तेवासित्वं शिष्यतामाप लेभे । यतो रतान्तरे निधुवनावसरे रुतानि सीत्कारादीनि आकर्णयन् , तथा गृहमध्ये या वितईयो वेदिकास्तासां यो निर्यहो निर्गतो दारुविशेषस्त- स्य यो विटङ्क उन्नतो भागः अग्रभागः स एव तत्र वा नीडमालयो यस्य । गृहे स्थित- इत्यर्थः । यो हि शिष्यः स उपाध्यायात् शृणोति तद्गृहे च व सति । श्रुवः शृ च । मुख- मन्ते वसतीत्यवश्यम्, अन्तेवासी शिष्यः । आवश्यकाधमर्ययोणिनिः शयवासवासिष्व- काला दिति डेरलुक् ॥ ५५ ॥ रतान्तरे इति ।। यत्र पुरि गृहान्तरेषु वितर्दयो विहारवेदिकाः। 'स्याद्रितर्दिस्तु वेदिका' इत्यमरः । नासा निर्मूहा मत्नवारणाख्या अपाश्रयाः । 'नियूहो मनवारणः' इति वैजयन्ती । तेषां विटङ्का उपरितन्यः कपोतपालिका:त एवं नीडाः कुलाया यस्य सः। 'कुलायो नीडममियाम्' इत्यमरः । वयता शुक्रसारि- कादिपत्रिणा गणः । 'वयः पक्षिाणि बाल्याद' इति विश्वः । अङ्गानानाम् । वितर्दिषु रममाणानामिति भावः । रतान्तरे रुनानि रतिकूजितानि शवन्, अन्ते समीपे वसन्त इत्यन्तेवासिनः शिष्याः। 'छात्रान्ते- वासिनी शिष्ये' इत्यमरः । 'शयवासवासिष्वकालात्' इत्यलुक् । तेषां भावस्तत्वमाप । समीपे प्रतिशन्द यथाश्रुतमुच्चारणादेवमुत्प्रेक्ष्यते । अत एव स्फुटमिति व्यञ्जकप्रयोगः ॥ ५५ ॥ छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ॥ आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५६ ॥ ।

सर्गः।] शिशुपालवधे। १२६ छमेष्वपीति ॥ यत्राङ्गनास्तनभारेषु यान्यम्बराणि वासांसि तानि न केवलं नाम्ना मामतो गगनसादृश्यं दधुः, यावदर्थतः कार्यतोऽपि कायेंणापि दधिरे । यतः सूक्ष्माणि स्वच्छानि, अत एव छादितेष्वपि अम्बरैः कुचेषु प्रकटतरेषु । आकाशेनाप्यावृतं वस्तु ना- ऽपिधीयते, शून्यत्वात्तस्य । छन्नशब्दो 'वादान्तशान्तेत्यादिना तान्तो निपातितः ॥१६॥ छत्रेष्विति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । 'वा दान्त-' इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकान्यम्बराणि वमाणि केवलं नामतोऽम्बरमिति नाम्नवाकाशसाम्यं न दधुः । 'अम्बरं व्योम्नि वाससि' इति विश्वः । किन्त्वर्थ- तोऽप्यर्थक्रिययापि तत्साम्यं दधुः । स्वयमतिसूक्ष्मत्वादव्यवधायकत्वं दृष्ट्यादेर्मूर्नान्तरङ्गत्वविघातित्वं चेत्या- दिनापि साम्यं दधुरित्यर्थः । उपमालङ्कारः ॥ ५६ ॥ यस्यामजिला महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ॥ जनैरजातस्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः॥ ५७॥ यस्यामिति ॥ यस्यां जनैः वास्तव्यलोकैरुभयेऽपि विनीतमार्गाः सदाचारराजपथाः जातु कदाचिदपि नामुच्यन्त न मुक्ताः । इदानीं तयोः साम्यम्-विनीतमार्गास्तावत्की- हशाः अजिमा अवक्रचेष्टाः। धा इत्यर्थः । हट्टमार्गा अप्यजिह्माः सरलाः । प्राकारवेश्म- रथ्यारहिता इत्यर्थः । विनयमार्गा महती सीमानं मर्यादां विस्तारं न जहति, अत एवा- ऽपङ्का निष्कर्दमाः। सङ्कटे हि पथि पङ्कः पदं बध्नाति । सत्पथाः अत्यायतयः शोभना आयतिः आगामिकालो येषां तेः अत्यायतयः । शोभना राजमार्गा अपि आयतिः आयामो येषां ते अत्यायतयः दीर्घदीर्घाः । जनैः कीदृशैः अजातं स्खलनं निवृत्तिरुपघातो येषां हैं: : । सदाचाराऽत्यागिभिः सदा चरणाऽत्यागिभिश्चत्यर्थः । द्वावयवी येषामिति द्वये । बहुत्वेऽपि राश्यपेक्षं द्वित्वं, द्वित्रिभ्यां तयाऽयौ। अमुच्यन्तेति कर्मणि लिङ् ॥२७॥ यस्थामति ॥ यस्यां पुरि अजिमा अवकाः, अन्यत्राकपटाः । दम्भादिरहिता इत्यर्थः । 'आचर- सदृशी वृत्तिमजिनामशठा तथा' इति स्मरणादिति भावः । 'जिमः कपटवक्रयोः' इति विश्वः । अपङ्काः कर्दमरहिताः निष्पापाश्च । 'पडोऽघे कर्दमे' इति हैमः । महती सीमानं राजकल्पितक्षेत्रमानमर्यादा कुला- गतानुष्ठानस्थिति चात्यजन्तः। अत्यनमहामयार्दा इत्यर्थः । अतिमात्रा आयतिरायामः उत्तरकालश्च येषां ते अन्यायतयः । 'आयतिस्तूनरे काले संयमाऽऽयामयोरपि' इति विश्वः। द्वये विरूपा अपि । 'प्रथम- चरमतया-' इत्यादिना जसि विभाषया सर्वनामसंज्ञा । विनीतमार्गाः सुरचितपुरवीथयः सुशिक्षिताचार. पद्धतयश्च न जातं स्खलनं पाषाणादिप्रतिघातो विरुद्धाचरणं च येषां तैर्जनजातु कदाचिदपि नामुच्यन्त न त्यकाः। न कदाचित्खिलीकृता इत्यर्थः। अत्र मार्गशब्दस्य साधा देकवृन्तावलम्बिफलयवदेकशब्दे- नार्थद्वयप्रतीतेः, इयानामपि मार्गाणां प्रकृतत्वाच केवलप्रकृतविषयोऽर्थश्लेषः। विशेष्यस्यापि श्लिष्टत्वान तुल्ययोगिता ॥ ५७ ॥ परस्परस्पधिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।। श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमल ममाज ॥ ५८ ॥ परस्परेति ॥ यत्र यस्यां नगर्या पौरस्त्रियो नागरिकनायिकाः विधाय निष्पाच वेधा ब्रह्मा श्रीनिर्मितिप्राप्तधुणक्षतैकवर्णोपमावाच्यमलं ममार्ज अक्षालयत् । एकश्चासौं वर्णोऽक्षरमेकवर्णः घुणेन प्राणिविशेषेण क्षत उल्लिखितो घुणक्षतः घुणक्षतश्चासौ एकवर्णश्च धुणक्षतैकवर्णः तेन सह उपमानं साम्यकरणं तदुपमा, श्रीनिमित्या प्राप्ता श्रीनिर्मितिप्राप्ता . .. .. .

१३० सन्देहविषौषधिसर्वपायुते- [ तृतीयः- चासौ घुणक्षतैकवर्णोपमा च श्रीनिर्मितप्राप्तघणक्षतैकवर्णोपमा तया वाच्यमयशः तदेव मलं कलङ्कः तं ममार्ज अनीनशत् । केचित् घृणक्षतैकवर्णोपमावाच्यं तदल सुष्टु अत्यर्थ ममार्ज । वेधसो हि नित्यमेव लोके वाच्यता-यत् शोभनं वस्तु निर्मातुमयं न समर्थः । या तु श्रीः सा घुणाक्षरन्यायेन । घुणोऽपि काष्ठमुल्लिखन् कदाचिदेकं वर्ण निष्पादयति । श्रीनिर्माणेन प्राप्तां घुणाक्षरोपमां सकलनगरवनितारूपविधानात् ममार्जेत्यर्थः । किंभूताः स्त्रियः परस्परस्पर्धिपरार्ध्यरूपा अन्योन्यस्पर्धाशीलोत्कृष्टरूपाः । परस्परस्पर्धान्यहमहमिक- याऽन्योन्यसङघर्षाणि पराानि रूपाणि यासां ताः । तदा हि न कश्चित् घृणाक्षरन्यायमु- ग्राहयति, सर्वासां सुरूपत्वात् । पराय॑ ब्रुवते श्रेष्टम् । अर्धाद्यत् , परावराधमोत्तमपू- र्वाच्च । निर्मितिरित्युपसर्गप्रतिरूपको निपातो निःशब्द इत्यद्रव्या कृतिः ॥ ५८ ॥ परस्परेति ॥ यत्र पुरि परस्परस्पर्धाम्यहमहमिकयान्योन्यसामर्षाणि पराानि श्रेष्ठानि रूपाणि सौन्द- र्याणि यास ताः । 'रूपं स्वरूपे सौन्दर्ये' इति विश्वः । पुरे भवाः पौरास्ताः खियः पौरमियः । 'मियाः पुंवत्-' इत्यादिना पुंवद्भावः । विधाय निर्माय वेधाः स्रष्टा श्रिया लक्ष्मीदव्याः निर्मित्या निर्माणेन प्राप्तं यत् घुणेन वजकीटेन क्षतस्योत्कीर्णस्यैकवर्णस्योपमया साम्येन वाच्यमपवादः तदलमत्यन्तम् । तदेव मलमिति केचित् । ममाज । घुणाक्षरवद्यादृच्छिकमिदं श्रीदेवतासौन्दर्यशिल्पं न कौशलमित्ययशः क्षालितवानित्यर्थः । अनया चातिशयोक्त्या पौरमीणां रमासमान सौन्दर्य वस्तु व्यज्यते ॥ ५८ ॥ क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदैव ॥ अध्यूषुषस्तामभवञ्जनस्य याः सम्पदस्ता मनसोऽप्यभूमिः(१) ॥१६॥ क्षुगणमिति ॥ कल्पोपपदा वृक्षास्तदेव फलन्ति यत् अन्तःकरणेन क्षुण्णमभिवा- छितम् । मनसा पर्यालोचितमेवार्थ दिशन्ति न त्वधिकम् । कल्पशब्द उपपदे पूर्वे येषां ते। कल्पवृक्षा इत्यर्थः । अपरं तांपुरीमध्यपुषः अधिवसतः जनस्य याः सम्पदो लक्ष्म्योऽभ- वन् ता मनसोऽपि चित्तस्यापि अभूमिः अविषयाः, मनोरथानामप्यगोचराः । प्रार्थिताद- धिकं यत्र घटते मनसाऽप्यभिलषितुं न शक्यते इति भावः । अध्यूपुष इति अधिवसतः क्वसुः । तामिति 'उपान्वध्यावस'इत्याधारस्य कर्मत्वम् ॥ ५९॥ तुण्णमिति ॥ यदन्तःकरणेन क्षुण्णमभ्यस्तम्। ममेदं भूयादिति भूयोभूयः सङ्कल्पितमित्यर्थः । कल्पयन्ति सङ्कल्पितार्थानिति कल्पाः, कल्ण इत्युपपदं व्यावर्तकं येषां ते कल्पोपपदा वृक्षाः कल्पवृक्षाः नदेव फलन्ति निष्पादयन्ति । 'कल निष्पत्ती' इति धातोर्लट् । कुतः-यां पुरमभ्यूषुषो यस्यामुषितवतः 'उगा- वथ्याङ्वसः' इति कर्मत्वम् । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः । जनस्य याः सम्पदोऽभवन् ता मन- मोऽध्यगम्याः । वाचामभूभय इति किमु वक्तव्यमिति भावः । गृहे गृह कल्पवृक्षसम्बन्धातिशयोक्त्या पाराणां दैवन्द्रभोगो व्यज्यते । इह कल्प इत्युपपद स्वसं शैकदेशो येषामिति व्याख्याने हिरण्यपूर्व कशिपु- मित्यादिवदवाच्यवचनदोषावकाशः ॥ ५९ ॥ कला दधानः सकलाः स्वभाभिरुद्रासयन् सौघसिताभिराशाः ॥ यां रेवतीजानिरियष हातुं न रौहिणेयोन च रोहिणीशः ॥ ६ ॥ कला इति ॥ रोहिणेयो हलधरो रोहिणीशश्च यां द्वारका हातुं परित्यक्तु न इयेष न चकर्म । शौरिताराधिपौ यत्रोषतुरित्यर्थः । तयोरधुना श्लेषः-शौरिः कला गीतवाचादिकाः सकलाश्चतुःषष्टिसंख्या विनत्, चन्द्रस्तु कला लेखाः सकलाः षोडशापि। किंभूतः शौरिः चन्द्रश्च सौधसिताभिः स्वभामिः आशाः उद्भासयन् । सितत्वाच्चोभावपि धवलगृहधव- (१) प्यगम्याः।

सर्गः।]
शिशुपालवधे।
।
लाभिरात्मीयरुचिभिर्दिशो दीपयन्तौ । रेवती ककुणिकन्या तारा च ते जाये ययोः तौ
रेवतीजानी । जायाया निङ् । रोहिण्या अपत्यं रौहिणेयो हलधरः । स्त्रीभ्यो ढक् । रोहि-
ण्या स्ताराया ईशो भर्ता मृगाकः ॥ ६ ॥
कला इति ॥ सकला: समग्राः कलाश्चतुःषष्टिविद्याः षोडशभागांश्च दधानः । 'कला शिल्प कालभेदे'
इति, 'कला तु षोडशो भागः' इति चामरः । सुधयाऽवलितं सौधं तद्वसिताभिः स्वभाभिराशा दिश-
उदासयन् रेवती ककुमिकन्या पूषकं भं च जाया यस्य स रवतीजानिः । 'जायाया निङ्' इति समामान्तो
निडादेशः। 'लोपो ब्योर्वलि' इति यलोपः। रोहिण्या अपत्यं पुमानरौहिणेयो बलभद्रः । स्त्रीभ्यो ढक् ।
या पुरी हातुं त्यक्तुं न इयेष नेच्छात स्म । लिट् । रोहिणीशश्चन्द्रश्च हातुं न इयेष । अत्र रौहिणेयरोहि-
णीशयोः परोत्कर्षावहत्वेन द्वयोः प्रकृतत्वाद्विशेष्यस्याश्लिष्टत्वाच्च कवलप्रकृतविषया तुल्ययोगिता ।गतमन्यत् ॥
बाणाहवव्याहतशम्भुशक्तरासत्तिमासाद्य जनार्दनस्य ॥
शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥ ६१ ॥
बाणाहवेति ॥ यत्र यस्यां नगर्या मकरध्वजेन कन्दपेण निःशङ्क निर्भयं यथा
भवति एवमूषे उषितम् । किंभूतेन मकरध्वजेन शरीरिणा मूर्तिमता पुनः किंभूतेन जैत्रशरण
जैत्रा जिष्णवो क्शकारिणः शरा यस्य तेन अमोघबाणप्रसरेण । ननु हरादस्य भयेन
भवितव्यमित्याह-किं कृत्वा जनार्दनस्य आसत्तिमासाद्य समीपं प्राप्य, किम्भूतस्य
बाणाहवव्याहता बाणासुरसग्रामनिवर्तिता शम्भोः शक्तिर्बलं येन तस्य बाणासुरसङ्ग्रा-
मस्खलितरुद्रप्रभावस्य । अत एव निःशङ्कम् । आहूयतेऽस्मिन्नित्याहवः 'आङि युद्धे' इति
सम्प्रसारणम्, अप्प्रत्ययश्च । जैत्रेति जयतेष्ट्रः । ऊषे इति भावे लकारः ॥ ६१ ॥
बाणाहवेति ॥ यत्र पुरि बाणाहवे बाणासुरयुद्ध व्याहता क्षयं नीता शम्भुशक्तिर्येन तस्य हर.
विजयिनो जनार्दनस्य कृष्णस्यासतिं प्रत्यासत्तिमासाद्य । पुत्रत्वं प्राप्येत्यर्थः । शरीरिणा विग्रहवता । न त्वन-
ड्रेनेति भावः । जेतार एव जैत्रा जयशीलाः । तृनन्तात्प्रज्ञादित्वादण्प्रत्ययः । ते शरा यस्य तेन मकरध्व.
जेन कामेन । प्रद्युम्नरूपेणेति भावः । निःशहूनि कमूषे उषितम् । वस निवासे, भावे लिट् । 'वचि-
स्वपि-' इत्यादिना सम्प्रसारणम् । 'शङ्का वितर्कभययोः' इति विश्वः । अब शम्भुशक्तिव्याघातपदार्थस्य
विशेषणगत्या निःशङ्कनिवासहेतुत्वोक्तः काव्यलिङ्गभेदः। पुरा किल भगवान्भक्तवत्सलो धूर्जटिर्बाणप्रेम्णा
. बाणाभियोधिनं हरिमभियुज्य निर्जित इति पौराणिकाः कथयन्ति ॥ ६ ॥
निषेव्यमाणेन शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय ॥
उद्रश्मिरत्नाकुरधाग्नि सिन्धावाहास्त मेरावमरावती या ॥ ६२ ॥
निषेव्यमाणेनेति ॥ या नगरी अमरावतीमाह्वास्त स्पर्धया स्वर्गपुरीमाहूतवती ।
इन्द्रपुरी स्पर्धापूर्वमाकारयदित्यर्थः । किंभूता द्वारका सिन्धौ समुद्रे , वर्तमाना, किंभूता-
ममरावती मेरो मेरुपर्वते वर्तमानाम् । आह्वास्तेति 'स्पर्धायामाङ इत्यात्मनेपदं, च्ले:
सिच् 'आत्पनेपदेष्वन्यरस्या'मित्यङ् विकल्पतः । इदानीं श्लेषः-द्वारका कीदृशी हरिणा
कृष्णेन अध्यास्यमाना चिराय अजस्त्रमुपभुज्यमाना सेव्यमाना, किम्भूतेन शिवैरेकादशभिः
रुदैर्मरुद्भिर्देवैः सेव्यमानेन । किम्भूते सिन्धौ मेरौ च उद्रश्मिरत्नाङकुरधाम्नि उदश्मय-
उर्ध्वकिरणाः ये रत्नाकुरा मणिशलाकास्तेषां धाम स्थानम् । अमरा देवा विद्यन्ते यस्या
मित्यमरावती, 'मतौ बहवोऽनजिरादीना मिति दीर्घः ॥ ६२ ॥

१३२ सन्देहविषौषधिसर्वपायुते- [ तृतीयः- निषेध्यमाणेनेति ॥ शिवैर्मरुद्भिर्मन्दमारुतः, अन्यत्र शिव रुदैः मरुद्भिः मरुणैश चिराय निषेध्यमाणेन हरिणा श्रीकृष्णेन शक्रेण चाध्यास्थमाना अधिष्ठीयमाना उद्रश्मीना रत्ना कुराणां धाम्नि स्थाने । एकत्र रत्नाकरत्वादन्यत्र रत्नसानुत्वाचेति भावः । सिन्धौ स्थितेति शेषः। या पूर्मेरौ स्थिताम्, अमरा यस्यां मन्ती- न्यमरावतीमिन्द्रनगरीम् । 'मती बहुचोऽनजिरा-' इति दोघः । संज्ञायाम् 'मादुपधायाश्च-' इति चत्वम् । अह्वास्त स्पर्धयाऽऽहूतक्ती। अमरावतामनुचकारत्यर्थः । यतेला 'स्पर्धायामाः' इत्यात्मनेपदम् । 'लिपि मिचि हस' इति 'आत्मनेपदेष्वन्यतरस्याम्' इति च्लरङभावपक्षे सिजादेशः । अत्र प्रथमार्षे श्लेषेऽपि सिन्धौ मेरौ स्थितेति प्रतिबिम्बाभावेन साधयों के श्लेषानुपाणितेयमुपमेति सङ्केयः । आह्वास्तेति सादृश्यप्रतिपादकः शब्दः । स्पर्धते हयते द्वेष्टीत्यनुशासनात् ॥ ६२ ॥ स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाऽध्वंसितवर्णकान्तेः॥ विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकोतिलकः स एव ॥३॥ स्निग्धेति ॥ स एव त्रिलोकोतिलकत्रिभुवनचूडामणिः वासुदेवो यस्याः नगर्याः श्रियं शोभा लक्ष्मी च विशिशेष अधिकां चकार । क इव कस्याः श्रियं विशेषयति, यतो ऽसौ विशेषको वा तिलकतुल्यः । वाशब्द इवार्थे । कस्या इव वध्वा इव । यथा विशेषक: तिलकं कस्याश्चित् वध्वाः स्त्रियः श्रियं विशेषयति । किंभूतो हरिः स्निग्धाञ्जनश्मामरुचिः स्निग्धस्याऽरूक्षस्य अञ्जनस्येव कज्जलस्येव श्यामा कृष्णा रुचिः कान्तिर्यस्य सः तैलाभ्य- क्तकज्जलवत् श्यामकान्तिः, तथा सुवृत्तः सदाचारः । पुर्याः कीदृश्या अध्र्वसिता असडी- की वर्णानां ब्राह्मणक्षत्रियविटशूद्राणां कान्तिः शोभा यस्यामिति तद्धर्मानयने द्रव्याक्षेपः । वध्वा इव वधूतुल्यायाः । विशेषकः कीदृक् कस्तूरिकादिद्रव्यरचनात् कालाजनेन वा श्या- मशोभः सुवृत्त: वर्तुलाकारः परिणाही भूषां विशेषयत्येवं स तस्या विशेषकः । वध्वाः की- दृश्याः अर्ध्वसितवर्णकन्तेः अनष्टरूपशोभायाः । नगरीपक्षे निजतेजोयुक्ताश्चतुर्वर्णा जना यस्यामित्यर्थः । त्रिलोकीतिलक इति तिलकशब्दस्य प्रशंसार्थत्वान्नाधिक्यदोषः । यथा- तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ इतीन्दुशब्दस्य । यथा च- स्तनस्तबकपर्यन्तन्यस्तहस्तकपल्लवा । लतेवाकृष्टमुक्तान्या चकम्पे प्रमदालता ॥ इति लताशब्दस्य । त्रयाणां लोकानां समाहारस्त्रिलोकी । अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते, इति 'द्विगोरिति डीप ॥ ६३ ॥ स्निग्धेति ॥ स्निग्धं यदञ्जनं तद्रनेन च श्यामरुचिः सुवृत्तः सद्वृत्तिः वर्तुलश्च । प्रयाणां लोकाना ममाहारमिलोकी । 'तद्धितार्थ-' इत्यादिना ममासः । 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञा । 'आकारान्तो- दरपदो द्विगुः मियामिष्यते' इति भीत्वे 'द्विगोः' इति की। तम्या स्तिलको भूषणभूतः स हरि रेव, विशे- बको वा । तिलक इवेत्यर्थः । 'इववहा यथाशब्दा' इत्यनुसाशनात् । 'तमालपत्रातिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न खियाम्' ॥ इत्यमरः । अध्यमिता वर्णानां ब्राह्मणादीना कान्तिरौज्ज्वल्यं यस्यास्तस्याः पुरः, अन्यत्रासितो वर्णो गौरादिः कान्तिावण्यं च यस्यास्तस्याः । 'वर्णो द्विजादौ शुक्लादी' इत्युभयत्राप्यमरः । वध्या इस वियं विशिशेष विशेषितवान् । अनेकशब्देयमुप मेत्येकं । शब्दमात्रसादृश्याच्छ्लेष इत्यन्ये । श्लेषोपमेत्याह दण्डोर सर्गः ।] .. •. शिशुपालवधे। १३३ तामीक्षमाणः स पुरं पुरस्तात्प्रापत् प्रतोलीमतुलप्रतापः ॥ वनप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलच्या ॥ ६४ ॥ तामिति ॥ सः श्रीकृष्णः पुरस्तात् अग्रे वर्तमानां प्रतोली प्रापत् आससाद । कि कुर्वाणः तां पुरं द्वारवतीमोक्षमाणः अवलोकमानः, किंभूतः अतुलप्रतापः अपरिनिर्मित- वीर्यः, तां कां या पुरी परैः शत्रुभिरलङध्या जेतुमशक्या, किंभूता वज्रप्रभोद्भासिपुरायुध- श्रीः वज्रो मणिभेदस्तस्य प्रभा तयाऽऽक्रान्ता सुरायुधस्येन्द्रधनुषः श्रीः शोभा यया। अत- एव देवसेनेव देवसेनातुल्या । यथा देवचमूः परैः शत्रुभिरलध्या, तस्यामपि वज्रस्य पवेः प्रभया सुरायुधानां देवहेतीनां श्रीराक्रान्ता अभिभूता भवति ॥ ६४ ॥ तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोकां पुरमीक्षमाणः पुरस्तात्पूर्वस्यां दिशि । सप्तम्यर्थे तसिल् प्रत्ययः । प्रतोली रथ्याम् । 'रथ्या प्रतोली विशिखा' इत्यमरः । प्रापत्प्राप्तवान् । लुङि 'पुषादि इत्यादिना च्लेरङादेशः । वजाणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्रासिनी सुरायुधश्रीरिन्द्र- चापलक्ष्मीर्यस्यां स। । इह वनग्रहण मणिमात्रोपलक्षणम् , अन्यथन्मायुधासाम्यादिति भावः । अन्यत्र वजस्य कुलिशस्य प्रभाभिरुद्रासिनी सुरायुधानामितरदेवतायुधानां श्रीर्यस्याः मा। 'वनोऽत्री हीरके पवे. इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलङ्घया दुष्प्रवर्या ॥ ६४ ॥ प्रजा इवाङ्गादरविन्दनाभेः शम्भोर्जटाजूटतटादिवापः ॥ मुखादिवाऽथ श्रुतयो विधातुः पुरानिरीयुमधुजि(१)द्धजिन्यः ॥६५॥ प्रजा इति ॥ अथ क्रमेण पुरात् नारात् मधुजिद्ध्वजिन्यो माधवपृतना निरीयुः निसस्रः । का इव कुत इत्याह-अरविन्दनाभेः पद्मनाभस्य शरीरात् प्रजा इव भूतानीव इति बाहुल्योक्तिः । अपरं का इव शम्भोर्जटाजूटतटात् आप इव यथा शम्भोर्हरस्य जटाबन्धप्रदेशात् आपो गङ्गाजलानि निरीयुः इतिकलकलोक्तिः। पुनः का इव विधा- तुर्मुखात् श्रुतय इव यथा विरिञ्चिवदनात् श्रुतयो वेदाश्चत्वारो निरीयुः। विरञ्चिवदनाच्च- तुर्वेदा इवेत्यविनश्वरोक्तिः । स्नानभस्मादिरूक्षकेशा जटास्तासां जूटो बन्धविशेषः स एव तटो रोधः । तटाद्धि जलानि निक्रामन्ति ॥ ६५ ॥ प्रजा इति ॥ अरविन्दनाभेर्विष्णोरङ्गात्प्रजा इव । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेरिति भावः । शम्भोजटाजूटतटादाप इव गङ्गाजलानीव विधातुर्मुखा ॥च्छुनुय इव मुरजितो हरेलजिन्यः सेना: पुराविरीयुनिर्गताः । मालोपमेयम् ॥ ६५ ॥ शिलाद्भरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः॥ परस्परात्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः ॥ ६६ ।। श्लिष्यद्भिरिति ॥ अश्ववारा: सादिनो दुःखेन क्लेशेन निश्चक्रमुनिष्क्रान्ताः । कि- भूताः विलोलेः आकुलैर्हरिभिरश्वैः करणभूतैः परस्परोत्पीडितजानुभागाः आकुलत्वा- दन्योन्यस्योत्पीडिता निखिलीकृता जानुभागा येषाम् । विलोलत्वमेव कुत इत्याह-किंभू- तैरश्वैः अन्योन्यमुखाग्रसङ्गस्खलत्रवलीनं यथा भवत्येवं शिलप्यद्भिः मिलनिः अन्योन्यस्य इतरेतरस्य यो मुखाग्रसङ्गस्तुण्डव्यतिकरस्तेन स्खलन्ति खलीनानि कविकाः यत्र श्लेषे इति जातिबन्धः ॥ ६६ ॥ श्लिष्यविरिति ॥ अन्योन्येषां मुखामेषु सङ्गेन स्खलन्नः खलीनाः कविका यस्मिन्कर्मणि तयथा (१) ०र्मुरजि०। १२ शि०व० ..

१३४ सन्देहविषौषधिसर्वकषायुते [ तृतीयः- तथा । 'कविका तु खलीनोऽस्त्री' इत्यमरः । श्लिष्याटि: सघृष्यद्भिर्विलोलैः मुहुरुचलर्हिरिभिस्तुरङ्गैः • करणैः । अश्वान्वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक- मुनिर्जग्मुः । अत्र स्वभावोक्त्यतिशयोक्तः सङ्करः ॥ ६६ ॥ निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ॥ तेजोमहद्भिस्तमसेव दीपैद्विपैरसम्बाधमयाम्बभूवे ॥ ६७ ॥ निरन्तराले इति॥ द्विपैर्हस्तिभिर्निरन्तरालेऽपि सङ्कटेऽपि पथि मागें असम्बाधमस- ङ्कटं सुखेन अयाम्बभूवे जग्मे अगामि । भावे लकारः, 'दयायासश्चेति अयआम् । ननु नि- रुच्छ्वासेऽपि पथि कथं विरलं गम्यते इत्याह-किंभूने पथि प्राणभृतां गणेन प्राणिसमूहेन दूर दूरात निरन्तरभयेन त्यज्यमाने, किंभूतैः द्विपैः तेजोमहद्भिः । तेजोमहान्तो बलिनो द्विपाः, षष्टिवर्षा इत्यर्थः । कैरिव दीपैरिव । यथा तमसा अन्धकारेण निर्विवरेऽपि पथि ते- जोमहद्भिर्महाज्वालैः दीपैः सुखं गम्यते । तत्रापि दीपवंशात्तमो मार्ग मुञ्चति । द्विपैरिति कर्तरि तृतीया, दोपैरिति करणे तृतीया । एवंविधमौपम्यं न तथाङ्गीकृत यस्माद्दीपैरित्युप- चारेण दीपवन्तः पुरुषा बोद्धव्याः, यथा यष्टीः प्रवेशयेति कर्तव तृतीयेति वयं न विद्मः॥६॥ निरन्तराले इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण को निरन्तरालेऽपि पूर्व स्वेनै- वातिसङ्कटेऽपि पाथ सम्प्रति रे दूरत एव विमुच्यमाने सति । एकत्र दीपभयादन्यत्र द्विपभयाचेत्यर्थः । तेजोमहर्बिलाधिकैः प्रभासम्पन्नश्च । 'तेजो बलं प्रभा तेजः' इति विश्वः। द्विपदी परिवासम्बाधमसङ्कीर्ण- मयाम्बभूवे जग्मे । न त्वश्वरित कृच्छू दिति भावः । अय गते। भावे लिट् 'दयायासश्च' इत्याम्प्रत्ययः । स्वतेजसेव दूरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात्पथ इव तमसो दीपागमनात्माकृतप्राणिवर्गेण निरन्तरा- लत्वं पश्चान्मुच्यमानत्वं च न सम्भवतीत्युपमानोपमेययो वरूप्यं स्यात् । तृतीयान्तपाठे तमसः प्राणिवर्गो- पमानत्वे तत्मारूप्यसाकल्यात्स एव साधीयानित्यालङ्कारिकाणां पन्थाः ॥ ६ ॥ शनैरनीयन्त रयात्पतन्तो रथाः क्षिति हस्तिनखादखेदैः ॥ सयत्नसूताऽऽयतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ॥ ६८ ॥ शनैरिति ॥ तुरङ्गाजिभिः हस्तिनखात् पुरद्वारसमीपाच प्रदेशात् स्थाः शनैर्मन्द मन्दं क्षितिमीयन्त समां भूमि प्रापिताः । किं कुर्वन्तः स्यात् पतन्तः वेगेनाधः पतन्तः । श्लक्ष्णोन्नताद्वि प्रदेशात् चक्रमवियुक्तं जवनाधः पतति । किंभूतैस्तुरङ्गः अखेदैः अश्रान्तः, तथा सयनसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैः सयत्नः सावधानो यः सूतः सारथिस्तेन आयतः आकृष्टो यो रश्मिः रज्जुबन्धः तेन भुग्ना वक्रीभृता या ग्रीवा कण्ठस्तस्या अग्रं तदन्तस्तत्र संसक्तं लग्नं युगं काष्टविशेषो येषां ते तैः । पूरि परिकूट तु सन्तो हस्तिनखं विदुः। अनीयन्त इति कर्मणि लकारः । यौतिवापरुदुभ्योगगिति(?) बाहुलकाद्युगशब्दः६८ शनैरिति । रयात्पतन्तो धावन्तो रथाः सयनैः सूनः सारथिभिः । 'मूतः क्षत्ता च सारथिः' इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः । 'किरणपग्रहै। रश्मी' इत्यमरः । ते नषु प्रज्ञेषु ग्रीवा- णामग्रेषु संसक्का युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैः, अत एवाखदैरश्रमैस्तुरङ्गैः हस्तिनखात् । हस्तिनखः पूरि मृत्कूटः । 'कूटं पूरि यद्धस्तिनखस्तस्मिन्' इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोक्तिः, यथावस्तुवर्णनात् ॥ ६८ ॥ वलोमिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ॥ प्रायेण निष्कामति चक्रपाणी नेष्टं पुरो द्वारवतीत्वमासीत् ॥ ६९ ॥ ।

सर्गः ।] शिशुपालवधे। १३५ बलोमिभिरिति ॥ चक्रपाणी श्रीवासुदेवे प्रायेण बाहुल्येन निष्क्रामति निःसरति सति अस्याः पुर्याः द्वारवतीत्वं स्वरूपमिष्टमभिप्रेतं न आसीत् । स धन्यो दशो यत्र देवः साक्षात्तिष्ठति । तच्छ्न्यया मया कि क्रियते इत्यबोधोत्यर्थः । या स्त्री बहुद्वारा भवति सा पुरुषेण चापल्येन त्यज्यते । अथ च द्वारवतीत्वं बहुद्वारत्वं तस्या नेष्टमभूत् । यदि हि मम बहूनि द्वाराणि नाभविष्यन् तत्कथमच्युतो बहिरयास्यत् इति द्वारबहुत्वं निनिन्द । किंभूतायाः बलोमिभिः सेनावृन्दैः तत्क्षणहीयमानरथ्याभुजायाः तत्कालमेव हीयमाना- स्त्यज्यमाना रथ्या एव भुजा यस्याः सा । उत्प्रेक्षते-बलोमिभिः वलयैरिव कङ्कणैरिव । अन्यस्या अपि महिलायाः पत्युर्देशान्तरं गच्छतः आत्मा नैव बहुमतो भवति । खेदाच्च बाहुभ्यां वलयानि त्यजति । वलयं कटकम् ॥ ६९ ॥ बलोमिभिरिति ॥ बलान्यूय इव तैबलोमिभिर्वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एवं हीयमाना अपरिच्यमाना रथ्या भुजेव यस्तास्तस्या । अत एवास्याः पुरो द्वारवत्याश्चक्रपाणी कृष्णे निष्क्रा- मति निर्गच्छति मति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति भावः। द्वारवतींशब्दस्य संज्ञात्वात् 'त्वतलोर्गुणवचनस्य' इति न पुंवद्भावः । अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं तस्य हरिनिष्क्रमणहेतुत्वादित्युभयथाऽप्युपमितभुजवलयगलनहेतुत्वा- दुपमासङ्कीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते ॥ ६९ ॥ पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ॥ वनावलीरुत्कलिकासहस्रप्रतिक्षणोस्कूलितशैवलाभाः ॥ ७० ॥ पारेजलमिति ॥ मुरारिहरिः नीरधः समुद्रस्य पारेजलं जलस्य पार वनावलीरपश्यत् काननराजीविलोकयामास । कीदृशीः वनावलीः आनीलपलाशराशीः आनीला ईषत् नीलाः श्यामाः पलाशराशयः पर्णनिचया यासु, तथा उत्कलिकासहस्रप्रतिक्षणोत्तूलितशैवलाभाः उत्कलिकासहस्त्रैः कल्लोलसमूहैः प्रतिक्षणं वारंवारम् उत्कूलितं कूलं प्रापितं शैवलं तद्वत् आभा कान्तिर्यासां ताः । अथ वा वनावलीः शैवलाभाः अपश्यत् , शैवालमित्युत्प्रेक्षा- सके इत्येवं योज्यमिति । पारेजलमिति पारे मध्ये षष्ठया वेति समासः । एवं कूलमु. त्प्रावयत्युत्कूलयति प्रातिपदिकाद्वा णिच् , ततः कर्मणि निष्ठा ॥ ७० ॥ अथासर्गसमाप्तः समुद्रं वर्णयति- पारेजलमिति ।। मुरारिनीरनिधेः समुद्रस्य जलानां पारे परतीरे पारेजलम् । 'पारावारे परावर्वाची तारे' इत्यमरः । 'पारे मध्ये षष्ठया वा' इत्यव्ययीभावः । तसंयोगादेकारान्तत्वं च पारशब्दस्य । आ- समन्तात्रीलाः पलाशानां पत्राणां राशयो यासां ताः । हरितपर्णपूर्णा इत्यर्थः । 'पत्रं पलाशं उदनम्' इत्यमरः । अत एवोत्कलिका उर्मयः । 'उर्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा' इति हलायुधः। तामा सहरीः प्रतिक्षणमत्कूलिताः कूलमुताः । कूलं प्रापिता इत्यर्थः। उन्कूलशब्दात् 'तत्करोति--' इति ण्यन्ताकर्मणि कः । तेषां शैवलानामाभेवाभा यासां ताः । तत्सदृशीरित्यर्थः । वनावलीरपश्यत् । अत्रोत्कू. लितशैवलस्य स्वतःसिद्धसन्देहादुपमोत्प्रेक्षयोः सन्देह सङ्करः ॥ ७० ॥ लक्ष्मीभृतोऽम्भोधितटाधिवासान्दुमानसौ नीरदनीलभासः । लतावधूसम्प्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥ ७१ ॥ लक्ष्मीभूत इति ॥असौ श्रीकृष्णः अधिवेसं वेलायां द्रुमान् पश्यति स्म वृक्षान् ददर्श । किंभूतान् वृक्षान् लक्ष्मीभृतः शोभाधारिणः, तथा अम्भोधितटाधिवासान् समुद्राग्रे कृत- वसतीन् , तथा नीरदनीलभासः मेघवत् कालकान्तीन् , तथा लतावधूसम्प्रयुजः लता एवं सन्देहविषौषधिसर्वकषायुते- - [ तृतीयः- - वध्वः ताः सम्प्रयुअते रिलप्यन्तीति लतावधूसम्प्रयुजः, किप , वल्लीकलत्रसंयुक्तान् । वल्लीसम्बद्धानित्यर्थः । उत्प्रेक्ष्यते- -बहूकृतान् अनेकत्वमापादितान् स्वानिव आत्मदेहानिव ददर्श आत्मतुल्यान् मेने । अवबोधोऽत्र दृशेरों नावलोकनम् । वेलास विषये प्रचुरीकृतान् आत्मदेहानिव मेने । मदीया इवैते बहवो देहा (इति) अबोधीत्यर्थः । यतो लक्ष्मीभृतः । ये भगवदात्मानस्तेऽवश्यमेव वक्षसि श्रीभृतः समुद्रजलशायिनः मेघश्यामाश्च सत्यभामा- रुक्मिणीप्रभृतिवधूसंयुक्ताश्च । वेलायामधिवेलम् । वेला जलकृतमर्यादा ॥ ७१ ॥ लक्ष्मीभृत इति ॥ अतौ हरिलक्ष्मी शोभा श्री देवी च बिभ्रनीति लक्ष्मीभृतस्तान् अम्भोधिनटे- अधिवासो येषां तान्त्रीरदवत्रीलभासो नीलवर्णान् लता वन इवेत्युपमितसमासः । अन्यत्र लता इव वध्यः इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । ताभिः सम्प्रयुज्यन्त इति सम्प्रयुजः सङ्गतान् । क्विप् । अधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । दुमान्बहू कृताननेकीकृतानवान् । स्वकीयविग्रहानिवेत्यर्थः । एवं च पुंलिङ्गतानिर्वाहः । आत्मपरत्वे नपुंसकत्वापातः । 'स्वो ज्ञातावात्मनि स्वं विष्वामी ये स्वोऽमियां धने' इत्यमरः। पश्यति स्म । श्लेषसङ्कीर्णेयमुत्प्रेक्षा ॥ १ ॥ आश्लिष्टभूमि रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ॥ फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७२ ॥ आश्लिष्टेति ॥ असौ हरिः आफ्गानां पतिं समुद्रम् अपस्मारिणमाशशङ्के भृतावि- टमबुद्ध उत्प्रेक्षाञ्चके । किंभूतम् आश्लिष्टभूमिमाश्रितभुवं, तथा उच्चैरतिशयेन वा रसितार शब्दायमानं, तथा लोलन्तश्चपला बाहुसदृशा महान्तः कल्लोला यस्य, तथा फेनायमान, डिण्डीरान् वमन्तम् । अपस्मार्यपि भूताविष्टोऽपि भूमिमालिङ्गति उच्चैः रटति चपलभुजश्च भवति फेनं श्लेष्माणं चोद्वमति । 'फेनाञ्चेति वक्तव्यामिति क्यङ ॥ ७२ ॥ आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गिन्तभूतलमुच्चैस्तारं रसितारं कन्दिनारं लोलता चश्चलनामित- स्ततः पततां भुजानामाकार इवाका। येष्यं ते बृहनरङ्गा यस्य नै नथोक फेनायमानं फनमुद्रमन्तम् । 'फेनाचेति वक्तव्यम्' इति क्यङ् । अपां समूह आपम् । 'तस्य समूहः' इत्यण । तेन गच्छन्तीत्यापगा- स्तासा पति समुदम् असो हरिरपस्मारिणमपस्माररोगिणमाशशडू । तत्कर्मयोगानथोत्प्रेक्षाश्चक्र इत्यर्थः । यथाहुर्नेदानिकाः- 'क्रुद्धैर्धातुभिराहतेऽथ मनसि प्राणी मनः सन्दिशन्दन्तानखादति फेनमुद्रिति दोःपादी क्षिपन्मूढधीः । पश्यरूपमसक्षित निपतति व्यर्थी करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति गते वेगे त्वपस्माररुक्' ॥ पीत्वा जलानां निधिनाऽतिगााद् वृद्धि गतेऽप्यात्मनि नैव मान्तीः॥ क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुकावलीराकलयाञ्चकार ॥ ७३ ॥ पीत्वेति ॥ स कृष्णः अधितीरं तटे मुक्तावलीः मौक्तिकानि आकलयाञ्चकार ददर्श मौक्तिकपङ्क्तीरपश्यत् । उत्प्रेक्ष्यत-इन्दोश्चन्द्रमसः रुच इव । किंभूता रुचः जलानां निधिना समुद्रेण अतिगादितिलौल्यात् अतिलाम्पट्यात् स्नेहवशाद्वापि च क्षिता उद्वान्ताः । कुत एव क्षिप्ताः कीदृशीः आत्मनि विपये नैव मान्तीः अवर्तमानाः, किंभूते आत्मनि वृद्धि गतेऽपि उल्लसितेऽपि । शशिकाव्यतिकरात् किलोदधिरुल्लसतीत्यागमः । अन्योऽपि बहु जग्ध्वा पीत्वा च उद्वमति ॥ ७३ ॥ पीत्वति । जलानां निधिना समुद्रण गर्ध एव गायम् । औपम्यादिवच्चातुवर्णादित्वात्स्वार्थे व्यञ् । तदतिमात्रमातिगाय तस्मात् । तृष्णाभरादित्यर्थः । गृनोः पुनरोगुणः 'वान्तो यि प्रत्यये' इति गाळव्याभि- ति स्यात् । पीत्वा, क्षेपणक्रियापक्षया पूर्वकालता । अथ वृद्धि गते आत्मनि देहे । चन्द्रोदये समुद्रस्य वृद्धि- ।

सर्गः।] शिशुपालवधे। १३७ रित्यागमः । नैव मान्तारमान्तीः । अतिरिच्यमाना इत्यर्थः । मातेः शतरि डी । आच्छीनयोर्नुम् । चिप्ता उही अतितृष्णयोत्कटं पात्वा । अन्तरमानाहिरुद्वान्ता इत्यर्थः। इन्दो रुचो मरीचीरिवेत्युत्प्रेक्षा । स हरिरधिवेलमधितीरम् । 'वेला कूलविकारयोः' इति विश्वः । मुक्तावलीराकलयाञ्चकाराकलयामास । कलतिः कामधेनुः ॥ ७३ ॥ साटोपमु मनिशं नदन्तो यः प्लावयिष्यन्ति समन्ततोऽमी ।। तान्येकदेशानिभृतं पयोधेः सोऽम्भांसि मेघान्पिबतो ददर्श ॥ ७४ ॥ साटोपमिति ॥ स कृष्णो मेघान् ददर्श जलदान् अपश्यत् । किं कुर्वतः पयोधेः समु- द्रस्य एकदेशात् एकस्मात् प्रदेशात् निभृतं निःशब्दं यथा भवति तथा तानि अम्भासि पिवतः गृहणतः । तानि कानीत्याह-यरम्भोभिरमी मेघाः समन्ततः सर्वदिक्षु उर्वी पृथ्वीं प्लावयिष्यन्ति आपूरयिष्यन्ति कल्पान्ते जलमग्नां करिष्यन्ति । किंभूताः मेघाः साटोपं साडम्बरं यथा भवति एवमनिशमहोरात्रं नदन्तः गर्जन्तः । एतेन पृथुत्वकथनमब्धेः । यैः किल जलैरवी पूर्यते स तस्यैकदेशः । अन्योऽपि कश्चिन्महाधनः कस्मैचित् स्वल्पमपि एतावत् ददाति न सर्वमपि, परमदरिद्रं कुरुते । आटोपः आस्फोटः आडम्बर इत्य- र्थान्तरम् ॥ ७४ ॥ साटोपमिति ॥ अमी मेघा माटो मसम्भ्रमम् । 'सम्भ्रमाटोपसरम्भा.' इति यादवः। अनिशं नदन्तो गर्जन्तो यस्तोयरम्भौभिरुवा समन्ततः पावयिष्यन्ति तान्यम्भाप्ति पयोधेरेकदेशादेककोणानिभृतं निश्चलं यथा तथा पिबतो मेघान् स हरिददर्श । एतेन समुद्रस्यापरिच्छिन्नरूपत्वं व्यज्यते ॥ ४ ॥ उद्धृत्य मेघैस्तत एव तोयमर्थ मुनीन्द्ररिव सम्प्रणीताः ।। आलोकयामास हरिः पतन्तीनंदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥ ७॥ उद्धृत्येति ॥ हरिः श्रीनारायणोऽम्बुराशिं समुद्रं पतन्तीः प्रविशन्तीनंदीरालोकयामास अद्राक्षीत् । का इव के पतन्तीरित्याह-स्मृतीरिव । यथा कश्चित् स्मृतीर्मन्वादिप्रणी- तानि धर्मशास्त्राणि वेदं पतन्तीः अन्तर्भवन्तीः तेन सहकार्थं यान्तीविलोकयति । अर्थसा- रूप्यमेव स्मृतीनां श्रुतिषु निपातः । कीदृशीनदीः अत एव समुद्रादेव मेधैर्जलदेस्तोयमु- न्दृत्य जलं गृहीत्वा सम्प्रणीताः । वृद्धि नीता इत्यर्थः । मेघमुखेन हि समुद्रादेव नदीना. मुत्पत्तिः । कैरिव यथा मुनीन्द्रैः मनुयाज्ञवल्क्यपराशरादिभिः तत एव वेदादेव अर्थमुद्- धृत्य स्मृतयः प्रणीता निष्पादिताः । स्मृतयो हि मन्वादिभिः ऋषिश्रेष्ठैः वेदादेवाभिधेयं गृहीत्वा सम्प्रणीताः रचिताः । यदा हि वेदान्न कश्चिद् बुध्यते तदा लोकहिताय मुनिभिः तदर्थ एव स्मृतिषु निबद्धः । उत्पद्यन्ते च तत्रैव ता विलीयन्ते । मेघा मुनिभिरुपमीयन्ते, तोयमर्थेन, नद्यः स्मृतिभिः, उदधिवेंदन । तत इवादयोऽनेके एव न्याय्या इत्थमभियुक्ताः । यथा कालिदासस्य-'ततः प्रतस्थे कौबेरी'मित्यादि ॥ ७९ ॥ उद्धृत्येति ॥ मुनीन्द्रस्ततो वेदावेदार्थमिव भेषैस्ततोऽम्बुराशेरेव तोयमुद्धृत्य सम्प्रणीतः कृता अम्बु- राशि पतन्तीः प्रविशन्तीनदीदं पतन्तीः स्मृतीमन्वादिसंहिता इव हरिरालोकयामास । श्रुतिमूलत्वेन प्रा- माण्यात्स्मृतीनाम् । तत्संवाद एव तत्संपवेशः। अनेकैवेयमुपमा ॥ ०५ ॥ विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः ॥ तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥ ७ ॥ विक्रीयेति ॥ असौ हरिः सांयात्रिकान् पोतवणिजोऽभ्यनन्दत् श्रद्दधे प्रशशंस । ।

१३८ सन्देहविषौषधिसर्वकषायुते- [ तृतीयः- तानग्रतः शकुनभूतानालोक्य तुतोषेत्यर्थः । किंभूतान् द्वैप्यान् द्वीपान्तरसम्बन्धिनः, किं कुर्वतः तत्रत्यं सामुद्रं भाण्डमर्घ तरीषु वेडासु आवपतः निक्षिपतः। राशीकुर्वाणानित्यर्थः । कीदृशं भाण्डम् अफल्गु उत्तम महत् , मूल्यमित्यर्थः । किं कृत्वा तरीषु राशीकुर्वतः दिश्यानि दिगन्तरभवानि धनानि तत्रान्यत्र वा विक्रीय, किंभूतानि उरूणि महामूल्यानि, कीदृशाः उत्तमलाभभाजः उत्तममनूनं लाभमधिकं धनं भजन्ते इत्युत्तमलाभभाजः । मूल्या- दतिरिक्तं द्रव्यं लाभः । अन्यतो भाण्डमानीय तत्र विक्रीयापरं तत्रत्यं वाऽन्यतो नयन्त- इत्यर्थः । दिशि भवं दिश्यं दिगादिभ्यो यत् । द्वीपे भवा द्वीप्याः द्वीपादनुसमुद्रं यञ् । जलयानपात्रं तरी । तत्र भवं तत्रत्यम् अव्ययात् त्यप् । संयान्त्यनेनेति संयात्रं यान- पात्रं, अन् ,(१) तेन तरन्ति प्लवन्ते इति सांयात्रिकाः पोतवणिजः, 'तरती ति ठक् । आव- पतइति शतृ, शस्(२)॥ ७६ ॥ विक्रीयेति ॥ दिक्षु भवानि दिपानि । दिगन्तराऽऽनीतानीत्यर्थः । दिगादिभ्यो यत् । उरूणि महा- न्ति धनानि नानाद्रव्याणि विक्रीय मूल्येन दत्त्वा उत्तमलाभं द्वैगुण्यादिकं भजन्तीति तानुत्तमलाभभाजः । तत्रत्यं. द्वैष्यमित्यर्थः । अव्ययाच्यप् । अफल्गु सारवत् । ‘फल्गु तुच्छमसारं च' इति यादवः। भाण्डं मूलधनम् । पण्यद्वव्यमित्यर्थः । वणिमूलधने पात्र भाण्डं भूषाश्वभूषयोः' इति वैजयन्ती । तरीषु नौ- षु । 'मियां नौस्तरणिस्तरिः' इत्यमरः । 'अविस्तरिस्तन्धिः-'इन्यौणादिक इकारप्रत्ययः । आवपत आदधतः। धपतेः शतृप्रत्ययः । ट्रैण्यानसमुद्रद्वीपवासिनः । 'द्वीपादनुसमुद्र यज्' इति यप्रत्ययः । संयात्रा सम्भूय यात्रा, मा प्रयोजनमेषां तामायात्रिकान्पांतवाणिजः । 'सायात्रिकः पोतवणिक्' इत्यमरः । 'प्रयोजनम्' इति ठक् । असा हरिरभ्यनन्दत् ॥ ०६ ॥ उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ॥ पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोञ्चिक्षिपिरे फणीन्द्राः॥७७॥ उत्पित्सव इति ॥ फणीन्द्राः सर्पश्रेष्ठाः निःश्वसितानिलेन फूत्कृतेन पयांसि उच्चि- क्षिपिरे उध्वं प्रेरयन्ति स्म । किंभूतेन गरीयसा बलवता, सर्गः किंभूताः नदभर्तुः समुद्रस्य अन्तर्मध्यात् उत्पित्सवः उत्पतितुकामाः । जातिस्वभाव एव तेषां यदुत्पतन्ति, प्लवन- कृतेरुवं जलानि प्रेरयन्ति । उत्प्रेक्ष्यते-गरुडध्वजस्य श्रीकृष्णस्य भक्त्या सेवया उच्चैः ध्वजानिव चिह्नानीवोच्चिक्षुपुः । यतोऽसौ गरुडध्वजः गरुडस्याऽहिर्भक्ष्यः, तस्मादातई त्वमस्माकं निवर्तयेरिति बुद्ध्या शौरे_जसाधारण्येनैव सेवा भवेदित्यर्थः । उत्पित्सव इति 'सनिमीमति इस्, अभ्यासलोपः। उच्विक्षिपिरे इति कर्मणि लकारः ७७ उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादात्पन्सव उत्पतितुमिच्छवः । पततः सन्नन्तादुप्र- त्ययः । 'सनि मीमा-' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः। फणीन्द्राः सा भक्त्या मरुडध्वजस्य हरेध्वजानिक गरीयसाऽतिमहता निःश्वसितानिलन मुखमारुतेन पयर्यास्युच्चैरुच्चिक्षिपिरे उक्षि- मवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम् ॥ ७० ॥ तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ॥ प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ।। ७८ ॥ तमिति ॥ सोल्लासत्वात् बहुवीचित्वाच्चाब्धेः कविरुत्प्रेक्षते-अम्बुराशिः समुद्रः तं कृष्णमागतं वीक्ष्य प्रत्युजगामेव अग्रत एव निर्ययो । प्रत्युत्थानमिव चकारेत्यर्थः । (१) 'हुयामाश्रुभसिभ्यमन्' इत्युणादिसूत्रणेत्यर्थः। (२) आवपन्ते इति शानच-मूलपुस्तके । अत एवं सर्गः।] । शिशुपालवधे। १३६ यतो युगान्ताबन्धु कल्पान्तमित्रम् । कुतः कल्पान्तसुहृत्त्वं तस्ये त्याह-उत्सङ्गशय्याशय- मङ्कशय्याशायिनम् । कस्मादेवं भवानुत्प्रेक्षते इत्याह-किंभूतः गुरुप्रमोदप्रसारितोत्तुङ्गात- रङ्गबाहुः गुरुणा प्रमोदेन हर्षेण प्रसारिता दीर्घिता उत्तुङ्गा उन्नतास्तरङ्गाः कल्लोला एवं बा- हवो येन सः तथोक्तः । यो हि देशान्तरादागतं सुहृदं प्रत्युद्गच्छति, स आलिङ्गनाय हर्षेण बाहू प्रसारयति । शेतेऽस्यामिति शय्या, क्यपू, तत्र शेते 'अधिकरणे शेतेः' इत्यच् ॥७८॥ तमिति ॥ अम्बुराशियुगान्तबन्धुम् । भापद्वन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्या शेत इति तथोक्तम् । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता- उन्तङ्गास्तरङ्गा एव बाहवो यस्य सः सन्प्रत्युजगाम संमेलनार्थमागतवानिवति क्रियास्वरूपोत्प्रेक्षा ॥१८॥ उत्सङ्गिताम्भःकणिको (१)नभस्वानौदन्वतः स्वेदलवान्ममाज ॥ तस्यानुवेलं व्रजतोऽधिवेलमेलावना(२)स्फालनलब्धगन्धः ॥ ७९ ॥ उत्सङ्गितेति ॥ औदन्वतः सामुद्रो नभस्वान् वायुः तस्य हरेरनुवेल वेलासमीप ब्रजतः सतः स्वेदलवान् धर्मकणिकाः अतिवेलमतिशयेन ममार्ज स्फेटयामास । कीदृग्वायुः उत्सङ्गिताम्भःकणिकः उत्सङ्गिता उर्वीकृता इतस्ततः प्रेरिताः अथ उत्सगिता मध्ये गृहीताः अम्भःकणिका जलविपो येन सः, तथा एलावनस्यास्फालनेन सङ्गेन लब्धो गन्धः सौरभ येन । अनुवेलमिति सामीप्ये विभक्त्यर्थेऽव्ययीभावः । वेलामतिका- न्तमतिवेलमिति क्रियाविशेषणम् ॥ ७९ ॥ उत्सङ्गितति ॥ उत्साङ्गिनः संसर्गिणः कृता उत्मङ्गिताः । 'तत्करोति-'इति ण्यन्तात्कर्मणि कः । उत्सङ्गिता अम्भःकणा यनति । शेषाभाषा' इति कए । एलालताना मास्फालनेन सङ्घर्षणेन लब्धगन्धः एवं शिशिरसुरभिरुदन्यतो नभस्वान्समुद्रस्य वायुरधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । बजतस्तस्य हरेः स्वेदलवाननुवेल प्रतिक्षणम् । यथार्थे ऽव्ययीभावः । ममार्ज जहार । 'वेला कूले च जलधेर्वेला तीरवि- कारयोः' इति विश्वः। काव्यलिङ्गम् ॥ ७९ ॥ उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः ॥ आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ८ ॥ उत्तालेति ॥ चमूचरैः सेनाचरैः लावणसैन्धवीनां क्षीरोदधिसम्बन्धिनीनां कच्छभुवां कच्छभूमीनां प्रदेशाः भागाः आसेदिरे प्राप्ताः । कीदृशाः उत्तालतालीवनसम्प्रवृत्तसमीरसी- नन्तितकेतकीकाः उत्तालमुन्नतं यत्तालीवनं वृक्षविशेषकाननं तस्मात्सम्प्रवृत्तो निःसृतो यः समीरः सदागतिः तेन सीमन्तिता द्विधाकृताः केतक्या लताभेदास्तत्कुसुमानि वा यत्र ते तथोक्ताः इति सौगन्थ्योक्तिः । नवृदन्ताद्बहुव्रीहौ कः । सीमन्तशब्दोऽत्रौपचारिकः । कतक्याः पुष्पमिति विवक्षायां 'पुष्पमूलेषु बहुल मिति विकारेऽणो लुक् । आसेदिरे कर्मणि लकारः । लवणसिन्धुरपरसमुद्रस्तस्येमा लावणसैन्धव्यः, 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य चे- त्युभयपदवृद्धिः । कच्छभूस्तदन्तरं निकटो वा विषमो भागः ॥ ८० ॥ उत्तालेति ॥ चमूषु चरन्तीति चमूचराः सैनिकाः । 'चरेष्टः' इति टप्रत्ययः । तैरुत्तालेषूत्रतेषु ताली- वनेषु सम्प्रवृत्तेन समारण मारुतेन सीमन्तिताः सीमन्तिन्यः कृताः । सीमन्तशब्दान्मत्वन्तात् 'तत्क- शांति-' इति ण्यन्तात्कणि कः । णाविष्ठवद्भावे विन्मतो क् । ताः केतक्यो येषु ते तथोक्ताः । 'न. नश्च' इति कप् । लवणसिन्धोरिमा लावणसैन्धव्यः । 'तस्थेदम्' इत्यण् । 'हृद्गसिन्ध्यन्ते पूर्वपदस्य .' इत्यु- (१) कणको नभस्वानुद० । (२) मेलालता।

१४० सन्देहविषौषधिसर्वकषायुते- [ तृतीयः- .. भयपदवृद्धिः । तासां कच्छभुवामनूपभूमीनाम् । 'जलप्रायमनूपं स्यात्पुसि कच्छस्तथाविधः' इत्यमरः । प्रदेशा देशा आसेदि रे प्राप्ताः । सीदतेः कर्मणि लिट् । अत्र म्वभावोकिरनुप्रासश्चालङ्कारौ । ओजःवलेष- सौशब्दसौकुमार्याधनेकगुणसम्पत्तिः स्पष्टा । ८० ॥ लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ॥ आस्वादिताईक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः(१) ॥ ८१ ।। लवङ्गेति ॥ ते चमूचराः समुद्रात् अब्धिसकाशात् अभ्यागतस्य अतिथेः सम्ब- न्धिी प्रतिपत्तिं पूजामापुलेभिरे । यथा आगन्तुकः पूज्यते, तथा समुद्रेण तेऽभ्यर्चिता- इत्यर्थः । किंभूतास्ते लवङ्गमालाभिः सुगन्धिवृक्षस्रग्भिराकलिता ग्रथिता अवतंसाः शेखरा येस्ते, तथा नारिकेलस्य सुगन्धिफलविशेषस्य अन्तरभ्यन्तरे या आपोऽम्भः ताः पिबन्तः, तथा आस्वादितानि आर्द्राणि सरसाणि क्रमुकानि पूगफलानि यैस्ते तथोक्ताः । योऽप्यभ्यागतः तस्मै पुष्पाणि पानं ताम्बूलं च दीयते । नारिकेलान्तरप इति पृथक् पदे । अन्तःशब्दोऽधिकरणप्रधानः । सर्गेऽत्र वृत्तमुपजातयः ॥ ८१ ॥ लवङ्गेति ॥ लवङ्गमालाभिलवङ्गकुसुममाल्यैः कलितावतंसाः कृतभूषणाः । नारिकेलान्तरित्यव्ययम् । नारिकेलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् , समामे 'ऋक्पूर-'इत्यादिना समासान्तप्रसङ्गात् । पिबन्तः, आस्वादिता भक्षिता आईक्रमका आईपूगीफलानि यस्ते । 'घोण्टा तु पूगः क्रमुकः' इत्यमरः । ते चमूचराः समुद्रादभ्यागतस्यातिथेः प्रतिपनि गौरवं सत्कारमीयुः । 'प्रतिपत्तिः पदप्रामौ प्रवृत्तौ गौरवे- ऽपि च' इति विश्वः । अत्राभ्यागतप्रतिपत्तिप्राप्त विशेषणगत्या अवतंसकलनादिपदार्थहेतुत्वाकाव्यलिङ्ग मलद्वारः । तेन समुद्रचमूचराणा गृहस्थाभ्यागतोपम्यप्रतीतरलङ्कारणालङ्कारध्वनिः ॥ ८ ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय- श्चिरविगतश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ।। ८२ ।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये पुरीप्रस्थानं नाम तृतीयः सर्गः ॥ ३ ॥ तुरगेति ॥ तदा तस्मिन् काले बलानुजबलस्य बलो हलधरस्तस्यानुजः कनीयान कृष्णस्तस्य बलं सैन्यं तस्य कृष्णसैन्यस्य जलनिधः समुद्रस्य च महदन्तरं व्यव- धानमभवत् । समुद्रात्तद्बलं दूरं गतमित्यर्थः। किंभूतस्य बलस्य पुरः पुर्याः परिचलतः पञ्चरतः । अथ वाऽन्तरं विशेपो महानेवाऽभवदिन्युक्त्या कथितं तव विशेषणद्वारेणाह- काशस्य सैन्यस्य परितः समन्तात् तुरगशतैरवीयराकुलस्य व्याप्तस्य, समुद्रस्य किंभूतस्य कंवलमेकस्य तुरङ्गस्योच्चैःश्रवसो जन्मोत्पत्तिर्यतस्तस्यैकतुरङ्गजन्मनः । बलस्य प्रतिपथं मार्ग प्रमथिताः चूर्णीकृताः भूभृतो विपक्षा राजानः पर्वता वा येन तस्य, उदधेः अत्यर्थं महीभृता मन्दरेण मथितस्य। बलस्य सर्वदा सश्रीकस्य शोभायुक्तस्य वा, अम्बुधेः पुनः चिरं बहुकालं वि- गता निवृत्ता श्रीलक्ष्मीर्यस्य । एवं बलमश्वीयवृतं मथितभूभृत सश्रीकं च, समुद्रस्तु निस्तुरङ्गो भूभृता मथितो निःश्रीकश्चति महदेवतदन्तरम् । व्यतिरेकोऽलङ्कारः । रुचिरा वृत्तम् ॥८२॥ इत्यानन्ददेवायनिवल्लभविरचितायां शिशुपालवधटीकायां सन्देहविधौषधिव्याख्यायां तृतीयः सर्गः । (१)मीयुः। , सर्गः ।] शिशुपालवधे। १४१ - तुरंगेति ॥ परितस्तुरगशतैराकुलस्य । अपरिमिताश्वस्येत्यर्थः । प्रतिप्रथं प्रतिमार्गम् । यथार्थेऽव्य- यीभाव समासान्तः । प्रमथिताः क्षुण्णा भूभतो राजानो गिरयश्च येन तस्य । न तु स्वयं केनापि मथि- नस्यति भावः । सततं धृता श्री: शोभा रमा च येन तस्य धृतश्रियः, पुरोऽने नगराद्वा परिचलतः परि- गच्छतः बलो रामस्तस्यानुजस्य हरेबलस्य । 'बलं सैन्य बलो रामे' इत्युभयत्रापि शाश्वतः। परं केवल- मेकस्यैव तुरङ्गस्य जन्म जन्ममात्रं यस्मात्तस्यैकतुरङ्गजन्मनः । एकोऽपि जात एव न त्वस्तीति भावः । महीभृता मन्दराद्रिणा राज्ञा च मार्थतस्य । न तु स्वयं कस्यापि मन्थिता । सततं विगतश्रियः । उत्प- च्यनन्तरमेवास्या हरिस्त्रीकरणादिति भावः । जलानधन तदा प्रस्थानसमये महदन्तरं दूरगमनादिव्यव- धानम् उक्तरीत्या महत्तारतम्यं चाभवत् । अत्रोपमेयस्य हरिबलस्योपमानान्जलधेराधिक्यवर्णनाद् व्यतिरेका. लङ्कारः । पञ्चकावली वृत्तम्। 'नभजजजा जरौ नरपते ! कथिता भुवि पञ्चकावली' इति लक्षणात् । धृतश्री- वृनमिति कश्चित् । 'नभजपुरस्कृता जजजरा रचिता भुवि रुद्रदिक्पतिः' इति लक्षणात् ॥ ८२ ॥ इति श्रीमहोपाध्यायकोलाचमल्लिनाथसूरिविरचिते शिशुवालवधकाव्यव्याख्याने सर्वकषाख्ये तृतीयः सर्गः ॥ ३ ॥ ॥ - चतुर्थः सर्गः। निःश्वासधूमं सह रत्नभाभिभित्त्वोत्थितं भूमिमिवोरगाणाम् ॥ नीलोपलस्यूतविचित्रधातुमसौ गिरि रैवतकं ददर्श ॥१॥ निःश्वासेति ॥ असौ हरिर्गच्छन् रैवतकं गिरि ददर्श रैवतकाख्यं पर्वतमद्राक्षीत् । कथंभूतं नीलोपलस्यूतविचित्रधातुं नीलोपलैरिन्द्रनीलमणिभिः स्यूताः सम्बद्धाः संमि- लिता विचित्रा नानाविधा धातवो गैरिकमनःशिलाद्या यस्य सः तम् । अतश्चोत्प्रेक्ष्यते- उरगाणां निःश्वासधूममिव तत्कृतोष्माणमिव । किंभूतं भूमि भित्त्वा उत्थितं पृथ्वी विदार्य उत्पन्नं, कथं रत्नभाभिः सह शिरोमणिभिः सार्धम् । धूमसंस्थानीया नीलोपलाः, रत्न- रुचिनिभा धातवः । उरसा गच्छन्तीत्युरगाः 'उरसो लोपश्चेति डः सलोपश्च । अत्र सर्गाधे इन्द्रवज्रोपेन्द्रवज्रासंयोगेन द्वादशप्रभेदाः उपजातयो वृत्तम् ॥ १ ॥ निःश्वासति ॥ नीलोपलरिन्द्रनौलमाणभिः स्पूनाः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमि भित्त्वोस्थितमूर्ध्व निर्गतम् उरगाणां निःश्वासधूमं फूत्कार- बाष्पमिव स्थित रैवतकाख्यं गिरिमसी हरिददर्श । स्यूतेति मीयतेः कर्मणि कः । 'च्छ्वोः शूडनुना- सिके च' इत्यूठादेशे यणादेशः । अत्र गिरेविशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोत्प्रेक्षणाद् गुणनिमित्तजा- तिस्वरूपोत्प्रेक्षा । सर्गेस्मिन्नानावृत्तानि । तत्रादावष्टादशोपजातयः । लल्लक्षणं तूकमतीतानन्तरसर्गा- दौ । अघासगसमाप्तगिरिवर्णनमेव ॥१॥ गुवीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ॥ विन्ध्यायमानं दिवसस्य भर्तुर्मागं पुना रोद्धमिवोन्नमद्भिः॥२॥ गुरुरिति ॥ कीदृशमसौ रैवतकमद्राक्षीत् अम्बुमुचां वितानैर्मेघवृन्दैः अजस्रं सदा विन्ध्यायमानं विन्ध्यादिमिव आचरन्तम् । कोदृशैः समन्तात् सर्वतः दृपदः शिला उपरि उपरि स्थितैः समीपे निषण्णैः, किंभूताः दृषदः गुवी महतीः, किं कुर्वनिः उन्नमन्निः ऊध्वं गच्छनिः । अत श्रोत्प्रेक्ष्यते-दिवसस्य भर्तुः श्रीसूर्यस्य मार्ग पुनः भूयोऽपि रोडुमिव निवारयितुमिवोन्नतम् । अत एव विन्ध्यायमानम् । विन्ध्येन हि आत्मानं दीकृित्य ..

१४२ सन्देहविषौषधिसर्वकषायुते- [चतुर्थः- .. . सूर्यस्य गतागतं निवर्तितमासीत इत्यागमः । इक्शब्दोऽत्र युक्ततरः । कवयस्त्वन्ये न तथा प्रयुञ्जते । विन्ध्य इवाचरति । दृषद इति उपर्यधोधीनां सामीप्ये द्वितीया ॥ २ ॥ गिरिं ददर्शेत्युक्तम् , कीदृगित्याकाङ्क्षायामकान्वयेनाष्टाभिर्विशिनष्टि- गुर्वीरित ॥ गुमिहतीषदः । शिलातटीरित्यर्थः । 'पाषाणप्रस्तरमावोपलाश्मानः शिला दषत्' . इत्यमरः । उपर्युपरि दृषदा समीपे। उपरिप्रदेश इत्यर्थः । 'उपर्यध्यधमः सामीप्य' इति द्विर्भावे तयोगााद् द्वितीयति । यथाह वामनः--'उपर्यादिषु सामीप्ये द्विरुक्षु द्वितीया' इति । सम तादजस्त्रमुत्रमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचा वितनिघवृन्दैनिमित्तै- दिवसस्य भर्तुः सूर्यस्य मार्ग पुना रोदधुम । संहितायां 'रोरि' इति रलोप : 'ढलोपे-' इति दीर्घः। वि- न्ध्यायमानमिव विन्ध्यवदाचरन्तम् । तद्वद्र्र्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्तालटः शानजा- देशः । अत्राविच्छिन्नमेघोत्रमनेन विन्ध्यायमानत्वोत्प्रेक्षणाक्रियानिमित्त क्रियास्वरूपोत्प्रेक्षा ॥ २ ॥ क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ॥ श्रितं शिलाश्यामलताऽभिरामं लताभिरामन्त्रितषट्पदाभिः ॥ ३॥ क्रान्तमिति ॥ कीदृशं गिरिं ददर्श नवप्रभाजालभृतां अभिनवकान्तिपटलधारिणां मणीनां रुचा भासा क्रान्तं व्यासम् । किंभूतया रुचा काञ्चनवप्रभाजा काञ्चनस्य सुवर्णस्य वप्रं तटं भजते इति काञ्चनवप्रभाक् तया, अन्यत् कीदृशं लताभिः श्रितं वल्लीभिः सेवितं, कीदृशीभिः सौगन्ध्यवशात् आमन्त्रितपट्पदाभिः आमन्त्रिता आहूता इव षट्- पदा भ्रमरा याभिः, ततः पुनः कीदृशं नगं शिलाश्यामलताभिरामं शिलानां श्यामलतया कृष्णत्वेन अभिरामं रम्यम् । श्याम एव श्यामलः । अथवा श्याम गुणं लान्ति गृह्णन्तीति श्यामलास्तद्भावः श्यामलता । श्यामत्वयुक्ताभिराममित्यर्थः ॥ ३ ॥ क्रान्तमिति ॥ पुनर्नवानि प्रभाजालानि बिभ्रतीति नवप्रभाजालभृतस्तेषां मणीना सम्बन्धिन्या का- अनवप्रभाजा स्वर्णसानुप्रसृतया रुचा दीप्त्या क्रान्तं व्यानम् । पुनः शिलाना मेचकोपलाना इन्द्रनीलानां वा श्यामलतया श्यामलिम्ना अभिरामम् । तथा आमन्त्रितषट्पदाभिमकरन्दपूरितत्वादाहूतभृङ्गाभिलत्मभिः श्रितं व्यापम् । इतः परं यन्तरमेकं यमकं वक्ष्यति । तत्र तंदवालङ्कारः । अर्थालङ्कारस्त्वम्युच्चेय इति यथासम्भवभूद्यम् । यमकलक्षणं त्वाचार्यदण्डिनोकम्- 'अव्यपेतव्यपेतात्मा या वृत्तिवर्णमहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादयमकाना प्रकल्पना । आदिमध्यान्तमध्यान्तमध्यायावतसर्वतः ॥ अत्यन्तं बहवस्तेषां भेदाः सम्भेदयोनयः । सुकरा दुष्करराश्चैव दृश्यन्ते तत्र केचन' ।। इति ॥ ६ ॥ सहनसंख्यैर्गगनं शिरोभिः पादर्भुवं व्याप्य वितिष्ठमानम् ॥ विलोचनस्थानगतोष्णरश्मिनिशाकरं साधुहिरण्यगर्भम् ॥ ४ ॥ सहस्रति ॥ अपरं किंभूतं नगं सहस्रसंख्यैरनेकगणनैः शिरोभि शिखरैः गगन व्योम, अपरं पार्दैः पर्यन्तपर्वतैः भुवं पृथ्वी व्याप्य वितिष्ठमानं स्थितम् । पुनः कीदृशं नगं विलो- चनस्थानगतोष्णरश्मिनिशाकर विलोचनस्थानं मध्यप्रदेशः तत्र गतौ स्थितौ उष्णरश्मि- निशाकरौ अन्दू यस्य सः तम् इति उच्चत्वोक्तिः । पुनः किंविधं साधुहिरण्यगर्भ साधु- सर्गः ।] शिशुपालवधे। १४३ . । - •• । शोभनं हिरण्यं सुवर्ण गर्ने मध्ये यस्य सः तम् , अथ वा साधुहिरण्यगर्भमिव साधुहिरण्य- गर्भ साधु अखण्डमेव हिरण्यगर्भ ब्रह्माणमित्यधिकः श्लेषः । ब्रह्मापि एवंविधः, सहस- संख्यैर्मस्तकैः खमाकाशं पादैश्चरणैर्भुवमापूर्य स्थितः, चक्षुपोश्चन्द्रादित्यौ च वहति । उक्तं व वेदे-'सहसूशीर्षा पुरुषः सहस्राक्षः सहसूपात्' इति । तथा- यथाग्निरास्यं द्यौर्मूर्धा नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ सहस्रति ॥ सहस्रामति संख्या यंपा तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षश्च गगनं तथा तत्सं. रुयैः पादैः प्रत्यन्तपर्वतैश्चरणश्च भुवं च व्याप्य विनिष्ठमानमवतिष्ठमानम् । 'समवप्रविभ्यः स्थः' इत्यात्म- नेपदम् । विलोचनयोर्यस्थानं योग्यदशम्तढ़तावुष्णरश्मिनिशाकरौ यस्य तम । अन्यत्र नेत्रीकृतार्केन्दु- मित्यर्थः । अतः साधु सत्यं हिरण्यगर्भ ब्रह्माणमिवेन्युन्प्रेक्षा । 'सहस्रशीषर्षी' इत्यादिश्रुतेरिति भावः । हिर- ग्यगर्भो निधिगर्भश्च ॥ ४ ॥ क्वचिजलाऽपायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ॥ अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ ५ ॥ क्वचिदिति ॥ किं कुर्वाणं नगं कचित् कस्मिंश्चित् प्रदेशे अभ्राणि बिभ्राणं मेघान् उद्ध- हन्तम् । किंभूतान्यभ्राणि जलापायविपाण्डुराणि तोयवृष्ट्या श्वेतानि । अत एव धौतोत्तरी- यप्रतिमच्छवीनि धौतं प्रक्षालितं यदुत्तरीयमुत्तरासङ्गवस्त्रं तत्प्रतिमा छविः कान्तियेषां तानि क्षालितोत्तरासङ्गसमानकान्तानि । अतश्चोपमीयते-स्मरारिमिव गौरीशमिव । किंभूतं स्मरारिमुमाङ्गसङ्गविभक्तभस्मानम् उमाङ्गसङ्गेन गौरीशरीरसङ्गेन विभक्तं विभागेनाव- स्थितं भस्म भसितं यस्य सः तम् । क्वचिदेव सौवर्णा देशा मैधैराच्छादिताः तदा गौरीश्वर- तुल्यम् । सौवर्णभागस्य उमानमुपमानं, सिताभ्रपिहितम्य हरभागः। मौवर्णत्वं रैवतकम्य मेरुशृङ्गविरचितत्वात् प्रसिद्धम् ॥ ५ ॥ क्वचिदिति ॥ पुनः क्वचिदेकदेश जलानायपायेनापगमेन विपाण्डुराणि शुभ्राणि अत एव धौतं क्षा- लितं यदुनरीय तत्प्रतिमा तत्समा छवियेषां तान्पभ्राणि मेघान्बिभ्राणं दधानम् । भृनः कर्तरि शानच् । अत एवोमायाः पार्वत्या अङ्गसङ्गेनार्धमागेन विभक्कमेकभागस्थापितं भम्म यस्य तं स्मरारि हरमिव स्थि- नमित्युपमालङ्कारः ॥ ५ ॥ छायां निजस्त्रीचटुलालसानां मदेन किञ्चिश्चटुलाऽलसानाम् ॥ कुर्वाणमुत्पिञ्जलजातपत्रैविहङ्गमाना जलजाऽऽतपत्रः ॥ ६ ॥ छायामिति॥ पुनः कीदृशं विहङ्गमानां हंसभ्रमरादीनां जलजातपत्रैः कमलच्छत्रैः छायां कुर्वाणं विदधानम् । किंभूतैः उत्पिञ्जलजातपत्रैः उत् ऊर्ध्वानि पिञ्जलानि कपिशानि जातानि पत्राणि पर्णानि यपां तानि । उत्शब्द ऊर्ध्वार्थः । पिञ्जरमेव पिञ्जल, रलयोरैक्यस्मरणात्। केचित्तूत्पिङ्गलमाहुः । कथंभूतानां दिहलमानां निजस्वीचटुलालसानां निजस्त्रीषु सहचरीषु चटु चाटु प्रियं बिसपानमधुपानादिका लालसा येषां तेषां, पुनः कीदृशानां मदेन किञ्चि- चटुलालसानां मदेन मकरन्दपानोत्थक्षीबतया किञ्चिच्चटुला ईपल्लम्पटाः अपरम् अलसा मन्थरास्तेषाम् ॥ ६ ॥ छायामिति ॥ पुनः निजस्त्रीणां चटुपु प्रियवचनेषु लालसा लोलुपाः । 'लोलुपो लोलुभो लोलो ल- पटो लालसोऽपि च' इति यादवः । तेषां निजलीचटुलालसानां मदेन किञ्चिदीषच्चटुलाश्चपलास्तेऽल- ।

१४४ सन्देहविषौषधिसर्वकषायुते- [ चतुर्थः- साश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहङ्गमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिञ्जलजातानि । पूर्ववत्समासः । तानि पत्राणि येषां तैरुपिञ्जलजातपत्रैः । उत्पिञ्जरीभूतदलैंरित्यर्थः । रलयोरभेदः । जलजातपत्रैजलजेरेवातपत्रछायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिय॑ज्यते । यमकरूपकयोः सङ्करः ॥ ६ ॥ स्कन्धाधिरूढोज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रः ॥ प्रनर्तितानेकलताभुजाग्रान्रुद्राननन्तानिव(१) धारयन्तम् ॥ ७ ॥ स्कन्धेति ॥ पुनः कीदृशं नगम् अनन्तान् बहुन् उर्वीरहो वृक्षान् धारयन्तं बिभ्राणम् । किंभूतान् स्कन्धाधिरूढोज्ज्वलनीलकण्ठान् स्कन्ध काण्डे अधिरूढाः स्थिता उज्ज्वला मनोज्ञा नीलकण्ठा मयूरा येषां ते तान् , पुनः किंविशिष्टान् अहीन्द्रैर्महोरगैः श्लिष्टतनून् आलिङ्गितवपुषः, अपरं किंभूतान् प्रतितानेकलताभुजाग्रान् प्रतिता वायुवशाच्चलिता अनेका लता एव भुजापाणि येषां ते तान् । उपमीयते-रुद्रानिव एकादशदेवविशेषानिव । तेषामपि स्कन्धे अधिरूढो विश्रान्त उज्ज्वलो मनोज्ञश्च नीलः श्यामः कण्ठो भवति । अपरम् अहीन्द्रेण वासुकिना वेष्टितदेहान् , प्रनर्तितानि अभिनयवशाचालितानि अनेकलता- तुल्यानि भुजाग्राणि थैः ते तान् , अनन्तान् एकादश अक्षयान् वा ॥ ७ ॥ स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्ज्वला नीलकण्ठा मयूरा येषां तान, अन्यत्र स्क- न्धाधिरूढा अंसस्थिता नीलाः कण्ठा यषो तान् । 'असप्रकाण्डयोः स्कन्धः' इति विश्वः । अहीन्द्र श्लिष्टतनून व्याप्तदेहान् । एकत्र तदावासवादन्यत्र तद्भूषणत्वाचेति भावः । प्रनर्तितान्यनकलतानामेव भुजाना लतानामिव च भुजानामग्राणि येषा तान् , अत एवानन्तानसंख्या-रुद्रानिव स्थितानित्युत्प्रेक्षा। उर्वीरुहः वृक्षान्धारयन्तमुदहन्तम् ॥ ७ ॥ विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव रोध्र(२)गौरीः ।। नवोलपालतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥ ८ ॥ विलम्बीति ॥ पुनः किंभूतम् अपो जलानि दधानं वहमानम् । किंभूताः अपः शैवलिनीः शैवालयुक्ताः, अपरं किंविधाः शुचीः निर्मलाः । अत एव कीदृशीः नवोलपालकृतसैक- तामाः नवं यत् उलपं नीलतृणं तेन अलकृतं यत् सैकत पुलिनम् तद्वत् आभा कान्तिर्यासां ताः । उत्प्रेक्ष्यते-कपालभित्तीरिव गण्डस्थलीतुल्याः । किंभृताः कपोलभित्तीः विलम्बि- नालापलकर्णपूराः विलम्बीनि लम्बमानानि नीलोत्पलान्येव कर्णपूराः कर्णाभरणानि यासाम् , अपरं किंभृताः रोधगौरीः रोधरजोभेदेन गौरकान्तीः । अपामुपमा सैकते, शैवलस्य नु उपमा उलप । केचित्तु सर्वाण्येतानि विशेषणानि अपामेव व्याचक्षते । उपमानं तु कपोल- भित्तय इव, ततः श्लेपः । सिकता विद्यन्ते यस्य तत् । सिकताशर्कराभ्यां 'देशे लुबिलचौ चात्यण् । उलपं नीलतृणम् ॥ ८ ॥ विलम्बीति ॥ विलम्बिना नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासा ताः लोधेण लोधरजसा गौरीरवदाताः । “षिगौरादिभ्यश्च' इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपामान्तर• माह-नवा उलपा बल्वजतृणानि । 'उलपा बल्बजाः प्रोकाः' इति विश्वः । तैरलकृताना सेकताना- भाभेवाभा यास ताः । कुतः-शुचीः शुद्धाः शैवलिनीः शैवलवतीरपो दधानम् । शुचित्वशैवलत्वाम्यां बिम्बप्रतिबिम्बभावेनापमाद्वयम् ॥ ८॥ .. (१) रुद्रानने का। (२) लोध्र।

सर्गः । शिशुपालवधे। १४५, । राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ॥ कान्ताऽलकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ६ ॥ राजीवेति ॥ किंभूतं नगेशं राजीवराजीवशलोलभृङ्ग राजीवराज्यः पद्मावल्यः तामु क्शा आयत्ता लोलाश्चपला भृङ्गा भ्रमरा यत्र सः तं, तथा तरूणां ततिभिः वृक्षाणां पङ्क्ति- भिः उष्णमातपं मुष्णन्तमपहरन्तम् । किं कुर्वन्तं सुराणां ललना देवयोषित उद्वहन्तं बिभ्राणं, किभूताः कान्ताऽलकान्ताः कान्तो मनोहरोऽलकानामन्तोऽग्रं यासां ताः, अपरं किंभूतं रक्षोभिः राक्षसैः अक्षोभितं अनुपद्रुतम् । असेव्यमित्यर्थः ॥ ९ ॥ राजीवति ॥ पुनः राजीवराजीनां पनपनां वशा अधीना लोलाश्चला भङ्गा यस्मिस्तं राजीवराजी- वशलोलभृग तरूणां ततिभिः सबैरुष्णमातपं मुष्णन्तं हन्तं, कान्ता रम्या अलकान्ताश्चूर्णकुन्तला- ग्राणि यासा ताः कान्ताऽलकान्ताः । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । मुगणा ललनाः स्त्रियोऽस्तरसं रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम् ॥ ९ ॥ मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः । भवन्ति नोहामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ १० ॥ मुदे इति ॥ यस्य रैवतकस्य उच्छायसौन्दर्यगुणाः प्रांशुत्वरामयणीयकविशेपाः कवीनां मृपोद्या मिथ्याकथनीया न भवन्ति । कविभिरलीका नोच्यन्त इत्यर्थः। किंभूतानां कवीनामुद्दामगिरामुद्भटवाचाम्। कवीनां मिथ्यावाक्त्वं प्राप्तं, यथेष्टभापिणां स्वतन्त्रभार- तीकानामवश्यमेव अधिकार्थवचनशालता । कथं तहि न मृपोद्या इत्याह-अमरैः देवैः कर्तृभिः सुमेरोः शृङ्गः शिखरैरुपचितस्य वर्धितस्य आनीय प्रकृतत्वान्मेरुशृङ्गाण्येव, कि- मर्थ मुरारेच्दै हरेहपाय । य: मुरपर्वतशिखरविरचितः साक्षादच्युतप्रीतये, तस्य कथमिव वैरूप्यं सम्भाव्यते । कानां तद् गुणा मृपाद्या न भवन्तीत्युचितम् । उच्छ्राय इति 'उदिश्रयती'त्यादिना घन । कवीनामिति कर्तरि पष्टी । मृपा उद्यन्ते इति मृपोद्याः कर्मणि क्यप् ॥ १० ॥ नन्वल्पीयानयं कश्चिदैवतको नाम शिलोचयः कथमियदर्यत इति शङ्को निरस्यति- मुद इति ॥ मुरारच्दै सन्नोषायाऽमरैः कर्तृभिः सुमेरोः शृङ्गे: करणैरानीयोपचितस्य वर्धितस्य । आनी तैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामादानयनकर्मत्वम् । यस्य शैलस्यो - च्छाय अन्नत्यं सौन्दर्य च तयोर्गुणा उत्कर्षा उद्दामगिरी प्रगल्भवाचा कवीनां मृषा उद्यन्त इति मृषोय मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसम्भवादिति भावः। 'राजसूयसूर्यमृषोद्य-' इत्यादिना वदः क्यबन्ता निपातः । उत्कृष्टः श्राय उच्छ्राय इति पञन्तेनोपसर्गस्य समासः । न तूपमृष्टाद्धप्रत्ययः । 'श्रिणीभुवाऽनुपसर्गे' इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासम्बन्धेपि सम्बन्धवर्णनादतिशयोक्तिः ॥ १० ॥ यतो महा_णि(१) भृतान्यनूनः प्रस्थैमुहुर्भूरिभिरुच्छिखानि ॥ आढ्यादिव प्रापणिकादजलं जग्राह रत्नान्यमितानि लोकः ॥ ११ ॥ यत इति ॥ यस्माद्वैवतकात् जनः अजस्रं सदा अमितानि असंख्यानि रत्नानि आदद जग्राह । कीदृशानि महा_णि बहुमूल्यानि, किंभृतानि अनूनैः महाप्राणैः भूरिभिः प्रभूतैः प्रस्थैः सानुभिः मुहुर्वारंवारं भृतानि ऊढानि, पुनः किंभूतानि उच्छिखानि उद्गता शिखा (२) यतः परायानि। १३ शि०व० ।

१४६ सन्देहविषौषधिसर्वकषायुते- [ चतुर्थः- । .. .. । कान्तिर्दीप्तियेषां तानि । कस्मादिव आब्यात्प्रापणिकादिव । यथा ईश्वराद्वाणिजकाल्लोको रत्नानि गृह्णाति । तान्यपि ऐश्वर्यात् प्रस्थैर्दारुमयैर्मानैर्धियन्ते मीयन्ते । शेष समानम् ११ यत इति ॥ लोकः परार्ष्यानि श्रेष्ठान्यनूनै महद्भिर्भूगिभिः प्रभूतैः । 'प्रभूतं प्रचुर प्राज्य भूरि' इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः। भृतानि सम्भृतानि मितानि च उच्छि- खान्युश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाट्य द्धनिकात् । 'इभ्य आट्यो धनी' इत्यमरः। प्रपणा व्यवहारः प्रयोजनमस्य प्रापणिको वणिक । 'तदस्य प्रयोजनम्' इति ठक् । 'पण्याजीवाः प्रापणिका वैदेहा नेगमःश्न ते वणिजः' इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालङ्कारः ॥ ११ ॥ अखिद्यताऽऽसनमुदप्रतापं रविं दधानेऽप्यरविन्दधाने ॥ भृङ्गावलिय॑स्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥ १२ ॥ अखिद्यतेति ॥ यस्य तटे रोधसि भृङ्गावलिश्चञ्चरीकावलिनाऽखिद्यत न खिन्ना । खेदे कारणमाह-कीदृशे तटे रवि दधाने अर्क बिभ्रति, कीदृशं रविमासन्नमपि निकटस्थमपि, तथा उदग्रतापमुल्बणभासम् । एवं खेदा युक्तः । अपि विस्मयं । कीदृशे तटे अरविन्दधाने अरविन्दानां पद्मानां धाने स्थाने, अरविन्दा निधीयन्तेऽस्मिन्निति अरविन्दधानम् । तर्हि कथं न खिन्नेत्याह-कीदृशी भृङ्गावलिः मत्ता क्षीबा, किंभूता सती निपीतरसा आ- स्वादितमधुः, नमत्तामरसा नमन्ति तामरसानि अब्जानि यस्याः सा । खेदाभावे हेत्व- न्तरम् । न मत्तेति न क्रियापदेन योज्यः । खिद दैन्य दिवादी स्वरितेति पठ्यते ॥ १२ ॥ अखिद्यतति ।। आसनमान्नत्यात्सन्निहितमत एवोदप्रतापं दुःसहता रविं दधानेऽप अरविन्दधाने इति विरोधः । अरविन्दानां धान निधाने इति परिहारः । धीयतेऽस्मिन्निति धानम् । अधिकरण ल्युट् । शब्द लषमूलो विरोधालङ्कारः । यस्य गिरेस्तंटे निपीतरसा नितरां पीतरमकरन्दा, नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमनामरसा । 'पढेरुहं तामरसम्' इत्यमरः । अन एव मत्ता भृङ्गावाल- खिद्यत न खिन्ना । खिदेवादिकाकर्तरि लङ् । अत्यन्तसूर्यसविधानेऽप्यरविन्दाऽऽकरविहारान्मधुकरा- स्तापं नापुरित्यर्थः ॥ १२ ॥ यत्राधिरूढेन महीरुहोचैरुन्निद्रपुष्पाक्षिसहस्रभाजा || सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ १३ ॥ यत्रेति ॥ यस्मित् पर्वते राजतगण्डशैलः रूप्यस्थूलगलितपापाणः उन्निद्रपुष्पाक्षि- सहनभाजा प्रफुल्लप्रसूननयनदशशतयुक्तेन उच्चैर्महीरुहा उच्चतरुणा अधिस्टेन उपरिस्थि- तेन हेतुना सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ शक्राधिरूढरावणशोभां बभार । इन्द्रस- नाथस्यैरावणस्य शोभा यत्र रूप्याश्मा कुसुमिततरुभूषितश्चकारेत्यर्थः । हस्तिमल्लो गण्ड- शैलस्य, शक्रो वृक्षस्य, पुष्पाणामक्षिसहस्रमुपमानम् ॥ १३ ॥ यति ॥ यत्र शैले रजतस्य विकारो राजतः । 'प्राणिरजतादिभ्योज' इत्यम्प्रत्ययः । स चासौ गण्ड- शलश्च । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । उनिद्राणि विकसितानि पुष्पाण्यक्षीणी- वेन्युपमितसमासः। तेषां सहस्रं भजतीति तद्भाजा अधिरूढनोधैर्महीरुहा वृक्षण, सुराधिपेन देवेन्द्रेणा- धिष्ठित यो हस्ती मन इव तस्यैरावतस्य लीला शोभा दधौ । एरावतस्य धावल्यादिति भावः । 'इस्तिमझा- भ्रमातङ्गे दृस्तिमनो विनायके' इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपाश्रिदर्शनालङ्कारः ॥१३॥ विभिन्नवर्णा गरुडाप्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ॥ रस्तः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १४ ॥ विभिन्नेति ॥ यस्मिन् रैवतके सूर्यस्य रथ्याः स्थाश्वाः रत्नैः सर्वव्यापिन्या रुचा सर्गः।] शिशुपालवधे। १४७ .. करणेन भूयः स्वां रुचमानिन्यिरे आत्मीय वणं प्रापिताः, किंभूतया रुचा परितः स्फुर- न्त्या सर्वतो व्यापिन्या । स्वकान्तित्यागे कारणमाह-किंभूताः सन्तः गरुडाग्रजेन अरु- णेन विभिन्नवर्णा रक्तीकृताः । कै रत्नैरित्याह-शकरीरनील: वंशाङ्कुरहरितैः । इन्द्रनीलै- रित्यर्थः :। वा वंशाः करीरपणाः । तद्गुणोऽयमलङ्कारः । रथं वहन्ति रथ्याः यत् । आनि- न्यिरे इति कर्मणि लकारः ॥ १४ ॥ विभिन्नति ॥ गरुडापजेनारुणेन विभिन्नवर्णा अन्यथाकृर्तवणाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य सम्बन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' इति यन्प्रत्ययः। यत्र शैले वंशकरारनीले वैशाङ्कुरश्याम रत्नैः। मरकतैरिन्यर्थः । 'वंशाङ्कुर करीरोऽस्त्री इत्यमरः । वंशशब्दस्या- ऽम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपोनरुक्त्यम् । अत एव एकार्थपदमप्रयाज्यमित्युक्त्वा करि- कलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः । न विशेषश्चदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन पुन: स्वां रुचं निजहरितवर्णमेवानिन्यिो अनीताः । नयनबिकर्मकात्प्रधान कर्मणि लिट् । 'प्रधानमण्याख्येये लादीनाकिर्मणाम्' इति वचनात् । अत्र विभिन्नवर्णा इत्यकस्तद्गुणः, रथ्यानां स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकनगुणग्रहणादपरम्तद्गुणस्तदुपजीवीति सजातीययोः सङ्करः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । तद् गुणः स्वगुणन्यागादन्यो- त्कृष्टगुणग्रहः ॥ १४ ॥ यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ॥ वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ १५ ॥ यत्रेति ॥ यत्र विषपावकोत्था विपत् विषाग्निसमुद्भवो दाहः नगानां तरूगां वनं काननं समृहं वा न बबाधे विषस्य कारणमाह-किंभूतानां नगानाम् अविपन्नगाना- मविगतसर्पाणाम् , न विगताः पन्नगा यंपामिति । कथं वनं न दग्धमित्याह-मुहुः पुनः पुनः अम्बुवाहै: मैघैः उज्झिताभिः वर्पिताभिरगिर्जलैः समुन्नम् आर्दीकृतम् । यतः क्लिन्नं नाग्निना बाध्यते । किंभूतैमधैः समुन्नमद्भिः उन्नतः, वर्षार्थ गृहीतयत्नैः । न क्रियापदेन योज्यः । बबाधे इति कर्तरि । समुन्नमिति उन्देः क्तः ॥ १५ ॥ यति ॥ यत्र शैले ससुन्नमद्भिः समुत्पतद्भिरम्बुबाहेरुज्झिनाभिस्त्यकाभिरद्भिर्मुहुः समुन्नं सम्यगुत्र क्लिनम् । सिक्कमित्यर्थः । 'उन्दी क्लदने' इति धानो: कर्मणि कः। 'नुदविद-' इत्यादिना निष्ठानत्वम् । विग- नगा विगतसर्पा न भवन्तीत्यविपन्नगा: ।सपनगा इत्यर्थः । तेषामविपत्रगानां नगानां वृक्षाणां वनं वषपावकोत्था विषानिसमुत्था विपदापत् न बबाधे । नित्यं वर्षानुषङ्गाद्विषानिक्षोभो वृक्षाणामकिञ्चित्कर इति भावः ॥१५॥ फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।। शशंस यः पात्रगुणाद् गुणानां संक्रान्तिराकान्तगुणान्तरेति(१) ॥१६॥ फलद्भिरिति ॥ योऽद्रिः उष्णांशुकराभिमर्शात् रविकिरणसंस्पर्शात् कार्शानवमाग्नेयं धाम तेजः फलद्भिः वमद्भिः सूर्यकान्तैः करणैः इति शशंस आख्यत्, किं-गुणानां विशेषाणां या संक्रान्तिः स्थानान्तरगमनं सा पात्रगुणात् आधारविशेपाढेतोः आक्रान्त- गुणान्तरा अधिष्ठितविशेषान्तरा भवति । यदि ह्येवं न स्यात्तत्तदेव सूर्यकान्तगतमग्नित्वं न दध्यादिति भावः । तथा च भारविः- प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ (१) संक्रान्तिमाक्रान्तगुणातिरकाम् । ।

१४८ सन्देहविषौषधिसर्वकषायुते- [ चतुर्थः- - वाक्यस्याकर्मकत्वात् 'पश्य मृगो धावती तिवत् द्वितीयाभावः । संक्रान्तिमिति पाठे संक्रान्ति शर्शसेति योज्यम् । विशेषणत्वे इतिशब्देन प्रातिपदिकार्थे स्थापनात् द्वितीया- ऽभावः, यथा-'क्रमादमुं नारद इत्यबोधि सः', इति पूर्वपाठो रम्यतरः । कृशानोरिदं का- नवम् । पतङ्गः सूर्यः ॥ १६ ॥ फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्क करसम्पर्कात् कृशानोरिदं कार्शानवमाग्नेयं धाम तजः फलद्भिरुद्रिहिः । आग्नकरसामाभिव्यञ्जकैरिति भावः । पतङ्गाकान्तेः सूर्यकान्तैः। दृष्टान्तभूतरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम । सक्रान्तगुणानित्यर्थः । पात्रगुगादाधारगुगसहकारादा• क्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुगोत्कर्षो यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां मर्वत्र संक्रमणाविशेषेऽपि मूर्यकान्तेष्वेव ज्वलनजननदर्शनासर्वत्रापि संक्रम्पकारिणां गुगानामाधारगुण- महकारात्कार्यविशेषाधायकत्वामिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्ति- रनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलङ्कारः ॥ १६ ॥ दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान || क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः॥१७॥ दृष्टोऽपीति ॥ स नगो मुडुरवलोकितोऽपि हरेरपूर्ववत् अदृष्ट इव विस्मयमाततान कौतुकमवर्धयत् । ननु यदसकृन्निरूपितं न तत्र कुतूहलस्यावसर इत्याशङ्क्य साधकमा- न्तरन्यासमाह-रमणीयतायाः तदेव रूपं रामणीयकस्य स एव स्वभावः, यत् क्षणे क्षणे नवतामुपैति यदनुक्षगं वस्तु अपूर्वमिव भवति । यथा वाच्यमाने भारतरामायणे । मुहुः- शब्दो वीप्साप्रधानोऽत्र बोद्धव्यः १७ ॥ दृष्टोऽपीति ।। मुहुर्दष्टाऽपि स शैली मुराररेपूर्वणादृष्टपूर्वेण तुल्यमपूर्ववत् । 'तेन तुल्यं क्रिया चेत्-' इति वतिः । विस्मयमाननान । अतिरमणीयत्वादिति भावः । तथा हि-शणे क्षणे प्रतिक्षणम् । वाप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपेती त यत , तन्त्रवत्योपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणाम- त्यर्थः Fः । अत्र रमणीयवलक्षणभ्य वाक्यार्थस्य विस्मय हेतु-वसमर्थनाद्वाक्यार्थहेतुकं कालिङ्गमलङ्कारः॥१०॥ उञ्चारणज्ञोऽथ गिरां दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।। उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच ॥ १८ ॥ उच्चारणज्ञ इति ॥ अथानन्तरं दारुकः सूनः इति वक्ष्यमाणमूचे । कथने निमि- तमाह-किं कृत्वा शौरि हरिं तं धरं रेवतकं द्रष्टुमुत्कं सकौतुकं दृष्ट्वा अवेक्ष्य । तदुत्कण्ठा कथं तनावगतेत्याह-यतः उत्कन्धरमूर्ध्वग्रीवम् । यस्य हि दिक्षा उत्पद्यते स ग्रीवामु- क्षिप्य वर्तते । कीडशो दारुकः गिरां वाणीनामुच्चारणतः, उच्चारणं भापणं जानातीति वाग्ग्मी । किं कुर्वाणं धरं तटी: रोधांसि बिभ्राणं, कीदृशीः तटीः उच्चाः उन्नताः, तथा ग्णत्पक्षिगणाः कृजद्विहङ्गश्रेणीः । एता उपजातयोऽधुना नानावृत्तानि ॥ १८ ॥ उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरा वाक्पानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकु. शलः । 'आताऽनुपसर्गे कः' इति कप्रत्ययः, न 'इगुपध-'इत्यादिना । 'आकारादनुपपदाकषिपपदो भवति विप्रतिषेधेन' इति वचनात् । दारुकः कृष्णसारथिरुच्चा उत्रता रणन्तः शब्दायमानाः पक्षिगणा यासु ताः रणत्पाक्षगणास्तटीर्दधानं तं पूर्वतिं धरतीति धरं पर्वतम् । पचायन् । 'अहार्यधरपर्वताः' इत्यमरः । द्रष्टुमुत्कमुन्मुकम् । 'उत्क उन्मनाः' इति निपातः । उत्कन्धरमोत्सुक्यादुनमितकन्धर शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । न हाणितज्ञोऽवसरेऽवसीदतीति भावः ॥ १८ ॥ आच्छादितायतदिगम्बरमुश्चकैर्गामाक्रम्य संस्थितमुदप्रविशालङ्गम् ॥ मूर्ध्नि स्खलत्तुहिनदीधितिकोटिमेनमुद्रीक्ष्य को भुवि न विस्मयते नगेशम् १९ .

सर्गः । शिशुपालवधे। १४६ . - आच्छादितेति ॥ एनं नगेशमुद्वीक्ष्य रैवतकं दृष्ट्वा को भुवि पृथिव्यां न विस्मयते नचित्रीयते । सर्वोऽपि कौतुकं यातीत्यर्थः । कीदृशम् आच्छादिताः पिहिता आयता दीर्घा दिशः : काष्ठा अम्बरमाकाशं येन सः, तथा उच्चकैः उन्नतं, तथा गां भूमिमाक्रम्य व्याप्य संस्थितं, तथा उदग्रविशालशृङ्गम् उच्चानि विस्तीर्णानि शिखराणि यस्य । अत एव मूर्टिन स्खलत्तुहिनदीधितिकोटिं शिरसि परिष्वजच्चन्द्रकलं, कमिव नगेशमिव गिरीशमिव । श्लेषः, यथा-गिरीशं साक्षाद्भुवि वीक्ष्य को न आश्चर्य यायात् । कीदृशं शिवम् आच्छा- दिताः परिहिता आयता दिश एवाम्बर येन सः तम् । दिगम्बरो हि भगवान् । नग्न- इत्यर्थः॥१९॥ इतः प्रभूति यमकानन्तरश्लोकेषु वमन्ततिलकावृत्तं नियमेनाह- आच्छादितति ॥ आच्छादितान्यावृतानि आयतानि दीघाणि दिशोऽम्बरं ख च दिगम्बराणि येन तम , अन्यत्राच्छादितं वसितमायतं दिगेवाम्बरं वासो येन तं तथोक्तम् । उच्चैकरुत्रतां गां भुवमाक्रम्य व्याप्य संस्थितम् । तथोदग्राण्युनतानि विशालानि च शृङ्गाणि शिखराणि यस्य तम् । अन्यत्रोदने विशा- ले शृङ्गे विषाणे यस्य तम् उच्चैकरुन्नतं गां वृषभमाक्रम्य अधिष्ठाय, संस्थितमित्यर्थः । 'शृङ्गं विषाणे शिखर' इति, 'गौः स्वर्गे वृषभे रश्मो बजे चन्द्रमसि स्मृतः । अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' ॥ इति च विश्वः । मूर्ध्नि शिखरे अन्यत्र शिरसि स्फुरन्ती तुहिनदीधितरिन्दोः कोटिः रश्मिः कल च यस्य तमेन नगेशं नगग्रेट रैवतकं कलासनायकमीश्वरं चाद्वीक्ष्य को न विस्मयते । सर्वोऽपि विस्मयत- इत्यर्थः । नेयं तुल्ययोगिता, प्रकृताप्रकृतविषय तदनुन्धानात् । नापि समासोक्तिः, तस्या विशेषणसाम्य- जीवित्वात् । नापि श्लेषः, उभयश्लेषे विशेष्यश्लेषयागात् । तस्मात्प्राकरणिकार्थमात्रपर्यवसिताभिधाव्यापारेणापि शब्देनार्थान्तरधी कृद्वानरित्याहुः । तदुक्तं काव्यप्रकाशे- 'अनकार्थस्य शब्दस्य वाचकत्वे नियन्त्रित ! संयोगायग्वाच्यार्थधीकृद्रयापृतिरञ्जनम् ॥ इति । वृत्तलक्षणं तु-'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ १० ॥ उदयति विततो रश्मिरजावहिमरुचौ हिमधानि याति चास्तम् ॥ वहति गिरिरय विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥२०॥ उदयतीति ॥ अयं गिरिः रैवतकाचलो विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलां वह- ति विलम्बि विलम्बमानं यत् घण्टाद्वयं किङ्किणीयुगलं तेन परिवारितः परिष्कृतो विभूषितो वारणेन्द्रो हस्तिराजस्तस्य लीलां शोभा धारयति । घण्टाद्वयशोभितं द्विरदमनुकरोतीत्य- र्थः । कदा अहिमरुचौ सूर्य उदयति सति, चन्द्रे च अस्तं याति सति । कीदृशे खौ चन्द्रे च विततोयरश्मिरज्जो वितताः : प्रसृताः अतिदीर्घा ऊर्ध्वरश्मय एव रज्जवो यस्येति उभयविशेषम् । घण्टे हि रज्जुग्रंथ्यते । अन्दू घण्टयोरुपमानं, रज्जवो रश्मीनां, नगस्य करी । अनेनैव श्लोकेन कविना 'घण्टामाघ' इति नाम लब्धम् । अत्र इट कट कटी गतौ इति उदयतीति रूपम् । केचित् अय गताविति पठन्ति । पुष्पिताग्रा वृत्तम् ॥ २० ॥ उदयतीति ॥ वितता उर्वाश्च रश्मिरज्जवो रश्मयो रजब इव यस्य तस्मिन्विततोलरश्मिरज अहिमरुचौ सूर्य उदयत्युदयमाने । 'अय गतौ' इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोरभिमरज्जो हिमधानि चन्द्रे चास्त यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरि- - । ..

१५० सन्देहविषोषाधिसर्वकषायुते- [चतुर्थः- . विलम्बिन विशेष लम्बमानेन घण्टायेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभा वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपानिदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षा बिभृत इनि महदोनत्यं व्यज्यते । पुब्धि ताम्रा वृत्तम् । अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताम्रा ॥ वहति यः परितः कनकस्थलोः सहरिता लसमाननवांशुकः ॥ अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥ २१ ॥ वहतीति ॥ स एषः अचलो रैवतको भवानिव राजते, यः सहरिताः सर्वाः कनक- स्थलीः काञ्चनभूमीः सर्वतो वहति धारयति । तथा लसमाननवांशुकः सौवर्णत्वाल्लसमाना द्योतनशीला नवा अजर्जरा अंशवो भासो यस्य सः । शेषाद्विभाषेति कर । लसमाने- ति ताच्छील्ये चानश् । भवान् कीदृशः हरितालसमाननवांशुकः हरितालसमाने काञ्चनतुल्ये नवे नूत्ने अंशुके वाससी यस्य सः । पीतवासा इत्यर्थः । कनकस्थलीनां पीतवाससी उप- मानम् । अथ वा शब्दोपमेयम् , अर्थसारूप्यं भवतु मा वा भून्न तत्रापेक्षा । एतदस्माभी रुद्रजटालङ्कारे विवेचितम् । द्रतविलम्बितं छन्दः ॥ २१ ॥ वहतीत ।। लसमाना दीप्यमाना नवांशवो यस्य स लसमाननाशुकः । शैषिकः कःप्रत्ययः । यो- ऽचलः सहरिताः सदूर्वाः । 'हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति विश्वः। कनकस्य स्थली: म्वर्णभूमीः । 'जानपद-' इत्यादिना अकृत्रिमाणे डीम् । परितो वहति, स एषोऽचलः हरितालन कचुरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते । द्रुतविलम्बितं वृत्तम् । 'दुतविलम्बितमाह नभी भरौ' इति लक्षणात् ॥ २१ ॥ पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।। सम्पूर्णलब्धललनालपनोपमानमुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २२ ॥ पाश्चात्येति ॥ इहाद्रौ सानुष शृङ्गेषु सन्निषण्णाः सन्निविष्टा आसीना मृगाङ्कमूर्ते: शशिनः पाश्चात्यभागमपरं पार्श्वभार्ग पश्यन्ति ईक्षन्ते, उच्चत्वकथनम् । कीदृशं शान्त- मलसान्द्रतरांशुजालं शान्तमलं निष्कलङ्कम् अत एव सान्द्रतरमतिघनमशुजालं किरणनिकरो यस्य । अधोभाग एव तदपक्षया शशिनः शोभा विद्यते । तदाह-उत्सङ्गसङ्गिहरिणस्य अङ्कारूढमृगस्य, कीदृशं भागं सम्पूर्णलब्धललनालपनोपमानं पश्चाद्भागस्य(१) नर्मल्यात् सम्पूर्णमखण्डमेव लब्धं ललनालपनेन अङ्गनामुखेन उपमानं सादृश्यं येन तम् । इहत्यभागे हि समतलत्वात् विमलबनितावदनोपमानं विसदृशम् । पश्चात् भवः पाश्चात्यः, दक्षि- णापश्चात् पुरसस्त्यक् । हिमाः शीतला अंशवो मृतौ यस्य सः हिमांशुमूर्तिः । वसन्त- तिलका वृत्तम् ॥ २२ ॥ पाश्चात्यति ॥ इहाद्री सानुषु मनिषाणाः स्थिता जनाः शान्तमलं कलङ्कस्य पुरोवर्तित्वानिष्कलङ्क- मन एव सान्द्रतरमशुजालं यस्य तं सम्पूर्ण परिपूर्ण लब्धं प्राप्त ललनालपनापमान श्रीमुखसादृश्यं यन नम् । 'आननं लपनं मुखम्' इत्यमरः । कुतः-उत्सङ्गसन्निन्हरिणस्याङ्कस्थमृगस्य मृगाका मृगचिह्वा मूतिर्थस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भव: पाश्चात्यः । दक्षिणापश्चात्पुरसस्त्यक् । स चासौ भागश्च तं पाश्चा- न्यभागं पृष्टभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोक्त्या तादृगौत्रत्यध्वनिः । वसन्ततिलका वृनम् ॥२२॥ कृत्वा पुंवत्पातमुश्चै,गुभ्यो मूनि ग्राणां जर्जरा निर्झराधाः ॥ कुर्वन्ति द्यामुत्पतन्तः स्मरातस्वलॊकस्त्रीगात्रनिर्वाणमत्र ॥ २३ ॥ (१) पश्चात् अतश्च-मूलपुस्तके । .

सर्गः।] १५१ शिशुपालवधे । १५१ कृत्वेति ॥ अनादौ निझरौघाः पतज्जलपूराः स्मरार्तस्वलॊकस्त्रीगात्रनिर्वाणं कुर्वन्ति कामपीडिताऽमरवधूदाहोपशमनं विदधति । किं कुर्वन्तः द्यां स्वर्गमुत्पतन्तः आरोहन्तः, किं कृत्वा उच्चैः उच्चेभ्यो भृगुभ्यस्त्वतटेभ्यः ग्राम्यां मूनि दृषदामुपरि पातं कृत्वा, अत- एव जर्जराः शीकरतां गताः । के इव पुंवत् पुरुषा यथा । केचित् स्वर्गार्थिनो भृगुभ्यः का- लारादिभ्यः श्वभ्रेभ्यो मध्यपतनं कृत्वा खण्डशो गताः सन्तो दिवमारूढाः कामार्ताप्सरः- शरीरसुखं कुर्वते । भृगुभ्य इति पञ्चमी । योशब्दस्य धामिति रूपम् । निर्वाणमिति वा- तेः निपूर्वस्य क्तः, 'निर्वाणोऽवात' इति नत्वम् । शालिनी वृत्तम् ॥ २३ ॥ कृत्येति ॥ अनाद्री निर्झरौघा गिरिनदप्रवाहाः । 'प्रवाहो निझरो झरः' इत्यमरः। चूतवृक्ष इत्यादि- वत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत्पुंभिस्तुल्यम् । तेन तुल्यं क्रिया चेत्-' इति वतिः। उच्चै गु- भ्याऽतटेम्यः । 'प्रपातस्त्वतटो भृगुः' इत्यमरः । प्राब्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शक- लीभूता यामाकाशं प्रत्युत्पतन्तः स्मराताना स्वर्लोकस्मीणा खचरीणामप्सरसा गात्रनिर्वाणमङ्गनिर्वृति कुर्वन्ति । 'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीयतः । भृग्वाग्निर्जलसम्पतिर्मरणं प्रविधीयते' ॥ इति विहितभृगुपातिनां पुंसां स्वलोकगामिनामिहोपमानता । शालिनी वृत्तम् । 'शालिन्युका म्तौ तगौ गोऽन्धिलोकैः' इति ॥ २३ ॥ स्थगयन्त्यमूः शमितचातकाऽऽर्तस्वरा जलदास्तडित्तलितकान्तकार्तस्वराः ॥ जगतीरिह स्फुरितचारुचामीकराः सवितुः क्वचित्कपिशयन्ति चाऽमी कराः२४ स्थगयन्तीति ॥ इहाद्रौ मेघाः क्वचिदमूः जगतीः स्थलीः स्थगयन्ति, क्वचिद्रवेः अमी कराः कपिशयन्ति पिञ्जरयन्ति । कीदृशाः जलदाः शमितचातकाऽऽर्तस्वराः शमितः निवर्तितश्चातकानां पक्षिविशेषाणामार्तः तृषादीन:स्वरः यैस्ते निवर्तितबप्पीहक(?)दीनस्वराः, तथा तडित्तुलितकान्तकार्तस्वराः तडिद्भिः सौदामिनीभिः तुलितं सदृशीकृतं कान्तमुज्ज्वलं कार्तस्वर सुवर्ण यस्तं । जगतीः किंभूताः स्फुरितचारुचामीकराः स्फुरितं देदीप्यमानं चार स्निग्धं चामीकर सुवर्ण यासां ताः । अमूरिति स्त्रियाम् , अमी इति पुंसि। आर्त इति ऋगतौ आङपूर्वः क्तः 'उपसर्गादृति धातौ इति वृद्धिरेकादेशो रेफः । पथ्या वृत्तम् ॥२४॥ स्थगयन्तीति ॥ इहाद्री क्वचिदमूर्जगतीभूमीः। 'जगती भुवने भूमौ' इति विश्वः। शमिताश्चात- कानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः। 'सर्वसहापतितमम्बु न चातकानाम्' हति भूमिगतस्य तेषा विषाभत्वादभौमाम्बुदानेनोज्जीवयन्तीत्यर्थः । किञ्च तडिद्रिस्तुलितान्युपमितानि कान्तानि कार्तस्वराणि सुव- नि यैस्ते तडित्तुलितकान्तकार्तस्वराः । नडिस्फुरणे तेषामपि तद्वतस्फुरणादिति भावः । ते स्थगयन्त्याच्छादयन्ति । 'स्थग आच्छादने' इति चौरादिकः। क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराण सुवर्णानि यैस्ते स्फुरितचारुचामीक। अमी सवितुः कराः आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । क्वचिद् वृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः। पथ्या वृत्तम् । सजसा यलौच सह गेन पथ्या मता ॥ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतीवतरां शिरोभिः ॥ श्रद्धयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरिक्षम्(१) ॥२५॥ उत्क्षिप्तमिति ॥ अस्य रैवतकस्य विष्वक् तटेषु सर्वतो रोधस्सु प्रस्थेषु वा स्फुटं निश्चितमन्तरिक्षं खं पतति । खं चेदायाति कथं न दृश्यते, इत्याह-किंभूतं खं श्रद्धेय- निर्झरजलव्यपदेश श्रद्धेयः सम्भाव्यो निर्झरजलव्यपदेशो यस्य तत् । निर्झरजलव्याजेन पत- .. जलदाः .. .. (१)मन्तरीक्षम्।

- . १५२ सन्देहविषौषधिसर्वपायुते- [चतुर्थः- तीत्यर्थः । इति उत्प्रेक्षा । एतेन तोयस्योच्चत्वं प्राचुयं चोक्तम् । किमिति नभः पततीत्याह- शिरोभिः शिखरैः अतीवतराम् अतिशयेन उत्क्षिप्तमुदस्तम् । स्वस्थानाचालितं यत इत्यर्थः । अतिशयेन उत्क्षिप्यमाणं वस्तु पापाणवत् पतति । कीदृग्भिः शिरोभिः उच्छ्रितसितांशु- करावलम्डै: उच्छ्रिता उर्ध्वमुखा ये सितांशुकराश्चन्द्ररश्मयः तानवलम्बन्ते संयुञ्जते यानि नैः। ऊर्ध्वमुखशशिकरस्पृष्टरित्यर्थः । इति उच्चत्वोक्तिः । अन्योऽपि यो भारं शिरसा उत्क्षिपति स कस्यचित्करमवलम्बते । अत एवौन्नत्यादुत्तम्भितोडुभिः उत्तम्भितानि उनि तारा यैः तैः । उत्तम्भित इति स्तम्भुः सौत्रो धातुः, स्वार्थे णिच् क्तः । अतीवेति निपात- समुदायोऽतिशयार्थः । तरपा अतिशयस्य अतिशयः प्रतिपाद्यते । स्वार्थे वा। श्रद्धेयः श्रद्धातव्यः । समधिगम्य श्रद्धामारोप्य सम्भाव्यते इति अर्थान्तरम् ॥ २५ ॥ उत्क्षिप्तमिति ॥ उच्छ्रिता उत्क्षिप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः, उत्त. म्भितान्युडूनि यैस्तैः। उडूनि चावष्टभ्येत्यर्थः । शिरोभिः शिखरमस्तकैश्चातीवतरां भृशतरम् । अती- धशब्दादव्ययादामुप्रत्ययः । उक्षिप्तमुद्यम्य धृतमन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निरजलधियं कुर्वदित्यर्थः। अस्याद्रेस्तटेषु विश्वक्समन्तात्पत- ति स्फुटं सत्यम् । इन्दुकरानु नि चावटभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद् भ्रश्यदन्तरीक्ष मेवेदं न तु जलम् । सादृश्यानु व्यपदशो दुरि इति सर्वत:पातिता, निर्झरजलं चोत्प्रेक्ष्यने । तेनोत्सेधविस्तारा: वस्य व्यज्यते ॥ २५ ॥ एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्नद्युतिभिदुराऽम्भसोऽपरत्र ॥ कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥२६॥ एकत्रेति ॥ इहादौ सरितो नद्यः सुराफ्गायाः वैदग्धी सादृश्यं सारूप्यं भजन्त । किंभूतायाः गङ्गायाः कालिन्दीजलजनितश्रियः यमुनातोयोत्पादितशोभायाः । शुक्लासि- ता भवन्तीत्यर्थः । वैदग्धी विचित्रच्छायाविच्छित्तिः, सादृश्यमित्येके । अकस्मात् प्रयाग- शोभा वहन्तीत्यर्थः । किंभूता नद्य एकस्मिन् प्रदेशे स्फटिकतटांशुभिन्ननीराः सूर्योपलराधा- रश्मिच्छुरितजालाः, अपरत्र अन्यत्र इन्द्रनीलदीधितिविशेषिततायाः। भिन्नं छुरितं, नीरं जलम् । स्वयं भिद्यते विशेष गच्छतीति भिदुरं, भिदुरमम्भो यासां ताः। प्रहर्षिणी वृत्तम् एकत्रेति ॥ एफत्र एकस्मिन्भागे म्फटिकस्य यनटं तस्यांशुभिर्विभिन्न नीरा मिश्रोदकाः । शुभ्रजल:- इत्यर्थः । अपरत्रापरस्मिन्भाग नीलाश्मनामिन्द्रनील ना द्युतिभिर्मदुराणि मिश्राण्यम्मासि यामां ताः । नील- मलिला इत्यर्थः । इहादी सरितः कलिन्दस्यादरपत्यं स्त्री कालिन्दी यमुना । 'कालिन्दी सूर्यतनया यमुन शमनस्वसा' इत्यमरः । तस्या जलैजनिता श्रीः शोभा यस्यास्तस्याः । तत्सङ्गनाया इत्यर्थः । सुरापगाय' गङ्गाया वैदग्धी शोभा श्रयन्ते भजन्ति । विदग्धस्य भावो वैदन्धी । ब्राह्मणादित्वात् 'गुणवचन-' इत्यादि न' प्यअत्ययः । 'विदौरादिभ्यश्च' इति ङीष् । सोऽपीत्वस्य बाहुलकत्वादिह वैकल्पिकः । अत एव 'यत्रः वित्करणादीका। बहुलम्' इति वामनः । अत्र सितासितमीणगुणग्रहणात्सरितां यमुनासङ्गतगङ्गा शोभः- मादृश्याक्षेपानद्गुणात्थापिता निदर्शना । प्रहर्षिण वृनम्। नौज। गत्रिदशतिः प्रहर्षिणीयम् ॥ २६ ॥ इतस्ततोऽस्मिन्विलसन्ति मेरोः समानवने मणिसानुरागाः ॥ स्त्रियश्च पत्यो सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥ २७ ॥ इतस्तत इति ॥ अस्मिन्नद्रौ मेरोः समानवप्रे मुराद्विसदृशतटे मणिसानुरागाः रत्न- मयशृङ्गभाय इतस्ततो विलसन्ति द्योतन्ते । तथा च पुनः स्त्रियोऽपि नार्योऽपि पत्यो भर्तरि सानुरागाः प्रीतिमत्यः सत्यो विलसन्ति क्रीडन्ति सुरसुन्दरीभिः देववधूभिः समाः .

सर्गः।1 शिशुपालवधे। १५३ । . - . सदृश्यः । कीदृशे पत्यौ नवप्रेमणि नूतनस्नेहे । अनन्यगतचित्ते इत्यर्थः। रज्यतेऽनेनेति रागो रश्मिः । नवप्रेमणीति विभाषया अलोपः । उपेन्द्रवज्रा छन्दः ॥ २७ ॥ इतस्तत इति ॥ मेरोः समानवप्रे तुल्यप्रस्थे अत एवास्मिन्नद्रावितस्तती मणिसानुरागा रत्नतटका- न्तयो विलसन्ति प्रसरन्ति । किञ्च नवं प्रेम यस्य तस्मिन्नवप्रेमाण पत्यौ अनुरागेण सह वर्तन्त इति सानु- रागाः सुरसुन्दरीभिः समाः सरूपा स्त्रियश्चेतस्ततो विलसन्ति कीडन्ति । अन्योन्यमनुरागिणोऽनुरूपाश्चेह विलासिनस्तदनुरूपाणि च विहारस्थलानि मन्तीति भावः ॥ २० ॥ उच्चैर्महारजतराजिविराजिताऽसौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ॥ अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलोलाम् ॥२८॥ उच्चैरिति ॥ इहादौ पर्वते दुर्वर्णभित्ती रूप्यकुड्यौं भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलो- चनललामललाटलीलामभ्येति ( भस्म )धवलितहरस्य सामिनयनभूषणललाटशोभां प्राप्नो- ति । यतः कीदृशी उच्चैः उन्नता, तथा महारजतराजिविराजिता महारजतराज्या कनक- लेखया विराजिता भूपिता, तथा पुनः कीदृशी सान्द्रसुधासवर्णा सान्द्रा दीप्ता नूत्ना सुधा तया समानवर्णा । घन(१)मर्कोपलसिताया रजतभित्ते भूतिसितं ललाटमुपमान, कनकरजेः अग्निगर्भ तृतीयं नेत्रम् । उद्गतो वह्निर्यस्मात् उद्वह्नि साग्नि, लोचनं, ललाम चिन्हं भूपणं वा, ललाटं कपालं, लीला विच्छित्तिः । अभ्येताति आभिमुख्येन प्राप्नोति ॥ २८ ॥ उच्चैरिति ॥ इहादी सान्द्रया सुधया लपविशेषणामृतन वा मवर्णा समानवर्णा । 'ज्योतिर्जनपद-' इत्यादिना समानस्य सादेशः । 'लपभदऽमृत मुधः' इति वैजयन्ती । महारजतराजिविराजिता काञ्चन- रेखाशोभिता असौ पुरोवर्तिनी उच्चरुनता दुर्वर्णभित्ती रजताभात्तः । 'महारजतकाञ्चने' इति, 'दुर्वर्ण रजनं रूप्यम् ' इति चामरः । भस्मना परिपाण्डुरितस्य स्मराररुद्रह्नि उदताचिलेंचनमेव ललाम भूषणं यस्य तम्य ललाटस्य लीला शोभामभ्येति भजतीति निदर्शनालङ्कारः । 'ललाम पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुपु' इत्यमरः ॥ २८ ॥ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ॥ सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीबिभर्ति ॥ २९ ॥ अयमिति ॥ अयं गिरिः तटीः पुलिनानि बिभर्ति धारयति । कीदृशीस्तटीः अतिश- येन जरटाः कठोराः परुषपाषाणाः प्रकामगुवीरत्यन्तविस्तीर्णाः, तथा अलघुविलम्बिपयो- धरोपरुद्धाः सपयस्त्वात् बृहद्भिविलम्बमानै घुधिष्वक व्याप्ताः सदा च प्राणिनामगम्यरूपाः अयिशयदुर्गमाः। मुन्छु अगम्या अगम्यरूपाः, प्रशंसायां रूपप्रत्ययः । अथ वा अगम्यं रूपं संस्थानं यासां ताः । तथा परिणतदिवरिकाः परिणता दत्तप्रहाराः दिक्करिणो दिग्गजा यास ताः । शेषाद्विभाषेति कः । परिणतदिवरिका इव वृद्धकुमारीतुल्यास्तटीबिभती- त्युक्तिः । इवार्थो दृष्टव्यः । ता अपि परिणतत्वादतिजर्जगः प्रकामगुर्वीः स्थूलदेहाः अल- घुभिर्विलम्बिभिः पतितः पयोधरैः कुचैरुपरुद्वा व्याप्तदेहाः अत एव तरुणानाम् असेव्य- वपुषः । गमिरन मैथुने वर्तते, यथा-'न जरती स्त्रियं गच्छेत्' इति । दिक्वरिकाः कुमार्यः । पुष्पिताग्रा वृत्तम् ॥ २९॥ अयमिति ॥ अयं गिरिरतिजरठ। अतिकठिना: अतिजरतीश्च । 'जरठः कठिने जीणे' इति वैज- यन्ती। प्रकामं गुर्वीः श्रेष्ठाः स्थौल्याद् दुर्भराश्च प्रकामगुर्वीः । 'गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवः । विस्पष्टपटुवत् 'मयूरव्यंसकादयश्च' इति समासः । अलघुभिर्विलम्बिभिलम्बमानः पयो- धर, घैः स्तनश्च । 'मीस्तनाब्दी पयोधरौ' इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदा असुमता १५४ सन्देहविषौषधिसर्वकषायुते- [ चतुर्थः- प्राणभृतामगम्यरूपा अत्युनतत्वाद् दुरारोहस्वरूपाः, अन्यत्र वृद्धत्वाद्गमनाऽनहविग्रहाः । 'त्यजेदन्त्यकुलोत्प. नां वृद्धा स्त्री कन्यको तथा' इति गमननिषेधादिति भावः। परिणतास्तिर्यग्दन्तपहारिणो दिक्करिणो दि- ग्गजा यासु ताः परिणत दिक्करिकाः । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'इनः स्त्रियाम् इति समासान्तः कप्रत्ययः । अन्यत्र परिणताः किणीभूना दिशो दन्तक्षतविशेषाः करिकाः नख- वणाश्च यासा ताः। 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रक- दतटीविशेषण महिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः । पुष्पिताग्रा वृत्तमुकम् ॥ २९ ॥ धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदशि तटे पश्याऽमी ॥ श्यामीभूताः कुसुमसमूहेऽलीनां लीनां श्रेणीमिह(१) तरवो बिभ्राणाः ॥ ३० ॥ धूमाकारमिति ॥ पुरोऽग्रे तटे पुलिने पश्य विलोकय, इह अमी वृक्षा धूमाकारं धूम- सादृश्यं धारयन्ति । कोदृशे तटे सौवणे काञ्चनमये, अत एव वर्णेन अग्नेः सहशि तुल्ये । पिशङ्ग इत्यर्थः। तरवः कीदृशाः कुसुमसमूह पुष्पगुच्छे लीनां संलग्नामलीनांम्रमराणां पक्ति बिभ्राणा धारयन्तः, अत एव श्यामीभूताः कृष्णत्वं प्राप्ताः, अत एव सादृश्यं दधति । वा- क्यार्थस्याऽकर्मकत्वाद्वितीयाऽभावः । सौवर्ण त बुध्यतेऽग्निः, तरवस्तु धूम इति तात्पर्यार्थः। दधतीति अभ्यस्तत्वादनुषङ्गालोपः(२)। म्भौस्मौ ख्याता जलधरमाला ध्यङ्गः ॥३०॥ धूमाकारमिति ॥ इहा। पुरोऽग्रे वर्णेनाग्नः मदृशि समाने । अग्निसमान वर्ण इत्यर्थः । सौवणे सुव. विकारे तटे कुसुमसमूहे लीनां स्थिताम् । 'ल्वादिभ्यश्' इति निष्ठानन्त्रम् । अलीनां भृङ्गाणामालीमावली बिभ्राणा अत एव श्यामीभूना अमी तरवो धूममाम्यं दधति, त्वं पश्य । स्वर्णतटमांगेवदाति, श्यामास्त- रवो धूमवदान्तीत्युपमा । जलधरमाला वृत्तम् । 'अब्ध्यङ्गैः स्याज्जलधरमालाम्भी स्मौ' इति लक्षणात् ॥३०॥ व्योमस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः ॥ सौमेरवीमधिगतेन निकुञ्ज(३)शोभामेतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥ व्योमेति ॥ एतेनाद्रिणा भारतं वर्ष मनुष्यलोक इलावृतवद्विभाति स्वर्गतुल्यं शोभते । मेरुसमीपे इलावृतो नाम लोकोऽस्ति तत्र सर्वमेव सौवर्ण द्वादशवर्षसहस्राणि च जीव्यते । कुतस्तद्विभाति, किंभूतेन सौमेरवीं स्वर्णपर्वतसम्बन्धिनी निकुञ्जशोभा गहन- प्रदेशलक्ष्मीमधिगतन प्राप्तेन । एतदेव कथं, किं कुर्वता कलधौतभित्तीः सुवर्णशृङ्गाणि प्रथ- यता विस्तारयता, कीदृशीः व्योमस्पृशो गगनलग्नाः, तथा उनिः विकसितैः पुष्पैः प्रतीता उन्निद्रपुष्पचणा ये चम्पका वृक्षविशेषास्तैः पिङ्गाः पिशङ्गा भासो दीप्तयो यासां ताः । वित्तेऽर्थे चणप्प्रत्ययः, तेन वित्तश्चुचुपचणपौ। इलावृतोऽप्येवंविधो मेरुणा शो- भत । सुमेरोरियं सौमत्वी ॥ ३१ ॥ न्यामेति ॥ व्योमस्पृशोऽभ्रदूषाः उन्निद्रेविकसितैः पुषविना उन्निद्रपुपचणाः । तेन वित्तः-' इति चण प्रत्ययः । ते च ते चम्पकाश्च तात्पङ्गभामः पिङ्ग-वर्णाः कलधौतभित्ती: कनकतटीः । 'कलधौत रौप्यह. म्नाः' इति विश्वः । प्रथयता प्रकटयता अत एव सौमेरवीं सुमेरुसम्बन्धिी नितम्बशोभा कटकलक्ष्मी- मधिगतेन प्राप्तवता । 'गत्यकर्मक-' इत्यादिना गमेः कर्तरि कः । एतन रैवतकादिणा भारत भरतस्य राज्ञ इदं भारताय वर्ष भूखण्डम् । 'स्यादृष्टी लोकधात्वंशे वत्सरे वर्षमनियाम' इत्यमरः। इलावृतव. दिलावृतवर्षमिव विभातीत्युपमा । नवखण्डस्य जम्बूदीपस्य हिमादक्षिणभूखण्ड हैमवतापरनामकं भारतवर्ष सुमेरुयोगासौ मेरवापराख्यं मध्यमखण्ड मिलावृतवर्षम् । अत एव - 'नानंदं भारतं वर्ष हिमाद्रस्तच दक्षिणे । । । .. (१) लीनामालीमिह । (२) अभ्यस्तयोरात' इत्याकारलोप इति यावत् । (१) नितम्ब ।

समः।] शिशुपालवधे। १५५ .. तेन हैमवतं नाम परेष्वप्येवमुत्रयेत् ।। इलावृतं सौमरवं सुमेरोः परितो हि तत्' । इति वैजयन्ती ॥ ३१ ॥ रुचिरचित्रतनूरुहशालिभिर्विचरितैः (१)परितः प्रियकवजैः ॥ विविधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥ रुचिरेति ॥ एषोऽद्रिः प्रियकवजैः मृगविशेषयूथैः अभिभाति परितः शोभते । की- दृशैः रुचिरचित्रतनूरुहै: लोमभिः शालन्ते श्लाघन्ते ये तैः, तथा परितः समन्तात् विचरितः चरितुं प्रवृत्तैः । उत्प्रेक्ष्यते-अवयवैरिव स्वाङ्गरिख । किंभूतैः जङ्गमतां गतैः जीवत्वं प्राप्तैः तथा विविधरत्नमयैः । अवयवाः अवयवसंस्थानविशेषाः, विविधरत्नतुल्यानि तनूरुहाणि ॥३२ रुचिति ॥ असौ गिरिः रुचिरैरुज्ज्वलचित्र नावगैस्तनूरुहोमभिः शालन्त इति तथोके परितः प्रचलितैः प्रसद्भिः, प्रियकाः कम्बलप्रकृतया मृगविशेषाः । 'प्रियको रोमाभर्युको मृदूच्चममृणेघनैः' इति वैजयन्ती । तेषां जैः समूहजङ्गमता चरिष्णुता गविविधरत्नमयैरवयवैः स्वाङ्गैरिव अतिभातीत्युत्प्रेक्षः । दुतविलम्बितं वृत्तम् ॥ १२ ॥ कुशेशयरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ॥ प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वगैः॥ ३३ ॥ कुशेशयैरिति ॥ अत्राद्रौ जलाशयोषिता सरःस्थिताः कलभाः करिपोतका वि- कस्वरः विकासिभिः कुशेशयैः कमलैर्मुदा हर्पण रमन्ते क्रीडन्ति, तथा सिद्धगणैश्च देव- विशेषाषितामन्ते प्रियासमीपे उदारमुत्कृष्ट गीयत मुष्ठ गानं क्रियते । कीदृशैः कल- भाविकस्वरैः कलो मधुरो भाविकः सरसः स्वरो वाक् येषां तैः । कुशे जलमध्ये शेरते इति कुशेशयानि । आशयः स्थानम्, आशेरतेऽस्मिन्निति कृत्वा पुंसि संज्ञायां घः प्रायेण । विकसन्तीति शीलानि विकस्वराणि, स्थेशभासपिसकसो वरचू। प्रगीयते इति भावे लकारः कर्मणि वा । भावा रसा उपचारात् भावना वा, कलत्वं कलभावः स विद्यते यस्यासौ कलभाविकः, अत इनिठनौ । उशन्ति वंशस्थवृत्तम् ॥ ३३ ॥ कुशेशयैरिति । अत्राद्री जलाशयोषिता जलाशयेषु ह्रदेषु उषिता वसन्तः । 'गत्यर्थाकर्मक-'इत्या- दिना वसतेः कर्तरि कः, सम्प्रसारणम् । 'मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता । कलभाविंश- द्वर्षकरिणः । 'त्रिंशद्वर्षस्तु कलभः' इति वैजयन्ती विकस्वरैविकसनशीलैः । स्थेशभासपिसकसो वरच् । कुशेशयः शतपत्रः । 'शतपत्रं कुशेशयम्' इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमला- कराणामयमाकर इति भावः । किञ्च कला अव्यक्तमधुराः । विकारो मानसो भावः स प्रयोजनमेषां भा. विकाः। उद्दीपका इत्यर्थः । कला भाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविक स्वरैः सिद्धगणैः सुर- मर्योषितां स्वमीणामन्ते समीपे उदारमुच्चैः प्रगीयते च । भूस्वर्गोऽयमिति भावः ॥ ३३ ॥ आसादितस्य तमसा नियतेनियोगादाकाङ्कतः पुनरपक्रमणेन कालम् ॥ पत्युस्त्विषामिह महौषधयः कलत्रस्थानं परैरनभिभूतममूर्भजन्ते(२) ॥३४॥ प्रासादितम्येति ॥ इह नगे अमूर्महौषधयस्त्विषां पत्युः सूर्यस्य कलत्रस्थान रुचामाश्रयत्वं भजन्ते श्रयन्ति । तिष्ठन्त्यस्मिन्निति स्थानम्, कलत्रं दाराः, त्विषां पत्युश्च त्विष एव कलत्रम् । तेन महौषधिषु अमृतसञ्जीविनीप्रभृतिषु त्विषो निक्षिप्य रवि- रस्त यतीति तात्पर्यार्थः । किंभूतस्य त्विट्पतेः नियतेनियोगाद्विधेरादेशात् तमसा अन्ध- - (१) विचलितः। (२)वहन्ति ।

.. १५६ सन्देहविपौषधिसर्वकषायुते [ चतुर्थः- कारेणास्तंगमनेन वा आसादितस्य प्राप्तस्य । पितामहाज्ञयाऽपि रविरस्तं याति । पुन- भूयः अपक्रमणेन उदयाचलगमनेन काल स्वसमयमाकाङ्क्षतः वाञ्छतः । गत्या हि दिन- कृदुदयं लभते । कीदृशं स्थान परैरन्धकारादिभिः अपरिभूतमानाक्रान्तम् । न हि रात्रावोषधिषु तमो बाधते, तेजोरूपत्वात् । अथोक्तिश्लेष:-यः किल महापुरुषो दैववशा- त्तमसा दारिद्रयण शत्रुभिरासादितः सन् क्वापि गृहादावपि अपरिभृते स्थाने दारान् क्षि- पति, ततः पुरुनरपक्रमणेन चेष्टया कालमाकाङ्क्षति । चन्द्रस्त्विां पतिरिति न तथा हृदयहारि ॥ ३४ ॥ प्रासादितस्योत ॥ इहाद्री अमूर्महौषधयो नियतेनियोगादस्मिन्काले इदं भावीति दैवशासनात तमसाऽन्धकारण तत्प्रायेण व्यसनेन वा आसादितस्याक्रान्तस्य पुनरपक्रमणेन पुनरावृत्त्या कालं समागम- कालमाकासतः । पुनरागत्य सङ्गन्तुमिच्छत इत्यर्थः। विषा पत्युः सूर्यस्य सम्बन्धि परस्तेजोऽन्तरः पुरुषान्तरैश्च अनभिभूतमतिरस्कृतमनुपहतं च कलत्रस्थानं कलत्रभूतानां विषां स्थान स्थिति वहन्ति । निर्वहन्तीत्यर्थः । स्त्रीणां श्रीष्वेव रक्षणं कार्यमिति भावः । यथा केनचिदापदि न्यासीकृतानि कलत्राणि संर- क्ष्य कालान्तरे साधवस्तस्मै प्रयच्छान्त, तद्वदोषधयोऽपि त्विषस्त्विषां पत्युरर्पयन्तीत्यर्थः । एतच तासा सूर्यास्तमये प्रज्वलनादुदये विषयाच्चीपचर्यते । अत्र विशेषणसाम्यादर्शदीनामापनादिसाम्यप्रतीतेः समा- सोक्किरलङ्कारः ॥ ३४ ॥ पुरः पति(१)स्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैर्लम्बित(२)लोचकैर्वा मधुव्रतवातवृतैव्रतत्यः ॥ ३५ ॥ पुर इति ॥ अत्राद्धौ व्रतत्यो लताः प्रमदा इव अङ्गनातुल्याः । इदानीं श्लेषः- कीदृश्यो लताः पुरोऽग्रे पतिवृक्षस्तस्य स्कन्धं प्रकाण्डे निषण्णाः संल्लग्नाः बाला नवाः प्रवालाः किसलयान्येव हस्ताः कराः यासां ताः । प्रमदा अपि भर्तृस्कन्धदत्तपल्लब- समकरा भवन्ति । लता हि निकटं तरं वेष्टयन्ति प्रमदा अपि अग्रेवर्तिनः पत्युरुत्सङ्ग प्रवालतुल्यं पाणिं प्रायशः कुर्वते । तथा पुष्पाण्येव चक्षूषि तैरुपलक्षिताः, नार्योऽपि पुष्पतुल्यैनेंत्रैः शोभन्तं । कीदृशैः मधुव्रतवातवृतैः मधु किअल्कं व्रतयन्ति भक्षयन्तीतिः मधुव्रताः षट्पदास्तेषां बातः समूहः तेन वृतैव्याप्तः, लम्बितलोचकैर्वा, वा इवार्थे । लम्बितलोचकैरिव । ग्राम्यनारीशिरोवस्त्रं लोचकः प्रायेण कृष्णः तनीयान् । ग्राम्या हि मुखे लोचकान् कुर्वते । यथा- यो गोपीजनवल्लभः कुचतटव्याभोगलब्धास्पद छायावात्रविरक्तको (?) बहुगुणश्चारुश्चतुर्हस्तकः । कृष्णः सोऽपि हताशयाऽप्यपहृतः सत्यं कयाऽप्यद्य मे कि राधे! मधुसूदनो न हि न हि प्राणप्रियो लोचकः ॥ वनस्पतीति ॥ अत्राद्री वनस्पतयो वृक्षः । वनस्पतिवृक्षमात्रे विना पुष्पफलदुमे' इति विश्वः । तेषा स्कन्धेषु प्रकाण्डेषु असेषु च निषण्णाः सक्का बालपवाला बालपल्लवा हस्ता इव यासो तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां बातेन वृन्दन वृत्तवछन्नः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि कजलानि च यस्तैर्वा तैरिव स्थितरित्युत्प्रेक्षा । इवार्थ वाशब्दः, तद्वदुत्प्रेक्षाया चौक्तः । 'लोचको मांसपिण्डे स्यादक्षितारे च कज्जले' इति विश्वः । पुपैरीक्षणैरिव पुष्पक्षणरुपलाक्षता व्रतत्यो लताः प्रमदा इव, लक्ष्यन्त इति शेषः । 'न प्रसिद्ध कियाध्याहारदोषः' इत्याह वामनः, लिङ्गाध्याहारवदिति ॥३५॥ (१) वनस्पति। लम्भित । . - सर्गः।] शिशुपालवधे। विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।। भ्रमयन्नुपैति मुहुरंभ्रमयं पवनश्च धूतनवनीपवनः ।। ३६ ॥ विहगा इति ॥ इह गिरौ कदम्बपुष्पसुरभो सुगन्ध विहगाः पक्षिणः अनुक्षणं वारंवारं गाः कलयन्ति वाच उच्चारयन्ति गायन्तीत्यर्थः । अनेकलयं द्वतमध्यविलम्बितभेदन त्रिविधो लयो गुणो वा यत्र गाने । लयो गीतादिसाम्यम् । अन्यच्च अयं पवनो वायुः उपैति वाति । कीदृशः अभ्र मेधं मुहुर्वारंवारं भ्रमयन् प्रेरयन्, इति शैत्यमृदुत्वोक्तिः । तथा धूतं कम्पितं नवं सरसं नीपवनं वार्षिककदम्बकुसुमवृन्दं येन, धूतकदम्बकुसुमसमूहः इति सौरभोक्तिः । प्रमिताक्षरा वृत्तम् ॥ ३६ ॥ विहगा इति ॥ कदम्बः सुरभिः सुन्धिस्तस्मिन्कदम्बसुरभाविहाद्रौ विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणम अनेके बहुविधा लया विच्छेदा यस्मिन्कणि तयथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारय न्ति । 'अर्जुनीने त्रदिग्बाणभूव ग्वारिषु गौर्मता' इति विश्वः । किञ्च धूनानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन सः धूतनवनीपवनः । 'नीपभियककदम्बास्त हलिप्रिय' इत्यमरः । अयं पवन मुहुर, मेघ भ्रमयन्नुपैति । प्रमिताक्षरा वृत्तम् । 'प्रमिताक्षरा मजससैरुदिता' इति लक्षणात् ॥ ३६ ।। विद्वद्भिरागमपरैर्विवृतं कथश्चिच्छुत्वाऽपि दुर्घहमनिश्चितधीभिरन्यैः ।। श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूढार्थमेष निधिमन्त्रगणं बिभर्ति ॥३७॥ विद्वद्भिरिति ॥ एषोऽद्रिः निधय एव मन्त्रास्तेषां गणं वृन्दं विभर्ति धारयति । निधानं कीदृशं विद्वद्भिः प्राज्ञः आगमपरैस्तालशास्त्रप्रवीणैः कथञ्चित् क्लेशेन विवृतं प्रकटितम् । तालज्ञा एवं विधानं जानते । तथा अन्यैरनिश्चितधीभिः अतालज्ञैः श्रुत्वापि 'अत्र विद्यते निधानमित्यन्यतो बुद्ध्वाऽपि दुर्ग्रहं दुष्प्रापं, तथा अघानि दारियादिदुःखानि हन्तुं विनाशयितुं क्षमं शक्तं, तथा गूढार्थमप्रकटितद्रव्यम् अत एव कथञ्चित् विवृतं दुहं च । कीदृशोऽद्रिः श्रेयान् सर्वश्रेष्टः, क इव विर्ति द्विजातिरिव विप्रतुल्यः । श्रेयान् सानुष्ठानो द्विजाति: मन्त्रगणं बिति, कोदृशम् आगमपरैः सिद्धान्तनिष्ठेरपि दुःखेन व्याख्यातम्, अन्यैश्चावलिसः श्रुत्वा दुर्ग्रहमज्ञातं, यतो गूढार्थ छिन्नवाच्यम् । बोधमित्यर्थः । तथा पापानि विध्वंसयितुं समर्थम् । वेदवाक्यहि यथान्यस्तैत्रिविध- मशुभं क्षीयते ॥ ३७॥ विद्वारिति ॥ एषोऽद्रिः श्रेयान् श्रेष्ठः द्विजातिवामिण इव आगमो निधिकल्पो मन्त्रशामं च स. एव परं प्रधानं येषा तैरागमपरैर्विद्वद्भिनिधीना मन्त्राणां च साधनविधान ः कथञ्चिद्विवृतं स्वरूपतः प्रका- शितम् । नास्ति निश्चिता इदमित्थमिति निश्चयामिका धीषी तैरानीश्चतधीभिरन्यैरशास्त्रज्ञैः श्रुत्वापि 'इह निधिरस्ति, ईदहिमा असौ मन्त्र' इति चाप्तमुखादाकपि दुर्घहं दुःसाधनम् । अघानि दुःखान्येना से च हन्तुं दक्षं समर्थम् । 'दुःखैनोव्यसनेष्वधम्' इति वैजयन्ती । गूढः संवृतोऽर्थो धनमभिधेयं च यः स्मिस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं बिभर्ति । द्विजातिमन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः ॥ ३० ॥ बिम्बोष्ठं बहु मनुते तुरङ्गवक्रश्चुम्बन्तं मुखमिह किन्नर प्रियायाः ॥ श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३ ॥ बिम्बोष्ठमिति ॥ इहानौ अश्वमुखः मनुष्यमुखं किन्नर बहु मन्यते गुरु यथा तथा अवबुध्यते एष शोभन इति जानाति । किं कुर्वन्त प्रियाया मुखं बिम्बीफलरक्ताधर । १४ शिव १५८ सन्देहविषौषधिसर्वकषायुते- [चतुर्थः- ॥ चुम्बन्तं पिबन्तं, तस्य अश्वमुखत्वाचुम्बनं दुर्घटमतस्तस्मै स्पृहयते । इतरोऽपि अश्वशरीर- स्तमश्वमुर्ख बहु मन्यते, यतो निजप्रियां वरशरीरे आलिङ्गन्तम् , अश्वशरीरे आलिङ्गन नास्ति । कोशी कान्ताम् उत्तुङ्गः ऊर्ध्वमुखो यः स्तनभारः कुवाभोगस्तेन यो भङ्गः स्फुटनं ततो भीरु त्रस्तं मध्यमुदरं यस्याः सा ताम् । पीनपयोधरां कृशोदरीं वा इत्यर्थः । स्त्रीमिति 'वाऽशसोरिति इयविकल्पः। द्विधा किंपुरुषाः,केचित् अश्वमुखाः पुरुषशरीराः केचित् मनुष्यमुखा अश्वदेहाश्च। तत्रान्योन्यं साभिलाषौ इति तात्पर्यार्थः। प्रहर्षिणी छन्दः३८ बिम्बोष्ठमिति । इहाद्री तुरगस्य वक्त्रमिव वक्त्रं यस्य स तुरङ्ग-वक्त्रो देव योनिविशेषः। सप्तम्युपमान- पूर्वपदस्य बहुबाहिरुत्तरपदलोपश्चेत्युष्ट्रमुखवत्समासः । बिम्बकल्प ओष्ठा यस्य तं विम्बोष्टमित्युपमालङ्कारः । 'ओत्वोष्ठयोः समासे व पररूपं वक्तव्यम्' इत्योकारः । प्रियाया मुखं चुम्बन्तं किन्नरं मानुषमुखमश्वा- इं. देव योनि विशेष बहु गुरु यथा तथा मनुतेऽवबुध्यते । तुरङ्गवक्त्रस्य चुम्बनासम्भवादिति भावः । इतरः किनरोऽप्युत्तुङ्गस्तनभरेण यो भङ्गस्तस्माद्भरुिमध्यो यस्यास्तां निजी स्व त्रियम् । वाऽमशसोः' इति विकल्यादि- यडादेशाभावः । मुहुः श्लिष्यन्तं मानुषाङ्गत्वादालिङ्गन्तं तुरङ्गवक्त्रं बहु यथा मनुते। तुरङ्गावपुषः किनरस्याश्लेषा - मम् भवादिति भावः । दुर्लभ प्रियं भवतीति रहस्यम् । मध्यस्याभङ्गाऽपि भङ्गेनरतिशयोक्तिरुपमया संमृज्य- ने । प्रहर्षिणी वृत्तमुक्तम् ॥ ३८ ॥ यदेतदस्याऽनुतटं विभाति वनं तताऽनेकतमालतालम् ॥ न पुष्पिताऽत्र स्थगितार्करश्मावनन्तताने कतमा लताऽलम् ॥ ३९ ॥ यदेतदिति ॥ अस्याः अनुतटं पुलिनसमीपे यदेतद्वनं काननं शोभते, अत्र वने कतमा लता वल्ली अलमत्यर्थ न पुष्पिता । सर्वा सञ्जातकुसुमेत्यर्थः । कीदृग्वनं ततानेक- तमालतालं तमालाश्च तालाश्च तमालतालं ततं विस्तीर्णमनेकतमालताल यत्र । अत एव स्थगितार्करश्मौ पिहितरविकिरणे, तथा अनन्तताने अनन्तस्तानो विस्तारो यस्मिन् , महाभोगे ॥३९॥ यदेतदिति ॥ अस्यादरेनुतटं तटेषु । विभक्त्यर्थेऽव्ययीभावः । तता विस्तृता अनेके बहवस्तमाला- स्तालाश्च यस्मिस्तत्ततानेकतमालतालं यदेतत्पुरोवर्ति वन विभाति स्थगितार्करश्मौ तिरोहितातपे अनन्त- नानेऽपारविस्तारेऽत्र वने कतमा लता का वा लता अलमत्यन्तं न पुष्पिता सञ्जातपुष्पा न । भवतीति शेषः । सर्वापि पुष्पितेत्यर्थः ॥ ३९ ॥ दन्तोज्वलासु विमलोपलमेखलान्ताः सद्रनचित्रकटकासु बृहनितम्बाः ।। अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु॥४०॥ दन्तोज्ज्वलास्विति ॥ अस्मिन् रैवतके अधित्यकामु उपरितनभूमिषु नार्यो- ऽनुरूपं श्रेष्ठमुचितं वा अधिवासं स्थानं भजन्ति सेवन्ते । उपभोगयोग्यान् प्रदेशान् आश्र- यन्त इत्यर्थः। कीदृशीषु दन्तोज्ज्वलास उच्चपाषाणरम्यासु तथा सद्रत्नचित्रकटकासु सदत्नैः पराय॑मणिभिश्चित्रकटकासु नानारूपसानुषु । नार्यः कीदृश्यः विमलोपला मेखलान्ताः का- जीपर्यन्ता यास ताः तथोक्ताः, तथा बृहनितम्बाः पीवरजघनाः तथा धनकोमलगण्डशैलाः घनाः परिपूर्णाः कोमलाः सुस्पर्शा गण्डशैलाः कपोलभित्तयो यासु ताः । अथ वाऽनु- रूपमात्मतुल्यं स्थानमधित्यकासु भजन्ते इति अर्थान्तरप्रतीतिः । एवं चानुरूप्यं भवति, यदि नार्योऽधित्यकाश्च सहशो भवन्ति । तेनेह नार्योऽधित्यकाश्च सहशा इति तात्पर्यार्थः । : न च विभागोपपन्नविशेषणैरत्र शब्दसाम्यमर्थसादृश्य वा विद्यते । तया पश्चापि विशेषणा- ।

सर्गः ।] शिशुपालवधे। १५६: .. . न्येकैकमुभाभ्यामप्यर्थवशाद्विभक्तिविपरिणामेन योजनीयानि । तत्र यानि न व्याख्यातानि तानि योज्यन्ते । नार्यः किंभूताः दन्तैर्दशनैरुज्ज्वला मनोहराः तथा उत्तममणिनानारूप- वलयाः । अधित्यकासु कीदृशीषु स्फटिकमध्यप्रदेशासु, तथा बृहन्नितम्बासु विस्तीर्णप्र- देशविशेषासु, तथा निबिडसुस्पर्शगलितपाषाणासु ॥ ४० ॥ दन्तोज्ज्वलास्विति ॥ अस्मिन्नदौ दन्ता निकुञ्जा दशनाश्च । 'दन्तो निकुञ्ज दशने' इति विश्वः । तैरुज्ज्वलासु रुचिरासु सदनैश्चित्राणि कटकानि सानूनि वलयानि च यासा तासु । 'कटकं वलये सानो' इति विश्वः । अधित्यकासूर्श्वभूमिषु । 'भूमिरूर्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकनासनारूढयोः' इत्यधिशब्दात्त्यकन्प्रत्ययः । विमलोपला उज्ज्वलशिला उज्ज्वलमणयो वा मेखलाः काञ्च्यो नितम्ब. भूमयश्च । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । ताभिरन्ता रम्याः। 'मृताववसिते रम्ये समालावन्त इष्यते' इति शब्दार्णवे। बृहन्त नितम्बाः कटपश्चाद्भागाः शिखराणि च यासा ताः । 'नितम्बो रोधसि स्कन्धे शिखरेऽपि कटेरधः' इति विश्वः । घना विपुलाः कोमलाः लक्ष्गा गण्डशैल गण्डस्थलानि स्थूलोपलाश्च यासा ताः नार्योऽनुरूपमिच्छासदृशम् आत्ममदशं वाऽधिवासं भजान्त । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकृतगोचरा श्लेषोपस्थापिता तुल्ययोगिता । अत एवोभयविशेष- णान्थुभयत्र विभक्तिविपरिणामेन याज्यानि ॥ १०॥ अनतिचिरोज्झितस्य जलदेन चिरस्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ॥ विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमहो ॥ ४१ ॥ अनतिचिरेति ॥ इहाद्रौ धौतकलधौतमही निर्मलरूप्यभूभिः मेघेन साम्प्रतमुक्त- जलस्य अत एव चिरस्थितानेकफेनलवस्य सकलामखण्डामनुकृति सारूप्यं विदधाति करोति । कीदृक् मही विरलानि अघनानि विकीर्णानि विक्षिप्तानि वज्रशकलानि हीरकखण्डानि यस्याः सा । पयसः किंभूतस्य जलंदन अनतिचिरं तत्क्षणं त्यक्तवृष्टस्य अत एव चिरस्थिता बहवो बुबुद्दाः फेना यस्य । चिरोज्झितं पयो न शुक्लं भवति नापि सबु- बुदमित्यनतिचिरग्रहणम् । रूप्यभूमेघपय उपमान, वज्राणां बुबुदाः ॥ ४१ ॥ अनतिचिरेति ॥ इहाद्री विरलं यथा तथा विकीर्णाः प्रसरणशीला वज शकलाः श्वेतहीरखण्डानि यस्यां सा धौता शुभ्रा कलधौतमही रजतभूमिः। 'कलधौत रूप्यहम्नाः' हाते विश्वः । जलदेनानतिचिरो- ज्झितस्य तत्कालमुकस्य । शुभ्रस्येति भावः | चिस्थिताश्चिरस्थायिनो बहवश्च बुद् बुदा जलस्फोटा यास्मस्तस्य पयसोऽम्भसः सकलामनुकृति समप्रसादृश्यं विदधाति । अत्र मेघोज्झितजलस्य स्थिरबुद्- बुदासम्बन्धेऽपि सम्भावनया सम्बन्धोतरातेशयोक्तिः। कुररीरुता वृत्तम् । 'कुररीरुता नजभजैलंगयुक इति लक्षणात् ॥ ४२ ॥ वर्जयन्त्या जनैः सङ्गमेकान्ततस्तर्कयन्त्या सुखं सङ्गमे कान्ततः ॥ योषयैष स्मरासन्नतापाङ्गया सेव्यतेऽनेकया सन्नताऽपाङ्गया ॥ ४२ ॥ वर्जयन्त्येति ॥ एषोऽदिरनेकया योषया यौवतेन सेव्यते, कीदृश्या योषया जनैः सङ्ग वर्जयन्त्या। किमर्थ लोकसङ्गं परिहरतीत्याह-सङ्गमे सङ्गे सति कान्ततः प्रियात् एकान्ततो रहसि सुखं जानत्या, सत्यपि प्रियसन्निधाने जनसमक्ष न किञ्चित् सुरतसुखमा- साद्यते इति शङ्कमानयेत्यर्थः । यतः स्मरासन्नतापाङ्गया कामेन हेतुना आसन्नतापं निकट- ज्वरमङ्ग शरीरं यस्याः तया । समदनज्वरयेत्यर्थः । तथा सन्नतौ निम्नौ अपाङ्गौ अक्षि- पर्यन्तौ यस्याः तया । स्रग्विणी वृत्तम् ॥ ४२ ॥ वर्जयन्त्यति ॥ एकान्तत एकान्ते । रहमीत्यर्थः । कान्ततः कान्तेन । प्रियेणेत्यर्थः। उभयत्रापि १६० सन्देहविषौषधिसबषायुते- [चतुर्थः- - .मार्यविभक्तिकस्तसिः । सङ्गमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया । विस्खधं विहारमाकाक्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्त्या । कुतः स्मरेणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया स्मरासत्र. तापाङ्गया। ‘अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्' इति विकल्पादिह पक्षे टाप् । सत्रतौ नमावपाङ्गी यस्यास्तया सन्नतापाङ्गया स्मरतापात्कूणितनेत्रया अनेकया योषया । अनेकाभिर्योषाभिरित्यर्थः । जातावेकवचनम् । स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । 'रैश्चतुभिर्युता स्रग्विणी सम्मता' इति लक्षणात् ॥ ४२ ।। सङ्कीर्णकीचकवनस्खलितकवालविच्छेदकातरधियश्चलितुं चमयः ॥ अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रनिर्यत्स्वर(१)श्रुतिसुखादिव नोत्सहन्ते ॥४३॥ सङ्कीर्णेति ॥ इह चमों वालप्रियाश्चलितुं नोत्सहन्ते गन्तुं नेच्छन्ति । यतः किं- भूताः सङ्कीर्ण संहतं यत् कीचकवनं सच्छिद्रवंशकाननं तत्र स्खलित: संलग्नो यः एको बालः कचस्तस्य विच्छेदेन त्रुटनेन कातरधियस्त्रस्तबुद्धयः खिन्नचिताः। जातिस्वभावात् आमरणमप्यङ्गीकुर्वते न वालभङ्गम् । उत्प्रेक्ष्यते-मृदुश्वसनगर्भ कोमलमारुतपूर्ण यत्तदीय- रन्ध्र कीचकविवरं ततो निर्यन् निर्गच्छन् स्वरः शब्दः स्वराः षड्जादयः तेषां श्रुतिरा- कर्णनं तया यत् सुखं तस्मादिव न चलन्ति । यो हि सरसः स जिगमिषुरपि गेयवाद्याकर्णने न नूनं याति ॥ ४३ ॥ सङ्कीर्णेति ॥ अस्मिन्न सङ्कीणी मिथः सन्दष्टाः कीचका वेणु वशेषाः । वणवः कीचकास्त स्युर्ये स्वजन्त्यनिलोद्धताः' इत्यमरः। तो बने स्खलितस्यकवालस्यैकराम्णो विच्छेदात्कातरा प्रस्ता धीर्यासां नाश्चमर्यो, मृदुश्वसनो मन्दमारुतो गर्भ येषां तेभ्यस्तदीयरन्त्रेभ्यः कीचकविवरेभ्यो निर्यतो निर्गच्छतः ..म्बनस्य श्रुत्या श्रवणेन यत्मुखं तस्मादिवति हेतू-प्रेक्षा, चलितुं नोत्सहन्ते । वस्तुतस्तु वालप्रियत्वादिति भावः । 'शकधृष --' इत्यादिना तुमुन्प्रत्ययः ॥ ४३ ।। मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रेर्वापीष्वन्तीनमहानीलदलासु ॥ शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छामृच्छति नीलीसलिलस्य ॥४॥ मुक्तमिति ॥ इहाद्रौ वापीषु अम्भः सलिलं नीलीसलिलस्य गुलिकाजलस्य अच्छां निर्मलां छायां कान्तिमृच्छति प्राप्नोति । नीलं भवतीत्यर्थः । किमिव क्षीरमिव, यथा दुग्धं नीलरश्मिच्छुरितं नीलां कान्ति प्राप्नोति । कीदृशं पयः मेधैर्वृष्टम् । कदाचित् मंघपयो नीलं स्यात् तन्न चित्रमित्याह-मुक्तागौर मुक्तासितम्, अत एव क्षीरतुल्यम् । कथं तहि नीलवर्णमित्याह-किंभूतं क्षुरिकावदसितैः किरणराशु तत्क्षणं द्रुतं छुरितं भिन्नम् । कृष्णकिरणानां पुष्करिणीषु कुत आगम इत्याह-किंभूतासु वापीषु अन्तर्मध्ये लीनानि श्लिष्टानि महानीलदलानि इन्द्रनीलखण्डानि यामु । सितगुणं दुग्धं यन्नीलयति तदु. कष्ट महानीलमित्यभिप्रायः । नीली नीलवर्णा ओषधिस्तया विभावितं जलं नीली- मलिलम् । ऋच्छतीति गतावित्यस्य रूपम् । नीलीति जानपदादिसूत्रेण डीप् । मत्त- मयूरवृत्तम् ॥ ४४॥ मुक्तमिति ॥ इहादावन्तीनानि महानीलदलानीन्द्रनीलविशेषखण्डानि यासु तासु। 'सिंहलस्थाकरोद्भूता महानीलास्तु ते मताः' इति भगवानगस्त्यः । वापीषु दीर्घिकास्वभेमेघेर्मुकं वृष्ट मुनागौरं मौक्तिकशुभ्रम् अत एव क्षीरमिव स्थितम् । शमी छुरिका । 'स्याच्छनी चामिपुत्री च च्छुरिका चासिधेनुका' इत्यमरः । (१) स्वन ।

सर्गः।] शिशुपालवधे। १६१ बहादिभ्यश्च' इति ङीष् । शमीवच्छयामैरंशुभिरन्तर्गतेन्द्रनीलमरीचिभिराशु तत्क्षणमेव दुतं लोलितं सत् । छुरितमित्यर्थः । नीलीसलिलस्य नीलाख्यौषधिपत्ररसस्य । 'नीली काला क्लीनकिका' इत्यमरः । अच्छो छायां कान्तिमृच्छति । तत्सदृशीं छायां गच्छतीत्यर्थः । अतो निदर्शनालङ्कारः । स च मुक्का. गोरं क्षीरमिव शस्त्रीयांमैरिति चोपमात्रयेणान्तलीनमहानीलदलासु वापीस्विति पदार्थहेतुकं काव्यलिङ्गं तेनोत्थापितेनाशुभितमिति तद् गुणोत्थापित इत्यङ्गाङ्गिभावेन सङ्करः । क्षीरमिवेत्यनेनेन्द्रनीलाना सौष्ठवं सूचितम् । 'क्षीरमध्ये क्षिपेत्रीलं वीरं चत्रीलता व्रजेत् । इन्द्रनीलमिति ख्यातम्-' इति लक्षणसम्भवात् । तेनात्र नीलीरसोपमानेन तद्वर्णा एवेति सूचितम् । 'नीलीरसनिभाः केचिच्छ- म्भुकण्ठनिभाः परे' इत्यादिनाऽगस्त्येन रत्नशाम एषामकादशविधच्छायाभिधानादिति । मत्तमयूर वृत्तम् । 'वेदै रन्धैम्ता यसगा मनमयूरम्' इति लक्षणात् ॥ १४ ॥ या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ॥ तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ॥ ४५ ॥ या नेति ॥ या वधूः यतमानं प्रार्थयमानमपि प्रियं न ययौ नाभिससार, सा नारी तन कान्तेन सह इह नगेन्द्रे रहः एकान्त रतरागं सुरताभिषण बिभर्ति । मनस्विन्योऽपीह मानं मुञ्चन्तीत्यर्थः । कीदृशी स्त्री अन्यवधूभ्यः सपत्नीभ्यः सकाशात् सारतरं हर्षोत्पत्त्या- त्कृष्टतरमागमनं यस्याः सा । अत एव प्रार्थ्यते। कीदृशं रतरागम् अनायतोऽदी? माना रोषो यत्र रतरागे तम् । निर्मानमित्यर्थः । रहःशब्दोऽन्ययमधिकरणप्रधानो निर्जनार्थः । अनव्ययोऽपि विद्यते, यथा-'शङ्करो रहसि सेव्यतामिति । दोधकवृत्तम् ॥ ४५ ॥ या नात ॥ इहाद्रावन्यवधूभ्यः स्यन्तरेभ्यः । 'पञ्चमी विभने' इति पञ्चमी। सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना। श्लाघ्यसङ्ग मेत्यर्थः । या मी यतमानं स्वप्राप्स्य प्रयतमानम्। प्रार्थयमानमि- त्यर्थः । यती प्रयत्ने, शानच् । प्रियं न ययौ । सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमान- मदीर्घरोषं यथा तथा रतरागं सुरनाभिला बिभर्ति । अयनतिमानयतीरापे सद्य एवोद्दीप यतीति भावः । दोधकवृत्तम् । 'दोधकवृत्तमिदं भभभा गा' इति लक्षणात् ॥ ४५ ॥ भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसंख्याम् ॥ दोषाऽपि नूनमहिमांशुरसौ किलेति व्याकोश(१)कोकनदतां दधते नलिन्यः४६ भिन्नेष्विति ॥ इहाद्रौ निश्चितं दोषापि रात्रावपि पद्मिन्यो व्याकोशकोकनदतां दधते विकसितपनत्वं बिभ्रति । उत्फुल्लाब्जा भवन्तीत्यर्थः । कुतो हेतोः असौ चन्द्रः किल अहिमांशुः सहस्ररश्मिः सूर्य इति हेतोः । केषु सत्सु चन्द्रस्य रश्मिषु सहस्रसंख्यामुपग- तेषु प्राप्तेषु, किंभूतेषु रश्मिपु रत्नकिरणैर्मणिमयूखैः भिन्नेषु मिश्रितेपु, किंभूतैः उच्चावचैः नानाविधैः । पद्मिनीभिः किल तावत् सूर्यदर्शनेनावश्यं विकसितव्यम् । इन्दोश्च किरणा यदा मणिकरनिकरैः बाहुल्यमापादितास्तदा सहस्ररश्मिभ्रान्त्या नूनं ता विचकमुरिति वाक्यार्थः उक्तिमात्रम् । न तु रात्रौ पमिनीविकासः । उच्चावचैरिति मयूरव्यंसकादि । दोषेति रहःशब्दवत् । किलेत्यसत्ये उपहासे वा । इतिशब्दो हेतौ ॥ ४६ ॥ भिन्नेविति ॥ इहादाविन्दोः किरणेषु उदश्वश्च अवाञ्चश्व नै रुच्चावचैः अनेकविधरित्यर्थः । 'उच्चावचं नैकभेदम्' इत्यमरः । मयूरभ्यसकादिषूच्चनीचाचपराचोच्चावचाकिंचनाकुतोभयानीति तत्पुरुने निण- । । (१) व्याकाच ।

१६२ सन्देहविषौषधिसर्वपायुते- - [चतुर्थः- .. जनात्साधु । रत्नकिरणैर्मिनेषु मिश्रेषु अत एव सहस्त्रसंख्यामुपगतेषु सत्सु, नलिन्यः पग्रिन्यः । 'नलं पझे नलं तृणम्' इति शाश्वतः। असौ प्रकाशमानो हिमांशुः । किलेति । सहस्राकिरणत्वात्सूर्य एवेति सम्भावनाबुध्येत्यर्थः । 'वार्तासम्भाव्ययोः किल' इत्यमरः । दोषापि रात्रावपि । सप्तम्यर्थेऽन्ययम् । 'दिवाहीत्यथ दोषा च ननं च रजनी' इत्यमरः । ब्याकोचकोकनदता विकचपनतां दधते स्वीकुर्वन्ति । नूनमित्युत्प्रेक्षायाम् । 'अथ रक्तसरोरुहम् । रत्नोत्पलं कोकनदम्' इति, 'ब्याकोचविकचस्फुटाः' इति चामरः । इह देवभूमित्वान्नित्यपद्मा नलिन्य इति भावः । इह नलिनीना दोषातनविकासासम्बन्धेऽपि तत्सम्बन्धरूपयाऽतिशयोक्त्या तस्येन्दावर्कभ्रान्त्या भ्रान्तिमदलङ्कारो व्यज्यते ॥ १६ ॥ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ॥ अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ॥४७॥ अपशङ्कमिति ॥ एषोऽद्रिः निम्नगा नदीः पत्रिणां शब्दितेन करुणेन अनु पश्चा- दोदितीव । रोदने निमित्तमाह-यतः आत्मजाः स्वयं जाताः, कया वत्सलतया सस्नेहतया, किंभूताः पुरोऽग्रे पति समुद्रमुपैतुं प्राप्तुं चलिताः प्रवृत्ताः, तथा अपशकं निर्भयमङ्कपरि- वर्तनोचिता उत्सङ्गापरिभ्रमणयोग्याः । यथा किल: वत्सल पिता स्वमुताः पतिगृहं गन्तु, प्रवृत्ता अनुरोदिति, तथा अयमपि नदीरित्यर्थः । ता अपि नियन्त्रगमुत्सङ्ग परिवर्तनशा- लिन्यः । रोदितीति 'रुदादिभ्यः सार्वधातुके' इतीट् । सुमङ्गला वृत्तम्(१) ॥ ४७ ॥ अपशङ्कामति ॥ अपशहूं निःशङ्कमङ्कपरिवर्तनेषून्सङ्गलुण्ठनेचिताः परिचिताः पतिं भर्तारमुपैतुं पुरोऽने चलिताः प्रयाता आत्मजाः स्वसम्भवा दुहितश्च निम्नगा नदीः करुणेन दीनेन पत्रिणां पक्षिणा विरु- नेन क्रोशनन निमित्तेनैषोऽद्विवत्सलतया वात्सल्येन। स्नेहेनेत्यर्थः । श्रीमास्निग्धस्तु वत्सलः' इत्यमरः । वत्सासाभ्यां कामबले' इनि लत्प्रत्ययः । अनुदितावानुक्रोशतीवेत्युत्प्रेक्षा । 'रुदश्च पञ्चभ्यः' इति गुणः । 'रुदादिभ्यः सार्वधातुके' इतीट् ॥ ४ ॥ मधुकरविटपानमितास्तरुपोर्बिभ्रतोऽस्य विटपाऽऽनमिताः ।। परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ४८ ॥ मधुकरेति ॥ अस्याद्रेः रोधस्तटं चकास्ति शोभते । कीदृशस्य वृक्षततीः धारयतः, किंभूताः मधुकरविटपानमिताः मधुकरा भ्रमरा एव विटा मत्तबालकास्तेषां पानमिताः आस्वादनं प्राप्ताः । द्विरेफा हि ताभ्यो रहः पिबन्ति । तथा विटयानमिताः विटपैः प्रका- ण्डैः आनमिता ईपत्कुटिलीभूताः । किंभूतं रोधः परिपाकपिशङ्गालतारजसा कपिर्श परिपाकेन पिशङ्गाः पीता या लता व्रतत्यः तासां रजसा रेणुना कपिशं पिङ्ग, किंभूतेन गलता पतता। यद्वा तरुपङ्क्तीनां परिपाकपिशङ्गालता इति विशेषणम् । रजसेति भिन्न पदम् । चकासृ दीसाविति चकास्ति रूपम् । स्कन्धकच्छन्दः ॥ ४८ ॥ मधुकरेति ॥ मधुकरा एव विटास्तेषां पानं चुम्बनामिना: प्राप्ताः । इणः कतीर कः। विटपैः शा. खाविस्ताररान मिताः विटपानमिताः । विस्तारो विटपोऽभियाम्' इत्यमरः । तरूपकीर्बिभ्रतो स्याद्रेः रोधो नितम्बो गलता पतता परिपाकेण पिशङ्गीनां लताना रजः पुष्परेणुस्तेन परिपाकपिशङ्गलतारजसा कपिशं पेशनं चकास्ति । मात्रावृत्तब्वियमार्यागीतिरष्टगणा । 'अर्धे वसुगण आर्यागीतिः' इति पिङ्गलनागः ॥१८॥ प्राग्भारतः(२) पतदिहेदमुपत्यकासु शृङ्गारिताऽऽयतमहेभकराभमम्मः । संलक्ष्यते विवधरत्नकराऽनुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ॥ ४९ ॥ प्राग्भारत इति ॥ इहादौ प्राग्भारतः शिखासमीपात् अभ्रादुपत्यकास अधोभूमिषु (१) वृत्तमिदं 'मजुभाषिणीति 'सुनन्दिनी पनि च प्रसिद्धमन्यत्र । (२) प्राग्भागतः । । ।

सर्गः।] . शिशुपालवधे। १६३ पतत् इदमम्भो जलं शृङ्गारितायतमहेभकराम संलक्ष्यते शृङ्गारितः सुधागैरिकादिरन्जितः आयतो दीर्घा यो महेभकरो हस्तिहस्तस्तस्येव आभा कान्तिर्यस्य तत । किमिव दृश्यते- किंभूतम् ऊर्ध्वप्रसारितमुराधिपचापचार ऊर्ध्वं प्रसारितमूर्वीकृतं यत् सुराधिपचाप शक्रधनुस्तदिव चार रमणीयम् । उपमोत्प्रेक्षा । किंभूतं सत् विविधरत्नकरानुविद्धम् अनेकवर्णमणिकरनिकरच्छुरितम् । शिखरसमीपं प्रारभारः ॥ ४९ ॥ प्राग्भागत इति ॥ इहाद्री प्राग्भागत उर्ध्वप्रदेशादुपत्यकास्वधःप्रदेशेषु । 'उपत्यकादेशमन्त्रा' इत्य- मरः । 'उपाधिभ्याम्-' इत्यादिनोपशब्दात्त्यकन्प्रत्ययः। पतत् । शङ्गारः सिन्दूरादिमण्डनमस्य सञ्जातः शङ्गारितः । 'शृङ्गारः सुरते नाटये रसे दिग्गजमण्डने' इति विश्वः । आयतो दीर्घस्तस्य महेभकरस्याभे- वाभा यस्य तत् विविधरत्नानां करैरंशुभिरनुविद्धमनुरञ्जितमिदमम्भ उर्ध्वप्रसारितं यत्सुराधिपचापमिन्द्र- धनुस्तद्वच्चारु संलक्ष्यते । अत्रेन्द्रचापस्योर्खत्वासम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः । अभूतोपमेति मता- न्तरम् । तिरोहितविवक्षायां तूपमानस्य प्रसिद्धत्वादुपमैवेयम् ॥ १९ ॥ दधति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ॥ क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥५०॥ दधतीति ॥ अमुष्याऽद्रेः एताः शिखरशिखाः शृङ्गकोटयः शृङ्गचूडा वा शिखिशेखरान् मयूरावतंसकान् क्षणं मुहुर्दधति बिभ्रति । किंभूतान् अलघुविलम्बिपिच्छदाम्नः अलघूनि विलम्बीनि पिच्छानि बर्हाण्येव दामानि मालागुणा येषां तान् । अतश्चोत्प्रेक्षते-विकसद्भिः विचित्रैः कल्पद्रुमपुष्पैरभिगुम्फितानिव अन्तराऽन्तरा ग्रथितानिव । पिच्छानां देवतरुकुसु- मान्युपमानम् । अन्योऽपि शिखायां नानापुष्पाधिका मालां कुरुते । पुष्पिताग्रा वृत्तम् ५० दधतीति । किञ्चेति चार्थः। अमुष्या देरेताः शिखराणि शृङ्गाण्येव शिखाः केशपाश्यः । 'शिखा चूडा केशपाशी' इत्यमरः । विकसाद्रिविचिौनानावणः कल्पद्रुमकुसुमैराभिगुम्फितान्यथितानिव स्थिता- नित्युत्प्रेक्षा । अलघूनि विलम्बीनि लम्बमानानि च पिच्छान्येव दामानि स्रजो येषु तान् शिखिनः केकिन- एव शेखरानापीडाक्षणं दधतीव । 'शिखावलः शिखी केकी' इति, 'शिखास्वापीडशेखरी' इति चामरः । अत्र कुसुमगुम्फेनोत्प्रेक्षालिङ्गेन पिच्छादीनां दामादिरूपकसिद्धिस्तदुत्थापिता चोप्रेक्षेति सङ्करः । पुष्पि- नाग्रा वृत्तमुक्तम् ॥ ५० ॥ सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दराऽऽगताऽमरसद्दशः॥ नासेवन्ते रसवन्न नवरतममन्दरागतामरसदृशः ॥ ५१ ॥ सवधूका इति ॥ इहाद्रौ सुखिनः कामिनोऽनवरतं सततं नवरतमपूर्वनिधुवनं न न आ- सेवन्ते अपि तु भजन्त्येव । अनवरतमविच्छेदेन न आसेवन्ते इत्यस्य निषेधरूपस्य वाक्यार्थ- स्य निषेधात् प्रतिज्ञारूपोऽत्र विधिः प्रतीयते । तदुच्यते-द्वौ प्रतिषेधौ सन्तौ स्वयं प्रकृतमर्थ ब्रूत इति। कीदृशाः मुखिनः सवधूकाः वधूसहिताः अत एव सुखिनः, तथा अमन्दरागता अपि अमरसदृशा देवसमा इति विभावना । मन्दरे हि सर्वश्रेष्ठा देवा विद्यन्ते, तैरेव साक्षात् अमृ- तस्योत्पादितत्वात् । अथ वा मन्दरग्रहणेन स्वर्गमानमुपलक्ष्यते । दृश्यते हि विशेषः सा- मान्योपलक्षकः । यथा 'काकेभ्यो दधि रक्ष्यतामिति । अमन्दरागताश्च ते अमरसदृशाश्चेति समासः । ततोऽयमर्थः-भूस्था अपि देवतुल्याः । अथ वा अनवरतममन्दरादागता ये अम- रास्तत्सदृशा इति योज्यम् । तथा अमन्दरागमुत्कृष्टवर्ण यत्तामरस पनं तदिव शो नेत्रा- णि येषां ते तथा । कीदृशं नवरतं रसवत् सशृङ्गारम् । आर्या गीतिः ॥ ११ ॥ सबधूका इति ॥ अस्मिन्नद्रौ अवरे न भवन्तीत्यनवराः श्रेष्ठा अनवरतमाः श्रेष्ठतमाश्च मन्दरागते. .. .. .. ।

१६४ सन्देहविषौपधिसर्वकषायुते [चतुर्थः- रमरैः सदृशः सरूपाश्च अनवरतममन्दरागतामरसदृशः अमन्दरागाण्यतिरक्कानि तामरसानि पढेरुहाणीक दृशी येषां तेऽमन्दरागतामरसदृशो रक्तनेत्राः । 'पढेरुहं तामरसम्' इत्यमरः। सुखिनो भोगिनः सह वधूभिः सवधूकाः सन्तः । तेन सहेति तुल्ययागे' इति बहुव्रीहिः । 'नवृतश्च' इति कप् । रसवत्सानुरा- मम् । 'गुणे रागे वे रसः' इत्यमरः । नवरतं नूतनसुरतं नासेवन्त इति न। किन्त्वासेवन्त इवेत्यर्थः । 'सम्भाव्यनिषेधनिवर्तने द्रो प्रतिषेधो' इति वामनः । विशिष्टसुरताना सेवनस्य सामान्यतः प्रसनः । उप.. मालङ्कारः । गतेयमाांगीतिः ॥५१॥ आच्छाद्य पुष्पपटमेष महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ॥ स्वाङ्गानि धूमरुचिमागुरवीं दधानबूंपायतीव पटलैनवनीरदानाम् ॥५२॥ आच्छाद्येति ॥ एषोऽद्रिः नुतनमेघानां वृन्दैःआत्मीयानवयवान् धूपायतीव । किं कुर्वाण: यतः आगुरवी धूमसक्तां धूमरुचि बिभ्राणैः, अत एव गृहकपोतग्रीवानीलैः चटकगल- कृष्णः । वानेया हि कपोता धूलिवर्णा भवन्ति इति गृहग्रहणम् । तथा अन्तर्मध्ये आव- तिभिः भ्रमद्भिः, किं कृत्वा धूपायतीत्याह-महान्तं पुष्पपटं धवलत्वात् कुसुममेव वस्त्र- माच्छाद्य परिधाय । अन्योऽपि विलासी महान्तं पुष्पवासितं पटं वासोविशेषं वा परि- धाय अन्तर्वतिनं वाऽगुरुधूपं कृत्वा आत्मानं धूपायति । अगुरु गन्धं, तस्येयमागुरवी । धुपायतीति 'गुपूधूपे ति स्वार्थे आयप्रत्ययः ॥ १२ ॥ आच्छाति ॥ एषोऽदिमहान्तं पुष्पाण्येव पट इति रूपकं तमाच्छाद्य अन्तः पटाभ्यन्तर आव- तिभिरभीक्ष्णं भ्रमद्भिः । 'बहुलमाभीक्ष्ये' इति णिनिः । गृहकपोतशिरोधराभा गृहपारावतकण्ठस्यामेवाभा येषां तैरित्युपमा । 'पारावते कपोतः स्यात्' इति विश्वः । अगुरोः कालागुरोरिमामागुरवीम् । 'काला- गुर्वगुरुः स्यात्' इत्यमरः । धूमरुचि धूमकान्तिम् । तत्सदृशीमित्यर्थः । अत एव निदर्शना । दधीननव- नीरदाना पटलैः स्वाङ्गानि धूयतीव धूपैरिवाधिवासयनीवेत्युत्प्रेक्षा रूपकोपमानिदर्शनाभिर सङ्कीर्यते । 'धूप सन्तापे' इति धातोः 'गुपूधूपविच्छिपणिपनि य आयः' इत्यायपत्ययः ॥ ५२ ॥ अन्योन्यव्यतिकरचारुभिर्विचित्ररत्रस्यन्नवमणिजन्मभिर्मयूखैः ॥ विस्मेरान् गगनसदः करोत्यमुष्मिन्नाकाशे रचितमभित्ति चित्रकर्म ॥५३॥ अन्योन्येति ॥ अमुश्मिन् अस्मिन् नग आकाशे किरण रचितं चित्रकर्म गगनसदी देवान् विस्मरान् करोति विस्मापयते, यताऽभित्ति कुड्यरहितम् । भित्तौ हि आलेख्येन भाव्यम् । कीदृग्भिर्मयूखैः विचित्रैः नानावणः । अनेकजातीयत्वादनेकरागा भवन्ति किंभूतः सद्भिः अन्योन्यव्यतिकरचारुभिः परस्परमयूखसम्बन्धरम्यैः, तथा अत्रस्यन्नव- मणिजन्मभिः अत्रस्यन्तः अस्फुटिता ये नवमणयस्ततो जन्म येषाम् । गगने सीदन्ति सञ्चरन्तीति गगनसदो देवाः । विस्मेर इति 'नमिकम्पिस्मीतिरः । प्रहर्पिणी वृत्तम् ॥५३॥ अन्यान्यति ॥ अमुष्मिन्नद्रावन्योन्येषां व्यतिकरण मिश्रणेन चारुभिः । अत एव विचित्रै नावणे. स्वस्यन्तमासदोषणादुष्यन्तः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना वैकल्पिक: श्यन्प्रत्ययः । तेभ्यो नवमणिभ्यो जन्म येषां तमयूखैराकाशे रचितमभित्ति अकुड्यम् । अनाधारमित्यर्थः । चित्रकर्म कर्तृ। गगनसदः खेचरान्विस्मेरान्विस्मयशीलान्करोति । 'नमिकम्पि -' इत्यादिना रप्रत्ययः । अत्र मणिमयूखेषु खे चित्रकर्मभ्रान्तिमतामेवाभित्तिचित्रकर्मेत्यकारणकार्योत्पत्तिवर्णनाद् भ्रान्तिमदलङ्कारो- स्थापिता विभावनेति सङ्करः । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावन।' इति । प्रहर्षिणी वृत्तम् ।। ५३ ॥ शमीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ॥ बिमति जनयन्नयं मुदमपामपायधवला बलाहकततीः ॥ ५४॥ समीरेति ॥ अयं नगेशः बलाहकततीमंघमालाः बिभर्ति धारयति । कीदृशः समी- । - सर्गः । शिशुपालवधे। १६५ .. रशिशिरः वायुशीतलः, किंकुर्वन् मुदं जनयन् प्रीतिमुत्पादयन् । किंभूताः बलाहकततीः निकामसुखिनां सदासुखिनां शिरस्सु वसतां शृङ्गेषु स्थितानां सतां साधूनां जवनिकाः तिरस्करणीः, तथा अपामपायेन तोयवृष्टया धवलाः सिताः । जवनिका अपि प्रायेण धवला भवन्ति । रसैर्जसजसा जलोद्धतगतिः ॥ ५४॥ समीरोत ॥ समीरण मारुतन शिशिरः शीतलः शिर'मु शिखरेषु वसतां निकामसुखिनामत्यन्त- मुखिना सतां पुण्यवता मुदं जनयनयमदिरपामम्भसामपायेनापगमेन धवला बलाहकततीघपतीरेव जव- निकास्तिरस्करिणीर्बिभर्ति । अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणता सम्पाय मुदं जनयतीत्यर्थः । अब बलाहकततिष्वारोप्यमाणानां जवनिकानां मुदं जनयनिति प्रकृतोपयोगिवर्णनात्परिमाणामालङ्कारः । आरोष्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । रूपके तूपरञ्जनमात्रमिनि भेदः । जलोद्धत- गतिवृत्तम् । 'रसैजसजसा जलोद्धतगतिः' इति लक्षणात ।। ५४ ॥ मैत्र्यादिनित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबोजयोगाः ॥ ख्यातिंच सत्त्वपुरुषाऽन्यतयाधिगम्य वाञ्छन्ति तामपिसमाधिभृतो निरोद्धम्॥ मैत्र्यादीति ॥ इहाऽस्मिन् रैवतके समाधिभृतो योगिनः सत्वपुरुषान्यतया प्रकृति- पुरुषभिन्नत्वेन ख्याति ज्ञानविशेषमधिगम्य प्राप्य अनन्तरं तामपि निरोधु निवर्तयितुं वा- छन्ति अभिलपन्ति । चेतस ऐकाग्यं समाधिः, स च योगाङ्गोपलक्षणम् । यमनियमासन- प्राणायामप्रत्याहारध्यानधारणसमाधीन् अष्टावपि हि ते बिभूति । न केवलं चित्तवृत्ती- विख्यातिमप्युपादेयकल्पां परिजिहीर्षन्तीत्यपिशब्दार्थः । चशब्दो वर्णनीयप्रकारसमु- च्चयार्थः । न केवलं पूर्वोक्तगुणविशिष्टोऽयं नगा यावदयमपि प्रकारोऽत्र विद्यते इत्यर्थः । एवमन्यत्र । प्रकृतिपुरुषयो दज्ञानं ख्यातिर्भवति । तेन अन्या बुद्धिः अन्यश्चात्मा इत्येवं प्रथममभ्यस्य पश्चात् आत्मानमेव पुरुषमेव निर्गुणं विजिज्ञासन्ते इत्यर्थः । कीदृशाः समाधिभृत इति विशेषणद्वारेण ख्यातिप्राप्तमाह-मैत्र्यादिचित्तपरिकर्मविदः मैत्र्यादि यच्चित्तपरिकर्म चेतसः प्रसादनं तद्विदन्ति जानते ये ते। मैत्रीकरुणामुदितोपेक्षाणां सुख- दुःखपुण्यापुण्यविषयाणामभ्यासेन चेतसः प्रसादनं चित्तपरिकर्म । सुखितेषु मैत्री न मात्स- यं कुर्यात्, दुःखितेषु कारुण्य, पुण्यवत्सु अनुमोदनं, पापपूपंक्षा । अतश्च रजस्तमोनाशाच्च. तः प्रसीदति । अपरं किंभूताः लब्धसबीजयोगाः, क्लेशप्रहाणं विधाय अविद्याऽस्मिता- रागद्वेषाऽभिनिवेशाख्याः पञ्च क्लेशाः तेषां प्रहाणं त्यागं कृत्वा ॥ १५ ॥ मैत्र्यादीति ॥ इहा। समाधि योग बिभ्रतीति समाधिभृतो योगिनः । मैत्री, करुणा, मुदिता, उपेक्षेनि चतस्रश्चिनवृत्तयः। तत्र पुण्यकृन्सु मैत्री, दुःखिषु करुणा, सुखिषु मुदिता अनुमोदनम् , पापिषु उपेक्षा । मैत्री आदियेषां तानि चित्तस्य परिकर्माणि प्रमाधकानि । शोधकानीत्यर्थः। तानि विन्दान्त लभन्ते इति तद्विदस्नद्राजः तैः । क्षीणान्तःकरणमला इत्यर्थः । अत एव क्लेशप्रहाणं विधाय । अविद्या- स्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः। तत्रानित्येषु नित्यत्वाभिमानः अनात्मनि च देहन्द्रियादावात्मधी- रित्यादिविभ्रमोऽविद्या, आस्मिता अहङ्कारः, रागोऽभिमतविषयाभिलाषः, द्वेषोऽनभिमनेषु रोषः, अभि- निवेशः कार्याकार्येष्वाग्रहः । ते हि पुरुष क्लिश्यन्तीति क्लेशाः फ्लशहतवः । पचायच । तेषां प्रहाणं क्षयः । 'कृत्यचः' इति णत्वम् । तद्विधाय । क्ले शान्हित्वेत्यर्थः । अतो लब्धः सबीजः सावलम्बनो योगो यस्ते लब्ध- सबीजयोगाः सन्तः। आलम्बनमेव व्यनकि-सत्त्वेति । सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतयाऽन्यत्वन मिथो भिन्नत्वेन ख्याति ज्ञान चाधिगम्य । प्रकृतिपुरुषो भिन्नाविति ज्ञात्वेत्यर्थः । प्रकृतिषुरुषयोर्वि वेकाग्रह- १६६ ६ सन्देहविषौषधिसर्वकषायुत- [चतुर्थः- .. णान्संसारः, विवेकग्रहणान्मुक्तिरिति सांख्याः । अथ ता ख्यातिमपि निरोढुं निवर्तयितु वाञ्छन्ति वृत्ति- रूपाम् । ता निवर्त्य स्वयंप्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः । 'प्रकृतावुपरतायो पुरुषस्वरूपेणावस्थान मुक्तिः' इति सांख्यसिद्धान्तः । न केवलं भोगभूरियं, कितु मोक्षक्षेत्रमपीति भावः ॥ ५५ ॥ मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ॥ अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताऽणुरेणुजालाः ॥ ५६ ॥ मरकतेति ॥ इहाऽस्मिन् गिरौ मरकतमयमेदिनीषु गारुत्मतमयभूमिषु भानोः श्री- सूर्यस्य मयूखा रश्मयः अवनतशितिकण्ठकण्ठलक्ष्मीम् आनमूकलापिगलश्रियं दधति बिभ्रति । किंभूताः मयूखाः तरुविटपान्तरपातिनः वृक्षविस्तृतशाखावकाशसञ्चारिणः, पुनः किंभूताः स्फुरिताऽणुरेणुजालाः विलसितसूक्ष्मरज:समूहाः ॥ १६ ॥ मरकतेति ॥ इहा। मरकताना विकारा मरकतमप्यम्तासु मदिनांषु । "स्त्रियाः पुवत-' इत्यादिना पुंवदावः । तरूणां विटपाः पळवास्तेषामन्तररवकाश: पतन्तीति तथोक्ताः । विटपः पल्लवे पिड़े विस्तारे स्तम्बशाखयोः' इति विश्वः । स्फुरत ऽणुरेणना सूक्ष्मरजमा जालानि यषु ने भानोर्मयूखाः अवनतस्य शितिकण्ठकण्ठस्य मयूरकन्धराया लक्ष्मी दधतीति निदर्शनालङ्कार : । पुष्पिताग्रा वृत्तम् ॥ ५६ ॥ या बिति कलवल्लकीगुणस्वानमानमतिकालिमाऽऽलया ॥ नात्र कान्तमुपगीतया तया स्वानमा नमति कालिमालया ॥ ५७ ॥ या विभीति ॥ अत्रैतस्मिन्नचले तयाऽलिमालया भृङ्गश्रेण्या उपगीतया समीपं प्रा- रब्धगानया सत्या का कान्ता कान्तं वल्लभं न नमति स्वयं नमीभूय न संवते अपि तु सर्वापीत्यर्थः । किंभूता स्त्री अस्वानमा मुखेन आनम्यत इति स्वानमा, ततो नसमासः । सुखेन नमयितुमशक्यत्यर्थः । तया कयेत्याह--या अलिमाला कलवल्लकीगुणस्वानमानं बि- भति मधुरवाणीतन्त्रीशब्दसाम्यं धारयति । किंभूता भ्रमरपङ्क्तिः अतिकालिमालया का- लिम्नः आलयाः अञ्जनकोकिलतमःकाकादयः कृष्णत्वेनातिक्रान्ता यया । केचित्तु 'अति अतिशायी योऽसौ कालिमा कृष्णत्वं तस्यालयः स्थानभूता, अतिकृष्णेत्यर्थः' इति व्या- चक्षते । एवं स्त्रीत्वं दुर्लभ स्यात् , आलयशब्दस्य पुंल्लिङ्गत्वात् । स्वान इति 'स्वनह- सा'ति घञ् । रथोद्धता वृत्तम् ॥ ५५ ॥ या विभर्तीति ।। अत्रादावत्यन्तः कालिमा कार्य यस्याः माऽतिकालिमा। अतिश्या मेत्यर्थः । न वि. यते लयो लयन क्वचिदवस्थानं यस्याः सा अलया । भ्रमन्तीत्यर्थः । अत एव सस्वनति भावः । या अलिमाला कलोऽव्यक्तमधुरः बल्लकीगुणस्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं बिभर्ति । तन्त्रीवद् ध्वनतीत्यर्थः । उपमालङ्कारः। उपगीतया समीपं गातुं प्रवृत्तयेव, न तु पूर्व गायन्त्यवेति भावः । 'आदिकणि कः कतार च' इति कः। तयाऽलिमालया भृङ्गावल्या स्वान मा सुखनाऽऽनमयितुमाक्रष्टुं शक्या । ईषद्दुस्-' इत्यादिना खत्प्रत्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं मयः प्रणमत्येव । तथोद्दीप- कत्वाद्गानस्येत्यर्थः । रथोद्धता वृत्तम् । 'रो नराविनि स्थाद्धता लगा' इति लक्षणात् ॥ ५ ॥ सायं शशाङ्ककिरणाहतचन्द्रकान्तनिष्यन्द(१)नीरनिकरेण कृताभिषेकाः ॥ अर्कोपलोल्लसितवहिभिरहि दीप्ता(२स्तीवं महाव्रतमिवात्र चरन्ति वप्राः ॥५८॥ सायमिति । हे भगवन् ! इह पर्वते वप्रास्तटास्तीचं दुश्चरं महाव्रतमिव चरन्ति । असकृदग्निप्रवेशो महाव्रतम् । पञ्चाग्निसाधनं कुर्वन्ति । यतः किविशिष्टाः सायं सन्ध्या- । (१) निस्यन्दि । (२) तप्ता।

सर्गः ।] । शिशुपालवधे। १६७ समये शशाङ्ककिरणाहतचन्द्रकान्तनिष्यन्दनीरनिकरेण कृताभिषेकाः चन्द्रमयूखसृष्टेभ्यः चन्द्रकान्तमणिभ्यो निष्यन्देन स्रुतेन नीरनिकरेण विहितस्नानाः, पुनः कीदृशाः अहि दिवसे अर्कोपलोल्लसितवह्निभिः सूर्यकान्तनिःसृताग्निभिः दीप्ताः सन्तप्ताः । अन्योऽपि यः किल व्रतमाचरति स स्नात्वा वह्नौ प्रविशति ॥ ६८ ॥ सायमिति ॥ इहाद्री वप्राः मानवः । विप्रोऽत्री सानुमानयोः' इत्यमरः । सायं रात्री शशाङ्ककिरण- राहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्राविण। नीरनिकरेण जलपूरेण कृताभिषेकाः कृतस्नानाः । अह्नि अ- कोपलेभ्यः सूर्यकान्तेभ्य उत्लसितंरुस्थितैर्वह्निमिस्तप्ताः मन्तम्तीत्रमुग्रं दुश्वरं महावनं महातपश्नरन्तीवेत्युत्प्रेक्षा॥५.८ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ॥ वाल्मीकेररहितरामलक्ष्मणानां साधयं दधति गिरां महासरस्यः ॥५९ ॥ एतस्मिन्निति ॥ हे भगवन् ! एतस्मिन् पर्वते महासरस्यः अतिविस्तृतसरांसि वा- ल्मीकेवल्मीकजन्मनो मुनेः गिरां वाचां रामायणरूपाणां साधर्म्य साम्यं दधति धारयन्ति । किंभूताः सरस्यः अधिकपय:श्रियं वहन्त्यः अधिकां बह्वीं पयःश्रियं जलसमृद्धिं धारय- न्त्यः, अपरं किंभूताः पवनभुवा वायुसमुत्थेन जवेन वेगेन संक्षोभमाकुलत्वं नीताः । वायुना कम्पिता इत्यर्थः । पुनः किंभूताः अरहितरामलक्ष्मणाः अरहितरामाः सहचरी- पहचरिता लक्ष्मणाः सारसा यत्र ताः। वाल्मीकेगिरोऽप्येवंविधाः । कीदृश्यः अधिकपयः अधिकृताः वर्णनीयत्वेन प्रस्तुताः कपयो वानरा यामु ताः । अर्थवशाद्विभक्तिविपरिणामेन विशेषणानि योजनीयानि । किंभूतानां गिरामधिकवानराणां, पुनः किंविधा गिरः श्रियं सीतास्वरूपिर्णी वहन्त्यः, अथ वा श्रियं छन्दोऽलङ्कारयुक्तां लक्ष्मी बिभ्रत्यः गुरुतां वहन्त्यः तया, पवनभुवा हमूमता जवेन समुद्रलङ्घनाग्निदाहादिना वेगेन संक्षो वीररसत्वं नीताः प्रापिताः, तथा अरहितरामलक्ष्मणा अरहितौ विद्यमानौ परस्परमवियुक्तौ रामलक्ष्मणौ दाशरथी यत्र यासां वा । विभक्तिविपरिणाम विना हि साधर्म्य न स्यात् । समानो धर्मो येषां ते सधर्मास्तद्भावः साधर्म्यम् । प्रहर्षिणी वृत्तम् ॥ १९ ॥ एतस्मिानीत ॥ एतस्मिन्नद्रावधिकपयःश्रियमाधिका जलसमृद्धि वहन्त्यः, अन्यत्र तु अधिकाः कप- यः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालङ्कारादिशोभा वहन्त्यः । पवनाद्भवतीति पवन- भूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । 'जवो जीव- नि वेगे स्यात्' इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यं नीताः । हनुमद्वेगवर्णनया प्रागम्यं नीता- इत्यर्थः । वाक्पक्षे सर्वत्र षष्ट्या विपरिणामः कार्यः । महासरस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्म- गौ याभिस्तासाम्, अन्यत्र तु रामो रमणः अरहितरामा आवयुक्तरामाः लक्ष्मणा: मारसोषितो यासु ताः । केचित्तु अरहितरामा अधियुक्तलीकाः लक्ष्मणाः सारसा इति पुपक्षिपरत्वेन व्याचक्षते, तेषां 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा'. 'लक्ष्मणौषधिसारस्योः' इत्याद्यमरविश्वप्रकाशादिवाक्यगतनियत- स्त्यर्थताविरोधः। तामा वाल्मीगिरी साधर्म्य सादृश्य दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्ता- चलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छन्दयोरेव मिथः श्लिष्टत्वाच्छन्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति सदूरः॥५९|| इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ॥ स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ६० ॥ इहेति ॥ हे भगवन् ! इहाऽस्मिन् पर्वते प्रतिदिशं सर्वास दिक्षु कलभैः करिपोतैः मुहु- वारंवारं वः क्रियते हितं विधीयते । किंभूतैः मुदितैः प्रमत्तैः, रवः कीदृशः कलभैरव . . : ।

- .. १६८ सन्देहविषाषधिसर्वकषायुते- [ चतुर्थः- कलश्चासौ भैरवश्च सुमधुरो भीषणश्च, अपरम् इहाद्रौ अनुवनं वने वने चमरीचयः स्फु- रति चमरीयूथं परिभ्रमति । न केवलं चमरीचयः स्फुरति, कनकरत्नभुवां सुवर्णभूमीनां मरीचयः किरणाः स्फुरन्ति विद्योतन्ते । द्रुतविलम्बितं छन्दः ॥ ६० ॥ इहेति ॥ इहाद्री मुदितरिच्छाविहारसन्तुष्टेः कलभैः करिपोतेः । 'कलभः करिशावकः' इत्यमरः । पतिदिशं दिशि दिशि । यथार्थेऽव्ययीभावः ।'अव्ययीभाव शरत्प्रभृतिभ्यः' इति समासान्तोऽप्रत्ययः । कल- श्वासौ भैरवश्च कलभैरवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जदेच्छिकोपसर्जनत्वविवक्षया विशेषण- समासः । रवो बृंहणध्वनिमुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किश्च कनकरत्नानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुद नालङ्कारे यमक स्याभ्युच्चयः ॥६०॥ त्वक्साररन्ध्रपरिपूरणरक्क(१)गीतिरस्मिन्नसौ मृदितपक्षमलरल्लकाङ्गः॥ कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव शक्तिमधिकां विषयेषु वायुः ॥६१।। त्वक्सारेति ॥ इह पर्वते विषयेषु प्रदेशविपयेषु असौ वायुः अधिकां सक्तिमेति नितरां सम्बन्धं प्राप्नोति । सदेव वातीत्यर्थः । कथंभूतो वायुः त्वक्साररन्ध्रपरिपूरण- रक्तगीतिः त्वचि साराः त्वक्साराः कीचकवेणवः तेषां रन्धं छिद्रं तस्य परिपूरणं व्याप्तिः तेन रक्ता मधुरा गीति निर्यस्य सः, तथा मृदितपक्ष्मलरल्लकाङ्गः मृदितानि आमृष्टानि पक्ष्मलानि तनुलोमानि रल्लकानां मृगविशेषाणामङ्गानि शरीराणि येन सः, तथा कस्तूरि- कामृगविमर्दसुगन्धिः कस्तूरिकायोनेम॑गस्य विमदेन परामर्शन सुगन्धिः मुरभिः । क इव रागीव । यथा रागी कामुकः विषयेषु शब्दस्पर्शरूपरसगन्धलक्षणेपु सातिशयां सक्तिमेति, तथा वंशवादनात् मधुरगेयो भवति । अपरं मृगनाभिः सुगन्धिः स्यात् । अन्यन्मृदित- मामृष्टं पक्ष्मलाया रल्लकाया रागवश्याया अङ्गं शरीरं येन । गन्धशब्दोऽत्र गुणवचना न द्रव्याभिधायी इति इत्वं भवत्येव 'गन्धस्येदुत्पूतिसुमुरभिभ्य' इति ॥ ६१ ॥ त्वक्सारति ।। अस्मिन्नद्री त्वचि सारो येषां ते त्वक्साग वंशाः । 'वंशे त्वक्सारकरित्वचिसारतृण- ध्वजाः' इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणन मापनेन लब्धा गीतिर्गानसुख येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां कम्बलानां वा अङ्गानि शरीराणि येन स:। 'रल्ल. कः कम्बलमृगे कम्बले परिकीर्तितः' इति वैजयन्ती । एतेन स्पर्शमुखमुक्तम् । कस्तूरिकामृगाणां विम- दैन सङ्घर्षण सुगन्धिः शोभन गन्धः । यद्यपि गन्धस्यत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम् , तथापि निर- कृशाः कवय इत्यपर्यनुयोगः । असाववभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । 'विषयः स्यादि.- न्द्रियार्थे देश जनपदेऽपि च' इति विश्वः । अधिकां सक्ति व्यासक्किमति गच्छति ॥ ६१॥ प्रीत्यै यूनां व्यवहिततपनं(२) प्रौढध्वान्तं दिनमिह जलदाः । दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ॥ २॥ प्रीत्यै इति ॥ हे भगवन् ! इह पर्वते जलदा मेघा दिन दिवसं दोषामन्यं विदधति रात्रिमन्यं विदधति । कुर्वन्तीत्यर्थः । किमर्थं यूनां प्रीत्ये तरुणानां प्रमोदाय । यस्मात्ते हि रात्रौ रमन्ते । युवतयश्च युवानश्च युवानः 'पुमान् स्त्रिया' इति युवतिशब्दलोपः । कुता दोषामन्यमित्याह-दिनं किंभूतं व्यवहिततपनमाच्छादितरविम्, अत एव कीदृशं प्रौढध्वान्तं बहुलान्धकारयुक्तम्, कीदृशा जलदाः उरतक्रीडायासश्रमशमपटवः सुरते निधुवने या क्रीडा केलिः तत्र योऽसौ आयासः अङ्गमर्दस्तेन यः श्रमः खेदः तस्य शमः स्फेटने । (१)लब्ध। (२) तपनाः।

सर्गः ।] शिशुपालवधे। । तत्र पटवो दक्षाः । दोपा आत्मानं मन्यते दोषामन्यम् , आत्ममाने खश्च । भ्रमरविल- म्बिता वृत्तम्(१)॥ ६२ ॥ प्रीन्य इति ॥ इहाद। युवतयश्च युवानश्च तेषां यूनाम् । 'पुमान् निया' इत्येकशेषः । प्रात्यै व्यवहित- नपनास्तिरोहितार्काः । अत एव सुरतान्येव क्रीडास्ताभिर्य आयासो व्यापामस्तेन यः श्रमः खेदः । 'श्रम: खदोऽध्यरत्यादेः' इति लक्षणात् । तस्य शमे वारणे पटवः समर्था जलदाः प्रौढवान्तं मेघावरणागाढान्ध- कारं दिनं दिवसं दोषा रात्रिमात्मानं मन्यत इति दोषामन्यं रात्रिमानिनं विदधति । मेघावरणमहिम्ना दिवस: स्वयमप्यात्मानं रात्रि मन्यते, किमुतान्य इत्यर्थः । दोघेन्यत्यय, तदुपपदान्मन्यतर्धातोः 'आत्ममाने खश च' इति खश् प्रत्ययः । इह यूनां दोषावदिवापि विस्तम्भ विहारा: सम्भवन्तीति भावः । भ्रमरविलासतं वृत्तम् । 'ग्मी न्लौ गः स्याद् भ्रमरविलसितम्' इति लक्षणात् ॥ ६२ ॥ भग्नो निवासोऽयमिहास्य पुष्पैः सदा नतो येन विषाणि नागः ॥ तीवाणि तेनोज्झति कोपितोऽसौ सदानतोयेन विषाणिनाऽगः ॥ ६३ ॥ भन्न इति ॥ हे भगवन् ! इह पर्वते असौ नागः कोपितः सन् तेन कारणेन तीवाणि विषाणि दुःसहान् श्वेडान् उज्झति उद्वमति, येन कारणेन अस्य नागस्य अयं निवास- भृतोऽगः चन्दनतरुः विपाणिना गजेन भग्नः उन्मूलितः । कीदृशोऽगः पुष्पैः सदा नतः नमः, कीदृशेन विषाणिना सदानतोयेन सह दानतोयेन मदजलेन वर्तते यः तेन । मत्तेने. स्यर्थः । न गच्छतीत्यगः, गोप्राणिष्वन्यतरस्याम् । आख्यानकी ॥ ६३ ॥ भन्न इति ॥ इहाद्रावस्य नागस्य निवास आश्रयः सदा पुष्पैरानतो नम्रोऽयं, न गच्छतीत्यगो वृक्षः दानतोयमदोदकैः सह वर्तते यस्तेन सदानतोयेन । मत्तनेत्यर्थः । येन विषाणिना दन्तिना भग्नस्तन विषा- णिना कोपितः कोपं प्रातितोऽसौ नागः सर्पस्तीवाणि विषाणि गरलान्युज्झति वमति । परप्रतीकाराक्षमस्य क्रोधः स्वाश्रयमेव व्याहन्तीति भावः ॥ ६३ ॥ प्रालेयशीतमचलेश्वरमीश्वरोऽपि सान्द्रेभचर्मवसनावरणोऽधिशेते ॥ सर्वतुनिर्वृतिकरे निवसपैति न द्वन्द्वदुःखमिह किश्चिदकिञ्चनोऽपि ॥६४॥ प्रालेयेति ॥ हे भगवन् ! इह नगे अकिञ्चनोऽपि दरिद्रोऽपि निवसन् सन् किशिद् द्वन्द्वदुःखं शीतोष्णादिक्लेशं न उपैति न प्राप्नोति । यतः किंविधं सर्वर्तुनिर्वृतिकरे सर्वेः ऋतुभिः निर्वृति करोति, सदा सुखदायिनि । ननु हिमवानपि एवंविधः स्यान्नेत्याह-ईश्व- रोऽपि महादेवोऽपि अचलेश्वरं हिमाचलमधिशेते अध्यास्ते । अपरं कथंभूतः ईश्वरः, सान्द्रेभचर्मवसनावरणः घनगजकृत्तिपरिधानयुक्तः, यतः कीदृशमचलेश्वरं प्रालेयशीतलं हिमेन शीतलम् । शीतलेन चावश्यं साई वासः परिधीयते । हिमवान् सर्वर्तुनिवृतिकरः यत्र ईश्वरोपि चर्मप्रावरणः, हिमेन चाजस्त्रं शैत्यं, तेनास्य का तुला । यत्र निर्धनोऽपि न दुःख- भाक् , ऋतुषटकं च तिष्ठति। अचलेश्वरमिति, ईश्वर इति च साभिप्रायम् । अतोऽकि- चनत्वं चात्र देशान्तरवासे सति भूतपूर्वगत्या आद्यन्तरापेक्षया बोद्धव्यम् । तथात्र नि- र्धनः कश्चित् । यदि वा मुख्यतोऽत्र अकिञ्चनो निर्ममो मुनिर्विवक्षितः, पश्चातु दरिद्रः । यथा-'अकिञ्चनः सन् प्रभवः स सम्पदामिति ॥ ६४ ॥ प्रालेयति ॥ ईश्वरः शिवोऽपि । किमुतान्य इति भावः । सान्दं यदिभचर्म तदेव वसनं तदेवावरणं छादनं यस्य सः तथा सन् । न त्वनावरणो नापि शिथिलावरण इति भावः । प्रलयादागतं पालेय (१) 'भ्रमरविलसित मिति नाम्ना प्रसिद्धमिदं छन्दः। १५ शि०व० १७० सन्देहविषौषधिसर्वकषायुते- [चतुर्थः- हिमम् । 'तत आगतः' इत्याणि 'केकयमित्रयुप्रलयानां यादेरियः' इति यशब्दस्येयादेशः । तेन शीत शीतलमचलेश्वरं हिमवन्तमधिशेते। तस्मिन् शेत इत्यर्थः । 'अधिशीस्थामा कर्म' इति कर्मत्वम् । सर्वर्तुभिर्नितिकरे सदा सुखकर इहाद्री निवसन् , पुनर्नास्ति किञ्चनास्येत्यकिञ्चनो निःस्वोऽपि । उच्चावचे. त्यादीनां मयूरव्यंसकादिषु निपातनात्तत्पुरुषः । किञ्चिदल्पमपि द्वन्द्रदुःखं शीतोष्णदुःखं नोपैति । नित्यं सन्निहितानामृतूनामन्योन्यदोषनिवारकत्वादिति भावः । 'इन्द्रं युग्महिमोष्णादि मिथुनं कलहो रहः' इति वैजयन्ती। अत्रोपमानाद्धिमाचलादुपमेयस्याधिक्यवर्णनाद्यतिरेकः ॥ ६४ ॥ नधनगवनलेखाश्याममध्याभिराभिः स्फटिककटकभूभिर्नाटयत्येष शैलः ॥ अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिनः शूलपाणेरभिख्याम् ॥६६॥ नवेति ॥ हे भगवन् ! एष शैलोऽद्रिः अतिसितमणिनितम्बभूमिभिः शिवस्याऽभिख्यां नाटयति शोभामभिनयति । रुद्ररूपमनुकरोतीत्यर्थः । कीदृशीभिः भूभिः नवनगवनलेखा- श्याममध्याभिः अभिनवतरुराजिभिर्नीलान्तराभिः, शूलिनः कीदृशस्य अहिपरिकरभाजः अहिर्वासकिरेव परिकरः पर्यस्तिका तं भजते यः । भजो ण्विः । तथा भास्मनैः अङ्गरागैः भूतिकृतैः समालम्भनै: उधूलनैरधिगतधवलिम्नः प्राप्तशौक्ल्यस्य । वासकिर्वृक्षखण्डस्यो- पमानं, स्फटिकभूमेर्भस्म, अङ्गरागः अद्वेरुपमानम् । भस्मन इमे विकारा भास्मनाः 'अ- निति प्रकृतिभावः । धवलिम्न इति वर्णदृढादिभ्य इमनिच् । मालिनी वृत्तम् ॥ ६६ ॥ नवति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपङ्कया श्यामो मध्यभागो यासां ताभिराभिः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरवे परिकरो गात्रिकाबन्धस्तं भजतीति तस्याऽहिपरिकरभ'जः । 'भवेत्परिकरो बाते पर्यकपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि' || इति विश्वः । भजो ण्विः । भास्मनैर्भस्ममयैः । वैकारिकोऽण् प्रत्ययः । 'अनि ति प्रकृतिभावात् 'नस्त- द्धिते' इति टिलोपो न । अङ्गरागैरनुलेपनरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूल- पाणरीश्वरस्य । प्रहरणार्थभ्यः परे निष्ठासप्तम्यौ भवतः । अभिख्या शोभाम् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्योपसर्गे' इत्यप्रत्ययः । नाटयत्यनुकरोति । निदर्शनालङ्कारः। मालिनी वृत्तमेतत् ॥६५॥ दधद्भिरभितस्तटौ विकचवारिजाऽम्बू नदे. विनोदितदिनलमाः कृतरुचश्च जाम्बूनदैः ।। निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ६६ ॥ दधद्भिरिति ॥ अत्राद्रौ माधवा यादवा रह एकान्त प्रियतमाङ्गकात् कान्ताशरी- रात् अम्बरं वस्त्रं हरन्ति आक्षिपन्ति । किमर्थ रतये रन्तुं, किं कृत्वा मधु मद्य निषेव्य पीत्वा, कीदृशं मधु कादम्बरं कादम्बर्या सुरया सहितं कृतसन्निधानम् । 'शेष' इति लक्ष- णेनाऽण् । यद्वा कादम्बयेव कादम्बरमिति येन, तेन सुरा कादम्बरीत्युच्यते । तेनैव मध्वपि कादम्बरम् । अत एव सरसं सस्वादु । माधवाः कीदृशाः नदैः हृदैः नदीजलाश्रयः विनो- दितदिनक्लमाः विनोदितोऽपनीतो दिनक्लमो यैः ते । नदैः कीदृशैः अभितः पार्थद्वये तटौ दधद्भिः पुलिने बिभ्राणैः, कीदृशौ तटौ विकचवारिजाम्बू विकचवारिज प्रफुल्लपद्ममम्बु जलं ययास्तौ, तथा जाम्बूनदैः सुवर्णाभरणैः कृतस्वो विहितमण्डनाः । माधवाः स्नात्वाऽलङ्- कृत्य भुक्तवा च प्रेयसीभिः सहात्र रमन्ते इति वाक्यार्थः । पृथ्वी वृत्तम् ॥ ६६ ॥ दधपिरिति । अत्राबी माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तो सर्गः।] शिशुपालवधे। १७१ .. विकचवारिजाम्बू अभित उभयतस्तटौ दधद्भिनदेरम्बुप्रवाहैः । प्रास्रोतसो नयः प्रत्यक्लोतसो नदाः,नर्मदी विने - त्याहुः। विनोदितो दिनक्लमो येषां ते । विहारापनीताहिकसन्तापा इत्यर्थः। किञ्च जाम्बूनदस्य विकाराम्बूनदः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । 'रसो गन्धरसे स्वादे' इति विश्वः । कादम्ब- इक्षुः । कादम्बः कलहंसेक्ष्योः' इति विश्वः । कादम्बं राति रलयोरभेदालाति प्रकृतित्वेनादत्त इति काद- म्बरमैक्षवम् । 'पानसं द्राक्षमाधूकं खारं तालमैक्षवम्' इति स्मरणात् । आतोऽनुपसर्गे कः । मधु मयम् । एवं च मधुकादम्बरशन्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणा पैष्टया एव निषेधादिति भावः । रतये सुरतार्थ रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गाबादम्बरं वखं हरन्ति । यादवाश्चह मधुपानरतोत्सवैर्विसन्धं विहरन्तीति भावः । पृथ्वी वृनम् । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥ ६६ ॥ दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ॥ वोडमसंमुखोऽपि रमणैरपहृतवसनाः काञ्चनकन्दरासु तरुणीरिह नयति रविः ॥ ६७॥ दर्पणेति ॥ इहाद्रौ काञ्चनकन्दरासु सुवर्णदरीसु तरुणीः युवतीः सूर्यः पराऽङ्मुखोऽपि ब्रीड लजां नयति प्रापन्यति । यतो रमणैः प्रियैरपनीतवस्त्राः । यदि सूर्यः पश्चात् स्थित- स्तत्कथमवीडयदित्याह-आदर्श निर्मलासु रजतभित्तिषु पुरोऽग्रे स्थितासु निबिडान्ध- कारनाशिनि ज्योतिपि सूर्यतेजसि पतिते प्रतिफलिते सति काञ्चनकन्दरासु मुहुः पुनःपुनः प्रतिबिम्बिते सति । व्रीडशब्द उभयलिङ्गः । वंशपत्रपतितं वृत्तम् ॥ ६७ ॥ दर्पणेति ॥ इहाद्री रविर्दर्पणनिर्मलामु पुरः रौप्यभिनिषु काञ्चनकन्दरामवर्तिरजतसानुषु पतिते संक्रान्त घनं सान् यत्तिमिरं तन्मुष्णानि हरतीति तन्मुट्। विप् । तस्मिन् ज्योतिषि स्वतेजसि काश्चनक- दरासु मुहुः प्रतिफलति समूर्छति सति रमणेपहृतवसनास्तरुणीरसंमुखाऽपि कन्दरानभिमुखोऽपि वीडं त्रपाम्। यद्यपि 'गुरोश्च हलः' इति मियामप्रत्ययः, अत एव 'मन्दाक्षं हीलपा ब्रीडा' इत्यमरः । तथापि तत्र श्रीत्वाविवशाया बाहुलकत्वानपुंसकत्वं च । अत एव 'अविधौ गुरोः स्त्रियां बहुलविवक्षा' इति वामनः । नयति प्रापयति । 'नीवह्योहरतेश्चैव' इति द्विकर्मकता । यस्मिन् सुवर्णकन्दरासु क्रीडार्थ प्रविष्टाः बियोऽध. कार इति कृत्वा पुरुषैरपहृतवमाः सत्यः पुरःस्थितरौप्यमित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सल. ज्जा इति भावः । अत्र काञ्चनकन्दराणामसंमुखाऽर्कज्योतिःप्रतिकलनासम्बन्धेऽपि सम्बन्धोनरतिशयो- निः । वंशपत्रपतितं वृत्तम् । 'दिङ्मुनि वंशपत्रपतितं भरनभनलगः' इति लक्षणात् ॥ ६ ॥ अनुकृतशिखरौघश्रीभिरभ्यागतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुचैः ॥ द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ६८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये रैवतकवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥ अनुकृतेति ॥ असौ अद्रिः त्वयि अभ्यागते सति अभ्युत्तिष्ठतीव अभ्युत्थान करोतीव । कथं सरभसं सौत्सुक्यं, कैः अम्बुवाहैः मेधैः, कीदृशैः बिडम्बितशृङ्गसमूहशोभैः, तथा उच्चैः उन्नतैः, तथा वेगवद्वायुप्रेरितैः, तथा, सहेलं सविलासमुन्नमद्भिः उच्छ्रितैः, तथा बलभद्रवस्त्रश्यामलैः शिखरसमैः मेधैस्तवागच्छतः पुरो यातीवेत्यर्थः । अन्योऽपि चिरेणा- गतस्य मित्रस्यावश्यमेव सरभसमभ्युत्तिष्ठति । अभ्युत्तिष्ठतीति 'उदोऽनूर्ध्वकर्मणि' इति वचनादात्मनेपदाभावः । श्यामलं कृष्णम् । उत्प्रेक्षालङ्कारः । मालिनी वृत्तम् ॥ ६८ ॥ इति श्रीआनन्ददेवायनिवल्लभदेवविरचितायां शिशुपालवधटीकायां सन्देहविषौषधिनाम्न्यां चतुर्थः सर्गः ।

१७२ सन्देहविषौषधिसर्वकषायुते- [पञ्चम:- अनुकृतोत । असावुच्चैरुनतोऽदिः रेवतकः त्वयि अभ्यागते सति अनुकृता शिखरौघाणा श्री- स्तैस्तथा । शिखरोघभ्रमकारिभिरिति भावः । अत एवात्र श्रीरिव श्रीरिति निदर्शनया भ्रान्तिमदल कारो व्यज्यते । दुतमरुता शीघमारुतेनोपनुनैः प्रेरितः, अत एव सहेलं सलीलमुन्नमद्भिरुत्पतदिः । धरतीति धरः पचायच् । हलस्य धरो हलधरो बलभद्रः तस्य परिधानान्यम्बराणि तद्वच्छच्चामलैः श्यामरम्बुवा निमित्ते- न सरभसमभ्युत्तिष्ठतीव प्रत्युत्थानं करोतीवेति क्रियानिमित्ना कियास्वरूपोमक्षा, विशिष्टमेघोत्रमन- क्रियया प्रत्युत्थानक्रियात्प्रेक्षणात् । सा चोक्कनिदर्शनानुप्राणितेति सङ्करः । शाब्दस्तु वृत्त्यनुप्रासः । मालिनी वृत्तम् ॥ ६८॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथमूरिविरचिते शिशुणलवधकाव्यव्याख्याने सर्वकषाख्ये चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः। इत्थं गिरः प्रियतमा इव सोऽव्यलीकाःशुश्राव सूततनयस्य तदा व्यलीकाः॥ रन्तुं निरन्तरमियेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ १ ॥ इत्थमिति ॥ स भगवान् इत्थमुक्तप्रकारेण सूततनयस्य दारुकस्य तदा गिरो वाचः शुश्राव अश्रौषीत् । कीदृशीगिरः अव्यलीकाः मनोरमाः, व्यलोकं हि मनसोऽप्रियं न व्य- लीका अव्यलीकाः मन:प्रियाः, तथा व्यलीकाः विगतमलीकं यासां ताः सत्याः अमि- ध्यारोपितार्थत्वात् । अतश्च आलादकत्वात् प्रियतमा इव प्रियतमातुल्याः । ता अपि मनःप्रियाः असत्यरहिताश्च । यद्वा विशिष्टमलीकं ललाटं यासां ताः व्यलीकाः । हस्व- स्य दीर्घता । यतश्चैवंविधा वाचः श्रुतवांस्ततो हेतोः तासां गिरामवसाने समातौ तस्मिन्, गिरौ रैवतके निरन्तरमतिशयेन रन्तुं क्रीडितुमियेप अभिललाष । गिरौ कीदृशे वनराजि- पटं वसाने काननपङ्क्तिवस्त्रं परिदधाने । सर्वगुणयुक्त ह्यवश्यमेव महात्मानो रज्यन्ते । वसन्ततिलका वृत्तम् ॥ १ ॥ इत्थामति ॥ स हरिरित्थमनेन प्रकारेण । 'इदमस्थमः' इति थमुप्रत्ययः । अत्यलीका अप्रियरहिताः 'व्यलीक त्वप्रियेऽनृते' इत्यमरः । प्रियतमा: प्रेयस्य इव स्थिताः, कान्तासंमिता इत्यर्थः । व्यलीका विग- तान्ताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरस्तदा शुभाव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्ती निरन्तरं नीरन्ध्र वनराजिरेव पटस्तं वसाने आच्छादयति । 'वस आच्छादने' इति धातोः कर्तरि लट: ज्ञानजादेशः । गिरी रैवतकाद्रौरन्तुं क्रीडितुमियेष । तत्र वसति कर्तुमिच्छति स्मेत्यर्थः । उपमायमकयोः संमृष्टिः। सर्गेऽस्मिन् वसन्ततिलका वृत्तम् । 'उक्ता वसन्ततिलका तभजा जगा गः' इति ॥१॥ तं स द्विपेन्द्रतुलिताऽतुलतुङ्गश्टङ्गमभ्युल्लसत्कदलिकावनराजिरुचैः(१) ॥ विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मी दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥ तमिति ॥ स बलौघः सेनापूगः तमचलमनु रैवतकं प्रति चचाल प्रतस्थे । क.दृशः प्रतिगिरेः पर्वतान्तरस्य लक्ष्मी शोभां दधत् उद्वहन् । द्वितीयगिरिरयमिति ज्ञायते । केचित्तु प्रतिपक्षभूतं गिरि प्रतिगिरिमाहुः। विपक्षो झुपरि चलति । इदानीमुभयविशेषण- द्वारेण द्वयोः सादृश्यमाह-कीदृशं तं द्विपेन्द्रैर्हस्तिश्रेष्ठैस्तुलितानि अनुकृतानि अतुलानि (१) राजिमुच्चैः। :

सर्गः।]
येन सः,
शिशुपालवधे ।
१७३
रम्याणि तुङ्गानि अनूनानि शृङ्गाणि शिखराणि यस्य तम् । श्रेष्ठार्थवादतुलशब्दस्य
नाऽत्रार्थबाधा । बलौघः कीदृशः अभ्युल्लसन्त्यः स्फुरन्त्यः कदलिका ध्वजदण्डा एव वन-
राजयो वृक्षपङ्क्तयो यस्य । राजिमिति तु पाठे कर्मपक्षे अभ्युल्लसन्त्यः कदलिकातुल्या वनरा-
जयो यस्येति विग्रहः, स्फुरद्ध्वजदण्डतुल्यवृक्षपङ्क्तिम् । तथा विस्तारेण रुद्धा व्याप्ता वसुधा
उच्चैः
उन्नतः उन्नतं वा, अलघुविस्तीर्णः । गिरेस्तु विभक्तिविपरिणामेन विशेष-
णानि । गजानां शृङ्गाणि उपमान, कदलिकानां वनराजयः, बलौघस्य गिरिः । अन्वचल-
मित्यनुशब्दः कर्मप्रवचनीयः, तद्योगेऽचलमिति द्वितीया । अन्यो विरुद्धो वा गिरिः प्रति-
गिरिः, कुगतिप्रादयः । ओघशब्दः पृषोदरादिः ॥ २ ॥
तामति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्व । 'कदली वैजपन्त्यां च रम्भाया हरिणा-
स्तरे' इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपङ्कयो
यस्य तमिति योज्यम् । उच्चस्त्रतः, विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरलक्ष्मी दधत् ।
स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलधुर्महान्स बलौघः सेनासङ्घा दिपेन्द्रस्तुलितान्यतुलान्यप्रतिमानि
'द्विपेन्द्रव्यतिरिक्त प्रतिमारहितान्युत्तङ्गशङ्गाणि यस्य तं तधौतमचलं रैवतकमनु चचाल । तं प्रति
ययावित्यर्थः । 'अनुर्लक्षण' इति कर्मप्रवचनीयत्वात्नयागे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धवात्
गिरिधर्मयोगी बलाघः प्रतिगिरलक्ष्मीमिव लक्ष्मी दधातीति निदनर्शनामुखन प्रतियोगित्वनोपेक्ष्यते इन्युत्प्रे-
अवयं श्लेषानुपाणितेति सङ्करः ॥ २ ॥
भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः सापत्रपा इव महाजनदर्शनेन ॥
संविव्युरम्बरविकासि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥
भास्वदिति ॥ पृथ्वीरजो भूरेणुम् आशा दिशः कर्व्यः संविव्युः परिदधुः । यतो-
ऽम्बरविराजि वस्त्रशोभि, तथा चमुसमूत्थं सेनासमुच्छितं, करभकण्ठकडारमुष्ट्रग्रीवापिङ्गलम्।
किंभूता दिशः भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः रविकिरणसंश्लेषेण उल्लसितो
भास्वान् अम्बरान्तो नभःपर्यन्तो यासाम् । अतश्चोत्प्रेक्ष्यते-महाजनदर्शनेन सापत्रपा इव
जनतावलोकनेन सलज्जाः सत्यः इव रजोऽम्बरं संविव्युः । यस्याः किल महिलाया भास्वता
रत्नकटकविशेषेण सद्युतिना करेण हस्तेन सम्पर्कादुल्लसितः स्रस्तः प्रकाशो वा अम्बरान्त-
उत्तरीयप्रान्तो भवति, सा गुरुजनावलोकनात् सबीडा सती शरीरालोकननिवृत्तये वासो
वस्ते । संविव्युः इति व्येजो लिट् 'न व्यो लिटी'त्याभावः असंयोगाल्लिट् कित्, यजादि-
स्वात् 'सम्प्रसारणाच्चेरत्येकादेशे द्वित्वं, लिट्यभ्यासस्योभयेषाम् । केचित् ‘संविव्ययुर्वसन-
चारुचमूसमुत्थामिति पठन्ति, तैः सम्प्रसारणाभावे युक्तिर्वक्तव्या। त्रिवर्ष उष्ट्रः करभः ॥३॥
भास्वदिति ॥ आशा दिशो भास्वत्करव्यतिरेकेण सूर्याशुज्याप्त्या उल्लसिताम्बरान्ताः प्रकाशिता-
काशदेशाः । अन्यत्र भास्वान्भाम्बरोऽभिरूप:। भास्वान्भास्वरसूर्ययोः' इति विश्वः। तस्य हस्तस्य स्पर्श-
नेनोल्लसिताम्बरान्ताः स्रस्तवमाञ्चलाः अत एव महाजनदर्शनेन मापत्रपा इव । 'लज्जा सापपान्यतः'
इत्यमरः । अम्बरविकासि व्योमव्यापि वासशोभि च। 'अम्बरं व्योमवाससोः' इति विश्वः । चमूषु
समुत्थं, करभ उष्ट्रपोतः । 'उष्ट्र क्रमेलकमयमहाङ्गाः करभः शिशुः' इत्यमरः । तस्य कण्ठ इव कडारं कपिशं
'कडारः कपिशः पिङ्गः' इत्यमरः । पृथ्वीरजः संविव्युः संवत्रुः । आच्छादयामासुरित्यर्थः। व्ये संवरणे ।
लिट् , कित्त्वात्सम्प्रसारणे द्विर्भावः । 'एरनेकाच-' इति यणादेशः । स्त्रियो वनापहारे लज्जया यत्किञ्जि
दाच्छादयन्तीति भावः । अत्राचेतनास्वाशासु क्लिष्टविशेषणमहिम्ना मीप्रतीतौ तदभेदाध्यवसायेन सच्यान.
व्यवहारसमारोपासमासोक्तिः । सा च सापत्रपत्वोत्प्रेक्षानुप्राणितेति सङ्करः ॥ ३ ॥

- . १७४ सन्देहविषौपाधिसर्वकषायुते [पञ्चम:- आवर्तिनःशुभफलप्रदशुक्तिमुक्ताः सम्पन्नदेवमणयो भृतरन्ध्रभागाः ॥ अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्ण पयोधय इवोर्मिभिरापतन्तः ॥४॥ श्रावर्तिन इति ॥ अश्वाः वाजिनः वसमती वसुधां तूर्ण शीघ्र प्यधुः आच्छादया- मासुः । किंभूताः पयोधय इव जलनिधितुल्याः । इदानीं विशेषणद्वारेणोभयेषां साह- श्यमाह-अश्वास्तावत्कीदृशाः आवर्तिनः शुभलक्षणविशेषयुक्ताः, समुद्राश्च भाम्यज्जला- वर्ताः जलभूमयुक्ताः । अश्वा अभिमतदायिभिः शुक्तिभिररस्यैः आवर्तविशेषैः लघुकर्णैर्वा सम्बद्धाः, उदधयोऽपि सितमुक्ताप्रदायिनीभिः शुक्तिभिः प्राणिभेदैर्युक्ताः । अश्वाः स- म्पन्नदेवमणयः अखण्डखण्डावर्ताः, उदधयोऽपि सम्पन्ना देवानां मणयो येभ्यः इति सम्पन्न- देवमणयः । देवमणिः कौस्तुभ इत्यन्ये । अश्वा भृतरन्ध्रभागा: मांसलनिम्नप्रदेशाः, स- मुद्रा अपि जलपूरिताऽगाधप्रदेशाः । अश्वा अतिरोचमानाः शोभमानाः, समुद्रा अपि तथा । अश्वाः शीघ्रमूर्मिभिर्वृन्दैरागच्छन्तः, समुद्रा अपि ऊर्मिभिस्तरगैरापतन्तः शीघ्र- मेव पृथ्वी पिदधति स्म । प्यधुरिति दधातेरपिपूर्वस्य लङ् । वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ इति अवर्णनाशः ॥ ४ ॥ प्रावर्तिन इति ॥ आवर्तिनो दशावर्तवन्तः । प्रशंसायामिनि:(१) । ते च- 'द्वावुरस्यौ शिरस्या द्वौ द्वौ द्वौ रन्ध्रोपर-ध्रयोः । एको भाले घपाने च दशावर्ता ध्रुवाः स्मृताः' ।। इत्युक्ता दश ध्रुवाख्या विवक्षिताः । अन्यषामनन्तरमेव पृथगभिधानात् । अन्यत्र तु जलभ्रमवन्तः । 'स्यादावर्तोऽम्भमा भ्रमः' इत्यमरः । रोमसंस्थाने तु तत्साम्याद्यपदेशः । तदुक्तम्-'आवर्तसाम्यादातों रोमसंस्थानमाङ्गनाम' इति । शुभफलानि राज्यलाभादीनि प्रददतीति शुभफलप्रदाः । 'प्रेदा ज्ञः' इति कः । ताभिः शुक्तिभिः संस्थानरावर्तविशेषैर्युक्ताः । तदुकम्- 'वक्षःस्थाः शुक्तयस्तित्र उर्वरोमा जयावहाः' इति । अन्यत्र शुभफलानि मुक्ताफलानि तत्प्रदाः शुक्कयो मुक्तास्फोटास्ताभिर्युकाः। 'मुक्तास्फोटे हयावर्ते शुक्तिः शकपालयोः' इति यादवः । सम्पन्नाः समग्रा देवमणयो निगालावर्ताः कौस्तुभादिदिव्यमणयश्च येषां ते । 'आवतों रोमजो देवमणिस्त्वेष निगालजः । निगालस्तु गलोदेशे मकृत्-' इति वैजयन्ती । भृता: पूर्णा रन्ध्रभागाः पार्श्वदेशा: निम्नप्रदेशाश्च येषां ते । अनिशयिता रोचमानाः कण्ठावः येषां तेऽतिरोचमानाः । 'कण्ठजो रोचमानश्च म्वामिसौभाग्यवर्धनः' इनि वैजयन्ती । अन्यत्र स्वत्यन्तं दीप्यमाना इत्यर्थः । ऊर्मिभिर्गतिविशेष चिभिच पतन्त आधावन्तः । 'पङ्कीकृतानामश्वानां नमनोत्रमनाकृतिः । अतिवेगसमायुक्ता गतिरूमिरुदाहृता' ॥ इनि वैजयन्ती । ईदृशोऽश्वाः पयोधय इव तूर्ण वसुमती प्यधुश्छादयन्ति स्म । 'आविधानतिरोधानपि- धानाच्छादनानि च' इत्यमरः । अपिपूर्वावधातेर्लुङ् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः। एकनालावलम्बिकलयवदेकशन्दनार्थव्यप्रतीतरर्थश्लेषोऽयं प्रकृतारकृतगोचरः, उपमा त्वङ्गमिति सदूरः ॥४॥ आरक्षमग्नमवमत्य सृणि शिताप्रमेकः पलायत जवेन कृतार्तनादः॥ अन्यः पुनर्मुहुरुदप्लवताऽस्तमारमन्योन्यतः पथि बताऽबिभितामिभोष्ट्री॥५॥ (१) 'भूमिनिन्दाप्रशंसासु' इत्यायुतः । 'प्रशंसायाम्-' इति णिनिरिति प्रायः सर्वमुद्रितपुस्तकस्थः पाठश्चिन्त्य एव ।

वेगेन पलायत सर्गः।] शिशुपालवधे। १७५ आरक्षेति ॥ बत इति विस्मये, इभोष्ट्रौ करिकरभौ पथि मार्गेऽन्योन्यतः अबिभितां परस्परतस्तत्रसतुः । जातिस्वभावो ह्येतयोः। तमेव त्रासमाह-एक इभो हस्ती जवेन नष्टः । किं कृत्वा सृणिमङ्कुशमवमत्यावगणय्य, कथंभूतं सुणिमवमत्य आरक्षमग्नं कुम्भाधोभाग[डितम् । आरक्षः कुम्भयोरधः । अपरं कीदृशं शिताग्रं तीक्ष्णकोटिं, किंभूतो हस्ती कृतार्तनादः मुक्तदीनस्वरगर्जनः । अन्यः पुनः उष्ट्रः अस्तभारं यथा भवति त्यक्तभारं यथा स्यात् एवं मुहर्वारंवारमुदप्लवत उल्ललितः उहिटीके । परापूर्वस्यायतेर्लङ् उपसर्गस्य लत्वं, पलायतेति। अबिभितामिति लङ् ईतः स्थाने 'भियोऽन्यतरस्या'मिति इत्वम् ॥ ५ ॥ आरक्षति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादविभितां भीतवन्तो । त्रिभी भये ।ला, 'भियोऽन्यतरस्याम्' इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा । 'खेदानुकम्पासन्तोषविस्मया- मन्त्रणे बत' यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयारधःप्रदेशस्तत्र मग्नं प्रविष्टं शिता ती- क्ष्णमुखं मृणिमल्कुशम् । 'अकुशोऽस्त्री मणियोः' इत्यमरः । अवमत्यावधूय कृत आर्तनादो येन सः । अतिकरुणं क्रन्दनित्यर्थः । जवेन पलायत पलायितवान् । परापूर्वादयतेर्लङ् । 'उपसर्गस्यायतो' इति रेफ- स्य लत्वम् । अन्यः पुनरुष्टस्तु अस्तभारं निरस्तभारं यथा तथा मुहुरुदप्लवतोप्लपितवान् । 'प्लु गती' इति लङ् । स्वभावोक्तिः ॥ ५ ॥ आयस्तमैक्षत जनश्चटुलाप्रपादं गच्छन्तमुच्छलित(१)चामरचारुमश्वम् ॥ नागं पुनर्मुदुसलीलनिमीलिताक्षं सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ॥ ६ ॥ प्रायस्तमिति ॥ जनो लोकः अश्यं तुरगं गच्छन्तमायस्तं चिरकालमैक्षत । कथं- भूतमश्चं चटुलाग्रपादं चञ्चलाप्रपादं चञ्चलाग्रचरणं, चटुलौ चञ्चलौ अग्रपादौ पूर्वखुरौ यत्र तं तथा, अपरं कीदृशम् उच्छलितचामरचारुम् उच्छलितं चलाचलं यच्चामरं प्रकीर्ण पुच्छं वा तेन चारुः मनोहरः तम् । पुनः स एव लोकः नार्ग मृदुसलीलनिमीलिताक्षं गच्छ- न्तमैक्षत मृदु मन्थरं तथा सलीलं निमीलिते अक्षिणी येन यत्र वा । एवं गच्छन्तौ तौ लोके जनस्य मनोहरौ । ननु विपर्ययेण युक्तोऽयमर्थः । हि यस्मात्कारणात् सर्वः कोऽपि अनुरूपचेष्टः सन् आत्मोपचितव्यापारः सन् प्रियो भवति । अश्वस्य जवेन यातमुचितं, हस्तिनस्तु मन्थरम् । खलु हेतौ ॥ ६ ॥ प्रायस्तमिति ॥ जनश्चटुलाप्रपादं चश्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः । उच्चलितैरुल्लसितश्यामरश्चारुमश्वमायस्तं मयत्नमाहृतं यथा तथा । यसु प्रयत्ने, कर्तरि कः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् । 'आडजादीनाम्' इत्याटि 'आटच' इति वृद्धिः । नागं पुनर्गजं तं सलील निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् षच्' । मृदु मन्दं गच्छन्तमायस्तमक्षत । कथं शीघ्रमन्दयोस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचित- व्यापारः सनू प्रीणातीति प्रियः प्रीतिकरो भवति खलु । 'इगुपधज्ञाप्री-'इति कर्तरिकः । अर्थान्तरन्यासः॥ प्रस्तः समस्तजनहासकर (२)करेणोस्तावत्खरः प्रखरमुल्ललयाञ्चकार॥ यावञ्चलासनविलोलनितम्बबिम्बवित्रस्तवस्त्रमवरोधवधूः पपात ॥ ७ ॥ त्रस्त इति ॥ जातिस्वभावात् खरो वेसरः करेणोर्गजात् अस्तः भीतः सन् तावत् प्रखरमतिशयेन उल्ललयाञ्चकार उदटीकत, यावदवरोधवधूरन्तःपुरचेटिकाः पपात । अव- । .. (१)मुच्चलित। (२) हासकरः।

। .. १७६ सन्देहविषौषधिसर्वकषायुते [ पञ्चमः- रोधोऽन्तःपुरम् , अत्र तु तात्स्थ्यान्नायिका, तस्या वधूः परिचारिकाः । नायिकायां त्व- नौचित्यं स्यात् । कथमुहिटीके सर्वलोकहासविधायि, कथं पपात चलमस्थिरं यदासनमव- स्थानबन्धः पर्ययणं वा तेन विलोलमाकुलं यनितम्बबिम्ब पश्चात्कटीभागः ततो विस्वस्तं पतितमुत्तरीयं यत्र । अत एव जनहासजनकम् । चुलुम्पादिवदुल्ललिरपि धातुषु बोद्धव्यः। प्रयोगस्तु दृश्यते । यथा- कैश्चित् स्मेरमुखैर्विवृत्य वदनं चान्यैर्हसद्भिस्तथा निर्यद्वाष्पमथापरैः कृतमहाशब्दोरुहासं जनैः । दृष्ट्वालम्बिबृहत्कुचां पृथुकटि पृष्ट्यां(१)क्षियं तुन्दिला- मुर्वीमुल्ललयाञ्चकार करभात् त्रस्तश्चिरण्टीश्वरः ॥ आसनमिति भावेऽधिकरणे वा ॥ ७ ॥ अस्त इति ॥ करेणोरिभ्याः 'करेणुरिभ्या स्त्री नेभे' इत्यमरः । 'भावार्थाना भयहेतुः' इत्यपादानत्वम् । त्रस्तो भीतः खरों गर्दभः समस्तजनस्य हामं करोतीति तत्करः मन् । 'कृत्रों हेतु-' इत्यादिना टप्रत्ययः । तावत्तवदधि प्रखरं भृशमुल्ललयाञ्चकार उत्पपात । यावत् चलात्स्थानचलितादासनात्पल्ययनात् विलोलो- ऽपमृतस्तस्मानितम्बबिम्बादिखस्तं वस्वं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः ॥॥ शेलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ॥ भूरेणवो नभसि बद्ध(१)पयोदचक्राश्चक्रीवदङ्गरुहधूम्ररुचो विसनुः ॥ ८ ॥ शैलेति ॥ भूरेणवः पृथ्वीपांसवो नभसि आकाशे विसवः उत्पेतुः । कथंभूताः शैलो- पशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाःशैलोपशल्ये पर्वतसमीपे निपत- न्त्यो या स्थनेमिधाराः स्यन्दनप्रधिकोटयः ताभिर्निष्पिष्टं चूर्णीकृतं शिलातलचूर्ण गर्भे अन्तरे येषां ते, तथा चक्रीवदङ्गरुहधूमरुचः चक्रीवान् खरः तस्य अङ्गहाणि लोमानि तद्वत् धूमू- रुचो मलिनभासः, तथा पुनः कथंभूताः बर्द्व रुद्धं पयोदचक्रं धनसमूहो यैस्ते तथा ॥ ८ ॥ शैलेति ॥ शैलस्य रैवतकाद्रेपशल्यं प्रान्तम् । यद्यपि 'सामान्त उपशल्यं स्यात्' इत्यमरः । तथा- प्युपचाराददोषः। तत्र निपतता धावता रथानां नेमयश्चक्रान्ताः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः मी स्यात्यधिः पुमान्' इत्यमरः । तासा धाराभिर्निपिष्टानां चूर्णिताना निष्ठुरशिलातलानां चूर्णो गर्भे येषा ते तथोक्काः । नभास नद्धानि पयोदचक्राणि पयोदाकारमण्डलानि यैस्ते चक्रवद्रमणमस्यास्तीति चक्रीवान् गर्दभः । 'चक्रीवन्तस्तु बालया रासभा गर्दभाः खराः' इत्यमरः। 'आसन्दीवदष्ठीवचक्रीवत्-' इत्यादिना साधुः । तस्याङ्गरुहाणि रोमाणि तद्वद् धूम्ररुचः कृष्णलोहितवर्णाः। 'धूमधूमली कृगलोहितो' इत्यमरः । भूरेणवो विसस्त्रः प्रमृताः ॥ ८ ॥ उद्यत्कृशानुशकलेषु खुराभिघाताद्भूमीसमायतशिलाफलकाचितेषु ॥ पर्यन्तवर्मसु विचक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादवन्तः ॥९॥ उद्यदिति ॥ महाश्वा जातिवाजिनः शैलस्य पर्यन्तवम॑सु निकटमार्गेषु विचक्रमिरे गतिविशेषं चक्रुः । अश्वानां गतिविशेषो विक्रमणम् । किंभूतेषु भूम्या समैः न निम्नैर्ना - प्युन्नतैश्च आयतैः शिलाफलकैः दृषत्पडकैः आचितेषु व्याप्तेषु, अत एवं कथंभूतेषु उद्यत्कृशानुशकलेषु निःसरद्वह्निस्फुलिङ्गेषु, कस्मात खुराभिधातात् खुराणां पर्यायपातात् । यदा अश्वा विशिष्टया गत्या रम्यं यान्ति, उत्प्रेक्ष्यते-दर्दुरपुटान् वादयन्त इव ।मुखावनई वाद्यभाण्डं दर्दुरपुट उच्यते । दुडदुढी प्राकृतम् ॥ ९ ॥ (१)नद्ध। . .. ।

सर्गः।] शिशुपालवधे। १७७ उपदिति ॥ खुराः शकानि । 'शफं क्लीब खुरः पुमान्' इत्यमरः । तेषामभिघातादुद्यन्तः कृशानु- शकलाः स्फुलिङ्गा येन्यस्तेषु । टङ्कपाया खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिला फलकानि तैराचितेष्वास्तृतेषु शैलस्य पर्यन्तवम॑सु प्रान्तमार्गेषु महाश्वा दर्दु। राणां वायविशेषाणा पुटा मुखानि वादयन्त इव विचकमिरे जग्मुः। पादन्यासैस्तादृशं शन्दमकुर्वन्नित्यर्थः। 'वे पादविहरणे' इत्यात्मनेपदम् । 'दर्दुरस्तोयदे भेके वायभाण्डाद्रिभेदयोः' इत्यमरः । उत्प्रेक्षालङ्कारः ॥९॥ तेजोनिरोधसमताऽवहितेन यन्त्रा सम्यकशात्रयविचारविदा(१) नियुक्तः ॥ आरजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं चकार पदमर्धपुलालयेन(२) ॥ १० ॥ तेज इति ॥ आरदेशे जातः आरजः सिन्धुदेशीयोश्वः चित्रं पदं चकार नानाविधं गतिविशेषं विदध । आरडबाल्हीककाम्बोजादयो देशविशेषाः अश्वयोनयः । कीदृशः उच्चैरुन्नतकायः, अपरं कथंभूतः यन्त्रा अश्वारोहकेण नियुक्तः प्रेरितः, कथंभूतेन यन्त्रा तेजोनिरोधसमताऽवहितेन तेजोनिरोधी दर्पनिवारणं वेगोत्थापननिषेधः तेन या समता साम्यावस्था अश्वस्य मध्यगतिस्तत्र अवहितेन सावधानेन । धावन्तमवं वशीकर्तु यो जानातीत्यर्थः । अपरं कथंभूतेन सम्यक्कशात्रयविचारविदा सम्यक् अविपरीतो यः कशात्रयविचारस्तं वेत्तीति वित् तेन । वडवालोकनस्खलनस्वपनोपवेशनहेपण- (३)विमनस्कतासु पट्स ताडनस्थानेषु मध्यादेकत्र त्रिः कशया वरत्रया मुखपार्श्वपाश्चात्त्य- भागेषु हननं कशात्रय, त्रिवेलं वरत्राताडनम् । एके त्वाहुः निद्राविमनस्कतारोपाख्यास्तिस्रः कशावस्थाः । गच्छतोऽश्वस्य यदा निद्रा भवति तदा मुखे हन्यते, यदा वडवालोकनात् वैमनस्यं भवति तदा पार्श्वताडनं, यदा रोषस्तदा पश्चादिति । एतदश्वस्य कशनत्रयम् । कीदृशं पदं चटुलनिष्ठुरपातं चटुलश्चञ्चलो निष्ठुरः कठिनश्च पातः पादन्यासो यत्र तत् । केन पदं चकार अर्धपुलालयेन, पुला गतिविशेषः तस्या अर्धम् अर्धपुला तस्याः आलयः स्थानम् , अथ वा तस्या लयो लीला तेन । एतत्सर्वमश्वलक्षणात्सुबोध शालिहोत्रग्रन्थे प्रसिद्धम्॥१०॥ तेज इति ॥ तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोऽन्तःसारविशेषः। यथाह भोजराजः- 'तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः । क्रोधस्तम इति ज्ञेयास्त्रयोऽपि सहजा गुणा:' । इति । तच्च द्विविधं सततोत्थितं भयोत्थितं चेति । यथाह स एव- 'धारासु योजिताना च निसर्गाप्रेरणं विन।। अविच्छिन्नमिवाभाति तत्तेजः सततोत्थितम् ।। कशापादादिघार्यत्साध्वमात्स्फुरितं तु तत्' । इति । अत्र तेजःशब्देन तत्कार्य वेगो लक्ष्यते । तथा च तेजसिं वेगे निरोधे तत्रिवारणे समताया वेगसाम्ये चावहितेन । वल्गाविभागकुशलनेत्यर्थः। कशा ताडनी। 'अश्वादेस्ताडनी कशा' इत्यमरः । अत्र कशाः कशाघातास्तासा त्रयमुत्तममध्यमाधमेषु यथासंख्यं मृदुममनिष्ठुरसकृद् द्वित्रिरूपं त्रितयं तस्य विचारः । एतेषु निमित्तेष्वङ्गेष्वेवं ताडय इति विमर्शः । तद्वता तज्जैन । यथाह भोजः- 'मृदुनैकेन घातेन दण्डकालेषु ताडयेत् । तीक्ष्णं मध्ये पुनभ्यो जघन्यं निष्ठुरैमिभिः । उपवेशेऽथ निदायो स्खलिते दुष्टचेष्टिते । वडवालोकनान्सुक्ये बहुगर्वितद्वेषिते ॥ - - - (१) ०वता । (२) यितेन । ( ३ ) स्खलन स्वपन वसन सन हिसन विम०-इति आदर्शपुस्तके ।

१७८ सन्देहविषौषधिसर्वकषायुते- [ पञ्चमः- सन्त्रासे च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये सञ्जाते चित्तविभ्रमे ॥ दण्डः प्रयोज्यो वाहाना कालेषु द्वादशस्वपि । ग्रीवायो भीतमाहन्यात प्रस्तं चैव च वाजिनम् ।। विभ्रान्तचित्तमधरे त्यतशिक्षं च ताडयेत् । प्रहेषितं स्कन्धबाहार्वडवालोकिनं तथा ॥ उपवेशे च निद्रायो काटदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्यादुन्मार्गस्थित तथा ॥ जघने स्खलित हन्यानेत्रमार्गे दुरुत्थितम् । यः कुण्ठप्रकृतिजी तं सर्वत्रैव ताडयेत् ॥ इति । एवंभूतन यात्रा सादिना सम्यग्यथाशानं नियुक्त ईरितः उच्चरुन्त्रतः, आरडोऽश्वयोनिदेशविशेषः । तज्जाश्व आरदृजः । विशषणमात्रप्रयोगे सागराम्बरादेवनावतैव विशेष्यतीरित्याह वामनः-विशे- षणप्रयोगो विशेष्यप्रतिपत्ताविति । चटुलश्चपलो निष्टुरः परुषश्च पातः प्रक्षेपो यस्मिन्कर्मणि तयथा तथा अर्धपुलायितन मण्डलगतिविशेषेण चित्रमद् भुतं पदं पदक्रम चकार । 'शताधिक्रमादुनैमण्डलायितवाल्गितैः । उन्मुखस्याश्वमुख्यस्य गतिरर्धपुलायितम्' ।। इति लक्षणात । पुला नाम प्लुतायनेकापरनामा हयाना गतिविशेषः । तदुक्तं हयलीलावत्याम्- 'प्लुतां प्लवङ्गितामाहुर्या धारा पुलनाभिधा । पुनरेना रलोपान्ता पुलामित्याह देशिकः' । तल्लक्षणं च तत्रैवोक्तम्-- 'क्षिपति समविशेषानुत्क्षिपत्यग्रपादान्प्रसरति पुरतोऽश्वः साधु धारा पुलाख्या । विलसनि समपादोक्षपण कुञ्चनानां करुणामह गतिज्ञाः प्राहुरन्ये पुलाख्याम्' ।। इति । 'पाणिप्रधान प्रविधाय रागालगा श्लवीकृन्य बहेत्पुलाख्याम्' इत्यादि । पुलारुपया आयन गतिः पुलायितम् । अय गती, भावेतः । तच्छतार्धेत्याधुकरीत्यानुष्ठितमर्धपुलायितमित्यलमतिविस्तरेण ॥ नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन्वधूजनविलोचनपक्ष्ममालाः ॥ क्षुष्णः क्षणं यदुबलैर्दिवमातितांसुः पांसुर्दिशां मुखमतुत्थयस्थितोऽद्रेः॥११॥ नीहारेति ॥ नगादुत्थितो रेणुः क्षणं ककुभाम् आशानां मुखमतुत्थयत् आरजयत् श्यामलीचकार । किंभूतः पांसुः नीहारजालवत् श्यामः धूमिकानिकुरम्बश्यामः, पुन: किं. भूतः वनिताप्रान्तनयनपङ्क्तीः स्वभावात् अघना अपि पुनरुक्तसान्द्राः कुर्वन् अतिघना विदधत् । यतः किंविधः यदुबलैः यादवसैन्यः क्षणं क्षणमात्र क्षुण्णः पिष्टः, अत एव की- दृशः दिवमाकाशमातितांसुः आरुरुक्षुः। आतितांमुरिति तनोतेः सन् 'तनिपतिदरिद्रातिभ्यः' इती विभाषितः, अन्झनगमां सनि 'तनोतेविभाषेति दीर्घः ॥ ११ ॥ नीहारेति ॥ नीहारजालवनुहिनव्यूहवन्मलिनो वधूजनाविलोचनानना पक्ष्ममालाः पुनरुक्तसान्द। द्विगु: णसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रत्वादिति भाव: । मयूरव्यंसकादित्वाद्विस्पष्टपटुवत्समासः । क्षणं यदूना बलैः सैन्यैः क्षुण्णोऽस्थितो दिवमाकाशमातनितुमवतानतुमिच्छुरातितासुः । तनोतेः सन्त्रता- दुप्रत्ययः । 'सनीवन्तर्ध-' इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाइकल्पिक इडभावः । 'तनोतर्विभाषा' इति दीर्घः । पांसुर्दिशा मुखमतुत्थयदाच्छादयति स्म । 'तुत्थ आच्छादने' इति धातोश्वारादिकाल्लङ् ॥११॥ उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रानिन्द्रानुजानुचरभूपतयोऽध्यवात्सुः ॥ धन्येभमस्तकनिखातनखाप्रमुक्तमुक्ताफलप्रकरभाजि गुहागृहाणि ॥ १२ ॥ ..

सर्गः ।। शिशुपालवधे। १७६ उच्छिद्येति॥ इन्द्रानुजाऽनुचरभूपतयः उपेन्द्रसेवकनृपाः प्रसभं बलात्कारेण मृगेन्द्रान् सिंहान् उच्छिद्य द्रावयित्वा गुहागृहाणि दरीमन्दिराणि अध्यवात्सुः अधितष्ठुः। कानिव विद्विष इव रिपूनिव । यथा कश्चित् पुरुषः प्रसभं बलात्कारेण विद्विषः शत्रून् उच्छिद्य गृहाणि अधिवसति । कथंभूतानि गुहागृहाणि वन्येभमस्तकनिखातनखामुक्तमुक्ताफल- प्रकरभाजि वन्येभमस्तकेषु आरण्यकुञ्जरशिरस्सु निखातानि न्यस्तानि यानि नखाग्राणि सिंहकरजकोटयः तैर्मुक्तानि उत्सृष्टानि यानि मुक्ताफलानि मौक्तिकानि तेषां प्रकराः समूहाः तान् भजन्ति आश्रयन्ते इति तथा तानि । रिपुगृहाण्यपि समुक्ताफलानि भवन्ति । अध्यवात्सुरिति वसेरधिपूर्वस्य लुङ् । 'उपेन्द्र इन्द्रावरजः' इत्यमरः ॥ १२ ॥ उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनी भूपतयो मृगेन्द्रान्सिहान् विद्विषः शत्रु- निव प्रसभं प्रसवोच्छिद्य हत्वा वन्येभाना मस्तकेषु निखातैनिक्षिप्त खानेः सिंहनखमुखैर्मुक्कान् विकीर्णान मुक्ताफलप्रकराम्भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः, विद्विष इवेति लिङ्गात् । अध्य- वात्सुरभ्युषितवन्तः । 'उपान्वथ्याङ्वसः' इति कर्मत्वम् । वस निवासे, लुङि सिचि वृद्धिः। 'स: स्या- धातुके' इति तत्वम् ॥ १२ ॥ बिभ्राणया बहलयोवकपङ्कपिङ्गपिच्छावचूल(१)मनुमाधवधाम जक्षुः ॥ चञ्च्वग्रदृष्टचटुलाहिपताकयाऽन्ये स्वावासभागमुरगाशनके तुयष्टया ॥१३॥ बिभ्राणयेति ॥ अन्ये राजनः अनुमाधवधाम माधवस्य धामसमीपे श्रीकृष्णावास- समीपे स्वावासभाग आत्मीयावासप्रदेशः तं जनुः बुबुधिरे । कया उरगाशनकेतुयष्ट्या उरगाशनो गरुडः स एव केतुः चिहनं यस्य तस्य यष्टिर्दण्डः तया, किंभूतया केतुयष्ट्या चञ्च्वग्रदष्टचटुलाऽहिपताकया चच्चग्रेण गरुडतुण्डप्रान्तेन दष्टः खण्डित अत एव चटुल- चञ्चलो योऽहिरूगः स एव पताका वैजयन्ती यस्याः सा तया, तथा किं कुर्वाणया यष्ट्या बहलयावकपङ्कपिङ्गपिच्छावचूलं बिभ्राणया बहलो घनो योऽसौ यावकपङ्कः अलक्तकनिर्यासः तद्वत् पिङ्ग हरितं यत् पिच्छं गरुडबर्ह तदेव अवचूलं चामरं बिभाणया वहन्त्या । ध्वज हि सलोहितं पिङ्गचामरं क्रियते इत्याचारः। अनुमाधवधाम इति अनुर्यत्समीप समासः॥१३ बिभ्राणयति ॥ अन्ये भूपतयः, याव एव यावकोऽलक कः । 'राक्षा लाक्षा जतु कीब यावोऽलको दुमामयः' इत्यमरः । 'यावादिभ्यः कन्' इति स्वार्थे कन् । बहलेन यावकपडून पिङ्गं पिङ्गलं पिच्छं बई मेव वा अवचूडमधोलम्बिकलापं बिभ्राणया। अस्योच्चूडावचूडाख्यावूर्वाधोमुखचूडको' इति ध्वजाङ्गेषु हलायुधः । चञ्चुलोटिः । 'चञ्चुनोटिरुभे स्त्रियाम्' इत्यमरः । तस्या अग्रेण दष्टा चटुला चञ्चला हिरवे पताका यस्या तया, उरगाशनो गरुडस्तस्य केतुष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तया, अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितानियतीदकास्वावासानिश्चित्य जग्मुरित्यर्थः ॥ २३ ॥ छायामपास्य महतीमपि वर्तमानामागामिनी जगृहिरे जनतास्तरूणाम् ॥ सर्वो हि नोपनत(२)मप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमप्युपैति ॥१४॥ छायामिति ॥ जननां समूहो जनता लोकसमूहः तरूणां वर्तमानां साम्प्रतिकी छायामावपप्रत्यनीकामपास्य त्यक्त्वा आगामिनीमेष्यती छायां जगृहिरे सिषेविरे । कदाचित् सा ऊना भविष्यतीत्याशङ्कयाह-किंभूतां छायां महतीमपि विस्तीर्णामपि । (६) वचूड"जग्मुः। (0) नोपगत। . ..

१८० सन्देहविषौषधिसर्वाषायुते- [ पञ्चमः- - ननु सा यदि महती तत् कथमागामिनों जगृहिरे, हि यस्मात् कारणात् सर्वः कश्चिज्जनः उपनतमपि प्राप्तमपि स्वाश्रयं स्वस्थानमपचीयमानं हीयमानं नोपैति न सेवते, परं वर्धिष्णु वर्धमानमाश्रयमनागतमपि अप्राप्तमपि उपैति सेवते । अतश्च सम्प्रति च्छा- यामा तत्र क्षणेन क्षीयते, अन्यत्र तु वर्धिष्णुः सती क्षणेन(?) । आगमिष्यतीत्यागामिनी गमेरिति आङि णिनिः । जगृहिरे इति कर्तरि लकारः, स्वरितेत्त्वादात्मनेपदम् । वर्धिष्णु- मिति 'अलङ्कृतादिना सूत्रेण इष्णुच् ॥ १४ ॥ छायामिति ॥ जनानां समूह। जनताः । ग्रामजबनन्धुसहायभ्यस्तल् । तरूणां वर्तमानां विद्यमाना महतीमपि छायामपास्य त्यक्त्वा आगामिनी छायो जगृहिरे। पर्धिष्णुत्वादिति भावः। न च प्राप्तत्यागो दोषाय, त्यागम्बीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्प इति । तथा हि-सर्बो जन उपगतं प्राप्त- मप्यवचीयमानं दीयमाणम् , कर्मकर्तरि प्रयोगः, आश्रयं नोपति न गृह्णाति, किन्त्वनागतमप्राप्तमपि वर्धि- रुणुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १४ ॥ अग्रे गतेन वसतिं परिगृह्य रम्यामापास्यसैनिकनिराकरणाकुलेन ॥ यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुदाहुना जुहुविरे मुहुरात्मवर्याः॥१५॥ अग्रे इति ॥केनचिदये गतेन प्रथममागतेन सता पुरः प्राप्तेन आत्मवर्याः स्वसहायाः दूरादेव मुहुर्वारंवारं जहुविरे आकारिताः। किंभूता वर्याः अन्यतो यान्तः अन्यस्मिन् प्रदेशे गच्छन्तः, किं कृत्वा रम्यां वसतिं परिगृह्य मनोहरं स्थानमासाद्य, किंभूतेन तेन आपात्यसैनिकनिराकरणाकुलेन आपात्या आगन्तुकामा ये सैनिकाः सेनाचराः तेषां निरा- करणम् 'अत्र मा आगच्छतेत्यादिनिषेधः तत्र आकुलो व्यग्रः तेन,कथं यथा भवति तथा आहूताः प्लुतकृतस्वरं यथा भवति तथा प्लुतेन वेगेन अतिदीर्घेण, वा कृतो विहितः स्वरः शब्दो यत्र यस्यां क्रियायाम, तथा पुनः कथम् आशु शीण पुनः किंभूतेन उदाहुना उर्ध्व- भुजेन । तद्यथा-आगच्छ भो मल्लक! देवदत्त ! मया मनोहरं स्थानं गृहीतमिति । आत्मवर्ग भवा आत्मवाः, दिगादित्वाद् यत् । वसतिशब्दः औणादिकः । रमयति रम्या 'कृत्यलुटो बहुलम्' इति कर्तयेव यत् । जहुविरे इति वेजः कर्मणि लिट्, 'लिटि धातोरनभ्यासस्येति द्वित्वं, धातोर्यजादित्वात्सम्प्रसारणम् । 'वसती राश्वेिश्मनोः', 'व्यग्रो व्यासक्त आकुल:' इत्यमरः॥ १५ ॥ अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्या वसति निवासम् । 'पहिवस्यर्तिभ्यच' इति वसेरोणादि- कोऽतिप्रत्ययः। परिगृह्यापतन्तीत्यापात्या: स्वयमाक्रमितुमागच्छन्तः। 'भव्यगेय-' इत्यादिना कतरि ण्यद-तो निपातः। तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यप्रेण उदाहुनोबतहस्तेन । केनचि. दिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवाः स्वयूथ्याः । प्लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । 'दूराद्धूने च' इति दूरादाह्वाने प्लुतविधानादिति भावः । आशु दृरान्मुहुराजुहुविरे आहूताः। यतेरापर्वात्कर्मणि लिट् । 'अभ्यस्तस्य च' इति सम्प्रसारणे द्विवचन- मुबङादेशश्च ॥ १५ ॥ सिक्ता इवामृतजलेन (१)मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम्॥ शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलै विरेजुः॥१६॥ सिक्ता इति ॥ तदानीं तस्मिन् काले वनवनस्पतयः वानेयवृक्षाः विरेजः शुशुभिरे, (१) रसेन । ।

सर्गः ।] शिशुपालवधे। १८१ .. कैः सह कल्पगुमैः सह । सहशब्दोऽत्र इवाथें । उत्प्रेक्ष्यते-कल्पनुमा इव । यथा कल्पद्रुमाः देवतरवो मन्दाराचाः राजन्ते। किंभूतैः विचित्रफलैः विचित्राणि नानावर्णान्यभिरामत्वेनाश्न- र्यकारीणि वा फलानियेषां ते तथा तैः नानाविधाभीष्टफलयुक्तः, किंभूताः वनस्पतयः जनानां सेवमानानां लोकानां मुहुर्वारंवारं क्लान्तिच्छिदः अध्वखेदनिवर्तकाः, क्लान्ति श्रान्ति छिन्दन्तीति क्लान्तिच्छिदः। पुनः किंभूता वनस्पतयः, उत्प्रेक्ष्यते-अमृतजलेन सिक्ता इव अमृतं सुधा तदेव जलं तेन आप्लाविता इव । अमृतसिक्तं हि श्रमनाशकं भवति । पुनः किंभूता वनस्पतयः शाखावसक्तवसनाभरणाः शाखासु अवसक्तैः प्रकाण्डेषु अवलम्बितैः वसनाभरणैः वस्त्रालङ्करणैः अभिरामा मनोहराः। यदुसैन्यैर्वृक्षेषु वसनाभरणान्यवलम्बिता- न्यभूवन् । अत एव कल्पद्रमा उपमानम् । यत् कल्पद्रुमा अपि अमृतसिक्ता भवन्ति तथा श्रमनिवर्तकाः वस्त्राभरणाद्यभिरामाः, तत एव वस्त्राभरणादीनामुत्पत्तेः । वनस्पतयोऽपि विचित्रफला भवन्ति । 'वानस्पत्यः फलैः पुष्पात्रपुष्पावनस्पतिः । 'फलं फले धने बीजे निष्पत्ती भोगलाभयो रिति विश्वः ॥ १६ ॥ सिक्ता इति ॥ अमृतरसेन सिक्का इवेत्युत्प्रेक्षा । मुहुर्जनानो क्लान्तिच्छिदः श्रमहराः । कल्पद्रुमव- दमृतसे का भावादपि तदद लादका इति भावः । शाखास्ववसक्तैलग्नर्वसनैराभरणश्चाभिरामाः । एकत्र सेन'. स्थापितैरन्यत्र स्वप्रसूतैरिति भावः। वनवनस्पतयो वनवृक्षा विचित्रफलैर्वनाभरणायनेकफलयुक्नै कल्प- टुमैः । नवत्यैरिति शेषः । सह तदानीं विरेजुः । तद्विरेजुरित्यर्थः । सहेति सादृश्ये । 'सह साकल्य. सादृश्ययोगपद्यसमृद्धिषु' इति विश्वः । तथा चौपमालङ्कारः ॥ १६ ॥ यानाजनः परिजनैरवरोप्यमाणा (३) राशीनरापनयनाकुलसौविदल्लाः ॥ स्रस्तावगुण्ठनपट(२) क्षणलक्ष्यमाणवक्त्रश्रियःसभयकौतुकमीक्षते स्म॥१०॥ यानादिति ॥ जनः सामान्यलोकः राज्ञीः नृपदारान् सभयकौतुकं यथा भवति तथा ईक्षते स्म अवलोकयामास, सभयं सचकितं कौतुकं कुतूहलं च यथा स्यात्तथा । किंभूताः राज्ञीः परिजनैः कन्चुकिभिः यानात् आश्वादिकात् वाहनात् अवरोप्यमाणाः अवतार्यमाणाः वसुन्धरां प्राप्यमाणाः, अपरं किंलक्षणा राज्ञी: नरापनयनाकुलसौविदल्लाः नराणां पुरुष- लोकानामपनयने उत्सारणे आकुलाः व्यग्राः सौविदल्लाःअवरोधरक्षकाः स्थापत्यावा यासां तास्तथा ताः । अत एव सचकितमीक्षणम् । पुनः कथंभूताः राज्ञीः स्रस्तावगुण्ठनपटक्षण- लक्ष्यमाणवक्त्रश्रियः स्वस्तः पतितः योऽसौ अवगुण्ठनपटः आच्छादनपटः उत्तरीयवस्त्रं तेन हेतुना क्षणं क्षणमात्रं लक्ष्यमाणा दृश्यमाना वक्त्रश्रीर्मुखकान्तिर्यासां तास्तथा ताः । अत- एव सकौतुकमीक्षणम् । अवशेप्यमाणाः इति रुहः पोऽन्यतरस्याम् । राज्ञीरिति ऋन्नेभ्यो डीप् । 'सर्व स्याद्वाहनं युग्यं यानः पत्रं च धोरणम्', 'सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते', 'कौतुकं च कुतुकं च कुतूहलम्' सर्वत्राप्यमरः । 'अवगुण्ठनमाच्छाद'. इति वैजयन्ती॥ १७॥ यानादिति ॥परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः। रुहेर्प्यन्ताकर्मणि लटः शानजा- देशः। 'रुहः पोऽन्यतरस्याम्' इति पकारः। नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदसा: कठचुकिनी यास ताः । सौविदाः कठचुकिनः' इत्यमरः। खस्ता अवरोपणसंक्षोभादपमृता अवगुण्ठनपटा: (२) पटाः क्षण। (१)वतार्यमाणा। १६ शिव० १८२ सन्देहविषौषधिसर्वकषायुते- [पञ्चम:- नारङ्गीवमाणि यास ताः अत एव क्षणं लक्ष्यमाणा वक्त्राश्रयो यामां तास्तथोक्ता राजीः राजनीः । 'पुंयोगादाख्यायाम्' इति डीप् । जनः सभयकौतुकमीक्षते स्म । ताडमाद्यं, . कामाकौतुकम् ॥ १०॥ कण्ठावसकतनु(१)बाहुलतास्तुरङ्गाद्राजावरोधनवधूरवतारयन्तः ॥ आलिङ्गनान्यधिकृताःस्फुटमापुरेव गण्डस्थलीःशुशितयान चुचुम्बुरासाम्१८ कण्ठेति ॥ अधिकृताः कञ्चुकिनः स्फुटं प्रकटमालिङ्गनानि आश्लेषणानि आपुरेव लेभिरे एव, परमासां गण्डस्थलीः कपोलभित्तीः शुचितया प्रत्यक्षतया तासां पवित्रतया वा न चुचुम्बुः न चुम्बन्ति स्म न पपुः । किं कुर्वन्तः आपुः राजावरोधनवधूस्तुरङ्गादवतारयन्तः नृपतिशुद्धान्सनारीः अश्वाद् भूमि प्रापयन्तः। आलिङ्गग्नप्रासौ कारणमाह-किंभूताः वधूः कण्ठावसक्ततनुबाहुलताः कण्ठे ग्रीवायामवसक्ताः संलग्नाःतनवः मृदवः सुकुमाराः बाहुलता भुजवल्ल्यो यासां तास्तथा ताः । राज्ञामवरोधनमन्तःपुरं तस्याः वध्यः ताः ॥ १८ ॥ कण्ठति ॥ तुरङ्गादाजावरोधनवधूः राज्ञामवरोधस्त्रीरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधि- कारिणः कण्ठेषु स्वकीयेऽववसका मृदवो बाहुलतास्तदीया येषां ते तथोक्काः सन्तः स्फुट व्यक्तमालिङ्गना- न्यापुरेव । अन्यथा दुरवरोहन्याद्याजाचेति भावः । आसा वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्ति- न्वागण्डनमल्याञ्च न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापा. चाराः पापलिङ्गानि प्रकाशयन्तीति भावः ॥ १८ ॥ दृष्ट्वेव निर्जितकलापभरामधस्ताद्याकीर्णमाल्यकबरां कबरी तरुण्याः ॥ प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाप्रात्सङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥१९ दृष्ट्वेवेति ॥ चन्द्रकान् मयूरः द्रुमाग्रात् वृक्षप्रान्तात् सपदि तत्क्षणादेव प्रादु- द्रुवत् पलायाञ्चके । उड्डोन इत्यर्थः । जनभयेनेति भावः । अत्र कविरुत्प्रेक्षते-अधस्ता- त्तरुतलच्छायायां तरुण्याः कामिन्यां कबरी दृष्ट्वेव केशपाशमवलोक्येव । किंभूतां कवरी व्याकीर्णमाल्यकबरां मालायां साधूनि माल्यानि व्याकीर्णानि विक्षिप्तानि च तानि माल्यानि च कुसुमानि च तैः कबरा कर्बुरा ताम् , अत एव किंभूतां कबरी निर्जितकलाप- भरां निर्जितः तिरस्कृतः कलापभरो बहभारो यया सा तां परिभूतमयूरबहभाराम् । यु- कमेतत-यदसौ तदवलोकने उड्डीनः ततो ज्ञायते सङ्घर्षिणा स्पर्धायुक्तेन गुणाभ्यधिकैः विशेषोत्कृष्टैः सह दुरासं दुःखेनास्यते तद् दुरासम् । दुःखेन स्थीयते इत्यर्थः। मयूरः स्पर्धा- युक्तः, युवतिकबर्यो गुणाभ्यधिकाः। मालायां साधूनि माल्यानि 'तत्र साधुरिति यत् । कबरामिति न डीए, केशपाशार्थत्वाभावात् । कबरीमित्यत्र तु तदर्थत्वाभवत्येव । प्रादुनुव- दिति 'दुद्रु गता वित्यस्य लुङ्, णिश्रिद्रनुभ्यः कर्तरिचङ् । चन्द्रक बर्हम् । 'कलापो भूषणे बहें तूणीरे संहतेऽपि च' । कबरी केशवेशः। 'चन्द्रकवान् मेचकी वहीं'ति वैजयन्ती॥१६॥ दृष्ट्वेवति ॥ अधस्तातरुतले निर्जितः कलापभारो यया ताम् । 'कलापो भूषणे बहे' इत्यमरः व्याकीन विक्षिप्तेन माल्येन कबरा शाराम् । 'कबरः कर्बुरः शारः' इति हलायुधः। तरुण्याः कवरी केशपाशम् । 'कबरी केशपाशोऽथ' इत्यमरः । 'जानपद-' इत्यादिना डीए । दृष्ट्वेत्युत्प्रेक्षा । सपदि चन्द्रका अस्य सन्तीति चन्द्रकान्मयूरः दुमाग्रात्प्रादुदुपत्प्रदुतवान् । दु गती, लुकि "णिश्रि-' इत्यादिना च्लेश्वङादेशः । 'आच श्नुधातु-' इत्यादिना उवमादेशः। तथा हि सङ्घर्षिणा मत्सरिणा की गुणाभ्याधिकै- गुणोत्कृष्टेः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकातू 'इषुद्धर' इत्यादिना भावे खल (१) मृदु। - सर्गः1] शिशुपालवधे । प्रत्ययः; 'तमोरेव कृत्यकखलाः' इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरीदर्शनहेतुकत्व मुत्प्रेक्ष्य तत्समर्थनासमर्थो यमर्थान्तरन्यासः कृत इत्यस्याऽनयाण्ड्रेन सङ्करः। न हि जितैनेंतुरने स्था- तुमुचितमिति भावः ॥ १९ ॥ रोचिष्णुकाअनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ॥ भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ २० ॥ रोचप्णुकाञ्चनेति ॥ स्थानामावलयः स्यन्दनपङ्क्तयः अभिबभुः शुशुभिरे । कि- भूता: आवलयः रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशाः रोचिष्णुः शोभमानो यः काञ्चनचयः सुवर्णराशिः तस्यांशवः किरणाः तैः पिशङ्गिताः पिशङ्गीकृताः आशा दिशो याभिस्ताः । ज्वलत्सुवर्णराशिकिरणपिञ्जरीकृतदिक्काः । किं कुर्वत्यः जलदसंहतिमुल्लिखन्त्यः मेघसमूह स्पृशन्त्यः, कैः वंशध्वजैः वंशेषु ये ध्वजाः चिह्नानि तैः, पुनः किंभूता रथावलयः आयत- निरन्तरसन्निविष्टाः आयतं दीर्घ निरन्तरं निर्विवरं सन्निविष्टाः स्थिताः । उत्प्रेक्ष्यन्ते- भूभर्तुः पर्वतस्य रैवतकस्य पादा इव प्रत्यन्तपर्वता इव । तेऽपि एवंविधाः । तेऽपि देदीप्य- मानकनकावदीपितदिशः शैरिव ध्वजैरम्बरलिहः आयता निरन्तराश्च । पिशङ्ग करोति पिशङ्गायति 'तत्करोति तदाचष्टे' इति णिच् , ततः कर्मणि निष्ठा ॥ २० ॥ रोचिष्णुकाञ्चनति ॥ रोचिष्णवो रोचनशीलाः । भलंकृ' इत्यादिना इष्णुप्रत्ययः। तेषा काश्चन- चयानो कनकचयानामशुभिः पिशान्ता: पिशङ्गीकृता अशा याभेस्ताः वंशाना तत्तद्राजकुलानां ध्वजः प्रतिनियतकुलानामङ्कुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव व जलदसंहति मेघसङ्घातमुल्लेिख- न्त्यः आयतं दीर्घ निरन्तरं नीरन्धं च सन्निविष्टाः संस्थिता रथानामावलयो भूभतूं रैवतकाः पादाः प्रत्य- नपर्वता इवाभिवभुः भान्ति स्म । आशापिशङ्गीकरणादिक्रियानिमिना जातिस्वरूपोत्पेक्षा ॥ २०॥ छायाविधायिभिरनुज्झितभूतिशोभैरुच्छायिभिर्बहलपाटलधातुरागैः ॥ दृष्यैरिव क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ २१ ॥ छायेति ॥ क्षितिभृतां भूमिपालानां राज्ञां निवासस्थानानि व्यरुचन् शुशुभिरे । कैः द्विरदैः मातङ्गः, किंभूतैः द्विरदैः छायाविधायिभिः, छायां शोभां विदधतीत्येवंशीलाः तैः शोभाकारिभिः । छाया कान्तौ प्रतिमायामर्कयोपित्यनातपे । उत्कोचे पालने पङ्क्तौ शोभायां च तमस्यपि ।। अपरं किंलक्षणैर्गजैः अनुज्झितभूतिशोभैः न उज्झिता न त्यक्ता भूत्या भस्मना शोभा कान्तियेस्ते तैः अत्यक्तभस्मकान्तिभिः खटिकामण्डनयुक्तः, पुन: किंभूतैः उच्छायो विद्यते येषां ते उच्छ्रायिणः तैः उच्चतरैः, पुनः किंभूतैः बहलपाटलधातुरागैः बहला अवि- रलाः पाटला ईषद्रक्ताः धातुरागाः सिन्दूरगैरिकादयो येषु ते तैः, पुनः किंभूतैः उदारतारा- वलीविरचनैः उत्तमनक्षत्रमालालङ्कारयुक्तैः, अतश्च दूष्यैरिव । पटमण्डपतुल्यैरित्यर्थः । तैरपि कथंभूतैः छायाविधायिभिः आतपाभावकरैः, पुनः किंभूतैः अनुमितभूतिशोः अत्यक्त- समृद्धिदीसिभिः, पुनः किंभूतैः उच्छ्रायिभिः विशालैः, पुनः किंभूतैः दूष्यैः बहलपाटल- धातुरागैः सान्द्रलाक्षादिरागयुक्तैः, पुनः किंभूतैः, उदारतारावलीविरचनैः । करिणां तारा- वलीव आभरणं, दूष्याणां तु मुक्तावली । पाटलधातवो गैरिकादयः । रज्यते अनेनेति रागः रजन वा रागः, घभि च भावकरणयोः । व्यरुचन्निति भूतसामान्यविवक्षायां लुङ् १८४ सन्देहविपौषधिसर्वद्यायुते- [पञ्चमः- 'युभ्यो लुङि' इति परस्मैपदम् । 'भूतिर्भस्मनि सम्पदि' । उच्छायो विशालता । श्वेत- रक्तस्तु पाटल', 'दूष्यास्तु पटमण्डपाः' सर्वत्राप्यमरः ॥ २१ ॥ छायेति ॥ क्षितिभृता राज्ञा, निवसन्त्यति निवासाः निवासदेशाश्छायाविधायिभिः कान्तिकरैरनाता. मम्पादकैश्च । 'छाया त्वनातपे कान्ती' इति विश्वः। अनुज्झिता भूनीना भस्मरचनानां सम्पदा च शोभा यस्तैः । 'भूतिस्मनि सम्पदि' इत्यमरः । उच्छ्रायिभित्रमबिडलः सान्दः पाटल आरको धातुरागो गरिकादिरञ्जन येषां तैः उदारा तारावलीनां शुद्धमुकावलीना विरचना यषु तैः । मुक्तासारभूषितरित्यर्थः । 'तारा मुक्कादिसंशुद्धौ तरल शुद्धमौक्तिके' इति विश्वः । दृष्यपक्षे तारावली रज्जुमन्तातीरति केचित् । द्विरदैर्दूष्यैः पटमण्डपैरिव । 'दूप्यं वसे च तद्गृहे' इति विश्वः । व्यरुचन् रोचन्ते स्म । रुच दीली, 'शुभ्यो लुङि' इति परस्मपदे 'पुषादि-इत्यादिन! च्लेरङादेशः । अत्र द्विरदाना दूधाण च प्रकृतत्वा- नापमा, नापि श्लेषभेदः । विशेष्यस्य विशेषणानां च केषाश्चिदलिष्टत्वात् । तस्मात्केवलयकृतास्सदा तुल्य- योगितेयम् । वशम्दस्तु सादृश्यमाणानुवादक इति संक्षेपः ॥ २१ ॥ उरिक्षप्तकाण्डपटकाऽन्तरलीयमानमन्दानिलप्रशमितश्रमधर्मतोयैः ॥ दूर्वाप्रवाल(१)सहजास्तरणेषु भेजे निद्रासुखं वसनसद्मसु राजदारैः ॥२२॥ उत्क्षिप्तेति ॥ राजदारैर्नृपतिपत्नीभिः वसनसनसु पटमण्डपेषु निद्रासुखं भेजे निद्रया जनितं सुखमसेव्यत । मुखं यथा भवति तथा निद्रा भेजे इतिवा, निद्रामुखं शयनमुर्ख वा । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपी'त्यमरः। किंभूतैः राजदारैः उत्क्षिप्त- काण्डपटकाऽन्तरलीयमानमन्दानिलप्रशमितश्रमधर्मतोयैः उत्क्षिप्तमुत्पाटितं यत् काण्डपटक पटकुटीपर्यन्तः लोमाख्यः तस्य यत् अन्तरं विवरं तत्र लीयमानः प्रविशन् यः मन्दानिलः मृदुवायुः तेन प्रशमितं नाशितं श्रमधर्मतोय खेदस्वेदवारि येषां ते तैः, किंभूतेषु सासु दूर्वाप्रवालसहजास्तरणेषु दूर्वाप्रवाला एव गोलोमीप्रताना एव सहजानि स्वाभाविकानि आस्तरणानि प्रच्छादनानि येषु तानि तेषु शाहलाकुप्रासङ्गिकशय्येषु । लीयमानेति लीः कर्तरि लकारः ॥ २२॥ उत्क्षिप्तति ॥ उत्क्षिप्त उधृतो यः काण्डपट एव कागड पटक दूधाधोलम्बियुमश्चरार्थः पट : । 'अपटः काण्डपटी स्यात्' इति वैजयन्ती । तस्यान्तरेऽवकाशे लीयमानेन मन्दानेलेन प्रशमितं श्रमे- णावखेदेन यद्धमतोयं स्वेदाम्बु तयेषां ते राजदार राजावरोधिः, दूर्वाणां प्रतान प्रचय एव सहजमकृत्रिम- मास्तरणं तल्प येषु तेषु वसनसद्मसु पटमण्डपेषु निद्रासुर्ख भेजे ॥ २२ ॥ प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुक्षिपन्ती ॥ आविर्भवद्धनपयोधरबाहुमूला शातोदरी युवद्शां क्षणमुत्सयोऽभूत् ॥२३॥ प्रस्वेदेति ॥ काचित् शातोदरी कृशमध्या नायिका युवदृशां तरुणनेत्राणां क्षणं मुहूर्तमुत्सवोऽभूत् आह्लादना जाता । यूनां दृशः युवदृशः तासाम् । तां दृष्ट्वा तरुण- नयनानि महानन्द प्राप्तानीत्यर्थः । यतः किंभूता शातोदरी आविर्भववनपयोधरबाहुमूला आविर्भवत् दृश्यमानं घनपयोधरं पीनस्तनं बाहमूलं च यस्याः सा, किं कुर्वती शातो- दरी कूसिकं कन्चुकमुत्क्षिपन्ती उत्तारयन्ती सती, किमिति उत्क्षिपन्ती किंभूतं कूर्पासकम् अर्को शरीरे प्रस्वेदवारिसविशेषविषक्तं प्रस्वेदवारिणा धर्मोदकेन सविशेषमत्यर्थ विषक्तं लग्नं, पुनः किंभूतं कूर्पासकं क्षतनखक्षत क्षत विदारित नखक्षत नखवणं येन सः तम् । श्यतेः (१) प्रतान ।

सर्गः।] शिशुपालवधे। १८५ ॥ क्ते शातमिति रूपम् । शातं कृशमुदरं यस्याः सा लग्नावलग्ना । 'नासिकोदरौष्ठेति अष् ॥ २३ ॥ प्रस्वेदति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेष सातिशयं यथा तथा विषक्तमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । 'चोलः कूसकोऽमियाम्' इत्यमरः । क्षनानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षिपन्ता उन्मोचयन्ती, अत एवाविर्भवत्प्रकाशमानं घनपयोधर- बाहुमूलं घनो पयोधरी बाहुमूले च यस्याः सा शातोदरी । 'नासिकोदर-' इत्यादिना डीम् । युवदृशा मणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौन्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा ॥ २३ ॥ यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ॥ पर्यापतस्क्रयिकलोकमगण्यपण्यपूर्णापणं (१)विपणिनो विपणि विभेजुः २४ यावदिति ॥ यावत् स एव समयः स्कन्धावारसन्निवेशकालः राजधान्याः स्वावासा- नां प्रस्तावो बभूव तावदेव विपणिनो वणिजः सममेव तुल्यकालमेव विपणि हद्दश्रेणि वेगेन विभेजुः हष्टानि विभागेन चक्रुः पण्यविक्रयशालाः प्रसारयामासुः । किं कृत्वा अभितः पक्षद्वये पटमयानि हटानि विक्रयस्थानानि वितत्य विस्तार्य, किंभूतं विपणिम् अगण्यानि अगणनीयानि असंख्यानि यानि पण्यानि विक्रेयवस्तूनि तैः पूर्णानि भरितानि आपणानि हट्टानि यस्मिन् सः तं घनविक्रेयद्रव्यसम्भृतहटम् अपरिमितद्रव्यह, कथं यथा भवति तथा भेजुः पर्यापत- त्क्रयिकलोकं यथा स्यात्तथा पर्यापतन्तो व्यञ्जनशालादिजिघृक्षया आगच्छन्तः क्रयिक- लोका ग्राहका यत्र जनाः तत्तथा। यावत्तावच्छ वच्छब्दौ निपातितौ। किंभूता वणिजः अव्याकुला अव्यग्राः । बहून् पटान् प्राचुर्येण प्रकृतानिति विग्रहं कृत्वा 'तत्प्रकृतवचने मयट' 'समूहवञ्च बहु'विति चकारान्मयट । स्वार्थिकाश्च प्रकृतितो लिङ्गान्यतिवर्तन्ते । एतच्च ‘णचः स्त्रियामञ्' इति स्त्रीग्रहणेन ज्ञापितम्, इति नपुंसकत्वम् । क्रीणातीति क्रयिकः 'क्रिय इकन्' इति इकन् । पणितव्यं पण्यं विक्रेयम् । आपणायन्तेऽस्मिन्निति आपणो विक्रयस्थानम् , 'गोचरसञ्चरे ति घः । विशेषेण पणन्ते व्यवहरन्तीति विपणिनो वणिग्जनाः। जिघृक्षतीति (?) चकारस्यानुक्तसमुच्चयार्थत्वात् विपणन्तेऽत्रेति विपणिः वणिक्पथः, इन बाहुल्येन । विपणिशब्दमस्त्रियामपि स्मरन्ति ॥ २४ ॥ यावादीत ।। विपणो व्यवहारः स एषामस्तीति विपणिनो वणिजो यावत्स एव समयः सेनानिवेश- लक्षण एव, तावत्क्षण एव समं युगपत् अव्याकुला अव्यग्राः सन्तः पटमयानि पटविकाराणि । पटमण्डपा- नित्यर्थः । अभितो वितत्य उभयतः श्रेण्या वितत्य विस्तार्य । क्रयेण जीवतीति कायकः । 'वस्नक्रयविक्रया- त्-' इति ठन् । पर्यापतन्परितो धावन् क्रयिकलोकः केतृजनो यस्मिकर्मणि तत् अगण्यरैसंख्येयैः पण्यैः पण्यद्रव्यैः पूर्णा आपणाः पण्यप्रसारणस्थानानि यासु ता विपणी: पण्यवीथी: । 'आपणस्तु निषद्यायां विपाणिः पण्यवीथिका' इत्यमरः । विभेजुः । असंकीर्ण निर्भमुरित्यर्थः । स्वभावोक्त्यनुप्रासी ॥२४॥ अल्पप्रयोजनकृतोरुतरप्रयासैरुद्गूर्णलोष्टलगुडैः परितोऽनुविद्धम् ॥ उद्यातमुद्रुतमनोकहजालमध्यादन्यः शशं गुणमनल्पमवन्नवाप ॥ २५ ॥ अल्पेति ॥ अन्यः कश्चित्सैनिकः शशं मृगम् अवन् रक्षन् सन् अनल्पं गरिष्ठं गुणं धर्म वा अवाप लेभे । किंभूतं शशम् द् द्रुतं भीतम् । भीतत्राणेनावश्यमेव महान् गुणो (१) पूर्णापणा विपणीविभेजुः ।

१८६
सन्देहविषौषधिसर्वकषायुते-
[पञ्चमः-
धर्मो भवतीति । भये कारणमाह-पुनः किलक्षणं परितः समन्तात् सुभटैः अनुविद्धं परि-
वेष्टितं व्याप्तं, किंभूतैः सुभटैः उद्गूर्णलोष्टलगुडैः उद्गुर्णा उत्क्षिसा उन्नामिताः लोष्टाः
लेष्टवः पाषाणा लगुडा दण्डा यैस्ते तैः, किंभूतं शशम् अनोकहजालमध्यात् वृक्ष-
समूहान्तरतः उद्यातं निःसृतम् ,अपरं किंभूतैः सुभटैः अल्पप्रयोजनकृतोरुतरप्रयासैः अल्प-
प्रयोजनेन अल्पकायेंण शशवधमात्रेण निमित्तेन कृतो विहितः उरुतरः गरीयान् प्रयासः
उद्यमो यैस्ते तैः । केचित् इति व्याचक्षते-कश्चित् शशम् अवन् मारयन् सन् ,
अवतेहिंसा-
र्थत्वात्, अनल्पं गुणं चातुर्यमनिष्टपरिहारलक्षणं लेभे। कटकमध्ये हि शशको व्रजन्
सर्वथा वध्य इति लोकाचारः । उद्गुर्ण इति 'गूरी उद्यमने' इत्यस्य रूपम् । 'लोष्टानि लेष्टवः
पुंसि', 'अनोकहः कुटः सालः पलाशी दुद्रुमागमाः',
'जालं
समूह
आनायगवाक्षक्षारके-
प्वपि इत्यमरः। 'शशस्तु शशके मृगे' इति वैजयन्ती । अनोकहशब्दः पृषोदरादिः ॥२६॥
अल्पति ॥ अल्पप्रयोजनेनाल्पफलन निमित्तेन कृत उरुतरा भूयान्प्रयासो यस्तैः । अल्पस्यैकस्य
शशपिण्डस्य भूयसामकिञ्चित्करत्वादिति भावः । उद्गा उद्यताः लोष्टानि मृत्खण्डा लगुडाश्च दण्डका:
ठानि यस्तैः, पुंभिरिति शेषः । परितोऽनुविद्धमनुरुद्धम् । अनसः शकटस्याकं गतिं प्रन्तीत्यनोकहा वृक्षा-
स्तेषां जालमध्यादुद्यातमुत्थितम् । उत्पूवाद्यातेः कतरि कः । उद्दुनं पलायित शशं मृगविशेषम् अन्यः
परः अवन् हन्तृनिवार्य रक्षत्रनल्पं गुणं महान्तमुत्कर्षमवाप । दयालोरनामिषलोलुप्रस्थ सुकीर्तिः सुलभति
भाव: । अत्रार्थान्तरं चाहुः-अन्यो गुणं पाशमवन् प्रयुञ्जानः शशमवाप जग्राह ।
यो हन्ता तस्यैव
मृग इति व्याधसमयादिति भावः ॥ २५ ॥
त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वषन्धि ॥
तस्थौ तथापि न मृगः कचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥२६॥
त्रासेति ॥ मृगो हरिणः कैश्चिदपि धन्धिभिर्धनुर्धरैः पुंभिः पुरुषैः न अन्वबन्धि न
हन्तुं प्रारंभे, परं तथापि एवं सत्यपि क्वचिदपि न तस्थौ कुत्रापि तिं न बबन्ध । यतः किं-
भूतः मृगः अङ्गनाभिः स्त्रीभिः आकर्गपूर्णनयनेषुहतेक्षणश्रीः श्रवणपर्यन्तप्रसृतविलोचनशरैः
परिभूतनयनलक्ष्मीक इत्युत्प्रेक्षा । कर्णयोः आ आकर्ण पूर्ण प्रस्ते विशाले ये नयने ते
एव इषवः बाणाः तैर्हता निरस्ता ईक्षणयोनेंत्रयोः श्रीः शोभा यस्य सः तथा इत्युत्प्रेक्षा ।
एतदुक्तं भवति-यद्यपि धन्विभिरसौ नोनद्धः तथापि सारङ्गाक्षीभिनेत्रशरैर्हतनेत्ररामणीय-
कत्वात् पलायाञ्चके । किंभूतो मृगः त्रासाकुलः भयविह्वलः, अत एत्र किंभूतो मृगः परितः
सर्वासु दिक्षु निकेतान आवासान् परिपतन सञ्चरन् परिभ्रमन्। निकेतानित्यत्र परितःशब्द-
योगे द्वितीया ।धन्वन्शब्दश्चापपर्यायः, तदस्येति धन्वी इति रूपम् । अन्वबन्धीति कर्मणि
लुङ् । आकर्णपूर्णनयनेति समासः । नयनान्येवेषवः शराः ॥ २६ ॥
वासति ॥ त्रासाकुलो जनदर्शनाइयविह्वलोऽन एव निकेतानिदेशान्परितः सर्वतः । 'अभितः परि-
नः-' इत्यादिना द्वितीया । परिपतन्धावन्मृगो हरिणः कैश्चिदपि धन्विभिर्धनुमाद्भिः। 'धन्वी धनुष्मान्धा-
नुष्कः' इत्यमरः । बीघादित्वादिनिरिति स्वामी । पुभिर्नान्वबन्धि नानुयातः । बजातेः कमाणे लुस् । तथा-
यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टःश्च ये नयनान्येवेषयस्तैर्हता ईक्षणश्रीर्यस्य सः। अतः क्वचिदपि न
तस्थौ किन्तु वारविशिखपाताभाषेऽध्यानापाकविशिखपातापलायित एवेति भावः । अत्र जनालोकनो-
न्थभयेहतुकस्य मृगानवस्थानस्याङ्गनापारेषु इतिहेतुकत्वात्प्रेक्षणातूत्प्रेक्षा। सा च व्यचकाप्रयोगात्प्रती-
यमाना हेतोच तेक्षणश्रीििन विशेषणगन्योकत्वात्काध्यलिङ्कमिति सङ्करः ॥ २९॥

सर्गः ।] शिशुपालवधे। १८७ . आस्तीर्णतल्परचितावसयः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाभ्यः ॥ खिन्नानखिन्नमतिरापततो मनुष्यान्प्रत्यग्रहीचिरनिविष्ट इवोपचारैः ॥२७॥ प्रास्तीणेति ॥ वेश्याजनः गणिकालोकः खिन्नान् श्रान्तान् आपततः आगच्छतः मनु- प्यान् पुरुषान् सेनाचरान् उपचारैः अङ्गप्रक्षालनताम्बूलदानादिभिः आदरैः प्रत्यग्रहीत् आव- जयामास प्रत्यैच्छत् । किंभूतो वेश्याजनः आस्तीर्णतल्परचितावसथः आस्तीर्णानि परिस्ती- नि तल्पानि शय्या येषु तानि आस्तीर्णतल्पानि शय्यायुक्तानि रचितानि निर्मितानि आ- वसथानि सन्मानि येन सः,किंभूतो वेश्याजनः कृतनवप्रतिकर्मकाम्यः कृतानि च तानि नवानि प्रतिकर्माणि अलङ्करणानि तैः काम्यो मनोहरः कृतनवप्रतिकर्मकाम्यः विहितनवीनाभरण- मनोहरः, पुनः किंभूतो वेश्याजनः अखिन्नमतिः अश्रान्तमनस्कः साभिलापः। कामित्वाद्देहः श्रान्तो न मतिरित्यर्थः । किंभूतान् मनुष्यान् खिन्नान् परिश्रान्तान् , अपरं किंलक्षणान् आपतत: आपतन्ति आपतन्तः तान् आगच्छतः,किंभूतः वेश्याजनः,अतश्चोत्प्रेक्षते-चिरनिवि- टइव प्रथमतरं कृतावस्थान इव । यो हि तद्वासी तस्यैवैतञ्चातुर्य भवतीति लोके प्रसिद्धम् । वेशे कर्मणि पुरा भवा वेश्या, दिगादिभ्यो यत्, स चासौ जनश्च वेश्याजनः । प्रतिकर्म प्रसाधनम् उत्कर्षाधानम् ।'तला शय्याऽदारेपु', 'ओकश्चावसथं धिष्ण्यम्' इत्यमरः॥२७॥ आस्तीर्णति ।। क्षणेनास्तीर्णतल्पं वेश्यावृनः शय्याप्रधानत्वात्प्रागेव सजितशय्यं यथा तथा रचिता. चमथः कल्पितनिकतः । 'स्थानावसथवास्तु च' इति कोषः । कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमतिरश्रान्तचित्तः। अगणितावखेद इत्यर्थः । वेश्याजन: खिन्नानध्वान्तानापतत- भागच्छतो मनुष्यान्पुरुषान् चिरानविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा। उपचारैः शीताम्बुताम्बूल. दानादिसत्कारः प्रत्यग्रहीत् । वशीचकारेत्यर्थः ॥२७॥ सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसं धृतविकासिबिसप्रसूनाः ॥ सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिम्नगानाम् ॥२८॥ सस्नुरिति । सैन्याः सेनाचरा नगनिम्नगानां पर्वततरङ्गिणीनां जलसम्पदस्तासाम् अनुपभोगनिरर्थकत्वदोषप्रवादममृजन् अक्षालयन् निरुपभोगः निष्प्रयो- जनता स एव दोषः अपगुणस्तेन यः प्रवादः गर्दा तम् अमृजन् स्फेटयामासुः । आरण्या हि नयो न कस्मैचिदुपयुज्यन्ते इति तासां निरर्थकत्वं निरास्थन्नित्यर्थः ।। तथा हि दृष्टान्तस्तावत्-सैन्याः यतः सस्नुः उदमजन् स्नानं चकुः, अपरं सैन्याः पयः पपुः जलं पिबन्ति स्म, अपरम् अम्बराणि वासांसि अनेनिजुः अक्षालयन् , तथा विसं जक्षुः मृणालम् भादुः । किंलक्षणाः सैन्याः एतविकासिविसप्रसूनाः करश्तप्रफुल्लपमाः, तानि कलितानि विकासीनि प्रफुल्लानि बिसप्रसूनानि पनानि यैस्ते तथा । मृणालं विसम् । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । 'प्रवादो जनवादे स्यात्', 'सवन्ती निम्नगापगा' सर्वत्राप्यमरः । एवं च सर्वोपभोगयोगात् कथमेतासां निरर्थकत्वमिति । निम्नं गच्छन्ति निम्नगाः, अन्येभ्योपि दृश्यते । (१)अमृजन्निति लङ, झोऽन्तः, मृजेरजादौ क्छिति विभाषा वृद्धिः । अनेनिजुरिति लङ्, 'णिजा त्रयाणां गुणः श्लौ' याः श्रियो (१) ला शेतः मृजेरदादि संक्रमते । विभाषा गुणडश्लोक इति गुण मिचभ्यविदिभ्यस्विजन्यः स्वादभ्यश्चेति डेम् । इति मूलपुस्तके ।

सन्देहविषौषधिसर्वपायुते- १८८ - [पञ्चमः : इति गुणः, 'सिजभ्यस्तविदिभ्यश्चेति झर्जुस् । जक्षुरिति अदेलिट् 'लिट्यन्यतरस्या मिति घसादेशः, 'गमहने'त्यकारलोपः ॥ २८ ॥ सस्नुरिति ॥ सनाया समवेता: सैन्याः सैनिकजनाः। 'सेनायर्या च' इति ण्यप्रत्ययः । नगनिम्रगाना याः श्रियः समृद्धयस्तासामनुपभोग उपभोगाभावः । क्वचित्प्रसज्यप्रतिषेधेऽपि नप्तमाम उष्यते, यथाऽद- निमश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यनिरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । मृजू शुद्धौ, अदादित्वाल्लाड शपो लुक् । मृजेरजादौ विङति विभाषा वृद्धि- वक्तव्येति विकल्पाद् वृद्ध्यभावः । मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । ष्णा शौचे पा पाने, लिट् । अम्बराण्यनेनिजुरक्षालयन् । णिजिर शौचे। जुहोत्यादित्वाल्लडि श्लौ' इति द्विर्भावः 'सिजभ्यस्तविदिभ्यश्च' इति झर्जुमादेशः । जो प्रयाणा गुणः श्लौ' इत्यभ्यासस्य गुण: । धृतानि विका- मिबिसप्रसूनानि विकासितपुष्कराणि यैस्ते । बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । बिस मृणालं जतुर्मक्षयाञ्चक्रुः । घसेलिटि 'गमहन-' इत्यादिना उपधालापे चुत्वम्। 'शासिवसिघसीना च' इति षत्वम् । स्नानायुपभोगेनोननरर्थ निराचरित्यर्थः । अत्र दोषमार्जनस्य स्नानादिना कृतत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । स्नानादिक्रियाप्समुच्चयस्त्वङ्गमस्येति सङ्करः ॥ २८ ॥ नाभी(१)हृदैः परिगृहीतरयाणि निम्नः स्त्रीणां बृहजघनसेतुनिधारितानि ॥ जग्मुर्जलानि जलमड्डुकवाद्यवल्गुवलगद्धनस्तनतटस्खलितानि मन्दम्॥२६॥ नाभीह्रदैरिति ॥ स्नाने प्रवृत्ते सति जलानि पानीयानि मन्दं जग्मुः शनैर्गमन चक्रुः । शनैर्वहने कारणमाह-किंभूतानि स्त्रीणां नितम्बिनीनां नाभीहदैः नाभिकूपैः प्रति- गृहीतरयाणि प्रतिगृहीतः निवारितः रयो वेगो येषां तानि निषिद्धवेगानि बद्धप्रसराणि । नाभ्य एव हृदा नदाः तैः । अपरं किंभूतानि जलानि बृहज्जवनसेतुनिवारितानि बृहन्ति. विशालानि यानि जघनानि कट्याः पुरोभागाः तान्येव सेतवः निबन्धनतटाः तैर्निवा- रितानि निषिद्धप्रसराणि विस्तीर्णश्रोणीतटैनिवारितानि प्रतीपं नीतानि पश्चाद्वाहितानि, अपरं किंलक्षणानि जलानि जलमड्डुकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि जलेषु पानीयेषु यत मड्डुकवाद्यं वादनविशेषः करास्फालनं तेन वल्गु मनोहरं यथा भवति तथा वल्गन्ता नृत्यन्तो ये घनाः पीवराः कुचाः स्तनाः तेषां तटाः सेतवः तेषु स्खलितानि प्रतिहतानि, किलक्षण भीहदैः निम्नैः गम्भीरैः । अतश्च कारणत्रयवशान्मन्दगमनम् ॥ २९ ॥ नाभीति ॥ स्त्रीणां निर्गम्भीर भिभिरेव हृदः परिगृहीतरयाणि प्रतिषिद्धवेगानि बृहघिनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । 'पश्चानितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । जलमेव मड्डुकवायं वायविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं मड्डुकवद् ध्वनतीति प्रसि- द्धम् । तेन वल्गु सुन्दरं यथा तथा बल्गद्रिश्चलैर्धनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि ४। जलानि पूर्वोकनगनिम्नगासलिलानि मन्दं जग्मुः। अत्र जलमन्दगमनस्य विशेषणगत्या रयप्रति- बन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम् ॥ २९ ॥ अथहस्तिवर्णनम्- आलोलपुष्करमुखोल्ललितै(२)रभीक्ष्णमुक्षाम्बभूवुरभितो वपुरम्बुवर्षेः ॥ खेदायतश्वसितवेगनिरस्तमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥ बालोलेति ॥ हास्तिकानि हस्तिवृन्दानि अम्बुवईस्तोयसेकै: वपुः शरीरमभीक्ष्णं वारंवारम् अभितः पक्षद्वयेन उक्षाम्बभूवुः सिषिचुः। किंभूतैः अम्बुवर्षे: आलोल- .. (१) नाभि (२) ल्लसितैः।

सर्गः ।] शिशुपालवधे। १८९ .. T पुष्करमुखोल्लसितैः आलोल चालं यत् पुष्करं शुण्डादण्डः तस्य मुखं रन्धं तस्मा- दुल्लसितानि निःसृतानि तै: निरस्तैः । अतश्चोत्प्रेक्ष्यते-किंलक्षणैः अम्बुवर्षेः खेदायत- श्वसितवेगनिरस्तमुग्धमूर्धन्यरत्ननिकरैरिव खेदेन अध्यपीडया आयतं दोघं यत् श्वसित फूत्कारः तस्य वेगेन जवेन निरस्ता: क्षिताः मुग्धा मनोज्ञाः मूर्धन्याः मूनि भवाः रत्नानां निकराः मुक्ताफलानां पूगा: तैरिव । 'शरीरावयवाश्चेति यत् , 'ये चाभावकर्मणो-- रिति प्रकृतिभावः । हस्तिनां समूहा हास्तिकानि अचितहस्तिधेनोष्टक् । 'पुष्कर करि- शुण्डाग्रे वाधभाण्डमुखे जले' इत्यमरः । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति हलायुधः ॥३०॥ प्रालालेति ॥ हस्तिनां समूहा हास्तिकानि । अचित्तहास्तधेनोष्ठक् । आलोलानि याने पुष्करााणे हस्ता- ग्राणे । 'पुष्करं करिहस्ताने' इत्यमरः । तेषां मुखै रन्धैरुल्लासेनान्युत्क्षिप्तानि तैरम्बुवर्षेः खेदेनाध्वश्रमेणा- यतेन द्राधीयसा श्वसितस्योच्छ्वासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दराः मूर्धन्या मूर्धनि भवाः । 'शरीरावयवाच' इति यत्पत्ययः । 'ये चाभावर्कर्मणोः' इति प्रकृतिभावात् 'नस्तद्धिते' इति टि- लोपाभाव: । रत्ननिकरा मुक्ताफलप्रकरास्तारवेत्यु प्रेक्षा। वपुरभीक्ष्णमुशाम्बभूवुः सिषिचुः । उक्ष सेचने, 'इजः- देश गुरुमतोम्नृच्छः' इत्याम्प्रत्ययः । 'गजेन्द्रजीमूतवराहशमत्स्याहिशुक्त्युववेणुजानि । मुक्काफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि' ॥ इति गजाना मुक्काकरत्वे प्रमाणम् ॥ ३० ॥ ये पक्षिण: प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलितायुघलूनपक्षाः ॥ ते जग्मुरद्रिपतयः सरसीविंगाटुमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३१ ॥ य इति ॥ इह पर्वता द्विविधाः, सपक्षा अपक्षाश्च । तत्र कविरूहते-ये पक्षिणः सपक्षा- अद्विपतय: मैनाकप्रभृतयः पर्वतेश्वराः ते प्रथममेव अम्बुनिधि समुद्रं गताः प्रविष्टाः। इन्द्र- भयादित्यर्थः । पुनः ये अद्रिपतयः इन्द्रपाणितुलितायुधलुनपक्षा: तेऽपि सरसीः महास- रांसि जग्मुः गतवन्तः, किं कर्तु विगाढ बुडितुम् । इन्द्रस्य पाणि: करस्तेन तुलितमास्फा- लितं धृतं यत् आयुधं प्रहरणं वज्रं तेन लूनाः छिन्नाः पक्षा अङ्गरुहाणि येषां ते शककरास्फा- लितवज्रभिन्नागरुहाः। केन ययुरित्याह-आक्षिप्तकेतुकुथसैन्यगजच्छलेन केतवो ध्वजाश्च कु- था: प्रावरणानि च एषां समाहारः केतुकुथम् , आक्षिप्तं व्यपनीतं केतुकुथं येभ्यस्ते आक्षि- सकेतुकुथा: ते च ते सैन्यगजा: सेनाकुञ्जराश्च तेषां छलं व्याजः तेन व्यपनीतध्वजकम्बल- सेनाकुन्जरछमना बुडितुं सरसीस्तडागिका जग्मुरिवेत्युत्प्रेक्षा । महेभानामद्रय उपमान, पक्षाणां ध्वजकुथा उपमान, सरसीनां सागर उपमानम् । 'आयुध तु प्रहरणं शस्त्रमस्त्रम्।। "पक्षपार्श्वगरुत्साध्यसहायबलभित्तिषु' । 'अद्रयो द्रुमशैलाकोः' । महान्ति सरांसि सरस्य: ताः । 'कुथः स्यात् करिकम्बलः', 'छलम् , व्याजोऽपदेशो लक्ष्य च' सर्वत्राप्यमरः ॥३३॥ व इति ॥ ये पाक्षण: पक्षवन्तः, इन्द्रेणागच्छन्नपक्षा इत्यर्थः । संसर्गे इनिप्रत्ययः । तेऽद्रिपतयो मैना- कादयः प्रथममम्बानधि गताः प्रविष्टाः । येऽपि, ये ये इत्यर्थः । इन्द्रस्य पाणेना तुलेतेन प्रेरितेनायुधेन वत्रेण लूनपक्षाश्छिन्नगरुतस्तेऽदिपनय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः पृष्ठास्तरणानि च ये- पाम् । 'प्रवेण्यास्तरणं वर्णः पारस्तोम. कुथा द्वयोः' इत्यमरः । तेषां सैन्यगजाना छलेन सरसीविगाएं, विगाहितुम् । 'स्वरतिसूति-' डाने विकल्पानेडागमः | जग्मुः । अत्र गजच्छलेनति छलशन्देन गजत्व- मपहुत्याद्वित्वारोपणाच्छलादिशब्दैरसन्यत्वप्रतिपादनरूपोऽपह्नवालङ्कारः । तन पक्षवतामदाणा सागरावगा- हनदर्शनान्मत्सरात्स्वयमपि सलिलमवगाहमानाः साचालूनपक्षाः पर्वता इत्युत्प्रेक्षा व्यज्यते ॥ ३१ ॥ . , १६० सन्देहविषौषधिसर्वकषायुते- [ पञ्चमः- आत्मानमेव जलधेः प्रतिबिम्बिताङ्गमूर्मों महत्यभिमुखापतितं निरोक्ष्य ॥ क्रोधादधावदपभीरतितूर्ण(१)मन्यनागाभियुक इव युक्तमहो ! महेभः ॥३२॥ आत्मानमिति ॥ अहो! इत्याश्चयें, कश्चिन्महेभः महागजः अपभीनिर्भयः सन् क्रोधात् कोपात् आत्मानमेव अतितूणं शीघ्रमधावत् जिघांसया अभिजगाम । ननु आत्मानं कथं गत इत्याह-किंभूतमात्मानं जलधस्तडागस्य महति बृहति उर्मी कल्लोले प्रतिबिम्बिताङ्ग प्रतिरोपितशरीरं, प्रतिविम्बित प्रतिफलितमङ्गं देहो यस्य सः । किं कृत्वा अधावत् अति तृणं वेगेन अभिमुखापतितं संमुखमागच्छन्तं निरीक्ष्य विलोक्य । अभिमुखम् आपतितः अभिमुखापतितः तम् । अतश्चोत्प्रेक्ष्यते-अन्यनागाभियुक्त इव अन्यनागेन प्रतिगजेन अभियुक्तः आकारित इव अन्यनागशङ्कां धारयन्निव । युक्त चैतत् उचितमिदं, यत्-स प्रतिनागशङ्कया अधावदिति । यतः किंलक्षणः अपभी: निर्भयः । शौर्यान्वित इत्यर्थ । यः किल सपत्नेन हस्तिना गज आहूतो भवति स कोपाद्वेगेन तं प्रति धावति । न चैष केन चिदभियुक्तोऽप्यन्यगजशङ्कया क्षुभितोडत एव चित्रम् । युक्तं चैतत् , यतोऽयं महेभो मत्त- द्विपः अभयः । शौर्यान्वित इत्यर्थः । ‘आत्मा जीवे इतौ देहे स्वभावे परमात्मनि । 'अङ्ग प्रतीकोऽपघनः', 'सत्वरं चपलं तूर्णमविलम्बितमाशु च' । 'नागाविभसरीसृपौ' सर्वत्रा- प्यमरः ॥ ३२॥ आत्मानमिति ।। महेभी जलधेजलाशयस्य महत्यूर्मों प्रतिबिम्बितमहं यस्य तमभिमुखापतितमाभ- मुखमागतमात्मानमेव । आन्मप्रतिबिम्ब मेवत्यर्थः । निरीक्ष्यान्यनागेन प्रतिगजेनाभियुक्तोऽभिद्रुत इवाति- तूर्णमपभीनिकः सन क्रोधादधावत् । अहो इति मौढ्येन विस्मयः । तच्च युकं महेभस्येति भावः । अभि- युक इवेत्युत्प्रेक्षायाः प्रतिगजभ्रान्तिनिबन्धनत्वाद् भ्रान्तिमदुत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः ॥ ३२ ॥ नादातुमन्यकरिमुक्तमदाम्बुतिकं धूताङ्कुशेन न विहातुमपीच्छताऽम्भः ॥ रुद्ध गजेन सरितः सरुषाऽवतारे रिक्तोदपात्रकरमास्त चिरं जनौघः॥३३॥ नादातुमिति ॥ जनौषः जनसमूहः गजेन करिणा सरितो नयाः अवतरणमार्ग निरुद्ध निषिद्धे सति चिरं चिरकालं यावत् रिक्तोदपात्रकरं यथा भवति तथा आस्त अति- छत् । रिक्तानि शून्यानि जलरहितानि उदपात्राणि घटादीनि जलभाण्डानि येषु ते रिक्तो- दपात्राः एवंभूताः करा पाणयो यत्र तथा भवत्येवम् । किलक्षणेन गजेन सरुषा रुषा क्रोधेन सह वर्तमानः सरुट तेन सकोपेन, अत एव अपरं किंभूतेन गजेन अम्भः पानीय- मादातुं ग्रहीतुं न इच्छता, पुनः किंभूतेन विहातु परित्यक्तुमपि न इच्छता न अभिल- पमाणेन । किंभूतम् अम्भः अन्यकरिमुक्तमदाम्बुतिक्तम् अन्यकरिभिः अन्यगजैः मुक्त त्यक्तं मदाम्बु दानोदकं तेन तिक्तं कटुकं वनगजस्रुतदानजलकटुकम् । मदगन्धयुक्त. मित्यर्थः । अत एव पुनः किंलक्षणेन गजेन धूताङ्कशेन, धूतोऽवगणितः अङकुशः सृणि- येन सः तथा तेन अवमतमृणिना । यदाऽसौ द्विरलिप्सया तत्रैव स्थितः तदा तोयार्थ जनो भाण्डान्यादाय तद्गमनावसरं प्रत्यपालयत इति वाक्यार्थः । उदकस्य पात्रमुद- पात्रम् । 'योग्यभाजनयोः पात्रमित्यमरः ॥३३॥ नादातुमिति ॥ अन्यकरिणा प्रनिगजेन मुक्केन मदाम्बुना तिनं सुरभि । 'कटुतिनकषायास्तु सौर- . (२) 'अभिहन्तु'मिति मुक्तिपुस्तकेषु सर्वत्र पाठो दृश्यते, किन्तु मल्लिनाथभ्याख्यायामेतस्या- ऽनुपलम्भास्कथमेष पाठः प्रचारमागत इति न विद्मः ।

सर्गः ।] शिशुपालवधे १६१ ! भ्येऽपि प्रकीर्तिताः' इति केशवः । अम्भ आदातु ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छ- ना। क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन सरितोऽवतारे तीर्थे रुद्धे सति जनौघः रितान्युदपात्राणि येषु ते करा यस्मिस्तयथा तथा चिरमास्त अतिष्ठत् | आस उपवेशने, लङ् । “एकहलादौ पूरयितव्येऽन्यतरस्याम्' इत्युदकशब्दस्योदादेशः ॥ ३३ ॥ पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः ॥ स्तम्बरमः परिणिनंसुरसावुपैति षिङ्गैरगद्यत ससम्भ्रममेवमेका(१) ॥३४॥ पन्थानमिति ॥ एका काचिजलहारिणी स्त्री ससम्भ्रम सत्रासं यथा भवति तथा षिड्गैः एवमगद्यत तरुणैः अमुना प्रकारेण उक्ता गदिता । एवं किमित्याह, यत्- हे अम्बाले ! त्वम् आशु शीघ्र मार्ग पन्थानं विजहीहि त्यज, पुरा पश्चात् असौ स्तम्बे- रमः हस्ती ते तव स्तनौ पयोधरौ पश्यन् विलोकयन् परिणिनमुः प्रहारं दातुकामः सन् उपैति आगमिष्यति । यावत्पुरानिपातयोर्लट् । परिणन्तुमिच्छुः परिणिनंसुः, णमेः सन् । किंभूतो द्विरदः प्रतिगजकुम्भस्थलवितर्किचित्तः, प्रतिद्विरदस्य कुम्भौ विशङ्कते तत् कुम्भ- विशति एवंभूतं चेतो यस्य सः । 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' । 'इभः स्तम्बेरमो हस्ती'। 'पिड़गस्तु तरुणे विटे', 'कुम्भौ तु पिण्डौ शिरसः' सर्वत्राप्यमरः । सम्भ्रमस्त्वरिते आदरे भये च ॥ ३४ ॥ पन्थानामति ॥ पन्थानमाशु विजहीहि । ओहाक त्यागे। लोटि सद्यादेशः। 'आ च हो' इति विकल्पा- दीकारादेशः । पुरोऽग्रे ते स्तनी पश्यन्प्रतिद्विरस्य कुम्भी विशङ्कत इति तद्विशति चेतो यस्य सः कुम्भधा- "न्तमानित्यर्थः। अत एव भ्रान्तिमदलङ्कारः । स्तम्बे तृणे रमत इति स्तम्बरमः पनी । 'इभः स्तम्बेरमः' इत्य- मरः । 'स्तम्बकर्णयोरमिजपोः' इत्यच् प्रत्ययः । 'तत्पुरुषे कृति बहुलम' इत्यलुक् । परिणन्तुं तिर्यपहर्तु- मिच्छुः परिणनंसुः । नमः मन्नन्तादुप्रत्ययः । एकाच उपदेशेऽनुदात्तात्' इतीप्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपष्यतीत्यर्थः । यावत्पुरानिपातयोर्लट्' इति भाविष्यदर्थे लट् । षिड्गैर्वि टैः । "षिड्गः पल विको विटः' इति कोषः । काचिदेवमुक्तरीत्या ससम्भ्रम ससत्वरमगयत गर्दिता ॥ ३४ ॥ कोण शनैरनुकपोलमनेकपानां हस्तैर्विगाढमदतापरुजः शमाय ॥ आकर्णमुल्लसितमम्बु विकासिकाशनोकाशमाप समतां सितचामरस्य ॥३॥ कीर्णमिति ॥ अम्बु उदकं सितचामरस्य समतामाप धवलप्रकीर्णकस्य सादृश्यं लेभे। किंभूतम् अम्बु अनेकपानां गजानां हस्तैः शुण्डादण्डैः अनुकपोल कपोलसमीपे शनैर्मन्दमन्दं कीणं विक्षितं, किमर्थ कीणं विगाढमदतापरुजः शमाय उल्बणदानोष्मपीडा- याः निराकरणाय, विगाढोऽतिशयितो यो मनः दानं तेन यः तापः तप्तिः तेन रुक् व्यथा तस्याः । अत एव पुनः किलक्षणमम्बु आकर्णमुल्ललितं कर्णान्तं यावदुत्पतितं, पुनः किं- भूतमम्बु विकासिकाशनीकाशं विकासि विकसितं यत् काशं काशपुष्पं तेन तुल्यं नीकाशं प्रफुल्लकाशकुछमनिभम् । 'मातङ्गोऽनेको द्विपः' । 'स्त्री रुग् रुजा चोपतापरोगव्याधिगदा- ऽऽमयाः' । 'काशः पोटगला कुथः । 'निभर्मकाशनीकाशप्रतीकाशोपमादयः । 'चामर तु प्रकीर्णकम्। सर्वत्राप्यमरः ॥ ३५ ॥ कीर्णमिति ॥ अनेकपानां द्विपाना विगाढ: प्ररूढो यो मदेन तापः स एव रुक रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तेरनुकपोलं कपोलयोः कीर्ण क्षितम् आकर्ण कर्णपर्यन्तम् । 'आमादाभिविध्योः' इत्य- (१)मेव काचित। ..

१६२ सन्देहविषौषधिसर्वकषायुते- [पञ्चमः- व्ययीभावः । उल्लासितमुत्पतितं विकासि यत्काश काशकुसुमं तेन सदृशं काशनीकाशम् । नित्यसमासत्वा- दस्वपदविग्रहः । अत एव- 'स्युरुत्तरपदे त्वमी। निभसंकाशनीकाशप्रतीकाशोपमादयः' ॥ इत्यमरः । अम्बु पानीयं सितचामरस्य समता सादृश्यमाप । 'तुल्याथैः-' इत्यादिना षष्ठी । उपमा- लङ्कारः ॥ ३५ ॥ गण्डूषमुज्झितवता पयसः सरोष नागेन लब्धपरवारणमारतेन ॥ अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६ ॥ गण्डषमिति ॥ केनचिन्नागेन गजेन अम्भोधिरोधसि तडागतटे निपेते निपतित प्रहारो दत्तः । कथं यथा भवति सरोषं सक्रोधं यथा स्यात्तथा, यतः किंभूतेन लब्धपर- वारणमारुतेन अनुभूतान्यगजगन्धेन, लब्धः प्राप्तः परवारणस्य अन्यगजस्य मारुतो गन्ध- वहो येन सः तथा तेन, अत एव पुनः किंभूतेन पयसः पानीयस्य गण्डूषमुन्मितवता मुखपूरणजलं त्यक्तवता, औज्झत् इति उज्झितवान् तेन । कथं निपेते पृथुप्रतिमानभाग- रूद्वोरुदन्तमुसलप्रसरं यथा भवत्येवं, पृथुः स्थूलो यः प्रतिमानभागः, दन्तयोरुभयो- मध्य प्रतिमान प्रचक्षते, मध्यप्रदेशो लोहबन्धनस्थानं तेन रुद्धो निषिद्धः उरुणो महतो दन्तमुसलस्य विषाणस्तम्भस्य प्रसरः प्रवृत्तिर्यत्र क्रियायां तथा । 'अयोऽग्र मुसलं वा ना', 'प्रसरस्तु विसर्पणम्' इत्यमरः ॥ ३६॥ गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा तथा पयसः पानीयस्य गण्डूयं मुखपूरणम् । मुखान्तर्गत पय इत्यर्थः । 'गण्डषो मुखपूरणः' इति हला. युधः । द्विलिङ्गत्वेऽपि पुलिङ्गमेवाह वामनो लिङ्गाध्याहारा वित्यत्र । उज्जितवता त्यक्तवता नागेन गजन । 'मतङ्गजो गजो नागः' इत्यमरः । अम्भोधिरोधसि सागरतारे । ‘दन्तयोरुभयोर्मध्यं प्रतिमानमिति स्मृतम् । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू. दन्तौ मुसलाविव तयोः प्रसरः प्रसारो यस्मिन्कणि तत् । 'अयोऽयं मुसलोऽस्त्री स्यात्' इत्यमरः । निपेत निपतितम् । भावे लिट् । क्रोधवगादलब्धरोधाः प्रहृन्य पार- वश्यात्स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्वन्तीति भावः ॥ १६ ॥ दानं ददत्यपि जडैः(१) सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ॥ यहन्तिनः कटकटाहतटान्मिमङ्कामसूदपाति परितः पटलैरलीनाम् ॥३७॥ दानमिति । अहमेवं मन्ये यत् दान ददत्यपि ददानेऽपि पुरुषे परं सहसा तत्क्षणमेव जडैर्दुजनेरधिरुऽधिश्रिते सति विद्यमानगतिः कः सोपायान्तरः पुमान् आसितुमुत्सहेत स्थातुं शक्नुयात् । निश्चितमेव खलाक्रान्तत्वात् तं जहातीत्यर्थः । इत्यर्थे दृष्टान्त- माह-दन्तिनो गजस्य मिमङ्क्षोः मङ्क्तुमिच्छतः सतः कटहकटाहतटात् गण्डस्थलात् अलीनां भ्रमराणां पटलैः समूहैः परितः समन्तात् मच शीघ्रमेव उदपाति उड्डीनम् । यदि च एतन्न स्यात्तदा दन्ती सदा दान ददात्येव, तत्किमितोऽन्यतो याति । यदा त्वेचं, तदाऽसौ जलावृतत्वात् करिणः स्वयं पक्षसाहाय्येन सन्निहितत्वात् उत्पतितः । विद्यमाना सती गतिः स्थानं शरणं यस्य सः विद्यमानगतिः । गण्डः कटः । मङ्क्तुमिच्छति मिमक्ष- तीति मिमक्षुः तस्य ॥ ३७ ॥ (१)जलैः। .. ।

सर्गः।] शिशुपालवधे। १६३ .. दानमिति ॥ दीयत इति दानं धनं मदश्च । 'दान गजमदे त्यागे' इति विश्वः। तददति वितरत्यपि । नातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वादव्ययत्वमिति शाकटायनः । जलज.नारैश्च । 'जलं गौ- कलले नीर हीबेरे च जडेऽन्यवत्' इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान्सम- र्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । 'शकधृष-' इत्यादिना तुमुन् । यस्मानिमम- होमक्तुमिच्छोः । मज्जेः समन्तादुप्रत्ययः । दन्तिनः, कटो गण्डः स कटाहः खर्पर इव | 'कटाहः खर्ध- रस्तुपः' इति वैजयन्ती। तस्य तटात्प्रदेशादलीना पटलैः परितो मर द्राक् । 'द्राङ्गक्षु सपदि द्रुतम्' इत्यमरः । उदपाति उत्पतितम् । भावे लुङ् । 'चिण् भावकर्मणोः' इति चिण् । चिणो लुक् । विशेषण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३० ॥ अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरिक्षे(१) ॥ द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवाऽलिगणो गजस्य॥३८॥ अन्तरिति ॥ अलिगणो राज भ्रमरसमूहोऽद्युतत् । किं कृत्वा गजस्य कपोलौ हित्वा करिणः गण्डौ परित्यज्य, किंभूतस्य गजस्य अन्तर्जलौघं जलौघमध्येऽवगाढवतः बुडितस्य । जलौघस्यान्तः अन्तर्जलौघम्, अवजगाहे इति अवगाढवान् तस्यावगाढवतः । किंभूतोऽलिगणः अन्तरिक्षे विततपक्षतिः आकाशे विस्तारितपक्षः, वितते पक्षती यस्य सः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अतश्चोत्प्रेक्षते-नीलो वर्णः पृथग्गत इव आकाशे स्थित इव । केषु सत्स गुणेषु नीलपीतादिषु द्रव्याश्रयेष्वपि आधारविशेषाश्रयेष्वपि । वा हि द्रव्याश्रयाः, ज्ञायते किल नीलो वर्णो निराधारः पृथक् स्थित इव । 'मौर्या व्याश्रये सत्त्वशौर्यसन्ध्यादिके गुणः' इत्यमरः॥ ३८ ॥ अन्तरिति ॥ जलौघे अन्तरित्यन्तजलौघम् । विभक्त्यर्थेऽव्ययीभावः । अथवा जलौघं जलपूर- मन्तरभ्यन्तरेऽवगाढवतः प्रविष्टवतः। गाहेनिष्ठाक्तवतुप्रत्ययः। ढत्वष्टुत्वढलोपाः। गजस्य कपोलौ हित्वा क्षण- मन्तरीक्षे उपर्याकाशे विततपक्षतिविस्तृतपक्षमूलः । आमूलाद्विततपक्ष इत्यर्थः । 'मी पक्षतिः पक्षमूलम' इत्यमरः । 'पक्षात्तिः' इति तिप्रत्ययः । आलिंगणो भ्रमरसङ्घो गुणेषु रूपादेषु द्रव्यमाश्रयो येषां तेषु द्रव्या- श्रयेष्वपि अयुतसिद्धत्वात् द्रव्यसमवेतत्वाच्च । द्रव्याधीनसत्ताकेषु मत्स्वपीत्यर्थः । पृथग्गतः जलमजन- भयात् , स्वाश्रयपरिहारेण स्थितो नीलो वर्णो नीलरूप गजस्य नीलिमेव रराज । 'गुणे शुक्लादयः पुंसि' इत्यमरः । अत्रालिगणे सादृश्याद्रजनीलत्वाश्रयादन्यत उपलब्धिनिर्वाहाय पृथस्थितिविशिष्टत्वमुत्प्रेक्ष्यते३८ संसपिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरजसाऽङ्गनिषङ्गिणा च ॥ क्रीडोपभोगमनुभूय सरिन्महेमावन्योन्यवनपरिवर्तमिव व्यधत्ताम् ॥३९॥ संसपिभिरिति ॥ सरिन्महेभौ नदीमहागजौ अन्योन्यवस्त्रपरिवर्त व्यधत्तामिव परस्परवसनव्यावर्तन चक्रतुरिव, अन्योन्यस्य वस्त्रयोः परिवर्तो विनिमयः तम् । कैः गैरिक- रेणुरागैः, अपरं केन अम्भोजगर्भरजसा च । नदी स्त्री पुरुषो गजः संभोगे मजनक्रीडायां वसयोः परिवर्तनं गैरिकादिजले मिश्रीकृतः कमलरेणुर्गजस्य च न केवलम् (१) । गैरिकस्य गिरिजस्य रेणवः धूलयः तेषां रागाः रक्तत्वादयस्तैः, अम्भोजानां कमलानां गर्ने मध्ये यवजः परागः तेन । किंभूतैः गैरिकरेणुरागैः पयसि उदके संसपिभिः प्रसरभिः, किंलक्षणेन अम्भोजगर्भरजसा अङ्गाविषङ्गिणा अङो विषङ्गोऽस्यास्त्यङ्गविषङ्गितेन शरीरलानेन । एतेन वस्त्रव्यत्ययः उक्तः। किं कृत्वा क्रीडोपभोगमनुभूय क्रीडैव खेलैव उपभोगः सुरतं तत्सेवित्वा । यथा कौचित् बीपुरुषो सरतक्रीडामनुभ्य पश्चाद्रमसेन परस्परवसनपरिवर्तनं कुरुतः ॥३९॥ (१) रस्सरीक्षे। १७ शि०व० :

१६४ सन्देहविषौषधिसर्वकषायुते- [चतुर्थः- .. संसापभिरिति ॥ सरिच महेमश्च सरि-महेभी पयसि संसर्विभिः गजात्सारजले विस त्वरैः गैरिक- रेणयो धातव एव रागास्तैः । करणे घञ् । अङ्गनिषङ्गिणा गजाङ्गसङ्गिना अम्भोजगर्भरजसा पनान्तःपरागेण च निमित्तेन क्रीडया लीलया उपभोग संभोगमनुभूयान्योन्यं मिथो धमयोः परिवर्त विनिमयं व्यधनामकु- रुतामिव । दधातेर्लकिपरस्मैपदे तसस्तामादेशः । अत्र सरिन्महेभयोः प्रतीयमाननायिकादेरभेदाभ्यवसायेन वनविनिमयोत्प्रेक्षा ॥ ३९ ॥ यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ॥ तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः ॥ ४० ॥ यामिति ॥ गजेन्द्राः महेभाः मदजलस्य दानतोयस्य चन्द्रकैः चन्द्राकारैर्मण्डलै: कृत्वा महानदीनां प्रौढसरितां यां नेत्रश्रियं विलोचनलक्ष्मी विदधुः चक्रिरे, तां नेत्रश्रियम् "उत्तरन्तः तीा गच्छन्तः सन्तः अविलम्बितं तत्क्षणमेव प्रत्यवापुः स्वयं पुनलेभिरे । नेत्रयोः श्री नेत्रश्रीस्ताम् । किलक्षणस्य मदजलस्य विकसतः प्रसरणशीस्य, कृत्वा लेभिरे धौताडालाननवनीलपयोजपत्रैः धौतं प्रक्षालितं यदङ्गं शरीरं तत्र लग्नानि संसृ- शानि नवानि नीलानि यानि पयोजपत्राणि कमलदलानि तैः आर्दीभवदेहावसक्तनूतना- ऽसितोत्पलपत्रैः । 'अविलम्बितमाशु च ॥ ४० ॥ यामिति ।। गजेन्द्राः विकसनः समन्तात्पयासि तैलबिन्दुवत्प्रसरतो मदजलस्य चन्द्रकैश्चन्दाकारमंण्डलै- महानदीनां यां नेत्राश्रयं विदधुः चक्रुस्ता नेत्रश्रियमुत्तरन्तो जलानिगच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नेः मकैनवनीलपयोजपनवनीलोत्पलदलरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च ममेनत्रश्राविनिमयोक्त्या समपरिवृत्तिरलद्वारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । माकं समाधिकन्यूनैः परिवृनिरसी मता' । इति लक्षणात् ॥ ४० ॥ प्रत्यन्यदन्ति निशिताङ्कशदूरभिन्ननिर्याणनिर्यदस्जं चलितं निषादी ॥ रोडु महेभमपरिवढिमानमागादाक्रान्तितो न वशमेति महान्परस्य ॥४१॥ प्रत्यन्यदन्तीति ॥ कश्चिनिषादी हस्तिपकः महेभं महागजं रोद्धं वशीकर्तुम् अपरि- बढिमानमसमर्थत्वमागात् प्राप्तः । अशक्तो बभूवेत्यर्थः। किंभूतं महे प्रत्यन्यदन्ति चलितम् अन्यगर्ज प्रति यियासम् । अन्यं दन्तिनं प्रति प्रत्यन्यदन्ति, अव्ययीभावः । कदाचिदताडितः स्यादित्याह-पुनः किंभूतं महेभं निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृज निशितः तीक्ष्णः अकुशः सृणिः तेन दूरमत्यर्थं भिन्नं विदारितं यन्निर्याणमपाङ्गप्रदेशस्तस्मा- निर्यत् निःसरत् असृक् रुधिरं यस्य सः तम् । तर्हि कथं न वशीकृत इत्याह-यतः का- रणात् महान् उत्तमः आक्रान्तितः आक्रान्तेः आक्रमणात् बलात्कारेण परस्य अन्यस्य वशं न एति आयत्ततां न गच्छति ॥ ४१ ॥ प्रत्यन्यदन्तीति ॥ अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः। 'लक्षणेनाभिप्रती भाभि- मुख्ये' इत्यव्ययीभावः । चालतं धावन्तमत एव निशितनाकुशेन दूर गाढं यथा तथा भिन्न यनिर्याणमपा. देशः। 'अपाङ्गदेशो निर्याणम्' इत्यमरः । तस्मात्रिर्यत् निःसरदमृग यस्य तं महेभं रोर्बु ग्रहीतुं निषादी यन्ता परिहते प्रभवतीति परिवृढः प्रभुः। वृहतेही कर्तरि कप्रत्यये 'प्रभा परिवृढः' इति नकारहकारयोलेपः निष्ठातकारस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्ववासिद्धरिष्ठत्रादिषु र ऋतो हलादेर्लघोः' इति रेफादेशो न स्यात् । तस्मादिमानीच रेफादेशे परिवढि मा, ततो नम्ममासः। तमपरिवाढ मानमसामर्थमामाद सर्गः।] । शिशुपालवधे। १६५ प्राप । 'इणो गा लुहि' इति गादेशः । तथा हि महाम्बलवान् आक्रान्तितो बलात्कारात्परस्य वशं नैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥४१॥ सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ॥ नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते ४२ः सेव्योऽपीति ॥ गजेन करिणा शाखी वृक्षो न अभाजि नाश्रितः, तर्हि किं-केव- लम् अभाजि उन्मूलितः । ननु कदाचिदसौ शाखी असेव्यो भविष्यतीत्याह-यत: किलक्षणः शाखी सेव्योऽपि आश्रयणीयोऽपि पुष्पफलच्छायादियुक्तोऽपि । ननु कदाचिदसौ नागो निपादिना तडितः स्यादित्याशङ्क्याह-किंभूतेन गजेन यन्त्रा आधोरणेन सानु- नयं सप्रसादं ‘पादमवधारयेत्यादिवाक्ययुक्तं भवत्येवमाकलनाय नीतेन बन्धनाय दौकि- तेन । कथं तर्हि भग्नः शाखी वन्यकरिदानकृताधिवासः बने भवा वन्याः ते च ते करिणी गजाश्च तेषां दानं मदोदकं तेन कृत: अधिवासोऽधिवासनं यस्मिन् सः वानेयगजमदविहित- भावनः । युक्तं चैतत्, यतः कारणात् मानभृतः साहङ्काराः अन्यस्य परस्य गन्धमपि न सहन्ते, किं पुनःस्वेच्छाविहारादिकम् । स च मदगन्धयुक्तः अत एव शाखी भग्नः । 'भज सेवायामित्यस्य च्लो प्रथममभाजीति रूपम् । 'भो आमर्दने' इत्यस्यापरमभाजीति रूपम् । 'यन्ता हस्तिपके सूते' इत्यमरः॥४२॥ सेव्योऽपाति ॥ यन्त्रा निषादिना आकलनाय बन्धनाय सानुनयं ससान्त्वं नीतेन समीपं प्रापितेन गजेन वन्यगजदानैः कृतोऽधिवासो वासना यस्य सः । तद्गन्धीत्यर्थः। शारखी वृक्षः । ब्रीह्मादित्वादिनिः । सेव्योऽपि सन्नाऽभाजि नाऽसेवि । भज सेवायाम् , कर्मणि लुङि चिणो लुग्वृद्धिश्व। किन्तु केवलमभाजि । अभञ्जीत्यर्थः । भनो आमर्दने । 'भञ्जेश्च चिणि' इति विभाषा नलोपः। शेषं पूर्ववत् । तथा हि मानभृतो- हद्वारिणोऽन्यस्य गन्धमपि न सहन्ते । परं किमुतेति भावः । अतो वृक्षभञ्जनं गजस्य युक्रमेवेत्यर्थः । पूर्वबदलङ्कारः ॥ ४२ ॥ अद्रीन्द्रकुअचरकुअरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य ॥ सेनागजेन मथितस्य निजप्रसूनैर्मम्ले यथागतमगामि कुलरलीनाम् ॥ ४३ ॥ अद्रीन्द्रेति ॥ वनपादपस्य काननवृक्षस्य निजप्रसूनैः स्वकुसुमैः मम्ले म्लानं शोषी- ऽभाजि । वनवृक्षस्य पुष्पाणि शुष्काणीत्यर्थः । अत एव अलीनां कुलैधमराणां समूहै: यथागतमगामि । यत एव आगतं तत्रैव प्रतिगतमित्यर्थः । कथंभूतस्य वनपादपस्य सेनागजेन मथितस्य सैन्यकरिणा भग्नस्य, अपरं किलक्षस्य सेवागजस्य अद्रीन्द्रकुञ्जचर- कुअरगण्डकापसंक्रान्तदानपयसः अद्रीन्द्रकुञ्जचराः रैवतकाचलगहनवासिनो ये कुञ्ज- राः गजेन्द्राः तेषां योऽसौ गण्डकापः कपोलकण्डूयनं तेन संक्रान्तं प्रविष्टं दानपयो मदाम्बु यस्य सः तस्य । वनकरिदानेन कृताधिवासत्वादग्नस्येत्यर्थः । निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः ॥४३॥ अद्रीन्द्रति ॥ अदीन्द्रस्य रैवतकस्य कुञ्जेषु चरति यस्तस्य कुञ्जचरस्य कुञ्जरस्य गण्डकाषेण कपो- लसकर्षणेन संक्रान्तं दानपयो मदाम्बु यस्य तस्य, अत एव सेनागजेन मथितस्य भग्नस्य वनपादपस्य निजै- रात्मीयैः प्रसूनैः पुष्पैः। 'निजमात्मीयानित्ययोः' इति वैजयन्ती । मम्ले म्लानम् । म्लायेतर्भावे लिट् । अलीना कुलस्तु यथागतमगामि गतम् । आगतक्रमेणैव गतं. न तु म्लानमित्यर्थः । आपद्यात्मीयाना- त्मीययोभैर्दै इति भावः। गमगत्यर्थस्याकर्मकत्वविवक्षणाझावे लुह । इभवनपादपादीनां विशेषणसाम्या- दापनायौपम्यप्रतीतेः कथञ्चित्समासोक्तिस्त्रया ॥ १३ ॥ .. । ..

१६६
सन्देहविषौषधिसर्वकषायुत - [पञ्चमः-
नोथैर्यदा तरुतलेषु ममुस्तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः ॥
बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः४५
नोच्चैरिति ॥ इभा हस्तिनो यदा यस्मिन् काले तरुतलेषु वृशाधोभागेषु न ममुः
न मान्ति स्म, तदानीं तस्मिन् काले पृथुमूलशाखाः महाबुध्नप्रकाण्डान् आत्मनैव स्वयमेव
तरसा बलात्कारेणबन्धाय बन्धनहेतवे चिच्छिदुः छिन्दन्ति स्मअत्रोटयन् । पृथूनि महान्ति
मूलानि शिफा यासां ताः पृथुमूलाः ताश्च ताः शाखाश्च । यतः कीदृशाः इभाः उच्चैः
उन्नताः, अपर किलक्षणाः इमाः आधोरणैः हस्तिपकैः अभिहिता उक्ताः बन्धनाय प्रेरिताः।
अथ वा नैतदाश्चर्य, यतः कारणात् मदान्धैः मदपूरितनेत्रः कैरपि आत्मनीनं स्वहितं नैव
क्रियते न विधीयते । एतेन यदि मदेनान्धा न भवेयुः, तहि स्वबन्धनाय प्रयत्न नैव कुर्युः
इति भावः । आत्मने हितमात्मनीनम् । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।
"मूल बुध्नोऽधिनामकः', 'मूलमाये शिफाभयोः' इत्यमरः ॥ ४४ ॥
नोचैरिति ॥ इभा यदा उच्चरुनतेषु तरुतलेषु न ममुर्नाऽवर्तन्त तदानीमाधोरणैनियन्तृभिरभिहिता-
'इमाश्छिन्ते'त्युपदिष्टाः पृथुमूलशाखा: बन्धाय स्वबन्धनायैव तरसा बलेनात्मना स्वयमेव चिच्छिदुः। न
चैतयुक्तमिति भावः । यद्वा मूढाना युक्त मेवेत्याह-अथ वेति । अथवा मदान्धरात्मनीनमात्मने हितं न
क्रियत एव । 'भात्मन्विश्वजनभोगोत्तरपदात्खः' इति खपत्ययः । 'आत्माध्याना खे' हाते प्रकृतिभावात
'नस्तद्धिते' इति टिलापान । पूर्ववदर्थान्तरन्यासः ॥ १४ ॥
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ॥
एकान् विशालशिरसोहरिचन्दनेषु नागान्वबन्धुरपरान्मनुजा निरासुः॥४५॥
उष्णोष्णेति ॥ मनुजा मनुष्याः निषादिनः हरिचन्दनेषु वृक्षेषु एकान् द्विरदाख्यान्
नागान् बबन्धुः बध्नन्ति स्म, अपरान् नागान् सर्पाख्यान् निरामः विचिक्षिपुः। अहीन्
अपास्य गजान् बबन्धुरित्यर्थः । किंभूतान् नागान् उष्णोष्णशीकरसृजः अतिशयेन उष्णाः
उष्णोष्णाः ते च ते शीकराश्च तान् सृजन्ति मुञ्चन्ति ते प्रतप्तजलकणमुचः, उभयेषां
विशेषणम् । अपरं किंभूतान् नागान् प्रबलोष्मणः प्रबलः सातिशयः उष्मा निःश्वासो
येषां ते तान् अतिनिःश्वासयुक्तान् , क्व अन्तः मध्ये शरीराभ्यन्तरे । पुनः किंलक्षणान्
नागान् उत्फुल्लनीलनलिनोदरतुल्यभासः उत्फुल्ल विकस्वरं च तत् नीलनलिनं नीलकमलं
च तस्योदरं गर्भः तेन तुल्या सदृशी भा कान्तियेषां ते उत्फुल्लनीलनलिनोदरतुल्यभासः
तान् विकस्वरनीलोत्पलगर्भसदृशकान्तीन् । उभयान् कृष्णानित्यर्थः । पुनः किंभूतान
विशालशिरसः गुरुतरमस्तकान् । येषामुघृष्यमाणानां कुङ्कुमवल्लौहित्यं जायते, ते
हरिचन्दनाः । सर्वश्रेष्ठाः इत्यर्थः । 'नागौ द्विरदभोगिनौ इत्यमरः ॥४५॥
उष्णोष्णेति ॥ मनुजा नरा उध्योष्णा उष्णप्रकाराः । 'प्रकारे गुणवचनस्य' इति हिर्वचनम् । कर्म-
धारयवद्भावात्सुपो लुक् । तान् शीकरान् मृजन्ति मुञ्चन्तीति नथोकान् । विप् । अन्तः प्रबलोष्मणः
प्रवृद्धतापान् । उत्फुल्लं विकचम् । 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' इत्युपसर्गेऽपि फुल्लेनिष्टा-
नत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभास: समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशा-
लशिरसो विपुलमस्तकानेकाकातचित्रागान्, गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । 'तैलपणिक-
गोशी हरिचन्दनमस्त्रियाम्' इत्यमरः । बबन्धुः । अपरात्रागान्, महीनित्यर्थः । 'पुष्टाभ्राहिंगजा नागा:
इत्युभयत्रापि वैजयन्ती । निरासुः निष्कासयामासुः । अस्यतेलिन । अषोभयेषामपि नागानां प्रकृतत्वा-
केवलप्रकृतश्लेषः ॥ ४५ ॥

सर्गः।] शिशुपालवधे। १६७ कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलोनवता नगस्य । स्थूलेन्द्रनीलशकलावलिकोमलेन कण्ठे गुणत्वमलिनां वलयेन भेजे ॥ ४६॥ कण्डूयत इति ॥ अलिनां वलयेन भृङ्गाणां समूहेन नगस्य पर्वतवृक्षस्य कण्ठे गुणत्वं भेजे ग्रीवालङ्करणत्वं प्राप्तम् । किंभूतेन भ्रमरवलयेन स्कन्धं प्रकाण्डम् अनुलीनवता आ- श्लिष्टेन । अनुलिल्ये इत्यनुलीनवान् तेन । किलक्षणं स्कन्धं सुगन्धि परिमलयुक्तं, केन करि- णो मदेन गजस्य दानेन, किं कुर्वत: गजस्य कटभुवं कण्डूयतः कपोलस्थली कण्डूयमानस्य कण्डूयामपनयतः, अपरं किंलक्षणेन अलिवलयेन स्थूलेन्द्रनीलशकलावलिकोमलेन स्थूलानि महान्ति यानि इन्द्रनीलशकलानि तेषामावलिः पङ्क्तिः तद्वत्कोमलं मनोहरं तेन महा- नीलमणिखण्डमालासहशेन ॥ ४६ ॥ कण्डूयत इति ॥ कटभुवं गण्डस्थलं का इयतः कषतः। कण्ड्वादिभ्यो यक् , ततः शतृप्रत्ययः । कण्डूयतद्धिातुप्रकृतित्वादुभयपदित्वम् । करिणो मदेन सुगन्धिं शोभनगन्धम् । गन्धस्यत्वे तदेकान्त- ग्रहण नाद्रियन्ते कवयः । नगस्य वृक्षस्य स्कन्धं प्रकाण्डम् अनुलीनवता । तत्र संश्लिष्टेनेत्यर्थः । लीयत- 'निष्ठे'ति कवतुप्रत्ययः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । स्थूलानामिन्द्रनीलशकलानामावलिबत्कोमलेन मनोहरेणालिना वलयेन कण्ठे गुणत्वं कण्ठवलयत्वम् । 'अमूर्धमस्तकात्स्याङ्गादकामे' इत्यलुक् । भेजे प्राप्तम् । कणि लिट् । अत्रालिबलये इन्द्रनीलमयकण्ठभूषणत्वारोपादूपकालङ्कारः ॥ १६ ॥ निर्धूतवीतमपि चालक(१)मुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ॥ शिक्षावशेन शनकैर्वशमानिनाय शास्त्रं हि निश्चितधियां क न सिद्धिमेति ४७ निधूतेति ॥ यन्ता निषादी चालक मत्तद्विपं शनकैर्मन्दमन्दं वशमानिनाय आय- तत्वमनैषीत वशीचकार । कदाचित्सोऽङकुशात् भीतो भविष्यतीत्याह-किलक्षणं चालक निधूतवीतमपि अवगणितसृणिमपि, अत एव पुनः किंभूतं चालकम् उल्ललन्तमुल्लसन्तं स्वेच्छाचारिणं, काभिर्वशमानिनाय क्रमेण परिपाट्या परिसान्त्वनतर्जनाभिः परिसान्त्वनं सामवचनम् अपरं तर्जना भत्सनाश्च ताभिः । अवसरं बुद्ध्वा कदाचित्प्रीतयः क्रियन्ते कदाचिद्रीतयः, पुनश्च प्रीतिः भूयो भयमिति वाक्यार्थः । केन वशं नीतः शिक्षावशेन गज- शास्त्राभ्यासेन । युक्तोऽयमर्थः, हि यस्यात् कारणात् निश्चितधियामसन्दिग्धबुद्धीनां प्राज्ञानां शास्त्रमभ्यासः क्व सिद्धिं न एति क्व सफलतां न याति । अपि तु सर्वत्रापि सफलं भव- तीत्यर्थः । कम्पनशीलो हस्ती चालक उच्यते । चलतेः प्रयोगः बलतेः प्रयोगः । 'अङ्कुश सृणिवीतयः(१) । 'यन्ता हस्तिपके सूते' इत्यमरः ॥ ४७ ॥ निर्धूतति ॥ यन्ता निषादी निधूतं निरस्तं वीतं पादघाताङ्कुशवारणं यस्मिन्कणि तयथा तथा उल्ललन्तमुत्लवमानमपि। पादकर्म यतं प्रोकं यतमङ्कुशवारणम् । उभयं वीतमाख्यातम्-' इति हलायुधः । बालकं पञ्चवर्षगजम् । 'पञ्चवर्षों गजो बालः पोतस्तु दशवार्षिकः' इति वैजय- न्ती । शिक्षावशेन स्वकीयेन गजज्ञासाभ्यासबलेन क्रमेण परिपाट्या परिसान्त्वनान्युपलालनानि तर्जना भसनाश ताभिः शनरेव शनकः। 'अव्ययसर्वनाम्नामक प्राक्टेः' इति स्वार्थेऽकचनत्ययः । शमं शान्ति- मानिनाय । तथा हि-सुष्टु निश्चितार्था धारेषां तेषाम् , पुंसामित्यर्थः । शास्त्रं क्व सिद्धि नैति । स्वभ्यस्तं - .. (१) बालक ।

१६८ सन्देहविषौषधिसर्वकषायुते- [पञ्चमः- . शालं सर्वत्र फलतीत्यर्थः । “विभक्तधना भ्रातरो विभक्त!' इतिवत् विनिचिनार्था धीनिवितेत्युपर्यने । अतएवात्र गम्यमानार्थत्वादुत्तरपदस्याप्रयोगलक्षणो लोप इत्याहुः ॥१०॥ स्तम्भ महान्तमुचितं सहसा मुमोच दान दवावतिततरां सरसाग्रहस्तः ।। बद्धापराणि परितो निगडान्यलावीरस्वातन्त्र्यमुज्वलमवाप करेणुराजः॥४८॥ स्तम्भमिति ॥ करेणुराजः गजाधिराजः उज्ज्वलं मनोज्ञ स्वातन्त्र्यमात्माधीनत्वं स्वच्छन्दचारित्वमवाप लेभे । राजापि किल स्वतन्त्रो भवति । तदेव स्वातन्त्र्यमाह तावत्-महान्तं स्तम्भं बृहन्तं दृषदारुजं स्थाणु सहसा बलात्कारेण मुमोच बभञ्ज, किंलक्षणं स्तम्भम् उचितमात्मयोग्यम् । अपरम् अतितरामतिशयेन दानं ददौ मई मुमोच, किंभूतः गजराजः सजलकरामः । अपरं परितः समन्तात् निगडानिपादबन्धनानिअलावीत् चिच्छेद, किंलक्षणानि निगडानि बद्धापराणि बद्धाः सिता अपराः पाश्चात्त्यपादभागायैस्तानि । अप- राशब्दः स्त्रीलिङ्गः। यो हि राजा उज्ज्वलं स्वातन्त्र्यं लभते विष्टपायत्तत्वं प्राप्नोति, स उचितं योग्यं महान्तं विशालं स्तम्भ गर्भ मुञ्चति त्यजति, सजलपाणिश्च सन् विप्रेभ्यो दान वितरति, बद्धशत्रूणां बन्धनानि त्रोटयति। 'स्तम्भः स्थाणौ च गर्भ च' । 'शृङ्गारादौ विषे वीयें गुणे रागे द्रवे रसः' इत्यमरः ॥ ४८ ॥ स्तम्भामति ॥ करेणुश्चासौ राजा च करेणुराजा गजश्रेष्ठः । करेणूना राजेति गजपति: राजा च ध्वन्यते । उभयत्रापि 'राजाहः सखिभ्यः-' इति टन् । उज्ज्वलमुच्छृखलं स्वातव्यं स्वेच्छाचारित्व. मवाप । तदेवाह-उचितं चिरपरिचतं महान्तं स्तम्भमालानं जाड्यं च सहसा मुमोच । 'स्तम्भः स्थूगा- जडत्वयोः' इति विश्वः । सरस आदेऽग्रहस्तः पुष्कर पाणिश्च यस्य स सन् दानं मदं, दीयत इति दानं धनं चातितरामतिमात्रम् । अव्ययादामुप्रत्ययः । ददी । ववषैत्यर्थः । परितो बद्धोपराणि बद्धपश्चिमपादानि च । 'अपरः पश्चिमः पादः' इति गजप्रकरणे वैजयन्ती । निगडानि राखलानि । 'अथ शङ्कले । अन्दुको निगडोमियाम्' इत्यमरः । अलावीत् लुनाति स्म । लूञ् छेदने, लुङ् । 'अस्तिसिचोऽपृने' इतीट् । 'इट. ईटि' इति सलोपः । अत्र करेणुराजपदसाधर्म्यध्वनिः । विशेष्यस्यापि श्लिष्टत्वान्न श्लेष इत्युक्तम् ॥ १८ ॥ जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरनोदनाभिः(१) । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ४६ जझे इति ॥ गम्भीखेदिनि करीन्द्रे गजराजे पुरोऽये कवलमन्नपिण्डमनाददाने अगृ- हति सति जनैलोकै रेवं जशे इति ज्ञातम्, यत्-नामेति सत्ये, यो महान् पुरुषः स मन्दोऽपि मन्दशक्तिरपि अवगृह्य अवग्रहं कृत्वा बलात्कारेणाऽपि विरोधं विधाय न साध्यः न जय्यः । न वश्य इत्यर्थः। अथ च स करीन्द्रो मन्दः मन्दजातीयः । भद्रमन्दमृगा हि हस्तिजातयः । काभिः कवलमनाददाने सति संरब्धहस्तिपकनिष्ठुरनोदनाभिः संरब्धः ऋद्धो यो हस्तिपकः निषादी तस्य निष्ठुरा अतिकठोरा या नोदनास्तर्जना: ताभिः कुपित- निपादिकठोरतर्जनाभिः, कथं मुकुलिताक्षं निमीलितनेत्रं यथा स्यात्तथा निमीलिते अक्षिणी यत्र यस्यां क्रियायां तद्यथा भवति तथा । भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । गम्भीरखेदिलक्षणं तु- स्वग्भेदाच्छोणितसावादामांसच्यवनादपि । संज्ञां न लभते यस्तु प्रोक्तो गम्भीवेद्यसौ ॥ - (१)चोदनाभिः।

सर्गः। शिशुपालवधे। १६६ । इति ॥४९॥ जज्ञ इति ॥ गम्भीरं मन्दं वेतीति गम्भीरवेदी । 'त्वम्भेदाच्छोणितलावान्मासम्य च्यवनादपि । आत्मानं यो न जानाति तस्य गम्भीरवोदिता' । इति राजपुत्रीये। 'चिरकालेन यो वत्ति शिक्षा परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजबदिभिः ॥ इति मृगचर्मीये । तस्मिन्गम्भीरवेदिनि करीन्द्रे संरब्धः कुपितः हस्तिनं पातीति हस्तिपः स एव हस्तिपको निषादी । 'आधोरणा हस्तिप का इस्त्यारोहा निषादिनः' इत्यमरः । तस्य निष्ठुराभिश्वोदेनाभि- म्तर्जनाभिरपि मुकुलिताक्षं निमीलितनेत्रं यथा तथा पुरः कवलं ग्रासमनाददाने सति। मन्दो मूढोऽपि 'मूढाल्पाऽपटुनिर्भाग्या' इत्यमरः । गजभेदोऽपि । 'भद्रो मन्दो मृगश्चैव विज्ञेयामिविधा गजा:' इति । महान् बलाधिकोऽवगृह्य निगृद्य साध्यो न नाम न खल्विति जर्जज्ञे ज्ञातम । जानातेः कर्मणि लिद । मन्दो त्यादिवाक्यार्थः कर्म ॥ १९ ॥ क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् ॥ सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम्॥५०॥ क्षिप्तमिति ॥ कश्चिद्वारणपतिर्गजेन्द्रः परिमीलिताक्षं यथा भवति तथा इच्छाविहार- वनवासमहोत्सवानां सस्मार अस्मार्षीत । स्मृत्यर्थकर्मणि पष्टी । इच्छाविहारः स्वेच्छा- क्रीडनं येषु ते इच्छाविहाराः ते च वनवासमहोत्सवास्तान् । काननविहारगतानुस्मरणशू- न्यहृदयत्वान्न किञ्चिदपि प्रकृष्ट कर्म अनुदध्यावित्यर्थः । वानेयानां हि गजानां राजगृहादपि वनमेव मुखकारि। महावृष्टयवधूतस्य मृगयूथस्य धावतः । पृष्ठतोऽनुगमिष्यामः कदा नस्तद्भविष्यतीति ॥ इति तावत् मुहुर्मुहुर्वारंवारं पुरोऽग्रे क्षिप्तं दत्तम् इक्षुकाण्डं न जगृहे न जघास । अपरं च निकटोपगतां समीपोपढौकितामपि करिणी हस्तिनी न अपेक्षते स्म न अभिललाप । 'कोणुरिभ्यां स्त्री नेभे' इत्यमरः ॥ ५० ॥ क्षिप्तमिति ॥ धारणपतिः कारवरो मुहुः पुरः क्षिप्तमने न्यनमिक्षुका ग्डमिक्षुदण्डं न जगृहे न स्वी- चकार । निकटोपगतां समीपस्था करेणुं करिणी च नापेक्षते स्म नेच्छति स्म । 'लट् स्मे' इति भूतार्थे लट् । किन्तु परिमीलिताशं यथा तथेति स्मृत्यनुभवः । इच्छया विहारा यषु त वनवासा एव महोत्सवा- स्तेषां सस्मार । तानेव चिन्तयामासेत्यर्थः । 'अधीगर्थदयशा कर्माण' इति शेषत्वविवक्षायां षष्ठी । न स्वच्छन्दचारिणां निर्बन्धे भोगेषु मन प्रवर्तत इति भावः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ५० ॥ दुःखेन भोजयितुमाशयिता शशाक तुङ्गानकायमनमन्तमनादरेण ॥ उरिक्षप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुतिस्त्रपितबाहुरिभाधिराजम् ॥ ५१ ॥ दुःखेनेति ॥ आशयतीति आशयिता भोजयिता हस्तिभोजकः इभाधिराज हस्ति. मल्लं दुखेन कृच्छ्रण भोजयितुमाहारयितुम् आदयितुं शशाक समर्थ आसीत् । किंविध- मिमाधिराज तुङ्ग उच्चः अप्रकायः पूर्वदेहो यस्य तम् उन्नतपूर्वदेह, पुनः किंभूतमिभाधि- राजम् अनादरेण अनमन्तम् अवज्ञया अप्रहमनम्रम् । किंलक्षणो भोजयिता उत्क्षिप्तमूर्ती- कृतं यत् हस्ततलं पाणितलं तत्र दत्तो निक्षिप्तः योऽसौ विधानपिण्डः भक्तगोलकः तस्य यः स्नेहो रसः तस्य या स्तुतिः स्त्रावः तया नपितः त्रिग्धीकृतो बाहुर्भुजो यस्य सः तथा ५१ २०० सन्देहविषौषधिसर्वकषायुते- [ पञ्चमः- दुःखेनोति ॥ उत्क्षिप्ते उद्यते हस्ततले दत्तो निहितो यः विधानस्य गजपासस्य पिण्डः। विधानं हस्ति- कवलः' इति वैजयन्ती। तस्य स्नेहलत्या घृतादिनिःस्यन्दनेन स्नपितबाहुराप्लुतभुजः । स्नातर्ण्यन्ता- कर्मणि कः । 'अतिहा-' इत्यादिना पुगागमः मित्त्वाद्धस्वः । आशयिता भोजयिता । अशेय॑न्ता- नन् । तुङ्गानकायं स्वभावत एवोत्रतोलकायम् अनादरेणानमन्तं कवलग्रहणाय नतिमकुर्वाणमिमाधि- राजम् । 'गतिबुद्धि-' इत्यादिना आणि कर्तुरो कर्मत्वम् । दुःखेन कृच्छ्रेण भोजयितुं शशाक । स्वभावो- त्रतानां तत्राप्यहङ्कारप्रस्तानों को नमयितेति भावः ॥ ५१ ॥ शुक्लांशुकोपरनितानि निरन्तराभिर्वेश्मानि रश्मिविततानि नराधिपानाम् ॥ चन्द्राकृतीनि गजमण्डलिकाभिरुचैर्नीलाभ्रपतिपरिवेषामवाधिजग्मुः ॥५२॥ शुक्लांशुकेति ॥ नराधिपानां राज्ञां वेश्मानि गृहाणि गजमण्डलिकाभिः मातङ्गघ- टाभिः कृत्वा नीलाभ्रपङ्क्तिपरिवेषमधिजग्मुरिव सजलजलधरपङ्क्तिपारीयास(?)मिव प्रापुः, नीलानि श्यामानि च तानि अभ्राणि मेघाश्च तेषां पङक्तयः श्रेणयः ताभिः परिवेषः परिधिः तं प्रापुरिव । किंभूताभिर्गजमण्डलिकाभिः निरन्तराभिः निर्विवराभिः, किंभूतानि वेश्मानि शुक्लांशुकोपरचितानि शुक्लैः श्वेतैरंशुभिः वस्त्रैरुपरचितानि कृतानि । धवलपटमण्डपा- नित्यर्थः । पुनः किलक्षणानि वेश्मानि चन्द्रस्येव आकृतिः आकारः तुल्यता येषां तानि । शशिबिम्बतुल्यानीत्यर्थः । पुनः किंभूतानि रश्मिभिः रज्जुभिः विततानि परिवेष्टितानि बद्धानि रज्जुबद्धानि । चन्द्रोऽपि शुक्लो भवति रश्मिभिर्मयूखैर्विततश्च । पटवेश्मनां चन्द्र- उपमान, करिणां मेघाः। अपरं किंलक्षणानि वेश्मानि उच्चैः उन्नतानि । घटाभिरुच्चैः उच्चाभिर्वा । 'किरणप्रग्रहौ रश्मी', 'परिवेपस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः ॥५२॥ शुक्लांशुकति ॥ शुक्लांशुकैः शुक्लपटैरुपरचितान्युपकाल्पितानि, अन्यत्र तु अल्पा अंशवोऽशुका: सूक्ष्नास्तेजोऽवयवाः । 'अल्प' इत्यल्पार्थे कन्प्रत्ययः । शुक्लैस्तैरुपचितानि ब्यातानि रश्मिभिः प्रग्रहै: किरणैश्र विततानि विस्तृतानि । 'किरणप्रग्रही रश्मी' इत्यमरः । चन्द्रस्येवाकृतिर्येषां तानि चन्द्राकृतीनि । चन्द्र- मण्डलनिभानीत्यर्थः । नराधिपानां वेइमानि दृष्याणि निरन्तराभिनारन्धाभिरुच्चैगजमण्डलिकाभिर्गजपरि- धिभिः । स्वार्थे कप्रत्ययः । कापूर्वस्येकारः । नीलाभ्रपतिभिः परिवेष परिधिम् । परिवष्टेनामिति यावत् । 'परिवेषस्तु परिधिः' इत्यमरः । अधिजग्मुरिवत्युत्प्रेक्षा ॥ ५२ ।। अथाश्ववर्णनम्- गत्यूनमार्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।। दर्पोदयोलसितफेनजलानुसारसंलक्ष्यपल्ययनवर्धपदास्तुरङ्गाः ॥ ५३ ॥ गत्यूनेति ॥ तुरङ्गाः अश्वाः भुवि पृथिव्यां स्वैरं शनैःशनैर्यथा भवति तथा समा- चकृषिरे समाकृष्टाः समानीताः, किमर्थ वेल्लनाय । वाहयित्वा अश्वाः परिवर्त्यन्ते इति स्थितिः । किंलक्षणाः अश्वाः दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्धपदाः दर्पस्य मदस्योदयेनन आविर्भावेन उल्लसितमुत्क्षिप्तं यत्फेनजलं प्रस्वेदवारि तस्याऽनुसारेणाऽनुस- रणेन संलक्ष्यं दृश्यं पल्ययनवर्धस्य पर्याणरश्मेः पदं स्थानं येषां ते । वाड्यमानानां तुरङ्गमानां हि सर्वाङ्गे फेनो भवति । पुनः किंलक्षणास्तुरङ्गाः गत्यूनमार्गगतयः गत्या गमनेन ऊना मन्दीकृता मार्गी हरिणसम्बन्धिनी गतिः पुला येषां ते तथा । तदीयां गति दृष्ट्वा मृगा अपि स्वल्पगतयो शायन्ते । एवंविधा अपि, गतोल्मार्गाः गतोऽतिवा. हितः उरुदी? मार्गः पन्था यैस्ते गतोहमार्गाः । विरुधं चैतत् , येषां हि गतौ सर्गः।] शिशुपालवधे । २०१ . मार्गी गतिः उना तेषां मृगसम्बन्धिनी गतिर्गमनं कथमुरुः स्यात् । अथ चेद् उरुर्भवति तत्तर्हि कथमूनगतयः । अपिशब्दो विरोधार्थः । तथैव व्याख्यातम् ॥ १३ ॥ गत्यूनति ॥ गत्पूना विशिष्टगमनहींना मार्गगतयोऽध्वगमनानि येषां ते, तथापि गतोहमार्गाः प्रस्थित- दूराध्यान इति विरोधः । भपिविरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अत- एव विरोधाभासोऽलङ्करः । दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कटयनोल्लसितस्योद्धतस्य केनजलस्य फेनी- भूतोद्धतस्वेदोदकस्यानुमारेण प्रसारण संलक्ष्याणि पल्ययनवर्धाणामामनबन्धचर्मवरत्राणां पदानि तत्रोदना- निनीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा भुवि वेळनायाङ्गपरिवर्तनाय स्वैरं मन्दं समाचकृषिर समाकृष्टाः । अध्वश्रमापनादनार्थामति भावः । वर्धन दृढबन्धनाही?भवतीति वर्धम् । 'वृधिवपिभ्यां ग्न' इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । 'वर्ष अपुवरत्रयोः' इति विश्वः । अमरस्तु'नधी वर्षी वरत्रा स्यात्' इत्याह । तदा 'स्टून्' इत्यौणादिके ष्ट्र प्रत्यये पूर्णवद् गुणा वपरः प्रत्ययतकारस्य 'झषस्तथार्थोऽध:' इति धत्वे षित्त्वात्मीलिङ्गे डीम् ॥ ५६ ॥ आजिघ्रति प्रणतमूर्धनि बाहिजेऽश्वे तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ॥ नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ५४ प्राजिघ्रतीति ॥ रजो रेणुः पृथिव्या रोमाञ्चतामिव जगाम कण्टकत्वमिव लेभे । क्व सति बालिजेऽश्वे वालिदेशोद्भवे तुरगे आजिघूति सति आघायमाणे सति, किलक्षणं रजः नासाविरोकपवनोल्लसितं घ्राणविवरवायुसमुत्थं नासाया घोणायाः विरोको विवरं तस्य पवनो वातः तेन उल्लसितमुड्डीनम् , अत एव पुनः किलक्षणं रजः तनीयः सूक्ष्मम् । किलक्ष- णेऽश्वे प्रणतमूर्धनि अवनतमस्तके, प्रणतः नम्रः मूर्धा मस्तको यस्य सः तस्मिन् । किंभू. तायाः पृथिव्याः तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः तस्याश्वस्य अङ्गसङ्गमः शरीरसम्पर्कः परिवर्तनाख्यः तेन यत् सुखं तस्य योऽनुभवः प्राप्तिः तत्र उत्सुका उत्कण्ठिता तस्याः । यस्याः किल नायिकाया निकटावनतो नायको भवति, सा तस्य सुखानुभवात्पुलकिताङ्गी भवति । 'मूर्धा ना मस्तकोऽस्त्रियाम्'। बाहिसिन्धुकाम्बोजा अश्वयोनयो देशाः ॥ १४ ॥ आजिघ्रतीति ॥ बालिरश्वयोनिर्देशविशेषः तज्जे बाहिजेऽश्वे । 'बाहिदिभ्ये' इति पाठे विशेष्याप्रयागो गम्यमानत्वादिन्युक्तम् । 'गादिभ्यो य' इति भवार्थे यप्रन्ययः । तदन्तवि- धिस्तु मृग्यः । प्रणतमूर्धनि नवशिरसि कृतप्रणामे च आजिप्रति गन्धं गृह्णति चुम्ब- ति च सति । स्वभावात्कामाच्चति भावः । नासाविरोकं नासारन्धं तस्य पवनो निश्वासस्तेनोल्लसितमुद्- धूतं तनीयस्मनुतरं रजस्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चता जगामेवेत्युत्प्रेक्षा। सा च भूतुरङ्गमयोः प्रतीयमानचेतननायकायभेदाभ्यवसायादित्य- वधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः । 'चजोः कु घिण्यतोः' इति कुत्वम् । 'लिङ्गमशिष्य लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकत्वाविरोधः। अत एव 'छिद्रं नियंथनं रोकम्' इत्यमरः । 'रोको रश्मी बिले न पुम्' हाते वैजयन्ती । 'रोको दीली बिले रोकम्' इनि विश्वः । ये तु केनाप्यभिप्रायेण 'विरकेपवन ति पठन्ति तेषी 'परोत्सगैकजीविना मितिवदमानीयपवनप्रतीतेरश्लीलाख्यो दोषः । 'अश्लील तदमङ्गल्यजुगुप्साबीडधीकरम्' इति लक्षणात् ॥ ५४॥ हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः ॥ ज्वालाकणारुणरुचा निकरण रेणोः शेषेण तेजस इवोल्लसता रराज ॥ ५५ ॥ हेम्न इति ॥ कश्चिद् वाजी अश्वः हेनः स्थलीषु सुवर्णस्य भूमिषु परितः समन्तात् परिवृत्य वेल्लनं कृत्वा वपुः धुन्वन् शरीरं कम्पयन् सन् रराज शुशुभे । केन कृत्वा रराज । M २०२ सन्देहविषौषधिसर्वकषायुते- [ पञ्चमः- रणोः निकरण कनकरजःपुजेन, किंभूतेन रजोनिकरण उल्लसता स्फुरता भ्रमता उड्डीयमानेन, पुनः किंभूतेन ज्वालाकणारुणरुचा ज्वालानामर्चिषां ये कणाः स्फुलिङ्गाः तद्वत् अरुणा रक् कान्तिर्यस्य सः तेन, किंभूतो वाजी प्रविततायतकेशपतिः प्रवितता आयता दीर्घा केश- पङ्क्तिः केशमाला यस्य सः । वाजाः पक्षा विद्यन्ते येषां ते वाजिनः । पूर्व हि तुरङ्ग- माः पर्वता इव सपक्षा आसन् । अपरं किंलक्षणेन रेणोः निकरण, उत्प्रेक्षते-तेजसः प्रभा- वस्य बलस्य शेषेणेव उर्वरितभागेनेव । स्वल्पमेव तेजो देहाबहिः स्थितमिवेत्यर्थः । स्थली अकृत्रिमा भूमिः । 'वाजिनोऽश्वेषु पक्षिणः', 'तेजः प्रभावे दीसौ च' सर्वत्राप्यमरः ॥१५॥ हेन इति ॥ हेन:स्थलीषु स्वर्णभूमिषु । 'जानपद-' इत्यादिना कृत्रिमार्थे डोष्प्रत्ययः । परितः परिवृत्य परिवृत्ति कृत्वा वपुर्धन्वन् धूलिनिर्गमाय कम्पयन् अत एव प्रवितता विश्लिष्टा आयता च केशपङ्की रोमसङ्घातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तवदरुणरुचा रकवर्णन रणोनिकरणोल्लसता अत्यु- कटतया बहिरुद्रच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषणातिरेकणेव रराज । उत्प्रेक्षालङ्कारः ॥ ५५ ॥ दन्तालिकाधरणनिश्चलपाणियुग्ममोदितो हरिरिवोदयशैलमूर्ध्नः ॥ स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोनमितानकायः॥५६॥ दन्तालिकेति ॥ श्रीवृक्ष आवर्तो यस्य सः श्रीवृक्षकी अश्वश्रेष्ठः वल्लभपालमश्ववारं स्तोकेन न आक्रमत स्तोकमात्रेण न लङ्घयामास । यतः किंभूतं वल्लभपाल दन्तालिका- धरणनिश्चलपाणियुग्मं दन्तालिका दशनरश्मिः मुखरज्जुः कविका तस्य धरणमवष्टम्भनं तेन निश्चलं स्थिरं पाणियुगलं करयुगलं यस्य सः तं, किंभूतः श्रीवृक्षकी उच्चैः उन्नतः, पुनः किंभूतोऽश्वः पुरुषकोन्नमितानकायः पुरुषप्रमाणं पुरुषकम् , उन्नमितः ऊर्चीकृतः अग्रकायः पूर्वदेहो येन सः । पुरुषप्रमाणोन्नत इत्यर्थः । अत एव स्तोकेन न आक्रमत । उत्प्रेक्षते- उदयशैलमूनः उदयाचलमस्तकात् अर्धोदितोऽर्धप्रकटितो हरिरिव श्रीसूर्य इव । वल्लभ- पालस्य उदयशैलतट उपमानम् । दन्तालिका तु कविका । 'श्रीवृक्षकी स विज्ञेयः श्रीवृक्षो यस्य लाजछनम्' इत्यमरः । श्रीवृक्षाख्य आवर्तः ॥ १६ ॥ दन्तालिकति ॥ पुरुषकोऽश्वाना स्थानकभेदः । तदुक्तम्- 'पश्चिमेनाप्रपादेन भुवि स्थित्वाप्रपादयोः । उर्वप्ररेणया स्थानमश्वाना पुरुषः स्मृतः ॥ इति । पुरुष एव पुरुषकः तेन पुरुषकेण स्थानकेनोत्रमित उचीवस्थितोऽनकायः पूर्वकायो यस्य सः तथोकः अत एवोदयशैलस्य मूों मस्तकादर्षमुदितोऽधोदितः हरिः सूर्य इव, स्थित इत्यर्थः । अर्क- दितविशेषणादुच्चस्त्रतः श्रीवृक्ष एव श्रीवृक्षकः आवर्तविशेषस्तद्वानभ्वः श्रीवृक्षकी। 'वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात्' । इति लक्षणात् । 'श्रीवृक्षकी वक्षसि चद्रामावतों मुखेऽपि च' इति तु वैजयन्ती। दन्तालिका मुखरज्जुः । 'मुखरज्जुश्च दन्ताली राणिका रक्षणीति च' इति वैजयन्ती । तस्या धरणे ग्रहणे निश्चलं स्थिर पाणियुग्मं यस्य तम् । पाणिभ्यो दृढे गृहीतोभयवल्गामित्यर्थः । वल्लभपालमुत्तमाश्वपालम् । 'वल्लभो दयितेऽध्यक्ष कुलीने श्वेऽपि वल्लभः' इति विश्वः । स्तोकेन नाक्रमत । वल्गाग्रहणदार्यात्स्तोकेनाप्यभिभवितुं न शको भूदि- न्यर्थः : । इह "श्लथयितुं क्षणमक्षमताङ्गना', 'न द्वन्द्वदुःखमिह किश्चित्' इत्यादिवदप्यर्थस्य सामर्थ्यलभ्यत्वादपे- रपयोगः । अन्यथा स्तोकेन नाक्रमत किन्तु भूय इति व्याख्याने निश्चलपाणियुग्मत्वादिविशेषणावगतवाह- .

सर्गः ।] शिशुपालवधे। २०३ १ । कौशल्यप्रकाशनतात्पर्यभङ्गप्रसङ्गात् । 'करणे च स्तोका'-इत्यादिना विकल्पात्तृतीया, 'अनुपसर्गे' इति विक. पादात्मनेपदम् । उपमालङ्कारः ।। ५६ ॥ रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवाऽनिमिषदृष्टिभिरीक्ष्यमाणः ॥ श्रीसन्निधानरमणीयतरोऽश्व उच्चैरुश्चैःश्रवा जलनिधेरिव जातमात्रः ॥१७॥ रेजे इति ॥ अश्वस्तुरगः रेजे शुशुभे । किंभूतोऽश्वः स्नपनसान्द्रतराईमूर्तिः स्नप- नेन अश्वपालकारितस्नानेन सान्द्रतरा निर्मला आर्द्रा क्लिन्ना मूर्तिहो यस्य सः, पुनः किंभूतोऽश्वः श्रीसन्निधानरमणीयतरः श्रियः सन्निधानं संयोगः श्रीसन्निधानं शोभासंयोगः तेन रमणीयतरः विशेपमनोहरः, पुनः किंभूतः उच्चैः महाकायः, पुनः किंभूतः जनैलॊकैः कौतुकादीक्ष्यमाणः विलोक्यमानः। किंलक्षगैर्जनैः अनिमिषदृष्टिभिः विस्मयात् निश्चल.. नयनैः जनैः कैरिव देवैरिव, अश्वः क इव उच्चैःश्रवा इव । यथा उच्चैःश्रवा वाजिराजः रेजे । किंलक्षणः जलधेः समुद्रात् जातमात्रः उत्पन्नमात्रः सन्, पुनः कथंभूतः अनिमिपदृष्टिभिः देवैरिन्द्रादिभिः ईक्ष्यमाणः दृश्यमानः, पुनः किंभूतः श्रीसन्निधानरमणीयतरः लक्ष्म्याः संयोगेन मनोज्ञः । तेन सह लक्ष्म्या उत्पन्नत्वादित्यर्थः ॥ १७ ॥ रंजे इति ॥ स्नपनेनाभिषेचनेन सान्द्रतराईमूर्तिः अनिमिषदृष्टिमिविस्मयादनिमिषार्जनै देवैरिव तादृ- भरीक्ष्यमाणः श्रियः शोभायाः देव्याश्च सन्निधानन रमणीयतरः । तत्र सन्निहिता लक्ष्मीः सन्ति यत्रोत- मा हयाः' इत्यागमादिति भावः । उच्चैहनतोऽश्वो जलनिधेः समुदाजात एव जातमात्रः । सयो जात- इत्यर्थः । अन्यथोक्तसाधासम्भवादिति भावः । ‘मात्र कात्स्येऽवधारणे' इत्यमरः। उच्चैरुत्रतं अवः की- तिरुनते श्रवसी कर्णों वा यस्य सः उच्चैःश्रवाः शक्राश्व इव रेजे । उपमालङ्कारः ॥ ५ ॥ अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्चन्पुरो हरितकं मुदमादधानः ॥ ग्रीवाग्रलोलकलकिङ्किणिकानिनादमिश्रं दधदशनबुधुर(१)शब्दमश्वः ॥५८॥ अश्रावीति ॥ भूमिपतिभिः भूपालैः राजभिः अश्वस्तुरङ्गमः अश्रावि श्रुतः, किं कुर्वन् दशनबुबुरशब्दं दधत् धारयन् । अश्वकृतबुर्बुरशब्दश्रवणात् उपचारेण अश्वोऽश्रावि इत्यु- कम् । किंभूतं दशनबर्बुरशब्दं ग्रीवाग्रलोलकलकिङ्किणिकानिनादमिश्र ग्रीवग्रे ग्रीवाग्रभागे लोलाञ्चटुलाः कला मधुराश्च याः किङ्किणिकाः क्षुद्रघण्टाः तासां योऽसौ निनादः शब्दस्तेन मिश्रो युक्तस्तम्, अपरं किंलक्षणोऽश्वः पुरः अग्रो हरितकं तृणमश्नन् भक्षयन्, किं कुर्वाणोऽश्वः मुहमादधानः हर्षमुत्पादयन्, किंलक्षणैः भूमिपतिभिः क्षणलब्धनिद्रैः प्रथम कृतनिद्रैः। हरि- तकस्य भुज्यमानस्य दन्तयोगात् यो बुर्बुर इति ध्वनिः स दशनबर्बुरशब्दः कथ्यते ॥१८॥ अश्रावति ॥ पुरोऽने हारतकं हरिततृणमभन् अत एव ग्रीवाग्रे लोलावलाः कला अव्यक्तमधुराः किङ्किणिकाः क्षुद्रघण्टिकास्तासां निनादन मिश्रं दशनाना दन्तानां चचुरशब्दं चचुर वानं दधत् अत एव मुदमादधान उत्पादयनश्वः । जातावेकवचनम् । क्षणेन वीतनिद्रैः। 'अल्पनिद्रोऽल्पभुग्वामी मितभाष्यनसू- यकः' इति सौभाग्यलक्षणादिति भावः । भूमिपतिभिरत्रिवि श्रुतः । अश्वस्य शब्दोऽश्रावत्यिर्थः । 'वीणाः धूयन्ते भेर्यः श्रूयन्ते' इत्यादिवच्छन्दधर्मः शब्दिखूपचर्यते । स्वभावोक्तिरलङ्कारः ॥ ५८ ॥ उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ॥ आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रवताऽश्वमन्यम् ॥५४॥ उत्खायेति ॥ केनचित् तुरगेणाश्वेन कटकः स्कन्धावारः आकुल्यकारि विह्वलीकृतः। (१) चुचुर।

२०४ सन्देहविषौषधिसर्वकषायुते- [पञ्चम:- किं कृत्वा रज्ज्वा सहैव रश्मिना सार्ध कीलं स्तम्भभुत्खाय उत्पाट्य, किंलक्षणेन अश्वेन दर्पचलितेन मदचलितेन, अत एव पुनः किंभूतेन तुरगेण प्रयत्नपरमानवदुर्ग हेण प्रयत्नपरैः सावधानैः मानवैरश्वपालैः दुर्गहो ग्रहीतुमशक्यस्तेन, अपरं किलक्षणेन तुरगेम अन्यमित- रम् अश्वं तुरङ्गमम् इति कारणात् तूर्ण त्वरितं यथा भवति तथा अनुद्रवता पश्चाद्धावता । अनुद्रवतीति अनुद्रवन् तेन । इति किं यत्-इयमश्वा तुरगीति । किंलक्षणमश्वं विद्रुत पलायितम् ॥ १९ ॥ उत्यायेति ॥ दच्चिलितेनोच्चालितेन अन एव रज्ज्वा पाशेन सह कील शकुम् । 'शद्वावपि द्वयोः कीलः' इत्यमरः । उत्खाय उत्पाटय तूर्ण विदुनं धावन्तम् अन्यमश्वम् अश्वेत्यनुवता वडवति भ्रान्त्यानुधावता प्रयत्नपरैप्रहीतुं प्रयतमौनरपि मानवैर्मनुष्यैर्दुग्रहण तुरङ्गेण कटकः शिबिरमाकुल्यकारि आ- कुलीकृतः । आकुलशब्दादभूततद्भावे चिः 'अस्य च्ची' इतीकारः । करातः कर्मणि लुङि चिणो लुक् ।। ५९ ॥ अव्याकुलं प्रकृतमुत्तरधेयकर्मधाराः प्रसाधयितुमव्यतिकीर्णरूपाः ॥ सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयाम्बभूव ॥६०॥ अव्याकुलमिति ॥ कश्चित् अश्ववारः अश्वं तुरङ्गमं गमयाम्बभूव अवाहयत् गति- मकारयत्, किलक्षणमश्वम् व्याकुलं गतिचतुरम् । अथवा अव्याकुलं निर्व्यग्रम्, अव्याकुलं निर्भयं यथा स्यात्तथेति वा गमयाम्बभूव । पुनः किंभूतमश्वं मुखे मुखकर्मणि सिद्धं नि- प्पन्न चतुरम् । पट्स दिक्षु यथा मुखं क्रियते तथा कर्तु' यो जानातीत्यर्थः । पुनः किंभूत- मश्वम् उत्तरधेयकर्मधाराः प्रसाधयितुं प्रकृतं प्रस्तुतं योग्यम् । मुखे मुखकर्मणि सिद्धे सति निष्पन्ने सति उत्तरम् उत्तरकालं यावत् या धेयाः कर्तव्याः कर्मधाराः गतिविशेषाः ताः प्रसाधयितुं निष्पादयितुं योग्यम् । धौरितं वल्गितं प्लुतम् उत्तरितम् उत्तेजितं चेति कर्मधाराः । विक्रमवलिंगतोत्कण्टजवोपजवाख्या इत्यन्ये । किंलक्षणा धाराः अव्यतिकीर्ण रूपं यासां ताः । यादृक् यस्या लक्षणं सा तरन्यैव कृता न तु वैपरीत्येन । क्व गमयाम्बभूव नवसु वीथिषु नवसंख्येषु मागेंषु । काकं मायूरम् अर्धमायूरं जवम् उपजवाख्यं चेति पञ्च सान्नायवीथयः। नीचैर्गतं खरोष्टं प्रमदं स्खलितं चेति चतस्त्र औपवाया वीथयः । अन्ये त्वाहुः (१)कार्क मायूरम् अर्धमायूर चेति सान्नाह्यवीथिचतुष्टयं, वल्गितं नीचैर्गतं खरोष्ट्रं जवनं चेति औपवाह्यवीथिपञ्चकमिति । किंलक्षणोऽश्ववारः वल्गाविभागकुशलः वल्गा हस्तव तस्या विभागो दिग्विशेषेण चालनं तत्र कुशलो दक्षः निपुणः प्रवीणः । कविकासञ्चारणे हृद्य इत्यर्थः । एतत्सर्वमश्वलक्षणात् अश्ववारेण सुज्ञानम् । शालिहोत्र- ग्रन्थात् वेद्यमेतत् ॥ ६० ॥ अव्याकुलामति ।। वल्गा मुखरज्जुः सा चोक्षिप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्- उक्षिता शिथिला तथोत्तरवती मन्दा च वैहायसी विक्षिप्तककरार्धकन्धरसमाकीर्णा विभक्का तथा । अत्युक्षिप्ततलोद्धते खलु तथा व्यागूढगोकर्णिके वाहान कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी' || इति । तसवणानि त तत्रैव द्रष्टव्यानि । विस्तरभयान लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः नत्र कुशलो बल्गाविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वल्गाग्रहणस्य रागाद्युपलक्षणत्वात् ।। । (१) एतन्मते मात्रामवीथिचतुष्टये औपवायवीथिपत्रके च एकैकं नाम नोपलभ्यते मूलपुस्तके ।

सर्गः।] शिशुपालवधे। - यथाह भोजः- 'वाहनं प्रतिवाहाना षड्ाविधं प्रेरणं विदुः । रागावल्गाकशापाणिप्रतोदरवभेदतः' । इति । कश्चित् कश्चन वाहकः अव्याकुलमव्ययम् । अवस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सज्जितमित्यर्थः । मुख मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानविशेषा- दिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे- मुकाधरोष्ठासतफेनलवाभिरामफूत्कारवायुपदमुन्नतकन्धरानम् । नीत्वोपकुञ्चितमुख नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ।। उत्तरधेयकर्म युद्धाद्युत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तदूपा इत्यर्थः । अव्यतिकीर्णरूपा. असङ्कीर्णरूपा धारा गतिभेदाः। 'अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रोचित वालगतं प्लुतम्' ।। इति वैजयन्ती। 'गतयोऽमूः पञ्च धाराः' इत्यमरश्च । अश्वशास्ले तु संज्ञान्तरेणोक्ताः- 'गतिः पुला चतुष्का च तन्मध्यजवा परा। पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ।। एकैका विविधा धारा हयशिक्षाविधी मता। लघ्वी मध्या तथा दोर्घा ज्ञात्वैता योजयेत्क्रमात्' । इति । तथा च पञ्चदश विभेदा भवन्ति । ताः पञ्च धारा: प्रसाधयितुं परिचेतुं नवसु वीथिषु सञ्चार- स्थानेषु गमयाम्बभूव । वीथयो नवाश्वानां सर्वत्र धारादाार्थाः परिमिताः प्रचारदशाः । ताश्च तिस इत्ये. के, नवेत्यन्ये । तरोत्तरपक्षमाश्रित्यो कविना नवस्विति । यथाह भोजः- 'वीथ्यस्तिस्त्रोऽथ धाराणां लब्बीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषो मानमशीतिनवतिः शतम् ॥ लवीमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः। नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्येषामपि सर्वत्र गनिदायार्थमीरिताः ॥ समानता सा विषमाम्बुकी शुद्धा नताना तृणवीरुदाट्या । स्याणुप्रकोोपलसंप्रकीर्णा पार्शोन्नताख्या नवधेति वाथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं व्रजेत् ॥ इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । 'उरमाली वरश्वाली पृथुलो मध्यनामकः । आलीढः शोभनर : प्रत्यालीढस्तथापरः । उपधेनव उतं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेता:- इति ॥ ६०॥ मुकास्तृणानि परितः कटकं चरन्तलुटयद्वितानतनिकान्यतिषङ्गभाजः ॥ सस्नुः सरोषपरिचारकवार्यमाणा दामाञ्छन(१)स्खलितलोलपदं तुरगाः॥६॥ मुक्ता इति ॥ तुरङ्गाः अश्वाः सनः अधावन् । किं ताः अश्वाः कटक परितः - (१)दामाचल। १८ शि०५०

२०६
सन्देहविषौषधिसर्वकषायुते-
[ पञ्चमः-
-
स्कन्धावारसमीपे तृणानि चरन्तः खादन्तः भक्षयन्तः, पुनः किंभूता: अश्वाः मुक्ताः परि-
त्यक्ताः । अनश्ववारा इत्यर्थः । पुनः किंभूता अश्वाः त्रुट्यद्वितानतनिकाव्यतिषङ्गभाज:
त्रुट्यन्त: छिन्ना या वितानतनिकाः पटमण्डपरजवः तासां व्यतिषङ्ग सम्पर्क भजन्त इति
तथा भाजः । अपरं किलक्षणाः अश्वाः सरोषपरिचारकवार्यमाणाः सरोषः सक्रोधो यः
परिचारकः अश्वपालकः तेन वार्यमार्णाः धार्यमाणाः । निषिध्यमाना इत्यर्थः । कथं सस्नुः
दामाञ्छनस्खलितलोलपदं यथा भवति तथा दामाञ्छनं पादबन्धनं तेन स्खलितानि प्रति-
हतानि अत एव लोलानि चटुलानि पदानि अज्रयो यत्र यस्यां क्रियायां तद्यथा। 'यवस
तृणमर्जुनम्', 'स्कन्धावारश्च कटकः', 'अस्त्री वितानमुल्लोचः', 'तनिका दामरज्जवः',
'लोलश्चलसतृष्णयोः', 'पदं व्यवसितत्राणस्थानलक्ष्माधिवस्तुपु' सर्वत्राप्यमरः ॥६॥
मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिविरं परितः । 'अभितः परित:-' इन्या.
दिना द्वितीया । तृणानि चरम्तो भक्षयन्तः श्रुट्यन्तीषु छिन्नासु वितानतनिकासु पटमण्डपरज्जुषु व्यतिषङ्गं
मङ्गं भजन्तीति तथोक्ताः । अत एव सरोषैिः परिचारकै: किङ्करैर्वार्यमाणा. अपसार्यमाणास्तुरङ्गा दामा-
ञ्चलानि पादपाशाः । 'दामाञ्चलं पादपाशः' इति वैजयन्ती। दूष्यवरत्राबन्धन शव इति केचित् । तेषु
- स्खलितेन लोलानि पदानि यस्मिन् कर्मणि तयथा सस्त्ररपसस्नुः ॥ ६ ॥
अथोक्षवर्णनम्-
उत्तीर्णभारलघुनाऽप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ॥
रोमन्थमन्थरचलद्गुरुसास्नमासाञ्चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥
उत्तीर्णेति ॥ उक्ष्णा समूहः
औक्षकं तेन वृषभवृन्देन तरोः अधस्तात् वृक्षस्य तले
आसाञ्चक्रे आसितं विश्रान्तम् । कथं यथा भवति तथा रोमन्थमन्थरचलद्गुरुसास्नं रोमन्थेन
चर्वितचर्वणेन मन्थरमीषचलन्ती कम्पमाना गुर्वी महती सास्ना गलकम्बलः गलचर्म
यत्र तत्, अपरं कथं यथा भवति तथा निमीलदलसेक्षणं निमीलन्ति पिहितानि अलसानि
स्थिराणि ईक्षणानि विलोचनानि यत्र तत्, किंभूतेन औक्षकेण उत्तीर्णभारलघुनापि उत्ती-
गोऽपास्तोयो भारः गुरुत्वाधिकरणो लवणगुडादिभिः, तेन लघुनापि पटुदेहेनापि । कथं तर्हि
विश्रान्तमित्याशङ्कयाह-पुनः किंभूतेन वृन्देन अलघूलपौघसौहित्यनिःसहतरेण अलघुर्महान्
यश्च उलपौधः तृणविशेषराशिः तेन यत् सौहित्य तृप्तिः तेन निःसहतरेण अत्यलसेन कार्य
कर्तुमक्षमेण । 'उलपं बल्वजं स्मृतम्', 'सौहित्य तर्पणं तृप्तिः', 'मन्दोऽलसो निःसहस्तु',
'रोमन्थश्चर्वणं पुनः', 'मन्दोऽलसो मन्थरश्च', 'सास्नास्यादूगलकम्बलः सर्वत्राप्यमरः॥२॥
उत्तीर्णेति ॥ उत्तीर्णभारमपरोपितावपनम् अत एव लघुः तेन तथोकेन तथाप्यलघुना उलपानां
बल्वजतृणानामोघेन यत्साहित्यं पूर्तिः । 'पर्याप्तमुपसम्पन्न पूर्तिः सौहित्यमुच्यते' इति हलायुधः । तेन निः
महतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तरतिभोजनाद् गुरुभवतेत्यर्थः । सहेनिःपूर्वापचायजन्ता-
नरप् प्रत्ययः । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः। औक्षण उक्ष्यां समूहेन । 'गोप्रोक्ष-' इत्यादिना
वुन प्रत्ययः । तरोरवस्तात्नरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्यरं मन्दं चलन्त्यो गुन्यं साला
गलकम्बलानि यस्मिन्कर्माण तयथा तथा । 'सास्ना तु गलकम्बलः' इत्यमरः। किञ्च निमीलन्ति सुखा-
न्मुकुलीभवन्ति अलमानि चेक्षणानि यस्मिन्कर्मणि जयथा तथा आसाञ्चके भासितम् । भास उपवेशने,
भावे लिट् । 'दयायासच' इत्याम्प्रत्ययः । 'कृशानुप्रयुज्यते लिटि' इति कृतोऽनुप्रयोगः। इतःप्रभृत्याचतु.
'ष्टयात्स्वभावोक्किः ॥ ६१॥

सर्गः।] शिशुपालवधे। २०७ मृत्पिण्डशेखरितकोटिभिरर्धचन्द्र शृङ्खः शिखाप्रगतलक्ष्ममलं हसद्भिः॥ उच्छृङ्गिताऽन्यवृषभाःसरितां नदन्तोरोधासिधोरमुपचस्करिरे(१)महोक्षाः ६३ मृत्पिण्डेति ॥ महोक्षा वरवृपभाः सरितां रोधांसि नदीनां तटानि धीरं निर्भयं यथा भवति तथा उपचस्करिरे आचख्नुः ध्रोत्पयामासुः (?)। कैः शृङ्गैः विषाणैः,किंभूतैः शृगैः मृत्पिण्डशेखरितकोटिभिः मृत्पिण्डेन मृत्स्नाकर्दमगोलकेन शेखरिता अलङ्कृताः कोटयोऽग्रभागा येषां तानि मृत्पिण्डशेखरितकोटीनि तैः । अत एव अपरं किंलक्षणैः शृङ्गः अर्धचन्द्रं हसद्भिः शशिखण्डं विडम्बयद्भिः । चन्द्रस्यार्धम् अर्धचन्द्रस्तम्। अनुकार एवात्र हासः। किंभूतमर्धचन्द्रं शिखाग्रगतलक्ष्ममलं शिखाग्रगतं लेखान्तःस्थितं लक्ष्म चिन्हरूपं मलं मृगाख्यं यस्य सः तम् । शृङ्गाणामर्धचन्द्र उपमानं, कईमस्य मलमुपमानम् । किंलक्षणाः महोक्षाः उच्छृङितान्यवृषभाः उच्छृङ्गिता उत्खातशृङ्गाः अन्यवृषभा इतरे उक्षाणो यैस्ते, पुनः किंभूता महोक्षाः नदन्तो गर्जन्तः ॥ ६३ ॥ मृत्पिण्डेति ॥ मृत्पिण्डैर्वप्रक्रीडालग्गैर्मृत्खण्डैः शेखरिताः सञ्जातशखरा. कोटयोऽप्राणि येषां तेरत - एवं शिखाप्रगतमुभयकोट्यन्तर्गत लक्ष्मैव मलं यस्य स एवंभूतं श्वेतमर्धचन्द्रं हसद्भिरित्यतिशयोक्तिभेद- इत्युक्तम् । अभूतोपमेति मतान्तरम् । शृङ्गविषाणैरुताः उत्पतितशृङ्गाः कृता उच्छृङ्गिता अन्यवृषभाः प्रतिवृषभा यैस्ते अत एव धीरं गम्भीर नदन्तो गर्जन्तः महान्त उक्षाणो महाक्षाः । 'अचतुर-' इत्या- दिना निपातात्साधुः । सरितां रोधासि अपचस्काररे आलिलिखुः । हर्षादुरुजुरित्यर्थः । अवपूर्वास्किरते कर्तरि लिट् । 'किरतेर्हषजीविकाकुलायकरणष्विति वक्तव्यम्' इत्यात्मनेपदम् । 'ऋच्छत्यताम्' इति गुणः । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' इति सुडागमः ॥ ६३ ॥ मेदस्विनः सरभसोपगतानभीकान् भङ्क्त्वा पराननडुहो मुहुराहवेन ॥ ऊर्जस्वलेन सुरभीमनु(२) निःसपनं जग्मे जयोद्धरविशालविषाणमुक्ष्णा ६४ मेदस्विन इति॥ केनचित् उक्षणा वृषभेण सुरभीमनु धेनुं प्रति जग्मे गर्त यातं, किं कृत्वा परान् इतरान् अनडुहो बलीवान मुहुर्वारंवारमाहवेन युद्धेन भक्त्वा निर्जित्य। ननु कदाचित् ते कृशा भवेयुनेत्याह-किंभूतान् अनडुहः मेदस्विनः पीवरान् । स्थूलस्कन्धा- नित्यर्थः । मेदो धातुविशेषः वृद्धं येषां ते तान् । पुनः किंभूतेन उक्ष्णा ऊों बलं विद्यते यस्य स ऊर्जस्वलः तेन तेजस्विना, किलक्षणान् अनडुहः सरभसोपगतान् सरभसमौत्सुक्येन रणस्पर्धया उपगतान् युद्धाय प्राप्तान् , कथं यथा भवत्येवं जग्मे जयोधुरविशालविषा यथा भवति तथा जयेन सपत्नपरिभवेन उधुरे सगर्वे विशाले विस्तीर्णे प्रचण्डे विषाणे शृङ्ग यत्र तत्, पुनः कथं जग्मे निःसपत्नं यथा भवति एवं, निर्गताः सपत्नाः श- वो यत्र तत् गतशत्रु यथा भवत्येवम् । किलक्षणान् अनडुहः अभीकान् निर्भयान् ॥६४॥ मेदस्विन इति ॥ उर्जी बलमस्यास्तीति तेन उर्जस्वलेन बलिना । 'ज्योत्स्नातमित्रा-' इत्यादिना निपातः । उक्ष्णा वृषभेण मेदस्विनो गौसलान् । अस्मायामेधास्रजो विनिः। अत एव सरभसं सत्वर- मुपगतान अभिकामयन्त इत्यभीकान्कामुकान् । 'कम्नः कामायताऽभीकः' इत्यमरः । 'अनुकामिकाभीक : कमिता' इति निपातः । पराननडुहो बलीवन्मुहुराहवेन युद्धेन भक्त्या निर्जित्य जयेनोद्धरे निर्भरे । 'साक्पूर-' इत्यादिना समासान्तः । विशाले च विषाणे य स्मन्कर्मणि तयथा तथा निःसपत्नमप्रतिपक्ष सुर- भीरनु गा पृष्ठतः । कर्मप्रवचनीययुक्ते द्वितीया । जग्मे गतम् । भावे लिद ॥ ६४ ।। (१)मपचस्काररे। (२)सुरभीरनु ।

२०८ सन्देहविषौषधिसर्वकषायुते- [पञ्चमः- अथोष्ट्रवर्णनम्- बिभ्राणमायतिमतीमवृथा शिरोधि प्रत्यग्रतामतिरसामधिकं दधन्ति ॥ लोलौष्ठ(१)मौष्टकमुदप्रमुखं तरूणाम_लिहानि लिलिहे नवपल्लवानि ॥६५॥ बिभ्राणमिति ॥ औष्ट्रकमुष्ट्रसमूहः तरूणां वृक्षाणां नवपल्लवानि नूतनकिसलयानि लिलिहे आस्वादयामास। किंभूतानि नवपल्लवानि अधिकं सविशेष यथा भवति तथा प्रत्य- ग्रतां दधन्ति नूतनत्वंवहमानानि, किंभूतां प्रत्यग्रताम् अधिको रसो यस्याः सा ताम् अभीष्ट- स्वादां, किंभूतानि पल्लवानि अभ्रलिहानि व्योमस्पृशानि। उच्चानीत्यर्थः । ननु यदि तानि उच्चानि तत्कथं लिलिहे इत्याशक्य हेतुगर्भ विशेषणमाह-यतः किंविधमौष्ट्रक शिरोधि ग्रीवां बिभ्राणं दधत्, किंभूतां ग्रीवाम् आयतिमती दीर्घतरां, पुनः किंभूतां शिरोधिम् अवृथा सार्थकां सप्रयोजनाम् , अपरं किंलक्षणमौष्ट्रकं लोलौष्ठं पल्लवजिघृ. क्षया चपलोष्ठं, पुनः किंभूतम् उदप्रमुखमूर्ध्ववदनम् । आयतिः उत्तरकाले दैध्ये च । 'कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि' । 'प्रत्ययो नूतनो नवः', 'पल्लवोऽस्त्री किसलयम्' सर्वत्राप्यमरः॥६५॥ बिभ्राणमिति ॥ आयतिमती दैध्यवतीम् । न च वृथा दैर्ध्यमित्याह-अवृथेति । उच्चस्तरपल्लव- ग्रहणात्मफलामित्यर्थः । शिरो धीयतेऽस्यामिति शिरोधि ग्रीवाम् । 'शिरोधिः कन्धरत्यपि' इत्यमरः । 'कर्म- प्यधिकरणे च' इति किप्रत्ययः । बिभ्राणं दधानम् । उदप्रमुखं पल्लवग्रहणार्थमोक्षिप्ततुण्डमौष्ट कमुष्ट- ममूहः । 'गोत्रोक्ष-' इत्यादिना वुइ । अधिकमतिशयितो रसः स्वादो यस्यां तामतिरसां प्रत्यग्रतामाभिनवत्वं दधन्ति दधति । 'बा नपुंसकस्य-' इति वैकल्पिको नुमागमः । अभ्रं लिहन्तीत्यभ्रलिहान्युच्चतराणि । 'वहाने लिहः' इति खश्प्रत्ययः । 'अदिषत्-' इत्यादिना मुमागमः । तरूणां नवपल्लवानि । 'पल्लयोऽली किसलयम्' इत्यमरः । लोलोष्ट यथा तथा । 'अंबोष्ठयोः समासे वा' इति पररूपं वक्तव्यम् । लिलिडे आस्वादयामास । जघासेत्यर्थः ॥ ६५ ॥ सार्धं कथञ्चिदुचितैः पिचुमन्द(२)पत्रैरास्यान्तरालगतमाम्रदलं म्रदीयः ॥ दासेरकः सपदि संवलितं निषादैवि पुरा पतगराडिव निर्जगार ॥६६॥ सामिति ॥ दासेकः : उष्ट्रः : आम्रदलं चूनतरुपणं सपदि तत्क्षगादेव निर्जगार निर्ज- गाल उद्वमितवान् । किलक्षणमाम्रदले कथञ्चिदैववशात् आस्यान्तरालगत कण्ठप्राप्त, कैः सार्ध पिचुमन्दपत्रैः सार्ध निम्बपर्णैः समं, किंभूतैः पिचुमन्दपत्रैः उचितैः योग्यैः, अपरं किंभूतमान. पत्रं म्रदीयः अतिशयेन मृदु कोमलं, क इव कैः साधं निर्जगार पतगराडिव । यथा पत- गराट् पक्षिराजो गरुडः विप्रं ब्राह्मणं निषादैः म्लेच्छैः साधं संवलितं मिश्रित सन्तं निर्ज- गार, पुरेति पूर्वम् । पुरा किल बुभुक्षितेन सुपणेन भोजन में दिशेति पिता कश्यपो विज्ञप्तः । ततश्च पित्रा इदमभाणि, यत् त्वं जलराशिनिकटे निषादान् विप्रं विना भक्षय । यश्च गिलितः सन् तव कण्ठं दहति स विप्रो ज्ञेयः । ततस्तेन निषादान् भुजानेन स कदाचिदैवयोगात् मुखविवरं दहन् विप्रो झटित्येवोज्झित इत्यागमः । 'निम्बो नियमनो नेता पिचुमन्दः सतिक्तकः ॥६६ ॥ सार्धमिति ॥ उचितैरभ्यस्तैः । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । पिचुमर्दपौनम्बदलैः मार्धम् । 'पिचुमर्दश्च निम्बे' इत्यमरः । कश्चिन्प्रमादादास्यान्तरालगतं मुखान्तर्गत प्रदीयो मृदुतरमामदलं (१) लोलोष्ट । (२) पिचुमर्द । .

सर्गः।] शिशुपालवधे। २०६ . चूतपल्लवं दासेरक उष्टः पुरा निषादैम्लेंकैः संवलितं युक्तं विषं पतगराट् गरुत्मानिव निर्जगार उठी- र्णवान् । पुरा किल कुतश्चित्कारणाम्लेच्छभक्षणे तैः सहाऽन्तः प्रविश्य गर्ल दहन्त विप्रं गरुड उजगारे- ति पौराणिकी कथात्रानुसन्धेया॥ ६६ ॥ स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।। वैतालिकाः स्फुटपदप्रकटार्थमुश्चैर्भोगावलि (१) कलगिरोऽवसरेषु पेठः ६७ स्पष्टमिति ॥ वैतालिकाः मङ्गलपाठकाः मागधाब्याः अवसरेषु समयेषु राज्ञां भूपालानां भोगावलिं व्यवहारानुरूपं काव्यं गाथाप्रभृतिक पेटुः उच्चारयामासः अभि- जगदुः, उच्चैः उच्चैःस्वरं यथा भवति तथा । पुनः कथं स्फुटपदप्रकटार्थ यथा भवति तथा स्फुटैरश्लिष्टः पदैर्वणः प्रकटः स्फुटः अर्थः अभिधेयं यत्र तत् । अत एव किंलक्षणाः वैता- लिकाः बहिः स्थितवतेऽपि बाह्यस्थिताय अनुजीविजनाय सेवकलोकाय राज्ञां चेष्टाविशेष मुखक्षालनदेवतास्मरणताम्बूलादानादिकं स्पष्टं निःसन्देहं निवेदयन्तः कथयन्तः, पुनः किं- विधाः वैतालिकाः कला मधुरा गिरो वाचो येषां ते मधुरस्वराः । यत्र काले राज्ञो नाना- विधाः क्रिया देवताराधनभोजनादिकाः कुर्वाणस्य तदनुरूपाः गाथादयः पठ्यन्ते सा भोगा- वली उच्यते । अतश्च वाक्यार्थमवगम्य निश्चितं मनुजेश्वर इदं कुरुत इति निःसन्देहमनु- जीविनो जानन्ति । 'वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः' इत्यमरः ॥ ६७ ॥ स्पष्टमिति ॥ बहि: स्थितवतेऽप्यनुजीविजनाय । राज्ञोऽवसरकाशिण इति भावः । रज्ञा चेष्टाविशेष तत्कालोचितचरित्र विशेष स्पष्टं निवेदयन्तः । तद्वयञ्जकप्रबन्धपाठरिति भावः । कलगिरो मधुरवाचो वैता- लिका मङ्गलपाठकाः अवसरेषु तद्वैलासु स्फुटैः प्रसिद्धैः पदैः प्रकट: प्रकाशोऽर्थोऽभिधेयं यस्मिन्कमणि तद्यथा तथा उच्चभॊगावलीः प्रबन्धान्पटुः पठन्ति स्म । 'अत एकहल्मध्येऽनादेशादेलिटि' इत्येत्वाभ्यासलोपैौ । उन्नम्रताम्रपटमण्डपमण्डितं तदानीलनागकुलसङ्कलमावभासे ॥ सन्ध्यांशुभिन्नघनकर्बुरितान्तरिक्ष(२)लक्ष्मीविडम्ब शिबिरं शिवकीर्तनस्य । उन्ननेति ॥ शिवं श्रेयस्कर कीर्तन नामोच्चारणं यस्य सः तस्य शिवकीर्तनस्य श्रीकृष्णस्य तत्प्रसिद्ध शिबिरं वस्त्रगृहमाबभासे शुशुभे। किंभूतं शिबिरम् उन्नम्रताम्रपट- मण्डपमण्डितम् उन्नम्राणि उत्तानानि ताम्राणि आरक्तानि यानि पटमण्डपानि वस्त्र- वेश्मानि तैर्मण्डितं शोभितं, पुनः किंभूतं शिबिरम् आनीलनागकुलसकुलम् आनीले: समन्तात् कृष्णैः नागकुलैः करियूथैः सङ्कुल व्याप्तम् । अत एव पुनः किंविधं शिबिरं सन्ध्यांशुभिन्नघनकर्बुरिताऽन्तरिक्षलक्ष्मीविडम्बि सन्ध्यायां येऽशवो रश्मयः तैर्भिन्नाः छुरिता ये घना मेघाः तैः कर्बुरिता था अन्तरिक्षलक्ष्मीः आकाशशोभा तां विडम्बयति अनुकरोतीति तथोक्तम् । पटमण्डपानां सन्ध्यांशवो लौहित्यादुपमानं, गजानां च अभ्राणि, शिबिरस्य खमुपमानम् । 'तामं शुल्बे तथा रक्ते', 'मण्डपोऽस्त्री जनाश्रयः', 'सङकुल निचिते की, इत्यमरः॥१८॥ उन्नति ॥ उन्नमरुन्त्रतैस्तार्धातुरनैः पटमण्डपैर्दूष्यैर्मण्डितम् आसमन्तात्रीलैर्नागकुलैर्गजसद्धैः सकुलम् । अत एव सन्ध्यांशुभिन्नः सन्ध्यारागसम्भित्रैघ नैर्मेधैः कबुरितस्य चित्रीकृतस्यान्तरीक्षस्य लक्ष्मी विडम्बयत्य- नुकरोतीति तत्तथोक्तं शिवकीर्तनस्य मङ्गलकीतः कृष्णस्य तच्छिबिरं कटकमाबभासे । मनोहरमभूदित्यर्थः । उपमालङ्कारः ॥ ६८ ॥ (१) भोगावली। (२)तरीक्ष। - २१० सन्देहविषौषधिसर्वव्यायुते- - [ षष्ठः- धरस्योद्धर्ताऽसि त्वमिति ननु सर्वत्र जगति प्रतीतस्तरिक मामतिभरमधः प्रापिपयिषुः ॥ उपालब्धेवोगिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रीडतिरदमथितोरिहरवैः ॥६॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये पञ्चमः सर्गः ॥ ५ ॥ धरस्येति ॥ असौ गिरिपतिः रैवतकाचल: श्रीपति लक्ष्मीनाथं श्रीकृष्णमुच्चैः उन्नतस्वर यथा भवत्येवम् इति अमुना प्रकारेण उपालब्धेव सप्रणयरोषमुक्तवानिव । उपालम्भनपूर्वक मुक्तवानिवेत्यर्थः । कैः कृत्वा क्रीडद्विरदमथितोर्वीरुहरवैः क्रीडन्तो रममाणा ये द्विरदाः हस्तिनस्तैर्मथिता भग्ना ये उरिहास्तरवः तेषां रवाःशब्दाः तैः । स्फोटनशब्दरित्यर्थः । इतीति किं-नन्विति सम्बोधने, हे भगवन् ! त्वं सर्वत्र जगति त्रिभुवने इति प्रतीतोऽसि इति विख्यातो वर्तसे-'धरस्य पर्वतस्य गोवर्धनाख्यस्य त्वमुद्धर्ता परित्राता', तत्तर्हि माम् अधः किं प्रापिपयिषुरसि अधः पाताले किं प्रापयितुकामोऽसि । किंभूतं माम् अतिभरं महाभरयुक्तम्, किंभूतः गिरिपतिः बलाक्रान्तः सैन्यपीडितः ॥ ६९ ॥ इति शिशुपालवधे माघकाव्ये वल्लभविरचितायां सन्देहविषौषध्या सेनानिवेशो नाम पञ्चमः सर्गः । धरस्येति ॥ बलै: सन्यैराक्रान्तो गिरिपती रैवतकः क्रीडद्भिर्विहरमाणरिदैर्मथिताना भग्नानामुरुहाणा वृक्षाणा रवैः शन्दैनिमित्तेन श्रीपति हरिम् । नन्वङ्ग ! त्वं धरस्य पर्वतस्योद्धर्ता उद्धारकोऽसीति सर्वत्र जगति प्रतीतः प्रसिद्धः। गोवर्धनोद्धारणादिति भावः । तर्हि किं किमर्थमतिभरमतिमारवन्त मामधः प्रापिपयिषुः प्रापयितुमिच्छसि । प्रापयतेः सन्नन्तादुप्रत्ययः । इन्युच्चैरुपालब्धेव आक्रुशदिवत्युत्प्रेक्षा । उपाइपूर्वाल्लभेलुङ्, 'एकाच उपदेशे-' इति नेट् । 'झषस्तथोऽधः' इति तकारस्य धकारः 'धि च' इति मिचः सकारलोपः। शिखरिणी वृत्तम् । 'रंसे रुदैछिन्ना यमनसभला गः शिखरिणी' इति लक्षणात्।।६।। इति श्रीमहोपाध्यायकोलाचलमाल नाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने सर्वकषाख्ये पञ्चमः सर्गः ॥ ५ ॥ षष्ठः सर्गः। अथ रिम्सुममुं युगपद्रिरी कृतयथास्त्रतरुप्रसवश्रिया ॥ ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥ अथेति ॥ अथाऽनन्तरं गिरौ रैवतके भुवि पृथिव्याम् ऋतुगणेन वसन्तादिसमूहेन युगपत् समकालं पदमादधे स्थानं कृतम् । किं कर्तुम् अमुं श्रीकृष्णं निषेवितुमाराधयितुं, किंलक्षणममुं रिरंसु, रन्तुमिच्छति रिरसते रिरसत इति रिंसुः तं क्रीडितुकार्म, किंलक्षणेन ऋतुगणेम कृतयथास्वतरुप्रसवश्रिया कृता निष्पादिता यथास्वं निजनिजपुष्पाणामनतिक्रमेण तत्प्रसवानां भूहपल्लवपुष्पाणां श्रीः समृद्धियेन सः कृतयथास्वतरुप्रसवनीस्तेन । यानि सर्गः।] शिशुपालवधे। २११ .. यस्यात्मीयचिन्हानि तानि तानि तेनाविर्भावितानीत्यर्थः। अथ वा कयाः कृतयथास्व- तरुप्रसवश्रिया कृता याऽसौ स्वतरुप्रसवश्रीश्च तया आत्मीयवृक्षकुछमशोभया, निषेवितुमिति योज्यम् । पुनः किंभूतममुं सतां पुण्यवतां विपदा कष्टानामन्तं क्षयं करोति विधत्ते इति विपदन्तकृत् तम् । जननमरणाचापदवसानकरमित्यर्थः।ऋतुगणेन भुवि पदमादधे इत्युक्तम् , ते च ऋतवो न प्रत्यक्षग्राह्याः, अपि तु कार्यानुमेया एव । तत्र यत् यस्य कार्य तदाह । युगपदयुक्तं, न च तद्वर्णयितुं युगपच्छक्यम् । तत्तस्मात् क्रमेण तावत् प्रथमम् ऋतुराजस्य वसन्तस्य वर्णनमाह । सहैकदा च युगपत्', 'प्रसवं पुष्पफलयोः', 'पदं व्यवस्थितत्राणस्थान- लक्ष्माऽनिवस्तुषु' । 'विपत्यां विपदापदौ', 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके', 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत्' इति सर्वत्राऽप्यमरः ॥१॥ अथ तुवर्णनं प्रस्तौति- अथेति ॥ अथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसुं रन्तुमिच्छम् । रमः समन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् , क्विप् , तं विपदन्तकृतम् । सेव्यमिति भावः । अमुं हरिं निषेवितुं स्वतरून् स्वस्वनियतवृक्षाननतिक्रम्य राथास्वतरु । यथार्थेऽव्ययीभाव : । यथास्वतह स्थिता प्रसवश्री: पुष्पफलसम्पत्तिः यथास्वतरुप्रसवश्रीः । 'प्रसवस्तु फले पुष्पे' इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतरुप्रसव- श्रिया । यथास्वतस्कृतप्रसवाश्रयेत्यर्थः । ऋतुगणेन युगपद् भुवि पदमादधे अहितम् । युगपढ्तुगणः प्रादु- रभूदित्यर्थः । नावसरं सेवकाः क्षिपन्तीति भावः। अत्र सर्गे सर्वत्र यमकं शब्दालङ्कारः। तल्लक्षणं तूळ चतुर्थे । अर्थालङ्कारस्तु यथासम्भवमूद्यः। अस्मिन्सर्गे द्रुतविलम्बितं वृत्तम् । 'दुतविलम्वितमाह नभी भरी' इति लक्षणात ॥१॥ नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ॥ मृदुलतान्तलताऽन्तमलोकयत्स सुरभि सुरभि सुमनोभरैः॥२॥ नवपलाशेति ॥ स भगवान् पुरः प्रथममग्रे सुरभि वसन्तमलोकयत् आलोकया- मास । किंभूतं वसन्तं सुरभि सुगन्धिं, कैः कृत्वा सुमनोभरैः सुमनसां पुष्पाणां भराः अति- शयाः तैः कुसुमसमृद्धिभिः, पुनः किंभूतं सुरभिं नवपलाशपलाशवनं नवानि नूत- नानि पलाशानि पत्राणि येषु तानि नवपलाशानि नूतनपल्लवानि पलाशवनानि किंशुक- काननानि यस्मिन्नसौ तथातं, पुनः किंभूतं स्फुटपरागपरागतपङ्कजं स्फुटानि विकसितानि परागेण परागतानि मकरन्देन संयुक्तानि पङ्कजानि कमलानि यस्मिन् सः तम् । अथ वा स्फुटपरागापि प्रकटरेणूनि परागतानि सुनिष्पन्नानि पङ्कजानि यस्मिन् सः तम् । अपरं किंभूतं सुरभि मृदुलतान्तलताऽन्तं कोमलविस्तीर्णलताप्रान्तयुक्तं, मृदुलाः कोमलाः अत एव तान्ताः म्लानाः लतान्ता लताप्रान्ता यस्मिन् सः तम् । केचित् तान्तं विस्तीर्ण वदन्ति ॥ अथ लोकवेदयोः प्राथम्येन व्यवहारासन्तमादी वर्णयति- नवोत ॥ स हरिः पुरोऽ प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशवनानि किंशुककाननानि य- स्मिस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहुव्रीहिः । 'पलाशः किंशुके पो पलाशम्' इति विश्वः। स्फुटानि विकचानि परागै रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिस्तं स्फुटपरागपरागत- मृदुला: कोमला अत एव तान्ताः आतपसमये किचिम्लाना लतान्ताः पल्लवा य- स्मिस्तं मृदुलतान्तलताऽन्तं सुमनोभरेः पुष्पसमृद्धिभिः सुरभि सुगन्धि सुरभि वसन्तमलोकयदपश्यत् । 'सुराभिश्चम्पके स्वर्णे जातीफलवसन्तयोः सुगन्धौ च मनोज्ञे च वाच्यवत्-' - २१२ सन्देहविषौषधिसपायुते- - [षष्ठः- .. इति विश्वः । इह प्रतिपादं प्रथमाक्षरदयापरतोऽक्षरयावृतिरूपयमकपक्रमाचतुर्थपादेऽपि तदेक यमकम् । एकस्मादप्यपरमिति सजातीयसंसृष्टिः ॥ २ ॥ विलुलिताऽलकसंहतिरामृशन्मृगदशां श्रमवारि ललाटजम् ॥ तनुतरङ्गतती:(१) सरसा दलत्कुवलयं वलयन्मरुदाववौ ॥ ३॥ विलुलितेति ॥ वसन्ते हि मलयमारुतो वाति, अतश्च मरुत् आववौ मलयानिल- उवाह । किंभूतो मरुत् विलुलितालकसंहतिः विलुलिता आलोडिता अलकसंहतिः ललाट- केशपङ्क्तियेन स, इति मार्दवोक्तिः । किं कुर्वन् मृगदृशां सारङ्गाक्षीणां ललाटनं ललाटो- त्थं श्रमवारि धर्माम्बु आमृशन् स्फेटयन् , एतेन शान्तत्वोक्तिः । पुनः किं कुर्वन् सरसों तडागानां तनुतरङ्गत्ततीः सूक्ष्मकल्लोलमालाः वलयन भ्रमयन् , कथं यथा भवति तथा वलयन् दलत्कुवलयं यथा भवति तथा दलन्ति विकस्वराणि कुवलयानि उत्पलानि यत्र तत, इति सुगन्धित्वोक्तिः । 'अलकाश्चूर्णकुन्तला', 'ललाटमलिकं गोधिः ॥ ३ ॥ बिलुलिंतेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकरः सन्मृगदृशां ललाटजं श्रमवारि स्वेदमामृशन् परिमृजन् । मन्द इति भावः । सरसा तनुतरगतति, दलन्ति विकसन्ति कुवलयानि यस्मिन्कणि तद्यथा तथा वलयंश्वालयन् । शीतल इति भावः । मरुद्वसन्तवायुगधवौ आवाति स्म ॥ ३ ॥ तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ॥ गुणवदाश्रयलब्धगुणोदये मलिनिमाऽलिनि माधवयोषिताम् ॥ ४॥ तुलयति स्मेति ॥ अलिनि भ्रमरे मलिनिमा कृष्णता माधवयोषितां यादवनारी- णां विलोचनतारकाः नयनकनीनिकाः तुलयति स्म अनुचकार । किलक्षणेऽलिनि कुरबक- स्तबकव्यतिषङ्गिणि कुरबकाः वृक्षविशेषास्तेषां स्तबकाः पुष्पगुच्छाः तत्र व्यतिषङ्गः सम्पर्कः संयोगो विद्यते यस्य सः तस्मिन् , अपरं किंभूतेऽलिनि गुणवदाश्रयलब्धगुणोदये गुणवांश्चासौ आश्रयश्च गुणवदाश्रयः तेन लब्धः गुणानां सितवर्णकुरबकसम्पर्केण प्राप्तः उदयो येन सः तस्मिन् । यद्वा गुणवदाश्रयेण सितवर्णकुरबकसम्पर्केण लब्धः प्राप्तः गुणस्य कार्यस्योदयः आधिक्यं येन सः तस्मिन् । सिते हि कृष्णं नितरां राजते, अत एव तारका अनुचकार । लोचनानां कुरबक उपमान, तारकाणां भृङ्गाः । 'तारकाऽक्ष्णः कनी- निका', 'स्तबको गुच्छको गुच्छः' । अलिनशब्द इन्नन्तः ॥ ४ ॥ तुलयतीति ॥ कुरबकस्तबके व्यतिषङ्गिाणि लग्ने अत एव गुणवतः शुक्लगुणस्य कुरबकस्तबकस्या- श्रयेणाश्रयणेन लब्धो गुणोदयो निजनीलिमगुणोत्कर्षो येन तस्मिन् । धवले नीलस्य स्फुरणादिति भावः । अलि नि भ्रमरे मलिनस्य भाषो मलिनिमा कृष्णवं माधवयोषितो हरिवधूनां विलोचनानां तारकाः कनी- निकाः । 'तारकाक्ष्णः कनीनिका' इत्यमरः । तुलयात स्म समीचकार । तदभावित्यर्थः । तुलाशब्दा- त्सदृशपयार्यात् 'तत्करोति' इति ण्यन्तात् 'लट् स्मे' इति भूने लट् । उपमालङ्करः ॥ ४ ॥ स्फुटमिवोज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः ॥ विरहिणा हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥५॥ स्फुटमिवेति ॥ अशोकमशोकतरुकुसुम स्फुटमत्यर्थमशोभत रराज । किंभूतमशोकं चम्पकैः चम्पकतरुपुष्पैः युतं सम्बद्धं, किंलक्षणैश्चम्पकैः उज्ज्वलकाञ्चनकान्तिभिः भास्वर- हाटकवत् पिङ्गैः, उज्ज्वलं दाहोत्तीर्ण यत्काञ्चनं तस्येव कान्तिः शोभा यस्य तानि तैः (१)तति ।

सर्गः ।]] शिशुपालवधे। २१३ पुनः किंभूतं चम्पकम् , उत्प्रेक्षते-विरहिणां वियोगिनां हृदयस्य पिशितमिव मांसमिव । किंभूतस्य हृदयस्य मिदां विदारणं विभति भिदाभृत् तस्य स्फुटितस्य, किंभूत पिशित मदनाग्निना कपिशित कन्दर्पानलेन पिशङ्गीकृतम् । विरहिभिस्तावदवश्यमेव मर्तव्यम् । अतश्च लोका एवमाहुः-यच्चम्पकराशिः कामाग्निः, अशोकं च पिशितम् । इवशब्दो- ऽन्न भिन्नक्रमे ॥६॥ स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैर्युतम् । चम्पकसमूहमध्यगतमित्यर्थः । म्फुटं विकचमशोकपुष्पं, भिदा भेदः । षिद्भिदादिभ्योऽङ । ता बिभर्ति यत्तस्य भिदाभृतो भित्रस्य विरहिणां हृदयस्य हृदयपिण्डस्य सम्बन्धि मदनानिना कपिशितं कपिशीकृतं पिशितं मांसमिवाऽशोभतेत्युत्प्रेक्षा ॥५॥ स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः ॥ निपतिताः परितः पथिकवजानुपरि ते परितेपुरतो भृशम् ॥ ६ ॥ स्मरहुताशनेति ॥ आम्रवणस्य रजःकणाः सहकारकाननस्य परागवजाः पथिक- बजान् पान्थसमूहान् उपरि परितः समन्तान्निपतिताः संलग्नाः सन्तः स्मरहुताशनमुर्मुर- चूर्णतामिव दधुः कामाग्निचूर्णत्वमिव धारयामासुः । अतोऽस्मात्कारणात् पथिकव्रजान् पान्थसमूहान् भृशमत्यर्थ परितेपुः पीडयामासुः । यदा हि ते अग्निचूर्णत्वं न अबिभरुः, तत्कथं पान्थजनानां शिरस्सु पतिताः परितापं कुर्युः । तस्मात्तैः पतितैः ते सन्तप्ताः, तदा नूनं ते स्मराग्निमुर्मुरचूर्णतामिव दधुरिति वाक्यार्थः । यद्वा अतोऽस्मात्कारणात् ते पथिकवजाः भृशमत्यर्थ परितेपुः परितापं प्रापुरिति ॥ ६ ॥ स्महुताशनेति ॥ आम्रवणस्य चूतवनस्य । 'आम्रश्चूतो रसालोऽसौ' इत्यमरः । 'प्रनिरन्तःशर- इत्यादिना वननकारस्य णत्वम् । रजःकणाः परागचूर्णाः, स्मरहुताशनः कामाग्निः स एव मुर्मुरः तुषा- ग्निः । 'मुर्मुरस्तु तुषानल' इति वैजयन्ती। तस्य चूर्णता दधुरि वेत्युत्प्रेक्षा। अतो मुर्मुरचूर्णत्वादेव परित- उपरि निपतितास्ते रजः कणाः. पन्थानं गच्छन्तीति पथिकाः । 'पथः कन्' इति कन्प्रत्ययः । तेषां बजान्भृशं परि तेपुः परितापयामासुः । अतो मुर्मुरचूर्णत्वोत्प्रेक्षणमिति भावः ॥ ६ ॥ रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ॥ बकुलपुष्परसाऽऽसवपेशलध्वनिरगानिरगान्मधुपावलिः॥ ७ ॥ रतिपतीति ॥ मधुपावलिः भृङ्गमाला अगात् वृक्षान्निरगात् निःससार, किंभूता भृङ्गावलिः बकुलपुष्परसाऽऽसवपेशलध्वनिः बकुलस्य वृक्षविशेषस्य पुष्पाणि तेषां रसः बकुल- पुष्परसः केसरतरुकुसुममकरन्दः स एव आसवः पानं तेन पेशलो मधुरः ध्वनिर्यस्याः सा । किमर्थ वृक्षानिःसृतेत्याह-किंभूता भृङ्गावलिः प्रियतमेषु भर्तृषु विषये निमित्ते वा वधूः मानिनीः अनुनायिका अनुनेत्री पत्नीः प्रसादयितुं समर्था । अलिरुतं श्रुत्वा, मनस्विन्यः प्रसीदन्ति । उत्प्रेक्ष्यते-रतिपतिप्रहितेव वधूरनुनेतुं रतिपतिना कन्दर्पण प्रहिता प्रेरितेव विसर्जितेव । किंभूता वधूः कृतकुधः विहितकोपाः ॥ ७ ॥ रतिपतीति ॥ प्रियतमेषु विषये कृतकुधः कृतरुषः । 'प्रतिघा रुधौ मियाम्' इत्यमरः । वधू- रनुनायिका कुपितमीरनुनष्यन्ती । 'तुमुन्ण्वुलौ क्रियाया क्रियार्थायाम्' इति भविष्यदर्थे ण्वुल् प्रत्ययः । 'अकेनोभविष्यदाधमर्ण्ययोः' इति षष्टीप्रतिषेधाधूिरिति द्वितीया। रतिपतिना कामेन प्राहिता प्रेषितेवा तवाणी. भवणानन्तरमेव तामा कोपत्यागदर्शनादियमुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्यानेन पेशलम्पनिर्मधुरस्वरा मधुपावालः कत्री न गच्छतीत्यगाद् वृक्षाभिरगानिर्गता । 'इणो गा लुडि' इति गादेशः ॥॥

२१४ सन्देहविषौषधिसर्वकषायुते- [षष्ठः- . प्रियसखीसदशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ॥ प्रियतमाय वपुर्णरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गनाः ॥ ८॥ प्रियसखीति ॥ अङ्गानाः कामिन्यः प्रियतमाय भने अयाचितमपि अप्रार्थितमपि वपुः शरीरम् अदुः दत्तवत्यः । किंभूताः अग्नाः परपुष्टया कोकिलया किमपि अव्यक्ताक्षर यथा भवति तथा प्रतिबोधिताः प्रेरिताः, कथं यथा भवति तथा प्रियसखीसदृशं यथा स्या- तथा, प्रियसख्या सदृशमिति । किंभूतया परपुष्टया काम्यगिरा मधुरस्वरया, पुनः किंभूतया गुरुमत्सरच्छिदुरया प्रवृद्धमदरोषविनाशिन्या । आदौ हि प्रार्थिता अपि न उन्मुखाः, कोकिलानुवाशितेन रोपं जहुः । अतो ज्ञायते नूनमनया किमपि प्रतिबोधिताः, अन्यथा कुतोऽधुनैव नीरोषाः सम्पन्ना इत्यर्थः । प्रियसखीसदृशं प्रियसख्या तुल्यं यथा भवति एवम् । यथा काचिन्नायिका प्रियसख्या प्रतिबोधिता सती प्रियतमाय वपुर्ददाति ॥८॥ प्रियसखीति ॥ गुरोर्महतो मत्सरस्य द्वेषस्य छिदुरया छेल्या । विदिभिदिच्छिदेः कुरन् । काम्य- गिरा प्रायवाचा परपुष्टया कोकिलया प्रियसख्या सदृशं यथा तथा किमपि परैर्दुर्बोध रहस्यं हितं प्रति- बोधिता उपदिष्टा अङ्गनाः प्रियतमाय अयाचितमप्रार्थितमेव वपुर्निजाङ्गमदुरर्पयामासुः । ददाते डि 'गा- तिस्था-' इत्यादिना सिचो लुक् । कोकिलाकूजितश्रवणानन्तरमेवाङ्गार्पणादौत्सुक्यहेतुकाद्यनन्तरन्यायेन तथा किमपि बोधिता इत्युत्प्रेक्षा ॥ ८ ॥ मधुकरैरववाद(१)करैरिव स्मृतिभुवः पथिका हरिणा इव ।। कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः ॥९॥ मधुकरैरिति ॥ पथिकाः पान्थाः स्मृतिभुवः कन्दर्पस्य वशमाययुः अधीनता जग्मुः । स्मृतेः स्मरणात् भवतीति स्मृतिभूः तस्य । किंभूताः पथिकाः मधुकरैर्भूङ्गः रजिता हृतचेतसः कृताः । अलिगुञ्जावं श्रुत्वा पथिकाः कामिनीः सस्मरुरित्यर्थः । कया रजिताः वचसः कलतया वाण्या मधुरतया, किंलक्षणया वचसः कलतया परिवादिनी- स्वरजिता परिवादिन्याः वीणायाः स्वरं झङ्कारध्वनि जयतीति जित् तया स्वरजिता, मधुकरः कैरिव अववादकरैः आज्ञाकारकैरिव, पथिकाः के इव हरिणा इव मृगा इव । यथा अववादकरैर्गायनैः रजिताः सन्तो हरिणाः व्याधस्य वशमायत्तत्वं यान्ति, कया हृताः वचसः कलतया गीतध्वनिना । 'अववादस्तु निन्दाऽऽजे', 'विपश्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः ॥ ९ ॥ मधुकरैरिति ॥ मधुकरैः कर्तृभिः, अपवादं मृगवञ्चनाय घण्टादिकुत्सितवायं कुर्वन्तीत्यपवादकरा व्याधास्तरिव पथिका हरिणा इव परिवादिनीस्वरजिता वाणाविशेषध्वनिजयिन्या । 'सप्तभिः परिवादिनी' इत्यमरः । जे. क्विपि तुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः, आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्ताकर्मणि कः । 'रओौँ मृगरमणे-' इति उपधानकारलोपः। इहोपमानमृगसादृश्यादौपचारिक मृगत्वमुपमेयेषु पथिकेष्वस्तीत्यविरोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वाम्मृगग्रहणगर्तदेशस्य च वशमाययुः । यथा व्याधगानासक्त्या गर्ने मृगाः पतन्ति तन्मधुकरहुड्डाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकवेयमुपमा ॥९॥ समभिसत्य रसाइचलम्बितः प्रमदया कुसुमाऽवचिकीषया(२) ॥ 'अविनमन्त्र रराज वृथोश्चकैरनृतया नृतया वनपादपः ॥ १० ॥ - .. - (१) रपवाद । (२) चिचीषया ।

सर्गः । . शिशुपालवधे। २१५ समभिसृत्येति ॥ कश्चित् वनपादपः काननतरुः अविनमन् सन् न रराज न शुशुभे । किंभूतः वनपादपः प्रमदया नायिकया रसात् रागात् समभिमृत्य 'समागत्य अवलम्बितः आश्रितः, परं न प्रणतः पुनर्वृक्षो न नम्रीभूतः । अत एव न शुशुभे । यतः कीदृशः वृथा उच्चकैः निरर्थकमुन्नतः । पुरुषस्य निरर्थकमुन्नतत्वमेतदेव, यद्रभसागतमानिनीप्रह्वत्वं प्राज- लत्वं नवत्वमकठोरत्वम् । कया अवलम्बितः कुसुमावचिकीषया पुष्पाणामवचेतुमिच्छया पुष्पत्रोटनेच्छया । किंभूतः वनपादपः अनृतया असत्यया नृतया पुरुषतया उपलक्षितः । असत्येन पौरुषेणोपलक्षित इत्यर्थः । 'शृङ्गारादौ विषे वीर्ये गुणे रागे वे रसः' । न ऋता अनृता तया । नुः भावः नृता तया नृतया पौरुषेण ॥१०॥ समभिसृत्येति ॥ प्रमदया का कुसुमानामवचिचीषयाऽवचेतुमिच्छया । रिरंसयेति भावः । चिनोतेः मन्नन्तात् 'अप्रत्ययात्' इति मियामकारप्रत्ययः । 'विभाषा चेः' इति विकल्पात्कुत्वाभावः । रमादागात्सम- भिमृत्य समागत्यावलम्बिनो हस्तेन गृहीतस्तथाप्यविनमन् वशमगच्छन् अत एव वृथोच्चकैर्व्यर्थमुन्नतो वनपादपः । न तु नागरिक इति भावः । न ऋतेत्यन्ता असत्या तया अनृतया नुर्भावो नृता तया नूतया पुंस्त्वेन रराज । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । यः कान्ताकरगृहीतोऽपि न इवति स नपुंसक एव । लोककस्तु पुंस्त्वव्यपदेशो मिथ्येवेति भावः ॥ १० ॥ त्रिभिविशेषकम्- इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ॥ स्तनभरेण जितस्तबकाऽऽनमन्नवलते! वलतेऽभिमुखं तव ॥ ११ ॥ सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाऽधरे ॥ अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ १२ ॥ इति वदन्त(१)मनन्तरमङ्गना भुजयुगोन्नमनोश्चतरस्तनी ॥ प्रणयिनं रभसादुदरश्रियावलिभयाऽलिभयादभिषस्वजे(२) ॥ १३ ॥ इदमपास्येत्यादि ॥ इतीति ॥ काचिदङ्गना नायिका प्रणयिनं कान्तं रभसात् औत्सुक्येन अलिभयात् भृङ्गत्रासात् अभिषस्वजे आलिलिङ्ग । किंभृता अङ्गना भुजयुगोन्नमनोच्चतरस्तनी आलिङ्गनवशात् भुजयुगस्य बाहुयुग्मस्योन्नमनेन उच्चैः करणेन उच्चतरौ अत्युच्चौ अभ्युनतौ स्तनौ यस्याः सा, पुनः किंभूता उदरश्रिया मध्यलक्ष्म्या उपलक्षिता, किंभूतया उदरश्रिया अवलिभया वलिमिः वलित्रयेण त्रिवलीतरङ्गेण भाति शोभते इति वलिभा न वलिभा अवलिभा तया त्रिवलीरहितया, कथं यथा भवति आलिलिङ्गः अनन्तरं निर्विवरं गाढं यथा स्यात्तथा, किंभूतं प्रणयिनम् इति वदन्तमेवं अवाणम् । अलेभंयमलिभयं तस्मात् । इदमिति ॥ इतीति किम्-हे स्तनभरेण जितस्तबकानमन्नवलते ! इदमलिकदम्बकं भूमरवृन्दं तवाभिमुखं संमुखं वलते धावते स्तनभरेण कुचाभोगेन जितास्तिरस्कृताः स्तबकैः कुसमगुच्छ : आनमन्त्यो नमाः नवाः सरसाः लता प्रतत्यो यया सा जितस्तबका- नमन्त्रवलता तस्याः सम्बोधने हे नवलते !! स्तनयोः स्तबका उपमानम्, अनायास्तु लता। किं कृत्वा धावति अम्बुरुहां ततीः कमलानां राजीः अपास्य त्यक्त्वा, किंविधाः तती: परागः पुष्परेणुविद्यते यास ताः परागिण्यस्ताः पुष्परेणुयुक्ताः । ताः विहाय त्वन्मुख प्रत्यागमने कारणमाह-किंभूतमलिकदम्बकं विरागोऽस्यास्तीति विरागि कमलवना- (१) गदन्त। (२) दिव सस्वजे। + । २१६ सन्देहविषौषधिसर्वकषायुते- [ षष्ठः- दुद्विग्नम् । 'परागः कौसमे रेणौ स्नानीयादौ रजस्यपि' । 'निकुरम्ब कदम्बकम्' इत्यमरः । सुरभिणीति ॥ पुनः हे स्तनभरेण जितस्तबकानमन्नवलते ! अमू एतौ सौमनसौ पोप्पो गन्धरसौ रसमधुनी अलमतिशयेन मम मनसः चित्तस्य मुदे हर्षाय न भवतः । सुमनसां पुष्पाणामिमौ सौमनसौ । आपः सुमनसो वर्षा अप्सरःसिकताः समाः । एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥ किलक्षणस्य मम तव श्वसिते मुखमारुते तृणं दधतः तृष्णां धारयतः, किंभूते श्वसिते सुरभिणि सुगन्धिनि । न केवलं श्वसिते, तव अधरे ओष्ठे च तृणं दधतः, किंभूते अधरे नव- सुधावत् मधुरस्तस्मिन् प्रत्यग्रामृतस्वादे। यः किल स्वादुतरे भोजने अभिलार्ष धत्ते, न तस्य अमिष्टमशनं रोचते । कस्येव अलेरिव भूमरस्येव । यथा त्वत्संमुखमागच्छतो मधुपस्य तव श्वसिते सौगन्ध्ययुते मुखमारुते पल्लवभान्त्या अधरे च तृषं दधतः सतः सौमनसौ गन्धरसौ चित्तस्य परितुष्टयं न भवतः । तव मुखमारुतेन पुष्पस्य गन्धो जितः, अधरेण च पुष्परस- आसवो जितः । 'शृङ्गारादौ रसे वीर्ये गुणे रागे वे रसः' इत्यमरः । इति वदन्तं प्रियं काचिदङ्गना भ्रमरत्रासानिर्विविरमालिलिङ्ग । विशेषकम् ॥ ११-१३ ॥ अथ कश्चित्स्वयङ्ग्रहाश्लेषसुखार्थ प्रियामलिपातेन भीषयस्मिभिः कुलकेनाह- इदमपास्यति ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यया सा तथोक्का तस्याः सम्बुद्धिर्जितस्तबकानमन्त्रवलते! स्तबकानमन्त्र वलतोपमे ! इत्यर्थः । अत एवेदं विरागिविरक्किमल- कदम्बकं परागिणी: परागवतीरिति विरकिहेतूक्तिः। अम्बुरुहां ततीरपास्य तवाऽभिमुखं वलते चलति । विशिष्टलताभ्रमादिति भावः । तथा च भ्रान्तिमदलङ्कारो व्यज्यते ॥ ११ ॥ अथालेस्तदभिमुखागमने कारणमाह- सुरभीति ॥ तव सुरभिणि श्वसिते नि:श्वासमारुते नवसुधावन्मधुरे अधरे च तृषं तृष्णां दधतो दधानस्यालेर्धमरस्य ममेवाऽमू उपलभ्यमानौ सुमनसा पुष्पाणां सम्बन्धिनी सौमनसौ गन्धरसौ सौरभ- माधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । 'नमः स्व. स्ति-' इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयमहाश्लेषसुखार्थिनः प्रियस्य तद्भयहेतोरलेरेवागमनहेतु- त्वेनाऽत्र दृष्टान्तेन मुखसारभरसलभिभरकुसुमवैराग्ययोवर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि मम- शब्देनेवशब्दस्यान्वयः । 'वलतेऽभिमुखं तव, अलिभयादिव सस्थज' इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोप- भयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमार्हचलनावमार्गणेन । अत्रोपमानुप्रासयमकाना तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यमकाना त्रयाणां चतुर्थपादादायकस्मादवराव, दाभ्यां त्रिभ्यश्च परतोऽक्षरत्रयावृत्तिलक्षणानां स्थितत्वात्सजातीयसंमृष्टिश्चेष्टा ।। १२ ॥ इतीति ॥ इतीत्थं गदन्तं प्रणयिनम् अनन्तरं भुजयुगस्योत्रमनेनोच्चतरावत्युवती स्तन। यस्याः सा । 'स्वाहाच्चोपसर्जनादसंयोगोपधात्' इति डीए । पलिभया क्लयो विद्यन्ते यस्यास्तया वलिमत्या । 'तु- न्दिवलिवटेर्भः' इति भप्रत्ययः । उदरश्रिया मध्यशोभया उपलक्षिता अडना अलिभयादिव रभसात्सस्वजे आलिनिङ्ग । वस्तुतस्तु रागादेवेति भावः । 'ध्यक्ष परिष्वङ्गे' इति धातोः कतरि लिट् । 'लज्जामन्मथ- मध्यस्था मध्येयं नायिका मता' इति ॥ १३ ॥ वदनसौरभलोभपरिभ्रमभ्रमरसम्मसम्भृतशोभया ॥ वलितया(१) विदधे कलमेखलाकलकलोऽलकलोलशाऽन्यया ॥१४॥ ." - (१)चलितया।

सर्गः।] शिशुपालवधे। २१७ वदनेति ॥ अन्यया कयाचिदङ्गनया कलमेखलाकलकल: विदधे मधुरस्शनारणत्कार कृतः, किंभूतया वलितया गच्छन्त्या वजन्त्या । वलने कारणमाह-अपरं किंभूतया तया वदनसौरभलोभपरिभ्रमद्भमरसम्भ्रमसम्भृतशोभया वदनसौरभलोभेन वक्त्रसौरभ्याभिलाषण परिभ्रमन्तः समन्तात् चरन्तो ये भ्रमराः षट्पदाः तेभ्यो योऽसौ सम्भ्रमो भयं तेन सम्भृता पुष्टिं नीता शोभा रामणीयकं यया सा तया । अत एव पुनः किंभूतया अलकलोलशा अलकैः केशप्रान्तैः लोला लम्पटा दृक् नयनं यस्याः सा तया । 'सम्भ्रमस्त्वरिते आदरे भये चेति विश्वः ॥१४॥ वदनति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरण हेतुना यः सम्भ्रमस्तेन सम्भृतशोभया सम्पादितश्रिया चलितया अलिसम्भ्रमात्मस्थितया अत एवालफैरलकपातलोलदृशा चञ्चलाक्ष्या अन्यया ज्यन्तरेण कलो मेखलायाः कलकल: कोलाहलो विदधे विहितः। अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरजनी- त्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयप्तम्भ्रमः । अनुप्रासयमकयो: सजातीयशब्दालङ्कारयोः संसृष्टिः स्पष्टव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः चतुर्थपादादावेकस्मादक्षराद् द्वाभ्यां च परतोऽक्षरत्रया- वृत्तिलक्षणयोः स्थितत्वान्सजातीययोः समृष्टिः ॥ १४ ॥ अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ॥ सति मधावभवन्मदनव्यथाविधुरिता धुरि ताः कुकुरस्त्रियः॥ १५ ॥ अजगणनिति ॥ ताः कुकुरस्त्रियः यादवनायिकाः मधौ वसन्ते सति मदनव्यथा- विधुरिताः कामज्वरदुःखिताः सत्यः धुरि अग्रे अभवन् आसन् , केषां धुरि अर्थात् मदन- व्यथाविधुरितानामेव । विरहदुःखपीडितानामग्रण्योऽभवन्नित्यर्थः । ताः काः याः कुकुर- स्त्रियः अभिमानितया अहङ्कारित्वेन गणशः अनेकवारमग्रतः अग्रे प्रणतमपि प्रियं प्रह्वी- भूतमपि कान्तं न अजगणन् न बहु मेनिरे । नाङ्गीचक्रिरे इत्यर्थः । ताः वसन्ते सति विरहपीडितानामग्रण्योऽभवन्निति भावः। अभिमानोऽहङ्कारोऽस्यास्तीति अभिमानी तस्य भावस्तत्ता तया(१) ॥ १५ ॥ अजगणान्नति ॥ याः कुकुरस्त्रियो यादवाङ्गना: गणशो बहुशः। 'बह्वल्पार्थाच्छस् कारकादन्यतर- स्याम्' इति शम् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जातावेकवचनम् । प्रियाणीत्यर्थः । आभिमानि- जीना भावाभिमानिता नया । त्वतलोर्गुणवचनस्य पुवद्भावो वक्तव्यः । नाऽजगणन गणयन्ति स्म । गणे- रादिकाण्णी चडि 'ई च गणः' इत्यभ्यासस्य पाक्षिक इत्वाभावः । ताः कुकुरालियो मधे! वसन्ते सति प्रवर्तमाने । 'मधुश्चैत्रे वसन्ते च' इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन् अवन्ति । स्वयमेव पुरः प्रवृत्ता इत्यर्थः ॥ १५ ॥ कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ॥ मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तृकाः ॥ १६ ॥ कुसुमेति ॥ गतभर्तृकाः पान्थवनिताः मरणमपि प्रतिपेदिरे निधनमपि प्रापुः, अपराः अन्याः सभर्तृकाः मुहुर्वारंवारं मुमुहुः मोहं गताः, तत्र किं भणनीयम् । मरणे कारणमाह-किंभूताः गतभर्तृकाः कुसुमकार्मुककार्मुकसंहितदुत्तशिलीमुखखण्डितविग्रहाः कुसु- मानि एव कार्मुकाणि धनषि यस्य सः कुसुमकार्मुकः तस्य कार्मुके धनुषि संहितायोजिताः सन्धिताः अत एव द्रुता मुक्का ये शिलीमुखा बाणास्तैः खण्डिता विदारिता विग्रहा देहा यासा साः । “विग्रहः काययुद्धयोः', 'शिलीमुखौ बाणभृङ्गो', 'मरणं निधनोऽस्त्रियाम्। ॥ १६ ॥ (१) 'अभिमानोऽहवार आसामस्तीति अभिमानिन्यः तासां भवास्तत्ता तया' इति न्याय्यम् । १९ शि०व० । ..

२१८ सन्देहविषौषधिसर्वकषायुते- [ षष्ठः- -- कुसुमेति ॥ गतभर्तृकाः वियोगिन्यः । 'नवृतश्च' इति कपू। अपराः काश्चिदङ्गानाः कुसुमकार्मुकस्य कामस्य कार्मुके सहितैः दुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमरि प्रति- पेदिरे । मुहुः पुनःपुनः मुमुईमुमूर्छरिति किमु वक्तव्यामित्यर्थः ॥ १६ ॥ रुरुदिषा वदनाम्बुरुहश्रियः सुतनु ! सत्यमलङ्करणाय ते ॥ तदपि सम्प्रति सन्निहिते मधावधिगम धिगमङ्गलमश्रुणः ॥ १७ ॥ त्यजति कष्टमसावचिरादसून्विरहवेदनयेत्यघशङ्किभिः ॥ प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि ! मा गिरः ॥१८॥ न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः ॥ प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ १९ ॥ रुरुदिषेत्यादि ॥ इतीति॥ काचिन्नायिका विरहिणी ऋतैः सत्यवचनैः निर्ववौ निवृति लेभे सुखं प्राप, कैरिव अमृतैरिव । अमृतेन हि महती निवृतिर्लभ्यते। अमृततुल्यैरित्यर्थः । किंभूतैः ऋतैः, इति अमुना प्रकारेण बन्धुतया सखीसमूहेन उदितै पितैः । तमेव प्रकार- माह-हे सुतनु ! कृशाङ्गि ! ते तव रुरुदिषा रोदितुमिच्छा सत्यं निश्चितं वदनाम्बुरुहश्रियः मुखकमललक्ष्याः अलङ्करणाय भूषणाय भवति, परं तदपि तथापि सम्प्रति इदानीं मधौ वसन्ते सन्निहित निकटवर्तिनि सति अश्रुणः बाष्पस्य अधिगममाविर्भावं धिक् निन्द्यम्(?)। किंभूतमधिगमम् अमङ्गलमशुभम् । 'बाष्पं चैवास्रमश्रु' च । त्यजतीति ॥ अपरं हे सखि इति अमुना प्रकारेण गिरो वाचः अवितथाः सत्याः मा वितथाः मा कृथाःमा कार्षीः, किंभू- ता गिरः बान्धवैः स्वजनैः त्वयि विषये निमित्ते वा गदिताः प्रोक्ताः । इतीति किं यत्, कष्टमिति खेद, असौ बाला अचिरात् झटित्येव शीघूमेव विरहवेदनया वियोगव्यथया असून् प्राणान् त्यजति उज्झति । कया उक्ताः प्रियतया वाल्लभ्येन, किंभूतैः बान्धवैः अघशङ्किभिः अमङ्गलभीतैः । अनिष्टशङ्कीनि खलु बन्धुहृदयानि भवन्ति। इति गिरः सत्या मा कार्षीः । न खल्विति ॥ खलु यतः कारणात् असौ त्वद्दयिता हे सखि ! दूर- गतोऽपि दवीयानपि महं वसन्तोत्सवं नातिवर्तते नैव उपेक्षते । अवश्यमेव वसन्तोत्सवं निश्चयेन आगमिष्यतीत्यर्थः । किं कृत्वा निवृति लेभे बहिर्बाह्ये प्रणयिनो वल्लभस्य स्वरं निशम्य आकर्ण्य । त्रिभिविशेषकम् ॥ १५-१९ ॥ अथ कस्याश्चित्प्रोषितभर्तृकाया बन्धुजनसमाश्वासनं विशेषकणाह- रुरुदिषोत ॥ हे सुतनु ! शुभाङ्ग ! 'अम्बार्थनद्योहस्वः' इति ह्रस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहि अन्य- था गुणः स्यात् । रुरुदिषा रोदनेच्छा । अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदना- म्बुरुहश्रियो ग्लदुरणाय सत्यम् । 'रम्याणां विकृतिरपि श्रियं तनोति' इति न्यायादिति भावः । गम्यमान- क्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि सम्प्रति मधी वसन्ते सन्निहिते सन्निहितोत्सवे सति अश्रुणोऽधि- गर्म प्राप्तिममङ्गलं धिक । निन्दतीत्यर्थः । विनिर्भर्त्सननिन्दयोः' इत्यमरः । विगुपर्यादिषु त्रिषु' इति द्वितीया । अतो मा रुद इत्यर्थः ॥ १० ॥ त्यजतीति ॥ प्रियतया इष्टतया अघशष्टिभिरनों प्रेक्षिभिः। 'प्रेम पश्यति भयान्यपदेऽपि' इति भाव :। बान्धवैस्त्वयि विषये गदिता उच्चारिताः कष्ट बत असौ बाला विरहवेदनया अचिरादसून्प्राणांस्त्य- जति त्यक्ष्यति । 'वर्तमान सामीप्ये वर्तमानवद्वा' इति लट् । इत्येवंविधा गिर उक्तीः हे सखि ! विगतं तथा- त्वं यास ताः वितथा अनृताः । वितथं त्वनृतं वचः' इत्यमरः । बहुवी ही विशेष्यलिङ्गता। ब्राह्मणादित्वात् इस्वः । ततो नसमासः। अवितथाः सत्या मा वितथाः मा कृथाः। वृथाऽतिशोकेन मा मृथा इत्यर्थः । ..

सर्गः।] •• . शिशुपालवधे। २१६ विपूर्वात्तनाते कि थाम् 'तनादिभ्यस्तथासोः' इति विभाषा सिचो लुक् । 'अनुदात्तोपदेश-' इत्यादिनाऽनु- नासिकलोपः। 'न माड्योगे' इत्यडागमप्रतिषेधः ॥ १८ ॥ न खल्विति ।। किञ्च असौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुसमूहेन । 'ग्रामजनबन्धुसहायेभ्यस्तल्' इति तत्प्रत्ययः । उदितैरुतः । वदेः कर्मणि कः । ऋतैः सत्यवचनैः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । 'शमु अदर्शने' इति चौरा. दिकाल्ल्यप् मित्त्वातू ह्रस्वः, 'त्यपि लघुपूर्वात्' इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वाते- लिट् । 'निवाणं निवृतिः सुखम्' इति ॥ १९ ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ॥ मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुजगे ॥ २० ॥ मधुरयेति ॥ मधुकराङ्गनया भ्रमर्या मुहुर्वारंवारम् उज्जगे उद्गीतम् । कथं यथा भवति तथा निभृतानि परिपुष्टानि अव्यक्तानि वा अक्षराणि वर्णा यत्र तत् , किंलक्षणया भ्रमर्या मधुरया मधुरस्वरया, पुनः किंभूतया भ्रमर्या मधुबोधितमाधवीमधुसमृद्धिसमेधित- मेधया मधुना वसन्तेन बोधिता विकास नीता याऽसौ माधवी अतिमुक्तलता तस्याः मधु मकरन्दः तस्य समृद्धिराधिक्यं तया समेधिता वर्धिता मंधा प्रज्ञा यस्याः सा तया, पुनः किंभूतया भ्रमर्या उन्मदमुन्मत्तं ध्वनि शब्दं बिभर्ति भृत् तया । अलिनां रुतमाकर्ण्य कामिनो माद्यन्तीति । 'मधु मद्ये पुष्परस क्षौद्रे च सुरभावपि' इति विश्वः । 'वासन्ती माधवी लता' इत्यमरः ॥ २० ॥ मधुरयेति ॥ मधुरया मनोहरया, मधुना बसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुषधर्मः पुष्पितासूपचर्यते । तामा माधवीनामतिमुकलतानाम् । 'अनिमुक्तः पुण्डूकः स्याद्रासन्ती माधवी लता' इत्यमरः । मधुममृया मकरन्दसम्पदा समेधितमेधया संवर्धितप्रतिभया अन एवोन्मदयतीत्युन्मदो मदकरः । पचायच् । तं ध्वनि बिभीन्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुनिभृताक्षरं लक्षणया स्थिरनादं पया तथेत्यर्थः । अथ वा सर्वः शब्दो वर्णात्मक एव व्यञ्ज कविशेषाभावादस्फुट इाते मनमाश्रित्योकं सर्व- पंथीनाः कवय इति । उज्जगे उच्चीतन् । गायतरविर्वाक्षतकर्मकाद्भावे लिट् । 'बन्धवैषम्यराहित्यं समता पदगुम्फने' इति लक्षणासमताख्यो गुणः ॥ २० ॥ अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः ॥ विचककिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यभुजः (१) श्रियम् ॥ २१ ॥ अरुणितेति ॥ विककिंशुकसंहतिः विकसितपलाशपुष्पपङ्किः दवहव्यभुजः दवाग्नेः श्रियं शोभामुदवहत् बभार । किंभूता संहतिः उच्चकैः उन्नता, पुनः किंलक्षणा संहतिः अरुणिताखिलशैलवना अरुणितानि आरक्तीकृतानि अखिलानि समग्राणि शैलवनानि यया सा आरक्तीकृताशेषगिरिकानना, किं कुर्वती मुहुर्वारंवारं पथिकान् पान्थान् परितापिनः खेदयुक्तान् विदधती । प्रफुल्लान् किंशुकान् दृष्ट्वा विरहिणः परितप्यन्ते इति भावः । 'दवदावौ वनारण्यवह्नी' इत्यमरः ॥ २१ ॥ अरुणितति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पार्थकानध्वगान् विर- हिणश्च परितापिनः सन्तापवतो विदधती, उचैरेवोच्चकैरुन्नता । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच् प्रत्ययः । विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहात्रिय दवानिशोभामुदव- इत् । निदर्शनालङ्कारः । इति वसन्तवर्णनम् ॥ २१ ॥ (१)हव्यवह।

२२० सन्देहविषौषधिसर्वकषायुते- - [षष्ठः- । अथ ग्रीष्मवनमाह- रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ॥ उपययौ विदधनवमल्लिकाः शुधिरसौ चिरसौरभसम्पदः ॥ २२ ॥ रवितुरङ्गेति ॥ असौ शुचिः ग्रीष्मः आषाढमासो वा उपययौ सम्प्राप्तः समाग- मत् । आविरभूदित्यर्थः । किं कुर्वन् नवमल्लिकाः नूतनजातीकुसुमानि विदधत् उत्पादयन् , किंभूता नवमल्लिकाः चिरं चिरकालं सौरभसम्पत् सुगन्धसमृद्धिर्यासां ताः ताः सौरभा- तिशययुक्ताः। कोऽसावित्याह-यत्र यस्मिन् आषाढे शुचौ शिरीषरजोरुचः शिरीषाख्यतरु- पुष्परेणुभासः रवितुरङ्गन्तनूरतुल्यतां दधति श्रीसूर्याश्वरोमसाम्यं बिभ्रति । शिरीषपुष्पाणि यत्रातिनीलपीतवर्णानि भवन्तीत्यर्थः । 'तनूरहं लोम रोम' ॥ २२ ॥ अथ ग्रीष्मवर्णनमारभते- रवितुरङ्गति ॥ यत्र शुचौ शिरीषरजसा रुचः कान्तयो रवितुरङ्गतनूरुहतुल्यता सूर्याश्वरोमसावर्थ दधति । हरिद्वर्णा भवन्तीत्यर्थः । असो शुचिःमः । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोस्तथा । ग्रीष्मे हुतवहेऽपि स्यात्-' इति विश्वः । नवमलिकाः। 'पुष्पे जातीप्रभृतयः स्वलिङ्गाः' इत्यमरः । 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणाल्लुप् । लुपि युक्तवव्यक्तिवचने भवतः। चिरं चिरावस्थायिनी सौरभसम्पद् यासा ताः । स्थिर- गन्धा इत्यर्थः । विदधत्कुर्वन्नुपययौ प्राप्तः ॥ २२॥ दलितकोमलपाटलकुड्नले निजवधूश्वसितानुविधायिनि ॥ मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ २३ ॥ दलितेति ॥ मरुति वायौ वाति वहति सति विलासिभिः शृङ्गारिभिः पुरुषैः मद- लौल्यमुपाददे कन्दर्पाकुलितत्वं गृहीतम् । लोकस्तदा ममादेत्यर्थः । किंभूते मरुति दलित- कोमलपाटलकुड्मले विकासितपाटलकोमलकलिके, अपरं किंभूते मरुति निजवधूश्वसिता- ऽनुविधायिनि निजा विलासिन्यः आत्मीयवध्वः स्वयुवतयः तासां श्वसितं मुखो- च्छ्वासः तत् अनुविदधाति अनुकरोतीति तस्मिन्, अत एव पुनः किंभूते मरुति उन्मदा मत्ताः भ्रमन्तः इतस्ततो गच्छन्तः अलयः भ्रमरा यस्मिन् सः तस्मिन् उन्मदभ्रमदलौ । 'कुड्मलो मुकुलोऽस्त्रिया मित्यमरः ॥ २३ ॥ दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुप्प्रकरणे 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणादलुप् । ते च ते कुजलाश्च दलिता विभिन्नाः कोमलाः पाटलकुजला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनु- विधत्तेऽनुकरोतीति तथोके, तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चाऽलयो यस्मिंस्तस्मिन् उन्मदभ्रमदलौ मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः। विलासिभिर्विलसनशीलैः कामिभिः । 'वी कपलस- कत्यस्तम्भः' इति घिनुष्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे। मत्नैर्जातमित्यर्थः ॥ २३ ॥ निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ॥ सरसचन्दनरेणुरनुक्षणं विचकर च करेण वरोरुभिः ॥ २४ ॥ निदधिरे इति ॥ वराः प्रधानाः अनवद्याः गौरपीवराः ऊरवो जघनानि यासां ताः वरोरवः ताभिः वरोरुभिः श्रेष्टजघनाभिः स्त्रीभिः दयितोरसि कान्तवक्षसि स्तना विदधिरे कुचा न्यस्ताः । दाहशान्तये इति भावः । किंभूताः स्तनाः तत्क्षणस्नपनवारितुषारभृतः तत्क्षणमेव स्नपनमभिषेकः तेन यत् वारि जलं तेन तुषारभृतः शैत्यधारिणः । न केवल सर्गः।] शिशुपालंबधे । २२१ - स्तना विदधिरे, च पुनः वरोरुभिः करेण हस्तेन कृत्वा अनुक्षणं वारंवार सरसचन्दनरेणुः अभिनवमलयजपरागः विचको विकीर्णः विक्षिप्तः ॥ २४ ॥ निदधिरे इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यःसेकेन वारितुषारभृतः । जल शीकरधारिण- इत्यर्थः । 'तुषारौ हिमशीकरैः' इति शाश्वतः । स्तना दयितोरसि निदधिरे निहिताः। तेषा सन्तापशान्तये स्नानाङ्गा एव मालेगनित्यर्थः । किञ्च करण पाणिना सरस आईश्चन्दनरेणुः घृष्टचन्दनपश्च अनुक्षणं विचकरे विकीर्णः । किरतेः कर्मणि लिट् । 'ऋच्छत्यताम्' इति गुणः । करेणुकरारुभिरिति पाठस्तु 'अरू- नरपदादौपम्ये' इत्यूप्रसङ्गाद्धयः । इति ग्रीष्मवर्णनम् ॥ २४ ॥ अथ वर्षावर्णनमाह- स्फुरदधीरतडिन्नयना मुहुः प्रियमिवाऽगलितोरुपयोधला ॥ जलधरावलिरप्रतिपालितस्वसमया समयाजगतीधरम् ॥ २५ ॥ स्फुरदधीरेति ॥ जलधरावलिः मेघमाला जगतीधरं समयात् रैवतकाचलमभिययौ। प्रावृट् प्रवृत्तेत्यर्थः । किंभूता जलधरावलिः मुहुर्वारंवारं स्फुरन्त्यः उल्लसन्त्यः अत एवं अधीराश्चपलाश्च या तडितो विद्युतश्च ता एव नयनानि यस्याः सा, अथ वा स्फुरन्ति उल्लसन्ति शोभमानानि अधीराणि चपलानि तडित एव नयनानि च षि यस्याः सा, पुनः किंभूता पङ्किः अगलिता अभृष्टा उरवः महान्तः पयोधरा मेघा यस्याः सा, किलक्षगा अप्रतिपालितस्वसमया अप्रतिपालितः नप्रतीक्षितः स्वसमयः निजकाल: यया सा अप्र- तीक्षितनिजकाला, कमिव प्रियमिव । यथा काचिन्नायिका वल्लभं प्राणेशमभिसरति । किभूता नायिका स्फुरती अधीरे तडिदिव नयने यस्याः सा, पुनः किंभूता नायिका अग- लितौ नपतितौ सुबद्धौ उरू पीवरी पयोधरौ स्तनो यस्याः सा । उन्नतकुचेत्यर्थः । पुनः 'किंभूता नायिका अप्रतिपालितस्वसमया अप्रतीक्षितनिजवारा । 'स्त्रीस्तनाब्दौ पयोधरौ', 'समयाः शपथाचारकालसिंद्वान्तसंविदः' इत्यमरः ॥ २५ ॥ अथ वर्षावतारमाह- म्फुरदधारेति ॥ स्फुरन्ती अधीरे चञ्चले तडिता नयने हव तडित्रयने यस्याः सा अगलिता अरिका उरु पयोधरा मेंघा यस्याम् , अन्यत्र उरू च पयोधरौ च उरुपयोधरम् । प्राण्यङ्गत्वाद् द्वन्कवद्भावः। न गलितं न पतितं यस्यां सा जलधरावलिमेंघपङ्किः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात पृथनिर्देशः । अप्रतिपालितस्वसमया अनपेक्षितनिजवेला सती । एकत्र योगपद्यादन्यत्राऽधैर्याच्चेति भावः । जगतीधरं रैवतकं भूधरं नियमिव समयात्समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचायज- तेन धरशब्देन षष्ठीसमासः । अत्र विशेषणमहिम्ना जलधरावली नायिकात्वप्रतीतेः समासोक्तिः, सातु प्रियमिवेत्युपमयान सङ्कीर्यते ॥ २५ ॥ गजकदम्बकमेचकमुश्चकैनभसि वीक्ष्य नवाम्बुदमम्बरे ॥ अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ २६ ॥ गजेति ॥ अङ्गाना स्त्री के वल्लभं न अभिययौ के भर्तारं प्रति न ययौ, अपरं च पुनः रहः एकान्ते के न चकमे के न अभिललाप । अपि तु सर्वैव अङ्गना सर्वमेव 'प्रियतमं जगाम, अपरं सर्वमेव चकमे इत्यर्थः । किंभूतं वल्लभम् एक एव रसो भूषण- लक्षणो यस्य सः तं शृङ्गारप्रधानं, किं कृत्वा वल्लभं प्रति ययौ नभसि श्रावणे मासि सति अम्बरे आकाशे नवाम्बुदं नूतनमेघपटलं वीक्ष्य विलोक्य । अम्बुदानां समूहः आम्बुर्द .

२३२ सन्देहविषौषधिसर्वरूपायुते- [पष्ठः- नवं च तत् आम्बुदं च नवाम्बुदम् । किंभूतम् आम्बुदं गजकदम्बकवत् द्विरदवृन्दवत् मेवर्क कृष्णं, पुनः किंभूतं नवाम्बुदम् उचकैः उन्नतम् । चशब्दः क्रियान्तरसमुपयार्थः । 'निकु. रम्बं कदम्बकम्', 'नमः खं श्रावणो नभाः,' 'अम्बरं व्योम्नि वाससि' सर्वत्राप्यमरः॥२६॥ गजेति ॥ नभसि श्रावणमासे । 'नभाः श्रावणिकश्च सः इत्यमरः । अम्बरे व्योम्नि गजकदम्बकमिव मेचकं श्यामलम् । 'कालश्यामलमेचकाः' इत्यमरः । उचरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गाना एक एका- यनो रसो रागो यस्य तमेकरसम् । तिरस्कृतरसान्तरमित्यर्थः । के वल्लभं प्रियं रह एकान्ते न चकमे न कामयते स्म, तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गना चकमे अभिमसार चेति । नवा- म्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्त्वन्यायेन यमक- वशायातपाठक्रमबोधेन योजना न्याय्यैव ।। २६ ।। अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ॥ धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ २७ ॥ अनुययाविति ॥ पयोमुचः मेघस्य शबलिमा श्यामत्वं श्यामिका बलिमानमुषः श्रीकृष्णस्य वपुः अनुययौ बलिदैत्यदर्पहरस्य हरेदेंहमनुचकार । बलेरसुरस्य मानं दर्प मुष्णाति हरतीति बलिमानमुट् तस्य । किंभूतस्य पयोमुचः धृतधनुर्वलयस्य ऊठेन्द्रायुध- स्य, किंभूतं हरेर्वपुः विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं विविधोपले नानामणियुक्त ये कुण्डले कर्णभूषणे तयोर्बुतिवितानकं दीप्तिपुञ्जः तेन संवलिते मिश्रिते अंशुके वाससी यस्य तत् तथा । मेघस्य कृष्णवपुरुपमानम् । शबलस्य भावः शबलिमा ॥ २७ ॥ अनुययाविति ॥ धृतधनुर्बलयस्य धृतेन्द्रचापमण्डलस्य पयोमुचो मेघस्य सम्बन्धी शबलस्य भावः शबालमा विचित्रता । 'पृथ्वादिभ्य इमनिज्वा' । विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयो- ईतिवितानकेन कान्तिपुञ्जन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोकम् । 'शेषाद्रि- भाषा' इति कप्प्रत्ययः । बलिमानमुषो बन्यमुराऽहङ्कारापहारकस्य हरेर्वपुरनुययावनुचकार । तद्वद्वभा- वित्यर्थः । उपमालङ्कारः ॥ २७ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ॥ नवतमालनिभस्य नभस्तरोरचिरचिररोचत वारिदैः ॥ २८ ॥ द्रुतेति ॥ नभस्तरोः आकाशवृक्षस्य भचिररोचिः विद्युत् अरोचत शुशुभे, किंभूतस्य नभस्तरोः नवतमालनिभस्य नूतनतमालवृक्षसदृशस्य, नवश्चासौ तमालश्च तेन तुल्यः निभः तस्य । 'निभसङ्काशनीकाशप्रतीकाशोपमादयः' इत्यमरः । किंभूता अचिररोचिः क्षणलक्षितव्यवहिता क्षणं क्षणमात्र लक्षिता दृष्टा पश्चाद्वयवहिता आच्छादिता अदृश्या च क्षणलक्षितव्यवहिता, कैः वारिदैः मेधैः, कैरिव विटपैरिख, अचिररोचिः केव मञ्जरीव। यथा तमालतरोः तमालवृक्षस्य विटपैः शाखाप्रतानैः क्षणलक्षितव्यवहिता मञ्जरी शोभते । किंभूतः वारिदैः विटपैश्च द्रतसमीरणेन शीघ्रपवनेन चलाश्चपलास्तैः । आकाशस्य तमाल- तरुपमान, विद्युतो मञ्जरी ॥ २८ ॥ द्रुतेति ॥ दुतसमी रेण शीघ्रमारुतेन चलैर्वारि दैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षित- व्यवहिता । अणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् । 'पूर्वकालक-' इत्यादिना समासः । अचिरं रोचिर्यस्या: सा अचिररोचिविद्युत् दुतसमीरचटिपैः शाखाभिः क्षणलक्षितव्यवीहता नवतमालनिभस्य नवतमालेन सदृशस्य । तन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवा रोचत । उपमालङ्कारः । अत्र नभस्तरोनभःश्रेष्ठस्येति व्याख्याने तरुशम्दस्य व्याघ्रादिवच्छ्ठार्थगोचरत्वा- वर्ग:।] शिशुपालवधे। २२३ नमालशब्देन विशेषवाचिना तत्रीलसामान्येन पौनरुक्त्यमिति (१)वल्लभः। तमालशम्दस्येन्द्रनीलवल्य- माधोपमानत्वानरुशब्दस्य स्वार्थवृतित्वेऽपि न पौनरुक्त्यमित्यन्ये ॥ २८ ॥ पटलमम्बुमुवां पथिकाङ्गना सपदि जीवितसंशयमेष्यती॥ सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ २९ ॥ फलमिति ॥ काचित्पथिकाङ्गना पान्थवधूः अम्बुमुचां मेघानां पटलं वृन्दमैक्षत अद्राक्षीत् । कथं यथा भवति तथा अबन्धुरं दीनं यथा भवति तथा, सा कि कुर्वती सपदि मेघदर्शनादेव जीवितसंशयमेष्यती प्राणसन्देहं यास्यती सती, किंभूता पथिकाङ्गना विधुरा दुःखिता बन्धवः स्वजना यस्याः सा, कस्मात् सनयनाम्बुसखीजनसम्भ्रमात् साश्रुवयस्या- लोकनत्रासात् । रुदन् सखीजनः यदा त्रस्यति तदा बान्धवा अपि दुःखिता इत्यर्थः ॥२९॥ पटलामति ॥ पथिकाङ्गना काचित्प्रोषितभर्तृका अत एव सपदि जीवितसंशयं मरणमेष्यनी । निमितमरणेत्यर्थः । 'आच्छीनद्यार्नुम्-' इति विकल्पान्नुमभाव: । अत एव सनयनाम्बोः सबाष्पस्य सखीजनस्य सम्भ्रमात्क्षोभाद्विधुरबन्धुः सम्भ्रमदर्शनाद्विह्वलबन्धुजना सती अम्बुमुचा पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेलङ् 'आटश्च' इति वृद्धिः । विरहवेदनाऽश्चमाया नायिकाया मरण- साधनमेघपटलावेक्षणवर्णनायां तदुयोगलक्षणा मरणावस्थाका । सा हि द्विविधा तदुयोगस्तयोगश्चेत्याहुः । 'दृङ्मनःसङ्गसङ्कल्पा जागरः कृशताऽरतिः । हीत्यागोन्मादपूर्छाऽन्ता इत्यनङ्गदशा दश' ॥ इत्यवस्थासङ्ग्रहः ॥ २९॥ प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः ॥ नमयति स्म वनानि मनस्विनीजनमनोनमनो घनमारुतः ॥ ३० ॥ प्रवसत इति ॥ वनमारुतो मेघवायुः प्रवसतः प्रवासीभूतान् पुरुषान् सुतरामति- शयेन उदकम्पयत् विह्वलीचकार, तथा तेन प्रकारेण घनमारुतः वनानि काननानि नमयति स्म नमीचकार । किंभूतः घनमारुतः विदलकन्दलकम्पनलालितः विदलाः प्रफुल्ला ये कन्दला लताभेदाः तपां कम्पनेन लालितः चापलेन कृताभ्यासः कृतश्रमः वल्लीनामान्दो- लनेन श्रान्तः, एतेन सौरभ्यमुक्तम् । अत एव किंभूतो मेघवायुः मनस्विनीजनमनो- नमनः मानिनीलोकमनोहारकः, मनस्विनीजनानां मानिनीलोकानां मनांसि चेतांसि नमयति वशीकरोति स तथा नमनः । कन्दलानिव पान्थान्नमयन् सन् वनानीव मन- स्विनां मनांस्यनमयदिति वाक्यार्थः ॥ ३० ॥ प्रवसत इति ॥ कन्दली भूकन्दली । 'द्रोणपणी स्निग्धकन्दा कन्दली भूमिकन्दली' इति शब्दा- पर्वः । तस्याः पुष्पाणि कन्दलानि । 'फले लुक्' इत्यणो लुक् । विदलानां विकचानां कन्दलाना कम्प. ननावधूननेन लालित उपस्कृतो मनस्विनीजनस्य मनसा नमनो नमयिता । मानिनीमानभञ्जन इत्यर्थः। कर्तरि ल्युट् । घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान् सुतरामुदकम्पयदुद्वेजितवान् । मनस्विनीमानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः ॥ ३०॥ जलदपङ्किरनर्तयदुन्मदै कलविलापि कलापिकदम्बकम् ॥ कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसम्पदा ॥ ३१ ॥ जलदपङ्किरिति ॥ जलदपङ्क्तिमेघमाला कलापिकदम्बक मयूरवृन्दमनर्तयत् नर्तया- (१) अस्याशेपवचनस्य वामभव्याख्यानेऽनुपलम्भात् किन्तात्पर्यिकेयमुक्तिरिति न जानीमः । कदाचिन्मलिनाथोपलब्धे वल्लभव्याख्यापुस्तके तादृशं किमपि वाक्यमुपलब्धं स्यात् ।

.. २२४ सन्देहविषापधिसर्वकषायुते- [ षष्ठः- मास । कया निजया स्वनसम्पदा आत्मीयया गर्जनसमृदया, कितना स्वानसनमा कृतसमार्जनमईलमण्डलध्वनिजया कृतसमार्जनस्य दत्तभोजनपिण्डस्य मईलमण्डलस्य ध्वनि शब्द जयतीति सा ध्वनिजा (१)तया । अन्योऽपि मत्तो मईले वाचमाने सति अवश्यमेव नृत्यति । अथ वा कृतसमार्जनेत्यादि ध्वनिजयापर्यन्तं जलदपक्तविशेषणं प्रथमैकवचना- न्तम् । किंभूतं कलापिकदम्बकं कलविलापि मधुरस्वर, पुनः किं भूतम् उन्मत्तं मतम् । मत्तेन मर्दलध्वनि श्रुत्वा नृत्यते इति । 'अन्नपिण्डे समार्जन मिति वैजयन्ती ॥ ३१ ॥ जलदपक्तिरिति । निजया आत्मीयया स्वनसम्पदा कृतः समार्जनस्य मार्जनापसंकारसहिनस्य मर्दलमण्डलस्य ध्वनेजयो यया सा तथोक्ता। मार्जनं नाम मर्दलाना बननार्थ भस्ममृदिताऽम्भःपुष्कर- लेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कलविलापि मधुरालापि कला पिकदम्बकं मयूरवृन्दमननयत् ॥३१॥ नवकदम्बरजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलोन्ध्रसुगन्धिभिः ॥ मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥ नवेति ॥ वनवायुभिः काननवातैः रागवतां कामिनां पुरुषाणां मनसि चेतसि नवनवा अपूर्वव अनुरागिता स्नेहवत्वमादधे उपपादिता । क कथं वा अधिपुरन्ध्रि पुरन्ध्रीषु नायिकासु विषये, किंभूतैः वनवायुभिः शिलीन्ध्रसुगन्धिभिः वृक्षविशेषपरि- मलाढ्यैः, शिलीन्त्रैः सुगन्धयस्तैः, अपरं किंभूतैः वनवायुभिः नवकइम्बरजोऽरुणिताम्बरैः नूतनकदम्बपरागरक्तीकृतगगनैः, नवकदम्बानां नूतननोपकुसुमानां रजोभिः परागैः अरुणितं रक्तीकृतमम्बरमाकाशं यैस्ते तैः ॥ ३२ ॥ नवति ॥ नवकदम्बरजाभिररुणितमरुणीकृतमम्बरमाकाशं यस्तैः शिलान्ध्राणां कन्दलीकुसुमानां यः सुगन्धः स एषामस्तीति शिलीन्ध्रसुगन्धिनस्तैः। गन्धस्यत्त्वे तदेकान्तग्रहणादित्प्रत्ययाश्रयणम् । 'कदल्या च शिलीन्धः स्यात् इति शब्दार्णवे । वनवायुभिः पुरन्ध्रीषु श्रीषु विषये अधिपुरन्धि । विभक्त्यर्थेऽव्ययी- भावः । रागवतां कामिना मनसि नवनवा नवप्रकारा । 'प्रकारे गुणवचनस्य' इति द्विर्भावः । कर्मधारय- बद्भावान्सुपो लुक् । अनुरागिता आदधे । अनुराग उत्पादित इत्यर्थः ॥ ३२ ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् ॥ प्रविरलैरचलाङ्गणमङ्गनाजनसुगं न सुगन्धि न चक्रिरे॥ ३३ ॥ शमिततापमिति ॥ अम्बुमुचो मेघा अचलाङ्गणं पर्वताजिरमङ्गनाजनसुगं प्रमदा- जनसुगं प्रमदाजनसुगम्यं न चक्रिरे इति न, अपि तु चक्रिरे एव । कैः अम्भसा पानोयाना प्रथमबिन्दुभिः नूतनकणैः, किंभूतैः नातिसंमिलितैः, किंभूतम् अचलाङ्गणं शमिततापमपा- स्तधर्म प्रवृत्तत्वात् बिन्दुभिरेव, पुनः किंभूतमचलाङ्गणम् अपोढं निराकृतं महीरजः भूमिधूलियत्र तत्तथा निराकृतपृथ्वीधूलि, पुनः किंभूतमचलाङ्गणं सुगन्धि सुपरिमलम् । अत एव अङ्गनाजनसुगम् ॥ ३३ ॥ शमिततापमिति ॥ अम्बुमुचो मेघाः प्रविरलैरम्भसा प्रथमबिन्दुभिः शमिततापमपोढमहारजो निर. म्तधूलिकम् । न तु पङ्किनमिति भावः । सुगन्धि सन्ततसेकादुद्भूतसौरभम् । इह तदेकान्तत्वगन्धस्ये. त्वम् । अचलाङ्गणं रैवतकाङ्गणम् । 'अङ्गण चत्वराजिरे' इत्यमरः। अङ्गनाजनस्य सुनेन गच्छत्यस्मि- त्रिति सुगम् । सुखप्तश्चारमित्यर्थः । 'सुदुरोरधिकरणे' इति गर्डप्रत्यये टिलोपः । न न चाकरे । चक्रिरे इत्यर्थः । दी नौ प्रकृतमर्थ गमयतः ॥ ३३ ॥ (1) अत्र 'अन्येष्वपि दृश्यते' इति सूत्रे अपिशब्देन धात्वन्तरस्यापि ग्रहणात् जिधातोर्डप्रत्यये डित्वाहिलोपे मीत्वविवक्षायां टापि च 'ध्वनिजा' इति रूपसिद्धिाख्यातुरभिमता स्यात् ।

सर्गः।] शिशुपालवधे। २२५ .. द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् ॥ घनघनौघविघट्टनया दिवः कृशशिखं शशिखण्ड मिव च्युतम् ॥ ३४ ॥ द्विरदेति ॥ केतकं केतकीकुसुममलक्ष्यत ददृशे । अर्थवशाल्लोकैरिति भावः । किंभूतं केतकं द्विरददन्तवलक्षं मतङ्गजदशनधवलं, पुनः किंभूतं केतकं कृशशिखं तनुप्रान्तं, पुनः किंभूतं केतकं स्फुरितभृङ्गमृगच्छवि स्फुरितभृङ्ग एव मृगच्छवियत्र तत्भ्रमभ्रमर एव हरिणकान्तियंत्र तत् । अतश्चोत्प्रेक्ष्यते-दिवः स्वर्गात् च्युतं पतितं शशिखण्डमिव चन्द्रशकलमिव । पतने कारणमाह-कया च्युतं घनघनौघविघटनया घना निबिडाश्च घनौघाः मेघसमूहाः तैविघटना आस्फालना तयासंहताभ्रवलयसङ्घर्षणेन। कृशो हि जनवृन्दप्रेरणया अवश्य पतति। केतकस्य शशिखण्डमुपमान, भृङ्गस्य मृग उपमानम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः ॥ ३४ ॥ द्विरदेति ॥ द्विरददन्तवलक्षं गजदन्तधवलम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । भृङ्गने मृग इव भृङ्ग- मृगः तस्य छविः सा स्फुरिता यस्मिस्तत्तथोक्तं केतक्याः पुष्पं केतकम् । 'पुष्पमूलेषु बहुलम्' इत्यणो लुपि नादिवृद्धिः । 'लुक् तद्धितलुकि' इति स्त्रीप्रत्ययस्यापि लुक् । घनघनौघविघटनया निबिडमेघसको पघातेन दिवोऽन्तरिक्षाच्च्युतं कृशशिखं सूक्ष्माग्रं शशिखण्डमिवालक्ष्यतेत्युत्प्रेक्षा ॥ ३४ ॥ दलितमौक्तिकचूर्णविपाण्डवःस्फुटित(१)निर्झरशीकरचारवः ॥ कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ३५ ॥ दलितेति ॥ कुटजपुष्पपरागकणाः कुटजस्य पुष्पाणि प्रसूनानि तेषां परागाः किजल्काः तेषां कणाः लेशाः कुटजकुसुमकिअल्कलेशाः दधिरेणुविडम्बना दधिरे दधिकणानुकरणं चक्रुः दघ्नः द्रप्सस्य रेणवः कणाः तेषां विडम्बना अनुकारः तां धारयामासुः । 'कुटजः कौटजः काही वत्सको गिरिमल्लिका' इति निघण्टुः । 'परागः कौमुमे रेणौ स्नानीयादौ रजस्यपि इत्यपि। 'द्रप्स दधि घनेतरत', 'लवलेशकणाऽणवः' इत्यमरःस्फुट प्रकट यथा भवति तथा, किंभूताः परागकणाःदलितमौक्तिकचूर्णविपाण्डवः दलितानि पिष्टानि च तानि मौक्तिकानि मुक्ताफलानि तेषां चूर्ण क्षोदः तद्वद्विपाण्डवः श्वेताः ते पिष्टमुक्ताफलक्षाद- धवलाः, पुनः किंभूता: कणाः स्फुटितनिर्झरशीकरचारवः स्फुटिता विदीर्णाश्च ते निर्झरशी- कराः प्रपातजलकणाश्च तद्वत् चारवः मनोहराः विदीर्णप्रपातजलकणरमणीयाः । 'चूर्णे क्षोदः समुत्पिापिअलौ' 'हरिणः पाण्डुरः पाण्डुः', 'प्रवाहो निझरो झरः', 'शीकरोऽम्बुकणाः स्मृताः', 'चारु मनोशं मन्जु मजुलं', 'प्रपातस्त्वतः' सर्वत्राप्यमरः ॥ ३९ ॥ दलितेति ॥ दलितमौक्तिकानां निष्पिष्टमुक्ताफलाना चूर्ण इव विपाण्डवोऽतिशुभ्राः स्फुरिता ये निझ- राणां शीकराः कणास्त इव चारवः कुटजपुष्पपरागकणाः स्फुटं दधिरेणुविडम्बना दधिचूर्णानुकारं विद- धिरे चक्रिरे । तद्वभुरित्यर्थः । पूर्वोपमानद्वयानुप्राणितेयमुपमेति सङ्करः ।। ३५ ॥ नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिमिः॥ प्रचलितोडुनिभैः परिपाण्डिमा शुभरजोभरजोऽलिभिराददे ॥ ३६ ॥ नवेति ॥ अलिभिः भ्रमरैः परिपाण्डिमा आददे गृहीतः सितत्वं धृतम् । परिपाण्डूनां भावः परिपाण्डिमा । परिपाण्डिमन्शब्दः पुंलिङ्गवाची । कृष्णानां हि सितिमा कुत आगतः इत्याह-किंभूतः परिपाण्डिमा शुभः शुक्लो योऽसो रजोभरः रेणुनिकरः तस्माजातः शुक्लरेणुसमूहजन्मा, किंलक्षणैरलिभिः नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिभिः (१)स्फुरित । . . ..

- - । २२६ सन्देहविषौषधिसर्वकषायुते [षष्ठः- नवाः प्रत्यग्रा ये पयःकणाः तोयबिन्दवः तद्वत् कोमला मृदुला या मालतीकुछम सन्ततिः जातीपुष्पसमूहः तत्र सन्ततं निरन्तरं सङ्गः परिचयः येषां ते तथा सङ्गिनस्तैः सङ्गिमिः, अत एव अपरं किलक्षणैरलिभिः प्रचलितानि सञ्चरमाणानि यानि उडूनि नक्ष- त्राणि तैस्तुल्या निभास्तैः प्रचलनक्षत्रसदृशैः स्फुरत्तारकातुल्यैः । 'प्रत्यग्रो नूतनो नवः', 'पयः क्षीरं पयोऽम्बु च', 'लवलेशकणाऽणवः', 'कोमलं मृदुलं मृदु', 'मालती यूथिका जातिः', 'प्रसूनं कुसुमं सुमं', 'संहतिः सन्ततिः समे', 'ज्योतिस्तारा तथोड च', 'पांसर्ना न द्वयो रजः', 'पट्पदभ्रमराऽलयः' सर्वत्राप्यमरः॥ ३६ ॥ नवेति ॥ नवपयःकणवन्नवोदकबिन्दुवत्कोमलानां मालतीकुसुमाना जातीपुष्पाणां सन्ततिषु सन्त त- सङ्गिभिनिरन्तरासक्तैः । 'सुमना मालती जातिः' इत्यमरः । अत एव प्रचलितोडानभैः । परागभूषणात सञ्चरनक्षत्रकल्पारवत्युत्प्रेक्षा । अलिभिः शुभादजोभरात्परागपुञ्जाज्जातः शुभरजोभरजः परिपाण्डिमा धवलिमा आददे स्वीकृतः ॥ ३६ ॥ निजरजः पटवासमिवाऽकिरतपटोपमवारिमुचां दिशाम् ॥ प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ।। ३७ ।। निजेति ॥ नवनीपवनावलिः सासनीपकुसुमकाननराजिः निजरजः अकिरत् स्वरेणुं चिक्षेप । किंभूता नवनीपवनावलिः प्रियवियुक्तवधूजनचेतसाम् अनवनी कान्तविरहित- प्रमदाजनमनसाम् अनवनी अपालनी अरक्षका अप्रीतिकारिणी, उद्वेगोत्पादकत्वात् । उत्प्रेक्षत-पटवासमिव अक्षिपत् पिष्टातमिव चिक्षेप। कासां दिशां कुकुभां, किंभूतानां दिशां शताः कलिताः पटोपमाः पटतुल्याः वारिमुचो मेघा याभिस्ताः तासाम् । यथा का- चिन्नायिका सखीनां पटवासं क्षिपति । अवति प्रीणयति अवनी, ततो नसमासः । पिष्टातः पटवासकः', 'पांसुर्ना न द्वयो रजः', 'स्वके नित्ये निजं त्रिपु', 'नीपो धुलिकदम्बोऽन्यः सुवासा वृत्तपुष्पकः' इत्यमरः॥३७॥ निजति ॥ प्रियवियुक्तवधूजनचेतसाम । कर्माण षष्टी। अनवनी अरक्षणी। किन्तु हन्त्रीत्यर्थः । अवतेः कर्तरि ल्युटि ङोप् । नवनीपवनाबाल: नवकदम्बकाननपङ्क्तिः । धृताः पटोपमाः पटकल्पा बारि- मुचो मेघा याभिस्ताः। मेघपटावृता इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानामवेत्यु- प्रेक्षा । अकिरदक्षिपत् । सखीवादति भावः ॥ ३७॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराऽऽरवभोरवः ॥ प्रणयिनः परिन्धुमनन्तरं (१) ववलिरे वलिरेचितमध्यमाः ॥ ३८ ॥ प्रणयति ॥ वलिरेचितमध्यमाः स्त्रियः प्रणयिनो वल्लभान् परिरब्धं ववलिरे आलि- गिन्तुं वलिताः । वलिभिः रेचितमाश्लेषवशात् रहितं मध्यमुदरं यासां ताः । तथा किलक्ष- णास्ताः स्त्रियः प्रणयकोपभूतोऽपि प्रणये प्रणयाय प्रीतये वा कोपस्तं बिभ्रतीति तथोक्ताः प्रीति कलहं धारयन्त्योऽपि, पुनः किंभूताः पराङ्मुखा असंमुखाः, अप्रीतत्वात् । तर्हि कथं वलिता इत्याह-अपरं किंलक्षणाः सपदि वारिधरारवभीरवः सपदि तत्क्षणमेव वारिधरा- रवात् मेघगर्जितात् भीरवः अस्ताः, अनन्तरं वलिताः अनन्तरं दृढं यथा भवति तथा, परिरब्धुमिति वा वलिताः । प्रणयकोपशब्देन प्रीतिकलहः । 'अधीरे कातरत्रस्तभीरुभीरुक- भीलुकाः', 'करोपहारयोः पुंसि बलि: प्राण्यङ्गजे स्त्रियाम्' इत्यमरः ॥ ३८ ॥ (१) मथाइना।

सर्गः।] शिशुपालवधे। २२७ .. प्रणयेति ॥ प्रणयकोपभृतः अत एव पराङ्मुखा विमुखा अपि ! 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' इति विकल्पादाकारः। सपदि वारिधरारवेभ्यो गर्जितेभ्यो भीरवो भीताः। मिय इति शेषः । अथ अनन्तरं गर्जिताकर्णनानन्तरमेव प्रणयिनः प्रियापरिरन्धुमालिङ्गितुं वलिरोचितान्यालिङ्गनार्थमङ्गप्रसारणात् त्रिवाल- रिकीकृतानि मध्यमान्यवलग्नानि यासा ताः सत्यो ववलिरे प्रवृत्ताः। चलतेर्वकारादित्वात् 'न शसददवादि- गुणानाम्' इत्येत्वाभ्यासलोपप्रतिषेधः ॥ १८ ॥ वर्षासु वातवशात् किसलयानि चलन्ति, अलयो गुञ्जन्ति इति स्वभावः । तत्र कविरूहते- विगतरागगुणोऽपि नरो न कश्चलति वाति पयोदनभस्वति ॥ अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ३९ ॥ विगतेति ॥ नवपल्लवैननृते नूतनकिसलयैः नृत्तम् । उत्प्रेक्षते-अलिभिर्भमरै रेवममुना प्रकारेण उच्चैः तारस्वरेण यथा स्यात्तथा अननृते सत्येऽभिहिते इव उक्ते इव । किमभिहि- तमित्याह-यत्, पयोदनभस्वति मेघमारुते वाति सति वहति सति कः विगतरागगुणोऽपि नरः परित्यक्तरागद्वेषोऽपि पुरुषः अत्र न चलति धैर्यान्न भ्रश्यति इति न । किन्तु मुनयोऽपि वर्षासु क्षुभ्यन्तीत्यर्थः । अतश्च यदा नीरागोऽपि चलति तदा सरागाणि रक्तानि कथं न चल- न्तीति भावः । रागो व्यसने लौहित्ये । 'पल्लवोऽस्त्री किसलयम्' । न अनृतम् अननृतम् तस्मिन् । यदा नीरागा मुनयश्चलन्ति, तदा नवपल्लवैः चल्यते तत्र किं वक्तव्यमित्यर्थः ३९ विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरकोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुञ्चैस्तरामनतमसत्यं न भव- तान्यनृतं तस्मिन्नन नृते सत्यवचनेऽभिहिते सति नवपल्लवर्नन्त इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेभीवे लिट् ॥३९॥ अरमयन्भवनादचिरद्यतेः किल भयादपयातुमनिच्छवः ॥ यदुनरेन्द्रगणं तरुणोगणास्तमथ मन्मथमन्मन(१)भाषिणः ॥ ४० ॥ अरमयनिति ॥ अथानन्तरं तरुणीगणाः युवतीसमूहाः यदुनरेन्द्रगणं यादवनृपति- वृन्दम् अरमयन् हृष्टं चक्रुः । किंभूतास्तरुणीगणाः अचिरद्युतेः भयात् विद्युतस्त्रासात् , किलेत्यलीके, भवनात् गृहात् अपयातुमनिच्छवः ननिर्गन्तुकामाः। तत्त्वतो हि शक्ता- एवापि तान् वशीकर्तु भयान्नाययुरित्यर्थः । अपरं किलक्षणाः गणाः मन्मथमन्मनभाषिणः मन्मथेन कामेन मन्मनम् अव्यक्तंभाषन्ते इति तथा । मन्मनशब्दोऽत्र अव्यक्तमधुरवाचको देशीपदम् । 'भवनागारमन्दिरं , 'समवायश्च यो गणः' इत्यमरः ॥ ४० ॥ अरमयानिति ॥ आचिरयुतेविद्युतो भयात्किल भयादिव न तु तथा । किन्तु रागादेवेति भावः । किलेत्य लीके । भवनादमणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । 'विन्दु- रिच्छुः' इत्युप्रत्ययान्तो निपातः। मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः । कामवशा- इत्यर्थः । तरुणीगणास्तं प्रकृतं, यदव एव नरेन्द्रास्तेषां गणमरमयनमयन्ति स्म । अत्र भयेन रागनिगू- हननान्मी लनालङ्कारः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः । इतिवर्षावतारः ॥४०॥ ददतमन्तरिताऽहिमदीधिति खगकुलाय कुलायनिलायिताम् ।। जलदकालमबोधकृत निशा(२)मपरथाऽऽप रथावयवायुधः ॥४१॥ ददतमिति ॥ रथावयवायुधः चक्रपाणिः श्रीकृष्णः जलदकालमेव निशां रात्रिम् आप प्राप। कथम् अपरथा अन्येन प्रकारेण निशारूपेण साधर्म्ययोगाख्येन यथा भवति, (१) मन्थर । (२)दिशा।

२२८ सन्देहविषौषधिसर्वकषायुते- [ षष्ठः- किंलक्षणं जलदकालम् अन्तरिता हिमदीधितिमाच्छादितसूर्यम् , अन्तरितः अहिमदीधितिः उष्णरश्मिः यत्र सः तथा तम् । अत एवापरं किंभूतं जलदकालं खगकुलाय पक्षिपूगाय कुलायनिलायितां ददतं कुलायाय नीडाथं निलायितां निवेशित्वं ददतम् । अत्र चातिवृष्टिः कारणम् । अपरं किंभूतं जलदकालम् अबोधकृत भगवतः श्रीकृष्णस्य निद्राकारिणम्, अबो: करोतीति अबोधकृत् तम् । भगवान् श्रीकृष्णः किल जलदकाले स्वपिति । जलदकाले निशा- अप्येवंविधा भवन्ति । रथस्यावयवश्चक्रं तदायुधं प्रहरणं यस्य सः। 'खगौ तु शरपक्षिणौ,' 'कुलं समूहे गोत्रे च', 'कुलायो नीडमस्त्रियाम्', 'निकाय्यनिलयालयाः सर्वत्राप्यमरः॥४१॥ अथ शरदूर्णनमारभते- ददतमिति ॥ रथावयवायुधश्वक्रायुधो हरिरन्तरिताहिमदीधिति तिरोहितोष्णांशु तथा खगकुलाय पक्षिसवाय, कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः । 'कुलायो नीडमबियाम्' इत्यमरः । तेषां भावस्त ना तो ददतं प्रयच्छन्तम् । पक्षिसञ्चार प्रतिबध्नन्तमित्यर्थः । 'नाभ्यस्ताच्छतुः' इति नुम्- प्रतिषेधः । दिशामिनि कर्मणि षष्ठी । अबोधकृतमबोधकारिणम् । मेघावरणेन प्राच्यादिविवेकं लुम्पन्त- मित्यर्थः । जलदकालं प्रावृदकालमपरथा प्रकारान्तरेण आप प्राप । भेघोदयोपाधिना प्रावृड्व्यवहारभाज नमेव कालं मेघात्यया गधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सत्रनकोपाधिसम्बन्धानाना- खेनोपचर्यत इति तद्विदः ॥ ४१ ॥ अथ शरद्वर्णनम्- स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव ॥ शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥ ४ ॥ स इति ॥ अघनाशनं पापक्षयकर कीर्तितं नाम यस्य सः अघनाशनकीर्तितो हरिः भगवान् शरदं शरदाख्यम् ऋतुमक्षत ददर्श अदर्शत् । किंभूतां शरदं क्षितिभृतः रैवतकस्य अचलस्य अङ्कतां प्राप्तामुत्सङ्गतां गतां, पुनः किंभूतां शरद विकचानि प्रफुल्लानि उत्पला- न्येव इन्दीवराण्येव चक्षुपि नयनानि यस्याः सा ताम् उत्पलचक्षुषं प्रफुल्लोत्पलनेत्रां, पुनः किंभूतां शरदम् अच्छगलद्वसनोपमाक्षमघनाम् अच्छा निर्मला गलन्तो भ्रश्यन्तः अधःपतन्तः क्षरन्तो वा वसनोपमाक्षमा वस्त्रोपमानयोग्याः वसनसहशा घना मेघा यस्याः सा तथा ताम् , अतश्च कामिव दयितामिव प्रियामिव प्रेयसीतुल्याम् । यथा कश्चिद्विलासी दयितां पश्यति । किंभूतां दयितां क्षितिभृतो राज्ञः अङ्कगतां, तथा प्रफुल्लकमलनेत्रां, तथा मस्तकाऽगलद्वसनां चेति पूर्ववद्विशेषणानि योज्यानि । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकच- स्फुटाः' । 'गिरिभूपौ क्षितिभृतौ', 'उत्सङ्गचिन्हयोरङ्कः', 'क्षमं शक्तो हिते त्रिषु' सर्वत्रा- प्यमरः ॥ ४२ ॥ स इति । अघाना नाशनं निवर्तन कीर्तनं यस्य सोऽघनाशनकीर्तनः स हरिविकच मुत्पलमेव चक्षु. म्यास्तामच्छं शुभ्रं गलासमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा नाम् । अत एव क्षितिभृतोङ्कगतामुत्सङ्गगता दयितामिवेत्युत्प्रेक्षा । शरदक्षत ॥ ४२ ॥ जगति नैशमशीतकरः करैवियति वारिदवृन्दमयं तमः ॥ जलजराजिषु नैद्रमदुद्रवन्न(१) महतामहताः कचनाऽरयः ॥ ४३ ॥ जगतीति ॥ अशीतकरः उष्णकरः श्रीसूर्यः जगति पृथिव्यां विश्वस्मिन् वा करैः (१) मदिवयत्र ।

मर्गः।] । . शिशुपालवधे। २२६. रश्मिभिः कृत्वा नै तमः रात्रिभवमन्धकारम्अ दुद्भवत् स्फेटयामास अनीनशत् , अपर श्रीसूर्यः वियति आकाशे वारिदवृन्दमयं घनौघरूपं तिमिरम् अदुवत् । तत्र हि धना नश्यन्तीत्यर्थः । अपरं जलजराशिषु कमलश्रेणिषु नैद्रं निद्राख्यं सङ्कोचलक्षणं तमः अदुद्र- वत् । तत्र हि पनानां विकासाभावात् । यच रविणा सूर्येण सर्वत्र तमो नाशितं तत्कथं- यतः यस्मात्कारणात् महतामुन्नतानामरयः शत्रवः कचन कचिदपि नाहताः । अपि तु सर्वत्रैव हताः इत्यर्थः । महात्मभिर्हि सर्वत्र गताः शत्रवो हन्यन्ते । खेरन्धकाराण्येव शचतुल्यानि । 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः' इत्यमरः ॥ ४३ ॥ जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम्। 'निशाप्रदी- षाभ्यां च' इति विकल्पादण् प्रत्ययः । तमस्तिमिरमदिद्रवत् द्रावयति स्म । निरस्तगानित्यर्थः । दु गती । णौ चङि उपधाह्रस्वः, सन्वद्भावः । 'स्रवतिशणोतिद्रवतिप्रवतिप्वतिच्यवतीना वा' इत्यभ्यासस्य विकल्पा- दित्वम् । वियत्याकशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिववत् । जलज़राजिषु निद्रा- मेव नै निमीलनं तदेव तमः अदिद्रवत् । तथा हि-महता महात्मनाम् । अरय क च क्व वा न नाऽहताः अहता न । किन्तु सर्वत्र हता भवन्तीत्यर्थः । द्वितीयानेषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः, पुनः क्वति क्वशब्दसामर्थ्यात्प्रकृतार्थपर्यवसानम् । वैधर्येण सामान्याविशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥४३॥ समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ।। समय इति ॥ हंसरवाः सारसध्वनयः शरदि ऋतौ रमणीयतामयुः हृद्यत्वं प्रापुः परुषीकृतस्वरमयूर यथा भवति तथा, अपरुषाः परुषाः कृताः परुषीकृताः तथा स्वरा येषां ते परुषीकृतस्वराः, कठोरत्वमरमणीयत्वं नीतरवाः मयूराः केकिनो यत्र तत । हंसरवान् श्रुत्वा शिखिनो रूक्षवाचो जायन्ते इति स्थितिः। किंभूता हंसरवाः, उत्प्रेक्षते-इति प्रणिगदन्त इव कथयन्त इव । इतीति किं यत, शरीरिणां देहवतां स्थावरजङ्गमानां समययएव काल एवं बलाबलं करोति स्वकाल एव मानापमानं करोति नान्यः । यत् हंसध्वनीन् श्रुत्वा मयूरा: कठोरस्वरा जाता इति । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः ॥ ४४ ॥ समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । 'विप्रतिषिद्धं चानधिकरणवाच' इति विकल्पाद् द्रनकवद्भाव: । करातीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । 'नर्गदनदपत-' इत्यादेना गत्वम् । शराद हंसरणः परुषाकृतस्वरा निष्ठुरीकृतनादा मयूरा यास्मन्कणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्त : । यातेर्लकि लङः शाकटायनस्यैव' इति झर्जुमादेशः, 'उस्यपदान्तात्' इति पररूपं, संहितायां ठूलोपे पूर्वस्य दीर्घोष्णः। शरत्प्रावृषोर्हसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात्काल- एव प्राणिना बलाबलनिदानं व्यक्तमभूदित्यर्थः ।। ४४ ॥ तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ॥ जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो ह सुदुःसहः ॥ ४५ ॥ तनुरुहाणीति ॥ शिखण्डिनो मयूरस्य तनुरुहाणि लोमानि पिच्छानि जगलुर्गलि- तानि । उत्प्रेक्षते-अक्षमयेव क्रोधेनेव । अक्षमाया निमित्तमाह-किंभूतस्य शिखण्डिनः पुरोऽग्रे धवलपक्षविहङ्गमकूजितैः विजितध्वनेः धवलाः पक्षा येषां ते च ते विहङ्गमाः पक्षि- जो साश्च तेषां कूजितानि शब्दितानि तैः हंसशब्दितैः विजितः ध्वनिर्यस्य सः तथा तस्य, निर्जितस्य । हंसरवश्रवणे हि शरदि मयूराः केका न हादयन्ति । ततो युक्तं स्यान्मयूर- २०शि०१० '.

-२३० सन्देहविषौषधिसर्वकषायुते- [ षष्ठः- पक्षपतनम् । हि यस्मादरिभवो रिपुसमुत्थो यः परिभवः अपमानः, सः सुदुःसहः सुतरांसोड़े न शक्यते । तेच हसैर्जितस्वराः । अन्योऽपि मानी सन् परिभवे सति अवश्यमक्षमया कोपात् शिरो मुण्डयति। 'तनूरुहं रोम लोम', 'पक्षो वाजस्तनूरुहं', 'ध्वनिध्वानरवस्वनाः', 'वलक्षो धवलोऽर्जुनः', 'पक्षः पार्श्वगरुत्साध्यसहायबलिभित्तिषु', 'बहिकेकिशिखण्डिनः' सर्वत्राप्यमरः॥४५॥ तनुरुहाणीति ॥ पुरोऽये धवलपक्षविहङ्गमा हंसपक्षिणः । 'हमास्तु श्वेतगरुतः' इत्यमरः । तेषां कूजितविजितध्वनेः शिखण्डिनो मयूरस्य तनौ रुहाणि रूढानि तनुरुहाणि बर्हाणि । हगुपधलक्षणः कम- न्ययः । अक्षमया हंसकूजितेय॑येव जगलुर्गलन्ति स्म । कालप्रयुक्तस्य बर्हगलजस्याऽशमाहेतुकत्वमुत्प्रेक्ष्यत- इति गुणहेतूत्प्रेक्षा । युक्तं चैतदित्याह-अरिभवः परिभवः सुदुःसहोऽत्यसयो हि । पराजयदुःखितस्याङ्ग- सादो युज्यत इति भावः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । स च अक्षमोत्प्रेक्षया सङ्कीर्यते ॥१५॥ अनुवनं वनराजिवधूमुखे बहलरागजपाऽधरचारुणि ॥ विकवबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६॥ अनुवनमिति ।। विकचबाणदलावलयः विकस्वरझिण्टीतरुकुमुमकिसलयराजयः अनु- वनं वने वने अधिकं सातिशयं यथा भवति तथा रुरुचिरे अत्यर्थं शुशुभिरे। क बभुः वनराजिवधू मुखे वनराजिः काननरेखा सा एव वधूरङ्गना तस्या मुखे प्रारम्भे, किंलक्षणे वनराजिवधू मुखे बहलरागजपाऽधरचारुणि बहलरागा नितान्तलौहित्या या जपाकुसुमविशेषः सा एव अधरः ओष्टः तेन चारु रम्यं तस्मिन् । किलक्षणाः विकचबाणदलावलयः रुचिरे- क्षणविभ्रमाः रुचिराणि मनोज्ञानि ईक्षणानि नयनानि तेषां विभ्रमः विलासो यासां ताः तथा । नेत्रतुल्या इत्यर्थः । अन्यापि या वधूः, तस्या जपालौहित्याधरोष्टे मुखे विकच- बाणदलावलितुल्यानि रुचिरेक्षणानि प्रियनिकटे नितरां राजन्ते । 'ओण्दपुष्पं जपा- पुष्पं', 'दलं पर्ण छदः पुमान्' इत्यमरः ॥ ४६ ॥ अनुवनमिति ॥ अनुवनं प्रतिवनं बहलो रागो यस्याः सा चास. जपा च । 'ओण्ट पुर्ण जपा' इत्यमरः । पुष्पेषु जातीप्रभृतित्वात्स्वलिङ्गता । सैगधरस्तेन चारुणि रम्ये वनराजरेव वधूस्तस्या मुख प्राग्भागस्तदेव मुख वक्त्रमिति श्लिष्टरूपकं तस्मिन् , रुचिराणामीक्षणानां विभ्रमः शोभा यासा ताः विकच- बाणदलावलयो नील झिण्टीपत्रपतयः । 'बाणोऽमी नीलझिण्टयां च' इति वैजयन्ती। अधिकं रुरुचिरे शुशुभरे। उपमारूपकयोः सङ्करः ॥ १६ ॥ कनकभङ्गपिशङ्गन्दलैर्दधे सरजसाऽरुणकेसरचारुभिः ॥ प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ४७ ॥ कनकेति ॥ असनैर्बीजकपुष्पैः अवृथार्थता दधे सफलत्वं तं, न वृथा निष्फल: अर्थः प्रयोजनं यस्य सः वृथार्थः तस्य भावो वृथार्थता । असनानि सर्वस्यैवोपभोग- कारीण्यासन्नित्यर्थः । अथ च अवृथार्थता अन्वर्थता दधे । अस्यन्ति क्षिपन्ति मानिनीनां मानमिति असनाः तैः । 'वृथा निरर्थकाऽविध्योरित्यमरः । यतः कीदृशैः असनैः प्रिय- विमानितमानवतीरुषां निरसनैः भर्तृखण्डितमनस्विनीरोषाणां विध्वंसकैः नाशकः क्षेसृमिः, प्रियः भर्तृभिर्विमानिता अवगणिता या मानवत्यो मनस्विन्यः तासां रुषः क्रोधाः तासां विनाशकैः । यानि दृष्ट्वा मानिन्यः कामाकुलितत्वात् कोपं मुबन्तीत्यर्थः । अपर किलक्षणैः असनैः कनकमपिशगदलैः कनकस्य हिरण्यस्य भङ्गः छेदः तद्वत् पिशङ्कानि .

सर्गः।] शिशुपालवधे। २३१ .. .. . पीतानि दलानि पर्णानि येणे तानि तैः काञ्चनच्छेदवत् पीतवर्णैः, अपर किंलक्षणैः असनैः सरजसाऽरणकेसरचारुभिः सह रजसा रेणुना वर्तन्ते तानि सरजसानि सधूलीनि अरुणानि आरक्तानि यानि केसराणि विझल्काः तैः चारूणि रम्याणि तैः । 'दलं पर्णः छदः पुमान्', 'माजिष्ठरागस्त्वरुणः', 'किझल्कः केसरोऽस्त्रियाम्', 'बीजके क्षेपकेऽसनः सर्वत्राप्यमरः ४७. कनकति ॥ कनकभङ्गाः स्वर्णखण्डा इव पिशङ्गानि दलानि येषां तः, सह रजसा सरजसम् । 'अच. तुर-' इत्यादिना साकल्यार्थेऽव्ययीभाव समासान्तो निपातः, बहुव्रीह्यर्थे तु लक्षणया । सरजस्का इत्यर्थः । अत एव 'न सरजसमित्यनव्ययीभावे' इति वामनः । अथवा महाकविप्रयोगप्राचुर्यदर्शनादव्ययीभावदर्शनं प्रा. यिकमिति पक्षाश्रयणाद् बहुव्रीह्यर्थोऽपि साधुरेव । तथा च सरजसं सरजसा वा ये अरुणकेसरास्तैश्चारुभिः तथा प्रियौवमानिता अवमानिता मानवत्यो मानिन्यस्तासां या रुषो रोषास्तासां निरसननिरासकैः । अस्यतेः कर्तरि ल्युट् । असनैः प्रियकप्रसूनः । सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । अवृथार्थता मान- निरासकत्वादस्यन्तीत्यसनानि इत्यन्वर्थनामकत्वं दधे दः । दधातः कर्मणि लिट् ॥ ४ ॥ मुखसरोजरुचं मदपाटलामनुचकार चकोरदशां यतः ॥ धृतनधातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥४८॥ मुखसरोजेति ॥ अतः अस्मात् कारणात् अम्भसि पानीये कमलं पद्म कं पुरुष- मुत्सकतां न अलम्भयत् उत्कण्ठितत्वं न प्रापयामास । अपि तु सर्वस्यैव महतीमुत्सुकतां चकारेत्यर्थः । तत् किं कारणम् , अतः कुतः, यतो यस्मात्कारणात्तत्कमलं चकोरदृशां कामिनीनां मुखसरोजरुचं वक्त्रकमललक्ष्मीमनुचकार व्यडम्बयत् , किंभूतां मुखसरोजरुचं मदेन क्षीबतया पाटलां लौहित्यवतीम् । तदर्शनेन सादृश्यात् प्रियावदनकमलस्मरणात् सर्वस्यैवोत्सुकतेति भावः । किंलक्षणं कमलं तो नवातपो बालातपो येन तत् तथा । नवातपस्य मद उपमान, कमलस्य मुखमुपमानम् । 'श्वेतरक्तस्तु पाटलः', 'जीवजीव- श्वकोरकः', 'इष्टार्थोद्युक्त उत्सुकः', 'कमलं पन्नवारिणोः' सर्वत्राप्यमरः ॥ ४८ ॥ मुखसरोजेति ॥ धृतो नवातपो येन तद्धृतनवातपम् । बालातपताम्रमित्यर्थः । अम्भसि कमलम् । अम्भः- स्थं कमलम् । अम्भोगहणं स्थलकमलनिवृत्त्यर्थम् , अम्लानतायोतनार्थ वा। यतो मदपाटलां चकोरदृशा मीणां मुखसरोजरुचं मुखारविन्दशोभामनुचकार । 'अनुपराभ्यां कृत्र' इति परस्मैपदनियमः । अतोऽनुक- रणादेतोः कं पुमासमुत्सुकता प्रेयसीमुखावलोकनकौतुकिता नालम्भयत्रागमयत् । सर्व चालम्भयदेव । त. स्मारकत्वादित्यर्थः । एतेनोत्सुक्यवस्तुना कार्येण कारणभूता कमलदर्शनोत्था मुखस्मृतिय॑ज्यत इनि वस्तुनाऽलङ्कारध्वनिः । एतेन श्रीमुखसादृश्यात्कमलं स्वाधाराम्भासि पुंस उत्सुकतामलम्भयदिति रङ्गराज व्याख्यानं 'काकस्य काावलः प्रासादः' इतिवदसङ्गत मन्तव्यमिति । अलम्भयदिति लभर्यन्तालङ् 'लभेश्च' इति नुमागमः । लभेश्चात्र प्राप्त्युपसर्जनकगत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वे. द्विकर्मकता । गत्युपसर्जनकप्राप्त्यर्थत्वे तु वैपरीत्यमित्युक्तं 'सितं सितिना' इत्यत्र ॥ १८ ॥ विरत(१)सस्यजिघत्समघट्टयत्कलमगोपवधून मृगवजम् ॥ श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ४ ॥ विरतेति ॥ कलमगोपवधूः कलम शालिविशेष गोपायति रक्षतीति कलमगोपी सा चासौ वधूश्च इषे आश्विने मासे मृगवर्ज हरिणयूथ न अघयत् न अपासयत् न त्रासया- मास । यतः किंलक्षणं मृगवज विरतसस्यजिघसं विरता निवृत्ता सस्यस्य धान्यस्य जिघस्सा भत्तुमिच्छा यस्यः सः तं निवृत्तधान्यबुभुक्षं, पुनः किंभूतं मृगबज श्रुतः आक- (१) विगत।

२३२ सन्देहविषौषधिसर्वकषायुते [ षष्ठः- णितः तदीरितः तया कलमगोपवध्वा ईरितः उच्चारितः कोमलोऽपरुषः गीतकध्वनिः गान- शब्दो येन सः तथा तम्, अत एव किंभूतं मृगव्रजम् अनिमिषेक्षणम् अनिमिषे गीतश्रवण- रागेण निश्चले ईक्षणे नयने यस्य सः तं, क अग्रतः अग्रे । इषग्रहणं कलमस्य पाकप्रति- पादनार्थम् । पाके विरतसस्यजिघत्सम् । 'शालयः कलमाचाच षष्टिकाचाच पुंस्यमी' । 'गोष्ठाऽध्वनिवहा बजाः', 'गीतं गानमुभे समे', 'स्यादाश्विन इषोऽप्याश्वयुजः सर्वत्राप्यमरः४९ विगतेति ॥ इषे आश्वयुजमासे । 'स्यादाविन डषोप्याश्वयुजः' इत्यमरः । कलमगोपी शालिगोत्री सा चासौ वधूश्व कलमगोपवधूः। 'मियाः पुंवत्-' इत्यादिना पुंवद्भावः। श्रुत आकर्णितस्तया वध्या ईरितस्यालापि. तस्य कोमलगीतकस्य मधुरगानस्य ध्वनिर्येन तं श्रुततदारतकोमलगीतकम्वनिम् अत एवापतोऽग्रेन निमिषति विस्मयानन्दाभ्यामित्यानिमिषम् । इगुपधलक्षणः कमत्ययः । तदीक्षणं यस्य तमानमिषेक्षणम् । घस्तुमत्तुं वे- च्छा जिघत्सा । घसेरदादेशाद्वा सत्रन्तात् 'अप्रत्ययात्' इति मियामप्रत्ययः। विगता सस्यस्य जिघत्सा यस्य तं विगततस्यजिघत्सम् । उपसर्जनात् ह्रस्वः। मृगब नाघट्टयनाऽताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डमाध्ये मृगनिवारणे काकतालीयन्यायेन मुखार्थस्य गानस्य कारणत्वकथनात्समाधिरलङ्कारः । 'कारणान्तरयोगात्कार्यसुकरत्वं समाधि'रिति सूत्रात् ॥ ४९ ॥ कृतमदं निगदन्त इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम् ॥ वरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥ ५० ॥ कृतमदमिति ॥ सततं गच्छन्ति ते सततगाः वायवः ववुः वान्ति स्म । किंभूताः सततगाः अयुक्छदगुच्छसुगन्धयः अयुक्छदानां सप्तपर्णानां गुच्छैः पर्णः पुष्पस्तबकैर्वा सुग- न्धयः सुत्भयः सप्तच्छदवृक्षपर्णकृताधिवासाः, पुनः किंभूताः सततगाः अलिभिभृगैः तत- गानगिरः तता विस्तृता गानगीः गेयध्वनियेषु ते ततगानगिरः, अपरं किंभूताः सततगाः, अतश्चोत्प्रेक्ष्यते-ऊर्जमतङ्गा निगदन्त इव ऊर्जः कार्तिको मासः स एव मतङ्गजो हस्ती तं निगदन्तः, सूचयन्त इत्यर्थः । किंभूतमूर्जमतङ्गजं कृतमई जनितचित्तविकारं मत्तम् , अत एवापरं किंलक्षणम् आकुलीकृतजगत्त्रयं विह्वलीकृतत्रिभुवनम् , अतिकामजनकत्वात् । अन्योऽपि यो मताजो हस्ती कृतमदो मत्तो भवति, अत एव स आकुलीकृतजनः स्यात् । तदा दुन्दुभिः पुरस्सरो वाद्यते-भोः ! पलायध्वम् , एप मतङ्गजो मत्तो जिघांसुरायातीति । तथा वायवोऽपि ऊर्जगजेन्द्र निगदन्त इवेत्यर्थः । 'बाहुलोजौ कार्तिकिकः', 'स्तबको गुच्छको गुच्छः' इत्यमरः॥५०॥ कृतमदमिति ॥ अयुजो विषमाछदा येषां ते अयुक्छदाः सप्तपर्णास्तेषो गुच्छैः स्तबकैः सुगन्धयः शोभनगन्धा: । गजमदगन्धिन इति भावः । अलिभिभृगस्तता विस्तृता गानगिरो येषां ते। अलिभिगीयमाना. इत्यर्थः । सततं गच्छन्तीति सततगाः सदागतयः । वायव इति यावत् । कृतमदं जनितमदम् अत एवाकुली- कृतजगत्रयम् । उर्जः कार्तिकः । 'बाहुलोजों कार्तिकिक' इत्यमरः । स एव मतङ्गल इति रूपकम् । तं निगदन्त इव अयमागच्छतीत्यावेदयन्त इव वन्ति स्म । मत्तमातङ्गगमनेऽप्येवंविधवायुवहनसम्भवादिय- मुत्प्रेक्षा । रूपकं त्वमस्याः ॥ ५० ॥ विगतवारिधरावरणाः क्वचिदशुरुलसिताऽसिलताऽसिताः ॥ क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदवो दिशः॥ ५१ ॥ विगतेति ।। यदवो यादवाः शरदि ऋतौ काले दिशः ककुभो दशुः पश्यन्ति स्म । किलक्षणा दिशः क्वचित् कस्मिश्चित्प्रदेशे विगतवारिधरावरणाः विगतं नष्ट वारिधरा .

समः ।] शिशुपालवधे। २३३ - । जलधरा एवं आवरणमाच्छादन यासां ताः निवृत्तमेषाच्छादनाः, पुनः किंभूता दिशः उल्लसिताऽसिलतासिताः उल्लसिता कोशात् आष्टा उत्तेजिता वा असिलता खड्ग- वल्ली तद्वत् असिताः कृष्णाः स्फुरत्खड्गयष्टिनीलाः, पुनः किंभूता दिशः कचित् कस्मि- वित्प्रदेशे नीरदिनीः नीरदाः मेघा विद्यन्ते यास ता नीरदिन्यः ताः । शुक्लाभयुक्ता- इत्यर्थः । नीरदशब्देनात्र सिता मेघा बोद्धव्याः। पुनः किंभूता दिशः, अतश्चोत्प्रेक्ष्यते- इन्द्रगजाजिनकन्चुका इव इन्द्रगज ऐरावणस्तस्याजिनं चर्म तदेव कञ्चुकमुत्तरीयं यासां ताः। श्वेतोत्तरीया इत्यर्थः । शरद्ग्रहणात् ऐरावताजिनेन साम्यं घटते । मेघानां कोश- उपमानं, दिशां खड्गलताः । कोशः खड्गे प्रत्याकारः स्यात् तत आकृष्टं दिश उप- मानम(१) । 'अजिनं चर्म कृत्तिः स्त्री', 'कञ्चको वारबाणोऽस्त्री' इत्यमरः ॥ ५१ ॥ विगतेति ॥ शरदि यदवो यादवाः । यदुशब्देन रघुशब्दवनदपत्ये लक्षणा । जनपदशब्दानामेव 'तद्रा- जस्य बहुषु-' इति लुक्सम्भवादिति । क्वचिद्विगतवारिधरावरणा निवृत्तमेघावरणाः अत एवोलासिता कोशा- दुद्धृता असिलतेवासिलता तद्वदसिताः श्यामा इत्युपमा । क्वचित्रीदिनीर्मेघवतीः । शुभ्राभ्रपटलच्छन्ना इत्यर्थः । अत एवेन्द्रगजाजिनमैरावतचर्म तदेव कञ्चुकः कूर्पासको यास ता इव स्थिता इत्युत्प्रेक्षा । दिशी ददृशुः । उताल द्वारयोः संसृष्टिः ॥ ५१ ॥ विलुलितामनिलैः शरदङ्गना नवसरोरुहकेसरसम्भवाम् ॥ विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुदक्षिपत् ॥ ५२ ॥ विलुलितामिति ॥ शरदङ्गना शरद्वनिता नवसरोरहकेसरसम्भवां धूलिमुदक्षिपत् सरसकमलकिअल्करजः चिक्षेप । नवानि प्रत्यग्राणि यानि सरोरुहाणि पद्मानि तेषां केसराः विझल्कास्तेभ्यः सम्भव उत्पत्तिर्यस्याःसा ताम् , किंलक्षणां धूलिम् अनिलैविलु- लितां वायुभिश्चालिताम् । किमर्थ धूलिरुत्क्षिप्ता, उत्प्रेक्षते-हरिवधूविकरितुमिव भगव- दङ्गनाः छादितुमिव रजो विक्षिप्तम् । कया परिहासविधित्सया परिहासस्य विधातु- मिच्छा तया नर्मवाञ्छया । वध्वो हि सखीभिः सहाऽवश्यमेव रमन्ते । ' किजल्कः केसरी- ऽस्त्रियाम्', 'रेणुद्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः इत्यमरः ॥ ५२ ॥ विलुलितामिति ॥ शरदेवशङ्गाना इनि रूपकम् । अनिलविलुलितां विक्षोभिता नवसमरोरुहकसर- सम्भवो धूलि परागं परिहासविधित्सया नर्मरीतिचिकर्षिया । दधातेः समन्तामियामप्रत्यये टाप । हरिवधूः विकरितुं विक्षेप्तुमिव। 'तुमुन् ण्वुलो क्रियायां क्रियार्थायाम्' इति तुमुन् प्रत्ययः। उदाविपत्प्रेरितक्ती। रूपको- जीवितयमुत्प्रेक्षा । किरतिस्य कीर्यमाणकर्मा, यथा-रजः किरति मारुतः । क्वचित्तकारको द्देश्यका, यथाऽत्रवेति विवेकः ॥ ५२ ॥ हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ॥ मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ५३ ॥ हरितेति ॥ शुकावलिः कीरमाला मधुरिपोः श्रीकृष्णस्य मुदं हर्ष विततान विस्तार- यामास । किंभूता शुकावलिः दिवि तता आकाशे विस्तृता, अपरं किंभूता अभिताम्राणि लोहितानि मुखानि वदनानि यस्याः सा लोहितचञ्चुः, पुनः किंभूता शुकावलिः हरि- तानि नीलानि यानि पत्राणि पक्षाः तानि प्रचुराणि यस्याः सा,किंभूता शुकावलिः, उत्प्रेक्ष- ते-मरुद्गणैः देवसमूहः मधुरिपोः हर्षाय दिवि तता स्रगिव मालेव । किलक्षणा सक् हरित- पत्रमयी हरितपत्रकृता, पुनः किंभूता सक् अवनद्धमनोरमपल्लवा मनो रमयन्ति हर्षयन्ति से २३४ सन्देहविषौषधिसर्वषायुते- [षष्ठः- मनोरमाः अवनद्धाः रचिता मनोरमाः पल्लवाः किसलयानि यस्यां सा । 'पलाशो हरितो हरित', 'माल्यं मालास्रजो', पल्लवोऽस्त्री किसलयम्' इत्यमरः ॥ ५३ ॥ हरितति ॥ आभिताममुख्यरुणमुखी । 'स्वाहाचोपसर्जनात्-' इत्यादिना विकल्पानडीए । शुकावलि. मरुदणैः सुमनोगणैर्दिवि नता हरिप्रियार्थमाकाशे वितता हरिताना हरिद्वर्णानां पत्राणां विकारो हरितपत्र- मयी । 'टिड्डाणञ्-' इन्यादिना डीप् । तयाऽवनद्धा प्रथिता मनोरमाः पळवा यस्यां सा स्रगिवत्युत्पेक्षा । मधुरिपोः कृष्णस्य मुदं विततान ॥ ५३ ॥ स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहङ्गहसहिवम् ॥ अकलयन्मुदितामिव सर्वतः स शरदं शरदन्तुरदिङ्मुखाम् ॥ ५४॥ स्मितेति ॥ स भगवान् कृष्णः शरदं घनान्तम् ऋतुं सर्वत: सर्वत्रैव मुदितामिव अकलयत् हृष्टामिव मेने । सर्वत्रैव हासयोगात् इति भावः । तथा हि-किंभूतां शरद स्मितसरोरुहनेत्रसरोजलां स्मितानि विकसितानि सरोरुहाणि पद्मान्येव नेत्राणि नयनानि येषु तानि स्मितसरोरुहनेत्राणि एवंविधानि सरोजलानि तडागपानीयानि यस्यां सा तां, पुनः किंभूताम् अतिसिताङ्गविहङ्गहसदिवम् अतिसिताङ्गाः अतिधवलदेहाः ये विहङ्गाः पक्षिणो हंसास्तैर्हसन्ती द्योतमाना धौरन्तरिक्षं यस्यां सा अतिसिताङ्गविहङ्गहसद्दयौः तां, पुनः किंभूतां शरदं शरदन्तुरदिङ्मुखां शरैः काण्डतृणैः दन्तुराणि सहास्यानि दिङ्मुखानि यस्यां सा ताम् । अन्योऽपि यः किल मुदितः स एवंविधो भवति-स्मितसरोरुहनेत्रः, अपरं हास्यवशात् दर्शितदर्शनो भवति ॥ १४ ॥ स्मितेति ॥ स हरिः स्मितानि विकसितानि सरोरुहाण्येव नेत्राणि येषु तानि सरोजलानि यस्या ता तथोक्तामतिसिताङ्गा धवलपक्षा ये विहङ्गा हंसास्तैर्हमन्ती स्मयमानेव स्थिता द्यौर्यस्यां ता तथोक्ता शरैस्तृण- विशेषैर्दन्तुराण्युननदन्तानि । हासात्प्रकाशदशनानीति यावत् । 'दन्त उन्नत उरच्' इत्युरप्रत्ययो मत्व- थीयः । तानि दिङ्मुखानि यस्यां नां शरदन्तुरदिङ्मुखां शरदं सर्वतो मुदिनामिवाकलयत् । सर्वत्र नेत्र- विकासादिलि हृष्टामिवामन्यतेत्यर्थः । अत्र सरोजहंसशरेषु नेत्रहासदन्तत्वारोपणादूपकालङ्कारः। तद्वशात्प्रती- यमानाङ्गनाभेदाध्यवसायाच्छरदि मुदितत्वोत्प्रेक्षेति सङ्करः । इति शरपूर्णनम् ॥ ५४ ॥ अथ हेमन्तवर्णनम्- गजपतिद्वयसोरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ॥ सलिलसन्ततिमध्वगयोषितामतनुताऽतनुतापकृतं दुशोः(१) ॥ ५५॥ गजपतीति । हेमन्ते भवः हैमनः पृषतां पतिर्मारुतः अध्वगयोषितां पान्थस्त्रीणां दृशोनयनयोविषये सलिलसन्ततिमश्रुपद्धतिमतनुत विस्तारयामास । दुःखाद्वियोगि- नोनां नयनोरथुजलमजनयत् । किंभूतां सलिलसन्ततिम् अतनुतापकृतं प्रभूतोष्णिमचारि- णीम् , अतनुं महान्तं तापं करोति ताम् । तर्हि सर्वमेवोणं स्यादित्याशयाह-कि कुर्वन् पृषतां पतिः परितः सर्वत्र सरितः नदीः तुहिनयन् हिमरूपाः कुर्वन् , तुहिनयतीति तुहिनयन् शीतलयन् शीतलता नयन् । किलक्षणाः सरितः गजपतियसीरपि गजपति- परिमाणा अपि गजेन्द्रपरिमाणा अपि । अतिगम्भीरा अपीत्यर्थः । परिमाणेऽर्थे यसच्- प्रत्ययः । हस्तिपरिमाणा अपि नद्यः शीतलत्वं नीताः, नाऽल्पतरं वारि । नेत्रवारि अशी- .तलं कृतमित्यर्थकथनम् ॥ ५५ ॥ (१)दृशाम् ।

सर्गः।] शिशुपालवधे। १ । अथ हेमन्त वर्णयति- गजपतीति ॥ गजपतिः प्रमाणमासा गज तिवयसीमहागजप्रमाणाः । 'प्रमाणे यसज्दघ्नम्माषचः' इति प्रमाणार्थे यसच प्रत्ययः । 'टिड्ढाणञ्-' इत्यादिना डीए । ता अपि सरितस्तुहिनयन् हिमीकुर्वन् । 'तत्करोति-' इति ण्यन्तामटः शवादशः। हमन्ते भवा हमनः। 'सर्वत्राण्च तलोपश्च' इति हेमन्त शब्दा- छैषिकोऽण् प्रत्ययः तकारलोपश्च । पृषता बिन्दूना पतिर्वायुः । 'पृषन्ति बिन्दुपृषताः' इत्यमरः । अध्वानं गच्छन्तीत्य वगाः पथिकाः । अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । तयोषिता प्रोषितभर्तृकाणां दृशामतनुः तापकृतं महासन्तापकारिणी सलिलसन्ततिमतनुत । उगमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहिणी- दुःसहोजनीति भावः ॥ ५५ ॥ इदमयुक्तमहो! महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा॥ स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः॥ ५६ ॥ इदमयुक्तमिति ॥ इह तावद्वायोरयं स्वभावः, यत्सर्वस्मिन्नेव ऋतौ उत्कण्ठाजनक- त्वम् । तच्चायं कविविचारयति-यत् अहो! इत्याश्चयें सम्बोधने, इदम् एतत् महदेव अयुक्तम् महानेव अन्यायः, यत् अनिलो वायुः अन्यदा अन्यस्मिन् काले ग्रीष्मादौ वियोगिनो विरहिणः पुरुषान् वरतनोः स्मरयति प्रधानवनितां स्मरयति । स्मृत्यर्थे कर्मणि षष्टी । यत् स्मरणं सति साहचर्य स्यात्।किंभूतान् वियोगिनः स्मृतसयौवनसोप्मपयोधरान् स्मृता अनुध्या. वाः सयौवनाः तरुणाः सोमाण उष्णाः पयोधराः स्तना यैस्ते तान् । विरहदुःखादुभयोरपि सन्तापो भवति, अत एव सोप्मग्रहणम् । उष्णस्य ग्रहणं शीतकाले युक्तम् , ग्रीष्मश्च उष्णः, तत्किमिति वायुः सोष्मस्तनाः कामिनीः प्रियवियुक्तान् स्मग्यतीति । अतो मह- देवाऽयुक्तमेतत्। तु पुनः सतुहिनः सहिमवायुः सोमस्तनप्रवासीभूतान् वरतनोः स्मरयति । तदा हिनस्तु मारयतु । शीते हिमे उप्णस्मरणं युक्तम् । अभीष्टस्मरणे यदा अप्राप्ति- स्तदा मरणमेवेति भावः । 'स्त्रीस्तनाब्दौ पयोधरौ', 'तुषारस्तुहिनं हिमम्' ॥ १६ ॥ मर्वदापि वियोगानामुद्दीपंकवायोहेमन्ते वैशिष्टयमाचष्टे- इदमयुक्तामति ॥ अनिलो वायुरन्यदाऽन्यस्मिन्काले । ग्रीष्मादावित्यर्थः । 'सर्वेकान्य-' इत्यादिना दाप्रत्ययः । वियोगिनो वियुकान् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । वरतनोः, वरतनु- मित्यर्थः । 'अधीगर्थ-' इत्यादिना कर्मणि शेषे षष्ठी । स्मरयतीति स्मरतेराध्याने मित्त्वात् ह्रस्वत्वम् । इदं म्मारकत्वमपि महदत्यन्तमयुक्त मेघ । सहकारिविरहादिति भावः । अहो अत्यन्तात्किञ्चित्करत्वाद्विस्मयः । हेमन्ते तु हन्तृत्वमप्यस्य सम्भवतीत्याह –सतुहिनः तुहिनसहितम्तु सयौवना यौवनयुक्ताः अत एव सो. ष्माणो ये पयोधराः कुचास्ते स्मृता यस्तास्मृतसयौवनसोऽमपयोधरान् रियोगिनो वियुक्तान् । 'तथायुक चानीप्सितम्' इति कर्मवम् | हिनस्तु हन्तु । सम्भावनायां लोट् । हेमन्ते हि हिमसहकारात्कुचोमैक- साध्यदुःखोत्पादनसामाद्रियोगिमारकत्वमपि सम्भाव्यते । ग्रीष्मादौ तु तावृक्सहकारिविरहात्स्मारक- त्वमध्ययुक्तमित्यर्थः । अमारके मारकसम्बन्धोकेरतिशयोकिभेदः । इह सहजकविप्रौढोकिसिब्योरभेदा- ध्यवसाय इति रहस्यम् ॥ ५६ ॥ प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ॥ लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः ॥५७ ॥ प्रियतमेनेति ॥ यया कामिन्या सरुषा सक्रोधया सत्या प्रियतमेन वल्लभेन .सह साधं न स्थितं न आसितम् , सा अङ्गना मानिनो तं वल्लभ सहसा अशङ्कितमेव अगुण- दोषविचारेणैव परिरभ्य आलिङ्गय तदनन्तरं श्लययितुं मोक्तुं क्षणमपि अल्पकालमपि २३६ सन्देहविषौपपिसर्वलायुते- - [षष्ठः- न अक्षमत न समर्या बभूव । यतः किंभूताङ्गना सहसा मार्गशीर्षण कृतपयुः अनित- कम्पा, कृतो वेपथुः कम्पो यस्याः सा, पुनः किंभूताङ्गना सहसा सह हसेन हास्येन वर्तते इति सहसा हासयुक्ता । रुषा कोपेन सह वर्तमाना सल्ट तया । मार्गशीर्षे सहा मार्ग- आग्रहायणिका सः' । 'सार्क सत्रा समं सह', 'अतर्किते तु सहसा', 'हासो हास्यं च' सर्वत्राप्यमरः ॥ १७॥ प्रियतमेनेति । अत्राथपर्याये न सह सा इति श्रेधा विभागः । अन्यत्र सहसेत्येकं पदम् । सरुषा सरोषया यया मिया का प्रियतमेन सह न स्थितम् । नपुंसके भावे कः । सा अङ्गाना मी सहसा मार्ग- शीर्षमासेन । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । कृतवेपथुर्जनितकम्पा सती । “वितोऽथुच्' इत्यथुम- त्ययः । तं पूर्वमवगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । अथो हसः । हासो हास्यं च' इत्यमरः । 'स्वनहसो;' इति विकल्पादप्पत्ययः। सहसा शीघ्रम् । स्वरादिपाठादत्र्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः। श्लथायितुं नाक्ष- मत। शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । 'कोपात्कान्तं पराणुय पश्चातापसमन्विता' इति लक्षणात ॥ ५० ॥ भृशमयत चाऽधर(१)पल्लवक्षतिरनावरणा हिममारुतैः॥ दशनरश्मिपटेन च सीत्कृतैनिवसितेव सितेन सुनिर्ववौ ॥ ५८ ॥ भृशमिति ॥ कश्चिन्नायिकायाः सुतनोः सुकुमारगात्र्याः अधरपल्लवक्षतिः अधर- किसलयव्रणं हिममारुतैः तुषारवातैः मृशमयत अत्यर्थ दूयते स्म पीडिता । अधर एव ओष्ठ एव पल्लवः किसलयं तस्मिन् क्षतिः व्रणम् । किंभूता क्षतिः न विद्यते आवरणं संव्यानं यस्याः सा निराच्छादना । अनावरणं हि तुषारमारुतैः पीड्यते ताप्यते । अनन्तरं पीडावशात् च पुनः सा तन्वी कृशाङ्गी सीत्कृतैः निर्ववौ सीत्कारैनिर्वृति भेजे । मुखमारुतैहि वेदना प्रायशस्तन्वी भवति । अपरं किंलक्षणा क्षतिः, उत्प्रेक्ष्यते-दशन- रश्मिपटेन दन्तकान्तिवस्त्रेण निवसितेव आच्छादितेव । दशनानां रश्मयः त एव पटो वस्त्रं तेन, किलक्षणेन पटेन सितेन शुक्लन । सीत्कारवशात् ये दशनरश्मयो दन्तकिरणास्त- एव पटस्तेन । यः किल निरावरणो हिममारुतैस्ताप्यते, स पटं प्रावृत्य निर्वृतो भवति । 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' । 'पल्लवोऽस्त्री किसलय', 'क्षतिः प्रहारे हानौ च', 'रदना दशना दन्ता रदाः', 'किरणप्रग्रहौ रश्मी', 'निचोलः प्रच्छदपटः सर्वत्राप्यमरः॥१८॥ भशमिति ।। अनावरणा आवरणरहिता या अधरपलवस्य क्षतिको हिममारुतै शमयतातिप्यत । दुडो देवादिककाकर्तरि लन् । सा क्षतिः । यत्तदोनित्यसम्बन्धात् । सीत्कृतैः मीत्कारः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवमिनेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कणि कस्य इडागमः । सुनिर्ववौ सुष्ठु निर्ववार । शीतालुरामछायत इति भावः। हिमहताधरनिर्वाणस्य मीत्कारकारण- कस्य दशनरश्मिपटाच्छादने हेतुत्वोत्क्षणादूपकात्प्रेक्षयोः सहुरः ॥ ५८ ॥ वणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे ॥ स्फुटमिवावरणं हिममारुतैर्मृदुतया दुतयाऽधरलेखया ॥ १६ ॥ वणभृतेति ॥ कस्याश्चित् सतनोः नायिकायाः अधरलेखया ओष्टपल्लवेन स्फुट प्रकटं यथा भवति तथा आवरणमिव आच्छादनमिव दधे इतम् । किंभूतया अधरलेखया हिम- .. (१) याधर ।

सर्गः । ] तया। शिशुपालवधे। २३७ मारुतैः शीतवायुभिः दुतया परिततया पीडितया, अपरं किंभूतया अधरलेखया अणं बिभर्तीति व्रणभृत् तया सबणया, कया केन हेतुना मृदुतया मृदोः कोमलस्य भावो मृदुता तया मार्दवेन । किंलक्षणमावरणं कलसीत्कृतस्फुरितदन्तमरीचिमयं कलसोत्कृतेन मधुरानननिःश्वासेन स्फुरिता उल्लसिता ये दन्तमरीचयः दशनकिरणाः तन्मयं तत्स्वरूपम् । 'व्रणोऽस्त्रियामीर्ममरः क्लीबे नाडीव्रणः पुमान्' इत्यमरः ॥ ५९ ॥ उक्रमवार्थ भयन्तरेणाह- अणभृतेति ॥ मृदुतया मार्द वेन हेतुना हिममारुतैर्दुतया पीडितया । 'टुदु उपताप' इति धातोः सौवा- दिकात्कर्मणि कः। व्रणभृता दन्तवणवत्या सुतनोः मिया अधरी लेखेव तया अधरलेखया का सुतनोः कामिन्याः कलेन सीत्कृतेन हेतुना स्फुरिताः प्रकाशिता ये दन्तमरीचयस्तन्मयं तदूपं स्फुटमावरणमाच्छादनं दध इव धृतमिवेत्युत्प्रेश्चा। दधातेः कर्मणि लिट् ॥ ५९ ॥ धृततुषारकणस्य नभस्वतस्तरुलताऽङ्गुलितर्जनविभ्रमाः॥ पृथु निरन्तरमिष्टभुजान्तरं वनितयाऽनितया न विषेहिरे ॥ ६० ॥ धृतेति ॥ कयाचित् वनितया कामिन्या नभस्वतः वायोः तरुलताऽङ्गुलितर्जनविम्रमाः न विषेहिरे न सोढाः, तरुलता वृक्षशाखा एवालियः करशाखास्तासां ताभिर्वा यतर्जन भर्त्सनं ते विभ्रमाः विलासाः, ते कयाचिन्न सेहिरे । तानालोक्य बहु मुमुहे इत्यर्थः । यतः किंभूतया वनिताया पृथु निन्तरम् इष्टभुजान्तरम् अनितया अप्राप्तया । न इता अनिता पृथु विशालं, निरन्तरं निर्विवरम् , इष्टभुजान्तरं भर्तृहृदयमध्यम् । इष्टस्य कान्तस्य भुजान्तरं भुजमध्यम् । वियोगित्वादित्यर्थः । किंभूतस्य नभस्वतः धृता उढाः तुषारस्य हिमस्य कगाः बिन्दवो येन सः तस्य तहिमबिन्दोः। वियोगिन्यो हि कामोद्दीपकैर्भावैरत्यर्थ विह्वला भवन्ति । 'तुपारस्तुहिनं हिमम्', 'लवलेशकणाऽणवः', 'नभस्वद्वातपवनपवमानप्रभञ्जनाः' । 'अगुल्यः करशाखाः स्युः', अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ।। 'वनिता जनिताऽत्यर्थानुरागायां च योषिति' सर्वत्राप्यमरः ॥ ६० ॥ धृतति ।। धृतास्तुषारकणास्तुहिनशीकरा येन तस्य नभस्वतः पवनस्य सम्बन्धिनः नरुलता एवागु- लयस्ताभिस्तर्जनानि यानि तान्येव विभ्रमा विलासाः, पृथु विशालमिष्टस्य दयितम्य भुजान्तरं भुजमध्यं वक्षःस्थलं निरन्तरमनितया अप्राप्तया। गाढालिङ्गनमलभमानयेत्यर्थः । इणः कर्तरि कः। वनितया मिया न विहिरे न सोढाः । विरहिण्यस्तर्जिता इव नभस्वतो बिभ्यतीति भावः ॥ ६ ॥ हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि ॥ प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६१ ॥ हिमेति ॥ ताः प्रसिद्धाः युवतयः कामिन्यो विलासिनः शृङ्गारिणः पुरुषान् वल्ल- भान् रमयन्ति स्म अक्रीडयन् । किंभूता युवतयः हिमतावपि हेमन्तेऽपि भृशस्विदः अत्यर्थ धर्मवारियुक्ताः, भृशं स्विद्यन्ति ता भृशस्विदः । हिमऋतौ किं कुर्वति अकृ- त्रिमं सहजमनुरागं स्नेहं प्रकटयति प्रकाशमाने, किंभूतं स्नेहं स्मरमय कन्दर्पोत्थं कामाधिकम् , काममयमित्यर्थः । अत एव पुनः किंलक्षणे हिमऋतौ सुतरामति- शयेन उपकारिणि उपकारयुक्ते । सत्कर्तरीत्यर्थः । प्रियसम्पर्कवशात् यदा तासां स्वेदो - - २३८ सन्देहविषौषधिसर्वरूपायुते [षष्ठः- जायते, तदा तासां यः अनुरागः कान्तं प्रति स्वाभाविकः, स प्रकटो भवति । अनुराग- लक्षणो हि स्वेदः, तस्मिश्च सति प्रेयसां चित्तेषु ईदृशं भवति नूनं वयमासां प्रियाः, कुतोऽन्यथाऽस्मत्सम्पर्केणासां प्रीतयः स्वेदश्च, इति सुतरामुपकारित्वम् । 'तरुणी युवतिः समे' । करणेन निवृत्तः कृत्रिमस्तम् ॥ ६१ ॥ हिमेति ॥ स्मरमयं स्मरादागतम् । स्मरप्रयुक्तमित्यर्थः । 'तत आगतः' इति मयट् । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिण पुंसा रिरंसा- जननानेभ्यः स्वानुरागप्रकाशनाचात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसम्भावना- रहितकालेऽपीत्यर्थः । माहितः 'ऋत्यकः' इति प्रकृतिभावः । भृशं स्विद्यन्ति रागोष्मणा भृशस्विद इति सात्त्विकोक्तिः । क्विप् । हेमन्तोऽपि रागिणा स्वेदहेतुरेव । तद्धतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान् रमयन्ति स्म ! हेमन्तस्योद्दीपकत्वादिति । पीडाक्षमत्वात् दीर्घरात्रित्वाचोभयेच्छा- सदृशमरमन्तेत्यर्थः । इति हेमन्तवर्णनम् ॥६१ ॥ अथ शिशिरवर्णनम्- कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुतिः ॥ उपवनं निरभर्सयत प्रियान् वियुवतीर्युवतीः शिशिरानिलः ॥ १२ ॥ कुसुमयन्निति ॥ शिशिरानिलः उपवनं उद्याने वने वा युवतीः नायिकाः निरभर्ल्स- यत निर्भर्त्सयामास तुच्छीचकार । किं भूता युवतीः प्रियान् कान्तान् वियुवतीः वियु- जानाः भर्तृभ्यो वियोगं ददतीः, शिशिरानिलः किं कुर्वन् फलिनीः प्रियङ्गुलताः कुसुमयन् पुष्पयन् पुष्पयुक्ताः कुर्वन् । शिशिरानिले हि वहति सति ताः पुष्प्यन्तीति । कैरभर्स्यत् अलिनीरवैः भृङ्गीशब्दैः, किं भूतो वायुः अलिनीरवैः भृङ्गीरवैः आहितहुकृतिः उत्पादितहुङ्कारशब्दः, किंभूतै रवैः मदविकासिभिः मदेन प्रसृतः । 'प्रियङगुः फलिनी फली' इत्यमरः ॥ ६२ ॥ अथ शिशिरं वर्णयति- कुसुमयनिति ॥ उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमयन्कुसुमवती: कुर्वन् । इत्युहीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात 'तत्करोति-' इति ण्यन्तामटः शत्रादेशः। णाविष्ठवावे विन्मतोलक् । मदाविकासिभिर्मदन विजृम्भमाणैरलिनीरवः भृङ्गगहुद्वारराहितहुस्कृतिः कृतहु- द्वारः । माधुर्यायुहीपकत्वातिशयद्योतनार्थमलिनीति भीलिङ्गनिर्देशः। शिशिरानिलः प्रियान् वियुवतीः कोपा- द्वियुञ्जानाः । यौतेः शतरि धातोरुवकादेशः 'उगितश्च' इति ऊँप् । युवतीबंधूः । 'यूनस्तिः' इति तिप्रत्ययः। निरभर्सयताऽतर्जयत । तर्जिभन्स्योचौरादिकयोरनुदानेवादात्मनेपदम् । अत्र वायो अचेतने चेतनधर्मों निर्भर्त्सनमुत्प्रेक्ष्यते । सा च आलिनीहुङ्कारझड्कारोज्जीवि तेति रूपकसङ्कीर्णा व्यञ्जकाप्रयोगागम्या च ॥६२॥ शिशिरे हिमकरकरा अतितीक्ष्णा न भवन्तीति स्वभावः । तत्र कविरुहते- उपचितेषु परेष्वसमर्थतां ब्रजति कालवशादलवानपि ॥ तपसि मन्दगभस्तिरभीषुमान हि महाहिमहानिकरोऽभवत् ॥ ६३ ।। उपचितेविति ॥ अहमेवं मन्ये-यत् कालवशात दैववशेन परेषु शत्रुषु उपचितेषु वृद्धिं गतेषु सत्सु बलवान् अतिबलिष्ठोऽपि पुरुषः असमर्थतां व्रजति समर्थो न भवति । एतदेव अर्थान्तरन्यासेन द्रढयति-हि युक्तोऽयमर्थः, हि पस्मात्कारणात् तपसि माघे मासि अभीषुमान् अंशुमाली श्रीसूर्यः महाहिमहानिकरी न अभवत् प्रवृदहिमनाशकारी .. : ..

सर्गः।] शिशुपालवधे। २३६. २ । १ १ नाभूत्, महाहिमस्य प्रवृद्धतुषारस्य हानि क्षयं करोति इति । किंलक्षणः अभीषुमान मन्दगभस्तिः निष्प्रभकिरणः, यतः स्वयं कीदृशः सूर्यः हिमं तुषारं हन्तीति हिमहा शीतघ्नः । 'तपा माघे', 'गभस्तिघृणिरश्मयः', 'अभीषु: प्रग्रहे रश्मौ' सर्वत्रामरः ॥ ६३ ॥ उपचितेष्विति ॥ कालव शादलवानपि परेषु शत्रुधूपचितेषु प्रवृद्धेषु सत्सु असमर्थता दौर्बल्यं ब्रजति । हि यस्मात्तपसि माघमासे । 'तपा माघे' इत्यमरः। मन्दगभस्तिम॒दुरश्मिरभीषुमानंशुमान् । 'अभीषुः प्रग्रहे रश्मी' इत्यमरः । महत उपचितस्य हिमम्य हानि नाशं करोतीति महाडिमहानिकरस्तद्धेतु भवत् । कृञो हेतु-' इत्यादिना हेत्वर्थे टप्रत्ययः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ ६ ॥ अभिषिषणयिषु भुवनानि यः स्मरमिवाख्यत रोध(१)रजश्चयः ॥ क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयनुदभूहिशः ॥ ६४ ॥ अभिषिषेणयिषुमिति ॥ अयं रो-रजश्चयः उदभूत् प्रकटीबभूव । रोध्रतरुकुसुम- रेणूनां चयः रोधरजश्चयः । किं कुर्वन् दिशः तिरयन् ककुभः आच्छादयन् , किंभूतो रोध- रजश्चयः क्षुभितसैन्यपरागविपाण्डुरद्युतिः क्षुभितं चलितं यत्सैन्यम् अनीकं तस्य परागा रेणवः तेषामिव पाण्डुरा श्वेता द्युतिः छविर्यस्य सः चलितसेनारेणुधवलच्छविः । अयं कः, यः रोधरजश्चयः रोध्रपुष्परेणुनिकरः, उत्प्रेक्षते-यः स्मरं कन्दर्प भुवनानि त्रिविष्टपानि अभिषिषेणयितुं सेनया अभियातुकामम् आख्यत इव अकथयदिव । सेनया अभियातुमि- च्छति अभिपिपेणयिपति, अभिषिपेणयिपतीति अभिविषेणयिषुः तम् । कामोऽयं सन्नद्धो भुवनानि जेतुमागच्छतीति अकथयदिव । यः किलाभिषेणयति तस्याग्रतः सैन्यरजः प्रदृश्यते । 'तिरीटस्तिल्वको रोधः', 'पांसुर्ना न द्वयो रजः', 'समवायश्च यो गणः', 'परागः कौसमे रेणौ स्नानीयादौ रजस्यपि। 'विशदश्वेतपाण्डुराः', 'दिशस्तु ककुभः काष्ठाः' सर्वत्राप्यमरः॥ ६४॥ अभिषिषणयिपुमिति ।। क्षुभित उद्धतो यः सैन्यपरागः सेनारजः स इव विपाडुरयुतिः शुभ्रवर्णो यो लोध्ररजश्चयः भुवनान्यभिषिषणयिधू सेनयाऽभियातुमिच्छन्तम् । 'यत्सेनयाभिगमन मरौ तदभिषेणनम्' इत्यमरः । 'सत्यापपाश-' इत्यादिना सेनाशब्दाणिचि सनि 'सनाशंसभिक्ष उः' इत्युप्रत्ययः । 'स्थादि- ध्वभ्यासेन-'इति धात्वभ्याससकारयोः षत्वम् । स्मरमाख्यतेवाख्यातवानित्युत्प्रेक्षा । चक्षिङः ख्याञ् 'अस्य- तिवक्ति ख्यातिभ्योऽङ्' इति चलेरडादेशः । अयं लोधरजश्चयो दिशस्तिरयन् तिरस्कुर्वन् । तिरःशब्दात् 'तत्क- रोति-पति ण्यन्ताल्लटः शत्रादेशः । णाविष्ठवद्भावे टिलोप: । उदभूत् ॥ ६ ॥ शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः ॥ इति धियाऽस्तरुषः परिरेभिरे घनमतोनमतोऽनुमतान् प्रियाः ॥६५॥ शिशिरेति ॥ प्रियाः कामिन्यः अनुमतान् वल्लभान् अतः कारणात् घनं गाढं यथा भवति तथा परिरेभिरे आशिश्लिषुः । अतः कुतः, यतः कारणात् इति धिया एवं बुद्धया अस्तरुषः त्यक्तकोपाः उज्झितमानाः । इतीति किम्-यत्, नोऽस्माकं शीतहरस्य हिमनाशकरस्य कुचोष्मणः स्तनोष्णत्वस्य शिशिरमासं माघमासमपास्य त्यक्त्वा क इव गुणः क इव लाभः, अपि तु न कोऽपि। किंलक्षणान् प्रियान् अनमतः अप्रहान् अनम्नान् । 'धनं निरन्तरं सान्द्रम्' इत्यमरः॥६५॥ शिशिरेति ॥ शिशिरमासमपास्यापहाय शीतं हरतीति शीतहरस्य । 'हरतेनुबननेऽच्' इत्यच्प्रत्ययः । .. + (१) लोध्र।

२४० सन्देहविषौपपिसर्वकषायुते- - [ षष्ठः- नोस्माकमस्य कुचोष्मणः कुचोष्णत्वस्य क इव गुणः। किं फलं सम्पायत इति शेषः गम्यमानक्रियापेक्षया क्वानिर्देशः । शब्दो वाक्यालद्वारे । इति धियान्तोऽस्मिन् शिशिरमासे । साविभक्तिकस्ततिः । प्रियाः कान्ता अस्तरुषो निरस्तरोषाः सत्यो नमतः प्रणताननुमतान् स्वप्रियान् घनं निबिडं परि रेभिरे आश्लिष्टवत्यः। इति धियेति सुखार्थस्य परिरम्भस्य कुचोष्मसाफल्यार्थत्वमुत्प्रेक्ष्यते, व्यञ्जकाप्रयोगाद्गम्यत्वं च ॥ ६५ ॥ अमरस्य उभे भायें कुन्दलता लवङ्गालता च । इह शिशिरे ऋतौ ते उभे अपि कुसु- मिते भवतः इति स्वभावः । तत्र कविरूहते- अधिलवङ्गममी रजसाधिक मलिनिताः सुमनोदलतालिनः ॥ स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलताऽलिनः ॥ ६६ ॥ अधिलवङ्गमिति ॥ कुन्दलता मुचुकुन्दवल्ली दलता विकसता प्रसवेन पुष्पण स्फुट प्रकटम् इति हेतोः अतः कारणात् पुरोऽग्रे अलिनः भ्रमरान् अहसदिव जहासेव । इतीति किम्-यत्, अमी अलयो भ्रमराः अधिलवङ्गं लवङ्गालतायां सुमनोदलतालिन: सन्तः कुलमपत्रेषु उपविष्टाः सन्तः सपदि तत्काल रजसा रेणुना अधिक नितरां मलिनिताः मलिनत्वं नीताः कृष्णत्वं प्रापिताः । लवङ्गस्य अधि अधिलवङ्गम् । सुमनसां पुष्पाणां दलानि तेषु तालयन्ति तिष्ठन्तीति ते सुमनोदलतालिनः । पुष्पपत्रेषु कृतस्थितय इत्यर्थः । अन्योऽपि यः उज्ज्वलां प्रधाननारीमासेव्य पश्चात् हीनां मलिना सेवते, स मलिनत्वं प्राप्नोति । तदा प्रधाननारी तमुपसहति-यत्त्वं रजसा मलिनीकृतः इति । 'लवड्गं देव- कुछम', 'रजो गुणे च स्त्रीपुष्पे', 'सुमनाः पण्डिते पुष्पे', 'प्रसवः पुष्पफलयोः', 'षट्पद- भ्रमरालिनः', 'तालः स्थितौ सर्वत्राप्यमरः ॥ ६६ ॥ अधिलबामिति ॥ लवङ्गेष्वधिलवङ्गम् । विभक्यर्थेऽव्ययीभावः । सुमनसां पुष्पाणां दलेषु तालयान्त प्रतितिष्ठन्तीति सुमनोदलतालिनः । ताच्छील्ये आभीक्ष्ण्ये वा लिनिः । अमी अलिन। मधुपा: रजसा परागे- णातवेन चाधिकं मलिना मलीममा पापिनश्च कृता मलिनिता इति हेतोः पुरोऽये सपदि कुन्दलता माध्य- वल्ली । 'माध्य कुन्दम्' इत्यमरः । दलता विकमता प्रसवेन निजकुसुमेनाऽहम जहासः । स्फुटमित्युत्प्रेक्षा- याम् । रजस्वलां गन्तारं काामेनं सपल्यो हसन्तीति भावः । कुन्दकुसुमस्य धावल्याद्धासत्वेनोत्प्रेक्षा । इति शिशिरवर्णनम् ॥ ६६ ।। अथ वज्जवारी(?)- अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव सन्तानकः ॥ तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६७ ॥ अतिसुरभिरिति ॥ सन्तानकः सन्तानाख्यतः वृक्षनायकः कल्पतरुः पुष्पश्रिया कुसमसमृद्धया अभाजि सेवितः । वसन्ते हि सोऽधिकं पुष्प्यतीति स्वभावः । मन्दारपारिजातहरिचन्दनकल्पवृक्षसन्तानाः । पञ्चैतै सुरतरवः- इति हलायुधः । किंभूतः सन्तानकः अतिसरभिः बहुतरपरिमलवान्, किंभूतया पुष्पश्रिया, उत्प्रेक्षते-मतनुतरतयेव मतमभीष्टं नुतमुत्कृष्टं रतं निधुवनं यस्याः सा तयेव । यथा मतनुतरतया नायिकया-सन्तानं करोतीति सन्तानकः पुत्रोत्पादकः अतिकामवा- नित्यर्थः-पुरुषः सेव्यते । सोऽपि अतिसरभिः कृताङ्गभोगः । अपरं च तरुणपरभृतः मत्त- कोकिलः परपुष्टयुवा स्वनं शब्दम् अतनुत विस्तारयामास । चुकूजेत्यर्थः । किमर्थ रामिणां सगः । शिशुपालवधे। २४१ रतये कामिनां प्रीतये । किंभूतः तरुणपरभृतः वसन्ताऽऽनकः वसन्तस्य अतोः आनकः पटह इव, माधवमासपटहः । कोकिलानां ध्वनि श्रुत्वा वसन्त आगत इति ज्ञायते इत्यर्थः । 'आनकः पटहोऽस्त्री स्यात्', 'वसन्तः सुरभिः स्मृतः ॥ ६ ॥ अथ यमकविशेषकौतुकितया कविः पुनदिशामिः ऋतून वर्णयत्रा घेश्चतुर्भिर्वमन्तं वर्णयति- अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः सन्तानकः कल्पवृक्ष पुष्पनियां पुष्पसम्पदामतनुनर- तया महत्तरत्वेन । अतनुशन्दात्तरबन्तात्तत्प्रत्ययः । अभाजीवाऽभत्रीवत्युत्प्रेक्षा । तथा नम्र इत्यर्थः। भलेश्व चिणि' इति विभाषा नलोप उपधावृद्धिः । चिणो लुक् । किश्च वसन्तस्थानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणी कामिना रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजे- न्यर्थः । प्रभा वृत्तम् । 'स्वरशरविरतिर्ननी री प्रभा' इति लक्षणात् ।। ६० ।। नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसाऽरम् ॥ चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८ ॥ नोज्झितुमिति ॥ अलिनाम् आलिः भ्रमराणां माला चूतं सहकारवृक्षमुज्झितुं न अक्षमिष्ट परित्यक्तुं न समर्थाऽभूत्, कस्मात् अतिरागात् प्रीत्याधिक्यात् अत्यासक्ति- वशात् । सर्ववृक्षेभ्यो मधुपाश्चूते प्रीयन्ते । उक्तं च कुमारसम्भवे-'अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा' इति । किंभूतं चूतं युवतिमाननिरासे दक्ष दक्ष- इव दक्षः तं, मानिनीमत्सरत्वाऽसने कामिनीरोषनिराकरणे चतुरं, पुनः किंभूतं चूतं मधु- वासरेषु वसन्तदिवसेषु सारः उत्कृष्टस्तं, किंभूता अलिनाम् आलिः अरमत्यर्थम् इष्टमधुवास- रसा इष्टोऽभीष्टो यो मधुर्मकरन्दस्तत्र वासरसोऽवस्थितिर्व्यसनं वा यस्याः सा, अत एवं त्यक्तुं नाक्षमिष्ट । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' । 'दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च' । 'मधु मधे पुष्परसे क्षौद्रे ऽपि', 'शृङ्गारादौ विषे वीर्ये गुणे रागे वे रसः। "आली सख्यावली अपि, षट्पदभ्रमरालिनः', 'क्लीये दिवसवासरौ' सर्वत्राप्यमरः॥६८॥ नोज्झितुमिति ।। अरमत्यन्तमिष्टेष्वीप्सितेषु मधुषु मकरन्देषु वासे वसती रसो रागो यस्याः सा इष्ट- मधुवासरसा। मधुपानपि येत्यर्थः । अत एवालिनामालि श्रेणियुवतिमाननिरासे दक्षं कुशलम्। उद्दीपक- स्वादिति भावः । मधुवासरेषु वसन्तदिनषु सारं पेटं मधुवासरसारम् । तत्काललाध्यमित्यर्थः । चूतं सहकार- मातिरागादतिलाल्यादुज्झितुं हातुं नाऽक्षमिष्ट नाऽसहिष्ट । क्षमे वादिकाल्लुङ् । स्वागता वृनम् । 'स्वागतेति रनमाद् गुरुयुग्मम्' इति लक्षणात् ॥ ६८ ॥ जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ॥ इत्यस्य तेने कदलीमधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६९ ॥ जगशीकर्तुमिति ॥ मधुश्रीः वसन्तलक्ष्मीः इत्यतो हेतोः कदलीः तेने सम्भाः विस्तारयामास । अवर्धयतेत्यर्थः । इतीति किम्-यत्, अहं स्मरस्य अनीके कामस्य सैन्ये इमाः कदलीः केतनवैजयन्तीः तनवै चिकपताका विस्तारयाणि । केतनाय अभि- शानाय वैजयन्त्यः पताकाः । अन्यस्यापि राज्ञः सैन्ये केतनाय अभिज्ञानाय वैजयन्त्यः पताका भवन्ति । किंलक्षणे स्मरस्यानीके जगत् विश्वं वशीकर्तुमायतं विधातुं विभौ समर्थे । यः किल अन्यान् वशीकर्तुं शक्नोति तस्यावश्य चिकपताका दीयन्ते । किंभूताः केतनवैजयन्तीः जयन्तीः जयनशीलाः शत्रुपराभवकारिणीः, किंभूता मधुश्रीः प्रभावयतीति 'प्रभावनी प्रभावदानसमर्था। 'प्रभुः परिखुढोऽधिपः', 'अनीकं बलं', 'केतनं ध्वजमखिपा६९ १ २१ शिष्य २४२ सन्देहविपौषधिसर्वरूपायुते- [ षष्ठः- . .. जगदशीकर्तुमिति ॥ प्रभावयतीति प्रभावनी सम्पादयित्री । कतरि ल्युटिडी । मधुश्रीः की जगवशीकर्तु प्रमोसमर्थे अस्य स्मरस्याऽनीकेसम्जयतीर्जिवर तजयन्तीर्वजपताकासन करवाण। तनाले प्रत- काले लोट् । टेरत्वमित्यकारः, एत ऐ। 'आडुनमस्य पिच्च' इति आटि 'आटम' इति वृद्धिः । इति मनी- बयति शेषः, इमाः कदली रम्भातरूंतेने वितस्तार । 'कदली वारणबुप्ता रम्भा मोचांशुमत्फला' इत्यमरः। कदलीषु कामवैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः ॥ ६९ ॥ स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ॥ प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्यवश्यम् ॥ ७० ॥ स्मररागमयीति ॥ अवश्यं निश्चितं स्मररागमयी तमित्रा कामव्यसनरूपा रात्रिः खेः श्रीसूर्यस्य वपुः शरीरं परितस्तार आच्छादयामास, किंभूता तमिस्रा असती अविद्यमाना । न हि स्मररागमयेन तमसा रखेर्वपुः कदाचिदपि आच्छाद्यते । तर्हि वपुः कथमाच्छादितं, यदिवापि दिवसेऽपि स्त्री अङ्गाना प्रिय भर्तारमाप प्राप्तवती । कदाचि प्रियो वश्यो भविष्यतीत्याशङ्कयाह-किंभूतं प्रियम् अवश्यमनायत्तम् । अयाचमान- मत्यर्थः । क सति प्राप कोकिले परपुष्टे परितः समन्तात् रसति शब्दायमाने सति, किंभूते कोकिले तारवे मधुरस्वरे उच्चस्वरे वा । यदि च तमिसा खेः शरीरं न पिहित. वती, तत्कथं दिवापि रजनीभ्रान्त्या तमसौ व्यभिचरेत् । तस्माद्वयमनुमिमीमहे-यन्नूनं स्मररागमयी तमिस्रा खेः वपुः परितस्तार, कामतमिस्या रविराच्छादितः । उक्त च-'नैत्र पश्यति कामान्धो यर्थी दोष न पश्यति' इति । समन्तस्तु परितः सर्वतो विश्वगित्यपि'। 'तारोऽत्युच्चैस्त्रयस्त्रिषु', 'ध्वनिध्वानरवस्वनाः' रसतीति रस शब्दे'ऽस्य शतरि रूपम्॥७॥ स्मररागमयोति ॥ असती दुष्टा स्मरण कामेन निमित्तन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः। 'तमित्रा तिमिरे रोगे तमिस्त्रा तु तमस्तनौ । कृष्णपक्षनिशाया च- इति विश्वः । वर्षपुर्मण्डलं परितस्तार आववे। अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात स्तृणातलिट् । अवश्य, सत्यमित्यर्थः । कुतः-परितः समन्तात्ताररवे उच्चतरध्वनौ कोकिले रसात कूजति मति इत्युद्दीपकोकिः। मी, मिय इत्यर्थः। जातावेकवचनम्। दिवेति सप्तम्यर्थेऽव्ययम । वशं गतो वश्यः। 'वशं गतः' इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः। यत् अवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घय समगच्छन्, तत्सत्यम् । रागातमिरतिरोहित- मानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियातिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोत्नेक्षा अवश्य मिति व्यन्नकाप्रयोगाद्वाच्या। औपच्छन्द सिकं वृत्तम् । 'विषमे समजा गुरू समे चेत् स्भरयाश्छन्दासक नदीपपूर्वम्' इति लक्षणात् ॥ ७० ॥ वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता ॥ रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ १ ॥ वपुरिति ॥ केनचित् रमणेन रमणी नायिका अङ्कमनीयत उत्सङ्गं प्रापिता। कि- भूता रमणी कमनीयतरा अतिशयेन कमनीया मनोहरतरा, अपरं किंभूता रमणी शुचिना ग्रीष्मेण रुचिरं मनोहरं वपुः शरीर गमिता प्रापिता, किंभूतं वपुः अम्बुनि जले विहारः क्रीडन तेन. हिमं शीतलं वारिविहरणशीतलम्, अपरं किंभूता रमणी न चिरमंशवः जांसि यस्याः सा अधिरांशुः सैत्र लता : अचिरांशुलता तस्याः रुचिरिव रुचिर्यस्याः ‘सा . .

सर्गः ।] .. शिशुपालवधे। २४३ वियुल्लतासमकान्तिः, अपरं किंभूता रमणी रागम् इता अभिलाष प्रीति वा प्राप्ता । अत एवाभिलाषणीयतरेत्यर्थः । 'रुचिरं चारु मनोझं मञ्जु मन्जुलम्', 'रुचिस्त्विड्भाभा- श्छविद्युतिदीप्तयः', 'उत्सङ्गचिहयोरङ्कः । इता 'इण् गतावित्यस्य रूपम् ॥ ७१ ॥ अथैकेन ग्रीष्ममाह- वपुरिति ॥ शुचिना ग्रीष्मेण प्रयोजकका अम्बुविहारण जलक्रीडया हिम शीतलमत एवं रुचिर- मुज्ज्वलं वपुर्दे गमिता प्रापिता । 'गतिबुद्धि-' इत्यादिना आणि कर्तुः कर्मत्वम्। 'प्रधानकर्मण्याख्येय लादी. नादिकर्मणाम्' इत्याभेहितन्वं च। अत एव कमनीयतरा रमणीयतरा, अचिराशुलनेवाचिराशुलता विद्युल्लता तस्या रुचिरिव रुचिर्यस्याः सा अचिराशुलतारुचिः इत्युपमाद्वयम् । रागमनुरागमिता प्राप्ता । इणः कर्तरि कः। रमणी रमणेन प्रियेणाङ्कमुन्सङ्गमनीयत नीता । 'नीहवहाम्' इनि नयनेद्विकर्मकता । शेष पूर्ववत् । नोटकं वृत्तम । 'इह तोटकमान्धसकारयुतम्' इति लक्षणातू || ७१ ॥ अथ वर्षावर्णनम्- मुदमब्दभुवामपो मयूराः सहसाऽऽयन्त नदी पपाट लाभे ॥ अलिनाऽरमताऽलिनी शिलीन्ध्र सह सायन्तनदीपपाटलाभे ॥ ७२ ।। मुदमिति ॥ मयूराः सर्पाशनाः अपां जलानां लाभे अधिगमे सति सहसा अक- स्मात् अतर्कितमित्यर्थः, मुदम् आयन्त आनन्दं जग्मुः, किभूतानामपाम् अब्दभुवां मेघसम्भवानाम् । अन्यत् नदी सरित् पपाट रयादवहत् पूरमगात् । पपाटेति 'पट गता'- वित्यस्य लिटि । अपरम् अलिनी भूमरी अलिना भमरेण कान्तेन सह सार्धम् अरमत चिक्रीड, व शिलोन्ध्र वृक्षजातौ अथ वा शिलीन्ध्राख्यकुसुमे । किंभूते शिलीन्ध्र सायन्तन- दीपपाटलाभे सायन्तनः सन्ध्याकालीनो यो दीपः प्रदीपस्तद्वत् तस्येव वा पाटला श्वेत- रक्ता आभा कान्तिर्यस्य सः तस्मिन् सन्ध्याकालीनप्रदीपप्रभे ॥ ७२ ॥ अथ द्वाभ्या वर्षतु वर्णयति- मुदमिति ।। अब्दभुवा मेघप्रभवानामपां लाभे। मेधे वर्षति सतीत्यर्थः । सहमा मयूरा मुदमानन्द- मायन्ताऽलभन्त । अय गतौ लडि 'भाडजादीनाम्' इत्याडागम वृद्धिः । नदी पपाट । नद्य प्रावहन्त्रित्यर्थः अट पट गतौ, लिट् । जातावेकवचनम् । आलना भृड्रेग मह, सायन्तनः सायम्भवः । 'सायचिरम्-' इत्या- दिना ट्युप्रत्ययस्तुडागमश्च । स चासी दपिश्च तद्वत्पाटलाभ पाटलप्रभे । इत्युपमालङ्कारः । तस्मिाशलीन्ने कन्दलीकुसुमे अलिन्यरमत । अत्र गपूरमोदप्राप्त्यायनेककर्तृका क्रयायोगप यात्राधिकरणाकैयासमुच्चय - रूपः समुच्चयाऽलङ्कारभेदः। 'गुणक्रिय योगपयं समुच्चयः' इति सामान्यलक्षणम् । औपच्छन्दसिक वृत्तम्॥७२॥ कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयाऽवनौ घनमदभ्रमराणि ॥ गगनं व गोतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥७३॥ कुटजानीति ॥ शिखिभिर्मयूरैः शिखरीन्द्रं समया पर्वतस्य रैवतकस्य समीपे अवनौ पृथिव्यां कुटजानि कुटजपुष्पाणि वीक्ष्य दृष्ट्वा अराणि रणितं केकायितम् । कया गिरा वाण्या, कथम् उच्चस्तरं यथा भवति तथा, किंभूतया गिरा गीतनिनदस्य समया गीतस्य निनदस्तस्य समा तुल्या तया गेयध्वनेस्तुल्यया, अपरं किं कृत्वा आणि गगनमाकार्श वीक्ष्य, किंलक्षगं गगनं वनौघनमदभ्रं वनौधेन उदकसमूहेन नमन्ति लम्बायमानानि अभ्राणि मेघा यस्मिंस्तथा, किंभूतानि कुटजानि धनमभ्रमाणि धनः प्रचुरो मदो येषां ते धनमदाः तथाविधा भ्रमराः षट्पदा येषु तानि धनमदभ्रमराणि अतिमत्तालिनि 'समस्तुल्यः सदृक्षः सदृशः सहक', 'वने सलिलकानने', 'अन मेयो वारिवाहः', 'षट्पद- अमराऽलयः सर्वत्राप्यमरः । अराणि इति 'रण शब्दे इत्यस्य सिचि रूपम् ॥ ७३ ॥ - .. .

२४४ सन्देहविषौषधिसर्वमायुते- [ षष्ठः- -- .. कुटजानीति ॥ शिखरीन्न समया रैवतकादेः समीपे । 'अभितः परितःसमया-' इत्यादिना द्वितीया । अवनी प्रदेशे घनमदा भ्रमरा येषु तानि घनमदभ्रमराणि कुटजानि कुटजकुसुमानि वनौन पयःपूरेण नमः नत्यभ्राणि मेघा यस्मिस्तद्वनौषनमदभ्रम् । 'पयः कीलालममृनं जीवनं भुवनं धनम्' इत्यमरः। गगनं च वीक्ष्य शिखिभिर्मयूरेगीतनिनदस्य गानध्वने: समया तुल्यया । 'तुल्याथैः-' इत्यादिना वैकल्पिकी षष्ठी। गिरा वाच।। केकयेत्यर्थः । उच्चैः अराणि रणितम् । रण शन्दे, भावे लुछ चिणो लुक् । कुटजा वृत्तम् , भवेदिह सगी कुटजाख्यम्' इति लक्षणात् ॥ ७३ ॥ अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ॥ योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ ७४ ॥ अभीष्टमिति ॥ अनोचकाशे न नीचाः महान्तः काशाः पोटगला यत्र सः अनीचकाशः तस्मिन् अनीचकाशे काले शरहतौ काचित् योषित अङ्गाना चकाशे शुशुभे। किं कृत्वा चिराय चिरकालेन अभीष्टमासाद्य कान्तं प्राप्य, किंभूतं कान्तं समुद्धृताशङ्क समुद्धृता उन्मूलिता आशङ्का वियोगभयं येन सः तम्, अपरम् किलक्षणमभीष्टं मनोजन्मसखोदयेषु ताशं मनसः चिन्ताजन्म उत्पत्तिर्यस्य सः मनोजन्मा कन्दपः तेन कृतानि तत्सम्बन्धीनि वा सुखानि सरतानन्दाः तेषामुदया उत्कर्षास्तेषु धृताशं कृताभिलाषम्, अत एव किंलक्षणा योषित् समुत् मुदा हर्षेण सह वर्तमाना सहर्षा, पुनः किंभूता योषित् कमनी मनोहरा, काम्यते अभिलप्यते सा कमनी सर्वाङ्गसुन्दरी । यदाऽसौ उत्पन्नाभिलाषा तदोन्मूलितशङ्क- मित्यर्थः । अनीचा वृद्धिमन्तः काशा यत्र, शरदीत्यर्थः । 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदा- मोदसमदाः', 'आशा तृष्णापि चायता' ॥ ७४ ॥ अथ त्रिभिः शरदं वर्णयति- अभीष्टमिति ॥ कामयत इति कमनी कामायत्री । 'क्रमः कामयिताऽभीकः कमनः कामनोऽमिक इत्यमरः । कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् ! अनीचा उन्नताः काशा अश्ववाल) यस्मिननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषा यन तमभीष्टं प्रियं चिराय चिरकालेन । 'चिराय चिररात्राय' इत्यमरः । सम्यगुद्धता उत्मष्टा आश. का सङ्कोचो यस्मिन्कर्मणि तत्समुद्धताशकं विसधं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत मानन्दा सती चकाशे । चिललासेत्यर्थः। अत्र समुत् चकाश हाते योषितः मियप्रातिनिमित्तहाख्यभाव- निबन्धनात्प्रेयोऽलङ्कारः। रसभावतदाभासतत्प्रकाशसमानाना निबन्धे रसवत्प्रेयउर्जस्वित्समाहितानीति लक्षणात् । वृत्तमुपजातिः ॥ ४ ॥ स्तनयोः समयेन याऽङ्गनानामभिनद्धारसमा न सा रसेन ।। परिरम्भरुचि तिर्जलानामभिनद्धा रसमानसारसेन ॥ ७९ ॥ स्तनयोरिति ॥ रसमाना कूजमाना सारसा लक्ष्मणा यत्र सः तथा तेन रसमान- सारसेन समयेन शरदाख्येन अवसरेण अङ्गनानां स्त्रीणां स्तनयोः कुचयोः विषये या जलानां ततिः प्रस्वेदकणानां माला अभिनद्धा रचिता, सा जलानां ततिः रसेन रागेण परिरम्भरुचिमालिङ्गनाभिलाषं न अभिनत् न स्फेटयामास । तया प्रस्वेदजलतत्या आलिङ्गनेच्छा न निवर्तितेत्यर्थः । यतः किंभूता जलानांततिः हारसमा हारतुल्या, हारेण मुक्तावल्या समा हारसमा । रसमानसारसेनेति शरदि सारसा रसन्तीति भावः । 'पुष्करा- हस्तु सारसः', 'हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका' सर्वत्राप्यमरः ॥ ७९ ॥ स्तनयोरिति ॥ रसमानाः कूजनशीलाः । 'ताच्छे ल्यवयोवचनशक्तिषु चानश्' इति नाच्छील्ये चानश ।

सर्गः।] शिशुपालवधे। २४५ प्रत्ययः। रसतेः परस्मैपदित्वान्न शानप्रत्ययः । ते सारसाः पक्षिविशेषाः यस्मिस्तेन रसमानसारसन सम. येन । शरत्कालेनेत्यर्थः । सारसानां तत्रैव सम्भवात् । 'सारसो मेथुनी कामी गोनर्दः पुष्करातयः' इनि यादवः । अङ्गनानां स्तनयोर्या जलानां ततिः शारदोष्मजन्मा स्वेदोदबिन्दुमन्दोहः अभितो नदाऽभिनद्धा । नातेरभिपूर्वात्कर्माण क्तः । 'नहो धः' इति धत्वम् ।. हारममा मुकाहारतुल्या । कुचमण्डलमण्डनाय. मानेति भावः । सा जलाना तनी रसेन रागेण हेतुना । बलीयसेति भावः। परिरम्भरुचिमालिङ्गनेच्छा नाभि- नत् न बिभेद । शारदस्वेदस्याप्यलङ्कारतया उदीपकस्याऽजुगुप्मितत्वानिःसपत्नशृङ्गारा विजयन्त इत्यर्थः । अत एव रसनिबन्धनान्सबदलङ्कारः । लक्षणमुक्नं पूर्व श्लोके । औपच्छन्दसिक वृत्तम् ॥ ५ ॥ जातप्रीतिर्या मधुरेणाऽनुवनान्तं कामे कान्ते सारसिकाकाकुरुतेन ॥ तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥७६॥ जातप्रीतिरिति ॥ सा का रसिका का सरागा स्त्री वर्तते, या स्त्री तत्सम्पर्क प्राप्य शरत्सम्बन्धं लब्ध्वा कां मोहनलीला सुरतविलासं न कुरुते न विधचे अपि तु सर्वा मोहनलीलां करोत्येव । करहसि एकान्ते, किंलक्षणा रहसि एकान्ते, किंलक्षणा रसिका अनुवनान्तमुपवने सारसिका- काकुरुतेन कान्ते भर्तरि जातप्रीतिः उत्पन्नहर्षा, सारसिका लक्ष्मणा तस्याः काकुः मनोहर यत् रुतं वाशितं तेन । किंभूतेन सारसिकाकाकुरुतेन मधुरेण मनोज्ञेन, किं कृत्वा पुरा अनन्तरं तत्सम्पर्क सारसिकायाः हस्याः संयोगं प्राप्य, किंभूते कान्ते कामे कामसदृशे । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिनेः 'तिरश्चां वाशितं रुतम्' इत्यमरः॥७॥ जातप्रीतिरिति ।। या भी अनुवनान्तम् । विभक्त्याच्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एवं सारासिकाः कारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । 'काकुः मियां विकारो यः शोकभीत्यादिभिनेः' इत्यमरः । काकुश्च तद् रुतं च तेन । कामे कामकल्पे । "मिहो देवदत्न' हातेवद्रोणप्रयोगः । कान्ते प्रिये जातीनिर्जातस्नेहाऽभूत् , रसिका रसवती। रागवतीत्यर्थ . । 'अन इनिठनी' इति ठ-प्रत्ययः । सा का भी एकाते रहमि तस्य कान्तस्य मम्पर्क प्राप्य पुरा पुरुषप्रेरणापूर्वमेव का मोहनलीला सुरतक्रीडान कुरुते । सर्वापि भी सर्वानपि सुरतविशेषान् कामतन्त्रप्रसि- द्धान् विसन्धं चकारेत्यर्थः । नेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम् ॥ ५ ॥ कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहाऽऽसवतोषितेन ॥ प्रेम्णा मनःसु रजनीष्वपि हेमनीषु के शेरते स्म रसहासवतोषितेन ॥ ७७ ॥ कान्ताजनेनेति ॥ रहसि एकान्ते एवंविधे संभोगे संयोगे हैमनोष्वपि हेमन्तभवा- स्वपि रजनीषु रात्रिषु के पुरुषाः शेरते स्म शिश्यिरे । अपि तु रसवशात् न केचिदपि सुषुपु- रित्यर्थः । किंभृते रते कान्ताजनेन स्त्रीलोकेन प्रसभं हठात् गृहीतकेशे आकृष्टमूर्धजे, गृहीताः केशा यत्र तत् तथा तस्मिन्। किंलक्षणेन कान्ताजनेन स्मरसहासवतोपितेन स्मरसहः काम- क्षमः नातिमनाक् यः आसवः पानं तेन तोपितो हर्षितः तेन, अत एव गृहीतकेशत्वम् । अपर किलक्षणेन कान्ताजनेन प्रेम्णा स्नेहेन मनस्सु भर्तृचित्तेषु उषितेन स्थितेन, पुनः कि- भूतेन कान्ताजनेन रसहासवता रसः शृङ्गारः हासः स्मितं च सौ विद्यते यस्य सः रसहासवान् तेन । 'कचः केशः शिरोरुहः', 'रतं निधुवन रहः', 'कामः पञ्चशरः स्मरः', 'आसवो- ऽजगलः सीधुः', 'शृङ्गारादौ विषे वीयें गुणे रागे वे रसः हासो हास्यं च सर्वत्राप्यमरः ७० अधकेन हेमन्तमाह- कान्ताजननेति ॥ महत इति महः । पचायच् । म्मरस्य महः कामोहोपक इन्यर्थः। तेनाऽऽमधेन सोषितः तेन स्मरमहासरतोषितेन अन एक रमहामावस्य न इति रसहामवना रागहास्यवता मत एम्गा । ।

२४६ सन्देहविषौषधिसर्वाषायुते [ षष्ठः- मनासु पुंसां चित्तेषिसेन बसता । वसतेः कर्तरि का। 'वसतिक्षुधोरिट्' इतीडागमः, 'गतिबुद्धि-' इत्यादि- सूत्रे चकारावर्तमानार्थता । कान्तय जनस्तेन कान्ताजनेन । ज.तावकवचनम् । प्रसभं रहसि बलाद् गृहीत. कशे आकृष्टशिरोरुहे रते सुरते, हेमन्ते भवा हेमन्यस्तासु हैमनीष्वपि । द्वाघीयसीष्वपीति भावः । सर्वप्राण च तनोपश्च' इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च, "टिड्ढाण-' इत्यादिना डीप । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केपीत्यर्थः । 'लट् स्मे' इति भूने लट् । एतेनातिभूमि गतः शृङ्गार हाते व्यज्यते । वसन्ततिलका वृत्तम् ॥ ७॥ गतवतामिव विस्मयमुश्चकैरसकलाऽमलपल्लवलीलया ।। मधुकृतामसद्विरमावली रसकलामलपल्लवलीलया ॥ १८ ॥ गतवतामिति ॥ मधुकृतामावली भ्रमराणां श्रेणिः असकद्वारंवारम् उच्चकैस्तार यथा भवति तथा गिरं वाचमलपत् वाणीमुबारयामास । किंभूतां वाचं रसेन रागेण" कला मधुरा तां, किंभूता आवली लवलीलया लवली चन्दनलता तस्यां लयः स्थान यस्याः । किंभूतानां मधुकृताम्, उत्प्रेक्षते-विस्मयं गतवतामिव आश्चर्य प्राप्तानामिव । कया विस्मयं गताः असकलाऽमलपल्लवलीलया असकला असम्पूर्णा ईषजाता अमला निर्मला ये पल्लवाः पत्राणि तेषां या लीला शोभा तया विस्मितानामिव । अन्योऽपि यः किल कश्चित् विस्मयते सोऽसकृत् वारंवारं 'साधु साधु' इत्यादिवाक्यैः तमुत्साहयति । 'पल्लवोऽस्त्री किसलया, हेला लीला बिब्बोकः', 'लवली चन्दनलता', 'लयः स्थाने व साम्ये च । अलपदिति 'लप परिभाषणेऽस्य लङि ॥ ७८ ॥ अथैकेन शिशिरं वर्णयति- गतवतामिति ॥ असकलाऽमलपल्लवलीलया असकला असमाविकासिनोऽमला निर्मलाश्च ये पल्लवा- स्तेषा लीला तया । नृत्यरूपयेत्यर्थः । विस्मयं गतवतामिव स्थितानामिन्युत्प्रेक्षा । मधुकना मधुकराणां सम्बन्धिनी लवलीषु लताविशेषेषु लयो लयन स्थिनिर्यस्याः सा लवलीलया आवलिः पातः रसकला रसेन मध्वास्वादेन कलामव्यक्तमधुराम् । 'वनी तु मधुरास्फुटे । कलः' इत्यमरः । गिरं वाचमसकृदुञ्चै- रलपत् । मधुमदहेतुकस्य मधुकरालापस्य पल्लवलीलया अनितविस्मयहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतू- स्प्रेक्षा । दुतविलम्बितं वृत्तम् ॥ ८ ॥ कुर्वन्तमित्यतिभरण नगानवाचः पुष्पैविराममलिनां च न गानवाचः ॥ श्रीमान्समस्तमनुसानु गिराविहतुं बिभ्रत्यनोदि(१)स मयूरगिरा विहर्तुम् ७६ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये ऋतुवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥ कुर्वन्तमिति ॥ स श्रीमान् लक्ष्मीवान् श्रीकृष्णः इहाऽस्मिन् रैवतकाचले विहर्तु क्रीडितुं मयूरगिरा बहिवाचा अनोदि प्रेरितः । किंभूते गिरौ अनुसानु शिखरे शिखरे सम- स्तम् ऋतुं बिभ्रति ऋतुसमूहमुबहति, किंभूतम् ऋतुं पुष्पैः कुसुमैः अतिभरेण अतिशय- भारेण नगान् वृक्षान् अवाच: नम्रान् कुर्वन्तं विदधतम् , अपरं किं कुर्वन्तम् अलीनां भ्रमराणां गानवाचः गीतवचनस्य विराममवसानं न कुर्वन्तं न कुर्वाणम् । इतिशब्दः समा.. सिवाचकः । मयूराः क्रीडाभिरत्र क्रीडन्तीत्यर्थः । 'स्यादवाइप्यधोमुखः', 'गीतं गान- मुभे समे', 'भारती भाषा गीर्वाग वाणी सरस्वती' ॥ ७९ ॥ इति श्रीवल्लभविरचितायां सन्देहविषौषध्यां महाटीकायां षड्ऋतुवर्णनं नाम षष्ठः सर्गः - - .. १)त्यचोदि।

सर्गः।] शिशुपालवधे। २४७ कुर्वन्तमिति ॥ इतीत्थं पुष्परेवातिभरण महाभरण तन्कृतेन वा गौरवेण नगान्वृक्षान् अवाचन्तीत्यवाचो नमान् । अशेरवपूर्वात् 'पविक्-' इत्यादिना क्विन्प्रत्ययः । कुर्वन्तमलिनो गानवाचो गीतध्वनेचंकारस्य च न विराममविराममसमाति कुर्वन्तं समस्तमृतुं सर्वानृतून अनुसानु, सानुष्पित्यर्थः । विभक्त्यर्थेऽव्ययीभावः । विभ्रति बिभ्राणे इह गिरौ रैवतका विहर्तु क्रीडितुं श्रीमान्सहारमयूरगिरा केकया अचोदि परितः। भगव- निह विहर, ऋतुगणमनुगृहाणेति प्रार्थित इवेन्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । वृत्तमुक्तम् ॥ ७९ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसिविचिते शिशुपालवधकाध्यव्याख्याने सर्वदूषाख्ये षष्टः सर्गः ॥ ६ ॥ सप्तमः सर्गः । अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ॥ निरगमदभिराद्धमादृतानां भवति महत्सु न निष्फलः प्रयासः ॥१॥ अनुगिरमिति ॥ अथ अनन्तरं स श्रीकृष्णः वनान्तलक्ष्मी विलोकयितुं निर- गमत् काननश्रियं द्रष्टु निर्ययो, किंभृतां वनान्तलक्ष्मीम् अनुगिरं रैवतकाचले शृङ्गे शृङ्गे ऋतुभिर्वसन्तादिभिर्वितायमानां विस्तार्यमाणाम् । युक्तोऽयमर्थः, यस्मात् कार- णात् महत्व गरीयस्सु पुरुषेषु विषये अभिराखुमाराधयितुम् आहतानामाराधनतत्पराणां प्रयासः प्रयत्नः निष्फलो निरर्थकः न भवति । महात्मानोऽवश्यमेव भक्तितत्पराणां प्रया- सं न निष्फलं कुर्वन्तीत्यर्थः ॥ १॥ इत्थमृतुगुणप्रादुर्भावमाभिधाय तत्फलतया भगवतः सानुचरस्य वनाविहारलीलावर्णनमारभते- अनुगिरमिति ॥ अथर्तुपादुर्भावानन्तरं स हरिः गिरावित्यनुगिरम् । विभक्त्यर्थेऽव्ययीभावः । 'गि. रेश्व सेनकस्य' इति समाप्तान्तः । ऋतुभिर्वितायमाना वितन्यमानाम् । तनोतेः कर्मणि लटः शानजादेशः। 'तनोतर्यकि' इति वैभाषिक आकारादेशः । वनान्तलक्ष्मी विलोकायतुं निरगमनिर्गतः । 'पुषादि-' इत्यादिना गमेलुङ च्लेरडादेशः । ऋतुगणभक्ति स्वीकर्तुमिति भावः। तथा हि- अभिरा माराधयितुमादृतानामादरं कुर्वताम् । आस्थावतामित्यर्थः। कर्तरि कः । प्रयास: सवायासो महत्सु विषये निष्फलो न भवांते । न हि भक्तानुकम्पिनो महान्तस्तत्सेवा व्यर्थयन्तीति भावः । अतो हरेरप्यूतुगणानुग्रहणार्थे निर्गमी युक इनि सामा- न्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । सामान्यविशेष कार्यकारणभावाभ्यां निर्दिष्टप्रकृतार्थसमर्थनादर्थान्तर- न्याम इति सर्वस्वसूत्रम् । अत्र सर्गे पुष्पितामा वृत्तम् । 'अयुजि नगरेफतो यकारो युजि च नजी जर- गाश्च पुष्पितामा' इति लक्षणात ॥१॥ दधति सुमनसो वनानि बहोर्युवतियुता यदवः प्रयातुमीषुः । मनसिशयमहामन्यथाऽमी न कुसुमपञ्चकमप्यलं विसोदुम् ॥ २ ॥ दधतीति ॥ यदवो यादवाः वनानि काननानि प्रयातुमीषुः गन्तुमभिलेषुः । किं- भूता यदवः युवतियुताः वल्लभासहिताः, किंभूतानि वनानि बह्वीः घनतराः सुमनसः पुष्पा- णि दपति धारयन्ति । अतिशयेन बह्वयः ताः । सुमनस्शब्दः स्त्रीलिङ्गो बहुवचनान्तः । आपः सुमनसो वर्षा अप्सरसिकताः समाः एते त्रियां बहुवे स्युरेकत्वेऽप्युत्तरत्रयम् ।।

२४८ सन्देहविषौपधिसर्वकषायुते- [सप्तमः इति । युक्तोऽयमर्थः, यतः कारणात् अन्यथा युवतीविना अमी यदवः कुछमपञ्चकमपि विसोढुं नालं नसमर्थाः। कामस्य किल पुष्परूपाः शोषनमोहनताडनोन्मादनोच्चाटनाख्याः पञ्च बाणाः सन्तीत्यर्थः । तेऽन्यथा युवतीविना बह्वीः सुमनसो धारयमाणानि वनानि गन्तुं कथमिच्छन्तीत्यर्थः । किंभूतं कुसुमपञ्चकं मनसिशयमहास्त्र कामस्याऽमोघमायुधम् २ दधतीति ।। यदवो यादवाः । व्याख्यातं चैतत् । बहीबहूः । बहुविधा इत्यर्थः । 'बबादिभ्यश्च' इति विकल्पादीकारः । सुमनस: पुष्पाणि । 'मियः सुमनसः पुष्पम्' इत्यमरः । दधति दधन्ति । वा नपुंसकस्य' इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः । वनानि युवतियुताः मीसमेता एवं प्रयातुमीषुरिच्छन्ति स्म । अत्र हेतुमाह-अन्यथा युवतिजनाभावे अमी यदयो, मनसि शेते इति मनसिशयः कामः । 'आधकरणे शेते.' इत्यच्प्रत्ययः। 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । तस्य महामभूतं कुसुमपञ्चकमपि । पञ्चापि कुसु- मानीत्यर्थः। पञ्चाना सङ्घः पञ्चकम् । संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति कप्रत्ययः। विसोढं नालं न शकाः। सकलसुमनसा सामर्थ्य तपारविन्दादीनामेव पञ्चषाणबाणत्वस्य सम्भवप्रमाणसिद्धत्वादिति भावः । अतो युव- तिभिः सह प्रयाणं युक्तमिति वाक्याथेन वाक्यार्थसमर्थनाद्वाक्यार्थसमर्थनरूपकाम्यालङ्कमलद्वारः । 'अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' । ॥२॥ अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ॥ अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङ्गनासु ॥३॥ अवसरमिति ॥ तदानी तस्मिन् काले अङ्गाना युवतयः अवनिषु भूपृष्ठेषु पदं न्य- दधत चरणं न्यस्तवत्यः, अपरं विभ्रमसम्पदः विलासलक्ष्म्यः अङ्गनाषु कामिनीषु विषये पदं न्यदधत । विलासा युवतिदेहेषु अवतीर्णा इत्यर्थः । उभयोविशेषणसाम्यमाह-किं कुर्व- त्यः अङ्गनाः विभ्रमसम्पदश्च तमवसर दर्शनप्रस्तावमधिगम्य प्राप्य हृदयं कान्तचित्तं हर- न्त्यः आकर्षन्त्यः । विभ्रमसम्पदोऽपि मनो हरन्त्यः । अपरं किंभूता अङ्गनाः अयत्नकृतो- ज्ज्वलस्वरूपाः अयत्नकृतं स्वभावसिद्धमुज्ज्वलं मनोहरं स्वरूपं शरीरं यासां ताः तथा स्वभावमनोहरवेशाः । विभ्रमसम्पदोऽपि स्वभावरम्यशरीराः ॥ ३ ॥ अवसरमिति ॥ तमवसरं सहजिगमिषाकालमधिगम्य हृदयं हरन्त्यो हृदयङ्गमा भवन्त्यः । सर्व हि प्रार्थ- मानमेव प्रियं भवतीत्यर्थः । यत्नेन कृतं न भवतीत्ययनकृतं तथाप्युज्ज्वलं स्वरूपं यासा ताः । स्वभाव- सुन्दरमूनय इत्यर्थः । अङ्गनास्तदानीं तस्मिनबसरेध्वनिषु पदं न्यदधत निहिनवत्यः । पादचारेणैव चेलु- रित्यर्थः । दधातर्लकि 'आत्मनेपदेष्वनतः' इति झस्य भदादेशः । अङ्गनासु विभ्रमसम्पदो विलाससम्पदः पद श्यदधन । तदानी विलासाः प्रवृत्ता इत्यर्थः । अपाङ्ग-नाना विलाससम्पदो चोभयनामाप प्रकृतानामेव हृदय- हरणादिना वर्णनासाम्येनापम्यस्य गम्यमानत्वात्केवलप्रकृतविषया तुल्ययोगिताऽलङ्कारः। वाच्यभेदेनाप्यङ्गना- विलाससम्पदामुनरोनरस्य पूर्वपूर्वविशेषकत्वावगमादेकावलीभेदो व्यज्यत इत्यलङ्कारणालावरप्वनिः ॥ ३ ॥ नखरुचिरचितेन्द्रवापलेख ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तण्याः॥४॥ नखेति ॥ तरुण्याः कामिन्याः भुजलतिका बाहुवल्लरी मुहुरिवार नितम्बे कटि- पश्चाभागे अस्खलत् पस्खाल स्खलिता । किविधे नितम्ब पृयो विस्तीर्णे, कथं मुखरित- वलयं यथा भवति तथा मुखरितानि वाचालानि वलयानि करणानि यत्र यस्यां क्रियायां तथा, रणकपूर्ण यथा भवतीत्यर्थः । किंभूता भुजलतिका ललितगतेषु गतागतं दधाना विलासगमनेषु यातायात विभ्रती। ललितानि च तानि गतानि तेह, गतं मागतं .

सर्गः । शिशुपालवधे। २४६ गतागतम् । किंभूतं गतागतं नखरुचिरचितेन्द्रचापलेख नखकान्तिभिः रचिता विहिता इन्द्रचापलेखा इन्द्रधनुःकान्तिः यत्र तत्, नखरुचिप्रसारात् उत्पन्नसरचापम् । कटिपश्चादू. भागो नितम्बः ॥४॥ न्यदधत विभ्रमसम्पदोङ्गनास्वित्युक्तं, ता एव प्रपञ्चयति- नखोत ॥ ललितगतेषु मन्दगमनेषु नखाना रुचिभिः प्रभाभी रचिता इन्द्रचापलेखा यस्मिन्कर्मणि तयथा तथा गतागतं यातायाते । 'विप्रतिषिद्धं चानधिकरणवाचि' इति वैभाषिको द्वन्द्वैकवद्भावः । दधाना नरूण्याः भुजलतिका, मुखराः कृता इति मुखारताः ध्वनिता वलया यस्मिन्कर्मणि तयथा तथा । 'कटको वलयोऽसियाम्' इत्यमरः। पृथौ नितम्बे मुहुरस्खलच्चस्वाल । अत्र नखरुचीत्यालम्बनगुण उक्तः । गतागतं दधाना अस्खलदिति तच्चेष्टा । मुखरितयलयमिति तदलकृतिः । तटास्थास्तूता वसन्तादयः । अन्यत्र विस्तारत इति चतुर्विधोऽप्युद्दीपनक्रम उक्तः । उक्तं च- 'आलम्बनगुणाश्चैव तचेष्टा तदलकृतिः । तटस्थश्चति विज्ञेयश्चतुष्कोद्दीपनक्रमः' । इति । तत्रालम्बनं रसस्य समवायिकारणं नायिका नायकश्च । तद्गुणो रूपलावण्यादिः । तच्चेष्टा भाव- हावादिः । अन्यत्सुगमम् । एवमुत्तरत्रापि ॥ ४ ॥ अतिशयपरिणाहवान् वितेने बहुतरमापित(१)रत्नकिङ्किणीकः ।। अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः॥ ५ ॥ अतिशयेति ॥ अपरस्याः नायिकायाः जघनस्थले जघनं कट्याः पुरोभागः तदेव स्थलं भूमिस्तत्र वर्तमानः कलमेखलाकलापः मनोज्ञरशनागुणः अधिकं ध्वनि वितेने विशेष शब्दमकरोत् । किंभूते जघने अलघुनि प्रौढे, किंभूतः कलमेखलाकलापः अतिशयपरि- णाहवान् अतिशयविशालतायुक्तः । 'परिणाहो विशालता' । पुनः किंभूतः मेखलाकलापः बहुतरमापितरत्नकिङ्किणीकः बहुतरा भूरयःमापिताः खचिता रत्नकिङ्किण्यः मणिक्षुद्रघण्टिका यत्र सः तथा घनतरप्रोतमणिसुवर्णक्षुद्रघण्टिकः । अत एवाधिकं ध्वनि वितेने । सुवर्णघण्टिकाः रत्नसम्पर्कात् अधिकं रणन्तीत्यर्थः । 'कलापो भूषणे बहें तूणीरे संहतेऽपि च' इत्यमरः।५। अतिशयोति ॥ अतिशयेन परिणाहवान् । अतिविशाल इत्यर्थः । अन्यथा तजयनस्याऽपर्या तरित भावः । परिणाहो विशालता । 'उपसर्गादसमासेजप णोपदशस्य' इति णत्वम् । बहुतरमर्पिता आहिता रत्नानां किङ्किण्यो यस्मिन्सः । 'नयत' इति कप्प्रत्ययः । कलो मधुरारावी मेखलाकलापोऽपरस्याः त्रियः अलघुनि जघनस्थलेधिक वन वितेने । तदलकृतिरियम् ॥ ५ ॥ गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनागणस्य(२) । चरणयुगमसुनुवत्पदेषु स्वरसमसक्कमलक्तकच्छलेन ॥ ६ ॥ गुरुनिबिडेति ॥ अङ्गनागणस्य युवतिपूगस्य चरणयुगं पादयुग्मम् असक्तमनवरतं स्वरसमसुनुवत् स्वकीयं रसमुद्रियामास(?) । रक्तादि यद् विद्यते तन्मुमोचेत्यर्थः । केन अलक्तकच्छलेन लाक्षारसव्याजेन, केषुपदेषु चरणन्यासेट, किंलक्षणं चरणयुगं गुरुनिबिडनित- म्बविम्बभाराक्रमणनिपीडितं गुरु च तत् निबिडं च तत् नितम्बविम्बं च गुरुनिबिडनितम्ब- बिम्बं तस्य भारः तेन आक्रमणं आस्कन्दनं तेन निपीडितं, प्रौढनिर्भरनितम्बभराक्रमणेन निपीडितं रुधिरमसृजदित्यर्थः ॥ ६ ॥ गुरुनिविडेति ॥ गुरु गुरुत्वगुणयुकं निबिडं दृढं च यनितम्बाबिम्बं तदेव भारस्नस्याक्रमणेन (१)मति । (२) जनस्य।

१५० सन्देहविषापधिसर्वपायुते- [ सप्तमः- अधिष्ठानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ पदेषु पादन्यामस्थानेष्वन ककच्छलेन लाक्षारम- मिषेण स्वरसं स्वद्रवमेव । 'गुणे रागे द्रवे रसः' इत्यमरः । असनमविच्छिनं यथा तथा अमुस्खुवत् स्रवति स्म । स्रवते मरणााल्लुङ णिनि-' इत्यादिना चहि धातोरुबडादेशः । द्रवयकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः। अत्रालककच्छलेनेत्यलककापहवेन स्वरसत्वारोपाच्छलादिशन्दैरसत्यत्वप्रति- पादनरूपोऽपहवालहरः ॥ ६ ॥ कुलकम्- तव सपाद समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसकृताऽलघुप्रतिक्षामनृतगिरं गुणगौरि ! मा कृथा माम् ॥७॥ न च सुतनु ! न वेनि यन्महीयानसुनिरसस्तव निश्चयः परेण ॥ वितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥ ८ ॥ सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या ।। त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृजनः सकामः ॥ ६ ॥ गतधृतिरवलम्बितुं बताऽसूननलमनालपनादहं भवत्याः ॥ प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि ! जीविते दयालुः ॥१०॥ प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ॥ चरणगतसखीवचोऽनुरोधास्किल कथमप्यनुकूलयाञ्चकार ॥ ११ ॥ तवेत्यादि । प्रियमिति ॥ वनिता नायिका प्रियं कान्तं कथमपि महता कन्टेन अनुकूलयाञ्चकार आवर्जयामास । कुतः-किलेति सत्ये, इति पूर्वोक्तप्रकारेण चरणगतसखी- वोऽनुरोधात पदयोः प्रणतसखीवचोऽनुरोधात्वाक्यदाक्षिण्यात् वाक्याग्रहात् । किंलक्षणा वनिता नितान्तमतिशयेन आगःस्मरणसरोपकपायितायताक्षी आगसः अपराधस्य स्मरणं चिन्तनं तेन सरोषे सक्रोधे कपायित आरक्त आयते विशाले अक्षिणी यस्याः सा अपराध- स्मरणसक्रोधाऽऽरक्तविशालनेत्रा। तवेति ॥ इतीति किं वाक्यदाक्षिण्यं यत्, हे गुण- गौरि ! गुणाः सौन्दर्यसौमनस्यादयः गौरा उज्ज्वला यस्याः सा गुणगौरी तस्याः सम्बोधने हे उज्ज्वलगुणे सखि ! तस्य कान्तस्याग्रतः पुरः मया इत्यभ्यधायि इत्युक्तम् । इतीति कि-यत, अहं तामस्मत्सखी सपदि वेगेन तव समीपं भवतः सन्निधिमानये प्रापयामि । अतः कारणात हे सखि ! त्वं मामनृतगिरं मा कृथाः, अनृती असत्या गीर्वाक यस्याः सा ताम् असत्यवादिनी मा कुरु । किंभूतां माम् अतिरभसकताऽलघुप्रतिज्ञाम् अतिरभसेन अत्यौत्सुक्येन कृता विहिता अलधुर्महती प्रतिज्ञा सगरो यया सा ताम् अत्यौत्सुक्याद विहितगुरुनिश्चयाम् । 'रभसो वेगहर्षयोः', 'गौरोऽरुणे सिते पीते' इत्यमरः । न चेति ॥ इतीति किं वाक्यदाक्षिण्यं यत्, हे सुतनु ! हे सर्वाङ्गसुन्दरि! अहं तत् न वेभि इति न अपि तु वेभि जानाम्येव, यत् तव निश्चयः शुद्धाङ्गीकारः परेण अन्येन असनिरसः, वर्तते इति शेषः । सुखेन निरसितुं निराकर्तुं शक्यः सुनिरसः न सनिरसः असनिरसः सुदुनि- वारः । किंलक्षणः निश्रयः महीयान् अतिशयेन महान् असिगुल्तरः । च पुनः तथापि यद्येवं 'तर्मपि सखीस वयस्यास विषये मे मम इति अभिमानः इत्यहङ्कार:- यदसौ मत्सखीजनः जातु कदाचिदपि मद्वचः मम वचनं न वितथयति न अप्रमाणयति । मद्वाक्यं मन्यते एवेत्यर्थः।मम वचः मद्वचः । वितयां करोनि वितथयति । सततमिति ॥ - सर्गः ।] शिशुपालवधे। युक् चिण्- इतीति किं वाक्यदाक्षिण्यं यत्, हे सुतनु ! मया सततमनवरतं ते तव अनभि- भाषणमसम्भाषणमेव परिपणितमङ्गीकृतं निश्रितम् । किं कुर्वत्या भवतीम् अनानयन्त्या वामप्रापयन्त्या, अपर त्वयि विरोधनिश्चितायां गृतीताऽनागमनिश्चितायां तत् अनभिभाषणं भवन अस्तु, अपरम् असहज्जनः शत्रुवर्गः सकामः सामिलापो भवति तद् भवतु सपत्नी- जनः सम्पूर्णमनोरयो भवतु । यदा आवयोविरोधस्तदा शत्रुवर्गः सकाम इत्यर्थः । गत- धृतिरिति ॥ इतीति किं वाक्यदाक्षिण्यं यत्, हे सतनु! बतेति खेदे, अहम् असून प्राणान् अबलम्बितु धारयितुं न अलं न समर्था, कस्मात् भवत्याः अनालपनात् तव असम्भाषणात्, किलक्षणाऽहं गतधृतिः नष्टहर्षा । हेमानिनि! यदि चेत् ते तव प्रणयिनि वल्लभविषये प्रसा- दबुद्धिर्नास्ति आवर्जनामतिर्न विद्यते, तदा मम जीविते दयालुर्भव मम प्राणेषु कृपावती सम्प- यस्व । इति पूर्वोक्तसखीवाक्यदाक्षिण्यादिव प्रियमनुकूलयाशकारेत्यर्थः ॥कुलकम्॥७-११॥ अथ कस्याश्चिन्सख्याः कुपितनायिकानुनयवचनं पञ्चभि. कुलकेनाह- तवति ॥ मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तु. रभिप्राये आत्मनेपदम् । इति मया तस्यापतोऽभ्यधाय्यभिहितम् । दधातः कर्मणि लुङ् 'आतो कृतोः' इति युगागमः । हे गुणगौरि ! गुणैः सौभाग्यदाक्षिण्यादिमिर्गौरि ! पार्वतीति रूपकम् । अतिरभसेन अतित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयनार्था यया तो मामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः । मद्रचनं सर्वथा कर्तव्यमित्यर्थः । करोते कि थाम् , 'न माझ्योगे' इत्यडागमप्रतिषेधः ॥ ७॥ ननु मत्प्रतिज्ञापि दुस्त्याज्योति विप्रतिषेधमाशक्याह- नोति ॥ हे मुतनु ! शुभाङ्गि! दीर्घान्तोत्तरपदात्सम्बुद्धिः, अन्यथा गुणः स्यात् । अहं न वेग्रीति न। किन्तु वेम्येवेत्यर्थः । किं तदेत्सीत्यत आह–महीयान् महत्तरस्तव निश्चयः त्वदनेक्ये प्रतिज्ञा परेण जनान्तरण सुनिरसः सुखमोच्यः । अस्यतेः खल्प्रत्ययः । स न भवतीत्यसुनिरस इति यत्नदित्यर्थ- लभ्यम् । उद्देश्येन विधेयाक्षेपायच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छन्दप्रयोग इति निबन्धः। तथापि विदितत्वेऽध्यसौ मसखी जातु कदाचिदपि मद्वचो न वितथयति नानृतीकरोतीति सखीषु मध्ये में ऽभिमानः । स्वप्रतिज्ञामनेऽपि मत्प्रतिज्ञामेव पालयसीत्याद्वारा निःश प्रतिज्ञातमित्यर्थः॥ ८॥ सततमिति ॥ भवतीं त्वामनानयन्त्या । आनयितुमशक्नुवत्या इत्यर्थः । मया सततं सदा ते तव । कर्मणि षष्ठी । अनभिभाषणमसम्भाषणं परिपणितम् । भवतीति 'भातेर्डवतुः' इत्यौणादिको डवतुप्रत्ययः । 'उगितच' इति डीप् । तस्याः सम्बुद्धिहें भवति ! सुभगे ! त्वयि तदिति तदसम्भाषणमस्त्विति विरोधनिश्नि- नायां निश्चितविरोधाया सत्याम् । 'वाहिताग्न्यादिब्धिति विकल्पानिष्ठायाः परनिपातः । असुहृज्जनो विपक्ष- वर्गः सकामः फालतमनारयो भवतु भवेत् । प्राप्तकाले लोट् । अस्मद्विरोधकाङ्क्षणामयमानन्दकाल' प्राप्त इत्यर्थः ॥ ९॥ न केवलमावयोर्विरोधः प्राणहानिरपि मम स्यादित्याह- गतधृतिरिति ॥ गतधृतिरधीराऽहं भवत्यास्तवाऽनालपनादसम्भाषणात् ।आलपनं विहायेत्यर्थः। ल्यग्लोपे पञ्चमी । असूप्राणानवलम्बितुं धारयितुमनलमशक्का । 'अलं भूषणपर्याप्तिशनिवारणवाचकम्' इत्यमरः । बतेति खेदे। अत एव हे मानिनि ! प्रणयिनि प्रिये प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नास्ति चेत्तथापि मम जीवित दयालुभव । स्पृडिगृहि-' इत्यादिना आलुचप्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुप्राह्य इति भावः ॥१०॥ प्रियामति ॥ इतीत्थं नितान्तमागमोऽन्यामङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कवायते आयते चाक्षिणी यस्याः सा तथोक्का । 'निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्' इति विश्वः। वनिता नायिका चरणगताया: पूर्वोतवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घनास्किल, किले. त्यपरमार्थे । वस्तुतस्त्वनुरागादेवेति भावः । प्रियं कथमपि कथञ्चिदनुकूलयाञ्चकाराऽभिमुखींचकार । अनु- जग्राहेत्यर्थः । एषा खण्डता नायिका । 'ज्ञातेऽन्यामङ्गविकृते खण्डिताकषायिता' इति दशरूपकलक्ष.

२५२ सन्देहविषाषधिसर्वपायुते- [सप्तमः- णात् । अत एव कविना भागःस्मरणसरोषकषायताहीत्युक्तम् । एषा च असम्भाषणचिन्ताखेदाश्रु- नि:श्वासायनुभाववती ॥ ११ ॥ अथ युग्मम्- द्रुतपदमिति मा वयस्य ! यासीननु सुतर्नु प्रति(१)पालयाऽनुयान्तीम् ॥ न हि न विदितखेदमेतदीयस्तनजघनोबहने तवापि चेतः ॥ १२ ॥ इति वदति सखीजनेऽनुरागाहयिततमामपरश्चिरं प्रतीक्ष्य ॥ तदनुगमवशादनायतानि न्यधित मिमान इवाऽवनि पदानि ॥ १३ ॥ द्रुतमित्यादि । इतीति ॥ अपरो विलासी पदानि न्यधित न्यस्तवान् । किं कृत्वा चिरं चिरकालं दयिततमां वल्लभांप्रतीक्ष्य प्रतिपालयित्वा(२), कस्मात् अनुरागात् स्नेहवशात् , कसति सखोजने वयस्यालोके इति गदति सति कथयति सति, किलक्षणानि पदानि तदनु- गमवशादनायतानि तस्या अनुगमवशात् पृष्टानुगमनवशात् पृष्ठानुगमनभावादलसानि ।। किंभूतो विलासी, उत्प्रेक्षते-अवनि मिमान इव भूमिमनुमानयन्निव । एतेनातिमन्दगति- कथनम् । द्रुतेति ॥ इतीति किं वदति सति हे वयस्य! हे मित्र! त्वम् इति अमुना प्रकारेण द्रुतपदं त्वरितगमनं यथा स्यात्तथा मा यासीः मा गमः । ननु सम्बोधने, हे वयस्य ! त्वं सुतर्नु प्रतिपालय वल्लभां प्रतीक्षस्व । किंभूतां सतनुम् अनुयान्तीम् , अनुयातीत्यनुया- न्ती अनुगच्छन्ती ताम् । हि यस्मात् कारणात् एतदीयस्तनजवनोद्वहने तवापि चेतः न विदितखेदमिति न, अपितु विदितखेदं परिज्ञातखेदमेव । विपरीतसुरतादौ संभोगे वा भव- तोऽपि चितं ज्ञातखेदमस्ति। भवानपि इति वेत्ति-यदसौ वल्लभा स्तनजघनभरेण गन्तुं न समर्था । सखीजने इति वदति सति अनायतानि पदानि न्यस्तवानिति भावः । स्तनो जपनं च स्तनजघनम् , एतस्या इदमेतदीयम् , एतदीयं च तत् स्तनजघनं च एतदीयस्तन- जघन तस्योद्वहन नयनं तस्मिन् । विदितः खेदो येन तत् । युग्मम् ॥ १२-१३ ॥ अथ काचित्सखी काञ्चदने शीघ्रगामिनं युग्मेनाह- द्रुतेति ॥ हे वयस्य ! सखे ! इतीत्थं द्रुतपदं शीघ्रपदक्रमं यथा तथा मा यासीर्मा गमः । याते 'न माङयोगे' इत्यत्प्रतिषेधः । अनुयान्तीमनुगच्छन्ती सुतनु शुभाङ्गी प्रियामनुपालय प्रतीचस्व । असावा शीप्रमायातु। तबाह-न हीति । तव चेतोऽपि एतदीयस्तनजघनोहहने विदितवेदमनुभूतखेदं नेति न । किन्तु वेत्येवेत्यर्थः। अतः कथं शीघ्रमायास्यतीति भावः । 'सम्भाव्यनिषेधनिवर्तने द्वा प्रतिषेधो' इति वामनः१२ * इतीति । सखीजने इति वदति सति अपरः कश्चिदयिततमामनुरागात्स्नेहाच्चिरं प्रतीक्ष्य तदनुगम- वशातस्याः रियायाः काः अनुगम. पश्चाद्मनं तस्य वशादनुसारादवनि मिमानो मान कुर्वाण हवेत्युपे- क्षा। माडो लटः कर्तरि शानजादेशः, 'लो' इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धानो लुङि तङ्, 'स्थाघ्योरिच्च' इतीकारः। सिचः कित्वान गुणः। 'हस्वादङ्गाव' इति सकार- लोपः । एषा च नायिका स्वाधीनपतिका । 'स्वाधीनपतिका सा तु या न मुञ्चति वल्लभम्' इति लक्ष. णात् । हृष्टा चेयम् ॥ १३ ॥ यदि मयि लघिमानमागतायो तव धृतिरस्ति गताऽस्मि सम्प्रतीयम् ।। अनिभृतपदपातमापपात प्रियमिति कोपपदेन कापि सख्या:(३) ॥१४॥ (१) परिपा० । मल्लिनाथभ्याख्यायो 'परिइत्यस्याऽनुपलब्धेः 'अनु'इत्यस्योपलम्धेष, वल्लभा- नुसार 'प्रति' इति पाठस्य दर्शनाच्च कथं सर्वत्र मुद्रितपुस्तकेषु 'परिपालय' इति पाठः। (२) अत्र ल्यबभावचिन्त्यः । (३) सख्या। . .

सर्गः ।] शिशुपालवधे। २५३ । .. सख्या यदीति ॥ कापि अपना प्रियं वल्लभम् आपपात ययौ । कथं यथा भवति तथा अनिभूतपदपातं यया भवति न निभृतः न निलः पदार्मा चरणानां पातः पतनं यत्र यस्या क्रियायां तद्यथा भवति सत्वरचरणन्यासं यथा भवति, केन सख्याः इति कोपपदेन वय- स्थायाः अमुना क्रोधव्याजेन । सखी प्रति कोपवाक्यमुक्त्वेत्यर्थः। इतीति किं हे सखि!' यदि चेत् मयि लघिमानमागतायां लघुत्वमगौरवं प्राप्तायां सत्यां तव तिरस्ति भवत्याः परितोषो भवति, तदा सम्प्रति इदानीमियमहंगन्तास्मि एषैवाहं गतैवाऽस्मि । इति कोप- वशात् सशब्दपदन्यासं गता इत्यर्थः । लघोर्भावः लघिमा तम्। 'शतिर्धारणधैर्ययोः ॥१४॥ अथ काचित्पुरः प्रयातप्रियमेलनाय शीघ्रानुधावनं प्रार्थयमानो सखामाह- यदीति ॥ हे सखि ! मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायो तव धृतिरास्ति यदि सन्तोष भवति चेत् । 'धृतिः सन्तोषधयोः' इत्यमरः । इयमेतदवस्यैव सम्प्रत्यस्मिन्क्षण एव गतास्मि । इति, वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः, अन्यथा पौनरुक्त्यादिन्यालङ्कारिकाः । सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवति भाव: । 'न्याजोऽपदेशो लक्ष्यं च', 'निमित्तं व्यञ्जनं पद- म्' इति चामरः । काचित्रायिका दुततराः शीघ्रतर: पदपाताः पादन्यासा यस्मिन्कणि तयथा तथा प्रियं वल्लभमापपाताऽनुधावति स्म । एषा च स्वयं प्रवृत्ता स्वलाघवशद्वितया पूर्व निर्वासितप्रिया। अथेदान स्वयंप्रवृत्तेः पश्चानमा चति गम्यते। अतः कलहान्तरिता । 'कोपात्कान्तं पराणुय पश्चात्तापसमन्विता' इति लक्षणात् ॥ १४ ॥ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः(१) स्तनस्तरुण्याः ।। घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ १५ ॥ अविरलेति ॥ तरुण्याः युवतेः एकतरः स्तनः एककः कुचः प्रियस्य कान्तस्य वक्ष- स्तटभुवि हृदयतटप्रदेशे कन्दुकविभ्रमं बभार कन्दुकविलासं दधौ । किंलक्षणः स्तनः घटित- विघटितः घटितचासौ विघटितः संलग्नविलग्नः श्लिष्टविश्लिष्टः, अपरं किंलक्षणः स्तनः अविरलपुलकः अविरलः सान्द्रः पुलको रोमाञ्चो यत्र सः प्रियतनुसम्पर्कात् प्रभूतरोमाञ्चः, किंभूताया युवतेः प्रतिपदं पदे पदे सह ब्रजन्त्याः अर्थात् भर्ना सह गच्छन्त्याः ॥ १५ ॥ अविरलेति ॥ सह ब्रजन्त्याः । पाश्र्वमाश्लिष्य गच्छन्त्या इत्यर्थः । तरुण्याः सम्बन्धी अविरलपुलकः प्रियाङ्गसङ्गमात्सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । सनिकृष्ट इति भावः । 'एकाच्च प्राचाम्' इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः । स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्या वक्षस्तटभुवि प्रतिपदं घटितविघटितः संयुक्तवियुक्तः। पतितोत्पतितः सनिति यावत् । विशेषणयोरपि मिथोगुणप्रधान. भावविवक्षया 'विशेषणं विशेष्येण बहुलम्' इति समासः। कन्दुकविभ्रमं गेन्दुकशोमाम् । 'गेन्दुकः कन्दु. कः' इत्यमरः । बभार । अन्यविभ्रमस्यान्यसम्बन्धायोगात्सादृश्याशेपे निदर्शना । एषा च प्रियपार्श्वगामिनी । इतः प्रभृति मदनरसत्यतः प्राग्वक्ष्यमाणः: षण्नायिका स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसन्धेयम् ॥१५॥ त्रिभिविशेषकम्- अशिथिलमपराऽवसज्य कण्ठे दूढपरिरब्धवृहदहिःस्तनेन ॥ हषिततनुरुहा (२) भुजेन भतुर्मुदुममृदुय्यतिबद्धमेकबाहुम् ॥ १६ ॥ मुहुरसुसममानती नितान्तं प्रणदितकाश्चिनितम्बमण्डलेन ॥ विषमितपृथुहारयष्टितिर्यकुचमितरं तदुरःस्थले निपीड्य ॥ १७ ॥ . (२.) तमुरुहा ''ममृदु व्यतिषिद्ध । (१) मेकतरस्तन । २२ शि०० २५४ सन्देहविषौषधिसर्वकषायुते- [ सप्तमः- अपरा काचित । गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपमा ॥ इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ १८ ॥ अशिथिलमित्यादि ॥ गुरुतरेति ॥ अथ पूर्वोक्तं कृत्वा अन्ना मन्मथमन्थरं मन्मथेन कामेन मन्थरं सविलासचेष्टितं यथा भवति तथा जगाम अगमत् । किं कुर्वाणा अङ्गना इतरत् पदं दक्षिणं चरणमादधाना आरोपयन्ती, किलक्षणं पदम् अनतिलोलं नाति चटुलं, किंलक्षणा . अङ्गना सललितनर्तितवामपादपद्मा सविभूमविक्षिप्ताऽदक्षिगचरणकमला, सललितं सविलास नतितं विक्षिप्तं वामपाद एव अदक्षिणचरण एव पद्मं यया सा, कथं गुरुतरकल- नूपुरानुनाद यथा स्यात्तथा गुरुतरः अतिमहान् कलो गम्भीरः नूपुरस्य मञ्जीरस्य अनुनादो ध्वनियंत्र यस्यां क्रियायां तद्यथा भवति अलघुमधुरमीरध्वनिपूर्व यथा स्यात्तथा । पाद- नर्तनेन मञ्जीरघोषः सञ्जात इत्यर्थः । प्रशिथिलमिति॥ किं कृत्वा अपरा मन्मथमन्थर ययौ, एकबाहुमेकं भुजं भर्तुः कान्तस्य भुजेन सह बाहुना समं कण्ठे अवसज्य गले आस- ज्जयित्वा(?) । युवत्या पत्युः कण्ठे भुजो निहितः, पत्या च प्रियाकण्ठे भुजो निहितः इति भावः । कथम् अशिथिलं यथा स्यात्तथा, किंभूतेन भर्तुर्भुजेन दृढपरिरब्धबृहदहिः- स्तनेन गाढालिङ्गितगुरुबाह्यपयोधरेण, किंभूतस्य पत्युः हृषितानि उल्लसितानि तनुरंहि लोमानि यस्य सः हृषिततनुरुः तस्य वल्लभातनुसंयोगादुल्लसितलोम्नः,किलक्षणं बाहुँ मृदुं कोमलम् , अपरं किंभूतं बाहुम् अमृदुव्यतिबद्धमालिङ्गने गाढसम्बद्धम् । मुहु- रिति ॥ किं कुर्वती जगाम, असुसमं प्राणैस्तुल्यं प्राणेश्वरं कान्तं नितान्तमतिशयेन प्रण- दितकाञ्चिनितम्बमण्डलेन आघ्नती प्रणदिता शब्दायमाना काञ्ची मेखला यस्मिन् तत् प्रण- दितकाञ्चि एवंभूतं यनितम्बमण्डलं कटिपश्चाभागबिम्ब च तेन शब्दितमेखलाऽऽरोहप्रदेशेन आघ्नती ताडयन्ती, आहन्तीत्याघ्नती। किं कृत्वा इतरं कुर्च तदुरःस्थले निपीड्य अपर स्तन कान्तवक्षसि संयोज्य, कथं यथा भवति विषमितपृथुहारयष्टितिर्यक् यथा भवति तथा कुटिलीकृतविशालमौक्तिककलापतिरश्चीनं यथा भवत्येवं विषमिता कुटिलीकृता पृथुमहती या हारयष्टिर्मोक्तिकसरः तया तिर्यक् तिरश्चीनं यथा स्यात्तथा ॥ १६-१८ ॥ अथापरस्या अपरं गतिविशेषं विशेषकेणाह- अशिथिलमिति ॥ अपरा सी दृढं परिरन्धो गृहीतो बृहबहिःस्तनो येन तेन, हृषितान्युदञ्चितानि तनुरुंडि रोमाणि यस्य तेन । पुलकिते नेत्यर्थः। क्विबन्तोत्तरपदो बहुव्रीहिः। 'हृषेर्लोमसु' इतीडागमः । भुजेन भर्तुमिबाहुना अमृदु गाढं यथा तथा व्यतिविद्धं व्यतिषञ्जितं मृदु कोमलमेकबाहुं निजदक्षिणबाहुं भर्तुः कण्ठेशिथिलं दृढमवसज्यासज्य जगामेति भाविना सम्बध्यते ॥ १६ ॥ मुहुरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिना प्रकर्षेण नदस्ती काची यस्मिन्कर्मणि तयथा तथा । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । मुहुरसुसमं प्राणेश- माप्रती ताडयन्ती । इन्तरापूर्वाल्लटः शनादेशे जी । सकर्मकत्वान्न 'आडे यमहनः' इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तयथा तथा इसरं पूर्वश्लोकोक्तवाहिःस्तनादन्यम् । दक्षिण- मित्यर्थः । कुचं तस्य भर्तुरःस्थले तिर्यक् निपीड्य । पूर्ववत्सम्बन्धः ॥१०॥ गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च पुरस्थानुनादो ध्वनियस्मिकर्मणि तयथा तथा सललितं सलीलं नर्तितं व्यापारितं वार्म सव्यं पदप यया सा इतरदक्षिणं पादमनतिलाल भर्तृचरणस्खलना- दनतिचपलं यथा तथा आदधाना निक्षिपन्नी सती मन्मथेन मन्थरमलसं जगाम । एषा व पार्षगामिनी ॥१८॥ ।

सर्गः। शिशुपालवधे। लघुललितपदं तदसपीठद्वयनिहितोभयपाणिपल्लवाऽन्या ॥ सुकठिन(१)कुचचूचुकप्रणोदं प्रियमबला सविलासमन्वियाय ॥१९॥ लघुललितेति ॥ अन्या काचिदबला प्रियं वल्लभमन्वियाय अनुययौ । कथं सवि- लास सविभूमं यथा भवत्येवं विलासेन सह वर्तमानम् , अत एव अपरं कथं यथा भवति तथा सुकठिनकुचचूचुकप्रणोदं यथा भवति तथा सकठिनौ दृढौ पयोधरौ स्तनौ तयोः चूचुके अग्रे ताभ्यां प्रणोदः प्रेरणं यत्र तत्तथा सुदृढपयोधरमुखप्रेरितं यथा स्यात्तथा । 'चूचुकं तु कुचागं स्या'दित्यमरः । यतः किंभूता अबला तदंसपीठद्वयनिहितोभयपाणिपल्लवा तस्य कान्तस्य असपीठद्वये स्कन्धासन्युगे निहितौ न्यस्तौ उभौ पाणिपल्लवी यया सा तया, पुनः कथं यथा भवति तथा लघुललितपदं मन्थरसविलासपदन्यासं यथा भवत्येवम् । पीठमासनम् ॥ १९॥ अथान्यासामध्येकैकेन गतिविशेषमाह- लघुललितति ।। अन्या अबला मी तस्य प्रियस्यांसौ पीठे इव तयोई ये निहितावुभौ पाणिपल्लवी यया मा सती । 'उभादुदानो नित्यम्' इति पृथक्सूत्रकरणादेव सिद्ध पुनर्नित्यग्रहसामर्थ्यावृत्तिविषये उभशब्द. स्थानेऽप्युभयशब्दप्रयोगः । यथाह कैयटः-तत्र 'उभादुदानो नित्यमिति नित्यग्रहणस्येदं प्रयोजन वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत , उभयशब्दस्यैव यथा स्यादित्युभयत्रेत्यादि भवतीति । सलधुनी दुने ललिते च पदे यस्मिन्कर्मणि तयथा तथा कठिनाभ्यो कुचचूचुकाभ्यो स्तनाग्राभ्यां यः प्रणोदो निपीडनं तेन मह यथा तथा। 'चुचुकं तु कुचाग्रं स्यात्' इत्यमरः । तेन सह-' इत्यादिना समासे 'वोपसर्जनस्य' इति सहशब्दस्य सभावः । गोपदेशत्वात्मणोद इति णत्वम् । सविलासं च नियमन्धियायानुजगाम । एषा पृष्ठगामिनी ॥ १९ ॥ जघनमलस(२)पीवरोरु कृच्छादुरुनिबिरीसनितम्बभारखेदि ॥ दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ २० ॥ जघनमिति ॥ काचिदङ्गना कृच्छ्राद् दुःखात् जघनमूहे जघनस्थलमुवाह दः । कथं भवति अलसपीवरोरु यथा भवति तथा अलसौ मन्दौ पीवरौ मांसलौ अलघू सक्थिनी यत्र वहने तत् । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । किंभूतं जघनम् उरुनिबिरीसनितम्बमारखेदि बृहनितम्बभारवहनेन श्रान्तं बृहन्निबिडायतकटीभर- श्रान्तं, केन ऊहे दयिततमशिरोधराऽवलम्बिस्वभुजलताविभवेन प्राणेश्वरग्रीवासक्तनिज- बाहुवल्लीसामयेन, दयिततमस्य शिरोधरायां ग्रोवायामवलम्बिन्यौ ये भुजलते निजबाहु- वल्ल्यौ तयोविभवः सामर्थ्य तेन । अन्योऽपि यः किञ्चिदुत्पाटयति स क्वापि समव- लम्बते इति भावः ॥ २० ॥ जघनमिति ॥ काचित्नी अलघू गुरू पीवरी पीनौ चोरू यस्य तत उरुर्भहान निबिरीसो निबिडः । 'निबिडं निबिरीस च दृढं गाढं प्रचक्षते' इति वैजयन्ती । 'नबिडबिरीसचौ' इति निशन्दाद्विरीसच्. प्रत्ययः । स च यो नितम्बः बीकटिपश्चाद्भागः । 'पश्च नितम्बः मौकटयाः क्लीवे तु जघनं पुरः' इत्यमरः । स एव भारस्तेन खिद्यत इति नथोक्तम् । आभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरो- धरायां ग्रीवायामवलम्बिन्योलम्बमानयोः स्वभुजलतयोविभवेन सामर्थेन कृच्छादूहे उवाह । वहेः स्वरितत्त्वा. त्कर्षभिप्राय आत्मनेपदम् । इयं च पृष्ठगामिनी प्रियकण्ठावलम्बा ॥ २० ॥ . (१) सकठिन । (२)०मलघु।

२५६ सन्देहविषौपधिसर्वाचायुतं- [ सप्तमः- - अनुवपुरपरेण बाहुमूलप्रहितभुजाऽऽकलितस्तनेन निम्ये ॥ निहितदशनवाससा कपोले विषमषितीर्णपदं बलादिवाऽन्या ॥२१॥ अनुवपुरिति ॥ अपरेण तरुणेन अन्या काचिदङ्गाना अनुवपुः वपुःपश्चानिन्ये अनी- यत । किंलक्षणेन यूना बाहुमूलप्रहितभुजाकलितस्तनेन बाहुमूलयोर्विषये प्रहितौ नियोजि- तौ यौ भुजौ करौ ताभ्यामाकलितो गृहीतो स्तनौ पयोधरौ येन सः तेन कक्षान्तरनिहित- करगृहीतकुचेन, अपरं किंभूतेन तरुणेन कपोले निहितदशनवाससा गल्ले कृतचुम्बनेन, निहितं न्यस्त दशनवासः ओष्टो येन सः निहितदशनवासास्तेन न्यस्तोष्ठेन, कथं यथा भवति विषमवितीर्णपदं विषमदत्तचरणन्यासं यथा भवति तथा । उत्प्रेक्षते-बलादिव निन्ये । यः किल बलात्केनचिदपि गृह्यते स एवं, य इत्थं नीयते ॥ २१ ॥ अनुवपुरिति ।। अन्या भी वपुषः पश्चादनुवपुः पृष्ठभागः । 'अव्ययं विभक्ति' इत्यादिना पश्चा- -दर्थेऽव्ययीभावः । बाहुमूलयोः मीकक्षयोः प्रहितावधःप्रसारितौ भुजौ ताभ्यामाकलितस्तनेन गृहीतस्तनेम कपोले निहितदशनवासमा न्यस्ताधरेण किञ्चिदावृत्तमुख्याः सत्याः कपोलं चुम्बतेत्यर्थः। अपरेण कामिना विषमं प्रिया निसङ्घर्षाच्छिष्टं वितीर्णपदं न्यस्तानि यथा तथा बलादिव निन्ये नीता । आरोप्य नीय- मानेव गमयाञ्चक्र इत्यर्थः । एषा पुरोगामिनी ॥ २१ ॥ अनुवनमसितध्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ॥ उरसि सरसरागपादलेखा(१)प्रतिमतयाऽनुययावसंशयानः॥ २२ ॥ अनुवनमिति ॥ अपरः कश्चिद्विलासी अनुवनं वने अनु लक्षीकृत्य असितध्रुवः अङ्गनायाः पदवीं मार्गमनुययौ पृष्ठे जगाम । किलक्षणः विलासी असियानः निःसंशयः अत्रैव गतास्तीति निःसन्देहः, कया उरसि सरसरागपादलेखाप्रतिमतया वक्षसि आ लक्तकचरणलेखाप्रतिबिम्बितया, सरस आो यो रागःअलक्तकस्तेन पादलेखा चरण- रञ्जनविच्छित्तिः तस्याः प्रतिमा प्रतिबिम्बो यत्र सःसरमपादगगलेखाप्रतिमः तस्य भाव- स्तत्ता तया । असिते कृष्णे भ्रुवौ भ्रुकुम्यौ यस्याः सा असितभ्रः तस्याः । कथंभूतायाः असितभ्रवः सखीभिः सह वयस्याभिः सार्ध पुरोगतायाः अग्रे प्राप्तायाः । अङ्गनया प्रथममाकारितः असौ यदा नागच्छत् , तदा कोपवशादुरसि सालक्तकचरणलेखाप्रति- बिम्बेनाहत्य सखीभिः सह जगामेत्यर्थः ॥ २२ ॥ अनुवनमिति ॥ अपरः कामी अनुवनं वनं पति सखीभिः सह पुरोगतायाः असितभ्रवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आईः रागो लाक्षारञ्जनं यस्य तस्य पादस्य या रेखा विन्यासः सा प्रतिमोप- मानं यस्याः सा तत्पतिमा तस्य भावस्तना तया । तत्सदृशतयेत्यर्थः । असंशयानो सन्दिहानः । शीको लटः कर्तरि शानजादेशः । अनुययौ । अब पादरेखापतिमतयेति सादृश्यवस्तुना सुरतकालीन पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतःसिद्धार्थशक्किमूलो वस्तुवनिः संलक्ष्यक्रममनेर्भेदः ॥२२॥ मदनरसमहौघपूर्णनाभीहदपरिवाहितरोमराजयस्ताः ॥ सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ २३ ॥ मदनेति ॥ ताः अङ्गनाः सरित इव नद्य इव विरेजुः शुशुभिरे । किंलक्षणाः मदन- रसमहौषपूर्णनाभीहदपरिवाहितरोमराजयः मदनरसमहौधेन कामरागपूरेण यः पूर्णो नाभी- हदः तेन परिवाहिताः प्लाविता रोमराजयो यासां तास्तथा । नयोऽपि महौषप्लावितवृक्ष- (१)रेखा। .

सर्गः। शिशुपालवधे। २५७ .. - पल्कयो भवन्ति । किंभूता अङ्गनाः सविभ्रमप्रयातप्रणदितहंसकभूषणाः सविभ्रमप्रयातन सविलासगमनेन प्रणदितानि शब्दायमानानि इसकभूषणानि नपुरकरणालाराः यासां तास्तथा, इसकानि भूषणानि च हंसकभूषणानि शब्दायमानानि तानि यासां तास्तथा सविलासगमनरणिततुलाकोठिमण्डनाः । नयोऽपि सविलासगमनेन सशब्दहंसजलभूषणाः स्युः। प्रणदितहंसाः के पानीयं च भूषणं यासां ताः । सविभ्रमप्रयातेन प्रणदिता रणन्तो हंसा यत्र तत् के पानीयं भूषणं यासां ताः इति वा । 'हंसकः पादकटकः' इत्यमरः ॥२३॥ मदनति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महोघेन महापूरण पूर्णा नाभ्य एव दास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छ्वासीकृता रोमराजयो यास ताः। 'जलोच्छ्वासाः परीवाहाः' इत्यमरः। सरिज्जलानि हृदानापूर्य परित उच्छ्वसन्तीति प्रसिद्धिः। सविभ्रमः सविलासः प्रयातैः प्रकृष्टगमनैः प्रणदिताः शिञ्जिता ये इसका : पादकटकाः । 'हंसकः पादकटक' इत्यमरः। अन्यत्र हंसा एव हंसकाः मरालास्त. एव भूषणानि यास ताः लियः सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीना तदुवोधकत्वं व्यज्यते । परिवाहितरोमराजय इति रोमराजीनां परिवाहत्यनिरूपणानाभ्य एव ह्रदा इति रूपकाश्रयणम् । त : सरित- एवेति लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ २३ ॥ श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ॥ विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ २४ ॥ श्रुतिपथेति ॥ ताभिर्युवतिभिः उपनदि नदीसमीपे सारसानां रुतानि व्याहृतानि शुश्रुविरे श्रुतानि । सारस्यश्च सारसाश्च सारसाः, स्त्रिया सहोक्तौ पुमान् शेषः । किंभूतानि रुतानि श्रुतिपथमधुराणि श्रुतिपथयोः कर्णयोः मधुराणि प्रियाणि, किं कुर्वन्ति रुतानि जनता- मनःशरव्यव्यधपटुमन्मथचापनादशकां विदधति जनतानां जनसमूहानों मनांसि चित्ता- न्येव शरव्याणि वेध्यानि तेषां व्यधः ताडनं तत्र पटु समथं यत् मन्मथचापं कामधनुः तस्य नादः टङ्कारः तस्य शङ्का वितर्कः तां कुर्वाणानि जनसमूहचित्तवेध्यहनने पटुतर- कामधनुःशब्दवितर्क कुर्वाणानि । 'सारसौ हंसलक्ष्मणौ', 'तिरश्वां वाशितं रुतम्', 'लक्ष्य लक्षं शरव्यं च सर्वत्राप्यमरः ॥ २४ ॥ श्रुतिपथेति ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । 'अव्ययीभावम' इति नपुंसकत्वे द्वस्वत्वम् । ताभिः मीभिर्जनाना समूहो जनता । 'ग्रामजन-'इत्यादिना सामूहिकस्तत्प्रत्ययः । तस्या मना- स्येव शरव्यं लक्ष्यम् । 'लक्ष्यं शरव्यं च' इत्यमरः । तस्य व्यधों वेधः । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः स इति शङ्की भ्रमं विदधति विदधानानि । 'वा नपुंसकस्य' इति वैकल्पिको नुम्पतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसाना रुतानि शुश्रुविरे श्रुतानि । सारस- रुतश्रवणान्मन्मथोडीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद् भ्रान्तिमदलङ्कारः । 'कविसंमतसादृश्याविधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः' । इति लक्षणात ॥ २४॥ मधुमथनवधूरिवाइयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि॥ तदभिनयमिवाऽऽवलिवनानामतनुत नूतनपल्लवाङ्गुलीभिः ॥ २५ ॥ मधुमथनेति ॥ अमरकुलानि मधुपवृन्दानि यत् उत्सुकानि सोत्कण्ठानि सन्ति जगुर्गायन्ति, तदुपमीयते-मधुमथनवधूः आह्वयन्तीव यादवाङ्गना आकारयन्तीव । केवलं भ्रमरकुलानि जगुः, अपर वनानामावलिः काननानां श्रेणिः तदभिनयमिव तदनुकार- २५८ सन्देहविषौपपिसापायुते- [ सलम:- नूतनपल्लवाङ्गुलीमिः मिव अतनुत विस्तारयामास । आकारणमेव चकारेत्यर्थः । काभिः नूतनप्रवालकरशाखाभिः, कृष्णाङ्गना आह्वयन्तीव । 'अब्गुल्यः करशाखाः स्युरित्यमरः २५ मधुमयनेति ॥ उत्सुकान्युन्मनोसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूरावयन्त्याकारयन्ती वेत्युत्मेशा । 'हूतिराकारणाह्वानम्' इत्यमरः। 'शपश्यनोनिन्यम्' इनि ह्वयतेः शतुर्नुमागमः। जगुरिति गायतेलिट् । वनानामावलिनूतनपल्लवा एवागुल्य इत्येकदेशविवर्तिसावयवरूपकम् । अस्यैव वनावली नर्तकी त्वरूपगम- कत्वादिति । नाभिस्तदभिनयं व्यस्नकचेष्टामतनुतेव । 'व्यञ्जकाभिन यो समौ' इत्यमरः। 'अङ्गरालम्बयेगीतं हस्तेनार्थ प्रदर्शयेत्' इति वचनात् । गीतार्थस्याहानस्य व्यञ्जनमगुलिभिरकादि वेति क्रियास्वरूपो. प्रेक्षा । पूर्वोक्तरूपकानुप्राणिना साऽऽद्वानोत्प्रेक्षासापेक्षेति सजातीयसकैरोऽपीति ॥ २५ ॥ असकलकलिकाऽऽकुलीकृताऽलिस्खलनविकीर्णविकासिकेसराणाम् ।। मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥ २६ ॥ असकलेति ॥ मरुत् वायुः अवनिरुहां वृक्षाणां कोरकाणि कलिकाः विचकार' कम्पयामास । किं कुर्वन् वधूभ्यः अङ्गानाभ्यः रजः समुपहरन् धूलिमुपायनं कुर्वन् यादवा- नाभ्यो रजः प्राभृतं कुर्वन् , किंभूतानामवनिरुहाम् असकलकलिकाऽऽकुलीकृताऽलि- स्खलनविकोणविकासिकेसराणाम् असम्पूर्णकलिकाभिः आकुलीकृता येऽलयस्तेषां स्खलनेन विकीर्णानि विक्षिप्तानि अत एव विकासीनि विकस्वराणि केसराणि किअल्का येषां ते तथा तेषाम् । 'कलिका कोरकोऽस्त्रियाम्', 'किझल्ककेसरोऽस्त्रिया मित्यमरः ॥२६॥ असकलेति ॥ मरुदनानिल: असकला असमग्राः। अर्धपिकचा इत्यर्थः । ताभिः कलिकाभिः कोरकैराकुलीकृतानां मक्षोभितानामलीना स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ताः विकासिनः केसराः किञ्जल्का येषां तेषामवनिरुहाम् । क्विप् । रजः पराग वधूभ्यः समुपहरन्प्रयच्छन् । यथा कश्चित्कामीनि भावः । धनमर्जयन्वसतीतिवत् , 'लक्षण हेत्वोः क्रिया या.' इति हेत्वर्थे शतृप्रत्ययः । कोरकाण कुजलाने 'कलिका कोरकः पुमान्' इत्यमरकोशे पुंस्त्वाभिधानं प्रायिकाभिपायम् । 'कारकं कुलपि स्यात्ककालक- मृणालयोः' इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकासयामासेत्यर्थः। विपूर्वा किरतेः करोतेर्वा लिट् । अत्र कोरकविकासकरणस्य समुपहरन्त्रिाते हेत्वर्थेन वधूसम्प्रदानफपरागोपहरणार्थ- त्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ २६ ॥ उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य(१) ॥ परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽप्रतःस्थाः ॥ २७ ॥ उपवनेति ॥ अलिभिर्धमरैर्यत् अङ्गनाजनस्य युवतिपूगस्य परिमलविषयः अलामि आमोदगुणः प्राप्तः । किंलक्षणैरलिभिः उपवनपवनानुपातदक्षैः उद्यानमारुताऽनुलगनप्रवीणैः, उपवनस्योद्यानस्य पवनः समोरणः तस्यानुपातोऽनुलगनं तत्र दक्षाः निपुणाः तैः । तत् युक्तमेव, खलु यस्मात्कारणात् उन्नतानां महतामनुगमने अनुसरणे सम्पदः लक्षम्यः अग्रत:- स्थाः समीपस्थाः । उन्नतानामाश्रयणे श्रियः प्रत्यासन्ना इत्यर्थः ॥ २७ ॥ उपवनति ।। वने इत्युपवनम् । विभक्त्यर्थेऽव्ययीभावः । तत्र यः पवनस्तस्यानुपातेनानुसारेण दशै- विचक्षणैरालिभिर्यद् यतः कारणादङ्गनाजनस्य सम्बन्धी परिमलो गन्धविशेषः । 'विमर्दोत्ये परिमलो गन्धे जनमनाहरे' इत्यमरः । स एव विषयो भोग्यार्थः । रूपं शन्दो गन्धरसस्पर्शाश्च विषया अमी' इति । अलाभि लब्धः । लभेः कर्मणि लुक 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमभावः । 'अत उपधायाः' इति वृद्धिः । तस्मादुचताना महतामनुगमने पश्चाद्धापने अनुवृत्तौ च सम्पदोऽयतःस्थाः पुरोवर्तिन्यः खलु। 'सुपि .. (१)गणस्य।

वर्ग:।] शिशुपालव । चक्रधरस्य अङ्गनाः स्त्रियः स्थः' इति कप्रत्ययः । अत्रानुगमनयोंईयोरभेदाध्यवसायात् इलषोत्थापितातिशयोक्त्यनुप्राणितोऽयमर्थान्तर- न्यास: सामान्येन विशेषसमर्थनरूपः ॥ २० ॥ रथचरणधराङ्गनाकराब्जन्यतिकरसम्पदुपात्तसौमनस्याः ॥ जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ॥२८॥ रथेति ॥ नूनं निश्चितं तदादि तहिनादारभ्य समनसः पुष्पाणि जगति विश्वस्मिन् परिस्फुटमर्थतः सार्थकमभिधानं नाम दधति । किंभूताः सुमनसः स्थचरणधराऽङ्गना- कराजव्यतिकरसम्पदुपात्तसौमनस्याः स्थचरणधरस्य तासां काराब्जानि करकमलानि तेषां व्यतिकरः सम्पर्कः तस्य सम्पत् शोभा तस्या वशेन उपात्तं गृहीतं सौमनस्य सुमनस्कता विकासो याभिस्ताः । सुमनसो भावः सौमन- स्यम् । 'समनाः पण्डिते पुष्पे' इति वैजयन्ती। अत एव सुमनस इति सार्थकं नाम बभूवेत्यर्थः ॥ २८ ॥ रथोत ॥ सुमनस: पुष्पाणि रथचरणं चक्रं तस्य धरो धारयिता हरिः । पचायच् । तस्याङ्गनास्तासा कराजव्यतिकरः सम्पर्कः स एव सम्पत् नयोपात्तं लब्धं सौमनस्यं सुमनस्कन्वं सन्तुष्टचित्तत्वं याभिम्ताः सत्यः अत एव सौमनस्यलाभ आदिर्यस्मिन्कर्मणि तत्तदादि । ततः प्रभृतीत्यर्थः। अर्थतः पूर्वोक्कावयवार्था- परिस्फुटं प्रसिद्धावयवार्थमभिधानं सुमनस इति नामधेयं दधति । पूर्व त्वश्वकर्णकादिवढमिति भावः । 'आख्याहे अभिधानं च नामधेयं च नाम च' इत्यमरः । मियः पुष्पाण्यवचेतुं प्रवृत्ता इति फलितोऽर्थः । नूनमित्युत्प्रेक्षायाम् । अत्रोपात्तसौमनस्या इति सौमनस्यापादानस्य पदार्थस्य विशेषणगत्या सुमनःपदा- ऽन्वर्थताहतुकत्वोक्त्या काव्यलिङ्गम् । तदुत्थापिता चेयं तदादित्वात्प्रेक्षेति सङ्करः । तेन चाऽङ्गानाकराणामति- ध्यत्वं व्यज्यते ॥ २८ ॥ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानः ॥ तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥ २९ ॥ अभिमुखेति ॥ अङ्गनानां कामिमीनामग्रहस्तैः हस्ताग्रैः तरुकिसलयजालं वृक्षपल्लव- पटलं. प्रसभं बलात्कारेण भङ्गमनीयत त्रोटनं प्रापितम् । प्रोटितमित्यर्थः । अथ वा भङ्गमनीयत हीनतां प्रापितम् । अधःकृतमित्यर्थः । तरूणां किसलयानि तेषां जालम् । किलक्षणं तरुकिसलयजालं गुणप्रकर्षादवजितं गुणाधिक्यानिर्जितम् । हस्तानामग्राणि अग्रहस्ताः तैः । किंलक्षणैरग्रहस्तैः अभिमुखपतितैः संमुखमागतैः, यतः पुनः किंभूतैः अग्र- हस्तैः उज्ज्वलामतिदीप्तामतिशयवतीम् उद्धतिमुद्धततां दधानः निर्मलमौनत्यं बिभ्राणैः । किसलयादाप निर्मल गुणं धारयद्विारत्यर्थः । अन्योऽपि यो येन गुणप्रकर्षादवजितो भवति, स निःशकं तदभिमुखं याति । अथ च अभिमुखपतितः त्रोटनाय गतैरित्यर्थः ॥ २९ ॥ अभिमुखेति ॥ अभिमुखपतिर्भञ्जनार्थमभिमुखमागतः उज्ज्वलामुत्कृष्टामुद्धतिमुपरिप्रसारमौद्धत्यं च दधानरजनानामग्राणि च ते हस्ताश्चेति समानाधिकरणसमासः । अत एव 'हस्ताग्राग्रहस्तयोर्गुणगुणिनो- रभेदात्' इति वामनः । तैरग्रहस्तैः कर्तृभिः गुणप्रकर्षाद्धेतोरवजितमवधीरितं तरुकिसलयजालं प्रसभं बलाङ्ग छेद पराजय चानीयत नीतम् । प्रधानकर्मण्याख्येये लादीनाहुहिकर्मणाम्' इति । किसलयजालस्य प्राधान्यादभिधानम् । अत्राग्रहस्तेषु विशेषणमहिम्न। जिगीषुत्वस्य किसलयजाले जेतव्यत्वस्य च प्रतीत: समासोक्किरलकारः ॥ २९ ॥ मुादतमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खक धुवत्याः ॥ तरुरतिशयिताऽपराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥३०॥ - सन्देहविपपिपिसर्वपायुते- [ सप्तमः- मुदितेति ॥ अतिशयितापराङ्गनायाः निर्जितपरजियो नायिकायाः शिरसि मूनि तर्वृक्षः पुष्पवर्ष मुमोच कुछमवृष्टिममुचत् । उत्प्रेक्षते-मुदेव हरेणेव । यदसौ विजयवती, अत एव पुष्पवर्ष मुमोचेत्यर्थः । अतिशयिताः रूपेणातिक्रान्ताः अपराः अन्याः अङ्गनाः कामिन्यो यया सा तस्याः । अङ्गनायाः किं कुर्वत्याःभुजेन पाणिना शाखा धुवत्याः शिफाः कम्पयन्त्याः, कथं चलितविश्वलशाहक चलितानि प्रचलितानि विश्लानि विसंष्ठुलो- भूतानि शङ्खाकानि वलयानि यत्र यस्यां क्रियायां तद्यथा प्रचलितविसष्ठुलीभूतवलयं यथा स्यात्, कथंभूताः शाखाः मुदिता मधुभुजो भ्रमरा यास ताः प्रहृष्टचबरीकाः, एतेन सुमनसां समृद्धिकथनम् ॥ ३० ॥ मुदतेति ॥ मुदिता हृष्टा मधुभुजो मधुपा यासु ताः शाखा भुजेन हस्तेन चलितानि विशृङ्खलानि अप्रतिहतरवाणि शतकानि वलयानि यस्मिन्कणि तद्यथा तथा धुवत्याः कम्पयन्त्याः । 'धू विधूनने' इति धातोस्तौदादिकाच्छनरि डीप् । 'विङति च' इति गुणवृद्धिप्रतिषेधादुवादेशः। अतिशयिता सौन्दर्येणा- तिक्रान्ता अपराङ्गना यया सा तस्याः शिरसि तहर्मुदेव तदभिसरणसन्तोषेणे घेति गुणहेतूप्रेक्षा । पुष्पवर्ष पुष्पवृष्टिं मुमोच ॥ ३० ॥ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ॥ सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ ३१ ॥ अनवरतेति ॥ तरुणपल्लवेन नूतनप्रवालेन सपदि वेगेन मम्ले परिम्लानम् । किंभू- तेन तरुणपल्लवेन खलु यस्मात् कारणात् वध्वा अङ्गानया विगतदयं निर्दयं यथा भवत्येवं खण्डितेन नोटितेन, अपरं किंभूतेन तरुणपल्लवेन अनवरतरसेन नितान्तस्निग्धेन, अनवरतं सदा रसो द्रवो यस्य सः तेन, अपरं किंभूतेन राग लौहित्यं भजते इति रागभाक् तेन, पुनः किंभूतेन पल्लवेन करजपरिक्षतिलब्धसंस्तवेन नखव्रणप्राप्तपरिचयेन प्राप्तनखव्रणसंयोगेन, करजानां नखानां परिक्षतिः प्रहरणं तेन लब्धः प्राप्तः संस्तवः परिचयो येन सः । 'संस्तवः स्यात्परिचयः' इत्यमरः। अथ च तरुणपल्लवेन पल्लवप्रायतरुणेन कामिना यथा म्लायते । कीदृशेन, खलु इति उत्प्रेक्षायाम्-वध्वा अङ्गनया विगतदयं निर्दयं खण्डितेन विरहितेन, तेनापि अनवरतरसेन नितान्तस्नेहपरेण । तथा सोऽपि आसक्तिभाग्वर्तते, नखवणप्राप्तपरिचयश्च विद्यते इत्यर्थः ॥ ३१ ॥ अनवरतति ॥ अनवरतरसेनाऽनवच्छिन्नद्रवण, अन्यत्रानुबद्धशृङ्गारेण रागभाजा रतन प्रीतिभाजा च करजपरिक्षतिषु नखक्षतेषु लन्धसंस्तवेन प्राप्तपरिचयेन । 'संस्तव: स्यात्परिचयः' इत्यमरः । वध्वा विगत - दयं निर्दयं यथा तथा खण्डितेन छिनेन निराकृतेन च तरुणपल्लवेन नवकिसलयेन युवविटेन च । 'पल्लव: किसलये विटे' इति विश्वः । सपदि मम्ले म्लानम् । खलु प्रसिद्धी । म्लायते वे लिट् । अत्राभिधायाः प्रकृतार्थे नियन्त्रितत्वादप्रकृतार्थप्रतीतेः शब्दशक्किमूलो ध्वनिः, न श्लेषः। तेन चोभयोः पल्लवयेः- रौपम्यं गम्यते ॥ ३१ ॥ प्रियमभि कुसुमोचतस्य बाहोर्नवनखमण्डनचार मूलमन्या ॥ मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदघेऽशुकेन ॥ ३२ ॥ प्रियमिति ॥ अन्या काचिदङ्गना बाहोर्मूलं कक्षान्तरप्रदेशं मुहुर्वारंवारमंशुकेन वस्त्रेण तिरोदधे आच्छादयामास । किंभूतस्य बाहोः प्रियं कान्तममि लक्ष्यीकृत्य कुमुमो- थतस्य पुष्पार्थ प्रहितस्य, किंलक्षण बाहोमलं नवनलमण्डनचार नूतननखानणरम्य, नवानि ..

सर्गः। शिशुपालवधे। २६१ प्रत्ययाणि यानि नखमण्डनानि नखक्षतानि तैः चाह मनोझ, किंलक्षणेन अंशुकेन इतरकरा- हितेन द्वितीयकरन्यस्तेन अन्यपाणिना आरोपितेन, अपरं किंभूतं बाहोर्मूलं पीनस्तनयो- रलघुकुचयोः तट पार्श्व रुणद्धि आवृणोतीत्येवंशीलं तत् पीनस्तनतटरोधि । मांसल- त्वात् कक्षास्तनयोरन्तरं नास्तीत्यर्थः ॥ ३३ ॥ अथासा पुष्पापचये गृङ्गारचेष्टाः वर्णयन् कस्याश्चिचेष्टाविशेषमेकेनाह- प्रियमिति ॥ अन्या मी प्रियमभि । प्रियस्याग्रत इत्यर्थः । 'अभिरभागे' इत्यमेलक्षणार्थ कर्मप्रवच- नीयत्वात्तयोगे द्वितीया । कुषुमेघूयत: कुसुमोयतः । कुसुममहणार्थमुक्षिप्त इत्यर्थः। प्रकृतिविकारभावा- ऽभावान तादर्थे चतुर्थीसमासः । तस्य बाहोनं यत्रखं नखक्षतं तदेव मण्डनं तेन चारु सुन्दरं, मूलम् । कक्षभागमित्यर्थः । मुहुरितरकरण सव्यपाणिना आहितेन निहि तेनांशुकेनोनरीयेण पीनं स्तनतट रुणद्धीनि पीनस्तनतटरोधि तदावरणं यथा तथा तिरोदधे तिरत्रकार । अयं चापलाख्यः सञ्चारिभावः । 'आत्मप्रका- शिनी चेष्टा रागादनापल मतम्' इति लक्षणात् । प्रौढा चेयम् ॥ ३२ ॥ षड्भिः कुलकम्- विततवलिविभाव्यपाण्डुलेखाकृतपरभागविनील(१ रोमराजिः ॥ कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनाऽवलमम् ॥३३॥ प्रसकलकुचबन्धुरोधुरोरःप्रसभविभिन्नतनूत्तरीयबन्धा ॥ अवनमदुदरोच्छ्वसद्दकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥ ३४ ॥ व्यवहितमविजानती किलाऽन्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ॥ अधिविटपि सलीलमनपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥३५॥ अथ किल कथिते सखीभिरत्र क्षणमपरेव ससम्भ्रमा भवन्ती ॥ शिथिलितकुसुमाकुलाप्रपाणि(२)प्रतिपदसंयमितांशुकावृताङ्गी ॥३६॥ कृतभयपरितोषसन्निपातं सचकितसस्मितवक्तवारिजश्रीः ॥ मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥ ३७॥ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थिताऽस्मै । अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ३८ ॥ विततेत्यादि ॥ अवनतेति ॥ काचिदङ्गना अतः कारणात् अस्य कान्तस्य चेतः चित्तमहरत सुतरामतिशयेन मनो वशीचकार । अतः कुतः, यतः कारणात् अस्मै कान्ताय अस्थित स्थित्या प्रकाशयामास स्थानेन कथयामास । किमकथयत्-भोः कान्त ! अहमत्र वृक्षे स्थितास्मि एतद्दर्शयति । पुनः किंभूता अवनतवदनेन्दुः नतमुखचन्द्रा, किं कुर्वतीव अधीरतया लज्जाकुलतया व्यवधिमन्तर्धानमिच्छतीव ।युक्तोऽयमर्थः, स्फुट निश्चित अपैव लज्जैव स्त्रियः अङ्गना अभिभूषयति अलङ्करोति । पैव स्त्रीणां मण्डनमित्यर्थः विततेति ॥ किं कुर्वती अवलग्नं मध्यमुदरं पुनर्भूयोऽपि कृशमपि तन्वपि कृशता तनुतां नयन्ती कृशत्वं प्रापयन्ती । किंभूता अङ्गना विपुलतरोन्मुखलोचना विपुलतरे अतिविपुले विशाले उन्मुखे ऊचे लोचने नयने यस्याः सा तथा, अपरं किलक्षणा सा विततवलि- विभाव्यपाण्डुरेखाकृतपरभागविनीलरोमराजिः वितता विस्तीर्णीः या वलयः वलित्रय . (१)विलीन। (२) पाणि: प्रति।

२६२ सन्देहविषौषधिसर्वकषायुते- [ सप्तमः- तत्र परिभाव्या दृश्या याः पाण्डुलेखा गौरलेखाः ताभिः कृतपरभागा विहितगुणोत्कर्षा गुणाधिक्य नीता विनीला कृष्णा रोमराजिः तनूरुहपङ्क्तिर्यस्याः सा । कृष्णं हि गौरे नितरां राजते इत्यर्थः । 'मध्यमं चाऽवलग्नं चेत्यमरः । प्रसकलेति ॥ अपरं किंभूता सा प्रसकलकुचबन्धुरोधुरोरःप्रसभविभिन्नतनुत्तरीयबन्धा प्रसकलौ च तौ कुधौ च प्रस- कलकुचौ प्रसकलकुचाभ्यां परिपूर्णस्तनाभ्यां बन्धुरं मनोशं यद् उधुरोरः कठिन- वक्षः तेन भिन्नो विदारितः तनुनः सूक्ष्मस्य उत्तरीयस्य उत्तरासङ्गवस्त्रस्य बन्धो नीवी यस्याः सा, अपरं किंलक्षणा सा अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला अवनमत् उच्चैः करणादूर्वीभवत् यदुदरं मध्यस्तस्मादुच्छ्वसत् विरलीभवत् यहुकूलं परि- धानवस्त्रं तेन स्फुटतरलक्ष्य प्रकटतरदृश्यं गभीरं निम्नं नाभिमूलं नाभिरन्ध्रप्रदेशो यस्याः सा तथोक्ता । व्यवहितमिति॥ किं कृत्वा नम्रमुखचन्द्रा अधिविटपि वृक्षे सलील सवि. लासं विलम्ब्य विलग्य, कथं चिरं चिरकालम् । ननु वृक्षे विलम्बे किं कारणम् , अत- आह-केन अग्रपुष्पग्रहणपदेन अग्रपुष्पाणामुपरिजकुसुमानां ग्रहणमादानं तस्य पर्द व्याजस्तेन अग्रपुष्पादानव्याजेन । उत्प्रेक्षते-अन्तर्वणभुवि वनमध्यपृथिव्यां वल्लभं कान्त व्यवहितं संवृतमभिवेष्टितमविजानतीव अजानतीव, किंभूतं कान्तम् आभिमुख्यं सांमुख्य भजते इति आभिमुख्यभाक् तं संमुखावस्थितम् । अपरमुत्प्रेक्षते-वल्लभमभिमुखस्थं न जा- नतीव । अर्थाद् वृक्षान्तरे वेत्तीत्यर्थः । अथेति ॥ किं कुर्वती क्षणं क्षणमात्रमपरेव भवन्ती अन्येव अन्यादृशेव भवन्ती। किंलक्षणा सा ससम्भ्रमा सादरा । सावधाने- त्यर्थः । सविलासा वा । किलेत्युत्प्रेक्षायाम् । अथ वा सखीभिरालिभिः अत्र अस्मिन् कथिते इव उक्ते इव अपरेव जाता सविशेष व्यग्रा जाता । अथ सखीकथनादनन्तरम् इत्ये- वमथशब्दः सम्बन्धनीयः । सखीभिः कान्ते कथिते च अन्येव भवन्तीत्यर्थः । अपरं किं. लक्षणा शिथिलितकुसुमाकुलाग्रपाणिप्रतिपदसंयमितांशुकावृताङ्गी शिथिलतानि कुसुमानि यस्मात् इति शिथिलितकुसुमः पुष्पावचयानिवृतः आकुलो व्यग्रः वस्त्रादपरः योऽसौ अग्र. पाणिः हस्ताग्रं तेन प्रतिपदं वारंवारं संयमितं बद्धं यत् अंशुकं दुकूलं तेन आवृतमाच्छा- दितमङ्गं शरीरं ययाऽसौ तथोक्ता । कृतभयेति ॥ अपरं किं कुर्वती रसेन लज्जाभव- गारेण किमपि अव्यक्त वर्णयितुमशक्यं रसान्तरं भजन्ती शृङ्गारविशेषं प्राप्नुवती । किंभूतं रसान्तरं मनसिजगुरुतत्क्षणोपदिष्टं मनसिजः कामः स एव गुरुः अध्यापकः तेन तत्क्षणं तत्कालमुपदिष्टं शिक्षितम् । कामेनैव तथातथा रसविशेषमाश्रयन्तीत्यर्थः । अपरं किंभूता सा सचकितसस्मितवक्त्रवारिजश्री: समयसहास्यमुखकमललक्ष्मीः । पूर्वोक्तकृतनि:- शङ्कपदार्थलजावशात् सचकिता सभया, दृष्टविलासपतिदर्शनात् सपरितोषा सचकित सभयं सस्मितं सहासं च यत् वक्तवारिजं मुखकमलं तत्र श्रीः शोभा यस्याः सा। यतः किंभूत रसान्तरं कृतमयपरितोषसन्निपातं कृतो विहितः भयपरितोषयोः साध्वससन्तोषयोः सन्निपातः समूहो येन तत् । इत्युक्तप्रकारेण प्रथममात्मानं पत्ये प्रकाशितवती, तदर्शना- नम्रमुखी कान्तस्य मनो जहारेत्यर्थः । षड्भिः कुलकम् ॥ ३३-३८ ॥ अथापरस्याश्चेष्टाविशेष षड्भिः कुलकेनाह- वततेति ॥ काचिद्वितताभित्रोत्रमनाद्विश्लिष्टाभिलिभित्रिवलिभिर्विभाव्याः संलक्ष्याः पाण्डुरेखा सर्गः ।] शिशुपालवधे। २६३ तथा .. रेखाकारा वलिषयान्तरालभागास्ताभिः कृतपरिमागा जानितवोत्कर्षाः अत एव विशेषेण लीना. विलीना रोमराजयस्याः सा तथोक्ता । कृशमपि, स्वभावत एवेति भावः। अवलग्नं मध्यम् । 'मध्यमं चाऽवलग्नं प मध्योऽस्त्री' इत्यमरः। पुनः कृशता नयन्ती। अग्रपुष्पग्रहणाय गात्रविज़म्भणादिति भावः । विपुलतरे उन्मुखे उर्ध्वमुख्ने च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः ॥ १३ ॥ प्रसकलंति ॥ प्रसकलाभ्यामतिसमग्राभ्यो कुचाभ्या बन्धुरमुत्रतानतम् । 'बन्धुरं तूत्रतानतम्' इत्यमरः । उधुरं निर्भरम् । दृढमिति यावत् । 'ऋक्पूर-' इत्यादिना समासान्तः । तस्मादुरसः प्रसभा- बलात्कारादिभिन्नो विश्लिष्टस्तनूत्तरीयबन्धो यस्याः सा । गात्रविज़म्भणाद्रिसस्तकुचावरणेत्यर्थः । किञ्च अवन- मतोऽन्तीयमानादुदरादुच्छ्वसाद्वश्लिष्यद् दुकूलं यस्य तत् अत एव स्फुटतरं यथा तथा लक्ष्यं गभीरमगाधं नाभेमूलमन्तरालं यस्याः सा ॥ ३४ ॥ व्यवहितामति ॥ काचित्पूर्वोक्तविशेषणविशिष्टाङ्गना अन्तर्वणभुवि वनाभ्यन्तरप्रदेश । 'प्रनिरन्त:-' इत्यादिना वननकारस्य णत्वम् । व्यवहितं तिराहितमाभिमुख्यभाजम् । अभिमुखावस्थितमित्यर्थः । तं बल्लभं प्रियमविजानती किल जानानाऽप्यजानानेव अधिविटपि विटपिनि वृक्षे । विभक्त्यर्थेऽव्ययीभावः । सलील यथा तथाऽने वृक्षाने यानि पुष्पाणि तेषां ग्रहणस्य पदेन मिषेण चिरं विलम्ब्य । प्रियाय स्वाङ्ग- प्रकाशनार्थमिति भावः ॥ ३५ ॥ अथेति ।। अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति 'किलायमवास्त' इति नि वेदि ने सति क्षणं ससम्भ्रमा अपरेव पूर्वविपरीतव्यापारकरणादन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चय न्तीत्यर्थः । शिथिलितः पुष्पग्रहणानिवर्तितः कुसुमाकुलः कुसुमव्यापृतोऽप्रपाणिर्यया सा तथोका प्रतिपदं प्रतिस्थानं संयमितेन नियमितनाशुकेन । 'अंशुक सूक्ष्मवले स्यात्' इति विश्वः । वनेणावृतमङ्गं यस्याः सा तथोक्ता सती ॥ ६६ ॥ कृतभयति ॥ किञ्च कृत: भयपरितोषयोर्भर्तृदर्शनोत्थसाध्वसहर्षयोः सन्निपातः सहरो येन तत , मनसि जातो मनसिजः स्मरः । सप्तम्यां जनेर्डः । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । स एव गुरु- राचार्यस्तेन तत्क्षण उपदिष्टम् । तदेकहेतुकमित्यर्थः । किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिञ्चिताख्यं विवक्षितम् , कृतभयेत्यादिविशेषणेन । 'क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चित'मिति लक्षणार्थस्य प्रतीतेः । रसेन रागेण हेतुना भजन्ती अत एव सचकिता समयसम्धमा । 'चकित भय- सम्भ्रमः' इत्यमरः । सस्मिता हर्षासमन्दहासा वक्त्रवारिजवीर्यस्याः सा सती । अत्र चकितस्मितयोः पूर्वोकभयहर्षानुभावत्वेनोक्तिः ॥३०॥ अवनतति । अवनतवदनेन्दुः लज्जया नम्रमुखीत्यर्थः । अधीरतया अधृष्टतया व्यवाचं किञ्चिद्यव- धानम् । 'उपसर्गे घोः किः' इति किप्रत्ययः । इच्छतीव वाच्छन्तीव । तथा व्याकुला सतीत्यर्थः । 'आच्छी- नयोर्नुम्' इति विकल्पान्नुमभावः । अस्मै प्रियाय स्थित । भात्मानं प्रकाशयन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुस् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं, 'स्थाघ्योरिच' इति सिचः कित्त्वमिकारश्च धातोरन्ता- देशः। कित्त्वान गुणः । इति यत् अतो हेतोरस्य प्रियस्य चेतः सुतरामहरत। तथा हि अपैव मियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि प्रपाभूषितत्वादतिमनोहरतं युक्तमिति भावः । कुलकार्थान्तर- न्यासौ । मध्या चेयं नायिका । 'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥१८॥ किसलयशकलेववाचनीयाः पुलकिनि केवलमके निधेयाः ॥ नखपदलिपयोऽपि दापितार्थाः(१) प्रणिदधिरे दयितैरगङ्गालेखाः ॥३६॥ किसलयेति ॥ दयितैर्वल्लभैः अनङ्गन्लेखाः कामलेखाः । कन्दर्पस्य लिखितशासन- पत्राणीत्यर्क । प्रणिदधिरे प्रहिताः। किंभूता अनङ्गलेखाः किसलयशकलेषु पल्लवलण्डेषु अवाचनीयाः वाचयितुमशक्याः, पुनः किलक्षणाः केवलमेकम् अङ्गके शरीरे निधेयाः न्य- (१)दीपितार्थाः।

२६४ सन्देहविषौषधिसर्वपायुते- [ सप्तमः- .. " । स्तव्याः । अङ्गमेवाङ्गक तस्मिन् । किलक्षणे अडके पुलकिनि रोमाञ्जयुक्त, अपरं किंलक्षणाः अनङ्गलेखाः नखपदलिपयोऽपि दापितार्थाः नखवणाक्षरा अपि दत्तनिर्णयाः । कथितकार्या- इत्यर्थः । नखपदानि नखक्षतान्येव लिपयो वर्णा येषु ते तथोक्ताः । दापितः शापितः अर्थोऽभिधेयं यैस्ते तथोक्ताः । यथा इमे पल्लवा नखपदलिपिभिर्जर्जराः, तथा वयमपि कामबाणैर्जर्जराः इति निर्णयः कथितः ॥ ३९ ॥ किसनयति ।। किसलयशकलेषु, वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलवण्यावाच- यितुमनर्हाः, किन्तु केवलं पुलकिनि दयितस्पृष्टत्वाचस्पर्शीदेव रोमाञ्चवत्यङ्ग के वपुषि निधेया विरहताप- शान्त्यर्थमर्पणीयाः । कुतः-नखपदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते, न तु प्रसिद्धाक्षराः । अतो- ऽवाचनीया इत्यर्थः । नैतावताऽनुतापकारित्वं चेत्याह-तथापि दीपितार्थाः सतितसत्रिवेशवशादेव योनि- ताभिधेयाः, लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अनङ्गस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दाय नै दयिताभिः दयितैश्च । 'पुमामिया' इत्येकशेषः । प्रणिधिरे प्रणिहिताः । लिखिता इत्यर्थः । दधातेः कर्मणि लिट् । 'नर्गदनद-' इत्यादिना नकारस्य णत्वम् । लोकप्रसिद्धलेख्यवैलक्षण्याव्यतिरेकालङ्कारः ॥ ३९ ॥ कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ॥ अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूनि माला ॥४०॥ कृतेति ॥ कयाचिदङ्गनया भात्मनैव स्वयमेव मूनि निजशिरसि माला स्त्रक् अबन्धि बद्धा । कथम् अभिमतमभि लक्षीकृत्य कान्तमालोक्य आविष्कृतभुजमूलं यथा भवति प्रक- टितकक्षाप्रदेश यथा भवति तथा, आविष्कृते प्रकटीकृते भुजमूले बाहुमूले कक्षे यत्र क्रिया- याम् । किलक्षणमभिमतं साभिलाषं ससम्भोगमनोरथ, किं कृत्वा माला अबन्धि इति उक्तवाक्येन सखी वयस्यामपास्य निराकृत्य, इतीति किम्-यत्, हे सखि ! त्वम् अकुशला मालाबन्धने अप्रवीणा, किंलक्षणया कया कृतकृतकरुषा विहितकृत्रिमकोपया, कृता विहिता कृतका कृत्रिमा रुट कोपो यया सा तया ॥ ४० ॥ कृतेति ॥ कृतकृतकरुषा कृतकृत्रिमरोषया कयाचित्रायिकया त्वमकुशला माल्यग्रथने कुशला नाऽसी- ति सखीमपास्य निरस्यात्मना स्वयमेवाभिमतमभिप्रायाभिमुखं साभिलाषमाविष्कृतभुजमूलं प्रकाशितकक्ष- प्रदेशं यथा तथा मूनि माला अबन्धि बद्धा । अयं च स्वाभिप्रायव्यञ्जकचेष्टारूपश्चापलाख्यः सञ्चारि- विशेषः । नायिका प्रौढैव । 'स्मरमन्दीकृतबीडा प्रौढा सम्पूर्णयौवना' इति लक्षणात ॥ ४०॥ त्रिभिर्विशेषकम्- अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुवतानाम् ॥ मधुसुरभिमुखाजगन्धलुब्धे(१)रधिकमधित्वदनेन मा निपाति ॥४१॥ सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु वीरुधां(२) विरकः ॥ ध्रुवममृतपनामवाञ्छयाऽसावधरममुं मधुपस्तवाऽऽजिहीते ॥४२॥ इति बदति सखोजने निमीलदुद्विगुणितसान्द्रतराक्षिपक्षमलेखा(३) । अपतदलिभयेन भर्तुरङ्क भवति हि विक्लवता गुणोजनानाम् ॥४३॥ अभिमुखमित्यादि ॥ इतीति ॥ काचिदङ्गना भर्तुः कान्तस्य उत्सङ्गमम् अपतत् पपात । केन अलिभयेन भृङ्गवासेन, क सति पपात सखीजने आलिवर्गे इति पूर्वोक्तप्रकारेण वदति जल्पति सति, किंभूता अङ्गना निमीलदूद्विगुणितसान्द्रतराक्षिपक्ष्मलेखा निमीलनवशात - (१)लब्ध। (२) भूरूहा। (३) माला।

सर्गः।] शिशुपालवधे। २६५ अतिबहुतरचक्षुःपुटरोमपतिः, निमीलन्त्यौ सङ्कुचन्त्यौ द्विगुणिते द्विर्भाव प्राप्ते सान्द्रतरे निविडतमे अक्ष्णोर्नयनयोः पक्षमलेखे तनुरोममाले यस्याः सा । युक्तोऽयमर्थः, हि यस्मात् कारणात् अङ्गनासु स्त्रीषु विक्लवता मुग्धत्वं गुणो भवति उपकाराय स्यात् । अभिमुख- मिति ॥ इतीति कि-हे सखि ! त्वं किञ्चित् किमपि मा स्म अभिदधाः मा वोचः, क सति मधुव्रतानां पटले भ्रमराणां समूहे अभिमुखमुपयाति सति संमुखमागच्छति सति । मधु मकरन्दं व्रतयन्ति भक्षयन्ति ते मधुव्रताः इति साभिप्राय नाम । उपयातीति उपयात् तस्मिन् । यतः कारणात् अनेन मधुव्रतपटलेन अधित्वत् त्वय्यधिकृत्य मा निपाति मा निप- त्यतां मा भ्रश्यताम् । कुतः पत्यते इति चेत्तत्राह-कस्याः हेतोः मधुसरभिमुखाजगन्धलुब्धेः मरासवसुगन्धिमुखकमलसौरभ्यलोभात्, मधुना मद्येन मुगन्धि सुरभि यत् मुखाजं वदन- कमलं तस्य गन्धः सौरभ्यं तस्य लुब्धिर्लोभनं तस्याः। कथं यथा भवति तथा अधिक साभिलाषं यथा स्यात्तथा । एवं मुखाजगन्धलोभादित्यर्थः । सरजसेति ॥ इतीति कि-यत्, हे सखि! असौ मधुपः भ्रमरः अमुम् एनं तवाऽधरमाजिहीते भवत्या ओष्ठं प्रत्यागच्छति । कया ध्रुवमुत्प्रेक्षायाम् , अमृतपनामवाञ्छयेव अमृतं सुधां पिबति धयति यः सोऽमृतपः तस्य नामाऽभिधानं तस्य वाञ्छा अभिलापः तयेव । अग्रे मधुप इति नामास्ति, अधुना अस्या अधरामृतं पीत्वा नाम्ना अमृतपो भवेयमितीच्छयेव । किंभूतःमधुपः वीरुधां वल्लीनां प्रसवविभूतिषु विरक्तः वृक्षलतानां पुष्पश्रीषु विरागं प्राप्तः, किंभूतासु प्रसवविभू- तिषु सरजसमकरन्दनिर्भरासु सपुष्पपरागमधुव्यातासु । मकरन्दबहुलास इत्यर्थः । सरजसाः सधूलयश्च ते मकरन्दाः पुष्परसाश्च तैर्निर्भरासु व्याप्तासु । सखोजने इति वदति सति भर्तु- रङ्कमपतदिति भावः । त्रिभिर्विशेषकम् ॥ ४१-४३ ॥ अथ काञ्चिन्नायिका प्रति सखीवचनं विशेषकेणाह- अभिमुखमिति ॥ मधु मकरन्दं व्रतयन्ति भुञ्जन इति मधुव्रता मधुपाः। कमण्यणप्रत्ययः । तेषः पटले अभिमुखमुपयाति आगते सति त्वं किञ्चिन्मास्माऽभिदधाः। न किञ्चिदालप । मौनं भजेत्यर्थः । स्मो- त्तरे 'न माड्योगे' इत्यप्रतिषेधः । मौनस्य मधुकरबाधानिवृत्तिरेव फलमित्याह-माध्विति । मधुना मधेन सुरभेर्मुखाजस्य यो गन्धस्तस्य लन्धलाभात् । मियो किन् । अनेन मधुवतपटलेन अधित्वत् त्वयि । विभक्त्यर्थेऽव्ययीभावः । 'त्वमावेकवचने' इत्यत्रकवचन इत्यर्थनिर्देशादिह विभक्त्यभावऽप्येकार्थ- वृत्तेयुष्मदा म पर्यन्तस्य त्वादेशः । अत एव विभक्त्यभावाच्च त्वादेशोऽत्र चिन्त्य इति वल्लभवचनं चिन्त्यम(१)। अधिकमत्यन्तं सर्वश्रेत्यर्थः। मा निपाति मा निपत्यताम् । भावे लुडि चिण्वद्धिः। अत्र निपाता- इसम्बन्धेऽवि तत्सम्बन्धोतरतिशयोकरलङ्कारः ॥ ४२ ॥ सरजसेति ॥ किञ्च । मधु पिबतीति मधुपो मधुलिट् मयपश्च । आतोऽनुपसर्गे कः । भुवि रोहन्ति जायन्ते इति भूरुहा भूरुहाणी भौमानां च देहिनां सम्बन्धिीषु, सह रजसा सरजसम् । 'अचतुर-' इत्या- दिना साकल्यार्थेऽव्ययीभावसमासान्तनिपातः । तेन सरजस्क इति बहुव्रीह्यर्थो लक्ष्यः । मुख्यो वा महाकवि- (१) 'अर्थनिर्देशस्य अतित्वानित्यायर्थमङ्गीकारेऽपि 'प्रत्ययोत्तरपदयोश्च' इत्यत्रोत्तरपदग्रहणसामर्थ्या- द्विभक्तिपरकत्वस्यापि निमित्तत्वेनात्राव्ययीभावत्वनाव्ययत्वाद्विभक्तेलका लुप्तत्वेन 'न लुमता-'इत्यनेन प्रत्यय लक्षणप्रतिषेधाद्विभक्तिपरत्वाभावनादेशविन्त्य एवातो वल्लभोकी रम्यैव । कविना तु विभक्तिप्रतिरूपक- त्वच्छन्दैन युष्मत्समानार्थकेन समासोऽङ्गीकृत इति प्रतिभाति' । इयं टिप्पणी 'निर्णयसागर'यन्त्रालयमुद्रिते पुस्तके विलोक्यते । परमस्मदुपलब्धवल्लभव्याख्यापुस्तके तु 'अधित्वत्' इति प्रयोगविषये किमपि तथा- विधमाक्षेपादिकं नोपलभ्यत इति शासमाधानामिदं किंमूलकामति न प्रतीमः । लह २३ शिव० २६६ सन्देहविषौषधिसर्वकषायुते- [ सप्तमः- प्रयोगबाहुल्यात् । अयीभावदर्शनं तु प्राषिकमित्युकं प्राक् । तथा च सरजसं सरजसो वा यो मकरन्द- स्लेन निर्भरासु पूर्णासु । न तु त्वदधरामृतेन नाप्यरजस्केनेति भावः। अन्यत्र रजः श्रीपुष्पम् । 'स्याइजः पुष्पमार्तवम्' इत्यमरः । तत्साहचर्यान्मकरन्दशन्देन शुक्रप्रतीतिः । तेन शुक्रशोणितसत्रिपातप्रायास्ति- त्यर्थः । प्रसवविभूतिषु पुष्पसमृद्धिषु जन्मपरम्परासु च विरकः निस्पृहः सन् अमृतं पिबतीति अमृतप- इति नाम्नो वाच्छयाऽसावमुं तवाधरमोष्ठं प्रति आजिहीते आगच्छति धुर्व सत्यमित्युत्प्रेक्षायाम् । अन्यत्र तु अमृतपो देव इति नामवाच्छया । देवभूयापेक्षयेत्यर्थः । अथ वा निःश्रेयसप्राप्तीच्छयेत्यर्थः । 'यो निःश्रेयसा- मृतम्' इत्यमरः । ध्रुवं शाश्वतमधरं धरासम्बन्धरहितममुं परलोकपथम् । 'शुभमिह चामुत्र चान्वेती'- न्यादी लोके वेदे चेदमदसोर्लोकद्वये रूढिप्रदर्शनात् । आजिहोते । अन्विष्यतीत्यर्थः । 'भोहाङ् गतौ' इति धातोर्लटि 'लो' इति विर्भावः । 'ई हल्यघोः' इतीकारः । इह नायिकावदनसौरभहेतुकस्य मधुपानामागमनस्या- मृतपनामवाञ्छाहेतुकत्वोत्प्रेक्षणाद् गुणहेतूत्प्रेक्षा । सा च ध्रुवमिति व्यञ्जकाप्रयोगाद्वाच्या सती मधुपस्या- धरोहेशस्यासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्त्युत्थापितेति सङ्करः । पूर्वोक्काऽप्रकृतार्थप्रतीतिस्तु मधुपा- दिशन्दानामभिधया प्रकृतार्थनियन्त्रितत्वाच्छन्दशनिमूलो ध्वनिरेष, न श्लेष इत्यलं विस्तरेणेति ॥ १२ ॥ इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन्सखीजने बदति सति निमीलन्त्यौ भयान्मुकुलीभवन्त्यो अत- एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । 'गुणस्त्वावृत्निशब्दादिज्योन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्ष्ममाले नेत्रलोमपती यस्याः सा । काचिदिति शेषः । बाक्ष- ग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरणारेवेति योतनार्थत्वान पौनरुक्त्यम् । अतिभयेन भर्तुरमुत्सङ्गमपतत प्राप्तवती । अहो ! महत्कष्ट, यकीटकादपि भयमित्याशङ्कयाह-अङ्गनानाम् , न तु पुंसामिति भावः । वि. क्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरकारोहणमपि न दोषः। पाईवस्थालम्बनादीना भयानुभावत्वात् । कुलकेऽलङ्कारोऽयमर्थान्तरन्यासः ॥ ४३ ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूबलादचुम्बि ।। तदपि न किल बालपल्लवानग्रहपरया विविद विदग्धसख्या ॥४४॥ मुखेति ॥ यूना तरुणेन यत् अभिनवोढवधूः नवपरिणीताऽङ्गना मुखकमलमुन्नमय्य वदनपङ्कजमुन्नाम्य अचुम्बि हठात्कारेण चुम्बिता । तच्चुम्बन किलेत्यलीके, विदग्धसख्या न विविद प्रवीणवयस्यया किल तदपि न ज्ञातमिव, किंभूतया सख्या बालपल्लवाग्रग्रहपरया नवप्रवालग्रहणतत्परया । उत्प्रेक्षते-अन्यचित्तयेत्र न ज्ञातम् । बाला नूतनाश्च ते पल्लवाच किसलयानि च तेषामग्राणि उपरिभागाः तेषां ग्रहो ग्रहणं तत्र परा सक्ता तया ॥ ४४ ॥ मुखोति ॥ यूना अभिनवोढवधूनवोढाऽङ्गानापि बलादलात्कारात् । मुख कमलमि वेत्युपमितसमासः । -लदल्पं मुखकमलकम् । अल्पार्थे कन्प्रत्ययः। उनमय्योद्यम्य । 'ल्यपि लघुपूर्वात्' इत्ययादेशः। अचुम्बि चुम्बितेति यत, तच्चुम्बनं विदग्धसख्या चतुरसख्या बाजपाडवाग्राणा ग्रहो ग्रहणम् । 'ग्रहवृदृनिश्चिगमय' इत्यप्रत्ययः । तत्परया तदासकया सत्या । कञ्चिद्यासई कल्पयन्स्येत्यर्थः। न विविद अपि किलन प्रकाशित- मिति किमुत वक्तव्यमित्यपिशब्दार्थः। किलेत्यलोके । वस्तुतो विदित्वाऽप्यविदित्येव स्थितं वैदग्ध्यात् । अन्यथा तयोविनम्भविहारविघातादिति भावः। मुग्धेयं नायिका । 'उदयद्यौवना मुग्धा लज्जापिहित- मन्मथा' इति लक्षणात् ॥ ४॥ व्रततिविततिभिस्तिरोहितार्या प्रतियुवती वदनं प्रियः प्रियायाः ॥ यददध(१)दधराऽवलोपनृत्यत्करवलयस्वनितेन तद्विववे ॥४॥ व्रततीति ॥ प्रियो वल्लभायाः वदनमदधत् वक्त्रं पपौ आस्वादयत् । कस्यां सत्यां प्रतियुवतौ सपत्न्यां व्रततिविततिभिः लतापङ्क्तिभिः तिरोहितायामाच्छादितायां सत्याम् । तत् वदनपानम् अधरावलोपनृत्यत्करवलयस्वनितेन विववे प्रकटितम् । अधरस्य । (१) यदधयः ।

.. सर्गः ।] शिशुपालवधे। २६७. ओष्ठस्य अवलोपः खण्डनं तेन नृत्यन्तौ चलन्तौ परिभ्रमन्तौ यौकरौ तयोर्वलयानि कङ्कणानि तेषां स्वनित ध्वनितं तेन विवृतम् , ओष्ठखण्डनचलभुजकङ्कणध्वनितेन प्रकाशितम् । उक्तं च-'सन्दष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वती'त्यादि ॥ ४६ ॥ व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो लताजालानि । 'वलली तु व्रततिर्लता' इत्यमरः । ताभिस्तिरोहितायां सत्या प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवा- दिकाल्लछ। तद्वदनपानमधरावलोपेनाधरखण्डनेन । तजनितव्यथयेत्यर्थः । नृत्यतोश्चलताः करयोर्वलयानां करणाना स्वनितेन ध्वनिना विववे विवृतम् । तदेव तस्यास्तदनुमापकमभूादित्यर्थः । अत्रका हटा, अपरा स्वानि वेदवतीत्यनुसन्धेयम् ॥ १५ ॥ विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूलतायाः । रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥४६ ॥ विलसितमिति ॥ वधूः अङ्गाना सखीनां पुरः वयस्यानां प्रत्यक्षमेव रमणमालिलिङ्ग वल्लभ परिष्वजति स्म । कथं यथा भवति अकलितचापलदोषं यथा भवत्येवम् अकलितः न ज्ञातः चापलदोषः चपलत्वमेव दोषो गुणाभावो यत्र क्रियायां तद्यथा भवत्येवम् अज्ञात- चपलत्वदोषं यथा स्यात्तथा, कया ऋजुतया प्राञ्जलत्वेन, किं कुर्वती वधूः पुरस्तात् अग्रे वर्त- मानाया लताया वल्ल्याः विलसितं विलासमनुकुर्वतीव । वल्ल्याः सादृश्यं भजन्तीत्यर्थः। किंभूतायाः लतायाः धरणिरुहाधिरुहः धरणिरुहं भूरुहमधिरोहति तिष्ठतीति धरणिरुहाधिरुट तस्याः वृक्षाधिरूढायाः। यथा वल्लीकया तरुरालिङ्गितः तथा स्वकान्त इत्यर्थः ॥ ४६ ॥ विलसितमिति ॥ वधः काचित्मा पुरस्तादग्रे धरणिरुहमधिरोहतीति धरणिरुहाधिरुट वृक्षाधिरूढा । रुहेः क्विम् । तस्या लताया विलसितं चेष्टितम् । भावे कः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽने अकलिनोऽविचारितश्चापलमनुचितकरणमेव दोषां यस्मिन- कर्मणि तयथा तथा रमणं प्रियमालिलिङ्ग । एषा हर्बोत्सुक्यवती प्रौढा च ॥ १६ ॥ सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयाऽन्या ॥ सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ॥४७॥ सललितमिति ॥ अन्या काचिनायिका सहचरं कान्तं स्तनाभ्यां कुचाभ्याम् अवतस्तरे आच्छादयामास । क उरसि वक्षःस्थले, कस्मात् रसात् आसक्तिवशात्, किंभू- ताभ्यां स्तनाभ्यां सकलकलभकुम्भविभ्रमाभ्यां सम्पूर्णगजशावककुम्भस्थलविशालाभ्यां, किं कृत्वा सललितं सविलासं यथा भवत्येवं पाणिना निजहस्तेन अंसे पतिस्कन्धे अव- लम्ब्य विलग्य, कया उच्छ्रितगुच्छवाञ्छया उन्नतपुष्पगुलुच्छग्रहणाभिलाषेण । 'स्कन्धो भुजशिरोंऽसोऽस्त्री', 'स्तबको गुच्छको गुच्छः' इत्यमरः ॥ ४७ ॥ सललितमिति ।। अन्या स्त्री उच्छ्रिनगुच्छवाञ्छया उन्नतस्तम्बकजिघृक्षया सललितं मविलामं यथा तथा सहचरं प्रियं पाणिना, औचित्याद्वामेनेति शेषः । असेऽवलम्ब्यावष्टभ्य सकलयोः समप्रयोः कलभकुम्भयो करिकुम्भयोविभ्रम इव विभ्रमः सौन्दर्य ययोस्ताभ्यां स्तनाभ्यां रसादागादुरस्यवतम्तरे आच्छादयामास ! सहचरमित्यनुषङ्गः । अभिमुखावस्थानादिति भावः । स्तृणातेः कर्तरि लिट् । ऋतश्व संयोगादेर्गुणः, 'शपूर्वा : खयः' इत्यभ्याससकारलोपश्च । इयं च प्रौढंध ॥ १०॥ मृदुचरणतलाप्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोश्चतरूचिकोषया(१)ऽन्या ॥४८॥ (१)तरोच्चिचीषया ।

'२६८ सन्देहविषौषधिसर्वाषायुते [ सप्तमः- मृदुचरणेति ॥ अन्या काचिदाना प्रियस्य कान्तस्योपरि निरवलम्बनं निराधार यथा भवत्येवं न्यपतत् निपपात । कया उच्चतरूचिकीषया उन्नतवृक्षावचेतुमिच्छया, उच्च उन्नतो यः तस्व॒क्षस्तस्य उच्चिकीषा उच्चतुमिच्छा तया । पतने किं कारणं, किंभूता सा कुचकुम्भयोर्भरस्य असहतरा स्तनकलशयोर्भारस्य वहनाय असमर्था, कस्मात् मृदु- चरणतलाप्रदुःस्थितत्वात् कोमलपादतलागेण स्थातुमशक्यत्वात्, मृदुनी कोमले च ते चरणतले पादतले व तयोरग्रे पुरोभागौ ताभ्यां दुःस्थितत्वं स्थातुमशक्यत्वं तस्मात् । उन्नतपुष्पावचयं कुर्वती स्तनभारेण निराधारं प्रियस्योपरि पपातेत्यर्थः॥४८॥ मृदुधरणेति ॥ अन्या श्री उच्चतराणामत्युनतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया ।चि- नेतिः सन्नन्तात् मियामप्रत्यये टाप । 'विभाषा चः' इति कुत्वविकल्पः। मृदुचरणतलाण दुःस्थितत्वात् दुःखेन स्थितत्वात्कुचकुम्भयोर्भरस्य । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः। न सहतेऽत्यन्तमित्यसहतरा । सहेः पचायजन्तानसमासात्तरप्रन्ययः । भरमसहमानत्यर्थः । कृयोगात्कर्मणि षष्ठी। अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वात्रिपपातेत्यर्थः । एषा च प्रौढा । स्वभावोक्किरलद्वारः ॥४८॥ उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधर(१) गृहाण स्वयमिति मुग्धवधूमुदास दोाम ॥४६॥ उपरिजेति ॥ अन्यः कश्चिद्विलासी मुग्धवधूमप्रगल्भाङ्गनाम् इति हेतोःाम् उदास बाहुभ्यामुचिक्षेप ऊची चकार । कथं प्रथितपृथुपयोधरं यथा भवति प्रथिती विस्तारितौ पृथू स्थूलो पयोधरौ स्तनौ यस्यां क्रियायां तत् विस्तारितगुरुस्तनं यथा भवति, किंभूतां मुग्धवधूम् उपरिजतरुजानि याचमानाम् उपरि अग्रे जातानि उपरिजानि एवंभूतानि यानि तरुजानि पल्लवपुष्पाणि उपरिजतरुजानि प्रार्थयन्तीम् । इतीति किम् उदास-यत् , स्वयं गृहाण आत्मनैव आदेहि इति । यतः किलक्षणोऽन्यः कुशलतया प्रावीण्येन परिलम्भलोलुपः आलिङ्गनोत्सुकः ॥ ४९ ॥ उपारिजति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुमुमानि तानि याचमानो अपचित्य दहीति प्रार्थयमानां प्रथितपृथुपयोधरा प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं नियं परिरम्भलोलुप.आश्लेष- लालसोऽन्यः कुशलतया वञ्चनापटुतया स्वयं गृहाण । त्वमेवापचिनुवत्यर्थः । इति गम्यमानार्थत्वात् उक्त्वेति न प्रयुक्त पौनरुक्त्यात् । दोामुदामोद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलयनायकः। नायिका तु म्वाधीनपतिका प्रौढा च ॥ १९ ॥ इदमिदमिति भूरुहां प्रसूनैर्मुहुरभि(२)लोभयता पुरःपुरोऽन्या । अनुरहसमनायि नायकेन त्वरयति रन्तुमहो ! जनं मनोभूः ॥ ५० ॥ इदमिदमिति ॥ नायकेन भर्ना अन्या काचिदङ्गाना अनुरहसमनायि अत्यन्तं रहो निन्ये अत्येकान्त प्रापिता । किं कुर्वता नायकेन मुहुर्वारंवारं भूरुहा वृक्षाणां प्रसूनः पुष्पैः इति अमुना प्रकारेण अभिलोभयता विप्रतारयता । इतीति किं-पुर:पुरः अग्रे अग्रे इर्द रम्यमिदं रम्यतरं ग्रहीतव्यमिति । अत्रार्थान्तरन्यासः-अहो इत्याश्चर्ये, यत् मनोभूः कन्दर्पः जन लोकं रन्तु त्वरयति क्रीडितुमुत्सकयति, तत् युक्तमेव ॥ ५० ॥ इदमिदमिति ॥ अन्या मी इदमिदमिति, इदं माद्यमिदं प्रायमित्युक्त्वेत्यर्थः । भूरुहा वृक्षाणां प्रसूनैः युषैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नायकेन रहोऽनु अनुरहममेकान्तम् । अवतप्तात्-' इत्यव्ययी- (१)पयोधरी। (२) ०रति। .. । ..

सर्गः।] शिशुपालवधे। २६६ भावसमासान्तः । अनायि नीता। तथा हि-मनोभूः कामो जनं रन्तुं त्वरयति । देशकालाऽनपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिकानायकविवेकः । अर्थान्तरन्यासः ॥ ५० ॥ विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेन्या । अति(१)पतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ॥ ५१ ॥ विजनमिति ॥ काचिन्नायिका वल्लभे कान्ते अमुञ्चति सति परिगृह्य रक्षति सति अतिगुर्वी अभवत् बहुमानपात्रं जाता। किंभूता अन्या अतिपतितुं ततो यातुं मनोमानसं यस्याः सा गन्तुमिच्छन्ती, कुतः लघुत्वभीतेः अपमानभयात् ,किं कृत्वा अमु कान्तम् इति कारणालादौत्सुक्येन गृहीत्वा परिगृह्य, इतीति किं यत् , विजनमेतत् एकान्तमिदम् , अपरं किं कृत्वा अथाऽनन्तरम् अन्तिके समीपे क्षणं मुहूर्त विपक्षं जन वीक्ष्य सपत्नीजनमा. लोक्य, अत एव गन्तुमनाः । यदा चासौ वल्लभेन मुक्ता तदा बहुमानपानं जातेत्यर्थः ॥५१॥ विजनमिति ॥ अन्या मी विजनमकान्तमिति हेतोरमुं वल्लभं क्षणं बलाद् गृहीत्वा भाकृष्य अथान्तिक विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभातेस्तुच्छत्वभयादमिपतितुं मनो यस्याः सा अभिपतितुमनाः । 'तुं काममन- मोरपि' इति मकारलोपः । अपसर्तुकामेत्यर्थः । वल्लभे अमुञ्चति अत्यजति सति । तस्य विपक्षाऽनवेक्षणा- दिति भावः । अतिगुवा अतिगौरववत्यभवत् । स्वयङ्ग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्य- वता सर्व श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भैव ॥ ५१ ॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्त्रजाऽवनद्धः।। पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्यसानाम् ॥५२॥ अधिरजनीति ॥ युवा तरुणः पदमपि चलितुं न सेहे क्रममात्रमपि गन्तुं न समर्थो बभूव । किलक्षणो युवा प्रियतमया कान्तया रुषा कोपेन इति हेतुना सूजा अवनद्धः मालया बद्धः, इतीति किं यतः कारणात् सः अधिरजनि रजन्यां तस्याः सपत्न्याः धाम जगाम आस्पदं गतवान् । युक्तोऽयमर्थः, यतः कारणात् ससाध्वसानां सभयानां किमिव किं न शक्तिहरम् । अत एव सभयानां सर्वमेव शक्तिहरमित्यर्थः ॥ १२ ॥ अधिरजनीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । तस्याः, सपन्या इत्यर्थः। बुद्धिस्थ- स्वानामग्रहणासहत्वाच्च तच्छन्दन निर्देशः । धाम गृहं जगामेति रुषा हेतुना प्रियतमया का सजा करणन अवनद्धा युवा पदमापि । अत्यन्तसंयोगे द्वितीया । चलितुं न सेहे न शशाक । तथा हि-ससाध्वसानो भय- प्रस्तानो किमिव किं वा । इवशन्दो वाक्यालङ्कारे । इवेति ईषदर्थोपमोत्प्रेक्षावाक्यालङ्कारोश्चिति गणव्याख्याने । शक्ति हरतीति शक्तिहरम् । 'हरतेरनुयमनेऽच्' इत्यच्प्रत्ययः । न भवतीति शेषः । अस्तिभवन्तीपरोऽप्रयु- ज्यमानोऽप्यस्तीति वचनात् । भवन्तीति लटः पूर्वाचार्याणां संज्ञा । सर्वस्यापि भीरूणां शक्तिहरत्वादबला- कृतः स्रग्बन्धोऽपि यूनः शक्तिहर इति युक्तमिति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । खण्डितेयं नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता' इति लक्षणात् । नायकस्तु दक्षिणः । 'भयसम्बन्ध- सहनादिभिस्तुल्यो नैकत्र दक्षिण' इति लक्षणार्थप्रती तेरिति ॥ ५२ ॥ चतुर्भिः कलापकम्- नखलु वयममुष्य दानयोग्याः पिबति च पाति च याऽसको रहस्त्वाम् ॥ बज विटपममुं ददस्व तस्यै भवतु यतः सद्दशोधिराय योगः ॥५३॥ तव कितष ! किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।। ननु जनविदितैर्भवद्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४ ॥ . (१)अभिः ।

सन्देहविषौषधिसर्वकषायुते- [ सप्तमः- .. ! मुहुरुपहसितामिवालिनादेवितरसि नः कलिकां किमर्थमेनाम् ॥ वसतिमुपगतेन धाग्नि तस्याः शठ! कलिरेव(१) महांस्त्वयाऽद्य दत्तः ॥१५॥ इति गदितवती रुषा जघान स्फुरितमनोरमपक्षमकेसरेण ॥ श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ५६ ।। न खल्वित्यादि ॥ इतीति ॥ अन्या काचिन्नायिका तं वल्लभम् असिताम्बुरुहेण कृष्णकमलेन च अपरं चक्षुषा नेत्रेण च समं युगपदेव जघान ताडयामास । कमलेन जधान चक्षुषा वक्रेण तं व्यलोकयदित्यर्थः । किंभूतेन असिताम्बुरुहेण श्रवणनिय- मितेन कारोपितेन, किंभूतेन चक्षुषा श्रवणनियमितेन कर्णान्तं प्रापितेन, अपरं किंभूतेन असिताम्बुरुहेण स्फुरितमनोरमपक्ष्मकेसरेण विकसितमनोज्ञपत्रमकरन्दयुतेन स्फुरिता विक- सिता मनोरमा मनोज्ञाः पक्ष्मसु पत्रेषु केसरा मकरन्दा यस्य तत् तेन, चक्षुःपक्षे स्फुरिताः प्रस्पन्दमाना मनोरमा अतिसुन्दराः पक्ष्माण्येव तनुलोमान्येव केसराः किअल्का यस्य तत्तेन, किलक्षणा सा रुषा कोपेन इति गदितवती जल्पितवती । न खल्विति ॥ इति किं जल्पित- वतो-यत् , हे कितव ! हे शठ ! त्वं व्रज गच्छ, अ, विटपं पल्लवं तस्यै ददस्व देहि । विः पीयते इति विटपः तम् । तस्यै कस्यै या असको कुत्सिता रण्डा रहः एकान्ते त पिवति, अपरं त्वां पाति अस्मत्संयोगात् रक्षति । असको कुत्सिता, खलु निश्चितम् । वयम् अमुष्य विटपस्य दानयोग्याः नदानाय योग्याः न विश्राणनाय अधिकारिणो न भवेम। यतः कारणात् सदृशोस्तुल्ययोः चिराय चिरकालं योगः संयोगो भवतु अस्तु । विटैः भृङ्गः पीयते इति विटपः शाखाविशेषः । विटं षिड्गं त्वां पाति रक्षति विटपा सा। विटपविटप- योः संयोगो भवत्येव । तव कितवेति ॥ इतीति किं गदितवती! हे कितव ! क्षिति- रुहपल्लवपुष्पकर्णपूरैः वृक्षप्रगलकुसुमयोरवर्तसैः नोऽस्माकं वृथा आहितैः निष्फलमारो- पितैः किं प्रयोजन क उपयोगः । क्षितिरुहाणां वृक्षाणां पल्लवपुष्पाणि तैः कर्णपूराः कर्णा- भरणानि तैः। 'उत्तसश्वाऽवतंसश्च कर्णपूरे च तावुभौ' इत्यमरः । ननु अहो शठ ! (२) भवव्यलीकानि तैः, किंलक्षणैर्भवव्यलीकैः जनविदितैः जनैलॊकैः विदितातिनि ज्ञातानि तैः लोकप्रसिद्धैः, कर्णयुग्मं चिरपरिपूरितमेव । मुहुरिति ॥ इतीति किं गदितवती-यत् ,हे शठ ! त्वं नोऽस्मभ्यम् एनां कलिकां किमर्थ वितरसि ददासि । किंभूतां कलिका मुहुर्वार- वारम् अलिनादैः भृङ्गध्वनिभिः उपहसितामिव, विकसितामिवेत्यर्थः । यतः कारणात् हे शठ ! हे धूर्त कान्त! त्वया नोऽस्मभ्यं महान् अतिशयवान् कलिरेव कलह एवं प्रदत्तः अदायि । यतः स्वल्पा कलिः कलिकोच्यते । तदा महाकलिदाने कलिकादानं वृथेत्यर्थः । यतः किलक्षणेन त्वया प्रसभं हठात् तस्या मम सपत्न्या धाम स्थानमुपगतेन प्राप्तेन । इति जल्पित्वा सक्रोधं दृष्ट्या कमलेन ताडित इत्यर्थः । चतुर्भिः कलापकम् ॥६३-६६॥ अथ काचित्खण्डिता निजकान्तमागस्कारिणं पलवदानेन प्रसादयन्तं चतुर्भिर्भमयितुमारभते- न खल्विति॥षयममुख्य दानयोग्या न भवामः खलु, किन्तु या भसावेवाऽसकी त्वप्रिया । 'अव्ययसर्व- नाम्रामकच माक्टे' इत्यकच । रहो रहसि । 'रहबापाशु चालिडे इत्यमरः । त्वां पिबति' पानं करोति । पा पाने भौवादिकाकर्तरि लट् । 'पापा-'इत्यादिना पिबादेशः । पाति रक्षति च । अन्यतो वारयति (१)कलिरेष । (२) अत्र अन्धाशस्धुटित इति प्रतीयते । .

सर्गः ।] शिशुपालवधे। २७१ .. चेत्यर्थः । पा रक्षणे, अदादित्वाच्छपो लुक् । तस्यै अमुं विटापातीति विटपं पनवम् । 'विट पल्लवे बिले' इति विश्वः । ददस्व प्रयच्छ । 'दद दाने' इति भौवादिकाल्लोट् । बज गच्छ । यतो दानाचिराय चिरकालात् । चिरार्थेऽध्ययम् । सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः । समालङ्कारोऽयम् । 'सा समालकृतिर्योगी वस्तुनोरनुरूपयोः' इति लक्षणात् ॥ ५३ ॥ तवेति ॥ हे कितव! धूर्त ! वृथा व्यर्थमेवाऽऽहितैः । तत्कायस्यान्यथासिद्धत्वादिति भावः । तव सम्ब- धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणे च तान्येव कर्ण पूरयन्तीति कर्णपूराः कर्णावतंसाः । कर्मण्यण । तै!- ऽस्माकं किं तत्साध्यम् । न किञ्चिदस्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया कर्णपूराणां करणत्वात्तृतीया । उनं च न्यासोहयोते-'न केवलं श्रूय मणिव क्रिया निमित्तं कारकभावस्य, अपि तु गम्यमानाऽपि' इति । किन्तु नन्वङ्ग ! जनविदितैर्जनेष्वतिप्रसिद्धः। जनेषु विदि तेरिति सप्तमीसमासः । 'कस्य च वर्तमाने' इति कृयोगे षष्ठीप्रतिप्रमवत्वेऽपि 'केन च पूजायाम्' इति षष्ठीसमासनिषेधाज्जनानामाधारत्वविवक्षायां तदप्राप्तः । भवद्यलोकेस्तवाऽप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः पारपूरितस्य पूरणायोगादल- मे वेभिरित्यर्थः । अत्रोत्तरवाक्यार्थम्य पूर्ववाक्यार्थहेतुत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥५४॥ मुहुरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणार्थेति प्रहस्यमानामिव स्थितामना कलिको कोरकम अल्पं कलि कलहं च । 'कलहे च युगे कलिः' इनि वैजयन्ती। नीप्रत्ययस्वविवक्षितः श्लेषे । नामाकं कि- मर्थ वितरसि । हे शठ! गूढविप्रियकारिन् ! तस्यास्त्वत्प्रियाया धान भवने वसति स्थितिमुपगतेन त्वयाऽयेष वर्तमानो महान्कलिः कलहा दत्तः । स्वदत्त एव महति कलो स्थिते किं कल्यन्तरेणेत्यर्थः । अत्रापि पूर्व- वाक्यार्थस्योनरवाक्यार्थहेतुत्वाद्वाक्यार्थहतुकं कायलिङ्गं कलिकामति इलेषोत्थापितया कोरककलहयो- भेदे अभेदरूपातिशयोक्त्याऽनुप्राणितमिति सदूरः ।। ५५ ।। इतीति ॥ इतीत्थं गदितवत्युक्तवती अन्या श्री रुषा कान्तं, स्फुरितान्युज्ज्वलानि मनोरमाणि च पक्ष्मा- णीव केसराणि, अन्यत्र केप्लराणीव पक्ष्माणि यस्य तेन श्रवणनियमितेन प्रोत्रे धृतेन निरुद्धेन च आसता- म्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपजघान ताडयामास । एषा खण्डिता । नायकस्तु धृष्टः 'व्यक्ताङ्गो निर्भयो धृष्टः' इति लक्षणात् । अत्र स्फुरितेत्यादितुल्यधर्मगम्योपमानयोरसिताम्बुरुहचक्षुषो- भयोरपि ताडनसाधनतयोपात्तत्वेन प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । लक्षणं तूकम् ॥ ५६ ॥ विनयति सुदशो दृशः परागं प्रणयिनि कौसुममाननाऽनिलेन ॥ तदहितयुवतेरभीक्ष्णमक्ष्णोईयमपि रोषरजोभिरापुपूरे ॥५॥ विनयतीति ॥ तत् तस्मात् कारणात् अहितयुवतेः अहिता द्वेषिणी चासौ युव- तिश्च तस्याः सपत्न्याः अक्ष्णोर्द्वयमपि नयनयोर्युगलमपि अभीक्ष्णम् अतिशयेन रजोभिः कोपरेणुभिः आपुपूरे आपूरितम् । क्व सति प्रणयिनि भर्तरि कौसमं परागं कुसमसम्ब- न्धिनं रेणु सुशोऽङ्गनायाः दृशः लोचनात् विनयति सति स्फेटयति सति, केन आननानि- लेन मुखमारतेन । रोषवशात् सपत्नी प्रति कान्तं दृष्टुं न शशाकेत्यर्थः ॥ १७ ॥ विनयतीति ।। प्रणयिनि प्रिये सुदृशः प्रियायाः दृशो लोचनात् । एकस्मादेवेति भावः । कुसुमेषु भवं कौसुमं परागं रजःकणम् । तच्चैकमेवेति भावः । आननानिलेन निजमुखफूत्कारेण विनयत्यपनयति सति, नदीहतयुक्तेः तत्सपल्याः अक्ष्णार्यमपि । न त्वेकमेवेति भावः । रोषा एव रजासि तैरभीक्ष्णमापुपूरे । मैकेन रजःकणेन किञ्चित्स्पृष्टमात्रमिति भावः। पूरयतेः कर्मणि लिट् । पूर्णमित्यर्थः । अत्र रजोविनयस्या- उन्यत्र रजःपूरणकारणत्वायोगादकारणत्वमेव पूरणमिति विभावनालङ्कारो रूपकानुप्राणित इनि सङ्करः॥५०॥ स्फुटमिदमभिचारमन्त्र एष(१) प्रतियुवतेरभिधानमङ्गनानाम् ॥ घरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताऽप्यमूर्छत् ॥ ५८ ॥ (१) एव ।

२७२ सन्देहविषौषधिसर्वपायुते- [ सप्तमः- -- स्फुटमिति ॥ स्फुटमिति उत्प्रेक्षायाम् , स्फुटमङ्गनानां स्त्रीणाम् एष अभिचारमन्त्रः एष उच्चाटनमन्त्र एव, अभिचाराय हिंसायै मन्त्रः अभिचारमन्त्रः हिंसामन्त्र एव । एष कः प्रतियुवतेः सपत्न्याः इदमभिधानं नाम । सपत्नीनां नाम स्त्रीणामुच्चाटनतुल्यमित्यर्थः। यत् वरतनुः शोभनगात्री अङ्गना पत्या वल्लभेन अमुना सपत्नीनाम्ना उपहूय आकार्य मृदुकुसुमेनापि कोमलपुष्पेणापि आहता ताडिता सती अमूर्छत् मूर्छा प्रापत् । अनेन दृष्टा- न्तेन सपत्नीनामुच्चाटनमन्त्र इति भावः ॥ ५८ ॥ स्फुटमिति ।। इदं प्रतियुक्तेः सपत्न्या अभिधानं नामधेयम् । अङ्गनानामभिचारः परमारणकर्म । यथा- 'श्येनेनाभिचरन्यजेते'ति । तस्य मन्त्रोऽभिचारमन्त्रः स एव स्फुटामित्युत्प्रेक्षा । यद् यस्मादरतनुः श्री पत्या भी अमुना सपत्नीनामधेयेनोपहूय मृदुकुसुमेन । मृदुग्रहणमचिरावचितत्वं योतयत् देवताभिचारमन्त्राणा- मनादिसंस्कारभाव द्योतयति । तेनाम्प्याहता अमूर्छन् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं, सोभि- चारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः ।। ५८ ॥ समदनमवतंसितेऽधिकर्ण प्रणयवता कुसुमे सुमध्यमायाः ॥ ब्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपल्याः ॥५९॥ समदनमिति ॥ सपत्न्याः प्रतियुवतः हिरण्मयमण्डनं सौवर्णाभरणं सपदि वेगेन भारो बभूव उद्वेगात् वोढुमशक्यं जातम् । तर्हि गुरुतरं भविष्यतीत्याशङ्कयाह-किं कुर्वत् हिरण्मयमण्डनं लघुतां व्रजदपि लघुत्वं प्राप्तवदपि । तदा उद्वेगे किं कारणं, क्व सति प्रणय- वता स्नेहवता वल्लभेन मुमध्यमायाः कृशोदर्याः अधिकणं कणें कुसुमे अवतंसिते सति पुष्पे ऽवतंसीकृते सति, कथं समदनं सह मदनेन वर्तते इति समदनं सकामं साभिलाषं यथा भवत्येवम् । सुवर्णाभरणैरपि कि प्रयोजनं, कान्तन्यस्तं कुसुममपि प्रधानमित्यर्थः। 'उत्तंस- श्वाऽवतंसश्च कर्णपूरे च तावुभौ' इत्यमरः॥ ५९ ॥ समदनामति ॥ प्रणयवता प्रियेण सुमध्यमायाः प्रियाया अधिकर्ण कर्णे । विभक्त्यर्थेऽव्ययीभावः । कुसुमे समदनं यथा तथा अवसितेऽक्तंसीकृते सति सपदि लघुतां हीनतामगुरुत्वं च ब्रजदपि समान एकः पतिर्यस्यास्तस्याः सपत्याः । 'नित्यं सपर-यादिषु' इति डीप नकारश्च । तस्मादेव निर्देशात्समानशब्दस्य सभावनिपातः। हिरण्यस्य विकारो हिरण्मयम् । 'दाण्डिनायन-' इत्यादिना निपातः । तन्मण्डनं भारो बभूव । यत्किञ्चिदपि प्रेम्णा कान्तेन स्वहस्तदत्तं इलाध्यं मण्डनं भवति । अन्यन्महार्घमपि हीन भारच न तु ' मण्डनमित्यर्थः। लघुगुरुत्वगुणविरोधस्य होनार्थत्वेन परिहाराद्विरोधाभासभेदः ॥ ५९ ॥ अवजितममुना(१) तवाऽहमक्ष्णा रुचिरतयेत्यवनम्य लज्जयेव ॥ श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥६॥ अवजितमिति ॥ विलासवत्याः विलासिन्याः अङ्गनायाः श्रवणकुवलयं कर्णेन्दी- वरम् उपकर्ण कणे लगित्वा इति आचचक्षे इव इत्युवाचेव । इतीति कि-यत, हे विलास- वति ! अहं तव अमुना अक्ष्णा नेत्रेण अवजितं पराभूतं निर्जितम् अधःकृतं, क्या रुचिरतया रम्यत्वेन, किं कृत्वा आचचक्षे अवनम्य नम्रीभूय । उत्प्रेक्षते--लज्जयेव बीडयेक विनम्रमुखं, कैरुवाच भ्रमररुतैः भृङ्गस्वनैः । अन्योऽपि यः किल केनाप्यवजीयते स बीडया अवनतवदनो भवतीत्युक्तिः ॥ ६० ॥ अवजितमिति ॥ विलासवत्याः मियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहमधुना तवाक्ष्णो रुचिरतया । . । (१)मधुना तवाहमक्ष्णो ।

सर्गः ।] शिशुपालवधे। २७३ रुचिरस्य भावो रुचिरता ! भावे तल् । तया सौन्दर्येणायजितमिति वक्तव्यानुवादः । अत एव लजयाऽवनम्य भ्रमररुतैः । तम्मिषणेत्यर्थः। उपकर्ण कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युत्प्रेक्षा ॥ ६० ॥ अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ॥ पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥६॥ अवचितेति ॥ अलीनां कुलानि भ्रमराणां वृन्दानि युवतिषु विषये पदम् उपद- धिरे स्थानं चक्रिरे । तासु अङ्गनासु उपविष्टानीत्यर्थः । किं कृत्वा वल्लीविहाय लताः परित्यज्य, किंभूता लता: अवचितकुसुमाः चुण्टितप्रसूनाः, अवचितानि गृहीतानि कुसु- मानि पुष्पाणि याभ्यस्ताः, किलक्षणासु युवतिषु कोमलानि मृदुलानि च तानि माल्यानि पुष्पाणि च कोमलमाल्यानि तानि मलन्ते धारयन्तीत्येवंशीलाः कोमलमाल्यमालिन्यः तासु मालिनीषु । अत्र मल मल्ल धारणे, णिन् प्रत्ययः । अत्रार्थान्तरं न्यसति-यतः कार- णात् मलिनात्मनां मलीमसानां परिचयः संस्तवः न प्रधानं न मुख्यः । मलिनाः स्नेहेन न गृह्यन्ते इत्यर्थः । किल भ्रमरा मलिनतनवः कृष्णशरीराः सन्तीत्यर्थः । यतो मलिना- त्मनां मलिनचित्तानां कृतघ्नानां संस्तवः प्रधानं न भवति। यत्रैव हि तेषां स्वार्थसिद्धिः तत्रैव तेषां रतिरित्यर्थः । 'संस्तवः स्यात्परिचयः ॥ ६१ ॥ अवचितेति ॥ अलीनां कुलानि अवचितानि युवतिभिरुपात्तानि कुसुमानि यासां ताः। रिक्ता इत्य- र्थः । वल्लीः पुष्पलता विहाय कोमलानि माल्यानि मलन्ते धारयन्तीति तासु कोमलमाल्यमालिनीषु । 'मल मल्ल धारणे' इति धाताणिनिः, ऋत्रेभ्यो ङोप ! युवतिषु पदमुपदधिरे निदधुः । तथा हि-मलिनात्मनां कृष्ण- देहाना दुष्टचित्तानां च परिचयश्चिरकालसाहचर्य न प्रधानं न प्रयोजकं, किन्तु भुक्तिरेवति भावः । अतः परिचतलतात्यागो नाश्चर्यमित्यर्थः । अत्र मलिनात्मनामिति कृष्णाइत्वस्य दुष्टचित्तत्वेन सहाभेदाध्यव- सायनार्थान्तरन्यासस्योत्थापनात् श्लेषप्रतिभोत्थापिताऽतिशयोक्त्यनुप्राणितोऽयमिति सङ्करः ॥ ६ ॥ इतः सप्तभिः कुलकम्- श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरसभागैः ॥ मुकुलितनयनर्मुखारविन्दैर्धनमहतामिव पक्ष्मणां भरेण ॥ ६२ ॥ अधिकमरुणिमानमुद्रहद्भिर्विलस(१)दशीतमरीचिरश्मिजालैः ।। परिचितपरिचुम्बनाऽभियोगादपगतकुङ्कमरेणुभिः कपोलैः ॥ ६३ ॥ अवसितललितक्रियेण बाहोर्ललिततरेण तनीयसा युगेन ॥ सरसकिसलयाऽनुरञ्जितैर्वा करकमलैः पुनरुक्तरतभाभिः ॥ ६४ ॥ स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ॥ भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरतरं निषण्णैः ॥ ६५ ॥ अतनुकुचभरानतेन भूयःक्लम(२)जनिताऽऽनतिना शरीरकेण ॥ अनुचितगतिसादनिःसहवं कलभकरोरुभिरूभिर्दधानः ॥ ६६ ॥ अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ॥ कथमपि चरणोत्पलैश्चलद्भभृशविनिवेशवशात्परस्परस्य ॥ ६७ ॥ मुहुरिति धनविभ्रमाऽभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ॥ मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासमाजः ॥६८॥ (१) विकस। (२) प्रम।

प्रकृत्या स्वभावेन । । २७४ सन्देहविषापधिसर्वकषायुते [ सप्तमः- श्लथेत्यादि । मुहुरिति ॥ तदा तस्मिन् काले पुष्पावचयक्रीडावसरे नितम्बनीभिः रङ्गनाभिः नितरामतिशयेन अतमि तान्तं श्रान्तम् । कस्मात् मुहुर्वारंवारम् इतीति पूर्वोकप्रकारेण वनविभ्रमाऽभिषङ्गात् काननविलासखेदात्, वनेषु विभ्रमाः विलासाः तैर्यः अभिषङ्गः खेदः तस्मात् । अर्थान्तरन्यासः-युक्तोयमर्थः, यस्मात्कारणात् ताः अङ्गनाः मृदुतरतनवः कोमलतरशरीराः, अपरं किभूता: ताः अलसा मन्थराश्च । अपीति विस्मये । अपरं किंभूताः ताः स्त्रियः चिरं चिरकालं प्रयासभाजः आयासयुक्ताः । तदा किमुत किं भणनीयम् । आयासेन परिश्रान्ता इत्यर्थः । श्लथेति ॥ किंभूताभिः नितम्बनीभिः अंसभागैः स्कन्धप्रदेशैः उपलक्षिताभिः, किंभूतैः असभागैः नितरामतिशयेन नतिमद्भिः नम्रतायुक्तैः। कस्मान्नतिमद्भिः, उत्प्रेक्षते-रलथशिरसिजपाशातभारात् इव शिथिलकेशपाशपाताक्रमणादिव, श्लथः विसंष्ठुलो यः शिरसिजपाशः केशबन्धः तस्य पातः पतनं तेन भार आक्रमणं तस्मादिव । अपरं किलक्षणाभिः नितम्बिनीभिः मुखारविन्दैर्वदन- कमलैरुपलक्षिताभिः, किंभूतैः मुखारविन्दैः मुकुलितनयनैः निमीलितलोचनैः। केन, उत्प्रेक्षते- पक्ष्मणां भरेणेव नयनोपरिलोम्नां भारेणेव, किंलक्षणानां पक्ष्मणां घनानि च तानि महान्ति च घनमहान्ति तेषां सान्द्रगुरूणाम् । अधिकमिति ॥ अपरं किंभूताभिः नितम्बिनीभिः कपोलैर्गण्डस्थलैरुपलक्षिताभिः। किंभूतैः कपोलैः अपगतकुङ्कमरेणुभिः घृष्टघुसणपरागैः, कस्मात् परिचितपरिचुम्बनाऽभियोगात् स्वभ्यस्तसष्ठुचुम्बनसम्पर्कात , परिचितं सदभ्य- स्तं यच्चुम्बनं तस्य अभियोगः सम्पर्कः तस्मात् , किं कुर्वद्भिः कपोलै: अधिक सातिशय- मरुणिमानमुद्वहद्भिः अत्यारतत्वं बिभ्राणैः । अरुणस्य भावः अरुणिमा तम् अरुणिमा- नम् । कैः विलसन्तो दीप्यमाना ये अशोतमरीचिरश्मयः श्रीसूर्यकिरणाः तेषां जालानि पटलानि तैः देदीप्यमानरविद्युतिपटलैः । कपोलस्याऽत्यारक्तत्वात् कुकुर्म नष्टमित्यर्थः अवसितेति ॥ अपरं किंलक्षणाभिः नितम्बिनीभिः बाह्वोर्युगेन भुजयोर्युगेन उपलक्षिता- भिः । विभूतेन युगेन अवसितललितक्रियेण अवसिता नष्टा .ललितक्रिया विलासव्यापारी यस्य तत् अवसितललितक्रियं तेन अवसितविलासचेष्टितेन अवसितगतागतेन अपरं किंभूतेन बाह्वोर्युगेन अतिशयेन तनु तनीयः तेन तनीयसा सुकुमारेण, अपरं किंभूताभिः नितम्बिनीभिः करकमलैः पाणिपझैः उपलक्षिताभिः, किंभूतैः करकमलैः वाशब्द इवार्थे, सरसकिसलयाऽनुरञ्जितैरिव नवप्रवालरसेनाऽनुरञ्जितैरिव, सरसानि नूतनानि यानि किसल- यानि तैः अनुरञ्जितानि आरतीकृतानि तैरिव, अपरं किंभूतैः करकमलैः पुनरुक्तरक्त- भाभिः पुनरुक्ता द्विगुणिता रक्ता अरुणा भाः कान्तिर्येषां तानि पुनरुक्तरक्त- भांसि तैः विशेषारक्तकान्तिभिः, अत एव अनु पश्चात् रञ्जितैरिवेत्युक्तम् । प्रवालाक्चयात् विशेषितरङ्गैरिवेत्यर्थः । स्मरेति ॥ अपर किंभूताभिः नितम्बिनीमिः स्तनयुगलैः कुच- युगैरुपलक्षिताभिः, किंलक्षणैः स्तनयुगैः भृशमतीव इतरेतरं निषष्णैः परस्पर निविष्टैः । उत्प्रेक्षते-अतिशयखेदसम्पदा इव अतिश्रमविभूमेणेव । अन्येऽपि ये श्रान्ताः सञ्चरन्ति ते परस्परं निरन्तरमुपविशन्ति । अपरं किंलक्षणैः स्तनयुगैः पत्युः कान्तस्य उरःस्थलेन वक्षःस्थलेन विनिमयसंक्रमिताङ्गरागरागैः भतुर्वक्षःस्थलेन सह कृतपरावर्तविलेपनन्यासेन आरतः, कथं यथा भवति स्मरसरसं यथा भवति कामरससंयुक्तं यथा भवति । एवं पति- - . .

सर्गः ।]
शिशुपालवधे।
२७५
वक्षसा सह विनिमयः न कलहभावादित्यर्थः । अतनुकुचेति ॥ अपरं किंभूताभिः
नितम्बिनीभिः शरीरकेण देहेन उपलक्षिताभिः । किंभूतेन शरीरेण अतनुकुचभरानतेन
विशालस्तनभारनमितेन, अपरं किंभूतेन शरीरेण भूयः पुनरपि क्लमजनिताऽऽनतिना क्लमेन
श्रमेण जनिता उत्पादिता आनतिर्नम्रता यस्य तत्तेन खेदेनोत्पादितननतेन । अग्रेऽपि
कुचभरेण नमितं, पुनरपि खेदेन विशेषादवनमितम् । अपरं किलक्षणाभिः स्त्रीभिः ऊरुभिः
जङ्घाभिः उपलक्षिताभिः, किंभूतैः ऊरुभिः अनुचितगतिसादनिःसहत्वं दधानः अनुचित-
गमनखेदादलसत्वं विभाणैः मन्थरत्वं दधद्भिः, अपरं किलक्षणैः ऊरुभिः कलभस्य बालगज-
स्य करः शुण्डादण्डः तद्वद् विशालैः पृथुभिर्दीधैश्च । अपगतेति ॥ किंलक्षणाभिः स्त्रीभिः
चरणोत्पलैः पादपीरुपलक्षिताभिः । किंभूतैः पादपः कथमपि महता कष्टेन चलदिः गच्छ-
दिः, अपर किंभूतैः चरणोत्पलैः अपगतनवयावकैः अपगतो नष्टो नवः सरसः यावकः अल-
क्तको येभ्यस्तानि तैः नष्टालतकैः, अपरं किंभूतैः चरणोत्पलैः चिराय चिरकालं यावत्
क्षितिगमनेन पृथिवीचरणेन पुनः भूयोऽपि वितीर्णरागैः दत्तलौहित्यैः, कस्मात् परस्परस्या-
ऽन्योन्यस्य भृशविनिवेशवशात् सम्पर्कवशात् अतिसघट्टनात् । परस्परस्य संयोगवशात्
लौहित्यं जातमित्यर्थः । 'यावोऽलक्तो द्रुमामयः । सप्तभिः कुलकम् ॥ ६२-६८ ॥
अथोत्तरसर्गे जलक्रीडावर्णनाय तदुपोद्धातत्वेनासा वनविहारोद्भवं श्रमातिरेक सप्ताभः कुलकेन दर्शयति-
श्लथेति ॥ शिरसि जाताः शिरोरुहाः। सप्तम्यां जनेर्डः । 'हलदन्तात्-' इत्यादिना सप्तम्या-
अलुक् । तेषां पाशः कलापः श्लथस्य तस्य यः पातस्तस्य भारादिवेति हेतूत्प्रेक्षा । 'न पादादौ खल्वादयः'
इति वामनीयनिषेधेऽपि इवशब्दस्य पादादी प्रयोगः कवेरौदण्ड्यात् । नितरामातिशयेन । अव्ययादामुप्रत्य-
यः । नतिमद्भिरसभांगरुपलक्षिताभिनितम्बिनीभिरिति भाविना सम्बन्धः। एवमुत्तरत्रापि योज्यम् । नता-
सत्वमुत्तमम्रीलक्षणम् । पुनर्घनमहता सान्द्रदीर्घाणा पक्ष्मणां भरेणेवेति पूर्ववद्धेतूत्प्रेक्षा । मुकुलितनयने-
र्मुखारविन्दैः । अत्रोत्प्रेक्षयोः संसृष्टिः ॥ ६२ ॥
अधिकमिति ॥ पुनः परिचिताना प्रणयिना परिचुम्बनैरभियोगान्मर्दनादपगतकुङ्कुमरेणुभिः अत-
एव विकसन्ति वैमल्यात्प्रतिफलन्ति अशीतमरीचेरुष्णांशो रश्मिजालानि येषु तैः । असम्बन्धे सम्बन्धो-
क्त्या तिशयोक्तिः । अत एवाधिकमरुणिमानमुद्रहाद्भः। कुकुमाऽपायेऽप्यातपलङ्घनादतिलोहितरित्यर्थः ।
कपोलगण्डस्थलैः ॥६३ ॥
अवसितेति ॥ पुनरवसिताः श्रमेण परिसमाप्ता ललिताः क्रियाः सुकुमारचेष्टा अपि यस्य तेन ललित-
सरेण मृदुतरेण तनीयसा तनुतरेण बाह्वोयुगन पुनः सरसैरा!: किसलयैरनुरञ्जितैर्वा अनुरञ्जनं प्रापितै-
रिव पुनरुक्का द्विगुणाः रत्ता भासो येषां तैः पुनरुक्तरक्तभाभिः। 'हाल सर्वेषाम्' इति यकारलोपः । कर-
कमलैः पाणिपङ्कजैः । अत्रेतरजनकरापेक्षया पुनरुतरकत्वं स्वाभाविकमेव । तत्र किसलयरञ्जनहेतुकत्व-
मुत्प्रेक्ष्यते । इवार्थे वाशब्दस्तदुत्प्रेक्षायां प्रयुक्तः ॥ ६४ ॥
स्मति ।। पुनः स्मरेण मानुरागं यथा तथा पत्युरुरःस्थलेन का विनिमयेन व्यतिहारेण संक्रमितो-
गरागोऽनुलेपन तेन रागो रञ्जनं येषु तैः, अतिशयोऽतिशयितो यः खदस्तस्य सम्पदा महिम्नवत्युत्प्रेक्षा ।
भृशमितरेतर निषण्णः परस्परं संश्रितैः स्तनयुगलैः ॥ ६५ ॥
अतनुकुचति ॥ पुनः अतनुना महता कुचभरेणानतेन नमेण । प्रागेवेति भावः । भूयः पुनश्च श्रम-
जनिता आनतिर्यस्य तेन शरीरकेण सुकुमारशरीरण । किञ्च अनुचिताऽनभ्यस्ता । 'अभ्यस्तेऽप्युचितं न्याय्य-
म्' इति यादवः । तया गत्या पादचारेण यः सादः कार्य तेन यात्रिःसहत्वमक्षमत्वं तद्दधानः। गन्तु-
मक्षमैरित्यर्थः । न सहन्त इति निःसहाः । पचायजन्तेनोपसर्गस्य समास त्यप्रत्ययः । कलभकराः करिहस्ता-
इवोरवो महान्तस्तैहरुभिः सक्थिभिः । 'मक्थि क्लीवे पुमानूरुः' इत्यमरः ॥ ६६ ॥

२७६ सन्देहविषौषधिसर्वकषायुते- [ सप्तमः- . अपगतेति ॥ पुनाश्चराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषात पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशात् स्थिरन्यासबलात एकं स्थिरं निवेश्य तदष्टम्भेन इतरचालनक्रमेणेत्यर्थः । कथमपि महता प्रयत्नेन । 'कथमादि तथाप्यन्तं यनगौरवभेदयोः' इत्युत्पनः । चलद्विखरणोत्पलैः ॥ ६॥ मुहरित ॥ नितम्बिनीभिरुकधर्मोपलक्षिताभिः सीभिर्मुहुरित्येवं वनविभ्रमाऽभिषणादनभ्रमणासङ्गात्तदा नितराम् अतमितान्तम् । तमेर्प्यन्ताद्भावे लुङ्, 'नोदात्तोपदेशस्य मान्तस्याऽनाचमेः' इति वृद्धिप्रतिषेधः। युक चैतदित्याह-मृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृत्या अलसा जडाः, अथ चिरमपि प्रयासमाजश्वेत किमुत । सुतरामलसाः स्युरित्यर्थः। अत्राऽप्रकृतनैसर्गिकालस्यस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धन्व- बर्णनादर्थापत्तिरलङ्कारः। 'एकस्य वस्तुनो भावायत्र पस्त्वन्यदापतेत् । केमुत्यन्यायतः सा स्यादर्थापत्तिरलक्रिया' इति लक्षणात् । श्रमश्चात्र सञ्चारी वाच्यः । 'श्रमः खेदोऽश्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः' इति लक्षणात् ॥१८॥ प्रथममलघुमौक्तिकाभमासीच्छमजलमुज्वलगण्डमण्डलेषु ॥ कठिनकुचतटायपाति पश्चादथ शतकर्करतां (१)जगाम तासाम् ॥ ६९ ।। प्रथममिति ॥ अथाऽनन्तरं तासामङ्गन्नानां श्रमजलं प्रस्वेदवारि प्रथम पूर्वम् उज्वलगण्डमण्डलेषु विमलगण्डस्थलेषु वर्तमानम् अलघुमौक्तिकाभमासीत् स्थूलमुक्ता- फलतुल्यं बभूव, पश्चादनन्तरं शतकर्करतां जगाम अनेकखण्डतां गतम्। शतमनेकानि कर्कराणि शकलानि यस्य सः तस्य भावस्तत्ता ताम् । किंभूतं श्रमजलं कठिनं कठोरं यत्कुचतट तस्याप्रमुपरिभागः तत्र पततीत्येवंशीलं कठोरस्तनमुखोपरि पतितम् । अन्यदपि स्थूलं वस्तु कठिनोपरिपातवशात् शतखण्डत्वं गच्छतीत्यर्थः ॥ ६९ ॥ अथ श्रमानुभावं स्वेदं वर्णयति- प्रथममिति ॥ अथ तासां मीणां अमजलं प्रथममुज्ज्वलगण्डमण्डलेपूज्ज्वलगण्डस्थलेषु अलघु- मौक्तिकाभं स्थूलमुक्ताफलसदृशमासीत् । पश्चात्कठिनतरकुजाप्रपाति सत् अथ पतनानन्तरं, शतं शर्करा: शतशर्करम् । 'समाहारे द्विगुरेकवचनं वा टाबन्ते' इति नपुंसकत्वम् । तस्य भावस्तत्ता तो शतशर्करत शतशकलत्वं जगाम । अत्रैकस्य श्रमजलस्य क्रमेणाऽनेकाश्रयसम्बन्धनिबन्धनात्पर्यायालङ्कारभेदः । 'क्रमेणैकमने कस्मिन्नाधारे वर्तते यदि । एकस्मिन्त्रथ वाग्ने पर्यायालकृतिर्मता' । इति लक्षणातू ।। ६९ ॥ विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ॥ परिमलितमपि प्रियः प्रकामं कुचयुगमुज्वलमेव कामिनीनाम् ॥७॥ विपुलकमिति ॥ कामिनीनां सुन्दरीणां कुचयुगं स्तनयुगल चकाशे। किंलक्षणं स्तनयुगं विपुलकमपि धनपुलकोदयकोमलम् । ननु विगत पुलकं यत्र तत् विपुलकं, तत् धन- पुलकोदयकोमलं कथं भवति नेत्याह-विपुलकं विपुलमेव विस्तीर्णमेव विपुलकंघनपुलकोदर्य प्रसृतरोमाञ्चाविर्भाव कोमल मनोज़ सुकुमारं, घनो निविडश्चासौ पुलको रोमानश्च तस्योदय- आविर्भावः तेन कोमलं रुचिरम्, अपरं किंभूतं कुचयुगं प्रियैः कान्तः प्रकाममतिशयेन । १)शर्करता।

सर्गः।] शिशुपालवधे। २७७.. । परिमलितमपि उज्ज्वलमेव । ननु यत् परिमलित परितः समन्तात् मलिनीकृतं भवति, तत कथमुज्ज्वलं स्यात । नैतत् व्याख्येयं, परिमलितमपि विमर्दोत्थगन्धेन सुगन्धीकृतमपि उज्ज्वलमेव मनोहरमेव। सम्मर्दनवशात् रोमाञ्चितमित्यर्थः । किंभूतानामङ्गनानां यौवनो- द्धतानां तारुण्योगटानाम् ॥ ७० ॥ अमेपि कुचमण्डलमविकृतशोभामिन्याह- विपुलकमिति ॥ यौवनोद्धतानां कामिनीना कुचयुगं विपुलकं पुलकरहितमपि घनपुलकोदयेन सान्दरोमोरमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकममित्यविरोधः । प्रियः प्रकामं, परितो मलमस्येति परिमलं तत्कृतं परिमालत मलिनीकृतं तथाप्युज्ज्वलं विमलमेव चकाश इति विरोधः । परिमल- वत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् 'तत्करोति-'इति निचि कणि कः। णाविष्ठवावे विन्मतो- लुक् । अपिविरोधे । विरोधाभासालङ्कारयोः संसृष्टिः ।। ७० ।। अविरतकुसुमावचायखेदाग्निहितभुजालतयैकयोपकण्ठम् ।। विपुलतरनिरन्तराऽवलग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥ अविरतेति ॥ एकया कयाचित् अङ्गनया ललम्बे लम्बितम् , कया उपकण्ठे पतिकण्ठे निहितभुजालतया आरोपितभुजवल्ल्या, निहिते आरोपिते भुजे एव बाहू एव लते व्रतत्यौ यया सा तया, कस्मात् अविरतकुसुमावचायखेदात् अविरतं निरन्तरं कुसुमावचायः पुष्पाव- चयनं तेन यः खेदः परिश्रमः तस्मात् निरन्तरपुष्पावचयपरिश्रमात् , अपरं किंलक्षणया तया विपुलतरनिरन्तराऽवलग्नस्तनपिहितप्रियवक्षसा विपुलतरौ विस्तीर्णो निरन्तरावलग्नौ अति- सम्मिलितौ यो स्तनौ ताभ्यां पिहितमाच्छादितं प्रियवक्षो भर्तृहृदयं यया सा स्तन- पिहितप्रियवक्षाः तया ॥ ७१ ॥ अथैकस्याः प्रियकण्ठावलम्बने श्रमानुभावमेकेनाह- अविरतति ॥ अविरतो यः कुसुमानामवचायो हस्तेन लवनम् । 'हस्तादाने चेरस्तेये' इति घञ्। तेन यः खेदस्तस्माद्भर्तुरुपकण्ठं कण्ठ । विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । 'दो प्रकोष्टे भुजो बाहुभुजा च स्मर्यले बुधैः' इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ मंश्लिष्टी च यो स्तनै नाभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया बिया ललम्बे लम्बितम् । भावे लिट् ॥ ७१ ॥ अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ॥ तनुरभिलषितं क्लमच्छलेन व्यवृणुत वल्लितबाहुवल्लरीका ॥ ७२ ॥ अभिमतमिति ॥ तनुरङ्गना अभिलषितं वाञ्छितं व्यवृणुत प्रकटयामास । केन क्लमच्छलेन खेदव्याजेन, किंलक्षणा अङ्गना वेल्लितबाहुवल्लरीका प्रसारितबाहुलतिका, वेल्लिते प्रसारिते बाहुवल्लयौँ भुजवल्लयौ यया सा, किंभूता तनुः कृताङ्गभङ्गा विहिततनुभङ्गा, कथम् अभिमतमभितः कान्तमभि लक्ष्यीकृत्य, किं कृत्वा कुचयुगमुन्नमय्य स्तनयुगलमूर्वीकृत्य किंलक्षणं कुचयुगम् उन्नतिवित्तम् उन्नत्या वित्तमौन्नत्यप्रसिद्धम् । श्रममिषेण अङ्गभङ्ग विधाय वल्लभमभिलक्ष्य प्रसारितभुजवल्लरीकया कयाचिदङ्गनया आलिङ्गनाभिलाष इव प्रकटित इत्यर्थः ॥ ७२ ॥ अथापरस्या अङ्गभङ्गाख्यमपरमनुभावमाह- अभिमतमिति ॥ तनुः काचित्तन्वी । 'वोतो गुणवचनात्' इति विकल्पादनीकारः । भमिमत- मभितः । प्रियमभीत्यर्थः। अतिवित्तम् औरत्येन प्रनीतम् । विदेर्भावार्थात् 'वित्तो भोगप्रत्यययः' इति प्रत्य. यार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुत्रमय्योत्तुङ्ग कृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा, तथा २४ शिव० ..

- , २७८ सन्देहविषौषधिसर्वयायुते [ सप्तमः- “धेल्लिते मिथो वेष्टिते बाहुवल्लयों भुजलते यया सा । 'नयूत' इति कप् । क्लमछलेन। श्रमापनोदक- चेष्टाव्याजनेत्यर्थः। अभिलषितमालिङ्गनायभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लछ।प्रौढेयमुत्सुका च ॥ हिमलवसद्दशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ॥ कुचकलशकिशोरको कश्चित्तरलतया तरुणेन पस्पृशाते ॥७३॥ हिमलवसदृश इति ॥ तरुणेन विलासिना नूतनोढवध्वाः नवपरिणीताङ्गनायाः कुचकलशकिशोरको कुचकुम्भबालाश्वौ कथञ्चित् महता कष्टेन पस्पृशाते स्पृष्टौ । कया तरलतया चापल्येन । चपलत्वात्किशोरकग्रहणम् । किशोरकोऽपि चपलतया कष्टेन स्पृश्यते इत्यर्थः । किं कुर्वता किलेत्यलीके, छमनि श्रमोदबिन्दून् स्वेदजलकणान् अपनयता स्फेट- यता, किंभूतान् श्रमोदबिन्दून् हिमलवसदृशः नीहारजलकणतुल्यान् ॥ ७३ ॥ अथ कस्याश्चिन्मुग्धायाः प्रियचापलोनिद्वारा स्वेदोद्रमं प्रकटयति- हिमोत ॥ हिमनवसदृशो हिमकणनिभान् श्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । 'मन्यौदन-' इत्यादिना उदकस्योदादेश: । अपनयता किल प्रमार्जतेष, न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव उल्लसनसाम्यादश्वशावाविव । 'अश्वशावः किशोरक' इत्यमरः । तौ कुचकलशकिशोरकी। उभयत्राप्युपमितममासः । कथञ्चिशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया, उत्सुकतयेत्यर्थः । पस्पृशाने स्पृष्टौ । स्पृशेः कर्मणि लिट् । मुग्धेयम् ॥ १३ ॥ गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रामन्नरुद्रुमभुजलताः पूर्णनाभीहदान्तः ॥ उल्लयोच्चैः कुचतटभुवं प्लावयन् रोमकूपान् स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७४ ॥ गत्वेति ॥ युवतिसरितामङ्गनानदीनां स्वेदापूरः प्रस्वेदजलपूरः गण्डस्थलानि व्याप कपोलस्थलानि व्याप्नोति स्म । किं कृत्वा जघनपुलिने उद्रेकं गत्वा आधिक्यं प्राप्य किंभूतः स्वेदापूरः रुद्धमध्यप्रदेशः आवृतोदरप्रदेशः, किं कुर्वन् ऊरुद्रुमभुजलताः क्रामन् ऊरवः जघनान्येव दुमा वृक्षा भुजा बाहव एव लता वल्लयः उरुगुमाश्च भुजलताश्च ताः क्रामन् उल्लङ्घयन् विक्षिपन्, अपरं किंलक्षणः स्वेदापूरः पूर्णनाभीहदान्तः पूर्णः भरितः नाभी- हृदानां नाभीकुहराणाम् अन्तो मध्यप्रदेशो येन सः, कृत्वा उचैः उन्नतां कुच- तटभुवं स्तनतटभुवमुल्लङ्घ्य अतिक्रम्य, अपरं किं कुर्वन् रोमकूपान् प्लावयन् रोम- रन्ध्राणि परिवाहयन् । नदीनामपि जलपूर एवंविधो भवति तावत्-प्रथम पुलिने आधि- क्यं प्राप्नोति, अपरं मध्यप्रदेश रुणद्धि, दुमलताः कामति विक्षेपयति, अपरं हृदान् परि- पूरयति अतिजलसम्भृतान् करोति, तथा तटभुवमुल्लङ्घयति, तथा कूपानाप्लावयति जला- वृतान् करोति । इत्येवं कृत्वा स्थलानि व्याप्नोति । अत एव युवतयः सरित्तुल्याः। उभयोः साम्यम् । मन्दाक्रान्ता छन्दः ॥ ७४ ॥ अथ सर्वासामेव स्वेदोदकं वर्णयति- गत्वेति ॥ युवतय एव सरितस्तासां स्वेद एवाऽऽपूरः प्रवाहः जघनमेव पुलिनं तत्रोदेकं गत्वा रुद्ध आवृतो मध्यप्रदेशोऽवलमभागः, प्रवाहदेशश्च येन सः पूर्णनाभीलदान्तः । रेफान्तमकारान्तं वा । पूर्णति पूरे- W-तात्कर्माणि कः, 'वा दान्त-' इत्यादिना णिलुगिट्पतिषेधनिपातः । उच्चैहेनती कुचावेव तटौ तयो वं प्रदेशमुल्लङ्घय रोमकूपान् रोमाणि रोमरन्याणि तान्येव कूपान प्लावयन् पूरयन् गण्डस्थलानि कपोलभागान कि - .

सर्गः।] शिशुपालवधे। २७६ उन्नतभूभागांश्च प्राप । अत्र युवतिषु सारत्वस्य तदषयवेष्ववयवानां च निरूपणान्समस्तवस्तुविषयसावयव. रूपकं श्लेषानुपाणितम्। मन्दाक्रान्ता वृत्तम्। 'मन्दाक्रान्ता जलधिषडगम्भौ नती ताद् गुरू चेत्' इति लक्षणात्॥ प्रियकरपरिमार्गादङ्गनानां यदाऽभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ॥ अथ वपुरभिषेक्तुं तास्तदाऽम्भोमिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः - इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये वनविहारो नाम सप्तमः सर्गः ॥ ७ ॥ प्रियेति ॥अथाऽनन्तरं ताः स्त्रियः तदा तस्मिन् काले वपुः शरीरमभिषेक्तुम् इषुः प्रक्षा- लयितुमभिलेषुः । किलक्षणं वपुः वनविहरणखेदम्लानं काननक्रीडाश्रमेण दीनं, किंभूतास्ताः अम्लानशोभाः दीप्यमानकान्तयः । वपुरेव म्लानम् । तदा कदा यदा यस्मिन् काले अङ्ग- नानां स्वेदतोयोदयश्रीः प्रस्वेदजलाविर्भावलक्ष्मीः पुनर्भूयोऽपि अधिकतरैव अभूत् बहुतरैव साता, कस्मात् प्रियकरपरिमार्गात् वल्लभपाणिपरिमार्जनात् । सात्त्विकभावादित्यर्थः । वल्लभकरस्पृष्टानामानानां यदा पुनरधिकः स्वेदो बभूव, तदाऽङ्गाना वपुःप्रक्षालनमीषुरिति भावः । मालिनी छन्दः ॥ ७९ ॥ इति श्री माघकाव्ये बृहद्वल्लभायां पुष्पावचयो नाम सप्तमः सर्गः । 1 . एवम वश्रमानुभावं स्वेदोके वर्णयित्वा तत्फलभूतो जलविहारेच्छामासां दर्शयति-- पियति ॥ यदा अङ्गनाना प्रियकरपरिमार्गात प्रियकरस्पर्शात् । मृर्घञ् प्रत्ययः । स्वेदतोयोदयत्री: स्वेदोद्गमसम्पत् पुनर्भूयोऽप्यधिकतरैवाऽभूत्तदा अम्लानशोभा अक्षीणकान्तयः, वपुषि म्लानेऽपीति भावः, ना अङ्गना वनविहरणखेदेन म्लानम् । म्लायतेः कर्तरि कः, 'संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम् । वपुरङ्गम् अथ कात्स्येन । 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येऽवथो अथ' इत्यमरः । अम्भोभिरभिषेक्तुमीषु- रिच्छन्ति स्म । इषेर्लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थनहेतुकत्येनोपनिबन्धाद्वाक्यार्थहेतुकं काव्य- लिङ्गमलटारः । मालिनी वृत्तम् ॥ ७५ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने सर्वदुषाख्ये सप्तमः सर्गः ॥ ॥ .. . अष्टमः सर्गः। आयासादलघुतरस्तनैः स्तनद्भिः (१)श्रान्तानामविकचलोचनारविन्दैः ॥ अभ्यम्भः कथमपि योषितां समूहैस्तैरु/निमित(२)चलत्पदं प्रचेले ॥१॥ आयासादिति ।। तैः योषितां समूहैः अङ्गनानां गणैः अभ्यम्भः उदकाभिमुख कथमपि महता कष्टेन प्रचेले सञ्चलितं प्रचलितम् । कथं यथा भवति उर्वीनिमितचलत्पदं यथा भवति उा पृथिव्यां निमितं मन्दं चलत् पदं चरणं यथा भवति । निमितं मन्दम् । खेद- क्शात मन्यरं गतमिति भावः । किं कुर्वनियोषितां समूहः आयासात् खेदसन्तापात् स्तनभिः शब्दायमानैः सीत्कारशब्दं कुर्वाणैः, किलक्षणानां योषिताम् अलघुतरस्तनैः (१) स्वनद्भिः। (२) निमित। ।

सन्देहविषौषधिसर्वकषायुते [ अष्टमः- श्रान्तानाम् अतिप्रौढकुचैः खिन्नानाम् , अपरं किंलक्षणैः समूहैः अविकचलोचनारविन्दैः अविकस्वरनयनकमलैः । खेदेन निमीलितैरिति भावः । प्रहर्षिणी छन्दः ॥ १ ॥ 'अथ वपुरभिषेक्तुं नास्तदाम्भोभिरीषु'रित्युक्तं, नदेव वर्णयितुमारभते- प्रायासादिति ॥ अलधुतरस्तनैः पृथुतरकुचैरिति मान्यहेतूक्तिः । स्वननिः भूमामिः श्रमश्वासर्वा शब्दायमानः । 'स्वन शन्दे' इति धातोर्लटः शत्रादेशः । विकचलोचनारविन्दैःश्रमनिमीलिताक्षिपौरायासा- दूनविहारखेदाच्छान्ताना क्लान्तानां योषितां तैः समूहः कर्तृभिः उर्घा निहितानि निक्षिप्तानि । 'डुधाञ् धारणे' इति धातोः कर्माण कः। तथैव चलन्ति पदानि यस्मिन्कर्मणि तयथा तथा। उत्क्षेपणाऽशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिन् । स्वभावोक्तिरल- कारः । 'स्वभावोक्किरमौ चारु यथावस्तुवर्णनम्' इति लक्षणात् । अस्मिन्स प्रहर्षिणी वृत्तम्। 'म्नौ जो गमिदशयतिः प्रहर्बिणीयम्' इति लक्षणात् ॥ १॥ यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि । संसक्तैर्विपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्वभूव वर्त्म ॥ २ ॥ यान्तीनामिति ॥ असितभ्रवां श्यामकटाक्षाणामङ्गनानां तद्वर्त्म मार्गः सम्बाई बभूव सङ्कटमभवत् । किलक्षणं वर्ल्स बृहदपि विशालमपि, किंभूतानां नारीणां समं युग- पदेव यान्तीनां तुल्यकालं गच्छन्तीनां, यान्तीति यान्त्यः तासाम् । क्व सति अंसानां स्कन्धानामन्तरेऽवकाशे नितान्तमतिशयेन महत्यपि सति विशालेऽपि सति, कथं तद्वर्त्म सङ्कटमासीत् अपरं कस्मादसानामन्तरं बभूव नतत्वात् कुचभारानमितत्वात्, तर्हि कैः सम्बाधं बभूव नितम्बः कटिप्रदेशैः, किंभूतैः नितम्बैः मिथः परस्परं संयुक्तैः संमिलितैः, कया विपुलतया विशालत्वेन ॥ २ ॥ यान्तीनामिति ॥ समं पङ्गिशो यान्तीनाम् । 'आच्छीन योर्नुम्' इति वैकल्पिको नुमागमः । असित- भ्रवां स्त्रीणामसानां नतत्वाद्धेतोनितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथः संसकैरन्योन्य- श्लिष्टनितम्बवृद्विस्तृतमपि तद्वम, सम्बाध्यत इति सम्बाधः सङ्कटम् । 'सङ्कट ना तु सम्बाधः' इत्यमरः । घान्तस्यापि विशेष्यलिङ्गत्वं 'सम्बाधमनुवर्तते' इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतासत्वनितम्ब- वैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असम्बाधेऽपि सम्बाधाभिधानादतिशयोक्तिः ॥ २ ॥ नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः साशङ्क मुहुरिव कौतुकात्करैस्ताः ॥ पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ३ ॥ नीरन्ध्रेति ॥ अतुहिनरश्मिः श्रीसूर्यः ताः अङ्गानाः करैः पस्पर्श किरणैरस्पाक्षीत् । कस्मात्कौतुकात् विनोदात्, कैः पस्पर्श शाखानामन्तरालैः विटपानां विवरैः, किंभूतानां शाखानां क्षण क्षणमात्रमनिलाकुलीकृतानां वातकम्पितानाम् , अनिलेन आकुलीकृतास्ता- साम् । ताः किं कुर्वतीः नोरन्ध्रनुमशिशिरां सान्द्रवृक्षशीतलां भुवं भजन्तीः पृथिवीं सेवमानाः वृक्षच्छायासूपविष्टाः । सूर्येण ताः स्पृष्टा इत्यर्थः । उत्प्रेक्षते-साशङ्क समय मुहुरिव पुनःपुनः। रविः पस्पर्श समय इव । अन्योऽपि यः किल पराङ्गनाः करैः स्पृशति, स गवाक्षजालैः सभयः सन् वारंवार स्पर्श करोति इत्युक्तिः ॥ ३ ॥ नीरन्ब्रेति ॥ नीर धैः मान्दै? मैः शिशिरा भुवं वजन्तीगच्छन्तीस्ताः मी: अतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाडाकुलीकृताना पालिताना शाखानामन्तरांलनीरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशकुम् । परदारयात्मभयमित्यर्थः । करः पस्पर्श स्पृष्टवान् । अत्र चलाखाहेतु- कस्य तपनकरस्पर्शस्योत्सुक्यहेतुकत्वोत्क्षणाद् गुणहेतूत्प्रेक्षा ॥ ३ ॥ .. ..

सर्गः ।] - .. शिशुपालवधे। २८१ एकस्यास्तपनकरैः करालिताया बिभ्राणः सपदि सितोष्णवारणत्वम् ॥ सेवायै पदनसरोजनिर्जितश्रीरागत्य प्रियमिव चन्द्रमाश्चकार ॥ ४ ॥ एकस्या इति ॥ चन्द्रमाः रजनिकरः एकस्याः अङ्गनायाः प्रियमिव चकार मनो. वल्लभमिव चक्रे । किं कृत्वा आगत्य समीपं प्राप्य, किंभूतायाः अङ्गनायाः तपनकरैः करालितायाः रविकिरणैः परितप्तायाः खेदं प्रापितायाः, किं कुर्वाणश्चन्द्रमाः सपदि वेगेन सितोष्णवारणत्वं बिभ्राणः श्वेतच्छन्नत्वं धारयन् , सितं च तदुष्णवारणं च सितोष्णवारणं तस्य भावः तत्त्वम् । किमर्थं सेवायै सेवार्थम् । सेवायां किं कारणं, तदाह-किंभूतः चन्द्रः वदनसरोजनिर्जितश्रीः अङ्गनाया मुखकमलेन पराभूतकान्तिः तिरस्कृततेजाः । अन्योऽपि यः किल येन पराजितो भवति, सोऽवश्यमेव तस्य सेवां करोतीति भावः ॥ ४ ॥ अथ कस्याश्चित वृत्नं श्वेतातपत्रं चन्द्रत्वेनोत्प्रक्षते- एकस्या इति ॥ वदनसरोजेन श्रीमुखपट्टजेन निर्जितश्रीश्चन्द्रमाः। एतेन वदनसरोजस्य चन्द्रविजया- सरोजान्तरवलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालितायाः भीषितायाः, पीडिताया इत्यर्थः । 'करालो भीषणेऽन्यवत्' इति विश्वः । एतेन सेवाऽवकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः, सपदि आतपक्षण एव सितोष्णधारणत्वं स्वयमव श्वेतातपत्रत्वं बिभ्राणः मन् प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा । पराजितः कयाचित्सेवन या जेतुश्चित्तसन्तोषमुपार्जय- तीति भावः ॥ ४ ॥ स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिपथ(२)वारिताऽऽतपायाः ॥ सच्छत्रादपरविलासिनीसमूहाच्छायाऽऽसीदधिकतरा तदाऽपरस्याः ॥५॥ स्वमिति ॥ तदा तस्मिन् काले अपरस्याः अङ्गनायाः अपरविलासिनीसमूहात् अन्याङ्गनावृन्दात् अधिकतरा छाया आसीत् , अधिकतमा कान्तिर्बभूवेत्यर्थः । 'छाया कान्तौ प्रतिमायामर्कयोपित्यनातपे' इत्यमरः । किंभूतात् नारीसमूहात् सच्छत्रात् छत्र- युक्तादपि, किंभूतायाः अपरस्याः कान्तेन वल्लभेन प्रतिपथवारितातपायाः प्रतिपथं मार्गे वारितो निषिद्धः आतपो धर्मो यस्याः सा तस्याः मार्गे निवारितधर्मायाः, किं कुर्वता कान्तेन रागात् आसक्तिवशात् स्वं निजमुत्तरीय सितमुत्तरासङ्गम् उपरि तदुपरि वितन्वता विस्तारयता । तदुपरि वल्लभविस्तारितोत्तरीयकृतातपत्रेण सच्छत्राऽपरयुवतिसमूहस्यातपत्र- शोभा निजितेत्यर्थः । 'द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथेत्यमरः ॥ ५ ॥ स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुनरीयं वितन्त्रता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदे पदे वारित आतपो यस्याः तस्या अपरस्याः कस्याश्चिदङ्गनाया: सच्छत्रात छत्रयुक्तादपरविलासिनी. समूहात्सकाशात् । 'पञ्चमी विभक्के' इति पञ्चमी । अधिकतरा छाया अनातप: कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधुतोत्तरीयच्छायैवाऽनन्यसाधारणी ज्यायसी । मुखकान्तिरपि तस्या एव भूय- सीति भावः । 'छाया त्वनानपे कान्तो' इत्यमरः । एतेन सच्छवादच्छपस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलङ्कारः ॥ ५ ॥ संस्पर्शप्रभवसुखोपनीयमाने सर्वाङ्गे करतललनवल्लभायाः ॥ कौशेयं वजदपि गाढतामजस्रं सनसे विगलितनीवि नीरजाक्ष्याः॥६॥ संस्पर्शति ॥ नीरजाक्ष्याः कमललोचनायाः अङ्गनायाः सर्वाङ्गे सकलगाने वर्तमान . (१) प्रतिपद।

- "२८२ सन्देहविषौषधिसर्वकषायुते [ अष्टम:- कौशेयं परिधानदुकूलं सनसे सस्तम् । 'कौशेयं कृमिकोशोत्यामित्यमरः । किंभूतं कौशे- यम् अजस्त्रं निरन्तरं गाढतां व्रजपि अग्रे दृढत्वं प्राप्नुवदपि । सुदृढमपीत्यर्थः । तहि कथं पपातेत्याशङ्कयाह-पुनः किंभूत कौशेयं विगलितनीवि पतितमेखलागुणं, किं- लक्षणायाः करतललमवल्लभायाः हस्तावलमप्रियायाः, करतले पाणौ लमः अवलमो वल्लभो भर्ता यस्याः सा तस्याः, किंलक्षणे सर्वाङगे संस्पर्शप्रभवसुखोपचीयमाने संस्पर्शात् "प्रियगात्रसंयोगात् प्रभवो जन्म यस्य तत् संस्पर्शप्रभवम्, एवंभूतं यत् सुखं शर्म तेन उप- चीयते वृद्धि नीयते तत् संस्पर्शप्रभवसखोपचीयमानं तस्मिन् प्रियगात्रसंयोगादुत्पन्नसुखेन वृद्धिं नीयमाने इत्यर्थः । अत एव मेखला त्रुटिता, पश्चात्त्रस्तमित्यर्थः ॥ ६ ॥ संस्पर्शति॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्धस्तं गृहीत्वा गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे मस्पर्शप्रभवेन प्रियाङ्गसङ्गाप्रभवेन सुखेनोपचीयमाने पोषं गमिने सति अत एव गाढता दृढत्वं बजदपि विगलितनीवि सुखपारवश्याद्विश्लिष्टप्रन्थि कौशेयं दुकूलमजलं सस्रो स्रस्तम् । एषा हृष्टा हर्षितरोमा च ॥६॥ गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीन विदधिरेगतानि हस्यः॥ बुद्धा वा जितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ७॥ गच्छन्तीरिति ॥ हस्यः हंसाङ्गानाः गतानि न विदधिरे गमनानि न चक्रुः । कि कृत्वा ताः तन्वीः कृशाङ्गीः अङ्गनाः अवेक्ष्य अवलोक्य, किंभूताः तन्वीः अलसं मन्थरं यथा भवति तथा गच्छन्तीः यान्तीः, किंलक्षणा हस्यः विस्मयिन्यः आश्चर्ययुक्ताः । चित्रायमाणास्तस्थुरिति भावः । वा युक्तमेतत्, यतः कारणात् क एव अपत्रपः निर्लजः स्वगुणमाविष्कुर्वीत निजगुणं प्रकटीकुर्यात् । किं कृत्वा काममत्यर्थम् अपरेण जितं बुद्ध्वा अन्येन निजितं परिज्ञाय । अतो न गतानि चक्रिरे । स्वगतिगुणो न प्रकटित इत्यर्थः । यतो निर्जितविलासगमना इति भावः ॥ ७ ॥ गच्छन्तीरिति ॥ हंस्यो हंसाङ्गना अलसं मन्द गच्छन्तीस्तास्तीः स्त्रीरवेक्ष्य विस्मायन्यो गति- सौष्ठवाद्विस्मयवत्यः सत्यो गतानि स्वयं लीलागमनानि न विदधिरे न चक्रुः । लज्जयेति भावः । तथा हि- परेण जितं स्वगुणं बुद्ध्वा वा, बुद्ध्वापीत्यर्थः । क एव को वा अपनपः सन काममाविष्कुर्वीत प्रकाशयेत् । न कश्चिदपीत्यर्थः । 'इदुदुपधस्य चाऽप्रत्ययस्य' इति विसर्जनीयस्य षत्वम् । अत्र तिरश्चावि वेकित्वातिशयो- क्या गनिकरणनिषेधसमर्थनार्थोऽयमर्थान्तरन्यासः ॥ ॥ श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैनिबिडवृहनितम्बबिम्बैः ॥ पाषाणस्खलित(१)विलोलमाशु नूनं वैलक्ष्यादयु(२)रवरोधनानि सिन्धोः॥८॥ श्रीमद्भिरिति ॥ सिन्धोः समुद्रस्य अवरोधनानि कलत्राणि नद्यः आशु शीघ्रम् अयुः ईयुः । जवेन नद्यो जग्मुरित्यर्थः । कथं यथा भवति पाषाणस्खलितविलोल यथा भवति पाषाणेषु प्रस्तरेषु स्खलितं स्खलनं तेन विलोलं चपलं यथा स्यात्तथा। नूनमुत्प्रे- क्षायाम् , उत्प्रेक्षते-वैलक्ष्यादिव खेदादिव । गतमिति भावः । खेदे किं कारणमित्या- शङ्कयाह-यतः किंभूतानि सिन्धोः अवरोधनानि माधवीनाम् आरोहैः यादवस्त्रीणां जघनैः जितानि निर्जितानि पुलिनानि तोयोत्थिततटानि येषां तानि, यतः किंलक्षणैः मारोहैः श्री- मनिः शोभायुक्तैः, अपरं किंभूतैः आरोहैः निविडहन्नितम्बविम्वैः निविडानि हढानि (१)स्खलन । (२)००।

सर्गः1] शिशुपालवधे। २८३ वृहन्ति विशालानि नितम्बबिम्बानि कटिप्रदेशा येषु ते तैः दृढविशालोणीप्रदेशैः । अन्योऽपि यः किल परपराभूतगुणो भवति, स स्खलितगतं यथा भवति तथा वैलक्ष्यात् वेगेन गच्छतीत्यर्थः । आरोहः अग्रभागः, पश्चाद्भागो नितम्बः । 'तोयोत्थितं तत्पुलिन सैकतं सिकतामयम्', 'शुद्धान्तश्चाऽवरोधश्चेत्यमरः ॥ ८ ॥ श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडाः बृहन्तश्च नितम्बबिम्बाः कटिपश्चद्भागा येषां तैः, माधव- स्थेमा माधव्यस्लामा हरिवधूनाम् । आरुह्यन्त इत्यारो है: कटिपुरोभागैर्जघनैः जितपुलिनानि सिन्धोरवरोध- नानि समुद्रमहिष्यः, नय इत्यर्थः। वैलक्ष्यात्पराजयकृतमनःसङ्कोचाद्धेतोः पाषाणषु स्खलनेनाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीना स्वाभाविक्या: पाषाणस्खलिताशुगते _लक्ष्यहेतुकत्वो- स्प्रेक्षाणाद् गुणहेतू प्रेक्षा ॥ ८ ॥ मुक्ताभिः सलिलरयाऽस्तशुक्तिपेशीमुक्ताभिः कृतरुचि सैकतं नदीनाम् ॥ स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यविंगलितहारचारुभिः स्वैः॥६॥ मुक्ताभिरिति ॥ स्त्रीलोकः युवतिवर्गः नदीनां सैकतं सरितां पुलिनं स्वैः पल्यकैः तुल्यं निजपर्यकैः सदृश परिकलयाञ्चकार मेने । किलक्षणैः पल्यकैः विगलितहार- चारुभिः गलन्मुक्ताकलापरम्यैः, किंभूतं सैकतं मुक्ताभिः कृतरुचि मौक्तिकैर्विहितद्युति, किं- भूताभिर्मुक्ताभिः सलिलरयाऽस्तशुक्तिपेशीमुक्ताभिः सलिलरयेण उदकवेगेन अस्ताः क्षिप्ताः याः शुक्तयः शिप्राः तासां पेश्यः कोशाः ताभ्यो मुक्ताः परित्यक्ताः ताभिः । पेशी कोशः शिप्रामध्यभागो यः, तस्मान्मुक्ताभिः पतिताभिरित्यर्थः । 'शय मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः ॥ ९ ॥ मुक्ताभिरिति ॥ स्रीलोकः मीजनः कती सलिलरयेणाऽस्ता नुन्नाः शुक्कयो मुक्तास्फोटास्त एव पेश्यः कोशाः, पुटा इति यावत् । 'मुक्तास्फोटः मियां शुतिः' इति, पेशी कोशो दिही ने' इति चामरः । ताभि- र्मुकाभिर्विमुक्ताभिः मुकाभिर्मोक्तिकैः। अथ मौक्तिकम् । मुक्का' इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं सकतं पुलिनम् । 'तोयोस्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' इत्यण् प्रत्ययः । विगलितर्विशीहा रैश्चारुभिः स्वैः पल्यद्वैः शयनः । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । तुल्यं सदृशं परिकलयाञ्चकार मेने । पूर्णोपमेयम् ॥ ९ ॥ आघाय श्रमजमनिन्द्यगन्धबन्धुं निःश्वासश्वसनमसङ्ग(१)मङ्गनानाम् ॥ आरण्याः सुमनस ईपिरे न भृङ्गरौचित्यं गणयति को विशेषकामः ॥१०॥ अाघ्रायेति ॥ भृगैः भ्रमरैः आरण्याः सुमनसः वनोद्भवानि कुसुमानि न ईपिरे न ववाञ्छिरे । अरण्ये वने भवाः आरण्याः । किं कृत्वा अन्नानां कामिनीनां निःश्वासश्वसनं मुखमारुतमाघ्राय शिधित्वा, किंभूतं निःश्वासश्वसनं श्रमज खेदसम्भवम्, अपरं किंभूतं श्वसनम् अनिन्धगन्धबन्धु प्रशस्याऽऽमोदबान्धवम् , अनिन्धश्चासौ गन्धश्च तस्य बन्धुः बान्धवसशस्तं, पुनः किंभूतम् असङ्गमस्खलितम् । युक्तोऽयमर्थः, यतः कारणात् विशेष- कामः विशेषाभिलाषुकः कः पुमान् औचित्यं गणयति योग्यत्वं विचारयति, अपि तु न कोऽपि ॥ १०॥ प्राणायेति ॥ भृङ्गः कर्तृभिः श्रमजमध्वश्रमोत्थम् । अनिन्यगन्धस्य श्लाघ्यगन्धस्य बन्धुं सहचरम् । सन्तमित्यर्थः । अङ्गनानां निश्वासश्वसनं निश्वासमारुतम् असकमप्रतिषिद्धमाप्राय, अरण्ये भवा- (१) मसक्त।

२८४ सन्देहविषौषधिसडपायुते- [ अष्टमः- आरण्याः सुमनसः पुष्पाणि नेषिरे नेष्टाः । इषु इच्छायाम् , कर्मणि लिट् । अनुचितोऽयमकाण्डे परिचित- परित्याग इत्याइ-विशेषं कामयते इति विशेषकामः । 'शीलिकामिभिक्षाचरिभ्यो णः' इति णप्रत्ययः । क औचित्यं गणयति । न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥ १० ॥ आयान्त्यां निजयुवतौ वनात्सबर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं मयूरमारात् (१) कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ११ ॥ प्रायान्त्यामिति ॥ कामिन्यः अङ्गनाः नरेषु पुरुषेषु अनार्जवं श्रदधुः कौटिल्यं मेनिरे । ऋजोर्भावः आर्जवं न आर्जवमनार्जवम् । यत्, अवश्य पुरुषाः कुटिला एव भव- न्तीति मेनिरे । किं कृत्वा आरात् समीपे वर्तमानं मयूर शिखण्डिनं बर्हाणां भरेण पिच्छानां समूहेन अपरशिखण्डिनीमन्यतरां मयूरी व्यवदधतमाच्छादयन्तमालोक्य दृष्ट्वा, कथं यथा भवति साशङ्क सभयं यथा भवति, आशङ्कया सह वर्तमानं साशङ्कम् । भये किं कारणं कस्यां सत्यां निजयुवतौ स्वकान्तायां वनात वनमध्यात् आयान्त्यां सत्याम् , आगच्छन्त्यामित्यर्थः ॥ ११ ॥ आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशहू सभयमपरशिखण्डिनी जारिणी बर्हाणा भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेवनार्जवं कौटिल्यं श्रदधुर्विश्वस्त- वत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधाते डि 'गातिस्था-' इत्यादिना सिच। लुक् । 'आतः इति झर्जुसादेशः । 'श्रदन्तरोरुपसर्गववृत्तिर्वनव्या' इति श्रच्छन्दस्य धातोः प्राक् प्रयोगः ॥ ११ ॥ आलापैस्तुलितरवाणि वाणिनीना(२) माधुर्यादमलपतत्रिणो कुलानि ।। अन्तर्धामुपययुरुत्पलावलीषु प्रादुःप्यास्क इव जितः पुरः परेण ॥ १२ ॥ श्रालापैरिति ॥ अमलपतत्रिणां कुलानि राजहंसानां वृन्दानि उत्पलावलीषु कमल- श्रेणिषु अन्तर्धामुपययुः अदृश्यत्वं जग्मुः । अमलानि उज्ज्वलानि पतत्राणि तनूरुहाणि येषां ते तेषाम् । किंलक्षणानि कुलानि वाणिनीनां विदग्धस्त्रीणामालापर्वाग्भिः तुलित. रवाणि जितशब्दानि, कस्मात् माधुर्यात् मधुरत्वात् । युक्तोऽयमर्थः, यतः कारणात् परेणा- ऽन्येन जितः पुमान् क इव पुनः प्रादुःप्यात् क इव अग्रे प्रकटो भवति, अपि तु न कोऽपि। प्रादुःष्यात् इति 'अस भुवि प्रआङ्दुरपूर्वः, पुरः प्रसमीयात् ॥ १२ ॥ आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि निरस्कृतरुतानि अमलपतत्रिणां हंसाना कुलानि उत्पलावलीष्वन्तर्धानम् । 'अन्तःशब्दस्याऽतिविधिणत्वेषूपसर्गवं वाच्यम्' इति अन्तः शब्दस्योपसर्गत्वात् 'आतश्चापसर्गे' इत्यङ् प्रत्ययः । उपययुः। युक्तं चतदित्याह, तथा हि- परेण जितः कः । इवशन्दो वाक्यालद्वारे । पुरो जेतुरले प्रादुःष्यात्प्रादुर्भवेत् । 'उपसर्गप्रादुभ्यामस्तिर्यच्- परः' इति षत्वम् । अर्थान्तरन्यासः ॥ १२ ॥ मुग्धायाः स्मरललितेषु चक्रवाक्या निःशकं दयिततमेन चुम्बितायाः॥ प्राणेशानभि विदधुर्विधूतहस्ताः सीस्कारं समुचितमुत्तरं तरुण्यः ॥ १३ ॥ मुग्धाया इति ॥ तरुण्यो युवतयः प्राणेशान् अभि वल्लभान् अभि लक्ष्यीकृत्य चक्र- वाक्याः चक्रवाकदयितायाः समुचितं योग्यं सीत्कारं सादितिशब्दम् उत्तरं विदधुः सीत्कारमेव प्रत्युत्तरं चक्रुः । किंलक्षणास्तरुण्यः विधूतहस्ताः प्रकम्पितकराः, किंलक्षणायाः चक्रवाक्याः दयिततमेन अतिप्रियेण चक्रवाकेन निःशकं निर्दयं यथा भवति तथा चुम्बि- (१) पुरो मयूरं। (२) माधवीना।

सर्गः ।] शिशुपालवधे। २०५ तायाः पीताधरायाः, अपरं किंभूतायाः चक्रवाक्याः स्मरललितेषु मुग्धायाः कन्दर्पविला- सेषु अबोधायाः अचतुरायाः । किल भर्तृचुम्बिताङ्गना हस्ताग्रं कम्पयन्ती सीत्कारं करोति। तदा चक्रवाकी स्मरललितेषु मुग्धा, अतस्तरुण्यो भर्तारमनुलक्ष्यीकृत्य तस्याः प्रत्युत्तरं चक्रुः सीत्कारकरणादिति भावः । 'सुन्दराऽबोधयोर्मुग्धः' इति विश्वः ॥ १३ ॥ मुग्धाया इति । दयिततमेन निःशहू निर्विचारं चुम्बिताया दष्टायाः स्मरललितेषु चुम्बनायनन्तर- कृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाश्चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीचक्रुरिति सीत्कारासम्बन्धे तत्सम्बन्धातिशयोक्त्या तत्रामामुद्दीपकमातीदित्युक्तम् ॥ १३ ॥ उत्क्षिप्तस्फुरित(१)सरोरुहार्घमुचैः सस्नेह विहगरवैरिवाऽऽलपन्ती । नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥१४॥ उत्क्षिप्तेति ॥ अथानन्तरं सरसी तडागिका महत्सरो वा नारीणां यादवस्त्रीणां पाद्यं पादप्रक्षालनजलं व्यतनुत विस्तारयामास । अभीष्टागमने हि अर्घ्यपाचविष्टरादिकं गौरव- मुचितम् । किंलक्षणा सरसी सफेनहासा फेनोऽब्धिकफः स एव हासो हास्यं तेन सह वर्तमाना । 'डिण्डोरोऽब्धिकफः फेनः' इत्यमरः । कया व्यतनुत, उत्प्रेक्षते-प्रीत्येव हर्षेणेव । अन्योऽपि अभीष्टागमने हर्षात् सहासो भवति । किंलक्षणं पाद्यम् उत्क्षिप्त- स्फुरितसरोरुहाघ निःक्षिप्तमनोहरपनार्थयुक्तम,उत्क्षिप्तः निक्षिप्तः स्फुरितसरोरुहाण्येव रम्य- कमलान्येव अर्घः पूजा विधिः यत्र तत्तथा । 'मूल्ये पूजाविधावर्ष' इत्यमरः। अपरं किंभूता सरसी, उत्प्रेक्षते-विहगरवैः पक्षिकूजितैः उच्चैर्गाढस्वरं यथा भवति तथा आल- पन्तीव कुशलप्रश्नं कुर्वतीव, अपरं कथं यथा भवति सस्नेहं सप्रीति यथा भवति तथा । प्रीतिवशादित्यर्थः । 'अलापो भाषणं मिथः' इत्यमरः । अन्योऽपि प्रियागमने स्नेहात् गाढमालापं करोति । इति प्राञ्जलत्वोक्तिः । कैः पाद्यं व्यतनुत ऊर्मिहस्तैः कल्लोलकरैः। 'पाद्यं पादाय वारिणी'त्यमरः ॥ १४ ॥ उत्क्षिप्तेति ॥ अथानन्तरमुक्षिप्तं स्फुटितसरोरुहं विकचारविन्दमेवाय॑मर्घद्रव्यं यस्मिंस्तत्तथा सस्नेह विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्पेक्षा । फेन इव हासस्तेन सहिता सफेन- हासा । स्मितपूर्वाभिभाषिणीत्यर्थः। सरसी पुष्करिणी नारीणामूर्मिभि रेव हस्तैः पायं पादोदकम् । 'पादार्घा. भ्यां च' इति यत्प्रत्ययः । प्रोत्यवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोत्पश्चाद्वयस्य सापेक्षत्वात्समृणिः ॥१४॥ नित्याया निजवसतेनिरासिरे यद्रागेण श्रियमरविन्दतः करात्रैः ॥ व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिण्यः ॥१५॥ नित्याया इति ॥ क्षितिमुतविद्विषः श्रीकृष्णस्य महिप्यः पत्न्यः यत् यतः कारणात अरविन्दतः कमलात् श्रियं लक्ष्मी निरासिरे दूरे चक्रुः निचिक्षिपुः । केन रागेण लौहित्येन अथ च द्वेषेण कोपेन वा, कैः निरासुः करागः हस्तप्रान्तः,किंभूतात् अरविन्दतः निजवसतेः स्वनिवासात् । अर्थात् श्रिय एव निवासभूतादित्यर्थः । किंलक्षणायाः निजवसतेः नित्याया अविनश्चरायाः । अनेन हेतुना एतावता नियतं निश्चितमस्याः श्रियः व्यक्तत्वं स्फुटं स्पष्टम् एताः स्त्रियः सापत्न्यं सपनीभावं निन्युः । तन्महिष्यः .. (१) स्फुटित 'र्घ्य.........."रुतैः २८६ सन्देहविषौषधिसर्वापायुते- - [अष्टमः- .. .. तस्यावासात् तां निराचक्रुः । अन्यापि त्री सपनी कोपेन तद्गृहाद् हस्ताग्रेण कृत्वा निःसा. स्यति । अथ च श्रीकृष्णराश्यः रागेण लौहित्येन वा अरविन्दतः कमलात् श्रियं शोभा चिक्षिपुरित्यर्थः । करारारकत्वातिशयेन कमलानां रागश्रीरधःकृता । 'शोभासम्प- दमास श्रीः' इति विश्वः । क्षितिः पृथ्वी तस्याः सुतो नरकासुरः तस्य विद्विद् शत्रुः श्री. कृष्णस्तस्य । 'कृतभिषेका महिषी'त्यमरः ॥ १५॥ नित्याया इति ॥ वितिसुतविद्विषो नरकद्विषो हरेमहिष्यः कराप्रैः पाणिपावः करणे रागेण रक- वर्णेन इच्छया च श्रियं शोभा रमा च नित्यायाः सदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दात्रिरासिरे निष्कासयाञ्चक्रुः । निश्शश्शेति यावत् । 'उपसर्गादस्यत्यूयोर्वा वचनम्' इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापल्यं सपत्नीत्वम् । ब्राह्मणादित्वात् ष्यञ् प्रत्ययः। ब्यकत्वं निन्युः । व्यक्तीचा. रित्यर्थः । अत्र श्रीशन्देन रमाशोभयोरभेदाध्यवसायेन श्रीनिवासस्य सापल्यव्यकीकरणार्थत्वोत्प्रेक्षणात श्लेषप्रतिमोत्थापितातिशयोक्त्यनुप्राणितेयं फलोत्प्रेक्षेति सदुरः ॥ १५ ॥ आस्कन्दन् कथमपि योषितो न यावदीमत्यः प्रियकरधार्यमाणहस्ताः॥ औत्सुक्पत्वरित(१)ममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवाऽन्तः ॥१६॥ प्रास्कन्दन्निति ॥ तावत्प्रथम तदम्बु तज्जलम् अमूः एताः अङ्गनाः अन्तर्मध्ये दधाविव धारयामासेव । कया संक्रान्तप्रतिमतया न्यस्तप्रतिबिम्बत्वेन, किंभूतमम्बु औत्सुक्यत्वरितं सम्मिलनोत्कण्ठितम् । तावदिति किं, यावत् ताः योषितः स्त्रियः कथ- मपि केनापि प्रकारेण न आस्कन्दन् न व्याप्नुवन् । न प्रवेश चरित्यर्थः । किंभूता योषितः भीमत्यः सभयाः, अत एवाऽपर किंलक्षणाः प्रियकरधार्यमाणहस्ताः वल्लभकरै- भृतहस्ताः । प्रतिबिम्बच्छलेन अम्बु त्वरितेन ताः तावन्मिलितमिति भावः(?) ॥ १६ ॥ आस्कन्दन्निति ॥ भीमत्यः प्रवेशमारवो योषितः प्रियकरैर्धार्यमाणहस्ताः प्रियकरावलम्बाः सत्यः यावत्कथमपि नास्कन्दन प्राविशन, तावत्संक्रान्तप्रतिमतया संक्रान्तप्रतिबिम्बतया तदम्बु कर्तृ औत्सुक्या- दुत्कण्ठनया त्वरितममूरम्तर्दधाविव । अन्तः प्रविशयदिवेत्यर्थः। प्रतिबिम्बसक्रमणादन्तानोत्प्रेक्षणात कियानिमित्ता क्रियास्वरूपोत्प्रेक्षा ।। १६॥ ताः पूर्व सचकितमागमय्य गाधं कृत्वाऽथो मृदुपदमन्तराविशन्त्यः ॥ कामिन्यो मन इव कामिना(२) सरागैरङ्गैस्तज्जलमनुरआयाम्बभूवुः ॥१७॥ ताः पूर्वमिति ॥ ताः कामिन्योऽग्नाः तज्जलमुदकम् अङ्गस्तनुभिः कृत्वा अनुरज- याम्बभूवुः रक्तमकार्षुः । किंभूतैः अङ्गैः सरागैः सकुछ कुमलौहित्यैः, किमिव कामिनां मन इव । यथा ताः कामिनां मनः मानसमनुरजयन्ति । कैः अङ्गैः सरागैः सविलेपनैः भरीरैः, आसक्तिवशात कान्तस्य मनो रम्जयन्ति स्मेत्यर्थः । किं कुर्वत्यः पूर्व प्रथम स- चकितं सभयं यथा भवत्येवमागमय्य आगत्य उत्तारं कृत्वा अथ पश्चात् गाधं विधाय प्रतिष्ठां कृत्वा सुस्थानं गृहीत्वा मृदुपदं कोमलपदं मन्दमन्दम् अन्तर्मध्ये आविशन्त्यः प्रविशन्त्यः ॥ १७॥ ताः पूमिति ॥ताः कामिन्यः कामिनः कामुकत्य मन इव तज्जलं पूर्व प्रथम सचकितं सभयं यथा तथा गाधमुत्तानमागमय्य गमनेन ज्ञात्वा । पुरःप्रावष्टपुरुषमुखेन गाधं तदिति परामृश्येत्यर्थः । अन्यत्र दूतमुखेन ज्ञात्वेत्यर्थः । अथो अनन्तरं मृदु मन्दं पदं कृत्वा पदं न्यस्य । अन्यत्र तु स्वयं सम्भाषणादिकं (१) औत्सुक्यात्वरित । (२) कामिनः। ।

सर्गः ।] शिशुपालवधे। २८७ . कृत्वेत्यर्थः । अन्तरमभ्यन्तरमाविशन्त्यः प्रविष्टाः सत्यः । अन्यत्र रहस्यकर्मणि प्रवृत्ता इत्यर्थः । सरागैः माङ्गरागैः सानुरागैश्चार्गानुरजयाम्बभूवुस्तद्वर्णाक्रान्तं चक्रुः । अन्यत्र त्यनुरकं चक्रुरित्यर्थः । श्लेष- सङ्कीर्णेयमुपमा ॥१॥ सङ्क्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ॥ विश्लेषं युगमगमद्रथानानोरुवृत्तः क इव सुखावहः परेषाम् ॥१८॥ सङ्कोभमिति ॥ रथाङ्गनाम्नोः चक्रवाकयोः युगं युगलं विश्लेषं वियोगमगमत् प्राप । क सति पयसि उदके कुचयुगलेन अङ्गनास्तनयुग्मेन मुहुर्वारंवारं सक्षोभं नीयमाने सति कम्पं प्राप्यमाणे सति, किंभूतेन कुचयुगलेन महेभकुम्भश्रीभाजा महेभस्य कुम्भयोः शिरःपिण्डयोः श्रियं शोभां भजते आश्रयतीति तेन गजकुम्भवत् स्थूलेन । युक्तमिदं, यतः कारणात् उद्वृत्तः चलितवृत्तः चलिताचारपुरुषः परेषामन्येषां क इव मुखावहः क इव मुखप्रदः, अपि तु न क इव सुखावहो भवति । अथ च उद्वृत्तं स्तनयुगलं वर्तुलाकार- मस्ति, तच्चक्रवाकयोवियोगान सुखावहं स्तनयुगल, यत उवृत्तमिति भावः । 'कुम्भौ तु पिण्डौ शिरसः' इत्यमरः ॥ १८ ॥ महोभामिति ॥ महेभकुम्भश्रीभाजा। तत्सदृशश्रीभाजेत्यर्थः । अत एवाऽसम्भवद्वस्तुसम्बन्धी निदर्शना- लङ्कारः । कुचयुगलेन । उल्लसितेनति भावः । पयसि मुहुः सक्षोभं नीयमाने प्राप्यमाणे सति रथाङ्गनाम्रो. युगं चक्रवाकयुगलं विश्लेषं वियोगमगमत् । वियोगासहमपीति भावः । तथा हि-उवृत्त उन्नतो वृत्तश्च, उद्वर्तनं यस्येति वा उवृत्तः । अन्यत्रोवृत्तः, उन्मार्गवर्तीति यावत् । सः क हव को वा परेषां स्वेतरेषा सुखावहः सुखकरः । न कोऽपीत्यर्थः । अयं च श्लेषमूलातिशयोकिजीविताऽर्थान्तरन्यासः ॥ १८ ॥ आसीमा तटभुवि सस्मितेन भ; रस्मोकरवतरितुं सरस्यनिच्छुः ॥ धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥१९॥ आसीनेति ॥ भळ वल्लभेन रम्भोरू: कदलोसुकुमारोरूसिच्यते स्म सिक्ता । किंभू- तेन भर्ना सस्मितेन ईषद्धासयुक्तेन, अपरं किंभूतेन भर्ना सलिलगतेन वारिमध्यस्थितेन, किं- लक्षणा सा सरसि तडागे अवतरितुमनिच्छुः प्रवेष्टुमनिच्छन्ती, अपरं किलक्षणा सा शीतालुः शीतयुक्ता । शीतातेत्यर्थः । शीतं विद्यते यस्याः सा शीतालुः । पुनः किलक्षणा सा तट- भुवि आसीना तीरे उपविष्टा, किं कतुं भर्ना सिच्यते स्म विलासान् ईक्षितुं तत्कृतविभ्र. मान् विलोकयितुं, किं कुर्वाणा करयुगं धुन्वाना हस्तद्वयं धूनयन्ती ॥ १९ ॥ पासीनोति ॥ शीतं न सहत इति शीतालुः शीतभीतः। शीतोष्णाभ्यां तदसहने आलुज्वक्तव्यः । अत एव सरसि अवतरितुं प्रवेष्टुमनिच्छुरनमिलाषुका अत एव तटभुवि आसीना उपविष्टा । आसेः कर्त- र शानच् । 'ईदासः' इतीकारः । रम्भे कदलीस्तम्भावियोरू यस्याः सा रम्भोरूः स्त्री । 'उरूतरपदा- दौपम्ये' इत्यूझत्ययः । सलिलगतेन स्वयं सलिलं प्रविष्टेनं सस्मितेन भर्ना दिलासानीक्षितुं करयुगं धुन्चा- ना कम्पयन्ती । धुनातेः कर्तरि शानच् प्रत्ययः । सिच्यते स्म सिक्का ॥ १९ ॥ नेच्छन्ती समममुना सराऽवगार्दु रोधस्तः प्रतिजलमीरिता सखीभिः । आश्लिक्षद्भयचकितेक्षणं नवोढा घोटार विपदि न दूषिताऽतिभूमिः ॥२०॥ नेच्छन्तीति ॥ नवोढा नवपरिणीताऽङ्गाना वोढारं कान्तमाश्निक्षत् आलिलिङ्ग, कथं यथा भवति भयचकितेक्षणं भयेन चकिते चपले ईक्षणे नयने यथा भवति तथा । यतः किंभूता सा रोधस्तः तटात् सखीभिः वयस्याभिः प्रतिजलं जलं प्रति इरिता क्षिसा, किं कुर्वती सा अमुना कान्तेन सह सरः अवगार्ड तडागं विलोडितुं न .. .

सन्देहविषौषधिसर्वरूपायुते- - [अष्टमः- - इच्छन्ती न अभिलषमाणा, अत एव सखीभिस्तटात्प्रेरिता । एतत् युक्तं, यतः कारणात् विपदि आपदि सत्याम् अतिभूमिः न दूषिता न निषिद्धा भवति मर्यादोल्लङ्घनं न दूषितं, न दोषायेत्यर्थः । कष्टप्राप्तौ मर्यादाऽतिक्रमणं नो दुष्यति । तदा युक्तमयुक्तं सर्व- मपि क्रियते । ततोऽनया सखीसमक्षं भयेन वल्लभालिङ्गनमकारीति भावः । आश्लिक्षत इति श्लिष आलिङ्गने दिवादेः 'श्लिष' इति लुङि क्सादेशे रूपम्(१) ॥ २० ॥ नेच्छन्तीति ॥ अमुना सममनेन भ; सह सरोऽवगादुमवगाहितुम्। 'स्वरतिसूतिसूयतिधूनादतो पा' इति विकल्पानेडागमः । नेच्छन्ती लज्जयाऽनिच्छन्ती । नञर्थस्य नशब्दस्य 'सुप्सुपेति समासः । अनसमासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल । ईरिता नुन्ना नवोढा नववधूः भयेन चातक्षणं सम्भ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालङ्गिन्तवती । 'विलष आलिङ्गने' इति धातोलुंडि चले: क्लादेशः । न च धाष्टर्यदोषापत्तिरित्याह-विपदि विपत्नी अतिक्रान्ता भूमिरतिभूभिरमर्यादा न दूषिता । आपत्काले नास्ति मर्यादा' इति न्यायादिति भावः ।अर्थान्तरन्यासालङ्कारः । तिष्ठन्तं पयसि पुमांसमंसमाने तहघ्नं तदवयती किलात्मनोऽपि ॥ अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥२१॥ तिष्ठन्तमिति ॥ सुतनुः वराङ्गी अङ्गना पुमांसमभ्येतुमियेष वल्लभ प्राप्तुं ववाञ्छ । कस्मात् मुग्धस्य भावो मौग्ध्यं तस्मात् अज्ञानात्, किलक्षणा सुतनुः अभीः भयरहिता, किंभूतं पुमांसम् अंसमात्रे पयसि तिष्ठन्तं स्कन्धपरिमाणे उदके वर्तमानं, किं कुर्वती सतनुः किलेत्यलोके, अज्ञानेन तत्पयः आत्मनोऽपि स्वस्यापि तद्दनं तत्परिमाणमंसपरि- माणम् अवयती । कथमेवं प्रतीयते, यत् अमुना कान्तेन इति कारणात् द्रुतं झटित्येव आश्लेषि आलिङ्गिता । इतीति कि-यत् एषा निमञ्जति बुडतीति ॥ २१ ॥ तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्यति अंसमात्र असप्रमाण । 'प्रमाणे द्वयसज- दघमात्रचः' इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं पुमांसम् । वीक्ष्योति शेषः । आत्मनोऽपि तत्पयः तघ्रं तावन्मात्रमसमात्रम अवयती जानती किल । तथा सम्भावयन्तीत्यर्थः । 'वातासम्भाव्ययोः किल' इत्यमरः । अवपूर्वादिणः शतरि 'इणो यण' यति यणादेशः, 'उगितश्व' इति डीप । किलशब्दस्यालीऽका- थत्वे मौध्यिविरोधः । अत एव मैग्ध्यिादविवेकादभीनिर्भाका मती अभ्यतुं पुमांसमभिगन्तुमियेष इच्छति स्म । अमुना पुंसा निमज्जतीति दुतमाश्लेषि आश्लिष्टा ॥ २१ ॥ आनाभेः सरसि चापल्यादथ पयसस्तरङ्गहस्तैः ॥ उच्छायि स्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथ वा व्यवस्था॥२२॥ प्रानाभेरिति ॥ अथ पश्चात् पयसः पानीयस्य तरङ्गहस्तैः कल्लोलकरैः स्तनयुगम् अध्यरोहि स्तनयुगलमवलम्बितम् । किंभूतं कुचयुगम् उच्छायि उन्नत, कुतः अध्यरोहि चापल्यात् चपलत्वात्, कसति नतभुवा अङ्गनया सरसि तडागे आनाभेः नाभि यावत् अवगाढे सति विलोडिते सति । अथ वा युक्तमेव, यतः कारणात् लब्धस्पर्शानां प्राप्तसङ्गानां कुतः व्यवस्था भवति कथं धैर्य स्यात्, अपि तु न कुत एव । यहि अङ्गाना- स्पों लब्धः, तेषां धैर्य नास्त्येव । अत एव पयसस्तरङ्गैस्तत्संयोगे सति स्तनयुगमव- लम्बितमिति भावः ॥ २२ ॥ आनाभेरिति ॥ नतभ्रवा लिया सरसि आनाभर्नाभिपर्यन्तम्। 'आर मर्यादाभिविध्योः' इति विकल्पा- . नतभ्रुवाऽवगाढे (१) दिवादेयं इति ल"रूपम्' इति मूलपुस्तके।

सर्गः।] शिशुपालवधे। २८६ .. . .. इसमासः । अवगाटे प्रविष्ट मति । गाहेः कर्मणि कः । अथ पयसश्चापल्यालोल्यात् । ब्राह्मणादिषु पाठत ध्यप्रत्ययः । तरङ्गैरव हस्तैस्तरङ्गहस्तैः, उच्छ्रायोऽस्यास्तीत्युच्छायि उन्नतिमत् स्तनयुगमध्यरोहि अधि. रूढम्। भिक्षुकपादप्रसारणन्यायादिति भावः । रोहतेः कर्मणि लुङ् । अथवा, तथा हीत्यर्थः। लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः । कुतः कुत्र वा। सार्वविभक्तिकस्तसिल । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसम्भवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति दूयोरपि लोल्ययोरभेदाध्यव- मायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयासि कामित्वपतीतेः ममासोक्तिः, तदुपजीवी चार्था- तरन्यास इति सदूरः ॥ २२ ॥ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिन मुखरुचाऽहमेकमेव ॥ सङ्घर्षा(१)दलिविरुतैरितीव गायल्लोलोौं पयसिमहोत्पलं ननर्त ॥ २३ ॥ कान्तानामिति ॥ महोत्पलं कमलं पयसि पानीये ननर्त नृत्यमकापीत्, कस्मात् मङ्घर्षात् स्पर्धावशात् । महोत्पलं किं कुर्वत् नृत्यति स्म, उत्प्रेक्षते-अलिविरुतैः भ्रमर- गुञ्जितरवैः इति गायत् इदं शब्दायमानमिव, किंलक्षणे पयसि लोलोर्मों चञ्चलकलोले । इतीति किं गायत् जल्पत् वर्तते-यत्, कान्तानां सुन्दरीणामणोः शोभाभिः नेत्रयोः श्रीभिः कुवलयमपि इन्दीवरमपि अपास्तं निर्जितमधःकृतम् । न केवल मुखरुचा वदन- शोभया अहमेव अपास्तं तिरस्कृतं, नेत्रयोः शोभाभिः इन्दीवरमपि निरस्तमिति गायत सत् स्पर्धावशात् ननतेंवेति भावः । अन्योऽपि परपराभूतः सन् प्रतियोगिनमपि पराभूत (दृष्ट्वा) स्पर्धया नृत्यत्येव । 'स्यादुत्पल कुवलय', 'अरविन्द महोत्पल'मित्यमरः॥२३॥ कान्तानामिति ॥ लोलोर्मों चपलोमिणि । 'तृतीयादिषु भाषितपुंस्कं पुवालवस्य' इति विकल्पात्पुंव - द्रावः । पयसि महोत्पलमरावन्दं कर्तृ । 'अरविन्दं महोत्पलम्' इत्यमरः । कान्तानां मुखरुच हऽमेकमेव नाऽपास्तं, किन्तु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तामिति संहर्षात्सन्तोषाधतोरलिविरुतर्गायत् अलि. रुतरूपं गानं कुर्वदिति रूपकम् । 'इत्थम्भूतलक्षणे' इति तृतीया। ननर्तेव । 'न दुःखं पञ्चभिः सह' इति न्यायान्नृत्यति स्म । अत्राभिचलनहेतुके महोत्पलचलने अलिनादसहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रिया- निमित्तक्रियास्वरूपोत्प्रेक्षा वाच्या ॥ २३ ॥ त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो! विनापि हेतो-लाभिः किमु सति कारणे तरुण्यः(२) २४ त्रस्यन्तीति ॥ वामोरूः प्रशस्तोरूरङ्गना विभ्रमस्य अतिशयमाप विलासस्याधिक्यं प्रापत् , किं कुर्वती सा त्रस्यन्ती बिभ्यती। भये कारणमाह-अपरं कि भूता सा चल- शफरीविघट्टितोरू: चञ्चलमत्स्यीसर्षितजघना, चलाः चटुलाः शर्यः प्रोष्टयः ताभिः विघट्टितौ सङ्घर्षितौ उरू सक्थिनी यस्याः सा। अहो इति आश्चर्ये, तरुण्योऽङ्गानाः प्रसभमौत्सुक्यात हेतोविनाऽपि कारणमृतेऽपि क्षुभ्यन्ति बिभ्यति, काभिः हेलाभिः लीलाभिः । किं पुनः कारणे सति भयकारणे सति । कारणेन विनापि ताः स्त्रियः विम्यति, तहि कारणे सति किं भणनीयमिति भावः ॥ २४ ॥ अस्यन्तीति ॥ चलाः शर्यः यातुकामा मत्स्यः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । ताभिर्विघ- ट्टिती विद्धावुरू यस्याः सा अत एव त्रस्यन्ती बिभ्यती । 'वा भ्राश--' इत्यादिना विकल्पात् श्यनि शतरि डीप् । वामौ सुन्दरावुरू यस्याः सा वामोरूः स्मी । 'संहितशफलक्षणयामादेश' इत्यूङ् प्रत्ययः । विभ्रमस्य बिलोमस्याऽतिशयमाप । तथा हि-रमण्यो हताविनापि कारणं विनापि । 'पृथग्विना-' इत्यादिना विकल्पात . (२) रमण्यः। (१) संहर्षा। २५शि०व० २६० सन्देहविषौषधिसर्वरूपायुते- [ अष्टमः- .. पञ्चमी । लीलाभिर्विलासैः प्रसभं प्रकामं क्षुभ्यन्ति अहो ! निष्कारणक्षोभादाश्चर्यामित्यर्थः। कारणे सति किमु वक्तव्यम् । अत्राप्रकृतनिष्कारणक्षोभकथनात्सकारणक्षोभस्य कैमुत्यन्यायलब्धत्ववर्णनादापनिरल- द्वारः । 'दण्डापूपिकयाऽर्थान्तरस्यापतनमर्थापत्तिः' इति सूत्रम् ॥ २४ ॥ आकृष्टप्रतनुवपुलतैस्तरद्भिस्तस्याऽम्भस्तदथ सरोमहार्णवस्य । अक्षोभि प्रस्तविलोलबाहुपर्योषाणामुरुभिरुरोजगण्डशैलैः ॥ २५ ॥ आकृष्टेति ॥ अथानन्तरं योषाणां स्त्रीणामुरोजगण्डशैलैः वक्षोजस्थूलपाषाणैः तस्य सरोमहार्णवस्य तडागमहासागरस्य तत् अम्भः पानीयमक्षोभि क्षोभितं चालितम् । किं- भूतैः उरोजगण्डशैलैः उरुभिःस्थूलैः, अपरं किंभूतैः स्तनशैलैः प्रसृतविलोलबाहुपक्षैः प्रसृताः प्रसारिता विलोला: चपला बाहवो भुजा एव पक्षा गरुतो येषां ते तैः । किल शैलेषु पक्षा भवन्ति । पुनः किंभूतैः स्तनशैलैः आकृष्टप्रतनुवपुलतैः वपुरेव लता वपुलता आकृष्टा- आकर्षिताः प्रतनवः सूक्ष्मा वपुलताः शरीरवल्लयो यैस्ते तेः । किल गिरयोऽपि तवल्लयो भवन्ति । यतः किं कुर्वद्भिः स्तनशैलैः तरद्भिः प्लवमानैः। किल अन्येऽपि सपक्षा गण्डशैला- स्तरन्ति, तरन्तो लताः आकर्षयन्ति, तथाऽम्भश्वालयन्ति । 'गलिताः स्थूलपाषाणा गण्ड- शैला इति स्मृताः । स्तनानां गण्डशैला उपमान, बाहूनां पक्षाः, वपुपां लताश्चोपमानम्॥२५॥ आकृष्टेति ॥ अथानन्तरमाकृष्टाः प्रतनवो वपूंष्येव लता यस्तैम्तद्भिः प्लव मानः प्रमता आयत विलालाश्चला बाहव एव पक्षा गरुन्ति(१)येषां तैः। गिरिधर्मस्य पक्षवत्त्वस्य तदवयवेषूपचारः। उरुभिर्महनि- ोषाणां स्त्रीणामुरो रेव गण्डशैलेंनिरिच्युतेः स्थूलोपलस्तस्य सर एव महार्णवस्तस्य तदम्भः अक्षोभि । क्षुभ्यतर्ण्यन्तादण्यन्ताद्वा कर्मणि लुङ् । समस्तवस्तुविषयकं सावयवं रूपकम् ॥ २५ ॥ गाम्भीर्य दधदपि रन्तुमङ्गनाभिः सङ्कोभं जघनविघट्टनेन नीतः ॥ .अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयाम्बभूव ॥२६॥ गाम्भीर्यमिति ॥ असौ अम्भोधिः सरोमहार्णवः सपदि वेगेन मर्यादां विलङ्घया- म्बभूव सीमां तत्याज । किंभूतः अम्भोधिः विकसितवारिजाननः विकसितानि प्रोत्फुलानि वारिजानि पनान्येव आननं मुखमस्य सः तथा प्रफुल्लपद्मवदनः, किं कुर्वन् गाम्भीयं दधदपि गम्भीरतां धारयन्नपि, अपरं किंभूतः अम्भोधिः अङ्गनाभिः स्त्रीभिः रन्तुं क्रीडितुं जघन- विघट्टनेन नितम्बघर्षणेन सङ्क्षोभं नीतः प्रचलत्वं प्रापितः । अन्योऽपि गाम्भीर्य धीरत्वं दधदापि पुमान् अङ्गनया क्रीडितुं जघनेनाहतः सपदि मर्यादां धैर्य त्यजति, अपरं विक- सितमुखकमलश्च भवतीत्युक्तिः ॥ २६ ॥ गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वमविकारिचित्तत्वं च दधदपि गम्भीरः सन्नपि रन्तुं विहाँ सङ्ग- न्तुं चाऽङ्गनाभिर्जघनस्य विघट्टनेन सङ्घर्षेण सङ्घाभं चलनं चित्तविकारं च नीतः अत एव विकसितं वारिज- मानननमिव वारिजमिव चाननं यस्य सः, अम्भासि धीयन्तेऽस्मिन्निति अम्भोधिर्जलाशयः । कश्चित पुमांश्च तत्तुल्यो गम्यते । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । सपदि मर्यादा सीमानामौचिती च विलक- याम्बभूव लचितवान् । धीरोऽपि बीसत्रिकर्षाद्विक्रियत इति भावः । अत्र गाम्भीर्यादिप्रकृताम्भोधिविशेषण- साम्पादप्रकृतविशेष्यपुरुषप्रती तेः समासोक्किरलङ्कारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोक्त्य- नुपाणिनेति सदूरः ॥ २६ ॥ अन्वेष्टुं(२) दयितमिवाऽवगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ॥ कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान् सरसि रराज केशहस्तः॥२७॥ (१) क्रीवत्वमत्र चिन्त्यम् । (२) आदातुं । ।

सर्गः ।] - शिशुपालवधे। २६१ अन्वेष्टुमिति ॥ कस्याश्चित् अङ्गनायाः केशहस्तः हस्तप्रायः केशपाशः सरसि तडागे रराज शुशुभे । किंभूतः केशहस्तः लक्ष्मीवान् सश्रीकः, पुनः किंभूतः केशहस्तः विततचलच्छिखाऽङ्गुलीकः वितताः विस्तीर्णाः चलन्त्यः कम्पमानाः शिखाः पर्यन्ता यासाम् एवमङ्गुल्यः करशाखा यस्य सः । हस्ते किल अमुल्यो भवन्ति अत एव साङ्गुलीकः । अपरं किंभूतः केशहस्तः उमीणां ततिभिः कल्लोलानां समूहैः अभिप्रसार्यमाणः विस्तार्य- माणः । उत्प्रेक्षते-दयितं वल्लभमन्वेष्टुमिव विलोकयितुमिव प्रसारितः, किंभूतं दयितम् आ- रात् अवगाढं समीपे बुडितम् । हि किल हस्तेन विलोक्यते, अस्मात् केशहस्त इत्युक्तम् ॥२७॥ अादातुमिति || सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाऽगुल्यो यस्य सः । 'नवृतश्व' इति कप् । लक्ष्मीवान् शोभावान् । 'मादुपधायाश्च मतोर्योऽयवादिभ्य' इति मतुपो मकारस्य वत्वम् । क- स्याश्चित्केशहस्तः केशपाशः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । हस्त इति करव वश्यते । आरात्समीपे । 'आराद् दूरसमीपयोः' इत्यमरः । अवगाढमसर्मग्नं दयितमादातुं ग्रहीतुमिव उर्मी- णां ततिभिः समूहेरभिप्रसार्यमाणोऽभित। व्यापार्यमाणः सन रराज । अत्रादातुमिव प्रसार्यमाण-इति प्रसारण- म्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाऽङ्गुलीक इति रूपकानुप्रा- णितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्कराद्भदे अभेदरूपातिशयोक्त्या नियूटेति सङ्करः ॥ २॥ उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ॥ युक्तानां विमलतया तिरस्क्रियायै नाकामन्नपि हि भवत्यलं जलौघः ॥२८॥ उन्निद्रेति ॥ रमण्याः नायिकायाः वपुः शरीरं सरसि तडागे संरेजे संरराज । कि- भुतं वपुः प्रकाशमेव प्रकटमेव, पुनः किंभूतं वपुः उन्निद्रप्रियकमनोरमं विकस्वरबीजककुसुम- रमणीयम् । युक्तोऽयमर्थः, हि यस्मात् कारणात् जलौघः जलसमूहः विमलतया युक्तानां निर्मलतया सहितानां तिरस्क्रियायै न अलं भवति अन्तर्धानार्थ न समर्थो भवति । विमल हि जलेन नाच्छाधते । किं कुर्वन्नपि जलौघः आक्रामन्नपि आच्छादयन्नपि । अथ च डलयो- रैक्याजडौघः दुर्जनवर्गः विमलतया युक्तानां निष्कलङ्कानां तिरस्क्रियायै परिभवाय न भवति । जडौघः कि कुर्वन् आक्रामन्नपि आस्कन्दन्नपि । न हि दुर्जनेन निष्कलङ्कः परा- भूयते इति भावः ॥ २८॥ उन्निद्रेति ॥ उन्निदं यत्प्रियकमसनकुसुमम् । 'सर्जकाऽसनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । त- दिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्यालक्ष्यमेव सरे- जे । तथा हि-जलौघो जलपूरा, जडाघो मूर्खजनौघश्च डलयोरभेदात् , आक्रामन्नावृण्वन्नपि अन्यत्र अधिक्षिपत्रपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय परिभव य च अलं सम- धों न भवति हि । इलेषमूलया भेदेऽभेदरूपातिशयोक्त्याऽनुप्राणितोऽयमर्थान्तरन्यासः ॥ २८ ॥ कितावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः ।। संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्बकसहवासिनां परोक्षः ॥२९॥ किं तावदिति ॥ कश्चिद् विलासी निश्चिकाय निश्चयं लेभे, किं कृत्वा क्षणं क्षण- मात्रम् इति अमुना प्रकारेण संशय्य सन्देहं कृत्वा । इतीति कि-यत, तावदित्युपक्रमे, आहोस्वित् इति बितकें, सरसि तडागे आरात् समीपे एतत् किं सरोजम् इदं किं कमलम् , आहोस्वित् युवत्याः नायिकायाः मुखं वदनमवभासते शोभते इति सन्देहः प्राक् बभूवे. त्यर्थः । पश्चान्निश्चय लेभे, कैः बिछोकैः विलासैः ललितविभ्रमैः। लीलाभिरित्यर्थः । हेला ।

- २६२ सन्देहविषौषधिसर्वकषायुते [ अष्टमः- लीला च बिब्बोक' इत्यमरः। किंलक्षणैः बिब्बोकैः बकसहवासिनां परोक्षः बकैः बकोटः : सह वसन्तीति बकसहवासीनि तेषां कमलानामगोचरैः : । बकसहवासिनामितिः साभिप्राय, न हि कमलेषु विलासाः कटाक्षनिरीक्षणादिका भवन्तीति परिज्ञाया- ऽङ्गन्नामुखमिदं न कमलमिति निश्चयं प्रापदिति भावः । बकसहवासिपु विलासाः परोक्षा- अवर्तमाना इति भावः ।। २९ ।। किं तावदिति ॥ सरसि आराद्दूरादेतत्पुरोवर्ति तावत्सराज किम् , आहोस्वित् उत युवत्या मुखमवभासते इति क्षणं संशय्य सन्दिह्य । शीङः क्त्वो ल्यप् 'अयक यि विङति' इत्ययङादेशः । काश्चद्विलासी बकसहवा- सिना बकसहचारिणाम ।पद्मानामित्यर्थः। विलासशून्यतायातनार्थमित्थं निर्देशः। परोक्षरप्रत्यक्षैरननुभूनचरे। अविद्यमानैरिति यावत् । विबाकैः । विलासरित्यर्थः । यद्यपि 'बिन्बोकोऽनादराक्रिया' इत्युक्तम् , तथापि विशेषवाचिना सामान्य लक्षणेत्यदोषः । निश्चिकाय । विशेषदर्शनान्मुखमेवति निश्चितबानित्यर्थः । सन्देहा- अलङ्कारोऽयम् । 'विषयो विषयी यत्र सादृश्यात्कसिमतात! सन्देहगोचरौ स्याता मन्देहाऽलङ्कृतिश्च सा ॥ इति लक्षणात् । सोऽप्यन्ते निश्चयोकेनिश्चयान्तः ॥ २९ ॥ शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गि वासः ॥ माध्वीक(१) प्रियतमसन्निधानमासनारीणामिति जलकेलिसाधनानि ॥३०॥ शृङ्गाणीति ॥ नारीणामङ्गनानाम् इति इमानि जलकेलिसाधनानि उदकक्रीडोपकर- णानि आसन् बभूवुः । तावत् कानि शृङ्गाणि विषाणानि, किंभूतानि शृङ्गाणि द्रुतकनको- ज्ज्वलानि विलीनसुवर्णसमप्रभाणि, पुनः कानि गन्धाः अङ्गरागाश्च, अपरं कि कौसभ वासः कुसुम्भेन रक्तं कौसुम्भं वस्त्रं च, किंभूतं कौसुम्भं पृथुकुचकुम्भसङ्गि पृथुकुचकुम्भयोः सङ्गोऽस्यास्तीति । विशालस्तनकलशोपरि स्थितमित्यर्थः। अपरं कि माध्वीकं पाण्मासिकी मदिरा च, अपरं किं प्रियतमसन्निधानं भर्तृसामीप्यं च । एतानि सर्वाणि जलकेलिसाध- नानि बभूवुरित्यर्थः । 'विलीने विद्रुतद्रुता वित्यमरः ॥ ३० ॥ अथ जलक्रीडासम्भारानाह- शृङ्गाणीति ॥ द्रुतेन तप्तनिषिकेन कनकनोज्ज्वलानि । लिप्तानीत्यर्थः। शृङ्गाणि क्रीडाम्बुयन्त्राणि । 'शृङ्गं प्रभुत्वे शिखरे चिह्न क्रीडाम्बुयन्त्रके' इति विश्वः । गन्धाश्चन्दनकुङ्कुमादिगन्धद्रव्याणि । अत एक पुंसि बहुत्वं च । 'गन्धस्तु सौरभे यागे गन्धके गर्वलेशयोः । स एव व्यवचनो बहुत्वे पुंसि च स्मृतः ॥ इत्यभिधानात् । पृथु विशालं कुचकुम्भसाज कुचावरणं कुसुम्भेन रक्तं कौसुम्भम् । 'तेन रक्तं रागात्' इत्यण प्रत्ययः । वासो वम मृद्रीकाया विकारो मावीक द्राक्षामयम् । 'मृद्रीका गोस्तनी द्राक्षा' इत्यमरः । किञ्च प्रियतमसन्निधानम् । सर्वसाफल्यकारणमिति भावः । इत्येतानि नारीणां जलकेलिसाध- नानि जलक्रीडोपाया आसन् । उद्दीपकसम्पत्तिरुका। अत्र शृङ्गादीनां केलिप्साधनत्वस्वरूपतुल्यधर्मयोगात् । प्रकृतत्वाच्च केवलप्रकृतगोचरा तुल्ययोगिता ॥ ३० ॥ उत्तुङ्गादनिलचलांशुकास्तटान्ताश्चेतोभिः सह भयदर्शिनां प्रियाणाम् ॥ श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्यस्तोयेषु द्रुततरमङ्गना निपेतुः ॥ ३१ ॥ उत्तुङ्गादिति ॥ अङ्गना युवतयः द्रुततरं वेगवत्तरं यथा भवति तथा तटान्तात् (.) माकिं ।

सर्गः।] शिशुपालवधे। २६३ गेधस्तः तोयेषु उदकेषु निपेतुः पतिताः। किंभूतात् तटान्तात् उत्तुङ्गात उच्चस्तरात् , किंभूताः अङ्गनाः अनिलचलांशुकाः उन्नततटात्पतनोद्भुतवातचञ्चलवसनाः, कथं निपेतुः प्रियाणां वल्ल- भानां चेतोभिः सह मानसैः सार्धम्। कान्तस्तत्र चित्तं न्यस्तमिति भावः । अत एव चित्तैः सम पतिताः । किंभूतानां प्रियाणां भयदर्शिनां भयशडिना दुष्प्रमादभीतानाम् , अङ्गनाः किं कुर्वत्यः अतूर्ण मन्दमुत्पतन्त्यः, किंभृताः अङ्गनाः श्रोणीभिः कटीभिरुपलक्षिताः, किंभूताभिः श्रोणीभिः गुरुभिर्विशालाभिः । अत एव मन्दमुल्ललन्त्य इति भावः । 'कटिः श्रोणिः ककुद्मती' इत्यमरः ॥ ३१॥ उत्तुङ्गादिति ॥ अनिलेन वेगानिलन चलांशुकाश्चनद्वसना अङ्गनाः उत्तुङ्गानटान्ताद्भयदर्शिनां भयो- क्षिणाम् । अनर्थाशकिनामित्यर्थः । प्रियाणां चेतीभिः सह । तेषां तत्रैवावधानादिति भावः । गुरुभि- गुर्वीभिः । 'वोतो गुणवचनात्' इति विकल्पादनीकारः । श्रोणीभिहेतुना अतूर्ण मन्दमुत्पतन्त्यस्तोयेषु द्रुततरं निपेतुः। गुरुत्वस्य पतनहेतुत्वादुःपतनविरोधित्वाच्च शीघ्रपातो मन्दोत्पतनं चेति भावः अत्र प्रियचेतःपाताऽङ्गनापातयोः कार्यकारणयारसहभाविनाः सहभावांतः कार्यकारणयोः पौर्वापर्यविश्वसन- रूपतिशयोक्त्युपजीविता महोक्किरलङ्कारः । 'सहार्थेन। इन्वयो यत्र भवदतिशयोक्तिः । कल्पितौपम्यपर्यन्ता सा सहोतिरि हेष्यते ॥ इति लक्षणात । चेतोवत् पैतुरित्यौपम्यकल्पनया कार्यगताऽऽशुभावप्रतीतेश्चमत्कार इति रहस्यम् । कालिकांशुकचलनादिसूक्ष्मस्वभावविशेषप्रकाशनात्स्वभावनिश्चेति सदूरः ॥ ३१ ॥ मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ॥ नाः कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥३२॥ मुग्धत्वादिति ॥ ताः तरुण्यः कान्तैः सह दयितैः साधं करपुष्करेरिताम्बु- व्यात्युक्षी काराग्रप्रेरितपरस्परोदकसेचनामदीव्यन् । जलक्रीडाभिररमन्तेत्यर्थः। करपुष्करैः गाण्यौः ईरितं उल्लालितं यत् अम्बु जलं. तेन व्यात्युक्षी परस्परसेचना ताम् अक्रीडन्त । किंलक्षणां व्यात्युक्षीमभिसरणग्लहाम् अभिसरणं सुरतमेव ग्लहः पणो यस्यां सा तथा ताम् । सुरतक्रीडापणामित्यर्थः । यो यः जलक्रोडया हारयति स सुरतं पणं ददाति, पणं मूल्यं सुरतलक्षणं ददाति । किंलक्षणास्तरुण्यः अविदितकैतवप्रयोगाः न विदितः ज्ञातः कैतवप्रयोगः कापट्यविधानं याभिस्तास्तथा अज्ञातभर्तृकृतवञ्चनाः, कस्मात् मुग्धत्वात् अप्रवीणत्वात्, सरलत्वादित्यर्थः । अत एवाऽपरं किंलक्षणास्तरुण्यः सपदि वेगेन पराजय गच्छन्त्यः परिश्रान्तत्वात् सुकुमारत्वात् पराभवं प्राप्नुवत्यः । न खलु स्त्रीभिः पुरुषा जीयन्ते इत्यतो हेतोः मुग्धाः । 'कुसृतिनिकृतिः शाठ्यं कैतवं च समं स्मृतम्' इति वैज- यन्ती। 'पुष्करं करिशुण्डाग्रे वाद्यभाण्डमुखे जले' इत्यमरः । 'व्यात्युक्षीमिति तां श्रूयुर्यदन्योन्येन सेचनम्' इति निघण्टुः ॥ ३२ ॥ मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत- एद सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तः सहाभिसरणं स्वयमाभिगमनं ग्लहो एतं पणो यस्यास्ताम् । 'पणो क्षेषु ग्लहः' इत्यमर । 'अक्षेषु ग्लहः' इति. अहेरवाऽक्षपणे लत्वनिपातः । अप्पत्ययस्तु 'ग्रहवृदृनि- विगमश्च' इत्येव सिद्ध इति केचित् । अन्ये तु ग्लाह प्रकृत्यन्तरमङ्गीकृत्याऽपप्रत्ययस्यैव निपातो पत्रपवादी- न्याहुः । करपुष्करैः करकमलरीरितैरम्बुभिर्या व्यान्युभी व्यतिहारेणोक्षणम् । परस्पराऽभ्युमणमित्यर्थ ।

सन्देहविषौषधिसर्वेषायुते-
२६४
-
[ अष्टमः-
'कर्मव्यतिहारे णच् मियाम्' इति णच्प्रत्ययः । 'णचः नियामञ्' इति स्वार्थिकोऽअप्रत्ययः । 'टिड्डाण-
- इत्यादिना ङीप् । तां व्यात्युक्षामदीव्यन् । तथा अकीडनित्यर्थः। 'दिवः कर्म च' इति विकल्या-
कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥३२॥
योग्यस्य त्रिनयनलोचनाऽनलाचिनिर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः ।।
कान्तायाः करकलशोद्यतैः पयोभिर्वक्क्रन्दोरकृत महाभिषेकमेकः ॥ ३३ ॥
योग्यस्येति ॥ एकः कश्चिद्विलासी कान्तायाः तरुण्या वल्लभायाः वक्त्रेन्दोर्वदन-
चन्द्रस्य पयोभिरुदकैः कृत्वा महाभिषेकमकृत पट्टाभिषेकं चकार । किंभूतैः पयोभिः करकल-
शोद्यतैः कराः पाणयः एव कलशाः कुम्भाः तैः उद्यतानि उद्धृतानि तैः कुम्भप्रायहस्त-
मुक्तः, किंभूतस्य वक्त्रेन्दोः त्रिनयनलोचनाऽनलाचिनिदग्धस्मरपृतनाधिराज्यलक्ष्म्याः
योग्यस्य रुद्रेक्षणवह्निज्वालाभस्मीकृतकन्दर्पस्य सेनाधिराज्यश्रिय उचितस्य, त्रिनयनस्य
श्रीमहादेवस्य ईक्षणं नयनं तस्य अनलो वह्निः तस्य अर्चिाला तया निर्दग्धो भस्मी-
कृतो यः स्मरः अनङ्गः तस्य पृतना सेना तस्या आधिराज्यं स्वामित्वं तस्य लक्ष्मीः श्रीः
तस्याः उचितस्य हि अभिषेकः क्रियते । कन्दर्पानन्तरं ततोऽन्यः स मुखचन्द्र एव राज्या-
ऽधिश्रियो योग्यः, अत एव पट्टाभिषेकः कृत इति भावः ॥ ३३ ॥
योग्यस्यति ॥ त्रिनयनस्व्यम्बकः । 'क्षुम्नादिषु च' इति निषेधात् 'पूर्वपदासंज्ञायाम्' इति णवा.
भावः । तस्य लोचनाऽनलर्चिषा निर्दन्धस्य स्मरस्य या पृतनास्तासामाधिराज्यमाधिपत्यं तदेव लक्ष्मी-
स्तस्याः योग्यस्याहस्य । त्रैलोक्यविजयिनः स्थाने तादृशस्यैव स्थाप्यत्वादिति भावः । कान्ताया वक्रेन्दोः ।
स्मरसखत्वादस्येति भावः । करावञ्जलिरेव कलशस्तनोद्यतन्क्षिप्तः पयोभिर्महाभिषेकमेकः कश्चित्कामी अक-
त कृतवान् । करोते कि तङ् , तनादिभ्यस्तथासोः' इति लिचो लुक् । अत्र जलक्रीडासके महाभिषकेने.
प्रेक्षा प्रतीयमानकरकलशेतिरूपकानुप्राणितति सङ्करः ।। ३३ ॥
सिञ्चन्त्याः कथमपि
बाहुमुन्नमय्य
प्रेयांसं मनसिजदुःखदुर्बलायाः ॥
सौवर्ण वलयमवागलत्कराग्राल्लावण्यश्रिय इव शेषमङ्गनायाः॥ ३४ ॥
सिञ्चन्त्या इति ॥ अङ्गनायाः कामिन्याः कराग्रात् हस्ताग्रतः सौवर्ण वलयम्
अवागलत् सुवर्णमयं कङ्कणं पपात । किं कुर्वत्याः अङ्गनायाः प्रेयांसं वल्लभं सिञ्चन्त्याः,
कि कृत्वा कथमपि महता कष्टेन
बाहुमुन्नमय्य
निजभुजमुत्थाप्य, किंलक्षणायाः अङ्गनाया:
मनसिजदुःखदुर्बलायाः कन्दर्पव्यथाकृशायाः, मनसिजेन कोमेन हेतुना यत् दुःख कष्टं तेन
दुर्बला कृशा तस्याः । किंलक्षणं वलयम् , उत्प्रेक्षते-लावण्यश्रियः सौन्दर्यलक्ष्म्याः शेषमिव
अवागलत् । हेमवलयच्छलेन वपुषि अमात्सौन्दर्यस्य शेषमुर्वरितभागः पपातेत्यर्थः ॥ ३४ ॥
सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुत्रमय्योगम्य
प्रयांमं प्रियतमम् । 'प्रियस्थिर-' इत्यादिना प्रादेशः । सिञ्चन्त्याः स्पयन्त्या अङ्गनायाः करामात्सौवर्ण
हिरण्मयं वलयं कङ्कणम् । 'कङ्कणं वलयोऽस्मियाम्' इत्यमरः । लवणैव लावण्यं कान्तिविशेषः। चातुर्वर्ण्या-
दित्वात्स्वार्थे ध्यप्रत्ययः । 'लवणो रसरक्षोब्धिमेदेषु लवणा विषि' इति विश्वः । यहा-
'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥
तस्य श्री सम्पत् तस्याः शेषमातिरिकम् । शरीरसम्पदवशिष्टमिति यावत् । 'शेषः सर्षणेऽनन्ते उप-
युकेतरेऽन्यवत' इति विश्वः । तदिव अवागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा ॥४॥

सर्गः।] शिशुपालवधे। २६५ । नियन्ती (१) दशमपरा निधाय पूर्ण मूर्तेन प्रणयरसेन वारिणेव ॥ कन्दर्पप्रवणमनाः सखीसिसिक्षाव्याजेन(२) प्रतियुवमञ्जलिं चकार ॥३५॥ स्निह्यन्तीमिति ॥ अपरा काचिदङ्गना प्रतियुवं युवानं प्रति अञ्जलिं चकार करसम्पुट चक्रे । केन सखीसिसिक्षाव्याजेन वयस्यासेचनेच्छाच्छलेन, सेक्तुमिच्छा सिसिक्षा सख्याः सिसिक्षा सेक्तुमिच्छा तस्याः व्याजः तेन, किंलक्षणा अपरा कन्दर्पप्रवणमनाः कन्दर्पस्य कन्दपेण वा प्रवर्ण निम्नमधीनं वा मनो यस्याः सा तथा कामाधीनचित्ता, किं कृत्वा स्नियन्ती स्नेहाः दृशं दृष्टिं निधाय आरोग्य, किलक्षणमञ्जलिं वारिणा जलेन पूर्ण भृतं, किंलक्षणेन वारिणा मूर्तेन मूर्तिमता प्रणयरसेनेव स्नेहरसेनेव । 'पाणिभ्यां सम्पुटो- ऽञ्जलि रिति वैजयन्ती ॥ ३५ ॥ स्निह्यन्तीति ॥ कन्दर्पप्रवणमनाः स्परपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा स्निह्य- न्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री मख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । 'अनश्च' इत्यव्ययीभाव समासान्तः। मूर्तेन मूर्तिमता प्रणयरसेनेत्युत्प्रेक्षा । पाठादर्थस्य बलीय. स्त्वादिवशब्दस्य व्यवहितेनाऽन्वयः । पारिणा पूर्णमञ्जाल चकार । प्रार्थयामासेत्यर्थः ॥ ३५ ॥ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ॥ ईय॑न्त्या वदनमसिक्तमप्यनल्पस्वेदाम्भः(३) स्नपितमजायतेतरस्याः ॥३६॥ आनन्दमिति ॥ इतरस्याः अङ्गनायाः वदनं मुखमसिक्तमपि जलसेचन विनापि अनल्प- स्वेदाम्भःस्नपितमजायत बहुप्रस्वेदजलप्रक्षालितं बभूव, किंलक्षणायाः इतरस्याः ईj- न्त्याः क्रुध्यन्त्याः । रोपवशान्मुखं प्रस्विन्नमिति भावः । क सति दयिततमेन अतिप्रियेण भर्ना श्यामायाः प्रतियुवतः मुखवदने सिच्यमाने सति, केन करोदकेन हस्तजलेन, किं- भूते मुखे आनन्दं दधति प्रहर्ष बिभ्राणे ॥ ३६ ॥ आनन्दमिति ॥ आनन्द दधति प्रियसम्भावनया हर्ष दधाने श्यामाया मध्यमयौवनायाः स्त्रियः 'श्यामा यौवनमध्यस्था' इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयित. प्रियः । अतिशये तमप् प्रत्ययः । तेन क; करोदकेनाऽञ्जलिजलेन सिच्यमाने सति ईय॑न्त्या असहमानायाः । 'परोत्कर्षा- ऽसमा स्यात् ' इति लक्षणात् । इतरस्या: सपत्न्या वदनमसिक्कमपि । प्रियेणेति शेषः । अनल्पेन स्वेदा- म्बुना स्नापितं सिक्तमजायताऽभवत् । ईर्ष्याकृतकोपकार्यत्वात्स्वेदादीनामिति भावः । असिक्कमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोकेराभासन्वम् ॥ ३६॥ उद्वीक्ष्य प्रियकरकुड्मलाऽपविद्धवक्षोजद्वयमभिषिक्तमन्यनार्याः ॥ अम्भोभिर्मुहुरसिचद्वधूरमर्षादात्मीयं पृथुतरनेत्रयुग्ममुक्तः ॥ ३७ ।। उद्घीयेति ॥ वधूर्वराङ्गना आत्मीयं वक्षोजद्वयं स्वकीयं स्तनयुगं मुहुर्वारंवारमम्भो- भिर्जलैरसिञ्चत् सिञ्चयामास(१)। किंभूतैरम्भोभिः पृथुतरनेत्रयुग्ममुक्तैः विशालनयनयुग्मा- न्मुक्तैः पतितैः, कस्मात् अमर्षात् कोपातिशयात्, किं कृत्वा अन्यनार्याः प्रतियुवतेः वक्षोज- द्वयं स्तनयुग्ममभिषिक्तं स्नपितमुवीक्ष्य दृष्ट्वा, कैः अम्भोभिर्जलैः, किंलक्षणैरम्भोभिः प्रियकरकुड्मलापविद्धैः पतिकरकमलप्रयुक्तैः, प्रियस्य कान्तस्य करकुड्मलाभ्यां पाणि- मुकुलाभ्यामपविद्धानि त्यक्तानि तैः । अत एवाऽमर्षात् रुदितेति भावः ॥ ३७ ॥ (१) स्निह्यन्ती। (२) लक्ष्यण। (३) स्वेदाम्बु ।

२६६ सन्देहविषौषधिसर्वकषायुते [अष्टमः- उद्दीश्येति ॥ प्रियस्य करकुड्मलाभ्यां पाणिपुटाभ्यामपविद्धैः सिक्करम्भोभिरभिषिक्तम् अन्यनार्याः सपन्न्या वक्षोजद्वयमुद्रीक्ष्य वधूनायिका अमर्षादीाकृतकोपादात्मीयं वक्षोजद्वयं पृथुनरेण नेत्रयुग्मेन मु- कैरम्भोभिर्मुिहुरासिचदभिषिक्तवती । तन्मत्सरादिवेति भावः । अतो वस्तुनालङ्कारध्वनिः । लिपि सिचिह्नश्व' इति सिञ्चते ङि च्लेरङ देशः ॥ ३ ॥ कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं यस्तोयैरसिचत वल्लभां विलासी ॥ तैरेव प्रतियुवतेरकारि दूरात्कालुप्यं शशधरदीधितिच्छटाऽच्छः ॥ ३८॥ कुर्वद्भिरिति ॥ विलासी तरुणः यैः तोयैः वल्लभां कान्ताम् असिवत सिञ्चति स्म, तैरेव तोयैः उदकैः प्रतियुवतेः सपत्न्याः दूरात् दूरेण पतितैरपि कालुष्यमकारि कलु. पत्वं चक्रे । तर्हि तोयानि कलुपाणि भविष्यन्ति इत्याशङ्कयाह-किलक्षणैस्तोयैः शश- धरदीधितिच्छटाऽच्छैः चन्द्रद्युतिश्रेणिनिर्मलैः, शशधरस्य चन्द्रमसः दीधितयः किरणाः तासां छटाः श्रेणयः ता इव अच्छानि निर्मलानि तैः । अत एव किं कुर्वद्भिः तोयैः अजस्र- मनवरतम् उज्ज्वलां मुखरुचं निर्मलां वक्त्रकान्ति कुर्वद्भिः विधानैः । अर्थात् पत्या असिक्ता सपत्नी कृष्णमुखी बभूवेत्यर्थः ॥ ३८ ॥ कुर्वद्भिरिति ॥ मुखरुचिं मुखकान्तिमुज्ज्वलां कुर्वद्भिर्येस्तो यैर्विलासी विलसनशीलः कामी । 'वो कष- लस-' इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्लमसिचत सितवान् । स्वरितत्त्वादात्मनेपदम् । 'आ- न्मनेपदेष्वन्यतरस्याम् ' इति सिञ्चतेलुङ च्लेरङादेशः । शशधरदीधितिच्छटाऽः शशिकरानिकरस्वर- स्तैरेव तोयैर्दूरात्पतियुवतेः सपन्याः कालुष्यमाविलत्वं वैवयं चाकारि। स्वच्छतोय: कालुष्यं कृतमिति विरुद्ध कार्योत्पत्तिरूपो विषमभेदः । तचान्य।त्यसङ्गतिः, वैवर्ण्यकालुष्पयोरभेदध्यवसायादतिशयोकिस्त- दुत्थापितेति सङ्करः ॥ ३८ ॥ रागाऽन्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ॥ मानिन्या वपुषि पतनिसर्गमन्दे(१) भिन्दानो हृदयमसाहि नोदवज्रः ॥३६॥ रागान्धीकृतेति ॥ मानिन्या मानवत्या उदवज्रः न असाहि उदकमेव वज्रः उद- वज्रः वारिदम्भोलि: नाऽसह्यत । किं कुर्वन् उदवतः वपुपि शरीरे पतन् भ्रश्यन् , किंलक्षणे वपुषि निसर्गमन्दे स्वभावाऽलसे, किं कुर्वाणः हृदयं भिन्दानः चित्तं विदारयन् , किंभूतः उदवज्रः प्रियेण भर्ना नामधेयव्यत्यासात् नामधेयस्य अभिधानस्य व्यत्यासो विनिमयः तस्मात् अभिमुखमीरितः प्रेरितः कान्तेन सपत्न्या नामोच्चार्य संमुखं विमुक्तः । अत एव वज्रतुल्य इत्यर्थः। किंभूतेन भर्ना रागान्धीकृतनयनेन विषयान्धीकृतचक्षुषा, रागेण विषया- तिशयेन अन्धीकृते अन्धीभूते नयने चक्षुषी यस्य सः तेन । 'विपर्ययस्तु व्यत्यासः' इत्यमरः ॥ ३९ ॥ रागान्धीकृतेति ॥ रागण विपक्षानुरागणाऽन्ध कृतनयने प्रियेण नामधेयव्यत्यासाद्विपक्षनामपूर्वकमभि- मुखमीरितः क्षिप्तो वपुषि पतन्निसर्गमन्दः स्वभावजडः तथापि हृदयं भिन्दानो विदारयन्नुदकमेव वजेोऽशनि- रुदवजः । 'मन्थौदन-' इत्यादिना विकल्पादुदादेशः । मानिन्या विपक्षनामग्रहणजनितकोपवत्या नायि- कया नाम्साहि न सोढः । तीक्ष्णयोगादतीक्ष्णमपि तीक्ष्णं भवतीति भावः । उदवज इति केवलनिरवयव रूपकम् ॥ ३९ ॥ प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायास्तत्तापं(२) नवजलविग्रुषो गृहीत्वा । ताः कठिनकुचस्थलाभिघातादासनां भृशमपराङ्गनामधाक्षुः ॥ ४०॥ (१) मन्दो। (२) प्रियायःः सन्तापं । .. उद्धृताः सर्गः । शिशुपालवधे। २६७ प्रेम्णोर इति ॥ नवजलविग्रुषः नूतनजलकणाः अपराङ्गनां भृशमतिशयम् अधाक्षुः अन्यस्त्रियमत्यर्थ दहन्ति स्म सपत्नी देहुः । किंभूतामपराङ्गनाम् आसन्नां निकटवर्तिनी, किंभूता विपुषः कठिनकुचस्थलाभिघातात् कठोरस्तनतटाभिघातात् उधूताः कठोरस्तन- सम्पर्कात् उड्डीनाः, क सति प्रणयिनि कान्ते प्रियायाः उरः सिञ्चति सति वक्षः स्नपयति सति, केन प्रेम्णा स्नेहेन, किं कृत्वा अदहन तत्तापं गृहीत्वा तस्याः सपत्न्याः तापं तत्तापं गृहीत्वा आदाय अपराङ्गनामदहनिति भावः ॥ ४० ॥ प्रेम्णोर इति ॥ प्रणयिनि प्रेम्णा प्रियाया उरः सिञ्चति सति कठिनकुचस्थलाभिघातादुता उत्पतिता नवजलम्य विप्रुषो बिन्दवः । 'पृषन्ति बिन्दुपृषताः पुमांसो विपुषः स्त्रियाम्' इत्यमरः । तस्याः सिकायाः मन्तापं गृहीत्वा आदाय आमन्त्रां समीपस्थामपराङ्गनां सपत्नी भृशमधाक्षुः सन्तापयन्ति स्म । दहते डि 'वदवज-'इत्यादिना सिचि वृद्धिः घत्वादिकार्यम् । तत्सेकादेवाऽपरस्यास्तापोदयात्तत्तापस्यैवात्रादानमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥ ४० ॥ संक्रान्तं प्रियतमवक्षसोऽङ्गरागं साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ॥ तुष्ट्रवं सपदि हृतेऽपि तत्र तेपे कस्याश्चित्स्फुटनखलक्ष्मणः सपल्या ॥४१॥ संक्रान्तमिति ॥ कस्याश्चिदङ्गनायाः सपत्न्या प्रतियुक्त्या तेपे सन्तापोऽभाजि । किं कृत्वा एवम् अमुना प्रकारेण तुष्ट्वा सन्तोपं प्राप्य । प्रथम सन्तोषं प्राप्ता पश्चाद् भूयोऽपि सन्तप्ता । एवं कि-यत्, अधुना साम्प्रतं सरसि तडागे अम्भः पानीयं साधु सम्यक् यथा भवति तथा अस्याः मत्सपत्न्याः अङ्गरागं चन्दनकस्तूरीकेसरादि सपदि वेगेन तत्कालमेव हरिष्यते तदनुलेपनं ग्रहीप्यति । किंभूतमङ्गरागं प्रियतमवक्षसः संक्रान्तं भर्तृवक्षःस्थलात् संलग्नं, क सति तत्र तस्मिन्नगारागे हृतेऽपि स्फेटितेऽपि सति तर्हि कथं तेपे किंलक्षणायाः कस्याश्चित् स्फुटनखलक्ष्मणः प्रकटनखवणायाः। अङ्गरागं प्रक्षालिते प्रकटितनखपदैदृष्टैरतीव सन्तप्ता प्रथम सा सपत्नी द्वितीयायाः सपत्न्याः अङ्गे प्रसक्तमगरागं जलेन प्रक्षालितं भणित्वा हृष्टचित्ता जाता। पुनः तस्याः शरीरे प्रियतमनखवणान् दृष्ट्वा सन्तप्त्यर्थः ॥ ४१ ॥ संक्रान्तामति ॥ प्रियतमवक्षसः सकाशात्संक्रान्तं गाढालिङ्गनात्कुचतट लग्नमस्या: सिक्काया अङ्ग- रागमधुनैव सरसि अम्भः कर्तृ साधु निःशेषं हरिष्यते प्रमायति एवं तुष्टुवा इति बुद्ध्वा सपदि तत्र तस्मि- बङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्नायाः कस्याश्चित्रायिकायाः सम्बन्धिनि सपत्न्या तपे तनम् । भावे लिट् । तदिदमातपातस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टुमक्षमाया नखक्षतसाक्षात्कार इति । अत्र सन्तापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षालनन तद्विरुद्धसन्तापोत्पादनाविरुद्ध- कार्योत्पत्तिरूपो विषमालङ्कारः ॥ ४१ ॥ हूतायाः प्रतिसखि कामिनाऽन्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तः॥ अन्तधि द्रुतमिव कर्तुमश्रुवर्षे मानं गमयितुमीषिरे पयांसि ॥ ४२ ॥ हूताया इति ॥ अङ्गनायाः अश्रुवर्षेः बाष्पपातैः अश्रुसेकैः पयासि उदकानि भूमानं बाहुल्यं गमयितुम् ईपिरे ववाछुः । उत्प्रेक्षते-द्रुतं शीघ्रमन्तधि कर्तुमिव अन्त. र्धानं विधातुमिव, पयांसि बाहुल्यं प्रपितानीत्यर्थः। किंभूतायाः हीमत्याः सलज्जायाः । लजायां किं कारणं तद्विशेषणद्वारेणाह-अपरं किंभूतायाः प्रतिसखि सखीसमीपे कामिना वल्लभेन अन्यनाम्ना सपत्न्यभिधानेन हूतायाः आकारितायाः । यतः प्रतियुवत्यभिधानेना- . २६८ सन्देहविषापधिसर्वकषायुते [अष्टमः- ऽऽहूता अत एव लजां बभारेत्यर्थः । पुनः किंभूतायाः सरसि तडागे गलन्मुखेन्दुकान्तेः पतद्वदनचन्द्रद्युतेः । श्यामवक्त्रच्छवेरित्यर्थः। अश्रुभिरहं जलं घनं विधाय लज्जया आत्मान- मधो निमजयिष्यामि, यथा मम मरणं भवतीति भावः । अतः सरसि पानीयं वर्धमानं ववाछेत्यर्थः । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् इत्यमरः। बहोर्भावः भूमा तम् ॥ हूताया इति ॥ प्रतिसाख सख्या: समीपे । सखीसमक्षमित्यर्थः । समीपार्थेऽव्ययीभावे नपुंसकत्व. हस्वत्वे । कामिना प्रियेणाऽन्यस्याः सपत्याः नाम। अन्यनाम्ना । सर्वनाम्रो वृत्तिमाचे पुंबद्भावः। हूनायाः अत- एव गलन्मुखेन्दुकान्तेः ह्रीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । मरसि दुनं शीघ्रमन्तार्धमन्तर्धानम् । श्रदन्तरोरुपसर्गवढनिवचनात् 'उपसर्गे घोः किः' इति किप्रत्ययः । कर्तुमझुवर्षेः कर्तृभिः पयासि मरो- जलानि भूमानं गमयितुं वृद्धि प्रापयितुम् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वं प्राधान्यादभिधानं च । ईषिरे इव इष्टानि किम्, इत्युत्प्रेक्षेयमश्रुपातनिमित्ता । तथा मरणदुःखादपि दुःसहं सपत्न्या दुःखमिति वस्तुध्वानः ॥ ४२ ॥ सिक्तायाः क्षणमवसिच्य(१) पूर्वमन्यामन्य न्यस्याः प्रणयवता बताऽबलायाः। कालिन्ना समधित मन्युरेव वक्र प्रापाऽक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥ सिक्ताया इति ॥ बतेति खेदे, अन्यस्याः अपरस्याः अबलायाः मन्युरेव कोप- एव वक्त्रं मुखं कालिम्ना समधित कृष्णत्वेन संयोजयामास । वदनं श्याम चकारेत्यर्थः । पुनः अक्ष्णोनेंत्रयोः गलत् भ्रश्यत् अञ्जनाम्भः कजलवारि अपशब्दं वचनीयतां प्राप इति प्रवादं लेभे-यत् , कजलवारिणा मुखं कृष्णमकारीति। पर तन्मुखमस्याः कोपेनैव कृष्णतां प्रापितमित्यर्थः । ननु कोपः कस्माजात इत्याशय हेतुगर्भ विशेषणमाह-किंभूतायाः अन्यस्याः प्रणयवता स्नेहिना वल्लभेन पूर्व प्रथममन्यां सपत्नी क्षणं मुहूर्तमवसिच्य स्नपयित्वा पश्चात् सिक्तायाः स्नपितायाः । अत एव कोपात् कृष्णमुखी बभूवेत्यर्थः । 'मन्युदैन्ये ऋतौ क्रुधि', 'अवर्णाक्षेपनिर्वादपारीवादाऽपवादबत्' इत्यमरः ॥४३॥ सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सतत्रीमभिषिच्य पश्चारिसकाया अन्यस्या अब- लायाः लिया वक्र कर्म मन्युः कोप एव कर्ता कालिम्ना कायन । वैवण्येन सहति यावत् । समधित सन्दधे । बतेति खेदे । संपूर्वाधातेः कर्तरि लुङि तङ् , 'स्थाध्योरिच्च' इतीकारः । सिचः कित्त्वान गुणः 'हस्वादङ्गात्' इति सकारलोप: । गलत्ववत् अक्ष्णोः सम्बन्धि अञ्जनाम्भः कज्जलोदकमपशब्दं वर्णस्यापवाद पाप । कोपकालिमतिरोधानेन स्वकालिम्र एव प्रकाशनादिति भावः । पूर्वेण वाक्याथैनोत्तरवाक्यार्थसमर्थना- द्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १३ ॥ उद्वोढुं कनकविभूषणान्यशकः सध्रीचा वलायतपमानालसूत्रः ॥ आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ४४ ॥ उद्घोदुमिति ॥ तरुण्याः अङ्गनायाः भुजो बाहुः साधीयोऽतिशयेन गुरुरभवत् गुरु- तरः सञ्जातः । किंभूतो भुजः कनकविभूषणानि उद्वोढुमशक्तः मुवर्णाभरणानि धारयितु- मसमर्थः अतिकोमलत्वात् ,पुनः किंभृतो भुजः अत एव सध्रीचा सहचरेण वलयितपननाल- सूत्रः कङ्कणीकृतपद्मनालतन्तुः, पुनः किंभूतो भुजः आरूढप्रतिवनिताकटाक्षभारः आरूढः आश्रितो यः प्रतिबनितायाः सपत्न्याः कटाक्षः वक्रविलोकनं दृष्टिविक्षेपस्तेन भारः दुर्वह- ता यत्र सः तथा । अत एव सपत्न्या विलोकितः सन् गुरुर्बहुमानोऽभवदित्यर्थः । अन्तिक- बाढयोनेंदसाधौ' इति बाढस्थाने साधः । साधीयोऽयंशब्दोऽतिशयवाचकः । सह अञ्चति (१) मभिषिच्य।

सर्गः ।] शिशुपालवधे। २९६ गच्छतीति सध्यूङ तेन सधीचा । 'अञ्चु गतिपूजनयोरिति धातुः सहपूर्वः, किम् । 'सहस्य सध्रिः' इति सहस्थाने सध्रिः, अञ्चेरलोपः पूर्वस्य च दीर्घः सध्रीचेति ॥ ४४ ॥ उद्योढामति ॥ कनकविभूषणान्युरोढुमशक्तः । सौकुमार्यादिति भावः। अत एव सहाऽञ्चतीति सध्यङ् तेन सहचरेण की । 'ऋत्विगा'दिना क्विन्प्रत्ययः । 'सहस्य सनिः' इति महशब्दस्य सध्यादेशः, 'अनि- दिताम्-' इति नकारलोप:, 'अचः' इत्यकारलापे 'चौ' इति दीर्घः । वलयितानि वलयीकृतानि पद्मनाल- सूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढः आरूढवान् प्रतिवनितायाः सपल्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधी- यो बाढतरमिति क्रियाविशेषणम् । 'अन्तिकब योर्नेदसाध।' इति बाट शब्दस्य साधादेशः । गुरुर्भारवान् श्लाघ्यश्चाऽभवत् । अत्र कनकभूषणाभावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावाना, सा च गुरुरिति श्लेषप्रतिभो- स्थापिताऽतिशयोक्त्यनुप्राणितेति सङ्करः ॥ ४४ ।। आबद्धप्रचुरपराय॑किङ्किणीको रामाणामनवरतोदगाहभाजाम् ॥ नाऽऽरावं व्यतनुत मेखलाकलापः कस्मिन् वा सजलगुणे गिरां पटुत्वम्॥४५॥ आबद्धेति ॥ रामाणां स्त्रीणां मेखलाकलापः रशनागुणः आरावं न व्यतनुत शब्द न विस्तारयामास । किंभूतो मेखलाकलापः आबद्धप्रचुरपराय॑किङ्किणीकः आबद्धाः प्रोताः प्रचुराः बह्वयः परार्ध्या महर्घाः किङ्किण्यः क्षुद्रघण्टिका यस्मिन् सः प्रोतघनतरमहामूल्य- क्षुद्रघण्टिकः, किंभूतानां रामाणाम् अनवरतोदगाहभाजाम् अनवरतं निरन्तरं यथा भव- त्येवमुदगाहं जलावगाहनं भजन्ते इति तथा भाजः तासां जलक्रीडावसक्तानाम् । वा अथ वा युक्तमेतत् , यतः कारणात् सजलगुणे कस्मिन् गिरां पटुत्वं भवति, डलयोरैक्यात् कस्मिन् सजडगुणे जाड्यगुणसहिते गिरां पटुत्वं वाणीनां पाटवं स्यात् वाचालता भवेत् । अपि तु न स्यादिति भावः । मेखलाकलापो हि जलपूरितः, तत्कथं ध्वनि करोतीत्यर्थः । 'कलापो भूपणे बहें तूणीरे संहतेऽपि च' । 'परााऽग्रप्राग्रहरप्राय्याऽग्र्या- ऽग्रीयमग्रियम्' इत्यमरः । 'वाक्पटुर्वावदूकः स्यात्' इति वैजयन्ती ॥ ४५ ॥ आबद्धति ॥ उदकम्य गाहोऽवगाहनमुदगाहः । 'मन्यौदन-' इत्यादिन। उदादेशः तमनवरतं भजन्ति यास्तासामनवस्तादगाहमाजां रामाणां स्त्रीणां सम्बन्धी, आबद्धाः प्रोताः प्रचुरा भूयिष्ठाः परार्ध्याः श्रेष्टाश्च किङ्किण्यो यस्मिन्स तथोक्तः । 'नवृतश्च' इति कप् । मेखलाकलाप आरावं ध्वनि न व्यतनुन । तथा हि-जलेन सह सजलो जला गुणः सूत्रं यस्य सः, तथा डलयोरभेदान्जडगुणो जडधर्मो जाड्यं तेन सहति सजडगुणो जडश्च तस्मिन् कस्मिन् वा मेखलाकलापे पुसि वा गिरा वाचा ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेषमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ ४५ ॥ पर्यच्छे सरसि हृतेऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।। सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताऽब्जिनी सखीत्वम् ॥४६॥ पर्यच्छे इति ॥ अब्जिनी नलिनी द्रुतं शीघ्रं सुश्रोण्याः अङ्गनायाः सखोत्वमकृत सखीभावं चक्रे । केन दलवसनेन दलं पर्णमेव वसनं तेन निजपत्रवस्त्रेण, किंभूतेन दलवसनेन वीचि- हस्तन्यस्तेन हस्तप्रायकल्लोलनिहितेन, क सति पयोभिरुदकैः अंशुके हृते सति परिधानवस्त्रे नीते सति, क पर्यच्छे सरसि निर्मले तडागे जलमध्यभागे सरसि । अत्र जलस्य निर्मल सहचरत्वात् तडागे उपचर्यते । किंभूतायाः अङ्गनायाः अपत्रपिष्णोः सलजायाः, अपनपते अपत्रपिष्णुः तस्याः,क सति सुरतगुरौ सम्भोगाचार्य कान्ते लोलाक्षे चपलनेत्रे सति । अति- विलोकयति सतीत्यर्थः। अत एव सखीभावान्नलिन्या निजदलेन वसनदानं कृतमित्यर्थः ॥४६॥ - सन्देहविषौषधिसर्वकषायुते- [ अष्टम:- पर्यच्छे इति ॥ परि परितोऽच्छ स्वच्छम् । अन्तर्गतवस्त्वतिरोधायकमित्यर्थः । तस्मिन्सरासि पयोभि- रंशुके स्त्रीपरिधाने हृते स्थानादपसारिते सति सुरतगुरौ रमणे च लोलाक्षे । श्रोण्यामकदृष्टौ सतीत्यर्थः । 'लोलश्चलसतृष्णयोः' इत्यमरः । बहुब हो सक्थ्यक्ष्णोः स्वाहात्यच् । अपपिष्णोरपत्रपमाणायाः । 'लजा सापत्रपाऽन्यतः' इत्यमरः । 'अलंकृञ्-' इत्यादिना इष्णुच् प्रत्ययः। सुश्रोण्याः प्रियायाः । प्रस्तुतीचिननिर्दे- शोऽयम् । अब्जिनी नलिनी दुतं वीचि रेव हस्तः तेन न्यस्तेन दलं पर्णमेव वसनं तेन । तहानेनेत्यर्थः। सखीत्व. मकृत । सखीकृत्यं चकारेत्यर्थः । अत्राऽन्जिन्यादिषु सखीत्वाधारोपात्समस्तवस्तुवृत्ति सावयवरूपकम् ॥४६॥ नारीभिर्गुरुजघनस्थलाहतानामास्यश्रीविजितविकासिवारिजानाम् ॥ लोलत्वादपहरतां तदङ्गरागं सञ्जज्ञे स कलुष आशयो जलानाम् ॥ ४७ ॥ नारीभिरिति । सः जलानामाशयः पानीयानामाधार तडागः कलुषः सञ्जज्ञे कोपा- न्धो बभूव । क्रीडावशादाविलो जात इत्यर्थः । किंभूतानां जलानां नारीभिः अङ्गनाभिः गुरुजघनस्थलाहतानां गुरुभिर्जधनस्थलैः आहतानि ताडितानि तेषां विशाल.कटिप्रदेशघट्टि- तानां, पुनः किंभूतानां जलानाम् आस्यश्रीविजितविकासिवारिजानाम् आस्यश्रिया मुख- शोभया विजितानि निर्जितानि विकासोनि विकस्वराणि वारिजानि पद्मानि येषां तानि तेषाम् । अत एव कलुपत्वं, यतोऽस्य जलाधारस्य पद्मानि निर्जितानि इति । किं कुर्वतां जलानां तदङ्गरागमपहरतां तासां स्त्रीणामङ्गरागं विलेपनादिकमाददतां, कस्माल्लोलत्वात् चपलत्वात् । अथ च कलुषोऽयमाविलोऽभूत् । यतो गुरुजघनैराहतानाम्, अपरं लोलत्वा- चञ्चलप्रवाहत्वादङ्गरागं हरतामिति भावः । अत्रोक्तिः-यो हि नारीभिर्गुरुजघनस्थलैराह- न्यते, लोलत्वात्सम्भोगे सतृष्णत्वात्तदङ्गरागमपहरति, जडश्चाविवेकी कामाकुलितो भवति, तस्याशयः अन्तःकरणं कलुषं भवति कामेनाविलं भवतीति । 'कलुषोऽनच्छ- आविलः', लोलश्चलसतृष्णयोः' सर्वत्राप्यमरः ॥ ४७ ॥ नारीभिरिति ॥ नारीभिः कीभिः गुरुजघनस्थलेराहतानाम् आभ्यश्रीभिर्मुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलवाञ्चलत्वात्सतृष्णत्वाच्च । 'लोलवलसतृष्णयोः' इत्यमरः । तासामङ्गरागमपहरता क्षालयतां च जलाना तोयानां जडानां च स आशयो ह्रदो हृदयं च कलुषोऽप्रसत्रः क्षुभितश्च सञ्जज्ञे सञ्जातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भवतीति ध्वनिः । अभिधायाः प्रकृ. तार्थ नियन्त्रणान्न श्लेषः ॥ ४॥ सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् ॥ नेदीयो जितमिति लजयेव तासामालोले पयसि महोत्पलं ममज ॥ ४८ ॥ सौगन्ध्यमिति ॥ पयसि पानीये महोत्पलं महत् कमलं ममज्ज मग्नम् । किंभूते पयसि आलोले अतिचञ्चले, किंभूतं कमलं काममतिशयेन सौगन्ध्यं दधदपि सुगन्धता बिभ्राणमपि । उत्प्रेक्षते-इति लजया इव इति बीडया इव मग्नम्। इतीति किं, लज्जा-यदहं तासामङ्गनानां दूरत्वाद्विप्रकृष्टत्वादाननोपमानं गतं मुखोपमान प्राप्तं नेदीयो निकटं सत् जितं पराभूतमिति लजयेति भावः । 'अन्तिकबाढयोनेंदसाधौ' इति अन्तिक- स्य नेद आदेशः ॥ ४८ ॥ सौगन्ध्यमिति ॥ कामं पर्याप्त सौगन्ध्य सुरभिगन्धित्वं सम्बन्धित्वं च । 'गन्धो गन्धक आमोदे लेशे सम्बन्धिगयोः' इति विश्वः। दधदपि अहं दूरत्वात्पूर्व दूरस्थत्वादङ्गानानामाननोपमानं मुखसादृश्यं गतम् । 'दूरस्थाः पर्वता रम्याः' इतिवदिति भावः । सम्प्रति पुनस्तासा नेदीयो नेदिष्ठमन्तिकतम सत् । 'भान्तिक- बाढयोर्नेदसाघी' इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूवमिति लज्जयेव महोत्पलमरविन्दमालोले सर्गः।] शिशुपालवधे। ३०१ .. .. चले पयसि ममज । यथा दूरे साम्येन दृश्यमानः सम्बन्धी सनिधाववमानित: क्वचिल्लजया निलीयते तद्व- दिति। अब पयशलनकृतेऽजमज्जने लज्जाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलानिशयोक्तिहेतूप्रेक्षयोः संसृष्टिः ॥ प्रभ्रष्टैः सरमसमम्भसोऽधगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः । आवन्ध्यैः(१) सरसि हिरण्मयैर्वधूनामौर्वाग्निधुतिशकलैरिव व्यराजि ॥४९॥ प्रभ्रप्टैरिति ॥ वधूनामङ्गनानां हिरण्मयैराबन्ध्यैः सौवर्णेराभरणैः सरसि तडागे व्यराजि विशेषेण राजितम् । किंभूतैः सरभसं सवेगं सहर्ष वा यथा भवति तथा अम्भस: अवगाहक्रीडाभिः जलस्य विलोडनकेलिभिः प्रभ्रष्टैः पतितैः, अपरं किंलक्षणैराबन्ध्यैः विद- लितयूथिकापिशङ्गैः विकसितयूथिकाकुसुमवत् पिशङ्गैः पीतवर्णैः । पुनः किंलक्षणैः, उत्प्रे-॥ क्षते-और्वामिद्युतिशकलैरिव वडवामिकान्तिखण्डैरिव । रभसो वेगहर्षयोरिति विश्वः॥४९ प्रष्टैरिति ॥ सरभसं समत्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्रटैर्जलावगाहक्षोभादम्भासे च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिकाः । हेमपुष्पिकाऽपरपर्याया विवक्षिताः, अन्यथा पिशङ्गत्वा- ऽयोगात् । 'गणिका यूथिकाऽम्बष्टा सा पीता हेमपुष्पिका' इत्यमरः। तदपिशङ्गैर्हिरण्मयैः सौवणः । दाण्डिना- यन-'इत्यादिना निपातः। वधूनामाकल्पैर्भूषणैः सरस और्वामिद्युतिशकलेजलाशयत्वादत्रापि सन्निहितैर्वडवा- उनलज्वालाखण्डेरिवेन्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ् ॥ १९ ॥ आस्माकी युवतिदशामसो तनोति च्छायैव श्रियमनपायिनी किमेभिः ॥ मत्वैवं म्वगुणपिधानसाऽभ्यसूयैः पानीयैरिति विदधाविरेञ्जनानि ॥५०॥ प्रास्माकीति ॥ पानीयैरुदकैः अञ्जनानि कज्जलानि इति कारणात् विदधाविरे प्रक्षालितानि । इति किं कारण-यत्, असौ आस्माकी छाया एवं अस्मदीया कान्ति- रेव युवतिदृशामङ्गनानेत्राणां श्रियं शोभां तनोति विस्तारयति, किंलक्षणां श्रियम् अन- पायिनीमविनश्वराम् । तत् एभिः कज्जलैः किं प्रयोजनम् । किं कृत्वा एवं पूर्वोक्त मत्वा, किंलक्षणैः पानीयैः स्वगुणपिधानसाऽभ्यसूयैः स्वगुणस्य पिधानेन आच्छादनेन साऽभ्यसू- यानि सेाणि तैः निजगुणच्छादनसेयः ॥ ५० ॥ प्रास्माकीति ॥ अस्माकभियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । 'युस्मदस्मदोरन्यतरस्या खञ्च' इति चकारादण्प्रत्ययः । तस्मिन्नणि च युष्माकास्माको' इति प्रकृतरस्माकादेशः 'टिड्ढाणञ्-' इत्या- दिना जीप । असौ छाया कान्तिः । विमलेति यावत् । सेव युवतिदृशामनपायिनी स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किञ्चिदस्तीत्यर्थः । गम्यमानसाधनापेक्षया करणत्वानतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाचनवैफल्यं निश्चित्येत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृङ्- नैर्मल्यगुणस्य पिधानम् । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । 'वष्टि भागुरिरल्लोपमवा- प्योरुपसर्गयोः' इत्यकारलोपः । तेन साभ्यसूयैः सेयः पातुः पानी यैः । 'अम्भोर्णस्तोयपानीयनीरक्षीरा- म्बुशम्बरम्' इत्यमरः । 'तव्यत्तव्यानीयरः' इति पिबतेरनीयर प्रत्ययः । अञ्जनानि कजलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः। विदधाविरेविधौतानि। क्षालिता- नीत्यर्थः । 'धावु गतिशुट्योः' इति धातोः कर्मणि लिट् ॥ ५० ॥ निधीते सति हरिचन्दने जलौघेरापाण्डोर्गतपरभागयाऽङ्गनायाः ॥ अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्टया ॥५१॥ निधीते इति ॥ हास्यष्ट्या मुक्ताकलापेन अङ्गनायाः युवतः स्तनकलशद्वयात् कुचकुम्भयुगलात् अहाय वेगेन विच्छेदः उपेये वियोगः प्राप्तः। किंभूतया हारयष्ट्या, (१) भाकल्पैः २६ शि०० . ..

३०२ सन्देहविषापपिसर्वकषायुते- [ अष्टमः- उत्प्रेक्षते-सहृदययेव सचेतनयेव, हृदयेन ज्ञानेन सह वर्तमाना सहृदया तया। क सति जलौधैः वारिप्रवाहैः हरिचन्दने मलयजे निधौते सति हृते सति, किंलक्षणाया अङ्गनायाः आपाण्डोः गौरच्छवेः, किंलक्षणया हारयष्टया गतपरभागया गतः परभागो गुणोत्कर्षो यस्याः सा तथा तया । अप्राप्तगुणोत्कर्षयेत्यर्थः । हारयष्ट्या हरिचन्दनात् गुणोत्कर्षः प्राप्तोऽभूत्, ततः प्रक्षालिते श्रीखण्डे किल हारयष्टया तद्वियोगात् स्तनयुग्मं त्यक्तमिति भावः । यतो जडौधैर्हरिचन्दनं हृतमित्यर्थः ॥ ११ ॥ निते इति ॥ हरिचन्दने रक्तचन्दने जलौनिधोते क्षालिते सति । धावेः कर्मणि कः । ‘च्छवोः सूडनुनासिके च' इति वकारस्योठादेशः । 'एत्येधन्यूठसु' इति वृद्धिरौकारः। आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशयात् गतपरभागया सावाद्विगतवर्णोत्कर्षया । अत एव सामान्यालहरः । 'सामान्यं गुण- साम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । हारयष्टया का सहृदयया सचित्तयवेत्युत्प्रेक्षा । निजपरभाग- हानिपरिज्ञानवत्येवेत्यर्थः । अह्नाय सपदि । 'स्त्राक् झटित्यञ्जप्ताऽहाय दाङ्मक्षु मपदि दुते' इत्यमरः । विच्छेदस्त्रुटनमुपेये प्राप्तः । हीनजीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभ- हेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा, सा चोक्तमामान्योत्थापितेति सङ्करः ॥ ५१ ।। अन्यून गुणममृतस्य धारयन्ती संफुल्लस्फुरितसरोरुहावतंसा ॥ प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरेव(१) ॥५२॥ अन्यूनमिति ॥ सरसी तडागिका वधूशामङ्गनानेत्राणां रक्तत्वं लौहित्य चक्रे । केव सुरेव, यथा मुरा मदिरा वधूशां रक्तत्वं विधत्ते । किलक्षणा सरसी प्रेयोभिः सह कान्तैः सार्ध निषेव्यमाणा सेव्यमाना । मुराऽपि भर्तृभिः सह निषेव्यते । कि कुर्वती सरसी अमृतस्य पानीयस्य अन्यून गुणं सम्पूर्ण गुणं धारयन्ती । सुराऽप्येवंविधा भवति- अमृतस्य पीयूषस्य अन्यूनं सम्पूर्ण गुणं बिभर्ति, मधुरत्वान्मादकत्वाच । अपरं किंलक्षणा सरसी संपुल्लस्फुरितसरोरुहावतंसा विकसितमनोरमकमलवेष्टिता। सुराया मध्येऽपि प्रफुल्ल- पद्मानि क्षिप्यन्ते । इति द्वयोः साम्यमुक्तम् । संफुल्लानि स्फुरितानि शोभमानानि सरो- रुहाण्येव अवतंसोऽवचूलो यस्याः सा तथा ॥ १२ ॥ अन्यूनमिति ॥ अन्यून समग्रम मृतस्य पीयूषस्य गुणं माधुर्यादिकं धारयन्ती । 'अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते' ॥ इति । उनोदकगुणं च धारयन्ती सरसी । पक्षे 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्' इति विश्वः। मफुल्लानि विकचानि । उत्फुल्लमंफुल्लयोरुपसंख्यानानिष्ठातस्य लत्वम् । स्फुरितान्युज्ज्वलानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थ क्षितानि तान्यवतंसो भूषणं यस्याः सा तथोक्का । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं ब्यधित विधत्ते स्म । तथा सुरा च । व्याधतेति धाञः कर्तरि लुङ तम् । इहोत्साहवर्धनाय मुहुः सेव्यत्वाच्छृङ्गाणीति श्लोके सलिल डासम्भारेषु माकमिति परिगणनाच्च सरसीवत्सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता, सदविवक्षाया तु दीपकम् । सुरेवेति पाठे वप्रकृतविवव कार्या । अन्यथा उपमाऽनुपमा स्यात् । न च तुल्य- योगितावकाशः । स्वशब्देन गम्योपग्यलक्षणभङ्गादिति ॥ ५२ ॥ स्मान्तीनां बृहदमलोदबिन्दुचित्रौ रेजाते रुचिरदशामुरोजकुम्भौ । हाराणां मणिभिरूपाश्रितो समन्तादुत्सूत्रैर्गुणवदुपनकाम्ययेव ॥ ५३॥ (१)सुरा च ।

सर्गः।] शिशुपालवधे। स्वान्तीनामिति ॥ रुचिरदृशां मृगनयनानां युवतीनामुरोजकुम्भौ रेजाते स्तन- कलशौ शुशुभाते । किं कुर्वतीनां रुचिरदृशां स्नान्तीनां, स्नान्ति ताः स्नान्त्यः तासां स्नान्तीनां जलकेलिं कुर्वतीनाम् । किंलक्षणौ उरोजकुम्भौ बृहदमलोदबिन्दुचित्रौ विशाल- स्वच्छोदकविन्दुरमणीयौ, बृहन्तश्च ते अमलाश्च ते उदबिन्दवः वारिकणाश्च तैः चित्रौ मनोहरौ । अन्यौ कुम्भावपि अमलोदबिन्दुचित्रौ भवतः । अपरं किंलक्षणौ उरोजकुम्भौ, उत्प्रेक्षते-हाराणां मणिभिः उपाश्रिताविव हारमौक्तिकैवेष्टिताविव, कथं समन्तात् सम- न्ततोभावेन, किंलक्षणैर्मणिभिः उत्सूत्रः सूत्रमुत्क्रान्ताः उत्सूत्राः तैः सूत्ररहितैः । पुन- रुत्प्रेक्षते–कया गुणवदुपन्नकाम्ययेव गुणवदाश्रयकासयेव । यतः कारणात् तत् स्थान सर्वदा गुणवद्भिराश्रीयते, ततो गुणवत्समाश्रयणतत्परैरिव । गुणः सूत्र विद्यते यस्मिन् स गुणवान् , हार इत्यर्थः । गुणवांश्चासौ उपघ्नः आश्रयः, तस्य काम्या वाञ्छा तयेव॥१३॥ स्नान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशा सुदृशा मम्बन्धिनौ बृहद्भिरमलैश्वोद. बिन्दुभिश्चित्रौ । 'मन्थोदन-' इत्यादिनोदकशब्दस्योदादेशः । उरोजकुम्भी उत्सूत्रै राणां मुकाहाराणां मणिभिर्गुटिकाभिरुपहन्यते उपगम्यते, पीडयते वा । 'उपघ्न आश्रये' इति हन्तेरप्प्रत्ययान्त उपधालोपीति निपातः । गुणवत औदार्यादिगुणवतः सूत्रवतश्च उपघ्नस्य काम्या आत्मन इच्छा गुणवदुपनकाम्या तया गुणवदुपघ्नकाम्यया । आत्मनो गुणवदाश्रयाकासयेत्यर्थः । 'काम्यच्च' इति काम्यच्प्रत्यये प्रत्ययान्त- धातुत्वात् 'अ प्रत्ययात्' इति नियामप्रन्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । 'फगां च सप्तानाम्' इति विकल्पादेकाराभ्यासलोपो । गुणवच्छन्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रियदिति प्रतीतेः श्लेषानुप्राणितयाऽतिशयोक्त्याऽनुप्राणितेयमुत्प्रेक्षा ।। ५३ ॥ आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ॥ कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यनिरासुरापः ॥ ५४ ॥ प्रारूढ इति ॥ स्वच्छानां निर्मलात्मनाम् इति कारणात् स्वसम्भवोऽपि आत्म- सम्भवोऽपि परिहरणीयतामुपैति त्याज्यतां प्राप्नोति । स्वच्छानां पुत्रोऽपि परिहर्तव्य इति भावः । इति कस्मात्, यतः कारणात् आरूढः पतित इति महत्पदं प्राप्य औनत्यमवाप्य भ्रष्ट इति । तत् पतितेन किममुना प्रयोजनमिति गणनादित्यर्थः । अत्रार्थे दृष्टान्तमाह- यत्, आपो जलानि कर्व्यः वधूनामङ्गनानां कर्णेभ्यः च्युतं श्रवणेभ्यो भ्रष्टमसितोत्पलं नीलो त्पल तटमनु तीरमनु लक्ष्यीकृत्य वीचिभिः कल्लोलैः निरासुः प्रेरयामासुः । यतः कारणात् तदपि प्रथममारूढं पश्चात् पतितम्, अतः ता आपः तत्पy मध्ये स्थातुं न ददुः । अन्यो- ऽपि पूर्वमारूढः महत्पदं राज्याधिकारलक्षणं सदाचारत्वादिलक्षणं वा प्राप्य पश्चात् पतितो मालिन्यमुपगतो भवति । अतः स्वसम्भवोऽपि त्याज्य इति भावः । मध्ये गृहं स्थातु, न दीयते इत्यर्थः ॥ ५४॥ प्रारूड इति ॥ स्वसम्भवोऽध्यात्मसम्भवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रमश्च पतितस्तथा भ्रष्ट- इति हेतोः । आरूढपतितत्वादित्यर्थः। स्वच्छाना निर्मलानां परिहरणीयता त्याज्यत्वमुपैति । 'प्रवज्या- वसितो राज्ञो दास आमरणान्तिकः' इति स्मरणादिति भावः। वीचीभिस्तटमनु तट प्रति निरासुश्विक्षिपुः । कुतः-यस्मादापः वधूनां कर्णेभ्यश्च्युतमासतोत्पलम् । स्वसम्भवमपीति भावः । विशेषेण सामान्यसमर्थन- रूपोऽर्थान्तरन्यासः समर्थनवाक्यगतश्लेषमूलाऽतिशयोक्त्या सङ्कीर्णः ॥ ५४ ॥ दन्तानामधरमयावकं पदानि प्रत्यप्रास्तनुमविलेपना नखाडाः ॥ मानिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥५५॥ - . ३०४ सन्देहविषौषधिसर्वकषायुते [ अष्टम:- दन्तानामिति ॥ अङ्गनायाः स्त्रियः अधितोयं तोये एते पदार्थाः श्रियमानिन्युः शोभां प्रापयामासुः। तावत् किं शोभा प्रापितमित्याह-दन्तानां पदानि दशनानां व्रणानि अधरमोष्ठं श्रियमानिन्युः । ओष्ठः कस्मात् अश्रीकः सजात इत्याह-किलक्षणमधरम् अयावकं अलक्तकरहितम् । अपरं प्रत्ययाः नूतनाः नखाङ्काः नखपदानि तनुं शरीरं श्रिय- मानिन्युः, यतः किलक्षणां तनुम् अविलेपनां विलेपनरहितां धौताङ्गरागाम् । युक्तोऽयमर्थः, यतः कारणात् सदाश्रिताः नित्यसेवकाः विपदि सत्यां व्यसने सति शौभायै श्रिरै भवन्ति । आपद्यपि ते शोभां कुर्वन्तीत्यर्थः ॥ ५५ ॥ दन्तानामिति ॥ तोयेष्वाध आधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गनानामयावकं प्रक्षालितलाशा रागमधरं दन्तानां पदानि दन्तक्षतानि तथा अविलेपना धौताङ्गरागां तनुं शरीरं प्रत्यमा नवा नखा- काश श्रियमानिन्युः प्रापयामासुः । 'नीवयोहरतेश्चैव' इति वचनाद् द्विकर्मकत्वम् । तथा हि-सतः सजनान, सुन्दरांश्च आश्रिताः सदाश्रिताः ये केचिदिति शेषः । विपदि विभवाऽभावकालेऽपि शोभायै वैभवाय भवन्ति । 'वलपेः सम्पयमाने चतुर्थी वनव्या' इति क्लपेरर्थनि देशाच्चतुर्थी । अर्थान्तरन्यासः ॥ ५५ ॥ कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभराऽवलम्बिनीभिः ॥ किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाप्रवल्लरीभिः ।। ५६ ॥ कस्याश्चिदिति॥ कस्याश्चिदङ्गनायाः मुखमनु वक्त्रमनु लक्षीकृत्य अलकायवल्लरीभिः केशप्रान्तलताभिः चित्रश्रीः विशेषकशोभाअलं व्यातेने विस्तारिताऽभवत्। अलकाप्राणि केश- प्रान्ता एव वल्लयों वल्ल्यः ताभिः। चित्रस्य श्रीः चित्रश्रीः। किंलक्षणं मुखं धौतपत्रलेख प्रक्षा- लितपत्रलतं, किंलक्षणाभिः अलकाग्रवल्लरीभिः सलिलभरावलम्बिनीभिः उदकभरेण लम्ब- मानाभिः, सलिलभरेण अवलम्बन्ते ताःसलिलभरावलम्बिन्यः ताभिः, अपर किंलक्षणाभिः केशप्रान्तलताभिः किअल्कव्यतिकरपिञ्जरान्तराभिः किअल्कानां केसराणां व्यतिकरण सम्पर्केण पिञ्जरं पिङ्गटमन्तरं मध्यं यासां तास्तथा ताभिः मकरन्दसमूहपीतमध्याभिः । एवंविधकेशलताभिः विपत्रवल्लीकं वदनमनुलक्षीकृत्य विशेषकशोभा व्यतन्यतेत्यर्थः । 'चित्रकं तु विशेषक', 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः॥ ५६ ॥ कस्याश्चिदिति ॥ धौतपत्रलेखं खालितपत्रावलीक कल्याश्चिन्मुखमनु मुखेन सम्बद्ध यथा तथा । मुख इति यावत् । 'तृतीयार्थे--' इत्यनोः कर्मप्रवचनीयत्वाद् द्वितीया । सलिलभरेणावलम्बिनीभिलम्बमा- नामिः । आर्जवं गताभिरित्यर्थः । किञ्जल्कव्यतिकरण केसरमिश्रणेन पिञ्जराण्यन्तराणि मध्यभागा यासो ताभिः । अलकामाणि वलर्यो मञ्जर्य इवेत्युपमितसमासः। 'वरी मञ्जरी मियाम्' इत्यमरः । तामिरलकाम- वरीमिश्चित्रश्रीमकरिकापत्रशोभा अलं व्यातेने सम्पादिता । तनोतेः कर्मणि लिट् । अत्र चित्रस्य श्रीरिव श्रीरिति निदर्शनाभेदः ॥ ५६ ।। वक्षोभ्यो घनमनुलेपनं यदूनामुत्तंसानहरत वारि मूर्धजेभ्यः । नेत्राणां मदरुविरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलमयः ॥ ५७ ॥ वक्षोभ्य इति॥ वारि उदकं यदूनां वक्षोभ्यः उसस्थलेभ्यः धनं सान्द्रमनुलेपनमहरतः अङ्गरागं जहार जग्राह । अपरं मूर्धजेभ्यः केशेभ्यः उत्तंसान् मुकुटान् अहरत । अपर नेत्राणां नयनानां मदरुचिः विभ्रमशोभा रक्तता अक्षतैव तस्थौ अभग्नैवातिष्ठत् । स्वरू- पणाऽवतिष्ठते स्मेत्यर्थः । युक्तोऽयमर्थः, खलु यस्मात् कारणात महतामुत्तमानां चक्षुष्यः वल्लभः परैरन्यैः भलब्ध्यः अगम्यः । उत्तमानां वल्लभः परैः शत्रुभिरनाक्रमणीयः । चक्षुाणे r सर्गः ।] । - शिशुपालवधे। ३०५ तिष्ठतीति चक्षुष्यः । मदरचेः चक्षुषि स्थितत्वात् अनाक्रमणीयत्वमित्यर्थः । 'चक्षुष्यः सुभगो ज्ञेयो वल्लभो दयितः प्रियः' इति वैजयन्ती ॥ ५७ ॥ अथ श्लोकद्वयेन पुंसामप्यवस्थाभेदं वर्णयति- वक्षोभ्य इति ॥ वारि सरउदकं कर्तृ यदूना यादवानां घनं सान्द्रमनुलेपनमगरागमहरत । जि- त्त्वात्त । अत्र वधूनामिति क्वाचित्कः पाठो वक्षोजानुपेक्ष्य वक्षोमाधनिर्देशादुत्तरश्लोके तेषामिति पुंलिङ्ग परामर्शाच न ग्राह्यः। मूर्धजेभ्यः शिरोरुहेभ्य उत्तंसान शेखरानहरत । नेत्राणां मदरुचिर्मदरागोऽक्षतव तथैव तस्थौ । वारिविहारस्यापि रागजनकत्वादिति भावः । अत एव रागद्वयस्याऽप्यभेदाध्यवसायेन तदवस्थानिर्देशा- दतिशयोक्तिः । तथा हि-महतां चक्षुषि भवश्चक्षुष्यः प्रियोऽक्षिजश्च । 'प्रियेक्षिजे च चक्षुष्यः' इति विश्वः । 'शरीरावयवाच्च' इति यत् । परेरलयो दुर्धर्षः खलु। चक्षुष्य इति श्लेषमूलातिशयोक्तिः। तया पूर्वोतया च सङ्कीर्णोऽयमर्थान्तरन्यासः ॥ ५७ ॥ यो बाह्यः स खलु जलनिरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् ।। धीराणां व्रजति हि सर्व एव नाऽन्तःपातित्वादभिभवनीयतां परस्य ॥५८॥ यो बाह्य इति॥ तेषां यादवानां यो बाह्यो बहिर्भवः रागो विलेपनलक्षणः अङ्गरागः, स खलु निश्चितं जलैर्वारिभिः निरासि निरस्तः प्रक्षालितः स्फेटितः । तु पुनः यो रागः चित्ते मनसि, स तदवस्थ एव तथास्वरूप एव । सा अवस्था यस्य स तदवस्थः । विष- याख्यो रागस्तै लैर्न स्फेटित इति । हि युक्तोऽयमर्थः, हि यस्मात् कारणात् सर्व एवं पदार्थः धीराणां महतामन्तःपातित्वात् परस्य शत्रोः अभिभवनीयतामाक्रमणीयतां न ब्रजति न प्राप्नोति । धीरासक्तः सर्वोऽपि अन्येषामलधनोय इति भावः। यो महतां चित्ते वसति, स केनापि न परिभूयते इत्यर्थः । विषयाख्यरागस्य अन्तःपातित्वान्मनसो- ऽपि अभ्यन्तरत्वात् परैरनाक्रमणीयत्वमिति भावः ॥ १८ ॥ यो बाह्य इति ॥ तेषां यदूना बहिर्भवो बाह्यः । 'बहिषष्टिलोपो यञ्च' इति वचनात यञ् प्रत्ययः यो रागोऽङ्गरागः स रागो जलैस्तोयैः जडैश्च निरासि निरस्तः खलु । अस्यतेः कर्मणि लुङ् । चिने यो रागः स तु सेवावस्था यस्य स तदवस्थ एव । न निरस्त इत्यर्थः । अत्र रागयोर भेदाध्यवसायादति- शयोक्तिः। तथा हि-सर्वोऽपि धीराणां महतामन्तःपातित्वात् । अन्तर्गतत्वादेवेति यावत् । परस्याभिभवनीयता न व्रजति । अन्यथा बजत्येवेत्यर्थः । पूर्ववदलद्वारः ॥ ५८ ॥ फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जधनतटेषु(१) शैवलानाम् ॥ गण्डेषु स्फुटरचनाऽब्जपत्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ५९ ॥ फेनानामिति ॥ वधूनामङ्गनानां विभूषणमाभरणं पयसि उदके पर्याप्तं सम्पूर्ण बभूव । तावत् उरसिरहेषु कुचेषु फेनानां डिण्डीराणां हारलीला मुक्ताकलापशोभा बभूव, फेनः स्तनयोर्मुक्ताकलापः सञ्जातः । अपरं जघनतटेषु कटिप्रदेशेषु शैवलानां जलनीलीनां चेलश्रीः वसनशोभा बभूव, शैवलमयी वस्त्रशोभा सञ्जाता। अन्यत् गण्डेषु कपोलेषु स्फुटरचनाऽब्जपत्रवल्ली बभूव प्रकटरचनाऽम्भोजपत्रलता सञ्जाता । इत्याभरणं बभूवेत्यर्थः। 'डिण्डीरोऽब्धिकफः फेनः', 'चेलं वसनमंशुक', 'जलनीली तु शैवालं शैवलः सर्वत्राप्यमरः५९॥ फेनानामिति ॥ वधूनाम्। भ्रष्टभूषणानामपीति भावः । पयसि विभूषणं पर्याप्तम् । समग्रमासीदित्यर्थः। कृतः-फेनाना डिण्डीराणामुरासि रुहन्तीत्युरसिरुहाः स्तनाः । 'सुपि' इति योगविभागाकपत्ययः 'हलदन्तात्' इत्यलुक् । तेषु हारलीला मुक्तावलिश्री:। जातेति शेषः। शवलाना जघनतलेषु चेलश्रीर्वसनशोभा जाता। गण्डेषु (१) तलेषु ।

सन्देहविषौषधिसर्वपायुते- [अष्टम:- । कपोलेषु शैवला इति विभकिविपरिणामादनुषङ्गः। स्फुटरचना व्यक्तविन्यासा अन्जपत्रबल्ली पनपत्रलताजा- तेति शेषः । अत्र फेनाना हारलीलेव लीला शैवलाना चेलश्रीरिव श्रीरिति निदर्शनाभ्यां शैवलाः पषवल्लीति रूपकेण च वाक्याथै चतुर्थवाक्यार्थसमर्थनात ते रेवाङ्गाङ्गिभावेन सङ्कीर्ण वाक्यार्थ हेतुकं काव्यलिङ्गम् ॥५९॥ भ्रश्यद्भिर्जलमभि हेमभि(१)र्वधूनामङ्गेभ्यो गुरुभिरमजि लजयेव ॥ निर्माल्यैरथ ननृतेऽषधीरितानामप्युबैर्भवति लघीयसांहि धाळम् ॥६०॥ भ्रश्यद्भिरिति॥ हेमभिः सुवर्णाभरणै जलममि उदकमभि लक्षीकृत्य अमज्जि मग्नम् , किंक्षणैः हेमभिः वधूनामङ्गेभ्यः शरीरावयवेभ्यः अश्यद्भिः पतन्द्रिः । उत्प्रेक्षते-लजयेव बीडयेव, यतः अपरं किलक्षणैः हेमभिः गुरुभिः अलघुतरैः। अन्योऽपि यो गुरुरवज्ञातः स्यात्, स लजावशाज्जले मजनं कुरुते । अथानन्तरं निर्माल्यैः कुसममालादिभिः ननृते नृत्तम् । हि युक्तोऽयमर्थः, हि यस्मात्कारणात् लघीयसां लघुतराणामवधीरितानामपि अवगणितानामपि, उचैरतिशये, धाय॑ धृष्टत्वं निल त्वं भवति ॥ ६ ॥ भ्रश्यविरिति ॥ वधूनामङ्गेभ्यो भ्रश्यद्भिः पतद्भिर्गुरुभिः साँवाद् गुरुत्वयुक्तैर्भूषणेर्लजया भ्रंशप्रयु- कया हिय वेत्युत्प्रेक्षा । जलमा अमजि जले मग्नम् । भावे लुङ्। अथानन्तरमेव, न तु विलम्बे नेति भावः । निर्माल्यै नोज्झितमाल्यै नृते जलेऽनति । भ्रंशेऽपि निर्लज्जैरिति भावः । तथा हि-अवधीरि- तानां तिरस्कृतानामपि लघीयसो तुच्छानामुच्चैर्धाष्टयं निर्लज्जत्वमेवाधिकं भवतीत्यर्थान्तरन्यासः । महान्तः पदभ्रंशे लज्जिताः क्वचिनिलीयन्ते, तुच्छास्तु निर्लज्जा विजृम्भन्त इति भावः। अप्सु गुरूणि मज्जन्ति लघुनि प्लवन्त इति परमार्थः॥६०॥ आमृष्टास्तिलकरुचः सजोऽद्भिरस्ता(२) नीरक्तं वसनमपाकृतोऽङ्गरागः ॥ कामः स्त्रीरनुशयवानिव स्वपक्षव्याघातादिति सुतरांचकार चारूः॥६॥ श्रामृष्टा इति ॥ कामः कन्दर्पः इति हेतोः स्त्रीः अङ्गानाः सुतरामतिशयेन चारू: चकार मनोहराः चक्रे । उत्प्रेक्ष्यते-किलक्षणः कामः अनुशयवानिव सक्रोध इव, कस्मात् स्वपक्षव्याघातात् निजपरिवारविनाशात् । कामस्य पक्षविनाशमाह-तावत् अद्भिः पानीयैः तिलकरचः आमृष्टाः पत्रलता भग्नाः, अपरम् अद्भिः स्त्रजः माला अस्ताः क्षिताः, तथा अद्भिः वसनं वस्त्रं वासः नीरक्तं विरङ्गीकृतम्, अपरम् अङ्गरागो निराकृतः चन्दनकेसरादि- विलेपनं स्फेटितम् । इत्यादिस्वपक्षव्याघातात् सक्रोध इव कामः स्त्रीः विशेषण मनोज्ञाः चकारेत्यर्थः॥ ६१ ॥ प्रामृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः। स्रजो माला निरस्ताः । वसनं कौमुम्भं वासो नीरक्त- मरकम् । निरस्तरागमित्यर्थः । कृतमिति शेषः । अङ्गरागो पाकृतः। सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्ष- व्याघातात स्वर्गक्षयादनुशयवाननुतापवानिवत्युत्भेक्षा । कामः मीः मियः । 'वाऽम्शसोः' इतीयादेश- विकल्पाप पूर्वसवर्णदीर्घः। सुतरा चारू: पूर्वतोऽपि रमणीयाश्चकार । मीणां काम एव भूषणमभ्य- रूप्यमेवोति भावः ॥ ६१ ॥ शीताति बलवदुपेयुषेव नीरैरासेकाच्छिशिरसमोरकम्पितेन ॥ रामाणामभिनवगैवनोष्मभाजोराश्लेषि स्तनतटयोनवांशुकेन ॥ ६२ ॥ शीतातिमिति ॥ नवांशुकेन नूतनवस्त्रेण रामाणामङ्गनानां स्तनतटयोः आश्लेषि कुचकुम्भयोरालिङ्गितम् । किंलक्षणयोः स्तनतटयोः अभिनवयौवनोष्मभाजोः नवयौवनोत्य- .. (१) भूषणः । (२)स्रजो निरस्ताः ।

सर्गः ] शिशुपालवधे। ३०७ बाष्पधारिणोः, किंलक्षणेन नवांशुकेन बलवत् गाढं यथा भवति तथा शीताति शीत- व्यथामुपेयुषेव प्राप्तवतेव, कस्मात् नीरैः आसेकात् उदकैः स्नपनात्, अपरं किंलक्षणेन नवांशुकेन शिशिरसमीरकम्पितेन शीतलवाताऽऽन्दोलितेन । अन्योऽपि शीतार्तः शिशिर- समीरणेन कम्पितः सन् गाढोष्मयुक्त स्थानमाश्रयतीत्युक्तिः ॥ ६२ ॥ शीतार्तिमिति ॥ नीरस्तोयैरासेकादामेचनाच्छीताति शीतव्यथा बलवत्सुष्ठु उपयुषेव प्राप्तवतेवेत्युत्प्रेक्षा। अत एव शिशिरसमीरकम्पितेन शीतवातवेपितेन नवांशुकेन का अभिनयो यो यौवनोष्मा उष्णत्वं तदाजोः रामाणां स्तनतटयोराधारयोराग्लेषि आश्लिष्टं संसक्तम् । भावे लुङ् । सेकहेतुकस्यांशुकवलेषस्य शीतार्ति- हेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूत्प्रेक्षा ॥ ६२ ॥ श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यं तनुमदिवाऽम्बु पाससोऽन्तः॥ उत्तेरे तरलतरङ्गरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ।। ६३ ।। श्च्योतद्भिरिति ॥ अथानन्तरं प्रियासमूहैः अग्नावृन्दै सरसः तडागात् उत्तरे उत्ती- र्णम् । किलक्षणैः प्रियासमूहः तरलतरङ्गरणालीलानिष्णातैः चञ्चलकल्लोलरतिषु लीला- प्रवीणैः, तरलाश्चञ्चलाः ये तरङ्गाः कल्लोलाः तत्र यो रङ्गो रतिः तत्र लीला विलासः तत्र निष्णातास्तैः । जलकेलिकुशलैरित्यर्थः । अपरं किंलक्षणैः वाससोऽन्तैः उपलक्षितैः वस्त्र- स्यान्तैः प्रान्तैर्वाससोऽन्तः, किं कुर्वद्भिः अम्बु पानीयं श्च्योतद्भिः मुञ्चद्भिः, किलक्षणमम्बु अङ्गसङ्गात्समधिकम् आत्तं शरीरसम्पर्कात् वस्त्रैः प्रचुरं गृहीतम् । उत्प्रेक्षते- तनुमत् मूर्तिमत् लावण्यं सौन्दर्यमिव जलं गलद्भिः ॥ ६३ ॥ इत्थमासां जलक्रीडामुक्त्वा जलादुत्तरणं वर्णयति- च्योतद्धिरिति ॥ अथ जलक्रीडानन्तरमङ्गसङ्गादात्रसम्पर्कादात्तमुपानम् । संसमिति यावत् । समधिकमतिरिकं तनुमन्मूर्तिमत् लावण्यमिव । कान्तिसारमिवेत्युत्प्रेक्षा । अम्बु रच्योतद्भिः क्षरद्भिः । भौवादिकत्वाल्लघूपधगुणः। तरलाश्चपलास्तरङ्ग एवं रङ्गा नृत्यस्थानानि तेषु लीलाः नर्तितानि तासु निष्णातैः कुशलैः । 'निनदीभ्यां स्नातेः कोशले' इति षत्वम् । वासमोऽन्तर्वमस्याञ्चलरुपलक्षितः प्रियासमूहै: मीसङ्घः सरमो ह्रदादुत्तेरे उत्तीर्णम् । निर्गतमित्यर्थः । तरतर्भावे लिट् ॥ ६३ ॥ दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् ॥ उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीमस्मार्षीजलनिधिमन्थनस्य शौरिः ॥६॥ दिव्यानामपीति ॥ शौरिः श्रीकृष्णः जलनिधिमन्थनस्य अस्मार्षीत् समुद्रमथनं सस्मार । किं कृत्वा पुरस्तात् अग्रे अम्भस्तः उदकात् काञ्चिदङ्गानामुत्तरन्तीमुवीक्ष्य जला- निर्गच्छन्ती दृष्ट्वा, किंलक्षणां स्त्रियं स्फुरदरविन्दचारुहस्ताम् उल्लसत्कमलरम्यहस्ताम् । करेण कमलं धूनयन्तीमित्यर्थः । स्फुरदरविन्दाभ्यां चारू हस्तौ यस्याः सा तथा ताम् । अपरं किलक्षणां स्त्रियम् , उत्प्रेक्ष्यते-श्रियमिव लक्ष्मोमिव । पुरा श्रारपि पद्महस्ता सती समुद्रोदकादवतीर्णाऽभूत् । अत एव जलनिधिमन्थनस्य सस्मार । किलक्षणां श्रियं दिव्या- नामपि देवानामपि कृतविस्मयामुत्पादितमहाश्चर्याम् । स्त्री चाऽप्येवंभूता। स्मृत्यर्थात् कर्मणि षष्ठी ॥ ६४॥ दिव्यानामपीति ॥ दिवि भवा दिव्यास्तेषामपि कृतविस्मया सौन्दर्यातिरेकेण जनिताद्भुतरसा स्फुर- दरविन्दाभ्यो चारू हस्तौ यस्यास्ताम् । पद्महस्तामित्यर्थः। पुरस्तादग्रतः अम्भस्तो जलात् । पञ्चम्या- स्तमिल । उत्तरही निष्कामन्ती काञ्चिरितयं मध्यमानान्समुद्रान्सयः प्रादुर्भवन्तीं प्रियमिव लक्ष्मीमियोडीक्ष्य ३०८ सन्देहविपौषधिसर्वकापायुते- [अष्टमः- . जलनिधिमन्थनस्य । समुद्रमन्थनमित्यर्थः । मन्यौपादिकस्यदित्वान्नुमागमः। 'अधीगर्थ-'इत्यादिना कर्मणि षष्ठी । अस्माषत स्मृतवान् । अत्र समुद्रमन्थनस्मारिकया श्रियमिवेत्युपमया सादृश्याच्छी: स्मृतेति स्मरणा- लङ्कारप्रतीतेरलद्वारध्वनिः ॥ ६ ॥ श्लक्ष्णं यत्परिहितमेतयोः किलाऽन्तर्धानाथं तदुदकसेकसक्तमूरू(१) ॥ नारीणां विमलतरौ समुल्लसन्त्या भासाऽन्तर्दधतुरुरू दुकूलमेव ॥ १५ ॥ श्लदणमिति ॥ नारीणामङ्गनानामूरु जघने, किलेत्यलीके, तद् दुकूलमेव पट्दुकूलमेव अन्तर्दधतुः आच्छादयामासतुः । किंलक्षणौ अरू उरू विशालौ विस्तीर्णी, अपरं कि- लक्षणौ उरू विमलतरौ अतिनिर्मलतरौ, कया अन्तर्दधतुः समुल्लसन्त्या देदीप्यमानया भासा कान्त्या, तत् किं यद् दुकूलमेतयोरुयोः अन्तर्धानार्थ परिहितं प्रावृतं, किंलक्षणं दुकूलं श्लक्ष सूक्ष्मतन्तु, अपरं किंलक्षणं दुकूलम् उदकसेकसक्त जलसेचनाल्लग्नमुरुभ्यां सह लानम् । अत एव उरुभासा दुकूलावयव आच्छादितः । केवलमूहकान्तिरेव दृष्टा न तु दुकूल, तत् ज्ञायते-ऊरुभ्यां संवृत्तं स्वच्छत्वादिति भावः ॥ ६६ ॥ श्लक्ष्णामिति ॥ एतयोोरन्तर्धानार्थ किल छादनार्थ इलक्ष्र्ण स्निग्धं यद् दुकूल परिहितमाच्छादित- मुदकसेकेन संसक संमृष्ट, तत दुकूलं कर्म विमलतरौ नारीणामुरू पीवरावुरू एव की। समुल सन्त्या भाता स्फुरन्त्या निजकान्न्यान्तदर्धतुश्छादितवन्तौ । तदेतद् भूषणमिति भावः । अत्र दुकूलस्योरुच्छादकत्वेऽपि तद- भावोकेरसम्बन्धेऽपि सम्बन्धरूपातिशयोक्तिः । तदपेक्षया चोर्योर्दुकूलाऽनाच्छादकयोराच्छादक-धोने रसम्बन्धे सम्बन्धरूपातिशयोक्त्यनुप्राणितनि सजातीयसदूरः । तदनुप्राणितश्च विषमालङ्कार इति विजातायसङ्करः। तेन चोर्योलोकोत्तरं लावण्य व्यज्यत इत्यलद्वारेण वस्तुध्वनिः ॥ ६५ ॥ वासांसि न्यवसत यानि योषितस्ताः शुभ्राऽभ्रद्युतिभिरहासि तैर्मुदेव ॥ अत्याक्षुः प्लघन(२)गलजलानि यानि स्थूलाऽश्रुतिभिररोदि तैःशुचेव॥६६॥ वासांसीतिताः योषितः अङ्गाना यानि वासांसि वस्त्राणि न्यवसत परिदधुः तैर्वासो- भिः अहासि हसितम् । किलक्षणैर्वासोभिः शुभ्राऽभ्रद्युतिभिः धवलमेघप्रभैः, शुभ्राऽभ्राणां श्वेतजलदानां द्युतिरिव द्युतियेषां तानि तैः । हास्यमपि उज्ज्वलं भवति । कया अहासि उत्प्रेक्षते-मुदेव हर्षेणेव । यतो नारीभिरङ्गीकृतानि, अतो धन्यमात्मानं मत्वा हसितमिति भावः । अपरं ता एवाङ्गना यानि वासांसि अत्याक्षुः परितत्यजुः, तैर्वासोभिः अरोदि रुदि- तम्। काभिः स्थूलाऽश्रुतिभिः बृहदश्रुपातैः, स्थूलानामश्रूणां बाष्पाणां नुतयः प्रवाहास्तैः। कया अरोदि, उत्प्रेक्ष्यते-शुचेव शोकेनेव । यतः परित्यक्तानि, अत एव सशोकानीत्यर्थः । नन्वचेतनेषु वस्त्रेषु कथमश्रुपातो घटते, यतः किंलक्षणानि वासांसि प्लवनगलज्जलानि प्लवनेन स्नानेन गलजलं येभ्यस्तानि । स्नानवशात् जलमोक्षं कुर्वद्भिरित्यर्थः ॥ ६६ ॥ वासांसीति ॥ ताः योषितो यानि वासासि न्यबसत निवमितवत्यः । 'वस आच्छादने' इति धातोः कतरि लङ् । शुभ्राऽभ्राणां युतिरिव द्युतिर्येषां तैर्वासोभिर्मुदा नारीनिवसनाऽऽनन्देन अहासीव हसितमिव । भावे लुङ् । स्नपनेन गलज्जलानि स्त्रवत्तोयानि यानि वासासि अत्याक्षुस्त्यक्तवत्यः, तैः शुचा स्थूला अश्रुनति- र्येषां तैः अरोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलनक्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः महरः ॥ १६ ॥ आर्द्रत्वादतिशयिनीमुपेयिवद्भिः संसति भृशमपि भूरिशोऽषधूतैः ॥ अङ्गेभ्यः कथमपि वामलोचनानां विश्लेशो बत! नवरक्तकैः प्रपेदे ॥६७ ॥ (१) मूर्यो। (२) स्नपन। ।

सर्गः ।] शिशुपालवधे । ३०४ . प्रार्द्रत्वादिति ॥ नवरक्तकैः नूतनरञ्जितैः वस्त्रैः खलु निश्चितं वामलोचनानां मनो- हरनयनानां स्त्रीणामड्गेभ्यस्तनुभ्यः कथमपि महता कष्टेन विश्लेषः प्रपेदे वियोगः प्राप्तः । किं कुर्वद्भिः नवरक्तकैः अतिशयिनी सातिशयां संसक्तिमुपेयिवद्भिः प्राप्तवद्भिः, कस्मात् आर्द्रत्वात् सजलत्वात, अपरं किंलक्षणैः वस्त्रैः भूरिशः अनेकवेलं भृशमत्यर्थमवधूतैरपि त्यक्तैरपि, परं न विश्लेषः प्राप्तः । अन्योऽपि यः किल आदी भवति स च भृशमव- धूतोऽपि अधिकामासक्तिमुपेत्य वियोगं न प्राप्नोति ॥ ६७ ॥ आर्द्रत्वादिति ॥ आइत्याज्जलेन प्रेम्णा च सरसत्वादतिशयिनीमतिशयवतीं संसकि संश्लेषं परि. चयं चोपोयवद्भिः प्राप्तवद्भिः अत एव भृशं भूरिशो बहुशोऽवधूतैनिरस्तैरपि, अन्यत्र निष्कासितैरपि नवरक्तै- रेव नवरत्नकैः नूतनरक्तवस्त्रैः नवानुरागिभिश्च वामलोचनाना सुदृशामड्रेभ्यो विश्लेषः बत खेदे कथमपि प्रपेदे प्राप्तः । एकत्रातिश्लेषादन्यत्रातिपरिचयाचेति भावः । अत्यामकाः कामिनो धनपरायणाभिर्वेश्याभि- रवधूताः कथञ्चिन्मुञ्चन्तीत्यर्थान्तरप्रतीतिः । इह विशेष्यस्थापि श्लिष्टत्वाच्छन्दशक्तिमूलो ध्वनिरेव ॥ ६ ॥ प्रत्यंसं विलुलितमूर्धजा चिराय स्नानाद्र वपुरुदवापयत् किलैका ॥ नाऽजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरा पुनस्तत् ॥६॥ प्रत्यंसमिति ॥ एका काचिदङ्गाना चिराय चिरकालं यावत् स्नानाई स्नपनक्लिन्नं वपुः शरीरम् उदवापयत् उद्वापयति स्म । किंलक्षणा सा प्रत्यंसं विलुलितमूर्धजा अंसौ प्रति प्रत्यंसं विलुलिता विक्षिप्ता मूर्धजाः केशा यया सा स्कन्धयोरुपरि विकीर्णकेशा, अपरं तद्वपुः पुनर्भूयोऽपि स्वेदाम्बुद्भवमभवत्तरां प्रस्वेदजलव्याप्तमतिशयेन अभवत् । अभव- त्तराम् अतिशयेन बभूव । इति न अजानात् न अज्ञासीत् , स्वेदक्लिन्नं न विवेद, किं कृत्वा अन्तिके समीपे अभिमतं कान्तमभिवीक्ष्य दृष्ट्वा । सात्त्विकभावात 'स्तम्भः स्वेदोऽथ रोमाञ्च' इत्यादिना चित्तस्य तद्तत्वं कथितम् ॥ ६८ ॥ प्रत्यंसमिति ॥ एका सी प्रत्यंसमसयोः । विभक्त्यर्थेऽव्ययीभावः । विलुलितमूर्धजा विकीर्णकेशा सती स्नानां वपुः चिराय चिरमुदगपयनिरवापयत् । अशोषयदिति यावत् । वयतेय॑न्ताल्लङ् । 'अर्ति ही-' इत्यादिना पुगागमः । किल खलु, पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्खेदाम्बुनो द्रवम् । व. शब्दः शुक्लादिवद् गुणे पुसि, गुणिनि भेयलिङ्गः । 'आपो द्रवाः सर्वाणि द्रवाणि तूदङ्मुखेन जुहोति' इत्यादि- प्रयोगात् । अभवत्नराम् । अतिशयेनाऽभवदित्यर्थः । तिङश्च' इति तरप 'किमेतिङ्-' इत्यादिना तिङन्तादामु- प्रत्ययः । तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वम् । नाऽजानात् । वाक्यार्थः कर्म । तद् द्रवभवनं नाऽज्ञासीदित्यर्थः। अविरतस्नेहातामजानती स्नानामेवोति मन्यमाना पुनःपुनर्वपुरुद्वापन्त्येवाऽऽस्तेति तात्पर्यार्थः । अत्र वपु. मत्कर्तृकस्य वीक्षणस्य वपुष्यपचारात् द्रवणक्रियायाः समानकर्तृकत्वात्पूर्वकालतानिर्वाहः । एषा च गर्यो- सुक्यादिसञ्चारिसङ्कीर्णस्वदरोमाञ्चादिसात्त्विकसम्पन्ना स्मितायनुभाववती चेत्यनुसन्धेयम् । अत्रोद्वापनरूप- कारणे सति द्रवत्वनिवृत्तिरूपकार्याऽनुत्पत्तेस्तद्विरुद्धद्रवत्वमुखेनाऽभिधानाद्विशेषोक्किरलङ्कारः । 'तनसामग्या- मनुत्पत्तिविशेषोक्तिर्निगद्यते' इति लक्षणात् ॥ ६८ ॥ सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा ॥ भर्नाऽा मुहुरभिलष्यता निदध्ये नैवाऽहो ! विरमति कौतुकं प्रियेभ्यः६९ सीमन्तमिति ॥ भी वल्लभेन काचिदङ्गना मुहुर्वारंवारं निदध्ये विलोकिता। किं कुर्वता भी अभिलष्यता साभिलाषेण, अभिलष्यतीति अभिलष्यन् तेन, अङ्गाना किं कुर्वती कराभ्यां पाणिभ्यां निजमात्मीयं सीमन्तं केशपाशमनुबध्नती परिवेष्टयन्ती । 'सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिरिति हलायुधः । किंलक्षणा अङ्गना ३१० सन्देहविषौषधिसर्वकषायुते- [अष्टमः- . आलक्ष्यस्तनतटबाहुमूलभागा दृश्यमानकुचस्थलकक्षान्तप्रदेशा, अत एव निरीक्षिता । अहो इत्याश्चयें, प्रियेभ्यः कान्तेभ्यः सकाशात कौतुकं न विरमति कौतूहलं विश्रान्ति नैव भजते । नवां नवां प्रीति करोतीत्यर्थः ॥ ६९ ॥ सीमन्तमिति ॥ निजमात्मीय सीमन्तं मूर्धजमध्यपद्धतिम् । 'सीमन्तममियां मीणा केशमध्ये तु पद्धतिः' इति वैजयन्ती । कराभ्यामनुबध्नती गृह्णन्ती । विभजन्तीत्यर्थः। अत एव आ समन्तात् लक्ष्या विभाज्याः स्तनतटे बाहुमूले च तेषां भागाः प्रदेशा यस्याः सा अन्या मी आभलभ्यताभिलपता । 'वा भ्राश-' इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । भी मुहुर्निदध्ये ध्याता। ता निरीक्ष्येत्यर्थः । 'निवर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अहो आश्चर्य, कौतुकमाभलाषः प्रीणन्तीति प्रिया: विषयाः । 'इगुपधज्ञाप्रीकिरः क' इति कः । तेभ्यो न विरमति, उपभोगेपि न निवर्तत इत्याश्चर्यम् । 'न जातु कामः कामानामुपभोगेन शाम्यति' इति भावः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानाम्' इति पञ्चमी । व्यापरिभ्यो रमः' इति परस्मैपदम् । अर्थान्तरन्यासः ॥ ६९ ।। स्वच्छाम्भःस्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् ॥ वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः॥७॥ स्वच्छाम्भः इति ॥ विलासिनीनामङ्गनानाम् इति इयान् आकल्पः अस्तु एतावान् ईदृशो वक्ष्यमाणो वेषो भूवतु, पुनः यदि चत् कुसुमेषुणा कामेन न शून्यः काम- युक्तः । तदा वेषो भवत्वित्यर्थः । तावत् किं किं-स्वच्छाम्भःस्नपनविधौतम् अङ्गमस्तु निर्मलपयःस्नानक्षालितं शरीरं भवतु । अपरम् ओष्टः ताम्बूलद्युतिविशदः अस्तु अधरश्च नागवल्लीदलप्रभारम्यो भवतु । अपरं च वासो वस्त्रं प्रतनु सुक्ष्ममस्तु । अन्यत् विविक्त विजनमेकान्तमस्तु । इत्यादिवेषो यदि कामयुक्तस्तदा सार्थक इत्यर्थः ॥ ७० ॥ म्वच्छाम्भः इति ॥ स्वच्छेन अम्भमा म्नपनेनाऽभिषेकेण्ड विधीतं विगलितमङ्गं वपुः । ताम्बलगन्या ताम्बूलरागेण विशदः उज्ज्वल ओष्ठोऽधरः । प्रतनु मूक्ष्मं विविक्र विमलं वासच, अथ वा विविक्कमेकान्तस्थानं च । 'विविको पूतविजना' इत्यमरः। इत्येवंरूप इयानेतावानेव विलासिनीनामाकल्यो नेपथ्यमस्तु । किम यरिन्यर्थः । कुमुमेषुणा कामन शून्यो यदि न स्यात् । अन्यथा उद्विजितानामिव कनकभूषणमपि भारायन एवेति भावः । एतेन विच्छित्त्याख्य आलम्बनचेष्टाम्प उहीपनाविभाव उक्तः । 'स्तोकभूषणयोगेऽपि विच्छिनिरिति गयते' इति लक्षणात् । अत्र स्नानताम्बूलादिपदार्थान्वितविशेषणगन्या अङ्गोठादीनामाकल्पत्वप्रतिगादनार्थ- हेतुकं काव्यलिङ्गमलद्वारः ॥ २० ॥ इति धौतपुरन्धिमत्सरान् सरसि मजनेन श्रियमाप्तवतोऽतिशायिनीमविरलाऽङ्गभासः ।। अवलोक्य तदेव (१) यादवानपरवारिराशेः शिशिरेतररोचिषाऽप्यपां ततिषु मतमीषे ॥ ७१॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये जलविहारवर्णनं नामाऽष्टमः सर्गः॥८॥ इतीति ॥ शिशिरेतररोचिषाऽपि उष्णकिरणेन श्रीसूयेणापि अपरवारिराशेः पश्चिम- सागरस्य अपां ततिषु जलानां श्रेणिषु मक्तुमीषे मज्जन कर्तुमभिलेषे । कि कृत्वा, उत्प्रेक्षते-तदा तस्मिन् समये यादवान् वृष्णीन् अवलोक्येव दृष्ट्वेव, किंभूतान् यादवान् इति पूर्वोकप्रकारेण धूतपुरन्ध्रिमत्सरान् धूतः निराकृतः पुरन्ध्रीणामङ्गानानां मत्सरः (१) तदैव ।

सर्गः ।] शिशुपालवधे। ३११ अभिमानो यैस्ते तथा तान् , अपरं किंलक्षणान् यादवान् सरसि मज्जनेन तडागे स्नपनेन अतिशायिनी श्रियमतिशयवती शोभाम् अवाप्तवतः प्राप्तान् । अतीव सश्रीकानित्यर्थः । अपरं किंलक्षणान् यादवान् अविरलाङ्गभासः बहलशरीरघुतीन् ॥ ७१ ॥ इति श्रीमाघकाव्ये बृहद्वल्लभायां टीकायामष्टमः सर्गः सम्पूर्णः । अथोत्तरसर्गे सूर्यास्तमयादिवर्णनं प्रस्तौति- इतीति ॥ इतीत्थं सरासि मजनेन स्नानेन धौतपुरन्धिमत्सरान् बालितमानिनीमानान् अभीक्ष्णमतिशेतेऽति- शायिनीम् । अभीक्ष्ण्ये णिनिः। श्रियमातवतः अपमलाङ्गभासो विमलाङ्गाकान्तीन यादवानवलोक्य तदैव शिशिरे- तररोचिषा उष्णाशुनाऽप्यपरवारिराशेः पश्चिमान्धेरपा ततिषु पूरेषु मक्तुं प्रवेष्टुमी पे इष्टम् । भावे लिट् । परचेष्टासाक्षात्कारो विषयिणां तादृग्विषयाभिलाषमन्तराधत्त इति भावः । अत्र भानो: कालप्राप्तमज्जनस्य यादवमज्जनावलोकन हेतुकत्वमुत्प्रेक्ष्यते । अतिशायिनी वृत्तम् । 'ससजा भजतोऽतिशायिनी भवति गौ दिगश्वैः' इति छन्दोलक्षणात् ॥ १ ॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथमरिचिते शिशुपालवध. काव्यव्याख्याने सर्वदुषाख्येऽष्टमः सर्गः ॥ ॥ नवमः सर्गः अभितापसम्पदमथोष्णरुविनिजतेजसामसहमान इव ।। पयसि प्रपित्सुरपराम्बुनिधेधिरोदुमस्तगिरिमभ्यपतत् ॥ १ ॥ अभितापेति ॥ अथानन्तरम् उष्णरुचिः श्रीसूर्यः अस्तगिरिमभ्यपतत् अस्ताचलं ययौ । किं कर्तुम् अधिरोढुमधिरोहणाय, किंविधः अपराम्बुनिधेः पश्चिमसमुद्रस्य पयसि जले प्रपित्सुः प्रपतितुकामः प्रवेशं कर्तुमिच्छन् । पुनः किंविधः उष्णरुचिः, उत्प्रेक्ष्यते- निजतेजसामात्मातीनाम् अभितापसम्पदं प्रतापाधिक्यमसहमान इव सोढुमसमर्थ इव । तापस्फेटनार्थ समुद्रे मज्जनं कर्तुकाम इवेत्यर्थः । प्रमिताक्षरा छन्दः ॥ १ ॥ अथ सूर्यास्तमयं वर्णयति- अभितापति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसम्पदं सन्तापाऽतिरकमसहमान- इवाऽपराम्बुनिधेः पश्चिमान्धेः पयसि प्रपित्सुः पतितुमिच्छुः । पततेः सत्रन्तादुप्रत्ययः । सनि मीमा-' इत्यादिना इसादेशः, 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोप:। अस्तगिरिमस्तादिम् । अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । अधिरोढुमभ्यपतदभ्यधावत् । अत्राऽसहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रे- क्ष्यते । अस्मिन्सर्गे प्रमिताक्षरा वृत्तम् । प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ १ ॥ गतया पुरः प्रति गवाक्षमुखं दधती रतेषु(१) भृशमुत्सुकताम् ॥ मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दशा ॥२॥ गतयेति ॥ योषिदङ्गना अस्तगिरेः अस्ताचलस्य अपरं च पुनः सवितुः सूर्यस्या- अन्तरालभुवं मध्यप्रदेश मुहुर्वारंवारम् अमिमीत माति स्म । परिमाणं व्यलोकयदिति भावः। .. (१) रतेन।

३१२ सन्देहविषौषधिसर्वपायुते- [ नवमः- - कया दृशा दृष्टया, किंविधया हशा पुरोऽग्रे गवाक्षमुख प्रति गतया वातायनद्वारेषु प्रविष्टया, किंविधा योषित् रतेषु सम्भोगरसेषु भृशमतिशयेन उत्सुकता दधती औत्सुक्य विभ्रती ॥ २ ॥ गतयेति ॥ रतेन रत्यर्थे । 'प्रसितोत्सुकाभ्यो तृतीया च' इति सप्तम्यर्थे तृतीया। भृशमुत्सुकता काला- ऽक्षमत्वलक्षणमौत्सुक्यं दधती योषित् पुरोऽने गवाक्षमुखं गवाक्षहार प्रति गतयाापमृतया दृशा अस्तगिरेः सवितुश्वाऽन्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरनिमात्रमवशिष्टमित्यादिमान- करणेनाऽस्तमयं प्रतीक्षितवतीत्यर्थः । मांगे लडि 'लो' इति विर्भावः 'भृञामित्' इत्यभ्यासस्येत्वम् । एतच- अस्तमयप्रतीक्षणभ्रमादौ मुक्यानुभवान्तरोपलक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलङ्कारः ॥ २ ॥ विरलातपच्छविरनूष्म(१)वपुः परितो विपाण्डु दधदभ्रशिरः॥ अभवद्गतः परिणति शिथिलः परिमन्दसूर्यनयनो दिवसः ॥३॥ विरलातपेति ॥ दिवसः एवं विधोऽभवत् । किंलक्षणः दिवसः परणतिं गतः परिपाक प्राप्तः । अन्तायोन्मुख इति यावत् । अपरं किंविधः शिथिलः विशरितुकामः, अपरं कि- भूतः परिमन्दसूर्यनयनः निष्प्रभीभूतरविनेत्रः । रविरेव दिवसस्य नेत्रतुल्यः । अपरं किं. भूतः विरला अनिरन्तरा आतपस्य छवियत्र सः, अत एव अनूष्मवपुः जम्मरहितस्वरूपः, किं कुर्वन् अभ्रशिरः दधत् अभ्राण्येव मेघा एव शिरो मस्तकं तद्वहन्, किंभूतमभ्रशिरः परितो विपाण्डुसमन्ताद्धवलम् । अन्योऽपि यः परिणतिं गतः वृद्धावस्था प्राप्तः, सोऽप्येवं- विधो भवति । किंभूतः शिथिलः श्लथगात्रः, पुनः किंभूतः परिमन्दे स्वल्पतेजसी सूर्य- तुल्ये नयने चक्षुषी यस्य सः, अपरं किंभूतः विरला स्वल्पीभूता आतपच्छविः शौर्यवृत्ति पौरुषं यस्य सः, अपरं किंभूतः अनूष्म ऊमरहितं निरुद्यमं वपुः शरीरं यस्य सः, अभ्रवत शिरः दधत्, किंभूतं शिरः समन्ताद्विपाण्ड । पलितवदित्यर्थः ॥ ३ ॥ विरलातति ।। परिणति परिवृत्तिम् , अन्यत्र जरावस्था च गतः अत एव विरला अल्पा आनपस्य छविर्यस्य सः, अन्यत्र क्षीणप्रभः । अनुष्णवपुः, अन्यत्र श्लेष्मोदयादीषदुष्णदेहः । अलवणा यवागूरितेव- दल्पाथै नङ्गप्रयोगः । परितो विपाण्डु एकत्र शुभ्राऽभ्रपटलच्छन्त्रत्वादपरत्र पलितेश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदुद्वहन् परिमन्दं प्रशान्तम अर्थग्रहणासमर्थ च सूर्य एव नयनं यस्य स दिवस: शिथिलः शिथिनवृत्तिः, शिथिलाङ्गवाभवत् । अत्राऽभ्रशिर इत्यायवयवरूपणादिवस एव स्थविर इत्यवयविरूपकसिद्धस्तदरूपणा- देकदेशवृत्तिरूपकं श्लेषानुपाणितम् ॥ ३ ॥ अपरालशीतलतरेण शनैरनिलेन लोलितलताऽङ्गुलये ॥ निलयाय शाखिन इवाऽऽहयते ददुराकुलाः खगकुलानि गिरः॥४॥ अपराह्नति ॥ खगकुलानि पक्षिवृन्दानि शाखिने वृक्षाय आकुला अस्पष्टा गिरो ददुः वाणीर्ददति स्म । किंभूताय शाखिने, उत्प्रेक्ष्यते-निलयायाऽऽहयते इव आवासाय आह्वान कुर्वते इव । किंभूताय शाखिने शनैर्मन्दमन्दम् अनिलेन लोलिताः चालिता लता वल्लय एव अङ्गुलयः करशाखा यस्य तस्मै, किंभूतेनाऽनिलेन अपराहशीतलतरेण सन्ध्यासमयशिशिरेण । अन्योऽपि यः कमपि आकारयति सोऽपि लोलिताङ्गुलिर्भवति । सन्ध्यासमये हि पक्षिणः स्वभावेन आकुलगिरो भवन्ति । तदुपमीयते-निलयाय आका- रयते वृक्षाय प्रतिस्वरं वदन्ति स्मेत्यर्थः । आगच्छत भोः खगाः ! दुतमितिवृत्तमिह(1) इति वदन्तीति भावः ॥ ४ ॥ किं कुर्वन् (१)रनुष्ण सर्गः ।] शिशुपालवधे। अपराहति ।। अपरोऽपरभागोहोऽपराहणो दिनान्तः । 'पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे' इत्ये. कदेशिसमासः । राजाS:सखिभ्यष्टच । 'अहोऽह्न एतेभ्यः' इत्यहादेशः, 'अहोऽदन्तातू' इति णत्वम् । तस्मि- अपराहणे शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवागुलयो यस्य तस्मै, अत एव निलयाय नि- वासायाऽऽायते अगुलिसंज्ञया आह्वानं कुर्वाणायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षि- सखा आकुलास्तुमुला गिरः 'इदमागम्यत' इति प्रत्युत्तराणि ददुरि वेत्यनुषङ्गादुत्प्रेक्षा ॥ ४ ॥ उपसन्ध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः।। करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ॥ ५ ॥ उपसन्ध्यमिति ॥ तत्क्षणां तत्रावसरे अशीतरुचः सूर्यस्य करजालं किरणपटलं सानु- मतः अस्ताचलस्य शिखरेषु शृङ्गेषु आस्त तस्थौ। करसहस्र तत्र स्थितमिति भावः । क उपसन्ध्यं सन्ध्यासमये, किंभूतं करजालं तनु कृशम् । ननु यदि कृशं, तदा किमिति अस्ताचलस्य शृङ्गेषु स्थितम् । युक्तोऽयमर्थः, खलु यस्मात्कारणात् सतामुत्तमानामस्त- समयेऽपि अन्तसमयेऽपि उच्चतरं पदमुचितं योग्यम् । उन्नतमेव पदं स्थानं सन्तः प्राप्नु- वन्तीत्यर्थः ॥ ५ ॥ उपसन्ध्यमिति ॥ उपसन्ध्यं सन्ध्यायाः समापे । समीपार्थेऽव्ययीभावे नपुंसकत्वात ह्रस्वत्वम् । अशीत- रुचः उष्णांशास्तनु करजालं तत्क्षणं तस्मिन्क्षणे। तत्कालेऽपीत्यर्थः । अन्यन्तमयोगे द्वितीया । सानुमती - ऽः शिखरेष्वास्ताऽतिष्ठत् । आम : कतरि लङ् । सतामस्तसमये नाशसमयेऽप्युच्चतरमेव पदमुन्नतस्थान- मेवोचितं खलु । अर्थान्तरन्यासः ॥ ५ ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ॥ अवलम्बनाय दिनभर्तुरभून पतिष्यतः करसहस्रमपि ॥ ६ ॥ प्रतिकूलतामिति ॥ विधौ देवै प्रतिकूलतामुपगते सति वक्रीभूततां प्राप्ते सति बहुसाधनता बहुपकरणत्वं विफलत्वमेति नैप्फल्यं प्राप्नोति । यतः दिनभर्तुः सूर्यस्य पति- प्यतः अस्तं यास्यतः सतः करसहस्रमपि अवलम्बनाय नाऽभूत् । धारणार्थं न बभूव ॥६॥ प्रतिकूलतामिति ।। विधा देवे प्रतिकूलतामुपगते सति बहुमाधनता अनेकसाधनवत्ता विफलन्त्र- मेति । म हत्यपि साधनसम्पत्तिनिष्फलैवेत्यर्थः । तथा हि-पतिष्यत आसन्नपातस्य दिनभर्तुः करा अशवे हस्ताश्च । 'बलिहस्तांशवः कराः' इत्यमरः । तेषां महसमपि अवलम्बनायाऽवष्टम्भनाय नाऽभूत् । अतो देव . मेव प्रबलमिति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६ ॥ नवकुङ्कुमाऽरुणपयोधरया स्वकराऽवसक्तरुचिराम्बरया॥ अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ७॥ नवकुङ्कुमेति ॥ अतुषारकरः उप्णरश्मिः भृशमतिशयेन अन्वरज्यत् अनुरक्तो बभूव। आरक्तोऽभूदित्यर्थः । किं कृत्वा वरुणस्य दिशा पश्चिमया आशया सह अतिसक्तिमेत्य सामीप्यातिशयं प्राप्य, किंभूतया दिशा नवकुङकुमवत् नूतनघुसणवत् अरुणा आरक्ताः पयोधरा मेघाः यस्याः सा, पुनः किंभूतया स्वकराऽवसक्तं निजकरसंलग्नं रुचिरं मनोज्ञ- मम्बरमाकाशं यस्याः सा तया । अथोक्तिलेशः-अतुषारकरः अशीतलपाणिः स्मरतापोष्म- करः वारुण्या शिशिरगात्रया सह यथाऽनुरज्यति अनुरक्तो भवति । किं कृत्वा अतिसक्ति- मत्यनुरागं प्राप्य, किंभूतया खिया नवौ अभिनवौ कुङ्कुमाऽरुणौ घुसृणलिसौ पयोधरी स्तनौ यस्याः सा तया, पुनः किंभूतया स्वकराऽवसक्तं निजहस्ताकृष्ट रुचिरं मनोज्ञमम्बरं वस्त्रं यस्यास्तया। 'मोस्तनाऽब्दौ पयोधरौ', 'अम्बरं व्योम्नि वाससि' उभयत्राप्यमरः ॥ २७ शि०० ३१४ सन्देहविषौषधिसर्वकषायुते- [ नवमः- .. नवकुङ्कुमेति ॥ अतुषारकर उष्णांशुः नवकुमकुमवदरुणपयोधरया नवसम्ध्यारुणमेघया अन्यत्र नव- कुरूकुमारुणकुचया स्वकरावसकरुचिराम्बरया स्वकिरणाकान्तरुचिराकाशया, अन्यत्र स्वहस्तलग्नचारु- वमया वरुणस्य दिशा । पश्चिमदिशा महेत्यर्थः । वरुणसम्बन्धात्पराङ्गनात्वं च गम्यते । 'वृद्धो यूना-' इति सूत्राद। सहार्थाऽप्रयोगात्सहार्थानामप्रयोगेऽपि 'सहयुक्नेऽप्रधाने' इति सहार्थे तृतीया । अतिसक्रिमातसनि- कर्षमन्यासक्तिं च एत्य प्राय मृशमन्वरज्यत् लोहितो रक्कांचाऽभवत् । रञ्जेवादिकाकर्तरि लछ। 'कुषि- रजोः प्राचां श्यन् परस्मैपदं च' इति कर्मकर्तरि वा। अत्र वारुणीदिनकरादिविशेषणमहिम्नेव तयोर्जार- भावप्रतीतेः समासोक्किरलङ्कारः ॥ ॥ गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् ॥ बहलाऽनुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ८ ॥ गतवतीति ॥ दिग्वलयं दिक्चक्रवालमराजत शुशुभे । कसति दिनकरे रवौ अवनति गतवति सति नम्रीभूतत्वं प्राप्तवति सति, किंभूते दिनकरे जपाकुसुमस्तबकद्युतौ जपा. पुष्पगुच्छसमकान्तौ। रक्तवर्णे इति भावः । किंभूतं दिग्वलयम् , उत्प्रेक्ष्यते-बहला- ऽनुरागकुरुविन्ददलप्रतिबद्धमध्यमिव सान्द्रारक्तपनरागमणिखण्डखचितमध्यप्रदेशमिव, बहलो घनतरः अनुरागः रक्तता येषां तानि एवंविधानि च तानि कुरविन्ददलानि पद्मरागमणि- खण्डानि च तैः प्रतिबद्धं खचितं मध्यमन्तःप्रदेशो यस्य तत् ॥ ८ ॥ गतवतीति || जपाकुसुमस्तबकाती लोहितवणे दिनकरेऽवनतिमस्तं गतवति सति । लम्बमाने मतीत्यर्थः । दिग्वलयं दिमण्डलं कणं च वन्यते । बहलानुरागैः सान्दरागैः कुरुविन्ददलैं: पद्मराग- शकलैः प्रतिबद्धः प्रत्युप्तो मध्यो यस्य तदिवाऽराजनेत्युत्प्रेक्षा । 'कुरुविन्दस्तु मुस्तायो कुस्माषबीहिभेदयोः । इगुंद पद्मरागे च मुकुलेऽपि समीरितः' । इति विश्वः ॥८॥ द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ॥ रुरुचे विरिञ्चिनखभिन्नवृहर्जगदण्डकैकतरखण्डमिव ॥ ९ ॥ द्रुतशातकुम्भेति ॥ अंशुमतः सूर्यस्य वपुबिम्ब रुरुचे अराजत । किंभूतं वपुः द्रुत- शातकुम्भनिभं विलीनसवर्णप्रभं, किंभूनस्य अंशुमतः पयसि उदके अर्धमानवपुषः अर्ध- अडितशरीरस्य । किंभृतं वं वपुः, उत्प्रेक्षते-विरिञ्चिनखभिन्नबृहजगदण्डकैकतरखण्डमिव ग्रह्मनखविदारितविशालब्रह्माण्डकखण्डमिव । तदुक्तम्- तदण्डमभवद्धैम सहस्रांशुसमप्रभम् । तस्मादण्डाच तजातं जगत् स्थावरजङ्गमम् ॥ नशातकुम्भेति ।। दुतं ननं यच्छानकुम्भं नपनीयम् । 'तपनीयं ज्ञानकुम्भम्' इति सुवर्णपर्याये. घमरः । तेन सद नविभामिति नित्यम मामः । पयमि ममुद्रेदके अर्ध यथा तथा मग्नं वपुर्यस्य तस्यांशु- मनोऽकम्य मण्डलं विरिञ्जेब्रह्मणो नखेन विभिन्नस्य देवाधिदालतस्य बृहतो महतो जगदण्डकस्य जगदाश्रयः कोशम्य ब्रह्माण्डकस्यकतरखण्डमन्यनरदलमिव रुरुच रराज । अपमानस्य पुराणप्रसिद्धत्वादुपमालङ्कारः।। अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ॥ निरकासयद्रविमपेतवसु वियदालयादपरदिग्गणिका ॥ १० ॥ अनुरागवन्तमिति ॥ अपरदिग्गणिका पश्चिमदिग्वेश्या वियदालयात् आकाश- मन्दिरात रवि सूर्य निरकासयत् निष्कासयामास । अपरदिगेव गणिका अपरदिग्गणिका ।

सर्गः। शिशुपालवधे। ३१५ . .. वियदेव आकाशमेवाऽऽलयो गृहं तस्मात् । किंभूतं रविम् अपेतवसु नष्टकिरणम् , अपरं किंभूतम् अनुरागवन्तमपि आरक्तमपि, पुनः किंभूतं वपुर्धारयन्तं, किंभूतं वपुः लोचनयोः सुखं नयनयोः सुखकारि, अल्पतेजस्त्वात् । पुनः किंभूतं वपुः अतापकर शीतकिरणम् । अथोक्तिलेशः-यथा गणिका वेश्या अपंतवसं निर्धनपुरुषमनुरागवन्तमपि स्नेहवन्तमपि मन्दिरान्निष्कासयति । किंभूतं पुरुषं लोचनयोः सुखं सुन्दरत्वादानन्दकरं वपुः शरीरं दधतं, किंभूतं वपुः असन्तापकरमनुद्वेगजनकम् ॥ १० ॥ अनुरागवन्तमिति ॥ अपरदिक पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकरं शान्तत्वादाभिरूप्याच्च दर्शनीयं वपुर्दधतमपि इति अतापकरमनौष्ण्या- दशठत्वाच्च असन्तापकारिणं सुखस्पर्श वा तथाप्यपतवसुं नीरश्मि निधन च । 'देवभेदेनले रश्मी वसू रत्ने धने वसु' इत्यमरः । रविः सूर्यों विटश्च गम्यते। तम् , वियदाकाशमेवालयो गृहं तम्मात्रिरकासयनिष्कासित- वती । धनपरा हि वेश्याः निर्गुणमपि धनिकमासर्वस्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सय एवेति भाव: । अस्तं गतोऽ इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकत्येकदेशरूपणा- वेविटत्वरूपणावगमादेकदेशवर्ति रूपकम् । इलेषोऽपि तदुत्थापितत्वादनुराग एवानुरागो वसव एव च बसूनीति रूपकपर्यवसित एवेत्यङ्गम् ॥ १० ॥ अभितिग्मरश्मि चिरमाविषया(१)दवधानखिन्नमनिमेषतया ॥ विगलन्मधुवतकुलाऽश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ ११ ॥ अभितिग्मरश्मीति ॥ नलिनी अब्जिनी अब्जनयनं न्यमिमीलत् सरोजनेत्रं निमीलयामास । किंभूतमजनयनं विगलत् निःसरत् मधुव्रतकुलमेव भ्रमरकदम्बकमेव अश्रुजलं बाप्पोदकं यस्मात्तत् निस्सरविरफावलिबाप्पोदकं, पुनः किंभूतमब्जनयनम् अभितिग्मरश्मि श्रीसूर्यमभि लक्षीकृत्य दृष्ट्वा चिरं दीर्घकालमवधानखिन्न निरन्तरावलो- कनश्रान्तं, कया आविषयात् लोचनगोचरं यावत् अनिमेषतया निश्चलतया। अब्जनयनन यावत् श्रीसूर्योऽस्तं प्राप्तस्तावत्पभिन्याऽवलोकितः । पश्चात् पद्मनेत्रं सङ्कोच्य मूर्छिता॥११॥ अभितिग्मरश्मीति॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्त मयादनिमेषतया अपक्षम- पाततया । दलसहोच एवात्र निमेषः । अवधानेनाऽभिमुखावस्थाननिर्बन्धेन खिनमलसम् , अत एव विगल- निःसरन्मधुव्रतकुलमेवाऽश्रुजलं यस्य तदन्जमेव नयनं न्यमिमीलत् मीलयति स्म । 'भ्राजभ्रास-' इत्यादिना विकल्यादुपधाहस्वः । अत एव नाऽभ्यासदीर्घः । अनुरका हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः । अत्राऽप्यन्जनयनामेत्या यवयवरूपणादवयविनोनलिनीतिग्मरश्म्यो यकत्व- रूपकसिद्धेरेकदेशविवर्ति रूपकम् ॥ ११ ॥ अविभाव्यतारकमद्ष्टहिमधुतिविम्बमस्तमितभानु नभः ॥ विरतोग(२)तापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ १२ ॥ अविभाव्येति ॥ नभः आकाशम् अभात् विरेजे। किंभूतं नभः अविभाव्यतारक- महश्यनक्षत्रं, पुनः किंभूतं नमः अदृष्टहिमद्युतिबिम्बमनुदितचन्द्रमण्डलं, पुनः किंभूतम् अस्तमितभानु अस्तगतदिनकर, पुनः किंभूतं विस्तोरुतापं विश्रान्तगुरुनिदाघ, पुनः कि- भूतम् अतमिसमन्धकाररहितम् । युक्तोऽयमर्थः, यस्मात्कारणात् विगुणस्य निर्गुणस्य शून्याकारस्य नभसः अपदोषतैव गुणः, अपगता दोषा रात्रिर्यस्मात् सः अपदोषः तस्य (१)माविरभा०। (२) अवसन।

३१६ सन्देहविषौषधिसर्वकषायुते- [नवमः- भावोऽपदोषता गतरात्रिता एवं गुणः शोभा । सन्ध्यासमय एव शोमा भवति । अत- एव चकासे । अथ चोक्तिः यथा अन्यस्यापि विगुणस्य गुणहीनस्य पुसः अपदोषतैव निर्दोषत्वमेव गुणः । यथा निर्गुणो नरः सकलको न शोभते, तथा विगतगुणं खमपि तमसाऽऽवृतं न भातीत्यर्थः ॥ १२ ॥ अविभाव्योत ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् अदृष्टं हिमयुतेरिन्दोर्बिम्बं यस्मिस्तत् । अयाप्यनु- दितचन्दतारकमित्यर्थः । अत्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुस्मिंस्तत् । एतावता निर्गु- णत्वमुक्तम् । अथ निर्दोषत्वमाह-अवसन्नतापमास्तमयात्मशान्तसन्तापम् अतमिस्त्रमनुदितान्धकार नभोऽन्तरिक्षमभानाति स्म । भातेर्लङ् । ननु विगुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वा- दित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्याऽपदोषता निर्दोषत्वमेव गुणः । अतो गुणवत्त्वाच्छोभा युकेति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२ ॥ रुचिधानि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः ॥ ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः ॥ १३ ॥ रुचिधानीति ॥ त्विषः कान्तयः ज्वलनं विविशुः वैश्वानरं प्रविष्टाः । क सति रुचिधाम्नि श्रीसूयें भर्तरि धर्तरि परलोकमभ्युपगते सति अस्तमिते सति, किंभूताः त्विषः भृशं विमलाः अत्यर्थमुज्ज्वलाः । युक्तमेवैतत् , यतः कारणात् इतरथा अग्निप्रवेशं विना अन्यजन्मनि भवान्तरे स एव पतिः असो एवं कान्तः कथमिव सुलभः स एव कर्थ लभ्यते । यथा भृशं विमलाः स्वच्छमनसः स्त्रियः भर्तरि कान्ते परलोकमभ्युपगते सति ज्वलनं वहिं विशन्ति । किंभूते भर्तरि रुचिधाम्नि स्नेहावासे । शेषं प्रागिव व्याख्येम् । रविरस्तसमये निजाः त्विपो वह्नौ निधायाऽस्तं यातीत्यागमः । यथा-दिनान्ते निहित तेजः सवित्रेव हुताशनः ॥ १३ ॥ रुचिधाम्नीति ।। रुचिधानि तेजोनिधी सूर्ये भर्तरि पत्यो परलोकं देशान्तरमभ्युपगते मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । 'अग्नि वावादित्यः सायं प्रविशति' इति श्रुतेरिति भावः । अन्यत्र 'मृते या म्रियते पत्या मामी जया पतिव्रता' इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा जालनाप्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्जमान पतिः स एव कथं सुलभः। न कथञ्चिदित्यर्थः । 'उद्यन्तं वावादित्यमनिरनुसमारोहति' इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्निप्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ १ ॥ विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमाऽरुणताम् ॥ चिरमुज्झिताऽपि तनुरोज्झदसौ न पितृप्रसुः प्रकृतिमात्मभुवः ॥ १४ ॥ विहिताअलिरिति ॥ आत्मभुवो ब्रह्मणः असौः तनुः एषा मूर्तिः प्रकृति न औज्झत् स्वभावं न तत्याज, असौ का तनुः या पितृप्रसूः सन्ध्यालक्षणा । 'सायसन्ध्या पितृप्रसूः' इत्यमरः । पितॄन् प्रसूते सा पितृप्रसूः । किंभूता तनुः चिरमुन्मितापि चिरात् प्रभृति त्यक्तापि, परं तादृश्येवेत्यर्थः । किं कुर्वती तनुः विकसत्कुशुम्भकुठमारुणतां दधती प्रफुल्लकुम्भपुष्पारक्तत्वं धारयन्ती । ननु सन्ध्या प्रथममेव लौहित्य दधाति, ततो या हि चिरमुनिसता तत्कथमारक्तत्याह-अपरं किलक्षणा जनतया जनसमूहेन विहिता- अलिः कृताञ्जलिः । रक्तपुष्पाऽर्ध्यप्रदानेन समन्तादारक्तेति भावः ॥ १४ ॥ अथ सन्ध्याप्रादुर्भावमाह- विहिताननिरिति । जनतया जनसमूहेन । 'प्रामजन-' इत्यादिना समूहार्थे तलपत्यय: । विहिता- .. . ॥

सर्गः।] शिशुपालवधे। ३१७ . बालिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमवदरुणतो दधती राजसत्वादिति भावः। तदुक्तं 'सर्गाय रकं रजसोपबृंहितम्' इति । प्रसूत इति पसूर्माता'-'जनयित्री प्रसूतिः' इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं सन्ध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुभृतिविरमुज्झिता त्यक्ताऽपि प्रकृति स्वभावम् । जगदन्यत्वादि- निजधर्ममित्यर्थः। नौज्झत न विससर्ज । उज्झ विसर्गे, लङ् । 'आडजादीनाम्' इत्याडागमः 'आटश्च' इति वृद्धिः । भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः । पितामहः पितॄन मृष्ट्वा मूर्ति तामुन्ससर्ज ह । सा प्रातः सायमागत्य सन्ध्यारूपेण पूज्यते' ॥ इत्यादि भविष्यपुराणमत्र प्रमाणम् । अत्र तनुत्यागरूपकारणसदावेऽपि प्रकृतित्यागरूपकार्यानुदया . विशेषोक्तिरलङ्कारः । 'तत्सामग्यामनुत्पनिर्विशेषोक्किार्नेगयते' इति लक्षणात् ॥ १५ ॥ अथ सान्द्रसान्ध्यकिरणाऽरुणितं हरिहेतिहूति मिथुनं पततोः ॥ पृथगुत्पपात विरहार्तिदलद्धृदयस्नुताऽसृगनुलिप्तमिव ॥ १५ ॥ अथेति ॥ अथानन्तरं पततोमिथुनं पक्षिणोर्युगलं पृथुगुत्पपात भिन्नमुड्डीनम् । वियोगं प्रातमित्यर्थः । किंभूतं मिथुनं हरिहेतिहूति हरेः कृष्णस्य हेतिरायुधं चक्रं तस्य हूतिर्नाम यस्य तत् । चक्रवाकसंज्ञकमित्यर्थः । किंभूतं मिथुनं सान्द्रसान्ध्यकिरणाऽरुणितं बहलसन्ध्या- कालीनमयूखारक्तीकृतम् । पुनः किंभूतं मिथुनम्, उत्प्रेक्ष्यते-विरहार्तिदलदूहृदयसुताऽमृग- नुलिप्तमिव वियोगव्यथास्फुटन्मानसनिःसृतरक्तविलेपितमिव, विरहाा वियोगव्यथया दलत् द्विधाभवत् यत् हृदयं मानसं तस्मात् नुतं निःसृतं यदसृक् रुधिरं तेनाऽनुलिप्तमिव ॥१५॥ अथेति ॥ अथ सन्ध्योदयानन्तरं सान्द्रा ये सन्ध्यायां भवा: । 'सन्धिवेलायतुनक्षत्रेभ्योऽ' इत्यण प्रत्ययः । तैः किरणैररुणितमरुणीकृतमत एव विरहाा विरहवेदनया दलतो दीर्यमाणात् हृदयात् उतेन क्षरितेनाऽमृजा रुधिरेणानुलिप्तमिव स्थितामत्युत्प्रेक्षा । हरेविष्णोतिरायुधम् । चक्रमित्यर्थः । 'हेतिः शम तु नृषियोः' इति केशवः । हरि हतेईतिरिव हूतिराहा यस्य तत् हरि हतिहूति । चक्राहामत्यर्थः । पततो पत्रिणोः । 'पतत्रिपत्रिपतगपतत्पत्ररथाऽण्डजाः' इत्यमरः । मिथुनम् । चक्रवाकद्वन्द्वमित्यर्थः। पृथक् भेदे- नोत्पपात उदडीयत ॥ १५ ॥ निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।। दिवसात्ययात्तदपि(१) मुक्तमहो! चपला जनं प्रति न चोद्यमदः ॥१६॥ निलय इति ॥ यदेव जलजन्म कमलम् इति प्रथितमित्यमुना प्रकारेण विख्या- तम् । इतीति कि-यत्, एतत् जलजन्म सततं श्रियः निलयः सदैव लक्ष्म्या निवासः । अहो इति आश्चर्ये, तया लक्ष्म्या तदपि मुक्त कमलमपि त्यक्त, कस्मात् दिवसात्ययात् दिनाभावात् । एतेन श्रीः चपला एव, अद एतत् जनं प्रति च न उद्यं न वाच्यम् । अहो इत्याश्चयें । जलजमपि त्यक्तं दिनाभावात् , श्रीः चपला नैव भवति ॥ १६ ॥ निलय इति ॥ यदेव जले जन्म यस्य तजलजन्म जलजमतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम । 'निकाय्यनिलयालयाः' इत्यमरः । तदपि। नित्यवासभूतमपीत्यर्थः। तया प्रिया दिव. साम्त्यये सायंकाले मुकम् । अहो ! देवानामपि कृतमत्वं, यदापदि महोपकारिणत्याग इत्याश्चर्यम् । अथवा चपला चाप लवती मी, कमला च । 'चपला कमलाविद्युत्पुंश्लीपिप्पलीषु च' इति विश्वः । सेव जन- अपलाजनः । 'जाते' इति 'संज्ञापूरण्योश्च' इति चोभयत्रापि पुंवद्भावप्रतिषेधः। तं प्रति । तस्मिन्नित्यर्थः । (१) ०त्यये तदपि । मनिनाथीयव्याख्यापुस्तकेषु प्रचलितो 'दिवसात्यया'दिति पञ्चम्यन्तः पाठो- ऽर्थानुसन्धानेन प्रकृतार्थप्रतिकूल: प्रतिभाति । - .

३१८ सन्देहविषापाधिसर्वपायुते- [ नवमः- - अद इदं कृतघ्नत्वं चौद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नायमेतदिति भावः । श्लेषमूलातिशयो- क्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥१६॥ दिवसोऽनुमित्रमगमद्विलयं किमिवा(१)ऽऽस्यते बत! मयाऽबलया ॥ रुचिभर्तुरस्य विरहाधिगमादिति सन्ध्ययाऽपि सपदि न्यशमि(२ ) ॥१७॥ दिवस इति ॥ सन्ध्ययाऽपि सपदि शीघ्रम् इति हेतोः न्यशमि शान्तम् । इतीति कस्मात्-अस्य रुचिभर्तुः श्रीसूर्यस्य विरहाधिगमात् वियोगलाभात् दिवसः वासाः अनुमित्र मित्रं श्रीसूर्यमनु पश्चात् विलयं नाशमगमत् । दिवसः सूर्येण सह क्षयमगच्छत् । बत इति खेदे, मया अबलया स्त्रिया किमिव आस्यते कथमिव स्थीयते । 'मित्र आदित्य उच्यते । दिवसे मित्रमनुगते यद्यहं तिष्ठामि तदिदमनुचितमेवेति विचार्य सन्ध्ययापिक्षोणमिति भावः॥ दिवस इति ॥ दिवसो वासर. । पुमानिति भावः । मित्रं सूर्य, सुहृदं चाऽनु । मित्रेण महेत्यर्थः । 'तृतीया' इत्यनोः कर्मप्रवचनीयत्वाद् द्वितीया। मित्रं सुहृदि मित्रोऽर्के' इति विश्वः। विलयं नाशमगमगतः । गमे डि 'पुषादि-' इति च्लेरमादेशः। अबलया स्त्रिया मया रुचिभर्तुस्तेजोनिधे: प्रेमास्पदपतेश्चाऽस्य सूर्यस्य विरहाधिगमात् । ल्यम्लोपे पञ्चमी, विरहज्ञान प्राप्येत्यर्थः । इहाऽस्मिन्लोके किमास्यते किमर्थ म्थीयते । आसेर्भाव लिट् । बतेति खेदे। इतीत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा । सन्ध्ययाऽपि सपदि व्यगमि, व्यपागामीत्यर्थः । गर्भः स्वार्थण्यन्ताद्रावे लुक मित्त्वात् हस्वः । 'अण्यन्तादुपधावृद्धिर्नाऽयं स्याद्धेतुमण्णिचि । तस्मात्स्वाय गिजुत्पाद्यो मिता द्वस्वो यतो भवेत् ॥ विगमशब्दात् 'तत्करोति-' इति ण्यन्ताल्लुङिति केचित् ॥ १० ॥ पतिते पतङ्गमृगराजि निजप्रतिविम्बरोषित इवाऽम्बुनिधिम्(३) ॥ अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ १८ ॥ पतिते इति ॥ अथानन्तरं तमांसि अन्धकाराणि जगद् विश्वं परितः सर्वासु दिक्षु परितस्तरिरे आच्छादयामासुः । किलक्षणानि तमांसि नागयूथमलिनानि गजवृन्दमलीम- सानि, क सति पतङ्गः श्रीरविरेव मृगरा सिंहः तस्मिन् पतङ्गमृगराजि (४)। किंभूते सूर्य- सिंहे, उत्प्रेक्ष्यते-निजप्रतिबिम्बरोषिते इवनिजप्रतिबिम्बाय रोपितः तस्मिन् स्वकीयप्रति- बिम्बकुपिते इव । यथा सिंहे स्वप्रतिबिम्बकुपिते कापि जलाधारे पतिते सति मलिनानि कृष्णानि नागयूथानि जगत्समन्तादाच्छादयन्तीत्युक्तिलेशः ॥ १८ ॥ अथाऽन्धकारं वर्णयति- पतिते इति ।। पतङ्गोऽर्क एव मृगराट् सिंह इनि रूपकसमासः । तस्मिनिर्जन प्रतिबिम्बेन रोषिते कोपिन इवेत्युत्प्रेक्षा । स्वप्रतिबिम्बे प्रतिसिंहभ्रमादिति भावः । अत एवाम्बुनिधी पतिते सति । तजिE- सयेति भावः । भावलक्षणसप्तमी । अथाऽप्सु पतनाऽनन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । 'उपमानानि सामान्यवचनैः' इति समासः। तमांसि जगहोकं परितः परितस्तरिर आच्छादयामासुः । म्तृणातेः कर्तरि लिट् । भृतश्च संयोगादेर्गुणः । अत्र यद्यपि नागपूयमलिनानीत्युक्त्याऽनुशासनासिद्धोपमा- नुसारात्पतङ्गामृगराजीत्यत्राप्युपमितसमासाश्रयणेनापमयोचिता, तथापि तदुत्प्रेक्षायाः पतङ्गेऽसम्भवात् सिंह सम्भवाच रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेझयमुपमेति च सहूरः । तत्रोप्रेशया भ्रान्तिम- दुपमया रूपकं च व्यजत इत्यलकारेणालद्वारम्वनिरिति मवेपः ॥ १८ ॥ . (१) किमिहा। (२) व्यगमि। (५) म्बुनिधौ । (७) •म्बुनिधी। (४) अत्र स्वल्पोऽशस्शुटित इति प्रतीयते ।

सर्गः।] शिशुपालवधे। ३१६ युग्मम्- व्यसरनु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ॥ दिवसावसानपटुनस्तमसो बहिरेत्य वाऽधिक(१)मभक्त गुहाः॥१९॥ किमलम्बताऽम्बरविलग्नमधः किमवर्धनोर्ध्वमवनीतलतः॥ प्रससार(२) तिर्यगथ दिग्भ्य इति प्रचुरीभवन निरधारि तमः ॥ २० ॥ व्यसरदित्यादि । किमलम्बतेति ॥ अथानन्तरं तमः अन्धकारम् इति पूर्वो- कप्रकारेण प्रचुरीभवत् सत् बहुलीभवत् सत् न निरधार न निर्धारितं न निर्णीतम् , अर्थाज्जनेन । इतीति किम्-इदं तमः अन्धकारं किम् अम्बरविलग्नं सत् नमः- श्रितं सत् अध: पृथिव्यामलम्बत सस्त, किम् अवनीतलतः महीतलादूर्ध्वमवर्धत वृद्धि प्राप, अथ किं दिग्भ्यः सर्वाभ्यः आशाभ्यः तिर्यक् वर्क प्रससार प्रसृतम् । व्यसरदिति ॥ नु इति वितकें, इदं तमसः पटलमन्धकारनिकुरम्बं भूधरगुहा- न्तरतः पर्वतदरीमध्यात् बहिर्बाह्ये व्यसरत् विससार । वा अथ वा बहिरेत्य बाह्यप्रदेशा- दागत्य अधिक यथा भवति तथा गुहाः अभक्त बिलानि सिषेवे गुहान्तः प्रविष्टम् । किंभृतस्य तमसः दिवसावसानपटुनः दिनाभावसमर्थस्य ॥ १९-२० ॥ व्यसरदिति ॥ बहलपङ्कराचे मान्द्रकर्दमच्छवि दिवसावसाने दिनान्ते पटुनः समर्थस्य नमस: पटलं भूधरगुहानामन्तरतोऽभ्यन्तरादेत्यागन्य बहिर्गवाक्षप्रदेशे व्यसरन्नु विस्तृतं वा । बहिर्बाह्यदेशादेत्य गुहा अधिकं भृशमभक्त च भजते स्म । किं प्रविष्टं वेत्यर्थः । भजतेर्लुङि तङ् 'झलो झलि' इति सकार- दोपः । अत्र व्यापकत्वसादृश्यात्न मसोऽन्तर्बहिरपादानकत्वसन्देहात्मन्देहालङ्कारः॥ १९ ॥ किमलम्बतेति ॥ प्रचुरीभवहुलीभवत्तमः कर्तृ, किमम्बरविलग्नमाकाशस्थं मत अधो भूतलं प्रति अलम्बताऽवंसत किभिव, अवनीतलतो भूतलादूमुपरिष्टादवर्धत किम् । अथ दिग्भ्यस्तिर्यग् विससार वस्तृतमिति न निरधारि । अधोलम्बनादीनामन्यतमं नावधारितमित्यर्थः । धारयतः कर्मणि लुङ् । अप्रापि पूर्ववत्सन्देहालङ्कारः ॥ २० ॥ स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ॥ दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्म सुदृशो ददृशुः ॥ २१ ॥ स्थगिताम्बरेति ॥ सुशो नायिकाः अतः कारणात् अपूर्व रसाञ्जनं प्रेमाञ्जनं दधिरे, यतः कारणात् प्रियवेश्मवद्म भर्तृवसतिमार्ग ददृशुः । क सति तिमिरेऽन्धकारे जनस्य लोकस्य दृशं दृष्टिमन्धयति सति अन्धीकुर्वति सति, कथं परितः समन्तात्, किंभूते तिमिरे स्थगिताम्बरक्षितितले आच्छादिताकाशमहीतले । यदि नार्यों निखिलेऽपि लोके अन्धकारेण संवृते सति भर्तृमन्दिरस्य पन्थान पश्यन्ति स्म। अत एव नव्यमपूर्व किमपि स्साञ्जनं दधिरे इति भावः । अन्यस्यापि अजनविशेष रसाञ्जनं बिभ्रतो दृश: पटुतरा भवन्तीत्यर्थः । स्त्रीपक्षे रसाञ्जनं प्रेमाञ्जनम् । 'कपरीदार्विकाकाथोद्भवं तुत्थं रसा- जनामित्यमरः ॥ २१ ॥ स्थगिताम्बरोति ॥ स्थगिते तिरोहिते अम्बराक्षितितले येन तस्मिस्तिमिरे परितो जनस्य दृशमन्ध- यति अन्धा कुर्वति सति सुदृशः मियोऽपूर्व नूतनं रसाञ्जनं रसं रागमेवाञ्जन सिद्धाञ्जनं च दधिरे दधुः, अतो हेतोः प्रियवेश्भवम॑ ददृशुः । अत्र रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्ग- मलङ्कारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननादलङ्कारेणाऽलङ्कारध्वनिः ॥ २१ ॥ (१)चाधिक। (२) विससार।

३२० सन्देहविपौषधिसर्वपायुते- [ नवमः- अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ॥ सुतनाः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥ अवधायेति ॥ सान्द्रतमसन्तमसं घनतमतमःपटलं सतनो र्याः भयाय साध्वसाय नाभवत् ना बभूव । किं कृत्वा कार्यगुरुतामवधार्य प्रयोजनमहत्त्वं निश्चित्य, अपरं स्तनौ सुतनोनायिकायाः दयितोपगमे प्रियप्राप्तौ तनुरोमराजिपथवेपथवे तनुः सूक्ष्मा या रोमराजिः तनूरुहपङ्क्तिः तस्याः पन्थाः तनुरोमराजिपथः मध्यप्रदेशः तस्य वेपथुः कम्पः तस्मै न अभूताम्। कुचौ मध्यदेशभङ्गाय न जातावित्यर्थः । तनुपदार्थस्योपरि भारवत्वेन शीघ्रगमन- वेगेन भङ्गसम्भवादिति भावः । 'विष्वक् तमः सन्तमसम्' इत्यमरः ॥ २२ ॥ अवधायेति ॥ सान्द्रतमं यत्सन्तम सं व्यापकं तमः । 'विष्वक्सन्तमसम्-' इत्यमरः । 'अवसमन्धेभ्य- स्तमसः' इति समासान्तोऽच् प्रत्ययः। तत्कर्तृ सुतनीः शुभाझ्या दयितोपगमे प्रियाभिसरणे कार्यगुरुता सम्भोगकार्यस्यावश्यकत्वमवधार्य निचित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोमराजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय । 'वितोऽथुन्' इत्यथुच् प्रत्ययः । नाम्भवतामिति विपरि- मामेनाऽनुषङ्गः । कार्यासकस्य तत्रापि कामुकस्य कुनो भयं लेशगणना चति भावः । अत्र सन्तमसकुचयो: कामनिमिने भयकम्पाऽनुदये कार्यगौरवावधारणहेतुकत्वात्प्रेक्षयमनेन व्यज्यते ॥ २२ ॥ दवशेऽथ(१) भास्कररुवाऽहि न यः स तमी तमोधिरभिगम्य तताम् ॥ घुतिमाहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाध्यतः ॥ २३ ॥ ददृशे इति ॥ अथानन्तरं यो ग्रहगणः मौभादिग्रहचक्रम् अहि दिवसे भास्कर- रुचा सूर्यकान्त्या न ददृशे न दृष्टः, स ग्रहगणः ततां तमी शर्वरीमधिगम्य प्राप्य तमोभि- रन्धकारैर्युतिमग्रहीत् कान्ति जग्राह । युक्तं चैतत्, लघवः सूक्ष्माः श्रयतः प्रकीभवन्ति मलिनानामाश्रयेण प्रत्यक्षा जायन्ते । अन्येऽपि लघवः तुच्छाः मलि- नानां पापिनामाश्रयतः प्रकटीभवन्ति ॥ २३ ॥ ददृशे इति ॥ यो ग्रहगणोऽहनि सवितुस्त्विषा न ददृशे नेक्षितः स ग्रहगणस्तमोभिस्तता व्यामा नाम्यन्त्यस्यामिति तमी रात्रिम् । रजनी यामिनी तमी' इत्यमरः । अधिगम्य प्राप्य युतिमाहीत् । अहेर्लुङ ग्रहोलिटि' इति इटा दीर्घत्वेऽपि स्थानिवत्त्वेन इट्त्वारिसचो लोपे सवर्णदीर्घः । तथा हि-लघवोऽल्पाः । 'त्रिविष्टेऽल्पे लघुः' इत्यमरः । मलिनाश्रयतो निकृष्टाश्रयणात्प्रकटीभवन्ति । अर्थान्तरन्यासः ॥ २३ ॥ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपदशाः(२) ॥ समयेन तेन सुचिरं शयितप्रतिबोधितस्मर(३)मबोधिषत ॥ २४ ॥ अनुलेपनानीति ॥ तेन समयेन तस्मिन्नवसरे अबलाः अङ्गनाः एतान् पदार्थान् अबोधिषत प्रकटीचक्रुः । तावत् एतान् कान् कान्-अनुलेपनानि चन्दनानि, अबोधिषतेति सर्वत्र युज्यते । अपरं कुछमानि सुगन्धपुष्पाणि, अपरं पथिषु पदवीषु दीपदशाः प्रदीप- शिखाः। किंभूता अबलाः कृतमन्यवः विहितकोपाः, कथं यथा भवति सचिरं शयितप्रति- बोधितस्मरं यथा भवति सचिरं शयितः सन् प्रतिबोधितः जागरितः स्मरः कामो यत्र यस्या क्रियायां तथा, चिरकालसमाऽनुप्रतिबुद्धकन्दर्प यथा भवतीति । यद्वा तेन समयेन रात्रि- लक्षणेन क; एते अनुलेपनादयः पदार्थाः अबोधिषत बोधिता इति ॥ २४ ॥ श्लेषे तुच्छाश्च तुच्छाश्च मलिना- (१)ददशेऽपि। (२)दीपशिखाः। (३) चिरसुप्तमनोभवबोधनं मम ।

सर्गः1] शिशुपालवधे। अनुलेपनानीति ॥ तेन समयेन प्रदोषकालेन कर्जा अनुलेपनानि कुस्कुमचन्दनादीनि कुसुमानि माल्यादीनि तथा पतिषु कृतमन्यवः कृतकोपा अबलाः लियः तथा दीपशिखाः दीपज्वालाश्चेत्येतानि सर्वाणि चिरं सुप्तस्य पूर्व स्तब्धस्य मनोभवस्य कामस्य बोधनमुद्दीपनं यस्मिन्कर्मणि तयथा तथा। तत्पूर्वकामित्यर्थः। इतरथा अनुलेपनादिबोधकस्य वैफल्यासम्भवाचेति भावः। समं सहवाऽबोधिषत बोधितानि । बुध्यते- र्यन्तामणि लुा । अत्र गन्धमाल्यसम्पादनमीमनःप्रसाददीपशिखोत्पादनानामबोधिषतेत्येकेन श्लिष्ट- शब्देनाभिधानात श्र्लषमूलाभेदाध्यवसायरूपातिशयोक्तिरेका । तथा सुप्त मनोभवबोधनमिति क्रियाविशेषण- सामर्थ्यात्सममिति योगपद्याभिधानाच्च मनोभवबोधनया कार्यकारणभूतयोस्तद्विपर्ययरूपाऽपरा। तदुभयापेक्षया गन्धमाल्यादीनां प्रस्तुतानामवबोधनरूपैकधर्मसम्बन्धात्तुल्ययोगिताभेदश्चति सङ्करः ॥ २४ ॥ वसुधाऽन्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ॥ स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवतीम्(१) ॥ २५ ॥ वसुधान्तेति ॥ अथानन्तरं शीतरुचः चन्द्रमसः अंशुजालं किरणपटलं माधवती ककुभमैन्द्री दिशं प्राचीमाशां समस्कुरुत अलञ्चकार। मघवतः इयं माधवती ताम् । किंभूत- मंशुजालं स्फुरत् उल्लसत् देदीप्यमानम् । पुनः किंभूतम् , उत्प्रेक्ष्यते-अहिपतेः शेषनाग- स्य फणामणिसहसूरुचां दीरत्रसहस्रदीप्तीनां पटलमिव निकर इव । किंभूतं फणामणिसहसू- रुचां पटलं वसुधान्तनिःसृतं पृथिवीतलप्रसृतम् ॥ २५ ॥ अथ चन्द्रोदयवर्णनं प्रारभते- वसुधान्तेति ॥ अथ मनःप्रसादानन्तरं वसुधान्तेन भूप्रान्तेन निःमृतं बहिर्निर्गतमहिपतेः शेषस्य कणा- मणिसहस्राणां रुचा भासा पटलं स्तोम इवेत्युस्प्रेक्षा । शौतरुचश्चन्द्रस्य सम्बन्धि स्फुरदुल्लसदंशुजालं मघोन इमा माघवनी माहेन्द्रीम् । मघवा बहुलम्' इति विकल्पान्न आदेशः । ककुभ दिशं समस्कुरुताभूष. यत् । प्राच्या दिशि चन्द्रकिरणजालमलक्ष्यतेत्यर्थः । 'सम्पर्युपेभ्यः करोती भूषणे' इति सम्पूर्वस्य सुडागमः, 'अडभ्यासव्यवायजप' इति नियमात् ।। २५ ॥ विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ॥ मुखमप्रकाशदशन शनकैः सपिलासहासमिव शक्रदिशः ॥ २६ ॥ विशदप्रभेति॥ उदयाचलव्यवहितेन्दुवपुः उदयगिरिस्थगितेन्दुशरीरं विबभौ शुशुभे। किंभूतं वपुः विशदप्रभापरिगतं निर्मलरुचिव्यासम् । अपरं किलक्षणमिन्दुवपुः, उत्प्रेक्ष्यते- शक्रदिशः इन्द्रकाष्ठायाः पूर्वस्याः मुखमिव वदनमिव । किंभूतं मुखं सविलासहासं लीला- हास्यसंयुक्तं सलीलस्मेरं, कथं शनकैर्मन्दमन्दम्, अपरं किंभूतम् अप्रकाशदशनमप्रकटित- दन्तम् । इन्दुवपुषो मुखमुपमानं, घुतीनां दन्ता उपमानम् ॥ २६ ॥ विशदप्रभेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । 'उदयः पूर्वपर्वतः' इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यास्मन शक्रदिशः प्राच्या मुखमग्रभागः वकं च प्रतीयते नदभेदेनोत्प्रेक्ष्यते । अप्रकाशदशनमलक्ष्यदन्तं सविलासहास मविलासस्मितमिव शनकैर्मन्दं विबभौ ॥ २६ ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरोघजटम् ।। क्षणमभ्यपद्यत जनै मृषा गगनं गणाधिपतिमूर्तिरिति ॥ २७ ॥ कलयेति ॥ क्षणं क्षणमात्रं जनैलॊकैः इति न मृषा इति सत्यमभ्यपद्यत एतत्सत्यं मेने । इतीति किं यत्, गगनमाकाशं गणाधिपतिमूर्तिः महादेवमूर्तिः । किंभूतं गगन तुषारकिरणस्य शीतमयूखस्य चन्द्रस्य कलया प्रभया पुरोऽग्रे परिमन्दभित्रतिमिरोषजट (१) माघवनीम् । .. .

३२२ सन्देहविषौषधिसर्वपायुते [ नवमः- शनैविदीर्ण ध्वान्तवृन्दमेव जटा केसरो यस्य तत् । तमसो जटासाहश्याद् रुद्ररूप- मित्यर्थः । 'कला तु षोडशो भागः', 'कला छवी षोडशांशे ॥ २७ ॥ कलयेति ॥ पुरः प्राच्यामप्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलाक्षित परिमन्द- मल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरी- श्वरस्य । 'गणाः प्रथमसंख्यौपाः' इति वैजयन्ती । मूर्तिरिति जनैः क्षणमभ्यपद्यत । गगनमष्टानां शिव- मूर्तीनामन्यतममिति यत्नत्सत्यमभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द इति कलितोऽर्थः । रूपकालङ्कारः॥२०॥ नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजामिव । ददशे ललाटतटहारि हरेहरितो मुखस्य हिम(१)रश्मिदलम् ॥ २८ ॥ नवचन्द्रिकेति ॥ हिमरश्मिदलं ददृशे चन्द्रार्धबिम्बं दृष्टम् । किंभूतं हरेरिन्द्रस्य हरितो दिशो मुखस्य ललाटतटहारि ललाटपदृशोभि,किंभूतस्य मुखस्य नवचन्द्रिकाकुचमकीर्णतमः- कबरीभृतः नूतनताराव्यासान्धकारवेणी धारयतः । किंभूतं हिमरश्मिदलम् , उत्प्रेक्ष्यते- मलयजामिव चन्दनाऽऽलिसमिव। अन्यस्या नार्या मुखस्य वेणीदण्डस्य पुष्पव्याप्तस्य ललाट- तटशोभिचन्दनावलिसंचन्द्रार्धाकारं तिलकं शोभते इत्यर्थः। चन्द्रिका कौमुदी ज्योत्स्ना ॥२८॥ नवचन्द्रिकोति ।। नवचन्द्रिकाभिरेव कुसुमैः कीर्ण तम एव कबरी केशपाशः । 'जानपद-' इत्यादिना जीप । ता बिभर्तीति तद्भुतः हरेः शक्रस्य हरितो दिशो मुखेऽप्रभाग एव मुखं वक्त्रमिति दिलष्टरूपकम् । तस्यैव ललाटतटबद्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनाऽऽई मिव ददृशे। धावल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्यायेकदेशविवर्तिरूपकमहिम्ना हरिवधूत्वप्रतीतो तत्सहकृतम्लेषाऽवगतवक्त्राभेदाध्य- वसितमुखसम्बन्धप्रसादासादितललाटतटोपमोज्जीवनेनेन्दुदलस्याऽनुपाचनिजधावल्यगुणनिमित्तमलयजाईत्व. गुणस्वरूपोत्प्रेक्षेति मङ्करः ॥ २८ ॥ प्रथमं कलाऽभवदथाऽर्धमथो हिमदीधितिर्महदभूदुदितः ॥ दधति ध्रुवं क्रमत(२) एव न तु प्रथितौजसोऽपि सहसोपचयम् ॥ २९ ॥ प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं पूर्व कलाऽभवत् कलामात्रो बभूव, अथ पश्चात् अधं खण्डमभूत्, पुनरथो पश्चादुदितः सन्नुदयं प्राप्तः सन् महदभूत् सम्पूर्ण- बिम्ब बभूव । ध्रुवं निश्चितं, तु पुनः, प्रथितौजसोऽपि विख्याततेजसोऽपि उत्तमा अपि सहसा उपचयं न दधति सहसा वृद्धि न यान्ति, तु पुनः क्रमत एवाऽनुक्रमादेव ॥ २९ ॥ प्रथममिति ।। हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । 'कला तु षाडशो भागः' इत्यमरः । अथार्धमात्रमभवत् । अयो अनन्तरम् 'अथो अथ' इत्यमरः। उदिनः साकल्यादुस्थितः सन् अमहान् महान् सम्पद्यमानोऽभून्महदभूत् । अभूततदावे चिः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि-युतिशालिन तेजिष्ठा अपि क्रमश क्रमेणैवोपचयं वृद्धि दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसम- र्थनरूपोऽर्थान्तरन्यासः ॥ २९ ॥ उदमजि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनातिना ॥ ३० ॥ उदमजीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकस्वरश्वेतकमलभासा तुहिनातिना चन्द्रेण कैटभजितः हरेः शयनात् शयनीयात् समुद्रादुदमज्जि उन्मग्नम् । किंभूतेन चन्द्रेण उत्प्रेक्ष्यते-प्रथमप्रबुद्धनदराजसतावदनेन्दुनेव पूर्वविनिद्रोदधितनयामुखचन्द्रेणेव लक्ष्मीमुख- चन्द्रेणेव । तावनार्या भर्तुः पूर्व प्रबोद्धव्य, भर्तुः पश्चात्स्वपितव्यमिति स्थितिः ॥३०॥ (१)मुख तुहिन । (१) क्रमश 'युतिशालिनो। , सर्गः ।] शिशुपालवधे। ३२३. उदमज्जीति ।। अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकाश्रिया तुहिनातिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दु- नेवेत्युत्प्रेक्षा । कैटभजितो हरेः शयनात् । समुद्रादिन्यर्थः । उनोत्प्रेक्षासम्भावनार्थमित्थं निर्देशः । उदमज्जि उम्मग्नम् । उत्थितमित्यर्थः ॥ ३० ॥ अथ लक्ष्मणाऽनुगतकान्तवपुर्जलधि व्यतीत्य(१) शशिदाशरथिः ॥ परिवारितः परित क्षगणैस्तिमिरोघराक्षसबलं (२) बिभिदे ॥ ३१ ॥ अथेति॥ अथानन्तरं शशिदाशरथिः शशी एव दाशरथिः रामः चन्द्ररामः तिमिरौघ- राक्षसबलमन्धकारसमूहराक्षससैन्य बिभिदे विदीर्णवान् । किं कृत्वा जलधिं व्यतीत्य समुद्रमतिक्रम्य, किंभूतः शशिरामः लक्ष्मणाऽनुगतकान्तवपुः लाञ्छनेन अभिगतरम्यबिम्बः, पुनः किंभृतः शशिरामः परित सर्वासु दिक्षु ऋष्यगणैः नक्षत्रवृन्दैः परिवारितः वेष्टितः । श्रीरामोऽप्येवंविधः-नीरनिधिमवतीर्य निखिलराक्षसकुलं बिभिदे । लक्ष्मणेन भ्रात्रा अनु- प्राप्तरम्यशरीरः, ऋष्यगणैर्भल्लूकसमूहैः सुग्रीवादिभिर्वानरैः परिवारितश्च । 'चिह्न लक्ष्म च लक्षणम्', 'ऋक्षाऽच्छभल्लभल्लूकाः ॥ ३१ ॥ अथेति ॥ अथोदयानन्तरं लक्ष्मणा लक्ष्मणेन सौमित्रिणा चाऽनुगतमनुमृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेषः, वस्तुत: शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्टवदेक शब्दप्रतीतेः । परितः समन्तात् ऋक्षगणेनक्षत्रगणैः जाम्बवदादिभल्लूकसमूहेश्वेत्यर्थश्लेषः, एकनालावलम्बिफलद्वयवदखण्डक- शब्दादर्थव्यप्रतीतेः । 'नक्षत्रमृ भ नारा' इति, 'ऋक्षाच्छभल्लभल्लूका' इति चामरः । परिवारितः शश्येव दाशराधिदशरथपुत्रो रामः । अत इञ् । जलधि विलय तिमिरोघ एक राक्षसकुलं तत् बिभिदे विभेदया- मास । भिदेः कर्तरि लिट् । श्लेषमममस्तवस्तुवर्तिसावयवरूपकालङ्कारः ॥ ३१ ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ॥ घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ३२ ॥ उपजीवति स्मेति ॥ अम्भसां निधिः समुद्रः उडुपतेः चन्द्रस्य कला ज्योत्स्नाः उपजीवति स्म पिबति स्म । कस्मै उपचयाय वृद्धिप्राप्तये, किंभूतस्योडुपतेः धनवीथिवीथि- मवतीर्णवतः घनवीथी मेघमार्गः आकाशः सा एव वीथिः मार्गस्तं मेघमालामार्ग प्राप्त- वतः । अवततारेति अवतीर्णवान् तस्य । अपरं किंभूतस्योडुपतेः सततमनारतं परिमुग्धतां दधतः मनोजत्वं धारयतः, क इव वणिगिव । यथा वणिग नैगमः वीथिं हमार्गमवतीर्णस्य कस्यचिन्मुग्धस्याऽज्ञानस्य वृद्धये कला द्रव्याणि उपजीवति गृह्णाति ॥ ३२ ॥ उपजीवति स्मेति ।। अम्भसा निधिः समुद्रो वणिगिव सततं परिमुग्धता सौन्दर्यम् , अन्यत्र मोठ्यम् । व्यवहाराऽनभिज्ञनामिति यावत् । 'मुग्धः सुन्दरम्ढयोः' इति विश्वः। दधतो दधानस्य घनानां वीथिर्धनवीथिचि- रन्तरिक्षं सा वीथि: पण्यवीथिरिवत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवतः उडुपतेर्नक्षत्रनाथस्य कस्य- द्वानकवाणजश्व कलाः षोडशाशान् मूलधनवृद्धीश्च । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य-' इति विश्वः । उपचयाय स्वाऽम्बुवृद्धये समृद्धये चोपजीवति स्म सेवते स्म, अन्यत्र लभते म्मेत्यर्थः । यथा क्रियादिकुशलो धकुशलान्महान्तं लाभमानोति तद्वदिति मावः । श्लेपसङ्कीर्णेयमुपमा । उपमासङ्कीर्णः श्लेष इत्यन्ये ॥ ३२ ॥ (1) विलक्य। (२) कुलं । ..

३२४ सन्देहविषौषधिसर्वलायुते- [ नवमः- रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयवसावपि ताम् ॥ अविलम्बितक्रममहो! महतामितरेतरोपकृतिमश्चरितम् ॥ ३३ ॥ रजनीमिति ॥ शशी चन्द्रः रजनीमवाप्य प्राप्य रुचमाप कान्ति प्राप, असावपि चन्द्रोऽपि तां रात्रि सपदि व्यभूषयत् अलञ्चके । अहो इत्याश्चयें, महतामुत्तमानां चरितं चरित्रम् अविलम्बितक्रम तत्क्षणम् इतरेतरोपकृतिमद्भवति परस्परोपकारकरणयुक्तं स्यात् । सद्य एव फलति, न तु बिलम्बेन ॥ ३३ ॥ रजनीमिति ॥ शशी रजनीमवाप्य हा शोभामाप । असौ शश्यपि तो रजनी सपदि व्यभूषयत् । महतां सता चरितमवलम्बितक्रमं यथा तथा इतरतरोपकृतिमत् अन्यान्योपकारवत अहो ! इत्याविलम्बा- दोश्चर्यम् । अत्र रजनीशशिनोमिथःशोभाकरत्वादन्योन्यालङ्कारः । तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्' इति लक्षणात । तत्समर्थकश्वाऽयमर्थान्तरन्यास इत्यङ्गाङ्गिभावन सङ्करः ॥ ३३ ॥ दिवसं भृशोष्णरुचिपादहतां रुदतीमिवाऽनवरताऽलिरुतैः ॥ मुहुरामृशन् मृगधरोऽप्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ॥ ३४ ॥ दिवसमिति ॥ मृगधरश्चन्द्रः कुमुदिनीवनितां कैरविणीभार्याम् उदशिश्वसत् आश्वासयामास । किं कुर्वन् मुहुर्वारंवारमग्रकरैः किरणप्रान्तैरामृशन् स्पृशन् , किंभूतां कुमुदिनीवनितां दिवसं भृशोष्णरुचिपादहतां समग्रं दिन भृशमत्यर्थम् उष्णरुचेः सूर्यस्य पादैः किरणैः आहता उपद्रुता ताम् । अपरं किंभूताम्, उत्प्रेक्ष्यते-अनवरताऽलिरुतेः निरन्तरभ्रमरशब्दैः रुदतीमिव रोदमानामिव(?) । अन्योऽपि पुमान् केनचित्पादाहतां रुदतीं नारी करारामृशन् आश्वासयति ॥ ३४ ॥ दिवसमिति ॥ मृगधरश्चन्द्रो दिवस, दिवसे इत्यर्थः। कालावनारत्यन्तसंयोगे द्वितीया। भृशमुष्ण- रुचेरुष्णांशोः पादेन करेण अधिणा च । 'पादा रश्म्यनितु शाः' इत्यमरः । हतो ताडिताम् । अतः एव अनवरतरविच्छिन्त्रैरलिरुते रुदती क्रन्दन्तीमिव स्थितां कुमुदिन्येव वनिता ताम। अग्राणि च ते कराश्च इत्यभेदेन समास इति वामनः । तरप्रकरैरंगांशुभिरग्रहस्तर्मुहुरामृशन् स्पृशन् उदाशश्वसदुच्छ्वासयति स्म । पराऽवमृष्टानां पतिभिराश्वासनीयन्वादिति भावः । श्वसधातो: णौ चड्युपधाया ह्रस्वः । पादस्तेन हतामिति हननमाधित क्लिष्टरूपकोन्यापितेयमालरुतरिति व्यधिकरणपरिणामगर्भा रोदनोत्प्रेक्षति विजातीयसङ्करः। तथा करैरेव करेः कुमुदिनीवनि तेति श्लिष्टाऽश्लिष्टरूपणान्मृगधरे बल्लभत्वप्रतीतेकेदेश- वर्ति रूपकं, तत्सापक्षेयमुदशिश्वसदिति गम्योत्प्रक्षेत्यपरो विजातीयसङ्करः । रे दनात्प्रेक्षासापेक्षेयमुच्छ्वासनो- प्रेक्षेति सजातीसङ्करोऽपि ॥ ३४ ॥ प्रतिकामिनीति दगुशुश्चकिताः स्मरजन्मधर्मपयसेव चिताम्(१) ॥ सुदशोऽभिभर्तृ शशिरश्मिगलजलबिन्दुमिन्दुमणिदारुवधूम् ॥ ३५ ॥ प्रतिकामिनीति ॥ सुदृशो नायिकाः अभिभर्तृ कान्तसमीपे इन्दुमणिदारुव● चन्द्र- कान्तकाष्ठस्त्रियं प्रतिकामिनीति ददृशुः सपत्नीत्यद्राक्षुः, किंलक्षणामिन्दुमणिदारुबंधूं शशि- रश्मिगलजलबिन्दु चन्द्रकिरणसूवज्जललवाम् । अपर किंभूताम् , उत्प्रेक्ष्यते-स्मरजन्मधर्म- पयसा चितामिव कामतापसलिललेन व्याप्तामिव । किंभृताः सुदृशः अत एव चकिताः मभयाः, यदेपा सपत्नी कामतापजनितप्रस्वेदबिन्दुं सूवन्ती दृश्यत इति भावः ॥ ३५ ॥ प्रतिकामिनीति ।। सुशोऽङ्गानाः भाभिभर्तृ भर्तारममि । 'लक्षणनाऽभिप्रती आभिमुख्ये' इत्यव्ययी- .. अत्र पाद एवं (1) पयसोपचिताम् ।

सर्गः1] शिशुपालवधे। . भावः । शशिरश्मिाभिर्गलन्तः सवन्तो जलबिन्दवो यस्यास्ताम् इन्दुमणिश्चन्द्रकान्तशिला सैव दारु तस्य वधूस्तन्मयी वधूः सीप्रतिमा ता म्मराज्जन्म यस्य तेन स्मरजन्मना धर्मपयसा स्वेदाम्बुनोपचिता न्याताम् । वित्रगावामित्यर्थः । प्रतिकूला कामिनी प्रतिकामिनी सपत्नीति, भ्रान्त्येति शेषः । चकिता भीता ददृशुः । अत्र चन्द्रशिलापूत्रिकायां सादृश्यनिबन्धनया प्रतिकामिनीभ्रान्त्या भ्रान्तिमदलङ्कारः ॥ ३५ ॥ अमृतद्रवैर्विदधदब्जदशामपमार्गमोषधिपतिः स्म करैः ।। परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥ ३६ ॥ अमृतद्रवैरिति ॥ ओषधिपतिश्चन्द्रः अब्जदृशां कमललोचनानां वपुषोऽङ्गात् मान- विषमवतारयति स्म अभिमानकालकूटं निराकार । किं कुर्वन् अमृतवैः जलसाविभिः शीतलैः करैः किरणैः अपमार्गम् अञ्जनविधिं विदधत् कुर्वन् , किंभूतं मानविषं परितः समन्तात् विसर्पि प्रसरणशीलम् , अपरं किंभूत परितापि सन्तापकारि । अन्योऽपि ओषधि- पतिः मान्त्रिकः कराग्रैः परिमार्जयन् अङ्गाद्विषमुत्तारयतीति ॥ ३६ ॥ अमृतद्रवैरिति ॥ ओषधिपतिश्चन्द्र एवौषधिपति वैव इति श्लिष्टरूपकम् । अमृतमेवाऽमृतमौषधविशेष : तेन वरः करैः किरणरेव करैर्हस्तरब्जदृशामपमार्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विमर्पि सर्व- च्यापि भृश परितापि सन्तापकारि मानः कोप एव विषं तत वपुषः शरीरादवतारयति स्म अवारोक्तिवान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकरकरस्पर्शादेवाङ्गनाना वपुषि रोष। न स्पृष्ट इन्युपमा व्यज्यते ॥ ३६॥ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः॥ विससार सान्द्रतरमिन्दुरुचामधिकाऽवभासितदिशां निकरः ॥ ३७ ॥ अमलात्मस्विति ॥ इन्दुरुचां चन्द्रद्युतीनां निकरः समूहः सान्द्रतरं बहुलं यथा स्यात्तथा विससार प्रससार । किंभूतानामिन्दुरुचाम् अधिकाऽवभासितदृशामत्यर्थदीपित- ककुभां, किं कुर्वन् निकरः अभितः समन्तात् तरुणीकपोलफलकेषु कामिनीगण्डभित्तिषु मुहु- रिवार प्रतिफलन् प्रतिबिम्बतां प्राप्नुवन् , किंभूतेषु कपोलफलकेषु अमलात्मसु निर्मलस्वरूपेषु ॥ ३७ ॥ अमलात्मस्थिति ॥ आधिकमवभासिताः प्रकाशिता दिशो याभिस्तासामिन्दुरुचा निकरोष्मलात्ममु निर्मलमूर्तिषु तरुणीना ये कपोलाः फलकानीव तेष्वभितो मुहुः प्रतिफलन् संक्रामन् सान्द्रतरं प्रचुरतरं विस- सार । दर्पणसंक्रमणादिवेति भावः । अवेन्दुरुचा कपोलाऽसंक्रमेऽपि संक्रमोकेरसम्बन्धे सम्बन्धोक्तिरूपा- ऽतिशयोक्तिः॥३०॥ उपगूढवेलमलघूमिभुजैः सरितामचुक्षुभदधीशमपि ॥ रजनीकरः किमिव चित्रमहो ! यदि(१) रागिणां गणमनङ्गलघुम् ॥३८॥ उपगूढेति ॥ अहो इत्याश्चर्ये, इदं किमिव चित्रं किमाश्चयं यदि रजनीकरश्चन्द्रः रागिणां गणं कामिनां वृन्दमचुक्षुभत् क्षोभयामास । किंभूतं रागिणां गणम् अनङ्गलघु फन्दोऽधीरचित्तम् । यत्-सरितामधीशमपि तरङ्गिणीनां पतिं समुद्रमपि अचुक्षुभत् क्षोभ- मनयत् , किंभूतं समुद्रम् अलघूमिभुजैः कल्लोलबाहुभिः उपगूढवेलमाश्लिष्टमर्यादर । "अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ ३८ ॥ उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूमिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भामिति भावः । सरितामधशिं समुद्रमपि । स्वभावादाभ्यमपीति भावः । अचुक्षुभन्क्षोभयति स्म । क्षुभ्यतर्ण्यन्ता- (१) यदु। २८ शि०व० सन्देहविषौषधिसर्वकषायुते- [ नवमः- - - गौ चम्युपधाया हस्व: । अनड्रेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभदिन्यदः- कीमव चित्रम् । न किञ्चिादित्यर्थः । अत्राऽक्षोभ्यमधि क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोके- रपत्तिरलङ्कारः ॥ ३८ ॥ भवनोदरेषु परिमन्दतया शयितो लसरस्फटिक(१)यष्टिरुवः ॥ अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ३९ ॥ भवनोदरेग्विति ॥ मदनः कन्दर्पः इन्दुकिरणानवलम्ब्य विलग्य उदतिष्टत् उत्त. स्थौ । किंभूतानिन्दुकिरणान् जालकमुखोपगतान् जालकानां मुखेभ्य उपगतानागतान् गवाक्षविवरनिःसृतान् , अपरं किंभूतान् लसत्स्फटिकयष्टिरुचः देदीप्यमानस्फटिकमणियष्टि- कान्तीन् , किंलक्षणो मदनः परिमन्दतया परिक्षीणत्वेन भवनोदरेषु शरीराभ्यन्तरेषु शयितः सुप्तः । अन्योऽपि यः परिमन्दतया अपटुदेहतया भवनोदरेषु गृहमध्येषु शयितो भवति, स यष्टिमवलम्ब्योत्तिष्ठतीत्युक्तिलेशः। 'जालं समूह आनायगवाक्षक्षारकेष्वपि ॥३९॥ भवनोदरेष्विति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्तरेषु शयितः सुप्तोऽत एबालसो मदनो जालकमुखोपगतान् गवाक्षविवरप्रविष्टान अत एव स्फटिकयष्टीना रुगिव रुक् शोभा येषां तान स्फटिकदण्डसनिभानिन्दुकिरणानवलम्ब्याविष्टभ्योदतिष्ठदुस्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया 'उदा- ऽनूकमणि' इति परस्मैपदसिद्धिः। एतत्पदे च अभेदाभ्यवसायमूलातिशयोक्त्या स्फाटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्राऽवलम्ब्येवेत्युत्थानस्यावलम्बनहेतुकत्वोन्प्रक्षा प्रत्याय्यत इत्येतामा सङ्करः ॥ ३९ ॥ अविभावितेषुविषयः प्रथम मदनोऽपि नूनमभवत्तमसा ॥ उदिते दिशः प्रकटयत्यमुना यदधर्मधाम्नि धनुराचकृषे ॥ ४० ॥ अविभावितेष्विति ॥ नूनं निश्चितं मदनः कन्दर्पः प्रथमं पूर्व तमसा अन्धकारण अविभावितेषुविषयः अभवत् अदृष्टबाणगोचरो बभूव, यत्-अमुना मदनेन अधर्मधामिन शीतकिरणे चन्द्रे उदिते उदयं प्राप्ते सति धनुराचकृषे चापमाकृष्टं, किंभूते हिमधाम्नि दिशः प्रकटयति आशाः निर्मलीकुर्वति ॥ ४०॥ अविभावितविति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभावितोऽलशितः इषुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युत्प्रेक्षा । यत् यस्मादधर्मधाम्नि शीतकरे उदित दिशः प्रकटयति सति अमुना मदनेन धनुराचकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याऽभूदिति भावः ॥ १० ॥ अवकाशमाशु हृदये सुदशां गमिते विकासमुदयाच्छशिनः ॥ कुमुदे च पुष्पधनुषो धनुषश्चलितः शिलीमुखगणोऽलभत(२) ॥ अवकाशमिति ॥ शिलीमुखगणः बाणसमूहः पुष्पधनुपो मदनस्य धनुषः चापात कुसुमाञ्चलितः सन् सुदृशां मृगनयनानां नारीणां हृदये मनसि आशु शीघ्रम् अवकाशमवसर- मलभत प्राप, अपरं शिलीमुखगणो भ्रमरसमूहः कुमुदे पद्मेऽवकाशमलभत । किंभूते हृदये कुमुद च शशिनश्चन्द्रस्य उदयाद्विकासं गमिते निर्मलत्वं प्राप्ते उन्निद्रतां प्राप्ते च । उभयोविशेषणम् । शिलीमुखौ बाणभ्रमरौ ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ॥ द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चाऽवसरम् ॥ ४ ॥ युगपदिति ॥ शिलीमुखगणः बाणपूगः अपरं शिलीमुखगणः अलिगणः अङ्गाना- (१)ऽलसः स्फटिक । (२) मल्लिनाथव्याख्यायां श्लोकोऽयं नोपलभ्यते ।

सर्गः।] शिशुपालवधे। ३२७ .. मनसि स्त्रीचित्ते कुमुदे कैरवे च अवसरमलभत । किं कृत्वा द्रुतं शीघ्र पुष्पधनुषः कामस्य धनुषः चापात् एत्य विच्छिद्य, किंविधे मनसि कुमुदे च शशिनः चन्द्रस्य उदयात् युगपत् समकालमेव विकासं गमिते नैर्मल्यं विकासित्वं च प्राप्ते ॥ ४१ ॥ युगपदिति ।। पुष्पधनुः पुष्पधन्वा। 'वा संज्ञायाम्' इति विकल्पानाऽनङादेशः । तस्य धनुः पुष्पचाप पुष्पान्तरं च तस्माचलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखाः बाणाः अलयश्च । 'अलिबाणी शिलीमुखौ' इत्यमरः। तेषां गणः शशिन उदयादिकासम् औत्सुक्यमुन्मीलनं च युगपदेकदा गमिते प्रापिते अङ्गनाना मनास हृदये कुमुदे चाऽवसरमवकाशमाश्वासमलभत । उभयत्र प्रवेशं लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययोयोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता । एक- धर्मत्वं चात्र शिलीमुखेति श्लिष्टपदोपात्तयोरलिबाणयोरकेत्वाध्यवसायमूलातिशयोक्तिप्रसादादिति सङ्करः ।। ककुभां मुखानि सहसोज्ज्वलयन् दद(१)दाकुलत्वमधिकं रतये ॥ अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ४२ ॥ ककुभामिति ॥ अत्रिनयनप्रभवः अत्रिमुनिविलोचनोत्पन्नः इन्दुः चन्द्रः कुसुमेष पुष्प- धन्वानमदिदीपत् दीपयामास । चन्द्रः किं कुर्वन् सहसा शीघ्रं ककुभां दिशां मुखानि उज्ज्वल- यन् निर्मलीकुर्वन् , अपरं किं कुर्वन् रतये सम्भोगाय अधिकमत्यर्थमाकुलत्वमौत्सुक्यं ददत् उत्पादयन् , किंभूतः चन्द्रः अपरो दहनः द्वितीयो वह्निः अत्रिनयनप्रभवो वहिः कुमुमेधू काममदिदीपत् भस्मीचकार । असौ अत्रिनयनसमुत्थः, अपरं रतये कामभार्यायै आकुलत्वं ददत् दिशो निर्मलयंश्च ॥ ४२ ॥ ककुभामिति । ककुभा दिशा मुखाने सहसा झाटत्युज्ज्वलयन्नुद्भासयन् रतये सुरताय अधिक - माकुलन्बमान्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये कामदेव्य आकुलत्वं भयावह्वलत्वं दधत् , अत्रे- रत्रिमुने यनप्रभवः । 'आत्रनेत्रसमुद्भवः' इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपर- बिनयनप्रभवादन्यो दहनोऽग्निारन्दुः कुसुमेषु काममदिदोपदोपयात स्म । दीप्यतों चाड 'भ्राज-' इत्यादिना विकल्पात्रोपधहस्वः । अत्र प्रकृते कुसुमेषादीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्व- लनेनाभदाध्यवसायानिमित्तामन्दोदिङमुखाड़ासनादिधर्मसम्बन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगस मात दहनत्वोन्प्रेक्षा न रूपकमिति रहस्यम । चन्द्रोदयात्कामा ववृधे इति तात्यर्यम् ॥ ४२ ॥ इति निश्चितप्रियतमाऽऽगतयः सितदीधितावुदितवत्यबलाः(२) ॥ प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ॥ इतीति ॥ अबलाः नायिकाः प्रतिकर्म कर्तु प्रसाधनं विधातुमुपचक्रमिरे प्रारेभिरे । क सति सितदीधितौ चन्द्रे उदितवति उदयं कुर्वति सति, किंभूता अबलाः इति पूर्वोक्त- प्रकारेण निश्चितप्रियतमाऽऽगतयः निश्चयीकृतवल्लभागमनाः । हि युक्तं चैतत् , हि यस्मात् कारणात् समये कृतं सर्वमुपकारि भवति प्रस्तावे विहितं सर्वमुपकाराय भवति ॥ ४३ ॥ एवं चन्द्रोदयाख्यमुद्दीपनविभावनमुक्त्वा तत्फलमाह- इतीति । इत्येवं मितदीधिताबुदयवति अबला: मियो निश्चिता प्रियतमानामागतिरागमनं याभिस्ता: सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । चन्द्रोदयात प्रियागमन निश्चित्य अलहूर्तु प्रक्रान्ता इत्यर्थः। तथा हि-समये कार्यकाले कृतमनुष्ठितं सर्व कर्म उपकार्युपकारकं भवति । अन्यथा विफलमवेति भावः । अतो निश्चित्य प्रवृत्तिरामा युकेत्यर्थान्तरन्यासः ॥ १३ ॥ - . (१) दध। (२) वुदयवत्यबलाः।

३२८ सन्देहविषौषधिसर्वकषायुते- [नवमः- .. - सममेकमेव दधतुः सुतनोर्गुरु(१) हारभूषणमुरोजतटौ ॥ घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥ ४४ ॥ सममेकमेवेति ॥ सुदृशो नायिकायाः उरोजतटौ कुवतटौ समं युगपदेव एकमेव तुल्यतया धरणेन एकतममेव गुरुहारभूषणं दधतुः विशालहारालङ्करणं बभ्रतुः । हि यस्मात कारणात् निर्विवरतां निरन्तरतां बिभ्रतोः बिभ्राणयोः इदमेव एकालङ्करणमेव घटते । ऐक्यं दधानयोः पृथगलङ्करणं वस्तु न युज्यते इत्यर्थः । किंभूतां निर्विवरतां संहततया सम्मिलितत्वेन जनितामुत्पादिताम् ॥ ४४ ॥ अथ प्रसाधनमेव प्रपञ्चयति- सममेकमेवति ॥ सुतनोः स्त्रिया उरोजतटी उरु इलाध्यमेकमेव भूषणं समम् अवैषम्येण दधतुः । संहततया संश्लिष्टतया ऐकमत्येन च जनितो निर्विवरता निरन्तरालतां नीरन्ध्रत्वं च दधतारिदं सम- भागित्वमेव घटते । अन्तर्भेदाऽन्तराया हि विषयिणां विषयोपभोगाः, कुचयोस्तदभावात्समशोभार्थ हारधारणं युनामिति भावः ॥ ४४ ॥ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ॥ रशनाकलापकगुणेन वधूमकरध्वजद्विरदमाकलयत् ॥ ४५ ॥ कदलीप्रकारडेति ॥ वधूर्युवतिः महति जघनस्थलोपरिसरे विशाले श्रोणीस्थलप्रदेशे रशनाकलापगुणेन मेखलागुणरज्ज्वा मकरध्वजद्विरदं काममतङ्गाजम् आकलयत् बबन्ध । किंभूते जघनस्थलोपरिसरे कदलीप्रकाण्डरुचिरोख्तरौ रम्भास्तम्भमनोहरजङ्घापादप । अन्योऽपि मत्तो गजः क्वापि उद्यानप्रदशे कदलीकाननरम्यप्रदेशे रज्ज्वा शृङलेन बध्यते इत्युक्तिलेशः ।। ४६ ।। कदलीप्रकाण्डेति ॥ वधूः कदलीप्रकाण्डरुचिरो रम्भास्तम्भसुन्दर उरुरेव तरुवन्धनवृक्षो यस्मिन् । अत्र कदलीप्रकाण्डस्य सौन्दर्यमात्रोपमानत्वान्न बन्धनयोग्यवृक्षवाचिना तरुशब्देन पुनरुक्तिः। महति जघन- स्थल्येव परिसरः प्रदेशस्तस्मिन् रशनाकलापक एव गुणस्तन मकरध्वजो मदनः स एव द्विरदस्तमाकलयत अबध्नात् । रशनाबन्धन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । ममस्तवस्तुवर्ति सावयवरूपकम् ॥ ४५ ॥ अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि रोध्र(२)रजः ॥ नवमञ्जनं नयनपङ्कजयोबिभिदे न शङ्कनिहितात्पयसः ॥ ४६ ॥ अधरेग्विति ॥ सुदृशां मृगलोचनानां नायिकानाम् एतद्वस्तु शङ्खनिहितात्पयसः न बिभिदे शङ्खारोपितदुग्धतुल्यं जातं, न तु भिन्नम्। तावत् किं किं कुतो न भिन्नमित्याह- अधरषु अलक्तकरसः ओष्ठेषु लाक्षारसः भिन्नो नाभूत् । अपरं कपोलभुवि गण्डस्थले विशद निर्मलं रोधरजः रोध्रचूर्ण न बिभिदे । नयनपङ्कजयोः लोचनेन्दीवरयोः नवमञ्जनं नूतनं कज्जल शङ्कनिहितात्पयसः न बिभेदे । सादृश्यगुणयोगात्सदृशमेव जातं, न तु भिन्नमित्यर्थः ॥४६॥ अधरेष्विति ॥ सुदृशामधरेश्रोष्टेषु अलक्तकरसो लाक्षाद्रवः, तथा कपोलभुवि गण्डस्थले विशदं शुभ्र लांघरजः, तथा नयनपङ्कजयोनवमञ्जनं च शङ्खनिहितात्पयतः क्षीरात्र बिभिदे मित्र नाऽभूत् । कर्मकतारे लिट् । अधरादिनिहित लाक्षारागादिकं शानिहितक्षीरवत्सावादाश्रयतोऽभेदेन दुर्महमभूदित्यर्थः। अत्र यदधरालककरसादिकं तच्छानिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्यार्थसमारोपादसम्भवद्वस्तुसम्बन्धी वाक्यार्थनिष्ठो निदर्शनालद्वारः । तेनाधरालक कादीनां गुणत एकत्वरूपः सामान्यालङ्कारोगम्यते। 'सामान्य गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् ॥ १६ ॥ १ - (१) ०९रु । (२) लोध।

सर्गः।] शिशुपालवधे। ३२६ .. - स्फुरदुज्ज्वलाधरदलैर्विलसहशनांशुकेसरभरैः परितः ॥ धृतमुग्धगण्डफलकैविबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ ४७ ॥ स्फुरदिति ॥ प्रमदा अङ्गानाः विकसद्भिः हसद्भिः आल्यकमलैर्मुखपद्मः विबभुः । किंभूतैर्मुखकमलैः स्फुरदुज्ज्वलाधरदलैः उल्लसन्निर्मलरदनच्छदपत्रैः, अपरं किंभूतैः विलस- दशनांशुकेसरभरैः देदीप्यमानदशनकिरणकिझल्कभरैः, विलसन्तः दशनांशवः दन्तकिरणा- गुव केसरभरा येषु तानि तथा तैः, अपरं किंभृतैः तमुग्धगण्डफलकैः धृतानि मुग्धानि गण्डा एव फलानि यैस्तानि तथा तैः कलितमनोहरगल्लफलैः । तावत् कमलेषु हि पत्र- किजल्कबीजफलानि भवन्ति । मुखकमलान्यपि एवंविधानि दृश्यन्ते इत्यर्थः ॥ ४७ ॥ स्फुरदिति ॥ प्रमदाः नियः स्फुरन्तश्चलन्तः उज्ज्वलाश्वाऽमला अधरा ओष्ठा एव दलानि पत्राणि यषा तैः परितो विलसन्तो दशनांशवो दन्तकान्तय एव केसरभराः किचकपुन्ना येषां तैः धृतानि मुग्धानि गण्डा एव फलकानि कनिका येषां तैर्विकसद्भिरास्यकमलैर्विवभुः । अत्रास्यकमलैरिति रूपणात अमदा एव सरस्य इति सिद्धेरेकदेशविवर्ति सावयवरूपकम् । 'अम्यकुमुदैः' इति पाठे कुमुदस्य मुखो- पमानकत्वं कविसमयविरुद्धं ज्ञेयम् ॥ ४०॥ भजते विदेशमधिकेन जितस्तदनुप्रवेशमथ वा कुशलः ॥ मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुतनोरविशत्(१) ॥ ४८ ॥ भजते इति ॥ इन्दुः अतः कारणात् सतनोर्नायिकायाः मुखं वदनं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाऽविशत् प्राविक्षत् प्रविष्टः, किंभूतं मुखम् उज्ज्वलकपोलं निर्मलगण्डप्रदे- शम् । अतः कुतः, यतः कारणात् अधिकेन अतिशयितगुणवता जितः पराभूतः विदेश भजते देशान्तरं याति । अथ वा कुशलो दक्षः तदनुप्रवेशं भजते तदाश्रयो भवति । मुखकान्त्या चन्द्रो जित इति भावः ॥ ४८ ॥ भजते इति ॥ अधिकेन प्रबलेन जितो विदेश देशान्तरं भजते, अथ वा कुशलः कार्यचतुरः तदनु वेशं भजते, तमेव शरणतया प्रविश्य जीवतीत्यर्थः । अतो हेतोरिन्दुः उज्ज्वलौ कपोली यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोकः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजना- विशत् प्रविष्टः । साक्षाचन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीते :छलशब्देनासत्यत्वप्रतिपादनरूपो- 5प हवालङ्कारः पूर्वोक्ति काव्यलिङ्गसापेक्ष इति सदूरः। तेन कपोलयोर्लोकोचरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलद्वारम्वनिः ॥ ४८ ॥ ध्रुवमागताः प्रतिहति कठिने मदनेषवः कुचतटे महति ॥ इतराऽङ्गवन्न यदिदं गरिमग्लपितावलनमगमत्तनुताम् ॥ ४९ ॥ ध्रुवमागता इति ॥ ध्रुवं निश्चितं मदनेपवः कामबाणाः अङ्गनानां महति पीवरे कुचतटे स्तनयुग्मे प्रतिहति प्रतिस्खलनामागताः प्राप्ताः, किंभूते कुचतटे कठिने कठोरे। कथमेवं प्रतीयते इत्याह-यदिदं कुचयुग्ममितरागवत हस्तचरणादिवत् तनुतां कृशत्वं न अगमत् न जगाम । किंभूतं कुचयुग्मं गस्मिग्लपिताऽवलग्नं गुरुत्वेन कृशीकृतमध्यप्रदेश, गरिम्णा ग्लपितं तनूकृतमवलग्नं मध्यं येन तत्तथा ॥ ४९ ॥ ध्रुवमागता इति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिइति प्रतिघातमागताः प्राप्ता ध्रुवम् । यत् यस्मादरिम्णा निजभारेण ग्लपितं कर्शितमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितरा- (१)सुदृशामविशव।

३३० सन्देहविषौषधिसर्वकषायुते- [नवमः- ऽङ्गवत । तेन तुल्यम्-' इति वतिप्रत्ययः । तनुता कार्य नाऽगमन्त्राऽभजत् । पुषादिसूत्रेण च्लेरडादेशः। तदा मदनेषुपातात्कुचातिरिक्त मङ्गनानामहं कृशमासीदित्यर्थः ॥ १९ ॥ न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ॥ गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ५० ॥ न मनोरमास्विति ॥ सुदृशां नायिकानां मनः अन्तःकरणं प्रियतमे कान्ते गृह मन्दिरमेष्यति आगमिष्यति सति वसनाङ्गरागसुमनस्सु वसनचन्दनकुसमेषु इति न निरचेष्ट न निश्चिकाय । तहि एतानि मनःप्रियाणि न भविष्यन्तीत्याह-किंभूतासु वसनाङ्ग- रागसमनस्सु मनोरमास्वपि मनोज्ञास्वपि, किंभूतानां सुदृशां विशेषमुत्तरोत्तरं भेदं विदन्ति जानन्तीति विशेषविदः तासाम् । इति कथं न निश्चिकाय, यत्-इदं योग्यमेतत् योग्यतमम्।। न मनोरमास्विति ॥ प्रियतमे गृहमेष्यति आगमिष्यति मति विशेषविदामपि सुदृशां सम्यग्दर्शनी- याना मीणा मनः कर्तृ मनोरमास्वपि वप्तनाङ्गरागसुमनःसु वनगन्धमाल्येषु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदित्यर्थः । चिनोते हि तडि चलेः सिच, 'सावधातुकार्धधातुकयोः' इति गुणः । हर्षोऽत्र सञ्चारिभाषः । निश्चयसम्बन्धेऽप्यसम्बन्धोके- रतिशयोक्तिः, सुमनःसुमन इति यमकविशेषश्चेति मष्टिः ॥ ५० ॥ वपुरन्वलिप्त परिरम्भसुखव्यवधानभीलुकतया(१) न वधूः॥ क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपमदः ॥ ५१ ॥ वपुरिति ॥ वधूः नायिका वपुः शरीरं न अन्वलिप्त विलेपनयुक्तं न चकार । कया परिरम्भसुखव्यवधानभीलुकतया परिरम्झेन यत्सुखं तस्य व्यवधानमाच्छादनं तस्माद् भीलु- कता भीरुता तया आलिङ्गनसौख्याच्छादनभीरुतया, यदस्माकमालिङ्गानसुखमाच्छाद्यताम्- इति हेतोः यत् बाद निश्चितम् , अस्य वपुषः इदमेव युक्तम् । इति किम्-अदः एतद्वपुः प्रियसङ्गमेषु कान्तसंयोगेषु अनवलपमवलेपरहितम् । अथ च अनवलेपं निर्गर्वम् , अहङ्कार- रहितमित्यर्थः ॥ ११ ॥ वपुरिति ॥ वधूः भी परिरम्भमुखव्यवधानभीरुकतया आलिङ्गनसुखविच्छेदभीरुत्वेन । 'क्रुकनकि वक्तव्यः' इति क्रुकन् प्रत्ययः । वपुर्नाऽन्वलित नानुलिप्तवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुङि तङ् । तथा हि-अदो वपुः प्रियसङ्गमेषु अनवलपेमचन्दनमगर्व चेति यत् । 'अव- लेपस्तु गर्ने स्यालेपने भूषणेऽपि च' इति विश्वः । इदमनवलेपनत्वमेवास्य वपुषो बाढं भृशं क्षमं युक्तम् । प्रषानुप्राणितोऽयमर्थान्तरन्यासः ॥ ५१ ॥ निजपाणिपल्लवतट(२)स्खलनादभिनासिकाविवरमुत्पतितैः ।। अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥५२॥ निजेति ॥ अपरा काचिदङ्गना आस्यकमलश्वसनैः मुखपद्ममारुतैः मुखवासं वदन- सौगन्ध्यं शनकैः मन्दमन्दं परीक्ष्य प्रमाणं विलोक्य मुमुद हृष्टा जाता। किंभूतैरास्य- कमलश्वसनैः अभिनासिकाविवरं घ्राणच्छिद्रमभि लक्षीकृत्य उत्पतितः उल्ललितैः, कस्मात् निजपाणिपल्लवतटस्खलनात् स्वहस्तपल्लवतटनिवर्तनात् ॥ १२ ॥ निजति ॥ अपरा मी निजपाणिपल्लवतलस्य स्खलनादाभिघातादभिनासिकाविवरं नासारन्, प्रति उत्प- तितरास्यकमलस्य श्वसनैर्मुखमारुतैर्मुखवास मुखवासना शनकैः परीक्ष्य मुमुदे। इयं वासकसज्जिका नायिका .. (१)भीरुकतया। (२)तल।

सर्गः।] शिशुपालवधे । ३३१ विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकासभृति !! हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगद्शो ददृशुः ॥ ५३॥ विधृते इति ॥ मृगदृशः सारङ्गाक्ष्योऽङ्गनाः हिमधाम्नि चन्द्रमसि अपरं दर्पणतले च मुहुर्वारंवारं स्वमुखश्रियं निजमुखकान्ति ददृशुः पश्यन्ति स्म । किंभूते हिमधाम्नि दिवा आकाशेन विश्ते प्रगृहीते, किंभूते दर्पणतले पुरोऽग्रे सवयसा कान्तेन विटते, किंभूते चन्द्रे मुकुरे च परिपूर्णमण्डलविकासभृति सम्पूर्णमण्डलविस्तारयुते । उभयोः साम्यम् ॥ ५३ ॥ विधृत इति ॥ दिवा आकाशेन सवयसा वयस्यया च पुरोऽमे विधृते विधारित परिपूर्णमण्डलविकास बिम्बशोभा बिभर्तीति तद्भुत तस्मिन् हिमधानि चन्द्रे दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रो- पमानभूतामुत्तरत्रोपे मयभूता चेत्यर्थः । मुहुर्ददृशुः। औपम्यपरीक्षार्थमिति भावः । अत्राऽन्यश्रियोऽन्यत्रा- ऽसम्भवाचन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसम्भवस्तुसम्बन्धा निदर्शना । तण चन्द्रदर्पणयोर्युसवयसोश्च यथासक्यमन्वयायथासङ्ख्यालङ्कारश्च । तदुभयापेक्षया चन्द्रदर्शनयोर्मुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवी- पम्यस्य गम्यत्वात्तुल्ययोगितेति सङ्करः ॥ ५३ ॥ अधिजानु बाहुमुपधाय नमत्करपल्लवाऽपितकपोलतलम् ॥ उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयाऽपरया ॥ १४ ॥ अधिजान्विति ॥ अपरया कयाचिन्नायिकया उदकण्ठि उत्कण्ठितमुद्गीतम्। किंभू- तयाऽपरया कण्ठे परिवर्तत इत्यसौ कण्ठपरीवर्ती स चासौ कलस्वरश्च तेन शुन्यं रहितं यद् गानं गेयं तत्र परा तन्निष्ठा तया गलभ्रमत्स्वनशून्यगेयनिष्ठया, किं कृत्वा अधिजानु जानु अधि लक्ष्यीकृत्य बाहुं भुजमुपधाय आरोग्य, किंभूतं बाहुं नमति करपल्लवे पाणिकिसलये अर्पितं निहितं कपोलतलं गण्डभागो यत्र स तथा तं प्रवीभूतहस्तपल्लवन्यस्तगल्लतलम्॥५४॥ अधिजान्विति ॥ नमति कपोलार्पणाय प्रहीभवति करपल्लवे अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय। कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्तत इति कण्ठपरिवर्ति न तु मुखोचारितमित्यर्थः, कलमध्यनमधुरं स्वरशून्यं तारध्वनिहींनं षड्जादिस्वराभिव्यक्किहीनं पा यदान तत्परया तदासक्तया । मन्दकण्ठेनैव गायन्त्येत्यर्थः । कालक्षेपार्थमिति भावः। अयं चोत्कण्ठानुभावः। अपरया बिया उदकण्ठि उत्कण्ठितम् । प्रियसङ्गमायोत्सुकया स्थितमित्यर्थः। भावे लुङि चिणो लुक् । अत्र कालक्षेपाऽसहिष्णुवलक्षणमौत्सुक्यं सञ्चारि, तनिबन्धनात्प्रेयोऽलङ्कारः । परयापरयेति यमकविशेषसंसृष्टिः । नायिका विरहोत्कण्ठिता । 'चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः' इति लक्षण त् ॥ ५५ ॥ प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनवित्तगृहः(१)॥ प्रजिघाय कान्तमनु मुग्धतरा(२)स्तरुणीजनो दश इवाऽथ सखीः ॥५५॥ प्रणयेति ॥ अथानन्तरं तरुणीजनः युवतिवर्गः कान्तमनु भर्तारमनु लक्ष्यीकृत्य सखीः प्रजिघाय वयस्याः प्रहिणोति स्म। किंभूताः सखीः प्रणयप्रकाशनविदः प्रणयस्य प्रेम्णः प्रकाशनं प्रकट विदन्ति तास्तथा स्नेहविस्तारज्ञाः, पुनः किंभूताः सखीः मधुराः मधुर- भाषिणीः, पुनः किंभूताः सुतरामतिशयेन अभीष्टजनचित्तगृहः वल्लभजनमनोहारिणीः, पुनः किंभूताः मुग्धतराः अतिसुन्दरीः । अपरं किंभूताः, उत्प्रेक्षते-दृश इव लोचनानीव । यथा काश्चिन्नायिकाः कान्तमनु दृशः प्रहिण्वन्ति, किंभूता दृशः प्रीत्यवलोकनचतुराः । (४) हृतः। (५) मुग्धतर।

३३२ सन्देहविषौषधिसर्वपायुते- [नवमः उभयोः साम्यं व्याख्येयम् । दृशोऽपि प्रणयं प्रकाशयन्ति, मधुरा दर्शनीयाश्च, कान्तचित्तं च गृह्णन्ति, अतिरम्याश्च भवन्तीति साम्यमुक्तम् ॥ ५५ ॥ प्रणयति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्त काममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रम्याकृतीः सुतरामभीष्टजनस्य चित्नहृतो मनोहारिणी: सखीदृश इव कान्तमतु प्रियजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतोर्लट् । इवेन सह समास- वचनाद् दृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादिव्यञ्जनादलकारण वस्तुध्वनिः॥ न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति सन्दिदिशे ॥ ५६ ॥ न चेति ॥ काचिदङ्गना अभिदूति दूतीमभि लक्ष्यीकृत्य इति वक्ष्यमाणं सन्दिदिशे सन्दिशितवती । इति कि-हे सखि ! त्वम् एनं कान्तमुपगम्य प्राप्य तथा निपुणं वदेः प्रावीण्यं ब्रूयाः । तथा कथं यथा येन प्रकारेण स कान्तः मे मम लघुतां न चाऽवगच्छति लघुत्वं न येत्ति, अपरं च सः यथा मयि विषये करुणांदयां कुरुते विदधाति तथा कार्यम्॥५६ तथा काचित्रायिका दूती वाचिकमनुशास्ति- न चेति ॥ स मे दायतो यथा मयि करुणां कुरुते यथा लघुनामल्पनां च नावगच्छति न मन्यते, एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं वदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचित् नायिका अभिदूति दूतीमभि । 'लक्षणेनाऽभिप्रती-' इत्यव्ययीभावे नपुंसकलस्वत्वम् । सन्दिदिशे मन्दिष्टवती । कतरि लिन , स्वरि तेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता । 'कोयाकान्तं पराणुय पश्चात्तापसम- न्विता' इति लक्षणात् ॥ ५६ ॥ दयिताय मानपरयाऽपरया त्वरितं ययावगदितापि सखी ।। किमु नोदिताः(१) प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदःसुकृताम्(२) ॥२७॥ दयितायेति ॥ काचित् सखी दयिताय कान्ताय त्वरितं ययौ शीघ्तरमगमत् । किंभूता सखी अपरया कयाचिन्नायिकया अगदितापि अप्रहितापि, किंभूतयाऽपरया मान- परयाऽहकारतत्परया । यतः कारणात् सुकृतां पुण्यवतां कृतिनः कुशलाः सुहृदो मित्राणि किमु नोदिताः प्रेरिताः सन्तः हितार्थकृतो भवन्ति । किन्तु स्वाभीष्टकार्यमनुक्तमपि सफल- त्वं नयन्तीत्यर्थः ॥ १७ ॥ दयितायेति ॥ मानपरया अभिमानवत्या अत एवापरया नायिकया अगदिता दयितमानयेत्यनुका सखी दथिताय दयितमानेतुम् । 'क्रियार्थोपपदस्थ च कर्मणि स्थानिनः' इति चतुर्थी । त्वरितं शीघ्रं यया । अन्यथा मरणशङ्केति भावः । तथा हि-सुष्टु शोभनं हृदयं येषां ते सुहृदो मित्राणि । 'सुहृदुईदौ मित्रा- मित्रयोः' इति निपातः। चोदिताः प्रेरिताः सन्तः सुहृदां प्रियो हृयः हितः श्रेयस्करश्च योग्रस्तं कुर्वन्तीति प्रियहितार्थकृतः, कृतमेषामस्तीति कृतिनः कृतकृत्या भवन्ति किमु, किन्तु चोदना विनै वेति भावः । अर्थान्तर- न्यासः । नायिका च पूर्ववत ॥ ५ ॥ विििवशेषकम्- प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ॥ क्रियतेऽनुवृत्तिवितैष(३) ततः कलयेदमानमनसं सखि! माम् ॥५॥ अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ॥ तव गोप्यते किमिव कर्तुमिदं न सहाऽस्मि साहसमसाहसिकी ॥ ५९ ॥ (१) चोदिताः। (२) सुहृदाम् । (.) रुचितव।

सर्गः।]. शिशुपालवधे। । तदुपेत्य मा स्म तमुपालभथाः किल दोषमस्य न हि विन वयम् ॥ इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीम् ॥ ६० ॥ प्रतिभिद्येत्यादि ॥ तदुपेत्येति ॥ वधूनायिका विहितागसेऽपि कृतापराधायाऽपि रमणाय कान्ताय सखी विससर्ज वयस्यां प्राहिणोत् , किं कृत्वा इति पूर्वोक्तप्रकारेण सम्प्रधार्य विचार्य । इति किं हे सखि ! तं कान्तमुपेत्य तत्तस्मात्कारणात् मा स्म उपा- लभथाः उपालम्भनवचो मा वोचः । किलेत्यलीके, वयमस्य कान्तस्य दोष न विन अपकारं न जानीमः । प्रतिभिद्येति ॥ हे सखि ! तावद्यदि मया पुनरेव अस्य कान्तस्य उचिता योग्या अनुवृत्तिः क्रियते चित्ताराधनं विधीयते, तत एष भर्ता माम् अमानमनस- महङ्कारविवर्जितचित्तां कलयेत् विचारयेत् । किं कृत्वा अपराधकृतं सापराधं कान्तं प्रतिपद्य आवर्त्य । अवधीयेति ॥ हे सखि ! अहं दयितं कान्तमवीर्य अवगणय्य धैर्यकलिता सती धीरत्वेन रक्षिता सती तेन कान्तेन सह विरोधं विदधे कलहं कृतवती । अथ वा हे सखि ! तव किमिव गोप्यते कथमिव अपलप्यते, इदं साहसं कर्तुं विधातुं न सहाऽस्मि न सोढाऽस्मि । अनुचिते कर्मणि प्रवृत्तिः साहसं चापलं च । किंलक्षणा अहम् । असा- हसिकी असमर्था । त्रिभिविशेषकम् ॥१८-६० ॥ अथ काचित्कलहान्तरिता कान्तं प्रति त्रिभिती मन्दिशति- प्रतिभियेति ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुनर्म यैवाऽस्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितव, पतिव्रतानां प्राणेश्वरचिनानुवृत्तेधर्मत्वादिति भावः । किन्तु हे सखि ! ततोऽनुवृत्ते- माममानमनसमभिमानहीनचित्तां कलयेन्मन्येत ॥ ५८ ॥ तलाघवाय विगृह्येव स्थीयता तत्राह- अवधीयति ॥धैर्यकलिता कलितधर्या सती । 'वाऽऽहिताग्न्यादिषु' इति निष्ठायाः परनिपातः । दयितमव. धीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि ! तव किमिव गोप्यते निगृह्यते । न किञ्चिदित्यर्थः । किन्तु कथ्यत एवोते कथयति । सहसा बलेन वर्तत इति साहसिकी । 'ओजःसहोऽम्भ सा वर्तते' इति ठक् । सा न भवतीत्यमाहसिकी। अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साहसकृत्यं कर्तुम् । 'शकधृष-' इत्यादिना तुमुन् । सहत इति महा समर्था । पचा- वन । नास्मि । अत्राऽसाहसिकत्वस्य विशेषणगत्या साहसाऽसहनहेतुत्योक्त पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। तहि किमत्र कार्यमत आह- तदिति ॥ तस्मात् तं वल्लभमुपेत्य मा स्मोपालभथाः नोपालभस्व । तदोषं न गणयरित्यर्थः । 'स्मो- तरे लङ् च' इत्युपाङ्ग्वाल्लभेर्लङ्, 'न माङ्योगे' इत्यत्पतिषेधः । ननु सापराधः कथं नोपालभ्यस्तत्रा- हु-वयमस्य दोषमपराधं न विद्म किल । अजानाना इव तिष्ठाम इत्यर्थः। कार्यार्थिनः कुतो गर्व इति भावः । 'विदो लटो वा' इति णलायादेशः । इति सम्प्रधार्य निश्चित्य वधूर्नायिका विहितागसे कृतापराधायाऽपि रम- णाय प्रेयसे । क्रियाग्रहणाच्चतुर्थी । सखी विससर्ज प्रजिघाय । विरहाऽसहिष्णुतयेति भावः । एषा कलहा- म्तरिता प्रौढा च ॥ ६०॥ ननु सन्दिशेति सुन्दशोदितया त्रपया न किञ्चन किलाऽभिदधे ।। निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः॥ ६१ ॥ ननु सन्दिशेति ॥ कयाचित् सुदृशा नायिकया अपया लज्जया किलेत्यभिप्राये, किान न अभिदध किमपि न जगदे, किंभूतया सदृशा सख्या वयस्यया इति वक्ष्यमाण. मुदितया गदितया । इति किं-नन्विति सम्बोधने, हे सखि ! त्वं सन्दिश आदेश देहि सन्देहविपौषधिसर्वकषायुते- [नवमः- . . कान्ताय गमनादेश कथय। गच्छाम्यहमित्यर्थः । इत्युक्तया केवलमिदं निजमात्मीयं शरीर- मैक्षि आलोकितम् । किंभूतं शरीरम् अशरीरशरैः कन्दर्पबाणैः क्रशितं कृशत्वं प्रापितं, किंभूतैः शरैः निशितैस्तीक्ष्णैः, चित्तभेदनादित्यर्थः ॥ ६१ ॥ ननु सन्दिशति ॥ ननु सन्दिश सन्देशं ब्रहीत्युदितया दूत्या कथितया सुदृशया नायिकया का अपया हेतुना किञ्चन नाऽभिदधे किल नाऽभिहितं खलु । किन्तु निशितैरशरीरशरैरनङ्गबाणरनिशं क्राशेतं कृशीकृतम् । कृशशब्दात् 'तत्करोति' इति ण्यन्ताकर्मणि कः । णाविष्टबद्भावे र ऋतो हलादेलेघोः' इति ऋकारस्य रंकादेशः । निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहाम्तारता मध्यमा च । प्रपया निज- हृदयाऽनभिधानाजिशरीरनिरीक्षणेन स्वावस्यानिवेदनाच्च तुल्यलज्जास्मरत्वावगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था। दृङ्मनःसङ्गसङ्कल्पाज्जागरः कृशताऽरतिः । हीत्यागोन्मादमून्तिा इत्यनङ्गदशा दश' । इति ॥ ६१॥ ब्रुवते स्म दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिवल्गु(१)गिरः ॥ सुहृदर्थमीहितमजिह्मधियां प्रकृतेविराजति विरुद्धमपि ॥ ६२ ॥ ब्रुवते स्मेति ॥ दूत्यः सञ्चारिकाः नरान् उपसृत्य वल्लभान् प्राप्य ब्रुवते स्म बभा- पिरे, किंभूताः दूत्यः नरवत्प्रगल्भमतिवल्गुगिरः पुंवदुदारबुद्धियुक्तवाचः। ननु स्त्रीणामौदायं दुष्यं नेत्याह-यतः कारणात् अजिह्मधियामकुटिलबुद्धीनां सुहृदर्थमीहितं मित्राथं चष्टितं प्रकृतेः स्वभावस्य विरुद्धमपि अयोग्यमपि विराजति शोभते । आत्मनोऽयोग्यमपि मित्राथं कुर्वन् सर्वोऽपि न दृष्य इति भावः ॥ ६२ ॥ इत्थं नायिकाभिरुपदिष्टा दूत्यः किमकुर्वनित्यत आह- ब्रुवते स्मेति ॥ प्रगल्भा धृष्टाः मतिगर्भाः प्रतिभासाराश्च गिरो यासांता दूत्यो नरान् पुरुषानुपसृत्य नर- वत् नरैः पुंभिस्तुल्यम् । तेन तुल्य क्रिया चेद्वतिः' इति वतिप्रत्ययः। छबते स्म । न चैतावता वजात्य दूषणमित्यर्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि-अजिह्मानयामकुटिलबुद्ध'ना सम्बन्धि सुहृदे मुहू- दर्थम् । अर्थेन मह नित्यसमासः सर्वलिङ्गला चेति वनव्यम् । ईडिनं चेष्टितं प्रकृतविरुद्ध मपि स्वभाव- विपरीतमपि विराजति शोभते । तस्मान्न धाष्टर्ये दोष इत्यर्थः ॥ ६ ॥ सप्तभिः कुलकम्- मम रूपकीर्तिमहरद्भुवि यस्तमनु(२)प्रसक्तहृदयेयमिति ।। त्वयि मत्सरादिव निरस्तदयः सुतरां शिणोति खलु ता मदनः ॥ ६३ ॥ तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ॥ घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥ उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदूशः ॥ द्रवतां न नेतुमधर क्षमते नवनागवल्लिदलपूग(३)रसः ॥ ६५ ॥ दधति स्फुट रतिपतेरिषवः शिततां यदुत्पलपलाशब्दशः ॥ हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमप्यभिदन् ॥ ६६ ॥ कुसुमादपि स्मितदशः सुतरां सुकुमारमङ्गमिति नाऽपरथा ॥ अनिशं निजैरकरुणः करणं(४) कुसुमेषुरुत्तपति यद्विशिखः ॥ ६७ ॥ (1) गर्भ। (२) स्तदनुप्रविष्ट । (३ ) राग। (४) करुण। ..

सर्गः । शिशुपालवधे। ३३५ विषता निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ॥ अमृतनुतोऽपि विरहाद्भवतो यदमूदहन्ति हिमरश्मिरुवः ॥ ६८ ॥ उदितं प्रियां प्रति सहादमिति श्रदधीयत प्रियतमेन वचः ॥ विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ६९ ॥ ममेत्यादि । उदितमिति ॥ प्रियतमेन कान्तेन वचः वचनं श्रदधीयत मेने । किंभूर्त वचः प्रियां वल्लभां प्रतिइति वक्ष्यमाणप्रकारेणोदितं सख्या प्रोक्तं, पुनः किंभूतं वचः सहार्द दीनम् । युक्तोऽयमर्थः, खलु यस्मात्कारणात् अथ वा खलु निश्चित, जने विषये गिरो लगन्ति वाचः सिद्धिं प्राप्नुवन्ति । किंभूते जने विदितेङ्गिते परिज्ञातचेष्टिते, किंभूताः गिरः सपदि वेगेन पुर एव उदीरिताः पुरस्ताद्भाषिताः । काले प्रोक्तं वचनं लगत्येवेति भावः । ममेति ॥ ननु सख्या किं प्रोक्तमित्याह-यत् , हे कान्त ! खलु निश्चितं, मदनः कामः तां सखी सुतरामतिशयेन क्षिणोति पीडयति, किंभूतो मदनः निरस्तदयः दयारहितः । कस्मात् उत्प्रेक्ष्यते-त्वयि विषये इति मत्सरादिव इति खेदादिव पीडयति । इति कः खेदः यत्, इयमङ्गना तं पुरुषमनु लक्षीकृत्य प्रसक्तहृदया आसक्तचित्ता वर्तते । तं कं यः पुमान् भुवि पृथिव्यां मम रूपकीर्तिमहरत् मदीयं सौन्दर्ययशो निराचकार । इति खेदादिव निर्दयः सन् तां कामः क्षिणोतीत्यर्थः। तव सेति ॥ हे कान्त ! सा अङ्गना यत् तव कथासु वार्तास सतीषु अङ्गुलिमुग्वेन अङ्गुल्यग्रेण मुहुर्वारंवार श्रवणं परिघट्टयति कर्ण कण्डू- यते, तेन हेतुनाऽनुमीयते-यदू, ध्रुवमुत्प्रेक्षायां, घनतां नयतीव परिपूर्णतां प्रापयतीव । किं- भूतं श्रवणं भवद्गुणपूगपूरितं त्वद्गुणसमूहसम्पूर्णम् । ननु यदि परिपूर्ण तर्हि कथं घनतां नयति, कया अतृप्ततया असन्तोषित्वन । अङ्गना हि प्रियसङ्कथायां हर्षवशात् कर्ण परिघट्ट- यतीत्येतत्प्रेमलक्षणम् । उपताप्यमानमिति ॥ हे कान्त ! नवनागवल्लिदलपूगरसः नूतन- ताम्बूलीपत्रक्रमुकरसः सितेतरसरोजदृशः नीलोत्पललोचनायाः अङ्गनायाः अधरोष्ठं दवतां नेतुमार्द्रतां प्रापयितुं न क्षमते न समर्थो भवति । हे कान्त ! ताम्बूलीदलरसः तस्याः म- त्सख्याः ओष्ठमा न करोतीत्यर्थः। किंभूतमधरं श्वसितैनिःश्वासैः उपताप्यमानं प्रताप्यमानं, किंभूतैः श्वसितैः अलघुर्गरीयान् उष्णिमा उष्णत्वं येषु तानि अलघूष्माणि तैः प्रभूतोप्म- सक्तैः। उष्णत्वस्थाने आर्द्रत्वं न भवतीत्यर्थः। दधतीति॥ हे कान्त ! स्फुटं निश्चितं रति- पतेः कामस्य इषवो बाणाः तीक्ष्णत्वं दधति धारयन्ति । कथमेवं प्रतीयते-यत् उत्पलपलाश- दृशः इन्दीवरपत्रनयनायाः अङ्गनायाः हृदयमभिदन् चित्तं विदारयामासुः । किंभूतं हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमपि अतिस्थूलकठिनकुचबिम्बावरणयुक्तमपि । कुसुमा. दपीति ॥ हे वल्लभ ! इति न अपरथा एतत् नालीकम् । इति किं यत्, स्मितदृशः विक- सितनेत्रायाः अङ्ग वपुः कुसुमादपि पुष्पादपि सतरामतिशयेन सुकुमारं कोमलम् । कथमेवं प्रतीयते इत्याह-यत् कुसुमेषुः पुष्पबाणोऽपि करणं शरीरं निजैः विशिखैः स्वैरिषुभिः कृत्वा अनिशं नित्यमपि उत्तपति पीडयति । किंभूतः कामः अकरुणः निर्दयः, यत् पुष्पमया अपि बाणाः तस्या अङ्ग पीडयन्ति । तदेतावता कुसुमादपि सुकुमारमिति सत्यमेवेत्यर्थः । विषतामिति ॥ हे कान्त ! अदः एतत् इति हेतोः सत्यम् इति निदर्शनात्तथ्यमिदम् । .. । ॥

सन्देहविषौषधिसर्वपायुते- [ नवमः- अदः किं यत् अपक्रियया वैपरीत्येन निषेवितं सेवितं सर्व विषतामुपेति विषतुल्यता प्राप्नोति, यत् हिमरश्मिरुचः चन्द्रकिरणाः अमूमङ्गनां दहन्ति उपतापयन्ति । किंभूता हिमरश्मिरुचः अमृतस्नुतोऽपि पीयूषमुचोऽपि, कस्माइहन्ति भवतो विरहात् तव वियो- गात् । चन्द्रद्युतयोऽपि भवद्विरहात् तां दहन्तीति भावः । सप्तभिः कुलकम् ॥ ६३-६९ ॥ अथ काचिद् दूती कश्चिप्रियं प्रति सप्तभिः प्रार्थयते- ममेति ॥ यो भुवि मम रूपकीर्ति सौन्दर्य प्रथममहरत इयं त्वप्रिया तदनुप्राविष्टहृदया तस्मिन्ना- सकचित्तेति अतो हेतोस्त्वयि मन्सरादिव मदनो निरस्तदयो निष्कृपः सन् तां त्वप्रियां सुतरां क्षिणोति क्षपयति खलु । एतेन कार्यावस्थोक्ता । अत्र साक्षात्प्रतिपक्षभूतनायकपीडासमर्थस्य मदनस्य तदीयनायिका- पीडनोकया प्रत्यनीकालङ्कारः । स च त्वयि मत्सरादिवति हेतूनेवोत्थापित इति सङ्करः । 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयतिरस्कारः प्रत्यनीक तदुच्यते ॥ इति लसणात् ॥ ६३ ॥ सब सेति ॥ सा त्वस्प्रिया तव कथासु गुणकीर्तनेषु मुहुरङ्गुलिमुखेनागुल्यग्रेण श्रवणं श्रोत्रविवरं परिघट्टयति स्फालयतीति यत् । यदृच्छयेति शेषः । तेन परिघट्टनेन भवद्गुणपूगपूरितं श्रवणम् अतृप्ततया तावद् गुणग्रहेणनाऽसन्तुष्टतया घनता नयति । बहुतण्डुलमानार्थ प्रस्थादिवद् भूयो गुणप्रवेशाय श्लेषयती- त्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । अत्र कण्डूविनोदना श्रोत्रघट्टने घनतानयनमुत्प्रेक्ष्यते ॥ ६४ ॥ उपताप्यमानमिति ।। अलघुरन्तःसन्तापोपाधिक उष्णमा उष्णित्वं येषां तेः श्वसिनिःश्वासरूप- ताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवलिदलानां ताम्बूलदलानां रागरसो रखन. द्रवो वतामार्द्रता नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्का । अत्र द्रवत्वसम्बन्धेऽप्यसम्बन्धाके- रातिशयोक्तिः ॥ ६५ ॥ दधतीति ॥ रतिपरिषवः शितता नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यत् यस्मानिरन्तरं नीरन् बृहत्कठिनं च यत्स्तनमण्डलं तदेवावरणं धर्म यस्य तसदपि उत्पलपलाशदृश उत्पलदलाक्ष्याः हृदयमाभदन् भिन्दन्ति स्म । भिदेलुंडि 'हरितो वा' इति चलेरङादेशः । सावरणमपि भिन्नामिति विरोधोत्थापि तेयं स्मरशरनैशियोत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपाडयमानायास्तस्यास्त्वद्विरहो जीवितसंशयमापा- दयतीति वस्तु घोत्यते ॥ ६६ ॥ कुसुमादिति ॥ स्मितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरी सुकुमार कोमलमितीदमपरथा अन्य- था न । किन्तु सत्यमेवेत्यर्थः । यत् यस्मात्कुसुमेषुरकरुणो निष्कृपः सन् निर्विशिखबर्बाणैः । 'पृषत्कबाण- विशिखाः' इत्यमरः । कुसुमेरेवेत्यर्थः । करुणं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । नपतिरय भौवादिकः सकर्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीडयत इति कुसुमाधिकसीकुमार्य- गुणोत्प्रेक्षा नाइपरथेति व्यञ्जकप्रयोगाद्वाच्या ॥ ६ ॥ विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् । अमृतमपीति भावः । विषा विषवदहितत्व समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यत् यस्मादमृतस्रतोऽपि । स्रवते: क्विपि तुक् । हिम- रश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोः, त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्व त्वया मह सेवनादालादयन्निति भावः । एतेन विषयद्वेषरूपा अरत्यवस्थाका । अत्र विशेषेण सामान्यसमर्थनरूपो. ऽर्थान्तरन्यासः ॥ ६८॥ उदितमिति ॥ प्रिया प्रति प्रियामुद्दिश्य हृदयस्येदं हार्द प्रेम । 'प्रेमा ना प्रियता हार्द प्रेम स्नेहः' इत्थ- मरः । तस्येदम्' इत्यण्प्रत्ययः । 'हृदयस्य हल्लेखयदण्लासेषु' इति हृदयस्य हृदादेशः । सहार्द सस्नेह- मित्युदितम् । वदेः कर्मणि कः, 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । वचो दूतीवाक्यं प्रियतमेन श्रद- धीयत विश्वसितम् । दधातेः कर्मणि लस् । अदन्तरोरुपसर्गवचनात् श्रच्छन्दस्य प्राक्पयोगः । हि यस्मात सर्गः।] शिशुपालवधे । ३३७ । .- .. । पुरः पूर्व मेव विदितोङ्गिते विदितपराऽभिप्राये जने । हाङ्ग हरतो भावः । सज्जने समुदीरिता गिरः सरदि लगन्ति सज्जन्ति खलु । स्वयं प्रियाहृदयवदित्वात । स्वबुद्धेः संवादेन दूतीकथितं प्रियाविरहदुःख विश- श्वासन्यर्थः । अर्थान्तरन्यास : । एषा कलहान्तरिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । 'पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः' । इति चतुर्थोऽयमुक्तः ॥ ६९ ॥ दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ॥ उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥ ७० ॥ दयिताहृतस्येति ॥ युवभिः पुरुषैः प्रयये गतं, किंभूतैः युवभिः मनसः चित्तस्य अनुपदिभिः अनुयायिभिः । प्रथमं मनोभिर्गतं पश्चान्मनसां पृष्ठतो युवभिर्गतमित्यर्थः । किंभूतस्य मनसः दयिताहृतस्य वल्लभाचोरितस्य, अपरं किंभूतैर्युवभिः प्रथमं पूर्व परि- मूढतामिव गतैः अज्ञानत्वं प्राप्तैरिव अन्धकारवशादित्यर्थः, अथ पश्चात् सपदि वेगेन लब्धपदैः प्राप्तगमनैः, क सति क्षणदाकरे चन्द्रे उदिते सति । लब्धगतिचित्तमागैरित्यर्थः ॥ दयिताहृतम्येति ॥ प्रथम चन्द्रोदयात्प्राक् परिमूढता निजमनोऽपहर्तृमार्गाऽनभिज्ञतां गतै : तत. पश्चात् क्षणदाकरे चन्द्र उदिते सति मपदि लब्धपदैर्दृष्टचारपदचिह्नः दयिताभिर्हतस्याकृष्टस्यापहृतस्य च मनमोऽनुपदिभिरन्वेष्टुभिः । अन्विष्यद्भिरिवेत्यर्थः। अत एव गम्योत्प्रेक्षा प्रागवलम्बितधैर्यत्यागनिमित्ता अनुपद्य न्वेष्टा' इति निपातः । 'अन्वेष्टाइनुपदी प्रोक्का' इति वैजयन्ती । युवभिः प्रयये प्रयातम् । यातेभीवे मलिट् । अत्रोक्तपदन्विषणोत्प्रक्षया यूनां चोरग्राहिरूपकं गम्यत इत्यलकारेणालङ्कार वनिः ॥ ७० ॥ निपपात सम्भ्रमभृतः श्रवणादसितभ्रवः प्रणदिताऽलिकुलम् ॥ दयितावलोकविकसन्नयनप्रसरप्रणुनमिव वारिरुहम् ॥ ७१ ॥ निपपातेति ॥ असितभ्रुवोऽङ्गनायाः श्रवणात् कर्णात् वारिरुहं निपपात कमलं पति- तम् । किंभूतायाः अङ्गनायाः सम्भ्रमभृतः संवेगधारिण्याः,किंभूतं वारिरुहं प्रणदितालिकुलं शब्दितभ्रमरगणम् । पुनः किंभूतम् , उत्प्रेक्ष्यते-दयितावलोकविकसन्नयनप्रसरप्रणुनमिव वल्ल भदर्शनविकस्वरविलोचनविस्तारप्रेरितमिव ॥ ७१ ॥ अथ यून गृहप्राप्त्यनन्तरं वृत्तान्तं वर्णयति- निपपातेति ॥ सम्भ्रमभृतः प्रत्युत्थानसम्भ्रमिण्याः असितभ्रुवोऽङ्गनायाः प्रणदिताऽलिकुलं गुञ्जदलि- पुञ्जम् । 'उपसर्गादसमासेऽपि गोपदेशस्य' इति णत्वम् । वारिरुहं श्रवणोत्पलं दायतावलोकेनं विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारण प्रणुत्रमिव । पूर्ववण्णत्वम् । निपपात । तथा सम्भ्रान्त मित्यर्थः । अत्र सम्भ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते। एषा च हृष्टा ॥ १ ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसाऽऽकलिताम् ॥ रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ।। ७२ ॥ उपनेतुमिति ॥ कश्चित्तरुणः वधूमङ्गनामरुधत् रुरोध । किं कृत्वा सहसा वेगेन परिरभ्य आलिङ्गय, किंभूतो वल्लभः उपगतः गृहागतः, किंभूतां वधू रभसेन वेगेनोत्थिता, पुनः किंभूतां वधू कुचयोर्युगेन तरसा आकलितां स्तनयोर्युग्मेन बलात्कारेण सम्बद्धां, किंभूतेन कुचयोर्युगेन उन्नतिमता ऊर्ध्वमुखेन । किं कर्तुमुन्नतिमता, उत्प्रेक्षते-दिवं स्वर्ग- अपनेतुमिव ग्रहीतुमिव । ऊर्ध्वमुखेन हि स्वर्ग किल स्तनौ ब●करिष्यतः(१) ॥ ७२ ॥ २९ शि०प० - ।

सन्देहविषौषधिसर्वकषायुते- [ नवमः- - . . .. उपमतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रभसेनोस्थितामत एवोत्रतिमता कुचयो- युगेन करणेन दिवमाकाशमुपनेतुमिवोध्वमुत्क्षेप्नुमिति फलोस्प्रेक्षा उत्थाननिमित्तौनत्यगुणनिमित्ना। तरसा बलेनाऽम्कलितां व्याक्षिप्ता वधू प्रिया परिरभ्याश्लिष्यारुधत रुद्धवानुपवेशितवान् । उर्वोत्क्षेपाश्रिमरित- वानिति चार्थः। रुघलुडि 'इरितो धा' इति विकल्पात् च्लेरमादेशः । एषा हृष्टारोमाञ्चिता यनुभाववतीच।।७२॥ अनुदेहमागतवतः प्रतिमा परिणायकस्य गुरुमुबहता ॥ मुकुरेण वेपथुमता(१)ऽतिभराक्कथमप्यपाति न वधूकरतः ।। ७३ ॥ अनुदेहमिति ॥ मुकुरेण दर्पणेन वधूकरतः अङ्गनाहस्ततः कथमपि महता कष्टेनापि न अपाति न पतितम् । किंभूतेन मुकुरेण वेपथुमता सकम्पेन, कस्मादतिभरात् भारा- क्रान्तत्वात । ननु भारः कथं बभूवेत्याह-किं कुर्वता मुकुरेण परिणायकस्य प्रतिमामुद्वहता वल्लभस्य प्रतिबिम्बं धारयता, किंभूतां प्रतिमा गुरुं महती, किंभूतस्य परिणायकस्य अनु- देहमागतवतः देहस्य पश्चात्प्राप्तवतः । आजगामेति आगतवान् तस्य । एतेन भर्तृदर्शनात् सकम्पोऽपि दर्पणो हस्तान्न मुक्त इति भावः ॥ ७३ ॥ अनुदेहमिति ॥ अनुदेहं दहेस्य पश्चात् । 'अव्ययं विभक्ति ---' इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणाय कस्य परिणेतुः। बोटुरित्यर्थः । नयतेवुल् प्रत्ययः । 'उपसर्गादसमासेऽपि-' इति णत्वम् । गुरुं पूज्या भारवती च प्रतिमा प्रतिबिम्बमुहता पश्चास्थितस्यापि तदाभिमुख्यादिति भावः । मुकुरेण दर्पणेन की । 'दर्पणे मुकुरादी' इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात अति अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढाया: करतः पाणितलात् । पञ्चम्यास्तसिल । कथमपति न।पाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भासऽसम्बन्धेऽपि सम्बन्धोकेरतिशयोक्तिः। गुरुमिति श्लेष- स्थापितेति सङ्करः अवनम्य पक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ॥ दयितेन तरक्षणगल(२)द्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ ७४ ॥ अवनम्येति ॥ दयितेन कान्तेन वधूः अङ्गना उदासि उत्पातिता। कथं यथा भवति तत्क्षणगलद्रशनाकलकिङ्किणीरवं यथा भवति तथा तत्कालं गलन्त्याः पतन्त्याः रशनायाः मेखलायाः कलो मधुरः किङ्किणीरवः क्षुद्रघण्टिकाध्वनिर्यत्र क्रियायां तथा भव- त्येवं, शब्दमेखलं यथा भवतीत्यर्थः । किं कुर्वता दयितेन गाढमुपगूढवता भृशमालि- हितवता, किं कृत्वा वक्षसि उरसि विषये अवनम्य नम्रीभूय, पुनः किंभूतेन दयितेन निमग्नकुचद्वितयेन ब्रुडितस्तनमण्डलेन ॥ ७४ ॥ अवनभ्येति ।। अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षमि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलनुद्गच्छन् रशनायाः कलकिङ्किणीरवो यस्मिन्कर्मणि तयथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चायनुभाववती च । स्वभावालङ्कारः ॥ ४ ॥ कररुद्धनीवि दयितोपगतो हसितं (३) त्वराविरहितासनया ॥ क्षणदष्टहाटकशिलासशस्फुरदूरुभित्ति वसनं ववसे ॥ ७ ॥ कररुद्धनीवीति ॥ कयाचिदङ्गन्नया वसनं ववसे वस्त्र परिहितम् । कथं यथा भवति क्षणं मुहूर्त दृष्टा विलोकिता हाटकशिलासदृशी सुवर्णस्तम्भसमा स्फुरन्ती देदीप्यमाना उरुभित्तिः जयाप्रदेशो यत्र वसने, किंभूतं वसनं हसितं सूस्तं, पुनः किंभूतं वसन (१) वेपथुमृतो। (२)चल०। (३) गलितं ।

सर्गः।] शिशुपालवधे। . कररुद्धनीवि हस्तावष्टब्धमेखलं, यतः किंभूतया स्वरया वेगेन विरहितमासनं पीठं यया सा तया वेगत्यक्तासनया, कदयितोपगतौ कान्तप्राप्तौ सत्यास् ॥ ७९ ॥ कररुद्धनीवीति । दयितोपगतौ प्रियागमने सति अत एव वरया विरहितं त्यक्तमासनं यया. तया । उत्थितयेत्यर्थः। कयाचिदिति शेषः । अत एव गलितं सस्तमत एव कररुद्धनीवि करगृहीतबन्ध वसनं क्षणं दृष्टा हाटकशिलासदृशी हेमाशलाप्रतिमा स्फुरन्ती उरुभित्तिहरुदेशो यास्मन्कमर्माण तथा तथा । 'हिरण्यं हेम हाटकम' इत्यमरः । वयसे आच्छादितम् । वस्तेराच्छादनाकिमणि लिट् । उरुभित्तिरि वे- त्युपमितसमासः । अत्रोपमयोः संमृष्टिः ॥ ५ ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ॥ अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूय॑गदत् ॥ ७६ ॥ पिदधानमिति ॥ नववधूनवपरिणीताङ्गना जनाय सखोलोकाय प्रियं कान्तं गिरा वाण्या अभिधातुं वक्तुं न अध्यवससौ नोपक्रम चक्रे वाण्या कथनाय समर्था न बभूव, • पुनः पुलकै रोमाञ्चैः कृत्वा न्यगदत् कथयामास । किंभूतं प्रियम् अन्वक् उपगम्य पश्चा- दागत्य दृशौ पिदधानं चक्षुषी आच्छादयन्तं, किंभूताय जनाय इति ब्रुवते इति भाषमा- णाय। इति किं-यत् , हे वधुः ! वद कथय कोऽयम् असौ कः । इत्युक्ते लजावशात् प्रियो गिरा न कथितः, किन्तु रोमाञ्चैः कृत्वा कथित इति भावः ॥ ७६ ॥ पिदधानमिति ॥ नववधूनवोढा अन्वक पश्चादुपगम्य दृशी पिदधानं छादयन्तं प्रिय 'दृष्टिच्छादकः कः वद' इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं नाध्यवससौ नोत्सेहे, लजयेति भावः। अध्यवपूर्वात् स्यतेः कर्तरि लिट् । किन्तु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लजया असंलक्षितस्य पुलकै : प्रका शनान्मूक्ष्मालङ्कारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते' इति लक्षणात् ॥ ७६ ॥ उदितोरुसादमतिवेपथुमत् सुदृशोऽभिमर्तृ विधुरं त्रपया ॥ वपुरादरातिशयशंसि पुरः(१) प्रतिपत्तिमूढमपि बाढमभूत् ॥ ७७ ॥ उदितोरुसादमिति ॥ सुदृशोऽङ्गनायाः वपुः शरीरम् अभिभर्तृ भर्तुः समीपे बाढ. मतिशयेन आदरातिशयशसि अभूत् गौरवाधिक्यशंसकं बभूव । किंभूतं वपुः प्रतिपत्ति- मूढमपि प्रतिपत्ति: उपचारः सत्कारः तत्र मूढमपि । मूढशब्दोऽत्र अज्ञाने वर्तते। पुनः किंभूतं वपुः पुरोऽग्ने लज्जया विधुरं विह्वलम् । तर्हि कथमादरमकथयदित्याह-पुनः किं- भूतम् उदितोरुसादमुत्पन्नगुरुस्नेहं(?), पुनः किंभूतम् अतिवेपथुमत् अतिकम्पयुक्तम् । एतेन सात्त्विकगुणोदयादादरातिशयः कथित इत्यर्थः ॥ ७ ॥ उदितोरुसादमिति ।। अभिभर्तृ भर्तृसमक्षम्। 'लक्षणेनाऽभिप्रती आभिमुख्पे' इत्यव्ययीभावः । उदित- उत्पन्न उरुसादः उर्वोनिश्चेष्टता यस्य तत् अति वेपथुमदतिकम्पवत् । एतेन विशेषणद्वयेन प्रत्युत्थानालिङ्गन- विरोधेन स्तम्भवेपथू सात्त्विकावुनौ । त्रपया विधुरं विलक्षम् । एतेन लज्ज सञ्चारिणा प्रियवाक्कुण्ठत्व- मुक्तम् । एवं प्रतिपत्तिमूढमपि इतिकर्तव्यतामूढमपि सुदृशो वपुर्बाढं भृशमादरातिशयशसि मुखरागादि- लिहेरादरविशेषव्यञ्जकमभूत् । सत्यादरे किमुपचौरैरिति भावः ॥ ७७ ॥ परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ॥ स्खलिताभिरप्यनुपदं प्रमदाः प्रणयाऽतिभूमिमगमन् गतिभिः ॥ ७ ॥ परिमन्थराभिरिति ॥ प्रमदाः गतिभिर्गमनैः कृत्वा प्रणयाऽतिभूमिमगमन् स्नेहा- (१) पुनः ।

३४० सन्देहविषौषधिसर्वकषायुते- [ नवमः- ऽतिशयं जग्मुः स्नेहस्य पारं गताः, किंभूताभिर्गतिभिः अनुपदं पदे पदे स्खलिताभिरफि सजातस्खलनाभिरपि । ननु गतयः किंनिमित्तं बभूवुः-पत्युः कान्तस्योपचारविधौ सत्कार- विधिनिमित्तं, क अधिवेश्म आवासे, अपरं किंभूताभिर्गतिभिः परिमन्थराभिः अलसाभिः, कस्माद्धेतोः अलघूरुभरात् प्रौढजड्याभरवशात् । अथ चोक्तिः-अन्योऽपि यः किल पदे सातस्खलनो भवति, अतिभूमि स न गच्छति । प्रमदया तु पदे पदे स्खलितगमनै. रपि प्रणयातिभूमिः प्राप्तेत्यर्थः । स्नेहस्य पारं गता इति भावः ॥ ७८ ॥ परिमन्थराभिरिति । प्रमदा अधिवेश्म निजवेश्मनि पत्युरुपचारविधौ प्रत्युत्थानादिकर्मणि अलघो. महत उरुभरात्परिमन्थराभिरलसाभिः अनुपदं पदे पदे स्खलिताभिरपि गतिभिः प्रणयाऽतिभूमि प्रेम- प्रकर्षमगमन् । परप्रेमास्पदीभूता इत्यर्थः। प्रत्युत्थानादपि स्खलितगमनमेव पत्युः प्रीतिकरमभूदिति भावः । मीणां स्खलनं पत्युः प्रीतिकरमिति विरोधाभासोऽलङ्कारः ॥ ८ ॥ मधुरोन्नतर्घ ललितं च दृशोः स्वकर(१)प्रयोगचतुरं च वचः ॥ प्रकृतिस्थमेव निपुणाऽऽगमितस्फुटनाट्य(२)लोलमभवत्सुतनोः ॥७॥ मधुरोनतेति ॥ सुतनोर्नायिकायाः वचः वचनं निपुणागमितस्फुटनाट्यलीलमभवत् , निपुणम् आगमिता स्वभ्यस्ता स्फुटा प्रकटा नाट्यलीला नृत्यविलासो यत्र वचसि तत् । किंभूतं वचः प्रकृतिस्थमेव स्वाभाविकमेव, यतः किंभूतं वचः मधुरोन्नतभ्र उन्नतरम्यभूलतं, पुनः किंभूतं वचः दृशोर्विषये ललितं मनोज्ञ, पुनः किंभूतं स्वकरप्रयोगचतुरं निजकरसञ्चा- रणदक्षम् । नृत्यमप्येवंविधं भवति-उन्नतभ्रूलतं दृशोर्ललितं करप्रयोगचतुरम् ॥ ७९ ॥ मधुरोन्नतति ॥ मधुरं मनोहरं यथा तथानते उच्चलिते ध्रुवा यस्मिस्तन्मधुरोत्रतभ्र । 'गोलियो- रुप सर्जनस्य' इति द्वस्वत्वम् । दृशोलसितं नयनचेष्टा च सकरपयोग हस्ताभिनयसहितं तच्चतुरं च तद्व.. चश्व सुतनोः लियाः प्रकृतिस्थमेव स्वभावसिद्धमेव सदपि निपुणेन निपुणाचार्येणाऽऽगमितमभ्यासितम् । अतः एव स्फुटं प्रथितं यन्नत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालङ्कारः । तया नर्त क्युपमा गम्यते ॥ ७९ ॥ त्रिभिर्विशेषकम्- तदयुक्तमङ्ग ! तव विश्वसूजा न कृतं यदीक्षणसहस्रतयम् ॥ प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताऽद्य मयि गोत्रभिदा ॥ ८० ॥ न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ॥ हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥ ८१ ॥ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविहस(३)द्वदनाम् ॥ स्वकरावलम्बनममुक्त(४)गलत्कलकाञ्चि काञ्चिदरुणतरुणः ॥ २ ॥ तदयुक्तमित्यादि ॥ इति गन्तुमिति ॥ तरुणो युवा काञ्चिदङ्गनामरुणत् रुरोध । कथं यथा भवति स्वकरावलम्बनं यथा भवत्येवम् अमुक्ता गलन्ती पतन्ती कला काजी कलमेखला यत्र रोधे । सात्त्विकगुणारोधभावात् पतन्ती मेखला न मुक्तत्यर्थः । भी स्वहस्तेन अवलम्बितेति भावः । किंभूतामङ्गनां पुरोऽग्रे इति वक्ष्यमाणमभिधाय उक्त्वा गन्तुमिच्छं यातुकामाम् , अपरं किंभूतां क्षणदृष्टिपातविहसद्वदनां क्षणमात्रभर्तृनयनपातहस- दाननाम् । तदयुक्तमिति ॥ इति किमभिधायेत्याह-अङ्ग्रेत्यामन्त्रणे, हे कान्त ! (१)सकर। (२)गमितं स्फुटनृत्य । (३) विकस। (४) विमुक्का सर्गः । शिशुपालवधे । ३४१ - विश्वसृजा ब्रह्मणा यत् तव भवतः ईक्षणसहस्रतयं नयनसहस्रं न कृतं न सृष्टं, तत् अयुक्तम् अघटमानम् । खलु यस्मात् कारणात् येन त्वया स्फुटं निश्चितमय जगति विश्वस्मिन् इन्द्रता प्रकटीकृता देवेन्द्रत्वमाविष्कृतं, किंभूतेन त्वया मयि गोत्रभिदा गोत्रं नाम मिन- त्तीत्ति तथा तेन । 'नाम गोत्रं कुलं गोत्रं गोत्राश्च धरणीधर' । इन्द्रोऽपि गोत्रभृत् पर्वत- भेदी । त्वं मयि सपत्नीनाम ददासीत्यर्थः । न विभावयतीति ॥ हे कान्त ! भवान् त्वं माम् अक्षिगतामपि चक्षुदृष्टामपि न विभावयति न पश्यति, कया अनिशं सदैवाऽतिसमीप- नया अतिसामीप्येन । पुनः बहिर्बाह्ये अभीष्टतमामतिवल्लभां कान्तां परितः समन्तात कथमीक्षते किमु पश्यति, किंभूताममीष्टतमा हृदयस्थितामपि मनसि गतामपि । अथ च भवेदक्षिगतो द्वेष्यः । भवान्मां द्वेष्यभावान्न पश्यतीत्यर्थः । त्रिभिर्विशेषकम् ॥८०-८२॥ अथ कस्याश्चित्सपत्नीनामग्रहणाहूतायाः कान्तोपालम्भं विशेषकेणाह- तदयुक्तामति । अनेन्यामन्त्रण, विश्वमजा विधात्रा तव ईक्षणसहस्रतयं नेत्रसहस्रसमूहः। संख्याया अव- पवे तयप् । न कृत न मृष्टमिति यत् , तदयुक्तम् । कुतः-येन कारणेन मयि विषये स्फुट प्रत्यक्षमेव गोत्रभिदा नामभेदिनाऽद्रिभेदिना च । 'गोत्रं नाम्नि कुलेऽप्यद्रो' इति यादवः । त्वयेति शेषः । अब इन्द्रता जगति प्रकटीकृता खलु । अत्र गोत्रभिदिति श्लेषानुप्राणितं सहस्राक्षत्वमुत्प्रेक्ष्यते ॥ ८० ॥ न विभावयतीति ॥ निगमक्षिगतां चक्षुःमात्रकृष्टामपि द्वेष्यामिति च गम्यते । 'द्वेष्ये त्वक्षिगतः' इत्यमरः। मामतिसमीपतया भवान विभावयति । शेष प्रथमः' इाने प्रथमपुरुषः। इन्द्रियसनिकृष्टमपि न लक्ष्यत- इति विरोधाभासनार्थोऽपिशब्दः। परमार्थस्तु द्वेष्यत्वादनिसामीप्याच्चाऽविभावनं न चित्रमिति भावः। अभीष्ट- मां पुनर्हदयस्थिता हृदयादनपेताम् , अन्तहितामिति च गम्यंत । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवानीक्षते इदं तु चित्रम् । अतिसामीप्यन्यवधानस्यापे दर्शनप्रतिबन्धकत्वादिति भावः। प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते, इतरदपरोक्षभषि परोक्षमेवेति तात्पर्यार्थः । विरोधाभासयोः सङ्करः८१ इति गन्तु मिति ।। इत्यभिधाय पुरो गन्तुमिच्छ क्षणं दृष्टयोः पातेन विकसद्वदना । परस्परदृष्टिपात- मात्रगतकोपामित्यर्थः । काञ्चिन्नायिका तरुणो युवा स्वकरावलम्बनं प्रियकरण ग्रहणं तेन विमुक्ता मुक्कबन्धना अत एव गलन्ती मंशमाना कला मधुरा काञ्ची यस्मिन्कर्मणि तयथा तथा अरुण रुवान् । रुधेलाडि रुधादिभ्यः श्नम् । एषा च कलहान्तरिता ॥ ८ ॥ अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ॥ कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥ ८३ ॥ अपयातीति ॥ मृगाक्ष्या नायिकया चुक्षुवे क्षुतम् । कथं यथा भवति तथा कृतकं कृत्रिम यथा भवति तथा, क सति कामिनि वल्लभे अपयाति सति अपगच्छति सति, कि- भूते कान्ते सरोषया सकोपया सत्या निरस्त निराकृते । किलेति सत्ये, इतरोऽपि कान्तोऽपि सव्यथः सन् सखेदः सन् अवतस्थे स्थितः । किं कुर्वन् कलयन्नपि अनया कृत्रिमं झूयते इति जाननपि, अत एव किंभूतः इतरः, किलेत्युत्प्रेक्षायाम् , अशकुनेन विरुद्धफलदर्शकशकुनेन स्खलितः प्रतिहत इव । यथा कश्चिदपशकुनेन स्खलितः सन् तिष्ठति॥ अपयातीति ॥ सरोषया मृगाक्ष्या निरस्ते कामिनि भर्तर्यपयाति निर्याते सति कृतकं कृत्रिमं यथा तथा चुक्षु । तनिर्गमन प्रतिबन्धार्थ क्षुतं कृतमित्यर्थः । क्षु शन्दे, भावे लिट् । इतरोऽपि नायकोऽपि कलयत्रापि कृतकोऽयमिति जाननपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिद इवाम्वतस्थे स्थितः । न गत इत्यर्थः । उभावपि ममानाऽनुरागादिति भाषः । एषा च कलहान्तरिता ॥ ३ ॥ .

३४२ सन्देहविषौषधिसर्वकषायुते- [ नवम:- स्म, । . आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ॥ तन्नूनं पदमवलोकयाम्बभूवे मानस्य द्रुतमपयातु(१)मास्थितस्य ॥४॥ पालोक्येति ॥ मानवत्या मानिन्या यत् नमितमुखेन्दु तस्थे नम्रवक्क्रचन्द्रं स्थीयते किं कृत्वा विनीवौ अंशुके श्ल|ऽशुके प्रियतमं कान्तमवलोक्य दृष्ट्वा । नून निश्चितं तत् मानस्याऽहङ्कारस्य पदमवलोकयाम्बभूवे। किंभूतस्य मानस्य द्रुतं शीघ्रमपयातु- मास्थितस्य त्वरितं गन्तुमिच्छतः ॥ ८४ ॥ पालोक्योति ॥ मानवत्या कोपवत्या मिया । 'मीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये'। प्रियतममालोक्य । स्थित्या समानकर्तृकत्वात् क्त्वानिर्देशः। अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्पुबद्भावः । 'मीकटीवमबन्धेऽपि नीविः परिपणेऽपि च' इत्यमरः । नमितमुखेन्दु यथा तथा तस्थे स्थितमिति यत , तत्तस्मान्नममुखावस्थानाद् द्रुतं शीघ्रम् , प्रियावलोकनक्षण एवेत्यर्थः। अपयानमास्थि- तस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिहमवलोकयाम्बभूवे । अन्वेषितमित्यर्थः । लज्जानिमित्तायः मुखनतेः अन्वेषणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः ॥ ८ ॥ सुदृशः सरसव्यलीकतप्तस्तरसाऽऽश्लिष्टवतः सयौवनोष्मा ॥ कथमप्यभवत्स्मराऽनलोष्णः कुच(२)भारोन नखम्पचः प्रियस्य ॥२५॥ सुदश इति ॥ सुदृशो नायिकायाः कुचभारः प्रियस्य कान्तस्य कथमपि केनापि प्रकारेण नखम्पचः नाऽभवत् नखान् पचतीति नखम्पचः नखरन्धको न बभूव । किंभूतस्य प्रियस्य तरसा बलात्कारेण आश्लिष्टवतः आलिङ्गन कुर्वतः, किंभूतः कुचभारः सरसव्यलीक- तप्तः तत्क्षणापराधसन्तप्तः, अपरं किंभूतः सयौवनोष्मा सयौवनबाष्पः, पुनः किंभूतः स्मराऽनलोष्णः कामाग्निज्वरतप्तः ॥ ८६ ॥ सुदृश इति ।। सरसमाईम् । नूतनमिति यावत् । तेन व्यलोकेन प्रियकृतेनाऽपराधेन तप्तः तथा यौव- नोऽमणा सह वर्तत इति सयौवनोष्मा, किञ्च स्मराऽनलोष्णः कामाग्निसन्तप्तः एवं त्रिविधाग्निततोऽपि सुदृशः स्तनभारस्तरसा वेगेन अतिदाहदशायामेवेत्यर्थः, आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कर्क वा ।कुतो हेतोरित्यर्थः । नख पचति क्वाथयतीति नखम्पचः। पचिरत्र तापवाची । 'मितनखे च' इति खश- प्रत्ययः । 'अरुषिदजन्तस्य मुम्' इति मुमागमः । नाऽभवत् । तथोष्ण ईषदुष्णोऽपि नाऽभूदित्यर्थः । प्रिया- सङ्गप्रतीकाराः खलु कामिना सन्तापा इति भावः । तादृगौष्ण्यसम्बन्धेऽप्यसम्बन्धोतरतिशयोक्तिः ।। ८५ ।। दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ॥ बभौ मुखेनाऽप्रतिमेन काचन श्रियाऽधिका तां प्रति मेनका च न ॥६॥ दधतीति ॥ काचिन्नायिका वदनेन बभौ मुखेन शुशुभे। किंभूतेन मुखेन अप्रतिमेन निरुपमेन, किं कुर्वती नायिका उरु विशालं वक्षोजद्वयं स्तनयुगलं दधती धारयन्ती, किंभूतं स्तनद्वयम् अर्शातलमुष्णम् । किंभूता नायिका, उत्प्रेक्ष्यते-भुवः तलं गता महीतल प्राता स्वयमात्मना उर्वशीव श्रीनारायणोरुत्पन्ना श्रेष्ठदेवाङ्गनेव । अपरं तां नायिका प्रति श्रिया शोभया कृत्वा मेनका च न अधिका अप्सरःश्रेष्ठा मेनकाऽपि न उत्कर्षवती ॥८६॥ दधतीति ॥ उरु महदशीतलं स्मरयौवनोष्मभ्यामुष्णमुरोजद्वयं कुचद्वयं दधती भुवस्तलं गता स्वयं साक्षादुर्वशीव स्थितेत्युत्प्रेक्षा । काचन मी अप्रतिमेन मुखेन बभौ । ता प्रति मेनका मेनकाख्याप्सराव प्रिया सौन्दर्येणाऽधिका नेत्यतिशयोकिः । तयोर्यमेकेन संसृष्टिः । वंशस्थं वृत्तम् ॥८६॥ (मपयान । (२) स्तन । १ सर्गः ] शिशुपालवधे। ३४३ इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानाऽन्तरायाः ॥ आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा हीप्रत्यूहप्रशमकुशलाः शोधवश्चकुरासाम् ॥ ८७ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये प्रदोषवर्णनं नाम नवमः सर्गः ॥ ९ ॥ इत्यमिति ॥ प्रालेयांशोः शीतकिरणस्य चन्द्रस्य रुचयः किरणाः सपदि तत्कालम् इत्यममुना प्रकारेण नारीः कामिनीः कामं निश्चितम् अलमतिशयेन कामिभिः कान्तः सह घटयितुं संयोजयितुम् अलं समर्थाः आसन् बभूवुः, किंभूताः रुचयः शान्तमाना- ऽन्तरायाः क्षीणाहङ्कारविघ्नाः । अपरं शीधवः मदिराः आसां कामिनीनां रतिषु सम्भोगेषु आचार्यत्वं चक्रुः उपदेष्तृत्वं विदधुः । किंभूताः शाधवः विलसन्मन्मथश्रीविलासाः विलसन् विकसन् शोभमानो वा मन्मथश्रियः कामसमृद्धः विलासो विभ्रमो याभिस्ताः प्रस्त- कन्दर्पशोभाविभ्रमाः, अपरं किंभूताः शीधवः हीप्रत्यूहप्रशमकुशलाः होर्लज्जा एव प्रत्यूहः सम्भोगे विघ्नः तस्य प्रशमः तत्र कुशलाः, लज्जाविननिरसनप्रवीणाः ॥ ८७ ॥ इति श्रीशिशुपालवधे काव्ये वल्लभविरचितायां सन्देहविषौषध्यां सारटीकायां सन्ध्यासमयवर्णनं नाम नवमः सर्गः । . इत्थमिति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः। सपदि शान्तः शमितो मानः केप एवाऽन्तरायो याभिस्ताः । 'वा दान्त-' इत्यादिना शमेय॑न्ताच्छान्तेति निपातः । प्रालेयांशोश्चन्द्रस्य रुचयो नारी: कामिभिर्घटयितुम् । मिता हस्वः । 'पतिवचनेष्वलमर्थेषु' इति तुमुन्प्रत्ययः । कामं प्रकामं समर्था आसन् । दूत्य हवेति भावः। विलसन्तो मन्मथश्रीविलासा भणितसीत्कारादिमदनाऽति रेकविकारा याभिस्ताः, ही रव प्रत्यूही विघ्नस्तस्य प्रशमे निवारणे कुशलाः शेरते आभिरिति शीधवो मदिराः। शीडोधुक' इत्यौणादिको धुक्प्रत्ययः । आमा रतिषु आचार्यत्वमुपदेशं चक्रुः । नर्मसख्य इवेति भावः । अत्र प्रथमाः प्रस्तुतचन्द्रभासां मानशमनकामिघटनपाटवविशेषणसाम्यादप्रस्तुतदूतीत्वप्रतीतेः समासोक्तिः । द्वितीयार्धे तु शीधुवा रोपितस्याचार्यत्वस्य प्रकृतोपयोगात्परिणामः । तयोः सापेक्षत्वात्सदूरः । तेन च दूतीनमसख्यु- पमा ध्वनिः। उत्तरस, मधुपानरतोत्मववर्णनायाश्वायमेव प्रस्तावः। मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगम्भी नतो तो गुरू चेत्' इति लक्षणात् ॥ ८ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरविरचिते शिशुपालवध. काव्यव्याख्याने सर्वकषाख्ये नवमः सर्गः ॥ ९ ॥ .. दशमः सर्गः । सजितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ॥ आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनाति ॥ १ ॥ सजितानीति ॥ अथानन्तरं प्रियतमावदनानि प्रेयसीमुखानि यूनां कामिनां मुरायाः पात्रतामाययुः मदिरायाः चषकत्वमवापुः । युवानः कान्तामुखैः सरां पपुरित्यर्थः ।

३४४ सन्देहविषौषधिसर्वकषायुते- [दशम:- कितानि प्रियतमावदनानि सज्जितानि सज्जीकृतानि । सुवर्णरत्नादिमिरलकृतानीत्यर्थः। पुनः किंभूतानि सुरभीणि सुपरिमलानि, पुन: कितानि उल्लसन्नयनवारिल्हाणि विकस्वर- नेत्रकमलानि, पुनः किंभूतानि सुघटितानि धात्रा सुनिमितानि । मुरायाः पात्राण्यपि एवं- विधानि भवन्ति-सज्जितानि उत्तेजितानि सुगन्धिमन्ति विकस्वराम्बुरुहयुक्तानि । सुरामध्ये हि कमलानि निक्षिप्यन्ते। अपरं मुघटितानि वर्तुलाकाराणि। सुरापात्रमुखयोः साम्यमुक्तम् ॥ आचार्यत्वं रतिषु शीधवक्रुरित्युक्तं, तत्प्रपञ्चनायामस्मिन्सर्गे मधुपानं तावदर्णयति- सज्जितानीति ॥ अथ पानगोष्ठीप्रस्तावानन्तरं सजितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोग स्वभावसंस्काराभ्यो सुगन्धीनि नयनानि वारिरुहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थ क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्ठु मुखैयोजितानि शोभनसंस्थानवत्तया निर्मितानि वा प्रियतमावदनानि यूनां कामिना सुरायाः पात्रता पानभाजन तां ययुः । प्रियामुखसम्पर्कजनित- रसास्वादलोभानासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषा पानसाधनताऽऽपादनेन कृतवदनोपयोगात्परिणामाऽलङ्कारः। 'आरोष्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । तेन श्लेषसङ्कीर्णेनोपमा व्यज्यते । अस्मिन्सर्गे स्वागता वृत्तम् । 'स्वागतेति रनभा गुरुयुग्मम्' । सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ॥ ते मुहूर्तमथ मूर्तमपीप्यन् प्रेम मानमवधूय वधूस्ताः(१) ॥२॥ सोपचारमिति ॥ ते कामिनः ताः वधूः अङ्गनाः मानमवधूय अहङ्कारं त्यक्त्वा मुहूर्त क्षणमात्रं मूर्त प्रेम अपीप्यन्, अपीति निश्चये, मूर्त प्रेमरसं पाययामासुः । केन अनुतर्षपदेन मद्यव्याजेन, किंभूतं सानुतर्ष साभिलाषम् , अपरं किंभूतं सोपचारमुपचार- सहितम् , अपरं किंभूतं उपशान्तविचारम् उपशान्तः विचारः विवेको यत्र सः तम् ॥२॥ सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचार सप्रार्थनमुपशान्तावचारं निवृत्तश हुम् । 'विवादम्' इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुपासक्रमभङ्गश्च स्यात् । सानुतर्ष सतृष्ण च यथा तथा अनुतर्षत्यनेनेन्यनुतर्षों मघम् । 'मयेऽनुतर्ष तत्पाने पात्रे तृष्णाभिलाषयोः' इत्युभयत्रापि विश्वः। तस्य पदेन छलेन मूत मूर्निमत् स्वाः स्वीया बधूर्मुहूर्त क्षणं मानं कोपमधूयाऽपाप्यन पाययन्ति स्म । पिबते। चडि 'लोपः पिबतेरीच्चाभ्यासस्य' इति धात्वाकारलोपः ईकारोऽभ्यासस्य । 'न पादमि-' इत्यादिना निग- रणार्थत्वात्परस्मैपदनिषेधेऽपि "णिचश्च' इत्यात्मनेपदविकल्पा-पाक्षिकं परस्मैपदम् । 'गतिबुद्धि-' इत्यादिना वधूरित्यणिकर्तुः कर्मत्वम् । अनुतर्षवदनेत्यनुतर्षापहवेन मूर्तप्रेमत्वात्प्रेक्षणात व्यञ्जकाप्रयोगाच्च प्रतीय- माना सापहवोत्प्रेक्षा ॥२॥ क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणदिताऽलिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ ३ ॥ क्रान्तेति ॥ इन्द्रियवर्गः नेत्रादिकरणसमूहः मधुनि आसवे निर्ववार निर्वृति लेभे । किंलक्षणे मधुनि क्रान्तकान्तवदनप्रतिबिम्बे न्यस्तप्रियमुखप्रतिनिधी, पुनः किंभूते मधुनि भग्नबालसहकारसुगन्धौ मृदितमुकुमाररसालपुष्पपरिमले, पुनः किंभूते मधुनि स्वादुनि स्वादिष्ठे, अपरं किंभूते मधुनि प्रणदिताऽलिनि शब्दितभ्रमरे पुनः किंभूते शीते शीतगुणयुक्ते। क्रान्तकान्तेत्यादिभिः पञ्चभिः विशेषणैः चक्षुर्घाणरसनश्रोत्रत्वगिन्द्रियाणां निवृतिकथनम् ॥ कान्तेति ।। कानां संक्रान्तं कान्तवदनप्रतिबिम्ब यस्मिंस्तस्मिन् । नेत्रनिवृनिकर इत्यर्थः । भनाः क्षिप्ताः बालसहकाराश्चूतविशेषपल्लवाः । 'आम्रचूनो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। तैः (१) वधूः स्वाः। ..

सर्गः:1] शिशुपालवधे। ३४५ .. मुगन्धी सुरभिणि । ग्राणतर्पण इत्यर्थः । 'तृतीयादिषु भाषितपुंस्कं पुंवद्रालवस्य' इति पुंवद्भावः । स्वादुनि मधुरे, रसनाकर्षिणीत्यर्थः । प्रणदितालिनि गुञ्जन्मधुकरे, श्रुतिसुख इत्यर्थः । शीते, स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टी मधुनि मद्ये इन्द्रियवर्गश्चक्षुरादिपञ्चकम् निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदा- थाना मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ३ ॥ कापिशायनसुगन्धि विघूर्णनुन्मदोऽधिशयितुं समशेत ॥ फुल्लदृष्टि वदनं वनिताना(१)मब्जचारु चषकं च षडधिः ॥ ४ ॥ कापिशायनेति ॥ षडनिः भ्रमरः वनितानां वदनं मुखं च पुनः चषकं पानपात्रम् अधिशयितुमाश्रयितुं समशेत संशयं चक्रे । किंभूतं वदनं कापिशायनसुगन्धि सुरापरिमल. वत् , पुनः किंभूतं वदनं फुल्लदृष्टि स्मितनयनं, पुनः किंभूतम् अब्जचारु कमलवदम्य, षड- इनिः किं कुर्वन् विघूर्णन् परिभ्रमन् , पुनः किंभूतः उन्मदः मत्तः । चषकमप्येवंविधं भवति, किंभूतं चषकं मद्यगन्धि प्रफुल्लकमलं च । उभयोः साम्यम् ॥ ४ ॥ कापिशायनेति ॥ उन्मद उद्रितमदः अत एव विघूर्णन्भ्रमन् षडनिः षट्पदः कापिशायनेन सुगन्धि सुरभि । 'कश्य कल्यं तथा मद्यं भरेय कापिशायनम्' इति वैजयन्ती। फुल्लदृष्टि विकसितनेत्रं प्रमादानां वनिताना वदनमधिवासनार्थेनाब्जेन चारु चषकं पानपात्रं च । 'चषकोऽत्री पानपात्रम्' इत्यमरः । अधि- शयितुमधिष्ठातु समशेत । इदं भजामीदं भजामि वेत्युभयलोभार्थ दोलायमानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव वदनचषकयोः षट्पदाभिलाषास्पदत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभदः ॥४॥ बिम्बितं भृतपरिनुति जानन भाजने जलजमित्यबलायाः ।। घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवतिक्क विवेकः ॥ ५ ॥ विम्बितमिति ॥ भ्रमरोऽलि: अबलायाः नायिकायाः अक्षि घातुं नयनं शिवितुं पतति स्म पपात, किं कुर्वन् इति जानन् इति विचारयन् । इति किम्-यत्, एतजलजं कमलमिति । किंभूतमक्षि भाजने बिम्बितं पानपात्रे प्रतिफलितं, किंभूते भाजने भृतप- रिति पूर्णमदिरे। यतः कारणात् भ्रान्तिभाजि भ्रमणशीले क्व विवेकः क्व विचारो भवेत्, अपि तु न ॥ ५ ॥ बिम्बितमिति ।। भृता परिखुद्वारुणी यस्मिस्तास्मन् । 'परिखदरुणात्मजा' इत्यमरः । भाजने पान- पात्र बिम्बितं प्रतिबिम्बितमबलाया अक्षि जलजमिति जानन् । सादृश्यात्तथा भ्राम्यत्रित्यर्थः । भ्रमरः पातुं पतति स्म । तथा हि-भ्रान्तिभ्रमणं विपरीतज्ञानं च तद्भाजि विवेको विचारक भवति । न वापीत्यर्थः । अब भ्रमरस्याऽक्षिजलजभ्रान्तेन्तिमदलङ्कारः। तत्समर्थकत्वात् श्लेषमूलातिशयोक्त्युत्थापितोऽर्थान्तरन्यासः, तेन सहाऽङ्गभिभावेन सदूरः ॥ ५ ॥ दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ॥ यत्सुवर्णमुकुटांशुभिरासीच्चेतनाविरहितैरपि पीतम् ॥ ६ ॥ दत्तमिति ॥ मधु मथं पत्युः कान्तस्य पिबतः धयतः सतः बाढमत्यर्थ रसवत्ता- माप स्वाददं बभूव । किंभूतं मधु इष्टतमया दत्तम् अतिवल्लभया कान्तया दत्तमर्पितम् । कथमेवं प्रतीयते-यन्मधु सुवर्णमुकुटांशुभिः हेमवतंसतेजोभिः पीतमासीत् । हरिद्राभं बभूवे- त्यर्थः । किंभुतैः सुवर्णमुकुटांशुभिः चेतनाविरहितैरपि अचेतनैरपि ॥ ६ ॥ दत्तमिति ॥ष्टतमया दत्तं मधु मद्य कर्तृ पिवतः पत्युः रसवत्ता प्रेयसीकरस्पर्शादतिस्वादुतामाप । (१) प्रमदाना।

सन्देहविपौषधिसर्वपायुते- [दशमः- अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः-यत् यस्माच्चतनाविरहितैरचेतनः सुवर्णमुकुटोशुभिरपि । मधुनि प्रसृतरिति भावः । पीतं पीतवर्ण पीतं चाप्सीत् । अत्र पीतामेति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायनाऽचेतनाशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितरसवत्तोत्प्रेक्षा। तथा च यद- चेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थापत्तिवननादलङ्कारेणाऽलङ्कारध्वनिः ॥ ६ ॥ स्वादनेन सुतनोरविचारादोष्टतः समचरिष्ट रसोऽत्र ॥ अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ ७ ॥ स्वादनेनेति ॥ अत्र अस्मिन् मधुनि सुतनायिकायाः स्वादनेन पानेन ओष्ठतः अधरतः रसः समचरिष्ट माधुर्य सञ्चरित, कस्मादविचारात् स्वभावात् । यन्मधु मधं यूनः कान्तस्य अन्यं स्वादम् इष्टमभिमतं स्वादमतनिष्ट अतनोत् । किंभूतं मधु, उत्प्रेक्ष्यते- तत् अन्यदिव इतरदिव ॥ ७ ॥ स्वादननति ॥ सुतनोः काः स्वादनेनास्वादनेन ओष्ठतः ओष्ठाद्रमः स्वादोघ मधुनि अविचार - दसंशयात्समचरिष्ट संक्रान्तः । संपूर्वाञ्चरतेलुङ। 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । कुतः यत् यस्मादेव पूर्वभुक्तमेव मधु अन्यादेवा पूर्वमिव अन्यमपूर्वमिष्टं प्रियं स्वाद रसं यूनोऽननिष्ट । तेनोते कि तक। ओष्ठस्पी- नन्तरमेव रसान्तरप्रादुर्भावादनन्तरन्यायात्तद्रससंक्रमणोत्प्रेक्षा । सा चाऽविचारादिति व्यञ्जकाप्रयोगाद्राच्या ।। पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विददड्डौ ।। लभ्यते स्म पारतिक्ततया(१)ऽऽत्मा यावकेन वियताऽपि युवत्याः ॥८॥ पीतवतीति ॥ युवत्याः नायिकायाः यावकेनालक्तकेन वियता गच्छतापि सता आत्मा लभ्यते स्म स्वस्वरूपं लब्धम् । कया परितिक्ततया तीक्ष्णतया, क्व सति अभिमते वल्लभे मधु मद्य पीतवति सति धयति सति पानं कुर्वति सति, प्रिये कि कर्तुमिच्छौ ओष्टरुचकं विवदड्डौ ओष्ठ एव रुचकमाईकं दष्टुमिच्छौ कांक्षमाणे(?), किंभूतमो- ष्ठरुचक तुल्यस्वादम् ॥ ८ ॥ पीतवतीति । विददी विदष्टुमिच्छै । उपदंशेच्छावतीत्यर्थः । दशेः सनन्तादुपत्ययः। अभिमते बल्लभे मधुना तुल्यस्वादं तुल्यरसम् । तुल्यत्वं च हृयतामात्रेण नान्यथा, पिलक्षणरमस्य अनुपदंशत्वात् । ओष्ठो रुचकभाभरणमिवेत्युपमितसमासः | 'रोचनायां तु रुचकमश्वाभरणमाल्ययोः' इति विश्वः। तमोट- रुचकमोष्ठ श्रेष्ठं पीतवति सति वियता अपगच्छनाऽपि । इणो लटः शत्रादेशे 'इणो यण' इति यणादेशः । युवत्याः युक्तेः । 'डिति ह्रस्वश्च' इति वा नदीत्वादाडागमः। यावकेनालक्तकेन परिरक्कतया दन्तनिष्पीडन- कृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लन्धः। पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्थापि यावकस्य रागप्रादुर्भावनिमित्ता विरोधगर्भा पुनरुद्भवोत्प्रेक्षा व्यञ्चकाप्रयोगाद्गम्या च ॥ ८ ॥ कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य । स्वादितः सदिवाऽऽसव एव प्रत्युत क्षणचिदंशपदेऽभूत् ॥ ६ ॥ कस्यचिदिति ॥ कस्यचित् कामिनः आसव एव मध्वेव प्रत्युत वैपरीत्येन क्षणविदेश- पदे अभूत् आसव एव रुचकस्थाने आसीत् । आईकादि फलभक्षणस्थाने रुचकमित्य- भिधीयते । किंभूतस्य कामिनः समदनं सकामं यथा भवति तथा मदनीयप्रेयसीवदनपान- परस्य अतिवल्लभावक्तदशनतत्परस्य, मदनीया सकामा या प्रेयसी प्रिया तस्याः वदन- पाने आस्यधयने तत्परस्य । उत्प्रेक्ष्यते-सकृत् एकवेलं स्वादित एव । एतेन मुखपानं आसवमेकवेलं पपावित्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माघ्रिवस्तुषुः ॥ ९॥ बहु, (1) रकतया ।

सर्गः ।] शिशुपालवधे। ३४७ कस्थचिदिति ॥ समदनं यथा तथा मदयतीति मदनीय मदकारि । 'कृत्यल्युटो बहुनम्' इति कर्त- र्यनीयप्रत्ययः । तस्य प्रेयसीवदनस्य पान पर प्रधान यस्य तस्य कामुकत्वात्प्रियामुखपानासकस्य कस्य. चित्कामिनः सकृदिव स्वादितोम्बाहुल्येन पीतः । इवशब्दो वाक्यालङ्कारे। आसव एव । प्रत्युत वैपरीत्ये इति गणव्याख्याने । क्षणं विदंशपदे उपदंशस्थाने भूत् । अन्येषां मधुपानलोलुपानामधरास्वाद उपदंशः। अस्य त्वधरपानकपरस्य मध्येवोपदंश इत्यर्थः। अधरपानस्योपदंशत्वसम्बन्धेऽप्यसम्बन्धः, आसवस्य तद- सम्बन्धेऽपि सम्बन्ध इत्यतिशयोक्त्योरसापेक्षत्वात्समृष्टिः ॥ ९ ॥ बिभ्रती मधुरतामधिपात्रं(१) रागिभिर्युगपदेव पपाते ॥ आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः(२) ॥ १०॥ बिभ्रताविति ॥ रागिभिः कामिभिः अधिपात्रं पानपात्रे युगपदेव एककालमेव द्वौ पदार्थों पपाते पीती, किंभूतौ द्वौ मधुरतां बिभ्रती माधुर्य धारयन्तौ। कः केन पीत इत्याह- विकसद्भिः सहास्यैः आननैर्वदनैः मधुरसः मद्यरसः पपे पीतः । नासिकाभिः नासाभिः असितोत्पलगन्धः इन्दीवरपरिमलः पीतः गृहीतः ॥ १० ॥ बिभ्रताविति ॥ रागिभिः कामिभिरतिमात्रं मधुरता स्वादुतो प्रियत्वं वा बिभ्रता । 'मधुरं रसवत्स्वादु प्रियेषु मधुरोऽन्यवत्' इति विश्वः । तस्य भावस्ताम् । विकसद्भिर्विकसन्तीभिश्च विकसद्भिः तृष्णया विज़म्भ- मणैः । नपुसकमनंपुसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकैकशेषः।आननः मधुरसो मघरसः नासिकाभि- गिरसितोपलगन्धश्च युगपदेव पपाते पीतो । भिन्नन्द्रियग्राह्यावपि गन्धरसौ युगपत्स्वेन्द्रियसम्बन्धात युगपद् गृहीतावित्यर्थः । अत्र मनस आशु सञ्चारायौगपचाभिमानः । शतपत्रशरन्यतिभेदवदित्यणुपरिमाण- वादिनः । वास्तवमेव योगपद्यमिति मध्यमपरिमाणवादिनः। सार्वपधीनास्तु कवय इत्यलमतिपल्लवितेन । अत्र रसगन्धयोः प्रकृतयोरकेपानक्रियासम्बन्धानुल्ययोगिताभेदः ॥ १० ॥ पीतशीधुमदिरै(३)मिथुनानामाननैः परिहृतं चषकान्तः ।। वीडया रुददिवाऽलिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ ११ ॥ पीतेति ॥ नीलनीरजमिन्दीवरं चषकान्तः मदिरापात्रमध्ये अधस्तात् अगच्छत् अधोगतं, कया बीडया। किंलक्षणं नीरलनीरजम् , उत्प्रेक्ष्यते-अलिविरावैः भ्रमररुतैः रुद- दिव रोदनं कुर्वदिव । रोदने कारणमाह-यतः किंभूतं नीलनीरजं मिथुनानां स्त्रीपुंसयो- र्द्वन्द्वानाम् आननैमुखैः परिहृतं जितं त्यक्तं वा, किंभूतैराननैः पीतशीधुमदिरैः आस्वादित- भूरि(१)मदिरैः ॥ ११ ॥ पीतेति ॥ पतिशीधूनि पीतमयानि अत एव मधुराणि मनोज्ञानि तेमिथुनानां सीपुंसानामाननः चष- काऽन्तः पानपात्राभ्यन्तरे। चषकोऽमी पानपात्रम्' इत्यमरः । परिहतं त्यक्तं नीलनीरज वासनार्थे निक्षित नीलोत्पलं बीडया परिहारलज्जया अलिविरावैः रुददिवाऽधस्तादगच्छत् । निमित्तस्य नीलनीरजाऽधोगमनस्य रोदनविशिष्टलज्जाहेतुकत्वात्प्रेक्षा । सा च आलिविरावैरिति व्यधिकरण- कारिपरिणामोज्जीवितेति सदूरः ।। १३॥ प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ॥ गूढसूचितरहस्यसहास्यः(४) सुभ्रुवां प्रववृते परिहासः॥ १२ ॥ प्रातिभमिति ॥ ध्रुवां नायिकानां परिहासः प्रववृते नर्म प्रवृत्तम् । किंभूतानां सचवां त्रिसरकेण निःपानेन प्रातिभं गतानां निर्लज्जत्वं प्राप्तानां, किंभूतः परिहासः वक्रवाक्यरचनारमणीयः वक्रोक्तियुक्त्या शोभमानः, अपरं किंभूतः परिहासः गूढसूचित. (१)मधिप.त्र। (२) श्लोकोऽयं सर्वकषायो 'पीतवत्यभिमन' इत्यतः प्राक् समुपलभ्यते । (१) मधुरै। (४) सहासः। .. अत्र मयापगम- ३४८ सन्देहविषौषधिसर्वकषायुते- [दशमः-- . रहस्यसहास्यः गूढं सूचितं रहस्यं यस्मिन् गूढसूचितरहस्यः अत एव सहास्यः सविनोदः गुप्तोत्तैकान्तसहास्यः ॥ १२ ॥ अथ मदानुभावान् वर्णयति- प्रातिमिति ॥ त्रयाणां सरकाणां समाहारभिसरकं त्रिवारमधुपानम् । 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः । तद्धितार्थ-' इत्यादिना समाहारे द्विगु:, पात्रादित्वानपुंसकत्वम् । तेन त्रिसरकेण त्रिपानं मदातिऽभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽणप्रत्ययः। यहा 'ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा' इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभावविशेष- एव । भवार्थे ऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोबुद्धसंस्कारप्रभाषितप्रगल्भ- मतीनामित्यर्थः । सुभ्रवा मीणा वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः । गूढानि पूर्व लजया संवृतानि सूचितानि सम्प्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलापतानि यस्मिन्स गूढसूचित- रहस्यः स चासो सहासश्चेति विशेषणसमासः, वैवक्षिकविशेषणविशेष्यभावात् । 'हासो हास्यम्' इत्यमरः । परिहासो नर्मकेलिरूपहासक्रीडति यावत् । 'द्रवकेलिपरीहासाः' इत्यमरः। प्रववृते प्रवृत्तः । इत: परं मदः सञ्चारी ॥ १२ ॥ हावहारि हसितं वचनानां कौशलं दशि विकारविशेषाः ॥ चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १३ ॥ हावहारीति ॥ मदेन क्षीबतया वध्वा नायिकाया एते पदार्थाः चक्रिरे विदधिरे, किंभूतायाः वध्वाः भृशमत्यर्थम् ऋजोरपि मुग्धाया अपि । तावत् किं किं चक्रे-हसितं हास्यं चक्रे, किंभूतं हास्यं हावहारि विलासशोभि । अपरं मदेन वध्वाः वचनानां वाक्यानां कौशल्यं प्रावीण्यं चक्रे । अपरं दृशि नेत्रे विकारविशेषाः कटाक्षनिरीक्षणादयः चक्रिरे । केनेव तरुणेन यूना कामिनेव नायकेनेव । यथा तरुणेन कामिना वध्वा एतानि वस्तूनि क्रियन्ते । लीलाशोभि हास्यम् , अपरं वाक्यचातुर्य, कटाक्षादयश्च एतानि विधीयन्ते ॥१३॥ हावहारीति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढाना- मिति भावः । हावहारि विलासमनोहरं हसितं हास: वचनाना कौशल प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढचं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां योगपयोक्त्या समुच्चयः । 'गुणक्रियायोगपद्यं समुच्चयः' इति लक्षणम् । तस्यौपम्ययोगेन सदरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिय॑ज्यते ॥ १३ ॥ अप्रसन्नमपराद्धरि पस्यौ कोपदीप्तमुररीकृतधैर्यम् ॥ मालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥ १४ ॥ अप्रसन्नमिति ॥ नु इति वितकें, मधुवारैः मधुपानैः वधूनां नारीणां मनः अप- गद्धरि पत्यो साभिलाषे भर्तरि अप्रसन्नं कलुषं सत् क्षालितं नु । अपरं न्विति वितकें, कोपदीप्तं क्रोधाग्निज्वलितं सत् हृदयं शमितमुपशमितं नु । नु इति वितकें, उररीकृतधैर्य- मङ्गीकृतधीरत्वं सत् हृदयं द्रावितं नु ॥ १४ ॥ अप्रसन्नमिति ॥ अपराद्धरि आगस्कारिण। राधेस्तृच्प्रत्ययः। पत्यो विषये अप्रसत्रं कलुषम् । क्षुभितमित्यर्थः । कोपदीतं कोपेन ज्वालितमुररीकृतधैर्यमङ्गीकृतकाठिन्यम् । 'उरीकृतमुररीकृतम्' इत्यमरः । 'उर्यादिच्चिडाचश्च' इति गतित्वात् 'कुगतिप्रादयः' इति समासः । वधूनां हृदयं मधुवोरै मद्यपर्यायः 'मधुवारा मधुक्रमाः' इत्यमरः । मालितं धोतं नु, शामितं निर्वापितं नु, दारितं वीकृतं नु । अन्यथा कथं ताद्गप्रसन्नतादीप्तताकठिनताना हठानिवृत्तिरिति भावः । अत्र. क्षालितत्वादीना- मेकत्राविरोधात्सादृश्याच्च न संशयालङ्कारः । सति सादृश्ये विरुद्धाऽनेककोटिगोचरत्वात्नस्य, किन्तु सर्गः।] शिशुपालवधे। ३४६ . अप्रमत्रत्वादिनिरासनिमित्तकक्षालितत्वायुस्प्रेक्षात्रये नुशन्दानुवृत्तेः । तच्चा प्रसन्नत्वायुदेशिनां क्षालितत्वा धनुदेशिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालङ्कारेण सङ्कीर्यते ॥ १४ ॥ सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे॥ विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥ सन्तमेवेति ॥ मधुना कृती मदः मधुमदः क्षीबता प्रमदानां स्त्रीणाम शरीरे सन्तं वर्तमानं विभ्रमं विलासम् अदिद्युतत् द्योतयामास, किंभूतं विभ्रम चिरं चिरकालमेवा- ऽप्रकृतत्वात् अप्रयुक्तत्वात् अप्रकाशितं अप्रकटितम् । कः कमिव उपसर्गःधातुलीनमर्थमिव। यथोपसर्गः धातुलीनं धातुसंस्थमर्थ प्रकाशयति, किंभूतमर्थ चिरं सन्तमेव अप्रयुक्तत्वात् प्रकटितम् । 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इत्यर्थः ॥ १५ ॥ सन्तमेवति ॥ मधुमदः प्रमदानामङ्गे पुषि, अन्यत्र 'यस्मात्प्रत्ययविधिः-' इत्युक्तलक्षणे प्रकृत्या. ख्य शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात् , अन्यत्र वनेकार्थत्वाद्धातूनामिति भावः । किश्च अप्रकृतत्वादप्रस्तुतन्वाद , अप्रसक्तत्वादिति भावः । अप्रकाशितमव्याञ्जतं विभ्रम विलासं धातौ भूवादिक लीनं गूढमर्थमभिधेय मुपसर्गः प्रादिरिव अदिद्युतत् द्योतयति स्म । युतेः गौ चड्युपधाया ह्रस्वः । 'युतिस्वा- प्योः सम्प्रसारणम्' इत्यभ्यासस्य सम्प्रसारणमिकारः । उपसर्गस्य धातुलीनार्थद्योतकत्वमादानसन्दानादा- वनुसन्धेयम् । उपमालङ्कारः ॥ १५ ॥ सावशेषपदमुक्तमुपेक्षा स्तमाल्यवसनाभरणेषु ॥ गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १६ ॥ सावशेषपदमिति ॥ एते पदार्थाः आसां कामिनीनां मदविभ्रमं द्योतयन्ति स्म मदलीलां प्रकाशयन्ति स्म । एते के-सायशेषपदम् अर्धाक्तं वाक्यम् , अपरं स्त्रस्तमाल्य. दसनाभरणेषु अष्टकुछमवस्त्रालङ्करणेषु उपेक्षा अनादरः, अपरम् अकारणतः कारणं विना गन्तुमुत्थितं गमनाय चलितम्, एते द्योतयन्ति स्म ॥ १६ ॥ सावशेषपदमिति ॥ सावशेषाण्यकानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं रस्तेषु माल्यवसना- भरणेषूपेक्षा नादरः अकारणतोऽकस्मादेव गन्तुमुस्थितमुत्थानं च आसां मीणां मदविभ्रमं मदविकार योतयन्ति स्म । एतैरनुभावैरामा मदसञ्चारो ज्ञात इत्यर्थः । अत्राकादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः। 'खलेकपोतन्यायेन बहूना कार्यसाधने । कारणानां समुयोगः स द्वितीयः समुच्चयः ।। इति लक्षणात् ॥ १६ ॥ मद्यमन्दविगलत्वपमीषश्चक्षुरुच्छ्वसित(१)पक्ष्म दधत्या ॥ वीक्ष्यते स्म शनकैनववध्वा कामिनो मुखमधोमुखयैव ॥ १७ ॥ मधमन्देति ॥ नववध्वा नवोढया शनकैर्मन्दमन्दं कामिनो मुखं वीक्ष्यते स्म दृश्यते स्म । किं कुर्वत्या चक्षुनेंत्रं दधत्या धारयन्त्या, किंभूतं चक्षुः उच्छ्वसितपक्ष्म, अपरं कि- भूतं चक्षुः ईषत् किञ्चित् मद्यमन्दविगलनपं मद्यपानेन शनैः स्वस्तलज्जम् ॥ १७ ॥ मथमन्दति ॥ मयेन मद्यपानेन मन्दमल्पं विगलन्ती त्रपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोठया कामिनः प्रियस्य मुख मधोमुखयैव नमितादनयत। (१) रुन्मिषित। ३०शि०१० ३५० सन्देहविपौषधिसर्वकषायुते- दशमः- . : .. स्वाच्चोपसर्जनात-' इति विकल्पादन कारः । शनकरसम्भ्रमेण वीक्ष्यत स्म। तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां व बलीयसीति मौग्ध्यातिशयोक्तिः। समुद्यौवना मुग्धा लज्जापिहितमन्मथा ॥१०॥ या कथञ्चन सखीवचनेन प्रागभि प्रियतमं प्रजगल्भे॥ बीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १८ ॥ येति ॥ या अङ्गना प्राक् पूर्व सखीवचनेन वयस्यावाक्येन प्रियतमममि कान्तमभि लक्षीकृत्य कथञ्चन महता कष्टेन प्रजगल्भे प्रगल्भा जाता निवौंडा जाता, सा स्त्री मधुपा सती मधुपानपरा सती वीडजाड्यमभजत् लजाजाड्यमाशिश्राय । हि यस्मात्कारणात् सर्वः कोऽपि लोकः मदात् मदं प्राप्य स्वां प्रकृति स्वस्वभावं प्राप्नोति ॥ १८ ॥ योत ॥ या मी कथञ्चन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्राङ्गदात्पूर्वमभिप्रियतमं प्रियतमसमक्षम् । आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म । सा मी मधु पिबतीति मधुरा । आतोऽनुपसर्गे कः । ब्रीड जाडयं मौग्ध्यमभजत् । विहायागन्तुकं धर्म भावमभजन्मदादित्यर्थः । तथा हि-सी जनो मदाद्धेतोः स्वा स्वकीया प्रकृतिमति स्वभावं गच्छति । स्वाभाविकधर्मप्रकाशनं मदधर्मः । सामान्यन विशेषसमर्थनरूपोऽर्थान्तरन्यासः || १८ ॥ छादितः कथमपि त्रपयाऽन्तर्यः प्रियं प्रति चिराय रमण्याः॥ वारुणीमदविशङ्कमथाऽऽविश्चक्षुषोऽभवदसाविव रागः ॥ १६ ॥ छादित इति ॥ रमण्याः प्रियं कान्तं प्रति चिराय चिरकालाय त्रपया लजया अन्तर्मध्ये कथमपि महता कष्टेन छादितः यो रागः भर्तारं प्रति संवृतः, अथ पश्चात् असावपि रागः चक्षुषो नेत्रादाविरभवत् प्रकटीबभूव । कथं यथा भवति वारुणीमदविशङ्क यथा भवति मुराक्षीवतानिर्भयं यथा भवति ॥ १९ ॥ छादित इति ॥ रमण्याः यः प्रियं प्रति रागो विषयाभिलाषः चिराय पपया वीडयाऽन्तश्छादितः संवृतो- ऽसावयमेव रागोऽथास्मिन्नवसरे वारुणीमदविशएं मद्यमदेन निःशव चक्षुषो नेत्रादाविरभवादव अविर्भूतः किम् । अत्र रतिरागमदरागयोरभिलाषपाटलिमरूपयोः श्लेषप्रतिभोत्थापिताऽभेदाध्यवसायमूलातिशयोक्ति- महिम्ना योऽन्तर्गतो रागः स एव चिरनिरुद्धः सम्प्रीत मदोदाटितत्रपाकपाटया चक्षुरा बहिरुद्भित्र- इत्युत्प्रेक्ष्यते । आविर्भुवोर्यवधानं कविस्वातन्त्र्यात् ॥ १९ ॥ आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ॥ प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २० ॥ प्रागतानिति ॥ सरकेण सुभ्रुवां नायिकानां चेतसि मनसि सविप्रतिसारे सति सपश्चात्तापे सति अवसरः प्रापि प्रस्तावो लब्धः । कथं वल्लभान् अभि कान्तानभि लक्षीकृत्य, किलक्षणान् वल्लभान् आगतान् गृहागतान् , अपरं किंभूतान् अगणितप्रतियातान् न गणितं प्रतियातं येस्ते तान्, किलक्षणानां सुभ्रुवां वल्लभानभिसिसारयिपूणाम् अभिसरणं कर्तमिच्छतीनाम् , अभिसर्तुमिच्छन्ति अभिसिसारयिषन्ति, अभिसिसारयिषन्ति ताः अभिसिसारयिषवः तासाम् ॥ २० ॥ आगतानिति ॥ आगतान स्वयं प्राप्तान तथाप्यगणिताश्च ते प्रतियाताश्चेति । स्नातानुलिप्त इतिवत् पूर्वकाले समासः । तान वनभानभिसिसारयिषूणा सम्प्रति चन्द्रोदये स्वयमेवाभिसारयितुमभिसर्तुमिच्छूनाम् । अभिसारयतेः स्वार्थण्यन्तात्मनन्तादुप्रत्ययः । सुभ्रवा मीणा चेतसि संधिप्रतिसारे कष्टमस्माभिरकार्य कृत- मिति पश्चात्तापयुक्ने सति पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि' इत्यमरः । सरकण मधुना मधुपानन वा । 'सरकं शीधुपात्रे स्थाच्छीधुपाने च शीधुनि' इति विश्वः । अवसरः प्रापि प्राप्तः । स्वयङ्गमनसोकर्याय सर्गः1] शिशुपालवधे। ३५१ । , - मधुपानं चक्रुरित्यर्थः । अत्राभिसारणस्य पश्चानापकरणस्य मदयोगात्मकतिः समाध्यलकारः । 'समाधिः सुकर कार्य कारणान्तरयोगतः' इति काव्यप्रकाशे ॥ २० ॥ मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचेताः(१) ॥ योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ २१ ॥ मा पुनरिति ॥ योषित् कापि नायिका इति कारणात् हालां मदिरां न अभि- ललाष न आचकाङ्क्ष । न पपावित्यर्थः । इतीति कि-यत् , अहं मदविमोहितचेताः सती मद्यपानेन विमूढमानसा सतो तमागस्कारिणम् अपराधकर्तारं पुनर्भूयोऽपि मा अभिसी सरम् अभिसरणं मा कार्षम् । मा गममित्यर्थः । युक्तं चैतत् , खलु यस्मात्कारणात् मानः अभिमानः सुखादपि दुस्त्यजः । वरं सुखं त्यज्यते, न तु मानः ॥ २१ ॥ मा पुनरिति ।। मदेन विमोहितचित्ता भ्रमितचित्ता सती। अहामति शेषः । आगस्कारिगमपराध. कृतम् । अतः कृकमि-'इत्यादना विसर्जनीयस्य सत्वम् । त पुनर्यो माऽभिसीसरं नाभिसारयाणि । सरते. स्वार्थे जो चड्युपधाया ह्रस्वः, दा? लघोः' इत्यभ्यासस्य दीर्घः। इति, इत्यालोच्येत्यर्थः । गम्यमाना- र्थवादप्रयोगः, अन्यथा पोनरुक्त्यमित्यालङ्कारिकाः । योषित्काचिनी हालां सुराम् । 'सुरा हलिप्रिया हाला' इत्यमरः । नाभिललाष । तथा हि-सुखादाप मानो दुस्त्यजः खलु । अतोऽल्पकारणादधिकार्थहानि रिति नाशकुनीयामित्यर्थान्तरन्यासः ॥ २१ ॥ हीविमोहमहरदयितानामन्तिकं रतिसुखाय निनाय ॥ सप्रसादमिति (२) सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ २२ ॥ हीविमोहमिति ॥ तासामङ्गन्नानां मधु मद्यम् इति अमुना प्रकारेण सेवितं सत् जुष्टं सत् सप्रसादं यथा भवति तथा सद्य एव फलदमासीत् तत्क्षणं फलदायि बभूव । तत्कथमित्य- पक्षायामित्यत आह-यतः हीविमोहमहरत् लज्जाजाड्यं निरास, अपरं रतिसुखाय सम्भोग- सौख्याय दयितानां भतणामन्तिकं निनाय कान्तसामीप्यं प्रापयामास । इति फल ददावित्यर्थः ॥ २२ ॥ हीविमोहमिति ॥ सप्रसादं मनः प्रसादपूर्वकम् । ममदं श्रेयस्करमिति भावनापूर्वकमित्यर्थः । अन्यथा फलोदय एव न स्यात् । 'देवज्ञे भेषजे गुरौ' इति वचनादिति भावः। सेवितमुपभृक्तमिति हेतोर्मधु तासां सद्य एव फलदमासीत् । कुतः-ह्रीविमोहं बीडाजाडयमहरत् , रतिसुखाय सुरतसुखाय दयितानामन्तिकं निनाय । अत्र ह्रीहरणान्तिकनयनवाक्याभ्यां फलदानवाक्यार्थसमर्थनादनेकवाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ २२ ।। दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन ॥ सस्वदे मुखसुरं प्रमदानां(३) नाम रूढमपि च व्युदपादि ॥ २३ ॥ दत्तमिति ॥ प्रमदानामङ्गनानां मुखसरं वदनमधं सस्वदे स्वाददं बभूव, अपि च अनन्तरं तासां प्रमदानां रूढं प्रसिद्ध नाम व्युदपादि अभिधानं व्युत्पादितम् । प्रमदा इति स्त्रीणां नाम मदपानाद्वभूवेत्यर्थः । रूढं नाम निष्पादयामास। मुखेन उच्छिष्टा मुरा मुखसरम् । किंभूतं मुखसरम् आत्तमदर्न गृहीतकन्दर्प यथा भवति तथा दयितेन कान्तेन दत्तम् अर्पितम् । अपरं किंभूतं मुखसुरम् आतिशयिकेन अतिशयवता रसेन स्नेहेन व्याप्त भरितम् । अतिशयस्नेहयुक्तमित्यर्थः ॥ २३ ॥ दत्तामति ।। आनमदनमाहितमदनं यंथा तथा दयितेन दत्तम् । अत एवाऽऽतिशयिकेनाऽतिशयप्रचुरेण : (१) चित्ता। (२)मिव । (३) प्रमदाभ्यो। ६ ..

३५२ सन्देहविषौषधिसर्वकषायुते- [दशम:- विनयादिभ्यष्ठक् । रसेन स्वादेन व्यामम् । स्वादुतरमित्यर्थः । मुखस्य सुरा मुविसुरं गण्डूप्रमद्यम् । 'विभाषा सेनासुराच्छायाशालानिशानाम् इति नपुंसकत्वम् । प्रकृष्टो मदो यासा ताभ्यः प्रमदाभ्यः मीभ्यः । रुच्यर्थानां प्रीयमाणः' इनि सम्प्रदानसंज्ञा । सम्वदे रुरुच । प्रीतिकरमभूदित्यर्थः । कतारे लिट् । अन- एव तदेव तासां मदकरं चासीदिन्याह- नामेति । रुटं प्रागश्वकर्णादिवदव्युत्पत्रं नामापि प्रमदति नामधेयं च व्युदपादि व्युत्पन्नं जातम् । यथा प्रकृष्टमदयोगात्प्रमदेन्यन्वर्थनामत्वं भवेत्तथा तास्तेनाऽमायात्रेयर्थः । पद्यतेरण्यन्तात्कर्तरि लुङ् , चिण त पदः' इति चिप्रत्यय चि गो लुक । 'प्रमदाभिः' इति पाठे सस्वदे स्वदयाञ्चक्रे इत्यर्थः । 'स्वादनमशन भक्षणमाहारो भोजनं सदनम्' इति हलायुधे । स्वदिस्वाधारकार्थत्वा- ऽभिधानात्कणि लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थहतुत्वात्काव्यालेङ्गम् ॥ २३ ॥ लब्धसौरभगुणो मदिराणामङ्गनास्यकमलस्य(१) च गन्धः ॥ मोदिताऽलिरितरेतरयोगादन्यतामभजताऽतिशयं नु ॥ २४ ॥ लब्धेति ॥ अङ्गनास्यकमलस्य च गन्धः अङ्गानावदनपद्मस्याऽऽमोदः, नु इति वितकें, अन्यतामन्योन्यतामभजत् परस्परत्वमाश्रितः, अथ चाऽतिशयमाधिक्यं प्राप । तदेव पर- स्परत्वमाह-किंभूतः आमोदः मदिराणां लब्धसौरभगुणः मद्यानां प्राससौरभ्यविशेषः, अपरं किंभृतः आमोदः इतरेतरयोगात् मोदितालिः परस्परसंयोगात्सन्तोषितभृङ्गः । एनेन गन्धातिशयत्वयुक्तं कामिनीमुखमासीदिति भावः ॥ २४ ॥ लब्धेति ॥ लन्धसौरभगुणो मेलनात्माप्तसरभोत्कर्षः अतएव मोदिताऽलिरानन्दितभृतः मदिराणा मद्यानामङ्गनास्यमेव चषकं तस्य च गन्धो गन्धगुणः इतरेतरस्य योगाम्मिश्रणादन्यतामपूर्वतामातशयं नु तत्रैवोत्कर्ष वाऽभजत् । यक्षकदमादी घृताऽक्तकुङ्कुमादौ चाभयथा दर्शनादयं संशय इति भावः । अत एव मशयालङ्कारः ॥ २४ ॥ मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दशि रागम् ॥ लेभिरे सपदि भावयताऽन्तर्योषितः प्रणयिनेव मदेन ॥ २५ ॥ मानेति ॥ मदेन मद्येन योपितोऽङ्गानाः लेभिरे प्राप्ताः। किंभूतेन मदेन मानभङ्ग- पटुना अभिमानविनाशनदक्षेण, किं कुर्वता मदन सुरतेच्छां तन्वता सम्भोगस्पृहां विस्ता- स्पता, अपरं किं कुर्वता दृशि नेत्रे रागमासक्तिम् अथ च लौहित्यं प्रथयता, अपरं किं कुवता सपदि वेगेन अन्तर्मध्ये भावयता चित्ताभिप्राय रतिलक्षणं कुवंता, केनेव प्रणयिनेव कान्तेनेव । यथा प्रणयिना वल्लभेन योषितो लभ्यन्ते । किंभूतेन प्रणयिना, सर्वाण्येव विशे- पणानि योज्यानि । दृशि नेत्रे रागं विषयासक्तिमेव प्रथयतेति योज्यम् ॥ २६ ॥ मार्नात ॥ मानभङ्गपटुना कोपशमनस मर्थेन सुरतेच्छां तम्यता मदनोद्दीपकन दृशि रागमारुण्यं प्रीति च प्रथयता प्रकाशयता अन्तरन्तःकरणं भावयता रञ्जयता मदेन प्रणयिनेव योषितः मिया लेभिरे प्राताः । रागमिति श्लेषमूलातिशयोनिसङ्कीर्णेयमुपमा ॥ २५ ॥ पामधौतनवयावकपिङ(२) कामिनी निभृतचुम्बनदक्षा ॥ भर्तुरोष्ठदल(३)रागरसेन स्वं किलाऽधरमुपाऽऽलि ररज ॥ २६ ॥ पानेति ॥ कामिनी अडना उपाऽऽलिसखीसमीपे स्वमधरं निजमोष्ट, किलेति व्याजे, गरज रज्जयामास, केन भर्तुर्वल्लभस्य ओष्ठदलरागरसेन अधरपत्रलौहित्येन । रागो हि पत्रसम्भव इति भावः । यतः किंभूता कामिनी निभृतचुम्बनदक्षा निःशब्दचुम्बनारा । (१)चषकस्य। (२) राग सुभ्रो""दक्षः। (३)प्रेयसामवर सर्गः।] शिशुपालवधे। ३५३ .. ननु निभृतचुम्बनं विधाय बल्लभाधरपनरसेन कामिन्या निजौष्ठरञ्जने किं कारणमत आह- यतः किलक्षणं स्वमधरं पानधौतनवयावकपिङ्ग पानेन प्रक्षालितनव्याऽलतकरागम् । ररम्जेत्यत्र स्नेहलक्षणम् । अनुरक्षयाञ्चकारेत्यर्थः ॥ २६ ॥ पानोति ॥ उपालि आल्याः समीपे। समीपार्थेऽव्ययीभावः । 'मालि: सखी वयस्या च' इत्यमरः। अत एव निभूतचुम्बनदक्षाः गूढचुम्बनचतुराः सुभ्रवः पानधौतनवयावकरागं मधुपानक्षालितलाक्षाराग स्वमधरं प्रेयसामधरेषु यो रागरसस्ताम्बूलरागद्रवस्तेन ररञ्जुः किल । अन्यगुणस्यान्यत्राधानमिह रखे- रर्थः । किलेत्यपरमार्थे । तेन पानधीतरागेषु स्वाधरेषु प्रेयोऽधररागसंक्रमणनाटितकेन सखीसमक्षमेव प्रियांश् चुम्बनं कारयामासुरित्यर्थः । अत्रागन्तुना रञ्जनेन महजचुम्बन निगृहनान्मीलनालद्वारभेदः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् ॥ २६ ॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा ऽथ (१) ममाद ॥ २७ ॥ अर्पितमिति ॥ काचिन्नायिका मचं रसितवत्यपि पिबन्त्यपि मदमुन्मति स्म मत्तता त्यजति स्म । न ममादेत्यर्थः । किंभूतं मयं दयितेन अर्पितं दत्तं, किं कृत्वा अन्ययुवते. मिग्राहं नाम गृहीत्वा इति नामग्राहम् । सपत्न्या नाम गृहीत्वेत्यर्थः । अत एव न ममादेत्यर्थः । अथानन्तरम् इतरा सपत्नी मद्यं वीक्ष्य मदिरामवलोक्य ममाद । मत्ता बभूवेत्यर्थः । किंभूता इतरा अपिबन्त्यपि सुरापानमकुर्वत्यपि । परं हर्षवशात् मत्तेत्यर्थः२७ आर्पतमिति ॥ दयितेनाइन्ययुवतः सपल्या नामसाई नाम गृहीत्वा । नाम्न्यादिशिग्रहो।' इति णमुल् प्रत्ययः । अर्पितं दनं मयं रसितवत्यास्वादितवत्यपि । रसतेरास्वादनार्थात कवतो 'उगतश्च' हात डीप । काचिदिति शेषः । मदमुज्झति स्म, न ममोदत्यर्थः । इतरा तु सपत्नी तु मद्यमपिबन्त्यपि वीक्ष्य देव ममाद मना । मनोनितिरेव मदहेतुरिति भावः । अत्र पूर्वार्धे रासतवत्यपि न ममादेति विशेषोक्तिः । उत्तरार्धे त्वपिबन्यपि ममादेति विभावना। 'कारणेन विना कार्यस्योत्पत्तिः स्यादिभावना । तत्सामग्यामनुत्पतिर्विशेषोक्तिर्निगद्यते ॥ तयोः सरः ॥ २७॥ अन्ययाऽन्यवनितागचित्तं चित्तनाथमभिशङ्कितवत्या ॥ पीतभूरिसुरयाऽपि न मेदे निर्वृतिहि मनसो मदहेतुः ॥ २८ ॥ अन्ययेति ॥ अन्यया कयाचिद्वनितया न मेदे न मद्यते स्म । किंभृतया पीतभूरि- सुरयाऽपि आस्वादितप्रभूतमद्ययापि, किं कुर्वत्या चित्तनाथं कान्तम् अभिशङ्कितवत्या अभिशङ्कयन्त्या । भीतवत्येत्यर्थः । किंभूतं चित्तनाथम् अन्यवनितागतचित्तं सपत्न्यां गतमनस्कम् । युक्तोऽयमर्थः, हि यस्मात् कारणात् निर्वृतिः सन्तोप एव मनसः चित्तस्य मदहेतुः मदकारणम् । नाऽतुष्टचित्ते मदाविर्भावः स्यादिति भावः ॥ २८ ॥ अन्ययेति ॥ चित्तनाथं भर्तारमन्यवनितागतचित्तं सपनीसंक्रान्तचेतसमभिशहितवत्या तस्मिन्नविश्व. सत्या अन्यया कयाचित् जिया पीतभूरिसुरयाऽपि न भेदे न मत्तम् । मायते वे लिट् । तथा हि-मनसे नितिर्मदहेतुर्हि । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः । एषा नोटा भीरुश्च, अन्यथा साशङ्काया: पानाऽघटनादिति ॥ २८ ॥ (१)मितरातु।

३५४ सन्देहविषापाघिसर्वाषायुते- [दशमः- कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाऽऽहितमोहा ॥ कोपिनं विरहखेदितचेता(१) कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥ कोपवतीति ॥ काचिदङ्गना कान्तमेव प्रियमेव अनुनिन्ये प्रसादयामास । किं कुर्वती अङ्गना कोपिनं कलयन्ती कोपाविष्टं जानती, यतः कोशी विरहखेदितचेताः वियोग- पीडितमानसा, किं कृत्वा प्राक् पूर्वम् अनुनयान् प्रसादान् अगृहीत्वा न आदाय, यतः किंभूता कोपवती कोपयुक्ता। अत एव प्राक् विरहोऽभवत् तेन पीडिता । पुनः कीदृशी अथ पश्चात् मधुमदाऽऽहितमोहा मधुक्षीबतोत्पादितवैक्लव्या । अत एव कान्त प्रसादयामास ॥ २९ ॥ कोपवतीत ॥ प्राक् प्रथमं कोपवती सरोषा अत एवाऽनुनयान् प्रियप्रार्थनान्यगृहीत्वा अनानृत्य, अथो सम्प्रति विरहखेदितचित्ता पश्चातापतप्ता काचिन्मधुमदेनाइहितमाहा कृतचिनविभ्रमा सती कान्तमेव कोपित- मात्मना रोषितं कलयन्ती जानती अनुनिन्थे । सापराधाऽहं क्षमस्वेति प्रार्थितवती । मनेषु किं न सम्भा- वितमिति भावः । एषा कलहान्तरिता ॥ २९ ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ॥ ईमेयेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ ३० ॥ कुर्वतेति ॥ मदेन मद्येन आसां कामिनीनां तद्गुणः तस्या लज्जाया गुणः तद्गुणः स्वयमकारि आत्मना क्रियते स्म । यत् लजया भवति, तन्मदेन कृतमित्यर्थः । किं कुर्वता मदेन हियं हरता लजामपनयता । लज्जा एव मत्ततागुणस्य विघ्नः । न हि तस्मिन् विघ्ने चित्तविकारः स्यात् । अतश्चोत्प्रेक्ष्यते-ईष्ययेव कोपेनेव लज्जाभङ्गः कृतः । अत एवाऽपरं किं कुर्वता मदन अङ्गसादं शरीरखेदं कुर्वता विदधता, किंभूतानाम् आसां मुकुलिताक्षि- युगानां निमीलितनयनयुग्मानाम् , अपरं किंभूतानाम् अवसादितवाचामवसानं नोत- गिराम् । असौ मत्ततागुणस्य जातिरित्यर्थः ॥ ३० ॥ कुर्वतोत । मुकुलितालियुगानामवसादितवाचा कुण्ठितगिरामासां मीणामङ्गसादमङ्गसादरूपशरीर- निश्चेष्टतां कुर्वता हिय हरता मदेन ईययवेत्युत्प्रेचा . । तस्या हियो गुणस्तद्गुगः अशिनिमीलनवाक्प्तादा- ऽङ्ग-सादरूपः स्वयमकारि कृतः । हामदयोस्तुल्यानुभाविकत्वादिनि भावः ॥ ३० ॥ गण्डभित्तिषु पुरा सदशीषु व्याञ्जि नाश्चितद्वशां प्रतिमेन्दुः॥ पानपाटलितकान्तिषु पश्चाद्रोध्र(२)चूर्णतिलकाकृतिरासीत् ॥ ३१ ॥ गण्डभित्तिग्विति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः पुरा पूर्वम् अञ्चितदृशाम् अति. सौन्दर्येण अञ्चिताः पूजिता वर्णिताः दृशो नयनानि यासां तास्तथा तासां रम्यलोच. नानामङ्गनानां गण्डभित्तिषु कपोलस्थलीषु न व्याजिन व्यक्तो ददृशे। किंभूतास गण्ड- 'भित्तिषु सदृशीपु चन्द्रतुल्यासु, पश्चादनन्तरं पानगाटलितकान्तिषु मदिरास्वादनिष्पनरक्त- च्छविषु गण्डभित्तिषु स एव प्रतिमेन्दुः रोध्रचूर्णतिलकाकृतिरासीत् रोभ्रमयपत्रलतातुल्यो बभूव । एतेन मद्यपानादीषदारक्तत्वकथनमित्यर्थः । 'श्वेतरक्तस्तु पाटलः ॥ ३१ ॥ गएडाभत्तिविति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीषु समानवर्णास्वञ्चितदृशा सुदृशा गण्ड. भिनिषु पुरा सुरापानात्पूर्व न व्यानि नाऽभेदि । तदेकतापत्त्या तद्विविकतया न गृहीत इत्यर्थः । अत एव सामान्यालङ्कारः । 'सामान्यं गुगसाम्येन यत्र वस्त्वन्तरकता' इति लागात् । विपूर्वादश्वेः कर्मणि लुइ, (१) कोपितं .. 'चित्ता। (२) ०ल्लोध्र।

सर्गः।] शिशुपालवधे। ३५५ आडजादीनाम्' इत्याडागमः । पश्चात्पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यामा ताम् गण्डभित्तिषु लोधचूर्णय लोधपरागस्य तिलकश्चित्रकम् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न बियाम्-'। इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवाद्रिविक एवासीदित्यर्थः । तिलकाकृतिरिति नेदर्शना पूर्वोनसामान्यसंसृष्टा ॥ ३१ ॥ उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ॥ योषितामतिमदेन जुघूर्णविभ्रमातिशयपुंषि वपूंषि ॥ ३२ ॥ उद्धतैरिवेति ॥ योषितां नायिकानां वपंषि शरीराणि अतिमदेनाऽतिक्षीबतया जुधूर्णः पूर्णन्ति स्म। किंभूतानि वपूंषि विभ्रमातिशयपुंपि विभ्रमातिशयं पुष्णन्ति दधति तानि विभ्रमातिशयपुंषि विलासातिशययुक्तानि, अपरं किंभूतानि, उत्प्रेक्ष्यन्ते-उभयतः पक्षद्वय कुचकुम्भैः स्तनकलशैः ईरितानीव प्रेरितानीव । किंभूतैः कुचकुम्भैः परस्परसङ्गात् अन्योन्यावष्टम्भात् उद्धतैः औन्नत्ययुक्तैः । अन्येऽपि स्थूलाः परस्परयोगात् उद्धताः सन्तः सर्व प्रेरयन्तीत्यर्थः ॥ ३२ ॥ उद्धतरिवेति ॥ उद्धत तैरिव कुचकुम्भैः परस्परसङ्गादन्योन्यसबर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशय विलासविशेष पुष्णन्ति तानि । 'नपुंसकस्य झरच' इति नुमागमः । योषितां वपूंषि । पूर्वव- नुमागमः । 'सान्तमहतः संयोगस्य' इति दीर्घ इनि विशेषः । अतिमदेन जुघूर्णः भ्रमुः। दृप्तसङ्घर्षस्तटस्थ. पीडाकरः । यथा वृषभकलहात्मपादभङ्ग इति भावः ॥ ३२ ॥ चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ॥ तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः॥ ३३ ॥ चारुतेति ॥ चारुता मनोज्ञता आसां वधूनां वपुः शरीरमभूषयत् अलञ्चकार, अपरम् अनूननवयौवनयोगः सम्पूर्णतारुण्यसंयोगः तां चारुतामभूषयत्, अपरं मकरकेतन- लक्ष्मीः कन्दर्पश्रीः तम् अनूननवयौवनयोगमभूषयत् , अपरं मदः चित्तविकारः तां मकर. केतनलक्ष्मीमभूषयत् । किंभूतो मदः दयितसङ्गमभूषः दयितसङ्गमः भूषा यस्य स तथा । मदो वल्लभयोगेन भूषित इत्यर्थः ॥ ३३ ॥ चारुतेति ।। आमा योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः सम्पूर्णयौवन- सम्पत्तिरभूषयत् । तं पुनर्नवयौवन योगं तु मकरकेतनलक्ष्मीर्मदनसम्पनिरभूषयत् । तां मकरकेतनलक्ष्मी दयितसङ्गम एव भूषा यस्य स मदोऽभूषयत् । ता मदः तं च दयितसङ्गम इत्यर्थः । प्रक्रमानुसारात ता मद- स्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनुद्रेगात् । यथा भारवेः प्रयोगः-'शुचि भूषयती'त्यादौ श्लोके ‘स नयाङ्कः स च सिद्धिभूषणः' इति वक्तव्ये 'स नयापादितसिद्धिभूषणः' इति । अत्रो- नरोत्तरस्य पूर्वपूर्वविशेषणत्वादेकावली । 'यत्रोत्तरोत्तरेषां स्यात्पूर्वपूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥ इति लक्षणात् ॥ ३३ ॥ क्षीयतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।। अग्रही सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ ३४ ॥ क्षीबतामिति ॥ अनङ्गः कन्दर्पः तासु अङ्गनासु रोषपरितोषवतीषु सतीष क्रोध- ३५६ सन्देहविषौषधिसर्वपायुते- [दशमः- - सन्तोषयुक्तासु सतीषु, नु इति वित, सशरं ससायकं धनुः अग्रहीत् कार्मुकं जग्राह । अथ पक्षान्तरे, नु इति वित, उज्झितनिषङ्ग परित्यक्तभत्रकं धनुः उज्झामास तत्याज । एतेन यदा कामः सशरं धनुर्गुहाति तदा ताः स्त्रियः तोष कुर्वते, यदा च चापं त्यजति तदा रोष कुर्वन्तीत्यर्थः ॥ ३४ ॥ तीवतामिति ॥ क्षीबतां मत्तताम् । 'पने शौण्डोत्कटमीबाः' इत्यमरः । 'क्षीवृ मदे' इस्वस्माद्धातोः 'अनुपसर्गात्फुल्लक्षीबकशोल्लाघाः' इति निष्टान्तो निपातितः । उपगतासु प्राप्तासु अत एवाऽनुले प्रतिक्षणं रोषपरितोषवतीषु नासु मीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु उज्झितनिषङ्ग त्यातूणीरं यथा तथा उज्झामास नु तत्याज किम् । उज्झतलिट् 'इआदेश गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः। रोषपरितोषयोर्धनुर्घहणाभ्यां यथासंख्येनान्वयायथासंख्यालङ्कारभेदः। तेनोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः।। शङ्कयाऽन्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ॥ नक्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ॥ ३५ ॥ शङ्कयेति ॥ वनिताभिः दयिताभिः दयितः कान्तः स्फुटमेव प्रत्यक्षमेव प्रत्यभेदि व्यक्तं प्रकटमेवोपालब्धः, कया अन्ययुवतौ सपत्न्यां निमित्तभूतायां शङ्कया भयेन । अपरा- अनायां समीपस्थायामेव कोपेन अङ्गानया कान्तः स्फुटमेवोपालब्ध इति भावः । युक्तो- ऽयमर्थः, यतः कारणात् मत्सरेण ईय॑या हतसंवृति विनाशितमन्त्रगुप्ति सत् चेतः मनः तत्त्वविचारे योगायोगस्मरणे न क्षमं भवति समर्थ न स्यात् । कोपेन चित्तमुचितानुचितं न विचारयति इत्यर्थः ॥ ३५ ॥ शङ्कयति ।। वनिताभिरन्ययुवती सपत्न्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदक प्रत्यभेदि । सिद्धवत्कृत्योहाटित इत्यर्थः । अनुचिताऽयमविमृष्य मिथ्यागभयोग इति शङ्कां परिहरति-नौत। मत्सरेण वैरण हता संवृतिगोप्यगोपनं यस्य तच्चेतः तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मन्सरग्रस्तचेतसामेष स्वभाव इति भावः । सामान्यन विशेषसमर्थनकोऽर्थान्तरन्यासः ॥ ३५ ॥ आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ॥ आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ ३६ ॥ आननैरिति ॥ वधूनाम् आननैवेदनः विचकसे विकसितम् । अपरं तनूभिः शरीरैः बल्लभान् कान्तान् अभि लक्षीकृत्य हृषिताभिः अभावि रोमाञ्चयुक्ताभिजातम् । अपर बधूनां हृदयं चेतः आर्द्रतां प्राप स्नेहयुक्तं बभूव । अपरं रोषः क्रोधः वचनेषु वाक्येषु लालति स्म लोडितः । वचनानि रोषयुक्तानि बभूवुः, चित्तं पुनराईमव । स्नेहकलहात रोषः वचनेषु लोडित इत्यर्थः ॥ ३६ ॥ प्राननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । 'आभेरभाग' इति लक्षणार्थकर्मप्रवचनीयवाद् वतीया । वधूनामाननर्विचकसे विकस्मितम् । भाव लिट् । तनूभिरङ्गहाषताभिः पुलकिताभिः, 'हृषेर्लोमसु दतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चाईनामाप । काठिन्यं जहावित्यथः । वचनेषु रोष लालति चलति स्म। वचनगतो रोषो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाधनेकक्रियायोगपद्यात ममुच्चयालङ्कारः । 'गुणक्रियायोगपय समुच्चयः' इति लक्षणात् ॥ ३६ ॥ रूपमप्रतिविधानमनोखं प्रेम कार्यमनपेक्ष्य विकासि ॥ चाटु चाऽकृतकसम्भ्रममासां कार्मणत्वमगमद्रमणेषु(१) ॥ ३७॥ (१) मगमन् रमणेषु । ..

सर्गः ।] शिशुपालवधे। ३५७ । .. रूपमिति ॥ आसामङ्गनानाम् एतद् वक्ष्यमाणं रमणेषु भर्तृषु विषये कार्मणत्वमगमत् वशीकरणत्वं ययौ । तावत् किं-रूपं शरीरावयवः कार्मणत्वमगमत्, किंभूतं रूपम् अप्रति- विधानमनोझं स्वभावरम्यम् । अपरं प्रेम स्नेहः कार्मणत्वमाययौ, किंभूतं प्रेम कार्यमन- पक्ष्य विकासि कार्य विनापि सस्नेह प्रसरणशीलं पुष्टम् । अपरं च टु प्रियं वाक्यं कार्मण. त्वमाययौ, किंभूतं चाटु अकृतकसम्भ्रमम् अकृत्रिमादरयुक्तम् । इत्येवं वशीकरणत्वं जगा- मेत्यर्थः । 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' ॥ ३७॥ रूपमिति ।। अप्रतिविधानमप्रतियत्नमत्र मनोज्ञम् । स्वभावसुन्दरमित्यर्थः । म.पमाकृतिः कार्य प्रयो- जनमनपेक्ष्य विकामि वर्धमानम । अनापाधिका मत्यर्थः । प्रेम अकनकमम्भ्रममऋत्रिमरम्भ चाटु प्रिय- वचनं चाऽऽप्ता मीणा रमणेषु विषये कामणत्वं वशीकरणकर्मत्वम् । वशक्रिया संवननं मूलकर्म तु कामणम इन्यमरः । नाकाकर्मणोऽण। अगमन प्राप्तानि । गमेलुङ च्लेरडादेशः। अत्र रूपादिपवारोग्यमाणस्य कार्म- गम्य प्रकृतोपयोगात्परिणामालङ्कारः ॥ ३७॥ लीलयैव सुननोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन । मानवश्चनविदा वचनेन क्रीतमेव हृदयं दयितेन१) ॥ ३८ ॥ लीलयैवेति ॥ दयितेन सुतनोनायिकाया हृदयं मनः वचनेन वाक्येन क्रीतमंत्र गृहीतमेव । किंभूतेन दयितेन मानवञ्चनविदा मानस्य वञ्चनं निरसनं वेत्तीति तथा तेन दर्पविनाशदक्षेण, किंभूतेन वचनेन लावणिकेन लावण्यगुणयुक्तेन, किं कृत्वा जगृहे गौरवा- ज्यमपि गुरुत्वप्राचुर्यमपि लीलयैव हेलामात्रेणैव तुलयित्वा परिमाण्य । यथा लावणिकेन लवणं विक्रेतुकामेन वणिजा कस्यचित्पुंसः गौरवाढ्यमपि बहुमूल्यमपि वस्तु लीलया हलया तुलयित्वा मानवञ्चनविदा सता क्रीयते इत्युक्तिलेशः ॥ ३८ ॥ लीलयेति ॥ लावण्यं कान्तिविशेषाऽस्यास्तीति लावणिक लावण्यवत् । 'अत इनिठनौ' इति उन्प्रत्यये ठम्यकः, यस्येति च' इत्यलोपे 'हलस्तद्धितम्य' इति यकारलोपः।अन्यत्र तु लवणं पण्यमस्यास्तीति लावणिक- लवणव्यवहारी। लवणाट्ठञ् प्रत्ययः । लावणिकेन मानवञ्चनविदाऽहद्वारहरणदशेण, अन्यत्र परिमाणप्रतारण- पटुना सुतनोः स्त्रियाः वदनेन का गौरवाढ्यं गाम्भीर्यसम्पन्नमपि, अन्यत्र गुरुत्वयुक्तमपि दायतस्य हृदय लोलया विलासनैव तुलयित्वा, अन्यत्रानायास नवोन्माय । गुर्व पे लघुतया मीत्वेत्यर्थः । क्रीतं वशीकृतमेव अन्यत्र दानेन स्वीकृतमेव । अत्र विशेषणमोहम्नैत्र वदने लावणिकन्वस्य हृदये पण्यत्वस्य च प्रतीतेः ममासोनि- रलङ्कारः । हृदयम्य प्रनीयमानपण्याभेदेन तन्वाकरलौकिकहृदयावर्जन लोकिककयव्यवहारममारोप. स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगद्वशां सुरताय । सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥ स्पर्शभाजीति ॥ मृगहशां मृगलोचनानां दृष्टयः लोचनानि अजस्रं निरन्तरं प्रियतमे भर्तरि अपरं शयने शय्यायां च निपेतुः निपतिताः। किंभूते प्रियतमे शयने च स्पर्शभाजि सौकुमार्याश्रिते, अपरं किभृते विशदच्छविचारौ निर्मलवपुःकान्तिमनोहरे, अपरं किंमते प्रियतमे सुरताय सम्भोगाय कल्पिते वाञ्छिते शयने च रचिते, अपरं किंमते सन्नतिं दधति विनियोक्ति दधाने । शयनमप्येवंविधं भवति । किविधे शयने सुकोमलतूलिकोच्छीर्षकादि- भाजि, अपरं विशदच्छविचासै निर्मलवर्णकान्तिमनोज्ञे, सन्नतिं दधति मध्ये नम्रतां विनति । उभयोः साम्यमुक्तम् ॥ ३९ ॥ . (१)दयितस्य ।

३५८ सन्देहविषौषधिसर्वकषायुते- [दशम:- : .. एवं मदानुभावं वर्णयिन्वा सम्प्रति सुरतकेलिवर्णनं प्रस्तोते । तत्र मुरतं द्विविधं बाह्यमाभ्यन्तरं चति । बाह्यं च प्रेक्षणभाषणाऽश्लेषणचुम्बनायनेकभेदाभत्रम् । तत्र दृष्टिविशेषं तावदाह - स्पर्शति ।। स्पर्शभाजि सुखस्पर्श विशदा विमला शुभ्रा च या छविः कान्तिस्तया चारी रम्ये सुरताय कल्पिते रतिसुखदानाय सृष्टे विहारयोग्यतया सज्जीकृते च सन्नतिमानुकूल्यं सर्वतः साम्यं च दधति दधान प्रियतमे शयने च पृगदृशां दृष्टयोऽजस्रमविच्छिन्नं पेतुः पतिताः। युगपदुभयावलोकनादभिलाषं व्यञ्जया- मासुरित्यर्थः । अत्र प्रियतमशयनयः प्रकृतयोरेव धर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतगोचरा तुल्ययोगिता ।। यूनि रागतरलैरपि तिर्यपातिभिः श्रुतिगुणेन युतस्य ॥ दीर्घदर्शिभिरकारि वधूनां लङ्घना(१) न नयनैः श्रवणस्य ॥ ४० ॥ यूनीति ॥ वधूनां नायिकानां नयनैः विलोचनैः श्रवणस्य कर्णस्य लघना न अकारि अतिक्रान्तिन क्रियते स्म । किंभूतैर्नयनैः यूनि तरुणे तिर्यक् पातिभिः वर्क पतद्भिः । कटाक्षवीक्षणैरित्यर्थः । अपरं किंभूतैः रागतरलैरपि रागेण प्रीत्या तरलानि चपलानि तै: आरक्तैरपि, अपरं किंभूतैः दीर्घदर्शिभिः दूरमतिविप्रकृष्टमतिशयेन वा पश्यन्ति तानि दूरदर्शीनि तैः दूरार्थदृष्टिभिः, किंभूतस्य श्रवणस्य श्रुतिगुणेन युतस्य, श्रुतिः श्रवणं सैक गुणो धर्मस्तेन सहितस्य आकर्णनगुणयुक्तस्य । अनेन वधूभिः कटाक्षैर्निरन्तरमीक्ष्यते स्मेति भावः । अन्यैरपि दीर्घदर्शिभिः अर्थसन्दर्शिभिर्विद्वद्भिः श्रुतिगुणेन युतस्य वेदगुणयुक्तस्य बंदज्ञस्य लङ्घना तिरस्क्रिया नैव क्रियते ॥ ४० ॥ यूनीति ॥ रागेण तरलैश्चपलेरपि । दर्शनोत्सुकैरपीत्यर्थः । यूनि प्रिय तिर्यपातिभिमपया साचि विष- मारिभिः दीघदर्शिभिरायताऽन्तः। आलोकनव्यापारपरेरित्यर्थः । अन्यत्र रागद्वेषचपले:अत एव तिर्यपातिभिः कुटिलवृत्तिभिरपि दीर्घदर्शिभिः । आगामिकार्यरित्यर्थः । वधूनां नयनः श्रुतिगुणेन शब्दग्रहणपाटवेन युतस्य श्रूयतेऽनेनेति श्रवणं श्रोत्रं तस्य लखनमतिक्रमो नाऽकार न चक्रे । कान्ते विधान्तमित्यर्थः । अन्यत्र तु श्रुतिः श्रवणम् । अभ्यास इति यावत् । सैव गुणस्तेन युतस्य श्रूयत इति श्रवणं शाखें तस्य लङ्घनं नाऽकारि। रागद्वषग्रस्तोऽपि शामज्ञः कदाचिच्छानातिक्रमादिभेतीति भावः। अयं च व्यवहारो नयनेषु रागतरलेरित्यादिश्लिष्टविशेषणमहिना गम्यत इति समासोक्तिभेदः । इयं च रागदृष्टिरीत्सुक्यानुभावः ॥४०॥ सङ्कथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ॥ स्पर्शनेन दयितस्य नतभूरङ्गसङ्गचपलाऽपि चकम्पे ॥ ४१ ॥ सङ्कथेच्छुरिति ॥ नतभूनायिका दयितस्य कान्तस्य स्पर्शनेन परिमर्शन चकम्प सकम्पा बभूव । किंभूता नतभूः अङ्गसङ्गचपलापि कान्तालिङ्गानचटुलापि, अपरं किंभूता सङ्कथेच्छु:, परं अभिधातुमनीशा, आलापमिच्छती वक्तुमसमर्था, अपरं किंभूता दिदृक्षुः कान्तं दृष्टुमिच्छती सम्मुखी न बभूव पराङ्मुखी भवति स्म ॥ ४१ ॥ सङ्कथेच्छुरिति ॥ नतभ्रः श्री सङ्कथायां सम्भाषण इच्छुरिच्छावत्यपि । विन्दुरिच्छुः' इत्युप्रत्ययान्तो निपात! अभिधातुं सम्भाषयितुमनीशा अक्षमा बभूव । अप्यर्थश्वशब्दः । दिदृक्षुईष्टुमिच्छुरपि । दृशेः समन्तात उपत्ययः । संमुखी अभिमुखी न बभूव । अङ्गसङ्गचपला गात्रसर्शचपलापि दयितस्य स्पर्शनेन चकम्प कम्पितवती । एते कम्पादयो लज्जासावसानुभावा: । लज्जाविजितमन्मथेयं मुग्धा ॥ ११ ॥ उत्तरीयविनयास्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ॥ आवरिष्ट विकटेन विवोदुर्वक्षसैव कुचमण्डलमन्या॥४२॥ उत्तरीयेति ॥ अन्या काचिन्नायिका विवोढुः कान्तस्य वक्षसैव उरसैव कुत्रमण्डलम् .. । .. (१) लखनम्।

सर्गः ।] शिशुपालवधे। ३५६ । आवरिष्ट स्तनमण्डलमाच्छादयामास । किंभूतेन वक्षसा विकटेन विशालेन, किं कुर्वती अन्या, किलेत्यलीके, तदीक्षणमार्ग तस्य कान्तस्य ईक्षणमार्ग दृष्टिपथं रुन्धती आवृण्वती, अपरं किंभूता नायिका उत्तरीयविनयात् पमाणा उत्तरीयवसनापनयनात् पमाणा लजमाना ४२ अथालिङ्गानं वर्णयति- उत्तरीयति ॥ अन्या श्री उत्तरीयविनयात्कुचांशुकाकर्षणात् अपमाणा तदीक्षणमार्ग तस्य वोदुर्दृष्टि- रथं रुन्धती किल आवृण्वतीव, न तु वस्तुत इति किलार्थः। विकटेन विशालेन । 'विशङ्कटं विशालं स्यात करालं विकटं तथा' इति वैजयन्ती । सम्प्रोदश्च कटच' इति चकारातः कटच प्रत्ययः । विवोदः परिणेतुः वक्षसेव कुचमण्डलम् आवरिष्ट आवृतवती कुचावरणव्याजनालिङ्गिनवती । वृत्रो लङि तङ् इडागमः । अब ऊचा वरणनालिङ्गनेच्छानिगहनान्मीलनभेदः । एषा लज्जामन्मथमध्यस्था मध्यमा ॥ ४२ ॥ अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुत्राग्रा ॥ भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ४३ ॥ अंशुकमिति ॥ परिणेत्रा नायकेन अचिरोढा नूतनोढा रभसात् औत्सुक्येन पर्यरम्भि परिब्धा आलिङ्गिता । कथं यथा भवति भिन्नशकवलयं यथा भवति भिन्नानि भग्नानि शङ्कवलयानि कम्बुवलयानि यत्र क्रियायां तद्यथा भवति, किं कुर्वता परिणेत्रा अंशुकं हृतवता वस्त्रमाक्षिपता, किंभूता नवोढा तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा सूक्ष्मभुज- म्वस्तिकाच्छादितमनोहरस्तनमुखा, तन्वोः बाह्वोः या स्वस्तिका 'बाकरी' इति प्राकृतं तया पिहिते मुग्धे कुचाग्रे यस्याः सा ॥ ४३ ॥ अंशुकमिति ॥ अंशुकमुत्तरीयं हृतवता परिणेत्रा भ; तन्योः कृशयोः ब.ढोः स्वस्तिको बन्धविशेष' नाऽऽपिहिते आच्छादिते मुग्धे सुन्दरे कुचाग्रे यस्याः सा तथोक्ता। अचिरोढा नवोदा, भित्राने शसस्त्र वलयानि यस्मिन्कणि तद्यथा तथा रभसाद्वेगात्पर्यरम्भि, गाढमाश्लिष्टेत्यर्थः । रंभय॑न्तात्कणि लुा । रमेर शब्लिटो:' इति नुमागमः । एषा तिरोहितमुग्धता ।। ४३ ॥ सअहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ॥ संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणीषु(१) महेषुम् ॥ ४४ ॥ साहारेति ॥ रतिपतिः कामः तरुणीषु कामिनीषु निमित्तेषु संहितं सन्धितं महेषु महाशरं सजहार संहृतवान् । किंभूतं महे) स्मितभिन्नक्रोधं हास्यगतकोपं, किं. भूतास तरुणीषु विरोधं विरहय्य कलहं परित्यज्य सहसा परिरब्धप्रेयसीषु सहसा शीघ्र परिरब्धा आलिङ्गिता प्रेयांसो याभिस्ताः तासु तत्क्षणालिङ्गितभर्तृषु, कथं यथा भवति स्मितभिन्नक्रोधं यथा भवति तत् क्रियाविशेषणम् । अथ वा शरविशेषणं च ॥ ४४ ॥ सचहारेति ॥ नरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थप्यन्तात् क्त्वा तस्य न्यप् , 'ल्यपि लघुपूर्वात्' इत्ययादेशः । सहसा परिरब्धाः प्रेयस्यो यस्तेषु परिरन्धप्रेयसीषु आश्लिष्टवधूकेषु मन्सु । 'ईयसश्च' इति कपोऽभावः । 'ईयसो बहुव्रीहै। प्रतिषेधो वक्तव्यः' इत्युपसर्जनस्य ह्रस्वनिषेधः । रति- पतिः कामः सं हतं प्रागारोपितं महेषु महान्तं शरं स्मितभित्र क्रोधं स्वयत्नसाफल्यात स्मितेनोज्झितपूर्वरोध च यथा तथा आशु सञ्जहार । सिद्धेऽर्थे साधनाऽनवकाशादित्यर्थः। परिरम्भाऽन्तो यूनां विरह इति भावः ४५ स्रं समानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ॥ आत्मनैव रुरुधे कृतिनेव स्वेदसति घसनं जघनेन ॥ ४५ ॥ स्रंसमानमिति ॥ जघनेन स्त्रीकव्याः अग्रभागेन वध्वाः नायिकायाः वसनं वस्त्र- (१) तरुणेषु ।

३६० सन्देहविषाषधिसर्वपायुते- - [ दशमः- - स्पष्टमेव दलतः नात्मनैव स्वयमेव रुरुधे रूद्धम् । किंभूतं वसनं स्वेदसङ्गि प्रस्वंदविलानं, क सति उपयन्तरि भर्तरि उपसपत्नि सपत्न्याः समीप रसेन रागेण क्लिष्टवति सति आलिङ्गन कुर्वति, शिश्लेष इति श्लिष्टवान् तत्र श्लिष्टवति, अपरं किंभूतं वसनं संसमानम् अधःपतमानम् । किंभूतेन जघनेन, उत्प्रेक्ष्यते-कृतिनेव कुशलेनेव । यथा सपत्नीदर्शनाल्लजा न जायते इति दक्षत्वम् । यथा अन्येन केनचित् कुशलेन कस्यचित् समानं सभायां पतमानं वस्त्रं लज्जा- निरासाय आत्मनैव रुध्यते इत्युक्तिलेशः ॥ ४५ ॥ स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन, रागान्धतयेत्यर्थः । उपसपनि सपत्नीसमीपे । समीपार्थे- ऽध्ययीभावे नपुंसकहस्त्रत्वम् । लिष्टवति आश्लिष्टपति सति संसमानं स्पर्शसुखपारवश्याद्भश्यमानं तथाऽपि स्वदसङ्गि स्वेदेन सात्त्विकन सकं वध्वा वसनं कृतिना कुशलन । स्वस्यद लाघवमिति जानतेवेत्यर्थः । जघनेन का आत्मनव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाघर. ज्ञान हेतुकत्वमुत्प्रेक्ष्यते ॥ ४५ ॥ पीडिते पुनरुरः(१)प्रतिपेषं भर्तरि स्तनयुगेन युवत्याः ॥ स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वमभवद्धृदयस्य ॥ ४६॥ पीडिते इति ॥ प्रतिनार्याः सपत्न्याः हृदयस्य मनसः तन्मयत्वमभवत् तस्याः सपत्न्याः हृदयरूपत्वं जातम् । किंभूतस्य हृदयस्य प्रकटमेव भिन्दतः(२) क सति पुनः वारंवारं, पुर इति वा पाठः । पुरोऽये प्रेयसि भर्तरि युवत्याः स्तनयुगेन तरुण्याः कुचद्वयेन उरःप्रतिपेषम् उरः प्रतिपिष्ट्वा (१) पीडिते सति । सपत्न्याः कान्त- गाढालिङ्गन दृष्ट्वा निजहृदयं विदीर्णमेव मेने ॥ ४६ ॥ पीडित इति । युवत्या युवतः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्षमेव उरः प्रतिविष्य उरः- प्रतिपेषम् । 'परिक्तिश्यमाने च' इति णमुल्, 'कृन्मेजन्तः' इत्यव्ययसंज्ञा । वक्षः प्रतिपीडचेत्यर्थः । पीडित मति दलतः ईjया दीर्यमाणस्य प्रतिनार्याः सपत्न्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसङ्गत्यलारोपजीविनी तन्मयत्वोत्नेक्षेति मदूरः । 'कार्यकारणयोभित्रदेशत्वे स्पादमङ्गतिः ॥ ४६ ॥ दीपितस्मरमुरस्युपपीडं वल्लभे धनमपि स्वजमाने(३) ॥ वक्रतां न ययतुः कुचकुम्भौ सुभ्रवः कठिनताऽतिशयेन ॥४७॥ दीपितेति ॥ सभ्रुवो नायिकायाः कुचकुम्भौ स्त नकलशौ कठिनताऽतिशयेन अति- शयकाठिन्येन वक्रतां न ययतुः कुटिलतां न जग्मतुः । क सति दीपितस्मरं प्रवृद्धकन्दर्प यथा भवति तथा वल्लभे कान्ते घनमपि गाढमपि उरसि उपपीडम् उरो निपीड्य स्वजमाने सति आलिङ्गति सति ॥ ४०॥ दीपितेति ।। वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीडय । सप्तम्यां चोप- पौडरुधकर्ष:-' इति णमुल। 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति: 'परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम्' इत्यमरः । सुभ्रवः कुचकुम्भी कठिनताऽशयेन वक्रता परि- + डलता न ययतुर्न प्राता । अत्र गाढालिङ्गनात्कुचकुम्भयोक्रिन्वसम्बन्धेऽप्यसम्बन्धनिरतिशयोक्किरलङ्कारः। (१) पुर उरः। (२), अर्थानुसन्धानेनाऽष कर्तरि 'भिन्दत' इति सकर्मकप्रयोगस्याऽनुपपन्नतया 'भियते काष्ठ'मिति- वत कर्मणि 'मिद्यमानस्यन्यकर्मकप्रयोग उचितः । (३) ०मभिबजमाने ।

सर्गः।] .. , शिशुपालवधे। ३६१ सम्प्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ॥ आत्मनः सततमेव तदन्तर्वतिनो न खलु नूनमजानन् ॥ ४० ॥ सम्प्रवेष्टुमिवेति ॥ योपितो नार्यः प्रियतमानां वल्लभानां श्लिष्यतां सतामालि- गतां सतां हृदयं सम्प्रवेष्टुमिव ईषुः । कान्तहृदये प्रवेश कर्तुमिच्छन्ति स्मेवेत्यर्थः। खलु यस्मात्कारणात् नूनं निश्चितं सततमेव निरन्तरमेव आत्मनः स्वान् तदन्तर्वर्तिनः न अजानन् । तेषामन्तहृदये वर्तन्ते तदन्तर्वर्तिनस्तान् । वयमग्रेऽपि कान्तचेतसि निरन्तर- मेव वर्तमानाः स्म इति न अज्ञासिषुरित्यर्थः ॥ ४८ ॥ सम्प्रवेष्टुमिवेति ॥ योषितः श्लिष्पतामालिङ्गतामिष्टतमानां हृदयं सम्प्रवेष्टुमीषुरिच्छन्ति स्मेव इति गाढालिङ्गनानमित्ता क्रियास्वरूपोस्प्रेक्षा, गुणस्वरूपात्प्रेक्षा वा विवक्षाभेदात् । अत एवात्मनः स्वान् सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानामन्तहदयदेव स्थितान नाऽजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छति . भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीयसङ्करः ॥ ४८ ॥ स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ॥ यूनि गाढपरिरम्भिणि वस्त्रकोपमम्बु ववृषे यदनेन ॥ ४६ ॥ स्नेहनिर्भरमिति ॥ असंशयं निश्चितं वधूनामङ्गनानां वपुः शरीरम् आर्द्रतामधत्त आर्द्रभावं बभार, किंभूतं वपुः स्नेहनिर्भरं स्नेहपूर्णम् । यत् किल स्नेहेन तैलादिना पूर्ण भवति तदन्तः आर्द्रतां धत्ते, किमाश्चर्यम् । यद् यस्मात्कारणात् अनेन वपुषा वस्त्रस्नोपं वस्त्रं क्नोप्य (१) इति वस्त्रक्नोपम् अम्बु पानीयं ववृषे वृष्टं, क्व सति यूनि तरुणे कान्ते गाढपरिरम्भिणि सति दृढमालिङ्गति सति ॥ ४९ ॥ स्नेहनिर्भरमिति ॥ स्नेहनिर्भरं प्रेमरसपूर्ण तैलादिकद्रव्यपूर्ण च । 'स्नेहोऽस्त्री द्रवहादयोः' इति वैज- यन्ती । अत एव वधूनां वपुरन्तरार्द्रता द्रवत्वमधन । स्नेहव्यसम्पूर्णमन्तराई भवतीति भावः । असंशयं संशयस्याभावः। अर्थाभावेऽव्ययीभावः। कुतोः-यत् यस्मात् यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढा- श्लेषिणि सति अनेन वपुषा क;, वध क्नोपयित्वा परिषच्य वमक्नोपम् । क्नूयोधातोर्ण्यन्तात् 'अति- डी-' इत्यादिना पुगागमे 'चेले कोपेः' इति णमुल् । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तराईस्य निष्पी- डनाद्वहिरम्बुस्रावसम्भवात्तन्निमित्तेयमन्तरार्द्रत्वोत्प्रेक्षा। प्रियाङ्गसङ्गात् ताः स्वित्रा इति सात्त्विकोदयोक्तिः॥४९॥ न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा । यद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ ५० ॥ न स्मेति ॥ प्रमदानामङ्गनानां वपुषि शरीरे अन्तर्मध्ये हर्षः प्रमोदः न माति स्म न ममौ, किंभूतो हर्षः इष्टतमसङ्गमजन्मा दयितसङ्गमोत्पन्नः । यद् यस्मात्कारणात् हर्षः बहि. बर्बाह्य विकासमवाप्य विस्तारं प्राप्य तनुरुहाण्यपि व्यानशे लोमान्यपि व्याप्नोति स्म ॥१०॥ न स्मेति ॥ प्रमदानामिष्टतमसङ्गमेन जन्म यस्य सः । जन्मायुत्तरपदत्यायधिकरणबहुव्रीहिरिति वामनः। बहुर्विपुलः । 'विपुलाऽनेकयोर्बहुः' इति वैजयन्ती। हर्षो वपुषोऽन्तर्न माति स्म । अत्युदेकानाऽन्तः मंमित इत्युत्प्रेक्षा। कुतः-यत यस्माद्बहिर्वपुषा बहिः विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । 'अश्नोतेश्व' इति नुडागमः। अत्र बहिविकासननिमित्तकाऽन्तरमानोत्प्रेक्षा आनन्दरोमा- वयोः श्लेषमूलाऽभेदाध्यवसायातिशयोक्त्यनुप्राणितेति सङ्करः ॥ ५० ॥ यत् प्रियव्यतिकराद्वनितानामङ्गजेन पुलकेन बभूवे ॥ प्रापि तेन भृशमुच्छ्वसिताभिर्नीविभिः सपदि बन्धनमोक्षः ॥ ११ ॥ (१) उपसर्गाभावादत्र ल्यभाषांश्चन्त्यः । ३१ शि०व० .

.. सन्देहविषौषधिसर्वकषायुते [ दशमः- यदिति ॥ वनितानामङ्गनानाम् अङ्गजेन देहजेन पुलकेन रोमाञ्छन यत् बभूवे भूतम् , कस्मात् प्रियव्यतिकरात् कान्तसंयोगात् । तेन कारणेन नीविभिः वसनग्रन्थिभिः सपदि तत्क्षणं बन्धनमोक्षः प्रापि बन्धविछुटनं प्राप्तम् । किंभूताभि विभिः भृशमुच्छ्वसिताभिः उच्छ्वास प्राप्ताभिः । अन्यस्यापि राज्ञो देहजेन तनयेन भूयते उत्पयते, तदा बन्दिभिः सपदि उच्छ्वास प्राप्तः सनिः बन्धनमोक्षः प्राप्यते इति भावः ॥ ११ ॥ यदिति ॥ वनिताना बीणां प्रियस्य भर्तुर्व्यतिकरात्सम्पर्कात्मङ्गमाच्च अङ्गजेनाऽङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूनामति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छ्वासताभिरुच्छिन्नाभि- मक्षिाशया आश्वसितामिव नीविभिः लक्षणया कटिवः, अन्यथा बन्धनशब्देन पौनरुक्त्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्माण लुङ् । अभ्युदयेषु राजानो बद्धान्मोचयन्तीति भावः । अत्र प्रकृतपुलकनीधिगताऽङ्गजत्वोच्छ्वसितत्वादिविशेषणमाम्यादन्धनमोक्षसम्बन्धाच्च अप्रकृतपुत्र. कारागतिप्रतीतेः समासोक्किरलङ्कारः ॥ ५१ ।। हीभरादवनतं परिरम्भे रागवानवटुजेववकृष्य ॥ अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताऽनमधासीत् ॥ ५२॥ ह्रीभरादिति ॥ रागवान् कामी योषितः नायिकायाः आननपनं मुखकमलं मुकु- लिताक्षं निमीलिताक्षं यथा भवति तथा अधासीत् पपौ। किंभूतमाननपनम् अर्पितौष्ट- दलं दत्ताधरपल्लवं, किं कृत्वा अधासीत् अवटुजेषु अवकृष्य केशेषु आकृष्य । अवटौ जाता अवटुजास्तेषु । 'अवटुस्तु काटिके'त्यमरः । किंभूतमाननपनं हीभरादवनतं लज्जावशा- अर्म , क सति परिरम्भे सति अर्थान्नायकस्यालिङ्गाने सति ॥ १२ ॥ अथ चुम्बन क्रीडा वर्णयति- हीभरादिति ॥ परिरम्भे आलिङ्गने ही रखे भरस्तस्मादवनतम् । भाराकान्तं नमतीति भावः । अर्पित स्वमुखे निहितमोष्ठ एव दलं पत्रं यस्य तयोषित आननमेव पा रागवान् रागी अवटुजेषु चरमशिरोरुहेषु । 'अवटुर्घाटा कृकाटिका' इत्यमरः । अवकृष्य । अक्टुजाकर्षणेनोत्रमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्र यथा तथा । 'बहुवीही सक्थ्यक्ष्णोः स्वाङ्गात्वच' इति षच् प्रत्ययः । अधासीत् पपो। धेटो लुङ् 'आदेच:- इत्यात्त्वम् । 'विभाषा प्राधेट्-' इति मिचो वैकल्पिके लुगभाव 'अस्तिसिचोऽपृक्ने' इतीडागमः । अत्राननी. ठस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५२ ॥ पल्लवोऽयमिति(१)साम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३ ॥ पल्लवोऽयमिति ॥ तरुण्याः नायिकायाः करेण भुजेन पर्यकूजि परिकूजितं बुम्बारवों विहितः । किंभूतेन करेण तारलोलवलयेन उच्चैःस्वरचपलकङ्कणेन, अपरं किंभूतेन करेण उत्प्रेक्ष्यते-सरुजेव सबाधेनेव, क सति अभीष्टे कान्त अधरबिम्बमोष्ठबिम्ब दष्टवति दश- माने(?) सति, किंभूतमधरबिम्बम् इति साम्यसपक्षं समानत्वस्य वर्यम्। इतीति किम्- अयं पल्लवः ओष्पल्लवः, अहमपि करपल्लवः । सर्वः कोऽपि निजे वर्गे दूयमाने सति उच्चै- स्तरं बुम्बारवं विदधाति ।। ५३ ।। पल्लवोपमितीति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षम् । उभयोरपि पल्लवैको- पमानत्वसाधासुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्टवति सति । सह रुजा सरुक् । 'तेन सह-' इति बहुव्रीहिः । सहस्य सः। तेन सहजेव सव्यथेनेव । 'मी रुग्रजा चोपताप' इत्यमरः। . (१) पल्लवोपमिति ।

सर्गः।] शिशुपालवधे। ३६३ नाराण्युच्चैः क्रोशन्ति । कुतः-लोलानि चलानि वलयानि कर्णानि यस्य तेन तरुण्याः करेण पर्यकूजि परि- कूजितम् । भावे लुइ । सुहृद् दुःखात् दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्हेतुकत्वमुत्प्रेक्ष्यते ॥ ५३ ॥ केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ॥ ओष्टपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे ॥ ५४ ॥ केनचिदिति ॥ केनचित् कामिना मूहूर्त क्षणमात्रम् ओष्टपल्लवमपास्य सरसं साऽभि- लाषं यथा भवति अक्षि लोचनं चुचुम्बे । किंभूतमोष्ठपल्लवं मधुरं मधुरास्वाद, पुनः किंभूतम् उल्बणरागमुत्कृष्टरागं, पुनः किंभृतमोष्टपल्लवं विरहेषु वियोगेषु सत्सु अधिकं बाप्पतप्तं सातिशयमूष्मसन्तप्तम् ।। ५४ ।। केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक तथापि विरहेऽवधिक बाण विरहोमणा तप्तं सुभ्रुव ओष्ठपल्लवमपाम्य सरसं सान्द्रशीतमाक्षि चुचुम्बे चुम्बितम् । अत्र तमत्वरस- वत्त्वयोर्विशेषणगत्याऽधरत्यागाऽक्षिचुम्बनहेतुकं काव्यलिङ्गइयं सापेक्षत्वात्सङ्कीर्य ते ॥ ५४ ।। रेचितं परिजनेन महीयः केवलाऽभिरतदम्पति धाम ॥ साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ ५५ ॥ रेचितमिति ॥ धाम धवलगृहं कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः साम्य सादृश्यमाप प्राप, कमलायाः सखा इति कमलासखः सहकमलो विष्वक्सेनः श्रीकृष्णः तेन सेवितः आश्रितश्चाऽसौ युगान्तपयोधिः कल्पान्तसमुद्रस्तस्य लक्ष्मीयुक्तश्रीकृष्णाश्रित- कल्पान्तसमुद्रस्य सादृश्यं प्राप । किंभूतं धाम परिजनेन रेचितं परिवगेंण सेवकलोकेन वर्जितम् , अपरं किंभूतं धाम केवलाऽभिरतदम्पति केवलं रतासक्तजायापति, केवलमभिरतो रताय तत्परौ दम्पती यत्र तत् । कल्पान्ते हि समुद्रो जनवर्जितो भवेत् , केवलं लक्ष्मी विष्णुदम्पतीसेवितो भवति । शून्याकारत्वात् कल्पान्तसागर उपमानम् । अपरं किंभूतं धाम महीयः अतिविशालम् ॥ ५५ ॥ एवं बाह्यसुरतमुक्त्वाऽभ्यन्तरसुरतवर्णनं प्रस्तौति- रोचितमिति ।। परिजनेन रोचितं रिकीकृतम् । अत एव केवलाकाकिनावभिरती दम्पती जायापती प्रस्मिस्तत् । 'दम्पती जम्पती जायापती भार्यापती च तो' इत्यमरः । राजद तादिषु जायाशब्दस्य जम्भावो दम्भावश्च विकल्पानिपातितः। महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीम; विष्वक्सेनेन जनार्दनेन विष्णुना मेवितस्याधिष्टितस्य युगान्तपयोधेः साम्यमापेत्युपमालङ्कारः। युगान्तविशेषणं विधिकता- पोतनार्थम् । एतेनेच्छाविहारतोक्का ॥ ५५ ॥ आवृतान्यपि निरन्तरमुधैर्योषितामुरसिजद्वितयेन ॥ रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ ५६ ॥ प्रावृतान्यपीति ॥ रागिणां कामिनां पाणिभिः करैः इतस्ततो विमृशद्भिः सन्द्रिः योषितां कामिनीनां हृदयानि जगृहिरे स्वान्तानि गृहीतानि । किंभूतानि हृदयानि उर- सिजद्वितयेन स्तनयुगलेन निरन्तरं निर्विविरमुरितिशयेनाऽऽवृतान्यपि आच्छादितान्यपि । एतेन कामिनां कोमलैः करपल्लवैः कृत्वा योषितां मनांसि वशीकृतानीत्यर्थः ।। ६६ ।। अथ विलम्भविहरणान्येवाह- अवृताम्बपीति ॥ उच्चरत्रतेनोरसिजवितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषिता ३६४ सन्देहविषौषधिसर्वकषायुते- [ दशमः- . हृदयानि वक्षांसि चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणी पाणिनिजगृहिरे गृहीतानि । निगढं वस्तु हस्तपरामर्शाल्लभ्यन इति एकत्र भावः, अन्यत्र कृच्छ्लब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्यो ऽभूदिति भावः । नरन्तर्येण प्रतिबध्नतोरपि कुचयोः कथधिदन्तरं सम्पाद्य हृदयाने स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयाना प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ ५६ ॥ कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाऽग्रैः ॥ अक्रियन्त कठिनेषु कश्चित्कामिनीकुचतटेषु पदानि ॥ ५७ ॥ कामिनामिति ॥ कामिनां विलासिनां करजाप्रैः नखप्रान्तः कथञ्चिन्महता कष्टेन कठिनेषु कठोरेषु कामिनीकुचतटेषु विलासिनीस्तनभरेपु पदानि व्रणानि अक्रियन्त क्रियन्ते स्म । किंभूतानि पदानि असकलानि ईषलग्नानि, किंभूतैः करजाप्रैः विभुग्नैः वक्रः, अपरं किंभूतैः करजाप्रैः स्वेदवारिमृदुभिः प्रस्वेदजलकोमलैः ॥ ५ ॥ कामिनामिति ॥ स्वेदवारिणा सात्त्विकेनाऽगुलीस्वेदेन मृदुभिः कोमलतां गतैरत एव विभुग्नविनमः कामिना करजोनखोगः कठिनेषु कामिनीकुचतंटषु असकलान्यसमग्राणि पदानि अतानि कश्चिदक्रियन्त कृतःनि । कठिनेषु मृदूनां पदलाभो दुःसम्पाय इति भावः । नखक्रिया प्रवृत्तेत्यर्थः । अत्र कुचानामीद - काठिन्यासम्बन्धेऽपि तत्सम्बन्धोनरतिशयोक्तिः ॥ ५० ॥ सोध्मणः स्तनशिलाशिखरामादात्तधर्मसलिलैस्तरुणानाम् ॥ उच्छृसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥५८॥ सोष्मण इति ॥ तरुणानां कामिनां हस्तैः करैः निम्ननाभिसरसीषु निपेते गम्भीर- नाभिरूपमहासरस्सु निपतितम् । महान्ति सरांसि सरस्य उच्यन्ते । किंभूतासु सरसीप उच्छ्वसत्कमलचारुष विकस्वराऽब्जमनोहरास, किंभूतैः करैः सोष्मणः सबाप्पात् स्तनशि- लाशिखरामात् स्तनपाषाणतटामात् आत्तधर्मसलिलै: गृहीतस्वेदवारिभिः । अन्येऽपि पर्वत- शिखराग्रात प्रस्विन्नाः सन्तो विकसितकमलासु सरसौषु निपतन्ति ॥ ६८ ॥ सोष्मण इति ॥ सोष्मणो यौवनोष्मयुक्तात् स्तनावेव गिलाशिखरे तयोरप्रादुपरिभागादानधर्मसलिलै- रुष्णदेशविहारात्प्रामस्वे देस्तरुणानां हस्तैरुच्छ्वसत्कमलवाद्वकचकमलैश्च चारुषुनिम्नाभिष्वेव सरसीषु निपत निपतितम् । उष्मस्थित्रानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः। प्रथम कुचौ स्पृष्ट्वा ततो नाभि- देशमस्पृशनित्यर्थः । अत्र कुचयोः शिलाशिवरत्वेन नाभीनां सरसीत्वेन च रूपणात् हस्तानानामापातिपुरुषत्व. रूपणं गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५८ ॥ आमृशद्भिरभितो वलिवीची.लमानवितताऽङ्गुलिहस्तैः ॥ सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥ ५६ ॥ श्रामृशद्भिरिति ॥ अभीष्टलभैः सुध्रुवां कामिनीनां मध्यमुदरं मुष्टिमेयमिति प्रपेदे मुष्टिना मेयं मुष्टिमेयं मुष्टिग्राममिति मेने। कस्मात् अनुभवात् परिचयात्, किंभूतैः अभीष्टः अभितः पक्षद्वये वलिवीचीः आमृशद्भिः त्रिवलीतरङ्गान् स्पृशद्भिः, अपरं किंभूतैः लोलाः चपलाः मानाय मापनाय वितताः विस्तारिताः अङ्गुलय एव करशाखा एव हस्ताः कराः येषां ते तथा तैः चञ्चलविस्तृताऽङ्गुलिकरैः ॥ १९ ॥ श्राशमृद्भिरिति ॥ वलयो वीचय इव वलिवीचीमित आमृशद्भिः लोलमानाश्वलनशीलाः। 'तान्छील्य- वयोवचनशक्तिषु चानश्' इति चानश्प्रत्ययः । न तु शानच , लोलतेः परस्मैपदित्वात् । अत एवं 'लोलमानादयश्चानशि' इति वामनः । लोलमाना वितताः प्रसारिताश्चागुलयो येषां ते तथाविधा हस्ता येषां तैरभी टैः प्रियतमैः सुभ्रवा मध्य मुष्टि मेयमिति मुष्टया मातुं शक्यमित्यनुभवात प्रत्यक्षेण मुष्टया मानं । , .

सर्गः ।] शिशुपालवधे। ३६५ कृत्वैव प्रतिपेदे प्रतिबुद्धं, न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेय-बोकेरतिशतभेदो- लिङ्कारः ॥ ५९॥ प्राप्तनाभि(१)नदमजनमाशु प्रस्थितं निवसनग्रहणाय ॥ औपनीविकमरुद्ध(२) किल स्त्री वल्लभस्य करमात्मकराभ्याम् ।। ६० ॥ प्राप्तेति ॥ किलेत्यलीके स्त्री वनिता आत्मकराभ्यां निजहस्ताभ्यां वल्लभस्य करें प्रियहस्तमरुद्ध रुणद्धि स्म । किंभूतं करम् औपनीविकं नीवीसमीपे चलितमौपनीविकम् , अपरं किंभूतं करम् आशु शीघ्र निवसनग्रहणाय वस्त्राक्षेपणाय प्रस्थित प्रहितम् , अपरं किंभूतं करं प्राप्तनाभिनदमजनमधिगतनाभिहदप्लवनम् । अन्योऽपि यः प्राप्ततीर्थमजनो भवति, स यदा कस्यचिन्निवसनग्रहणाय प्रतिष्टते, तं तदाऽन्यः कश्चिद्रुणद्धि इत्युक्तिलेशः॥६०॥ प्राप्यति ।। नाभिरेव नदो हद इति रूपकम् । तत्र मजनं प्राप्याशु निवसनग्रहणाय । वस्नाकर्षणाये- न्यर्थः । स्नातस्य वमपहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भव- मौपनीविकम् । तत्र व्यापृतमित्यर्थः । उपजानूपकर्णोपनी वेष्ठक् । बल्लभस्य का मी आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः ॥ ६ ॥ कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ॥ मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥ कामिन इति ॥ परिधानमङ्गनावस्त्रं कामिनः तरुणस्य असूयामकरोत् ईर्ष्या चकार । किंभूतं परिधानं दीर्घसूत्रं प्रलम्बदशम् , अपरं किंभूतं कृतरतोत्सवकालक्षेपं विहितसरतो- त्सवसमयविलम्बं, पुनः किंभूतम् आकुलवधूकरसङ्गि व्यग्रवनिताहस्तस्खलितम् , अपरं किंभूत मेखलागुणविलग्न रशनारज्जुविपक्तम् ॥ ६१ ॥ कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैश गुगस्तत्र विलग्नं दीर्घ- सूत्रम् आतततन्तुकम् । अत्यायतत्वाद्बहुधा वेष्टितमित्यर्थः । चिरक्रियं च । दीर्घसूत्रश्चिरक्रियः' इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य कालक्षेपः कालविलम्बों येन तत्परिधानमोऽशुकं कामिनोऽसूया मकरोत् । इच्छा विघातादीयो जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्या सूयाहेतुत्वादनेकपदार्थ हेतुकं काव्यलिङ्गमलङ्कारः ॥६१॥ अम्बरं विनयतः प्रियपाणेोषितश्च करयोः कलहस्य ॥ वारणामिव विधातुमभीक्ष्णं कक्षया(३) च वलयैश्च शिशिजे ॥ २ ॥ अम्बरमिति ॥ कक्षया रशनया अपरं वलयैः कङ्कणैश्च अभीक्ष्णमतिशयेन शिशिजे शिञ्जितं शब्दितम् । उत्प्रेक्ष्यते-प्रियहस्तस्य अपरं योषितो नायिकायाः कस्योः कलहस्य विरोधस्य वारणां विधातुमिव निषेधं कर्तुमिव । प्रियपाणेः किं कुर्वत: अम्बर विनयतः वस्त्रं छोटयतः ॥ ६२ ॥ अम्बरमिति ॥ अम्बरं विनयतोऽपसारयतः प्रियपाणेर्योषितः करयोश्च, तस्मिन् रोधकयोरिति भावः । कलहस्य वारणां विधातुं निवारणं कर्तुभिवेति फलोत्प्रेक्षा । कक्ष्यया काच्या । 'कक्ष्या कक्षे वरवाया काच्यां गहप्रकोष्ठयोः' इति वैजयन्ती । 'कक्षया' इति क्षान्तपाठे तु 'कक्षा ग्रहाणेकाकाञ्चीप्रकोष्ठगज- रंज्जुषु' इति क्षान्तेषु विश्वः । वलयैः कङ्कणैश्चाऽभीक्ष्णं शिशिर्छ चुक्रुशे । भावे लिट् । 'भूषणानां तु शिञ्जितम्' इत्यमरः । द्वयोः कलहायमानयोः पावस्थाः साक्रोश निवारयन्तीति भावः । शिञ्जतिरयं तालव्यादिन दन्त्यादिः । 'योषेव शिळे' इति श्रुतैः॥ ६२ ॥ . (१) प्राप्य नाभि । (२) अरुन्ध । (३) कक्ष्यया ।

३६६ सन्देहविपौषधिसर्वपायुते- - [ दशम:- . ग्रन्थिमुवयितुं हृदयेशे वाससः स्पृशति मानधनायाः ॥ भ्रयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ ६३ ॥ ग्रन्थिमिति ॥ मानधनायाः मानवत्याः भ्रूयुगेन भ्रकुटीयुग्मेन अपरं रोमभिश्च तनूरुहैः सममेव तुल्यकालमेव विभेदः प्रसिपेदे प्रतिपन्नः । क सति हृदयेशे प्राणनाथे वाससः परिधानवस्त्रस्य ग्रन्थि गुण्ठिम् उग्रथयितुं छोटयितुं स्पृशति सति आमृशति सति । कान्ते वस्त्रनीवीमाक्षिपति सतीत्यर्थः ॥ ६३ ॥ पन्थिमिति ॥ हृदयेशे प्रिये वाससो ग्रन्थिमुद्मथायितुं विलंसयितुम् । प्रथयतेचौरादिकानुमुन् । स्पृशति सति मानधनाया मानवत्याः, कामिन्या इति शेषः । ध्रुयुगेन रोमभिश्च । 'कर्तरि तृतीया' इति तृतीया । सपदि समं युगपदेष विभेदो भको हर्षश्व प्रति पेदे प्राप्तः। अब मानवत्त्वाकामिनीत्वाच्च नीविस्पर्श युगपदमर्षहर्षयोरुदयातदनुभावयोरपि युगपदाविर्भाव इति भावः । अत्र भ्रभरोमाञ्चक्रिययोः समुच्चयात समुचयभेदः, स च विभेद इति श्लेषप्रतिभोत्थापिताम्भेदाध्यवमायमूलातिशयोक्त्यनुप्राणित इति सहरः॥६३ ॥ आशु लधितवतीष्टकराने नीविमर्धमुकुलीकृतदृष्टया ॥ रक्तवैणिकहताऽधरतन्त्रीमण्डलक्कणितचारु चुकूजे ॥ ६४ ॥ आश्विति ॥ कयाचिन्नायिकया चुकूजे कूजितं गोतम् । कथं यथा भवति रक्तवैणिक- हताऽधरतन्त्रीमण्डलक्वणितचारु यथा भवति रक्तो रागवान् अनुरक्तो मधुरो वा यो वैणिको वीणावादकः तेन हता वादिता या अधरतन्त्री वीणा तस्याः मण्डलं तस्य क्वणितं रणित तद्वचारु मनोझं यथा भवति तथा । वीणाध्वनिरम्यं यथा भवतीत्यर्थः । किंभूतया कया अर्धमुकुलीकृतदृष्टया अर्धमीलितनेत्रया, क सति चुकूजे इष्टकरा भर्तृकरप्रान्ते आशु शीघ्र नीवीं परिधानवस्त्रग्रन्थि लघितवति छोटयति सति ॥ ६४ ॥ आश्विति ॥ इष्टस्य प्रियस्य कराग्रे नीवि वमग्रन्थिमाशु दठाल्लडितवत्यतिक्रान्तवति । उरुमूलं गते सतीत्यर्थः । अर्धमुकुलीकृतदृष्टया सुखपारवश्यादर्धनिमीलिताक्ष्या मिया रक्को रक्तकण्ठः स्वयं गान- कुशलः, वीणाशिल्पमस्य वैणिको वाणावाधनिपुणः । 'शिल्प मिति ठक् । रकन वैणिकेन यन्त्रगानकुशलेन हतं वादितं यदधरं तन्त्रीणां मण्डलं समूहः बहुतन्त्रीकस्वरमण्डलादि भेदस्तस्य क्वणितमिव चारु यथा तथा चुकूजे कृजितम् । भावे लिट् । अधरग्रहणं तन्त्रीमाधुर्यानिशयात् स्पर्शमुखातिरेकार्थम् । तन्त्रीकण्ठस्वर- व्यतिकरमनोहरः कोऽपि रससर्वस्वभूतः कण्ठकूजितविशेषः कृत इत्यर्थः । अत एव रक्तवैणिकहतति विशेषणम् । क्वणितचावित्युपमालङ्कारः ॥ ६४ ॥ आयताङ्गुलिरभूदतिरिक्तः सुभ्रवां ऋशिमशालिनि मध्ये ॥ श्रोणिषु प्रियकरः पृथुलासुस्पर्शमाप सकलेन तलेन ॥ ६५ ॥ आयताङ्गुलिरिति ॥ प्रियकरः कान्तपाणिः सुनुवां कामिनीनां मध्ये उदरे आयता- ऽङ्गुलिः सन् विस्तृताङ्गुलिः सन् अतिरिक्तः अभूत् महान् बभूव । किंभूते मध्ये शिमशालिनि कृशत्वेन शोभमाने । अङ्गुली विस्तृता, मध्यं कृशमित्यर्थः । अपर स एव प्रियकरः पृथुलास विशालास श्रोणिषु कटिषु सकलेन तलेन पूर्णेन हस्ततलेन स्पर्श- माप स्पर्शन प्राप । तत्र विशाला कटी, हस्तः सूक्ष्मो जात इत्यर्थः ॥ ६५ ॥ प्रायताब्यनिरिति ॥ आयतामगुलयो यस्य म प्रियकरः, कृशस्य भावः कशिमा काश्यम् । पृथ्वादिभ्य- इमानच् । र ऋतो हलदे घोः' इति रेकादेशः। तेन शालते शोमते तस्मिन् मुभ्रवा मध्येऽतिरिकोऽधिको- भूत् । मध्यस्याऽतिकार्यादस्पृष्टैकदेशोऽभूदित्यर्थः । पृथुनासु भोगिषु कटिषु । 'पहित्रियुहुग्ला-' इति .

मर्गः।] शिशुपालवधे। सूत्रेण श्रुधातोनिप्रत्ययः । सकलेन कृत्स्नेन तलेन.स्पर्शमाप । अन्तर्भागेन क्रमेण श्रोणिमस्पृशदित्यर्थः । अत एव मध्यातिरकोकेरातिशयोक्तिः ॥६५॥ चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ॥ कामिनामनिहितान्यपि(१) रम्भास्तम्भकोमलतरेषु नखानि ॥ ६६ ॥ चक्रुरेवेति ॥ कामिनां नखानि विलासिनां नखराणि अनिहितान्यपि अन्यस्तान्यपि ललनोरुषु कामिनीसक्थिपु राजीः चक्रुः लेखाः चक्रिरे एव । किंभूतेषु ललनोरुषु रम्भास्तम्भ- कोमलतरेषु कदलीप्रकाण्डाऽतिशयसुकुमारेपु, किंभूतानां कामिना स्पर्शलोभवशलोलकराणां स्पर्शलोभवशेन लोला: चपलाः करा हस्ताः येषां तेपाम् ॥ ६६ ॥ चक्रुरेवेति ॥ स्पर्शलोभवशेनोरुस्पर्शतृष्णापारतव्येण लोलकराणां चपलपाणिना कामिनामानभृता- न्यनर्वितान्यपि नखानि कररुहाः। 'पुनर्भवः कररुहो नखोऽत्री नखरोऽनियाम्' इत्यमरः । रम्भास्तम्भकोमल- तलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । उरुपरामर्शनान्तरीयनवस्पर्श- मात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वात् । काव्यलिङ्गभेदः ॥६६॥ ऊरुमूलचपलेक्षणमनन् यैर्वतंसकुसुमैः प्रियमेताः ॥ चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ ६७ ॥ ऊरूमूलेति ॥ एता नार्यः सर्वतसकुसुमैः कर्णाभरणापुष्पैः प्रियं कान्तम् अघ्नन् घ्नन्ति स्म, किंभूत प्रियम् ऊरूमूलचपलेक्षणं जघनमूलचञ्चलनयनम् । सपदि तत्क्षणं तानि वतंसकुसुमानि मन्मथस्य कन्दर्पस्य कुछमायुधनाम कुसुमायुध इति नाम यथार्थ सत्यार्थ चक्रिरे विदधिरे । कुसुमायुधः पुष्पप्रहरणः । कामः कुसुमैः कृत्वा जगजयतीत्यर्थः ॥६७॥ ऊरुमूलेति ॥ एताः मिय उरुमूले चपलेक्षणं लोलचक्षुषं प्रियं यैर्वतसकुसुमैः कर्णावतंसपुष्पैः। 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अनन्त्रताडयन् । हस्तेर्लङ् । 'गमहन-' इत्यादिना- उपधालोपः । 'हो हन्तेः-' इति कुत्वम् । तानि वतंसकुसुमानि, मनो मथ्नातीति मन्मथः । पृषोदरादित्वात् माधुः। तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यत्राम तयथार्थ चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भाव: । अत्र वतंसेष्वारोप्यमाणस्य मन्मथायुधवस्य प्रकृतोपयोगात् परिणामालङ्कारः । धैर्यमुल्बणमनोभवभावा पामतां च वपुरर्पितवत्यः ॥ वीडितं लालतसौरतधाष्टोस्तेनिरेऽभिरुचितेषु तरुण्यः ॥ ६८॥ धैर्यमिति ॥ तरुण्यो युवतयः अभिरुचितेषु प्रियतमेषु इदमिदं तेनिरे चक्रुः, किंभूताः तरुण्यः उल्बणमनोभवभावाः उत्कटकन्दभिप्रायाः । अपरं तरुण्यः वामतां वैपरीत्यं चक्रुः, किं कुर्वत्यः वपुः शरीरमर्पितवत्यः दत्तवत्यः । अपरं तरुण्यः व्रीडितं सलज्जत्वं चक्रः, किंभूतास्तरुण्यः ललितसौरतधाष्टाः मनोरमसम्भोगपृष्टत्वाः ॥ ६८ ॥ धैर्यमिति ॥ तरुण्यो रमण्यः उल्बणः उद्रिको मनोभवभावो रतिरागो यामा ता अपि अभिरुचितेषु प्रियेषु धैर्यमोदासीन्यं तेनिरे । वपुः स्वाङ्गमर्पितवत्यो यथेष्टकरणाय दत्तवत्योऽपि वामतां च तेनिरे । ललितं मनोहरं सौरतं सुरतसम्बन्धि धाटर्य प्रागल्भ्य यासा तास्तथापि ब्रीडितं ब्रीडा तेनिरे । इह स्त्रीणा रहसि रागाऽङ्गार्पणधाष्टदिगुणा अप्यागन्तुकतया सहजधैर्यवक्रताबीडितैः पुनःपुनः प्रतिबध्यन्त एवेति भावः । अब रागादीनां धैर्यादिभिः सह समावेशविरोधस्य सहजाऽगन्तुकाभ्यामाभासीकरणाविरोधाभासो- ऽलहारः, धैर्यादिगुणसमुच्चयात्समुच्चयालङ्कारश्चेति सङ्करः ॥ ६८ ॥ पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ॥ कामिनः स्म कुरुते करभोरुहारि शुष्करुदितं च सुखेऽपि ॥ १९ ॥ .. .. . (१)०मनिभृताम्यपि "कोमलतलेषु ।

.. ३६८ सन्देहविषौषधिसर्वकषायुते [ दशमः- पाणिरोधमिति ॥ करभोरुः कदलीप्रकाण्डसक्थिः विलासिनी, अथ वा काभस्तु करावहिः, करभवत् आनुपूव्येण वृत्तावूरु यस्याः सा करभोरू: कामिनः कान्तस्य एतद्वक्ष्य- माणं कुरुते स्म चकार । एतत किं-पाणिरोधं कामिनः हस्तरोधं चकार, किंभूतं पाणिरोधम् अविरोधितवाञ्छमनिषिद्धेच्छम् । अपरं कामिनः भर्त्सनाः भर्त्सनानि चकार, किंभूता भर्त्सनाः मधुरस्मितगर्भा मनोजहास्यमध्याः । च अपरं सुखेऽपि सुरतसौख्येऽपि सति शुष्करुदितं चक्रे, किंभूतं शुष्करुदितं हारि मनोहरम् । मिथ्यारुदितं शुष्करुदितमुच्यते॥६९॥ पाणिरोधमिति ॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । करभ इव उर्यस्याः सा करभोरूः ली। 'उरूत्तरपदादौपम्ये' इत्यूपन्ययः। अविरोधितवाञ्छमनिवारिताप्रपमनोरथं यथा तथा कामिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेनिवारणं कुरुते स्म । तथा मधुरं मनोहरं स्मितं गर्भे- ऽन्तर्वति यासु ता मन्दहासमिश्राः भर्त्सनास्तर्जनाच कुरुते स्म । तथा सुखेऽपि अधरपीडनादौ सुखाऽति- रेके सत्यपि हारि मनोहारि शुष्करुदितमनश्रुत्वादनां कृत्रिमरोदनं च कुरुते स्म । मीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य एव सुरतसुखमुपभुञ्जत इत्यर्थः। अत्र सुखेऽपि दुःखवदुपचारात्कुट्टमिता- ख्योऽनुभावा द्रष्टव्यः । 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुष्येयत्र कुट्टमितं हि तत् ॥ इति लक्षणात् ॥ ६९॥ वारणार्थपदगद्गदवाचामीर्ण्यया मुहुरपत्रपया च ॥ कुर्वते स्म सुदूशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ ७० ॥ वारणार्थेति ॥ युवानस्तरुणाः सुदृशां सुन्दरीणां प्रातिकूलिकतयैव अनुकूलं कुर्वते स्म असह्यतयैव सौम्यं चक्रुः । कया ईjया क्रोधेन, अपरं कया अपत्रपया च निर्लजतया च, किंभूतार्ना सुदृशां मुहुर्वारंवारं वारणार्थपदगद्गदवाचां वारणं निषेधः अर्थः प्रयोजनं येषु तानि वारणार्थानि 'अलं मां मुञ्चे'त्यादीनि पदानि वाक्यानि यासु ताः गगदाः स्खलन्त्यः वाचो गिरो यासा तास्तथा तासां निषेधार्थपदबाष्पगिराम् ॥ ७० ॥ वारणार्थेति ॥ ईय॑या अतिपीडनाइसहिष्णुतया अपत्रपया च रहस्यप्रकाशनवैलक्ष्येण च मुहुरणा- र्थपदेषु मा मेत्यादिनिषेधवाचकान्दप्रयोगेषु गनदवाचर्चा स्खलगिरा सुदृशां प्रतिकूज़ वर्तन्त इति प्राति- कूलिकाः प्रतिकूलचारिणः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' इति ठक् । तत्तया प्रातिकूलिकतयैव प्रति- कूलाचरणेनैव युवानोऽनुकूलमिष्टं कुर्वते स्म । कृत्रिमनिवारणातू यत्प्रतिकूलमिवाचरितमधरपीडनादिक तनासामिष्टत्वादनुकूलमेवेति । प्रतिकूलाचरणमेवाऽनुकूलं भवतीत्यर्थः । अत एव प्रतिकूलमप्यतुकूलमिति विरोधाभासोऽलङ्कारः ॥ ७० ॥ अन्यकाल परिहार्यमजस्रं तद् द्वयेन विदधे द्वयमेव ॥ धृष्टता रहसि भर्तृषु ताभिनिर्दयत्वमितरैरबलासु ॥ ७१ ॥ अन्यकालेति॥ अजस्रं निरन्तरं द्वयेन पदार्थद्वयेन स्त्रीपुंसोर्युगलेन तद् द्वयमेव विदधे तद् द्वयं चक्रे । किंभूतं द्वयम् अन्यकालपरिहार्य सम्भोगावसरं विना परिहर्तव्यम्, अन्य- काले सम्भोगव्यतिरिक्त काले परिहार्य परिहरणीयम् , नाश्रयणीयमित्यर्थः । कथं द्वर्य विदधे इत्याह-रहसि एकान्ते ताभिरङ्गनभिः भर्तृषु कान्तेषु विषयेषु पृष्टता निर्लजता विदधे । इतरैःकान्तैः अबलास कामिनीषु विषयेषु निर्दयत्वं विगतकृपत्वं विदधे । चुम्बन-. कुचमर्दननखक्षतयभनादिषु मुकठोर प्रवर्त्यते स्मेत्यर्थः ॥ ७१ ॥ ।

सर्गः।] शिशुपालवधे। ३६६ .. .. अन्यकानोति ॥ अजस्रं नित्यमन्यकालपरिहार्य सुरतेतरकाले तु त्याज्यं तद् द्वयं कर्म द्वयेन की विदधे विहितमेव । धात्रः कर्मणि लिट् । एतदेव व्यनकि-रहसि ताभिरबलाभिर्भर्तृषु विषये धृष्टता विदधे। इतरैर्भर्तृभिरबलासु मीषु निर्दयत्वं च विदधे । अन्यदा यथा पुसा मीषु दया तासां तेष्वप्रागल्भ्य- मलङ्कारस्तद्वत्सुरतेषु तद्विरुद्धमेवालद्वार इति भावः । अत्र श्रीपुंसधार्यनिर्दयत्वयोः प्रकृतयोविधानकिया। योगपचं गम्यत इति तुल्ययोगिताभेदः ॥ १॥ बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातः ॥ बोधितस्तनुशयस्तरुणीनामुन्मिमील विशिखं (१) विषमेषुः ॥ ७२ ॥ बाहुपीडनेति । विषमेषुः पञ्चबाणः कामः विशिखम् उन्मिमोल बाणमस्पृशत् । किंभूतो विषमेपुः तरुणीनामङ्गनानां तनुशयः तनौ शरीरे शेते इति तनुशयः । तासां देहेषु सदा वर्तमानः इत्यर्थः। अपरं किंभूतोऽनङ्गः बाहुपीडनकचग्रहणाभ्याम् अपरम् आहतेन नखदन्तनिपातैः बोधितः बाह्वालिङ्गनकेशकर्षणाभ्यां प्रहारेण नखदन्तवणैर्जागरितः ॥ ७२ ॥ बाहुपडिनोति ॥ तरुणीनां तनी शेते इति तनुशयस्तनुषु सुप्तः। 'अधिकरणे शेतेः' इत्यच् प्रत्ययः। विषमेषुः कामः बाहुपीडनं निर्दयाश्लेषः कचग्रहणं केशाकर्षणं ताभ्याम् आहतेन मुष्टिघातेन । नपुंसके भावे कः। नखाना दन्तानां च निपातःक्षतैश्च बोधितः सन् विशदं निर्जाडयं यथा तथा उन्मिमील उद्बुद्धः । सर्वमेतत्कामस्योद्दीपकमासीदित्यर्थः । अत्र प्रकृतविषमेघुविशेषणसामर्थ्यादप्रस्तुतसुप्तप्रबुद्धपुरुषप्रतीतेः समा. सोक्तिरलङ्कारः । एवमेव प्रबोध्यते खलु निद्रालुरित्यलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ॥ ७२ ॥ कान्तथा सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ॥ संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥ कान्तयेति ।। कोऽपि युवा कश्चित्तरुणः दुकूलं भ्रष्टमेव न अपश्यत् सस्तमेव क्षौम न ददर्श । किंभूतः सः संहतस्तनतिरस्कृतदृष्टिः संहताभ्यां परस्परमिलिताभ्यां स्तनाभ्यां तिरस्कृता दृष्टिः दृक् यस्य सः मिलितस्तनाच्छादितचक्षुः । तहि किं चकार-प्रौढपाणिः सन् प्रसारितकरः सन् अपनेतुमपहर्तुमियेष वस्त्रमाक्षेप्तुमाचकाङ्क्ष, किंभूतो युवा कान्तया सपदि उपगूढः तत्क्षणमाश्लिष्टः ॥ ७३ ।। कान्तयति ॥ कान्तया सपदि वस्नाकर्षणक्षण एवोपगूढ आश्लिष्टः कोऽपि युवा कामी प्रौढपाणिर्व्यग्र- हस्तः सन अपनेतुं दुकूलमाक्रष्टुभियेष । संहताभ्यां निरन्तरश्लिष्टाभ्यां स्तनाभ्यां तिरस्कृतदृष्टिस्तिरोहिता- ऽशः सन् भ्रष्टमेव प्रागेव त्रस्तं दुकूलं नाऽपश्यत् । अत्र दृष्टितिरस्कारस्य विशेषणगत्य अदर्शनहेतुकत्वात् पदार्थहेतुकं काव्यलिङ्गम् । तच्च दृष्टेः स्तनतिरस्कारासम्बन्धेऽपि सम्बन्धरूपातिशयोक्त्युत्थापितमिति सदूरः । तेन च कुचयोलोकोत्तरसौन्दर्य व्यज्यत इत्यलङ्कारेण वस्तुवनिः ॥ ७३ ॥ आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।। त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ ७४ ॥ पाहतमिति ॥ प्रियतमोरसि कान्तवक्षसि त्रुट्यतः खण्डीभवतः हारात् एकावल्यादेः सकाशात् मौक्तिकवृष्टिः पपात मुक्ताफलकान्तिरपतत्। किंभूता मौक्तिकवृष्टिः,उत्प्रेक्ष्यते-इति कारणात् पुष्पवृष्टिखि कुसुमश्रेणिरिव। इतीति कि-यत् , अमुना वक्षसा तरुण्याः कामिन्याः कुचतटेन स्तनपरिसरेण आहतमभिहननं साधु सम्यक् प्रकारेण सोढं क्षान्तम् । अहो ! एतत्कान्तवक्षः तरुण्याः कुचतटस्य प्रहारक्षम सञ्जातम् , अतो धन्यमिदमिति भावः । अन्योऽपि यदा कस्यचित् प्रहारक्षमो भवति, तदा तस्योपरि पुष्पवृष्टिः पततीत्युक्तिलेशः । ७४ (१) विशदं।

सन्देहविषौषधिसर्वकषायुते- [दशमः- । .. पाहतमिति॥ तरुण्याः सम्बन्धिना कुचतटेनाऽऽहतमाहतिरमुनोरसा साधु सोढमिति हेतोस्टयतःशीर्य- माणात हारान्मौकिकवृष्टिः पुष्पवृष्टिरिव प्रियतमोरमि पपातेत्युत्प्रेक्षा। विक्रान्तः पूज्यते पुष्पवृष्ट्येति प्रसिद्धिः॥ सीत्कृतानि मणितं करुणोकिः स्निग्धमुक्तमलमर्थवचांसि ॥ हारभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ।। ७५ ॥ सीस्कृतानीति॥ रमण्याः कामिन्याः एते पदार्थाः कामसूत्रपदतामुपजग्मुः कामः संभोगः स एव सूत्रं वर्णसमुदायः तस्य पदानि विभक्त्यन्तच्छेदाः तेषां भावः कामसूत्रपदता तां प्रापुः । सूत्रे किल पदानि भवन्ति । तावत्कि किं-सीत्कृतानि सीत्कारविशेषाः, अपरं किं मणितं रतिकूजितं, अन्यत् किं करुणोक्तिः दयावद्वचनं 'मृताऽस्मीत्यादि, अपरं किं स्निग्धमुक्तं प्रियं वाक्यम्, अपरं किम् अलमर्थवचांसि 'मा मा पूर्यता मित्यादिवारणार्थक्यानि, अपरं किं हारभूषणरवाश्च हारालङ्करणशब्दाश्च, एते सर्वे अनङ्गसूत्रपदानि समजायन्त ।। ७५ ॥ सीत्कृतानीति ॥ तरुण्याः सीत्कृतानि सीत्काराः । दन्तनिष्पीडनायां सीदिति शब्दप्रयोगः । मणितं रतिकाले स्त्रीणां कण्ठकूजित विशेषः । 'मणितं रतिकूजितम्' इत्यभिधानात् । करुणानिमायस्वे. न्यादिदीनोक्तिः, स्निग्धं स्नेहाईमुक्तमुक्तिः । त्वं मे प्राणां इति प्रियवाद इत्यर्थः । अलमर्थानि निषेधा- र्धानि वासि मा मेन्यादिनिवारणवचनानि, हासाना भूषणानां च रखा: स्वनाश कामसूत्रस्य वात्स्या- यनादिकामतन्त्रप्रतिपादकशामस्य पदता, पद्यत इति पदमर्थः, प्रमेयनक्षणमिति यावत् । तत्तामुपजग्मु- रिति गम्योत्प्रेक्षा । यद्वा कामनैव कृतं सूत्रं तस्य पदानि सुप्तिन्तशब्दरूपाणि तस्य शास्त्रस्यैतान्येव पदानि तनामुपजग्मुरित्युत्प्रेक्षैव ॥ ५ ॥ उद्धतैनिभृतमेकमनेकैश्छेदवन्मृगदशामविरामैः ॥ श्रूयते स्म मणितं कलकाञ्चीनू पुरध्वनिभिरक्षतमेव ॥ ७६ ॥ उद्धतैरिति । मृगदृशां कामिनीनां मणितं रतिकूजितं कलकाञ्चीनूपुरध्वनिभिः अक्षतमेव श्रूयते स्म मधुरमेखलामञ्जीरशब्दैः अखण्डिनमेव शुश्रुवे । किंभूतैः ध्वनिभिः अविरामैः अविश्रान्तैः, पुनः किंभूतैः अनैकैः, पुनः किंभूतैः उद्धतैः उत्कटः, किंभूतं मणितं छेदवत् त्रुट्यमानं, पुनः किंभूतम् एकमद्वितीयं, पुनः किंभूतं निभृतं निश्चलम् ।।६।। उद्धतैरिति ॥ निभृतमनुद्धतम् । सूक्ष्ममित्यर्थः। एकमेकाकि छेदवविच्छेदयुक्तं मृगदृशा माणतं रतिकूजितम् उद्धृतैः स्थूलैरनेकबहुभिरविरामरविच्छेदैः कलैरव्यक्तमधुरैः काञ्चीना नूपुराणां च वनिभि- रक्षतमतिरस्कृतमेव श्रूयते स्म श्रुतम् । मणितस्य तिरोधायकशब्दाऽन्तरसद्भावेऽपि ताप्याऽनापनेरतद्गुणा- ऽलङ्कारः। 'सति हेतावतपस्वीकारः स्यादतद्गुणः' इति लक्षणात् ॥ ६ ॥ ईदशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ॥ क्षिप्तमायतमदर्शयदुा काञ्चिदाम जघनस्य महत्त्वम् ॥ ७७ ॥ ईद्वशस्येति ।। काञ्चिदाम मेखलाकलापः जघनस्य नार्याः कटिप्रदेशस्य महत्त्वं विशालत्वमदर्शयत् दर्शयामास । किंभूतं काञ्चिदाम आयतं विशालं, पुनः किंभूतम् उयों पृथिव्यां क्षिप्तं पतितम् । उत्प्रेक्ष्यते-इतीव इति कारणादेव । इतीति किं यत्, हे जघन ! भवतः तव ईशस्य विशालस्य महतः रतेषु सम्भोगेषु मुहुरवार कथमेतत् लाघवं किमेतत् कुटनरूपं लघुत्वं स्यात् ॥ ७७ ।। ईदृशस्येति ॥ रतेषु उर्ध्या क्षितं रतिसम्भ्रमात्पतितम् आयत दीर्घभूनं काचिदाम रशनागुणः कर्तृ ईदशम्य इति काचिदाम्नःस्वाभ्यामवृष्टान्तेन जघनपरिमाणप्रदेशेनत्थं महत्तरस्यातिमहतस्तव जघनस्य रतेषु उपरिसुरतेषु मुहुः कथमेतल्लाघवं मुहुरुत्पतनपाटयं यस्येत्थमायतमहमपि ऐकवष्ट पयातमिति भावः । ..

सर्गः।] शिशुपालवधे। .. इति जघनस्य महत्वदर्शनादिव । इत्थं विस्मितस्येति शेषः । गम्यमानार्थवादप्रयोगः। अघोामायतत्व- निमित्तकाञ्चीदामकर्तृक विस्मयपूर्वकजघनमहत्त्वदर्शनमुत्प्रेक्ष्यते ॥ ७ ॥ प्राप्यते स्म गचित्रकचित्रश्चित्रमानखलक्ष्म कपोलैः ॥ दधिरे च (१) रभसच्युतपुष्पाः स्वेदविन्दुकुसुमान्यलकाऽन्ताः ॥ ७८ ॥ प्राप्यते स्मेति ॥ कस्याचिन्नायिकायाः कपोले: गण्डप्रदेशैः चित्रमालेख्यं प्राप्यते स्म प्राप्तम् । किंभूतं चित्रम् आर्द्रनखलक्ष्म तत्क्षणनखणचिन्हं, किंलक्षणैः कपोलैः गत- चित्रकचित्रैः अनीतालेख्यपत्रलतैः । च अपरं अलकाऽन्ताः केशप्रान्ताः स्वेदबिन्दुकुसुमानि दधिरे प्रस्वेदजलकणान् दधुः, किंभूताः अलकाऽन्ताः रभसच्युतपुष्पाः सुरतौत्सुक्यात् पतितप्रसूनाः ।। ७८ ॥ प्राप्यते स्मति ॥ गतानि विमर्दाप्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैराई यत्रखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । किञ्च रभसेन रतिसम्भ्रमेण च्युतपुष्पा अल- काऽन्ताश्चूर्णकुन्तलामाणि स्वेदबिन्दूनवे कुसुमानीति रूपकम् । दधिरे दधुः । धरतभॊवादिकालिटि नित्त्वा- दात्मनेपदम् । स्वेदोऽत्र श्रमाऽनुभावः । श्रमः खेदोऽध्यरत्यादेः श्वासोदाऽतिभूमिकृत ॥ ७८ ॥ यद्यदेव रुरुचे रुचितेभ्यः (२) सुभ्रवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाश्निपन्ति हृदयानि तरुण्यः ॥ ७९ ॥ यद्यदेवेति ।। सुभ्रुवो मृगलोचनाः रहसि एकान्ते रुचितेभ्यः प्रियेभ्यः यत् यदेव रुरुच रुचितमभिमतं, तत् तदेव अकुर्वन् कुर्वन्ति स्म। यतः कारणात् तरुण्यो रमण्यःआनु- कूलिकतया अनुकूलचारित्वेन नराणां कान्तानां हृदयानि आक्षिपन्ति मनांसि अपहरन्ति ७९ यद्यदेवति ॥ रुचिरेभ्यो रमणेभ्यो यद्यदेव चौष्टितं रुरुचे रोचते स्म । प्रियमभूदित्यर्थः । 'रुच दीप्ता- वभिप्रीती च' इति धातोलिट् । 'रुच्यर्थानां प्रीयमाणः' इति सम्प्रदानत्वम् । सुभ्रुवो रहसि तत्तदकु- छन् । तथा हि-तरुण्यः अनुकूलं वर्तन्त इत्यानुकूलिकाः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' इति ठक् । तामा भावस्तता तया आनुकूलिकतया । अनुकूलवर्तिततयैव नराणां पुंसां हृदयान्याक्षिपन्त्यावर्ज- यन्तीत्यर्थान्तरन्यास: ॥ ९ ॥ प्राप्य मन्मथमदा(३)दतिभूमि दुवहस्तनभराः सुरतस्य ॥ शश्रमुः श्रमजलाललाटश्लिष्टकेशमसितायतकेश्यः ॥ ८० ॥ प्राप्येति ॥ असितायतकेश्यः श्यामविशालाऽलका अङ्गनाः शश्रमुः श्रमं प्राप्ताः । किं कृत्वा मन्मथमदात्कामविलासात् सुरतस्य संभोगस्य अतिभूमि प्राप्य पारं गत्वा, किं- भूताः नार्यः दुर्वहस्तनभराः वोढुमशक्यकुचभाराः, कथं शश्रमुः श्रमजलाईललाटश्लिष्ट- केशं यथा भवति तथा स्वेदसलिलक्लिन्नललाटविलग्नाऽलकं यथा भवत्येवं, स्वेदसलिलेन आदें क्लिन्ने ललाटे श्लिष्टा विलग्नाः केशा यत्र क्रियायाम् ।। ८० ॥ प्राप्योति ॥ दुर्वहः स्तनभरो यासा ता एतेनोपरि सुरतं व्यज्यते । अन्यथा विशेषणवैयात असिता आयताश्च केशा यासां ता असितायतकश्यः स्त्रियः । 'स्वाङ्गाच-' इत्यादिना डीए । मन्मथरसात स्मररागान्सुरतस्यातिभूमि पर काष्ठा प्राप्य । महान्तं सुरतं प्राप्येत्यर्थः । श्रमजलेन स्वेदाम्बुना आ ललाटे श्लिष्टाः केशा यस्मिन्कर्मणि तयथा तथा शप्रमुरिति सानुभावस्य श्रमभावोक्तिः । भावनिबन्ध- नात्प्रेयोऽलङ्कारः ॥ ८०॥ । (१) दधिरेन्थ । (२)रुचिरेभ्यः। (३) रसा।

३७२ सन्देहविषौषधिसर्वकषायुते- [ दशम:- सङ्गताभिरुचितैश्चलिताऽपि प्रागमुच्यत चिरेण सखीव ॥ भूय एव समगस्त रताऽन्ते हीर्वधूभिरसहा विरहस्य ॥ ८१ ॥ सङ्गताभिरिति ॥ वधूभिर्नायिकाभिः होर्लज्जा चिरेण चिरकालेन प्राक् पूर्वम् अमु- च्यत अत्यज्यत । किंभूताभिर्वधूभिः उचितैः योग्यैः कान्तैः सह सङ्गताभिः संमिलि- ताभिः । सा होर्लज्जा रतान्त चलिताऽपि संभोगान्ते चलिताऽपि सती भूय एव पुनरेव समगस्त संमिलिता । केव सखीव । वधूभिः भर्तृसन्निधौ प्राक् मुच्यते, रतान्ते भूय एव सा सखी गताऽपि सङ्गच्छत इत्यर्थः। किंभूता हीः सखीव विरहस्याऽसहा वियोगस्य असमर्था, वियोगं न सहते इत्यर्थः ।। ८१ ।। अथ सुरतावसानं वर्णयति- सङ्गताभिरिति ॥ उचितैः परिचितैः प्रियतमः सह सङ्गताभिर्वधूमिः प्राक् सुरतादौ चलिता गन्तुं प्रचलितापि ही: सखीव चिरेणाऽमुच्यत मुक्ता । न सहत इत्यसहा । पचायजन्ते नमसमास:। विरहस्या- सहा सतीत्यर्थः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । रतान्ते भूय एव वधूभिः समगस्त मङ्गाना सखावे. त्येव । सम्पूर्वाहमेला समो गम्यूच्छिभ्याम-' इत्यात्मनेपदम् । वा 'गमः' इति सिचः पक्षे कित्त्वाभावात् 'अनुदानोपदेश-'इत्यादिनाऽनुनासिकलोपो न। सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः। उपमालङ्कारः प्रेक्षणीयकमिव क्षणमासन होतभङ्गुर(१)विलोचनपाताः ॥ सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरताऽन्ताः ॥ ८२।। प्रेक्षणीयकमिति॥सुरताऽन्ताः सम्भोगप्रान्ताः क्षणं क्षणमात्रं प्रेक्षणीयकमिवाऽऽसन् नाटकमिव बभूवुः । किंभूताः सरताऽन्ताः हीतभङ्गुरविलोचनपाताः हीता लजिता भङ्गुराः वक्राः विलोचनपाताः नेत्रनिरीक्षणानि येषु ते लज्जाकुटिलनेत्रप्रसराः, पुनः किंभूताः सम्म्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सम्भ्रमेण व्याकुलतया द्रुतं शीघ्र गृहीतं यद् दुकूलं क्षौमं तेन छाद्यमानानि आब्रियमाणानि वपूंषि शरीराणि येषु ते तथा, व्याकुलत्व- वेगनीतपकूलसंवृतशरीराः ॥ ८२ ॥ प्रेक्षणीयकमिति ॥ लिया विभगुराः स्वलिता विलोचनपाता दृष्टिगता येषु ते सम्भ्रमेण द्रुतं गृहीतेन दुकूलेन छायमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवाऽऽसन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तद् दृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भाव- तिरोधानादिना तत्तुल्यत्वम् ॥ ८२ ॥ अप्रभूतमतनीयसि तन्वी काश्चिधानि पिहितैकतरोरू:(२) । क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ ८३ ॥ अप्रभूतमिति ॥ काचित्तन्वी सुकुमाराङ्गी क्षौमं पट्टकूलं विचकर्ष आचकर्ष । किंभूतं क्षौमम् अभीष्टतमेन कान्तेन क्रान्तपल्लवं गृहीताऽञ्चलं, किंभूता तन्वी आकुलकरा व्यग्रहस्ता, किंभृतं क्षौमं काञ्चिधाम्नि मेखलास्थाने श्रोणीप्रदेशे अप्रभूतमपर्याप्तं, किंभूते काञ्चिधाम्नि अतनीयसि विशाले, पुनः किंभूता तन्वी पिहितैकतरोरूः पिहितः एकतरः अर्यस्याः सा आच्छादितैकतमजघनप्रदेशा ॥ ८३ ॥ अप्रभतमिति ॥ तन्वी कृशानी अभीष्टतमेन प्रेयसा कान्तपल्लवं गृहीताऽञ्चलम् अत एवाऽतनीयसि महीयसि काश्चिधाम्नि जघने अप्रभूतं छादयितुमपर्याप्तम् । अत एव पिहितच्छादित एकतर एवोरुपेन तत् (१) हीविभङ्गुरः। (२) सरोरु।

सर्गः1] शिशुपालवधे। । सामं दुकूलमाकुलकरा व्यप्रपाणिः सती विचकर्ष कृत्स्नाऽपिधानार्थमाचकर्ष । लज्जाऽनुभावोऽयम् । अत्र सौमविशेषाणामाकर्षणहेतुत्वात्पदार्थहतुकं कायलिङ्गमलङ्कारः ॥ ८३ ॥ मृष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः ।। साऽपराध इव मण्डनमासीदात्मनैव सुद्शामुपभोगः ॥ ८४ ॥ मृष्टेति ॥ सुदृशामङ्गनानामुपभोगः परिभोगः आत्मनैव मण्डनमासीत् स्वयमेव मण्डनमलङ्करणं बभूव । किंभूतः उपभोगः, उत्प्रेक्ष्यते-साऽपराध इव अपराधयुक्त इव । यतः किंभूतः उपभोगः मृष्टचन्दनविशेषकभक्तिः आमृष्टाऽवलेपपत्रलतारचनः, अपरं किंभूतः उपभोगः भ्रष्टभूषणकदर्थितमाल्यः पतिता ऽलङ्करणम्लानकुसुमः, भ्रष्टानि पतितानि भूष- णानि यस्य सः भ्रष्टभूपणः, कदर्थितानि क्लिष्टानि माल्यानि कुसुमानि यत्र सः तथा, भ्रष्टभूषणश्चासौ कदर्थितमाल्यश्च भ्रष्टभूषणकदर्थितमाल्यः ॥ ८४ ॥ मृष्टति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रचना येन सः । 'तमाल पत्र- तिलकचित्रकाणि विशेषकम्' इत्यमरः । भ्रष्टानि भूषणानि यस्मिन्स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः । लोकतो विशेष्यालिङ्गत्वम् । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । कदानि कृतानि कदार्थ- तानि दूषितानि माल्यानि येन स: । ततस्तयविवक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उस- भोगः साऽपराध इव पूर्वमण्ड नापहारात्कृतापराध इव सुदृशामात्मनव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्ड नमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमि वेत्युत्प्रेक्षा । स्त्रीणां सम्भोग एवं मण्डनं तदभावे मण्डनान्तरस्याऽप्यमण्डनत्वादिति भावः ॥ ८४ ॥ योषितः पतितकाञ्चनकाचौ मोहनाऽतिरभसेन नितम्बे ॥ मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः ॥ ८५ ॥ योषित इति ॥ योषितो नायिकायाः नितम्बे कठ्याः पश्चाद्भागे परितः समन्ता- अवनखक्षतलक्ष्मीः राजते स्म नूतननखव्रणशोभा रराज । किंभूता नखक्षतलक्ष्मीः, उत्प्रे. क्ष्यते-विचित्रा नानावर्णा मेखलेव रशनेव । मेखलाऽपि नितम्बे राजते । किंभूते नितम्बे मोहनातिरसेन सुरताऽतिशयवेगेन पतितकाञ्चनकाचौ भ्रष्टहेममेखले ॥ ८५ ॥ योषित इति ॥ मोहनाऽतिरभमेन सुरतसम्भ्रमेण पतिता काञ्चनी काञ्चनस्य विकारः काञ्चिर्यस्मात् नस्मिानिखले योषितो नितम्बे परितः सर्वतो विचित्रा विविधरचना नवनखक्षतलक्ष्मीर्मेखलेव रजते स्म । उत्प्रेक्षालद्वारः ॥ ॥ ८५ ॥ भातु नाम सुदशां दशनाऽङ्कः पाटलो धवलगण्डतलेषु ॥ दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥ ८६ ॥ भातु नामेति ॥ सुदृशां कामिनीनां धवलगण्डतलेषु गौरकपोलस्थलीषु, नामेति सम्भावनायां, पाटलः ईषद्रक्तः दशनाऽङ्कः दन्तवणः भातु शोभां प्राप्नोतु । अपरं स एवं दशनाङ्कः दन्तवाससि अधरोष्ठे संमुखोऽपि सन् परभागमवाप गुणोत्कर्ष लेभे। किंभूतः दशनाङ्कः समानगुणश्रीः सदृशगुणकान्तिः ॥ ८६ ॥ भातु नामेति ।। सुदृशा सम्बन्धी पाटलोऽरुणो दशनाको दन्तक्षतं धवलगण्डतलेषु कपोलेषु भातु नाम वैवा देन प्रकाशताम् । नामेत्यङ्गीकारे । दन्तवासासि अधरे तु समानगुणश्रीस्तुल्यवर्णोऽपि तथा संमुखोऽपि सन् परभागं गुणोत्कर्ष तथा पश्चाङ्गागं चाऽवाप इति सावर्ण्यवेवर्ण्ययोः संमुखपराङ्मुखत्वयोश्च विरोधः। उपरिभागमवापेत्युभयत्र परिहाराविरोधाभासद्वयसंमृष्टिः। तत्रायः श्लेषभित्तिकाभेदाध्यवसाय- मूलस्तद्गुणोत्थापित इति सङ्करः ॥ ८६ ।। ३२ शि०५० .. ३७४ सन्देहविषौषधिसर्वकषायुते [ दशमः- सुभ्रुषामधिपयोधरपीठं पीडनैस्युटितवस्यपि पत्युः ॥ मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव ॥ ८७ ॥ सुभ्रवामिति ॥ सुभ्रुवां नायिकानां हारयष्टिः एकावल्यादिहारलता गुरेवाऽभवत् गुव्येव बभूव । किंभूता हारयष्टिः मुक्तमौक्तिकलघुः पतितमुक्ताफलशून्या, किंभूता हार- यष्टिः गुणशेषा सूत्रावशिष्टा, पुनः किंभूता पत्युः कान्तस्य अधिपयोधरपीठं स्तनतटमधि- कृत्य पीडनै: गाढालिङ्गनैः श्रुटिवत्यपि छेदं प्राप्तवत्यपि । तथापि गुरुतरा एवाऽभूदित्यर्थः८७ सुभ्रवामिति ॥ सुध्रुवां पयोधरपीठ कुचतटे अधिपयोधरपीठम् । विभक्त्यर्थेऽव्ययीभावः । पन्युः पीडन: परिरम्भादिविमस्त्रुटितवती छेदं गतापि । अत एव मुक्कमौक्तिका सा च सा लघुश्च अत एक गुणशेषा सूत्रमाप्रशेषाऽपि हारयष्टिर्गुरुः श्लाघ्यैवाभवत् । लघुरपि गुरुरिति विरोधाभासोऽलङ्कारः ॥ ८७ ।। विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने ॥ योषितामुदितमन्मथमादौ तद् द्वितीयसुरतस्य बभूव ॥ ८८ ॥ विश्रमार्थमिति ॥ प्रियः कान्तः प्रथमरत्यवसाने पूर्वसरताऽन्ते अजस्रं निरन्तर विश्रमार्थ विश्रामाय योषितां नायिकानां यत् उपगूढमालिङ्गितं, तत् उपगूढं द्वितीय- मुरतस्य अपरसम्भोगस्य आदौ बभूव पूर्वमभूत् । किंभूतमुपगूढम् उदितमन्मथम् उदितः उत्पन्नः मन्मथः कामो यत्र तत् , क्रियाविशेषणं वा ॥ ८८ ॥ विश्रमार्थमिति ।। योषितां प्रथमरत्यवसाने विश्रमार्थ श्रमापनोदार्थम् । श्राम्यतर्घप्रत्ययः । 'नोदानो- पदेशस्य मान्तस्यानाचमेः' इति वृद्ध्यभावः । अजस्रं प्रियरुपगूढमुपगृहनम् । नपुंसके भावे कः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । उदितमन्मथमुत्पादितकामम् । अत एव तदुपगृहनं द्वितीयमुरत- स्याद। बभूव । श्रमापनोदमन्मथोबोधाभ्यामुभयोपयोगादुभयार्थमभूत् । संयोगपृथक्त्वन्यायादित्यर्थः । अत्र मध्यवर्तिन उपगूढस्यैकस्य पूर्वोत्तरसुरतशेषत्वेन विशेषणगत्या विश्रमार्थोदितमम्मथपदार्थयो तुवात काव्यलिङ्गद्वयं तदङ्गाङ्गिभावेन सङ्कीर्यते ॥ ८८ ।। आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताऽभिरताभ्यः ॥ दीयते स्म शयितुं शयनीये न क्षणः क्षणदयाऽपि वधूभ्यः ॥ ८९ ॥ प्रास्तृते इति ॥ क्षणदयाऽपि निशयाऽपि वधूभ्यः अङ्गनाभ्यः शयनीये शय्यायां शयितुं शयनाय क्षणो न दीयते स्म अवसरो न दत्तः । किंभूते शयनीये अभिनवपल्लवपुष्पैः आस्तृते नूतनाऽङ्कुरप्रसवैः आच्छादिते, किंभूताभ्यो वधूभ्यः अनारतरताऽभिरताभ्यः निरन्तरसरततत्पराभ्यः । अतो नानासरततत्परत्वेन ताः न सुषुपुरित्यर्थः ॥ ८९ ॥ प्रास्तृत इति ॥ अनारतमश्रान्तं रते सुरते अभिरशाभ्य आसक्ताभ्यो वधूभ्यः क्षणमुत्सवमुखं ददातीति मणदा रात्रिस्तयाऽप्यभिनवैः पल्लवैः पुष्पैश्चास्तृते आच्छादितेऽपि । सुखशयनाऽपीत्यर्थः । शेतेऽस्मि- निति शयनीये तल्पे । 'कृत्यत्युटो बहुलम्' इत्यधिकरणेऽनीयर् । शयितुं शयनं कर्तुं क्षणोऽल्पकालोऽपि न दीयते स्म न दत्तः, किन्तु आप्रभातमरमयत् । क्षणदात्वोदेवेति भावः। क्षणदयाऽपि क्षणो न दन इति विरोधस्योत्सवार्थत्वेन परिहाराद्विरोधाभासोऽलङ्कारः । ' निर्व्यापारस्थिती कालविशेषोत्सवयो. क्षणः' इत्यमरः ॥ ८९ ॥ योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ॥ क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन यदूनाम् ॥ ९० ॥ योषितामिति ॥ खलु निश्चयेन योषितामङ्गनानां गात्रं शरीरं यदूनां यादवानां रागवृद्धि प्रेमप्रसरम् उना होना न अकरोत् न चकार, अपि तु सम्पूर्णा रागवृद्धि- ..

सर्गः । ]
शिशुपालवधे।
३७५
मकरोत् । किंभूतं गात्रम् उज्ज्वलतया निर्मलतया न उनं न हीनम् , अपरं किंभूतं गात्रम्
अतितरामतिशयेन नखलून करजच्छिन्नं, किं कुर्वत् गात्रम् आशु शीघं हृदयं मनः क्षोभ
नयत् चञ्चलत्वं प्रापयत् ॥ ९० ॥
योषितामिति ॥ नखलूनं न खलु उनम् , नयत् उनां न यदुना इति पदच्छेदः । अनितरामाने.
म त्रम् । अव्ययादामुप्रत्ययः । नखानं क्षतं नखलूनम् । 'ल्वादिभ्यश्च' इति निष्ठानत्वम् । तथाऽप्युज्ज्वलतया
औज्ज्वल्येन न उनं न न्यूनम् । किन्तु समग्रमेवेत्यर्थः । नखाताना कामिनीगात्रमण्डनत्वादिति भावः ।
अत एवाशु हृदयं प्रियाच क्षोभं विकारं नयत्प्रापयत् । नयतेलटः शत्रादेशः। योषितां गात्रं यदूना
यादवानां रगवृद्धिमूना न्यूनां नाऽकरोखलु । किन्तु भूयोऽपि समग्रमेवाकरादित्यर्थः । अत्र यमकं शन्दा-
लङ्कारः । औज्ज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुन्वाकाव्यालङ्गमर्थालङ्कारः ॥ ९० ॥
इति मदमदनाभ्यां रागिणः स्पष्टरागाननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ॥
अभजत परिवृत्तिं साऽथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लजयाऽधोमुखोव ९१ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये प्रदोषवर्णनं नाम दशमः सर्गः ॥ १० ॥
इतीति ॥ अथानन्तरं सा रजनिः सा रात्रिः परिवृत्तिमभजत परिवृत्तिं शिश्राय ।
विभातेत्यर्थः । किंभूता रजनिः पर्यस्तहस्ता लम्बितहस्तनक्षत्रा, पुनः किंभूता अवनतेन्दुः
नम्रीभूतचन्द्रा । पुन: किंभूता, उत्प्रेक्ष्यते-लजयाऽधोमुखीव व्रीडयाऽवाङ्मुखीव ।
र.जायां किं कारणं-किं कृत्वा तान् रागिणः विलासिनः अनवरतरतश्रीसद्भिन्नः अवेक्ष्य
निरन्तरं सम्भोगलक्ष्मीप्रसक्तान् दृष्ट्वा, किंभूतान् तान् इति पूर्वोक्तप्रकारेण मदमदनाभ्यां
स्पष्टरागान् मदो मत्तता मदनः कामस्ताभ्यां स्पष्टः प्रकटो रागः आसक्तिः येषां ते
तथा तान् । अन्याऽपि नारी सुरतसङ्गिन पुरुषं वीक्ष्य पतितकरा तथा वीडयाऽधोमुखी
गच्छतीत्यर्थः ॥ ११ ॥
इति श्रीशिशुपालवधस्य महाकाव्यस्य श्रीवल्लभदेवविरचितायां सन्देहविषौषध्यां
सारटीकायां मद्यपानसुरतक्रीडावर्णनं नाम दशमः सर्गः ।
M
इतीति॥इतीत्थं मदमदनाभ्यां स्पष्टरागान् , सर्वदा रागित्वेऽपि तदा ताभ्यामपि व्यजिनरागानित्यर्थः ।
अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसम्पल्लम्पटास्तान् रागिणो रागिण्यश्च रागिणश्च तान् रागिणः ।
'पुमान्सिया' इत्येक शेषः । अवेक्ष्य। अथाऽवेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः करच यस्याः
का। 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इत्युभयत्रापि विश्वः । अवनतेन्दुः त्रस्तचन्द्र। अत एव सा
रजनिर्लजया, ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवत्युत्प्रेक्षा । पारवृनि निवृत्त्युन्मुख ता-
मभजत । प्रभातपायाभूदित्यर्थः । लियो हि परकीयमाम्यचेष्टादर्शने पावनतमुख्यो हस्तेन दृष्टिमन्त-
र्धाय दागपसरन्तीति भावः। अत एवाऽनन्तरस, प्रभातवर्णनाय प्रस्तावः। मालिनी वृत्तमेतत् । लक्षणं तूकं,
यक्ष्यते चोत्तरसाद। ॥ ९१ ।।
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वपाख्य दशमः सर्गः ॥ १० ॥

३७६ सन्देहविषौषधिसर्वपायुते- [ एकादशः- एकादशः सर्गः। श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकोकृत्य षड्जम् ॥ प्राणजगदुरकाकि(१)श्रावकस्निग्धकण्ठाः परिणतिमिति रार्मागधा माधवाय श्रुतिसमधिकमिति ॥ अथाऽनन्तरं मागधाः प्रबोधकराः इति वक्ष्यमाणप्रकारेण माधवाय श्रीपतये कृष्णाय रात्रेः परिणति निशायाः विपर्ययं, प्रभातमित्यर्थः, प्रणिजगदुः उच्चस्तरं पेटुः । किं कृत्वा षड्जं भिन्नकीकृत्य षड्जप्रामं भिन्नरूपतां प्रापय्य, भिन्नषड्ज कृत्वेत्यर्थः । किंभूताः मागधाः इति भिन्नषड्जस्य स्वरूपमाह-पञ्चमं स्वरं पीडयन्तः वर्जयन्तः, किंभूतं स्वरं श्रुतिसमधिकं श्रुत्या ध्वनिविशेषेण समधिकं बहुलम् चतुःश्रुतिक- मित्यर्थः । आधिक्यमत्र मध्यमग्रामापेक्षया । तत्रत्या श्रौति श्रुतिः, षड्जे तु चतु:- श्रुतिकः(?) । एतच पूर्वमेव दर्शितम् । किंभूतं षड्ज सततं सदैव ऋषभहीनम् । ऋषभ- स्वरवर्जितम् । सततग्रहणेन लक्षणानुरोधात् कदाचित्पञ्चमस्वरस्य सद्भावः सूच्यते । सततमृषभेन हीन, पञ्चमस्तु कदाचिदेवेत्यर्थः । यदा चैवं, तदा पञ्चमं पीडयन्तोमन्दमुचार- यन्त इत्यर्थः । किंभूतास्ते मागधाः अकाकिश्रावकस्निग्धकण्ठाः अकाकी काकस्वरगेय- दोषवर्जितः श्रावकः संवाही विपुलबलः स्निग्धो रूढः कण्ठो गलो येषां ते तथा। मागध- विशेषणान्वत्वकाकीत्यस्तविशेषणः(?) समासः ॥ १ ॥ अथ प्रस्तुतं प्रभातवर्णनं प्रारभते- श्रुतिसमधिकामति ॥ नास्ति काकुर्यस्येत्यकाकुरविकृतध्वनिः । 'काकुः मियां विकारो यः शोक- भीत्यादिभिर्धनेः' इत्यमरः। श्रावयतीति श्रावको दूरध्वनिः । मिग्धो मधुरः कण्ठः स्वरो येषां ते अकाकुश्रावकस्निग्धकण्ठाः । रककण्ठा इत्यर्थः । मागधा वैतालिकाः । श्रुतयो नाम षड्जादिस्वरारम्भका- स्वयवाः शब्दविशेषाः । तदुक्तम्- 'प्रथमश्रवणाच्छन्दः श्रूयते तस्वमात्रिकः । सा श्रुतिः संपरिक्षया स्वरावयवलक्षणा' ॥ इति । ताभिः श्रुतिभिः समधिकं बहुलं षड्जविशेषणं पञ्चमविशेषणं वा, उभयोरपि तथात्वात् । तदुक्तम्- 'चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारी त्रीस्मीनृषभधैवतो' । इति । षड्जो मयूरस्य कूजितानुकारी स्वरविशेषः। 'षड्नं मयूरो वदति' इति लक्षणात् । तं षड्ज मित्र एव भित्रकस्तं कृत्वा भित्रकीकृत्य । तत्कालनिषिद्धस्वराऽसंकीर्ण कृत्वेत्यर्थः । पञ्चमो नाम कोकिलकूजिता- ऽनुकारी स्वरविशेषः । 'पिकः कूजति पञ्चमम्' इति लक्षणात् । तं पश्चमं पीडयन्तः । तत्कालानिषेधात्परि- त्यजन्त इत्यर्थः । सततं वीणादिवाद्ययुक्तम् । ततं वीणादिकं वायम्' इत्यमरः । ऋषभोऽपि वृषभनर्दितानुकारी स्वरभेद एव । 'गावस्त्वृषभभाषिणः' इति लक्षणात् । तेन हीनम् । तस्यापि तत्कालनिषिद्धत्वादित्यर्थः । सततम् ऋषभहीनं च यथा तथा रात्रेः परिणतिम्, पारवृत्तिमित्यर्थः । इति वक्ष्यमाणप्रकारेणोच्चैर्यथा तथा माधवाय कृष्णाय ।क्रियाग्रहणात्सम्प्रदानत्वम् । प्रणिजगदुः । गानेनाचल्युरित्यर्थः । 'नर्गदनद-' इत्यादिना णत्वम् । पञ्चमादिनिषेधे भरतः- 'प्रभाते सुतरां निन्द्य ऋषभः पञ्चमोऽपि च । जनयेत्प्रधनं युवा पञ्चत्वं पञ्चमोऽपि च ॥ --- - - . (..)रकाकु।

सर्गः।] शिशुपालवधे। ३७७ पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगीतो जनयदशनस्य विपर्ययम्' । इति । वृत्त्यनुप्रासोऽलङ्कारः । अस्मिन्सर्गे मालिनी वृत्तम् । 'ननमयययुतेय मालिनी भोगिलोकः' इंति लक्षणात् ॥१॥ अभिजगदुरित्युक्तं, तदेवाह- रत(१)रभसविलासाऽभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाऽऽहतोऽसौ ।। रजनिविरतिशंसी कामिनीना भविष्यद्विरहविहितनिद्राभङ्गमुश्चेदङ्गः ॥२॥ रतरभसेति ॥ यावन्नयनयुगं न अमीलत् नेत्रयुग्मं न निमिषितं, तावदेवाऽसौ मृदङ्गः पटहः आहतः ताडितो वादितः। किंभूतं नेत्रयुग्ममिति निमीलने कारणमाह- रतरभसविलासाऽभ्यासतान्तं रते निधुवने रभसेन औत्सुक्येन ये विलासाः विभ्रमाः तेषां योऽभ्यासो भूयोभूयः करणं तेन तान्तं खिन्नं, किंभूतो मृदङ्गः रजनिविरतिशंसी निशा- ऽवसानसूचकः । विभाते हि तूर्य वाद्यते । कथमाहतः कामिनीनां भविष्यद्विरहविहितनिद्रा- मग यथा भवति कामिनीनां भविष्यता भाविना विरहेण विहितः कृतः निद्राभङ्गः स्वापनाशो यत्र यस्यां क्रियायाम् । न हि चिन्तया निद्रा आयाति । रतमासेव्य श्रान्ताः कामिनो यावदक्षि स्थगयन्ति, तावदेवाऽऽलोकीभूतमिति वाक्यार्थः । उच्चैवेगेन मृदङ्ग- आहतः इति योज्यम् ॥ २ ॥ अथ पूर्वश्लोके इतिशब्दपरामृष्टानपररात्रप्रभृत्युत्तरोत्तरक्रमभाविनः प्रभातवृत्तान्तानासर्गसमाप्ति वर्णयन्नाह- रतिरभसति ॥ रतिरभसविलासाना सुरतसम्भ्रमलीलानामभ्यासेनाडावर्तनेन तान्तं क्लान्तं नयनयुगं कर्तृ, कामिनामिति शेषः। यावत्राऽमीलन मुकुलीभवति तावदेवासी रजनिविरतिशंसी निशावसानसूचक उच्च- मृदङ्गः कामिनीनो भविष्यता उत्तरक्षणभाविना विरहेण विहितः कृतो निद्राभङ्गो यस्मिन्कणि तयथा तथा आहतस्ताडितः । अत्र विरहशब्देन सामर्थ्यात्तचिन्ता लक्ष्यते । अन्यथा असतः साम्प्रतिकनिद्राभङ्ग हेतुत्वा- ऽयोगादिति । अत्र रतितान्तत्वरजनिविरतिशंसनयोर्विशेषणगत्या नेत्रनिमीलननिद्राभङ्गाहेतुत्वात्पदार्थहेतुके काव्यलिङ्ग ॥२॥ स्फुटतरमुपरिष्टादल्पमूर्तेर्धवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ॥ शकटमिव महीयः शैशवे शार्ङ्गपाणेश्चपलचरणकाऽब्जप्रेरणोतुङ्गिताग्रम् ॥३॥ स्फुटतरमिति ॥ एतत् दृश्यमानं सुरमुनीनां मण्डलं सप्तर्षीणां वलयः ध्रुवस्य उप- रिष्टात् औत्तानपादेपरि स्फुटतरमतिप्रकटं यथा भवति तथा स्फुरति द्योतते । ध्रुवो हि सर्व ताराचक्रं वहते । किंभूतस्य ध्रुवस्य अल्पमूतः सूक्ष्मतनोर्दुर्लक्ष्यस्य, किंभूतं मण्डलं व्यस्तं विस्तृतम् । अत एव व्यासो विस्तारः स्फुटतरस्फुरणम् । केचित्तु व्यस्तं पश्चिमा- ऽऽशालम्बमानमाहुः । कस्योपरि को यथा स्फुरति इत्याह-किमिव शकटमित्र अन इव । यथा महीयोऽतिबृहत् शकटं शैशवे बालत्वे अल्पमूर्तेः शाङ्गपाणेः श्रीकृष्णस्योपरिष्टात् उपरि पुस्फोर । किंभूतं शकटं व्यस्त परिवृत्तं, पुनः किंभूतं चपलचरणकाऽजप्रेरणोत्तुङ्गितागं चप- लेन कम्प्रेण चरणकाऽब्जेन पादपमेन यत्प्रेरणं क्षेपः तेन उत्तुङ्गितमूर्चीकृतमश्र पूर्वभागो यस्य तत्तथोक्तम् । देवर्षिमण्डलस्य शकटमुपमानं, ध्रुवस्य हरिः। चरतीति चरणः ल्युट, अल्पश्चरणः चरणकः ॥ ३ ॥ (१)रति।

३७८ सन्देहविषौषधिसर्वकषायुते [एकादशः- स्फुटतरामिति ॥ अल्पमूर्तेर्दूरत्वात्सूक्ष्माबिम्बस्य ध्रुवस्यौत्तानपादेः । 'ध्रुव भौत्तानपादिः स्यात्' इत्यमरः । उपरिष्टात् फुटतरमुज्ज्वलतरं व्यस्तं पर्यस्तमेतन्सुरमुनीनी स्तषणिो मण्डलं शापाणेः केशवस्य । कृष्णस्य तवेत्यर्थः। शैशवे प्रचलितस्य चपलस्य चरणकाऽजस्य अल्पचणारविन्दस्य । 'अल्प' इत्यल्पार्थे कम्प्रत्ययः। प्रेरणया नोदने नोत्तुङ्गि-तमुत्तुङ्गीकृतमग्रं यस्य तत् । विपर्यासितापमित्यर्थः । महीयो महत्तरं श कटमिव शकटाकारं शकटासुरशरीरमिव स्फुरति दीप्यते । उपमालङ्कारः । पुरा किल बाल्ये कृष्ण शकटरूपधारिणं शकटासुरं पादघातेन पातयामासति पौराणिकी कथाषाऽनुसन्धया ॥ ३ ॥ प्रहरकमपनीय स्वं निदिदासतोच्चैः प्रतिपदमुपहूतः केनचिजागृहीति ॥ मुहुरविशदवणां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥४॥ प्रहरकमिति ॥ कश्चिन्मनुष्यः स्थानवारकः पुरुषः मुहुर्वारंवारम् अन्तर्मध्ये गिरं दददपि वाचं दददपि नो बुध्यते निद्राति । किंभूतो मनुष्यः केनचिदन्येन जागरकेण स्वं प्रहरकम् अपनीय निजं याम जागरित्वा निदिदासता सुषुप्सुना सता प्रतिपदं वारंवार नामग्राहं नाम गृहीत्वा उच्चैरतिशब्दमुपहूतः आकारितः-'अहो माल्यक ! त्वं जागृहीति, मया आत्मीयः प्रहरकोऽतिवाहितः, स्वं प्रहरं साम्प्रतं त्वमात्मीययामं जागृही'ति । किंभूतां वाचं निद्रया शून्यशून्यां स्वापेन अव्यक्ताक्षराम् । अलक्षितामित्यर्थः । अपरं किंभूतां वाचम् अविशदवर्णामस्पष्टाक्षराम् ॥ ४ ॥ प्रहरकामति ॥ स्वं स्वकीयम् । स्वपाल्यमित्यर्थः। प्रहर एवं प्रहरको यामः । 'दो यामप्रहरी समौ' इत्यमरः । तमपनीय नीत्वा निदिदासता निद्रातुमिच्छता । निद्रातः सत्रन्तामटः शत्रादेशः। केनचिदतीत- प्रहरपालनेत्यर्थः । जागृहि प्रबुध्यस्वेति प्रतिपदं पदेपदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुन्द्रिया अविशदवर्णामस्पष्टाक्षरामत एव शून्यशून्या शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः । 'प्रकारे गुणवचनस्य' इति द्विर्भावः, 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवदावादवयवसुपो लुक् । गिरम् अयमहं जागर्मीति प्रतिवाचं दददवि प्रयच्छन्नपि । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । अन्तरन्तःकरणे नो बुध्यते न जागर्ति । बुध्यतर्देवादिकाकर्तरि लट् । अत्राऽप्रबोधप्रतिवचनदानयोर्विरोधे अपिशब्दः । निद्रा हानाभ्यां तत्समाधाना- द्विरोधाभासोऽलङ्कारः ॥ ४ ॥ विपुलतरनितम्बाभोगरुद्ध रमण्याः शयितुमनधिगच्छओवितेशोऽवकाशम् ।। रतिपरिपरचयनश्यन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरी किं करोतु ॥५॥ विपुलतरेति ॥ कश्चिजीवितेशः प्रियतमः शयनीये शय्यायां कथञ्चिन्महता कष्टेन शर्वरी निशां गमयति अतिवाहयति । नैव शेते इत्यर्थः । किं कुर्वन् शयनीये शयितुं निद्रातुम् अवकाशमवसरमनधिगच्छन् स्थानमप्राप्नुवन् , किंभूते शयनीये रमण्याः नित. म्बिन्याः विपुलतरनितम्बाभोगरुद्ध उरुतरकटीतटविस्तारेण रुद्वे, किंभूतो जीवितेशः रति- परिचयनश्यन्द्रतन्द्रः रतिपरिचयन मैथुनाभ्यासेन नश्यन्ती अवसीदमाना(?) नेद्री निद्रा- सम्बन्धिनी तन्द्रा आलस्यं यस्य सः तथा मैथुनाभ्यासेन नष्टस्वापाऽऽलस्यः । अतश्चैव- मापतितेऽसौ वराकः किं करोतु । जागर्यात् , नान्यदुपायान्तरमस्तीति ॥ ५ ॥ विपुलतति ॥ रमण्या विपुलतरस्य नितम्बस्थाऽऽभोगेन विस्तारेण रुद्ध आक्रान्ते शयनीये शयितु- मवकाशमनधिगच्छन्नलभमानो जीवितशः प्रेयान रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैद्री निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरीं कथञ्चित्रमयति कृच्छ्रेण नयति । किं करोतु किमन्याकुर्यात् । शयनाऽनवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अब शयनीयस्यदिग्रोधासम्बन्धेऽपि तत्सम्बन्धोकेरतिशयनिरलङ्कारः । तादृग्रोधस्य विशेषणगत्या शयना- बकाशाऽनधिगमहेतुत्वाकाव्यालङ्गभेद इति सदूरः ॥ ५ ॥ ।

सर्गः।] . .. शिशुपालवधे। ३७६ क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद् दुर्विगाहे ॥ गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ६ ॥ क्षणशयितेति ॥ हे कृष्ण ! महीपाः राजानः अर्थजातं कार्यधनं चिन्तयन्ति आलो- चयन्ति । किंभूताः महीपाः क्षणशयितविबुद्धाः मनाक् सप्ताः पूर्व तत उत्थिताः, क्षण शयिताः सुप्ताः सन्तः विबुद्धाः जागरिताः, अपरं किंभूताः राज्ये राष्ट्र प्रयोगान् सामादी- नुपायान् कल्पयन्तः विमृशन्तः, किंभूते राज्ये उदधिमहति समुद्रवद्विपुले, पुनः किंभूते अत एव दुर्विगाहे दुष्प्रवेशे, पुनः किंभूताः महीपाः अपररात्रप्राप्तबुद्धि. प्रसादाः अपररात्रेण क्षपान्तेन प्राप्तो लब्धो बुद्धिप्रसादो मतिनैर्मल्यं यैस्ते तथा, किंभूत- मर्थजातं गहनं दुर्विज्ञानं, के इव कवय इव, राज्ये कस्मिन्निव काव्यवत् काव्ये इव । यथा कवयः काव्ये अर्थजात शब्दार्थ चिन्तयन्ति । किंभूते काव्ये उदधिमहति दुर्विगाहे ज्ञातुमशक्ये, किंभूताः कवयः प्रयोगान् कल्पयन्तः छन्दोऽलङ्कारादीन् विमृशन्तः, रचयन्त- इत्यर्थः । कवयश्च अपररात्रप्राप्तबुद्धिप्रसादाः क्षपान्तलब्धमतिनैर्मल्याः, किंभूतमर्थजातं गहनं दुर्विज्ञेयम् । याममात्रं शयित्वा विप्रबुद्धाः प्राप्तप्रज्ञाः पश्चादात्रे नृपाः कवयश्व प्रयोगान् विशेषलक्षणान् शब्दान् कल्पयन्ति ॥ ६ ॥ क्षणशयितेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विषुप्ता विबुद्धास्तदेव प्रबुद्धाः । यथाकालं प्रबु- द्धत्वादिति भावः । क्षणशायतविबुद्धाः, स्नातानुलिप्तवत् 'पूर्वकाल-' इति समासः । महीपाः कवय इव अपररात्रे । रात्रैः पश्चिमयाम इत्यर्थः । 'पूर्वापर-' इत्यादिना एकदेशिप्तमासे समासान्तोऽन् । 'रात्राहाहा: पुसि' इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादाः लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्रगम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये दुव काव्यवत् । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रयोगान सामाद्युपायानुष्ठानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान् कल्पयन्त- स्तर्कयन्तः । 'ब्राह्म मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्' इति स्मरणादिति भावः । गहनं दुष्पापमन्यत्र दुर्दर्श- मर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थः । अन्यत्र वाच्यलक्ष्यव्यङ्गयरूपमभिधेयजातं चिन्तयन्ति विचार- यन्ति । इवशन्दस्योपलक्षणत्वात काव्यवदिति पतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्यवदिति तद्धितगता, कवय इति समासगता चेति सङ्कीर्णा ॥ ६ ॥ क्षितितटशयनाऽन्तादुत्थितं दानपङ्कप्लुतबहल(१)शरीरं शाययत्येष भूयः ॥ मृदुचलदपरान्तोदीरिताऽन्दूनिनादं गजपतिमधिरोहः पक्षकन्यत्ययेन ॥ ७ ॥ क्षितितटेति ॥ हे कृष्ण ! एषः अधिरोहः निषादी गजपति महेभं पक्षकव्यत्ययेन पार्श्वपरिवर्तनेन भूयः पुनरपि शाययति स्वापयति । किंभूतं महेभं क्षितितटशयनान्ता- दुत्थितं भूमिस्थलशय्यैकदेशाद्विबुद्धं, पुनः किंभूतं दानपङ्कप्लुतबहलशरीरं मदकर्दमव्याप्त- समग्रदेह, पुनः किंभूतं मृदुचलदपरान्तोदीरिताऽन्दूनिनादं मृदु शनैश्चलन्तौ यो अपरौ पश्चात् खुरगुल्फो तयोर्योऽन्तो भागः तेनोदीरितः उत्थापितः अन्दूनां शृङ्खलानां निनादो ध्वनियेन सः तम् ॥ ७॥ तितितटेति ॥ वितितटं भूतलमेव शयनान्तः तस्मादुत्थितम् । सुप्तास्थितमित्यर्थः । अत एव दान- पप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकार्य गजपतिम् एषोऽधिरोहतीत्यधिरोह आरोहणः पचायच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तयथा तथा पक्ष एव पक्षकः पार्थः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । तस्य व्यत्ययेन । (१) बहुल । ..

३८० सन्देहविषौषधिसर्वकषायुते- [एकादशः- पाश्र्वान्तरणेत्यर्थः । भूयः शाययति शयनं कारयति । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलङ्कारः। ॥ द्रुततरकरदक्षा(१)ऽऽक्षिप्तवैशाखशैले दधति दधनि धीरानारवान् वारिणीय ॥ शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी बल्लवा लोडयन्ति ॥८॥ द्रुततरेति ॥ हे कृष्ण ! एते बल्लवाः गोपाः कलशिं कुम्भी लोडयन्ति मनन्ति । किमर्थ दधनि सारं नवनीतमुद्धर्तुमादातुं, किंभूताम् उदधिगुर्वी समुद्रमहती, दधनि किं कुर्वति आरवान् शब्दान् विदधति बिभ्रति, किंभूते दधनि द्रुततरकरदक्षाऽऽक्षिप्तवैशाख- शैले द्रुततरकराभ्यामतिशीघ्रपाणिभ्यां दक्ष चतुरं यथा भवति आक्षिप्तः आकृष्टो वैशाख- शैलो मन्थाद्विर्यत्र तत्तथा तस्मिन् अतिशीघ्रपाणिचतुराकृष्टमन्थाद्री, के इव मुरौधा इव देवसधा इव, सारं कमिव शशिनमिव । यथा सुरौघाः वारिणि उदके गम्भीरान् आर- वान् दधति शशिनं चन्द्रमुद्धर्तुमब्धि ममन्थुः । किंभूते वारिणि द्रुततरकरदक्षाऽऽक्षिप्त- वैशाखशैले द्रुततरकरैर्दक्षैः आक्षिप्त आकृष्टः वैशाखतुल्यः शैलो मन्दराचलो यत्र तस्मिन्॥८॥ द्रुततरोति । द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बळया गोपालाः । 'आभीरः स्यान्महाशुद्धो गोपालो बल्लवस्तथा' इति वैजयन्ती विशाखा प्रयोजन मस्येति वैशाखो मन्थनदण्डः। वैशाखमन्थमन्थान- मन्थानो मन्थदण्डके' इत्यमरः । 'विशाखाषाढादण् मन्थदण्डयोः' इत्यप्रत्ययः । वैशाखः शैल इवेत्युप- मितमासः । साहचर्याक्षिप्तो पेशाखशलो नास्मिन् । धीरान् गम्भीरानारवान् दधति दधानि दनि । “विभाषा डिश्योः' इति विकल्पादळोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । 'उपमानानि सामान्यवचनै' इति समासः । तां कलाशें कुम्भौमते लोडयन्ति मध्नन्ति । एषाऽपि पूर्वतरवत्पूणी वाक्यार्थोपमा वाक्यसमाससङ्कीर्णा च ॥ ८॥ अनुनयमगृहीत्वा व्याजसुप्ता परराची रुतमथ ककवाकोस्तारमाकर्ण्य काले(२)॥ कथमपि परिवृत्ता निद्रयाऽन्धा किल स्त्री मुकुलितनयनैव (३) श्लिष्यति प्राणनाथम् ॥९॥ अनुनयमिति ॥ नायिका काचित्स्त्री मुकुलितनयनैव निमीलितलोचनैव प्राणनाथ श्लिष्यति कान्तमालिङ्गति । किंभूता स्त्री पूर्व प्रथमम् अनुनयं प्रार्थनामगृहीत्वा तिरस्कृत्य पराची पराङमुखी सती व्याजसप्ता अलीकशयिता, इत्यवमानित्वकारणम् । अथ अनन्तरं काले प्रभातसमये कृकवाकोः कुक्कुटस्य तारमत्युचं रुतं वाशितमाकर्ण्य श्रुत्वा कथमपि मानित्वात् परिवृत्ता संमुखी जाता, किलेति सत्ये, निद्रया अन्धा निद्रामोहव्याजेन स्थगिताक्ष्येव प्रियं पर्यष्वजत । यदि यसौ व्याज न कुर्यात् , तदा लाघवं प्राप्नुयात् । यदि नाश्लिष्यति, तदा सुरताबञ्चिता स्यात् इति भावः ॥ ९ ॥ अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी व्याजेन कपटेन मुप्ता श्री अथ कल्ये प्रभाते । 'प्रत्यूषोऽर्डमुख कल्यम्' इत्यमरः । कृकवाकोः कुक्कुटस्य । 'कृकवाकुस्तामचूडः कुक्कुटश्चरणायुधः' इत्यमरः । 'कृके वचः कुक् च' इत्युष्प्रत्ययः । तारमुच्चै रुतं कूजितमाकर्ण्य कथमपि गावज़म्भणादिव्याजेन परिवृत्ता संमुखीभूता निद्रयान्धा किल अजानतीव मुकुलितनयनव मीलितासी सत्येव प्राणनाथमाश्लिष्यति । एषा कलहान्तरिता ॥९॥ (१)दक्षा: क्षिप्त । (१) कल्ये। (३) नयनैवाऽश्लिष्यति ।

सर्गः।] शिशुपालवधे। ३८१ . गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ॥ असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रा नरेन्द्राः १० गतमिति ॥ हे कृष्ण ! नरेन्द्राः नृपाः निद्रां यान्ति स्वार्प भजन्ते । किंभूता नरेन्द्राः गीतं गेयमाकर्णयन्तः शृण्वन्तः, अत एव पुनः किंभूताः सुखमुकुलितनेत्राः सुखेन अक्लेशेन मुकुलितनेत्राः निमीलितनयनाः, निद्राव्याप्ता इत्यर्थः। किंभूतं गेयं वेणुनादै- वंशध्वनिभिः एकतां गतमभेदं प्राप्त, किंभूतैवेणुनादैः अनुगतवीणैः अनुयातातन्त्रीवाथैः । एतेन त्रयाणामपि साम्यं प्रतिपाद्यते । अत एव पुनः किंभूतं गीतं कलं मधुरं, पुनः किंभूतम् अविकलतालं सम्पूर्णतालम् , तालेनाऽभ्रष्टमित्यर्थः । पुनः किंभूतम् अनवगीतम् अश्रुतपूर्वमनिन्धं वा, पुनः किंभूतं गायकैर्गायनैः बोधहेतोः ज्ञानार्थ निद्रामोक्षार्थमसकृत भूयोभूयो गीतमुच्चरितम् । गायकैर्यद् गीतं, तदाकर्णयन्त इत्यर्थः ॥ १० ॥ गतमिति ॥ अनुगतवी गैरनुसृतवाणैर्वीणासंवादिभिर्वेणुनादेशस्वरैः एकतामेकरूपतां गतं कल- मव्यक्त मधुरम् अविकलोऽविसंवादी तालः कास्यादितालो यस्य तत् , बोध एव हेतुस्तस्य बोधहेतोः बोधकार- णेन । बोधनार्थमित्यर्थः । फलस्थापि कारणत्वमिच्छाद्वारा स्वर्गादिवत् । फलरागस्य तत्साधनप्रवृत्तिहेतुत्वात् षष्ठी । गायकै (तालिकैरनवगीतमगर्हितम् । 'अवगीतं तु निर्वा दे मुहुर्दुष्टेऽपि गर्हि ते' इति विश्वः । गीतं गीयमानं वस्तु आवृत्तिर्वा गीतशब्दस्य; गीतं गानं समाकर्णयन्तो नरेन्द्राः सुखेन गानसुखेन मुकुलितनेत्रा निमीलिताक्षाः सन्तो निद्रा यान्ति भजन्ति । वृत्त्यनुप्रासोऽलङ्कारः ॥ १० ॥ परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूध्वञ्जरेव ॥ रिरसयिषति भूयः शष्पमग्रेविकीर्ण पटुतरचपलौष्ठ (१)प्रस्फुरत्प्रोथमश्वः ११ परिशिथिलितेति ॥ हे भगवन् ! अयमश्वः पुरः अग्रे विकीणं निक्षिप्तं शष्पं घासं पुनः रिसयिषति जिघत्सति । किं कृत्वा ऊर्ध्वजुः ऊर्ध्वजानुः उपविष्ट एव किञ्चित्स्वप्न- मनुभूय निद्रां सेवित्वा, कथंभूतः परिशिथिलितकर्णग्रीवं यथा भवति तथा आमीलिताक्षः लम्बायमानश्रवणगलं यथा भवत्येवं निमीलितनयनः । कथं रिरसयिषतीत्याह-पटुतरचप- लौष्ठं यथा भवत्येवं पटुतरं चतुरं चपलौ कम्पाविष्टौ औष्ठौ दशनच्छदौ यत्र तत्तथा, अपर कथं यथा भवति प्रस्फुरत्प्रोथं यथा भवत्येवं प्रस्फुरत् स्फुरमाणं प्रोथं घोणारन्ध्र यत्र क्रियायाम्। ऊवें जानुनी यस्य स ऊर्ध्वजुः जानुशब्दस्य जुरादेशः । 'ऊर्ध्वजुरूर्ध्वजानुः स्यात्', 'घोणा तु प्रोथमस्त्रियाम् ॥ ११ ॥ परिशिथिलितति ॥ अयमश्वः परिशिथिलितं सस्तमुकं कर्णग्रीवं की च ग्रीवा च यस्मिन्कर्मणि तद्यथा तथा आमीलिताक्षः उर्वे जानुनी यस्य स उजुः। उर्वजानुस्तिष्ठनित्यर्थः । 'उध्वजुरू- जानुः स्यात्' इत्यमरः । 'उद्विभाषा' इति जानुशब्दस्य जुरादेशः । क्षणं स्वप्नं निद्रामनुभूय । उत्तमाश्व- लक्षणमेतत् । भूयः पुनरपि पटुतरी प्रासग्रहणसमयाँ चपलो चञ्चलौ चोष्टी यस्य स: सन् प्रस्फुरत्प्राथं प्रस्फुरमाणघोणं यथा तथा । 'घोणा तु प्रोथममियाम्' इत्यमरः। अग्रे विकीर्ण क्षितं शष्पं घासम् । 'शष्पं बालतृणं घासः इत्यमरः । रिरमयिषति रसयितुमास्वादयितुमिच्छति । रसयतेः सन्नन्ताल्लट् । स्वभावोक्तिरलङ्कारः। 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' ॥ ११ ॥ उदयमुदितदीप्तिर्याति यः सङ्गतौ मे पतति नवरमिन्दुः सोऽपरामेष गत्वा । (१) चपलौष्ठः।

३८२ सन्देहविषौषधिसर्वकषायुते- [ एकादशः- ॥ .. स्मितरुचिरिव सद्यः साभ्यसूर्य प्रभेति स्फुरति विशदमेशा पूर्वकाष्ठाऽङ्गनायाः ॥ १२ ॥ उदयमिति ॥ हे कृष्ण ! एषा पूर्वकाष्टाङ्गनायाः पूर्वदिङ्नार्याः प्रभा कान्तिः विशई प्रकटं यथा भवति तथा स्फुरति प्रसरति । किंभूता प्रभा उत्प्रेक्ष्यते इति अतो हेतोः साभ्यसूर्य सेj स्मितरुचिरिव हास्यच्छविरिव । तमेव हेतुमाह-योऽयं शशी मे मम सङ्गतौ सत्याम् अस्मत्सम्पर्के सति उदितदीप्तिः जातकान्तिः सन् उदयं याति उद्गम प्राप्नोति, स एव एप चन्द्रोऽधुना पश्चिमामाशां प्राप्य नवरं केवलं पतति भ्रश्यति इति । यदा किल नायकोऽपरां नारी प्राप्य भ्रंशमाप्नोति, तदा प्रधाननारी ईय॑या हसति ॥१२॥ उदयमिति ॥ य इन्दुः मे मम सङ्गतावुदितदीप्तिः प्रवृद्धयुतिः सन उदयमुदयाद्रम् अभ्युदयं च याति, स इन्दुरेषोऽपरां पश्चिमाशा पराङ्गनां च गत्वा पतत्यम्नमेति पानित्यं च गच्छाते । न वरमनह. मित्यर्थः । इति सब: साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची संवाङ्गाना पूर्वनायिका च गम्यते । तस्याः स्मित: रुचिर्मन्दहासकान्तिरि वैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनामङ्गपातित्यनिमित्ना चेतनधर्मस्मतरुचित्वोत्प्रेक्षा पूर्वकाठा- गनाया इति रूढिन्यूढेत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ १२ ॥ चिरतररतखेद(१)प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ॥ अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः १३ चिरतरेति ॥ तरुण्यो युवतयः प्रियाणां कान्तानामशिथिलभुजचक्राश्लेपभेदं न कुर्वते गाढबाहुलतया आलिङ्गनत्यागं नैव विदधति । अशिथिलो यो भुजचक्रेग बाहु- मण्डलेन आश्लेषः आलिङ्गनं तस्य भेदः त्यागः तम् । किंभूतानां प्रियाणां चिरतररत- खेदप्राप्तनिद्रामुखानां अनवरतसरतपरिश्रमलब्धस्वापशर्मणां, किंभूतास्तरुण्यः चरममपि शयित्वा पश्चादपि सुप्त्वा पूर्वमेव प्रबुद्धाः आदावेव जागरिताः, इति सन्महिलाचारकथनम्। पुनः किंभूताः अपरिचलितगात्रा अकम्पितदेहाः, प्रियतमसुखनिद्राभङ्गभयादिति भावः॥१३॥ चिति ॥ चरममपि शयिन्या पश्चात सुप्त्वाऽपि पूर्वमेव प्रबुद्धाः । 'सुमे पश्चाच या शेत पूर्व मेव प्रबुध्यते। नान्यं कामयते चित्त सा स्त्री ज्ञया पतिवता ॥ इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्सन्दवपुष्काः सस्यः चिररतिपरिखेदेन प्रामनिद्रामुखाना प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाप्लेषस्तस्य भेदं विश्लेष विसंसनं न कुर्व ते, किन्वाक्लिष्यव स्थिताः, अन्यथा तन्निदाभङ्गः स्यात् । 'शयानं न प्रबोधयेत्' इति निषेधास्कन्दनभयादिति भावः। रतिश्रमोऽत्र मचारी तदनुभावो निद्रा ॥ १३ ॥ कृतधवलिमभेदैः कुङ्कमेनेव किञ्चिन्मलयरुहरजोभिभूषयन पश्चिमाशाम् ॥ हिमरुचिररुणिमा राजते रज्यमानैर्जरठकमलफन्दच्छेदगौरैर्मयूखैः ॥ १४ ॥ कृतेति ॥ हे कृष्ण ! एष हिमरुचिश्चन्द्रः पश्चिमाशां वारुणी दिशं मयूखैरंशुभिभूष- यन् शोभयन् सन् स्वयं राजते शोभते । किंभूतैर्मयूखैः जरठकमलकन्दच्छेदगौरैः जरठं कठोरं पक यत्कमलं प तस्य कन्दः मृणालं तस्य छेदो भङ्गः तद्वदौराः सितास्तैः । स्फटिकविशदशुभैरित्यर्थः । तथा किञ्चित् अरुणिम्ना लौहित्येन रज्यमानैः रतीक्रिय- (१) चिररतिपरिखेद ।

सर्गः ।] शिशुपालवधे। ३८३ .. माणैः । चन्द्रस्योदयास्तसमयेऽपि किरणानां रक्तता जायते । किंभूतैः मयूखैः, उत्प्रे- क्ष्यते-मलयरुहरजोभिरिव चन्दनरेणुतुल्यैः। किंभूतैः रजोभिः कुकुमेन काश्मीरजेन किञ्चि- त्कृतधवलिमभेदैः किञ्चित् कृतो धवलिम्नः सितत्वस्य भेदः अन्यथात्वं येषां ते तैः । अयमर्थः-यथा कश्चिद्विलासी कुङकुमच्छुरितचन्दनरजोभिः नायिकामलकुर्वाणो राजते, तथा सितरक्तैः किरणैः पश्चिमाशां भूषयन् इन्दुरित्यर्थः । मयूखानां मलयजमुपानं, रक्तानां काश्मीरजम् ॥ १४ ॥ कृतेति ॥ हिमरुचिश्चन्द्रः अरुणिमाऽस्तमयरागेण हेतुना रज्यमानेाहितायमानः । रञ्जेवादिकात कर्तरि शानच् । 'अनिदिताम्-' इति नलोपः । त्रीणि रज्यति राजति लोहितायति चात्मन' इति भट्टमल्लः । जरठस्य परिणतस्य कमलकन्दस्य छेदा इव गौराः शुभ्राः । छेदग्रहणं धावल्यार्थम् । 'गौरः पीत सिते. रुणः' इति विश्वः । तेर्मयूखैः कुडकुमेन किश्चित्कृत। धवलिमभेदो धावल्यमङ्गो येषां तेरीषद्भग्नस्वधावल्यैः मलयरुहरजोभिश्चन्दनरेणुभिरिव पश्चिमाशां प्रेयसीमिवेति भावः । भूषयन् राजते । उपमालङ्कारः ॥ ११ ॥ दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्रसद्भिः पलाशैः ॥ कलरवमुपगीते षट्पदोघेन धत्तः कुमुदकमलखण्डे तुल्यरूपामवस्थाम् ॥१५॥ दधदिति ॥ कुमुदकमलखण्डे कैरवपद्मौधौ अधुना तुल्यरूपां सदृशात्मिकामवस्था धत्तः दशां बिभृतः । किंभूते खण्डे इति साम्यमाह-एकं कुमुदखण्डम् आनमद्भिः सङ्कु- चद्भिः पलाशैः पत्रैः असकलमीषत् खण्डितां श्रियं दधत् उद्वहत्, अपरं तु पद्मम् उल्लसद्भिः पलाशैः विकसद्भिः पत्रैः अपूर्णामसमयां श्रियं शोभां दधत् । तथा द्वे अपि षट्पदौघेन भृङ्गसार्थेन कलरवमुपगीते गातुमारब्धे । अतश्च तुल्यावस्थात्वम् ॥ १५ ॥ दधादति ॥ एकं कुमुदखण्डमानमद्भिर्मुकुलीभवद्भिः पलाशदलैरसकलमध खण्डिताम् । क्षीयमाणा- मित्यर्थः । श्रियं दधत् । अपरं कमलखण्डमुच्छ्वसद्धिविकसद्भिः पलाशैरपूर्णी वर्धमाना श्रियं दधत् । षट्पदी- घन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः। कुमुदकमलखण्डे कुमुदाना कमलानां च खण्डे कदम्बे। 'कदम्बे खण्डमस्त्रियाम्' इत्यमरः । तुल्यरूपामवस्था पत्तः दधाते । अत्र क्षयवृधोरर्थप्रवृत्ते रैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्घहमिति भावः । अत्रोभयविशेषणाना तुल्यावस्थाधारणहेतुकत्या काव्यलिङ्गम् । तेन द्वयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते ॥ १५ ॥ मदरुचिमरुणेनोदच्छता लम्भितस्य त्यजत इव चिराऽवस्थायिनी(१)माशु लजाम् ॥ वसनमिव मुखस्य स्रंसते सम्प्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ १६ ॥ मदरुचिमिति ॥ वासवाशायुवत्याः पूर्व दिगङ्गनायाः मुखस्य सम्प्रत्यधुना एतत् सितकरकरजालं चन्द्रकिरणपटलं स्रंसते भ्रश्यते । तदा पश्चिमदिग्वलम्बितं भवति । किं- भूतस्य मुखस्य उद्गच्छता उदयता अरुणेन सूरसूतेन मदरुचि लम्भितस्य लोहिताख्यां कान्ति प्रापितस्य, अत एव तमोनाशात् ईषत्प्रकाशेन चिराऽवस्थायिनी चिरकालस्थायिनी लजां नीडामाशु शीघ्र त्यजत इव जहत इव, किमिव वसनमिव । यथा कस्याश्चित् कामिन्या मत्तायाः कान्तेन मदरुचिलम्भितात् मुखात् ग्रीडानाशे सति वासः पपति, तथा ऐन्याः शशिकरनिकर इत्युपमा।करजालस्य वसनमुपमानं, लज्जायास्तु तमः प्राभातिकम् १६ (१) चिराय स्थायिनी। ।

३८४ सन्देहविषौषधिसर्वपायुते- [एकादशः- . मदरुचिमिति ॥ सम्प्रति सितकरस्येन्दोरिदं करजालं कर्तृ उदच्छता उद्यता अरुणेनाऽनूरुणा मदरुचि तत्तुल्यो रुचिम् , अरुणिमानमित्यर्थः । अत एव निदर्शनालङ्कारः । लम्भितस्य प्रातितस्य । लभेमेन्तात्कर्मणि कः । 'लभेरशब्लिटोः' इति नुमागमः । अत एव चिराय स्थायिनी लज्जामाशु त्यजत इव। मुखप्रकाशना- दियमुलक्षा। वासवाशा प्राची तस्या एव युक्त्या मुखस्य प्राग्भागस्याऽऽननस्य च वसनामिवाऽवगुण्ठनपट- इव वसते गलति । रक्ताः बियः पाटलमुखा निर्लजाः स्वस्तधमाश्च भवन्तीति भावः । अत्र मुखस्येति प्राग्भागवदन योरभेदाध्यवसायात श्लेषमूलाऽतिशयोक्तिः, तया पूर्वकिनिदर्शनोत्प्रेक्षाभ्यां चानुगृहीता वसन- मिवेत्युत्प्रेक्षेति सङ्करः ॥ १६ ॥ अविरतरतलीलाऽऽयासजातश्रमाणामुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम्॥ पुनरुषसि विविक्तैर्मातरिश्वाऽवचूर्ण्य ज्वलयति मदनाग्निमालतीनां रजोभिः१७ अविरतेति|मातरिश्वा वायुः उपसि प्रभाते मालतीनां रजोभिः जातीनां रेणुभिः कृत्वा वनितानां वपुषि अङ्गानानां देहे पुनरपि मदनाग्निं स्मरानलं ज्वलयति उद्दीपयति । किंभूतं मदनाग्निम् उपशममुपयान्तं नाशमायान्तं, किंभूतानामङ्गनानाम् अविरतरतलीलायासजात- श्रमाणाम् अविरतमनवरतं या रतलीला निधुवनव्यापारः तया यः आयासः खेदः तेन जात. श्रमाणा श्रान्तानां, क उपशममुपयान्तं निःसहेऽङ्गे स्वकार्याऽक्षमे शरीरे । अतो वायु- र्मालतीनां रजांस्यवचूर्ण्य तैः कामाग्नि ज्वलयति । कथमन्यथा कुसुमरेणुवासितसमीरण- व्यतिकरात् ताः सकामा इति भावः ।किंभूतैः रजोभिः विविक्तः अनुपहतैः । अन्योऽप्यग्निं शाम्यन्तं गोमयादिभिरवचूर्ण्य ज्वलयति ॥ १७ ॥ अविरतेति ॥ अविरतातलीलायासेनाऽविच्छिन्नसुरतक्रीडाप्रयासेन जातप्रमाणामङ्गनानां सम्बन्धिान निःसहत इति निःसहे ऽक्षमे । पचायच । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवानिस्तं पुनरुषसि मातर्यन्तरिक्षे श्वयति वर्धत इति मातरिश्वा । 'श्वन्नुश्चन्-' इत्यादेना आणादिको निपातः । विविकैरमलैरनार्दैश्व मालतीनां जातीकुसुमानाम् । 'सुमना मालती जातिः' इत्यमरः । रजोभिः परोगः । करी परिवति भावः । अवचूाऽवयास्य । संयुज्येति भावः । ज्वलयत्युद्दीपयति । प्राभातिकमालतीवात- रूपर्शात्पुनरुदुद्धो मदन इत्यर्थः ॥ १७ ॥ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलोलाः कौतुकेनाऽभिवीक्ष्य(१) ॥ इदमुदवसितानामस्फुटालोकसम्प- नयनमिव सनिद्रं घूर्णते दैपचिः॥ १८ ॥ अनिमिषमिति॥हे कृष्ण ! इदम् एतत् दे दीपस्येदं दीपसम्बन्धि अर्चिः शिखा चूर्णिते कम्पिते । क्षपाक्षये हि तैलक्षयाद्वातवशाच प्रशाम्यन्तो दीपाः कम्पन्ते इति स्वभावः । किंभूतमचिः अस्फुटालोकसम्पत् अप्रकटिततेजःपुञ्जप्रसरम् । अपरं किंभूतमर्चिः, उत्प्रे- क्ष्यते-उदवसितानां वेश्मनां सनिद्रमुजागरवन्नयनमिव नेत्रमिव । सनिद्रत्वात् घूर्णते। कर्य सनिद्रमिति कारणमाह-किं कृत्वा रागिणां दम्पतीनां सर्वरात्रं समग्रामेव निशां कौतुकेन कौतूहलेन अविरामा नवनिधुवनलीलाः अभिवीक्ष्य अविच्छिन्ना अभिनवसरतक्रिया आलोक्य । उत्प्रेक्ष्यते-अनिमिषमिव अनिमिषतीत्यनिमिषमनिमीलम् । यः किल कौतुकादात्री अनिमिषः किञ्चिद् गोठ्यादिकं वीक्षते, सोऽवश्यमेव प्रत्यूषे निदया उपद्रुतो नयने घूर्णयते १८ अनिमिषमिति ॥ इदं पुरोवति अस्फुटा सूर्यतेजोऽभिभवान्मन्दायमाना आलोकसम्पत्प्रकाशसम्पति- (१) ०ऽतिवीक्ष्य ।

सर्गः।] शिशुपालवधे। ३८५ . र्यस्य तत, अन्यत्र निद्राभिभवादनुदबुद्धविषयावधानशक्तिकं दीपस्येदं देपमार्चिाला 'ज्वालाभासोर्न पुस्यर्चिः' इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् , 'पूर्वकाल-' इत्यादिना समासः। 'अहःसर्व-' इत्यादिना समासान्तः, 'रात्राऽहाहाः पुंसि' इति पुंलिङ्गता । अन्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्ना रागिणा कामिनां कामिनीनां च । 'पुमान् मिया' इत्येकशेषः । नवा निधुवनलीलाः सुरतविलासान् । 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः' इत्यमरः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचायच कुटादित्वात्र गुणः । अतिवीक्ष्य अत एव सनिमुदवमितानां गृहाणां सम्बन्धि । 'गृहं गेहोदवसितं वेश्म मद्म निकेतनम्' इत्यमरः । नयनमिक्त्युन्प्रेक्षा । घूर्णत भ्रमति ॥ १८ ॥ विकचकमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वायुः(१) समद(२)मदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ १९ ॥ विकचेति ॥ हे कृष्ण ! एष वायुः पवनः मन्दम् आवाति शनैर्वहति । किं कुर्वन विकचकमलगन्धैः प्रफुल्लपद्मामोदैः भृङ्गमालाः भ्रमरपङ्क्तीः अन्धयन् आकुलीकुर्वन्, कथं वाति सुरभितमकरन्दं यथा भवति सुरभितः सुगन्धीकृतः मकरन्दः मधु यत्र क्रियायां तथा मृदुवातवहनविकासवशाद्धि कुसुमरसः सुगन्धिर्भवतीति । किंभूतो वातः समदमदनाः प्रमदकामाः माद्यन्तो हृप्यन्तो यौवनोद्दामाः तारुण्योत्कटाः या रामाः कामिन्यस्तासां यत् रमणं स्वकेलिः तत्र यो रभसो विचारनिवृत्तिः तेन यः खेदः श्रमः ततो यः स्वेदः तस्य यो विच्छेदः विनाशः तत्र दक्षश्चतुरः । निधुवनश्रमर्मितकामिनीसेवानिपुण इत्यर्थः । एतेन सुरभिः शीतो मन्दश्च ॥ १९ ॥ विकचति ॥ प्रमदमदनाभ्यां हर्षमन्मथाभ्यां मायन्तीनां यौवनेनोद्दामानां च रामाणां श्रीणां रमण- रभस खेदेन सुरतमरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्ध- भृङ्गमाला अन्धयत्रन्धाः कुर्वन्मोहयन् । अन्धयतेः 'तत्करोति-' इति ण्यन्ताल्लटः शत्रादेशः । सुराभेतः सुरभीकृतो मकरन्दो यस्मिन्कर्मणि तद्यथा मन्दमावाति प्रचलति । अत्र वृत्त्यनुप्रासोऽलङ्कारः । 'इलेषः प्रसादः समता माधुर्य मुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः' । इति प्राचार्योक्ता दश गुणाः प्रायेणात्र सम्भवन्तीति निपुणैरुत्रेयाः॥ १९ ॥ लुलितनयनताराः क्षामवक्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः।। तिमिरमिव दधानाः संसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूरवध्वः॥ लुलितेति ॥ अमूः एता वारवध्वः वारविलासिन्यः अवनिपतिगृहेभ्यो राजवेश्मभ्यो यान्ति निःसरन्ति, का इव रजनय इव रात्रय इव । तदा रात्रयोऽपि निर्गच्छन्तीत्यर्थः किंभूता वारवध्वः लुलितनयनताराः लुलितानि लोडितानि कम्प्राणि वा नयनान्येव तारा यासाम् अथ नयनताराः कनीनिका यासां ताः, पुनः किंभूताः क्षामवक्त्रेन्दुबिम्बाः क्षामं जागरणवशात् कृशं वक्त्रेन्दुबिम्बं वदनचन्द्रबिम्बं यासां तास्तथा, पुनः किंभूताः निद्रा- क्लान्तनीलोत्पलाक्ष्यः निद्रया स्वापेन क्लान्तानि श्रान्तानि नीलोत्पलानीव इन्दीवराणीव अक्षीणि लोचनानि यासां तास्तथा, पुनः किंभूताः वारवध्वः काष्ात् तिमिरमिव तमस्तु- ल्यान्वंसिनः लम्बमानान् केशपाशान् कबरीः दधानाः बिभ्राणाः । तथा रजनयोऽपिलुलितन- यनताराः क्षामवक्त्रचन्द्रबिम्बाः सङ्कोचक्लान्तनीलोत्पलाक्ष्यः तथा क्षीयमाणतिमिरधारिण्यः॥ (१) वातः। (२) प्रमदा ३३ शि० ० ..

३८६ सन्देहविपौषधिसर्वपायुते- [ एकादशः- . लुलितति॥ लुलितनयनताराः निद्राकलुषिताक्षिकनीनिकाः अन्यत्राऽप्रसन्ननक्षत्राः। 'शाऽतिमध्ययो- स्तारा' इति विश्वः । वक्राणीन्दुबिम्बानी वेत्युपमितसमाप्तः, तिमिरमिवस्यादिलिङ्गात् । अन्यत्र वक्रा- जीवेन्दुबिम्बानि तानि क्षामाणि सुरतप्रभानाभ्यां म्लानानि यासां ताः निद्रया स्वमैन मुकुलीभावेन क्लान्तानि नीलोत्पलानि अक्षीणीव नीलोत्पलानीवाक्षीणि यास ताः संसिनः केशपाशास्तिामरमिवाऽन्यत्र तु तानिव तिमिरं दधानाः अत एव रजनय इव स्थिताः अमूर्वारवध्यो वश्याः। 'वारनी गणिका वेश्या' इत्यमरः । अवीनपतिगृहेभ्यो यान्ति नियान्ति । श्लिष्टविशेषणयमुपमेत्येके । श्लेष एवाध्यमुभयविषयः । उपमा तु प्रतिभामाप्रसारेत्यन्ये ॥ २० ॥ शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतंसत्वरेव। व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बराऽन्तं वहन्ती २१॥ शिशिरेति ॥ हे कृष्ण ! एपा रजनिः क्षपा साम्प्रतमिदानी सत्वरेव व्रजति शीघ्रमिव प्रयाति । त्वरायां कारणमाह-किं कृत्वा शिशिरकिरणकान्तं हिमकर एवं कान्तो वल्लभः तं बासरान्ते दिनक्षयेऽभिसार्य अभिसृत्य, किंभूता रजनिः श्वसनसुरभिगन्धिः श्वसनेन वायुना सुरभिः रम्यः गन्धः परिमलो यस्याः सा । यदा हि वायुर्वहति तदा कुसुमप्रपातात् रात्रिः मुरभिर्भवति । पुनः किंभूता रजनिः, उत्प्रेक्ष्यते-अनिन्द्यैः श्लाध्यैः तन्मयूखाङ्गरागैः तस्य चन्द्रमसः मयुखाः किरणाः एव अङ्गरागा विलेपनानि तैः अम्बरान्तं नमोऽन्तं परिमलित- मिव वहन्ती, अत एव सत्वरेव । या किल अभिसारिका प्रदोषागमे कान्तमभिसरति, साऽभिसार्याऽङ्गरागेण परिमलितं सुरभीकृतमम्बराऽन्तं वहन्ती वस्त्रपल्लवं वहन्ती सत्वरा प्रातर्गृहं याति । श्वसनेन सुरभिर्गन्धो यस्याः सा तथा ॥ २१ ॥ शिशिरोति । एषा रजनिर्वासरान्ते रात्री शिशिरकिरणश्चन्द्रस्तमव कान्तमभिसार्याऽभिसृत्य । स्वार्थ णिच् । साम्प्रतं श्वसनैस्तत्कालवातेनिश्वासैश्च सुरभिगन्धिः सुगन्धिः अनिन्द्यैर्मनोहरैर्मयूखरेवाङ्गरागैः परि- मलितं व्याप्तं वासितं चाऽम्बरान्तं नभःप्रान्तं वमान्तं च वहन्ती भजन्ती सत्वरेव ब्रजति । अत्रेन्दुनन्मयूखा- दीनां कान्तत्वाङ्गरागत्वादिरूपणावगमादेकदेशविवर्ति रूपकम् ॥ २१ ॥ नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा ॥ अयमपरदिशोऽङ्केमुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुम्लानमात्मानमिन्दुः॥ नवेति ॥ हे कृष्ण ! अयमिन्दुः चन्द्रः अपरदिशोऽङ्के पश्चिमदिगुत्सङ्गे आत्मानं स्वस्वरूपं मुञ्चति क्षिपति । किंभूत इन्दुः सस्तहस्तः लम्बमानकिरणः, किंभूतमात्मानं पाण्डु पाण्डुतर, पुनःकिंभूतं म्लानं विच्छाय, किं कृत्वा मुञ्चति नवकुमुदवनश्रीहासकेलिप्रसङ्गात् अधिकरुचिः सन् अशेषामपि उषां जागरित्वा नवा सरसा याऽसौ कुमुदवनश्रीः कैरवखण्ड- सम्पत् तस्याः यो हासः विकासः स एव केलि: क्रीडा तस्याः प्रसङ्गोऽवसरः तस्मात् अधिकदीप्तिः सन् अशेषामपि समग्रामपि उषां रात्रि जागरित्वा प्रबुध्य । किंभूतः इन्दुः, उत्प्रेक्ष्यते-शिशयिषुरिव सुषुप्सरिख । यः किल नवया कामिन्या सह सस्मितकेलि प्रसङ्गात् वृद्धाभिलाषो निशां जागरयति, स प्रभाते नायकाऽके करौ प्रसार्य पाण्डे म्लानमात्मानं निदिदासर्मुञ्चति । रुचिरभिलाषो दीप्तिश्च ॥ २२ ॥ नवेति ।। आधिकरुचिरयमिन्दुर्नवकुमुदवनप्रियो विकासः परिहासश्च स एव केलिस्तस्यां प्रसङ्गादा - सङ्गादशेषामप्युषा सकलाम पि रात्रिम् । 'विभावरी नक्कमुषा शर्वरी' इति विश्वः । अत्यन्तसंयोग द्वितीया। जागरित्वा'जागरणं कृत्वा शिशयिषुः शायतुमिच्छुरिव । शेतेः सन्नन्तादुप्रत्ययः। सस्तो हस्तो नक्षत्रविशेष: करच यस्य स सन् अपरदिशः पश्चिमदिशोऽङ्के समीपे उत्सङ्केच पाण्डे पाण्डुवर्ण म्लान क्लान्तमात्मानं स्वशरीर .. . ।

सर्गः।] शिशुपालवधे। ३८७ अत्र प्रहासकेल्य- मुञ्चति । दक्षिणनायकः कयाचित्सह विहृत्य श्रान्तः कस्याश्चिदढे शेते तद्वदिति भावः । स्कुरासनादिवव्यवहारादिन्दुकुमुदवन श्रीपश्चिमानां नायकत्वप्रतीतेः समासोकिरलङ्कारः । विशेषणसाम्यं तूपलक्षणमित्यलङ्ककारसर्वस्वकारः। सा चोत्प्रेक्षासङ्कीर्णा ॥ २२ ॥ सरभसपरिरम्भारम्भसंरम्भभाजो (१)यदधिनिशमपास्तं वल्लभेनाऽङ्गनायाः।। वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्षणेन ॥२३॥ सरभसेति ॥ हे भगवन् ! वल्लभेन कान्तेन अङ्गनायाः कामिन्याः अधिनिश निशायां यद्वसनं दुकूलम् अपास्तमपहृतं, तदपि निशान्तेऽपि क्षपाक्षयेऽपि प्रदातुं न इष्यते अर्पयितुं नाऽभिलप्यते । किंभूतेन वल्लभेन रथचरणविशालश्रोणिलोलेक्षणेन रथचक्रविपुल- कटितटलम्पटनयनेन, किंभूतायाः अङ्गनायाः सरभसपरिरम्भारम्भसंरम्भभाजः सरभर्स सहर्ष सवेगं वा यः परिरम्भः उपगूहनं तस्यारम्भः उपक्रमः तत्र संरम्भम् आग्रहमाकुलत्वं वा भजते आश्रयतीति भाक् तस्याः । आलिङ्गनपूर्वमुत्थीयते ॥ २३ ॥ सरभसति ॥ अधिनिशं निशायाम् । विभक्त्यर्थे ऽव्ययीभावः । सरभसः सत्वरः परिरम्भ एवारम्भा व्यापारस्तत्र संरम्भस्तदाजा वल्लभेनाङ्गनायाः सम्बन्धि यद्वसनमपास्तं तद्वसनं निशान्त प्रभातेऽपि रथचरणं चक्रं तद्वदिशालाया श्रोणी लोलं सतृष्णमीक्षणं यस्य तेन वनभेन प्रदातुं नेप्यते । अत्र वसनाऽप्रतिदानस्य श्रोणाक्षणलोल्यहेतुकत्वात्कायलिङ्गम् ॥ २३ ॥ सपदि कुमुदिनीभिर्मीलितं हा!क्षपाऽपि क्षयमगमदपेतास्तारकास्ताः समस्ताः।। इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥ सपदीति ॥ हे कृष्ण ! साम्प्रतमिन्दुश्चन्द्रः अङ्ग शरीरम् अशेष समग्रं भ्रष्टशोभं वहति गतकान्ति विति । कया, उत्प्रेक्ष्यते-इति शुषेव इति शोकेनेव । किंभूतः इन्दुः दयितकलत्रः प्रियभार्यः, किं कुर्वन् इति चिन्तयन् प्रियभार्यत्वादित्थं चिन्तयन् । तामेव चिन्तामाह-कष्टमिदानीमेव कुमुदिनाभिः कैरविणीभिः मीलितं सङ्कुचितं विच्छा. यीभूतं, हा इति खेदे, क्षपाऽपि रात्रिरपि क्षयमगमत् नाशं प्राप । ताः समस्तास्तारकाः समग्रास्ताराः अपता भ्रष्टाः । तस्य ह्येता नायिकाः, यदुच्यन्ते-कुमुदिनीप्रियो निशानाथः तारापतिश्च । यस्यापि गृहिण्यो नश्यन्ति सोऽवश्यमेव शोकेन कृशो विच्छायश्च भवति॥२४॥ सपदीति ॥ सपदि सद्यः कुमुदिनीभिलितम्। भावे क. । हा हन्त ! क्षपा रात्रिरपि क्षयमगमत् । ताः समस्तास्तारका अपेता इति शुचा शोकेन चिन्तयन् दायतकलत्रः प्रियभार्य इन्दुः कृशमशेष नि:शेष यथा तथा भ्रष्टशोभं नष्टप्रभमङ्गं वहति । कलप्रप्रियस्य युगपत्सकलकलवनाशे महान शाको भवतीति भाव: । अत्रेन्दोः प्रभातप्रयुक्ताङ्गकार्यशोभाभ्रंशयोर्युगपत्कुमुदिन्यादिप्तकलकलत्रनाशनिमित्तहेतुकत्व भुत्प्रेक्ष्यते ॥ २४ ॥ व्रजति विषयमणामंशुमालीन यावत् तिमिरमखिलमस्तं तावदेवाऽरुणेन ॥ परपरिवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि २५ ब्रजति ॥ यावत् अंशुमाली सूर्यः अक्षणां विषयं न व्रजति नेत्राणां गोचरं न याति, तावदेव अरुणेन अनूरुणा सारथिना अखिलं समग्रं तिमिरम् अस्तम् अन्धकार क्षिप्तम् ।युक्तं चैतत् , तेजस्तन्वतां तेजस्विनामग्रेसरोऽपि पुरोगोऽपि विपक्षोच्छेदं कर्तु शत्रू- न्मूलनं विधातुं प्रभवति समर्थो भवति । किंभूत तेजः परपरिभवि परान् अन्यान् परिभवति जयति तथा परच्छेदकरम् । भगवान् तिमिररिपूच्छित्तये तेजस्तनोति, अरुणोऽपि पुरस्सरश्च २६॥ (१) भाजा।

३८८ सन्देहविषौषधिसर्वकषायुते- [ एकादश:- .. .. प्रजतीति ॥ अंशुमाली सूर्यः । बीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषयं भूमि न बजति । दृश्यत इत्यर्थः। तावदेवाऽरुणेनानूरुणाऽखिलं तिमिरमम्तमपास्तं परेषां परिभवि तिरस्कारकम् । जिघृक्षि' इत्यादिनाः इनिप्रत्ययः । तेजः प्रतापं तन्वता प्रथयतामने सरतीत्यग्रेसरः पुर सरोऽपि । 'पुरोऽग्रतो प्रेषु सर्तेः' इति टपत्ययः । विपक्षस्य शोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ विगततिमिरपङ्ख पश्यति व्योम यावद्धवति विरहखिन्नः पक्षती यावदेव ॥ रथचरणसमाहृस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी २६ विगतेति ॥ हे कृष्ण ! स्थचरणसमाह्वः चक्रसमनामा चक्रवाकः यावत् व्योम आकाशं विगततिमिरप पश्यति नष्टध्वान्तकई मं वीक्षते, यावदेव विरहखिन्नः वियोग- विह्वलः सन् पक्षती धुवति वियोगोद्वेगात् पक्षमूले धूनयति, तावदेव सरिदपरतटान्तात् अपर- सैकतान्तात् औत्सुक्यनुन्ना उत्कण्ठाप्रेरिता चक्रवाकी चक्रवाकदयिता आगता प्राप्ता तेन सह सङ्गता वा । दिने हि तयोः समागमः । 'स्त्री पक्षतिः पक्षमूले' इत्यमरः ॥ २६ ॥ विगतति ॥ विरहेण खिन्नः रथचरणेन चक्रेण समावस्तुल्याख्यः तस्येव समाहा समाख्या यस्पति वा रथचरणममाः । चक्रवाक इत्यर्थः । 'कोकचक्रश्वकवाको रथाङ्गाहयनामकः' इत्यमरः । तिमिरं पठ्ठामवे. त्युपमितसमासः । तद्विगतं यस्मात्नयाम यावत्पश्यति, यावदेव पक्षती पक्षमूले । 'मी पक्षातः पक्षमूलम्' इत्यमरः । 'पक्षानिः' इति तिप्रत्ययः । धुवति उत्पाततुं धुनोति । 'धू विधूनने' इति धातोस्तोदादिकत्वा दुवडादेशः । तादवोत्पतनात्यागेव चक्रवाकी चक्रवाकस्य स्त्री । 'जातेरमीविषयादयोपधात्' इति डोप् । औत्सुक्येनोत्कण्ठया नुन्ना प्रेरिता सती सरितोऽपरतटान्तात्परभूमेः सकाशादागता । एतेनाऽनयोरुन्मनस्कता ममश्वाऽनुराग इत्युक्तम् । अत्र रागोत्सुक्ययो रसभावयोस्तिर्यग्गतत्वेनाभासयोर्निबन्धनादूर्जस्वी नामाऽलङ्कारः । 'रसभावतदाभासप्रशमानां निबन्धने रसवत्प्रेयउर्जस्विसमाहितानि' इति लक्षणात् ॥ २६ ॥ मुदितयुवमनस्कास्तुल्यमेष प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च ॥ परिमलरुचिराभिधक्कृतास्तु प्रभाते युवतिभिरुपभोगानीरुवः पुष्पमालाः ।। मुदितेति ॥ हे कृष्ण ! प्रदोषे रात्रिमुखे उभय्यः पुष्पमालाः स्त्रियश्च स्रजो नार्यश्च सममेव तुल्यमेव रुचम् अदधुः कान्ति बभ्रुः । उभय्योऽपि मुदितयुवमनस्काः प्रीणित- तरुणचित्ताः, अपरं कल्पिता भूपिताश्च सुरताय चिन्तिताः उत्तम्भिता भूषिताः चन्दना- दिनाऽलङ्कृताः । अतः प्रदोषे साम्यमभृत् । तु पुनः प्रभाते प्रत्यूषे युवतिभिः तरुणोमिः पुष्पमालाः कुसुमस्रजः न्यकृता धिक्कृताः त्यक्ताश्च । किंभूताभिर्युवतिभिः परिमलरुचि- राभिः परिमलेन सुरतसंमदेन रुचिरा मनोहराः ताभिः । उपभुक्ता हि नारी रम्यतरा भवति, पुष्पमालाः पुनःपुनरुपसंमर्दानीरुचो म्लानाः । उभावयवी यासां ताः उभय्यः ॥ २७ ॥ मुदितेति ॥ प्रदोषे रात्रौ मुदितानि यूनां मनांसि याभिस्ताः मुदितयुवमनस्काः । उरःप्रभृतिभ्यः कपू । कल्पिता उपभोगाय सम्पादिताः भूषिता वलयवसनादिभिरुपस्कृताश्च उभय्यः उभयविधा युवतयः पुष्पमालाश्च । 'उभादुदात्तो नित्यम्' इति उभस्याऽयजादेशः, 'टिड्ढा ऽगञ्-' इत्यादिना डोप् । तुल्यमेवा- ऽवशेष यथा तथा रुचं शोभामदधुधृतवत्यः । धात्रो लेिट् । प्रभाते तूपभोगात्रीरुचो निष्प्रभाः पुष्पमाला: परिमलेन विमर्दगन्धन रुचिराभिरुपभोगादधिमुभिभिर्युवतिभियंकृतास्त्यक्ता अवधीरिताश्च । अब पुष्प- मालाभ्यो युवतीनां साम्योक्तिपूर्वकविमर्दसहत्वेनाऽऽधिक्योकेतिरेकः ॥ २० ॥ विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिदिश(१)मवधूताशेषशाखिप्रसूनः ।। क्वचिदयमनवस्थास्थास्नुतामेतिवायुर्मधु(२)कुसुमविमर्दोद्रन्धिवेश्मान्तरेषु॥ (१) प्रतिवन । (२) धु।

सर्गः ।] शिशुपालवधे। ३८६ विलुलितेति ॥ हे भगवन् ! अयं वायुः पवनः कचिदनवस्थः क्वचिदवस्थायां सर्वत्रैवाऽस्थिरोऽपि मधुसरभिविमर्दोद्गन्धिवेश्मान्तरेषु मधुकुसुमानां पानपुष्पाणां यो विमर्दः उपभोगः तेन उद्गन्ध उत्कटगन्धो विद्यते येषु तानि मधुकुसमविमर्दोद्गन्धीनि एवं- भूतानि च तानि वेश्मान्तराणि तेषु निशान्ताभ्यन्तरेषु स्थास्नुतामेति स्थिरत्वं भजति सर्वतो निवृत्त्य तत्रैव भ्रमति । किंभूतो वायुः विलुलितकमलौधः उपमृदितसरसिजखण्डः, पुनः किंभूतः कीर्णवल्लीवितानः विक्षिप्तलताजालकः, पुनः किंभूतः प्रतिदिशमवधूताशेष- शाखिप्रसूनः प्रतिदिशं सर्वास दिक्षु कम्पितनिखिलपादपपुष्पः । अतश्च सर्वकुसुमैः मुरभि- भूत्वा परिमलसरभिषु वासवेश्मस सुचिरं कामिनां चाटुकारोऽभवदिति वाक्यार्थः ॥ २८ ॥ विलुलितति ॥ वनेवने प्रतिवनम् । याथार्थेऽव्ययीभावः। विलुलिता व्यालोलिताः कमलौघा येन सः कीर्णा विक्षिप्ता वळीना मालत्यादीनां विताना विस्तारा येन सः अवधूतान्यशेषशाखिना बकुल- चम्पकादीनां प्रसूनानि यन सः तथापि क्वचित्पूर्वोक्तकमलवनादो कुत्रापि नास्त्यवस्था स्थिति- रस्येत्यनवस्थः स्थितिमप्राप्तोऽयं वायुवधूनां कुसुमानां विमर्दैन सङ्घर्षणोद्गन्धिघूनतगन्धेषु । गन्धस्येत्वम् । वेइमान्तरेषु गृहान्तरेषु स्थास्नुतां स्थायित्वमेति । पूर्वोकसर्वोत्कृष्टसौरभलोभादिति भावः । 'ग्लाजिस्थश्च-' इति गनुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यदा 'मधुकुसुम' इति पाठः । मधुयुक्तानि कुसुमानि तेषां विमर्दै नेत्यर्थः । अत्र वायोरस्थायित्वऽपि स्थायित्वसम्बन्धोतरतिशयोक्तिः । तथा विमर्दगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरकप्रतीतरलवारणाऽलङ्कारध्वनिः ॥ २८ ॥ नखपदोलनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ॥ अपिरहसि कृतानां वाग्विहीनाऽपिजातः सुरतविलसितानां वर्णकोवर्णकोऽसौ॥ नखपदेति ॥ हे भगवन् ! असौ वर्णकः एष चन्दनादिक्षोदः सुरतविलसितानां निधुवनलीलानां वर्णको जातः कथकः सम्पन्नः । कदाचिदसौ सजिह्वो भविष्यति नेत्याह- किंभूतो वर्णकः वाग्विहीनोऽपि वाचा रहितोऽपि, पुनः किंभूतो नखपदवलिनाभीसन्धिभागेषु लक्ष्यः नखपदेषु नखक्षतेषु वलीषु त्रिवलौ च नाभौ च सन्धिभागेषु च लक्ष्यः दृश्यः तत्र न नष्टः, पुनः किंभूतः दशनानां क्षतिषु दन्तानां प्रहारेषु सशेषः दन्तवणेषु किञ्चिद्विद्यमानः अन्यत्र स्तनादौ उषित एव । अतश्च तेषु प्रदेशेषु स क्षितं दृष्ट्वा बुध्यते । महानत्र सुरत- व्यापारोऽभूत्, यत् किल एकान्ते क्रियते तत्र कथं वक्ता भवेत् । तत्रापि वागविकलो वर्णकः, सन्धिभागाः पर्वस्थानानि ॥ २९ ॥ नखपदेति ॥ नखपदेषु नखक्षतषु वलिघु त्रिवलिघु नाभ्यां सन्धिभागेषु कूर्परादिदेहसन्धिस्थानेषु तथः दशनानां क्षतिषु दन्तवणेषु च सशेषः सावशेषः किञ्चिद्वियमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः सम्बन्धी असौ वर्णयति वर्ण करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसिताना सुरतचेष्टितानां वर्णयति वतीति वर्णको वक्ता । व्यञ्जक इत्यर्थः । वर्णयतेवुल प्रत्ययः । 'वर्णक्रियायां विस्तारे गुणोक्ती वर्णनेऽप्यदः' इति भट्टमल्लः । जातः । नखक्षतादिष्वेव लक्ष्यमाणो- ऽङ्गरागोऽन्यत्र स्वाविलोपाच्चष्टाविशेषाऽनुमापको जात इत्यर्थः। अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलङ्कारः ॥ २९ ॥ प्रकटमलिनलक्ष्मा भ्रष्टपत्राङ्गुलीकै(१)- रधिगतरतशोभैः प्रत्युषः प्रोषितश्रीः ॥ (१) मृष्टपत्रावलीके"रतिशोभैः।

३६० सन्देहविषौषधिसर्वकषायुते- [एकादशः- - उपहसित इवाऽसौ चन्द्रमाः कामिनीनां परिणतशरकाण्डाऽऽपाण्डुभिर्गण्डभागैः ॥ ३० ॥ प्रकटेति ॥ हे भगवन् ! असौ चन्द्रमाः कामिनीनां गण्डभागैः तरुणीनां कपोलैः उपहसित इव विडम्बित इव । किंभूतश्चन्द्रः प्रकटमलिनलक्ष्मा निस्तेजस्त्वात् लक्ष्य- मृगाङ्कः, किंभूतैः कपोलैः भ्रष्टपत्राङ्गुलीकैः उत्पुंसितपत्रलतैः, किंभूतश्चन्दमाः प्रत्युषः प्रत्यूषे प्रोपित श्रीः विनिवृत्तलक्ष्मीकः, पुनः किंभूतैः कपोलैः अधिगतरतशोभैः प्राप्तोपभोगकान्ति- भिः, उपहासयुक्तः कथं जायते-पुनः किंभूतैः परिणतशरकाण्डापाण्डुभिः परिणता जरठा ये शरकाण्डाः शराः ते इव आपाण्डव: गौराः तैः । पाण्डुत्वमुपहासरूपम् ॥ ३० ॥ प्रकटेसि ॥ उपसि प्रत्युषः। विभक्त्यर्थेऽव्ययीभावः । यद्रा प्रत्युषः प्रभातम् । 'उष:प्रत्युषसी अपि' इत्यमरः । तत्र प्रोषितश्रीभ्रष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकलको सो चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गा येषां तैः । 'नयतश्च' इति कप । तथाप्यधिगता रनिशोभा सम्भोगश्रीषा तैः परिणताः परिपक्वाः शरकाण्डा बाणाख्यतृणकाण्डिकाः। 'शरो बाणे बालतृणे' इति शब्दार्णवे । तद्वदापाण्डुभिः कामि- नीनां गण्डभागेर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा पाण्डिमगुणनिमित्ता । निष्कलङ्काः सकलहूं समानमानिन- मुपहसन्तीति भावः ॥ ३० ॥ पञ्चभिः कुलकम्- सकलमपि निकामंकामलोलाऽन्यनारीरत(१)रभसविमर्दे भिन्नवत्यङ्गरागम् ॥ इदमिति(२) महदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागोयन्न भेदं प्रयातः ॥३१॥ प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशद कान्तया तुल्यवर्णः।। चरणतलसरोजाक्रान्तिसंक्रान्तयाऽसौ वपुषि नखविलेखोलाक्षयारजिस्तते(३)॥ तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यदुकूलं दधानः ॥ मदधिवसतिमागाः कामिनां मण्डनश्रीवजति हि सफलत्वं वल्लभालोकनेन ॥ नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहु(४)रोष्ठं पाणिना दन्तदष्टम् ॥ प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम ३४ इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद्गलितनयनवारर्याति पादाऽवनामम् ॥ करुणमपि समर्थ मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥३५॥ सकलमपीत्यादि ॥ इतीति ॥ हे कृष्ण! कश्चित्कामी कस्याश्चित्कामिन्याः पादाऽवनामं याति चरणावनतिं प्राप्नोति । पादयोः पततीत्यर्थः । यतः किंभूतः बिभ्यत् सन् । भये कारणमाह-किंभूतायाः इतीत्थं विहितवचनायाः इति कृतवाच्यतायाः । इति कथमित्याह-सकलमिति ॥क सति निकाममत्यर्थ कामलोलाऽन्यनारीरतरभस- विमर्दे कामलोला सुरतचपला या अन्यनारी प्रतियुवतिः तस्याः रतरभसः औत्सुक्यं तेन यो विमर्दः सङ्कपः तस्मिन् सकलमपि अशेषमपि अङ्गरागं चन्दनादि भिन्नवति उत्पुंसति सति । यत् तव आश्चर्यधाम्नः अद्भुतनिधानस्य मुखरगो वदनप्रसादः भेदं न प्रयातः विनाश न प्रयातः, इति इदमेतत् महदाश्चर्यमत्यद्भुतम् । यदा हि सुरतसंमदेंन सर्व एव सुरतरागो नाश्यते तदा हि मुंखरागस्यापि नाशोन्याय्यः, मुखस्याप्यङ्गत्वात् । यन्त्र नष्टः, तदाश्चर्यम् । अत एव (१) रति विमभिन्न 'रागे । (२)इदमति । (३) रक्षितस्ते। (१)पुन०।

सर्गः।] शिशुपालवधे। ३४१ । त्वमाश्चर्यधामा। तत् सपत्नीभिः सह निशि रमित्वा(१) प्रातः मत्सकाश हृष्ट आगतोऽत एवं- विधस्त्वम् । अथ वा भिन्नवत्यस्मीति भिन्नवती विमर्दकरी । केचित्तु-अन्यनारी अङ्गरागं भिन्नवतीत्याचक्षते । अङ्गं रज्यतेऽनेनेति अङ्गरागः कुङ्कुमादिः। प्रकटतरमिति ॥ हे कान्त ! तव वपुषि शरीरे असौ नखविलेखः करजक्षतं कान्तया सपत्न्या स्फुटं निश्चि- तम्, इति अतो हेतोः लाक्षया रञ्जितः जतुपा रक्तीकृतः । कुत इत्यत आह-यत् , इम नखत्रणं प्रकटतरं स्फुटतममन्या रमण्यः इतरा अङ्गना मा द्राक्षुः मा पश्यन्तु । कथं सवि- शङ्कम् । सा ह्येवमाशइते-यत् , एर्नन पिदधे, तद् व्यसनिनी मां सपत्न्यः सम्भावयन्ति । किंभूतो नखविलेखः तुल्यवर्णः समानकान्तिः, किंभूतया लाक्षया चरणतलसरोजाक्रान्ति- संक्रान्तया पादतलपद्मताडनालग्नया। सा हि रतिकलहे कुपिता मुरतविशेषकरणात् सालक्त- केन पादेन त्वाम् आहतवती । तदिति ॥ हे कान्त ! तत् त्वम् अवितथं सत्यम् इति अवादीः अभिहितवान् । इति कि-यत् , त्वं मम प्रिया ममेष्टेति । यत्त्वं प्रियजनपरि- भुक्तं दुकूलं दधानः सन् यत् रमणीजननिवसितं पड्कूलं वसानः सन् मदधिवसतिम् आगाः अस्मद्गेहं सम्प्राप्तः । अथ यदि प्रियावसितं दुकूलं प्रावृत्य त्वत्समीपमहमागतः, तत्कि- मित्येतावता त्वं मे प्रियेत्याह-यस्मात् कारणात् कामिनां विलासिनां मण्डनश्रीः सुवेषता शोभा वल्लभालोकनेन प्रियजनदर्शनेन सफलत्वं व्रजति साफल्यं प्राप्नोति । एतदेव आकल्पस्य साफल्यं, यत् प्रियो जनः पश्यतीति । यदि वा अहं ते रुचिता न स्याम्, तत किमिति नवं वासः आच्छाद्य त्वं मत्सन्निधिमागतोऽसि । तस्मानिश्चितं तवाहं प्रियेति उल्लुण्ठनाः आगाः । नवनखेति ॥ नवनखपदमङ्गं सरसकरजक्षतं वपुः शुकेन वाससा गोपयसि, अपरं पाणिना करेण मुहुः पुनः दन्तदष्टमोष्ठं दशनखण्डितमधरं स्थगयसि आ- च्छादयसि । एतत्पुनः स्थगितं, नवपरिमलगन्धः सरसपरिमलसौगन्ध्यं केन वरीतुं गोपयितुं शक्यः । किंभूतः नवपरिमलगन्धः प्रतिदिशं सर्वस्यां दिशि विसर्पन प्रसारी, पुनः किंभूतो गन्धः अपरस्त्रीसङ्गशंसी सपत्नीसङ्गसूचकः । पुष्पाद्युपभोगेन गन्धः परिमलः । वरीतुमिति प्रतिभिद्य(?) सा रुरोद । अत एव स बिभ्यत् सन् पादयोः पपात । ननु यदि सन्धित्सः, तत्प्रकटमेव कथं न प्रार्थयसे, कि रोदनेनेत्याह-करुणमपीति । विग्रहेषु कलहेषु सत्सु योपि- तामङ्गनानां रुदितं रोदनम् अखं वशीकरणमुदितमुक्तम् । इत्यतोऽरुदत् । किंभूतं रुदितं करुणमपि दीनमपि मानिनां रुषितानां मानभेदे अभिमानवैरनिरासे समर्थ शक्तम् । पञ्चभिः कुलकम्॥३१-३५ ॥ अथ काचित्खण्डिता नायिका सागसं प्रेयांसं प्रातरागतं पञ्चभिरुपालभते- सकलमपीति ॥ कामेन लोलाया अन्यनार्याः सपत्न्या रतिरभसेषु सुरतसम्भ्रमेषु विमर्दैः पीडनैः रज्यतेऽनेनति रागः अङ्गस्य रागोङ्गरागः विलेपनम् अङ्गविकासश्च तस्मिन्त्रङ्गरागे सकलमपि निःशेषं यथा तथा निकामं भित्रवात विश्लष्टवति मति आश्चर्यधाम्नः सर्वाऽद्भुतनिधानस्य तव मुखरागो मुखविकासो भेदं विश्लेषं न प्रयात इति यत्, इदमेवाऽतिमहदार्थ खलु । मुखस्याऽप्यङ्गत्वेन नद्रागस्याऽप्यङ्गरागत्वादिति भावः । अत्र विलेपनविकासाख्ययोरङ्गरागयो रेवाऽध्यवसायेन विरोधः, भेदाऽननुसन्धानत्वेनाऽविरोध इति श्लेषमूलातिशयोक्त्युत्थापितो विरोधाभासोऽलद्वारः ॥ ३१ ॥ प्रकटति ।। किञ्च प्रकटतरमतिस्फुटम् इममेनं नखविलेखनम् अन्या रमण्यो निजसपत्न्यः स्फुटं मा द्वाक्षुः न पश्यन्तु । दशेला 'न दृशः' इति क्साऽभावपक्षे सिचि वृद्धिः। इति बुझ्या कान्तया साविशत ३६२ सन्देहविषौषधिसर्वकषायुते- [एकादशः- .. यथा तथा तुल्यवर्गों लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखबगश्वरणतलं सरोजमिवेत्युपमितसमासः। आक्रान्तिलिङ्गात्तस्य भाक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त ! सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नखविलेखस्य लाक्षासावत्तिदेकतापत्तेः सामान्यालङ्कारः। 'सामान्य गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् ॥ ३२ ॥ तादीत । किञ्च मम त्वमेव प्रियोति यदवादीरवोचः । वदेर्लुडि वदव्रज-' इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः-यद् यस्मात् प्रियजनेन परिभुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्त्रित्यर्थः। दधान- इत्यत्र 'वसान' इति पाठे वसान आच्छादयन् । वस आच्छादनार्थालटः शानजादेशः। स त्वं मदधिवसान मम निवासमागाः प्राप्तः । इणो गा लुङि। युक्तं चैतदित्याह-कामिना मण्डनश्रीवल्लभानां प्रेयसीनामालो. कनन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे सम्भावनति भावः । अर्थान्तरन्यासः ॥ ३३ ॥ नवति । किञ्च नवानि नखपदानि यस्मिस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्वौरादिकात्स्वार्थे णिच् । दन्तन दृष्टमोष्ठं पुनरोष्ठ तु पाणिना स्थगयसि छादयसि । स्थगिरपि चौरादिकः । दिशिदिशि प्रति- दिशम् । विभक्त्यर्थे भव्ययीभावः। अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। विसर्पन् प्रसर्पन अपरखीसङ्गशंसी ज्यन्तरसङ्गसूचकः। अन्यप्रभवत्वात्तस्यति भावः। नवः परिमलाख्यो गन्धः परिमलगन्धः। "विमोत्थे परिमलः' इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । 'वृतो वा' इतीटो दीर्घः । शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरङ्गोष्ठाच्छादने विसर्पणस्य गन्धाऽनाच्छाद्यत्वे च विशेषणगत्य' हेतुत्वात्काव्यालङ्गद्वये सजातीयसङ्करः ॥ ३४ ॥ इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारः धैर्यान्मुक्ता. ऽओः, प्रेयस्या इति शेषः । कश्चित्रायको बिभ्यत त्रस्यन् । 'नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्येत्यागत्य पादयोरवनाममवनातं याति । प्रणामेन प्रसादयतीत्यर्थः । ननु कथमीदृष्ट्वार्दवं तथाऽहङ्कारिणस्तस्य रोदन- मात्रेण, तबाह -करुणमिति । तथा हि-विग्रहेषु प्रणयकलहषु योषिता करुणं दीनमाप रुदितमश्रुमोचनं मानिनामहङ्कारिणां पुंसां मानभेदेऽहङ्कारनिरासे समर्थ शक्कम साधनमुदितमुक्तम् । वदेः कर्मणि कः, 'वाचस्वपि-' इत्यादिना सम्प्रसारणम् । दीने प्रणयिजने पुंसां कोऽहङ्कार इति भावः । अर्थान्तरन्यासः । एषा च खण्डिता नायिका। 'नीत्वाऽन्यत्र निशा प्रातरागते प्राणवल्लभा अन्यासभोगचिह्नस्तु खण्डितेाकषायिता' । इति लक्षणात् । नायकस्तु धृष्टः । 'व्यकाङ्गो निर्भयो धृष्टः' इति लक्षणात् । न चेह बिभ्याविशेषण- विरोधः, आगमनकालेगनिभीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति भावः । महृदयः । अन्यथा रसाभास इत्याहुः ॥ ३५ ॥ मदमदनविकासस्पष्टधाष्टर्योदयानां रतिकलहविकीर्णभूषणैरचितेषु ॥ विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः॥ मदेति ॥ हे भगवन् कृष्ण ! वयस्याः सख्यः गृहेषु मन्दिरेष उत्फुल्लपुष्पोपहार विकचकुसुमप्रकरं न विदधति न कुर्वन्ति । किंभूतेषु गृहेषु यतः कामिनीनां विलासिनीनां भूपणैरलङ्करणैर्चितेषु पूजितेषु, किंलक्षणे: भूषणैः रतिकलहविकीर्णैः सुरतसमरविक्षिप्तः, किंलक्षणानां कामिनीनां मदमदनविकासस्पष्टधाष्टर्योदयानां मदमदनयोः दर्पकन्दर्पयोः विकासः प्रसरः उल्बणः तेन स्पष्टः प्रकटो धाष्टर्योदयो वैयात्याविर्भावो यासां ताः तासाम्, अत एव भूषणच्छेदः । किंलक्षणा वयस्याः विफलविनययत्नाः विफलो निरर्थको विनये आधारे विचये वा पुष्पावचये वा यत्नः उद्यमो यासां ताः । प्रभाते हि पुष्पप्रकरो विधीयते।। मदेति ॥ मदमदनयोर्विकासेन विज़म्भणेन स्पष्टो धाष्टर्यस्योदय आविर्भावो या तासा कामिनीना अयं च

सर्गः । ]
शिशुपालवधे।
३६३
रतिरेव कलहस्तस्मिन्विकीर्णेरितस्ततो विक्षिप्तभूषणैरचिंतेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्ते-
ऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यास ता विफलविनययत्नाः निष्फलस्वाधिकारोयोगाः सत्यः
उत्फुल्लैः पुष्परुपहारं पूजां न विदधति न कुर्वान्त । अत्र समृद्धवस्तुवर्णनादुदानालङ्कारः। तदुदानं भवेद्यत्र
समृद्धं वस्तु वर्ण्यते' इति लक्षणात् । तेन तासां तेष्वाभरणषु भुकवनमाल्यादिवानर्माल्यबुद्धिह्मन्यते ॥३६॥
करजदशनचिहं नैशमङ्गेऽन्यनारीजनितमिति सरोषामीय॑या शङ्कमानाम् ॥
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं वीडमानां विलासी ।।
करजेति ॥ हे भगवन् ! कृष्ण ! कश्चिद्विलासी कामी इत्थमनेन प्रकारेण स्त्रियं
वल्लभाम् अनुनयति प्रत्याययति । किंलक्षणां स्त्रियं सरोषां कुपिताम् , अपरं किंलक्षणां स्त्रियं
यतः ईlया मत्सरेण इत्येवं शङ्कमानां सम्भावयन्तीम् । इति किं-कान्तस्य देहे अङ्ग एतत्
करजदशनचिह्न नखरदन्तक्षतम् अन्यनारीजनितं सपत्नीकृतमिति । कादाचित्कमेतत्स्या-
दित्याह, किंलक्षणं करजदशनचिह्न नैशम् एतस्यामेव निशायां भवं नैशम् । कथमनुनयती-
त्याह-हे प्रिये ! एतन्न स्मरसि नेदं सम्भावयसि-यत्, मत्तया क्षीबया एतत् त्वयैव कृतं
भवत्यैव विहितमिति । अत एव अपरं किंलक्षणां तां वीडमानां विलज्जमानाम् । खलु
इति विस्मये ॥ ३७॥
करजोति ॥ विलसनशीलो विलासी । 'वो कषलस-' इत्यादिना घिनुण्प्रत्ययः। अङ्गे निजाने निशायां
भवं नैशम् । 'निशाप्रदोषाभ्यां च' इत्याप्रत्ययः । करजदशनचिह्न नखदन्तक्षतमन्यनारीजनितं सपत्नीकृत-
मिति शङ्कमानां विश्वसतीमत एवेर्ण्यया अक्षमया सरोषां मियं निजाधूं मत्नया मदमूढया त्वयैवतहत्तमेवं
कृतं खलु न स्मरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण बीडमानां स्वकृतत्वप्रत्यभिज्ञाना-
लजिता सतीमनुनयति अङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लजया व्यज्यते ॥ ३७॥
कृतगुरुतरहारच्छेदमालिङ्गय पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ॥
विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव३८
कृतेति ॥ हे भगवन् ! कृष्ण ! तत्क्षणं तस्मिन् प्रस्तावे अबलायाः कामिन्याः
स्तनयुगं कुचयुग्मं रोदितीव रोदनं करोतीव । क्व सति प्रिये कान्ते आलिङ्गन्य आश्लिष्य
गन्तुं प्रस्थातुम् आपृच्छमाने सति अनुज्ञा याचमाने सति, किंलक्षणं स्तनयुगं कृतगुरुतर-
हारच्छेदं कृतो विहितः गुरुतरस्य अतिमहतः हारस्यैकावल्यादेः छेदः खण्डनं यत्र तत् , कि.
लक्षणे पत्यौ आलिङ्गय परिशिथिलितगात्रे मुक्तवपुपि, अपरं किंलक्षणं स्तनयुगं विगलित-
नवमुक्तास्थूलबाष्पाम्बुबिन्दु विगलिता भ्रष्टा नवाः प्रत्ययाः मुक्ताः मौक्तिकानि ता एवं
स्थूला महान्तः बाप्पाम्बुबिन्दवोऽश्रुजलकणा यत्र तत् । आश्लेषपूर्वमामन्त्रणम् ॥ ३८ ॥
कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिस्तनथा आलिङ्गन्य पाराशथिलितगात्रे शिथिलीकृताई
पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । आडि नुप्रच्छयोरुपसंख्यानादात्मनेपदम् । कतरि
लटः शानजादेशः । तत्क्षणं तस्मिन्क्षण । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ, विगलिता
निःमृता नवमुक्का नूतनमौक्तिकान्येव स्थूलबाष्याम्बुबिन्दवो यस्मिन्कणि तत्तथा रोदितीव विरहा-
5सहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसङ्कीर्णा । रुदादिभ्यः सार्वधातुके' इतीडागमः ॥ ३८ ॥
बहु जगद पुरस्तात्तस्य मत्ता किलाऽहं
चकर च किल चाटु प्रौढयोषिद्वदस्य ॥
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
व्यपगतमदयाऽहि व्रीडितं मुग्धवध्वा ॥ ३९ ॥

३६४ सन्देहविषौषधिसर्वकषायुते- [एकादशः- - - बहु जगदेति ॥ हे भगवन् ! कृष्ण ! कयाचित् मुग्धवध्वा नवोढया व्यपगतमदया गतमत्ततया सत्या रात्रिवृत्तं विचिन्त्य निशाचरितं विचार्य अहि दिवसे वीडितं हीतम् । यद्यसौ क्षीबाऽभूत्, तत्कथं सस्मारेत्याह-किंलक्षणं रात्रिवृत्तम् इति पूर्वोक्तं सखीभ्यो वयस्याभ्यः सकाशाद्विदितं ज्ञातम् । तामेव चिन्तामाह-यतोऽहं तस्य कान्तस्य पुरस्ता- दने मत्ता सती क्षीबा सती बहु जगद प्रभूतमवोचम्, अपरं किलेति श्रूयते, प्रौढयोषिद्वत् प्रगल्भवनितेव अस्य वल्लभस्य चाटु प्रियं चकर कृतवती । सखीभ्यः किं विदितं- हे सखि ! त्वयाऽद्य निशि मत्तया सत्या वल्लभे बहु रटितमिति ॥ ३९ ॥ बहु जगदेति ॥ अह्नि दिवसे व्यपगतमदया मुग्धवध्वा सखीभ्यो विदितम् । रात्री त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः। मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादने बहु अनेक जगद किल गदानि स्म । किलेति ऐतिह्य । अत एव 'परोक्षे लिट्' 'णलुत्तमो वा' हात पक्षे णित्त्वाभावादृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रोढयोषिदित्युपमा । 'तेन तुल्यम्-' इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकर्ष किल । लिडादि पूर्ववद् , गुणो विशेषः । इति विचिन्त्य विमृश्य ब्रीडितं लज्जितम् । भावे क्तः। निजकार्यप्रकाशेन लज्जाऽत्र सञ्चारी भावः । भाव- निबन्धनात्प्रेयोऽलङ्कारः ॥ ३९ ॥ अरुणजलजराजीमुग्धहस्तानपादा बहल(१)मधुपमालाफजलेन्दीवराक्षी ॥ अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव॥ अरुणेति ॥ हे कृष्ण ! एषा पूर्वसन्ध्या प्रातःसन्ध्या रजनिम् अनुपतति रात्रिमनु- याति अपयाति । रात्र्या सह क्षीयते स्म इत्यर्थः। किंभूता पूर्वसन्ध्या अरुणजलजराजी- मुग्धहस्तानपादा अरुणा लोहिता या जलजराज्यः पद्मावलयः ता एव मुग्धौ मनोज्ञौ हस्ताग्रे. पादौ च कराग्रे चरणौ च यस्याः सा, अपरं किंभूता पूर्वसन्ध्या बहलमधुपमालाकजलेन्दी- वराक्षी बहला दीर्घा या मधुपमाला भ्रमरपङ्क्तिः सैव कजलमञ्जनं येषु तानि बहलमधुप- मालाकजलानि एवंभूतानि इन्दीवराण्येव कृष्णकमलान्येव अक्षिणी नयने यस्याः सा, अपरं किंभूता पूर्वसन्ध्या पत्रिणां विरावैः पक्षिणां शब्दैः व्याहरन्ती आभाषमाणा, अपरं किंभूता पूर्वसन्ध्या अचिरजाता तदेव उदिता, केव अचिरजाता सुतेव । यथा अचिर- जाता बाला सुता दुहिता किल रक्तकरचरणा अअनरजितनेत्रा च 'मातः । क्व यासि, मां गृहाणे त्यादि व्याहरन्ती जननीमनुयाति ॥ ४० ॥ अरुणेति ॥ अरुणजलजराज्येव रक्तकमलप्रेण्येव मुग्ध सुन्दरं हस्तापपादं हस्तौ च अग्रपादी च यस्याः सा बहुलं मधुपमालाकज्जलं कज्जलामिव मधुपमाला ययोस्ते आक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकज्जलेन्दीवराक्षी पत्रिणा पक्षिणा विरोवाहरन्ती आलपन्ती । 'व्याहार उक्लिपितम' इत्यमरः । अचिरजाता सयोभवा बाला च पूर्वसन्ध्या प्रातःसन्ध्या सुतेष पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्ययर्थः । इह विरावाहरन्तीति व्यधिकरणपरिणामः, तत्सङ्कीर्णेयसुपमा ॥ ४० ॥ प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिन्धैः सामिधेनीरधीत्य ।। कृतगुरुदुरितौघध्वंसमध्वर्युवर्य- हुतमयमुपलोढे साधु सानाय्यमग्निः॥४१॥ . (१)बहुल।

सर्गः।] शिशुपालवधे। ३६५ .. प्रतिशरणमिति ॥ हे भगवन् ! कृष्ण ! अयमग्निर्हताशनः सान्नाय्यं हविः उपली आस्वादयति । किंभूतोऽग्निः अशीर्णज्योतिः समिद्धाऽचिः, किंलक्षणं सानाय्यम् अग्न्या- हितानामाहिताप्नीनां प्रतिशरणं शरणं प्रति शरणं प्रति होमशालायां होमशालायाम् अध्वर्यु- वर्यैः अध्वर्युषु वर्याः श्रेष्ठाः तैः वेदरवश्रुतैः(१) साधु विधिवत् हुतं दत्तं, किं कृत्वा सामि- धेनीरधीत्य समिदाधानमन्त्रान् पठित्वा, किंलक्षणैरध्वर्युवर्यैः विधिविहितविरिन्धैः विधिना वेदोक्तप्रकारेण विहित उच्चारितो विरिन्ध उदात्तादिस्वरो यैस्ते तैः, किंभूतं हविः कृतगुरु- दुरितोषध्वंसं विहितसञ्चितपापपूरक्षयम् । आहित: उत्पादितोऽग्नियेस्तेऽग्न्याहिताः । समिदाधानमन्त्रः सामिधेनी। 'शरणं गृहरक्षित्रोः', 'सान्नाय्यं हविपरित्यमरः ॥ ४१ ॥ प्रतिशरणमिति ॥ आग्नराहिनो यस्तेषामग्न्याहितानाम् । 'वाऽऽहिताग्न्यादिषु' इति निष्ठायाः पर- निपातः। प्रतिशरणं प्रतिगृहम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । अशीणज्योतिरक्षतार्चिरयमग्निराहवनीयः विधिना 'यज्ञकर्मण्यजपन्यूरखता मसु' इत्यादिशास्त्रोक्तरीत्या विहिता यथायोगमुच्चरिता विरिब्धाः स्वरा- एकश्रुन्यादयश्चत्वारो यैस्तैः । 'क्षुब्धस्वान्त-' इत्यादिना ‘रेभृ शब्द' इति धातोः स्वरे विरिन्धशब्दो नि- धान्तोऽनिट्वेन निपातितः । अध्वर्युवर्यैः ऋत्विश्रेष्ठैः । ऋत्विग्विशेषवाचिन ध्वर्युशब्देन ऋविसावलक्ष- पात् । यद्वा अध्वर्युर्यो मुख्या येषां तैरनयुप्रमुखैः चतुर्भिः ऋत्विग्भिरित्यर्थः । तस्मादर्शपौर्णमासयोर्यज्ञ- क्रत्वोश्चत्वार ऋत्विज इति श्रवणात् । दर्शश्चाऽयं सर्वव मानाय्यविधानादिति । सामिधेनीः 'प्रबोवाजा'- इत्यादिका अग्निप्तमिन्धनी ऋचाऽधोन्य पठित्वा ।'अक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने' इत्यमरः । सामिधेनीग्रहणं याज्यापुरोऽनुवाक्यादिमन्त्रान्त राणामप्युपलक्षणम् । कृतो गुरुतरदुरितानामोघस्य वमो यस्मिन्कणि तयथा तथा साधु सम्यग् हुतं देवतोद्देशेन त्यनं, सत्रीयत इति सानाय्यं हविविशेषम । ऐन्द्र दध्यमावास्यायाभन्दं पयोऽमावास्यायामिति विहिते दधिपयसी इत्यर्थः। 'पाय्यसान्नाय्यानकाय्य-' इत्या- दिना हविर्विशेषे संपूर्वान्नयतीन्तादायादशोपसर्गदीर्घनिपातः। उपली ढे आस्वादयति । 'लिह आस्वादने' इति धातोः स्वरितत्त्वाल्लटि तडि टेरत्वं ढवधवष्टुत्वढलोपदीर्घाः । अत्राने सानाय्योपलेहनस्योत्तरकाल- भावित्वेऽपि तदु पलाश्वेतस्य कर्मगः 'उदिते आदित्ये पौर्णमास्यास्तत्रं प्रक्रमति प्रागुदयादमावास्याया' इति शामात तत्कालप्रकान्तस्य वर्तमानत्वात्तस्यापि वर्तमानताव्यपदेशः। एतच्चाहिताग्नित्व मात्रेण कालविशेषा- ऽनादरेणोक्तमिति पूर्वोक्तचन्द्रोदयायविरोधः । अथ वा उदिते जुहोत्यनुदिते जुहोति प्रातर्जुहोत्यग्निहोत्रम् । तत्कालत्वात्सामिनीसानाय्यशब्दयोमन्त्रहविर्मात्रपरत्वमाश्रित्याग्निहोत्रपरत्वेन व्याख्ययम् । तस्मादग्नि- होत्रस्य यज्ञक्रत्वोः एकऋत्विगित्यकाध्वर्युकत्वेऽध्वर्युवेरिति बहुवचनं यजमानबहुत्वादुपपद्यत इत्याहु- रित्यलं छान्दसगोष्ठीव्यसनेन । वृत्त्यनुप्रासोऽलङ्कारः स्पष्ट एव ॥ ११ ॥ प्रकृतजपविधीनामास्यमुदश्मिदन्तं मुहुरुपहित(१)मोष्ठ्यरक्षरलक्ष्यमन्यैः ॥ अनुकृतिमनुलं घट्टितोद्धट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ४२ प्रकृतेति ॥ हे कृष्ण! नियमभाजां संयमिनां मुनीनाम् आस्यं वदनं मुग्धमुक्तापुटस्य नवमौक्तिकशिप्रापुटस्य अनुकृति सादृश्यं व्रजति प्राप्नोति । किंभूतस्य मुग्धमुक्तापुटस्य अनुवेलं वेलायां वेलायां घट्टितोदहितस्य सङ्कुचितविकसितस्य, किंभूतानां मुनीनां प्रकृत- जाविधीनां प्रारब्धजन्यविधानानां, किलशगमास्यम् । उद्रश्मिदन्तमुत्कृष्टद्युतिदशनम् , अपरं किललगमास्यम् औष्ठ पैरसौः उवर्ग स्वर्गादिभिर्वणः उपहितम् , अन्यैरक्षरैः लवर्णतवर्गा- दिभिः दन्त्यैरक्षरैः लक्ष्यं दृश्यम् । दन्तानां मुक्ता उपमानम् , अध्ययनवशात् सङ्कुचित. विकसितोष्टपुटस्य शिप्रा उपमानम् ॥ ४२ ॥ .. .. (१) पिहित ।

सन्देइविषौषधिसर्वपायुते- [ एकादशः- .. प्रकृतेति ।। प्रकृतजपविधीनां प्रक्रान्तजपकर्मणां नियमभाजां तपस्विनां सम्बन्ध ओष्ठे भवैरोष्ठयैः । 'शरीरावयवाच्च' इति यत्प्रत्ययः। अक्षरैर्वजैः । उपूपध्मानी यैरित्यर्थः। 'उपूपध्मानीयानामोष्टौ' इत्यनु- शासनात् । मुहुरापाहतमावृतमन्यैरनोष्ठचैरक्षरेर्लक्ष्यं दर्शनीयम् अत एवोदश्मय उद्तांशवो दन्ता यस्य तदास्य मुखमनुवेलं प्रतिक्षणं घट्टितोद्धादृतस्य प्राणित्वान्मुहुर्घटितविघटितस्य । विशेषणसमासः । मुग्धं सुन्दरं यन्मुक्कानां मुक्ताफलानां पुट कोटि: । शुक्तिरिति यावत् । तस्याऽनुकृति साम्यं व्रजति । उपमालङ्कारः । एतेन श्लोकद्वयेन बहवः कर्मनिष्ठास्तपोनिष्ठाश्च ब्राह्मणा भगवन्तमनुयान्तीति कथितम् ॥ ४२ ॥ नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणे ति भासां वितानम् ॥ जनितभुवनदाहारम्भमांसि दग्ध्वा ज्वलितमिव महाब्धेरूद्धमौर्वाऽनलार्चिः ॥ ४३ ॥ तवेति ॥ हे भगवन् ! कृष्ण ! कुलिशपाणेर्वज्रधरस्य देवेन्द्रस्य ककुभि पूर्वस्यां दिशि वासराणां दिवसानां विधातुः कर्तुः श्रीसूर्यस्य भासां वितानं दीप्तीनां पटलं भाति शोभते । किंभूतं दीप्तिपटलं नवकनकपिशङ्ग दाहोत्तीर्णसुवर्णपिआरम् । अपरं किंभूतं वितानम्, उत्प्रे- क्ष्यते-महाब्धेः समुद्रस्य अम्भांसि दग्ध्वा जलानि भस्मीकृत्य उध्वं चलितमुध्वं प्रसृतम् और्वानलार्चिरिव वडवाऽनलज्वालेव । किलक्षणमौर्वानलार्चिः जनितभुवनदाहाऽऽरम्भ भुवनदहनाय कृताऽऽरम्भम् ॥ ४३ ॥ नवेति ॥ कुलिशं पाणौ यस्य सः कुलिशपाणिरिन्द्रः । 'प्रहरणार्थेभ्यः परे निष्ठासतम्यौ भवतः' इति पाणः परनिपातः । एतदेवात्र व्यधिकरणबहुव्रीहश्च ज्ञापकम् । तस्य ककुभि गाच्यां दिशि नवकनकवपिशङ्गं वासराणां विधातुर्दिनकरस्य भासा वितानं करजालं महाऽब्धेरम्भामि दम्चा जनितभुवनदाहारम्भं कृत- जगह होयोग सत् उर्ध्वमन्धेरुपरि ज्वालतमौर्वाऽनलाडिवाऽनलज्योतिरिव भातीत्युत्प्रेक्षा ॥ ४३ ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान् दिम्भिराकृष्यमाणः ॥ कृतचटुल(१)विहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः४४ विततेति ॥ हे भगवन् ! एपः अर्कः श्रीसूर्यः दिग्भिराशाभिः जलनिधिजलमध्यात अम्भोनिधिपानीयाऽऽन्तरालात् उत्तार्यते बाह्य नीयते । किंलक्षणाभिर्दिग्भिः कृतचटुल- विहङ्गाऽऽलापकोलाहलाभिः कृता निष्पादिताः चटुलविहङ्गालापा एव चपलविहङ्गमभाष- णान्येव कोलाहलः कलकलशब्दो याभिस्ताः तथा ताभिः, किंभूतः अर्कः मयूखैः किरणैः आकृष्यमाण उध्वं नीयमानः, किंभूतैः मयूखैः विततपृथुवरत्रातुल्यरूपैः विस्तृतविशाल- रज्जुसदृशरूपैः, क इव गरीयान् कलश इव गुरुतरो घट इव । यथा स्त्रीभिः पृथुरजुभिः कृत्वा कोलाहलं शब्दमानाभिः जलमध्यात् कूपादिमध्यादुत्तार्यते ॥ ४४ ॥ विततेति ॥ वितताभिः प्रसारिताभिः पृथुवरत्राभिर्महारज्जुभिस्तुल्यरूपस्तुल्याकारमयूखैः किरणेगरी- यान् कलश इवाकृष्यमाणः सन्नेषोऽर्कः कृतश्चपलः सत्वरो विहङ्गालाप एव कोलाहलः कलकलो याभिस्ताभिः दिम्भिर्जलनिधेः अलमध्यादुत्तार्यते उद्भियते । तरतर्ण्यन्तात्कणि लट् । यथा कुतश्चित्कूपात्कुम्भः पाशै. राकृष्य सकलकलं बहुभिः मीभिरुद्भियते तद्वदिति भावः । अत्र वरत्रातुल्यरूपैः कलश इवेति चोपमाभ्यां विहङ्गालापकोलाहलोत रूपकेण चोजीविताऽर्कस्य दिकर्तृकोत्तारणोत्प्रेक्षा व्यञ्जकाप्रय गात्प्रतीयमानेति सङ्करः पयसि सलिलराशेर्नक्तमन्तानमग्नः स्फुटमनिशमतापि ज्वालया वाडवाग्नेः ।। यदयमिदमिदानीमङ्गमुद्यन् दधाति ज्वलितखदिरकाष्ठाऽङ्गारगौरं विवस्वान्।। (१) चपल ।

सर्गः ।] शिशुपालवधे । ३६७ . पयसीति ॥ हे भगवन् ! कृष्ण ! अयं विवस्वान् श्रीसूर्यः यत् इदानीमधुना उद्यन् उदयं प्राप्नुवन् सन् इदमङ्गज्वलितखदिरकाष्ठाङ्गारगौरं दधाति दीप्तखदिराङ्गारवत् गौर रक्त वपुबिभर्ति । स्फुटमुत्प्रेक्षायां, नक्तं रात्रौ सलिलराशेः समुद्रस्य पयसि उदके अन्तर्निमग्नः सन् मध्ये बुडितः सन् अनिशं निरन्तरमेव वाडवाग्नेः और्वानलस्य ज्वालया अतापि इव कीलया सन्तापित इव । अत एव लोहितमङ्गं दधातीत्यर्थः ॥ ४५ ॥ पयसीति ॥ अयं च विवस्वान् नर्क सलिलराशेः पयसि निमग्नोऽन्तर्वाडवाग्नेलियानिशमतापि तप्तः स्फुटामत्युत्प्रेक्षा । कुतः---यदिदानीमुद्यन् इदं ज्वलितः प्रज्वलन् यः खादरकाष्ठस्याऽङ्गारस्त- हौरमरुणमङ्गं दधाति । 'गौरोऽरुण मिते पाते' इति विश्वः ॥ ४५ ॥ अतुहिनरुचिनाऽसौ केवलं नोदयादिः क्षणमुपरिगतेत माभृतः सर्व एव ।। नवकरनिकरण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ ४६॥ अतुहिनेति ॥ हे भगवन् ! कृष्ण ! अतुहिनरुचिना श्रीसूर्येण क्षणं मुहूर्तमुपरिंगतेन उपरि वर्तमानेन सता न केवलम् असौ उदयाद्रिः उदयाचलः, एते सर्वे माभृतः पर्वताः शेखरं बिभ्रतीव मुकुटं धारयन्तीव । किंभूतेन अतुहिनरुचिना नवकरनिकरेण नूतनाति- पुज्जेन, किंभृतं शेखरं स्पष्टबन्धूकसूनस्तबकरचितं विकसितबन्धुजीवकुसुमगुच्छनिष्पा- दितम् । लौहित्यात् शेखरतुल्येनेत्यर्थः ॥ ४६ ॥ अतुहिनति ॥ क्षणमुपरिंगतेन स्थितनास्तुहिनचिनाऽर्केण केवलमसावुदयाद्रिः पूर्वादिन । 'उदयः पूर्वपर्वतः' इत्यमरः । किन्त्वे ते सर्व एव माभृतः सर्वेऽपि शलाः क्षणमुपरिगतनाऽवस्थितेन नवकरानकरण स्पष्टेविकसितबन्धूकसूनम्तबकैबन्धुजीवककुसुमगुच्छेविरचितम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । शेखर शिखामाल्यम् । 'शिखास्वापीडशेखरौ' इत्यमरः । बिभ्रतीवत्युत्प्रेक्षा । न केवलमर्कणोदयाद्रि रेव बन्धूकशेखरं बिभर्ति, किन्तु तत्करजा लेन सर्वेऽपि पर्वतास्तथेत्यर्थः ॥ १६ ॥ उदयशिखरिङ्गप्राङ्गणेष्वेष रिकन(१)सकमलमुखहासं वीक्षितः पद्मिनीभिः विततमृदुकराग्रः शब्दयन्न्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसर्यः॥ उदयेति ॥ हे कृष्ण ! एष बालसूर्यः तरुणादित्यः हेलया लीलया दिवोऽङ्के परिपतति द्यौरव माता तस्या उत्सङ्गे परिपतति । किंलक्षणाया दिवः वयोभिः शब्दयन्त्याः पक्षि- भिरावं कुर्वत्याः, किंभूतः बालसूर्यः प्रसृतमृदुकरानः प्रसारितकोमलकराग्रः, किं कुर्वन् उदयशिखरिशृङ्गप्राङ्गणेषु रिशन उदयाचलशिखराऽजिरेषु प्रचलन्, अपरं किंभूतो बाल- सूर्यः पभिनीभिः कमलिनीभिः सकमलमुखहासं यथा भवति तथा वीक्षितः कमलरूप- मुखानां हासेन विकासेन सह यथा भवति तथा । यथा कश्चिद्वालः अर्भकः प्राङ्गणेषु रिसन्न पद्मिनीभिः स्त्रीभिः सहासमुखं वीक्षितः सन् मातुरके परिपतति ॥ ४७॥ उदयति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्च बालमूर्यः उदयाशिखरिशङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन सञ्चरन् पद्मिनीभिर्नलिनीभिः स्त्रीविशेषैश्च । 'पद्मिनी मीविशेषेऽपि' इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन हास्येन च सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः 'वयः पक्षिीण बाल्यादी' इति विश्वः। शब्दयन्त्याः शब्दं कुर्वत्याः, आगच्छागच्छ वत्सेति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् 'तत्करोति-' इति ण्यन्तामटः शतरि प् । दिवोऽन्तरिक्षस्य मातुश्चाऽङ्के समीपे उत्सङ्गेच विततानि प्रमृतानि मृनि कराऽप्राणि किरणाऽमाणि हस्ताऽने च यस्य स सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम् ॥ ४७ ॥ । (१) रिखन। ३४ शि०प० - सन्देहविषौषधिसर्वपायुते [एकादशः- क्षणमयमुपविष्टः मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमहाय लोकम् ॥ भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरतटपीठादुत्थितः सप्तसप्तिः॥४८॥ क्षणमिति ॥ हे कृष्ण! अयं सप्तसप्तिः श्रीसूर्यः क्षितिधरतटपीठात् उदयाचल- तटासनात् उत्थितः उत्तस्थौ । किंभूतः सप्तसप्तिः क्षणं क्षणमात्रमुपविष्टः स्थितः, अपरं किंभूतः सप्तसप्तिः क्षमातलन्यस्तपादः पृथ्वीतलनिहितचरणः, किं करिष्यमाणः सप्तसप्तिः अशेष समग्रं भुवनतलं विष्टपतलं प्रत्यवेक्षिप्यमाणः विलोकयिप्यन्, किं कृत्वा उत्तस्थौ लोकं प्रणतिपरमवेक्ष्य जनं नमस्कारतत्परमालोक्य, किंलक्षणं लोकम् अह्नाय शीघ्रमेव प्रीत मुदितम् । यथा कश्चित् सार्वभौमो राजा प्रणतिपरं लोकं दृष्ट्वा अखिलं भुवनतलं विलोक- यिष्यन् पोठादुत्तिष्ठति । सोऽपि भूतलाऽऽरोपितचरणः ॥ ४८ ॥ क्षणामति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः मातलन्यस्तपाद: । प्रणाम- स्वीकाराय भूनलप्रसारिताप्ररित्यर्थः। प्रणतिपरं नमस्कारं कुर्वाण प्रीतं प्रणामस्वीकारात्सन्तुष्टं लोकं जन- महाय झटित्यवेक्ष्य । 'झटित्यञ्जसाऽहाय' इत्यमरः । रूपावलं केन सम्भाव्याऽशेषं भुवनतलं लोकस्वरूपं प्रत्यवक्षिष्यमाणोऽनुसन्धास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव अन्यत्र तटमिव पीठं तस्मा- दुत्थितः । उदयाद्रिमतिक्रान्त इत्यर्थः । यथा कश्चिन्महाराजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृताऽविशेषणवैभवादप्रकृतमहाराज- प्रतीतेः समासोक्तिः ॥ ४८ ॥ परिणतमदिरा भास्करणांशुबाणैस्तिमिरकरिघटागः सर्वदिक्षु क्षतायाः॥ रुधिरमिव वहन्त्यो भान्ति बालातपेन च्छुरितमुभयरोधोवारितं वारि नद्यः।। परिणतेति ॥ हे कृष्ण ! नद्यः सरितः भान्ति शोभन्ते। किं कुर्वत्यः वारि जलं वहन्त्यः धारयन्त्यः, किंभूतं वारि बालातपेन छुरितं तरुणार्कतेजसा भिन्नम्, अपरं किंभूत वारि उभयरोधोवारितं तटद्वयस्खलितम् , अपरं किंभूतं वारि परिणतमदिराभं पाण्मासिक- मद्यतुल्यम् । अपरं किंभूतं वारि, उत्प्रेक्ष्यते-तिमिरकरिघटायाः रुधिरमिव अन्धकारगज- घटायाः असृगिव । किंभूतायाः तिमिरघटायाः सर्वदिक्षु समन्तात् भास्करेण सूर्येण अंशुबाणैः किरणमार्गणैः क्षतायाः ताडितायाः ॥ ४९ ॥ परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्कसुरासंनिभमुभा-यां रोधाभ्यां वारितमवरुद्धमुभयरोधोवारितम् । 'उभादुदानो नित्यम्' इत्यत्र नित्यग्रहणसामर्थ्यावृत्तिविषये उभ- शब्दस्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशुभिरेव बाणैः सर्वदिक्षु सतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेन्युत्प्रेक्षा । वहन्त्यो भान्ति ॥४९॥ दधति परिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु ॥ प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ।। दधतीति ॥ हे कृष्ण! तरुणतपनभासः बालसूर्यधुतयः वनितानां स्त्रीणां प्रणयिषु भर्तृषु कुपितमदनमुक्कोत्तप्तनाराचलीलां दधति सक्रोधकन्दर्पप्रेरितोत्तमलोहबाणशोभां धारयन्ति । किंलक्षणेषु प्रणयिषु प्रातः प्रभाते गन्तुमिच्छत्स वाञ्छमानेषु(?), किंभूताः तरुणतपनभासः जालवातायनेभ्यः गवाक्षमागेंभ्यः मन्दिराभ्यन्तरेषु गृहमध्येषु परिपतन्त्यः । एतावता ताभिः संह वियोगभावात बालतपनकिरणास्तेषां सन्तप्तनाराचवत् पीडां कुर्वन्तीत्यर्थः ५० दधतीति ॥ जालवातायनेभ्यो गवाक्षविवरेभ्यः मन्दिराणामभ्यन्तरेषु परिपतन्स्यस्तरुणतपनभासो .

सर्गः।] शिशुपालवधे। ३६४ बालार्ककिरणा वनितानां प्रणयिषु प्रातर्गन्तुमिच्छत्सु कुपितेन मदनेन मुक्कानामुत्तप्तानामग्निज्वलिततेजमा नारा- चाना बाणविशेषाणां लीला शोभा दधति । अत्र लीलेव लीलेति सादृश्याओपादसम्भवद्वस्तुमम्बन्धानिदर्शना । अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ॥ उदयदहिमरोचियोतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥ अधिरजनीति ॥ हे भगवन् ! एतत् मधुनः मद्यस्य कनकवषकं स्वर्णमयं पानपात्रम् अद्यापि तथैव आपूर्णमिव भाति भृतमिव शोभते । किंभूतं चषकम् अधिरजनि रजन्यां वधूभिः स्त्रीभिः पीतमै रेयरिक्त निपीतमद्यशून्य, तर्हि कथं पूर्णमिव भाति, अपरं किंभूतं चषकम् अन्तर्मध्ये उदयदहिमरोचिर्कोतिषाऽऽक्रान्तम् उदयंश्चाऽसौ अहिमरोचिः श्रीसूर्यः तस्य ज्योतिस्तेजः तेन श्रितम् उद्यन्मणितेजसाऽऽश्रितं, किलेति ज्ञायते । रक्तत्वादद्यापि मद्यभूतमिव भातीत्यर्थः । किंभूतेन रोचिषा रोचनालोहितेन गोरोचनावत् आरक्तेन॥५१॥ अधिरजनीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थे ऽव्ययीमावः । वधूभिः पीतं मैरेय मयं यस्य तत् अत एव रिक्तं पीतमेरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ट्या विकारार्थता । 'चषकोऽनी पानपात्रम्' इत्यमरः । रोचनालोहितेन गोरोचनारुणनोदयत उदीयमानस्याऽहिमरोचिषोऽस्य ज्योतिषा तेजसा अन्तरभ्यन्तरे आक्रान्तं व्याप्तं सत् अयापीदानीमपि तथैव पूर्ववदेव मधुन आपूर्णमिव । सामान्यषष्ट्या योग्यविशेषपर्यवसाननियमात् षष्ठी शेषे' इति सम्बन्धमामान्ये षष्टी, करणस्यापि कारणत्वा- दिति। भाति शोभते । अत्राऽऽतपाक्रान्ते मधुपूर्णवोत्प्रेक्षया आतपे मधुभ्रमाद् भ्रान्तिमान व्यज्यते ॥५१॥ सितरुचि शयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गाव्यङ्ग(१)कौसुम्भकान्ति॥ निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ॥ सितरुचीति ॥ हे कृष्ण ! काचित् सखी प्रत्यूषे दिनादौ स्त्रीम् अङ्गनां नायिका परिहसति वेली करोति । किंभूतां स्त्री रतबन्धोः सुरतमित्रस्य कान्तस्य उत्तरीय वस्त्रम् आददानां प्रगृह्णतीम् , अपरं किंभूतां स्त्रीम् इति जानतीमिति विचारयन्तीम् , इतीति कि- यत् , एतत् उत्तरीयं निजमिति मदीयमिति । अपरं किंलक्षणमुत्तरीयं सितरुचि श्वेतवर्णम् । ननु यदि श्वेतं तहि कथं नोपलक्ष्यते-अपरं किंभूतमुत्तरीयं दिनकरकरसङ्गाऽव्यङ्गकौसम्भ- कान्ति दिनकरकरसङ्गेन श्रीसूर्यकिरणसंयोगेन अव्यङ्गा परिपूर्णा कौसम्भस्य कुसुम्भ- रक्तवस्त्रस्य कान्तिः छविर्यस्य तत्, अपरं किंभूतमुत्तरीयं शयनीये शय्यायां नक्तं रात्री एकान्तमुक्तम् एकस्थाने न्यस्तम् । 'संव्यानमुत्तरीयं स्यादित्यमरः ॥ ५२ ॥ सितरुचीति । न रात्रौ शयनीये तल्पे एकान्तमुक्तमत्यन्तत्यक्त सितरुचि शुभ्रवर्णम् । किन्तु दिनादौ प्रभाते दिनकरकरसङ्गेनाकौशुव्यतिकरण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य सम्बन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयामिति जानतीम् । अत एवाददानी बी नायिकाम् । 'वाऽमशसोः' इतीयङभावपक्षे 'अमि पूर्वः' इति पूवरूपम् । सखी परिहसति । अत्राऽकौमुम्भे कौमुम्भभ्रमात्सादृश्यनिबन्धनाद् भ्रान्तिमदलङ्कारः ।। ५२ ॥ प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयमराजद्राजताद्रिस्थलामम् ॥ अरुणितमकठोरैर्वेश्म काश्मीरजाऽम्भानपितमिव तदेतद्भानुभिर्भाति भानोः। प्लुतमिवेति ॥ हे कृष्ण ! इदं गृहं एतद् वेश्म काश्मीरजाऽम्भःस्नपितमिव भाति कुङ्कुमोदकप्रक्षालितमिव शोभते । किंलक्षणं वेश्म भानोः श्रीसूर्यस्य भानुभिः किरणैः (१) सजव्यक्त।

! सन्देहविषौषधिसर्वकषायुत [ एकादशः- अरुणितं रक्तीकृतं, किलक्षणैर्भानुभिः अकठोरैः सुकुमारैः, अपरं किंलक्षणं वेश्म स्फटिकमयं स्फटिकाऽश्मनिर्मितम् , अत एव नवकिरणैः रक्तीकृतम् । तत् किं-यत, वेश्म निशासु रात्रिषु राजताद्रिस्थलाभम् अराजत् रूप्यपर्वतसदृशं भाति स्म । उत्प्रेक्ष्यते-शिशिरांशोश्चन्द्रमसः अंशुभिः किरणैः प्लुतमिव उत्तेजितमिव स्नपितमिव ॥ १३ ॥ प्लुतामवेति ॥ राजनाद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यदश्म निशासु शिशिरशोरिन्दो- रंशुभिश्चान्द्रकाभिः प्लुतं धौतं मत स्फाटकमयं स्फटिकविकार इवाऽराजद्रजे । तदेतद्वेश्म भानोः सूर्यस्या- ऽकठोरैः कोमलैर्भानुभिररुणितमरुणीकृतं सत काश्मीरदेशे जातं कश्मीरजं कुङ्कुमं तस्याऽम्भस! स्नपितं सिक्कमिव भाति । उत्प्रेक्षयोः संसृष्टिः ॥ ५३ ॥ सरसनखपदान्तःश्लिष्ट(१)केशप्रमोकं प्रणयिनि विदधाने योषितामुलुसन्स्याः॥ विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः पद्मरागानुकारम् ॥ सरसेति ॥ हे भगवन् ! कृष्ण ! अभिनवरविभासः बालसूर्यधुतयः दशनानां दन्तानां पारागाऽनुकारं विदधति पद्मरागमणिसादृश्यं कुर्वन्ति । किंलक्षणानां दशनानां सीत्कृता- विष्कृतानां सीत्कारप्रकटितानां, सीत्कारे किं कारणं व सति प्रणयिनि कान्ते योषिता- मङ्गनानां सरसनखपदाऽन्तःश्लिष्टकेशप्रमोकं विदधाने सति सान्द्रनखवणमध्ये संलग्नकच- मोक्षं कुर्वति सति, किलक्षणा रविभासः उल्लसन्त्यः देदीप्यमानाः ॥ १४ ॥ सरसेति ॥ प्रणयिनि योषिता सरसनखपदानामानखक्षतानामन्तमध्ये दष्टानां लग्नाना केशानां शिरो- रुहाणां प्रमोकं प्रमोचनं विदधाने सति सीत्कृनैर्व्यथाविभूनसीन्कारैराविष्कृताना दशनानामुल्लसन्न्यो वैमल्याइन्तेषु प्रतिफलन्त्यः अभिनवराविभामः पद्मरागाणामनुकारमनुकरणं विदधति । उपमालङ्कारो रविभामामारुण्यप्रतिगदक:5भिनवावशेषणप्रसादलब्ध इति काव्यलिङ्गेन सङ्करः ॥ ५४ ॥ अविरतदयिताङ्गासङ्गसंचारितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ॥ कनकनिकषलेखा(२)कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ अविरतेति ॥ हे भगवन् ! श्रीकृष्ण ! कामिनीनामगन्नानां वपुः शरीरमातपेऽपि घमेंऽपि अवाप्तच्छायमेव भवति प्राप्तद्युत्येव अस्ति । छायाशब्दः कान्तिवाचकोऽतः स्त्रीणा- मग धर्मेऽपि मनोज्ञकान्ति भवतीत्यर्थः । किंलक्षणं वपुः कनकनिकषलेखाकोमल स्वर्णोपल- पदसदृशम्, अपरं किलक्षणं वपुः कुकुमेन छुरितं घुसूणेनाऽवलिप्तं, किंलक्षणेन कुङ्कुमेन अविर- तदयिताङ्गाऽऽसङ्गसञ्चारितेन निरन्तरकान्तशरीरसम्पर्कविस्तारितेन, अपरं किलक्षणेन कुकुमेन अभिनवाऽसृक्कान्तिना नूतनरुधिररुचिना । अत एव शरीरं सदैव कान्तिमद्भवतीत्यर्थः॥६६ अविरतेति ॥ अविरतनाविच्छिन्नेन दयितानां प्रेयसामजस्यासनेन शरीरसम्पर्केण सञ्चारितेन संक्रा- मितेनाऽभिनवस्याऽसृजो रक्तस्येव कान्तिर्यस्य नेन कुङ्कुमेन छुरितं कनकस्यया निकषे निकोपले रेखा राजिस्तद्वत्कोमलं मनोहरमित्युपमा । कामिनीनां वपुरातपेऽप्यवाप्तच्छायं लन्धवोत्कर्षमेव भवति । स्वतः सुवर्णवर्णस्य ततः कुड्कुमाङ्कितस्य कामिनीगावस्य पुनर्बालातपव्याप्तिरिति महती वर्णोत्कर्षसामग्रीति भावः। आतपे छायानानप इति विरोधाभासेऽपिशब्दः । 'छाया त्वनातपे कान्ती' इत्यमरः । अत्र मंक्रान्तकुङ्कुम- छारतत्वकनकनिकषरेखाकोमलन्वयोरुपमापेक्षया छायावाप्तिहेतुत्वादुपमासङ्कीर्ण काव्यालङ्गं तदातपेष्य- वाप्तच्छायमित्यत्र विरोधेनकवाचकानुप्रवेशेन महीयते ॥ ५५ ॥ सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तः ।। अखिलमतिमहिना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः ध्वान्तवृत्रं(३) हिनस्ति (१)न्तभ्रष्ट। (:)रेखा। (३) साधु वृत्रं । .

सर्गः।]
शिशुपालवधे।
४०१
यथा
..
सरसिजेति ॥ हे भगदन् ! श्री कृष्ण ! हरिदश्वः श्रीसूर्यः ध्वान्तवृत्रं हि-
नस्ति अन्धकाररूपिणं वृत्रासरं नाशयति, क इव हरिरिव इन्द्र इव ।
हरिदेवराजः वृत्रं दानवं हिनस्ति स्म । किंलक्षणं वृत्रान्धकारं दैत्यं च अतिमहिम्ना अति-
महत्त्वेन अखिलं विश्वं समगं लोकमाक्रान्तवन्तम् आक्रम्य स्थितवन्तम् । दैत्योऽपि
एवंविधः । किंलक्षणो रविरिन्द्रश्च करनयनसहतं बिभ्रत् एको रविः करसहस्रं बिभ्रत्
अपर इन्द्रः नयनसहसं बिभ्रत्,
किंलक्षणं करनयनसहसम्
आलोकशक्तेः हेतुं कारणम् ।
एकस्य खेः करसहसमालोकशक्तेः उद्योतस्य हेतुम् । इन्द्रस्य नयनसहसं दुष्टदैत्यानां
निग्रहणसमर्थम् । अपरं किलक्षणं करनयनसहसं सरसिजवनकान्तं करसहसं सरसिजवनेषु
कमलकाननेषु कान्तं रुच्यं विकासकारित्वात् , अपरं नयनसहसू सरसिजवनवत् पाखण्डवत्
कान्तं मनोज्ञम् । किंलक्षणो रविरिन्द्रश्च अभ्रान्तवृत्तिः एकस्य खेः अभ्राऽन्ते नमःप्रान्ते
वृत्तिर्वर्तनै यस्य सः तथा, अपरस्येन्द्रस्य अभ्रान्ता अपरिभ्रष्टा धर्मवती वृत्तिराचारो
यस्य सः तथा ॥ २६ ॥
सरसिजेति ॥ सरसि जातानि सरसिजानि । 'सप्तम्यां जनेर्ड:', 'तत्पुरुषे कृति बहुलम्' इत्यलुकू ।
तद्वनस्य कान्तं प्रियम् अन्यत्र तत्कान्तं रम्यम आलोकशौकलोचनानां विषयग्रहणशक्तुम् आलो-
कान्तरसहकृतानामेव तेषां तत्सामर्थ्यात् । अन्यत्र आलोकशक्तेर्दर्शनव्यापारस्य हेतुम् । दर्शनसाधनामत्यर्थः।
करा नयनानीव अन्यत्र करा इव नयनानि तेषां सहस्रं करनयनसहस्रं बिभ्रत् । अभ्रान्ते नभोमध्ये वृत्ति-
यस्य सोऽभ्रान्तवृत्तिः । अन्यत्राऽभ्रान्ते मेघे वृत्तिर्यस्य सः। मेघवाहन इत्यर्थः । 'अभ्रं नमः स्वर्गबलाहकेषु'
इति विश्वः । हरितोऽश्वा यस्य स हरिदश्वोऽर्कः हरिरिन्द्र इवाऽतिमहिम्नाऽतिमहत्तया । स्ववृध्येत्यर्थः ।
लोकमाक्रान्तवन्तं व्याप्तवन्तन् एकत्र प्रत्यक्षादन्यत्र 'स इषुमात्रमिषुमा विष्वग्वर्धत स इमॉल्लोकाना-
वृणोत्' इत्यागमादिति भावः । वृत्रं ध्वान्तं दानवं च त्वाष्ट्रं साधु हिनस्ति हन्ति । वान्ताऽरिदानवा वृत्राः'
इत्यमरः । उपमा श्लेषो वा मतभेदात् ।। ५६ ।।
अवतमसभिदाय भास्वताऽभ्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ॥
निरसितुमरिमिच्छोयें तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥५७
अवतमसेति ॥ हे भगवन् ! कृष्ण ! भास्वता सूर्येणअसौ उडुगणः अयं नक्षत्रसमूहः
प्रस हठात् बलात्कारेण अपास्तः निराकृतः। किंलक्षणः उद्धगणःदर्शनीयोऽपिरमणीयोऽपि,
किमर्थं तेन नभस्वता नक्षत्रगणोऽपास्तः अवतमसभिदायै तमोविनाशाय अभ्युद्गतेन उदि-
तेन । युक्तोऽयमर्थः, अरिं शत्रु निरसितुमिच्छोः विनाशयितुकामस्य पुरुपस्य तेऽपिहन्तव्य-
पक्षे नाशनीयपक्षे भवन्ति । ते के ये तदीयाश्रयेण तत्संसगंण श्रियमधिगतवन्तः शोभा
प्राप्नुवन्तः स्म । ये शत्रुसंयोगेन वृद्धिं गताः, तेऽपि तेजस्विनो हन्तव्या भवन्तीत्यर्थः५७
अवतमसति ॥ अवतमसं तिमिरम् । 'अवसमन्धेभ्यस्तमसः' इति समासान्तः । यद्यपि क्षीणे-
ऽवतमसं तमः' इत्युक्तं, तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । विद्धि-
दादिभ्योऽछ । अभ्युद्गतेनाभ्युदितनो यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलादपास्तः ।
तथा हि अरिं निरसितुमिच्छोयें तदीयेनाश्रयेणाश्रयणेन श्रियं सम्पदं शोभा च । 'शोभासम्पत्निपासु लक्ष्मीः
श्रीरपि गयते' इति विश्वः । अधिगतवन्तः प्राप्तवन्तस्तेऽपि हन्तव्यपक्षे वध्यकोटावेव । अरिवदारिपक्षा-
अपि वध्या एवेत्यर्थः । उडुगणोऽपि तमसि शोभते, अतस्तत्पक्ष इति भावः । सामन्येन विशेषसमर्थन-
रूपोऽथान्तरन्यासः ॥ ५॥

- .. ४०२ सन्देहविषौषधिसर्वकषायुते [एकादशः- प्रतिफलतिकरौघे संमुखावस्थितायांरजतकटकमित्तौ सान्द्रचन्द्रांशुगौर्याम् ॥ बहिरभिहतमद्रः संहतं कन्दराऽन्तर्गतमपि तिमिरोघं धर्मभानुभिनत्ति॥५॥ प्रतिफलतीति ॥ हे भगवन् ! कृष्ण ! धर्मभानुः श्रीसूर्यः अद्रेः पर्वतस्य कन्दराऽन्त- र्गतमपि गुहामध्यस्थमपि तिमिरौधमन्धकारसमूह भिनत्ति विदारयति । किंलक्षणं तिमिरौर्घ संहतं बहुलम् , अपरं किंलक्षणं तिमिरौवं बहिरभिहतं बाह्ये अभिहतं निराकृत, क्त्र सति रजतकटकभित्तौ रूप्यमयशिखरकुड्ये करौघे किरणसमूहे प्रतिफलति प्रतिबिम्बतां गच्छति सति, किंभूतायां रजतकटकभित्तौ संमुखाऽवस्थितायां समीपवर्तिन्याम् , अपरं किलक्षणायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्या निबिडरजनीकरकिरणवत् गौर्या श्वेतायाम् ॥२८॥ प्रतिफलतीति ॥ धर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवगीर्याम् धवलायामित्युपमा । "षिद्गौरादिभ्यश्च' इति डीप् । रजनकटकमेव भित्निस्तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अहि. रभिहतं कन्दराणां दरीणामन्तर्गतं संहतं तिमिरोघमपि भिनत्ति। पुरोगतरजत भत्तिनिहतस्य निजतेजस: कन्दराऽन्तःप्रवेशादिति भावः । अत्र करोघस्थान्तःसम्बन्धाभावेऽपि सम्बन्धोनरतिशयोक्तिः ॥ ५८ ॥ बहिरपि विलसन्त्यःकाममानिन्थिरे यदिवसकररुचोऽन्तं ध्वान्तमन्तहेभ्यः(१) नियतविषयवृत्तरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥१९॥ बहिरपीति ॥ हे भगवन् ! कृष्ण ! दिवसकररुचः श्रीसूर्यातयः अन्तर्मध्ये वर्तमान ध्वान्तमन्धकारम् अन्तमानिन्यिरे क्षयं निन्युः । किंलक्षणा दिवसकररुच: गृहेभ्यो मन्दि- रेभ्यः काममतिशयेन बहिरपि विलसन्स्यः बाह्येऽपि उल्लसन्त्यः । युक्तोऽयमर्थः, यतः कार- णात् नियतविषयवृत्तेरपि एकदेशाश्रितस्यापि तेजसः स स्वभावः एतत्सहजमेव तेजस्विन- एष स्वभावः। किलक्षणः स्वभावः अनल्पप्रतापक्षतसकलविपक्षः प्रभूतप्रतापविनाशित- समस्तशात्रवः । एकप्रदेशस्थितोऽपि तेजस्वी सर्वगतान् रिपून हिनस्तीत्यर्थः ॥१९॥ बाहिरपीति ॥ बहिविलसन्त्योऽपि दिवसकररुचोऽर्कभासः अन्तर्गृहेषु गर्भागारेषु कामं यथेष्ट ध्वान्त- मन्तं नाशमानिन्यिरे प्रापयामासुरिति यत् । नयतेर्द्विकर्मकाकर्तरि लिट् । सोन्तहध्वान्तनिरासो नियन- विषये नियतस्थाने वृत्तिर्यस्य तस्य । नियतदेशवर्तिनोऽपीत्यर्थः। 'तृतीयादिषु' इति पुंबद्भावः । तेजसो. उनल्पेन प्रतापन विप्रकाशेन । स्वप्रभावणे वेत्यर्थः । 'प्रतापी पौरुषातपा' इति वैजयन्ती। क्षतसकलविपक्षी निरस्तसमस्तप्रतिपक्षः स्वभावः । तेजस्विनामेष स्वभावो यत्प्रतापेनेव परोच्छेदनमतो युक्तमर्कभासा- मप्यन्तान्तहरणमित्यर्थः । अत्र समर्थ्यसमर्थकयोः सामान्यविशेषाभावादर्थान्तरन्यासः ॥ ५९ ॥ चिरमतिरसलौल्यावन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ॥ दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ चिरमिति ॥ हे भगवन् ! श्रीकृष्ण ! अयमर्कः श्रीसूर्यः सरोजे कमले षट्पदानां भ्रमराणां गुप्तिस्फोटं करोति बन्धनच्छेदं विदधाति । किंलक्षणोऽर्कः, उत्प्रेक्षते-सरभस- इव सौत्सुक्य इव, अपरं किलक्षणोर्कः दलितदलकपाटः उद्घाटितपत्रकपाटः, किं कृत्वा स्वमेव धाम आत्मीयमेव स्थान प्राप्य, किमर्थं पुनर्भूयोऽपि उदयाय उदयनिमित्तं, किं- लक्षणानां षट्पदानाम् अतिरसलोल्यात् अतिशयमकरन्दपानलाम्पट्यात् चिरं चिरकाल यावत् बन्धन लम्भितानां निगडैर्गृहीतानां, प्रतिभेदं गुप्तिमोक्षं करोति ॥ ६० ॥ चिरामति ।। अयमर्कः पुनर्भूयोऽभ्युदयाय स्ववृद्धये स्वं स्वकीयमेव धाम स्थानं तेजो वा प्राप्य (१) गृहेषु । .. !

सर्गः।] शिशुपालवधे । ४०३ .. अतिरसलोल्यादतिमात्रादसेषु मकरन्दे विषयेषु च लोल्यादामतः सरोजे चिरं बन्धनं लम्भिताना प्रापि ताना षट्पदाना सरभसः सन्वरो दलितं विघाटेनं दलमेव कपाटं येन स सन् गुप्तिस्कोट बन्धनमोक्षं करोती वेत्युत्प्रेक्षा । यथा कश्चि-पदभ्रष्टः पुनर्लब्धपदः पूर्ववदात्मबन्धूनागत्य स्वयमेव काराकपाटमुद्धाट्य मोचयति तदिति भावः ॥ ६॥ युगपदयुगसप्तिस्तुल्यसंख्य यूखेर्दशशतदलभेदं कौतुकेनाऽऽशु कृत्वा ॥ श्रियमलिकुलगीतैालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥६१॥ युगपदिति ॥ हे भगवन् ! श्रीकृष्ण ! अयुगसप्तिः सप्ताऽश्वः श्रीसूर्यः श्रियं लक्ष्मीम् आदरात् विशेषात् पश्यतीव विलोकयतीव । किंलक्षणां श्रियं पङ्कजान्तर्भवनं कमलमध्य- गृहम् अधिशयानामाश्रितवतीम् , अपरं किंलक्षणां श्रियम् अलिकुलगीतैलोलितां भ्रमर- गुजारवैविनोदितां, किं कृत्वा कौतुकेन कुतूहलेन आशु शीघ्रम् मयूखैः किरणैः युगपत् एककाल दशशतदलभेदं कृत्वा सहस्रपत्रभिदां विधाय कमलविकारं कृत्वा, किलक्षणैर्मयूखैः तुल्यसंख्यैः तुल्या समा संख्या येषां ते तथा तैः सहस्रसंख्यैरित्यर्थः । 'सहस्रपत्रं कमलमित्यमरः ॥ ६१ ॥ युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस्य मोध्युगसप्तिः सप्ताश्वोर्कः । युगशब्दस्य युग्म- शब्दस्य च विशेष्यलिङ्गनाऽवगन्तव्या। युगपदेकदैव तुल्यसंख्यः । सहस्रसंख्यारन्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्रमित्यर्थः । तेषा दलानां भेदं विघटनं कौतुकेनाऽऽशु कृत्वा अलि. कुलस्य गीतलालितां मत्कृतां पङ्कजमवान्तर्भवनं गर्भगृहमधिशयानाम् । 'अधिशील्यासां कर्म' इति कर्मत्वम् । श्रियमादरात्पश्यतीवन्युत्क्षा । कश्चिन्कान्तः कान्तामवैकान्तगतामिति भावः ॥ ६१ ॥ अदयमिव करागैरेष निष्पीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ॥ अवकिरति नितान्तं कान्तिनिर्यासमन्दनुतनवजलपाण्डु पुण्डरीकोदरेषु ॥ अदयमिति ॥ हे भगवन ! श्रीकृष्ण ! एष उष्णरश्मिः उष्णतेजाः श्रीसूर्यः पुण्ड- रीकोदरेषु कमलमध्येषु कान्तिनिर्यास थुतिरसविशेष नितान्तमतिशयेन अवकिरति निक्षि- पति, किलक्षणं कान्तिनिर्यासम् अब्दसतनवजलपाण्डु मेघक्षरितनूतनोदवत् धवलम् । किं कृत्वा अवकिरति, उत्प्रेक्ष्यते-अहरादौ दिवसारम्भे शशधरं चन्द्रमसं सद्यस्तत्कालं करा: किरणप्रान्तः अदयमिव निष्पीड्य निर्दयमिव निश्चोत्य, किंलक्षणः उष्णरश्मिः रागवान् लौहित्ययुक्तः । यथा अन्योऽपि रागवान् सक्रोधः परं निर्दयमिव निष्पीडयति ॥ ६२ ॥ अदयमिति ॥ अहरादौ प्रभाते रागवानुदयरागवान् पुण्डरीकस्नेहवाश्वेष उष्णरश्मिरर्कः शशधरं चन्द्र कराप्रैः रश्म्यप्रेः हस्तांगैश्वाऽदयं निर्दयं सयो निष्पोड्य अब्दान्मेघाउने स्रस्त नवजलमिव पाण्डं शुभ्रं कान्तिनिर्यास लावण्यसारं पुण्डरीकाणां सिताब्जानामुदरेश्वभ्यन्तरेषु नितान्तमवकिरतीव विक्षिपतीव । अत्र सूर्योदये चन्द्रस्य कान्तिक्षयात्पुण्डरीकाणां तत्प्रादुभावाच्च मूर्यश्वान्द्र मेव कान्तिं पुण्डरीकस्नेहात्परेषु सिञ्चतीत्युत्प्रेक्षा । यथा द्विषन्तं प्रपीड्य नदीयं वसुमारं सुहृदे प्रयच्छाने नद्र दिाने भावः ॥ ६२ ॥ प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ॥ सितरुचि(१)वपुषाऽसौ लक्ष्यते सम्प्रति द्यौविगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ प्रविकसतीति । हे भगवन् ! हे श्रीकृष्ण ! असौ द्यौः आकाशं सम्प्रति साम्प्रतं सितरुचिवपुषा चन्द्रमसा लक्ष्यते दृश्यते । सिताः श्वेता रुचयः कान्तयो यस्मिन् (१)कर।

सन्देहविषौषधिसर्वकषायुते- [ एकादशः तत् सितरुचि एवंभूतं वपुः शरीरं यस्य सः सितरुचिवपुः तेन । किंलक्षणेन सितरुचि- वपुषा विगलितकिरणेन विनिर्गतमयूखेन, क्व सति दशशतकरमूर्ती श्रीसूर्ये चिराय चिर- कालं यावत प्रविकसति सति उदयति सति । दशशतानि सहस्र कराः किरणाः यस्याः सा दशशतकरा एवंभूता मूर्तिः शरीरं यस्य सः दशशतकरमृतिः तस्मिन् श्रीसूर्ये । किलक्षणे रखौ।योतिताऽशेषलोके भासितसकलत्रैलोक्ये, अपरं किंलक्षणे खौ, उत्प्रेक्ष्यते-द्वितीये अक्षिणीव अपरस्मिन् नेत्रे इव । एक नेत्रं चन्द्रः, अपरं श्रीसूर्यः । उपमीयते-किलक्षणा द्यौः व्यङ्गितैकेक्षणेव विनष्टैकनयनेव । चन्द्रस्य निष्प्रभत्वादित्यर्थः॥ ६३ ॥ प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन् दशशतकरमूर्ती सूर्ये द्वितीयेऽक्षिणि चक्षुषीव चिराय प्रविकसति सति सम्प्रत्यसी चौराकाशं मी च गम्यते, विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गित विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यजितके- क्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेनाऽध्यवसितेन निष्काशितेन चन्द्रेणेति । तत्र 'येनाङ्गविकारः' इति तृतीया ॥ ६३ ॥ कुमुदवनमपथि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः॥ उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललिताना(१) ही! विचित्रो विपाकः कुमुदवनमिति ॥ हे भगवन् ! श्रीकृष्ण ! कुमुदवन कैरवकाननम् अपश्रि निःश्रीक वर्तते, अपरम् अम्भोजखण्डं कमलवनं श्रीमत् सश्रीकं वर्तते, अपरम् उलूकः कौशिकः मुदं त्यजति हर्ष जहाति अन्धत्वभयात्, अपरं चक्रवाकः कोकः प्रीतिमान् भवति सहर्षो जा- यते, अपरम् अहिमरश्मिः उदयं याति श्रीसूर्यः तेजस्वी भवति, अपरं शीतांशुश्चन्द्रः अस्त याति अस्तमयते । हत इति खेदे, विधिललितानां दैवचष्टितानां, ही कष्टे, विचित्रो विपाक: दुर्लक्ष्यः विधिललितानां विपाको विचित्रः । दैवकार्याणां परिणामो युक्तं न विचारयति, यद्भाव्यते तत्करोति ॥ ६४ ॥ कुमुदवनामिति ॥ कुमुदवनम् अपगता श्रीर्यस्य तदपनि विगतशोभम् । 'गोनियोरुपसर्जनस्य' इति द्वस्वत्वम् । अम्भोजखण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको मुदं त्यजति । तस्य दिवाभीतत्वादिति भावः। चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दु- रस्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वेषम्यं तत्राह-हतेति । हतविधिलसिताना दुष्टदेवचेष्टि- तानो विपाकः परिपाकः । तत्तत्प्राणिकर्मानुरूपफलदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेक- विध इत्यर्थः । हीति विस्मये । 'अहो ही च विस्मये' इत्यमरः । विधिविपाकवेचिच्याजगचित्र्यं युज्यत. इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६४ ॥ क्षणमतुहिनधाग्नि प्रोष्य भूयः पुरस्तादुपगतवति पाणिग्राहवहिग्वधूनाम् ॥ द्रुततरमपयाति(२) समानांशुकोऽसावुपपतिरिव नीचैः पश्चिमाऽन्तेन चन्द्रः क्षणमिति ॥ हे भगवन् ! श्रीकृष्ण ! असौ चन्द्रः इन्दुः पश्चिमाऽन्तेन वारुणीदिक्- प्रान्तेन द्रुततरं शोघ्रमपयाति निःसरति । किंलक्षणश्चन्द्रः नोचैर्नम्रः अस्ताभिमुखः, अत. एव अपरं किंलक्षणः समानांशुकः स्रंसमानाः पतमानाः अंशवः किरणा यस्य सः तथा ध्वस्तकिरणः, क सति अपयाति अतुहिनधाम्नि उष्णकिरणे श्रीसूर्ये क्षणं क्षणमात्रं प्रोष्य । ()लसिताना। (२)मुपयाति ।

सर्गः।] शिशुपालवधे। । प्रवासं गत्वा भूयः पुनरपि पुरस्तात् पूर्वस्यां दिशि उपगतवति सति आगते सति, कि- लक्षणे श्रीसूर्ये दिग्वधूनां काष्ठानानां पाणिग्राहवत् परिणीतकान्ते इव वल्लभे इव, चन्द्रः क इव अपयाति उपपतिरिव जार इव । यथा वध्वा अङ्गनायाः पाणिग्राहे वल्लभे पुरस्तादने पूर्वद्वारे उपगतवति प्राप्ते सति जारो नीचैः सन् ख्रसमानांशुको याति पश्चिमद्वारेण । स्त्रंस- मानांशुको लम्बमानवस्त्रः ॥ ६५ ॥ क्षणमिति ॥ अतुहिनधाम्न्युष्णांशौ दिशो वश्व इवेत्युपमितसमासः। तासां दिग्वधूना पाणि गृणा- तीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । तत्र नस्यव' इति तत्रार्थ वतिः। क्षणं प्रोष्य प्रवास कृत्वा । प्रपूर्वाद्रसधातो: क्त्वा, तस्य समासेऽनपूर्वे क्त्वो ल्यप्', 'वचिस्वपि-' इत्यादिना सम्प्रसार- णम् । भूयः पुनरपि पुरस्तान्पूर्वस्यां दिशि मागे चोपगतवत्यागतवति मति असौ चन्द्र उपपतिऔर- इव । 'जारस्तूपपतिः सम।' इत्यमरः । समानांशुको गलश्मिकः । शेषिकः कप्प्रत्ययः । स्रस्तवनश्च नीचैनमः सन् पश्चिमान्तेन पश्चिमदिक्कोणेन द्रुततरमपयात्यपसरति । तथा पूर्वद्वारेण निजपताकागते पश्चा- न्मार्गेणोपपतिरपसरति तद्वदित्यर्थः । उपमालङ्कारः ॥ ६५ ॥ प्रलयमखिलतारालोकमहाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ॥ गगनसलिलराशि रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकोऽधिशेते ६६ प्रलयमिति ॥ हे भगवन् ! कृष्ण! एष भास्वान् श्रीसूर्यः गगनसलिलराशिम् एक एव अधिशेते आकाशसमुद्रमेकोऽधिवसति । क्व रात्रिकल्पावसाने रात्रिरेव कल्पः तस्याऽवसाने अन्ते, क इव मधुरिपुरिव । यथा मधुरिपुः श्रीकृष्णः कल्पावसाने युगान्ते एक एव समुद्रमधिवसति । किं कृत्वा अहाय शीघ्रमेव अखिलं तारालोकं समस्तमपि नक्षत्रलोकं प्रलयं नीत्वा अदर्शनं प्रापय्य, श्रीकृष्णपक्षे समस्तं लोकं त्रैलोक्यं क्षयं नीत्वा, किं कुर्वाणः सानुरागां श्रियं शोभां दधानः बिभ्राणः, अपरं किंलक्षणः भास्वान् अनतिशय- श्रीः अविनष्टशोभः, श्रीकृष्णः सानुरागां सस्नेहां श्रियं लक्ष्मी दधानः, किंभूतः हरिः अनति- शयश्रीः अविनश्वरप्रभुत्वः, न अतिशयवती श्रीः यस्य सः ॥ ६६ ॥ प्रनयमिति ॥ अखिलस्तारालाको लोक इव तारा नक्षत्रं तमखिलं तारालोकमहाय द्राक् प्रलयं क्षय नीत्वा अत एव यता नास्त्यतिशयं साऽनतिशया सर्वातिशायिनी श्रीमहिमा यस्य सोऽनतिशयश्री: सा मुदयरागवतीं श्रियं शोभामन्यत्र सानुरागामनुरागवतों श्रियं रमा च दधान एवं भाम्वानेको मधुरिपुर्विष्णु- रिव राषिः कल्पावसानं कल्पान्त इव तस्मिन् रात्रिकल्पावसाने गगनं सलिलराशिरिव तं गगनसलिल- राशिमधिशेतेधितिष्ठाते । अत्र मधुरपुरिति वाक्यगतोपमैव समासगतोपमानां प्रसाधिकेति सर्वत्रोपमित- समासाश्रयणमेवोचितम् ॥ ६६ ॥ कृतसकलजगद्विबोधो विधूना(१)ऽन्धकारादयः क्षपितकुमुदतारकश्रीवियोगं नयन कामिनः । गुरु(२)तरगुणदर्शनादभ्युपेताऽल्पदोषः कृती तव वरद ! करोतु सुप्रातमहामयं नायकः ॥ ६७ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये प्रत्यूषवर्णनं नाम एकादशः सर्गः ॥ ११ ॥ कृतेति ॥ हे वरद ! मनोरथपूरक ! श्रीकृष्ण ! अयम् अन्हां दिवसानां नायकः प्रभुः श्रीसूर्यः तव सुप्रातं करोतु सुदिवसं विदधातु । किंलक्षणः अहां नायकः कृती धन्यः, (१)ऽवधूता. "क्षयित । (२) बहु। . गा !

४०६ सन्देहविषौषधिसर्वकषायुते- [द्वादशः- किं कुर्वन् कामिनः विलासिनः पुरुषान् वियोगं नयन् विरहं प्रापयन्, यतः किंलक्षणः गुरुतर- गुणदर्शनात् तमश्छेदादिव बहुतरगुणभावात् अभ्युपेताऽल्पदोषः अङ्गीकृतस्वल्पदोषः । अल्फ दोषमङ्गीकृत्य बहुगुणसाधनमदृष्यम् । कामिनां वियोगकरणमल्पदोषः, तमश्छेदादिगुरुतरो गुणः । अपरं किंलक्षणः अहां नायकः क्षपितवुमुदतारकश्रीः विनाशितकैरवतारक- शोभः । कुमुदवनानि नक्षत्राणि च निष्प्रभीचकारेत्यर्थः । असावपि अल्पदोषः । गुरुतर- गुणदर्शनमाह-अपर किंलक्षणः अहां नायकः कृतसकलजगद्विबोधः विहिताखिलभुवना- ऽऽलोकः, अपरं किलक्षणः अह्नां नायकः विधूताऽन्धकारोदयः निर्जिततमःप्रकाशः । एते गुरु- तरगुणाः, कुमुदतारकश्रीविनाशः कामिनां वियोगजननं चाऽल्पदोषः । अल्पदोषानङ्गी- कृत्य गुरुतरगुणसाधको भगवान् श्रीसूर्यः तव सुप्रभातं करोतु । अथ नायकः सेनानीः कार्तिकेयः तव सुप्रभातं विदधातु । किंलक्षणः कार्तिकेयः क्षपिततारकश्रीः निर्जिततारक- प्रभावः । तारकदैत्योऽपि स्कन्देन हतः । सोऽपि कामिनां वियोगजनकः । यतः-कुमारो ब्रह्मचारी-इत्यादि विशेषणानि योजनीयानि ॥ ६७ ॥ इति श्री आनन्ददेवायनिवल्लभदेवविरचितायां सन्देहविषौषध्यां शिशुपालवध- सारटीकायां प्रभातवर्ण: नामैकादशः सर्गः सम्पूर्णः । । कृतति ।। कृतसकलजगद्विबोधः कृताऽखिलजगत्प्रबोधः अवधूतो विक्षिप्तोऽन्धकारस्योदय उज्जृम्भणं येन सोऽवधूनान्धकारोदय इति महागुणोक्तिः। दोषमाह-क्षयिता नाशिता कुमुदानां तारकाणां च श्रीयन सः कामिनः मासान् वियोग नयन् प्रापयंस्तथापि बहुतरगुणस्य पूर्वोकमहागुणस्य दर्शनादभ्युपेतो लोकै- रङ्गीकृतोऽल्पदोषः पूर्वोक्त एव यस्य सः। ‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवादः' इति न्यायादिति भावः । अत एव कृती कृतार्थोऽयमह्नां नायकः प्रभुः सूर्यः हे वरद ! कामद ! तव सुप्रातं सुप्रभातं करोतु । 'आशिषि लिङ्लोटी' इत्याशीरर्थे लोट् । शोभनं प्रातर्यस्यति सुप्रातः शोभनप्रात- वानुच्यते, 'सुप्रातयुश्व-' इत्यादिना बहुव्रीहावच्प्रत्ययान्तो निपातितः । अत्र भावप्रधानो निर्देशः । तव सुप्रातं सुप्रभातत्वं करोत्वित्यर्थः । महामालिनीवृत्तमेतत् । 'यदिह नयुगलं ततो वेदरेफैर्महामालिनी इति लक्षणात् ॥६॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध- काव्यव्याख्याने सर्वदुषाख्ये एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः। इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणादहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताऽच्युतम् ॥ १ ॥ इत्थमिति ॥ अथाऽनन्तरं नृपाणां गणः राज्ञां समूहः प्रगे प्रभाते अच्युतं श्रीवासु- देवम् उदेक्षत प्रतीक्षामास । किंलक्षणमच्युतं प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपं प्रयाण- समययोग्यवेषरचनया विहितमुहूर्तविलम्ब, क उदैवत तोरणाद् बहिः तोरणात् वन्दनमाला- याः बाहो, किंलक्षणानां नृपाणाम् इत्थममुना प्रकारेण स्थाश्वेभनिषादिनां स्थतुरगगजारूढा- नाम् । अब रैवतकात् भगवतः प्रयाणं भविष्यतीति भावेनेत्यर्थः । अस्मिन् सगें वंशस्थं वृत्तम्॥

सर्गः1] शिशुपालवधे। - एवं प्रभातं वर्णयित्वा भगवतः प्राभातिकप्रस्थानवर्णनाय प्रकमते- इत्थमिति ॥ इत्यंभूते । पूर्व मोकविध इत्यर्थः । प्रगे प्रातःकाले । 'सायं साये प्रगे प्रातः' इत्य- व्ययेष्वमरः । अथ सूर्योदयानन्तरं रथाश्वभे निषीदन्तीति रथाश्वेभनिषादिनी । रथेषु अश्वेषु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः तोरणाद्भगवतो बह्यद्वारा दाहिः । 'अपपारवाहरञ्चवः पञ्चम्या' इति पञ्चमी- समासविधानाज्ज्ञापकात्पञ्चमी । 'तोरणोऽनी बांहारम्' इत्यमरः । प्रस्थानकाले प्रयाणकाले चम उचितो वेष आकल्पः । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । तस्य कल्पनया सम्पादनेन कृतः क्षण- अपः क्षणविलम्बो येन तमच्युनं हरिमुदैक्षन । प्रतीक्षितवानित्यर्थः । अत्राऽच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । अम्मिन्मर्गे विषमपाद योगितमिन्द्रवंशा वृत्तम् । 'स्या- दिन्द्रवंशा ततजैरसंयुतैः' इति लक्षणात् । समपादयोन्तु जागतमेव वंशस्थं वृत्तम् । 'जतौ तु वंशस्थ- मुदीरितं जरौ' इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुबिन्द्रवज्रोपेन्द्रवबाल- क्षणाऽनन्तरम् 'अनन्नरोदीरितलक्ष्मभाजो पादौ यदीयावुपजातयस्ताः' इत्युक्त्वोकम्-'इत्थं किलाऽन्यास्वपि मिश्रितासु बदन्ति जातिष्विदमेव नाम' इति ॥१॥ स्वक्ष सुपत्रं कनकोज्ज्वलद्यति जवेन नागान् जितवन्तमुच्चकैः ॥ आरुह्य ताय नभसीव भूतले ययावनुद्धातसुखेन सोऽध्वना ॥२॥ स्वक्षमिति ॥ स भगवान् अच्युतः सुपत्रं शोभनपत्रं वाहनं रथमारुह्य अधिरुडा भूतलेऽवनिपृष्ठे अध्वना मार्गेण ययौ जगाम । भूतलग्रहणमौपम्यार्थम् , अध्वनेति ग्रहण विशेषणार्थम् । किंलक्षणेनाऽऽध्वना अनुद्घातमुखेन अविद्यमानः उद्धातः स्खलनं यत्र सोऽनुद्घातः अत एव सुखयतीति सुखः, ततो विशेषणसमासः । किंलक्षणं सुपत्रं रथं स्वक्षं मु शोभना अक्षा अवयवविशेषा यस्य सः तथा तम्, अपरं किंलक्षणं कनकोज्ज्वलद्युति कन- केन सुवर्णेन उज्ज्वला देदीप्यमाना मनोज्ञा थुतितिर्यस्य सः तथा तम् , अपरं किंलक्षणं जवेन वेगेन नागान् गजान् जितवन्तं तिरस्कुर्वन्तम्, अपरं किंलक्षणं यतः उच्चकैः उन्नतम् । एवंभूतं रथमारुह्य भूतले ययौ । कमिव तायमिव गरुडमिव, भूतले कस्मिन्निव नभ- सीव आकाशे इव । यथा असौ भगवान् श्रीकृष्णः ताऱ्यामारुह्य नभसि याति, इति रथस्य लाघवोक्तिः । अत्रापि विशेषणानि तुल्यानि । किंलक्षणं ताक्ष्य स्वक्षं स शोभने अक्षिणी नेत्रे यस्य सः तथा तम् । गरुडस्येवाऽक्षिबलमन्यस्य नास्तीति पुराणेषु प्रसिद्धम् । अपरं किलक्षणं ताक्ष्यं सुपत्रं शोभनानि पत्राणि पक्षाः यस्य सः तथा तं रम्याऽङ्गारुहम्, अपर किंलक्षणं तार्य कनकोज्ज्वलद्युतिं सौवर्णत्वात्पक्षाणाम्, अपरं किलक्षणं ताय जवेन वगेन नागान् सर्पान् जितवन्तम् , अपरं किलक्षणं तायम् उच्चकैः प्रांशुम् । 'पत्रं वाहन- पक्षयोः', 'नागौ सर्पमतङ्गजौ ॥ २ ॥ स्वतामिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुमेदो यस्य तं स्वक्षम् । 'स्यादतश्चक्रधारण:' इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । 'अथाक्षमिन्द्रियम्' इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । 'पत्रं वाहनपक्षयोः' इत्यमरः । कनकोज्ज्वलयुति कनकरचना- वन्तम् । अन्यत्र कनकदुज्ज्वलद्युति कनकवर्णम् । जोन नागान् गजानुरगोश्च जितवन्तम् । ततोऽधिक- वेगामित्यर्थः । अन्यत्र नागाऽन्तकमित्यर्थः । उच्चकैरुन तार्थ रथं गरुडं च । 'तायः स्यादश्वकर्णाल्यवृशे रथतुरङ्गयोः। ताऱ्या रसाञ्जने ताक्ष्यों गरुडे गरुडापजे ॥ इति विश्वः। आरुघ नभसीव भूतलेऽनुदातेनाऽप्रतिघातेन सुखः सुगमस्तेनाऽध्वना ययौ गरुडमारुह्य ४०८ सन्देहविषौषधिसबापायुते- - [द्वादशः - । . नभसीव रथमारुह्य भूतलेऽप्यपतिहतं ययौ । गरुडवदेव तद्रयस्यापि सर्वाऽप्रतिहतगतिवादित्यर्थः। नायं श्रेषः, प्रकृनाप्रकृतवादेऽपि तामिति विशेष्यश्लेषायोगादन्यत्रापमङ्गाच्च । श्लेषमट्टीर्णेयमुपमा ॥ २ ॥ हस्तस्थिताऽखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्वयासिषुः ॥ ३ ॥ हस्तस्थितेति ॥ नृपा राजानः शाङ्गिणं श्रीकृष्णम् अन्वयासिषुः अनुजग्मुः । किं भयेन नेत्याह-कैः गुणैः विनयशौर्यादिभिः । यतस्ते भगवद्गुणाऽऽवर्जिता इत्यर्थः । अथ गुणः साधारणर्धमः तमन्वयासिषुः अनुचक्रुः । अर्थान्तरप्रतीतिः। एवञ्चाऽनुकारोभवति-यदि विभागोक्तविशेषणानामुभयथाऽपि योगो भवति, यदि विभक्तिरचनाविपरिणामो भवति । तत्र किंलक्षणं शाणिं हस्तस्थिताऽखण्डितचक्रशालिनं हस्तस्थितेन करे वर्तमानेन अख- ण्डितेन परिभूतेन चक्रेण सुदर्शनेन शालते शोभते इत्येवंशीलः हस्तस्थिताऽखण्डितचक्रशाली तम् , अपरं किंलक्षणं शाङ्गिणं द्विजेन्द्रकान्तं द्विजेन्द्रो गरुडः तस्य कान्तः प्रियः तम् , अथ वा द्विजेन्द्रो वा कान्तो यस्य सः तथा तम् , अपर किंलक्षणं शाङ्गिणं श्रिया लक्षम्या श्रितवक्षसमधिष्ठितोरस्कम्, अपरं किलक्षणं शाङ्गिणंसत्याऽनुरक्तं सत्या सत्यभामा तस्या- मनुरक्तः रागी तम् , अपरं किलक्षणं शाङ्गिणं नरकस्य भौमासुरस्य जिष्णुं परिभाविनम् । अर्थवशाद्विभक्तिविपरिणामः एकपक्षे । द्वितीयपक्षे-राजानः किंलक्षणाः हस्तस्थितेन आयत्तेन अखण्डितेन चक्रेण राष्ट्रेण शालन्ते ते तथा, अथ यदि हस्तस्थितेन अनूनचक्रेण रेखादिचिन शालिनः, अपरं किलक्षणाः राजानः द्विजेन्द्रकान्ताः ब्राह्मणप्रियाः सम्यक प्रजापालनात् , अपरं किलक्षणा राजानः श्रिया राजलक्ष्म्या श्रितवक्षसः सम्बद्धाः, अपरं किंलक्षणाः राजानः सत्याऽनुरक्ताः सत्ये परमार्थे अनुरक्ताः, अपरं किलक्षणा राजानः अत- एवं नरकस्य महारौरवावीच्यादेः जिष्णवः जयनशीलाः परमेण धर्माचरणेन ॥ ३ ॥ हस्तस्थितेति ॥ अब नृपविशेषणानि शाङ्गिण्यपि विभानविपरिणामेन योज्यानि । हस्तस्थितैरख- ण्डितैश्वकैश्चक्ररेखाभिः शालन्त इति तथोक्ताः। अन्यत्र चक्रं सुदर्शनं तच्छालिनम् । द्विजेन्द्रकान्ता ब्राह्म- णोत्तमप्रियाः । अन्यत्र द्विजेन्द्रश्चन्द्रः 'तस्मात्सोमराजानो ब्राह्मणाः' इति श्रुतेः । अत एव 'द्विजराजः शश- धरः' इत्यमरः । तद्वत्कान्तं सुन्दरं श्रिया शोभया श्रितवक्षसो व्याप्तोरस्क: अन्यत्र रमयाऽधिष्ठितोरस्कम् । मत्ये सत्यवचनेऽनुरक्ताः, अन्यत्र सत्यायां सत्यभामायामनुरकम् । नरकस्य जिष्णवः, अन्यत्र नरका- सुरस्य जेतारम् । 'ग्लाजिस्थश्च' इति ग्स्नुः । 'नरको निरये दैत्ये' इति विश्वः । एवंभूना नृपा एवंभूतं शाणिं गुणविनयादिभिर्हेतुना अन्वयासिषुरनुजग्मुः । गुणैः पूर्वोकैरन्वकोषुन । यातेलुङि च्लेः सिच । 'यमरम-' इति सगागमः सिच इडागमश्च । "सिजभ्यस्त-' इति झर्जुम् । अत्र शाह्मिणो नृपाणां च प्रक- तत्वाच्छन्दमात्रसाधाच केवल: प्रकृतिविषयः शब्दश्लेषः ॥ ३ ॥ शुक्लैः सतारैर्मुकुलीतैस्थुलैः(१) कुमुद्धतीनां कुमुदाकरिव ॥ व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्सम तदा ॥ ४ ॥ शुक्लैरिति ॥ तदा तस्मिन् प्रयाणसमये व्युष्टं प्रभातं प्रयाणं च गमनं च सममभूत् युगपत् बभूव । यदैवाऽऽलोकीभूतं तदैव सेना चचालेत्यर्थः । अथ च समं सदृशं बभूव । इदानी विशेषणमुखेन साम्यमाह-किलक्षणं प्रयाणं कुमुद्वतीनां चामराऽऽतपत्रादिचिह्नयुक्तानां सेनानां थुरैः पटमण्डपैः उपलक्षितं, कैरिव कुमुदाकरिव कैरवखण्डैरिव । यथा कुमुदिनीनां (१) कृतैः स्थुलैः।

संगः ।] शिशुपालवधे। कुमुदाकरैः अरविन्दैः व्युष्टमुपलक्षितम्, एवं प्रयाणं थुलैतिमित्यर्थः । किंलक्षणैः थुलैः शुक्लैर्धवलैः, अपरं किंलक्षणैः सतारैः सचन्द्रकैः, अपरं किंलक्षणैः मुकुलीकृतैः संवेष्टितः, कुमुदाकरैरपि शुक्लैः तथा मुकुलीकृतैः सङ्कुचितैः, कि केवलै त्याह-सतारैः तारकाभिः सह मुकुलितैः । एवं साम्यम् । अपर किंलक्षणं व्युष्टं प्रयाणे च वियोगवेदनाविदूननारीकं वियोगवेदनया विरहव्यथया विदूनाः सन्तप्ता वार्यःकामिन्यो यस्मिस्तत्तथा, तत् कामिनीभ्यः कामिनां पृथक्त्वेन । थुल इति देशीयपदं दृष्यवाचकम्। देशीयेषु थुलशब्दं बाहुल्येन पठन्ति॥ शुक्लैरिति ॥ शुलैः शुभैः सतारः सरज्जुकैः सकर्णिकैश्च मुकुलीकृतैर्वहनौकर्याय सङ्कोचितः अन्यत्र रात्रिविकासित्वान्मुकुलता नीतैः प्रानः स्थुलैदीधैः । पटमण्डपरिति यावत् । कुमुदाकरैः कुमुददै- रिवोपलक्षितम् । अन्यत्र स्थुलैरिव कुमुदाकरैरुपलक्षितं वियोगवेदनया विरहव्यथया विदूनाः परितताः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । ता नार्यों यस्मिस्तत्नयोक्तम् । द्वयोरपि वियोगकालत्वादिति भावः । 'नय. तश्' इति कप । कुमुदान्यासु सन्तीति कुमुत्यः कुमुदप्राया भूमयः । 'कुमुद्रान्कुमुदप्राये' इत्यमरः । कराविण्यो वा । 'कुमुदती करविण्याम्' इति विश्वः। 'कुमुदनडवेतसेभ्यो ड्मतुप' इति ड्मतुपूप्रस्ययः। 'मादु- पधायाः-' इति मकारस्य वत्वम् । तासां कुमुदतीनो सम्बन्धे व्युष्टं प्रभातम् । 'व्युष्टं प्रभातं प्रत्यूषम्' इत्यभिधानचिन्तामणिः। तत्र किञ्चित्करत्वात्तत्सम्बन्धित्वं प्रयाणं च सेनानामिति शेषः । तदा तस्मिन् काले सममुक्तरीत्याऽन्योन्यसदृशमभूत् । व्युष्टप्रयाणयोत्वेिऽपि समुदायधिवक्षायामभूदित्येकवचनम् । व्युष्टं प्रयाणं च द्वयमपि सममभूदित्यर्थः । अत्र वर्ण्यत्वेन प्रकृतस्य प्रयाणस्य प्रकृतव्युष्टसाम्योकेरुपमा श्लेषसहूर्णा ॥ ४ ॥ उक्षिप्तगात्रः स्म विडम्बयनभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ॥ आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ ५ ॥ उरिक्षप्तेति ॥ करेणुर्गजः निषादिनं यन्तारम् आरोहयते स्म आरूरुहत् । निषादी आरोहति, तमारोहयत् हस्ती स्वयमेवेति । किंलक्षणः करेणुः उत्क्षिप्तगात्रः जीकृत- कायः, अपरं किलक्षणः करेणुः उच्चकैरुन्नतः, अत एव किं कुर्वन् नभः समुत्पतिष्यन्तमाका- शमुत्पतितुकामम् अगेन्द्रं महागिरि विडम्बयन् अनुकुर्वन् , कथं यथा भवति आरोहयते आकुञ्चितप्रोहनिरूपितक्रमं यथा भवति आकुञ्चितेन नम्रीकृतेन प्रोहेण पाश्चात्यजानुभागेन निरूपितः सूचितः क्रमः पादन्यासो यत्र क्रियायां तत्तथा । नम्रीकृतोच्चप्रोहमित्यर्थः । एषः मामारोहयति, यमारोढारं वक्तीवेत्यर्थः । यद्वा निपादिविशेषणमेतत् । 'करेणुरिभ्यां स्त्री नेमे इत्यमरः॥ ५॥ उत्क्षिप्तति ॥ उक्षिप्तगात्र उन्नमितपूर्वकायः अत एव नभः खं प्रति समुत्पतिष्यन्तमुत्पतनोयुक्तमगेन्द्र महादि वि डम्बयत्रनुकुर्वत्रित्युत्प्रेक्षा। अभूतोपमेति केचित् । उच्चकैरुन्नतः करेणुरिभः 'करेणुरिभ्या मी नेभे इत्यमरः । आकुञ्चितो नमितः पोहो गजाऽमिः । 'गजाऽयिः प्रोहः' इति विश्वः । तत्र निरूपितक्रम कृतपादन्यासं निषादिनं यन्तारमारोहयते स्म । स्वयमेव स्वात्मन्यारोपयतीत्यर्थः। रोहेर्गत्यर्थत्वात् 'गति- बुद्धि-' इत्या दिना अणि कर्तुनिषादिनः कर्मत्वम् । अत्र कर्मभिप्राये णिचश्च' इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याऽप्यनवारत्वादकर्षभिप्रायेऽपि 'णेरणी यत्कर्म गौ चेत्स कर्ता नाध्याने इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरवाऽष ण्यन्ते कर्तृत्वात्तस्यैव चाऽर्थात्कर्मत्वादिति । ननु यत् 'स'ग्रहणमनन्य- कर्मार्थमित्युक्तं, तेन कर्ममात्रनिषेधात्कथं निषादिनि कर्मण्यात्मनेपदम् । सत्यम् , अन्येषां मतम् । भाष्य. कारस्थ तु दर्शयते भृत्यान् राजेत्युदाहरणादणि कर्तृकर्मव्यतिरिककर्मण एव निषेधो विविक्षत इति कैथटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे 'स सन्ततं दर्शयते गतस्मयः' इत्यत्र । स्वभावोनिः ॥ ५ ॥ - ३५शिव० - सन्देहविषौषधिसर्वकषायुते [द्वादश:- स्वैरं कृतास्फालनलालनान्(१) पुरः स्फुरत्तनून् दर्शितलाघवक्रियाः ॥ वङ्काऽधलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥ ६ ॥ स्वैरमिति ॥ तुरङ्गिणोऽश्ववाराः तुरङ्गमान् वाजिनः : आरुरु अधितष्टुः । किंलक्ष- णान् तुरङ्गमान् पुरः पूर्व स्वैरं कृतास्फालनलालनान् स्वैरं शनैः कृता विहिता आस्फाल- नेन कराघातेन लालना परा प्रीतियेषां ते तथा तान्, अरं किंलक्षणान् तुरङ्गमान् अत- एव स्फुरत्तनून् स्फुरन्त्यः चलन्त्यः तनवो देहा येषां ते तथा तान् कम्प्रदेहान् , किलक्षणाः तुरङ्गिणः दर्शितलाघवक्रियाः दर्शिता लाघवक्रिया आरोहणादिना प्रावीण्यकर्म यैस्ते तथा, अपरं किंलक्षणाः तुरङ्गिणः वडाऽवलग्नैकसवल्गपाणयः वड़े पर्याणपूर्वभागकाष्ठे अव- लग्नः स्थितः एकः वामः सवलगः हस्तवधायुक्तः पाणिः करो येषां ते तथा । वल्गग्रहण- पूर्व हि काष्ठमवष्टभ्य अश्वारोहणं क्रियते इति स्वभावः ॥ ६॥ स्वैरमिति ॥ तुरागिणोऽश्वारोहाः पुरः पूर्व स्वैरं मन्दं कृतं यदास्कालनं पाणितलेनाऽङ्गासनं तेन लालिताननुपालितान् । त्याजिनोद्वगानित्यर्थः। अत एव स्फुरत्ननून् कम्पितदेहास्तुरङ्गमानश्वान् दर्शितं लाघ, शैघ्य यासु ताः क्रिया उत्पतनकर्माणि येषां ते. वङ्कः पल्याणकोटिः । 'वङ्कः पल्याणभागे स्यात्' इति विश्वः । तत्राऽवलग्न: सक्क एकैकः सवल्गो मुखरज्जुसहितः पाणिर्येषां ते तथोक्ताः सन्तः आरु- रुहुरारूढाः । स्वभावोक्तिः ॥ ६ ॥ अह्वाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ॥ तीक्ष्णो(२)त्थितास्तावदसारंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥७॥ अह्नायेति ॥ निषेदिवान् निषादी यावत् यत्कालपर्यन्तं भूयसे अध्वने दीर्घ मार्ग गन्तुम् अह्नाय क्षिप्रमासनबन्धमवस्थानस्थैर्य न चकार न व्यधत्त, तावदेव शृङ्खलकाः करमाः विश्वङ्खलं विषमशीघ्र यथा भवति तथा प्रतस्थिरे अधावन् , किंलक्षणाः करभाः तीक्ष्णोत्थिताः वेगेनोत्थिताः । उष्ट्रा हि उपविष्टा आरुह्यन्ते । अपरं किलक्षणाः उष्ट्राः असह्यरंहसः महावेगाः ॥ ७ ॥ अह्नायति ॥ निषेदिषानुपर्युपविष्टः । निषादीति शेषः । 'भाषायां सदवसभ्रवः' इति वसुप्रत्ययः । भूयसे दवीयसे अध्यने । भूयासमध्वान गन्तुमित्यर्थः । क्रियार्थोपपदस्य-' इति चतुर्थी। अह्नाय झटिति । 'स्वाक् झटित्यञ्जसाऽहाय' इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीनं सीक्षणमुस्थिता असाघरहसो दु:सहवेगाः शृङ्गलकाः करभा उष्ट्रभेदाः । 'करभाः स्युः शृङ्गलका दारवैः पादबन्धनैः' इत्यमरः। विशृङ्गलमनर्गलं प्रतस्थिरे प्रस्थिता: । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । एषाऽपि स्वभावोक्तिः ॥ ७॥ गण्डोज्ज्वलामुज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ॥ कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाऽविधुरी वधूमिध ॥ ८ ॥ गण्डोज्ज्वलामिति ॥ कश्चित् कोऽपि सुसारथिः सुप्रवीणसूतः रथीं गन्त्री युयोज व्य- रचयत् । किलक्षणः कश्चित् सुखं प्राप्तुमनाः अक्लेश जिगमिषुः । पद्भ्यां हि दुःखेन गम्यते। किलक्षणां रथी गण्डोज्ज्वलां गण्डेन अक्षेण उज्ज्वला मनोज्ञा ताम्, अपरं किंलक्षणां रथीं नवया उदरश्रिया मध्यप्रदेशशोभया विराजमानां भासमानां, किंलक्षणया उदरश्रिया उज्ज्व- लनाभिचक्रया उज्ज्वलं मनोज्ञं नाभिचक्र पिण्डिकारन्धं यस्याः सा तथा तया । "पिण्डिका (..)लालितान् । (२) तीब्रो।

सर्गः।] शिशुपालवधे। . नाभिारित्यमरः । यद्वा नाभी च चक्रे च नाभिचक्रम् , उज्ज्वलं नाभिचक्रं यस्याः सा तथा तया रम्यपिण्डिकारथाङ्गया, अपरं किंलक्षणां स्थीम् अविधुराम् अविनष्टा धूः अङ्ग- विशेषो यस्याः सा तथा तां, सधुरामित्यर्थः। कामिव युयोज वधूमिव । यथा कश्चित् सुख प्राप्तुमनाः पुमान् वधू नायिका योजयति उद्वहति । किंलक्षणां वधू गण्डोज्ज्वलां कपो- लाभ्यां हृद्या, तथा नवया तारुण्योपहितया उदरश्रिया मध्यप्रदेशलक्षम्या विराजन्ती, किं- लक्षणया उदरश्रिया उज्ज्वलनाभिचक्रया उज्ज्वलं मनोहारि नाभिचक्रं नाभिमण्डल यस्याः सा तथा तया, अपरं किलक्षणां वधूम् अविधुरामविक्लवां, चतुरामित्यर्थः ॥८॥ गयडोजमवलामिति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः अन्यत्र सुखमानन्दं लन्धुकामः । 'तु काममनसोरपि' इति मकारलोपः। शोभनः साराधिर्यस्य सः सुसारथिः अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी कामी च । गण्डैश्विकैरुज्ज्वलाम् । 'गण्डः कपोले चिह्ने च' इति विश्वः । उज्ज्वलो नाभिर्बिलमध्यं ययोस्ते चक्र रथाङ्गे यस्यास्तयोज्ज्वलनाभिचक्रया, अन्यत्रोज्ज्वलं नाभिचक्र नाभिमण्डलं यस्यास्तया । 'नाभिः प्राण्यङ्ग के क्षेत्रे चक्राङ्गचक्रवर्तिनोः' इति विश्वः । नव्या प्रत्यप्रया उदुम्नता अराश्चक्रशलाकाः । 'अरः शीघे च चक्राङ्गे' इति विश्वः । तेषां श्रिया अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानो विगता धूरग्रं यस्याः सा विधुरा । 'धूः स्त्री कीबे यानमुखम्' इत्यमरः । 'ऋक्पू-' इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्यत्राऽविधुरामविकलां रथी शकटीम् । 'बह्वादिभ्यश्च' इति विकल्पेन डीप । वधूमिव युयोज योजयामास । अब शब्दमात्र- साधर्म्यात्सभङ्गाऽभङ्ग-पदमिश्रणादुभयगोचरत्वाच्च प्रकृतापकृतगोचराग्गोचरः शब्दार्थश्लेषः ॥ ८ ॥ उत्थातुमिच्छन् विधृतः पुरो बलानिधीयमाने भरभाजि यन्त्रके ॥ अर्धोद्धृतो(१)द्वारविजर्जरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥९॥ उत्थातुमिति ॥ रवण उष्ट्रः स्वनाम आत्मीयं 'रवण' इत्यभिधानं स्फुटार्थताम् अभिधेयसद्भावेन व्यक्तत्वं निन्ये अलम्भयत् । किंलक्षणो रवणः भरभाजि गरीयसि यन्त्रके आतपनवस्तुनि निधीयमाने आरोप्यमाणे सति उत्थातुमिच्छन् उत्तिष्ठासः, अपरं किंलक्षणो खणः पुरोऽये बलात् हठात् विस्तः अवष्टब्धः, अपरं किंलक्षणः अझैद्धतोद्गारविजर्जर- स्वरः अझैद्धृतेन किञ्चिदुदीरितेन उद्गारेण चर्वितचर्वणेन विजर्जरः खण्डः स्वरो यस्य सः तथा । अतश्च रौतीति रवणः इति स्फुटार्थः ॥ ९ ॥ उत्थातुमिति ॥ रौतीति रवण उष्ट्र: । 'रु शन्दे' इति धानो: 'चलनशब्दार्थादकर्मकायुच्' इति युचप्रत्ययः । भारारोपणाय यन्त्ररूपेण निर्मि ते भरभाजि भारयुके यन्त्रके गोण्यादौ निधीयमाने सति बलादुत्थातुमिच्छन्नुत्थाय गन्तुमिच्छन् अत एव पुरो मुखभाग विधृतो गृहीतः एवं स्वैराचारव्याघातत: अर्धाज्झितेनोद्गारेण स्वजग्धपिचुमर्दादिपत्ररसनेन विझर्झरो विषमः स्वरो यस्य सः रवण उष्टूः स्वनाम स्फुटार्थता निन्ये । रौतीति रवण इति व्युत्पत्रं स्वनाम यथार्थमकरोदित्यर्थः ॥ ९ ॥ नस्यागृहीतोऽपि धुवन् विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ॥ गोणी जनेन स्म निधातुमुद्यता(२)मनुक्षणं नोक्षतरःप्रतीच्छति ॥१०॥ नस्येति ॥ उक्षतरः तरुणवृषभःजनेन स्वामिलोकेन निधातुमुद्यतां क्षेप्तुमुद्धृतां गोणी भाण्डक्षेपपात्रभूतशाणीम् अनुक्षणमसकृत् न प्रतीच्छति स्म नाङ्गीकरोति स्म । अहाय पुनःपुनश्चिक्षेपेत्यर्थः । किंलक्षण: उक्षतरः नस्यया नासारज्ज्वा गृहीतोऽपि अवष्टब्धोऽपि, (१)ज्झितो."झर्झर। (२)मुद्धृता।

“४१२ सन्देहविषौषधिसर्वकषायुते- [ द्वादशः- किं कुर्वन् उक्षतरः विषाणयोर्युगं धुवन् शृङ्गयोर्युगलं कम्पयन् , अपरं किलक्षणः ससूत्कारविवर्तितत्रिकः ससूत्कारं नादपूर्व यथा भवत्येवं विवर्तितं चालितं त्रिकं पृष्ठकटी- सन्धिर्येनसः तथा । नासिकायां भवा नस्यारजः । 'नसी, नाथ' इति प्राकृतम् । 'पृष्टवैशाऽधरे त्रिकमित्यमरः ॥१०॥ नस्येति ॥ नस्या। नासिकाया नसादेशः । नासिकायां भवा नस्या। दिगादित्वायत् । तस्यां नासिका- पोतरजौ गृहीतोऽपि विषाणयोर्युगं धुवन् विधुन्वन् शृङ्गन्द्रयं कम्पयन् । समू-कारेति । सूत्कार इति शब्दा. ऽनुकरणम् , अमर्षजः सशब्दनिश्वासो वा । समूत्कारं यथा तथा विवर्तित त्रिकं पृष्ठवंशाऽधरसन्धिर्येन पृष्ठवंशाऽधरे त्रिकम्' इत्यमरः । उक्षतरो महोक्षः पृठे निधातुं जनेनाऽनुशगमुद्धृता गोणी न प्रतीच्छति स्म न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः ॥ १० ॥ नानाविधाऽऽविष्कृतसामजस्वरः सहस्रवर्मा चपलैर्दुरध्ययः ॥ गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥ ११ ॥ नानाविधेति ॥ स बलोदधिः माधवसैन्यसागरः सामवेदस्य समानतां दधौ साम्य- मुवाह, कया गन्धर्वभूयिष्टतया अश्वोयबहुलत्वेन । सामवेदोऽपि गान्धर्वेण गेयेन भूयिष्ठ गीयते । 'वाजिवाहार्श्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । गान्धर्वाः अश्वा भूयिष्टा- अतिबहवो यत्र स गान्धर्वभूयिष्टः तस्य भावस्तथा तया । भूयोऽपि विशेषणद्वारेण साम्यमाह-किलक्षणो बलोदधिः नानाविधाऽऽविष्कृतसामजस्वरः नानाविधा बहुप्रकाराः आविष्कृता प्रकटीकृताः सामजैर्मतङ्गाजैः स्वरा नादा बृंहितानि यत्र सः तथा, अपरं किंलक्षणः बलोदधिः सहस्रवा बहुमार्गः अतिविस्तृतत्वात् , अपरं किंलक्षणा बलोदधिः चपलैर्दुरध्ययः कातरैर्दुःखेन अधिगन्तुं यातुं शक्यते इति दुरध्ययः दुर्गमः । सामवेदोऽपि नानाविधा आविष्कृताः सामजाः सामसमुत्थाः षड्जादयः स्वरा यत्र सः तथा, चपलै. मन्दमतिभिर्दुरध्ययः दुःखेन अध्येतुं शक्यः दुष्पठः, तथा सहस्त्रना सहस्रशाखः। सामजाः हस्तिनः । 'सामगानं कुर्वतो ब्रह्मणो हस्तात् हस्तिनो जाताः' इत्यागमः, इति कृत्वा । सामानि वाक्यविशेषस्था गीतयः ॥ ११ ॥ नानाविधेति ॥ सामजा गजाः । 'सामजी गजलामोत्थी' इति शाश्वतः । नानाविधमाविकृताः सामजाना स्वरा ध्वनयो बृंहितानि यस्मिन् सः सहस्रवमा बहुभिर्मा गैगच्छन् । गन्धर्थ एव गान्धर्वा. अश्वाः । 'वाजिवाहाऽर्षगन्धर्व-' इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । 'इण् गती' इत्यस्मात् कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभू- दित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोस्थितस्वरः । सहस्रशाखत्वात्सहस्रवर्मा । गान्धर्व- गानबहुत्वाच्चपलमातिभिरध्येतुमशक्य इत्यर्थः । 'इङ् अध्ययने' इत्यस्माद्धातोः खलि दुरध्यय इत्यवं रूपम् ।। प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताऽन्यमङ्कुशम् मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदो निषादिना ॥ १२॥ प्रत्यन्यनागमिति ॥ कश्चित् द्विरदः गजः निषादिना हस्तिपकेन अरोधि रुद्धः । वशीकृत इत्यर्थः । तमेव हेतुमाह-किंलक्षणो द्विरदः अन्यनागं प्रति इतरदन्तिसंमुर्ख चलितः धावितः, अत एव निपादिना किं कुर्वता कुण्ठं भनमङ्कुशं सणि निरस्य मुक्त्वा अन्य तीक्ष्णमङ्कुशं दधता बिभ्रता, अपर किंलक्षणेन निषादिना त्वरावता आकुलेन, अत- एव किं कुर्वन् मूर्धानं धुवन् शिरः कम्पयन् , किंलक्षणं मूर्धानम् ऊर्ध्वायतदन्तमण्डलं ऊर्ध्व- सर्गः।] शिशुपालवधे। मुञ्चमुखम् आयतं दीर्घ दन्तमण्डलं विषाणवलयं यस्य स तथा तम् । करमूवींकृत्य रोप- वशात् शिरः चालयन् अरोधीत्यर्थः ॥ १२ ॥ प्रत्यन्यनागामति ॥ अन्यनागं प्रति चलित अायतदन्तमण्डलं मूर्धानं धुन्वन् कम्पयन् द्विरदः कुण्ठमतीक्ष्णमाकुशं निरस्याऽन्यमकुण्ठमकुशं दधता त्वरावता निषादिना अरोधि रुद्धः ॥ १२ ॥ संमूर्छदुच्छृङ्खलशङ्कनिःस्वनः स्वनः प्रयाते पटहस्य शाङ्गिणि ॥ सत्त्वानि निन्ये नितरां महान्स्यपि व्यथा द्वयेषामपि मेदिनीभृताम् ॥१३॥ संमूर्छदिति ॥ शाङ्गिणि श्रीकृष्णे प्रयाते चलिते सति पटहस्य स्वनः दुन्दुभेः ध्वानः द्वयेषामपि उभयेषामपि मेदिनीभृतां मेदिनी भुवं बिभ्रतीति ये तेषां नृपाऽद्रिनाम्नां सत्त्वानि धैर्यसिंहादीनि व्यथां निन्ये पीडां प्रापयामास । पीडयामासेत्यर्थः । राजानश्वाऽत्र विपक्ष तो बोद्धव्याः । तेषां व्यथा आस्कन्दशया, सिंहादीनां तु जनोपद्रवात् । कदाचित् तानि अल्पानि स्युनेंत्याह-किलक्षणानि सत्त्वानि नितरामतिशयेन महान्त्यपि प्रबला- न्यपि, किंलक्षणः स्वनः संमूर्छदुच्छृङ्खलशङ्खनिःस्वनः संमूर्छन् प्रसरन् उच्छृङ्गलः सर्वव्यापी शहनिःस्वनः कम्बुध्वनियंत्र सः तथा ॥ १३ ॥ संमूळदति ॥ 'मूर्छा मोहसमुच्छाययोः' इति धातुः। संमूर्छन्नुच्छ्ष्यं गच्छन् प्रचुरीभवन्नुच्छालो- निर्गलः सर्वव्यापी शस्य निःस्वनो यस्मिन् सः शाहिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः येषा- मुभयेषामपि मेदिनीभृतां राज्ञां पर्वतानां च महान्त्यपि मत्वानि बलानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणादाज्ञा बलान्यभिभवशड्या व्यथितान्यासन् । तथा गिरिस्थिताः सिंहादयो जन्तवश्व किमिदमिति ससाध्वसा आमन्त्रित्यर्थः । 'व्यवसाये स्वभावे च पिशाचादी गुणे बले । द्रव्याऽऽत्मभावयोश्चैवं सत्त्वं प्राणेषु जन्तुषु'। इति शाश्वतः ॥ १३ ॥ कालीयकक्षोदविलेपनश्रियं दिशदिशामुल्लसदंशुमद्युति ॥ खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ॥ १४ ॥ कालीयकेति ॥ काञ्चनभूमिजं रजः सौवर्णाऽवनिजो रेणुः गिरेरधस्तात् रैवतकादेरधो- भागे विपप्रथे प्रससार । कलक्षणं रजः मुद्गभुजामश्वानां खुरैः खातं शफैविदारितम् , अपरं किंलक्षणं रजः अंशुमद्युति रविपिशङ्गम् , अपरं किंलक्षणं रजः उल्लसत् प्रसरणशीलं, किं कुर्वत् दिशां कालीयकक्षोदविलेपनश्रियं दिशत् दिगडानानां रक्तचन्दनचूर्णसमालम्भनशोभा कुर्वत् ॥ कालीयकेति ॥ कालीय कुङ्कुमम् । 'काश्मीरजन्म घुमणं कालीयं कुङ्कुमं विदुः' इति शाश्वतः। कालीयकोदः कृताऽनुलेपनश्रियं दिशा दिशदधत् । उल्लसदिति । उद्यदादित्यसमा युतिर्यस्य तत् मुद्गभुजामश्वाना खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वागिरेधस्तादेव विपप्रथे विस्तीर्णमभवत् ॥ १४ ॥ मन्द्रेर्गजानां रथमण्डलस्वनैनिजुहनुवे तादशमेव बृहितम् ॥ तारैर्बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरङ्गहेषितैः ॥ १५ ॥ मन्दैरिति ॥ मन्दैगम्भीरैः स्थमण्डलस्वनैः स्यन्दनचक्रचीत्कारैः गजानां बृंहितं करिणां गजितं निजुहुवे अपलपितम् । यतस्तादृशं मन्दमेव, अतः सादृश्यादश्रवणम् । परं तुरङ्गहेषितैः वाजिहेषारवैः तेषु स्थमण्डलस्वनेषु मध्ये परिस्फुटैर्बभूवे व्यक्तैर्जातं, कस्मात् परभागलाभतः गुणोत्कर्षप्राप्तेः अतिशयलाभात् । एतदपि कुतः, यतस्तारैः .. कुकुमचूर्णैः - ४१४ सन्देहविषौषधिसर्वकषायुते [ द्वादशः- उल्बणैः उदात्तैः । यः किल तारः खरस्तीक्ष्णः, स मण्डलेन समूहेन नामिभूयते, सः अत्यन्तं तत्र परभागं लभते । 'परभागो गुणोत्कर्षः' इत्यमरः ॥ १५ ॥ मन्द्ररित ॥ मन्दैगम्भीरैः । 'मन्द्रस्तु गम्भारे' इत्यमरः । रथमण्डलस्वनैः तादृशं तदूपमेव गजानों बृंहितं निजुनुवे तिरस्कृतम् । गजध्वनिरकरूपत्वेन रथशन्दान पृथगावीत्यर्थः । तारेरुचैस्तरैभन्दस्वर- विलक्षणस्तुरङ्गहेषितः परभागलाभतस्तेषु त दृशध्वनिगुणभेदलाभात्तेषु गर्जादिस्वनेषु परिस्फुटैबभूवे । तुरङ्गहेषाः सुत्र्यका एव शुश्रुविर इत्यर्थः। बृहित करिणां शब्दो हेषा हृषा च वाजिनाम् । बभूवे इति भावे लिट् । निजुनुव इति कर्मणि लिट् ॥ १५ ॥ अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगत साङ्कुशमुद्वहन शिरः ॥ स्थूलोच्चयेनाऽगमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम् ॥ १६ ॥ अन्वेतुकाम इति ॥ कश्चित् गजः मतङ्गजः स्थूलोच्चयेन मध्यमगत्या अगमत अयासीत् । किलक्षणो गजः यतः अन्तिकागतां समीपस्थां करेणुकां हस्तिनीमन्वेतुकामः अनुजिगमिषुः, अत एव अपरं किलक्षणो गजः अग्रयाताऽग्रकरः पुरःक्षिप्ताऽग्रहस्तः, करस्या- ऽग्रमग्रकरः अग्रयातः अग्रकरो यस्य सः तथा ॥ १६ ॥ अन्वेतुकाम इति ॥ अन्तिकागतां करेणुको करिणीमन्येतुकामोऽनुगन्तुकामः अकुशं गृह्णाती- त्यकुशग्रहो निषादी सोऽवमनो येन सः निषादिना साकुशं तिरोगतम् अकुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुहन् गजः अप्रयाताऽपकरः करिणीग्रहणाय प्रसारितकराम्रो भूत्वा स्थूलोच्चयेन गतिविशेषेणाऽगम- जगाम । 'गजमध्यगतौ स्थूलोचयः साकल्यपुञ्जयोः' इति रत्नप्रकाशः ॥ १६ ॥ यान्तोऽस्पृशन्तश्चरणैरिवाऽवनि जवात्प्रकीर्णरभितः प्रकीर्णकैः । अद्याऽपि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे अनैः ॥ १७ ॥ यान्त इति ॥ सेनातुरगाः चमूवाजिनः जनैलॊकैः अद्यापि अधुनापि अलूनपक्षा इव मेनिरे अच्छिन्नाऽङ्गरहा इव ज्ञाताः । अश्वाः पूर्व हि सपक्षा आसन् । यत् एते छिन्न- पक्षाः, तत्कथं सपक्षा बुद्धा इत्याह-किं कुर्वन्तोऽश्वाः यान्तो गच्छन्तः धावन्तः । उत्प्रेक्ष्यते-अवनिं भुवं चरणैः खुरैः अस्पृशन्त इव अस्पृशमाना(?) इव । ततो जवात् वेगेन अभितः पार्श्वद्वये प्रकीर्णः विक्षिप्तः प्रकीर्णकैश्चामरैरुपलक्षिताः । अतश्च पक्षनिभ- चामरसद्भावात् लाघवगमनाच्च सपक्षा एते इति बुबुधुः । अत एव जनैः किलक्षणैः सविस्मयैः कौतुकिभिः ॥ १७ ॥ यान्त इति ॥ जवागाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनातुरगा अभितः प्रकोणैरुभयतः प्रमृतैः प्रकीर्णकैश्वामरैः। 'चामरं तु प्रकीर्णकम्' इत्यमरः । कण्ठभूषणचामरेतुभिरयाऽप्यलूनपक्षा इवेति सवि. स्मयैर्जनै मनि रे। पूर्व तुरगाणामपि पक्षा आसन् , पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः॥ ऋज्वीर्दधानैरवतस्य कन्धराश्चलाऽवचूलाकुल(१)घर्घराऽऽरवैः ॥ भूमिमहत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥ १८ ॥ ऋज्वीरिति ॥ क्रमेलकैः उष्टै : महत्यपि भूमिः दवीयानपि पन्थाः अविलम्बितक्रम मक्ष्वेव द्रुतपदं तत्क्षणमेव चिच्छिदे लविता । किंलक्षणैः क्रमेलकैः ऋज्वीः कन्धराः स्पष्टा ग्रीवाः दधानः वहनिः, किं कृत्वा अवतत्य अवसार्य, अपरं किलक्षणैः क्रमेलकैः चलाऽवचूलाकुलघर्धराऽऽरवैः चलैः चञ्चलैः अवचूलैश्चिचामरैः आकुल: सत्वरः अन्तरेव (१)चूडाः कल।

सर्गः।] । शिशुपालवधे। ४१५ अमन् घर्घराणां क्षुद्रघण्टिकानाम् आरवो ध्वनिर्येषां ते तथा तैः । केचित्वाहुः-चलावचूलै. राकुला व्यासा ये घर्घरा घण्टिकास्तासां रवैरुपलक्षिताः ॥ १८ ॥ ऋञ्चीरिति ॥ ऋज्वीरवनाश्वलाऽवचूडाश्चलितकठभूषणाः । 'शिरःशिखाभूषणेषु चूडा' इति यादवः । चलितशिरस इति वा । कन्धराः शिरोधरा अवतत्य वितत्य दधानः कलघर्षरारवैः । 'घर्षरा क्षुद्रघण्टी स्यात्' इति कोशः । अथ वा घर्घरारव इति शब्दाऽनुकरणम् । क्रमेलकैरुष्ट्रैरविलम्बितक्रमम् । क्रमः पदक्षेपः । दुतपादक्षेपं यथा तथा महत्यपि भूमिस्तक्षणमेव चिच्छिदेऽतिक्रान्ता। स्वभावोक्तिः ॥ १८ ॥ तूर्ण प्रणेता कृतनादमुच्चकैः प्रणोदितं वेसरयुक्त(१)मध्वनि ॥ आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाऽऽक्रान्तिभयादिवाऽद्रवत् ॥ १९ ॥ तूर्णमिति ॥ वेसरयुक्तं खरशकटीनाम यानमुच्यते । वैसरैरश्वतरैर्युक्तम् इति कृत्वा तद्यानं तूर्णमद्रवत् पलायाञ्चक्रे । किंलक्षणं वेसरयुक्तं प्रणेत्रा सूतेन प्रणोदितं प्रेरितम् अत एव कृतनादं विहिताऽऽरावम् , अपरं किलक्षणं वेसरयुक्तम् उच्चकैः उन्नतम् । वेसराः हि अत्युच्चा भवन्तीति प्रसिद्धम् । तूर्णगमने निमित्तान्तराऽऽरोपामुत्प्रेक्षामाह-कस्मात् अद्रवत् आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाऽऽक्रान्तिभयादिव आत्मीयनेमिभिः स्वचक्र- धाराभिः क्षतं खातं यत् सान्द्रं निबिडं मेदिनीरजः भूरेणुः तस्य चयो वृन्द तेन या आक्रान्तिः अध्यासनं तस्याः यत् भयं साध्वसं तस्मादिव । एतेन पृष्टानुगामी वायुरुक्तः ॥ १९ ॥ तूर्णमिति ॥ प्रणेत्रा सारथिना प्रणोदितं गमनाय प्रेरितम् । अत एव उच्चकैरुच्चैस्तरां कृतनादं यथा तथा वेसरयुग्यम् । सङ्करोऽश्वो वेसरः । वेसराभ्यो युग्यं शकटमात्मीयनेमिः स्वचक्रधारा तया क्षतस्य सान्द्रस्य मेदिनीरजसश्चयेन समूहेन यदाक्रमणं तद्भयादिव तूर्णमध्वन्यद्रवत् । आत्मीयनेमिसमुद्भूतधूलि- जालनास्पृष्ट सत् दुतमगमादित्यर्थः ॥ १९ ॥ व्यावृत्तवक्करखिलैश्चमूचरैवजद्भिरेव क्षणमीक्षिताननाः ॥ वल्गद्गरीयःकुच(२)कम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥२०॥ व्यावृत्तेति ॥ अवरोधिका निशान्तनार्यों ययुः किंलक्षणा अव- रोधिकाः तुरङ्गाऽधिरुहः तुरङ्गेषु अधिरोहन्तीति अश्वारूढाः। अश्वानारुह्य जग्मुरित्यर्थः। कथं यथा भवति ययुः वल्गद्गरीयःकुचकम्प्रकचुकं यथास्यात् वल्गन्तो नृत्यन्तो गरीयांसः पीवराः ये कुचाः स्तनाः तेषु कम्प्रं चञ्चलं कञ्चुकं(?) वारबाणं यत्र क्रियायां तत्तथा, अपरं किलक्षणाः अवरोधिकाः व्रजगिरेव गच्छदिरेव अखिलैः समग्रैश्चमूचरैः सैनिकैः क्षणं क्षणमात्रमीक्षिताननाः दृष्टवक्त्रश्रियः, किंलक्षणैः सेनाचरैः व्यावृत्तवक्रः व्यावृत्तं परि- वर्तितं वक्त्रं वदनं यैस्ते तथा तैः । मुग्वं व्यावृत्त्य कौतुकात् क्षणवीक्षितमुखशौभैः ॥२०॥ व्यावृत्तेति ॥ व्यावृत्तवकैर्विवृत्तमुखर्बजद्भिरेवाऽखिलैश्चमूचरैः क्षणमीक्षिताननाम्तुरङ्गाऽधिरुहः । तुरङ्गा- नधिरोहन्तीति क्विप् । तुरङ्गाधिरूढा अवरोधिका अवरोधमियो वल्गद्भिश्चलगिरीयोभिगुरुतरैः स्तनैः कम्पः कम्पनशीलः कञ्चुकः कूर्पासो यस्मिन् कर्मणि तद्यथा तथा ययुः। 'नामिकम्पि-' इत्यादिना रः प्रत्ययः॥२० पादैः पुरः कूबरिणां विदारिताः प्रकाममाकान्ततलास्ततो गजैः ॥ भग्नोन्नताऽनन्तरपूरिताऽऽनता बभुर्भुवः कृष्टमती(३)कृता इव ॥ २१ ॥ पादैरिति ॥ भुवो बभुः भूमयो विरेजुः । कीदृश्यः पुरः पूर्व कूबरिणां स्थानां पादैः चक्रः प्रकाममत्यर्थ विदारिताः पाटिताः, किंलक्षणा भुवः ततः पश्चात् गजैः करिभिः गच्छन्ति स्म, (१) युग्य। (२) स्तन । (३) पूरिताऽन्तरा"कृष्टसमी० ।

सन्देहविषौषधिसर्वकषायुते- [ द्वादशः- । आक्रान्ततलाः अधिष्ठितपृष्ठाः, अपरं किंलक्षणा भुवः भग्नोन्नताऽनन्तरपूरितानताः भग्नो. व्रताः क्षतोच्चभागाः अनन्तरं पश्चात् परिपूरिताऽऽनताः भरितरन्ध्रप्रदेशाः । गजाक्रान्तत्वा- साम्यमापादिताः । अपर किंलक्षणा भुवः, उत्प्रेक्ष्यन्ते-कृष्टमतीकृता इव पूर्व कृष्टा हलै- विलिखिताः पश्चात् मतीकृताः समीकृताः । समा रदीधी(?) भूः प्राकृतम् ॥ २१ ॥ पादेरिति ॥ कूबरिणा रथानाम् । 'कूबरस्तु युगन्धरः' इत्यमरः । स एषामस्तीति ते रथास्तेषां पादै. भः :पुरः पूर्व विदारिताः ततो गजैः प्रकाममाकान्ततलः भगृहकप्रकारेण पूर्व भग्नत्वादुनतैरनन्तरैरुभय. भागैः पूरितान्तरा: समीकृतनिम्नप्रदेशाः । यद। पूर्व रथचक्रविदारितत्वाद्भग्नोत्रता अनन्तरं गजपति- परिक्रमणेन पूरिताऽऽनतप्रदेशाः भुवः कृष्टसमीकृताः पूर्व हलैः कृष्टा अनन्तरं बीजवपनार्थम् समीकृता इव बभुः शुशुभिरे ॥ २२ ॥ दुर्दान्तमुत्प्लुत्य (१) निरस्तसादिनं सहासहाकारमलोकयजनः ॥ पर्याणतस्त्रस्त(२)मुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥ २२ ॥ दुर्दान्तमिति ॥ जनो लोकः कञ्चित्तुरङ्गमं घोटकम् अलोकयत् ऐक्षत । कर्थ यथा भवति सहासः सहास्यो हाकारः हाहाशब्दो यत्र क्रियायां तद्यथा भवति, किलक्षणं तुरङ्गमं दुर्दान्तं दुर्दममशिक्षितम् , अपरं किंलक्षणं तुरङ्गमं पर्याणतः पल्ययनात् त्रस्त भोतं, किंलक्षणात् पर्याणत: उरोविलम्बिनः वक्षसि लम्बमानात् , अत एव अपरं किलक्षणं तुरङ्गमम् उत्प्लुत्य ऊ/भूय निरस्तसादिनं पातिताऽश्ववारम् , अपरं किलक्षणं तुरङ्गमम् एकया दिशा एकदिग्भागेन प्रद्रुतं पलायितम् । अतश्च जनः सहासहाकारमीक्षामास । आरोहोपात् हासः, पीडितोरुपादपृष्ठात हाकारः ॥ २२ ॥ दुर्दान्तामिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्ठात् पातिताऽवरोहमेकया दिशा प्रदुतं पलायितं दुर्दान्तं दुर्विनीसं तुरङ्गमं हासकृतेन हाकारेण सह यथा तथा जनोवलोकयदवलोकितवान् ॥ २२ ॥ भूभृद्भिरप्यस्खलिता (३) खलून्नतैरपहनुवाना सरितः पृथूरपि । अन्वर्थसंक्षेव परं त्रिमार्गगा ययावसङ्ख्यैः पथिभिश्चमूरसौ ॥ २३ ॥ भूभृद्भिरिति ॥ असौ चमूः श्रीकृष्णसेना असङ्ख्यैः पथिभिर्ययो बहुलैर्मागैः जगामे- ति बाहुल्योक्तिः। किंलक्षणा चमूः उन्नतैस्तेजस्विभिः भूभृद्भिः राजभिः अस्खलिता अपरिभूता, अपरं किंलक्षणा सेना पृथूरपि बृहतीरपि सरितः आपगा अपहुवाना स्थग- यन्ती, धूल्या जनभरात्तटलोठनेन कर्दमाभावाच्च । ननु त्रिपथगा गङ्गापि एवंविधा स्यात् , किंलक्षाणा त्रिपथगा उच्चकैः उन्नतैरपि भूभृद्धिः पर्वतैः अस्खलिता अनिषिद्ध- प्रसरा, अपरं पृथूरपि सरितः महतीरपि नदीः अपयुवाना अपलपन्ती, तत्सन्निधौ सामा- न्येन अलक्षितत्वात् । तत्कोऽयमस्या विशेष इत्याह-त्रिमार्गगा गङ्गा परं केवलमन्वर्थ- संज्ञैव अर्थाऽनुगतनामैव, त्रिभिः भागैः गच्छतीति कृत्वा। असौ सेना तु असङ्ख्यमार्गगेति ॥ भूभृतिरिति ॥ उन्नतैरपि भूभृद्रिः भूधेरैर्भूप: पश्चात् म्खलिता अप्रतिहताः पृथुर्महतौरपि सरितो यमुना- प्रभृती दीरपहनुवाना स्वमहिनाऽऽच्छादयन्ती विभिर्मागर्गच्छतांति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्थाऽनुग- तार्था संज्ञा त्रिमार्गगति नामधेयं यस्याः सेव खलु । बिभिरेव मागैयौन चतुर्थेनेत्यर्थः । असौ चमूस्त्वसङ्ख्यैः पथिभिर्ययो । अतो गङ्गाया अप्याधिका चमूरिति भावः । अत एव व्यतिरेकालङ्कारः । । (१) मुत्कृत्य। (२) तः त्रस्त । (३) स्खलिताः।

सर्गः । शिशुपालवधे। 'भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः । अधिकाऽल्पत्वकथनाद्वयतिरकः स उच्यते ॥ इति लक्षणात ॥ २३ ॥ प्रस्तौ समासनकरेणुसूत्कृतानियन्तरि व्याकुलमुक्तरजुके ॥ क्षितावरोधाऽङ्गनमुत्पथेन गां विलय लक्की(२) करभो बभञ्जतुः ॥२४॥ त्रस्ताविति ॥ करभौ उष्ट्रौ उत्पथेन अमार्गेण विलय आक्रम्य लधी बभातुः गन्त्री भञ्जयामासतुः । उष्ट्रयुग्मयोजितं च काष्टादिकं लङ्घी। केचित्तु पर्यासन्नकपर्याण- रूपं लधीत्याहुः। भङ्गस्य निमित्तमुत्पथगमनम् । तस्यापि कारणमाह-किंलक्षणौ करभौ समासन्नकरेणुसीत्कृतात् त्रस्तौ समीपस्थमतङ्गाजहितागोती, कथं यथा भवति क्षिप्ता- वरोधाऽङ्गन्नं यथा भवति क्षिप्ता निरस्ता अवरोधाङ्गनाः निशान्तनार्यो यत्र क्रियायां तद्यथा भवत्येवं निरस्ताऽन्तःपुरेनारीक यथा स्यात्, क सति नियन्तरि सारथौ व्याकुलमुक्त- रज्जुके सति व्याकुलं सत्वरम् यथा भवति तथा मुक्ता त्यक्ता रज्जुः दाम येन सः तथा तस्मिन् सत्वरशिथिलरज्जुके सति ॥ २४ ॥ प्रस्ताविति ॥ समाप्तन्नस्य प्रत्यामन्त्रस्य करेणोरिभस्य मून्कृतात्सूकारात् त्रस्ती करभी वेसरौ । 'करभो वेसरेऽप्युष्ट्र' इति सज्जनः । नियन्तरि सारथी व्याकुलं व्ययं यथा तथा मुकरज्जुके त्याग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तयथा तथा उत्पथेनाऽपथेन। 'ऋक्पू:-' इत्यादिना समासान्तः । गां भूमि विलङ्गय दूरमतीत्य लध्वी रथाविशेषम् । 'लवी लाघवयुकायां प्रभेदे स्यन्दनस्य च' इति हैमः । बभचतुर्भग्नवन्तौ । अत्र वासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थ हेतुकं काव्यलिङ्गं स्वभावोक्त्य -सदीयते ॥ २४ ॥ स्रस्ताऽङ्गसन्धौ विगताऽक्षपाटवे रुजा निकामं विकलीकृते रथे ॥ आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥ २५ ॥ स्रस्ताङ्गेति ॥ रथे स्यन्दने रुजा भोन निकाममत्यर्थ विकलीकृते शिथिलत्वेन भारवाहनगमनाऽक्षमत्वमापादिते सति आप्तेन सयत्नेन तक्ष्णा सूत्रधारेण तत्क्षणं तस्मि- नेवाऽवसरे क्रमः उपायः प्रचक्रमे प्रारेभे। किंलक्षणः क्रमः लङ्घनपूर्वकः लवनम् अङ्ग- विशेषः तत् पूर्व प्रथमं यत्राऽसौ । आदौ लङ्घनं युयोजेत्यर्थः । केचित्तु लङ्घनमाक्रमण- माहुः । किंलक्षणे रथे विगताऽक्षपाटवे विगतं नष्टम् अक्षस्याऽङ्गविशेषस्य पाटवं सामथ्यं यस्य सः तथा तस्मिन् नष्टाक्षसामर्थ्य, यतः अपरम् किंलक्षणे रथे स्रस्ताङ्गसन्धौ स्रस्ताः शिथिलाः अङ्गानां कूबरादीनां सन्धयो बन्धनस्थानानि यस्य सः तस्मिन् । केनेव प्रचक्रमे इत्याह-भिषजेव चिकित्सकेनेव । यथा शरीरे रुजा रोगेण अत्यर्थ विकलोकृते सति अवसादं प्रापिते सति अत एव स्रस्ताऽङ्गसन्धौ निःसहकटिपृष्टजवादिमर्मणि तथा विग- ताक्षपाटवे प्रणष्टेन्द्रियसामथ्र्ये सति आप्तेन आयुर्वेदवित्त्वाच्चतुरेण भिषजा वैद्येन तत्क्षणं- लधनपूर्वकः उपवासपूर्वकः क्रमः उपायः चिकित्साधुपायः प्रक्रम्यते प्रारभ्यते ॥ २५ ॥ सस्ताङ्गेति ॥ खस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च सन्धयः सन्धिभागा यस्य त. स्मिन् विगतमक्षस्य चक्राधारकाष्टस्याऽमाणामिन्द्रियाणां च पाटवं सामर्थ्य यस्य तस्मिन रथे स्यन्दने शरीरे च रथः स्यात्स्यन्दने काये' इति विश्वः। रुजा भगन रागेण च निकाम विकलीकृते सति आतेन हितेन (१)लयी।

४१८ सन्देहविषौषधिसर्वकषायुते- [.द्वादशः- .. तक्ष्णा वर्धकिना आप्तेन भिषजा वैयेनेव । 'तक्षा तु वर्धकिस्त्वष्टा' इत्यमरः । तत्क्षणं तस्मिन्नेव क्षणे । अत्यन्तसंयोगे द्वितीया । लङ्घनं पादेनाऽऽक्रमणम् उपवासश्च । 'लड्डन तूपवासे स्यागमने प्लबनेऽपि च' इति विश्वः । तत्पूर्वकः क्रमो विधिः प्रचक्रमे प्रक्रान्तः । प्रायेण जरादिचिकित्साया लडनपूर्वकत्वादिति भावः । श्लेषालङ्कारः ॥ २५ ॥ धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि । स्थाणौ विषङ्गि(१)ण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक ॥ धूर्भङ्गेति ॥ कश्चित् वणिक् वाणिजकः शुशोच दुःखायते स्म। कदा क सति पुरोऽग्रे. वर्तिनि स्थाणौ अर्धछिन्नशुष्कवृक्षे करणभूते सति अनसि शकटे विषङ्गिाणि सम्बद्ध सति । किमित्येतावता शुशोचेत्याह-किलक्षणे अनसि धूभङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावि. तदूरवर्त्मनि धुरः शकटाङ्गस्य यो भङ्गः स्थाणुविघातात् स्फोटः तेन यः संक्षोभः स्थानाचलन तेन विदारिताः चूर्णीकृताः या उष्ट्रिकाः मृन्मयानि मद्यभाण्डानि ताभ्यो गलत् च्यवत् यत् मधु मयं तेन प्लावितं पूरित दूरमत्यर्थ वर्त्म मार्गो येन सः तथा तस्मिन् , किंलक्षणो वणिक् लाभाय वृद्धये कृतक्रयः विहितविक्रयः। तेन हि एतदर्थ मधु क्रीतं-यदैतत् विक्रीयते, तदा लाभो भविष्यति इत्येवमाशशंसे । पर मूलद्रव्यमेव नष्टमिति दुःखायते स्मेत्यर्थः ॥ २६ ॥ धूभङ्गेति ॥ स्थाणी कीले। 'स्थाणुः कीले स्थिरे हरे' इति विश्वः । निषङ्गिणि मने अनसि शकेटे। 'क्कीबेज्नः शकटोऽसी स्यात्' इत्यमरः। धुरोऽक्षस्य भनेन य: संक्षोभो विपर्यासस्तेन विदारिता मित्रा वा उष्ट्रिका मृन्मयं मद्यभाण्डम् । 'उष्ट्रिका मृत्तिकाभाण्डभेदे करभयोषिति' इति विश्वः। ततो गलता स्रवता मधुना मयेन प्लावित सिन द्रवर्म दीर्घावा येन तस्मिन् । तथा सति पुरः पूर्व लाभाय कृतः क्रयः क्रयण येन स यवणिक क्षण शुशोच । अत्र मधुस्रावधनव्ययोर्वि शेषणगत्या शोकहेतुत्वात्काव्यलिङ्गभेदः २६ भेरीभिराकृष्ट(२)गुहामुखो मुहुर्ध्वजांशुकैस्तर्जितकन्दलीवनः ॥ उत्तुङ्गमातङ्गजिताऽलघूलपो बलैः स पश्चात्क्रियते स्म भूधरः ॥ २७ ॥ भेरीभिरिति ॥ योऽसौ भूधरः पर्वतः रैवतकाचल: बलै: सैन्यैः पश्चात् क्रियते स्म अतिचक्रमे । उल्लवित इत्यर्थः । अथ वा पश्चात्कृतः अभिभूतः इत्यर्थान्तरम् । किल- अभिभवमाह-भेरीभिराकृष्टगुहामुखः दुन्दुभिध्वनिभिः आकृष्टानि व्याप्तानि विदारितानि गुहामुखानि दरीविवराणि यस्य सः तथा, अपरं किंलक्षणः भूधरः ध्वजांशुकै- श्चितपताकाभिः तर्जितकन्दलीवनः तर्जितानि अत्युचत्वासितानि कन्दलीवनानि कदली- काननानि यत्र सः तथा,अपरं किंलक्षणो भूधरः उत्तुङ्गमातङ्गजिताऽलघूपलः उत्तुङ्गैः उच्चैः मातङ्गैगंजैर्जितास्तिरकृता अलघूपला गण्डशैला यत्र सः तथा। 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । 'कदली कन्दली मोचा', 'गण्डशैला महोपलाः' इति वैजयन्ती ॥ २७ ॥ भेरीभिरिति ॥ भेरीभिराष्टानि निन्दितानि महान्ति गुहामुखानि येन सः । भेरीझकारभर्सितनितान्त- पात्यामुखरमहागुहाद्वार इत्यर्थः । ध्वजांशुकैस्तर्जितानि भर्सितानि कन्दलीदलानि गुल्मपत्राणि येन सः । उत्तुङ्गै-मातङ्गैर्जिता अलघूपला: स्थूलपाषाणा येन स भूधरो रैवतकादिर्बलैः सन्यैः पश्चास्क्रियते स्म पश्चात्कृतः। स्वयं दूरगमनेन पृष्ठतः कृत इत्यर्थः। उक्तविशेषणमहिना अधरीकृत इति च प्रतीयते । 'लट् स्म' इति भूतार्थ लट् । आक्रुष्टेति क्रोशतेः कर्मणि कः। श्वादित्वात्पत्वे ष्टुत्वम्। अत्र पश्चात्करणस्या- SSकुष्टादिपदार्थ हेतुकत्वात्काव्यलिङ्गम् । तचोक्तप्रतीयमानाभेदाभ्यवसायादिति श्लेषमूलातिशयोक्तिसही- नम् । तेन बलान भूधरौपम्य गम्यते इत्यालद्वारम्वनिः ॥ २० ॥ (१)निषाद्ध। (२) राष्टमहागुहामुखो बजा० । क्षणो भूधरः, सर्गः ।] शिशुपालवधे । ४१६ . . वन्येभदानाऽनिलगन्धदुर्धराः क्षणं तरुच्छेदनिवर्तित(१)कधः ॥ व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्थिरे(२) ॥२८॥ वन्येभेति ॥ यन्तृभिः हस्तिपकैः व्यालद्विपाः दुष्टगजाः कथञ्चित् महता कष्टेन आरात् समीपात् अपथेन अमार्गेण निन्यिरे नीयन्ते स्म । किंलक्षणाः व्यालद्विपाः उन्मदिष्णवः उन्मदितुं शीलं येषां ते उन्मदिष्णवः उन्मत्ताः, अपरं किलक्षणाः व्यालद्विपाः वन्येभ- दानाऽनिलगन्धदुर्धराः वनभवगजमदपवनपरिमलदुर्धरणीयाः, अपरं किलक्षणाः व्याल- द्विपाः क्षणमात्रं तरुच्छेदनिवर्तितधः तरुच्छेदेन वृक्षाणां भञ्जनेन नितिता विनोदिताः क्रुधः कोपा येषां ते तथा वृक्षभाविनिवर्तितकोपाः ॥ २८ ॥ वन्येभति ॥ वन्येभदानाऽनिलगन्धेन वनगजमदमारुतगन्धाघ्राणेन दुर्धराः क्रोधान्धा दुर्ग्रहाः अत एव क्षणं तरुच्छेदे विनोदितक्रुधः प्रतिगजाऽसानिध्ये वृक्षाणां भड्रेनोपनीतक्रोधाः उन्मदिष्णवोऽत्यन्तमदशीलाः । 'अलंकृञ्-' इत्यादिना इष्णुच् । व्यालद्विपा दुष्टगजा यन्तृभिराधारणैः कथञ्चिदाराद् दूरमपथेनाऽमार्गेण । 'qथो विभाषा' इति निषेधविकल्पात् 'ऋक्पू:-' इत्यादिना समासान्तः। 'अपथं नपुंसकम्' इति नपुंसक- खम् । निन्यिर नीताः । अत्रापि द्विपविशेषणानां नदुपमेयहेतुकत्वात्काव्वालङ्ग सत्स्वभावोक्त्या सङ्कीर्यते ॥ निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ॥ उत्तेरुरुत्तालखुराऽऽरवं दुताः श्लथीकृतप्रग्रहमा बजाः ॥ २९ ॥ निम्नानीति ॥ अर्वतां व्रजाः अश्वानां सङ्घाः उत्तेरुः उत्तीर्णाः, किंलक्षणा अर्वतां ग्रजाः द्रुता वेगवन्तः । कथमुत्तेरुः इत्याह-श्लथीकृतप्रग्रहं श्लथीकृतः शिथिलतामापादितः प्रग्रहो रश्मिः यत्र क्रियायां तद्यथा भवति शिथितिरश्मि, अपरं कथं यथा भवति उत्ताल. खुराऽऽरवं यथा भवति तथा उत्तालः उद्भटः खुराऽऽरवः पादध्वनियंत्र क्रियायां तद्यथा भवति, किं कृत्वा उत्तेरुः निम्नानि स्थानानि दुःखादवतीर्य कृच्छादुल्लङ्घ्य, अपरं किलक्षणाः अर्वतां सघाः सादिभिरश्वारोहैः सयत्नं सावधानं यथा भवति तथा शनैःशनै: मन्दमन्दम् आकृष्टकशा आकृष्टाः पश्चान्नीताः कशा आकर्षणरज्जवो येषां ते तथा पश्चानोताऽऽकर्षणरजवः ॥ २९ ॥ निम्नानीति ॥ अवतामश्वानाम् । 'वाजिवाहाऽर्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । 'अर्पणमसावनञः' इति प्रादेशः । सादिभिरश्वारूढैः। सयत्नमाकृष्टकशा दृढगृहीतवल्गाः सन्तः। यद्यपि 'अश्वादेस्ताडनी कशा' इत्यमरः । तथाप्यत्र 'ताडनीवल्गयोः कशा' इति दर्शनादविरोधः । शनैःशनैर्दुःखात्कृच्छानिम्नानि निम्नभू- प्रदेशानवतीर्य उत्तालखुराऽऽरवमुच्चतरशफशब्दं श्लथीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा दुताः सत्वराः -सन्त उत्तेरुरुत्पुप्लुविरे । निम्नषु शनैरवतीर्य दीर्घ धावन्तीत्यश्वाना स्वभाव इति भावः । अत एव स्वभावोक्तिः॥ अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुधृतः ॥ दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलोः ॥ ३०॥ अध्यध्वमिति ॥ कश्चिद्दासेरयुवा तरुणोष्ट्रः अग्रतः पुरोवर्तमानाः वनावली: चखाद काननश्रेणी घास । किंलक्षणो दासेरयुवा केनचिदारूढवता आरोहेण अध्यध्वम् अध्वनि जन सहायान् प्रतीक्षमाणेनैव सता मुहुर्धतः रुद्धः । युक्तोऽयमर्थः, हि यस्मात्कारणात् यत् दाक्ष्यं दक्षत्वं चातुर्य सथ एव फलदं फलदायि अर्थप्रदं भवति । यदि हि दाक्ष्य सद्यः फलदं न स्यात्तत्कथमुपर्यारोहे सत्यपि क्षणं रोधमात्रेणैव असौ तरुशाखा भक्षयेत् ॥ ३० ॥ अध्यध्वामीति ॥ दक्षस्य भावो दाक्ष्य कौशलं सद्यः फलदम् । कुतः-यद् यस्मादध्यध्वमध्वनि । विभ- (१) विनोदित। (२) इतः परं 'तै जयन्ती' 'तस्थे मुहुर्त'मिति श्लोकी सर्वषायां स्तः ।

सन्देहविषौपधिसर्वस्पायुते- ४२० - [द्वादशः- . .. तैरिति॥ त्यर्थेऽव्ययीभावः, 'भनव' इति समासान्तोसत्ययः 'नस्तद्धिते' इति टिलोपः। आरूढबतवारुढीव स्थि- तेन । 'निष्ठे'ति रुहे. कवतुप्रत्ययः । जन शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षमाणेन । केनचित्पुंसति शेषः । मुहुर्धतः स्थापितोऽपि दासेरयुवा तरुणोष्टः । विशेषणसमासः । अग्रतो वनावलीश्चखाद । पुरः पिचुमर्दा- दिकं भक्षयनास्त इत्यर्थः । न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामा- न्यस्य नविशेषेण दासरेकौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यामः ॥ ३० ॥ तैर्वैजयन्तीवनराजिराजिभिगिरितिच्छन्दमहामतङ्गजैः ।। बह्वयः प्रसर्पजनतानदीशतैर्भुवो बलैरन्तरयाम्बभूविरे ॥ ३१ ॥ तैर्बलैः सैन्यैः बह्वयः भुवः अनेका भूमयः अन्तरयाम्बभूविरे अन्तरिताः । उल्लविता इत्यर्थः । अथ च अन्तरिता अदृश्यीकृताः इत्यर्थान्तरन्यासः । कि- लक्षणैर्बलैः वैजयन्तीवनराजिगजिभिः पताकाकाननलेखाशोभिभिः, वैजयन्त्यः पताका- एव वनराजयः काननपङ्क्तयः ताभिः राजन्ते तानि राजिराजीनि तैः, अपरं किंलक्षणैर्बलै: गिरिप्रतिच्छन्दमहामतङ्गजैः गिरिप्रतिच्छन्दा गिरितुल्या महामतङ्गजा महेभा येषु तानि तैः अदिनिभकरीन्द्रः, अपरं किलक्षणैः थलैः प्रसर्पजनतानदीशतैः प्रसर्पन्ति व्रजमानानि जनताः जनसमूहा एव नदीशतानि सरित्सहस्राणि येषु तानि तैः व्रजजनसमूहसरिच्छतैः ॥ ३१ ॥ तैरिति । वैजयन्त्यः पताकास्ता बनराजय इव ताभी राजन्तीति तथोकैः गिरीणां प्रतिच्छन्दा: प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टं पमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामत- अजा येषु तैः । जनताः जनसमूहाम्ता नद्य इव तासां शनानि प्रसर्पन्ति प्रवहन्ति येषु तैलैस्तथोकैः सैन्यः, बढ्यो बहवः। 'बढादिभ्यश्च' इति विकल्पादीकारः । भुवो भूमयः अन्तरयाम्बभूविरेऽन्तर। दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवल रैवतकाद्रि रेवति भावः । बलै धैपुल्यादाच्छिता इत्यर्थः । उक्तविशेषणावगत. मादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाऽभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बल- विशेषणावगतमादृश्यस्य हेतुत्वात्तदङ्गभूतोपमासङ्कीर्ण पदार्थ हेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्था- पितमिति सङ्करः । अन्तरशब्दात 'तत्करोति-' इति ण्यन्तात्कर्मणि लिट् । आम्प्रत्यये भुवाऽनुप्रयोगः ॥३१॥ तस्थे मुहूत हरिणीविलोचनैः सद्वंशि दृष्ट्वा नयनानि योषिताम् ॥ मत्वाऽथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥ ३२ ॥ तस्थे इति ॥ मृगैर्हरिणः मुहूर्त तस्थे क्षणमासितम् । किं कृत्वा योषितां नयनानि कामिनीनां विलोचनानि हरिणीविलोचनैः सटेशि दृष्ट्वा मृगीनयनैस्तुल्यान्यवलोक्य, अथ पश्चानैर्मृगैः पलाय्यत पलायितं, कथं यथा भवति सत्रासं यथा भवति तथा, किं कृत्वा तानि नेत्राणि अनेकविभ्रमक्रियाविकाराणि मत्वा नानाविलासक्रियाविकृतानि ज्ञात्वा । न चैतद्वनेचराणां सम्भवतीति जातभयात् द्रुतम् ॥ ३२ ॥ तस्थ इति ॥ हरिणीविलोचनैः सदृशि सदृशानि । 'नपुंसकस्य झलचः' इति नुम् । योषिता नय- नानि दृष्ट्वा मृगः कृष्णसारैः कर्तृभिर्मुहूर्तमल्पकालम् । 'मुहूर्नमल्पकाले स्यादटिकाद्वितयेऽपि च' इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशद्वयति भावः । अथाऽनन्तरमनका विभ्रमाक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि शास्वेत्यर्थः । सत्रासं सभयं यथा तथा पलाय्यत पलायि- तम् । हरिणीदुर्लमविलासैोषिनिश्चयादिति भावः । अत एव निश्चयाऽन्तः संशयालद्वारः । परापूर्वादयते- र्भाव लड्। 'उपसर्गस्यायतो' इति लत्वम् ॥ ३२ ॥ शौरः प्रतापोपनतैरिततस्तः समागतैः प्रश्रयनम्रमूर्तिभिः ॥ एकातपत्रा पृथिवीभृतां गणैरभूदहुच्छत्रतयाऽपि मेदिनी(१) ॥ ३३ ॥ (१)तया पताकिनी।

सर्गः । ] .. शिशुपालवधे। ४२१ शौरेरिति ॥ शौरेः श्रीवासुदेवस्य प्रतापोपनतैः पौरुषवशीकृतैः पृथिवीभृतां गणैः राज्ञ समूहैः बहुच्छत्रतया भूर्यातपत्रत्वेन मेदिनी भूः एकातपत्रा अभूत्, एकानि केवलानि मतपत्राणि छत्राणि यस्यां सा तथा । छत्रवर्जन किञ्चित्तस्यां दृश्यते इत्यर्थः । विरुद्ध चैतत्, यस्यां बहूनि छन्त्राणि सा कथमेकातपत्रेति । अपरं किलक्षणैः पृथिवीभुर्जा गणैः इतस्ततः समागतैः यतः कुतः स्थानान्मिलितैः, अपरं किंलक्षणैः पृथिवीभृतां गणैः प्रश्रयनम्रमूर्तिभिः विनयनतदेहैः ॥ ३३ ॥ शोरोरिति ।ौरेः कृष्णस्य पनाकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापन हरितेजसा उपननमः। विधेयरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतः प्रश्यनम्रमूर्तिभिहेरिसन्निधौ विनयनमाविमौः पृथिवीभृतो राज्ञा गणेतुना बहुच्छषतया असङ्ग्यातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्या सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिकं न किञ्चिदलक्ष्यतेत्यर्थः । 'एके मुख्याऽन्यकेवलाः' इत्यमरः । बहुच्छत्राऽप्येकच्छति विरोधभासनाविरोधाभासो लङ्कारः ॥ ३३ ॥ आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः ॥ दूरादपावर्तितभारवाहणाः पथोऽपसनुस्त्वरितं चमूचराः ॥ ३४ ॥ प्रागच्छत इति ॥ चमूचराः सैनिकाः पथो मार्गात् त्वरितमपससमुः शीघ्र पलाया- चक्रिरे । किं कृत्वा अनूचि पश्चात् आगच्छतः गजस्य आपततो मातङ्गस्य घण्टयोः स्वर्ग समाकर्ण्य घर्षरयोः शब्दं श्रुत्वा, अत एव किंलक्षणाः चमूचराः समाकुलाङ्गनाः समाकुलाः विह्वला अङ्गनाः कामिन्यो येषां ते तथा, अपरं किलक्षणाः चमूचराः दूरादपावर्तितभार- वाहणाः दूरादेव व्याघोटितद्रव्यभाराः॥ ३४ ॥ आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननचि पृष्ठदेशे। 'ऋत्विग्-' इत्यादिनाऽञ्चेः क्विन्प्रत्ययः। आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गाना: सम्भ्रान्तवधूकाश्वमूचराः दूरादेवाऽपावर्तिता- अपसारिता भारस्यानादेहिना भारवाहणा भारवाहिन उष्टादयो यैस्ते तथा सन्तः । 'वाहनमाहितात्' इति भवम् । वहेयन्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसरपजग्मुः । स्वभावोक्तिः ॥ ३४ ॥ ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः ॥ श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान् समुद्दिश्य पठन्ति बन्दिनः ॥३५॥ ओजस्वीति ॥ बन्दिनो मागधाः भूयसो गुणान् समुद्दिश्य बहून् गुणान् चरितानि समुद्दिष्ट्वा(?) उपेन्द्रस्य श्रीकृष्णस्य पुरोऽये श्लोकान् चरितपद्यानि पठन्ति स्म पेतुः । निरन्तरं चरितानि देवमश्रावयन्नित्यर्थः । किलक्षणान् श्लोकान् ओजस्विवर्णोज्ज्वलवृत्तशालिनः, बहु- समासवती वृत्तिः ओजः, ओजस्विभिः बहुलसमासवद्भिः वर्णैः अक्षरैः उज्ज्वल चारु रूपं वृत्त वसन्ततिलकादिकोपेन्द्रवजादिकं तेन शालन्ते शोभन्ते ये ते शालिनः तान् , अपरं किल- क्षणान् श्लोकान् प्रसादिनः प्रसादो विद्यते येषां ते तथा तान् असमासवृत्तिमतः प्रसन्नान, अपरं किंलक्षणान् श्लोकान् अनुज्झितगोत्रसंविदः न उज्झिता न त्यक्ता गोत्रस्य नाम्नः संवित् सङ्केतो येषां ते तथा तान् अत्यक्तनामसडेतान् । मध्येमध्ये विष्णोर्नामाऽनुकीर्तन- मित्यर्थः । अथ किंलक्षणान् गुणान् भोजस्वी सबलो वर्णो यः क्षत्रियाख्यः तस्य तेन वा उज्ज्वलं प्रसिद्ध वृत्तं शीलं शौर्यादिकं तेन शालिनः शोभमानान्, अपरं किलक्षणान् गुणान् प्रसादिनः प्रसन्नतायुक्कान् , यान् श्रुत्वा सर्वे प्रसीदन्ति आल्हादकत्वात् । अपर किंलक्षणान् गुणान् अनुज्झितगोत्रसंविदः अत्यक्तकुलाचारान् । 'ओजः प्रभावे दीप्तो छ ३६ शिव० । ४२२ सन्देहविषौषधिसर्वकषायुते [द्वादश:- बले शुक्रे', 'वृत्तं पचे चरित्रे च', 'प्रसादस्तु प्रसन्नता', 'गिरौ नाम्नि कुले गोत्र', 'श्री संवित् ज्ञानसंभाषाक्रियाऽकारादिनाम' । 'पये यशसि च श्लोकः सर्वत्राप्यमरः ॥ ३९ ॥ ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । ओजस्विवर्णस्य तेजस्वि- वर्णस्य अत्रजातर्यदुज्ज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं तेन शालत इति ओजस्विवर्णोज्ज्वलवृत्त- शाली तस्य, अन्यत्र ओजस्विवर्गः समासभूयिष्टाक्षरैरुज्ज्वलास्ते च ते वृत्तशालिनः वसन्ततिलकादिच्छन्दो- विशेषशालिनश्च । 'वृत्तं चरित्रच्छन्दसोरपि' इति विश्वः । तान्, प्रसादोऽस्यास्तति प्रसादी तस्य प्रसादि- नोऽनुग्रहशीलस्य, अभ्यत्र प्रसादगुणयुक्तान । 'प्रसिद्धार्थपदत्वं यत् सं प्रसादो मिगयते' इति । अनु- ज्झिती गोत्रसंविदो येन तस्य । यावदवंशोत्पत्रस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्किता- नित्यर्थः। 'संवियुद्धे कुलाचारी प्रतिज्ञायां सङ्केताचारनामसु' इति वैजयन्ती। एवंभूतस्योपेन्द्रस्य हरेर्गुणान समुद्दिश्याधिकृत्य भूयसो बहुलाब्लोकान् स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छ्लोकाना च वर्ण्यत्वेन प्रकृतानो श्लेषसाधादौपम्यागम्यतायो इलेषप्रतिभोत्यापिता केवलप्रकृतगोचरा तुल्ययोगिता। श्लेषश्च प्रकृतिषु, प्रत्ययेषु नेति ॥ ३५ ॥ निःशेषमाक्रान्तमहीतलो जलैश्चलन् समुद्रोऽपि समुज्झति स्थितिम् ॥ ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥ ३६ ॥ निःशेषमिति ॥ केशवः श्रीवासुदेवः चलितोऽपि प्रस्थितोऽपि अवारितः अनिपिद्धैः सैन्यैः मागेंषु मार्गखेटकेषु किमव्यवस्थामकरोत् किमुपद्रवं चकार । नैवेत्यर्थः । समुद्रोऽपि उदधिरपि चलन् सन् स्थिति मर्यादा समुज्झति उल्लङ्घयति । किंलक्षणः समुद्रः जलैरुदकै- निःशेषमखिलम् आक्रान्तमहीतलः व्याप्ताऽखिलभूपृष्टः, किलक्षणो हरिः सैन्यैः निःशेष- माक्रान्तमहीतलः । यदि स चलितः गन्तुं प्रवृत्तः, तत् कथं व्यवस्थामवस्थितिम् अग- मनं कुर्यात्, गमनाऽवस्थानयोर्युगपदनुष्ठातुमशक्यत्वात् । यो वा चलितः चलनानिवृत्तः स कथं व्यवस्थाकारी स्यात् ॥ ३६॥ निःशेषमिति ।। चलन् कल्पान्ते क्षुभितः समुद्रोऽपि जलनि:शेषमाक्रान्तमहीतलः सन् स्थिति मर्या. दो वेलालकनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितःपरिमितः सैन्यैनिः- शेषमाकान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादा किमकरोत् । नाऽकरोदेवत्यर्थः । अत्रोपमानात्समुद्रादुप- मेयस्य केशवस्य मर्यादा नतिक्रमेणाधिक्यकथनाद्यारिकालङ्कारः । लक्षणं तूकम् ।। ३६ ॥ कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ॥ ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं घृतीनामुपरि व्यलोकयन् ॥ ३७॥ कोशातकीति ॥ ग्रामीणवध्वः प्राम्यनार्यः तं देवं श्रीकृष्णं वृतीनामुपरि वृतिका- पृष्ठसंस्थाः सत्यः चिरं दीर्घकालं यावत् व्यलोकयन् नेत्रैः पपुः, किंलक्षणा ग्रामीणवध्वः जनैः सेनालोकः अलक्षिताः अदृष्टाः । अपरं किलक्षणाः ताः, अदर्शने कारणमाह-मुखैरुप- लक्षिताः वदनैव्रताः, किंलक्षणैर्मुखैः कोशातकीपुष्पगुलुच्छकान्तिभिः धातुकीलताकुलम- स्तबकसमानच्छविभिः, गौरत्वात्। धातुकी धाहरीडी प्राकृतम् । अपरं किलक्षणा ग्रामीण- वध्वः विनिद्रोल्बणबाणचक्षुषः प्रफुल्लोत्कटबाणप्रसूननयनाः । अतः सादृश्यात् अलक्षित- त्वम् , आरामवृतीनामपि बाणकोशातकीयोगात् । ग्रामे भवा ग्रामीणाः ॥ ३७॥ कोशातकीति | कोशातकीपुष्पगुलुच्छकान्तिभिः पटोलीप्रसूनगुच्छसच्छायः । स्मरपाण्डुरित्यर्थः । 'कोशातकी पटोली स्यात्' इति इलायुधः । मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्वणं विपुलं वाणं नीलमेरेयपुष्पमिव चक्षुर्यास ताः । नीली झिण्टी बयोर्वाणा' इत्यमरः। मामेषु भवा प्रामीणाः । 'प्रामा- सर्गः।] शिशुपालवधे। ४२३ सखी' इति खप्रत्ययः । ताश्च वभ्यः श्रियस्तं कृष्णम् । ग्रामाऽन्तर्गामिनमिति भावः । जनैश्चमूचरैरल- चिताः । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीना कण्टकशाखाऽऽवरणानामुपर्युपरितनाऽवकाशे व्यलो- कयन् । उपमास्वभावोक्त्योः मदुरः ॥ ३० ॥ गोप्ठेषु गोष्ठीकृतमण्डलासनान सनादमुत्थाय मुहुः स वल्गतः ॥ ग्राम्यानपश्यत् कपिशं पिपासतः स्वगोत्रसङ्कीतनभावितात्मनः ॥३८॥ गोष्ठेष्विति ॥ स भगवान् श्रीकृष्णः गोष्टेषु गोस्थानकेषु बजेषु वा ग्राम्यान् ग्रामेयकान् मुहुर्वारंवारमपश्यत् अद्राक्षीत्। किलक्षणान् ग्राम्यान् कपिशं मधु पिपासतः मर्च पिवतः, अपरं किलक्षणान् ग्राम्यान् गोष्टीकृतमण्डलासनान् गोष्ठ्या केलिवशात् कृतं विहितं मण्डलासनं मण्डलिकारूपं वलयरूपं परिणाहि आसनमवस्थानं यैस्ते तथा तान्, अपरं किंलक्षणान् ग्राम्यान् सनादं सहनिनादं हुङ्कारपूर्व मध्यात् उत्थाय वलगतः उत्पतमानान्, अत एव अपरं किंलक्षणान् स्वगोत्रसङ्कीर्तनभावितात्मनः स्वस्य आत्मी- यस्य गोत्रस्य नाम्नोऽन्वयस्य वा यत् सङ्कीर्तनमन्येन ग्रहणं तत्र भावितः दत्तः आत्मा अन्तःकरणं यैस्ते तथा तान् स्वगोत्रश्रवणे भावितात्मनो दत्तचित्तान् । क्षीबस्य हि यदा कश्चित् नाम कुलं वा कीर्तयति, तदा एष किं वक्ष्यतीति सावधानत्वं भवति इति । स्वयं वा गोत्रसङ्कीर्तनम् । अत्र श्रीबो हि निजकुलमहत्त्वं प्रायेण कथयति । गाव- स्तिष्ठन्त्यस्मिन्निति गोष्ठम् ॥ ३८॥ गोष्ठेविति ॥ स कृष्णो गावस्तिष्ठन्त्येष्विति गोष्ठानि गोस्थानानि । 'गोष्टं गोस्थानकम्' इत्यमरः । 'सुपि स्थः' इति कपत्ययः, 'अम्बाऽम्बगोभूमि-' इत्यादिना षत्वम् । गोष्ठीषु वार्तासु । 'गोष्ठी सभाया- मालाप' इति विश्वः। कृतानि मण्डलासनानि मण्डलाकारणोपवेशनानि यैस्तान्मुहुः सनादं वेलाऽट्टाहासा- यारावसहितं यथा तथोत्थाय बलगत उत्पवमानान् कविशं मद्यम् । 'कश्यं मयं च मैरेयं कपिशं कापिशा- यनम्' इति हलायुधः। पिपासतो मुहुर्मुहुः पातुमिच्छतः। पिबतेः सन्नन्तायटः शतरि शप् । स्वगोत्रसङ्की- तेने स्वनामसङ्कीर्त ने भावितात्मनः प्रवर्तितचित्तान् । कृष्णनामानि गायत इत्यर्थः। ग्रामेषु भवान् प्राम्यान् । घोषजनानित्यर्थः । 'ग्रामायखौ' इति यप्रत्ययः । अपश्यदालोकितवान् । स्वभावाक्तिः ॥ ३८ ॥ पश्यन् कृतार्थैरपि बल्लवीजनो जनाधिनार्थ न ययौ वितृष्णताम् ॥ एकान्तमौग्ध्याऽनवबुद्धविभ्रमप्रसिद्ध(१)विस्तारगुणैर्विलोचनैः ॥ ३९ ॥ पश्यन्निति ॥ बल्लवीजनः गोपागनाजनः तं जनाधिनाथं सर्वलोकेश्वरं श्रीकृष्णं विलो- चनैर्नयनैः पश्यन् सन् विलोकयन् सन् वितृष्णतां न ययौ विगततृष्णत्वं न प्राप, तृप्ति नाऽगा- दित्यर्थः । अतिप्रियत्वादिति भावः । किंलक्षणैः विलोचनैः कृतार्थैरपि सफलैरपि । एतदेव चक्षुषः फलं, यत्साक्षाद्भगवद्विलोकनम् । अपि विरोधे, कृतार्थस्य वितृष्णत्वं युक्तम् । अपरं किंलक्षणैर्विलोचनैः एकान्तमौग्ध्याऽनवबुद्धविभ्रमप्रसिद्धविस्तारगुणैः एकान्तेन सहजेन निश्चितेन मौग्ध्येन अवनबुद्धोऽज्ञातो विभ्रमो विलासो यैस्तानि एकान्तमौग्ध्याऽनवबुद्ध- विभ्रमाणि, अतः केवल प्रसिद्धः प्रकाशो विस्तारो विशालत्वमेवं गुणो येषां तानि, ततो विशेषणसमासः । अक्षिणी प्रसार्य नविकारमेव प्रीतिस्निग्धं तास्तमैक्षन्तेत्यर्थः॥३९॥ पश्यन्निति ॥ एकान्तमोग्भ्येनाऽत्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातविलासः किन्तु प्रसिद्धो विस्तार- एव गुणो येषां तैः। अतिविशालैरित्यर्थः । कृतार्थैरपि । सहर्शनाल्लन्धविस्तारफलरित्यर्थः । विलोचनै- अनाधिनाथं कृष्णं पश्यन् बावीजनो गोपालनाजनः वितृष्णता तृप्तता न ययौ । भूयोभूयः पश्यत्रपि (१)विभ्रमैः प्रसिद्ध। ।

४२४
सन्देहविषौषधिसर्वपायुते [द्वादशः-
नाऽलम्बुद्धिमवापत्यर्थः । तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्याऽनुत्पत्तोषोक्तिः । सा कृष्णस्य मदनकोटि-
लावण्यलक्ष्मी व्यञ्जयति ॥ ३ ॥
प्रीत्या नियुक्तॉल्लिहतीः स्तनन्धयानिगृह्य पारीमुभयेन जानुनोः ॥
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ॥४०॥
प्रीत्येति ॥सः श्रीकृष्णः गोदुहः गोपालान् चिर दीर्घकालं निदथ्यौ अद्राक्षीत् । कि-
कुर्वतः गोपालान् रोहिणीः गाः पयः दुग्धं दुहतः दोहमानान् (?), इति द्विकर्मको दुहिः ।
किंलक्षणा रोहिणीः नियुक्तान् मुक्तान् स्तनन्धयान् वत्सान् प्रोप्या स्नेहेन लिहन्तीः जिह्वया
मार्जन्तीः, किं कृत्वा दुहतः जानुनोः उभयेन उरुपर्वणः युगलेन पारी निगृह्य गोदो-
हनीमवष्टभ्य, किंलक्षणं पयः वर्धिष्णुधाराध्वनि वर्धिष्णुः प्रतिक्षणं वर्धनशील: महान्
धाराध्वनिः धारापातशब्दो यत्र तत् इति बाहुल्योक्तिः ॥ ४० ॥
प्रीत्यति ॥ नियुक्कान् वामपादे एव संयतान् स्तनं धयन्ति पिबन्तीति स्तनन्धयान्वत्सान् । 'नासिकास्तन-
योधेिटोः' इति धेटः खश्प्रत्ययः । प्रीत्या वन्साल्लिहतीर्जिया स्वादयन्तीः रोहिणीर्गाः । 'अर्जुन्यध्न्या
रोहिणी स्यात्' इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुयेन पारी दोहनपात्रीम् । 'पारी पात्रीपरागयो।'
इति विश्वः। निगृह्य निरुध्य । वर्धिष्णुधाराध्वनि वर्धनशीलक्षीरधाराशन्दं यथा भवति तथा दुहतः
प्रपूरयतः । दुहेर्लटः शतरि शप् 'दुह्याच्-' इति द्विकर्मकत्वम् । गां दुइन्तीति गोदुहो गोदोहकान् ।
'मत्सूद्विष-' इत्यादिना क्किए । स हरिश्चिरं निदध्यावलोकयति स्म । 'निध्यानमवलोकनम्' इति वैज-
यन्ती। स्वभावोक्तिः ॥ ४० ॥
अभ्याजतोऽभ्यागततूर्णतर्णकानिर्याणहस्तस्य पुरो दुधुक्षतः ॥
वर्गादवां हुकृतिचारु निर्यतीमरिर्मधोरेक्षत गोमतल्लिकाम् ॥४१॥
अभ्याजत इति ॥ मधोः अरिः कैटभरिपुः श्रीवासुदेवः गोमतलिलकां साध्वी
गाम् ऐक्षत अपश्यत् । 'भद्रा गौर्गोमतल्लिका' इत्यमरः । किंलक्षणां गोमतलिकां गवां
वर्गात् धेनूनां यूथानिर्गतां पृथग्भवन्ती, क्व दुधुक्षतः दोग्धुमिच्छतः गोदुहः पुरोऽग्रे,
किंलक्षणस्य दुधुक्षतः अभ्याजत: अभ्याजयति इति आकारयतीति अभ्याजन् तस्य एहिं
एहि मातरित्याह्वयतः, किंलक्षणस्य दुधुक्षतः निर्याणहस्तस्य निर्याणं रजुर्हस्ते यस्य सः
तथा तस्य रज्जुपाणे:, अपरं किंलक्षणां गोमतल्लिकाम् अभ्यागतवर्णतर्णकाम् अभ्यागतो
निकटं प्रातः तूर्णमुड्डीयमानः तर्णको वत्सो यस्याः सा तथा तां, कथं निर्यती हुड्कृति-
चार यथा स्यात् हुकृत्या हुकारेण चारु मनोहं भवति यत्र क्रियायां तद्यथा । अभ्या-
जनमाकारणमन्त्रः ॥ ४१ ॥
अभ्याजत इति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः अओर्लट: शत्रादेशः। निर्याण पाद-
बन्धनं दाम । 'निर्याणं दाम सन्दानं पशूना पादबन्धने' इति वैजयन्ती । तत् हस्ते यस्य तस्य निर्याण-
हस्तस्य दुधुक्षतो दोग्धुमिच्छतः । दोग्धुरितिशेषः । दुहेः सन्नन्ताल्जटः शत्रादेशः घत्वधत्वे । पुरोऽग्रे-
भ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोतिबालो वत्सो यस्यास्ताम् ।'सयो जातस्तु तर्णकः'
इत्यमरः । गवा वर्गादोबजात् हुस्कृतिचारु हुङ्कारमनोहरं यथा तथा निर्यती निर्गच्छन्तीम् । इणः शतरि
डीप । इणो यणादेशः। प्रशस्ता गा गोमतल्लिकाम् । 'प्रशंसावचनैश्च' इति नित्यसमासः ।
'मतल्लिका मचर्चिका प्रकाण्डमुदतल्लजी ।
प्रशस्तवाचकान्यमूनि-
इत्यमरः । मधोररिर्मधुसूदन एक्षत ईक्षितवान् । ईक्षतेलकि 'आडजादीनाम्' इत्याद् । 'भाट' इति
वृद्धिः । स्वभावोक्तिः ॥११॥

सर्गः।] शिशुपालवधे। ४२५ स वीहिणां यावदपासितुं गताः शुकान् मृगैस्तावदुपद्रुतश्रियाम् ॥ कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥४२॥ स इति ॥ स हरिः कैदारिकाणां केदारसमूहाना क्षेत्रसमूहानां गोपिकाः गोप्नीः सहास सस्मितं यथा भवत्येवं विलोकयामास आलोकयति स्म । किलक्षणा गोपिकाः किलक्षणानां कैदारिकाणाम् , इति विशेषणद्वयेन हासकारणमाह-यावत् शुकान् कीरान अपासितु वारयितुं गताः धाविताः तावत् मृगैरुपद्रुतश्रियां हरिणैरुपभुक्तसम्पदां, किंलक्षणानां कैदारिकाणां व्रीहिणां बीहयः कलमाद्या विद्यन्ते येषु तानि नोहिणि तेषां व्रीहिणां सजात- सस्यानां, किंलक्षणा गोपिकाः अभितः पक्षद्वये समाकुलाः व्यग्राः, किर्तव्यतामूढाः इत्यर्थः । अतो भगवान् ताः सहासमैक्षत ॥ ४२ ॥ स इति ॥ यावच्छुकान् कीरानपासितु गतास्तावन्मृगरुपदुतश्रियामुपद्रुनसम्पदा बौहिणा बाहिमताम् । 'बीद्यादिभ्यश्च' इतीनिप्रत्ययः । कैदारिकाणा क्षेत्रसमूहानाम् । 'पुनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । केदारकं स्यात्कैदार्य क्षेत्रं कैदारिकं गणे' ॥ इत्यमरः । 'ठञ् कवचिनश्च' इति चकारा प्रत्ययः। कृयोगात्कणि षष्ठी । गोपिकाः गोत्रीभितः समाकुला व्यग्राः । उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासाऽवलोकनस्य विशेषणगत्या समाकुलपदार्थ हेतुकत्वात्कायलिङ्गभेदः ॥ ४२ ॥ व्यासेद्धमस्मानवधानतः पुरा चलत्यसावित्युपकर्णयन्नसौ ॥ गीतानि गोप्याः कलमं मृगव्रजोन नूनमत्तीति हरिय॑कल्पयत(१) ॥४३n व्यासेधुमिति ॥ असौ हरिः श्रीकृष्णः सस्यजिघत्सानिवृत्तं हरिणयूथं दृष्ट्वा इत्येवं व्यकल्पयत् विकल्पं चकार, यदि वा व्यतर्कयत् ऊहामास । किमित्याह-एष मृगवृजः सारङ्गसार्थः गोप्याः सस्यरक्षिकायाः गीतानि गानानि उपकर्णयन् शृण्वन् सन् नूनं निश्चि- इतिअस्मात् कारणात् कलमं शालिं न अत्ति न भक्षयति । तमेव हेतुमाह-व्यासेद्धमिति । ते हि एवं व्यचिन्तयन्-यदि वयं सस्यं भक्षयामः तर्हि अस्मान् व्यासेधुमपासितुम् उद्यता सती एषा गोपी अवधानतः ऐकाग्र्यात् पुरा चलति चलिष्यति अवधानतः निवर्तते । यावत्पुरानिपातयोर्लट् । न घयममः, इतीव कलम मृगव्रजाः न जक्षुरिति व्यकल्पयत् ॥४३॥ प्यासेद्धमिति ॥ गोप्याः शालिगोप्याः । गौरादित्वान्डीप् । गीतान्युपकर्णयशण्वन असे। मृगजो नूनं निश्चित कलमं नाऽत्ति न खादति इति । कि कलमभक्षणे गीतश्रवणविशेष इत्यत आह-असौ गोपी अस्मान्व्यासेछु निवारयितुमवधानतो गीतकामयात पुरा चलति चलिष्यति । यावत्पुरानिपातयोर्लट्' हाते भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिय॑लोकयत् । अत्र मृगाणां कलमखादननिवृत्तीना- ऽऽसक्किनिमित्नायास्तदाकर्णनसुखभनन्हेतुकत्वमुत्प्रेक्ष्यते ॥ १३ ॥ लीलाचल(२) स्त्रीचरणाऽरुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ॥ शौरेरुपाऽनूपमुपाच्छिन(३)न्मनः स्वनान्तरादुन्मदसारसाऽऽरवः॥४४॥ लीलेति ॥ उपाऽनुपम् अनूपसमीपे जलप्रदेशे उन्मदसारसाऽऽरवः मत्तलक्ष्मणाविराव: सः शौरेः श्रीवासदेवस्य मनः चित्तं कर्म स्वनान्तरात् उपाच्छिनत् स्तान्तरानिवर्त्य आत्म- कविषयं चक्रे । तमेव स आकर्णयदित्यर्थः । किलक्षणः उन्मदसारसाऽऽरवः लीलाचलस्त्रीचरणा- ॥ । (१)व्यलोकयत्। (२)चलत्। (३)मुपाहर० ।

४२६ सन्देहविषौषधिसर्वकषायुते [ द्वादशः- ऽरुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः लीलया विलासेन चला गच्छन्ती या स्त्री नारी तस्या यौ चरणौ पादौ तावेव अरुणोत्पले रक्तकमले तत्र स्खलन्त्यो याः तुलाकोव्यः नूपुराणि मीराणि तेषां यो निनादः शिञ्जित तद्वत् कोमलः, तत्सदृशो मृदुल इत्यर्थः । अतश्च नूपुरवात् तदेकाग्रत्वं चेतसो युक्तम् । अनुगता आपो यत्रेत्यनूपः, ऊदनोदेशे । 'जलप्रायम- नूपं स्यात्', 'पादाङ्गदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः ॥ ४४ ॥ लीलोन ॥ अनुगता आपो येषु ते अनूपा जलप्रायदेशाः । 'जलप्रायमनूपं स्यात्'सि कच्छस्तथा- विधः' इत्यमरः । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' इति बहुव्रीहि: 'ऋक्तः-' इत्यादिना समासान्तः 'उदनोशे' इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले भियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यो ये तुलाकोटी नूपुरी । पादाङ्गदं तुलाकोटि- मञ्जीरो नूपुरोऽभियाम्' इत्यमरः । तयोनिनाद इव कोमलो मधुर उन्मदासारसाऽऽरवः मत्तहसकूजितम् । 'चक्राइसारसौ हंसे' इति शब्दार्णवे । शौरमनः स्वनान्तरादपाहरत् । अत्र मनोहरस्य ली लेत्यादि- विशेषणार्थहेतुकत्वादुपमासङ्कीर्ण काव्यालङ्गम् ॥ १४ ॥ उच्चैर्गतामस्खलितां गरीयसीं तदाऽतिदूरादपि तस्य गच्छतः ॥ एके ऽग्रहीषु(१)बलरेणुसंहति शिरोभिराज्ञामपरे महीभृतः ॥ ४५ ॥ उच्चैर्गतामिति ॥ तस्य श्रीकृष्णस्य गच्छतः चलतः सतः एके महीभृतः पर्वताख्या- अतिदूरादेव अतिविप्रकृष्टादेव शिरोभिः शृङ्गः कृत्वा बलरेणुसंहति सैन्यधूलिपटलमग्रहीषुः अगृहन् । धारयामासरित्यर्थः । अपरे तु महीभृतः नृपाख्याः शिरोभिः मस्तकैः कृत्वा आां शासनमग्रहीषुः आददिरे । किंलक्षणां बलरेणुसंहतिम् उच्चैर्गता नभोव्यापिनीम् , अपरं किलक्षणां रेणुसंहतिम् अस्खलितां सर्वत्र अनिषद्धप्रसरत्वात् अनिवारिताम् , अपर किंलक्षणां गरीयसी बहुलाम् । आज्ञामपि उच्चैर्गतामुन्नतां नाकलोकेऽपि प्रसृताम् । अपरं किंलक्षणामाज्ञाम् अस्खलितामप्रतिहतां सरप्यनुष्ठानान् , अपरं किंलक्षणामाज्ञां गरीयसी महाप्रयोजनां सर्वार्थप्रदत्वात् ॥ ४५ ॥ उच्चैर्गतामिति ॥ तदा तस्मिन्समये अतिदूराद्च्छतोऽपि तस्य हरेः सम्बन्धिनीमुच्चैर्गतामत्यूल- मुन्त्रताम् , अन्यत्रोर्वलोकेष्वपि व्याप्तामस्खलितामभगुरां सत्यां च गरीयसीमातिमहती पूज्यां च बलरेणुसंहति सेनारेणुसङ्घातमेके कतिपये महीभृतः पर्वता अज्ञां शासनम् , अपरे महीभृतो राजानश्च शिरोभिः शेखरैः शीर्षश्च समूहुः संवहन्ति स्म । बहेलिटि झेरुसि 'वचिस्वपि-'इत्यादिना सम्प्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्कवेलप्रकृतास्पदा तुल्ययोगिता श्लेषप्रतिभो- स्थापिता चेति सङ्करः ॥ ४५ ॥ प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाऽधिरोहति ॥ सेना मुरारेः पथ एव सा पुनर्महामहीध्रान् परितोऽध्यरोहयत् ॥ ४६॥ प्रायेणेति ॥ इह ईदृशी स्थिति:-जनो लोकः प्रायेण बाहुल्येन समेनैव पथा अविष- मेणैव मार्गेण नीचानपि मेदिनीभृतः खर्वानपि पर्वतान् अधिरोहति आक्रामति । अधिरो- हणे पथः करणत्वम् । सा पुनः मुरारे: श्रीकृष्णस्य सेनापताकिनी पथः मार्गानेव महामही- धान् महागिरीन् परितः समन्तात् अध्यरोहयत् अधिरोहयति स्मेति बाहुल्योतिः । पर्व- ताऽयं यावत् अपूर्वा बहुरथ्याश्चकारेत्यर्थः । अतश्च महान् विशेषः, यतोऽन्यत्र पथो जनो- ऽधिरोहयते, अत्र तु जनौधैस्ते.मार्गमधिरोहिताः ॥ ४६ ॥ -- (१)समूहु।

सर्गः।] शिशुपालवधे। ४२७ प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान कुब्जानपि मेदिनीभृतोऽद्रीन जनो लोकः समेन सुगमन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीमान्महादीन् परितोऽध्यरोहयत् । लोके हि मति क्षुण्णेऽध्वनि तेन शैलारोहणसम्भवः । सेना सर्वपथातिरेकिण्यभूत् । पूर्वापराः सहलं पन्थान: स्वारोहणेन प्रवर्तिता इत्यर्थः । रोहतगत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना पथामाणकर्तृणां णौ कर्मत्वम् । महीं धरन्तीति महीनाः । मूलविभुजादित्वात् कः । अत्र सेनायाः पथा शलाधिरोहणेनोपमानाजनादाधिक्य- कथनास्यतिरकः ॥ ४६॥ दन्ताग्रनिर्मिन्नपयोदमुन्मुखाः शिलोचयानारुरुहुर्महीयसः ॥ तिर्यकटप्लाविमदाऽम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥ ७ ॥ दन्ताग्रेति ॥ द्विपा हस्तिनः महीयसः उन्नतान् शिलोच्चयान् पर्वतान् आरुरुहुः अध्यारोहन् । किंलक्षणाः द्विपाः उन्मुखाः ऊर्ध्वमुखाः, कथं यथा भवति दन्ताऽग्रनिर्भिन्न- पयोदं यथा भवत्येवं विषाणकोटिविपाटितजलधरं यथा भवत्येवम् , आरोहणमन्यत्कर्थ यथा स्यात् तिर्यक्कटप्लाविमदाऽम्बुनिम्नगाविपूर्यमाणश्रवणोदरं यथा स्यात् तिर्यक् तिरश्चीना कटप्लाविनी गण्डस्थलव्यापिनी याऽसौ मदाम्बुनिम्नगा दानवारिनदी तया विपूर्यमाणं भ्रियमाणं श्रवणोदरं कर्णविवरं यत्र क्रियायां तद्यथा भवत्येवम् ॥ ४७ ॥ दन्तामति ॥ द्वाभ्यां पिबन्तीति द्विपाः। 'सुपि' इति योगविभागात कप्रत्ययः । उन्मुवा उत्रमितमुखाः सन्तः दन्ताननिर्मिन्ना विदारिताः पयोदाः शृङ्गगता यस्मिन्कर्मणि तयथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्वीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिर्मदाऽम्बुनिम्नगाभिमदजलप्रवाहविपूर्यमाणानि श्रवणो- दराणि यस्मिन्कणि तयथा तथा महीयसो महत्तराशिलोचयानाहरुहुः । स्वभावोक्तिः ॥ ४० ॥ श्च्योतन्मदाऽम्भःकटकेन(१) केनचिजनस्य जीमूतकदम्बकधुता ॥ नागेन नाऽगेन गरीयसोचकैररोधि पन्थाः पृथुदन्तशालिना ॥ ४८ ॥ श्च्योतन्मदेति ॥ सत्यपि साम्ये सैन्यस्य नागेन इभेन जनस्य पन्थाः सैन्यलोकस्य मार्गः अरोधि रुद्धः, न तु अगेन अद्रिणा । किंलक्षणेन नागेन श्च्योतन्मदाअभःकटकेन श्च्योतत् पतत् मदाम्भः दानाम्बु याभ्यां तौ श्च्योतन्मदाऽम्भसौ गलन्मदाऽम्बू एवंभूतौ कटको गण्डौ यस्य सः तथा तेन, अपरं किंलक्षणेन गजेन जीमूतकदम्बकधुता जलदवृन्द- मलिम्लुचेन, जीमूतकदम्बकवत् मेघवृन्दवत् द्योतते शोभते इति जीमूतकदम्बकद्युत् तेन, अपरं किलक्षणेन नागेन गरीयसा अतिमहता, अपरं किंलक्षणेन नागेन उच्चकैः उन्नतेन, अपरं किलक्षणेन नागेन पृथुदन्तशालिना विशालविषाणवितेन । अगेनाऽपि किलक्षणेन स्त्रवन्मदजलसम्पृक्तसानुना मेघमेचकेन बृहता उच्चेन दीर्घदन्तशालिना पृथुगलितपाषाण- शोभिना । दन्ता गलितपाषाणाः । अत्र दन्ताः कटकश्च(२) ॥ ४० ॥ श्च्योतन्मदेति ॥ च्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैषिकः कप्प्रत्ययः। जीमून- कदम्बकस्येव युत् युतिर्यस्य तेन । पृथुभ्यो दन्ताभ्यां शालत इति तच्छालिना गरीयसा गुरुतरेणोच्चकैरुत्र- तेन केनचित्रागेन गजेन जनस्य पन्था मार्गः यथारोधि, अगेनाऽचलेन न तथाऽरोधि रुद्धः । मत्तमानस्य दुरासदत्वाच्छेलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य नागस्याधिक्यायातरेकः॥४८॥ भन्नद्रुमाश्चरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ॥ पिष्टाऽद्रिपृष्ठास्तरसा च दन्तिनश्चलभिजाङ्गाऽचलदुर्गमा भुवः ॥ ४ ॥ (१)कणकेन। (२) अन किश्चिदपेक्षितम् ।

४२८
सन्देहविषौषधिसर्वकषायुते-
[द्वादशः-
भग्नद्रुमा इति ॥ दन्तिनो गजाः दिशः काष्ठाः च अपरं भुवः भूमीश्च एवंविधाश्चक्रुः
व्यधुः । किंलक्षणाः दिशः इतस्ततः भाद्रुमाः उन्मूलितवृक्षाः, अपरं किलक्षणाः समुल्लस-
त्केतनकाननाकुलाः स्फुरध्वजवनव्याप्ताः, भुवः किंलक्षणाः तरसा कृच्छ्ण पिष्टाऽद्रिपृष्ठाः
चूर्णीकृतनगशिखराः, अपरं भुवः किंलक्षणाः चलनिजागाऽचलदुर्गमाः चलगिर्गच्छद्रिनिजा-
ऽगैरेव स्वशरीरैरेव अचलैः दुर्गमाः दुष्प्रवेशाः। अयमत्रार्थो विवक्षितः-यद्यपि गमनप्रत्यूहा-
स्तत्र ते दिक्षु छन्नास्तथापि तत्स्थानीयैश्च गहनीकृताः। तथा यद्यपि नगपृष्ठं गहनीकृतं समी-
कृतं, तथापि स्वात्मभिरेव नगोपमैस्तथाऽऽकुलमेवेति । कृच्छ्रे गोपगम्यते इति दुर्गमाः ४९
भनगुमा इति ॥ दन्तिनो गजा इतस्ततो भनटुमाः स्वभनाऽखिलवृक्षाः दिशः समुल्लसद्भिः केतनरेव
काननराकुलाः मङ्कीर्णाश्चकुः । तथा तरसा बलेन पिष्टाने चूर्णितान्यदिपृष्ठानि यासु ता भुवो भूमी: चल-
द्विर्निजानेवाग्चलैर्दुर्गमा दुष्पापाचक्रुः । अत्र केतनेष्वङ्गेषु च काननाऽचजत्वरूपणाद्रूपकालङ्कारः। तेन
गजानां पुरातनसृष्टिसंहारेण मृष्टयन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्य गम्यत इत्यलकारेण वस्तुध्वनिः ॥१९॥
आलोकयामास हरिमहीधरानधिश्रयन्तीर्गजताः परःशताः ॥
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥ ५० ॥
आलोकयामासेति ॥ स हरिदेवः गजताः करिसमूहान् आलोकयामास, अपश्यत्
किलक्षणाः गजताः परःशताः बहुसंख्याकाः । परःशतास्ते विज्ञेया येषां संख्या शतात्परा' ।
अपरं किलक्षणाः गजताः उपत्यकाभ्यः अधोभागेभ्यः महीधरान् अधिश्रयन्तीः अद्रीन्
आरोहन्तीः । अपरं किलक्षणाः गजताः, उत्प्रेक्ष्यन्ते-ब्यहतीः शिला इव महतीः दृषद-
इव । कथमुपरि हषदो भवन्तीत्याह-किलक्षणाः शिलाः उत्पातवातप्रतिकूलपातिनीः उत्पा-
तवातेन उन्मत्तवायुना प्रतिकूलं विपरीतं नीचात् उचैः पतन्तीत्येवंशीला: विपर्ययगामिनीः ।
ऊध्वं यान्तीरित्यर्थः । गजानां समूहो गजता । 'उपत्यका रास्ता भूमिरित्यमरः५०
पालोकयामासेति ॥ हरिमहीधरानविप्रयन्ती: परशताः शतात्पराः । असख्याता इत्यर्थः । 'पर:-
शताधास्ते येषां पर माया शताऽधिकात्' इत्यमरः । 'पञ्चमी' हाते योगविभागात्समासः । राजदन्तादि-
त्वादुपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्मुडागमः । गजताः गजसमूहान । 'गजाचेति
वक्तव्यम्' इति सामूहिकस्तल्पत्ययः । उपत्यकाभ्य आसत्रभूमिभ्यः । 'उपत्यकाऽदेरासना भूमिः' इत्यमरः ।
'उपाधिम्या त्यकशासनारूढयोः' इति त्यकन्प्रत्ययः । उत्पातवातेन तत्पतिकूलं पतन्तीति तत्पातिनीः ।
उर्ध्वगामिनीरित्यर्थः । बृहती: शिला हवेत्युत्प्रेक्षा । आलोकयामास ॥ ५० ॥
शलाधिरोहाभ्यसनाधिकोदुधुरैः पयोधरैरामलकीवनाश्रिताः ॥
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ ५१ ।।
शैलेति ॥ पार्वतीयप्रमदाः गैरेयनार्यः तं श्रीकृष्णं चचायिरे अद्राक्षुः । किंलक्षणाः
पर्वतीयप्रमदाः आमलकीवनाश्रिताः धात्रीकाननाश्रिताः, आमलकीवनेषु तिष्ठन्त्य इत्यर्थः ।
अपरं किलक्षणाः पर्वतीयप्रमदाः पयोधरैः स्तनैः उपलक्षिताः, किंलक्षणैः पयोधरैः शैला.
धिरोहाभ्यसनाऽधिकोधुरैः शैलेषु पर्वतेषु अधिरोहणमभ्यसनं परिशीलनं तेन अधिकमुद्धराः
उन्नताः तैः पर्वताक्रमणाभ्यासनितान्तोन्नतिभिः । आरोहेण स्तना उन्मुखा भवन्ति । अपर
किलक्षणा पर्वतीयप्रमदाः विकासविस्फारितविभ्रमेक्षणाः विकासेन अत्युन्मीलनेन विस्फा-
रितविभ्रमाणि प्रवर्धितविलासानि ईक्षणानि नयनानि यासां तास्तथा। तदा हि भगवदर्शन-
गाध्येन विलोचने तामिविकासिते, तदाऽपाडगे प्रेक्षितादीनि तासां चितेन पुस्फुहः॥५१॥

सर्गः ।। .. शिशुपालवधे। ४२९ शैलेति ॥ शैलाधिरोहाभ्यसनेन पर्वतारोहणाभ्यासेनाऽधिकोधुरैरत्युत्रतैः पयोधरेः स्तनैरुपलक्षिताः मामलकीवनाश्रिता धात्रीवनगताः, पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । 'पर्वताच' इति प्रत्ययः । तेषां प्रमदाः । विकासेन विस्मयकृतविस्तारेण विस्फारिता विवर्तिता विभ्रमा विलासा येषा तानीक्षणानि यासा तास्तथा सत्यः तं हरि चचायिरे ददृशुः । 'चाय पूजानिशामनयोः' इति धातोः कर्तरि लिट् । निशामनं दर्शनम् । 'निशक्षणनिशामने' इति दर्शनपर्यायेषु भट्टमनः । एतेन हरेरौंकोत्तरं लावण्यं व्यज्यते इति वस्तुना वस्तुध्वनिः । स्वभावोक्तिवृत्त्यनुप्रासयोः समृष्टिः ॥ ५१ ॥ सावशमुन्मील्य विलोचने सकृत् क्षणं मृगेन्द्रण सुषुप्सुना पुनः ॥ सैन्यान यातः समयाऽपि विव्यथे कथं सुराजम्भवमन्यथाऽथ वा ॥५२॥ सावज्ञमिति ॥ मृगेन्द्रेण सिंहेन सैन्यात् कटकात् न विव्यथे न भीतम् । कदाचित दवीयो भवेनेत्याह-किलक्षणात् सैन्यात् समया अन्तिके यातोऽपिव्रजतोऽपि, किलक्षणेन मृगेन्द्रेण सकृत् एकवेलं सावज्ञं सावहेलं विलोचने नेत्रे उन्मील्य विकास्य पुनर्भूयोऽपिसषुष्मना शिशयिषुणा । अत्रैवाक्षेपपूर्वमर्थान्तरन्यासमाह-अथ वा युक्तमिदम् , अन्यथा धैयं विना कथं सुराजम्भवं यदि धैर्य न भवेत् तत कथं सुराजम्भवं तहि कथं सुराज्ञा भूयते ॥१२॥ सावज्ञामिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । 'एकस्य सकृत्' इति सकृदयें निपातः। क्षणमुन्मील्योन्मिष्य । पुनः सुषुप्सुना स्वातुमिच्छुना | स्वपे: सत्रन्तादुपत्ययः । 'रुदविद-' इत्यादिना सन: कित्त्वात् 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । 'ममया- निकषाशब्दौ समीपे सम्प्रकीर्तितौ' इति सज्जनः। यातो गच्छतोऽपि । यातेर्लटः शश्रादेशः । सैन्यात् मनातः । 'भीत्रार्थाना भयहेतुः' इत्यपादानत्वम् । न विव्यथे न बि-ये। 'व्यथ भयसञ्चलनयोः' इति धातो- भीवे लिट् । अथवा । तथा होत्यर्थः । अन्यथा भीतत्वे कथं सुराजम्भव सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चाऽयं मृगाणामिति भावः । कर्तृकर्मणोश्च भूकृयोः' इति कर्तरीषदादौ चोपपदे भवतेः खल्. प्रत्यये नलोपमुमागमा। अर्थान्तरन्यासः ॥ ५२ ॥ उत्सेधनिघूतमहीरुहं (१) ध्वजैर्जनौघरुद्धोद्धतसिन्धुरंहसाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपार तन्महीभृताम् ॥ ५३ ॥ उत्सेधेति ॥ तदुलं सैन्यं महीभृतामद्रीणाम् उपरि बभूव उपर्यभूत्, अथ च अधिक- मभवत् । किंलक्षणं बलं ध्वजैः पताकामिः उत्सेधनिघृतमहीरुहम् उत्सेधेन उच्छ्रायेण निधूता निराकृताः तिरस्कृताः महीरुहा वृक्षा येन तत्, किंलक्षणानां महीभृतां जनौघ- रुद्धोद्धतसिन्धुरहसां जनौधेन जनसमूहेन एवं निषिद्धम् उद्धतानां क्षुभितानां सिन्धूनां सरितां रहो वेगो येषां ते तथा तेषाम् , अपरं किलक्षणं बलं मुहुरत्यर्थ नागैर्गजैः अधः- क्षिप्तमहाशिलम् अधःक्षिता निरस्ताः तिरस्कृताः महाशिला महोपला येन तत्तथा ॥१३॥ उन्सेपोत ॥ नागैर्गजैरधिक्षिप्तास्तिरस्कृता महाशिला येन तद्वलं सन्यं ध्वजैरुत्सेधेनौन्नत्येन नि ता- अवगणिता महीरुहो येषु तेषाम् । 'उत्सेधश्वोच्छ्यश्च सः' इत्यमरः। जनरवरुद्धं प्रतिबद्धमुद्धतमुढेलं सिन्धुरंहो नदीगो येषां तेषां महीभृतो पर्वतानामुपरि मुहुर्बभूव । मार्गवशात् भूयसो भूधरान् मुहुराहरोहे- त्यर्थः । 'हयोघरुद्ध' इति पाठे यौधेन घोटकसमूहेन रुद्धमित्यादि पूर्ववत् । अत्राऽवरोहणवदुत्कर्षश्वोपरि- भावो विशेषणवैभवात्मतीयत इति तदमे देनाऽपरिभावस्य बलभूधरविशेषणपदार्थ हेतुकत्वात् श्लेषप्रतिभो. स्थापितकाम्यलिङ्गविशेषः ॥ ५३ ॥ श्मश्रयमाणे मधुजालके तरोगजेन गण्डं कषता विधूनिते ॥ क्षुद्राभिरक्षुद्रतरामिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४॥ (१) महारुहो।

४३० सन्देहविषौषधिसर्वकषायुते [द्वादशा- श्मश्रूयमाणे इति ॥ जनेन लोकेन आकुलं समयं यथा स्यात्तथा दुद्रुवे पलायितम् । किंलक्षणेन जनेन अक्षुद्रतराभिः बृहतीभिः सान्द्रामिः क्षुद्राभिः मधुमक्षिकामिः विदश्य- मानेन पीड्यमानेन अद्यमानेन, क सति गजेन करिणा गण्डं कषता कपोलं घर्षमाणेन सता मधुजालके मधुमक्षिकापटले विधूनिते कम्पिते सति, किंलक्षणे मधुजालके तरोवृक्षस्य श्मश्रूयमाणे काात् कूर्चकलापकतुल्ये। अतो गजकम्पितवृक्षाश्रितमधुमक्षिका जनान् जक्षुरित्यर्थः । श्मश्च इवाचरति ॥ १४ ॥ श्मभूयमाणे इति ॥ तरोवृक्षस्य श्मश्रूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमाऽल. कारः । श्मशब्दाचारे क्यङन्ताबाटः शानजादेशः 'अकृत्सार्वधातुकार्दीर्घः। गण्ड कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके खौद्रपटले विधूनिते कम्पिते सति । धूम्रो ण्यन्तात्कमणि का 'धूपी- जोर्नुग्वनव्यः' इति नुगागमः । अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका' इत्यमरः। विदश्यमानेन चञ्चुभिभिद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुदुवे पलायितम् । भावे लिट् । स्वभायोक्तिरुक्कोपमासंमृष्टा ॥ ५४ ॥ नीते पलाशिन्युचिते शरीरवद्गजान्तकेनाऽन्तमदान्तकर्मणा ॥ सञ्चेरुरात्माम इवाऽपरं क्षणाक्षमारुहं देहमिव प्लवङ्गमाः ॥ ५५॥ नीते इति ॥ प्लवङ्गमाः वानराः अपरमन्यं क्षमारुहं वृक्ष क्षणादेव तत्कालं सञ्चेरुः संक्रान्ताः । क सति गजाऽन्तकेन मतङ्गजकालेन पलाशिनि वृक्षे अन्तं नीते सति नार्श प्रापिते सति, किंलक्षणे पलाशिनि उचिते वासयोग्ये, किंलक्षणेन गजाऽन्तकेन अदान्तकर्मणा क्रूरकर्मणा, किंवत् शरीरवत् देहे इव, के इव आत्मान इव । यथा आत्मानो जीवाः अपर देहं सञ्चरति संक्रामन्ति । क सति अन्तकेन यमेन शरीरे वपुषि अन्तं नीते सति, किंलक्षणे शरीरे उचिते योग्ये । यथा अन्तकेन देहे अन्तं नीते सति देही देहान्तरं ब्रजति, एवं हस्तिना वृक्षे उन्मीलिते सति वानरा अन्य वृक्षम् आयन्निति । उक्तं च- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥ वृक्षस्य देह उपमान, गजस्य अन्तकः, वानराणामात्मानः ॥ १५ ॥ नीते इति ॥ उचिते परिचिते पलाशिनि दुमे । 'पलाशी दुदुमाऽगमाः' इत्यमरः । शरीरवत्पूर्वशरीर- वत् । 'तत्र तस्येव' इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्सव्यापारण, गजोऽन्तक इवेत्युपमितसमासः, साहचर्यात् । तेन गजान्तकेनातं नाशं गमिते सति प्रवर्गच्छन्तीति प्लवङ्गमाः कपयः । 'गमेश्च' इति खच्प्रत्यये मुमागमः । आत्मानो जीवा हवाऽपरं क्षमारुह देहमिव क्षणात्सञ्चेरुः। सम्प्रविष्टा इत्यर्थः । अने- केशन्दवाक्यार्थोपमा । सा च शरीरवदिति तद्धितगता, अन्यत्र सयासगतेति महुरः ॥ ५५ ॥ प्रहानतीव क्वचिदुद्धतिश्रितः कचित्प्रकाशानथ गहरानपि । साम्यादपेतानपि (१)वाहिनी हरेस्तदाऽतिचक्राम गिरीन्गुरूनपि ॥ १६ ॥ प्रहानिति ॥ अथाऽनन्तरं हरेः श्रीकृष्णस्य वाहिनी सेना तदा तस्मिन् काले गुरूनपि गिरीन् महतोऽपि पर्वतान् अतिचक्राम अतिक्रान्तवती। किंलक्षणान् गिरीन् कचित् कस्मिचित् प्रदेशे प्रहान् नीचान् , अपरं किलाक्षणान् गिरीन् कचिद् उद्धतिश्रितः औवत्य- युक्तान् , पुनः किंलक्षणान् कचित् प्रकाशान् प्रकटान् वृक्षलतादिवर्जितान् , अपर (१)निति। .

सर्गः ।] शिशुपालवधे। ५३१ किंलक्षणान् गिरीन् गहरानपि गहनान् वृक्षलतादिसकुलान् , अपर किंलक्षणान् गिरीन् अत एव साम्यात् अपेतान् समभूमित्वरहितान् ॥ १६ ॥ प्रहानिति ॥ क्वचिदतीव नितान्तं प्रह्वान प्रवणान्, अन्यत्रानुकूलान क्वचिदुद्धति श्रयन्तीत्युद्धति- त्रितः त्रत्यभाजः औद्धत्यभाजश्च । श्रयते: विप् तुक । क्वचित्प्रकाशान् प्रकटाननवगूढवृत्तींश्च । क्वाचि- दतिगहारानपि । अपिश्चार्थे । अपवेशान् , अन्यत्र गूढांश्च । इतीत्थं माम्यादपेतान विषमरूपाविषमवृत्तांव। अत एव गुरून्महतोगपि पूज्यानपि गिरीस्तदा हरेवाहिनी सेना अतिचक्रामाऽतीत्य गता उल्लविता च । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपत्रस्य परित्यागो विधीयते ॥ इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोदाटनेन परि- हृत इति विरोधाभासः। स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायात् श्लेषमूलातिशयोक्त्युत्थापित- इति सङ्करः ॥ ५६ ॥ यावद्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः। क्षिप्तं समीरैः सरितां पुरः पतजलान्यनैषीद्रज एव पङ्कताम(१)॥ ५७ ॥ यावदिति ॥ यावदन्तिनां घटाः करिणां श्रेणयः सरितां जलानि न व्यगाहन्त नदीनां पानीयानि न विजगाहिरे, तावद्रज एव रेणुरेव जलानि पङ्कता कर्दमरूपताम् अनै- षीत् निनाय। किंलक्षणं रजःपुरोऽने पतत् भ्रश्यत् , अपरं किंलक्षणं रजः तुरङ्गमैः उदीरितम् अश्वैः उत्क्षिप्त, कैः उत्क्षिप्त खुरैः शफैः, अपरं किलक्षणं रजः समीरैर्वातैः क्षिसं प्रेरितम् । यदिमे व्यगाहिष्यन्त, तदामदजलभएव (१) बहुलीकृतेन जलेन पङ्कतां रजोऽनयदिति भावः५७ यावादिति ॥ दन्तिना घटा गजबजा यावत्र व्यगाहन्त न व्यलोडयंस्तावत्तुरङ्गमैः कर्तृभिः खुरैः कर. गैरुदरितमुत्थापितम् । अथ समीरैः मारुतैः क्षित विकीर्णम् अत एव पुरो गजप्रवेशात्प्रागेव पतजो भूरेणुरेष सरिता जलानि पहतामनषीनिनाय । नयतेद्विकर्मकत्वाल्लुङि वृद्धिः । अत्रापि सरिता पदुत्वा- ऽसम्बन्धेऽपि सम्बन्धोक्तः पूर्ववदतिशयोक्तिः ॥ ५७ ॥ स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ॥ अम्भोभिरुल्लघिततुङ्गरोधसः प्रतीपनानीः कुरुते स्म निम्नगाः ॥५८॥ स इति ॥ सः श्रीकृष्णः तया स्वसेनया निजपताकिन्या निम्नगाः तरङ्गिणीः प्रतीप- नाम्नीः कुरुते स्म पश्चाद्गामिनीः चकार । किंलक्षणा निम्नगाः अम्भोभिरुदकैः उलधित- तुरोधसः अतिक्रान्तोच्चैस्तरतटाः । किंलक्षणया स्वसेनया परितः समन्तात् अपथानपि अमार्गानपि व्याप्तवत्या अश्रुवत्या, अपरं किंलक्षणया स्वसेनया सर्वपथीनया सर्वेषु सम- विषमोन्नतेषु पथिषु गच्छतीति सर्वपथीना तया सर्वमार्गगामिन्या, प्रतीपं प्रतिलोमं गच्छतीति नाम यासां ताः तथा ॥ ५८ ॥ स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गानपि । 'पथो विभाषा' इति निषेधविकल्पात् 'अक्पू:-' इत्यादिना समासान्तः । 'अपथं नपुंसकम्' इति नपुसकत्वम् । व्याप्तवत्याऽपि, सर्वान्पथो व्याप्नोतीति सर्व- पथीना । 'तत्सर्वदि:-' इत्यादिना खप्रत्ययः। तया सर्वपथीनया तया स्वसेनया निमित्ते अम्भोभिरुल्ला- तानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुइरोधासि यासा ताः निम्नं गच्छन्तीति नि- म्नगा मयः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यास ताः प्रतीपाः । 'ऋक्पू:-'इत्यादि- मा समासान्तः । 'बन्तरूपसर्गेभ्योऽप ईत्' इतीकारः। अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा- .. (१) सर्वाषायाम् इत श्लोकात प्राक् 'स व्याप्तषत्या' इति श्लोकः ।

- ४३२ सन्देहविषौषधिसर्वकषायुते [द्वादशः- इति नामधेयं यास ताः प्रतीपनाम्न्यः । 'अन उपधालोपिनोऽन्यतरस्याम्' हाते की । तास्तथा चकारे- त्यर्थः । अत्र निम्नगाना प्रतीपनामासम्बम्धेऽपि सम्बन्धोनरतिशयोक्तिः ॥ ५८ ॥ रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्वजन्तः प्रमदं मदोद्धताः ॥ पडू कराऽपाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ ५९॥ रन्तुमिति ॥ इभाः करिणः समुद्रगाणां नदीनां पडूमुदपादयन् कर्दममुत्पादयामासः । किंलक्षणाः इभाः रन्तुं क्षतोत्तुङ्गनितम्बभूमयः क्रीडितुं विदारितोन्नततटीप्रदेशाः, अपर किंलक्षणाः इभाः अत एव मुहुर्वारंवार प्रमदं हर्ष व्रजन्तः यान्तः,अपरं किलक्षणाः मदोद्धताः मत्ताः, अपर किंलक्षणाः इभाः कराऽपाकृतशैवलांशुकाः हस्तामाकृतजलनीलीवसनाः। येऽपि मदोद्धताः मत्ताः, ते परस्त्रीणां रन्तुं नखैः पीवरां नितम्बस्थली विदारयन्तः, तथा अम्बर चाऽपहरन्तः, अत एव मुहुः प्रमदं हर्ष प्राप्नुवन्तः सन्तः पडू मालिन्यं शीलभङ्गरूप पापमुत्पादयन्ति । 'जलनीली तु शैवाल शेवलः', पोऽस्त्री पापकर्दमा विति विश्वः॥५९॥ रन्तुमिति ॥ रन्तुं क्रीडितुं शता एकत्र विषाणरेन्यत्र नखैश्च विदलिता उत्तुङ्गा नितम्बभूमयों रोधोभागा: श्रोणिभागाश्च येस्ते । 'नितम्बो रोधासि स्कन्धे शिखरेऽपि कटीरके' इति विश्वः। मुहुः प्रमदं हर्षे वजन्तः । मदेन दानेन दर्पण बोद्धताः । करैर्हस्तैरपाकृतानि शवलानि अंशुकानीवांशुकााने यैस्त इभाः समुद्रं गच्छन्तीति समुद्रगाणां समुद्रपत्नीना नदीनाम् । 'एकाजुत्तरपद गः' इति णत्वम् । पर् कर्दमं कलुषं चोदपादयन् । 'पकोऽमी कर्दमैनसोः' इति विश्वः। यथा मद्धताः पराङ्गनाना दोषमुत्पादयन्ति तद्वदिति भावः । अत्र प्रस्तुतेभविशेषणादप्रस्तुतलीसङ्ग्रहणसाहसिकप्रतीतेः समासोक्तिः सीपयोरभेदाभ्यवसाया- दिति श्लेषमूलातिशयोक्त्युत्थापिनेति सङ्करः ॥ ५९ ।। भग्नोरुरोधःपरिपूरिता(१)ऽम्भसः समस्थलीकृत्य पुरातनीनदीः ॥ कूलङ्कषौधाः सरितस्तदा(२)ऽपराः प्रवर्तयामासुरिमा मदाम्बुभिः ॥६०॥ भग्नेति ॥ इभाः गजाः पुरातनीः नदीः पूर्वभवाः तरङ्गिणीः समस्थलीकृत्य समरूपता प्रापय्य तदा तत्रकाले अपराः सरितः अन्या नदीः प्रवर्तयामामुः चक्रिरे । असमस्थलाः समस्थलाः कृत्वा इति समस्थलीकृत्य । कैः प्रवर्तयामासुः मदाऽम्बुभिः दानोदकैः, किंलक्षणाः सरितः कूलङ्कषौघाः कूलङ्कपाः ओघाः प्रवाहाः यासां तास्तथा कूलमुद्रुजःपूराः, अपरं किलक्षणाः सरितः भग्नोरुरोधःपरिपूरिताऽम्भसः भग्नविशालतटभरितपानीयाः, भग्नोरु- रोधोभिः भ्रंशितविशालतटैः परिपूरितं भरितम् अम्भो यासां तास्तथा ॥ ६ ॥ रुग्णेति ॥ इभा रुग्णे नेरुरुभिर्महदी रोधोभिस्तटैः परिपूरिताम्भसः। मृत्क्षेपशाऽषिताम्भस इत्यर्थः । पुराभवाः पुरातनीः 'सायचिरम्-' इत्यादिना ट्युप्रत्ययः तुडागमश्च । 'ठिड्ढाऽणञ्-' इत्यादिना डीम् । नदी समस्थलीकृत्य स्थलसमाः कृत्वा । मदाम्बुभिः स्वमदोदकैः कूलं कपन्तीति कूलरूषाः ओघा यासां ताः उभयकूलप्रवाहिन्योऽपरा अन्याः सरितः प्रवर्तयामासुः । एतेन गजसम्पत्तिरुक्का । अत्र नदीनां समस्थल- त्वात्सम्बन्धे मदाम्बूनां च सरित्त्वामम्बन्धऽपि तत्सम्बन्ध नरतिशयोक्तिरिति सजातीयसङ्करः ॥ ६ ॥ पझेरनन्वीतवधूमुखद्युतो गता न हंसैः श्रियमातपत्रजाम् ॥ दूऽभवन् भोजबलस्य गच्छतः शिलोपमा(३)ऽतीतगजस्य निम्नगाः॥६१॥ परिति ॥ भोजबलस्य श्रीकृष्णसैन्यस्य गच्छतः चलतः सतः निम्नगाः नद्यः दूरे- ऽभवन् । नदीनां बलस्य च महदन्तरं बभूवेत्यर्थः । अथ च अनिकटे लजयाऽभूत्, इति वक्रोक्तिः । ताः बलानि नाऽनुचक्रुरित्यर्थः । किंलक्षणाः निम्नगाः पौः अनन्वीतवधूमुख- (१) रुग्णोरू। (२) स्तथा। (३) शेलोपमा । . ..

सर्गः।] शिशुपालवधे । .. .. युतः अम्बुजैरननुकृतस्त्रीवक्तकान्तयः, अपर किंलक्षणाः निन्नगाः हंसैः मरालैः कृत्वा आत- पत्रां श्रियं छत्रोत्यां शोभा न गताः न प्राप्ताः, किंलक्षणस्य भोजबलस्य शिलोपमाऽतीत- गजस्य दृषदुपमानाऽतिक्रान्तमतङ्गजस्य । गण्डशैलेभ्योऽपि यत्र महान्तो गजाः इत्यर्थः६६ पदमैरिति ॥ पौरनन्वीता अप्राप्ता वधूमुखस्य युत् श्रीर्याभिस्ता: । वधूमुखश्रीजितपमा इत्यर्थः । अन्वीतति 'ईक गती' इति धातोः कर्मणि क:। हमरातपत्रजा छत्रजन्यां श्रियं न गता अगताः । आतपत्र- जितहस श्रीका इत्यर्थः। निम्नगा नद्यः शैलोपमामतीताः शिला(?)साम्यमतिक्रान्ता गजा यस्मिस्तस्य गच्छतेः भोजबलस्य यादवसैन्यस्य दूरेऽभवन । अतिव्यवहिता इत्यर्थः । अपकृष्टाश्चेति गम्यते । तदभेदाध्यवसायेनेत्र निम्नगाना दूरभवनस्य तद्विशेषणपदार्थहेतुकत्वात् श्लेषमूलातिशयोक्तिसमुत्थापितः काव्यलिङ्गभेदः ॥६१॥ स्निग्धाञ्जनश्यामतनूभिरुन्नतैनिरन्तराला करिणां कदम्बकैः ।। सेना सुधाक्षालितसौघसम्पदा पुरां बहूनां परभागमाप सा ।। ६२ ॥ स्निग्धाञ्जनेति ॥ सा हरिसेना बहूनां पुरां भूयसीनां नगरीणां परभागम् आप दूरदेशं लेभे बह्वीः नगरीः अतिचक्रमे(?)। अथ च परभागं शोभाऽतिशयं लेभे इत्यर्थान्तरम्। किंलक्षणा सेना करिणां कदम्बकैः हस्तिनां वृन्दैः निरन्तराला सकुला, किंलक्षणैः करि- समूहैः स्निग्धाञ्जनश्यामतनूभिः अरूक्षकज्जलकृष्णदेहैः, अपरं किलक्षणैः करिकदम्बकैः उन्नतैः उच्चैः, किंलक्षणानां पुरां सुधाक्षालितसौधसम्पदा सुधया दग्धदृषच्चूर्णेन क्षालिता धौताः सौधसम्पदो हhश्रियो यासां तास्तथा सुधाधौतहzश्रियः अतो वर्णद्वय- योगात् परभागप्राप्तेः ॥ ६२ ॥ स्निग्धाञ्जनेति ॥ स्निग्धाञ्जनमिव श्यामाभिस्तनूभिरुनतः करिणा कदम्बकैर्निरन्तराला नीरन्धा मा सेना सुधया लेपनविशेषण क्षालिता धवलित : मौधसम्पदो याप्सा तासाम् । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती। बहूना पुरा पुरीणां परभाग विप्रकृष्टदेशमाप । दूग्मतीत्य गतेत्यर्थः । वर्णोत्कर्षश्च परभागः । तदभेदाध्यववसायेन परभागाप्तौ विशेषणगत्या श्यामकरिकदम्बकनैरन्तर्यस्य हेतुत्वात्पूर्ववत्काव्यलिङ्गभेदः ॥ प्रासादशोमाऽतिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः ॥ नूनं सहाऽनेन वियोगविक्लवा पुरः पुरश्रीरिव(१) निर्ययौ तदा ॥ ६३ ।। प्रासादेति ॥ प्रभोः श्रीकृष्णस्य निवासाः निवेशस्थानानि अध्वनि मार्गे पटवेश्मभिः बभुः दृष्यैः शोभन्ते स्म । किंलक्षणैः पटवेश्मभिः प्रासादशोभाऽतिशयालुभिः धवलगृह- शोभाऽतिक्रान्तैः प्रासादशोभामतिशेरते अतिक्रामन्ति इत्येवंशीलानि प्रासादशोभाऽति- शयालूनि तैः । उत्प्रेक्ष्यते तदा प्रायेण नूनं ध्रुवम् अनेन श्रीकृष्णेन सह वियोगविक्लवा विरहपीडिता सती पुरः अग्रे पुरश्रीः द्वारकालक्ष्मीनिर्ययाविव निर्गतेव । अन्यथा अध्वनि निवासानामेतादृशं सश्रीकत्वं न स्यादित्यर्थः ॥ ६३ ॥ प्रासादेति ॥ पथि मार्गे प्रभोः कृष्णस्य निवासाः सेनानिवेशाः प्रासादशोभामनिशयालुभिरतिशायकैः। 'आलुचि शी महणमपि कर्तव्य'मिन्यालुच्प्रत्ययः । पटवेश्मभिः पटवौर्बभुः । तेनोत्प्रेक्ष्यते-तदा द्वारका- निर्याण कालेऽनेन कृष्णेन मह वियोगविक्लवा विरहभीरुः पुरधारकानगरलक्ष्मीरपि पुरोऽनिर्ययो निर्गता । नूनं द्वारक तो न भियन्ते अस्य निवासा: शोभयति भावः ॥ ६३ ॥ वर्म द्विपानां विरुवन्त उच्चकैर्वनेवरेभ्यश्विरमाचचक्षिरे ॥ गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलिनः(२) ॥ ६४ ॥ । (२) ०ऽलयः। (१) श्रीरपि । ३७ शि०व० ४३४ सन्देहविपौषधिसर्वकषायुते- [द्वादशः- वमेति ॥ अलिनो भ्रमराः उच्चकैस्तारं विरुवन्तः गुञ्जन्तः सन्तः वनेचरेभ्यः पर्वतीयेभ्यो भिल्लेभ्यो द्विपानां गजानां वर्म प्रमाणम् आचचक्षिरे उक्तवन्तः। किंलक्षणाः अलिनः गण्डस्थलाऽऽघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनः कटतटाघर्षणस्रवद्दानजलाई- वृक्षप्रकाण्डस्थायिनः, गण्डस्थलानाम् आघर्षः घर्षणं तेन स्रवत् क्षरत् यद्दानजलं तेन द्रवः आर्द्रता येषु ते गण्डस्थलाघर्षगलन्मदोदकद्रवाः, एवंभूताश्च ते द्रुमाः अनोकहाश्च तेषां स्कन्धेषु प्रकाण्डेषु निलायो निलय आश्रयो वा विद्यते येषां ते तथा । गजमदाऽऽर्द्रतरुस्कन्ध- निलीनालिदर्शनात् गजप्रमाणं पर्वतीया अनुमीतवन्त:-एवंप्रमाणा: करिणः इति । कथमन्यथाऽत्र मदगतिरित्यर्थः ॥ ६४ ॥ वर्मेति । गण्डस्थलानामाघर्षण सङ्घर्षण गलना स्रवता मदोदकेन वेष्वाइँषु द्रुमस्कन्धेषु निलीयन्त- इति निलायिनस्तन्निवासिन उच्चकैविरुवन्तो गुञ्जन्तोऽलयः द्विपाना सेनागजानां वर्म प्रमाणम् । 'वर्म देहप्रमाणयोः' इति विश्वः। वनचरेभ्यः किरातेभ्यः चिरमाचचक्षिरे । इयन्तो गजा इत्याख्यातवन्त- इत्यर्थः । गजवर्माऽनुमापकेष्वलिषु विरावयोगादाख्यानमुत्प्रेक्ष्यते । वाचकाऽप्रयोगाम्योत्प्रेक्षा ॥ ६४ ॥ आयामवद्भिः करिणां घटाशतैरधःकृताऽट्टालकपङ्किरुचकैः ॥ दूप्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥ ६५ ॥ आयामवद्भिरिति ॥ सा चमूः सा पताकिनी भूयांसि पुराणि अतीत्य अवर्तत वर्तते स्म बहूनि नगराण्युल्लयाऽतिचक्राम । अथ च भूयांसि पुराणि अतीत्य अवर्तत अजयत् । किंलक्षणा सेना उच्चकैः उन्नतैः आयामवदिदीधैः करिणां दन्तिनां घटाशतैः श्रेणीसहस्त्रैः अधःकृताऽहालकपङ्क्तिः तिरस्कृताटालकमाला, अपरं किंलक्षणानि पुराणि दूष्यैः पटगृहैः जितोदप्रगृहाणि हसितोत्तमवेश्मानि ॥ ६५ ॥ अायामवद्भिरित ॥ आयामो दैर्ध्य सोऽस्ति येषां तद्वद्भिः । आयतारत्यर्थः। करिणा सम्बन्धिभिर्घटा- शतैव्यूहशतैः। 'करिणां घटना घटा' इत्यमरः । अधःकृतास्तिरस्कृता अट्टालकपङ्गयोष्टश्रेण्यो यया मा। 'अट्टास्वहालकः स्मृतः' इति बैजयन्ती। सा चमूरच्चकैरुन्नतैष्यैः पटमण्डपैः जितान्युदग्राणि गृहाणि येषा तानि भूयासि पुराण्यतीत्याऽवर्तत । अतिक्रम्य गतेत्यर्थः । शोभया अतिशय्य स्थितेति च गम्यते । तदभेदाध्यवसायेन श्लेषमूलातिशयोक्त्युत्थापितं पूर्ववत्पदार्थहतुकं काव्यलिङ्गम् ॥ ६५ ॥ उद्भूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ॥ आहादिकलारसमीरणाऽऽहते पुरः पताताऽम्भसि यामुने रजः ॥ ६६ ।। उद्धृतमिति ॥ अथाऽनन्तरं यामुने अम्भसि पुरोवर्तिनि रजः पपात रेणुरपतत् । किलक्षणं रजः ध्वजिनीभिः चमूभिः ऊर्ध्वम् उच्चैः उद्धृतमुक्षिप्तम् , अपरं किलक्षणं रजः खेः श्रीसूर्यस्य अभ्यर्णतया सामीप्येन अंशुभिः किरणैः प्रतप्तं सन्ततं, किलक्षणे अम्भसि आहादिकलारसमीरणाऽऽहते आह्लादयतीति आह्लादी प्रमोदकारी योऽसौ कद्वार- समीरणः सौगन्धिकवायुः तेन आहते कम्पिते, अत एव रजः अम्भसि अपतत् । यः किलो गिर्यादिकमारूढः, स रविकिरणसन्तप्तः अम्भसि निमज्जति। 'सौगन्धिकं तु कलारं हल्लक रक्तसन्ध्यकमित्यमरः॥६६॥ अथ हरिसेनाः कालिन्दी प्रत्यासेदुरित्याह- उधूतामति ॥ ध्वजिनीभिः सेनाभिरुच्चैरुद्भूतमूर्ध्व क्षिप्तम् , अत एव अभ्यर्णतयान्तिकतया । 'उप- कण्ठान्तिकाऽभ्यर्णा' इत्यमरः । विवस्वतो शुभिः प्रततम् । प्रतप्तमिवेत्यर्थः। अत एव व्यञ्जकाम्प्रयोगा- सर्गः । शिशुपालवधे। गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कतारसमीरणाः सौगन्धिकमारुताः । 'सौगन्धिकं तु कलारम्' इत्यमरः । तेराहते कम्पिते यामुने यमुनासम्बन्धिम्यम्भासि पुरोऽप्रै रजो धलि : पपात । सन्तप्ता हि सन्ताप- मसहमानाः पुरो धावित्वा क्वचन शिशिरे पयसि पतन्तीति भावः ॥ ६६ ॥ अथ चतुर्भिः कलापकम्- या धर्मभास(१)स्तनयाऽपि शीतलैः स्वसायमस्याऽपि जनस्य जीवनैः।। कृष्णाऽपि शुद्धरधिकं विधातृभिविहन्तुमहांसि जलैः पटीयसी ॥६७॥ यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डवः(२) । कालीरपस्ताभिरिवाऽनुरञ्जिताः क्षणेन भिन्नाऽञ्जनवर्णतां घनाः ॥ ६८ ॥ व्यक्तं बलीयान् यदि हेतुरागमादपूरयत् सा जलधिं न जाहवो । गोध(३)निर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथाऽस्य तत् ॥६९॥ अभ्युद्यतस्याऽऽक्रमितुं(४) जवेन गां तमालनीला नितरां धृतायतिः ॥ सीमेव सा तस्य पुरः क्षणं बभौ बलाऽम्बुराशेर्महतो महापगा ॥ ७० ॥ या धर्मभास इत्यादि ॥ अभ्युद्यतस्येति ॥ सा महापगा महानदी यमुना तस्य बलाऽम्बुराशेः सैन्यसमुद्रस्य पुरोऽग्रे क्षणं क्षणमात्रं सीमेव मर्यादेव बभौ वेलातुल्या रेजे । कथमन्यथा क्रान्तेति भावः । किंलक्षणस्य बलोदधेः जवेन रंहसा गां भुवम् आक्रमितुमुल्ल- धितुमुद्यतस्य प्रवृत्तस्य, किंलक्षणा महापगा तमालनीला तापिच्छतरुश्यामा, अपरं किंलक्षणा महापगा नितरामत्यर्थ धृतायतिः ऊढदैर्ध्या । महाब्धेरपि रयाद् भुवं लिल- धयिषतः सतः तमालनीला दीर्घदीर्घा वेला रोधिका भवति । या धर्मभास इति ॥ अपरं किंलक्षणा महापगा या महानदी अंहांसि एनांसि पापानि विहन्तुं क्षपितुं पटीयसी कुशलतरा, कैः जल: पानीयैः । किलक्षणैर्जलैः सा वा किंलक्षणा इति विरोधमाह-धर्म- किरणस्य तनयाऽपि उष्णभासः सुताऽपि, जलैः किंलक्षणैः शीतलैः हिमः, अपरं किंलक्षणा महापगा यमस्य स्वसाऽपि अन्तकस्य भगिन्यपि, जलै: किलक्षणैः जनस्य जीवनैः लोक- स्याऽऽश्वासकारिभिः, अपरं किंलक्षणा सा कृष्णाऽपि नीलाऽपि, किंलक्षणे जलैः शुद्धः निर्मलतायाः अधिकं विधातृभिः मालिन्यनाशकैः पापक्षप्तृभिः । अत्र विरोधः सुगमः । यस्या इति ॥ किञ्च यस्याः यमुनाया नद्याः अपः पीत्वा उदकान्यापीय घनाः मेघाः क्षणेन तत्क्षणं भिन्नाञ्जनवर्णतां प्रयान्ति कृष्णकजलमलिनत्वं प्राप्नुवन्ति । किलक्षणाः घनाः हिमपिण्डपाण्डवः तुषारसमूहधवला अपि, किंलक्षणा अपः कालीः कृष्णाः । अपरं किलक्षणाः घनाः, अतश्चोत्प्रेक्ष्यन्ते-ताभिरद्भिः अनुरञ्जिता इव । यः किल रज्यते स वर्णान्तरमाप्नोति । अपरं किलक्षणाः अतएव द्रुताः महानीलतटीरिव गलित- न्द्रनीलस्थलसदृशीः । व्यक्तमिति ॥ किञ्च व्यक्तं प्रकटं यदि चेत आगमात् शास्त्रात् हेतुः अनुमानं बलीयान् अतिबलवान् , जलधि समुद्रम् अपूरयत् पूरयति स्म । जलनिर्भर चकारेत्यर्थः । न तु जाह्नवी नो गङ्गा अपूरयत् । कस्मादित्याह-अन्यथा यमुनाजलपुरणं विना अस्य जलधेः अर्णः अम्भः पानीर्य: :अप: तर्हि सा यमुना (१)धर्मभानो। (२) पाण्डुराः। (३ ) गागौघ । (४) स्य क्रमितुः सन्देहविषौषधिसर्वकषायुते- [ द्वादशः- - .. गोधनिर्भस्मितशम्भुकन्धरासवर्ण कथं स्यात् , अन्यथा चेत् असौ यमुनया न पूरितः तत्कथमस्याऽब्धेः अम्भः हरगलनीलम् । गङ्गाया पूरणे हि कारणस्य सितत्वात्तेनापि सितेन भवितव्यम् । तनु न च धवलम् अपि तु नीलं, तस्मादनुमितमाह-सा यमुनैव अब्धिम् अपूरयत् । असितेन जलेन भाव्यं यदा आगमात् अनुमानं बलवत् पि तु नीलं त आगमस्य बलीयान् जाहव्येव(?) । अगस्त्यपीतो हि समुद्रो भागीरथ्या पूरितः इत्यागमः। गौघेन जाहवीप्रवाहेण निर्भस्मिता क्षालितभस्मा या शम्भुकन्धरा नीलकण्ठग्रीवा तया सवर्ण समानवणंमेकवर्ण', नीलमित्यर्थः। गङ्गाधरस्य हि कण्ठः कालकूटधारणान्नील- इत्यागमः । कलापकम् ॥ ६७-७० ॥ अथ चतुर्भियमुना वर्णयति- या धर्मभानोरिति ॥ या यमुना धर्मभानोरुष्णांशोस्तनयापि सती, शीतलैरपि । अपिर्विरोधे । स चोष्णजातायाः शैत्याग्नुपपत्तेरिति भावः । यमस्याऽन्तकस्य स्वसाऽपि जनस्य जीवनरुज्जीवकैः । अत्रा- येकोदराणां भित्रक्रियाऽनुपपत्तेविरोधः । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इन्युभयत्राप्यमरः। किञ्च । कृष्णा कृष्णवर्णा मलिना च तथापि शुद्धमल्यस्याधिकं विधातृभिः सम्पादकैलैरहामि पापानि विहन्तुं पटीयसी ममर्थतरा । अत्र यमुनातजलगतत्वेन निर्दिष्टयोर्गुणक्रिययोर्बिरोधेन त्रिषु विरोधेषु संमृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति सङ्केपः ॥ ६ ॥ यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्कशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनील- स्थलानीव कालीः कृष्णवर्णाः । 'जानपद-' इत्यादिना डीप । यस्याः कालिन्या अपः पीत्वा ताभिः पीताभिरगिरनुरजिता इस क्षणेन भिन्नाञ्जनवर्णता स्नेहमृदितकज्जलवर्णता प्रयान्ति । अत्र तटीरिवाऽनु- रञ्जिता इवेति चोप्रेक्षया सङ्कीर्णेयं घनानामञ्जनोपमेति सङ्ग्रहः ।। ६८ ॥ व्यक्तमिति ॥ हेतुर्युक्तिः। अनुमानमिति यावत । आगमात् 'गङ्गा सागरपूरिणी'त्यागमप्रमाणात् । बली- यान् यदि प्रबलश्वेत् सा यमुना जलधिमपूरयत्। जहोरपत्यं भी जाह्नवी नाऽपूरयत् व्यक्तं सत्यमित्युत्प्रेक्षा। कुतः-अन्यथा विपर्यये अस्य जलधेः तत्प्रसिद्ध मर्णोऽम्भः । 'अम्भोऽस्तोयपानीयम्' इत्यमरः । गाड्रेन गङ्गासम्बन्धिना आंघेन प्रबाहेण निर्भस्मिताया निर्मस्मीकृतायाः शम्भुकन्धराया हरकण्ठम्य सवर्ण समान- वर्णम् । कृष्णवर्णमित्यर्थः । 'ज्योतिर्जनपद-' इत्यादिना समानस्य सभावः । अन्यथा गङ्गीघस्य धावल्या- द्धवलमेव स्यात् । तथा च ग्रावाप्तवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः ॥ ६९ ॥ अभ्युद्यतस्यति ॥ तमालवनीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्ध्या सा महापगा महानदी यमुना। जवेन गा भुवं क्रमितुमाक्रमितुमभ्युद्यनस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोऽग्रे क्षणं मीमेव वेलेव बभावित्युत्प्रेक्षा । क्षणमिति क्षणमाषनिरोधिकाऽभवत् । अनन्तरमेव तरणादिति भावः ॥७०॥ लोलैररित्रैश्चरणैरिवाऽभितो जवाद् व्रजन्तीभिरसौ सरिजनैः ।। नौभिः प्रतेरेऽनुचित(१)प्लवोदितभ्रमीनिमीलल्ललनाऽवलम्बितैः ॥७॥ लोलैरितिजनैः सैनिकलोकैः असौ सरित् नदी यमुना प्रतेरे उत्तीर्णा । काभिः नौभिः तरीभिः, किंलक्षणाभिः नौभिः अभितः पार्श्वद्वये लोलैः चटुलैः अरित्रैः क्षेपणकाष्ठैः कृत्वा जवात वेगात् व्रजन्तीभिः गच्छन्तीभिः । किलक्षणैः अरित्रैः, उत्प्रेक्ष्यते-चरणैरिव नौका- पादतुल्यैः । चरणैः किल जवात् गम्यते । किंलक्षणैर्जनैः अनुचितप्लवोदितभ्रमीनिमी- लल्ललनाऽवलम्बितैः अनुचितेन अशीलितेन प्लवेन यानेन तरणेन वा उदिता या भ्रमी भ्रमः तया निमोलन्त्यः सङ्कुचिताक्ष्यो या ललना नार्यः ताभिः अवलम्बिता अवष्टब्धाः तैः ७१ । (१)परितः।

सर्गः। शिशुपालवधे। जोलैरिति । अभितः उभयतो लोलैचलगिरि केनिपातकदण्डैः । क्षेपणी स्यादरित्र केनिपातकः, इत्यमरः । चरणैः पादैरिवत्युत्भेक्षा । जवाद् व्रजन्तीभिर्गच्छन्तीभिनौभिः साधनैरसौ सरिद यमुना कर्म, प्रवेनो- दिता नौवेगेनोत्पत्रा भ्रमी भ्रान्तिस्तस्या भयानिमीलन्तीभिर्भयादाक्षिनिमीलनं कुर्वतीभिर्ललनाभिरवलम्बित- जनैः कर्तृभिः परितः सर्वतः । सर्वोभयाथै वर्तमानाभ्यां पर्यभिभ्यां तसिविधानात् । प्रतेरे प्रतीर्णा ॥१॥ तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ॥ सद्यस्ततस्तेरनारतनुतस्वदानवारिप्रचुरीकृतं पयः ॥ ७२ ॥ तत्पूर्वमिति ॥ तत् यामुनं पयः उदकं कर्मभूतं द्विपाधिपाः गजपतयः कर्तारः पूर्व प्रथमं सहेला: सक्रीडाः सन्तः परितः समन्तात् क्षणं जगाहिरे व्यालोडयन् , किलक्षणं पयः अंसद्वयसं स्कन्धप्रमाणम् । यतो ब्रुडनभयाऽभावात् पूर्व क्रीडन्तो जग्मुः । ततोऽनन्तरं ते द्विपाधिपाः सद्यो मक्ष्वेव तेरुः तरन्ति स्म। अत एव किंलक्षणं पयः अनारतनुतस्वदानवारिप्रचुरीकृतं यतोऽनारतनुतेन निरन्तरं स्रवता स्वदानवारिणा निज- दानोदकेन प्रचुरीकृतं वृद्धिं नीतमित्यतिशयोक्तिः । अप्रचुरं प्रचुर कृतमिति प्रचुरीकृतम् । अंसद्वयसमिति प्रमाणे द्वयसच् ॥ ७२ ॥ तत्पूर्वमिति ॥ द्विपाधिपा महागजाः। पूर्व प्रथमम् अप्सौ प्रमाणमस्याऽसयसमंसप्रमाणम् । तेषां तथो- अतत्वादिति भावः । 'प्रमाणे यसज-' इति द्वयसच्प्रत्ययः। तत्तथा गम्भीरं पयो यमुनाजलं सहेलाः सावज्ञाः परितो जगाहिरे प्रविशन्ति स्म । ततः प्रवेशाऽनन्तरं सयोऽविलम्बेन अनारतमविच्छिन्नं स्रतेन स्रातः स्व- दानवारिणा स्वमदोदकेन प्रचुरीकृत बहुलीकृत तत्पयस्तेरुः तरन्ति स्म । अत्रातिगम्भीरस्याऽयम्भोऽस- दघनत्वातिशयोक्त्या गजानामौनत्यं पुनस्तस्यैव तन्मदाऽम्बुसम्भेदतात्पर्योक्त्या तेषां मदाऽतिरेकश्च व्यज्यते प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ॥ उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताऽग्रे तटदत्तष्टिभिः॥ ७३ ॥ प्रोथरिति ॥ तुरङ्गमैः अश्वैः अतीर्यत तीर्णम् । किलक्षणैः तुरङ्गमैः उन्मुखैः ऊर्ध्व- वदनैः, इति जातिवर्णनम् । अपरं किंलक्षणैस्तुरङ्गमैः उद्वाहितधीरकन्धरैः उद्घाहिता प्रसारिता धीरा निश्चला कन्धरा ग्रीवा यैस्ते तथा तैः, अपरं किंलक्षणैरश्वैः अग्रे तटदत्त- दृष्टिभिः अग्रे पुरस्तात् यत् तट तीरं तत्र दत्ता आरोपित्ता दृष्टिनैनं यैस्ते तथा तैः पुरस्तीर- बद्धलक्ष्यैः, अपरं किंलक्षणैरश्वैः प्रोथैः नासाविरोकैः उपलक्षितैः, किंलक्षणैः प्रोथैः स्फुरद्भिः स्फुरमाणैः (१) । कथमतीर्यतेत्याह-स्फुटशब्दं यथा भवति प्रकटरावं यथा स्यात, अपरं कथं यथा स्यात् आयतकीर्णवालधि यथा भवत्येवम् आयतो दीर्घः कोणी विक्षिप्तः वालधिः पुच्छं यत्र क्रियायां तद्यथा स्यात् ॥ ७३ ॥ प्रोथैरिति । स्फुटशब्द स्पष्ट वानं यथा नथा स्फुरद्भिश्चलद्भिः प्रो?णाभिरुपलक्षितः । 'घोणा तु प्रोथमलियाम्' इत्यमरः । उन्मुखैरूप्रमुखैस्तथा उत्कर्णमुन्नमितकर्ण यथा तथा उद्वाहिता उर्व प्रसारिता धीरा निश्चलाः कन्धरा ग्रीवा येषां तैरने पुरः तंटे दत्तदृष्टिभिस्तुरङ्गमरायताः प्रसारिता: कीर्णा विक्षिप्त वालधयो यस्मिन्कमणि तद्यथा तथाऽतीर्यत अतारि, मरिदिति शेषः। कर्मणि लाड यक् । स्वभावोकः०३ तीर्वा जवेनैव नितान्तदुस्तरां नदी प्रतिज्ञामिव तां गरीयसीम् ॥ शृङ्गैरपस्कीर्णबृहत्तटो(१)भुवामशोभतोचैदितं ककुमताम् ॥ ७४ ॥ तीत्वेति ॥ ककुमतामुक्ष्णाम् उचैनंदितमतिशयेन शब्दितम् अशोभत रेजे। . (१)महत्तटी।

४३८ सन्देहविषौषधिसर्वकषायुते- [द्वादशः .. किं कृत्वा नितान्तदुस्तरामतिदुःखोत्तारां नदी यमुनाम् अतिमहता जवेन वेगेन ती उत्तीय, नीं कामिव प्रतिज्ञामिव ।यथा कस्यचिद्धीरस्य महतीं दुस्तरां दुखोत्तारां प्रतिज्ञा- मङ्गीकरणरूपां संविदमुत्तीर्य समाप्य उचैनंदितं कत्थनं शोभते । किंलक्षणानां ककुद्मता शृङ्गैः अपस्कीर्णबृहत्तटीभुवां शृगैः शिरोनिर्गताऽस्थिभिः अपस्कीर्णा समुल्लिखिता बृहती महती तटी भूस्तीरप्रदेशो यैस्ते तथा तेषां, किंलक्षणां नहीं प्रतिज्ञां च गरीयसी महा- विशालां दुष्करां च ॥ ७४ ॥ तीवेति ॥ नितान्तदुस्तरामतिमहत्तया त्यन्ताशक्यतरणां तां नदी गरीयसीमतिदुस्तरां प्रतिज्ञामिव अवेन वेगेनैव तीवा शृङ्गेविषाणैरपस्कीर्णा आलखिता महत्यस्तटीभुवस्तीरप्रदेशास्तेषाम् । 'अपाच्चतु- पाच्छकुनिष्वालेखने' इति किरतेः कात्पूर्वतः सुडागमः। ककुभतामुञ्चैस्तर नदितं नादः अशोभत। उपमा- सङ्कीर्णा स्वभावोक्तिः ॥ ४ ॥ सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलावलि(१)द्युतिः ॥ सिन्दूरिताऽनेकपकङ्कणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥ ७ ॥ सीमन्त्यमानेति ॥ असौ तरङ्गिणी नदी यमुना बभौ शुशुभे। किंलक्षणा तरङ्गिणी, उत्प्रेक्ष्यते-भुवः पृथिव्याः वेणिरिव प्रवेणीव, अपरं किंलक्षणा तरङ्गिणी गवलाऽऽवलिद्युतिः गवलावले: द्युतिरिव धुतिर्यस्याः सा तथा महिषविषाणपटलकान्तिः, अपरं किलक्षणा तरङ्गिणी यदुभूभृतां बलैः यादवभूपतीनां सैन्यैः तरद्भिः प्लवमानैः सद्भिः सीमन्त्यमाना द्विधा क्रियमाणा, अपरं किंलक्षणा नदी सिन्दूरिताऽनेकपकडणाडिता सिन्दूरिताः सिन्दूर- वन्तः कृता ये अनेकपा मतङ्गजाः त एव कङ्गणाः कचभूषणगुणा: ताभिरङ्किता चिह्निता । वेणिरपि सीमन्त्यमाना भवति गवलावलिद्युतिः कृष्णा च सिन्दुरितकङ्कणाङ्किता तरङ्गिणी आयता दीर्घा च भवति । 'गवलं माहिषं शृङ्गमित्यमरः ॥ ७५ ॥ सीमन्त्यमानेति ॥ तरट्रियंदुभूभृता यादवभूपाना बलै : मन्त्रैः सीमन्त्यमाना सीमन्तवती क्रियमाणा । सीमन्तवच्छन्दात् 'तत्करोति-' इति ण्यन्ताकर्मणि लटः शानजादेशः, णाविष्ठवद्भावाद्विन्मतोलृक् । गवला- सिलद्युतिः माहिषविषाणमेचकप्रभा । ‘गवलं माहिषं शङ्गम्' इत्यमरः । सिन्दुरिताः सिन्दूरवत्कृताः । सिन्दूरशम्दात् 'तत्करोति-' इति ण्यन्तात्कमणि कः । णाधिष्ठबद्भावादिन्मतोलुंक । तैरने कैपईि पैः फणैः शेखररद्विता चिह्निता । 'करणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो णिरिव बभी इन्युत्प्रेक्षा ॥ ५ ॥ अव्याहतक्षिप्रगतैः समुच्छिताननुज्झितद्राधिमभिर्गरीयसः ॥ नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिर्मीनपरैरिवोर्मिभिः ॥ ७६ ॥ अव्याहतेति।केचित् सैनिकाः नाव्यं नावा तायंतर्या नाव्यं पयः नावा तरीतुं शक्यं जलं तद् भुजैः अतारिषुः बाहुभिरेव तेरुः । किलक्षणः भुजैः ऊर्मीन् कल्लोलान् क्षिपद्रिः अस्यद्भिः प्रेरयनिः, अपरं किलक्षणः भुजैः अव्याहतक्षिप्रगतैः अस्खलितसवेगगतिभिः, अलुप्तशीघ्रगमनैरित्यर्थः । अपरं किलक्षणैर्भुजैः अनुमितदाधिमभिः न उज्झितः द्राधिमा यैस्ते अनुमितद्वाधिमानः तैः अपरित्यक्तदैत्र्यः, किंलक्षणान् ऊमीन् समुच्छ्रितान् समुन्न- तान्, अपर किंलक्षणान् ऊर्मीन् गरीयसः गुरुतरान् , स्थूलानित्यर्थः । अपरं किंलक्षणैः र्भुजैः, उत्प्रेक्ष्यन्ते-अपरैः अमिभिरिव तरङ्गाऽन्तरतुल्यैः । यथा जवना दीर्घाश्च ऊर्मयो (१).ऽसित ।

सर्गः।] शिशुपालवधे। ४३६ - अन्यानूर्मीन् प्रेरयन्ति, एवं भुजा इत्यर्थः ॥ ६ ॥ अव्याहतेति ॥ अत्रामीणां भुजाना विशेषणान्युभयविपारणामेन योज्यानि । केचिजनाः नावा सार्य नाव्यम् । 'नान्यं त्रिलिङ्ग नौतार्ये' इत्यमरः । 'नौवयोधर्म-' इत्यादिना यन्प्रत्ययः । पयो जलम् अव्याहत- क्षिप्रगतैरप्रतिहतशीघ्रगमनैरनाझ तो द्वाघिमा दैर्घ्य यस्तैः । अतिदीरित्यर्थः । समुच्छूिनानुत्रतान् गरी। यसो गुरुतरानूमान् शिपद्भिरत एवाऽपरैरूमिभिरिव स्थितरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । लरेलेडि सिचि वृद्धिरिडागमः ॥ ७६ ॥ विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै- रलघुवरणाकृष्टयाहां विषाणिभिरुन्मदैः ।। सदसि सरितं सा श्रीभबृहद्रथमण्डल(१) स्खलितसलिलामुल्लद्ध्यैनां जगाम वरूथिनी ॥ ७७ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये प्रयाणवर्णनं नाम द्वादशः सर्गः ॥ १०॥ विदलितेति ॥ सा श्रीभर्तुर्लक्ष्मीपतेः वरूथिनी सेना एतां सरितं कालिन्दी सपदि शीघ्रमुल्लङ्घ्य तीर्खा जगाम ययौ । अथ वोलध्य तिरस्कृत्य जित्वेति वक्रोक्तिः । तमेव जयं विशेषणमुखेनाह-किंलक्षणा सरितम् उक्षणा विषाणविघटनैः वृषभाणां शृङ्गाहतिभिः विदलितमहाकूलां शृङ्गाघातैर्विदारितमहापुलिनां, विदलितानि भग्नानि महाकूलानि महा- तटानि यस्याः सा तथा, अपरं किलक्षणां सरितम् उन्मदैः उन्मत्तैः विषाणिभिः हस्तिभिः अलघुचरणाकृष्टप्राहाम् अलघुभिः पृथुभिः चरणैः पादः आकृष्टा भुवं प्रापिता ग्राहाः जलचरा यस्यां सा तथा ताम् , अपरं किंलक्षणां सरितं बृहद्रथमण्डलस्खलितसलिला बृहत्सु महत्सु रथमण्डलेषु स्थकट्यासु स्खलितं प्रतिहतं पानीयं यस्याः सा तथा ताम् । इति व्यतिरेकप्रायो(?)ऽलझारः । हरिणी वृत्तम् ॥ ७७ ॥ इति श्रीशिशुपालवध महाकाव्ये दत्तकसूनोर्माघस्य कृतौ वल्लभदेवविरचितायां सन्देह- विषौषध्यां सास्टीकायां मागें सैन्यप्रस्थानवर्णनं नाम द्वादशः सर्गः । . .. विदलितेति ॥ सा प्रकृता श्रीभर्तुः कृष्णस्य वरूथिनी सेना उदशामनडुहा विषाणविघटनैः शृङ्गा- घातर्विदलितानि महाकूलानि यस्यास्ताम् , उन्मदैरुद्भूनमदविषाणिभिरलघुभिर्गुरुभिश्वरणैः पादैराकृष्टा बहिनीता ग्राहा जलग्राहा यस्यास्तां बृहद्भी रथमण्डलै रथसमूहः स्खलितानि व्याकुलीकृतानि मलिलानि यस्यास्तामेनां सरितं यमुना सपदि उल्लङ्घय जित्वा । तीवेत्यर्थः । भुक्त्ववेति गम्यते, विशेषणसाम- र्थ्यात् । जगाम । अत्र जयस्य विशेषणगत्या कूलदलनादिहेतुकत्वात्काम्यलिङ्गभेदः । हरिणी वृत्तम् । भवति हरिणी सौ मौ स्लो गो रमाऽम्बुधिषिष्टपैः' इति लक्षणात || ..॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध- काव्यव्याख्यायो सर्वदुषाख्यायो द्वादशः सर्गः ॥ १२ ॥ (१) मण्डलैः।

सन्देहविषौषधिसर्वरूपायुते- [त्रयोदशः- - । त्रयोदशः सर्गः। यमुनामतीतमय शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते ॥ स यदाऽऽचलग्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥१॥ यमुनामिति ॥ अथाऽनन्तरं तपसस्तनूजो धर्मस्यात्मजो युधिष्ठिरः अमुं भगवन्तं श्रीकृष्णं यमुनामतीतं कालिन्दीमुत्तीर्ण शुश्वान् अौषीत् । कालिन्दीमुत्तीर्णोऽद्य हरि- रित्यर्थः । एतदेव नारदनिषेधार्थमाक्षिपन्नाह। अधुना यमुनामतीतमसौ शुश्रुवान् इति एत- नोच्यते नो वाच्यं, कुत इत्याह-सः हरि यदैव यद्दिनादारभ्य निजपुरात् स्वनगरात् द्वार- कायाः अचलत् निर्ययो, तदादि तत एव आरभ्य अहर्निशं दिवारानं नृपतेः राज्ञो युधिष्ठिरस्य वार्तया प्रवृत्त्या समचारि सञ्चरितम् । यद्वा स एव हरिर्तिया समचारि सम्यक्चारित इति केचित् । अतश्च यदा प्रत्यहमसौ आगमवाः जानाति 'अथ द्वारवत्याश्चलित: अथ तामु- त्तीर्णः अद्य ग्रामंप्राप्तः अद्य वनम् अद्य गिरिम् अद्य नदी मित्यादिकां, तदा यमुनामतीतमेव अशृणोत् इति कथमुच्यतामित्यलङ्कारः। तपसस्तनूजोऽमुं हरिं यमुनामतीतं सन्तमधुनैव श्रुतवान् इति नोच्यते । कथमित्याह-स यदेत्यादि । अतश्च यदिदानी प्रस्थानात्प्रभृति तदायन्तं सर्वमेवाऽबोधि । तदा अधुना श्रुतवान् इति वचनस्य नाऽवसरः । तेन कथं नगरनिकट- प्राप्तो हरियुधिष्ठिरेण ज्ञात इति न वर्णितं कविनेति न च उद्यत (2) इति भावः ॥ १ ॥ यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यनुनामतीतममुं हार शुश्रुवान् । 'भाषायां सदवस श्रुवः' इति क्वसुप्रत्ययः । इति नोच्यते, किन्तु स हरियंदा निजपुरादचलत् तचलनमादिर्यस्मिन्कर्मणि तत् तदादि तत्प्रभृति । अहश्च निशा चाहनिशम् । समाहारे द्वन्द्वैफवावे अत्यन्त- संयोगे द्वितीया । नृपतेर्धर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि सञ्चरि- तम् । आगतमिति यावत् । भावे लुङ् । सन्निहितयमुनातरणवृत्तान्तवयवहितसकलदैनन्दिनवृत्तान्तो निज- नगरप्रस्थानात्प्रभृति प्रतिक्षणमागत एवेत्यर्थः । अस्मिन्सर्गे मजुभाषिणी वृत्तम् । 'सजसा जगा भवति मञ्जुभाषिणी' इति लक्षणात् ॥ २ ॥ यदुभर्तुरागमनलब्धजन्मन: प्रमदादमानिव पुरे महीयसि ॥ सहसाधनः (१) स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययो यदुभर्तुरिति ॥ ततोऽनन्तरं वसुधाधिपो भूपतियुधिष्ठिरः अस्य यदुभर्तुः श्रीकृष्णस्य अभिमुखमग्रतः निर्ययौ संमुखं जगाम । किंलक्षणो वसुधाधिपः अनुजन्मभिः सहितः लघुभिर्धातृभिर्भीमादिभिः संयुक्तः, अपरं किलक्षणः सह साधं साधनं सैन्यं यस्य सः तथा सेनया युक्तः । अपर किंलक्षणः, उत्प्रेक्ष्यते-महीयसि अतिविस्तीर्णेऽपि स्वपुरे निजनगरे इन्द्रप्रस्थाख्ये अमान् इव अमान् अवर्तमान इव । मातुम् अलभमान- इवेत्यर्थः । विशालं चेत्पुरमस्ति, तत्कथं न ममावित्याह-कस्मात् प्रमदात. हर्षात् । किलक्षणात् प्रमदात् यदुभर्तुः आगमनलब्धजन्मनः आगमनप्रासोत्पत्तेः । 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसमदाः' इत्यमरः ॥ २ ॥ यदुभर्तुरिति । ततो हरेर्यमुनोत्तरणप्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुहरेरागमनेन लन्धजन्मनो लन्धोदयात् , जातादित्यर्थः । प्रमदाद्धर्षात् । 'प्रमदसंमदी हर्षे' इत्यप्प्रत्ययान्तो निपातः । (१)सहसा ततः। 7 सर्गः।] शिशुपालवधे। ४४१ महीयस्यतिविपुलेऽपि पुरे अमान् हर्षकृत शरीरवृद्धेरिवा:परिमितविकासः सत्रित्युत्प्रेक्षा । सहसा अनुज- मभिरनुजः महितोस्य हरेरभिमुखं निर्ययौ । नगरानिर्गत इत्यर्थः ॥ २ ॥ रभसप्रवृत्तगुरु(१)चक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः । समवादि वकृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंशया ॥३॥ रभसेति ॥ अथाऽनन्तरं वक्तृभिः जल्पकैः अभीष्टसङ्कथाप्रकृतार्थशेषम् इष्टवार्ता- प्रस्तुतार्थभागः जनस्य लोकस्य हस्तसंज्ञया करसतेन समवादि सम्यगुक्त, यदि वा संवा- दितम् । संवादितं वाचैव कथं नोक्तमित्याह-किलक्षणस्य जनस्य बधिरीकृतश्रुतेः जडित- कर्णस्य, कैः रभसप्रवृत्तगुरुचक्रदुन्दुभिध्वनिभिः रभसेनौत्सुक्येन प्रवृत्तं चलितं गुरु विस्तीर्ण यत् चक्रं पाण्डवबलं तस्य ये दुन्दुभयो भेर्यः तेषां ध्वनयः शब्दास्तैः औत्सुक्यप्रचलित- विस्तीर्णपाण्डवसैन्यभेरीशब्दैः ॥ ३ ॥ रभसति ॥ रभसो हर्षः। 'रमसा वेगहर्षयोः' इति विश्वः । तेन प्रवृत्नैः कुरुचक्रदुन्दुभिध्वनिभिः कौरवसेनातूर्यघो षैः बधिरीकृतश्रुतेर्विकलीकृतश्रोत्रोन्द्रयस्य श्रोतृजनस्य वक्तृभिः कथकैरभीष्टसथास्थि टालापेषु प्रकृतस्य वक्तु प्रक्रान्तस्याभिधेयस्य शेष वक्तव्यावशिष्टम् , अथ बाधिर्याऽनन्तरं हस्तसंज्ञया हस्तसङ्कोचेन समवादि संवादितं । श्रीकृष्णस्यागमनसन्तोषानथा दुन्दुभीनाजघ्नुः, यथा कण्ठोकशेषं कर- संज्ञया निष्पाद्यत इत्यर्थः । अत्र बधिरीकरणस्य जनविशेषणद्वारा हस्तसंज्ञया वदनहेतुत्वाकाव्यलिङ्गभेदः।। अपदान्तरं च परितः क्षितिक्षितामपतन द्रुतभ्रमितहेमनेमयः॥ जव(२)मारुताऽश्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥४॥ अपदान्तर चेति ॥ अपदान्तरम् अनन्तरं क्षितिक्षितां महीभृतां पताकिनो स्थाः परितः समन्तात् अपतन चेलुः । चशब्दः एककालसूचनार्थः । यदैव दुन्दुभयस्ताडिताः तदैव बलमचलदित्यर्थः । किलक्षणाः पताकिनः जवमारुताऽञ्चितपरस्परोपमक्षितिरेणुकेतु- वसनाः जवमारुतेन वेगवातेन अञ्चितानि प्रेरितानि परस्परोपमानि अनेकवर्णत्वादन्योन्य- सदृशानि क्षितिरेणुकेतुवसनानि भूमिधूलिचिह्नांशुकानि येषां ते तथोक्ताः, क्षितिरेण- वश्व केतुवसनानि च क्षितिरेणुकेतुवसनानि । अपदान्तरमित्यनन्तरार्थम् । केचित्तु अविद्य. मानं पदानां चरणानामन्तरं रन्ध्र यत्र तत् गमनमाहुः क्रियाविशेषणम् ॥ ४ ॥ अपदान्तरं चेति ॥ दुतं शीघ्र भ्रमिताः परिवर्तिताः हेमनेमयः कनकचक्रान्ता येषां ते । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । अत एव जविना वेगवता मारुतेनाऽञ्चिनानि कम्पितानि परस्परमुपमान्तीति परस्परोपमान्यन्योन्यसदृशानि क्षितिरेणुकेतुवसनानि स्वोत्थापितभूरेणवः स्वारोपितध्वजपटाश्च येषा ते, क्षिति क्षियन्तीशते इति क्षितिक्षितः क्षितीशाः । 'क्षि ऐश्वर्ये वासे' इति धातोस्तोदादिकात किपि तुक । क्षितिपतिष्वेवासी क्षितिविदिति भट्टमल्लः । तेषां सम्बन्धिनः, पताकाः सन्तीति पताकिनो रथाः । ब्रोह्यादित्वादिनिः । परितः सर्वतः, नास्ति पदस्यान्तरमवकाशो यस्मिन्कर्माण तदपदान्तरं संसकं यथा तथा । 'मंसते त्वव्यवहितमपदान्तरमित्यपि' इत्यमरः। अपतनधावन् । अब राष्टूवर्णने रेणूनां केतूनां च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । तथा च परस्परोपमेति विशे- षणाद्वेणुवत्केतवः, केतृवच्च रेणव इत्युपमेयोपमया के रेणवः के केतव इति संशयश्च व्यज्यत इत्यलङ्का- रेणालद्वारध्वनिः ॥ ४ ॥ द्रुतमध्वननुपरिपाणिवृत्तयः पणवा इवाश्वचरणाहता (३)भुवः॥ मनृतुश्च वारिधरधीरधोरण(४)ध्वनिधृष्टकूजितकलाः कलापिनः ॥५॥ (१)कुरु। (२)जवि। (३) चरणक्षता। (४) वारण"हृष्ट। .

४४२ सन्देहविषोषाधिसर्वकषायुते- - [त्रयोदशः- - । द्रुतमिति ॥ द्रुतं शीघ्रम् अश्वचरणाहताः लाघवेन तुरगखुरैस्ताडिता भुवः भूमयः अध्वनन् शब्दायन्ते स्म । किंलक्षणाः भुवः, उत्प्रेक्ष्यन्ते-पणवा इव मृदङ्गा इव । किं- लक्षणाः पणवाः उपरिपाणिवृत्तयः उपरिपाणेस्तालविशेषस्य वृत्तिापारो येषु ते तथा । यथा उपरिपाणिताडिताः पणवाः द्रुतं लयान्वितं ध्वनन्ति, तथा भुवो दध्वनुरित्यर्थः । द्रुतं लयविशेषः । उक्तं च- समोपायचपूर्वस्तु प्राणिस्त्रिविध उच्यते । अत्र तालं च पाणिं च पाहुरेको मनीषिणः ॥ समं चोपरितापस्य बद्ध्वा यः संस्थितं भवेत् । वाद्यपदानि वर्णो वा तदेवमभिधीयते(१) ॥ इति । ननृतुश्चेत्यादि । न केवलं भुवोऽध्वनन् अपरं कलापिनो मयूराश्च ननृतुः अनृत्यन्। किंलक्षणाः कलापिनः वारिधरधीरधोरणध्वनिष्टकूजितकलाः वारिधरस्येव धीरो घनाघनस्येव , गम्भीरो यो धोरणानां वाहनानां रथगजतुरङ्गमाणां ध्वनिः शब्दः चीत्कारगलगजितह षि- तादिः तेन पृष्टं मुखरं यत्कूजितं वाशितं तेन कलाः मधुराः । ते हि मेवगजितभ्रान्त्या मधुरं केकायमाणाः प्रमदात् नृत्यन्ति । अन्योऽपि पणवेषु वादितेषु हृष्टः नृत्यति ॥ ६ ॥ द्रुतमिति ॥ अश्वचरणमतास्तुरगखुरघाट्टता भुव उपरि पृष्ठभागे पाणवृत्तयः पाणिताडनानि येषः त उपरिपाणिवृत्नयः पणवा वाद्यविशेषा इवेत्युप मा । द्रुतं दुततरमेवाऽध्वनन् वनन्ति स्म । 'दुतं शीघ्रम् इत्यमरः । वारिधरशब्देन तद्गार्जिनं लक्ष्यते । नद्वद्धारैगम्भी रणध्वनिभिर्गजबृंहणैर्दृष्टा अत एव कूजित- कलाः । कूजिता इत्यर्थः । ततो विशेषणसमासः । कलापा येषां सन्तीति कलापिनो बर्हिणश्च ननृतुर्नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिना गज हितेषु घनगर्जितागान्तिमन्तरेण नृत्यासम्भव'- क्रान्तिमदलङ्कागे व्यज्यत इत्यलारणालङ्कारध्वनिः ॥ ५ ॥ व्रजतोरपि प्रणयपूर्वमेकतां कुकुराऽधिनायकुरुनाथसैन्ययोः ॥ रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥ ६ ॥ व्रजतोरपीति ॥ कुकुराधिनाथकुरुनाथसैन्ययोः कुकुराधिनाथ: यादवपतिः श्रीकृष्णः कुरुनाथ: कैरवपतिः युधिष्ठिरः तयोः सैन्ये बले तयोः प्रणयपूर्वमपि प्रीतिपूर्वमपि एकर्ता बजतोः सतोः अभेदं मिश्रीभावं गच्छतोः सतोः विषाणिभिः दन्तिभिः अनुशणमसकृत, मिथः अन्योन्य रुषे रुषितं कुपितम् । अर्थान्तरन्यासः-मदमूढबुद्धिषु कुतो विवेकिता मदेन मूढा बुद्धिर्येषां तेषु कुतो विवेकिता युक्तायुक्तविचारः । मत्तानां विचारो न भवती- त्यर्थः । ते च समदाः । मदो दो दानं च ॥ ६ ॥ बजतोरपीति ॥ तदा तस्मिन्समये कुकुराऽधिनाथकुरुनाथसैन्ययोः हरिपार्थसन्ययोः प्रणयपूर्व स्नेह- पूर्वकमेकतामैक्यं ब्रजतोर्गच्छतोः सतोरपि विषाणिभिरुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं' रुरुषे चुक्रुधे । भावे लिट् । तथा हि-मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु विवेकिता कार्याकार्यविचारिता कुतः। नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति भावः । सामान्येन विशेषसमर्थन- रूपोऽर्थान्तरन्यासः ॥ ६ ॥ अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ॥ अवतीर्णवान् प्रथममात्मना हरे(२)विनयं विशेषयति सम्भ्रमेण सः॥७॥ .. (१) लोकद्वयमस्पष्टम् । (२) हरिवि।

सर्गः।] शिशुपालवधे। ४४३ अवलोक इति ॥ स नृपतिरजातशत्रुः हरेविनयम् आचारं पेशलत्वं गौरवेण सम्भ्र- मेण आदरतया विशेषयति स्म अतिश्ये । प्रथममवतारादधिकमपि असौ चकारेत्यर्थः । इति तद् द्वितयं तावदाह-दूरतः दूरादवलोके पुत्र नृपतिदर्शनमात्रे सत्येव रभसादौत्सुक्येन स्थादवतरीतुमिच्छतः स्यन्दनादवतितीर्षतः, नृपस्तु किंलक्षणः इति तत् द्वितीयातिशयः माह-प्रथमं पूर्वत एव आत्मना स्वयमेव अवतीर्णवान् अवतीर्णः । विशेषयति सम्बन्धः, अतश्च विनयेन विनयं जिगाय । केचित्तु नृपतिः स इति सौहार्देन स इति च पठन्ति । एवं च व्याचक्षते-स नृपतिः हरेः प्रथममेव अवतीर्णवान् इति । अर्थान्तरन्यासमाह-यः साधुः सः सौहृदेन सुहृद्भावेन विनयं प्रश्रयं विशेषयति । सौहार्दादेवाऽसौ प्रथममेवाऽवतरत् ॥७॥ अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एव रभसात् हर्षाद्रथादवतरीतुमबरोढुम् । 'वृतो वा' इति विकल्पाीर्घः । इच्छतो नृपतेर्धर्मराजाप्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः। आत्मना स्वयमेव । प्रकृत्यादित्वात्तृतीया । अवतीर्णवान् रथादवरूढः मन् । 'निष्ठा' इति तरत : कवतुप्रत्ययः, 'ऋत इद्धातो:' इतीत्वं वोरुपधाया दीर्घ-' इति दीर्घः ‘रदाभ्याम्-' इति निष्ठानत्वं 'रषाभ्याम्-' इति गत्वम् । स हरिः सम्भ्रमेण त्वराविशेषेण विनयमनौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते ॥ ७॥ वपुषा पुराणपुरुषः पुरः क्षितो परिपुज्यमानपृथुहारयष्टिना ॥ भुवनैर्नतोऽप्यरहिता(त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥८॥ वपुषेति ॥ सः पुराणपुरुषः चिरन्तनमुनिः परमात्मा श्रीकृष्णः पितृष्वसुः तनयं पैतृष्वतीयं कौन्तेयं युधिष्ठिरं वपुषा शरीरेण पुरः पूर्वम् अग्रे वा प्रणनाम नमश्चकार, ना. मेति निश्चये प्रकाश्ये वा। सर्वप्रकटमेव शिरसा ननामेत्यर्थः। किंलक्षणः पुराणपुरुषः भुवनैः सकलजगद्भिर्नतोऽपि नतशरीरोऽपि । यद्यसौ सर्वज्येष्ठः जगत्पूज्यश्च, तत्किमादौ प्रणनामेत्याशङ्कयाह-अपरं किलक्षणः सः अरहितात्मगौरवः अरहितं त्यक्तमात्मगौरवं स्वगुरुत्वं येन असौ अरहितात्मगौरवः । ज्येष्ठस्य हि राज्ञः प्रणामे बन्धुगौरवं तेन त्यक्तम्। यस्मात् किंलक्षणेन वपुषा क्षितौ पृथिव्यां परिपुज्यमानपृथुहारयष्टिना परिपुज्यमाना प्रणामवशात् पुञ्जीभवन्ती पृथ्वी अलघ्वी हारयष्टिर्मुक्तालता यत्र तत्तथा तेन ॥ ८ ॥ वपुषति ॥ पुराणपुरुषो हरिः सर्वलोकज्येष्टोऽपीति भावः । तथा भुवनेनतो नमस्कृतोऽपि विहित सम्पादितमात्मनो गौरवमुत्कर्षों येन सः सन् । पूज्येषु नमस्याया औत्रन्यहेतुत्वादिति भावः । अत एवात्र विचित्रालङ्कारः । 'विचित्रं स्वविरुद्धस्य फलस्य स्यान्समुद्यम' इति लक्षणात् । पुरः क्षितावप्रभूमौ परि- पुज्यमाना परितः पुञ्जीक्रियमाणा पृथुः स्थूलो हारो मुक्तावलियष्टिरिव यस्य तेन वपुषा शरीरेण । न तु अञ्जलिमात्रेण । तथाऽस्य पूज्यत्वादिति भावः । पूज्यत्वे हेतुमाह-पितृष्वसुस्तनयमिनि पितृभगिनीपुत्रम् । धर्मराजमित्यर्थः । विभाषा स्वसृपत्योः' इत्यस्य वैकल्पिकत्वेन पष्ठया लुक्' 'मातृपितृभ्यां स्वसा' इति पत्वम् । नाम प्रकाशं प्रणनाम । प्रणामं कृतवानित्यर्थः। प्रपूर्वानमलिट् । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । अत्रापि पूर्ववद्भावध्वनिः । भुवननतोऽपि हरिर्लोकयात्रानुवर्ती स्वयमेनं नतवानिति विरोधा. भासोऽलङ्कारो विचित्रेणोक्तेन सङ्कीर्णः, नामनामेति वृत्त्यनुप्रासभेदश्श संमृष्ट इत्यागृह्यम् ॥ ८ ॥ मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ॥ क्षितिपेन तावदनपेक्षितक्रमं भुजपारेण रभसादगृह्यत ॥९॥ मुकुटेति ॥ सः श्रीकृष्णः यावत् शिरसा मूर्ना कृत्वा महीतलं भूतलम् अग्रतः (१)पि विहिता।

सन्देहविषौषधिसर्वपायुते- [ त्रयोदशः- . पुरोभागेन आप न प्राप, तावदेव क्षितिपेन राज्ञा युधिष्ठिरेण अनपेक्षितक्रमं न अपेक्षितः न स्मृतः क्रमः परिपाटी यत्र ग्राहे तद्यथा भवति(१)। किल कृतप्रणामः कनीयानालिङ्गयः । किं- लक्षणं भूतलं मुकुटांशुरजितपरागं मुकुटांशुभिः मौलिमणिमरीचिभिः रजितपरागं छुरितरेणु९॥ मुकुटेति ॥ स हरिर्मुकुटांशुभी राजितः स्ववर्णमापादितः परागो रेणुर्यस्य तदप्रतः पुरतो महीतलं शिरसा यावनाप । नास्पृशदित्यर्थः । तावरिक्षतिपेन धर्मराजेनानऽपक्षितक्रम अनपेक्षितः क्रमः परिपाटी यस्मिन्कर्मणि तत्तथा । भुजाभ्यामेव पञ्जरेणोत रूपकम् । रभसादेगादगृह्यत गृहीतः। प्रणामक्रियासमाते: प्रागेवोत्थाप्याऽऽश्लिक्षदित्यर्थः ॥ ९ ॥ न ममौ कपाटतटविस्तृतं तनोर्मुर(२)वैरिवक्ष उरसि क्षमाभुजः ॥ भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ॥ १० ॥ नेति ॥ क्षमाभुजः क्षितिपस्य उरसि वक्षसि मुरवैरिवक्षः मुरवैरिणो मुरारेः श्रीकृष्णस्य वक्षस्तटं न ममौ न माति स्म । किंलक्षणं मुरवैरिवक्षः कपाटतटविस्तृतं कपाट- तटवत् अररतटवत् विस्तृतं विशालं, किंलक्षणस्य क्षमाभुजः तनोः कृशस्य दीक्षाक्षामस्य । कथं तर्हि अश्लिषदित्याह-यद्यपि न माति स्म तथापि भुजयोर्युगलेन बाह्वोयेन परितः अभिषष्वजे आलिङ्गितः । किलक्षणेन भुजयोर्युगलेन विकटीकृतेन विशालीकृतेन प्रसारि- तेन, किंलक्षणयोर्भुजयोः दीर्घयोः जानुस्पृशोः इति राज्ञः आजानुबाहुत्वं हरेश्च पीनवक्ष.. स्त्वमुक्तम् । 'कपाटमररं तुल्ये', 'विशालं विकट मतम् इत्यमरः ॥ १० ॥ नति ।। कपाटतटविस्तृनं मुरवरिणो हरेर्वशः, तनावल्पे क्षमाभुजो धर्मराजस्योरस न ममी। न परि- मितमित्यर्थः । तथापि विकटीकृतेन विपुलीकृतेन दीर्घयोर्भुजयोयुगलेन परितः समन्तादभिषस्वजे आलिङ्गि- तम् । वक्षसा भुजाभ्यां च कश्चित्परिच्छिन्नमभूत्र तु वक्षसैवेत्यर्थः । 'सदिस्वञ्जोः परस्य लिटि' इति. धातुसकारस्य षत्वनिषेधात स्थादित्वेऽप्यभ्यासस्यैव षत्वम् । अत्र हरिवक्षसो वैपुल्यादतिशयद्योतनाय नृपवक्षः- संमानेऽप्यसमानोक्त सम्बन्धेऽसम्बन्धरूपातिशयोक्तिश्च । अनयोश्च स्वतःसिद्धकविप्रौढोक्किासद्धयोरप्यति- शययोरभेदाध्यवसायादुत्थानमिति रहस्यम् ॥१०॥ गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ॥ कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥११ ।। गतयेति ॥ मुरविद्विषोः मुरारेः श्रीकृष्णस्य मुखं श्रिया लक्ष्म्या अध्यरोहि आरून मधिश्रितम् । नृपाश्लेषयोगात् शोभायुक्तमभूदित्यर्थः । किंलक्षणया श्रिया परिनाभि नाभी वारिज कमलम् अवमुच्य हित्वा अध्युरः उरसि निरन्तरनिवास स्थानं गतया प्राप्तया । वक्षःस्थलस्थितयेत्यर्थः। पूर्वजन्मनि हि भगवतो नाभौ पद्ममभूत् , युधिष्ठिरगाढाश्लेषरुजा त्रासात् मुखमध्यरोहि । सा हि वक्षोऽवस्थित्या परिष्वङ्गसमर्दमाशङ्कते । श्रीशब्दः शोभार्थः । यथार्थत्वात् मुखस्य च हृष्टत्वादूहः ॥ ११ ॥ गतयेति ॥ नाभ्यां परिनाभि । विभक्त्यर्थेऽव्ययीभावः । वारिजम् । नाभिकमलमित्यर्थः । विहाय अध्युर उरसि । विभक्त्यर्थेऽव्ययीभावः । निरन्तरं सततं गतया प्राप्तया श्रिया शोभया रमया च नाभिसरोजत्यागेनाऽव निवासेन तस्मादपहृतमिति ध्वनितम् । कुरुराजस्य या निर्दयनिपीडना गाढाश्लेषरूपा ततो भयान्मुरवैरिणो मुरद्विषो मुखमध्यरोहि अधिरूढम् । भीता युश्चमारोहन्तीति लोकवेदयोः प्रसिद्धमिति॥ भावः । नूनमित्युत्प्रेक्षा ।अत्र वाध्यायाः सुहृदाश्लेषप्रभवायाः शोभायाः प्रियति श्लेषमहिना प्रतीयमानया रमया महाऽभेदाध्यवसायात क्रमेण नाभिमुखकमलाधारसम्बन्धाभिधानात श्लेषमूलातिशयोक्त्युत्थापितः पर्यायभेदः (१) अत्र किमपि स्वलितम् । (२)तनौ मुर। .. .. । भवमुच्य सर्गः।] शिशुपालवधे। ४४५. 'क्रमेणैकमनेकस्मिन्नाधारे धर्तते यदि । एकस्मिन्नथ वाऽनेक पर्यायाऽलस्कृतिर्मता ॥ इति लक्षणात् । तदुपजीविता श्रीमुखारोहणस्य भयहेतुकत्वकथनादुत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ शिरसि स्म जिघ्रति सुरारिबन्धनच्छल(१)वामनं विनयवामनं तदा ॥ यशसेव वीर्यविजिताऽमरदुमप्रसवेन वासितशिरोरुहे नृपः ॥ १२ ॥ शिरसि स्मेति ॥ नृपो राजा युधिष्ठिरः तदा तस्मिन् आलिङ्गनसमये सरारिबन्धन- च्छलवामनं मुरारेः देवशत्रोः बलेः बन्धनच्छलेन यो वामनो या वामना मृतिः, वामनो हस्वः स विष्णुरेवोच्यते, तं श्रीकृष्णं शिरसि जिघ्रति स्म मूर्धनि जघौ अघ्रासीदित्याचारः । ननु यदि भगवान् बलिबन्धनच्छलेनैव वामनः तनुस्वभावतः तत्त्वार्थमुन्नतो भवनमतीत्याह- किलक्षणं तं विनयवामनम् आचारप्रह, किंलक्षणे शिरसि वीर्यविजिताऽमरद्रुमप्रसवेन वासितशिरोरुहे पराक्रमाऽपाहृतपारिजातपुष्पपूगेन वासिताःसुरभिताः शिरोरुहाः केशा यस्य तत् तस्मिन् । सुरभिः किल जेघीयते । उत्प्रेक्ष्यते-यशसे वा सुरतरुहरणात् । यत् यशः कीर्तिः तेनैव वासितकेशे इत्यर्थः। मुरभि श्वेतं च यशः इति महाकविसमाचारः॥१२॥ शिरसि स्मेति ॥ नपो धर्मराजः सुरारिबन्धने पुरा बलिबन्धने छलवामनं कपटवामनं, तदा पापपत्तिसमये तु विनयवामनम्। विनयनम्रमित्यर्थः। तं हरिमति शेषः। वीर्यविजिताऽमरदुमप्रसवेन पारि- जातहरणे शौर्यलब्धपारिजातकुसुमेन यशसेव पारिजातविजयप्रसूतयेव कीयॆत्युत्प्रेक्षा । वासितशिरोरुहे सुरभितकशे शिरसि जिनति स्म । 'प्रवासादेन्य मूर्धन्यवघाणम्' इति स्मरणात् । पुरा किल भगवान सत्य. भामाप्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेष्वारोपितवानिति कथाऽत्रानुसन्धेया ॥ १२ ॥ सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।। कुरुभर्तुरङ्गलतया न तत्यजे विदल(२)त्कदम्बनिकुरम्बचारुता ॥ १३ ॥ सुखेति ॥ कुरुभर्तुः राज्ञः युधिष्ठिरस्य अङ्गलतया तनुलतया तन्वा विदलत्कदम्ब- निकुरम्बचास्ता न तत्यजे, विदलतो विकसतः कदम्बस्य कदम्बवृक्षकुसमस्य निकुरम्बं समूहः तस्य चास्ता मनोज्ञता शोभा न तत्यजे त्यक्ता । सा कण्टकिताऽभूदित्यर्थः । कदाचिद् भगवान् तेन श्लिष्टो भवेत् इत्याह-किंलक्षणया अङ्गलतया मुखवेदनाहृषितरोमकूपया मुखस्य उपजोषस्य वेदना अनुभवनं तेन हृषिताः विकास नीताः रोमकूपाः लोमरन्ध्राणि यस्याः सा तथा तया ॥ १३ ॥ मुखति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदे वे। जन्मोत्तरपदत्वाचाधिकरणो बहुव्रीहि- मनवचनादिन्युक्तं प्राक् । शिथिलीकृतेऽपि विश्लेषिते सत्यपि सुखवेदनया मालिङ्गनमुखानुभवेन हृषिता- उद्ता रोमकूपा राममूलानि यस्यां तया। 'हृषेर्लोमसु' इतीडागमः । कुरुभर्तुर्धर्मराजस्याऽङ्गलतया विकसतः कदम्बकनिकुरम्बस्य कदम्बकुसुममूहस्य चारुता कामनीयकं न तत्यजे न त्यक्ता । किन्तु स्वीकृतेत्यर्थः । आश्लेषाऽपगमेऽपि तज्जन्मसुखाऽनुवृत्त्या तत्कार्यस्य रोमहर्षस्याऽनुवृत्तिरिति तात्पर्यार्थः। अत एव शिथिली- कृते हृषितरोमकूपयेत्यकारणकार्यकथनाद्विभावना, तदपेक्षया चेयमुत्पत्रा कदम्बनिकुरम्बचारुतानिदर्शना तया महाऽनेन महीयते ॥ १३ ॥ इतरानपि क्षितिभुजोऽनुजन्मनःप्रमनाः प्रमोदपरिफुल्लचक्षुषः॥ स यथोचित जनसभाजनोचितान् (३)प्रसभोद्धृताऽसुरसमोऽसभाजयत् ॥ (१)बन्धने छल। (२) विकस। (३) चितः। ३८ शि०० सन्देहविषौषधिसर्वकषायुते- - [त्रयोदशः- । . इतरानपीति॥ सः भगवान् श्रीकृष्णः इतरानपि अन्यानपिक्षितिभुजः क्षितिपालस्य युधिष्ठिरस्य अनुजन्मनः अनुजान् भीमसेनाऽर्जुननकुलसहदेवादीन्यथोचितं यथायोग्यम् अस- भाजयत् प्रीत्या अद्राक्षीत् । भीमसेनं पूर्वाभिवादेन,अर्जुनं हासपूर्व, माद्रेयौ आश्लेष- पुरस्सरमिति यथोचितमित्यर्थः । किंलक्षणान् अनुजन्मनः नृपसभाजनोचितान् नृपाणां सभाजने पूजायामुचिता योग्यास्तान् लोकपूज्यान् , किंलक्षणः स प्रमनाः प्रहृष्टः, अपरं किंलक्षणो हरिः प्रसभोद्धृताऽसुरसभः प्रसभं बलात् उद्धृतमुन्मूलितम् असुरसभं दैत्यकुलं येन सः । समाज प्रीतिसेवनयोः ॥ १४ ॥ इतरानपीति ॥ जनसभाजनोचितः सर्वजनसम्भावनाईः प्रसभेन बलादुद्धृता असुरसभाऽसुरसको येन सः प्रमनाः हृष्टचित्तः स हरिः प्रमोदपरफुल्लचक्षुषो हर्षोत्फुल्लनेत्रानितरान् भीमादीन् ।क्षातभुजो नृपस्याऽनु पश्चाजन्म येषां ताननुजन्मनोऽनुजान यथाचितं यथार्ह मसभाजयत् सभाजयति स्म। आलिङ्गनादिभिरानन्द- यामासेत्यर्थः । 'आनन्दनसभाजने' इत्यमरः। 'समाज प्रीतिदर्शनयोः' इति धातोौरादिकाल्लुङ् ॥ १४ ॥ समुपेत्य तुल्यमहतः (१)शिलाघनान् घनपक्षदीर्घतरबाहुशालिनः ॥ परिशिक्लिषुः क्षितिपतीन् क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ समुपेत्येति ॥ अन्येऽपि क्षितीश्वराः राजानः समुपेत्य सङ्गत्य क्षितिपतीन् राज्ञः परिशिश्लिषुः अवागूहन् । किंलक्षणान् क्षितिपतीन् तुल्यमहतः तुल्याश्च ते महान्तन तुल्यमहान्तः तान् तुल्यमहतः । अनुरूपान् उन्नतांश्चेत्यर्थः । अपरं किलक्षणान् क्षिति- पतीन् शिलाघनान् अश्मविकटान् , अपरं किलक्षणान् क्षितिपतीन् , धनपक्षदीर्घतरबाहु- शालिनः घनाः गाढाः पक्षाः सहाया येषां ते घनपक्षाः, दोर्घतरैः अतिदीधैः बाहुभिर्भुजैः शालन्ते शोभन्ते दीर्घतरबाहुशालिनः, धनपक्षाश्च ते दीर्घतरबाहुशालिनश्च तान् आजानु- भुजान् । क्षितीश्वराणामपि विभक्तिविपरिणामेन एतानि विशेषणानि योज्यानि । अन्यथा तुल्यत्वं न भवति । के कानिवाऽऽश्लिष्यनित्याह-कुलिशात् परेण वज्रात् पूर्व गिरयः गिरीनिव अद्रयोऽद्रीनिव । कुलिशग्रहणं कार्य पक्षच्छेदो लक्ष्यते । गिरीनपि तुल्यांच महतच, तथा शिलाभिः घनान् व्याप्तान् , तथा घनैः पक्षैः पतत्रैरेव बाहुभिः शालिनः शोभमानान् । परेणेति निपातः ॥ १५ ॥ समुपेत्यति ॥ तुल्यमहसः समतेजस्कान् ,शिला इव शिलाभिश्च घनान् दृढान् घनः पक्षरिव दीर्घतर- बाहुभिः बाहुभिरेव पक्षश्च शालन्त इति तथोक्कानेवभूतान् क्षितिपतीनेवभूताः क्षितीश्वराः सम युगपदेत्या- ऽऽगत्या आपूदिणः क्त्वो ल्यपितु । कुलिशात्परेण परतः। कुलिशक्षतेः पूर्वमित्यर्थः। सम्प्रत्यसम्भवा- दिति भावः । परणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिवपरिशिश्लिषुरालिाङ्गतवन्तः। उपमा ॥१५॥ इभकुम्भतुङ्गघटितेतरेतरस्तनभारदरविनिवारितोदराः ॥ प्रति(२)फुलगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ १६ ॥ इभेति ॥ कुकुरकौरवस्त्रियः परस्परमन्योन्य परिरेभिरे आश्लिषन् । कुकुराः यादवाः कौरवा भारताश्च तेषां स्त्रियः कुकुरकौरवस्त्रियः, वृष्णिनार्यः सत्यभामाघाः कौरवस्त्रियः पाण्डवनार्यः द्रौपद्याद्याः । किलक्षणाः कुकुरकौरवस्त्रियः इभकुम्भतुङ्गघटितेतरेतरस्तनभार. दूरविनिवारितोदराः इभकुम्भा इव गजशिरःपिण्डा इव तुङ्गा उन्नताः तथा इतरेतर (१) महसः । (१) परि०।

सर्गः।] शिशुपालवधे। ४४७. . .. घटिताः परस्परं सम्बद्धाः ये स्तनभाराः कुचभाराः तैर्दूरमत्यर्थ विनिवारितानि वियोजि- तानि उदराणि मध्यानि यासां ताः तथोक्ताः । पीनस्तन्यः कृशोदर्यवेत्यर्थः । अपर किंलक्षणाः स्त्रियः प्रतिफुलगण्डफलकाः प्रतिफुल्लौ विकसितौ गण्डफलको कपोलफलको यासां तास्तथा, इति हर्षकथनम् ॥ १६ ॥ इभेति ॥ इभकुम्भा इव ये तुङ्गाः घटिताश्व इतरेतरासां स्तनभारास्तरे विनिवारितान्यतिकार्यादस्फुट- तया स्थापितान्युदराणि यासां ताः । 'स्वाङ्गाच्च-'इति विकल्पादनीकारः । परिफुलगण्डफलकाः हर्षपुलकित- गण्डस्थलाः कुकुरकौरवलियो यादवपाण्डवागनाः परस्परं परिभिरे आश्लिष्टवत्यः । 'परिरम्भः परिष्वङ्ग- आश्लेष उपगृहनम्' इत्यमरः । परिफुल्लेति फुल्लतेः पजायजन्तं, न तु फुल्लेति निष्ठान्तम् । अनुप- सर्गादिति कथनविरोधात् ॥ १६ ॥ रथवाजिपत्तिकरिणीसमाकुलं त तदनीकयोः समगत द्वयं मिथः ॥ दधिरे पृथक्करिण एव दृरतो महतां हि सर्वमथ वा जनाऽतिगम् ॥ १७ ॥ रथेति ॥ तत् अनीकयोयं तत्सैन्ययोर्युग्मं मिथः अन्योन्यं समगत समगस्त मिलि- तम् , किलक्षणं द्वयं रथवाजिपत्तिकरिणीसमाकुलं स्यन्दनतुरङ्गमपदातिहस्तिनीव्याप्तम् । पुनः करिणो द्विपाः दूरत एव दूरादेव पृथक् दधिरे भिन्ना धृताः । युद्धभयादन्योन्यं न मिलिता इत्यर्थः। हि यतः कारणात महतामुन्नतानां सर्वमेव किञ्चिद्वस्तु जनाऽतिंर्ग लोका- ऽतीतम्। ते च महान्तः महाप्रमाणत्वात्, अतो जनाऽतिगाः। जनमध्यं न निवेशिता इत्यर्थः१७ स्थेति ॥ रथवाजिपत्तिकरिणीभिः समाकुलं सङ्कीर्णम् । करिणीग्रहणं पुंगजव्यावृत्त्यर्थम् । अतो युद्धाऽनर्हतया वासामसेनाङ्गत्वान्त्र द्वन्द्वैकवद्भावः । तदनीकयोः सैन्ययोः । 'वरूथिनी बलं सैन्यं चक्रं चानी. कममियाम्' इत्यमरः । द्वयं मिथश्चाऽन्योन्यं समगत सङ्गतम् । गमेर्लडि 'समो गम्यूच्छि-' इत्यादिनात्मने- पदं, 'वा गमः' इति सिचः कित्त्वात् 'अनुदात्तोपदेश-' इत्यादिनाऽनुनासिकलोपः 'हस्वादङ्गात्' इति सकार- लोपः । करिणः पुंगजाः दूरत एव पृथगसङ्गतं दधिरे धृताः । स्थापिता इत्यर्थः। अथ वा किमत्र चित्रमिति भावः । महतां महासत्त्वानां सम्बन्धि सर्व चेष्टितमिति भावः, जनानतिगच्छतीति जनातिगमतिजनम् । सर्वलोकविलक्षणमिति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ १७ ॥ अधिरुहातामिति महीभृतोदितः कपिकेतना(१)ऽपितकरो रथं हरिः॥ अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥ १८ ॥ अधिरुह्यतामिति ॥ अथाऽनन्तरं हरिः श्रीकृष्णः रथं श्रयति स्म स्यन्दनम् आरोह, किंलक्षणो हरिः महीभृता राज्ञा युधिष्ठिरेण इति उक्तः उदितः अनुज्ञातः । इतीति किम्-अधिरुह्यतामिति आरोहत्विति । किंलक्षणो हरिः कपिकेतनेन अर्जुनेन अर्पितः दत्तः करो हस्तो यस्य सः तथा । कः किं यथा श्रयतीत्याह-क इव मेघवाहन- इव । यथा मेघवाहनो इन्द्रो वा रुद्रः मेघ यति जलदमाश्रयति । किलक्षणो रुद्रः अवलम्बितैलविलपाणिपल्लवः अवष्टब्धधनदकरकिसलयः । यस्य हि मेघो वाहनं, सोऽवश्यं तमेवाऽधिरोहति । इलविलायाः अपत्यम् ऐलविल: वैश्रवणः ॥१८॥ अधिरुह्यतामिति ॥ हरिः, आधिरुद्यता रथ आरुह्यतामित्येवं महीभृता धर्मराजेन उदित उत्कः सन् । वदेः कर्मणि कः 'वचिस्ववि'-इत्यादिना सम्प्रसारणम् । कपिकेतुनाऽर्जुनेनार्पितकरो दत्तहस्तः सन्, अवल- म्बितोऽवष्टन्ध ऐलविलस्य कुबेरस्य पाणिपल्लयो हस्लो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म । भारूढयानित्यर्थः । उपमा ॥१८॥ .. (१) केतुना.

- - . ४४८ सन्देहविषौषधिसर्वकषायुते- [त्रयोदश:- रथमास्थितस्य च पुराऽभिवतिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।। अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः॥ १९ ॥ रथमिति ॥ मुरद्विषोः मुरारेः रथमास्थितस्य सतः स्यन्दनमाश्रितस्य सतः पुराऽभि- वर्तिनः पुरी यियासोः अथाऽनन्तरं स्वयमेव आत्मना प्रजापतिः राजा युधिष्ठिरः प्रवयर्ण प्रतोदम् आदित जग्राह, किंलक्षणो राजा अनुरागभावितः स्नेहव्यातः । कः प्रजापति- रित्याह-धर्ममूर्तिः, धर्मः मूर्ति: शरीरं यस्य सः तथा । कस्य च क इव प्रत्रयणं जग्राह- यथा तिसृणां पुरां रिपोः त्रिपुरारेः श्रीमहारुद्रस्य सर्वदेवमयं रथमास्थितस्य पुराऽभिवर्तिनः त्रिपुरं दिधक्षः श्रीरुद्रस्य प्रजापतिर्ब्रह्मास्वयं प्रवयणम् आदित, सोऽपि अनुरागभावितः । श्रीमहादेवस्य हि त्रिपुरवासिनो दैत्यान् जिघांसोः आत्मभूः सारथिरभूत् । उक्तं च- 'ब्रह्माणं सारथि कृत्वेति । सोऽपि पुण्यमूर्तिः धर्मदेहः अनुरागेण च लौहित्येन व्यासः१९ रथमिति ॥ किञ्चेति चार्थः। अथ रथारोहणानन्तरं रथमास्थितस्यारूढस्य पुराभिवनिन इन्द्रप्रस्था- भिवर्तिनः त्रिपुराभिवर्तिनश्च मुराद्विषो हस्लिमृणां पुरा रिपोमिपुरान्तकस्येव । 'न तिमृचतम' इति नामि दीर्घप्रतिषेधः। धर्ममूर्तिधर्मात्मा प्रजापतिर्जनेश्वरो धर्मराजो ब्रह्मा च अनुरागभावितः सन् , प्रवीयते पर्यतेऽनेनेति प्रवयणं प्राजनम् , प्रतोद इति यावत् । अत एव 'प्रत्यणा दण्डः प्राजनो दण्डः' इति काशिका । अजेः करणे ल्युट् । 'वा यौ' इति विकल्यादजेवीभावः 'पूर्वपदात्संज्ञायाम्-' इति णत्वम् । म्वयमादित गृहीतवान् । सारथ्यं कृतवानित्यर्थः । ददातेः कर्तरि लुङि तङ् 'स्थायो:-' इतीकारे सिचः कित्त्वे च ह्रस्वादनात्' इति सलोपः । अब त्रिपुरहरणे ब्रह्मा हरस्येव हरेण्यं सारथ्यं चकारेत्युपमा । नस्याः प्रजापतिराित राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनियूंढतेति ॥ १९ ॥ शनकैश्च तस्य(१) तनुजालकाऽन्तरक्षरितक्षपाकरकरोत्कराकृति ॥ पृथुफेनकूटमिव निम्नगापतेर्मरुदस्य(२) सूनुरधुवत् प्रकीर्णकम् ॥ २० ॥ शनकैरिति ॥ इवशब्दो यथायें, यथा च निम्नगापतेः नदीनाथस्य पृथुफे नकूटं डिण्डीरराशि मरुत् वायुः धुनोति कम्पयति, एवमस्य मरुतः सूनुः पुत्रो भीमः तस्य हरेः शनकैः प्रकीर्ण चामरम् अधुवत् अचालयत् । किंलक्षणं प्रकीर्ण तनुजालकाऽन्तरक्षरित- क्षपाकरकरोत्कराकृति तनौ सूक्ष्मे जालकाऽन्तरे गवाक्षविवरे क्षरितः प्रविष्टो यः क्षपाकर- करोत्करः शशिकिरणनिकरः तस्येवाऽऽकृतिः संस्थानं यस्य तत्तथोक्तम् । तनुत्वं चाऽत्र जालविशेषणं, पृथुदीर्घमिति चामरविशेषणम् । फेनकूटमप्येवंविधं भवति ॥ २० ॥ शनकैरिति ॥ किञ्चेति चार्थः । अथाऽस्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गश रन्ध्रेषु स्फुरितस्य प्रमृतस्य क्षपाकरोत्करस्य शशिकिरणपुञ्जस्याकारिताकातेयस्य तत्प्रकीर्णक चामरं निम्नगापनेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्जमिव मरुतः सूनुभीमसेनः शनकैरधुवद् धुवति स्म । धुवतिरयं तौदादिक- इत्युक्तम् । उपमयोः सङ्करः ॥ २० ॥ विकसत्कलायकुसुमाऽसितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।। यमुनाहदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥२१॥ विकसदिति ॥ जिष्णुः अर्जुन: जगतामधीशितुः विश्वेषां प्रभोः श्रीकृष्णस्य उष्ण- वारणम् भातपत्रम् अभृत दधे । किंलक्षणस्य जगतामधीशितुः विकसत्कलायकुसुमा. ऽसितयुतेः विकसतः विकासमानस्य(१)कलायाख्यस्य वृक्षविशेषस्य यत् कुसुमं प्रसून तस्येव । (१)रथास्यस्फुरित कृतिः। (२)महत।

सर्गः ।] शिशुपालवधे। ४४६ .. असिता अशुक्ला युतिः भा यस्य सः तथा तस्य, किलक्षणमुष्णवारणम् अलघुमहत्, अपरं किंलक्षणं छन्नम् उडुपाण्डु उडु तारा चन्द्राख्या तदिव पाण्ड धवलम् , अत एव अपरं किलक्षणं छत्रं यमुनाहदोपरिगहंसमण्डलघुतिजिष्णु यमुनाहदस्य कालिन्दीजलाशयस्य उपरि गच्छत् हंसमण्डलं मरालचक्रवालं तस्य युतिः शोभा तं जयतीत्येवंशीलं प्रतिजिष्णु यमुनोपरिग- मरालशोभापरिभावि । श्रीकृष्णस्य कार्यात् यमुनाहृद उपमानम् ॥ २१ ॥ विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । 'कलायः स्यात्कान' इति वैजयन्ती । तद- सितयुतेलिवर्णस्य जगतामधीशितुर्जगनाथस्य जिष्णुरर्जुनः अलघुडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनादस्योपरिगमुपरिगतम् । 'अन्यत्रापि दृश्यते' इति डप्रत्ययः । तस्य हंसमण्डलस्य युति शोभा जिष्णु जयनशीलम् । 'ग्लाजिस्थश्च-' इति ग्स्नुः । उष्णवारणमातपत्रमभूत भूतवान् । भृजः कर्तरि लुङ् 'स्वरित. श्रितः' इत्यात्मनेपदम् 'उच' इति सिचः किवादगुणता 'हस्वादङ्गात्' इति सकारलोपः। अत्राप्युपमासकर २१ पवनात्मजेन्द्रसुतमध्यवतिना नितरामरोचि रुचिरेण चक्रिणा ॥ दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥ २२ ।। पवनेति ॥ चक्रिणा चक्रधरेण श्रीकृष्णेन नितरामतिशयेन अरोचि शोभितम् । किल- क्षणेन चक्रिणा पवनात्मजेन्द्रसतमध्यवर्तिना भीमार्जुनमध्यस्थेन, अपरं किंलक्षणेन चक्रिणा रुचिरेण भास्वता, केनेवाऽशेचि इन्दुनेव चन्द्रमसेव, किलक्षणेन इन्दुना दुरुधराख्यं दुरुधरानामानं योग सम्बन्धं दधता बिभ्रता । किलक्षणं योगं, तत्स्वरूपमाह-उभयग्रहा. ऽन्तरस्थितिकारितम् उभयोः ग्रहयोः श्रीसूर्यविहीनयोः यत् अन्तरं मध्य तत्र स्थितिरव- स्थानं तया कारितः निष्पादितः तम् । द्वितीयद्वादशग्रहमध्यस्थस्येन्दोः दुरुधरायोगो भवति । अत्र संस्थानमा दीप्तिमत्त्वं च विवक्षितम् ॥ २२ ॥ पवनति ।। पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चक्रिणा हरिणा उभयोरोऽन्य- ग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं सम्पादितम् । वृत्तिविषये उभशन्दस्य स्थानऽयुभय- शब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तद् दुरुधराख्यं योगं दधता । अर्काऽन्यग्रहमध्यगते- नत्यर्थः ! इन्दुनेवेत्युपमा । नितरामतिशयेन। 'अव्ययादाम्वक्तव्यः-' इत्यामुप्रत्ययः । अशोच अशोभि । रोचतेभीधे लुङ् । स्वभावरमणीयस्याऽनुरूपान्तरसमायोगाच्छोभातिशयो जायते। रत्नकाञ्चनयोरिवेति भावः। अत्र भगवानाचार्यामहिरः-'हित्वाऽर्क सुनफाऽनफा दुरुधरा स्वान्त्योभयस्थग्रहः, शीतांशोः' इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा । 'राविवर्ज द्वादशगैरनफा चन्द्राद् द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा के मद्मसंज्ञिकोऽतोऽन्यः ।। इति ॥ २२ ॥ वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ॥ विजयश्रिया वृतमिवाऽर्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥ वशिनमिति ॥ अथाऽनन्तरं दस्रयोः सुतौ नासत्ययोरात्मजौ नकुलसहदेवी तं श्रीकृष्णम् अनुसनतुः पश्चाज्जग्मतुः। को कमिवेत्याह-अयनयाविव । यथा वशिनं जितेन्द्रिय क्षितः ईश्वरं राजानम् अयनयौ दैवनीती, अनुकूलं हि दैवम् अयः षाड्गुण्यं तो अनुगच्छतः। अपरं को कमिव नियतं संयमिनं यति परिवाज नियमो यमश्च अनु- सरतः । नियमोऽनुष्ठेयरूपः सौरादिः, यमो निषिद्धवर्जनहिंसादिः । उक्तं च-'अहिंसा- सत्यास्तेयब्रह्मचर्याऽपरिग्रहा यमाः, शौचासन्तोपतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः । मयः, सन्देहविषौषधिसर्वपायुते- [त्रयोदश:- - . तथा विजयश्रिया जयलक्षम्या वृतं सम्भक्त नरम् अर्कमारतो रविसमीरणौ पृष्ठस्थौ अनुसरतः। यदा किल पराङ्मुखौ तौ भवतः, तदा लक्षम्या च साधारणसामर्थ्यादेव जयसदावः॥२३॥ वशिनमिति ।। अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनामिति यावत् । चितीश्वरं भूपतिम् अयः शुभावहो विधिनीतिर्नयस्ताविव । देवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ट यति जितेन्द्रियम् । 'यतिनो यतयश्च' इत्यमरः । नियमः शरीरातिरिकदेशकालादिसाधनापेक्षः सन्ध्योपास- नजपादिः, यमः शरीरमात्रसाधनापलोडहिंसादिः। 'शरीरसाधनापेक्षं नित्यं यत्कर्म तयमः । नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥ स च यथा, यमनियमावियत्यर्थः । 'इववद्वायथाशब्दाः' इति दण्डिनाभिधानात् । विजयश्रिया युतं आसत्रविजयम् विजिगीषू, रिपुमित्यर्थः । अर्कमाहताविव दत्रयोरश्विनाः सुतौ नकुलसहदेवौ। 'नासत्या- वश्विनी दस्रौ' इत्यमरः । तं हरिमनुसस्रतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथा- नुकूलव्यापारवत्त्वमनुसरणम् । इयं मालोपमा ॥ २३ ॥ मुदितैस्तदति दितिजन्मनां रिपावविनेय(१)सम्भ्रमविकासिमतिभिः ॥ उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥ २४ ॥ मुदितैरिति ॥ तैः पाण्डवैः दितिजन्मनां दितिपुत्राणां रिपा दैत्यारौ श्रीकृष्णे तदा इति उक्तेन प्रकारेण विनीतं ववृते सविनयम् आसितम् । किलक्षणैस्तैः मुदितैः हृष्टैः, अपरं किंलक्षणैस्तैः अविनेयसम्भ्रमविकासिभक्तिभिः अविनेयः अकृत्रिमः सहजः सम्भ्रमः त्वरा आदरः तेन विकासिनी प्रसरन्ती भक्ति भजनानन्दो येषां ते तथा तैः । सहजो हि आदरः भक्ति प्रकाशयति, कृत्रिमस्तूपचारः । अपरं किंलक्षणैस्तैः अविनीतशासिभिः दुराचारहन्तृभिः । कैर्यथा कस्मिन् विनीतमास्यते, इत्याह-कस्मिन्निव उपदेष्टरि गुरौ उपसेदिवनिः अन्तेवासिभिरिव । तेऽपि सहजभक्तयो विनीतशासिनश्च । विकासिभक्तिभि- रिति अविकासिनीवृत्तिपरया चोदनया स्त्रीत्वेन विना पूर्वपदार्थो विवक्षित इति ॥ २४ ॥ मुदितरिति । तदा तस्मिन्समये इति मुदितैष्टिरविनीयो कल्कः । अकपट इति यावत् । यः सम्भ्रम- आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । विपूयविनीयजित्या मुञ्जकल्कहलिषु' इति कल्कार्थे निपातः। नपुंसकपूर्वपदः मीलिजपूर्वपदो वा बहुव्रीहिः । अविनीतं शामतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवः दितिजन्मना रिपो कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवासोऽन्तेवासिनः । 'भाषाया सदवसभ्रवः' इति सदर्लेिटः कसुरादेशः । तैरुपसेदिवद्विरुपदेष्टीर गुराविवेत्युपमा । विनीतमनुद्धतं च ववृते वृत्तम् । भावे लिट् । ननु विकासिभाकरित्यत्र कथं पूर्वपदस्य पुवदावः, भक्तिशब्दस्य प्रियादिपाठात् "बियाः पुंवत्-'इति पुंवद्धावसूत्रेऽप्रियादिग्विति निषेधादिति। विकासिशब्दस्याविकासिनीवृत्तिमात्रपर- नयाऽमीत्वस्य विवक्षितत्वानपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योकं वृत्तिकारेण 'दृढ- भकिरित्येवमादिषु मीपूर्वपदस्याऽविवक्षितत्वासिद्धिः' इति । एतदेव स्पष्टीकृतं गणव्याण्याने-'दृढं भाकिर्यस्येति नपुंसकं पूर्वपदम् , धात्वर्थविशेषणमाषपरे दृढशन्दे लिङ्गविशेषस्याऽनुपकारकत्वात्मीत्वमवि. बक्षितम्' इति । भोजराजस्तु भको कर्मसाधनाया'मित्यनेन सुषेण भज्यते सेव्यते इति कर्मार्थत्वेन दृढा भकिरित्यादि भवति । भावसाधनायां तु दृढभक्तिर्भवत्येव' इत्याह । तदेतत्सर्वमस्माभिः कालिदासपव- सञ्जीविन्यां पढभक्तिरिति ज्येष्ठ' इत्यादिषु विषेचितम् । तस्माद्विकामिभक्तिभिरित्यत्रापि मतभेदेन पूर्णपदस्य मीत्वे नपुंसकत्वे च रूपमिडिरस्तीति स्थितम् ॥ २४ ॥ . (१)वविनीय।

सर्गः ।] शिशुपालवधे। ४५१ गतयोरमेदमिति सैन्ययोस्तयोरथ भानुजहतनयाऽम्भसोरिव। प्रतिनादिताऽम्बर(१)विमानमानकैनितरां मुदा परमयेव दध्वने ॥ २५ ॥ गतयोरिति ॥ तयोः सैन्ययोः बलयोः इत्थम् अनेन प्रकारेण अभेदमैक्यं गतयोः प्राप्तयोः सतोः अथ पश्चात् आनकैः पटहै: नितरामत्यर्थ दध्वने ध्वनितम् । तयोमिलि- तयोः भेर्यो वायन्ते इत्यर्थः । कया, उत्प्रेक्ष्यते-परमया महत्या मुदेव तुष्ट्येव । सति हर्षे मुखरेण भूयते । कयं यथा भवति दध्वने प्रतिनादिताम्बरविमानं यथा भवति प्रतिनादि- तानि प्रतिध्वनि प्रापितानि अम्बरमाकाशं विमानानि व्योमयानानि च यत्र क्रियायां तद्यथा भवति । किंलक्षणयोः सैन्ययोः, उत्प्रेक्ष्यते-भानुजनुतनयाअम्भसोरिव यमुनागङ्गाजल- तुल्ययोः, भानुजहवोः तनये पुत्र्यौ यमुना गङ्गा तयोःअम्भसी पानीये तयोरिव ॥ २५ ॥ गतयोरिति ॥ इति इत्थं गनयोः सैन्ययोः भानुजनुतनये यमुनाजान्यौ तयोरम्भसी प्रवाही तयारिवाऽभेदमैक्यं गतयोः सतोः। 'यस्य च भावेन भावलक्षणम्'इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम्। अथ सैन्यमेलनाऽनन्तरम् आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणे वेत्युत्प्रेक्षा । प्रतिनादितानि प्रतिध्व- नितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देवयानानि यस्मिन् कर्मणि नयथा तथा नितरी दध्वने ध्वनितम् । भाव लिट् ॥ २५ ॥ मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः॥ उपरुध्यमानमिव भूभृतां बलैः पुटभेदन दनुसुताऽरिरैक्षत ॥२६॥ मखमिति ॥ ततः दनुमुतारिदर्दानवशत्रुर्भगवान् श्रीकृष्णः क्षितिपतेः राज्ञो युधि- ष्ठिरस्य पुटभेदन स्थानीयमिन्द्रप्रस्थाख्य नगरम् ऐक्षत अदर्शत् । किलक्षणं पुटभेदनं भूभृतां बलैः राज्ञा सैन्यैः बहिर्बाह्यप्रदेशे परितः समन्तात् प्रकल्पितनिकेतनं रचिताऽवसतिक, किंलक्षणानां भूभृतां मखमीक्षितुं यज्ञं द्रष्टुमुपेयुषामागतानाम् , उपेयुस्ते उपेयिवांसः तेषा- मुपेयुषाम् । अपरं किंलक्षणं पुटभेदनम् , उत्प्रेक्ष्यते-उपरुध्यमानमिव । यस्य किल पुरस्य परैरवरोधः क्रियते, तद्वहिः प्रकल्पितनिकेतनं भवति । पुटभेदनं मूलनगरम् । 'पत्तन पुटभेदनं, स्थानीय निगमः' इत्यमरः ॥ २६ ॥ मखामीत ॥ मितिपतेधर्मराजस्य मखं क्रतुमक्षितुमुपेयुषा ततस्तत आगताना भूभृतां राशा बलै: सैन्यबहिः परितः प्रकल्पितानि निर्मितानि निकेतनानि निवासा यस्य तत् अत एवोपरुध्यमानं शत्रुसेनावेष्टय- मानमिव स्थितमित्युत्प्रेक्षा । पुटभेदनं पत्तनं मयकृतमिन्द्रप्रस्थम् । 'पत्ननं पुटभेदनम्' इत्यमरः । स्नुसुतारिनिवारिः पुरोऽग्रे ऐक्षताऽपश्यत् ॥ २६ ॥ प्रतिशब्द(२)पूरितदिगन्तरः पतन् पुरगोपुरं प्रति स सैन्यसागरः ॥ रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥२७॥ प्रतिशब्देति ॥ सः सैन्यसागरः बलसमुद्रः रुरुचे शुशुभे । किं कुर्वन् पुरगोपुरं प्रति नगरद्वारसंमुखं पतन् प्रविशन् , अपरं किलक्षणः सैन्यसागरः प्रतिशब्दपूरितदिगन्तरः प्रतिशब्देन प्रतिश्रुत्या पूरितानि भरितानि दिगन्तराणि आशाविवराणि येन सः तथा ।. क इव अमात् इत्याह-सौरसैन्धवः गाडगेयः पयसां प्रवाह इव तोयपूर इव, सुरसिन्धोः अमरापगायाः अयं सौरमैन्धवः। किंलक्षणः पयसां प्रवाहः हिमाचलगुहामुखोन्मुखः तुषारा- अद्रिदरीरन्ध्राभिमुखः, सोऽपि प्रतिशब्दपूरितदिगन्तरः ॥ २७ ॥ . - (१)ऽमर। (२) प्रतिनाद ।

सन्देहविषौषधिसर्वस्यायुते-
[त्रयोदशः
..
प्रतिनादेति । प्रतिनादः प्रतिध्यानः परितं व्याप्तं दिशामन्तरमन्तरालं येन सः पुरगोंपूरं पुरद्वारं प्रति।
'गोपुरं तु पुरताशि द्वारमा नपुंसकम्' इति विश्वः। एवं च न पुरशन्दस्य पौनरुक्त्यशङ्का । पतन् पावन
ग्यसागरः सेनासमुद्रः हिमाचलगुडामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः ।
'हृद्गासिन्ध्व ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । पयसा प्रवाह इव रुरुचे रेजे । उपमालद्वारः ॥ २७ ॥
असकृद्गृहोतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥२८॥
असकृदिति ॥ असौ पुरुषो भगवान् तत्पुरमिन्द्रप्रस्थं प्रविशति स्म प्रविवेश ।
किलक्षणः पुरुषः असकृद्गृहीतबहुदेहसम्भवः असकृत् भूयोभूयः गृहीत आश्रितः रामादि-
रूपेण बहूनां प्रभूतानां देहानां शरीराणां संभवो जन्म येन सः तथा, किंलक्षणं पुरं विभक्त-
नवगोपुरान्तरं विभक्कानि विभागे स्थितानि नवानां प्रत्यग्राणां गोपुराणां द्वाराणामन्त-
राणि मध्यानि यत्र तत्तथा । सविभक्तकक्षाप्रदेशमित्यर्थः । कैः सह पुरं प्राविक्षदित्याह-
पञ्चभिः नरेन्द्रसनुभिः राजनन्दनैः पाण्डवैः सह । कैरिवेत्याह-इन्द्रियैरिव । यथा पुरुषः
आत्मा चक्षुरादिभिः पञ्चभिरिन्द्रियैः सार्ध पुरं शरीरं प्रविशति । सोऽप्यात्मा असकृत्-
गृहीतबहुदेहसम्भवः । आत्मा हि देहाद् देह सञ्चरन्नपि विभक्तनवद्वारं (पुरं प्रविशति ।)
विभक्तानि विभागेन स्वीकृतानि नवसङ्ख्यानि गोपुराणि द्वाराणि पायूपस्थाऽऽस्य-
श्रोत्राऽक्षिघ्राणाख्यानि यस्य तत् । गोपुरशब्देनाऽत्र द्वारमात्र विवक्षितम् ॥ २८ ॥
असकादिति । असकृतहुशो गृहीतो लोकधारणाय स्वीकृतो बहुषु देहेषु मत्स्यकूर्मादिषु शरी रेषु
सम्भवः प्रादुर्भावों येन सः, अन्यत्र स्वकर्मणा प्राक्तनयोनिसम्बन्धरूपसम्भव इत्यर्थः । पुरुषः पुराण-
पुरुषो हरिविश्च । विभक्कानि नपानि प्रत्यप्राणि गोपुरान्तराणि द्वारविशेषा यस्य तत्, अन्यत्र नव-
सङ्ख्याकानि गोपुरान्तराणीन्द्रियद्वारभेदा यस्मिस्तत् पुर पत्तनं शरीरं च । 'पुरं पुरि शरीरे च' इति
विश्वः । पञ्चभिरिन्द्रियैः सममिव पञ्चभिर्न रेन्द्रसूनुभी रजपुत्रैः पाण्डवैः सहाऽसौ हरिस्तत् पुरं प्रविशति
म्म । जीवो हि देहादेहान्तर पूर्वेन्द्रियैः सह प्रविशति । लिङ्गशरीरस्याऽनपायादिति भावः ।
श्रेषसकीयमुपमा ॥ २८ ॥
तनुभित्रिनेत्रनयनाऽनवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ॥
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥ २९ ॥
तनुभिरिति ॥ यत्र पुरे नराः पुरुषाः तनुभिः दैहैः अद्युतन् शशुभिरे, अपर
प्रमदाश्च नार्यः मुखैः अद्युतन् बभुः । किंलक्षणाभिस्तनुभिः त्रिनेत्रनयनाऽनवेक्षितस्मर-
विग्रहद्युतिभिः त्रिनेत्रस्य स्मरारेः नयनेन तृतीयचक्षुषा अनवेक्षितः अलक्ष्यीकृतो यः स्मर-
विग्रहः कामकायः तस्येव द्युतिः कान्तिर्यासां तास्ताभिः । अदग्धकन्दर्परम्याभिरित्यर्थः ।
किंलक्षणैर्मुखैः राजयक्ष्मणः परतः निशाकरमनोरमैः यक्ष्मव्याधः परतः पूर्व यो निशाकरः
चन्द्रः तद्वत् मनोरमाणि रम्याणि तैः।अखण्डमण्डलेन्दुनिभरित्यर्थः। इति सर्वेषां सुरूपत्वमुक्तम्
तनुभिरिति ॥ यत्र नराः पुरुषाः त्रिनेत्रख्यम्बकः । 'पूर्वपदात् संज्ञायामगः' इति णत्वं तु रघुनाथा-
दिवण्णत्वरहितस्य संज्ञावे न प्रवर्तते । तस्य नयनेनाऽनवेक्षितस्य स्मरविग्रहस्य युतिरिव युतिर्यासा
ताभिस्तनुभिः मूर्तिभिः । 'मया मूर्तिस्तनुस्तनूः' इत्यमरः । अद्युतन् योतन्तेऽस्म । युत दीली, 'युद्ध्यों
लुमि' इति विकल्पात्परस्मैपदं पुषादिसूत्रेण च्लरकादेशः । प्रमदाः नियश्च राज्ञश्चन्द्रस्य यक्ष्मा राजयक्ष्मा
क्षयरोगः । 'राजानं यक्ष्मा आरत्' इति श्रवणात् । 'राजयक्ष्मा क्षयः शोथः' इत्यमरः । तस्मात्परतः।
पूर्वभिन्यर्थः । निशाकरवन्मनोरमैः । अक्षीणेन्दुसुन्दरीरित्यर्थः । मुखैरातन् । तत्पुरं प्रविष्ट इति पूर्वेणान्वयः ।
उपमयोः संमृष्टिः ॥ २९॥

सर्गः ।] शिशुपालवधे। ५५३ अन्यच किंलक्षणं पुरमित्याह- अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।। अवधीरिताऽन्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥ ३० ॥ अवलोकनायेति ॥ अथ पौरयोषितो नागरिकाः प्रतिरथ्य प्रतिमार्गम् ईयुः आजिहन आययुः, किमर्थ सुरविद्विषां देवशत्रूणाममुराणां द्विषः शत्रोः मुरारे: अवलोकनाय देवं द्रष्टुम् । कथं तास्तदागमनमजानन्नित्याह-किंलक्षणाः पौरयोषितः पटहप्रणादविहितो. पहूतयः दुन्दुभिध्वनिभिः कृताहानाः, अत एव अपरं किंलक्षणाः अवधीरिताऽन्यकरणीय- सत्वराः अवधीरितानि अवज्ञातानि अन्यकरणीयानि इतरकार्याणि याभिस्ताः अवधोरिता- ऽन्यकरणीयाः, अत एव एवंभूताश्च ताःसत्वराः वेगवत्यश्च तथा उत्सृष्टकार्यान्तराः सत्वराश्व३०॥ अवलोकनायति ॥ अथ हरेः पुरःप्रवेशानन्तरं पटहप्रणादैर्दुन्दुभिध्वनिभिर्विहितोपहूतयः । कृताहाना. इवेत्यर्थः। पुरे भवाः पौर्यस्ता योषितः पौरयोषितः । मिया: पुनद्भावः। सुरद्विषामसुराणां द्विषो हरेरवलोकनाय दर्शनार्थमवधीरिताऽन्यकरणीयास्त्यकाऽन्यकार्याः तास ताः सत्यः, रथ्यां प्रति प्रतिरथ्यम् । यथार्थेऽव्ययी- भावः । ईयुः प्राप्ताः । एतेन मीणा हरिविलोकने कालाऽक्षमत्वलक्षणमौत्सुक्यमुक्तम् । अत्र पौराङ्गनाप्राप्तेः प्रवेशवायश्रवणानन्तर्यात्तदुपह्वानोत्प्रेक्षा व्यञ्जकाप्रयोगाम्या ॥ ३० ॥ तमेव कार्यान्तरत्यागमाह- अभिवीक्ष्य सामिकृतमण्डना(१) यतीः कररुद्धनिर्लसदुरोऽशुकाः स्त्रियः॥ दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सोधपतयः ॥ ३१ ॥ अभिवीक्ष्येति ॥ अधिभित्ति भित्तौ पटहप्रतिस्वनै: आनकप्रतिध्वानः सोधपङ्क्तयो हावलयः स्फुटं प्रकटम् अट्टहासमिव दधिरे उच्चैहासमिव दधुः । अधिभित्तिषु ये पटहस्वनाः आनकप्रतिरवाः तैः करणैः सशब्द जहमरित्यर्थः । हास्यकारणमाह- किं कृत्वा स्त्रियः नारीरभिवोक्ष्य अवलोक्य, किलक्षणाः स्त्रियः यतीः गच्छतीः, यन्ति ता यत्यः ताः यतीः, अपरं किलक्षणाः स्त्रियः सामिकृतमण्डनाः सामि अधं कृतानि धृतानि मण्डलानि अलङ्करणानि याभिस्ताः तथा ताः । अर्धमेव प्रतिकर्म कृत्वा यती: गच्छतीरित्यर्थः । अपरं किंलक्षणाः स्त्रियः कररूद्धनिर्लसदुरोंऽशुकाः त्वरावशात् करेणैव रुद्धमवष्टब्धं निर्लसत् भ्रश्यत् उरोंऽशुकं स्तनावरणं याभिस्ताः तथा ताः । अतश्चोत्प्रेक्ष्यते- सौधपतयः अमूहसन्तीव । 'सामीत्यर्धे जुगुप्सने' ॥ ३१ ॥ अथाष्टादशभिः पोराङ्गनाशङ्गारचेष्टा वर्णयति- अभिवीक्ष्येति ॥ साभिकृतमण्डनमविरचितप्रसाधनं यथा तथा यतीगच्छन्तीः । इणः शतरि डीप । कररुद्धनीधीनि करगृहीतग्रन्थीनि गलदंशुकानि स्रसमानपरिधानानि यास ताः । लसदिति पाठान्तरं, तदा लसदुलसदित्यर्थः । 'अंशुकं वममात्र स्यात्परिधानोतरीययोः' इति शब्दार्णवे। मियः मीरभि- वीक्ष्य सोधपक्रयः अधिभित्ति भित्तिषु । विभक्त्यर्थेऽव्ययीभावः । पटहपतिस्वनस्तूर्यप्रतिवनिभिः स्फुट- मुदतमट्टहासमुचैर्हसितमित्र दधिर । इवेत्युत्प्रेक्षा । विकृतिदर्शनाद्धामो भवतीति भावः । अत्र कुतूहला- ख्या चेष्टोक्ता । 'कुतूहलं रम्यदृष्टी चापल्यं परिकीर्तितम्' इति लक्षणात् ॥ ३१ ॥ रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं विहितकर्णपूरकाः ॥ परिवर्तिताऽम्बरयुगाः समापतन् वलयीकृतश्रवणकुण्डलाः(२)स्त्रियः॥ - (१) मण्डनं "रुद्धनीविगलदंशुकाः । (२) पूरकाः।

१५४ सन्देहविषौषधिसर्वपायुते- [त्रयोदशः रभसेनेति ॥ स्त्रियो नार्यः समापतन् श्रीभगवदर्शनायाऽऽययुः । किंलक्षणाः खियः रभसेन हारपददत्तकाञ्चयः रभसतया गमनौतहक्येन हारपदे हारपीठे कण्ठे दत्ता कृता काची मेखला याभिस्तथा, अपरं किलक्षणाः स्त्रियः रभसेन प्रतिमूर्धजं निहितकर्णपूरकाः प्रतिमूर्धज केशेषु विहिता रचिताः कर्णपूरका याभिस्ताः तथा, अपरं किलक्षणा नार्यः परिवर्तिताऽम्बरयुगाः परिवर्तितं विपरीततया धृतम् अम्बरयुगं वसनयुगलं याभिस्ताः तथा । अधोवास उपरि प्रावृतं, तत्रत्यं जघने निहितं याभिरित्यर्थः । अपरं किलक्षणाः स्त्रियः वलयीकृतश्रवणकुण्डलाः अवलयं वलयं कृतमिति वलयीकृतं भुजे निहितं श्रवण- कुण्डलं कर्णाभरणं याभिस्तास्तथा । रभसेनेति प्रत्येक सम्बध्यते ॥ ३२ ॥ रभसेनेति ॥ रभसेन त्वरया हारपदे मुक्कादामस्थाने वक्षसि दत्तकाञ्चयो न्यन्तरशनाः प्रतिमूर्धजं मूर्ध- जेषु केशेषु । विभक्त्यर्थेऽव्ययीभावः । विहिताः कर्णपूरकाः कर्णावतंसा याभिस्ताः। परिवर्तितं विपर्यासन धृतमम्बरयुगं वाससी याभिस्ताः। परिधानाकृतमुत्तरीयं, कुचांशुकं च जघने दत्तमित्यर्थः । वलयीकृता: श्रवणपूरकाः कुण्डलानि याभिस्ताः मियः समापतन्त्रधावन । एतेन विभ्रमाख्या चेष्टोक्का । 'विभ्रमस्वरया काले भूषास्थानविपर्यये' इति लक्षणात् । स च भ्रममूल इति भ्रान्तिमदलद्वारो व्यज्यते ।। ३२ ।। व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ॥ द्रुतयावकैकपदचित्रिताऽवनि पदवीं गतेव गिरिजा हरार्धताम् ॥ ३३ ॥ व्यतनोदिति ॥ काचन काऽपि नारी पदवीं पद्धतिं द्रुतयावकैकपदचित्रिताऽवनि ध्यतनोत् चकार, द्रुतयावकं सरसाऽलक्तकं यत् एकपदम् एकक्रमः तेन चित्रिता चित्रवत. कृता अवनिर्भूमिर्यस्याः सा तथा तां, किं कृत्वा अतनोत् रसवशेन कौतुकवशात् प्रसा- धिकाकरपल्लवात् चेटीपाणिदलात् चरणं पादम् अपास्य आक्षिप्य । अतश्चैकस्य पदस्य विचित्रत्वात् किंलक्षणा सा, उत्प्रेक्ष्यते-गिरिता पार्वती हरार्धतां गतेव ईश्वरार्धतां प्राप्तव । गौरीधरपदमध्ये ह्येकं पदं सालक्तकं भवति ॥ ३३ ॥ व्यतनोदिति ॥ काचन मी रसवशेन हरिवीक्षणपारतमयेग। 'गुणे रागे द्रवे रसः' इत्यमरः । प्रसाधिकाया अलङ्काः करपल्लवाच्चरणमपास्य असमालावेवाचिप्य । हरार्धता हरस्याङ्गिना गता। अन्यथकपादालतकासम्भवादिति भावः । गिरिजा गौरीव । यावकेनालक्तकेन एकपदेन चित्रिता चित्र- वर्णीकृता अवनिर्यस्यास्ता पदवीं व्यतनोदकरोत् । उपमालङ्कारः । एषा कुतूहलाख्या चेष्टा रसा- विवक्षाजनितचापलरूपत्वादिति ॥ ३३ ॥ व्यलगन् (१)विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ॥ भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः॥ ३४ ॥ व्यलगनिति ॥ स्त्रियो नार्यः भवनानि प्रासादान् व्यलगन् आरुरुहुः । किंलक्षणाः त्रियः विशङ्कटकटोरकस्थलीशिखरस्खलन्मुखरमेखलाऽऽकुलाः विशङ्कटा विकटाः या कटीरक- स्थल्यः जघनतव्यः तासां यत् शिखर पोनो भागः तत्र स्खलन्त्यः श्लिष्यलन्त्योऽत एव मुखराः शिक्षाना या मेखला रशनास्ताभिराकुलाः सायासा इव, अपरं किलक्षणाः स्त्रियः तुगतपः नीयसंक्रमक्रमणकणत्कनकनूपुराः तुङ्गा उन्नता ये तपनीयसंक्रमाः कनकसोपनानि तत्र तैर्वा यत् क्रमणमारोहणं तेन कणन्ति मणझणायमानानि कनकनूपुराणि हेममीराणि यासांतास्तथा३४॥ न्यचनमिति ॥ विशदूटाना विशालानां कटीरकस्थलीना कटिभागानां शिखरेष्यप्रेषु स्खलन्त्यो (१)व्यचलन् ।

सर्गः ।] शिशुपालवधे। ४५५ लुठन्त्योऽत एव मुखराः शब्दायमानास्ताभिर्मेखलाभिराकुलाः, तुङ्गेषु तपनीयसंक्रमेषु कनकसोपानेषु क्रमणे. नक्वणन्तः कनकन पुरा यासा ताः लियः भवनानि हाणि व्यचलन् । तत्र गत्वारोहनित्यर्थः । चले. र्गत्याला । एतदपि पूर्ववदतिकुतूहलमेष । वृत्त्यनुप्रासाठलकारः ॥ ३४ ॥ अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदशो रराज मुरजिद्दिद्क्षया ॥ वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ॥ ३५ ॥ अधिरुक्मति ॥ कस्याश्चित् सुदृशः सुनेत्रायाः वदनारविन्दमाननकमलं रराज शुशुभे । किंलक्षणं वदनारविन्दं मुरजिदिदृक्षया भगवद्दर्शनेच्छया अधिल्ममन्दिर- गवाक्षं सुवर्णभवनवातायने उल्लसत् शोभमानम् । किमिव रराजेत्याह-किलक्षणं वदनारविन्दम् , उत्प्रेक्ष्यते-इन्दुमण्डलं शशिबिम्बमिव । किंलक्षणमिन्दुमण्डलम् उदया- द्रिकन्दराविवरोदरस्थितम् उदयपर्वतदरीरन्ध्रमध्योदितम् । रुक्ममन्दिरं सुवर्णगृहं तस्व गवाक्षः तस्मिन् अधिरुक्ममन्दिरगवाक्ष, सप्तम्यर्थेऽव्ययीभावः ॥ ३५ ॥ अधिरुक्मति ॥ मुरजितो हरेर्दिदृक्षया द्रष्टुमिच्छया । दृशेः सचन्तात् 'अप्रत्ययात्' इति लिया मप्रत्यये टाप । रुक्ममन्दिरस्य कनकहर्म्यस्य गवाचेऽधिरुक्ममन्दिरगवाक्षम् । विभक्त्यर्थेऽव्ययीभावः। उल्लसनकाशमानं सुदृशः श्रिया वदनारविन्दमुदयादेः कन्दराया गुहाया विवरस्योदरे मध्ये स्थितमिन्दु- मण्डलमिव रराजेत्युपमा । अत्रापि सुदृशो गवाक्षाक्रमणस्य रम्यदर्शनार्थचापलरूपत्वात्कुतूहलं मुराज- हिदृक्षयेत्यादिना व्यक्तमेव ॥ ३५ ॥ अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनांऽन्तयैकया ॥ विहितोपशोभमुपयाति माधवे नगरं व्यराजत(१) पताकयेव तत् ॥ ३६ ॥ अधिरूढयेति ॥ माधवे भगवति श्रीकृष्णे उपयाति निविशमाने सति तन्नगरं पुरम् इन्द्रप्रस्थं व्यराजत व्यरोचत। किंलक्षणं पुरम् । एकया अन्यया नार्या विहितोपशोभं जनित- भूष, सर्वापेक्षमन्यत्वम्, कयेव पताकयेव वैजयन्त्येव । भगवदागमनहर्षोद्धृतपताकया यथा तदूषितम् , एवं तथेत्यर्थः । इत्युपमा । यदि वा तस्या एव पताकाऽनुमाप्यते इत्युत्प्रेक्षा। किलक्षणया नार्या इति पताकासाम्यमाह-उच्चकैः प्रांशु निजनिकेतं स्वमन्दिरम् अधि- रूढया आरूढया आश्रितया, अपरं किंलक्षणया एकया पवनावधूतवसनाऽन्तया पवनेन वायुना अवधूतः आन्दोलितः वसनाऽन्तः वस्त्रपल्लवो यस्याः सा तथा तया । पताका- ऽप्येवंविधा भवति ॥ ३६ ॥ अधिरूडयेति ॥ उच्चकैर्निजनिकेत स्वसौधमधिरूढया आरूढवत्या पवनेनाऽवधूतः कम्पितो वसनान्तो वनाचलो यस्यास्तया एकया कदाचिदङ्गानया हेतुना तनगरमिन्द्रप्रस्थं माधवे उपयात्यागच्छति । यातेर्ल- ट: शत्रादेशः। पताकया वैजयन्त्या विहितोपशोभं कृतशोभमिवाऽलस्कृतमि वेत्युत्प्रक्षा । व्यरोचत व्यराजत । कृत्स्नस्यापि नगरस्य स्वयं पताकेत्र बभावित्युवेशा । तस्याः सकलपोराङ्गनाऽतिशायि लावण्यं व्यज्यत- इत्यलद्वारेण वस्तुवनिः । अत्रापि प्रासादारोहणं पूर्ववत्कुतूहलमेव । ३६ ॥ करयुग्मपममुकुलाऽपवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् । अवदोर्णशुक्तियुटमुक्तमौक्तिकाकरिवाऽहिरिपुकेतु(२)मङ्गनाः ॥ ३७ ॥ करयुग्मेति ॥ अङ्गनाः पुरेनार्यः अहिरिपुकेतुं गरुडध्वजं श्रीकृष्णं प्रतिवेश्म गेहे गेहे लाजकुसुमैः लाजैः कुसुमैश्च अवाकिरन् निर्भरं चक्रुः । किंलक्षणैः लाजकुसुमैः करयुग्म- : (१) व्यरोचत। (२)खि पियरथाङ्ग। ।

५५६ सन्देहविषौषधिसर्वकषायुते- [त्रयोदशः- - .. पनमुकुलाऽपवर्जितैः करयुग्ममेव पाणिद्वन्द्वमेव पर्व कमलं यस्य तत् मुकुलं कुड्मलं सम्पुट: तेन अपवर्जितानि मुक्तानि तैः । अपरं किंलक्षणैाजकुसुमैः, अतश्चोत्प्रेक्ष्यते-अवदीर्ण- शुक्तिपुटमुक्तमौक्तिकप्रकरैरिव अवदीर्णो विकसितो यः शुक्तिपुटः मुक्ताकपाटः तेन मुक्तः क्षिप्तो योऽसौ मौक्तिकप्रकरः मुक्तावृन्द तैरिव तत्तुल्यैः। सितत्वात् मुक्ताकुलक्षेपाजेति(?) भावः३७ करयुग्मेति ॥ प्रतिवेश्म वेश्मान । विभक्त्यर्थेऽव्ययीभावः । अङ्गानाः पुरन्ध्यः । करयुग्मान्यजलय- स्तानि पद्ममुकुलानी वेत्युपमितसमासः । तैरपवर्जितैरत एवाग्वदीविभिन्नैः शुक्तिपुटैः शुक्तिकोशेर्मुक्तः उत्सृष्टा ये मौक्तिकप्रकरा मुक्तानिकरास्तैरिव स्थितरित्युत्प्रेक्षा । लाजाः कुसुमानीव तैाजकुसुमैः । आचार- लाजौरत्यर्थः । प्रियं स्थाईं चक्रं यस्य तं प्रियरथाङ्ग चक्रिणम् । हरिमित्यर्थः । अवाकिरंश्छादयामासुः॥३॥ हिममुकचन्द्ररुचिरः सपनको मदयन्द्विजान जनितमीनकेतनः ॥ अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥३०॥ हिममुक्तेति ॥ सः माधवः श्रीकृष्णः प्रमदाजनस्य नागरिकलोकस्त्रीवर्गस्य महो- त्सव इव महोत्सवः अभवत् । सुखकारी बभूवेत्यर्थः । किंलक्षणो माधवः हिममुक्तचन्द्र- रुधिरः हिमानीहारान्मुक्तो निःसृतो यः चन्द्रः शशी स इव रुचिरः कान्तिमान् , इति दीप्ति- मात्रविवक्षया सादृश्यम् । अपरं किंलक्षणः हरिः सपनकः सह पद्मया श्रिया वर्तते इति सपमः सपन एव सपनकः लक्ष्मीवान्, अपरं किलक्षणो हरिः द्विजान् मदयन विप्रान् प्रत्यक्षदर्शनेन हर्षयन् , अपरं किंलक्षणो हरिःजनितमोनकेतनः जनितः उत्पादितः मीनकेतनः प्रद्युम्नो शैक्मिणेयो येन सः तथा, अपरं किंलक्षणो हरिः प्रसादितमरः प्रसादिताः कण्ट- कोद्धारेन हर्षिताः सुरा देवा येन सः तथा । श्लेषेणार्थान्तरप्रतीतिः-माधवो वसन्तः यथा प्रमदाजनस्य महोत्सवो भवति । किंलक्षणो वसन्तः हिममुक्तचन्द्ररुचिरः हिममुक्तेन चन्द्रेण रुचिरः मनोज्ञः, पुनः किंभूतो वसन्तः सपनकः सपनं सकमलं कम् उदकं यत्र सः तथा, पुनः किंभूतः द्विजान् पक्षिणः कोकिलादीन् मदयन् मत्तान् कुर्वन् , अपरं किंलक्षणो वसन्तः जनितमीनकेतनः वर्धितकामः, अपरं किलक्षणो वसन्तः प्रसादितसरः अच्छितहाल। वसन्ते हि सरा निर्मला भवतीति । यद्वा स माधवः आसवविशेषः प्रमदाजनस्य जनितनी- केतनः उल्बणीकृतमन्मथो भवति । तथा प्रसादितसरः प्रकर्षण सादिता नगौरवीकृता सरा मदिरा येन सः तथा । न हि तत्सन्निधौ कश्चिद्वारुणी पिबति तस्योत्कृष्टत्वात् । अयमर्थ प्रयवाची ॥ ३८॥ हिममुक्तति ।। हिममुक्तः शिशिराऽपगमाद्धिमात्रिर्मुको यश्चन्द्रः स इव रुचिरः, अन्यत्र तेन रुचिरः, पझेन पाया च सह पर्तत इति सपद्मः स एव सपद्मकः पद्महस्तः, मश्रीकच । शैषिकः स्वार्थिको वा कम् प्रत्ययः । अन्यत्र सपङ्कजः। शैषिकः कप्प्रत्ययः । द्विजान् ब्राह्मणान् , अन्यत्र पक्षिगणान् कोकि- जादीन् मदयन् हर्षयन् जनितमीतकेतन: प्रद्युम्नजनकः, अन्यत्र मदनोद्दीपकः । प्रमादिता अनुगृहीता सुरा देवा येन, अन्यत्र प्रसादिता निर्मलीकृता सुरा मदिरा यम्मिन् स माधवो हरिर्वसन्तश्च । 'माधवस्तु वस- ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । प्रमदैव जनस्तस्य प्रमद'जनस्य। जातावेकवचनम् । चिराय महोत्सवाम्भवत् । तद्वदानन्दकरोऽभूदित्यर्थः । इहानन्दकरत्वसाम्येन माधवे महोत्सवरूपणादूपकामिद्धिः। श्लषस्तु हरिवसन्तयोरिह नास्त्येव, प्रकृतापकृतश्लेषे विशेष्यश्लेषायोगात् । किन्तु शब्दशक्तिमूलो पनि रेव॥३८ धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति ॥ मदनेन वीतभयमित्यधिष्ठिताःक्षणमोझते स्म स पुरोविलासिनीः ॥३९॥ .. .. .

सर्गः।] शिशुपालवधे। ४५७ । धरणीधरेन्द्रेति ॥ स भगवान् पुरः नगर्याः विलासिनीः वेश्याः क्षणं क्षणमात्रम् ईक्षते स्म अद्राक्षीत् । किंलक्षणा विलासिनीः मदनेन कामेन इति अतो हेतोः वीतभयं निःशङ्कम् अधिष्ठिताः आश्रिताः, इति कुत इत्याह-अमः वेश्याः असौ विषमेक्षणः त्रिनयनः श्रीमहादेवः धरणीधरेन्द्रदुहितुः भयात् पर्वतेश्वरपुत्र्याः पार्वत्या भीतेः न ईक्षते न पश्यति । तस्य हि हरादू ? (गौर्याः) यं, सच तासां गौरीया॑शया दर्शनमेव न ददाति इति निर्भयमेवाऽसौ तासु वसतीति तारुण्योक्तिः ॥ ३९ ॥ धरणीधरेन्द्रोति ॥ असो स्वदाहको विषमेक्षणध्यक्षः धरणीधरेन्द्रदुहितुः पार्वत्याः, सपत्नीशविन्या- इति भावः । भावार्थानां भयहेतुः' इति पञ्चमी । भयात् स्फुटम् अमूः पारयोषितः न पश्यतीति हेतोः, इति विश्वासादित्यर्थः । अत एव गम्योत्प्रेक्षा । मदनन वीतभयमधिष्ठिता आक्रान्ताः । अत्यारूढमदना इत्यर्थः । पुरोविलासिनीः स हरिः क्षणमीक्षते स्म । सविस्मयामिति भावः ॥ ३९ ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ॥ मदविभ्रमाऽसकलया पपे पुरः (१)स पुरस्त्रियैकतमयैकया दशा ॥४०॥ विपुलेनेति॥ सः भगवान् श्रीकृष्णः एकतमया एकया कयाचित्पुरस्त्रिया एकयैव दशा नयनेन पपे पीतः। अतिमात्रं दृष्ट इत्यर्थः । किलक्षणया दृशा मदविभ्रमाऽसकलया मदविभ्रमेण रागविलसितेन असकला असमग्रा तया, दृशा एकयाऽपि न सर्वया, किंलक्षणः असौ यस्य विष्णोः सागरशयस्य समुद्रशायिनः सतः युगक्षये कल्पान्ते विपुलेन बृहता कृक्षिणा उदरेण भुवनानि सर्वाण्येव जगन्ति पपिरे पीतानि अन्तःकृतानि । असकलया अपाङ्गप्रेक्षणमात्रेणैव पीतः। यत्र गुर्वपि कार्य हीनोऽपि कर्ता कुरुते इति । पुरोऽये, सर्वेषा- मेव पश्यतामित्यर्थः॥ ४०॥ विपुलेनति ॥ युगक्षये कल्पान्ते, सागरे शेते इति सागरशयस्य । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः 'शयवासवासिष्वकालात्' इति विकल्पादलुगभावः । यस्य हरेविपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणि लिट् । स हरिरकतमया पुरनिया पुनः कयाचित्पौरागनया मदावभ्रमेण मदविकारेणा- उसकलया असमप्रया एकया दृशा पपे पीतः । मतृष्णं दृष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेमहत आधेयस्याऽत्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्कारादधिकाऽलङ्कारः । 'आधाराधेययो- रानुरूप्याभावोऽधिको मतः' इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो, यत् कटाक्षवीक्षणम् । 'तात्कालिकविकारः स्यादिलासोऽङ्गक्रियादिषु' इति दशरूपकात् ॥ ४० ॥ अधिकोन्नमद्धनपयोधरं मुहुः प्रचलत्कलाचि(२)कलशङ्खकस्वना ॥ अभिकृष्णमङ्गलिमुखेन काचन द्रुतमेककर्णविवरं यघट्टयत् ।। ४१ ॥ अधिकेति ॥ काचिन्नायिका मुहुः पुनःपुनः अभिकृष्णं कृष्णाभिमुखम् अङ्गुलि- मुखेन अगुल्यग्रेण द्रुतं त्वरितं यथा भवत्येवम् एककर्णविवरमेकश्रोत्रविरोकं व्यघट्टयत् अचालयत् अकण्डूयत् , इत्यनुरागभावस्याऽनुकथनम् । किलक्षणा सा प्रचलत्कलाचिकल- शङ्खकस्वना प्रचलन्ती द्रुतविघटनक्शात् सकम्पा याऽसौ कलाचिर्भुजा तस्याः कलो मधुरः शङ्खकस्वनो वलयरवो यस्याः सा तथा, कथं यथा भवति अघट्टयत् अधिकोन्नमद्घनपयो- धरं यथा भवत्येवम् अधिकमतिशयेन उन्नमन्तौ जीभवन्तौ घनौ पीवरौ पयोधरौ स्तनो यंत्र कियायां तद्यथा भवति । स्तनौ ममैष पश्यत्वित्येतदर्थ कर्णविवरमघट्टयदिति भावः ४१ (१)पुनः। (२)कलापि। ३९शिव० १५८ सन्देइविपौषधिसर्वक्षायुते- - [ त्रयोदशः- - अधिकोत ॥ काचन कान्ता भाभिकृष्णं कृष्णाभिमुखम् । आभिमुख्येऽव्ययीभावः । आधकं भुजो- अमनाद् दूरमुत्रमन् घनः कठिनः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इक कलो मधुरः शाकस्वनो वलयध्वनिर्यस्याः सा सती । 'शहुकं वलये कम्बो' इति विश्वः । अगुलि- मुखेनाऽगुल्यमेणैकस्य कर्णस्य विवरं रन्ध्र दुतं शीघ्रं व्यघट्टयत् । कण्डूावनोदार्थमिवाताडयत् । वस्तु- तस्तु भाषाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा ॥ ११ ॥ परिपाटलोलतल(१)चारुणाऽसञ्चलिताङ्गलीकिसलयेन पाणिना ॥ सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥ ४२ ॥ परिपाटलेति ॥ अपरा अन्या नायिका मधोः असरस्य रिपुं मधुसूदनं श्रीकृष्णं पाणिना आह्वयत् करेण आहृतवती । एोहि मनोहर ! कृष्ण ! त्रायस्व अबजालनं दुःखा- दित्यवदत् इत्यर्थः । किंलक्षणेन करेण परिपाटलोलतलचारुणा परिपाटलं सर्वरक्तमूर्ध्वमू/- कृतं यत्तलं पृष्ठं तेन चारुः रम्यस्तेन, अपरं किलक्षणेन पाणिना असकृचलिताऽङगुली- किसलयेन असकृद्धारंवारं चलिताः प्रसृताः अगुल्य एव करशाखा एव किसलयानि पल्लवा यस्य सः तथा तेन, कथं यथा भवति एवं सशिरःप्रकम्पं यथा भवति, सह शिरः- प्रकम्पेन मूर्धचालनेन वर्तते यत्र क्रियायाम् , अपरं कथं यथा भवति अनुदीर्णवर्णनिभृ- तार्थ यथा भवत्येवम् अनुदीर्णैरनुचरितैः वगैरक्षरैः निभृतो गूढोर्थोऽभिधेयं यत्र क्रियायां तद्यथा भवत्येवम् । पाणिं शिरचालयन्ती मनसैव तमाजुहावेत्यर्थः ॥ ४२ ॥ परिपाटनति ॥ अपरा भी परिपाटलाऽब्जदलचारुणा रक्ताऽजपत्ररुचिरेण असकृन्मुहुश्चलिता- भ्यगुल्यः किसलयानीवाम्गुलीकिसलयानि यस्य तेन पणिना सशिरःप्रकम्पं शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थ परेषामविदितार्थ यत्तदनुदीर्णवर्ण- निभृतार्थ यथा तथा आह्वयत् । परप्रकाशनभयादव्याहरन्ती चेष्टयैवाहानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विला- सोपमे भावालङ्कारौ ॥ ४२ ॥ नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ॥ स्फुरदङ्गुली(२)विवरनिःसृतोलसहशनप्रभाकरमजृम्भताऽपरा ॥ ४३ ।। नलिनेति ॥ अपरा अन्या नायिका अजृम्भत जजृम्भे । किं कृत्वा चारु रम्यं मुर्ख वदनम् एकपाणिना एककरेण व्यवधाय आच्छाद्य, किंलक्षणेन एकपाणिना नलिनाऽन्तिको- पहितपल्लवश्रिया नलिनान्तिके पनसविध उपहितस्य न्यस्तस्य पल्लवस्य किसलयस्येव श्रीः शोमाः यस्य सः तथा तेन । मुखस्याब्जमुपमानं, करस्य पल्लवः । किंलक्षणं मुर्ख स्फुरदगुलीविवरनिःसृतोल्लसद्दशनप्रभाऽजकुर स्फुरन्तीनां चलन्तीनामङगुलीनां करशाखानां विवरैः छिः निःसृता निर्गता उल्लसन्ती द्योतमाना याऽसौ दशनप्रभा दन्तकान्तिः सैव अङ्कुरः यस्य यत्र वा, क्रियाविशेषणं चैतत् ॥ ४३ ॥ नलिनति । अपरा मी नलिनान्तिके उपाहतस्य पल्लवस्य श्रीरिव श्रीर्यस्य तेन, मुखसनिधानादिति भावः । एकपाणिना चारु निसर्गसुन्दरं मुखं व्यवधाय तिरोधाय स्फुरदगुलीविवरनिःसृता उज्ज्वली- गुल्यन्तरालनिर्गता अत एवोल्लसन्त उत्सर्पन्तो दशनप्रभा एवाऽकुरा यस्मिन्कर्मणि तद्यथा तथा अङ्ग- म्भत । दृम्भणमास्यविवरणं, तच्चेष्टवस्तुसाक्षात्कारकृतजाड्यानुभावः । अत्र नलिनपल्लवयोरसम्बन्धयोः सम्भावनया, सम्बन्धाभिधानादतिशयोक्तिः ॥ १३ ॥ (१) पाटलाऽजदल। (२)स्फुरिता।

सर्गः।] । .. शिशुपालवधे । ४५ वलयार्पिताऽसितमहोपलप्रभावहली(१)कृतप्रतनुरोमराजिना ॥ हरिवीक्षणाऽक्षणिकचक्षुषाऽन्यया करपल्लवेन गलदम्बरं दधे ॥ ४४ ॥ वलयेति ॥ अन्यया कयाचिदङ्गानया गलत् भ्रश्यत् अम्बरं दुकूलं करपल्लवेन पाणि- किसलयेनैव दधे बने, न तु ग्रन्थ्या न तु नीच्या। किलक्षणया अन्यया हरिवीक्षणाऽक्षणिक- 'चित्तया हरिवीक्षणाय श्रीकृष्णदर्शनाय नक्षणिके नव्यापारान्तरगते चक्षुषी ईक्षणे यस्याः सा तथा तया । यावच्चलदृष्टया न विषयीकृतः, तावद् ग्रन्थिबन्धनं कथं युज्यते । जघनाम्बर- पातो देहोच्छ्वासेन नीवीछुटनाद्बोद्धव्यः । उच्छ्वासस्य तु भगवदर्शनमेव हेतुः । किल- क्षणेन करपल्लवेन वलयार्पिताऽसितमहोपलप्रभाबहलीकृतप्रतनुरोमराजिना वलये अङ्गदे अर्पितः प्रोतो योऽसितमहोपल: इन्द्रनीलमणिः तस्य प्रभया दीप्त्या बहलीकृता घनत्व- मापादिता प्रतनुः तन्वी रोमराजिः लोमपङ्क्तिर्येन सः तथा तेन ॥ ४४ ॥ वलयेति ॥ हरिवीक्षणेऽक्षणिकचक्षुषा स्थिरदृष्ट्या। विस्मयादराभ्यां स्तिमितनेत्रयेत्यर्थः । अन्यया मिया गलत् सुखपारवश्यात्वंसमानमम्बर वलयेष्वर्पिता: खचिता ये आसितमहोपला नीलमहामणयः । 'उपलो मणिपाषाणा' इति विश्वः । तेषां प्रभाभिर्बहुलीकृता सान्द्रीकृता प्रतनुः सूक्ष्मा रोमराजियस्य तेन करपल्लवेन दधे धृतम् । अयं च तात्कालिकविहारलक्षणविलासः । अवेन्द्रनीलप्रमाणां रोमावलीबहुली- करणोक्त्या प्रभास्वपि रोमराजित्वप्रतीतन्तिमदलकारो व्यज्यते इति वस्तुनाऽलङ्कारध्वनिः ॥ ४ ॥ निजसौरभभ्रमितभृङ्गपक्षतिव्यजनाऽनिलक्षपित(२)धर्मवारिणा ॥ अभिशौरि काचिदनिमेषगृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥ ४५ ॥ निजेति ॥ काचिनारी एवं विधेन वपुपा शरीरेण पुरदेवतेव पुराऽधिष्ठात्री देवता इव व्यभाव्यत अवाबुध्यत । किंलक्षणेन वपुषा निजसौरभभ्रमितभृङ्गपक्षतिव्यजनाऽनिल- झापितधर्मवारिणा निजसौरभण सहजसौगन्ध्येन भ्रमिताः चलिता भ्रमरा भृङ्गाः तेषां याः पक्षतयः पक्षमूलानि ता एव व्यजनम् अवक्षेपकः तस्य योऽनिलो वायुः तेन क्षपितमपासित धर्मवारि भगवदर्शनोत्यं स्वेदवारि यस्य तत्तथा तेन, अपरं किंलक्षणेन वपुषा अभिशौरि शौरि श्रीकृष्णम् अभि प्रति अनिमेषदृष्टिना अनिमेषा दर्शनोच्छेदभयात् अनिमीलन्ती दृष्टिक् यस्य तत्तथा तेन । देवता अपि सरमिचन्दना निश्चलनयना अस्वेदाश्च भवन्ति॥४५॥ निति ॥ काचित्मी निजेनात्मीयेन सौरभेण सौगन्ध्येन भ्रमिताना भ्रमणं कारितानां भृङ्गाणां पक्षतयः पामूलानि । 'मी पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षानिः' इति तिप्रत्ययः । ता एव व्यजनानि इति रूपकं, स्वेदहरणलिङ्गात् । तासामानलेन क्षयित नाशितं धर्मवारि स्वेदो यस्य तेन अभिशेरि शौ रेरभि- मुखम् । आभिमुख्यऽव्ययीभावः । अनिमेषा दृष्टियस्य तेन वपुषा निमित्तेन पुरदेवतेव इन्द्रप्रस्थाऽधिदेवतेव व्यभाव्यत विभाविता । तर्कितेति यावत् । अनिमेषत्वं चेष्टदर्शनजन्यजाड्यसबार्यनुभावः । 'अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभाषादयस्तत्र । इति लक्षणात् । इहाङ्ग-सौरभानिमेषत्वाभ्यां पुराधिवासाच पुराधिदेवतात्वमुत्प्रेक्ष्यते, इत्युपात्तगुणनिमित्ता जातिस्वरूपोत्प्रेक्षा । तया चास्या जात्याः पमिनीत्वं व्यज्यते इत्यलकारेण वस्तुध्यानः। निजसारम- त्यनेन 'कमलमुकुलमृही फुल्लराजीवगन्धिः सुरतपयसि यस्याः सौरमं दिव्यमझे इत्यादिपमिनीलक्षणा- दिति । विपुलनेत्यादिलोकोकाः षडपि नायिकाः प्रौढाः साधारण्यश्च, तब कामासम्भवात् । अन्यथाsset कृतचेष्टावर्णनाम्नौचित्याच्चेत्यलमतिप्रपञ्चन ॥ ४५ ॥ . (१) बहुली। (२) अयित ।

४६० सन्देहविषौषधिसर्वकषायुते- [त्रयोदशः- .. अति(१)याति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ॥ न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ ४६॥ प्रतियातीति ॥ नितम्बिनीजनः विलासिनीलोकः इति अतो हेतोः अखिद्यत खेदं ययौ । इति किम्-एष हरिः नोऽस्माकं चक्षुषोऽक्ष्णः सतृषः अनिवृत्तेक्षणलौल्यस्यैव सतः अतियाति अतिक्रामति । तृषा तृष्णया सह वर्तमान सतृट् तस्य सतृषः । स मुग्धो नित- म्बिनीजन: एवं न विवेद नाऽबुध्यत, यथा एनं श्रीकृष्णं सततं सदैव ईक्षते पश्यति । खलु निश्चयेन, सोऽपि वितृष्णतां न याति विगततृष्णत्वं न प्राप्नोति इति । ताभिश्च क्षणमसौ दृष्ट इति कुतो वैतृष्ण्यं स्यात् । य इत्यनेन द्वारवतीवास्तव्यजनो योगिजनो वा निर्दिश्यते । तस्यापि न तृप्तिरिति ॥ ४६ ॥ अतियातीति ॥ असौ नितम्बिनीजनः मीजनो नोऽस्माकं चक्षुषः सतृषः सतृष्णस्यैव सतश्चक्षुषि मतृष्णे सत्येष, अनादृत्येत्यर्थः । षष्ठी चाऽनादरे' इति षष्ठी। एष हरिरभिगच्छतीत्यखियत खंद गतः । खिदेवादिकाकर्तरि लुङ् । अत्रोत्प्रेक्ष्यते-नेति । यो जन एनं हरिं सततमीक्षते असावपि खलु वितृष्णता न बजतीति न विवेद । नित्यदर्शनेऽप्यपूर्ववदेव भवतीति नाऽबुध्यतेत्यर्थः । वेद चेत्राखियतेति भावः । अत्र अविद्यतेति मीणां प्रारब्धहरिवीक्षणसुखविच्छेदकृतविषादाख्यसञ्चारिभावनिबन्धनात्प्रेयोऽल द्वारः । तदुत्थापिता चेयमुक्काऽवेदनोत्प्रेक्षेति सङ्करः । 'प्रारब्धकार्याऽसिध्यादेविषादः सत्त्वसंक्षयः' इति दशरूपके। सत्यसंक्षयश्चित्तमः ॥ ४६ ॥ अकृतस्वसनगमनादरःक्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ॥ गतमच्युतेन सह शून्यतां गतः प्रतिपालयन् मन इवाङ्गनाजनः ॥ ४७ ॥ अकृतेति ॥अन्नागणः युवतिसमूहः क्षणं व्यतिष्ठत क्षणमात्रमत्रैव अस्थात् । किल. क्षणोऽङ्गन्नागणः अकृतस्वसनगमनादरः न कृतः स्वसनगमने स्वगृहगमने आदरः अभिलाषो येन सः तथा, अपर किंलक्षणः शून्यतां गतः हतहृदयत्वं प्राप्तः । अतश्चोत्प्रेक्ष्यते-किंलक्षणः प्रमदाजनः लिपिकर्म निर्मित इव चित्रन्यस्त इव, लिपिकर्मणि लिपिव्यापारे निर्मितो रचितः लिपिकर्मनिर्मितः । एवंविधो ह्यविदग्धः प्रेमस्वभावः । तत्रैवाऽवस्थाने तर्कमाह-अपरं किलक्षणः अङ्गनागणः, उत्प्रेक्ष्यते-अच्युतेन भगवता श्रीकृष्णेन साधं गतं यात मनश्चित प्रतिपालयन्निव प्रतीक्षमाण इव । एतन्मनः तावदागच्छतु ततः सहायाः स्याम इति । व्यतिष्ठतेति 'समवप्रोपविभ्यः स्थ' इत्यात्मनेपदम् । ननु कुलस्त्रीणामेतदनुचितं यत् परं प्रत्यनुरागः, तत्कथं कविना अहे । सत्यमेतत्, किन्त्वेवंविधोऽयं कथानायकधर्मो न चाऽलङ्कारविनिनिषिद्धः । प्रधानभूतैरप्यनुष्ठितत्वात् । तद्यथा भगवतो व्यासस्य वचः- तासां कौरवपत्नीनां प्रद्युम्नगतचेतसाम् । नवानामिव धेनूनां जघनानि प्रसस्सुवुः ॥ इति सर्वमेवाऽनवद्यम् ॥ ४॥ अकृतेति ॥ अङ्गनाजनः अच्युतेन सह गतं मनः प्रतिपालयन्प्रतीक्षमाण इवेत्युत्प्रेक्षा। शून्यता निरोजस्कता गतः अकृतस्वसझगमनादरः निवृत्तनिजगृहप्राप्त्यपेक्षः सन् लिपिकर्मनिर्मितःचित्रलिखित- इवेत्युत्नेक्षा। क्षणं व्यतिष्ठत विस्पन्दमास्तेत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अतः शून्यता- अनुभावाचिन्ताऽवगम्यते । 'ध्यानं चिन्ता हिताग्नातेः शून्यताश्वासतापकृत' इति दशरूपके । अनोत्प्रेक्षयोः सापेक्षत्वात्सदुरः ॥७॥ । - (१) आभियाति ।

सर्गः।] शिशुपालवधे। ४६१ । - .. अलसैर्मदेन मुद्दशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैःशनैः ।। अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः॥ ४८ ॥ अलसैरिति॥ सुदृशोऽङ्गनाः स्वगृहान् प्रति निजभवनसंमुखं शनैःशनैः स्वैरस्वैरं प्रति- ययुः प्रतिजग्मुः। मन्दगमने कारणमाह-किलक्षणाः सुदृशः शरीरकैदें हैरुपलक्षिताः, किंलक्षणैः शरीरकैः मदेन चित्तविकारेण अलसैः मन्थरैः, अपरं किलक्षणैः शरीरकैः अलघुप्रसारित- विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः : अलघु दीर्घ प्रसारितैः विकासितैर्विलोचनै- रेव अञ्जलिभिः करसम्पुटैः द्रुतं शीघं पीतोऽतिपूर्णे दृष्टो यो माधवः श्रीकृष्णः तत्र यो रसौधो रागपुरः तेन निर्भराणि सम्पूर्णानि तैः । हरि प्रति सानुरागैरित्यर्थः । अत एवं शरीराणां तनुत्वम् । योह्यञ्जलिना माधवरसौघं पिबति, सोऽवश्यमेव मदेन अलसं मन्द- मन्दं गृहान् प्रति याति । माधवः आसवोऽपि मदः क्षीबताऽपि । अल्पं शरीरं शरीरकम्४८ अलसैरिति । अलघु अधिकं प्रसारितैर्विलोचनैरेवाझलिभिर्दुतं सत्वरम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । पीतो यो माधयो हरिरेव रसोऽमृतम् , अन्यत्र मधु मयं तत्सम्बन्धि रसो माधुर्य माधवरसः । 'रसो रागे विषदीय तिक्तादौ पारदे द्रवे । रतस्यास्वादने हम्नि निर्यामेऽमृतशब्दयोः ॥ इति वैजयन्ती। तस्यौघः समूहस्तेन निर्भरैर्दुभरैः । गुरुभिरिति यावत् । अत एव मदेनाऽनसैर्मन्थरैः, शरीरकाणि, अल्पशरीराणीत्यर्थः । 'अल्पे' इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः । स्वयं लघून्यपि द्रव्याणि रसदभरणाद् गुरूभवन्तीति भावः । अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वाकार्यहेतुकं काव्यलिङ्ग, तच्च माधवरसेनति श्रेषमूलातिशयोक्त्युत्थापितमिति सङ्करः ॥१८॥ नवगन्धवारिविरजीकृताः पुरो घनघूपधूमकृतरेणुविभ्रमाः ॥ प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणाऽतिपेतिरे ॥ ४९ ॥ नवेति ॥ अथाऽनन्तरं हरिणा भगवता श्रीकृष्णेन पुरवीथयः नगरमार्गा हट्टपथाः अतिपेतिरे अतिक्रान्ताः। किंलक्षणाः पुरवीथयः पुरा आदौ नवगन्धवारिविरजीकृताः नवेन प्रत्यग्रेण गन्धवारिणा सुगन्धोदकेन विरजीकृताः, अविरजसः विरजसः कृताः इति विरजी- कृताः निधुलीकृताः, अपरं किंलक्षणाः पुरवीथयः धनधूपधूमकृतरेणुविभ्रमाः घनेन बहलेन भूपधूमेन अगरुधूमेन कृतः कृतः रेणुविभ्रमो धूलिभ्रान्तिर्यास तास्तथा, अपरं किंलक्षणाः पुरवीथयः प्रचुरोद्धतध्वजविलम्बिवाससः प्रचुराणि बहूनि उद्धतानि उद्धृतानि ध्वजानि केतनानि तत्र विलम्बीनि विलम्बमानानि वासांसि चेलानि यास ताः तथा, इति पुरोत्सवकथनम् ॥ ४९॥ नवेति ॥ अथ पुरप्रवेशानन्तरं हरिणा पुरः पूर्व नवगन्धवारिभिर्गन्धवासितोदकैर्विरजीकृता- अविरजसो विरजसः सम्पद्यमानाः कृताः । 'अहर्मनश्चक्षुश्वेतोरहोरजसा लोपश्च' इत्यभूनतद्भावे विप्रत्यये मलोपः, 'अस्य च्या' इतीकारः । घनः साधूपानामगुरुधूपानां धूमैः कृतो रेणुविभ्रमो याभिस्ताः प्रचुर बहुलमुद्धतेच्छूिनेषु ध्वजेषु ध्वजस्तम्भेषु विलम्बीनि वासासि पताका यासु ताः पुरवीथयोऽतिपतिरेऽतिपा- तिताः । अतिक्रान्ता इत्यर्थः। पतेः कर्मणि लिट् एत्वाभ्यासलोपौ । अत्र सादृश्याद् भरेणुभ्रान्स्या भ्रान्तिमद- लकारः । रेणुविभ्रमशब्देन रजोविलासस्यापि प्रतीतेस्तस्य पिरजीकरणेन विरोधाविरोधाभासश्चेत्यनयो रेक- वाचकाऽनुप्रवेशलक्षणः सहरः॥ १९ ॥ .

४६२ सन्देहविषौषधिसर्वकषायुते- [ त्रयोदश:- उपनीय बिन्दुसरसो मयेन या मणिदारु चार किल वार्षपर्वणम् ॥ विदधेऽवधूतसुरसमसम्पदं समुपासदत् सपदि संसदं सताम् ॥ ५० ॥ उपनीयेति ॥ स हरिः तां संसद सभां सपदि तत्क्षणं समुपासदत् प्राप । तां कां, या संसत् मयेन दानवेन विश्वकर्मणा बिन्दुसरसः सरोविशेषात् मणिदारु मणयः रखान्येव दारु काष्ठम् उपनीय आनीय किल विदधे निर्मिता, किलेत्यागमे । किंलक्षण मणिदारु चारु मनोज्ञम् , अपरं किंलक्षणं मणिदारु वार्षपर्वणं दानवीयं, वृषपर्वणो दानव- स्येदं वार्षपर्वणम् । पूर्व हि बिन्दुसरसः समीपे वृषपर्वणो दानवेश्वरस्य रत्नमयी सभाऽभूत् । अथ सरति काले तामेवोत्पाव्य मयेन प्रत्युपकुर्वाणेन पाण्डवानां सभा अकारीत्यागमः । अत एव किंलक्षणां संसदम् अवधूतसरसमसम्पदम् अवधूता तिरस्कृता अमरसद्मनः नाकस्य सम्पत् लक्ष्मीर्यया सा तथा तां तिरस्कृताऽमरावतीलक्ष्मीकाम् ॥ ५० ॥ उपनीयति ॥ मयेनाऽसुशिल्पिना, वृषपर्वा नाम कश्चिदसुरेश्वरः वृषपर्वण इदं वार्षपर्वणम् । तस्येदम्' इत्यण् । चारु मनोहर मणिरेव दारु काष्ठम् । माणिमयं स्तम्भादिकलापमित्यर्थः। तद्विन्दुसरसो हैमवताव सरोविशेषादुपनीय समीपमानीय, किलेत्यति , या संसद्विदधे निर्मिता । अवधूताऽधरीकृता सुरसमसम्प- दिन्द्रभवनलक्ष्मीर्यया सा तो संसदं सभाम् । 'सभासमितिसंसदः। आस्थानी क्लीबमास्थानं मीनपुंसकयोः सदः॥ इत्यमरः । स हरिः सपदि समुपासदत्सापत् । सदे कि 'पुषादि-' इति च्लेरादेशः । पुरा किल खाण्डवदाहे पाण्डवेनाग्निदाहान्मोचितेन मयेन प्रत्युपकारार्थ पूर्वमात्मनैव बिन्दुसरसि गुप्तन वृषपर्वगृह- निर्माणाऽवशिष्टेन मणिशिलाकलापेन काञ्चनसभा धर्मराजाय निर्मितति भारते। सभावर्णनाङ्गत्वेनाऽर्जुनमय- चरितवर्णनादुदात्तालङ्कारः । प्रभूतमहापुरुषचिन्तनं चेति सूत्रम् ॥ ५० ॥ भूयोऽपि तच्छब्देन योऽस्यां विवक्षितो धर्मस्तमाह- अधिरात्रि यत्र निपतन नभोलिहः(१) कलधौतधौतमणिवेश्मनां रुचः॥ पुनरप्यवापदिव दुग्धवारिधेः (२)क्षणगर्भवासमनिदाघदीधितिः ॥५१॥ अधिरात्रीति ॥ यत्र यस्यां संसदि अनिदाघदीधितिः शीतकिरणः चन्द्रः पुनरपि भूयोऽपि दुग्धवारिधेः क्षीरसागरस्य क्षणं गर्भवासं मध्यावस्थितिम् अवापदिव प्राप्तवान् यया । शशी हि दुग्धवारिधेः अजनि । किं कुर्वन् अवापत् अधिरात्रि रजन्यां कलधौत- धौतमणिवेश्मनां रुचः रजतश्वेतस्फटिकगृहाणां भासः निपतन् विशन् , किलक्षणा भास: नभोलिहः गगनस्पृशः, इत्युच्छ्रायोक्तिः । स्फटिकगृहरुचां क्षीरोदधिरुपमानम् ॥ ११ ॥ अथ दशभिः सभी वर्णयति- अधिराचीति ॥ अधिराधि रात्रिषु । विभक्त्यर्थेऽव्ययीभावः । यत्र सभायां नभोलिहामलिहाम् । क्किए । कलधौतं रौप्यम् । कलधौतं रूप्यहम्रोः' इत्यमरः । तद्धौता धवला: शिला येषा तानि वेश्मानि । स्फटिकभवनानीत्यर्थः। तेषा रुची प्रभायां निपतन् प्रविशन् अनिदाघदीधितिरनुष्णरश्मिहिमांशुः पुनरपि दुग्धवारिधी धीरान्धी क्षणं गर्भवासम् । न तु मथनान्प्रागिव चिरगर्भवासमिति भावः। अवापत् प्राप- दिवत्युत्प्रेक्षा । तया वेश्मना चन्द्रमण्डला तिक्रमो व्यज्यते ॥ ५१ ॥ निलयेषु(३) लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृताऽन्तराः। जमदग्निसूनुपितृतर्पणीरपस्तनुते (४)स्म या विरलशैवला इव ॥ ५२ ॥ (१) लिहा....पीतशिल....रुची । (२) पारिषिक्षण । (३) लयनेषु । (१)पो वहति. - सर्गः।] शिशुपालवधे। निलयेष्विति ॥ या संसत् निलयेषु वेश्मस भुवः व्यतनोत् भूमीः तनोति स्म । प्रकटीचकारेत्यर्थः । किंलक्षणाः भुवः लोहितकनिर्मिताः पनरागमणिरचिताः, अपरं किंलक्षणा भुवः शितिरनरश्मिहरितीकृताऽन्तराः नीलरत्नकिरणनीलीकृतमध्याः । अपरं किंलक्षणाः भुवः, अतश्चोत्प्रेक्ष्यन्ते-अप इव अम्भांसीव । किलक्षणाः अपः जमदनिसूनु- पितृतर्पणीः परशुरामपितृतृतिकरीः, जमदग्निसूनोः परशुरामस्य पितॄन् तर्पयन्ति तास्तथा ताः। रुधिरमयीरित्यर्थः । पूर्व हि किल जनकवधात् कुद्धेन परशुरामेण निःसप्तकृत्वो हतानां क्षत्रियाणां रुधिरहृदे पितरस्तर्पिताः इत्यागमः । अपरं किलक्षणाः अपः विरल- शैवलगर्भाः । लोहितभुवाम् आप उपमान, मरकतमणीनां शैवलम् ॥ १२ ॥ लयनेविति ॥ नीयते एब्विति लयनानि तेषु गृहेषु शितिरत्नानां नीलमणीनां रश्मिभिर्हरितीकृता. भ्यन्तराणि मध्यानि यास ताः मोहितमणयो लोहितका: पद्मरागाः । 'लोहितान्मणी' इति कन्प्रत्यययः। तनिर्मिता भुवो भूमीविरलाः शैवला यासु ताः जमदग्निसूनोः परशुरामस्य पितृणां तर्पणीस्तृप्तिकरीरप- इवेत्युपमा । या सभा वहति स्म । जामदग्न्यः क्षत्रियाऽत्रैः पाशो ह्रदानुत्पाद्य ताभिरद्भिः पितॄनतर्पयत् , नाव रुधिरप्रकृतिकवादकवर्णा एवेति पुराणम् ॥ ५२ ॥ विशदाऽश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः ॥ गृहपट्टयधिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥ ५३॥ विशदाऽश्मेति ॥ यत्र यस्यां संसदि क्षणदास रात्रिषु जनैलोकैः गृहपङ्क्तयः वास्तव्यवेश्माऽऽवलयः चिरं दीर्घकालं हस्तपरिमर्शसूचिताः सत्यः पाणिस्पर्शज्ञापिताः सत्यः अतीयिरे हस्तेन चिरं परिमृश्य सूचिताः ज्ञापिताः सत्यः अतिक्रान्ताः। किंलक्षणा गृहपङ्क्तयः विशदाश्मकूटघटिताः विशदा अत्युज्ज्वला ये अश्मानः पाषाणाः स्फटिकोपलाः तेषां कूटानि समूहाः तैः घटिताः रचिताः स्फटिकोपलनिचयरचिताः, अपरं किंलक्षणाः गृहपङ्क्तयः क्षपाकृतः चन्द्रमसः रुचा कान्त्या एकतां गताः चन्द्रस्य ज्योत्स्नया अभेद प्राप्ताः । अतश्च सारूप्याद्विवेकाभावः । कस्मिन्निव तमसीव अन्धकारे इव । यथाऽन्धकारे हि यावत्पाणिना परिमृष्टं वस्तु परिज्ञायते ॥ १३ ॥ विशदाऽश्मेति ॥ किञ्चेति चार्थः । यत्र सभायां विशदाशमकूटघटिताः स्फटिकशिलासङ्घातनिर्मिता- अत एव क्षणदासु पाकृतो निशाकरस्य रुचा चन्द्रिकया एकता सावादभेदं गताः अत एव तमसीव हस्त- परिमर्शसूचिताः । पाणिस्पर्शकगम्या इत्यर्थः । गृहपक्रयो जनैश्विरमतीयिरेति क्रान्ताः। पुरोगताम्यपि स्कटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामशैः कथञ्चित प्राप्यन्त इत्यर्थः । अत्र प्रकृताना स्फटिकवेश्मना गुणमाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालङ्कारः । 'सामान्यं गुणसाम्येन यत्र वस्त्व- तरकता' इति लक्षणात् ॥ ५३ ॥ निलयेषु नक्तमसिताऽश्मनां चयैर्विसिनीवधूपरिभवस्फुटागसः ॥ मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांऽशव उपांशु जनिरे ॥ ५४॥ निलयेग्विति ॥ यत्र यस्यां सभायां निलयेषु गृहेषु असिताश्मनां चयैः इन्द्रनील- मणीनां कूरैः नक्तं रात्री शशलाञ्छनांशवः मृगाङ्ककिरणाः जनिरे हताः। निष्प्रभीकृता- इत्यर्थः । क उपांशु विजने एकान्ते, स्वरश्मिसमीपे न तु सर्वत्र । कथं गौरवात् अति- बाहुल्यात्, किंलक्षणैश्चयैः मुहुः भवसनिः अनष्टैः महाप्रभैः । हमने तर्कमाह-किलक्षणाः प्रशलान्छनांशवः नलिनीवधूपरिभवस्फुटागसः नलिनीवध्वाः पमिनीजायायाः परिभवः ४६४ सन्देहविषौषधिसर्वकषायुते [त्रयोदशः- सङ्कोचलक्षणः तेन स्फुटं प्रकटम् आगोऽपराधो येषां ते तथा । पद्मिनीजायायाः सङ्कोचेन प्रकटाऽपराधाः सापराधा इव तैस्ते हताः । तत्र हि इन्द्रनीलपरिवृता पमिनी विद्यते, सा च यदेन्दुरश्मिभिः संमिलिता, अतस्तदपराधादिव तैस्ते हताः। यथा किल केषां च वध्वाः केचित् प्रकटमेव परिभवं कुर्वते, तदा ते त्रसन्तोऽपि नक्तमुपांशु मौनं यथातथाऽऽगत्य गृहे सुप्तं तं नन्ति । गौरवात् गौरवरक्षाथं यदि हि ते व्यक्त हन्युः, तहि लोको 'वधकाः एते' इति गौरवं न कुर्यात् ॥ ५४॥ निलयेष्विति ॥ यत्र सभायां निलयेषु नक्तं रात्री बिसिन्यो दीर्घिकापभिन्यस्ता एव वध्वस्तासां परि- भवेन निमीलिनेन दूषणेन च स्फुटागसः स्पष्टापराधाः शशलाञ्छनाशवश्चन्द्रपादाः, अत्रसद्भिरत्रस्यहि- रपि निर्दोरैपि इति चार्थः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना श्यनभावपछे शतृप्रत्ययः । असिताश्मनामिन्द्रनीलमणीनां चयैः समूह गौरवात्स्वयंप्रभूतत्वात् सम्भावितत्वाच्च उपांशु अंशुसमीपे रहश्च । 'रहश्वोपांशु चालिङ्गे' इत्यमरः । मुहुनिरे तिरोहिताः मारिताश्च । हन्तेः कर्मणि लिट् । समीपगताश्चन्द्राशवः प्रभूतैरिन्दनीलांशुभिस्तिरस्कृता इत्यर्थः । अन्यत्राऽन्तःपुरद्रोहिणी निर्भीकैपि सम्भावितैर्दुष्कीर्तिभयाद् गूढं हन्यन्त इति भावः । अत्र बिसिनाना वधूत्वरूपणात्तत्परिभाविनां चन्शना धूर्तकामुकत्वरूपणप्रतीतेकेदेशविवर्तिरूपकं, तच्च गौरवादुपांशु जनिरे इति च श्लेषेणाम्पसद्भिरपीति विरो- धेन च सङ्कीर्यते ॥ ५४॥ सुखिनः पुरोऽभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु ॥ नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं पाभरपराङ्मुखैरपि ॥ ५५ ॥ सुखिन इति ॥ यत्र यस्यां संसदि मुखिनः कामिनः प्रियाजनैः कामिनीजनैः प्रमद- मबिभरः हर्षमूहुः । कदाचिन्मुखेन्दुदर्शनं भवेदिति नेत्याह-किलक्षणैः प्रियाजनैः अपा- भरपराङ्मुखैरपि लजाऽतिशयप्रतिकूलवदनैः, अपरं किंलक्षणैः प्रियाजनैः यतः नवसङ्गमैः अचिरोलैः । कथं तर्हि ते जहषुरित्याह-अपरं किलक्षणैः प्रियाजनैः पुरोऽग्रे गृहरन- भित्तिषु मणिमन्दिरकुड्येषु अधिकरणेषु प्रतिमास प्रतिबिम्बेषु विषये अभिमुखतामुपागतः संमुखतां प्राप्तैः । अतश्च तासां वदनालोकात् तेषां तोषः । अपि विरोधे, यो हि पराङ्मुखः स कथं संमुखो भवेत् ॥ ५५ ॥ सुखिन इति ॥ यत्र सभायां नवः सङ्गमो येषां तैनवसङ्गमैरत एव पाभरेण पराङ्मुखैविमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेषु पुरोऽग्रेऽभिमुखतामुपागतः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुर्बिभ्रति स्म । भृञो लडि 'प्रल।' इति द्विीवे 'सिजभ्यस्तविदिभ्यश्च' इति झर्जुमादेशः । मीणा वैमुख्येऽपि तत्मतिबिम्बाभिमुख्यान्पुंसां सुखमेव, मीणां तु उभयथापि लिष्टमित्यर्थः। भत्र मुख्येऽप्याभिमुख्यमिति-विरोधस्य प्रतिमास्विति निरासाद्विरोधाभासोऽलद्वारः ॥ ५५ ॥ तृणवाभ्छया मुहुरवाश्चिताननान् निचयेषु यत्र हरिताऽश्मवेश्मनाम् ।। रसनाऽग्रलमकिरणाडुराजनो हरिणान् गृहीतकवलानिवैक्षत ॥ ५६ ॥ तृणेति ॥ यत्र संसदि जनो लोकः हरिणान् मृगान् गृहीतकवलानिवैक्षत आत्तयासा- निव विलोकयामास । किंलक्षणान् हरिणान् हरिताऽश्मवेश्मनां मरकतोपलगृहाणां निचयेषु समूहेषु मुहुरसकृत् अवाञ्चिताननान् प्रसारितवदनान्, कया तृणवाञ्छया शादलाशया, अपरं किलक्षणान्हरिणान् रसनागलपकिरणाऽकुरान् रसनाग्रे जिह्वाग्रे लानाःसंसकाः किरणा रश्मय एव अब्कुरा उगमा येषां ते तथा तान् । अतश्च गृहीतकवलानिव जनो मन्यते१६॥ ..

सर्गः । शिशुपालवधे। ४६५ . तृणेति ॥ यत्र सभायां हरिताश्मवेश्मनां मरकतमणीना गृहाणाम् । 'गारुत्मतं मरकतमश्मगर्भो हरि- माणिः' इत्यमरः । निचयेषु सङ्केषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान् नमितमुखान अत एव रसना- श्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणमासानिव स्थितान् हरि- णान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लकि 'आडजादीनाम्' इत्याट् 'आटश्च' इति वृद्धिः। अत्र तृणवाठछ. येति हरिणाना मरकतेषु तृणभ्रान्तेर्धान्तिमदलद्वारः । तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति सङ्करः ॥५६॥ विपुलाऽऽलवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ॥ यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ।। ५७ ॥ विपुलेति ॥ यदुपान्तिकेषु यस्या उपान्तिकेषु महीरुहो वृक्षा आत्मभिः देहैः अभि- विरेजु बभुः । किंलक्षणा महीरहाः मूलसंहतिं दधतः बुध्नश्रेणिं बिभ्राणाः, किलक्षा मूलसंहतिं सपलाशराशिमिव पलाशराशिभिः पर्णसमूहैः सह वर्तमाना सपलाशराशिः तामिव सजातपत्रनिचयामिव । ननु मुले व पर्णानि स्युरित्यत आह-किलक्षणैरात्मभिः विपुलाऽऽलवालभृतवारिदर्पणप्रतिमागतैः विपुलं विशालं यत् आलवालं सेकधारणं तेन भृतम् अतिप्रसन्नीकृतं यद्वारि पानीयं तदेव दर्पणो मुकुरः तत्र प्रतिमां गताः प्रतिबिम्ब प्रासाः तैः प्रतिकृति प्राप्तैः । अतश्च ज्ञायते मूलान्यप्येषां सपत्राणीति ॥ १७ ॥ विपुलेति ॥ यदुपान्तिकेषु यस्याः सभाया उपान्तिकेषु समीपेषु महीरुहो वृक्षा: विपुलेष्वालवालेषु मूलजलाधारेषु। स्यादालवालमावालम्' इत्यमरः। भूतानि सम्भृतानि वारीण्येव दर्पणास्तेषु प्रतिमा प्रतिबिम्बतां गतैः, प्रतिबिम्बितरित्यर्थः । आत्माभिः, स्वमूर्तिभिरित्यर्थः। सपलाशराशि सपत्रसन्तति मूलसंहति दधत- इव दधाना इवाऽभिविरेजुः । स्वालवालेषु स्वप्रतिबिम्बितैरधोमुखैः मूलेष्वपि सपना इव रेजुरित्युत्प्रेक्षा ॥५॥ उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ॥ अभवन् यदङ्गणभुवः समुच्छ्रसन्नववालवायजमणिस्थलाऽङ्कराः ॥१८॥ उरगेन्द्रेति ॥ अपरं तस्यां कस्यां-यदङ्गणभुवः यस्याः सभायाः अङ्गणभुवः अजि- रोर्व्यः एवंविधा अभवन् बभूवुः। किंलक्षणाः समुच्छ्वसन्नववालवायजमणिस्थलाऽकुराः समुच्छ्वसन्तः उद्भिद्यमानाः नववालवायजमणिस्थलेषु नूतनवैदूर्यमणिभूमिषु अकुराः शलाकाः यास ताः तथोक्ताः, कैः उन्नतस्य बृहतः सन्नद्धस्य पयोमुचः मेघस्य रसितैः गर्जितैः । मेघरवात् किल वैदूर्योर्वीषु रत्नानि जायन्ते । यदुक्तं-'तया दुहित्रा सुतरां सवित्री'त्यादि । मेघाः कथं सर्वदा ध्वनन्तीत्याह-कस्मात् उरगेन्द्रमूर्धरुहरनसविधेः उरगेन्द्रमूर्धरुहस्य सशफणजस्य रत्नस्य सन्निधेः सन्निधानात्। सर्पमणिसन्निधौ यकालेऽपि मेघा गर्जन्तीति वार्ता । केचित्तु द्वयमप्यकुरोत्पत्तावपि कारणमाहुः । यत्र हि उरगमणि- रनगर्जितं च, तत्र वैदूर्यमणिस्थलेषु तदुत्पत्तेरिति वदन्ति । पूर्व हि केचिद्वयाख्याने एत- शुभ्यमेव । वालवायजजननेऽप्यभ्रनिर्घोषाद्वैदूर्यमणयो जायन्ते ॥ १८ ॥ उरगेन्द्रोति ॥ उरगेन्द्राणां मूर्धसु रुहाणि रूढानि । इगुपधलक्षणः कः। तेषां रमाना सविधेः सन्निधाना- न्मुहुरुत्रतस्य । यदायदा तत्सनिधिस्तदातदोदितस्येत्यर्थः । पयोमुचो मेघस्य रसितैः स्तनिर्यदङ्गण. भुषो यस्याः प्राणप्रदेशाः समुच्छ्वसन्तः प्रादुर्भवन्तो नवाः प्रत्यग्रा वालवायजमणिस्थलाऽकुरा वैदूर्य- भूमरोहा यासु तास्तथोक्का अभवन् । वैदूर्य वालवायजम् ' हत्यमरः । वालवायो नाम वैदूर्यप्रभवो देश- विशेषः। उरगेन्द्रमूर्धन्यरत्नाऽकुरैः सहोदिनमेघवनर्विदूरभूमिरुद्भित्राऽकुरा भवतीति प्रसिद्धिः। तदुक्तम्- उरगमूर्धन्यरमसविधानादकालेऽपि मेघा गर्जन्तीति वार्ता । केचित्तु यौवोरगरनं मेघरसितं च तत्रैव वैदूर्यभूमिः। अत्र समृद्धिमद्वस्तुवर्णनानुदात्तालङ्कारभेदः। तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् ॥ ..

४६६ सन्देहविषधिसर्वकषायुते- [त्रयोदशः- नलिनी निगूढसलिला च यत्र सा स्थलमित्यधःपतति या सुयोधने । अनिलात्मजप्रहसनाकुले(१)ऽखिलक्षितिपक्षयाऽऽगमनिमित्ततां ययौ५९॥ नलिनीति ॥ यत्र संसदि सा नलिनी पभिनी वर्तते । सा का या नलिनी सुयोधने धार्तराष्ट्र राशि अधः पतति सति अखिलक्षितिपक्षयाऽऽगमनिमित्ततां ययौ सकलनृपति- नाशोत्पत्तिहेतुतां जगाम । ननु स्पष्ट मार्गे किमित्यसौ निपपातेत्याह-अद इति जलं न तु स्थलम् इत्यतो हेतोः, किंभूता नलिनी निगूढसलिला अलक्षितजला । तादृशं तस्याः सलिलं मयेन अकारि, यत्र स्थलभ्रान्तिः। अतश्च भूरेषा इति धिया वजन् असावपतत् । अथ च पातमात्रादेव कस्मादसौ राजन्यकाऽन्ते हेतुरभूत् इत्याह-किंलक्षणे अयोधने अनि- लात्मजप्रहसनाकुले अनिलात्मजो वायुनन्दनो भीमसेनः तस्य प्रहसनम् अट्टहासः तेन आकुलः किङ्कर्तव्यतामूढः तस्मिन् । यदा ह्यसौ निपपात, तदामारुति हासेत्यर्थः ॥१९॥ नलिनीति ॥ यत्र सभायां निगूढसलिला दलच्छन्नत्वाददृश्यसलिला नलिनी । वर्तत इति शेषः । या नलिनी मुष्ठ युध्यत इति सुयोधने दुर्योधने । भाषायां शासियुधिदृशिधृषिमृषिभ्यो युच् वक्तव्यः। स्थलभिति भ्रान्त्या अधः पतति मति अनिलात्मजस्य भीमसेनस्य प्रहसनेनाट्टहासेनाकुलाना क्षुभितानाम- खिलक्षितिपाना क्षयागमे नाशप्राप्ती निमित्तता ययौ । नलिनीदलच्छन्नत्वात्सुयोधनस्य जले स्थलभ्रान्तिः। तया तस्य पातस्तेन भीमसेनपहासस्तेन राज्ञां क्षोभस्ततस्तेषां मारणो रणः प्रवृत्त इति परम्परया तत्क्षयकारणत्वं गतेत्यर्थः । अत्र समावर्णनाऽजतया भीमसेनादिचारितवर्णनादुदात्तालङ्कारभेदः । लक्षणं चोक्तम् ।। ५९ ॥ हसितुं परेण परितः परिस्फुरत्करवालकोमलरुवावुपेक्षितैः ॥ उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥ ६ ॥ हसितुमिति ॥ यत्र यस्यां संसदि इन्द्रनीलभुवि वालवायजभूमौ मुहुरत्यर्थ जनैः तत्र सञ्चारिभिर्लोकैः दूर दूरादेव अम्बरं वासः उदकर्षि उत्क्षिप्तम् । कया जलशङ्कया उदकभ्रान्त्या, किलक्षणायामिन्द्रनालभुवि परितः समन्तात् परिस्फुरन् उल्लसन् यः करवाल: खड्गः तस्येव कोमला मृदुला रुचिः कान्तिर्यस्याः सा तथा तस्याम् उल्लसत्खड्गसदृश- च्छवौ । किं कोऽपि जनस्तत्र नास्तीत्याह-किलक्षणैर्जनैः परेण अन्येन उपेक्षितैः अना- हतैः, किं कर्तु हसितुं हासाय । भ्रान्त्या हि तादृशविधान् सर्वो हसति ॥ ६० ॥ हसितुमिति ॥ यत्र सभाया परितः परिस्फुरन्ती करवालकोमला भासिश्यामा रुचिर्यस्यास्तस्यामिन्द्र- नीलभुवि हसितुं परेण जानताऽन्येन जनेनोपेक्षितैः 'स्थलमेतत् न जल'मित्युपदिष्टेनरजैरागन्तुकजनै- जनशड्या जलभ्रान्त्या मुहुईरमम्बरं वसमुदकर्षि नितम्बादुद्धृतम् । अवेन्दनीलस्थलसादृश्यासलिल- प्रान्तेन्तिमदलङ्कारः ॥ ६ ॥ अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू । अवतरतुर्नयननन्दनौ नभःशशिभास्करा(२)वुदयपर्वतादिव ॥ ६१ ॥ अभित इति ॥ अथाऽनन्तरं सदः अभितः सभायाः संमुखौ हरिपाण्डवौ श्रीकृष्ण- धर्मराजौ रथात् अवतरतुः स्यन्दनात् अवरूढौ । किलक्षणो हरिपाण्डवौ अमलांशुमण्डल- समुलसत्तनू अमलांशुमण्डलेन देदीप्यमानतेजश्चक्रेण समुल्लसत्तनू स्फुरदेहो, अपर किंलक्षणी तौ नयननन्दनौ नेत्रानन्दकरौ । कौ यथा कुतोऽवतरत इत्याह-काविव शशिभास्कराविक यथा चन्द्रसूर्यो नमोऽभितः आकाशसमुखम् उदयपर्वतात् उदयाः अवतरतः ॥ ६१ ॥ (१)कुमाखिल। (१) भार्गवा।

सर्गः। शिशुपालवधे। ४६७ अमित इति ॥ अथाऽमलांशुमण्डलेन तेजःपुछेन समुल्लम-त्यौ भासमाने तनू मूती ययोस्ती नयन. नन्दनौ नेत्रानन्दकरो हरिपाण्डवौ सदोभित: सभाऽभिमुखम् । 'अभितःपरितः-' इति द्वितीया । रथात शशिभार्गवौ अमलेत्यादिविशेषणविशिष्टौ चन्द्रशुक्रौ नभोऽभितो नभोऽभिमुखमुदयाख्यात्पर्वतादुदयाचलादिवा- परतुरवतीर्णवन्तौ । तरतर्लिट् 'तृफलभअत्रपश्च' इत्येत्वाभ्यामलोपो। उपमा ॥ ६१ ॥ तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे। धवलाऽश्मरश्मिपटलाऽविभावितप्रतिहारमाविशदसौ सदः शनैः ॥६२॥ तदिति ॥ अथो अनन्तरं तत्सदः तां सभाम् असौ श्रीकृष्णः शनैः स्वैरम् आविशत् न्यविशत । किंलक्षणं तत्सदः अलक्ष्यरत्नमयकुड्यम् अलक्ष्याणि अदृश्यानिरत्नमयानि मणि- सचितानि कुख्यानि भित्तयो यत्र तत्तथा, अपरं किंलक्षणं सदः धवलाश्मरश्मिपटला- विभावितप्रतिहार धवलाऽश्मनां श्वेतपाषाणानां स्फटिकोपलानां रश्मिपटलेन दीप्ति- पुजेन अविभावितमपरिज्ञातं प्रतिहारं द्वारं यत्र यस्य वा त त्तथा, क सति आविशत् नृपे राज्ञि युधिष्ठिरे आदरात् प्रीत्या 'इत इत' इति अभिधातरि सति 'अत्र गम्यताम् अत्र गम्यताम्' इति ब्रुवति सति ॥ ६२ ॥ तदिति ॥ अथो रथावतरणानन्तरं असी हरिपे युधिष्ठिरे आदरात् इत इत इत्यभिधातरि सति, इत इत आगम्यतामित्यभिदधाने सतीत्यर्थः । तत्पूर्वोकमलक्ष्यरत्नमयकुडयमदृश्यरत्नाभित्तिकम् , धवलेन शुभ्रेण अश्मरश्मिपटलेन माणिप्रभापुछेनाऽविभावितप्रतिहारमलक्ष्यद्वारम् । 'मी द्वारं प्रतीहारः' इत्यमरः । मदः सभा शनैराविशत्प्रविष्टवान् । अत्र कुड्यप्रतीहारयोरलक्ष्यत्वासम्बन्धेपि तत्सम्बन्धोनरतिशयोक्तिः ॥ नवहाटकेष्टकचितं ददर्श सः क्षितिपस्य पस्त्यमथ तत्र संसदि । गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदस्मयत नाकिनामिव(१)॥६॥ नवेति ॥ अथाऽनन्तरं सः श्रीकृष्णः तत्संसदि तस्यां सभायां क्षितिपस्य भूपतेः युधिष्ठिरस्य पस्त्यं वेश्म ददर्श अपश्यत्, किंलक्षणं पस्त्यं नवहाटकेष्टकचितं नवाश्च ते हाटकस्य सुवर्णस्य इष्टकाः कृत्रिमदृषदश्च तैः चितं रचितम् उज्ज्वलकनकशिलाबद्धम् । यद्वेश्म गगनस्पृशां नभोलिहां मणिरुचां चयेन रत्नदीप्तीनां मण्डलेन नाकिनां देवानां सद- नानि भुवनानि उदस्मयत इव अहसदिव-कियन्ति यूयं रम्याणीति ॥ ६३ ॥ नवेति ॥ अथ प्रवेशाऽनन्तरं स हरिस्तत्र संसदि सभायां नवमिटिकेष्टकाभिः हिरण्येष्टकाभिश्चितम् । 'हिरण्यं हेम हाटकम्' इत्यमरः । 'इष्टकेषीकामालना चिततूलभारिषु' इति ह्रस्वः । पक्कमृत्तिकाविशेष- वाचकस्येष्टकाशब्दस्य तादशि सुवर्णविकारे सुवर्णघटवदुपचारात्प्रयोगः । क्षितिपस्य युधिष्ठिरस्य पस्त्यं सदनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः। ददर्श। यत्सदनं गगनस्पृशामुच्चस्तराणां माणिरुची चयेन समूडेन नाकिना देवानामपि सदनान्युदस्मयताईहसत् । स्मयतेरुत्पूर्वात्कर्तरि लछ । अत्रापि नृपसदनस्य मुरसदनादाधिक्याऽसम्बन्धेपि तत्सम्बन्धोनरतिशयोक्तिः ॥ ६३ ॥ उदयाद्रिमूनि युगपथकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ॥ रुचिमासने रुचिरधानि बिभ्रतापलघुन्यथ न्यषदतां नृपाऽच्युतौ ॥६४॥ उदयाद्रीति ॥ अथाऽनन्तरं नृपाऽच्युतौ युधिष्ठिरश्रीकृष्णौ सहितौ आसने कनक- विष्टरे न्यषदतामुपविविशतुः । किंलक्षणौ नृपाच्युतौ दिननाथपूर्णशशिनोः दिवाकरपार्वण- चन्द्रमसोः रुचिं कान्ति बिभ्रतौ वहमानौ, किलक्षणयोः दिननाथचन्द्रयोः उदयाद्रिमूनि (१)मपि।

४६८ सन्देहविषौषधिसर्वपायुते- [ त्रयोदश:- उदयाचलशिखरे युगपत् समकालं चकासतोः विराजमानयोः । ननु रविपूर्णेन्दू न कदा- चिदपि साकमुद्गच्छतः, तत्कथं तद्वत शोभेयातामित्याशङ्कय विशेषणमुखेनाह-किलक्षणां रुचिम् असम्भवाम् असतीमभूतपूर्वाम् । एतदुक्तं भवति-यदि युगपदुदयगिरिशिरसि रवि- शशिनाबुद्गच्छेतां, तदा तयोरुपमा स्यादित्युत्पाद्योपमा । किलक्षणे विष्टरे रुचिधाम्नि महातेजोयुक्ते, रुचेर्धाम आस्पदं तत्र, (१)अपर किंलक्षणे विष्टरे अलघुनि महति ॥६४॥ उदयाद्रीति ॥ अथ नृपसदनदर्शनाऽनन्तरमुदयारेनि शिखरे युगपच्चकासतोः प्रकाशमानयोः 'चकामु दीप्तौ' इति धातोर्लटः शत्रादेशः । दिननाथपूर्णशशिनोः सूर्यपूर्णचन्द्रमसोरसम्भवा सम्भवरहिताम् । तयोस्तथाभूतयोर्योगपद्यायोगादभूतपूर्वामित्यर्थः । रुचि शोभा बिभ्रती नृपाच्युतो रुचिरधाम्न्युज्ज्वल- तेजसि अलघुनि विपुले आसने सिंहासने न्यषदतामुपविष्टौ । सदे कि 'पुषादि-' इति च्लेरादेशः 'मदिरपतेः' इति षत्वम् । अत्र सम्भावनया अर्कपूर्णेन्दुशोभासम्बन्धोक्तरसम्बन्धे सम्बन्धरूपातिशयोक्तिः ॥ सुतरां सुखेन सकलक्लमच्छिदा सनिदाघमङ्गमिव मातरिश्वना ॥ यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥ ६५ ॥ सुतरामिति ॥ तत् राजकुल राजकं यदुनन्दनेन भगवता तोष नन्द, हर्षम् आप लेभे । माधवागमनेन सभ्या मुदमापुरित्यर्थः । किंलक्षणेन यदुनन्दनेन सतरां सुखेन अत्यर्थ सुखकारिणा, सुखयतीति सुखः तेन, अपरं किंलक्षणेन यदुनन्दनेन सकलक्लम- च्छिदा सकलः सम्पूर्णः यः क्लमः संसारश्रमः तं छिनत्ति उन्मूलयतीति छित् तेन छिदा। केन यथा को हृष्यतीत्याह-यथा मातरिश्वना वायुना सनिदाघं सतापमङ्गं शरीरं नन्दथु तोषं याति । रोमाञ्चितत्वोक्तिः । अपरं केन किमिव उदन्वतः अब्धेः पाथः उदकं शशि- नेन चन्द्रेणेव । यथा शशिना अब्धिजलं हर्णे याति, इत्युच्छ्वासकथनम् । द्वावपि मुखौ क्लमहरौ च ॥ ६५ ॥ सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकललमच्छिदा मकलदुःखहारिणा यदुनन्दनेन कृष्णन सनिदाघं ससन्तापमङ्गं, मातरिश्वा वायुस्तेन । उदकान्यस्य सन्तीत्युदन्वानुदधिः । 'उदन्वानुदधी च' इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । 'अव्ययादाम्बकव्यः' इत्यामुप्रत्ययः । सुखेनाल्लेशेन नन्दथुमानन्दमाप । 'स्यादानन्दथुरानन्दः' इत्यमरः । 'ट्वितोऽथुच्' इत्यथुच्यत्ययः । मालोपमा ॥ ६५ ॥ अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।। स्फुटसात्त्विकाऽऽङ्गिकमनृत्यदुज्वलं सविलासलासक(२)विलासिनीजनः॥ अनवद्येति ॥सविलासलासकविलासिनीजनः सविलासो विभ्रमान्वितो लासको नर्तको यो विलासिनीजनः दासीलोकः, सः कोमल सुकुमारम् अनृत्यत् प्रयुयुने । नर्तक्यो हि विलासिन्यो भवन्ति । लासकग्रहणं च(३)। वाद्यमपि द्विविधं, सुकुमारमुद्धतं चेति । किंलक्षणं कोमलम् अनवधवाद्यलयगामि अनवद्यम् अगहलक्षणान्वितं यत् वाचं तता- ऽवनयरसषिरात्मक तस्य यो लयो द्रुतमध्यविलम्बितभेदेन त्रिविधः, यद्वा वायं च लयचा तं गच्छत्यनुवर्तते इति अनवद्यवाद्यलयगामि, अपरं किंलक्षणं कोमलं नवगीतमपि अपूर्व- । . . . (१) वनभदेवव्याख्यापुस्तकेऽपि मूल 'रुचिरधानि' इत्येव पाठो दृश्यते, पर व्याख्यासमीक्षया 'रुचिधाम्रि' इति पाठो व्याख्यातुरिष्ट इति स्पष्ट प्रतिभाति । तत्र च पाठे एकाक्षरन्यूनतति 'रुचि- मामनेतिरुचिधानि' । इत्ययं कदाचित् पाठः कल्पितः स्यात् । (२)लासिक। (३) अब अन्याशः पतितः।

सर्गः।] शिशुपालवधे। ४६६ गीतमेवंरूपमपि अनवगीततां दधत् अश्रुतपूर्वत्वं दधत्, अवगीतं गईमसकृदनुभूतं च, अनिन्यतां बिभ्रत् । अपि विरोधे, यत्किल नवगीतमुक्तं तत्कथं तेनैव रहितं स्यात्, नाऽवगीतमनवगीतमिति कृत्वा । अपरं किंलक्षणं कोमलं स्फुटसात्त्विकाऽऽङ्गिक स्फुटम् अहीनं सात्त्विकं स्तम्भादि आङ्गिकं च भ्रूक्षेपादि यत्र तत्, अत एव अपरं किलक्षणम् उज्ज्वलं मनोहरम् । एतेन गीताऽनुगतं च वाद्यं तदनुगतं नृत्यमुक्तं भवति । श्रीभगवतोऽग्रे प्रेक्षणकं, विलासिन्यो ननृतुरिति वाक्यार्थः । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ आङ्गिकस्त्वभिनयः शिरोदृष्टिकरवक्षःकटिपादभेदतः पड्विधः ॥ ६६ ॥ अनवद्योत ।। मविलासो विलासयुको लासिकविलासिनीजनो नर्तकमीजन: सविलासलासिकावला. मिनीजनः । 'नर्तकीलासिके समे' इत्यमरः। अनवद्यम गर्दा वायं वंशादि तस्य लयः साम्यं गीतस्य सम- कालत्वं तदामि। दुतावलम्बादिमानाऽनुवर्तीत्यर्थः। 'तालः कालक्रियामानं लयः साम्यम्' इत्यमरः । नवं गीत यस्य तत्रववगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । 'अवगीतं तु निर्वादे मुहुगीते च गर्हिते' इनि विश्वः । सत्त्वमन्तःकरणं तेन निर्वृत्तं नृत्यं सात्विकम् । अङ्गं हस्तादि तेन निवृत्तमाणिकम् । 'निर्वृने त्वङ्गसत्त्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके' इत्यमरः । ते स्फुटे यस्मिंस्तत्तथोकम् । वाचिकस्याऽभ्युपलक्षणमेतत् । यथाह भगवान् भरतः- ‘पदार्थाभिनयो नाम ज्ञेयो वागङ्ग सत्त्वजः' इति । अत एव कालिदासोऽपि-'अङ्गसत्त्ववचनाश्रयं ।मथः स्त्रीषु नृत्यमुपधाय दर्शयन्' इति । कोमलं मधुरनृत्यमुज्ज्वलमुद्धतं चाऽनृत्यत् । तथोकं दशरूपके- 'भावाश्रयं तु नृत्यं स्यान्न ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गो देशी तथा परम् ।। मधुरोद्धतभेदेन तद् द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ इति ।। ६६ ॥ सकले च तत्र नगरे हरा गृहान् गतवत्यकाल(१)महमादिदेश सः ॥ सततोत्सवं तदिति नूनमुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥ ६७ ।। सकले इति ॥ हरौ भगवति श्रीकृष्णे गृहान् भवनं गतवति प्राप्तवति आगते सति सः राजा तत्र सकले समग्रे नगरे पुरे अकालमहम् अप्रस्तुतोत्सवम् आदिदेश आज्ञापयत् । अस्य महीभृतः राज्ञो युधिष्ठिरस्य उन्मुदः उत्पन्नहर्षस्य सतः नूनं निश्चित रभसेन औत्सुक्येन तत् नगरं सततोत्सवमजस्त्रमहोत्सववत् वर्तते इति विस्मृतमभूत् । इति तेन न स्मृतमित्यर्थः॥६॥ सकले इति ॥ किश्चेति चार्थः । स राजा हरी कृष्णे गृहमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्तायतिरिके काले महमुत्सवम् । 'मह उद्धव उन्सवः' इत्यमरः । आदिदेशाज्ञापया- मास । नूनमत्रोत्प्रेक्ष्यते । उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सतत. मुत्सवा यस्मिस्तत्सततोत्सवमिति इत्येतद्रभसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकस्ण- पदेश इति भावः ॥६॥ हरिराकुमारमखिलाऽभिधानवित् स्वजनस्य वार्तमयमन्वयुतसः(२) ॥ महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥ (१) तत्र गृहमागते हरी नगरे प्यकाल । (२) च । ४०शि०व० ४७० सन्देहविषौषधिसर्वाषायुते [त्रयोदशः- हरिरिति ॥ सः भगवान् श्रीकृष्णः स्वजनस्य बान्धवलोकस्य आकुमारमाबालक कुमारेभ्योऽभिव्याप्य वार्तमयं वार्तम् अन्वयुक्त पप्रच्छ । किंलक्षणो हरिः अखिला- ऽभिधानवित् अखिलानां सर्वेषां बन्धूनामभिधानानि नामानि वेत्तीति तथा सर्वेषां नाम- विज्ञः । अत एव नामग्राहमित्यर्थः । यदि वा अखिलाऽभिधानवित् सर्वेषां संज्ञां वेत्तीति स एवार्थः । ननु भगवान् त्रिभुवनकार्यव्यग्रः, तत्कथं तस्यैतञ्चित्ते वर्तते । यद्वालानामपि नाम गृहीत्वा कुशलं पप्रच्छेत्याशङ्कयाह-अवार्थान्तरन्यासः, यः स्वजनः साधुः सः मह- तीमपि स्फीतामपि श्रियं समृद्धिमवाप्य आसाद्य जातु कदाचिदपि किञ्चन नैव विस्मरति । अपरं किलक्षणो हरिः विस्मयः विगतः स्मयो गर्यो यस्य सः तथा निरभिमानः ॥६॥ हरिरित ॥ किति चार्थः । अखिलान्यमिधानानि नामानि वेत्तीत्यखिलाभिधानवित् सकलनाम- प्रपञ्चाभिज्ञः । 'नामरूपे व्याकरवाणि' इति श्रुतेरिति भावः । 'आख्याढे चाभिधानं च नामधेयं च नाम च' इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । 'आङ् मर्यादाभिविध्योः' इत्यभिधानादब्ययीभावः । स्वजनस्य बन्धुजनस्य । 'बन्धुस्वस्वजनाः समाः' इत्यमरः। वार्तमनामयम् । आरोग्यमित्यर्थः । 'वार्त फल्गुन्यरोगे च' इत्यमरः । 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्' इति मनुस्मरणात् । अन्वयुक्त अपृच्छतु । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । युजेः कर्तरि लङ् । तथा हि-महतीं श्रियं सम्पदमवा- प्यापि विस्मयो निरहङ्कारः सुजनः, अत एव जातु कदाचिदपि किञ्चन किमपि न विस्मरनि । सुजनः सम्पन्नोऽप्यहङ्कारं न करोतीति भावः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६८ ॥ मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमवितृप्त(१)तयाऽनुपदं दधत् ॥ श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथाऽमृतमनेकमसिस्वदतांतदा(२) ॥६६॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रीकृष्णसमागमो नाम त्रयोदशः सर्गः ॥१३॥ मत्येति ॥ असौ श्रीपतिः लक्ष्मीकान्तः श्रीकृष्णः अवनेः भूम्याश्च पतिः स्वामी युधिष्ठिरः, उभौ तदा तस्मिन् समये परस्परमन्योन्यम् अनेकं बहुप्रकारं सङ्कथाऽमृत संलापपीयूषम् असिस्वदतामास्वादितवन्तौ । योगक्षेमकथां बहुकालं चक्रतुरित्यर्थः । सङ्कथैवाऽमृतम् । किंलक्षणमिति तत्साधर्म्यमाह-मर्त्यलोकदुरवापं मनुष्यलोके दुर्लभम् । न हि तयोर्यत्सौष्ठवमुत्तमकर्म, तत् अन्यस्य भवति । अपरं किलक्षणं सथाऽमृतम् अवाप्तरसोदयम् अवाप्तः प्रातः रसेन रागेण स्नेहेन वा उदय आविर्भावो यत्र तत् । सर्वत्र हि तत्त्वतः क्रियमाणे वस्तुनि रागो भवति । अपरं किलक्षणं सङ्कथाऽमृतम् अवितृप्ततया अवैतृष्ण्येन अनुपदं पदे पदे नूतनत्वं दधत् अपूर्वत्वं बिभ्रत्, यदि वा अवितृप्ततया अवैराग्येण । यत्र हि उद्विज्यते तत्पुराणमिति ज्ञायते । अमृतमपि मनुष्यलोके दुर्लभ प्राप्तरसोदयमवितृप्ततया नूतनत्वं च धत्ते । रानभद्वितयरैरुदितं रमणीयकम् । अतिशकरी छन्दः । रसो माधुर्यम् , नियन्ते इति माः ॥ ६९ ॥ इति श्रीशिशुपालवधे महाकाव्ये दत्तकसूनोर्माघस्य कृतौ श्रीवल्लभविरचितायां सन्देह- विषौषधिसारटीकायां इरेरिन्द्रप्रस्थप्रवेशे सभावर्णने नाम त्रयोदशः सर्गः॥ मत्यति ॥ उभौ श्रीपतिः कृष्णः असाववनेः पतिर्धर्मसुनश्च परस्परं मर्त्यलोकैर्मनुष्यलोकैर्दुरवाएं (१)मतिरिक्त (२) तामुभो। .

सर्गः।] शिशुपालवधे। ४७१ दुर्लभमवातरसोदयं प्राप्तरसोत्कर्षम् । स्वादूभवदित्यर्थः । अतिरिक्त तयाऽतिस्निग्धतया अनुपदमनुचणं प्रति- वाक्यं च नूतनत्वमपूर्वता दधत अनेक बहुलं सां सम्भाषणं चेदिराजजरासन्धादिकार्यचिन्तारूपं नदेवाऽमृतं तदसिस्वदतां स्वादितन्तौ । 'आकरः स्वपरभूरिकथाना प्रायशो हि सुहृदोः सहवासः' इति भावः । स्वदतेः जो चन्युपधाया ह्रस्वः । सकुथाऽमृतमिति रूपकालङ्कारः, स्वादनालङ्गात् ॥ ६९ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकान्यव्याख्याने सर्वहुषायां प्रयादेशः सर्गः ॥ १३ ॥ . । । चतुर्दशः सर्गः । तं जगाद गिरमुद्रिन्निव स्नेहमाहितविकासया दशा ॥ यनकर्मणि मनः समादधद् वाग्मिनां(१) वरमकद्वदो नृपः ॥१॥ तमिति ॥ अथाऽनन्तरं नृपो युधिष्ठिरः तं भगवन्तं श्रीकृष्णं प्रति गिरं जगाद वाच- मुवाच । ग्रीग्रहणं विस्फुटार्थम् । किं कुर्वन् आहितविकासया उत्पन्नहर्षया धृतविशाल- तया वा दृशा दृष्टया स्नेहमुद्विरनिव प्रेम उद्वमन् यथा । नेत्रविस्फारादयो हि स्नेहसूचकाः । अपरं किं कुर्वन् यज्ञकर्मणि क्रतुक्रियायां मनः समादधत् चित्तमारोपयन् । प्रस्तुतक्रमे तु सम्बन्धमवोचदित्यर्थः । किलक्षणं तं हरिं वाग्ग्मिनां वरं वाग्विदां श्रेष्ठ, किलक्षणो नृपः अकद्वदः अगर्थवादी। वाग्ग्मीति द्वयोरपि वाक्सौष्टवोक्तिः । अथ वा अकद्वदः सत्यवादी । रानराविह रथोद्धता लगौ । त्रिष्टुप् छन्दः ॥ १ ॥ तमिति ॥ वदतीति वदः । पचायच् । कुत्सितस्य बदः कददः गवाक् । 'गद्यवादी तु कन्दः इत्यमरः । 'रथवदयोश्च' इति कोः कदादेशः । स न भवतीत्यकद्वदः साधुवादी नृगो युधिष्ठिरो यज्ञाऽनु- ठाने मनः समादधत्सम्यगादधत् । तदेव हृदि निधायेत्यर्थः । आहितविकासया कृतप्रसादया दृशा दृष्टय स्नेहमुहिरन्नुमत्रिवेत्युत्प्रेक्षा। दृष्टिविकासात्प्रकटितस्नेहः सन्नित्यर्थः । वाचो विदन्ति वक्तुं विवेकं च जानन्तीति वाग्विदो वाक्यकोविदाः । 'सत्सूद्विष--' इत्यादिना विप् । तेषां वरं श्रेष्ठं तं हरि गिरं जगाद । तेरर्थग्रहणात् 'दुद्याच्-' इत्यादिना गदेर्द्विकर्मकन्वाम् । अत्रात्प्रेक्षावृत्त्यनुपासयोः संसृष्टिः । अस्मिन्सर्गे रथोद्धता वृत्तम् । 'रात्रराविह रथोद्धता लगा' इति लक्षणात् ॥ १ ॥ किमुवाचेत्याह- लजते न गदितः प्रियं परो वक्तुरेव भवति त्रपाऽधिका ॥ बीडमेति न तव प्रियंवदो हीमता तु(२) भवतैव भूयते ॥ २ ॥ लजते इति ॥ हे भगवन् ! परः त्वदन्यः कश्चित् प्रियं गदितः अभीष्टम् उक्तः सन् न लज्जते न जिहति सृष्टत्वात्, प्रत्युत वक्तुरेव प्रियमाख्यातुरेव अधिका त्रपा भवति अत्यर्थं लज्जा जायते । तव पुनः प्रियंवदश्चाटुकारी स्तोता न बीडमेति न लजां प्राप्नोति तत्त्वकथनात्, प्रत्युत भवतैव त्वयैव हीमता पान्वितेनैव भूयते । महात्मानो हि निज- गुणश्रवणादवनतवदना भवन्ति । उक्तं च- गहि जंता विजणे जणे ण यज वहन्ति काउरिसा । सप्पुरिसा उण गुणकित्तणा अवणअवअणा होन्ति(३)॥ (१)वाग्विदी। (२) प्रियं वदन्" । (३) गर्यमाणा अपि जने जने न लजा वहन्ति कापुरुषाः । सत्पुरुषाः पुनर्गणकीर्तनादवनतवदना भवन्ति ॥ इति च्छाया ।

"४७२ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- तस्मादुत्कृष्टत्वात् त्वमस्माकं स्तुत्यः, वयमपि स्थानस्तुत्या नाऽनृतवादिन इति वाक्यार्थः ॥२॥ गिरं जगादेन्युनं, तामेव गिरं दशमिः प्रपञ्चयति- लज्जते इति ॥ परोऽन्यः कश्चित्पुमान् प्रियं गदितः प्रियवाक्यमुक्तः सन्नित्यर्थः । गदेर्दुहादित्वादपधाने कर्मणि कः । 'अप्रधाने दुहादीनाम्' इति वचनात् । न लजते । तस्योन्सुकत्वादिति भावः । किन्तु वक्तुः स्तोतुरेवाऽधिका प्रपा भवति । भयादिना मिथ्यावाचकत्वादिति भावः । प्रकृते तु नवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । ब्रीड नैति । अनन्तगुणाधारे त्ययि बहोरपि प्रियस्याऽमिथ्यात्वादिति भावः । किन्तु म्तवनेनाऽभवता पूज्येनैव ह्रीमता भूयते । प्रत्युत त्वमेवात्र जिलपीत्यर्थः । महतामनुत्सुकत्वादिति भावः । 'पूज्यस्तत्रभवान्' इति सज्जनः । इतराभ्योऽपि-' इति सार्वविभाक्ति के प्रत्प्रत्यये 'सुप्सुपा' इति समासः ॥२॥ तोषमेति वितथस्तवैः(१) परस्ते च तस्य सुलभाः शरीरिभिः ।। अस्ति न स्तुनिववोऽनृतं तव स्तोत्रयोग्य ! न च तेन तुष्यसि ॥ ३॥ तोषमिति ॥ हे भगवन् ! परः अन्यः वितथस्तवैः अलीकस्तुतिभिः तोषमेति हर्ष प्राप्नोति । गुणाध्यारोपणं हि लघूनामुल्लासयते । ते च वितथस्तवाः तस्य शरीभिरिर्जनैः सुलभाः सुप्रापाः । अलीकस्य तु निष्ठैव नास्ति । तव पुनः अनृतमसत्यं स्तुतिवचः नास्ति स्तोत्रवचनं न विद्यते । हे स्तोत्रयोग्य! हे स्तुत्यह! यतः त्वं तेन वितथस्तवेन न तुष्यसि न हृष्यसि, सगुणत्वादेव । अथ वा तेन स्तुतिवचसा त्वं न तुष्यसीति केचित् । सगुणस्य हि 'गुणवानसि' इत्युक्त को नाम सन्तोषः । एतदुक्तं भवति-आत्महितार्थ त्वां वयं नुमो, न चैतावता तव तोपः । स हि स्तोतरि निन्दके च समः ॥ ३ ॥ तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूनः स्तवैः स्तोत्रैः । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इन्यमरः । नोषमुत्सुकतामति । ते च-तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असम्बद्धप्रलापाना- मनिरगलत्वादिति भावः । त्वयि तु नवमित्याह-अस्तीति । हे स्तोत्रयोग्य ! गुणाकरत्वादिति भावः । अत एव तव सम्बन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचमा न तुष्यास न प्रसीदसि । गम्भी- रत्वादिति भावः । अत्र श्लोकद्वय पुरुषान्तरादुपमानभूतादाधिक्यकथनाट्यतिरेकालङ्कारः ॥ ३ ॥ बपि प्रियमयं तव ब्रुवन् न व्रजत्यनृतवादितां जनः ॥ सम्भवन्ति यददोषदूषिते सार्व! सर्वगुणसम्पदस्त्वयि ॥ ४ ॥ बपीति ॥ हे भगवन् ! अयं मादृशो जनः बह्वपि भूर्यपि प्रियं वदन् सन् अभीष्ट ब्रुवन् सन् तव अनृतवादितां न बजति अलीकभाषित्वं न प्राप्नोति । यस्मात् हे सार्व! हेसर्वहित ! हे सर्वजनीन! त्वयि विषये सर्वगुणसम्पदः सम्भवन्ति सर्वा एवं गुणसम्पदो गुणा- तिशयाः । किंलक्षणे त्वयि अदोषदूषिते नदोषेण दूषितः अदोषदूषितः तस्मिन्निर्दोषे निर्मले४॥ बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते । बहुपि तव प्रियं ब्रुवम्सन् अनृतवादिता मिथ्या- पादिन्यं न बजति न गच्छति । यद् यस्मात हे सार्व! सर्वहितत्वात्सार्वः तत्सम्बोधने । 'सर्वपुरुषाम्या गढी' इति णप्रत्ययः । दोषदूषितो न भवतीत्यदोषदूषिते सर्वाऽगुणवर्जिते त्वयि सर्वगुणसम्पदः सम्भवन्ति । अना- रोपितगुणवादो भूयानपि न विपर्यतीति भावः । अत्रोनरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वाक्वार्थहेतुकं काव्यलिङ्गम् ॥ ४॥ सा विभूतिरनुभावसम्पदा भूयसी तव यदायनायति ।। एतदूढगुरुभार! भारत वर्षमध मम वर्तते षशे ॥५॥ (१) वितथेः स्वः।

सर्गः । शिशुपालवधे। ४७३. । सेति ॥ हे ऊढगुरुभार ! पृतभुवन ! उद्धृतविश्वम्भर ! एतत् यत् समग्रं भारतं वर्ष भरत- खण्डं भूलोकः मम वशे वर्तते ममायत्तं विद्यते, सा तव अनुभावसम्पदा प्रभावातिशयानां भूयसी महती विभूतिमहिमा । भवन्माहात्म्यवशादहं सार्वभौम इत्यर्थः । किंलक्षण भारत वर्षम् आयतायति आयता दीर्घा प्रसृता आयतिरस्मत्प्रतापो यत्र तत् वर्षम् ॥६॥ सेति ॥ हे अढगुरुभार ! विश्वम्भरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतम् । भारता. ख्यं वर्षम् (१) । 'वर्षोली भारतादौ च' इति हैमः । 'लोकोऽयं भारतं वर्षम्' इत्यमरः। अधेदानीमायता- यति बहुतरकालं. स्थिरं यथा तथेत्यर्थः । 'उत्तरः काल आयतिः' इत्यमरः । मम वशे आयत्नताया, वर्तत इति यावत् । 'वश आयत्ततायां च' इति विश्वः । सा नशवर्तनं विधेयप्राधान्यत्त्रीलिङ्गता । तवा. ऽनुभावसम्पदा सामाऽतिशयाना भूयसी महती विभूतिमहिमा । कामिति यावत् । त्वत्प्रसादलब्धमिद- भैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसम्पदं विना सम्बन्धेऽप्यसम्बन्धोकेरतिशयोक्तिः ॥ ५ ॥ वशवर्तने चोपकृतमाह- सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुशया मम ।। मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ॥ ६ ॥ सप्ततन्तुमिति ॥ हे भगवन् ! सप्ततन्तुं यज्ञम् अधिगन्तुं प्राप्तुमिच्छतो पाञ्छतो मम अनुज्ञया अनुग्रहं प्रसादं कुरु विधेहि अनुज्ञां देहि । यावद्राजसूययाजी भवामी- त्यर्थः । खलु यस्मात्त्वयि मुलतामुपगते कारणत्वं प्राप्ते सति मया धर्ममयवृक्षता प्रापि सुकृतमयतरता प्राप्ता । त्वया मूलभूतेन अहं धर्मवृक्ष इति प्रसिद्धः इत्यर्थः । उक्तं च महाभारते- युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीपुत्रौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ इति ॥ ६ ॥ तदेवं स्तुत्या हरिमभिमुखीकृत्य कृत्यांशमावेदयति- सप्ततन्तुमिति ॥ सप्त तन्तवः संस्था यस्य तं सततन्तुं क्रतुम् । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । अधि- गन्तुं प्राप्तुमिच्छतो मम अनुज्ञयाऽनुज्ञादानेनानुग्रहं प्रसादं कुरु । साहाय्यं कुवित्यर्थः । स्वतः समर्थस्य किं मदनुग्रहेणेत्याह-हे प्रभो ! त्वयि मूलता मुख्यकारणतामनित्वं चौपगते सति मया धर्ममयवृक्षता प्रापि प्राप्ता । प्रानो तेः कर्मणि लुङ् । प्रागपि त्वदनुग्रहादेव धर्ममर्जयन् धर्मराजोऽहमस्मीति भावः । अत्र नृपस्य धर्मवृक्षत्वेन हरेस्तन्मूलत्वेन रूपणासावयवरूपकम् । तेन त्वदनुग्रहः सर्वथा प्रार्थनीयो मया धर्मा- र्थिनेति तात्पर्य व्यज्यते ॥ ६ ॥ अत्र च त्वदाज्ञाया अभाव एव विघ्न इति दयितुमाह- सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ॥ त्वं समीरण इव प्रतीक्षितः कषुकेण(२) वलजान् पुपूषता ॥७॥ सम्भृतेति ॥ हे भगवन् ! श्रीकृष्ण ! मया निर्मलां शुद्धाम् इष्टिं यागं कर्तुं विधातुम् अभिवाञ्छता इच्छता सता, (३)उपणिवा इति प्राकृतं, समीरणो वायुः प्रतीक्ष्यते। किलक्षणेन मया सम्भृतोपकरणेन सम्भृतं ढौकितमुपकरणम् आज्यदक्षिणादि येनेति द्रव्यसम्पदुक्तिः । कर्युकेण(४) सूपकाराणि संमार्जनादीनि उपकाराणि येन । इटेनिर्मलत्वमर्थशुद्धिः श्रद्धा- (१) भारतनामाख्यं वर्षम्-इति पाठश्चिन्त्या, नामाख्ययो रेकार्थ्यात् । (२) करकेण । (३)-(१) उभयत्र कश्चिदंशो ग्रन्थस्याऽऽदर्शपुस्तके त्रुटितोऽस्ति ।

४७४ सन्देहविषौषधिसर्वकषायुते - [चतुर्दशः- - . पूतत्वं च । पवितुमिच्छति पुपूषति, पुपूषतीति पुपूषन् तेन पुपूषता ॥ ७ ॥ सम्भृतेति ॥ निमला निर्दोषामिष्टिं यागम् । यजे स्त्रियां किन 'वचिस्वाप-' इत्यादिना सम्प्रसारणम् । कर्तुमभिवाञ्छता अत एव सम्भृतोपकरणेन सम्पादिनसाधनेन मया वलजाधान्यराशन् ि। वलजो धान्य- राशिः स्यात्' इति वैजयन्ती । पुपूषता पवितुं साधयितुं निर्बुसीकर्तुमिच्छता । पुनातेः मनन्ताल्लट : शत्रा- देशः 'सनि ग्रहगुहोच' इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरणो वायुरिव प्रतीक्षितः । प्रवाते शूदिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसम्भारेणापि मया यागो दुष्कर इति भावः ॥ ७॥ न च त्वमाज्ञादानार्थमेव प्रतीक्षितोऽपि तु यागसमाप्तयेऽपीति दर्शयितुमाह- वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ॥ को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ ८ ॥ वीतविघ्नमिति ॥ हे भगवन् ! अधुना इदानी तव सन्निधेः त्वत्सन्निधानात् मे मम मखेन यज्ञेन वीतविघ्नं निर्विघ्नमेव अनघेण निर्दोषेण परिपूर्णेन भाविता भविष्यते । त्वयि पालके सति निरन्तरायमेव राजसूयो भविष्यतीत्यर्थः । अद्य व्यसनम् । एतदेव दृष्टान्तेन साधयति-अशीतदीधितौ उष्णकिरणे श्रीसूर्य आस्थितोदये कृतोदये सति वासर- श्रियं दिनलक्ष्मी कः पुमान् विहन्तुं बाधितुम् अलं समर्थः, अपि तु न कोऽपि ॥ ८ ॥ वीतविघ्नमिति ॥ अधुना तव सन्निधेतोर्मे रखेन क्रतुना की वीतविघ्नमविघ्नम् अनघेन निर्दोषेण भाविता, भविष्यत इत्यर्थः । भावे लुट् 'स्यसिसीयुद-' इत्यादिना लुटि चिवदावादृद्धिः। तथा हि- अशीतदीधितावुष्णाशावास्थितोदये प्रामादये सति को वासरश्रियं दिनशोभा विहन्तुमलं शक ः। न कोऽपी. त्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदादिम्बप्रतिबिम्बतया सन्निहितयोतितया समानधर्मतया निर्देशो दृष्टान्तालङ्कारः। 'यत्र वाक्पदये बिम्बप्रतिबिम्बतयोच्यने । सामान्यधर्मवाक्योकः म दृष्टान्तो निगयते ॥ इति लक्षणात ॥ ८॥ न चाऽत्र ममाऽधिकार इति वक्तुमाह- स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ॥ तीर्थगामि करवै विधानतस्तजुषस्व जुहवानि चाऽनले ॥९॥ स्वापतेयमिति ॥ हे भगवन् ! यत् अहं स्वापतेयं द्रव्यं धर्मतः क्षात्रवृत्त्या अधि- गम्य अर्जयित्वा पर्यपालयं पर्यरक्षं तथा अवीवृधं वर्धितवान, तत्स्वापतेयमधुना तीर्थगामि पात्रसाद् विधानतः करवै कर्तु प्रार्थये, तथा अनले अग्नौ जुहवानि जुहोमि, त्वं जुषस्व अनुमोदयस्व । कुरु प्रसादम् , आज्ञा दीयताम् । कालोऽयं सोमं पातुमित्यर्थः । अस्य हिं शास्त्रनिर्दिष्ट एवंविधः क्रमः । तथा चोक्तम्- धर्मेण लब्धुमीहेत लब्धं यत्नेन पालयेत् । पालितं वर्धनीयं च वृद्धं पात्रेषु निक्षिपेत् ॥ तीर्थ पात्रम् । स्वाध्यायान्यं शुद्धयोनि प्रशान्तं वैतानस्थं पापभीतं बहुज्ञम् । गोषु क्षान्तं नाऽतितीक्ष्णं शरण्यं वृत्तग्लान तादृशं पात्रमाहुः ॥ तदच्छति साध्विति(?) । स्वपतौ साधु स्वापतेयं धन, पथ्यतिथिवसतिस्वपते ।

मर्गः।] शिशुपालवधे ४७५ द्वारादीनां वृद्धिनिषेधस्यागतस्य वा प्रतिषेधः । अवीवृधमिति वर्धतेलुङ । करवै जुहवानि इति प्रार्थने लोडभिमन्त्रणे च । अभिमन्त्रणं नियोगकरणम् । एत ऐ, मेनि: आट् । 'लघूपध- स्येत्यनुवृत्त्या 'नाभ्यस्तस्याचि' इति गुणनिषेधाभावः । जुषस्वेति प्रार्थनायाम् ॥ ९ ॥ स्वापतेयमिति ॥ यत् स्वपतो स्वामिनि साधु स्वापतेयं वित्तम । पथ्यतिथिवसतिस्वपतेर्डञ् । 'द्रव्यं विनं स्वापतेयम्' इत्यमरः । धर्मतः क्षत्रियस्य विजितामेति शामोकप्रकारादित्यर्थः । अधिगम्य लब्ध्या यलेन पर्यपालयं पालितवान् , अवीवृध वृद्धिं च प्रापितवान् । नत् तीर्थगामि विप्राधीनं करव करिष्यामि विधानतः । पालितं वर्धयन्नित्यं वृद्धं पात्रेषु निर्वपत्' इति स्मरणात । तच्च पात्रं त्वमेवेत्याह-तत्सर्व जुषस्व सेवस्व । सदैव भुवेत्यर्थः। 'जुषी प्रीतिसेवनयोः' इति धातोर्लोट् । अनले जुहवानि च जुहुयाम्। तन्मुखेनापि नवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मनिरादेशः ॥ ९ ॥ गौरवे चित्ते स्थिते सति आत्मनः कर्तृत्वे धार्यमाशमान आह- पूर्वमङ्ग ! जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ॥ सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ १० ॥ पूर्वमिति ॥ अङ्गत्यामन्त्रणे, हे तात ! वा अथ वा त्वमेव पूर्व जुहुधि प्रथमं वह्नि प्रीणा, ततः पश्चात् त्वयि भवति अवभृथे यज्ञान्ते स्नातवति स्नाते सति सोमपायिनि पीताऽमृते ततोऽनन्तरं मया वाञ्छितोत्तमवितानयाजिना भविष्यते वाञ्छितेन चिकीर्षितेन उत्तमेन श्रेष्ठेन वितानेन मखेन राजसूयाख्येन इष्टवान् इति वाञ्छितोत्तमवितानयाजी तेन तादृशेन सम्पत्स्यते । अनन्तरमहं होण्यामीत्यर्थः ॥ १० ॥ पूर्वमिति ॥ वेति पक्षान्तरे । अथ वेत्यर्थः । अङ्ग हे कृष्ण ! 'अथ सम्बोधनार्थकाः। स्युः प्याटपाडगा है है भोः' इत्यमरः । पूर्व त्वमेव जुहुधि । यजस्वेत्यर्थः । 'हुझल्यो हेर्षिः' इति हेर्धिरादेशः। सोमपायिनि त्वयि अवभृथे यज्ञे । 'दीक्षान्तोऽवभृयो यज्ञे' इत्यमरः । स्नातवति सति ततोऽनन्तर मया वाछित उत्तमो वितानो राजसूयाख्यः । 'क्रतुविस्तारयोरमी वितानं त्रिषु तुच्छके' इत्यमरः । तेन तथा याजिना भविष्यते । भावे लट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः अत्र श्लोकदयेन हरेर्यागारसम्बन्धे तत्सम्बन्धोनरतिशयोक्तिः॥ आज्ञां ददाने औद्धत्यं मन्यमान आह- किं विधेयमनया विधीयतां त्वत्प्रताप १)जितयाऽर्थसम्पदा । शाधि शासक ! जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहाऽनुजः ॥११॥ किमिति ॥ हे जगत्त्रयस्य शासक ! हे त्रिभुवनरक्षक ! मां शाधि आदिश, अनया अमुया त्वत्प्रतापजितया अर्थसम्पदा भवत्तेजोऽर्तितया धनसमृद्धया कि विधेयं विधीयतां किं कार्य क्रियताम् । यत् अहं सानुजः सभ्रातृकः भवतस्तव आश्रवोऽस्मि वचनकारी भवामि । यदेव त्वं वक्षि, तदेव निर्विचारं सम्पादयामीत्यर्थः ॥ ११ ॥ किमिति॥अथ वा त्वत्प्रसादेन त्वदनुग्रहेण जिनया जयलब्धया अनयाऽर्थसम्पदा धनसम्पदा किं विधेयं किमनुष्ठेयं, विधीयता त्वयैव क्रियताम् । अहं तु अस्वतन्त्र इत्याह-हे जगत्त्रयस्य शासक ! न तु ममैवेति भावः । मां शाधि । शिक्षवेत्यर्थः । शासोटि 'हुझल्भ्यो हेर्थिः' इति धिरादेशः, 'झलो झलि' इति सकार- लोपः । सहानुजः सन् सानुजः। 'वोपसर्जनस्य' इति सहशब्दस्य सभावविकल्पः । भवतस्तवावो विधेयो- ऽस्मि । 'विधेयो ‘विनयग्राही वचने स्थित आश्रयः' इत्यमरः । अत्राऽनाश्रवस्याश्रवत्वसम्बन्धोकेरति- शयोक्तिरिति दशश्लोक्यामाचार्यमतेऽतिप्रियतराख्यानात्प्रेयोऽलङ्कारः । 'प्रेयः प्रियतराख्यानम्' इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलद्वार इति लक्षयन्ति । स चोत्रीतस्तत्रतत्रोत्रष्यते च ॥१९॥ ! . , (१) त्वत्प्रसाद।

४७६ सन्देहविषौषधिसबैङ्कषायुते- [चतुर्दशः- । . । तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः॥ व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥ १२ ॥ तमिति ॥ अथाऽनन्तरं विष्टरश्रवाः श्रीकृष्णः तं राजानं व्याजहार जगाद । कि- लक्षणं नृपम् इति पूर्वोक्तप्रकारेण वदन्तं ब्रुवाण, किं कुर्वन् व्याजहार समस्तभूभृतः सर्वान् राज्ञः पार्थिवान् निशामयन् , राजकप्रत्यक्षम्। अत्र च वक्ष्यमाणोऽभिप्रायः, 'यस्तवेह सवन' इति । अपरं कि कुर्वन् वपुः दधत् शरीरं बिभ्रत्, किलक्षणं वपुः दशनांशुमण्डलव्याजहार- शबलं दशनांशुमण्डलव्याजन दन्तकिरणच्छद्मना हारेण मुक्तावल्या शबलं कर्बुरम् ॥ १२ ॥ समिति ।। अथाऽनन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः । 'विष्णुारायणः कृष्णो वैकुण्ठो विष्टर- श्रवाः' इत्यमरः । इति एतादृशं तं वदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपान् श्रावयन , दशांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन हारेण मुकाहारेण शबलं शारं वपुर्दधद् व्याजहार व्याहृतवान् । अत्र दशनाशुमण्ड- लस्य व्याजशन्देनाऽसत्यत्वप्रतिपादनादपहवभेदः ॥१२॥ किमुवाचेत्याह- साधिता(१)ऽखिलनृपं महन्महः सम्प्रति स्वनयसम्पदैव ते॥ कि परस्य स गुणः समश्नुते पथ्यवृत्तिरिह(२) यद्यरोगिताम् ॥१३॥ साधितेति ॥ हे राजन् ! ते तव महः राज्यं सम्प्रतीदानी स्वनयसम्पदैव निज- नीत्युत्कर्षेणैव साधिताऽखिलनृपं वशीकृतसकलराजकं वर्तते, न तु मदनुभावेन । किंलक्षणं महः महत् विशालं, चतुरुदधिमालामहीपर्याप्तमित्यर्थः । एतदेव दृष्टान्तेन दृढयति-पथ्य- वृत्तिहिताशी यदि चेत् अरोगितां समश्नुते आरोग्यं विगतरोगत्वं प्राप्नोति, तर्हि स किं परस्य वैद्यस्य गुणः कौशलम् , अपि तु पथ्यवृत्तेरेव गुणः । साधिताः करदीकृताः। महत् राज्यं महद्धि विस्तीर्ण, नयः षाड्गुण्यम् ॥ १३ ॥ यदुनं 'सा विभूति रित्यादि, तरोत्तरमाह- सादितेति ॥ मम्प्रति ते तव महन्महस्तेजः स्वनयसम्पदैव निजनीतिमहिम्नैव सादिताखिलनृपं विजित- समस्तराजकं, न तु मदनुभावादिति भावः । तथा हि-पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोध्यो- गितामारोग्यं समश्नुते यदि प्राप्नोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गन्ता । परस्य भिषजः स गुणः कि, नेत्यर्थः। अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वादिषजो गुणोऽस्तु, हितमेध्याऽशिनो न तथे- न्यर्थः । स्वयमसमर्थः पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्ता लङ्कारः सुगमः ॥ १३ ॥ यदित्युक्तं- 'पूर्वमङ्ग जुहुधी'त्यादि, तद्युक्तमिति दर्शयितुमाह- तत्सुराक्षि भवति स्थिते परः(३) कः क्रतु यजतु राजलक्षणम् ॥ उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४ ॥ तदिति ॥ हे राजन् ! यतःस्वनय उक्तः, तस्मात् भवति त्वयि सुराज्ञि महाराजे स्थिते सन्निहिते सति कः परोऽन्यः राजलक्षणं क्रतुं राजसूर्य यज्ञं यजतु यजताम् । अपि तु नको. ऽपि । त्वमेवात्र योग्यः, नाऽपर इत्यर्थः । एतदेवाऽऽक्षेपेण पूर्वदृष्टान्तेन द्रढयति-भुवः भूमेः उद्धृतौ उद्धरणे श्रीवराहमपहाय आदिवराह वर्जयित्वा कस्य अन्यस्य योग्यता भवतु सम्भावना सम्पद्यताम् , इति भङ्गयाऽनुज्ञानदानम् ॥ १४ ॥ - . (१) सादिता। (२) रपि। (३) पुरः।

सर्गः ।] शिशुपालवधे। ४७७ . - यदुक्तं 'पूर्वमङ्ग जुहुधि त्वमेवेति, तत्राह- सदिति ॥ तत्तस्मादुकरीत्या, तवैवाऽधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारमणादिगुणयोगाच्छुद्ध- क्षत्रिये । 'न पूजनात्' इति समासाम्नप्रतिषेधः। भवति त्वयि पुरः स्थिते मति कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं तुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । 'राजा राजसूयेन यजत' इति राजाधिकारनाश्रवणादाजा त्वमेवेति भावः । सम्भावनायां लोट् । अत्र दृष्टान्त- माह-भुव उद्धृती भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्य भवति । न कस्यापीत्यर्थः। योगाय प्रभवतीति योग्यः। 'योगायच्च' इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणाद् दृष्टान्तालङ्कारः ॥ १४ ॥ यञ्चोक्तम्-'इष्टिमभिवाच्छता मया त्वं समीरण इव प्रतीक्षितः', इत्युद्दिश्याह- शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुझ्व कामतः ।। त्वत्प्रयोजनधनं धनञ्जयादन्य एष इति मां च माऽवगाः ॥ १५॥ शासनेऽपीति ॥ हे राजन् ! त्वं कामतः यथेष्टं कृत्यवस्तुषु कार्यशरीरेषु कर्तव्यपदा- थेषु मां नियुश्व व्यापारय । देहि अनुज्ञां किं कर्म क्रियतामित्यर्थः। किंलक्षणं मां गुरुणि महति कार्य शासने आदेशे व्यवस्थितं वर्तमानम् । यतो गुरुण्यधुना साधुशासने- ऽप्याज्ञायामपि स्थितोऽहम् । अपरं किलक्षणं मां त्वत्प्रयोजनधनं त्वत्प्रयोजनं भवत्कार्यमेव धनं रक्षणीयत्वेन द्रविणं यस्य तः तथा तम् । कि बहुना धनञ्जयात् अर्जुनात् एषः कृष्णः अन्यः इतरः इति त्वं मां माऽवगाः मा ज्ञासीः । यथाऽर्जुनस्तव कनीयान् निदेशे वर्तते, तथाऽहमपीत्यर्थः ॥ १५ ॥ यचोक 'सम्भृतोपकरणेने त्यादिना, तत्राह- शासनेऽपीति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम् । त्वदाज्ञाकरमित्यर्थः । मां कृत्य- वस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुक्ष प्रेषय । अनुचितमेतत्रियन्तरीति महाचं वारयात्राह-त्वदि- ति । त्वत्प्रयोजनमेव धनं यस्य तम् । त्वदर्थेकनिष्ठमित्यर्थः। मां धनानि जयतीति धनञ्जयोऽर्जुनः । 'संज्ञा- यां भृतवृजिधारिमहितपिदमः' इति खश्प्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण इति मां माऽवगाः मावेहि च । नियोगसमुच्चयार्थश्वकारः । अवपूर्वादियो ‘माडि लुङ्,' 'इणो गा लुङि' इति गादेशः न माग्योगे' इत्यप्रतिषेधः । उभयास्तकार्यनिबन्धनानारायणात्मत्वाच्च नाऽऽपयोर्भेदप्रतिपत्तिः कार्येत्यर्थः। नथा च तद्वदेव नियोगेऽप्यसतोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोतुहेतुमद्रावाद्वाक्यार्थ हेतुकं काव्यलिङ्गमलकारः । स च कृष्णयोर्भेदाभेदरूपातिशयोक्किमूल इत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥१५॥ यच्चोक्तं-'वीतविघ्नमनघेने त्यादि, तत्सत्यमिति वक्तुमाह- यस्तवेह सवने न भूपतिः कर्म कर्मकरवत् करिष्यति ।। तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः ॥ २६ ॥ य इति ॥ हे राजन् ! यः भूपतिः राजा तव भवतः इह सबने अस्मिन् यज्ञे कर्मकर- वत् भूतक हव कर्म न करिष्यति व्यापारं न विधास्यति तस्य भूपतेः वपुः शरीरं कर्मभूतम् एषोऽयं सुदर्शनः चक्रं कबन्धतां नेष्यति अपमूर्धकलेवरत्वं प्रापयिष्यति । शिरश्छेत्स्यती- त्यर्थः । किंलक्षणः सुदर्शनः दुष्टनिग्रहणेन जगतां बन्धुः विश्वेषां सहायः ॥ १६ ॥ यच्चोतं 'वीतविन्न'मित्यादि, तपाभयदान प्रतिजानीते- य इति ॥ यो भूपतिः तवेहाऽस्मिन्मयने यज्ञे । 'सवनं यजने स्नाने सोमे निर्दलनेपिच' इति विश्वः। कर्मकरवमृत्यवत् कर्म न करिष्यति, तस्य भूपतेर्वपुः जगना बन्धुः । सेमरत्वादिति भावः । एष सुदर्शनो - .

४७८ सन्देहविपौषधिसर्वपायुते- [चतुर्दश:- मचक्रम् । 'शले लक्ष्मीपतेः पाञजन्यचक्र सुदर्शनम्' इत्यमरः । कबन्धत शिरःशून्यता नेष्यति प्रापयिष्यति । छेत्स्यामि चक्रेणाऽस्य शिर इत्यर्थः । 'कबन्ध सलिले प्रोक्तमपमूर्धकलेवरे' इति विश्वः। अतो विनशङ्का न कार्येति भावः । अत्र सुदर्शने बन्धुत्वरूपणादूपकालद्वारः ॥ १६ ॥ इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरे(१) मम ।। सर्वसम्पदिति शौरिमुक्तवानुहन्मुदमुदस्थित क्रतौ ॥ १७ ॥ इतीति॥ अथाऽनन्तरं नृपो राजा युधिष्ठिरः ऋतौ राजसूये निमित्ते उदस्थित उदति- ष्ठत उद्यम चके। किंलक्षणो नृपः शौरि भगवन्तम् हतीत्यमुक्तवान् भाषमाणः, इतौति कि- हे कृष्ण! त्वयि श्रेयसि शुभहेतौ स्थिरे हढे स्थितवति सति वर्तमाने सति मम सर्वसम्पत् अखिलाः समृद्धयः । किलक्षणं शौरिम् इति उक्तप्रकारेण उदीरितगिरं प्रोक्तवाचम् , अत- एव राजा किं कुर्वन् मुदमुद्वहन् हर्ष बिभ्राणः प्रीयमाणः ॥ १७ ॥ इतीति । इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरि नृतो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थित- वति । त्वयि खेमकरे सतीत्यर्थः । मम सर्वसम्पत् स्थिरेत्युक्तवान् मुदमुद्वहन् महायसम्पत्त्या सन्तुष्यन् सन् तावुदस्थित । क्रतुं कर्तुमुद्युकवानित्यर्थः । तिष्ठते कि 'उदोऽर्ध्वकर्मणि' इत्यादिनात्मनेपदं 'स्थाध्योरिच' इति सिचः कित्त्वादिकारः । 'हस्वादङ्गात्' इति सकारलोपः ॥ १७ ॥ आननेन शशिनः कलां दधद् दर्शनक्षपित(२)कामविभ्रमः ।। आप्लुतः स विमलैजलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥ प्राननेनेति ॥ अथानन्तरं स राजा अष्टमी अष्टमूर्तिधरमूर्तिः अभवत् क्षितिजलपव-- नहुताशनाऽऽकाशसोमसूर्य यजमानाख्याः अष्टौ मूर्तीः देहान् धारयति बिभर्तीति अष्टमूर्ति- धरो महादेवः, तस्य सम्बन्धिनी मूर्तिरसौ राजा अभवत् । कासावित्याह-अष्टमी यजमा- नाख्या।एतेन राजा यजमानोऽभवदिति वाक्यार्थः । यजमानग्रहणमेव कस्मान कृतं, श्लेषा- र्थ देवस्य सर्वव्यापित्वख्यापनार्थम् । छन्दतश्च वाचां वृत्तिः(१) । किंलक्षणो नृपः आननेन मुखेन शशिनः चन्द्रस्य कलां स्वभावं दधत् बिभ्रत् । एतेन नोपवासग्लानिः तेजस्वित्वं चोक्तम् । अपरं किंलक्षणो नृपः दर्शनक्षपितकामविभ्रमः दर्शनेन ईक्षणमात्रेण क्षपितो निव- तितः कामस्याऽभिलाषस्य याच्याया विभ्रमो विलसितं विकारो येन सः तथा । दृष्टिमात्रेण धनं दत्त्वा परिपूरिताऽऽशा अर्थिनो येन कृता इत्यर्थः । अपरं किलक्षणो नृपः विमलै लैः पुण्यैस्तोयैः आप्लुतः स्नातः । भगवान् श्रीरुद्रोऽपि शशिकलावतंसः दग्ध- कन्दर्पशरीरः गङ्गाजलोक्षितमूर्धजश्च ॥ १८ ॥ अथ पञ्चविंशनिश्लोकैरनेकपा क्रतुं वर्णयति- प्राननेनेति ॥ आननेन शशिनः कलामिव कलां कान्ति दधत् । निदर्शनालङ्कारः । शशिमुख इत्य- र्थः । अन्यत्र शशिखण्डधरेत्यर्थः । दर्शनेन वायती नाशिती कामविप्र है। कामक्रोधी येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः। विमलेर्जलैराप्लुतः स्नातः । 'नया स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्का । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । 'तस्य पूरणे डट्' इति डट् प्रत्ययः, 'नान्तादसंख्यादेर्मट्' इति मडागमः । 'टिहाऽणञ्-' इत्यादिना डीम् । अष्टाना मूर्तीनी समाहारो- इष्टमूर्तिः। तद्धितार्थ-' इत्यादिना समाहारे द्विगुरेकवचनं नपुसकं च । तस्य धरो धारयिताष्टमूर्तिधरः शिवः तस्याऽष्टमी मूर्तिरभूत् । सोमदीक्षितोभूदित्यर्थः । तस्याप्यागमे शिवमूर्तित्वप्रसिद्धः । अत्र प्रकृता- ऽप्रकृतयो पशिवयोः शिवशम्दमात्रसाधर्म्यात् श्लेषालङ्कारः ॥ १८ ॥ (१) स्थिरा। (२)शयितकामविग्रहः । - .. . ." ..

सर्गः1] शिशुपालवधे। ४७६ । . - तस्य साक्ष्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ॥ कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथत्विजि ॥ १९ ॥ तस्येति ॥ तस्य राज्ञो युधिष्ठिरस्य यागे कर्तृता अभवत् कर्तुर्भावो बभूव । ऋत्विग- इत्यस्य शब्दस्याऽसौ वाच्योऽभूदित्यर्थः । कदाचित् स्वयं क्रियाः कुर्यात् , तदवश्य- मेव भवतीत्याह-किलक्षणस्य तस्य आत्मना स्वयं क्रियाः कर्माणि अकुर्वतः अनिर्वर्तयतः । कदा कर्तृताऽभूदित्याह-ऋत्विजि याजके करणे यथा बुद्धितुल्ये वृत्तिभाजि वेतनभृति मूल्य- क्रीते । ऋत्विजि कर्माणि कुर्वतीत्याह, कदाचित् स्वयं न कुरुते तत्कथमन्यसात् क्रियते । तस्य कर्तृत्वमाह-कस्मात् तदुपलम्भतः तासां क्रियाणामुपलम्भतः उपलम्भात् दर्शनात् धनक्रीतवत् ऋत्विनिर्वर्तितव्यापाराणां दर्शनात् । फलभोक्तरि च कर्तृत्वम् । अत एवं सायपुरुषेण समीक्ष्योक्तेन आत्मना तुल्यतां साम्यं बिभ्रतः बिभ्राणस्य, किंलक्षणे बुद्धौ वृत्तिभाजिसव्यापारे सुखदुः :खभोक्तरि। निष्क्रियस्याऽपि पुरुषस्य कर्तृत्वं कुतः, तासां बुद्धि- कृतानां क्रियाणाम् उपलम्भात् दर्शनात् । प्रकृतिजनितानां क्रियाणां द्रष्टा सान्यपुरुष उदा. सीनः । अतश्च बुद्धौ बन्धमोक्षाऽनुभावात् आत्मा बद्धो मुक्त इत्यभिधीयते । तदुक्तं पूर्वम्- विजयस्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धोग इवात्मनि ॥ याजकाः कर्माणि अकुर्वन्, नृपतिस्तु द्रष्टा अभवदित्यत्र वाक्यार्थः ॥ १९॥ तस्येति ॥ क्रियाः कर्माणि होमादीनि, अन्यत्र पुण्यपापकर्माणि स्वयमकुर्वतोऽननुतिष्ठतः, अन्यत्र उदासीनस्य । अत एव.माझ्यपुरुषेण सायशासोनेनात्मना तुल्यता बिभ्रतस्तस्य राज्ञः करणेऽन्तःकरणे यथा । बुद्धावियेत्यर्थः । ऋता यजतीति ऋत्विग्याजकः । 'ऋत्विजो याजकाच ते' इत्यमरः । 'ऋत्विग्दधृ. ग्-' इति निपात: । तस्मिन्वृत्तिभाजि । होमादिव्यापारं कुर्वतीत्यर्थः । अन्यत्र पुण्यपापकारिणि मति सदुपलम्भतः तस्य ऋत्विग्वृत्तेरुपलम्भान्ममेदमित्यनुसन्धानादेव कर्तृता क्रियाऽनुष्ठातृत्वमभवत् । तथैव विधिमामादिति भावः । अत एगह भगवान् जैमिनिः-'अन्या वा स्यात्परिक्रिया स्नानान्सत्यध्यात्मने- पदे' इति । अन्यत्र तदुपलम्भतस्तस्या बुद्धिवृनेरुपलम्भात्साक्षित्वेनाम्नुसन्धानादेव कर्तृत्वमभवत् । स्वयं क्रियाभोगरहितोऽध्यात्मा बुद्धः सन्निधानादकस्कटिकवत्तथा भवतीत्यर्थः । उपमालद्वारः ॥ १९ ॥ अथ ता एव क्रिया आह- शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।। याज्यया यजनधर्मिणो(१)ऽत्यजन् द्रव्य जातमपदिश्य देवताम् ॥ २० ॥ शब्दितामिति ॥ अथाऽनन्तरं यजनर्मिणो यजनकर्माणो याजकाः द्रव्यजातं पुरो- डाशादिकम् अत्यजन् जुहुवुः; किं कृत्वा देवतामाज्यादिस्वामिनीम् अपदिश्य अभिस- न्धाय । किलक्षणां देवताम् अनुवाक्यया आह्वानमन्त्रेण शब्दिताम् उपहूतां, कथम् अनप- शब्दमनसाधुशब्दम् । यज्ञे हि कर्मणि अपशब्दोच्चारणात् महान् प्रत्यवायः । उक्तं च- मन्त्री होनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ अपरं कथम् उच्चकैः उच्चैः तारं, वाक्येनेत्यर्थः । तद्यथा-इन्द्र ! आगच्छ, हरे ! (१) कर्मिणो०।

४८.
सन्देहविषौषधिसर्वकषायुते-
[चतुर्दशः-
..
आगच्छ इत्यादि । किंलक्षणा यजनधर्मिणः वाक्यलक्षणविदः मीमांसकाः वाक्यार्थविचार-
क्षमाः । केन द्रव्यजातमत्यजनित्याह-कया याज्यया हविःप्रक्षेपणमन्त्रेण । आह्वानमन्त्र-
स्त्वनुवाक्या । यजनं यजनमन्त्रस्तदेव धर्मः स विद्यते येषां ते यजनधर्मिणः । सर्व.
एव होत्रध्वर्युप्रभृतयः ऋत्विजः । धर्मशीलवर्णान्तादिनिः । तत्र होता याज्याऽनुवाक्ये
पठति, यजमानो देवतामुद्दिशति, अध्वर्युराज्यमनौ प्रक्षिपति ॥ २० ॥
शब्दितामिति ॥ बाक्यलक्षणविदो मीमांसाशामज्ञाः यजनकर्मिणो यजनव्यापारवन्त ऋत्विजः ।
वाह्यादित्वादिनिप्रत्ययः। अनूच्यत इत्यनुवाक्या तयाऽनुवाक्यया । 'अनूच्यया याज्यया जुहोति' इति श्रुतेः ।
सा च प्रशास्तृपाठया, तदभावे होतृपाठचा देवताहानी ऋक् । वचः कहलायॆत , 'चजोः कुपिण्यतो.'
इति कुत्वम् । शब्दसंज्ञात्वात् 'वचोऽशन्दसंज्ञायाम्' इति न प्रतिषेधः। उच्चकैः अनपशन्दं यथा तथः
शन्दिताम् । मन्त्रवर्णेनोचैःप्रकाशितामित्यर्थः । 'उच्चैः ऋचा क्रियत' इति विधानात् । 'शब्द संशब्दने' इति
धातोश्चौरादिकात्कर्मणि कः। देवतामिन्द्रादिकामपदिश्य व्यजातं पशुपुरोडाशादि हधिःसमूहम् इज्यतेऽनयेति
याज्या सा च होतृपाठया यागाइसाधनमृक् । 'याज्यया जुहोति' इति श्रुतेः। पूर्ववत् 'ऋहलोण्यत्' इति
करणे ण्यत । 'यजयाचरुचप्रवचर्चश्च' इति कुत्वप्रतिषेधः । तया अत्यजन् । अयजावेत्यर्थः । देवतोद्देशन
व्यत्यागो याग इति लक्षणात् । स च त्यागः सामान्यत 'आहवनीये जुहोतीति तदाहवनीय' इति सामान्य-
न्यायाविधानादन्यत्रेति ध्येयम् । द्रव्यत्यागस्याऽवयुमात्रकर्तृत्वेऽपि याज्यापुरोनुवाक्याद्वारा होतृप्रशामोरपि
साहित्यादत्यजत्रितिबहुन्वव्यपदेशः । तथा च मैत्रावरुणेन पुरोऽनुवाक्यायामनूकायां तत्प्रकाशितदेवतो-
दशेनाऽवयुझेतृपठितयाज्याऽन्ते वषट्कारेण सोमादिकं हविरग्नावत्याक्षीदित्यर्थः। स्वभावोक्तिरलङ्कारः।।२०।।
सप्तभेदकरकल्पितस्वर साम सामविदसङ्गमुजगौ ॥
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ २१ ॥
सप्तभेदेति ॥ तत्र यज्ञे सामवित् उद्गाता छन्दोगः असङ्गमनवरतं साम उज्जगौ
साम गीतविशेषमगासीत् । सामवेदो हि गीयते । किंलक्षणं साम सप्तभेदकरकल्पितस्वरं
पड्जादिरूपेण सप्त भेदाः करे पाणौ कल्पिताः पर्वभागेन रचिताः स्वरा उदात्तादयो
यत्र तत्, अपरं तत्र सूरयश्च बहुश्रुताश्च पुण्यं पवित्रम् ऋग्यजुषम् अध्यगीषत ।
रक् च यजूंषि च ऋग्यजुषम् । सर्वेषां विशेषणमाह-किलक्षणाः सूरयः सूनृतगिरः
सूनृताः प्रियाः गिरो वाचो येषां ते तथा सामर्यजुर्विदस्तत्र हि शाखाभेदेन
द्विजास्तिष्ठन्ति । पादबद्धो मन्त्रः ऋक , अपादबद्धो मन्त्रो यजुः, सामानि वाक्य-
विशेषस्था गीतयः ॥ २१ ॥
सप्तभेदेति ॥ तत्र क्रती, सामानि वेत्तीति सामाविदुद्राता सप्तभेदं सप्तप्रकारं यथा तथा करेण हस्तेन
कल्पिता: सम्पादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिव्यञ्जितसतस्वरमित्यर्थः ।
'निषादर्षभगान्धारषड्जमध्यमधैवताः।
पञ्चमत्यमी सप्त-
इत्यमरः । यता स्वराः कष्टादयः। कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः । साम बृहद्रथन्तरादिकम्
असङ्गमस्खलितमुज्जगावुदगायत । किञ्च सूनृतगिरः प्रियसत्यवाचः । 'प्रियं सत्यं च सूनृतम्' इत्य-
मरः । सूरयो विद्वांसो होत्रम्वादयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तव अग्यजुषम् 'अग्निमीळे'-
'इथे' इत्यदिकम् । द्वन्द्वकवद्भावः, 'अचतुर-' इत्यादिना द्वन्द्व समासान्तनिपातः । अध्यगीषत । इको लुडि
'विभाषा लुल्लकोः' इति गालादेशपक्षे 'गाकुटादि-' इति सिचः कित्त्वे 'घुमा-' इत्यादिना ईत्वम् । अत्र
सामसामेत्यादी वृत्त्यनुप्रासभेदो द्रष्टव्यः ॥ २१ ॥

सर्गः।] शिशुपालवधे। ४८१ .. बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ॥ शुष्मणि प्रणयनाऽभि(१)संस्कृते तैहवींषि जुहवाम्बभूविरे ॥ २२ ॥ बद्धति ॥ तैर्याजकैः शुष्मणि अग्नौ आहवनीयाख्ये हवींषि आज्यादीनि जुहवा- म्बभूविरे हुतानि । किलक्षणानि हवींषि यजमानजायया द्रौपद्या वीक्षितानि दृष्टानि । एवंविधो ह्येप विधिः । किलक्षणया यजमानजायया बद्धदर्भमयकाच्चिदामया बद्धं नई दर्भमयं प्रचुरकुश काञ्चिदाम मेखलागुणो यया सा तथा तया, किंलक्षणे शुष्मणि प्रणय- नाऽभिसंस्कृते प्रणयेन संस्कारविशेषेण अभिसंस्कृतः कृतसंस्कारः तस्मिन् । गार्हपत्या- दुद्धत्य प्राचीरं नीत्वा उत्तरवेद्यां निधानं प्रणयनम् ॥ २२ ॥ बद्धति ॥ बद्धं दर्भमयं दर्भविकारं काञ्चिदाम रशनागुणा यस्याम्तस्याः। आग्नीप्रमनद्धयेत्यर्थः । 'आशासाना सौमनसम्' इत्युत्तरण 'गार्हपत्यमूर्भजुमासीनां पत्नी संनद्य तिष्ठन्ती वाचयतीत्येके, मौजेन दाम्राऽन्यतरतः पाशेन योकण च' इत्यापस्तम्बवचनात् । दामेति 'डाबुभाभ्यामन्यतरस्याम्' इति डाप्- प्रत्ययः, यजमानो यष्टा । 'पृड्यजोः शानन्' इति यजेः शानन्प्रत्ययः । तस्य जायया पल्या बोक्षितानि दृष्टानि हवींष्याच्यादीनि । 'पन्यवेक्षते' इत्याज्यस्य पत्यवेक्षणसंस्कारविधानादर्थप्रधानत्वात्मर्वेषामाज्या- दीनां प्राणभृन्न्यायन वाक्षितत्वव्यपदेशः । प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रणायतने सादनम् । आदि- शन्दात्परिस्तरणपरिधानसमार्गादिसंस्कारमङ्ग्रहः । तः प्रणयनादिभिः संस्कृते आहितातिशये शुष्मण्यग्नौ । 'बर्हिः शुष्मा कृष्णवर्मा' इत्यमरः। अत्राप्याहवनीय जुहातीति हूयमानेऽध्वर्युः कती । जुहूपात्रव्यापृतया स्रवाहवनीयं प्रधानमिति न्यायवचनात् । तै ऋत्विग्भिः जुहवाम्बभूविरे । जुहोतेः कर्मणि लिट भीती- अहुवाम्-' इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्याऽनुपादोनन विषयिणः काञ्चीगुणस्यैव तदभे. देन निर्देशानेदेऽभेदम्पातिशयोकेरनुप्रासेन सङ्करः ॥ २२ ॥ नाअसा निगदित(२) विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।। तत्र कर्मसु(३) विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः ॥ २३ ॥ नाऽञ्जसेति ॥ यत्र यज्ञे प्रयोगिणः प्रयोगज्ञाः वैयाकरणाः ऋत्विजः कर्मसु निर्वा- पादिकासु क्रियासु मन्त्रं वेदवाक्यं विपर्यणीनमन् विपरीणमतः विपर्ययेण पेठुः । किलक्षणं मन्त्रं यत आगमे वेदे निखिलाभिः सर्वाभिः विभक्तिभिः सुबादिभिः व्यक्तिभिश्च लिङगै: पुमादिभिः अञ्जसा तत्त्वतः न निगदितं न निश्चयीकृतम् । व्यक्तिः स्त्रोपुंयोगित्वमेव । कारणं शब्दशास्त्रे किलेदमुक्तम्-'रक्षोहागमलध्वसन्देहाः प्रयोजनामिति । सम्बन्धादेकस्मा. दपरस्याऽनुमानमूहः । उत्प्रेक्ष्यते-आगमे किल न सर्वैः वचनैः नापि सर्लिङ्गैः मन्त्रा- उक्ताः, तेन यज्ञगतेन यथायथं विपरिणाम्याः । यथा वैयाकरणो विपरिणमितुं शक्नोति, इति उहाथं व्याकरणमध्येयम् । तद्यथा-ये मन्त्रास्तु अग्नये त्वा जुष्टं निर्वपामीति । सूर्यस्य तु नास्ति, चोदना च विद्यते । प्रकृतिवत्तु विकृतिः कर्तव्येति सम्पाद्यते । सूर्याय त्वा जुष्टं निर्वपामीति । तथाऽपां मन्त्रो देवीरापः ॥ २३ ॥ नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्माण । अन्यथाश्रुतस्य शब्दस्या यथालिङ्गवचनादिभेदेन विपरिण- मनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाशि- विभातिभिः प्रथमादिभिः सुन्विभक्तिमिम्तिविभक्तिभिश्च । विभाक्त ग्रहणं वचनोपलक्षणम । व्यक्तिभिर्ति- चाऽञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जमा निगदितुम् । 'अञ्जस उपसंख्यानम्' इति अलुक, नार्थस्य नशब्दस्य सुप्सुपेति समामः। अथ वा अन्नसेति तृतीयान्तप्रतिरूपकमव्ययं तत्वार्थ (१) प्रणयनादि। (२) निगदितुं। (३) कर्माण । ४१ शि०० ४८२ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः :- 'अन्नसा तत्त्वतूर्णयोः' इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः। अस्मिन्पक्षे नैकपधनियमः। तं मन्त्र कर्माङ्गदेवतारूपवाक्यं विषयणीनमन् विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विपरिपूर्वकाण्ण्यन्तात् नमधातोर्खर । सन्वदावे 'मन्यतः' इत्यभ्यासस्येत्वम् । 'दीर्घो लघोः' इति दीर्घः । 'उपसर्गादसमासे- पि गोपदेशस्य' इति णत्वम् । अत्र नाजसेति पाठविशेषणगत्या मन्त्रविपरिणमनहतुत्वात्पदार्थहेतुकं काव्यालड्रम् ॥ २३ ॥ असन्देहार्थ व्याकरणमध्येयमित्युक्तम् , तद्दर्शयितुमाह- संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ॥ शब्दशासनविदः समासयोविग्रहं व्यवससुः स्वरेण ते ॥ २४ ॥ संशयायेति ॥ शब्दशासनविदः समासयोः तत्पुरुषबहुव्रीह्योः विग्रहं वाक्यं स्वरेण अन्तोदात्तादिना व्यवसहः निश्चिक्युः । शब्दाः शिष्यन्ते संस्क्रियन्तेऽनेनेति शब्द- शासन, शब्दशासनं शब्दशास्त्र व्याकरणं तद्विदन्तीति तद्विदो वैयाकरणाः ते । किलक्षणयोः समासयोः इति भ्रान्तिकारणमाह-संशयाय सन्देहाय सरूपतां दधतोः सारूप्यं बिभ्रतोः उभयकोटिस्पृक् विज्ञानं संशयः । कदाचिदर्थभेदः स्यात्तन्मा भूनिश्चय इत्याह- क्रियामनुष्टानं प्रति दूरमत्यर्थ भिन्नं विलक्षणं फलं साध्यं ययोस्तथा तयोः । तद्यथा- 'स्थूलपृषतीमालभेते ति याजकाः पठन्ति । तत्र संशयः -स्थूला चासौ पृषतीति चेति कर्मधारयः, उत स्थूलानि पृषन्ति रोमाणि यस्या इति बहुव्रीहिः । उभयत्र हि सदृशं रूपं, क्रियायां फलभेदश्च । कर्मधारये हि पीवराया मृग्या आलभनं, बहुव्रीहौ सर्वस्या गवादेरिति संशयः । एवं विधे सन्देहे वैयाकरणाः स्वरात् समासं व्यवसमः ॥ २४ ॥ संशयायोति ॥ संशयाय सन्देहोत्पादनाय सरूपता सादृश्यं दधतोः । उभयत्र रूपसाम्यादयं समासो- ऽयं समासो वेति संशयं कुर्वतोरित्यर्थः। यथेन्द्रशत्ररित्यपेन्द्रस्य शत्रुःशातयिता हन्तेति षष्ठीतत्पुरुषः। उतेन्द्रः शत्रुर्यस्यति बहुत्री हरिति सारू प्यसंशयः । तत्राऽनियमे दोषमाह-क्रिया प्रकृतं कर्म तां प्रति । तामुदि- श्येत्यर्थः । दूरभित्रमत्यन्तविलक्षणं फलं ययोरभित्रफलयोस्तयोरर्थभेदात्कर्मणः फलभेदं प्रतिपादयतो- रित्यर्थः । यथेन्द्रशत्रुरित्यत्रैव षष्ठीसमासस्येष्टत्वे वृत्रस्येन्द्रहन्तृत्वम् । बहुवीही तु तस्येन्द्रेण वध्यावमिति फलभेद इति भावः । समासयोस्वविधयोः प्रसक्तयोः सतोरित्यर्थः । लक्षणे सप्तमी । शब्दशासनविदः शब्दशामज्ञाः । अन्येषामनधिकारादिति भावः । ते प्रकृता ऋत्विजः स्वरेण तत्तत्समासावीहतस्वरवशेन विग्नहं वाक्येन समर्थाभिधानं व्यवससुनिश्चिक्युः । अस्मिन्स्वरेऽयं समासः तत्रायं विग्रह इति अन्यतरपक्षावधारणं चक्रुः । यथेन्द्रशत्रुरित्यत्रैव पूर्वपदे उदात्तत्वेन बहुवी हिस्वरेण बहुव्रीहि समासनिश्चयः । इन्द्रः शत्रुर्यस्येति विग्रहावधारणमित्यर्थः । व्यवपूर्वस्य स्यतलिटि 'आदेच- इत्यावे निर्वचनादिकायें झरुमादेशः । अत्र संशयजनकत्वफले भेदप्रतिपादकपदार्थयोर्विशेषणगत्या 'सन्दिग्धे न्यायः प्रवर्तत' इति न्यायेन विग्रहस्य व्यवसायहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ २४ ॥ लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ॥ प्राज्यमाज्यमसद्वषतं निर्मलीमसमलीढ पावकः ॥ २५ ॥ लोलेति ॥ पावकोऽग्निः आज्यं घृतम् अलीढ अलिक्षत् । किलक्षणमाज्यं प्राज्य अपरं किलक्षणमाज्यं वषट्कृतं पुनःपुनः मन्त्रैर्हतम् , अपरं किलक्षणं निर्मलीमर्स निर्मलं, किलक्षणः पावकः लसता स्फुरता लोलहेतिरसनाशतप्रभामण्डलेन हसन्निव लोला- अटुला हेतयः ज्वालाः ता एव रसनाः जिह्वाः तच्छतानां तत्सहस्राणां प्रभामण्डलेन दीसिचक्रेण इसन्निव तृतियोमात् हृष्यमाण इव ॥ २५ ॥ .. भाव- . १ सर्गः । शिशुपालवधे। ४८३ .. लोलेति ॥ लसता प्रकाशमानेन लोलावला हेतयो ज्याला एव रसना रसाज्ञाः। 'वहईयोजीलकीना- बहितिः शिखा नियाम् ' इति, 'रसज्ञा रसनः जिह्वा' इति चाऽमरः। तासां शतानि तेषां प्रभामण्डलेन इसनिवेति रूपकसङ्कीर्णोत्प्रेक्षा । पावको वह्निः वषट्कृतं वषट्कारेण त्यक्तम् । हुनमित्यर्थः । 'हुतं त्रिषु वषट्कृतम्' इत्यमरः । निर्मलीमसममलिनं । शुद्धमित्यर्थः । 'मलीमसं तु मलेनम्' इत्यमरः । ज्योत्स्ना- तमिला-' इत्यादिना मलिनशन्दान्मत्वर्थे ईमसच्यत्ययान्तो निपातः । प्राज्यं प्रभूनमाज्यमसदलीढ आस्वादयत् । लिहेः स्वरितत्त्वाल्लङि कृते 'हो ढः' इति ढवं 'झपस्तथोऽधः' इति धत्वेष्टुत्वे ठूलोपदी? ॥ तत्र मन्त्रपवितं हविः क्रतावनतो न वपुरेव केवलम् । वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ २६ ॥ तत्रेति ॥ तत्र यज्ञे हविर्भुजोज्ने मन्त्रावितं मन्त्रपूर्त हविः सान्नाय्यम् अश्नतो भुञ्जानस्य सतः न केवलं वपुरेव शरीरमेव उज्ज्वलमभूत् स्निग्धं बभूव, यावन्नाम च उज्ज्वलमभूत् । हवि गितिनामा, नाम्नोऽप्यौज्ज्वल्यम् अर्थानुमानात् । किल हवींषि मुक्त इति हविर्भुक् । किंलक्षणं वपुः अतिस्फुटां प्रकटतरां वर्णसम्पदम् उज्ज्वलत्वस्य प्रकर्ष दधत् बिभ्रत् । नामापि वर्णानामक्षराणां सम्पद बाहुल्यम् अतिस्फुटामसन्दिग्धां धत्ते । हविर्भुग इत्यत्र बहवो वर्णाः ॥ २६ ॥ तत्रेति ॥ तत्र क्रती मन्त्रैरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । 'पूङश्व' इति विक- स्पादिडागमः । हविराज्यादिकमश्नतो भुञानस्य । अशे जनाल्लटः शत्रादेशः। वोषि भुङ्क इति हविर्भुजोऽग्नेः सम्बन्धि । अतिस्फुटामतिविकसितां वर्णप्तम्पदं रूपसमृद्धि दधत् केवलमेकम् । 'केवलं खेककृत्स्नयोः' इति शाश्वतः। वपुरेवोज्ज्वलमोजिष्टं नाऽभूत् । किन्तु अतिस्फुटामतिव्यका वर्णसम्पद - मक्षरसमुदायं दधत् । 'वर्णो द्विजादो शुक्लादी स्तुतौ वर्ण तु चाक्षरे' इत्यमरः । नाम हविभुगिति नामधेयं चोज्ज्वलं रूढमभूत् । निरन्तरं हविर्भोजनादपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः। अत्र भोजनस्वाभत- इति विशेषणगत्या हेतुत्वात्पदार्थ हेतुकं काव्यलिङ्गम् ॥ २६ ॥ स्पर्शमुष्णमुचितं दधच्छिखी यहदाह हविरुद्भुतं न तत् ॥ गन्धतोऽपि हुतव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ २७॥ स्पर्शमिति ॥ शिखी वह्निः उचितं सहजम् उष्णं तीक्ष्णं स्पर्श स्पर्शनं दधत् वहन् यद् हविः पुरोडाशादि ददाह दहति स्म, न तत् अद्भुत न तदाश्चर्यम् । यतः हुतहव्य- सम्भवात् वषटकृतसान्नाय्योत्थात् गन्धतोऽपि गन्धेनाऽपि देहिनां प्राणवताम् अहसामो पापानां पूगम् अदहत् अधाक्षीत् । हविर्गन्धग्रहणेन हि पापं क्षीयते । अतश्च यो गन्धेना- ऽपि दहति, सतीक्ष्मस्पर्शन दहतीति किं चित्रम् । ये तु एवं व्याचक्षते-शिखी हविर्यत् ददाह न तदद्भुतम् , यत् उष्णं स्पर्श दधत्। इदं तु अद्भुतं, यत् गन्धेनाऽपि अंहसा संहति- मदहत् इति । तेषां साध्याहारोऽयं श्लोकः स्यात् ॥ २७ ॥ स्पर्शमिति ।। उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्श स्पर्श नेन्द्रियमाप्राह्यं गुणविशेषं दधदधानः शिखी शिखावानग्निः । बीमादित्वादिनिः । हविराज्यादिकं ददाह भस्मांचकारेति यत् तदद्भुतं न । उग- स्पर्शसहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तः स्वाभाषिकत्वादिति भावः । कुतः-हुनहत्यसम्भवाद् हुनहवनीय- हविर्जन्यानन्धतो गन्धादपि । साकामिकगुगादपीत्यर्थः। दोहेनां गन्धं जिननां प्राणिनामित्यर्थः। अहसा पापानामोघमपीति भावः । अदहद्भस्मीकृतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाचर्यमिति भावः । बोष्णस्पर्शधारणस्य शिखिविशेषणभावेनास्य हविर्दाहहेतुत्वात्पदार्थ हेतुकं तावदेकं काव्यलिङ्गम् । उत्तराधे. त्वंहसां भस्मीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाविरोधाभासे लक्ष्यस्य पाच्याभदाध्यव- ..

४८४ सन्देहविपौषधिसर्वकषायुते- [ चतुर्दशः- सायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूतपूर्वोक्तपदार्थ हेतुककाव्यलिङ्गसह- कृतो हविर्दहनाद्भुतत्वहेतुरिति वाक्यार्थ हेतुकं काव्यलिङ्गमन्यः प्राधान्येन सङ्कीर्यते ॥ २७ ॥ उन्नमन् सपदि धूम्रयन् दिशः सान्द्रतां दधदधःकृताऽम्बुदः ॥ द्यामियाय दहनस्य केतनः केतयन्निव(१) दिवौकसां प्रियम् ॥ २८ ॥ उन्नमन्निति ॥ दहनस्य वैश्वानरस्य केतनो ध्वजो धूमो द्याम् इयाय खं प्रससार । किंभूतो धूमः उन्नमन् ऊध्वं गच्छन् , पुनः किंभूतः सपदि तत्क्षणं दिशः धूम्रयन् आशाः धूम्राः कुर्वन्, अत एवाऽपरं किंभूतो धूमः सान्द्रतां दधत् घनतां बिभ्रत्, अपरं किंलक्षण: धूमः अधःकृताम्बुदः अभ्राणामुपरि स्थितः, यद्वा अम्बुदेऽभ्योऽपि निबिडत्वात् जितमेघः, अत एवाऽपरं किंलक्षणो धूमः दिवौकसां देवानां प्रियं केतयन्निव अभीष्टं कथयन्निव 'आ- गच्छत भो देवाः ! युष्माकं महानुत्सवोऽयामिति आख्यन्निव ॥ २८ ॥ उन्नमन्निति ॥ सपदि होमक्षणमेवात्रमन्नुच्छन् दिशो धूम्रयन्धूम्रवर्णाः कुर्वन् सान्द्रता नीरन्धत दक्षत् अत एवाऽधःकृताऽम्बुदः शोभयावधीरितमेघो मघोपरि गतश्च दहनस्याग्नेः केतनः केतुः। धूम इत्यर्थः। यौरोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । अथ वा दिवमोको येषामिति विग्रहः। 'दिवं स्वर्गान्तरिक्षयोः' इति विश्वः । तेषां प्रियमिष्टं कीर्तयन्कथयन्निव कीर्तनहेतोरिव । कीर्तनाथमिवेत्यर्थः। अत एव फलोत्प्रेक्षा । कीर्तयन्निति लक्षणहेत्वोः क्रियायाः' इति हेत्वर्थे लटः शत्रादेशः । यामन्तरिक्षमियाय प्राप । इणो लिट् ॥ २८ ॥ निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्भिरे(२) ।। नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ २६ ॥ निजितेति ॥ नाकिनो देवा अमृतं ववल्भिरे हव्यं जक्षुः, तु पुनः अनिलेऽग्नो हुयमानं दीयमानं कथमपि महता कष्टेन प्रतीक्षितुं विषेहिरे विसाढवन्तः । ननु पूर्व तैः अमृतं जग्धं, तत् कथं सस्वदिरे इत्याइ-किलक्षणममृतं निर्जिताखिलमहार्णवौषधिस्यन्द- सारं निर्जितः न्यूनः कृतः अखिलः समग्रः महार्णवस्य क्षीराब्धेः ओषधीनां फलपाका- न्तानां च स्यन्दसारो रसोत्कर्षो येन तत्तथा तत् । अब्धिमथनलब्धादमृतात् तद .. .. स्वादुतरम् । उक्तंच- अमृतं नाम यत्सन्तो मन्त्रजिह्वषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुमिताऽम्भोधिवर्णना ॥ इति ॥ २९ ॥ निजितेति ॥ नाकः स्वर्ग एषामस्तीति नाकिनो देवाः अखिलानां महार्णवौषधीना महार्णवमन्थन- ममये उत्थिताना दिव्यौषधिलतानां स्यन्दो मन्थनात्रिःमृतो रसस्तस्य सारो मृष्टांशः । अमृतामिति यावत् । सनिर्जितो येन तत् । अमृतादपि स्वाद्वित्यर्थः । अमृतं हविराख्यातम् । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनी । ववल्गिरेऽभ्यवजह्वः । वल्ग भोजने, कतीर लिट् । 'पल्गं चाभ्यवहारं प्रत्यवसानं च जेमनं जन्धिः' इति हलायुधः। तस्याऽमृताधिक्यं व्यनक्ति । अनले हूयमानं दीयमानममृतमिति भावः । प्रतीक्षितुं कथमपि विहिरे सोढवन्तः । होमविलम्ब कथञ्चिदसहन्तेत्यर्थः । तृष्णा तु प्रागेव जिप्रतीति रसातिशयोक्तिः । अत्र हविषोऽमृतमित्यभेदोक्त्या भेदरूपातिशयोक्तिस्तविशेषणपदार्थस्य वल्गनहेतुत्वा- कायीलङ्गभदस्तया सङ्कीर्यने । 'परिनिविभ्यः सेवासितसयसिवुसह-' इत्यादिना सहे: षत्वम् ॥ २९ ॥ (१) कीर्तयत्रिव। (२) ववल्गिरे। मोजनार्थस्य वल्गरनुपलम्भात् कथमेष पाठ इति न विद्यः । ।

सर्गः।] शिशुपालवधे। तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ॥ गुम्फिताः शिरसि वेणयोऽभवन्नप्रफुल्लसुरपादपस्त्रजः ॥ ३० ॥ तत्रेति ॥ धुयोषितां स्वर्गनारीणां शिरसि शीर्षणि वेगयः कचकलापाः गुम्फिता- अभवन् बद्धा बभूवुः । किलक्षणा वेणयः अप्रफुल्लसुरपादपस्रजः न प्रफुल्लाः अविकसिताः सरपादपानां देवतरूणां मन्दारादीनां स्रजो माला यासु ताः तथा । ननु ता एवंविधाः कुतः, केषु सत्सु पतिषु प्रोषितेषु सत्सु कान्तेषु प्रवासिषु सत्सु । किं सङ्ग्रामे, नेत्याह-कि- लक्षणेषु पतिषु तत्र यज्ञे नित्यविहितोपहूतिषु नित्यं विहिता अनवरतं कृता उपहूतिराद्वान येषां ते तथा तेषु । अतश्च देवानां नित्यं मर्त्यलोकवासात्प्रोषितत्वम् । अत एव देवा- जनानां केशरचनेऽनादरः । दीर्घसत्रमकारयदिति वाक्यार्थः । उक्तं च- क्रीडां शरीरसंस्कार समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत् प्रोपितभर्तृका ॥ इति ॥ ३० ॥ तत्रति ॥ तत्र क्रती नित्यं विहितोपहूनिषु कृताह्वानेषु पातेषु भर्तृषु इन्द्रादिषु प्रोषितेषु प्रवास गतेषु । बसेः कर्तरि क्तः, 'वसतिक्षुधो:-'इतीडागमः । युयोषिता स्वर्गमीणामिन्द्राण्यादीनां शिरसि वेगयो जटा- श्व गुम्फिता अभवन् , प्रफुल्ला विकासिताः सुरपादस्रजो मन्दारमाला न गुम्फिता अभवन् । अत्र सुर- पोषिता वेण्यसम्बन्धेऽपि सम्बन्धोक सक्सम्बन्धेऽप्यम्बन्धीतच सम्बन्धेऽसम्बन्धरूमा असम्बन्ध सम्बन्ध- रूपा चातिशयोक्तिः । ताभ्यां च क्रतारजस्रत्वं व्यज्यत इत्यलङ्कारेण वस्तुभ्वनिः ॥ ३० ॥ प्राशुराशु हवनीयमत्र यत् तेन दीर्घममरत्वमध्यगुः ।। उद्धतानधिकमेधितौजसो दानवांश्च विबुधा विजिग्यिरे ॥ ३१ ॥ प्राशुरिति । अत्र मखे विबुधा देवाः यत् हवनीयं हविः प्राशुः प्राश्नन्ति स्म तेन हविपा आशु शीघ्र दीर्घ चिरकालम् अमरत्वमध्यगुः अजरामरतां लेभिरे । सामुद्रे हि अमृते भुक्ते किञ्चिदमरत्वं प्राप्तं तैः, अद्य तु दीर्घम् । इत्यतिशयोत्प्रेक्षा । तेनेवेत्यर्थः । अपरं विबुधा उद्धतानपि उत्कटानपि दानवानरान् विजिग्यिरे जितवन्तः । किलक्षणाः देवाः अधिकम् एधितौजसः तेन हविपा अतिवर्धिततेजस्काः ॥ ३१ ॥ प्राशुरिति ॥ विबुधाः सुरा अत्र क्रता आशु क्षिप्रं हूयत इति हवनीय हवियत् प्राशुः प्राशितवन्तः । अश भोजने, लिट् द्विवचनादिकार्ये अत आदेः' इन्यभ्यासदीर्घः । तेन हवि:प्राशनेन दधि चिरभोग्य. ममरत्वं देवत्वमध्यगुः प्रापुः । 'इणो गा लुहि' इति गादेशः । किञ्च अधिकमत्यन्तमेधितौजसे वर्षित- बलाः सन्तः उद्धतानुदृप्तान् दानवान् असुरांश्च विजिग्यिरे जितवन्तः । विपूर्वाजयतेः कतरि लिट् । 'विपरा- न्या जेः' इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वाऽसम्बन्धऽपि सम्बन्धोतरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वाकाव्यलिङ्ग, तदुत्थापितश्वःमरत्वासुरविजयक्रियासमुच्चय इति सङ्करः । गुणक्रियायोगपद्यं समुच्चयः ॥ ३१ ॥ नाऽपचारमगमन् क्वचिक्रियाः सर्वमत्र समपादि साधनम् ।। अत्यशेरत परस्परं धियः सत्रिणां नरपतेश्व सम्पदः ॥ ३२ ॥ नाऽपचारमिति ॥ अत्र मखे क्रियाः निर्वापादिकाः अपचार विधिभ्रंश न अगमन व प्रापुः । यज्ञसूत्रविधेरभ्यस्तत्वात् । तथा सर्वमखण्डं साधनमुपकरणम् आज्यादिकं सम- शदि सम्पन्न, किञ्च सत्रिणाम् ऋत्विजां धियो बुद्धयः, अपरं नरपतेश्च युधिष्ठिरस्य राज्ञः आदुः, ४८६ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- सम्पदः समृद्धयः परस्परम् अत्यशेरत अन्योन्यमतिशयं जग्मुः । द्विगुणे दक्षिणादिके ऋत्वि- ग्भिः निरूप्यमाणे राज्ञा चतुर्गुणस्यदक्षिणादिकस्य दौकनात् । अन्योन्यजय इति भावः॥३२ नापचारमिति । अत्र क्रती क्वचित्कुत्रापि क्रियाः कर्माण्यपचार लोपविषयविपर्यासादिदोषं नागमन् । गमे छि 'पुषादि-' इति च्लेरकादेशः। अनपचारे हेतुमाह-अत्र सर्व साधनं समपादि सम्पन्नम् । पद्यते: कतरि लुङ् 'चिण ते पदः' इति चिण् प्रत्ययः । कर्मणि वा सम्पादितमित्यर्थः । 'चिण भावकर्मणोः" इति चिण्प्रत्ययः । साधनसम्पत्तिमेव व्यनक्ति-अतीति । सत्रं यज्ञतन्त्रं येषामस्तीति सात्रणामृत्विजाम । 'मन्त्रमाच्छादने यज्ञ' इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-'आचतुर्थात्कर्मणोऽन्ते समीपेतेदं करिष्यामीति । तथा नरपते राज्ञः सम्पदः पदार्थसमृद्धयश्च परस्परमत्यशेरताऽतिशयितवत्यः । टभयेऽप्यतिसममा इत्यर्थः । ज्ञानव्ये हि क्रियासाधने तत्सम्पत्रस्य कुतः क्रियापचार इति भावः । अत्रा- ऽनपचारवाक्यार्थस्य साधनसम्पत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं कव्यलिङ्गम् । तस्य परस्परातिशयक्रिया- रूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसम्पद्गोचरया तुल्ययोगितयोज्जीवितत्यनयारेङ्गाङ्गिभावन सङ्करः ॥ दक्षिणीयमवगम्य पङ्किशः पतिपावनमथ द्विजवजम् ।। दक्षिणः क्षितिपतिशिश्रणदक्षिणाः सदसि राजसूयकीः ॥ ३३ ॥ दक्षिणीयमिति ॥अथाऽनन्तरं क्षितिपतिः राजा युधिष्ठिरः सदसि सभायां पङ्क्तिशः पङ्क्तौ पङ्क्तौ राजसूयिकीः राजसूयसम्बन्धिनीः दक्षिणा: यज्ञान्तढौकनानि व्यशि- श्रणत् ददौ । तस्य दक्षिणा यज्ञाख्येभ्यः इति । किं कृत्वा द्विजवजं विप्रसङ्घम् अवगम्य प्राप्य, किलक्षणं द्विजव्रजं पतितपावनं स्वाध्यायश्रुतयमनियमादिभिः यः पङ्क्तिं पुनीते पवित्रयति स पङ्क्तिपावनः तम् , अत एव अपरं किलक्षणं द्विजवजं दक्षिणीय दक्षिणाम् अर्हतीति दक्षिणीयः तं, किलक्षणो राजा दक्षिणः शक्तिमान् उदारो वा। 'दक्षिणे सरलो- दारा वित्यमरः ॥ ३३ ॥ दक्षिणायामति ॥ अथानऽन्तरं दक्षिण औदार्यवान् । 'दक्षिणः सरलोदा।' इत्यमरः । क्षितिपती राजा । दक्षिणामहतीति दक्षिणीयः । 'दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि' इत्यमरः । 'कडगरदक्षिणा- च्छ च' इति उप्रत्ययः । तं पतेः स्वाधिष्ठितायायः पावनं पावयितारं पक्तिपावनम् । पावयतेः कर्तरि ल्युट् । बिजबजम् , ऋत्विग्वर्गमित्यर्थः । पतिशः पङ्क्त्यनुसारेणाऽधिगम्य प्राप्य सदसि राजसूयकीः । राजस्यकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूयेत्यत्र दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विप्राणयति स्म । वित्तीर्णवानित्यर्थः। विश्राणनं वितरणम्' इत्यमरः । 'श्रण दाने' इति धातोर्खर, गौ चड्युपधाया द्वस्वः । वृत्त्यनुप्रासोऽलङ्कारः ॥ ३३ ॥ वारिपूर्वमखिलासु सक्रियालब्धशुद्धिषु धनानि बीजवत् ॥ भावि बिभ्रति फलं महद्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥ ३४ ॥ वारिपूर्वमिति ॥ स नराधिपो राजा युधिष्ठिरः अखिलासु समग्रास द्विजक्षेत्र- भूमिषु धनानि अवपत् द्रविणानि वपति स्म उप्तवान्, ददावित्यर्थः । द्विजाः ब्राह्मणा एव क्षेत्रभूमयः आवपनाऽवनयः तासु । कथं यथा भवति वारिपूर्वम् आदौ जलं दत्त्वा । एवं विधो हि विधिः, यहानादौ जलं दीयते। किलक्षणास द्विजक्षेत्रभूमिषु संस्क्रियालब्धशुद्धिषु संस्क्रिया संस्कारः कुलपाट (?) तया लब्धा शुद्धिः निष्कल्मषत्वं यामिस्तास्तथा ताम्। पवित्रास्वित्यर्थः । किंलक्षणानि धनानि महत् अक्षयं भावि भविष्यत् फलं स्वर्गादिक विभ्रति वहमानानि । किमिवाऽवपदित्याह-किंवत् बीजवत्। यथा कबित् कीनाश: क्षेत्रभूमिषु बीजानि वपति, कथं वारिपूर्वम् । आदौ हि पानीयमारोप्यते । संस्क्रियया .

सर्गः।] शिशुपालवधे। ४८७ यत- - गोमयादिकया लब्धा शुद्धिः उत्कर्षों याभिस्तासु । बीजान्यपि भावि सारादिकं धान्यं महत अलघु धारयन्ति ॥ ३४ ॥ वारपूर्वामति ॥ नराधिपो राजा सस्क्रियाभिरभिषेकसंस्कारैर्लन्धा शुद्धिनिर्दोषता याभिस्तास्वखिलासु द्विजा एव क्षेत्रभूमयः केदारभूमयस्तासु । 'क्षेत्रं गेहे पुर देहे केदारे योनिमार्ययोः' इति वैजयन्ती। भावि भविष्य महत्फलं स्वर्गादिकं धान्यादिकं च बिभ्रति । बिभ्राणानत्यिर्थः । वा नपुंसकस्य' इंति विकल्पान्नुमा- गमप्रतिषेधः । धनानि बीजवदीजैस्तुल्यं वारिपूर्वमुदकदानपूर्वकमवपदुप्तवान् । दत्तवानित्यर्थः । अत्र बीजवदिन्युपमानम् , 'तेन तुल्यम्-' इति तुल्यार्थे वतेविधानात्। तथापि वापक्रियायोगाद् द्विजक्षेत्रेति रूपक- समासो नोपमितसमासः । किन्तु रूपकस्याङ्गमुपमा, तदुत्थापितत्वादिति सङ्करः ॥ ३४ ॥ किं नु चित्रमधिवेदि भूपतिर्दक्षयन् द्विजगणानपूयत ॥ राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥ ३५ ॥ किमिति ॥ भूपतिः राजा युधिष्ठिरः अधिवेदि अन्तवेद्यां द्विजगणान् ब्राह्मणपूगान् दक्षयन् दक्षिणयार्चयन् सन् अपूयत पूतः, तु पुनः तत् किं चित्रं, नैतदाश्चर्यम् । स्तेऽपि द्विजगणाः अपि राजतो भूपतेः युधिष्ठिरात् विमलमनिन्धं श्रद्धापूर्त प्रतिग्रहं प्राप्य परिग्रहं लब्ध्वा पुपुविर पूताः । अतश्च ग्रहीतारो यत्र पूयन्ते, तत्र दातरि का गणना । किंलक्षणाद्वाजतः निरेनसः निप्पापात्धर्मिष्टात । सपापात् किल प्रतिग्रहो दोषाय। उक्तं च- यो राज्ञः प्रतिगृण्हाति लुब्धादुच्छास्त्रवर्तिनः । स याति नरकान्घोरान् सपुत्रपशुबान्धवः ॥ ३५ ॥ किामति । भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्ययीभावः । द्विजगणानृस्वि. ग्गणान्दमयन्हर्षयन् दाक्षिणाप्रतिग्रहेण सदक्षिणान् कुर्वन् । प्रतिग्राहयन्नित्यर्थः। 'तत्क्षणे दक्षिणां प्रतिगृह्ये'ति श्रुतिदर्शनात् । 'दक्ष नैपुण्ये' इति धातोय॑न्ताल्लटः शत्रादेशः। अत एव 'निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च' इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ्। किं चित्रं दाता पूत इति । न चित्र. मित्यर्थः । किन्तु प्रतिग्रहीताऽपि पूत इति चित्रमाह। ते द्विजगणा अपि निरनलो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तासिल । विमलं शुद्ध प्रतिमहं प्राप्य पुपुविर पूता बभूवुः। 'विशुद्धाच प्रतिग्रह' इत्यभिधाना- दिति भावः । अत्रापि पूञः कर्मकर्तरि लिट् । प्रतिग्रहीताऽपि शुद्ध इति विरोधः। स एव वाक्यार्थभून- चित्रत्वनिषेधहेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन सङ्करः ॥ ३५ ॥ स स्वहस्तकृतचित्रशासनाः(१) पाकशासनसमानशासनः ॥ आशशाङ्कतपनाऽर्णवस्थितेविप्रसादकृत भूयसी वः ॥ ३६ ॥ स इति ॥ स राजा भूयसीर्भुवः बह्वीभूमीः विप्रसात् अकृत ब्राह्मणायत्ताः चक्रे । द्विजेभ्यो ददावित्यर्थः । किमवधि किमित्याह-कथम् आशशाङ्कतपनाऽर्णवस्थितेः । कल्पान्तं यावदित्यर्थः । निशाकरदिवाकरसागरभूमीः मर्यादीकृत्य । किंलक्षणा भुवः स्वहस्तकृत- चिदशासनाः स्वहस्तेन निजहस्तेन स्वहस्त एव वा कृतं विहितं चिकम् अड्डो येषां तानि स्वहस्तकृतचिकानि वथाविधानि शासनानि पट्टिकाः यास तास्तथा ताः । न च काला- न्तरे राजान्तरादेतासां हरणभयम् । किंलक्षणो राजा पाकशासनसमानशासनः इन्द्राज्ञा- तुल्यादेशः, अनुलङघ्याऽऽज्ञ इत्यर्थः ॥ ३६ ॥ स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशासनः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः। स राजा स्वहस्तेन कृतं लिखितं चिह्न स्वनामलेखनादिलाञ्छनं येषु तानि शासना- (१) शासनः।

४८८ सन्देहविषौषधिसर्वकषायुते- [ चतुर्दशः- .. नि नियमपत्राणि यस्य सः। दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । भ शशातपनाऽर्णवस्थितः शशाङ्कतपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावार । 'आइ मर्यादाऽभिविध्योः' इति विकल्पा- दसमासः। भूयसी वो देयभूमीः विप्रमाद्विप्राधीनाः । येषाच' इति चकारात्सातिप्रत्ययः। अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुडितह 'उच' इति सिचः कित्वात् 'हस्वादात्' इति सकारलोपो गुणाभावश्च । पाकशासनसमानशन इत्युपमानुप्रासयोः संसृष्टिः ॥ ३६ ॥ शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसङ्करैः ॥ पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद् द्विजन्मनाम् ॥ ३७ ॥ शुद्धमिति ॥ असौ राजा द्विजन्मनां गणं द्विजानां वगं वाच्यमानम् आशिष कार्य- माणम् अशृणोत शुश्राव । स्वस्तिवाचन कुर्वन्तो ब्राह्मणा वीक्षिता इत्यर्थः । किं केवल कैः समं पुस्तकान्यपि वाच्यमानानि अौषीत् अथ पुस्तकैः समं तुल्यमिति अर्थान्तरम् । तदेव साम्यमाह-किलक्षणं द्विजगणं शुद्धं पवित्रं निर्मायम्, अपरं किंलक्षणं द्विज- गणं शास्त्रं मीमांसादिकं बिभ्रतं बिभ्राणं, किलक्षणं शास्त्रम् अश्रुतिविरोधि अवेदविरुद्धं, वेदानुगामीत्यर्थः । अपर किंलक्षणं द्विजगणम् अवर्णसङ्करैः उज्ज्वलं चतुर्णा वर्णानां ब्राह्मा- णादीनामसाङ्कर्येण उज्ज्वलं निर्मलममलीमसम् । ब्राह्मणस्य असायं निष्कल्मपत्वमि- त्यर्थः । पुस्तकान्यपि शास्त्रं पुराणादिकं बिभ्रति । किलक्षणं शास्त्रं शुद्धमनपशब्दम् , अपरं किंलक्षणं शास्त्रम् अश्रुतिविरोधि श्रवणमधुरम् , अपरं किंलक्षणं शास्त्रम् उज्ज्वलं सुबोधं, किंलक्षणैः पुस्तकैः अवर्णसङ्करैः अविद्यमानो वर्णसङ्करः अक्षरसाहित्यं येषु तानि अवर्णसङ्कराणि तै: सुस्पष्टलिपिभिः पुस्तकैः वाच्यमानमिति । अग्रजन्मा द्विजन्मा च ब्राह्मणः सद्भिरिष्यते ॥३७॥ शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूनम् । अन्यत्र विभक्तिविपरिणामेन शुद्धरकलद्वैः । श्रुति- विरोधि वेदविरुद्ध न भवतीत्यश्रुतिविरोधि शामं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशामाभिज्ञमित्यर्थः। 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः वाच्यमानमन्वयगुणा- दिक्रमेण प्रस्तूयमानम् । अन्यत्र वाच्यमानगिणेन व्याख्यायमैनिरत्यर्थः । वचेचौरादिकाकर्मणि लटः शानजादेश: । द्विजन्मनां ब्राह्मणानां गणम् अवर्णसङ्करैरसङ्कीर्णाक्षरैः, अन्यत्र जातिसङ्कररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षवाक्यैः सह अशृणोत् । दानकाले प्रत्येक ब्राह्मणानां गुणान् गोष्ठीश्च श्रुतवानित्यर्थः । मुखस्थविद्यानामपि पुस्तकधारणं विलक्षणत्वेनोकमित्यदोषः । अन्यत्र पुस्तकः समं द्विजगुणमशणोदिति, सम्बन्धिभेदे भिन्नयोः श्रवणयोरभेदाध्यवसायभेदेभेदरूपातिशयोक्तिचमत्कारिणी द्विजाना प्रकृतत्वात्पुस्तकानीव द्विजानिति वैवक्षिकोपमनोपमेयभावपर्यवसायिनी श्लेषसहीणसहोक्तिरलङ्कारः। 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः। कल्पितौपम्यपर्यन्ता सा महोकिरिष्यते ॥ इति लक्षणात् । केचित् पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायत- मानानिति व्याचक्षते । तैः पुस्तकेषु शामभरणासम्भवादवर्णसङ्करति क्लिष्टविशेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां वाचनकरणत्वात् समादिशब्दवैयर्थ्यमुक्कसहोक्त्यलङ्कारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण ॥३०॥ तत्प्रतीत(१)मनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ॥ आतिथेयमनिवारिताऽतिथिः कर्तुमाश्रमगुरुःस नाऽश्रमत् ॥ ३८ ॥ (१) तत्प्रणीत ।

सर्गः।] शिशुपालवधे। ४८8 . तदिति ॥ स आश्रमगुरुः आश्रमाणां ब्रह्मचारिगृहस्थवानप्रस्थयतीनां रक्षकत्वात् मुरुः राजा युधिष्ठिरः अग्रजन्मनां द्विजन्मनाम् आतिथेय कतुं पूजन विधातुं न अश्रमत् न अखिद्यत । किलक्षणानामग्रजन्मनां तत् आहवनं द्रष्टुं यज्ञमीक्षितुम् उपेयुषामागता- नाम् , अपरं किंलक्षाणानां प्रतीतमनसां हृष्टचित्तानां, किंलक्षणः सः अनिवारिताऽतिथिः अनिषिद्धागन्तुकः । यो यः आगच्छत, तं तमखिन्नेन मनसा आर्चिचदिति भावः ॥३८ ॥ तदिति ॥ भनिवारिता अप्रत्याख्याता आतिथये येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुर्नियन्ता स राजा । आ समन्ताज्जुहोत्यस्मित्रित्याहवनं यागम् । जुहोतेर्युट् । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसा सत्कर्मदर्शनाद् हृष्टचित्तानामग्रजन्मनाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् , 'पथ्यति- थि-' इत्यादिना ढव्प्रत्ययः। कर्तु नाश्रमत् न श्रान्तः। श्राम्यतेः पुषादित्वाल्लुडि च्लेरङदिशः। अत्राऽनि- पारितातीधित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वात्काव्यलिङ्गं तदनुपासन संमृज्यते ॥ ३८ ॥ मृग्यमाणमपि यद् दुरासद भूरिसारमुपनीय तत्स्वयम् ॥ आसताऽवसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥ मृग्यमाणमिति । तस्य राज्ञो युधिष्ठिरस्य अन्ये राजानः स्वयमेव रत्नं श्रेष्ठं वस्तु उपनीय आदाय अवसरकाक्षिणः प्रस्तावमाकाङ्क्षमाणाः(१) सन्तः बहिरेव आसत तस्थुः। किलक्षणं रत्नं यत् रत्नं मृग्यमाणमपि अर्यमानमपि दुरासदं दुष्प्रापम् , अपरं किलक्षणं सार- मुत्कृष्टम् , अपर किलक्षणं रत्नं भूरि प्रभूतं न स्वल्पम् , अपरं किंलक्षणम् उपदीकृतं ढौक- निकार्थमानीतम् ॥ ३९॥ मृग्यमाणमिति ॥ यद्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृत- मुपायनीकृतम् । मनसा यथासहुल्पितमित्पर्थः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । तदनं श्रेष्ठवस्तु 'रनं श्रेष्ठे मणावपि' इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाशिणः सेवायसरं प्रतीक्षमाणा बहि- रासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारोप्यमाणस्य प्रकृतोपयोगात्परिणामालङ्कारः॥३९॥ एक एव वसु यहदौ नृपस्तत्समापकमतर्व्यत तोः॥ त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ ४० ॥ एक एवेति ॥ एक एव केवल एव नृपोऽन्यो राजा यत् वसु धनं ददौ तदेव धर्न लोकैरितिशेषः क्रतोः समापर्क यज्ञस्य समाप्तिजनकम् अतयंत अलक्ष्यत । तेनैव नूनं ऋतुः समाप्यते इति सर्वेषां बुद्धिरभुदित्यर्थः । तपःसुते धर्मात्मने युधिष्ठिरे राशि त्यागशा- लिनि उदारे सति सकलपार्थिवधनान्यपि सकलराजकबसून्यपि क्षयं ययुः अपचयमगमन् । सर्वमेव ददावित्यर्थः॥ ४० ॥ एक एवेति ॥ एके नृपा यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं सम्पूरक- मतय॑त । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्र त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रकपार्थिवधनस्य क्रतुसमापकत्वासम्बन्धेऽपि तत्सम्बन्धोकरति- शयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसदुरः ॥ ४०॥ प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ॥ स्पर्शितैरधिकमागमन् मुदं नाऽधिवेश्म निहितैरुपायनैः ॥४१॥ प्रीतिरिति ॥ अस्य च राज्ञः तथा तेन प्रकारेण ददतः सतः प्रीतिरभवत् मुद् बभूवा येन तत्प्रियचिकीर्षवो नृपाः तस्य प्रियकारिणो राजानः स्पर्शितैः उपायनैः भस्मै निवेदितैः अधिकमतिशयेन मुदम् आगमन् हर्ष प्रापुः, न तु अधिवेश्मनिहितैः गृहप्रक्षिप्तैः। सर्वमेव ४९० सन्देहविषौषाधिसर्वकषायुते- [चतुर्दशः- कथमस्माभिर्वस्तु न निवेदितम् इति तच्छद्धा ते नृपा अचिन्तयन्नित्यर्थः । उक्तं च- विश्राणनमतिसर्गः स्पर्शनमपवर्जनं वितरणं च । दानं विहापितं स्यात् प्रादेशनमंहतिश्च तथा ॥ प्रीतिरिति ॥ ददतो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामार्थसात्करणेनैव प्रीति- रभवदासीत् । न तु कोशगृहार्पणनेत्यर्थः। कुतः-येन प्रकारण तस्य राज्ञः प्रियं चिकीर्षवः प्रियं कर्तु- मिच्छवः । मधुपिपासुप्रभृतित्वाद् द्वितीयासमासः। नृपाः स्पर्शितैः प्रतिपादि तैः । 'स्पर्शनं प्रतिपादनम् इत्यमरः । उपायनैरुपहारैराधिकं यथा तथा मुदमागमन प्राप्ताः । तथैव प्रभुपीतिसिद्धेः सोपायनानां सिद्धि. नियोगलाभाचेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनर्मुद नागमन् । तथोकप्रयोजनासिद्धेरित भावः । येनैव राज्ञा मोदः स्वस्य च नहान् धर्मलाभः तेनोपायनानामथिमाकरणादेव राज्ञःप्रीतिरासीत् । न कोशगृहा- पणादित्यर्थः । अत एव दानसङ्कायोः प्रकृतयोः प्रीतः सहपरिहारेण दान एव नियमनात्परि- सङ्ख्यालङ्कारः । 'एकस्याऽनेकत्र प्राप्तावेकत्र नियमन परिसङ्ख्येति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ ११ ॥ यं लघुन्यपि लघुकृताऽहितः शिष्यभूतमशिषत् स कर्मणि ॥ सस्पृहं नृपतिभिर्नूपोऽपरैौरवेण ददशेतरामसौ ॥ ४२ ॥ यमिति ॥ स राजा युधिष्ठिरः यं नृपं लघुन्यपि कर्मणि तुच्छेऽपि द्वाररक्षणादौ व्यापारे अशिषत् अयुङ्क्त, स नृपः अन्यैः अनभियुक्तैः नृपैः सस्पृहं साभिलाषं महता गौखेग ददृशेतरां दृष्टः । कीदृगेष पुण्यभाक् यत् राजा स्वयं नियुङ्क्तेति। किंलक्षणं यं शिष्य- भूतं शिष्यरूपतां गतम् । शिष्यः किल यत्र तत्र नियुज्यते । किंलक्षणो राजा लघुकृता- ऽहितः लघूकृताः क्षयं नीताः अहिता अरयो येन सः तथा ॥ ४२ ॥ यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः, स राजा शिष्येण तुल्यं शिष्यभूतम् । 'भूतं मादौ पिशाचादी न्याय्ये सत्योपमानयोः' इति विश्वः। सुप्सुपेति नित्यसमासः । यं न लघुन्य. प्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । 'मर्तिशास्त्यतिभ्यश्च' इति लु च्लेरडादेशः 'शास- इदहलोः' इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्य पतिभिः सस्पृहम् 'अहो संमान' इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः। दृशेकमणि लिट् , तिङश्व' इति तरप्प्रत्यये किमत्तिव्ययघादाम्बद्रव्यप्रकर्षे' इत्यामुप्रत्ययः । तद्धितश्वासर्वविभक्तिः' इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वा- सम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः, तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलद्वारेण वस्तुभ्वनिः ॥४२॥ आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीद्वगात्मनि ॥ वाचि रोपितवताऽमुना महीं राजकाय विषया विलेभिरे(१) ॥ ४३ ॥ आद्येति ॥ तेन राज्ञा युधिष्ठिरेण राजकाय नृपतिवृन्दाय विषया देशाः विलेमिरे प्रसादीकृताः । किलक्षणेन अमुना वाचि महीं रोपितवता। मनसा किल निश्चयः, वाचा उच्यते दीयतामिदमस्येति । अथ च वाचि महीं रोपितवता बिनता इत्यर्थान्तरम् । स कश्चिद्वाचि भुवं बिभर्ति यः सत्यं वक्ति । सत्येन भूमिध्रियते । किंलक्षणां महीम् आचकोल- तुलिताम् आचकोलेन श्रीवराहेण तुलिता परिच्छिना ताम् , अपरं किंलक्षणां महीं प्रकम्पनै- वातैः मुहुरसकृत् कम्पितां चलिताम् अत एव वाचि रोपिताम् । चलितं किल रोप्यते । किंभूतायां वाचि अनोहगात्मनि न ईडग् एतादृशः आत्मा स्वभावो यस्याः सा, महार्थ. त्वात् । न केनचित्तुलिता नापि कम्पिता न जितेत्यर्थः, इति व्यतिरेकोक्तिः ॥ ४३ ॥ (१) विमोजिरे । । ७ सर्गः।] शिशुपालवधे। ४६१ प्रायोति ॥ आयकोल आदिवराहः । 'वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटिः' इत्यमरः। तेन तुलितो कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैहिरण्याक्षप्रमुखैः कम्पिता क्षोभिता महीम् । श्रीनागात्मन्येनंवरूपायां फेनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राजा राजकाय राज्ञा समूहाय । गोत्रोक्ष-' इत्यादिना कुप्रत्ययः । विषया देशाः । 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । विभजिरे अस्यायमिति विभक्ताः। प्राक् विजयोद्धृतान् राज्ञः पुनः पदेषु स्थापयामासेत्यर्थः । अत्राऽऽदिवराहो महीमुद्धतवानेव, वाचैवाऽसौ तु निरातएं स्थापित- वोश्चत्युपमानादुपमेयस्याधिक्यकथनाट्यतिरेकालङ्कारः ॥ १३ ॥ आगताद् व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः॥ तत्र नाऽभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥ ४४ ॥ अागतादिति ॥ तत्र महाहवे महायज्ञे राजसूये असौ राजा युधिष्ठिरः अर्थिनो याचकात्, जात्या एकवचनं, पराड मुखो न अभवत् । यत् यस्मै अरोचत तत्तस्मै ददावित्य- र्थः । विलक्षणः असौ सत्त्वसम्पदविकारिमानसः सत्त्वसम्पदा ज्ञानसमृद्धया अविकारि निर्विकारं मानसं चित्तं यस्य सः तथा लोभेन अहृतचित्तः, किंलक्षणात् अर्थिनः नृपात् मया नूनं दारिद्रयमपास्यमितिव्यवसितं कृतनिश्चयं तेन मनसा चेतसा आगतात् प्राप्तात् । कस्मादिव पराङ्मुख इत्याह-शात्रवादिव शत्रुरेव शात्रवः तस्मात् । यथा योद्धं कृत- निश्चयात् असौ राजा महाहवे सङ्ग्रामे वैरिणः पराङ्मुखो न भवति । यद्वशात् कार्पण्य- विषादभयादीनि चेतसि स्थितिं न बध्नन्ति । 'दस्युशात्रवशत्रवः' इत्यमरः ॥ ४४ ॥ भागतादिति ॥ सत्त्वसम्पदा गुणाधिक्येन अविकारिमानसः, लोभाऽभिभवाभ्यामनुपप्लुतचित्त इत्यर्थः । 'सत्वं गुणे पिशाचादी बले द्रव्यस्वभावयोः' इति विश्वः। असौ राजा तत्र तस्मिन आसमन्ताज्जुह्वत्यस्मि- त्रित्याहयो यागः । 'ऋदोरप्' इति जुहोतेरप्प्रत्यये गुणवादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । 'आङि युद्धे' इति ह्वयतेरापर्वाद प्रत्ययः सम्प्रसारणम् । 'आहयो यागयुद्धयोः' इति विश्वः । महां. श्वासी स च महाहवस्तस्मिन्महाहवे व्यवसि तेन निश्चितेन धनलाभ निश्चितवता । अन्यत्र शत्रोमृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मकर्तरि कः। 'प्रसिद्धरविवक्षातः कर्मणो- ऽकर्मिका क्रिया' इति वचनात, चेतसा आगतात । चेतसा स्वयं निश्चित्य अगतादित्यर्थः । आर्थिनो याच- कात् । शत्रुरेव शात्रवः । स्वार्थेऽग्प्रत्ययो राक्षसवत् । तस्मादिव पराङ्मुखा नाभवत् । 'आइवेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ इति मनुस्मरणादिति भावः । श्लेषसङ्कीर्णेयमुपमा ॥ १४ ॥ नैक्षताऽर्थिनमवश्या मुहुर्याचितस्तु न च कालमक्षिपत् ॥ नाऽदिताऽल्पमथ न व्यकत्थत प्रत्त(१)मिष्टमपि नाऽन्वशेत सः ॥ ४५ ॥ नक्षतेति ॥ स राजा युधिष्ठिरः अर्थिनं याचकम् अवज्ञया न ऐक्षत अगौरवेण ना- दाक्षीत् । स कदाचित् सकृत् प्रार्थितो भविष्यति, नेत्याह-मुहुः पुनःपुनः याचितः याच्यते स्म । याचितः प्रार्थितः सन् कालं नाक्षिपत् कालक्षेपं न चकार । अविलम्बन ददावित्यर्थः । धनाशया तु महुमुहुर्याच्ना । कदाचिदेकवारं दातव्यं बहुभिर्वारैर्दद्यादित्या- ह-सः अल्पं न अदित स्तोकं न ददौ । कदाचिदपि श्लाघार्थ बहु दद्यादित्यर्थः । अथ दानं दत्वा न व्यकत्थत कीर्तनेन नाऽश्लाघत । अकथितत्वात्कदाचित्तापं भजेदित्याह- इष्टमपि स्ववल्लभमपि प्रनं दस न अन्वत न अनुशेते स्म। दत्वा नाऽदूयतेत्यर्थः ॥४९॥ (१) व्यकत्थयदत्त ।

- . ४६२ सन्देहविषौषधिसर्वकषायुते- [चतुर्दश्व:- नक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञयाग्नादरेण नैक्षत । तर्हि विलम्बितं किं, नेत्याह- याचितस्तु प्रार्थित एव कालं नाक्षिपत्र यापयामास । याचकबहुत्वात् । तल्पदाता नेत्याह-अल्पमपि नाऽदित न ददौ । किन्तु यथार्थिकाममिति भावः । ददातेलुकि तकि 'स्थाध्वोरिच्च' इतीकारः, 'स्वादनात' इति सलोपः । तर्हि विकत्थनः कि, नेत्याह-न व्यकत्ययदात्मश्लाघा न चकार । कत्थ लाघायाम् । किञ्च इष्टं प्रियमपि दनं वस्तु नाऽवत नानुतप्तवान् । दत्तानुतापस्याऽतिप्रत्यवायहेतुत्वादिति भावः । अत्राऽर्थिसन्दोह- याच्यादिबाहुल्यरूपकारणसामग्येऽपि विलम्बादिकार्याऽनुत्पत्तर्विशेषोक्तिरलङ्कारः । तत्सामग्यादनुत्पतिर्वि- शेषोतिर्लिगयते' इति लक्षणात् । तथा दातुः सात्त्विकं व्यज्यत इत्यलद्वारेण वस्तुध्वनिः ॥ १५ ॥ निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः परो(१)ऽभवत् ॥ वर्षकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ ४६॥ निर्गुणोऽपीति ॥ भूपतेः राज्ञो युधिष्ठिरस्य निर्गुणोऽपि अध्ययनादिगुणरहितोऽपि विमुखो न अभवत् निराशो न बभूव । किलशगस्य भूपतेः दानशौण्डमनसः दाने दातव्ये शौ- ण्ड प्रगल्भं प्रवणं मनो यस्य सः तथा तस्य दानप्रवणचित्तस्य । परः शत्रुरन्यो वा। ननु पात्रे देयमित्युक्तं शास्त्रेषु, तत्कथं निर्गुणाय दद्यादित्याह-अपः तोयानि वर्षकस्य वर्षणशीलस्य अम्बुदस्य मेघस्य परितः समन्तात् किम् ऊपरं परिहार्य भवति क्षारभूमिः किमु त्यक्तव्या। अपि तु कुभूमावप्यसौ वर्षत्येवेत्यर्थः। किंलक्षणस्य अम्बुदस्य कृतोन्नतेः खव्याप्तवपुषः॥४६॥ निर्गुणोऽपीति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । 'स्युवदान्यस्थूललक्ष्यदान- शौण्डा बहुपदे' । 'मने शौण्डोत्कटक्षीबाः' इत्यमरः । भूपतेः पुरोऽये निर्गुणस्तपोवद्यादेगुणहोनोऽपि विमुखो निष्फलो नाभवत् , किन्तु पूर्णकाम एवाऽभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एक तेनाऽपात्रवर्षदोषोऽपि न करुणवृनेरित्याशयेन दृष्टान्तमाह-वर्षकस्येति । अपो जलानि । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः। वर्षुकस्य वर्षणशीलस्य । 'लषपत-' इत्यादिना उकप्रत्यये लघूपधगुणः । कृतोत्रतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । 'स्यादूषः क्षारमानेका' इत्यमरः । तत्क्षेत्रमूषरम । 'उपवानूषरो द्वावप्यन्यलिङ्गी स्थल स्थली' इत्यमरः । 'उपशुषिमुष्कमधो र:' इति रप्रत्ययः । परिहार्य त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोवाक्यभेदेन बिम्बपति- बिम्बतया समानधर्माभिधानाद् दृष्टान्तालङ्कारः॥ १६ ॥ प्रेम तस्य न गुणेषु नाऽधिकं न स्म वेद न गुणान्तरं च सः॥ दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यचारयत्(२) ॥४७॥ प्रेमेति ॥ स पार्थिवो राजा अर्थिनं याचकं गुणी अगुण्यश्च इति न व्यचारयत् । अयं गुणी गुणवान् दानाहः, अयम् अगुण्यः न गुणमर्हतीति अगुण्यः । निर्गुणाय न देय- मस्मै इति नालुलोच । सर्वत्रैव ददावित्यर्थः । कदाचित् गुणद्वेषी स्यादित्यत आह- तस्य राज्ञः गुणेषु अध्ययनाचारादिषु अधिकं न न प्रेम, अपि तु प्रेम एव । ननु कदाचित गुणान्तराऽज्ञानं स्यात् तदवश्यमेव समदृष्टिर्भवतीत्याह-स राजा गुणान्तरं गुणाना- मन्तरं विशेष न न वेद स्म, अपि तु वेद । कथं तर्हि अविचार इत्याह-किं कर्तुमिच्छया गुणप्रियोऽपि गुणज्ञोऽपि दातव्यसत्वेन गुणिनमगुण्यं न च व्यचारयत् । अर्थयते अवश्य दातव्यमित्यर्थः ॥४७॥ प्रेमेति ॥ तस्य राज्ञो गुणष्वधिकं प्रेम नेति न, किन्त्वस्त्येवेत्यर्थः । राजा गुणान्तरं गुणविशेष न वेद न नि स्मेति न च, किन्तु वे दे वेत्यर्थः । 'लट् स्मे' इति भूतार्थे लट् , 'विदो लटो वा' इति गलादिः । (१) पुरा०॥ (२)व्यजीगणत् । ।

सर्गः।] शिशुपालवधे। ४९३ 'सम्भान्यनिषेधनिवर्तने द्वौ प्रतिषेधा' इति वामनः । सम्भावितयारविमर्शादेवा गुगप्रीतिज्ञानयोनिषेध- इति भावः । तदपि तथापि, पृथिव्या ईश्वरः पार्थिवः । 'सर्वभूमिपृथिवीभ्यामणी' इत्यप्रत्ययः। दित्सया दातुमिच्छया। सर्वपात्रदानकौतुकेनेत्यर्थः । 'सनि मामा-' इत्यादिना इसादेशः । 'भत्र लोपो. भ्यासस्य' इत्यभ्यासलोपः । अर्थिन याचकं 'गुणी गुणवान् अगुण्यो नार्य गुणवान्' इति न व्यजीगणत न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यो न गणयामासत्यर्थः। गणेो चलिईच गणः' इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणयित्वगुणज्ञत्वरूपकारणसामग्येऽपि गुणागुणविमर्शरूपकार्याऽनुत्पनेः दित्सयेत्युक्तनिमित्ता विशेषोक्तिरुक्कलक्षणात् ॥ ४ ॥ दर्शनाऽनुपदमेव कामतः स्वं वनीपकजनेऽधिगच्छति ॥ प्रार्थनाऽर्थरहितं तदाऽभवदीयतामिति वचोऽतिसर्जने ॥४८॥ दर्शनेति ॥ इह लोकवशात् ददातिः प्रार्थनायां प्रैषे च वर्तते । उक्तं च- देहि देहीति ददतः सैव (१) देहीति याचतः । अहो ! गिरितृणप्रख्या वचसः सारफल्गुता ॥ एवं स्थिते तदा तस्मिन् काले दीयतामित्येतद्वचनं प्रार्थनाऽर्थरहितं प्रार्थनालक्षणेन मन रहितं सत् अतिसर्जन एव त्यागविषय एव अभवत् बभूव । ददातेः प्रैष एव लोडुत्पा- दितः, प्रार्थनायामित्यर्थः । कुत इत्याह-क सति बनीपकजने याचकलोके दर्शनाऽनुपदमेव आलोकसमनन्तरमेव कामतः यथेच्छं स्वं धनम् अधिगच्छति प्राप्तवति सति । अयाचित. मेव राजा ददावित्यर्थः ॥ ४८ ॥ दर्शनोति ॥ वनीपकजनेऽर्थिजने दर्शनाऽनुपदं राजविलोकनाऽनन्तरमेव । प्रार्थनामकृत्वेत्यर्थः । 'वनी- पको याचनको मार्गणो याचकार्थिनी' इत्यमरः । कामतो यथेच्छं स्वं धनमधिगच्छति लभभाने सति तदा दीयतामिति वचो दीयतामित्येतत्पदं प्रार्थना यात्रा मह्यं दीयतामिति वाञ्छा सेवार्थस्तेन रहितं शयं सत् नदा अतिसर्जने त्यागेऽभवदवर्तत। मा दीयतामिन्यर्थिवाक्याभावादस्मै दीयतामिति दातृवाक्यमेवाऽन्वर्थमभू- दित्यर्थः। अर्थिनामागमनमेव याचनमिति विवकिना कि याच्यादैन्यदर्शनचापलेनेति भावः । अत्र दीयतामिति वचः सम्प्रार्थनायवर्जनेन । तेनातिमजनार्थताकथनादेकस्याऽनेकत्वसत्तावकत्र नियमनाख्या परिसख्या। नाऽनवाप्तवसुनाऽर्थकाम्यता नाऽचिकित्सितगदेन रोगिणा ॥ इच्छताऽशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ ४९ ॥ नेति ॥ अर्थकाम्यता धनेच्छुना तत् सदः तां सभाम् उपेयुषा प्राप्तवता सता अन- वाप्तवसना अप्राप्तधनेन न प्रत्यगामि न प्रतीपं गतम्, अपि तु धनमासाद्य । अर्थ धनं काम्यति वाञ्छति इति अर्थकाम्यन् , तेन अर्थकाम्यता । तथा रोगिणा व्याधितेन अचि- कित्सितगदेन अनुन्मूलितव्याधिना सह न प्रत्यगामि, अपि तु स्वस्थेन । तथा अशितु- मिच्छता भोक्तुं वाञ्छता वा अनाशुषा अभुक्तेन सता न प्रत्यगामिन प्रतिगतम् , अपि तु तृप्तेनेति सर्वकामप्रदत्वोक्तिः ॥ ४९ ॥ नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । 'काम्यच्च' इति काम्यमत्यये सनाद्यतत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपयुषा प्राप्तवता पुरुषेणाऽनवासबसुनाऽलब्धधनेन न प्रत्यगामि न प्रत्या- वति । रोगिणोपयुषा अचिकित्सितगदेनाऽशमितरोगेण । 'रोगव्याधिगदामयाः' इत्यमरः । न प्रत्यमामि । अशितुं भोक्तुमिच्छता उपेयुषा धनाशुषा च अनशिनेन, अभुकवतेत्यर्थः । 'उपेयिवाननाश्वाननूचानश्च' इति वसुप्रत्ययान्तो निपातितः । न प्रत्यगामि । किन्तु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गमभीर लुङ् । अत्राधिरोगिक्षुधिताना प्रकृतानामेव पूर्णकामवसाम्यानम्यापम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । -तथा च यो यत्काम आगतः, स तत्सर्वमेवाऽस्मादभलतेति व्यज्यते ॥१९॥ ४२ शिव० :

- सन्देहविषौपधिसर्वकषायुते [चतुर्दशः स्वादयन् रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः । भावशुद्धिविहितै(१)र्मुदं जनो नाटकैरिव बभार भोजनः ॥ ५० ॥ स्वादयन्निति ॥ तदा जनो बुभुक्षितलोकः भोजनैर्मुदं बभार भुक्तिभिहर्ष दधे । भुजा- नः स्तुतोषेत्यर्थः । किलक्षणो जनः रस मधुरादिकं षड्विधं स्वादयन् अनुभवन् , किलक्षणे- भोजनैः अनेकसंस्कृतप्राकृतैः अनेकानिबहूनि संस्कृतानि मांसादीनि प्राकृतानि फलशाका- दीनि येषु तानि तथा तैः । यद दिव्यद्रव्यान्तरे संस्कारार्थपक्कापकसमार्जितादिकं भोजन संस्कृतम् ,अन्यत्तु द्राक्षादिकमनाहार्य प्राकृतम्।अपरं किलक्षणैर्भोजनैः अकृतपात्रसङ्करैःअकृतः न विहितः पात्रसङ्करः सहभोजनं येषु तानि तथा तैः, अपरं किलक्षणैः भोजनैः भाव- शुद्धिविहितैः भावशुद्धया निर्मलेन चित्तेन विहितानि दत्तानि तैः। एवंविधै जनैः जनो मुमुदे । कैरिव नाटकैरिव । यथा नाटकैः सामाजिकजनः, तथा तुतोषेत्यर्थः । इत्यौपम्यम् । सहोक्तिः । यशे हि दशरूपकमपि प्रीतये प्रस्तूयते । किंलक्षणः सामाजिकजनः रसं शृङ्गारा- दिकं विविध स्वादयन् अनुभवन् । रसानां हि आस्वादनत्वात् रसत्वम् । उक्तं च- अनेकद्रव्यसंयुक्तैर्व्यञ्जनैर्बहुभिर्वृतम् । आस्वादयन्ति भुजाना रसं भुक्तभुजो यथा ॥ भावाभिनयसम्बन्धाः स्थायिभावास्तथाऽपरे । आस्वादयन्ति मनसा तस्मानाट्यरसः स्मृतः ॥ किंलक्षणैर्नाटकैः अनेकसंस्कृतप्राकृतैः अनेक बहुभेदं संस्कृतं प्राकृतं च येषु तानि तथा तैः। संस्कृतभाषायामनेकत्वं गद्यपद्यादिरूपेण, प्राकृतभाषायां तु मागधशौरसेनादिभेदेन । अपर किलक्षणैर्नाटकैः अकृतपात्रसकरैः अकृतः पात्राणां सङ्कुरो मिश्रीभावो येषु तानि तथा तैः । यस्य पात्रस्य येन सह प्रवेशनिष्क्रमौ, तस्य तेनैव कृतावित्यर्थः । अपरं किलक्षणैर्नाटकैः भावशुद्धिविहितैः भावा रत्यादयः तेषां शुद्धिः रससंस्कारः तया विहितैः। रसविभागेन विभावा उक्ताः ॥ १०॥ स्वादयनिति । अनेकानि बहूनि संस्कृतानि हिगुमरिचादिना कृतसंस्काराणि प्राकृतानि प्रकृति- सिद्धानि संस्कारं विना स्वादूनि कृतानि फलादीनि च येषु तेः, अन्यत्राऽनेकविचित्रसंस्कृतप्राकृतौ भाषा- विशेषी येषु तैः । अकृतः पात्राणां भाजनाम् अन्यत्र भूमिकानां च सदरो व्यतिकरो येषु तैः। भावशुद्धिः पदार्थानां मृष्टता, अथ वा भावशुद्धिः गर्दाविरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयस्तेषः शुद्धिः सजातीयविजातीयाऽतिरस्कृतरूपत्वम् । 'सजातीयविजातीयैरतिरस्कृतमूर्तिमान् । यावदस वर्तमानः स्थायीभाव उदाहृतः ॥ इति लक्षणात् । तत्सहि जनैरभ्यवहोरर्नाटकै रूपकविशेषरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयत्रनुभवन् जनो भोक्तृजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसवीर्णेयमुपमा ॥१०॥ रक्षितारमिति तत्र कर्मणां(२) न्यस्य दुष्टदमनक्षम हरिम् ॥ अक्षतानि निरपर्तयत्तदा दानहोमयजनानि भूपतिः ॥ ५१ ॥ रक्षितारमिति ॥ स भूपती राजा युधिष्ठिरः तत्र मखे हरि श्रीकृष्णं कर्मणां क्रिया- गां रक्षितारं गोपायकं न्यस्य नियुज्य इति इत्यमेव अक्षतानि अखण्डानि दानहोमयज- नानि निरवर्तयत् समापयत्। परस्वप्रतिपादनं दानम् , अग्नावाज्यादिप्रक्षेपो होमः, देवतो- (१)महिते। (२) कर्मणि.। ।

सर्गः।] शिशुपालवधे। १६१ । देक्षेन द्रव्यत्यागो यजनम् । किंलक्षणं हरि दुष्टइमनक्षम विघ्नादिनाशनसमर्थम् । अत- एव रक्षायां निनियोगः ॥ ११ ॥ रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणे राजसूयाध्वरे दुष्टाना दमने मर्दने सम समर्थ हरि रक्षितारं विघ्नेभ्यमातारं न्यस्य निधाय अशतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकी- यस्य द्रव्यस्य स्वस्वत्वानिवृत्तिपरस्वत्वोत्पादनं दानम् । देवतोद्देशेनाऽनो हविषः प्रक्षेपो हामः । हुतस्य देवतोदेशेन वाशनसाभ्यो न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमत्वस्य विशेषणगत्या हरे रक्षाधिकारहेतु- न्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ५१ ॥ एक एव सुसखैष सुन्वतां शौरिरित्यभिनयं(१) वितन्वती ॥ यूपमङ्गुलिमिवोदनीनमद्(२) भूश्चषालतुलिताऽङ्गुलीयकम् ॥ ५२ ॥ एक एवेति ॥ भूः पृथ्वी यूपम् उदनीनमत् यज्ञस्तम्भम् उन्नमयामास। यज्ञसमाप्तौ हि खादिरः नैंशपः पालाशः शामिलो(?) वा यूपोऽवनौ रोप्यते । किंलक्षणं यूपं चपालतुलिता- ऽगुलीयकं चषालेन यज्ञभाण्डेन तुलितमनुकृतम् अङ्गुलीयकं करशाखाभरणं येन सः तथा तम् । किंलक्षणा भूः, उत्प्रेक्ष्यते-अभिनयं वितन्वती नृत्यविशेषं कुर्वती उच्चकैः उस्त- राम् अङ्गुलिमिव करशाखामिव उदनीनमत् उदशिश्रियत् । कुत इत्याह-सुन्वतां याय- जूकानाम् एषः असौ शौरिरिति श्रीकृष्णः एक एव सखा सुसहायः । वरमेतेन यज्वना निर्विघ्नं यज्ञः समाप्यते, इति चिन्तयन्ती भूविस्मयवशाच्छोटिकां ददती अगुलीयक- भूषितामगुलिमिव चषालं यूपमुन्नतीचकारेत्यर्थः ॥ १२ ॥ एक एवेति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः। सुनौतेलेटः शत्रादेशः । सुसखा सत्सहायः। 'न पूजनात्' इति समासान्तप्रतिषेधः । एष शौरिरक एवेत्यभिनयादिव तयञ्जकचेष्टा कृत्वेवे- न्युत्प्रेक्षा । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । भूर्देवयजनभूमिः चपालन यूपकटकेन । 'चषालो यूप- कटकः' इत्यमरः । तेन तुलितम् । समीकृतमित्यर्थः । तुलयते: 'तत्करोति-' इति ण्यन्ताकर्मणि कः । सदगुलीयकमूर्मिका यस्य तम् । अगुलीयकोपमानचषालमित्यर्थः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाम्गुलेश्छः' इति भावे छप्रत्ययः । उच्चकैरुन्त्रतं यूपं पशुबन्धनदारुविशेषो रूपकं स्वरूपं यस्य तं मुजमनीनमदुन्नमितवती । नमेगु चङि सन्वत्कार्यम् । अत्र सापेक्षत्वादुपमोत्प्रेक्षयोः सङ्करः ॥ ५२ ॥ इत्थमत्र विततक्रमे क्रती वीक्ष्य धर्ममथ धर्मजन्मना । अर्घदानमनु नोदितो(३) वचः सभ्यमभ्यधित शन्तनोः सुतः॥५३॥ इस्थमिति ॥ अथाऽनन्तरम् इत्थमनेन प्रकारेण विततक्रमे विस्तीर्णपरिपाटीके क्रतो मखे शन्तनोः सुतः भीष्मः सभ्यं सभायां वक्तुं योग्यं वचः अभ्यधित वाक्यमवोचत् । किलक्षणः शन्तनोः सुतः यतोधर्मजन्मना धर्मपुत्रेण राज्ञा युधिष्टिरेण अर्घदानम् अनु उद्दिश्य नोदितः प्रेरितः, किं कृत्वा धर्म वीक्ष्य आचारमालोच्य । यज्ञान्ते हि अर्को गुणवते देयः ॥१३॥ इत्थमिति । इत्थमत्र क्रती विततक्रमे विस्तृतानुष्टाने सति अथाऽनन्तरं धर्माजन्म यस्य तेन धर्म- अन्मना धर्मात्मजेन । 'जन्मायुत्तरपदो बहुव्रीहियधिकरण' इति वामनः। धर्म वीक्ष्य । धर्मशाममनु- स्मृत्येत्यर्थः । अर्घदानं पूजादानमनु । सदस्यपूजामुद्दिश्येत्यर्थः । 'मूल्ये पूजाविधावर्षः' इत्यमरः। चोदित: कस्मै देयमिदमिति पृष्टः शन्तनोः सुतो भीष्मः सभ्यं सभायां साधु । 'सभाया यः' इति यप्रत्ययः। बचो वाक्यमभ्यधिताऽभिहितवान् । दधालुडि तडि 'स्थाध्योरिच' इति कित्त्वे 'हस्वादङ्गात्' इति सकार- लोपः । वृत्त्यनुप्रासः ॥ ५ ॥ (१)नयादिवोचकैः। (२) यूपरूपकमनीनमजं । (३) चोदितो। । ।

४६६ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- . गाङ्गन्यः किमुवाचेत्याह- आत्मनेव गुणदोषकोविदः किं न वेस्थ(१) करणीयवस्तुषु ॥ यत्तथापि न गुरुन्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥ ५४॥ आत्मनैवेति ॥ हे राजन् ! करणीयवस्तुषु कृत्यशरीरेषु मध्ये किं त्वमात्मनैव स्वय- मेव न वेत्थ न जानासि, सर्वमेव कार्यजातमवैषि इत्यर्थः । यतोऽसि त्वं गुणदोषकोविदः युक्ताऽयुक्तविशेषज्ञः । यद्यप्येवं तथापि गुरुन् मान्यान् न पृच्छसि इति न, अपितु पृच्छसि । . तत्र प्रश्ने क्रमोऽयमिति कारणम् । तेन प्रष्टव्या गुरवः इत्याचारत्वेन पृच्छसि, न तु संशयान इत्यर्थः॥ ५४॥ अथासर्गसमाप्तेः भीष्मवचःप्रपञ्चमेव सफलं दर्शयति- आत्मनैवेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान् भीष्मो राजानं तावदुत्साहार्थकेनोपश्लोकयति- वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः । कसो विद्यास्थानस्य विदः कोविदः, गुणदोषयोः कोविदो विवका करणीयवस्तुषु कर्तव्यार्थेष्वात्मनेय स्वयमेव । परोपदेशाऽनपेञ्चयैवेत्यर्थः । प्रकृत्यादित्वात्ततीया । किं न सि । सर्व जानासीत्यर्थः । तथापि त्वं ज्ञाताऽपि गुरून् न पृच्छसीति न, किन्तु पृच्छस्यवति यत् । ज्ञानप्रसक्तं न पृच्छसीति वारणाय नव्यम् । तत्र गुर्वनुयोगे अयं क्रम इति न्यायः सदाचारपारेपाटोत्ये- नदेव कारणं, न त्वज्ञानमित्यर्थः। अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनाऽपरहेतुकत्वे नियमनात्पूर्वोक- लक्षणपरिसख्यानम् ॥ ५४ ॥ नातकं गुरुमभीष्टमृस्विजं संयुजा च सह मेदिनीपतिम् ॥ अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ ५५॥ स्नातकमिति ॥ हे राजन् ! बुधाः षट् इमान् अर्घभाज इति पूज्यानिति कीर्तयन्ति शिष्टा ब्रुवन्ति । कान् तान् इत्याह-स्नातक साङ्गवेदाध्यापकम् , अपरं गुरुमाचार्य, तथा अभीष्टं प्रियं, तथा ऋत्विजं याजकं, तथा मेदिनीपतिं पार्थिवं केन सह संयुजा सह जामात्रा सह । हे नृप ! तेऽपि षट् ते तव युगपत् तुल्यकालमेव सदः आगताः सभां प्राप्ताः वर्तन्ते । स्नातकादिभ्यः सर्वकर्मकत्वात् एवं भवत्येवेति यथा अनुमितिस्नातक सममेवेदं व्रतम् (?) ॥ ५५ ॥ एवं राजानमुपश्लोक्य प्रश्नस्योत्तरमाह- स्नातकमिति ॥ स्नातको गृहस्थविशेषस्तम् , गुरुं पित्रादिकम् , अभीष्टमिष्टबन्धुम् , ऋत्विजं याज- कम् , संयुज्यत इति संयुक् सम्बन्धी जामाता नेन सह मेदिनीपति राजानं च । तं च मेदिनीपति चेत्यर्थः । षट् षडेतान अर्घभाजः पूजार्हा इति । इति शब्देनाभिहितत्वान्न कर्मणि द्वितीया । यथाह वामनः-निपाने- नाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्' इति । कीर्तयन्ति कथयन्ति, वृद्धा इति. शेषः । न च ते दूरा इत्याह-ते च षडपि ते तव सदः सभा युगपदागताः प्राप्ताः । अत्र स्नातकादीनां प्रकृतानामेवाऽर्घभाक्त्वसाधादौपम्याऽवगमानल्ययोगिताभेदः ॥ ५५ ॥ 'ते च ते युगपदागताः सदः' इत्येतदेव ढयति- शोभयन्ति परितः प्रभाविनो(२) मन्त्रशक्तिविनिवारिताऽऽपदः ॥ स्वन्मखं मुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥५६॥ शोभयन्तीति ॥ हे भगवन् ! स्वयम्भुवो मुखभुवः ब्राह्मणाः । मुखाजाता ब्राह्मण मण्यत्ते । ते च विप्राः भूभुजो राजानश्च त्वन्मखं तव यज्ञं परितः समन्तात् शोभयन्ति . - (१) वेत्मि। (२) प्रतापिनो।

सर्गः ।] शिशुपालवधे। ४९७ भूषयन्ति । किंलक्षणाः द्विजाः तावत् प्रभाविनः तपःप्रभावयुक्ताः, अपरं किंलक्षगा द्विजाः मन्त्रशक्तिविनिवारिताऽऽपदः मन्त्रशक्त्या वेदबलेन विनिवारिता निवर्तिता आपदो विषा- दिकृता उपद्रवा यैस्ते तथा, अपरं किंलक्षगा विप्राः परलोकजिष्गवः, चिरजीवित्वात् यम- लोकजेतारः शुभाचरणाद्वा परलोकजेतारः । राजानोऽपि प्रभाविनः प्रभुशक्तियुक्ताः, तथा मन्त्रशक्त्या नीतिशास्त्रबलेन विनिवारिताऽऽपदः शमितकष्टाः, अपरं परलोकजिष्णवः शत्रु- पूगस्य जिष्णवोऽभिभाविनः ॥ १६ ॥ शोभयन्तीति ॥ किञ्च प्रतापयितुं शील येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः। अन्यत्र जेजस्विनः । 'म प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इयमरः । 'अत इनिठनो' इति इन्प्रत्ययः । मन्त्रशक्न्या वेदमहिम्ना, अन्यत्र विचारसामर्थेन विनिवारिता आग्दो देवमानुपविपत्तयो यैसे। 'वेद. वादे गुप्तमन्त्रे मन्त्रः' इत्यमरः । परलोकस्य लोकान्तरस्य शत्रुजनस्य च जिष्णवो जयशीलाः । स्वय- म्भु वो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । 'ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेः । भूभुजो राजानव वन्मखं तव क्रतुं परितः शोभयन्ति परिष्कुर्वन्ति । सर्वेऽव्यागत्य वसन्तीत्यर्थः । अत्र राज्ञा ब्राह्मगानां च प्रकृतानामेव प्रतापादिसाधम्र्येणोपमानात्तुल्ययोगिताभेदः । साधर्म्य च श्लेषनिबन्धनमिति सङ्करः ॥ ५६ ॥ आभजन्ति गुणिनः पृथक्पृथक् पार्थ ! सत्कृतिमकृत्रिमाममी ॥ एक एव गुणवत्तमोऽथ वा पूज्य इत्ययमपीण्यते विधिः ॥ ५७ ॥ श्रामजन्तीति ॥ हे राजन् ! पार्थ ! हे पृथायाः कुन्त्याः सूनो! अमी गुणिनः स्नातका- दयः अकृत्रिमा महती सत्कृतिमर्हणां पृथक् पृथक् प्रत्येकं प्रत्येकम् आभजन्ति अर्हन्ति । घण्णां सन्निधौ पडप्याः इत्यर्थः । अथ वा अयमपि विधिः इष्यते असावपि कर्तव्यार्थी- पदेशः वान्छयते, यत् एक एब केवल एवं गुणवत्तमः पूजायोग्यः । प्रकृष्टो गुण- वान् गुणवत्तमः ॥ १७ ॥ आभजन्तीति ॥ हे पार्थ ! पृथापुत्र ! 'नस्येदम्' इत्यण् । सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्या- ऽर्थलाभः । अन्यथा स्त्रीभ्यो ढक स्यात् । गुणिनो गुगाट्या अमी पूर्वश्लोकद्वयोक्काः स्नातकादयः पृथक् पृथक् प्रत्येकमकृत्रिमामकपटां सत्कृति सत्कारमाभजन्ति अर्हन्ति । सममेषां प्रत्येकं पूजा कार्येत्यर्थः । अथ स्वाभिमतं पक्षान्तरमाह-अथ वेति । अथ वा गुणवत्तमोऽतिगुणवानेक एव पूज्य इत्ययमपि विधिः शास्त्रमनुष्ठानं वेष्यते, वृद्धरिति शेषः । अत्र स्नातकादीनां पूज्यत्वे गुणो विशेषणगन्या हेतुरिति काव्य- लिङ्गभेदः । तदपक्षया गुणवत्तमत्वमेकस्यैव पूज्यत्वे तथैव हेतुरिति काव्यालङ्गान्तरमिति सजातीयसकरः ॥ अत्र चेष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुरर्हति ॥ भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरहंगां हरिः ॥ ५८ ॥ अत्रेति ॥ हे राजन् ! अस्मिन् भूमिदेवनरदेवसङ्गमे ब्राह्मणनृपतिसमागमे सकलेऽखिले समप्रेऽपि एष हरिः श्रीकृष्णः अर्हणां पूजाम् अर्हति पूज्यो भवति, मां प्रति भाति। भगवानेव अर्हति, मम प्रतिभासते इत्यर्थः । किंलक्षणो हरिः पूर्वदेवरिपुः पूर्वदेवानां सुरशत्रूणां रिपुर, अपरं किंलक्षणो हरिः अशेषगुणबन्धुः सकलगुणाधारः ॥ १८ ॥ अब कस्तथा सर्वोत्तरः पुमानस्तीत्याकाङ्का यां, कोऽन्यो हरि विनेत्याह- अति ॥ अत्राऽस्मिन्कालेऽपि भूमिदेवा ब्राह्मणाः नरदेवा राजानस्तेषां सङ्गन्मे । ब्राह्मणशत्रियसम- चाय इत्यर्थः । अशेषगुणानां बन्धुः सुहृत् । सर्वगुणाढ्य इत्यर्थः । अप्ताधारणगुणानाह-पूर्वदेवाः सुरद्विष. स्तेषां रिपुर्हन्ता एष हरिः कृष्ण : अर्हणां पूजामर्हति प्रामोतीति मामधिकृत्य भाति । मम प्रतिभातीत्य- र्थः । अन्ये तु नाईन्तीत्यपि सिद्धमिति भावः । अत्र तान्येषु च प्रसकायां पूजायां हरावेव नियमा- परिसझ्यालङ्कारः।

.. ४६८ सन्देहविषौषधिसर्वपायुते [चतुर्दशः- 'एकस्य वस्तुनः प्राप्तावनेकौकधा यदा। एकत्र नियमः सा हि परिसक्या निगयते ॥ इति लक्षणात् ॥ ५८॥ मर्त्यमात्रमवदीधरद्भवान् मैनमानमितदैत्यदानवम् ॥ अंश एष जनताऽतिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः॥ ५९ ॥ मर्त्यमात्रमिति ॥ हे राजन् ! भवान् एनममुं श्रीकृष्णं मर्त्यमानं मा अवदीधरेत मनुष्यमात्र माऽवज्ञासीः, किलक्षणमेनम् आनमितदैत्यदानवं वशीकृतदितिजदनुसुतम् । कस्तहि अयमित्यत आह-वेधसः प्रजापतेः श्रीनारायणस्य एषः अंशो भागः । तर्हि कदा- चित् वेधा अपि मर्त्यः स्यादित्यत आह-किंभूतस्य वेधसः जनताऽतिवर्तिनः सकललोका- ऽतिक्रान्तस्य । दुर्ज्ञानस्येत्यर्थः । अपरं किलक्षणस्य वेधसः प्रतिजनं कृतस्थितेः सर्व- देहिषु कृताऽवस्थानस्य, आत्मरूपत्वात् ॥१९॥ ननु तस्मिन् ब्राह्मणक्षत्रियसमूह कथमस्यैव पूज्यत्वमित्याशङ्कय सर्वोत्तमत्वादित्याशयेनाऽऽसर्गसमाप्ते- रनं स्तीति- मलैमात्रमिति ॥ आनमिताः प्रह्वीकृता दैत्या दितिसुताः दानवा दनुसुताश्च येन तमेनं हरिं भवान् मर्त्यमा मनुष्यमात्रं माऽवदीधरन जानीयात् । शेषे प्रथमः' इति प्रथमपुरुषः । कुतः-एष कृष्णो जनता- तिवर्तिनः सर्वनोकाऽतीतस्य प्रतिजनं कृतस्थितेश्व, सर्वभूतान्तर्यामिण इत्यर्थः। वेधसः परमात्मनोंऽश: कला । अतो न मर्त्यमावमित्यर्थः। अत एव वाक्यहेतुक काव्यलिङ्गम् ॥ ५९ ॥ ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ॥ आमनन्ति यमुपास्यमादराहरवर्तिनमतीव योगिनः ॥ ६ ॥ ध्येयमिति ॥ हे राजन् ! योगिनोऽध्यात्मविदः यं हरिम् एवंविधमामनन्ति कथ- यन्ति । किंलक्षणं हरिम् एकं प्रधानम्, अपरं किंलक्षणं ध्येयं ध्यानगम्यं चिन्त्यं स्थूल- रूपम् , अपरं किंलक्षणं धियः बुद्धः अपथे स्थितम् अमागें वर्तमानम् । पुरुषो हि मनसोऽप्य- विषयः । उक्तं च-'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' । यदि वा बुद्धितत्त्वाऽति- क्रमेण तत्पथे स्थितम् । अन्या हि बुद्धिरन्य आत्मा। विरुद्धं चैतत्-यो बुद्धेरगोचरः, स कर्थ ध्येयो भवति । अविरोधस्तु उक्त एव । अपरं किंलक्षणं स्तुत्यं स्तवाऽहम् , अपरं किलक्ष- णम् उत्तममुत्कृष्टम् । ततस्तु वाचामगोचरः । 'यतो वाचो निवर्तन्ते' इति न्यायेन तथा- दरात । अपरं किंलक्षणम् अतीतवाक्पथमुलधितवाग्गोचरम् । यः वाचामतीतः, स कर्य स्तूयते । अथ च सर्व एव 'नमो विष्णवे' इति स्तौति । अपरं किलक्षणम् आदरात् यत्नात उपास्यं जपोपवासैः सेव्यम् , अपरं किंलक्षणम् अतीव दूरवर्तिनम् अतिशयेन दुष्प्रापम् अनेकजन्मलभ्यम्। यश्च दूरस्थः, स कथं सेव्यः । विषयभेदेन विरोधः परिहार्य इति तु के- चित् । ज्ञानिनो हि भगवान् ध्येयः स्तुत्य उपास्यश्च । अन्येषां तु बुद्धाचो मनसश्च दूरवर्ती पुनरप्यमानुषत्वमेव व्यनक्ति- ध्येयामिति ॥ योगिनो नारदादयः एकमद्वितीयमुत्तमं सर्वोत्तमं यमेनं ध्येयं ध्यातव्यम् । एकार्थगोच- रात्मधारणं ध्यान तदमित्यर्थः। तथापि धियो ज्ञानस्याऽपथेमार्गे स्थितम् । तदगोचरामित्यर्थः । 'पथो विमाषा' इति समासान्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । आमनन्ति कथयन्ति । 'पाम्रा-' इत्या- दिना प्राधातोर्मनादेशः। स्तुत्यं स्तोतुमर्हम, तथापि अतीतो वाक्पथो येन तम् । अवारमनसगोचर- मित्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । आमनन्ति आदरादास्थयोपास्यं सेव्यम् । - सर्गः।]. शिशुपालवधे। ४६8 । तथापि अतीपात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचित्य- रूपमामनन्ति तमेनं मय॑मात्र माऽवधारयेदिति पूर्वणान्वयः । भवानसगोचरत्वदूरवर्तित्वानां ध्येयत्व स्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलङ्कारः ॥ ६० ।। पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थिति नयन् ॥ संहरन् हर इति श्रितस्तमधमेष भवति(१) त्रिभिर्गुणैः ॥ ६१ ॥ पद्मभूरिति ॥ हे राजन् ! एष हरिः त्रिभिर्गुणैः सत्वरजस्तमोभिः त्रैधं भवति विधा भवति । तथा हि-जगत् सृजन् विश्वमुत्पादयन् रजोगुणविशेष श्रितः सन् पद्मभूरिति भवति ब्रह्मेति भवति । तथा सत्त्वं गुणविशेष श्रितः जगत् विश्वं स्थिति नयन सक्रियत्वं प्रापयन् अच्युत इति विष्णुरिति भवति । तथा जगत् संहरन् नाशयन् तमः गुणविशेष श्रितः सन् हर इति रुद्र इति भवति । उक्तं च- रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलयेतमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ इति ॥ ६१ ॥ ननु हरिहरहिरण्यगर्भत्रियो देवाः सर्वोत्तरमहिमानः सन्ति, एनं न जानीम इत्यत आह- पद्मभूरिति ॥ एष हरिः रजः रजोगुणं श्रितो जगत्सृजन पद्मभूब्रह्मेति, सत्त्व सत्त्वगुणं श्रितः जग. स्थिति नयनस्थापयत्रच्युतो विष्णुरिति, तमस्तमोगुणं श्रितो जगत्संहरन् हर इति, त्रिभिर्गुणैः सत्त्व- रजस्तमाभिध त्रैविध्यं भजति । 'द्वियोश्च धमुज' इति विधार्थे धमुञ्प्रत्ययः । अस्यैव गुणभित्रास्ता- स्तिस्रोऽपि मूर्तय इत्ययमेव सर्वोपास्य इति भावः । अत्र सत्त्वादिगुणयोगस्य सृष्टयादिगुणयोगस्य च विशेषणगत्या वैविध्यहेतुत्वापदार्थहेतुकं कायलिङ्गम ॥ ६१ ॥ सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ॥ क्लेशकर्मफलभोगवाजतं 'विशेषममुमीश्वरं विदुः ॥ २ ॥ सर्ववेदिनमिति ॥ हे राजन् ! पातञ्जलिकाः योगिनः अमुं श्रीकृष्णं पुंविशेष पुरुषविशेषमीश्वराख्यं विदुः जानन्ति अविदन् । किलक्षणममुं सर्ववैदिनं सर्वशं तथा अनादि पुराणम् , अपरं किंलक्षणममुं देहिनां प्राणिनाम् अनुजिघृक्षया अनुग्रहेच्छया वपुः देहम् आस्थितमाश्रितम्, आत्मरूपत्वात् । ईश्वरस्य हि लोकाऽनुग्रहं वर्जयित्वा नान्यत् कारणं देहाश्रयणे(२)। अपरं किलक्षणममुं क्लेशकर्मफलभोगवर्जितम् अविद्यास्मितारागद्वेषा. ऽभिनिवेशाः क्लेशाः कर्माणि शुभाशुभानि आचरणानि तेषां फलं विपाकः तस्य भोगो- शुभवः तेन वर्जितो रहितस्तम् । यदि वा प्रकृतिपुरुषयोरभेदो योगः, क्लेशाश्च कर्माणि च फलं च भोगश्च तैर्जितः । उक्तं च-क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुष ईश्वर' इति । एतच्च तच्छास्त्रादेव सुबोधम् । इह तु विचारे ग्रन्थगौरवं भवति ॥ ६२ ॥ तर्हि कीदृशमस्य स्वरूपं कुतो वा मानुषविग्रह इत्यपेक्षायामुभयं निरूपयन्नाह- सर्ववेदिनमिति ॥ अमुं कृष्णं सर्व वेदिनम् । सर्वज्ञमित्यर्थः । अत एवानादिमादिराहतम् । अनादि- निधनमित्यर्थः । तथापि देहिनां प्राणिनामनुजिघृक्षयानुग्रहीतुमिच्छया । भूभाराऽवतरणार्थमित्यर्थः । ग्रहे। सनन्तामियाम् 'अप्रत्ययात्' इत्यप्रत्यये टाप् । वपुरास्थित मानुषविग्रहमास्थितम् । न करिन्धशरीर- भाजमित्यर्थः । अत एव क्लेशकर्मफलभोगवर्जितम् ले शाः पञ्च क्लेशाः अविद्यास्मितारागद्वेषाभिनिवेशा- ख्याः, कर्माणि पुण्यपापानि तेषां फले सुखदुःखे तयो गोग्नुभवस्तेन लेशेष पर्जितम् । तैरसंस्पृष्ट- मित्यर्थः । श्वरमीश्वरशब्दितं 'विशेष क्षेत्रज्ञविलक्षणं पुरुषविशेष परमपुरुषं वा विदुर्विदन्ति । सन्त इति (१)मनति। (२) हेतोः अयेण-ति मूलपुस्तके । ।

सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- शेषः । 'विदो लटो वा' इति झेरुसादेशः । अथाऽकारब्धत्वानित्यज्ञानत्वादिविरोधसमर्थनाविरोधाभासो- लिङ्कारः । तेषामेव गुणानां विशेषणगत्या 'विशेषहेतुत्वाकाव्यलिङ्गमिति सङ्करः ॥ १२ ॥ भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ॥ यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ ६३ ॥ भक्तिमन्त इति ॥ हे राजन् ! इह श्रीकृष्णे भक्तिमन्तः भक्ताः पुरुषाः अस्य संमृति- क्लेशनाटकविडम्बनाविधेः निर्वहणमन्तं यान्ति, संसृतिः संसारो जन्ममरणप्रबन्धः स. एव क्लेशो दुःखं स एव नाटकं मायामयत्वं तेन या विडम्बना विप्रतारणा लज्जा तस्याः विधिः कृतिः तस्य निर्वहणमन्तं यान्ति गच्छन्ति । भूयः संसारदुःखं नाऽनुभवन्तीत्यर्थः । किलक्षणे हरौ भक्तवत्सले भक्ताऽनुकम्पिनि, किंलक्षणा भक्तिमन्तः सन्ततस्मरणरीण. कल्मषाः सन्ततं सदैव स्मरणेन अनुध्यानेन रीणं क्षयं गतं कल्मषं पापं येषां ते तथा । अन्ये हि नाटकस्य निर्वहणाख्यसन्धि यान्ति ॥ ६३ ॥ एवं हरः स्वरूपं निरूप्य तदुपासनात्फलं युग्मनाह भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिय इहाऽस्मिन्हरौ भक्तिमन्तोऽनुरागवन्तो जनाः । पूज्येष्वनु- रागो भक्तिः । सन्ततं सततं तत्स्मरणेन निरन्तरध्यानेन रीणकल्मषाः क्षीणपापाः सन्तः। री क्षये, 'त्वादि- भ्यः' इति निष्ठानत्वम् । अस्याऽनुभूयमानस्य कृष्णस्य संमृतिः संसारस्तस्य क्लशो दुःखं तदेव नाटकमिति रूपकम् , तस्य विडम्बनाऽभिनयस्तस्य निर्वहणं समाति यान्ति । मुच्यन्ते इत्यर्थः । तमेवं विद्वानमृत इह भवति' इति श्रुतरिति भावः ॥ ६३ ॥ ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ॥ दुर्गमेकमपुननिवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥ ग्राम्येति ॥ हे राजन् ! मुमुक्षवो मुक्तिकारिणः यं भगवन्तं श्रीकृष्णं विशन्ति लीयन्ते । तेन सायुज्यं यान्तीत्यर्थः । किमर्थम् अपुननिवृत्तये भूयः संसारमनागन्तुम् । उक्तं च भारते-'मामुपेत्य च कौन्तेय ! पुनर्जन्म न विद्यते' इति । किंलक्षगा योगिनः ग्राम्यभावम् अपहातुमिच्छवः ग्राम्यभावं त्रैगुण्यं सांसारिकं भावमपहातुं त्यक्तु- मिच्छवः, तितिक्षवः । जननमरणप्रबन्धानुभवो हि पुनरुक्तत्वात् ग्राम्यत्वम् । केन योग- मार्गपतितन चेतसा योगमार्गे अध्यात्मशास्त्रे पतितं सक्तं प्रवृत्तं तेन अध्यात्मसस्तेन किलक्षणं यं दुर्ग, दुर्गमिव दुर्गः तं दुरासदम् । न हि सर्वः परं स्थानमाप्नोति किंलक्षणाः मुमुक्षवः वशिनः जितेन्द्रियाः । एकं कृष्णं, वशिनं विभुं स्वतन्त्रम् ॥ ६४ ॥ ग्राम्येति ॥ ग्रामे भवा ग्राम्याः प्राकृताः । मूढा इति यावत् । 'मामाघखत्री' इति यपत्ययः । तेषां भावस्तमपहातुं मोक्तुमिच्छवः मुमुक्षवो मोक्षार्थिनः अपुनर्निवृत्तयेऽपुनरावृत्तये पुनरावृत्त्यभावाय । मोखा- येत्यर्थः । दुःखेन गम्यत इति दुर्ग दुष्प्रापम् एकमेवाद्वितीयं वशिनं स्वतन्त्रं यं हरि योगमार्गपतितेन ध्यानमार्गनिविष्टेन । 'योगः संनहनोपाध्यानसङ्गतियुक्तिषु' इत्यमरः । चेतसा विशन्ति, ध्यायन्तीत्यर्थः । ये विशन्ति इह भक्तिमन्त इति पूर्वेणान्वयः ।। ६४ ॥ आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ॥ बिभ्रते भुवमधः सदाऽऽथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।। ६५ ।। आदितामिति ॥ हे राजन् ! एवं विधायाऽस्मै नमः, अस्त्विति शेषः । किंलक्षणाय देहिनां भूतानाम् आदितां कारणत्वं दधते विभ्रते, अपरं किंलक्षणाय अजननाय अविद्यमान मनसा, ..

सर्गः ।] शिशुपालवधे। ५०१ . . नास्ति जननं जन्म यस्य सः तथा तस्मै । स जगत्कारणं, तस्य तु न किचिदित्यर्थः । विरुद्ध चैतत्, यो हि न जायते स कथमादित्वं विति। अपरं किलक्षणाय रुद्ररूपेण देहिनां भूतानाम् अन्ता नाशकत्वं च दधते, अन्तयति नाशयतीति अन्तः तस्य भावः तत्ता ताम्, अपरं किलक्षणाय अनपायिने अविद्यमानः अपायो नाशो यस्य सः तथा तस्मै । अनन्ताय जगदन्ताय चेत्यर्थः । यश्च अन्तत्वं दधाति स कथमनपायः स्यादिति विरोधः। अपरं किंलक्षणाय अधः अधस्तात् भुवं बिभ्रते पृथ्वी धारयते अनन्तनाग- रूपेण, अपरं किंलक्षणाय सदा नित्यं ब्रह्मणोऽपि वेधसोऽपि उपरि तिष्ठते ऊर्ध्वमवस्थिताय सर्वोत्कृष्टत्वयोगात् । यदि वा ब्रह्मलोकादपि ऊर्ध्व भगवतोऽवस्थितिः, सर्वव्यापक- त्वात् । यः किल पातालस्थः, स कथं ब्रह्मलोकमधः कुर्यादिति विरोधः । उक्तं च- अनाद्यनन्ताय जगतो जन्मकारिणे । सर्वगाय नमस्तुभ्यं वाक्यार्थोऽयमिह स्थितः ॥६५॥ अथ भक्त्युकानमस्करोति- प्रादितामिति ॥ देहिनां प्राणिनामादिता कारणताम् , अन्तोऽन्तकरो नाशहेतुः । तत्करोनि-' इति ण्यन्तादन्त यतेः पचायत । तस्य भावस्तत्तामन्ततां च दधते । 'यतो वा इमानि भूतानि जायन्ते' इत्यादि. श्रतः। स्वयमजननाय जन्मरहिताय, अपायोऽस्यास्तीत्यपायी म न भवतीत्यनपायी तस्मा अनपायिने नाशरीहताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह-सदाऽधः पाताले भुतं बिभ्रत कूर्म- रूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याऽप्युपरि तिष्ठते, सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः। नमः नमस्कारः । नमःस्वस्ति-' इत्यादिना चतुर्थी । अत्र हरेरनादिनिधनत्वेन तद्वतः पुरुषान्तरादाधि- क्यवर्णनाध्यतिरेकालङ्कारः ॥ ६५ ॥ केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ॥ धातवः सृजतिसंहशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ६ ॥ केवलमिति ॥ हे राजन् ! सृजतिसंहशास्तयः सृजतिश्च संहृ च शास्तिश्च ते सृजति- संहशास्तयः धातवः इह भगवद्विपये केवलं कर्तृवाचिनः प्रत्ययान् दधति सदा कर्तृकारक- वाचकान् प्रत्ययान् तिबादीन् धारयन्ति, जातु कदाचिन्न कर्मणि कारके न कर्मवाचकान् दधति । एष हि ब्रह्मविष्णुरुद्ररूपेण सृजति शास्ति संहरति च । उक्तं च- विश्वं जगत्सृजति यः परमादिदेवो यश्च स्थिति त्रिभुवनस्य भवं(?) विधत्ते । यश्योपसंहरति सर्वमिदं युगान्ते तस्मै नमो भगवते पुरुषोत्तमाय ॥ ननु एष सृज्यते संहियते शिष्यते च इति कदाचिन्न । अपरम् इह श्रीकृष्णे स्तौतिः स्तुत्यर्थो धातुः विपरीतकारकः विपरीतं कारकं कर्ता यस्य सः तथा । कर्मण्येव प्रत्ययं दधाति न तु कर्तरीत्यादि स भगवान् किल ब्रह्मादिभिः स्तूयते । न तु एष कञ्चित् स्तौति॥६६॥ केवलमिति ॥ मृजतिश्च संहा च शास्तिश्च मृजतिसंहशास्तयः। मृज विसर्गे, हृञ् हरणे सम्पूर्वोऽयं, शासु अनुशिष्टौ इत्येते त्रय इत्यर्थः । 'इश्तिपी धातुनिर्देशे' इति वचनादेवं निर्देशः । धातवो 'भूवादयो धातवः' इत्युक्तलक्षणाः शब्दविशेषाः । इहाऽस्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृ- वाचिनः कर्तृकारकवाचकान् दधति । तदन्ता एव भवन्तीत्यर्थः । जातु कदाचित्कर्मणि प्रत्ययान कर्मार्थविहि- तान् यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच-सृजात स्रष्टा, संहरति हर्ता, शास्तति शासितेत्यादिभिः कर्तृत्वेन निर्दिश्यते । न कदाचित सृज्यत, सहियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाचेति भावः । किञ्च अत्र भगवति स्तौतिः 'ष्टुञ् स्तुतौ' इति धातुः । विप. .

५०२ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- ॥ । रीतं कारकं यस्य सः विपरीतकारकः, स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव। नतु कदाचित सति स्तोता इत्यादिकर्तृप्रत्ययातः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । भष शब्दानां कर्मकर्तृप्रत्यय- विधिनिषेधद्वारा विभक्त्यन्तरण सर्वकर्तृत्वसर्वोपास्यत्वादिसूक्ष्मार्थबोधपरत्वातसक्षम्याख्यो गुणः । 'अन्त:- सल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते' इति लक्षणात् । अत्र भगवतः मृष्ट्यादिकर्तृकर्मत्वोभयप्राप्तावेकबैक. नियमात्परिसख्या । तत्र जातु कर्मणीति शन्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शन्दात् स्तुती कर्तृत्व- निवृत्तिराधीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीतिरेकश्च प्रतीयत इत्यलकारेणा- लङ्कारध्वनिः ॥६६॥ पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ॥ तत्र (१)कारणमभूद्धिरण्मयं ब्रह्मणोऽस्जदसाविदं जगत् ॥ ६७ ॥ पूर्वमिति ॥ हे राजन् ! एष भगवान् पूर्वमादौ किल पुराणादौ श्रूयते-अपः सृष्ट- वान् जलानि ससर्ज, तास असु अनिवार्य दुःसहं वीर्य शक्तिम् आदधौ चिक्षेप, तत्र बोयें ब्रह्मणः कारणं वेधसः उत्पादकं हिरण्मयं सौवर्णमभूत् अभवत् । किं तदिति चेत्- आगमात् अण्डम् । स ब्रह्मा इदं जगत् विश्वम् असृजत् ससर्ज । तेन विष्णुः कथं न सृष्टः इति न वक्तव्यमिति भावः । किलाऽऽगमे । एवं हि मनुः । उक्तं च- सोऽभिध्याय शरीरात्स्वात् सिमक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमवाक्षिपत् ॥ तदण्डमभवढेमं सहस्रांशुसमप्रभम् । तत्र जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ इति ॥६॥ पूर्वमिति ॥ एष हरिः पूर्व प्रथममपः सृष्टवान् । किलेत्यैतिथे । तास्वप्सु अनिवार्य वीर्य रेतः । 'शुक्र नेजो रेतसी च बीजवीर्ये न्द्रियाणि च' इन्यमरः । आदधावाहितवान् । तद्वीर्य तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । 'दाण्डिनायन' इत्यादिना निपातः । ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्राह्ममण्डं जातमित्यर्थः । अमौ तदुत्पत्रो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्याध्यमेव मूलकारणमिति भावः । मनुः- 'अप एव समजादो तासु बीजमवामृजत् । तदण्डमभवर्तमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः'। इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः ॥ ६ ॥ मत्कुणाविव पुरा परिप्लवी सिन्धुनाथशयने निषेदुषः ॥ गच्छतः स्म मधुकैटभी विभोर्यस्य नैद्रसुखविनतां क्षणम् ॥ ६८ ॥ मत्कुणाविवेति ॥ हे राजन् ! यस्य विभोः स्वामिनः श्रीकृष्णस्य पुरा पूर्व सृष्टि- काले सिन्धुनाथशयने निषेदुषः सागरशय्यायां स्वपितवतः मधुकैटभौ दानवौ क्षणं नैद्र- सुखविघ्नतां नैद्रसुखस्य निद्राजनितस्य सुखस्य क्षणमात्रं विनता गच्छतः स्म अन्तरायत्वं जग्मतुः । किंलक्षणौ मधुकैटभौ परिप्लवो चपलौ, काविव मत्कुणाविव । यथा कस्यचित् उसस्य चपली मत्कुणौ निद्रामुखस्य विघ्नतांगच्छतः । एतेन हनने नाऽऽयास उक्तः । यथा चपली मत्कुणौ हस्तस्पर्शमात्रेणैव नश्यतः, एवं तो भगवदगासङ्गेनैव नष्टौ इत्यर्थः ॥६॥ (१) तच्च।

सर्गः।] शिशुपालवधे। ५०३ -- । ब्रह्मा विधाता . अथैनं विभिशिनष्टि- मन्कुष्णाविवेति ॥ पुरा पूर्व परितवी चञ्चलौ । मुहुरितस्ततश्चलन्तावित्यर्थः । 'चञ्चलं चंपलं तूर्ण(?) पारितवपरितव' इत्यमरः। मधुकैटभावसुरविशेषो मत्कुणौ सुप्ताऽसक्पायन। मलाइवौ काटावेशेषौ नाविवे- न्युपमा । सिन्धुनाथः सारत्पतिः स एव शयनं तत्र निषेदुषो निषण्णस्य । समुद्रशायिन इत्यर्थः । 'भाषायां सदवस श्रुवः' इति लिटः कसुरादेशः । विभोः यस्य हरेः क्षणं निद्रायाः सम्बन्धिनः आगतं वा नेदं यत्सुखं तस्य विघ्नता विधातुं कर्तुं गच्छतः स्म गतौ । तावृशावपि महासुरी मत्कुणाविध क्षणमात्रेण प्रनष्टाविति भग- यतः प्रभावातिशयोक्तिः । एषां प्रयाणां पूर्वेणान्वयः ॥ ६८ ॥ श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ॥ श्रीमुखेन्दुसविधेऽपि राजते (१)यस्य नाभिसरसीसरोरुहम् ॥ ६९ ॥ श्रौतेति ॥ हे राजन् ! यस्य विभोः नाभिसरसीसरोरुहं राजते शोमते, नाभिरेव सरसी कासारः तत्र सरोरुहं पभं राजते शोभते, न तु सङ्कुचितम् । क सति श्रीमुखेन्दु- सविधेऽपि सति लक्ष्मीवदनचन्द्रसन्निधानेऽपि सति । इन्दूदयात् हि पभानि संमीलन्ति किंलक्षणं नाभिसरसीसरोरुहं श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भ श्रुतिवेदः तस्य भावः श्रौत (१) स चासौ मार्गः श्रौतमार्गः वेदमार्गः तस्य सुखं सुखकारि यत् गानं पाठः तत्र कोविदश्चतुरो योऽसौ षट्चरणः षट्पदो भृङ्गः स गर्भो गर्भ वा यस्य तत् तथोक्तम् । ब्रह्मा हि भगवतो नाभिकमले वसति । सरोजमपि श्रुतिपथसुखकारि, चतुर- भ्रमरगभं भवति । अपरं किलक्षणं नाभिसरसीसरोरुहम् उज्ज्वलं मनोज्ञम् ॥ ६९ ॥ श्रौतेति ॥ श्रौतमार्गस्य सुखं सुखकरं यद्वानं तस्य कोविदोभिज्ञः। कोविदो व्याख्यातः। स चासो ब्रह्मा स एव षट्चरणः स गर्भे यस्य तत् उज्ज्वलं निर्मलं यस्य हरेर्नाभि रेव सरसी सरः कासारः । 'कासारः सरसी सरः' इत्यमरः । तस्यां सरोरुहं पद्मं धियो मुखमिवेन्दुस्तस्य सन्निधौ समीपेऽपि शोभत इति विरोधः । स च मुखस्येन्दुत्वरूपणायत्त इत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ ६९ ॥ सत्यवृत्तमपि मायिनं जगवृद्धमप्युचितनिद्रमर्भकम् ॥ जन्म बिभ्रतमज नवनवं यं (२)पुराणपुरुष प्रचक्षते ॥ ७० ॥ सत्येति ॥ हे राजन् ! यं भगवन्तं श्रीकृष्णम् एवंविधं प्रचक्षते आहुः बुधाः । किं. लक्षणं सत्यवृत्तं परमार्थचेष्टं ब्रह्मरूपत्वात्, अपरं किंलक्षणं यं मायिनं मोहकम् । यदाह- 'दैवी होषा गुणमयी मम माया दुरत्यया' इति । माया ऋद्धिः, तत्त्वविशेषो वा । यः सत्यवाक्, स कयं मायिको भवेत् । माया कपटः । अपरं किंलक्षणं यं जगवृद्धम् आद्य- कारणत्वात्, अपरं किंलक्षणं यम् उचितनिद्रं परिचितयोगस्वापम् । अपरं किंलक्षणं यम् अर्भक बालकम्, उक्तं च-'बालः स्वपिति यश्चैकः तस्मै मायात्मने नमः' इति । या निद्रालुल: स कथं वृद्धो भवेत् । अपरं किंलक्षणं यं जन्म अवतारं बिभ्रतं धार- यन्त, रामादिरूपत्वात् । अपरं किलक्षणं यम् अर्ज जन्मरहितम् , आत्मरूपत्वात् । उक्त च-म जायते न म्रियते' इति । यश्व जन्म बिभर्ति, स कथम् अजः स्यात् । अपरं किं लक्षणं यं नवन नित्यनवम् अक्रियत्वात्, अपरं किलक्षणं यं पुराणपुरुष नित्यमीश्वरम् । या पुराणः, स कथं नवो नवो भवेत्। अपि तु सर्वत्र विरोधे । नवनवमिति वीप्सायां द्वित्वम् ॥ ७० ॥ (१) शोभते । (२)नवं बुधा यं।

५०४ सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- सत्येति॥ हरि सत्यवृत्तमकपटचरितमपि मायिन मायाविनं कपटवन्तामति विरोधः। माया नाम शक्तिः, सान्तमित्यविरोधः । ब्राह्मादित्वादिनिप्रत्ययः । जगवृद्धं सर्वलोकपितामहत्वात् स्थविरमपि । 'प्रत्याः स्थविरो वृद्धः' इत्यमरः । उचितनिई परिचितयोगनिमर्भकं डिम्भम् । 'वटस्य पत्रस्य पुटे शयानं वानं मुकुन्द मनसा स्मरामि' इत्यागमवचनादिति भावः । 'पोतः पाकोऽर्भको डिम्भः' । इत्यमरः । न जायत इत्यजो जन्म- रहितः । 'अन्येभ्योऽपि दृश्यते' इति जनेर्डप्रत्ययः। तमपि, जन्म बिभ्रतम् । कामवशात्कृष्णादिजन्मभाज- मित्यर्थः । नवं रमणीयत्वादभिनव तथापि पुराण प्राचीनमनादि च पुरुषं प्रचक्षते बुधा इति वाक्यं सर्वत्र सम्बध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाऽऽभास्या इति विरोधाभासचतुष्टयसंमृष्टिः ॥ २० ॥ इदानी प्रादुर्भावमुखेन स्तौति- स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लधामयम् ॥ उद्धतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ ७१ ॥ स्कन्धेति ॥ हे राजन् ! अयं भगवान् श्रीकृष्णः स्थूलनासिकवपुः वराहरूपः सन् वसुन्धरां पृथ्वी मुहूर्त क्षणम् उद्धृतामिव कृतोद्धारामिव ऐक्षत ददर्श विवेद । किंलक्षणां वसुन्धरां स्कन्धधूननविसारिकेसरक्षितसागरमहाप्लवां स्कन्धस्य धूननेन अंसस्य कम्पनेन विसारिभिः प्रसृतैः केसरैः सटाभिः क्षिप्तः प्रेरितः सागरस्याऽम्भोधेः सम्बन्धी महाप्लव: उदकस्य पूरो यस्याः सा तथा ताम् । अतः अदृश्यरूपत्वात् उद्धृतामेषोऽबोधीत्यर्था- न्तरम् । स्थूलनासिकस्य शूकरस्य वपुर्देहो यस्य सः स्थूलनासिकवपुः ॥ ७१ ॥ अथ षोडशभिरवतारान्वर्णयिष्यन् वराहावतारं तावदेकेनाह- स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कन्धरायाः धूननेन कम्पनेन विसरिभि- रुत्सपिभिः केसरैः सटाभिः क्षिप्तोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलाऽप्रसारण प्रका- शितामित्यर्थः । वसुन्धरा भुवं मुहूर्त क्षणमात्रम् । 'मुहूर्नमल्पकालपि' इति शब्दार्णवे । उद्धृतामना- वृत्त वात्मागरादुशितामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षः । ईक्ष नेर्लङि आडजादीनाम् . 'आटच' इति वृद्धिः ॥ दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ॥ दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरवापय(१)नखैः ॥ ७२ ॥ दिव्येति ॥ हे राजन् ! एष श्रीकृष्णः दिव्यकेसरिवपुः नृसिंहरूपः सन् सुरद्विषः हिरण्यकशिपोः वक्षः उरस्तटं नखैः करजैः निरवापयत् शर्म निन्ये । व्यदारयदित्यर्थः । किंलक्षणं वक्षः दुनिवाररणकण्डु दुर्निवारा निरसितुमशक्या रणकण्डूः समरदो यस्य यत्र वा तत्तथा, अपरं किंलक्षणं वपुः आयुधैरपि वज्रादिभिः प्रहरणैरपि नैव लब्धशर्म नैव प्राप्त- शान्ति, किलक्षणै खैः कोमलैः मृदुभिः । नखैरशीशमदित्यनायासः प्रतिपाद्यते । यस्या. पि महती कण्डूर्भवति, तस्य कश्चित्कोमलै खैः न शमयति ॥ ७२ ॥ द्वाभ्यां नृसिंहावतारमाह- दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यासिंहमूर्तिः हरेरायुधर्वजादिभिरपि नैव लब्धशममप्राप्तशान्ति, दुनि- वारा दुर्जया रणकण्डूर्यस्य तत । रणव्यसनीत्यर्थः। 'गोभियोरुपसर्जनस्य' इति ह्रस्वः । सुरक्षिषो हिरण्य- कशिपोर्वक्षः कोमलेनवः निरदारयदभिनव । बजायभेयस्य कोमलनखविदार्यत्वं भगवत्प्रभावादिति विरोधा- भासोऽलङ्कारः ॥ २॥ वारिधेरिव कराप्रधीचिभिर्दिङमतङ्गजमुखान्यभिन्नतः ॥ यस्य चारुनखशुकयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ ७३ ॥ (१) निरदार। । - ..

सर्गः।] शिशुपालवधे । ५०५. वारिधेरिवेति ॥ हे राजन् ! यस्य च दिव्यनृसिंहमूतः चारुनखशुक्तयः मनोज्ञ- नखरपुटाः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः स्फुरन् उल्लसन् योऽसौ मक्तिकप्रकरः मुक्ता- फलसमूहः सः गर्ने यस्य सः तथा स्फुरन्मौक्तिकप्रकरगर्भः तस्य भावः तत्ता ताम् । मौ- किकानि विचकरुरित्यर्थः । यस्य किं कुर्वतः कराग्रवीचिभिः दिङ्मतङ्गाजमुखानि अभि- घ्नतः करागैरेष वीचिभिः ऊर्मिभिः दिग्गजवक्ताणि अभिघ्नतः विदारयतः। सिंहानां हि जातिस्वभावोऽयं, यद्विदारणम् । कस्येवेत्याह-वारिधेरिव । यथा वारिधेः समुद्रस्य स्वैर्वीचिभिः मुखान्यभिघ्नतः शुक्तयः स्फुरन्मौक्तिकप्रकरगर्भत्वं दधति । वेगवत्तरङ्गसङ्गात् हि शुक्तीनां कपाटभेदो भवति ॥ ७३ ॥ वारिधेरिवति ॥ कराग्राणि वीचय इवेत्युपमितसमासः, वारि धेरिविति लिङ्गात् । ताभिः करामवीचिभिः। दिगन्तवितताभिरिति भावः । अत एव दिमतगाजानां मुखान्यभिघ्रतो रोषोऽतिरेकात्प्रहरतो यस्य सिंहमूर्तेह रेरि धेरिव चारुनखाः शुक्रय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरो दिग्गजकुम्भ- सम्भूतमुक्तावातो गर्भेऽन्तर्गतो यासा तासां भावस्तत्ता तां दधुः । एष निरदारयदिति पूर्वेणान्वयः । एतेन नरहरिक्रोधस्य महासुरेऽपि न पर्याप्तमिति (?) व्यज्यत इति वस्तुना वस्तुवनिः । उपमालङ्कारः ॥ ७३ ॥ दीप्तिनिर्जितविरोचनादयं द्यां(१) विरोचनसुतादभीप्सतः ।। आत्मभूरवरजाऽखिलप्रजः स्वर्पतेरवरजस्वमाययौ ॥ ७४ ॥ दीप्तीति ॥ हे राजन् ! अयं श्रीकृष्णः स्वर्पतेः इन्द्रस्य अवरजत्वम् आययौ अनु- जन्मत्वं प्राप, किंलक्षणस्य स्वर्पतेः विरोचनसुतात् वैरोचनात् बले: दैत्यात् द्यां स्वर्गम् अभाप्सतः जिघृक्षतः । तेन हि बलिना बलेन देवेन्द्रस्य प्रभुत्वं हृतमासीत् । किं- लक्षणात विरोचनमृतात् दीप्तिनिर्जितविरोचनात् दीप्त्या तेजसा निर्जितः विरोचनः श्री- सूर्यो येन सः तथा तस्मात् तेजसा निर्जितसूर्यात् , किंलक्षणोऽयम् आत्मभूः आत्मनः एवं भूर्जन्म यस्य सः तथा अजः, अत एव अपरं किलक्षणोऽयम् अवरजाऽखिलप्रजः अवरजा- अर्वाचीना अखिलाः समग्राः प्रजाः लोका यस्य सः तथा जगच्छृष्टः । एतेन कर्मा- धीनत्वं निरस्तम् । आत्मभूरपि दितिजशत्रुहितार्थ जातो, न तु कर्मप्रेरित इत्यर्थः ॥ ७४॥ अथ चतुर्मिर्वामनावतारमाह- दीप्तीति | आत्मना भवतीति आत्मभूः स्वयम्भूरपि, अवरजाश्वरमजा अखिलाः प्रजा जना यस्य मोऽपि । सर्वज्येष्ठाऽपीत्यर्थः । अयं हरिः दीप्तिनिर्जितविरोचनाग्ज्योतिविजितमार्तण्डात् । विरोचनः प्रह्लाद- पुत्रः । 'विरोचनो दहने चन्द्रे प्रलादनन्दने' इत्युभयत्रापि विश्वः । तस्य सुतादलेर्वा भुवमभीप्सतः प्राप्तुमिच्छतोऽभ्याहर्तुमिच्छतः । सन्तादामोतेर्लटः शत्रादेशः । स्वर्पतेरवरजत्वमिन्द्रानुजत्वं ययौ । बालब. सनार्थमिति शेषः । लोकानुग्रहार्थिनः किं न कुर्वन्तीति भावः । अत्राऽजत्वावरजत्वसामानाधिकरण्यावरोधो भगवत्प्रभावादाभासीकृत इति विरोधाभासोऽलङ्कारः ॥ ७४ ॥ क क्रमिष्यति किलैष वामनो यावदित्थमहसन् न दानवाः ॥ तावदस्य न ममौ नभस्तले लविताऽर्कशशिमण्डलः क्रमः ॥ ७९ ॥ किमिति ॥ हे राजन् ! तदा च यावत् इत्थमनेन प्रकारेण दानवाः अमराः न अह- सन् न जहसः, तावत् अस्य भगवतः क्रमः पादविक्षेपः नभस्तले न ममौ आकाशे न माति. स्म ।ववृधे इत्यर्थः । किंलक्षणः क्रमः लविताऽर्कशशिमण्डलः लधितमतिकान्तम् अर्क- (१)गां। ४३ शि०० ..

२०६ सन्देहविषौषधिसर्वरूपायुते- - [चतुर्दशः- शशिमण्डलं सूर्यचन्द्रबिम्बं येन सः तथा सर्वव्यापी । कथमहसन् दानवा इत्यत आह- किलेत्युपहासे, एष वामनः अल्पप्रमाणो विप्रः किं क्रमिष्यति कियती भुवं लब्धयिष्यति व्याप्स्यतीति । एतेन हि क्रमत्रयमर्थितमभूत् ॥ ७९ ॥ किमिति । एष वामनः खर्वः । 'खों ह्रस्वश्च वामनः' इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारण दानवा यावनाऽहसंस्तावत्ततः प्रागेव लडितेऽतिक्रान्ते अर्कशशिमण्डले येन सोम्स्य हरेः क्रमः पादविक्षेपो नभस्तले न ममा न परिमार्ण गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारानभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालङ्कारभेदः । 'आश्रयायिणोराधिक्यमधिकामिति लक्षणात् ॥ ५ ॥ गच्छताऽपि गगनाऽप्रमुखकैर्यस्य भूधरगरीयसाऽघ्रिणा ॥ क्रान्तकन्धर इवाऽचलो(१) बलिः स्वर्गभर्तुरंगमत्सुबन्धताम् ॥ ७६ ॥ गच्छताऽपोति ॥ हे राजन् ! यस्य श्रीकृष्णस्य अघ्रिणा पादेन क्रान्तकन्धर इव क्रान्तग्रीव इव अचलो निश्चेष्टो बलिः वैरोचनः स्वर्गभर्तुः इन्द्रस्य सुबन्धताम् अगमत् ययौ, मुखेन बध्य इति सुबन्धः तस्य भावः तत्ता तां ययौ। अक्लेशेनैव बद्ध इत्यर्थः। यस्य गले हि पादः क्रियते, स निश्चेष्टत्वात् सुबन्धो भवति । किलक्षणेन अघ्रिणा उच्चकैः उन्नतेन, अपरं किंलक्षणेन अघ्रिणा भूधरगरीयसा भूधरवत् अद्रिवत् गरीयसा अतिमहता, अपरं किलक्षणेन अघ्रिणा गगनाऽयं गच्छताऽपि आकाशप्रान्तं गच्छताऽपि कामताऽपि । अपि विरोधे-यः किल नभः आक्रान्तः, स कथं भूस्थस्य कन्धरामाक्रमते ॥ ७६ ॥ गच्छताऽपीति ॥ गगनाध्यं गगनोपरिभागं गच्छताऽपीति विरोध: । भूधरगरीयसेत्युपमा। यस्य वामन- स्योच्चकैरुत्रतेनाप्रिणा कान्तकन्धरोम्वष्टन्धकण्ठ स्वाऽबलो दुर्बलो बलि रोचनिः स्वर्गभर्तुरिन्द्रस्य सुख्खन बध्यत इति सुबन्धः। 'षिदुःसुषु-'इत्यादिना खलपत्ययः। तत्तामगमत् । गुरुव्याऽवष्टन्धकण्ठो हि सुखेन बध्यते इति भावः । 'न लोका-' इत्यादिना कृयोगलक्षणाया एव षष्ठ्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी । अत्र क्रान्तकन्धर इवत्युत्पशाया भूधरगरीयसेत्युपमानापेक्षत्वात्सरः। विरोधेन त्वनपेक्षिता संमृष्टिः ॥७६॥ कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ॥ व्योनि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुस्थितम् ॥ ७७ ॥ कामत इति ॥ हे राजन् ! तदा च अस्य हरेः दूरमत्यर्थ कामतः सतः दिवौ- कसो देवाः आयतं दीर्घम् उरुं ददृशुः सक्थिम् ऐक्षन्त, किंलक्षणमूरुम् अलिनीलं भृङ्गकृष्णम् । अपरं किंलक्षणमूहम्, उत्प्रेक्ष्यते-व्योम्नि आकाशे उत्थितं यमुनौघमिव कालिन्दीपूरमिव, कया उत्थितं दिव्यसरिदम्बुपद्धतिस्पर्धया दिव्यसरित् त्रिपथगा तस्याः अम्बु पानीयं तस्य पद्धतिः सरणिः तस्याः स्पर्धा ईर्ष्या तयेव मन्दाकिनीजलसरणी- ययेव । एषाऽत्र गङ्गा, अहं किं न भव्या । मम पार्वात् (?) ॥ ७७ ॥ कामत इति ॥ कामतः पादं विक्षिपतोऽस्य सम्बन्धिनं दूरमायतमालनीलं भृङ्गश्याममूह सक्थि दिवौकसो देवा ज्योम्नि दिव्यसरितो मन्दाकिन्या भम्बुपद्धत्या जलप्रवाहेण स्पर्धया उत्थितमतः प्रवृत्तं यमुनौघं यमुनाप्रवाहमिव ददृशुरित्युत्प्रेक्षेयमुपमासङ्कीर्णा ॥ ७७ ॥ यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ॥ कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनाऽपि बाधते ॥ ७ ॥ यस्येति ॥ हे राजन् ! यस्य हरेः किञ्चित् मनागपि अपकर्तुमक्षमः अपकार विधातु- .. (१) बलो।

सर्गः।] शिशुपालवधे। ५०७" मसमर्थः सन् राहुः स्वर्भानुः इन्दुं चन्द्रमसम् अधुनापि बाधते इदानीमपि पीडयते, असति. इत्यर्थः । किंलक्षणो राहुः कायनिग्रहगृहीतविग्रहः कायस्य शरीरस्य निग्रहो नाशः तस्मात् गृहीतः स्वीकृतः विग्रहो वैरं येन सः तथा देहनाशात् स्वीकृतविरोधः । अथ यदि हरिणाऽस्य शिरश्छिन्नं, तं चासौ बाधितुमक्षमः, तन्निरागसः शशिनः किमा- यातं, यत् तमत्तीत्याह-किलक्षणमिन्दु कान्तक्त्रसदृशाकृति कान्तं तेजोयुक्तं यत् वैष्णव वक्त्रं तस्य सहशी आकृतिः शोभा यस्य सः तथा तम् । सकिल हस्तिबाधायामशक्तः तत्पु- रोषे क्रोधं मुञ्चति। यदि असौ शौरि बाधित न शक्नोति, तन्मुखेन्दुसाम्याच्च इन्दुं बाध- ते । किंलक्षणो राहुः कृती, उल्लुण्ठनायाम् । एतावताऽसौ कृती कृतार्थः, मूर्योऽसौ । यतस्तद्वाधया भगवता वैरं शुद्धं वेत्तीत्यर्थः । लोकहितार्थ राहोरनेन शिरश्छिन्नमिति वाक्यार्थः ॥ ७८॥ अवतारान्तरमाह- यस्येति ॥ कायनिग्रहेणाऽमृतावभागकाले देहच्छेदन गृहीतविग्रहो बद्धवरः कृती कुशलो राहुर्यस्य हरेः किञ्चिपदकर्तुमक्षमः सन् कान्तं रम्यं यद्वक्त्रं हरिमुखं तेन सदृशी आकृतियस्य तम् । तत्सुहृदामित्यर्थः। इन्दुमधुनाऽपि बाधते पीडयति। उपरागमिषेणेति भावः । अत्र साक्षात्प्रतिपक्षहरिनिग्रहाऽशक्त्या राहोस्तदीये- म्दुनिग्रहोक्त्या प्रत्यनीकालङ्कारः। तथा च सूत्रम्- 'प्रतिपक्षप्रतीकाराशकौ तदीयतिरस्कारः प्रत्यनीकम्' इति । सम्प्रदायविगमादुपेयुषीरेष नाशमविनाशिविग्रहः ॥ स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥ सम्प्रदायेति ॥ हे राजन् ! एष हरिः अत्रिगोत्रजः दत्त इति अभवत् पूर्व दत्तात्रेयो नाम्नाऽभूत् । अत्रिगोत्रं शिश्रायेत्यर्थः । किं कर्तु श्रुतीः वेदान् स्मर्तु श्रुतीनां स्मरणाय, किंलक्षणाः श्रुतीः सम्प्रदायविगमात् नाशमुपेयुषीः आम्नानाऽभावात् विनाशं प्राप्ताः । पूर्व हि द्वादशवार्षिक्यामनावृष्ट्यां जगन्नष्टमभवदित्यागमः । तर्हि एष कथं स्मरतीत्याह- किलक्षणः एषः अप्रतिहतस्मृतिः अनष्टज्ञानः, अपरं किंलक्षणः एपः अविनाशिविग्रहः अविनाशी नित्यः विग्रहः शरीरं यस्य सः तथा शाश्वतिकदेहः, नित्य इत्यर्थः । जगद्धितार्थमेष जन्म गृह्णाति । उक्तं च- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ इति ॥७९॥ दत्तात्रयावतारमाह- सम्प्रदायति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः सम्प्रदाय उपदेशपरम्परा तस्य विगमादपायानाशं कालदोषादध्ययनविच्छेदमुपेयुषीः प्राप्ताः । 'उगि- त' इति डीप । श्रुतीदान् । 'श्रुतिः मी वेद आनायः' इत्यमरः । स्मर्तुम् , श्रुतिसम्प्रदाय प्रवर्तयितुमि- त्यर्थः । दस इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् । दत्तात्रेयोऽभूदित्यर्थः । अत्रा- ऽनपायित्वस्मृत्यप्रतिघातयोविशेषणगत्या श्रुतिस्मृतिहेतुत्वोक्त्या काव्यलिङ्गम् ॥ ७९ ॥ रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ॥ लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८० ॥ रेणुकेति ॥ हे राजन् ! अयं च हरिः रेणुकातनयतां रेणुकायाः तनयतां पुत्रतामुपागतः ..

सन्देहविषौषधिसर्वकषायुते- [चतुर्दश:- - : प्रातः सन् अर्जुनवनम् अर्जुनमेव वनं कार्तवीर्यमेव काननम् एवं व्यधात् चकार । कृत्त- मित्यर्थः । किलक्षणमर्जुनवनं शातितप्रचुरपत्रसंहति शातिता नाशिता प्रचुराणां बहूनां पत्राणां वाहनानाम् अश्वेभरथादीनां संहतिः सङ्घातो यस्य तत्तथोक्तम् , अपरं किंलक्षण- मर्जुनवनं लूनभूरिभूजशाख लूनाः छिन्ना भूरयो बहवः भुजा हस्ता एव शाखाः शिफाः यस्य तत्तथा । किलाऽसौ सहस्रबाहुरभवत् । अपर किंलक्षणं वनम् उज्झितच्छार्य त्यक्तकान्ति । भार्गवो रामः भगवानेष तं जघानेति वाक्यार्थः । वनमपि शातितप्रचुरप्रत्र- संहति सत् तथा लूनशाखं च सत् उज्झितच्छायं भवति ॥ ८० ॥ परशुरामावतारमाह- रेणुकति । अयं हरिः रेणुकातनयतां परशुरामत्वमुपागतः सन् , अर्जुनः कार्तवीर्यार्जुनः । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः' इत्यनेकार्थेऽपि रेणुकेयविरोधित्वात्रिश्चयः । तदु हरिणा- 'संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य सन्निधिः ॥ सामर्थ्य मौचिती देशः कालो व्यकिः स्वरादयः । शब्दार्थस्याऽनवच्छेदे विशेषस्मृतिहेतवः ॥ इति । स एव वनं तत् , शातिता छिन्ना प्रचुरा प्रभूतः पत्रसंहनिर्वाहनसमूहः पर्णसङ्घातश्च यस्य तत् । 'पत्रं स्याद्वाहने पर्ण' इति विश्व: । लूनाश्छिन्ना भूरयः प्रचुरा भुजा एवं शाखा यस्य तत् , उज्झिता छाया कान्तिरनातपश्च यस्य तत्तथा व्यधाद्विहितवान् । दधात डि 'गातिस्था-'इत्यादिना सिचो लुक् । 'छाया सूर्याप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अत्र समस्तवस्तुविषयं मावयवं रूपक व्यक, तथ छायेति पनि च श्लेषप्रतिभोत्थापिताऽभेदानिशयोक्त्याऽनुप्राणितमिति मकरः ॥ ८० ॥ एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।। राक्षसीमकृत रक्षितप्रजस्तेजसाऽधिप(२)विभीषणां पुरीम् ॥ ८१ ॥ एष इति ॥ हे राजन् ! एप श्रीकृष्णः दाशरथिभूयम् एत्य दशरथपुत्रत्वं प्राप्य राक्ष- सी पुरी रक्षसां सम्बन्धिी नगरी लङ्कां ध्वंसितोद्धतदशाननामपि हतोत्कटरावणामपि यतः तेजसा प्रभावन अधिपविभीषणाम् अकृत विभीषणो रावणभ्राता अधिपो नाथो यस्यां सा तथा अधिपविभीषणा ताम् अकरोत् । रावणं हत्वा विभीषणस्वामिकां चकारेत्यर्थः । अपि विरोधे, यस्या हि भयकारी दशमुखो हतः, साऽधिकविभीषणा स्यात् । किलक्षणः एषः रक्षितप्रजः रक्षोवधात पालितभुवनः ॥ ८१॥ रामाऽपतारमाह- एष इति । किञ्चेति चार्थः । रक्षितपजः एष हरिर्दशरथस्याम्पत्यं पुमान् दाशरथी रामः । अत. इन । तस्य भावः दाशरथिभूयं रामत्वम् । 'भुवो भावे' इति क्यप् । एत्य प्राप्य वसितो हत उद्धती दृप्तो दशाननो रावणो यस्यां तामपि राक्षसी रक्षासम्बन्धिी पुरी लङ्का तेजसा स्ववीर्येणाधिकविभीषणा- मत्यन्तमीषणामकृतेति विरोध: । भयहेतोरुद्धतस्य रावणस्य सनादधिको महान् विभीषणो रावणानुजा यस्यां तामित्यविरोधः । अत एव विरोधाभासो लङ्कारः ॥ ८ ॥ निप्रहन्तु(२)ममरेशविद्विषामर्थितः स्वयमथ स्वयम्भुवा ॥ सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८ ॥ निष्पहन्तुमिति ॥ हे राजन् ! अथाऽनन्तरं सम्प्रतीदानीं वसुदेवरूपिणः कश्यपस्य (१)धिक। (२) निष्पहन्तु।

सर्गः।] - शिशुपालवधे। सूनुतां श्रयति अयं हरिः कश्यपावतारस्य वसदेवस्य शौरेः पुत्रत्वं भजति । किंलक्षणोज्यं स्वयम्भुवा ब्रह्मणा अमरेशविद्विषां देवेशाऽरीणां केशिकंसचाणूरचैद्यादीनां निप्रहन्तु पेष्टुं स्वयमर्थितः, न तु कर्मणा प्रेरितः । विद्विषामिति 'जासिनिप्रहणे ति कर्मणि षष्ठी । कश्यपः प्रजापतिः, तस्यांशो वसुदेवः इत्यागमः ॥ ८२ ॥ अथ पञ्चमिः प्रस्तुते कृष्णावतारमाह- निष्प्रहन्तुमिति ॥ अथ रामावताराऽनन्तरम् अयं हरिः अमरेशविद्विषां निष्प्रहन्तुम् । चैद्यादीनिन्द्र- शधून् हन्तुमित्यर्थः । 'जासिनिप्रहण-' इत्यादिना कर्मणि षष्टी । स्वयम्भुवा ब्रह्मणा स्वयमात्मनवाऽर्थितः प्रार्थितः सन सम्प्रतीदानी वसुदेवरूपिणो वसुदेवमूर्तिधरस्य कश्यपस्य पुत्रतां श्रयति व्रजति । कृष्णरूपेणे- ति भावः । अत्र स्वयम्भूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्ति हेतुत्वात्पदार्थहतुकं काव्यालङ्गम् ॥८२॥ तात ! नोदधिविलोडनं प्रति त्वद्विनाऽद्य(१) वयमुत्सहामहे ॥ यः सुरैरिति सुराघवल्लभो बल्लवैश्च जगदे जगत्पतिः॥ ८३ ॥ तातेति ॥ हे राजन् ! यः भगवान् श्रीकृष्णः सुरैरमरैः अपरं बल्लवैश्च गोपालैः इति जगदे एवमुक्तः । इतीति किं हे तात ! हे पूज्य ! त्वद्विना त्वया विना उदधिविलोडनं प्रति सागरमथनं प्रति न उत्सहामहे न शक्ताः स्मः। किंलक्षणो यः सुरौघवल्लभः देवसमूह- प्रेष्ठः, अपरं किंलक्षणो यः जगत्पतिः त्रिभुवनेश्वरः । यद्वा नो इति पदच्छेदः । वल्लभैरित्यु- का-हे तात ! वयं त्वद्विना दधिविलोडनं प्रति नोत्सहामहे ॥ ८३ ॥ तांतति ॥ सुरौघवनभः सुरगणप्रियः जगत्पतिर्यो हरिः सुरैर्दै वैर्बल्लैवर्गों पैश्व हे तात ! जनक ! 'न' इति छेदे उदधिषिलोडनं समुद्रमथनं प्रति, 'नो' इति छेदे दधिविलोडनं दधिमन्यनं च प्रति त्यदिना । त्वां विहा- येत्यर्थः । 'पृथग्विना-' इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो बोत्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाऽङ्गत्वे सुराणा बल्लवानां च प्रकृतानामेव नोदधिशन्दमूलाभेदाध्यवसायलन्ध- दभ्युदषिविलोडनक्षमत्वकर्भसाम्यादम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थन- मपीति वस्तु व्यज्यत इत्यलद्वारण वस्तुध्वनिः ॥ ८३ ॥ नात्तगन्धमवधूय शत्रुभिश्छायया च शमिताऽमरश्रमम् ॥ योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयहिवः ॥ ८४ ॥ नात्तगन्धमिति ॥ हे राजन् ! यश्च देवः श्रीकृष्णः वृत्रविद्विषः देवेन्द्रस्य दिवः स्वर्गात् पारिजातं कल्पपादपम् उदमूलयत् उज्जहार, कमिव अभिमानमिव अहङ्कारमिव भभिमानेन तुल्यम् । द्वयमपि जहारेत्यर्थः । कल्पवृक्षहरणादिन्द्रस्य मानग्लानिरभवदिति भावः । किंलक्षणं पारिजातं शत्रुभिरभिघातिभिः अवधूय तिरस्कृत्य नात्तगन्धं नगृहीत. सौरभम् । शत्रुभिर्बलेन यस्य गन्धो नाऽनुभूत इत्यर्थः। यदि वा पराजित्य अवधूय उद- मूलयदिति योज्यम् । अपरं किलक्षणं पारिजातं छायया आतपप्रत्यनीकया च शमिता- ऽमरश्रम शमितः अपासितः अमराणां देवनां श्रमः श्रान्तियेन सः तथा तम् । इन्द्रस्याभि- मानोऽपि शत्रुभिर्नात्तगन्धः नाऽभिभूतः । 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः । तथा छायया प्रभावेन शमिताऽमरश्रमश्च ॥ ८४ ॥ नात्तगन्धामिति ॥ किञ्चति चार्थः । यो हरिः शत्रुभिरवधूयाऽभिभूय नालगन्धमनाघ्रातसौरभमन- भिभूतं च । 'आगन्धोऽभिभूतः स्यात्' इत्यमरः। नञर्थस्य नशम्दस्य सुप्सुपेति समासः। छाययाजात- पेम पालनेन च । (१)थ।

सन्देहविषौषधिसर्वकषायुते- [चतुर्दशः- - .. 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिमच्छोभापतिषु मियाम् ॥ इति विश्वः । शमिताऽमरश्रमं निवारितसुरखेदं पारिजातं वृत्रद्विषः शक्रस्याभिमानमहङ्कारमिव दिवः स्वादुदमूलयदुन्मूलितवानिति पारिजातहरणक्तिः । श्लेषसविशेषणेयमुपति केचित् । श्लेषपञ्चान्ये ।।८४॥ यं समेत्य च ललाटलेखया मुञ्चतः(९) सपदि शम्भुविभ्रमम् ॥ चण्डमारुतमिव प्रदीपवञ्चेदिपस्य निरवाद्विलोचनम् ॥ ८॥ यमिति ॥ हे राजन् ! यं श्रीकृष्णं समेत्य प्राप्य चेदिपस्य शिशुपालस्य तृतीय विलोचनं नयनं निरवात् विनष्टं शशाम । कमिव प्राप्येत्याह-चण्डमारुतमिव प्रचण्डसमी- रणमिव, किंवत् निरवात् प्रदीपवत् । यथा चण्डमारुतमासाद्य प्रदीपः निर्वाति शाम्यति, एवमेनं श्रीहरिं दृष्ट्वा शिशुपालस्य नेत्रं निरवादित्यर्थः। किंलक्षणस्य चैद्यस्य ललाटलेखया अलिकरेखया सपदि तत्क्षणं शम्भुविभ्रमं त्रिनयनलीलां त्र्यक्षसारूप्यं मुञ्चतः जहतः । तृतीयनेत्रसद्भावात् किल असौ हरेण सदृशो, न तु अन्यदा । एवमत्राऽऽगमः- शिशुपाल: पुरा जातः त्रिनेत्रश्च चतुर्भुजः । पितरौ चापि तं दृष्ट्वा हातुं वै चक्रतुर्मतिम् ॥ अथोच्चचार नभसो वागेवमशरीरिणी। नैष त्याज्यो महाराज ! श्रीमान् वीरो भविष्यति।। स चाऽस्य वधको भावी यं दृष्ट्वा न भविष्यतः । बाहू नेत्रं च सहसा तस्माद्वै पाल्यतामयम् ॥ कौतुकादथ तं द्रष्टुं नृपाः सर्वे समागमन् । अवाक् पूर्व नृपोऽर्धाङ्के पुत्रं तेषां न्यवेशयत् ॥ नाऽसौ प्राप्तविकारं च कृष्णादन्यत्र बान्धवात् । दृष्ट्वा व्यथिता माता कृष्णं वरमयाचत ॥ न वध्योऽयं त्वया देव ! पुत्रो में दीयतामिति । सहिष्ये शतमागांसि तामुवाच हरिस्तदा ॥ यमिति । किञ्चेति चार्थः । ललाटमेव लेखा तया ललाटलेखया ललाटदशेन शम्भाविभ्रमं सौन्दर्य बिभ्रतः । ललाटलोचनमित्यर्थः । चेदिपस्य शिशुपालस्य लोचनं तृतीयनेत्रं कर्तृ यं हरिमेव चण्डमारुतं चण्डमारुतमिव समेत्य प्रदीपवत्प्रदीपेन तुल्यम्। 'तेन तुल्यम्-' इति वतिप्रत्ययः । निरवानिर्वाति स्म । नष्टमित्यर्थः। निरपूर्वाद्वाधातर्लिङ । 'निरवाप' इति क्वाचित्कः पाठः स न सम्यक् । वातः प्रक्रियाविरोधा- दानोतरसङ्गतार्थत्वादिति अनेकार्थेयमुपमा ॥ ८५ ॥ यः कालतां बल्लवतां च बिभ्रदंष्ट्रामुदस्याशु भुजां च गुर्वोम् ॥ मनस्य तोयाऽऽपदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ ६ ॥ य इति ॥ हे राजन् ! यो भगवान् श्रीकृष्णः कोलतां बिभ्रत् सूकरतां धारयन् सन् गुर्वी महती भुजां भुजं च आशु शीघ्रम् उदस्य उत्क्षिप्य गोमण्डलस्य उद्धरणं चकार । किलक्षणस्य गोमण्डलस्य तोयाऽऽपदि ममस्य प्रलयजले मग्नस्य बुडितस्य, द्वयोर्विशेषणम् , किंलक्षणार्या तोयापदि दुस्तरायां दुःखेन तीर्यते इति दुस्तरा तस्याम् । यथा पूर्व कोलता तं (१) बिभ्रतः ।

सर्गः।] शिशुपालवधे। ५११ .. .. विभ्रत् सन् दंष्ट्रामुत्क्षिप्य आशु गोमण्डलं पृथ्वीवलयमुजहार, एवमधुनाऽपि बल्लवतां गोपालतां बिभ्रत् भुजामुद्यम्य तोयाऽऽपदि मग्नस्य कष्टजले बुडितस्य गोमण्डलस्य सरभि- वर्गस्य उद्धरणं चकारेत्यर्थः ।। ८६ ॥ य इति ॥ यो हरिः कालनां वराहन्वम । 'वरहः शूकरो घृष्टिः कोल: पोत्री किरिः किटिः' इत्यमरः । बालवता गोपालत्वं च बिभ्रत् । आशु गुवी दंष्ट्रां भुजां च यथासङ्ख्यामति भावः । उदस्योद्यम्य दुस्तरायो तोयापदि जलसहूटे एकत्र समुद्रकृतायाम् अन्यत्र वर्षकृतायां च मग्नम्य गोमण्डलस्य भूगोलस्य धेनु. वृन्दस्य चौद्धरणं चकार । अत्र कोलत्वबल्लवत्वयोः प्रकृतयारेव श्लेषमूलाभेदाध्यवसायेन गोमण्डलोद्धर- णस्य दंष्ट्राभुजोद्यमनस्य च साम्यादोपम्यगम्यतायां तुल्ययोगिता सती यथासङ्ख्येन सङ्कीर्यते । इन्द्रवजा वृत्तम् । 'स्यादिन्द्रवजा यदि ती जगा गः' इति लक्षणात् ।। ८६ ॥ धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः॥ दत्त्वाऽर्घमत्रमवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥८७॥ धन्योऽसीति ॥ हे राजन् युधिष्ठिर ! धन्योऽसि पुण्यवानसि त्वम् , यस्य ते तव एष हरिः श्रीकृष्णः समक्ष एव प्रत्यक्ष एव । कदाचिदसौ सुदर्शनः स्यादित्याह-यो हरिः यज्वभिर्यायकैः क्रतुपु यज्ञेषु दूरादपि इज्यते । अप्रत्यक्षोऽपि पूज्यते इत्यर्थः । अतश्च त्वम् अत्रभवते पूज्याय श्रीकृष्णाय अर्घ दत्त्वा पूजां विधाय भुवनेषु जगत्सु संसारमण्डल यावत् आसंसृतिचक्रं साधुवादमाप्नुहि कीर्ति लभस्व । कोहक पुण्यभाक् युधिष्ठिरो राजा, यस्य योगिभिरदृश्येन भगवता श्रीनारायणेन स्वयं पूजा गृहीतेति यशो लभस्वेति ॥८७॥ एवं देवं स्तुत्वाऽनन्तरं कर्तव्यमुपदिशति- धन्योऽसीति ॥ धन लन्धो धन्यः पुण्यवानासि । 'सुकृती पुण्यवान् धन्यः' इत्यमरः । 'धनगणं लन्धा' इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्ष्णोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तः । अत एव 'तृतीयासप्तम्यो- बहुलम्' इति सप्तम्या अमभावः । अन्यत्र को विशेषस्तत्राह-यो हरिर्दूरादपि परोक्षेप ऋतुषु यागेषु यज्वाभिविधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः। 'सुयजोनिप्' इति निष्प्रत्ययः । इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमाह-अत्रभवते, पूज्यायेत्यर्थः । 'पूज्यस्तत्र- भवान्' इति सज्जनः। इतरेभ्योऽपि दृश्यते' इति सार्वविभक्तिके प्रत्प्रत्यये 'सुप्सुपे'ति समासः अर्ध पूजां दत्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः। भुवनेषु साधुर्वादः शन्दस्तं साधुवादं माधु- समाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थ हेतुत्वात्पदा. र्थहेतुकं काव्यलिङ्गमलङ्कारः । वसन्ततिलका वृत्तम् ॥ ७ ॥ भीष्मोतं तदिति वचो निशस्य सम्यक साम्राज्यश्रियमथ बिभ्रता(१) नृपेण ॥ दत्तेऽर्धे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनय॑(२) एव ॥८८॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रीकृष्णार्घदानं नाम चतुर्दशः सर्गः ॥ १४ ॥ भीष्मोक्तमिति ॥ इति इत्थं तत् भीष्मोक्तं गाोयभाषितं वचः वचनं सम्यक निशम्य आदरेण श्रुत्वा अनन्तरं पश्चात् नृपेण राज्ञा युधिष्ठिरेण महीभृतां पुरोऽग्रे राजक- प्रत्यक्षम् अ दत्ते सति पूजायां कृतायां सत्यां मधुमित् श्रीकृष्णः अनर्थ्य एव अभवत् , न अर्घ्य: पूज्यो यस्मादित्यनर्थ्यः अतिपूज्य इत्यर्थः । क त्रैलोक्ये सकलजगत्सु, अपरिच्छेख- (१)मधिगच्छता। (२)दन।

५१२
सन्देहविषौषधिसर्वकषायुते-
[पञ्चदशः-
एवाऽऽसीत् सर्वोत्कृष्टत्वात् अज्ञातरूपत्वाच्च । यस्मै किल अर्को दत्तः, स कथमनयः इति
विरोधः स्यात् । किंलक्षणेन नृपेण साम्राज्यश्रियं बिभ्रता चक्रवर्तित्वशोभां दधता, सम्राजः
भावः साम्राज्यं तस्य श्रीः ताम् । उक्तं च-
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
शास्ति यश्चाऽऽज्ञया राज्ञः स सम्राडभिधीयते ॥
इति । प्रहर्षिणीछन्दः ।। ८८ ॥
इति श्रीशिशुपालवधे महाकाव्ये दत्तकसूनोर्माघस्य कृतौ श्रीमहादेवायनिवल्लभदेव-
विरचितायां सन्देहविषौषध्यां टीकायां यज्ञार्घदानं नाम चतुर्दशः सर्गः ।
भीष्मोक्तमिति॥
'येनष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
शास्ति याज्ञया राज्ञः स सम्राटू-'
इत्यमरः । सम्राजो भावः साम्राज्यं तदेव श्रीस्तां श्रियमधिगच्छता भजता नृपेण युधिष्ठिरेण इतीत्य
भीष्मोक्तं तद्वचः सम्यङ् निशम्य श्रुत्वा महीभृतां राज्ञा पुरोऽने महति अर्षे पूजायां दत्तेऽपि मधुभिद्धरिः
यो लोकालोक्यम् । चातुर्वर्णादित्वात्म्वार्थे ध्यप्रत्ययः । तत्र त्रैलोक्ये कृष्णोऽनघः पूजारहित-
एवाभूदिति विरोधः । अमूल्य एवाऽदित्यविरोधः। 'मूल्ये पूजाविधावर्घः' इत्यमरः । अवार्धयोरभेदाध्य
वमायाद्विरोधः, नदनभ्यवसायादविरोध हति विरोधाभासोऽलङ्कारः। प्रहर्षिणी वृत्तम् ।। ८८ ॥
इति श्रीमहोपाध्यायकोलाचलमाखनाथसूरिविरचितायां शिशुपालवधकाव्यन्याख्यायां
सर्वदूषाख्यायां चतुर्दशः सर्गः॥ १४ ॥
पञ्चदशः सर्गः ।
अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ॥
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥१॥
अथेति ॥ अथाऽनन्तरं तत्र यज्ञे पाण्डुतनयेन युधिष्टिरेण मधुद्विषो भगवतः विहित
दत्तं मानम् अर्घ चेदिपतिः शिशुपाल: सदसि सभायां न असहत न चक्षमे । हि यतः
कारणात् मानिनां मनः अभिमानवतां चित्त परवृद्धिमत्सरि परद्धिषु मात्सर्ययुक्तं भवति ।
परवृद्धया दूयते इत्यर्थः ॥ १॥
अथेति ॥ अथ हरिपूजाऽनन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण
विहितं मुरहिषो हरेर्मानं पूजा नाऽसहत । ईष्या चकारत्यर्थः । 'परोत्कर्षाऽसमा स्याहौजन्यान्मन्युतोऽपि
च' इति लक्षणात् । तथा हि-मानिनामहङ्कारिणां मनः परवृद्धी मत्सरि हि । परशुभद्वेषि खल्वित्यर्थः ।
सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्समें उता वृत्तम् ।
'मजसादिमे सलघुके च नसजगुरुकेऽप्यथोरता।
अधिगतभजनजला गयुताः मजसा जगौ चरणमेकतः पठेत् ॥
इति लक्षणात् ॥ १॥

सर्गः।] शिशुपालवधे। ५१३ पुर एव शाङ्गिणि सवैरमथ पुनरमुं तदर्चया ॥ मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥२॥ पुर इति ॥ अथाऽनन्तरं मन्युः कोपः तदर्चया तस्य हरेः अर्चया पूजया अमुं शिशुपालं पुनर्भूयः अभजत् सिषेवे । किंलक्षणममुं पुर एवं पूर्वमेव शाङ्गिणि श्रीकृष्णे सवैरं सामर्ष, किंलक्षणो मन्युः अवगाढतरः अत्यर्थमुत्पन्नः, कः कमिव भजते ज्वर इव देहिनम्। यथा ज्वरः श्रीरुद्रोत्थकृत्यारूपः देहिनं शरीरिणं भृशं श्रयति । किंलक्षणो ज्वरः समदो. षकालः समौ अविषमौ दोषकालो धातुसमयौ यस्य सः तथाविधः । तद्यथा-वसन्तः श्लेष्मकालः । तत्र च यथा श्लैश्मिकं भोजनं दध्यादिकं श्लेष्मप्रकृतिको नरो भुङ्क्ते, तदा तस्य गाढतरो ज्वरो भवति । अन्यदा तावन्मात्र दोषो धातुः ॥ २॥ पुर इति ॥ पुरः पूर्वमेव शार्षिणि वरं सक्रोधममुं चेयम् । अथ पुनः अतः परं तदर्थया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रोदरसस्य स्थायीभाव इति भावः । दहिनं शरीरिणं समौ तुलितो दोषोऽपथ्यसेवा कालः कर्मविपाक यस्य स ज्वर इवाभजत् । उपमाऽलङ्कारः ॥ २ ॥ अत्र कथं ज्ञायतें सकोपोऽसाविति, तदनुभावनामाह- अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ॥ लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥३॥ अभितर्जयन्निवेति ॥ असौ चेदिपतिः शनैर्मन्थरं शिरो मस्तकम् अकम्पयत् कम्पयति स्म । उत्प्रेक्ष्यते-समस्तनृपगणमभितर्जयत्रिव सकलं राजकं भर्सयन्निव । किलक्षणं शिरः लोलमुकुटमणिरश्मि लोला: कम्पशाचपला मुकुटमणिरश्मयः किरीट- रत्नमरीचयो यस्य तत्तथा, अपरं किलक्षणं शिरः अशनैवेगेन प्रकम्पितजगत्त्रयं प्रकम्पित भीषितं जगत्त्रयं त्रिभुवनं येन तत्तथा ॥३॥ अथाऽष्टभिरस्य गात्रारब्धक्रोधचेष्टां प्रपञ्चयति- अभितर्जयन्निवेति ॥ असो चैद्यः समस्तनृपगणमाभेतर्जयत्रिवेत्युत्प्रेक्षा । तर्ज भर्सने, चौरादिकस्या- अनुदात्तत्त्वेन प्राप्तस्य आत्मनेपदस्य चक्षिडा(१)देशस्य ख्यात्रः स्थानिवद्भावाऽनादरेण पुनर्जित्करणसामर्थ्या- दनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्याप दृश्यते कविष्विति भट्टमल्लः । अशनरतिमात्र प्रकम्पितं जगत्त्रयं येन तत् त्रैलोक्यभीषणं शिरः शनैर्लोलाचपला मुकुटमणिरश्मयो यस्मिन्कर्माण तथा जथा अकम्पयत् । क्रोधाऽतिरकादिति भावः ॥ ३ ॥ स् वमन् रुषाऽश्रु घनधर्मविगलदुरुगण्डमण्डलः ॥ स्वेदजलकणकरौलकरो व्यरुचत् प्रभिन्न इव कुअरस्त्रिधा ॥४॥ स इति ॥ स वैद्यो रुषा कोपेन अश्रु वमन् वाष्पं मुञ्चन् सन् व्यरुचत् नितरां रेजे। किलक्षण सः धनधर्मविगलदुरुगण्डमण्डल: धनधर्मेण संहतस्वेदेन विगलत् क्षरत् उरु विशाल गण्डमण्डलं गण्डफलकं यस्य सः तथा, अपरं किलक्षणोऽसौ स्वेदजलकण- करालकरः स्वेदजलकणैः प्रस्वेदवारिसीकरैः करालौ भासरौ करौ पाणी यस्य सः तथा । उत्प्रेक्षते-त्रिधा प्रभिन्नः कुअर इव विभिनेत्रगण्डकरैः मदनावी मतङ्गज इव । स्रोत- सयगलितमदजलगजतुल्य इत्यर्थः ॥ ४ ॥ (१) सित्त्वस्य पदयार्थ कृतत्वनाऽज्ञापकत्वादिदममङ्गतम् । तस्मात् विचक्षण इत्यत्र युजर्थमाव. श्यकेनाइनुदानेत्त्वेनात्मनेपदे सिद्धे जित्करणसामर्थ्यात् 'अनुदानेत्त्वलक्षणमात्मनेपदमानित्यम्' इत्यस्य मिदिर्षकव्या' । टिप्पणीय "निर्णयसागर"मुद्रिते पुस्तके दृश्यते । - सन्देहविषौपाधिसर्वकषायुते- [पश्चदशः- .. .. - .. स इति ॥ रुषा रोषणाश्रु वमन्मुञ्चन् , घनेन सान्द्रेण धर्मेण क्रोधोष्मणा विगलस्रवत् उह महत गण्डमण्डलं यस्य सः । स्वयकपोल इत्यर्थः । स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः विधा नेकपोलहस्तदेशः प्रभित्रो मदनावी मत्तः। 'प्रभित्रो मत्तः स्यात्' इति वैजयन्ती । कुञ्जर इव व्यरुचत् । रुचेः 'युद्भ्यो लुडि' इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव- उक्तः । उपमालद्वारः ॥ ४ ॥ स निकामर्मितमभीक्ष्णमधुवदवधूतराजकः ॥ क्षिप्तबहुलजलबिन्दु वपुः प्रलयाऽर्णवोत्थित इवादिशुकरः ॥५॥ स इति ॥ स चैद्यः अभीक्ष्णमत्यर्थ वपुः अधुवत् शरीरमकम्पयत् । किंलक्षणं वपुः निकामर्मितं भृशस्विन्नम् , अत एव अपरं किंलक्षणं वपुः क्षिसबहुलजलबिन्दु क्षिताःप्रेरिताः बहुला बहवो जलबिन्दवो वारिकणा यस्मात् तत्तथा । किंलक्षणः सः, अतश्चोत्प्रेक्ष्यते- प्रलयार्णवोत्थितः आदिशूकर इव कल्पान्तोदधिमध्यात् उत्थितः निःसृतः आदिवराह- इव । स किल निजबाहुच्छाययाऽऽत्मानं धुवन् उदकविपुषश्चिक्षेप । अपरं किंलक्षणः सः अवधूतराजक: निर्भत्सितनृपतिमण्डलः ॥ ५ ॥ स इति ॥ राज्ञां समूहो राजकम् । 'गोत्रोक्ष-' इत्यादिना वुचत्ययः। तदवधूतमभिभूतं येन स तथोकः स चेद्यो निकामं घर्मितं सञ्जातधर्मम् । उद्धवत्स्वेदमित्यर्थः । 'धर्मः स्यादातपे ग्रीष्म उष्णस्वदाऽम्भसोरपि' इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः, प्रलये अर्णवस्तस्मादुत्थितः ओओदरकर इव क्षिताः प्ररिता बहुलाः सान्द्रजलबिन्दवो यस्मिन्कर्मणि तयथा तथा अभीक्ष्णमधुवत् क्रोधाद् धुवति स्म । 'धूत्र विधूनने' इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्त्विक एपोक्तः । उपमाऽलङ्कारः ॥ ५ ॥ क्षणमाक्लिषद्धटितशैलशिखरकठिनांऽसमंसल (१)॥ स्तम्भमुपहितविधूतिमसावधिकाऽवधूनितसमस्तसंसदम् ॥ ६ ॥ क्षणमिति ॥ सः चैद्यः क्षणं क्षणमात्रं स्तम्भम् आश्लिषत् स्तम्भे निषसाद । किंलक्षणं स्तम्भं घटितशैलशिखरकठिनांऽसं घटितो योजितः शैलशिखरमिव गिरिशृङ्ग- मिव कठिनः कठोरः अंसः स्कन्धो यस्य सः तथा तम् , अपरं किलक्षणं स्कन्धम् उपहित- विधुतिम् आरोपितकम्पं, चालितमित्यर्थः । अत एव अपरं किंलक्षणं स्तम्भम् अधिका- ऽवधूनितसमस्तसंसदम् अधिकमतिशयेन अवधूनिता कम्पिता संसत् सभा येन सः तथा तं, किंलक्षणो सौ अंसलः बलवान् । 'बलवान मांसलोंऽसल' इत्यमरः ॥ ६ ॥ क्षणामिति ॥ घटितं सुसंहितं यच्छैलाशखर तद्वत्काठनमंसमण्डलं यस्य सोऽसौ चैयः, उपहिता- ऽवगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिस्तम् अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत् सभा येन तं स्तम्भं क्षणम् मानिषत् श्लिष्टवान् । तेनाऽसमण्डलेनाहतवानित्यर्थः । अत एव कठिना- समण्डल इति विशेषणं च । पुषादित्वाच्च्लेरादेशः। आलिङ्गनार्थत्वे तु 'लिप आलिङ्गने' इति क्सा- देशः स्यात् । क्रोधाऽन्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यत्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वा- काव्यलिङ्ग शैलशिखरोपमया सङ्कीर्यते ॥ ६ ॥ कनकाऽङ्गदद्युतिभिरस्य गमितमरुचत् पिशङ्गताम् ।। क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ ७ ॥ कनकेति ॥ अस्य चेदिपतेः बाहुमण्डलं भुजचक्रम् अरुचत् शुशुभे । किलक्षणं बाहु- मण्डलं कनकाऽङ्गदद्युतिभिः काञ्चनबाहुकटककान्तिभिः पिशङ्गतां गमितं पीतत्वं प्रापितम् । । (१)मण्डल:।

सर्गः।] .. .. शिशुपालवधे। ५१५ अपरं किंलक्षणे बाहुमण्डलम्, उत्प्रेक्ष्यते-क्रोधमयशिखिशिखापटलैः क्रोधमयः कोपमयः यः शिखी वैश्वानरः तस्य शिखा ज्वालाः तासां पटलानि समूहास्तैः कोपोत्थवहिज्वाला- पुजैः परितः समन्तात् परीतमिव व्याप्तमिव ॥ ७ ॥ कनकेति ॥ कनकस्याङ्गदयोः केयूरयोः युतिभिः पिशङ्गता पिङ्गलवर्णा गमितं प्रापितमिति तद्गुणा- लङ्कारः । अस्य चैद्यस्य बाहुमण्डलं क्रोधमयशिखिशिखापटलैः क्रोधाग्निज्वालाजालैः परितः परीत परिवृतमिवारुचदित्युत्प्रेक्षा । 'युद्भ्यो लुडि' इति परस्मैपदम् ॥ • ॥ कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ॥ क्रूरमजान कुटिलभु गुरुभ्रकुटीकठोरितललाटमाननम् ॥ ८ ॥ कृतेति ॥ तस्य चेदिपतेः आनन वदनं क्रूरमजनि भीषणं जातम् । किंलक्षणमाननं कुटिलच विषमितभ्रूकम् , अपरं किंलक्षणमाननं गुरुमुकुटीकठोरितललाटं गुा बृहत्याः भृकुट्याः भृकुट्याः कठोरितं कर्कशितं दुर्निर कठोरितं कर्कशितं दुनिरीक्ष्यं कृतं ललाटमलकं यस्य यत्र वा तत्तथोक्तम्। अपरं किलक्षणमाननम् , उत्प्रेक्ष्यते-पुनरपि भूयोऽपि तृतीयचक्षुषा तृतीयनेत्रेण कृतसन्निधा- नमिव आहिताऽवस्थानमिव । भृकुटीनयनयोः सादृश्यात् पूर्व वा असौ त्रिनेत्रोऽभवत् ॥८॥ कृतेति ॥ काटेल ध्रुवौ यस्य तत्कुटिलभु । उपसर्जनस्य ह्रस्वः । गुर्या भूकुट्या भूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् तस्य चैद्यस्याऽऽननं पुनरपि तृतीयचक्षुषा कृतसानिधानं कृतमसर्गमिवेत्युत्पेक्षा । करमजनि भयङ्करमभूत् । जनेः कर्तरि लुङ्, 'दीपजन-' इत्यादिना विकल्पाचिण्प्रत्ययः ॥ ८ ॥ अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ॥ दृष्टिरगणितभयाऽसिलतामवलम्बते स्म समया सखीमिव ॥९॥ अतिरक्तेति ॥ अमुष्य वैद्यस्य दृष्टिः दृक् समया समीपवर्तिनीम् असिलतामव- लम्बते स्म, खड्गलतामद्राक्षीदित्यर्थः । किंलक्षणा दृष्टिः साहसे हरिवधलक्षणे महाकर्मणि कृतमतिः विहितबुद्धिः, अपरं किलक्षणा दृष्टिः अगणितभया तृणोकृतत्रासा । दृष्टिद्वारेण तस्यैव ते विशेषणे बोद्धव्ये । किं कृत्वा अतिरक्तभावमुपगम्य अतिशयेन लौहित्यं प्राप्य । क्रोधात् हि चक्षुः रक्तं जायते । कामिव अवलम्बते स्म सखीमिव वयस्यामिव । यथा काचित्तरुणी साहसे असाध्ये अकार्ये कृतमतिः अगणितभया मुक्तकान्तभीः कचिद्रक्तभावं व्यसनित्वमुपगम्य समीपस्थां विश्वासधारिणी सखीमवलम्बते श्रयति । सा हि तस्याः वक्ति-हे सखि ! अन पुरुषे मम मनो गतं, त्वमत्र शरणमिति ॥ ९ ॥ अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावस्तमतिरक्तभावं रोषाऽतिरेकादत्यरुणताम् अन्यत्र कर्माऽतिरकादत्यनुरागितामुपगम्य प्राप्य साहमे कृष्णा देवधरूपे, अन्यत्र युद्धे कृतमतिः । सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चया अर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरु- जनाच्च यया सा सती समया समीपे असिलता सीमिवाऽऽलम्बते स्म साधनत्वेन स्वीचकार । क्रोधा- जिसिया खग मद्राक्षीदित्यर्थः । अत्र प्रस्तुत दृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्ति- रुपमासङ्कीर्णा ॥ ९ ॥ करकुकुड्भलेन निजमूरुमुरुतरनगाऽश्मकर्कशम् ॥ प्रस्तचपलवलमान(१)जनश्रुतभीमनादमयमाहतोचकैः ॥ १० ॥ करेति ॥ अयं चैद्यः करकुट्सलेन पाणिमुकुलेन निजमात्मीयम् ऊरु सक्थिम् उच्चकैः (१)चलमान ।

.. सन्देहविषौषधिसर्वकषायुते [पञ्चदशः- वेगेन आहत अताडयत् । किलक्षणमूरुम् उत्तरनगाऽश्मकर्कशम् उत्तरः गरीयान् यः नगा- ऽश्मा गण्डशैलः तद्वत् कर्कशः कठिनः तं गरीयोगण्डशैलकठिनम् , अपरं किंलक्षणमूर अस्त- चपलवलमानजनश्रुतभीमनाद अस्तै: 'किमिदं स्यादिति भीतैः चपलैः सरलहृदयैः वल- मानैः इतस्ततो गच्छनिः जनैः सभालोकः श्रुतः आकर्णितः भीमो भयङ्करो नादः शब्दो यस्य सः तथा तं, यत्र आहनने इति क्रियाविशेषणं वा ॥ १० ॥ करेति ॥ अयं चैद्यः उहत) महत्तरो नगाऽस्मवच्छैलशिलेव कर्कश इत्युपमा । तं निजमात्मीयमूरूं सक्थि । 'सक्थि होबे पुमानूरुः' इत्यमरः। करः कुड्मल इवेत्युपमितसमासः, तेन । संहतप्रसारिताऽगु- लिना पाणितलेनेत्यर्थः । प्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयङ्कर- ध्वनियस्मिन्कर्मणि तद्यथा तथा उच्चकैराहत आहनवान् । अलन्धलक्ष्याः क्रोधाऽन्धा: स्वात्मानमेव मन्तीति भावः । आपूर्वाद्धन्तेर्ला, 'आझे यमहनः' इत्यकर्मकाधिकारऽपि 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्' इत्या- त्मनेपदे 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः ॥ १० ॥ इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ॥ याति विकृतिमपि संवृतिमत् किमु यनिसर्गनिरवग्रहं मनः ॥ ११ ॥ इतीति ॥ अनेन चैद्येन इति इत्थं भृशमत्यर्थ चुक्रुधे । युक्त तत् , ननु यत् यस्मात् अपि संवृतिमत् गभीरमपि मनः चित्तं महत् विप्रियम् अतिशयेन अवमानम् अवाप्य प्राप्य विकृति याति विकारं प्राप्नोति । यहि निसर्गनिरवग्रहं स्वभावनिरङकुशं स्वतन्त्र निर्मर्यादं, किमु । किं पुनर्भण्यते इत्यर्थः ॥ ११ ॥ इतीति । इतीत्थमनेन प्रकारेण अनेन चैयन भृशं चुकुधे क्रुद्धम् । भाव लिट् । संवृतिमदपि संवृति. विकारगुतिः तद्वदपि । धीरमपीत्यर्थः । मनो महाद्विप्रियमप्रियमवाप्य विकृति विकारं याति ननु प्रामोति खलु । यन्मनो निसर्गात्स्वभावानिरवग्रहम् । चपलमित्यर्थः । ग्रहे: खल्प्रत्ययः। तदिति शेषः। किमु । विकृति यातीति किमु वक्तव्यमित्यर्थः । चपलचित्तश्चाऽयं चद्य इति भावः । अत्र चैद्यक्रोधस्य नन्वित्यादि- वाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्य लिङ्गम ॥ ११ ॥ प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ॥ भाविकलहफलयोगमसौ वचनन कोपकुसुमं व्यचीकसत् ॥ १२ ॥ प्रथममिति ॥ असौ चैद्यः वचनेन गिरा कोपकुसुमं व्यचीकसत् कोप एव कुसुम प्रसून व्याकोशयामास । गिरा कोपमाविश्वकारेत्यर्थः । उवाचेति भावः । किलक्षणं कोप- कुसममिति पुष्पसाधर्म्यमाह-प्रथमं शरीरजविकारकृतमुकुलबन्धं पूर्व शरीरजैदेहोत्यैः विकारैरनुभावैः धर्मलौहित्योरुताडनादिभिः कृतः मुकुलबन्धः कलिकाप्रादुर्भावो यस्य तत् तथा तत्, शरीरविकार एव मुकुलबन्धः । अपरं किलक्षणं कोपकुसुमं भाविकलहफलयोगं भावी भविष्यन् यः कलहः कोपः सङ्ग्रामः स एव फलयोगो यस्य तत्तथा तत् । कुसमे हि मुकुलेन विकासेन फलेन च भाव्यम् । किलक्षणोऽसौ अव्यथी निर्भयः ॥ १२ ॥ एवं गात्रारब्धविकारानुक्त्वा पागारब्धान वक्तुमुपाद तयति- प्रथममिनि ॥ न व्यथते बिभेतीत्यव्यथी निर्भयः । 'दिदृक्षि' इत्यादिना नपूर्वाद्व्यथतेरिनि: । असो चयः प्रथमं शरीरजैर्विकारः पूर्वोकैः शिरःकम्पनादिभिः कृतो मुकुलबन्धो मुकुल प्रादुर्भाव यस्य तत् । भाषिकलहस्य रणस्यैव फलस्य योगो यस्य तत । 'अमियां समराम्नीकरणाः कलहविग्रह।' कोप एव कुसुमं तत् पचनेन 'यदपपुज' इत्यादिवक्ष्यमाणवाक्येन व्यचीकसद्विकासयति स्म । कसे: णा चयुपधाया इस्वः । दार्थों लघोः' इत्यभ्यासदीर्घः । अत्र विकारकलहवचनकोपेषु मुकुलफलविकास- कुसुमत्वरूपणात्समस्तवस्तुवतिलावयवरूपकम् ॥ १२ ॥ - संगः ।] शिशुपालवधे। ५१७ ध्वनयन् सभामथ सनीरघनरवगभीरवागभीः॥ वाचमवददिति रोष(१)वशादतिनिष्ठुरस्फुटतराऽक्षरामसौ ॥ १३ ॥ ध्वनयन्निति ॥ अथाऽनन्तरम् असौ वैद्यः इति वक्ष्यमाणां वाचमवदत् गिरमवो- चत् । किं कुर्वन् सभां ध्वनयन् सदः प्रतिरवेण मुखरयन् , अपरं किंलक्षणोऽसौ सनीरधन- स्वगभीरवाक् सनीरो जलयुतो यो घनो मेघः तस्य रखो गर्जितं तद्वत् गभीरा कालान्तर- स्थायिनी वाक् वाणी यस्य सः तथा, अपरं किंलक्षणोऽसौ अभीनिर्भयः, किंलक्षणां वार्च रोषवशात् अतिनिष्ठुरस्फुटतराऽक्षरां कोपबलात् अतिनिष्ठुराणि भृशं परुषाणि स्फुटतराणि अतिव्यक्तानि अक्षराणि वर्णा यस्यां सा तथा ताम् ॥ १३ ॥ ध्वनयन्निति ।। अथ मनीरघनरवगभीरवाक , सजलमेघगर्जितगभीरस्वर इत्यर्थः । अभी निर्मीका असौ चैयः सभामास्थानं वनयन् अतिरोषवशादतिनिष्ठुराण्यतिपरुषाणि स्फुटतराणि चाक्षराणि यस्या- स्तां वाचमवदत् । धनरवगभी रेत्युपमालङ्कारः ॥ १३ ॥ यदपूपुजरस्वमिह पार्थ! मुरजितमपूजितं सताम् ॥ प्रेम विलसति महत्तदहो! दयितं जनः खलु गुणीति मन्यते ॥ १४ ॥ यदिति ॥ हे पार्थ! हे युधिष्ठिर ! यत् त्वमिह यज्ञे सतामपूजितं साधूनामपूजितं मुर- जितं मुरहन्तारं श्रीकृष्णम् अपूपुजः अचितवान् , तत् अहो आश्चर्य महत्प्रेम विलसति अति- हार्द विजृम्भते । खलु यस्मात्कारणात् दयितं प्रियं जनो लोक इति मन्यते जानाति-यत्, अयं गुणी गुणवान् अयम् । यो हि यस्य प्रियो भवति, स तं निर्गुणमपि गुणि मन्यते इत्यर्थः ॥ १४ ॥ वाचमवददित्युक्तम् , अथ तामेव प्रपञ्चयन पञ्चभिः पाण्डवोपालम्भमाह यदिति ॥ हे पार्थ! पृथापुत्रेति मातृप्राधान्येनाऽमन्त्रण मर्मोद्घाटनार्थम्। सतामपूजितम् , सद्भिरपूज्य- मानमित्यर्थः । ‘मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने कः। 'कस्य च वर्तमाने' इति षष्ठी । मुरजितं कृष्णम इह सदसि यद् यस्मादपूपुजः पूजयासि स्म । गोचल्युपधाया ह्रस्वः। तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाऽभिमान इत्यभिप्रेत्याह--जनो लोकः दायितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्यो- नरवाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १४ ॥ यदराशि राजवदिहाऽयमुपहत(२)मिदं मुरद्विषि ॥ ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महोश!-वहिषु ॥ १५॥ यदिति॥ हेपार्थ ! इह यज्ञे इदम् अध्यं पूजनं त्वया मुरद्विषि श्रीकृष्णे उपहृतमुप- ढौकितं, किंलक्षणे मुरद्विषि अराज्ञि अभूपतौ । तावदेष केषां राज्ञां मध्ये इत्यर्थः । किंवत् राजवत् राज्ञि इव । यथा राज्ञि अर्घ्यमुपहियते । हे महीश ! हे पृथ्वीपते । तत् अय॑म् अयं कृष्णः न भजति न अर्हति, न प्राप्नोतीत्यर्थः । क इव ग्राम्यमृग इव । यथा ग्राम्यमृगः कुक्कुरः वसिषु वैश्वानरेषु ज्वलत्सु उल्लसत्सु सत्सु हविः सान्नायं न भजते वहिषु देदीप्यमानेषु कथं कोऽपि ग्राम्यमृगे हविः निःक्षपतीति भावः ॥ १५ ॥ यदिति ॥ अराशि । अभिषेकादिराजगुणविरहिणीत्यर्थः । 'नमस्तत्पुरुषात्' इति समासान्तपति- पंधः । इहाऽस्मिन्मुरद्विषि कृष्णे । अपात्रत्वयोतनार्थमसम्प्रदानविभक्तिनिर्देश:। राजानमईतीति राजवदाजा- - .. (२) मुपहित। (१) दतिरोष। ४४ शिव

'५१८
सन्देहविषौषधिसर्वकषायुते-
[पञ्चदशः-
।
ऽहम् । 'तदई 'मिति वतिप्रत्ययः। तद्धितश्वासर्वविभक्तिः' इत्यव्ययत्वम् । यदिदमय॑मर्थि द्रव्यम् । अर्हण.
मित्यर्थः। उपहितमर्पित, तदर्थ्यमयं कृष्णः महीशा अवनिपा वह्नय इत्युपमितसमासः । तेषु महीशवहिषु
ज्वलत्सु सत्सु, अन्यत्र महीशा इव वह्नयस्तेषु ज्वलत्सु सनिस्वत्यर्थः। ग्राम्यमृगः शुनको हविरिव न भजते
न प्रानोति । उपमाऽलङ्कारः ॥ १५ ॥
अनृतां गिरं न गदसीति जगति पटहैर्विघुप्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ १६ ॥
अनृतामिति ॥ हे पार्थ ! त्वं जगति विश्वस्मिन् पटहै: आनकैः
कृत्वा
इति विघु-
ष्यसे शब्द्यसे। इतीति किम्-यत्, अनृतां गिरं नगदसि असत्यां वाणी न भाषसे इति ।
अथ च निन्द्यं निन्दनीय हरिं श्रीकृष्णम् अर्चयतः पूजयतः तव कर्मणैव असत्यता विकसति
तव अलीकभाषित्वं हरिपूजयैव पृथिव्यामुल्लसतीति भावः । अग्रे त्वंसत्यवादीति प्रथितः,
परममुना हरिपूजनकर्मणा तव असत्यता जातैवेत्यर्थः ॥ १६ ॥
अनृतामिति ॥ हे पार्थ ! अन्तामसत्यां गिरं न गदास न वदसीति जगति लोके पटहैयिविशेषः
कर्तृभिविघुध्यसे उरोष्यसे । अथ च तथापि निन्यं हरिमर्चयतस्तव कर्मणा अपूज्यपूजाकरणेनैवाऽसत्यता
सत्यहीनता विकप्तति प्रकाशते। अत्राऽसत्यप्रसिद्धसत्याचरणयोर्विरूपयोघटनाद्विरूपघटनारूपो विषमालङ्कारः।।
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ॥
भौमदिनमभिदधत्यथ वा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ १७ ॥
तवेति ॥ हे पार्थ ! तव धर्मराज इति नाम धर्मराज एवमभिधानं कथम् अपष्टु पठ्यते
किमु वृथा उच्यते । धर्मराज इति नाम तव न घटते इत्यर्थः । अथ वा इदमपि युक्त,
यतः कारणात् जना लोकाः भृशमत्यर्थमतिशयेन अप्रशस्तमपि निन्धमपि भौमदिनं
मङ्गलम् अभिदधति । सर्वकार्येषु निषिद्धमपि भौमदिनं जना मङ्गलं वदन्ति । तथा
तवापि लोकोक्तमिदं नामेति भावः ॥ १७ ॥
तवेति ॥ हे पार्थ ! तवेदं धर्मराज इति नाम कथमपष्टु असत्यमेव पठ्यते । 'अपदुःसुभ्यः स्थः'
इत्यौणादिकः कुप्रत्ययः । 'अम्बाम्बगोभूमि--' इत्यादिना षत्वम् । यद्वा युक्तमेव तदित्याह-अथ वा जनाः
भृशमप्रशस्तमपि भौमदिनमङ्गारकवारं मङ्गलमभिदधति व्यपदिशन्ति । तद्वदिदमपीत्यर्थः । लोकैरप्रशस्त
प्रशस्तशब्देन विरुद्धार्थेनाऽपि व्यपदिश्यते तदुच्चारणदोषात् , तद्वदधर्मराजस्यापि ते धर्मराजव्यपदेश इति
भावः । अत्र धर्मराजभौमदिनयोनिरपेक्षवाक्यद्वये प्रतिबिम्बकरणाद् दृष्टान्तालङ्कारः ॥ १७ ॥
यदि वाऽर्चनीयतम एष किमपि भवतां पृथासुताः!॥
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह कि निमन्त्रितैः ॥ १८ ॥
यदि वेति ॥ हे पृथासताः ! कुन्तीपुत्राः युधिष्ठिरप्रमुखाः ! वा अथ वा यदि चेत्
किमपि केनापि प्रकारेण भवतां युष्माकम् एष शौरिः अयं श्रीकृष्णः अर्चनीयतमोऽभूत्
पूज्यतमोऽभवत्, तदा इह यज्ञे अखिलैः समस्तैः अवनिपतिभिः राजभिः अवमाननार्थ-
मवगणनाय निमन्त्रितैः आकारितैः किं कार्यमभवत् ॥ १८ ॥
यदि वेति ॥ हे पृथासुताः! कौन्तेयाः ! एष शौरिर्वा, शरिर वेत्यर्थः । 'वा स्याद्विकल्पोपमयो स्वार्थ
च समुच्चये' इति विश्वः । किमपि कथमपि भक्तामर्चनीयतमो यदि पूज्यश्चेत् । तहीति शेषः । अवमान-
स्तिरस्कारः तस्मै तदर्थमेव । अर्थेन सह नित्यममासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् ।
निमन्त्रित राहूतनिखिलरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः। अत एव साधनक्रियापेक्षया कर-
गत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयाऽपि कारकवृत्तिरिति न्यासयोते । अत्र सकलराजनिषेधस्य पूर्व-
वाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ १८ ॥

सर्गः । शिशुपालवधे। ५१६ .. अथ वा न धर्ममसुबोधसमयमवयात बालिशाः !॥ काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ १६ ॥ अथ वेति ॥ हे ! बालिशाः मूर्खाः ! अथ वा यूयं धर्म न अवयात आवारं न जानीत । किंलक्षणं धर्मम् असुबोधसमयं दुजेंयसिद्धान्तम् । धर्मसमयो दुशेयः । अपरं कामं निश्चितम् अयं सरित्तो नदीपुत्रो गाङ्गेयोऽपि वृथापलितः मिथ्यावृद्धः । यतः किलक्षणः हतबुद्धिः निन्द्यमतिः, अपरं किलक्षणः अप्रणिहितः असावधानः अज्ञानः । एनं भीष्मं वर्जयित्वा कोऽप्यन्यो हरिपूजने मतिं ददातीति काकूक्तिः । अत एव हतबुद्धिरित्यर्थः ॥ १९ ॥ अथ विभिभीष्मोपालम्भमाह- अथ वेति ॥ अथ वा बालिशा! मूर्खाः ! यूपमिति शेषः । सुबोधो न भवनीत्यसुबोधो दुर्बोधः समय- आचारो यस्य तं धर्म नाऽवयात न जानीत । अवपूर्वात् याधातोलॉटः 'तस्थस्थ-'इत्यादिना थस्य नादे- शः। किन्तु वृथा निष्फलं पलितं यस्य स वृथापलितः, वृथापरिणत इत्यर्थः । 'पलित जरसा शौक्लयम्' इत्यमरः । वृथात्वे हेतुः-हतबुद्धिनष्टमतिरयं सरित्सुनो भीष्मोऽपि काममप्रणिहितोऽनवहितः प्रमत्तः । बालाः पार्था न जानन्तु, हन्त ! वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्याऽनु- दयाद्विशेषोक्किरलङ्कारः । तथा बालिशवधर्मदुर्बोधन्वयाविशेषणगत्या धर्मज्ञानाहेतुन्वात्काव्यालिङ्ग चेत्यनयोः मापक्षत्वात्सदूरः ॥१९॥ स्वयमेव शन्तनुतनूज ! यमिह (१) गणमर्ध्वमभ्यधाः ॥ तत्र मुररिपुरयं कतमो यमवद्य(२)बन्दिवदभिष्टुषे वृथा ॥ २० ॥ स्वयमेवेति ॥ हे शन्तनुतनूज ! शन्तनोः पुत्र ! गाङ्गेय ! इह अस्मिन् त्वं स्वयमेव आत्मनैव यम् अव्यं पूज्यं गणं स्नातकादिसमवायम् अभ्यधाः अवोचः, तत्र अध्ये गणे अर्थ मुररिपुः श्रीकृष्णः कतमः तन्मध्ये अयं कः, न कोऽपीत्यर्थः । यं कृष्णम् अवद्यबन्दिवत दूष्यभट्ट इव वृथा मृषा असत्येन अभिष्टुपे स्तौषि । २० ॥ स्वयमवति ।। हे शन्तनुतनूज ! भीष्म ! स्वयमेवेत्यर्थः । यमपि गणं वर्गमय॑मी पूज्यम् । 'दण्डा- दिभ्यो यत् ' इति यत्प्रत्ययः । अभ्यधा अवोचः । 'स्नातकं गुरुम् ' इत्यादिश्लोक इति भावः । धाधातो. लडि 'गातिस्था-' इत्यादिना सिचो लुक् । नत्र स्नातकादिगणे अयं मुररिपुः कतमः। न कोऽपत्यर्थः । माऽस्तु अस्तु वा, अस्मदुपालम्भे को हेतुरत आह-यमिाते । यं मुररिपुमनिन्धबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टुरे मिथ्या स्तौषि । अतस्वमेवोपालभ्यस इति भावः । 'उपसर्गात्सुनोति-' इत्यादिना षत्वम् ॥ २० ॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ॥ नीचि नियतमिह यञ्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥२१॥ अवनीभृतामिति॥ हे गाङ्गेय ! त्वं समुन्नतं महान्तम् अवनीभृतां गणं राजां समूहम् अपहाय परित्यज्य नियतं निश्चितम् इह नीचि नीचे निन्द्ये श्रीकृष्णे यत् निरतः भक्तिपरः, तदा स्फुट निश्चितं निम्नगात्मजो भवसि निम्न नीचं गच्छतीति निम्नगा तस्याः पुत्रो वर्तसे । नीचगायाः पुत्रस्य एतदेव युक्तमित्यर्थः । किलक्षणस्त्वम् अतिजडः महामूढः, अपरं किंलक्षणस्त्वं चपल: अस्थिरस्वभावः । नद्यो यतः अवनीभृतां पर्वतानां समुन्नतं गणं परित्यज्य नीचासक्ता हि भवन्ति, तत्पुत्रस्त्वमित्यर्थः ॥ २१ ॥ (१) यमपि । (२) यमनिन्छ ।

५२० सन्देहविषौषधिसर्वकषायुते- [पञ्चदशः- । अवनीभृतामिति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समुत्रतमुत्रतमवनीभृतां राज्ञां भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्मिन्त्रीचि नीचवृत्ते निम्ने च । 'अचः' इत्यकारलोपे 'चौ' इति दीर्घः। इहाऽस्मिन्कृष्णे यद् यस्मानियत नित्यं निरतोऽनुरक्तः प्रवणश्च, तदिति शेषः । निम्न नांचं गच्छत्तीति निम्नगा नदी। 'डोऽन्यत्रापि दृश्यते' इति डप्रत्ययः । तस्याः सुतो भवसि स्फुटं व्य. कम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च-'न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः' इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ २१ ॥ प्रतिपत्तुमङ्ग! घटते च न तव नृपयोग्यमहणम् ॥ कृष्ण! कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ २२ ॥ प्रतिपत्तुमिति ॥ पुनः श्रीकृष्णं प्रत्याह-अङ्गेत्यामन्त्रणे, हे श्रीकृष्ण ! च परं तव इदं नृपयोग्यमहणं राजयोग्यमध्य प्रतिपत्तुमङ्गीकर्तु न घटते न युज्यते । नन्विति सम्बोधने, हे कृष्ण ! त्वम् इति कलय आत्मनैवेति विचारय । इतीति कि-यत्, अहं कः कस्य सुतः। अपरं स्फुट निश्चितम् अनात्मवेदिता अनात्मज्ञत्वम् आपदां पदम् । अविचारणा आपदा- स्पदमित्यर्थः ॥ २२ ॥ अथ सप्तदशभिः कृष्णोपालम्भं करोति- प्रतिपनुमिति ॥ हे अङ्ग ! तव नृपयोग्यं राजाऽईमहणं पूजनं प्रतिपर्नु स्वीकर्तुं न च घटते न युज्यते। नन्वहमपि राजैव, कथमहणं मे न युक्तं तत्राह-कृष्णेति । हे कृष्ण ! अहं क इति कलय । अहे राजा न वेति निजस्वरूपमालोचयेत्यर्थः । अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वम् आपदा पदं स्थानं स्फुटं खलु । सत्यामत्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निज- स्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यालङ्गमिति ॥ २२ ॥ असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ॥ दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ २३ ॥ असुर इति ॥ हे कृष्ण ! इति कथं प्रतीयते ईदृशं कथं ज्ञायते, यत् त्वया कोऽपि मधुनामा असरः न्यवधि निहतः । अपरं पुनस्त्वं मधुसूदन इति प्रथसे विख्यातो भवसि, किं कुर्वन् मधु सूदयन् मक्षिकापटलं घातयन् । किंलक्षणः त्वं दण्डदलितसरघः दण्डेन दलिताः सरघाः लगुडेन ताडिता मधुमक्षिका येन सः तथा एव मधुसूदन- उच्यसे इत्यर्थः ॥ २३ ॥ असुर इति ॥ मधुरिति कोऽयसुरस्त्वया न्यवधि हतः। 'आत्मनेपदेष्वन्यतरस्याम्' इति हन्तेलृद्धि विकल्पाद्वधादेशः । इति कथं प्रतीयते विश्वस्यते। न कथञ्चिदित्यर्थः। 'प्रत्ययोऽधीनशपथज्ञानविश्वास- हेतुषुः इत्यमरः । किन्तु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । 'सरघा मधुमक्षिका' इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन् मधुसूदन इति प्रथसे प्रथितोऽसि । मक्षिकासूदनमेव मधुसूदन- संज्ञाप्रवृत्तिनिमित्तं, न तु मधुनानो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्यो- तरवाक्यस्याऽन्यथा व्युत्पादन हेतुत्वाद्वाक्यार्थहेतु काव्यलिङ्गम् ॥ २३ ॥ मुचुकुन्दतल्पशरणस्य यवन(१)पतिशातितौजसः॥ सिद्धमबल! सबलत्वमहो! तव रोहिणीतनयसाहचर्यतः ॥ २४ ॥ मुचुकुन्देति ॥ अहो हति सम्बोधने, हे अबल ! हे निर्बल ! कृष्ण ! तव सबलत्वं रोहिणीतनयसाहचर्यतः रोहिणीतनयो बलभद्रस्तस्य साहचर्य योगः तस्मात् बलदेवयोगात् । अत (१)मगध।

सर्गः ।] शिशुपालवधे। ५२१ . . सिद्धं निष्पन्नम्। कथंभूतस्य तव मुचुकुन्दतल्पशरणस्य मुचुकुन्दनाम्नो नृपस्य तल्पं शय्या एव शरणं रक्षित यस्य सः मुचुकुन्दतल्पशरणः तस्य । मुचुकुन्दनाम्नो नृपस्य शय्यायाः अधः प्रविश्य येनाऽऽत्मा रक्षित इत्यर्थः । अपरं किंलक्षणस्य तव यवनपतिशातितौजसः यवनिपतिना कालयवनेन शातितं नाशित कृत्तम् ओजस्तेजो यस्य सः तथा तस्य । अत- एवं त्वमबलः, परं सह बलेनहलिना वर्तसे इति कृत्वा सबलः । पौरुषवृत्त्या न सबल इत्यर्थः॥ मुचुकुन्देति॥हे अबल ! बलहीन ! कुतः-मुचुकुन्दो नाम कश्चिद्राशा। ययाऽसुराविजयश्रान्त्या निहाय- माणस्य देवतावरप्रसादानिद्राविघातकारी दृष्टिपातास्मीभवति । तस्य तल्प शय्या नदेव शरणं रक्षक यस्य तस्य । कालयवनविद्रावितस्येति भावः । तथा मगधपतिना जरासन्धन शातितीजस:अष्टादशकृत्यो नष्ट वीर्यस्य तब, रोहिणीतनयस्य बलाऽपरनाम्रो बलभदस्य साहचर्यतः माहचर्यात्सबलत्वं सिद्धम । न तु स्वबलसम्पत्त्येत्यर्थः। अहो ! कारणं विना कार्योदय'दाश्चर्यम् । अत एव विभावनाऽलङ्कारः। पुण्यैर्यशा लभ्यते इति भावः ॥२४॥ छलयन् प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः॥ प्रीतिमनुभवसि नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ २५ ॥ छलयन्निति ॥ हे कृष्णा त्वम् इति हेतोः इष्टसत्यः वल्लभसत्यः सम्प्रतीयसे मन्यसे, सर्वलोकैरिति शेषः । इतीति कि-यतः, नग्नजितः सत्राजितस्य सतया तनयया सत्य- मामया सह प्रीतिमनुभवसि स्नेहं वहसि इति । इष्टा सत्या सत्यभामा यस्य सः इष्ट- सत्यः, न पुनरिष्टं सत्यं यस्येति । अत एव इष्टसत्य उच्यसे । किं कुर्वन् अनृतेन कपटेन प्रजाः छलयन् लोकान् वञ्चयन् । प्रजाः छलयतः कुतः इष्टसत्यत्वमित्यर्थः । अपरं कि- लक्षणस्त्वं कपटपटुः कपटे छमनि पटुश्चतुरः कपटपटुः, कापटिकः। धूर्त इत्यर्थः । यतः अपर किंलक्षण: ऐन्द्रजालिकः इन्द्रजालेन मायया चरतीत्यैन्द्रजालिकः। यः किल कापटिकः प्रजा- छलनोद्यतः, स कथमिष्टसत्यो भवति । परम् इष्टा सत्या सत्यभामा यस्येत्यत एव इष्ट- सत्य इति भावः ॥ २५ ॥ छलयनिति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वम् अनृतेनाऽसत्येन प्रशाश्छलयन्वश्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति सम्प्रतीयसे सम्यक्ख्यायसे । 'प्रतीते प्रथित. बळ्यातवित्तविज्ञातविश्रुताः' इत्यमरः । नग्नजितो नग्नजिनाम्रो राज्ञः सुतया सत्यभाम सत्यापराख्यया पीतिमानन्दमनुभवसि । सत्यायोगादिष्ट सत्यो न तु सत्ययोगादिति भावः । अत्र हरेः सत्यप्तम्बन्धेऽपि तदस- बन्धोके सम्बन्धेऽसबन्धरूपातिशयोक्तिः ॥ २५ ॥ बहुशो रणेषु रथचक्रमधित परिमण्डलं त्वया ॥ साधु तदिदमयशःशकलं करणे धृतं नु यदुचक्रसम्पदा(१) ॥ बहुश इति ॥ हे कृष्ण ! यत् त्वया बहुशो रणेषु यदुचक्रसम्पदा स्थचक्रम् अधित धृतं, तदिदं त्वया करणे साधु यथा स्यात्तथा अयशःशकलं ध्रियते। किलक्षणं चक्रं परिमण्डलं मण्डलाकारम् । तदिदं करणे चक्रं च धृतं, किन्तु अयशःखण्डमित्यर्थः । लोकेषु त्वम् इति कथयसि । इति किमिति-यत्, मया चक्रं धृतम् । तु पुनः इदमयशःखण्डमित्यर्थः ॥ धृतवान् न चक्रमरिचक्रभयचलित(२)माहवे निजम् ॥ चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ २६ ॥ (१) श्लोकोऽयं मानिनाथव्याख्यायां नास्ति ।आदर्शपुस्तकेपि बहुशो रणेषु' इत्येताव-मात्रमेव दृश्यते। अवशिष्टोऽशः टीकानुसन्धानेनोपन्यस्तः । (२) चकित ।

५२२
सन्देहविषौषधिसर्वकषायुते-
[ पञ्चदशः-
धृतवानिति ॥ हे कृष्ण ! सततमनवरतं रथाङ्ग चक्रं बिर्षि धारयसि । किमर्थ
भुवनेषु विश्वेषु कृष्णः चक्रधर इति रूढये प्रसिद्धये। परं त्वम् आहवे सङ्ग्रामे निजमात्मीयं
चक्रं राष्ट्र न धृतवान् न पालितवानसि । किंलक्षणं निजं चक्रम् अरिचक्रमयचलितम्
अरिचक्रात् शत्रुसमूहात् भयं साध्वसं तेन चलितं त्रस्तम् । चक्र राष्ट्र धरतीति चक्र-
धरः । स्थाङ्गधरणात् किल चक्रधरस्त्वमित्यर्थः ॥ २६ ॥
धृतवानिति ॥ आहवे युद्धे अरिचक्रादरि सैन्यायेन चकित सम्भ्रान्तम् । 'चकितं भयसम्भ्रमः' इति
सज्जनः । निजमात्मीयं चक्रं सैन्यं न धृतवान् नाऽवलम्बितवान् । न रक्षितवानित्यर्थः। किन्तु चक्रधर इति
भुवनेषु रूढये प्रसिद्धये अदः इदं रथा चक्राऽपराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः।
'चक्रं सैन्यरथाङ्गयोः' इति हेमसजनौ। अयोविकारधरः चक्रधरो भवान् न, अरिभीतचक्राऽधरत्वा-
दित्यर्थः। अत्र हरौ भगवति चक्रधारणसम्बन्धेऽप्यसम्बन्धोतरतिशयोक्तिः ॥ २६ ॥
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ॥
ज्ञातिजनजनितनामपदां स्वमतः श्रियः पतिरिति प्रथामगाः ॥ २७ ॥
जगतीति ॥ हे कृष्ण! त्वम् अतः कारणात् इति प्रथामगाः एवं प्रसिद्धि प्राप्तः ।
इतीति किम्-यत्, श्रियः पविरिति । अतः कुतः-यत् यस्मात् कारणात् त्वम् उदधि-
सतामुपायथाः उदधिर्नाम गोलिकः आभीरः तस्य मुतां तनयां परिणीतवान् । किंलक्षणा-
मुदधिसतां ज्ञातिजनजनितनामपदां बन्धुवर्गोत्पादितनाम्नीम् । बन्धुवर्गतः तन्नाम श्रीरिति
चकारेत्यर्थः । किंलक्षणस्त्वं जगति विश्वस्मिन् श्रिया लक्ष्म्या विरहितोऽपि विहीनोऽपि ।
त्वं श्रीनाम्नीगोलिकसतापरिणयनात् श्रीपतिरित्युच्यसे इत्यर्थः ॥ २७ ॥
जगतीति | श्रिया राजलक्ष्म्या विरहितोऽपि, यदना ययातिशापादाज्याऽनधिकारित्वादिति भावः ।
शातिजनेन बन्धुजनेन जनितं प्रवर्तितं नामपदं श्रीरिति पारिभाषिकमज्ञाशब्दो यस्यास्ताम् उदधिसुनामब्धि.
कन्यां यद् यस्मादुपायथाः । उदूढवानित्यर्थः । विवाहोपयमौ समौ' इत्यमरः । 'उपायमः स्वकरणे' इत्या-
त्मनेपदम् । 'तनादिभ्यम्तथासोः' इति सिचो लुक 'अनुदात्तोपदेश-' इत्यादिनाऽनुनासिकलोप: । अतो
जगति प्रियः पतिरिति प्रथा ख्यातिमगाः प्राप्तवानसि । 'इणो गा लु' इति गादेशः । न राजान्तरवद्राज्य-
लक्ष्मीयोगात्तव श्रीपतित्वम् , किन्तु श्रीसंज्ञिकाया: कस्याश्चद्रराक्याः परिग्रहादिति भावः । अत्रोग्रसेनस्याभि-
कसंस्कारेऽपि त्रैलोक्यप्रतिष्ठापकस्य हरेव सकलराज्यश्रीधुरन्धरत्वमम्बन्धेऽप्यसम्बन्धोलेरातिशयोक्तिः२०
अभिशत्रु संर्यात कदाचिदविहितपराक्रमोऽपि यत् ॥
योनि कथमपि चकर्थ पदं व्यपदिश्यसे जगति विक्रमीत्यतः ॥२८॥
अभिशत्रु इति ॥ हे कृष्ण ! संयति सङ्गामे अभिशत्रु शत्रुमभि लक्षीकृत्य कदाचित्
कस्मिन्नपि प्रस्तावे अविहितपराक्रमोऽपि अदर्शितशौर्योऽपि सन् अतोऽस्माद्धेतोः जगति
लोके विक्रमी पराक्रमी इति व्यपदिश्यसे कथ्यसे, विक्रमहीनोऽपि अत एव विक्रमी-
त्युच्यसे । इतीति किम्-यत् यस्माद्धतोः कथमपि महता कष्टेन केनापि प्रकारेण वा
व्योम्नि आकाशे पदं चकर्थ चरणन्यासं कृतवान् । अम्बरे पदविक्रमात् विक्रमीत्यभि-
धानं, न पुनः शत्रु प्रति कदाचित् कृतविक्रमादिति भावः ॥ २८ ॥
अभिशत्रु इति ॥ संयति युद्धे कदाचित् कदापि अभिशत्रु शत्रुमभिव्याप्य । आभिमुख्यऽव्ययीभावः।
भविहितपराक्रमोऽकृतपौरुषोऽपि यद् यस्मात्कथमपि महता प्रयत्नेन व्योनि पदं पादक्षेपं चकर्थ कृतवानामि ।
'ऋतो भारद्वाजस्य' इति प्रतिषेधः। पित्वेनाऽकिवाद गुणः । अतो जगति विक्रमी विक्रमवानिति व्यपदि-
श्यसे व्यवहियो, न तु पराक्रमयोगादित्यर्थः । अत्रापि पराक्रमसम्बन्धेऽप्यसम्बन्धोक्तरतिशयोक्तिः ॥२८॥

सर्गः।] शिशुपालवधे। ५२३ .. । पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय कल्पते(१)। भूमिभृदिति परहारितभूस्त्वमुदाहियस्व कथमन्यथा जनैः ॥ २९ ॥ पृथिवीमिति ॥ हे कृष्ण ! यदि त्वं पूर्व पृथ्वीं बिभर्थ भूमि धृतवान् । अपरं तव इदमपि गुणाय कल्पते वर्तते कीर्तये विद्यते, यत् त्वं जनैलोंकैः अन्यथा अलीकेन इति कथमुदाहियस्व इति कथमुच्यसे । इतीति कि-यत्, भूमिभृत् पृथ्वीभृत् इति । यतः किंलक्षणस्त्वं परिहारितभूः परैः शत्रुभिः हारिता गृहीता भूः भूमिर्यस्य सः तथा । यस्य भूः शत्रुभिः हारिता भवति, स कथं पृथ्वीभृत् भवेदित्यर्थः । त्वं परेषां शत्रूणां भूमि धरसि, ततस्त्वं पृथ्वीधरः । शत्रुभिस्त्वदीया भूमिहता ॥ २९ ॥ पृथिवीमिति ॥ पूर्व प्रागपि । सम्पत्सम्भवपीति भावः । पृथिवीं बिभर्थ यदि भृतश्चेित् । भृञो लिटि भारद्वाजीयेटप्रतिषधेः । पित्त्वेनाऽकित्त्वाद् गुणः । इदं भूधारणमापे गुणायोन्कर्षाय वर्तते । भूतपूर्वगत्यापि व्यपदेशत्वात्तदपि नास्तीति भावः । प्रत्युत परैः शत्रुभिः हारितभूः परिहारितभूामकः । जरासन्धेन मथुरानगरा- निष्कासितत्वादिति भावः । अत्र हर्तुरवहरणक्षमत्वमेव हारयितृत्वमिति णिजर्थोपपत्तिः । जनैः कथमन्यथा अर्थ वैपरीत्येन भूमिभृदिन्युदाहियस्व उदाहियेथाः । सम्भावनायां लोट् । असम्भावितमेवेत्यर्थः । अत्रापि भूधरणसम्बन्धेऽप्यसम्बन्धोनरतिशयोक्तिः ॥ २९ ॥ तव धन्यतेयमपि सर्वनृपतिकलितो(२)ऽपि यत्क्षणम् ॥ क्लान्तकरतलधृताऽचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ ३० ॥ तवेति ॥ हे कृष्ण ! तव इयमपि धन्यता इदमपि कृतार्थत्वम्, यत् त्वं पृथ्वीतले भूतले तुलितभूभृत् उच्यसे । तर्हि पर्वतः उन्मूलितो भविष्यति नेत्याह-किलक्षणस्त्वं क्लान्तकरतलताऽचलकः (१) खिन्नहस्तततलनिषण्णदटकः । स्वल्पोऽचलोऽचलकः, धृत- पाषाणः पृतगोलकः । तर्हि भूभृतो राजानस्तुलिता भविष्यन्ति, नेत्याह-अपरं किंलक्ष- णस्त्वं तत्क्षणं सर्वदा सर्वनृपतिकलितोऽपि समस्तक्षितीशनिजितोऽपि ॥ ३० ॥ तवेति ॥ तवेयं धन्यता पुण्यवत्ता । कथं सर्वन गतिभिस्तुलितोऽवधूतोगपि, तिरस्कृतोऽपीन्यर्थः । क्षणं श्रान्ते भारवनयैव श्रान्ते करतले धृतः अचल काऽल्पाचलो येन स सन् पृथिवीतले तुलितभूभृद् उद्धृत- राजकश्वाच्यस इनि यत, इयमध्यपरा ते धन्यतेत्यर्थः । गोवर्न धनाख्याभूधरतोलनाचालतभूभृत्त्वं भवति । न मादृशामिव महावीरातितुलनादिति भावः । अत्र सर्वनृपतितुलितोऽपि तत्तोलक इति विरोधो भूभृदिवि श्रेषमूलाऽभेदाध्यवसायोन्थापित इति विरोधातिशयोक्त्योः सङ्करः । तेन गोवर्धनोद्धरणमपि नातीवाद्भुतं बाहुबलशालिनामिति वस्तु व्यज्यते ॥ ३० ॥ त्वमशक्नुवन्नशुभकर्मनियत(३)परिपाकदारुणम् ॥ जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ॥ ३१ ॥ त्वमिति ॥ हे कृष्ण ! त्वम् अधिलोकं जगति यशसे कीर्तये भुवः सुतम् अजयः भूनाम्नी अबला काचित् तस्याः पुत्रं जितवान् । किलक्षणस्त्वम् अकुशलमतिः अप्रवीण- बुद्धिः, किं कुर्वन् नरकं भौमासरं जेतुं वशीकर्तुमशक्नुवन् असमर्थः, किंलक्षण नरकम् अशुभ- कर्मनियतपरिपाकदारुणम् अशुभानां रौद्राणां कर्मणामाचरणानां नियतो नियन्त्रितो यो- ऽसौ परिपाकः परिणामः तद्वदारुणो रौद्रः तम् । अथ नरकं दुर्गति जेतुमशक्नुवन् ॥ ३१ ॥ स्वामिति ॥ हे अशुभकर्मनिरत ! पापाचारपर ! अत एवा कुशलमातर्बुद्धिस्त्वं परिपाके फलकाले (२) तुलितोऽपि। (३)निरत (! परि। (१) वर्तते।

५२४ सन्देहविषौषधिसर्वकषायुते- [पञ्चदशः- ! , .. दारुणम् । विचित्रपापयातनामयत्वाद्भयङ्करमित्यर्थः । नरक निरयम् । 'स्यानारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । जेतुमशक्नुवन्। पापिष्ठदुर्जयत्वादिति भावः । अघिलोकं लोके । विभक्य व्ययीभावः। यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयः जितवानसि । परलोकप्रतारणमाषपरो, न परलोक- बाध्योऽसीति भावः । अत्र निरया परायनरकविजयाशनेविशेषणगत्या तज्जयस्यार्थिनो हरेनरकासुर- विजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यालङ्गम् । तच्च नरकयोः श्लेषमूलाभेदात्तदुस्थापितमिति सङ्करः। सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ॥ त्यक्तमपगुण! गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा । ३२ ॥ सकलैरिति ॥ हे कृष्ण ! तव इदं वपुः शरीरं सकलैर्गुणैः सौन्दर्यादिभिः त्यक्त- मुज्झितं, किंलक्षणं वपुः सकलदोषसमुदितं बहुदोषाश्रितम् । हे अपगुण ! गुणवर्जित ! गुणत्रितयत्यजनप्रयास मुधा किमुपयासि । कृष्ण ! त्वं देवानां पुर इति वदसि-यत् , मया सत्त्वादयस्त्रयो गुणास्त्यक्ताः । एष तव निष्फलः प्रयासः। यतस्तव शरीरे एकोऽपि गुणो नास्ति, ततस्त्वया गुणत्रयं कथं त्यक्तम् । यः किल सकलगुणविहीनो भवति, स गुणत्रय त्यजन प्रयासं खेदं मुधा प्राप्नोतीत्यर्थः । अथ च कृष्णो गुणत्रितयात् सत्वरजस्तमोलक्ष- णात् पृथगिति भावः ॥ ३२ ॥ सकलैरिति ॥ हे अपगुण ! निर्गुण ! सकलैः सर्वदोषैः समुदितं युक्तं तवेदं वपुः सकलगुणैः शौर्यदिभि- स्त्यक्तम् । सर्वगुणानिवर्तितमेवेत्यर्थः। एवं च सति गुणत्रयस्य त्यजने त्यागे यः प्रयासः, तं मुधा वृथा कि किमर्थमुपयाति । मुमुक्षयति भावः । यत्र सकलगुणस्य त्यागस्तत्र गुणत्रयस्य त्यागोऽन्तर्गत्या सिद्ध एम, अन्य. था साकल्यव्याघातादित्यर्थः । स्वभावतो निर्गुणस्य परवस्तुनः कुनो गुणत्रयचिन्ततिवनिः । घुगप्रयत्याग- निषेधस्य सकलैरित्यादिवाक्यार्थहेतुकत्वात्काव्यालङ्गभेदः ॥ ३२ ॥ स्वयि पूजनं जगति जाल्म! कृतमिदमपाकृते गुणैः ॥ हासकरमघधृते नितरां शिरसीव कङ्कणमपोढ(१)मूर्धजे ॥ ३३ ॥ त्वयोति ॥ हे कृष्ण ! हे जाल्म ! हे वराक ! त्वयि विषये कृतं निष्पादितम् इदं पूजनमेतदर्घदानं जगति विश्वस्मिन् हासकर हास्यकारि भवति । किलक्षणे त्वयि गुणैः अपाकृते ज्ञानशौर्यादिभिर्गुणैः वर्जिते, अपरं किंलक्षणे त्वयि नितरामतिशयेन अघरते अर्घ पापं धृतं सञ्चितं येन सः तथा तस्मिन् , पापिष्ठे इत्यर्थः। कस्मिन् किमिव हास. करमित्याह-अपोढमूर्धजे गतकेशे शिरसि मस्तके कङ्कणमिव । यथा त्यक्तकेशे शिरसि कङ्कणं हासकरं भवति कचभूषणिका हास्यकरा भवति । 'काङ्कणीति प्राकृतम् ॥ ३३ ॥ स्वयीति ॥ हे जाल्म ! असमीक्ष्यकारिन ! 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । गुणैरपाकृते निरस्ते गुणहीने त्वयि पूजनं कृतं जगति हासकर परिहासजनकम् । इदं पूजनम् अपेतमूर्धोऽपगतकेशे शिरमि कहुतं दारुदन्तादिमयः केशप्रसाधनविशेषः । 'प्रसाधने कहूतिका' इति विश्वामरौ । ककुतमेव कर- तिका । 'कङ्कणम्' इति पाठे शेखरमित्यर्थः । 'कङ्कणं शेखर हस्तसूत्रमण्डनयोरपि' इति विश्वः। तदिव नितरामघटते । न मङ्गच्छत इत्यर्थः । 'नञो नलोपस्तितिक्षेप इत्युपसायान मिति निन्दायां लिज्योगे- अपि नलोपः । उपमालङ्कारः ॥ ३३ ॥ भूपतीन् प्रत्याह- मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।। अस्य वनशुन इवाऽपचितिः परिभाष एष भवतां भुवोऽधिपाः ! ॥३४॥ (१)मघटते"कर्णमपेत । ! !

सर्गः ।] शिशुपालवधे। ५२५ -- । मृगेति ॥हे भुवः अधिपाः ! हे भूमेः पतयो राजानः पृथासतैः कुन्तीपुत्रैः युधिष्ठिर- प्रभृतिभिः यत् इत्थम् अमुना प्रकारेण अस्य पुरोवर्तिनः कृष्णस्य अपचितिः अजनि पूजा निष्पादिता, एष भवतां युष्माकं परिभावः परिभवः । किंलक्षणानां भवतां मिषतां पश्यता, स्पर्शमानानामित्यर्थः(१) । केषामिव मृगविद्विषामिव सिंहानामिव, हरेः कस्येव वनशुन इव । यथा मृगविद्विषां सिंहानां मिषतां सतां वनशुनः शृगालस्य जनिता अपचितिः परिभवकारिणी भवतीत्यर्थः । मृगाणां विद्विषः शत्रवः मृगविद्विषः तेषाम् । वने वनस्य वा श्वा वनश्वा तस्य वनशुनः ॥ ३४ ॥ सम्पति राज्ञा रोषमुत्पादयत्राह-- मृगेति ॥हे भुवोऽधिपाः ! राजानः ! मृगविद्विषां सिंहानामिव भवतां मिषतां पश्यतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । षष्ठी चानादरे' इति विकल्पाद्रावलक्षणे षष्ठी। इत्थं पृथासुतैः कौन्तेयः । पितरमेतेषां न वेद्मीति भावः । अस्य कृष्णस्य वनशुनो वनशुनकस्येव । जम्बुकस्येवेति यावत् । अपचितिः पूजा अअनि जनिता । कृतेति यत् । जनेर्ण्यन्तात्कर्मणि लुक् । एष भवतां परिभावः परिभवः । 'परौ भुवो- बज्ञाने' इति विभाषया घञ्प्रत्ययः ॥ ३४ ॥ अवधीजनगम इवैष यदि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरहति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ ३५ ॥ अवधीदिति ॥ ननु इति सम्बोधने, हे नृपाः ! एष कृष्णः यदि चेत् जनगम इव चण्डाल इव वृष बलीवर्दम् अवधीत् जघान, किंलक्षणः एष हतवृषः हतधर्मः । तदा अस्य वपुः शरीरं स्पर्श न अर्हति स्पर्शाय योग्यं न भवति । किंलक्षणं वपुः अशुचि अपवित्रम् । तु पुनः नितरामतिशयेन नृपोचितांन पयोग्यां प्रतिमाननां पूजां किमु कथम् अर्हति । पूजायोग्यः कथं भवतीत्यर्थः ॥ ३५ ॥ अवधादिति ॥ हतवृषो हतसुकृतः : 'सुकृतं वृषभे वृषे' इति विश्वः । एष कृष्णो जनगमश्चाण्डाल- इव । 'चाण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । 'गमेश्व' इति संज्ञायो जनपूर्वाद्रमधातोः खच्- प्रत्ययः 'अषित-' इत्यादिना मुमागमः। वृषं वृषभरूपिणमरिष्टाख्यमसुरमवधीद् यदि हताश्चेत् । 'लुडि च' इति हनो वधादेशः। अत एव अशुचियपुरशुद्धामा स्पर्श नाईति । स्पर्शाऽयोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा ॥ ३५ ॥ यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ॥ स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ ३६॥ यदीति ॥ हे भुवोऽधिपाः ! यदि चेत् अस्य कृष्णस्य मतिः पूतनां बकी प्रतिह ति मृदुः सदयत्वात्कोमला बुद्धिः न अजनि न बभूव । इतीति किं यदियमङ्गना स्त्री सर्वथा अवध्या एव । तदा अस्य अघृणमनसः निर्दयचित्तस्य स्तन्यं पिबतः पयःपानं कुर्वतः, किल सत्ये, धर्मतः शास्त्रतः सा जनन्यपि मातापि भवति । जिह्वाप्रतिपन्ना माता भवती- त्यर्थः । मातृघाती असावित्यर्थः ॥ ३६ ॥ यदीति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रहविशेषः ता प्रति अङ्गनेति हेताम॒दुः कृपा(?)दया नाऽजनि यदि न जाता चेत, मास्त्विनि शेषः । जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना चिण्प्रत्ययः। अघृण- मनमो निघृणचित्तस्य । स्तने भवं स्तन्यं पयः । 'शरीराव्यवाच' इति यत्प्रत्ययः । पिबतोऽस्य मा पूतना धर्मतः शामतो जनन्यपि माता च भवति खलु । मीति कृपाभावेऽपि मातेति जुगुप्साऽप्यस्य नास्तीत्यहो। ..

५२६ सन्देहविषाषधिसर्वकषायुते- [ पञ्चदशः- न केवलं मीहन्ता, किन्तु मातृहन्ता चायम् ।स्तनपदाया उपमातृत्वादिति भावः । अब स्तनपानस्य विशे- षणगत्या जननीत्वात्काव्यलिङ्गम् ॥ १६ ॥ शकटं व्युदास तरु(१)भङ्गधरणिधरधारणादिकम् ॥ कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ ३७ ॥ शकटमिति ॥ हे भुवोऽधिपाः ! यदयं कृष्णः शकटं व्युदास अनम् उचिक्षेप । तरुभङ्गधरणिधरधारणादिकं कर्म अकरोत् तोवृक्षयोर्यमलार्जुनयोः भङ्गः मूलतः आमर्दन तरुभङ्गः, धरणिधरस्य भूधरगोवर्धनस्य धारणमुद्धरणं धरणिधरधारणं, तरुभङ्गश्चध रणिधरधारणं च तरुभङ्गाधरणिधरधारणे ते आदौ यस्य तत्तथा तत्कर्म चरितं चकार । तेन कर्मणा स्थिर- चेतसां गम्भीरमनसां क इव विस्मयः किमिवाऽऽश्चर्यम् । यतः किंलक्षणोऽयं तरल: चपलः । द्वितीयपक्षे स्तुतिव्याख्यानम् । तेन कर्मणा स्थिरचेतसां क इव विस्मयः, यतः किंलक्षण: तरलः तरन्ति संसारसागरमिति तराः योगिनः, तान् लाति स्वीकरोति इति तरलः ॥३७॥ शकटेति ॥ तरलश्चपलाध्यं कृष्णः, शकटव्युदासः शकटासुरमर्दनं नरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् तान्यादिर्यस्य तत्तथोक्तं यत्कर्माऽकरोत् तेन कर्मणा स्थिरचेतसा धीर- चित्तानां क इव विस्मयः । न कोऽपीत्यर्थः । अप स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वात् काव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते ॥ ३७॥ अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । स्वामिवधमसुकरं पुरुषैः कुरुते स्म यत् परममेतदद्भुतम् ॥३८॥ अयमिति ॥ हे नृपाः ! अयं कृष्णः उग्रसेनतनयस्य उग्रसेनराज्ञः पुत्रस्य कंसस्य पशून् दौराणि () अवन् रक्षन् सन् यत् स्वामिवधं कुरुते स्म परिवढघातं कृतवान् , एतत् परममद्भुतम् इदं महदाश्चर्यम् । किंलक्षणोऽयम् अपरो नृपशुः द्विपदरूपपशुः । किलक्षणं स्वामिवधं पुरुषैर्गुणवद्भिर्नरैः असकरं कर्तुमनुचितम् ॥ ३८ ॥ अयमिति ॥ अपरोऽन्यः ना परिवति नृपशुरित्युमितममासः । कार्याकार्यविवेकशून्यत्वादवेत्यर्थः। अयं कृष्णः उग्रसेनननयस्य कैसस्य पशूनवन् गाः पालयन् पुरुषैरसुकरं लोकवेदावीतत्वाद् दुष्करं स्वामिवर्ष यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुम् । अभूतपूर्वादिति भावः । अत्र पश्ववनस्य विशेषण. गत्या कमकृष्णयाः स्वामिभृत्यभावहेतुत्वाकाव्यालिङ्गम् ॥ ३८ ॥ इति वाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ॥ सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुश्चकैः(२) ॥ ३९ ॥ इतीति॥ शिशुपालः उच्चैर्गाढं यथा भवति तथा जहास हसितः(३) । कथं यथा भवति वेणुदारिणा सह जरासन्धपुत्रेण साधं दत्तकरतालं यथा स्यात् दत्तः करतालः पाणिचपेटो यत्र क्रियायां तद्यथा भवत्येवं, किं कृत्वा सपदि वेगेन उद्धतं साक्षेप यथा भवत्येवं वाचमुदीर्य वाणीमुदित्वा, किंलक्षणः सः सोढरिपुबलभरः सोढः क्षान्तः रिपुबलानां शत्रुसैन्यानां वीर्याणां वा भरः आधिक्यं येन सः तथा । एतेन समस्तशत्रूणां बलानि जग्राहे- त्यर्थः । अपरं किलक्षणः सः असहनः असह्यः । तेन सर्वेषां बलानि सोढानि, तस्य तु बलं न केनापि सोढमिति भावः ॥ ३९ ॥ (१) शकटव्युदासतरु । (२) श्लोकोऽयं मुद्रितपुस्तकान्तरे मलिनाथेन प्रक्षिप्ततयोपक्षिताना चतुर्विंशच्छलोकानामग्रे दृश्यने । (३) कान्तप्रयोगोऽयं कर्तरि चिन्त्यः ।

सर्गः ।] शिशुपालवधे। ५२७ . इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहन: असहिष्णुः स चैयः इतीत्थमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्पर- पाणिताडनं यस्मिन्कणि तयथा तथा उच्चकैस्तारं जहास । कृष्णदोषोदाटनहर्षादट्टहासं चकारत्यर्थः । स्वभावोक्तिः ॥ ३९॥ ननु सव एव समवेक्ष्य कमपि गुणमेति पूज्यताम् ॥ सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र ! को गुणः(१) ॥ १॥ नन्विति ॥ नन्विति अमर्षे, सर्व एव सर्वः कश्चिल्लोकः कमपि गुणं पौरुषश्रुतादिक समवेक्ष्य विलोक्य पूज्यतामेति अर्च्यत्वं प्राप्नोति । हे कुरुनरेन्द्र ! हे कौरवेश्वर युधि- ष्ठिर ! सर्वगुणविरहितस्य सकलगुणवर्जितस्य हरेः वानरतुल्यस्य परिपूजया को गुणः । एनमर्चयित्वा न कश्चिद् गुणः त्वया लब्ध इत्यर्थः । न च त्वं यादृशस्तादृशो, येना- गुणं पूजयसीति 'कुरुनरेन्द्रे'त्यामन्त्रणेन सूच्यते ।। अत्र कविरतिभक्तत्वात् भगवतः यथाक्रमागतामपि निन्दामसहमानः स्तुति व्यरचयत, इति तदर्थोऽधुना व्याख्यायते-द्वितीयपक्षे निर्गुणस्य सत्त्वरजस्तमोविरहितस्य हरेः पूजया को गुणः नीरागद्वेषत्वात् , नैवास्य गुण उपकारः। अथ वा कोऽगुणः, स्वर्गादिको गुणः ॥१॥ किमवोचदित्याह- नन्विति ॥ हे कुरुनरेन्द्र ! कौरवनाथ ! ननु सर्व एव कश्चित्कमपि पौरुषश्रुतादिकं समवेक्ष्य पूज्यतामेति पूज्यते गुणैः । गुणाः पूजाया निमित्तमित्यर्थः । यदि वा गुण स्वप्रयोजनं पर्यालोच्य । अतश्चैवं स्थिते अस्य हरेवानरतुल्यस्य सर्वगुणेः कृतज्ञत्वादिभिविरहितस्य विशेषेण रहितस्य परिपूजनात्को गुणः । एनमर्चः यित्वा न कश्चिद्गुणस्त्वया प्राप्त: । ननुरमर्षे । कमपि। स्वल्पमपीत्यर्थः । हरिर्वानरः तत्साधम्याद्भगवान हरिविवक्षितः । यथाग्निर्माणवक इति तत्त्वम् । यादृशस्तादृशस्त्वम् , येनाऽगुणं पूजयसीति 'कुरुनरेन्द्र' इत्यामन्त्रणपदेन सुच्यते ॥ अत्र कविरतिभक्तत्वाद्भगवत: कथाक्रमागतामाप निन्दामसहमानः प्रतीयमानो स्तुति व्यरचयदिति तदर्थोऽधुना व्याख्यायते-हरेविष्णोः परिपूजया कोऽगुणः अपि तु स्वर्गादिको गुणः । न तु गुण एवे. त्यर्थः । यदि वा को गुणो नीरागत्वेन । नेवास्य गुण उपकार इत्यर्थः । कीदृशस्य सबिभिरपि गुणैः सत्त्वरजस्तमोभिर्विरहितस्य । 'निर्गुणो हि पुरुषः' इति सासपाः । अत्र द्वितीयार्धमेवे तेन भिद्यते । प्रथ- मार्वे तु न किञ्चित्प्रयोजनम् । न हि तत्र ते गुणनिन्दागताः । पूज्यतामेतीति इणधात्वर्थस्य तु अवक्षत्येक- कर्ता य एव हि समीक्षते स एव पूजयते इति ल्यब् भवत्येव । सर्वो गुणान् दृष्ट्वा पूज्यत इत्यर्थः। वक्र- श्लेषोऽत्र । निन्दास्तुतावकारः॥ १ ॥ तदेव निर्गुणत्वं दर्शयितुमाह- न महानयं न च बिभात गुणसमतया प्रधानताम् ॥ स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानितां दधत् ॥२॥ नेति ॥ हे राजन् ! अयं हरिनं महान् न गुणोत्कृष्टः, अपरं गुणसमतया गुणसाम्येन समुदायेन प्रधानतां न च बिभर्ति मुख्यत्वं न चधारयति । अगुणज्ञोऽयमित्यर्थः। अपरम् अयं स्वस्य आत्मनः चिराय चिरकालं यावत् पृथग्जनतां कथयति हीनत्वं सूचयति प्राकृतत्वं निवेदयति । किं कुर्वन् जगति विश्वस्मिन् अनभिमानितां दधत् अहङ्कारित्वं (१) इत आरभ्य चतुर्विंशच्छ्लोकान् मल्लिनाथः प्रक्षिप्तान भत्वा न व्याख्यातवान् । मोहमय्यां मुद्रितपुस्तके तु वल्लभदेवव्याख्यया सहैते सगृहीताः । परं सा व्याख्या अस्मदादर्शपुस्तकाद्भिनरूपेति विविधावि सगृहीताऽस्माभिरत्र ।

५२८ सन्देहविषौषधियुते- [ पञ्चदशः- त्यजन् । प्राकृतो हि निरभिमानो भवति । इति निन्दा ।। अथ स्तुति:-अयं न महान महत्तत्वं न भवति । गुणानामुद्रेके अतिशयसाम्यामावे बुद्धेरव महत्त्वम् । बुद्धिरेवोत्कृष्टा, न आत्मा महान् । अपरं गुणानां सत्वरजस्तमा समतया साम्येन प्रधानतामपि न बिभर्ति । प्रधानमपि अयं न भवतीत्यर्थः । अनुबूत- विक्रियाणि निर्विकाराणि प्रकृतिस्थानि सत्त्वरजस्तमांसि प्रधानशब्देनाऽऽहुः । सत्त्वादि- गुणत्रितयं घटस्थितम् अस्यात्मनः पुरुषस्य विक्रियां नोत्पादयति । स्वस्यात्मनः पृथक- जनतां कथयति । जन्यन्ते एभ्यः शरीराणीति जनाः पञ्चतन्मात्राणि पृथिव्यादीनि पञ्चमहा- भूतानि तेभ्यो व्यतिरिक्त आत्मा जनेभ्यः पृथक् सर्वाऽतीतत्वात् । जनव्यतिरिक्तत्वं कथ- यति-किं कुर्वन् अनभिमानितां दधत् अनहारित्वं बिभ्रत् ॥ २ ॥ तदेव निर्गुणत्वं दर्शयितुमाह- नेति ॥ भयं हरिन महान् सर्वोत्कृष्टः । सर्वनाम सर्वत्र प्रत्यक्षनिर्देशे । कदाचिदन्येषां प्रधानानां गुणः समः स्यात्तदापि पूज्यः । एतदपि नेत्याह-गुणसमतया गुणसाम्येन या प्रधानता विवक्षितत्वं तदपि न बिभर्ति । यतोऽन्येषां गुणैरसम इत्यर्थः । गुणोत्कर्षाद्धि प्राधान्यमाप्यते । कदाचित् महत्प्रधानं च न भवेद्यावद्धतोऽपि (?) न तत्स्यात् । तदपि नेत्याह--अनभिमानितां निरहकारित्वं दधत् स्वस्यात्मनः चिराय जगति पृथग्जनता हीनत्वं कथयति । प्राकृतोऽपि निरभिमानो भवति । इति निन्दा ॥ स्तुतिस्तु-अयं न महान महत्तत्त्वं न भवति । गुणाऽननुदेके साम्याभावे बुद्धेरेव महत्त्वम् । अथ गुणानो सत्त्वरजस्तममा समतया या प्रधानता तामपि न बिभर्ति । प्रधानमययं न भवतीत्यर्थः । अनुभूत- विक्रियाणि प्रकृतिस्थानि सत्त्वरजस्तमांसि प्रधानशब्देनाहुः । तथाऽनभिमानितामनहङ्करिता दधत्स्वस्या- स्मनः पृथग्जनता जनव्यतिरिक्तत्वं कथयतीति वा । जनाः पञ्चतन्मात्राणि । पृथग्भूतो जनेभ्यः, पृथग्वा जनो यस्मात्स पृथग्जनः । तद्भावस्तत्ता ता कथयति । सर्वाऽतीतत्वात् । तेनायं न महान् , न प्रधानम् , न भूतानि, न तन्मात्राणि, नाहद्वारः इति वाक्यार्थः । पञ्चविंशकोऽयं पुरुषः । चतुर्विंशकबाह्य इति यावत् ॥ रहितं कलाभिरखिलाभिरकृतरसभावसंविदम् ॥ क्षेत्रविदमपदिशन्ति जनाः पुरबाह्यमेनमगतं विदग्धताम् ॥ ३ ॥ रहितमिति ॥ जना लोकाः एन श्रीकृष्ण क्षेत्रविदम् आवनझं कर्षकम् (?)अपदिशन्ति कुटुम्बिनं वदन्ति, किंलक्षणमेनं पुरबाह्य पुरानगराद्वाह्यः तम् । कर्पको हि नगरादहिर्वसति। अपरं किलक्षणमेनम् अखिलाभिः समग्राभिः कलाभिः गीतवाधादिभिः रहितं वर्जितम्, अपरं किंलक्षणमेनम् अकृतरसभावसंविदम् अकृता न कृता न विहिता रसानां शृङ्गारादीनां भावानां रत्यादीनां च संवित् संवेदनं सङ्केतो येन सः तथा तम् । विदग्धशास्त्राणां सङ्केतमपि यो न वेत्तीत्यर्थः । अपरं किलक्षणमेनं विदग्धतामगतं चातुर्यमप्राप्तम्, अत एव दोषत्वम् । इति निन्दा ॥ अथ स्तुतिः-जना एनं क्षेत्रविदं क्षेत्रज्ञम् अपदिशन्ति आहुः आत्मानं अवन्ति आमनन्ति । क्षेत्रं शरीरम् । किंलक्षणं क्षेत्रज्ञम् अखिलाभिः कलाभिरवयवैर्हस्तपादादिभिः रहितं वर्जितं निष्कलम्, अपरं किंलक्षणम् अकृतरसभावसंविदम् अकृतरसा अकृतरागा भावसंवित् पदार्थसंवेदनं यस्य सः तथा तम् । पुरुषो हि भावान् वेत्ति, न तु तत्र रसं भजति । यदि वा अविद्यमानाः कृतरसभावाः कर्मरागवृत्तयो यस्य सः तथा स चासौ संविद्रूपः तम् । अपरं किंलक्षणमेनं पुरवायं पुराइहाद्वाझं विलक्षणम् , अपरं सर्गः1] शिशुपालवधे। ५२९. किंलक्षणमेनं विदग्धतामगतं विशेषेण दायमगतम् । उक्तं च-'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः' इति ॥ ३ ॥ भूयोऽपि निर्गुणत्वमाह- रहितामिति ॥ एनं हरि क्षेत्रविदमपदिशन्ति कर्षकमाहुः । अत एव पुरबाह्यं ग्राम्यम् । कार्षिका हि नगरादहिसन्ति । यद्वा पुरस्य वाहनीयो बाह्य ः पुरायत्तः। तथा सर्वाभिः कलाभिर्गीतवाद्यादिभिर्वर्जितम् , यतः अकृता रसाना शुकारादीना भावाना रत्यादिकाना च संविन्सङ्केतः संवचनं येन । विदग्धशास्त्राणा सङ्केत मपि यो न वेदत्यर्थः । यतो विदग्धता वैदग्ध्यम् अगतमप्रामम् । इति निन्दा ॥ स्तुतिस्तु-एनं भगवन्तं क्षेत्रमात्मानमामनन्ति । क्षेत्र शरीरम् । कीदृशम समग्राभिः कलाभिरवयवः रहितं निष्कलम् ,भकृतरसा अविहितरागा भाव संवित पदार्थसंवेदनं यस्य। पुरुषो हि भावान् वोन न तु तत्र रसज्ञतां भजते । यहा अविद्यमानाः कृतरसभावाः कर्मरागोत्पत्नयो यस्य स चासौ संवित् चिद्रूपः । पुरा देहाबाह्य विलक्षणम् । विदग्धता विशेषेण दाह्मत्वमगतम् । यदाह-'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः' इति । अतिभूयसाऽपि सुकृतेन दुरुपचर एष शक्यते ॥ भक्तिशुचिभिरुपचारपरैरपि न ग्रहीतुमभियोगिभिनुभिः ॥ ४॥ अतिभयसाऽपीति ॥ अभियोगिभिः उद्यमपरैः नृभिः पुरुषैः एष श्रीकृष्णः ग्रहीतुमावर्जयितुं न शक्यते न पार्यते, न पार्यते, किंलक्षणैर्नृभिः भक्तिशुचिभिः भक्त्या तत्त्वतः शुचिभिः शुद्धमतिभिः, अपरं किलक्षणैर्नृभिः उपचारपरैः आराधनतत्परैः । कथं तहि न शक्यत इत्याह(१)। किंलक्षणैर्नभिः भक्तिशुचिभिः निर्मलमानसैः । केचित्तु परमताऽऽशङ्कया नजं काका व्याचक्षते-एष सुकृतेन दुरुपचरोऽपि न ग्रहीतुं शक्यते । परं तैरेवज्ञायते इत्यर्थः। उक्तं च- नाहं वेदैर्न तपसा न दानेन न चज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मा यथा ॥ इति ॥ ४॥ अतिभूयसाऽपीति ।। अयमेवंविधरपि नृभिग्रहीतुमावयितुं न शक्यते । कीदृशैः भक्त्या तत्त्वतः शुचिभिः शुद्धमतिभिरुपचारपरेराराधनपरेरमियोगिभिः एतन्मनोभिः । कथं तर्हि न शक्यत इत्याह-यतोऽति- भूयसापि बहुतरेणापि सुकृतेनोपकारेण दुरुपचरो दुराराधः । अकृतज्ञोऽयमिति वाक्यार्थः । इति निन्दा ॥ स्तुतिस्तु-एषोऽभियोगिभिराभिमुख्येन योगिभिरपि नृभिग्रहीतुं परिच्छेत्तुं न शक्यते । आत्मतत्त्वस्य दुनित्वात् । कीदृगेषः मतिभूयसापि सुकृतेन यज्ञदानादिना दुरुपचरो दुराराधः । भक्तिगम्यो हि भगवान् । कीदशैर्नृभिः भक्त्या शुचिभिनिर्मलीमसैः । केचित्त्वन्यमताशया ननं काका व्याचक्षते- नेष सुकृतेन दुरुपचरो योगिभिरपि न ग्रहीतुं शक्यते । परं तु तेरेव ज्ञायत इत्यर्थः । यदुनम्-'नाह पैदैन तपसा-' इत्यादि ॥ ४ ॥ व्रजति स्वतामनुचितोऽपि सविनयमुपासितो जनैः ॥ नित्यमपरिचितचित्ततया पर एव सर्वजगतस्तथाऽप्ययम् ॥५॥ व्रजतीति ॥ अयं कृष्णः अनुचितोऽपि अयोग्योऽपि स्वतां व्रजति अस्माकं ज्ञातित्वं याति । अस्माकमसमोऽपि शिशुपालस्याऽहं स्वजन इति वक्तीत्यर्थः । स्वस्य भावः स्वता ताम् । 'स्वो ज्ञातावात्मनि स्वं विष्वात्मीये स्वोऽस्त्रियां धने'। किंलक्षणोऽयं जनैः लोकः सविनयं सोपचारम् उपासितोऽपि सेवितोऽपि सर्वजगतस्त्रिभुवनस्य पर एव शत्रुरेव । (१) अन्यस्त्रुटितः। ४५ शि०० ५३० सन्देहविषौषधियुते [ पश्चिदशः यद्ययमकृतज्ञः सेवितोऽपि शत्रुः, तत्कथं जनाः सेवन्ते इत्याह-कया अपरिचितचित्ततया अज्ञात्तचित्तत्वेन । ते हि जानते साधुरयं सेव्य इति । यदि वा अपरिचितचित्ततया अविश्वस्तहृदयत्वेन सर्नजगतः पर एवेति योज्यम् । इति निन्दा ॥ अथ स्तुतिः-अयं स्वतामात्मत्वं व्रजति प्रतिपद्यते । क्षेत्रज्ञोऽयमित्यर्थः । लोकप्रसि- द्धयाऽत्र आत्मा स्वशब्देनोक्तः । आत्माऽऽत्मीयज्ञाति(धन)वचनः स्वशब्दः । साङ्ख्या हि आत्मानं स्वामिशब्दवाच्यमाहुः । किलक्षणोऽसौ अनुचितोऽपि अनभ्यस्तोऽपि अज्ञेयोऽपि सविनयमेकाग्रेण योगिभिः उपासितः सेवितः, अपरं किंलक्षणोऽयं सर्वजगतः सर्वस्मात् जगतः विश्वस्मात् जगतः परः विलक्षणः, कया अपरिचितचित्ततया अपरिचितमसङ्गतं चित्तं मनो बुद्धिर्वा यस्य सः अपरिचित्तचित्तः तद्भावस्तत्ता तया । अन्यो झात्मा, अन्या च बुद्धिः, अन्यश्च चित्तम्, जगञ्चेदं प्राकृतो भागः ॥ ५ ॥ ब्रजतीति ॥ अयमनुचितोऽप्ययोग्योऽपि स्वतां जन्मना ज्ञातित्वं याति । असमोऽपि शिशुपालस्या स्वजन इति वक्रीत्यर्थः । तथा जनैः सविनयं साचारं सेवितोऽपि परः शत्रुरेवायं त्रिभुवनस्य । यद्ययमकृत- ज्ञ: सेवितोऽपि शत्रुस्तकथं जनाः सेवन्त इत्याह-अपरिचितचित्ततया चलचिनतया अविश्वस्त. हृदयत्वेन सर्वजगतः पर एवेति योज्यम् । इति निन्दा ॥ स्तुतिश्-असौ स्वतामात्मत्वं ब्रजति प्रतिपद्यते । क्षेषज्ञोऽयमित्यर्थः । लोकप्रसिध्यान स्वशब्देना- मोक्तः । भात्मात्मीयज्ञातिधनवचनः स्वशन्दः । साल्या ह्यात्मानं स्वामिशब्दवाच्यमाहुः । कीदृशोध्यम् अनुचिताम्प्यनभ्यस्तोऽप्यज्ञेयोऽपि सविनयमेकाग्रेण योगिभिरूपासितश्चिन्तितः । तस्मात्सर्वस्माजगतो व्यतात्परो विलक्षणः । कुतः-अपरिचितममङ्गत चित्तं मनो बुद्धिर्ग यस्य सो परिचितचित्तस्तद्भाव- स्तत्ता तया । अन्यो ह्यात्मा, अन्या च बुद्धिः, अन्यच्च चित्तम् , जगचेदं प्राकृतो भागः ॥ ५ ॥ उपकारिणं निरुपकारमनरिमरिमप्रियं प्रियम् ॥ साधुमितरमबुधं बुधमित्यविशेषतः सततमेष पश्यति ॥ ६ ॥ उपकारिणमिति ॥ एष कृष्णः उपकारिणमुपकारं निरुपकारमनुपकार वा अवि- शेषतः अविशेषेण पश्यति जानाति । अपकारिणमिव उपकारकमपि असौ समया दृष्टया पश्यतीत्यर्थः । इति अकृतज्ञत्वकथनम् । एवमन्यत्र । तथा अरिं शत्रुम् अनरि मित्रम् । नायं नियमो, यत् मित्रमुपकायेव भवत्यनुपकारतः शत्रुरेवेति पृथगुपादानम् । मित्रमपि नोपकुरुते, निरुपकारी शत्रुरपि सम्भवति । अप्रियं द्वेष्यं प्रियं मनोज्ञं, साधुमार्यम् इतरमसाधुं खलम्, अबुधं मूर्ख बुधं पण्डितमिति विशेषो नास्ति । इति निन्दा ॥ अथ स्तुतिः-समदृष्टित्वात्पुरुषस्य समदृष्टित्वम्(१)॥ ६ ॥ उपकारिणामिति ॥ अयमुपकारिणमपकारिणं चाऽविशेषेण पश्यति । अपकारिणमिवोपकारकमध्यसो स्वया दृष्टया पश्यतीत्यर्थः । इत्यकृतज्ञत्वकथनम् । एवमन्यत्र । तथा अरि शत्रु त्वनर मित्रम् । नायं नियमो यन्मित्रमुपकार्येव भवति, अनुपकारकश्च शत्रुरेव सम्भवति । अप्रियं द्वेष्यं प्रियं मनोज्ञम् । साधुमार्यमितर खलम् । अबुधं मूर्ख बुध पण्डितम् । इति दुरुक्तनिर्देशः । एषा निन्दा ॥ स्तुतौ तु-निर्गुणत्वात्पुरुषस्य समदृष्टित्वम् ॥ ६ ॥ उपकारकस्य दधतोऽपि बहुगुणतया प्रधानताम् ॥ दुःखमयमनिशमाप्तवतो न परस्य किञ्चिदुपकर्तुमिच्छति ॥ ७ ॥ ( १ ) हेतुसाध्ययो वैयधिकरण्यं युक्तम् । द्वितीयव्याख्यायो 'निर्गुणत्वादिति हेतूक्तिः सङ्गच्छते ।

सर्गः1] . शिशुपालवधे। ५३१ १ : उपकारकस्योत ॥ अयं कृष्णः परस्य अन्यस्य किञ्चिदपि मनागपि नोपकर्तु- मिच्छति । कस्यांचदप्युपकारकरणेऽस्य बुद्धिर्न भवतीत्यर्थः । कदाचित्परोऽनुपकारी भवि. ष्यतीत्याशङ्कयाह-किलक्षणस्य परस्य उपकारकस्यापि उपकर्तुरपि, अपरं किंलक्षणस्य अनिशं निरन्तरं दुःखमाप्तवतः कष्टं प्राप्तस्य । कदाचिदमुख्यः परः स्यात, तदप्रत्युपकारित्वे वा लजादोषो न भवतीत्याह-अपरं किलक्षणस्य परस्य बहुगुणतया श्रुतशौर्यादिसकलगुण- सद्भावेन प्रधानतां दधतोऽपि मुख्यत्वं बिभ्रतोऽपि । तदेतेन पूर्वोऽर्थो दृढीकृतः। इति निन्दा ॥ अथ स्तुतिः-अयं कृष्णः परस्य बुद्धितत्त्वस्य प्रधानसंज्ञस्य किञ्चिदपि नोप- चिकीर्षति । किंलक्षणस्य बुद्धितत्त्वस्य पुरुषप्रवृत्तिद्वारेण उपकारकस्य, अपरं किलक्षणस्य बहवस्त्रयोऽपि ये गुणा(१)दिकं सदा प्राप्तस्य । सर्व बुद्धिरनुभवति न पुरुषः ॥ ७ ॥ उपकारकस्यति ॥ अयं परस्याऽन्यस्य किञ्चिदपि मनागपि नोपकतुमिच्छति । उपकारकरणे बुद्धि- रेवास्य न भवतीत्यर्थः । कदाचित्परोऽनुपकारी स्यादित्याह-उपकारकस्यापि । अत एवैतदर्थमनिशं दुःख केशमाप्तवतः प्राप्तस्य । कदाचिदमुख्यः परः स्यात्तदप्रत्युपकारित्वे न तथा लज्जादोषो भवदित्याह-बहुगुण- तया श्रुतशौर्यादिसद्भावेन प्रधानता मुख्यत्वं दधतो बिभ्रतः। तदेतेन पूर्वोक्ताओं दृढीकृतः । इति निन्दा ॥ स्तुतिस्तु-अयं परस्य बुद्धितत्त्वस्य प्रधान संज्ञकस्य किञ्चिदपि नोपचिकीर्षति । द्रष्टा हि पुरुषो न सक्रियः । कीदृशस्य पुरुषप्रवृत्तिद्वारेणोपकारकस्य, तथा बहवस्त्रयोऽपि ये गुणास्तदावेन प्रधानता प्रकृतित्वं दधनः । सत्त्वरजस्तमांसि प्रधानम । तथा दुःखं जननमरणादिकं सदा प्राप्तस्य । सर्व हि बुद्धिरनु. भवति न पुरुषः ॥ ७॥ स्वयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः ॥ भोक्तुमविरतमलजतया फलमीहते परकृतस्य कर्मणः ॥ ८ ॥ स्वयमिति ॥ एष कृष्णः अविरतं सदैव परकृतस्य अन्यनिष्पादितस्य कर्मणः क्रियायाः फलं धनं ला वा भोक्तुमीहते प्राप्तुं वाञ्छति, कया अलजतया निवपत्वेन । कदाचिदैश्वर्यादिकं स्यादित्याह-किलक्षणः एषः स्वयमात्मना तृणमपि यवसं कुटिलं विधातुं वक्रं कर्तुम् अक्षमः असमर्थः अनीशः, अपरं किलक्षणः एषः अक्रियः अलसः अश. स्यास्वयं निष्क्रियः । पराधीनोऽयमन्यदत्तेन पिण्डेन जीवतीति वाक्यार्थः। इति निन्दा ॥ अथ च वाक्यार्थकल्पनया स्तुतिः-एष भगवान् परकृतस्य बुद्धिजनितस्य कर्मणः शुभाशुभं फलं सुखदुःखात्मकं भोक्तुमीहते । आत्मा हि फलभागिति साङ्ख्याः । किलक्षणः एषः इति पुरुषस्वरूपमाह-स्वयमक्रियो निष्कर्मकः, तथा तृणमपि कुटिलीकर्तु- मशक्तः । निर्लज्जत्वं निर्गुणत्वात् ॥ ८॥ स्वयामिति ॥ एषः देवः परकृतस्याऽन्यनिष्पादितस्य कर्मणः क्रियायाः फलं भोक्तुमीहते पाञ्छति । कथम् अलज्जतया निमपत्वेन । कदाचिदैश्वर्यादेवं स्यादित्याह-आत्मना तृणमापे कुटिलं कर्तुमनमोऽसम- र्थोग्नीशः । यतोऽक्रियोलस: अशक्त्या स्वयं निष्क्रियः। पराधीनोऽन्यदत्तेन पिण्डेन जीवति । इति निन्दा ॥ अथ च वाक्यार्थपर्यालोचनया स्तुतिः-एष भगवान् परजनितस्य बुद्धिकृतस्य कर्मणः शुभाशुभस्य फलं सुखदुःखात्मकं भोक्तुमीहते । आत्मा हि कलभागीति साङ्ख्याः। कीदृगेष इति पुरुषस्य स्वरूपमाह- स्वयमक्रियो निष्कमा । तथा तृणमपि कुटिलं कर्तुमनीशः । निर्लज्जत्वं निर्गुणत्वात् ॥ ८ ॥ य इमं समाश्रयति कश्चिदुदयविपदोनिराकुलम् ॥ तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमीयुषः(२) ॥९॥ (१) ग्रन्थोऽष स्खलितः । स च द्वितीयव्याख्यातोऽवगन्तव्यः । (२) मेयुषः । . ।

V - सन्देहविषौषधियुते [पञ्चदश:- य इति॥ यः कश्चित् मूर्खः इम कृष्णं समाश्रयति सेवते, तस्य मूर्खस्य इह एतस्मिन् जगति संसारे कुतः पुरनरूदवो भवति । नैव समुत्थानं भवतीत्यर्थः । किंलक्षणमिमम् उदयविपदोः लाभविपस्योः निराकुलम् उदये विपदि च निश्चिन्तम् । यदि आश्रितस्य सम्पत् भवति ततोऽस्य न सुखम्, अथ विपत ततो नैव दुःखमित्यर्थः । अविवेकित्वादिति भावः । किंलक्षणस्य तस्य विकरणत्वमीयुषः विगतानि करणानि इन्द्रियाणि यस्य सः विकरणः तस्य भावस्तत्त्वं, मृति प्राप्तस्य । एतदाश्रयणात् स मृत एवेत्यर्थः । सामग्रीवैकल्वं वा विकरणत्वम् । इति निन्दा ॥ अथ स्तुतिः-यः कश्चित् योगी एनं परमात्मानं सेवते तस्य विकरणत्वमीयुषो नष्टदेहस्य पुनरिह संसारे कुतः उनको जन्म । मुक्त एवाऽसावित्यर्थः । किंलक्षणममुम् उदयविपदोः निराकुलमव्ययम् , आसकामत्वात् ॥ ९ ॥ य इति ॥ यः कश्चिन्मूर्ख इमं कृष्णं समाश्रयति सेवते तस्याऽस्मिन् संसारे कुतः पुनरुद्यो भवति । नैव समुत्थानं भवतीत्यर्थः । य एन(?)मुदये विपदि च निराकुलं निश्चिन्तम् । आश्रितस्य यदि सम्पत् ततोऽस्य नैव सुखम् , यदि वा विपत् नतो नैव दुःखमित्यर्थः । तस्य कीदृशस्य विकरणत्वं मृतिमेयुषः प्राप्तस्य । एतदा- अयणास मृत एव । सामग्री वैकल्यं वा विकरणत्वम् । इति निन्दा ॥ स्तुतिश्च-यः कश्चियोगी एनं परमात्मानं सेवते तस्य विकरणत्व मेयुषो नष्टदेहस्य पुनरिह कुत उद्भयो जन्म । मुक्त एवासावित्यर्थः । कौदर्श तम् उदयविपदोनिराकुलमव्ययम् । अक्रियत्वात् । करणाने इन्द्रियाणि । एयुष इत्यापूर्वस्येणः क्वमुः । 'उपयिवान्-' इत्यत्र हि उपसर्गनिर्देशोतन्त्रम् ॥ ९ ॥ गुणवन्तमप्ययमपास्य जनमखिलमव्यवस्थितैः ॥ याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः ॥१०॥ गुणवन्तमिति ॥ अयं कृष्णः एक एव गुणवन्तमपि गुणिनमपि अखिलं समस्त जनं लोकम् अतिबालतया अतिचापलेन अपास्य हित्वा अव्यवस्थितैनिर्मर्यादैः चपलैर्जर- मूखैः परिवारितः परिवृतः सन् सचिरमजलं ति याति प्रीयते । एतद्वर्ज नाऽन्यो नाक- मपास्य गोपमध्ये रमते । इति निन्दा ॥ अथ स्तुतिः-एष भगवान् बालतया बालरूपः सन् जलैः उदकैः परिवारितश्च सन् सुचिरं ति याति एति । उक्तं च- 'संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकः तस्मै मायात्मने नमः ॥ इति । किंलक्षणैर्जलैः अव्यवस्थितैः भरितसकलभुवनैः, किं कृत्वा धृति याति गुण- वन्तं सत्त्वादिगुणाश्रितं जनम् अपास्य क्षिप्त्वा विनाश्य । सर्वजनं संहृत्य बालरूपधरो मायया जलमध्ये यः शेते इत्यर्थः ॥ १० ॥ गुणवन्तमिति ॥ अयं सर्वमेव गुणिनं जनमतिबालनयाऽतिचापलेन हित्वा अव्यवस्थितवडा रज्ञैः परिवारितः सत्रजसमेक एव धृतिमेति प्रीयते । एतदर्ज नान्यो नाकलोकमपास्य गोपमध्ये रमते । इति निन्दा॥ स्तुतिस्तु-एष भगवान् बालतया बालरूपो भवन् जलेरद्भिः परिवारित आवृतः सुचिरतिमेति । उक्तं च- 'संभक्ष्य सर्वभूतानि कृत्वा कार्णव जगत् । बालः स्वपिति यकस्तस्मै मायात्मने नमः' । ..

सर्गः ।] शिशुपालवधे। कीदृश लैरव्यवस्थितैभरितसकल भुवनैः, किं कृत्वा धृति याति गुणवन्तं सत्त्वाद्याश्रयं जनमपास्य चिप्या विनाश्य । सर्व जनं संहृत्य बालरूपधरो जलमध्येऽयं शते ॥ १० ॥ सुकृतोऽपि सेवकजनस्य बहुदिवसखिन्नचेतसः ॥ सर्वजनविहितनिविदयं सकृदेव दर्शनमुपैति कस्यचित् ॥ ११ ॥ सुकृतोऽपीति ॥ हे भुवोऽधिपाः ! अयं कृष्णः सुकृतोऽपि उपकारकस्यापि सेवक- जनस्य आश्रितलोकस्य सकृत् एकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित् , न सर्वस्य । किंलक्षणः अयं सर्वजनविहितनिर्वित् सर्वजनस्य विहिता उत्पादिता निर्वित् निवेदः खेदो येन सः तथा, किंलक्षणस्य जनस्य बहुभिर्दिवसः भूरिभिदिनैः खिन्नं विपन्नं चतो यस्य सः तथा तस्य । चिरकालोद्विग्नचित्तस्येत्यर्थः । इति निन्दा ॥ अथ स्तुति:-अयं परमात्मा कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । न हि क्षेत्रज्ञः सर्वस्य । कीदृशस्य बहुदिवसखिन्नचंतसः क्षुण्णमनसः, दीर्घयोगेन श्रान्त- चेतसः । न झनभ्यासगम्य ईश्वरः । अपरं किंलक्षणस्य सेवकजनस्य सुकृतः पुण्यवतः, किं- लक्षणोऽयं सर्वजनविहितनिर्वित् सर्वेषु जनेषु विगतो हितनिवेदो यस्य सः विगतसर्वजनहित- निर्वित्। यस्य कश्चिन्न प्रियः न द्वेप्यः। सर्वे जना यत्र स सर्वजनः विगतौ हितनिर्वेदी मुखःदुखे यस्य सः विहितनिर्वित् ततः कर्मधारयः । सर्वजनस्य विहिता निर्वित् निर्वाणम् इत्यन्ये । आश्रितं जनं यः संसारान्मोचयतीत्यर्थः । निर्वित् निवेदो निर्वाणम् ॥ ११ ॥ सुकृतोऽपीति । अयं सुकृतोऽप्युपकारकस्याप्याश्रितजनस्य सकृदेकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित् , न सर्वस्य । किंभूतः सर्वजनविहितनिर्वित् सर्वजनस्य विहिता निर्वित् खेदो येन, कीदृशस्य जनस्य बहुदिवसखित्रचेतसः बहुभिर्दिवसः खित्रं चेतो यस्य तस्य । चिरकालमेवोद्विग्नचित्तस्येत्यर्थः । इति निन्दा॥ स्तुतिस्तु-अयं कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । न हि क्षेत्रज्ञः सर्वस्य सदैव । कीदृशस्य सुकृतः पुण्यकृतः । तथा बहुभिर्दिवमर्भूयसा कालेन खिन्नचेतसः क्षुण्णमनसः। दीपेण योगेन श्रान्तचेतस इत्यर्थः । न ह्यनभ्यासगम्य ईश्वरः । अत एव सर्वजनविहितनिर्वेदः । श्रेयस्यपि चिरकालमभ्यसनो निर्विद्यते । यदि वा सर्वेषु जनेषु विगतौ हितनिर्वेदौ यस्य स सर्वजनविहितनिर्वित् । नास्य कश्चित्प्रियो न च द्वेष्य इत्यर्थः। यदि वा सर्वे जना यत्र स सर्वजनः, विगते हितनिर्विदो सुखदुःखे यस्य म विहितनिर्वित । ततः कर्मधारयः। सर्वजनस्य विहिता निर्वित निर्वाणं येनेत्यन्ये । आश्रितजन संसारा- मोचयतीत्यर्थः । शोभनं करोति सुकृदुपकारी, पुण्यकुच्च । निर्वित्रिवेदो निर्वाणं च ॥ ११ ॥ स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि ॥ नेहममृदुहृदयः क्षपयनिरपेक्ष एष समुपैति निर्वृतिम् ॥ १२ ॥ स्वजने इति ॥ हे राजन् ! एष कृष्णः स्वजने बन्धुवर्ग तथा सखिषु मित्रेषु तथा अनुगतेषु आश्रितेषु स्नेहं प्रीति क्षपयन् नाशयन् नियतं सदैव निर्वृतिं समुपैति सुखं प्राप्नोति । सर्वत्रैव वैरायते इत्यर्थः । कदाचिदेते विरक्ताः स्युरित्यत आह-किंलक्षणेषु एतेषु अनुरागवत्स्वपि अनुरक्तेष्वपि । कथं तर्हि न स्नेह इत्यत आह-किलक्षणोऽयम् अमृदुहृदयः क्रूरचित्तः, अपरं किंलक्षणोऽयं निरपेक्षः निविवेकः । इति निन्दा ।। अथ स्तुतिः-एष स्वजने सखिषु अनुगतेषु आश्रितेषु स्नेहं क्षपयन् तृष्णां तनूकुर्वन् निर्वृति सम्पति निर्वाणं याति । तृष्णाक्षयात् किल मुक्तिरित्यर्थः । किंलक्षणः अमृदुहृदयः .

५३४ सन्देहविषौषधियुते- [पञ्चदशः- नाभावः वीतरागत्वात् , यदि वा अमृदु दुर्बोध हृदयं स्वरूपं यस्य सः तथा, अपरं किंलक्षणः निरपेक्षः निःसङ्गः ॥ १२ ॥ स्वजने इति ॥ एष बन्धुमित्राश्रितेषु प्रीति नाशयत्रिवृति सदा समुपैति सुखं प्रामोति । सर्वत्रय पैरायमाणः सुखायत इत्यर्थः । कदाचिदेते विरकाः स्युरित्याह-अनुरक्तेष्वपि । कथं तर्हि निःस्नेह इत्या- ह-पतो हृदयेऽमृदुः क्रूरचित्तः, तथा निरपेक्षो निर्विवेकः । इति निन्दा ॥ स्तुतिस्तु-एष स्वजनादिषु अनुरागवत्स्वपि स्नेहं क्षपयंस्तृष्णा तन्कुर्वनिवृति समुपैति निर्वाण याति । तृष्णाक्षयात्किल मुक्तिः। अमृदुहृदयः नाईभावो वीतरागत्वात् । यदि वा अमृदु दुर्बोध हृदयं स्वरूपं यस्य । निरपेक्षो निःसङ्गः । क्षपिर्धातुवपठितोऽपि क्रियावाचित्वाखाचे मिलोकस्यार्घत्वादिक(?)- वद्धातुरेव ॥ १२॥ क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः ॥ सत्त्वहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥ १३ ॥ क्षणमिति ॥ हे नृपाः! एष कृष्णः राजसतया चापलेन क्षण क्षणमात्र जगदुदयदर्शितो- पतिः जगदुदये लोकहिते दर्शितोचतिः दर्शितोचम इति क्रिया । राजसिकत्वेन क्षणमुप- कुरुते इत्यर्थः । तु पुनः तमसा मोहेन स आवृतः सन् सहसैव तत्क्षणमेव सत् सुकृतं सर्व विनाशयति । किंलक्षणः सः अहितकृतमतिः उपद्रवविहितबुद्धिः । यदेव पूर्व सुकृतं तदेव मोहयन् नाशयतीत्यर्थः । इति निन्दा ॥ अथ स्तुतिः-एष त्रिमूर्तिः । राजसतया रजोगुणमाश्रित्य ब्रह्मरूपेण जगदुदये प्रजासने दर्शितोचतिः विहितोद्यमः, तथा सत्त्वहितकृतमतिः सत्वेन गुणेन हित रक्षायां कृतमतिः विहितचित्तः विष्णुरूपेण, तथा तमसा गुणेन आवृतः सन् व्याप्तः सन् सहसैव व्यक्त विश्वं रुद्ररूपेण नाशयति । तथा चोक्तम्- ब्रह्मत्वे सृजते लोकान् विष्णुत्वे पालयत्यपि । रुद्धत्वे संहरत्येष तिस्रोऽवस्थाः स्वयम्भुवः ॥ इति ॥ १३ ॥ तणमिति ॥ एष राजतया चापलेन क्षणं जगदुदये लोकहिते दर्शितोपतिर्दर्शितोद्यम इति क्रिया । राजसिकत्वेन क्षणमुपकुरुते इत्यर्थः । तमसा तु मोहेन पुनरनन्तरमावृतत्वादहितकृतमतिरुपद्रवविहितबुद्धिः सन् सहसैव सर्व सत् सुकृतं विनाशयति । यदेव पूर्वमुपकृतं तदेव मोहयन् नाशयतीत्यर्थः । सत् सुकृतम् । तु भित्रक्रमः । इति गर्दा ॥ नुतिरपि-एष त्रिमूर्तिः । राजसन्या रजोपुणेनाश्रितः सन् ब्रह्मरूपेण जगदुदये प्रजासतें दर्शितोयमः। तथा सत्त्वेन गुणेन हिते रक्षायां विहितचित्तो विष्णुरूपेण । तथा तमसा गुणेनावृतः सन् सहसैव सर्व व्यक्तं रुद्ररूपेण नाशयति ॥ १३ ॥ अभिहन्यते यदभिहन्ति परितपति यश्च तप्यते ॥ नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव होदशी ॥ १४ ॥ अभिहन्यत इति ॥ हे नृपाः ! एष कृष्णः अन्येन अभिहन्यते ताब्यते, द्विषोऽन्यान् अभिहन्ति । तथा यत्परितपति बाधते, यश्च तप्यते उपद्रूयते । अतोऽस्य इदं वचनीयं न भवति । यत् अस्य ईशी एवंविधा चपलात्मिका.अविनीता प्रकृतिः । चपलः : स्वभावो हि अयोग्यतामहति । इति क्षेपः ।। अथ स्तुतिः-अस्य परमात्मनो यथोक्तं बचनीयं न भवति न वर्तते । हन्ति हन्यते मर्गः।] शिशुपालवधे। ५३५ . ॥ तपति तप्यते, हति न वाच्यमित्यर्थः । यत् ईदृशी चपलात्मिका अनेकरूपा प्रकृतिर्बुद्धिः, न तु एषः । हननादिकं तमसा भवति, पुरुषस्तु निर्गुण इति भावः । उक्तं च- 'य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।। इति । तस्मादसौ न बध्यते, न मुच्यते । नानाश्रया प्रकृतिः । तपिः सकर्माऽपि । शारीरं दुःखमभिधातः, मानसं तु परितापः ॥ १४ ॥ अभिहन्यते इति ॥ यदेष हरिरन्येनाभिहन्यते ताडयते यच्चैषोऽन्यानभिहन्ति, तथा यत्परितपति बाधते यच्च तप्यते उपद्यते । अतोऽस्य वचनीयता वाच्यता भवति । यतोऽस्यैवविधैव चपलामिका अविनीता प्रकृतिः स्वभावः । स्वभावाचपलस्त्वयोग्यनामर्हति । इति क्षेपः ॥ स्तुतिस्तु-अस्य परमात्मनो यथोतं वचनीयं वचनं न भवति न प्रवर्तते । 'एष हन्ति हन्यते तपति परितप्यते च', न वाच्यमित्यर्थः । यत ईदृशी चपलामिकाम्नेकरूपा प्रकृतिर्बुद्धिः, न त्वेषः । हननादिकं नमसा भवति । पुरुषश्च निर्गुण इत्यर्थः। उक्तं च- 'य एनं वेत्ति हन्तारं यश्चनं मन्यते इतम् । उभी तो न विजानीती नायं हन्ति न हन्यते ॥ इति । 'तस्मान्न बुध्यते सौ न मुच्यतेऽसौ नापि संसरति । सरति बुध्यते मुच्यते च नानाश्रया प्रकृतिः' । तपिः सकर्मकोऽपि । शारीरं दुःखमभिघातः, मानसं तु परितापः ॥ १४ ॥ अतिसत्त्वयुक्त इति पुंभिरयमतिशयेन वर्ण्यते ॥ सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्त्वसङ्करम् ॥ १५ ॥ अतिसत्त्वेति ॥ हे नृपाः ! यूयं शृणुत, अयं कृष्णः सूक्ष्ममतिभिः स्वल्पबुद्धिभिः पुभिः पुरुषैः अतिशयेन इति वर्ण्यते यदयं कृष्णः अतिसत्त्वयुक्तः महता धैर्येण युक्तः । अथ पश्चात् चापगते गृहीतधनुपि अल्पमपि सत्त्वसङ्करं पौरुषलेशं न समुपैति न भजति इति निन्दा ॥ अथ स्तुतिः-अयं कृष्णः सूक्ष्ममतिभिः कुशाग्रबुद्धिभिः पुंभिः इति वर्ण्यते- यत् अतिसत्वयुक्तः :। अथ च पुन: अपगते अस्तबीजनिर्बीजयोगे अल्पमपि सत्त्वसङ्करं सत्त्वगुणं न भजते । तत्त्वतः सत्वादिकात् पृथगित्यर्थः ॥ १५ ॥ अतिसत्त्वति ॥ एष सूक्ष्ममतिभिः स्वल्पप्रज्ञैर्नृभिर्महता सत्त्वेन धैर्येण युक्त इति सुष्टु वर्ण्यते । अथ अनन्तरं चापगते प्राप्तचापे गृहीतधनुषि कस्मिंश्चित्स्वल्पमपि सत्त्वसङ्करं पौरुषलेशं न भजति, पलायनादिना । परेणास्तब्धस्यास्य सत्त्वलेशोऽपि न लभ्यत इत्यर्थः । तस्मादयुक्तं च तैर्वर्ण्यत इति भावः । इति निन्दा ॥ स्तुतिस्तु-चापं गतश्चापगतः, यद्वा चापस्य गतं प्राप्तिश्चापगतं तस्मिंश्चापगते धनुःसन्निधाने सती- त्यर्थः। अथ च सबीजनिबजिसमाधी पुंभियोगिभिः 'सत्त्वेन गुणन युक्त' इति कथ्यते । सूक्ष्ममातिभिः कुशानीयबुद्धिभिर्बहुदृश्वभिरपगते ज्ञाते सति निर्धजसमाधी स्वल्पमपि सत्त्वसङ्करं नोपैति । निर्गुणो हि पुरुषः । अथ चेति विस्मये ॥ १५ ॥ प्रलयं परस्य महतोऽपि नियतमिह निःसुखे गुणाः ॥ यान्ति जगदपि सदोषमदः स्वरुचैव पश्यति गुणान् द्विषन्नयम् ॥ १६ ॥ प्रलयमिति ॥ हे नृपाः ! परस्य अन्यस्य गुणाः शौर्यादयः इह कृष्णे प्रलयं यान्ति नाशं प्राप्नुवन्ति । नैष कस्यचित् गुणानङ्गीकरोतीत्यर्थः । किंलक्षणस्य परस्य अयं कृष्णः

सन्देहविषौषधियुते-
[ पञ्चदशः-
--
महतोऽपि मुख्यस्यापि, किंलक्षणे कृष्णे नियतं नित्यमेव निःसुखे । गुणसंहाराद्धि कुतः
मुखम् । अपरमयं कृष्णः अदः जगदपि एतद्विश्वमपि स्वरुचैव आत्मेच्छयैव सदोष पश्यति
दोषावृतं विलोकयति । किं कुर्वन् गुणान् द्विषन् । गुणद्वेषित्वात् अन्यानपि सदोषान्
वेत्तीत्यर्थः । इति निन्दा ॥
अथ स्तुतिः-परस्य बुद्धितत्त्वस्य गुणाः सत्वरजस्तमांसि इह परमात्मनि कृष्णे प्रलयं
नाशं यान्ति । गुणा हि पुरुषं प्राप्य निवर्तन्ते । किलक्षणे इह नियतं निःसुखे निश्चित
सुखवर्जिते, अविक्रियत्वात् । अपरमयमात्मा अदः एतज्जगद्विश्वं स्वरुचैव ज्ञानेनैव सदोष
पश्यति जन्ममरणादियोगात प्रकृति सक्लेशां वेत्ति । किं कुर्वन् गुणान् सत्वादीन्
द्विषन् निन्दन् ॥ १६ ॥
प्रलयमिति ॥ परस्यान्यस्य महत्तोऽपि मुख्यस्यापीह कृष्णे गुणाः सौन्दर्यादयो नियतमवश्यं प्रलयं
यान्ति नश्यन्ति । नैष कस्यचिद् गुणानङ्गीकरोतीत्यर्थः । अविद्यमानं सुखमस्मादिति निःसुखः । गुणाऽप-
हाराद्धि कुतः सुखम् । यद्वा अविद्यमानं सुखमस्मादिति निःसुखः । अत एव ते नाशमत्र यान्ति । अत-
श्रायं गुणान् विषनखिलमप्यतजगदिश्व स्वरुचैवाऽऽत्मेच्छेयव सदोषं पश्यति। गुणद्वेषित्वादन्यानपि सदोषान्,
वेत्तीत्यर्थः । इति निन्दा ॥
अथ स्तुतिः-इह परमात्मनि कृष्ण परस्य बुद्धितत्त्वस्य महतोऽपि महत्तत्त्वस्य गुणाः सत्त्वरज-
समामि प्रलयं यान्ति नाशं गच्छन्ति । पुरुषं प्राप्य निवर्तन्त इत्यर्थः । कीदृशेऽत्र निःसुख्खे मुखवर्जिते ।
आवेक्रियत्वात् । सुखामुख नात्मनः। तथैष गुणा-सत्वादीन् द्विषन्ननभिनन्दनस्पृशन अदो जगत् प्रकृति सदोषं
केशयुक्तं पश्यतीक्षते । द्रष्टा हि पुरुषः प्रकृतरिष्यते जगत्प्रकृतिर्हि भागो व्यक्तम् । तच्च सदोषं जननमरण-
योगात् । केन पश्यति स्वरुचा, आत्मभावनेत्यर्थः ॥ १६ ॥
एवं साङ्ख्यदर्शनेन निन्दास्तुती कृते । साम्प्रतं पुराणदर्शनेन तुष्टूपुर्निनिन्दिषुश्चाह-
क्षितिपीठमम्भसि निमनमुदहरत यः परः पुमान् ॥
एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥ १७ ॥
क्षितिपीठमिति ॥ हे नृपाः ! कैरपि अबुधैः मूर्खरिति तत् अभिधीयमानमपि
उच्यमानमपि प्रतीयते । मूर्ख एव सत्यमवगच्छतीत्यर्थः । इतीति किं-यत्, किल एष परः
पुमान् एष स परमपुरुषः । एष कः, यः पुमान् क्षितिपीठं पृथिवीमण्डलम् अम्भसि मग्न
जले बुडितम् उदहरत उद्धृतवान् । इति निन्दा ॥
अथ स्तुतिः-मूर्खा अपि सत्यमवगच्छन्ति । कैश्चिन्मूर्खः शिशुपालप्रमुखैः एतत्
श्रुत्वापि न सम्भाव्यते न मन्यते, यत् अनेन कृष्णेन भूमिलूधृता ॥ १७ ॥
एवं साझ्यदर्शनेन स्तुत्वा अधुना पुराणदर्शनेन तुष्टनिनिन्दिषुवाह-
क्षितिपीठामिति ॥ कैरबुधैरिति तदभिधीयमानमप्युच्यमानमपि प्रतीयते । मूर्ख एव सत्यमय-
गच्छतीत्यर्थः । इतीति किम् -स एष परमपुरुषः । यो वराहरूपेणाऽम्भसि निमनं क्षितिपीठं पृथ्वीमण्डलमुद-
हरतोद्धृतवान् । हाते निन्दा ॥
स्तुतिस्तु कैश्चिदभिधीयमानं तव मूखैरपि प्रतीयते । मूर्खा अपि सत्यमवगच्छन्तीत्यर्थः ॥ १०॥
नरसिंहमूर्तिरयमेव दितिसुतमदारयाखैः ॥
आप्तजनववनमेतदपि प्रतिपत्तुमोमिति जनोऽयमर्हति ॥१८॥

सर्गः।] । अपरं कि शिशुपालवधे। नरसिंहति ॥ हे नृपाः ! अयमेव कृष्णः नरसिंहमूर्तिः सन् नरस्येव सिंहस्येव च मूर्तिः तथा च सन् दितिसतं दितेः पुत्रं हिरण्यकशिपु नखैः करजैः अदास्यत् विदारया- मास । एतदपि इदमपि आसवचनं यदुमाधवभाषितम् अयं जनो भीष्मादिः ओमिति एव. मेतत् प्रतिपत्तुमङ्गीकर्तुमर्हति योग्यो भवति(१) । (२)नान्यः। आसोक्तत्वात् पण्डिताजानन्तीत्यर्थः। आला अवितथवादिनो व्यासादयः१८ नरसिंहति ॥ नृसिंहवपुः सत्रयमेव नलैहिरण्यकशिपुमदारयदिति यदातवचनं तदप्ययं भीष्मादिक- एवं जन ओमित्येवमेवेतदिति प्रतिपत्तुमङ्गीकर्तुमर्हति । सुहृद एवैनं स्तुवन्ति, तप खैरेव सत्यं बुध्यत- इत्यर्थः । इतिशब्दोऽधार्थयोः सम्बन्धोपादानायाऽध्याहार्यः । इति निन्दा ॥ स्तुती त्वयमर्थः-अयमेव भगवानापरो नरसिंहमूर्तिमाश्रित्य नहँदैत्येन्नमदारयादित्येतदप्याप्तजनवचनं शिष्टवाक्यम् अयं मनीषी जनः प्रतिपत्तुमर्हति नान्यः। आप्तोक्तत्वात्पाण्डता एवं सत्यं जानन्तीत्यर्थः । आप्ता- अषितववादिनी व्यासादयः ॥ १८॥ अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नोचताम् ॥ स्वार्थकरणपटुरेष पुरा बलिना परेण सह सम्प्रयुज्यते ॥ १९ ॥ अपहायेति ॥ हे नृपाः! अयं कृष्णः पुरा अग्रे बलिना बलिष्ठेन परेण अरिणा सह सम्प्रयुज्यते संयोगं प्राप्नोति । समर्थ चेत् परं वेत्ति तत् भयात् तं प्रविशतीत्यर्थः कि कृत्वा तुङ्गमपि उच्चमपि उचितं योग्यं मानमपहाय अहङ्कार त्यक्त्वा, किंलक्षणः एषः स्वार्थकरणपटुः आत्मप्रयोजनविधानचतुरः, कृत्वा नीचतामवलम्ब्य प्राकृतत्व- माश्रित्य । शक्तिर्बताऽऽत्मनो नाशाय । इति निन्दा ॥ अथ स्तुतिः-एष कृष्णः पुरा पूर्व बलिना विरोचनसतेन असुरेन्द्रेण सह सम्प्रयुज्यते प्रयोगं कुरुते । किलक्षणेन बलिना परेण उत्कृष्टेन, किंलक्षणः अयम् उचितं योग्यं तुङ्गमपि मानमपहाय प्रमाणं परित्यज्य स्वार्थकरणपटुः स्वस्य ज्ञातेः इन्द्रस्य यः अर्थ: प्रयोजन तस्य करणं शत्रुवशीकरणं तत्र पटुः । किं कृत्वा नीचतामवलम्ब्य । इन्द्रस्य प्रीतये वामनत्वमवलम्ब्य एष भगवान् बलि बद्धवानित्यर्थः ॥ १९ ॥ अपहायति ॥ एष बलिना बलवता परेणान्येनारिणा का सह पुरा अचिरात्सम्प्रयुज्यते सम्बध्यते । ममर्थ चेत्परं वेति तद्यात तमेव प्रविशतीत्यर्थः । सपनामानर्देशः सर्वत्र निन्दायामनास्था सूचयति । स्तुती तु गौरवम् । किं कृत्वा उचितं योग्यं तुङ्गामुन्नत मानमध्यपहाय अहङ्कारमपि त्यक्त्वा । तथा नीचतां प्राकृतत्व- माश्रित्य । यतः स्वार्थकरणपटुरात्मप्रयोजनसम्पादनचतुरः । शक्तिः किलात्मानो नाशाय । इति निन्दा ॥ स्तुतिस्तु-एष तुझं मानं प्रमाणं हित्वा नीचतो खर्वत्वं चावलम्ब्य । पुरा पूर्वमुत्कृष्टेनं बलिना वैरो- चनिना सह सम्प्रयुज्यते सम्प्रयुयुजे । यतः स्वस्य ज्ञातेरिन्द्रस्य योऽर्थः शत्रुवशीकरणलक्षणस्तत्र पटुः कुशलः । इन्द्रप्रीतये वामनरूपत्वमवलम्म्यैष भगवान बलिं बबन्धेत्यर्थः ॥ १९ ॥ क्रमते नभो रभसयैव विरचयति विश्वरूपताम् ॥ सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥ २० ॥ क्रमते इति ॥ हे नृपाः! एष कृष्णः सर्वम् अतिशयगतं कुरुते विशेषेण प्राप्तं कुरुते साश्चर्य करोति, स्फुटमितिशब्द इवार्थे। इदमिन्द्रजाल कुरुते, कया मायया कपटेन । तावनभः क्रमते आकाशमुल्लब्धयति, कया रभसेनैव औत्सुक्येनैव । अपरं विश्वरूपतां विरचयति विः पक्षी श्वा कुक्कुरः रूपो मृगः तमा विरचयति । कदाचित् पक्षी भवति, कदाचित् कुक्कुरः मृगश्च - (१)-(२) अष प्रन्थपातः ।

५३८
सन्देहविषौषधियुते [पञ्चदशः-
भवतीत्यर्थः । अत एव नभः क्रमते। सर्वमतिशयगतं कुरुते विशेष प्राप्तं करोति । तात्त्विको
व्यवहारोऽस्य न कश्चिदिति वाक्यार्थः । इति निन्दा ॥
अथ स्तुति:-इदं जगत् स्फुटम् एष भगवान् मायया ऋद्धया इन्द्रजालं कुरुते ।
इन्द्रजालमिव इन्द्रजालं भ्रमकारित्वात् । तदेवमाह-नमः क्रमते बलिबन्धनार्थ
विश्वरूपतां सर्वमयत्वं विरचयति, सर्वम् अतिशयगतं कुरुते । किंलक्षणया मायया रभसया
स्भसमौत्सुक्यं करोतीति रभसा तया । लोकस्य वचनं(?) तयेत्यर्थः ॥ २० ॥
क्रमते इति ॥ एषः कृष्णः स्फुटमिन्द्रजालमसद्भूतं मायया हेतुभूतया कुरुते । किमित्याह-रमसयः
रभसेन युद्धादौ नमः क्रमते आरोहति । पयः पक्षिणः, श्वानः कुक्कुराः, तदूपा मृगाः तद्भाव विरचयति ।
यदि वा विश्वरूपतां नानारूपत्वम् । तथा सर्वमतिशयगतं विशेषप्राप्तं कुरुते । तात्त्विकोऽस्य व्यवहारो
न कश्चित् । इति निन्दा ॥
नुतिस्तु-इदमीदृक् स्फुटमेष भगवान् मायया ऋध्या इन्द्रजालं कुरुते । इन्द्रजालमिवेन्द्रजानं भ्रम-
कारित्वात् । तदेवाह-नभः क्रमत बलिबन्धनार्थ विश्वरूपत्वं सर्वदेवमयत्वं विरचयति । सर्वच जगदति-
शयगतं प्राप्तविशेष कुरुते । कीदृश्या मायया रभसमोत्सुक्यं करोतीति रभसा तया रभसया । क्रमते इति
'अनुपसर्गादा' इत्यात्मनेपदम् ॥ २० ॥
किल रावणारित्यमेव किमिदमियदेव कथ्यते ।
सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥ २१ ॥
किलेति ॥ हे नृपाः ! अयं हरिः किल रावणारिः रावणहन्ता एतेन दशास्यो हतः,
इदम् इयदेव किं कथ्यते एतत् स्वल्पमात्रं कस्मादुच्यते । ननु अतिबलं महाशक्ति तथा
अधिद्युति अधिकयुति महत्तेजः यत्सत्त्वं प्राणी, तत्सर्वम् एष एव इतिधृष्टं निःशङ्कम् उच्यता
कथ्यताम् । न हि अलीकस्य अन्तो भवतीति भावः । अतश्च येनाऽसत्यं वाच्यं, स बड्वेव
कस्मान्नाह । तस्मान्नतेन किञ्चिदपि कृतमिति वाक्यार्थः । इति निन्दा ॥
अथ स्तुतिः-अयं रावणारिरेवेति किमिति एतावदुच्यते, यत् यस्मात् अधिबलम् अधि-
कद्युति च सत्त्वं सर्वम् एष एवेति धृष्टं सप्रतिजमुच्यताम् । उक्तं च-
'यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवाऽवगच्छ त्वं ममतेजोऽशसम्भवम्' ।
इति । किलाऽऽगमे ॥ २१ ॥
किलति । अयं हरी रावणारिरिति । एतेन दशास्यो हत इति यदेवतत्काल्प मात्रक किमिति कस्मा-
दुच्यते । अतिबलं महाशक्ति अधियुति महातेजश्च यत्सत्त्वं प्राणी तत्सर्वमेष एवेति धृष्टं निःशङ्कमुच्यताम् ।
न ह्यलीकस्याम्तो भवतीति भावः । अतश्च येनासत्यं वाच्यं स बढेच कस्मानाह । तस्मात्रैतेन किञ्चिदापे
कृतमिति वाक्यार्थः । इति निन्दा ॥
स्तुतिस्तु-अयं रावणारिरिवति किमतावदेवोच्यते । यद् यस्मादतिबलमधियुति च सत्त्वं तत्सर्वमेष
इति धृष्टं निःशमुच्यताम् । उकं च-
'यद्यविभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवाऽवगच्छ त्वं नम तेजोशसम्भवम्' ॥
किलाऽऽगमे ॥ २१॥
या बाल्ये शकटमेष एव चिक्षेपेत्युच्यते, तदप्यसत्यमिति वक्तुमाह-
चलतेष पादयुगलेन गुरु शकटमीषदस्पृशत् ॥
दैवकलितमथ चोदलसहलितोरुभाण्डचयमारमनैव तत् ॥ २२ ॥

मर्गः।] शिशुपालवधे । ५३६ - चलतेति ॥ हे नृपाः ! एष कृष्णः चलता चपलेन पादयुगलेन चरणयुग्मेन गुरु महत शकटम् अनः ईषत् अस्पृशत किञ्चिदस्पाक्षीत् , तत् दैवकलित विधिनोदितम् अथ च तत् शकटम् आत्मनैव स्वयमेव उदलसत् ऊर्ध्वमपतत् । नन्वेतस्य न किञ्चित् पौषमित्याह- किलक्षणं शकटं दलितोरुभाण्डचयं दलितः स्फुटितः उरुर्महान् भाण्डानां दधिदुग्धघृतादीना- ममत्राणां घटादीनां चयो राशिर्यत्र येनेति वा तत् तथा तत् । इति निन्दा ॥ अथ स्तुतिः-ष भगवान् चलता पादयुगलेन गुरु शकटम् ईषदेव अस्पृशत् अथ च उदलसत् परिवृत्तम् , यत एतेन देवेन भगवता कलितं प्रेरितम् । अथ चेति विस्मये। ईषत्. स्पर्शमात्रात् किल भङ्गो न युक्तः । शकटशब्दोऽस्त्रीलिङ्गः ॥ २२ ॥ यच बाल्ये शकट मेष एव चिक्षेपेत्युच्यते, तदप्यसत्यमिति वक्तुमाह- चनतेति ॥ एष वै चलो चरणाभ्यां गुरु शकटं किञ्चिदस्पाक्षीत् , तच्च दैवकालतं देवचोदितं स्वयमेवोदलसदपतत् । न त्वेतस्यात्र किश्चित्यौरुषम् । दलितः स्फुटित उरुर्महान भाण्डाना दधिघृतघटा- शनां चयो राशिर्यत्र । इति निन्दा ॥ स्तुतिस्तु--एष भगवांश्चलता पादयुगलेन गुरु शकटमीषदेवास्पृशत् । अयं चोदलसत्परिवृनम् । यत् एतेन देवेन भगवता कलितं प्रेरितम् । अथेति विस्मये । ईषत्स्पर्शमात्रास्किल भङ्गो न युक्तः । शकट- शब्दोऽत्रीलिङ्गः ॥२२॥ स्रवता(१)ऽमुना स्तनयुगेन जनितजननीजनादरा ॥ स्त्रीति सदयमविधाय मनस्तदकारि साधु यदघानि पूतना ॥ २३ ॥ स्रवतेति ॥ हे नृपाः ! अमुना कृष्णेन तत् साधु अकारि शोभनं विहितम् । अपि तु न साधु विहितम् । तत् कि-यत्, पूतना राक्षसी अघानि निहता। किं कृत्वा इति अमुना प्रकारेण मनः चित्तं सदयमविधाय सकृपमकृत्वा । इतीति कि-यदियं स्त्री सर्वथा अवध्येति। तन्न साधु कृतमित्यर्थः । किंलक्षणा पूतना स्रवता क्षीरं मुञ्चता स्तनयुगेन कुचद्वितयेन जनितजननीजनादरा कृतमातृस्नेहा । मातृघाती एवायमित्यर्थः । इति निन्दा ॥ अथ स्तुतिः-अमुना कृष्णेन मनश्चित्तं सदयमविधाय यत् पूतना अघानि, तत्साधु अकारि युक्तमेव कृतम् । सा हि राक्षसी स्तनाभ्यां विषं स्रवन्ती तन्मारणार्थमेवाऽगम- दित्यर्थः ॥ २३ ॥ स्तुवतेति ॥ अमुना यत् पूतना राक्षसी मी इति सदयं मनः अकृत्वा अघानि हता, तत्साध्वकारि युकं कृतमिति काका, प्रयोजने नैव साधु कृतमित्यर्थः। कीदृशी सा स्नुवता क्षीरं स्रवता स्तनयुगेन कृतो जननीजनादरो मातृस्नेहो यया । अतश्च मातृघात्येवायम् । इति निन्दा ॥ स्तुतिस्तु-यदमुना स्नुवता स्तनयुगेन कृतमातृस्नेहापि पूनना राक्षसी नीति मनः सदयमकृत्वा हता, तत्सावकारि युक्तमेवानुष्ठितमिति स्पष्ट एवार्थः । सा हि राक्षसी स्तनाभ्यां क्षीरं सवन्ती तन्मारणार्थ- भेवागमदित्यागमार्थः । निष्कारणवधोयतस्य वधे कथमधर्मः स्यात् ॥ २३ ॥ अभनक तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् ॥ बाढमिदमपि न बालकृतं ननु देवताविधिरय विजृम्भते ॥ २४ ॥ अभनगिति ॥ हे नृपाः ! एष कृगः कथमपि केनैव प्रकारेण तरू अभनक अर्जुना- ख्यो वृक्षौ बभञ्ज । किंलक्षणः एषः क्षणाक्षणेनैव कृतधरणिरिङ्गणः विहितोगतिः, : (१)स्नुवता।

५४० सन्देहविषौषधियुते- [पञ्चदशः- . पुनर्वाडं निश्चितम् इदमपि न बालकृतं नैव शिशुकर्म । ननु अयमहो देवताविधिः विज- म्भते केनापि अहष्टेन देवेन कृतम् न तु एतेन । इति निन्दा ॥ अथ स्तुतिः-एष कृष्णः कथमिव तरूबमा इद किं न बालकृतम् । अयं न तत्वतो बाल इत्यर्थः । देवत्वमाश्रित्य अयं चकारेत्यर्थः ॥ २४ ॥ अभनगिति ॥ कृतधरणिरिणो विहितोगतिः स कथमिव केन प्रकारेण क्षणेनैव तरू अर्जुनाख्या बाद भृशमभनग्बभन्ज । न सम्भावयाम एतदित्यर्थः । ननु सर्वत्रैव तेनैव भित्राविति प्रतीतिः, तत्कथं भवतो न सम्भावनेत्याह-दमपि न बालकृतं न शिशुकर्म । ननु देवताविधिरयं विज़- म्भते विलसति । केनाप्यदृष्टेन देवेन तत्कृतं न त्वनेन । यस्य हि गमनमात्रे न शकिस कथममानुषं कर्म कुर्यादिति भावः। ननु अमर्षे । न केवलं शकटमङ्गो, देवनाविधिर्यावदयमपीत्यपिशन्दार्थः। इति निन्दा ।। स्तुतिस्तु-यदेष कृतधराणेरिङ्गणः कथमिवामित्वव क्षणादर्जुनौ बभञ्ज इदमपि न बालकृतम् । नन्वयं देवताविधिरुज्जम्भते । एतस्य देवरूपत्वं, देवत्वमाश्रिन्यैतदेनेन कृतम् । न तु तत्त्वतो बालेनेत्यर्थः । ननुराभिमुख्ये । अभनगिनि भञ्जलङि रूपम् ॥ २४ ॥ विहरन् वने विजन एव महति दधदेष गोपताम् ॥ नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥ २५ ॥ विहरनिति ॥ हे नृपाः ! एष कृष्णः जगति विश्वस्मिन् मधुसूदन इति नाम अगमत् प्राप । केन हतेन चूर्णितेन मधुना मक्षिकापटलेन महीयसा गुरुतरेण, किंलक्षणः एषः विजने विगतलोके एव वने अरण्ये विहरन् , किलक्षणे वने महति विशाले, किं कुर्वन् गोपतां दधत् गोपालो भवन् । इति निन्दा । अथ स्तुतिः-एष कृष्णः जगति विश्वे मधुसूदन इति नाम अगमत् , एतत्किमस- त्यम् । केन मधुना दैत्येन, किंलक्षणः वने जले विहरन् क्रीडन् , किं कुर्वन् गोपतां दधत् गौः पृथिवी तां पाति रक्षतीति गोपः तदभावो गोपता ताम् ॥ २५ ॥ विहरनिति ॥ एष महति विशाले विजने बनेऽरण्ये गोपरूपो विहरन् बृहता मधुना माक्षिकपटलेन हतेन जगति मधुसूदन इति नाम प्राप्तवान् । वने मधु सूदितवान् , न तु मधुनामानं दैत्यम् । इति निन्दा ।। स्तुतिस्तु-एष कृष्ण एव महीयसा बलवत्तरण मधुना दैत्येन हतेन मधुसूदन इति नाम जगति अगमत्माप । कीदगेषः बने तोये महति सर्वलोकव्यापिनि विगतजने विहरन् । तथा गां पृथ्वीं पातीति गोपस्तद्भाव बिभ्रत् ॥ २५ ॥ अविमृश्यगोवधसमुत्थमयमघममीमरदु रुषा ॥ रिष्टमुपगु समुपोढमदं यदसौ किलाऽसुर इति प्रमाष्टि तत् ॥ २६ ॥ अविमृश्येति ॥ हे नृपाः ! अयं कृष्णः यत् रुषा कोपेन गोवधसमुत्थं बलीवर्दहत्या- समुद्भवम् अघं पापम् अविमृश्य अविचार्य रिष्टं वृपमनड्वाहम् अमीमरत् अवधीत्, तदकार्यम् । असौ पापी । किंलक्षणम् रिष्टम् उपगु गवां समीपे समुपोढमदं तहर्ष सुरभीः कामयमानम् । अतश्च सरतासक्तदान्तवधपातकित्वात् न पूजार्होऽयम् । किलेत्यलीके, असौ कृष्णः तदघम् इति प्रमाष्टि, यदसौ असर इति अमुना प्रकारेण नाशयति यत् मया- ऽयं दान्तरूपी अमरो हतो, न गौ रेष इति लोकस्य परिशुध्यति । तत्त्वतोऽसौ गोरेव हतो न अमरः । एतेनाऽयं गोधातीत्यर्थः। इति निन्दा ॥ अथ स्तुति:-किलेतिशब्दस्य सत्यार्थत्वात् असौ अमरो हतो, न गौरिति भावः ।

सर्गः।] । शिशुपालवधे। किलेति सत्ये, यदसौ उपगु गोनिकटे रिटम् अमीमरत् , तदसौ असर इति प्रमाष्टिं । असौ असर एवाऽनेन हतः, तत्सत्यं न गौरेषः । किंलक्षणं रिष्टम् अविमृश्यगोवधसमु. त्थम् अविमृश्यः चिन्तयितुमशक्यो यो गोवधः गवां धेनूनां वधो हननं तत्र समुत्था उत्था- नम् उद्यमो यस्य सः तथा तम् , अपरं किंलक्षणं रिष्टम् अधं पापिनम् , अपरं किल. क्षणं रिष्टं समुपोढमदं तदर्पम् । अत एव गोवधाय समुत्थितस्य उद्यतस्य दर्पिष्ठस्य पापमतेर्दानवस्य वधेन भगवतो महती नुतिरेव ॥ २६ ॥ अविमृष्येति ॥ अयं गोवधसमुत्थं तन्मारणोद्भवं पापमविमृष्याऽगणयित्वा यत् रुषा कोपेन रिष्ट मनड्वाह- ममीमरदवधीत तदकार्यम् । असौ पापी असुरः इति किल प्रमाटि नाशयति । दान्तरूपी असुरो मया हतो न तु गौरिति लोकस्य परिशुध्यति । किलाऽलीके । तत्त्वतस्त्वसौ गोरेव, अयं च गोघातीत्यर्थः । कीदर्श रिष्टम् उपगु गवां समी पे समुपोढपदं धृतहर्षम । सुरभीः कामयमानमित्यर्थः। अतश्च सुरतासनदान्तवध- पातकित्वात्रायं पूजाईः । इति निन्दा ॥ स्तुतिस्तु-किलशब्दस्य सत्यार्थत्वात् यदसावुपगु गोनिकटे रिष्टमतृणेट् , तदसौ किलासुर इति प्रमाष्टिं । असुर एवानेन हत इत्यर्थः । कीदृशं तम् अविमृष्यश्चिन्तयितुमशक्यो यो गोवधस्तत्र समुत्था उत्थानमुद्यमी यस्य तमविमृष्यगोवधसमुत्थं, यतोऽघं पापिनम् , अघमस्यास्तीति कृत्वा । तथा समुपोढमदं धृतदर्पम् । अतश्च गोवधसमुत्थस्य दार्पष्ठस्य पापमतेर्दानवस्य वधाद्भगवता महती नुतिरवे । विमृष्यति ल्यप् । 'ऋदुपधातू-' इति क्यपू । अमीमरदिति मारयतेलुंह चङ् । प्रमार्टीति मृजेवृद्धिः ॥ २६ ॥ मुखकन्दराऽन्तरगतोऽपि विकटदशनेन केशिना ॥ नाऽस्य सपदि यदखादि भुजस्तदहो! तिरश्चि सहजैव मूढता ॥ २७ ॥ मुखेति ॥ हे नृपाः ! अस्य कृष्णस्य भुजो बाहुः यत् सपदि वेगेन केशिनाऽश्वेन न अखादि न भक्षितः, तत् अहो इत्याश्चयें, तिरश्चि पशौ विषये सहजैव मूढतास्वाभाविक्येव मूर्खता । मूर्खत्वेनैव न भक्षिता, न काचिदस्य शक्तिरिति वाक्यार्थः । कदाचिदसौ अप्रासो भवेन्नेत्याह-किलक्षणो भुजः मुखकन्दराऽन्तरगतोऽपि आस्यदरीमध्यप्राप्तो- ऽपि । कदाचितहि तस्य दन्ताभावः स्यान्नेत्याह-किलक्षणेन केशिना विकटदशनेन उतन्त्रदन्तेनापि दन्तुरेणापि । इति निन्दा ॥ अथ स्तुतिः-इति परमतमाशङ्क्य काकुप्रयोगेण, यत् अस्य भुजः केशिना दैत्येन न अखादि तत्कि तिरश्चि विषये सहजैव मूढता । अपि तु तस्यैव प्रभावः । अहोशब्दः परस्योल्लुण्ठनायाम् ॥ २७ ॥ मुखेति ॥ अस्य केशिनाम्ना अश्वेन यद् भुजो नाखादि न जग्धः, तदहो तिरश्चि तिर्यक्षु सहजैव स्वाभा- विक्येव मूढता अज्ञत्वं, तियक्त्वात् । मूर्खेण तेन न भक्षितो, न त्वस्य कापिं शक्तिरिति वाक्यार्थः । कदा- चिदप्राप्तोऽसौ भवेन्नेत्याह-आस्यदरी विवरप्राप्तः । कदाचिहन्ताभावः स्यादित्याह-विकटदशनेन दन्तुरेणापि । सपदि अस्य प्राप्त्यनन्तरम् । अहो विषादे । इति निन्दा ।। स्तुतिरत्र-परमतमाशय काकुप्रयोगेण । यदस्य केशिना दैत्येन भुजो नाऽखादि तत्कि तिरश्चि सह- जैव मूढता । न त्वस्य माहात्म्यामित्यर्थः । एतस्यैव ह्येवमसो शक्तिः। न स तात्विकोऽर्थः । अहोशम्दः परस्योल्लुण्ठनाय । तिरसीति सप्तमी ॥२७॥ यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् ॥ भूरि सलिलमविषह्यमियं जलदे विमुञ्चति गवां सभाग्यता ॥ २८ ॥ यदिति ॥ हे नृपाः ! अयं कृष्णः एकं बाहुमुदस्य एकं भुजमुत्क्षिप्य गिरि गोवर्धना- ४६ शि०व० ५४२ सन्देहविषौषधियुते- [पञ्चदशः- ख्यम् अधृत धारयामास, तन्न अद्भुतं नाश्चर्यम् । यत् हयं गवां सभाग्यता धेनूनां सुभाग्य- त्वं, न तु अस्य काचिच्छक्तिः । क सति जलदे मेघे अविषह्य सोढुमशक्यं सलिलं विमु. ञ्चति उदकं त्यजति सति, किलक्षणं सलिलं भूरि प्रचुरम् । इति निन्दा । अथ स्तुतिः-परमतमाशक्य काकुप्रयोगेण, न अद्भुतं नाश्चर्यम् । इयं किं गवां सभाग्यता । अयमेव स्वमहिम्ना बभारेत्यर्थः ॥ २८॥ यादति ॥ मेघे दुःसहं प्रभूतं वारि वर्षति यदयं हाररके भुजमुक्षिप्य गिरि गोवर्धनमधृत दधे तत्राद्भुतं नाश्चर्यम् । इयं गवा सभाग्यता पुण्यवत्त्वम् । गवां महिनाऽसौ धृतो. न त्वेनस्य काचिच्छाति- रित्यर्थः । इति निन्दा ॥ स्तुतिस्तु-परमतमाशङ्कय काकुप्रयोगेण । न तदद्भुतम् , अपि त्वाश्चर्यमेव । तथेयं गर्वा सभाग्यता किम् , न त्वस्य सा । अयमेव स्वमहिम्रा बभारत्यर्थः ॥ २८ ॥ किमिवात्र चित्रमयमा मचलमहकल्पितं यदि ॥ प्राश निखिलमखिलेऽपि जगत्युदरं गते बहुभुजोऽस्थ न व्यथा ॥ २९ ॥ किमिवाऽत्रेति ॥ हे नृपाः ! अयं कृष्णः अवलमह कल्पितं पर्वतोत्सवनिष्पादितम् अन्नं भोज्यं यदि चेत् प्राश प्रकण बुभुजे, अत्रार्थे किमित्र चित्रं किमाश्चर्यम् । यतोऽस्य बहुभुजः बह्वाहारस्य औदरिकस्य अखिलेऽपि जगति निखिलेऽपि विश्व उदरं गते जठरं प्रविष्टे सति न व्यथा न पीडा न अजीर्णम् । अतश्च यः कुक्षिम्भरित्वात् सर्वमेव जिघत्सति, तस्यौदनमात्रभोजनाद्विस्मयः कः । इति आत्मम्भरित्वकथनेन निन्दा ॥ अथ स्तुतिः-अस्य अन्नाऽदनात् को विस्मयः, यतोऽस्य जगन्निवासप्य सर्भेषु जगत्स उदरं गतेषु न व्यथा । किलक्षणस्याऽस्य बहुभुजः बहु भुनक्तीति बहुभुक् तस्य निखिलभुवनपरिपालकस्य । यदि वा बहुभुजस्येति पाठः, तत्र बहवो भुजा हस्ता यस्य सः 'बहुभुजस्तस्य ॥ २९ ॥ किमिवाम्नति ॥ अयं हरिरचलमहकल्पितं पर्वतोत्सवकृतमन्नं यदि प्राश भुकवास्तत्किमिवात्र चित्र- • माचर्यम् । यतोऽस्य बहुभुज औदरिकस्य सकलेऽपि जगत्युदरं प्राप्त न व्यथा पीडा अजीर्णत्वात् । अतत्र यः कुक्षिम्भरत्वात्सर्वमेव जिघन्सति तस्यादनमात्रभोजनाको विस्मयः । इत्यात्मम्भारित्वकथनेन निन्दा ॥ स्तुतिस्तु-अस्याऽनादनात्को विस्मयः । यतोऽस्य जगनिवासस्य सर्वेषु जगत्सूदरस्थितेषु न व्यथा । बहु भुनकीति बहुभुक् निखिलभुवनपालकः, यदि वा बहवो मुंजा यस्य स बहुभुजोम्यम् । पूर्वत्र तु बहु भुङ्क्ते इति बहुभुक् । प्राशेत्यत्राऽभातेलिट् ॥ २९ ॥ अमुना करेण पृथुदन्तमुसलमुदखानि(१) दन्तिनः ॥ तेन यदवधि स एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥ ३० ॥ अमुनेति ॥ हे नृपाः ! अमुना कृष्णेन दन्तिनः कुवलयापीडनाम्नो गजस्य यत् पृथुदन्तमुसलं विशालदन्तमुसल करेण पाणिना उदखानि उत्खातं, तेन उत्खातेन दन्त- मुसलेन यत् स एव दन्ती अवधि हतः । तत्रार्थे बलशालिनां बलवता क इव विस्मयः । न युक्तस्तत्र विस्मय इत्यर्थः । मर्महननात् शिशुरपि मारयतीति भावः । इति निन्दा । अथ स्तुतिः-काक्वा गम्यते, को विस्मयः अपि तु विस्मय एव । मत्तहस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम्-एक: क्रुद्धोगजो हन्ति षट्सहस्राणि वाजिनाम्॥३०॥ अमुनेति ॥ अमुना हरिणा दन्तिनः कुवलयापीडस्य यत्पृथुदन्तमुसलं करेणोदपाटि उत्खातम्, तेनो. (१) मुदपाटि।

सर्गः । शिशुपालवधे। ५४३ . खातेन योऽसौ हस्ती अवधि हतः तत्र बलशालिनों क इव विस्मयः । न युक्तस्तत्र विस्मयः । मर्महननाद्धि शिशुरवि मारयति । इति निन्दा ।। स्तुतिस्तु-कावा गम्यते, को विस्मयः विस्मय एवेत्यर्थः । मत्तहस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम्-एक: क्रुद्धो गजो हन्ति षट्सहस्राणि वाजिनाम् । अवधीति कर्माण नकारः, च्लश्चिण् अकारलोपः॥३०॥ शिशुरेष शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् ॥ मल्लमलघुकठिनांसतटं न्यवधीद् यदेष तदद्ष्टकारितम् ॥ ३१ ॥ शिशुरिति ॥ हे नृपाः! अयं कृष्णः शिशुरेव बालः सन् यन्मल्ल चाणूराख्यम् अवधीत् जधान, तददृष्टकारितं दैवविहितम् । विधिवशात् हि बलवान् अशक्तेनापि अभिभूयते । तदेव बलवत्त्वमाह-किलक्षणं मल्लं शिक्षितनियुद्धकरणं शिक्षितानि अभ्यस्तानि नियुद्धकरणानि बाहुयुद्धक्रियाः येन सः तथा तम् ,अपरं किंलक्षणं मल्लम् अलघुकठिनांसतटम् अलघु पीनं बृहत् तथा कठिनं कठोरम् अंसतट स्कन्धस्थलं यस्य सः तथा तं, किंलक्षणः एषः स्वयम् अकृतक्रियः आत्मना अशिक्षितनियुद्धकरणः, यतः शिशुः अर्भकः । इतिनिन्दा ॥ अथ स्तुतिः-पूर्ववत् काक्वा, तत्किमदृष्टकारितं नैवैतदैवविजृम्भितम् , अपि तु एतस्यैवायं महिमा इत्यर्थः ॥ ३१ ॥ शिशुरिति॥ एष हरिः शिशुरेव बालः सन् यन्मार्क चाणूराख्यं न्यवधीज्जघान, तददृष्टकारितं देव- विहितम्। विधिवशाद्धि अबलोऽपि बलीयांसमभिभवति । तदेव बलवत्त्वमाह-कीदृशं मलम् शिक्षितानि नियुद्ध- करणानि बाहुयुद्धक्रियाः येन तं शिक्षितनियुद्धकरणं युद्धतं, तथा अलघु पीनं कठिनमंसतट यस्य तम् । एष तु स्वयमकृतक्रियोऽशिक्षितकरणः, यतः शिशुः । इति निन्दा ॥ स्तुतिस्तु-पूर्ववत्काक्वा । तत्किमदृष्टकारितं नैतदेवविजृम्भितम् , अपि त्वस्यैवायं महिमत्यर्थः॥ ३१ ॥ यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् ॥ कंसमभय(१)मयमभ्यभवत्समुदा जनेन तदपि प्रशस्यते ॥ ३२ ॥ यदिति ॥ हे नृपाः ! यदयं हरिः अयुध्यमानमपि निष्क्रियमपि उपविष्टं सन्त कंसम् औग्रसेनि राजानम् अभ्यभवत् अभिभवति स्म, जंघानेत्यर्थः :। तदपि समुदा जनेन ससन्तोषेण लोकेन प्रशस्यते स्तूयते एव। अहो मूल् जन इति भावः । किंलक्षणं कंसम् उपहितसरौघसाध्वसं जनितदेवपूगाऽऽतङ्कम् , अत एव अपरं किंलक्षणं कंसम् अभय निर्भयं त्रासरहितं, धीरमित्यर्थः । नैवाऽभिनन्द्यत इति काकुप्रयोगः । निष्क्रियस्य वध का नाम नुतिः । इति निन्दा ॥ अथ स्तुतिः-अयुध्यमानमपि सन्तं कंसं यत् अयमभ्यभवत् तदपि समुदा जनेन प्रशस्यते, यत् उपहितसरौघसाध्वसं निर्भयं च । जगत्कण्टकोद्धरणेनाऽवश्यमेव प्रहृष्टो जनः प्रशंसां करोति ॥३२॥ यदिति ।। यदयमयुध्यमानं कंसं स्वजनमध्यभ्यभवदाचकर्ष, तदपि समुदा जनेन प्रशस्यते नैवाभि- नन्यत इति काकुप्रयोगः । निष्क्रियस्य हि वधे का नाम स्तुतिः । कीदृशं तं जानितदेवपूगकम्पम् , अभियं पासरहितं, वीरामित्यर्थः । इति निन्दा ॥ स्तुतिस्तु-अयुध्यमानमपि सन्तं कंसमभियं त्रामरहितं वीरं यदभ्यभवत्तदपि सन्तोषयता जनेन प्रशस्यते स्तूयत एव । यत उपहितसुरौघसा-वसं सदर्प च । कण्टकोद्धरणेन चावश्यं प्रहृष्टो जनः प्रशंसा करोति ॥१२॥ (१) मभिप०।

"५४४ सन्देहविषौषधियुते- [ पञ्चदशः- इति निन्दितुं कृतधियाऽपि वचनममुना यदाददे ॥ स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनोऽभवत् ॥३३॥ इतीति । अमुना चैयेन इति पूर्वोक्तप्रकारेण निन्दितुं कृतधियाऽपि विहितबुद्धिनाऽपि यद्वचनं वचः आददे उचे, सा वाणी मधुनिघातिनः श्रीकृष्णस्य स्तुतिरेवाऽभवत् स्तोत्रमेव बभूव। किंलक्षणस्य मधुनिघातिनः परैः जनैः अनिशमहोरात्रं स्तोतुमुचि- तस्य नवितुं योग्यस्य ॥ ३३ ॥ इतीति । इत्युक्तप्रकारेण अमुना चैयेन यदच आददेभ्यधायि । [सा मधुरिपोर्नुतिरेवाऽभवत् । कदा- चिनुष्टपुरसौ स्यादित्याह-निन्दितुं कृतधियाऽपीति । किंविधस्य हरेः परैः शत्रुभिरपि स्तोतुमजलं योग्य- स्य । अत एतत्स्तुतिरभवत् । एतेन पूर्वेषां वाक्यानामुभयार्थताऽऽख्याता पथा, तथा व्याख्यातमेव । आददे इत्यस्य विहरणस्याशब्दार्थत्वात्प्रतिषेधाभावः प्रतीयते । अत्र तन तु शब्दोपानं, यथा आस्यं व्याददातीति । मधुं निहन्तीत्यावश्यके णिनिः । 'कर्मणि हनः' इत्यर्थकुत्मायाम् ॥ ३३ ॥ यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरद्विषम् ॥ द्यर्थमपि सदसि चेदिपतेस्तदतोऽपराधगणनामगाद्वचः॥ ३४ ॥ यदुवाचेति ॥ एष वैद्यः दुष्टमतिः दुर्बुद्धिः सन् यद् वचः उवाच दुष्टबुद्धया वाक्य जगाद, किं कर्तुमिच्छुः मुरद्विषं मुरारि परिविवदिषुः निनिन्दिषुः । अतः कारणात् तद्वचः यर्थमपि अर्थद्वयवदपि सदसि सभायां चेदिपतेः चैद्यस्य अपराधगणनामगात् अपराध- सख्यां जगाम ॥ ३४ ॥ यदुवाचेति ॥ एष सभायां यचो वोचत् तदुभयार्थ निन्दास्तुतिवाचकमपि अतो हेतोरपराधगणनामगात अपराधगणनामध्ये गणितम् । यतो दुष्टत्वात्मुरारि परिविवदिषुर्निनिन्दिषुः । तेन हि तच आक्रोशता उक्तम् । या तु तस्य स्तोत्ररूपता मा काकतालीयेति भगवतो वा माहात्म्यम् । नैतावताऽसौ प्रियंवद इति अपराधगणनामगात् । यस्मादेष दुष्ट मतिः सन् देवं परिविवदिपुराह इत्येवं वा योज्यम् ॥ ३४ ॥ (१)कटुनाऽपि चैद्यवचनेन विकृतिमगमन्न माधवः ॥ सत्यनियतवचसं वचसः (२)सुजन जनाश्चलयितुं क ईशते ॥ ४० ॥ कटुनाऽपीति ॥ माधवः श्रीवासुदेवः कटुनापि श्रवणाऽप्रियेगापि चैद्यवचनेन शिशु- पालवचसा विकृति न अगमत् विकारं न ययौ । अत्रार्थान्तरं न्यसस्यति-के जनाः के पुमांसः सुजनमायं वचसः वाक्यात् चलयितुम् ईशते समर्था भवन्ति, अपितु न केऽपि ॥४०॥ कटुनाऽपीति ॥ माधवः कटुनापि चैववचनेन विकृति नागमत् । गमे हि 'पुषादि-' इति च्लेरडा- देशः । तथा हि-सत्ये नियतवचसमस्खलितवचसं सत्यसन्धं सुजनं के जना: वचसा ती वेगापीति भावः । चलयितुमीशते शक्नुवन्ति । न के पीत्यर्थः । 'सहिष्ये शतमागांसी'ति प्रतिज्ञामभयादसहतेति भावः। सामान्यन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४० ॥ न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः॥ शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥४१॥ न चेति ॥ तस्मिन् क्षो यदुनृपाः यादवभूपालाः तं शिशुपालं प्रति न च प्रचुकुधुः क्रोध न प्रापुः तं चैधं प्रति क्रोधं न चक्रः, किंलक्षणं तम् इति पूर्वप्रकारेण शप- मानमपि निन्दन्तमपि । हि युक्तोऽयमर्थः, हि यस्मात्कारणाजनो भृत्यवर्गः प्रभुचित्तमेव परिवृढान्तःकरणमेव अनुवर्तते स्वामिचित्तमनुसरति । नृपाः शौरिसमय- (१) इत आरभ्य मल्लिनाथी व्याख्याऽनुस्यूता दृश्यते । (२) वचसा । किलशगाः सर्गः।] शिशुपालवधे। ५४५ निगृहीतधियः शौरेः श्रीकृष्णस्य समयेन संविदा मर्यादया निगृहीता वशीकृता धीमतिः येषां ते तथा श्रीकृष्णकृतमर्यादावशीकृतबुद्धयः ॥ ७६ ॥ न चेति । किञ्चेति चार्थः । तदा तत्काले इतीत्थं शपमानमाक्रोशन्तमपि । शपतेराक्रोश इति भट्ट- मल्लः । तं चैयं यदुनृपा यादवाः शोरेः कृष्णस्य समयेन सङ्केतन निगृहीतधियो निरुद्धबुद्धयः सन्तो न प्रचुक्रुधुः । 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मत्वम् । तथा हि-जनो लोकः प्रभुचित्तमेवानुवर्तते । शौरि- मदूतनिरुद्धबुद्धर्यदुविशेषणगत्या क्र धाभावहेतुत्वाकाव्यलिङ्गमर्थान्तरन्यासेन सङ्कीर्यते ॥ ११ ॥ विहितागसो मुहुरलयनिजवचनदामसंयतः ॥ तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ ४२ ॥ विहितेति ॥ अच्युतः श्रीकृष्णः तत्प्रथमं तदादि तस्य अपराध मन्तुं मनसा समा- ख्यत् चित्तेन इति चिन्तयामास । इतीति किं यत्, तस्य शिशुपालस्य अयं कतिथ: कतमोऽपराधः । किंलक्षणस्य तस्य मुहुरत्यर्थ विहितागसः कृतापराधस्य, किंलक्षणोऽय- मच्युतः अलध्यनिजवचनदामसंयतः अलध्येन अनतिक्रमणीयेन निजवचनदाम्ना स्ववाक्यरज्ज्वा संयतो बद्धः ॥ ४१ ॥ विहितति ॥ अलङ्येन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्व सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथम यथा तथा कतिथः । कतीनां पूरण इति 'तस्य पूरणे डट्' इति डट्प्रत्ययः । 'षट्कतिकतिपयचतुर्रा थुक्' इति थुगा- गमः । मनसा समाख्यगणनां चकार । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरङादेशः। अत्र प्रतिज्ञापाश• बन्धनस्य विशेषणगत्या प्राचीनापराधाऽऽनन्त्येपि तात्कालिकापराधगणनाहेतुत्वाकाव्यलिङ्गभेदः ।। १२ ।। स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ॥ स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ ४३ ॥ स्मृतीति ॥ तस्य श्रीवासुदेवस्य द्विषः शत्रोः शिशुपालस्य समस्तमपकृतं सकलं निन्दावाक्यं स्मृतिवर्त्म न इयाय स्मरणमार्ग न ययौ। खलु यस्मात्कारणात् उत्तमाः श्रेष्ठाः पुमांसः अखिलं समस्तं दोषमपकारं स्मतुं स्मरणविषयं कर्तुं पटवो न योग्या न भवन्ति । किंलक्षणाः उत्तमाः अधिगतगुणस्मरणाः अधिगतं प्राप्तां गुणस्मरणं यैस्ते तथा। महान्तो हि दोषान् परिच्छाद्य गुणान् स्मरन्तीत्यर्थः ॥ ४२ ॥ स्मृतीति ॥ विद्विषश्चैयस्य सम्बन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे कः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुण- स्मरणा: परिचितोपकारस्मृतयः उत्तमाः सजनाः अखिलं दोषमपकारं स्मर्तु न पटवः खलु । नालं भवन्ती- त्यर्थः । 'पर्यातिवचनेष्वलमर्येषु-' इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारामित्यर्थः।।४३ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः। स्माऽऽह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ ४४ ॥ नृपताविति ॥ अथाऽनन्तरं सरसरित्सतो जाह्नवीतनयो गाङ्गेयः वचः प्राह स्म वचन- मवोचत् । क सति नृपती शिशुपाले राजनि शौरि वासुदेवम् अधिक्षिपति सति निन्दति सति, किं कुर्वत् वचः अम्बुधेः समुद्रस्य नादं शब्दम् अनुकुर्वत् अनुसरत् , किलक्षणस्य अम्बुधेः क्षुभितस्य क्षोभं प्राप्तस्य, क सति मरुति वायौ भुवं पृथिवीं चलयति सति कम्पय- माने सति ॥ ४४ ॥ .

५४६ सन्देहविषौषधियुते- [पञ्चदशः- .. नृपताविति ॥ अथ नृपती चेदि पे शैरि हरिमधिक्षिपति सति सुरसरित्सुतो भीष्मः मरुति प्रलय- मारुते भुवं चलयति कम्पयति सति क्षुभितस्योद्वेलस्याम्बुध दमनुकुर्वत् तद्ववभीरं वचः आह म्म उवाच । 'लट् स्मे' इति भूनार्थे लट् । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' इति णल्याहादेशः । यद्यपि न पादादी खल्वादयः' इत्याह वामनस्तथापि कविप्रोट्या स्मशब्दस्य पादादौ प्रयोगः । उपमालङ्कारः ।। ४४ ॥ अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ॥ प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ ४५ ॥ अथेति ॥ अथाऽनन्तरं जावीसतो गाङ्न्यः इति वक्ष्यमाणां वाचं वाणी प्राह स्म उवाच, किंलक्षणो जाह्नवीसतः मुररिपुतिरस्करणक्षुभितः मुररिपोः मुरारे: श्रीकृष्णस्य तिर- स्करणेन निन्दाकरणेन क्षुभितः चलितः, क्रुद्ध इत्यर्थः । किं कुर्वन् गौरवेण गुरुत्वेन आत्मनस्तं परिवादं निन्दाम् अपरिगणयन् अविजानन् ॥ ४५ ॥ उनमेवार्थ वक्तुराशयाविष्कारार्थमाह- अथेति॥ अथ शिशुपालप्रलापाऽनन्तरं मुररिपुतिरस्करणेन हरिनिन्दया क्षुभितः कलुषमनाः जाह्नवी- सुतो गानेन्यः गौरवेण धैर्येण तमात्मनः परिवगदं 'काममयं वृथापलित' इत्यादि स्वनिन्दामपरिगणयन इति वक्ष्यमाणप्रकारेण वाचं प्राह स्म प्रोकवान् । गतमेतत् , धीराः स्वनिन्दामेव सहन्ते न गुरुदेवादि- निन्दामिति भावः । अत्र क्षोभस्य विशेषणगत्या वचनहेतुत्वाकाव्यलिङ्गभेदः ॥ ४५ ॥ विहितं मयाऽद्य सदसीदमपमृषितमच्युताऽर्चनम् ॥ यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ ४६ ॥ विहितमिति ॥ हे नृपाः ! यस्य राज्ञः सदसि सभायाम् अद्य अधुना मया विहितं कृतम् अध्युतार्चनं हरिपूजनम् अपमृषितं न रुचितं, स राजा चापं नमयतु धनुराकर्षतु । अयं चरणः वामः पादः सर्वभूभृतां निखिलनरपतीनां सिरसि मस्तके कृतः विहितः, आरोपित इत्यर्थः ॥ ४६ ॥ विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतमिदमच्युतार्चनं यस्याऽपमृषितमतितिक्षितम् , असोढमित्यर्थः । 'मृष तितिक्षायाम्' इति धातोः कर्मणि कः। उपसर्गवशाद्विपरीतार्थता । अत एव मृष- स्तितिक्षायामेव कित्त्वनिषेधादतितिक्षार्थवान गुणः । 'मनिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता, 'कस्य च वर्तमाने' इति षष्ठी । सोऽपमष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृता, मिषतामिति भावः, शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूभी पान्यमानस्य चरणस्य हस्तेन निर्देशः । अयं कोपामर्षः इत्यनुसन्धेयम ॥ ४६ ॥ इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् ॥ क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ ४७ ॥ इतीति ॥ अथो अनन्तरं भीप्मोक्ताद्वचनादनन्तरं शिशुपालपक्षपृथिवीभृतां गणः चैव- वर्गभूपालानां समूहः अतिमात्रमतिशयेनक्षोभमगमत् चलनं जगाम । सवें राजानः सकोपाः समभवनित्यर्थः । कथं क्षणात् क्षणमात्रेणैव, किंलक्षणानां पृथिवीभृताम् इति पूर्वोक्त- प्रकारेण भीष्मभाषितवचोऽयं गायोक्तवाक्यप्रयोजनम् अधिगतवतामिव शिरसि दत्त पदं पश्यतामिव ॥ ४७ ॥ इसीति ।। इतीत्थं भीष्मेण भाषितस्योनस्य वचसोऽर्थमाभिधेयं शिरसि पादन्यासरूप सणाधिगत- पताम् , प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमात्र सोभं क्रधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रोद्रस्थायी कोषः प्रादुरभूदित्युकम । उत्प्रेक्षा । ।

सर्गः।] शिशुपालवधे। ५४७ .. शितितारकाऽनुमितताम्रनयनमरुणीकृतं क्रुधा ॥ बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ ४८ ॥ शितीति ॥ बाणवदनं बाणासुरमुखम् उददीपि उद्दीप्तं जातं कोपाग्निना ज्वलितम् । किंलक्षणं बाणवदनं क्रुधा कोपेन अरुणीकृतं आरक्तीकृतम् , अपरं किलक्षणं बाणवदनं शितितारकाऽनुमितताम्रनयनं शितितारकाभ्यां कृष्णकनीनिकाभ्याम् अनुमिते ज्ञाते नयने लोचने यस्य तत्तथा । किमर्थ मुखमुददीपि इत्याह-जगतो भिये विश्वस्य भयाय, किमिव सूर्यमण्डलमिव श्रीसूर्यबिम्बमिव । किंलक्षणं सूर्यमण्डलं सकीलं कीलाभ्यां पापग्रहाभ्यां शनिभौमाभ्यां सह वर्तमानम् । यथा पापग्रहाभ्यां शनिभौमाभ्यां सह यर्तमानं सूर्यमण्डलं जगतो भयाय भवति ॥ ४८ ॥ अथैषां दशभिर्गात्रारम्भान् क्रोधानुभावानाह- शितीति ॥ क्रुधा क्रोधेन अरुणीकृतमत एव शिती क्यामे ये तारके कनीनिके ताभ्यामनुमिते अनु. मापिते तामे नयने यस्य तत् । 'तारकाऽक्ष्णः कनीनिका' इत्यमरः । सर्वमुखस्य रक्तवादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । पारोधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुडि 'दीपजन-' इत्यादिना चिणप्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्मापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंङ्करः ॥ ४८ ॥ अनिशान्तवैरदहनेन विरहितवताऽन्तरार्द्रताम् ॥ कोपमरुदभिहतेन भृशं नरकास्मजेन तरुणेव जज्वले(१) ॥ ४९ ॥ अनिशान्तेति ॥ नरकात्मजेन भगदत्तेन जज्वले ज्वलितम् । किंलक्षणेन नरकात्मजन अनिशान्तवैरदहनेन अप्रशान्तवैराऽनलेन, अपरं किंलक्षणेन अन्तः अन्तरे मानसे आर्द्रतां विरहितवता सदयत्वं त्यक्तवता, अपरं किलक्षणेन कोपमरुदभिहतेन क्रोधपवनप्रेरितेन, केनेव तरुणेव, यथा तरुणा वृक्षेण वायुना प्रेरिताग्निना भृशं ज्वल्यते । किलक्षणेन तरुणा अन्तर्मध्ये आर्द्रतां सरसतां त्यजता, शुष्केणेत्यर्थः ॥ ४९ ॥ अनिशान्तति ॥ अनिशान्तोऽनिर्वाणो वैग्दहनो विगंधानियस्य तन अत एवाऽन्तरभ्यन्तरे आईतां सारस्य विरहितवता त्यक्तवता । रहयतेः कवतुप्रत्यय । कोपो महादव तेनाऽभिहनः प्रज्वलितः तेन नरका- मजेन वेणुदारिणा तरुणा वृक्षेणेव भृशं जज्वले वलितम् । भावे लिट् । उपमालङ्कारः ॥ ४९ ॥ अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ॥ प्रस्तशशधरमिवोपलसत्सितदन्तपति मुखमुत्तमौजसः ॥ ५० ॥ अभिधित्सत इति ॥ उत्तमौजसो राज्ञः मुखं वदनं राहुवदनविकृतं व्यभाव्यत सैहिकेयमुखविकरालं लक्ष्यते स्म । किलक्षणस्य उत्तमौजसः किमपि अनिर्वाच्यमभि- धित्सतः, अभिधातुमिच्छति अभिधित्सति अभिधित्सतीति अभिधित्सन् तस्य वक्तु- मिच्छतः, किलक्षणं मुखम् उपलसत्सितदन्तपङ्क्ति देदीप्यमानश्वेतदशनश्रेणि । अपरं किंलक्षणं मुखम् , उत्प्रेक्ष्यते-ग्रस्तशशधरमिव गिलितचन्द्रमिव ॥ ५० ॥ अभिधित्सत इति ॥ किमप्याभिधिनसतोऽभिधातुमिच्छतः । दधातेः सत्रन्साटः शादेशः । उत्तमौ - जसो नाम राज्ञः सम्बन्धि राहुवदनविकृतं ध्यानयादा वक्त्रवत्करालम् , उपलसन्ती लक्ष्यमाणा सिता दन्तपक्तिर्यस्य तन्मुखं प्रस्तशशधरमिक सन्दष्टचन्द्रमिव ध्यभाव्यताऽनयंत । इत्युत्प्रेक्षा ॥ ५० ॥ (१) सर्वदुषायां तु 'प्रविदारितारुण, अनिशान्तपैर, अभिधित्सतः' इति क्रमः । ।

५४८ सन्देहविषौषधियुते- [पञ्चदशः- प्रविदारिताऽरुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् । प्रातरहिमकरतानंतनुर्विषविद्रुमो(१)ऽपर इवाऽभवद् द्रुमः ॥ ५९ ॥ प्रविदारितेति ॥ द्रुमः द्रुमाख्यो राजा अपरो विषविद्रुम इवाऽभवत् विषवृक्ष इव बभूव । किंलक्षणो द्रुमः प्रविदारिताऽरुणतरोगनयनकुठमोज्ज्वलः प्रविदारिते प्रसारित अरुणतरे अत्यारक्त उने भीषणे नयने नेत्रे एव कुठमे पुष्पे ताभ्याम् उज्ज्वलः प्रसिद्धः उप- लक्षितः, अपरं किलक्षणो द्रुमः प्रातः अहिमकरताम्रतनुः प्रगे दिनकरारक्तदेहः । विषद्रुमो- ऽपि स्पुरता रविणा आरक्तो भवति, स्वभावाद्वा रक्तः । अत एव अरुणकुसमः, दृष्ट्या विषवृक्षोऽपि लोकं संमूर्छयेदिति वाक्यार्थः ॥ ११ ॥ प्रविदारितति ॥ प्रविदारिते अतिविकासिते अरुणतरे क्रोधादतिरकतरे अत एवोगे भयदुरे ये नयने ते एव कुसुमे ताभ्यामुज्ज्वलो दीप्तः स्फुरन् स्वतेजसा दीप्यमानः प्रातरहिमकरतामतनुः प्रभातार्काऽरुण- विग्रहः प्रसिद्धो दुमो दुमाख्यो नृपः अपरो विषजदुम इवाऽभवदित्युत्प्रेक्षा रूपकसङ्कीर्णा ॥ ५१ ॥ कुपिताकृति प्रथममेव हसितमशनैरसूचयत् ॥ क्रुद्धमशनिदलिताऽद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ ५२ ॥ कुपितेति ॥ हसितं कर्तृ दन्तवक्त्रं कारूषदेशेश्वरं राजानं प्रथममेव आदावेव कुपिताकृति क्रुद्धाकारम् अशनैवेगेन असूचयत् अकथयत् गाढतरेण कुपितं कथयामास । प्रसन्नेनापि रूपेण यः ऋद्ध इत्यर्थः । तथापि दन्तर्वक्त्रत्वादन्तवक्त्र इति नाम । अतश्च द्रुतहासेन क्रुद्धोऽसौ इति सूचितः । किंलक्षणं दन्तवक्त्रं क्रुद्धं कुपितम् , अत एवाऽपर किं- लक्षणं दन्तवक्त्रम् अरिचक्रभीषणम् अरिचक्र शत्रुदलं भीपयति त्रासयति इति तथा तं, किंलक्षणं हसितम् अशनिदलिताऽद्रितटध्वनि अशनिना वज्रेण दलितं चूर्णितं यत् अद्वि- तट पर्वतभृगुः तस्येव ध्वनिः शब्दो यस्य तत्तथा ॥ १२ ॥ कुपितेति ॥ प्रथम प्रागेव, अकुपितावस्थायामपीत्यर्थः । कुपितस्येवाकृतिर्मुखरागो यस्येन्युपमा । अरिचक्रभीषणं परबलभयङ्करं दन्तवक्र दन्तवनामानं राजानम् , अशानिदलितस्य वजाहतस्यादितटस्य ध्वनिरिव ध्वनिर्यस्य तदित्युपमा । न शनैरशनैः उच्चैहसितमट्टहासः क्रुद्धमसूचयत् । सर्वदा मुखरागस्य विशेषणादनुभावान्तरवेयः क्रुद्ध इत्यर्थः । अत्र कोपव्यञ्जकसम्बन्धेऽप्यसम्बन्धोनरतिशयोक्तिरुपमा- सही ॥ ५२ ॥ प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ॥ जामिहरणजनितोऽनुशयः(२) समुदाचचार निज एव रुक्मिणः ॥ ५३॥ प्रतिघ इति ॥ प्रतिधः कोपः कुतोऽपि कस्मादपि कारणं विनैव समुपेत्य आगत्य नरपतिगणं समाश्रयत् भूपालवृन्दं समाश्रितवान् । निनिमित्तमेव सर्वे राजानः तदा श्रीकृष्णे क्रुद्धा इत्यर्थः । अपरं रुक्मिणः भीष्मकात्मजस्य राज्ञः निज एव स्वाभाविक- एव अनुथयः पश्चात्तापः वैरं वा समुदाचचार उत्पन्नः । तदेव जनितत्वमाह-किलक्षणो- ऽनुशयः जामिहरणजनितः भगिनीहृतिविहितः । तस्य हि स्वसा रुक्मिणी पूर्व चैद्याय दत्ताऽऽसीत् , ततो बलेन हरिणा हृता । अतः कारणात् स्वभावात् तस्य क्रोधो युक्तः । अन्ये तु नृपाः मौल्यादेव क्रुद्धा इत्यर्थः ॥ १३ ॥ प्रतिघ इति ॥ प्रतिघः कोपः। 'कोपक्रोधाऽमर्षरोषप्रतिघा' इत्यमरः । कुतोऽपि समुपेत्याऽऽगत्य नरपति- (१) विषजठुमो०। (२) यामि "जनिताऽनुशय । * सर्गः।] शिशुपालवधे। ५४६ गणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु यामिः स्वसा । 'यामिः स्वसृकुलमियोः' इत्यमरः । तस्या रुक्मिण्या हरणन जनितोनुशयो 'हा कष्ट मापन कदा निर्यातयामी'त्यनुतापो यस्मिन् सः। 'अथा- ऽनुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । निजो नित्य एव प्रतिषः । 'निजमात्मीयनित्ययोः' इति विश्वः। समुदाचचार समुहिंदी पे। भीष्मवाक्यमन्येषां कपोत्पादकमासोत् , रुक्मिणस्तु प्रागेवाऽवरूढकोपस्योद्दीपक- मासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोहीपनहेतुत्वाकाव्यलिङ्गमेदः ॥ ५३ ॥ चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ॥ तीरतरलजलराशिजलामवभुनभोगिफणमण्डलां भुवम् ॥ ५४ ॥ चरणेनेति ॥ सुबलो गान्धारराजः चरणेन पादेन भुवं हन्ति स्म भूमि जघान । 'किंलक्षणां भुवं शिथिलिताश्चालिताः महीधराः पर्वता एव बन्धनानि यस्याः सा तथा ताम् , अपरं किंलक्षणां भुवं तीरतरलजलराशिजलां तीरे पुलिने तरलं कम्प्रं जलराशेः सागर- स्य जलं पानीयं यस्याः सा तथा ताम्, अपरं किंलक्षणां भुवम् अवभुनभोगिफण- मण्डलाम् अवभुम्नं कुटिलं भोगिनः सर्पस्याऽनन्तस्य फगमण्डलं शिरश्चक्रवाल यस्याः सा तथा ताम् ॥ १४ ॥ चरणेनेति ॥ सुबलो नाम राजा, महीं धारयन्तीति महीधाः पर्वताः। कप्रकरणे 'मूलविभुजादिभ्यः उपसङ्ख्यानम्' इति कपत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि सन्धयो यस्यास्ताम् । नीरेण तरलानि भूकम्पाचलितानि जलराशेरम्बुधेर्जलानि यत्यास्ताम । अवभग्नं कुाटेलम् , अतिभार। दित्यर्थः। भोगिनां फणिनां फलमण्डलं फणसमूहो यस्यास्तां भुवं चरणेन हन्ति स्म जघान । 'लट् स्में इति भूतार्थे लट् । अत्र पादाघाताद् भुवः कम्पासम्बन्धेऽपि तत्सम्बन्धोनरतिशयोक्तिः ॥ ५४ ॥ रुषितेषु (१) राजसु तथापि रथचरणपाणिपूजया ॥ चित्तकलितकलहागमनो मुदमाहृतिः(२) सुहृदिवाऽधिकां दधौ ॥५५॥ रुषितेष्विति ॥ आहृतिः भीष्मः अधिकां मुदं दधौ अतिशयेन हर्ष बभार । केषु सत्सु तथापि तेन प्रकारेणापि राजस नृपेषु रुषितेषु कुपितेषु सत्स, कया रथचरणपाणिपूजया रथचरणं चक्रं पाणौ यस्य सः रथचरणपाणिः तस्य पूजा तया विष्णोरर्चया । किमिव मुदं दधौ सुहृदिव मित्रमिव । यथा मित्रं तुष्यति । किंलक्षण: भीष्मः चित्तकलितकलहागमनः चित्तेन मनसा कलितं लक्षितं कलहस्य युद्धस्य आगमनं प्राप्तियेन सः तथा । निश्चयी- कृतरणसमय इत्यर्थः । शूरा हि युद्धे उपस्थिते हृष्यन्तीति ॥ ५५ ॥ कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चिले कलितं निश्चितं कलहा- गमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य म सुहृन्मित्रमिव । कृष्णपक्ष- पाती वेत्यर्थः । 'सुहृददुहृद। मित्रामित्रयोः' इति निपातः । अधिकां मुदं दधौ सन्तोषं धत्तवान् । सुदुःसहो- अपि कृष्णोत्कर्ष : कलहकण्डूलबाहोराहुकर्मोदहेतुरामौदित्यर्थः । उपमालङ्कारः ॥ ५५ ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् ॥ व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ ५६ ॥ गुरुकोपेति ॥ असितयवनस्य कालयवनस्य विवक्षतो वक्तुमिच्छतः आस्यकुहर वक्त्रविवरं रौद्रताम् आपत् भीषणमभूत्। किंलक्षगमास्यकुहरं गुरुकोपरुद्धपदं गुरुणा महता कोपेन क्रोधेन रुळे निवृत्तं पदं वाक्यं यस्य तत्तथा अतिक्रोधनिवर्तितवाक्यम् । अति- -- (१) कुपितेषु । (२) माहुकिः ।

५५० सन्देहविषौषधियुते- [पञ्चदशः- रोषवशाद्धि वाक् प्रतिहतप्रसरा भवति । अपरं किलक्षणमास्यकुहरं विकराल भासुरम्, अपरं किंलक्षणं व्यात्त विवृतं प्रसारितम् अभिधित्सया विस्तारितम् । किं कर्तुम् , उत्प्रे- क्ष्यते-सर्वजगत् त्रिभुवनम् अशितुमिव ग्रसितुमिव ॥ १६ ॥ गुरुकोपेति ॥ विषक्षतः किमपि वक्तुमिच्छतः । वचेः सन्नन्तामटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः सम्बन्धि सर्व जगदशितुमत्तमिव व्यात्तं विवृतम् , अत एव विकरालमतिविकृतम् । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचन- मास्यकुहरं वक्र विवरं गद्रतां भयङ्करतामापत् । अत्राऽशितुमिवेति फलोत्प्रेक्षा ज्यादानक्रियानिमित्ता ॥५६॥ विवृढोरुबाहुपरिघेण सरभसपदं निपित्सता(१) । हन्तुमखिलनृपतीन् वसुना वसने विलम्बिनि निजे विचस्खले ॥१७॥ विवृढेति ॥ वसुना वसुनाम्ना नृपेण निजे वसने आत्मीये एवांऽशुके विचस्खले स्खलितम् । किंलक्षणे वसने विलम्बिनि लम्बमाने, किलक्षणेन वसुना विवृढोरूबाहुपरि- घेण विवृढः उद्यतः बाहुरेव भुज एव परिघ आयुधविशेषो येन उत्क्षिप्तभुजपरिघातेन, अपरं किलक्षणेन वसुना अखिलनृपतीन् हन्तुं सकलराजन्यकं हिंसितुं सरभसपदं यथा भवति तथा निपित्सिता सरभसानि सवेगानि पदानि चरणन्यासा यत्र क्रियायां तद्यथा त्वरितक्रमं गन्तुकामेन । बाहुमुद्यम्य राजन्यकं निहन्तुं तूर्ण धावतेत्यर्थः । अतश्च त्वरा-- वशादसौ लम्बमाने वाससि चस्खले इति भावः । पाठान्तरे विवृतः ॥ ९२ ॥ विवृतेति ॥ आखिलनपतीन् हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । 'परिघः प्रतिघाने स्त्री' इति हैमः। सरभसं ससत्वरं यत्पदं तनिधित्सता निधातुमिच्छता । दधातेः सन्नन्ता - ल्लटः शत्रादेशः। वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्विस्त्रंसिनि निजे वसने स्वाम्बरे विच- स्खले स्खलितम् । तध्यस्य दुर्निमित्नमिति भावः । भावे लिट् । अत्र वमासनस्य विशेषणगत्या स्खलन- हेतुत्वाकाव्यलिङ्गं, तद् बाहुपरिघेति रूपकेण संसृज्यने ॥ ५ ॥ इति तत्तदा विकृतरूपमभजद विभिन्नचेतसम् ॥ मारबलमिव भयङ्करतां हरिबोधिसत्त्वमभि(२) राजमण्डलम् ॥५८ ॥ इतीति ॥ अथ तत् राजमण्डलं राजन्यकम् इति इत्थं प्रकारेण भयङ्करतामभजत् भयानकतां भेजे रौद्रत्वं शिश्राय । किंलक्षणं राजमण्डलं हरिबोधिसत्त्वमभि विकृतरूपं हरिः श्रीकृष्ण एव बोधिसत्त्वः भट्टारकः तम् अभि प्रति विकृतरूपं विकारावस्थामापन्नं, कुछ- मित्यर्थः । किंलक्षणं हरिबोधिसत्त्वम् अविभिन्नचेतसम् अविकृतम् अविक्षुभ्यन्तम् । किमिव रौद्ररूपतामभजदित्याह-मारबलमिव कामसैन्यमिव । यथा कामस्य बलं सैन्य बोधिसत्वम् अभि प्रति विकृतरूपं नानाचेष्टं भयङ्करतां समाधिविरुद्धत्वं भेजे । बुद्धस्तु तथापि अभिन्नचेता एव । उक्तं च- कामेनाऽऽकृष्य चापं हतपटुपटहावलिगभिर्मारवीरैः भ्रूभङ्गोत्कम्पजृम्भास्मितललितकृता दिव्यनारीजनेन सिद्धैः प्रबोत्तमाङ्ग पुलकितवपुषा विस्मयाद्वासवेन ध्यायन बोधेरवाप्सा(१) धवलित इति वः पातु दृष्टो मुनीन्द्रः ॥-॥१३॥ (१) विवृतोरु'""निधित्सता । (२)सत्त्वमपि ।

सर्गः। शिशुपालवधे। ५५१ । इतीति ॥ इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकार तद्राजमण्डलं मारबलमिव मदन- सैन्यामेव ‘मदनो मन्मयो मारः' इत्यमरः । आवभित्रचेतसमविकृतचित्तं, बोधिसत्त्वो बुद्धः । 'बुद्धस्तु श्रीधनः शास्ता बोधिसत्यो विनायकः' इति वैजयन्ती। हरिरिवेत्युपामतसमासः। तं हारबोधिसत्त्व- मभि । तत्समक्षमित्यर्थः । 'अभिरभागे' इत्यभेः कर्मपवचनीयत्वात्तयोगे द्वितीया। भयं करोतीति भय- ङ्करः । 'मेघर्तिभयेषु कृमः' इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्नामभजत् । उपमालङ्कारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्ने, तथा राजमण्डलमपि हरिणा भज्यत हाते वस्तु व्यज्यते ॥ ५८ ॥ रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ॥ सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ ५९ ॥ रभसादिति ॥ अथाऽनन्तरं मेदिनीभृतः वैद्यपक्षीया राजानः रभसात् उदस्थुः वेगेन उत्थिताः । किलक्षणाः मेदिनीभृतः युद्धमभिलाषुकाः युयुत्सवः, अपरं किंलक्षणा राजानः अनुचितभियः, अनभ्यस्तत्रासाः अपरं किंलक्षणा राजानः सदसि सभायां सान्द्र- मुकुटकिरणोच्छलितस्फटिकांशवः सान्द्रेषु घनेषु मुकुटकिरणेषु शेखरमयूखेषु उच्छलिता बहुलीकृताः प्रणामवशात् स्फटिकांशवः स्फटिककिरणा येषां ते तथा। सा सभा हि कचित् धवलाऽश्ममयी वर्तते ॥ १४ ॥ रभसादिति ॥ अथाऽनन्तरमनुचितभियोऽनभ्यस्तसाध्वताः। 'अभ्यस्तेऽप्युचितम्' इति यादवः । अत एव युद्धमाभलाषुका युद्धार्थनः । 'लषपत-' इत्यादिना उकञ्प्रत्यये 'न लोका-' इत्यादिना षष्टी- प्रतिषेधः । सदसि मेदिनीभृतः सदामि स्थिताश्यपक्षीया राजानः मान्द्रर्मुकुटकिरणेरुच्छलिताः स्कटिका. शवः सभाभित्तिस्फटिकमणिमयूखा यैस्ने तथोकाः सन्तो रभमाद्वेगादुदस्थुरुत्थिताः । 'उदोऽनूर्वकर्मणि' इत्यस्य प्रत्युदाहरणमेतत् । अत्र युद्धाभिलाषुकस्य विशेषणगत्योत्थानहेतुबारकाव्यलिङ्गभेदः ॥ ५९ ॥ स्फुरमाणनेत्रकुसुमौष्ठ(१)दलमभृत भूभृदध्रिपैः ॥ धूतपृथुभुजलतं चलितैर्दुतवातवान(२)वनविभ्रमं सदः ॥ ६० ॥ स्फुरमाणेति ॥ तत्सदः सा सभा द्रुतवातवानवनविभ्रमम् अभृत द्रुतं तूर्ण यत् वातस्य वायोः वानं वहनं यत्र तत् द्रुतवातवानम् एवंभूतं च तद्वनं काननं च तस्य विभ्र मो लीला सारूप्यं तत् अभृत उवाह । शीघ्रवातकम्पितकाननविभ्रमं बभारेत्यर्थः । कैः भूम- दधिपैः भूभृतो राजानः त एवाऽधिपाः वृक्षाः तः राजवृक्षः, किंलक्षणैः चलितैः उत्थितैः, किंलक्षणं सदः स्फुरमाणनेत्रकुसमौष्टदलं नेत्राण्येव कुसुमानि पुष्पाणि ओष्ठा एव अधरा एवं दलानि किसलयानि तानि स्फुरमाणानि कम्प्राणि यत्र तत्तथा, अपरं किलक्षणं सदः धूतपृथुभुजलतं धूताः कम्पिताः पृथवः भुजा एव लता वल्लयो यत्र तत्तथा । वनमपि वाते वाति सति कम्पमानपुष्पपत्रलतापादपं भवति ॥ ६ ॥ स्फुरमाणेति ॥ स्फुरमागानि नेत्राण्येव कुसुमान्योष्ठा एव दलानि च यस्मिन्कमणि तयथा तथा धूताः कम्पिता. पृथवो भुजा एव लताः शाखा यास्मिन्कर्माणे तयथा तथा चलितैः, भूभृतो राजानस्त एव अनिगः पादपास्तैः सदः समामण्डपं दुनः शीघ्रो वातपातो वायुपचारो यस्य तस्य वनस्य विभ्रमं शोभाम् । 'विभ्रमः संशये भ्रान्ती शोभायां च' इति वैजयन्ती । अभृत बभार । भृञो लुङि तर, 'उश्व' इति सिच: कित्त्वाद् गुणाभावः । 'हस्वादङ्गात्' इति सलोपः । अत्र वनविभ्रमामति सादृश्याक्षेपादसम्भवद्वस्तुसम्बन्धा निदर्शना नेत्रकुसुमेत्यादिरूपकोत्थापतेति सङ्करः ।। ६० ॥ (१) कुसुमोष्ठ । (२) वातपात। . ..

५५२ सन्देहविषौषधियुते- [पंचदश:- । हरिमप्यमंसत तृणाय कुरुपतिमजीगणन् न वा ॥ मानतुलितभुवनत्रितयाः सरितः सुतादविभयुर्न भूभृतः ॥ ६१ ॥ हरिमिति ॥ ते भूभुजः चैद्यादयो राजानः हरिमपि श्रीकृष्णमपि तृणाय अर्मसत तृणतुल्यं बुबुधिरे, वा अथ वा कुरुपतिमपि युधिष्ठिरमपि न अजोगणन् नगणयामासः मनसि न चक्रुः । पाण्डवबलमपि तेषां न पुस्फोरेत्यर्थः । तथा सरितः सुतात् गङ्गायाः पुत्रानीष्मा- दपि न अविभयुः न तत्रहः । किंलक्षणा भूभुजः मानतुलितभुवनत्रितयाः मानेनाऽहवारेण तुलितं परिच्छिन्नं स्वल्पसारं भुवनत्रितयं जगत्रितयं यैस्ते तथा ॥ ६१ ॥ हरिमिति ॥ मानतुलितभुवनत्रितया अहङ्कारावधीरितजगत्रयाः भूभृतश्चैद्यपक्षा राजानः हरिमफि तृणायाऽमंसत तृणसमममन्यन्त, तथा लघु मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्ले: सिन् । अनुदात्तत्वादिप्रतिषेधः, 'मन्यकर्मणि-'इति चतुर्थी । कुरुपति च नाजीगणन् , न धर्मराज गणयन्ति स्मेत्यर्थः । गणैरें चलिई च गणः' इत्यभ्यासस्येकारः । सरितः मुताद्रीष्मादपि नाऽबिभयुन भीताः। विभेतेलुङि 'श्लौ' इति द्विीपे सिजभ्यस्ताविदिभ्यश्च' इति झे सादेशः, 'जुसि च' इति गुणः । अब राजसु हर्यवमानायनेकक्रियायोगपद्यात्ममुच्चय इति सर्वस्वकारः ।। ६१ ॥ गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् ।। कीर्णदशनकिरणाग्निकणः फणवानिवेति(१) विससर्ज चेदिपः ॥ १२॥ गुर्विति ॥ अथाऽनन्तरं चेदिपः चैधः शिशुपालः इत्थम् अमुना प्रकारेण वचोविर्ष विससर्ज वचनमेव विषम् उदवमत् । किलक्षणः चेदिपः कीर्णदशनकिरणाऽग्निकणः कीर्णा विक्षिप्ताः दशनकिरणा: दन्तमयूखा एव अमिकणा वहिविस्फुलिङ्गा येन सः तथा, क इव वचोविषमुदवमत् फणवानिव । यथा फणवान् सर्पः विषं सृजति । सर्पोऽपि विषमुद्वमन् एवंविध एव भवति ॥ ६२ ॥ गुर्विति ।। अथैष चेदिपः कणवान् फणीव गुर्वधिक निःश्वस-फूत्कुर्वन विलोलं सदवथु ससम्तापम् । 'मन्तापो दवथुः' इत्यनेकार्थादिति सज्जनः । तद्वपुर्णस्य स विलोलसदवथुवपुः । वितोऽथुच् । कीर्णा विक्षिप्ता दशनकिरणा अग्निकणा इव यस्य सः तथा सन्चो विषमिव तद्वचोविषं विसर्ज । विषप्रायं वच- उज्जगारेत्यर्थः। अतः कणवानि ति व्यस्तोपमालिङ्गात्सर्वत्रीपमितसमासाश्रयणम् ॥ २॥ किमुवाचेत्याह- किमहो नृपाः ! समममीभिरुपपतिसुतैर्न पञ्चभिः ॥ वध्यमभिहथ भुजिष्यममुं सह चाऽनया स्थविरराजकन्यया ॥ ६३ ॥ किमिति ॥ अहो इति आक्षेपे, अहो नृपाः ! हे राजानः ! अमुं भुजिष्यं कंसदार्स किं कस्मात् न अभिहथ न मारयध्वे । किंलक्षणममुं वयं वधाहम् । अमुमिति हरेः प्रत्यक्षनिदेशः । किं केवलं नेत्याह-कैः सह अमीभिः पञ्चभिः उपपतिसतैः सह एभिः पञ्चसङ्ख्याकैः जारपुत्रैः पाण्डवैः सार्ध, तथा अनया एतया स्वविरराजकन्यया सह वृद्धराजकुमार्या सार्धम् । क्लीबेन भीष्मेण साकमित्यर्थः । स हि वृद्धो ब्रह्मचारी च । कन्यात्वेन अत्र क्लीबत्वं विवक्षितम् ॥ ६३ ॥ अथतद्वचाविषमेव चतुर्मिराह- किमिति ॥ हे नृपाः ! अमीभिः पञ्चभिरुपपतिसुतैः सम जारजः सह । पाण्डवाना क्षेत्रजवादित्थं प्रलापः । अनया स्थाविरराजकन्यया क्षत्रियाइनया च सह । 'कन्या कुमारिकानार्योः' इति विश्वः । भीष्म- । .. - .. (१) निवष।

सर्गः।] शिशुपालवधे। ५५३ .. स्योपरतस्कत्येन निन्दा । वयं वधाईम् । अराज्ञो राजाहणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति । भमुं भुजिष्यं किङ्करम् , कसपशुपालनादिति भावः । 'भुजिष्यः किकरो मतः' इति हलायुधः । कि नाभिहत किमिति न मारयत । किन्त्वभिहतेत्यर्थः । हन्तेर्वधार्थे लोट् । 'लोटो लङ्वत्' इति यस्य नादेशः 'अनुदात्तोपदेश-' इत्यादि नाऽनुनासिकलोप। अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षा- नुभावो वागारम्भः । 'क्रोधः कृतापराधेषु स्थिरोधमर्ष इतीर्यते' इति ॥ ६ ॥ अथ वाऽऽध्वमेव खलु यूयमगणितमरुद्गणौजसः ।। वस्तु किर्याददमयं न मृधे मम कंवलस्य मुखमीक्षितुं क्षमः॥ ६४ ॥ अथ वेति ॥ अथ वा पक्षान्तरे, हे नृपाः ! यूयम् आध्वम् एवमेव तिष्ठध्वम्(१) । किंलक्षणा यूयम् अगणितमरुद्गणौजसः निजितदेवसमूहतेजसः । अयं कृष्णः यत्, इदं कियद्वस्तु कियन्मात्रम् । किंभूतः अयं मृधे रणे सङ्ग्रामे केवलस्य एकस्य असहायस्य मम मुखमीक्षितुं न क्षमः न समर्थः ॥ ६४ ॥ अथ वेति ॥ अथ वा अगणितमरुद्गणीजसोऽवधीरितसुरससत्त्वाः यूयमाध्वमेव तूष्णीं तिष्ठतेव खलु । । भास्तेलोटि 'धि च' इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः- अयं कृष्णो मृधे युद्धे । 'मृधमास्कन्दनं संख्यम्' इति युद्धपर्यायध्वमरः । केवलस्यैकाकिनो ममैव मुख- मीक्षितुं न क्षमः, युष्माकं का वातेति भावः । एतेनास्य बलगर्यो व्यज्यते । 'आत्मोत्कर्षोऽन्यधिक्कारो यमावण्यविभूतिभिः' इति लक्षणात् ॥ ६४ ॥ विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ ॥ यातु निकषधियुद्धमसौ वचनेन किं भवति(२) साध्वसाधु वा ॥६५॥ विदतुरिति ॥ हे नृपाः ! अशेषपरिषदि सर्वस्यां सभायां नदीजधर्मजौ नदीपुत्रधर्म- गाङ्गेययुधिष्ठिरौ यं कृष्णम् उत्तम श्रेष्ठं विदतुः जानीतः, सोऽयं हरिः अभियुद्धं थुद्धे निकर्ष यातु समीपं यातु प्राप्नोतु । यो हि परीक्ष्यः स तत्स्थाने भवत्येव । वचनेन कथनेन किं साधु वा अथ वा असाधु अशोभनं भवति, अपि तु न ॥ ६५ ॥ विदतुरिति ॥ किञ्च नदीजधर्मजौ भीष्मयुधिष्ठिरौ अशेषपरिषदि समग्रसंसदि । 'परिषसंसत्' इति विश्वः। यं कृष्णमुत्तमं विदतुः, विदितवन्तावित्यर्थः । 'विदो लटो वा' इति तसोऽतुसादेशः । असो कृष्णः अधियुद्धं युद्धे । विभक्त्यर्थेऽव्ययीभावः । निकषं निकषण यातु । परीक्ष्यतामित्यर्थः । ततः माधून्कर्षों- माध्व नुत्कर्षो वा भवतु । व्यक्तमासिवत्यर्थः । वचनेन किं, वृथा वाग्वीरलमित्यर्थः । अत्रापि गर्वामर्षों व्यज्यते ॥ ६५ ॥ अचिरान्मया सह गतस्य समरमुरगाऽरिलक्ष्मणः ॥ तीक्ष्णविशिवमुखपीतमसृक् पततां गणैः पिबतु साक(३)मुर्वरा ॥६६॥ अचिरादिति ॥ उर्वश पृथ्वी उरगाऽरिलक्ष्मणः गरुडध्वजस्य कृष्णस्य असृक् रुधिरं पततां गणैः साकं पक्षिणां समूहः सार्ध पिबतु धयतु । उरगाऽरिः सर्पशत्रुर्गरुडः लक्ष्म लाञ्छनं यस्य स उरगाऽरिलक्ष्मा तस्य । किलक्षणमसक् तीक्ष्णविशिखमुखपीतं तीवसायकाऽग्रास्वादितं, किलक्षणस्य हरेः अचिरात् तत्क्षणं मया सह समरं गतस्य युद्ध प्राप्तस्य । मया हतमेवाऽमुं भवन्तः पश्यन्त्वित्यर्थः ॥ ६६ ॥ अचिरादिति ॥ विश्व मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य सम्बन्धि तीक्ष्णैर्विशिख. मलैः पीतं, मद्राणोच्छिष्टमित्यर्थः । अमृक रक्क मुर्वरा भूमिः ! 'उर्वरा सर्वसस्यायभूमौ स्याद् भूमिमात्रके' (१) युज्यते परस्मैपदम् । (२) भवतु। (३) सार्ष। ४७ शि०१० -- ५५४ सन्देहविषौषधिसर्वपायुते- [ पञ्चदशः- इति विश्वः । पतता गणैः पक्षिसमूहः । 'पतत्पत्ररथाण्डजाः' इत्यमरः । सार्धमचिरात्पिबतु । अबैवाहमेनं इनिष्यामीत्यर्थः । अत्रापि अमर्ष एवेति भावः ।। ६६॥ अभिधाय लक्षमिति मा स्म गम इति पृथासुतेरिताम् ॥ वाचमनुनयपरां स ततः सहसाऽवकर्ण्य निरियाय संसदः॥ ६७ ॥ अभिधायेति ॥ ततोऽनन्तरं स चैधः संसदः सभायाः सहसा वेगेन निरियाय निरगमत् । किं कृत्वा इति पूर्वोक्तप्रकारेण रूक्ष कर्णकर्कशम् अभिधाय उक्त्वा, पुनः कि कृत्वा इति एवंविधां पृथाउतेरितां कुन्तीपुत्रेण युधिष्टिरेणोक्ताम् अनुनयपरां वाचं वाणीम् अवकये श्रुत्वा अवगम्य । इतीति किं हे राजन् ! हे वैद्य ! इति रूक्षं कठोरम् उक्तवा मा स्म गमः मा याहि ॥६७ ॥ अभिधायति ॥ स चैद्य इत्तीत्थं रूक्षं परुषमभिधाय ततः पृथासुतः पार्थैरीरितामुक्कामनुनयपरा 'मा स्म गमो न गच्छेति वाचम् । 'स्मोत्तरे लक्च' इति चकारागमेरानिषि लुडि 'पुषादि-' इति च्लरेम- दश:, 'न माङयोगे' इत्यडभावः । अवकर्ण्य अनादरण श्रुत्वा सहसा संसदः सदसो निरियाय निर्ययो । अर्मषोदेवेति भावः ॥ ६ ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ॥ क्षान्तिसहित(१)मनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥६८॥ गृहमिति ॥ पाण्डवाः पाण्डोः पुत्राः जननीस्वसः मातृभगिन्याः श्रुतश्रवसः आत्मजाय पुत्राय मातृप्वस्नीयाय शिशुपालाय कथमपि केनापि प्रकारेण न न चुक्रुधुः । क्रोधकारणे सत्यपि कथमपि न क्रुद्धा इत्यर्थः । किंलक्षणाय चैद्याय गृह- मागताय गेहं प्राप्ताय । गृहमागतोऽतिथिः, जननीस्वसुः सतश्चाऽवश्यमवध्य इति भावः । कया न चुकुपुरित्याह-कृपया च अनुकम्पया च । अस्मिन् हते मातृष्वसा दुःखिनी स्यादिति भावः । किलक्षणाः पाण्डवाः निसर्गदक्षिणाः स्वभावप्रियंवदाः, अपरं किंलक्षणाः पाण्डवाः शान्तिसहितमनसः क्षमाधिष्ठितचित्ताश्च । इति कारणपञ्चकस्य भावः । महितं पूजितम् । जननीस्वसरात्मजायेति च-शूरसेनयादवस्य हि द्वे दुहितरौ, कुन्ती सात्वती चेति॥ गृहमिति ॥ निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसम्पन्नाः। परच्छन्दानुवार्तन इत्यर्थः। 'त्रिषु वाक्कुशला- वामपरच्छन्दानुवर्तिषु । दक्षिणा' इति वैजयन्ती । किञ्च क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किञ्च गृहमागताय, अभ्यागतायेत्यर्थः । किञ्च जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपान्यर्थः । न चुकुपुः न चुक्रुधुः । सद्यो वध्यस्यापि तस्या- भ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वादाक्षिण्यात्कृपया च कथमपि जिघांसा न चरित्यर्थः । 'कुधदह-' इत्यादिना सम्प्रदानत्वाचतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच परिकरः काव्य- लिने सति सापेक्षत्वात्सवीर्यते ॥ ६८ ॥ चलितं ततोऽनभिहितेच्छ(२)मवनिपतियज्ञभूमितः ॥ तूर्णमथ ययुमिवाऽनुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥ चलितमिति ॥ अथाऽनन्तरम् अवनीशसूनवो भूपालपुत्रा राजानः दमघोषसून चैद्यं तूर्णम् अनुययुः पश्चाजग्मुः । किलक्षणं चैधं ततस्तस्याः अवनिपतियज्ञभूमितः सका- शात् अवनिपतेः युधिष्ठिरस्य य: यज्ञोऽध्वरः तस्य भूमितः भूमेः सकाशात् चलितं (१) महित। (२)०हतेच्छ।

सर्गः ।। शिशुपालवधे। .. प्रस्थितम्, अपरं किलक्षणम् अनभिहतेच्छमकथिताऽभिलाषम् । कमिवाऽनुययुरित्याह- ययुमिव अश्वमेधीयाश्वमिव । यथा यज्ञभूमितः चलितं ययु राजपुत्रा अनुयान्ति तद्वत् । अश्वमेधे हि चिकीर्षति सति अश्व आदौ भ्राम्यति ॥ ६९ ॥ चलितमिति॥ अथ चैद्यनिर्याणानन्तरम् अवनीशसूनवस्तत्पक्षराजपुत्रा: ततस्तस्या: अवनिपतेयुधिष्ठिर- स्य यज्ञभूमितो यज्ञभूमेदेवयजनात् । पञ्चम्यास्तासिल । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चालेत पस्थितं दमघोषसूनुं शिशुपालम् , याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोश्वः । 'ययुरश्यो- ऽश्वमेधीयः' इत्यमरः । 'यो च' इति यातेरौणादिक उक् द्वित्वं च । तं ययुमिव तूर्णमनुययुः । ययुरापे राजकैः राजपुत्रैरन्दीयते । 'चतुःशता रक्षन्ति' इति श्रुतेः । अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत- इत्यलद्वारेण वस्तुध्वनिः ॥ ६९ ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ॥ द्रष्टुमलघुरभसाऽऽपतिता वनिताश्चकार न सकामचेतसः ॥ ७ ॥ विशिखान्तराणीति ॥ स चैद्यः वनिताः स्त्रियः सकामचेतसः सम्पन्नमनोरथाः न चकार न विदधे । किंभूता योषितः अलघरभसेन महतोत्सुक्येन द्रष्टुमीक्षितुम् आ. पतिताः आगताः । यतः कारणात् स चैद्यः सपदि तत्क्षणमेव जवनैः अंधिकजवैः वाजिभि. स्थैः विशिखान्तराणि रथ्यान्तराणि अतिपपात अतिचक्राम । त्वरया गमनेन तासां तस्य दर्शनन निष्पन्नमित्यर्थः। एकस्या विशिखायाः अन्या विशिखाः विशिखान्तराणि ॥७॥ विशिखान्तराणीति ॥ स चैयः सपदि जवनवैगशालिभिजिभिरश्वविशिखान्तराणि रथ्यान्त- राणि । 'रथ्या प्रतोली विशिखा' इत्यमरः । अतिपपात अनिचक्राम । अत एव द्रष्टुमलघुरभसेनाऽतिवेगेना- पतिता आधावन्तीवनिताःसकामानि साभिलाषाणि चेतासि चित्तवृत्तयो यासा ता: सकामचेतप्तः। सफल. मनोरथा इत्यर्थः । न चकार । अतिशीघ्रलकनात्र दर्शनावकाशस्तासामासीदित्यर्थः । अत व वाक्यार्थ- हेतुकं काव्यलिङ्गम् ।। ७० ॥ क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ॥ प्राप्य शिबिरमविशङ्किमनाः समनीनहद् द्रुतमनीकिनीमसौ ॥ ७१ ॥ क्षणमिति ॥ अथाऽन्तरम् असौ वैद्यः शिबिरं प्राप्य स्कन्धावारमवाप्य अविशङिमनाः निर्भयचित्तः सन् द्रुतं तूर्णम् अनीकिनी समनीनहत सेनां सन्नाहयामास । किंलक्षणः सः जनेन सर्वलोकेन पाथि मार्गे क्षणं क्षणमात्रम् ईक्षितः दृष्टः, किंलक्षणेन जनेन मिथः पर- स्परम् इति जल्पता इति वदता, इतीति किं-किमिदमिति किमेतदिति ॥ १ ॥ क्षणामिति ॥ असा चैयः पथि किमिदमिति मिथः जल्पता 'कोऽयमनर्थः संवृत्त' इति परस्परमाल- पता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याऽविशाङ्कमना निःशङ्कचित्तः दुतं शीघ्रमनीकिनी सेना समनीनहन्संनाहयति स्म । नपतेः सम्पूर्वकाल्लुङ णौ चङ्युपधाया ह्रस्वः, अभ्यासदीर्घश्च । शिबिरं शकट- मिति कोचत । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम् ॥ १ ॥ त्वरमाणशालिकसवेगवदनपवनाऽभिपूरितः ॥ शैलकटकतटभिन्नरवः प्रणनाद सानहनिकोऽस्य वारिजः ॥ ७२ ॥ त्वरमाणेति ॥ अस्य वैद्यस्य सान्नहनिकः सन्त्रहनार्थो वारिजः शङ्खः प्रणनाद दध्वान । सैनिकान् सन्नाहयितुं शोध्मायत इत्यर्थः। किलक्षणो वारिजः त्वरमाणशाखिक- सवेगवदनपवनाऽभिपूरितः त्वरमाणेन व्यग्रेण शालिकेन शङ्खध्मा शङ्कवादकेन काम्बविकेन - सन्देहविषौषधिसर्वश्षायुते- .५५८ - [पञ्चदशः- इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथञ्चन कृच्छ्रादशकच्छशाक। शकेर्लुडि 'पुषादि-' इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदुरारोपत्वहेतुत्वाच्च काव्य- लिङ्ग-व्यं तत्सापेक्षत्वात्सवीर्यते ॥ ७० ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ॥ तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ ७८ ॥ परितश्चेति ॥ श्रियो लक्ष्म्याः आत्मजाः पुत्राः अश्वाः पृथिवीं भूमि परितः समन्तात् तेनुः व्यापुः । 'श्रियः किलाऽश्वा जाताः, सामभ्य एव गजा' इत्यागमः । कि- लक्षणाः श्रिय आत्मजाः धौतमुखरुक्मविलसदहिमांशुमण्डलाः धौतं वर्णितं यन्मुख- रुक्म मुखत्राणकवचं तत्र विलसत् स्फुरत् अहिमांशुमण्डलं श्रीसूर्यबिम्ब येषां ते तथा । अपरं किलक्षणाः श्रिय आत्मजाः, अतश्चोत्प्रेक्ष्यन्ते-स्फुटलक्ष्यतेजस इव स्फुटलक्ष्य प्रकटदृश्यं तेजः स्फुरितं येषां ते तथा । तेज इवोल्ललासेत्यर्थः । अपरं किलक्षणा अद्याः अतनुवपुषः महाकायाः ॥ ७८ ॥ परितश्चेति ॥ किञ्चेति चार्थः । धौतेषु शोधितेषु मुखरुक्मेषु मुखस्य रुक्माभरणेषु विलसत् प्रत्येकं प्रति- फलदहिमांशुमण्डलमर्कबिम्बं येषा ते तथोक्ताः । अत एव स्फुटलक्ष्यमन्तर्गत्वा बहिः स्फुरितं तेजोऽन्तः- सारो येषां ते हव स्थिता इन्युत्प्रेक्षा । तेजो व्याख्यानं पञ्चमे 'तेजोनिरोधे'त्यत्र । अतनुवपुषो महाकाया: श्रिय आत्मजा अश्वाः । 'लक्ष्मीपुत्रोऽश्व आट्ये च' इति वैजयन्ती । परितः पृथिवीं तेनुाप्तवन्तः ॥८॥ प्रधिमण्डलाद्धतपरागधनवलयमध्यवर्तिनः ॥ पेतुरशनय इवाऽशनकैगुरुनिस्वनव्यथितजन्तवो रथाः॥ ७९ ॥ प्रधीति ॥ रथाः स्यन्दनाः अशनकैर्जवेन पेतुः निर्ययुः । किंलक्षणाः रथाः प्रधि- मण्डलोद्धतपरागघनवलयमध्यवर्तिनः प्रधिमण्डलेन नेमिमण्डलेन उद्धतः क्षुभितः यः परागो रेणुः तस्य यत् धनं वलयं संहतं पटलं स एव वा घनवलयम् अभ्रवृन्दं तस्य मध्यवर्तिनः अन्तराले वर्तमानाः, अपरं किलक्षणाः स्थाः गुरुनिःस्वनव्यथितजन्तवः बृहच्चीत्कार- पीडितसत्त्वाः । अपरं किंलक्षणा रथाः, उत्प्रेक्ष्यन्ते-अशनय इव वज्रा इव । तेऽपि घनवल- यस्था भवन्ति, गुरुगर्जितव्यथितजन्तवश्च । यदि वा अशनय इव पेतुः, अनिमित्तसूक्काः अशनयोऽपि पेतुरित्यौपम्यम् ॥ ७९ ॥ प्रधीति ॥ 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः। प्राधिमण्डलैमिवलयैरुद्धता उत्थापिताः परागाः पोसव एव घना मेघास्तेषां वलयानि मण्डलानि तेषां मध्यवर्तिनः गुरुमिनिःस्वनैः स्वघोषैर्व्यथिता भीषिता जन्तवः प्राणिनो यैस्ते रथा अशनयः वजा इवाशनकैः पेतुस्त बमधावन् । अत्र स्थानामशनिवेनोत्प्रेक्षा परागाणां घनत्वरूपणसापेक्षेति सदूरः ॥ ७९ ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ॥ चक्ररथ सह पुरन्ध्रिजनरयथार्थसिद्धि सरकं महीभृतः ॥ ८ ॥ दधत इति ॥ अथाऽनन्तरं महीभृतः राजानः पुरन्ध्रीजनैः सह स्त्रीजनैः सार्धम् अयथार्थसिद्धि चक्रुः किल । सरन्ति अस्मिन् इति सरकम् , इति निर्वचनम् । किंलक्षणा महीभृतः वपुर्दधतः शरीरं धारयन्तः, किलक्षणं वपुः शशाङ्कितशशाङ्करुचि शशेन हरिणेन अडितस्य चिह्नितस्य शशाङस्य शशिनश्चन्द्रस्येव रुचिः कान्तिर्यस्य तत्तथा, अपरं किलक्षणं वपुः लसदुरश्छदं द्योतमानकवचम् ॥ ८० ॥ ..

सर्गः।] शिशुपालवधे। । - दधत इति ।। लसन्नुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । 'उरश्छदः कटकोऽजगरः कवचो- ऽस्मियाम् ' इत्यमरः । अत एव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्यु- पमा। तहपुर्दधतो दधानाः महीभृतो राजानः पुरन्धिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिमंद- कार्योत्पनियस्मिंस्तयथार्थसिद्धिरहितम् । अनिवृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः। उत्साहवर्धनार्थमिति भावः । मणौ शीधी शीधुपाने सरकं मधुभाजनम्' इति वैजयन्ती ॥ ८० ॥ तदेव अयथार्थमाह- दयिताय साऽऽसवमुदस्तमपतदवसादिनः करात् ॥ कांस्यमुपहितसरोजपतभ्रमरौघभारगुरु राजयोषितः ॥ १ ॥ दयितायेति ॥ कस्याश्चित् राजयोषितः नृपाङ्गनायाः करात् पाणेः कांस्यं चषकम् अपतत् पानपात्रं पपात। किंलक्षणात् करात् अवसादिनः अवसन्नादलसात् ,किंलक्षणं कांस्यं दयिताय कान्ताय साऽऽसवं समदिरं समधु उदस्तम् अर्पणायोत्क्षिप्तम् , अपरं किंभृतं कां- स्यम् उपहितसरोजपतद्भमरौधभारगुरु उपहितमुपक्षिप्तं यत्सरोजमुत्पलं तत्र पतता गच्छ- ता भ्रमरौघेण भ्रमरसमूहन यः भारः तेन गुरु दुर्वहम् , उत्प्रेक्ष्यते-(विनापि विप्रयोगं प्रयु- न्यते ?) भ्रमरभरगौरवादिव पपातेत्यर्थः । कांस्यं पानभाण्डम् ॥ ८१ ॥ अथाऽऽसर्गसमातेः प्रायाणिकामन्त्रणाय प्रियामङ्गतानां भटानामागाभिशुचः सूचिकास्तात्कालिकचेष्टा वर्णयति- दयितायेति ॥ दयिताय प्रेयसे उदस्तं पानार्थमुक्षिप्तं सासवं समयम् अत एवोपहिते वासनार्थ निहिते सरोजे पतन् भ्रमरोघ एव भारस्तेन गुरु दुर्भरम् । 'गुरुस्तु वाक्पती श्रेष्ठ तुङ्गे पितरि दुर्भरे' इति शब्दा र्णवे । कास्यं पानभाजनम् । 'कसोऽस्त्री पानभाजनम् ' इत्यमरः । 'वृतृवदिहनिकमिकषिम्यः सः' इति क मेर्धातोरोणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहविशेषः। 'प्रावक्रीताच्छ:' इति छप्रत्ययः । तस्य विकारः कांस्य पानपात्रम् । 'कसीयपरशव्ययोयत्री लुक्च' इति यत्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः सम्बन्धिनः अवसादिनः शथिल्यभाजः करादपतत् । नच दुनिमित्तमिति भावः । एते- नाऽस्या भाविविरहशोकादेवाऽप्रसन्नदृष्टः काचिच्चिन्ता व्यज्यते । अत्राऽवसादभारगौरवयोर्विशेषणगत्या पाषपातहेतुत्वात्काव्यलिङ्गम् ॥ ८ ॥ भृशमङ्गसादमरुणत्वमविशददशः कपोलयोः ॥ वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ ८२॥ भृशमिति ॥ कस्याश्चिदविशदशः अलसाक्ष्याः शुचः शोकाः मर्द क्षीबत्वम् अपास्य त्यक्त्वा तदीयगुणं मदगुणम् आत्मना स्वयमेव विदधुः चक्रुः । कं तद्गुणमित्याह- भृशमत्यर्थमङ्गसाद शरीरालस्य, कपोलयोर्गल्लयोः अरुणत्वं लौहित्यम् , असकलं वाक्य- मधोक्तं वचः । दशः अविशदत्वमविकासः । एतानि हि मदेनाऽपि भवन्ति ॥ ८२ ॥ भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः आविशददृशः शोकादेवाऽप्रसन्नदृष्टेः । कस्याश्चि- दिति शेषः । मदमपास्य तदुत्पत्ति प्रतिरुध्य तदीयं गुणं तद्धर्मम् । मदकार्यभूतमित्यर्थः। अङ्गसादमङ्ग- शैथिल्यं कपोलयोररुणत्वमसकलमसमाप्तं वाक्यं चात्मना स्वयम् । प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । भृशं विदधुः। करुणेन शृङ्गारस्तिरस्कृत इत्यर्थः । अत्र मदाभावेऽपि तत्कार्योदयात्तस्यावलोकननिमित्तकत्वो- क्या उकनिमित्ताख्यो विभावनाभेदः ॥ ८२ ॥ सुदशः समीकगमनाय युवभिरथ सम्बभाषिरे । शोकपिहितगलरुद्धगिरस्तरसाऽऽगताश्रुजलकेवलोत्तराः ॥ ८३ ॥ ।

५६०
सन्देहविषौषधिसर्वकषायुते-
[पञ्चदशः-
।
तरसा
.
सुदृश इति ॥ अथाऽनन्तरं युवभिस्तरुणैः समीकगमनाय सङ्ग्रामाऽवतरणाय
सुदृशो युवतयः सम्बभाषिरे सम्भाषिताः । एते वयं याम' इति आपृष्टा इत्यर्थः । किं-
लक्षणा युवतयः शोकपिहितगलरुद्धगिरः शोकपिहिते दुःखसंवृते गले कण्ठे रुद्धाः प्रतिहता
गिरो वाचो यासां तास्तथा, अपरं किलक्षणा युवतयः
वेगेन आगताऽश्रुजलकेवलो-
त्तराः आगताऽश्रुजलमेव केवलम् उत्तरं प्रतिवचनं यासां तास्तथा। विरहभयात् रुरुदु-
रिति भावः । अश्रुकथनम् (?) ॥ ८३ ॥
सुदृश इति ॥ अथाऽस्मिनक्सरे युवभिः समीकगमनाय युद्धगमनाय । 'समीकं साम्परायिकम्' इत्यमरः।
मुदृशः शोकपिहिते शोकावृते गले कण्ठे रुगिरः प्रतिबद्धोत्तरवाचस्तथापि तरसा वेगेनाऽऽगत.
मश्रुजलमेव केवलं नितमुत्तरं यासां ताः । 'निर्णीनं केवलं चोक्तम्' इति विश्वः । सबभाषिरे सम्भाषिताः।
योद्धं गच्छामेत्यामन्त्रिताः । 'हा कष्टमिदमेवान्तिमदर्शन मिति वाक्यभेदेऽप्यश्रुपातेनैवाऽनक्षरं दत्तोत्तराश्चास-
नित्यर्थः । अत्राप्यश्रुपातो दुनिमित्तमिति भावः । एतेन गन्तव्यं चद्गम्यता, वयं च युष्मत्सालोक्यकामा-
इत्यनिष्टविध्याभासरूपाक्षेपालङ्कारी व्यज्यते। 'अनिष्टविध्याभासवति सूत्रणेष्टनिषेधाभासवदस्यापि लक्षणात् ।।
विपुलाऽचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियः ।।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसाऽऽलिलिङ्गिरे ॥ ८४ ॥
विपुलाऽचलेति ॥ जिगमिपुभिः यियासुभिः प्रियैः कान्तैः अङ्गना योषितः उरसा
वक्षसा आलिलिगिरे आश्लिष्टाः । कथं यथा भवति पीनकुचतटनिपीडदलदरवारबार्ण
यथा स्यात्तथा पीनौ मांसलौ यो कुचतटौ तयोस्ताभ्यां वा यो निपीडः पीडनं तेन दलत्
त्रुट्यत् यत् वरं नूतनं वारबाणं स्तनावरणं सन्नाहो वा यत्र तद्यथा स्यात्तथा, किंलक्षणेन
उरसा विपुलाऽचलस्थलघनेन विस्तीर्णनगकटकनिबिडेन ॥ ८४ ॥
विपुलाऽचलेति ॥ जिग मषुभिर्युद्धाय गन्तुमिच्छभिः प्रियः कर्तृभिः अङ्गनाः विपुलं यदचलस्य
स्थलं तद्वद्धनेन दृढेनोरमा निजवक्षसा करणेन पीने कुचलटे निपीडो नितरां पीडनं तेन दलन्तो विदीर्य-
माणा वराः श्रेष्ठा वारबाणाः कञ्चुका यस्मिन्कमणि तयथा तथा । 'कञ्चुको वारबाणोनी' इत्यमरः ।
आलिलिङ्गिरे आलिङ्गिताः । अत्र वारबाणाना दलनासम्बन्धपि तत्सम्बन्धोतरतिशयोक्तिः ॥ ८४ ॥
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ॥
यातमवनिमवसनभुजान्न गलद्विवेद वलयं विलासिनी ॥ ८५॥
नेति ॥ काचिद्विलासिनी ललना लोचनजलानि नयनवारीणि न मुमोच न तत्याज ।
किंलक्षणा विलासिनी दयितजयमङ्गलैषिणी दयितस्य कान्तस्य जये मङ्गलमिच्छतीत्येवं-
शीला । सा वनिता मुग्धा अवसन्नभुजात् खिन्नहस्तात् गलत् भ्रश्यत् वलयं कङ्कणम् अवनि
यातं भूमौ पतितं न विवेद नाऽज्ञासीत् । मङ्गलभङ्गभीरुत्वात् किञ्चित् असौ न रोदिति ।
वलयपातान्महदशकुनम् ॥ ८५ ॥
नोति ॥ दयितस्य जयमङ्गलं, तदर्थमझलमित्यर्थः। अश्वघासादिवत्तदर्थे षष्ठीसमासः । तदिच्छत्तीति
तदेषिणी विलासिनी काचिदङ्गना लोचनजलान्यणि न मुमोच । अश्रुपातस्याऽमङ्गलत्वादिति
भावः । अमङ्गलं तदन्यतः प्रवृत्तमवेत्याह-यातमिति । अवमन्त्रभुजाच्छोकशिथिलात्करावलद्रश्यदेवापनि
भुवं यातं प्राप्त वलयं कङ्कणं न विवेद । अवश्यभाविना को निधारक इमि भावः । एषा च दैन्यचिन्तेति ।
अत्राऽवसादस्य विशेषणगत्या वलयपातहेतुत्वाकाव्यलिङ्गम् ॥ ५ ॥
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ॥
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी॥ ८६ ॥

सर्गः।] शिशुपालवधे। ५६१ प्रविवत्सत इति ॥ काचिदचिरोढसन्दरी नवपरिणीतवधूः प्रविवत्सतः प्रियतमस्य जिगमिषोः कान्तस्य प्रतिपादयुग्मं चरणयुगलाभिमुखं चक्षुः अक्षिपत् नेत्रं पातयामास । किंलक्षणं चक्षुः नीलनलिनदलदामरुचि असितोत्पलकिसलयनक्कान्ति । अपरं किलक्षणं चक्षः, उत्प्रेक्ष्यते-निगडमिव गमननिषेधार्थ बन्धनदामेव ॥ ८६ ॥ प्रविवत्सत इति ॥ अचिरोढसुन्दरी काचित्रघोढा स्त्री प्राविवत्सतः प्रवास कर्तुमिच्छतः । वसे सत्रन्ता- ल्लटः शत्रादेशः । प्रियतमस्य प्रतिपादयुग्मं पादयुग्मे । विभक्त्यर्थेऽव्ययीभावः । नीलनलिनदलदामरुचि नीलोत्पलमालासच्छायमित्युपमा । निगडमिव शङ्खलामिव चक्षुर्नेप्रमक्षिपत् । प्रेरयदित्यर्थः । चक्षुषो दूरे पदमपि गन्तुं न शशाकेत्यर्थः। तच्च दुनिमित्तमिति भावः । प्रयाणे व्यवलोकननिषेधात् । उकोपमा- सापेक्षा चक्षुषो निगडत्वात्प्रेक्षेति सङ्करः ॥ ८६ ॥ बजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ॥ धैर्यमभिनदुदितं शिशुना जननीनिभर्सनविवृद्धमन्युना ॥ ८७ ॥ बजत इति ॥ कस्यचित् सभटस्य व्रजतः सङ्ग्रामाय गच्छतः सतः शिशुना बाल- केन उदितमुक्तं वाक्यं धैर्यमभिनत् सत्त्वं नुनोद । किमुक्तमित्याह-किलक्षणमुक्तम् अस्फुटं श्लिष्टवर्णम् अपटु, रेफहीनत्वादस्फुटम् । ननु यदि अस्फुटं, तत्कथं गृहीतार्थ- मित्याह-अपरं किंलक्षणमुदितं परिचयगतार्थ परिचयेन संस्तवक्शेन गतार्थ ज्ञाता- भिधेयम् । तादृशी ज्ञा तैस्तस्य गृहीतेत्यर्थः । किंलक्षणेन शिशुना जननीनिर्भत्सनविवृद्ध मन्युना जननीनिभर्त्सनेन मातृविहितधिक्करणेन विवृद्धिं गतो मन्युः कोपो यस्य सः तथा तेन । इति किमुदितमित्याह-हे तात ! हे पितः ! त्वं क वजसीति । स हि शिशुः पश्चात् शब्दयन् अमङ्गलत्वात् मात्रा तजित इत्यर्थः ॥ ८७ ॥ व्रजत इति ॥ जनन्याः अपशकुनभीतायाः मातुनिभर्सनाद्विवृद्धमन्युना प्रवृद्धकोपेन शिशुना बाल- केन हे तात ! जनक ! 'तातस्तु जनकः पिता' इत्यमरः । क्व बजासि कुत्र व्रजसि इत्यस्फुटमुदितमुक्तम् । वदेः कर्मणि कः । 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । वजसीति सरेफपदमपाटवादरेफमुच्चारित- मित्यर्थः । तथापि परिचयादभ्यासपाटवागतार्थम् । पितृभ्या केवलावगताभिधेयं पचनमिति शेषः । बजतः प्रस्थातुः धैर्य प्रयाणोत्साहमभिनत् । गमनकारिणो दुनिमित्तत्वादिति भावः । उक्तं च योगयात्रायाम्- 'यानात्पुरा निपतनं बृहनीय काचिद्रर्मेण भारवृहती स्वपुरःस्थिता स्त्री । आगच्छ तिष्ठ कुत इत्यलमर्थवाचिशब्दाश्च राजगमने प्रतिषषकाः स्युः ॥ इति । अत्र दम्पत्योन्यविषादचिन्ताशङ्कादयः सञ्चारणोऽनुसन्धवाः ॥ ८ ॥ शठ! नाकलोकललनाभिरविरतरसं(१)रिरंससे ॥ तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीग्रंयाऽपरा ॥ ८८ ॥ शठेति ॥ अपरा अन्या काचित्कामिनी रणरागिणं समररसिकं रमणं वल्लभम् ईर्ष्णया मत्सरेण इति इत्थम् अवदत् अब्रवीत् । इतीति किं हे शठ ! हे धूर्त ! त्वं नाकलोक- ललनाभिः दिव्यस्त्रीभिः अविरतरसं निरन्तररागं यथा भवति तथा रिरससे निर्विविक्षसि(२), त्वं तेन हेतुना मुदं वहसि हर्ष दधासि । अविरतोऽतिगाढो रसो रागो यत्र तद्यथा ॥८॥ शति ॥ अपरात्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ ! वचक ! नाकलोकललनाभिः अप्सरोभिः सहेत्यर्थः । 'सहयुक्त प्रधाने' इति सहार्थे तृतीया । 'वृद्धो यूने'तिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः मन्नन्ताल्लट्। पूर्ववत्सनः' इत्यात्मनेपदम् । तेनाऽप्सरोरिरंसा- (१)रत। (२) विधेविषसि-इति पुस्तके । .. । ..

५६२ सन्देहविषौषधिसर्वकषायुते- [पञ्चदशः- करणेन मुदं वहसीति ईय॑या सापल्याऽअमया अवदत् । अर्थाद्विरहाउसहनया प्रस्थानप्रतिषेधपरया व्याहृत- मिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईर्ष्याऽत्र कण्ठोक एव सञ्चारी ॥ ८८ ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रवः ॥ स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ ८ ॥ ध्रियमाणमिति ॥ कस्याश्चिन्नतभ्रवः कुटिलभ्रवः नायिकायाः दयिते कान्ते चलति सति ब्रजति सति ध्रियमाणमपि निरुध्यमानमपि अश्रु अगलत् बाष्पं पपात । ननु प्रस्थाने अश्रुजलममङ्गलं, तत् कथमसौ अरुददित्याह-अतिमुग्धचेतसां मृदुहृदयानाम् अकृतकरसमकृत्रिमादरं प्रेम दधतां स्नेहं वहमानानाम् इदमेव युक्तमेतदेव साम्प्रतं यत रोदनम् । यः किल आचारवान्, सः कृत्रिमं व्यवहारं दर्शयति । परमार्थतस्तु स्निग्धस्य प्रिये धार्यमाणमपि अश्रु पतत्येव, किमत्र क्रियते । न ह्येतद् दूष्यतास्थानम् । रसो रागः ॥ ८९॥ ध्रियमाणामति ॥ दयिते चलति प्रतिष्ठमाने सांत नतभ्रवः वध्वाः अश्रु ध्रियमाणममङ्गलभिया धार्य- माणमपि । धरतेः कणि लटः शानजादेशः। अगलदस्त्रात् । शोकातिरेकाद्धारयितुमशक्यमासीदित्यर्थः । तथा हि-अकृतकरसमकृत्रिमरागे स्नेहं प्रेम दधताम् अत एव अतिमुग्धचेतसामन्यन्ताऽकपटबुद्धीनामिदमेवा- ऽसंघरणं युनम् । अन्यथा स्नेहव्याघातेन तत्कालविरुद्धमोचनं नाऽनुचितमिति भावः। रसस्नेहयो रागप्रेमा- परनाम्नारवस्थाभेदागदः । 'रागस्तत्सम्बन्धि प्रेम तद्वियोगासहिष्णुता इति रससागरे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।। ८९ ॥ सह कजलेन विरराज नयनकमलाम्बुसन्ततिः ॥ गण्डफलकमभितः सुतनीः पदवीव शोकमयकृष्णवर्त्मनः ॥ २० ॥ सहेति ॥ कस्याश्चित् सुतनोः तन्व्याः गण्डफलकमभितः कपोलयोः संमुखं कज्जलेन सह अअनेन सार्ध नयनकमलाम्बुसन्ततिः साजनो नेत्राम्बुपूरः विरराज बभौ । किलक्षणा- ऽम्बुसन्ततिः, उत्प्रेक्ष्यते-शोकमयस्य कृष्णवर्त्मनः पदवी इव दुःखाग्नेः पद्धतिरिव ॥९॥ सहति ॥ सुतनोः शुभाङ्गयाः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । 'अभितः परितः-' इत्या- दिना द्वितीया । नयनकमलाम्बुसन्ततिरश्रुधारा कज्जलनाऽञ्जनेन मह शोक एवं शोकमयस्तस्य कृष्ण- वर्त्मनः शोकाग्नेः पदवी निःसरणमार्ग इव विरराज शुशुभे । येन वर्मनाऽग्निर्गच्छति तत्कृष्ण भवतीति कृष्णवां । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः ॥ ९० ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रवः ॥ स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षिपदिवो(१,पशुश्रवे ॥ ११ ॥ क्षणेति ॥ केनचित् मुभटेन नतध्रुवः कुटिलभृकुटेः अङ्गनायाः स्रस्तभुजयुगगल- द्वलयस्वनितमुपशुश्रुवे सस्ते भुजयुगे बाहुद्वये गलतां चलतां वलयानां कङ्कणानां स्वनित रणत्कारः उपशुश्रुवे आकर्णितम् । किंभूतेन भटेन कतिपयपदं पञ्चषट्पदं चलितेन प्रस्थितेन, किलक्षणं स्वनित क्षणमात्ररोधि, क्रियाविशेषणं वा, क्षणं निवृत्य अत्रौषीदित्यर्थः। अपर किंलक्षणं स्वनितम्, उत्प्रेक्ष्यते-प्रतिक्षिपदिव इत्थं दुःखितायाः कान्तायाः 'मूर्ख! यासी ति वारणार्थ निर्भर्त्सयदिव । प्रतिक्षुतमिवेति पाठे-यथा कस्यचित् प्रतिक्षुतं संमुखे छिक्का उपश्रूयते । तदपि चलतः क्षणमात्ररोधि भवति ॥ ९१ ॥ (१) प्रतिक्षुतमियो । .. .. !

मर्गः।] शिशुपालवधे । ५६३ । .. क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातायेकवचनम् । कतिचित्पदानीत्यर्थः । पदशब्दस्य तदव. च्छिन्नदेशचित्वादत्यन्तमयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः। क्षणमाघरोधि क्षण- मात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिक स्थातुमनौचित्यादिति भावः । नतभ्रुवः स्रस्ताना- मनसादेन झटिति प्रकोष्ठाने पतिताना भुजयुगगललयाना हस्तव्यचलत्कङ्कणानां स्वनितं रणत्कार प्रति प्रतिमुखं क्षुतामियोपशुश्रुवे उपश्रुतम् । 'मी क्षुन्भुतं सव. पुंसि' इत्यमरः । रणात्कारे क्षुतभ्रान्त्या निवृत्तम् । माण मात्र स्थितामत्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलङ्कारः । दैन्यविषादाख्याः सञ्चारिणः ॥९१॥ अनुवर्त्म(१)वल्लभतमस्य विगलदमलायतांशुकम् ॥ भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ ९२ ॥ अनुवत्मेति ॥ काचन कान्ता वल्लभतमस्य अतिप्रियस्य कान्तस्य अनुवर्ती पथः पश्चात् भूमिनभसि भूवियति रभसेन यती वेगेन गच्छन्ती सती विरराज शुशुभे । किमे- काकिन्येव यती, नेत्याह-कया समं महोल्कया सह । अनिष्टसूचिका महोल्का । सापि तस्य पश्चादू ब्रजन्ती भूमिनभसि रेजे । इति सहोक्तिः। कथं यथा भवति तथा यतीत्याह- विगलदमलायतांशुक विगलत् सम्भभवशात् भ्रश्यत् अमलमुज्ज्वलम् : आयतं दीर्घम् अंशुकमुत्तरीयवसन तद्यथा भवति यत्र क्रियायाम्, इत्येतदमङ्गलसूचकं विशेषणम् । उल्कापि विगलन्तः प्रसरन्तोऽमला निर्मला आयता दीर्धा अंशवस्तेजांसि यस्याः सा विगलदमलायतांशुः, ततः स्वाथें कः प्रत्ययः, अमलांशुरेव अमलांशुका ॥ १२ ॥ अभिवर्मेति ॥वल्लभतमस्य प्रियतमस्याऽभिवाऽभिमार्ग विगलदङ्गासादात्त्रंसमान ममलमायतं चांऽशुकं वलं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्ज्वला: आयता दीघीभूता अंशवो रश्मयो यस्याः सा । शैषिकः कप्रत्ययः। भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती। इणः शतरि 'उगितच' इति ङीप् । काचनाऽङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरने स्वकान्ताया महोल्कासादृश्यभवनमेव दुनिमित्तमिति भावः । उपमालङ्कारः ॥ ९२ ॥ समरात्सुके(२) नृपगणेऽपि तदनुसरणोद्यतैकधीः ॥ दीनपरिजनकृताश्रजलो न भटीजनः स्थिरमना विचक्लवे(३) ॥९३ ॥ समरोस्सुके इति ॥ भटीजनः सुभटाङ्गनावर्गः न विचक्लवे विक्लवतां न ययौ। किं. लक्षणोभटीजनः स्थिरमनाः दृढचित्तः, अपरं किंलक्षणः दीनपरिजनकृताऽश्रुजल: दीनसखी- जनादिकृतरोदनः, क्व सति न विचक्लवे नृपगणे समरोत्सुकेऽपि सति राजसमूहे सङ्ग्रामो- यतेऽपि सति । तहि कथं न विचक्लवे, कथंभूतः तदनुसरणोयतैकधीः तेषामनुसरणे अनु- गमने काष्ठभक्षारोहणे उद्यता विकस्वरा अचला धीर्बुद्धिर्यस्य सः तथा । अवश्यमेव मया गन्तव्यमिति यदा निश्चयो भवति, तदाः दुखं प्रायेण न बाधते । क्लविः सूत्रधातु तव्यः९३ समरोन्मुखे इति ॥ नृपगणे समरोन्मुखेऽपि तस्य नृपगणस्याऽनुमरणे सहमरणे उघतोयुका अत. एका मुख्या धीर्यस्य मः । दीनेनाप्यशोच्येन परिजनेन कृताश्रुजलो मुक्तबाष्पः । दासीमुक्काश्रुबिन्दु. रित्यर्थः । तथापि स्वयं स्थिरमना अचलितचित्तो भटीजनो भटस्त्रीलोकः । जातावेकवचनम् । 'योगा- दाख्यायाम्' इति की । न विचकमे न तत्रास । सहमृत्युप्रियाणां कुतः संत्रास इति भावः । अत्र मरणो. योगस्य विशेषणगत्या अलैन्यहेतुत्वाकाब्यलिङ्गभेदः ॥ ९३ ॥ विदुषीव दर्शनममुण्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशमा दृशः पथः ॥ ९४॥ (१) आभिवर्म 'याशुका । (२) समरोन्मुखे तदनुमरणो० । (३) विचक्रमे। - ५६४ सन्देहविषौषधिसर्वकषायुते [पञ्चदशः- विदुषीवेति ॥ काचिदङ्गना आ दृशः पथः दृष्टिगोचरं यावत् भृशमत्यर्थ पति वल्लभम् ईक्षते स्म पश्यति स्म । कथं यथा भवति अनिमिषं निमेषरहितं यथा स्यात्, किलक्षणा अङ्गना अतृप्तमना: असन्तुष्टचित्ता, किंलक्षणं पति यान्तं समामाय गच्छ- न्तम् । अनिमिषदर्शने तर्कमाह-अपरं किंलक्षणा अङ्गाना, उत्प्रेक्ष्यते-अमुष्य पत्युदर्शन विलोकनं पुनर्भूयोऽपि अतिदुर्लभमत्यन्तदुष्प्रापं विदुषीव जानतीव । अत एव सादर विलोकित इत्यर्थः ॥ ९४ ॥ विदुषीवति ॥ युवतिः काचिदङ्गना अमुष्य पत्युदर्शनं पुनः पश्चादतिदुर्लभम् । तस्याऽपुनरावृत्तेरिति भावः । विदुषी जानतीवेत्युत्प्रेक्षा । “विदेः शतुर्वसुः' इति वस्वादेशः 'उगितश्च' इति डीप् । आवितृप्तमना- अवितृप्तचित्ता सती यान्तं योदूधुं गच्छन्तं पति भतारम् आ दृशः पथः आ दृष्टिपथात् । दृष्टिपथातिक्रम- पर्यन्तमित्यर्थः। 'आमर्यादाभिविध्योः' इति विकल्पादाडो न समासः। भृशमनिमिषं निभेषरहितं यथा तथा ईक्षते स्म ॥ ९४ ॥ सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ॥ सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रिया(१) ॥१५॥ सम्प्रतीति ॥ कयाचित् भटस्त्रिया सुभटाङ्गनया वीरपत्न्या भर्तुः कान्तस्य सस्नेह सप्रेम यथा भवत्येवम् इति आशीः हितेषणावाक्यम् ईरिता दत्ता नेत्रद्वितयेन नेत्रयोईयेन सद्यो वेगेनैव प्रसह्य बलात्कारेण प्रत्याचचक्षे प्रत्याख्याता निराकृता । द्वाभ्यां किलैको निराक्रियते । नेत्रयोयम् , आशीरेका । किंलक्षणेन नेत्रयोतियेन गलता क्षरता, अश्रूणि मुञ्चतेत्यर्थः । रोदनं हि अमङ्गलम् । काऽसावाशीरित्याह-यत, हे कान्त ! त्वं पुनर्भयोऽपि युधः सङ्ग्रामात् सकाशात् कुशली स्वस्थः सन् सम्प्रति अधुनैव उपेया- आगच्छेरिति ॥ ९५ ॥ सम्प्रतीति ॥ सम्प्रतीदानीमेव कुशली अक्षतः सन युधो युद्धात पुनः उपेयाः प्रत्यावतस्वेति सस्नेह भर्तुरीरेता भर्ने प्रत्युक्ता आशीराशीर्वादः सयः प्रसह्य बलाबलदम्भसा स्रवदश्रुणा तस्या भटानियास्तस्य वध्वा एव । अनीति प्रतिषेधानदीत्वादाडागमः । नेप्रयोतियेन प्रत्याचचक्षे प्रत्याख्याता, निराकृतेत्यर्थः । अमङ्गलेनाऽश्रुपातेन निष्फलीकृतेत्यवश्यं भवितव्यं भवत्ये वेति भावः । 'वा लिटि' इति विकल्पान चक्षिक ख्याआदेशः । अत्राऽश्रुपातस्य नेत्रविशेषणद्वारा आशी:प्रत्याख्याने हेतुत्वाकाव्यलिङ्गभेदः ॥ ९५ ॥ काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्वेन्दुलक्षम्यो निःश्रीका:(२) काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्वाः ।। भ्रेमुर्वात्या इवाऽन्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिव(३)मिति पुरो भावि नार्यः शशंसुः ॥६६॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये पञ्चदशः सर्गः ॥ १५ ॥ काश्चिदिति ॥ नार्यः अङ्गानाः पाथिवानां प्रस्थाने राज्ञां समरावतरणे इति अमुना प्रकारेण पुरोभावि अग्रवर्ति अशिवममङ्गलं शशंसः कथयामासः । तावत्-काश्चिन्नार्यः रजोभिः कीर्णा आर्तवैया॑ताः रजस्वला जाताः । किंलक्षणाः काश्चित् मन्दवक्वेन्दुलक्ष्म्यः नष्टमुखचन्द्रशोभाः,अत एव दिवमनुविदधुः व्योम अनुचक्रुः। यतो चौरपि रजोभिः रेणुभिः (१) भटमियाः। (२) काचित्कीर्णा रजोभिर्दिवमनुविदधे मित्रवक्वेन्दुलक्ष्मीरश्रीकाः । (१) माभः । ।

सर्गः।]: शिशुपालवधे। कीर्णा जाता, अत एव निस्तेजोऽन्दुरभूत् । तथा काश्चिन्नार्यः अन्तर्दाहं दधिरे हृदये सन्तापं दधुः । किंलक्षणाः निःश्रीकाः गतशोभाः, अपरं किंलक्षणा नार्यः उद्दान्त- सत्त्वा: चकितप्राणाः, का इव तापं दधिरे दिश इव । यथा दिशः काष्ठा अन्तर्दाहं दावा- नलं दधिरे। दिक्ष्वपि तदा दावानला जज्वलुरित्यर्थः । किंलक्षणा दिशःनि:श्रीकाः वृक्षादी. नां दग्धत्वात् निलक्ष्मीकाः, अपरं किंलक्षणा दिशः उद्घान्तसत्त्वाः उद्भान्ताः इतस्ततो भ्रमन्तः सत्त्वाः प्राणिनो यासु तास्तथा । तथा अन्या अपरा नार्यः प्रेमुर्धमन्ति स्म, का- इव वात्या इव वातमण्डल्य इव.। तदा वात्या अपि बभ्रमरित्यर्थः । तथा अपरा अन्या नार्यः प्रतिपदं पदेपदे कम्पमापुः कम्पन्ते स्म, किंवत् भूमिवत् भूमितुल्यम् । भूरपि तदा चकम्पे इत्यर्थः । एतानि हि उत्पातलक्षणानि । अथ पुरः पूर्व भावि भविष्यत् अमलं शसंसुरिति योज्यम् । शरीरापचयाऽकुशलद्वारेण अमङ्गलमाचल्युरिति भावः । स्रग्धरा छन्दः ॥ १६ ॥ इति शिशुपालवधे महाकाव्ये वल्लभविरचितायां सन्देहविषौपध्यां सारटीकायाम् अपशकुनाविर्भावो नाम पञ्चदशः सर्गः । .. काचिदिति ॥ काचिनी रजोभिरात वैरङ्गसंस्कारत्यागापासुभिर्वा कीर्णा । 'स्याद्रजः पुष्पमार्तवम्' इति । 'पांसुर्ना न द्रयो रजः' इति चामरः । दिवस्त्वात्पातिकपांसुवर्षणाद्रजाकीर्णता। वक्रमिन्दुरिब, अन्यत्र वक्रमिवेन्दुर्मिन्त्रास्तस्य लक्ष्म्यो यस्याः मा भिन्नवक्वेन्दुलक्ष्मीः । बहुवचनान्तो बहुव्रीहिः । एवमर्माप एकवचनान्तस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठान्न तन्निमित्तः कप्रत्ययः । शैषिकस्तु वैभाषिक इत्यवि. रोधः । काचिनारी दिवम नुविदधेऽनुचकार । काश्चिन्नार्यों दिश इवाऽश्रीका वीतशामाः उद्भ्रान्तसत्त्वा- उद्घान्तचित्ता उद्भ्रान्तजन्तुकाश्च सत्यः अन्तरात्मनि मध्ये च दाहं सन्तापम् . अन्यत्रौत्पातिक प्रज्वलनं दधिरे दधुः । अन्या नार्यो वात्या इव वातसमूहा इव । 'शाखादिभ्यो यत्' इति यत्प्रत्ययः । प्रतिदिशं दिशि दीश । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टचपत्ययः । प्रेमुर्बभ्रमुः। 'वा ज़भ्रमु- असाम्' इति विकल्पदित्वाभ्यासलापौ। अपरा नार्यों भूम्या तुल्य भूमिवत्कम्पमापुः । इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नार्यों भाव्यशुभं पुरः पूर्व शशंसुः । सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थ हेतुकं काव्यलिङ्गम् । तत्र नारीणा द्युदिगाद्युपमाभिस्तद्रजोदाहादिवनारारजोदाहादीना- मशुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावन मङ्करः । सञ्चारिणश्च पूर्ववद्विषादादयः सुगमाः । अत्र ‘काश्चित्कीर्णा रजोभिर्दिवमनुविदधुभित्रववत्रन्दुलदम्यो निश्रीकाः काश्चित्' इति पाटे काचिकीत्यकवचन- प्रक्रमभने दोषो नास्ति । न चैवमुपमानोपमेययोर्भिन्त्रवचनवदोषः । लोकेषु चन्द्रादिष्वेकत्र नियनेषु दोष- बुद्ध्यनुदयात् । यथाह दण्डी- 'न लिङ्गवचने भित्रे न हीनाधिकताऽपि वा। उपमादूषणायाऽलं यत्रोद्वगो न धीमताम्' ।। इति । स्रग्धरा वृत्तम् । 'मन्नर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ।।९६॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथसूरिविरचितायां शिशुपालवध- काव्यव्याख्यायां सर्वकषाख्यायां पञ्चदशः सर्गः ॥ १५ ॥ ४०शि०व० “५६६ सन्देहविषौषधिसर्वकषायुते- [ षोडशः- सर्गः । । प्रकट: षोडशः दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ॥ उपगम्य हरि सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥१॥ दमघोषेति ॥ अथ अनन्तरं कश्चन् दूतः सदसि सभायां हरिमुपगम्य श्रीकृष्णं प्राप्य अदः एतत् वचः वाक्यम् उदाहरत् बभाषे किलक्षणं वचः स्फुटभिन्नार्थ स्फुटः भित्रो विभक्तः प्रियः अप्रियश्च अर्थोऽभिधेयं यस्य तत्तथा । द्वयर्थत्वादिन्नम् । यतः किंलक्षणो दूतः प्रतिभानवान् सप्रतिभः वाक्यचतुरः, अपरं किलक्षणो दूतः दमघोषसतेन शिशुपालेन प्रतिशिष्टः आज्ञप्तः । चैयेन प्रहित इत्यर्थः ॥ १ ॥ अथाऽनन्तरसर्गे हरेश्वैद्यदूतसंवादं वर्णयति- दमघोषेति ॥ अथ संनाहा नन्तरं दमघोषसुतेन शिशुपालन प्रतिशिष्टः प्रहितः प्रतिभानमस्यास्तीनि प्रतिभानवान् , अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिद् दूतः हरि कृष्णमुपगम्य प्राप्य मदसि सभायां स्फुटौ भिन्नार्थो पृथगर्थौ प्रियाप्रियरूपौ यस्मिस्त स्फुटभित्रार्थम् । युगपदुभयार्थाभिधायक- मित्यर्थः । तथैव वक्ष्यति-'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च त' इति । भदः इदं वक्ष्य- माणं वचः उदाहरत् व्याहरत् । अस्मिन्स वैतालीयाख्यं मात्रावृत्तम् । 'षविषमऽटौ समे कलाश्च समे स्युनों निरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' । इति लक्षणात् ॥१॥ किमुवाचेत्याह- अभिधाय तथा(१) तदप्रियं शिशुपालोऽनुशयं परं गतः ॥ भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २॥ अभिधायेति ॥ यत् , हे कृष्ण ! शिशुपाल: चैद्य उपेत्य आगत्य भवतस्तव मानना सम्मानं कर्तुं समीहते विधातुं वाञ्छति । किंलक्षणः शिशुपाल: अभिमनाः उत्कण्ठित- चित्तः, किंलक्षणस्य तव सरुषः सकोपस्य, अपरं किंलक्षणः शिशुपालः परमनुशयं गतः महान्तं पश्चात्तापं प्राप्तः, किं कृत्वा तथा तेन प्रकारेण अप्रियमभिधाय 'सर्वगुणविरहि- तस्य हरेः परिपूजया कुरुनरेन्द्र ! को गुण' इत्यादि कर्णकटुकमुक्त्वा । इति प्रियम् । अप्रियं तु-स चैयः उपेत्य आगत्य भवतस्तव माननां खण्डनां कर्तुमीहते । अथ वा रुषः कोपस्य मानना सफलीकरणत्वं वाञ्छति । रोषस्य सफलीकरणं हि रिपु. शिरसि निक्षेपः । एतेन त्वां जिघांसतीति वाक्यार्थः । किंलक्षणः सः परमुत्कृष्टम् अनुशर्य कोपं गतः प्राप्तः, किं कृत्वा तेन प्रकारेण अप्रियं कठोरम् अभिधाय उक्त्वा, अपरं किं. लक्षणः सः अभिमनाः निर्भयः । अथ वा सः रुषः कोपात् तव खण्डनां नाशं वाग्छतीत्यर्थः२ 'स्फुटभिन्नार्थमुदाहरडूच' इत्युक्तं, तदेव चतुर्दशभिः श्लोकैरभिधत्ते- अभिधायति ॥ शिशुपालस्तदाऽर्धस्वीकारकाले तनादृशमप्रियमभिधाय परमतुशयमनुतापं गतः अभिमना उत्कण्ठतचित्तः सन् उपेत्यागत्य सरुषः समन्योर्भवतस्तव माननां पूजा कर्तुं समीहते। अनु. नेतुमिच्छतीत्यर्थः । अयं मधुरोऽर्थः । परुषस्तु-तदा तदप्रियमभिधाय परम् अनुशयं केवलं न शप्तव्यः, किन्तु हन्तव्य'ति दीर्घ (१) तदा ।

सर्गः । शिशुपालवधे। ५६७ गतः प्रातः। 'रन्धे 'शम्देऽथानुशयो दीर्घद्वेषानुतापयोः' इत्युभयत्राप्यमरः । अतएव नास्ति भीर्यस्येत्यभि निर्भाकं मनो यस्य सोऽभिमनाः निःशङ्कचित्तः सन् उपेत्य स्वयमागत्य सरुषः सकोपस्य भवतो मानना हननं कर्तुं समीहते । 'मानना हनने माने' इत्युभयत्रापि केशवः । भवन्तं हन्तुमिच्छतीत्यर्थः । 'मन स्तम्भे' इति धातोश्चौरादिकाल्ल्युट् , णिचो लुक् । अत्र चतुर्दशश्लोक्यो परहृदयपरीक्षापराणा दूतानां प्रियाप्रिये द्वे अपि वक्तव्ये, चमत्काराय तु श्लेषभङ्गयाऽभिधीयत इति प्रियाप्रिययोईयोरपि प्रकृतत्वादभि- ध्यत्वाच्छन्दमात्रसाधर्म्याच्च केवलप्रकृतगोचरः श्लेषः । 'प्रकृताप्रकृतोभयगतमुक्तं चेच्छन्दमात्रसाधर्म्यम् । श्लेषोऽय'मिति लक्षणात् । न चोभयगतः, निन्दास्तुत्योरन्यतरगम्यतया तदुत्थापनात् । इह 'उभयं युगप- "मयोदितं त्वरया सान्त्वमथेतरच ते' इति वक्ष्यमाणलिङ्गादुभयोर्वाच्यत्वावगमादित्यलं प्रपञ्चेन ॥ २॥ विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ॥ प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहण सः ॥ ३ ॥ विपुलेनेति ॥ हे कृष्ण ! सः शिशुपालः विपुलेन महता विग्रहेण शरीरेण बलु निश्चितं परितः समन्तात् त्वां निर्दयं निपीड्य दृढमालिङ्गय नितान्तमत्यर्थ मुदमायातु हर्ष प्राप्नोतु । यतः किलक्षणः सः उन्मना उत्कण्ठितः, किंलक्षणं त्वां प्रचुराधिगताङ्ग- निर्वृति प्रचुर बहु अधिगता प्राप्ता अङ्गनिर्वृतिः शरीरसौख्यं येन सः तथा तं, तदाश्लेष- क्शात् बहुप्राप्तशरीरसौख्यम् । इति प्रियम् । अप्रियं तु-स चैद्यः विपुलेन महता विग्रहेण युद्धेन निर्दयं यथा स्यात्तथा त्वां निपीड्य नितान्तमतिशयेन मुदमायातु हर्ष प्राप्नोतु । किंलक्षणः सः उन्मनाः मानी, यदि वा नितान्तमनल्पा मुत् तुष्टिर्यस्य मनसः तत् नितान्तमुत् एवंविधं मनश्चेतो यस्य सः तथा, किंलक्षणं त्वां प्रचुराधिगताङ्गनिर्वृतिं प्रचुरा बहुला आधयो मनःपीडाः यस्य सः प्रचुराधिः अत एव गवा अङ्गनिर्वृतिः शरीरसौख्यं यस्य सः गताङ्गनिर्वृतिः, ततः कर्मधारयः, प्रचुराधिश्वासौ गताङ्गनिर्वृतिश्च तम् । सङ्ग्रामेण त्वां निपीडयिष्यति इत्यर्थः ॥ ३ ॥ विपुलेनेति ॥ उन्मना उत्सुकचताः स चयः परितः परं प्रभूतं यथा तथा अधिगता प्रामा अङ्ग- निर्वृतिः सुहृत्स्पर्शकृतमङ्गसुखं येन तं त्वां विपुलेन विशिष्टपुलकेन 'पुलः स्यात्पुलके नापि पुलं तु विपुलेऽन्यवत्' इति विश्वः । विग्रहेण वपुषा निर्दयं गाढं निपीडयाऽऽलिङ्गय नितान्तं मुदमायातु खलु । परुषस्तु-उन्मनाः मनस्वी स चैद्यः प्रचुरेणाधिना मनोव्यथया गतानिवृति विगतशरीरमौख्यं त्यो विपुलेन महता विग्रहेण समरेण । 'विग्रहः समरे काये' इति विश्वः । निर्दयं निष्कृपं निपीडय हन्वा मुदमायातु ॥ ३ ॥ शिरसाप्रणतः करिष्यते सकलैरेत्य समं नराधिपः(१) ।। तव शासनमाशु भूपतिः परवानध यतस्त्वयैव सः ॥ ४ ॥ शिरसेति ॥ हे कृष्ण ! स भूपतिः शिशुपालः शिरसा प्रणतः मूर्ना नम्रः सन् सकलैः समप्रैर्नराधिपः समं राजभिः सह एत्यागत्य आशु शीघ्र तव शासनं करिष्यते तवाज्ञां विधास्यति, यतः कारणात् स चैद्यः अधुना अद्य त्वयैव परवान् भवतैव नाथ- वान् । त्वमेव तस्य प्रभुः इत्यर्थः । प्रभोरादेशो ह्यवश्यं क्रियते इति । इति प्रियम् । अप्रियं तु-हे कृष्ण ! स चैद्यः सकलैनराधिपः सममेत्यागत्य तव शासनं करिष्यते तव निग्रहं विधास्यते, स यतः त्वयैव परवान् भवतैव कृत्वा शत्रुमान् । त्वमेव तस्य रिपु. .. (१) प्रणतः शिरसाधराधिपः ।

५६८ सन्देहविषौषधिसर्वस्पायुते- [ षोडश:- . .. रित्यर्थः । किलक्षणः चैद्यः शिरसा अप्रणतः मानित्वात्कमपि न नतः । अथ वा शिरसा प्रणतः, अर्थात् भूपैरेव नमस्कृतः ॥ ४ ॥ प्रणत इति ॥ भूपतिः चयः सकलैर्धराधिपः ममं सह एत्यागत्य शिरसा प्रणतः प्रणामं कृतवान् । करि तः । आशु तव शासनमाज्ञां करिष्यत त्वदाज्ञाकरी भविष्यति । कुतः-यतः स चद्योऽस्मिन्नवसरे वयव परवांस्त्वदकपरतन्त्रः । परुषस्तु-शिरसा प्रणतो नमस्कृतः नराधिपैरिति भावः । कर्माण कः। भूपतिस्तव शासन शास्ति शिक्षा करिष्यते, यतस्त्वयेव परवाशत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समम् । 'शासन राजदनाा लेखाज्ञाशाशास्तिषु' इति विश्वः ॥ ४ ॥ अधिवहिपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ॥ तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥५॥ अधिवह्नीति ॥ हे कृष्ण ! ॥ हे कृष्ण ! के भृभृतः के राजानः तव प्रणतिं न बिभ्रति भवतो नतिं न धारयन्ति । अपि तु सर्व एव राजानः त्वयि नम्राः, अतो वयमपि प्रणता इत्यर्थः। किलक्षणस्य तव अधिवनिपतङ्गतेजसः अधि अधिकं वह्नः वैश्वानरात् पतङ्गात् श्रीसूर्याच तेजो दीप्तिर्यस्य तथा तस्य, यदि वा (अधिगतं) वह्नः पतङ्गात्तेजो येन सः तथा तस्य, अपर किलक्षणस्य तव नियतस्वान्तसमर्थकर्मणः नियतं स्वस्थं स्वान्तं मनो यस्य सः नियत- स्वान्तः, समर्थ सङ्गतियोग्यं कर्म व्यापारो यस्य सः समर्थकर्मा, ततः कर्मधारयः, नियत- स्वान्तश्चासौ समर्थकर्मा च नियतस्वान्तसमर्थकर्मा तस्य। अपरं किंलक्षणस्य तव सर्वविधेय- वर्तिनः सर्व लोका विधेयवर्तिनः आज्ञाकारिणो यस्य सः सर्वविधेयवर्ती तस्य । अतश्च के प्रति न बिभ्रतीत्यर्थः । इति प्रियम् । अप्रियं तु-हे कृष्ण ! तव केन हेतुना भूभृतो राजानः प्रणति बिभ्रति नमन्ति, अपि तु न । किंलक्षणस्य तव अधिवह्निपतङ्गतेजसः अधिवह्नि वैश्वानरे पतङ्गस्य शलभस्येव तेजो यस्य सः पतङ्गतेजाः तस्य । विपक्षाग्नि प्रति शलभसशस्येत्यर्थः । अपरं किंलक्षणस्य तव नियतस्वान्तसमर्थकर्मणः नियतं निश्चितं चपलं वा स्वस्य आत्मनोऽन्तसमर्थ विनाश- क्षमं कर्म व्यापारो यस्य सः तथा तस्य । शलभोऽपि हि स्वचापल्यावहौ निप नियते । अपरं किंलक्षणस्य तव सर्व विधेयवर्तिनः सर्वेषां विधेयवर्तिनो वशतिनो वचन. कारिणो वश्यस्य । अतः केन गुणेन तव भूभृतः प्रणतिं बिभ्रति, अपि तु नेति ॥ ६ ॥ प्रणामे हेतुमाह - अधिवहनीति ॥ अधिगतं वह्निपतङ्गपोरग्निभान्वोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ ममर्थकर्मा च, खञ्जकुब्जवाद्विशेषणसमासः । तस्य तथोकस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य नव के भूभृनः प्रणति नतिं न बिभ्रनि। सर्वेऽपि बिभ्रतीत्यर्थः । परुषस्तु-प्रणाम हेतुमाह-अधिवह्नि अग्नी पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । 'पतङ्गः शलभे भानौ' इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थ हेतुभूतं कर्म यस्य तस्य, सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिङ्करस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रपति बिधति । न केनापीत्यर्थः ॥ ५ ॥ जनता भयशून्यधीः परैरभिभूतामवलम्बसे यतः ॥ तव कृष्ण ! गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ ६ ॥ .. ..

सर्गः ।] शिशुपालवधे। ५६९ .. : जनतामिति ॥ हे कृष्ण ! ततो हेतोः तव गुणाः सौन्दर्यादयः अगण्यतां दधति असहयतां विभ्रति । ततः कुतः, यतो हेतोः परैः शत्रुभिः अभिभूतां जनतां बाधितलोक. समूहम् अवलम्बसे वहसि । प्रायसे इत्यर्थः । किंलक्षणस्त्वं भयशून्यधीः भयेन भीत्या शून्या रहिता धोर्बुद्धिर्यस्य सः निर्भयचित्तः, किंलक्षणस्य तव नरैरसमानस्याऽतुल्यस्य सर्वोत्कृष्टस्य । इति प्रियम् । अप्रियं तु-हे कृष्ण! पाप! यतस्त्वं भयशून्यधीः भयमूढबुद्धिः सन् परैरन्यैरभिभूतां वजितां पराभूतामपूजितां वा जनतां प्राकृतलोकसमूहम् अवलम्बसे आश्रयसि, अतः कारणात् तव गुणाः अगण्यतां दधति अकथ्यतां धारयन्ति । कथनीया न भवन्तीत्यर्थः । किलक्षणस्य तव नरैः पुरुषैरसमानस्य सह मानेन पूजया वर्तते इति समानः, तद्विपरीतः असमानः तस्य । पुरुषैः अपूजितस्येत्यर्थः ॥ ६ ॥ जनतामिति ॥ हे कृष्ण ! हे हरे ! भयशून्यधीनिमीकचित्तः सन् परैः शत्रुभिरभिभूता जनतां जन- समूहम् । 'ग्रामजन-' इत्यादिना समूहे तल प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः। बतो हेतोनरैसमानस्य सर्वोत्कृष्टस्य तव गुणा आतभूभरणादयः अगण्यतामसङ्ख्येयतां दधति । परुषस्तु-हे मलिनात्मक ! भयशून्यधीमूढबुद्धिः परस्त्वदन्यैः। परं दूराऽन्यमुख्येषु परोऽस्पिरमात्मनोः' इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतन्त्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तत्प्रत्ययः । यतोऽवलम्बस आश्रयासि, ततो नरैरसमानस्य । ततोऽपि हीनस्यत्यर्थः । तव गुणा: लेशतः स्वभावतोऽपीति भावः, अगण्यतामनादरणीयतां दधति ॥ ६ ॥ अहितादनपत्रपत्रसन्नतिमात्राज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोऽन्योगुणवानविस्मयः ॥ ७॥ अहितादिति ॥ हे कृष्ण ! त्वया सदृशः भवता समानः अन्यः अपरः एवंविधः कुतो गुणवान् गुणयुक्तः । किंलक्षणस्त्वमिति तानेव गुणानाह-अहितात् पापात् असन् बिभ्यत् अकार्यभीरः, अपरं किलक्षणः अनपत्रपः अपगता पा यस्य सः अपत्रपः गतलजः न अपत्रपः अनपत्रपः सलजः । खललक्षणं धाष्टर्यम् । अपरं किलक्षणः त्वम् अतिमात्रो- शितभीः अतिमात्रमत्यर्थम् उज्झिता परित्यक्ता भोर्भयं येन सः तथा, अपरं किंलक्षणः त्वम् अनास्तिकः नास्ति परलोकमतिर्यस्य स नास्तिकः, न नास्तिकः अनास्तिकः । धर्मिष्ठ इत्यर्थः । अपरं किंलक्षण: विनयोपहितः विनयेन आचारेणोपहितो युक्तः । जिते. न्द्रिय इत्यर्थः । अपरं किंलक्षणः अविस्मयः विगतः स्मयो गर्यो यस्य सः विस्मयः, न विस्मय अविस्मयः । सगर्व इत्यर्थः । पंशलः अन्यशब्द इवार्थे विशेषणत्वेऽपि एषां विशभगवशेषणमेवं प्रतीयते(?) । अन्यत्र ह्येते गुणा निषेध्यन्ते भगवति विधीयन्ते । एवंविधस्त्वया सदृशः कुतो गुणवान्, त्वमेव गुणविशिष्ट इत्यर्थः । इति प्रियम् । अप्रियं तु-विपर्ययेण, हे कृष्ण ! अन्य एवंविधः त्वया सदृशः कुतोऽगुणवान् त्वया सहशो निर्गणः कुतो भवेत् । यादृशो निर्गुणस्त्वं,तादृशोऽन्यो न विद्यते इत्यर्थः। तावदत्रा. ऽन्यविशेषणद्वारेणाह-किलक्षणस्त्वम् अहितात् शत्रोः सन् कातरत्वात्, अपरं किलक्षणः अनपत्रपः न विद्यमाना अपत्रमा लज्जा यस्य सः तथा निर्लजः, अपरं किंलक्षणः नति- मात्रोमितभी: नतिमात्रेण नम्रत्वमात्रेण उज्झिता त्यक्ता भीर्येन सः तथा । परस्य नम्री- । .

सन्देहविषौषधिसर्वकषायुते- [ षोडशा- . भूतत्वात् स्वस्थ इत्यर्थः । अपरं किंलक्षणः अनास्तिक अस्तीति मतिर्यस्य स आस्तिक: न आस्तिकोऽनास्तिकः ।पापी इत्यर्थः । अपरं किंलक्षणः विनयः विगतो नयो नीतिर्यस्य सः तथा दुविनीतः, अपरं किंलक्षणः अपहितः अपगतं हितं यस्य सः तथा विमुख:, अपर किंलक्षणः अविस्मयः अवेः पशोरिव स्मयो दर्पो यस्य सः तथा । हुडशौर्य- इत्यर्थः । यदि वा विस्मयजनकं कर्मव विस्मयः, स न विद्यते यस्य स अविस्मयः । केचित्तु-त्वया सदृशः कोऽन्यो ना पुरुषः अस्तीति व्याचक्षते । एवं च कुत इति यथासङ्गतं स्यात् ॥ ७॥ अहितादिति ॥ त्वया सदृशोऽन्यो गुणावान्गुणायः कुतः । न कुत्रापीत्यर्थः । कुतः-त्वम् अहिता- दनात्वसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्पो न भवतीत्यनपत्रपरमपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्ताऽरिभय इत्यर्थः । नास्ति मतिरस्येति नास्तिकः नास्तिपरलोकः । 'अस्तिनास्तिदिष्टं मतिः' इति ठक् । न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनाऽनौद्धत्येनो- पहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगों न भवतीत्यविस्मयोऽगवः । परुषस्तु-त्वया सदृशोऽन्यो गुणवान् न भवतीत्यगुणवानिर्गुणः कुतः । न कुत्रापीत्यर्थः। कुतः-त्वम् अहिताच्छवोससन भीरुः । नास्त्यपत्र लज्जाविशेषो यस्येत्यनपत्रपो निर्लज्जः । 'लज्जा मापनपाऽन्यतः इत्यमरः । नतिमात्रेण प्रणामेनैवोज्झिनभीरपाकृताऽरिभयः, न तु पराक्रमेणेति भावः । अस्ति मतिरस्येत्या- स्तिकोऽस्तिपरलोकः । पूर्ववत् ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीत:, अप- हितो हितादपेतः, विस्मयो विगर्वो न भवतीन्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः ।अत्राऽहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः मङ्करः ॥ ७॥ कृतगोपवधूरतेनंतो वृषमुने नरकेऽपि सम्प्रति ॥ प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वयते ॥ ८॥ कृतेति ॥ हे कृष्ण ! तव भवतः उने उत्कटे नरके भूमितनये दानवे प्रतिपत्तिः वधाय अनुष्ठानं जनताभिः कृतोद्योगैः जनसमूहैः सम्प्रतीदानीं साधु वर्ण्यते समीचीन स्तूयते । हरिणा शोभनं कृतमिति पुन:पुनः कथ्यते इत्यर्थः । यतः उग्रो नरकासुरोऽवधीति यशस्तव सर्वत्र गीयते । किंलक्षणस्य तव कृतगोपवधूरतेः कृता विहिता गोपवधूनां गोपा- नानानां रतिः प्रीतियन सः तथा तस्य, यद्वा गां पृथिवीं पान्ति रक्षन्तीति गोपाः राजानः तद्वधूनां कृतप्रीतेः, तव किं कुर्वतः वृष दान्तरूपिणमरिष्टाख्यं दानवं घ्नतो मारयतः, हन्तीति नन् तस्य घ्नतः, अपरं किंलक्षणस्य तव अधःकृतैनसः अधःकृतम् अस्पृष्टम् एनः पातकं येन सोऽधःकृतैनाः तस्य, पुण्यवत इत्यर्थः । इति प्रियम् । अप्रियं तु-हे कृष्ण ! उने घोरे नरके अवीचिमहातामिस्रादौ अधः प्रतिपत्तिः पतन प्राप्तिर्वा जनताभिः जनसमूहैः अधुना साधु अत्यर्थ वर्ण्यते । कृष्णो नरके पतेदिति पुन:- पुनः कथ्यते । किंलक्षणस्य तव कृतैनसः अङ्गीकृतपापस्य । कृतैना: पापिष्ठस्त्वम् । एतदपि कुत इत्याह-किलक्षणस्य तव कृतगोपवधूरतेः कृता गोपवधूनां रतिः मुरतं येन सः तथा तस्य, अपरं किलक्षणस्य तव वृषमनड्वाहं घ्नतः। परदारगमन गोवधान महापापम् । यतः कृतैनसः नरके पतनं युक्तं कथ्यते ॥ ८ ॥ कृतेति ॥ गोप्य एव वध्वो गोपवध्वः । 'मियाः पुंवत्-' इत्यादिना पुंवद्रावः। तासु रतिः कृता येन नम्य । गोपीजनवाभस्यत्यर्थः । वृषं वृषभरूपिणमरिष्टाख्यमसुरं प्रतो मारयतः । हन्तेर्लटः शत्रादेशः।

वर्गः।] शिशुपालवधे। . भधाकृतैनसो निरस्तकल्मषस्य तवान भयङ्करे नरके नरकासुरे प्रतिपत्तिः प्रवृत्तिः, पुरुषकार- इति यावत् । सम्प्रति जनताभिर्जनसमूहः साधु वर्ण्यते । अहो ! महद दुष्करं कृतमित्युपश्लोक्यते । परुषस्तु-गोपानां वधूषु रतिः कृता येन तस्य पारदारिकम्य, वृषं धर्म वृषभं वा घ्नतः। 'सुकृते वृषभे वृषः' इति विश्वः । अत एव कृतैनसः पापकृतः तव उग्रे दारुण नरके निरये अधःप्रतिपत्तिरधःप्राप्तिः । 'प्रति- पतिः पदप्राप्तो पौरुषे गौरवेऽपि च' इति विश्वः । जनताभिः साधु वय॑ते । दुम्तरोऽस्य पापिष्ठस्य नरकपात- इत्युदोभ्यत इत्यर्थः । अत्र गोपपरदारिकोऽप्यधाकृतना इति विरोधाभासः श्लेषेण सङ्कीर्यते ॥ ८ ॥ विहिताऽपचितिर्महीभुजा(१) द्विषतामाहतसाध्वसो बलः ॥ भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ ९॥ विहितेति ॥ हे कृष्ण ! त्वं महतामपि प्रौढकुलेश्वर्याणामपि क्षमाभृतां राज्ञाम् उपरि भव प्रधानं सम्पद्यम्व। किंलक्षणस्त्वं सानुचरः समृत्यः, अपरं किलक्षणस्त्वं महीभुजा राज्ञा विहिताऽपचितिः कृतसम्मानः, अत एव अपरं किलक्षणस्त्वं बलैः सैन्यैः द्विषतां शत्रूणाम् आहितसाध्वसः कृतकम्पः, अपरं किंलक्षणस्त्वम् उच्चकैरुन्नतः।इति प्रियम्। अप्रियं तु-हे कृष्ण ! त्वं महतामपि अत्युच्चानामपि क्षमाभृतां पर्वतानाम् उपरि पृष्ठे सानुचरो भव सानुगो भव । यद्वा सानुपु शृङ्गेषु चरति गच्छतीति सानुचरः । किल- क्षणस्त्वं महीभुजा शिशुपालेन विहितापचितिः विशेषेण हिता त्यक्ता अपचितिः पूजा यस्य सः त्वं कृतपूजात्यागः कृतपूजाक्षयो वा, अपरं किंलक्षणस्त्वं द्विषतां शत्रूणां बलैः सैन्यैः आहितसाध्वसः जनितकम्पः ॥ ९ ॥ विहितति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैयेन विहिताऽपचितिः कृतपूजः । लोकवेदयोः मानुवरम्यैव राज्ञः पूज्यत्वप्रसिद्धरिति भावः । अत एव बलैः मन्यौर्षिता शत्रूणामाहितसाध्वप्तो जनित- भय सन् महतामपि क्षमाभृता राज्ञामुपयुच्चकैरुत्रतम्त्वं भव सर्वोत्कर्षेण वर्तस्व । परुपस्तु-महीभृता चैयन विहिताऽपचिनिः कृतह निः। 'भवेदपचितिः पूजाव्ययहानिषु निष्कृतो' इति विश्वः । अत एव द्विषता बलराहितसाधनमो भीषितः सन् महता क्षमाभृतां भूधराणामुपरि सानुषु वरतीति सानुचरः म भव । चरेष्टः । अत्र पि शब्दार्थश्लेषसङ्करः ॥ ९ ॥ घनजालनिभर्दुरासदाः परितो नागकदम्बकैस्तव ॥ नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ १० ॥ घनेति ॥ हे कृष्ण ! अतश्च मैत्र्यां विहितायां तव नगरेषु भवतः पत्तनेषु वीथयो रथ्याः वनजैः अरण्यभः मृगादिभिः मृगभदमन्दादिभिः नागकदम्बकैः गजसमूहः परि- कीर्णाः भवन्तु समन्ताद्भावेन व्याप्ताः सम्पद्यन्ताम् । किंलक्षणैः नागकदम्बकैः वनजैः वानेयैः, अपरं किंलक्षणः नागकदम्बकैः घनजालनिभैः मेघपटलवन्मलिनैः, किंलक्षणा वीथयः दुरालदाः कैरपि शत्रुभिईप्रवेश्याः । इति प्रियम् । अप्रियं तु-हे कृष्ण ! तव नगरेषु वीथयो रथ्याः वनजैः वनभवैः मृगादिभिः सिंहव्याघ्र- बराहशशकजम्बुकहरिणादिभिः परिकीर्णाः परितः समन्तात् कीर्णाः व्याप्ताः भवन्तु सम्प- चन्ताम् । किंलक्षणाः रथ्याः नागकदम्बकै सर्पवातः दुरासदाः दुष्प्रवेश्याः, किंलक्षणैः सर्पवातैः धनजालनिभैः संहतजलाकारपञ्जरसदृशैः । जलाकार 'बाऊआइति प्राकृतम्॥१०॥ घनेति ॥ तव नगरेषु वीथयो रथ्याः घनजालनिझमेघसमूह कल्पैः वनजैन मंगादिभिः मृगप्रभृ. . (१) महीभृता।

५७२ सन्देहविषौषधिसर्वकषायुते- [.पोड:- तिभिः । महो मन्द्रो मृगश्त्येवं त्रिविधेरपीत्यर्थः । नगिकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः मत- एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा सन्धाने महैश्वर्यं च ते भविष्यतीत्यर्थः । परुषस्तु-घनजालनिर्भः सान्द्रा इनायतुल्यैः। 'भानायः पुंसि जालं स्यात्' इत्यमरः । नागकदम्बकैः सर्पसर्वनगण्यालपुलिन्दप्रभृतिभिः, अथ वा मृगादिभिः मृगभक्षकैः शार्दूलादिभिः दुरासदा भवन्तु । राजविप्रहादरण्यप्राय गता भवन्वित्यर्थः ॥ १० ॥ सकलाऽपिहितस्वपौरुषो नियतव्यापदवर्धितोदयः॥ रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥ सकलेति ॥ हे कृष्ण ! ते तव रिपुः शत्रु: चैद्यः एवंविध उक्तप्रकारोऽस्तु भवतु । किलक्षणो रिपुः सकलाऽपिहितस्वपौरुषः सकलं समस्तम् अपिहित स्थगितमाच्छादित स्वपौरुषं निजपराक्रमो यस्य सः तथा, अपरं किंलक्षणो रिपुः नियतव्यापत् नियता निश्चिताः व्यापद आपत्तयो व्यसनानि यस्य सः तथा, अपरं किंलक्षणो रिपुः अवधितोदय: अवर्धितः उदयं न गतः न प्राप्तः वृक्षाग्रवत् उदयः उन्नतिः गुरुत्वं यस्य सः तथा, अपर किलक्षणो रिपुः सततव्याधिः सततं निरन्तरं सदा व्याधयो रोगाः ज्वरादयो यस्य सः तथा, अपरं किलक्षणो रिपुः अनीतिः न विद्यमाना नीतिर्नयपदवी यस्य सः तथा, किल. क्षणस्य तव उन्नतधीरचेतसः उन्नतमतिविपुलं धीरमगाधं गम्भीरम् अपरिकलितं चेतो मानसं यस्य सः तथा तस्य । इति प्रियम् । अप्रियं तु हे कृष्ण ! अचेतसोऽबुद्धेः चेतोरहितस्य अज्ञानस्य तव रिपुः शत्रुः शिशुपालः एवं विधोऽस्तु भवतात् । किलक्षणस्तव रिपुः चैद्यः सकलाऽपिहितस्वपौरुषः सकलं समस्तमपिहितं स्थगितं परैरनाक्रान्तं पौरुषं पराक्रमः शौर्य यस्य सः तथा, अथ वा सकलानाम् अर्थात्सर्वेषां राज्ञाम् ( आसमन्तात् ) पिहितमाच्छादितं स्वमसा- धारणं पौरुष पुरुषकारो येन सः तथा । 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयो'- रित्यनेन अकारलोपः । अपरं किंलक्षणो रिपुः नियतव्यापत् नियता नित्या विगता आपत् विपत्तिर्यस्य सः तथा, अपर किलक्षणों रिपुः अवधितोदयः अवर्धितः अविच्छिन्नः उदय- उत्तरकालसुखं यस्य सः तथा । 'वृधु छेदने ऽस्य वर्धितेति रूपम् । यदि वा अवर्धितः मक्षीणः भवन्तं प्रति योऽदयो निर्दयो दयारहितः, अपरं किलक्षणो रिपुः उन्नतधीः उन्नता उदारा धीर्बुद्धिर्यस्य सः तथा, अपरं किंलक्षणो रिपुः सततव्याधिः सततं विगता नित्य- मेव गताः आधयो मनःपीडा यस्मात् सः तथा, अपरं किंलक्षणो रिपुः अनीतिः न विद्यमाना ईतयः अतिवृष्ट्यादयः उपद्रवा यस्य सः तथा । एतेन भवदभिभवेन राजा महो- दयो भवत्विति वाक्यार्थः ॥ ११ ॥ सकलेति ॥ उसमुदारं धीरमविकारं चतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुष यस्य मः, नियता नित्याः व्यापदो विशिष्टापदो यस्य सः, अवर्धितोदयोऽसम्पूरिताभ्युदयः, सततव्याधिः मततरोगः, अनीतिनातिरहितः एवंविधोऽस्तु । परुषस्तु-अचेतसोऽमनस्विनः ते रिपुश्चेद्यः सकलेरावहितस्वपौरुषः अतिरस्कृतात्माविक्रमः । 'वष्टि भागुरिल्लोपमवाप्योरुपसर्गयोः' इत्यलोपे नकसमासः। नियतं नित्यं व्यापद्विगतापत् अवधितोदयोऽच्छिनो- दयः । 'वृधु च्छेदने वृद्ध' इति धातोः कर्मणि क्तः । उतधीरुदारबुद्धिः सततव्याधिर्षिगताधिर्मनोव्यथा- रहितः अनीतिः ईतिबाधारहितोऽस्तु ।

सर्गः।] शिशुपालवधे। ५७३ ३ चैद्येन घटामुपेयुषा 'अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यास त्राश्च राजानः षडेता ईतयः स्मृताः ॥ अत्र सर्वत्र पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्ठवदेकशब्दप्रतीतेः शन्दश्लषः ॥ ११ ॥ विकचोल्पलचारुलोचनस्तव चैद्येन घटामुपेयुषा(१) ॥ यदुपुङ्गव ! बन्धुगौरवादपि(२) पाता ससुरो नवासवः ॥ १२ ॥ विकचेति ॥ हे यदुपुङ्गव । हे यादवनन्दन ! हे कृष्ण! वैद्येन शिशुपालेन घटामुपेयुषा मैत्रीप्राप्तेन सता तव सम्बन्धी बन्धुवर्गः समुरः सुरासहितो नवाऽऽसवः प्रत्यग्रपानं पाता पास्यते । सन्धौ हि विहिते परस्परगृहगमनमधुपानादिकं च क्रियते इति स्थितिः । कस्माद् बन्धुगौरवादपि स्वजनबहुमानात् । यतो हि त्वं तस्य मातुलजः । किंलक्षणो नवा- ऽसवः विकचोत्पलचारुलोचनः विकचानि उत्फुल्लानि उत्पलानि पद्मान्येव चारूणि मनो. हराणि लोचनानि चढूंषि यस्य सः तथा । आसवे हि पद्मानि निक्षिप्यन्ते इति स्थितिः। इति प्रियम् । अप्रियं तु-हे यदुपुङ्गव ! हे यादबलीवर्द ! कृष्ण करिघटामारुटेन मता ससुरो देवसहितः वासवोऽपि इन्द्रोऽपि तव भवतः न पाता न रक्षिष्यति, किं पुनर्भाप्मादयः । इन्द्रस्य रक्षायां कारणमाह-कस्मात् बन्धु- गौरवात् भ्रातृस्नेहात् । तस्योपेन्द्रत्वादित्यर्थः । किलक्षणो वासवः विकचोत्पलचारु- लोचनः विकसितेन्दीवरदिव्यनयनः ॥ १२ ॥ विकचंति ॥ पुमान गौरिव पुङ्गवः पुरुषर्षभः । उपमितसमास: । 'गोरतद्धितलुक' इति समासान्त- प्रत्ययः । यदुषु पुङ्गन ! यदुष्ट ! । श्रेष्ठांशाणौ तु पुङ्गवा' इति वैजयन्ती । येन कळ घटा घन- मन्धिमुपेयुषस्तव मम्बन्धीनि विकचोत्पलानि वासनार्थविहितानि तान्येव चारुलोचनानि यस्य सः । मह -मुरया माव्या गौडया वा ससुरः । गाडी पेंष्टी च मात्री च विज्ञेया सा सुरा विधा' इति वचनात् । अत्र क्षत्रियवैश्ययोः पैटयामेव निषेधः । नवामयो नवमयं नालिकेरादिकामात सुरातत्यानं पौनरुक्त्यम् । बन्धु- मोहदान्धी त्वयि स्नेहात पाता पास्यत त्वद्गृह मह पानं करिष्यते । सम्पात ते सत्प्रतिपक्षत्वादिति भावः । विबतेः कर्मणि लुट । परुषस्तु-हे यदुपुङ्गव ! यादवबलीवर्द ! चयन मह घटामुपयुषः समराभियोगं गतम्य तव विकचोत्पलचारलोचनः मसुरः सदवो वासकोऽपि बन्धुसौहृदात । उपेन्द्रे त्वयि सौभ्रात्रादि- न्यर्थः । पाता त्राता न । किं पुनर्मशका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृदमिनि विग्रहः । युवादित्वादप्रत्ययः । 'हृदयस्य हल्लेख -' इति हृद्भावविधान सामान्न 'हृद्भग-' इत्युभयपद- वृद्धिः । अत एव सौहृददाइदशब्दावणि हृद्भावात्' इाने वामनः । मुहृदस्तु सौहार्दमेव । शब्दार्थ- लेषसङ्करः ॥ १२ ॥ चलिताऽऽनकदुन्दुभिः पुरः सबलस्त्वं सहसारणेन तम् ॥ समिती रभसादुपागतं (३) सगदः सम्प्रतिपत्तुमर्हसि ॥ १३ ॥ चलितेति ॥ हे कृष्ण ! त्वं चैद्यं सम्प्रतिपत्तुमर्हसि प्राप्तुं योग्योऽसि, किलक्षणं चैद्यं समिती सभायां रभसादौत्सुक्यात् उपागतं प्राप्तम् । कि केवलस्त्वं नेत्याह-कि- लक्षणस्त्वं पुरः अग्रे चलितानकदुन्दुभिः चलितः आगतः आनकदुन्दुभिः वसुदेवो यस्य (१) मुपेयुषः। (२) बन्धुसोहृदात्त्वाये । (३) दुपागतः।

५७४ सन्देहविषौषधिसर्वकषायुते- [षोडशः- सः तथा । अग्रे त्वत्पिता नियांत्वित्यर्थः । अपरं किलक्षणस्त्वं सबलः सह बलेन बलभद्रेण ज्येष्ठमात्रा(१) वर्तते इति तथा । कथं सम्प्रतिपत्तुमर्हसि इत्याह-सारणेन सह कनीयसा भ्रात्रा सह समम् , अपरं किंलक्षणस्त्वं सगदः सह गदेन अनुजेन सह वर्तमानः सगदः । त्वत्समागमोत्कण्ठया सभायामागत सम्मानयितुमर्हसि । इति प्रियम् । अप्रियं तु-हे कृष्ण ! त्वं रभसात् क्षोभेण समितौ सङ्ग्रामे उपागतं तं चैर्य सहसा झटित्येव रणेन युद्धेन सम्प्रतिपत्त प्रत्येतुम् अर्हसि युद्धार्थ प्राप्तुं योग्योऽसि । युद्धार्थमनेन त्वं मा पलायिष्यसे इत्यर्थः । किंलक्षणस्त्वं चलितानकदुन्दुभिः पुरः चलिताः ताडिता आनकाः पटहा दुन्दुभयो भेर्यश्च यस्य सः तथा, अपरं किलक्षणस्त्वं सबल: ससै- न्यः,अपरं किंक्षणस्त्वं सगदः सह गदया वर्तते इति तथा सहायुधः सकौमोदकीकः॥१३॥ चलितेति ॥ रभसाद्धर्षादुपागतः प्राप्तस्तं चैयं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । 'वसु- देवोऽस्य जनकः स एवानकदुन्दुभिः' इत्यमरः। सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह सगदः गदाख्येनानुजेन सहित: समिती सभायां सम्पतिपत्नं सम्भावयितुमर्हसि सर्वबन्धुसमेतः प्रत्येतु- महसीत्यर्थः । परुषस्तु-समिती समरे रभमाद्वेगादुपागतः । 'रभसो गहर्षयोः। समितिः समरे साम्ये सभायामपि सङ्गता' ॥ इत्युभयत्रापि विश्वः । तं वैद्य पुरतश्वलिता आनका: पटहा: दुन्दुभयो भेर्यश्च यम्य सः । 'आनक- पटहोऽमी स्याद्रेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । मबल: मसैन्यः मगदः गदया कोमोदक्या सहित सन् सहसा झटिति रणेन युद्धेन सम्पतिपत्नुमभियोक्तुमर्हसि । अत्रापि शब्दार्थश्लेषसङ्करः ॥ १३ ॥ समरेषु रिपून् विनिघ्नता शिशुपालेन समेत्य सम्प्रति ॥ सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ १४ ॥ समरेष्विति ॥ हे कृष्ण ! त्वं सम्प्रति अधुना शिशुपालेन समेत्य चैयेन सह सन्धि कृत्वा सर्वसात्वतैः सह समस्तयादवैः सार्ध सचिरं बहुकालं विश्वस्तविलासिनी- जनः भव सखितललनाजनः सम्पद्यस्व । कलहे हि स्त्रीणां भयं भवति किल । किंलक्षणेन. शिशुपालेन समरेषु सङ्ग्रामेषु रिपून विनिघ्नता शत्रून् नाशयता । इति प्रियम् । अप्रियं तु-हे कृष्ण ! समरेषु सङ्ग्रामेषु शिशुपालेन समेत्य मिलित्वा सर्वसात्वतैः सह समस्तयादवैः साधं विश्वस्तविलासिनीजनो भव विधवयुवतिको भव सम्पद्यस्व । नियन्तां भवता सह सर्व एव यादवाः इत्यर्थः । किंलक्षणेन शिशुपालेन रिपून घ्नता शत्रून् मार- यता । अत्र शिशुपालेनेति साभिप्रायं नाम । अस्मासु हतेषु यदि असौ शिशून् हनि- प्यतीति मा शङ्कीरिति । विश्वस्तजननीभिः सहाऽसौ शिशून् पालयिष्यति इत्यर्थः । 'विश्वस्ताविधवे समे' ॥ १४ ॥ समरेब्विति ॥ किञ्च समरेषु रिपून् विनिघ्नता । अतिरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य सम्प्रति सुचिरं बहुकालं, सत्वतः अपत्यानि पुमामः सात्वता यादवा:। उत्सादिभ्योऽञ् । तैः सर्वैः सर्वसात्वतः मह विश्वस्तविलासिनीजन: शिशुपालभयनिवृत्तिविश्रब्धावलासिनीजनो भव । 'समौ विम्भविश्वासी' इन्यमरः । परुषस्तु-रिपुघातिना शिशुपालेन सह समरेषु समेत्य सङ्गत्य सम्प्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । 'विश्वस्ताविधवे समे' इत्यमरः । 'आदितश्च' इति चकारादनुक्नसमुच्चयार्थाद सर्गः। शिशुपालवधे । श्वसनिष्ठायामिट्प्रतिषेधः । शिशूनामनुद्धतानामेवाऽयं पालयिता नोद्धतानामिति सर्वथा यादवानाव हनिष्यतीति भावः ॥ १४ ॥ विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।। असकृजितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १५ ॥ विजितेति ॥ हे कृष्ण ! असौ महीपतिः चैद्यः मुदितः प्रहृष्टः सन् त्वा त्वां भवन्तं पुरः अग्रे एवंविधम् ईक्षतां पश्यतु । किंलक्षणं त्वां विजित त्यक्तमन्युम् , अपरं किंलक्षणं त्वां क्षमाभृतां राज्ञां महितं पूजितम् , अपरं किंलक्षणं त्वाम् असकृत् बहुकृत्वः जितसंयतं पराजितसमरम्, अपरं किंलक्षणं त्यां सप्रमदं सहर्षम् । इति प्रियम् । अप्रियं तु-हे कृष्ण ! असौ महीपतिश्चैद्यो मुदितः सन् सप्रमदं सस्त्रीकं त्वां जितसंयतं पूर्व जितं पश्चात्संयतं बद्धम् ईक्षतां पश्यतु । किलक्षणं त्वां विजितक्रुधं अशक्तया उत्सृष्ट- कोपम्, अपरं किलक्षणं त्वां महीपतीनां चैद्यादीनाम् अहितं विपक्षमिति सर्वत्र स्तुति. निन्दात्मको व्याजश्लेषोऽलङ्कारः । इति द्वयर्थाः ॥ १५ ॥ विजितति ॥ असौ महीपतिश्चैयः मुदितः सन् विजिनक्रुध मैत्रीबन्धानिरस्त क्रोधं महतां मही. भृतां राज्ञां महितं पूजितम् । 'मनिबुादे-' इत्यादिना वर्तमाने कः, तवांगे षष्टी । असकृद्धहुशो जिताः संयतः आजयो येन स तम् । 'समुदायः स्त्रियां संयत्ममित्याजिसमिद्युधः' इत्यमरः । सप्रमदं सहर्ष त्वा वाम् । 'वामौ द्वितीयायाः' इति त्वादेशः। पुरोऽग्रे ईशतां पश्यतु । परुषस्तु-विजितक्रुधं सत्यकक्रोधं महतां महीभृतां चद्यादीनामहितमरिम् ,असकृजितश्वासी संयतश्चतम् । स्नाताऽनुलिप्तवत् 'पूर्वकाले ति समासः । 'बद्धो नद्धव मयतः' इति वैजयन्ती सप्रमदं सरलीक, स्वामिति पदच्छेदः, असकृदीक्षताम् ॥ १५ ॥ इति जोषमवस्थितं द्विषः प्रणिधि गामभिधाय सात्यकिः ॥ वदति स्म वचोऽथ नोदित(२)श्चलितक~ रथाङ्गपाणिना ॥ १६ ॥ इतीति ॥ अथ अनन्तरं सात्यकिः शिनिनन्दनो यादवः द्विषः शत्रोः चैद्यस्य प्रणिधि चरं प्रति वचः वदति स्म वाक्यमवादीत् । किंलक्षणः सात्यकिः रथाङ्गपाणिना चक्रधरेण श्रीकृष्णेन नोदितः प्रेरितः, कथं यथा भवति तथा चलितैकनु यथा भवति तथा चलिता नर्तिता एका केवला भूर्भुकुटिः मुखराजि(१)र्यत्र तत् । अक्षिसोचनेन कृतसंज्ञमि किंलक्षणं प्रणिधिम् इति पूर्वोक्तप्रकारेण गां वाचमभिधाय उक्त्वा जोपं स्थितं तूष्णीभूतम् ॥ इतीति ।। इतीत्थंभूतां गां वाचम् । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्भता' इति विश्वः । अभि- चाय जोषमवस्थितम् । 'तूगी जोष भवेन्माने' हाते वैजयन्ती । द्विषः प्राणधि दूतं सात्यकिः शैनेयः बथ दूतवाक्यानन्तरं रथाङ्गं चकं पागौ यस्य नेन रथाङ्गपाणिना हारणा। 'प्रहरणार्थेभ्यः परे निष्ठासप्त- म्यौ भवतः' इति पाणेः परानपातः । चलिना प्रेरिता एका भूयस्मिन्कर्मणि तत् । 'गोत्रियोरुपसर्जनम्य' इति हस्वः । चोदिनः, अस्योचरं देहीति भूमंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति स्माऽवादीत ॥ १६ ॥ किमुवाचेत्यत आह- मधुरं बहिरन्तरप्रियं कृतिनाऽवाचि वचस्तथा त्वया ॥ सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥ मधुरमिति ॥ यत् , हे दूत ! त्वया तथा तेन प्रकारेण कृतिना सता विदुषा मता वचः अवादि वाक्यमुक्तम् । किंलक्षणं वचः बहिः प्रकटं मधुरं प्रियम् (..)चोदित । . .. - [षोडशः - ৩৫ सन्देहविषौषधिसर्वकषायुते- अपरं किंलक्षणं वचः अन्तर्मध्ये गुप्तम् अप्रियमश्रवणीयं, तथा कथं यथा येन प्रकारेण सकलार्थतया वाक्यार्थप्रत्यालोचनया अन्तर्मध्ये प्रियं बहिर्बाह्येऽप्रियं विभाव्यते ज्ञायते । सकल उभयरूपोऽर्थः अभिधेयं यस्य तत्सकलार्थ तद्भावस्तत्ता तया। प्रियाऽप्रियावों उक्तावित्यर्थः ॥ १७॥ किं तद्वचस्तदेकविंशतिश्लोराह- मधुरमिति ॥ कृतिना कुशलेन त्वया बहि: प्रकाशे मधुरं प्रियम् अन्तर्गर्भेऽप्रियं वचस्तथा तेन प्रका• रेणाऽवाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः। यथा येन प्रकारेण सकलार्थतया सम्पूर्णोभयार्थ- तया हेतुना अन्तः प्रियं बहिरप्रियं विभाव्यतेऽवधार्यते । अप्रियगर्भ प्रियं यदुनं, तदस्माकं तु प्रियगर्भ- मप्रियमेव प्रतीयते । इदमुक्तिचातुर्य तवैवेत्यभिप्रत्ययक कृमिनेति । अतो न श्रद्धेयमिदं वच इति भावः ॥१७॥ अतिकोमलमेकतोऽन्यतः सरसाऽम्भोरुहवृन्तकर्कशम् ॥ वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८ ॥ अतिकोमलमिति ॥ हे दूत ! ते तव वचनं वाक्यम् एकमेव स्फुटं निश्चितं प्रकटं च शाकपलाशदेश्यतां वहति शाकस्य बर्बराभिधस्य तरोः यत्पलाशं पर्ण तत्सारूप्ये दधाति, शाकपलाशात ईपन्न्यून शाकपलाशदेश्यं तद्भावस्तत्ता ताम् । किलक्षणं तब वचनम् एकतः एकस्मिन् पक्षेऽतिकोमलं म्रदीयः मृदुतरम् , अपरं किलक्षणं वचनम् अन्य- स्मिन् पक्षे सरसाऽम्भोरुहवृन्तकर्कशं सरसमा यदम्भोरुहं पद्मं तस्य वृन्तवत् प्रसवबन्धन- वत् कर्कशं कठिनमशुष्ककमलनालपरुषम् । शाकस्यापि पत्रमेकतः एकस्मिन् पार्वे अतिकोमलम् , अन्यतः परुषं च । सागवृक्षपत्रं वार्तया ॥ १८ ॥ अथ वा बहिरेव प्रियम् अन्तरेवाप्रियं तथापि न ग्राह्यमित्युपमया व्यनक्ति- अतिकोमलामति ॥ एकतो बहिरतिकोमलम् , अन्यतः अन्तः सरसमाई यदम्भोरुहस्य वृन्त प्रसव- बन्धनं तदिव कर्कशं परुषम् एकमेव ते तव वचनम् , ईषदममाप्तं शाकपलाशं महापत्राख्यतरुपत्रं तत्तुल्यम् । 'शाकः पलाशसारः स्यादरदारुः करच्छदः । महापत्र महाशाकः स्थिरदारुहनीटकः' । इत्यभिधानरत्नमालायाम् । 'ईघदसमाप्ती कल्पन्देश्यदेशीयरः' इति देश्यप्रत्ययः । कल्पदेश्यदेशी- यानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां स्फुटं वहति । अन्तःपरुषस्य बहिर्माधुर्य शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्सङ्करः ॥ १८ ॥ ननु यद्येवंविधमस्मद्वचनं, तत्कि क्रियतामित्यत आह- प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा ॥ शकुनादिव मार्गवर्तिभिः पुरुषाद्विजितव्यमीद्वशात् ॥ १९ ॥ प्रकटमिति ॥ हे दूत ! ईदृशात् एवंविधात् पुरुषात् मनुष्यात मार्गवतिभिः नरैः उद्विजितव्यम् । किंलक्षणात् पुरुषात् मनु- प्यात् प्रकटं प्रकाशं मृदु कोमलं जल्पतः ब्रुवाणात् , अपरं किलक्षणात् पुरुषात् अन्तरा गुप्तं परुषं रूक्षमर्थमभिधेयं सूचयतः ज्ञापयतः, कस्मादिव शकुना- दिव । यथा मार्गवतिभिः अध्वस्थैः एवंविधात् शकुनात् पिङ्गलापोदतक्यादेः पक्षिणः सकाशादुद्विज्यते त्रस्यते । किंलक्षणात् शकुनात् प्रकटं मृदु जल्पतः भाषतः(?), तथा अन्तरा मध्ये परुषमर्थ सूचयतः रूक्षमभिधेयं बोधयतः, अनिष्टमर्थ ज्ञापयत: इत्यर्थः । यथा अध्वस्थैः मृदुभाषिणोऽथ चारिष्टसङ्ख्यानात् खगात् अस्यते ॥ १९ ॥ - . सत्यपथस्थैः ।

संगः।] शिशुपालवधे। ५७७ • । नन्वप्रियगर्भेऽपि वाक्ये गुणग्राहिभिः प्रियमेव गृह्यता, हंसः क्षीरमिवाऽम्भसीत्याशङ्कयाह- प्रकटामिति ॥ प्रकट प्रकाशं मृदु नाम मृदुकल्पं जल्पतः कथयतः, अन्तरा अन्तः परुषमनिष्टमर्थ सूचयतः ईदृशादन्तःशुद्धिशन्यात्पुरुषादीदृशः शकुनादिव . बहिः शुभकरं कुर्वतोऽन्तरा परुषं सूचयतः पिङ्गलादिपक्षिण इव मार्गवर्तिभिः सन्मार्गति मिरवगैश्वोद्विजितव्यम् । न चांशतोऽपि ग्राह्यम् , विषसंपृका- उन्नवदखिलस्याऽनर्थहेतुत्वादिति भावः । 'विज इट्' इतीट: कित्त्वान गुणः ॥ १९ ॥ . एवं सामान्यतो दूतं निर्भय॑ प्रस्तुतमाह- हरिमचितवान् महीपति(१)यदि राशस्तव कोऽत्र मत्सरः ।। न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २० ॥ हरिमिति ॥ हे दूत ! यदि चेत् महीपतिः राजा युधिष्ठिरः हरिमचितवान् श्रीकृष्ण 'पूजयामास, तर्हि अत्रार्थे तब राज्ञः चैद्यस्य कः कीदृग्विधो मत्सरः । अत्र कोपो नयुज्यते इत्यर्थः । अत्र अर्थान्तरं न्यस्यति-यत: कारणात् तरुसूनस्य सुगन्धिवृक्षकुसमस्य शिरसि न्यसनाय कः असूयति वृक्षपुष्पारोपणाय कः क्रुध्यति, कुसुमप्रक्षिप्ते शिरसि कः कोपः । यतः एकः पुरुषः स्वमस्तके सुगन्धिवृक्षकुसुमानि प्रक्षिपति, तदा द्वितीयः कस्मात् को करोति । सोऽपि स्वमस्तके किं न क्षिपतीति भावः ॥ २० ॥ एवं दूतं निर्भय॑ अथ चैद्यं तदोषोदाटनपूर्वकं भसयत- हरिमिति ॥ स भूपतियुधिष्टिरो हरिमर्चितवान् यदि पूजितपश्चेित् , अत्र हर्यर्चनेन तव राज्ञवयस्य मत्सरः कः । निरर्थक इत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुमूनस्य । तरुग्रहणं सूनस्य साधारणता. योतनार्थम् । शिरसि न्यसनायाऽर्पणाय कोऽसूयति । न कोऽपीत्यर्थः। 'क्रुधदुह-' इत्यादिना सम्प्रदान- संज्ञा । सर्वत्र गुणवद्वस्तु गुणर्बहु मन्यने, तटस्थानां किमत्र वृथा सन्तापेनेति भावः । अत्र हरितहसूनयो- क्यिद्वये बिम्बप्रतिबिम्बभावेनाऽ शिरोधारणरूपसमानधर्मनिर्देशाद् दृष्टान्तालङ्कारः ॥ २० ॥ सुकुमारमहो ! लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुनिरन्त्यमी जरयन्त्येव हि तन्मनस्विनः(२) ॥ २१ ॥ सुकुमारमिति ॥ हे दूत! अहो इति आश्चर्ये, लघीयसामतितुच्छानां नीचाना हदर्य मानसं सुकुमारं तुच्छं स्वल्पं, यतः कारणादमी लघीयांसो नीचाः तद्गतं हृदयस्थितम् अप्रियमरुच्यं सहसैव समुद्रिन्ति झटित्येव वमन्ति । तत्क्षणमेव वदन्तीत्यर्थः । स्वल्प- चित्ततया रूक्षमुच्यते । हि यतः कारणात् मनस्विनः प्रशस्तमनसः पुरुषाः तदप्रियं हृदयस्थ जरयन्त्येव । यस्यापि उदरमदीप्तं भवति तुच्छं स्यात्, स सहसैव उद्वमति । दीप्तोदरस्तु जरयत्येव । आगतमेव निवर्तयत्येवेत्यर्थः । तदेतेन सदसतोय॑क्तीकरणे हरि- वैद्ययोरन्तरमुक्तवान् । एवमुत्तरत्रापि ॥ २१ ॥ अथ कथं महान् महतः पूजा सहत इत्याशङ्कय, हरिचैययोर्महदन्तरं मनसि निधाय सामान्यतः सुजनदुर्जनयोरन्तरं चतुर्मिराह- सुकुमारमिति ॥ लघीयसामल्पायसा हृदयं सुकुमारं तुच्छम् । कुतः यतोऽमी लघीयांसस्तन हृदयगतमप्रियं सहसैव झटित्येव समुद्भिरन्ति समुच्चारयन्ति । मनीषिणस्तु तदप्रियं कथाञ्चत् , सम्भाव्य. मानमपीति शेषः । अन्तरेव अपयन्ति । न तूहिरन्तीत्यर्थः । अहो इत्याश्चर्ये । चैयचोगिरति नैवं हरि- रित्यहो! महदन्तरमनयोरिति भावः । अत एवाप्रस्तुतात्सामान्यात प्रस्तुत विशेषप्रतिपतिरूपोयमप्र- स्तुतप्रशंसाभेदः। (१)स भूपति । (२) रुपयन्त्येव हि तन्मनीषिणः । ४९ शिव० ।

५७८ सन्देहविषौषधिसर्वकषायुते- [घोडश:-- 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता' । इति लक्षणात । भादिशन्दात्सामान्यविशेषसङ्ग्रहः। एवमुत्नरलोकत्रयेपि द्रष्टव्यम् । विशेषं तु वक्ष्याम: उपकारपरः स्वभावतः सततं सर्वजनस्य सजनः ।। असतामनिशं तथाप्यहो! गुरुहृद्रोगकरी तदुन्नतिः ॥ २२ ॥ उपकारेति ॥ हे दूत! सजनः सत्पुरुषः सततं नित्यमेव स्वभावतः स्वभावात् सर्व- जनस्य सकललोकस्य साधोरसाधोर्वा उपकारपरः प्रियङ्करः। अपरम् अहो इत्याश्चर्ये,असतां दुष्टात्मनां तथापि तदुन्नतिः तस्योन्नतिः सज्जनोच्छ्रायः गुरुहृद्रोगकरी गुरुं महान्तं हृद्रोग मनःपीडां करोतीति गुरुहृद्रोगकरी तां महतीं मनःपीडां विधत्ते । अत एव श्रीहरिपूजा भवतामपि अनुकूलैव । तत्कस्मान्मात्सर्यमिति वाक्यार्थः ॥ २२ ॥ उपकारेति ॥ किञ्च सज्जन स्वभावतः सततं सर्वजनस्योपकारपरो भवति । न तूपाधिवशान्कदाचि- कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि नदुतिस्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसन्तापकारिणी, अहो आश्चर्यम् । 'कृञो हेतु-' इत्यादिना ताच्छील्ये टप्रत्यये टिड्ढाणञ्-' इत्यादिना डीप् । हरिचैद्यावेवभूताविति सेवाऽप्रस्तुतप्रशंसा ॥ २२ ॥ न यूयं सजना इति वक्तुमाह- परितप्यत एव नोत्तमः परितप्ताऽप्यपरः सुसंवृतः(१) ॥ परवृद्धिभिराहितव्यथः स्फुटनिर्मिन्नदुराशयोऽधमः ॥ २३ ॥ परितप्यत इति ॥ हे दूत ! उत्तमः सजन: न परितप्यत एव सन्ततो न भवति परितापमेव न भजते । अपरो मध्यमः परितप्तोऽपि सुसंवृतः सुष्टुगम्भीरः परितापं मनसि धारयति दुःखं न प्रकटयति । अपरोऽधमो नीचः परवृद्धिभिः अन्यसमृद्विभिः आहितव्यथः जनितदुः खः सन् स्फुटनिर्भिन्नदुराशयः स्फुटं निश्चितं निर्भिन्नः स्फुटितः दुराशयः दुष्टं हृदयं यस्य सः तथा। परवृद्धि दृष्ट्वा अतीव दुःखयुक्तो भवतीत्यर्थः । निश्चितं स्फुटित- दुष्टाभिप्रायः । यदि हि निर्भिन्न आशयो न स्यात्तत्कथं हृदयस्थं प्रकाशयतीति भावः । यो हि भोजनादिना आहितव्यथो भवति, स स्फुटति । केचिन्निभिन्नं प्रकटीभूतमाहुः । तदेतेन मात्सर्यप्रकाशनादतोषसाधनत्वमुक्तम् ॥ २३ ॥ परितप्यत इति ॥ किञ्च उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्याऽपरशुभद्रेष एक नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य सः सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः। अधमस्तु परवृद्धिभिराहितव्यथः उत्पादितसन्तापः तथा स्फुट निर्मित्रः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः। परशुभद्वेषं प्रकाशयत्येवेत्यर्थः । चैयश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालद्वारः ।। २३ ।। ननु राजा सर्वगुणत्वात् सज्जन एवेत्याह- अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम् ॥ खलतां खलतामिवाऽसती प्रतिपद्येत कथं बुधो जनः ॥ २४ ॥ अनिराकृतेति ॥ हे दूत ! बुधो जनः सज्जनः असती निन्द्यां खलतां दुर्जनतां कथं प्रतिपद्येत कथमाश्रयेत, कामिव खलतामिव आकाशवल्लीमिव । न्यथा कः विद्वजनः असती- (१)सुसंवृतिः। ।

सर्गः ।] शिशुपालवधे। ५७8 -मविद्यमानां खलतां खे लता खलता ताम् आकाशवल्ली कथं प्राप्नोति । उभयोः साम्य- माह-किलक्षणां खलतां दुर्जनताम् अनिराकृततापसम्पदम् अवारितदुःखप्रकर्षाम् । खलो हि सर्वतापान निराकरोति, नभोलताऽपि तापं न निराकरोति । अपरं किलक्षणां दुर्जनतां फलहीनाम् उपकारकत्ववर्जितामप्रतिपत्ति, द्वितीयपक्षे फलहीनां फलरहिताम् । अपरं किलक्षणां दुर्जनतां सुमनोभिः मनस्विभिः उज्झितां त्यक्ताम् । खलतां किल सत्पुरुषास्त्यजन्ति इत्यर्थः । द्वितीया खलता समनोभिः पुष्पैरुज्झिता होना भवति । तदेतेन यदि वैद्यः साधुः स्यात्तत्कथं खलत्वं दर्शयेत् , तस्मानीच एवाऽसौ इत्युक्तं भवति । ननु मानिनां परोत्कर्षे परद्वेषो भूषणमेवेत्याशङ्कय नेत्याह-- अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसम्पत् तापानिशयो यया ताम् । एकत्र सन्तापजनक- स्वभावादपरत्राऽमतछायाविरहाच्चेति भावः । तथा फलहीनाम् । एकत्र-दहाऽमुत्र चोपकारशून्या प्रत्युतो- भयत्राप्यनर्थकरीं चेति भावः । अन्यत्र सर्वार्थरहिमाम् । सुमनोभिबुधैरुज्झिताम् , अन्यत्र पुष्पैर्वर्जिताम् । 'सुमनाः पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इति वैजयन्ती। असती दुष्टाम् , अन्यत्र निरुपाख्यां खल- स्य भावः खलता तां खलतां दुर्जनत्वम् , खस्य लता तां खलतां गगनलतिकामिव बुधो जनः सदसद्विवेक- कुशलो जनः कथं प्रतिपद्यताऽवलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः । तथापि म खलनां प्रतिपद्यते, न चैव हरिरिति प्रतीतेः सेवाऽपस्तुतप्रशमा खलनामिवेत्युपमया सङ्कीर्यते । 'अत्यन्तासत्यपि ह्यर्थे ज्ञान शब्दः करोति हि' इति न्यायादसत्याया अपि खलतिकायाः प्रतीतिसत्यतया खलतोपमत्वप्रसिद्धिः ॥ २४ ॥ आक्रोशेऽपि स्वस्थात् कातरत्वेन हरेः परमतेन(?) निरस्यन्नाह- प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ॥ अनुहुरुते धनध्वनि न हि गोमायायुरुतानि केसरी ॥ २५ ॥ प्रतिवाचमिति ॥ हे दूत ! केशवः श्रीकृष्णः चेदिभूभुजे चैद्याय प्रतिवाचं प्रतिवचन न अदत्त न ददौ । किलक्षणाय चेदिभूभुजे शपमानाय, शपते स शपमानः तस्मै निन्दा कुर्वते । हि युक्तमेवैतत्-हि यतः कारणात् केसरी सिंहः घनध्वनिमनु मेघर्जितमुद्दिश्य हुङ्कुरुते कुप्यति, गोमायुरुतानि श्रुत्वा न कुप्यति शृगालवाशितानि आकर्ण्य न क्रुध्यति । अतश्च साम्याभावात् महात्मनाम् ऊनेषु उपेक्षैवौचित्यम् । 'गण्डस्थले मदकरी मदवारि- लुब्धमत्तभ्रमभ्रमरेत्यादि उक्तम् ॥ २५ ॥ नन्वेवं महानुभावो हरिः किमर्थं तथा सदासि राज्ञा निर्भय॑मानो मौनमास्थित इत्याशक्य सत्य- मनादरान तु कातर्यादित्याह- प्रतिवाचमिति ॥ केशवः शपमानाय क्रोशते । स्वस्तित्त्वादात्मनेपदम् । चेदिभूभुजे । क्रियाग्रहणा- सम्प्रदानत्वम् । प्रतिवाचं प्रत्युत्तरं नादत्त । केसरी सिंहो घनध्वनिमनुहुङ्कुरुते प्रतिगर्जात, गोमायुरुतानि शिवारुतानि नाऽनुहुकुरुते। 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः। महतामधमेष्वव जैव नीति- रिति भावः । दृष्टान्तालङ्कारः ॥ २५ ॥ सतां कोपाभावे हेत्वन्तरमाह- जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ २६ ॥ जितेति ॥ हे दूत! महाधियो बुद्धिमन्तः सज्जनाः जितरोषरयाः मुक्करोषजवा भवन्ति । न कदाचिदपि कुप्यन्तीत्यर्थः । पुनः लघुर्जनः नीचो जनः सपदि क्रोधजितः - - सन्देहविषौषधिसर्वयायुते- [ षोडश:- । - क्रोधेन रोपेण जितः पराभूतः वशीकृतः । विजितेन जितस्य वशीकृतेन क्रोधेन जितस्य आक्रान्तस्य दुर्मतेः दुरात्मनः लघुजनस्य मतिमभिः सन्मतिभिः सज्जनैः सह का विरो- पिता को विरोधः । सज्जनैः क्रोधो जितः, अयं जनश्च क्रोधेन जितः । तत्कथं स महविः विरुध्यते । त्वं च क्रोधेन जितः इति कीहक् साम्यं युवयोरित्यर्थः ॥ २६ ॥ किञ्च राज्ञो हरिणा विरोधोऽपि न योग्य इत्याह- जितति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः, लघुरल्पो जनस्तु सपदि क्रोधजितः। एवं विजिनेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दुर्मतेमूर्खस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितयोमीय स्पर्धापि न सङ्गतेत्यर्थः । मूर्खश्चायं चैद्य इत्यप्रस्तुनासामान्याविशेषप्रतीते. स्पस्तुतपशंसाभेदः ॥ २६ ॥ न च क्षमया श्रीकृष्णस्य किञ्चिल्लाघवमिति दर्शयितुमाह- वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ॥ किमपैति रजोभिरौर्वररवकीर्णस्य मणेर्महार्घता ।। २७ ॥ वचनैरिति ॥ हे दूत ! महीयसः अतिमहतः पुरुषस्य गुरुत्वं महत्त्वम् असतां वचनैः दुर्जनानां वाक्यैः खलु निश्चितं न व्येति न व्ययं याति, किंलक्षणैर्वचनैः उद्धतैः अस- म्भवैः। युक्तमिदमित्यत्र अर्थान्तरन्यासः-यतः कारणात् और्वरैः उर्वरायाः इमानि और्व- राणि तः पृथ्वीसम्भवैः रजोभिः धूलिभिः अवकीर्णस्य परिव्याप्तस्य मणेः रत्नस्य महा- र्घता महामूल्यता किमपैति कथं विनाशं प्राप्नोति ॥ २७ ॥ नापि चैद्य मलापैः कृष्णस्य किञ्चिल्लाघवमित्याशयेनाह- वचनैगिति ॥ उद्धतैर्निष्ठुरैरसता दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापति खलु । और्व रैौमैः । 'उर्वरा सर्वसस्या ट्यभूमौ स्याद् भूमिमात्रके' इति विश्वः । रजोभिरवकीर्णस्य छन्त्रस्य मर्महार्घता महामूल्यत्वम् । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अपैति किम् । नापत्यवेत्यर्थः । अत्र मणि- महीयसोर्वाक्य भेदेन प्रतिबिम्बकरणाद् दृष्टान्तालङ्कारः । महीयस इनि सामान्याद्धरेरिति विशेषप्रतीतरप्रस्तुत. प्रशंसा चेति सदूरः । हरिमण्योरुपमा ध्वनिश्च ॥ २ ॥ निर्गुणत्वाद्रवतः परुषवाक्त्वं युक्तमेवेति वक्तुमाह- परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।। परदोषकथाभिरल्पकः स जनं(१) तोषयितुं किलेच्छति ॥ २८ ॥ परितोषयितेति ॥ हे दूत ! यस्य देहिनः स्वगतः आत्मनि वर्तमानः कश्चन गुणः कोऽपि गुणः कश्चिदपि वैदुष्यचातुर्यादिधर्मः न परितोषयिताऽस्ति न परितोषकः भवति अर्थात् सजनस्यैव, सः अल्पको नीचः परदोषकथाभिः परापवादवचनैः किल सत्ये जन साधुलोकं तोषयितुमिच्छति हर्षयितु वाञ्छति । यः किल स्वगुणैरपि जन तोषयितुं न समर्थः, स परदोषकयनैः कथं परितोषयिष्यते । अथ च गुणहीनः परगुणदूषक एव भवती- त्यर्थः । तदेतेन तेषां निर्गुणत्वमुक्तम् ॥ २८ ॥ युत चैतत्पारुष्यं दुरात्मनामित्याह- परितोषयितति ॥ यस्य दोहनो जन्तोः परितोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चि- दपि नास्ति, अल्पकः तुच्छः स इति शेषः । यत्तदोर्नित्यसम्बन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः .. . (१)स्वजनं।

सर्गः।] शिशुपालवधे। ५८१ स्वजन, न तु मध्यस्थामति भावः । तोषयितुमिच्छति किल ईहते खलु । वैद्यस्यापि निर्गुणत्वात्परदूषर्व युक्तमिति । अत एवाऽप्रस्तुतप्रशंसाभदः ॥ २८ ॥ न तु स्वयमात्मनो दोष हरेर्वा गुणं पश्यामः, तत्कथं भवानेवमाहेत्याह- सहजाऽन्धद्वशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ॥ स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ २९ ।। सहजाऽन्धेति ॥ हे दूत ! असाधवो दुर्जनाः स्वदुर्नये निजदोषे सहजाऽन्धनः जायन्ते जात्यन्धा भवन्ति । जात्यन्धो हि न किञ्चित्पश्यति। अतस्ते स्वदोष न कदाचि. दपि पश्यन्तीत्यर्थः । तथा असाधवः परदोषेक्षणदिव्यचक्षुषो भवन्ति परदोषाणामन्यतम- च्छिद्राणाम् ईक्षणे दिव्यानि अनुपमानि चक्षूषिलोचनानि येषां ते तथा । परच्छिद्राऽवलो- कने सहस्रनेत्राः स्युरित्यर्थः । अपरं किलक्षणा असाधवः स्वगुणोच्चगिरः स्वगुणग्रहणे स्फुटवाणीकाः आत्मगुणग्रहणे सहस्रजिह्वाः, अन्यत् परवर्णग्रहणेषु अन्ययशःकीर्तनेषु मुनिव्रताः मुनीनां व्रतं तूष्णींभावो येषां ते तथा । कदाचिदपि परगुणं नैव भाषन्त- इत्यर्थः । अतश्च असाधुः स्वभावादेव आत्मनो दोपं परस्य च गुणं नैव पश्यतीत्यर्थः ॥२९॥ नन्वात्मनो निर्दोषत्वाभिमानादित्थं विजृम्भणमित्याशङ्याह- सहजाऽन्धेति ॥ असाधवः खलाः स्वदुनये स्वदोघे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां सूक्ष्मागामपीति भावः, ईक्षणे दर्शने दिव्यच. क्षुषोम्पतिहतदृष्टयः । किञ्च स्वगुणेषूचगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः । परवर्षग्रहणेषु परस्तुतिवचनेषु । 'स्तुतो वर्ण तु वाऽक्षरे' इत्यमरः । मुनिवना मौनवतिनः । अर्शआदिभ्योऽन् । वैय- शवविध इति प्रतीतरप्रस्तुतप्रशंसा ॥ २९ ॥ यच्च हरिणा दोषाविष्करणं नाऽकारि, एष महत्तरस्य स्वभाव एवेति वक्तुमाह- प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।। विवरीतुमथाऽऽस्मनो गुणान् भृशमाकौशलमार्यचेतसाम् ॥ ३० ।। प्रकटान्यपोति ॥ दूत! आर्यचेतसाम् आयं श्रेष्ठं चेतो येषां ते आर्यचेतसः उदारमनसः तेषां सत्पुरुषाणां प्रकटान्यपि स्फुटानि विश्वविदितान्यपि परवाच्यानि पर- दूषणानि चिराय गोपितुं बहुकाल रक्षितुं महत् अति नैपुण्यं चातुर्य भवति । अथ आत्मनो गुणान् स्वस्य गुणान् औदार्यवैदुष्यादीन् धर्मान् विवरीतुं भृशमतिशयेन प्रकटी- कर्तुम् आकौशलमकुशलत्वमनैपुणं भवति । आर्यास्तु परदोषान् रक्षन्ति, आत्म- गुणान् न वदन्तीत्यर्थः ॥ ३० ॥ साधवस्तु नैवामिन्याह- प्रकटान्यपीति ॥ आर्यचेतसां सुमनसा प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपा- यितुम् । संवरितुमित्यर्थः । 'आयादय आर्धधातुके था' इति विकल्पादायप्रत्ययाभावः। मात्रैपुणं कौशल- म् । अथेति वाक्यारम्भे । अथात्मनो गुणान् विवरीतुं प्रकटयितुम् । बात्मप्रशंसा कर्तुमित्यर्थः। भृशमा- कौशलमत्यन्तमकौशलम् । माधवो न परात्रिन्दन्ति न वाऽऽत्मानं प्रशंसन्ति । 'आत्मप्रशंसा परगह मिय वर्जये'दित्यापस्तम्बीये निषेधस्मरणादिति भावः । 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पा- अपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतरप्रस्तुतप्रशसैव ॥ ३० ॥ किमिवाऽखिललोककीर्तितं कथयत्यारमगुणं महामनाः ।। वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ ३१ ॥ हे - [ षोडश:- . १८२ सन्देहविपौषधिसर्वपायुते- किमिवेति ॥ हे दूत ! महामना उदारचित्तः पुमान् अखिललोककीर्तितमात्म- गुणं किमिव कथयति सर्वजनवर्णितं निजगुणं कथं वदति, परं लघीयसो नीचस्य पुरुषस्य गुणम् अपरः अन्यः कोऽपि पुरुषमात्रोऽपि न वदिता न कीर्तयिता भवति । तेन हेतुना असौ नीचः स्वगुणमात्मगुणं स्वयं वदति आत्मना कथयति । आत्मानं स्वयमेव स्तौती- त्यर्थः । यद्यसौ स्वयं नाचष्टे, तदा अस्य वराकस्य का गतिः । तस्मात् युक्ता भवता- मात्मनः स्तुतिः ॥ ३१ ॥ किमिवेति॥ किञ्च महामना महात्मा अखिललोककीर्तितं स्वत एव सबैलोकैः प्रख्यातमात्मगुणं किमिक किमर्थ कथयत्येव । स्वत एव सर्वलोकः कीर्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वका । वदेस्तृच्प्रत्ययः । अत एव 'न लोका--' इत्यादिना षष्ठांप्रतिषेधः । अपरोऽन्यो नास्ति । तेन कार- नासौ लघीयान् स्वगुणं स्वयमेव वदति । न केवलं निषेधात् , किञ्च प्रयोजनाभावादपि महानात्मप्रशंमा न करोति, तुच्छस्तु वक्षन्तरासम्भवात्स्वयमेव ता प्रलपतीत्यर्थः । पूर्वार्धे पदार्थहेतुकं कायलिङ्गम् , उत्तराः वाक्यार्थहेतुकं चोनेयम् । कृष्णचैयौ चवावधाविति विशेषप्रतोतरेप्रस्तुतप्रशंसा चेति सङ्करः ॥ ३१॥ पुरुषास्तु कर्मणैव कोपं दर्शयन्तीति वक्तुमाह- विसृजन्त्यविकस्थनाः (१)परे विषमाशीविषवन्नराः क्रुधम् ।। दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ ३२ ।। विसृजन्तीति ॥ हे दूत ! अविकत्थनाः स्तुतिरहिताः परे नराः पुरुषाः क्रुधं विस- जन्ति को प्रकटयन्ति, किंवत् आशीविषवत् सर्पवत् । यथा आशीविषाः सर्पाः तूष्णी- भूताः विषं विसृजन्ति मुञ्चन्ति । इतरे नराः अन्ये जनाः अन्तर्मध्ये असाररूपतां दधत: तुच्छत्वं धारयन्तो निःसारत्वं बिभ्रतो ध्वनिसारा भवन्ति वाक्प्रधानाः स्युः । न तु कर्मणा । के इव पटहा इव आनका इव । यथा पटहाः अन्तर्मध्येऽसारतां शून्यता दधतोऽपि ध्वनिसाराः शब्दपटवो भवन्ति ॥ ३२ ॥ किञ्च महात्मानः क्रुद्धाः काले पराक्र मन्ति, दुरात्मानस्तु केवलं प्रलपतीन्याह- विसृजन्तीति ॥ परे नरः सत्पुरुषाः विषमाशीविषयन्करसर्पवदिन्युपमा । अविकस्थिनोग्नात्मश्लाधिन- एक क्रुध क्रोधं विमृजन्ति वमन्ति । पराकामन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःमाररूपता दधतो दधानाः । 'नाऽभ्यस्ताच्छतुः' इति नुमभावः । इतर जना दुर्जनाः पटहा इव ध्वनिरव मारो बलं येषां ते ध्वनिमारा वाक्शुरा एव । न तु बाहुबलशालिन इति भावः । अत्राऽपीदृशौ कृष्णचंघावित्यप्रस्तुतसामान्या- प्रस्तुतविशेषप्रतीतरप्रस्तुतप्रशंसाभेदः ॥ ३२ ॥ तदेतेन तेषां तुच्छत्वमुक्तं, हरेश्च शौर्ययुक्तत्वमुक्तम् । द्वयर्थमुक्त्वा चोत्तरं वक्तुमाह- नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ॥ द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥ नरकच्छिदमिति ॥ हे दृत! स चेदिभूपतिः चैद्यः येन विधिना (सन्धिना)विग्रहेणा वा नरकच्छिदं नरकहन्तारं श्रीकृष्णम् ईक्षितुमिच्छति द्रष्टुं वाञ्छति, तेन विधिना स द्रुत- मेतु शीघ्रमागच्छतु । एष श्रीकृष्णः तस्य विधेः सदृशं योग्यम् उत्तरं विधातुं न हापयिष्यते. तस्य वैद्यस्य वाञ्छा पूरयिष्यति । स अनागच्छन् हारयति, अतो द्रुतमेतु, यथा न हारयतीत्यर्थः । वैरायमाणो नूनमसौ मरिष्यतीति नरकच्छिद्ग्रहणेन सूच्यते ॥ ३३ ॥ - - (१) विकस्थिनः।

सर्गः। शिशुपालवधे। ५८३ - .. .. 'अभिधाय तदा तदप्रिय'मित्यादिना यद् दूतेन युगपत् प्रियाप्रिये अभिहिते, तोचरमाह- नर कति ॥ स महीपतिश्चेदिभूपतिर्येन विधिना येन प्रकारेण सन्धिना विग्रहेण वा नरकच्छिदं नरकस्याऽप्यन्तकम् । किमन्येषामशक्कानामिति भावः । ईचितुमिच्छति, तस्य विधेः सदृशमुत्तरं प्रति- किया स्ने हो विरोधो वा विधातुं न हापयिष्यते । अविलम्बेन विधास्यत इत्यर्थः । जहातेय॑न्तात्कर्मणि लट्। विधानक्रियया अनभिधानेऽपि प्रधानभूनक्रिययाऽभिहितत्वादुत्तरमिति न कर्मणि द्वितीया। दुतं शीघ्र- मेतु आगच्छतु । आगमने स्वयमेव हीयत इति भावः ॥ ३३ ॥ 'अभिधाय तथा तदप्रिया मिति यद्वचनमुक्तं, तदनुपपन्नमिति वक्तुमाह- समनद्ध किमङ्ग ! भूपतिर्यदि सन्धित्सुरसौ सहाऽमुना ।। हरिराक्रमणेन संनति किल बिभ्रीत भियत्यसम्भवः ॥ ३४ ॥ समनद्धति ॥ अङ्ग इत्यामन्त्रणे, हे दूत ! यदि चंदसौ भूपतिः शिशुपालः अमुना श्रीकृष्णेन सन्धित्ठः सन्धि कर्तुमिच्छुः, तदा किं समनद्ध सेनां संनद्धां कथं चकार । किलेति सत्ये, हरिः श्रीकृष्णः आक्रमणेन आक्रान्त्या भिया भीत्या च संनतिं बिभ्रीत नम्रतां भजेत इति असम्भवः एतन्नैव सम्भवति ॥ ३४ ॥ नन्वभिधायेत्यादी मया साम्त्वमेव विवक्षितं न विग्रहस्तन्किमुभयाऽभ्यनुज्ञयेत्याशङ्कयाह- समनदति ।। अङ्ग्रेत्यामन्त्रणे, असो भूपतिश्योऽमुना हरिणा सह सन्धिसुर्यदि सन्धातुमिच्छुश्चेत् । दधालेः मन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थ संनद्धवान् । ततो नायं सन्धिन्सुरिति भावः । नातेः स्वरि- तेत्त्वाकर्तरि लुङि तङ्क 'झलो झलि' इति सकारलोप: । कृष्णभीषणार्थ संनाह इत्यत आह-हरिः सिंहः कृष्णश्च किलाऽऽक्रमणेनाभिभवेन या भीस्तया सननि नम्रता बिधीत बिभृयादित्यसम्भवः । सम्भवो नास्ति खल्वित्यर्थः ॥ ३४ ॥ यञ्च भवद्भिः भगवतो रूममभिहितं तद्युष्माकमेवाऽनर्थाय भवतीति वक्तुमाह- महतस्तरसा विलयन्निजदोषेण विधी(१)विनश्यति ॥ कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ३५ ॥ महत इति ॥ हे दूत ! विधीः नष्टबुद्धिः निजदोषेण आत्मापराधनैव विनश्यति विनाशं प्राप्नोति, किं कुर्वन् महतः उत्तमान तरसा बलेन विलङ्घयन् आक्रामन् । युक्तं चैतत् , यतः कारणात् इद्धदीधितिः दोसद्युतिः वैश्वानरः शलभान् पतङ्गान् खलु निश्चित स्वया इच्छया आत्मीयया वाञ्छया इन्धनं न कुरुते समिधं न विदधाति भस्मसात् न विदधाति, किन्तु ते तत्र स्वयं पतन्तीत्यर्थः । यावत्तेनैव नाकान्ताः, तस्मात्स्वदोषेणैव यूयं न भविष्यथेति वाक्यार्थः ॥ ३५ ॥ मथाऽऽक्रमणेऽनिष्टमाचष्टे- महत इति ॥ कुधीरासनविनाशत्वाद्विपरीतबुद्धिमान् महतो महानुभावोस्तरमा बलेन । 'नरसी बल- रंहसी' इति विश्वः। विलक्यत्राकामत्रिमदोषण स्वापराधेनवोल्लङ्घनरूपेण विनश्यति । तथा हि-इद्धदीधि- तिदप्तिाचिरग्निः स्वया निजयच्छया शलभान्पतङ्गान् । 'समौ पतङ्गशलमी' इत्यमरः। इन्धनं दाह्यं न कुरुते बालु, किन्तु त एक निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः। इतः परं न क्षम्यत इति भावः। दृष्टान्तालङ्कारः॥३५॥ त्वया शपमानेन अस्मदहितमेवोक्तमिति वक्तुमाह- यदपूरि पुरा महीभुजा न(२) मुखेन स्वयमागसां शतम् ॥ अथ सम्प्रति पर्यपूपुरत्तदसौ दूतमुखेन शाङ्गिणः ॥ ३६ ॥ (१) कुधी। (२) महीपतिर्न। - ५८४ सन्देहविषौषधिसर्वकषायुते- [ षोडश:- यदिति ॥ हे दूत ! महीभुजा राज्ञा चैधेन पुरा पूर्वम् आनसां शतमपराधाना दशकदशक स्वयमात्मना मुखेन स्ववक्त्रेण न अपूरि न सम्पूर्ण चक्रे । अथ पश्चात् तदप- राधशतं शाङ्गिणः श्रीकृष्णस्य असौ वैद्यः दूतमुखेन भाद्वक्त्रेण पर्यपृपुरत् पूरयामास । भगवदपराधशतस्यैव गणयामास । भृत्यापराधे हि स्वामिनो दण्डः । तस्मात्सम्पन्न- मनोरथा वयमिति भावः ॥ ३६ ॥ नन्यसहने शाईिणः शतापराधमहनप्रतिज्ञाभगः स्यादित्यत्राह- यदिति ॥ पुरा पूर्व महीपतिश्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । 'गोऽपराधो मन्तु- श्व' इत्यमरः । शागिः कृष्णस्य स्वयं नाऽपूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुह 'दीपजन-'इत्या- दिना विकल्पाचिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं सम्प्रतीदानीमसौ चयः दूतमुखेन दूनवाचा नत् भागसां शतं पर्यपूपुरत्परिपूरयामास,दूतमुखत्वाद्राज्ञाम् । तेन कृष्णक्रोधावसरदानेनं महदुपकृतमायुष्मते ति भावः । पूरयतेलुकि गौ चङ्युपधाया ह्रस्वः, अभ्यासदीर्घः ॥ ३६ ।। यदनर्गलगोपुराननस्वमतो(१) वक्ष्यसि किञ्चिदप्रियम् ॥ विवरिष्यति तश्चिरस्य नः समयोदीक्षण(२)रक्षितां क्रुधम् ॥ ३७॥ यदिति ॥ क्रुध्शब्दः स्त्रीलिङ्गः । हे दूत ! त्वमतः परं यत्किञ्चिदप्रियं कठोरम् अरुच्यं वक्ष्यसि वदिष्यसि । किंलक्षणस्त्वम् अनर्गलगोपुराननः अनर्गलमर्गलारहितम् अन- वष्टम्भ यद्गोपुरं पुरद्वारं तद्वदाननं मुखं यस्य सः तथा उद्घाटितप्रतोलिकावदनः । तदप्रिय नः अस्माकं क्रुध कोपं विवरिष्यति प्रकटयिष्यति । किलक्षणां क्रुधं चिरस्य बहुकालात् समयोदीक्षणरक्षितां समयस्य संविदः उदीक्षणं प्रतीक्षणं तेन रक्षितां पालितां वचनप्रति- पालननिगडिताम् । पाठान्तरे समयोदीक्षणरक्षिताः क्रुधः । अस्मदीयः कोपः समयं काल- मवसरं प्रतीक्षन्नस्ति(३)। तं कोपं त्वं साम्प्रतमपि प्रकटं मा कारयेत्यर्थः ॥ ३ ॥ निगमयन्फलितमाह- यदिति ॥ अनर्गलमविष्कम्भम् , विकृतमिति यावत् । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः। यहोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्याध्वाच्यविवेकशुन्य इत्यर्थः । त्वमितः इतः परं यदाप्रेयं वक्ष्यसि तद- प्रियं चिरस्य चिरात्प्रभृति । 'चिराय चिररात्राय चिरस्यायाचिरार्थकाः' इत्यव्ययेवमरः । समयोडीम- णेन संवित्प्रतीक्षणेन राक्षता, रुद्धामित्यर्थः । 'समयाः शपथाचारकालासिद्धान्तसंविदः' इत्यमरः । कुषं क्रोधं विवरिष्यति । 'वृनो वा' इति दीर्घविकल्पः । इतः परं त्वमपि दण्य एवेति भावः ॥ ३ ॥ निशमय्य तदुर्जितं शिनेर्वचनं नप्तरनाप्तुरेनसाम् ॥ पुनरुज्झितसाध्वसं (४)द्विषामाभधत्ते स्म वचो वचोहरः ॥ ३८ ॥ निशमय्येति ॥ अथाऽनन्तरं द्विषां वचोहरः वचनहारी चैवस्य दूतः पुनर्भूयोऽपि वचः अभिधचे स्म वचनं वभाषे । कथं यथा भवति उज्झितसाध्वसं संत्यक्तमयं यथा स्या- त्तथा । निर्भयेण हि दूतेन भवितव्यम् । किं कृत्वोवाचेत्याह-शिनेः यादवमुख्यस्य राहो नप्तुः पौत्रस्य सात्यकः तत् वचनम् अर्जितं सबलं निशमय्य श्रुत्वा, किशक्षणस्य चिनः नप्तः एनसाम् अनाप्तुः पापानाम् अप्रापकस्य, आप्नोतीत्याता न आता अनासा तस्य अनाप्तुः, निष्पापस्य पातकरहितस्य । नसा पौत्रः ॥३०॥ निशमय्येति ॥ एनसामनाप्तुरसंस्पष्टुः । सत्यवादिन इति भावः। आप्नोतेस्तृच । शिनर्नाम्नः कस्य- (१1०स्त्वमितो। (२)मयोहीक्षण। (९) परस्मैपदं चिन्त्यम् । (४) सामसो । .

मर्गः । शिशुपालवधे। ५८५ - चित् यादवस्य नप्तः पौत्रस्य । सात्यकेरिति भावः । तदूर्जितमर्थयुक्तं वचनं निशमय्य श्रुत्वा । 'ल्यपि लघु- पूर्वाव' इति रयादेशः । पुनर्भूयोऽप्युज्झितसाध्वसं त्यकभयं यथा तथा द्विषां वचो हरतीति वचोहरो दूतः। इस्तेरनुगमने च । पचोऽभिधत्ते स्म अभिहितवान् ॥ ३८ ॥ दूतः किमुवाचेत्याह- विविनक्कि न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ॥ यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥ विविनक्तीति ॥ हे कृष्ण ! पृथगजनो नीचजनः स्वयमेव आत्मनैव स्वहितं स्व- पथ्यं न विविनक्ति न विचारयति । किंलक्षणः पृथगजनः बुद्धिदुर्विधः बुद्धौ दुर्विधः प्रज्ञादरिद्रः, अत एव स्वहितं न जानाति । अपरम् अद एतत् स्वहितं यत् परैः अन्यै- रुदीरितमपि उक्तमपि न जानाति न बुध्यते, तत् महत् अद्भुतं महदाश्चर्यम् ॥ ३९ ॥ विविनतीति ॥ बुद्ध्या दुर्विधो दरिद्रः। बुद्धिशून्य इत्यर्थः। 'निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि मः' इत्यमरः । पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनवात्माहतं न विविनति । तद्युक्तमेवेति भावः । किन्तु परैरुदीरितमुपदिष्टमप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूकंन गृहणातीति भावः ॥ ३९ ॥ विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः ॥ न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादतेऽल्पधीः ॥ ४० ॥ विदुरिति ॥ हे कृष्ण ! बुधाः विद्वांसः एष्यत् अपायम् आत्मना विदुः भविष्य- द्विघ्नं विनाशं स्वयं जानन्ति स्वयं विदन्ति, अथ वा परतः श्रद्दधते परकथनेन मन्यन्ते । अपरं स्वल्पधीः मन्दबुद्धिः न परोपहितं परेण अन्येन उपहितम् उक्तं न च स्वतः न च मात्मनः च प्रमिमीते न जानात्येव । कथम् अनुभवादृते अनुभवं विना, अन्यथा न जानात्येव ॥४०॥ अथ किमद्भुतं मूर्खेष्वित्याशयेनाह- विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनमपायमनर्थम आत्मना स्वयमेव । प्रकृत्यादिभ्य उपसल्या. नात्तृतीया । विदुर्विदन्ति । 'विदो लटो वा' इति विकल्पाज्जुमादेशः । अथ वा परतोऽन्यस्मादाताच्छूद्दधते विश्वसन्ति । आप्तोतं गृह्णन्तीत्यर्थः । 'श्रदन्तरोरुपसल्यानम्' इत्युपसर्गसंज्ञोपसमयानाद्धानोः प्राक्- प्रयोगः । अल्पमूढस्त्वनुभवादृते स्वानुभवं विना । 'अन्यारादितरते-' इति पञ्चमी । न प्रमिमीते न जानाति । अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः। अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात प्रस्तुतविशेषप्रतीतरप्रस्तुनप्रशंसाभेदः ॥ ४० ॥ येनाऽभिप्रायेणोक्तं, तदाविष्कर्तुमाह- कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण ! यदभ्यधामहम् ॥ उपदेशपराः परेष्वपि स्वविनाशाऽभिमुखेषु साधवः ॥ ४१ ॥ कुशलमिति ॥ हे कृष्ण ! यद्वचनं वाक्यम् अहमभ्यधाम् अहमवोचं, खलु निश्चित तद्वचनं तुभ्यमेव कुशलं भवते एव हितकारि । मया हि त्वत्प्रियार्थमुक्तमित्यर्थः । यतः कारणात् साधवः सजनाः परेष्वपि शत्रुष्वपि उपदेशपराः युक्ताऽभिधायिनो भवन्ति । कि- लक्षणेषु परेषु स्वविनाशाभिमुखेषु आत्मविनाशोचतेषु ॥ ४१ ॥ अतः प्रस्तुते किमायातं, तबाह- कुशनमिति ॥ हे कृष्ण ! अहं यद्वचनमभ्यधाम् । 'अभिधाये'त्यादिना राशा सन्धिर्गुणाय विग्रहस्तु - ५८६ सन्देहविषषधिसर्वकषायुते- [ षोडश:- - अन येत्येवमोचमित्यर्थः। तद्वचनं तुभ्यमेव कुशलं हितम् । चतुर्थी चाशिष्पायुष्यमभदकुशलसुखार्थहि नै ' इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशठ्यार्थान्तरन्यासन परिहरति-सा सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूनकर्मप्रवृत्तवित्वर्थः । परषु शत्रुष्यप्युपदेशपरा उर. दिशन्त्येव । कृपालुतयेति भावः ॥ ११ ॥ उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच ते ॥ प्रविभज्य पृथकमनीषया सगुणं (१) यत्किल तस्करिष्यसि ॥ ४२ ॥ उभयमिति ॥ हे कृष्ण ! मया युगपत् तुल्यकालक्षेपरहितम् औत्सुक्येन उभयम् उदितं द्वयं बभाषे, उभयं किं ते तव सान्त्वं प्रियम्, अथ अपरम् इतरत् अप्रियम् । तत् त्वरया मनीषया बुद्धया पृथक् प्रविभज्य भिन्नं कृत्याकृत्यं विचार्य यत्किल सगुणं चित्तोषितं तत्करिष्यसि तद्विधास्यसि । त्वं स्वबुद्धया विचार्य करिष्यसीति द्वयमेवामि- धातुमागतः । तत्त्वरया युगपदुभयमुक्त, प्रावीण्यं दर्शितार्थ च ॥ ४२ ॥ तथाप्यर्थद्वये त्वद्वाक्ये किं ग्राह्यं तत्राह- उभयमिति ॥ मया सान्त्वं सामादि । अथेति पक्षान्तरे । इतरदसान्त्वम् , विनाश्वेत्यर्थः । युगप- दुदितं, त्वं तु मनीषया बुद्ध्या पृथग्भेदेन प्रविभज्य विविच्य यम्वगुणं तत्र येऽपि त्वरया यच्छुभोदर्क तत्करिष्यसि किल खलु । हंसः कीरमिवाम्भमीति भावः ॥ ४२ ॥ अस्थाने चैवं कथनादसत् मया कृतमिति वक्तुमाह- अथ वाऽभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ॥ रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥४३॥ अथ वेति ॥ अथ वा स्ववचनाक्षेपे युक्तं मयाऽकारीत्याह-हे कृष्ण! अभिनिविष्ट- बुद्धिषु एकत्रापि अभिनिवेशितमतिषु पुरुषेषु विषयेसु भापितं सुवचनं हितोपदेशवाक्यं व्यर्थकतां व्रजति निष्फलतां याति । यस्य हि बुद्धिरेकत्राऽभिनिविशन्ती(१) भवति, स कथं कस्यापि सुभाषितं शृणोतीति भावः । केषु किमिव कमलाकरेषु शीतरोचिषः करजालमिव । यथा शीतरोचिषः चन्द्रमस: करजालं किरणपटलं कमलाकरेषु पनवनेषु व्यर्थकतां व्रजति निष्फलत्वं प्रयाति, किंलक्षणेषु कमलाकरेषु रविरागिषु श्रीसूर्ये प्रीतिमत्स ॥ ४३ ॥ अथ वा सुजनस्वभावात्कृतोऽपि हितोपदेशो मूर्वेषु निष्फल इत्याह- अथ वति ॥ अथ वा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचिनेषु विषये सुभाषितं हितोपदेशवचनं रविरागिषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयति भावः ॥ १३ ॥ अनपेक्ष्य गुणागुणं(२) जनः स्वरुचि निश्चयतोऽनुधावति ॥ अपहाय महीशमाचिंचत्सदसि त्वां ननु भीमपूर्वजः ॥४४॥ अनपेक्ष्येति । हे कृष्ण ! जनो लोकः गुणागुणमनपेक्ष्य हिताहितमनवलोक्य निश्चयतः निश्चयेन स्वरुचिमनुधावति स्वप्रीतिविषयमनुसरति । निजमति कुरुते इत्यर्थः । कुत इत्याह-ननु इति सम्बोधने, हे कृष्ण ! भीमपूर्वजः वृकोदरज्येष्ठभ्राता युधिष्ठिरः महीशं भूपतिं चैवम् अपहाय त्यक्त्वा सदसि सभायां त्वामाचिचत् भवन्तं पूजयामास । तत्त्वतो हि गुणवत्तरः । एतेन स्वरुचिरेव आश्रीयत इत्यर्थः ॥ ४४ ॥ (१) स्वगुणं । (२) गुणागुणौ। - सर्गः ।] शिशुपालवधे । ५८७ नन्धभिनिविष्टोऽपि सुजनैलादपि हिते प्रवर्तयितव्य इत्याशय न शक्यत इत्याह- अनपेक्ष्येति ॥ जनस्त्वादृशः पृथग्जनः । गुणागुण। गुणदोषौ । “विप्रतिषिद्धं चाम्नधिकरणवाचि' इति विभाषया न द्वन्द्वैकवदाकः । अनपेक्ष्याऽविमृश्य निश्चयतः स्वनिश्चयादेव स्वरुचि स्वेच्छामनुधावति । न तु स्वहिनमनुसरतीत्यर्थः । तत्र पार्थ एव प्रमाणमित्याह-भीमपूर्वजः भीमाग्रजो युधिष्ठिरः । मूर्खा- प्रणीरिति भावः । महीशं चदिपमपहाय सदसि त्वामार्चिचदर्चितवान्खलु। अर्चयतेहूं चडि 'अजादे- वितीयस्य' 'नन्द्राः संयोगादयः' इति रेफवर्जितस्यैकाचो विर्भावः । सामान्येन विशेषसमर्थनरूपोऽर्था- तरन्यासः ॥ ४४ ॥ न चैतावताऽस्माकं वाचि कदाचिद्दीनता इत्याह- स्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ॥ प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ ४५ ॥ त्वयीति ॥ हे कृष्ण ! कुरुराजा युधिष्ठिरण न सत्कृतः न पूजितोऽपि अस्मत्स्वामी चेदिपः चेदिपतिः शिशुपालः गुरुरेव महानेव । एतदेव दृष्टान्तेन आह-युक्तमेघेतत्, यतः कारणात् प्रियमांसमृगाधिपोज्झितः प्रियमांसेन मांसप्रियेण मृगाधिपेन सिंहेन उज्झित- स्त्यक्तः करिकुम्भजो मणिः हस्तिकुम्भस्थलोद्भवो मणिः किम् अवद्यः किं दूप्यो भवति । मांसप्रियसिंहेन त्यक्तोऽपि करिकुम्भजो मणिः न दृप्य एवेत्यर्थः ॥ ४५ ॥ वयीति ॥ हे कृष्ण ! त्वयि भक्तिमता प्रेमवता, कुरूणां राट् । 'सत्सूद्विष-' इत्यादिना विप् । तेन कुरुराजा कुरुराजेन पार्थेन न सन्कृतो नार्चितश्वदिपो गुरुरेव पूज्य एव । तथा हि-प्रियं मांसं यस्य तेन मासगृध्नुना मृगाधिपेन सिंहेनोज्झितस्त्यक्तः करिकुम्भजो मागर्मुक्कामाणरवयो गीः किम् । अनवद्य- एवेत्यर्थः । मूर्खाऽनादरान महतां किञ्चिन्लाघवमित्यर्थः । 'कुपूयकुत्सितावयखेटगर्वाणकाः समाः' इत्यमरः। 'अवधपण्य-' इत्यादिना निपातः । दृष्टान्तालङ्कारः ॥ ४५ ॥ क्रियते धवलः खलञ्चकैर्धवलैरेव सितेतरैरधः ॥ शिरसौघमघत्त शङ्करः सुरसिन्धोर्मधुशत्रुरध्रिणा(१) ॥ ४६ ॥ क्रियत इति ॥ हे कृष्ण ! खलु निश्चयेन धवलः पुरुषः धवलैः उत्तमै रेव उच्चकैः क्रियते महान् विधीयते । स्तुतिपूजादिभिः अधिकः क्रियते इत्यर्थः । अपरं सितेतरैः कृष्णैर्धवलः निर्मलः पुरुषः अधस्तानीचस्थाने क्रियते । अमहद्भिर्महान् निन्द्यत इत्यर्थः । अवार्थान्तरन्यासः-यतः कारणात् शङ्करः श्रीमहादेवः सुरसिन्धोदेवनद्याः गङ्गाया ओघं प्रवाहम् शिरसा अधत्त मस्तकेन दधौ, अपरं मधुशत्रुर्मधुसूदनः श्रीनारायणः कृष्णः तमेवौधं प्रवाहम् अघ्रिणा पादेन अधत्त । एतेन धवलो गङ्गाप्रवाहो धवलेन पुरुषेण श्री- शङ्करेण उच्चैः कृतः, कृष्णेन कृष्णवपुपा श्रीनारायणेन चरणधरणात् अधःकृत इत्यर्थः॥४६॥ विदुषां तु पूज्य एव चैद्य इत्याशयेनाह- क्रियत इति ॥ धवलो निर्मलो धवलैर्निर्मले रेवोच्च कैरुत्रतः क्रियते खलु, सितेतरेमलिनैरधः कियते । तथा हि-शदूरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूरं शिरसा अधत्त । उभयोमल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोघमप्रिणा अधन । स्वयं मलिनत्वादिति भावः। अतो विशेषविदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १६ ॥ अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ॥ सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥ (१)मधुजिनमघ्रिणा। ..

[ षोडशः- . ५८८ सन्देहविषौषधिसर्वपायुते- अबुधैरिति ॥ हे कृष्ण ! पाथैः कौन्तेयैः अबुधैः मूखैः पाण्डवैः कृतमानसंविदा विहितपूजाचारस्य सतस्तव भवतः योग्यता कुत एव भवति अधिकारिता कथं स्यात् । अत्र दृष्टान्तमाह-हि युक्तोऽयमर्थः, हि यस्मात्कारणात् सहसि मार्गशीर्षे मासि प्लवगैः वानरैः उपासितं सेवितं गुलाफलं रक्तिकाबीजं सोष्मतां न एति उष्णत्वमग्नित्वं न प्राप्नोति । हेमन्ते हि मर्कटा अग्निभ्रान्त्या गुलाफलानि सेवन्ते । वानरैः सेवितस्य गुनाफलस्य यथा उष्णत्वं भविष्यति, पाण्डवैः कृतसत्कारस्तथा त्वं तेन गुरुः सञ्जातः इत्यर्थः ॥४७॥ किञ्च यथा पार्थाऽनादराद्राज्ञो न किञ्चिाघवं, तथा तदादराञ्च न ते किञ्चिद्रौरवमित्याह- अबुधैरिति ॥ अबुधैरज्ञैः पाथैः कृते मानसविदो पूजानोषणे यस्य तस्य । 'संविलियो प्रतिज्ञायां सङ्केताचारनामसु । सम्भाषणे तोषणे च- इति विश्वः । तव योग्यता कुन एव । न कुतोऽपीत्यर्थः। तथा हि -सहमि मार्गशीर्षे । 'मार्गशीर्षे महा मार्गः' इत्यमरः । प्लवगैरुपासितं मेवितं गुञ्जाफलं काकफलानि । जातावेकवचनम् । 'काकाञ्ची- गुळे तु कृष्णला' इत्यमरः । सोष्मतामुष्णतां नैति हि । न हि पुंसा मूढपरिग्रही गौरवाऽगौरवयोः प्रयोजकावित्यर्थः । अत्र कृष्ण गुञ्जाकलयाविशेषयोरेव वाक्यभेदेन प्रतिबिम्बकरणाद् दृष्टान्तालारः ॥४॥ अपराधशतक्षम नृपः क्षमयाऽत्येति भवन्तमेकया । हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ ४८ ॥ अपराधेति ॥ हे कृष्ण ! नृपोऽस्मत्स्वामी शिशुपाल: भवन्तं त्वाम् एकया केव. लया क्षमया क्षान्त्या अत्येति जयति, किलक्षणं भवन्तम् अपराधशतक्षमम् आगःशत- सहिष्णुमपि । यद् यस्मात्कारणात् असौ समर्थ एव प्रबलोऽपि सन् त्वयि भवति विषये चक्षमे सेहे । अग्रे हि शिशुपालेन त्वयि विषये एवंविधरुक्मिणीहरणलक्षणोऽपराधः निज- मनसि धृत्वा सहितः। किंलक्षणे त्वयि भीष्मकात्मजां रुक्मिणी हृतवत्यपि हठाद् आनीत- वत्यपि । स्त्रीरत्नहरणान्महानपराधः । यदा त्वया भीष्मकत्मजा रुक्मिणो हृता, तदा असौ चक्षमे । तदमुना समानः न कोऽपि क्षमावान् ॥ ४८ ॥ यदपूरीत्यादिना यत्सात्यकिना शतापराधक्षमत्वमुक्तं, तत्रोत्तरमाह- अपराधेति ॥ नृपश्चैयः अपराधस्य शतक्षम राज्ञः शतापराधसहिष्णुं भवन्तम् एकया समया । एकापराधसहनेनेत्यर्थः । अत्यति अतिक्रामति । अपराधकोटीनामपि तदंशेनापि साम्यासम्भवादिति भावः । तामेव क्षमा दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणी हृतवत्यपि समर्थः प्रतीकारक्षम एव सत्रपि चक्षाम माम्यति स्मेति यत् । तया क्षमयेत्यर्थः ॥१८॥ कार्य शिशुपालः क्षमावान् सहिष्णुर्भवतीत्याह- गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ॥ जनकाऽसि जनार्दन ! स्फुट हतधर्मार्थतया मनोभुवः ॥ ४९ ॥ गुरुभिरिति ॥ हे कृष्ण ! जनार्दन ! त्वं स्फुटं निश्चितं मनोभुवः कन्दर्पस्य जन- कोऽसि पिता वर्तले, कथं यतः हतधर्मार्थतया उल्लवितधर्मार्थत्वेन । यतः कामोऽपि हतधर्मार्थ एव। किं कृत्वा भूपतेः शिशुपालस्य राज्ञः वधूमपहृत्य भार्या हत्वा, किलक्षणस्य भूपतेः स्वजनस्य बान्धवस्य, किंलक्षणां वधू गुरुभिः मातृपित्रादिभिः प्रतिपादितांदताम्। तेन हेतुना त्वं कामस्य पिता । प्रद्युम्नो मनोभूः हरेः पुत्रः ॥ ४९ ॥ - ! ।

सर्गः।] शिशुपालवधे। ५८६ 'राक्षसः क्षत्रियस्यैवम्' इति स्मरणादाक्षसोदाहस्य क्षात्रधर्मत्वादुक्मिणीहरणे कोस्माकमपराधः, राज्ञो वा कात्र क्षमत्याकाङ्क्षायामाह- गुरुभति ॥ हे जनार्दन ! गुरुभिः पित्रादिभि: प्रतिपादितां राज्ञे दत्ताम् अत एव स्वजनस्य बन्धोभूपतेर्महाराजस्य वधू जायामपहृत्य हतौ धाओं येन तनया हतधर्मार्थतया हेतुना स्फुटं मनोभुवः कामस्य जनकोऽसि । धर्मार्थबाधेन काममात्रनिष्ठोऽसीत्यर्थः । नायं राक्षसो विवाहः । 'हत्वा छित्त्वा च भित्त्वा च क्रोशन्ती रुदती तथा । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते' ॥ इति कन्याहरणस्य राक्षसत्वलक्षणात् । अयं तु परदारापहरणे बन्धुद्रोहो राजद्रोहश्चेत्यहो ! पापिष्ठस्य कामान्धस्य ते परमसाहसिकत्वमिति भावः ॥ ४९ ॥ अनिरूपितरूपसम्पदस्तमसो वाऽन्यभृतच्छदच्छवेः ।। तव सर्वगतस्य सम्प्रति क्षितिपः क्षिनुरभीशुमानिव ॥ ५० ॥ अनिरूपितेति ॥ हे कृष्ण ! क्षितिपश्चैद्यः सम्प्रति अधुना ते तव क्षिप्नुः तिर- स्कर्ता । किंलक्षणस्य तव सर्वगतस्य सर्व यत् गम्यागम्यं तद्गतस्य । तव स्वभावं न जानातीत्यर्थः, कपटित्वात् । अपर किंलक्षणस्य तव अन्यभृतच्छदच्छवेः परपुष्टपक्षकाल- कान्तः, क इव क्षिप्नुः अभीशुमान् इव, वा शब्द इवार्थे, कस्येव तमसो वा तमस इव । यथा तमसोऽन्धकारस्य अभीशुमान् श्रीसूर्यः क्षिप्नुः तिरस्कर्ता निराकर्ता वर्तते । किलक्षणस्य तमसः सर्वगतस्य सर्वव्यापिनः, अपरं किंलक्षणस्य तमसः अनिरूपितरूप. सम्पदः अदर्शितरूपस्य । अन्ये त्वाहुः- अनिरूपिता अदृष्टा रूपाणां शुक्लपीतादीनां सम्पत् समृद्धिर्यत्र तत्तथा तस्य । अपरं किलक्षणस्य तमसः अन्यभृतच्छदच्छवेः कोकिल- पिच्छकान्तः, अतिश्यामस्येत्यर्थः । अथ स्तुतिः-तमसो यथा क्षिप्नुरेवं चैद्यस्तव क्षिप्नु- रिति । काकुप्रयोगेण नैव क्षिप्नुरित्यर्थः । किंलक्षणस्य अनिरूपितरूपसम्पदः अनिरूपिता अदृष्टी रूपाणां वराहसिंहादीनां सम्पदो भूतयो यस्य सः तथा तस्य विश्वरूपस्य, अपर किलक्षणस्य तव सर्वगतस्य सर्वव्यापिनः । चैद्यस्य श्रीसूर्य उपमानं, श्रीकृष्णस्य तम इति ॥ १०॥ सत्यमीदृगेवाहं, ततः किमित्याशय किमन्यद्वधादित्याह- अनिरूपितेति ॥ अनिरूपितरूपसम्पदः शैलूषवद्बहुरूपधारित्वादज्ञातरूपविशेषस्याऽवाङ्मनसगोचर- रूपवैभवस्यति च गम्यते । अन्यत्र आरोपित्तकृष्णरूपं तमः, तेजोविशेषाभावातम इति च मतद्वयेऽपि प्रमाणाऽनवधृतरूपसम्पद इत्यर्थः। अन्यभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । 'वा म्याद्विकल्पोपम्योः' इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव सम्प्रतीदानीमेव क्षिप्नुः क्षमा । आहन्तेत्यर्थः । शास्ताऽसौ दुरात्मनामिति भावः । 'त्रसिगृधिधृषिक्षिपः क्नुः' इति क्नुप्रत्ययः । 'न लोका-' इत्यादिना कृयोगे षष्ट्या निषधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । 'अभीषुः प्रग्रहे रश्मी' इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानि का मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तालव्यान्तो दृश्यते । 'अभीशूनां महिमान'मित्यादि ॥ ५० ॥ यद्येवं तहि किमर्थ सान्त्वमवादीरित्यत आह- क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।। प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ ११ ॥ क्षुभितस्येति ॥ हे कृष्ण ! मम मे त्वयि विषये महीभृतः चेदिपतेः प्रशमोप- ५०शि० व० ।

५६० सन्देहविषौषधिसर्वपायुते- [ षोडश:- . न्यसनं सामकथनं (निराकरणं?) वृथा अनर्थकमेव, किलक्षणस्य महीभृतः क्षुभितस्य कुपि- तस्य । अत्र अर्थान्तरं न्यस्यति-यतः कारणात् प्रलयोल्लसिस्य कल्पान्तोलस्य वारिधेः समुद्रस्य परिवाहो जलनिर्गममार्गों जगतो विश्वस्य किं करोति किं मुर्ख विधत्ते । परिवाहो नीकमार्ग:(१) प्राकृतम् । तदेतेन एतदुक्तं भवति-अहं तुल्ये आगमने सान्त्वं स्वेच्छयैवाऽवोचं, तस्य तु सन्धिवार्ता नास्तीत्यर्थः ॥ ११ ॥ तस्मिदर्थ त्वया राजा सान्त्वयितव्य इत्याशङ्कय नेत्याह- क्षुभितस्यति ॥ त्वयि विषये क्षुभितस्याऽतिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्तोपदेशो वृथा निष्फलः । तथा हि-प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जल- निर्गममार्गः किं करोति । न किञ्चिदित्यर्थः । दृष्टान्तालङ्कारः ॥ ५१ ॥ प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ॥ न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ॥ प्रहित इति ॥ हे कृष्ण ! अहं महीभृता राज्ञा चैनघे माधवान् यादवान् आकार- यितुमाह्वातुं प्रहितः प्रस्थापितोऽस्मि, किमर्थ प्रधनाय सङ्ग्रामाय । ननु शत्रूणां छलेन प्रहर्तव्यं नेति तमसौ आह्वास्त । यतः कारणात् महौजसो बलिष्ठाः परेषु शत्रुषु छलात् व्याजात् न अपकुर्वन्ति द्रोहं न विदधति, के इव मलिम्लुचा इव । यथा मलिम्लुचाः चौराः परेषु लोकेषु छलात् अपकुर्वन्ति, तथा न साधवः नोत्तमाः ॥ १२ ॥ तीसन्धिसुना राज्ञा किमर्थ भवानिह प्रहितस्तत्राह- प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । 'युद्धमायोधनं जन्यं प्रधन प्रविदारणम्' । 'हूतिराकारणावानम्' इति चामरः। महीभृता राज्ञाऽई प्रहितः प्रेरितः । ननु रन्ध्रे हन्त- व्याः शत्रवो नावानव्य! इत्यत्राऽऽह-नेति । महोजसो महावीराः परेष्वरिषु मलिम्लुचाः पाटचरा इव । 'पाट- चरमलिम्लुचाः' इत्यमरः । छलात्कपटान्नाऽपकुर्वन्ति । तस्मादाह्वान कर्तव्यमिति वाक्यार्थहेतुकं काव्यालङ्ग- मुपमालङ्कारसङ्कीर्णम् ॥ ५२ ॥ तदयं समुपैति भूपतिः पयसां पूर इवाऽनिवारितः ॥ अविलम्बितमेधि वेतसस्तलव(१)न्माधव ! मास्म भज्यथाः ॥ ५३॥ तदयमिति ॥ तदिति वाक्योपसंहारे, हे कृष्ण ! तत्तस्मात्कारणात् अयं भूपतिः वैद्यः समुपैति शिशुपालः राजा आगच्छति, किंलक्षणो भूपतिः अनिवारितः निषेछ- मशक्यः, क इव पयसां पूर इव उदकानां प्रवाह इव । यथा पयसामुदकानां पूरः महाप्रवाहः समुपैति । त्वं च अविलम्बितं शीघ्रम् अविलम्बेन एधि वेतसो वजुलवत् । यतः कारणात् तलबत् तालवत् मा स्म भज्यथाः तालद्रुमवत् भङ्गं मा प्राप्नुहि । यदि प्रणाम न भजसि, तदा नूनं नक्ष्यसीत्यर्थः । अत्र वेतसो निदर्शनम् । पयःपूरे ह्यागते वेतसः प्रणतत्वान्न नश्यति । यदुक्तम्-'वैत सी वृत्तिमाश्रित्येति । उन्नता अनमन्तस्तु ताला: अधः पतन्त्येव । उक्तं च- पतत्यङ्गारवर्षेऽस्मिन् वाति वा प्रलयानिले । तालः स्तब्धतयारब्धतयैव(१) सह नक्ष्यति ॥ इति । तालस्य तलशब्दः ॥ १३ ॥ (१) स्तरुव०।

सर्गः ।] शिशुपालवधे। ५६१ - . तदेवागमनप्रयोजनमुक्त्वा हितमुपदिशति- वदयमिति ॥ तत्तस्मायुद्धार्थत्वादयं भूपतिश्चैद्यः पयसा पूरः प्रवाह इवाऽनिवारितः समुपैति । हे माधव ! अविलम्बितं शीघ्रं वेतसः एधि भव । तन्नममात्मानं रक्षेत्यर्थः । अस्तेर्लोद सिपि हेधिः 'वसरद्धा- वभ्यासलोपश्च' इति एत्वम् । 'धि च' इति सकारलोपः(१)। माधव ! त्वं तरुवन्महावृक्षवत् मा स्म भज्यथाः मा भज्यस्व । अतः आत्मानं न विनाशयत्यर्थः । भजः कर्मण्याशिषि लिङः (अर्थे ) 'स्मोनर बङ्च' इति लङ् 'न माङयोगे' इत्यडभावः । उपमालङ्कारः ॥ ५३ ॥ परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ॥ तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान् द्विषः ॥ ५४ ॥ परिपातीति ॥ हे कृष्ण ! त्वम् इति तन्नामनि तदभिधाने तस्य शिशुपालस्य नामनि मा स्म विश्वसीः मा विश्वासं कार्षीः । इत्यर्थयुक्तं तन्नाम मा ज्ञासीरित्यर्थः । इतीति किं यत्, असौ केवलं शिशून् पाति परिरक्षति । न केवलं शिशून् रक्षति, अपरं तरुणानपि यूनोऽपि द्विषः शत्रून् रक्षति पात्येव, किलक्षणान् तरुणान् द्विषः शरणा. गतान् प्राणत्राणाय प्राप्तान्, किंभूतोऽयं शरण्यः शरणागतवत्सलः, अपरं किलक्षणः क्षमी सहिष्णुः ॥ ५४ ॥ ननु राज्ञि शिशुपाले यूनामफलमिन्याशङ्कयाह-- परिपातीति ॥ शिशुपालः । केवलमित्यवधारणे क्रियाविशेषणम् । शिशून्परिपातीति शिशूनव पालयतीति तन्नामानि तस्य शिशुपालसंज्ञायां मा स्म विश्वसीः मा विश्वासं कुर्वित्यर्थः । श्वसः ‘स्मात्तरे लाच' इति लङि 'रुदश्च पञ्चभ्यः' इति ईडागमः । चकाराल्लुङि वा तत्र 'अस्ति सिचोऽपृक्ते' इति ईडागमः, ‘म्यन्तक्षणश्वसजागृणिश्व्योदताम्' इति वृद्धिपतिषेधः । 'न मायोगे' इत्यडभावस्तूभयत्र । किन्तु समी क्षमावान । बीह्यादित्वादिनिः । शरणे रक्षणे साधुः शरण्यः रक्षणक्षमः। 'तत्र साधुः' इति यत्प्रत्ययः । स शिशुपालः शरणं रक्षितारमागतान्प्राप्तान् । 'शरणं गृहरक्षित्रोः', 'शरणं रक्षणे गृह इत्युभयत्रापि विश्वः । द्विषः शस्तरुणान् यूनोऽपि रक्षति । अतो निःशवं शरणमागच्छेत्यर्थः ॥ ५४ ॥ न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ॥ भजते कुपितोऽप्युदारधीरनुनीति नतिमात्रकेण सः ॥ ५५ ॥ नेति ॥ हे कृष्ण ! परे महात्मानः स्वार्थपराः स्वार्थकरणोद्यताः सन्तः महतः उत्त- मस्य अशडं निर्भयं शीघ्र वा कथम् अप्रियमनभिप्रेतं न विदध्युः न कुर्वन्ति, अपि तु कुर्वन्त्येव । परं स उदारधीः विपुलचित्तः कुपितोऽपि क्रुद्धोऽपि नतिमात्रकेण नमस्कार- मात्रेण अनुनीति भजते प्रसादं भजति । उक्तं च रघुकाव्ये श्रीकालिदासेन-'प्रणि. पातप्रतीकारः संरम्भो हि महात्मनाम्' इति ॥ ५५ ॥ ननु वयं द्रोग्धारः । सोऽप्यतिक्षुभितः किल कथं नः पालयेदित्याशङ्कचाह- नेति ॥ स्वार्थपराः स्वार्थ निष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशकं यथा तथा न विध्युः । कुयुरेव कार्यवशादित्यर्थः । किन्तु उदारधीमहामतिः । 'उदारो दातृमहतो:' इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणाऽनुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः । 'प्राणपात. प्रतीकारः संरम्भो हि महात्मना मिति भावः ॥ ५५ ॥ हितमप्रियमिच्छसि श्रुतं यदि सन्धत्स्व पुरा विनश्यसि (२) ॥ अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवाऽवनीश्वरः ॥ ५६ ॥ (१) 'उपन्यस्तसूत्रेण सकारस्यैवाऽलोऽन्त्यपरिभाषया एत्वे 'इनसोरल्लोप:' इत्यकारलेोपे रूपसिद्धैः 'धि च' इत्यस्योपन्यासो भ्रममूलकः' । टिप्पणीयं निर्णयसागरीयसर्वकषायामुपलभ्यते । (२) न नश्यामि । । - - [ षोडशः- ५६२ सन्देहविषौषधिसर्वकषायुते- हितमिति ॥ हे कृष्ण ! यदि त्वम् अप्रियं श्रुतं हितमिच्छसि वाञ्छसि तदा सन्धत्स्व सन्धि कुरुष्व, पुरा पश्चात् विनश्यसि विनक्ष्यसि विनाशं प्राप्स्यसि । अथ वा यदि अनृतैः प्रियैः तुष्यसि प्रियत्वादन्यैरपि वाक्यैस्तोषं प्राप्नोषि, तदा त्वं जयतात् विजयी भव जीव नन्द तदा अवनीश्वरो भव राजा सम्पद्यस्व । यदि मणितेनापि किजि. भवति तदा त्वम् ईदृशो भव । एतानि किल प्रियवाक्यानि असत्यानि चेत्यर्थः॥ १६ ॥ किंबहुना, तवाय हितोपदेशसङ्ग्रह इत्याशङ्कयाह- हितामिति ॥ श्रुतम् अप्रियं हितमिच्छसि यदि । अभियं हितं श्रुतमालादाकर्णित ग्रहीतुमिच्छसि चदित्यर्थः । सन्धत्स्व राज्ञा सन्धेहि । पुरा न नश्यसि । अन्यथा विनवयतीत्यर्थः । यावत्पुरानिपातयोलट्' इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतरसत्यैः प्रियस्तुष्पासि यदि, जयताज्जयतु । 'तुह्यास्तात- ङाशिष्यन्यतरस्याम्' इति तोस्तातडादेशः । जाव, अवनीश्वरः सार्वभौमो भव । ततः किमेभिः पियालापैः। अप्रियमपि हितमेव गृहाणेति भावः ॥ ५६ ॥ प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ॥ ग्रसते हि तमोऽपहं मुहुर्ननु राहाहमहर्पति तमः ॥५७ ॥ प्रतिपक्षजिदिति ॥ हे कृष्ण ! असंशयं निश्चितं युधि सङ्ग्रामे चैद्येन शिशुपालेन भवान् त्वं विजेप्यते पराभूयते अभिभूयते, किंलक्षगो भवान् प्रतिपक्षजिदपि शत्रुविना- शकोऽपि। युक्तं चैतत् , हि यस्मात्कारणात् नन्विति सम्बोधने, अहो! राहाह्र सैहिकेया. भिधानं तमः अन्धकारः अहर्गतिं श्रीसूर्य ग्रसते गिलति राहुसंज्ञ तमो रविं परिभवति, किंलक्षणमहर्गतिं मुहुर्वारंवारं तमोऽपहं ध्वान्तध्वंसकरम् । रविः सर्वतमांस्यपहरति, पर राहुसंज्ञकतमसा अहर्णतिरपि ग्रस्यते । तथा तेन राज्ञा त्वं चेति भावः ॥ १७ ॥ ननु कंसाद्यनेकविजयी कृष्णः कथं विजेष्यते राज्ञत्याशयाह- प्रतिपक्षजिदिति ॥ प्रतिपक्षजिदनेकाऽरिहन्तापि भवान संशयं संशयो नास्ति । अर्थाभावेऽव्ययी. भावः । युधि सङ्घाम चयन शिशुगलेन विजेध्यते । जयतेः कर्मणि लट् । शरे प्रथमः । तमांस्यपहन्तीति नमोऽपहं सर्वतमोऽपहारिणम् । 'अपेः क्लेशतमसाः' इति हन्डप्रन्ययः । अह्ना पातेमहर्पति सूर्यम् । 'अह- रादीनां पत्यादिषूपसल्यानम्' इति वैकल्पिको रफादेशः । रह ई राहाय नमः। अवाह अभिधानं च' इत्यमरः । मुहुर्घसते ननु गिलति हि । अत्र हरिसूर्ययोः राहु वैद्ययांश्च वाक्यभेदेन प्रतिबिम्बकरणाद् दृष्टान्तालङ्कारः ॥ ५॥ अचिराज्जितमीनकेतनो विलसद्वृष्णि(१)गणैनमस्कृतः ॥ क्षितिपः क्षपितो(२)द्धताऽन्धको हरलीलां स विडम्बयिष्यति ॥१८॥ अचिरादिति ॥ हे कृष्ण ! सः क्षितिपः भूमिपः चैद्यः हरलीलां विडम्बयिष्यति रुद्रसादृश्यं भजिष्यति, यतः किंलक्षणः क्षितिपः अचिरात् शीघ्र जितमीनकेतनः भग्न- कन्दर्पः । भवत्हतं कन्दर्ष प्रद्युम्नं स जेष्यतीत्यर्थः । अपरं किलक्षणः क्षितिपः विलसद- वृष्णिगणैर्नमस्कृतः विलसद्भिः नृत्यद्भिः सहः वृष्णिगणैः यादवसमूहैः नमस्कृतः प्रणतः, अपरं किंलक्षणः क्षितिपः क्षपितोद्धताऽन्धकः क्षपिता जिताः उद्धताः सर्वतोऽन्धकाः यादवविशेषा येन सः तथा । हरोऽपि एवंविधो भवति-दग्धकन्दर्पः विलसभिः क्रीडभिः वृष्णिगणैः प्रमथादिभिर्नमस्कृतः ध्वस्तोंद्धताऽन्धकासरः ॥ १८ ॥ (१)विलसन् वृष्णि। (२) क्षयितो।

सर्गः ।] .. शिशुपालवधे। किचन मवानेक एव विजेष्यते, किन्तु सवैर्यादवैः सहत्याह- अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनकेतनः काणिः प्रद्युम्नः स्मरश्च । येन सः, वृष्णयो यादवभेदास्तेषां गणैरोधैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन् दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन्। वृषारूढ इत्यर्थः । गणैः प्रमथेनमस्कृतः । 'गणाः प्रमथसल्यौघाः' इति, वृषा मेहन्द्रे वृषभे' इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः, अन्यत्राऽन्धकोऽसुरो येन सः हरलीलां शम्भुविभ्रमं विडम्बयिष्यत्यनुकरिष्यति । अत्र हर लीलामिति सादृश्याक्षेपानिदर्शना श्लेषसङ्कीर्णा ॥ ५८ ॥ निहतोन्मददुष्टकुञ्जराहधतो भूरि यशः क्रमार्जितम् ॥ न बिभेति रणे हरेरपि क्षितिपः का गणनाऽस्य वृष्णिषु ॥ ५९ ॥ निहतोन्मदेति ॥ हे कृष्ण ! क्षितिपः वैद्यः रणे सङ्ग्रामे हररपि शक्रादपि न बिभेति न त्रस्यति,वृष्णिषु यादवेषु अस्य चैद्यस्य का गणना क आदरः। अथ च यः हरेरपि सिंहादपि न बिभेति तस्य वृष्णिषु एडकेषु पशुषु मृगादिषु वा का गणना । किंलक्षणात् हरेः इन्द्रासिंहाच्च निहतोन्मदुष्टकुञ्जरात् निहतो हतः उन्मदः अधिकमदो दुष्टकुञ्जरो गजः कुवलयापीडः ऐरावणो वा येन सः तथा तस्मात् । हरिणा हि पूर्व दुष्टकुञ्जरो गोकुले निहतोऽभूत् । द्वितीयपक्षे निहता मारिता उन्मदा मत्ता दुष्टा व्यालाः कुञ्जरा हस्तिनो येन सिंहेन तस्मात् । किं कुर्वतः भूरि प्रभूतं क्रमार्जितम् अनुक्रमोपार्जितं यशो दधतः कीर्ति धारयतः । द्वितीयपक्षे क्रमार्जितं क्रमोच्छ्रितं फालोत्पन्नं यशो दधतः ॥१९॥ ननु देवासुरैरप्यजय्या यादवाः कथं राज्ञा जेष्यन्त, नत्राह- निहतान्मदति ॥ क्षितिपश्चेदिपो, निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात, अन्यत्र हताऽनेकमनमातङ्गात् । अत एव क्रमार्जितं भूरि यशा दधतः हरे कृष्णासिंहाच्चति ध्वनिः । रणेन बिभेति । अस्यैतादृशश्चद्यस्य वृष्णिषु यादवेषु भेषेषु च । 'वृष्णिस्तु यादवे मेषे' इति विश्वः । का गणना । कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा मेषेष्वित्यर्थान्तरप्रतीति- ध्वनिरव न श्लेषः । हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वा प्रकृताऽप्रकृतश्लषे तदङ्गीकारादित्युक्तं प्राक् ॥ ५९ ॥ न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ॥ द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥ ६०॥ नेति ॥ हे कृष्ण ! शत्रवो वैरिणः युधि सङ्ग्रामे यदस्य औद्यस्य मुखमास्यं भिया भीत्या न पश्यन्ति न विलोकयन्ति, तन्न अद्भुतं न आश्चर्यम् । यतः कारणात् सोऽपि वैद्योऽपि द्विषां शत्रूणां पृष्टमेव ईक्षते जातु कदाचिदपि न वदनम् । किंलक्षणानां द्विषां द्रवतां पलायमानानाम् ॥६० ॥ हरेरपि न बिभेतीत्युक्तं, तदेव सम्भावायितुं तस्य पराक्रमान् आसर्गसमाप्तवर्णयति- नोत ॥ युधि शत्रयो मियाऽस्य मुखं न पश्यन्तीति यत् , तन्नाऽद्भुतम् । कुतः सोऽपि न ईक्षते ननु खलु । द्रवतो भयात्पलायमानानां विद्विषां पृष्ठं कायपाश्र्वाङ्गमीक्षते, जातु कदाचित् वदनं न ईक्षते ननु खलु । योरन्यतरमुखेष्वन्योन्यस्य मुखाविलोकनाऽसम्भवात्स्वयं विमुखानां विद्विषामभिमुखस्याऽप्यस्य मुखाऽदर्शनादद्भुतमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ६ ॥ प्रतनूल्लसिताऽचिरघुतः शरदं प्राप्य विखण्डितायुधाः ॥ दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोमुचः(१) ॥ ६१ ॥ - . (१)पयोभृतः।

धुत् धुतिः - . ५६४ सन्देहविषौषधिसर्वकषायु - [ घोडशः- प्रतनूल्लसितेति ॥ हे कृष्ण ! पयोमुचो मेघाः यदि चेत् आसारभृतः न भवन्ति यदि वेगवर्पिणो न स्युः, तर्हि अस्य चैद्यस्य अरिभिः शत्रुभिः सह तुल्यतां दधते साम्य बिभ्रति । आसारभृत्त्वेन साम्यम् , एतच्छणाम् आसाररहितत्वात् । इदानी साम्य. माह-किंलक्षणाः पयोमुचः प्रतनूलसिताऽचिरद्युतः प्रतन्व्यः सूक्ष्मा उल्लसिताः प्रदीप्ता. अचिरद्युतो विद्युतो येषां ते तथा, किंलक्षणाः रिपुगणाः प्रतनूल्लसिताऽचिरद्युतः प्रतनु स्वल्पम् उल्लसितमुल्लसत् स्फुरितं येषां ते तथा, अचिरा घनकालाऽनवस्थायिनी कान्तियेपां ते अचिरद्युतः, ततः कर्मधारयः । अपरं किंलक्षणाः पयोमुचः शरदं प्राप्य विश्वण्डितायुधाः शरदम् ऋतुं प्राप्य प्रणष्टेन्द्रचापाः । द्वितीयपक्षे शरान बाणान् ददातीति शरदः तं शरदं चैद्य प्राप्य विखण्डितायुधाः छिन्नप्रहरणाः ॥ ६१ ॥ प्रतनल्लसितेति॥ शरदम् ऋतुं प्राप्य विखण्डितायुधाः खण्डितेन्दचापाः, अन्यत्र शरान् ददातीति शरद- स्तं शरदं शरवर्षिणं प्राप्य खण्डित शस्त्राः प्रतनूल्लसिताऽचिरातोऽल्पस्फुरितविद्युतः, अन्यत्र प्रतनूजसिताः म्वल्पोछसितास्त एवाऽचिरानोऽस्थिरयुतः पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः। सुहृद्धलशू-या इत्यर्थः । 'असारः स्यात्प्रमरणे वेगवृष्टा सुहृद्धले' इति वैजयन्ती । अम्यारिभिस्तुल्यतां दधने । अत्र पयोभृतामुपमानानामुप मेयभावोकेः प्रतीपालद्वारः । तेषामासारासम्बन्धे. ऽपि सम्भावनया तदसम्बन्धोकरतिशयोक्तिभेदश्चेति सङ्करः ॥ १॥ मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ॥ नृपमौलिमरीचिवर्णकैरथ(१) यस्याऽघि युगं विलिप्यते ॥ ६२ ॥ मलिनमिति ॥ हे कृष्ण ! यस्य औद्यस्य अङ्घ्रियुगं चरणयुगलम् अथ पश्चात् नृपमौलिमरीचिवर्णकैः विलिप्यते मण्ड्यते रज्यते । राजानो यस्य पादवन्दनं शिरसा कुर्वन्तीत्यर्थः । नृपाणां राज्ञां मौलयः मुकुटाः तेयां मरीचयः किरणाः त एव वर्णकाः सुगन्धद्रव्यक्षोदाः तैः । किंलक्षणमङ्घ्रियुगं रणरेणुभिर्मलिनं समरधूलिभिधूसरं मालिन्यं नोतम् , अपरं किलक्षणमङ्घ्रियुगं द्विषतां शत्रूणामङ्गनाऽश्रुभिः मुहुर्वारंवारं क्षालितं शत्रु- वल्लभानयनजलैः निरन्तरं धौतम् । योऽपि वर्णकेन अनुलिप्यते, स पूर्व धूलिभिः रूक्षित- त्वात् स्नायते, अपरम् अन्यदपि वस्त्रं मुहुर्मुः प्रक्षाल्यते, पश्चात् वर्णकेन विचित्र्यते ॥६२॥ मलिनमिति ।। मुहुरसकृत् रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभः क्षालितं । नाऽहन्वाऽरीन् रणानिवर्तिन इति भावः । यस्याऽनियुग चरणयुगलम् , अथ रेणुशालिताना नृपाणां प्रणताना राजा मौलि- मरीचयो मुकुटमणिरश्मयस्तरेव वर्ण कविलेपन वन्दनः । 'चन्दने चापि वर्णकम्' इति विश्वः । विलि- 'यते विशेष्यते । अत्राम्रियुगस्य विशेषणमाहिना स्नाताऽनुलिमपुरुषसाम्यप्रतीतेः समासोक्तिः ॥ ६२ ॥ समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ॥ धनुषा सममाशु विद्विषां कुलमाशङ्कितमङ्गमानतिम् ॥ ६३ ॥ समरायेति ॥ हे कृष्ण ! यस्य चौद्यस्य विद्विषां कुलम् अरीणां वृन्दं धनुषा सर्म चापेन सह आनतिमुपैति नम्रतां गच्छति । यदा धनुरेतेन सजीकृतं, तदेव अरयो नता- इत्यर्थः । अथ च अरिकुलं धनुषा समं कृतं सर्श विहितमित्यर्थः । किंलक्षणं विद्विषां कुलं समराय निकामकर्कशं युद्धायाऽत्यर्थकठोरम् । अयं विना अनेनाऽरिकुलेन सह अन्यः शबुयुद्धं कर्तुं न शक्नोति । धनुःपक्षेऽतिकोरम् । अपरं किलक्षगमरिवन्द क्षणमाकृष्ट क्षण- (१) वर्णकैः खलु। - - ।

सर्गः ।] शिशुपालवधे। ५६५ । । माक्रान्तम् , द्वितीयपक्षे आकृष्टं कुण्डलीकृतम् । अपरं किंलक्षणमरिवृन्दम् आशङ्कितभङ्गं सम्भावितविनाशम् । यं हि राजाऽऽह्वयते रणाय, सोऽवश्यमेवात्मनाशमाशङ्कते। द्वितीयपक्षे अत्याकृष्टत्वात् आशङ्कितभङ्गं शङ्कितद्वैधीभावम् । अत्याकर्षणाद्धि धनुर्भज्यते । अनेन धनुपा महशत्वमुक्तम् । धनुपो रिपुवर्गस्य च गुणसादृश्यमभूदित्यर्थः । क्रूरमपि औद्यस्य कर्पणात् स्फुटत्यधुना च इत्याशङ्कते ॥ ६३ ॥ समरायति ॥ किञ्चति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । ममराय सम्प्रहाराय आकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितम मनमोत्प्रेक्षितस्वपराजयम्, अन्यत्राऽतिकर्षणात्सम्भावितदलन यस्य विद्विषां कुलमाशु धनुषा सममानति नम्रतामुपैति । अत्र धनुर्न मनकार्यस्य द्विषन्नमनस्य तत्सहभावोतः कार्यकारणयोः पापियविपर्ययनिमित्तरूपाऽतिशयोक्तिमूला सहोक्तिरलङ्कारः ॥ ६३ ॥ तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णरुचि(१) विरोधिनः ॥ कृतिभिः कृतदृष्टिविभ्रमाः जमेके भुजगं यथाऽपरे ॥ ६४ ।। तुहिनांशुमिति ॥ हे कृष्ण ! मुहृजनाः बान्धवा मित्रवर्गाः अमुं शिशुपालं तुहि- नांशु कलयन्ति प्रह्लादकत्वात् हिमांशु गणयन्ति जानन्ति, विरोधिनो रिपवः उष्णरुचिमुष्णरश्मि श्रीसूर्य जानन्ति, तापकारित्वात् । तथा एकमपि अनेकरूपं मन्यन्ते इत्याह-यथा कृतिभिः कुशलैः ऐन्द्रजालिकैः पुरुपैः कृतदृष्टिविभ्रमाः जनितदृष्टिबन्धाः एके जनाः सजं पश्यन्ति मालां विलोकयन्ति, अपरे अन्ये तामेव स्रज भुजगं सर्प पश्यन्ति इति ॥ ६४ ॥ तुहिनांशुमिति ॥ अमुविधं चयं सुहृज्जनाः तुहिनांशु कलयान्त आह्लादकत्वाचन्द्रं मन्यन्ते । विरोधिनः उष्णका तपनं कलयन्ति । एकस्याऽनेकपनीतिमुपमिमीते-कृतिभिरिति । कृतिभिः कुशलैरैन्द्र- जालिकादिभिः कृत दृष्टिविभ्रमा जनितदृष्टिविपर्यया एक नराः यथा स्रज मालां कलयन्ति, अपरे तु भुजगं कलयन्ति, एकमेव रज्ज्वादिकामिति शेषः । उपमालङ्कारः। स चकस्य निमित्तवशाद् गृहीतेनदेन्ताऽदस्तानेक- धोनिखनात्मकनोल्लेखेन सीयते ।। ६४ ।। दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ॥ भुवि साम्प्रतमप्रतिष्ठिताः(२) सदशा यस्य सुरैररातयः ॥ ६५ ॥ दद्धत इति ॥ हे कृष्ण ! यस्याऽरातयः शत्रवः सुरैः सदृशाः देवस्तुल्या भवन्ति । साम्प्रतं चैद्यारयो देवसदृशा इत्यर्थः । अरीणां देवानां च साम्यमाह-किलक्षणा अरा- तयः असुलभक्षयागमाः असुलभो दुष्प्रापः क्षयागमो गृहागमनं येषां ते तथा । सङ्ग्रामे यं समेत्य येषां गृहागमनं दुर्लभमित्यर्थः । द्वितीयपक्षे देवाः किलक्षणाः दुप्पापविनाशा- गमाः । देवा नक्षीयन्ते इत्यर्थः । रिपवः किं कुर्वन्तः एकान्तरतां केवमरणासक्तां तनुं दधतः मूर्ति वहन्तः, देवाश्च किं कुर्वन्तः एकान्तरताम् एकान्तं निरन्तर रतं निधुवनं यस्याः सा तां तनं दधतः । देवा हि अतिविषयिण इत्यर्थः । यद्वा एकान्ते रता दुर्लक्ष्यां तर्नु दधतः । अपरं किलक्षणाः अरातयः अमानुपाः अविद्यमाना मानुषाः परिचारजनादयो येषां ते तथा, द्वितीयपक्षे देवाः किलक्षणा अमानुषा अमाः मानषेभ्योऽन्ये अमानुषाः । अपरं किंलक्षणाः अरातयः भुवि अप्रतिष्टिताः भूमौ अलब्धमहिमानः, किंलक्षणाश्च देवाः अवि अप्रतिष्टिताः भूमौ अवर्तमानाः स्वर्गस्थत्वात् ॥ ६५ ॥ (१) करं। (२) सम्प्रति न प्रतिः। ..

५६६ सन्देहविषौषधिसर्वकषायुते- [ षोडशः- . . ! दधत इति ॥ असुलभक्षयागमाः दुर्लभगृहप्राप्तयः, अन्यत्राऽमरत्वाद् दुर्लभनाशयोगाः। निलयाऽपचयो क्षया' इत्यमरः । एकान्तरता भयाद्विजनस्थाने निरताममानुषी कार्यमालिन्यादिना पिशाचादिवत्पतीय- मानाम् , अन्यत्रैकान्तरता नियतसुरता नित्यभोगाममानुषी दिव्या तनुं दधतो दधानाः भुवि सम्प्रति वचन न प्रतिष्ठिता: राज्यभ्रंशाक्वापि स्थितिमप्राप्ताः, अभ्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवत्वाद् यस्यारातयः सुरैः सदृशाः । अत्राऽप्यमुमिति पूर्पण सम्बन्धः । दिलष्टविशेषणेयमुपमा । श्लेष एवेन्यन्ये ॥ ६५ ॥ अतिविस्मयनीयकर्मणो नृपतेः पश्य विरोधि चेष्टितम्(१) ॥ यदि मुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ।। ६६ ॥ अतिविस्मयनीयेति ॥ हे कृष्ण! त्वं नृपतेः चैद्यस्य राज्ञः विरोधि चेष्टितं पश्य विरो- धार्था चेष्टां विलोकय, किंलक्षणस्य नृपतेः अतिविस्मयनीयकर्मणः अत्यद्भुतकार्यकारकस्य । किं विरोधि चेष्टितमित्याशङ्क्याह-यदसौ औद्यः अहितानां कुलं शत्रूणां वंशम् अक्षयमपि अविनाशमपि क्षयं नयति । न विद्यते क्षयो यस्य तत् अक्षयं, क्षयं नयति गृहयुक्तं करोति। यस्य क्षयो विनाशो गृहं वा नास्ति, स कथं नाशं गृहं वा नीयते इति विरोधः । अवि- रोधस्तु क्षयशब्दस्य विनाशार्थत्वात् अक्षयशब्दस्याऽविद्यमानगृहार्थत्वात् । गृहेभ्योऽरीनु- त्सार्य अयमेव वनं प्रवेशयतीत्यर्थः । किलक्षणोऽसौ अमुक्तनयः श्रितनीतिमार्गः अत्यक्त- नीतिः, किलक्षणा नीतिः यत् , अयं गृहीतं कुलं क्षयं गृहं नयति रिपूणां कुलमक्षयमपि क्षयं नीयते इति विस्मयः। अथ चाऽक्षयमपि अविनश्वरमपि क्षयं विनाशं नयतीति भावार्थः। अतिविस्मयनीयेति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयप्रत्ययः। यस्य नृपते श्वेद्यस्य विरोधि चेष्टितं द्वषिरूपा?) न किश्चिदस्तीत्यर्थः। यस्मात् अमुक्तनयोऽत्यकनीतिमार्गोऽसौ अक्षयमविनाश । पूर्व केनापि क्षयं न नीतमित्यर्थः। आहतानां कुलं शत्रुजातं क्षयं नाशं नयति । नीति- पौरुषाभ्यां द्विषत्रिमूलयितुरस्य का विरोधिवातात भावः। अक्षयमपि क्षयं नयतीति विरोधस्य नेतृभेदेन परिहाराद्विरोधाभासोऽलङ्कारः ॥ ६६ ।। चलितोकबन्धसम्पदो मकरव्यूहनिरुद्धवर्त्मनः ॥ अतरत् स्वभुजौलसा मुहुर्महतः सङ्गरसागरानसौ ॥ ६७ ॥ चलितोवति ॥ हे कृष्ण! असौ औद्यो महतः अतिविपुलान् सङ्गरसागरान् सङ्ग्राम- समुद्रान् मुहुरनेकशः स्वभुजौजसा निजबाहुबलेन अतरत् ततार, इति पौरुपातिशयोक्तिः । किलक्षणान् सङ्गरसागरान् चलितोर्ध्वकबन्धसम्पदः चलिता निवृत्ता ऊर्ध्वाः उच्चाः कबन्ध. सम्पदोऽपमूर्धकलेवरसमृद्धयः छिन्नोत्तमाङ्गबहुलता येषु ते तथा तान् , द्वितीयपक्षे सागरान् किलक्षणान् चलिता भुजास्फालनवशात् प्रनृत्ताः उर्ध्वाः : कबन्धसम्पदो जललहरीणां समृ. द्वयो येषां ते तथा तान् । समुद्रे हि तरणसमये भुजास्फालनवशात् उर्चाः कबन्धसम्पदो जलमयकबन्धा इवोत्पद्यन्ते । अपर किलक्षणान् सङ्गरसागरान् मकरव्यूहनिरुद्धवर्त्मनः मकराख्येन व्यूहेन रचनाविशेषेण निरुद्धवर्त्मनो रुद्धप्रसरान् । यो हि बाहुबलेन सागर तरति तस्य महदू बलम् । मकरव्यूहेन यादसधेन क्रूरजलचरजीवसमूहेन निवर्तित- मार्गान् । तत्र केऽपि न सञ्चरन्ति इत्यर्थः ॥ ६७ ॥ चलितोयति ॥ असी चैद्यश्वलिताः प्रवृत्ता अर्धा उस्थिता: कबन्धसम्पदः शिरोहीनकलेवरसम्पद- एव कबन्धसम्पद उदकसमृद्धयो येषु तान् । दिलष्टरूपकम् । 'कबन्धं सालले प्रोक्तमपमूर्धकलेवरे' इति (१) नुपनेर्यस्य "किञ्चन ।

सर्गः।] शिशुपालवधे। ५९७ . . वैजयन्ती । मकरन्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा इति क्लिष्टरूपकम् । 'व्यूही समूह. विन्यासौ' इति वजयन्ती। निरुद्धवर्मनी निरुद्धपवेशमार्गान् अत एव महतो दुस्तरान् सङ्गरसागरान् समरसमुद्रान् स्वभुजौजसा निजभुजबलेनैव मुहुरसकृदतरत् । भुजेनाइन्धितरणमदृष्टचरमत्यद्भुतमिति भावः। अत्र कबन्धा एव कबन्धाः मकरन्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य सङ्गरेषु सागर- रूपणहेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम् ॥ ६ ॥ न चिकीर्षति यः स्मयोद्धतं(१) नृपतिस्तचरणोपगं शिरः ॥ चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥ ६८ ॥ नेति ॥ हे कृष्ण ! यो नृपतिः राजा शिशुपालः स्मयोद्धतं दर्पोद्धतं शिरः मस्तक तचरणोपगं तत्पादगतं न चिकीर्षति न कर्तुमिच्छति, असावेव औद्यः स्वं चरणम् आत्मीयं पादं तदीयमूर्धनि कुरुते तस्य मस्तके न्यस्यति । किंलक्षणोऽसौ गतस्मयः गतदर्पः । यो राजा सगर्वः सन् निजमस्तक औद्यपादगतं न विदधाति, असौ स्वमेव निजपादं तन्म- स्तकगतं कुरुते इति भावार्थः ॥ ६८ ॥ नेति ॥ स्मयोद्धतो गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छ. तीति तच्चरणोपगं तत्यादगतं यो न चिकीर्षति कर्तु नेच्छति, तदीये तस्य नृपतेः सम्बान्धनि मूर्धनि गत- स्मयो विगर्वोऽसौ शिशुपाल एव स्वं चरणं कुरुते । निधत्त इत्यर्थः । अनमान् सद्यो नमयति, नम्रान् अवतीति तात्पर्यम् ॥ ६८ ॥ स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।। बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ ६ ॥ स्वभुजद्वयेति ॥ हे कृष्ण ! स चैद्यः शक्रदन्तिना देवेन्द्रहस्तिना ऐरावणेन सह बहुशः अनेकवेलम् आहवमगच्छत् सङ्ग्रामं प्रविष्टः । किलक्षणः सः स्वभुजद्वयकेवलायुधः स्वभुजद्वयमेव स्वबाहुयुगलमेव केवलमायुधं प्रहरणं यस्य सः तथा, किंलक्षणमाहवं चतु. दन्तम् । चतुर्दन्तत्वादैरावणेन सह युद्धम् । ऐरावणस्य चत्वारो दन्ताः सन्ति तेन स बाहुयुद्धेन विजयो भवतीत्यर्थः । किं कृत्वा वाहिनी सेनाम् अपहाय परित्यज्य, किंलक्षणां वाहिनी चतुरङ्गां गजरथतुरगपदातिलक्षणानि चत्वारि अङ्गानि अवयवाः यस्याः सा तथा ताम् । विरुद्धं चैतत् , यत्र हि बलद्वयेऽपि दन्तिसद्भावः स चतुर्दन्त आहवः । यश्च सेनां हित्वा स्वभुजसहायः पदातिरेव युद्धवान्, स कथं चतुर्दन्तमाहवमगच्छत् ॥ ६९ ॥ स्वभुजयाते ॥ स चयः चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गा वाहिनी सेनामपहाय स्वभुज- द्वयं केवलमेकमायुधं यस्य सः सन् शक्रदान्तना ऐरावतेन सह । चत्वारो दन्ता यस्मिस्तं चतुर्दन्तम् आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोयेन योर्बु चेयं विना कोऽन्यः शक इति भावः । दन्तिनोराहश्चतुर्दन्त इत्युक्तं न तु मनुष्यदान्तनोरिति विरोधः। स च शक्रदन्तिनेति परिहतः, तस्य चतुर्दन्तत्वादिति विरोधाभामः ॥ ६९ ॥ अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ॥ युवयोरियदेव(२) भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ ७० ॥ अविचालितेति ॥ हे कृष्ण ! युवयोः चेदिपतिभवतोः इयदेव इदमेव भिद्यते एष एव भेदः, यत्त्वम् उपेन्द्रः इन्द्रानुचरः शक्रमुखप्रेक्षी, स चैधः अतीन्द्रः जितशक्रः । किंलक्ष- (१) स्मयोद्धतो। (२)गरदमेव । । .

५६८ सन्देहविषौषधिसर्वकषायुते- [षोडशः- । गयोः युवयोः अविचालितचारुचक्रयोः अविचालितम् अजस्रं सन्निहितं चारु मनोज्ञं चक्र सुदर्शनं यस्य सः तथा तस्य, द्वितीयपक्षे अविचालितमभेद्य निषेधुमशक्यं चारु चक्रं राष्ट्र ययोस्तौ तयोः, अपरं किलक्षणयोः युवयोः अनुरागात् श्रिया उपगूढयोः प्रीत्या विजयलक्ष्म्या आलिगिन्तयोः, अनुरागात् प्रेम्णः श्रिया पद्मया आलिङ्गितयोः ॥ ७० ॥ अविचालितति ॥ अविचालितं परैपर्यासितम् अत एव चारु शोभनं चक्रं सुदर्शनं राष्ट्रं च ययो- म्तयोः । 'चक्र राष्ट्ररथाङ्गयोः' इति विश्वः । श्रिया कमलया सम्पदा चाऽनुरागादुपगूढयोराश्लिष्टयोयुवयो- स्तव तस्य च । 'त्यदादीनि सनित्यम्' इत्येकशेषः । इदमेघ भिद्यते विशेष्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः। तदनुचर इति यावत् । स तु इन्द्रमानेकान्तः अती- न्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति सम्बन्धः । इन्द्रकिङ्करेन्द्र जायनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णादुपमेयस्य चैद्यस्याधिक्याइदप्राधान्यसाधर्योतयतिरेकालङ्कारः ॥ ७० ॥ भृतभूतिरहीनभोगभाग्विजिताऽनेकपुरोऽपि विद्विषाम् ॥ रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिमहीपतिः ॥ ७१ ॥ भृतभूतिरिति ।। हे कृष्ण ! अपीति विस्मये, अजः श्रीमहादेवः इन्दुदले रुचि करोति चन्द्रखण्डे मुदं विधत्ते शशिकलाभरणत्वात् , अपरं महीपतिः शिशुपालः परिपूर्णे- न्दुरुचिः भवति अखण्डमण्डलशशिदीप्तिः सम्पूर्णचन्द्रवदनः शशिरुचित्वात् , चैद्यस्य सम्पूर्णचन्द्ररुचित्वात् महान् विशेपः । उभयोः साम्यमाह-किलक्षणोऽजः भृतभूतिः धृतभस्मा, महीपतिश्च भृतभूतिः पृतैश्वर्यः, अपरं किंलक्षणोऽजः अहीनभोगभाक् अहीना- नां नागेश्वराणां वासुकिप्रभृतीनां भोगान् देहान् भजते धारयतीति तथा सर्पशरीरभूषितः, महीपतिश्च अहीनान् सम्पूर्णान् भोगान् स्यादिविषयान् भजते इति तथा, अपरं किंलक्षा-- णोऽजः विद्विषां विजिताऽनेकपुरः विद्विषां त्रिपुरवासिनां शत्रूणां विजिताऽनेकपुरः भाम- त्रिपुरः, महीपतिश्च विद्विषां भग्नबहुनगरः ॥ ७१ ॥ किञ्च त्वत्तोऽप्यधिको राजेन्यवाच्योऽयमर्थः, यदीश्वरादप्यधिक इत्याह-- भृतभूतिरिति ॥ भृता भूति स्म सम्पच्च येन स भृतभूतिः । 'भूनिर्भस्मनि सम्पदि' इत्यमरः । अहीना भोगिनामिनोऽहीनः तस्य भोग कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यून भोग सुखानुभवं भजतीत्यहीनभोगभाक् । 'भोगः सुखे रुपादिभृतावहेश्च फणका ययोः इत्यमरः । विद्विषां विजिताऽनेकपुरः, विजिताउनेकविद्रिटपुर इन्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगर- विजयाचेति भावः । सापेक्षत्वेऽपि गमकत्वात्म मासः । एवंभूतोऽप्यजो हरः । 'अजा विष्णुहरच्छागाः' इत्यमरः । इन्दुदले चन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेषलक्षणा। महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य म:, तस्मिन् रुचिरभिलाषो यस्यति च परिपूर्णेन्दुरुचिः । 'रुचिर्मयूखे शोभायामभिषगाभिलाषयोः' इति विश्वः । अत्र हरखण्डेन्दुरुचिः राजा पूर्णेन्दुरुचिरिति व्यतिरेक: । स च रुच्योरभेदाश्रयादिति श्लेषमूला- भेदातिशयोक्त्या सङ्कीर्णः ॥ ११ ॥ चतुर्भिः कलापकम्- नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ॥ गमयत्यवनीतलस्फुरद्भुजशाखाभृतमन्यमानतिम्(१) ॥ ७२ ।। . - (१) शाखं भृशमन्यमुन्नतिम् ।

सर्गः ।] शिशुपालवधे। ५६8 अधिगम्य च रन्ध्रमन्तरा जनयन् मण्डलभेदमन्ततः(१) ॥ खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ ७३ ॥ धनपत्रभृतोऽनुगामिनस्तरसाऽऽकृष्य करोति कांश्चन ॥ दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ।। इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।। क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ ७५ ।। नयतीत्यादि ॥ इतीति॥हे कृष्ण ! यश्चैद्यः इति वक्ष्यमाणप्रकारेण क्रीडति जगत्यां विहरति, कैः सह भूभृतां गणैः सह राज्ञां समूहैः सार्ध, किंलक्षणश्चैद्यः कचनापि क्वचिदपि अखण्डितप्रसरः अनिवारितेच्छः, अपरं किलक्षणः औद्यः महान् गुरुतरः, क इव क्रीडति सरि- तामुदकस्य पूर इव । यथा सरितां नदीनामुदकस्य पूरः पानीयस्य वेगः तटद्रुमैः कूलतरुभिः सह अखण्डितप्रसरः अनिवारितविसर्पण: सन् क्रीडति । किंलक्षणः पूरः प्रावृषिजः वर्षाका- लीनः, अत एव महान् पूरः। नयतीति ॥ यश्चैद्यः उद्धतिश्रितः उद्धति श्रयमाणान् उन्नतान् भूभृतः प्रसभं हठात् बलात्कारेण द्रुतं शीघ्र भङ्गं नयति भनक्ति। किंलक्षणः अभङगुरोदयः स्थिरोन्नतिः, अपरम् अन्यमुन्नतं राजानम् आनतिं गमयति नम्रतां प्रापयति, किलक्षण- मन्यम् अवनीतलस्फुरभुजशाखामृतम् आनतिवशात् अवनीतले भूपृष्ठे स्फुरन्तौ चलन्तो भुजौ हस्तावेव शाखाः शिफाः बिभर्ति इति तथा तम् । उदकपूरोऽपि उद्धतिश्रितः उन्न- तान् देवदारुप्रभृतीन् दुमान् वेगाननक्ति, तथा वेतसप्रभृतीनां तरूणां शाखाः नमयति । सोऽपि निरन्तरः वार्षिकत्वात् अभङ्गुरोदय: चिराविर्भावो भवति । राजपक्षे भूमिलुठन- वशात् शत्रुसक्त(?)बाहुयुगलं भूमितले स्फुरति । एतेनाष्टाऽङ्गनमस्कारलक्षणं नमनमुक्तम् । अधिगम्येति ॥ हे कृष्ण ! यश्चैद्यः कस्यचिद्राज्ञः महान्त्यपि मूलानि क्षणात् वेगात् खनति उन्मूलयति । अत्र मूलशब्देन कुलक्रमायातपौराऽमात्यादयो ज्ञयाः । किलक्षणो यः क्षतसंहतिः विदारितविग्रहः, किं कुर्वन् अन्ततः मण्डलभेदं जनयन् कार्यसमाप्तौ उप- जापं कुर्वन् , किं कृत्वा अन्तरा मध्ये कार्यमध्ये रन्ध्र छिद्रम् अधिगम्य प्राप्य । उदक- पूरोऽपि कस्यचित्तटद्रुमस्य महान्त्यपि मूलानि खनति । अन्ततो वर्तमानस्य मण्डलस्य स्थानस्य भेदं जनयन् , किं कृत्वा अन्तरा मध्ये रन्ध्रमधिगम्य, किंलक्षणः क्षतसंहतिः भन्मसवातः । घनपत्रेति ॥ हे कृष्ण ! यश्चैद्यः कांश्चन नृपान् तरसा बलेन आकृष्य आक्षिप्य अनुगामिनः करोति सेवकान् विधने, किलक्षणान् राज्ञः घनपत्रभृतः घनानि पत्राणि बहुलानि वाहनानि बिभ्रति धारयन्तीति ते तथा तान् संहतवाहनधारिणः । तथा अन्यमपरं राजानं दृढमपि भृशं प्रतिष्टितं लब्धावस्थिति प्रतिकू लम् अप्रणतं नितरामति- शयेन निरस्यति तिरस्करोति । उदकपूरोऽपि कांश्चन वृक्षान् तरसा बलेन आकृष्य उत्पाव्य अनुगामिनः करोति पृष्ठानुयायिनो विधये । किंलक्षणान् वृक्षान् धनपत्रभृतः बहुल- पल्लवपर्णयुक्तान् तरसा बलेन आकृष्य उत्पाव्य, अपरम् अन्यं वृक्षं दृढमपि प्रतिष्ठित लब्धावस्थानमपि नितरामतिशयेन निरस्यति क्षिपति। किंलक्षणं वृक्षं प्रतिकूलम् अननम्। चतुर्भिः :कलापकम् ॥ ७२-७५ ॥ . (१)मन्यतः।

सन्देइविषौषधिसर्वरूपायुते- [षोडश:- अथ कलापकमाह- . .. नयतीति ॥ यः तटदुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तत्क्रीडा- प्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनमानिति यावत् । श्रयतेः क्विम् । नृपान् दुमांश्चेत्यर्थः । दुतं शीघ्रं प्रसभं प्रसह्य भई नयति । अवनीतले म्फुरन्त्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजी प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्य नृपं दुमं च वेतसादिकं भृशमु. नतिं गमयति ॥ ०२ ॥ अधिगम्येति ॥ किञ्चेति चार्थः। अन्तरा मण्डलमध्य आलवालमध्ये च रन्ध्रमवकाशं सुषिरं चा- अधिगम्य । अन्यतः मण्डलस्याऽमात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वनित्यर्थः । क्षता सेहतिरैकमत्यं मूलानामाश्लेषश्च यस्मिन्कणि तयथा तथा क्षणात् कस्य- चिद्राज्ञः 1: दुमस्य च महान्ति मूलानि मुख्यान् जनानपि खनति तापयति, अन्यत्रादीनपि खनत्यवदारयति७३।। घनपत्रेति ॥ घनाने मान्द्राणि पत्राणि वाहनानि पर्णानि च बिभ्रतीति घनपत्रभृत: कांचन नृपान् दुमांश्च तरसा बलेन वेगेन च । 'तरसी बलरंहसी' इति विश्वः । आकृष्याऽनुगामिनोऽनुचरान करोति । दृढं यथा तथा प्रतिष्ठितं प्रतिष्ठां गतमपि प्रतिकूलं प्रातिकूल्यभाजमपरं नृपं दुमं च नितरां निरस्यति उत्पाटयाऽन्यतः क्षिपति । दुमपक्षे प्रतिकूलं कूल क्षिपतीति चार्थः ॥ ७४ ॥ इतीति ॥ इतीत्थं वचनाऽप्यखण्डितप्रसरः । सर्वत्राऽखण्डितप्रवृत्तिरित्यर्थः। महान् यः शिशुपालः प्रावृषि जातः प्रावृषिजः । सप्तम्यां जनेर्डः' इति डप्रत्ययः । 'प्रावृदशरत्कालदिवां जे' इत्यलुक् । 'प्रावृषि- कः' इति पाठे तत्र जात इत्यर्थ 'प्रावृषष्ठक्' इति टक् प्रत्ययः। ठस्येकः । सरितामुदकानां पूरस्तटदुमै- रिव भूभृतां राज्ञां गणैः साधनैः क्रीडति । 'महतः कुकुरे'त्यागामिश्लोके स महीपतिरित्यनेनाऽस्य सम्बन्धः ।। ७५ ॥ त्रिभिविशेषकम्- अलघूपलपतिशालिनीः परितो रुद्धनिरन्तराऽम्बराः ॥ अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ ७६ ॥ कटकानि भजन्ति चारुभिनवमुक्ताफलभूषणैर्भुजैः ॥ नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ ७७॥ इति यस्य ससम्पदः पुरा यदवापुः सदने(१)वरिस्त्रियः ॥ स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ ७८ ॥ अलघूपलेत्यादि ॥ इतीति ॥ हे कृष्ण ! यस्य चैद्यस्य अरिस्त्रियो रिपुनार्यः सद- नेषु अन्तःपुरेपु ससम्पदः समृद्धाः सत्यः पूरा पूर्व यदिदं वक्ष्यमाणम् अवापुः आप्नुवन्ति स्म, तत् इदानीमधुना आपदा विपत्त्याऽपि अवनीध्रमूर्धस भूधरशिखरेपु स्फुट प्रकट समस्तमेव सकलमेव अवापुः लेभिरे । अलघूपलेति ॥ हे कृष्ण ! यस्य वैद्यस्य अरि- स्त्रियः चिरात्प्रभृति मेखलाः न विमुञ्चन्ति गिरिमध्यभागान् न त्यजन्ति । पूर्व ताः मेखलाः रशनाकलापान् न मुमुचुः । किंलक्षणा मेखलाः अलघूपलपङ्क्तिशालिनीः महाशिला- श्रेणिभिः शोभमानाः, द्वितीयपक्षे अलघूपलानां महानीलप्रभृतिमणीनां पङ्क्तिभिः श्रेणिभिः शालन्ते यास्तथा ताः । अपरं किलक्षणाः मेखलाः परितः समन्तात् रुद्धनिरन्तराऽम्बराः व्याप्तनिःशेषाऽऽकाशाः, द्वितीयपक्षे रुद्धमवष्टब्धं निरन्तरं निर्विवरम् अम्बरं दुकूलं याभि- स्ताः तथा ताः । अपर किंलक्षणा मेखलाः अधिरूढनितम्बभूमयः अधिरूढा अधिष्ठिता ॥ (१) वने।

सर्गः । ] शिशुपालवधे। ६०१ - - नितम्बभूमिः कटितटं स्त्रीणां याभिस्तास्तथा, द्वितीयपक्षे किलक्षणा मेखलाः अर्थवशाद्वि- भक्तिविपरिणामः, किलक्षणा अधिरूढा आश्रिता नितम्बभूमयो मेखलोपान्ता याभिस्ताः । कटकानीति ॥ हे कृष्ण ! यस्य चैद्यस्य अरिस्त्रियः रिपुनार्यः कटकानि भजन्ते शृङ्गाणि माश्रयन्ते । किंलक्षणा अरिस्त्रियः भुजैर्बाहुभिरुपलक्षिताः, उपलक्षणे तृतीया। किंलक्षण: भुजैः चारुभिः रम्यैः, अपरं किंलक्षणैः भुजैः नवमुक्ताफलभूषणैः नवानि प्रत्यग्राणि सम्प्रति मुक्तानि त्यक्तानि अफलानि शोकवत्त्वात् निरर्थकानि भूषणानि अङ्गदा- दीनि यैस्ते तथा तैः, अग्रे ससमृद्धयस्ताः स्त्रियो भुजैः कटकानि वलयानि भजन्ति स्म । कि- लक्षणैर्भुजैः नवमुक्ताफलभूषणः प्रत्यग्रमुक्तामयमण्डनैः,अत एव अपरं किंलक्षणैः भुजैः चारुमि- मनोहरैः,अपरं नियतं नित्यमेव पृथुगण्डशैलतः विशालगलितपाषाणेभ्यः चित्रकैः प्राणिविशेषैः सह अवियोगं दधते नित्यं सहचारं धारयन्ति । चित्रकाः प्राणिविशेषाः तैः सह मिलिताः। यथा गलितस्थूलपाषाणान् न त्यजन्ति । अग्रे ताः पृथुगण्डशैलतः विशालकपोलस्थलेभ्यः नियतं सदा चित्रकैः तिलकादिभिः अवियोगं दधति स्म। त्रिभिर्विशेषकम् ॥ ७६-७८ ॥ अथ विशेषकमाह-- अलघूपलोत ॥ यस्याऽरिस्नियः सम्पद्यनुभूतमापाप्यनुभवन्तीति वक्ष्यति। तत्प्रकारमेवाह-अधिरूढ- नितम्बभूमय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां पाषाणानांच पङ्किभिःशालन्त इति तच्छालिनीः। 'उपली मणिपाषाणौ' इति विश्वः । परितो रुद्धमावृतं निरन्तर सान्द्र सन्निहितं च अम्बरं वस्त्रमाकाशं च याभिस्ताः अधिरूढनितम्बभूमीराक्रान्तश्रोणिभागाः प्राप्तकटकाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र सम्पदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकृतत्वात केवलप्रकृतगोचरः श्लेषः ॥ ६ ॥ कटकानीति ॥ किश्च । नवमुक्ताफलानि नूतनमौक्तिकानि भूषणानि येषां तैश्वारुभिः भुजैः कटकानि बलयानि भजन्ति, अन्यत्र नवमुक्तान्यचिरत्यक्तानि अतः अफलानि वैधव्यानिष्फलान्याभरणानि यस्तै जै- रूपलक्षिताः कटकानि तटानि भजन्ति । किञ्चति चार्थः । पृथुगण्डशैलतः पृथगण्डस्थलेषु चित्रकैः पत्ररचनाभिनियतमवियोग सम्पर्क दधते, अन्यत्र च्युतस्थूलोपलघु चित्रकर्मगविशेषैः सह वासं दधते । अत्रापि प्रकृतगोचरः श्लेषः ॥ ७७ ।। इतीति ॥ यस्यारिस्त्रियः पुरा पूर्व ससम्पदः सश्रीकाः भवनेषु सदनेषु यदवापुर्मेखलादिकमनुबभूवुः । समस्तमशेषं तदिदानीमापदा अवनीधमूर्धसु शैलशृङ्गेषु इतीत्थं स्फुटमेवाऽवापुः । न ह्यस्य वारंगा जाविताशेति भावः । अत्रापि यदर्थस्योत्तरश्लोकेनाऽन्वयः ॥ ७८ ॥ महतः कुकुराऽन्धकद्रुमानतिमात्रं दववहहन्नपि ॥ अतिचित्रमिदं महीपतिर्यदकृष्णामवान(१) करिष्यति ॥ ७९ ॥ महत इति ॥ हे कृष्ण ! इदमतिचित्रं महदाश्चर्य', यन्महीपतिः जैद्यः महतः प्रौढमहिम्नः विशालान वा कुकुराऽन्धकदुमान् अतिमात्रमतिशयेन दववत् दावानलवत् दहन्नपि मारयन्नपि भस्मीकुर्वन्नपि अवनी पृथिवीम् अकृष्णां करिष्यति । दवो हि किल भूमि दहन् कृष्णां करोति । अयं तु नृपतरून दहनपि यादववृक्षान् भस्मीकुर्वन्नपि पृथिवी- मक णां करिष्यति । इति महदाश्चर्यम् । न विद्यते कृष्णो यस्यां सा तथा तां कृष्ण. हीनों कर्ता ॥ ७९ ॥ (१) दकृष्णां पृथिवी । ५१ शि०० ६०२ सन्देहविषौषधिसर्वपायुते- [ षोडशः- महत इति ॥ यत्सदोनित्यसम्बन्धात् । स महीपतिर्महतोऽधिकान् कुकुराचाऽन्धकाच यादवभेदास्तानेक दुमानतिमात्रं दवयवाग्निवत् । 'दवदावौ वनारण्यवती' इत्यमरः । दहनपि अवनीमकृष्णामश्यामां करि- ध्यति इति यत , इदमतिचित्रम् । विरुद्धमित्यर्थः। कृष्णरहितामित्यविरोध: । अत एव विरोधाभासोडलङ्का- रः । कुकुराऽन्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः । ७९ ॥ परितः प्रमिताक्षराऽपि सर्व विषयं व्याप्नुवती(१) गता प्रतिष्ठाम् ॥ न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ ८० ॥ परित इति ॥ हे कृष्ण ! यदाज्ञा यस्य चैद्यस्य आज्ञा निदेशः प्रमिताक्षराऽपि स्व- ल्पाक्षराऽपि स्तोकवर्णाऽपि कुतश्चित् कापि न खलु प्रतिहन्यते नैव निषिध्यते । किंलक्षणा यदाज्ञा गरीयसी गुस्तरा, अपरं किलक्षणा यदाज्ञा प्रतिष्ठां गता गौरवं प्राप्ता, अपरं किलक्षणा यदाज्ञा परितः समन्तात् सर्व विषयं व्याप्नुवती सर्वत्र गच्छन्ती । केव न प्रतिहन्यते परिभाषेव । यथा परिभाषा क्वापि न खलु प्रतिहन्यते । साऽपि प्रमिताक्षरा, तथा प्रतिष्टांगता,अपरं सर्व विषयं सर्वव्याकरणानि व्याप्नुवती । वक्तव्यरूपा परिभाषा ॥८० अथ युग्मेनाह परित इति ॥ प्रकर्षेण मिताक्षरापि एकत्र मितभाषितत्वादन्यत्र तु सूत्रत्वाच्चाऽल्पाक्षरापि सर्व विषयं राष्ट्रकार्य देशं च परितो व्याप्तवती । सर्वत्र प्रवृत्तेत्यर्थः। प्रतिष्ठा प्रामाण्य स्थिति गता गरीयप्ती भूयिष्ठार्था यदाज्ञा यस्य राज्ञः शासनं परिभाषा अनियमनिवारको न्यायविशेषः सेव कुनश्चित्कुत्रापि न प्रतिहन्यते खलु न बाध्यते हि । परिभाषा ह्येकदेशे स्थिता सर्वशास्त्र मनिज्वलयतीति भाष्यकारः । 'इको गुणवृद्धी' इत्यादिका परिभाषा । 'मिचि वृद्धि:--' इत्यादिविषयः । उपमालङ्कारः। औपच्छन्दासकं वृत्तम् ॥ ८० ॥ यामूढवानूढवराहमूतिर्मुहूर्तमादौ पुरुषः पुराणः ॥ तेनोहते साम्प्रतमक्षतैव क्षताऽरिणा सम्यगसौ पुनर्भूः ॥ १ ॥ यामिति ॥ हे कृष्ण ! तेन औद्येन साम्प्रतमधुना सम्यक् निश्चितमसो भूः पृथिवीः अक्षतैव अविनाशनैव पुनभूयोऽपि उह्यते परिणीयते । किलक्षणेन तेन क्षताऽरिणा उच्छिन्न- विपक्षण, असौ का भूः आदौ प्रथम पुराणः पुरुषः यां भूमि मुहूर्तम् ऊढवान् दधे, किलक्षणः पुराणः पुरुषः उढवराहमूर्तिः धृतशूकररूपः । यथा येन केनापि परिणीता स्त्री अन्येन पुनरह्यते सा पुनः कथ्यते ॥ ८१ ॥ यामिति ॥ यां भुव मादौ पूर्व पुराणपुरुषो विष्णुः उढवराहमूर्ति तवराहशरीरः स च, न तु स्वरूपेणे- ति भावः । मुहूर्त क्षणमात्रमूढवान्धृतवान् । क्षताऽरिणा संहृतसकलविपक्षेण अत एवैना पुनस्तेन राज्ञा अवि- कृतेनेति भावः । अक्षतेव विपक्षैरनुपद्रुतैवाऽसो भूः साम्प्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथा- शाममुह्यते धार्यते । वहे: कर्मणि लट् 'वचिस्वपि-' इत्यादिना सम्प्रसारणम् । अत्र राज्ञो विष्णोराधिक्य- कथनाध्यतिरेकः । अत्र ध्वनिः । कश्चिद्रद्धः स चोढवराहमूर्तिर्यामविकृतामादौ प्रथम मुहूर्तमूढवान्परिणीत- वानिति, अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासी भूर्वोदुः सतारिणा, शौर्यादिगुणाढ्यने- त्यर्थः । तेन केनचिना साम्प्रतं पुनरुह्यते पुनः पुनः परिणीयते । ‘सा चेदक्षतयोनिः स्यात्पुनःसंस्कार- महति' इति स्मरणादिति भावः । सा पुनर्भूरुच्यते इति योज्यम् । 'पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः' इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव ॥ ८१ ॥ भूयांसः क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ॥ कल्लोलाः सलिलनिधेरवाय पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥८२॥ (१) प्राप्तवती। !

सर्गः।] शिशुपालवधे । ६०३ । . . भूयांस इति ॥ हे कृष्ण ! सलिलनिधेः समुद्रस्य कल्लोला: ताङ्गाः पार तोरम् अवाप्य प्राप्य शीर्यन्ते तट प्राप्य लीयन्ते, परं तदीयाः अद्यसम्बन्धिनो गुगमहोर्मयः गुणकल्लोलाः समुद्रस्याऽपि पारमवाप्य न शीर्यन्ते । तत्रापि बहुला भवन्तीत्यर्थः। किं. लक्षणा ऊर्मयः भूयांसः अतिबहवः, तथा कामं निश्चितं कचिदपि कुत्राऽपि अस्खलन्तः स्खलनामप्राप्नुवन्तः लब्धप्रसराश्च। अपरं यद्यपि-द्वयेऽपि उभयेऽपि तुङ्गत्वं दधति उच्चस्त- रतामौनत्यं च धारयन्ति, परं तथापि तटस्खलनात् गुणैः कल्लोला जिता इत्यर्थः ॥८२॥ भूयांस इति ॥ येऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितथा अप्यूर्मय इति । द्वेस्तयप्। तस्य 'द्वित्रिभ्या- म्-' इत्यनेनाऽयजादेशः, 'प्रथमचरम-' इत्यादिना जसि विभाषया सर्वनामसंज्ञा । भूयांसो बहुतराः काच- दप्यस्खलन्तः। अप्रतिहतप्रसरा इत्यर्थः । काम तुङ्गत्वं दधति यद्यपि दधत्येव । 'यद्यपीयवधारणे' इाते केशवः । तथापीति शेषः । सलिलनिधेः समुद्रस्य कलोला महर्मियः । 'अथोर्मिषु । महसूल्लोलकल्लोलो' इत्यमरः । पारं तीरमवाप्य शीयन्ते विलीयन्ते । शोयनेवादिकाकर्तरि लट् । तदीया गुगमहो मयस्तु 'पारमवाप्य न शीर्यन्ते । अत्र गुणमहोर्मीणां भूयस्त्वादिति साधर्येण गुरुत्वेन समुदस्याधिक्या यति- रेकः । अनेन राज्ञाऽपि समुद्रादाधिक्यं व्यज्यते । प्रहर्षिणी वृत्तम् ॥ ८२ ॥ लोकालोकव्याहतं धर्मरश्मः शालीन वा धाम नाऽलं प्रसर्तुम् ॥ लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युश्चैर्भूभृतो यस्य तेजः ॥ ८३ ॥ लोकालोकेति ॥ हे कृष्ण ! यस्य चैद्यस्य तेजः प्रतापः पश्यतो विलोकमानस्य लोकस्य सर्वजगतः अग्ने पुरस्तात् सृष्टं निर्भयं यथा भवति तथा आशु शीघ्रम् उच्चैः उन्न- तान् महाप्रभावान् भूभृतो नृपान् कामति पार्थिवान् तिरस्करोति। यतः कारणात् धर्मरश्मेः श्रीसूर्यस्य धाम तेजो लोकालोकव्याहतम् उदयाचलेन अस्ताचलेन च अस्खलत् सत् प्रसतु परत: गन्तुं नालं न समर्थम् । वाशब्द इवार्थे । किंलक्षणं धाम, उत्प्रेक्ष्यते- शालीनं वा सलज्जमिव । लजायां किं कारणं, यस्य तेजो लोकालोकव्याहत लोकस्या- लोकः लोकालोकः तेन अस्खलितम् । यतः कारणात् पश्यत आलोकयतो लोकस्याये उच्चै भृतः कामति । खेस्तेजो भूभृता अस्ताचलेन स्खलितं श्रीसूर्यतेज इति जल्पति इदमाह, षयत् लोकालोकेन व्याहतमहम् । अथ च लोकालोकेन उदयाचलेन स्खलितं तेजः स्वयमेव प्रसर्तुम् न अलं न समर्थ', किन्तु ज्ञायते शालीन वा सलजमिव, चैवतेजसा तिरस्कृतमिव सबीडम् । अथ वा परं तेज: वैद्यस्य तेजः भूभृतः अस्ताचलेन स्खलितम्, अतोऽपि सबीडम् । एतावता खेरपि तेजसोऽस्य चैद्यस्य तेजो धाम अधिकमित्यर्थः । यतः कारणादधिकेन जितः सर्वोऽपि सबीडत्वात् प्रसतु नालं न समर्थ इति भावः । मालिनी छन्दः ॥ ८३ ॥ अथ युग्मंनाह- लोकालोकेति ॥ लोक्यते आलोक्यते च पार्थान्तरेणेति लोकालोकः । 'लोकालोकनक वाल:' इत्यमरः । विशेषणसमासः । तेन व्याहतं निरुद्धप्रसार लोकप्त्यालाकन चक्षुःप्रकाशेन व्याहतमित्यपि स्फुरति । अत एव शालीनमधृष्टम् । लज्नया भधाष्टया मत्यर्थः । शालीनकौपीने अधृष्टाकार्य योः' इति निपातः । इवार्थ पशब्दः, तादुत्नेशा । धर्मरश्मेर्धाम तेजः पश्यतो लोकान् उचैर्भूभृतः पर्वतान् राज्ञा अमर्तु व्याप्तुं नालं न समर्थम् | लोकालोकव्याप्तस्य लोकाग्रे सञ्चरत्वादित्यर्थः । यत्य राज्ञस्तु तेजः पश्यतो जोकस्याऽप्रत एव धृष्टं केनाप्यव्याहतत्वात्मगल्भं सत् उच्चै भृतो राज्ञः पर्वताश्च कामति व्याप्रोति । - कामति । वेस्तेजो भूभृता- .. .

६०४ सन्देहविषौषधिसर्वपायुते- [ षोडश:- अत्रा प्रतिहतप्रतापत्वेन राज्ञः सूर्यादाधिक्याद्यतिरेकः । स च द्वयोलोकालोकयोयानां भूमृतामभेदाध्यक- सायात श्लेषमूलातिशयोक्त्युत्थापितया शालीनत्योत्प्रेक्षया सङ्कीर्यते । शालिनी वृत्तमेतत् ॥ ८३ ॥ विच्छत्तिर्नवचन्दनेन वपुषो मिन्नोऽधरोऽलक्तकै. रच्छाच्छे पतिताऽञ्जने च नयने श्रोण्योलसन्मेखलाः ॥ प्राप्तो मौकिकहारमुन्नतकुचाभोगस्तदीयद्विषा- मित्थं नित्यविभूषणा युवतवः सम्पद्वदापद्यपि(१६) ॥ ८४ ॥ विच्छित्तिरिति ॥ हे कृष्ण ! तदीयद्विषां चैद्यसम्बन्धिरिपूणां युवतयोऽङ्गना एवं- विधा भवन्तु। किंलक्षणाः आपद्यपि विपन्मध्येऽपि सम्पद्वत् समृद्धितुल्यम् इत्थममुना प्रकारेण नित्यविभूषणाः नित्याभरणाः। यथा सम्पदि सत्यां नित्यालङ्करणाः, विपद्यपि तथैव तासां विभूषणमित्यर्थः । विगतानि भ्रष्टानि भूषणानि यासां तास्तथा। तासां वपुषः शरीरस्य नवचन्दनेन प्रत्यग्रमलयजेन विच्छित्तिरस्तु । विच्छेदनं विच्छित्तिः । वपुषि श्रीखण्डहीनत्वमस्तु । द्वितीयपक्षे सम्पदि सत्यां नवचन्दनेन विच्छित्तिरभूत् नवश्रीखण्डभक्तिः समजनि । अपरम् अधरः ओष्ठः अलक्तकैः यावकैभिन्नोऽस्तु अलक्तकरसैः हीनोऽस्तु, द्वितीयपक्षे सम्पदि सत्याम् अधरः अलक्तकरसैभिन्नो मिश्रितो युक्तोऽभवत् । तथा अच्छा- च्छे स्वल्पतरे नयने विलोचने पतिताञ्जने च भवेतां भ्रष्टकज्जले स्ताम् , द्वितीयपक्ष सम्पदि सत्यां नेत्रे पतिताऽजने प्राप्तकजले अभूताम्। अपरं श्रोण्याकट्यः अलसन्मेखला: सन्तु भ्रष्टरशनाः भवन्तु, द्वितीयपक्षे सम्पदि सत्यां श्रोण्यः लसन्मेखलाः शोभमान- रशनाः अभवन् । अपरम् उन्नतकुचाभोगः मौक्तिकहारं प्राप्तोऽस्तु उद्धतस्तनमण्डल: मौक्तिकहारं प्राप्तः। हुन हरणे,हरणं हारः विनाशः। मुक्ताकलापविहीनो भवतु, अग्रे सम्पदि तत्र कुचाभोगे मौक्तिकहारोऽभवत् । एतेन विधिना रिपुवधूनां सम्पदि यादृशानि मण्ड- नानि अभवन् , विपद्यपि तादृशान्येव भवन्त्विति भावः । शार्दूलविक्रीडितं छन्दः॥८४॥ विच्छित्तिरिति ॥ वपुषो नवचन्दनेन विच्छिनिर्वियोग आपदि, अन्यत्र चन्दनालेपनामाते यावत । अधरोष्ठोऽलककैलाक्षारागैभित्रोवियुकः, अन्यत्र युक्तः। नयने च पतिताऽञ्जने गलितकज्जले अत एवाऽच्छा- च्छे अच्छप्रकारे । 'प्रकारे गुणवचनस्य' इति द्विर्भावः, 'कर्मधारयवत्-.' इति सुपो लुक् । अन्यत्र अच्छा- च्छे नयने पतिताऽञ्जने प्रासाऽञ्जने। श्रीग्यो नितम्बाः लसन्मेखला न भवन्तीत्यलसन्मेखलाः । निर्मेखला- इत्यर्थः । अन्यत्र लसन्मेखला इति पदच्छेदः । उन्नतः कुचाभोगः कुचविस्तारो मौक्तिकानो हार हरणं प्राप्तः, अन्यत्र मुक्कादाम प्राप्तः । इत्थमुक्तरीत्या तदीयाद्विषां युवतयः सम्पन्सु चापत्स्वपि नित्यविभूषणाः । अबाऽऽपसम्पदोः प्रकृताप्रकृतयोः युवतिविशेषणद्वारा वर्णनात क्लेष:। शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तम्। विनिहत्य भवन्तमूर्जितश्रीयुधि चैद्यः(१७) शिशुपालतां यथार्थाम् । पटतां भवदङ्गनागणानां करुणाऽन्तःकरणः करिष्यतेऽसौ ॥ ८५ ॥ शनि श्रीमाघकृतौ शिशुपालवधे महाकाव्ये षोडशः सर्गः ॥ १६ ॥ विनिहत्येति ॥ हे कृष्ण ! असो या शिकार भवदङ्गानागणानां वाद्विलासि. नीवर्गाणां रुदतां रोदमानानां(?) सतां यथार्था सत्यां शिशुपालतां करिष्यते शिशून् पाल- (१ सम्पत्सु चापत्स्ववि। (२) सद्यः ।

सर्गः।] शिशुपालवधे। ६०५ यतीति शिशुपालः तद्रावस्तत्ता ताम् । शिशून् पालयिष्यतीत्यर्थः । किलक्षणोऽसौ करुगा- ऽन्तःकरणः करुणं दयापरम् अन्तःकरण मानसं यस्य सः तथा, किं कृत्वा युधि समामे भवन्तं त्वां विनिहत्य व्यापाद्य, अपरं किलक्षणः अजितश्रीः सबलसमृद्धिः । भवति हते यदा त्वदङ्गनागणाः औद्यस्य पुरस्तात् अभूणि मोक्ष्यन्ति, तदा असौ दयाचित्तः सन् तेषां शिशुन पालयिष्यति रक्षयिष्यति न हनिष्यतीति भावः । ततः शिशुपाल इति . नाम सार्थकं करिष्यतीति ॥ ८५ ॥ इति श्रीशिशुपालवधे महाकाव्ये दत्तकसूनोर्माघस्य कृतौ वल्लभविरचितायां सन्देहविषौषध्यां सारटीकायां दूतसंवादो नाम षोडशः सर्गः । सत्यमीदृशस्ते राजा, ततः किमित्याशय तईि तत्त्वमाकर्णयेत्याह- विनिहत्येति ॥ अर्जितश्रीरधिकैश्चर्योऽसौ राजा युधि भवन्तं सयो विनिहत्य हत्वा रुदतां क्रन्दता भवदङ्गनागणानां करुणाऽन्तःकरणः कृपाविष्टचित्तः सन् शिशुपालता यथार्थी करिष्यते । अङ्गनागणान् प्रति नच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थी करिष्यतीत्यर्थः । अत्र रोदनकरुगापदार्थयोर्वि शेषणगत्या क्रमात् करुणांशिशुपालनहेतुकत्वात्काव्यलिङ्गयोः सदरः । औपच्छन्दसिकं वृत्तम् ॥ ८५ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथमूरिविरचिताया शिशुपालवध- काव्यव्याख्यायो सवकषाख्यायां षोडशः सर्गः॥ १६ ॥ सप्तदशः सर्गः। इतीरिते वचसि तरस्विना(१)ऽमुना युगक्षयक्षुभितमरुद्गरीयसि ॥ प्रचुक्षुमे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ १॥ इतीति ॥ तत् सदः सभा सपदि शीघ्र प्रचुक्षुभे चलितं क्षुब्धम् । किंलक्षणं सदः अम्बुराशिना समं समुद्रेण तुल्यम् , अपरं किलक्षणं सदः महाप्रलयसमुद्यतं कल्पान्तकाल- तुल्यम् , अथ वा महाप्रलयाय नरादिसंहाराय समुद्यतं समुदितं, क सति अमुना दूतेन इति वचसि ईरिते सति इति पूर्वोक्तवाक्ये उक्ते सति, किंलक्षणेनाऽमुना तरस्विना बलि- प्ठेन, किलक्षणे वचसि युगक्षयक्षुभितमरुद्गरीयसि कल्पान्तकालोद्धतपवनगुरुतरे ॥ १ ॥ इतीति । इतीथममुना वचस्विना वाग्मिना, 'मनास्वना' इति पाठे मनस्विना धारेण दूतेन युग- साये कल्पान्ते क्षुभित उद्धतो मरुत् तद्ववरीयसि वचसि ईरिते सति, तदम्बुराशिना युगक्षयवाधिना सम तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुयुनं सत् सपदि प्रचुक्षुभे प्रचु- कोप । कल्पोद्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुमितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । 'चतुर्म हेरिह रुचिरा जभस्जगाः' इति लक्षणात् ॥ १॥ सरागया नुतघनघतोयया कराहतिध्वनितपृथूरुपीठया ॥ मुहुर्मुहुर्दशनविलधितौष्ठया(२) रुषा नृपाः प्रियतमयेव भेजिरे ॥२॥ (१) वचस्विना। (२) विखण्डितोष्ठया।

६०६ सन्देहविषौषधिसर्वकषायुते- [ सप्तदश:- - 'तेन सहेति तुल्य- सरागयेति ॥ रुषा क्रोधेन नृपा राजानो भेजिरे प्राप्यन्ते स्म । नृपाः प्रचुक्रुधु- रित्यर्थः । किंलक्षणया रुषा सरागया सरक्ततया । रुटशब्दः स्त्रीलिङ्गः । अपरं किंलक्षणया रुपा सुतधनधर्मतोयया उतं स्त्रवत् घनं बहुलं धर्मतोयं प्रस्वेदो यस्याः सा तथा तया, अपरं किंलक्षणया रुषा कराहतिध्वनितपृथूरूपीठया कराहत्या पाणितलास्फालनेन ध्वनितं ध्वनत् गृथु विशालम् ऊरुपीठं सक्थिमण्डलं यया सा तथा तया । अपरं किंलक्षणया रुषा, अतश्चोत्प्रेक्ष्यते-प्रियतमयेव । यथा प्रियतमया कान्तया केचित् सेव्यन्ते । सापि सरागा आसक्तिमती भवति । अत एव स्वतघनघर्मजला प्रियतमसंयोगात् स्वेदवती भवति, तथा कराहत्या सम्भोगसमये करास्फालनेन ध्वनितोरुर्भवति, मुहुर्मुहुः दशन- विलधितौष्टा च भवति । रुपाऽपि देहे रागो भवति, प्रस्वेदश्च स्यात् , करतलेन चोरू माहन्ति, दन्तैश्चौष्टं विखण्डयति ॥ २ ॥ अथाष्टादशभिः सभाक्षोभं वर्ण यति- सरागयेति ।। नृपा राजानः सह रागेण पाटलिना अनुरागेण च सरागया । योगे' इति बहुव्रीहिः । खतं घनं सान्द्रं धर्मतीयं स्वेदोदकं यस्यां मा तया कराहत्या पाणितलास्फालनेन ध्वनितं पृथु महदुरु पीठमिव उरुपीठं यस्यां तया मुहुर्मुहुर्दशनविखण्डितोष्ठया दन्तदष्टाधरया प्रियतमयेव भेजिर । आविष्टोऽनाविष्टव रोदस्थायी क्रोधः प्रादुर्भूत इत्यर्थः । उपमालङ्कारः ॥ २ ॥ अलक्ष्यत क्षणदलिताऽङ्गदे गदे करोदरप्रहत(२)निजांऽसधामनि ॥ समुच्छल(२)च्छकलितपाटलोपलस्फुलिङ्गवान्स्फुटमिव कोपपावकः॥३॥ अलक्ष्यतेति ॥ गद गदनामनि श्रीभगवदनुजे कोपपावकः क्रोधानलः स्फुटमिवा- ऽलक्ष्यत मूर्त इव दृष्टः । कथं स्पुटं प्रकटं प्रत्यक्षमेवेति । किंलक्षणे गदे क्रोधात् करोदर- प्रहतनिजांसधामनि करोदरेण पाणितलेन प्रहतं ताडितं निजमात्मीयम् अंसधाम स्कन्धप्र. दशी येन सः तथा तस्मिन् पाणितलताडितात्मीयस्कन्धदेशे, अपरं किलक्षणे गदे क्षणदलि. ताऽङ्गद क्षणेनैव मुहूर्तेनैव दलिताऽङ्गदे पिष्टकेयूरे, किंलक्षण: कोपपावकः समुच्छलच्छक- लितपाटलोपलस्फुलिङ्गवान् समुच्छलन्त उल्लसमानाः(?) शकलिताः स्फाटिताः ये पाटलो- पलाः पारागमणयः ते एव स्फुलिङ्गाः अग्निकणाः विद्यन्ते यस्य सः तथा ॥ ३ ॥ अथ सप्तदशभिः राज्ञां क्रोधानुभावानाह- अलक्ष्यति ॥ करोदरप्रहितं पणितलास्फालित निजमंसधाम स्वासप्रदेशो येन तस्मिन् , अत एक क्षणालिताङ्गदे भन्नकेयूर गदे गदाख्ये कृष्णानुजे समुझसद्भिरुत्पतद्भिः शकलितः शकलीकृतैर्दलदङ्गदगलित. पाटलोपले पद्मरागः कोपपावकः स्फुलिङ्गवानिव स्फुटं न्यक्कमलक्ष्यतेत्युत्प्रेक्षा । 'त्रिषु स्फुलिङ्गोऽग्नि- कणः' इत्यमरः ॥३॥ अवक्षया यदहसदुश्चकैबलः समुल्लससदशनमयूखमण्डलः ॥ रुषाऽरुणीकृतमपि तेन तरक्षणं निजं वपुः पुनरनयनिजां रुचम्(३) ॥४॥ अवक्षयेति ॥ बलो बलभद्रः यत् अवज्ञया हेलया वेगेन उच्चकैः गाढम् अहसत जहास, तेन हासेन असौ बलः रुषा रोषेण अरुणीकृतमपि आरक्तीकृतमपि निजं वपुः आत्मीयं शरीरं तत्क्षणं तस्मिन क्षणे स्वां रुचम् अनयत् निजां कान्ति पुनर्भूयः प्रापयत । शुक्लमेव व्यधादित्यर्थः । किंलक्षणोऽसौ हासवशात् समुल्लसद्दशनमयूखमण्डलः स्फुरहन्त- (१) प्रहित । (२) समुल्लस (३)रुचिम्।

सर्गः।] शिशुपालवधे। ६०७ . किरणनिचयः । दन्तकान्त्या पुनर्देशो गौरो भूत इत्यर्थः ॥ ४ ॥ अवज्ञयेति ॥ बलो बलभद्रः समुझसत् समन्ततः प्रसरत् दशनमयूखमण्डलं दन्तरश्मिपटलं यस्य सः सन् अवज्ञयानादरेण उच्चैरहसदिति यत् , तेन हासेन रुषारुणीकृतमपि निजं वपुः तत्क्षणं तस्मिन् क्षणे । अत्यन्तसंयोगे द्वितीया । पुनर्निजां रुचिं धावल्यमेवाऽनयत् । अत्र वपुषः स्वधावल्यत्यागेन दन्तधावल्य- स्वीकारात्तद्गुणालङ्कारः । तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः' इति लक्षणात् ॥ ४ ॥ यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ॥ बृहच्छिलातटकठिनांसघट्टितं ततोऽभवद्भमितमिवाखिलं जगत्(१) ॥ यदिति ॥ उल्मको रौहिणेयो रोहणीनन्दनः यत् अभिदूत दृतसंमुखं व्यवर्तत परिवृत्तः, ततो हेतोः बृहच्छिलातटकठिनांसघट्टितमखिलं जगत् भ्रमितमिवाभवत् महा- पाषाणस्थलकर्कशेन स्कन्धेन घट्टितमाहतं सत् समस्तमेव विश्वं भ्रमितमिव आसीत् चलितमिवाऽभूत् । ज्ञायते परिवृत्तं जगदित्यर्थः । कथं व्यवर्तत उत्पतत्पृथुतरहारमण्डलम् उत्पतत् उच्छलत् पृथुतरं द्राधीयः हारमण्डलं मुक्ताकलापो यत्र क्रियायां तत् यथा भवति॥ यादति ।। उल्मको नाम राजा उत्पतदुल्लुठत्पृथुतरं हारमण्डलं मुक्ताकालापो यस्मिन्कर्मणि तयथा तथा अभिदूतं दूताभिमुख व्यवर्तत विवृत्त इति दुतं यत् , ततेो विवर्तनादखिलं सदः बृहता शिलातलकठि- नेनासेन स्कन्धेन घट्टितं भ्रमितमिवाभवत । विवर्त वेगवशोत्थादंसघट्टनाद् भ्रमितमिवाऽभूदित्युत्प्रेक्षा ॥ ५ ॥ प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनाऽन्तमारुतैः ॥ युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ ६ ॥ प्रकुप्यत इति ॥ प्रकुप्यत: क्रुद्धस्य युधाजितो राजन्यविशेषस्य वदनसरोज मुख- पर्ध तनुवसनाऽन्तमारुतैः सूक्ष्मवस्त्रप्रान्तवायुभिः कृतपरितूर्णवीजनमपि विहितशीघ्रवीजन- मपि पुनस्तराम् अस्विदत् भूयोभूयः मितम् । यदि तालवृन्ताऽनिलस्तत् निहितक्षिप्र. वीजन,कथं तहि भृशं स्विन्नमभूदित्याह-किलक्षणैस्तनुवसनाऽन्तमारुतैः श्वसनसमीरणाहति. स्फुटोष्मभिः श्वसनसमीरणस्य श्वासपवनस्य आहतिः आस्फालनं तया स्फुटः प्रकटः उप्मा बाष्पो येषां ते तथा तैः श्वसनपवनाहननभृशोप्णैः ॥ ६ ॥ प्रकुप्यत इति ॥ प्रकुप्यतोऽतिक्रुध्यते। युधाजिता नाम राज्ञो वदनसरोज श्वसनसमीरणस्य निः- ३वासमारुतस्याहतिभिः स्फुटः प्रकट उष्मा उष्णत्वं येषा तेः तनुवसनाऽन्नमारुतैः सूक्ष्मवस्त्राञ्चलवाते. कृतं परितूर्णवीजनं शीघ्रविधूननं यस्य तत् । अतिशीघ्र वाज्यमानमपीत्यर्थः । पुनस्तरां पुनरत्यन्तम् । अव्ययादामुप्रत्ययः । अस्विदत्स्वियति स्म । स्विदेलुङ पुषादित्वादप्रत्ययः । अत्रामविशेषणगत्या स्वेद- हेतुत्वाकाव्यनिलम् । वीजनेऽपि स्वेद इति विरोधः । वीजिरयं चुरादिष्वन्वेषणीयः ॥ ६ ॥ प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्ज्वरमिव रौद्रमुद्रुतः(२)॥ कृ तक्षणं सपदि वधाय विद्विषामधिक्रुधं(३) निषधमनौषधं जनः ॥७॥ प्रजापतीति ॥ निषधं निषधाख्यं राजानम् उद् द्रुतो जनः भीतो लोकः प्रजापति- ऋतुनिधनार्थ युधिष्ठिराऽध्वरविनाशार्थ ज्वरमिव उत्थितमुदितं व्यतर्कयत् ऊहामास । नृपतिमखदाहाय नूनमिदं ज्वरान्तरमजनि इत्यवेदि। पुरा किल रौद्रेण ज्वरेण वीरभद्राख्येन प्रजापतेर्दक्षस्य मखोऽधानि । किलक्षणं निषधं रौद्र घोरम् , अपरं किंलक्षणं निषधं विद्विषां वधाय शत्रूणां घाताय कृतक्षणं कृतयत्नम् , अपरं किंलक्षणं निषधम् अधिक्रुधम् अधिगता (१) सदः। (२) मुद्धतम् । (३) समुद्यतं ""मतिक्रुधं ।

६०८ सन्देहविषौषधिसवकषायुते- [सप्तदशः- । - पङ्क उत्पद्यते क्रुध् येन सः तथा तं प्राप्तरोषम् , अपरं किलक्षणं निषधम् अनौषधम् अविद्यमानप्रणायो- पायम् । सोऽपि ज्वरो रौद्रो रुद्रदैवतः भगवद् द्विष्टानां च वधोयतः, सक्रोधो निरौषधश्च प्रजापतियुधिष्ठिरो दक्षश्च ॥ ७ ॥ प्रजापतीति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तम् उद्धृतं तीवम् अत एवाऽतिक्रुधमाधिककोधि अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थ दक्षाध्वरध्वसनार्थमुत्थितं रुद्रम्येमं रौद्रं रुद्रसम्बन्धिनं ज्वरमिष, वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत । अत्र राज्ञोऽपि प्रजापतित्वात्पुनः प्रजापतित्रातुनिधनार्थमुत्थितः साक्षादक्षाध्वराविध्वंसी वीरभद्र इवायमित्युत्पीक्षितवानित्यर्थः । उपमा ॥ ७ ॥ परस्परं परिकुपितस्य पिषतः क्षतोमिकाकनकपरागपङ्कितम्(१) । करद्वयं सपदि सुधन्वनः स्वजै(२)रनारतनुतिभिरधाव्यताऽम्बुभिः ॥८॥ परस्परमिति ॥ परिकुपितस्य अतिक्रुद्धस्य सुधन्वनः राज्ञः परस्परमन्योन्यं करद्वयं हस्तयुग्म पिंषतः मृदूनतः सतः स्वजैः आत्मनोत्थैः अनारतस्रुतिभिः निरन्तरप्रस्रवद्भिः अम्बुभिः स्वेदजलैः तत्करद्वयमधाव्यत क्षालितम् । किंलक्षणं करद्वयं क्षतोमिकाकनक- परागपङ्कितं पेषवशात् क्षतानां क्षुण्णानाम् ऊर्मिकाणामङ्गुलीयकानां कनकपरागेण रुक्मरजसा पङ्कितं कर्दमितं लिप्तम् । धूलिजलसंयोगात् किल अत एवं अधाव्यत । पङ्कितं हि करादिजलेन झाल्यते ॥ ८ ॥ परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंषतः पीडयतः, करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः मतानां विष्टानामूर्मिकानामगुलीयकानां कनकपरागेण सुवर्णचूर्णेन पहिलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलच्प्रत्ययः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । करवयं पाणियुग्मं निजैः करद्रय- जन्यरेवानारतस्रतिभिरविरतस्रावरम्बुभिः स्वेदोदकरधाव्यताध्क्षाल्यत । धावु गतिशुध्योः' इति धातोः कर्मणि लडू । अत्रोर्मिकाणां करद्वयस्य च परागत्वपङ्किलत्वासम्बन्धेऽपि सम्बन्धोकेरतिशयोक्ती, तयोः सङ्करः ॥८॥ निरायतामनलशिखोज्ज्वलज्वल(३)भखप्रभाकृतपरिवेषसम्पदम् ।। अबिभ्रमझमदनलोल्मुकाकृति प्रदेशिनी जगदिव दग्धुमाहुका(४) ॥९॥ निरायतामिति ॥ आहुकः राजा प्रदेशिनीमबिभ्रमत् तर्जनीमचालयत् । किंलक्षणां प्रदेशिनी निरायताम् ऋज्वी द्वाघीयसीम् , अपरं किंलक्षणां प्रदेशिनीम् अनलशिखो- ज्ज्वलज्वलन्नखप्रभाकृतपरिवषसम्पदम् अनलशिखावत् सप्ताचिर्चालावत् उज्ज्वलामि- निर्मलाभिः अत एव ज्वलन्तीभिर्देदीप्यमानाभिः नखप्रभाभिः करजदीप्तिमिः कृता विहिता परिवेपसम्पत् वेष्टनं यस्याः सा तथा ताम् , अपरं किलक्षणां प्रदेशिनी भ्रमदनलोल्मुका- कृति भ्रमतः परिचलतोऽनलस्योल्मुकस्येव आकृतिराकारो यस्याः सा तथा तां, किं कर्तुमिव अबिभ्रमत् , उत्प्रेक्ष्यते-जगद् दग्धुमिव विश्वं भस्मीकर्तुमिवाऽबिभ्रमत् । परिवेषः परि- भ्रमणमभिव्याप्तिः ॥९॥ निरायतामिति ॥ आहुकिर्नाम राजा निरायता प्रसारिताम् अनलशिखाग्निज्वाला तददुज्ज्वला ज्वल- नीभिनखप्रभाभिः कृता परिवेषसम्पत् परिधिशोभा यस्यास्ताम् अत एव भ्रमतोऽनलोल्मकस्थालातस्येवा- कृतिः संस्थानं यस्यास्ताम् । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः। प्रदेशिनी जगदग्धुमिवेत्युन्प्रेक्षा। भबिभ्रमद् भ्रमयति स्म । भ्रमर्गौ च । दूतसन्तर्जनाय भ्राम्यमाणनखप्रभापटला तर्जनी जगहाहाय भ्राम्य- माणाऽलातचक्रवदलक्ष्यतेत्यर्थः ॥९॥ (१) पहिलम् । (२) सुधन्वनो निजै०। (१) शिखाज्ज्वलो ज्वल। (१)माहुकिः।

सर्गः । शिशुपालवधे। ६०६ दुरीक्ष्यता(१)मभजत मन्मथस्तथा यथा पुरा परिचितदाहधायया ॥ ध्रुवं पुनः सशरममुं तृतीयया हरोऽपि न व्यषहत(२) वीक्षितुं दशा १०॥ दुरीक्ष्यतामिति ॥ मन्मथः कन्दर्पावतारः प्रद्युम्नः तथा तेन प्रकारेण दुरीक्ष्यता- ममजत दुईश्यत्वं शिश्राय, यथा येन प्रकारेण तं प्रद्युम्नं सशरं ससाय ध्रुवं निश्चित भगवान् हरोऽपिश्रीमहादेवोऽपितृतीयया दृष्ट्या ललाटजेन नेत्रेण अमुमेनं द्रष्टुं न व्यपहत विलोकितुं न शशाक । कुत इत्याह-किलक्षणया दृशा पुरा परिचितदाहधाष्टर्यया पुरा पूर्व परिचितमभ्यस्त दाहधाष्ट्यं दहनप्रागल्भ्यं यस्याः सा तथा तया । पुरा हि किल भगवता श्रीभवेन तृतीयेन ईक्षणेन कामो भस्मीकृत इति ॥ १० ॥ दुरीततामिति ॥ मम्मथः प्रद्युम्नावतार: कामस्तथा दुरीक्षता दुर्दर्शनत्वम् । ईक्षतः खलन्तानल् प्रत्ययः। अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचितमभ्यस्तं दाहधाष्टये दहनसाहसं यस्यास्तया तृतीयया दृशा सशरममुं मन्मथं ध्रवं पुन:क्षितुं न व्यसहत न शकः। 'परिनिविभ्यः सेवासितसयासिवुमह- मुटम्तुस्वञ्जाम्' 'सिवादीनां वाऽड्व्यवायेऽपि' इनि विकल्पान षत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः, किमुतान्येषामिति वस्तु व्यज्यते ॥ १० ॥ विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना || परामृशत् कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ ११ ॥ विचिन्तयन्निति ॥ पृथुः सत्यभामानन्दनः काणिः आहवं रणम् उपनतमागतं विचिन्तयन् आकलयन् सन् उरो भुजमध्यम् अग्रपाणिना कराग्रेण परामृशत् । किंलक्षण- मुरः रसात् रणरागात् स्फुरत्तनुरुहं समुद्यद्रोम, रोमाञ्चितमित्यर्थः । अपरं किलक्षणमुरः कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं कठिनाः कर्कशाः ये कठोरकामिनीस्तनतटा: तरित. यौवननितम्बिनीकुचप्रान्ताः तैः प्रमुपितमुत्पुंसितं चन्दनं मलयजं श्रीखण्डं यस्य तत्तथा तत् । एतेन स शृङ्गारीत्यर्थः ॥ ११ ॥ विचिन्तयन्निति ॥ पृथुनाम राजा उपननं प्राप्तमाहवं युद्धं रसादणरागाद्विचिन्तयन् कदेति ध्यायन् कठिनेन कर्कशन कठोरण प्रवृद्धेन कामिन्याः कुचस्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुहमुदश्चत्पुलकमुरः । अप्रवासी पाणिश्चेति समाना. धिकरणसमासः । अत एव 'हस्तामाग्रहस्तादयो गुणगुणिनार्भेदाभेदयोरित वामनः । तेनाप्राणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणित्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं सदागामिरणकारणतयास्य हर्ष हेतुरिति इलोकार्थः॥ ११ ॥ विलजितस्थितिमभिवीक्ष्य रूक्षया रिपोगिरा गुरुमपि गान्दिनीसुतम् ॥ जनैस्तदा युगपरिवर्तवायुभिर्वितिता गिरिपतयः प्रतोयिरे ॥ १२ ॥ विलजितेति ॥ गान्दिनीसुतमकरं रिपाः शत्रोर्दूतस्य रूक्षया कठोरया गिरा वाचा विलधितस्थितिमभिवीक्ष्य उत्क्रान्तमर्यादं क्रुद्धं दृष्ट्वा जनैलॊकैः तदा तस्मिन् समये युगपरिवर्तवायुभिः कल्पाऽन्तवातैः गिरिपतयः महागिरयः विवर्तिता उन्मूलिताः प्रतीयिरे शायन्ते स्म । किंलक्षणं गान्दिनीस्तं गुरुमपि शास्त्रज्ञं गम्भीरमपि वा । यत्राय गुरु- गम्मीरोऽपि स्थितिमुत्सृजति, तत्र स्थावराणां का गणनेति भावः ॥ १२ ॥ विलहितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूनवाचा विलजितस्थिति- (१) दुरीक्षता । (२) व्यसहत ।

६१० सन्देहविषापधिसर्वकषायुते- [ सप्तदशः- .. । मुल्लडितमर्यादं क्रोधादुन्मर्याद, विकुर्वाणमित्यर्थः । गान्दिन सुतमक्रूरमभित्रीय जस्तया अरविक्रिया- लोकनसमये युगपरिवर्तवायुभिः कल्पान्तवात ववर्तिताः स्थानादुचालिता गिरिपतयोऽद्रयः प्रतीयिरे विशश्वसिरे । अकरविक्रियादर्शनादिरिचलनमपि युगान्ते सम्भावितमेवति जनर्विश्वस्तमित्यर्थः । 'प्रत्ययो- धीन शपथज्ञान विश्वासहेतुषु' इत्यमरः । प्रतिपूर्वादिणः कर्माण लिट् । अत्र कल्पान्ते गिरिचलनविक्रिया- कल्पेयमक्रूरविक्रियेति वाक्यभेदेन सादृश्याक्षेपानिदर्शनालङ्कारः । तेनाङ्करस्य लोकोत्तरं धैं नैसर्गिकमिति वस्तु व्यज्यते ॥ १२ ॥ विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवाऽऽरवः ।। क्रुधा दधत् तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकाऽरुणः ॥१३॥ विवर्तयन्निति ॥ प्रसेनजिन्नामा यादवर्षभः गैरिकाऽरुणः सन् गैरेयरक्तः सन् गज इव अभवत् सिन्दूरलोहितरुचिर्गजतुल्योबभूव । किंलक्षणः प्रसेनजित् क्रुधा कोपेन अतिलोहिनी तनुं दधत् अतिशयरक्तां मूर्ति धारयन् , पुनः किंभूतः प्रसेनजित् महकलुषीकृते मदेन वीर्य- विकारेण कलुषीकृते आविलीकृते दृशौ लोचने विवर्तयन् परिभ्रामयन् , अपरं किंलक्षण: कृतभैरवः कृतो विहितो भैरवो भीषण आरवो ध्वनियेन सः तथा, कथं कराहतक्षिति यथा भवति तथा करेण पाणिना आहता ताडिता क्षितिभूमियत्र तयथा भवति । गजोऽपि क्रुधा मदाविले दृशौ धारयति, करेण च भुवं हत्वा भैरवं गर्जति । मदो वीर्यविकारो दानं च ॥१३॥ विवर्तयन्निति ॥ मदो मद्यविकारो दानं च। 'मदो मोपदानयोः' इति विश्वः । तेन कलुपीकृते दशौ विवर्तयन् घूर्णयन् करेण पाणिना शुण्डादण्डेन चाहतायां क्षिती भूमी कृतो भैरवारवो भयङ्करध्वनि- येन सः । कोधात्मध्वानं करेण क्षितिमाघ्ननित्यर्थः । कुधा क्रोधेन अतिलोहिनीमतिलोहिताम् । 'वर्णादनु दानानोपभानो नः' इति विकल्पात् डी तकारस्य च नकारः । तनुं वपुर्दधत् प्रसेनजिनाम राजा गैरिकारुणो धातुरको गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः ॥ १३ ॥ सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमाऽरुणैः । समत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवाऽसृजा लवैः ॥१४॥ सकुङ्कुमैरिति ॥ गवेषणो नाम राजा अम्बुबिन्दुभिः स्वेदजललवैः बभौ रेजे । किंलक्षणैः अम्बुबिन्दुभिः सकुङ्कुमैः काश्मीरयुक्तः, अत एव अपरं किलक्षणैः सम्बुबिन्दु- भिः परिणितदाडिमाऽरुणैः पक्वदाडिमफललोहितः। किंलक्षणो गवेषणः, अतश्चोत्प्रेक्ष्यते- असृजां लवैः रुधिराणां बिन्दुभिः अविरलं संहतं चिरं बहुकालं निचित इव व्याप्त इव । ननु रुधिरकणानां कुत आगम इत्याह-किलक्षणैः असृजा लवैः समत्सरःस्फुटितवडे- विनिःसृतैः समत्सरं सरोषम् अत एव स्फुटितं विदीर्णे यद्वपुः शरीरं ततः विनिःसृताः विनिर्गताः तैः ॥ १४॥ सकुडुमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुडुमैः सर्वागीणकश्मीरजलेपै रित्यर्थः । अत एवं परिणतदाडिमारुणैः परिपक्कदाडिमबीजरक्रम्बुबिन्दुभिः। क्रोधसात्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरे- णान्तःसम्भृतेनात्युत्कटवरेण स्फुटितानिर्मिनाद्वपुषो विनिःमृतैरमजा लौरमाबिन्दुभिरविरलं निरन्तर निचितो व्याप्त इव चिरं बभौ। उत्प्रेक्षा ॥१४॥ ससम्भ्रमश्चरण(१)तलाऽभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः रवेः करैरनुचिततापितोरगं प्रकाशता शिनिरमयसातलम् ॥१५॥ (१)ससम्भ्रमं चरण।

सर्गः।] शिशुपालवधे । ६११ .. ससम्भ्रम इति ॥ शिनिः सात्यकिपिता राजा ससम्भ्रमः सवेगः खेः करैः श्रीसूर्य- स्य किरणैः कृत्वा रसातलं पातालं प्रकाशतामनयत् प्रकटतां प्रापयामास प्रकटीचकार । तस्य क्रुद्धस्य रसातले श्रीसूर्यभासां क आगम इत्याह-किलक्षणैः करैः चरणतलाऽभि- ताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः चरणतलाभिताडनेन पादतलाभिघातेनस्फुटन्त्या वि- दीर्यन्त्या(१) मह्याः पृथिव्या विवरे छिद्रे वितीर्णवम॑भिः दत्तमार्गः, किंलक्षणं रसातलम् अनुचिततापितोरगम् अनुचितमनभ्यस्तं तापिताः परितापं प्रापिता उरगाः सर्पाः यत्र तत्तथा तत् ॥ १५ ॥ ससम्भ्रमामिति ॥ शिनिः सात्यके पितामहः ससम्भ्रम ससत्वरं चरणतलाभिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्न्या महा विधरैश्छिदैवितीर्णवम॑भिर्दत्तमार्गः। तत्प्रसरणैरित्यर्थः । रवेः करैरनुचित पूर्व- मपरिचितमिदं यथा तथा तापिताः सन्तापं गमिता उरगा यस्मिस्तत रसातलं प्रकाशता प्रकटत्वमनयत् । अत्र महीराधिकरोरगरसातलाना क्रमेण स्फुटनान्तःप्रवेशतापप्रकाशनैरसम्बन्धेऽपि सम्बन्धोनरतिशयोक्तिः। पादाननैरमानुषर्षी तीव्रता व्रजति स्मेति ध्वनिः ॥ १५ ॥ प्रतिक्षणं विधुवति सारणे, २) शिरः शिखिद्युतः कनककिरीटरश्मयः॥ अङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥१६॥ प्रतिक्षणमिति ॥ सारणे सारणाख्ये रौहिणेये बलदेवभ्रातरि शिरः मस्तकं विधुवति सति धुन्वति सति शिखिद्युतः वैश्वानरनिभाः कनककिरीटरश्मयः रुक्ममुकुटकिरणाः क्षमापतीन् भूमिपालान् इति हेतोः निरराजयन्निव नीराजितवन्त इव । इतीति किम्- अमी क्षमापतयः अधुना इदानीम् अशङ्कितं निर्भयं यथा भवत्येवं युधं विशन्तु सङ्ग्राम प्रविशन्तु इति हेतोः । समरे हि प्रस्तुते राज्ञां नीराजनाख्यं शान्तिकर्म रक्षार्थ क्रियते । दहनसदृशमुकुटकिरणकपिशीकृतराजकत्वात् एपोत्प्रेक्षा ॥ १६ ॥ प्रतिक्षणमिति ॥ शारणे नाम राज्ञि प्रतिक्षणं शिरो विधुवति क्रोधात् कम्पयति सति । धुवस्तौदा- दिकाल्लटः शत्रादेशः, 'आच श्नुधातु-' इत्यादिनोवङादेशः । शिखिवयोतन्त इति शिखिद्युतोऽनि- प्रभाः । विप । कनककिरीटरश्मयो नीराजनकर्तारः अमी भूपाः अधुना अशङ्कितं निःशत युधमाजिम् । 'समित्याजिसमिद्युध' इत्यमरः । विशन्त्विति क्षमापत्तीन्निरराजयन्निव नीराजयन्ति स्मेवेत्युत्प्रेचा । नीराजनात्स्याद्विजय इत्यागमः ॥ १६ ॥ दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ॥ विदूरथः प्रतिभयमास्यकन्दरं लस(३)त्फणाधरमिव कोटरं तरुः ॥१७॥ दधाविति ॥ विदूरथः विदूरथसंज्ञो नृपः प्रतिभयं भयानकम् आस्यकन्दरं वदन- विवरं दधौ बभार। किलक्षणमास्यकन्दरं विवक्षया वक्तुमिच्छया विदारितं विकासितम् , अपरं किलक्षणमास्यकन्दरं चलत्पृथुरसनं कम्पमानदीर्घजिह्व, किंलक्षणः विदूरथः वितत- बृहदू जालतः वितते प्रसारिते बृहत्यौ दीघे भुजे एव भुजावेव लते वल्ल्यौ येन सः तथा । कः किमिव दधावित्यत आह-यथा विततबृहद्भुजाकारलतः तव॒क्षः चलत्फणा- धरं सर्पत्सर्प कोटरं धरे। तदपि प्रतिभयम् । राज्ञस्तररुपमा, आस्यस्य कोटरं, जिह्वायाः भुजङ्गमः, भुजानां लता ॥ १७॥ (१) परस्मैपदं चिन्त्यम् । (२)शारणे। (३) चल० ।

६१२ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशा- दधाविति ॥ वितते विस्तृते बृहत्यौ भुजे लते इव यस्य स विदूरथो नाम राजा विवक्षया किमपि धतुमिच्छया विदारितं व्यानम् अत एव चलन्ती पृथुमहती रसना जिह्वा यस्मिस्तम् । 'रसज्ञा रसना जिहा' इत्यमरः । प्रतिभयं भयङ्करमास्यं कन्दर इवास्यकन्दरस्तम् । 'दरी तु कन्दरो वा श्री' इत्यमरः । चलन फणावर फणी यस्मिस्तत् कोटरमिव । 'निष्कुहः कोटरं या ना' इत्यमरः । दधौ। श्रौती पूर्णोपमा । समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः ।। घनाम्बुभिर्बहलित(१)निम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः १८ समाकुल इति ॥ तथापि धूतवत(?) सदसि समाकुलेऽपि सभायां क्षुभितायामपि मुरभिदः श्रीकृष्णस्य मनः चित्तं विक्रियां नागमत् विकारं न जगाम, कैः परोदितैः शत्रुवचोभिः परस्य शत्रोः उदितानि वाक्यानि तेः, सभायां क्षुभितायामपि विक्रियां न ययौ । युक्त चैतत् , यस्मात् धनाम्बुभिः मेघजलैः अम्बुधेः समुद्रस्य जलं वारि विकारं न व्रजति विक्रियां न प्राप्नोति । किलक्षणैः घनाम्बुभिः बहलितनिम्नगाजलैः उल्लासित. सरित्तोयैरपि, नैवाब्धेर्जलं विक्रियते न क्षुभ्यति ॥ १८ ॥ समाकुल इति ।। परोदितैः शत्रुवाक्यैः सदन्ति आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेमनो विक्रिया र नागमत् । तथा हि-बहुलितानि बहुलीकृतानि खोभितानि निम्नगाजलानि यस्तैर्घना- म्बुभिर्मेघोदकैरम्बुधेलं विकारं न व्रजति । यथा वर्षोदकैर्नयः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्ता- लङ्कारः ॥ १८॥ परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।। मुमोच न प्रकृतिमविस्मितः स्मित मुखं दधच्छशधर(२)मुग्धमुद्धवः १६॥ परानिति ॥ उद्धवः पवनव्याधिः गुरुः इत्यतो हेतोः प्रकृति न मुमोच स्वभावं न जहौ । न चुकोपेत्यर्थः । कुत इत्यत आह-यत् अमी दुर्जनाः परान् अन्यान् अप- वदन्तो निन्दन्तः सन्तः आत्मनः स्वान स्तुवन्ति श्लाघन्ते, असौ एषा असतां खलानां स्थितिः स्वभावः । अतश्चैषां प्रकृतिरेषा । चैद्यस्य कटुभाषणं नासौ कोपस्थानमित्यव. गच्छन्न चुक्षुभे । किंलक्षणः उद्धवः अविस्मितः अविद्यमानं विस्मितं विस्मयो यस्य सः तथा, अपरं किंलक्षणः स्मितं प्रहृष्टं विकसितं मुखं दधत् वदनं बिभ्रत् , किंलक्षणं मुर्ख शशधरमुग्धं मृगाङ्कमनोहरम् । अपवादः अपक्रोशः । यद्वा अमी दुर्जनाः परान् अपवदन्ते निन्दन्ति, च पुनः आस्मनः स्तुवन्ति आत्मीयान् कीर्तयन्तीत्यन्वयः ॥ १९ ॥ परानिति ॥ अमी खलाः परानन्यानपवदन्ते निन्दन्ति । 'अपाद्वदः' इत्यात्मनेपदम् । आत्मनः स्वानि स्तुवन्ति चेति यत् , असावसतां खलानां स्थितिः-प्रकृतिरिति । इति मत्वेत्यर्थः। गम्यमानार्थत्वाप्रयोगः। अन्यथा पौनरुक्त्यमित्यालङ्कारिकाः । विस्मितो न भवतीत्यविस्मितो दूतप्रलापैविस्मयं न उद्धवः । स्मितं स्मेरम् । उभयत्र कर्तरि कः । अत एव शरच्छशधरमुग्धं शरदिन्दुसुन्दरमित्युपमा। मुख विकृति न निनाय न प्रापयामास । न हि महतां निन्दा स्तुतिर्वा विकारकारणमिति भावः ॥ १९ ॥ निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।। मुरद्विषः स्तनितभयानकाऽऽनकं बलं क्षणादथ समनादाजये(३) । निराकृत इति ॥ अथ अनन्तरं मुरद्विषः श्रीकृष्णस्य बलं सैन्यं क्षणादेव तत्क्षणम् आजये सयामाय समनह्यत् समवर्मयत् । क सति इत्थममुना प्रकारेण प्रकोपिभिः क्रुः .. गतः . १) बहुलित । (२) निनाय नो विकृति' भुखं शरच्छशधर । (३) स्वनित" नघताजये।

सर्गः।] शिशुपालवधे। .. यदुभिर्यादवैः निराकृते नित्सिते विद्विषां शत्रूणां स्पशे चैद्यस्य दूते शनैः स्वैरं गतवति गते सति, किलक्षणं बलं स्तनितभयानकाऽऽनकं स्तनिता वादिता भयानका: भीषणाः आनकाः पटहाः यत्र तत्तथा वादितभीषणसंज्ञापटहम् ॥ २० ॥ निराकृत इति ॥ तत्र सदसि इतीथं प्रकोपिभिरतिवद्धर्यदुभिः विद्विषां स्पशे चरे । 'अपसर्पश्वरः स्पशः' इत्यमरः । निराकृते धिवकृते शनैर्गतवति गच्छति मति मागसोऽपि, दूतस्याऽवध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयङ्करा आनकाः पटहा यस्मिस्तन्मुरद्विषो बलं क्षणा- दाजये युद्धाय समनात संनद्धम् ॥२०॥ मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।। अदंशयनरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ २१ ॥ मुहुरिति ॥ वृष्णिभूभृतः यादवभूपाला: तनूः मूर्तीः अदंशयन् समनीनहन् । किं भयेन नेत्याह-कथम् इति देतोः। इतीति किम्- अयं नय इति शास्त्रोक्तनीति- रेषेति, यत्संनहनं नीयते-इति समवर्मयन् , न तु शरीरक्षायें । यतस्ते किलक्षणाः अरहित. शौर्यदेशनाः अरहितमत्यक्तं शौर्यमेव शूरत्वमेव दंशनं वर्म यैस्ते तथा पौरुषवित्ताः, पुन. स्ते युधि सङ्ग्रामे प्रतिस्खलितपरायुधाः तनश्च किलक्षणाः युधि मुहुः वारंवारं प्रति- स्खलितानि प्रतिहतानि परायुधानि रिपुप्रहरणानि याभिस्तथा, अपरं किलक्षणास्तनूः स्थवीयसीः अतिस्थूलाः, अपरं किलक्षणाः तन: अचलनितम्बनिर्भराः पर्वतप्रस्थस्तुल्याः । अर्धे द्रढीयसी:(?) ॥ २१ ॥ मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृत् युधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवी- यसी स्थूलतराः। पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । स्थूलदूर-' इत्यादिन। पूर्वस्य गुणलोपौ। अचल- नितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमत्यतं शौर्यमेव दंशनं धर्म यामा तास्त नूहान अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः, अदंशयन्नवर्मयन । दंश- रनुदानत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः- 'संवर्मयति सनात्यात्मने सज्जतीत्यमी। संदेशयते दंशयते संनाहे पदपञ्चकम् ॥ इति । केचित्तु चुरादिषुभयपदिषु पठन्ति । अत्र साभिप्रायविशेषणत्वात्परिकरालङ्कारः ॥ २१ ॥ दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति ॥ महीभृतां महिमभृतां (१)न संममुर्मुदोऽन्तरावपुषि बहिश्च कञ्चुकाः।। दुरुद्वहा इति ॥ महीभृतां राज्ञां तदन्तरे युद्धावसरे वपुषि देहे अन्तरा मध्ये मुदः हर्षा न संममुः न मान्ति स्म, बहिश्च बाह्ये कञ्चुकाः कवचाः । तोषस्य अमाने हेतुमाह- किलक्षणानां महीभृतां महिमभृतां महिम माहात्म्यं बिभ्रति ते महिमभृतः तेषां माहात्म्य. युक्तानां तेजस्विनाम्, अत एव किलक्षणे वपुपि रणश्रवात् सङ्ग्रामश्रवणात् आशु शीघ्रम् उपचयं बिभ्रति वृद्धि दधति । मनोरथप्राप्तसङ्ग्रामावतरणपरितोषात् उच्छ्वसिते इत्यर्थः । किंलक्षणाः मुदः कञ्चुकाश्च अपरैः अन्यैः क्षणं दुरुद्वहाः दुर्धराः । तां मुदं वर्म चाऽधीरो दुर्बलः उद्बोदुं न शक्नोति ॥ २२ ॥ दुरुबहा इति ॥ महिमभृतामैश्वर्यवता महीभुजा राज्ञा सम्बन्भिनि रणश्रवात युद्धश्रवणादाशु शीघ्रमुप- (१) महीभुजा। ५२ शि०व० ॥

६१४ सन्देहविषौषधिसर्वङ्कषायुते- [ सप्तदशः- चयं वृद्धि बिभ्रति बिभ्राणे वपुषि अपरैरथैः क्षण क्षणमपि दुरुबहा दुर्भरा मुदः सन्तोषाः अन्तरा अन्तराले न संममुः । बहिः कठचुकाश्च न सममुः न मान्ति स्म । नाऽवर्तन्तेत्यर्थः। पूर्वत्र आधेयाधिक्यादुत्तरत्राधारा- धिक्यादिति विवेकः । अत्र मुदा कठचुकानां च प्रकृतानामेव विशेषणसाम्यादीपम्यगम्यतायां केवलप्रकृता- स्पदा तुल्ययोगिता ॥ २२ ॥ सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जवन(१)युजश्च वाजिनः ॥ त्वरावतः (२)स्वयमपि कुर्वतो नृगः पुनःपुनस्तदधिकतानतत्वरन् ॥२३॥ सकल्पनमिति ॥ नृपाः राजानः पुनःपुनर्वारंवार तदधिकृतान् तेषु इभरथाश्वेषु अधिकृताः तान् अतत्वरन् त्वरयामासुः । किंलक्षगान् तदधिकृतान् द्विरदगणं हास्तिकं सकल्पनं ध्वजादियुतं, तथा वरूथिनो स्थान् तुरङ्गिणोऽश्वयुक्तान् , यदि वा तुरङ्गिणो स्थान् वरूथिनो गुप्तिमतो स्थयुक्तान , वाजिनश्च अश्वान् जवनयुजश्च समरोपकरणयुक्तान् कुर्वतो विदधतः । जवन शस्त्रं, यस्य वरक इति प्रसिद्धिः। अत एव स्वाधिकारप्रवृत्त. त्वात् त्वरावतः सत्वरान् ॥ २३ ॥ सकल्पनामति ॥ द्विरदगणं सह कल्पनया मकल्पनं यथोचितसंनाहमाहितम् । 'कल्पना मज्जना समे' इत्यमरः । वरूथो रथगुप्तरेषामस्तीति वरूथिनो रथान् । 'रथगुांतर्वरूथो ना' इत्यमरः । तुरङ्गिन्यो- श्वयुक्तान वाजिनोऽश्वान जयनयुजः पल्ययनादिसंयुक्तान् । सम्पदादिभ्यः क्तिप । 'जयनः स्यातुरङ्गादि- संनाहे विजयेऽपि च' इति विश्वः । स्वयं त्वरयुजः स्वरायुक्तान स्वतः कुर्वतोऽपि । स्वत एव त्वरया कुर्वाणानपीत्यर्थः। तदधिकृतान् हस्त्यादिषु नियुकपुरुषान् नृपाः पुनःपुनरतत्वान् त्वरयन्ति स्म । तेषां तथा रणोत्सुक्यादिति भावः । त्वरौँ चडि 'अस्मृदृत्वरप्रथमदस्तृस्पशाम्' इत्यभ्यासस्याकारः ॥ २३ ॥ युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ॥ अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥२४॥ युध इति ॥ अथ द्विपघटया गजश्रेण्या सवारिभिः सहजलैः करोदरैः पुष्करविवरैः आत्मना स्वयम् अक्षयं प्रभूतं दानं मदोदकम् अदीयत व्यतारि । समरदर्शनात् कुरा माद्यन्ति हि । किंलक्षणया द्विपघटया परैः सह युधे शबुभिः सार्ध युद्धाय दृढबद्धकक्षया दृढं बद्धा नद्धा कक्षा मध्येभबधनं यस्याः सा तया, अपरं किंलक्षणया द्विपघटया कल. कणन्मधुपकुलोपगीतया कलं मधुरं क्वणत् शब्दायमानं यन्मधुपकुलं भ्रमरवृन्दं तेन उप- गीता गातुं प्रवृत्ता तया । यो हि वीरो रणे दृढबद्धकक्षः कृतनिश्चयः, स बन्दिमागधमधुपैः गीयमानयशाः सवारिभिः करैः अक्षयं दानं ददाति ॥ २४ ॥ युध इति ॥ अथ परैः सह युधे युद्धाय बुढबद्धा कक्षा मध्यबन्धनं यस्यास्तया । 'कक्षा बृहति- कायां स्यात्काच्या मध्यभबन्धने' इति विश्वः । अन्यत्र दृढायोगयेत्यर्थः। कलं वणता मधुपकुलेनानि. गणेनोपगीतया बन्दिमागधस्तुतया चेति गम्यने । द्विपघटया का स्वयं सवाभिः सादकैः करोदरैः पुष्कराः पाणितलावाऽमयमपरिमितं दानं मदः अदीयत, दानं द्रव्यं चाब्दीयत दत्तम् । अत्र प्रस्तुतगज- घटाविशेषणमाम्येनाप्रस्तुतदानकर्तृप्रतीतेः समासोक्किरलद्वारः ।। २४ ॥ सुमेखलाः सिततरदन्तवारवः समुल्लसत्तनुपरिवार(३)सम्पदः ॥ रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥२५॥ सुमेखला इति ॥ रणैषिणां युयुत्सूनाम् अधिकन्धरं कण्ठे सदसिलताः सत्यः (१) जयन । (२) त्वरायुजः। (३) परिधान।

सर्गः । शिशुपालवधे। । असिलताः प्रशस्ताः खड्गमुष्टयो ललम्बिरे लम्बिताः, का इव प्रिया इव कान्ता इव । प्रिया अपि तेषां निर्गच्छतां गले लेगुरित्यर्थः । किलागाः सदसिलताः समेखलाः सुशोभना मेखलाः कोशबन्धा यासां तास्तथा, अपरं किलक्षगाः सिततरदन्तचारवः सिततरेण अत्युज्ज्वलेन मुष्टिदेशस्थितेन दन्तेन करिदशनखण्डेन चारवः मनोहराः, अपरं किंलक्षणाः समुल्लसत्तनुपरिवारसम्पदः। समुल्लसन्ती संश्लिष्टा स्फुरन्ती च तनोः सूक्ष्मस्य परिवारस्य कोशस्य सम्पत् उत्कर्षो यासां तास्तथा, अपरं किलागाः पुलकनृतः पुलकं गुणविशेषं बिभ्रति धारयन्ति इति तथा । अथ श्लेष:-प्रियास्तु समेखलाः सदशनाः अतिधवलदशनमनोहराः स्फुरत्तनुदुकूलसम्पदः पुलकभृतो रोमाञ्चधारिण्यश्च भवन्ति ॥२६॥ सुमेखला इति ॥ शोभना मेखला बन्धनमूत्राणि काञ्च्यश्च यासां ताः सुमेखलाः । 'मेखला खड्ग- बन्धे स्यात्काञ्चीशैलानितम्बयोः' इति विश्वः। सिततरर्दन्तैर्दन्तमयत्सहभिर्दशनन चारवः, उल्लसन्त्यातनवः सूक्ष्माः परिधानसम्पदः कोशसम्पदो वस्त्रसम्पदश्च यामां ताः पुलकभृतः रोमाञ्चधारिण्यश्च सदासलनाः चार- खड्गबल्ल्यः प्रिया इव रणैषिणा रणाकालिगा कन्धरास्वधिकन्धरमधिकण्ठम् । विभक्त्यर्थेऽव्ययीभावः । ललम्बिरे । लग्ना इत्यर्थः । श्लेषः श्लिष्टोपमा वा मतभेदात् ॥ २५ ॥ मनोरमैः(१) प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ॥ सदैवतैः सततमथाऽनपायिभिनिजागवन्मुरजिदसेव्यताऽऽयुधैः ॥२६॥ मनोहरैरिति ॥ अथ मुरजित् श्रीकृष्णः आयुधैः खड्गचक्रगदाधनुभिः प्रहरण: असेव्यत अभाजि, कथं निजागवत् स्वशरीरेणेव । यथा स्वशरीरेण सेव्यते । उभयेषां साम्यम् । किंलक्षणैः आयुधैः मनोरमैः रम्यैः, किंलक्षणो भगवान् प्रकृतिमनोरमाकृतिः स्वभावरम्यसंस्थानः, अपरं किंलक्षणैः भयप्रदैः साध्वसकारिभिः । सोऽपि समितिषु युद्धेषु भीमदर्शनः भयानकाऽऽलोकनः । अपरं किंलक्षणैरायुधैः सदैवतैरधिष्ठातृदेवतायुक्तैः । सोऽपि सदैवतः सनातनश्च । अपरं किलक्षणैरायुधैः सततं निरन्तरम् अनपायिभिः अपायोऽपसरणं तद्रहितैः अवियुक्तः, सदा सन्निहितत्वात् । अङ्गं शरीरं तच्च निरूप्यमाणं श्रीभगवानेव ॥२६॥ मनोहरित ॥ अथ प्रकृतिमनोरमाकृतिः स्वभावसुन्दरमूर्तिः समितिषु युद्धषु भीमं दर्शनं यस्य स भीमदर्शनो मुरजिद्धरिर्मनोहरैः प्रकृतिमनोहरैः समितिषु भयप्रदैः सदैवतैः अधिदेवतायुक्तः सततमनपायिभि- रायुधैः शादिभिर्निजागवन्पृथगवस्थितैः शरी रैरि वेत्युत्प्रेक्षा । असेव्यत मेवितः ॥ २६ ॥ अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ॥ मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ २७ ॥ अवारितमिति ॥ स देवः श्रीकृष्णः स्थमधिरोहति स्म स्यन्दनमारूढः । किंलक्षण रथं क्षमाभृतां राजपर्वताख्यानाम् उभयेषु कटकान्तरेषु स्कन्धावारमध्यसानुषु अवारितम. प्रतिषिद्धं युधि सङ्ग्रामे भूरिशोऽनेकवारं गतं प्रविष्टम् , अपरं किंलक्षणं रथं मुहुरसकृत् युधि सनामे क्षतसुरशवशोणितप्लुतप्रधिं आता हता ये सुरशत्रवो दानवाः तेषां शोणितेन शतजेन प्लुता व्याप्ता प्रधिमिर्यस्य सः तथा तम् । एतेन साम्परायिक रथमारूढः इत्युक्तं भवति ॥ २७॥ प्रवारितमिति ॥ अथायुधसानिधानानन्तरंस हरिरुभयेषु दयेषु । द्विविधेष्वित्यर्थः। क्षमाभृता राजा गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु नितम्बावका शेषु च भूरिशो बहुशः अवारितमप्रतिहनं गतं (१) मनोहरैः।

६१६ ६ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- प्रस्थितं मुहुरमकत् युधि सतानां सुरशपूणामसुराणां शोणितैः प्लुताः सिकाः प्रधयो नेमयो यस्य तम् । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । रथमधिरोहति स्म आरुरोह ॥ २० ॥ उपेत्य च स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ॥ प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ २८ ॥ उपेत्येति ॥ पतत्पतिः पक्षिनाथो गरुडः तत्क्षणं तदैव अधिकतनं चिन्हे पदं दधौ स्थानं बबन्ध । पताकायामुपविष्टः इत्यर्थः किंलक्षणं पदं प्रकम्पितस्थिरतस्यष्टि प्रकम्पिता विधुनिता स्थिरतरा स्थेयसी दृढा यष्टिर्दण्डो यत्र तथा, किं कृत्वा दिवः स्वर्गात् उपेत्य आगत्य, कथं स्वनगुरुपक्षमारुतं स्वनेन शब्देन गुरुः दुस्सहः पक्षमारुतः पक्षबातो यत्र क्रियायां तद्यथा भवति, किंलक्षणः पतत्पतिः त्विषा कपिशितदूरदिङ्मुखः त्विषा कनक. भासा कपिशितानि पिशङ्गीकृतानि दूरमत्यर्थ दिङ्मुखानि आशामण्डलानि येन सः तथा॥२८॥ उपत्यति । किञ्चति चार्थः । पतत्पतिरण्डजमण्डलश्वरः । 'पतत्पत्ररथाऽण्डजाः' इत्यमरः । विषा कान्त्या कपिशितानि कपिलीकृतानि दूराणि दिङ्मुखानि येन मः, स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन् कर्मणि तत्तथा दिवः स्वर्गादुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावासस्तम्भो यस्मिस्तत्तथा अधिकतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान् ॥ २८ ॥ गभीरया विजित(१)मृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ॥ प्रमोदयन्नथ मुखरान् कलापिनः प्रतिष्ठते नवधनवद्रथः स्म सः ॥ २९ ॥ गभीरयेति ॥ अथानन्तरं स रथः प्रतिष्ठते स्म स्यन्दनश्चचाल । किं कुर्वन् नव- घनवत् प्रावृण्मेघवत् स्वनश्रिया शब्दसमृद्ध्या कलापिनो मयूरान् प्रमोदयन् हर्षयन् । रथचीत्कारं श्रुत्वा हि अभ्रस्वनशया ग्राममयूरा हृष्यन्ति अत एव मुखरान् सशब्दान् कुर्वन् । किलक्षणया स्वनश्रिया गभीरया गम्भीरया, अपर किलशगया विजित. मृदङ्गनादया जितपणवशब्दया, अपरं किलक्षणया अत एव हतरिपुइंसहर्षया । वर्षाऽन. मपि प्रमोदितकलापि गाम्भीर्याऽभिभूतम दङ्गनादं हतहसहर्ष च भवति, मानससरः प्रति गमनक्लेशात् ॥ २९ ॥ गभीरतेति ॥ अथ गरुड गमनानन्तरं म रथो नवधनवत् नवघनेन नवाम्बुदेन तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यया तया इतो रिपुहमानां हंसाना- मिव रिपूणां हर्षो यया तया स्वनप्रिया ध्वनिसम्पदा मुखरान् कूजतः कलापिनो मयूरान् प्रमोदयन् प्रतिष्ठते स्म प्रतस्थे । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'लट् स्मे' इति भूत लट् । तद्धितगता श्रौती पूर्गोपमा ॥ निरन्तरस्थगितदिगन्तरं ततस्तदुञ्चल(२)द्वलमवलोकयन् जनः ॥ विकौतुकः प्रकृतमहाप्लवेऽभवद्विश्ङ्खलप्रचलित(३)सिन्धुवारिणि ३०॥ निरन्तरेति ॥ निरन्तरस्थगितदिगन्तरं समग्रभृताऽऽशाविवरं तद्वलं तत्सैन्यम् उच- लत् प्रतिष्ठमानमवलोकयन् पश्यन् जनो लोकः विशृङ्खलप्रचलितसिन्धुवारिणि विश्वाल प्रचलिते निर्मर्यादं क्षुभिते सिन्धुवारिणि जलनिधिजले विकौतुकः निकौतूहलोऽभवत् बभूव समुद्रदर्शने विकुतूहलोऽभूत् । किंलक्षणे विशृङ्गलप्रचलितसिन्धुवारिणि प्रकृतमहाप्लवे प्रकृतः प्रस्तुतो महाप्लवः पौरक्षोभो यत्र तस्मिन् । कल्पान्ते किल जनस्य समप्र व्याति । (१) गभीरताविजित । (२) ततः समुच्चल। (३) विशालं प्रचलित ।

सर्गः।] शिशुपालवधे। . हरति क्षुभ्यत्युदधौ कौतुकं भवति । तचोच्चललं दृष्ट्वा दृश्यं दृष्टत्वात् न कुतूहलपदं बध्नाति । प्रकृतीति पाठे प्रकृतिमहाप्लवे महाभूतसंक्षये कल्पान्ते विश्वलं प्रचलितं यत्सिन्धुवारि तत्र जनो विकौतुको भवतीति ॥ ३० ॥ निरन्तरेति ॥ ततो रथप्रस्थानाऽनन्तरं निरन्तरं नीरन्धं स्थगितान्याच्छादितानि दिगन्तराणि येन तत् समुच्चलत्प्रतिष्ठमानं तद्बलं सैन्यमवलोकयन् जनो लोकः प्रकृतः प्रक्रान्तो महाप्लवो महापूरो जगत्सप्तवरूपो येन तस्मिन् विशृङ्खलमप्रतिघातं प्रचलितं क्षुमितं यसिन्धारब्धेरि तस्मिान्विकोतुको निवृत्तकौतूहलोऽभ- यत् । कल्पान्तक्षुभितवारिधे रिवञ्च तद्गलं सकल जगसंहारशङ्कयाऽलक्ष्यतेत्यर्थः। अत्राऽन्यदर्शनादन्याददृक्षा- निवृत्तेर्बलवारिधिवारिणोरेकत्वाक्षेपे बाधात्सादृश्याक्षेपाद्वाक्यभेदेन प्रतिबिम्बकरणानिदर्शनालङ्कारः ॥ ३० ॥ बहिरे गजपतयो महाऽऽनकाः प्रदध्वनुर्जयतुरगा जिहेपिरे ।। असम्भवद्भूतगिरि(१)गहरैरभूत्तदारवैर्दलित इव स्व आश्रयः ॥३१॥ बहिर इति ॥ गजपतयो महेभाः बब्रूहिरे जगर्जुः, महानकाः प्रध्वनुः बृह- त्पटहाः सस्वनुः, जयतुरगा जिहेपिरे जयाश्वाः हेपारवं चक्रुः । अत एव तदारवैः तेषां गजादीनाम् आरवैः शब्दैः स्व आश्रयः शब्दस्य आत्मीय आधारः आकाशाख्यो दलित- इवाऽभूत् भन्न इवाभवत् भग्नतुल्य इवासीत् । किंलक्षणैः तदारवैः असम्भवद्भूतगिरि- गह्वरैः असम्भवन्ति परिपूरितानि गिरिंगहराणि पर्वतगहनानि यस्ते तथा तैः पूरितपर्वतगहनैः॥ बहिर इति ।। गजपतयो बबृहिरे बबूंहुः। बृहणं चक्रुरित्यर्थः। बृहि वृद्धा शब्दे च। आत्मनेपदं चिन्त्यम् । अत एव मट्टमलः–'हेषते हषतेऽश्वाना हस्तिनां बृहतीति च' इति । महानकाः प्रदथ्वनुः । जयशालास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः। ष टेप अव्यक्त शब्दे । तदा तस्मिन्काले असम्भवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषा तः गिरिवरगढरपु अमाद्भिः । अवर्तमान रित्यर्थः रहणादिघोषः स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा । तयः तेषामतितीव्रत्वं व्यज्यते ॥३३॥ अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ॥ विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाऽद्रयः ॥ ३२ ॥ अनारतमिति ॥ मधुद्विषः श्रीकृष्णस्य दुन्दुभौ पटहे जयाय जयप्राप्त्यर्थम् अनारत सततं रसति ध्वनति सति प्राप्सहर्षत्वात् गुहामुखैर्दरीवदनैः अद्रयः पर्वता अहसन्निव जहसु- रिख, किलक्षणाः अद्रयः परामुत्कृष्टां मुदं गताः हर्ष प्राप्ताः । अतिहासस्य कारणमाह- किंलक्षणैः गुहामुखैः विनिष्पतन्मृगपतिभिः निर्यत्कण्ठीरवैः, अपरं किलक्षणः फलदलघु- प्रतिस्वनैः प्रतिविम्बितगुरुध्वनितैः । यदा हि ढक्कादि वाद्यते तदा प्रतिध्वनेन क्षुभिताः सिंहा गुहाभ्यो निस्सरन्ति । अतश्च सिंहानां शौक्ल्यात् ज्ञायते श्रीभगवजयानन्दिता नगा जहसरिति ॥ ३२ ॥ अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभी रणभेया जयायाऽनारतमश्रान्तं रमति अनति सति फलन्तः सस्क्रामन्तोऽनघवो महान्तः प्रतिस्थनाः प्रतिध्वनयो येषु तः, विनिष्पतन्तः क्षोभानिर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहाभिरेव मुखैरद्रयः परा मुदं गताः सन्नः अहसत्रिव । सिंहाना धावल्याद् ध्वनियोगाच्च हसनोत्प्रेक्षा ॥ ३२॥ जडीकृतश्रवणपथे दिवौकसा चमूरवे विशति सुराऽद्रिकन्दराः ॥ अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः॥३३॥ (१) असम्भवगिरिवर ।

६१८ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- । जडीकृतेति ॥ विदग्धकामिनीरतान्तरकणितविलासकौशलैः अनर्थ कैः अजनि विदग्धानां चतुराणां प्रौढानां वा कामिनीनां सुन्दरीणां रतान्तरे निधुवनमध्ये यत्कणितं शब्दितं मणितं तत्र यो विलासः लीला तत्र कौशलानि नैपुण्यानि तैनिरर्थकैः निष्फलैः अजनि समपादि । क सति चमूरखे सेनाकोलाहले पुराऽद्रिकन्दराः सुमेरुदरीः विशति सति प्रविशमाने(?)सति,किलक्षणे चमूरखे दिवौकसां देवानां जडीकृतश्रवणपणे बधिरितकर्णमागें। सुमेरुगुहासु देवाः रमणीभिः सह रन्तुमारभन्त । यावच्च दुन्दुभिध्वनितेन सर्व व्यानशे, तावञ्च मणितादेरश्रवणात विलासरतीविलासनैपुण्यस्य निरर्थकत्वमिति भावः ॥ ३३ ॥ जडीकृति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कन्दराऽन्तर्गतानामित्यर्थः । जडीकृतश्रवण- पथे बधिरीकृतोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरव सेनाघोषे सुराद्रिकन्दराः मेरुगहराणि विशति सति, विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये क्वणितविलासाः कूजितसम्पदस्तासु यानि कोशलानि तैरनर्थ कैरजनि जातम् । प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजाड्यस्य विशेषणगत्या क्वणिताऽऽनर्थक्यहेतुत्वात्काव्यलिङ्गम् । तदुपजीवितेन क्वणितानामानर्थक्यासम्बन्धेऽपि तत्सम्बन्धोतरति- शयोक्तिरित्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ ३३ ॥ अरातिभिर्युधि सह युध्यता (१)हताजिघृक्षवः श्रतरणतूर्यनिःस्वनाः ॥ अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाध म्॥३४॥ अरातिभिरिति ॥ मुरगणिकाः देववाराङ्गानाः अप्सरसः प्रथमसमागमोचितं नव- सङ्गमयोग्य प्रसाधनमलङ्करणम् अकुर्वत विदधुः । किलक्षगाः सुरगणिकाः यतः अरातिभिः शत्रुभिः युधि सङ्ग्रामे हतान् व्यापादितान वीरान् जिघृक्षवः ग्रहीतुकामाः, अरातिभिः हतान् किंलक्षणान् सह युध्यतः सार्ध युध्यमानान् । सहप्रकृतित्वाच्च अरिभिः सार्क युध्यन्ते । युद्धं प्रस्तुतमिति कथं ताः अमंसतेत्याह-किलक्षगाः सुरगणिकाः श्रुतरणतूर्य- निःस्वनाः आकर्णितसमरवादित्रध्वनयः, किंलक्षणं प्रसाधनं चिरोज्झितं बहुकालत्यक्त, समामाभावे वीरसमागमाभावात् ॥ ३४ ॥ अरातिभिरिति ॥ सह युध्यन्ते इति तान् सहयुध्वनः। 'सहे च' इति क्वनिप्। अत एवाऽरातिभियुधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयंवरणकामाः । ग्रहेः सनन्तादुप्रत्ययः । सुरगाणिका अप्सरमः श्रुतरण- तूर्यनिःस्वनाः सत्याश्चराज्झितम् । प्रायेण प्रवीरसम्वादाभावादिति भावः। प्रथमसमागमोचतम् । अति- मोहनमित्यर्थः। प्राथम्यं च पुंसामिदम्प्रथमत्वादिति भावः । प्रसाधनमकुर्वत । परिष्कृतवत्य इत्यर्थः । 'प्रतिकर्म प्रसाधनम्' इत्यमरः। अत्र स्वयंवरणतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वाकाव्यलिङ्गम् ॥ प्रणोदिताः परिगतयन्तृकर्मभिनिषादिभिर्विदितमताऽङ्कुश(२)क्रियः ॥ गजाः सकृस्करतललोललालिका(३)हता मुहुः प्रणदितघण्टमाययुः॥३५॥ प्रणोदिता इति ॥ गजाः स्तम्बरमाः आययुः आगताः सेनामध्यं प्राविक्षन् । किंलक्षणाः गजाः यतो निषादिभिः आरोहैः प्रणोदिताः प्रेरिताः, किंलक्षणैनिषादिमिः परिंगतयन्तृकर्मभिः परिगतं ज्ञातं यन्तृकर्म हस्तिव्यापारो यैस्ते तथा तैः, अपरं किल- क्षणैः निपादिभिः विदितमताऽङ्कुशक्रियैः विदिता ज्ञाता मता अभीष्टा अनुद्वेजिनी अकुशक्रिया सृणिकर्म यैस्ते तथा, किंलक्षणाः करतललोललालिकाहताः करतलेन पाणि. तलेन लोलया लालिकया लालनतया सान्त्वनतया सकृदाहताः आस्फालिताः । केचित् . .. (१)महयुध्वनो। (२) प्रचोदिताः परिचत""यताडश । : (३) नालिका।

सर्गः।] शिशुपालवधे। ६१६ । लालिकां कशासङ्ख्यानमाहुः । कथं यथा आययुः प्रणदितघण्टं यथा मुहुः असकृत् पुनः- पुनः प्रणदिताः शब्दिता घण्टाः घर्घराः यत्र गमने तद्यथा ॥ ३५ ॥ प्रचोदिता इति ॥ परिचितं यन्तृकर्म सादिकृत्यं यस्तैः । स्वभ्यस्तगजशास्मरित्यर्थः। अत एव विदिते यताकुशक्रिये यतयाताख्ये पादाङ्कशकर्भणी येस्तैः। 'पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम्' इति हलायुधः । निषादिभिर्यन्तृभिः प्रचोदिताः प्रेरिता गजाः सकृदेकवारमेव करतललोलाभिः पाणि. तलचलिताभिर्नालिकाभिरन्त डिर्काभिहतास्ताडितास्तथापि मुहुः प्रणदिता असकृद् ध्वनन्ती घण्टा यास्मिन् कर्मणि तत्तथा आययुः प्रस्थातुमागताः । स्वभावोकिः ॥ ३५ ॥ सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ॥ व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डधारिणः(१) ॥३६॥ सविक्रमेति ॥ जनस्य लोकस्य दृष्टयः दृशः खलु निश्चितं तुरङ्गमात् अश्वात् न व्य- रंसिपुः नन्यवर्तयन्(२)। अविरतं दृष्टोऽसावित्यर्थः । किंलक्षणात तुरङ्गमात् सविक्रमक्रमण- चलैः प्रकीर्णकैः इतस्ततः क्षितेः रजः क्षिपत इव सविक्रमं अतितूर्ण विक्रमान्वितं च यत् क्रमणं गमनं तेन चलानि कम्प्राणि यानि प्रकीर्णकानि चामराणि तैः क्षितः रजः भुवः रेणु क्षिपत इव कीर्यमाणादिव, (३)अपरं किंलक्षणात् तुरङ्गमात् अभिनवभाण्डधारिणः नूतना- ऽलङ्कारधारिणः । भाण्डमश्वाभरणम् ॥ ३६ ॥ सविक्रमेति ॥ सविक्रमेण साऽधिविन्यासविशेषेण क्रमणेन गमनेन चलैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः। क्षिते रजः स्वखुरोद्धतमितस्ततः क्षिपतो निरम्यत इव स्थितादित्युत्प्रेक्षा । अभिनवभाण्डभारिणः प्रत्यग्राभरणधारिणः। 'स्याद्भाण्डमश्वाभरणे' इत्यमरः । तुरङ्गमातुरङ्गामेभ्यः । जातावेकवचनम् । 'जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्' इत्यपादानत्वम् । जनस्य दृष्टयो न व्यरंसिषु. ने विरताः खलु । रमेलुङ 'व्यापरिभ्यो रमः' इति परस्मैपदं 'यमरमनमाता सक्च' इति सगिडागमो । इटि 'नेटि' इति वृद्धिप्रतिषेधः ॥ ३६ ॥ त्रिभिर्विशेषकम्- चलाऽङ्गुलीकिसलयमुद्धतैः करेग्नृत्यत स्फुटकृतकर्णतालया ॥ मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वनं भ्रमर(४) गणैरगीयत ॥ ३७ ॥ असिच्यत प्रशमितपांसुभिर्मही मदाम्बुभिधृतनवपूर्णकुम्भया ॥ अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरुतूर्यमानकैः(५) ॥ ३८ ॥ उदासिरे पवनविधूतवासस इतस्ततो(६) गगनलिहश्च केतवः ।। यतः पुरः प्रतिरिपु शाङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ३९ चलाऽङ्गुलीत्यादि ॥ यत इति ॥ शाङ्गिणः शार्ङ्गधरस्य श्रीकृष्णस्य प्रति. रिपु विपक्षसंमुखं यतो गच्छतः सतः द्विपघटया गजघटया पुरोऽये स्वयमात्मना इति मङ्गलं शुभसूचनं व्यधीयत कृतम् । चलाङ्गुलीति ॥ तथा हि-यतः, तया उद्धतैः उच्छ्रितैः करैः शुण्डादण्डैः अनृत्यत नृत्तम् । कथं चलाङ्गुलीकिसलयं चलानि चटुलानि अ- हुन्लीकिसलयानि करकलिकापल्लवानि यत्र क्रियायां तद्यथा, किंलक्षणया तया स्फुटकृतकर्ण- तालया स्फुटं कृतं प्रकटं विहितं कर्णतालं श्रोत्रविक्षेपो यया सा तथा तया, तथा भ्रमर- (२) प्रयोजकव्यापारश्चिन्त्यः । (३) कर्तृवाच्यमुचितं, न कर्मवाच्यम् । .(४) स्वरं मधुप । (५) माननैः। (६) वाससस्ततस्ततो। (१) भारिणः।

६२० सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- - गणैः मधुपसमूहैः कलस्वनं मधुरशब्दं यथा भवति तथा अगीयत गीतं, किंलक्षणैः भ्रमर- गणैः मदोदकद्रवकटभित्तिसङ्गिभिः मदोदकेन दानवारिणा द्रवा आद्रा दानाम्बुस्राविणी या कटभित्तिः गण्डभित्तिः कपोलस्थली तत्र सङ्गः सम्बन्धो विद्यते येषां ते तथा तैः तत्र लीनः । असिच्यतेति॥ तथा तया धृतनवपूर्णकुम्भया धृता नवाः पूर्णा सुजाताः कुम्भाः मस्तकपिण्डा यया सा तथा तया एवंविधया, तथा प्रशमितपांसभिः अपास्तधूलिभिः मदाम्बुभिः दानजलैः महीभूमिः असिच्यत सिक्ता उक्षाम्बभूवे । अन्ययापि धृतनवपूर्ण- कुम्भया कयाचित् नायिकाया मही सिच्यते । तथा आनकैः पटहैः करणभूतैः सूर्यमवाद्यत वादित्रं वादितं, कथमवाद्यत श्रवणसुखं श्रोतृसुखकारि, किंलक्षणं तूर्य ससुन्नमत्पयोधरध्वनि- गुरु समुन्नमन्तः समुद्यताः ये पयोधरा मेघाः तेषां यो ध्वनिर्गजितं तद्वद् गुरु गम्भीरम् । उदासिरे इति ॥ गगनलिहो नभःस्पृशः अत एव पवनविधूतवाससः समीरणकम्पित- वसनाः इतस्ततः सर्वासु दिक्षु केतवः ध्वजाः उदासिरे उञ्चिक्षिपिरे ऊ/कृताः । इत्थं शाङ्गिणः श्रीकृष्णस्य जयार्थ' यतो गच्छतः द्विपघटया स्वयं मङ्गलं व्यधीयत अकारि । अन्यस्यापि सुभटस्य रिपून् जेतुं गच्छतः सतः वारविलासिनीजनतया स्वयं मङ्गलं विधी. यते । तथा हि-कृतविधितालया चलदङ्गुलीकिसलयं नृत्यते, मधुरं च गीयते, तथा प्रशमितपांसभिरम्बुभिर्मही सिच्यते, नवाश्च पूर्णकुम्भा ध्रियन्ते, श्रोत्रसुखं च वाद्यते, उच्चाः चलांशुकाः केतवश्च उत्तभ्यन्ते । त्रिभिर्विशेषकम् ॥ ३७-३९ ॥ अथ विशेषकणाह- चलाऽङ्गुलीति ॥ स्फुट कृतः कर्णनालः कर्णनाडनं यया तया द्विपघटया का चलाऽगुल्य एवं किसलया यस्मिन्कर्मणि तत्तथाद्धतैः करे हम्नैग्नृत्यत अनर्ति। भावे लङ् । तथा मदोदकेन वास्वाासु कटभि- निषु गण्डस्थलेषु सङ्गिभिरासकैः मधुपगणर्धमरगणैः कलस्वरं मधुरस्वरमगीयत गीतम् । भावे लङ् ॥३०॥ असिच्यतेति ॥ धृतो नवा पूर्णकुम्भी शिर पिण्डकलश। यया तया द्विपघटया का । 'कुम्भी घटेभ. मीशा' इत्यमरः। प्रशामतपांसुभिर्मदाम्बु भर्मही आमच्यत मिका । आननैमुखैः करणैः श्रवणयोः मुखयतीति सुखं सुखकरम् । 'सुखहतौ सुख सुखम्' इति शब्दार्णवे। समुत्रमन्पयोधरध्वनिगुरु उद्मन्मेघ- गर्जितगम्भीरं तूर्यमवायत वादितम् । स्वमुखबृंहगैरेव तूर्य सम्पादितामत्यर्थः ॥ ३८ ॥ उदासिर इति ॥ पवनेन विधूनवासम: कम्पितपटाः गगनलिहाऽभ्रषाः केतवो ध्वजाश ततस्तत- नदासिरे उक्षिप्ता इनीत्थं द्विपघटया प्रतिरिपु रिपून्प्रति । आभिमुख्येऽव्ययीभावः । यतो गच्छतः । इणो लटः शत्रादेशः । शाङ्गिणः पुरोग्ने स्वयं मङ्गलं व्यधीयत विहितम् । अत्र श्लोकत्रये प्रस्तुतद्विपघटाविशेषण- साम्यादप्रस्तुतमङ्गलाचरणपरपुरन्ध्रीपतीतेः समासोक्किरलङ्कारः ॥ ३९ ॥ न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि॥ पयस्यभिद्रवति भुवं युगाऽवधौ सारत्यतिन हि समुपैति रिक्तताम् ४० नेति ॥ असौ निवेशभूः सेनासंनिवेशस्थानं चलत्यपि बले गच्छत्यपि सैन्ये सति शून्यतां न अगमत् रिक्ततां न आससाद । यतः किंलक्षणे बले प्रभूततां दधति बाहुल्य बिभ्राणे । बहुलत्वाद्विजनं न भवति । अत्रैव दृष्टान्तः -युगाऽवधौ कल्पान्ते सलिले उदके भुवं क्षोणीम् अभिद्रवति व्यश्नुवाने सति सरित्पतिः समुद्रः रिक्तता न समुपैति शून्यता निर्जलत्वं न प्राप्नोति ॥ ४० ॥ नेति ॥प्रभूतता भूमानं दधति दधाने बले मन्ये चलति प्रतिष्ठमानेऽपि असौ निवेशभूः सेनानिवेशभूमिः .. - सर्गः।] शिशुपालवधे । ६२१ शुन्यतां रिक्ततां नागमत् । तथा हि-युगाऽवधी युगान्ते पयसि भुवम भिवत्यभिप्तवमाने सति सरित्पतिः समुद्रो रिक्तता न समुपैति हि । दृष्टान्तालङ्कारः ॥ ४० ॥ यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ॥ पुरः पतत्परबलरेणुमालिनीमलक्षयहिशमभिधूमितामिव ॥ ४१ ।। यियासितामिति ॥ अथाऽनन्तरं मधुभिदेव श्रीकृष्ण एव तेजस्वित्वात् वक्ष्यमाण- धर्मयोगाच्च विवस्वान् श्रीसूर्यः तेन यियासितां जिगिमिषिताम् आशां दिशं जनो लोकः अभिधूमितामिव अलक्षयत् धूमधूम्रामिव अदर्शत् । किलक्षणां दिशं पुरोऽग्रे पतत्परबलरेणु- मालिनी पतन्तमागच्छतं परबलरेणुं मलते बिभर्ति सा तथा ताम् , अपरं किलक्षणां दिशं जरन्महिषविषाणधूसरां जरत्कटोरं यन्महिषविषाणं कासरशृङ्गं तद्वत् धूसरा मलिना ताम् । याऽपि दिक् रविणा यियासिता भवति, सा धूमितेवेत्युच्यते । उक्तं च- अङ्गारिता दिक् रविविप्रयुक्ता यस्यामसौ तिष्ठति सा प्रदीप्ता । प्रधूमिता याति च यां दिशं स शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥ इति ॥ ४१ ॥ यियासितामिति ।। अथ मधुभिद्धरिरेव विवस्वान् तेन यियासितां यातुमिष्टां जिगमिषिताम् । याते: सन्नन्ताकर्मणि क्तः । पततोऽभिधावतः परबलस्य शत्रुसैन्यस्य रेणून् मलते धारयतीति तन्मालिनी । मलते- णिनिप्रत्ययः । अत एव जरतो वृद्धस्य महिषस्य विषाणवद्धसरां धूम्रा पुरोऽ दिशम् , अभितो धूमोऽस्याः मनातस्तामभिधूमितामिव जनो लोकोऽलक्षयत् । मधुभिद्विवस्वतेति रूपकोत्थापिताऽप्रदिशि धूमितत्वोत्प्रे- क्षेति मदुरः ।अत्राहुः- 'अङ्गारिणी दिगू रविविप्रयुक्ता यस्या रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यो दिनशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥ इति ॥ ४५ ॥ मनस्विनामुदितगुरुप्रतिश्रुतः श्रुतास्तथा न निजमृदङ्गनिःस्वनाः(१) । यथा पुरः समरसमुद्यतद्विषदलाऽऽनकध्वनिरुदकर्षयन्मनः ॥ ४२ ॥ मनस्विनामिति ॥ मनस्विनां मानिनाम् उदितगुरुप्रतिश्रुतः उत्पन्नगम्भीरप्रतिस्चना: निजमृदङ्गनिःस्वनाः आत्मीयमुरजध्वनयः श्रुताः आकर्णिताः मनः चित्तं तथा तेन प्रकारेण न उदकर्षयन् न उत्कृष्टं चक्रुः । यथा येन प्रकारेण पुरः अग्रे समरसमुद्यतद्विषद्वलाऽऽनक- ध्वनिः सङ्ग्रामप्रसभोस्थितशत्रुसैन्यपटहनिनादः मनः उदकर्षयत् उत्कृष्ट व्यधात् रणरसि- कत्वं चकार । परबलतूर्यश्रवणाद्वीराणां सुतरां युयुत्सुता उदपादीत्यर्थः ॥ ४२ ॥ मनस्विनामिति ॥ उदिता उत्पन्ना गुरुगर्भारा प्रतिश्रातः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्व. सेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोदकर्षयनाचकर्ष । कृषिरय स्वार्थण्यन्तः । यथा पुरोग्य समर- समुद्यते समरोयुके द्विषदले शत्रुमैन्ये ये आनकास्तेषां ध्वानेरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह- उक्तः । अत्र भयङ्करस्यापि परमैन्यघोषस्योत्साहजनकत्वं महावी रेषु न विरुध्यते इति विरोधाभासोऽलङ्कारः। भीतो सत्यपि भयाऽनुत्पत्तर्विशेषोक्तिविरुद्ध कार्योत्पत्तर्विषमभेदश्चेति सङ्करः ॥ ४२ ॥ यथा यथा पटहरवः समीपतामुपागमत् स हरिवराऽग्रतःसरः॥ तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा॥ ४३ ॥ यथा यथेति ॥ यथा यथा स हरिवराऽग्रतःसरः स भगवद्वरपुरःसरः पटहरव: तूर्यध्वनिः .. (१) प्रतिश्रुतिः श्रुतस्तथा "नि:स्वनः ।

६२२ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- । समीपतामुपागमत् निकटत्वमुपाययौ, तथा तथा द्विषां चमू: रिपूणां सेना हृषितवपुः कण्टकितदेहा सती मुदाकुला हर्षव्यग्रचेता अजनि बभूव । निर्भयहृदया आसीदित्यर्थः । का इव जनी इव वधूरिव । सा हि यथा यथा वरस्य अग्रोसरः पटहरवः सामीप्यमेति, तथा तथा रोमाञ्चितशरीरा मुदाकुला च भवति । 'जनी सोमन्तिनीवध्यो रित्यमरः ४३ यथा यथेति ॥ हरितरो जामातेव हरिवरः । 'वरो जामातृवर्ययोः' इति विश्वः । तस्याग्रतः सरती- त्यग्रतःसरोऽग्रेसरः । 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः । म पूर्वोक्तः पटहरवो यथा यथा यावद्यापत् समीपतामासन्नतामुपागमत् तथा तथा तावत्तावद् द्विषतां चमूर्जनीव वधरिव । 'जनी सीमन्तिनी वधूः' इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । 'हषर्लोमसु' इनीडागमः । अजनि जाता। जनेः कर्तरि लुङ्, दीपजन-' इत्यादिना चिण् प्रत्ययः। वधूवरसमागमवत् प्रतिद्वन्द्रिसमागमो महोत्सा- हवर्धनो वीरसेनाया इत्युपमार्थः। तेन सैन्ययोरन्योन्यशन्दश्रवणकारिणी प्रत्यासत्तिरामीदिति व्यज्यते ॥४३॥ प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावली(१) ॥४४॥ प्रसारिणीति ॥ विदूरतः दूरादेव प्रतिबलकेतनावली शत्रुसैन्यध्वजपङ्क्तिः व्यभाव्यत . आलुलोके चक्षुर्विषयं प्राप्ता । किंलक्षणा प्रतिबलकेतनावली सपदि नभस्तले आकाशपृष्ठे प्रसारिणी प्रस्ता, अपरं किंलक्षणा समीरणभ्रमितपरागरूषिता पवनक्षुभितभूरेणुधूसरा, इति निमित्तकथनम् । अपरं किलक्षणा अतश्च प्रलयजकालिकाकृतिः कल्पान्तोच्छित- मेघमालासंस्थाना । साऽपि नभस्तले प्रसारिणी वातभ्रमितभूरेणुरूषिता च ॥ ४४ ॥ प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याता समीरणेन वायुना भ्रमितन परागेण रूषिता रूचीकृता अत एव प्रलयजाया: कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या- आकृतिरिवाकृतिर्यस्याः सा प्रतिबले प्रतिपक्षसैन्ये केतनावलिजपतिर्विदूरतो दूरादलक्ष्यत । एतावत ? प्रत्यासत्तिरासीदित्यर्थः । उपमालङ्कारः ॥ ४४ ॥ क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ॥ भयङ्करा भृशमपि दर्शनीयतां ययावसायसुरचमूश्च भूभृताम् ॥ ४५ ॥ क्षणेनेति ॥ असौ असुरचमः दैत्याऽन्वयवैद्यध्वजिनी च पुनः भूभृतां यादवभूपतीनां चमूः सेना दर्शनीयतां दृश्यत्वं ययौ प्राप । चिह्नालोकनात् क्षणेन दृष्टेत्यर्थः । किंलक्षणा चमूः भृशमत्यर्थ भयङ्कराऽपि घोराऽपि । अपि विरोधे । या किल भयङ्करा सा कथं दर्शनीया रम्या भवति । अपरं किंलक्षणा चमूः प्रतिमुखतिग्मदीधितिप्रतिप्रभा- स्फुरदसिदुःखदर्शना प्रतिमुखः प्रतिसंमुखो यः तिग्मदीधितिः उष्णकिरणः श्रीसूर्यः तस्य या प्रतिप्रभा प्रतिविम्बिता कान्तिः तया स्फुरन्तः उल्लसन्तो येऽसयः कौक्षेयकाः तैर्दुःख दर्शना दुर्दा दुनिरीक्ष्या । एतेन अनिमित्तसूचनम् । न हि रविः संमुखो जयाय भवति । या हि दुर्दर्शा, सा कथं दृश्यत्वं यातीति विरोधः ॥ ४५ ॥ क्षणेनति ॥ प्रतिमुखस्याऽभिमुखस्य तिग्मरश्मेरुष्णोशोः प्रतिप्रभाभिः प्रतिकलितदीप्तिभिः स्फुरद्धि- देदीप्यमानैरामिभिः खड्गैर्दुःखं दुष्कर दर्शन यस्याः सा । दुर्दशेत्यर्थः । असावमुरचमूवसेना पणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयङ्कराऽपि । 'मेघर्तिभयेषु कृत्रः' इति खच्प्रत्ययः । दर्शनीयता मनोहरतामिति विरोध: । दृष्टिविषयता ययावित्यविरोधः । अत एव विरोधाभासोऽलङ्कारः ॥ ४५ ॥ । .. । (१)वलि.।

मर्गः।] शिशुपालवधे। ६२३ पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ॥ समक्रियः(१) समविषमेश्वथ क्षणातक्षमातलं बलजलराशिरानशे॥४६॥ पयोमुचामिति ॥ अथाऽनन्तरं बलजलराशिः माधवीयसैन्योदधिः क्षणात्क्षणेनैव परितः समन्तात् क्षमातलम् आनशे क्षोणीपृष्ट व्याप । किंलक्षणो बलजलराशिः समविष- मेषु समक्रियः समेषु अदुर्गेपु विषमेषु दुर्गेषु च समक्रियः तुल्यविक्रमः, क इव व्याप पयोमुचां मेघानां दिवि पततां खे गच्छतां सताम् आतपस्य विपर्यय इव छाया इव । यथा छाया क्षणाक्षमातलं व्याप्नोति व्यश्नुते ॥ ४६ ॥ पयोमुच्चामिति ॥ अथाऽसुरमेनादर्शनानन्तरं ममाविषमेषु निम्नोन्नतेषु समक्रमस्तुल्यसञ्चारः बल- जलराशि: सैन्यसागरः दिवि व्याम्नि दुनमभिपनतामाभिधावतां पयोमुचा सम्बन्धी आतपस्य विपर्ययः छायेव परितः क्षणाक्ष मातलं भूतलमानशे। अशू व्याप्ती । 'अत आदेः' इत्यभ्यासदीर्घः। 'अभातेच' इति जुमागमः । उपमालङ्कारः ॥ ४६ ॥ ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थिनभुवनत्रयस्य तत् ॥ विशालतां दधति नितान्तमायते बलं द्विषां मधुपयनस्य चक्षुषि ॥४७॥ ममाविति ॥ तस्य मधुमथनस्य चक्षुपि नयने तत् द्विशं बलं शत्रूगां सैन्यं मह- दपि बृहदपि ममौ माति स्म, किंलक्षणस्य मधुमथनस्य पुरोऽग्रे क्षणमिव पश्यतः विलो- कयतः । क्षणमात्रेण समां बलम् इयदेतत् इति दृष्ट्वा पर्यच्छत्सीत् इति वाक्यार्थः। किं. लक्षणस्य मधुमथनस्य तनूदरस्थितभुवनत्रयस्य तनौ सूक्ष्मे उदरे स्थितं वर्तमानं भुवनत्रयं त्रैलोक्यं यस्य तथा तस्य, किंलक्षणे चक्षुषि विशालतां दधति पृथुनि नितान्तमायते- ऽतिदोघे च । अक्ष्णि यदुल वृत्तं येन, एतचित्रमित्यर्थः॥ ४७ ॥ ममाविति ॥ पुरोऽने क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालङ्कारे । तनौ क्षोदी- यस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमधनस्य हरेः मम्बन्धिनि विशालतां वैपुल्य दधति दधाने नितान्तमायते दीर्घे द्राधीयसि चक्षुषि महत् द्विषां बलं मम। ववृते । क्षण मी क्षणादेव परबले इयत्ता परि- चिच्छेदेत्यर्थः । क्षोदीयस्यपि कुशी भुवनत्रयं परिच्छिन्दतो हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः किया- निति भावः। अत्र भुवनत्रयापेक्षया आधारस्य कुशेरल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्थाइल्पत्वाच्चा- अधिकालङ्कारी सहीये ते ॥ ४ ॥ भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ॥ मुखे युधः सपदि रतेरिवाऽभवन् ससम्भ्रमाः क्षितिपचमूवधूगणाः॥४८॥ भृशस्विद इति ॥ क्षितिपचमवधूगणाः नृपतिसेनाङ्गनाजना युधः मुखे समितः प्रारम्भे सपदि एकपदे एवंविधा अभवन् आसन् । किलक्षणाः चमूवधूगणाः भृशस्विदः तीव्रधर्मिणः, अपरं किंलक्षणाः क्षितिपचमूवधूगणाः पुलकविकासिमूर्तयः रोमोद्गमोच्छ्व- सिततनवः, अपरं किंलक्षणाः चमृवधूगणाः रसाधिके सौख्यबहुले मनसि चेतसि निविष्ठ- साहसाः निविष्ट कृतपदं साहसं दुःसाधं कर्म येषां ते तथा, अपरं किलक्षणाः ससम्भ्रमाः सत्वराः । एवंविधा नृपतिसेनाङ्गणागणाः युद्धमुखे बभूवुः । कस्या मुखे इव रतेरिव । यथा रतेः सम्भोगस्य मुखे सुरतारम्भ वधूगणा इव । यथा सुरतारम्भे वधूगणाः भृशस्विदः (१) समक्रमः ।

६२४ सन्देहविषौषधिसर्वकषायुते- [सप्तदशः- - . पुलकविका सिमूर्तयः रसाधिके शृङ्गाराधिक्ये मनसि निविष्टसाहसाश्च भवन्ति । रसोऽत्र शृङ्गारः । साहसं वैयात्यम् ॥ ४८ ॥ भृशस्विद इति । क्षितिपचम्वो वध्व इवेत्युपमितसमासः, रतेरिवेति लिङ्गात् । तासां गणाः युधो मुखे युद्धारम्भे रतेमुख रत्यारम्भ इव सपदि भृशं स्विधन्तीति भृशस्विदः । विप् । पुलकविकासिमूर्तयो रोमाञ्चोदञ्चितगात्राः, रसः वीरः शृङ्गारश्च तेनाधिक निर्भरे मनसि निविष्टसाहसाः प्रविष्टधाष्टाः समम्भ्रमाः मसत्वराश्वाऽभवन् । यादृशी वधूनां सुरतरसकर्मण्युत्कण्ठा तादृशी चमूनां समरकर्मणीत्युपमार्थः । तेन- तासां समरसुग्तयोः समरसत्वं व्यज्यते ॥ १८ ॥ ध्वजांशुकैधुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ॥ यदूनभिद्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ ४ ॥ ध्वजांशुकैरिति ॥ अरयः शत्रवः क्रुधा कोपेन कृत्वा भृशं यदून् अभि विपक्षसंमुर्ख रयं वेगं क्षोभं प्रपेदिरे प्रापुः, किलक्षणाः द्रुततरं सत्वरम् उद्यतायुधाः उद्यतहेतयः । उत्प्रेक्षा-अनुकूलमारुतप्रसारितैः ध्वजांशुकैः प्रसभकृतोपहूतयः ध्रुवं निश्चितम्, यदूनां पृष्टतो वायुर्वहति तेन अनुकूलेन पृष्ठाऽनुगामिना मारुतेन प्रसारितानि प्रेरितानि तैः ध्वजांशुकैः केतनवसनैः कृत्वा प्रसभं हठात् उच्चैर्वा कृता उपहतिराकरणं येषां ते तथा । यश्चाहूयते, स यत् किञ्चित् गृहीत्वा याति ॥ ४९ ॥ ध्वजांशुकैरिति ॥ अरयः चैद्यपक्षाः अनुकूलमारुतेन प्रसारितर्वजांशुकैवं प्रसभेन बलात्कारेण कृतोपहूतयः । कृताहाना इवेत्यर्थः । यदूनभि यादवा प्रति दुततरमुयतायुधा उन्क्षिप्तायुधाः सन्तः क्रुध क्रोधेन परमधिकं रयं त्वरां प्रपेदिरे । ध्वजांशुकदर्शनोत्थक्रोधहेतुकस्य शीघ्रामिपातस्य ध्वजाह्वानहेतुकत्व- मुत्प्रेक्ष्यते ध्रुवमिति ॥ ४९ ॥ हरेरपि प्रति परकीयवाहिनीमधि(१)स्यदं प्रववृतिरे चमूचराः॥ विलम्बितुं न खलु सहा मनस्विनो विधिसतः कलहमवेक्ष्य विद्विषः हरेति ॥ हरे: श्रीभगवतोऽपि चमूचराः सैनिकाः प्रतिपरकीयवाहिनी विपक्षसेनासंमुखम् अधिस्यदं स्यदमधिकृत्य वेगेन प्रववृतिरे डुढौकिरे। अपि पूर्वापेक्षासमुच्चये । न केवलं यदूनपि अरयः प्रवृत्ताः,तर्हि किं हरेः सेनाचराः अपि तान् प्रति प्रववृतिरे इत्यर्थः। अत्रार्था- ऽन्तरं न्यस्यति-खलु यस्मात् कारणात् ये मनस्विनः तेजस्विनः ते कलह विधित्सतः वैरं चिकीर्षुन विद्विषोऽरीन् अवेक्ष्य विलोक्य विलम्बितुं प्रतीक्षितुं न सहाः न समर्थाः । वैरायमाणान् शत्रूनवगम्य सपद्येव युध्यन्ते इति भावः ॥ ५० ॥ हरेरिति । हरेरपि चमूषु चरन्तीति चमूचरा: सैनिकाः । चरेष्टः । परेषामिमाः परकीया वाहिनीः सेनाः प्रति आधिस्यदमधिकरयं यथा तथा । 'रहस्तरसी तु रयः स्यदः' इत्यमरः। प्रववृतिरे प्रवृत्ताः । तथा हि-मनस्विनो धीराः कलहं युद्धं विधित्सतः विधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शतरि रूपम्। तान विद्विषः शनवेक्ष्य विलाम्बतुम् । 'शकधृष-' इत्यादिना तुमुन्प्रत्ययः । सहन्त इति सहाः क्षमाः। पचायच् । न खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥ निवाततां दधदपि वर्म बिभ्रतः(२) स्फुरन्मणिप्रसृतमरीचिसूचिभिः ॥ निरन्तरं नरपतयो विरेजिरे रणाजिर शरनिकराचिता इव ॥ ५१ ॥ निवाततामिति ॥ रणाजिरे सङ्ग्रामाङ्गणे नस्पतयः राजानः विरेजिरे बभुः । (१)वाहिनीरधि। (२) उपाहितर्वपुषि निवातवर्मभिः ।

मर्गः।] शिशुपालवधे । ६२५ . किलक्षणाः नरपतयः वर्म बिभ्रतः कवचं दधतः, किंलक्षणं कवचं निवाततां दधदपि निश्छिद्रतां धारयदपि, अपरं किंलक्षणं वर्म स्फुरन्मणिप्रसृतमरीचिसूचिभिः निरन्तरम् उल्लसद्रत्नकिर- णाऽहकुरैः व्यासम्, किंलक्षणाः नरपतयः, उत्प्रेक्ष्यन्ते-शरनिकराचिता इव विशिखसमूह- व्यासा इव । अपि विरोधे-दंशनं नीरन्ध्र, तत् कथं कवची शरनिकरचितो भवतीति॥५१॥ उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरामुक्तैः स्फुरन्तो मणिप्रमृता रमनिर्गता मरीचय एव सूचयो येषां तः निवातवर्मभिरच्छिद्र कन्चुकैः । 'निवातो दृढसंनाहे निर्वाते चाय- ऽपि च' इति विश्वः । 'तनुवं वर्म कचुकम्' इत्यमरः । निरन्तरं नीर-धं शरनिकरैराचिताः प्रोता इव राजिरे । 'फणां च सप्तानाम्' इति विकल्पादेवाभ्यासलोपाभावः । मणिरोचिषः सादृश्याच्छरनिकरत्वोमेशा अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।। बलैश्चलञ्चरणविधूतमुश्चरद्धनावलीरुदचरत क्षमारजः ।। ५२ ।। अथेति ॥ अथाऽनन्तरं क्षमारजः पृथ्वीरेणुः उच्चरत् उद्गच्छत् सत् धनावली: जलद- मालाः उदचरत आचक्राम । किंलक्षणं क्षमारजः जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति जरठोऽतिप्रौढो यः कपोतः पारावातः तस्य कन्धरा ग्रीवा तस्या यः तनूरुहप्रकरः लोम- समूहः तस्येव पाण्डुरा धवला धूसरा वा द्युतिः कान्तिर्यस्य तत्तथा, धूलिधूसरकपोतकण्ठ- लोमधूसमित्यर्थः। अपर किंलक्षणं रजः बलैः सैन्यैः अश्वरथनरगजैः चलच्चरणविधूतं चलनिः धावद्भिः चरणैः पादैः विधूतमुत्थापितम् , अपरं किंलक्ष क्षमारजः उच्चकैः उन्नतम् ॥ ५२ ॥ अथोति ॥अथाऽनन्तरम् उच्चकैरुत्रतं जरठकपोतकन्धराविपाण्डुरादि जीर्णपारावतकन्धरारोमनिकर- धूसरच्छायमित्युपमा । 'पारावतः कलरवः कपोतः' इत्यमरः । बलेः सन्यैश्वलद्भिश्वरणविघ्तमुद्धृतं प्रेरित मदुचरदुत्पतत् क्षमारजो भूरेणुर्घनावलीघनपङ्कीरुदचरत् । प्रचक्रामेत्यर्थः । 'उदश्चरः सकर्मकाव' इत्यात्मनेपदम् । अस्य प्रत्युदाहरणमुच्चरदिति । अत्र भूरेणोर्मेघमण्डलाक्रमणासम्बन्धेऽपि सम्बन्धोके. रतिशयोक्तिरुपमासङ्कीर्णा ॥ ५२ ॥ विषङ्गिभिः क्वचिदभितो निरन्तरं(१) तुरङ्गमैरुपरि निरुद्धनिर्गमाः ॥ चलाचलैरनुपदमाहताः खुरैविबभ्रमुश्चिरमध एव धूलयः ॥ ५३ ॥ विषङ्गिभिरिति ॥ तुरङ्गमैरथैः अनुपदमनुक्रम चलाचलैः चटुलैः खुरैः शफैः आहताः ताडिताः क्षोभिता धूलयः रेणवः : अध एव नीचैरेव केचित् चिरं बहुकालं विवभ्रमः भ्रमन्ति स्म । किंलक्षणाः धूलयः निरन्तरं विषङ्गिभिः दृढसंश्लेषिभिः तुरङ्गमैः उपरि निरुद्धनिर्गमाः निषिद्धप्रसराः ॥ १३ ॥ विषङ्गिभिरिति ॥ चलाचलैग्नटुलेः खुरैरनुपदं प्रतिपदमाहता उद्धृताः भृशमितरेतर परस्परम् । 'निरन्तरम्' इति पाठेऽभितो निरन्तरं नीरन्ध्र विषङ्गिनिर्मिथः श्लिष्टस्तुरखमरुपरि निरुद्धो निर्गमो यास नाः धूलयः क्वचित् चिरमध एव विबभ्रमु!त्पतुरिति भावः । अत्रोद्धतानामधोभ्रमणविरोधस्योपरिनिर्गम- रोधेन विशेषणगत्या परिहारात्काव्यलिदुसदी! विरोधाभासोब्लङ्कारः ॥ ५३ ॥ गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्यवहितसत्त्वमुत्कदम् ॥ सिसृक्षतः सरसिजजन्मनो जनं(२)बलस्य तु क्षयमपनेतुमिच्छतः॥५४॥ गरीयस इति ॥ सरसिजजन्मनः कमलसम्भवस्य ब्रह्मणः बलस्य च सैन्यस्य (१)भिर्धशमितरेतर कचित् । (२) जगदलस्य। ५३ शिव० ६२६ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- अयमेव भेदः, यतः सरसिजजन्मनो ब्रह्मणः जनं लोकं सिसृक्षतः स्रष्टुकामस्य रजः गुणः उत्कटम् अभवत् विवृद्धमभूत् । तु पुनः बलस्य सैन्यस्य जनं क्षयमपनेतुमिच्छतः लोकं नाशं प्रापयितुमिच्छतः जिघांसतः रजः अभूत रेणुरासीत् । अन्येन सर्व सादृश्यमासीत् । तथा हि-किलक्षणस्य सरसिजजन्मनः गरीयसः योग्यतरस्य, अपरं किलक्षणस्य प्रचुर- मुखस्य बहुवदनस्य, चतुर्वक्त्रस्येत्यर्थः । अपरं किंलक्षणस्य रागिणः लौहित्यवतः, बलस्यापि किलक्षणस्य गरीयसो विस्तीर्णस्य तथा प्रचुरमुखस्य बहुद्वारस्य, अपरं किं- लक्षणस्य बलस्य रागिणः रणरसिकस्य । ब्रह्मपक्षे रजः किंलक्षणम् उत्कटमुद्रिक्तं बलवत्, अपरं किलक्षणं रजः व्यवहितसत्त्वं व्यवहितं प्रवृद्धत्वात् आच्छादितं सत्त्वं सत्त्वाख्यो गुणो येन तत् । रजसो ह्याधिक्ये विरञ्चिः प्रजाः सृजति । सैन्यपक्षे रजः किंलक्षणम् उत्कर्ट प्रभूतं, रजो धूलिः, अत एव अपरं किलक्षणं रजः व्यवहितसत्त्वं पिहितप्राणि ॥ १४ ॥ गरीयस इति ॥ गरीयसः सर्वलोकपितामहत्वात्पूज्यतरस्य अन्यत्र महत्तरस्य प्रचुरमुखस्य । चतु- मुखस्येत्यर्थः । अन्यत्र बहुप्रवाहस्य रागिणो रकवर्णस्य अन्यत्र रणे रागिणोऽनुरागवतः पर्वभूतस्य मरसिजजन्मनो ब्रह्मणो जगत्सिमृक्षतः जगत्स्रष्टुमिच्छत: सतः । सृजेः सत्रन्तालटः शत्रादेशः । व्यवहित- मत्त्व तिरस्कृतसत्त्वगुणकम् अन्यत्र तिरोहितजन्तुकं रजो रजोगुणो रेणुश्वोत्कटमुद्रिकमभवत् । बलस्य सैन्यस्य तु जगत्क्षयमपनेतुमिच्छतः सतोऽभवत् । अत्र ब्रह्मबलयोर्गरीयस्त्वादिसाधयेऽपि रजःशब्दनै- • कस्य सिमृचोरन्यस्य संजिहीर्षोरिति व्यतिरकः श्लषोत्थापित इति सङ्करः ॥ ५४॥ पुरा शरक्षतिगलितानि(१) संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ॥ इति ध्रुवं व्यलगिषुरात्तभीतयः समुश्चकैरनलसखस्य केतवः ॥ ५५ ॥ पुरेति ॥ अनलसखस्य अग्निसहचरस्य वायोः केतवः ध्वजाः रेणवः ध्रुवं निश्चितम् इति अतो हेतोः आत्तभीतयः गृहीतभयाः सन्तः उच्चैरतिशयेन खमाकाशं व्यलगिषुः व्यलगन् आरुरुहुः । इति कुत इत्यत आह-संयुगे सङ्ग्रामे शरक्षतिगलितानि सायकप्रहारस्रुतानि अमृञ्जि क्षतजानि प्रसभं बलात् नोऽस्मान् पङ्कतां नयन्ति पुरा कर्दमीकुर्वन्ति । कईमतां न- यिष्यन्तीति । यावत्पुरानिपातयोर्लट् । धूलिदर्शनात् वातानुमाने नांशुके तु त्वं रणार्थिना(?)। वातमग्निचलयतीति वायोरग्निसखत्वम् । एतदर्थ प्रतिपादयितुं च रेणुग्रहणं नाकारि ॥१५॥ पुरोति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि अमृद्धि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पता पुरा नयन्ति नेष्यन्ति । 'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमान- भीतयः प्राप्तभयाः सन्तोऽनलसखस्याऽग्निमित्रस्य वायोः केतको रणवः । तलिङ्गत्वानस्येति भावः । उच्चकै- उत्रत बमाकाशं व्यलगिषुः । वियदारूढा इन्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥ ५५ ॥ समुन्नम(२)द्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः॥ कचिच्छरज्जलधर(३)खण्डपाण्डुरः खुरक्षतः क्षितितलरेणुरुद्ययौ ॥५६॥ समुन्नमदिति ॥ खुरक्षतः शफाहतः खुरप्रेरितः क्षितितलरेणुः अवनिपृष्टपांसुः उद्ययौ उन्ननाम । किंलक्षणः क्षितितलरेणुः भूमे नावर्णत्वात् कचित् समुन्नमद्धननिकुरम्बकर्बुरः उद्गच्छदभ्रपटलधूसरः, अपरं किलक्षणः क्षितितलरेणुः क्वचित् कस्मिंश्चित् प्रदेशे शरजल- भरखण्डपाण्डुरः शरत्कालीनजलदसमूहधवलः । निर्जलोऽपि घनो जलधर उच्यते । (१)अनितानि। (२)क्कचिल्लस (३) ०च्छशधर । .

सर्गः।] शिशुपालवधे । ६२७ अपचनपि पाचकः इतिवत् । अपर किंलक्षणो भूरेणुः कचिद्देशे हिरण्मयकणअपिझरा सौवर्णचूर्णपिशङ्गः । हिरण्यस्य विकारो हिरण्मयः ॥ १६ ॥ क्वचिदिति ॥ क्वचिल्लसन् घननिकुरम्बवनवाभ्रपटलवकर्बुरः शबलः, क्वचिद्विरमयकणपुञ्जपिचर: कनकचूनराशिकपिशः, क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरैः चतस्य क्षितितलस्य रेणुरुयया उजगाम । अत्रोपमात्रयस्य संमृष्टिः ।। ५६ ॥ महीयसां महति दिगन्तदन्तिनामनोकजे रजसि मुखानुषङ्गिणि ॥ विसारितामजिहत कोकिलावलीमलोमसा जलदमदाम्बुराजयः ॥५७॥ महीयसामिति ॥ दिगन्तदन्तिनां जलदा अभ्राणि मदाम्बुराजयः विसारितामजिहत विकासं विस्तारमीयुः विस्तारितामीयुः। दिगन्ता आशान्ताः। दिशो मेघा आवृण्वन्नित्यर्थः। क्व सति महति घनेन बृहति अनीकजे रजसि सैन्योद्भवे रेणौ मुखानुषङ्गिाणि सति वदनलग्ने सति सेनासमुद्भुतरेणुनिकरे मुखे लाने सति, किलक्षणाः मदाम्बुराजयः कोकिलावलीमलीमसाः परभृतमालामलिनाः । दिङ्मुखेषु रजः प्रसृतं नानारूपमभवदिति तात्पर्यार्थः । यदा सेना- रजो महेभस्य मुखमावृणोति, तदा तस्य कोकिलावलीमलीमसा मदाम्बुराजयो विसरन्ति । केचिद्दिगन्तेषु गामिनो दिग्गजाः, जलदतुल्यं मदाम्बु इत्याहुः । अनीकजे रजसि मुखे लग्ने सति दिग्दन्तिनां मदाम्बुराजयः प्रसस्रुरित्यर्थः ॥ १७ ॥ महीयसामिति ॥ महति अनीकजे सेनासमुत्थे रजसि महीयसा दिगन्ता एव दन्तिनः तेषां मुखानि पुरोभागा एव मुखान्याननानीति लिष्टम्पकम् । तेष्वनुषङ्गिाण लग्ने मति, कोकिलावलीवन्मलीमसा मलिना जलदा दिङ्मुखसङ्गिन एव ये मेघास्त एव मदाम्बुराजयो मदरखाः विसारिता प्रममरत्वमाजहता. ऽगन्छन् । प्राप्ता इत्यर्थः । पासुपातस्य दन्तिना मदहेतुत्वादिति भावः। तदुक्तं महाभारते- मियो जारेण तुष्यन्ति गावः स्वच्छन्दचारतः । कुञ्जराः पांसुवर्षेण ब्राह्मणाः परनिन्दया' ॥ इति । दिगन्तलम्बिनो मेघा : मेनारजोमेलनाबहुलीबभूवुरित्यर्थः । अत्र दिगन्तेषु तन्मेषेषु च दन्तित्व- जन्मदत्वरूपात्समस्तवस्तुवर्ति मावयवरूपकं, मुखमेव मुखमिति लिष्टपरम्परितमिति सङ्करः । अजिहतेति बोहाङो लाड नङ्, 'श्नाभ्यस्तयोरातः' इत्याकारलोपः 'अदभ्यस्तात्' इत्यदादेशः ॥ ५ ॥ शिरोरुहेरलिकुलकोमलरमी मुधा मृधे मृषत युवान एव मा ॥ बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनान् जरत इवाऽकरोदजः ॥१८॥ शिरोरुहैरिति ॥ बलोद्धतं सैन्यचालितं रजः धूलिः जनान् धवलितमूर्धजान् सिती- कृतकेशान् अकरोत् चकार । कस्मात्, उत्प्रेक्ष्यते-इति हेतोः जरत इव वृद्धानिव व्यधित । कुत इत्यत आह-अमी जनाः मृधे सङ्ग्रामे युवान एव तरुणा एवं मुधा वृथा मा मृषत मा प्राणानत्याक्षुः । वृद्धस्य हि मरणं सफलं, तत्तरुणस्य दुःखायैव । ननु तारुण्यमेव कथ. मेषामबोधीत्याह-यतः किंलक्षणाः जनाः शिरोरुहै: केशैः उपलक्षिताः,किंलक्षणैः शिरोरुहैः अलिकुलकोमलैः अलिकुलवत् भृङ्गवृन्दवत् कोमला मनोहराः वैः, अतिकृष्णरित्यर्थः । ध्रुवशब्दसन्निधानादिवशब्दोऽत्राऽवधारणे, नौपम्ये ॥ १८ ॥ शिरोरुहैरिति ॥ अलिकुलकोमलैभ्रमरवृन्दमनोरमैः शिरोरुहै: केशरुपलक्षिता अमी राजानो युवान. एव मुधा वृथा मधे युद्धे । 'मृधमास्कन्दनम्' इति युद्धर्यायध्वमरः । मा मृषत न मियन्ताम् । मियते- - ६२८ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- . .. कि लुङि 'न माङयोगे' इत्यडभावः । 'उश्च' इति सिचः कित्त्वान गुणः । इति, इत्थमालोच्यत्यर्थः। बलोद्धतं रजः कर्तृ धवलितमूर्धजान् धवलीकृतकेशान् जनान् जरत इवाऽकरोत् , वृद्धानिवाकरोदित्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । अवशन्दस्याऽवधारणार्थत्वान्न तेन पौनरुक्त्यम्। 'इवौपम्येऽवधारणे' इति विश्वः । 'प्रवयाः स्थावरो वृद्धो जीनो जीर्णो जरनपि' इत्यमरः । 'जीर्यतरतृन्' इत्यतृन्प्रत्ययः ॥ ५८ ॥ सुसंहतैर्दधदपि धाम नीयते तिरस्कृति बहुभिरसंशयं परः(१) ।। यतः क्षितेरवयवसम्पदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ ५९॥ सुसंहतैरिति ॥ असंशयं निश्चितं सुसंहतैः एककार्यार्थमिलितैः बहुभिः अनेकैः परः एकः धाम दधदपि तेजस्व्यपि तिरस्कृति नीयते परिभूयते । तत्कथं ज्ञायत इत्याह- यतः यस्मात्कारणात् क्षितेः पृथिव्याः अवयवसम्पदः प्रतीककारणानि अणवः सूक्ष्माः रेणुनिकराः त्विषां निधेरपि भासां पतेः श्रीसूर्यस्यापि वपुः बिम्बम् आवरीषत और्ण- विषुः तिरोदधुः । अत्रावरीषतेति सिच् , आत्मनेपदेप्वनतः, इडागमः। 'वृतो वेति दीर्घः । सांहत्यमेव कारणम् ॥ ५९ ॥ सुसंहतैरिति ॥ धाम तेजो दधदपि दधानोऽपि । तेजस्थ्यपीत्यर्थः । परैरन्यः सुसंहतैः सुसङ्गतः परेरक्य गतैश्च बहुमिास्तरकृति नीयते असंशयं निश्चितम् । अर्थाभावेऽव्ययीभावः। कुतः यतोऽणवः सूक्ष्माः क्षितरवयवसम्पदो रेणुसमृद्धयः त्विषां निधेः सूर्यस्यापि वपुरावरीषत आच्छादितवत्यः। वृङो लुडि 'वृत्तो वा इतीटो दीर्घः। विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५९ ॥ द्रुतद्रवद्रथचरणक्षतक्षमातलोलसदहुलरजोऽवगुण्ठितम् ॥ युगक्षयक्षणनिरवग्रहे जगत् पयोनिधेजल इव मनमाबभौ ॥ ६०॥ द्रुतेति ॥ जगद् विश्वं पयोनिधैर्जले मग्नमिव आबभौ सागरस्य तोये बुडितमिव रेजे। किंलक्षणं जगत् द्रुतद्रवद्रथचरणक्षतक्षमातलोलसद्बहुलरजोऽवगुण्ठितं द्रुतं शीघ्रम् द्रवन्तः गच्छन्तो ये रथचरणाः स्यन्दनचक्राणि तैः क्षतं खातं यत् क्षमातलं महीमण्डलं तत- उल्लसत् ऊर्ध्व गच्छत् यत् बहुलरजः भूरिः पांसुः तेनाऽवगुण्ठितं व्याप्तं परिवेष्टितं, किंलक्षणे पयोनिधेर्जले युगक्षयः कल्पान्तः स एव क्षणः उत्सवः तेन निरवग्रह. मुच्छृङ्खलं तस्मिन् सर्वव्यापिनि ॥ ६ ॥ द्रुतेति ॥ द्रुतं शीघ्रं द्रवता धावतां रथानां चरणश्वकैः शतात क्षुण्णात्क्षमातलादुल्लसता पतना बहुलेन सान्द्रेण रजसाध्वगुण्ठितमाच्छादितं जगद् युगक्षयक्षणे कल्पान्तकाले निरवग्रहे निष्प्रतिबन्धे पयोनिधेर्जले मम्नमिवाऽम्बभावित्युत्पेका ॥ ६० ॥ अनुल्लसहिनकरवत्रकान्तयो रजस्वलाः परिमलिना(२)म्बरश्रियः ॥ दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ ६१ ॥ अनुल्लसदिति ॥ दिगङ्गनाः आशावनिताः शरीरिणां जनानां परिहरणीयतां ययुः त्याज्यत्वं प्राप्ताः । किलक्षणाः दिगङ्गनाः रजस्वलाः रेणुपूर्णाः, अपरं किंलक्षणाः दिगङ्गानाः अनुल्लसदिनकरवक्त्रकान्तयः अनुलसन्ती दिनकर एव रविरेव वक्त्रं मुखं तस्य कान्ति: दीप्तिर्यासां तास्तथा, अपरं किलक्षणा दिगङ्गनाः परिमलिनाम्बरश्रियः परिमलिना धूसरा अम्बरश्रीः नभोलक्ष्मीर्यासां तास्तथा धूसरनभोलक्ष्मीकाः, अपरं किंलक्षणाः दिगङ्गनाः अत एव अविलोकनक्षमाः विलोकनाय दर्शनाय न क्षमाः न योग्याः द्रष्टुमशक्याः, अत एव (१) परैः। (२) समुल्लस"परिमलिता। युगक्षयक्षणनिरवग्रहे ..

सर्गः।] शिशुपालवधे। ६२४ परिहरणीयतां ययुः । या ह्यङ्गना रजस्वला स्रोधर्मिणी भवति, सा लोकानां परिहरणीयता- मगम्यतां याति । सापि अनुलसद्वक्त्रकान्तिर्मलिनाम्बरा अदृश्या च भवति । उक्तं च- यदा स्पृशति सा किञ्चित यदाक्रामति वा यदा । पश्यत्याभाषते वापि तदलक्ष्म्याऽभिभूयते ॥ इति ॥ ६१ ॥ असङ्- समुल्लसदिति ॥ समुल्लन्ती दिनकरस्येव वक्त्रस्य कान्तिर्यामा ताः रजो रेणुरेव रज आर्तव मासा- मस्तीति रजस्वलाः । 'रजःकृष्यासुतिपरिषदो घलच्' इत्यादिना मत्वर्थीयो बलप्रत्ययः। धूलिधूसरा उदक्य- शा परिमलिताः परितः सञ्जातमला अम्बरस्याकाशस्येवाऽम्बरस्य वसस्य च श्रीर्यासा ताः अत एवाऽविलो- कनक्षमा विलोकनाऽनर्हाः दिश एवाऽङ्गाना दिगङ्गाना: शरीरिणां क्षणमीपत्कालं परिहरणीयतामगम्यतां ययुः। "तस्मात् मलयद्वाससं न संविशेदेवे'त्यादिनिषेधादिति भावः । श्लिष्टपरम्परितरूपकम् ।। ६१ ॥ निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ॥ रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥६२॥ निरीक्षितुमिति ॥ त्रिदशगणैः सरसमूहैः पलाय्यत पलायितं प्रतीये । किं कृत्वा समरमुखे सङ्ग्रामारम्भे महीभृतां राज्ञां पराक्रम निरीक्षितुं शौर्य द्रष्टुं वियति आकाशे कौतुकात् कुतूहलात् समेत्य मिलित्वा । कदा पलाय्यतेति कारणमाह-कस्यां सत्यां रजस्ततौ धूलिश्रेणौ अनिमिपलोचनोत्पलव्यथाकृति सत्याम् अनिमिषाणि कुचितानि यानि लोचनोत्पलानि नयनकमलानि तेपु व्यथा पीडां करोति सा अनि- मिषलोचनोत्पलव्यथाकृत् तस्यां सत्याम् असा वितनयनकुत्रलयपीडाकारिण्याम् । देवा ह्यनिमिपलोचनाः, अतश्च अक्षिषु रजोभरणभयात्ते दुद्रुवुरित्यर्थः ॥ ६२ ॥ निरीक्षितुमिति ॥ त्रिदशगणगणेः ममरमुख रणारम्भ महीभृतां राजा पराक्रमं निरीक्षितुं वियति कौतुकान्ममन्य रजम्नती रज-स्तामे न निमिषन्त्यानमिषाण पक्ष्मणतरहिनानि । मिषेः पचायच् । कुटादि- त्वान गुणः । तेषां लोचनोत्पलानो व्यथाकनि दुःखकारण्यां सत्याम् । कृत्रः क्विप् । पलाय्यताऽधाव्यत । भावे परापूर्वादयतलाङ तङ् 'उपसर्गस्यायतो' इति रेफस्य लत्वम् । अत्र लोचनोत्पलानां व्यथा सम्बन्धो- करतिशयोक्तिभेदः ॥ ६२ ।। विषङ्गिणि प्रतिपदमापिबत्यपो हताऽचिरातिनि समीरलक्ष्मणि ॥ शनै शनैरुपचितपङ्कभारिकाः पयोधराः(१) प्रययुरपेतवृष्टयः ॥ ६३ ॥ विषङ्गिणीति ॥ पयोधराः मेघाः शनैःशनैः प्रययुः मन्दमन्दं यान्ति स्म । किं. लक्षणाः पयोमुचः उपचितपङ्कभारिकाः अतिवृद्धकईमभारवाहिनः, क सति समीरो वातः तस्य लक्ष्म ध्वजः तस्मिन् समीरलक्ष्मणि वातध्धजे रजसि विषङ्गिाणि सति लग्ने सति, किंलक्षणे समीरलक्ष्मणि प्रतिपदं पदेपदे अपः वारीणि आपिबति आचामति, अपरं किलक्षणे रजसि हताऽचिरातिनि हता क्षपिता अचिरद्युतिः विद्युत् येन तत्तथा तस्मिन् क्षपित- शम्पे, अपरं किंलक्षणाः मेघाः अपेतवृष्टयः गतवर्षाः, मेघानामपेतवृष्टित्वात् । जलवशात् हि प्रायेण तडितो भवन्ति । अतश्च जलधरस्य रेणुयोगेन पोभूतत्वाद्वारे सति स्वैर- यमनम् । यो हि भारिको महाभारं गृह्णाति, स शनै: याति । उपचितं पङ्कभारं वहन्तीति उपचितपङ्कभारिकाः ॥ ६३ ॥ (१) पयोमुचः।

६३० सन्देहविपौषधिसर्वषायुते- [ सप्तदशः- विषत्रिणीति ॥ विषनिणि विषक्ने अत एव हताऽचिरयुतिनि विरमिताऽचिरतिनि समीरलक्ष्मानि बातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भास्यापिबत्याकर्षति कति अत एवाऽपेतवृष्टयो निवृत्तवर्षाः पयोमुच. उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कमारिकाः सन्तः। 'पर्यायार्हणोत्पत्तिषु "वुल्' इत्यहणार्थे ण्वुल् प्रत्ययः । अहणं च करणसामयम् । अत एव भाराच्छनैःशनैः प्रययुः प्राप्तःः । अत्र पयोमुचां पटुभरणासम्बन्धेऽपि तत्सम्बन्धोनरतिशयोक्तिः ॥ ६३ ॥ नभानदीव्यतिकरधौतमूतिभिर्वियद्गतैरनधिगतानि लेभिरे ॥ चलचमूतुरगखुराहतोत्पतन्महीरजानपनसुखानि दिग्गजैः ॥ ६४ ॥ नभोनदीति ॥ दिग्गजैः आशामातङ्गैः चलचमूतुरगखुराहतोत्पतन्महीरजःस्नपन- सुखानि लेभिरे लब्धानि, चलन्तो गच्छन्तो ये तुरगाः सेनावाजिनः तेषां खुराः शफा: है: आह (१) नां हि धूलिस्नानात् अतिमुखं भवति। किंलक्षणानि स्नपनसुखानि अनधिगतानि पूर्व हि तैर्न प्राप्तानि,किंलक्षणैर्दिग्गजैः वियद्गतैः आकाशवर्तिभिः खगतैः, अपरं किंलक्षणे- दिग्गजैः नभोनदीव्यतिकरधौतमूर्तिभिः नभोनदीव्यतिकरण स्वःसिन्धुसम्पर्केण धौतमूर्ति- मिः क्षालितदेहैः।यो हि गजो धूलिस्नानं कुरुते, स पूर्व नद्यादौ स्नातीति जातिस्वभावः । नभोनदीति ॥ नभोनदीव्यतिकरणाकाऽऽशगङ्गाया अवगाहेन धौतमूर्तिभिः क्षालिताङ्गैः वियद्गतः खेचरैः अत एव दिग्गजैरनधिगतान्यननुभूनचराणि चलद्भिश्चमूतुरगवुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे। 'कुञ्जराः पांमुघर्षणे'त्युदाहृतम् । अत्रापि दिग्गजाना रजःस्नपनासम्बन्धेऽपि सम्बन्धोतरतिशयक्तिः ॥ ६४ ॥ गजबजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ॥ नभस्तलं बहलतरण रेणुना ततोऽगमत् त्रिभुवनमेकतामिव(२)॥६५॥ गजेति ॥ ततो हेतोः त्रिभुवनं त्रैलोक्यम् एकतामिव अगमत् ऐक्यमिव जगाम । यद् यस्मात्कारणात् भुवा उर्ध्या अखिलं रसातलं समां पातालम् आनशे व्याप्तं, किं- लक्षणया भुवा गजबजाक्रमणभरावनम्रया हस्तिसमूहपदाक्षेपभारनम्रया, तथा नभस्तल- माकाशं बहुलतरेण अतिबहुलेन रेणुना रजसा आनशे । अतश्च सर्वमेव मृण्मयत्वात् ज्ञायते ऐक्यमिव त्रिभुवनेन सम्पन्नम् ॥ ६ ॥ गजति ॥ यद् यस्माबजबजानामाक्रमणभरण पादक्षेपगौरवणाऽवनम्रपा भुवाऽखिलं रसातलं पातालमानशे व्याप्तम् , यद् यस्माच्च नभस्तलं बहुलतरेण रेणुनाइनशे, तत: कारणात्रिजगजगत्रयम् । 'तद्धितार्थ-" इत्यादिना समाहारे द्विगुः, द्विगुरेकवचनम् । एकतां भूलोकतामिवाऽगमत् । स्फुटमित्युत्प्रेक्षायाम् ॥ ६५ ॥ समस्थलीकृतविवरण पूरिताः क्षमाभृतां(३) बलरजसा महागुहाः ।। रहस्नपाविधुरवधूरतार्थिनां नभासदामुपकरणीयतां ययुः ॥ ६६ ॥ समस्थलीति ॥ क्षमाभृतां पर्वतानां महागुहाः बृहत्यः कन्दराः बलरजसा सैन्यरेणुना पूरिता व्याप्ताः भरिताः सत्यः नभःसदां विद्याधरादीनाम् उपकरणीयतां ययुः उपयोग्यता प्रापुः । किंलक्षणानां नभःसदा रहस्त्रपाविधुरवधूरतार्थिनाम् एकान्ते लज्जामूढनवोढसुन्दरी- निधुवनामिलाषिणां, पाविधुरत्वात् वधूनां रहसि चिरंभूता(?)मित्यर्थः । यदातु रजसा गुहा व्याप्ताः तदाऽन्योन्यदर्शनाभावात् अकरणीयत्वम् । किंलक्षणेन रजसा समस्थली- कृतविवरेण समस्थलीकृतानि स्थलता प्रापितानि विवराणि कुहराणि येन सः तथा तेन ॥६६॥ (१) ग्रन्थांशोऽत्र स्खलित इति भाति । (२) बहुलतरेण....."त्रिजगदि वैकता स्फुटम् । (१) महीभृतां ।

सर्गः।] शिशुपालवधे। समस्थलीति ॥ समस्थलीकृतानि विवराणि निम्रस्थानानि येन तेन बलरजसा पूरिताः महीभृता भूधराणा महागुहाः रहो रहासि । अत्यन्तसंयोगे द्वितीया । अपया विधुराणां विलक्षाणां वधूना रतं सुरत- मर्थयन्त इति तदर्थिनी नभःसदा सुराणामुपकरणीयतामुपकारकत्वं ययुः । तासा रजःपूरणात्पुंसामन्धकर- णत्वादिति भावः । 'कृत्यल्युटो बहुमम्' इत्यनीयरः कर्थता । अत्र रजःपूरणस्य विशेषणगत्योपकारक- हेतुत्वाकाव्यलिङ्गभेदः, तथोपकारकत्वासम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिरिति सदूरः ॥ ६६ ॥ गते मुखच्छदपटतुल्यतां(१) दृशः पथस्तिरोदधति घने रजस्यपि ॥ मदानिलेरधिमधुचूतगन्धिभिदिपा द्विपानभिययुरेव रंहसा ॥ ६७ ॥ गते इति ॥ द्विपाः गजाः द्विपान गजान् रहसा अभिययुः वेगेनाऽभियान्ति स्म । कदाचिदन्योन्यदर्शनं स्यादिति चन्नेत्याह-क सति घने सान्द्रे रजसि रेणौ दृशः पथः दृष्टेर्मार्गान् तिरोदधत्यपि सति आवृण्वत्यपि सति, अत एव किंलक्षणे रजसि मुखच्छद- पटतुल्यतां गते वदनाच्छादनवसनसादृश्यं प्राप्ते। गजानां हि युध्यमानानां वदनावरणं वसनं दीयते इति स्थितिः । कथं तहि संमुखा इत्याह-कैः मदानिलैः दानवायुभिः, किंलक्षणैर्मदानिलैः अधिमधुचूतगन्धिभिः अधिगतं मधु रसो यैः तानि अधिमधूनि फुलानि यानि चूतानि सहकारकुसुमानि तेषामिव गन्धः सौर येषां ते अधिमधुचूत- गन्धयः तैः, केचित्-अधिमधौ वसन्ते चूतानामिव गन्धो येषां ते तथा तैः ॥ ६७ ॥ गते इति ॥ छायतेऽनेनेति छदः, मुखस्य छदो मुखच्छदः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्र- त्ययः, 'छादेर्पाद्वयुपसर्गस्य' इति ह्रस्वः । स चासो पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात् व्यञ्- प्रत्यये 'विद्रौरादिभ्यश्च' इति डीपू । स च ध्यञः पित्करणादीकारो बहुल मिति वामनवचनाद्वैकल्पिकः । गते प्राप्त । गजाना युद्धपूर्वकालेषु मुखावरणकारणातत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मास्तिरो- दधति छादयति सत्यपि, अधिमधोराधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । 'उपमानाच' इति गन्धः स्थत्वे तदेकान्तग्रहणं तु व्यभिचारि। मदानिलराभिज्ञानद्विपा गजाः द्विपागजाम्प्रति रंहसा वेगेनाऽभिययुरेव । अत्र तिरोहितदृष्टरेभियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलङ्कारः ॥ ६७ ॥ मदाम्भसा परिगलितेन सप्तधा गजान् जनः शमितरजश्चयानधः ॥ उपर्यवस्थितधनपांसुमण्डलानलाकयत् ततपटमण्डपानिव ॥ ६८ ॥ मदाम्भसेति ॥जनो लोकः गजान मातङ्गान् अलोकयत् अद्राक्षीत् आलोकयामास । किलक्षणान् गजान् सप्तधा सप्तभिः प्रकारैः परिगलितेन तेन मदाम्भसा मदजलेन अधः बुध्ने शमितरजश्चयान् क्षपितमरुध्वजसमूहान् नाशितरेणुनिवहान् , अपरं किं. लक्षणान् गजान् उपर्यवस्थितघनपांमुमण्डलान् उपरिभागे वर्तमानसान्द्ररेणुमण्डलान् । अपरं किलक्षणान् , उत्प्रेक्ष्यन्ते-ततपटमण्डपानिव ततानि प्रसारितानि पटमण्डपानि येषां ते तथा तान् , कृतवितानानिव विहितकदकानिव । 'उल्लोचः कदकस्तकथा'। कुत्सितम् अकतीति कदकः । चक्षुषी च कपोलौ च करो मेढ़ गुदस्तथा । सस स्थामानि मातङ्गमदस्य सुतिहेतवः ॥ गण्डौ कुम्भौ ताल(?)चक्षुषी करश्चेति सप्त मदतृतिस्थानानि । अत्र सर्गे रुचिरा वृत्तम्॥ मदाम्भसेति ॥ सप्तधा 'करात्कटाभ्यां मेदाच्च नेत्राभ्यां च मदनुतिः' इति पालकाप्ये । सप्तभिः (१) सारशी।

६३२ सन्देहविषौषधिसर्वकषायुते- [ सप्तदशः- .. । स्रोतोभिः परिगलितेन स्रतेन मदाम्भसा अधः शमितो रजभयो यैस्तान् उपर्यवस्थितानि तथैव स्थितानि घनानि सान्द्राणि पासुमण्डलानि पूर्वोत्थरजःपुजा येषां तानगजान् जनो लोकः तताउपरि वितता: पटमण्डपा येषा नानिवत्युत्प्रेक्षा । अलोकयत् ॥ ६८ ॥ अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृत- स्तन्वन्तः कनकावलीभिरुपमा सौदामनीदामभिः ॥ वर्षन्तः शममानयनुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पासून् गजाम्भोमुचः ॥६९।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यदुवंशक्षोभणो नाम सप्तदशः सर्गः ॥१७॥ अन्यूनोन्नतय इति ॥ कार्यात् उन्नतत्वात् महत्त्वाच्च गजाम्भोमुचः गजा हस्तिन- एव अम्भोमुचः मेघाः ते काले रणावसरे वर्षन्तः मन्दं क्षरन्तः सन्तः पासून रेणून शम- मानयन् अन्तमनैषुः । मेघा अपि काले वर्षन्तः पांसून अन्तं नयन्ति । किंलक्षणा गजा. अम्भोमुचश्च, अधुना श्लेष:-अन्यूनोन्नतयः अन्यूना महती उन्नतिः उच्छ्रायः येषां ते तथा, अपरं किलक्षणाः अतिमात्रपृथवः नितरां दीर्घाः पृथवो विस्तीर्णाः, अपरं किंलक्षणा- स्ते पृथ्वीधरश्री तः पृथ्वीधराणां श्रियं शोभां बिभ्रति ते तथा पर्वताकाराः, इत्युभयत्रापि तुल्यम् । गजाः कनकावलीभिः कनककल्यानक्षत्रमालाभिः सुवर्णपङ्क्तिभिः सौदामनी- दामभिः विद्युग्रहणविषयाम् (?) उपमां सादृश्यं तन्वन्तः विस्तारयन्तः बिभ्रतः, अपरं किंलक्षणाः उभये उपलसच्छृङ्गारलेखायुधाः उपलसन्ति द्योतमानानि श्लिष्यन्ती शृङ्गार- लेखा गैरिकादिराजिरेव आयुधं येषां ते तथा । विधुत्वन्तोऽपि सलेखायुधाश्च भवन्ति । लेखायुधं सुरेन्द्रधनुः शक्रचापम् । 'लेखा अदितिनन्दना' इत्यमरः । अपरं किंलक्षणाः उभये कालियकायकालवपुषः कालियस्य कालियाख्यस्य नागस्य कायो देहः तद्वत्कालानि कृष्णानि वपूंषि शरीराणि येषां ते तथा, अतिकृष्णमूर्तयः इत्यर्थः । श्लेषालङ्कारः । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ ६९ ॥ इति श्रीशिशुपालवधे महाकाव्ये दत्तकसूनोर्माघस्य कृतौ आनन्ददेवायनिवल्लभदेवविरचितायां सन्देहविषौषध्यां सारटीकायाम् उभयसैन्यसमागमो नाम सप्तदशः सर्गः । अन्यूनोन्नतय इति ॥ अन्यूनोन्नतयो महोच्यायाः अतिमात्रपृथयोऽत्यन्तविपुलाः अत एव पृथ्वीधर- श्रीभृतः शैलशोभाधारण इति निदर्शनालद्वारः । कनकावलीभिरावरणहेतुहेमराजिभिः करणैः । सुदाम्रा पर्वतनै कदिशः सौदामन्यो विद्युतः । 'तैनकरिक्' इत्यष्प्रत्यये डीप् । ताभिर्दामभिरिव सौदामनीदामभिर्वियु. जताभिरुपमा सादृश्यं तन्वन्तः । तडिन्सौदामनी विद्युत्' इत्यमरः । 'अतुलोपमाभ्याम्-'इति सदशवचन- स्यैव निषेधादिह सादृश्यवाचित्वान्तीया । उपलसन्तः शृङ्गाराः सिन्दूरादिमण्डलान्येव लेखायुधानि सुर. धषि येषां ते तथोक्काः। 'शृङ्गारः सुरने नाटये रसे च गजमण्डने । 'लखो लेख्ये सुरे- इति च विश्वः । कालियस्य कालियनागस्य कायवत्कालवपुषः कृष्णदेहाः गजा एवाऽम्भोमुचो मेघाः काले योग्यकाले वर्षन्तो मदाम्बु मुञ्चन्तःपासून शमशन्तिमानयन्मापयन् । रूपकालद्वारः। शार्दूलविक्री वृत्तमुकम् ॥ ६९ ॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथसूििवरचितायां शिशुपालवध- काव्यव्याख्यायां सर्वकुमाख्यायां सप्तदशः सर्गः ॥१०॥ .

सर्गः।] शिशुपालवधे। अष्टादशः सर्गः। सञ्जग्माते तावपायाऽनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ॥ पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा सह्यविन्ध्यो(१) निलेतुम् ॥१॥ सञ्जमाते इतितौ सेनाम्भोधी सैन्यसागरौ रयेण वेगेन सञ्जग्माते दुढौकाते, मिलितावित्यर्थः। किंलक्षणो सेनाम्भोधी अपायाऽनपेक्षौ अपायं नाशं न अपेक्षेते न गणयेते तौ तथा मरणमपि अगणयन्ती, अपरं किलक्षणो सेनाम्भोधी धीरनादौ निर्भयरवौ, मुक्तसिंहस्वनावित्यर्थः। अपरं किलक्षणौ सेनाम्भोधी,उत्प्रेक्ष्येते-पक्षच्छेदात् पूर्व पतत्रच्छे- दनात्प्रथमम् एकत्र देशे एकस्मिन् स्थाने निलेतुम् उपवेष्टुं सङ्गन्तुं वाञ्छन्तौ अभिलषन्तौ सह्यविन्ध्यौ इव सह्याचलविन्ध्याचलाविव गिरिश्रेष्ठाविव सपक्षौ पर्वताविव सङ्गतावित्यर्थः। वाशब्द इवाथें । सजग्माते इति 'समो गम्वृच्छिभ्यामिति। अत्र सगें शालिनी वृत्तम्, म्तो त्गौ गश्चेच्छालिनी वेदलोकैः ॥ १॥ अथाऽनिमसर्गे तुमुलयुद्धवर्णनाय सेनयोर्मेलनं तावदाह- सन्नग्माते इति ॥ अपायोऽपगमो युद्धादपमरणं तस्याऽनपेक्षा तमनिच्छन्ती । युद्धादनिवर्तिनावि- स्यर्थः। ईक्षतः पचायचि नसमासः । धीरनादो गम्भीरघोषी तो सेनाम्भाधी सनातागरौ । पक्षच्छेदात्पूर्व पश्चादसम्भवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । 'लीङ् गती' इति धातोस्तुमुन्प्रत्यये गुणः । वाञ्छन्ता विच्छन्ती सह्यविन्ध्यो वा सह्यविन्ध्याख्या पर्वताविव । 'वा स्यादिकल्पोपमयोः' इति विश्वः । सजग्माते मिलितवन्तौ । संपूर्वान्च्छतेरकर्म काल्लिटि ‘समो गम्वृच्छि-' इत्यादिना आत्मनेप- दम् । अत्र सह्याविन्ध्ययोः सपक्षयोरप्येकत्र मिलनस्याऽप्रसिद्धस्य सम्भावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेनोपमा, किन्तूप्रेक्षेति संक्षेपः । अस्मिन्सर्गे शालिनी वृत्तम् । 'शालिन्युका म्ती तगौ गोऽब्धिलोकैः' इति लक्षणात्॥ तदेव सङ्गतमाह- पत्तिः पत्ति वाहमेयाय वाजी नाग नागः स्यन्दनस्थो रथस्थम् ॥ इत्थं सेना वल्लभस्येव रागादङ्गेनाऽङ्गं प्रत्यनीकस्य भेजे ॥ २ ॥ पत्तिरिति ॥ सेना वाहिनी प्रत्यनीकस्य विपक्षसैन्यस्य रागात् रसात् इत्थमनेन प्रकारेण अङ्गन पदातिना अङ्गं पदात्यादि भेजे सिषेवे, सेना च जवेन सदृशमङ्ग शिश्राय । स्थगजतुरगपदातयः सेनाया अङ्गानि । तमेव प्रकारमाह-पत्तिः पदातिः पत्तिं पदातिम् एयाय, वाजी अश्वः वाहमश्वम् एयाय जगाम,तथा नागः करी नागं करिणम् एयाय प्राप, तथा स्यन्दनस्थः रथस्थः स्थस्थं रथिनम् एयायेति धर्मयुद्ध कथनम् । कस्येव भेजे वल्लभस्येव । यथा कामिनी रागादनुरागाद्वल्लभस्य प्रियस्य अङ्गन ऊर्वादिना अङ्गमूर्वादिकं भजते पत्तिशब्दः औणादिकः । एयायेति आपूर्वस्य इणो लिटि आद्गुणः ॥ २ ॥ सेनाम्भोधी मंजग्माते इत्युक्तं, तत्सङ्गतिप्रकारं तावद्वर्णयति- पतिरिति ॥पत्तिः पदातिः पत्तिं पदातिम् । ‘पदातिपतिपदगपादातिकपदातयः' इत्यमरः । एयाय प्राप । आपूर्वादिणो लिट् । वाज्यश्यो वाहमश्वमेयाय । 'वाजवाहार्वगन्धर्व-' इत्यमरः । नागो गजो नाग. मेयाय, स्यन्दनस्थो रथस्थमेयाय । न- तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीथमुक्तरीत्या सेना रागात् रणरागादतिरागाच्च । अनेन स्वाड्रेन पत्त्यादिना करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्य: नीकस्य प्रतिवलस्य । 'वरूथिनी बलं सैन्यं चकं चाम्नीकमलियाम्' इत्यमरः । अङ्ग पत्त्यादिकं कर. (१) विन्ध्यसयौ।

६३४ सन्देहविषौषधिसर्वकषायुते- [अष्टादशः चरणादिकं च भेजे। यथा कान्ता कान्तस्योरुमूरुणा कर करेण मुखं मुखेन भजति, तथा सेना प्रतिसन्यस्य पत्ति पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते ॥ २ ॥ रथ्याघोषैर्वृहया वारणानामैक्यं गच्छन् वाजिना हेषया च(१) ॥ व्योमव्यापी सन्ततं दुन्दुभोनामव्यक्तोऽभूदीशितेव प्रणादः ॥ ३ ॥ रथ्याघोषैरिति ॥ दुन्दुभीनां ढक्कानां प्रणादो ध्वनिः अव्यकोऽभूत् अस्फुट- आसीत् । दुन्दुभिर्ध्वनतीति निःशंसयं न ज्ञातमित्यर्थः। यतः रथ्याघोषैः स्यन्दनवृन्दची- त्कारैः वारणानां गजानां हस्तिनां बृंहया गलगजितेन,तथा वाजिनामश्वानां हेषया स्वनेन ऐक्यमभेदं गच्छन् प्राप्नुवन् अत एव व्योमव्यापी दिवःस्पृक्,क इव ईशितेव ब्रह्मेव । यथा स हि प्रणादमयो व्योमव्यापी शब्दस्याऽऽकाशे लयात् अव्यक्तः परमात्मस्वरूपत्वात् ऐक्यं शब्दान्तरैर्याति प्राणिभिर्वा जठरे स्वनात् । स्थानां समूहो रथ्या, खलगोरथात् ॥ ३ ॥ रथ्याघोषैरिति ॥ सततं व्योमव्यापी गगनस्पृक् अन्यत्र सर्वगत इत्यर्थः। दुन्दुभीनां रणभेरीणा प्रणादो महाघोषः। 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । रथानां समूहो रथ्या । 'त्रिषु द्वैपादयो रथ्या रथकट्या रथत्रज' इत्यमरः । 'खलगोरथात्' इति यत्प्रत्ययः समूहार्थे । तास घोषैः वारणानां बृंहणः कण्ठघो षैः । 'बृंहणं गजगर्जितम्' इति वैजयन्ती। वाजिनामश्वानां द्वेषया हेषणेन च । 'हषा द्वेषा च निस्वनः' इत्यमरः । 'गुरोश्व हलः' इत्यप्रत्यये टाप् । ऐक्यं मेलनं गच्छन् , अन्यत्र तत्त्वम्पदार्थशो. धनादद्वितीयता गच्छन् ईशिता ईशयिता ईश्वरत्वोपाधिमान् परमात्मेव । ईशस्तृन् । अव्यको भूत् । अयं दुन्दुभिघोष इति दुमदो बभूव । अन्यत्र जीवेश्वरोपाधिविलयादयमीश्वरोऽयं जीव इति भेदरहितोऽभू. दित्यर्थः । अौक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वाकाव्यालङ्गमुपमाऽङ्गमिति सदूरः॥ ३ ॥ क्रोधावेशाद्धावतः प्रत्यमित्रं दूरोरिक्षप्तस्थूलबाहुध्वजस्य(२) ॥ दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पदातस्य(३) भ्रजिरे खड्गलेखाः॥४॥ क्रोधावेशादिति ॥पादातस्य पदातिसङ्घस्य खड्गलेखाः भ्रजिरे असिलताः रेजुः । किंलक्षणस्य पादातस्य क्रोधावेशात् रोपवशात् प्रत्यमित्रं शत्रुसंमुखं धावतः आगच्छतः, अपरं किंलक्षणस्य पादातस्य दूरोत्क्षिप्तस्थूलबाहुध्वजस्य दूरमत्यर्थम् उत्क्षिसः उद्यतः स्थूलः पृथुः बाहुरेव भुज एव ध्वज चिन्हं येन सः तथा तस्य, अत एव किंलक्षणाः खड्ग- लेखाः वैजयन्तीसदृश्यः पताकातुल्याः, अपरं किलक्षणाः तिर्यक् तिरश्वीनाः । पदातीना समूहः पादातं, भिक्षादिभ्योऽण् । भेजिरे इति 'फणां च सप्तानाम्' इत्यभ्यासलोपः ॥४॥ रोषावेशादिति ॥ रोषावेशात् प्रत्यमित्रमभिशपम् । आभिमुख्येऽव्ययीभावः । गच्छता धावतां द्रवत दूरादुरिक्षता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहयो येषां तेषां पादातानां पदातिसमू- हानाम् । 'पादातं पत्तिसंहतिः' इत्यमरः । षिद्भिदादिभ्यो । तिर्यग्दीर्घाः, तिर्यगायता इत्यर्थः। लेखा- इव खड्गाः खड्गलेखा वैजयन्तीसदृश्यः। पताकासदृश्यः सत्य इत्यर्थः। 'वैजयन्ती पताका स्यात्' इत्यमरः। दृशः 'समानान्ययोश्च' इति 'कञ् च वक्तव्य' इति समानशन्दोपपदाद् दृशेः कब्प्रत्ययः। दृवे चेति वक्तव्यम्' इति समानस्य सभाषः(५)। भ्रजिरे रेजिरे । 'भ्राज़ दीती' इति धातोः कतारे लिट् 'फणां च सप्तानाम्' इति विकल्पादेत्वाभ्यासलोपो । आर्थीयमुपम। ॥४॥ - (१) बृंहणे। (२) रोषावेशाद्वच्छता ध्वजानाम् । (३) पादाताना । ' (1) 'अत्र दृश्वशन्दपरत्याभावेनास्य वार्तिकस्योपन्यासो भ्रममूलकः । तस्मात् 'दग्दशवतुषु' इति सूत्रेण सभावो बोध्यः' । इदं 'निर्णयसागर'मुद्रिते पुस्तक समुपलभ्यते ।

सर्गः।] शिशुपालवधे। ६३५ वर्धाऽऽबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्छलन्तः(१) ॥ रोक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥ वर्धाबद्धा इति ।। अश्वीयानां तुरगसमूहानां सैक्माः सौवर्णाः स्थासकाः रेजुः चकासिरे । किंलक्षणाः स्थासकाः, उत्प्रेक्ष्यन्ते-व्यासदेहस्य सर्वाङ्गीणस्य दर्पस्य तेजसो मूर्तिभाजः मूर्तस्य शेषा इव भागाः यथा। किंलक्षणास्ते वर्धाबद्धाः वर्धेषु अग्रिमेषु (?) आबद्धाः योजिताः,अपरं किंलक्षणाः स्थासकाः उच्छलन्तः स्फुरन्त:, किलक्षणानामश्वीयानां धौरितेन गतिविशेषेण प्रयातां गच्छताम् ,अपरं किंलक्षणानामश्वीयानाम् उचकैरुन्नतानाम् । अश्वानां समूहोऽश्वीयम् ॥ ६ ॥ वर्धाबद्धा इति ॥ धौरितन धारिताख्यन गतिविशेषेण प्रयाता धावताम् । यातेर्लटः शत्रादेशः। अश्वीयानामश्वसमूहानाम् । 'केशाश्वाभ्यां यछावन्यतरस्याम्' इति छप्रत्ययः । उच्चकैरुच्चलन्तो गति- पशादूर्ध्वमुत्पतन्तः, वर्धन्ते इति वर्धाणि पर्याणबन्धनवरत्राः । 'वधं पपुवरत्रयोः' इति विश्वः। 'वृधुवाधि- वपिभ्यो रन्' इति रन्प्रत्ययः । लघूपधगुणो रपरः। तेष्वाबद्धाः स्थापिता रैक्माः सौवर्णाः स्थासका: बुबुदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्पस्याऽऽन्तरस्य तेजसः शषाः अन्त- रंमानाद्वहिनिर्गता अतिरेका इव रेजुरित्युन्प्रेक्षा ॥ ५ ॥ सान्द्रस्वक्कास्तल्पलाश्लिष्टकक्ष्या(२) आङ्गी शोभामामुवन्तश्चतुर्थीम् ॥ कल्पस्यान्ते मारुतेन प्रणुनाश्चेलुश्चण्डा(३) गण्डशैला इवेभाः ॥ ६ ॥ सान्द्रेति ॥ इभा द्विरदाः चेलुः प्रतस्थिरे । किंलक्षणाः इमाः सान्द्रत्वक्काः धन. चर्माणः, सान्द्रा त्वक् येषां ते तथा। प्रहारसहा इत्यर्थः । अपरं किंलक्षणाः इभाः तत्पला- प्लिष्टकक्ष्याः तल्पलेन पृष्ठवंशेन आश्लिष्टा कक्ष्या मध्यबन्धनरुक्मरज्जुयेपां ते तथा, अपरं किलक्षणाः इभाः आङ्गी चतुर्थी शोभा कान्तिम् आप्नुवन्तः प्राप्ताः । चत्वारिंशद्वर्ष- देश्या इत्यर्थः । दशवर्षा हि दन्तिनः पुरुषस्यैव(?) चण्डा उग्राः। अपरं किलक्षणाः इभाः कल्पस्य अन्ते प्रलये मारुतेन वायुना प्रणुन्नाः प्रेरिताः गण्डशैला इव स्थूलपाषाणा इव । पर्वतैकदेशा इवेत्यर्थः ॥ ६ ॥ सान्द्रोति ॥ सान्दत्वकाः सान्द्रचर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु आश्लिष्टा: कशाः मध्यबदवरता येषां ते। 'दूष्या कक्षा वरत्रा स्यात्' इत्यमरः। गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति. तत्र चतुर्दशारूढाप्रौढशोभा । तदेवाह-अथ चतुर्थीमाङ्गीं शारीरी शोभामाप्नुवन्तः । चत्वारिंश- द्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपनुन्नाः प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला. इव चण्डं ती चेलुः प्रतस्थिर इत्युपमा ॥ ६॥ सङ्क्रीडन्ती तेजिताऽश्वस्य रागादुद्यम्यारादनकायोस्थितस्य(४) ॥ रहोमाजामक्षधूः स्यन्दनानां हाकारं नु(५) प्राजितुः प्रत्यनन्दत् ॥ ७॥ सक्रीडन्तीति ॥ स्थानाम् अक्षधः स्यन्दनानाम् अक्षस्य अवयवविशेषस्य धूः काष्ठविशेषः अक्षधूः । अनक्ष इतिवचनात् समासान्ताभावः । सा सक्रीडन्ती कूजन्ती सती प्राजितुः सारथेः प्रोत्साहनार्थ हाकारं हाशब्दं प्रत्यनन्दत नु अभ्यनन्दत् नु । नु इति वितकें । मुष्ठुरम्या तेजना कृतेति । प्राजयति तेजयतीति प्राजिता तस्य। किंलक्षणस्य प्राजितुः, रसात् रागात उद्यम्य उद्यम गृहीत्वा तेजिताश्वस्य तेजिताः प्रोत्साहिता अश्वाः तुरङ्गमा (१) सच्चलन्तः।(२) तल्पला"कक्षा । (३) नोपनुनाशेलुबण्डं । (४) म्यारामन । (५) हाहाकार । ।

सन्देहविषौषधिसर्वकषायुते- [अष्टादश:- येन सः तथा, तस्य, अपर किलक्षणस्य प्राजितुः आरात् दूरमत्यर्थम् अग्रकायोत्थितस्य अग्रकायेन पूर्वदेहेन उत्थितः उद्यतः तस्य । पूर्वकायेनोत्थाय हाकारपूर्व तेजितावस्येत्यर्थः। अत एव किंलक्षणानां स्यन्दनानां रहोभाजां जविनाम् । अतश्च सक्रीडनात् ज्ञायते-साधु त्वया योजिताः अश्वाः,रम्यो हाकारः कृतः इति तत्प्राजितारमाह । सङक्रीडन्तीति 'क्रीडो- ऽनुसंपरिभ्यश्चेति तङ् न भवति, 'समोऽकूजने' इति निषेधात् । प्राजितेति 'बलादावार्ध. धातुके वेति इड्भावो विकल्पितः । नु इवाथें ॥ ७ ॥ सङ्क्रीडन्तीति ॥ मक्रीडन्ती सङ्घर्षात्कूजन्ती। 'समोऽकूजने च वक्तव्यम्' इति वचनात्कूजने क्रीडोऽनुसम्परिभ्यश्च' इति नात्मनेपदम् । रहोभाजां वेगभाजा स्यन्दनानां रथानामक्षस्य चक्राधारकाष्ठस्य धूरग्रमक्षधूः। 'अक्षं रथाङ्ग आधारे' इति वैजयन्ती। अनचे इति निषेधात् 'ऋक्पू:-' इत्यादिना न समासान्तः। रागात् भारां प्रतोदमुयम्य नेजिता उत्साहिता अश्वा येन तस्य अयं चासी कायश्च स उत्थितो यस्य तस्य । उस्थितपूर्वकायस्येत्यर्थः । आहिताग्म्यादित्वात्साधुः । प्राजितुः सारथेः । 'नियन्ता प्राजिता यन्ता सूतः सत्ता च सारथिः' इत्यमरः । हाहाकार मुन्साहवर्धनार्थ हाहाशब्दम् । एवकार इत्यत्रैव- ग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः । अथवा हाहाकार हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दतु साधु सावित्यन्वमोदन किमित्युत्प्रेक्षा ॥ •॥ कुर्वाणानां सम्पराया(१)ऽन्तरायं भूरेणूनां मृत्युना मार्जनाय ॥ संमार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताकाः ॥८॥ कुर्वाणानामिति ॥ केतनानां ध्वजानां पताकाः वैजयन्त्यः भान्ति स्म चकासिरे किंलक्षणाः पताकाः, नूनम् उत्प्रेक्ष्यन्ते-मृत्युना यमेन भूरेणूनामुर्वीरजसा मार्जनाय संमार्जनार्थम् उद्धूयमानाः चाल्यमानाः संमार्जन्य इव शोधन्य इव, यतः किंलक्ष- णानां भूरेणूनां सम्परायाऽन्तरायं कुर्वाणानां सङ्ग्रामप्रत्यूहं कुर्वताम् । एतच्च प्राणहरस्य नेष्टम् । मृज्यते साध्यते धूलिः आभिरिति संमार्जन्यः ॥ ८ ॥ कुर्वाणानामिति ॥ उरुन्नता केतनाना ध्वजस्तम्भानां पताका वैजयन्त्यः साम्परायान्तरायं युद्ध- वित्रं कुवार्णानाम् । 'समीकं साम्परायिकम्' इत्यमरः । भूरेणूना मार्जनाय प्रमार्जनार्थ मृत्युनाइतकेनो - यमानाः प्रकम्प्यमानोः संमार्जन्यः शोधन्य इव भान्ति स्म । 'संमार्जनी शोधनी स्यात्' इत्यमरः । नूनमित्युत्प्रेक्षा ॥ ८॥ उद्यन्नादं धन्विभिनिष्ठुराणि स्थूलान्युश्चैर्मण्डलस्त्वं दधन्ति ॥ आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ९ उद्यन्नादमिति ॥ धन्विभिर्धानुष्कैः काममत्यर्थम् उद्यन्नादं प्रसरच्छन्द यथा भवति तथा कार्मुकाणि कोदण्डानि आस्फाल्यन्ते स्म आस्फालितानि धूतानि, हस्त्यारोहैन नियन्तृभिः कुञ्जराणां शिरांसि गजानां मस्तकानि च आस्फाल्यन्ते स्म । किंलक्षणानि कार्मुकाणि हस्तिशिरांसि च निष्ठुराणि कर्कशानि, अपरं किलक्षणानि उच्चैः उच्चानि, अपरं किलक्षणानि मण्डलत्वं दधन्ति चक्राकारत्वं बिभ्राणानि, परिणाहीनीत्यर्थः । आकर्षात्स्वभावाचेति सर्व तुल्यम् । धनुश्वापौ धन्वशरासनकोदण्डकार्मुकामित्यमरः ॥९॥ उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः। ब्रह्मादित्वादिनिः प्रत्ययः । निष्ठुराणि कर्क शानि स्थूलानि पीवराण्युचैरुत्रतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधानानि । एकत्राऽऽकर्षणादन्यत्र स्वभावाचेति भावः। कर्मणि .. (१)साम्पराया। ।

समः ।] शिशुपालवधे। प्रभवन्तीति कार्मुकाणि धनूषि । उकञ् । उपनादनु जम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थ पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हत्यारोहनियादिभिः। कर्मण्यण् । कुन्नराणा शिरांसि आस्काल्यन्ते स्म । उत्माहामिति भावः । अत्र कमुकाणां कुम्नाशिरसां च प्रकृतानामेव निष्ठु- रत्वादिविशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९ ॥ घण्टानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ॥ आमेतीव प्रत्यवोचन गजानामुत्साहाथं वाचमाधोरणस्य ॥ १० ॥ घण्टानाद इति ॥ गजानां मातङ्गानाम् उत्साहार्थ तेजनार्थम् आधोरणस्य हस्ति- पकस्य वाचं वाणीम् अमूनि वस्तूनि आम इति प्रत्ययो चन्निव एवमेव इति ऊचुरिव तस्यैवार्थेऽप्रतीपं जगदुरिव । यस्य किल वाग दायते तन प्रतिवक्तव्यम् । कानि वस्तूनी. त्याह-घण्टानादः किङ्किणीस्वनः, पुनः डिण्डिमानां निस्वनः ढक्कानामारवः, अपर वेयाणामारवः ग्रीवाश्यसलादीनां रणत्कारः, तथा बृंहितानि गजगलर्जितानि । ग्रीवायां भवानि आभरणादीनि घण्टादीनि, 'ग्रीवादिभ्योऽण रेति ढन ॥ १० ॥. घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिघोषः डिण्डिमानां वायविशेषाणां निस्वनः, ग्रीवासु भवानां श्रेयाणां कण्ठशङ्खलानाम् । 'प्रीवादिभ्योऽण चेति ढङ्ग प्रत्ययः । आरवः, बृंहितानि बृंहणानि गजानामुन्साहार्थ- माधोरणम्य हस्तिपकम्य। 'आधोरणा हस्तिपकाः' इत्यमरः। वाचं बृंहणादिशब्दं आमेति पत्यवोचत्रिव एक- मेवत्यनुकूलमूचिर इवेत्युत्भेक्षा । 'आमानुगुण्य स्मरणे' इत्यमरः ॥ १० ॥ यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच ॥ शिक्षाशक्तीः(१) प्राहरन् दर्शयन्तो मुक्ताऽमुक्तैरायुधैरायुधीयाः ॥ ११ ॥ यातैरिति ॥ आयुधीयाः आयुधिकाः शस्त्रजीविनो भटाः मुक्ताऽमुक्तैः आयुधैः प्रहरणैः प्राहरन् प्रहारं चक्रुः । मुच्यन्ते इति मुक्तानि शरादीनि, न मुच्यन्ते गृह्यन्ते इति भमुक्तानि खड्गादीनि, मुक्तानि च अमुक्तानि च मुक्ताऽमुक्तानि तैः । किंलक्षणैः आयुधैः चातुर्विध्यं यातैः चतुःप्रकारत्वं प्रापितः, कस्मात् अस्त्रादिभेदात् अस्त्रापास्त्रव्यस्वमहासादि- भेदात् । अस्त्रं धनुः, तदेव बहिःसन्धानम् अपास्त्रं, व्यस्त्रं परिघं परशुश्व आयुधादि, आ. ग्नेयादि महास्वम्। अस्त्रमपास्त्रं पाशः क्षेपणीयमिति केचित्। अपरं किलक्षणैरायुधैः अव्या. सः अप्रतिहतैः, कुतः-सौष्टवात् सलीलत्वात् अवधानाद्वा, लाघवाचातुर्यात, अत एत्र शिक्षा- शकीः दर्शयन्तः शिक्षा अभ्यासः तस्याः शक्तीः मामानि आविर्भावयन्तः । आयुधेन जीवन्तीत्यायुधीयाः, आयुधाच्छ च । मुष्टु इत्यस्य भावः सौष्ठवम् उद्गात्रादित्वादन ॥ यतिरिति ॥ आयुधेन जीवन्तीत्यायुधीयाः आयुधजीविनः। 'शखाजोवे काण्डपृष्ठ युधियायुधिकाः समाः' इत्यमरः । 'आयुधान्छ च' इति छप्रत्ययः । शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः, अनादिभेदादनमहाना- दिकभेदाच्चातुर्विध्यं यातः प्राप्तः, सुष्ठुभावः सौष्ठवं नैशिन्यादिगुणवत्त्वं तस्मात् । उद्गात्रादित्वादअत्ययः । लाघवाद्वेगवत्त्वाच्च । 'हगन्ताच्च लघुपूर्वात्' इत्य प्रत्ययः । अव्याम लैरप्रतिषिद्धः, मुच्यन्ते इति मुक्कानि शरादीनि, न मुच्यन्ते इत्यमुक्तानि खड्गादीनि च तैस्तैर्मुकाऽमुक्तरिति द्वन्दुः । आयुधैः प्राहरन् । स्वभावा- नुप्रासयोः संमृष्टिः ॥ ११॥ रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रहसैवोपयाती। हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासजेताम् ॥ १२ ॥ (१) शिक्षाशक्ति। ५४ शि०व० .. ..

६३८ सन्देहविपौषधिसर्वरूपायुते- [ अष्टादशः- रोषावेशादिति ॥ बाहुभ्यां प्रहृत्य युद्धं प्रवृत्तं बाहूबाहवि, 'तत्र तेनेदमिति सरूप' इति समासः। इच कर्मव्यतिहारे, 'अन्येषामपीति' दीर्घः। तिष्ठद्गुप्रभृतित्वादव्ययी- भावः । तत्र व्यासजेता लेगतुः व्यासक्तौ, बाहुयुद्धं चक्रतुरित्यर्थः । किं कृत्वा रोषावेशात् क्रोधयोगात् हेतीः हित्वा आयुधानि त्यक्त्वा, अतश्च मल्लवत् मल्लाविव मुष्टिधात मुष्टिना घ्नन्तौ ताडयन्ती, तथा रंहसा जवेन पाणिग्राहं हस्ताव गृहीत्वा आभि- मुख्येन संमुखमुपयाती प्राप्तौ । पाणी गृहीत्वा पाणिग्राह, द्वितीयायां णमुल । मुष्टि- ना हन्यते इति मुष्टिघातं 'करणे हन' इति णमुल, यथाविध्यनुप्रयोगः । व्यासजेतामिति कर्मव्यतिहारे तङ्॥ १२ ॥ रोषावेषादिति ॥ कौचियोधी रोषावेशाद्रोषपारवश्यादाभिमुख्येन रंहसा धेगेनेवोपयाती मिथः प्रत्या- सत्रौ अत एव पाणिग्राहमन्योन्यं पाणिं गृहीत्वा । 'द्वितीयायां च' इति णमुल्प्रत्ययः। ती शस्त्राणि हित्वा त्यक्त्वा । वैकल्यादिति भावः । हतिस्तु शस्त्र द्वयोः' इति केशवः । मल्लवन्मल्लाभ्यां तुल्यम् । 'तेन तु- ल्यम्-' इति पतिप्रत्ययः । मुष्टिघातं मुष्टिभिर्हत्वा । 'करणे हनः' इति णमुल्प्रत्ययः । नन्तो प्रहरन्तौ । हन्तेलटः शत्रादेशः, कषादित्वादनुप्रयोगः । मुष्टिभिनन्तावित्यर्थः । बाहुभ्यां प्रहत्य प्रवृत्तमिदं युद्धं बाहूबाहवि बाहुयुद्धम् । 'तत्र तेनेदमिति सरूप' इति बहुवीही 'इच् कर्मव्यतिहारे' इतीप्रत्ययः समासान्तः । 'अन्येषामपि दृश्यते' इति दीर्घः । तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावत्वादव्ययत्वम् । तत्र व्यासृजेतां व्यासक- बन्ती । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । मल्लवदिति तद्धितगता श्रौती पूर्णोपमा ॥ १ ॥ शुद्धाः सङ्गं न क्वचिस्प्राप्नुवन्तो(१) दूरान्मुक्ताः शीघ्रतां दर्शयन्तः ॥ अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः॥ १३ ॥ शुद्धा इति । सायका बाणाः वाजिताया पक्षवत्वस्य युक्तं चक्रुः सदृशं विदधिरे । वाजाः पक्षा विद्यन्ते येषां ते वाजिनः कथ्यन्ते । भङ्गिभणितेः तुरगसदृशक्रियाः अभूवनि- त्यर्थः । किंलक्षणाः सायकाः वाजिनश्च शुद्धाः जात्या सुषिरोत्पन्नाः, अश्वाश्च काम्बोजादि- देशसमुद्भवाः, अत एव अपरं किलक्षणाः उभये क्वचित् कुत्रापि सङ्ग प्रतिहतिं स्खलनां च न प्राप्नुवन्तः अनासादयन्तः, अत एव अपरं किंलक्षणाः उभये विद्विषां रिपूणाम् अन्त:- सेनं सेनायाः पृतनाया मध्यम् आविशन्तः प्रविशन्तः हतये जयाय च । सेनायाः अन्तः अन्तःसेनमित्यव्ययीभवः ॥ १३॥ शुद्धा इति ॥ शुद्धा निर्विषाः । 'न कणिभिर्नापि दग्धैर्नाग्निज्वलिततेजनः' इति निषेधादिति भावः । अन्यत्र जात्यत्यर्थः । क्वचित्कुत्रापि सङ्ग प्रतिबन्धं न प्रातवन्तः न प्राप्ताः । दुर्वारा इत्यर्थः । दूरान्मुक्का दूरत एव विमृष्टाः । 'स्तोकान्तिकदूरार्थकृन्छाणि केन' इति समासः । 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । शीघ्रता जवनत्वं दर्शयन्तः, विद्विषां सेनास्वन्तः अन्तःसेनम् । विभक्त्यर्थेऽव्ययीभावः । आविशन्तः, मनामध्यं प्रविशन्त इत्यर्थः । सायका बाणाः वाजितायाः पक्षवत्तायाः अश्वत्वस्य च । 'वाजो निःस्वन- पक्षयोः' इति विश्वः। युक्तमनुरूप कर्म चक्रुः । एवंविधसेनाप्रवेशस्य वाजिनामेव सम्भवादिति भावः । अत्राभिधायाः प्रकृतपक्षतामात्रोपक्षीणत्वाद्वाजिताशब्देन प्रकृतस्यैव प्रतीते: ध्वनिरेवेति न श्लेषावकाशः। किन्तु शुद्धादिपदार्थपुञ्जविशेषणगन्या सायकाना युक्तकारिताहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ १३ ॥ आक्रम्याऽऽजेरप्रिमरकाधमुचैराम्थायाऽथो वीतशङ्क शिरश्च ॥ हेलालोला वर्म गत्वाऽतिमत्यं द्यामारोहन मानभाजः मुखेन ॥ १४ ॥ . (१) प्राप्तवन्तो।

सर्गः । शिशुपालवधे। - प्राक्रम्येति ॥ मानभाजः मनस्विनः सुखेन अकृच्छ्रेण यामारोहन दिवमुत्पेतुः, समर- मरणेन तदवाप्त्या । किं कृत्वा आजेः समामस्य अग्रिमं पौरस्त्यं प्रधानं वा स्कन्धं स्क- न्धतुल्यं देशम् आक्रम्य उल्लङ्घ्य, किंलक्षणम् आजेः अग्रिमस्कन्धम् उचैः उचम् , अधा- ऽनन्तरं वीतशङ्ख निर्भयं शिरः आस्थाय अधिष्ठाय जित्वा ततः अतिमत्यं मानुषदुष्प्रापं वर्त्म मार्ग हेलालोलाः विलासबटुलाः सन्तः गत्वा प्राप्य, अतिमानुषं युद्धं कृत्वेत्यर्थः । ततो मृताः सन्तः सुखेन स्वर्गमारुरुहुः । यो ह्युच्च स्थानं मुखेनाऽऽरोढुमिच्छति, स उन्नत- तमं समाक्रामति, ततः याति सोऽतिमानुपं देशम् ॥ १४ ॥ अाक्रम्यति ॥ मानभाजोऽभिमानवन्तः उच्चैम्नतम् आजेयुद्धस्याऽग्रिमस्कन्धमग्रभागमंसप्रदेश नाक्रम्यारुद्य वीतशङ्कं शिरः संमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्ध क्रीडासु लीलासु च लोला- उत्सुकाः सन्त: अतिमय वर्म गत्वा, अमानुषं युद्धं कृत्वत्यर्थः। अन्यत्राऽमानुषगम्यमारोहणमार्ग गन्या सुखनाऽनायासन या वर्गमभ्रङ्कर्ष गिरिशिखरादि क्रांडास्थानम् । 'यौः स्वर्गसुखवर्मनाः' इति विश्वः। आरो. हवारूढाः । 'युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः' इति मनुम्मरणादिति भावः । यथा कथ- ञ्चित्कश्चित् स्कन्धमूर्धारोहणक्रमेण किश्चिद्दुरारोहमद्रितटादकमारोहात तद्वादति प्रतीतोर्वशेषणमाहम्नागता समासोक्तिः ॥ १४ ॥ रोदोरन्धं व्यश्नुवानानि लोलैरङ्गस्याऽन्तर्मापितैः स्थावराणि ॥ केचिद्गुर्वीरेत्य संयन्निषद्याः(१) क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥१५॥ रोदोरन्ध्रमिति ॥ केचित्सुभटाः गुर्वीः दुःसहाः संयनिषद्याः समराऽऽपणान् एत्य प्राप्य प्राणमूल्यैः असुधनैः कृत्वा यशांसि क्रीणन्ति स्म कीर्तीः अक्रोणन् । असून् दत्वा कीर्ति जगृहुरिति भावः । किंलक्षणानि यशांसि रोदोरन्ध्र नभोमहीतलविवरं व्यश्नुवा- नानि व्याप्नुवन्ति, किंलक्षणैः प्राणमूल्यैः लोलैश्चपलैः अस्थिरैः, अपरं किलक्षणैः प्राणमूल्यैः अङ्गस्य अन्तः मापितैः देहस्य मध्ये स्थापितैः, किंलक्षणानि यशांसि स्थावराणि स्थिराणि । महदन्तरम्, लोका हि निकृष्ट विक्रीय उत्कृष्ट क्रीणन्ति । उक्तं च- अनशानि नश्वरी मिर्लभ्यन्ते निर्मलानि मलिनाभिः । तनुभिर्यशांसि धीरैरवसरतुलिताभिस्तुलानि ॥ द्योश्च पृथिवी च रोदसी । निपीदन्त्यस्यामिति निपद्या वणिक्पथः ॥ १५ ॥ रोदोरन्ध्रमिति ॥ केचिद्वीराः गुी महती, संयता युध एव निषीदन्त्यस्यामिति निषयामापणम् । "आपणस्तु निषायाम्' इत्यमरः । 'संज्ञायां समजनिषद-' इत्यादिना क्यप् । एत्य प्राप्य । आइ- पूर्वादिण : कन्वो ल्यप् । दहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नः । मातेर्माको वा ण्यन्तात्कणि का। 'अर्तिद्वी-'इत्यादिना पुगागमः । लोलेस्थिरैः प्राणरेव मूल्यैः प्राणमूल्यै रोदसोर्यावापृथिव्यो रन्ध्रमन्त- रालं व्यश्नुवानानि व्याप्नुवन्ति । अश्नोतेर्लटः शानजादेशः। स्थावराणि स्थिराणि यशासि क्रोणन्ति स्म । स्वीचक्रुरित्यर्थः । अत्र न्यूनः प्रागैस्ततोऽधिकयशःपरिवर्तनाम्न्यूनपरिवृत्तिरलङ्कारः। 'ममन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकापूनः परिवृत्तिरसौ मता' । इति लक्षणात् ॥ १५ ॥ वीर्योत्सेक(२)श्लाधि कृत्वाऽवदानं सङ्ग्रामाऽने मानिनो लजितानाम् ॥ अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ १६ ॥ (१) मेत्य संयविषयो । (२) वायोत्साह।

६४० सन्देहविषौषधिसर्वकषायुते- [ अष्टादशः- .. चोर्योत्सेकेति ॥ मानिनां मनस्विनां नग्नाः मागधाः सयामाऽग्रे रणशिरसि श्रीमत श्रीशब्दाङ्कितं नाम अभिधानं नृपं प्रति श्रावयन्ति स्म। किलक्षणं नाम वोर्योत्सेकरलाधि वीर्योत्सेकाभ्यां बलोत्साहाभ्यां श्लाघ्यते कीर्त्यते तथा, किंलक्षणानां मानिनाम् अव- दानं कृत्वा लजितानाम् अद्भुतं कर्म कृत्वा सञ्जातलजानाम् , अपरं किंलक्षणानां मानिनाम् अत एव अरिभिः शत्रुभिः अज्ञातानाम् अविदितानाम् । अतश्च तन्नामश्रावण युक्तम् साम्प्रतम् । अविकत्थिनां हि महाकर्मकीर्तनमुचितम् ॥ १६ ॥ वीर्योत्साहेति ॥ सङ्घामाने रणाग्रे वीर्योन्साहाभ्यां इलाध्यते इति इलाधि विक्रमाहवारशोमि अवदानं महत्कर्म कृत्वा । 'अवदानं कर्म वृत्तम्' इत्यमरः । लज्जिनाना, मानिन्वात् स्वनामाख्याने मोचवता- मित्यर्थः । शत्रुभिरज्ञातानामज्ञातनामकानां मानिनां मान शालिनां शराणां सम्बन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नम्नाः बन्दिनः । 'बन्दिनि सपणे नग्नः' इति विश्वः । उच्चैः श्राव यान्ति स्म । अयमसाविति कथ- यामासुरित्यर्थः । युक्तं सर्वमेतदुचितमित्यर्थः । अत्र लज्जमानाऽज्ञानयोर्वि शेषणगत्या बन्दिश्रवणहेतुत्वात. काव्यलिङ्गभेदः ॥ १६ ॥ आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ॥ वक्षःपीठरात्सरोरास्मनैव क्रोधेनाऽन्धाः प्राविशन् पुष्कराणि ॥ १७ ॥ प्राधावन्त इति ॥ अन्ये भटा आधावन्तः कोपान्धत्वात् आत्मनैव स्वयमेव तीक्ष्णकौक्षेयकाणां सितखड्गाणां पुष्कराणि कमलानि आत्सरोः मुष्टिं यावत् वक्षःपीः उरस्तटः प्राविशन् प्रविविशुः । किंलक्षणानां तीक्ष्णकौक्षेयकाणां यतः अन्यैरपरैः संमुख धारितानां प्रतिष्ठापितानाम् ॥ १७ ॥ आधावन्त इति ॥ क्रोधेनाऽन्धा अपश्यन्तोऽन्ये भटाः आधावन्तोऽभिमुखमाप तन्तः सन्न: अन्यैः सैन्य. प्रतिद्वन्द्वाभिमुखं धारतानां धृताना तंणकायकाणां निशिनाऽसिनाम् । 'कुलकुशिग्रीवाभ्यः श्वाऽस्यल- द्वारेषु' इति ढकञ्प्रत्ययः । पुष्कराणि फलानि, खड्गमुलानीत्यर्थः । 'पुष्करं तूर्यवक्त्रे च काण्डे खड्ग- कलेऽपि च' इति विश्वः । वक्षासि पीठानीव वक्षःपीटर्वक्षःस्थलैः आत्सरारामुष्टेः । 'त्सरुः खड्गादिमुष्ट स्यात्' इत्यमरः । 'आङ् मर्यादाभिविष्योः' इति विकल्पादसमासः | आमिना स्वयमेव, परप्रयत्नं विनंत्यर्थः । प्राविशन् प्रविष्टाः । अत्र क्रोधान्धविशेषणगत्या पुष्करप्रवेशहेतुत्वाकाव्यालिङ्गभेदः ॥ १७ ॥ मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणाऽयं व्यक्त आसी(१)द्विशेषः ॥ आत्मीयास्ते ये पराञ्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ ॥१८॥ मिश्रीभूते इति ॥ तत्र रणे सैन्यद्वयेऽपि अनीकयुग्मेऽपि मिश्रीभूते ऐक्यं प्राप्ते. ऽपि प्रायेण एष विशेषः भेदो व्यक्त आसीत् प्रकटोs ऽभवत् , यत् आत्मीयाः स्ववर्यास्ते, ये पुरस्तादग्रतः पराञ्चः पराङ्मुखाः। यस्तु अभिमुखः अभ्यावर्ती आगतः, स परः । न कश्चित् तदा पलायामासेति तात्पर्यार्थः । परान् अन्यान् अञ्चन्ति गच्छन्तीति पराञ्चः, क्विप् लोपः, जस् 'उगिदचामिति नुम् ॥ १८ ॥ मिश्रीभूते इति । तत्र युद्ध सैन्ययेऽपि मिश्रीभूते मिलिते सति प्रायेणाऽयं विशेषोऽसाधारणधर्मो व्यकमासीत् । क इत्याह-पुरस्तादने ये पराञ्चः पराङ्मुखाः परेऽपीति भावः । ते आत्मीयाः । अवध्या- इत्यर्थः । 'न भीतं न परावृत्तम्' इति वधनिषेधश्रवणात् । यः पुरस्तादम्यावर्ती परावती संमुखोऽभिमुखः, स्वकीयोऽपीति भावः । अमौ परः शत्रुर्वध्य इत्यर्थः । प्राणलुब्धस्य स्वामिद्रोहित्यादित्यर्थः॥ १८ ॥ . .. (१)ध्यनमासी०॥

सर्गः।] शिशुपालवधे। ६४१ । सद्वशत्वादङ्गसंसङ्गिनीत्वं नीत्वा काम गौरवेणाऽवबद्धा ॥ नीता हस्तं वश्चयित्वा परेण द्रोहं चक्रे कस्यचित् स्वा कृपाणी ॥ १६॥ सद्वंशत्वादिति ॥ कस्यचित् सुभटस्य स्वा कृपाणी आत्मीयैव छुरिका द्रोहं चक्रे मारणं व्यधात् । किलक्षणा कृपाणी परेण अन्येन शत्रुगा वञ्चयित्वा प्रतार्य छलयित्वा हस्त नीता कर प्रापिता। अनसूययैव हननात तद्बोहः कृतः। अपरं किंलक्षणा कृपाणी सदंशत्वात् शोभनाङ्गयष्टित्वात् अङ्गसंसङ्गिनीत्वं नीत्वा कटीसम्पर्क प्रापय्य काममत्यर्थ गौरवेण आदरण अवबद्धा ग्रथिता । वंशस्य मध्ये धारितापि स्वभार्यापि अन्येन वञ्चयित्वा हस्तं नीता सती पत्युोहं कुरुते । सापि सद्वंशत्वात् महाकुलीनत्वात् गौरवेण प्रतिष्ठया शरीरसङ्गं नीता भवति ॥ १९ ॥ सशस्वादिति ॥ सद्वंशत्वाच्छुद्धाकरत्वात्कुलीनत्वाच अङ्कससङ्गिनीत्वमङ्गसम्बन्धिनीत्वं नीत्वा । अगुणत्व- विवक्षायां स्वतलोर्गुणवचनस्य' इति न बद्भावः । काम गौरवेणादरेणाऽवबद्धा संयता च कस्यचित् स्वा स्वकीया कृपाणी अमिलता परेणाम्येन वञ्चयित्वा प्रनार्य हस्त नीता स्वायत्तीकृता सती दोहे हिंसा ज्याभिचारं च चक्रे कृतवती । अत्र प्रकृतकृपाणीविशेषणसाम्यादप्रकृतस्वैरिणीप्रतीतेः समासोक्तिः ॥ १९ ॥ नीते भेदं धौतधाराऽसिपाता(१)दम्भोदाऽऽभे शात्रवेणापरस्य ॥ साऽसृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ २० ॥ नीत इति ॥ अपरस्य योधस्य कङ्कटे कवचे तीक्ष्णमार्गस्य निस्त्रिंशस्य मार्गः पदं लक्ष्यते स्म आलुलोके । तीक्ष्णः तीव्रः दुस्सहः मार्गः पन्था गमनं यस्य सः तीक्ष्णमार्गः । किंलक्षणे कङ्कटे अम्भोदाऽऽभे मेघसदृशे,अपरं किंलक्षणे कङ्कटे धौतधाराऽसिपातात् भेदं नीते धौता संमार्जिता धारा कोटिर्यस्य स धौतधारः, एवंविधो योऽसिः खड्गः तस्य पातः पतनं तस्मात् विपक्षेण भेदं नीते विदारं प्रापिते, विदारिते इत्यर्थः । किलक्षणो मार्गः अत एव अन्तःप्रवेशात् साऽमृग्राजिः कीलालरेखायुक्तः, अमृगराज्या सह वर्तमानः साऽसग्राजिः, अपरं किंलक्षणो मार्गः अत एव विद्युद्दीप्तः तडिभासुरः । अतश्च लक्षणम् । सौदामनीसहितमेघनिभे रुधिरच्छुरितं खड्गधारापदं तनुत्रे प्रत्यभादिति वाक्यार्थः । शत्रुरेव शात्रवः । शितधारत्वादमिः तीक्ष्णमार्गः ॥ २० ॥ नीत इति ॥ शात्रवेण शत्रुणा। प्रजादित्वात्स्वार्थे प्रत्ययः। धौताया उत्तेजिताया धारायाः खड्ग- धाराया अभिघातारेदं नीते विदारतेऽम्भोदामे मेघश्यामे अपरस्य भटस्य कटे कवच । 'उरच्छदः कडू- टकोऽजगरः कवचोऽलियाम्' इत्यमरः। सहाऽसमाज्या सामाजिः सरक्तरेखः तीक्ष्यमार्गस्य खड्गस्य मार्गः प्रहारो विद्युद्दीतस्तडिदुज्ज्वलो लक्ष्यते स्म । उपमालङ्कारः ॥ २० ॥ आमूलान्तात्सायकेनाऽऽयतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ॥ प्राप्याऽसह्या वेदनां त्यक्त(२)धैर्यादप्यभ्रश्यधर्म नान्यस्य पाणेः ॥ २१ ॥ आमूलान्तादिति ॥ अन्यस्य अपरस्य सुभटस्य त्यक्तधैर्याद् अवसन्नादपि पाणे: करात् चर्म फलकं न अभ्रश्यत् अपास्तं न अपतत् । किं कृत्वा त्यक्तधैर्यात् असहां दुःसहां वेदनां पीडामनुभवं प्राप्यापि आसाथ, महतो पीडां प्राप्येत्यर्थः । एतेन अवसाद- कारणमुक्तम् । इदानीं पीडाया अपि तदाह- सति न अभ्रश्यत् आमूलान्तात् . (१)धाराभिघाता। (२) वेदनामस्त ।

६४२ सन्देहविषौषधिसर्वव्यायुते- [ अष्टादश:- - .. । आबुध्नात् आयतेन सायकेण दीघेणेषुणा बाहौ स्यूते भुजे विद्ध सति । कथं तर्हि न अपतदित्याह-किंलक्षणात पाणेः मण्डुकश्लिष्टमुष्टेः मण्डुकेन मध्यस्थचर्मवर्धया श्लिष्टा आलिङ्गिता मुष्टिः सम्पिण्डिताङ्गुलिबन्धो यस्य सः तथा तस्मात् , हस्तवासकसहित. बद्घाडुलीकात्, इति करविशेषणम् । प्राप्येति त्यजिक्रियापेक्षया वकल्यम् । भ्रष्टधैर्या- दिति पाठे समानकर्तृत्वं दुर्घट, भ्रंशे हि धैर्य कर्तृ, वेदनाप्राप्तिस्तु पाणेः ॥ २१ ॥ आमूलान्तादिति । अन्यस्य भटस्य बाहो आयतेन दीपेण सायकेन आमूलान्तान्मूलप्रदेशपर्यन्तम्, आकक्षमित्यर्थः । विकल्पादसमासः । स्यूते प्रोने मति अमाद्या वेदना व्यथा प्राप्य अत एवास्तधैर्यात्त्यक्त- धैर्यादापे धारयितुमक्षमादपि मण्डुके सनाहे क्लिष्टा सन्दष्टा मुष्टियस्य तस्मात्पाणेश्चर्म फलकम् । 'फलको- ऽकी फलं चर्म सङ्घाह। मुष्टिरस्य यः' इत्यमरः । नाऽप्रश्यन्नापतत् । अत्र सायकप्रोतमुष्टिश्लेषयोर्विशेषण- गत्या धैर्यत्यागचर्मभ्रंशी प्रति हेतुन्वात्काव्यलिङ्गभेदः ॥ २१ ॥ भित्त्वा घोणामायसेनाऽधिवक्षः स्थूरीपृष्ठो गार्धपक्षेण विद्धः॥ शिक्षाहेतो!ढरज्ज्वेव बद्धं (१) हतुं वक्र नाऽशकद् दुर्मुखोऽपि ॥ २२ ॥ भित्त्वेति ॥ स्थूरीपृष्टो वाजी दुर्मुखोऽपि वक्त्रं वदनं हतु चालयितुन अशकत न शशाक, मुखकर्मणि अभ्यस्तशिक्षत्वात् । ननु चपलमुखो दुमुखश्चत्तहि कथं वक्त्रं नाहर- दित्याह-किलक्षणः स्थूरीपृष्टः घोणां नासां भित्त्वा विदार्य आयसेन अयोमुखेन दीघेण गार्धपक्षण गृध्रपक्षवता नाराचविशेषेण अधिवक्षः वक्षसि विद्धस्ताडितः स्यूतः । कि- लक्षणं वक्त्रम् , उत्प्रेक्ष्यते-शिक्षाहेतोः मुखकर्मणि शिक्षयितु गाढरज्ज्वा दृढवस्त्रया बद्ध- मिव नद्धं यथा । बद्धो हि न चलति । अयसो विकारः आयसः। गृध्रपक्षसम्बन्धिनः पक्षा वाजा यस्य सः गार्धपक्षः ॥ २२ ॥ भित्त्वति ॥ आयसनाऽयोमयन गा? गृध्रसम्बन्धी पक्ष: पत्रं यस्य तेन गार्धपक्षण बाणविशेषेण घोणा नामां मित्त्वा । 'घोणा नासा च नासिका' इत्यमरः । अधिवक्षो वक्षसि । विभक्त्यर्थेऽव्ययीभाव: । विद्धः प्रहतः । व्यधेः कर्माण कः, 'अहिज्या-' इत्यादिना सम्प्रसारणम् । स्थूरी पृष्ठो नवारूढोऽश्वः, शिक्षव हेतु तस्य शिक्षाहतोः शिक्षया निमित्तेन । शिक्षार्थमिति यावत् । 'षष्ठी हेतुपयोगे' इति षष्ठी । गाढरज्ज्वा गाढ- पाशेन बद्ध इत्युत्प्रेक्षा । दुर्मुखोऽप्यशिक्षितमुखोऽपि वक्त्रं हर्तुमपाक्रष्टुं नाऽशकन शक्तः। शकेलुङ 'पुषादि-' इति च्लेरेङादेशः । शिक्षितो हि शिक्षावशादबद्धोऽपि बद्धवदास्ते, अशिक्षितस्तु निबद्धोऽपि झटिति मुखमपहरतीति भावः । अपिविरोधे । अत एव विरोधाभासोऽलद्वारः ॥ २२ ॥ कुन्तेनाः सादिना हन्तुमिष्टान्नाऽऽजानेयो दन्तिनस्त्रस्यति स्म ॥ कर्मोदार कीर्तये कर्तुकामान् किं वा जात्याः स्वामिनो हेपयन्ति ॥ २३॥ कुन्तेनेति ॥ आजानेयः कुलीनाऽश्वः दन्तिनः गजात् न त्रस्यति स्म न अभैषीत् न पलायाञ्चक्रे इत्यर्थः। किलक्षणात् दन्तिन: सादिनाऽश्वारोहेण कुन्तेन प्रासेन कृत्वा हन्तुमिष्टात् हिसितुं वाञ्छितात् , अपरं किंलक्षणात् दन्तिनः उच्चैः उन्नतात् । न चैतचित्रमित्याह-कीर्तये यशोऽर्थम् उदारं महत् कर्म व्यापारं कर्तुकामान् चिकीर्षुन् स्वामिनः प्रभून् जात्याः कुलीमाः किं हपयन्ति, अपि तु न । उक्तं च- न जानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः । प्रध्वस्तगानाः शस्त्रोधैरपि मृत्युवशं गताः ॥ (१)बदो। .

सर्गः।] शिशुपालवधे। ६४३ .. तावनोन्झन्ति ते प्राणान् यावत्पृष्ठे प्रभुभवेत् । इति । सादी च महत्कर्म चिकीर्षअश्वत्रासादसौ लज्जते । वाशब्दः प्रभाक्षेपे । किंशब्दोऽसम्भावनायाम् । असम्भावनापरश्च प्रश्नपूर्वको विधिः प्रतिषेधतात्पर्येणाऽवग- मयितव्यः । यथा कि देवदत्तः पापानि कुरुते । नैव हपयन्तीति वाक्यार्थः ॥ २३ ॥ कुन्तेनेति ॥ आजानेयः कुलीनाश्वः । 'आजानेयाः कुलीनाः स्युः' इत्यमरः । 'शुभ्रादिभ्यश्च' इति ढक् प्रत्ययः। सादिनाऽश्वारोहण की उच्चैरुनतेन कुन्तेन प्रासेन करणेन हन्तुं प्रहर्तुमिष्टादभिप्रेताद्दन्तिनो न प्रस्थति स्म न वस्तः । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः। तथा हि-जात्याः कुलीनाः । भवार्थे यत् प्रत्ययः । कीर्तये उदारं कर्म महापौरुषं कर्तु कामो येषां तान्कर्तुकामान् । 'तुं काममनोरपि' इति मकार लोप: । स्वमेषामन्तीति स्वामिनो भर्तृन् । 'स्वामिन्नैश्वर्ये' इति निपातः । हृपयन्ति लज्जयन्ति किम् । न दे॒पयन्तीत्यर्थः । 'अर्तिही-' इत्यादिना पुगागमः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यामः ॥ २३ ॥ जेतुं जैत्राः शेकिरे नाऽरिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ॥ नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ २४ ॥ जेतुमिति ॥ अरिसैन्यैः विपक्षकटकैः नागारूढाः मतङ्गजस्था जेहूँ न शेकिरे वशी- कतुं न सोढाः । यतः किंलक्षणाः नागारूढाः जैत्रा जिष्णवः पौरुषान्विताः, अपरं किं. लक्षणा: नागारूढाः गजारूढत्वाल्लोकं सर्वशत्रुपक्षम् अधः पश्यन्तः उनबलमवगच्छन्तः, अपरं किंलक्षणाः अत एव अस्तेषुजालाः क्षिप्तनाराचनिकराः, अपरं किंलक्षणाः अत एव त्रासहीनाः भयवर्जिताः । अपरं किलक्षणाः, उत्प्रेक्ष्यन्ते-त्रस्यते भीयते एभ्यः इति प्रसानि भयप्रदानि, जङ्गमानीत्यर्थः । पार्वतानि गिरिसम्बन्धीनि दुर्गाणि वप्रान् आश्रयन्त इव आश्रयमाणा इव । ये हि दुर्गाणि गैरेयाणि श्रयन्ति, ते त्रासहीनाः जैत्राः क्षिप्तशरा लोकं चाधः पश्यन्तीति ॥ २४ ॥ जेतुमिति ॥ जेतार एव जैत्रा जयशीला: । जेतृप्रकृतेः प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः । लोकं जनमधः पश्यन्तः स्वयमुपयवस्थानालेकमधादेश पश्यन्तः, अधःकृतं मन्यमानान अस्तेषुजाला क्षिप्त शरानिकरा: पासहीना दुर्गस्थत्वानि का नागारूढा गजारोहाः, त्रस्यन्ति गच्छन्तीति प्रसानि जङ्गमानि । 'चरिष्णु जङ्गमचरं पसमिङ्गं चराचरम्' इत्यमरः । पार्वतानि पर्वतसम्बन्धीनि दुर्गाणि । गिरिदुर्गाणीत्यर्थः । प्रपन्तोऽधितिष्ठन्त इत्युत्प्रेक्षा । तेऽप्येवभूना एवेति भावः । अरिसैन्यैः कर्तृभिः जेतुं न शेकिरे। अशक्का बभूवुरित्यर्थः। शके कर्मणि लिट् । अत्र मनु:- 'धुनुर्दुर्ग महीदुर्गमदुर्ग वनमेव च । नृदुर्ग गिरिदुर्ग च समाप्रित्य वन्नृपः ।। सर्वेणैव प्रकारेण गिरिदुर्ग समाश्रयेत् । तेषां हि बहुगुण्येन गिरिदुर्ग विशिष्यते ॥ इति ॥ २४ ॥ विष्वद्रीचीविक्षिपन् सैन्यधीचीराजावन्तः कापि दूरं प्रयातम् ॥ बभ्रामको बन्धुमिष्टं दिद॒क्षुः सिन्धौ वाऽऽद्यो मण्डलं गोर्वराहः ॥ २५ ॥ विश्वद्रीचोरिति ॥ एकः कश्चित् सुहृत् सुभटः आजौ सङ्ग्रामे, रणभुवीत्यर्थः । बनाम इतस्ततोऽटाट्यते स्म । किंलक्षणः एकः यतः क्वापि दूरं कुत्रापि दूरं विप्रकृष्टदेशं प्रयातं गतम् इष्ट वल्लभं बन्धु सुहृदं दिक्षुः ईचिक्षिपुः, किंलक्षणः कश्चित् अत एव विश्व- द्रीचीः सर्वव्यापिनी: सैन्यवीचीः बलोर्मीः विक्षिपन् प्रेरयन् । क इव बभ्रामेत्याह- ..

६४४ सन्देहविषौषधिसर्वकषायुते- [ अष्टादशः- - वाशब्द इवार्थे । यथा गोः मण्डलं भुवः मण्डलं कापि दूरं गतं श्रुडितं दिदृशुः आधः वराह- इव श्रीभगवानिव । यथा स भूमण्डलं द्रष्ट सिन्धौ अन्तः अम्बुधिमध्ये विष्वदीचीः सर्वतः प्रसरमाणाः वीचीः कल्लोलान् विक्षिपन् अस्यन् बभ्राम । विष्वक् समन्तात् अञ्चन्ति यान्तीति विष्वद्रीच्यः, क्विप्, 'विष्वग देवयोश्चेति टेरस्यादेशः, अञ्चतेश्चेति डोप । विष्वद्रीचः इति पाठे वीचिशब्दस्य स्त्रीत्वं दुर्लभम् ॥ २५ ॥ विष्वद्रीचीरिति ॥ एकः कोऽपि वोरः विष्वगञ्चन्तीति विष्वदीची: सर्वव्यापिनीः । 'विष्वग्देवयोश्च रद्यञ्चतावप्रत्यये' इति टेरद्यादेशः । धातोरप्यञ्चतेरुपसलयानात 'उगितश्च' इति ङीप् , 'अचः' इत्यकार- लोपे 'चो' इति दीर्घः । सैन्यानि वीचिरिव सैन्यवीचिरित्युपामतसमासः, सिन्धो वेति लिङ्गात् । विक्षिपनपा. कुर्वन् अन्तरराजिमध्ये क्वापि दूरं प्रयानमिष्टं बन्धु दिदक्षुष्टुमिच्छुः मन् । दृशेः सन्तादुपत्ययः । क्वापि प्रयातं मग्न गो मेमण्डलं भूगोल दिदृक्षुरायो वराहः सिन्धौ वा समुद्दे इव । 'उपमाया विकल्पे वा' इत्य- मरः । आजौ बभ्राम । एकवीरस्य कुतो भयमित्यर्थः ॥ २५ यावश्चके नाऽञ्जनं बोधनाय विस्तारको (१)हस्तिवारी मदस्य ॥ सैन्य(२)स्वानादन्तिनामात्मनैव स्थूलास्तावत्प्रावहन् दानकुल्याः ॥२६॥ यावदिति ॥ हस्तिना गजेन चरतीति हस्तिचारी निषादी मदस्य बोधनाय दान- स्योञ्छनाय यावत् अञ्जनं क्रियाविशेषं न चक्रे नारेभे, तावदेव दन्तिनां गजानाम् आ- स्मनैव स्वयमेव स्थूला दीर्घाः दानकुल्याः मदनद्यः प्रावहन् प्रसनुः । कस्मात् सैन्य- स्वानात् अनीककोलाहलात्। युद्धकाले जनारवाकर्णनादेव कुञ्जराणां मदजलानि रच्यो- तन्तीति । किंलक्षणो हस्तिचारी विस्तारज्ञः विस्तारं मदोत्थानं जानातीति विस्तारज्ञः । हस्तिव्यवहारपण्डित इत्यर्थः ॥ २६ ॥ यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः, इस्तिनि चरतीति हस्तिचारी यन्ता मदस्य बोधनायोत्थापनायाऽञ्जनमुद्दीपनं कर्म यावत्र चके, तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेना- स्वानात , सेनाकलकलश्रवणादित्यर्थः। दन्तिनामात्मना स्यमय स्थूला महन्यो दानकुल्या मदसरितः प्रावह- निति दन्तिनामुत्सहातिरेकोक्तिः । अञ्जनात्प्राक् दानसम्बन्धोनरतिशयोक्तिः ॥ २६ ॥ कध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धाऽवमत्य ॥ घोरारावध्वानिताशेषदिक्के(३)दिक्के नागः पर्यणसीत् स्व एव ॥ २७ ॥ क्रुध्यनिति ॥ कश्चिन्नागः करी स्वे एवं दिक्के निजे एव कलभे पर्यणसीत् निपपात परिणतः । यतः किंलक्षणो नागः अन्यनागाय प्रतिद्विरदाय गन्धात् मदगन्धोपलब्धेः दूरादेव क्रुध्यन रुष्यन् , किं कृत्वा पर्यणसीत् आरोढारं यन्तारम् अवमत्य अवज्ञाय, अत एवं अपरं किंलक्षणो नागः धूतमूर्धा कम्पितमस्तकः, किंलक्षणे दिक्के घोराऽऽरावध्वानिता- ऽशेपदिक्के घोरारावेण रौद्रशब्देन ध्वानिता मुखरिताः अशेषाः सकला दिशः काष्ठा येन सः तथा तस्मिन् । स्वे इति ज्ञातित्वात् सर्वनामसंज्ञाऽभावः । पुत्रो हि कथं न ज्ञातिः । अष्टादशवर्षः करी दिक्क उच्यते । पर्यणंसीदिति, यमरमनमातां सक्च ॥ २७ ॥ क्रुध्यन्निति ॥ दूराद् दूरत एव गन्धा-मदगन्धाघ्राणात अन्यनागाय प्रतिगजाय क्रुध्यन् । तं जिघांसु. रित्यर्थः । 'क्रुधगृह - ' इत्यादिना सम्प्रदानत्वम् । नागो धूनमूर्धा विधूनमस्तकः सन् आरोढार यन्तार- मवमत्याऽवधूय घोरारावैरुणक्रन्दनः वानिता अशेषदिशो येन तस्मिस्तथा । उच्चैराकोशतीत्यर्थः । । (१)ग्युत्थानज्ञो। (२)सेना। (३)विष्के।

सर्गः । शिशुपालवधे। ६४५ शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव, स्वपुत्रे एवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान स्मिन्ना- देशः । अत एव स्वे स्वपुत्रे विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्ल- भोक्तिः प्रामादिकी । विष्के विंशतिवर्षकै डिम्मे। विष्को विशतिवर्षकः' इति बैजयन्ती। पर्यणसीत् । तिर्यक प्रजहारेत्यर्थः । 'तिर्यग्दन्तपहारस्तु गजः परिणता मतः' इति हलायुधः । 'यमरमनमाता सक्च' इति नमलुडि सगिडागमो, 'नेटि' इति वृद्धिप्रतिषेधः ॥ २० ॥ प्रत्यासने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवऋच्छदोऽपि ॥ क्रोधाकान्तकर(२)निर्दारिताक्षः प्रेक्षाञ्चके नैव किञ्चिन्मदाऽन्धः ॥२८॥ प्रत्यासन्ने इति ॥ कश्चिन्नागः पीलुः किञ्चिन्नैव प्रेक्षाञ्चक्रे न किमपि ददर्श । तहि कदाचित् मुखं प्रच्छादितं स्यान्नेत्याह-किलक्षणो नागः यन्त्रा निपादिना प्रास्त- वक्त्रच्छदोऽपि निराकृतवदनाच्छादनवसनोऽपि, अपरं किलक्षणो नागः क्रोधाक्रान्तकर- निर्दारिताक्षः कोपनिर्भरभीषणविवृत्तनयनोऽपि, क्व सति नाऽद्राक्षीदित्याह-प्रातिपक्ष दन्तिनि शात्रवे हस्तिनि प्रत्यासन्ने सति निकटस्थेसति । अत्र प्रतिगजालोकनमेव कारणम् । कथं तहि नक्षतेत्याह-यतः अपरं किंलक्षणो नागः मदान्धः दानपिहितनेत्रः । अत्रापि तदेव कारणम् । अन्योऽपि मदान्धो न किञ्चित् पश्यतीति ॥ २८ ॥ प्रत्यासने इति ॥ प्रातिपक्षे प्रतिपक्षसम्बन्धिनि । 'तस्येदम्' इत्यण । दन्तिनि गजे प्रत्यामने मनि यत्रा सादिना प्रास्तववान्दोऽपि निरस्तमुखपटोऽपि क्रोधाक्रान्तः अन एव कर घोर निरिताम: तथापि मदान्धो नागो गजो न किञ्चिदेव प्रेक्षाञ्चके । किमपि पुरोगतं प्रातिपश्चमन्यदा न ददशेत्यर्थः । आवरणान्तारभावेऽपि मदावरणस्याऽनपायादिति भावः। 'इजादेव गुरुमतोऽनृच्छः' इत्याम्पत्ययः । अत्र अनावृत्तोम्मीलिताक्षस्याप्यदर्शनविरोधस्य मदान्धेनाविरोधाद्विरोधाभासोऽलङ्कारः ॥ २८ ॥ तूर्ण यावन्नाऽपनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ॥ तावत्पूगैरन्यनागाधिरोहः (२)कादम्बानामेकपारसीव्यत् ॥ २९ ॥ तूर्णमिति ॥ निषादी यन्ता वाणस्याऽनेकपस्य चक्षुर्वारणं दृष्टिनिरोधकं वासः मुखच्छदाख्यं यावत् नाऽपनिन्ये न निरास, तावदेव तत्क्षणमेव अन्यनागाधिरोहः प्रति- द्विरदसादी तूणं शीघ्र कादम्बानां पूर्गः शरानां जालैः तद्वासः असीव्यत् मुखलग्नं चकार, इति चातुर्योक्तिः । किंलक्षणः कादम्बोनां पूगैः एकपातैः एकः पातो येषां ते एकपाताः है: सन्ततगामिमिः । अन्यं नागमधिरोहतीति अन्यनागाधिरोहः ॥ २९ ॥ तूर्णामति ॥ निषादी यन्ता वारणस्य गजस्य चक्षुर्वारणं नेत्रावरणं वासो मुखपट यावपूर्ण नाऽपनि-ये नाऽपचकार तावदन्यनागाधिकहः प्रतिगजाधरोहः, एक एककालीनः पाता येषां तैरेकपातैर्युपगत्पातिभिरिति शीघ्रतोकिः । कादम्बानां शराणाम् । 'कादम्बमार्गणशराः' इत्यमरः । पूगैतिरसीव्यत् । चक्षुषा मह तद्वासः स्यूतवानित्यर्थः । सीव्यतेर्लङ् । अत्र चक्षुषः सीवनाऽसम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः॥ २९ ॥ आस्थद् दृष्टेराच्छदं चाऽप्रमत्तो यन्ता यातः (३)प्रत्यरीभ द्विपस्य ॥ मग्नस्योच्चैहभारेण शङ्कोराववाते वीक्षणे च क्षणेन ॥ ३० ॥ प्रास्थदिति ॥ यन्ता हस्तिपकः अप्रमत्तः सावधानः सन् प्रत्यरीभं प्रतिपक्षद्विप- संमुखं यातो गच्छतः द्विपस्य करिणः दृष्टेः आच्छदं नयनयोराच्छादकं मुखपटम् आ. स्थत् विक्षेप, तावदेव उच्चैर्महतः शहोमल्लस्य मग्नस्य बुडितस्य सम्बन्धिना वहभारेण (१) क्रोधाकान्त । (२) धिरूढः। (३) यातुः।

६४६ सन्देहविषौषधिसर्वकषायुते- [ अष्टादशः- .. मयूरपिच्छभारेण तस्य वीक्षणे नयने क्षणेन तत्क्षणमेव आववाते प्यधायिषातां पिहिते च । चशब्दो समुच्चयं ब्रुवाणौ एककालत्वमाहतुः । आस्थदिति 'अस्यतेस्थुक्' इति थुक् । आवबाते इति वृक्षः कर्मणि । शङकुरायुधविशेषः । बहेलाञ्छनः(१) ॥ ३० ॥ आस्थदिति ॥ यस्ताऽप्रमत्तः सन् प्रत्यरीभमरिंगजं प्रति। आभिमुख्येऽव्ययीभावः । यातुर्गन्तु: यातेस्तृन् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः। आस्थनिरस्तवान् । 'अस्यतिवनिख्यानिभ्योऽस्' इनि च्लेरङादेशः, 'अस्यतेस्थुक्' इति थुगागमः । मग्नस्य मुखनिमग्नस्थ शङ्कोः शल्यायुधस्य । 'वा पुंसि शल्यं शङ्कर्ना' इत्यमरः । उच्चैर्बहेभारेण पिच्छपटलेन वीक्षणे चक्षुषी मणेनाऽऽववाते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चयचकाराभ्यामावरणनिरासे पुनरावरणयोरकेकाले सम्बन्धोतरति. शयोक्तिः ॥ ३० ॥ यत्नाद्रक्षन् सुस्थितत्वादनाशं निश्चिन्तोऽन्य(१)श्चेतसा भावितेन ॥ अन्त्यावस्थाकालयोग्योपयोगं दधेऽभीष्टं नागमापद्धनं वा ॥ ३१ ॥ यत्नादिति ॥ अन्यः कश्चित् निषादी नागं दधे गजम् अरुधत् , सङ्ग्रामभुवं न न्यवीविशदित्यर्थः । यतः किंलक्षणं नागम् अन्त्यावस्थाकालयोग्योपयोगम् अन्त्यावस्थायाः चरमदशायाः कालः समयः तत्र योग्यः घटमानः उपयोगः उपयोजनं प्रेरणं यस्य सः तथा तं, तत्रोपकारिणमित्यर्थः । यदाऽहमाभीतो भवेयं तदाऽस्यावसरः। अपरं किलक्षणं नागम् अनाशमक्षयं, कुतः सुस्थितत्वात् निरपायदेशेऽवस्थितत्वात् । किलक्षणो निषादी अत एव निश्चिन्तः निर्भयः, अपरं किंलक्षणः भावितेन चेतसा विश्वासवता चेतसा मनसा यत्नात् रक्षन् आदरात् पालयन् । नूनमवसन्ने याने दुष्करं कर्म न कार्यमिति चेतसो भावना किमिव दः । वा शब्द इवाथें, आपद्धनं वा सञ्चयाऽर्थमिव । यथा कश्चित् भावितेन विश्वस्तेन चेतसा यत्नाद्रक्षन् सन् आपद्धनमापत्कालधनं धारयति न व्ययीकुरुते इत्यर्थः । यतोऽन्त्यावस्थाकाले दरिद्रदशासमये अस्य योग्यः उपयोगः प्रवृत्तिः इति कर्म- धारयः । उपयोगः उपकारः । यदि बहुव्रीहिः, तदा उपयोगस्तु व्यापारः । तदा शोभने स्थाने स्थापितत्वात् अनाशं भवति । अत एवासौ निश्चिन्तः ॥ ३१ ॥ यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वादनपायिदेशत्वादनाशमनपायं निश्चिन्य यत्नाद्रक्षन् वञ्चकेभ्यसायन् (२) सन् अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयो- गम अत एवाऽभीष्टं नाग गजमापद्धनं वा आपद्धनमिव दवे अन्यतोऽपसार्य धारयामास धरतेःस्वारतेत्त्वा- स्कर्तरि लिट् तङ् ॥ ३१ ॥ अन्योन्येषां पुष्करैरामृशन्तो दानोभेदानुच्चकैर्भुग्नवालाः ॥ उन्मूर्धानः संनिषद्याऽपराभिः (३)प्रायुध्यन्त स्पष्टदन्तध्वनीमाः ॥३२॥ अन्योन्येषामिति ॥ इभा हस्तिनः प्रायुध्यन्त प्रकर्षेण युयुधिरे । कथं स्पष्टदन्त- ध्वनि स्पष्टः प्रकटः दन्तध्वनिः रदनशब्दो यत्र यस्यां क्रियायां तथा, किलक्षणाः इभाः पुष्करैः कराय: : कृत्वा अन्योन्येषां परस्परेषां दानोभेदान् मदनुतिमार्गान् आमृशन्तः स्पृशन्तः, इति जातिस्वभावः । अपरं किंलक्षणाः इभाः उच्चैः उन्नताः, अपरं किंलक्षणाः इभाः भुग्नवालाः आकुञ्चितपुच्छाः, अपरं किंलक्षणाः इभाः उन्मूर्धान: उत्क्षिप्त. शिरसः, गात्रमूर्वीकृत्वेत्यर्थः । किं कृत्वा अपराभिः पश्चादागैः संनिषध सम्यक् स्थित्वा३३ . (१) निश्चित्याऽन्य। (२) त्रैडो हित्त्वात्परस्मैपदं चिन्त्यम् । (१) संनिपत्या:परान्तः।

सर्गः।] शिशुपालवधे। ६४७ अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेषाम् । 'कर्मव्यतिहारे सर्वनाम्रो द्वे भवत' इति बनव्याद् द्वित्वम् , समासश्च । 'बहुलम्' इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम्। उद्भि बन्ते एक्विति टड़ेदाः । 'अकर्तरि च कारके संज्ञायाम' इत्यधिकरणार्थे घञ् प्रत्ययः । दान द्दान् कटादिमद- स्थानानि पुष्कर हस्तात्रैः। 'पुष्कर करिहस्ताने' इत्यमरः । आमृशन्तो जिग्रन्त उच्चकैरुन्नता भुमवालाः प्रवीकृतपुच्छाः। 'बालः केश शिशौ मूर्खे वालो वाजीभपुच्छयोः इति विश्वः। उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्टदन्तध्वनि यथा तथा संनिपत्याऽपरान्तः सह प्रायुध्यन्त । दिवादियुध्यतेः कर्तरि ला। स्वभावोक्कि ॥३२॥ द्राधीयांसः संहताः स्थाम(१)भाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।। दन्ता दन्तैराहताः सामजानां भङ्ग जग्मुर्न स्वयं सामजाताः ॥३३॥ द्राधीयांस इति ॥ सामजानां करिणां सम्बन्धिभिः दन्तैः दशनैः आहताः ताडिताः सन्तः दन्ता भङ्ग जग्मुः खण्डनां प्रापुः,न तु स्वयं सामजाताः सामजाः हस्ति. नो अङ्ग जग्मुः भन्नाः,पलायिता इत्यर्थः । सामजाता इति करिणां विशेषणं,न तु दन्ता- नाम् इति । भयर्द्धिसामजग्रहणा(१)दन्ययोरप्येवं स्यात् । दन्तैः आहताः सामजानां दन्ता भन्नाः न तु स्वयमिति। किलक्षणाः दन्ताः सामजा वा, दन्तास्तावत् द्राधीयांसः अतिदीर्घाः स्थूलाः, अपरं किंलक्षणाः संहताः अविरलाः, अपरं किंलक्षणाः स्थामभाजः बल- वन्तः। 'विद्या बलं सह स्थाम द्युन्मेतर शुप्म च,(2)। यदि वा स्थामभाजः स्थिराः दृढाः, अपरं विलक्षणाः चारूदग्राः चारवश्च ते उदग्राश्च चारूदग्राः चारवो रम्यवर्णाढ्याः उदग्राः भीषणाश्च, अपरं किलक्षणाः तीक्ष्णतामत्यजन्तः कर्कशत्वममुञ्चन्तः,सामजाश्च किलक्षणाः द्राधीयांसः अतिशयेन दीर्घाः । 'प्रियस्थिरे'त्यादिना इयमुनि द्वाघादेशः । संहताश्च घण्टा- बन्धात् स्थामभाजः, तथा चारवः उदग्रा भीषणाश्च तथा तीक्ष्णा अकातराः । स्थेमभाज- इति पाठे जयादित्यमतेन स्थिरशब्दस्यापि पृथ्वादित्वादिमनिवि 'प्रियस्थिरे ति स्थादेशः॥ द्राधीयांस इति ॥ द्वाघीयांसो दीर्घतराः। 'प्रियस्थिर-' इत्यादिना दर्घिस्य ईयसुनि द्राघादेशः । संहताः सुघाटताः अत एव स्थेमभाजः स्थैर्यभाजः। 'प्रियस्थिर-' इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदया उन्नताश्च ते चारूदग्राः। विशेषणसमासः । तीक्ष्णता नैशित्यम् अत्यजन्तः मामजाना गजानां दन्ताः दन्तः प्रतिगजविषाणैराहताः सन्तो भङ्ग भेदं जग्मुः बभञ्जः। सामजाताः दन्तिनस्तु स्वयं मङ्गं पराजय न जग्मुः । दन्तभनेऽपि स्वयं न परावर्तन्त इत्यर्थः। अत्राऽपरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुरमेयानां दन्तिनामुपमानदन्तापेक्षया अभनत्वेनाधिक्योक्तेर्व्यतिरेकस्तुल्ययोगिताया बाधक इति गमयितव्यम् ॥ ३३ ॥ मातङ्गानां दन्तसङ्घट्टजन्मा हेमच्छेदच्छायचचाच्छखानः ॥ लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिप्ठेषु व्यज्यते न स्म सैन्यैः ॥ ३४ ॥ मातङ्गानामिति ॥ मातङ्गानां हस्तिनां चामरेषु प्रकीर्णकेषु प्रकाममत्यर्थ लग्नो- ऽपि श्लिष्टोऽपि अग्निः ज्वलनः सैनिकैः सुभटैः न व्यजते स्म नोपलक्ष्यते स्म । किं. लक्षणेषु चामरेषु माजिष्टेषु मजिष्टया समङ्गया रञ्जितपु, रक्तेष्वित्यर्थः । अतश्च सौव- र्णत्वात् अग्नेरपरिज्ञानम् । ननु तत्र वह्निः कुतस्त्यः, तत्राह-किलक्षणोऽग्निः दन्त. सङ्घरजग्मा रदनसम्प्रेषसमुत्थः, दन्तानां सङ्घद्यात् आस्फालनात् जन्म उत्पत्तिर्यस्य सः तथा, अपरं किंलक्षणो वहिः हेमच्छेदच्छायचञ्चच्छिखाऽग्राः हेमच्छेदच्छायानि स्क्मभङ्ग- कान्तीनि चञ्चन्ति स्फुरमायानि शिखाग्राणि ज्वालान्ता यस्य सः तथोक्तः ॥३४॥ (१)स्थेम।

६४८ सन्देहविषौषधिसर्वकषायुते- [ अष्टादश:- .. मातङ्गानामिति ॥ मातङ्गानां दन्तिना दन्तमजन्मा दन्तसथिः हेमच्छेदच्छायानि कनकपराग. वर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वालाग्राणि यस्य मोऽमिः मञ्जिष्टया आषधिविशेषेग रकेषु मा. जिष्टेषु । 'तेन रकं रागात्' इत्याप्रत्ययः । 'मञ्जिष्टा विकला जिङ्गी' इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकाम न व्यज्यते न विविच्यते स्म । सावादिति भावः । अतः सामान्यालङ्कारः । 'सामान्यं गुग. साम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसङ्कीर्णः ॥ ३४ ॥ ओषामासे मत्सरोत्पातवाताऽऽश्लिष्यद्दन्तक्ष्मारहां घर्षणोत्थैः । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योनि नक्षत्रमाला ॥ ३५ ॥ प्रोषामासे इति ॥ वारणानां गजानाम् उच्चैः उच्चे मर्धव्योम्नि शिरोनमसि नक्षत्र. माला अलङ्करणमाला ओषामासे दग्धा । कैः वहिभिर्वैश्वानरैः, किंलक्षणैर्वह्निभिः मत्सरो- त्पातवाताऽऽश्लिष्यदन्तक्ष्मारहां मत्सरः क्रोध एवं उत्पातवातः कल्पान्तकालसमीरण: तेनाऽऽश्लिष्यन्तो मिलन्तो ये दन्ताः रदनाः त एव स्थौल्यात् क्ष्मारहो वृक्षाः तेषां घर्षगं सङ्घट्टनं तस्मात् उत्थैः उदितैः । अपरं किंलक्षणैर्वह्निभिः, वा शब्द इवार्थे, उत्प्रेक्ष्यन्ते- योगान्तै; युगान्ते भवाः योगान्ताः तैः कल्पावसानवतितुल्यैः । यथा उत्पातसमीरण. शिलप्यभृहसम्पेपोत्यैः युगान्ताग्निभिः किल व्योम्नि नक्षत्रमाला तारावलिदह्यते । ओषामासे इति कर्मणि लकारः । 'उपविदेश 'त्याम् , अगुरुत्वात् ॥ ३५ ॥ ओषामासे इनि ॥ मत्सरो धेरैमेवोत्पातवात आकस्मिकवायुस्तेनाश्लिष्यतां संयुज्यमानानां दन्नाना- मेव मारुहां वृक्षाणां धर्पणनोत्था जन्म येषां वाहभिर्योगान्ता युगान्तभवैदिभिरिव वारणानामुच्चैरुत्र- मूधा व्योमेव तस्मिन्मूर्धव्याम्नि नक्षत्रमाला हारविशेषः। 'सेव नक्षत्रमाला स्यात्सप्तविंशतिमौकिकैः' इत्य: मरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । 'उष दाह' इति धातोः कर्मणि लिट् । 'उपविदजागृभ्यो. ऽन्यतरस्याम्' इत्याम्प्रत्ययः । लघूपधगुणः 'कृञ्चाऽनुप्रयुज्यते लिटि' इत्यस्तेश्वाऽनुप्रयोगः । अत्र नक्षत्र- म.लयोरभदाध्यवसायेन निर्देशादूरक श्लेषसङ्कीर्णेयमुपमा ॥ ३५ ॥ सान्द्राऽम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ॥ दन्ताः शोभामापुरम्भोनिधीनां कन्दो दा वैद्रुमा वारिणीव ॥ ३६ ॥ सान्द्राम्भोदेति ॥ सामजानां वृन्दे द्विपेन्द्राणां विसरे दन्ताः दशनाः शोभामापुः बभुः । किंलक्षणे सामजानां वृन्दे सान्द्राऽम्भोदश्यामले घनाघननीले, किंलक्षणाः दन्ताः शोणितेः रुधिरैः शोणिमानं लोहितिमानं नीता आपादिताः, कस्मिन् के हव शोभन्ते इत्याह-अम्भोनिधीनां वारिणि समुद्राणां पयसि वैद्रुमाः प्रवालसम्बन्धिनः कन्दोदेहाः अडकुरा इव । यथा समुद्राणां पयसि विद्रुमाऽङ्कुराः शोभां प्राप्नुवन्ति । श्याम इव श्यामलः । यदि वा श्याम लातीति श्यामलः ॥३६ ॥ सान्द्राम्भोदेति ॥ सान्द्रं च तदम्भोदश्यामलं च तस्मिन् सामजानां गजानां वृन्दे शोणितेः शोणिमान- मारुण्यं नीता दत्ता: अम्भोनिधीनां वारिनधानां वारिणीव विदुमाणा प्रवालानामिमे वैदुमाः । 'विदुमः पुंसि प्रधालं पुनपुंसकम्' इत्यमरः । कन्दो मूलपिण्डः तस्योरेदाः प्ररोहा इव शोभामापुरित्युपमा ॥ ३६ ॥ आफम्प्राप्रैः केतुभिः संनिपातं तारोदीर्णप्रैवनादं वजन्तः ॥ मन्नानगे गाढमन्यद्विपानां दन्तान् दुःखादुरखनन्ति स्म नागाः ॥३७॥ प्राकम्पारिति ॥ नागाः गजाः अन्यद्विपानां प्रतिगजानाम् अङ्गे गाढमत्यर्थ मग्नान बुडितान् दन्तान् दशनान् दुःखात् कृच्छ्रात् उत्खनन्ति स्म उबख्नुः । किंजक्षमाः सर्गः।] शिशुपालवधे । ६४६ . .. नागाः केतुभिर्ध्वजैः सन्निपात संश्लेषं मिश्रीभावं वजन्तो यान्तः, किंलक्षणः केतुभिः आकम्प्रागैः आकम्प्राणि एजमानानि अग्राणि कोटयो येषां ते आकम्पाग्राः तैः चिहै. मिश्रीभावं व्रजन्तः तारोदीर्णौवनादं यथा भवति तारः अत्युच्चः उदीर्णः उत्थितः वाणी ग्रीवाशृङ्खलानां नादः रखो यत्र यस्यां क्रियायां तद्यथा भवतीति । यदा ह्येतेषां केतवोऽन्यो- न्यं सम्बद्धाः, तदा दुःखेन विश्लेषो भवतीति । दन्तानां केतुसन्निपातात् गाढमग्न- त्वाच्च दुरुत्खनत्वम् । जगविख्यातस्योदीर्णशब्दः(१) ॥ ३७ ॥ प्राकम्प्रागैरिति ॥ आकम्पाणि दन्तोखननसंक्षोभाद् भृशं कम्प्राण्यग्राणि येषां नः केतुभिर्ध्वजैः संनि पातं स वजन्त इति दुःखहेतूक्तिः, नागा गजास्तारमुच्चैरुदीर्ण उत्पन्नः प्रवाणा ग्रीवामूत्पन्नानां शङ्खल भूषणादीनां नादो यस्मिन्कणि तत्तथा अन्यद्विपाना प्रतिगजानामङ्गे गाढ मन्नान् अन्तः प्रविष्टान दन्तान्दुःख। दुखनन्ति स्म । तेषां गाढमनत्वात्स्वयं केतुभाराक्रान्तत्वाच्च कृच्छादुजरित्यर्थः । अत्रोक्तभारमजनयो. विशेषणगत्या दुःखोखननहेतुत्वाकाव्यलिङ्गम् ॥ ३७ ॥ उत्क्षिप्योच्चैरस्फुरन्तं (१)रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ॥ शृङ्गप्रोतप्रावृषेण्याऽम्बुदस्य स्पष्टं प्रापत् साम्यमुर्वीधरस्य ॥ ३८ ॥ उत्क्षिप्येति ॥ ईषा स्थकीलिका सा इव तत्तुल्यौ तीक्ष्णौ दन्तो विपाणौ यस्य स ईषादन्तो गजः शात्रवीर्य शत्रुसम्बन्धिनं परकीयं कुञ्जरं हस्तिनं रदाभ्यां विषाणाभ्याम् उचैः अतिशयेन उत्क्षिप्य अवं क्षिप्त्वा स्पष्टं प्रकटम् उर्वीधरस्य पर्वतस्य साम्यं समत्वं प्रापत् लेभे । किंलक्षणं कुञ्जरम् अस्फुरन्तं मृतम् , किंलक्षणस्य उौधरस्य शृङ्गप्रोत. प्रावृषेण्याऽम्बुदस्य शिरःस्यूतवार्षिकवारिदस्य अद्रेः सादृश्यं लेभे । शत्रुरेव शाअधः,तस्यैव शानवीयम् । प्रावृषि भवः प्रावृषेण्यः ॥ ३८ ॥ उन्क्षिप्येति ॥ ६ लाङ्गलदण्डाविव दन्तो यस्य म ईषादन्तो महादन्तो दन्ती । ईप लाङ्गलदण्डः स्यात्' इत्यमरः । प्रस्फुरन्तं प्राणोत्क्रमणदुःखादुल्लसन्तं शाश्वस्येदं शात्रवीयं कुञ्जरं रदाभ्यां दन्ताभ्या उच्चैरुक्षिप्योर्ध्वमुद्यम्य शृङ्गे शिखरे प्रोतः स्यूतः प्रावृषेण्यः प्रावृषि भवोऽम्बुदो यस्य तस्य । 'प्रावृष- एण्य.' इत्येण्यप्रत्ययः । उवीधरस्य गिरेः साम्य सादृश्य स्पष्टं प्रापत् । आमोतेलुङि 'पुषादि-' इति च्लेरेङादेशः ॥ ३८॥ भन्नेऽपीभे स्वे परावृत्य(२)देहं योद्धा सार्ध बीडया मुश्चतेषून ॥ साकं यन्तुः संमदेनाऽनुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥ ३९ ॥ भग्नेऽपीति ॥ केनचित् योद्धा योधेन अनुबन्धी उत्तम्भकः वारणः प्रतिगजः प्रत्यरोधि निवारितः । किं केवलेनेत्याह-कथं निवारितः यन्तुः संमदेन साकं सादिन- उद्धवेन सह । इभे निरस्ते यन्तुरपि हर्षोचितत्वमित्यर्थः । कदाचित् तस्येभो मत्तो भवेदित्याह- सति स्वे इभे निजे गजे भग्नेऽपि पलायितेऽपि सति । कथं तहि अरोधि देह परावृत्य शरीरं परावृत्तं कृत्वा इषून् बाणान् मुञ्चता अस्यता, बीडया सार्ध लजया सह। पलायमाने करिणि लज्जया तानपि स्वयमभग्नत्वात् त्यजतेत्यर्थः । किंलक्षणो वारणः अभीक्ष्णमत्यर्थ दूनः योद्धशरैः पीडितः, अत एव रोधितः ॥ ३९ ॥ भग्नेऽपीति ॥ स्व स्वकीये हमे गजे भनेऽपि देहं स्वाज परावर्त्य प्रतिपक्षाभिमुखमावर्त्य । वृते- य॑न्ताव्यप् । अण्यन्तस्त्वपपाठः, अकर्मकस्य कर्माऽनन्वयात् । बीडया सार्धमिषून्मुञ्चता । इषुमोक्षणेन (१) ः प्रस्फुरन्तं । (२) परावर्त्य । ५५ शि०व० - ..

६५०
सन्देहविषौषधिसर्वरूपायुते-
[ अष्टादशः-
..
स्वगजभङ्गवीडो निरस्यतेत्यर्थः । योद्धा भग्नेभस्थेन भटेन क; अभीक्ष्णं दून इषुभिस्तप्तः । 'ल्वादिभ्यः'
इति निष्ठानत्वम् । अनुबम्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन
हर्षेण सह । 'प्रमदसमदी हर्षे' इति निपातः । प्रत्याध प्रतिरुद्धः। तत्प्रतिरोधेन तत्समदस्थापि प्रातरोध-
व्याप्तरिति भावः । 'साकं साध समं मह' इत्यमरः । अत्र वीडितेषुमोक्षयोः संमदयन्तृप्रतिरोधयोश
कारणयोस्तपावापर्यविपर्ययरूयातिशयोक्या सहभाधान महोक्तिः मर्यिते ॥ ३९ ॥
व्याप्तं लोकैर्दुःखलभ्याऽपसारं संरम्भित्वादेत्य धीरो महीयः॥
सेनामध्यं गाहते वारणः स्म ब्रह्मव प्रागादिदेवोदरान्तः ॥ ४०॥
व्याप्तमिति ॥ कश्चिद्वारणः गजः संरम्भित्वात् क्षोभात् एत्य प्राप्य सेनामध्य
गाहते स्म परसैन्यमध्यं जगाहे व्यलोडयत् । किलक्षणं सेनामध्यं महीयः अतिविस्तीर्ण,
यतः अपरं किंलक्षणं लोकैप्तिं योधः सङ्कुलम् , अपर किंलक्षणं सेनामध्यम् अत एवं
दुःखलभ्याऽपसारं दुःखेन लभ्यः प्राप्यः अपसारो निर्गमो यस्मात् तत्तथा कृच्छ्रप्राप्तव्यनिर्गम,
कथं तर्हि जगाहे, किंलक्षणो वारण: धीरः बलवान् ,क इव ब्रह्मव । यथा प्राक पूर्व कल्पान्ते
आदिदेवोदरान्तः आदिदेवस्य विभोः उदरान्तः कुक्षिमध्यं ब्रह्मा मार्कण्डयो जगाहे । तदपि
सबैलोकैाप्तं दुःखलभ्याऽपसारं महीयश्च । सोऽपि धीरो निर्भयश्च निर्मोहः । अन्त:-
शब्दस्याधिकरणप्रधानता चिन्त्या(?)॥ ४० ॥
व्याप्तमिति ॥ वारणः कांवदन्ती मरम्भिवात्क्रोधित्वात । 'मरम्भः सम्भ्रमे कोपे' इति विश्वः।
धीरो निर्भीकः सन् एत्यागन्य महीयो विपुलं लेकैिजनैः अन्यत्र भुवनश्च व्यातम् । 'लोकम्तु भुवने जने'
इत्यमरः । अतो दुःखलभ्योऽपसारोऽपसरणं यत्र तत्सेनामध्यं प्राक्र पुरा आदिदेवस्य विष्णोः उदरान्त-
रुदराभ्यन्तरं ब्रह्मा स्रष्टव गाहते म्म प्रविवेश । पुरा किल बाह्यं मिमुक्षुब्रह्मा पूर्वसृष्टिदिदृक्षया विष्णोः
कुक्षि प्राविशादनि पौराणिकी कथा । काँचवमा ब्राह्यणा मार्कण्डय इति व्याचक्षते । माऽपि भगवन्माहमा-
ऽवलोकनकौतुकानदनुज्ञया महाप्रलये तदुदरं प्रविश्य बभ्रामेन्यागमः । 'ब्रह्मा विप्रः प्रजापतिः' इत्यमरः।
उपमालङ्कारः ॥ ४०॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ॥
निर्भीकत्वादाहवे नाहतेच्छा हृप्यन् हस्ती दृष्टरोमेव रेजे ॥ ४१ ॥
भृङ्गेति ॥ हस्ती रेजे दन्ती बभौ । किंलक्षणो हस्ती निर्भीकत्वात् त्रासशून्यत्वात्
आहवे सङ्ग्रामेऽनाहतेन्छः नष्टवाञ्छः, तथा यो मत्तत्वात् भृङ्गश्रेगोश्यामभासाम् अलि-
पङ्क्तिश्यामच्छवीनां नाराचानां बाणानां समूहैः स्तोमैः विद्धनीरन्ध्रदेहः विदुः स्यूतो
नीरन्ध्रो निर्विवरः देहः मूर्तिः यस्य सः तथा, अतश्च हृप्यन् प्रीतिं प्राप्नुवन् । किलक्षणो
दन्ती, उत्प्रेक्ष्यते-हष्टरोमा इव कण्टकित इव । नाराचवृन्दानि हृषितरोमस्थानीयानि ।
योऽपि हृष्यति, स हृष्टरोमाऽनाहतेच्छश्च भवति । हृष्टानि हृषितानि रोमाणि तनूरुहाणि
यस्य सः हृष्टरोमा ॥ ४१ ॥
भृङ्गति ॥ भृङ्गश्रेणीव श्यामभासा कृष्णवर्णाना नाराचानामयोमयेषुविशेषाणां समूहैः विद्धो नीरन्त्रो
निर्विधरो देहो यस्य सः तथापि निभीकत्वादाहवेनाहतेच्छ: अव्याहतोत्साहः अत एव हृष्यन् मोदमानो हस्ती
हृष्टरोमेव हर्षात्पुलकित इवेत्युत्प्रेक्षा । 'हृषेर्लोमसु' इति विकल्पादिडभावः ।रेज शुशुभे । 'फणा च सप्ता-
नाम्' इति विकल्पादेत्वाभ्यासलोपौ ॥ ११ ॥
आताम्राऽऽभा रोषभाजः कटान्तादाशत्खाते मार्गणे धूर्गतेन ॥
निश्च्योतन्ती नागराजस्य जझे दानस्याऽऽहो लोहितस्येव धारा ॥४२॥

सर्गः ।] शिशुपालवधे। ६५१ सति । .. प्राताम्राभाइति ॥ आहो आहोस्वित् लोहितस्य रुधिरस्य सावर्ष्यात संशयः कदाचित् धूर्गतेन सादिना कटान्तात् गण्डदेशात मार्गणे नाराचे आशु तूर्णम् उत्खाते निष्कासिते अतश्च यत् द्वयस्यापि सम्भवः हराहतत्वात् रुधिरस्य गण्डसामीप्यात् च मदस्य(?) । जरे इति जनेः कर्तरि तङ् गमहनजने'त्युपधालोपः ॥ ४२ ॥ प्राताम्राभा इति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्तादण्डस्थलानिश्च्योतन्ती प्रागेव सवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाना । आहो धनतेन पुरोगतेन यन्त्रा मार्गणे शरे आशूनखाते लोहितस्य क्षतजस्येव धारा जज्ञ । जनः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरोद्धरणजन्या रक्तधारा वेत्युभयकारणसम्भवात्सादृश्याच्च संशयः, स च पिंकल्पितमादृश्यमूल इत्यलङ्कारः४२ क्रामन् दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ॥ सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्यांच्चैरर्धमार्गाधिरूढः ॥ ४३ ॥ कामन्निति ॥ कश्चिदन्यः सुभटः तत्क्षणात्तदानी सैन्यः सेनिकैः स्वर्गस्य अर्धमार्गा- ऽधिरूढः आशशङके दिवः सामिपन्थानमाश्रितः समभावि । यतः किं कुर्वन् अन्यः साहसिक्यात् साहसिकत्वात दन्तिनः गजेन्द्रस्य दन्तौ दशनौ क्रामन् आरोहन् ,किंलक्षणी दन्तौ उच्चैः प्रलम्बी उच्चौ वा,अपरं किंलक्षणौ दन्तौ मृत्युशय्यातलस्य अन्तकखट्वायाः ईषादण्डौ बाहू इति रूपकम् । ईपादण्डतुल्यौ ईपादण्डावित्यर्थः ॥ ४३ ॥ कामन्निति ॥ मृत्युशय्यातलस्याऽन्तकपर्यङ्करूपस्य । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । ईषा- दण्डौ दारुविशेषो तत्मदृशौ । आयतावित्यर्थः । दन्तिनो दन्ती, सहसा वर्तत इति साहसिकः । 'आजःसहो- ऽम्भसा वर्तत' इति ठक् प्रत्ययः । तस्य भावासाहसिक्यात क्रामन् । साहसवानित्यर्थः। अन्यः तत्क्षणाच- सर्वस्य म्वर्गस्य अर्धश्वास मार्गश्चति तदर्धमार्गाधिरूढ इति संयैराशशङ्के उत्प्रेक्षित इन्युपेक्षा ॥ ४३ ॥ कुर्वन् ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ॥ खड्गाऽऽघातं दारिता(१)इन्तिकुम्भादाभाति स्म प्रच्छलन्मौक्तिकौघः कुर्वन्निति ॥ खड्गाघातं कृपाणप्रहारात् दारितात् पाटितात् दन्तिकुम्भात् करि- शिरःपिण्डात् प्रोच्छलन् निर्गच्छन् मौक्तिकौघः मुक्ताफलनिकरः आभाति स्म रराज । किंलक्षणो मौक्तिकौघः तारः सितः, अपरं किंलक्षणः अत एव ज्योत्स्नाविग्रुपां चन्द्रिका- कणानां तुल्यरूपः सदृशाकारः, अपरं किलक्षणो मौक्तिकौघः प्रोच्छलितत्वात् दिवमाकाशं ताराजालसारामिव कुर्वन् नक्षत्रसमूह किीरां यथा विदधत् । खडगाघातं दारितादिति दन्तिकुम्भविशेषणम् । तत्र खड्गस्य हेतुत्वविवक्षायां 'हिसार्थानां च समानकर्मकाणामिति णमुल । यथा दण्डोपघातं गाः कालयति इति । मामीप्यविवक्षायां 'समासत्ता वित्यनेन यदि तु करणः खड्गादिः स्यात् पूर्वविप्रतिषेधेन 'करणे हन' इत्यनेन णमुल। प्रत्ययादित्वात् यथाविध्यनुप्रयागो भवेत् । असिघातं हन्ति शरघातं हन्तीति ॥ ४४॥ कुर्वन्निति ॥ ज्योत्स्नाविग्रुषां तुल्यरूपः चन्द्रिका बिन्दुम्वरूप: तारः शुद्धः । 'तारो मुक्तादिमंशुद्धी' इति विश्वः । खनापतिर्दारिताहन्तिकुम्भात् प्रोच्छलन्नुत्यतन् मौक्तिकौघो मुक्तापुञा यामाकाशं ताराजाल- सारा नक्षत्रशबलिता तारकितां कुर्वन्नित्युत्पेक्षा । 'सारः शबलपीतयोः' इति विश्वः। आभाति स्म बभौ ॥ दूरोरिक्षप्तक्षिप्रचक्राऽवकृत्तं (२)मत्तो हस्तं हस्तिराजः स्वमेव ॥ भीमं भूमौ लोलमानं सरोषः पादेनाऽसृक्पङ्कपेष पिपेष ॥ ४५ ॥ (१) घातर्दारिता० (२) चक्रेण कृतं ।

६५२ सन्देहविषौषधिसर्वकषायुते- [ अष्टादशा- । . दूरोत्क्षिप्तेति ॥ कश्चित् मत्तो मदवान् हस्ती गजः सरोषः सक्रोधः सन् स्वमेव हस्तं निजमेव शुण्डादण्डं पादेन चरणेन असपङपेष पिपेप असक्पडून रक्तकईमेन पिष्टवा इति असृकपङ्कपेष पिष्टवान् । 'स्नेहने पिष' इति णमुल । किंलक्षण हस्तं भूमौ लोलमान भुवि चेष्टनशीलम् , अपरं किंलक्षणं हस्तं यतः दूरोत्क्षिप्तक्षिप्रचक्राऽवकृत्तं दूरोत्क्षिप्तेन दूरदेशात् निक्षिप्तेन क्षिप्रेण आशुगामिना चक्रेण वलयाकृतिलोहायुधविशेषेण अवकृतं लूनम् , अत एवाऽपर किंलक्षणं हस्तं भीमं भयकारिणम् ॥ ४५ ॥ दूरोन्क्षिप्तति ॥ मनो हस्तिराजः करीन्द्रः दूरादुन्क्षिनन प्रास्तेन अत एव क्षिप्रेण सत्वरेण चक्रेण कृत्तम् अत एव भूमौ ले लमान लुठमानम् । लोलतेरनात्मनेपदिन्वात् 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति ताच्छील्ये चान श् प्रत्ययः । अत एव 'लोलमानादयशानशीनि वामनः । भीमं भयङ्करं स्वं स्वकीय- भव हम्तं मरोष: सन् प'देनाऽधिणा असृक्यतन पट्टीभूतेनाऽमजा पिनष्टीत्यमुक्पङ्कोषम् । 'स्नेहने पिष:' हति णमुल् । पिपेष । करादित्वादनुप्रयोगः । रकपङ्कन स्नेहद्रव्येश ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासम्बन्धेऽपि सम्बन्धोक्ततिशयोक्तिः ॥ ४५ ॥ आपस्काराल्लूनगात्रस्य भूमि निःसाधारं गच्छतोऽवाङ्मुखस्य ।। लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ४६ ॥ श्रापस्कारादिति ॥ नागस्य करिणः भूमिं गच्छतः भुवि पततः सतः स्वमेव आत्मीयमेव दन्तयोर्युग्ममेव विपाणयोर्युगलमेव द्राधीयस्त्वादुत्तम्भनत्वं धारणत्वं प्रापत् । स्वेनैव रदनयुग्मेन तमित्यर्थः । तस्य भुवि पतने हेतुगर्भ विशेषणमाह-कि. लक्षणस्य नागस्य लूनगात्रस्य छिन्नपूर्वकायस्य, किमवधि कुतः आपस्कारात् आजङ्घा- मूलात् । आपस्कारं यावच्छिन्नस्येत्यर्थः । अपरं किंलक्षणस्य नागस्य अत एव निस्सा- धारं निरवलम्बमेव भृमिमवनि(१)पतन्नरोधि गजस्य पूर्वकायः । अपस्कारो जानुमूलम् । केचित्तु किल-गात्रं करमाहुः, तन्मूलं चाऽपस्कारं साधारमवलम्बनम् । आयामो दैर्घ्यम् , उत्तम्भनं धारणम् ॥ ४६ ॥ प्रापम्कारादिति ॥ गात्रमूलमापस्कारम , आपस्कारादाभूलात् । आङो विकल्पादसमासः । लून गावस्य छिन्नजस्य । 'दो पूर्वपश्च जादिदेशी गात्राऽवरे क्रमात्' इत्यमरः । अत एवाग्वाङ्मुखस्य सतः साधार मावलम्बनं न भवतीति निःसाधारं यथा तथा भूमि गच्छतः । पतत इत्यर्थः । नागस्य लब्धायामं प्रप्त- देयम् । आयमित्यर्थः । स्वं स्वकीयं दन्तयोर्युग्ममेवोत्तम्भनत्वमवलम्बनत्वं प्रापत् । जङ्घाच्छेदेऽपि दन्ता- वष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिशयोक्त्याः समायः ॥ १६ ॥ लब्धस्पर्श भूव्यधादव्यथेन स्थित्वा किच्चिइन्तयोरन्तराले ॥ ऊर्वाऽर्धाऽसिक्षुण्ण(२)दन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः॥४७॥ लब्धस्पर्शमिति ॥ अन्येन अपरेण योधेन नागं जित्वा महेभमभिभूय सद्यः तत्क्षणात् उत्तस्थे उत्थितम् । किंलक्षणं नागं भूव्यधात् उर्वीतलाघातात् लब्धस्पर्श मयाऽयं विद्ध इति प्राप्तसुखम् । तस्यायं भावः-यथा एनं भित्त्वा मया भूमिर्विधेति । तत्वतस्तु भुवमेव विद्धवान् । किलक्षणं नागं किञ्चित्पादयोरन्तराले स्थित्वा चरणयोर्मध्ये क्षणम् भासित्वा अर्ध्वार्धामिक्षुण्णदन्तप्रवेष्टम् ऊन ऊचीकृतेन अर्धासिना खड्ग- विशेषेण क्षुण्णाः भग्नाः दारिताः दन्तौ दशनौ प्रवेष्टो बाहुश्च यस्य सः तथा तं, ततस्तं (१) ग्रन्थांशः पतितोऽत्र । (२)च्छिन्न"प्रविष्टं ।

सर्गः।] शिशुपालवधे। ६५३. - : जित्वा उदस्थात् । प्रवेष्टो बाहुः । यदुक्तं भुजः प्रवेष्टश्च दोर्बाहुरिति । गजस्यायं भावः- यथा, मया एन मित्त्वा भूमिविद्धेति भुवमेवाविध्यत् न सुभटम् । केचिनु दन्तयोरधो. भागं दन्तप्रवेष्टमाहुः ॥ ४७ ॥ नब्धस्पर्शमिति ॥ भूव्यधात् । दन्ताभ्यां भुवा विद्धत्वादित्यर्थः। 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । अव्यथेन स्वयमविद्धत्वादव्यथेन सताऽन्येन केनचिद्भटेन दन्तयोरन्तराले किञ्चिल्लन्धः स्पर्शो यस्मिन् कणि तहन्ताभ्यो भटम्पर्श यथा तथा स्थित्वा उर्ध्व प्रसारितेनाऽर्धामिना खड्रैकदेशेन छिन्नः चूर्णितो दन्तपवेष्ट। दन्तवेष्टनं यस्य तं नाग जित्वा सद्य एव उनस्थे उस्थितम् । भावे लिन् । अत्रापि तथोत्थानाद्यसम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः ॥ ४०॥ हस्तेनाऽग्रे वीतभीति गृहीत्वा कञ्चिद्यालः क्षिप्तवानूर्ध्वमुच्चैः ॥ आलीनानां व्योनि तस्यैव हेतोः स्वर्गस्त्रीणा(१)मर्पयामास नूनम् ४८ हस्तेनेति ॥ व्यालो दुष्टगजः कञ्चित्सुभटम् उच्चैः ऊर्ध्व क्षिप्तवान् चिक्षेप किं कृत्वा अग्रे हस्तेन हस्ताग्रेण गृहीत्वा आदाय, किलक्षणं सुभट वीतभीति. गतसाध्वसं, कथं यथा भवति तथा गृहीत्वा नूनमुत्प्रेक्ष्यते--स्वर्गस्त्रीणां देवाङ्गनानां, देवाङ्गनाभ्य. इत्यर्थः। अर्पयामासेव ददाविव । किलक्षणानां स्वर्गस्त्रीणां तस्यैव हेतोः तदर्थमेव व्योम्नि अन्तरिक्षे आलीनानां आगतानाम् । रणे हतान् किल देवाङ्गना अप्सरसो नयन्तीत्यागमः ॥ ४८ ॥ हस्तेनेति ॥ व्यालो दुष्टदन्ती । 'व्यालो दुष्टगजे मर्प' इति विश्वः । अग्रे वीनभीति निकि, भीरा: स्वर्गाभावादिति भावः । कञ्चिद्वीरं हस्तेन गृहीत्वा उर्ध्वमुपयुचैः क्षितवान् । उत्प्रेक्ष्यत-तस्यैव हेतोस्तन व हेतुना । तद्धरणार्थमेवेत्यर्थः । 'सर्वनाम्नस्तृतीया च' इति चकाराषष्ठी । व्याम्नि आसीनानामवस्थिताम् । 'ईदासः' इति शानच ईकारः । स्वर्गस्त्रीणाममरनारीणामर्पयामास नूनम् ॥ ४८ ॥ कञ्चिद् दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसाऽन्तः क्षतेन ॥ हस्ताग्रेण प्राप्तमप्यग्रतो(२)ऽभूदानैश्चर्य वारणस्य ग्रहीतुम् ॥ ४९ ॥ कश्चिदिति ॥ वारणस्य गजेन्द्रस्य कञ्चिद्भट दुरात् दूरं प्राप्तमपि लब्धमपि अग्रतः पुरस्तात् हस्ताग्रोण करायेण ग्रहीतुमादातुम् आनैश्वर्यमभूत् असामर्थ्यमासीत् । आदातुं न शशाकेत्यर्थः । किलक्षणेन हस्ताण आयतेन दोघेण, अपरं किलक्षणेन अन्तः क्षतन मध्ये हिसितेन, कुतः किलक्षणेन द्रढोयःप्रासप्रोतस्रोतसा ढीयसा अतिदृढेन प्रासन कुन्तेन प्रेतं विद्धं स्रोतः विवरं यस्य तत्तथा तन । स हि योधं दूरादानीय अग्रे क्षिप्त्वा यावत् हन्तुमादित्सति, तावत् कुन्तेन अस्य करं स्रोतोद्वयम् आयतेन पृथुलेनेति दूराप्राप्तिः(?) । अनीश्वरस्य भावः आनैश्वर्यम् । 'नजः शुचीश्वरक्षेत्रज्ञ-' इत्युभयपद- वृद्धिः । अग्रादग्रतः ॥ ४९ ॥ कञ्चिदिति ॥ दूरादायतेनाऽन्तः क्षतेन विक्षतेन अत एव ढीयसा प्रासन प्रोतं स्रोतो यत्र तेन हस्ता- ग्रेण करणेन अग्रतः प्राप्तमपि कञ्चिद्भट ग्रहीतुमादातुं धारणस्य, अनीश्वरस्य भाव आनेश्र्वयमसामर्थ्यमभूत् । 'नञः शुचीश्वर-' इत्यादिना नपूर्वपदोभयपदवृद्धिः । अत्रापि आनेश्वर्यसम्बन्धोतरनिशयोक्तिः ॥ १९ ॥ तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन ॥ दिव्या मूर्तियोमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ ५० ॥ । .. ॥ (१) आसीनाना...दिव्यत्रीणा० । (२) मेवाग्रतो ।

६५४ सन्देहविषौषधिसर्वकषायुत्ते- - [अष्टादशः- तन्वा इति ॥ कस्यचित् पुंसः पुरुषस्य योधस्य गजेन द्विपेन स्फोटितायाः उत्क्षि- प्य पाटितायाः तन्वाः वामः उत्पतन्ती निस्सरन्ती दिव्या मूर्तिः आत्माख्या भोगतनुर्वा विस्मितैः सकौतुकैः व्योमगैर्नभश्वरैः वीक्षामासे ददृशे । केन कुतः किमिवेत्याह- नन्दगोपात्मजायाः नन्दनामगोपालदुहितुः योगमायायाः तन्वाः देहात् कसेन औगसेनिना स्फोटितायाः उत्क्षिप्य दृषदि आस्फालिताया उत्पतन्ती भगवती चण्डिका निद्राख्या व्योमगैः पूर्वमैक्षि यथा । एवं ह्यागमः पुरा नारद आगत्य कंसमाह-यथा, वसुदेवा- त्मजात् तव मृत्युभविष्यतीति उक्त्वा तिरोदधे । ततश्च कंसः देवक्याः षट् गर्भान जघान। अथ भगवानारायणः देवक्यामवतितीर्युर्योगमायामाहूयाह, तद्यथा- नन्दगोपात् यशोदाया गर्भ त्वं च यथासुखम् । देवक्यां वसुदेवात्तु जायेऽहमपि तत्त्वतः ॥ अहं यशोदां यास्यामि त्वं तथा देवी भज ॥ आवयोः स्थानव्यत्यासात् कसो यास्यति मूढताम् । ततस्त्वां गृह्य चरणे शिलायां निरसिष्यति ॥ निरस्यमाना गगने स्थान प्राप्स्यसि शाश्वतम् ॥ इत्यादि ॥ ५० ॥ तन्वा इति ॥ गजेन स्फोटिताया विदारितायाः पुंसः कस्यचिद्वीरस्य तन्वाः शरीरात कसेन स्फोटितायाः नन्दगोपात्मजाया नन्दकन्याया इवोत्पतन्ती दिव्या मूर्तिः चण्डिकेव नन्दकन्याशरीरादाविर्भवन्ती कालिकेव विस्मितोमगः खेचरैक्षिामासे वीक्षिता। ईक्षतेः कर्मणि लिट् । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम् प्रत्ययः । मनुष्यभावमुत्सृज्य देवभाव गतेत्यर्थः । उपमा व्यक्ता । पुरा किल दुरात्मनः कंसस्य प्रतारणाय भगवदाज्ञया तन्मायाशतिर्नन्दगोपाज्जाता कंसन हिसितेति पौराणिकाः॥५०॥ आक्रम्यैकामनपादेन जङ्घामन्यामुच्चराददानः करेण ॥ साऽस्थिस्वानं दारुवहारुगात्मा कश्चिन्मध्यात्पाटयामास दन्ती ॥५१॥ प्राक्रम्येति ॥ दन्ती गजः कञ्चित् सुभटं मध्यात् मध्यभागात् पाटयामास व्यदा- रयत् । किंवत् दारुवत् काष्ठं यथा, कथं व्यदारयत् साऽस्थिस्वानम् अस्थिस्वानेन सह वर्तमानम् अस्थिशब्दसंयुक्तं यथा भवत्येवं,किंलक्षणो दन्ती दारुणात्मा अतिदुष्टान्तःकरणः, किं कृत्वा व्यदारयत् एकां जवां स्फिजम् अग्रपादेन पादाग्रेण आक्रम्य अवष्टभ्य, अपर किंभूतः अन्यामपरां जवां करेण शुण्डादण्डेन आददानः गृहुन्, किलक्षणेन करेण उचैः अतिमहता ॥५१॥ आक्रम्यति ॥ दारुणात्मा क्रुद्धचित्तो दन्ती एका जङ्घामप्रपादनाक्रम्य अन्या जङ्घामुच्चैरुन्नतेन करणा- ऽऽददान आकर्षयन साऽस्थिस्थान भज्यमानाऽस्थिचटचटाशन्दयुकं यथा तथा कञ्चिद्वारं दारुवकाष्ठवत् मध्यात्पाटयामास । मध्यं विभज्य पाटयामासेत्यर्थः । ल्यग्लोपे पञ्चमी । उपमा ॥ ५५ ॥ शोचित्वाऽग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ॥ पूर्व कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथाऽन्तः ॥ ५२ ॥ शोचित्वेति ॥ कस्यचित्स्वामिनो द्वौ सेवको वतेंते । तयोर्मध्ये एकः वाल्लभ्यालब्ध- प्रसादः,अपरश्च असंमतः। तदने च तौ द्वावपि प्रमीतौ अभूताम् । तदा तस्थिति कथयति- सर्गः।] शिशुपालवधे। ६५५ अर्यः स्वामी द्वयोः भृत्ययोः पुरोऽने मृत्युभाजोः मृतयोः सतोः शाचित्वा रुदित्वा वल्लभस्य प्रियस्य सेवकस्य प्रेम्णा हाईन अन्तः हृदये तथा तेन प्रकारेण दाहं न जाप दुःखं न लेभे। तथा कथं, यथा येन प्रकारेण इतरस्याऽसंमतस्य सेवकस्य पूर्व प्रसादमकृत्वा आदौ वेतनमदत्वा पश्चात्तापादनुशयात् दाहं तापमाप तताप । कष्टमसमतोऽसौ ममार इति भावः । अत्र कुरुते इति सम्बन्धः तेनापि प्रसादस्याऽप्रसादं कृत्वेत्यर्थः(?)। 'स्यादर्यः स्वामिवैश्ययो रित्यमरः ॥ १२ ॥ शोचित्वति ॥ ऋच्छतीत्यर्य: । 'अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोमरणं गतयो त्ययोः शोचिन्वा वल्लभस्थतयोर्मध्ये प्रियभृत्यस्य सम्बन्धिना प्रेम्णा। ततप्रेम्णे- त्यर्थः । तथा तेन प्रकारेणाऽन्तर्दा सन्तापं नो आप । यथा यन प्रकारेणेतरस्याऽवलभम्य पूर्व जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापात् 'हतोऽयमस्माभिरपीणित एव प्राणान् प्रादा'दित्यनुशयाहाह- माप । प्रियभृत्यमरणादप्यसमानितमरणमेव स्वामिनो दुःमहम् । दुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः ॥५२॥ उत्पत्याऽऽरादर्धचन्द्राऽवलूने वक्त्रेऽन्यस्य क्रोधदष्टाधरोष्ठे(१) ॥ सैन्यैः कण्ठच्छेदलीने कबन्धाद् भूयो बिभ्ये वल्गतः साऽसिपाणेः॥५३॥ उत्पत्येति ॥ सैन्यैः सैनिकैः भूयः अतिशयेन पुनरपि वा अन्यस्यापरस्य कबन्धात् अपमूर्धकलेवरात् बिभ्ये भीतम् ,ततः खड्गप्रहरणमाशङ्कितम् । स्वस्थात् किल तस्मात्तैरादौ भीतम् इति भूयःशब्दार्थप्रतीतिः। कदा बिभ्ये अन्यस्य भयात् आरात् समीपे वक्त्रे वदने अर्धचन्द्राऽवलूने अर्धचन्द्रेण चन्द्रार्धाकारनाराचेणाऽवलूनं छिन्नं कृत्तं तस्मिन् सति, अत- एवोत्पत्य तदीयकण्ठच्छेदार्थ लीने संश्लिष्टे, किंलक्षणे वक्त्रे क्रोधदष्टाधरोष्ठे क्रोधेन कोपेन दष्टौ दन्तैर्गृहीतौ अधरोष्टौ ओष्ठाधरौ यत्र तत्तथा तस्मिन् । कोपाद्दशनैः ओष्टं विदश्य कबन्धस्योपरि स्थित इत्यर्थः । किंलक्षणात् कबन्धात् सासिपाणे: साऽसिः सखड्गः पाणिः करो यस्य सः साऽसिपाणिः तस्तात् खड्गहस्तात् , अपरं किंलक्षणात् कबन्धात् वल्गतः वल्गनां कुर्वाणात्, वल्गति इति वल्गन् तस्मात्, नृत्यत इत्यर्थः । अतश्च सैनिकैराशङ्कितं, यत् किमयं भूयोऽप्यस्माकं कदनं कुर्यादिति ॥ ५३ ॥ उत्प्लुत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिने तथापि क्रोधेन दष्टौ ओटी यैस्ते दन्ता यस्य तस्मिन् अन्यस्य योधस्य वक्त्रे आरादनतिदूरमुत्प्लुत्य । 'आराद् दूरसमीपयोः' इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः साऽसिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । 'भीत्रार्थानां भयहेतुः' इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लूनस्यापि वक्त्रस्य पुन: स्वस्थान- पातित्वाद्वल्गनाऽसिधारणाभ्यां कबन्धादप्यकबन्धभ्रान्त्या सर्वे बिभ्यरित्यर्थः । अत एव भ्रान्तिमदलङ्कारः ॥५३॥ तूर्याऽऽरावैराहतो(२)त्तालतालगायन्तीभिः काहलं काहलाभिः ॥ नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन् कम्बुरुच्चै हास ॥ ५४॥ तूर्यारावैरिति ॥ कम्बुः शङ्खः उच्चैः 1: तारं कूजन् ध्वनन् सन् जहास अहसत् इव इत्युत्प्रेक्षा । हसने हेतुमाह-कदा जहास क्व सति काये कबन्धे नृत्ते नर्तितु प्रवृत्ते सति, कैः सूर्यारावैः वादिध्वनिभिः, किंलक्षणैः तूर्यारावैः आहतोत्तालतालैः आहता आच्छादिता जिता वा उत्ताला अत्युदीना: तालाः कालक्रियामानकर्तारः यैस्ते तथा तैः, अपरं काभिः नृत्ते सति काहलाभिः ताम्रकर्णकटुमुखवाद्यविशोपैः, किंलक्षणाभिः काहलाभिः काहलं परुषं (१) उत्प्लुत्या "चन्द्रेण लूने "दष्टोष्ठदन्ते । (२) राहितो। .. .

६५६ सन्देहविषौषधिसर्वकषायुते- [ अष्टादशः- - प्रत्या . भीषणं वा गायन्ताभिः गानमिवा कुर्वन्तीभिः, कथं नृत्ते चक्षुःशून्यहस्तप्रयोगं चक्षुःशून्यः दृष्टिरहितः हस्तप्रयोगः कराभिनयः यत्र क्रियायां तद्यथा। यदि किल दृष्टयननुगतं नृत्य स्यात्तदा परुषमुल्बणतालं च गीयते, तदा पार्श्वस्था हसन्तीति ॥ १४ ॥ तृगवैरिति ॥ आहिन : सम्पादिना उत्तालः प्रस्फुटास्तालाः करपुटादिक्रियामानानि येषु तेः । 'ताः कालक्रियामानम्' इत्यमरः। तूरावैर्मृदङ्गादिवायघोषस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैद्यावशेषश्च कारणैः । 'काहलं भृशशुष्कयोः। वायभाण्डविशेष तु काहल: काहला खले' । इति विश्वः । काये अामूनि कलेवर । अत एव चक्षुःशून्यो दृष्टिरहितः हस्तप्रयोगो यस्मिन् कर्मणि तत्तथा नृने नत्यति सति । कर्तरि कः। कूजन् वनन् कम्बु शलः । तटस्थ इवेत्यर्थः। उच्चैस्तारं जहास) दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादहासमकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा। 'अनेरालापयेदांत हम्तेनार्थ प्रदर्शयेत् । दृष्टिभ्यां भावयद्भावं पादाभ्यां तालनिर्णयः ॥ इति नाट्यविदः॥ ५४ ॥ भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् ॥ एकौधेन स्वर्णपुखैद्विषन्तः सिद्धा माल्यः साधुवादद्वयेऽपि ॥ ५५ ॥ प्रत्यावृत्तमिति ॥ द्विपन्तः शत्रवः स्वर्णपुङ्खः कनकपुखः शरैः, तथा सिद्धा नभश्चरह दवविशेषाः माल्य कुसुमैः कृत्वा एकौघेन एकप्रवाहन, सह मिलितैस्तरित्यर्थः । कञ्चि- त्सुभटम् आकिरन्ति स्म आचकरुः आच्छादयन्ति स्म । द्वयेऽपि सर्वेऽपि द्विषन्तः सिद्धाश्च माधुवादः : साधु साधु इति वचनैः प्रोत्साहनाभिः तम् आकिरन्ति स्म वर्षन्ति स्म। त प्रत्यूचुरित्यर्थः । किंलक्षणैः स्वर्णपुखैः माल्यैः साधुवादैश्च तुल्यं मुक्तर्युगपर्दारितैः, किमर्थमाकिरन्ति स्मेत्यत आह-यतः किंलक्षणं सुभ स्वसैन्ये निजकटके भगभाजि भग्ने पलायत्यपि(?) सति प्रत्यावृत्तं प्रतीपमागतम् । युद्धाय संमुखावस्थितमित्यर्थः ॥ ५५ ॥ प्रत्यावृत्तमिति ॥ स्वसैन्ये भङ्गभाज मति प्रत्यावृत्तमभ्यमित्रं कश्चिद्रीरं तुल्यमेककाल मुक्कैः स्वर्ण- पुः शरविशषैः एकौघेन एकप्रहारेण द्विषन्तः आकिरन्ति स्म । सिद्धाः वचगः मान्यदिव्यमालाभिः । चातुर्वण्यादित्वात्ध्यप्रत्ययः । आकिरन्ति स्म । द्वयेऽपि विपन्नः सिद्धाश्च माधुवादः साधु साविति वाक्य- राकिरन्ति स्म । एतचिनयमपि युगपत्प्रवृत्तमित्यर्थः । अत्र स्वर्णपुङ्खसुरमाल्यसाधुवादानां प्रकृतानामव तुल्य- कालेकौघप्रवृत्तिसाम्यादीपम्यावगमाकेवलप्रकृतास्पदा तुल्ययोगिता ॥ ५५ ॥ बाणाऽऽक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् ॥ संरब्धानां भ्राम्यतामाजिभूमौ वारी वा : सस्मरे वारणानाम् ॥ ५६ ।। बाणाक्षिप्तेति ॥ वारणानां वारैः पीलूनां समूहैः वारी सस्मरे स्मर्यते स्म । वार्यन्ते गृह्यन्ते गजा यया सा वारी बन्धनस्थानं स्मृतम् । 'वारी च गजबन्धनमित्य- मरः । वारीस्मरणे कारणमाह-किलक्ष णानां वारणानां बाणाक्षिप्तारोहशून्यासनानां बाणैः आक्षिप्ताः पातिता आरोहा सादिनः येषां तानि बाणाक्षिप्तारोहाणि शरप्रक्षिप्तसादीनि अत- एव शून्यानि अपुरुषाणि आसनानि पर्याणानि येषां ते तथा तेषां शरनिरस्तसादिरहित- पर्याणानाम् , अपरं किंलक्षणानां वारणानाम् अन्यसैन्यैः परबलैः ग्रहीतुं प्रक्रान्तानां बद्ध ..

सर्गः ।]] शिशुपालवधे। ६५७ .. प्रस्तुतानाम् ,अत एव अपरं किंलक्षणानां वारणानां संरब्धानाम् क्षुभितानाम् ,अपरं किंलक्ष- णानाम् वारणानाम् आजिभूमौ भ्राम्यताम् आयोधनोयो पलायमानानाम् । वार्यामपि वा ते संरब्धाः वनभुवि भ्राम्यन्तो भवन्ति। यतोऽन्यजिघृक्षिताः वने यथा वारोहशून्याः अटव्याम्(?)। यत्रेभा बध्यन्ते सा वारी । 'उसिवसी ति कः,'कृदिकारादिति ङीपू । सस्मरे इति कर्मणि५६ बाणाक्षिप्तति ॥ बाणैराक्षिप्ताः पातिता आरोहाः मादिनो येभ्यस्तानि अत एव शून्यानि रिकान्यास- नानि आस्तरणानि येषाम् , अन एवान्यैः मैन्यैः परमैनिकम्रहीतुं प्रक्रान्तानामारब्धानाम् । ममन्तादवरुध्य. मानानामिन्यर्थः । अत एव मंरब्धानां क्षुभितानाम् अन एष आजिभूमौ भ्राम्यतामवतिष्टमानानां वार- गाना वारवृन्दैः वारी बन्धनस्थानम् । 'वारः सूर्यादिदिवमे वारो वरणवृन्दयोः । वारी कटीभबन्धन्यो:- इति विश्वः । मस्मरे स्मृता । तद्धर्मयागादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या धारीमरणहेतुन्वात्कायलिङ्गम् ॥ ५६ ॥ पौनःपुन्यादरगन्धेन मत्तो मृद्नन् कोपालोकमायोधनोाम् ॥ पादे लग्नामन्त्रमाला(१)मिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७ ॥ पौनःपुन्यादिति ॥ कश्चिदिभेन्द्रः द्विपराजः पादे लग्नां चरणे संश्लिष्टाम् अन्त्रमालां पुरीतत्स्रजम् आचकर्ष आकृष्टवान् । किलक्षणः इभेन्द्रः अनगन्धेन मत्तः रुधिरपरिमलेन मदिष्टः, अपर किंलक्षणः इभेन्द्रः अत एव आयोधनोया रणभुवि लोकं सैन्यजनं पौनः- पुन्यात् असकृत् मृदनन् आस्कन्दन् , किंलक्षणाम् अन्त्रमालाम् आयतां दीर्घाम्, अपर किलक्षणाम् , अन्त्रमालां पाशीकल्पां रज्जुतुल्याम् । ईपदपरिसमाप्ता पाशी पाशीकल्पा । अयःशृङ्खला हि करिणां पादे बध्यते ॥ १७ ॥ पौनःपुन्यादिति ॥ अत्र आयोधनाया युद्धभूमी पौन:पुन्यात् । पुनःपुनरावृत्तरित्यर्थः । ब्राह्मणादि- वाव्यप्रत्ययः । अव्ययानां भमात्र टिलोपस्य मायपातिकाद्यर्थमुपसङ्ख्यानमिति टिलोप. । अस्वगन्धेन रक्तगन्धाघ्राणादित्यर्थः। मत्त इभेन्द्रा महागजः कोपाल्लाकं जनं मृदनन् क्षुन्दन् पादे लग्नामीपदसमानां पाशी पाशीकल्पा पाशबन्धमदृशीम् । 'पाशमविश्वादिबन्धनम्' इति विश्वः । 'बढादिभ्यश्च' इति विकल्पादीकारः। अभाषितपुस्कत्वात् 'घरूप-' इत्यादिना हम्बा न भवति । आयता दोघी मालामाचकर्ष। पाशीकल्पत्यत्र तद्धिगता पूर्णोपमा ॥ ५० ॥ कश्चिन्मूर्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ॥ उच्छश्वास प्रस्थिता तं जिघृक्षुळाकृता नाकनारी मुमूर्छ ॥ ५८ ॥ कश्चिदिति ॥ कश्चित्सुभटः गाढप्रहारः तीव्रक्षतः तस्मात् मूर्छामेत्य मोहं प्राप्य उच्छश्वास निर्ववार । यतः किंलक्षणः सुभटः शीतैः शीतलैः वारणस्य गजेन्द्रस्य शीकरैः सिक्तः उक्षितः, पुनश्च तं मुभटं जिघृक्षुः सङ्ग्रहीतुमिच्छुः प्रस्थिता आगता नाक- नारी दिव्यस्त्री मुमूर्छ मुमोह, किंलक्षणा नाकनारी यतो व्यर्थाकूता निष्फलाभिप्राया । सा हि तं परासुमादातुमैच्छत्, समाश्वसिते च तस्मिन् असौ तमनासाद्य विफलमनोरथा बभूव । 'आकृतं स्यादभिप्रायः' इत्यमरः ॥ १८ ॥ कश्चिदिति ॥ गाढः प्रहारो यस्य सः कश्चिद्वीरो मूर्छा मेत्य वारणस्य शीतैः शीकरैः पुष्करतुषारः सिक्तः सन् उच्छश्वास उज्जीवति स्म, किन्तु नं मू मागतं जिघृक्षुर्पहातुमिच्छुः । ग्रहेः सन्नम्तादुप्रत्ययः। (१)०मत्र माला।

६५८ सन्देहविषौषधिसर्वकषायुते- [अष्टादश:- प्रस्थिता, तं वरीतुमागतेत्यर्थः । नाकनारी व्यर्थाकूता तदुज्जीवनादिफलमनोरथा सती मुमूर्छ । अत्राकूत- वैयर्थ्यस्य विशेषणगत्या नाकनारीमूछा हेतुत्वाकाव्यलिङ्ग मूर्छासम्बन्धातिशयोक्त्या सङ्कीर्यते ॥ ५८ ।। लूनप्रीवात्सायकेनाऽपरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । से मुग्धैः सैहिकेयानुकारात्सभ्रूभङ्गा(१)दप्सरोवत्रचन्द्रः ॥ ५९ ॥ लुनग्रीवादिति ॥ अपरस्याऽन्यस्य योधस्य आननात् वक्त्रात् मुग्धैर्मनोज: अप्सरोवक्त्रचन्द्रः दिव्यस्त्रीवदनशशिभिः वेसे त्रस्तम् । किंलक्षणात् आननात् सायकेन शरेण लूनग्रीवात कृत्तकन्धरात् , अपरं किलक्षणात् आननात् अत एव द्यामुत्पतिष्णोः आकाशमुत्पततः उद्गतात , अपरं किंलक्षणात् आननात् अत्युच्चेः बृहतः, अपरं किंलक्षणात सैहिकेयानुकारात् सैहिकेयस्य राहोः अनुकारः सादृश्यं यस्य तत्तथा तस्मात् विधुन्तुदतुल्यात् , अपरं किलक्षणात् यतः सभ्रूभङ्गात् भृकुटीभीपणात् । अतश्च त्रासो युक्तः । अतएव वक्त्रस्य चन्द्रत्वम् । शशी हि राहोः त्रस्यति, मुग्धत्वं पुनासभयात् । सिंहिकायाः अपत्यं सैंहिकेयः, तमनुकरोतीति कर्मणि अण ॥ ५९ ॥ लूनग्रीवादिति ॥ अपरस्य मायकेन लूनग्नीवाच्छिन्नकण्ठात् अत एव द्यामाकाशं प्रति आशु उच्चै- रुत्पतिष्णोरुत्पतनशीलात् । अलंकृञ्-' इत्यादिना इष्णुच्यत्ययः। अत एव सिंहिकाया अपत्यं पुमान सँहिकेयो राहुः । 'तमस्तु राहुः स्वानुः सहिकेयो विधुन्तुदः' इत्यमरः । श्रीभ्यो ढक् । तमनुकरातीनि तदनुकारात् । तत्मदशादित्यर्थः । कर्मण्यणप्रत्ययः । रौद्राकाराद्भीषणाकृतेरस्य वारस्य आननान्मुग्धैः सुन्दरैरप्सरमा वरेव चन्द्रः से प्रस्तम् । भावे लिट् । अत्र राहुहेतुकबासस्य चन्द्र एव सम्भवाद्ववचन्द्र- रिति रूपक सिद्धम् । तस्य महिकेयाऽनु कारादिति स्पष्टोपमापक्षत्वात्सङ्करः॥ ५९ ॥ वृत्तं युद्धे शूरमाश्लिष्य काचिदन्तुं तूर्ण मेरुकुऑ जगाम ॥ त्यक्त्वा नाऽग्नौ देहमेति स्म यावत् पत्नी सद्यस्तद्वियोगाऽसमर्था ॥६॥ वृत्तमिति ॥ यावत् पत्नी स्वभार्या अग्नौ देहं त्यक्त्वा वैश्वानरे शरीरं दग्ध्वा युद्धे वृत्तं सङ्ग्रामे मृतं शूरं वीरं भर्तारं न एति स्म न प्राप । किंलक्षणा पत्नी तद्वियोगा- ऽसमर्था तस्य वियोगः विरहः तत्राऽसमर्था वियोगं सोढुमशक्ता । तावदेव काचिदिव्यस्त्री तूर्ण त्वरितं तं शूरम् आश्लिष्य आलिङ्गन्य रन्तुं क्रीडितु मेरुकुजं देवोद्यानं जगाम अगमत् , इति दम्पत्योः सात्त्विकत्वोक्तिः ॥ ६० ॥ वृत्तमिति ॥ काचिदमरनारी युद्ध वृत्नं मृतम् । 'वृत्तोऽनी ते दृढे ख्याते वर्तुलेऽपि वृते मृते' इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्ण मेरोः कुझं गह्वरं जगाम । यावत्तद्वियोगसामर्था तद्विरहाऽसहा पत्नी सयो- ऽनौ देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुञ्जासम्बन्धेऽपि सम्बन्धोतरनिशयोक्तिः ॥ ६ ॥ स्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणाद्गुद्गताऽसुः ॥ प्राप्याऽखण्डाहेव(२)भूयं सतीत्वादाशिश्लेष स्वौव कश्चित्पुरन्ध्री ॥६॥ त्यक्तप्राणमिति ॥ कञ्चिद् भट स्वैव पुरन्ध्री आत्मीयैव महिला आशिश्लेष सस्वजे । कि कृत्वा अखण्डात् अलुप्सात् अलुप्तसतीत्वात् भत्रेकशरणत्वाद्देवभूयं प्राप्य देवत्वमासाद्य, किंलक्षणा पुरन्धी हस्तिनीस्था करिण्यां वर्तमाना, अपरं किंलक्षणा पुरन्धी प्रेम्णा प्रीत्या तत्क्षणात् सपद्येव उद्गतासुः नष्टप्राणा, किं कृत्वा संयुगे सङ्ग्रामे त्यक्तप्राणमुज्झिताऽसम् अर्थादमुं भटमवनिपतितं वीक्ष्य दृष्ट्वा । अतश्च परलोके सैव अश्लिषत् । देवभवनं देवभूयं (१) द्रौद्राकारा। (२) खण्डं देव ।

सर्गः । शिशुपालवधे। ६५६ देवत्वम् , भुवो भावे क्यप् । पुरन्ध्रीशब्दः पृषोदरादिः ॥ ६१ ॥ व्यक्तमाणमिति ॥ संयुगे युद्धे त्यक्तप्राणं कञ्चिद्वीरं, हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गताऽसुर्गतप्राणा स्वैव पुरन्ध्री स्वभार्येव सतीत्वात्पतिवतावादखण्डमक्षयं देवभूयं देवत्वम् । 'भुवो भावे' इति क्यप् । प्राप्याऽऽशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाग्निप्रवेशा- दिकमिति भावः । अत्र मतीत्वस्य विशेषणगत्या देवभूयहेतुत्वाऽनुन काव्यलिङ्गम् । अतिशयोक्त्यादिकं तु यथामम्भवमूह्यम् ॥ ६ ॥ स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ॥ कश्चिद् भेजे दिव्यनार्या परस्मिल्लांके लोकं प्रीणयन्त्येह कीा ॥२॥ स्वर्गवासमिति ॥ कश्चित् वीरः परस्मिन् लोके परलोके दिव्यनार्या देवाङ्गनया अप्सरसा भेजे शिश्रिये, इह लोके भूमौ च कीर्त्या यशसा भेजे । किलक्षणया दिव्यनार्या कोा च, अधुना श्लेषः-किलक्षणया अप्सरसा चिराय चिरकालं स्वर्ग त्रिविष्टपे वास कारयन्त्या कुर्वत्या । यामभिलष्य पुमान् चिरं स्वगें निवासं कर्तुमिच्छतीत्यर्थः। कीर्त्याऽपि चिराय स्वर्ग वासं कारयन्त्या । यदुक्तम्- रुणद्धि रोदसी यस्य यावत्कीतिरनश्वरी तावत्किलाऽयमध्यास्ते सुकृती वै ध्रुवं पदम् ॥ अन्यत्र- . यावत्कीतिर्मनुष्यस्य स्वर्ग लोके च गीयते । तावदेही वसेत्स्वर्ग कुरुतेऽमृतभोजनम् ॥ अपरं किलक्षणया अप्सरसा प्रत्यहं दिवसे दिवसे प्रत्यग्रत्वं नूतनत्वं धारयन्त्या बिभ्रत्या, समरमरणे स्थिरस्वर्गवासत्वात्। अथ वा अगतसारत्वेन स्थिरयौवनायाः प्रथमसमा- गमात् नूतनता भवति । अपरं किलक्षणया अप्सरसा लोकं प्रीणयन्त्या समरमृतस्य दिव्यस्त्रीभोगाय नित्यस्वर्गवासत्वात् लोकं सुभटजनमाकर्षयन्त्या । कीर्त्यापि प्रत्यहं प्रत्यग्रत्वं धार्यते, तस्य सुचरितत्वेनापूर्ववन्नित्यश्रव्यत्वात् । प्रीणातीति प्रीणयन्तीति, 'प्रीधूजोर्नुगिति नुक् ॥ ६२ ॥ स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेयासम् । 'शयवासवासिष्वकालात्' इति विकल्पा- दलुक । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । 'नपुंसकादन्यतरस्य म्' इत्यव्ययीभाव समासान्न- टच्प्रत्ययः । 'अव्ययानां ममात्र टिलोप:' इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रणयन्त्या अदभुनत्वं प्रापयन्न्या । प्रीमो ण्यन्ताल्लटः शतरि डीप् । 'धूमीञोर्नुग वक्तव्यः' इति नुगागमः । दिव्यनार्या परस्मिल्लाके, इह लोके कीर्त्या च भेजे प्राप्तः । भजः कर्मणि लिट् । रणमरणाल्लोकद्रयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीयोः प्रकृतयो रेव तुल्यधर्मसम्बन्धात्केवलप्रकृता- स्पदा तुल्ययोगिता ॥ ६२ ।। गत्वा नूनं वैबुधं सम रम्यं मू भाजामाजगामाऽन्तरात्मा ॥ भूयो दृष्टप्रत्ययाः प्राप्य संज्ञा(१) साधीयस्ते यद्रणायाऽऽद्रियन्ते ॥ ६३ ॥ गत्वेति ॥ एवं नूनमुत्प्रेक्षे-मोहभाजां मूर्छाजुषाम् अन्तरात्मा चेतना रम्यं मनोहरं वैबुधं सम गत्वा नाकलोकं प्राप्य नूनमाजगाम पुनः प्रातः । कुत इत्यत आह- यत् यस्मात्कारणात ते योधाः सुभटाः संज्ञां प्राप्य चेतनां लब्ध्वा दृष्टप्रत्ययाः उपलब्ध- .. (१) प्राप्त संज्ञाः।

६६० सन्देहविषौषधिसर्वकषायुते- [अष्टादश:- . निश्चयाः सन्तो भूयः पुनरपि यत्साधीयः सतरां रणाय आद्रियन्ते युद्धाय व्यवस्यन्ति । यदि चैत्र न स्यात्, तत्कस्मादिदानीमत्यर्थ युयुधिरे। नूनं तदास्माभिः समरहताना लोकाः स्वयमदृष्टाः । अतिशयेन साधु साधीयः, इत्यादरविशेषणम् । रणायेति तादयें चतुर्थी, क्रियाग्रहणाद्वा । आद्रियन्ते इति हजः कर्तरि लट ॥ ६३ ॥ गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं बुधं सद्म दिव्यभवनं गत्वा आजगाम मूसिमये सुर- लोकरामणीयकं दृष्ट्वा आजगाम, नूनमुत्पेश्शायाम । कुन:-यद् यस्मात् प्राप्तसंज्ञा लब्धबोधाः मन्तः दृष्ट- प्रत्ययाः दृढ विश्वासाः भूयः पुनरपि साधीयो बाढनरम् । बाढादीयमुनि 'आन्तकबाढयो साधी इति साधादेशः । रणाय रणं कर्तुमादियन्ते । उत्सहिर इत्यर्थः। कर्तरि लट् , श्यन्प्रत्ययः । कथञ्चिदुज्जी- वितानां पुनर्मत्युप्रानिः श्रेयोदर्शनहेतुकेति भावः ॥ ६३ ॥ कश्चिच्छस्त्राऽऽबाध(१)मूढोऽपवोदुर्लब्ध्वा भूयश्चेतनामाहवाय ॥ व्यावतिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ६४ कश्चिदिति ॥ कश्चित् मुभटः चतनां लब्ध्वा संज्ञां प्राप्य भूयः पुनरपि आहवाय सङ्ग्रामाय व्यावर्तिष्ट व्यावृत्तः । किंलक्षणः सुभटः शस्त्राबाधमूढः शस्त्रस्य प्रहरणस्य. आवाधः पाडनं तेन मूढः मोहं प्राप्तः । आयुधकृतपीडानिश्चेतनः इत्यर्थः । कदा व्याव. -कस्य सतः सख्युः सुहृदः उच्चस्तारं क्रोशतः फूत्कुर्वतः सतः, समाश्वसिहीति उदितवतो वा। त्यक्तश्च आत्मा देहश्च उन्मितः । यतः कारणात् का च लोकानुवृत्तिः लोकाना- मनुवृत्तिः चित्तानुवर्तनम्। धार्यमाणे ह्यात्मनि अन्योन्योपरोधो युक्तः। स च मुमूर्षुः,किं तस्य लोकचित्तग्रहणेन । प्रथमश्च हेतोः उपरोधः स रणे यस्मात् त्यक्तात्मा। तस्मानिष्फलैच लोकानुवृत्तिरित्यर्थः । एककालपूरणार्थावा। यदैव आत्मा कायस्त्यक्तः,तदेव लोकानुवृत्तिर्न भवतीत्यर्थः। सख्युरिति षष्ठो चाऽनादरे । किंलक्षणस्य सख्युः अपवोढुः प्रत्याख्यानपरस्या कश्चिदिति ॥ शस्त्रापातमूढः प्रहारमूर्छितः काशीरशेतना संज्ञो लब्ध्वा अपवोदुर्मू समये युद्ध- भूमेरपनेतुः सख्युमित्रस्योच्चैः क्रोशतः आगच्छागच्छ'त्याक्रोशति सति । 'षष्ठी चाऽनादरे' इति षष्ठी। कोशन्तमनादृत्येन्यर्थः । भूयः पुनरपि आहवाय रणाय व्यावतिष्ट, आत्म! देहस्त्यक्तश्च । तथा हि-लोकानु- वृत्तिश्व का । नैवेत्यर्थः । सुहृजनानुरोधस्तु हितानार्थिनः परिच्छेत्तुं वृथेत्यर्थः। सामान्येन विशेषसमर्थन- रूपोर्थान्तरन्यासः ॥ ६ ॥ भिन्नोरस्को शत्रणाऽऽकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ॥ अन्योन्याऽवष्टम्भसामर्थ्ययोगार्थ्यावेव स्वर्गतावप्यभूताम् ॥ ६५ ॥ भिन्नोरस्काविति ॥ कौचित् सुभटौ स्वर्गतावपि मृतावपि ऊर्ध्वावेव अभृताम् किंलक्षणो योधौ शत्रुणा वैरिणा दूरमतिशयेन आकृष्य आकृष्टवा(?) एकेषुणैव एकेनैव इषुणा मार्गणेन आसन्नत्वात् नेदीयस्त्वात् भिन्नोस्को विद्धवक्षसौ । कस्मादपतितौ स्थितौ अन्योन्यावष्टम्भसामर्थ्ययोगात् परस्परावरणशक्तिसम्बन्धात् ऊर्ध्व- न्वादवस्थितौ । अन्योन्यस्यावष्टम्भः परस्परस्य सन्धारणं तत्र शक्तिः सामर्थ्य तस्य योगः सम्बन्धः तस्मात् स्वः स्वर्ग गतौ ॥ ६ ॥ भिन्नारस्काविति ॥ शत्रुणा दूरादाकृष्य, आमत्रत्वात्नयोरित्यर्थः । सनिकृष्टत्वादेकेषुणैव भिन्न रस्को विदारितवक्षसो काचिद्वारावन्योन्यावष्टम्भ एव सामर्थ्य तस्य योगात्स्वभाव दूर्वा वेध उर्ध्व तिष्ठन्तावेव स्वर्गता- (..)०च्छमापात । .. अपतितौ बभूवतुः ।

सर्मः। शिशुपालवधे। . यपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्वाऽवस्थानासम्बन्धेऽपि सम्बन्धानरतिशयोक्तिः ॥ १५ ॥ भिन्नानखैर्मोहभाजोऽभिजातान् हन्तुं लोलं वारयन्तः स्ववर्गम् ॥ जीवग्राहं प्राहयामासुरन्ये योग्येनाऽर्थः कस्य न स्याजनेन ॥ ६६ ॥ भिन्नानिति ॥ अन्ये धीराः अबैरायुधैः भिन्नान् विद्धान् अतश्च मोहभाजः मूर्छि- तान् एवंभूतान् अभिजातान् प्रख्यातकुलैश्वर्यान् पुरुषान् हन्तुं हिंसितुं लोलं चपलं जिघांस स्ववर्ग निजसहायसमुदयं वारयन्तः निवर्तयन्तः, 'मा एनान् वी रिति वदन्तः इत्यर्थः, जीवग्राह, जीवन्तीति जीवाः जीवान् गृहीत्वा इति जीवग्राहं, 'समूलाकृतजीवेषु हनकृअग्रहः' इति णमुल । न किञ्चिचैतचित्रमित्याह-यतः योग्येन भव्येन जनेन लोकेन कस्यार्थः न स्यात् कस्य प्रयोजन न भवेत् । यतः शत्रोरपि तेनार्थो भवेत् । ते च योग्याः भव्याः, अभिजातत्वात् ॥ ६६ ॥ भिन्नानिति ॥ अन्ये वीरा अनमिन्नान् विदारितान् अत एव मोहभाजो मूल भाजो मूर्खागतान भिजा- तान कुलीनान् । 'अभिजातः स्थितौ न्याये कुलीनप्राप्तयोरपि' इति विश्वः । हन्तुं लोलमुन्सुकं स्ववर्ग वार- • यन्तः जीवं गृहीत्वा जीवनाहं ग्राहयामासुः । जीवमेव ग्राहयामासुरित्यर्थः । 'समूलाकृतजीवेषु हनकृञ्ग्रह" इति णमुल्प्रत्ययः । कषादिन्वादनुप्रयोगः । जीवग्रहणप्रयोजनमर्थान्तरन्यासेनाह-तथा हि-योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्याऽपीत्यर्थः । अतो वीराणां रणेष्वष्यति. परिक्षतरक्षणमेव श्रेयः । 'नात नाऽतिपरिक्षतम्' इति हनननिषेधादिति भावः ॥ ६६ ॥ भग्नेर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ॥ आहाराय प्रेतराजस्य रूप्य(१)स्थालानीव स्थापितानि स्म भान्ति ॥६७॥ भग्नैरिति ॥ आतपत्राणि छत्राणि भान्ति स्म चकाशिरे । कैः भग्नैर्दण्डैः छिन्न- स्वष्टम्भकाप्ठैः, किंलक्षणानि आतपत्राणि भूमौ पर्यस्तानि छिन्नदण्डत्वात् क्षितौ पति- तानि, अपरं किंलक्षणानि प्रौढचन्द्रद्युतीनि जरठशशधरधवलानि । अपरं किंलक्षणानि आतपत्राणि, उत्प्रेक्ष्यन्ते-प्रेतराजस्य यमस्य आहारार्थमाहाराय स्थापितानि सज्जी- कृतानि रूप्यस्थालानीव जातरूप(?)भाजनानीव । रणे किल मृत्युना प्राणिनोऽत्तव्या- इति स्थापितानीति ॥ ६७ ॥ भग्नैरिति ॥ भग्नैर्दण्डैहेतुना । भग्नदण्डत्वादिति भावः । भूमी पर्यस्तान्युनानपतितानि प्रौढचन्द्र- युनीनि पूर्णेन्दुप्रभाण्यातपत्राणि, श्वेतच्छत्राणीत्यर्थः । प्रेतराजस्याऽन्तकस्याहाराय भोजनाय स्थापिता ने विहितानि रौप्यस्थालानि राजतभाजनानीव भान्ति स्मेत्युत्नेशा ॥ ६ ॥ रेजुभ्रष्टा वक्षसः कुङ्कुमाऽङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ॥ हासालक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरकाऽऽसवस्य ।। ६८ ॥ रेजुरिति ॥ व्यसूनां गतप्राणानां मृतानां पार्थिवानां राज्ञां वक्षसः भ्रष्टाः उरस्तः पतिताः मुक्ताहारा मौक्तिकदोरका रेजुः बभुः । किंलक्षणाः मुक्ताहाराः कुङ्कुमाङ्काः काश्मीरलिसाः, कुङ्कुमस्य केसरस्य अङ्गो लाञ्छनं येषु ते तथा । अपरं किंलक्षणा मुक्ताहाराः, उत्प्रेक्ष्यन्ते-पूर्णकामस्य प्राप्तमनोरथस्य कृतकृत्यस्य मृत्योः दन्ता इव यमस्य दशना इव, अहम् इति मन्ये नूनं निश्चितम् । किलक्षगाः दन्ताः हासालक्ष्या: (१) रौप्य। ५६ शि०० ६६२ सन्देहविपौषधिसर्वाषायुते- - [अष्टादशः- हासवशाद् घश्याः। ननु दशना धवला भवन्तीति कथमिदमुपमानं भवतीत्याह-किलक्ष- गस्य मृत्योः पीतरकासवस्य पीतरुधिरासवस्य ॥६८॥ रजुरिति । व्यसूना मृताना पार्थिवानां वक्षसो भ्रष्टा: पतिताः कुडमाङ्काः । कुड्डमारुणिता इत्यर्थः । मुक्ताहाराः पूर्णकामस्य सकलराजकसंहारान्सफलमनोरथस्य अत एव पीत रक्कमेवासवं येन तस्य मृत्योः हासादट्टहासाल्लक्ष्या दृश्या दाता रेजुरिति मन्ये इत्युत्प्रेक्षा ॥ ६८ ॥ निम्नप्वोधीभूतमस्त्रक्षतानामा भूमौ यश्चकासाञ्चकार । रागार्थ तत्किनु कौसुम्भमभः संन्यानानामन्तकाऽन्तःपुरस्य ॥ ६६ ॥ निम्नेविति ॥ अस्त्रक्षतानां प्रहरणाहतानाम् अश्वगजपुरुषाणाम् अत्रं रुधिरं निम्नेषु अनुत्तानेषु नीचेषु प्रदेशेषु ओघीभूतं सत् एकस्थं सत् यत् चकासाञ्चकार बभासे । तत्किं नु वित, अन्तकाऽन्तःपुरस्य मृत्युशुद्धान्तस्य संव्यानानां वाससां रागार्थ लोहितीकरणाय कौसम्भं महारजनम् अम्भः पानीयं स्यादिति संशयालङ्कारः । कुसु- म्भेन रक्तं कौसम्मम् ॥ ६९ ॥ निम्नेविति ॥ भूमौ निम्नेषु निम्नस्थलेष्वोघीभूतं राशीभूतमस्त्रक्षतानां सम्बन्धि यदलं रक्कं चकासा- श्कार दिदीपे । 'चकामृ दीप्ती' इति धातोर्लिट् । 'कास्यने काच आम्बक्तव्यः' इत्याम्प्रत्यये कृञोऽनुप्र- योगः। तदत्रमन्तकाऽन्तःपुरस्य कृतान्ताऽवरोधस्य संत्र्यानानामुत्तरीयाणां रागार्थ रञ्जनार्थ कुसुम्भस्येदं कौमुम्भम् अम्भः किं नु कुसुम्भ द्रवो नु वेत्युत्प्रेक्षा ।। ६९ ॥ रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्रियाऽत्रैः ॥ रक्ताऽम्भोभिस्तत्क्षणादेव तस्मिन्सङ्ख्येऽसङ्ख्याःप्रासरन्(१) द्वीपवत्यः॥ रामेणेति ॥ तस्मिन् सङ्ख्ये सङ्ग्रामे रक्ताम्भोभिः कीलालवारिभिः असङ्ख्याः अगणेयाः अनन्ताः द्वीपवत्यो नद्यः प्रासरन् प्रावहन् , ऊढा इत्यर्थः । एतत्पूर्व जामदग्न्य- स्यैवंविधं युद्धमभूत, तत्को विस्मयः इत्याशयेनाह-यतः रामेण जामदग्न्येन क्षत्रियाऽ: राजन्यरुधिरैः कृत्वा चित्रमाश्चर्यरूपं हृदानां पञ्चकं जलाशयानां पञ्चक स्यमन्तपञ्चकाख्यं त्रिसप्तकृत्वः एकविंशतिवारैः चक्रे कृतमिति । पूर्वमुपलक्षणादेवेति महान विशेषः । उपमानस्य चित्रत्वे उपमेयस्य चित्रान्तरत्वं प्रतीयते तचित्रम् । इदं त्वति- चित्रमित्यर्थः । श्रीन् वारान् त्रिः, द्वित्रिचतुभ्यः सुच । सप्तवारान् सप्त कृत्वः, सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वमुच । सप्त च त्रिर्गुणिता एकविंशतिर्भवति । पञ्चपरिमाणमस्य पञ्चकं 'सङ्ख्यायाः संज्ञेति कन् ॥ ७० ॥ रामणेति ॥ रामेण भार्गवण सामर्थ्यात् बीन्वारान् षिः । 'द्वित्रिचतुर्थ्यः सुच' इति सुच्पत्ययः । त्रि- रावृत्ताः सप्त त्रिःसप्तकृत्वः । एकविंशतिवारानित्यर्थः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्व. सुच् प्रत्ययः । क्षत्रियास राजन्यरत चित्रमदभुतं ह्रदाना, पञ्च परिमाणमस्य पञ्चकम् । 'सङ्ख्या या संज्ञा- सङ्घसूत्राध्ययनेषु' इति सङ्घार्थे कन्प्रत्ययः। चक्रे कृतम् । तस्मिन् सङ्ख्ये युद्धे । 'मृधमास्कन्दनं सङ्ग्यम्' इत्यमरः । सणादेव रक्त रेवाऽम्भोभिः असङ्ख्या द्वीपवत्यो नद्यः प्रावहन् प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं दपञ्चकमेव कश्चित्कृतम् । अत्र तु क्षणमात्रेणाऽसाया नयः प्रवृत्ता इत्युपमानादुप- मेयस्याधिक्योक्तयतिरेकालङ्कारः ॥ २०॥ - (१) प्रावहन् ।

सर्गः ।] शिशुपालवधे। सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याऽधः शातशखाऽवलूनाः ।। कूौपम्यं व्यक्तमन्तनदीनामभाः प्रापनंहयो(१)ऽसृायीणाम् ॥ ७१ ॥ सन्दानान्तादिति ॥ असृङ्मयीणां नदीनां रक्कसरिताम् अन्तर्मध्ये ऐभाः अंहयः गजसम्बन्धिनः पादाः सन्दानान्तात् गुल्फप्रदेशात् अस्विभिः आयुधधारिभिर्वी रैः शातशस्त्राऽवलूनाः तीक्ष्णखड्गच्छिन्नाः, किं कृत्वा अधः आविश्य उदरभागे प्रविश्य, अतश्च ज्ञायते असृक्सरितां मध्ये कौपम्यं प्रापन् कच्छपतुल्यता प्रापुः । नदीषु किल कूर्मर्भाव्यम् । अहिशब्दे अहि गताविति (सम्बन्धात् ?) वक्र्यादित्वात् क्रिन् । अनु. स्वारभावे हकारस्य ययत्वाभावात् परसवर्णाऽभावः । कचित्तु निपातयन्ति । शातशब्दे 'शाच्छोरन्यतरस्यामितीत्वं विभाषितम् ॥ ७१ ॥ सन्दानान्तादिति ॥ शिक्षिताबैरभ्यस्तास्त्रविद्यैरस्मिभिरायुधी यः अधः रथानामधस्तादाविश्य प्रविश्य मन्दानान्ताद्वन्धनप्रदेशात् । गुल्फप्रदेशमाधिकृत्येत्यर्थः । 'सन्दानं पशूनां पादबन्धनम्' इति विश्वः। शातं शितम् । 'शाच्छारन्यतरस्याम्' इति विकल्पादीत्वाभावः । तेन शस्त्रगावलूनाश्छिन्नाः इभानामिमे ऐभाः बङ्ग्यश्वरणाः अमृङ्मयीणां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कूपिम्यं कमठोपमाम्। स्वार्थे ष्यत्र प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यवदिति वामनः । प्रापन् प्राप्ताः । आपो लुडि 'पुषादि-'इति च्लेरडा- देशः । उपमा ॥ ११ ॥ पद्माकार्योधवनगजाना(२) कर्णभ्रष्टैश्चामरैरेव हंसैः ॥ सोपस्काराः प्राभव(३)नस्रतोयाः स्रोतस्विन्यो वीचिषवेस्तरद्भिः॥७२॥ पद्माकारिति ॥ असतोयाः रुधिराऽम्बवः स्रोतस्विन्यः नद्यः प्राभवन् जज्ञिरे । किंलक्षणाः स्रोतस्विन्यः योधवक्त्रैः वीरवदनैः सोपस्कराः सालङ्काराः भूषिताः, किंलक्षणैः योधवक्त्रैः पद्माकारैः कमलाकृतिभिः, अपरं किंलक्षणाः स्रोतस्विन्यः चामरैरैव हंसैः चामररूपेहंसैः सितच्छदैः सोपस्कराः । 'संपर्युपेभ्यः करोती भूषणे' इति सुडागमः । किलक्षणः चामरैः वीचिषु जर्मिषु उच्चरतिशयेन तरद्भिः प्लवमानैः । नद्यो हि पद्महसैश्च भूष्यन्ते, हंसाश्च वीचिषु तरन्तीति साम्यम् । अपरं किंलक्षणैः चामरैः गजानां कर्णभ्रष्टैः दन्तिनां कर्णेभ्यश्च्युतैः। चामर रेव हंसैरिति रूपकम् ॥ ७२ ॥ पनाकारैरिति ॥ उच्चैवींचिषु तरद्भिः प्लवमानः पन कारेंः कमलकल्यैर्योधवर्भट मुखैरिभानां कर्णे- भ्यो भ्रष्टनामरैर्ह सैः सोपस्कारा: मपरिकरा: । 'संपर्युपेभ्यः करोनौ भूषण' इनि सुडागमः । अस्रतोया रक- अलाः स्रोतस्विन्यो नयः प्रावहन् । अत्र रूपकोपमयोः सङ्करः सुगमः ॥ ७२ ॥ उत्क्रान्तानामामषायोपरिष्टादध्याकाशं बभ्रमुः पत्रवाहाः ॥ मूर्ताः प्राणा नूनमद्याप्यपेक्षामासुः(४) कायं त्याजिता दारुगास्त्रैः ॥७३॥ उत्क्रान्तानामिति॥ पत्राणि वहन्ति धारयन्तीति ते पत्रवाहाः पक्षिणो गृध्राः अध्या- काशं बभ्रमः आकाशे भ्रमन्ति स्म । क उत्क्रान्तानामुपरिष्टात् मृतानामुपरि, किमर्थ बनमुः आमिषाय मांसाय मांसमादातुम् । किलक्षगाः पत्रवाहाः, नूनमुत्प्रेक्ष्यन्ते-मूर्ताः मूर्तिमन्तः प्राणाः असवः अद्यापि एतद्यपि कायं देहम् अपेक्षामासरिव प्रत्यक्षन्तेव । यतः किंलक्षणाः प्राणाः दारुणास्त्रैः घोरैरायुधैः त्याजिताः हापिताः । तैश्वाऽकाले वयमुहा- सिताः भूयः प्रविशाम इति प्रतिपालयन्त इव ॥ ७३ ॥ (१) प्रापभयो। (२)रिभान। (३) प्रावह। (४) ०प्यवेशामासुः । ..

६६४ सन्देहविपौषधिसर्वकषायुते- [ अष्टादशः- .. . .. उकान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहा: पत्रिणः आमिषाय आमिषमत्तम् । “क्रियार्थों- पपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । उत्क्रान्ताना मृतानामुपरिष्टात् अध्याकाशमाकाशे। विभक्त्यर्थे- व्ययीभावः । बभ्रमुः श्रेमुः। 'बाजभ्रमुत्रसाम्'इति विकल्पादेत्वाभ्यासलोपाभावः। अत्रोत्प्रेक्ष्यते-दारुणा- घोरामैः कार्य त्याजिता विसर्जिताः। त्यजेर्प्यन्ताद् द्विकर्मकाकर्मणि कः। ‘ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अयेदानीमपि कायमवेशामासुः । पूर्वाभिमानात्पुनः कायप्रवेशाऽपेक्षिणों मर्ताः प्राणा एव नूनमारादू भ्रमन्तीत्युत्प्रेक्षार्थः। 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः, 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । 'भाम्प्रत्ययवत्-' इत्यत्र कृत्र एवेति नियमादस्ते त्मनेपदम् ।। ७३ ।। आतन्वद्भिर्दिक्षु पक्षाप्रवातं(१) प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखेषु ।। आदौ रक्तं सैनिकानामजीवै वैः पश्चात्पत्रिपूगरपायि ॥ ७४ ॥ पातन्वद्भिरिति ॥ सैनिकानां सेनाचराणां वीराणां रक्तं रुधिरम् आदौ पूर्वम् अजीवैः अप्राणवद्भिः पत्रिपूगैः शरसमूहैः अपायि पपे, पश्चात् जोवैः प्राणवद्भिः पत्रिपूगैः कडधादिसमूहैः अपायि पीतम् । कि लक्षणैः पत्रिपूगैः दिक्षु आशास पक्षाग्रवातं पतत्र- प्रान्तमरुतम् आतन्वद्भिः विस्तारयनिः, अपरं किलक्षणैः पत्रिपूगैः दूरादाशु प्रातः विप्रकृष्टदेशात् शीघ्रमागतैः इत्युभयत्रापि तुल्यम् । अपरं किलक्षणैः पत्रिपूगैः मुखेषु अग्रेषु वदनेषु च तीक्ष्णैः शितैः तीवैश्च । अजीवैरित्यत्र 'जीवाजीवश्च प्राणजीवैरिति । जीवन्तीति जीवाः । अपायीति पिबतेः कर्मणि चिण् ॥ ७४ ॥ अातन्वद्भिरिति । दिक्षु पत्राननादं पक्षान्तघोषमातन्वद्भिविस्तृणद्भिरादाशु प्राप्तैरागतरजीवरचेतनैः । पचायजन्तेन नसमासः । पत्रिपूर्गः, बाणवातरित्यर्थः। तीक्ष्णेमुखाः करणैः सैनिकानां रक्कमपायि पीतम् । पिबतेः कर्मणि लुङ् ‘आता युक् चिण्कृतोः' इति युगागमः। पश्चाज्जी वैश्चेतनः पत्रिपूगैः पक्षिसः कर्तृभिस्तीक्ष्णैर्मुखांग्रेश्चन्चुपुट: करणैरपायि । अत्रोभयेषां पात्रणां प्रकृतत्वात् केवलप्रकृतविषयः श्लेषः ॥७॥ ओजोभाजां यद्रणे संस्थितानामादत् तीव्र सार्धमङ्गेन नूनम् ॥ ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ ७५ ॥ ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा रसना यस्याः सा दीप्तजिह्वा शृगाली तारं ववाशे सस्वान । किलक्षणा दीप्तजिह्वा तत् तेजः नूनं निश्चितं ज्वालायाः व्याजात् अचिच्छलात् अन्तः हृदयात् उद्वमन्ती वमन्ती, तत् किं-यत्, रणे सङ्ग्रामे संस्थितानां मृतानामोजोभाजां तेजस्विनाम् अङ्गन सार्ध वपुषा सह आदत बुभुजे । किं. लक्षणं तेजः तीव्र दुस्सह, दीप्तजिह्वत्वादेवोत्प्रेक्षा । शिवाया हि वाशन्त्या वदनात् ज्वाला निस्सरतीति प्रसिद्धम् । आददिति 'अदः सर्वेषामिति अडागमः ॥ ७९ ॥ प्रोजोभाजामिति ॥ दीसा ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा रणे संस्थिताना मृताना- मोजोभाजामोजस्विनामनेन गात्रेण सार्ध यत्तीव्र तिग्मं तेज आददभशयत् । अदेर्लङ् 'अदः सर्वेषाम्' इत्य- डागमेऽपृक्तस्य 'आडजादीनाम्' इत्याडागमोऽङ्गस्य 'आटश्च' इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्रमन्ती तारमुच्चैर्ववाशे रीति स्म । 'तिर वाशितं रुतम्' इत्यमरः । नून- मिन्युत्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालात्यापहवेन तेजस्त्वात्प्रेक्षणे सापह्नवोत्प्रेक्षेति सर्वस्वकारः ॥५॥ नैरन्तर्यच्छन्नदेहाऽन्तरालं दुर्भक्ष्यस्य(२) ज्वालिना वाशितेन ॥ योधुर्वाणवात(३)मादीप्य मांसं पाकाऽपूर्वस्वादमादे शिवाभिः ॥७६॥ (१) पत्राप्रनादं मखाप्रैः। (२)च्छित्र... दुर्भक्षस्य । (३) प्रोत। ।

सर्गः।]. शिशुपालवधे। ६६५ । नैरन्तयेति ॥ शिवाभिः शृगालीभिः योधुर्भटस्य मांसं पिशितम् आदे जग्धम् । किं कृत्वा ज्वालिना ज्वालावता वाशितेन स्वनेन बाणवातं शरनिकरम् आदीप्य दग्ध्वा, किंलक्षणं मांसं पाकाऽपूर्वस्वाद पाकेन रन्धनेन अपूर्वः अननुभूतपूर्वः स्वादः आस्वादो यस्य तत्तथा, किंलक्षणं बाणवातं नैरन्तर्यच्छन्नदेहान्तरालं नैरन्तयेण सामग्यात् छन्नं छादितं देहान्तरालं शरीरमध्यं येन सः तथा तम् , अत एव किंलक्षणस्य योद्धः दुर्भक्ष्यस्य अत्तुमशक्यस्य । अतश्च दीपितेषु शरेषु ज्वालिना वाशितेन पलं पक्त्वा भुक्तम् । आदे इति कर्मणि लिट् ॥ ७६ ॥ नैरन्तयेति ॥ नैरन्तयेणाऽविच्छेदेन छिन्नं देहस्वान्तरालं यस्मिन्कर्मणि तयथा तथा बाणः प्रोतं स्यू- तम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छार्थे खल्प्रत्ययः । योदधुर्योधस्य सम्बन्धि मांसं ज्वानिना ज्वालावता वाशितेन रुतेन । शिवाना वाशने जिह्वा ज्वलनीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचिर्यस्य तनथा शिवाभिर्गोमायुभिः । 'मिया शिवा भूरिमायगोमायुमृगधूर्नकाः' इत्यमरः । आदे जघसे । भक्षितमित्यर्थः। 'लिट्यन्यतरस्याम्' इति विकल्याददेर्न घस्लादेशः । धाशितोत्थया जिवाज्यालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः । अत्र पाकापूस्वादायसम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः ॥ ७६ ॥ ग्लानिच्छेदि(१)क्षुत्प्रवाधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ॥ स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्ब व्यवणद्यस्वनश्च ॥ ७७ ॥ ग्लानिच्छेदीति ॥ क्रोष्टा शृगालः डिम्बं प्लीहं व्यष्वणत् बुभुजे,अत एव व्यस्वनत् ववाशे च । भक्षयन्निव ववाशे इत्यर्थः। कथं व्यवणत् स्वादुङ्कारम् , अस्वादुं स्वादुं कृत्वा इति स्वादुडारमिति णमुल । अपरं कथं कालखण्डोपदंशं कालखण्डस्य यकृतः उपदंश प्रतिकर्मत्वं यत्र क्रियायां तद्यथा । डिम्बभोजने तु कारणत्वमेव । अपरं किं कृत्वा रक्ता- रिष्टं पीत्वा रक्तं रुधिरमेव अरिष्टं पानविशेष क्षुत्प्रबोधाय बुभुक्षोत्पादनाय पीत्वा धयि- त्वा, किलक्षणं रक्तारिष्टं ग्लानिच्छेदि आलस्यनाशयित, अपरं किलक्षणं रक्तारिष्ट शोषिताजीर्णशेष क्षपितरसं, शोपितः अजीर्णस्य शेषः येन तत् तथा पाचिताऽपक्वान्नो. र्वरितभागम् । क्रव्यादानां हि असमानेन जीणिर्भवति । रक्तडिम्ब कालखण्डं क्रोष्टा आददित्यर्थः । यो गाढं स्वादु मांसमशनं भुङ्क्ते अपूर्व गुलिकमश्नाति, ततो ग्लानि- च्छेदि निरस्ताजीर्णशेषं पानम् । व्यप्वणदिति 'वेश्च स्वनो भोजने' इति षत्वम् । व्यस्वन- दिति व्यसोढत्वात्(१) प्रत्युदाहरणम् ॥ ७७ ॥ ग्लानिच्छेदीति ॥ कोष्टा जम्बुकः क्षुत्मबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रकमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुङ्कारं स्वादूकृत्य । 'स्वादुमि-' इति णमुल् । कालखण्डन यकृता उपदंशम् । कालखण्डमुपदंशं कृत्वेत्यर्थः । 'कालखण्डयकृती तु समे' इत्यमरः । 'उपदंशस्तृतीयायाम्' इति णमुल् । कालखण्डस्य दशन क्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपद- तया 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति विकल्पेनोपपदसमासः । डिम्बं कलेवर व्यवणत् । भुक्तवानित्य- र्थः । 'वेश्व स्वनो भोजने' इति षत्वम् । व्यस्वनदवादयश्चेति समुच्चयः । अभोजनार्थत्वात्पत्वं न || क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ॥ आभीलानि प्राणिनः प्रत्यवस्थन् कालो नूनं व्याददावाननानि ॥ ७८ ॥ फ्रन्यात्पूगैरिति ॥ आनकानां पटहानां पुष्कराणि मुखानि क्रव्यात्पूणैः क्रव्यादा (१)च्छेदी।

सन्देहविषौषधिसर्वकषायुते- [ अष्टादश:- -' मांसभक्षिणां पूगाः समूहाः तैः कङ्कगृधादिवातैः मेदसः प्रत्याशाभिः स्त्यानपिशितस्य वा- म्छाभिः आभीलानि कृच्छ्रात पाट्यानि दारितानि पाटितानि। नूनम् उत्प्रेक्ष्यते-ध्रुवं वा प्राणिनः प्रत्यवस्यन् गजतुरङ्गममनुष्यादीन् जीवान् भुम्जानः कालो मृत्युः आननानि मुखानि व्याददाविव व्यकासयदिव । जन्तून् अत्तुं कृच्छ्रदार्याणि आभीलानि आस्यानि मृत्युः विवृतवानित्यर्थः । आनकपुष्करस्य शुक्लत्वात् मेदोभ्रान्तिः । यदुक्तं पञ्चोपाख्याने- पूर्वमेतन्मया ज्ञातं पूर्णमेतद्धि मेदसा । अन्तः प्रविश्य विज्ञातं यावधर्म च दारु च ॥ इति । आभीलमुच्यते कृच्छ म् । अत्र तु कृच्छ्रदार्यत्वाच्च कृच्छ्रम् । क्रव्यमदन्तीति क्रव्यादो मांसभक्षाः, 'क्रव्ये चेति विट् ॥ ७८ ॥ कच्यात्पूगैरिति ॥ क्रव्यमदन्तीति क्रयादो मांसभक्षकाः कङ्कगृध्रादयः । 'क्रव्ये च' इति विद प्रत्ययः । तेषां पूगैः कर्तृभिः मेदसो वसायाः। 'मेदस्तु वपा वसा' इत्यमरः । प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकाना तूर्याणां पुष्कराणि मुखानि । 'पुष्करं करिहस्ताने वाद्यभाण्डमुख जले' इत्यमरः । प्राणिनः करितुरगादीन प्रत्यवस्य नभ्यवहरन् । 'अभ्यवहारः प्रत्यवसनं भोजनं जन्धिः' इति हलायुधः । कालोऽन्तकः आमीलानि भयङ्कराणि । 'आभीलं भीमकृच्छ्योः' इति विश्वः । आननानि ध्याददौ विददार । 'माङो दोऽनास्यविहरणे' इत्यस्य प्रत्युदाहरणमेतत् । यानि विदारितानि पुष्कराणि तान्येवाननानि नूनामित्युत्प्रेक्षायाम् || ०८ ॥ कोर्णा रेजे साऽऽजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।। बह्वारब्ध(१)रर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७६ ॥ कीर्णेति ॥ सा आजिभूमिः समामोर्वी रेजे विदिद्युते, किंलक्षणा आजिभूमिः प्राणिन गज तुरङ्गममनुष्यादीनाम् अप्राणद्भिः छिन्नत्वान्निश्चेष्टैः प्रतीकैः अङ्गावयवैः समन्ताच्चतुर्दिक्षु कीर्णा व्याप्ता । अपरं किलक्षणा आजिभूमिः, उत्प्रेक्ष्यते-स्रष्टुः विश्व- कर्मणः सृष्टिकर्मान्तशालेव सृष्टये सर्गाय कर्मान्नशालेव व्यापारस्थानमिव, किलक्षणा सृष्टिकर्मान्तशाला बहारब्धैः किञ्चिच्छेपैः तथा अर्धसैयोजितैः सामिघटितैः रूपैदें है। कीर्णा व्यासा। भक्षादिकर्मशाला विविधैव भवति । वा इवार्थे । भिन्नशब्दो रूप- शब्दपरोऽवसेयः बहारब्धैरिव वक्ष्यति क्रियाविशेषणम्(१)। बबनूनमारब्धैरित्यर्थः । उत्प्रेक्षापमालङ्कारौ । अस्मिन् सर्गे शालिनी वृत्तम् ॥ ७९ ॥ कोणेति ॥ अप्राणद्भिरजीवद्भिः। मिन्नत्यानिष्प्राणरित्यर्थः । 'अन प्राणने' इति धातोर्लटः शत्रादेशः। प्राणभाजा प्राणिनां प्रतीकैरवयवैः । 'अङ्ग प्रतीकोऽवयवः' इत्यमरः । समन्तात्कीर्णा सा आजिभूमिः ईष्ठ- दसमातरम्भरिति बहारम्भैः । किञ्चिदूनसृष्टैरित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु-' इति बहुप्रत्ययः। तथाऽर्धसयोजितैरर्धमृष्टैश्च रूपैराकारैः । 'रूपं स्वरूपे सौन्दर्ये आकारलेषयोरपि' इति विश्वः। कीर्णा स्रष्टुः धातुः मृष्टिकमान्तशाला वा सृष्टिकर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा ॥ ९ ॥ आयान्तीना(२)मविरतरयं राजकाऽनीकिनीना- मिस्थं सैन्यैः सममलघुभिः श्रीपतेरुमिमद्भिः ॥ आसीत् तोयै(३)र्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये सङ्घलयुद्धवर्णनं नामाऽष्टादशः सर्गः ॥ १६ ॥ (१)बहारम्भ। (२)भायन्तीना (३) आसीदोधे। .. ८ मर्गः ।] • - शिशुपालवधे। ६६७ आयान्तोनामिति ॥ राजकाऽनीकिनीनां नृपतिपूगसेनानां श्रीपतेर्भगवतो लक्ष्मी- नाथस्य श्रीकृष्णस्य सन्यैरनीकैः सार्ध समम् इत्थमुक्तप्रकारेण मुहुरसकृत् दोलायुद्धं संशय- रणम् आसीत् बभूव । क्षणं पराजयन्ते जयन्ति च मुहुर्भगवतो बलानीत्यर्थः। किंलक्षणानां राजकाऽनीकिनीनाम् अविरतरयमनिवृत्तवेगं यथा भवत्येवम् आयान्तीनां संमुखमागच्छ. न्तीनाम् , अपरं किलक्षणानाम् औद्धत्यभाजां दर्पिष्ठानां, किंलक्षणैः सैन्यैः अलघुभिः विस्तीर्णैः, अपरं किंलक्षणैः ऊर्मिमन्निः समूहेन गच्छद्भिः । कैः कासामिवेत्याह- वारिधेः तोयराशेः तोयैः जलैः आपगानामिव नदीनामिव । यथा वारिधेः तोयैः सह आपगानां सरितां दोलायुद्धं भवति । तासामपि अविरतरयमनिवृत्तवेगं गच्छन्तीनां तथा औद्धत्यभाजां क्षुभितानाम् । किलक्षणैः वारिधः तौयैः अलघुभिः महद्भिः, बहुभि- रित्यर्थः । अपरं किलक्षणै: अमिमद्भिः सकल्लोलैश्च । सह महत्सु दोलायुद्धं भवति । दोलावत् हिन्दोलवत् युद्ध दोलायुद्धम्। दोला हि उभयकोव्योर्गच्छति । कदाचित् श्रीकृष्णस्य सैन्यानि जयन्ति, कदाचित् राजकाऽनीकिन्यश्च जयन्ति । कथं युद्ध बभूवेत्याह-कृतगुरु- • तरध्वानं विहितमहत्तरकलकलं यथा भवति तथा । एवं भगवत्सैन्यैः सह परपृतनानां महत् युद्ध बभूवेत्यर्थः । उपमाश्लेषालङ्कारः । मन्दाक्रान्ता वृत्तम् ॥ ८० ॥ इति शिशुपालवधे महाकाव्ये कविचक्रचूडामणिना माघेन विरचिते आनन्ददेवायनिवल्लभ- विरचितायां सन्देहविषौषध्यां सारटीकायां सङकुलयुद्धवर्णनं नामाऽष्टादशः सर्गः । । .. आयन्तीनामिति ॥ इत्थमुक्तरीत्या अविरतरयमविच्छिन्नवेगं यथा तथा 'आयन्तीनामभिधावन्तीना- मौद्ध त्यभाजा प्रागल्भ्यभाजा, राज्ञा समूहा राजकानि । 'गोत्रोक्ष-' इत्यादिना वुञ् प्रत्ययः । तेषामनीकिन्यः सेनास्तासां राजक नीकिनीनाम् अलघुभिर्महद्भिरूमिमाद्भस्तरवद्भिः श्रीपतेः कृष्णस्य सैन्यैः सम सेनाभिः सह, अपां समूह आपम् । भिक्षादिभ्योऽण् । आपन गच्छन्तीति आपमानामुक्तविशेषणविशिष्टानां वारिधे- रोथै प्रवाहैरिव कृतो गुरुतरध्वनियस्मिस्तन्महहोलायुद्धम् अनियतजयपराजययुद्ध मुहुरासीत् । मन्दाक्रान्ता वृत्तमेतत् ॥ ८०॥ इति श्रीमहोपाध्यायकोलाचलमलिनाथसूरिविरचितायां शिशुपालवध. काव्यव्याख्यायां सर्वदूषाख्यायामष्टादशः सर्गः ॥१८॥ एकोनविंशः सर्गः । अथोत्तस्थे रणाऽटव्यामसुहृद्वेणुदारिणा ॥ नृपाऽधिपौसङ्घर्षादग्निवद्वेणुदारिणा ॥ १ ॥ अथेति ॥ अथाऽनन्तरं वेणुदारिणा राजन्यविशेषेण रणाटव्यां समरारण्ये उत्तस्थे उत्थितम्, उद्यमोऽभाजि । रणमेव अटवी तस्याम् । कुतः नृपानिपौघसघर्षात् नृपा राजानः त एव अधिपाः पादपाः तेषामोघः समूहः तस्य सङ्घर्षः स्पर्धा तस्मात्, रिपुनरपतितस्पर्धात इत्यर्थः । यतः किशक्षणेन वेणुदारिणा अबदेणुदारिणा असहृदः ६६८ सन्देहविषौषधिसर्वकषायुते- [एकोनविंशः- शत्रवः एव वेणवः त्वक्साराः मृदुकाष्ठविशेषा वा तान् दारयति क्षपयतीति असुहद्वेणुदारी तेन, केनेवोत्तस्थे अग्निवत् अग्निनेव । यथा पादपौधानां सङ्घर्षात् घर्षणात् अटव्यां महावने वेणुदारिणा वंशतरुज्वालिना वहिना उत्थीयते । सर्गेऽस्मिन् अनुष्टुप् छन्दः । श्लोको नाम प्रायेण वृत्तम् । पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरुं विजानीयादेतत् श्लोकस्य लक्षणम् ॥ पर्यायेण चैकस्मिन् श्लोके यमकादीनामेकत्र शब्दालारोऽपरत्र तूपमादीनामेकार्था- लङ्कारः ॥ १ ॥ तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमेकोनविंशतिसर्गे द्वन्द्वयुद्धमानुष्टुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते- अथेति ॥ अथैवं तुमुलयुद्धाऽनन्तरम् । रणोऽटवी वेत्युत्युपमितसमासः, अग्निवदिति तद्धितौपम्यलिङ्गात् । एवमुत्सरघापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवो वंशा इव । 'वेणुमस्करतेजनाः' इाते वंशपर्या येष्यमरः । तान दारयति यस्तेनाऽसुहृदेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अधिगः पादपा- इव तेषामाघाः सङ्घाः तेषां सङ्घर्षात मत्सरात् श्लेषाच्च अग्रिवदाग्नतुल्यम् । तेन तुल्यम्-' इति तुल्या) पतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट्। अत्राग्निवदिति तुल्यर्थिन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकाना चतुर्णा चोपादानाचेयमार्थी तद्धितगता पूर्णोपमा । सा च रणा- स्टव्यादिसमासगतोपमासापेक्षेति सङ्करः । सर्गेऽस्मिन्त्रानुष्टुभं वृत्तम् । 'पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयो । गुरु षष्ठं च सर्वेषामेतत् श्लोकस्य लक्षणम् ॥ इति लक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालङ्कारनियमः, सर्वत्र यथासम्भवमर्थालङ्कारश्च । तत्र यमकलक्षणमुकं दण्डिना- 'अव्यपेतव्यपेतात्मा ब्यावृनिर्वर्णसंदतेः। यमक तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादैर्यमकाना विकल्पना । आदिमध्यान्तमध्यान्तमध्यायाद्यान्तसर्वतः'। इति । अत्रदै समपादान्तं यमकं द्विपादयमकभेदः ॥१॥ आपतन्तममुं दूरादूरीकृतपराक्रमः ॥ बलोऽवलोकयामास मातङ्गमिव केसरी ॥२॥ आपतन्तमिति ॥ अमुं वेणुदारिणमापतन्तमागच्छन्तम् अपरम् ऊरीकृतपराक्रम. मङ्गीकृतपौरुषं बलो हलधरः दूरादालोकयामास दूरतः अदर्शत् । बलभद्रो युयुत्सया तं जग्राहेत्यर्थः । कः कमिव व्यलोकयत् केसरी मातङ्गमिव । यथा मातङ्गं द्विपम् आपतन्तं केसरी सिंहः पौरुषाश्रयेण दूरादालोकयति । उपमालङ्कारः ॥ २ ॥ आपतन्तमिति ॥ आपतन्तमाधावन्तममुं वेणुदारिणं दूरात उरीकृतपराक्रमोऽकृतपौरुषः । तेन सहाऽनुगतसम्पहार इत्यर्थः । बलो बलभद्र केसरी सिंहो मात गजमिवाऽवलोकयामास | अनयोरिव तद- न्तरमिति भावः । अतोऽलङ्कारेण वस्तुध्वनिः ॥ २ ॥ ॥ एकाक्षरपादः॥ जजोजोजाऽऽजिजिजाजी तं ततोऽतिततातितुत् ॥ भाऽऽभोऽभीभाऽभिभूभाभूरारारिररिरीररः ॥ ३ ॥ .

सर्गः।] शिशुपालवधे। ६६६ । . जजोजोजेति ॥ ततोऽनन्तरम् अरिः शत्रुः बलः तं वेणुदारिणम् आर आजगाम अभि- युयुजे । किंलक्षणो बलः जजोजोजाऽऽजिजित, जज जजि युद्ध, जजन्ति युध्यन्त इति जजाः योधाः तेषामोजः तेजो बलं वा जजौजः, जजौजसः जायते उत्पद्यते सा जजोजोजा, एवंभूता या आजिः समामः तां जयति अभिभवति स जजोजोजाऽऽजिजित योद्धबलसमुत्यसमर- जेता, अपरं किंलक्षणो बलः जाजी सुष्टु जजति युध्यते इति जाजी सुभटः, अपरं किल. क्षणो बलः अतितताऽतितुत् अतिशयेन तताः विस्तीर्णाः बहुसाधनयुक्ताः तान् अतन्ति तेषामुपरि गच्छन्ति ये ते अतिततातिनः अतिमहत्त्ववदुपरिस्थिता: तानपि तुदति पीडयती. ति यः सः अतितताऽतितुत् महाबलवीरजेतृजेता, अपरं किंलक्षणो बलः भाऽऽभः भानाम् आभा इव आभा यस्य सः भाभः नक्षत्रकान्तिः गौरत्वात, अपरं किलक्षणो बलः अभीभाऽभिभूभाभूः अभियः भयवर्जिताः ये इभाः गजेन्द्राः ते अभीभाः निर्भयगजाः तान् अभिभवति पराभवति त्रासयति या सा अभीभाऽभिभूः, एवंभूता या भा कान्तिः तस्या भूः भवत्यस्मादिति भूःस्थानम् अभीभाऽभिभूभाभूः मत्तद्विपपरिभाविदीप्तिनिलयः, अपरं किलक्षणो बलः अरिरीररः अरा विद्यन्ते येषां ते अरिणः रथाः चक्राणि वा तैः रिणन्ति घ्नन्ति रीयन्ते गच्छन्ति वा ते अरिरीरिणः रथिनः चक्रक्षेपका वा तेषाम् ईर: ईरणमाजौ क्षेपणं राति ददातीति यः अरिरीररः सवाहनयोधजिष्णुः । प्रतिपादमनु- प्रासोऽलङ्कारः। एकद्वित्रान्तरित व्यञ्जनमविवक्षितस्वरं बहुशः । आवय॑ते निरन्तरमथ वा यदसावनुप्रासः ॥ ॥ ३ ॥ जजोजोजेति ॥ ततोऽवलोकनानन्तरं, जजन्तीति जजाः योधाः । जज युद्धे, पचायचं । जजाना मोजसो जाता जजोजोजा, तामाजि जयतीति जजोजोजाजिजित् । जयतेः क्विप् । जजतीति जाजी योधी । ताच्छी- ल्ये णिनिः । अतिततानत्युद्धतान अतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवामा यस्य स भाभो नक्षत्रकान्तिः । 'नक्षत्रमृक्षं भं तारा' इत्यमरः । नास्ति भीर्येषां तेऽभियो निर्मीकाः तानिभान् गजान् अभिभवतीति अभीभाऽभिभूः । विप् । तस्याःभासस्तेजसोभूः स्थानम् अभीभाभिभूभाभूः। अराः सन्त्येषा- मित्यराणि चक्राणि तेः राणन्ति गच्छन्तीति अतिरियो रथाः । 'री गतिश्लेषणयोः' इति धातोः क्विप । तेषाम् ईरं प्रेरणं राति भरिरीररो राथिकः । आतोऽनुपसर्गे कः । अरिः शत्रुर्बलभद्रः तं घेणुदारिणम आर । योद्धमाससारेत्यर्थः । 'ऋ गतौ' इति धातोलिट् । द्विभावे कृते णलि वृद्धिः, अभ्यासस्योरदत्वे 'अत आदेः' इति दीर्घ पुनः सवर्णदीर्घः । भित्रकाक्षरपादाख्योऽनुप्रासभेदः । भाभ इत्युपमाऽनुप्रासयो रेकवाचकानुप्रवेश- लक्षणसङ्करः॥ ३ ॥ भवन् भयाय लोकानामांकम्पितमहीतलः ॥ निर्घात इव निर्घोषभीमस्तस्याऽऽपतद्रथः ॥ ४ ॥ भवन्निति ॥ तस्य बलभद्रस्य स्थः आपतत् स्यन्दन आजगाम । किंलक्षणः रथः लोकानां सैन्यानां भयाय भवन् त्रासाय जायमानः, अपरं किंलक्षणः रथः आकम्पित- महीतलः आकम्पिताऽवनिपृष्टः, अपरं किलक्षणो रथः निर्घोषभीमः चीत्कारभयानकः । अत एव उत्प्रेक्ष्यते-निर्घात इव उत्पाततुल्यः । सोऽपि जनभयङ्करः कम्पितमहीतला निर्घोषभीमश्च । उपमाश्लेषोऽलङ्कारः ॥ ४ ॥ .

सन्देहविपौषधिसर्वाषायुते- [एकोनविंशः - भवन्निति ॥ लोकानां जनानां जगता च । 'लोकस्तु भुवने जने' इत्यमरः। भयाय भवन् सम्पयमानः । भयं जनयत्रित्यर्थः । 'क्लपि सम्पद्यमाने च' इति क्लुपरनि देशाच्चतुर्थी । आकम्पितमहीतलः, भूकम्प कुर्वन्नित्यर्थः। निषेण भीमो भयङ्करः तस्य बलभद्रस्य रथो निर्घात इवाऽऽपतदधावत् । श्रौती पूर्णोपमा । रामे रिपुः शरानाजिमहेष्वास विचक्षणे ॥ कोपादथैनं शितया महेष्वा स विचक्षणे ॥५॥ राम इति ॥ रिपुः शत्रुः वेणुदारी रामे बलभद्रे शरान् आस सायकान् चिक्षेप । किं. लक्षणे रामे आजिमहेषु समरोत्सवेषु विचक्षणे पण्डिते, समरव्यापाराभिशे इत्यर्थः । अथाऽनन्तरम् एनं वेणुदारिणं स रामः कोपात् क्रोधात् शितया तीक्ष्णया महेष्वा महेषुणा महापृषतेन विचक्षणे जघान अक्षणोत् । विचक्षणे इति क्षणे: लिटि रूपम् । इषुशब्दः स्त्रीपुंसोः। सन्दष्टयमकालङ्कारः ॥ ५ ॥ राम इति ॥ रिपुर्वेणुदारी आजिमहेषु रणोत्सवेष्विति रूपकम् । 'मह उद्धव उत्सवः' इत्यमरः। विच. क्षणे प्रगल्भे । विचष्टे इति कतरि ल्यु डिति न्यासकारः । 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिक ख्याञादेशाभावः । रामे बलभद्रे शरान आस चिक्षेप । अस्यतेर्लिट् 'अत आदेः' इत्यभ्यासदी घे सवर्ण- दीर्घः। कोपात् स राम एनं वेणुदारिणं शितया शातया। 'शाच्छोरन्यतरस्याम्' इतीत्वम् । महेष्वा महेषुणा । 'पत्री रोप इषुयोः' इत्यमरः । विचक्षणे जघान । 'क्षणु हिंसायाम्' इति धातोः कर्तरि लिट् । भभित्र- समपादो नाम पादाभ्यामयमकभेदः । एवमुत्तरापि द्रष्टव्यम् ॥ ५ ॥ दिशमर्कमिवाऽपाची मूर्छा गत(१)मपाहरत् ॥ मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ ६ ॥ दिशमिति ॥ सूतः सारथिः तं वेणुदारिणमाशु शीघ्रम् आजिविहायसः समामा- ऽऽकाशादपाहरत् अपहरति स्म अपचकर्ष । अन्यतो निनायेत्यर्थः । किंलक्षणं तं वेणुदा. रिणं यतः मूर्छा गतं मोहं प्राप्तम् , अपरं किंलक्षणं तम् अत एव मन्दप्रतावं स्वल्पप्रभावं स्तोकतेजस्कम् । कमिव कः कुतोऽपाहरदित्याह-अपाची दिशं दक्षिणामाशां गतमर्क श्रीसूर्य मन्दप्रतापं स्वल्पतेजस्कं ततः विहायसः आकाशात् सूतः सारथिः अरुणः आशु कर्षति । दक्षिणायने हि सूर्यः मृदुतेजाः शीघ्रगामी च भवति । मूर्खाया अपाची दिगुपमानम् । रूपकोपमाश्लेषसङ्कराः अलङ्काराः ॥ ६ ॥ दिशमिति ॥ मूर्खागतं रामेषुपातान्मोहमुपगतम् अत एव मन्दप्रतापमल्यप्रकाशं से वेणुदारिण- मवाची दक्षिणा दिशं प्राप्तम् ,अत एव मन्दप्रतापमर्कमिव सूतः सारथिरनूरुश्व आजेविहायसः आकाशादिवा- जिविहायस इत्युपमितसमासः। शीघ्रमपाहरदपसारितवान् । उपमा ॥ ६ ॥ कृत्वा शिनेः शाल्वच सप्रभावा चमूर्जिताम् ॥ ससर्ज वक्त्रैः फुल्लाजसप्रभा वाचमूर्जिताम् ॥ ७ ॥ कृत्वेति ॥ शिनेः चमूः सात्यके: सेना ऊर्जितामुत्कटाम् अदीनां तेजस्विनी वाचं ससर्ज वाणीमुदैरयत् । किं कृत्वा शाल्वच जितां कृत्वा शाल्वस्य शिशुपालपक्षस्य राज्ञः चमं सेनां जितां कृत्वा अभिभूय, किलक्षणा शिनः चमूः सप्रभावा प्रभाववती, बलवती इत्यर्थः । अपरं किलक्षणा शिनेः चमूः वक्त्रैः वदनैः करणभूतैः फुलाजसप्रभा विकसितसरसिजकान्तिः, फुल्लाजैः सहशी प्रभा यस्याः सा तथा । इति कृत्वा शिनेवाहिनी शाल्यचर्म जित्वा प्रहृष्टा जगजेंति वाक्यार्थः॥७॥ (१) भिवाश्याची मूगित ।

सर्गः।]
शिशुपालवधे।
-
.
कृत्वति ॥ प्रभावेन सह पन्त इति सप्रभावा महानुभाषा शिनेः सात्यकिपितामहस्य चमू सेना,
शाल्वो नाम चैयपलो राजा तस्य चमू सेना जितां कृत्वा । जित्वेत्यर्थः । अत एव वर्मुखः । 'येनाङ्ग-
विकारः' इति तृतीया। विकासस्यापि विकारत्वात् । फुल्लाजस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा ।
हर्षेण विकासितवक्त्रा सतीत्यर्थः । अर्जितामुदारा वाचं ससर्ज के यूयमस्मदम' इत्यागुच्चेजगर्न । जगा-
देत्यर्थः । उपमायमकयोः संसृष्टिः ॥ ॥
उन्मुकेन द्रुमं प्राप्य सङ्कुचत्पत्रसम्पदम् ॥
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८ ॥
उल्मुकेनेति ॥ उल्मुकेन श्रीबलदेवसतेन दुर्म चैधपक्षपातिनं द्रुमाख्यं राजानं प्राप्य
आसाथ सप्रतापं तेजोऽन्वितं यथा स्यात्तथा अदीप्यत दिदीपे चकाशे । किंलक्षणं
दुर्म सकुचत्पत्रसम्पदं सकुचन्ती पीडाऽनुभवात् एकत्र भवन्ती पनसम्पत वाहनसमृद्धि-
यस्य तथा त, किलक्षणेन उल्मुकेन दिक्षु आशासु तेजः प्रतापं कीर्ति वा प्रकिरता विक्षि-
पता, मुश्शतेत्यर्थः । यदपि उल्मुकम् अर्धदग्धं काष्ठं, तेन सकुचत्पत्रसम्पदं म्लायत्-
किसलयसमृद्धं द्रुमं शुष्कं वृक्षं प्राप्य दिक्षु तेजः प्रकिरता सता सप्रतापं सौष्ण्यातिशय
यथा भवत्येवं दीप्यते । श्लेषालङ्कारः ॥ ८ ॥
उल्मुकेनेति ॥ दिक्षु तेजः प्रभाव प्रकाशं च प्राकरता विक्षिपता उल्मुकेन भागवतेन राज्ञा अलातेन
च मङचन्ती पत्रसम्पत् वाहनसम्पत पर्णसमृद्धिश्च यस्य तं सप्रतापं सपराक्रमं प्रकटतापसहितं च दुमं
दुमाख्यं राजानं वृक्षं च प्राप्याऽदयित प्रजवले । भाव लङ् । अत्राभिधायाः प्रकृतार्थ नियन्त्रणादप्रकृतार्थ-
प्रतीतिध्वनिरव न श्लेषः ॥ ८॥
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ॥
तयैव वाचाऽपगमं ययाचाऽपमुदा युधः ॥ ९॥
पृथोरिति ॥ रुक्मी भीष्मकात्मजः उदायुधः उद्गीर्णायुधः सन् ऊर्वीकृतप्रहरणः
सन् यया वाचा वाण्या पृथोः भगवत्सुतस्य चापं धनुः अध्यक्षिपत् जगहें । धिक् ते चाप-
मिति निनिन्देत्यर्थः । तयैव वाचा युधः सङ्ग्रामात् अपगमं निःसरणं ययाच अयाचत
अध्यपीत् । प्रसीद मा प्रहार्षीः श्रान्तोऽस्मि अपयामीत्यवोचदित्यर्थः । किंलक्षणया वाचा
अपमुदा दीनया गतहर्षया ॥ ९ ॥
पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञ.
वापमध्यक्षिपत् धिमिदं वृथा कष्ट मिति निनिन्द । अपगता मुत् यस्यास्तयाऽपमुदा निरुत्साहया तयैव धाचा
युधो युद्धादपगममपसरणं ययाच । 'मां वाहि(?) पलायमानं, शरणागतोऽस्मीति प्रार्थयामासत्यर्थः। याचि-
रुभयपदी॥९॥
समं समन्ततो राक्षामापतन्तीरनीकिनीः ।
काणिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः॥१०॥
सममिति ॥ काणिः श्रीकृष्णस्यापत्यं पृथुः प्रद्युम्नो वा एकः असहायः सन् समं
युगपत् राज्ञामनीकिनीः भूपतीनां पृतनाः प्रत्यग्रहीत् प्रत्यैच्छत् । किंलक्षणाः अनीकिनीः
समन्ताच्चतुर्दिग्भ्यः आपतन्तीः आगच्छन्तीः, कः का इव सरस्वान् निम्नगा इव । यथा
सरस्वान् समुद्र एकः सन् सर्वाः निम्नगाः नदीः प्रतिगृह्णाति प्रतीच्छति ॥ १० ॥

..
६७२
सन्देहविषौषधिसर्वमायुते-
[एकोनविंशः
-
सममिति ॥ समं युगपत् समन्तत भापतन्तीरागच्छन्तीः राज्ञा चैयपक्षाणामनीकिनी: सेनाः, कृष्ण.
स्यापत्यं पुमान् काणिः प्रद्युम्नः । अत इ । निम्नगा नदीः सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत
प्रत्यवरुरोध ॥१०॥
दधानैर्घनसादृश्यं लसदायसदंशनैः ॥
तत्र काञ्चनसच्छाया ससृजे तैः शराऽशनिः ॥ ११ ॥
दधानैरिति ॥ तत्र कार्गों तैः अरिभिः काञ्चनसच्छाया सुवर्णगौरी शराशनिः साय-
कोल्का ससृजे निरासे । मुमुचे इत्यर्थः । किलक्षणैः तैः लसदायसर्दशनैः लसन्ति
शोभमानानि आयसानि लोहमयानि दशनानि कवचानि येषां ते तथा तैः राजदयोमय-
सन्नाहैः, अपरं किलक्षणैस्तैः अतश्च कार्य्यात् घनसादृश्यं दधानः जलदसायं
बिभ्रद्भिः । अत्रौष्ट्याक्षराणामभावात् निरोष्ठ्योऽयं श्लोकः ।। ११ ।।
दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दशनानि वर्माणि येषां तैः । 'तनुत्रं वर्म दंशनम'
इत्यमरः । अत एव घनसादृश्यं कार्पोमेघसाम्यं दधानस्तैः सनिकैः तत्र कार्गों काञ्चनसच्छाया
सुवर्णवर्णा शर एवा शनिः विद्युत्ससृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओष्ठ्यवर्णविरहात्रिरोठय
चित्रभेदः शब्दालङ्कारः ॥ ११ ॥
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ॥
बभौ बिभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२ ॥
नखेति ॥ असौ काष्णिः बभौ शुशुभे । किंलक्षणोऽसौ धनुःशाखां बिभ्रत् कोदण्ड-
लतां धारयन् , किलक्षणां धनुःशाखां नखांशुमञ्जरीकीर्णा नखानां नखराणामंशवः किर-
णाः त एव मञ्जरी प्रफुल्लकलिकापुञ्जः तया कीर्णा व्याप्ता तां करजदीप्तिपुञ्जव्याप्ताम्
अपरं किंलक्षणां धनुःशाखाम् अधिरूढशिलीमुखाम् अधिरूढः आरोपितः शिलीमुखो
नाराचो यस्यां सा तथा ताम् आरोपितपत्का, किंलक्षणोऽसौ उच्चकैः प्रांशुः, के इव बभौ
तरुरिव पादप इव । यथा स भाति । किलक्षणो वृक्षः मञ्जरीकीर्णामधिरूढशिलीमुखर्खा
समारूढभ्रमरां शाखां शिफां बिभ्रत् धारयन्, उच्चश्च भवति ॥ १२ ॥
नखेति ॥ नखांशवो मञ्जर्य इव नाभिः की व्याप्ताम् , अधिरूढाः शिलीमुखा बाणाः अलया
यस्या ताम् । अलिबाणौ शिलीमुखौ' इत्यमरः । धनुः शाखेव तां बिभ्रदसी काणिरुच्चकैरुत्रतस्तरिय
बभौ । तहारवेति लिङ्गात्सर्वोपमितसमासः । शिलीमुखेति लिष्टविशेषणेयमुपमा ॥ १२ ॥
प्राप्य भीममसा जन्यं सौजन्यं दधदानते ॥
विध्यन् मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३ ॥
प्राप्येति ॥ असौ काणिः भीमं घोरं जन्यं सङ्ग्रामं प्राप्य आसाद्य रिपून न
मुमोच शत्रून् नोपैक्षत । किं कुर्वन् शरैविध्यन् इषुभिस्ताडयन , किंलक्षणः काणिः
अरिपूगान्तकः शत्रुसवातमृत्युः, अपरं किलक्षणः काणिः आनते नने सौजन्यं दधत्
सुजनता साधुतां बिभ्रत् । त्वय्यस्मीतिवादिनम् अविष्यन्नित्यर्थः । अन्ताक्षराणां
पादादावावृत्तत्वात पादान्तादियमकम् ॥ १३ ॥
प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः आरपूगान्तकोऽसौ काणिः भीम भयङ्करं जन्यं युद्ध
प्राप्य । 'युद्धमायोधनं जन्यम्' इत्यमरः। आनते नमे सौजन्य सौहार्द दधत न तु विध्यन । 'न लोन
कृताञ्जलिम्' इति निषेधादिति भावः । रिपून्प्रतिपक्षान् शर्विध्यप्रहरन न मुमोच । न ररक्षेत्यर्थः ।
सन्देशयमकभेदः ॥ १३॥

संगः।] शिशुपालवधे। .. .. कृतस्य सर्वक्षितिपैविजयाशंसया पुरः ॥ अनेकस्य चकाराऽसौ बाणैर्बाणस्य खण्डनम् ॥ १४ ॥ कृतस्येति ॥ असौ काणिः बाणैः शरैः बाणस्य बाणासुरस्य खण्डनं चकार हिंसा व्यधात् । किंलक्षणस्य बाणस्य सर्वक्षितिपैः सकलराजकैः विजयाशंसया पुरोऽग्रे कृतस्य नियुक्तस्य, अपरं किंलक्षणस्य बाणस्य अनेकस्य बहुभिः परिवृतस्य, न एकः अनेकः तस्य। बहूनां बाणानां बाणैः छेदमकरोत् इत्युक्तेः, तत्रोक्त्या शरैः शरांश्चिच्छेदेत्यर्थः । तेऽपि विजयाशंसया जयवाञ्छया राजभिः पुरः प्रक्षिप्यन्ते, उक्तिः । श्लेषोऽलङ्कारः ॥ १४ ॥ कृतस्येति ॥ असौ काणिः सर्वक्षितिपैविजयाशंसया विजयाकासपा पुरोऽने कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्याऽनकाकिनः । ससहायस्यत्यर्थः । अन्यत्राऽनेकस्य बहुसङ्ग्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणः खण्डनं छेदं चकार । अत्र बाणयोयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः ।। १४ ।। या बभार कृताऽनेकमाया सेना ससारताम् ॥ धनुः स कर्षन् रहितमायासेनाऽऽससार ताम् ॥ १५ ॥ येति ॥ स काष्णिः तां सेनाम् आससार अभीयाय । तां कां, या सेना अनीकिनी कृताऽनेकमाया सती विहितबहुच्छला सती ससारतां बभार सबलत्वमुत्कर्ष दधे, किं कुर्वन् आससार धनुः कर्षन कार्मुकमाकर्षन् सन् , कथं यथा भवति आयासेन रहितं श्रमेण विना, सलीलमित्यर्थः । यदि वा आयासेन स्फोटभयेन रहितं वर्जितमिति धनुर्विशेषणम् ॥१६॥ येति ॥ या मेना कृताऽनेकमाया कृतबहुकपटा मती ससारतां सारवनां बभार, तां सेनां स कारिणः कर्ष- न । धनुषा विध्यन्निन्यर्थः । आयासेन रहितमनायास यथा तथा आमसार । अभियुक्तवानित्यर्थ: । वाणं भक्त्वा तत्सना वभनेत्यर्थः ॥ १५ ॥ ओजो महौजाः कृत्वाऽधः स क्षणा(१)दुत्तमौजसः॥ कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥ १६ ॥ प्रोज इति ॥ स काणिः आजौ सङ्ग्रामे स्वं नाम स्वाऽभिधानं मुख्यतामनयत् प्राधान्यं प्रापयामास, रिपुपराभवकरणात् । किं कृत्वा उत्तमौजसः उत्तमौजो ऽभिधानस्य द्रुपदात्मजस्य अन्यस्य वा राज्ञः क्षणादेकमुहूर्तादेव ओजस्तेजः प्रभावम् अधः कृत्वा नीचं विधाय अभिभूय, यतः स किलक्षणः महौजाः तेजस्वी, महाप्रभाव इत्यर्थः । अत एवं किं कुर्वन् तस्य उत्तमौजसः अमुख्यत्वं कुर्वन् अप्राधान्यं जनयन् । शत्रुणाऽभिभूतस्य हि कीदृक् प्राधान्यम् । अथ च तस्याऽमुख्यत्वम् अर्थशून्यत्वं कुर्वन् स्वनाम मुख्यत्वं सार्थकत्वमनयदिति अर्थान्तरप्रतीतिः । न ह्युत्तमौजसः महाबलस्य स्वनाम्नि निमि- तत्वमस्ति, तेनौजसोऽधःकृतत्वात् । कार्गों तु तन्महौजस्त्वात् विद्यते इति मुख्यता॥१६॥ भोज इति ॥ महौजा महाबलः प्रद्युम्नः उत्तमोजसो नाम राज्ञः ओजस्तक्षणादेवाऽधः कृत्वाऽभिभूय बाजी युद्धे अमुख्यन्वमप्रधानत्वं कुर्वन, अथवा अमुख्यत्वममुख्यार्थत्वं तन्नाम्नः कुर्वन् नाम निज प्रद्युम्ननामधेयं मुख्यता प्रधानता प्रसिद्धार्थतां चाऽनयत् । प्रकृष्टं द्युम्नं बलं यस्येति प्रद्युम्न इति स्वामी ॥ दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ॥ न पुनः सांयुगी ताः स्म कुमारोहन्ति सस्मयाः ।। १७ ।। (१) धस्तत्क्षणा०। ५७ शि०व० .६७४ सन्देहविषौषधिसर्वकषायुते- [एकोनविंशः- दूरादेवेति ॥ स कुमारः पृथुः प्रद्युम्नो वा दूरादेव विप्रकृष्टदेशादेव याः सस्मयाः गर्विष्ठाः चमूः सेनाः भल्लैर्बाणैईन्ति स्म जघान, ता: चम्वः पुनः भूयः सांयुगी कुं समामयोग्यां पृथिवीं न आरोहन्ति स्म नारूढाः, मृतपलायितत्वात् । संयुगाय साधुः सांयुगी ताम् ॥ १७ ॥ दूरादेवति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूर्दूरादेव भाणविशेषैर्हन्ति स्म जघान, ता- पुनर्भूयः संयुगस्येमा सांयुगी कुं पृथ्वी । रणभुवमित्यर्थः । 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । न आरोहन्ति स्म नारूढाः ॥ १०॥ निपीड्य तरसा तेन मुक्ताः काममनास्थया । उपाययुर्विलक्ष्यत्वं(१) विद्विषो न शिलीमुखाः ॥ १८ ॥ निपीड्येति ॥ तेन कुमारेण तरसा बलात् निपीड्य पीडयित्वा काममत्यर्थम् अना- स्थया मुक्ताः हेलया त्यक्ताः सन्तो विद्विषः शत्रवः विलक्ष्यत्वं निष्प्रभवदनत्वम् उपाययुः प्रापुः, न शराःन बाणाः । शत्रवो हि तेनोपताप्य पराभवात् मुक्ताः सन्तो विलक्ष्या बभूवुः विनेशुः । न हि तेषु तस्य कश्चिद्धरः । शरास्तु तेनाऽवहेलयाऽऽकृष्य मुक्ताः क्षिप्ताः न. विलक्ष्यतां लक्ष्यादन्यत्र जग्मुः, अपि तु लक्ष्ये शरव्ये एव पतिताः इति व्यतिरेकः ॥१८॥ निपीब्योति ॥ तेन प्रानेन तरसा बलेन कामं निपीडय अनास्थयाऽनादरेण मुक्ताः । 'आर्ता न परि- इन्तव्याः' इति निषेधेनाऽवध्या इति जीवन्तो मुक्का इत्यर्थः । अन्यत्र क्षिप्ता: विद्विषो विलक्षवं सत्रपत्व- माययुः । 'विलवस्तु पान्विते' इत्यमरः । शिलीमुखा बाणास्तु विलक्षत्व लक्षभ्रष्टत्वं नाययुः। अत्र द्वयो- रपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित- इति सदूरः॥१८॥ तस्याऽवदानैः समरे सहसा रोमहर्षिभिः ॥ सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १६ ॥ तस्येति ॥ तस्य काणे: व्योमस्थैः खे वर्तमानैः सुरैर्देवैः महर्षिभिः सह महामुनि- मिः साधं समरे सङ्ग्रामे सारो बलम् असि स्तुतः । किलक्षणैः सुरैर्महर्षिभिश्च अवदान- स्तदीयैरुत्कृष्टव्यापारैः सहसा अतर्कितं रोमहर्षिभिः सरोमाः कण्टकितैः ॥ १९ ॥ तस्येति ॥ समरे तस्य प्रद्युम्नस्याऽवदानरत्युग्रकर्मभिः करणैः सहसा मयः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह सार्ध सारो बलममि शंसितम् ॥ १९ ॥ सुगन्धयहिशः शुक्ल(२)मम्लानि कुसुमं दिवः ॥ भूरि तत्राऽपतत्तस्मादुत्पपात दिवं यशः ॥ २० ॥ सुगन्धयदिति ॥ तत्र तस्मिन् कुमारे दिवः आकाशात् भूरि प्रभूतं कुसुमं पुष्पम् अपतत् अनश्यत् । तस्मात् प्रधुम्नात् यशः श्लोकः दिवमाकाशम् उत्पपात आरुरोह । कृतप्रशस्यकर्मत्वात् देवरस्य पुष्पवर्षममोचीत्यर्थः । किंलक्षणं कुछम दिशः सुगन्धयत् काष्ठा आमोदयत् ,अपरं किंलक्षणं कुछमं शुक्लं सितं, यदि वा स्थूलं प्रभूतम्, अपरं किं- लक्षणं कुछमम् अम्लानि विकासि । यशोऽप्याशाः सुगन्धयत् सामोदाः कुर्वत् , प्राप्नु- वदित्यर्थः । शुक्लं स्थूलं वा उगन्धि सितं च यश इत्यौपचारिको व्यवहारः । अम्ला- न्यनष्टं नवम् । परिवृत्तिश्लेषसङ्करोऽलङ्कारः ॥ २० ॥ .. (१)विलमत्वं । (२) शुभ्रा वर्गः ।] शिशुपालवधे। ६७५ । .. .. सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत् । सुगन्धात् 'तत्करोति-' इति ण्यन्ताल्लटः शक्रा- देशः । शुभ्रं धवलम् अम्लानि म्लानिरहित भूरि प्रभूतं कुसुमं दिवोऽन्तरिक्षान्तत्र प्रद्युम्ने अपतव । तस्मात्य- युम्नात् यशः पूर्वोक्तगुणयुक्तं दिवमन्तरिक्षं प्रति उत्पपात । अत्र युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्यो- पस्कारजननादन्योन्यालङ्कारः । 'परस्परं क्रियाजननेऽन्योन्यम्' इति लक्षणात् ॥ २० ॥ सोढुं तस्य द्विषो नाऽलमपयोधरवा रणम् ॥ ऊणुनाव यशश्च धामपयोधरवारणम् ॥ २१ ॥ सोदुमिति ॥ द्विषः शत्रवः तस्य काणेः रणं सड्याम सोढुं विषहितुम् अलं न समर्थाः न । किंलक्षणा द्विषः अत एव अपयोधरवाः अपगतो निवृत्तः योधानां भटानां रवः शब्दः सिंहनादो येषां ते तथा । अतश्च यशः कीर्तिः यां स्वर्गम् ऊर्णनाव पिदधे व्याप । किलक्षणं यशः अपयोधरवारणम् अविद्यमानं पयोधरै धैः वारणं निवृत्तिर्यत्र तत्तथा । मेघपथमुल्लङ्घ्य स्वर्ग जगामेत्यर्थः ॥ २१ ॥ सोढुमिति ॥ अपगता भयान्त्रिवृत्ता योधानां स्वाः मिहनादा येषां ते अपयोधरवाः द्विषः शत्रब. तस्य काणे: रणं मोढुं नाडलमशताः,अत एव यशश्न अविद्यामानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं मत यामूणुनाव । मेघमण्डलं व्यतिलक्ष्य स्वर्गमाच्छादयामासेत्यर्थः। उतिलिट्। अजादाद्विती. यस्य' इति द्वितीयस्याचो द्विर्भावः । नुवद्भावादाम्प्रतिषेधः । यमकवाक्यार्थहेतूकाव्यलिङ्गयोः संमृष्टिः ॥२१॥ केशप्रचुरलोकस्य पर्यस्कारि विकासिना ॥ शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ २२॥ केशेति ॥ कुसुमलक्ष्मणा पुष्पधनुषा कन्दर्पावतारेणैव प्रद्युम्नेन युद्धस्य सख्यामस्य शिरः मस्तकं पर्यस्कारि परिष्कृतं भूषितमिति, कर्मणि लुट् च्लेश्चिण 'संपर्युपेभ्यः करोतौ भूषण' इति सुडागमः । शिर इव शिरः । किंलक्षणस्य युद्धस्य केशप्रचुरलोकस्य केशाः कचा इव प्रचुराः प्रभूताः लोकाः सैन्यजना यस्य तत्तथा तस्य, यदि वा कस्य जल- स्य ईशः आधारः केशः समुद्रः स इव प्रचुरा लोका यस्य तत्तथा तस्य, किलक्षणेन कुसुम- लक्ष्मणा विकासिना विविधं कसति गच्छति वल्गतीति विकासी तेन अनेकमार्ग- चारिणा, केनेव पर्यस्कारि शेखरेणेव अवतंसनेव । यथा शेखरेण आपीडेन शिरः मस्तक परिष्क्रियते । किलक्षणेन शेखरेण विकासिना प्रफुल्लेन, यतः किंलक्षणेन शेखरेण कुछम- लक्ष्मणा कुलमानि लक्ष्म चिहं यस्य सः कुसुमलक्ष्मा तेन सपुष्पेण, न तु पत्रवता । यथा तेन केशप्रचुरं प्रचुरकेशं शिरः परिष्क्रियते, न तु मुण्डं शिरः ॥ २२ ॥ केशति ॥ विकामिना विविधमार्गचारिणा विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युमेन अन्यत्र कुसुमचिन्हेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिस्तस्य युद्धस्य शिरोष्णभूमिः, अन्यत्र केशः प्रचुरस्य केशाठ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्ये नेवेत्यर्थः । 'शिखास्वापीडशेखरौ' इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः। परिपूर्वाकरोतेः कर्मणि लिट् । 'सम्पर्युपेभ्यः करोती भूषणे' इति सुडागमः, 'अडभ्यासव्यवायेऽपीति नियमात् । 'परिनिविभ्यः-इत्यादिना पत्वे 'सिवादीनां वाऽव्यवायेवि' इति विकल्प: । उपमा ।। २२ ।। सादरं युध्यमानाऽपि तेनाऽन्यनरसादरम् ॥ सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ २३ ॥ सादरमिति ॥ तेन प्रधुम्नेन सा पृतना अनीकिनी शत्रुसेना सादर सबद युध्य- . ..

६७६ सन्देहविषौषधिसर्वषायुते- [ एकोनविंशः- . रसाद । मानापि युध्यन्त्यपि अरं शीघ्र दरं निन्ये भयं नीता । किलक्षणा पृतना अत एव रसात् वीराख्यात् हीयमाना त्यज्यमाना, किंलक्षणं दरम् अन्यनरसादरम् अन्येषामभीतानामपि नराणां पुरुषाणां सादमवसाद खेदमनुद्योगं राति ददाति तत् अन्यनरसादरम् । पलायने हि सति वीराणामनुद्योगो भवति ।हीयमाना क्रियाविशेषणं चैतत् । हीयमानेति कर्मकर्तरि।। सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि सम्प्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रणे रागात् हीयमानापकृष्यमाणा । प्रद्युम्नमहिनेति भावः। अत एवात्र विरोधाभासोऽलङ्कारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना चैवसेना तेन प्रद्युम्नेन अन्येषां तटस्थानामपि नराणां सादं निश्शे- टता राति ददातीति अन्यनरमादरम् । 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । दरं भयम् । 'दरोऽस्मियां भये स्वने' इत्यमरः । निन्ये नीता । नयतेः प्रधान कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुईिकर्मणाम्' इति वचनात् । विरोधाभासयमकयोः संसृष्टिः ।। २३ ।। इत्यालिङ्गितमालोक्य जयलक्ष्म्या झषध्वजम् ॥ क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ २४ ॥ इतीति॥अथ चेदिभूपतिः शिशुपाल: क्रुधा रुषा प्रपेदे आश्रितः। किंलक्षणया क्रुधा, उत्प्रेक्ष्यते-क्रुद्धयेव रुषितयेव । किं कृत्वेति क्रोधे निमित्तमाह-इति पूर्वोक्तप्रकारेण अष- ध्वजं मकरध्वजं प्रद्युम्नं जयलक्ष्म्या जयश्रिया आलिङ्गितमाश्लिष्टम् आलोक्य दृष्ट्वा । यदा किल कक्षित् रम्यपतिं नायिकाऽऽलिङ्गति, तदाऽन्या नारी तत्स्पर्धया ईश्वरं प्रतिपद्यते॥२४॥ इतीति ।। इतत्थिं जयलक्ष्म्या आलिङ्गिनं झषध्वजं मत्स्यकेतुं प्रद्युम्रम् । 'पृथुरोमा झनो मत्स्यः' इत्यमरः । आलोक्य सद्यः क्रुद्धया सपल्यागमात्कोपितयेवेत्युत्प्रेक्षा । कुधा प्रद्युम्नाभितया रुषा का चेदिभूपतिः प्रपेदे प्राप्तः । तं विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः । विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्चुकोपेत्यर्थः ॥ २४ ॥ अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्गत्कलभसमाऽनीचतुरङ्गया ॥ २५ ॥ अहितानिति ॥ स मानी साभिमानः चैद्यः चतुरङ्गया वाहिन्या सेनया अहितान् अभि যমুন प्रति चचाल जगाम । चत्वारि गजरथतुरङ्गमपदातिलक्षणानि अङ्गानि अवयवाः यस्याः सा चतुरङ्गा तया । किंलक्षणया वाहिन्या वलगत्कलभसमाऽनीचतुरङ्गया वल्गन्तः नृत्यन्तः : कलभसमाः बालगजतुल्याः अनीचाः उच्चाः तुरङ्गा वाजिनो यस्यां सा तथा तया । उच्चत्वात्करिपोतदना वाजिनो यस्या इत्यर्थः ॥ २६॥ अहितानिति ॥ मानी अभिमानवान् म क्रुद्धश्चैद्यः वल्गन्तः प्लवमानाः कलभसमाः कलभप्रमाणाः अत- एवानीचा उच्चास्तुरङ्गा यस्या तया बलात्कल भसमाऽनीचतुरङ्गन्या, चत्वार्यानि इस्त्यादीनि यस्यास्तया चतुरङ्गया वाहिन्या करणेन अहितानभि शवप्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते ॥२५॥ चतुभिः कलापकम्- ततस्ततधनुौ:विस्फारस्फारनिःस्वनैः। तूर्यैर्युगक्षयक्षुभ्य(१)दकूपाराऽनुकारिणी ॥ २६ ॥ ॥ सर्वतोभद्रः॥ at का स. का य साद द सा य का॥ स र र (१)ये शुभ्यः।

मर्गः।] शिशुपालवधे। ६७७ र र र ता ना ग ना . सा ह वा वा ह सा र. वाद वाद ना॥२७॥ लोलाऽसिकालियकुला यमस्येव स्वसा स्वयम् ॥ चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८॥ ॥ मुरजबन्धः॥ सा से ना से ना सी द ना ता॥ र ना द धी र या ॥ २९॥ तत इत्यादि ॥ सा सेनेति ॥ ततोऽनन्तरं सा सेना चैधपताकिनी गमनारम्भ प्रस्थानावसरे रसेन रणश्रद्धया अनारता अनिवृत्ता आसीत् अभवत् । रोषेणाऽभीयाये- ..त्यर्थः । कथं यथा भवति मत्तधीरनागं मत्ताः प्रमत्ताः प्रभिन्नाः धीरा निर्भया नागाः करिणो यत्र तत् मत्तधीरनागं, किलक्षणा सेना तारनादजना तारः उच्च: नादः शब्दः कलकलो येषां ते तारनादाः एवंभूता जना लोका योद्धृलक्षणा यस्यां सा तथा उच्चकोला- हललोका, अपर किंलक्षणा सेना यतः अनामया न आमयः कष्टं व्यसन वा यस्याः सा तथा निर्व्यसना । तत इति ॥ अपरं किंलक्षणा सेना युगक्षयक्षुभ्यदकूपाराऽनुकारिणी युगक्षये कल्पान्ते क्षुभ्यन कम्पमानो योऽकूपारः सागरः तमनुकरोति विडम्बयति इति तथा। कैः सूयः वादित्रैः, किंलक्षणैः तूयः ततधनुर्मीवीविस्फारस्फारनिःस्वनैः तता आकृष्टाः या धनुर्मीळः चापशिञ्जिन्यः तासां यो विस्फारः क्रेङ्कारः, तेन स्फारः महान् निःस्वनः घोषो येषां तानि तथा तैः, आकृष्टचापज्याक्रेङ्कारमहास्वरकैरित्यर्थः । सकारेति ॥ अ- परं किलक्षणा सेना सकारनानारकासकायसाददसायका करणं कारः अरीणां समूहः आरं, सकाराणि सक्रियाणि नानाविधानि यानि आराणि रिपुवृन्दानि तेषां यः कासः भ्रमण वल्गनं तथा कायाः देहाः तेषां साददाः क्लेशदायिनः सायकाः मागंणा यस्याः सा तथो- का । यदीयशराः द्विषां गमनं कायं च खण्डयन्तीत्यर्थः । अपरं किंलक्षणा सेना रसाहवा रसेन रागेण न तु भयेन आहवो युद्धं यस्याः सा तथा, अपरं किलक्षणा सेना वाहसारनाद- वाददवादना वाहसाराणां वाहश्रेष्ठाणाम् अश्वीयादीनां यो नादः शब्दो हेषितादिः स- एव वाद इव वादः मिथो महाजल्पनं तं द्यन्ति खण्डयन्ति स्थगयन्तीति वाहसारनादवाद- दानि एवंविधानि वादनानि तूर्याणि यस्यां सा तथा । व्याख्यान्तराणां तु निरर्थकत्वात नादरोऽस्त्यस्माकं तत्रेति हि स्पष्टे व्याख्याने दुष्टव्याख्याप्रतिपत्तिर्मोहायैव । न च ताः कविवक्षिताः, सर्वतो वाचयितुं शक्यत्वात् । लोलेति ॥ अपरं किंलक्षणा सेना सहायता चिकीर्षुः साहाय्यं कर्तुकामा स्वयं मूर्ता यमस्य अन्तकस्य स्वसा भगिनीव यमुनेव । कस्य साहाय्यमिति चेत् प्रकृतत्वात् चैद्यस्यैव । यमेन हि किल प्राणिनो वध्याः, तत्स्वसा च यमुना भ्रातृस्नेहात् तान् नती साहाय्यं कृतवतीति । ननु कि सेनाया हि यमुना- सारूप्यं, येनैष तर्क इत्याह-अपरं किलक्षणा सेना लोलाऽसिकालियकुला लोला: असया .

६७८ सन्देहविषौषधिसर्वकषायुते- [ एकोनविंश:- खड्गा एव नीलत्वात् कालियकुलं कालियस्य महानागविशेषस्य कुलं वंशो यस्यांसा तथा, अपरं किंलक्षणा सेना उल्लसल्लोहवर्मश्यामा उल्लसद्भिः शोभमानैः लोहवर्मभिः आयसकवचैः श्यामा कृष्णा । यमुना हि किल नीलजला कालियाऽहिकुलवसतिश्च । चक्रकमेतत् । चतुभिः कलापकम् ॥ २६-२९॥ अथ कलापकेन मेनो धर्णयति- तत इति । ततश्चैद्यचलनाऽनन्तरं ततानामाकृष्टानां धनुर्मोवीणां विस्कारैः स्फाराः प्रभूता निःस्वना येषां तैस्तूयः युगक्षये कल्पान्ते क्षुभ्यन्तमुद्वेल्लन्तमकूपारं समुद्रमनुकरोतीति तदनुकारिणी सा सेनेत्युत्तरे. पाऽन्वयः । उपमा ॥ २६ ॥ खकारेति । पुनः कीदृशी । कारो वधे निश्चय च बले यत्ने रतावपि' इति विश्वः। सकाराः सयानाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । भिक्षादिभ्योऽण् । तेषां कामा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारका: सायका यस्यां सा तथोक्ता, रसेन रागेणाहयो यस्याः सा रमाहवा । रणरागिणीत्यर्थः । वाहसाराणा पाहश्रेष्टानां ये नादा हेषादिघोषास्तेषां वादं कलह बदन्तीति वादनानि लैः सह कलहायमानानि वादनानि वाद्यानि यस्यां सा वाहसारनादवाददवादना। तूर्य- तुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोकेरतिशयोक्तिः। सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । अत- एव दण्डी-तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुःषष्टिकोठे चतुरङ्गबन्धे क्रमेणा- अपाङ्गचतुष्टये पादचतुष्कं विलिख्याऽनन्तरं पतिचतुष्टयेऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतमृषु प्रथमप्रादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि । लोलेति ॥ लोलान्यसीनामेव कालियानां कृष्णसर्पविशेषाणां कुलानि यस्यां सा, उल्लसद्भिर्लाहवर्मभि- रयाकञ्चुकः श्यामा अत एव यमस्याऽन्तकस्य सहायता भ्रातृस्न हादस्मिन् सेनासंहारे साहाय्यं चिकीर्षुः स्वयं साक्षात् स्वसा तस्यैव भगिनी यमुनेव स्थितत्युत्प्रेक्षा ॥ २८॥ सा सेनेति ॥ तारोऽत्युच्चैर्नादः सिंहनादो येषां ते जना यस्यां सा तारनदजना अनामया अव्यथा मा. पूर्वोक्का सेना, मत्ता धीरा अदुष्टाश्च नागा गजा यस्मि-कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाऽभूदित्यर्थः । मुरजबन्धः । तम्योद्धारस्तु- 'तिर्यरेखा लिखेत्पञ्च नवोस्तित्र पतयः । अष्ट कोष्ठाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात ॥ तत्रायद्विधितुर्यासु तुर्यत्रियायपतिषु । आयद्वित्रिचतुःपञ्चषट्सप्ताऽष्टमकोष्ठगः ॥ दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपतिप्राथम्यात्प्रथमावधिवीक्षणात् ॥ द्वितीयादावायविध्योदितुर्ये वितुरीयके । तुर्यत्रियोस्तृतीयाद्ये द्रष्टव्योऽाप्रीतीयकः ॥ तृतीयोऽनिद्वितीयान्त्ये आयसप्तमषष्ठयोः । द्वित्रिपञ्चमयोस्तुर्यषष्ठसप्तमयोः क्रमात ॥ तृतीयान्त्ये च लक्ष्योऽयमथान्यः क्रम उच्यते । आयत्ययुग्मयोः पवत्योश्चिन्त्यो गोमूत्रिकाक्रमः ॥ कृत्वकं द्वितयं द्वे च यमेकामिाते क्रमात् । या द्वितयमेकं च यमेकं द्वयं पुनः ॥ स्वपक्तिप्रक्रमादेव विन्यासद्वितयं भवेत् । यदा प्रथमतुर्यानी स्वपक्वत्योस्तदनुक्रमात ॥ द्वितीयोऽनिर्वितीयस्या क्रमादायचतुष्टये। .

सर्गः।] शिशुपालवधे। ६७६ .. व्युत्क्रमाच्च तृतीयस्थामायमेव चतुष्टये ॥ व्युत्क्रमण द्वितीयस्या तृतीयस्यां क्रमेण च । द्रष्टव्यो हि तृतीयोऽघिरन्त्यकोष्ठ चतुष्टये ॥ विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि। विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥ इति । कलापकम् ॥ २९ ॥ धौतधारा(५)ऽसयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ॥ शौर्यानुरागनिकषः सा हि वेलाऽनुजीविनाम् ॥ ३० ॥ धौतेति ॥ क्षमाभृतां पार्थिवानां प्रष्ठाः अग्रेसराः प्रातिष्ठन्त युद्धाय प्रतस्थिरे । किल- क्षणाः प्रष्ठाः धौतधाराऽसयः धौतधाराः संमार्जितायाः असयः खड्गा येषां ते तथा । हि युक्तोऽमयर्थः, हि यस्मात् कारणात अनुजीविनां सेवकानां सा वेला असौ समयः शौर्या- नुरागनिकषः भवति, शौर्यानुरागयोनिकपः शौर्यस्य प्रीतेश्च निकषः कषोपलः,परीक्षेत्यर्थः। युद्धसमये हि भृत्यानां पौरुषस्नेही लक्ष्येते । यदुक्तम्- उपस्थिते विप्लव एव पुंसां सारेतरत्वं प्रतिभाव्यतेऽन्तः । अवाति वायौ न हि तूलराशेगिरेश्च कश्चित् प्रतिभाति भेदः ॥ ३० ॥ घृतति ॥ क्षमाभृतां राज्ञां, प्रतिष्ठन्त इति प्रष्ठा अग्रेसराः। 'सुपि स्थः' इति कप्रत्ययः, 'प्रष्ठोऽय- गामिनि' इति षत्वे टुत्वम् । धूताः कम्पिता: धोता उत्तजिता असयो येस्ते धूतधौताऽसयः सन्तः प्रातिष्ठन्त प्रस्थिताः । 'समवप्रविभ्यः स्थः' इति तत् । सा वेला अनुजीविना शस्त्रजीविनां शौर्यानुरागयोः पुरुषकार- स्वामिभक्त्यानिकषः परीक्षास्थानं हि । अतोऽग्रे स्थातव्यम् । अन्यथा भीरुत्वं स्वामिद्रोहश्च स्यातामिति भावः । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३० ॥ दिवमिच्छन् युधा गन्तुं कोमलाऽमलसम्पदम् ॥ दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ॥ ३१ ॥ दिवमिति ॥ तदा कः पुरुषः अमलां धौताम् असिलतां खड्गवल्ली दधानः बिभ्रत सन् अलसं पदं दधौ सालस्यं मन्थरं क्रमं न्यधित । सर्वे एव धृतखड्गाः रसेन रणभुर्व प्राविक्षन्नित्यर्थः । किंलक्षणः कः पुरुषः सुखेन दिवं स्वर्ग गन्तुं प्राप्तुमिच्छन् यियामा, किंलक्षणां दिवं कोमलाऽमलसम्पदं कोमला सच्छाया अमला निर्मला दुःखवर्जिता सम्पत् समृद्धिर्यस्यां सा तथा ताम् ॥ ३१ ॥ दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः सम्पदो यस्यां तो कोमला- मलसम्पद दिवं स्वर्ग गन्तुमिच्छन् कः पुमान् अमला धौतामासिलता दधानः अलसंपदं दधौ । सर्वोऽपि निः- शहमाक्रमतेत्यर्थः । अत्र स्वर्गेच्छया विशेषणगत्या निःशङ्कप्रस्थानहेतुन्वात्काव्यलिङ्गं, तयमकेन संमृज्यते । कृतोरुवेगं युगपद्यजिगीषन्त सैनिकाः ॥ विपक्ष बाहुपरिघे चामिरितरेतरम् ॥ ३२ ॥ कृतोरुवेगमिति ॥ सैनिकाः सेनाचराः सभटाः युगपत्समकालं द्वयं व्यजिगीषन्त विजिग्यिरे। विपराभ्यां जे। कथमित्याह-बाहुपरिधैः भुजपरिघातनैः विपक्षं शत्रु व्यजिगी- पन्त, इतरेतर परस्परं तु जवामिः प्रस्ताभिः। स्ववर्यानपि हि तेऽवस्कन्ध प्रविशन्तो. .. (६) भूतपीता।

६८० सन्देहविषौषधिसर्वपायुते- [ एकोनविंशः- ऽतिशिशयिषन्ते । किंलक्षणं विपक्ष कृतोवेगं कृतः विहितः उर्महान् वेगो रयो यस्य येन वा, इतरेतर तु कृत ऊर्वोः वेगो येन सः तथा तम् ॥ ३२ ॥ कृतोरुवेगामिति ॥ सेनाया समवेताः सैनिकाः सैन्याः । सेनायाः पाक्षिकष्ठक । बाहुभिः परिघरिव बाहुपरिषैः बाहुदण्डैः विपदं शघु जलाभिः प्रमृताभिः । 'जङ्घा तु प्रस्ता' इत्यमरः। इतरेतरमन्योन्य सयूथी- यमेव कृत उरुमहानश्च वेगो यस्मिन्कर्मणि तद्यथा तथा युगपद्व्यजिगीषन्तं विजेतुमैच्छन् । महमहमि- कया योद्धमधावनित्यर्थः । विपूर्वाजयतेः सत्रन्तामडि 'पूर्ववन्मनः' इत्यात्मनेपदम् । अत्र विपक्षसयूथयो- बहुजङ्घयोश्च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ३२ ॥ वाहनाऽजनि मानाऽसे साराऽऽजावनमा ततः॥ मत्तसारगराजेमे भारीहावजनध्वनि ॥ ३३ ॥ वाहनेति ॥ ततोऽनन्तरं तस्मिन् साराजौ उत्कृष्टयुद्धे वाहना वाहिनी अनमा अग्रता अजनि जाता । दुर्जया समपद्यतेत्यर्थः । किलक्षणे साराजौ मानाऽसे मानमहङ्कारम् अ. स्यति नाशयति इति मानासः तस्मिन् परेषां दर्पक्षेप्तरि, अपरं किलक्षणे सारोजौ मत्त. सारगराजेभे मत्ता दर्पिताः सारगा उत्कृष्टगामिनो राजेभाः नृपकरिणो मतङ्गजराजा वा यत्र सः तथा तस्मिन् , यदि वा मत्तानां.सारं बलं गच्छन्ति आक्रामन्ति ते तथाभूता राजेभा- इति योज्यम् । कथमजनि भारीहावजनध्वनि भारिणः संनाहादिभारयुक्तस्य ईहावतः समर- कर्मव्यापृतस्य जनस्य सुभटलोकस्य ध्वनिः 'हत आगच्छत गृहीते'त्यादिकः शब्दो यत्र क्रियायां तथा तत् । येषां त्वाजिशब्दः स्त्रियामेव वर्तते,तेषामेवं योजना-तस्यां साराजौ मत्स: सारगो यो राजेभः तत्र वाहना अजनि तद्विषयवाहनं जातम् । परबलमहेभाः प्रेरिता. इत्यर्थः । किंलक्षणे मत्तसारगराजेभे मानासे दर्पनाशके । अत्रैव प्रतिलोमेनार्थान्तरम् ॥ वाहनेति ॥ ततोऽनन्तरं मानमभिमानम् अस्यति क्षिपतीति तस्मिन्मानाऽसे पराहकारहारािण । कर्म- ण्यण् । मनाः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मरसारगराजभे साराजी श्रेष्ठयुद्धे। आजेः पुंलि- अन्ता ज्ञेया। भारी भारवान् पूर्ण ईहायतामुत्साहवता जनानां ध्वनियस्मिस्तत् भारीहावज्जनध्वनि यथा तथा न नमतीत्यनमा अभब्गुरा। पचायजन्तेन नव्समासः । वाहना निर्वाहयितृत्वम् । ण्यासअन्यो युच् । अजनि जाता, सैनिकानामित्यान्सिद्धम् । जनेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण् ॥ ३३ ॥ ॥ श्लोकप्रतिलोमयमकम् ॥ निध्वनजवहारीभा भेजे रागरसात्तमः ॥ ततमानवजाऽऽरासा सेना मानिजनाऽऽहवा ॥ ३४ ॥ निध्वनदिति ॥ सा सेना अनीकिनी रागरसात् द्वेषानुभावात् तमः भेजे अन्धकार- माप तमोगुणं क्रोधं प्राप, क्रुद्धेत्यर्थः। तमः भेजे इति कोऽर्थः, क्रोधावेशान्न किञ्चिदपश्य- दित्यर्थः । किलक्षणा सेना निध्वनजवहारीभा निध्वनन्तः गर्जन्तः जवहारिणः वेगगमन- शोभिनः इभा गजा यस्यां सा तथा, अपरं किंलक्षणा सेना ततमानवजाऽऽरासा ततो विस्तीर्णः मानवजः शूरमानुषसमुत्थः आरासो ध्वनिर्यस्यां सा तथा, अपर किंलक्षणा सेना मानिजनाहवा मानिजनस्य वीरलोकस्य आहवो युद्ध यस्यां सा तथा ॥ ३४ ॥ , . एतत्प्रातिलोम्येन श्लोकान्तरमाह - निध्वनादिति ॥ निध्वनन्तो बृहन्तो जवा जवनाः हारिणो मनोहरामा यस्यां सा निध्यनज्जव- हारीमा, ततो विस्तृतो मानवजो मनुष्यजातः आरासः कलकलो यस्यां सा ततमानवजाऽरासा मानिना ..

सर्गः1] शिशुपालवधे। ६८१ मानवता जनानामाहयो यस्यां सा मानिजनाहवा सेना, रज्यते ननति रागः क्रोधः स एव रसस्तस्मादाग- रसात् तमो मोहं भेजे । क्राधान्धाऽजनीत्यर्थः । अत्र प्रातिलोम्येन पूर्वश्लोकावृत्तेः लोकप्रतिलोमयमकम् । तदुक्तं दण्डिना- 'आवृत्तिः प्रातिलोम्येन पादाश्लोकगोचरा । •यमक प्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥ इति ॥ ३४॥ अभग्मवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः॥ चक्रन्दुरुश्चकैर्मृष्टिग्राह्यमध्या धनुलताः ॥ ३५ ॥ अभग्नवृत्ता इति ॥ धनुर्लताः कार्मुकवल्ल्यः उच्चकैः चक्रन्दुः तारं चुकूः । कि- लक्षणा धनुर्लताः यौवनोद्धतैस्तारुण्यगर्वितैः वीरैः प्रसभात् बलेन आकृष्टा आस्फालिताः, अपरं किलक्षणाः धनुर्लताः अभग्नवृक्ताः अत्रुटितवृत्तभागाः । आकर्षवशात् वक्रीभूता- इत्यर्थः । अपरं किंलक्षणाः धनुर्लताः मुष्टियाह्यमध्याः मुष्टिना सम्पिण्डिताङ्गुलिकरण ग्राह्य- मवष्टभ्यं मध्य मध्यप्रदेशो यासां तास्तथा । अथ चोक्तिलेशः-याः किल मुष्टिग्राह्यमध्याः कृशोदर्यो भवन्ति, ताः यौवनोद्धतैर्युवभिः बलादाकृष्टाः केशेष्वाकृष्य हृताः सत्योऽपि उचैः क्रन्दन्ति । यतस्ता अभग्नवृत्ताः ननष्टचरित्राः । कदि ऋदि क्लदि आह्वाने रोदने चेति धातोश्चक्रन्दुरिति रूपम् । अपरस्त्वात्मनेपदी ॥ ३५ ॥ अभग्नवृत्ता इति ॥ अभग्ना अभड्गुरा वृत्ता वर्तुलाग्राश्च यास्ता अभग्नवृत्ताः। विशेषणसमासः। अन्यत्राऽचलितचरित्राः । बहुव्रीहिः । मुष्टियाछ मुष्टिधार्य मध्यं यास ताः धनुर्लताः अन्यत्र मुष्टिमयमध्याः यौवने नोद्धतैधृष्टैर्दप्तश्च प्रसभालादाकृष्टाः सत्यः । एकत्र गुणेष्वन्यत्र कचेषु चति भावः । उच्चस्तरा चक्रन्दु. टड्कारध्यानं चक्रुर्धनुर्लताः, अभ्यत्र चुक्रुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्रस्तुतधूर्तास्कन्दितपतिव्रता- प्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वाकाव्यलिङ्गमङ्गाङ्गिभावेन सङ्कीर्यते ॥ ३५ ॥ करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः॥ करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ ३६ ॥ करेणुरिति ॥ अनेको बहुसङ्ख्यः करेणुः हस्तिजातं हास्तिकं प्रस्थितः योद्ध, प्रययौ, तदा सहस्रशो बहुसङ्ख्याः घण्टाः रेणु: अक्वणन् , तथा करे पुष्करे अणुः सूक्ष्मः परमाणुः शीकरो जज्ञ वमथुरुदपादि । तेन कारणेन रेणु—ली शमं ययौ ननाश ॥ ३६ ॥ करेणुरिति । अनेको बहुः करेणुः करेणवः प्रस्थितः । जातावेकवचनम् । असङ्ख्याताः करिणो योटुं ययुरित्यर्थः । करेणुरिभ्यां स्त्री नेभे' इत्यमरः । सहस्रशो घण्टाः करिकण्ठस्था रेणुर्दध्वनुः । 'अत- एकहल्मध्येऽनादेशादेलिटि' इत्येत्वाभ्यासलोपौ । करे पुष्करे अणुरल्पः शीकरोऽम्बुकणो अज्ञे । जातावक- वचनम् । करेवणवः शीकरा जाता इत्यर्थः । जनेः कर्तरि लिट्। तेनाऽणुना शीकरण रेणू रजः शमं ययौ। एतेन करिणा बाहुल्यं व्यज्यते ॥ ३६ ॥ धृतप्रत्यप्रशृङ्गाररसरागैरपि द्विपैः॥ सरोषसम्भ्रमर्दध्र(१) रौद्र एव रणे रसः ॥ ३७॥ घृतेति ॥ द्विपैः द्विरदैः रणे समामे रौद एव रसः भीषण एव रसः दधे बने भृतः । किंलक्षणैर्द्विपैः पृतप्रत्यग्रशृङ्गाररसरागैरपि धृतः कलितः प्रत्ययो नूतनः शृङ्गाररसरागो ॥ (१)श्रे।

६८२ सन्देहविषाषधिसर्वकषायुते- [एकोनविंशः- । भूषणरसरङ्गो यैस्ते तथा तैः । अपिशब्दो विरोधे, यैः किल शृङ्गाररसे राग उद्यते, ते कर्थ रौद्रं रसमबिभरुः, तयोर्केलक्षण्यात् । अनुरक्तयोहि पुरुषनार्योः व्यवहारो मनोहरवेषो यः, स रतिप्रकृतिः शृङ्गारः । क्रोधप्रकृतिस्तु रौद्रः । अविरोधस्तु शृङ्गारशब्दस्य गैरिकादिराग. वाचकत्वात् । इतः प्रत्ययाः शृङ्गाररसरागो गैरिकादिवरसरञ्जन यैः । रोषेण सम्भ्रमो रोष- सम्भ्रमः सह तेन वर्तन्ते ये तथा तैः सरोषसम्भ्रमैः क्रोधव्याकुलैः ॥ ३७॥ धृतेति ॥ धृतः प्रत्यग्रः शङ्गाररस एव रागो यस्तैरपीति विरोधः । रौद्रशृङ्गारयोर्विरोधित्वाद्धृतासिन्दूर- रजनैरित्यविरोधः। अत एव विरोधाभासोऽलद्वारः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शङ्गार चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च' । इति विश्वः । सरोषसम्भ्रमैः द्वि पैः रणे रोइरस एव क्रोधरप्त एव बभ्रे भृतः। कर्मणि लिट् ॥ ३० ॥ न तस्थौ भर्तृतः प्राप्तमानसंप्रतिपत्तिषु ॥ रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ ३८ ॥ नेति ॥ पत्तिषु पादचारेषु भृत्येषु मानसं प्रति मनस्सु भयं न तस्थौ त्रासो न आसीत । यतः किलक्षणेषु पत्तिषु भर्तृतः प्रभोः सकाशात् प्राप्तमानसम्प्रतिपत्तिषु प्राप्तः लब्धः मानः पूजा तथा सम्प्रतिपत्तिश्च प्रसादो मानचिहादिको यैस्ते तथा तेषु, अपरं किलक्षणेषु भृत्येषु रणैकसर्गेषु रणे सङ्ग्रामे एकः मुख्यः सर्गो रागः उत्साहो येषां ते तथा तेषु । ये त्वेवंविधास्ते कथं असेयुरित्यर्थः ॥ ३८ ॥ नेति ॥ भर्तृतः स्वामिनः प्राप्ते मानसंपतिपत्नी पूजामौमनस्य यस्तेषु प्राप्तमानसंपतिपनिषु रणे एक- सर्गेषु नियतोत्साहेषु नियतनिश्चयेषु वा । 'सर्गास्तु सज्जनाध्यायस्वभावोत्साहनिश्चयाः' इति वैजयन्ती। पत्तिषु पदातिषु मानसं प्रति । पत्तीना मानमष्वित्यर्थः। कर्मप्रवचनीययुके द्वितीया । भयं न तस्थो । पूर्वोपकारस्मारिणो रणाय निर्मीकाः प्रातिष्टन्तेत्यर्थः । अन्यथा- 'यस्तु भीतिपरावृत्तः सङ्घामे हन्यते परैः । भर्तुर्यद् दुष्कृतं किञ्चित्तत्सर्व प्रतिपद्यते ॥ यदस्य सुकृतं किञ्जिदमुत्राऽर्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु' । इति निषेधस्मरणादिति भावः । अत्र मानसंप्रतिपत्त्याविशेषणगत्या भयाऽनवस्थानहेतुत्वात्पदार्थहेतुक काव्यलिङ्गं यमकेन संमृज्यते ॥ ३८ ॥ बाणाऽहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ॥ गोधाश्लिष्टमुजाशाखैरभूदीमा बला(१)टवी ॥ ३९ ॥ बाणेति ॥ असौ बलाटवी सैन्याऽरण्यानी धन्विशाखिभिः धानुष्कतरुभिः भीमा अभूत् भयदा अजनि । किलक्षणैर्धन्विशाखिभिः बाणाऽहिपूर्णतूणीरकोटः बाणाः शरा- एव अहयः सर्पाः तैः पूर्णा व्याप्ताः तूणीराः तूणा उपासङ्गा एव कोटराः कुहराणि येषां ते तथा, अपरं किंलक्षणैर्धन्विशाखिभिः गोधाश्लिष्टभुजाशाखैः गोधामिर्बाहुत्रैः आ- शिलष्टा वेष्टिता भुजा एव हस्ता एव शाखाः शिफा येषां ते तथा तैः। मटण्यपि सायक- सशसर्पपूर्णकोटरैः तथा गोधाभिः प्राणिविशेषैः आश्लिष्टा आलिहिता भुजातुल्या: शाखाः येषां ते तथा वैः एवंविधैर्वृक्षर्भयानका भवति ॥ ३९ ॥ . (१) रणाटवी।

सर्गः ।] शिशुपालवधे। ६८३ बाणति ॥रणमेवाटवा रणाटवी, बाणरिवाऽहिभिः पूर्णा तूणीरा निषङ्का एव कोटराः कुहरा येषां है। गोधास्तलानि निहाकाश्च । 'गोधा तले निहाकायाम्' इति विश्वः । तलं ज्याघातवारणम् । ततो गोधा एवं गोधा इति भिष्टरूपकम् । ताभिराश्लिष्टा भुजा एव शाखा येषां तैर्धन्विभिर्धानुकैरेव शाखिभिवृसीमा भयङ्करा अभूत् । समस्तवस्तुवर्णनात्सावयवरूपकम् ॥ ३९ ॥ ॥ प्रतिलोमानुलोमपादः॥ नानाऽऽजाववजानाना सा जनौघघनौजसा। परानिहाऽहानिराप तान्वियाततयाऽन्विता ॥४०॥ नानेति ॥ सा शिशुपालसेना इह अस्यां नानाऽऽजौ नानाविधायां युधि तान् परान् अरीन् दुहृदो वृष्णीन् आप आससाद । किंलक्षणा सा सेना जनौघघनौजसा अवजानाना जनौघस्य बलवृन्दस्य घनं बहुलं यत् ओजः प्रभावः तत् जनौघघनौजः तेन जनौवबहुप्रतापेन अवजानातीति अवजानाना अवज्ञां कुर्वती, यदि वा ओजसा प्रतापेन अवजानाना, तदा किल किंलक्षणा सेना जनौघघना जनसमूहव्याप्ता च, अपरं किंलक्षणा सेना अहानिः न हानिः क्षतिर्यस्याः सा तथा अखण्डिता, अपरं किलक्षणा सेना वियाततया अन्विता निर्लज्जतया प्रतिभया अनुगता। प्रतिलोमाऽनुलोमपादोऽयम् ॥ ४० ॥ नानेति ॥ इहाऽस्यां नानाविधायामाजों चित्रयुद्ध ओजसा तेजसा अवजानाना अवज्ञा कुर्वती । 'अ- कर्मकाच्च' इत्यात्मनेपदम् । जनोधैर्घना सान्द्र। जनौघघना । बहुजनेन्यर्थः । अहानिरभया वियाततया वैयात्येन घाटयनान्विता । धृष्टत्यर्थः । 'धृष्टो धृणुर्वियातच' इत्यमरः । सा चैयसना तान् परानरीन आप प्राप । अत्र प्रतिपादं पादार्धस्वैवावृत्तरर्धपादपतिलोमयमकम् ॥ १० ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ॥ श्लोकैरिव महाकाव्यं व्यूहैस्तदभवद्धलम् ॥ ४१ ॥ विषममिति ॥ तत् बलं वैद्यस्य सैन्यं व्यूहैः रचनादिभिः विषममभवत् दुष्प्रवेशम- भूत्, किंलक्षणैः व्यूहैः सर्वतोभद्रचक्रगोमूत्रिकादिभिः सर्वतोभद्रचक्रगोमूत्रिकादिनामधेयः। सर्वतोभद्रो नाम व्यूहः, चक्रव्यूहः चक्राकारव्यूहः, गोमूत्रिका नाम व्यूहः । कैः किमिव विषममित्याह-श्लोकैः पद्यैर्महाकाव्यमिव । तत् यथा श्लोकैर्विपमं दुर्वाधं च भवति । किंलक्षणैः श्लोकैः सर्वतोभद्रचक्रगोमूत्रिकादिभिः, सर्वतोभद्रं नाम जातिः, चक्रं च जाति: चक्रबन्धः, गोमूत्रिका जातिः, सर्वतोभद्रचक्रगोमूत्रिकामुरजखड्गशूलादिभिः श्लोकैर्महा- काव्यं यथा दुर्बोधं भवति । यत्र सर्वे रसाः सर्वेऽलङ्काराः सर्वाणि च काव्यस्थानानि चतु. वर्गसम्बन्धाय क्रियन्ते, तन्महाकाव्यमुच्यते शिशुपालवधकिरातार्जुनीयादिकम् ॥ ४१ ॥ विषममिति ॥ तदलं चद्यसेना सर्वतोभद्रचक्रगोमूत्रकादिभिः । आदिग्रहणान्मुरजबन्धादिसङ्ग्रहः । लोकर्महाकाव्यं शिशुपालवधादिकमिव ब्यूहै : सर्वतोभद्रादिभिरेव बलविन्यासः। 'व्यूहस्तु बलविम्यासे' इत्यमरः । विषमं दुरवग्रहमभवत् । नगनगरादिवर्णनयुक्तलक्षणं महाकाव्यम् ॥ ११ ॥ संहत्या सत्वतां(१) चैद्यं प्रति भास्वरसेनया ॥ ववले यो मुत्पन्न प्रतिभा स्वरसेन या ॥ ४२ ॥ संहत्येति ॥ अथ सत्वतां यादवीनां संहत्या वृन्देन चैद्य प्रति शिशुपालमभि ववले बलितं परिवृत्तम् । किंलक्षणया सत्वतां संहत्या भास्वरसेनया भास्वराः शोभनाः सेनाः .. । (१)सात्वता।

६८४
सन्देहविषौषधिसर्वकषायुते-
[ एकोनविंशः-
-
पृतनाः यस्याः सा तथा तया परिदीसवाहिन्या।या सत्वतां संहतिः स्वरसेन आत्मवीय-
जैव योv युद्धं विधातुमुत्पन्नप्रतिभा सातधाष्टा । न तु परप्रेरणया योद्धं कृतमतिः ।
सात्वतामिति केचित्पठन्ति, तदयुक्तम् । एवमकारान्तत्वे हि सात्वतानामित्येव भाव्यम् ।
संहत्येति ॥ भास्वरा तेजिष्ठा सेना यस्यास्तया भास्वरसेनया सात्वतां यदूनां संहत्या सड्रेन चैदा
प्रति वयले प्रचले । 'वल चलने' इति धातो वे लिट् । 'न शसददवादि-इति षकारादित्वादेत्वाभ्यासलोपयोः
प्रतिषेधः । या यदूना संहतिः स्वरसेन स्वभावेन योद्धमुत्पत्रप्रतिभा सञ्जातप्रतिभा । या स्वयं रणकण्डूला सा
पराहूता कथं निवर्तत इति भावः ॥ १२ ॥
युग्मम्-
विस्तीर्णमायामवती लोललोकनिरन्तरा ॥
नरेन्द्रमार्ग रथ्येव पपात द्विषर्ता बलम् ॥ ४३ ॥
विस्तीर्णमिति ॥ सा यदुवाहिनी द्विपतां बलं पपात शत्रूणां सैन्यं प्रविवेश,
का कमिव रथ्या नरेन्द्रमार्गमिव । यथा रथ्या विशिखा नरेन्द्रमार्ग रथ्याविशेष पतति ।
सकलनगररथ्यानां हि राजमार्ग समागतिः । किलक्षणं शत्रूणां बलं राजमार्ग च
विस्तीर्णमसङ्कटं, किलक्षणा सेना रथ्या च आयामवती द्राधीयसी, अपरं किंलक्षणा सेना
रथ्या च लोललोकनिरन्तरा लोलैः आकुलैः चपलैश्च लोकैर्जनैः निरन्तरा नीरन्ध्रा ॥ ४३ ॥
अथ यदुसेनायाः प्रतिबलाभियोग युग्मेनाह-
विस्तीर्णमिति ॥ आयामवती द्राधीयसी लोललोकनिरन्तरा चलज्जनसकुला मा सेनेत्युनरश्लोके-
नान्वयः । मा यदुसेना विस्तीर्ण द्विषतां बलं नरेन्द्रमार्ग राजपथं रथ्या विशिखेव पपात सञ्जगाम । उप-
मानेऽपि विशेषणं योज्यम् ॥ १३ ॥
वारणाऽगगभीरा सा साराऽभीगगणाऽऽरवा ॥
कारिताऽरिवधा सेनाऽनासेधा वारताऽरिका ॥४४॥
वारणेति ॥ अपरं किंलक्षणा सेना वारणाऽगगभीरा वारणाः गजा एव अगाः पर्वताः
तैर्गभीरा दुर्विगाहा, दुष्प्रवेशेत्यर्थः । अपरं किलक्षणा सेना सारा उत्कृष्टा बलवती, अपर
किंलक्षणा सेना अभीगगणारवा अभीगानामप्राप्तभयानां गणानां वीरवृन्दानाम् आरवो
ध्वनिर्यस्यां सा तथा तां, भियं गच्छन्ति प्राप्नुवन्तीति भीगाः ततोऽन्ये अभीगाः । अपरं
किंलक्षणा सेना कारिताऽरिवधा कारितः कृतः अरिवधः शत्रुक्षयो यया सा तथा ।कारित-
इत्यत्र स्वाथें णिच् प्रत्ययः । यथा रामो राज्यमकारयत् । अपरं किलक्षणा सेना अना-
सेधा न विद्यमानः आसेधो बाधा यस्याः सा अनासेधा निरातका । केचित्तु आसेध
प्रवेशमाहुः । वारणाऽगगभीरत्वात् अरीणामनासेधा, दुष्प्रवेशेत्यर्थः । अपरं किलक्षणा सेना
वरिताऽरिका वरिताः प्रार्थिताः 'मया सह युध्यध्वमितीत्थम्, अरयो विपक्षा यया सा
तथा । अत्र स्वार्थे कप्रत्ययः । वर ईप्सायाम् । प्रतिलोमार्थोऽयम् । युग्मम् ॥ ४४ ॥
वारणेति ॥ कीदृशी सेना, वारणरेवाग्गैरचलैर्गभीरा दुरवगाहा वारणानगभीरा सा साराणां श्रेष्ठाना
न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराऽभीगगणारवा, कारिता.
रिवधा कृतशत्रुवधा । 'रामो राज्यमकारय'दितिपदन स्वार्थे णिच् । नास्त्यासेधः प्रतिषेधो यस्यां मा
नासधा । नार्थेन नशब्दन बहुवाहिः । अनासधा वा । वरिताऽरिका ईप्सितशत्रुका । 'अनेनाहं योत्स्य' इति
स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्रत्ययः । सा सेना पपातेति पूर्वणान्धयः । अत्र प्रातिलोम्येन अर्धावृचे-
प्रतिलोमयमकमेतत् । लक्षणं तूतं 'निध्वन'दित्यादिश्लोकप्रतिलोमयमके॥४॥

सर्गः।] शिशुपालवधे। ६०५ प्रवृ अधिनागं प्रजविनो विकसत्पिच्छचारवः। पेतुर्बहिणदेशीया शङ्कवः प्राणहारिणः ॥ ४५ ॥ अधिनागमिति ॥ शङ्कवः कुन्ताः अधिनागं द्विपेषु पेतुः अभ्रश्यन् । किंलक्षणाः शङ्कवः प्राणहारिणः असमुषः, अपरं किंलक्षणाः शङ्कवः प्रजविनः वेगगामिनः, अपर किंलक्षणाः शवः विकसत्पिच्छचारवः विकसता प्रसरता पिच्छेन पक्षमारेण चारवो रम्याः, अत एव अपरं किंलक्षणा शङ्कवः बहिणदेशीयाः बहिणेभ्यो मयूरेभ्यो ईषत् न्यूनाः बहिण- देशीयाः मयूरतुल्याः । बहिणः किल स्यदेन अधिनागं सपेंषु पतन्ति । तेऽपि विकसत्पिच्छ- चारवः प्राणहारिणश्च, अर्थान्नागानामेव । बहिण इति बर्हशब्दात् फलबर्हाभ्यामिनच् ॥४५॥ अधिनागमिति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः। 'प्रजारिनिः' इति इनिप्रत्ययः । विकासद्धि पिच्छैः कलापैश्चारण: अत एव ईषदसमाप्तबर्हिणा बहिणदेशीया मयूरकल्पाः । 'ईषदसमाती-' इत्यादिना देशयिप्रत्ययः । प्राणहारिणः शङ्कः शल्यायुधानि । 'वा पुंलि शल्यं शङ्कुर्ना' इत्यमरः । नागेष्वषि. नागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु सर्पषु च निपेतुः। सर्पषु बहिण इवेत्यर्थः । अत एवोपमा- लङ्कारः । 'महोग्राऽहिगजा नागाः' इति वैजयन्ती ॥ ४५ ॥ ॥ गोमूत्रिकाबन्धः ॥ ते वि ल स(१) द्धा नं सा ध नेऽ प्य वि षा दि भिः ॥ व वृषे वि क स हा नं यु ध मा प्य वि षा णि भिः ॥ ४६॥ प्रवृत्ते इति ॥ विषाणिभिर्दन्तिभिः युधमाप्य सङ्ग्राममासाद्य दानं ववृषे मदो वृष्टः। किंलक्षणविषाणिभिः साधने सैन्ये प्रवृत्तेऽपि युध्यमानेऽपि अविषादिभिः विषादरहितैः, अभीतैरित्यर्थः। कथं प्रवृत्ते विलसद्ध्वानं विलसन् विलासान्वितो ध्वानः जयारवः यत्र क्रियायां तद्यथा । सशब्दमित्यर्थः । किंलक्षणं दानं विकसत् वृद्धि गच्छत् । अन्येऽपि वीराः साधने साटोपं प्रवृत्तेऽपि अविषण्णा युद्धे सामदानं बहु वितरन्ति । गोमूत्रस्य सारूप्यात् गोमूत्रिकाबन्धोऽयं नाम ॥ ४६॥ प्रवृत्ते इति ॥ विकसन् ज़म्भमाणो ध्वानो ध्वनियस्मिस्तयथा तथा साधने संप्रहारे प्रवृत्तेऽप्यविषादिभि. विषादरहितविषाणिभिर्दन्तिभिर्युधमाप्य प्राप्य विकसत्प्रभूतं दानं मदो ववृषे । युद्धारम्भे धनदानं च ध्वन्यते, सत्त्वसम्पन्नत्वात् । साधनेऽप्यविषादस्याविरोधाद्विरोधाभासः । गोमूत्रिकाचित्रबन्धोऽयम् । 'वर्णानामेकरूपत्वं ययेकान्तरमर्धया। गोमूत्रिकति तत्माहुर्दुष्करं तद्विदो विदुः' । इति लक्षणात् । षोडशकोष्टद्वये पक्तिद्वयेर्धद्वयं क्रमेण विलिख्यकान्तरविनिमयेन वाचने श्लोक, निष्पत्तिरित्युद्धारः ॥ १६ ॥ पुरः प्रयुक्तैर्युद्धं तद्वलितै(२)लब्धशुद्धिभिः॥ आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥४७॥ पुर इति ॥ तत् युद्धं पदातिभिः पत्तिभिः अदीप्यत शुशुभे । किंलक्षणैः पदातिभिः पुरः प्रयुक्त: अग्रो उत्थापितैः, अपरं किंलक्षणैः पदातिभिः वलितैः भ्रान्तैः मण्डलप्रचारि- मिः, अपरं किलक्षणैः पदातिभिः लब्धशुद्धिभिः प्राप्तनिर्दोषत्वैः उपधापरीक्षितैः, कातर- । (२) तच्चलितै। (१) विकस। ५०शि०व० ६८६ सन्देहविषौषधिसर्वकषायुते- [ एकोनविंशः स्वादिदोषरहितैरित्यर्थः। केन किमिव दीप्यते इत्याह-आलापैर्गान्धर्वमिव। यथा आलापैः स्वरादिभिः गान्धर्व गेयं दीप्यते शोभते । आलापैरपि किलक्षणैः पुरः प्रयुक्तैः आदौ कृतैः वलितैः आवृत्तः, तथा स्वराणामावृत्त्या लब्धशुद्धिभिः निर्दोषैः अविकृतैः ॥४॥ पुर इति ॥ तयुद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्ति तैः, अन्यत्र गानात्पूर्वमुच्चारितैः चलित मण्डल चारिभिः । अन्यत्र मुहुरावर्ति तैरित्यर्थः। लब्धशुद्धिभिः, कार्यकपटादिदोषरहितरित्यर्थः। अन्य- त्रावृत्नैः । रागानुगुणैरित्यर्थः । पदातिभिः पतिभिः करणः गान्धर्व गानमालापैरालापिभिरिवाक्षरविशेषैरिवा- ऽदीप्यता शोभत ॥४॥ केनचित् स्वासिनाऽन्येषां मण्डलामानवद्यता ॥ प्रापे कीर्तिप्लतमहीमण्डलामाऽनवद्यता ॥ ४८ ॥ केनचिदिति ॥ केनचित् सुभटेन स्वासिना निजनिस्त्रिंशेन अन्येषां परेपां मण्डलाग्रान् कृपाणान् उ वद्यता खण्डयता छिन्दता सता अनवद्यता निर्दोषता प्रापे अगीत्वं लेभे । साधुवादः प्राप्त इत्यर्थः। किंलक्षणा अनवद्यता कीर्तिप्लुतमहीमण्डलाया कीर्तिप्लुतं यशसा व्यातं महीमण्डलाग्रं भूवलयपृष्ठं यया सा तथा। 'कौक्षयेको मण्डलाय' इत्यमरः ॥४८॥ केनचिदिति ॥ स्वामिना स्वखड़ेन अन्येषा मण्डलामानवधता खण्डयता । यतेलटः शत्रादेशः। कनचिद्वी रण कीर्तिप्लुतं यशोव्याप्त महीमण्डलामं भूपृष्ठं यस्याः सा कीर्तिप्लुतमहीमण्डलामा अनवद्यता भनिन्यता प्रापे प्राता ॥ १८ ॥ हन्तुं विद्विषत(१)स्तीक्ष्णः सममेव सुसंहतेः ॥ परिवारात् पृथक्चक्रे खड्ग आत्मा(२) च केनचित् ॥ ४९ ॥ हन्तुमिति ॥ केनचिद्वीरेण विद्विषतः हन्तुं शत्रून् विनाशयितुं परिवारात् कोशात् परिच्छदाच्च यथाक्रमं खड्गः असिः आत्मा च देहश्व सममेव युगपदेव पृथक् चक्रे भिन्नः कृतः । स्ववृन्दान्निर्याय खड्गमाकृष्य कश्चित् सपत्नानक्षणोदित्यर्थः । किंलक्षणः खनः आत्मा च तीक्ष्णः शितः पौरुषान्वितश्च,। किंलक्षणात् परिवारात् सुसंहतेः दुर्भयात् । घनत्वमेकयोगक्षेमता च संहतिः ॥ ४९ ॥ विहन्तुमिति ॥ केनचिहारेण विद्विषो विहन्तुं तीक्ष्णो निशितः परिच्छेत्ता च खड्गः सुसंहतेः सुघटितात् सुष्ठु महीभूताच परिवाराकोशात् परिजनाच्च । 'परिवारः परिजने खड्गकोशे परिच्छदे' इति विश्वः । सममेव पृथक् चक्रे उद्धृतः । आत्मा च पृथक् चक्रे विभक्तः । खड्गमुत्कृष्य स्वसैन्यानिर्गत्या- ऽरिमध्ये पपातत्यर्थः । अत्र खड्गात्मनोः प्रकृतयोः समानक्रियायोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ अन्येन विदधेऽरीणामतिमात्रा विलासिना ॥ उद्गुणेन चमूस्तूर्णमतिमात्राविलाऽसिना ॥ ५० ॥ अन्येनेति ॥ अन्येन केनचित् विलासिना विलासवता युद्धविलासान् वितन्वता शुरेण अरीणामरातीनां चमू: पताकिनी उद्गूर्णेन उद्यतेन असिना कौशेयकेण तूर्ण क्षिप्रम् तिमात्राऽऽविला विदधे अतिमात्रं नितराम् अविला कलुषा भयाकुला अकारि। किल- क्षणाः चमूः अतिमात्रा मात्राम् इतित्वम् अतिक्रान्ता अतिमात्रा सविस्तीर्णा । यदि वा तेन मतिमात्रा बुद्धर्मात्रा जनन्या, प्राज्ञेनेत्यर्थः ॥ ५० ॥ (१)बिहन् विशिष। (२)खवारमा ।

सर्गः ।। शिशुपालवधे। ६८७ अन्येनेति ॥ अन्येन वीरेण विनासिना विलसनशीलेन उद्गुणेनोयतेन असिना खड्गेन मात्र मान- मतिकान्ताऽतिमात्रा अपरिमिता अरीणां चमूः सेना तूर्ण शीघ्रमतिमात्रमत्यन्तमाविला कलुषा अतिमात्राविला अत्याविला विदधे कृता ॥ ५० ॥ सहस्रपूरणः कश्चिल्लनमूर्धाऽसिना द्विषः ॥ तदोर्ध्व(१) एव काबन्धीमभजनर्तनक्रियाम् ॥ ५१ ॥ सहस्रति। कश्चित्सुभटः तदा ऊर्ध्व एव उच्च एव काबन्धी कबन्धसम्बन्धिनी नर्तन- क्रियाम् अभजत्। कम्बन्धवत् ववलग इत्यर्थः। 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः । किंलक्षणः कश्चित् द्विषः असिना शत्रोः करवालेन लूनमूर्धा कर्तितोत्तमाङ्गः, अपरं किल क्षणः सुभटः अत एव सहस्रपूरणः सहस्राणि दशशतानि पूर्यन्ते आपाद्यन्ते समाप्यन्तेऽनेनेति सहस्रपूरणः । सहस्र निहते कबन्ध उत्तिष्ठतीति वार्ता ॥ ११ ॥ सहस्रति ॥ पृणातीति पूरणः । पृ पालनपूरणयोः कर्तरि ल्यु(२) । सहस्त्राणां पूरणः पालयिता 'पूरयिता सहस्रपूरणः सहस्ररक्षी सहस्रहन्ता वा कश्चिद्भटः । कबन्धस्तु सहस्त्रपूरणः सहस्रमयापूरकः । सहस्र देकः कबन्धो नृत्यतीति प्रसिद्धिः । असिना स्वाऽसिना द्विषो लूनमूर्धा लूनशत्रुमूर्धा । सापेश्चत्वेऽपि गमकत्वात्समामः । कबन्धस्तु द्विषो मिना लूनमूर्धा तथा कबन्धवदेवोर्ध्व एवं तिष्ठते । कबन्धस्थमा काबन्धी नर्तनक्रियामभजत् । विजयहर्षात्स्वयमपि कबन्धवननतेत्यर्थः । अत एव सादृश्याक्षेपादसम्भव- इस्तुसम्बन्धाख्यो निदर्शनाभेदः । 'कबन्धोऽस्त्री क्रियायुक्रमपमूर्धकलेवरम्' इत्यमरः ॥ ५१ ॥ शस्त्रवणमयश्रीमदलङ्करणभूषितः॥ दद्शेऽन्यो रावणवदलङ्करणभूषितः॥ ५२ ॥ शस्त्रेति ॥ अन्यः अपरः सुभटः रावणवत् ददृशे दशाननवत् बुबुधे, भीषणत्वात् । किंलक्षणः अन्यः शस्त्रवणमयश्रीमदलङ्करणभूषितः शस्त्रवणमयैः आयुधक्षतिरूपैः श्रीमद्भिः शोभावद्भिः अलङ्करणैः आभरणै पितोऽलङ्कृतः । रावणाद्वयतिरेकमाह-अपरं किल- क्षणोऽन्यः अलङ्करणभूषितः अल लायां रणभुवि उषितोऽवस्थितः । तस्य तु लङ्का समरा- ऽवनिः आसीत् ॥ ५२ ॥ शस्त्रेति ।। शस्त्रवणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलङ्करणैरलङ्कारभूषितो- लस्कृतः, शस्त्रवणाऽलकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा भलतुति बहुव्रीहिः। अत एव 'मियाः पुंवत्-' इत्यादिना पुंवद्धावः । सा रणभूश्च तस्यामुषितः स्थिनोऽलङ्करणभूषितः । बसेनिवासार्थाकतरि कः, 'वचिस्वपि' इत्यादिना सम्प्रसारणम् । राधणवहदृशे दृष्टः । सर्वाङ्गीणवणभूषणत्वेन रावण एवायं, लङ्कासम्बन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां सङ्करः ॥ ५२ ॥ द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ॥ सिक्तश्चाऽरुभयथा बभूवाऽरुणविग्रहः ॥ ५३ ॥ द्विषदिति ॥ अपरोऽन्यः भटः उभयथा द्वाभ्यां प्रकाराभ्याम् अरुणविग्रहो बभूव, अनूरुनिभशरीरो लोहिताङ्गश्चासीदित्यर्थः । एकस्मिन् पक्षे अरुणस्येव गरुडाग्रजस्येव । . (१) तथोछ। (२) "अस्माखातोल्युटि 'हत्वोस्वाभ्यां गुणवृद्धी विप्रतिषेधेन' इति वार्तिकाद् गुणस्यैव न्याय्यत्वात् , क्युन्युन्युत्वेऽपि दीर्घस्याऽप्राप्तश्चिन्त्यमिदम् । तस्मात् 'पूरी भाप्यायने' इति धातुर्बोध्यः । अत एव 'पूरणी' इति पदव्याख्यायाम् 'पूरयति' इति स्वामिनोकम् । अत एव वल्लभेनापि 'पूर्यन्ते आप्यायन्ते' इति विवरण कृतम्"। टिप्पणीय निर्णयसागर मुद्रितपुस्तके नयनपथं प्रयाति ।

६८८ सन्देहविपौषधिसर्वकषायुते- [ एकोनविंशः- विग्रहो देहो यस्य सः तथा, अपरस्मिन् पक्षे अरुणो रक्तो विग्रहो देहो यस्य सः तथा । किलक्षणोऽपरः यतः द्विषद्विशसनच्छेदनिरस्तोल्युगः द्विषतः शत्रोर्यः विशसनः करवालः तेन यः छेदः कर्तनं तेन निरस्तं क्षिप्तम् उरुयुगं सक्थियुगलं यस्य सः तथा। अत एव अरुणस्येव विग्रहोऽस्येत्यरुणविग्रहः, ऊरुच्छेदात् । अस्यैवाऽसिना सक्थि क्षतम् , अस्त्रैः रुधिरैः सिक्त आर्दीकृतश्च, अतश्चारणो लोहितो विग्रहो यस्याऽसौ अरुणविग्रहः। 'सक्थि क्लीवे पुमानूरु' रित्यमरः ॥ १३ ॥ द्विषदिति ॥ द्विषद्विशसनम् । 'निर्वापणं विशसनं मारणं प्रनिघातनम्' इत्यमरः । तस्मिश्छेदेनाऽरि- शमप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरमृग्भिश्च सिक्कोऽपरा वीरः उभयथा उभाभ्यां प्रकारा- भ्याम् । 'प्रकारे गुणवचनस्य' इति थाल् । अरुणस्याऽनूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुण- विग्रहो बभूव। 'अरुणोऽर्किसारथ्योररुणो लोहितेऽन्यवत्' इति विश्वः। अत्रोरुच्छेदाऽस्रसिक्योर्विशेषण- गत्योभयथारुणविग्रहभावहेतुत्वाकाव्यलिङ्गमुपमाश्लेषाभ्यां सङ्कीर्य ते ॥ ५३ ॥ भीमतामपरोऽम्भोधिसमेऽधित महाहवे ॥ दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४॥ भीमतामिति ॥ अपरोऽन्यः सुभटः तस्मिन् अम्भोधिसमे सागरसदृशे महाहवे बृहत्समरे भीमतामधित घोरत्वं दभ्रे । क इव भीमतामधितेत्याह-दाक्षे महाहवे दक्षप्रजा- पतिसम्बन्धिनि यज्ञे अम्भोधिसमे भगवतः शिवस्य श्रीमहादेवस्य कोप इव । यथा दाक्षे यज्ञे श्रीरुद्रकोपः भीमत्वं दधौ । रौद्रो हि क्रोधोऽत्युग्रः, येन प्रजापतेर्दक्षस्य ऋतुर्ममन्थे । किंलक्षणः कोपः अपरश्च समेधितमहाः समेधितं वर्धितं महस्तेजो येन यस्य वा सः तथा वर्धिततजस्कः, अर्थात् स्वपक्षीयाणाम् ॥ १४ ॥ भीमतामिति ॥ अम्भोधिसमे सागरसदृशे महानाहवस्तस्मिन्महाहवे सम्यगेधितमहाः संवर्धिततेजा- अपरो वीरः, दक्षप्रजापतेरयं दाक्षस्तस्मिन्दाक्षे हवे यज्ञे । 'हवो यज्ञे तथावाने' इति विश्वः । समेधित महा. सन्दीपिततेजाः शिवस्य कोप इव । वीरभद्र इवेत्यर्थः । भीमता भयङ्करतामाधित धृतवान् । बिभ्यन्यस्मादिति भीमः । 'भियः पुग्वा' इत्यौणादिके मप्रत्यये भीमो भीष्मश्च । 'भीमादयोऽपादाने' इति निपातनादपादानार्थता । उपमायमकयोः समृष्टिः ॥ ५४ ॥ दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ॥ परनिस्त्रिशनिटूनकरवालाः पदातयः ॥ १५ ॥ दन्तैरिति ॥ पदातयः पत्तयः प्रतिपक्षं परिपन्थिनं कोपात् क्रोधात् दन्तैः चिच्छि- दिरे दन्तैरभैत्सुः । किंलक्षणाः पदातयः यतः परनिस्त्रिंशनिलनकरवालाः रिपुकृपाणनिकृत्त- कौक्षेयकाः, के इव चिच्छिदिरे गजा इव । यथा गजाः करिणः कोपात अरिं दन्तैः विषाणैः छिन्दन्ति । गजा अपि किंलक्षणाः परनिस्त्रिंशनिक्षूनकरवालाः शत्रुखड्गछिन्नहस्तलाङ्गलाः॥ दन्तैरिति ॥ परेषा निस्निशैः खड्गैर्निर्नकरवालाः छिनखड्गाः, पादाभ्यामतन्तीति पदातयः पत्तयः। 'अज्यतिभ्यां पादे च' इत्यौणादिक इण् । 'पादस्य पदाज्यातिगोपडतेषु' इति पदादेशः । कोपात् गजा इस प्रतिपक्षं शत्रु दन्तैर्दशनविषाणैश् चिच्छिदिरे चिच्छिदुः॥ ५५ ॥ रणे रभसनिभिन्नद्विपपाटविकासिनि ॥ न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६ ॥ रण इति ॥ तत्र रणे समोके विकासिनि प्रसृते परां भुवं प्राप्ते सति न कश्चित विपपाटन कोऽपि पलायाञ्चक्रे । यतः किंलक्षणः स गतभीः निर्भयः । विकसितात्वानसर- . । . . .

सर्गः। शिशुपालवधे। ६८४ णतां प्राप्त(१)। किंलक्षणे रणे रभसनिभिन्न द्विपपाटविकासिनि रमसेन औत्सुक्येन निभिन्न- द्विपाः क्षतकुञ्जराः पाटविकानां चतुराणाम् असयः खड्गा यत्र सः तथा तस्मिन् । पाटवं विद्यते येषां ते पाटविकाः । असेन निभिन्नानां द्विपानां पाटविकम् पाटवम् अस्यति क्षिपतीति केचित् ॥ १६ ॥ रण इति ॥ 'रभसो वेगहर्षयोः' इति विश्वः। रभसेन वेगेन निभित्रद्विपाः पाटितगजाः पाटविकाना पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठक्प्रत्ययः। विकासिनि प्रवृद्ध तत्र तस्मिन् रणे गतभीनि- भाकः, अत एव कश्चित्कोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषणगत्या अपलायनहेतुत्वाकाव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरोधश्च यमकेन संमृज्यते ।। ५६ ॥ यावन्न सत्कृतैर्भर्तुः स्नेहस्याऽऽनृण्यमिच्छुभिः ॥ अमर्षादितरैस्तावत् तत्यजे युधि जीवितम् ॥ ५७ ॥ यावदिति ॥ सत्कृतैः पूजितैः लब्धप्रसादैः तैरेव भर्तुः प्रभोः स्नेहस्य प्रेम्णः आनृण्यमनृणत्वम् इच्छुभिः जिगमिपुभिः सुभटैः युधि सङ्ग्रामे यावज्जीवितं न तत्यजे न यावत्प्राणास्त्यक्ताः न प्राणान् मुञ्चन्ति स्म, तावत् इतरैः असत्कृतैः अमर्षात् क्रोधात् जीवितम् त्यक्तम् । ते मेरुरित्यर्थः ॥ १७ ॥ यावदिति ॥ सत्कृतैः स्वस्वामिना पूर्वसमानितै अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृष्यमनृणत्व. मिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावत्र त-यजे त्यक्तं, तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधा- जीवितं तत्यजे । अथ वा 'अस्मान्पश्यति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान् प्रजहुरित्यर्थः। सत्कारादि- विशेषणोत्थकाव्यालिसुगमम् ॥ ५॥ ॥समुद्यमकम्॥ अथ कस्मात्तेऽपि जीवितं न जहतीत्याह- अयशोभिदुरोलोके कोपधामरणाऽऽद्वते॥ अयशाभिदुरा लोके कोपधा मरणागुते ॥ ५८ ॥ अयशोभिदुरालोके इति ॥ एवंविध लोके जने मरणात् ऋते प्राणत्यागात् विना तद्वज का अन्या अयशोभिदुरा अर्कातिनाशनी उपधा उपपत्तिः मरणेनैवास्य अयशोऽस्यतीत्यर्थः । किलक्षणे लोके अयशोभिदुरालोके अयेन अनुकूलदेवेन शोभते इति अयशोभी, दुःखेन आलोक्यते इति दुरालोकः तेजस्वित्वात् , ततः कर्मधारयः । एतेन सत्कृतानां मरणे युक्तत्वमुक्तम् । यदि हि ते पलायेरन्, तर्हि अयशो भवेत् । अपरं किंलक्षणे लोके कोपधामरणाहते कोपस्य क्रोधस्य धाम आस्पदं यत् रणं सङ्ग्रामः तत्रादृते एवं वा योज्यम् । एतेनाऽसत्कृतानां मरणे न युक्तत्वमुक्तम् । यदि हि ते रणं प्राप्य सत्कृता अपि क्रुद्धा अपि जीवितं रक्षेयुः, तन्न किञ्चित् नैव कृतं स्यात् । अर्धद्वयसाह. श्यात् समुद्गसदृशत्वेन समुद्ग यमकम् ॥ १८ ॥ अथवंविधाना मरणस्यैव कर्तव्यतामुपपादयति- अयशोभिदुरालोकेति ॥ 'अयः शुभावहो विधिः' इति अयशोभी भाग्यवान् स चासो दुरालोकः तेजस्वित्वाद् दुर्दर्शश्चेति विशेषणमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाऽप्यकोपे भीरुत्वापातात् । अत एव रणमादृतः रणादृतः। रणार्थीत्यर्थः । कतरि कः। कोपधाम चासो रणादृतश्च तस्मिन्कोपधामरणादृते लोके एवंविधे वीरलोके, अयशोभिदुरा स्वाम्यनादरनिमित्ताऽपकीर्तिनिव निका । विदिभिदिच्छिदेः कुरच । उपधा उपायो मरणाइते प्राणत्यागं विनत्यर्थः । का । न कापीत्यर्थः । 'भन्यारादितरते-' इति पञ्चमी । अत्राऽयशोभित्वादीना लोकविशेषणद्वारा तीर्तनामुपजीविनामवसरे - ।

६६० सन्देहविषौषधिसर्वपायुते- [ एकोनविंशः- - जीवत्यागहेतुत्वाकाव्यलिङ्ग यमकेन सङ्कीर्यते । समुद्यमकभेदोम्यम् । 'अर्धाभ्यास: समुद्रः स्यादस्य भेदा- भयो मताः' इति लक्षणात् ॥ ५८ ॥ स्खलन्ती न कचित्तैक्षण्यादभ्यग्रफलशालिनी ॥ अमोचि शक्तिः शाक्तीकैलॊहजा न शरीरजा ॥ ५९॥ स्खलन्तीति ॥ शाक्तीकैः शक्तिप्रहरणैः सुभौः लोहजा अयोमयी शक्तिः आयुध- विशेषः अमोचि अभ्यमित्रं क्षिप्ता, न तु शरीरजा देहोद्भवा सामर्थ्याख्या । किंलक्षणा लोहजा शक्तिः तेण्यात् शितत्वात् न क्वचित् स्खलन्ती न प्रतिहन्यमाना अप्रतिहता, अपर किंलक्षणा शक्तिः अभ्यग्रफलशालिनी अभ्यग्रेण अग्रवर्तिना फलेन शल्येन शलति आशु गच्छतौति तथा श्लाघ्यमाना, किंलक्षणा शरीरजा शक्तिः अभ्यग्रेण दूरवर्तिना फलेन लाभेन शालते इति शालिनी श्लाध्यमाना, तैदेण्यादभिसरत्वात् न कचित् स्खलन्ती। तुल्यार्था: उपकण्ठाभ्यर्णसनीडसविधनिकटासन्नाऽभ्यग्रसमीपाऽभ्याशसदेशान्तिकसवेशाः ॥ ५९॥ स्खलन्तीति ॥ शकिः प्रहरणं येषां तैः शाकीकः । 'शाकीकः शकिडेतिकः इत्यमरः । शक्तियट्यो- सककू' इति प्रहरणार्थे ईका प्रत्ययः । तैदण्यानैशित्याक्वचिदपि न स्वलन्ती प्रतिहतिं न प्राप्नुवती अभ्यग्रं समय यत्फलं शल्यं तेन शालते, अन्यत्र अभ्यरोणासन फलेन प्रेयसा शालत इत्यभ्यप्रफल- शालिनी लोहजा अयोमयी शकिरायुधविशेष: अमोचि शत्रुषु मुक्का। शरीरजा शक्तिः सामर्थ्याख्या तु नाऽमोच। अतिव्यायामेऽप्यक्षीणशक्तिका एवाऽयुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलपकृतश्लेषः। आपदि व्यापृतनया रुषा(१) युयुधिरे नृपाः ॥ आप दिव्या पृतनया विस्मयं जनता तया(२) ॥ ६०॥ आपदीति ॥ नृपा राजानः रुपा रोषेण युयुधिरे सम्प्रजहः । किलक्षणाः नृपाः आ- पदि व्यसने व्यापृतनयाः योजितधनुर्वेदनीतयः अत्यक्तमर्यादा वा, अत एव तया पृतनया सेनया दिव्या जनता देवमुनिविद्याधरादिसंसत् विस्मयमाप विसिमिये चित्रीयमाणा जाता । चित्रं मरणकालेऽपि समयान्न चलन्ति ॥६० ॥ आपदिति ॥ नृपा राजानः आपदि व्यसने पि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः। न तु श्वापद- वृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तरस्थस्यापि पृतनाशब्दस्याबान्वयः चित्रे सोढव्यः। तथा तेन प्रकारेण युयुधिरे सम्प्रजगुः, यथा दिव्या जनता अन्तरिक्षवर्तिसिद्धविद्याधरसको विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकमेदः ॥ ६ ॥ स्वगुणराफलप्राप्तेराकृष्य गणिका इव ॥ कामुकानिव नालीकांस्त्रिणताः(३) सहसाऽमुचन् ॥ ६१ ॥ स्वगुणैरिति ॥ त्रिणताः धनूंषि सहसा झटिति नालीकान् सायकान् अमुचन् चिक्षिपिरे । किं कृत्वा स्वगुणैः निजज्याभिः आफलप्राप्तेः फलं यावत् आकृष्य आकर्ष- यित्वा(?), काः कानिव गणिकाः कामुकानिव । यथा गणिकाः धर्षिण्यः कामुकान् का. मिनः : पुरुषान् स्वगुणैः रूपलावण्यमाधुर्यादिभिः आफलप्राप्तेः आधनलाभात् नाऽलीकान् (१) नयास्तथा। (२) यथा। (३) (१९९९) शकलिखितपुस्तके तु 'तृणताः' इति पाठ उपलभ्यते । अत एव 'तृणता तृणत्वे कार्मु- केऽपि च' इति हैमकोषब्याख्यावसरे कार्मुकार्थे इममेव श्लोकमुदाहृत्य वल्लभस्तु 'धनुषि त्रिषु नतामि- पताः' इत्याह । 'तत्र गणिकापक्षे णत्वं चिन्त्यम्' इत्यनेकार्थकैरवाकरकौमुदी । निर्णयसागरयन्त्रालय- मुद्रितपुस्तकस्थ्य टिप्पणी। ॥

सर्गः। शिशुपालवधे। ६६१ .. असत्यान् मुग्धान् सहसा आकृष्य स्वीकृत्य अनन्तरं मुञ्चन्ति । त्रिषु स्थानेषु मध्ये अटन्योश्च नताः कुटिलाः त्रिणताः। 'पूर्वपदात् संज्ञायामगः' इति णत्वम् । नार्योऽपि मध्ये भ्रुवोश्चेति त्रिषु नताः ॥ ६१ ॥ स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः विणताः शाणि । 'पूर्वपदात्संज्ञायाम' इति णत्वम् । गणिका वेश्या इव, ता अपि विणताः मध्ये भ्रुवोच नतत्वात् । नालीकानिषु विशेषान् । 'नालीकः शरशल्ययोः' इति विश्वः । कामुकानिय, स्वगुणैर्व्याभिः रूपलावण्यादिभिश्च । 'गुणस्त्वावृनिशब्दादिज्येन्द्रियामुख्य- तन्तुषु' इति वैजयन्ती। आफलपाते।शल्यस्पर्शादाधनलाभाच्च आकृष्य कर्णान्तिकं नीत्वा वशीकृत्य च सहसा अमुचनत्याक्षुः । मुचे डि 'पुषादि-' इति च्लेरडादेशः । अने कैवोपमा ॥ ६१ ॥ वाजिनः शत्रुसैन्यस्य समारब्धनवाऽऽजिनः ॥ वाजिनश्च शरा मध्यमविशन् द्रुतवाजिनः ॥ २॥ वाजिन इति ॥ शत्रुसैन्यस्य मध्य विपक्षाऽनीकस्यान्तरं वाजिनोऽश्वाः अविशन् प्राविक्षन् , च पुनः शराः विशिखाः मध्यम् अविशन् । किंलक्षणा उभये वाजिनः वाजाः पक्षा विद्यन्ते येषां ते वाजिनः, अपरं किंलक्षणाः द्रुतवाजिनः द्रुतं क्षिप्रं वजन्ति चलन्ति द्रुतवाजिनः आशुगाः द्वयेऽपि, किंलक्षणस्य शत्रुसैन्यस्य समारब्धनवाऽऽजिनः प्रारब्ध. प्रत्यग्रसङ्ग्रामस्य ॥ ६२ ।। वाजिन इति ॥ दुतं वजन्तीति दुतवाजिनः शीघ्रगामिनः । 'वज गतो' इति धातोणिनिः । वाजि- मोऽश्वाः वाजिनः पक्षवन्तः शराश्च। 'पक्षो वाजनिघूत्तरे' इत्यमरः । समारन्धा नवा अपूर्वा आजियुद्ध येन तस्य समारन्धनवाऽऽजिनः शत्रुसैन्यस्य मध्यमविशन् । अत्र वाजिनां शराणां च प्रवेशाख्यतुल्य- योगिताभेदो यमकेन संसृज्यते ॥ ६२ ॥ पुरस्कृत्य फलं प्राप्तः सत्पक्षाश्रयशालिभिः॥ कृतपुखतया लेभे लक्ष्य(१)मप्याशु मार्गणैः ॥ ६३ ॥ पुरस्कृत्येति ॥ मार्गणैः शरैः : आशु मक्षु लक्ष्यमपि लेभे शरव्यमपि प्रापि । कया कृतपुणतया सपुखत्वेन । न हि पुलहीनस्य गतिर्भवति । पुल उपरिभवो भागः । उक्तं च- सपक्षो लभते लक्ष्य मार्गणोऽपि गुणच्युतः । विपक्षो गुणयुक्तोऽपि पदमेकं न गच्छति ।। इति । अपि प्रतीयमानार्थान्तरत्वेन विस्मये । किंलक्षणैः मार्गणैः फलं पुरस्कृत्य शल्यमग्रेकृत्य प्राप्तैः उपलक्ष्यं गतः, अपरं किंलक्षणैर्मार्गणैः सत्पक्षाश्रयशालिभिः सद्भिः शोभनैः पौर्वाजः यः आश्रयः आश्रयणं तेन शलन्ति आशु गच्छन्ति ये ते सत्पक्षाश्रयशालिनः है। येऽपि मार्गयन्ति दातून् गवेषयन्ति ते मार्गणाः याचकाः। कृतपुलाः चतुरास्ते लक्ष्यमपि आशु लभन्ते, किं पुना रूपम् । शतं सहस्राणि लक्ष्यं तेऽपि फलं धनं पुरस्कृत्य सन्धाय प्रासाः। तथा सन्तः पक्षाःसहायाः यस्य सः तथाविधो यः आश्रयः तेन शालिनः लाध्यमानाः । आश्रीयते इति आश्रयोऽनुग्राहकः । यावत् हि सत्पक्षाश्रयो नास्ति तावत् कथं प्रभूतं लभ्यते ॥ ६३ ॥ पुरस्कृत्येति । फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । सम्भाव्यत्यर्थः । पारागतः, मत्पनाश्रयेण माधुकहादिपत्रमन्थनेन, अन्यत्र साधुसहावलम्बनेन शालन्ते इति तथोकै (१)लक्ष।

६६२ सन्देहविषौषधिसर्वपायुते- [ एकोनविंशः- - . मार्गणैः सायकैरधिभिश्च । 'मार्गणी सायकार्थिनी' इत्यमरः । कृतपुणतया सुबद्धकर्तरीकनया । 'मुखस्या कर्तरी पुनः' इति यादवः। अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यम्, अन्यत्र लक्षसायमपि धन लेभे, शतादिकं किमु वक्तव्यमिति भावः । 'लक्षं शरव्ये माझ्यायाम्' इति विश्वः। अत्रामिषायाः प्रकृताथ- नियन्त्रणादर्थान्तरप्रतीते+निरेव ॥ ६३ ॥ रक्तस्रुति जपासूनसमरागामिषुव्यधात् ॥ कश्चित्पुरः सपत्नषु समराऽऽगामिषु व्यधात् ॥ ६४ ॥ रक्तस्रुतिमिति ॥ कश्चित् कोऽपि सुभटः पुरः अग्रवर्तिषु सपत्नेषु शत्रुषु रक्तस्रुति व्यधात् रुधिरधारां चकार । कस्मात् इपुव्यधात् शरताडनात् , किंलक्षणां रक्तनुर्ति जपा- सूनसमरागां जपाकुसुमतुल्यलौहित्यां, किंलक्षणेषु सपत्नेषु समरागामिषु रणागतेषु ॥६४॥ रक्तस्रतिमिति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्यधादाणप्रहारात् । 'व्यधजपोरनुपसर्गे' इत्यप्प्रन्ययः । जासूनसमरागां रक्तस्रतं रक्तस्रावं व्यधाद्विहितवान् । दधाते कि *गातिस्था-' इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः ॥ ६ ॥ रयेण रणकाम्यन्तौ दूरादुपगताविभौ ॥ गतासुरन्तरा दन्ती वरण्डक इवाऽभवत् ॥ १५ ॥ रयेणेति ॥ इभौ अन्तरा द्विरदयोर्मध्ये गतासुः संस्थितो दन्ती गजः वरण्डक इवा- ऽभवत् वरण्डकतुल्यो बभूव । क्रीडायुद्धे हस्तिनां काष्ठादिरूपवरण्डको रोधकः समपद्यत इत्यर्थः। किलक्षणौ इभौ रणकाम्यन्तौ रणं युद्धं काम्यतः तौ रणकाम्यन्तौ रणमिच्छन्तौ युयुत्सू । काम्यच् । इभाविति अन्तरान्तरेण युक्त द्वितीया । पृथग्विभक्तिनिर्दिष्टयोरेवा. ऽन्तराऽन्तरेणयुक्तयोद्वितीयेति न सर्वमतम् ॥ ६५ ॥ रयणेति ॥रणमात्मन इच्छन्ता रणकाम्यन्ती। 'काम्यच्च' इति रणशब्दात्काम्यच्प्रत्यये सनाद्यन्त- धातुन्वाल्लटि शत्रादेशः । रयेण दूरादुपगती इभावन्तरा भयोर्मध्ये । 'अन्तरान्तरेण युक्त' इति द्वितीया । गतासुम॒तो दन्ती, दैवान्मध्यवर्ती हस्तिकुणप इत्यर्थः । रण्डकोऽन्तरावेदिरिवाऽभवत् । 'वरण्डको- ऽन्तरावेदी सन्दोहमुखरागयोः' इति विश्वः । अभ्यासकाले काञ्चनवेदिमन्ताय दन्तिनौ योधयत इति प्रसिद्धम् । उपमा ॥ ६५ ॥ ॥ यक्षरः॥ भूरिभिर्भरिभिर्भीरा भूभारै(१)रभिरेभिरे ॥ भेरीरेभिभिरभ्राऽऽभैरभीरुभिरिभरिभाः ॥ ६६ ॥ भूरिभिरिति ॥ इभा द्विपाः इभैः प्रतिद्विपैः अभिरेभिरे दुढौकिरे सञ्जग्मिरे । अभिपूर्वस्य रमः सङ्गतार्थत्वात् । किंलक्षणैदिपैः भूरिभिर्बहुलैः, अपरं किंलक्षणैः इभैः भरिभिः कङ्कटपताकादियुक्तः, अपरं किंलक्षणैः इभैः भूभारैः अत एव भूमे रभूतैः, अपर किंलक्षणैः इभैः भेरी रेभिभिः भेरीवत् दुन्दुभिवत् रेभन्ते शब्दायन्ते ते भेरीरेभिणः तः, दुन्दुभिनि? पैरित्यर्थः । अपरं किंलक्षणैरिभैः अत एव अभ्राऽऽभैः घनपटलसन्निभैः, अपरं किंक्षलणैरिभैः अभीरुभिः भीरुभ्यः कातरेभ्यः अन्ये अभीरवः तैः निर्भ यैः, किंलक्षणा: इभाः भीराः भियं साध्वसं रान्ति ददति ते तथा, भयप्रदा इत्यर्थः । अनुप्रासो. 'ऽलङ्कारः । द्वयक्षरः ॥ ६६ ॥ (१)भारिभिर्भीरैर्भूभार ।

सर्गः। शिशुपालवधे। ६६३ . भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः। मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैमा रैः भयदैः । रा दाने, आतोऽनुपसर्गे कः। भूभारः महाकायत्वाद् भुवो भारायमाणैः, भेर्य इव रेभन्ते ध्वनन्तीति भेरी रोभिभिः । रेभृ शब्दे, ताच्छील्ये णिनिः । अभाभैर्मेचकैरिति चोपमाद्यम् । अभीरुभिर्निभारिभर्गजैः इभाः प्रतिगजास्तादृशा एव अभिरेभिरे अभियुक्ताः। उपमानुप्रासयोः सङ्करः । पक्षरानुपासः॥६६॥ निशिताऽऽसिलतालूनैस्तथा हस्तैर्न हस्तिनः ॥ युध्यमाना यथा दन्तैर्भग्नरापुविहस्तताम् ॥ ६७ ॥ निशितेति ॥ हस्तिनो गजाः युध्यमानाः युध्यन्तः सन्तः भग्नैः चूर्णितैः दन्तैः दशनैः यथा विहस्ततामापुःलेभिरे, तथा निशिताऽसिलतालनैः तीक्ष्णखड्गवल्लीकृत्तैः हस्तैः करैः न । करैः किल कृतैः मुख्यतो विहस्तत्वं युक्तम् , न तु दन्तैः । तर्हि निर्दन्तत्वं युक्तं, कथं तोवमिति चेत्-विहस्तशब्दस्य निष्प्रतिपत्त्यर्थत्वात् । विहस्ततां किङ्कर्तव्यमूढतां प्रापु- रित्यर्थः । दन्तप्रहरणत्वात्तेषाम् ॥ ६ ॥ निशितेति ॥ युध्यमानाः संप्रहरन्तः हस्ता येषां सन्तीति हस्तिनः । 'हस्तान्जाती' इति इनिप्रत्ययः । यथा भग्नैर्दन्तः विषाणैः विहस्तता हस्तहीनत्वमितिकर्तव्यतामूढत्वं चापुः । विहस्तव्याकुली सम इत्यमरः । तथा निशिताभिरसिलताभिनश्छिन्नर्हस्तैः शुण्डादण्डैर्विहस्तता नापुः। हस्तेभ्योऽपि दन्तानां प्रहारसाधनत्वादिति भावः। अत्र हस्तस्याऽच्छेदे वैहस्त्यं न हस्तच्छेदे इति विरोधः प्रतिपत्तिमूढतया समा- हित इति विरोधाभासोऽलङ्कारः ॥ ६ ॥ ॥ असंयोगः॥ निपीडनादिव मिथो दानतोयमनारतम् ॥ वपुषामदयापातादिभानामभितोऽगलत् ॥ ६८ ॥ निपीडनादिवेति ॥ इभानां दन्तिनां दानतोयं मदाम्बु अनारतं निरन्तरम् अभितः सर्वतः अगलत् सुनाव । कस्मात् वपुषां गात्राणाम् अदयापातात् निघृणपरिणा- मात् । अपरं कस्मात् , उत्प्रेक्ष्यते-मिथोऽन्योन्यं निपीडनादिव समनोपनादिव । यत्किल वस्त्रादि बलात् पीड्यते, ततोऽम्बु गलति । संयोगाक्षराणामभावात् असंयोगाक्षरोऽयम् । हलोऽनन्तरा संयोगः ॥ ६८ ॥ निपीडनादिवति ॥ इभाना वपुषाम् अदयापातानिर्दयाऽभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादि- निपीडनादि वेत्युत्प्रेक्षा । अनास्तमश्रान्तं दानतोयमभितोऽगलतू । धनवनिर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अत्र संयोगाभावादसंयोगश्चित्रभेदः । हलोऽनन्तराः संयोगः ॥ ६८ ॥ रणाङ्गणं सर इव प्लावितं मवदारभिः ॥ गजः पृथुकराऽऽकृष्टशतपत्रमलोडयत् ॥ ६९ ॥ रणाङ्गणमिति ॥ गजः द्विपः रणाङ्गणं समराङ्गणम् अलोडयत् विह्वलीचकार । किंलक्षणं रणाङ्गणं मदवारिभिः प्लावितं दानजलैः पूर्णम् , अपरं किंलक्षणं रणाङ्गणं पृथु- कराष्टशतपत्रं पृथुना स्थूलेन करेण शुण्डादण्डेन आकृष्टानि आक्षितानि शतमनेकानि पत्राणि धोरणानि यत्र तत्तथा, किमिव अलोडयत् सर इव तडागमिव । यथा गजः तोय- प्लावित स्थूलहस्ताकृष्टशतपत्र सरो विलोडयति विलुलीकरोति । अत्र शतपत्रं पद्मम्॥६९॥ रणागणामति ॥ गजो मदवारिणा प्लावितमुक्षितं रणागणं सर इव पृथुना करेणाकृष्टानि शत- - ६६४ सन्देहविषौषधिसर्वकषायुते- [ एकोनविंश:- . पत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिकर्माण तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा ॥ ६९ ॥ शरक्षते गजे भृङ्गैः सुविषादि(१)निषादिनि ॥ रुतव्याजेन रुदितं तत्राऽऽसीदतिसीदति ॥ ७० ॥ शरक्षते इति ॥ तत्र सङ्ग्रामे गजे हस्तिनि शरक्षते सायकाहते सति भृङ्गः अलिभिः रुतव्याजेन कूजितच्छमना रुदितम् आसीत् रोदनं बभूव, तैररोदि । किलक्षणे गजे सुवि. षादिनिषादिनि सुष्टु अतिशयेन विषादी खिन्नो निषादी यन्ता यस्य सः तथा तस्मिन् , यदि वा विषादी चासौ निषादी च सह तेन वर्तते । अपरं किंलक्षणे गजे यतः अतिसोदति शरक्षतत्वात् अतिशयेन प्राप्ताऽवसादे । अतो ज्ञायते आश्रयाभावात् भृङ्गा रुरुदुरिति भावः ॥ ७० ॥ शरतते इति ॥ गजे शरेण ते प्रहते अत एव विषादिना विषादयता निषादिना यन्त्रा सह वर्तने इति तस्मिसन् विषादिनिषादिनि नत्र रणे अतिसीदति अतिसन्ने सति । मृत सतीत्यर्थः। सदेलेटः शत्रादेशः। भृङ्गैः कर्तृभिः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । रुतव्याजेन रुतच्छलेन रुदित रोदनमासीत् । स्वाश्रयनाशदुःखाद्रोदनं कृतमिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाम्या । सा च रुतव्याजेनेत्यपहापूर्वकत्वात्साप- द्ववेति सर्वस्वकारः ॥२०॥ अन्तकस्य पृथौ तत्र शयनीय इवाहवे ॥ दशनव्यसनादीयुमत्कुणत्वं मतङ्गजाः ॥ ७१ ॥ अन्तकस्येति ॥ तत्र तस्मिन्नाहवे सङ्ग्रामे मतङ्गजा गजेन्द्राः दशनव्यसनात् विषाणनाशात् मत्कुणत्वमीयुः प्रापुः । निर्दन्तो हि दन्ती मत्कुण उच्यते । दशनव्यसन- ग्रहणं मत्कुणरूपणार्थ च । किलक्षणे आहवे पृथौ विस्तीर्णे, अपरं किलक्षणे आहवे अन्तकस्य मृत्योः शयनोये पर्य इव भीषणत्वात मृत्युशयनीयतुल्ये, अथ च मत्कुणत्वं क्षुद्रजन्तुविशेषस्वरूपत्वं प्रापुरित्युक्त्योक्तम् । शयनीये किल दशनव्यसनात् असूक्पान- गाात् मत्कुणाः क्षुद्रजन्तवः आयान्तीति ॥ ७१ ॥ अन्तकस्येति ॥ अन्तकस्य मृत्योः सम्बन्धिनि, शेतऽस्मिन्निति शयनीये तल्प इव स्थित इत्यर्थः । 'कृत्यल्युटो बहुलम्' इत्यधिकरणेऽनीयर् । पृथा विशाले तबाहवे मतङ्गजाः दन्तव्यसनाविषाणभङ्गाद्धेतो: मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरकपायिनः खट्वाश्रयाः कीटविशेषा मत्कुगाः । काले- ऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः, तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकम् । अन्तकस्य शयनीय इवेत्युत्प्रेशासापेक्षमिति सङ्करः ॥ १ ॥ युग्मम्- ॥ अर्धभ्रमकः॥ अ भी क म ति के ने न न्द स्य ना श ने॥ रस का म से ना के म न्द का म म स्यति ॥ ७२ । . भी ता क (१)मविषादि।

सर्गः। शिशुपालवधे। ६६५ । । दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ॥ हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥ अभीकेत्यादि । दधत इति ॥ तत्र रणे समरे परैः शत्रुभिः अभिमुखाः हताः संमुखाः हता वीराः सरभूयमुपाययुः देवभावं प्रापुः । किलक्षणास्ते भीमं घोरम् आसुरं भावं रौद्र- रूपं दधतोऽपि अभीक्ष्णमतिशयेन धारयन्तोऽपि । अभीकेतिअन अपिशब्दो विरोधे । ये किल आसरं भावमसरत्वं बिभ्रति, ते कथं देवत्वं प्राप्नुयुः । किलक्षणे रणे अभीकमतिकेन निर्भयचित्तेन भटलोकेन इछ दीप्ते, अपरं किलक्षणे रणे भीतानन्दस्य नाशने भीतानन्दस्य प्रस्तहर्षस्य नाशने निरासिनि । यं दृष्ट्वा कातरा मुह्यन्तीति । अपरं किंलक्षणे रणे कनत्सकामसेनाके कनन्ती देदीप्यमाना सकामा कान्तियुक्ता सप्रद्युम्ना सम्पन्नमनोरथा वा सेना चमूर्यत्र स कनत्सकामसेनः, ततः स्वार्थे कप्रत्ययः, तस्मिन् , अपरं किलक्षणे रणे मन्दकामकं मन्दः स्वल्पः काम इच्छा अभिलापो यस्य सः मन्दकामः, ततः स्वार्थे क- प्रत्ययः, तं मन्दकामकं भीतचित्तम् असात्त्विकम् अस्यति क्षिपमाणे । अर्धभ्रमणात अर्ध- अमोऽयम् , न तु सर्वतोभद्रः । स हि सर्वतो भ्राम्यति । न्यासः(१) युग्मम् ॥ ७२-७३ ॥ अथ युग्मनाह- अभीकेति ॥ अभीका निर्भीका मतिर्यस्य तेनाऽभीकमतिकेन निर्भयचित्तेन । शैषिकः कप्- प्रत्ययः । इद्धे दी से, भीतानामानन्दस्य नाशने । नशेर्प्यन्ताकर्तरि ल्युट् । कनन्ती दीप्यमाना सकामा विजयित्वात्पूर्णकामा सना यत्र तस्मिन्कनत्सकामसेनाके । पूर्ववत्कप् । मन्दकामकं मन्दोत्साहम् । पूर्ववदेव कम् । अस्यति निराकुर्वाणे रण इत्युत्तरेण सम्बन्धः । अत्र सर्वतोभद्रवत्सर्वपादभ्रमणाभावात्पादार्धानामेव भ्रमणादर्षभ्रमकम् । उद्धारस्तु सर्वतोभद्रवत्स्यादेव ॥ २ ॥ दधत इति ।। रणे पूर्वोकप्रकारे अभीक्ष्णमत्यन्तं भीमं भयङ्करम् आसुरमसुरसम्बन्धिनं भावं पुरुष- कारलक्षणम् । 'भावो लीलाकियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती । असुरत्वं च दधतः दधाना अपि परः शत्रुभिः अभिमुखा एव स्थिताः । हता वीरा इति शेषः । अत एव सुराणां भावं सुरभूयं सुरत्वं देवत्वमुपाययुः । 'स्वर्ग यान्त्यपराङ्मुखाः' इति स्मरणादिति भावः । 'भुवो भावे' इति क्यप । अत्रा- सुरभावेऽपि सुरभूयमुपाययुरिति विरोधस्य भावशब्दस्यार्थान्तरत्वेन परिहाराद्विरोधाभासः । इति युग्मम् ॥ येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः । समत्वं स ययौ खङ्गत्सरुवापरतोऽमरैः ॥ ७४ ॥ येनाङ्गामिति ॥ येन वीरेण सरुचा कान्तिमता सता परतोमरैः शत्रुतोमरैः कृत्वा व्रणवत् क्षतियुक्तम् अङ्गमूहे वपुः धृतं, स वीरः अमरैः देवैः समत्वं साम्यं ययौ प्राप। अतिपौरुषात् कान्तिमत्त्वाच्च देवनिभ एवासौ बभावित्यर्थः । किंलक्षणः सः खड्गत्सरु- चापरतः खड्गत्सरौ असिमुष्टौ चापे धनुषि च रतः सक्तः, बहुप्रहरण इत्यर्थः ।। ७४ ।। येनाङ्गामिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतोमरैः शत्रुशः व्रणवत् सत्रणमङ्गमूह उढम् । वहः कर्मणि लिट् सम्प्रप्तारणम् । खड्गन्सरो खड्गमुष्टी चापे च रतः खड्गत्सरु- चापरतः । खड्गेषुप्रहारेण युद्ध कुर्वनित्यर्थः । 'सरुः खड्गादिमुष्टौ स्यात् ' इत्यमरः । स वीरोऽमरैः ममत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संमृष्टिः ॥ ४ ॥ - ६६६ सन्देहविषौषधिसर्वकषायुते- [एकोनविंश:- . निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ॥ पाणिनीयमिवाऽऽलोचि(१) धीरैस्तत्समराऽजिरम् ॥ ७५ ॥ निपातितेति ॥ तत्समराजिरं रणाङ्गणं धीरैः सुभटैरेव आलोचि द्रष्टुं शकितं, न कात- । किलक्षणं समराऽजिरं यतः निपातितसहृत्स्वामिपितृव्यभ्रातृमातुलं निपातिताः हताः सुहृदो मित्राणि स्वामिनः प्रभवः पितृव्याः जनकबन्धवः भ्रातरः सोदराः मातुलाः जननी. भ्रातरः च यत्र तत्तथोक्तम् । उपलक्षणं चैतत्-पितृपितामहमातामहजामात्रादीनामपि निपातितत्वात् । अथ रौद्ररणदर्शनं धीराणामेवोपपद्यते, किमिव कैरालोचीत्याह-पाणि- नीयमिव व्याकरणमिव धीरैः। पाणिनीयसंज्ञं हि व्याकरणं धीरा एवाऽऽलोचयन्ति पण्डिता एवाऽऽलोचयन्ति, न त्वन्ये सुकुमारमतयः । तत्रापि सुहृदादयो निपातिताः । साधुत्वाभ्युप- गमनाय यत्स्वरूपेणोच्चारितास्तद्यथा-सुहृदुहृदो मित्राऽमित्रयोः, स्वामिन्नैश्वयें, पितृव्य- मातुलमातामहपितामहाः, नप्तृ नेष्टुक्षत्तृहोतृजामातृपितृमातृदुहित इति पाणिनिना प्रोक्तं पाणिनीयम् ॥ ७५ ॥ निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिता: लक्षणाभावे शब्दसाधुत्वाय सूचकृता सूत्रस्वरूपेणोचारिताः मुह- दादिशन्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणानणम् पाणिनिना प्रोनं पाणिनीयमष्टाध्यायी- व्याकरणमिव । 'तेन प्रोक्तम्' इति छप्रत्ययः। धीरे ष्टै रेवाग्नोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । 'सुहृदुहृदी मित्रामित्रयोः' इति हृदयशन्दस्य हृद्भावो निपातितः । स्वमस्यास्तीति स्वामी ईश्वरः । 'स्वामिन्नश्वर्ये' इति मत्वर्थीयनिपातः । 'पितुर्धाता पितृव्यः स्यान्मातुर्धाता तु मातुलः' इत्यमरः । 'पितृव्यमातुलमातामहपितामहाः' इति व्यडुलजन्तनिपाताः । बिभतीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः ॥ ५ ॥ अभावि सिन्ध्वा सन्ध्याऽभ्रसद्वग्रुधिरतोयया ॥ हृते योद्धं जनः पांसौ स ग्रुधि रतो यया ॥ ७६ ॥ अभावीति ॥ सिन्ध्वा नद्या अभावि उदपादि, किंलक्षणया सिन्ध्वा सन्ध्याऽभ्रसा- धिरतोयया सन्ध्याऽभ्रसहक सन्ध्यावेलाघनसदृशं यत् रुधिरं रक्तं तदेव तोयं पानीयं यस्यां सा तथा तया रुधिरनयेत्यर्थः । तथा यया सिन्ध्वा गुरुधि दृष्टिरोधके पासौ रेणौ हते अपाकृते सति स जनो भटलोकः भूयः योदधु प्रहर्तु रतः प्रवृत्तः । शौ नेत्रे रुणद्धि आवृणोतीति गुत् तस्मिद् गुधि ।। ७६ ।। प्रभावीति ॥ सन्ध्याभ्रसदृक् सन्ध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्या रकनया अभावि भूतम् । भावे लुडि चिण् । यया सिन्ध्या दृशो रुणद्धीति युधि दृष्टिरोधके । रुधः क्विम् । पसिौ रजसि हते सति स जनो वीरलोको योधु रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः ॥ ०६ ॥ विदलत्पुष्कराकीर्णाः पतच्छवसमाकुलाः(२) ॥ तरत्पत्ररथा नद्यः प्रासपन रक्तवारिजाः ॥ ७७॥ घिदलदिति ॥ रक्तवारिजाः नद्यः प्रासर्पन प्रसस्नुः, रक्तवारिणः रुधिरोदकाज्जाता: रक्तवारिजाः : प्रसस्नुः उहुः । किंलक्षणा नद्यः विदलत्पुष्कराकीर्णाः विदलनिः विशीर्णैः पुष्करैः करिशुण्डायैः आकीर्णा व्यासाः, अपरं किलक्षणाः रुधिरनद्यः (१) लोकि। (२) कुलाकुलाः। .. असृगुद्भवाः तरङ्गिण्यः ..

सर्गः।] शिशुपालवधे। .. पतच्छङ्गसमाकुलाः पतन्निः व्रजनिः शङ्खः गजालङ्कारैः समाकुलाः, अपरं किंलक्षणाः नयः तरत्पत्ररथाः तरन्ति प्लवमानानि पत्राणि यानानि स्थाः स्यन्दनाश्च यास तास्तथा । गजरथग्रहणं प्राधान्यख्यापनार्थम् । तरन्तः पत्ररथा यास्विति वा योज्यम् । नयो हि रक्तवारिजाः लोहिताऽम्बुजा भवन्ति । रक्तानिवारिजानि यास्विति ताः । तथा विदलत्पु. कराकीर्णाः विदलनिः विकसद्भिः पुष्करैः अन्यैः पौः समाकीर्णाः स्युः, तथा पतद्भिः शङ्कः प्राणिविशेषैः शम्बूकाभिधैः समाकुलाःसङ्कीर्णाः, तथा तरत्पत्ररथाः तरन्तो गच्छन्तः पत्ररथाः पक्षिणो यासु तास्तथा, पक्षिणो यासु प्रसर्पन्ति च ॥ ७७ ॥ विदलदिति ॥ विदलद्भिविदीर्यमाणैः पुष्करः करिहस्ताः, अन्यत्र विकसद्भिः पद्मराकीर्णा व्याप्ताः । पतद्भिः शकुलै: ललाटास्थिसबै कम्बुमर्द्धश्चाऽऽकुलाः, तरान्त प्लवमानानि पत्राणि वाहनानि रथाश्च, भ- न्यत्र पत्ररथा अण्डजा यासु ताः रक्तवारिजा रुधिरतोयजन्याः, अन्यत्र रक्तानि पारिजानि यासु ताः नयः प्रासर्पन् प्रावहन् । अत्र नदीना रक्तनदीना च श्लेषः ॥ ७ ॥ असृग् जनोऽस्तक्षतिमानवमजवसादनम् ॥ रक्षापिशाचं मुमुदे नवमजवसादनम् ॥ ७८ ॥ असृगिति ॥ जनो भटलोकः असक् रुधिरम् अवमत् अवमीत् । किंलक्षणमसक् जवसादनं जवरोधकं पिच्छलत्वात्, किलक्षणो जनः अस्त्रक्षतिमान् आयुधप्रहारयुक्तः । तथा रक्षःपिशाचं मुमुदे मुदितं यातूनि पिशाचाश्च ननन्दुः। किंलक्षणं रक्षःपिशाच नवमज्जवसाऽदनं नवा प्रत्यग्रप्रकटभूता या मज्जो धातुविशेषः वसा हृन्मेदश्च ते नवमजा. वसे तयोः ताभ्यां वा अदनं भोजनं यस्य तत् तथा । रक्षःपिशाचमिति रक्षांसि पिशाचा- श्चेति समाहारद्वन्द्वः ॥ ७८ ॥ असागति ॥ अमक्षतिमानमप्रहारवान जनो वीरजनोऽमृग्रनं अवसादनं जवस्य चेष्टावेगस्य सादनं यथा स्यात्तथा अवमत् । नवयोर्मज्जवतयोमेंदौरसयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षानि च पिशाचाव रक्ष:पिशाचम् , समाहारे द्वन्द्वकवद्भावः । मुमुदे जहर्ष । अत्र मोदस्य वमनवाक्यार्थहेतुत्वादाक्यार्थहेतुकं काव्यलिङ्ग, तच यमकेन संमृज्यते ॥ ८ ॥ चित्रं चापैरपेतज्यैः स्फुरद्रतशतहदम् ॥ पयोदजालमिव तद्वैरा(१)शंसनमाबभौ ॥ ७ ॥ चित्रमिति ॥ तद्वैराश्सन रणम् आबभौ शुशुभे । किंलक्षणं वैराशंसनम् अपेतज्यैः छिन्नगुणैः चापैः कोदण्डैः चित्रं किौरम्, अपरं किंलक्षणं वैराशंसनं स्फुरद्रतशतहर्द स्फुरन्तः दीप्यन्तः रक्तस्य रुधिरस्य शतमनेके हृदा जलगां यत्र तत्तथा, यदि वा स्फुर. द्रताः शतं हृदा यत्र तत्तथा । किमिव बभौ पयोदनालमिव धनपटलं यथा, तथा आ- भाति । पयोदजालमपि किलक्षणम् अपेतज्यैः गतमौर्वीकै चापैः इन्द्रधनुभिश्चित्रम् , अपर स्फुरद्रक्तशतहदम् ज्वलदारक्तविद्युत्कं च ॥ ७९ ॥ चित्रमिति ॥अपेतज्यैरपगतमाधाकैः। 'मौर्षी ज्या शिञ्जिनी गुणः, इत्यमरः । चाँपचित्र विचित्र, स्फुरन्ति रकान्येव शतदाः शम्पा यस्मिस्तत् । 'शम्पा शतदा हादिनी' इत्यमरः। तत्प्रकृतं, पीरः आशंस्यते अत्रेति वीराशंसनं भयङ्करा युद्धभूमिः । 'सा वीरशमनं युद्धभूमिर्याऽतिभयप्रदा' इत्यमरः । पयोदजाल- मिवामी ॥ ९ ॥ (१)तहीरा। ५९ शि०० . ।

६६८ सन्देहविषौषधिसर्वाषायुते- [ एकोनविंशः- .. बन्धी विपनेऽनेकेन नरेणेह तदन्तिके । अशोचि सैन्ये घण्टाभिन रेणे हतदन्तिके ॥ ८० ॥ बन्धाविति ॥ इहाऽत्र सैन्ये कटके अनेके बन्धौ, अनेकेषु बहुषु बन्धुष्वित्यर्थः। विपन्ने हते सति, अनेकेन नरेण, बहुभिर्नरैरित्यर्थः । तदन्तिके तस्य बन्धोः अन्तिके समीपे अशोचि शोचितं, रुदितमित्यर्थः । तथा इह सैन्ये घण्टाभिः घर्धराभिः न रेणे न क्वणितं, किंलक्षणे इह सैन्ये यतः हतदन्तिके हताः दन्तिनो यस्य तत्तथा तस्मिन् मारितमतङ्गजे॥ बन्धाविति । इह सैन्ये बन्धी विपन्ने मृते सति अनेकन नरेण । अनेकै रित्यर्थः । जातावकवच- नम् । तदन्ति के तस्य मृतस्य बन्धोरान्तिके अशोचि । किश्च हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिर्न रेणे न दध्वने । रणतेर्भाव लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वाव पदार्थहेतुकं काव्यलिङ्गं यमकेन संमृज्यते ॥ ८० ॥ कृतैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ॥ क्षुण्णलोकाऽसुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥ कृतैरिति ॥ दन्तिनां गजानां दन्तैर्दशनैः गात्रैः वपुर्भिश्च कृतैश्छिन्नैः कीर्णा व्याप्ता मही रेजे भूमिः शुशुभे । किंलक्षणैर्दन्तैः गात्रैश्च, उत्प्रेक्ष्यते-मृत्योः अन्तकस्य मुसलोलुख- लैरिव उलूखलमुसलैरिव, किलक्षणैर्मुसलोलू खलैः क्षुण्णलोकाऽसभिः क्षुण्णाः पिष्टा लोकानां जीवानाम् असवः प्राणा यैः येषु वा तानि तथा तैः । राजदन्तादिपरनिपातस्या- ऽनित्यत्वात् मुसलोलूखलैरिति प्रयोगः । यदि वा मुसलसहितानि उलूखलानीति, शाक- पार्थिवादित्वात्समासः ।। ८१ ।। कृत्तरिति ॥ कृत्तः छिन्नः दन्तिनां दन्तैर्गाश्च कीर्णा मही रणभूमिः, क्षुण्णाः पिष्टाः लोकाऽसवो जन- प्राणा यस्तैः मृत्योर्मुसलोलूखलैः काणे रेजे । 'अयोऽयं मुसजोऽस्त्री स्यादुदूखलमुलूखलम्' इत्यमरः । अत्र मुसलोलूखलैरिति राजदन्तादिपाठेऽपि 'सर्वकूलाभ्र-'इन्यादिसूत्रादेव व्यभिचारज्ञापकात्परनिपातव्यत्ययः ।। युद्धमित्थं विधूताऽन्यमानवानभियोगतः ॥ चैद्यः परान् पराजिग्ये मानवानभियो गतः ॥ ८२॥ युद्धमिति ॥ युद्धं गतः मानवान् मानी चैधः शिशुपाल परान् अभिघातीन् पराजिग्ये पराजितवान् व्यजेष्ट । कथम् अभियोगतः उद्यमात्, किंलक्षणान् परान् विधूताऽन्यमानवान् विधूताः कम्पिता: अन्ये इतरे मानवाः मनुष्या यैस्ते तथा तान् , अपरं किंलक्षणान् परान् अभियः निर्भयान् ॥ ८२ ॥ युद्धामति ॥ मानवानभिमानवान वेद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्याति- रिका मानवा यैस्तान् विधूताऽन्यमानवान् अभियः निर्मीकान् परानरीन आभियोगतोऽभियोगादभ्यवरोधाद पराजिम्ये, जिगायत्यर्थः । 'विपराभ्यां जेः' इत्यात्मनेपदम् । 'मलिटोर्जेः' इति कुत्वम् ॥ ८२ ॥ पञ्चभिः कुलकम्- अथ वक्षोमणिच्छायाच्छुरिताऽऽपीतवाससा ॥ स्फुरदिन्द्रधनुभिन्नतडितेव तडित्वता ॥ ८३ ॥ ॥अरः॥ मीलेनाऽनालनलिननिलीनोल्ललनाऽलिना ॥ ललनालालनेनाऽलं लीलाऽऽलानेन (१)लालिमा ॥ ८४॥ (१)लोलेन। ..

सर्गः।] शिशुपालवधे । ६१६ अपूर्वयेव तत्कालसमागमसकामया ॥ दृष्टेन राजन् वपुषा कटाक्षैविजयश्रिया ॥ ८५ ॥ ॥ यक्षरः ॥ विभावी विभवी भाssभो विभाभावी विवो विभीः॥ भवाऽभिभावी भावाऽवो भवाऽभावो भुवो विभुः ॥ ८६ ॥ उपैतुफामैस्तत्पारं निश्चितैयोगिभिः परैः ॥ देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७ ॥ अथेत्यादि ॥ अदृश्यतेति ॥ अथाऽनन्तरं परः पुमान् भगवान् श्रीकृष्णः परैः विपक्षैः शत्रुभिः अदृश्यत आलुलोके दृष्टः । किलक्षणः परः पुमान् वपुपा देहेन राजन् भासमानः शोभमानः । अथेति ॥ किंलक्षणेन वपुषा वक्षोमणिच्छायाच्छुरिता- ऽऽपीतवाससा वक्षोमणे कौस्तुभस्य मणेः छायया कान्त्या छुरिते भिन्ने कर्बुरिते आपीते पिशङ्गे वाससी शुके यस्य तत्तथा तेन । अपरं किंलक्षणेन वपुषा, अतश्चोत्प्रेक्ष्यते-स्फुरदिन्द्रधनुभिन्नतडिता तडित्वतेव स्फुरता शोभमानेन इन्द्रधनुपा देवेन्द्रकार्मुकेण भिन्ना युक्ता तडित् विद्युत् यस्य सः तथा तेन ताशेन तडित्वता मेघेनेव, लसमानवासवचापपरिभूषितविद्युजलदतुल्येनेत्यर्थः । नीलेनेति ॥ अपरं किलक्षणेन वपुषा नीलेन श्यामलेन, अपरं किलक्षणेन वपुषा अनालनलिननिलीनोल्ललनाऽलिना अनालममृणालं यन्नलिनं कमलं तत्र निलीनाः श्लिष्टा: उल्ललनाः चटुलाः उल्लासिनोऽलयो.भ्रमरा यस्य तत्तथा तेन । आनालेत्यपि केचित् कवयः विद्यमाननालं यन्नलिनं नाभीपुण्डरीकमाहुः । अपरं किलक्षणेन वपुषा ललनालालनेन लल. नानां सीमन्तिनीनां लालनं क्रीडनं येन तत्तथा तेन, सुन्दरीणाममीप्सितेनेत्यर्थः । अपरं किलक्षणेन वपुषा अलंलीलाऽऽलानेन अलमत्यर्थं लीलानां विलासानाम् आलानं बन्धन- स्तम्भः तेन । एतेन सर्वा एव लीलाः तत्र स्थिता इत्यर्थः । अपरं किलक्षणेन वपुषा लालिना साधु अवश्य वा ललयति परश्रियमाप्तुमिच्छतीति लालि तेन। अपूर्वयेवेति ॥ अपरं किंलक्षणेन वपुषा विजयश्रिया जयलक्ष्म्या कटाक्षैः अपाङ्गेक्षितैः दृष्टेन विलोकितेन, किलक्षणया विजयश्रिया तत्कालसमागमसकामया तत्कालं तत्क्षणे समागमः मिलनं तत्र सकामया साभिलाषया । शिशुपालं हित्वा श्रीभगवन्तं जिघृक्षन्त्येत्यर्थः । अपरं किं. लक्षणया विजयश्रिया, उत्प्रेक्ष्यते-अपूर्वयेव अभिनवयेव । या किल नवोढा कान्तसमागमो- स्सका भवति, सा कान्तं कटाक्षैनिरीक्षते । भगवतस्तु लक्ष्मीनित्यं सन्निहिता समीप- वर्तिनीत्युत्प्रेक्षा । विभावीति ॥ अपरं किलक्षणो भगवान् विभावी विभवतीति विभावी विभुः सर्वव्यापी, अपर किंलक्षणो भगवान् विभवी विभव ऐश्वर्य विद्यते यस्य स तथा, ईश्वर- इत्यर्थः, अपरं किलक्षणो हरिः भाऽऽभः भासा कान्त्या ऋक्षनिभः, अपरं किंलक्षणो हरिः विभाभावी विभां दीसिं भावयते प्राप्नोतीति विभाभावी कान्तिधरः, अपरं किंलक्षणो हरिः विवः विना पक्षिणा गरुडेन वाति गच्छतीति विवः गरुडस्वामी, अपर किंलक्षणो हरिः विभीः विगता भीः साध्वसं यस्मात् सः तथा निर्भयः, अपरं किंलक्षणो हरिः भवाऽभिभावी भवं संसारं भक्तानाम् अभिभवतीति क्षपयति सः तथा मोक्षप्रा, । .

सन्देहविषौषधिसर्वकषायुते- [ एकोनविंशः अपरं किंलक्षणो हरिः भावाऽवः भावान् पदार्थान् अवति रक्षतीति भावाऽवः जगत्पालकः, अपरं किंलक्षणो हरिः भवाऽभावः भवस्य भगवतः श्रीमहादेवस्य भहारकस्येव वा अभावः अनुत्पत्तिर्यस्य सः भवाऽभावः, अजन्मा इत्यर्थः । अपरं किंलक्षणो हरिः भुवः विभुः भूमेः स्वामी, उद्धरणात् । एवंविधो भगवान् परैःशत्रुभिदृश्यत । उपैतुकामैरिति ॥ किंलक्षणैः परैः तत्पारमुपैतुकामैः तस्य देवस्य पारमुपैतुकामैः अन्तं प्रेप्सभिः, अन्तं जिगमिषुभिरित्यर्थः । अपरं किंलक्षणैः परैः निश्चितैः युद्धाय कृत- निश्चयः, अपर किलक्षणैः परैः योगिभिः योगः सन्नहनोपायः विद्यते येषां ते योगिनः तैः सन्नद्धैः। 'योगः सन्नहनोपायध्याननिश्चययुक्तिषु' इत्यमरः । अपरं किलक्षणैः परैः देहत्यागकृतोद्योगैः देहत्यागे देहत्यजने कृतः विहितः उद्योगः उद्यमो येषां ते तथा तै: शरीरत्यागाय विहितयत्नैः। मरणमप्यङ्गीकृत्य तजिगीषया युयुत्सुभिरित्यर्थः । योऽपि परः सर्वोत्कृष्टः आत्माख्यः, स परैः उत्कृष्टैः योगिभिः समाधिवद्भिः जैगीषव्यप्रभृतिभि. श्व दृश्यते । किंलक्षणैः योगिभिः तस्य भगवतः पारमवसानम् आप्तुकामैः । तत्सायुज्यं यियासभिरित्यर्थः । अपरं किलक्षणेर्योगिभिः निश्चितैः निःसन्देहैः, विदितवेद्यत्वात् । पञ्चभिः कुलकम् ॥ ८३-८७ ॥ अथ भगवदाभियोगं पञ्चभिः कुलकेनाह- अथति ॥ अथ चैद्यजयाऽनन्तरं वपुषा राजन् परः पुमानदृश्यतेति पञ्चमेन सम्बन्धः । तद्रपुस्तावत बिभिर्विशिनष्टि । वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्यातान्यापीतवासोसि पीताम्बराणि यस्य तेन, अत एव स्फुरता इन्द्रधनुषा मित्राः सङ्गतास्तडितो यस्य तेन तडित्वता मेघेनेव स्थितेनेत्यर्थः ॥ ८३ ॥ नीलेनोति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालरहितं यन्नलिनं तत्र निलीना- भासत्राः उल्लसन्तीत्युलनाः चलाश्चाऽलयो यस्य तेन अनालनलिननिलीनोशलनाउलिना, मुखसौरभलोभ- परिभ्रमदमरणेत्यर्थः। ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलम- त्यन्त लीलालोलेन क्रीडालोलुपेन । 'लीलालानेन' इति पाठे लीनानां विलासानामालानेन । आलयेनेत्यर्थः । ललयति भक्कानिति लालिना । भक्तानुकम्पिनेत्यर्थः । यक्षरानुप्रासोऽलङ्कारः ॥ ८ ॥ अपूर्वयेवेति ॥ किञ्च अपूर्वयेव अपूर्वसमागमयेव तत्कालसमागमे सकामया साभिलाषया विजय श्रिया। चैधविरक्तयेति भावः। कटाक्षरपाङ्ग्रे र्दष्टेनाऽऽलोकितेन वपुषा राजन् दीप्यमानः । अत्र प्रस्तुतजयश्री- विशेषणसाम्यादप्रस्तुतानुरक्रमानिनीप्रतीतेः समासोक्तिः, प्रतीयमानाभेदाध्यवमायादपाङ्गदर्शनोत्प्रेक्षा च ॥ विभावति ॥ विभावोऽस्यास्तीति विभावी प्रभावसम्पन्नः, विभयोऽस्थास्तीति विभवी ऐश्वर्यवान् भस्याभेवामा यस्य स भाभः । नक्षत्रवदुज्ज्वल इत्यर्थः । विमा विशिष्टामा भावयति सम्पादयति विश्वस्येति विभाभावी । 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । भुदो ण्यन्ताणिनिः । विना पक्षिणा वाति गन्छ- नीति विवः । पक्षिवाहन इत्यर्थः। भातोऽनुपसर्गे कः । विभीनिकः । भवं संसारमभिभवतीति भवाभि भावी । भक्कानो संसारनिवर्तक इत्यर्थः । भुवो णिनिः । भावाञ्जन्तूनवतीति भावाऽनः विश्वाता । 'भाको बीलाक्रियाचेष्टाभूयभिप्रायजन्तुषु' इति वैजयन्ती। अपतेः कर्मण्यम्। भवाऽभावोऽत्यास्तीति, संसार दुःखै- रस्पृष्ट इत्यर्थः। अर्शआदित्वादच्यत्ययः । भुवो भूमविभुर्भः ॥ ८६ ॥ उपेतुकामरिति ॥ एवंभूतः परः पुमान् परमपुरुषो हरिः, तत्पारं तस्य हरेः पारमन्तमौतुकामैस्तं जिगीषुभिः । अन्यत्र दिवक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चिते । योद्धुं कृत- नियरित्यर्थः। अन्यत्र निश्चिततत्त्वः। सकर्मकादप्यविवक्षिते कर्मणि कायदा पीता गावः, विभका भ्रातर- इत्यादिवयितव्यम् । स्फुटीकृतं चैतद् घपटापथे-'स वर्णिलिङ्गी विदितः' इत्यत्र । देहत्यागकृतोद्योग- मरणोद्यतः। अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः सत्राहयद्विरुपायवद्भिर्वा, अन्यत्र ध्यानवादिः । 'योगा ।

साः। शिशुपालवधे। . ३ मंत्रहनोपायध्यान सङ्गतियुक्तिषु' इत्यमरः । परैः शत्रुमिः, अन्यत्र परमय गिमिः अदृश्यत । परेषामग्रे- इतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः । तमेव विदिन्वाऽतिमृत्युमेति' इति श्रुतेः। अर्थान्तरप्रतीतिनिरव म श्लेषः, अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥ ८ ॥ युग्मम्- ॥गतप्रत्यागतम्॥ तं श्रिया घनयाऽनस्तरुचा सारतया तया ॥ यातया तरसा चारुस्तनयाऽनघयाऽऽश्रितम्(१) ॥ ८८ ॥ विद्विषोऽद्विषुरुद्वीक्ष्य तथाऽप्यासन्निरेनसः ॥ अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ ८९ ॥ तमिति ॥ तं देवं श्रीकृष्णम् अनघया श्रिया आश्रितं दृष्ट्वा विद्विषो द्वि पन्तः तथापि एवमपि निरेनसः विरेपसः देवदर्शनादेव निष्पापाः आसन् अभूवन् । यस्मात् भेषजमौषधं पारदादिकम् अरुच्यमपि अप्रियमपि निसर्गादेव प्रकृत्यैव रोगह व्याधिहरम् । ओषति दहति रोगान् इति औषधम् । तथा औषधं विमुच्य नरस्य भैषज्य रोगं न हन्ति । यतो यद्यपि ते देवा ये ईय॑न्ते, तथापि पुण्यदर्शनत्वात् भगवांस्तेषा- मपि पापं जहारेत्यर्थः । किंलक्षणं तं श्रिया पद्मया तरसा बलात् आश्रितमाश्लिष्ट, किलक्षणया श्रिया घनया अतनीयस्या, अपरं किंलक्षणया श्रिया अनस्तरुचा अत्यक्तका- न्त्या, अपरं किंलक्षणया श्रिया तया सर्वप्रसिद्धया सारतया भगवदुत्कर्षेण यातया देवसमीपं प्राप्तया, अपरं किलक्षणया श्रिया चारुस्तनया श्लिष्टपयोधरया । 'स्वाहाचोपसर्जना दिति डीविकल्पः । प्रतिलोमानुलोमोऽयम् । द्विषन्तीति द्विषः, विप् । अद्विषुरिति मेर्जुस् । रोग हन्तीति रोगघ्नम्, 'अमुनष्यकर्तृके चेति टः । युग्मम् ॥ ८८-८९ ॥ युग्मेनाह- तमिति ॥ घनया आनन्दसान्द्रया, अनस्तरुचा अक्षीणकान्त्या, सारतया सारत्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया, चारुस्तनया रम्यकुचया। 'स्थानाञ्चोपसर्जनादसंयोगोपधात्' इति विकल्पादनीकारः । अनघया निर्दोषया तया प्रसिद्धया श्रिया रमया तरमा त्वरया आश्रितमालिङ्गि-तं तं हरिमुवीक्ष्येत्युत्तरेण सम्बन्धः । अत्रापि प्रातिलोम्यनाऽर्धावृत्तेरर्धप्रतिलोमयमकम् । एतलक्षणं तु प्रागेवोकम् ॥ ८८ ॥ विद्विष इति ॥ तं पूर्वोक हरिमुवीक्ष्य विद्विषः शत्रयोऽद्विषुः द्विषन्ति स्म । लडि 'द्विषश्च' इति विक- स्पेन झेर्जुसादेशः । तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्ते- नाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' इत्यादिना क्यबन्तो निपातितः। अहच्यमान- मपि भेषजमौषधम् । 'भेषजौषधभैषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तरेव रोग हन्तीति रोगनमारोग्य- कारि 'हरिहरति पापानि' इति वचनादिति भावः । 'अभनुष्यकर्तृके च' इति टप्रत्ययः॥ ८९ ॥. विदिते (२)दिवि केऽनीके तं यातं निजिताऽऽजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति न ॥ ९०॥ ॥प्रतिलोमेनाऽयमेवार्थः ॥ विदितमिति ॥ तं देवं यातमुपागतं के पुरुषाः गवि भुवि रोद्धारः रोधकाः निवा- (१) किक्तिणिखिणिखिणिरणितैरङ्गागपरिरम्भणे सदाऽटन्तम् । कुकुमनिभपदयुगल कङ्कणकरशोभित हरि वन्दे ॥१॥ 'त त्रियेति पयात्पूर्वम् अस्माकमादर्शपुस्तके श्लोकोऽयं समुपलब्धः । (२) विदितं ।

७०२ सन्देहविषौषधिसर्वकषायुते- [ एकोनविंशः- । रकाः । न केचिदरिषु सन्ति, ये तमभ्यायान्तं निवारयन्ति । किलक्षणो यो भगवान् दिवि अनीके दिव्यसैन्ये योद्धा युध्यति, न तु नतिमेति नमति अत एव यो भगवान् देवसे- नास्वपि अभीतः, स कथं भूमिष्ठेयुध्यमानो युध्यते। किलक्षणेऽनीके विदिते सर्वत्र प्रसिद्ध, अत एव अपरं किंलक्षणे अनीके निजिताऽऽजिनि निजिता विजिता आजयः समितयो येन तत् निजिताऽजि तस्मिन् पराभूताऽन्यसैन्ये, किंलक्षणं देवं विगदं विगतो गदो रोगो यस्मात् सः तथा तम् । युध्यमानमपि निप्पीडमित्यर्थः । विविधा वा गदा आयुधविशेषा यस्य सः तथा तं, विशिष्टा वा गदा कौमोदकी यस्य सः विगदः तम् । प्रतिलोमेना- ऽप्यस्य पछ्यमानस्य एष एवार्थः ॥ ९०॥ विदितमिति ॥ किञ्च योद्धा वीरो यो हरिः नतिं परेषा नम्रता नेति नोपति । नितरां जिता भाजयो येन तस्मित्रिजिताजिनि अनेकाऽजिविजयिन्यपि अनीके सैन्ये । 'वरूथिनी बलं सैन्यं चक्र चानाकमानयाम्' इत्यमरः । यात योदधुमागतं, दिवि स्वर्गेऽपि विदितं प्रख्यातं विगदं निरामयं तं हरि गवि भुवि रोद्धारो जेतारः के । न केऽपीत्यर्थः । प्रातिलोम्येऽप्येत एव पदार्थवाक्यार्थाः । एतदपि श्लोकप्रतिलोम- यमकमेव । पदपदार्थादिसंवादस्तु चित्रीविशेषः । लक्षणं तु 'निध्वन'दित्यत्रैवोक्तमनुसन्धेयम् ॥ ९० ॥ नियोक्ष्यमाणेन पुनः(१) कर्मण्यतिगरीयसि ॥ आरोप्यमाणोरुगुणं भर्चा कार्मुकमानमत् ॥९१ ॥ नियोक्ष्यमाणेनेति ॥ कार्मुकं धनुः अनमत कुटिलमभवत् । किंलक्षणं कार्मुकं यतः मा देवेन श्रीकृष्णेन आरोप्यमाणोरुगुणम् आरोप्यमाणः उत्क्षेप्यमाणः उरुर्दी| गुणो जीवा यस्य तत्तथा, किंलक्षणेन भर्ना अतिगरीयसि कर्मणि अतिदुष्करे शनुवधाख्ये व्यापारे पुनः भूयोऽपि नियोक्ष्यमाणेन व्यापारयिष्यता । यः किलाऽतिगुरुणि व्यापारे भर्ना नियोक्तु- मिष्यते, तस्यासौ गुणानारोपयति । स चाधिकार्थवचनवशीकृतहृदयो नमति ॥ ९१ ॥ नियुज्यमानेनति ॥ पुरोऽग्रे अतिगरीयसि कर्मणि रणकर्मणि, अन्यत्र दुष्करे क्वचित्कृत्यवस्तुनि नियुज्यमानेन व्यापारयिष्यता आज्ञापयिष्यता च भत्रों स्वामिना आरोष्यमाणोऽधिक्रियमाण उरुमहान् गुणो ज्या यस्मितत, अन्यत्र वर्ण्यमानसौन्दर्यादिकम् । कर्मणे. प्रभवतीति कार्मुकं धनुः । कर्मण उकञ् । आन- मत गुणाकर्षणादाकुञ्चितकोटिकमभूत् । अन्यत्र प्रणत इत्यर्थः । अत्र प्रकृतकार्मुकविशेषणसाम्यादप्रस्तुत- नियोज्यपुरुषप्रतीतेः समासोक्तः ॥ ९१ ॥ तत्र बाणाः सुपरुषः समधोयन्त चारवः ।। द्विषामभूत् सुपरुषस्तस्याकृष्टस्य चाऽऽरवः॥९२ ॥ तत्रेति ॥ तत्र कार्मुके सुपरुषः चारुपर्वाणो बाणाः शराः समधीयन्त अयोज्यन्त सन्धिताः, किंलक्षणाः बाणाः चारवः रम्याः । च पुनः आकृष्टस्य आकृष्यमाणस्य तस्य कार्मुकस्य आरवः क्रेङ्कारः द्विषां शत्रूणां सुपरुषः सुष्टुपरुषः अतितरां कठिनोऽभूत् । कर्णकटुरभवदित्यर्थः, तत्कार्मुकननिरेव शत्रूनभीषयतेत्यर्थः ॥ ९२ ॥ तति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोपतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कामुकस्याऽरवश्व द्विषां मुष्ठ परुषः सुपरुषोऽतिकर्कशोम्भूत् । यमकविशेषालसरः ॥ ९२ ॥ (१) नियुज्यमानेन पुरः।

सर्गः । शिशुपालवधे। ७०३ .. । .. पश्चास्कृतानामप्यस्य नराणामिव पत्रिणाम् ॥ यो यो गुणेन संयुक्तः स स कर्णान्तमागमत्(१) ॥ १३ ॥ पश्चात्कृतानामिति ॥ पश्चात्कृतानामपि पृष्ठतः स्थापितानामपि पत्रिणां शराणां मध्ये यो यः पत्री शरः गुणेन संयुक्तः शिजिन्या योगं गतः, स स पत्री अस्य भगवतः श्रीकृष्णस्य कर्णान्तम् आगमत उपश्रोत्रं प्राप्तः, आकर्षणवशादिति भावः। केषामिव नरा- गामिव पुरुषाणामिव । यथा पश्चात्कृतानां तिरस्कृतानामपि नराणां मध्यात् यो यो नरः गुणेन शौर्यसौन्दर्यादिना संयुक्तः, स स कर्णान्तमागच्छति ढौकते ॥ ९३ ॥ पश्चान्कृतानामिति ॥ नरणा पुंसामिव पश्च कृताना निषङ्ग सङ्गितया पृष्ठस्थापितानामपि, अन्यत्रा- वधीरितानामपि पत्रिणामिषूणा मध्य इत्यर्थः, यो यः पत्री नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुकः सम्बद्धः, म स पत्री नरमाऽस्य हरेः कर्णान्तं कर्णममीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्राऽन्तिकमागत इत्यर्थः। श्लेषसङ्कीर्णोपमा ॥ ९३ ॥ ॥ यक्षरः ॥ प्रापे रूपी पुराऽरेपाः परिपूरी परः परैः । रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥ ९४ ॥ प्रापे इति ॥ स भगवान् श्रीकृष्णः परैः विपक्षैः शत्रुभिः प्रापे आसेदे । किंल. क्षणः पुरा रूपी पुरा पूर्व रूपाणि आकृतयो विद्यन्ते यस्य सः तथा वराहनृसिंहवाम- नादिबहुरूपवान् , अपरं किंलक्षणः सः अरेपाः अव्यसनः, अपरं किलक्षणो हरिः परिपूरी परि समन्ताद्भावेन पूरयति व्याप्नोतीति तथा सर्वव्यापी, अपरं किलक्षणो हरिः परः उत्कृष्टः, किञ्च परैः रिपुभिः पुरोऽग्रे उपरि च अपारैः असङ्ख्यैः रोपैः पृषत्कैः पुपूरेऽपि प्रापूयंत । कैश्चित् प्राप्तः कैश्चिञ्च शरैश्छादितः इत्यपि शब्दार्थः । द्वयक्षरः ॥ ९४ ॥ प्रापे इति ॥ पुरा पूर्व रूपी मत्स्यकूर्मायनेकरूपवान् अरेपाः निष्पापः, परिपूरयति कामैर्भकानिति परिपूरी भक्कवरदः । पूरयतेणिनिः। परः परमपुरुषो हरिः परैः शत्रुभिः प्रापे प्राप्तः । अवरुद्ध इत्यर्थः । अपरैरन्यैः शत्रुभिः कर्तृभिः अपारैरनन्तैः रो पैरिषुभिः । 'पत्री रोप इषुईयोः' इत्यमरः । पुरोऽप्रे उपरि च पुपूरे पूरित: । पृणातः कर्मणि लिट्(२) । यक्षरानुप्रासोऽलङ्कारः ॥ ९१ ॥ दिङ्मुखव्यापिनस्तीक्ष्णान् ह्रादिनो मर्मभेदिनः ॥ चिक्षेपेकक्षणेनैव सायकानहितांश्च सः ॥९५ ॥ दिङ्मुखेति॥ स भगवान श्रीकृष्णः एकक्षणेनैव युगपदेव सायकान् शरान् अहितान् अरींश्च चिक्षेप प्रेरयत् । किंलक्षणान् सायकान् दिङमुखव्यापिनः आशावदनप्रसृतान् , पुनः किंभूतान् सायकान् तीक्ष्णान् निशितान् , अपरं किलक्षणान् हादिनः कृतपक्ष- ध्वनीन्, अपरं किंलक्षणान् सायकान् मर्मभेदिनः अरुन्तुदांश्च । द्विषोऽपि आशाव्यापिनः तीक्ष्णान अन्तिगान् (2), अपरं किलक्षणान् अरीन हादिनः सकलकलान् , अपरं किंलक्ष- णान् मर्मभेदिनः परुषवचनान् ॥ ९५ ॥ दिल्मुखेति ॥ स हरिदिन्मुखव्यापिनो दिगन्तव्यापकान् अतितीक्ष्णानिशितान् क्रूश्चि । द्वादन्ते इति हादिनः पक्षनादयतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान् सायकानिषून , अहितानरांच (१)माययो। (२) 'भस्माद्धातोलिटयोश 'अच्छत्यताम्' इति गुणस्य दुर्वारत्वात् 'पुपूरे' इति रूपाऽसिद्धिः। नस्मात 'परी आप्यायने' इति धातुर्योध्यः, निर्णयसागरस्थपुस्तकटिप्पणीयम् । .. .

1७०४ सन्देहविषौषधिसर्वपायुते- [एकोनविंशः- एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेष तुल्यधर्मयोगादौपम्योपगमातुल्य- योगिताभेदः ॥ ९५ ॥ ॥ गूढचतुर्थः ॥ शरवर्षी महानादः स्फुरस्कार्मुककेतनः ॥ नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ ९६ ॥ शरवर्षीति ॥ असौ केशवच्छलनीरदः रेजे केशवच्छलेन हरिच्छमना नीरदो मेघः अद्युतत् । किंलक्षणः केशवच्छलनीरदः शरवर्षी इषुक्षेपी, अपरं किंलक्षणः महानादः सिंहध्वनिमान् , अपरं किलक्षणः स्फुरत्कार्मुककेतनः स्फुरन्ती द्योतमाने कार्मुककेतने चाप- चिह्न यस्य सः तथा, अपरं किंलक्षणः नीलच्छवि: श्यामकान्तिः । जलदोऽपि शरं नीर वर्षतीति शरवर्षी महानादो महागजितः, तथा स्फुरत्कार्मुककेतनः स्फुरत् योतत् कार्मुक- मिन्द्रधनुरेव केतनं लाञ्छनं यस्य सः तथा, तथा कृष्णवर्णश्च । उत्प्रेक्षाश्लेषसङ्करोऽलङ्कारः । अत्र चतुर्थपादाक्षराणि पादत्रितये एवाऽन्तर्भवन्तीति गुढचतुर्थोऽयं श्लोकः ॥ ९ ॥ शरवर्षीति ॥ शरवर्षी बाणवर्षी नरिवर्षी च । 'शरं नारे शरो बाणे' इति विश्वः । महानादः सिंह- नादो गर्जितं च यस्य स महानादः, स्फुरन्ती कामुक केतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्दचापचिह्न- इत्यर्थः । नीलच्छविः श्यामकान्तिः, अस्य केशवस्य छल कपट यस्य सः नीरदः केशवच्छलनारदो हरिमेघोऽसौ रेजे। रणरने सर्वोत्कर्षेण दिदी पे इत्यर्थः । अत्र छलशन्देन हरित्वापहरेन मेघत्वारोपणाच्छला- दिशन्देरसत्यत्वप्रतिपादनरूपोऽपह्नवालङ्कारः । त्रिपायन्तर्गतचतुर्थपादाक्षरत्वाद् गूढचतुर्थास्यचित्रविशेषः शब्दालङ्कारश्चेति सङ्करः॥ ९६ ॥ न केवलं जनस्तस्य लघुसन्धायिनो धनुः ॥ मण्डलीकृतमेकान्तादलमैक्षि द्विषामपि ॥ ९७ ॥ नेति ॥ लधुसन्धायिनः कृतहस्तस्य तस्य देवस्य श्रीकृष्णस्य जनैलोकैः धनुः का- मुक केवलं मण्डलीकृतम् आकर्षवशात वक्रीभृतं न ऐक्षि न ददृशे । अथ च एकान्तात् निश्चयात् द्विषामपि बल शत्रूणामपि सैन्यं धनुश्च तेनाकृष्टम् । शत्रुसैन्यमपि भयात्पुजीभूत- मेवाऽऽस्तेत्यर्थः । लघु शीघ्रं सन्दधाति इषुभिः संयोजयतीति लघुसन्धायी तस्य ॥ ९ ॥ नेति ॥ लघु शीघ्रं सन्धत्ते यस्तस्य लघुसन्धायिनस्तस्य हरेः धनुरेष केवल एकान्तात् मण्डलीकृतं शीघ्राकर्षानियमेन वलयीकृतं जनैक्षि । कर्मणि लुक् । किन्तु द्विषां बलमपि मण्डलीकृतं त्रासादेकत्र पुत्री- कृतमैछि। अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९ ॥ युग्मम्- ॥ द्यक्षरः ॥ लोकाऽऽलोकी कलोऽकलककलिलोऽलिकुलाऽलकः ॥ कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥ ९ ॥ अक्षितारासु विव्याध विद्विषः(१) स तनुत्रिणः ॥ दानेषु स्थूललक्षत्व(२) न हि तस्य शरासने ॥ ९९ ॥ लोकालोकीत्यादि ॥ अक्षितारास्विति ॥ स भगवान् श्रीकृष्णः तनुत्रिणः कवचितान् विद्विषः अरीन् अक्षिताराम विव्याध नयनकनीनिकाउ अत्सीत् । ननु देवः (१)द्विषतः। (२) लक्ष्यत्वं ।

सर्गः1]
शिशुपालवधे।
७०३
-
.
.
स्थूलरूक्षः, इह तत्कथमेवमित्याह-तस्य देवस्य दानेषु स्पर्शनविषये स्थूललक्षत्वं, न पुनः
शराशने इषुक्षेपे वा स्थूललक्षत्वम् । प्रहरत्प्रवृत्तं धनुर्यस्य स्पष्टलक्ष्यं विधात्येव । किंलक्षणः
सः लोकालोकी लोकान् आलोकयति इति तथा निखिलभुवनदर्शी न च कृच्छ्रात् , अपरं
किंलक्षणः सः कल: मधुरभाषी, अपरं किलक्षणः सः अकल्ककलिलः कल्केन दन्तेन कलि-
लो गहनः कल्ककलिलः न कल्कलिल: अकल्ककलिलः । कलाविति पाठे कलौ युगे कल्केन
मायया कलिलो गहनः दुनिरीक्ष्य इति व्याख्येयम् । अपरं किंलक्षणः सः अलिकुलाऽलक:
अलिकुलवत् कृष्णाः अलकाः यस्य सः तथा भृङ्गश्रेणीश्यामकेशः, अपरं किंलक्षणः सः
कालः वर्णेन कृष्णः सकलजगत्क्षयङ्करो वा । यदुक्तम्-'कालोऽस्मि लोकक्षयकृत
प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः' इति । पुनः किंभूतः अकल: निष्कलः, ब्रह्मरूप-
त्वात् । अपरं किंलक्षणः सः अकलिः निर्वैरः, अपरं किंलक्षणः सः काले पूर्वसमये कोल-
केलिकिल: कोल: शूकरः तस्य केलिः क्रीडा तया किलति क्रीडति इति तथा, किलेत्या-
गमे। द्वयक्षरः । युग्मम् ॥ ९८॥ १९॥
युग्मनाह-
लोकालोकीति ॥ लोकानालोकते इति लोकालोकी त्रैलोक्यदर्शी कलो मधुरभाषा कल्केन पापेन
दम्भेन वा कलिलो न भवतीत्यकल्ककालनः । 'कल्कः पापाशये पापे दम्भे' इति विश्वः । अलिकुलाऽलका,
अलिकुलनीलमूर्धज इत्यर्थः। कालो नीलवर्णः कालात्मको वा, नास्ति कला यस्य मोऽकल: । निरंश-
इत्यर्थः । अकलिरकलहः । स्वयमकलहशील इत्यर्थः । काले प्रलयकाले कोलकेल्या वराहलीलया किलति
क्रीडति कोलकोलिकिलः । किलशन्दस्तु खल्वर्थे । विव्याधेत्युत्तरेण सम्बन्धः । यक्षरानुप्रासः ॥ ९८ ॥
अक्षितारास्थिति ॥ स पूर्वोक्त गुणविशिष्टो हरिः, तनुत्राणि एषां सन्तीति तनुषिणो वर्मिणः। 'तनुत्रं
वर्म दंशनम्' इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथा हि-
तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । 'स्युर्वदान्यस्थूललक्ष्यदान शौण्डा बहुप्रदे'
इत्यमरः । शरासने शरक्षेपे तु न, किन्तु सूक्ष्मलक्ष्यत्वमेव । अतोऽक्षितारावेधित्वमस्य युक्तमित्यर्थः ।
अतो वाक्यार्थडेतुकं काव्यलिङ्गम् ॥ ९९ ॥
॥ यक्षरः ॥
वररोऽविवरो वारविवारी वारिराऽऽरवः ॥
विववार घरो वैरं वीरो रविरिवौर्वरः ॥१०॥
वरर इति ॥ स देवः वैरमनुशयं विववार व्याचख्यौ, जघानेत्यर्थः । किलक्षणः
स वररः वरमभीष्टम् अर्थात् भक्तभ्यः राति ददातीति तथा, वरद इत्यर्थः । अपरं कि-
लक्षणः सः अविवरः अविद्यमानं विवरं छिदमस्येति अविवरः निर्दोषः, अपरं किंलक्षणः
सः वैरिविवारी वैरिणः शत्रून् विशेषेण वृणोति युद्धार्थ प्रार्थयते इति वैरिविवारी । शत्रून्
योद्धं जिगमिषुरित्यर्थः । अपरं किंलक्षणः सः वारिराऽऽरवः वारि जलं राति ददातीति
वारिरो मेघः तस्येव आरवो नादो यस्य सः तथा, अपरं किलक्षणः सः वरः श्रेष्ठः, अपरं
किलक्षणः सः वीरः धीरः, विशेषेण ईरयति क्षेपयति शत्रूनिति वीरः एकपुरुषः, यदि वा
धर्मवीरो दानवीरो दयावीरो युद्धवीरस्तथा । अपरं किलक्षणः सः, उत्प्रेक्ष्यते-और्वरो
भौमः रविरिव श्रीसूर्यो यथा, तेजस्वित्वात् । यक्षरः ॥ १० ॥

७०६ सन्देहविषोपधिसर्वकषायुते- [एकोनविंशः- वरर इति ।। वरान् रातीति वररो घरपदः । रा दाने, आतोऽनुगसगै कः । अविवरो निर्विरो नारन्धः। वैरिणः शधून विवारयति वैरिविवारी, वारीणि रातीति पारिरः। पूर्ववत्कः । तस्येवाहरवो यस्य स पारिरा- ऽऽरवः । वरः श्रेष्ठो वीरः शूरः स कृष्णः। 'उर्वरा सर्वसस्यायभूमौ स्यात् भ्राममात्रके इत्यमरः । तस्यां भव- और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दै विववार विधारयामास । जघानेत्यर्थः । यक्षरानुमास : १००० मुक्ताऽनेकशरं प्राणानहरद् भूयसां द्विषाम् ॥ तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१ मुक्तेति ॥ तदीयं धनुः तस्य भगवतः इदं शाई गं धनुः भूयसां बहूनां द्विषां शत्रूणां प्राणान् अहरत् असून् आददात्, किंलक्षणं धनुः मुक्ताऽनेकशरं क्षिताऽसङ्ख्य. विशिखम् । हि यस्मात् तदीयं धनुः अन्यस्य शत्रोः सजीवतां सस्फुरत्त्वं न सेहे न चक्षमे । मयि स्थिते कथमेते वराका जीवन्तीति । अथ सजीवतां समौर्वीकत्वं न सेहे । अथ वा अन्यस्य धनुषः इति भङ्गभणितिः । मयि ध्रियमाणे सति कथमन्यधनुषां जीवा बध्यन्ते इति । जीवया मौा सह वर्तते इति सजीवं, तस्य भावः सजीवता ताम् ॥१०१ ॥ मुक्तेति । मुक्काऽनेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसो द्विषां प्राणानहरत् । तथा हि-अन्यस्य परस्य सजीवतां न सेहे । अथ वा अन्यस्य धनुष: सजीवता सज्याकत्वं न सेहे। 'विषु जीवति जीवः स्यान्मो- स्त्री' इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १०१ ॥ राजराजी रुरोजाऽऽजेरजिरेजोऽजरोऽरजाः ॥ रेजाऽरिजूरजोर्जाऽर्जी रराजर्जुरजर्जरः॥ १०२ ॥ राजराजीरिति ॥ स भगवान् श्रीकृष्णः आजेः अजिरे समामस्य अङ्गणे राज- राजीः नृपतिपङ्क्तीः रुरोज बभञ्ज, अत एव रराज शुशुभे । किंलक्षणः स अजः सनातनः, अपरं किलक्षणः सः अजरः अक्षयः, अपरं किलक्षणः सः अरजाः रजोगुणरहितः निर्गुणः, आत्मरूपत्वात् । रजोग्रहणं गुणत्रयस्योपलक्षणम् । राति ददातीति राः दाता, ईजानां कुत्सितानाम् अरीणां द्विषतां जूरो हिंसा, ततो जाता उत्पन्ना या ऊर्जा बलं तया अर्जयति इति ईजाऽरिजूरजोर्जाऽर्जी, ततः कर्मधारयः, राश्चासौ ईजारीजूरजोर्जार्जी च रेजाजि- जूरजोर्जाऽर्जी । ये तु-रेज दीसौ इत्यस्य धातोः रेज इति रूपम् । तरेज इति पाठं पठन्ति, तेषामेवं व्याख्येयम्-रेजतीन्ति रेजाः तेजस्विनः तान् अरीन् जूर्यते हिनस्ति इति रेजारिजूः दीप्तरिपुधाती, अजात् शिवात् ऊर्जा बलम् अर्जितवान् इति अजोर्जार्जी, भवात् आत्तबलः । तथा च भगवान् पाराशर्य:- मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु । अप्रमेयबलात्मा त्वं नारायण! भविष्यसि ॥ अपि चेत्सागरं गत्वा भविष्यसि ममाधिकः ॥ अपरं किंलक्षणः सः ऋजुः अकपटः, अपरम् किंलक्षणः सः अजर्जरः अक्षीणः । युध्य- मानोऽपि निर्बाध इत्यर्थः । द्वयक्षरः ॥ १०२ ॥ राजराजीरिति ॥ न जायते इत्यजोनादिः । 'अन्येष्वपि दृश्यते' इति जनेर्डप्रत्ययः । न जायते इत्यजरोऽनन्तः । पचायच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः, रेजन्तीति रेजास्तेजिष्ठाः । रेड दीप्ती, पचायच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जात रेजाऽरिजूरजम् , तर्ज बलम् अर्जयतीति - सर्गः । शिशुपालवधे। ७०७ रेजारिजूरजोर्जानी । अर्जेनिनिः । ऋजुराजववान, जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाडणे राजराजी राजश्रेणी रुरोज बभञ्ज । रुजो भने, लिट् । अत एव रराज दिदी पे । यक्षरानुप्रासः ॥ उद्धतान् द्विषतस्तस्य निघ्नतो द्वितयं पपुः(१) ।। पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः॥१०३ ॥ उद्धता निति ॥ तस्य श्रीकृष्णस्य उन्द्वतान् दुःशीलान् द्विषतः शत्रून निघ्नतः विशसतः शराः विशिखाः द्वितयं द्वयं पपुः । पपुरिति पिबतेः पातेश्च तुल्यं रूपमतश्च ज्ञायते । किन पीतं किञ्च पालितमिति विषयविभागमाह-पानाथें पिबतौ धातौ शराः रुधिरं क्षतर्ज पपुः पीतवन्तः । पुनः रक्षार्थे च धातौ भुवनं विष्टपं पपुः ररक्षुः । शत्रून निघ्नन् जगत् अपासीदित्यर्थः । उद्धृतयानेन हि भुवनं रक्षितं भवति । यद्यपि शरा भुवनं पपुरित्येतावतैव विवक्षितोऽर्थः प्रतीयते, तथाऽपि वैचित्र्यार्थमेवमुक्तम् । विचित्रा हि कवीनामुक्तयः इति ॥ उद्धतानति ॥ उद्धतान् दृप्तान द्विषतः शनिघतो हिंसतः । 'जासिनिप्रहण-' इति सूत्रे निप्रेति- सङ्घातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्विती यैव । तस्य हरेः शराः, पानार्थे धातो 'पा पाने' इति धातौ मति रुधिरं, रक्षार्थे धातो 'पा रक्षणे' इति भुवनं जगचेति द्वितयं ययुः। रुधिरमपिबन् भुवन- मरक्षश्चेति श्लेषार्थः। अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगिताऽलङ्कारः । तत्र पानार्थ इत्यादि- वाक्यस्य शत्रुवधेन भुवनमरक्षानिति सूक्ष्मार्थगर्भत्वात्सौम्यं नाम गुणः । 'अन्तःसङ्कल्परूपत्वं शब्दाना सौम्य- मुच्यते' इति लक्षणात् ॥ १०३ ॥ युग्मम्- ॥ यक्षरः॥ कराऽरिकारी कोरेकः कारकः (२)कारिकाऽऽकरः ॥ कोरकाऽऽकारकरकः करीरः कर्कराऽर्क(३)रुक् ॥ १०४ ॥ विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ॥ अनेकमरिसङ्घातमकरोद् भूमिवर्धनम् ॥ १०५ ॥ फ़्रेत्यादि ॥ विधातुमिति ॥ असो देवः श्रीकृष्णः अनेकं बहुम् अरिसवातं रिपुनिवहं भूमिवर्धनं भूमि वर्धयति स्थूलां करोतीति भूमिवर्धनः तम् अकरोत् मृतं चका- र। बहूनरीनमीमरदित्यर्थः । किलक्षणोऽसौ भुवः काश्यप्याः लधिमानं विधातुं (४)कुर्यात्। तवृद्धया हि भुवो निरन्तरं भारो भवेत् । अविरोधस्तु भूमिशब्दस्योपसम्पन्नार्थत्वात्। अपरं किंलक्षणोऽसौ क्रूराऽरिकारी क्रूरान् अरीन् किरति कृणाति वा क्रूराऽरिकारी । ताच्छील्ये णिनिः । चण्डारातिनाशक इत्यर्थः । अपरं किंलक्षणोऽसौ कोः पृथिव्याः एकः केवल: कारकः कर्ता, पालक इत्यर्थः, पुनः किंभूतोऽसौ कारिकाऽऽकरः कारिकाणां क्रियाणां जग- दुत्पत्तिस्थितिव्यापाराणाम् आकरः स्थानम् । 'कारिका यातना कृत्ये इत्यमरः । कारिका- शब्दे 'धात्वर्थनिर्देशे ण्वुल वक्तव्यः' इति ण्वुर । पुनः किंभूतोऽसौ कोरकाऽऽकारकरका कोरकाऽऽकारौ मुकुलनिभौ पाणी यस्य सः कोरकाकारकरः, ततः स्वार्थे कः प्रत्ययः, कलिकालोहितहस्तः । पुनः किंभूतोऽसौ करीरः करिणः गजान् ईरयति क्षेपयतीति तथा द्विपक्षेपकः, पुनः किंभूतोऽसौ कर्कराऽर्करुक कर्करोऽतिकठिनो योऽर्कः श्रीसूर्यस्तस्येव रुक दीतिर्यस्य सः तथा चण्डचण्डांशुचण्डः । युग्मम् ॥ १०४-१०५ ॥ (१) ययुः। (२) कोरेककारकः । (१) कर्करोऽर्क। (१) अत्र ग्रन्थस्वाटत इव लक्ष्यते ।

सन्देहविषौपधिसर्षपायुते-
[ एकोनविंशः-
-
अथ युग्मनाह-
। कूरेति ॥ क्रूरानरीन किरति विक्षिपति इति क्रूराऽरिकारी । किरतेनिनिप्रत्ययः । को मेरेककारक:
एककर्ता । करोतेवुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । 'कारिका यातनावृत्योः' इत्य-
मरः । 'कृञो हेतु-' इत्यादिना ताच्छील्ये टप्रत्ययः । कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल् । तत्कर इति
केचित् । कोरकाकारो करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शषिकः कप्प.
ययः। करिणो गजानीरयति क्षिपतीति करीरः । कर्मण्यण् । कर्करो, रणकर्कश इत्यर्थः। 'कर्करो दर्पणे
दृढे' इति शाश्वतः । अर्कस्येव रुग्यस्य मोरूगित्युपमा । यक्षरानुमासः ॥ १० ॥
विधातुमिति ॥ भुवो भूमेर्लघिमानं लघुत्वं भारावतरणं विधातुमवतीर्णोऽपि भुवि जातोऽप्यसौ पूर्वोक-
गुणो भगवान् हरिः अनेक बहुमरिसङ्घात भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्याविरोधः ।
भत एव विरोधाभासोलद्वारः ॥ १०५ ॥
द्यक्षरः॥
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादराद्रोऽददरद्रोदोरुहारुरादरी ॥ १०६ ॥
दारीति ॥ स भगवान् श्रीकृष्णः दूरादेव विप्रकृष्टदेशादेव अरिदारु शत्रुकाष्ठम्
अदरत् व्यदारयत् विभेद । अरयः एव दारु, भेत्तव्यादरीणां दारुत्वम् । किंभूत सः दारी
दुष्टान् दारयतीति दारी, यदि वा दारा बहवो विद्यन्ते यस्य स दारी बहुपत्नीकः, पुनः
किंभूतः सः दरदरिद्रः दरेण भयेन दरिद्रो रहितः निर्भयः, अपरं किंभूतः सः उदारः मुक्तकरः,
अद्विदूरदः अद्रिवत् पर्वतवत् दुःखेन रद्यते विलिख्यते इति अद्विदूरदः शैलकिठनः, अपर
किंभूतः सः अरौद्रः न रौद्रः अरौद्रः स्वभावसौम्यः, अपरं किंभूतः सः रोदोरुत् रोदसी
चावापृथिव्यौ रुणद्धि व्याप्नोतीति रोदोरुत् सर्वव्यापी, अपरं किंभूतः सः दारुः ददाति
तच्छीलो दारुः सर्वप्रदः, आदरी साधुष्वादरवान् । अददरदिति दारयतेलुंछ, अत्स्मृद.
त्वरप्रथम्रदस्सस्पशाम् ॥ १०६ ॥
दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निभाकः । 'दरोऽनिया भये
३वभ्रे' इत्यमरः । उदारो महान दाता वा । 'उदारो दातृमहतोः' इत्यमरः । आदिवत् दुःखेन रयते दूरदो
दुर्भेदोऽद्रिदूरदः । रद विलेखने, खल् प्रत्ययः । अरौद्धः साधूनां सौम्यः, रोदसी रुणद्वीति रोदोरुत विश्व-
व्यापी । रुधेः क्विप् । ददातीति दारुर्दाता । ददातेरोणादिको रुप्रत्ययः । भादरोस्यास्तीत्यादरी सन्मार्गादर-
मान् स हरिः अरि रखे दारु काष्ठमरिदारु दूरादेव अददरत दारयति स्म । दारयतेो चकि 'भस्मृदुत्वर-
रथमदस्तृपशाम्' इत्यभ्यासस्यात्वम् । अरिदाविति रूपकमालङ्कारी व्याक्षरानुप्रासश्च ॥ १०६ ॥
एकेषुणा सङ्घतिथान् द्विषो भिन्दन् द्रुमानिय ।
स जन्मान्तररामस्य चक्रे सदशमात्मनः ॥ १०७॥
एकेषुणेति ॥ स देवः श्रीकृष्णः तरूनिव दुमानिव अक्लेशेन एकेषुणा एकशरेण सङ्घ-
तिथान् बहुन् अरीन् भिन्दन् दारयन् सन् आत्मनः स्वस्य ससं चके स्वस्य तुल्यं कर्म
चकार । किंभूतस्य आत्मनः जन्मान्तररामस्य जन्मान्तरे रामाभिधानस्य । श्रीनाराय-
गांशेन दशरथिना किल पूर्वमेकेनेषुणा शरेण सप्त द्रुमास्ताला मिनाः इति कृत्वा उपमा-
माह-द्विषः कानिव नुमानिव वृक्षानिव । यथा स भगवान् श्रीरामरूपेण दुमान् सप्त तालान्
एकेन् शरेण विभेद । सङ्घस्य पूरणाः सपतिथाः, बहुपूगगणसाघस्य तिथुङ ॥१०॥

सर्गः।] शिशुपालवधे। एकेषुणेति ॥ स हरि रेकेषुणा एकेनैव शरेण, सङ्घानां पूरणान् सकृतिथान् । सशः स्थितानित्यर्थः । 'बहुपूगगणसहस्य तिथुक्' इति तिथुगागमादेव ज्ञापकादसझ्यात्वेऽपि सङ्घाटनत्ययः । द्विषः शत्रून् दुमा- निवेत्युपमा। भिन्दन विदारयन् जन्मान्तरे रामस्य दाशरथेरात्मनः मदर्श चक्रे। एकशरणानेकारिढुमभेद- स्तु जन्मान्तरभावनाय जात इति भावः । "बिभेद च पुनस्तालान् सत्तेकेन महेषुणा' इति रामायणे ॥१०॥ ॥चक्षरः॥ शौरि(१)रशिशिरैराशाऽऽशैराशु राशिशः ॥ शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥ १०८ ॥ शूर इति ॥ शुरस्य यादवस्य गोत्रापत्यं शौरिः श्रीकृष्णः शरैर्वाणैः आशु शीघ्रम् अरिशिरः शत्रुमस्तकानि शुशूरे विचक्षणे जघान चकत । शूरी हिंसास्तम्भनयोः । कथं शुशूरे राशिशः बहुशः, किंभूतः शौरिः शूरः, शूरतीति शूरः पौरुषान्वितः, अपर किंभूतः शरारुः घातकः दुष्टानां पोथकः । शवन्धोरारुप्रत्ययः । अपरं किंभूतः श्रीशरीरेशः श्रीशरीरस्य लक्ष्मी- वपुषः ईशः प्रभुः भोक्ता, किंभूतैः शरैः अशिशिरैः उष्णैः, उत्तापिभिरित्यर्थः। वाताजन्य- नादिरूपत्वात् तप्तः । अपरं किंभूतैः आशाऽऽशैः आशा दिशः अश्नुवन्ति व्याप्नुवन्ति ते आशाऽऽशाः तैः विष्वगव्यापिभिः । क्वचित्तु शरारुश्रीशरैरीश इति पाठे ईश ईश्वरो भगवान् कृष्णः, शरैस्तु किंभूतैः शरारुश्रीशरैः शरारूणां हिंसाकारिणां शत्रूणां श्रियं समृद्धिं शृणन्ति घ्नन्ति ये ते शरारुश्रीशराः तैः दुर्जनलक्ष्मीक्षेपकैः । शृणन्तीति शराः, पचादित्वादच । शरारुश्रियः शरा इति षष्ठीसमासः । 'शरारुर्वातुके हिने. इत्यमरः । यक्षरः । एवमस्मिन् सर्गे द्वादश द्वयक्षराः सन्ति ॥ १०८ ॥ शूर इति ॥ शृणातीति शरारुः दुष्टघातुकः । 'शरारुर्घातुको हिंस्रः' इत्यमरः । ‘शवन्योरारुः' इति रुप्रत्ययः । श्रीशरीरस्येशः श्रीशरीरश: लक्ष्मीप्राणनाथः शूरो वीरः शौरिः कृष्णःअशिशिरस्तीक्ष्णैः आशा दिशोऽश्नुवत इत्याशाशैदिगन्तव्यापकैः । अभातेः कर्मण्यणू । शरैबाणः अशिशिरः शशिरोमि। आतावेक- वचनम् । राशिशः सङ्घशः आशु शीघ्र शुरे जघान । 'शूरी हिंसास्तम्भनयोः' इति धातोलिट् । याक्षरानुप्रासः ॥ १०८ ॥ व्यकाऽऽसीदरिताऽरीणां यत्तदीयास्तदा मुहुः । मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ।। १०९ ॥ व्यक्तति ॥ अरीणां भगवद्विषां तदा तस्मिन् काले अरिता शत्रुता व्यक्ता आसोत् प्रकटा बभूव । कुत इत्यत आह-यत तदीया भगवत्सम्बन्धिनः पत्रिणः शराः मनोहतो- ऽपि मनोहरा अपि एषामरीणां हृदये हृदि न लेगुः न लगिताः । अत्र शब्दच्छलेन किल मनोहार्यपि वस्तु शत्रोहृदये न लगति चित्तं नावर्जयति । ते च शरा मनोहारिणः, तेषां मनांसि हरन्ति प्राणान् मुष्णन्ति इति कृत्वा हृदि ते न लेगुः न लगन्ति स्म । वक्षो भित्वा निर्गतत्वादित्यर्थः ॥१०९॥ व्यक्तति ॥ तदा तस्मिन्समये एषाम् अरीणामरिता शत्रुता मुहुर्यका आसीत्। यद् यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणा: मनोहरन्ति कायादुधरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहतोऽपि हृदये मनसि न लेगुर्न लमा इति विरोधः । वक्षो निर्मिय निर्जग्मु- रित्यर्थः। 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलङ्कारः ॥ १०९ ॥ (१) अत्र प्रसिद्धानुष्टुप्छन्दोभेदानुरोधेन वृत्तभङ्गे प्रतीयमानेऽपि तजातिभेदान्तर्गतत्वाददोषः । ६०शि०प० ७१० सन्देहविषौषधिसर्वकषायुते- [ एकोनविंशः- ॥ अतालव्यः॥ नामाऽक्षराणां मलना मा भूगर्तुरतःस्फुटम् ॥ अगृहत पराङ्गामामसूनस्रं न मार्गणाः ॥ ११ ॥ नामेति ॥ मार्गणाः भगवच्छराः पराङ्गानाम् अरिशरीरेभ्यः स्फुटं निश्चितम् अतः एतस्मात्कारणात् असून प्राणान् अगृहत आददिरे, न तु अस्त्रं न रुधिरम् अगृहत । कुत इत्यत आह-भर्तुः प्रभोः नामाक्षराणां संज्ञावर्णानां मलना मलिनता मा भूत् मा भवतु इति । शरा हि सर्वस्य नामाङ्किता भवन्ति, अस्राऽऽदानेन नामाऽक्ष- राणि नश्येयुरिति । तदग्रहणं तु तीक्ष्णत्वेन आशु भेदात् । इच्यशानामभावात् अता- लव्योऽयम् ॥ ११० ॥ नामेति ॥ भर्तुः स्वामिनी नामाक्षराणा फलेषु लिखिताना मलिता मालिन्यं तिरोधानं मा भूदिति, बुद्ध्ये- त्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानाम् अरिशरीराणामसून प्राणानगृहत । हेर्ला । न अखं रक्तम्। रक्काविलेपस्य भाशुभावानिमित्तस्य स्वामिनामाऽक्षरमालिन्यपरिहारार्थ स्वमुत्प्रेक्ष्यते-स्फुटमिति । अत्र नालव्यवर्णाभावादनालव्य इति चित्रभेदः । इचुयशानाताविति इवर्णस्यापि तालुत्वेऽपि व्यञ्जनपिक्ष एवायं नियम इति न दोषः(१)॥१०॥ आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः॥ ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥ प्राच्छिद्येति ॥ आशुगाः विशिखाः योधसार्थस्य भटवृन्दस्य दूरादेव प्राणसर्वस्वम् अमरत्नानि आच्छिय मुषित्वा भूमौ पृथिव्याम् अदर्शनं जग्मुः पातालं विविशुः । अदृष्टा जाता इत्यर्थः । किंवत् ऐकागारिकवत् चौरा इव । यथा ऐकागारिकाः सार्थस्य सर्वस्वमाच्छिद्य दूरात् अदर्शनं यान्ति । 'चौरैकागारिकस्तेनदस्युतस्करमोषकाः- इत्यमरः॥१११ ॥ प्राच्छिति ॥ आशुगा बाणाः योधमार्थस्य वारवर्गस्य प्राणसर्वस्वम् आच्छिद्य, ऐकागारिकाश्वीराः । 'चौरकागारिकस्तेन' इत्यमरः । ऐकागारिकट चौरे' इत्यर्थे निपात्यते इत्येके । इकट् प्रत्यये वृद्धिश्च निपा- त्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे पतिः । दूराद् भूमावदर्शनमदृश्यता जग्मुः ॥ १११ ॥ भीमाराजिनस्तस्य बलस्य ध्वजराजिनः ।। कृतघोराऽजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२ ॥ भीमात्रेति ॥ सः जयतीति जिनः श्रीकृष्णः तस्य बलस्य अरिसैन्यस्य भुवः भूभीः सरुधिराः चक्रे साऽसृजो विदथे । रिपुरक्तन उर्वीः निर्भरीचकारेत्यर्थः। किंभूतस्य बलस्य भीमाऽस्वराजिनः भीमा घोरा अस्वराजयः आयुधपतयः यस्य तत् भीमास्त्रराजि तस्य, अपरं किंभूतस्य कृता घोरा आजियेन तत्तस्य कृतघोराऽऽजिनः विहितभीषणसङ्ग्रामस्य । 'इकोऽचि विभको' इति नुम् । अपरं किभूतस्य ध्वजराजिनः ध्वजैः केतुभिः राजते तत् ध्वजराजि तस्य चिदरम्यस्य ॥ ११२ ॥ भीमानेति॥ जिमो हरिः, अवतारान्तरनाम्ना व्यपदेशः। भीमा भमराजयो यस्य तस्य भीमामराजिनः एकोऽचि विभको' इति नुमाममः । ध्वराजते यस्तस्य ध्वजराजिनः । ताच्छील्ये शिनिः । कृता घोरा । .. (१) इयं पक्लिष्टीकाकृतानयमितचेतसा व्यलोख । अन्येन वा केनचित्पमत्तेन प्रक्षिता'। इत्येषा टिप्पणी 'मलिता' इति पाठानुपलम्भात 'मलमा' इति पाठाचुरोधाच निर्णयसागरमुद्रितपुस्तके भ्रमवशाहना भवेत् ।

सर्गः।] शिशुपालवधे। ७११ मार्जियुद्धं येन तस्य कृतघोराऽऽजिनः । पूर्ववन्नुमागमः । तस्य बलस्य सैन्यस्य सम्बन्धिनी वस्तदणभूमीः सरुधिराः सात्राः चक्रे । चतुष्पादयमकम् ॥ ११२ ॥ मांसव्यधोचितमुखैः शुन्यतां दधदक्रियम् ।। शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः॥ ११३ ॥ मांसेति ॥ शत्रुबलम् अरिसैन्यं शकुन्तिभिः कङ्कगृध्रादिभिः पक्षिभिः व्यापि व्या- नशे, तथा तस्य श्रीकृष्णस्येषुभिर्बाणैः नम आकाशं व्यापि व्याप्तम् । शौरिशितशर- शतहतरिपुनिवहजिघृक्षया गृध्राः घोररणाऽजिरे भ्रमरित्यर्थः । किंभूतैः शकुन्तिमिः इषुभित्र मांसव्यधोचितमुखैः मांसव्यधे पिशितताडने उचितं योग्यं मुखं चञ्चुः शल्यं च येषां ते तथा तैः, किंभूतं शत्रुबलं नभश्च शून्यतां दवत् नि:संज्ञत्वं विभ्रत्, अपरं किंभूत बलम् अत एव अक्रियं स्वकार्याऽक्षमम् । नभोऽपि शून्यमक्रियं च ॥ ११३ ॥ मांसति ॥ मांसव्यधो मांसखण्डनम् । 'व्यधजपोरनुपसर्गे' इत्या प्रत्ययः । तत्रोचितानि परिचिनानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वम् , अन्यत्र तुच्छत्वममूर्तवं वा दधत् अत एव अक्रियमस्पन्द शत्रुवलं व्यापि व्याप्तम् । आमोतेः कर्मणि लुक् । तस्य हरेरिषुभिः नमो व्यापि । अत्रेषुपक्षिणा नभोबलयोाप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः ॥ ११३ ॥ ॥ एकाक्षरः। दाददो दुइदुद्दादी दाददो(१) दूददीददोः॥ दुद्दादं दददे दुहे ददाऽददददोऽददः ॥ ११४॥ दादद इति ॥ पूर्वमुपक्रान्तो भगवान् श्रीकृष्णः दुइ दुइादं दददे शत्रौ शस्त्रं ददौ । तृतीयवाक्यार्थावगतिः । दुई इति, टु दु उपतापे, दवन दुत् उपतापः । विप तुक् च । दुर्त ददातीति दुइः शत्रुः । आतोऽनुपसर्गात् कः। तस्मिन् दुई । दुद्दादमिति, दद दाने, दुत् पूर्वः । दुतं पीडां ददते रातीति दुद्दादमायुधम् । कर्मण्यम् । दददे इति दद दाने इत्यस्यैव लिटि तङि रूपम् । हरिः शत्रुषु अस्त्राणि निरासेत्यर्थः । इदानी प्रक्ररणवशप्राप्तश्रीहरिविशेषणानि सर्वाणि। किंभूतः श्रीकृष्णः दाददः, ददनं दादः भावे घ,दद्यते इति वा दादः घम , दादं ददातीति दाददः उचितप्रदः, दा दाने, आतो. ऽनुपसर्गात् कः । अपरं किंभूतः श्रीकृष्णः दुद्ददुद्दादी दुतमुपतापं ददते इति दुद्दाः अरु- न्तुदाः तेषामपि दुतं पीडां ददते ददाति तच्छीलो दुइदुद्दादी । जगदुपतापिनां तापदः इत्यर्थः । ददेणिनिः । अपरं किंभूतः श्रीकृष्णः दाददः, देख रक्षणे, दानं दा रक्षा, सम्पदा- दित्वात् भावे किए। प्रत्ययलक्षणस्यानित्यत्वात् 'घुमास्थागापे'तीत्वाऽभावः । दा ददत इति दाददः भुवनरक्षाविधायी। कर्मण्यण । अपरं किंभूतः दूददीददोः,दूङ् परितापे दवनं दूः ता- प: तांददतीति दूदाः दैत्यरक्ष:प्रभृतयः तेषां, दीड क्षये दयनं दी हानिः तां ददतीति दीदाः । आतोऽनुपसर्गात्कः । दोरिति दमे म, दूदानां राक्षसादीनां तापदायिनां दीदाः हानिदातारो दोषः भुजाः यस्य सः दूददीददोः जगत्कम्पक्षयकारिबाहुः । अपरं किंभूतः ददाऽददददः ददन्ते इति ददाः सर्वप्रदाः । पचायच । न ददन्ते इति अददाः लुब्धाः तेभ्यो ददातीति ददाऽददददः अभीष्टदः । 'ददातिदधात्योविभाषा' इति ददातेः शः । । (१) दादादो।

सन्देहविषौषधिसर्वब्यायुते- [एकोनविंशः- तेषो द्वयाना- स भगवान् श्रीहरिः सर्वेषां किल समवर्ती । तदाह-न मे द्वेष्योऽस्ति न प्रियः' इत्यादि । अपरं किंभूतो हरिः अददः, अद भक्षणे, अदन्ति विश्वानि ते अदाः राक्षसाः तान् चति खण्डयतीति अददः, राक्षसहन्तेत्यर्थः । अदन्तीति अदाः हिंसकाः। पञ्चायच । श्लाघादेश चापपूर्वस्य(१)स्मरन्ति । तान् यति खण्डयतीति अददः शत्रुघ्नः पूर्ववत्कः । एष तावत् प्रकटार्थोऽनवचत्वादस्माभिराहतः । व्याख्यानान्तराण्यपि सर्व- त्राऽत्र संस्कृतमतीनां न दुष्कराणि। किन्तु अतिगौरवं स्यात् । अपि च तानि कवेन विवक्षितानि । अनुप्रासोऽलङ्कारः ॥ ११४ ॥ दादद इति ॥ दयते इति दादः दानम् । 'दद दाने' इति कर्मणि घ । दादं ददातांति दाददो दान- प्रदः । आतोऽनुपसर्गे कः । दुइदुद्दादी, दुत् उपतापः । टुदु उपतापे, क्विप । दुतमुपतापं ददति साधूना- मिति दुहाः खलाः। पूर्ववत्कः । तेषा दुतमुपताप ददत इति दुहृदुहादी । 'दद दाने' इति धातोनिनिः । दा- दादः । दाः शुद्धिः। दैप शोधने, क्विप् । ता ददत इति दादादः । दद दाने, कर्मण्यण् । दूददीददोः । दू: परितापः । दू परितापे, विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः। दोक्लये, विप् । तां दत्त इति दीदी नाशदी । उभयत्राऽऽतोऽनुपसर्गे कः । दूदाना दीदी दुष्टमर्दको दोषौ भुजौ यस्य सः दूददीददोः । दुष्ट- भखकभुज इत्यर्थः । ददाऽददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः, मापि ददो दाता ददाददददः । सर्वत्र दद दाने, पचायच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः। अदः पचायच । तान् यति बण्डयति इति अददः । दो अवखण्डने, आतोऽनुपसर्गे कः । एवंभूतो हरिः । दुत ददातीति दुहः दुःखदः तस्मिन् दुइ शत्रौ । दुतं ददत इति दुहादं शमम् । दद दाने, कर्मण्यण् । दददे ददौ । प्रयुकवानित्यर्थः । दद दाने, कतार लिट् । एकाक्षरानुपासोऽलङ्कारः ॥ ११४ ॥ प्लुतेभकुम्भोरसिजैहृदयक्षतिजन्मभिः ॥ प्रावर्तयन्त्रदीरौढेिषां तद्योषितां च सः ॥ ११५ ॥ प्लुतेभेति ॥ स भगवान् श्रीकृष्णः द्विषां शत्रूणां तद्योषितां च द्विषन्नारीणां च अर्नदीः निम्नगाः प्रावर्तयत् अजनयत् । द्विषतामसृग्भिः नदीः कृतवान् । तद्योषितां शत्रुमहिलानां च अस्त्रैर्नयनाम्बुभिः निम्नगाश्च प्रवर्तयामास । भर्तृषु हतेषु ताः रुरुदुरित्यर्थः । किंभूतैरौः प्लुतेभकुम्भोरसिजैः प्लुताः परिताः व्याप्ताः यथाक्रमम् इभ- कुम्भाः कुञ्जरशिरःपिण्डाः उरसिजाः कुचा यैस्तानि तैः, अपरं किंभूतैरनैः हृदय- क्षतिजन्मभिः हृदयक्षतेः वक्षोघातात् जन्म उत्पत्तियेषां तानि तथा तैः । रुधिराणि हि वक्षसि भग्ने निर्यान्ति । अश्रूण्यपि हृदयदुःखात प्रवर्तन्ते इत्यर्थः ॥ ११५ ॥ प्लुतेभेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरमिजाश यस्तैः हृदयक्षतिभिर्वक्षःप्रहारः मनोभङ्गैःश्च विषादाऽऽपादकैः जन्म येषां तैः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । द्विषां तयोषितां च अझैः शोणितरश्रुभिश्च । 'अस्रमश्रुणि शोणिते' इति विश्वः । नदीः प्रवर्तयत पावाहयत् । अरिवधेन तत्रारीररोदयदित्यर्थः । अत्र द्वयानामप्यत्राणां प्रकृतत्वात्प्रकृतश्लेषः । तेरस्रषिां तयोषिता यथासङ्ग्यसम्बन्धायथासङ्ख्याऽलङ्कारः । तदुपजीवनेन द्विषो तयोषिता चाडैः शोणितैः श्लेषमूला- भेदातिशयोक्किमहिम्ना अस्ररूपतुल्यधर्मयोगित्वात्तुल्ययोगितेत्यङ्गानि भावना सङ्करः ॥ ११५ ॥ ॥ अर्थत्रयवाची॥ सदामदबलप्रायः समुद्धृत(द्धत)रसो बभौ ॥ प्रतीतविक्रमः श्रीमान् हरिहाररिवाऽपरः ॥ ११६ ॥ सदेति ॥ हरिः श्रीकृष्णः बभौ रेजे । किंभूतो हरिः सदामदबलप्रायः सदा नित्यं ।

सर्गः1] शिशुपालवधे। ७१३ .. मदः क्षीवता यस्य सः सदामदः नित्यक्षीबो यो बलो हलधरः सं प्रीणाति आनन्दयति यः स सदामदबलप्रायः, वल्लभत्वात । कर्मण्यण । अपरं किंभूतः समुद्धतरसः समुद्धृता प्रोद्धृता रसा भूमियेन सः तथा । वराहरूपेण हि भगवता जलमध्ये ममा मही समुद्- एता इत्यागमः । अपरः किंभूतः प्रतीतविक्रमः प्रतीतः प्रसिद्धः विक्रमो यस्य सः तथा प्रसिद्धपराक्रमः, अपरं किंभूतः श्रीमान् लक्ष्मीवान् , अपर किंभूतः अपरं न विद्यमानाः परे शत्रयो यस्य सः अविद्यमानशत्रुः, क इव बभौ हरिरिव देवेन्द्र इव, स यथा भाति । किंभूतः इन्द्रः सदामदबलप्रायः सन् उत्कृष्टः तथा आम रोग लोकपीडां ददातीति आमदो विश्वदुःखदो बलो बलासरः है प्रकण अयते गच्छत्यास्कन्दतीति आमदबलप्रायः, ततः कर्मधारयः, संश्चासौ आमदबलप्रायश्च सदामदबलप्रायः, पुनः किंभूतः इन्द्रः समुत् सह मुदा हर्षेण वर्तते इति तथा, अपरं किंभूतः हृतरसः हृतो निरस्तः अमृतभक्षणात् रसो विपं येन सः तथा, अपरं किंभूतः प्रतीतविक्रमः प्रति इताः योदधु संमुखमागता ये शत्रुवीराः तेषु न तु पलायमानेषु विक्रमः पौरुषं यस्य सः, पुनः किंभूतः श्रीमान् श्रीदेवाधिपत्यलक्ष्मीविद्यते यस्य सः तथा, पुनः किंभूतः अपरः अ: उपेन्द्रः विष्णुः परः अनुजो यस्य सः तथा, विष्णुपूर्वजन्मेत्यर्थः । एष एकोऽर्थः । द्वितीयश्च स हरिर्बभौ । किंभूतो हरिः दामदबलप्रायः दाम रज्जु यति दितवान् वा सः दामदः, तथा बर्ल सामर्थ्य प्रायेण बाहुल्येन यस्य स बलप्रायः, ततः कर्मधारयः, दामदश्चासौ बलप्रायश्च दामदबलप्रायः । यस्य हि शाश्वतिकं बलं न स्यात्, स कथं शैशवे दाम छिन्द्यादिति । अपरं किभूतः समुद्धतरसः समुद्धतेषु सदपु रसोरागो जिगीषा यस्य सः तथा, पुनः किंभूतः प्रतीतविक्रमः प्रतीताः सर्वत्र ख्याता: विशिष्टाश्च क्रमाः पादविक्षेपा यस्य सः तथा प्रसिद्धपराक्रमो वा, अपरं किंभूतः श्रीमान् नृपलक्ष्मीयुक्तः, पुनः किंभूतो हरिः अपरः न विद्यन्ते परे शत्रवो यस्य सः पूर्ववत् । यदि वा आप्यते आप्तुं काम्यते इति आपो मोक्षः, तं राति ददातीति आपरः मोक्षप्रदः। क इव हरिवि सिंह इव, किंभूतः सिंहः सदामदबल- प्रायः सदा अजस्रं मदो दानं येषां ते सदामदाः नित्यमदाः ये करिणः तान् बलेन शौर्येण प्रायते अभियुङ्क्ते इति सदामदबलप्रायः, पुनः किंभूतः समुद्धतरसः समुद्धतः उत्कटः चण्डो रसो रौद्राख्यो यस्य सः, पुनः किंभूतः प्रतीतविक्रमः प्रसिद्धपराक्रमः, यदि वा प्रतीतः ख्यातः वेरिव पक्षिणो गरुडस्येव क्रमः फालो यस्य सः प्रतीतविक्रमः, पुनः श्रीमान् मृगपतित्वात्, पुनः किंभूतः अपरः निःसपत्नः, महाबलत्वात् । एष द्वितीयोऽर्थः । तृतीयोऽपि-हरिर्बभौ। किंभूतः कृष्णः सदामदबलप्रायः दानं दा, सह तया वर्तते इति सदः, तथा अविद्यमानो मदःचेतोविकारो यस्य सः अमदः, सदश्वासावमदश्चेति सदाऽमदः, तथा बलं हलधरं प्राति पूरयति आप्यायतीति बलप्रः । आतोऽनुपसर्गात् कः । एतीति आय: आगमनपरः बलप्रो हलधरतोषयिता आयः सम्प्राप्तिर्यस्य सः बलप्रायः । भगवति मागते बलभद्रो हृष्यतीति । सदाऽमदश्चासौ बलप्राऽऽयश्चेति । अपरं किंभूतः समुद्धतरसः समुदः सहर्षान् परितुष्टान् जहति त्यजन्ति क्षपयन्तीति समुद्धाः दुष्टाभिप्रायाः, अतिशयेन समुद्धाः समुद्धतराः तान् स्यति अन्तं नयति इति समुद्धृतरस: अतिकण्टकोपी, अपर किंभूतः प्रतीतविक्रमः प्रसिद्धपौरुषः, यदि वा प्रतीतः प्रख्यातः विना पत्रिणा गरुडेन .

७१४ सन्देहविषौषधिसर्वकषायुते- [एकोनविंशः- - .. क्रमो गतिर्यस्य सः, तथा पुनः किंभूतः श्रीमान् सदसमृद्धियुक्तः, पुनः किंभूतः अपरः न परः उत्कृष्टो यस्मादिति अपरः सर्वश्रेष्टः, क इव बभौ हरिरिव श्रीसूर्य इव । कांशुगुविन्द्रचन्द्राऽर्ककपिभेकशुकोरगान् । यमवाय्वग्निसिंहाऽश्वश्यामवर्णान् हरीन् विदुः ॥ किंभूतो रविः सदामदबलप्रायः सतां जीवानाम् आमं रोगं घति लुनातीति सदामदः अत एव तेषामेव सतां यत् बलं तस्य प्रा पूरणं बहूकरणं च तत्र योऽनुकूलः । भगवान् श्रीसूर्यः किल रोगान् नाशयन् महदलं ददातीति । सदामदश्चासौ बलप्रायश्चेति कर्म- धारयः । किविशिष्टः रविः अत एव समुत् प्रीतिदाता, अपरं किंभूतः हतरसः हतः क्षपितः धर्मकाले रसो जलं येन सः तथा । भगवान् हि ग्रीष्मसमये करैः कृत्वा सर्व- रसान् पिबति । यदुक्तं हि-'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः' इति । पुनः किंभूतः प्रतीतविक्रमः प्रतीताः प्रहृष्टाः प्रतिगता वा विक्रमा यस्य सः तथा, विक्रमन्ते अतिप्रचल- न्तीति विक्रमाः अश्वाः, प्रहृष्टाऽश्वः । अश्वानां गतिविशेषो विक्रमो वा । अपरं किंभूतः श्रीमान् तेजोलक्ष्मीसम्पन्नः, पुनः किंभूतः आपरः आ समन्तात जगन्ति पिपति पालयती- त्यापरः । पचायच । एष तृतीयोऽर्थः । अत्र विविधाऽध्येतृमनोरुचिप्रतिपत्तिप्रसादनाय अर्थषटकमस्माभिर्व्याख्यातम् । न तु कवरेषोऽभिप्रायः। परमार्थतस्तु प्रकरणलब्धस्यैकत्वा- दुपमानयोश्च द्वित्वादर्थत्रयवाचित्वम् अत्राऽन्यत्र वापि मतम् । अर्थत्रयवाची ॥ ११६ ॥ सदेति ॥ सदा मदो यस्य सः सदामदः नित्यमत्तस्तं बलं बलभद्रं प्रीणातीति सदामदबलप्रायः । पर- त्वाकर्मण्य प्रत्ययः । समुद्धृता रसा भूर्येन स समुद्धृतरसः । प्रतीताः प्रसिद्धा विक्रमाः पादन्यासा यस्य मः । त्रिविक्रम इत्यर्थः । श्रीमान रमापतिः हरिः कृष्णोऽपरोऽन्यो हरिरिन्द्र इव बभैी। सोऽपि सतामामदो दुःखदो यो बलासुरस्तस्य प्रायो नाशस्तं करोनीति सदामंदबलप्रायः । 'तत्करोति-' इति ण्यन्तात्पचाद्यन् । समुद्धतरसः अमृतपानेन सम्यगपहृतविषः । 'शृङ्गारादै। विषे वीर्ये द्रवे गागे गुणे रसः' इत्यमरः । प्रतीत- विक्रमः प्रसिद्धपराक्रमः श्रीमान् स्वाराज्यलक्ष्मीयुक्तः । तथा परोऽन्यो हरिः सूर्य इव बभौ । सोऽपि आम रोग यांत खण्डयतीन्यामदः । बालं पृणातीति बलप्रः। मूल विभुजादिन्वात्कः । सतां भक्तानामामदो बलप्रय अय उदयो यस्य सः सदामदबलप्रायः । स्वोदयेन सतामारोग्यबलकारीत्यर्थः । 'उद्यत्रद्य-' इत्यादिश्रुते- रिति भावः । समुद्धृतरसः घर्मकालसंशोषितसलिलः । प्रतीतविक्रमः प्रसिद्धखगगतिः । 'यमानिलेन्द्रचन्द्रार्कविष्णु संहाशुवाजिषु । शुकाऽहिकपिभेकेषु हरिना कपिले त्रिषु' ॥ इत्यमरः । तदेवमुपमानयोरुपमेये चार्थत्रयवचनादर्थत्रयवाच्येषु चित्रभेदः । एतावदेव कवविक्षित- मतोऽन्यत्सुवाच्यं चोपेक्ष्यमेव । अत्राऽपरे। हरिरिवेन्यपरशब्दप्रयोगादुत्प्रेक्षेयं नोपमा । अपरस्यन्द्रस्याकस्यै- वाऽप्रसिद्धः प्रसिद्धसादृश्यवर्णनमुपमा। प्रसिद्धताध्यारोपे रूपकम् । प्रसिद्धताप्यभावनमुत्प्रेक्षा । अत- एव लक्षयन्ति-अप्रकृतगुणक्रियाभिसन्धानादप्रकृतत्वेन प्रकृतसम्भावनमुत्प्रेक्षेति । तस्मादपरशब्देन प्रकृत- स्या प्रकृतत्वाध्यवसायप्रती तेरिवशम्देन तस्य माध्यत्वपतीतरुपवति सर्वस्वकारः । तस्मादिवशन्दमात्र- प्रयोग एवोपमा । अपरशन्दमात्रप्रयोगेातिशयोक्तिः । उभयोःप्रयोगे तूत्लेवेति विवेकः। अत एवात्राऽनका- थवर्णनव्यवसायिभिरपरशम्दस्यान्यार्थताव्यतिरेकेणार्थान्तरकल्पनाऽपि नालङ्कारिकाणां पन्थाः । श्लेषश्चात्रो- प्रक्षाबाजभूतसाधयीन हमात्रापक्षीणतया तदङ्गमिति सदूर इत्यलमतिप्रसक्त्या ॥ ११ ॥ द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः । पश्यन्तः स्पर्धया सपः स्वयं पञ्चत्वमाययुः ॥ ११७ ॥ ..

वर्गः । शिशुपालवधे। ७१५ द्विधेति ॥ शत्रवः अरयः तं कृष्णम् एकमपि द्विधा प्रकारद्वयेन, त्रिधा प्रकारत्रयेण, च पुनः चतुर्धा चतुःप्रकारेण पश्यन्तः अवेक्षमाणाः सन्तः स्वयमात्मना सद्यः तत्क्षणादेव पञ्चत्वमाययुः मरणं प्रापुः । भीताः किल सर्वत्र भयं पश्यन्तो नियन्ते इति द्विधात्वादि- दर्शनम् । श्रीभगवतो वेगलाघवेनाऽपि वा अनेकरूपदर्शनम् । कया पञ्चत्वमाययुरित्याह, उत्प्रेक्ष्यते-स्पर्धयेव सङ्घर्षेणेव । एष किल चतुर्धात्वं यावत्प्राप्तः । वयमपि इदानीमेन- मतिशयितुं कथं पञ्चत्वं पञ्चसङ्ख्यात्वं नाप्नुमः इति स्पर्धयेव स्वयं पञ्चत्वमाययुः ॥११७॥ विधति ॥ शत्रवः एकमपि तं हार द्विधा द्वित्वेन त्रिधा त्रित्वेन चतुर्धा चतुष्टुन पश्यन्तः, भयात्तथा भ्राम्यन्त इत्यर्थः। स्पर्धया मत्सरेण सवः स्वयं पञ्चत्वं पञ्चधाभावं मरणं चाऽऽययुः। मत्सरिणस्तदधिकमाच- रन्तीति भावः। 'स्यात्पञ्चता कालधर्मों दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशा द्वयार्मृत्युर्मरणं निधनोऽसियाम् ॥ इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धयेति हेतोरुत्प्रेक्षणाद्धेतूत्प्रेक्षा । मा च व्यञ्जकाप्रयोगाम्या । स्पर्धयेवेत्यर्थः ॥ ११॥ ॥समुद्गः॥ सदैव सम्पन्नवपू रणेषु महादधेस्तारि महानितान्तम् ।। स दवसम्पन्नवपूरणेषु महो दधेऽस्तारिमहा नितान्तम्(१)॥ ११८ ॥ सदैवेति ॥ स भगवान श्रीकृष्णः रणेषु समरेषु नितान्तमतिशयेन महः दधे तेजो बभार । किंभूतेषु रणेषु दैवसम्पन्नवपूरणेषु देवसम्पदां देवसम्बन्धिसमृद्धीनां नवं प्रत्यग्रं पूरणं प्रसाधनं येषु तानि दैवसम्पन्नवपूरणानि तेषु देवसमृद्धिवर्धकेषु । रणेषु मृतैर्हि वीरैः देवभूयं प्राप्य स्वर्गः प्रसाध्यते इत्यागमः । किंभूतः स हरिः सदैव सम्पन्नवपुः सदैव नित्यमेव सम्पन्नं परिपूर्ण समृद्धियुक्तं वा वपुः शरीरं यस्य सः तथा, पुनः किंभूतः अस्ताऽरिमहाः अस्तं क्षिप्तम् अरीणामरातीनां महस्तेजो येन सः तथा नाशितशत्रुतेजाः, पुन किंभूतः महान् सर्वोन्नतः, किंभूतं महः महोदधेः समुद्रस्य इतान्तं प्राप्तावसानं सागरो. त्तीर्ण, पुन: किंभूतं महः तारि तरति प्लवते इति तारि नभोव्यापि । सम्पुटयमकम् । यस्य पादोऽपरेण तृतीयेन चतुर्थेन सदृशः तत्सम्पुटयमकम् , समुद्गकाऽपरसंज्ञम् । उपेन्द्र- वज्रा वृत्तम् ॥ ११८ ॥ सदैवेति ।। सदैव सर्वदेव सम्पन्न सर्वलक्षणसमग्रं वपुर्यस्य सः सम्पन्नवपुः । नित्यपरिपूर्णमूर्तिः। संहि- ताया, ठूलोपे पूर्वस्य दी? णः । अस्तं निरस्तमरीणां महस्तेजो येनास। अस्ताऽरिमहाः महानाधिकः स हरिः, देवसम्पत् भाग्यसम्पत्तिः सैव नवं पूरणं प्रत्ययसाधनं या तेषु देवसम्पत्रवपूरणेषु देवसहायेषु रणेषु महोदधे- महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्त स्तारि विस्तीर्ण महस्तेजो दधे धारयामास । अर्धा- भ्यासलक्षणसमुज्जयमकभेदः 'अर्धाभ्यासः समुद्रः स्यादस्य भेदालयो मताः' इत्युक्तं दण्डिना । उपेन्द्र- बजा वृत्तम ॥ ११८॥ इष्टं कृत्वाऽयं पत्रिणः शाङ्गपाणेरेत्याधोमुख्यं प्राविशन् भूमिमाशु ॥ शुद्ध्या युक्तानां वैरिवर्गस्य मध्ये भाक्षिप्तानामेतदेवाऽनुरूपम् ॥११९॥ इष्टमिति ॥ शाङ्गपाणेः श्रीकृष्णस्य पत्रिणः शराः शरा इष्टम् अभिप्रेतम् अर्थ कृत्वा प्रयोजनं विधाय आधोमुख्यं च एत्य अधोमुखत्वं प्राप्य अधोमुखाः सन्तः आशु पूर्ण भूमि प्राविशन् क्षितिं प्रविष्टाः । मुखेन हि इषवः पतित्वा रसातलं प्रविशन्ति । (१) मल्लिनाथव्याख्याया मुद्रितपुस्तके तु प्रथमन्तिीययोस्तृतीयचतुर्थयोः पादयोः साम्य दृश्यते । - ..

न्यासोऽयम् ॥ ११९॥ - ७१६ सन्देहविषौषधिसर्वकषायुते [एकोनविंशः युक्तं चैतत, यदधोमुखत्वं प्राप्य भूमिप्राविशन्निति । यस्मात् शुद्ध्या युक्तानां शौचाऽन्वि- तानां गुणवताम् ,अथ च वैरिवर्गस्य मध्ये द्विषः प्रत्यक्षमेव भाऽऽक्षितानां स्वामिना तिर- स्कृतानाम् एतदेव अनुरूपम् उचितं,यदधोमुखत्वं प्राप्य परिभवात् रसातलं प्रविशन्तीति । शरा हि भगवता वैरिवर्गस्य मध्ये क्षिप्ता शुद्धया युक्ता ऋजवश्च निर्विषत्वाच्च देवेन वैरि- मध्ये क्षिप्ताः । वैश्वदेवी वृत्तम् । मौ यो पञ्चाचैवैश्वदेवीति नाम्ना । अर्थान्तर- इष्टमिति ॥ शार्ङ्ग पाणौ यस्य शाईपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः। पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् । शुद्ध्या लोडशुद्ध्या पवित्रतया च युक्ताना तथापि भत्री स्वामिना वरिवर्गस्य मध्ये सिताना पातितानाम् एतदेव आधोमुख्येन क्वचिनिलयनमेवाऽनुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्था- न्तरन्यासः । जागतं वैश्वदेवावृत्तम् । 'पञ्चाश्चश्छिन्न। वैश्वदेवी ममौ यौ, इति लक्षणात् ।। ११९ ॥ कविकाव्यनामगर्भचक्रमिदम्- ॥चक्रबन्धः॥ सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाऽघक्षयशुद्धिरुधुरतरश्रीवत्सभूमिसुदा ॥ मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे- रेकौघैः समकालमभ्रमुदयो रोपैस्तदाऽऽतस्तरे ॥ १२० ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये एकोनविंशतितमः सर्गः ॥ १९ ॥ सत्त्वमिति ॥ स भगवान् श्रीकृष्णः पुरोऽग्रेवति अभ्रम् आकाशं तदा तस्मिन् काले समकालं युगपत् एकौघैः अविच्छिन्नैः एकप्रहारप्रवृत्तः रौपैः शरैः आतस्तरे पिदधे । कि कृत्वा आजिरभसात रणौत्सुक्यात् मानविशिष्टम् उन्नतिमत् सत्त्वं धैर्यम् आलम्ब्य गृही- त्वा । सम्पदाऽसम्पदयोनिर्विकारता मनसः सत्त्वम् । तथा मुदा तोषेण हरेः सिंहस्य नाद ध्वनि निकाममत्यर्थ मुक्त्वा सिंहवन्नदित्वा, किंभुतः श्रीकृष्णः भव्यः योग्यः अभिप्रेताना- मर्थानां पात्रभूतः, पुनः किंभूतः लब्धाऽयक्षयशुद्धिः लब्धा प्राप्ता अघक्षयेण शुद्धिर्यस्मात् सः तथा, पुनः किंभूतः उद्धरतरश्रीवत्सभूमिः श्रीवत्सस्य लक्षणविशेषस्य भूमिः स्थान श्रीवत्सभूमिर्वक्ष उच्यते,उद्धरतरा अत्युन्नता श्रीवत्सभूमिर्यस्य सः तया, पीनवक्षा इत्यर्थः। पुनः किंभूतः अपास्तभीः त्यक्तभयः वीराऽधिवीरत्वात् , पुनः किंभूतः परमृगव्याधः शत्रु- हरिलुब्धकः, पुनः किंभूतः उदयी उदर्कलक्ष्मीसंयुक्तः । कर्माघस्य काव्यस्य च श्रीशिशु- पालवधाख्यस्य यन्नाम पदं तदन्तर्वतित्वात् गभों यस्य तत् कविकाव्यनामगर्भ चक्र षडरम् अनेन श्लोकेन रच्यते । तत्र पादत्रितयस्य षडराः। प्रत्यरं तृतीयाऽक्षररचितं कवेनाम 'माघकाव्यमिदमिति । षष्टाक्षररचितं काव्यनाम 'शिशुपालवधः' इति । रेफो नाभिस्थाने एकौधैरिति व्याध इति वचा शरीरी वा(ए) विसर्जनीयान्तावेव । चतुर्थस्तत्पादो नेमिस्थाने। अरमध्ये प्रत्यक्षरद्वयन्यासः । शार्दूलविक्रीडितं वृत्तमिदम् । चित्रमलङ्कारः । श्रीशब्द. लक्ष्मत्वात् काव्यस्य सर्वसर्गसमाप्तौ श्रीशब्दप्रयोग इति भद्रम् ॥ १२० ॥ इति श्रीशिशुपालवधे महाकाव्ये दत्तकसूनोमाघस्य कृतौ सन्देहविषौषध्या सारटीकायां द्वन्द्वयुद्धं नामैकोनविंशः सर्गः ।

( १ )
*१७९९' मिते वैक्रमे वत्सरे '१६६४ मिते
शालिवाहन शके लिखितस्य वल्लभदेव.
कृतव्याख्यापुस्तकस्याऽनुरोधेन
शिशुपालवधकाव्यस्थितानां
चित्रबन्धानाम् आकृतयः।
सर्वतोभद्रः।
स. १९ श्लो. २७
है
4
सका रना नारकास
काय साद दमायक
रसाह वा वा हसार
नाद वाद दवा दाना
ना दवा हद वाद ना
र साहवा वाहमा
काय साद द सा य
सकारना नारका
प्य
गोमूत्रिकाबन्धः।
स. ९१ श्लो. ४६
4
वि क स हा नं यु ५ मा पनि पा णि भिः
मुरजबन्धः।
स. १९ श्लो. २९
क
वह
R

( २ ) अर्धभ्रमकः स. १९ श्लो. ७२. अ भी क ति के ने द्ध भी ता न स्य ना श का से ना के का म क ति षडरचक्रबन्धः। स. १९ श्लो. १२० T面即可查 a कावास 8 जालाबाजाला । BARआघालावा सर्गः।] शिशुपालवधे। - सत्वमिति ॥ भव्यः कल्याणमूर्तिः, लब्धोऽक्षयः शुविस येन स लम्बाघक्षयशुद्धिः, श्रीवत्सस्य लाञ्छनविशेषस्य भामर्वक्षः सा उधुरतरा उत्रततरा यस्य स उधुरतरधीवत्सभूमिः काममपास्तभी: निभीकः, परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । 'ग्याधो मृगवधाजीवो मृगयुटुंग्ध- कोऽपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः। स हरिः पुरः पूर्वम् भाजिरभसावण- रागात् मानविशिष्टमहङ्कारोधुरं सत्त्वं बलमालम्म्याऽऽस्थाय मुदा उत्साडेन हरेः सिंहस्य नाद मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरकौघेः एकप्रहारः रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'पाच्छत्यताम्' इति गुणः । चक्रबन्धा- यश्चित्रविशेषोऽलङ्कारः पूर्वेकरूपकेण संमृज्यते । चक्रबन्धोद्धारस्तु-दशमण्डलरेखात्मके नवमण्डला- तरालवति चके नाभिस्थानेन सहकानविंशतिकोष्ठ प्रत्येकं यक्षरगतं पक्तित्रयं समरेखया लिखित्वा तकस्या परको वामपार्श्वपक्रमेण आयपादमालिख्य तथा प्रादक्षिण्येन द्वितीयतृतीययोरितायतृतीयो लिखित्वां नेमिस्थाने बाह्यवलये साऽक्षरकोष्ठषटकेन सहाष्टादशकोष्ठवति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपाद लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभि- स्थाने आयपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्य- मिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥ १२० ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायो शिशुपालवधकाज्यव्याख्यायो सवकषाख्यायाम् एकोनविंशतितमः सर्गः ॥ १९ ॥ विंशः सर्गः। मुखमुल्लसितत्रिलेख(१)मुश्चैभिंदुरभूयुगभीषणं दधानः ॥ समिताविति विक्रमानमृप्यन् गतभीराहत चेदिराण्मुरारिम् ॥१॥ मुखमिति ॥ अथ चेदिराट् वैद्यः समितौ समरे मुरारि कृष्णम् आह्वत आह्वास्त स्पर्धयाऽऽहूतवान् । किंभूतश्चेदिराट् इति पूर्वोक्तप्रकारेण मुरारेः विक्रम पौरुषम् अमृ- ष्यन् असहमानः, अत एव अपरं किंभूतः चैधः गतभीः निःसाध्वसः, पुनः किंभूतः मुखं दधानः बिभ्राणः, किंभूतं मुखम् उल्लसितत्रिलेख स्फुरमाणत्रिराजिश्रि, अपरं किंभूतं मुखं भिदुरभ्रूयुगभीषणं कुटिलमुखरोमराजिभयानकम् । आह्वतेति 'स्पर्धायामाऊ' इति तङ्का 'आत्मनेपदेष्वन्यतरस्यामिति वा च्लेरडादेशः। चेदिषु राजते इति चेदिराट् सम्पदादि- सूत्रेण विप् । अथ वा राजशब्दप्रकरणाऽऽहतराट्शब्दोऽप्यस्ति । यदुक्त-राजाऽथ पार्थिवो राट् भूक्षित् मूर्धाभिषिक्तश्च । एवं षष्ठीसमासः। औपच्छन्दसिकं वृत्तम् अत्र सर्गे । रणलुगे युन् प्राणयुगलस्याद्वेतालीयं गतमपिवेदम(२) ॥ १ ॥ मुखमिति ॥हतीत्थं समितावाजौ । 'समित्याजिसमियुधः' इत्यमरः । विक्रमान् मुरारेः पराक्रमान् अमृष्यनसहमानः अत एव तिस्रो रेखामिरेखाः । 'दिक्सलये संज्ञायाम्' इति समासः । ता उल्ललिता क्रोधादुद्भूता यस्मिंस्तदुलसितत्रि रेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः। तथा भिदुरेण प्रन्थिलेन भूयुगेन भीषणं भयङ्करम् उच्चैरुत्रतं मुखं दधानः चेदिषु राजते चेदिराट् । सम्पदादिभ्यः क्विप् । यद्वा चेदीनां राट् चेदिराट् । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । 'राजा राट् पार्थिवः माभृत्' इत्यमरः । गतभी निर्भीकः सन् (१) पिरेख। (१) अनवस्थितान्यक्षराणि स्फुटमर्थमकेशन न प्रकटयन्त्येतानि ।

७१८ सन्देहविषौषधिसर्वकषायुते- [विंशः - मुरारि हरिम् आह्वत । 'अयमहं, क्वामि मामभ्युपहि' इति स्पर्धया अमर्षादाकारयामासेन्यर्थः विनाशकाले विपरीतबुद्धेर्दुरत्वादिति भावः। 'स्पर्धायामाङः' इति हयतलीड ता 'आत्मनग्देष्वन्यतस्याम् ' इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वाकाव्यलिङ्गम् । सर्गेजस्मन्नौपच्छन्दसिकं वृत्तम् । वैताली ये गुर्वाधिक्यात् । तदुक्तं 'वतालाय द्विः स्वरा अयुक् पादे युग्वसवोन्ते गः। औपच्छन्दास- कम्' इति ॥१॥ शितचक्रनिपातसम्प्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् ॥ अभिशौरि रथोऽथ नादिताऽश्वः प्रययौ सारथिरूपया नियत्या ॥ २ ॥ शितेति ॥ अथाऽनन्तरं तस्य चैद्यस्य रथः स्यन्दनः अभिशौरि भगवसंमुखं प्रययौ प्रतस्थे । किंभूतस्य तस्य स्कन्धगतं मृत्युम् अन्तिके स्थितं मरणं वहतः धारयतः । स्कन्धे चेत् अन्तकोऽस्य स्थितः, तत्कथमसौ न ममारेत्याह-किंभूतं मृत्यु शितचक्रनिपात- सम्प्रतीक्षं शितचक्रस्य तीव्रचक्रस्य निपातं निस्तनं सम्प्रतीक्षते प्रतिपालयतीति तथा तं तीक्ष्णसुदर्शनाभिघातं प्रतिपालयन्तं, किंलक्षणो रथः सारथिरूपया नियत्या नोदिताऽश्वः सूतरूपेण दैवेन प्रेरिततुरगः । सूतरूपमाश्रित्य दैवमेव तस्य मरणाय रणभुवं प्रति तुरगान् प्रेरयामासेत्यर्थः । चशब्दः उत्तरक्रियापेक्षया समुच्चयार्थः ॥ २ ॥ शितेति ॥ अथ आह्वानाऽनन्तरं शितचक्रनिपातं शितसुदर्शनप्रहार सम्प्रतीक्षत इति शितचक्रनिपात- सम्प्रतीक्षम् । ईसतेः कर्मण्यम् । स्कन्धगतं मृत्यु वहतः तस्य चैयस्य रथः सारथिरूपया नियत्या विधि- नेति रूपकम् । 'भाग्यं श्री नियतिर्विधिः' इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् आमेशौरि शौरिमभि । आभिमुख्येऽव्ययीभावः । 'अव्ययादाप्सुपः' इति सुपो लुक् । प्रययौ प्रतस्थे ॥ २ ॥ अभिवैद्यमगादयोऽपि शौरेरपनि जागुडकुङ्कुमाऽभिताम्रः ॥ गुरुनेमिनिपीडनाऽवदीर्णव्यसुदेहस्रुतशोणितैविलिम्पन् ॥ ३ ॥ अभिचैद्यमिति ॥ शौरेः श्रीकृष्णस्य स्थः अभिवैद्यम् अगात् चेदिपतिसंमुखम् जगाम । अपिशब्दः पूर्वापेक्षया समुच्चयं ब्रुवन् एककालत्वमाह । यदा चैद्याथः अभिशौरि ययौ तदा श्रीकृष्णरथोऽपि चैद्याभिमुखमित्यर्थः । किंभूतः शोरेः अवनिं पृथिवीं विलिम्पन् लिप्तां विदधत्, कैः गुरुनेमिनिपीडनाऽवदीर्णव्यसदेहस्तशोणितैः गुरुः गुर्वी यासौ नेमिः प्रधिः तया यन्निपीडनं क्नोपनं तेनाऽवदीर्णा निष्पिष्टा ये व्यसदेहाः मृतशरीराणि तेभ्यः स्रुतानि निर्यातानि यानि शोणितानि तैः, किंभूतैः व्यसुदेहस्रतशोणितैः जागुडकुकुमाभि- ताम्रः जागुडो देशविशेषः तत्र भवं जागुडम् , एवंभूतं यत् कुङ्कुमं घुसणं तद्वदभिताम्राणि अतिलोहितानि तैः । जागुडः काश्मीरच कुडकुमाऽऽकर इति भावः ॥ ३ ॥ अभियामिति ॥ अथ शौरेः कृष्णस्य रथोऽपि, जागुडो देशविशेषः तत्र यत्कुङमं तदभिताररुणे- रित्युपमा। यावकेति पाठे यावकच कुडुमं च ताभ्यामाभितामरित्यर्थः । गुरूणा नेमीनां चक्रधाराणां निपीडनेन नोदनेनाऽपदीर्णेभ्यो व्यसूनां विगतमाणाना देहेभ्यः सुतैः शोणितेरसृम्भिरपनि विलिम्पन्नुपदि- हानः सन् अभिचैय चैद्यमभि, समासो व्यासो वा विकल्पात् । अगात् । 'इणो गा लुहि' इति गादेशः॥३॥ स निरायतकेतनांऽशुकान्तः कलनिक्काणकरालकिङ्किणीकः ॥ विरराज रिपूद्धति(१)प्रतिक्षामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ ४॥ सहेति ॥ स भगवद्रयो विरराज । किंभूतः सः निरापतकेतनाऽशुकान्तः निरायत: (१)रिपुक्षय । रथः सर्गः ।] शिशुपालवधे। ७१४ इत्यमरः सरल: केतनस्य ध्वजस्य अंशुकं वस्त्रं तस्य अन्तः प्रान्तः कोटिर्यस्य सः तथा लम्बमान- वैजयन्तीकः, पुनः किंभूतः सः कलनिक्वाणकरालकिङ्किणीकः कलनिक्वाणा मधुरस्वराः करालाः सुस्वराः सशब्दा वा किङ्किण्यो घण्टिकाः यस्य सः तथा मधुरध्वनिभासरघण्टाकः। पुनः किंभूतः सः, अतश्चोत्प्रेक्ष्यते-नु इति वितकें, स्वयं मृत्युरिव अन्तक इव । किंभूतो मृत्युः रिपूतिप्रतिज्ञामुखरः रिपूणां शत्रूणाम् उद्धतिर्मारणं तस्य प्रतिज्ञा सन्धा तस्यै मुखरः वाचालः, रिपून् हनिष्यामीति प्रतिज्ञया वदन् , अत एवाऽपरं किंभूतोऽन्तकः मुक्तशिखः मुक्तमूर्धजः । प्रतिजानता हि मुक्तमूर्धजेन भवितव्यमित्याचारः । किङ्किणी- ध्वनेर्वचनमुपमानं, वैजयन्त्याः शिखोपमानम् ॥ ४ ॥ स इति ॥ निरायतोऽतिदीर्घः केतनाशुकान्तः ध्वजपटाञ्चलो यस्य सः कलनिक्काणैः मधुरस्वरैः करालाः कुशलाः प्रगल्भाः किङ्किण्यः क्षुद्रघण्टिका यस्य स तयोकः। 'नवृतश्च' इनि कप । 'किङ्किणी क्षुधाष्टिका' स कृष्णस्य रथः रिपुचयस्थ शिशुपालवधस्य प्रतिज्ञया मुखरो वाचालः, अत एव मुक्क- शिखो मुक्त कशः ।वरराज । नाऽहमनमहत्वा शिखाबन्धं करिष्यामीत्युदोषयन्त्रित्यर्थः । स्वयं साक्षान्नु मृत्यु- रन्तकः किमिन्यु प्रेक्षा ॥४॥ सजलाम्बुधराऽऽरवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ॥ प्रगुणाकृतकेकमूर्ध्वकण्ठैः शितकण्ठरुपकर्णयाम्बभूवे ॥५॥ सजलति ॥ रथस्य ध्वनिः स्यन्दनस्य चीत्कारः शितिकण्ठैर्मयूरैः उपकर्णयाम्बभूवे अश्रावि । किंभूतैः शितिकण्ठैः ऊर्ध्वकण्ठैः उद्गीवैः, कथमश्रावि प्रगुणीकृतकेकं यथा भवत्येवं प्रगुणाकृता वर्षाभ्रान्त्या द्विगुणिता केका वाशितं यत्र तद्यथा भवत्येवम् । वर्षास हि प्रहर्षानितरां बहिणः केकायन्ते । किंभूतो स्थस्य ध्वनिः सजलाऽम्बुधराऽऽरवानुकारी सजलो जलनिर्भरो योऽम्बुधरो मेघः तस्य य: आरवः गर्जितं तमनुकरोति विडम्बयतीति तथा । निर्जलोऽपि मेघः अम्बुधरादिभिः शब्दैरुच्यते, यथा अपचन्नपि सूदः पाचकः इति सजल- ग्रहणम् । पुनः किंभूतो ध्वनिः आपूरितदिङमुखः व्याप्ताऽऽशाविवरः ॥ ६ ॥ सजलेति ॥ मजलोऽम्बुधरः तस्यारवं गर्जितमनुकरोतीति तथोकः। तद्वगम्भीर इत्यर्थः। उपमा- लङ्कारः । आपूरितदिङ्मुखो व्याप्तदिगन्तो रथस्य कृष्णरथस्य ध्वनिः, उवाः कण्ठा येषां तैरूक- ण्ठैः । आकस्मिकघनरवलोभाद्विस्मयहर्षोत्रमितकन्धरैरित्यर्थः । शितिकण्ठेनीलकण्ठैः प्रगुणीकृता अतितारी- कृताः केका यस्मिन्कर्मणि तयथा तथा । 'केका वाणी मयूरस्य' इत्यमरः। उपकर्णयाम्बभूवे । मेघारव- भ्रान्त्या दत्तकरित्यर्थः । एतेन भ्रान्तिमदलङ्कारो व्यज्यत इति वस्तुनालङ्कारम्वनिः ॥ ५ ॥ अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ॥ चिरसञ्चितयाऽपि(१) चेदिराजः सहसाऽवाप रुषा तदैव योगम् ॥ ६ ॥ अभिवीच्येति ॥ चेदिराजः शिशुपालः चिरसञ्चितयाऽपि बहुकालाजितयापि रुपा क्रुधा सहसा तत्क्षणं तदैव तदानीमेव योगमवाप सम्बन्धं भेजे । यद्यस्य नित्यस्थिता रुट् , तत् कस्मादसौ तदैव तया सह युयुजे इत्याह-किं कृत्वा अच्युतोरः श्रीभगवद्वक्षः एवं विधमभिवीक्ष्य दृष्ट्वा, योगं भेजे इति सम्बन्धः । किंभूतमच्युतोरः विदर्भराजपुत्रीकुच- काश्मीरजचिई विदर्भराजस्य भीष्मकस्य या पुत्री रुक्मिणी तस्याः कुचौ पयोधरौ तयोः काश्मीरजस्य कुकृमस्य चिह्न लक्ष्म यत्र तत्तथा भीष्मकात्मजास्तनकुडकुमाऽडितम् । भग- - - .. (१) सेवितयाऽपि ।

सन्देहविषौषधिसर्वाषायुते- ७२० - - [विंश:- येन तत् वानपि किल रुक्मिणीमाश्लिष्य योबु निरगमत् । सा च पूर्व भात्रा शिशुपालाय दत्ता. ऽभूत् । भगवताऽप्यागत्य हत्वा आदायि । तदारभ्याऽसौ श्रीकृष्णाय चुक्रोध । अतश्च चिरसञ्चितयाऽपि रुषा वैरकारणदर्शनादेवाऽसौ तया युज्यते स्म । योऽपि कामी, स कामुकाऽन्तरस्य नायिकायोगचिहान्यालोक्य निजया कान्तया युज्यते ॥ ६ ॥ अभिवाक्ष्यति ॥ चेदिराजः शिशुपालः । राजाम्हःसखिभ्यष्टन् । विदर्भराजपुञ्या रुक्मिण्याः कुचयो- र्यकाश्मीरज कुम तचिह्न यस्य तदच्युतोरः कृष्णवक्ष: अभिवीक्ष्य चिरमेषितया चिरोपयुजामपि। रुक्मिणी हरणात्प्रभृति सम्भृतया:पीत्यर्थः । रुषा रोषण तदैव तदानीमिवेत्युत्प्रेक्षा । सहसा योग सम्बन्धमवाप । यथा कामी काम्यन्तरभोगचिह्नदर्शनोहीतः कान्तया संयुज्यते, तद्वदित्यर्थः । परमार्थस्वरूप एव कोपो वैदी- कुचकुङ्कुमदर्शनादुद्दीपित इत्यर्थः । अत्र प्रकृतरुड्विशेषणसाम्यादप्रकृतकान्ताप्रती तेः समासोनिः । उको- स्प्रेक्षा त्वङ्गमस्याः ॥ ६ ॥ जनिताऽशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वननृपेण ॥ चपलाऽनिलबोध्यमान(१)कल्पक्षयकालाऽग्निशिखानिभस्फुरज्ज्यम् ॥७॥ जनितेति ॥ नृपेण चेदिराजेन धनुश्चापम् आस्फालितम् आहतमाकृष्टं सत् उच्चैरतिशयेन अध्वनत् ननाद । किंभूतं धनुः जनिताऽशनिशब्दशडू जनिता अशनिशब्दस्य शङ्का विहितवजूनिर्घोषभ्रान्ति, पुनः किंभूतं धनुः चपलानिलबोध्यमानकल्पक्षयकालाग्निशिखा. निभस्फुरज्ज्यं चपलेन वेगवता अनिलेन मारुतेन बोध्यमानः सन्धुक्ष्यमाणः य कल्पक्षय- कालाग्निः युगान्तसमयदहनः तस्य शिखा ज्वाला तन्निभा तत्सदृशी स्फुरन्ती कम्प- माना ज्या मौर्वी यस्य तत् तथा ॥ ७ ॥ जनितेति ॥ नूपेण चेदिपेन भास्फालितं सष्टितम् अत एव चपलानिलेन तीवानिलेन चोद्यमानस्य संघर्ध्यमानस्य कल्पक्षयकालाग्रर्या शिखा ज्याला तया समाना तत्रिभा । इति नित्यसमास । सा स्फुरन्ती दोधूयमाना ज्या मापी यस्य तत्तथोक्तं धनुः, जनिता उत्पादिता अशनिशम्दशहा यस्मिन् कर्मणि तत्तथोकम् उच्चस्तरामध्यनत् । अषामिशिखानिमत्युपमाया अशनिशब्दशति भ्रान्तिमतः आस्फालित- मध्वनदिति पदार्थहेतुककाव्यलिङ्गस्य च सापेक्षत्वात्सङ्करः ॥ ॥ समकालमिवाऽभिलक्षणीयग्रहसन्धानविकर्षणाऽपवगः ॥ अथ साऽभिसरं शरैस्तरखी स तिरस्कर्तुमुपेन्द्रमभ्यवर्षत् ॥ ८ ॥ समकालमिवेति ॥ अथाऽनन्तरं तरस्वी बलवान् चैद्यः उपेन्द्र श्रीकृष्णं साऽभिसरं ससहाय शरैस्तिरस्कर्तु' विशिखौः प्रोर्णवितुम् अभिभवितु वा अभ्यवर्षत् असिञ्चत् । किंभूतैः शरैः समकालमिव युगपदिव अभिलक्षणीयाः दृश्याः ग्रहसन्धानविकर्षणा- ऽपवर्गाः आदानाऽऽनयनाऽऽकर्षणक्षेपाः येषां ते तथा तैः । युगपदृश्यग्रहणसंयोजना- ऽऽकर्षणमोक्षौरित्यर्थः । अभिसरन्तीत्यभिसराः भृत्याः तैः सह वर्तमानाः साभिसराः तं साभिसरम् । 'अनुसरमनुप्लव(?)सहायमनुजीवनं तथाऽभिसर मिति हलायुधः ॥ ८ ॥ समकालमिवेति ॥ अथ धनुरास्फालनाऽनन्तरं तरस्वी बलवान् सचद्यः समकालामिक्त्युत्प्रेक्षा । अ. त्यन्तसंयागे द्वितीया । अभिलक्षणीया दश्याः ग्रहो ग्रहण सन्धान मौा योजनं विकर्षणमाकर्षणमपवगों मोक्षश्च येषां तैः शरैः साभिसरं सानुचरमुपेन्द्रं हरिं तिरस्कर्तुमाच्छादयितुमभ्यवर्षत् ॥ ८॥ ऋजुताफलयोग(२)शुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ॥ गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥६॥ (१)चोपमान। (२) शुद्धियोगभाजामुरु ।

सर्गः।] शिशुपालवधे। ७२१ ऋजुतेति ॥ शिलीमुखानां बाणानां चापेन सह धनुषा समं सन्धिः सन्धान समञ्जसो बभूव समीचीनोऽभवत् । शरा धनुश्च सुदृढा मिलिता इत्यर्थः। किंभूताना शिलीमुखानाम् ऋजुताफलयोगशुद्धिभाजाम् ऋजुता स्पष्टता सरलता वा फलयोगः शल्यसम्बन्धः शुद्धिनिर्विषत्वं गतिनिर्दोषता वा, ऋजुता च फलयोगश्च शुद्धिश्च ताः ऋजुताफलयोगसिद्धयः ताः भजन्ते आश्रयन्ते तथा तेषाम् , अपरं किंभूतानाम् उरुपक्षा- श्रयिणाम् उरूणां विस्तीर्णानां महतां पक्षाणां कङ्कपत्राणाम् आश्रयो विद्यते येषां ते तथा तेषां, किंभूतेन धनुषा गुणिना सज्येन, पुनः किंभूतेन धनुषा नतिमागतेन आकर्षकुटिलेन । अथ च समजसोऽनुरूपः युक्तोऽभूत् इत्यर्थान्तरम् । ये किल ऋजवः स्पष्टाशया महा. फलाश्च शुद्धाश्च सपक्षाश्च, तेषां गुणवता नम्रेण च सह सन्धिरनुरूपो भवति ॥ ९ ॥ ऋजुतेति ॥ ऋजुता अवक्रत्वम् , अकुटिल बुद्धित्वं च फलं शल्यं श्रेयश्च तेन योगः शुद्धिाहशुद्धि- निविषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तो भजन्तीति तद्भाजा, गुरोर्महत: पक्षस्य कङ्कादिपत्रस्य महायस्य चाश्रयः आश्रयणमेषामस्तीति गुरुपक्षायिणां शिलीमुखाना शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं विधेयत्वं च प्राप्तेन चापेन सह सन्धिः सम्बन्धः समञ्जसः सांधीयान् बभूव। अबल- बता बलिना नमेण सन्धिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुताऽरि. विजिगीषुवस्तुप्रतीतेः समासोक्तिः। तच्च साम्य वाच्यप्रतीयमानयोरभेदाध्यवसायासिद्धम् । न चाऽत्र समानाऽलङ्कारशङ्का कार्या। 'समानालस्कृतियोंगे वस्तुनारेनुरूपयोः' इत्यनुरूपयो रेख वस्तुनोर्योगेन तस्यो- पस्थानादित्यनुसन्धयम् । विजिगीषुगुणयोगिनोरित भेदात् ॥ ९ ॥ अविषह्यतमे कृताऽधिकारं वशिना कर्मणि चेदिपार्थिवेन ॥ अरसद्धनुरुश्चकैढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ १० ॥ अविषातमे इति ॥ धनुः कार्मुकम् उच्चकैस्तारम् अरसत् दध्वान । किंभूतं धनुः वशिना प्रभुणा चेदिपार्थिवेन शिशुपालेन अविषयतमे असहनीये दुष्करे कर्मणि रिपुवधरूपे कृताधिकार कृतः अधिकारः प्रयोगो यस्य तत्तथा, नियुज्यमानमित्यर्थः । पुनः किंभूतं धनुः दृढाऽऽति आकर्षवशात् भृशपीडं, यद्वा दृढा बलवती अतिः कोटिः यस्य तत्तथा, अपरं किंभूतं धनुः प्रसभाकर्षणवेपमानजीवं प्रस* बलात्कारेण यदाकर्षणमास्फा- लनं तेन वेपमाना स्फुरन्ती जीवा शिञ्जिनी यस्य तत्तथा । अथ चोक्तिलेश:-यः किल वशिना इखशासनेन पार्थिवेन दुःसहे व्यापारे राज्यस्थानादिके विहितनियोगः, स यदा केनचित् स्खलितेन प्रसभं सभायामाकृष्यते, तदाऽसौ वेपमानजीवः वलत्प्राणो भवति । अत एव दृढया आ| उच्चै रसति फूत्कुरुते । जीवा ज्या असवश्च ॥ १० ॥ अविषयतमे इति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकार कृतनियोग, नियुज्यमानमित्यर्थः । अत एव दृढयोरोः कोटयोः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत् , अन्यत्र दृढयाा ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । 'अतिः वाडाधनुष्कोटयोः' इत्यमरः । 'जीवः प्राणेऽमियो ना तु जन्तावात्मनि गीपती । त्रिषु जीवति माया मी' इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत । यथा राज्ञा नियुक्तः पराधीनः बलादाकृष्यमाणः कोशति, तद्वित्यर्थः । मत्रापि प्रकृतविशेषणसाम्यादप्रकृताऽपराध्यधिकृतपुरुषप्रतीतः समासोकिः ॥१०॥ ६१ शि०१० . :

७२२ सन्देहविषौषधिसर्वपायुते- [विंश:- । अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ॥ वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसनुः ॥ ११ ॥ अनुसन्ततीति ॥ अथाऽनन्तरं क्षितिभर्तुः पृथिवीपतेः शिशुपालस्य धनुषः को- दण्डात् शराः बाणाः प्रसन्नः निरीयुः । किंभूताः शराः अनुसन्ततिपातिनः निरन्तर- गामिनः, पुनः किंभूताः पटुत्वं दधतः कार्यसमर्थत्वं धारयन्तः, पुनः किंभूताः शुद्धिभृतः निर्विषाः सरलगामिनो वा, पुनः किंभूताः गृहीतपक्षाः धृतकङ्कादिपतत्राः, एवंविधाः शराः । के कस्मादिव प्रसस्नुरित्याह-वादिनः बौद्धादेर्वदनात् शब्दा इव । यथा शब्दाः घटपटा- दयः वादिनः वादकर्तुः मुखात् प्रसरन्ति । तेऽप्यनवरतप्रसारिणः पटवश्व अर्थप्रतिपादन- चातुर्यात् शुद्धिभृत: व्याकरणसंस्कृतत्वात् । तथा गृहीतपक्षाश्च, गृहीतः स्वीकृतः पक्षः 'नित्यः शब्दोऽनित्यो वेत्यादिकः यैस्ते तथा ॥ ११ ॥ अनुसन्ततीति ॥ अथाकर्षणानन्तरं मितिभर्तुश्चेद्यस्य धनुषः सकाशात् अनुसन्तत्या पतन्तीत्यनु- सन्ततिपातिनोऽविच्छेदपर्तिनः पटुत्वं लक्ष्यभेदपाटवं वाचकन्वशक्तिं च दधतः शुद्धिभृतः लोडशुद्धिभृतः निर्विषा वा, अन्यत्र माधव इत्यर्थः। गृहीतपक्षाः स्वीकृतककादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्या- र्थाः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । शराः वादिनः कथकस्य धदनाच्छन्दाः प्रतिज्ञाहेत्वादय इव प्रसस्रनिर्जग्मुः । श्लिष्टविशेषणेयमुपमेति केचित् । श्लेष एव प्रकृताऽप्रकृतविषय इत्यन्ये॥ गवलाऽसितकान्ति तस्य मध्यस्थितघोराऽऽयतबाहुदण्डनासम् ॥ ददृशे कुपिताऽन्तकोन्नमद्भूयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥ गवलेति ॥ तस्य चेदिपतेः कार्मुकं चापं कुपिताऽन्तकोन्नमद्भू युगभीमाकृति जनेन सैन्यलोकेन ददृशे आलुलोके, कुपितः क्रुद्धो योऽन्तको मृत्युः तस्य उन्नमत् अभिवत् यद् भ्रूयुगं भृकुटीयुगलं तस्येव भीमा भीषणा आकृतिराकारो यस्य तत्तथोक्तं रुषितमृत्युकुटिलभृकुटीयुगलभयानकाऽऽकारम्, किंभूतं कार्मुकं यतः गवलासितकान्ति गव- लस्येव असिता कान्तिर्यस्य तत्तथा महिषविषाणकृष्णच्छवि, अपरं किंभूतं चापं मध्यस्थित- घोरायतबाहुदण्डनासं मध्ये स्थितः अन्तरे वर्तमानो यो घोरो भयङ्करो बाहुदण्डः भुज- रूपो दण्डः स एव नासा नासिका यस्य तत्तथोकम् । भ्रूयुगले हि नासिकया भवितव्यम्॥ गवलति ॥ 'गवलं माहिषं शङ्गम्' इत्यमरः । तद्वदसितकान्ति कृष्णवर्ण मध्ये स्थिता घोरा भीमा आयता च बाहुदण्डो नासा नासिकेव यस्मिस्तत्तथोक्तम् । कुपिनस्याऽन्तकस्य मृत्योरुत्रतं यद् भ्रूयुग तब- दीमा आकृतिर्यस्य तत्तस्य चद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयामिति भावः । उपमालङ्कारः। तडिदुज्वलजातरूपपुरः खमयःश्याममुखैरभिध्वनद्भिः ॥ जलदैरिव रहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥१३॥ तडिदिति ॥ अथ शरौधैः रिपुविशिखपूगैः सं विष्णुपदं पिदधे ब्यानशे, कैरिव जलदैरिव । यथा जलदैौघैराकाशं पिधीयते, तद्वत् । अधुना श्लेषः-किंभूतै शरौधै. जलदैश्च, शरैस्तावत् तडिदुज्ज्वलजातरूपपुरैः तडिद्वत् शम्पेव उज्ज्वला दीप्यमानाः जातरूपस्य सुवर्णस्य पुनः प्रान्तभागा येषां ते तथा तैः, पुनः किंभूतैः शरैः अय:- श्याममुखौः अयसा शस्त्रेण श्याम मुखं येषां ते तथा तैः लोहकृष्णमुखौः, पुनः किंभूतैः . शरैः अभिध्वननिः शब्दायमानैः, पुन: किंभूतैः शरैः यतो रहसा पतद्भिः जवेन सर्गः । शिशुपालवधे । ७२३ : बजनिः, पुनः किंभूतैः शरैः संहतिशालिभिः संहत्या संहतत्वेन शलन्ति यान्ति ते, अथ वा शालन्ते ते संहतिशालिनस्तैः नीरन्ध्रगामिभिः । मेधैरपि, तडिता उज्ज्वलं मनोहरं जातं रूपम् आकारो येषां ते तथा तैः, अयोवत् लोहवत श्याममुश्च तथा अभि. ध्वनद्भिः : तथा रंहसा आटोपेन पतनिश्च, तथा संहतिशालिभिर्बाहुल्यगामिभिः खं पिधीयते । पिदधे इत्यत्र अपेरकारस्य लोपः, 'वष्टि भागुरिल्लोपामित्यनेन ।। १३ ।। तडिदिति ॥ तडिदुज्ज्वला दीला जातरूपस्य हेम्नः पुनः कर्तों येषां तः । अयोक्त् श्याममुखै. भ्यामाप्रैरभिध्वनद्भिर्वनिभिः स्वनपक्षद्भिश्च रहसा वेगेन पतद्भिावद्रिः संहातेशालिभिः सयाहिभिः शरौघेजलदैरिव खमाकाशं पिदधे विहितम् । कणि लिट् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपे. रकारलोपः। उपमालारः॥ १३ ॥ शितशल्यमुखाऽवभिन्न(१)मेघक्षरदम्भःस्फुटतीव्रवेदनानाम् ॥ सवदन(२)ततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ १४ ॥ शितेति ॥ सुवर्णपुङ्खाः कनकप्रान्ताः शराः ककुभां चक्रवालं दिशा वलयम् और्ण. विषुः प्यधुः । किंभूतं दिग्वलयं, शितेति । शितैस्तीत्रैः शल्यमुखैः फलप्रान्तः अवभिन्ना विदीर्णा ये मेघा जलदाः तेभ्यः क्षरत् स्रवत् अम्भः पानीयं. यस्य तत्तथा, अपरं किंभूतं दिशा चक्रवालम् , अतश्चात्प्रेक्ष्यते-स्रवदनतति इव नवन्ती श्च्योतन्ती अनततिर्बाष्पसंहतिर्यस्य तत्तथा क्षरदश्रुधारमिव, किंभूतानां ककुभां यतः स्फुटतीव्रवेदनानां शरप्रहारात् स्फुटा प्रकटा तीवा दुःसहा वेदना पीडा यासां तास्तथा तासां प्रकटदुःसह- पीडानाम् । यो हि शरप्रहारभिन्नः पीडितश्च, सोऽवश्यं बाष्पायते। और्णविषुरिति उणुओ लुङ् , च्ले: सिच इडागमः । विभाषो! रित्यङित्त्वपक्षे 'ऊर्णोतेर्विभाषेति वृद्धि- विकल्पः । आडजादीनाम् , आटश्च ।। १४ ।। शितेति ॥ सुवर्णपुखः सुवर्णकर्तरीकाः शराः शितनिशितैः शल्यमुखैः फलाप्रैः अवदीर्णा अवभिन्ना ये मेघास्तभ्यः क्षरता स्रवता अम्भसा स्फुटा व्यक्ता तीवा वेदना यासा ककुभा तासा सम्बन्धि, सवन्ती अनु. ततिरस्तसन्ततिर्यस्य तदिव शरपहारवेदनया रुददिव स्थितामत्युत्प्रेक्षा । चक्रवालं मण्डलमार्णविषुराच्छादया. मासुः । उति डीडागमे तस्य 'विभाषोर्णोः' इति ङित्त्वाभावपक्षे 'उतेर्विभाषा' इति वृद्धिविकल्पात्पक्षे गुणः । अजादित्वात् 'आटव' इति वृद्धिः ॥ १४ ॥ अमनोहरतां यती जनस्य क्षणमालोकपथानभासदांच(३) । रुरुधे पिहिताऽहिमद्युतिौर्विशिखैरन्तरिताच्युता धरित्री ॥ १५ ॥ अमनोहरतामिति ॥ विशिलेश्वैद्यबाणैः जनस्य लोकस्य नभःसदां च खेचराणां देवानां च आलोकपथादर्शनमार्गात् यथाक्रमं द्यौर्लाम धरित्री भूमिश्च क्षणं रुरुधे रुद्धा निवर्तिता । नभसि हि शरच्छन्ने जनाः तत् नाऽद्राक्षुः, धरां तु रणेक्षणलोला न नम:- सदः । किंभूता यौः पिहिताऽहिमयुतिः छादितदिनकरा, किंभूता धरित्री अन्तरिताऽच्युता स्थगितमाधवा च, अत एव किंभूता चौः धरित्री च अमनोहरतांयती अहृयत्वं प्राप्नुवती ॥ अमनोरमतामिति ॥ विशिखैश्वद्यबाणैः कर्तृभिः पिहिताहिमयुतिस्तिरोहितार्की अत एवाम्मनोरमता यती प्राप्नुवती। हणः शतरि 'उगितच'इति मे । घोराकाशं जनस्य भौमलोकस्य पालोकपथाष्टिमार्गात्मणं करु द्धा ।। रुधैः कर्मणि लिट् । अत्र पथो रोधाऽपायत्वात् 'ध्रुवमपाये-' इति अपादानत्वे पञ्चमी । (१)पदीर्ण। (१) स्रवदल। (३)अमनोरमता.........."या।

७२४ सन्देहविषौषधिसर्वकषायुते- - [विश:- तथाऽन्तरिता च्युता तिरोहिता नष्टा अत एवाऽमनोरमता यती धरिषी नभःसदा वा आलोकपथादुरुधे। वाकारो जनसमुच्चयार्थः । अत्र धरियोः प्रकृतयोरेव रोधास्यतुल्यधर्मयोगात्तुल्ययोगिताभेदो, ताभ्यामेव जनस्य नभःसदी यथासक्यान्चयायथासङ्ग्यालङ्कारः सापेक्षतया सह्यते ॥ १५ ॥ विनिवारितभानुतापमेकं सकलस्याऽपि मुरद्विषो बलस्य ॥ शरजालमयं समं समन्तादुरु सञव नराधिपेन तेने ॥ १६ ॥ विनिवारितेति ॥ नराधिपेन चैयेन सकलस्यापि सर्वस्यापि मुरद्विषो बलस्य शौरेः सैन्यस्य विनिवारितभानुतापं रुद्धरविकिरणम् एकं साधारणं समन्तात् समन्ततोऽखण्ड शरजालमय सायकवृन्दरूपम् उरु महत् सन्म तेने इव भवनमिव कृतम् । तनोत्येवमादौ करोत्यर्थो विद्यते । यथा- लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताऽनलो वर्धितः । एषापि स्वयमेव तुल्यरमणाऽभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा ननु कृतस्तन्व्यास्तनुं तन्वता ॥ विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकम् उरु महत्सव सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात् तेने । कृतमित्यर्थः। तनोते. कर्मणि लिट् ॥ १६ ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य । वयसामिव चक्रमक्रियाकं परितोऽरोधि विपाटपारेण ॥ १७ ॥ इतीति ॥ चेदिमहीभृता शिशुपालेन तदानीं तस्मिन्नवसरे परितः समन्तात् दनु- सूनुसूदनस्य दानवमर्दनस्य तदनीकं सैन्यं समन्तात् अरोधि रुद्धं व्याप्तम् , किंभूतम् कृष्णसैन्यम् अत एवाऽक्रियाक निष्क्रियम्। किमिवाऽरोधि इत्याह-वयसां चक्रमिव पक्षिणां वृन्दमिव । यथा केनचित् पत्रिपूगपारेण जालेन पक्षिणां वृन्द परितो रुध्यते निष्क्रिय च क्रियते । दनुसूनुसूदनादयो नन्धादिषु बोद्धव्याः। षत्वं सूदेनिषिद्धम् ॥ १७ ॥ इतीति ॥ इतीत्थं चेदिमहीभृता चैयेन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीक बलम् । 'वरूथिनी बल सैन्यं चक्रं चाऽनीकमामियाम्' इत्यमरः । पयसा चक्रं पक्षिसङ्घ इव अक्रियाक निश्चेष्टं यथा तथा विपाटयन्तीति विपाटाः शराः । पचायच् । तैरेव पञ्जरेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा ॥१॥ इषुवर्षमनेकमेकवीरस्तदरिप्रस्तुत(१)मच्युतः पृषकैः ॥ अथ वादिकृतं प्रमाणमन्यः प्रनिरास प्रतिवादिवत्(२) प्रमाणैः ॥१८॥ इषुवर्षमिति ॥ अथाऽनन्तरं तत् अरिप्रस्तुतं शत्रुचैधप्रारब्धम् अनेक बहु इषुवर्ण शरदुर्दिनम् एकवीरो महावीरः अच्युतो भगवान् श्रीकृष्णः पृषकैर्बाणैः कृत्वा प्रनि- रास प्रेरयत् । क हव निरासेत्याह-प्रतिवादिवत् प्रतिवादी इव । यथा वादिकृतं पूर्व- पाक्षिकोग्राहितं प्रमाणं हेतुम् अन्यैः प्रणाणैः बलवत्तरैः कृत्वा प्रतिवादी उत्तरपाक्षिको निरस्यति क्षिपति । एकश्चासौ वीरश्चेत्येकवीरः । 'पूर्वकालैकेति समासः । एकशब्दः प्र. धानार्थः । वीरश्रेष्ठ इत्यर्थः । वीरः सर्वगुणान्वितः । प्रकृतार्थसमर्थको हेतुरत्र प्रमाणम्॥१८॥ . (१)प्रध्युत । . (१) प्रतिवादीव निराकरोत् ।

सर्गः।] शिशुपालवधे। ७२५ इषुवर्षामति ॥ अथानीकरोधनाऽनन्तरम् एकवीरो महाशूरोऽच्युतो हरिः अरिपच्युतं शघुगलितं तद. नेकमपरिमिनमिषुवर्ष पृषकैर्बाणः वादिकृतं वादिना प्रयुक्तं प्रमाणमनुमानम् अन्यैः प्रमाणैः प्रत्यनुमानैः प्रतिवादीव निराकरोत् । 'इवेन समासो विभक्त्यलोपश्च' इति समासात्समासगता श्रीती पूर्णोपमा ॥ १८ ॥ परि(१)कुञ्चितकूपरेण तेन श्रवणोपान्तिकनीयमानगव्यम् ॥ ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवाऽनुकारमुच्चैः ॥ १९ ॥ परीति ॥ धनुः कार्मुकम् उचैस्तारं ध्वनति स्म ररास । किंभूतं धनुः तेन भगवता श्रवणोपान्तिकनीयमानगव्यं श्रवणोपान्तिकं कर्णसकाशं नीयमाना प्राप्यमाणा गव्या ज्या यस्य तत् तथा, किंभूतेन तेन परिकुञ्चितकूपरेण वलितबाहुमध्येन, पुनः किंभूतं धनुः घना. न्तमत्तप्रचुरक्रौञ्चरवाऽनुकारं घनान्ते शरदि मत्ताः क्षीबाः तथा प्रचुरा बहवो ये क्रौञ्चा हंसाः पक्षिविशेपा वा तेषां रवाऽनुकारं कूजितविडम्बकं, शरत्कालमाद्यमानक्रौञ्चकूजिततुल्य- कङ्कारमित्यर्थः ॥ १९ ॥ प्रतीति ॥ प्रतिकुञ्चित कूपरेण कुञ्चितकफोणिना । 'स्यात्कफोणिस्तु कूपरः' इत्यमरः । तेन हरिणा श्रवणोपान्तिकं नीयमाना आकृष्यमाणा गव्या ज्या यस्य तत् । 'गव्यं गां हिते गया ज्यायो तीरादिके त्रिषु' इति विश्वः । धनुः शाई घनान्ते शरदि ये मत्ताः प्रचुरा भूरयः क्रौञ्चास्तेषां रवमनुकरोतीति तदनुकारम् । कौञ्च कूजितसदृशं यथा तथेत्यर्थः । कर्मण्यण । उच्चैस्तारं ध्वनति स्म दध्वान । 'लट् स्मे' इति भूते लट् । स्वभावोक्त्युपमयोः सङ्करः ॥ १९ ॥ उरसा विततेन पातितांऽसः स मयूराञ्चितमस्तकस्तदानीम् ॥ क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वाऽपरमुष्टिराबभासे(२) ॥ २० ॥ उरसेति ॥ तदानीं स भगवान् सौष्ठवेन प्रावीण्येन साध्ववस्थानेन क्षणमालिखित. इव आबभासे चित्रन्यस्त इव बुबुधे ज्ञातः। किंभूतः सः विततेन विशालेन उरसा वक्षसा उपलक्षितः, पुनः किंभूतः सः पातितांसः नमितस्कन्धः, पुनः किंभूतः सः श्रीकृष्णः मयूरा- ऽञ्चितमस्तकः बर्हरमणीयशिराः, उग्रीव इत्यर्थः । पुनः किंभूतः सः स्थिरपूर्वाऽपरमुष्टिः स्थिरौ निश्चलौ पूर्वाऽपरौ ज्याग्राहसशरकार्मुकग्राही मुष्टी पाणिबन्धौ यस्य सः तथा, निष्पीडपाणिद्वयबन्धः निश्चलाऽऽकर्पः । लिखितोऽप्येवंविधो भवति ॥ २० ॥ उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरमा उपलक्षितः पातितासो नमितम्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः। उन्नमितमूर्धेत्यर्थः । स्थिरो दृढी पूर्वाऽपरी अमिमचरमौ मुष्टी गृहीतलस्तकमौर्वीको पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थान कपाटवेन हेतुना क्षण- मालिखितो नु लिखित इव आबभौ वा बभासे किम् । नुशब्दो वितीर्थे । 'नु पृच्छायां वितर्के च' इत्य- मरः । वाशन्दोऽपि तादृश इत्युत्प्रेक्षाऽलङ्कारोष्यम् ॥ २० ॥ स्वनतो(३) नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसङ्ख्याः॥ इषवो धनुषः सशब्दमाशु न्यपतनम्बुधरा दिवाऽम्बुधाराः ॥ २१ ॥ स्वनत इति ॥ अथ धनुषः चापात् इषवः सायकाः आशु शीघ्र रयेण न्यपतन पेतः निःसस्नुः । कस्मात् का इव अम्बुधरात् अम्बुधारा इव मेघात् अम्भोवृष्टय इव, किंभूता- धनुषः मेघाच नितरां स्वनतः अत्यणे ध्वनतः, पुनः किंभूतात तडिदाकारचलदगुणात् विद्यु- संस्थानस्फुरन्मौर्वीकात् । मेघो हि तडित्वान् भवति । किंभूता इषवः अम्बुधाराम . (१ प्रति। (२)राबभी वा। (३) वनतो।

-७२६ सन्देहविषौषधिसर्वकषायुते- [विंशः- . गुर्व्यः महत्यः, पुनः किंभूता इषवः अम्बुधाराश्च असङ्ख्याः प्रभूताः । श्लेषः । इषुशब्दः स्त्रीपुंसयोः स्मयते ॥ २१ ॥ ध्वनत इति ॥ ध्वनतो गर्जत: तडित इवाकारो यस्य स तडिदाकारः चलनात्तेजोमयत्वाच्च अचिर- प्रभाऽऽकारचलन् गुणो मोवी यस्य तस्मात् । 'मौवी ज्या शिञ्जिनी गुणः इत्यमरः । धनुषः शाति गुर्यो महन्यः असङ्ख्या अपरिमिता इषवोऽम्बुधरामेघादम्बुधारा यो हवाशु सशब्दं न्यपतन्। अत्रोपमानोपमेययो- रेकलिङ्गताइन्धयादिषुशब्दो द्विलिङ्गोऽपि त्रीलिङ्ग एव प्रयुक्त इति ज्ञापनाय गुर्घ्य इति विशेषणम् ॥ २१ ॥ शिखरोन्नतनिष्ठुरांऽसपीठः स्थगयनेकदिगन्तमायताऽन्तः ॥ निरवणि सकृत्प्रसारिताऽऽस्यः (१)क्षितिभव चमूभिरेकबाहुः ॥ २२ ॥ शिखरेति ॥ अस्य देवस्य एकबाहुः एको भुजः चमूभिः सैन्यैः क्षितिभर्तेव पर्वत. इव निरवर्णि वर्णितः अवगतः । किंभूतः एकबाहुः शिखरोन्नतनिष्ठुरांसपीठः शिखरवत् शृङ्गवत् उन्नतमुच्चं निष्ठुर कर्कशं च अंसपीठं स्कन्धमण्डलं यस्य सः तथा शृङ्गोच्चकठिन- स्कन्धमण्डलः, अपरं किंभूत एकबाहुः एकदिगन्तं स्थगयन एकदिशाभागं पिदधत्, पुनः किंभूतः एकबाहुः आयताऽन्तः दीर्घाऽधोभागः, पुनः किंभूतः सकृदिव प्रसारिताऽऽस्यः एकवारमेव प्रसारितमुरवः, इष्वादानाऽदर्शनात् सततं शरान् क्षिपन्नित्यर्थः । क्षितिभृदपि उच्चकठिनशिखरो भवति, स्थगितेकदिगन्तश्चाऽऽयतश्च ॥ २२ ॥ शिखरोति ॥ शिखरं शङ्गमिवोन्नतं निष्ठुरं चाप्तपीठं यस्य स एकदिगन्तं एकदिग्भागं स्थगयन् आ- यतान्तो दाघिष्ठस्वरूपः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूप निश्चयेऽन्तिके' इति वैजयन्ती । सकृत्पसारितः न तु पुनः पुनरिति स्थैर्योक्तिः । अस्य हरेरेकेबाहुः, चापरोपितो वामबाहुरित्यर्थः। चमूभिः क्षितिभर्तेव भूधर इव निरवर्णि । साधु निरीक्षित इत्यर्थः । ' निर्णनं तु निध्यान दर्शनालोकनेक्षणम्' इत्यमरः ॥ २२ ॥ तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रज परेण ॥ विभिदामनयन्त कृत्यपक्ष नृपतेनेंतुरिवाऽयथार्थवर्णाः ॥ २३ ॥ तमिति ॥ तम् इषुवजं बाणपूगं परेण चैधेन क्षिप्त मुक्तं सुपर्णकेतोर्गरुडध्वजस्य इषवः शराः विभिदाम् अनयन्त भेदम् अनैपुः अभैत्सुः । किंभूता इषवः अकुण्ठमुखाः शितशल्याः, के इव यथा नेतुर्विजिगीषोः अयथार्थवर्णाः असत्याः नृपतेजेंतव्यस्य राज्ञः कृत्यपक्ष भेद्यवर्ग भेदयन्ति । कृत्याः क्रुद्धलुब्धभीताऽपमानिताः । स च भेदः पूर्वम् उक्तस्वरूपः 'अज्ञातदोषैर्दोषरित्यनेन । तेऽपि चराः अकुण्ठमुखाः सप्रतिभाः । विभिदे- त्यन्तः । अयथार्थवर्णा इति तैलपाचिकावच्चरसंज्ञाः॥ २३ ॥ तामिति ॥ अकुण्ठमुखाः निशिताम्राः प्रगल्भगिर सुपर्णकेतोगरुडध्वजस्य हरेरिषवः परेणाऽरिणा मित मुकमिषुब्रजम् अयर्थाथवर्णा असत्याराः कपटवचनाः, उभयवेतना इत्यर्थः । 'कृत्यज्ञेयो यथावर्णचारः प्रणिधिरेष च' इत्युत्पलमाला। नेतु यकस्य जिगीषोः नृपतेः कृत्यपक्षममात्यादिभेषवर्गमिव । 'कृत्या क्रियादेवतयोखिषु भेये धनादिभिः' इत्यमरः । विभिदा भेदम् । विद्भिदादिभ्योछ। अनयन्त । 'स्वरित- त्रितः-'इत्यात्मनेपदम् ॥ २३ ॥ दयितैरिव खण्डिता मुरारेविशिखैः संमुखमुज्ज्वलाऽङ्गलेखैः ॥ लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशराऽऽवलिः पपात ॥ २४ ॥ दयितैरिति॥ शत्रुशराऽऽवलिः वैयेषुपरम्परा पृथिव्यां भूमौ पपात अपतत्। किंभूता (१) प्रसारितोऽस्य। .

सर्गः।] शिशुपालवधे। ७२७ ॥ २४ ॥ शत्रुशरावलिः यत् मुरारेः कृष्णस्य विशिखैः शरैः संमुख खण्डिता अभिमुखं छिन्ना, पुनः किंभूता अतश्च विफला अकृतशरव्यवधलक्षणकार्या सत्यरहिता च, अत एव लघिमान. मुपेयुषी लाघवं प्राप्ता, किंभूतविशिखैः दयितैः प्रियैः अर्थात् कृष्णस्य, पुनः किंभूतैः उज्ज्व- लाऽङ्गालेखैः उज्ज्वला रम्या अङ्गं मूर्तिलखा राजयश्च येषां ते तथा तैः, कैरिव खण्डिता दयितैरिव कान्तैरिव। यथा काचिन्नायिका उज्ज्वलाऽन्लेखैः गौरैः प्रियैः खण्डिता विसं. वादिता अत एव लाघवं प्राप्ता विफला निरर्थकलावण्या च सती भूमौ पतति । खण्डितालक्षणं च- निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखवणविशेषविशेषिताङ्गः यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥ दयितैरिति ॥ उज्ज्वलाः स्फुटा अनेषु लेखाचित्रलेखा नखरेखाश्च येषां तैः मुरारेविशिदयितः प्रियरिव संमुखं समक्ष मेव खण्डिता नुन्ना, अन्यत्राऽवमानिता अत एव विफला विशल्या अलन्धकामा च । अत एव लघिमानमगुरुत्वम् अल्पता चा पैयुषी शत्रुशरावलिः पृथिव्यां पपात । अत्र प्रकृतशरावलिविशेषण- साम्यादप्रकृतखण्डितानायिकाप्रती तेः समासोतिः । दायतरित्युपमा खण्डिताविशेषणाऽन्त पातिवाद- मेव । अत एव तच्च विशेषणमाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भ-वेन च भवतीत्युक्तं सर्वस्वकारः-'ज्ञाते. न्यासङ्गविकृते खण्डितेाकषायिता' इति । साऽप्येवं पृथिव्या पततीति भावः ॥ २४ ॥ प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभ माधवमुक्तवत्सदन्तैः ॥ परिपूर्णतरं भुवो गतायाः परतः(१) कातरषत् प्रतीपमीयुः ॥ २५ ॥ प्रमुखे इति ॥ पत्रवाहाः चैद्यशराः भुवो भूमितः परिपूर्ण तरम् अत्यर्थ गतायाः अतिक्रान्तायाः अपि ततोऽनन्तरं प्रतीपम् ईयुः संमुखम् आयुः प्रत्याजग्मुः । यदि ते कृष्णसमीपं प्राप्ताः, तत्किमिति प्रत्याययुरित्याह-किंभूताः पत्रवाहाः माधवमुक्तवत्सदन्तैः शौरिप्रक्षिप्तभल्लैः प्रमुखे शल्याथें प्रसभं बलात् अभिहताः विद्धाः । के इव प्रतीपमीयु- रित्याह-कातरवत् त्रस्तवत्। यथा कातराः भीरवः परतः सपत्नात् प्रतीपं भयम् अयन्ते आक्रम्याऽपि समयां भुतेपि क्षया(२) समुच्चये ॥ २५ ॥ प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणवैधशराः । कर्मण्यण् । माधवमुक्त वासदन्तः शारि- क्षिप्तशरैः प्रसभं बलात्प्रमुख शल्याने पदने चाऽभिहताः खण्डिताः सन्तः अत एव कातरैः अस्तस्तुल्य कातरवत् । तुल्यार्थे पतिप्रत्ययः । परिपूर्णतर गतायाः । यावन्तव्यं गताया इत्यर्थ । भुषोऽन्तरालभूमेः परितः प्रती प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्प्रावृत्य जग्मुरित्यर्थः । चकारः पूर्व श्लोकोक्का पतनसमुच्चयार्थः । केचित्खण्डितास्तत्रैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरव- दिति तद्धितगता श्रौती पूर्णीपमा ॥ २५ ॥ इतरेतरसन्निघट्ट(३)जन्मा फलसचट्टविकीर्णविस्फुलिङ्गः ॥ पटलानि लिहन् बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥ २६ ॥ इतरेतरेति ॥ अपरेषु अन्येषु इषुषु बाणेषु क्षण क्षणमात्रं कृशानुर्वहिरज्वलत् अज्वाली दिदीपे। किंभूतः कृशानुः इतरेतरसन्निधजन्मा इतरेतरस्य सन्निघटेन सम्पेषणेन (१)परितः। (२) अन्धोऽ स्वलितः। (1) मन्त्रिकर्ष। ..

७२८ सन्देहविषौषधिसर्वकषायुते- [विंशः- जन्मोत्पत्तिर्यस्य सः तथा परस्परसम्पेपसमुत्थः, अपर किंभूतः कृशानुः फलसङ्घविकीर्ण- विस्फुलिङ्गः फलानां शल्यानां सङ्घटेन आस्फालनेन विकीर्णा विक्षिप्ताः विस्फुलिङ्गाः कणा येन सः तथा शल्याभिवातोदीर्णकणः, अपरं किंभूतः कृशानुः बलाहकानां पटलानि लिहन मेघानां वृन्दानि लिहन स्पृशन् क्षिपयन् ॥ २६ ॥ इतरेतरेति ॥ इतरेतरमत्रिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तरपदत्वाद्वशधिकरणोऽपि बहु- वीहिरिष्यते । फलसघनेन शल्यसकट्टनेन विकीर्णा विम्फु लिङ्गा यस्य सः कृशानुराग्निर्बलाहकानां, वारि बहन्तीति बलाहकाः । पृषोदरादित्वात्माधुः । पटलानि लिहत्रास्वादयन् अपरेषु शत्रुषु । 'समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीष्यत । अत्र शत्रुबलाहकानामाग्निदाहास्वादासम्बन्धेऽपि तत्सम्बन्धोने- रतिशयोक्तिः शरदेव(१) शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाऽभ्रजाले ॥ विकसन्मुखवारिजाः प्रकाशं (२)बभुराशा इव यादवध्वजिन्यः ॥ २७ ॥ शरदेवेति ॥ अथ यादवध्वजिन्यः कुकुरवाहिन्यः प्रकाशं बभुः प्रकटमशोमन्त । क सति विभुना देवेन कृष्णेन शरश्रिया सायकसमृद्ध्या कृत्वा शत्रुशिलीमुखाऽभ्रजाले चैद्यबाण- वारिदपटले विभिन्ने नाशिते सति, अत एव किंभूताः यादवध्वजिन्यः विकसन्मुख- वारिजाः प्रफुल्लवदनकमलाः । कया कस्मिन् विभिन्ने सति का यथा भान्ति इत्याह- शरदेव आशा इव। यथा शरदा घनात्ययेन अभ्रजाले मेघपटले क्षिप्ते सति विकसद्वारिजाः विकसत्पद्माः आशाः प्रकाशन्ते शोभन्ते । किंभूतया शरदा शरश्रिया शरैः काण्ड- तृणैः श्रीः शोभाः यस्याः सा तया। उपमानयोदित्वात् इवशब्दावपि द्वावेव युक्ता. वित्यलङ्कारविदः ॥ २७ ॥ शरदीवति ॥ विभुना देवेन का शरश्रिया शरसम्पदा करणेन शरदीव शत्रुशिलीमुखा अभाणीव तेषां जाले विभिन्ने सति, विकासन्ति मुखानि वारिजानीव यास ता' यादवध्वाजन्यः यदुसना आशा दिश इक प्रकामं बभुः । अनकैवेयमुपमा ॥ २७ ॥ स दिवं समचिच्छदच्छरौधैः कृततिग्मद्युतिमण्डलाऽपलापाम्(३) ॥ ददशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनैः सद्विकृष्टा(४) ॥ २८ ॥ स इति ॥ स कृष्णः शरौधैः कृत्वा दिवमन्तरिक्षं समचिच्छदत् ऊर्णनाव । किंभूतां दिवम् अत एव कृततिग्मद्युतिमण्डलाऽपलापां कृतो विहितः तिग्मद्युतिमण्डलस्य रविवि. म्बस्य अपलापोऽदर्शनं यस्याः सा तथा तां विहितरविनिहवाम् । अथ च चापयष्ट्यां धनु- लतायां जनैः सैनिकलोकैः एकैव इषुः सकृत् विकृष्टा ददृशे ऐक्षि, एक एव बाणः एकवार- माकृष्टः लक्ष्यते स्मेति लाघवोक्तिः । च इति विस्मये । न टेकेन शरेण नभश्छायते ॥२८॥ स इति ॥ कृतस्तिग्मद्युतिमण्डलस्याऽपलापो निह्नवो येस्तैः। आच्छादितार्कमण्डलैरित्यर्थः। शरीधे- दिवमाकाशं स हरिः समचिच्छददाच्छादयति स्म। छादेः णौ चम्युपधाया स्वः 'सन्यतः' इत्यभ्यासस्येत्वम् । युनं चतत् , लघुहस्तत्वादस्यत्याशयनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेशापयष्टयामिषुः सकृदेकदा विसृष्टा मुक्का एकैव जनैर्ददृशे दृष्टा च । इषूणां पुखानुपुङगमनाद् द्वापीयानेक एवेषुरेकदैव गच्छतीत्युत्प्रचा। ईदृशलघुडस्तस्याकाशसंछादन युक्तमिति भावः ॥ २८ ॥ भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता। शिशुपालबलानि कृष्णयुक्तः सुतरां तेन तताप तोमरौघः ॥ २९ ॥ (१)शरदीय । (२)प्रकाम। (३) पलापैः। (1) विमृष्टा।

सर्गः।] शिशुपालवधे। ७२९ । भवतीति ॥ तेन हेतुना कूष्णमुक्तः तोमरौधः शरपूगः शिशुपालबलानि सुतरां तताप अत्यर्थमतपत् अपीडयत् । तेन केन, येन हेतुना विपक्षान् आगतः सपत्नान् प्राप्तः सपक्षोऽपि स्ववर्योऽपि निवृतेर्विधाता सुखस्य कारी हि निश्चितं न भवति न स्यात् । यदि हि स्यात्तोमरौधः सपक्षत्वान्न तापयेत् क्षिप्तत्वात् प्रकीर्यव(?) । अथ चोक्तिः-विपक्षा- च्छनोरागतः सपक्षः सखाऽपि न सुखकारीति ॥ २९ ॥ भवतीति । विपक्षाच्छत्रुकुलादागतः सपक्ष: कङ्कादिपत्रवान् सुहृच्च निवृतेर्विधाता सुखकरो न भ. वति हि यतः स्फुटम् । तेन कारणेन कृष्णमुकस्तोमरौधः शिशुपालबलानि सुतरा तताप ददाह । अतः शत्रुकुलादागतः स्वजनोऽपि न विश्वसनीय इत्यर्थः । सपक्षोऽप्यनिर्वर्तक इति विरोधेऽपिशब्दः। विपक्षा- दागत इत्याविरोधाद्विरोधाभासः ॥ २९ ॥ गुरुवेगविराविभिः पतरिषवः काञ्चनपिङ्गलाऽङ्गभासः॥ विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ ३० ॥ गुरुवेगेति ॥ इषवो भगवच्छराः भुवस्तलं विशन्ति स्म पातालं प्राविशन् । किंवत् विनतासतवत् गरुडा इव, कथंभूतं पातालं व्यथितभ्रान्तभुजङ्गमं व्यथिताः दुःखिताः भ्रान्ताः भ्रमन्तः भुजङ्गमाः सरीसृपा यत्र तत्तथा । दैनतेयेषु भुवस्तलं प्रविष्टेषु सत्सु अहयो भीता भ्रमन्तश्च भवन्ति । किंभूताः इपवः पतत्रैः पक्षरुपलक्षिताः, किंभूतैः पतत्रैः गुरुवेगविराविभिः सम्भृतजवशब्दायमानैः, पुनः किंभूताः इषवः काञ्चनपिङ्गलाऽङ्गभासः कनकपिङ्गलदेहद्युतयः । सुपर्णा अपि एवंविधा एव ॥ ३० ॥ गुरुवेगेति ॥ गुरुवेगविराविभिः गुरुणा वेगेन विरुवन्ति ध्वनन्तीति तथोक्तः । रोतेणिनिः । शीघ्रवेग- विराववद्भिः पतत्रः परुपलक्षिताः, काञ्चनेन पुङ्खलिप्तेन पिङ्गलाऽङ्गभासः, अन्यत्र काञ्चनवदिति विग्रहः । इषकः शारिशराः विनतामुतवदैनतेयैस्तुल्यं व्यथिता भीषिता अत एव भ्रान्ता मूढा भुजङ्गमा यस्मिस्तत्तथा भुवस्तलं पातालं विशन्ति स्म । तद्धितगता श्रौती पूर्णोपमा पातालप्रवेशासम्बन्धातिशयोक्त्या सङ्कीर्यते ॥ शतशः परुषाः पुरोऽपशङ्क(१) शिशुपालेन शिलीमुखाः प्रयुक्ताः ॥ परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ ३१ ॥ शतश इति ॥ शिशुपालेन पुरोऽने अपशङ्ख निर्भयं यथा स्यात्तथैव प्रयुक्ताः प्रेरिताः शिलीमुखाः दानवारेः दैत्यरिपोः कृष्णस्य व्यथां न वितेनुः पीडां न अकार्षः । किंभूताः शराः शतशः बहवः,पुनः किंभूताः परुषास्तीक्ष्णाः, पुनः किंभूताः परमर्मभिदोऽपि अरुन्तुदा अपि एवंभूता अपि न व्यथयन्तः, के इव अपराधा इव । यथा अनेन पुरोऽग्रेऽपि परुषाः कर्णकटुकाः परमर्मभिदः अरुन्तुदाः अपि अपराधाः निन्दावचनानि विशई प्रयुक्ता- अपि श्रीकृष्णस्य व्यथां न वितेनुः कोपं नाऽजीजनन् ॥ ३१ ॥ शतश इति ॥ शिशुपालेन पुरोऽने विशङ्क निःशएं शतशः प्रयुकाः क्षिप्ताः उच्चारिताम परुषाः निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः, शतशः अपराधाः पञ्चदशसोकाः अभिशापा इव दानवारे- ईरर्व्यथा दुःख न वितेनुः । खलाम्पकारा महतामाकधित्करा इति भावः । सभासगतोपमा ॥३१॥ विहिताऽद्भुतलोकसृष्टिमाये जयमिच्छन् किल मायया मुरारौ। भुवनक्षयकालयोग्य(२)निद्रे नृपतिः स्वापनमनमाजहार ॥ ३२ ॥ विहितेति ॥ नृपतिः वैद्यः मुरारौ श्रीकृष्णे प्रस्थापनं नैद्रम् आयुधम् माजहार (१) पुरो विशई। (२) योग। .. -- ७३० सन्देहविषौषपिसर्वपायुते- [विंशः- . प्रयुयुजे । किंभूतः नृपतिः यतो मायया बलेन जयमिच्छन् जिगीषुः,किंभूते मुरारौ विहिता- ऽद्भुतलोकसृष्टिमाये विहिता कृता अद्भुता आश्चर्यरूपा लोकानां भुवनानां सृष्टिरूपा सर्गरूपा माया येन सः तथा तस्मिन् , पुनः किंभूते मुरारौ भुवनक्षपकालयोग्यनिद्रे भुवनक्षयकाले कस्पान्तसमये योग्या उचिता निद्रा प्रस्थापो यस्य तथा तस्मिन् । किले- त्युपहासे, यः किल आत्मना मायिकः तं मायया स जिगीषति, यश्च कल्पान्त. समये निद्रालुः तस्य स्वापनमस्त्रं मुञ्चति । मायावी मायिको मायी । स्वापय- तीति स्वापनम् ॥ ३२ ॥ विहितेति ॥ नृपतियो विहिता अद्भुता लोकसृष्टि रखे माया यस्मिस्तस्मिन् भुवनक्षयकाले प्रलय- काले । न विदानीमिति भावः । उचिता योगनिद्रा यस्य तस्मिन्मुरारी मायया जयमिच्छन् कित्व, न तु जेष्यतीति भावः । स्वापयतीति स्वापनमममाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टि- संहारमहानाटकसूत्रधारे सर्वाम् भुतनिधाने सकलकलुषकषणपटुतराभिधाने पुराणैन्द्रजालिके भगवति हरावपि मायया जिगीषत्यहो ! महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम सलिलाऽऽर्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ॥ प्रचलायित(१)लोचनारविन्दं विदधे तद्वलमन्धमन्धकारः ॥ ३३ ॥ सलिलादेति ॥ अथ तद्वलं तस्य भगवतः बलं सैन्यं श्रीकृष्णसैन्यं कर्म अन्धकारः तमः अन्धं विदधे विदृष्टि चकार । किंभूतं तदलं यतः प्रचलायितलोचनारविन्दं प्रचला- यितानि मुकुलायमानानि लोचनारविन्दानि नयनकमलानि यस्य तत्तथा निद्रायमाण- नयनकमलं, किंभूतोऽन्धकारः सलिलार्द्रवराहदेहनीलः उदकप्लुतकोडकायकृष्णः, अपर किंभूतोऽन्धकारः भास्करम् अर्थशून्यसंज्ञं विदधत् प्रभाकरम् अभिधेयरहितनामानं कुर्वन् , प्रवृत्तिनिमित्ताभावात् , अथ महिम्ना तमसो बलीयस्त्वात् ॥ ३३ ॥ सलिलाद्रेति ॥ सलिलेनार्दो यो वराहदेहस्तद्वन्नीलः, भासं प्रकाशं करोतीति भास्करः । 'दिवाविभा- इत्यादिना टप्रत्ययः। तम् , अर्थशून्या भास्करत्वरूपप्रवृत्तिनिमित्नशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरलोकमभिभवन्नित्यर्थः । अन्धं करोतीत्यन्धकारः स्वापकाऽमप्रभवतमः । कर्मण्यण् । प्रचलानि निद्रा- पूर्णितानि आयतलोचनान्येवाइरविन्दानि यस्मिन्कर्मणि तत्तथा, सूर्यतिरोधाने रविन्दमुकुलीमावस्यावश्यंभावा- दिति भावः । तदलं हरिमन्यमन्धमपश्यं विदधे । निद्रा प्राविशदित्यर्थः । अचाहन्धमन्धेति सकृयजनयुग्म. पानरुक्त्यादृत्यनुप्रामभेदः, तस्य पराहदेहनीललोचनारविन्देन्युपमारूपकयोः संसृष्टिः ॥ ३३ ॥ गुरवोऽपि निषध यन्मिदुर्धनुषि क्षमापतयो न वाच्यमेतत् ॥ क्षपिता(२)ऽऽपदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः॥३४॥ गुरवोऽपोति ॥ नित्यं जाग्रतोऽपि जागरूका अपि ते भूपालाः क्षपिताऽऽपदि नाशितविपदि तत्रैव धनुषि एव निषण्णा अभवन् सक्ता बभूवुः । अतश्चाऽशयिता अपि ये धनुषि निषण्णाः, तेषां एसानां तत्र निषदने का वाच्यता ॥ ३४ ॥ गुरवोऽपीति ॥ गुरवो धीराः क्षमापतयोऽपि धनुषि निषय शयित्वा निददुः सुषुपुरिति यत्, एतत् धनुषि निद्वाणं वाच्य निन्ध न भवति । कुतः-हि यस्मात् ते मापतयो जाग्रतोऽपि प्रबुद्धा अपि । जागर्तेः शतरि अस्य 'अक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । शयितापदि , सर्वापत्रिवा- रके इत्यर्थः । तत्रैव धनुषि नित्यं निषण्णाः संश्रिता अभवन्ननु । जागरेऽपि धनुरेकशरणानां स्वापे तदाश्रये न दोष इत्यर्थः । भत्र सदा धनुराश्रयवाक्यार्थस्यावाच्यताहेतुत्वाद्वाक्यार्थहेतुकं कायलिङ्गम् ॥ ३४ ॥ .. (१) प्रचलाध्यत। (१)अयिता।

सर्गः।] शिशुपालवधे । ७३१ .. । . .. श्लथतां व्रजतस्तदाऽपरेषा(१)मगलद्धारणशक्तिमुज्यतः स्वाम् ॥ सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवाऽस्त्रमनपाणेः ॥ ३५ ॥ श्लथतामिति ॥ तदा अपरेषामन्येषां राज्ञां प्रमादभाजां मूढानां सताम् अग्रपाणे: कराग्रात् अस्त्रमायुधं सुगृहीतमपि दृढाऽवष्टब्धमपि अगलदनस्यत् । किंभूतात् अप्रपाणे: यतो निद्रावशात् श्लथतां व्रजतः शिथिलतां प्राप्नुवतः, पुनः किंभूतादग्रपाणेः अतश्च स्वां निजां धारणशक्तिमवष्टम्भनसामर्थ्यम् उज्झतस्त्यजतः । कुतः किमिव अगलदित्याह- मनसः शास्त्रमिव । यथा प्रमादभाजां प्रमादिनां मनसः चित्तात् मुगृहीतमपि सुशिक्षितमपि शास्त्रम् गलति ग्रन्थसन्दर्भः अपयाति । मनसोऽपि श्थतां व्रजतः स्वां धारणशक्तिमुन्झतश्च ॥ ३५ ॥ श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये । यथा तेषां धनुराश्रयणं तथाऽन्येषां धनुर्गलन चाभूदित्यर्थः । श्लथता प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजी धारणशाक वाहनसामर्थ्यम् उज्झतः त्यजतः परेषां राज्ञाम् । अग्रं चासौं पाणिश्वेति समानाधिकरणसमासः, हस्ताप्राग्रहस्तादयो गुणगुणिोंभेदा- भेदादिति वामनवचनात् । तस्मादप्रपाः सुगृहीतं सुष्टु धृतमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजा गुण- निकाद्यवधानरहिताना मनसश्चित्तात शामं विद्येव असमगलदभ्रश्यत् । निदापारवश्यादित्यर्थः । इवन सह समासात्समासगता श्रौती पूर्णोपमा ॥ ३५ ॥ उचितस्वपनोऽपि वारिराशौ बलयादोनिधि(२)मध्यगस्तदानीम् ॥ भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ॥ उचितेति ॥ तत्र रणे स भगवान् परः पुमान् परमपुरुषः परं केवलम् अजागः जजागार, न सुष्वापेत्यर्थः । किंभूतः परः पुमान् बलयादोनिधिमध्यगः सैन्याऽर्णवा- न्तर्गतः । कदाचिदर्णवमध्येऽसौ न शयीतेत्याह-पुनः किंभूतो हरिः वारिराशौ जलनिधौ उचितस्वपनोऽपि अभ्यस्तनिद्रोऽपि, पुनः किंभूतः परः पुमान् भुवनत्रयकार्यजागरूकः जगत्त्रितयहितसावधानः, यतः किल तस्मिन् सुप्ते जगन्ति नश्यन्ति । अतिशयेन जाग- रणशीलो जागरूकः । स परस्तत्र पुमानजागरेकः' इति पाठान्तरम् ॥ ३६ ॥ उचितति ॥ नारराशी समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भो. निधिमध्यगः स्वसेनासागरमध्यगतः । 'बलपाथोनिधि' इत्यपि पाठः । भुवनयकायें त्रैलोक्यरक्षाविधी जागरूकः प्रबुद्धः। जागरूंक' इत्यूकप्रत्ययः । परः पुमान परमपुरुष: परं केवलं, हरिरेषत्यर्थः। परमव्यम- मिच्छन्ति केवले' इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वाऽन्धकारहारिणो नित्यप्रकाश- चिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्रेति भावः । जागर्तेलुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुक- गुणे रपरे 'हल्याप्-' इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोध- परिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्याविरोधाभाससङ्कीर्ण काव्यलिङ्गम् ॥ ३६॥ अथ सूयरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् ॥ पटु धाम ततो न चाऽद्भुतं तद्विभुतिन्द्वर्क(३)विलोचनः किलाऽसौ॥३॥ अथेति ॥ अथाऽनन्तरं तस्य देवस्य श्रीकृष्णस्य दृष्टौ दृशि कौस्तुभमेव दर्पणं गतायां सत्यां कौस्तुभादर्श प्राप्तायां, ततः कौस्तुभदर्पणात् पटु चण्डं धाम तेजः उदभूत् उदति- छत्। कस्यामिव सूर्यरुचीव सूर्यस्य रुक् दीप्तिः तस्यां श्रीसूर्यदीप्तौ आदर्शबिम्बं गतायां (१)तथा परेषा (२) नीरराशी स्वबलाऽम्भोनिधि । (३)रन्दु। 0 ७३२ सन्देहविषौषधिसर्वकषायुते- [विश:- सत्यां यथा तेज उद्भवति, तन्न अद्भुतम् । एवं मणेदेवदृशि । न चैतदद्भुतं न चार्यम्, यस्मादसौ देवः किल इन्दर्कविलोचनः चन्द्रार्कनयनो भवति । 'चन्द्रादित्यौ चक्षुषी' इति श्रीभागवतोकत्वात् । अथ यथोपमाने नाश्वयं, तथाऽत्रापि ॥ ३७ ॥ अथेति । अथाऽन्धकारव्याप्त्यनन्तरं तस्य हरेर्दष्टौ चक्षुषि । तेजसीत्यर्थः । सूर्यरुचीव सूर्यतेजसी- व । कौस्तुभो दर्पण स्वेत्युपमितसमासः, सूर्यरुचीवेति लिङ्गात् । तं कौस्तुभदर्पणं गतायो प्रविष्टायां सत्या ततः कौस्तुभात पटु मन्धिकारद्रावणे समर्थ धाम तेज उदभूदुदगात् । तद्धामोद्भवनं न चाऽद्भुतं, कुन:-असो विभुभंगवान् अन्दू विलोचने यस्य, सकिल खलु । अनस्तचक्षुषोः सूर्यात्मकत्वानदभिहता- कौस्तुभाइर्पणादारेव धामप्रादुभावो व्यज्यत इत्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३ ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुम्मुखेषु ॥ व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ ३० ॥ महत इति ॥ सः मणेः अंशुचयः कौस्तुभस्य किरणनिकरः ककुम्मुखेषु दिङ्मुखेषु व्यकसत् प्रससार । किंभूतो मणेरंशुचयः विकसद्विलोचनेभ्यः उन्मिषन्नयनेभ्यः बलेभ्यः सैन्येभ्यः अनाविलमकलुषम् आलोकं दर्शनं ददत् वितरन् । पूर्व हि तानि प्रचलायित- लोचनानि अभवन् । क इव केषु विकसतीत्याह-महतः प्रसादः उत्तमस्य प्रसन्नता प्रणते- विव । यथा झुत्तमस्य प्रसादः प्रणतेषु सेवकेषु विकसति । सोऽपि नेत्रविकासं ददाति । तुष्टे हि प्रभौ लोचनानि प्रसरन्ति ॥ ३८ ॥ महत इति ॥ स पूर्वोक्तो मणेः कौस्तुमस्याशुचयः, विकसन्ति उन्मीलन्ति विनोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसत्रमालोके दर्शनं तत्त्वज्ञानं च ददव प्रतियच्छन् महतो महात्मनः प्रसादोऽनुग्रहः प्रणतषु भक्केष्विव ककुम्मुखेषु ककुभामग्रेषु व्यकसदमूर्छत् । पूर्णोपमा ॥ ३८ ॥ प्रकृति प्रतिपादुकैश्च पादश्चक्लपे भानुमतः पुनः प्रसर्तुम् ।। तमसोऽभिभवादवाप्य(१) मूर्छामुदजीवत्सहसैव जीवलोकः ॥ ३९ ॥ प्रकृतिमिति ॥ भानुमतः पादैः खेः किरणैः पुनर्भूयः प्रसतुं चक्लुपे प्रसरणाय प्रव- य॑ते स्म प्रसुतम्। किंभूतैः पादैः यतः प्रकृति प्रतिपादुकैः स्वभावं तेजोरूपं प्रतिपन्नैः, अत एव जीवलोको जगत् सहसैव उदजीवत् तत्क्षणमेव प्राणितं उच्छ्वासितम्, किं कृत्वा तमसोऽधकारस्य' अभिभवात् ध्वान्तकृतपरिभवात् मूर्छामवाप्य मोहं प्राप्य । चक्लपे इति भावे, कृपो रो लः ॥ ३९ ॥ प्रकृसिमिति ॥ प्रकृति स्वभावं प्रतिपादुकैः प्रतिपद्यमानः । 'लषपतपद-' इत्यादिना उकब्प्रत्ययः। 'न लोक-' इत्यादिना षष्ठीमातषेधः । भानुमतोऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसतु चकल्पे शेके। क्लपू सामर्थे, भावे लिट् । 'कृपो रोलः' इति ऋकारस्थस्यापि रेकस्य लकारः । जीवलोकः प्राणिवर्गव तमसोडन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । सहसैव मूईमपास्य उदजीवदुदश्व सीत् । अत्रोज्जीवनस्याऽर्ककरप्रप्तारहेतुकत्वाद्वाक्यार्थहेतुकं कायलिङ्गम् ॥३९॥ गत(२)सन्तमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ॥ ननु चारिधरौघ(३)रोधमुक्तः सुतरामुत्तपते पतिःप्रभाणाम् ॥ ४० ॥ गतेति ॥ यदुयोधैः शौरिबलैः गतसन्तमसैनष्टमोहैः सनि यो जवेन वेगेन द्विषन्तो- ऽरातयो रेधिरे जनिरे । ननु यस्माखेतोः वारिधरौघरोधमुक्तः मेघपटलानिर्गतः प्रभाणां .. .. . (१) ०दपास्य । (२) घन। (1) धरोपरोध।

संगः । ] शिशुपालवधे । पतिः भास्करः सुतराम् उत्तपते अत्यर्थ दीप्यते । 'उद्विभ्यां तप' इत्यात्मनेपदम् । रेधिरे इति कर्मणि, 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । ननु हेतौ ॥ ४० ॥ घनेति ॥ घनं सान्दं सन्तमसमन्धकारो येषु । 'अबसमन्वेभ्यस्तमसः' इति समासान्तोच प्रत्ययः । 'गत' इति पाठे गतं सन्तमसं येषां तैः यदुयोर्यादवभटैर्भूयः पुनरपि जोन युधेि द्विषन्तो रेधिरे जिहि- सिरे । हता इत्यर्थः। राध्यतेः कर्मणि लिट् । राधो हिसायाम्' इत्यत्वाभ्यासलापौ ।तथा हि-वारिधरोपरोधात् मेघापवरणान्मुक्तः प्रभागा द्युतीनां पतिरः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । उदिभ्यो तपः' इत्या- स्मनेपदम् । अत्र यदुयोधानां द्युतिपतेश्च व क्यभेदेन प्रतिबिम्ब करणाद् दृष्टान्तालङ्कारः । न चोप मानोपमे- ययोमित्रवचनावदोषः । लोके चन्द्रादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥४०॥ व्यवहार इवाऽनृताऽभियोगं तिमिरं निर्जितवत्यथ प्रकाशे ॥ रिपुरुत्फण(१)भीमभोगभाजां भुजगानां जननी जजाप विद्याम् ॥४१॥ व्यवहार इति ॥ अथाऽनन्तरं रिपुः अर्थात् श्रीकृष्णस्य शत्रुः चैद्यः भुजगानां जननी सर्पाणामुत्पादयित्री विद्यां जजाप मन्त्र जपितवान् । किंभूतानां भुजगानाम् उत्फणभीमभोगभाजाम् ऊर्ध्वकन्धरघोरशरीरजुषाम् । कदा जजापेत्याह-क सति प्रकाशे कौस्तुभालोके तिमिरमन्धकारं निर्जितवति सति जयिनि सति । कस्मिन्निव किं, व्यवहारे न्याये अनृताऽभियोगमिव अलीकयोगं यथा । निर्जितवति 'धनमयं मे धारयतीति अलीक- वादी साक्षिलेख्याभावात् बुद्धया जीयते । भिन्न विभक्तिकानामौपम्यं दुर्घटमिति व्यवहार- शब्दात् प्रकाशानुरोधे सप्तम्युत्पत्तिः ॥ ४१ ।। व्यवहार इति । व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनामेव प्रकाशे कौस्तुभतेजसि तिमि प्रस्थापनान्धकारं निर्जितवति निरस्लपति सति, अवैतन्निरसनाऽन्तरं रिपुश्चैय उल्ब गान्महतो भीमांश्च भोगान कणान् कायांश्च भजन्तीति नद्भजः । 'भोगः सुख स्यादिभृतावहेश्च कगकाययोः' इत्यमरः । भुजगाना जननीमुत्पादिकां विद्या मन्त्रं जजाप जपति स्म । भुजगास्त्रमाजहारत्यर्थः । उल्बणेत्यत्र क्वचिदुत्कणेति पाठः। उपमालङ्कारः॥४१॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारवं वमन्तः ॥ अभवन् युगपद्विलोलजिह्वायुगलोढोभयसमभागमाविः ॥ ४२ ॥ पृथुद:ति ॥ ततः विद्याजपाऽनन्तरं फणीन्द्राः महाश्रेष्ठाः सर्पाः आविरभवन उद- पद्यन्त । किंभूताः फणीन्द्राः पृथुर्विभृतः दीर्घभोगभाजः । दर्वी नासिकाका टिकायाव. देहः। अपरं किंभूताः फणीन्द्राः आशीभि: दंष्ट्राभिः अनारतं सततं विषं वमन्तः गरलं मुञ्च- न्तः। कथमाविरभवन, युगपत् विलोलजिह्वायुगलीढोभयसृक्कभागं यथा भवत्येवं युगपत्सम- कालं विलोलेन चटुलेन जिह्वायुगेन रसनाद्वयेन लोढौ स्पृष्टौ उभौ द्वौ सृकभागौ आस्य- पर्यन्तदेशो यत्राऽऽविर्भावे । व्यवहितप्रयोगोऽत्र न तथा त्याज्यः ॥ ४२ ॥ पृथुिदति ॥ ततो भुजगामप्रयोगानन्तरं पृथुदविभृतः, महाफणाधारिण इत्यर्थः। अत एव 'द करो दीर्घपृष्ठ' इत्यन्न दवारूप: कण एवं करो हस्तो यस्य पहारादाविति व्यारुपातम् । आशीभिर्दष्ट्राभिः । 'आशीः उरगदंष्टायाम्' इति वैजयन्ती। अनारतमश्रान्तं विषं वमन्त उनिरन्तः फणीन्द्रा महासपीः विलोले- अञ्चलैर्जिायुगैलीढावास्वादितावुभौ मुक्कभागावोष्ठपान्तदेशौ यस्मिकर्मणि तत्तथा । 'प्रान्तावोष्ठस्य मुक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदानो नित्यम्' इति नित्यग्रहण सामर्थ्यावृत्तिविषये उम- (१)रुल्बण। ६२शि०व० ७३४ सन्देहविषौषधिसर्वकषायुते- [विंशः- । - शब्दम्य स्थानपि उमयशम्दस्यैव प्रयोगः, उभयपुत्र इत्यादिप्रयोगसिद्धेरिति कम्युक्तमस्माभिः प्रकटित बहुधा सञ्जीविन्यां घण्टापथे सर्वकषायां च तत्र तत्र । स्वभावोक्किरलकारः ॥ १२ ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमच्छुिभिश्छलेन ॥ अमृताऽप्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः॥ ४३ ॥ कृतेति ॥ कान्वेयैः कदूपुत्रैः नागः विहायः खम् अवारि व्यानशे । किंभूतैः काद्र- वेयैः कृतकेशविडम्बनैः कृतं विहितं केशानां कचानां विडम्बनमनुकरणं यैस्ते तथा तैः विहितकचानुकारैः । काष्ात् बालसदृशैरित्यर्थः । अपरं किंभूतैः कान्वेयैः तत्क्षणं तत्काल छलेन मायया विजयमिच्छुभिः परपरिभवमभिलाषुकैः। किमिवाऽवारि पुरा पूर्व वडवाभर्तुः हयापतेः अश्वस्य पुच्छमिव वालधिरिव । यथा पूर्व वडवाभर्तुः पुच्छं कावेयैः अवारि आवृतम् । कस्य वडवाभर्तुः अमृताऽग्रभुवः अमृतज्येष्टस्य, उच्चैःश्रवस इत्यर्थः । अमृतस्याये प्रथमं बभूव सः अमृताऽग्रभूस्तस्य। किंभूते गैः कृतं केशेषु विडम्बनं वाल. धिषु आलम्बो विच्छित्तियैस्ते तथा तैः, पुनः किंभूतैः छलेन विजयमिच्छुभिः । एवं हि श्रूयते-पुरा हि दक्षप्रजापतेर्दुहितरौ कश्यपभायें कदूविनताख्ये देवेन्द्रस्य गच्छन्तमश्च वि- लोक्य इति व्यवदेताम् । तत्र पूर्वा कदूराह-अहो! उच्चैःश्रवसः पुच्छं कृष्णमिति । अपरा तु श्वेतमित्याह । ततस्ताभ्यां विवदन्तीभ्यां(?) दासभावाय पणः कृतः। ततः कपटमाश्रिता कद्रूः विषण्णा नागान् सतान् आहूयाऽऽह-हे पुत्राः ! शारदपार्वणचन्द्रसन्निभमुच्चैःश्रवस- मश्वराजं यूयं कृष्णवालधिं कुरुत । ततश्च शेषवासकिप्रमुखा धर्मिष्ठा नागपञ्चशती ता. माह-हे रभसकृतप्रतिज्ञे! कथमेवं विवादं चकार भवती । त्वं नो माता, सापि धर्मिष्टा स्वत्स्वसा, किमत्र कर्तुमस्माकं शक्यम् । अपरे त्वाहुः-अम्ब ! धीरा भव, वयमश्वे. न्द्रस्य पुच्छं प्रविश्य कृष्ण कुर्म इत्युक्त्वा प्राविक्षनिति ॥ ४३ ॥ कृतति ॥ कृतकेशविडम्बनैः काद्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' इति उप्रत्ययान्तो निपातितः, 'न लोका' इत्यादिना षष्ठीप्रतिषेधः । विहायः भाकाशं तत्क्षणं काद्रवे यैः कद् पुत्रैः फणीन्द्रः । 'मीभ्यो ढक्' इति ढक् । पुरा पूर्वमिघ अमृताप्रभुवोऽमृताग्रजस्य वडवाभर्तुः उचैःश्रवसः पुच्छम् अवारि आवृतम् । वृतेः कर्मणि लुङ् । पुरा किल कविनतयोः कश्यपभार्ययोहच्चैः- अवसः पुच्छस्य कार्ण्यश्वैत्यविधादे दास्यपणे कावेयैः स्वमातुर्विजयाय गृहीतबालाकाररुच्चैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसन्धेया । उपमा ॥ ४३ ॥ दधतस्तनिमानमानुपूर्त्या बभुरक्षिश्रवसो मुखे विशालाः ॥ भरतक्षकविप्रणीतकाव्यप्रथिताऽङ्का इव नाटकप्रपञ्चाः ॥ ४४ ॥ दधत इति ॥ अक्षिश्रवसो नागा बभुः, अक्षीण्येव नयनान्येव आकर्णनात् श्रवांसि श्रोत्राणि येषां ते तथा ते शुशुभिरे। किंभूताः नागाः मुखे विशालाः वदने पृथुलाः, पुनः किंभूताः आनुपूर्ध्या तनिमानं दधतः तानवं बिभ्रतः । पुनः किंभूताः, उप्रेक्ष्यन्ते-नाटकप्रपञ्चा इव नाटकविस्तारा इव । किंभूताः नाटकप्रपञ्चाः, भरतज्ञकवि. प्रणीतकाध्यग्रथिताडाः भरतज्ञेन नाटकशास्त्रसन्दर्भविदा कविना प्रणीतं रचितं यत्काव्य कविकर्म तेन वस्तुना प्रथिताः सम्बद्धा अङ्काः परिच्छेदा येषां ते तथा, नाटकशास्त्रविद्वदू- विरचितश्लोकबद्धपरिच्छेदा इत्यर्थः । अत एव मुखे विशालाः मुखसन्धौ विस्तीर्णाः । सर्वस्य नाटकीयस्य वस्तुनः उपक्षितत्वात्ततः क्रमेण मुखप्रतिमुखगर्भविमर्शनिर्वहणसन्धिषु .

सर्गः ।]] शिशुपालवधे। ७३५ . तानवं दधतः, उत्क्षिप्तस्यार्थस्य समाप्तत्वात् । ब्राह्मगादेराकृतिगणत्वात् काव्यशब्द: साधुः । अन्यथा हि 'इगन्ताच लघुपूर्वा'दित्यण स्यात् ॥ ४४ ॥ दधत इति ॥ मुखे मुखभागे मुखसन्धी च विशालाः विस्तृता आनुपूा अनुक्रमेण तनिमानं तनुवं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसन्धिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षि- श्रवसः सर्गः, भरतज्ञो नाटकशामज्ञः । भरतो 'नाट्यशावि' इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म, लक्षणया काव्यार्थः कथावस्तु । ब्राझगादित्वात् ध्यञ् प्रत्ययः । तेन प्रथिता गुम्फिना. अदाः परिच्छेदरूपा अवान्तरसन्दर्भविशेषा येषु ते तथोका नाटकपपञ्चा नाटकविस्तारा इव बभुरित्युपमा । 'प्रबन्धा' इति क्वचित्पाठः। 'प्रत्यक्षनेतृचारितो बिन्दुबीजपुरस्कृतः । अको नानाप्रकारार्थसंविधानरमाश्रयः॥ इति अङ्कलक्षणम् । 'मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहतिः । इति सन्धयः ॥ ४५ ॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ॥ उपरागवतेव तिग्मभासा वपुरोदुम्बरमण्डलाऽऽभमूहे ॥ ४ ॥ सविषेति ॥ तिग्मभासा तीक्ष्णांशुना सूर्येण उपरागवतेव राहुग्रहगृहीतेनेव विधु- न्तुदग्रस्तेनेव वपुः बिम्बम् औदुम्बरमण्डलाऽऽभम् ऊहे ताम्रचक्रामें एतम् । किंभूतं वपुः पन्नगानां गूढपादानां नागानां सविपश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि सविषेण गरलवता श्वसनेन फूत्कारवातेन उद्धतस्तीव उरुर्महान् यो धूमः तेन यो व्यवधिः अन्तर व्यवधानं तेन म्लाना निस्तेजस्का मरीचयः किरणा यस्य तत्तथोक्तम् । उपरागेऽप्येवंविध- मेव भवति ॥ ४५ ॥ सविषेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासयतेव । राहुग्रस्तेनेवेत्यर्थः । 'उपरागो ग्रहो राहुप्रस्ते विन्दौ च पूष्णि च' इत्यमरपचनं ग्रामस्याप्युपलक्षणम् । पन्नगाना सविषैः श्वसनैः फूत्कार- रुद्धृतेनोरुधूमेन यो व्यवधिस्तिरोधनं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलामं ताम्रपिण्डसच्छायम् । 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखव्यष्टवरिष्ठोदुम्बराणि च'। इत्यमरः । वपुरूहे उढम् । वहः कर्मणि लिट् , यजादित्वात्सम्प्रसारणम् ॥ १५ ॥ शिखिपिच्छकृतध्वजाऽवचूल(१)क्षणसाशङ्कविवर्तमानभोगाः ॥ यमपाशवदाशुबन्धनाय न्यपतन वृष्णिबलेषु(२) लेलिहानाः ॥ ४ ॥ शिखिपिच्छेति ॥ लेलिहानाः सर्पाः यमपाशवत् कालपाशा इव वृष्णिबलेषु यादव- सैन्येषु बन्धनाय बन्धनार्थ क्षिप्ताः न्यपतन् निपेतुः, योधान् बद्ध प्राविशन् । किंभूताः लेहिलानाः शिखिपिञ्छकृतध्वजाऽवलक्षणसाशङ्कविवर्तमानभोगाः शिखिपिच्छैः मयूर- पक्षः कृता विहिता ये ध्वजाऽवचूलाः केतनावतंसाः तेभ्यः क्षणं किञ्चित्कालं साशङ्काः अस्ताः ते शिखिपिच्छकृतध्वजाऽवचूलक्षणसाशङ्काः, अत एव विवर्तमानोऽपराधमुखीभवन् भोगो देहो येषां ते तथा, ततः कर्मधारयः । शिखिनो हि सर्पान् भुम्जत इति त्रस्तत्वे हेतुः । अत्यर्थ लिहन्तीति लेलिहानाः, यजनाललिहोविकटमानश्च(१) ॥ ४६ ॥ शिखिपिच्छेति ॥ पुनःपुनलहनशीला लेलिहानाः सः । लिहेर्यलुगतानाछील्ये चानश्प्रत्यय (१)04चूडा (२) गणेषु।

७३६ सन्देहविषौषधिसर्वकषायुते- [विंशः- .. 'गुणोः यल्लुकोः' इत्यभ्यासस्य गुणः। लिहेलिटः कानजिति वल्लभः । तदानीमभ्यासगुणाऽनुपपत्ति: भूतार्थाऽसङ्गतिश्च । शिखिपिच्छै मयूरबहः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णभ्यः क्षणं साशङ्काः जीवन्मयूर- प्रात्या सभयाः अत एव विवर्तमानकायाः व्यावृत्तदेहाः सन्तः आशु वृष्णिगणेषु यादवसङ्केषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः ॥ १६ ॥ पृथुवारिधिवीचिमण्डलाऽन्तर्विलसत्फेनवितानपाण्डुराणि ॥ दधति स्म भुगङ्गमाऽङ्गमध्ये नवनिर्मोकरुचं (१)ध्वजांशुकानि ॥४७॥ पृथुवारिधीति ॥ ध्वजांशुकानि केतुपताकाः भुजङ्गमाऽङ्गमध्ये आशीविषदेहान्तरे नवनिर्मोकरुचं नूतनाऽहित्वक्कान्ति दधति स्म बभ्रुः । सर्प रेते हि निर्मोका उत्सृष्टा- इत्यज्ञायन्त इत्यर्थः । किंभूतानि ध्वजांशुकानि पृथुवारिधिवीचिमण्डलाऽन्तविलसत्फेन- वितानपाण्डुराणि पृथवश्च स्थूलाश्च ते वारिधिवीचयः समुद्रकल्लोलाश्च तेषां मण्डलं चक्र- वालं तस्याऽन्तर्मध्ये विलसन स्फुरन् यः फेनः डिण्डीरः तस्य वितानानि पटलानि तद्वत् पाण्डुराणि धबलानि, स्थूलजलराशिकल्लोलवलयमध्यभ्राम्यड्डिण्डीरपटलधवलानीत्यर्थः । भुजङ्गमानां वीचय उपमानम् , अंशुकानां फेनः । डिण्डीरोऽब्धिकफ: फेनः' इत्यमरः।।४७॥ पृथुवारिधीति ॥ भुजङ्गमाऽङ्गमध्ये, पृथोरिधिवीचिमण्डलस्यान्तर्मध्ये विलसन्तः फना इव वितान- पाडुरद्युतीनि शुभ्रवर्णानीत्युपमा। ध्वजांशुकानि नवनिर्मोकरुचि नवकचुकशोमां दधति स्म । 'समौ कन्चु. कनिमोंकी' इत्यमरः । निर्मोकरुचिमित्यत्रान्यधर्मस्थान्यत्रासम्बन्धेन निर्मोकस्येवेति सादृश्याक्षपादसम्भव- वस्तुसम्बन्धनिर्दशना फेनपाण्डुरोपमयाऽङ्गेन सङ्कीर्यते ॥ ॥ १७ ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ॥ व्यरुचजनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ ४ ॥ कृतेति ॥ भुजङ्गभोगैर्दन्दशूकदैहैः जनता जनसमूहः, बलमित्यर्थः, व्यरुचत् व्यद्योतिष्ट । किंभूतैर्भुजङ्गभोगैः शिरसि मूर्धनि उल्लसद्भिः श्लिष्यद्भिः, कथं यथा भवति कृतमण्डल- बन्धं यथा भवति कृतः विहितः मण्डलबन्धो मण्डलिकाऽवस्थानं यत्र क्रियायां तद्यथा। वलयरूपेणेत्यर्थः। पुनः किंभूतैर्भुजङ्गभोगैः प्रत्युरसम् उरसि विलम्बमानैः स्रसमानैः । प्रते- रुरसः सप्तमीस्थात् । किं- ता जनता, अतश्चोत्प्रेक्ष्यते-दलितेन्दीवरमालभारिणीव प्रफुल्ल- नीलोत्पलस्रग्धारिणौ यथा । दलितामिन्दीवरमालां बिभर्तीति ताच्छील्ये णिनिः । 'इष्टके- पीकामालानां चिततूलभारिपु' इति हस्वः ॥४८॥ कृतति ॥ जनता जनसमूहः । 'प्रामजन-' इत्यादिना सामूहिफस्तत्प्रत्ययः । शिरसि कृतो मण्डल- बन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्युरसम् उरसि उरसि । 'प्रतेरसः सप्तमीस्थात्' इति समासान्तोऽच्प्रत्ययः । विलम्बमानविशेषेण लम्बमानैः भुजङ्गभोगैरहिकायः दलितेन्दीवरमालभारिणी विकसितनीलोत्पलमालभारिणी वेत्युत्प्रेक्षा । व्यरुचद् व्यरोचिष्ट । 'युद्भ्यो लुडि' इति विकल्यात्परस्मैपदम्।। परिवेष्टिमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पः ॥ दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥ परिवेष्टितेति ॥ मनुजाः पञ्चजनाः महीरहाणामनोकहानाम् उपमानं दधुः साम्यमू हुः। किंभूताः मनुजाः यतः उस्गैः पृदाकुभिः मूलात् बुध्नात् पादादारभ्य आशिरसः शिरो यावत् परिवेष्टितमूर्तयः अवष्टब्धदेहाः, किंभूतैरुरगैः सरत्नपुष्पैः सह रत्नैरव पुष्पैः वर्तन्ते (१)हार्च। . . ..

मर्गः।] शिशुपालवधे। ने तथा तैः सहमणिकुसमैः, किंभूतानां महीरुहाणाम् आयतवलिलवेष्टितानां दीर्घव्रतति- वेल्लितानाम् ॥ ४९॥ परिवेष्टितति ॥ किञ्चेति चार्थः । मूलान् । पादमारभ्येत्यर्थः । ल्यग्लोपे पञ्चमी । आशिरस: शिरो- ऽन्तम् । 'अभिविधावाहिति विकल्पादसमासः । रत्नरेष पुष्पैः सह वर्तन्ते इति सरत्नपुष्पैः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । उरगैः परि वेष्टितमूर्तयो वेष्टिताङ्गाः मनुजा आयताभिल्लाभिलताभि वेष्टिताना महीरुहाणामुपमान सादृश्यं दधुरित्युपमा ॥ ४५ ॥ बहुलाऽञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः ॥ दधिरे फणिनस्तुरङ्गमेषु स्फुटपर्याण(१)निवद्धबलीलाम् ॥ ५० ॥ बहुलेति ॥ फणिनः सर्पाः तुरङ्गमेषु वाजिपु स्फुट नूनं पर्याणनिबद्धवर्धलीलां दधिरे पल्ययनयोजितचर्मरज्जुविभ्रमम् आसनबद्धचर्मरज्ज्वनुकारं बिभराम्बभूवुः। किंभूताः फणिनः यतः बहुलाञ्जनपङ्कपटनीलद्युतयः प्रभूतकजलकर्दमकलापकृष्णच्छवयः, पुनः किंभूताः फणिनः इतस्ततः सर्वत्र देहं श्रयन्तः कायं वेष्टयन्तः । केचिच्च पट्टमंशुकमाहुः । तत्रा. ऽअने च विचार्यमेतत् ॥ ५० ॥ बहुलेति ॥ बहुलाऽञ्जनस्य सान्द्रकज्जलस्य पङ्कपट्टः पधनस्तद्वन्त्रीलयुतयः श्यामभासः देहं शरीर- मितस्ततः पुच्छपाश्र्यादिस्थानेषु प्रयन्तो भजतः फणिनस्तुरङ्गमेषु स्फुटान्युज्ज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वाणि वरत्राः । 'व पुवस्त्रयोः' इति विश्वः । तेषां लीला शोभा दधिरे दधुः । वर्धलीलामित्यत्राऽसम्भवद्वस्तुसम्बन्धा निदर्शनोनलक्षणा ॥ ५० ॥ प्रसृतं रसभादयोऽभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती ॥ तनुरायतिशालिनी महाऽहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥ प्रसृतमिात ॥ महाहेस्तनुः महासर्पदेहः रभसात्प्रसृतं वेगाच्चलितं गजं मतङ्गजं नि. चलं चकार अक्रियं विदधे । बबन्धेत्यर्थः । किंभूता तनुः अयोऽभिनीला लोहवत्कृष्णा, अपरं किंभूता तनुः प्रतिपादं प्रतिचरणं, सर्वपादानित्यर्थः, परितः समन्तादभिवेष्टयन्ती आवृण्वती, पुनः किंभूता तनुः यतः आयतिशालिनी दैर्घ्यशोभिनी, अतिदीघेत्यर्थः । पुनः किंभूता तनुः, अतश्चोत्प्रेक्ष्यते-अन्दूरिख शृङ्खलातुल्या । अन्दूरप्यायसी नीला आयता च परितः पादेषु वेष्टिता च गज निश्चलं करोति ॥ ११ ॥ प्रसृतमिति ।। अयसा अयोवत् अभिनीला, पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्ट- यन्ती आयत्या आयतेन दीर्पण शालते या सा आयतिशालिनी महाहे महारगस्य तनुर्वपुः अन्दुः शङ्खलेश । भन्दूस्तु शालायां सी' इति वैजयन्ती । रभसात्ममृत प्रचरन्तं गजं निश्चलं चकार । उपमा ॥ ५१ ॥ अथ सस्मितवीक्षितादवज्ञाललितैको(२)न्नमितभ्रु माधवेन ॥ निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ ५२ ॥ अथेति ॥ अथाऽनन्तरं सुपर्णात् गरुडात् पक्षिराजां गरुत्मताम् अयुतानि लक्षाणि उदपसन् उत्पेतुः निर्जग्मुः । किंभूतात् सुपर्णात् यतः माधवेन भगवता कृष्णेन सस्मितं वीक्षितात् सहासं विलोकितात् । 'अहो! औद्यो मां किल नागपाशैर्बद्ध वाच्छति' इति हासकारणम् । कथं वीक्षितात् अवज्ञाललितैकोन्नमितभ्र यथा भवत्येवं अवज्ञया सावहेल ललिता सविलासा एका केवला उन्नमिता उत्क्षिप्ता भ्रूः मुखरोमराजियत्र तथा (१)पल्याण। (२) चलितको : ।

७३८ सन्देहविषौषधिसर्वपायुते- - [विंशः- - भवत्येवम् । अक्षिसङ्कोचनेन प्रेरितादित्यर्थः । सुपर्णस्य कुतस्तत्रावसर इति चेत्तत्राह- पुनः किंभूतात् सुपर्णात् निजकेतुशिरःश्रित: निजकेतो: 'शिरः श्रयतीति निजकेतुशिरश्रित् तस्मात् आत्मचितध्वजस्तम्भशृङ्गसेविनः, यतः गरुडध्वजः किल भगवानिति । उदपप्त- न्निति लुदित्वादरू, पतः पुम् । पक्षिराजामिति पूर्ववत् ॥ १२ ॥ अथेति॥अथ नागपाशबन्धनाऽनन्तरं माधवेन कृष्णेनाग्वजया अकिञ्चित्करत्वादनादरेण चलिता प्रेरिता एका उनमिता उत्क्षिप्ता च धूर्यस्मिन्कर्मणि तत्तथा । 'गोलियोरुपसर्जनस्य' इति इस्वत्वम् । सस्मितं चैयचापल्यदर्शनास मन्दहासं वीक्षिताव निजकेतुशिरःश्रितः निजध्वजाग्रस्थितात् । श्रयतेः क्विप् । सुपर्णात, पक्षिणां राजा राजानः तेषां पक्षिराजा पक्षिराजानां गुरुत्मताम् । 'राजा राट् पार्थिवः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । अयुतानि अयुतसङ्ख्या उदपप्तन्नुत्पेतुः । 'पुषादि-' इति लुङि च्ले- रदेशः। 'पतः पुम्' इति पुमागमः ।'उदभूवन्' इति पाठे 'भुवो वुक्-' इति वुगागमः। माधवस्य सुपर्ण- धीक्षणावस्थोचितभूविक्षेपादिचेष्टा विवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना- 'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्किा जातिश्च- इति, 'जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् । इति च ॥ ५२ ॥ द्रुतहमरुचः खगाः खगेन्द्रादलघुदीरितनादमुत्पन्ततः ॥ क्षणमैक्षिषतोच्चकैश्चमूभिर्बलतः सतरुचेरिव स्फुलिङ्गाः ॥ ५३ ॥ द्रतेति ॥ खगाः सुपर्णाः चमूभिः सेनाभिः ऐक्षिषत दृष्टाः । किंभूताः खगाः द्रुतहेम- रुचः गलितकनककान्तयः, पुनः किंभूताः खगाः खगेन्द्रात् पक्षिराजात् गरुडात् अलघूदी- रितनाद गुरुत्पादितध्वानं यथा भवत्येवम् उत्पतन्त उद्गच्छन्तः, पुनः किंभूताः खगाः उचकैः उच्चाः, महान्त इत्यर्थः । पुनः किंभूताः, अत एवोत्प्रेक्ष्यन्ते-ज्वलतः देदीप्यमा- मानात् सप्तरुचेः अयुग्मार्चिषः सप्तजिह्वस्य वः स्फुलिङ्गो इव कणा इव । अग्निकणा- अप्येवंविधा भवन्ति । ऐक्षिषतेति ईक्षतेः कर्मणि लुङ, च्ले: सिच झस्याऽदादेशः ॥१३॥ दुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा । अलघूच्चैरुदीरितनादमुच्चरितघोषं यथा तथा खगेन्द्राहरुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽग्नेरुच्चकैE अमृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः। ईक्षतेः कर्मणि लुइ । अत्रोपमयोः महरः ॥ ५३ ॥ उपमानमलम्भि(१) लोलपक्षक्षणविक्षिप्तमहाऽम्बुवाहमत्स्यैः ॥ गगनाऽर्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ ५४॥ उपमानमिति ॥ गगनार्णवमन्तरा गगनमेव आकाशमेव अपारत्वादू व्याख्यास्यमान. धर्मयोगाच्च अर्णवोऽब्धिः तम् अन्तरा मध्ये गरुडैः वैनतेयैः उमेरोः कुलजानां हेमाद्रेः वश्याना इलाधराणां भूधराणाम् उपमानं सादृश्यम् अलम्भि प्रापि लब्धम् । किंभूतैः गरुडैः लोलपक्षक्षणविक्षिप्तमहाऽम्बुवाहमत्स्यैः लोलैः पक्षैः चटुलैः पतत्रैः क्षणं मुहूर्तमान विक्षिप्ताः प्रेरिताः महाऽम्बुवाहाः महामेधा एव मत्स्याः पृथुरोमाणो यैस्ते तथा तैः। पर्वता हि पूर्व पतनसमये महार्णवे महामत्स्यान् विचिक्षिपिरे । उमेरुग्रहणं पक्षाणां सौवर्णत्वप्रतिपादनार्थम् । द्वित्वं यत्र न लक्ष्यते, तत्र अन्तराऽन्तरेणयुक्त द्वितीयान भवतीति (१)मलामि । - सर्गः। शिशुपालवधे। ७३६ । .. नास्ति निश्चयः, इति गगनार्णवात् द्वितीया भवत्येव । भट्टशङ्करस्तु गगनं चार्णवश्चेति द्वन्द्वमाह । तदसत, उपमेयेनार्णवस्य सम्बन्धाभावात् । न हि गरुडाः समुद्रमध्यस्थाः । पृथग्विभक्तिनिर्दिष्टयोरन्तराऽन्तरेण युक्तयोः द्वितीयेति स्मरणाच्चैवमपि स्यादेव ॥ १४ ॥ उपमानमिति ॥ गगनमर्णव इव गगनाऽवस्तमन्त। । तस्य मध्ये इत्यर्थः । 'अन्तरान्तरेण युक्त' इति द्वितीया।भप्रार्णवस्यैकत्वेऽपि तदेकदेशाऽपेक्षया भेदत्वेन मध्यमप्रतियोगित्वसम्भवान द्वितीयाऽनुपपतिः। लोले: पौः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव येस्तर्गरुडैर्गरुत्मद्भिः सुमेरोः कुलजाना हेमाद्रिवंश्यानाम् अन्येषामहिरण्मयतया गरुडसाम्यासम्भवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्वराणामित्यर्थः। 'गौरिला कुम्भिनी क्षमा' इति कोषः । उपमानं सादृश्यमलाभि अलम्भि। लभेः । कर्मणि लुडि 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमभावः । अत्र इलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्या- मताभिावन सङ्करः ॥ ५४ ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैमयूखैः ॥ सुतरामभवद् दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवाऽऽत्मदर्शः ॥ ५५ ॥ पततामिति ॥ तपनः सविता सुतरामतिशयेन दुरीक्ष्यबिम्बः अभवत् दुर्दृश्यमण्डलो बभूव । कैः पततां मयूखैः गरुडानां किरणैः, किंभूतैः मयूखैः परितः परिस्फुरद्भिः सर्वत्र प्रसरणशीलौः, पुनः किंभूतैर्मयूखैः परिपिङ्गीकृतदिङमुहै: पिशङ्गीकृतसर्वाऽऽशावदनैः, सौवर्णत्वात स्वभावाच्च । क इव आत्मदर्श इव मुकर इव । यथा आत्मदर्शस्तेषां तस्य वा किरणैः पततां रवीणां किरणैः सुतरां दुर्दृश्यो भवति । तेऽपि पिञ्जरीकृतकाष्ठाः । आत्मा दृश्यतेऽस्मिन्निति आत्मदर्शः ॥ ५५ ॥ पततामिति ॥ परिस्फुरद्भिः स्वविषयसंक्रमासमन्तादुनसद्रिः अत एव परिपिङ्गीकृतानि सौवर्णत्वा- पिशङ्गीकृतानि दिङ्मुखानि यस्तैः पततां पक्षिणां मयूखैः, तपनः सूर्यस्तत्किरणैस्तपनकिरणैः, संक्रान्तरिति भावः । आत्मा स्वरूपं दृश्यतेऽत्र इत्यात्मदर्शो दर्पण इव सुतरां दुरीक्ष्यबिम्बोऽभवत् । स्वत एवं दुदर्श इदानीमतिदुर्दर्शोऽभूदित्यर्थः । अत्र तपनस्य दुरीक्ष्यत्वासम्बन्धेऽपि सम्बन्धोनरतिशयोक्तिः ॥५॥ दधुरम्बुधिमन्थनाऽद्रिमन्थभ्रमणाऽऽयस्तफणीन्द्रपित्तजानाम् ॥ रुचमुलसमानवैनतेयधुतिभिन्नाः फणभारिणो मणीनाम् ॥ ५६ ॥ दधुरिति ॥ फणभारिणः फणाधराः सर्पाः मणीनां रुचं दधुः रत्नानां दीप्तिमुहुः । किंभूताः फणभारिणः उल्लसमानवैनतेयातिभिन्नाः उल्लसमानाभिः वैनतेयधतिभिर्मिन्नाः कर्बुरिताः स्फुरमाणसुपर्णकान्तिच्छुरिताः, किंभूतानां मणीनाम् अम्बुधिमन्थनाऽद्रि. मन्यभ्रमणाऽऽयस्तफणीन्द्रपित्तजानाम् अम्बुधिर्मथ्यतेऽनेनेति अम्बुधिमन्थः अब्धिक्षोभको योऽद्रिमन्थः पर्वतवैशाखः मन्दराख्यः तस्य भ्रमेण परिवर्तनेन आयस्तः क्षुभितः यः फणीन्द्रः सर्पराजो वासकिः तस्य पित्तं धातुविशेषः तस्माज्जायन्ते ते तथा तेषां समुद्राऽऽलो- इनगिरिवैशाखपरिभ्रमणक्षुभितवासकिमायुजातानाम् । 'मायुः पित्तमित्यमरः। समुद्रे हि सरासरैर्मथ्यमाने वासकिः क्षुभितः पित्तमुदवमत् । तत्पित्ताच बढयो मणीनां जातय. उत्पन्ना इत्यागमः । तेषां च कातर्यात् मणीनामुपमानत्वम् । स हि नीलाः वैनतेय. कान्तिच्छुरिताश्च कातराश्च । मथ्यतेऽनेनेति मन्धः क्षुब्धः ॥ १६ ॥ दधुरिति ॥ उसमानाभिर्दीप्यमानाभिनेतेयाना द्युतिभिर्भित्राः संवलिताः फणभारिणः फणाभृतः अम्बुधिमन्यने समुद्रमन्थने भर्मेन्दरा रेव मन्यस्य मन्थनदण्डस्य भ्रमणेनाऽऽयस्तस्य फणीन्द्रस्य वामुके .

७४. सन्देहविषौषधिसर्वकषायुते- [विंश:- पिनास्पित्तधातोर्जातास्तज्जास्तेषाम् । वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । मधेर्रवादिक- स्येदित्वात्सर्वत्र नुमागमः । तेषां मणीनां मरकताना रुचं दधुः। वैनतेयपीतिमसम्भेदात्कृष्णोरगा मरकतच्छाया. माईनित्यर्थः । अधान्यस्यान्यधर्माऽयोगेन रुचमिवेति सादृश्याक्षेपादसम्भवद्वस्तुसम्बन्धानिदर्शनालङ्कारः॥ अभितः क्षुभिताऽम्बुराशिधीरध्वनिराकृष्टसमूलपादपौधः ॥ जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५० ॥ अभित इति ॥ नागविपक्षपक्षजन्मा गरुडपक्षसम्भवोऽनिलः नभस्वान् अभवत उत्तस्थौ । किंभूतोऽनिलः अभितः सर्वतः क्षुभिताऽम्बुराशिधीरध्वनिःक्षुभितः प्रचलितो यो- ऽम्बुराशिरम्भोनिधिस्तस्येव धीरः गम्भीरः ध्वनिः फूत्कारो यस्य सः तथा उभयतटकम्पिता. अर्णवगम्भीराऽऽरवः, पुनः किंभूतोऽनिलः आकृष्टसमूलपादपौधः आकृष्टा आकर्षिताः समूलाः सबुध्नाः पादपौधाः तरुसमूहा येन सः तथा उन्मूलितसजटाऽनोकहपूगः, पुनः किंभूतो. ऽनिलः : अत एव युगान्तशङ्कां जनयन् कल्पाऽवसानभ्रान्ति कुर्वन् ॥ १७ ॥ अभित इति ॥ अभितः उभयतः क्षुभितो योऽम्बुराशिः उद्वेलाऽम्बुराशिस्तबद्धीरध्वनिर्गम्भीरध्वनि- रित्युपमा । भाकृष्टा: समूलाः पाटिताः पादपौधास्तरु समूहा येन सः अत्र पादपोन्मूलनासम्बन्धेऽपि सम्बन्धोके. रतिशयोक्तिः। युगान्तशङ्का जनयन् कल्पक्षयोत्प्रेक्षा जनयन्नित्यपि सेवाऽतिशयोक्तिः । नागविपक्षपक्षजन्मा गरुडपक्षोद्भवोऽनिलोऽभवत् । उदभवदित्यर्थः ॥ ५७ ॥ प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमागः ।। भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ ॥ प्रचलदिति ।। अथ दन्दशूकैः दृष्टविपैः सः भयविह्वलं त्रासाकुलं यथा भवत्येवं स्वयमेव धाम आत्मीयमेव स्थानं पातालमाविविशे प्रविष्टम् , यथागतमगामीत्यर्थः । किंभूतैः दन्दशूकैः प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गः प्रचलतां भ्राम्य- माणानां पतगेन्द्राणां पक्षिराजानां गरुडाणां पत्रवातेन अङ्गरुहपृषदश्वेन प्रसभं बलात् उन्मूलिता उत्खाता ये शैला अहार्याः तैर्दत्तो मार्गोऽवतरणं पन्था येषां ते तथा तैः उन्मूलिताऽद्विविवरप्रविष्टैरित्यर्थः। अपर किंभूतैर्दन्दशूकैः विवशैः किर्तव्यतामूटैः । गहित- दंशनशीलाः दन्दशूकाः, 'लुपसदचरे ति यङ्, 'जपजभेतिनुक् , 'यजजपदशामित्यूकः॥५०॥ प्रचलदिति ॥ प्रचलता पतगेन्द्राणां ये पत्रवातास्तैः प्रसभम् उन्मूलितैराकृष्टरुत्पाटितैः शैलेंदतो मार्गों रन्धं येभ्यस्तः विधशैः परवशः । निश्चेष्टरित्यर्थः । गहित दशन्ति भृशमिति दन्दकैः सः । 'दन्दरको बिलेशयः' इत्यमरः । 'लुपसदचर-' इत्यादिना दंशेर्भावगर्हायो यङ् । 'जपजभदहदशभञाशा च' इत्य- भ्यासस्य नुगागमः । 'यजजपदंशपद-' इति दशेयङन्तादुकाप्रत्ययः। भयेन विह्वलं विक्षिप्तं विचित्रं यथा तथा स्वमेव धाम पातालमेव विविशे । तार्यपत्रपवनोन्मूलितशैलरन्ध्रवर्त्म नैव पातालं प्रविष्टमिन्यर्थः । विशेः कर्मणि लटू । दन्दशूकानी रन्ध्रप्रवेशासम्बन्धेऽपि सम्बन्धोतरतिशयोक्तिः ॥ ५८॥ खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ॥ अयुगार्जिरिव ज्वलन् रुषाऽथो रिपुरौदविषमाजुहाव मन्त्रम् ॥ ५९ ॥ खचरैरिति ॥ अथो अनन्तरं रिपुः चैद्यः औदषि मन्त्रम् आजुहाव आह्वत, आ. ग्नेयी विद्यां जजापेत्यर्थः। कथानायकस्य शत्रुः कवेरपि तथैवेति शत्ररित्याह । तदा तस्मिन् काले अक्षये उग्रत्वात् क्षयरहिते अहिसैन्ये सर्पवाते तदा खचरैः पक्षिभिःक्षयं नाशम् उपनीते प्रापिते नाशिते सति सुकृतैः पुण्यैः दुष्कृते पापे हव । यथा बह्वपि पापं पुण्यानि क्षपयन्तीति । .. ..

सर्गः ।] शिशुपालवधे। ७४१ .. .. एकवचन बहुवच च । किंभूतः रिपुः अयुगाऽचिरिवाऽग्निरिव रुषा क्रुधा ज्वलन्, अति- कुद्धइत्यर्थः । आजुहावेति द्वेषो लिट् , 'अभ्यस्तस्य चेति सम्प्रसारणम् ॥ १९ ॥ खचरैरिति ॥ खे चरन्तीति खचैरवैनतेयैः । चरेष्टः । तत्पुरुषे कृति बहुलम्' इति लुग्विकल्पः । अक्षये अनन्ते अहिसन्ये सर्पसले सुकृतः हरिस्मरणादिपुण्यैर्दुष्कृतवद् ब्रह्महत्यायेनोवत् । 'तत्र तस्येव' इति सत्रार्थे पतिप्रत्ययः। क्षयमुपनीते नाशं गमिते सति, तदा तत्काले रुषा पौरुषवैफल्यरोषेण अयुगाऽर्चिः सप्ताचिरिव ज्वलन दीप्यमानः असौ रिपुश्चयः । उदर्चिष इममौदर्चिषमाग्नेयं मन्त्रमाजुड़ाव आहूनवान् । जजापेत्यर्थः । यतेर्लिट् । 'अभ्यस्तस्य च' इति द्विवचनात्प्रागेव सम्प्रसारणम् । दुष्कृतवदिति तद्धिगता श्रौती पूर्णोपमा ॥ ५९॥ सहसा दधदुद्धताऽट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ॥ विततायतहेतिबाहुररथ वेताल इवोत्पपात वह्निः ॥ ६ ॥ सहसेति ॥ अथाऽनन्तरं वहिवैश्वानरः सहसा अशङ्कितम् उत्पपात उद्ययौ । किं कुर्वन् स्वनेन रावेण उद्धताऽट्टहासश्रियं दधत् प्रचण्डहासलक्ष्मी धारयन् । चटचटाशब्द- युक्त इत्यर्थः । किंभूतेन स्वनेन उत्त्रासितजन्तुना भीषितप्राणिजातेन, पुनः किंभूतो वहिः वितताऽऽयतहेतिबाहुः वितताः प्रसारिता आयता दीर्घा हेतयः ज्वालाः एव बाहवो भुजा यस्य सः तथा, तथा उच्चैः उन्नतः । क इवोदपतत् वेताल इव भूतविशेष इव । सो- ऽपि उद्धताऽट्टहासश्रियं धत्ते दीर्घान् भुजांश्च प्रसारयति जन्तुन् स्वनेन भीषयते ठपश्च भवति ॥६॥ सहसेति॥अथाऽऽग्नेयानाहानानन्तरम् उत्त्रासितजन्तुना भीषितप्राणिकन स्वनेन ध्वनिना उद्धताऽट्ट. हासश्रियं महाष्ट्टहाससम्पदं दधत् तेनैवाऽट्टहासवान् तत्तुल्यनादवानित्यर्थः । वितताः प्रसारिताः आयता दीर्घाः हेतयो ज्याला बाहव इव हेतिबाहवो यस्य स वह्नितालो भूतविशेषः स इव सहसा झटिति उच्चैरूर्व- मुत्पपात उत्तस्थौ । उपमा ॥ ६ ॥ चालतोद्धतधूमकेतनोऽसौ रभसादम्बरोहिरोहिदश्वः(१) ॥ द्रुतमारुतसारथिः शिखावान् कनकस्यन्दनसुन्दरश्चचाल ॥ ६१ ॥ चलितेति ॥ अम्बररोही नभोव्यापी चासौ रोहिदश्वश्च अम्बररोहिरोहिदश्वः गगन- स्पृगग्निः चचाल प्रससार। कथं रभसात् वेगेन । हर्यश्वं हरिदश्वं रोहिदश्वं च पण्डिताः । वदन्ति पृषदश्वं वा शक्रसूर्याऽनलानिलम् ॥ किंभूतोऽसौ रोहिदश्वः चलितोद्धतधूमकेतनः चलितः प्रसृतः उद्धृतः उत्कटः धूमः धूम्र एवं केतनं ध्वजो यस्य सः तथा, पुनः किंभूतोऽसौ द्रुतमारुतसा. रथिः शीघ्रसमीरणसहायः, वातवशात किल वहिदेदीप्यते । पुनः किंभूतोऽसौ शिखावान् सज्वालः, पुनः किंभूतोऽसौ कनकस्यन्दनसुन्दरः कनकस्यन्दनवत् सुवर्णरथवत् सुन्दरो रम्यः । स्यन्दनोऽपि रभसात् चलन् एवंविधो भवति-चलितोद्धतकेतनः अश्वारोही द्रुत. सारथिः शिखावान् सपताकश्च ॥ ६१ ॥ चलितेति ॥ चलितश्चलच उद्धत उन्नतश्च धूम एव केतनं केतुर्यस्य स रभसादेगादम्बररोहिणो रोहिता वाहनमृगा अश्वा इव यस्य सः, दुतमारुताः शीग्रवाता एव सारथिर्यस्य सः कनकस्यन्दनसुन्दरः कनकद्ववदम्य इत्युपमा । असौ, शिखा ज्वाला भस्य सन्तीति शिखावानाशुशुश्चणिश्चचाल ॥६१॥ (१) रोहिताश्वः । . " ७४२ सन्देहविषौषधिसर्वकषायुते- [विंशः- ज्वलदम्बरकोटराऽन्तरालं बहुलाऽऽर्दाऽम्बुदपत्रबद्धधूमम् ॥ परिदीपितदीर्घकाष्ठमुश्चैर्वनव(१)द्विश्वमुवोष जातवेदाः ।। ६२ ।। ज्वलदिति ॥ जातवेदाश्चित्रभानुः विश्वम् उवोष जगत् ददाह । किंवत् वनवत् अरण्यमिव इत्यक्लेशकथनम् । किंभूतं विश्वं ज्वलदम्बरकोटरान्तरालं ज्वलत् देदीप्यमानम् अम्बरमेव आकाशमेव कोटरान्तरालं रन्ध्रमध्यं यस्य तत्तथा, पुनः किंभूतं विश्वं बहुला- म्बुिदपत्रबद्धधूमं बहुलेषु बहुषु आर्द्राम्बुद्देषु सजलमेघेषु एव पत्रेषु पात्रेषु बद्धो धूमो यस्य तत्तथा, पुनः किंभूतं विश्वं परिदीपितदीर्घकाष्ठम् परिदीपिताः दीप्ताः कृताः दीर्घाः प्रलम्बाः काष्ठा दिशो यत्र तत्तथा । दग्ध वनमप्येवंविधं भवति-ज्वलत्कोटरान्तरालं । बहुलपर्णबद्धधूमं दीसदिशं च भवति ॥ ६२ ॥ ज्वलादिति ॥ जातं वेदो धनं यस्माज्जातवेदास्तनूनपात् , अम्बरं कोटरमिव तस्यान्तरालमभ्यन्तरं ज्वलद् यस्य तत् । बहुलाः सान्द्रा आम्बुदाः पत्राणीव तेषु बद्धधूमम् , परिदीपिताः प्रज्वलिताः काष्ठा दिशः काष्ठानीव यस्य तदुच्चैरुत्रतं विश्वं जगत् तरुणा तुल्यं तरुवत् । तरुमि वत्यर्थः। तुल्याथै वति- प्रत्ययः। उपोष ददाह । उष दाहे लिट्, लघूपधगुगे पश्चाद् द्विर्भावः । 'अभ्यासस्याऽसवणे' इत्युपादेशः। अनादिष्टादच इति गुणस्य स्थानिवत्त्वाभावात् । तरुवदिति स्पष्टोपमालिङ्गात् सर्वोपमितसमासः ॥ ६२ ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ॥ स्वमसारतया मषीभवन्तःपुनराकारमवापुरम्बुवाहाः ॥ ६३ ॥ गुरुतापेति॥ अम्बुवाहाः मेघाः पुनर्भूयोऽपिस्वम् आकारं निज रूपमवापुः लेभिरे, कृष्णत्वासादनात् । किंभूताः अम्बुवाहाःगुरुतापविशुष्यदम्बुशुभ्राःगुरुणा महता तापेन परि- तप्त्या शुष्यत् विशुष्यत् क्षिप्यमाणम् अम्बुपानीयं येषां ते गुरुतापविशुष्यदम्बवः ते च ते शुभ्राःधवलाश्चेति कर्मधारयः। पुनः किंभूताः मेघाःक्षणं मुहूर्तम् आलग्नकृशानुताम्रभासः मनागालग्नेन वहिना लोहितकान्तयः, पुनः किंभूताः मेघाः असारतया रिक्तत्वेन मषी- भवन्तः कज्जलं सम्पद्यमानाः । अतश्च कार्यासादनात् स्वाकारप्राप्तिः । अभ्राणि हि प्रकृल्या कृष्णानि ॥ ६३ ॥ गुरुतापेति ॥ गुरुतापेनातिदान विशुष्यदम्बवः क्षीयमाणोदकाः अत एव शुभ्राति विशेषणसमासः। ततः क्षणमालग्नेन कृशानुना ताभ्रभासो रोहितवर्णाः, अथाऽतारतया जलशोषानिःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः। अत्र मेघाना मषीभावाद्यसम्बन्धेऽपि सम्बन्धोकरति- शयोक्तिः ॥ ६३ ॥ ज्वलिताउनललोलपल्लवाऽन्ताः स्फुरदष्टापदपत्रपोतभासः ॥ क्षणमात्रभुवा(२)मभावकाले सुतरामापुरिवाऽऽयति पताकाः ॥ ६४ ॥ ज्वलितेति ॥ पताकाः वैजयन्त्यः अभावकाले दाहसमये क्षणमात्रभुवा विद्युतामिव आयति दैर्ध्य सतरामतिशयेनाऽऽपुः लेभिरे, तडिन्निभा अलक्ष्यन्तेत्यर्थः । क्षणमात्रं भवन्ति तिष्ठन्ति दीप्यन्ते वा ताः क्षणमात्रभुवः अचिरांशवस्तासाम्। किंभूताः पताकाः यतः ज्व- लिताऽनललोलपल्लवान्ताः ज्वलितेन दीपितेन अनलेन वहिना लोला: कम्प्राः पल्लवान्ता: वस्त्रप्रान्ता यासां तास्तथा, पुनः किंभूताः पताकाः स्फुरदष्टापदपत्रपीतभासः स्फुरदिः लसभिः अष्टापदपत्रैः सौवर्णपटैः सुल्याः पीतभासः पिङ्गकान्तयः यासां ताः, अभावापत्तेश्च (१) स्तरुप.. (२) भवा०। ।

सर्गः।] शिशुपालवधे। ७४३ क्षणमात्रस्थायिन्योऽपि विद्युतो लसत्कार्तस्वरनिभपीतभासः स्युः। अष्टापदशब्दे तु 'अष्टनः संज्ञाया'मिति दोघः ॥ ६४ ॥ ज्वलितति ॥ ज्वलितेन प्रज्वलता अनलेन अनलतापेन लोलाः पल्लवाऽन्ता अञ्चलामाणि यास ताः, स्फुरद्भिदयिमानैरष्टापदपत्रैः कनकरचनामिः पीतभासः पिङ्गलवर्णा: पताका वैजयन्त्यः अभावकाले विनाश- काले क्षणमात्रभवा क्षणमात्रभाविनीम् । क्षणमात्रस्थायिनी मित्यर्थः। आपत्ति दैर्घ्य सुतरामापुरित्यर्थः । प्रदीपवदिति भावः । अष्टसु लोहेषु पदमस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' इति दीर्घः । 'रुक्म कार्तस्वर बाम्बूनदमष्टापदोऽमियाम्' इत्यमरः ॥ ६४ ॥ निखिलामिति कुर्वतश्विराय द्रुतचामीकरशारितामिव(१) धाम् ॥ प्रतिघातसमर्थमनमग्नरथ मेघङ्करमस्मरन्मुरारिः ॥ ६५ ॥ निखिलामिति ॥ अथाऽनन्तरं मुरारिः श्रीहरिः मेघङ्करम् अभ्रोत्पादकं वारुणम् अस्त्रम् अस्मरत् सस्मार जजापा किंभूतमस्त्रम् अग्नेः आश्रयाशस्य प्रतिघातसमर्थ विनाश- क्षम, किंभूतस्याऽग्नेः इति अमुना प्रकारेण निखिलां धां समग्रां दिवं द्रुतचामीकरशारिता- मिव कुर्वतः द्रुतेन गलितेन चामीकरेण महारजतेन शारितामिव छुरितामिव चिराय चिरं विदधतः । मेघान् करोतीति मेघडरम्, 'मेघर्तिभयेषु कृषः' इति खच् ॥ ६५ ॥ निखिलामिति ॥ अथाऽनन्तरं मुरारिः इतीत्थं निखिला यामाकाशं दुतचामीकरचारुता प्रतप्तहेम. कर्बुरामिवेत्युत्प्रेक्षा, चारुतामित्यत्र । चिराय कुर्वतोऽग्नेः प्रतिघातसमर्थ प्रशमनक्षम, मेघान करोतीति मेघ- कर मेघजननम् । 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः । 'अरुषिदजन्तस्य मुम्' इति मुमागमः । अमं वारुणामस्मरत् दध्यौ आजहार ॥ ६५ ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ॥ उदगुः सलिलात्मनस्त्रिधाम्रो जलवाहाऽऽवलयः शिरोरुहेभ्यः ॥ ६६ ॥ चतुरम्बुधीति ॥ त्रिधाम्नः त्रिलोकवासिनः श्रीकृष्णस्य शिरोरुहेभ्यः केशेभ्यः जलवाहाऽऽवलयः वारिधरमालाः उदगुः निरीयुः आविरभवन् । किंभूतस्य विधाम्नः चतु. रम्बुधिगर्भधीरकुक्षेः चत्वारोऽम्बुधयः समुद्रा गर्ने अभ्यन्तरे यस्य सः चतुरम्बुधिगर्भ: ता- दृशः तथा धीरः गम्भीरः कुक्षिरुदरं यस्य सः चतुरम्बुधिगर्भधीरकुक्षिः तस्य, पुनः किंभूतस्य त्रिधाम्नः वपुषः शरीरस्य सन्धिषु मर्मस्थानेषु लोनसर्वसिन्धोः संलग्ननिखिलनदीकस्य, पुनः किंभूतस्य यतः सलिलात्मनः जलरूपस्य । यदुक्तम्- यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ इति । विधामेति भगवतोऽनुसंज्ञा, त्रीणि स्वर्गमृत्युपाताललक्षणानि धामानि आस्प- दानि यस्येति कृत्वा । कचित्तु 'सलिलात्मकत्रिधामे ति पाठः । तदा सलिलात्मकानि जल- रूपाणि त्रीणि धामानि कुक्षिस्थानानि यस्येति विग्रह । उदगुरिति इणो गा लुङि, मातिस्थेति सिचो लुक् ॥ ६६ ॥ चतुरम्बुधीति ॥ चत्वारोऽम्बुधय एव गस्तैिः धीरो गम्भीरः कुभिर्यस्य तस्य वपुषः सन्धिषु लीनाः सर्वाः सिन्धयो नयो यस्य तस्य सलिलात्मनस्तोयात्मकस्य, त्रीणि धामानि स्थानानि भूरादीनि सत्त्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयः मेघपरम्परा उदगुरुभूवुः । 'इणो गा लुह इति गादेशे 'गातिस्था. ' इत्यादिना सिचो लुक् । (1)'चारुता' इत्येष पाठो मल्लिनाथव्याख्यायामुपलभ्यते। परमत्र नाऽर्थानुकूल्यं दृश्यते ।

७४४ सन्देहविषौषधिसर्वकषायुते- - [विंशः- 'यस्य केशेषु जीमूता नयः सर्वाङ्गसन्धिषु । कुक्षी समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ इत्यागमोक्तं प्रमाणमिति भावः ॥ ६६ ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम ॥ उदनंसिषुरभ्रमभ्रसङ्घाः सपदिश्यामलिमानमानयन्तः ॥ ६७ ॥ कुकुभ इति ॥ अभ्रसधाः मेघसमूहाः अभ्रमाकाशम् उदनंसिषुः उत्पेतुः । कि कुर्वन्तः कृतनादं सध्वानं यथा भवत्येवं ककुभः दश दिशः आस्तृणन्तः ऊर्जुवानाः, पुनः कि कुर्वन्तः भानुभासां पटलानि तिरयन्तः तरणिकान्तीना जालानि स्थगयन्तः,अपरं किं कुर्वन्तः श्यामलिमान कार्यम् आनयन्तः प्रापयन्तः, प्रकृतत्वात्तस्यैव । तिरस्करोति तिरयतीति, 'तत्करोतो'ति णिच् । णाविष्टवत् , 'प्रातिपदिकाद्धात्वर्थे। इतीष्ठवत्त्वात तुरिष्ठेमेयस्सु, टे'. रिति टिलोपः । उदनसिपुरिति णम प्रहत्वे शब्दे च उत्पूर्वः, लुङ् च्ले: सिच, 'यमरमे ति इडागमः, मस्याऽनुस्वारः, 'सिजभ्यस्तविदिभ्यश्चेति झर्जुस् । अभ्राणि विद्यन्ते यत्रेत्य_ नभः, अर्शआदिभ्योऽच । श्याम एव श्यामलः,श्यामं वा गुणं लाति आदत्त इति श्यामल: तद्भावः श्यामलिमा, वर्णादित्वादिमनिच ॥ ६७ ॥ ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छादयन्तः । स्तृणातेर्लट- शत्रादेशः, 'इनाऽभ्यस्तयोः-'इत्यकारलोपः । भानुभासामर्काशना पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरः- शब्दात् 'तत्करोति' इति ण्यन्तामटः शत्रादेशः। णाविष्ठबद्भावाहिलोपः। अभ्रमाकाशं श्यामनि मानमान- यन्तः श्यामनत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सब उदनंसिषुरुत्पेतुः । उत्पूर्वानमतेलडि 'यमरम- नमातां सक्च' इति सगिडागौ, नेटि' इति वृद्धिप्रतिषेधः । स्वभावोनिः ॥ ६ ॥ तपनीयनिकापराजिगौरस्फुरदुत्तालतडिच्छटाऽच्छ(१)हासम् ॥ अनुबद्धसमुद्धताऽम्बुवाहध्वनिताडम्बरमम्बर बभूव ॥ ६८ ॥ तपनीयेति॥ अम्बरम् आकाशम् एवं विधं बभूव । किंभूतमम्बरम् तपनीयनिकापरा. जिगौरस्फुरदुत्तालतडिच्छटाऽच्छहासं तपनीयस्य सुवर्णस्य यो निकाषः निकषणम् अश्मनि उल्लेखः तस्य तत्र राजिलेखा तद्वत् गौरी पीता स्फुरन्ती द्योतमाना उत्ताला उन्नता उल्बणा वा तडिच्छटा विद्युद्विच्छित्ति: सैव अच्छोऽनुपहतो हासो हास्यं यस्य तत्तथोक्तम् । हासस्य त्वन्योन्यजिगीषया युद्धेन मुखोत्पादन हेतुः । अपरं किंभूतमम्बरम् अनुबद्धसमु. द्धताऽम्बुवाहध्वनिताऽऽडम्बरम् अनुबद्र्ध सन्ततं समुद्धतानां महतामुत्कटानां वा अम्बु. वाहानां ध्वनित गर्जितं तदेव आडम्बरं तूर्य यत्र तत्तथोक्तम् । तस्य द्वयमेव कारणम् । 'आडम्बरं तूर्यरवे गजेन्द्राणां च गजिते' इत्यमरः॥ ६॥ तपनीयोति ॥ तपनीयस्य हेम्रो निकर्षराजयः कर्षणलेखा इव गौर्यः पीताः। गौरोहणे सिते पाते' इत्यमरः। स्फुरन्त्य उत्ताला उद्धतास्तडिच्छटा विद्युनता एवाऽट्टहासा यस्य तत्तथोक्तम् , अनुबद्धोऽनुस्यून: समुद्भुतस्तारोऽम्बुवाहानां ध्वनिताडम्बरो गर्जिताडम्बरो यस्य तदम्बरं बभूव । तदाऽम्बुवाहविद्युत्प्रभाभि- गर्जिताडम्बरश्वाट्टहासं कुर्वद्भिरिवाऽम्बरं बभावित्यर्थः । व्यञ्जका प्रयोगाम्योत्प्रेक्षा ॥ ६८ ॥ सवितुः परिभावुकैर्मरीचीनचिराऽभ्यक्तमतङ्गजाऽङ्गभाभिः ॥ जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेष धूमकेतोः ॥ ६९ ॥ (१)निकर्षराजि"च्छटाऽ ।

मर्गः।] शिशुपालवधे। ७४५ . सचितुरिति ॥ अमितः पार्श्वद्वये स्फुरनिरुल्लसन्निः तथा उबैरननः जलदैःभत्रैः धूम-- केतोश्वामरस्य केतनतेव विदधे धूमंत्वमिव कृतम् । यो हि धूमकेतुः तस्य धूम एवं केत- नम् । चैयास्त्रैर्जनितस्य वमेधा धूमरूपा अभवनित्यर्थः। किंभूतैर्जलदैः सवितुः हरिदश्वस्य मरीचीन् अभीषून परिभावुकैः अभिभाविमिः, अपरं किंभूतैर्जलदैः अचिराऽभ्यक्त- मतङ्गजाभाभिः अचिरं तत्क्षणम् अभ्यक्तं दत्तस्नेहं यत् मतङ्गजाऽङ्ग पीलुप्रतीक तस्येव माः दीप्तिर्येषां ते अचिराऽभ्यक्तमतङ्गाजाऽङ्गभासः तैः, अतिकृष्णैरित्यर्थः । धूमोऽप्येवं. विधः। परिभावुकैरिति 'लषपते'त्युकम्, तत्प्रत्यये च मरीचिशब्दात् 'न लोकाव्ययनिष्ठेति कर्मणि कृषष्ठीनिषेधः ॥ ६९ ॥ सवितुरिति । सवितुर्मरीचीन्मयूखान परिभावुकैस्तिरकुर्वद्भिः । 'लषपत-'इत्यादिना उकब्प्रत्यये 'न लोका-इत्यादिना षष्ठीप्रतिषेधः। अचिराभ्यकस्य सद्यःकृताभ्यङ्गस्य मतङ्गजाऽङ्गस्य नागदेहस्येव भासो येषां तैस्तथोकैः । 'भोभगो--' इत्यादिना रोयकारस्य 'हलि सर्वेषाम्' इति लोपः । अभितः स्फुरति जम्भमणिरुच्चैरुनर्जलदैधूमकेतोरग्नेः केतनता केतुत्वं विदधे इव विहितेव । धूमकेतोः केतुत्वं प्राप्त मित्यर्थः। उत्पक्षालदारः ॥ ६९ ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाऽऽप्लावमिवाऽभिदर्शयन्तः ॥ ववृषुवृषनादिनो नदीनामतटा(१)ऽऽरोपितवारि वारिवाहाः ॥ ७० ॥ ज्वलत इति ॥ वारिवाहाः जलधराः ज्वलतः देदीप्यमानस्य चित्रभानोराशुशुक्षणेः शमनाय निवारणाय वारि ववृषुः तोयं मुमुचुः।कथं नदीनां तरङ्गिणीनाम् अतटेषु तटेभ्यो- ऽप्युपरि आरोपितम् उत्प्लावितं वारि पानीयं यत्र तद्यथा । नयोऽप्यत्र स्थलान्याचक्रमु. रित्यर्थः। वारिवाहाः कि कुर्वन्तः अत एव प्रलयाऽऽप्लावमिव कल्पान्तोदकपूरमिव अभि. दर्शयन्तः ज्ञापयन्तः । युगान्ते किल सर्वमुदकं व्याप्तमासीत् । किंभूता वारिवाहाः वृष- नादिनः वृषा इव दान्ता इव नदन्ति गर्जन्ति ते वृषनादिनः, 'कर्तर्युपमाने' इति णिनिः॥ ज्वलत इति ॥ ज्वलतश्चित्रभानोरनेः प्रशमनाय प्रलये कल्पान्ते य आलायो महापूरः तमभिदर्शयन्त- इवेत्युत्प्रेक्षा । वृहपद् वृषभवनदन्ति गर्जन्तीति वृषनादिनः। 'कर्तर्युपमाने' इति णिनिः। अत एवोपमा । वारि वहन्तीति वारिवाहा मेघाः । कर्मण्यण् । नदीनां प्रतटेषु प्रतीरषु आरोपितानि भावितानि वारीणि यस्मिन्कणि तयथा ववृषुः । प्रलयकालमेघवदवर्षत्रित्यर्थः ॥ ७० ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ॥ पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाऽशमद्विवादैः॥ ७९ ॥ मधुरिति ॥ पवमानसखः वातसखोऽग्निः मेध्यैः अब्दसम्भवैः वारिभिः पानीयैः प्रथमं पूर्व प्रत्युत वैपरीत्येन भूयसा अतिशयेन दिदीपे अज्वालीत् । किंभूतै- वारिभिः प्रथमप्रवृत्तत्वाद्विरलै, यदि वा माधुर्यगुणयुक्तैः । मेध्यं हि जलं मधुरम् । अपि विस्मयपूर्वके विरोधे । मधुरं हि किल गुडादि न दीपकम्, अपि तु जाड्यकरम् । तीक्ष्णं हि दीपकम् इति वैधाः । ततोऽनन्तरम् असावग्निः क्रमेण वेगवर्षवशात् अशमत् शशाम ननाश, क इव ननाश प्रणयक्रोध इव प्रीतिकोप इव, विवाद: के सान्त्ववचनैः मधुरैरपि अनुद्वेजकैरपि । यथा प्रणयक्रोधः प्रत्युत पूर्व नितरां दीप्यते, ततः क्रमेण शाम्यति । एवंविधो द्वेष प्रणयस्वभावः । मेघेषु भवा मेघ्याः तैः, दिगा- (१) नदीना प्रतटा। .. ६३ शिव० ७४६ सन्देहविषौषधिसङ्ग्यायुते- [विंशः- . दिभ्यो यत् । पवते इति पवमानो वायुः, पूज्यजोः शानन् । तस्य सखाऽग्निः सहचर- त्वात् , 'राजाहःसखिभ्यष्टजिति टच । ननु यत्राऽग्निस्तत्र वायुः, न तु यत्र वायु. स्तत्राग्निः । अत्र वायोरग्निसहचरत्वं विवक्षितम् , अतो बहुव्रीहिरत्र वाक्यज इति कर टजुत्पत्तिः । अनाऽऽहोपाध्यायः प्रकाशवर्षः-षष्ठीसमासोऽप्यत्र बहुव्रीहार्थेऽन्त- र्भवत्येव । यो हि यस्य सखा तस्याऽसावपि सखा भवत्येव । एवमत्रापि ।। यथाह भारविः- 'ओजसाऽपि खलु नूनमनूनं सत्सहायमुपयाति जयश्रीः । यद्विभुः शशिमयूखसखः सन्नाददे विजयिचापमनङ्गः ।। इति ।। ७१ ॥ मधुरैरिति ॥ इतीर्थ, पवत इति पवमानो वायुः । पूड्यजोः शानन् । तस्य सखा पवमानसखः अग्निः । राजाऽहःसाखिभ्यष्टच । मैत्रीमात्रविवक्षायामयं निर्देशः । सहकारिणी मैत्रीति नियमान्सहकारित्वा- ऽविवक्षायां वैपरीत्याहुनीही तु न समासान्तः। स्वामी तु 'रोहिताश्वो वायुसखः' इत्यसमासान्तपाठेन बहुव्रीहिमाह । अत्रापि तथा पाठे न कश्चिदुपद्रवः । सोऽग्निः मधुरैः प्रियरपि विदिविविधवाक्यैः प्रणय- क्रोधः प्रणयप्रयुक्तकोप इव मधुरैः स्वादुभिः, अनुहीपरित्यर्थः। मेध्यमॆघभवैः । दिगादिभ्यो यत् । पारिभिः प्रथमं वैपरीत्येनापि। 'प्रत्युतेति परीत्ये' इति गणव्याख्याने । भूयसाऽत्यन्तं, भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाऽशमच्छन्तिोऽभूत् । शाम्यतेलुङि पुषादित्वाच्च्लरेहादेशः । जलाहतोऽग्नि- चलितो नश्यति । प्रणयकोपोनि प्रियः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा ॥ १ ॥ परितः प्रसभेन नीयमानः शरवरवसायमाश्रयाऽऽशः ॥ प्रबलेषु कृती चकार विद्युद्यपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥ परित इति ॥ अभ्राणां सतडित्त्वेनाजनेश्च शान्त्या कविरूहामास-शरवः तोय. सेकैः प्रसभेन बलात् परितः अवसायमन्तं नीयमानः प्राप्यमाणः आश्रयाऽऽशः वहिःप्रब- लेषु महत्स घनेषु विद्युद्व्यपदेशेन तडिव्याजेन अनुप्रवेशम् अन्तरवस्थानं चकार अक- रोत् । किंभूतः वहिः यतः कृती प्राज्ञः । एवं किलोक्तम्-'बलवताऽभिभूतस्य विदेश- गमनं तदनुप्रवेशो वा घटते' इति । आश्रयं स्वाधारम अश्नाति असौ आश्रयाऽऽश: कृष्णवा ॥ २ ॥ परित इति ॥ परितः प्रसभेन बलात्कारेण शरवनारसेकैः । 'शरं नीरे शरो बाणे' इति विश्वः । अवसायममघमादं पीयमानः कृती कुशलः, आश्रयमश्नातीत्याश्रयाशोऽग्निः । कर्मण्यण् । प्रबलेषु घनेषु मे घेषु विद्युद्व्यपदेशेन तडिच्छलेनाऽनुप्रवेशं चकार । अस्याग्निर्वियुटूपेण मेष्वेव प्रविष्टः । बलवताऽभि- भूतस्य विदेशगमनं तदनुप्रवेशो वेति नी तेरिति भावः । अत्र विशेषणसाम्यादग्नावप्रकृतदुर्बलत्वप्रतीतेः समासोक्तिः ॥ २॥ प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ॥ बलभित्प्रहिताऽऽयुधाभिघातात् त्रटितं पत्रिपतेरिवैकपत्रम् ॥ ७३ ॥ प्रयत इति ॥ प्रशम नाशं प्रयत: गच्छतः हुताशनस्य वः मुक्तमूलं त्यक्तसन्धिः स्थानं क्वचिद्देशे अचिः अलक्ष्यत ज्वाला ददृशे । किंभूतमचिः, उत्प्रेक्ष्यते-पत्रिपतेः पक्षिराजस्य सुपर्णस्य एकपत्रमिव एकपक्ष इव । किंभूतमेकपन बलभित्प्रहिताऽऽयुधा. ऽभिघातत्रुटितं बलभिदा शक्रेण प्रहितं विक्षिसं यत् आयुधं वन तेन योऽभिधातः प्रहार:

सर्गः ।]
शिशुपालवधे।
७४७.
.
।
तेन भुटितं छिन्नम् । वजाभिघातात् किल गरुडेन भुवि माननार्थ
वजूस्य
सफलीकरणार्थ
च एक पत्रमुत्सृष्टमासीदित्यागमः ॥ ७३ ॥
प्रयत इति ॥ प्रशमं नाशं प्रयतः गच्छतः, प्रैतीति प्रयन् तस्य प्रयतः । इणः शतरि यणादेशः ।
हुताशनस्याग्नेः सम्बन्धि मुक्कमूलं त्यक्ताश्रयमर्चिाला । 'ज्वालाभासोर्न पुंस्यर्चिः' इत्यमरः । बलभिदा
शक्रेण प्रहितस्य प्रयुकस्याऽप्युधस्य वजस्याभिघाताप्रहारात् श्रुटितं छिन पत्रिपतेः पक्षिराजस्य गरुत्मत-
एक पत्रं पक्षमिव क्वचिदालक्ष्यत अदृश्यत इत्युपमा । पुरा मातृदास्यविमोकायाऽमृतमाहरता गरुडेनेम्व-
प्रयुक्तयजगौरवादेकं पत्रं त्यक्तमित्यागमः ॥ ३ ॥
व्यगमन सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः ॥
उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥
व्यगमन्निति ॥ धनाधनौघाः सजलजलधरसमूहाः दिशाम् आशानां मुखेभ्यः सहसा
झटित्येव शिखिन शमयित्वा वहि नाशयित्वा व्यगमन् यथागतं जग्मुः । घनाघनानाम् .
भोघाः घनाघनौघाः। 'वर्षकाऽब्दो घनाधनः' । अवार्थान्तरन्यासः-ये हि महान्तः
उत्तमाः, ते निसर्गतः स्वभावादेव उपकारं कृत्वा उपकृत्य परेषामन्येषाम् उपरोधं न कुर्वते
तानावृत्य न हि तिष्ठन्ति । ये स्वभावोपकारिणः, ते उपकृत्याऽदर्शनं यान्ति । यदुक्तम्-
इयमुच्चधियामलौकिकी महतां कापि कठोरचित्तता ।
उपत्य निसर्गदूरतः परतः प्रत्युपकारशङ्कया ।
मेधाश्च महान्तः। यदि च वर्षित्वा गच्छेयुः, न तेन दिशामुपरोधः स्थगनं भवेत् ॥
ध्यगमन्निति ।। घनाघनौघाः वर्षकाऽन्दसमूहाः । 'शक्रघातुकमत्तेमवर्षकांऽन्दा घनाघनाः' इत्यमरः।
शिखिनमाग्न शमायत्वा सहसा दिशा मुखेभ्यो व्यगमनपसनः। गमेलङि 'पुपादि-' इति च्लेरा-
देशः। तथा हि-महान्तो निसर्गतः स्वभावादेव परषामुपकृत्य उपकारं कृत्वा उपरोध न हि कुर्वते ।
महता निष्फलावस्थान परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ॥
विगताऽम्बुधरवणं प्रपेदे गगनं तापितपायिताऽसिलक्ष्मीम् ॥ ७५ ॥
कृतदाहमिति ॥ गगनं नभः तापितपायिताऽसिलक्ष्मी प्रपेदे पूर्व तापितः
अग्नितापं प्रापितः पश्चात् पायितः जलविशेषे क्षिप्तो योऽसिः निस्त्रिंशः तस्य
लक्ष्मीः शोभा तां प्रापत् । किंभूतं गगनं यतः पूर्वम् उदर्चिषो वह शिखाभिलाभिः
कृतदाहं दग्धम् , अपरं किंभूतं गगनं यतो नवेन नूतनेन अम्भसा नीरेण परिषिक्त
कृतसेकमुक्षितम् , अपरं किंभूतं गगनं विगताऽम्बुधरव्रणं विगतानि नष्टानि अम्बुधरा
मेघा एवं प्रणानि रसकर्कराणि यस्मात् तथा । खड्गेऽपि हि तापितपायिते व्रणानि
नश्यन्ति । पातेणिच् , 'शाच्छासाहेति युकि पायितमिति रूपम् । अस्मिन् सर्गे
औपच्छन्दसिक वृत्तम् ॥ ७५ ॥
कृतदाहमिति।उदर्चिषोऽग्नेः शिखाभिः ज्यालाभिः कृतदाई विहिततपनं, ततो नवेनाऽम्भसा मुहुः परि-
विक्कं विगता अम्बुधरा एव व्रणा दोषा यस्य तहगनं, सन्तापितस्ता प्रापितः स चासो पायितः पानं कारि-
तः। पिवतेयन्तात्कणि कः। 'शाच्छासाह्वाव्यापी युक्' इति युगागमः । तस्य तापितपायितस्य तत-
सिक्तस्याऽसेः खङ्गस्य लक्ष्मी प्रपेदे प्रापे । इति निदर्शनाल द्वारः अम्बुधरवणेति रूपफसङ्कीर्णः ॥ ५ ॥

19४८
सन्देहविषौषधिसर्वपायुते-
[विंश:-
-
.
।
.
इति नरपतिरखं यद्यदाविश्वकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ॥
'भिषगिव गुरुदोषच्छेदिनोपक्रमेणक्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥
इतीति ॥ नरपतिः शिशुपालः क्षिप्रकारी चतुरः इतीत्थं यद्यत् स्वापनादिकम् अस्त्र-
मायुधं प्रकुपितः क्रुद्धः सन् आविश्वकार प्रयुयुजे, अथाऽनन्तरं मुरारिः भगवान् श्रीकृष्णः
आशु शीघ्र तत्तदेव अस्त्र प्रत्यहन् प्रतीपं जघान अनीनशत् । केन गुरुदोषच्छेदिना महा-
विपद्विनाशकेन उपक्रमेण उपायेन, प्रत्यौरित्यर्थः । यतः किंभूतो मुरारिः क्रमवित् परि-
पाटीज्ञः । स हि इति जानीते, यदस्याऽस्त्रस्य इदं प्रत्यस्त्रमिति । यद्यदिति तत्तदिवेति
वीप्सा अस्त्रपरम्पराख्या। क इव चैधः अस्त्रमाविश्वकार, क इव मुरारिः तत् प्रत्यहन्नि-
त्याह-रोग इव विकारं भिषगिव क्षिप्रं द्राक् क्षणोति क्षिप्रकारी। कुपितो यथा रोगो
व्याधिर्य यं विकारम् आविष्करोति, दोषं तं तं यथा क्रमवशात् शास्त्राभिज्ञो भिषक् वैद्यो
गुरुदोपच्छेदिना उपक्रमेण चिकित्साख्येन शीघ्र प्रतिहन्ति आच्छिनत्ति। पूर्ववत् इव.
शब्दयोःिप्रयोगः । प्रत्यहन्निति हन्तेर्लङ, हलङ्यादिलोपः । मालिनी वृत्तम् ॥ ७६ ॥
' इतीति ॥ इतीत्थं क्षिप्रं करोतीति शिप्रकारी शीघ्रप्रयोका, अन्यत्र विकारकारी नरपतिश्चयः प्रकुपितः
प्रचभितः सन् यद् यदममाविश्वकार रोगो विकारामिव, अथ क्रमावित्परिपाटीवेदी मुरारिः भिषग्वैद्य इव गुरु-
दोषच्छेदिना गुरुदोषप्रतिघातकेन दोषनिवर्तकेन चोपक्रमेणोपायेन । प्रत्यायोगेणेत्यर्थः । अन्यत्र महो.
षधप्रयोगण तत्तदमम् आशु शीघ्रं. तद्विकारमिवेति भावः । प्रत्यहन् प्रतिजघान । हन्तेर्ला अदादित्वा-
च्छपो लुक् 'हल्याप्' इति लोपः । उपमा ॥ ०६ ॥
शुद्धि गरौरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ॥
मर्माऽतिगैरनृजुभिनितरामशुद्धर्वाक्सायकैरथ तुतोद तदा विपक्षः ॥ ७७ ॥
शुद्धिमिति ॥ विपक्षः शत्रुः शिशुगलः तं देवं बाणैः अजय्यं विदित्वा शरेरजेयं
मत्वा अथाऽनन्तरं वाक्सायकैः वचनशल्यैः तुतोद अपीडयत् । अशक्तत्वादाचुक्रोशेत्यर्थः ।
किंभूतैर्बाणैः परामुत्कृष्टां शुद्धिं गतः दोषाभावं प्राप्तैरपि, अपरं किंभूतैर्वागः ऋजुभिः
सरलैः तथा अविघट्टितमर्मभिः न विघहितानि न क्षोभितानि मर्माणि अरूषि येषां ते
अविघट्टितमर्माणस्तैः अनरन्तुदैः अपीडाकरैः, देवस्य दिव्यबलत्वात् । इतरैस्तु-मर्माण्यति-
गच्छन्त्याक्रमन्तीति मर्मातिगैः अरुन्तुदैः, तथा अनृजुभिर्वकैः असतो दोषस्याऽऽरोपणात्,
तथा अशुद्धैः कर्णकटुभिः अश्लीलत्वात् । अतस्ताननुस्तानाददे । न जेतुं शक्यः
अजय्यः, 'भय्यजय्यौ शक्याथैः इति निपातः । वसन्ततिलका वृत्तम् ॥ ७ ॥
शुद्धिमिति ॥ तदा तस्मिन्समये विपशोऽरिश्वः परामकृष्टा शुद्धि लोहशुद्धि गजुभिरष्यविघट्टित-
मर्मनिरस्पष्टममस्थानः तं हरिमजय्य जेतुमशक्यम् । 'क्षय्यजप्पो शक्या' इति निपातः । विदित्वा,
अथास्मिन्नवसरे मर्माणि अतिगच्छन्तीति मर्मातिगैर्ममभेदिभिरनजुभिर्वकैः नितरामशुद्धपवित्रैः, गच एक
सायकास्तैः वाक्सायकैरित रूपकम् । तुतोद व्यथयामास । चक्रपयोगस्याऽयमुपोद्धात हाते भावः। अत्र
वाक्सायकानां प्रसिद्धसाधनव्यतिरेकोतर्यतिरेकरूपकयोः सङ्करः । वसन्ततिलका वृत्तम् ॥७॥
राहुस्त्रीस्तनयोरकारि सहसा येनाऽश्लथालिङ्गनः
व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वथा ॥
तेनाऽऽक्रोशत एव तस्य मुरजित् तत्काललोलाऽनल.
ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ ७ ॥

सर्गः।] शिशुपालवधे। ७४६ राहुस्त्रीति ॥ वैद्यस्य आक्रोशत एव निन्दत एव मुरजित् भगवान् श्रीकृष्णः तेन चक्रेण आयुधविशेषेण तस्य वपुः शरीरं सहसा झटित्येव मूर्धविकलं चक्रे शरोरहितं व्य. धत्त । सुदर्शनेनाऽस्योत्तमाङ्गमच्छिनत् इत्यर्थः । तेन इत्यनेन चक्रयोधधर्मो विवक्षितः, तं वति । तेन केनेत्यत आह-येन चक्रेण राहुस्त्रीस्तनयोः स्वर्भानुललनापयोधरयोः कार्कश्य. लक्ष्मीः काठिन्यातिशयो वृथा अकारि निरर्थका विहिता । येन राहोः शिरः कृत्तमित्यर्थः। किंभूतयोः स्तनयोः अश्लथाऽऽलिङ्गनव्यापारैकविनोददुर्ललितयोः अश्लथो गाढो यः आलि. नव्यापारः आश्लेषकर्म स एव एकः केवलो विनोदः केलिः तत्र दुर्ललितयोः हेवाकिनोः। आश्लेषवर्ज व्यापाराऽन्तरं ययोर्न विद्यते इत्यर्थः। अतश्च यदा राहुः शिरोऽवशेषः सम्पन्नस्तदा आलिङ्गनाऽभावात् कार्कश्यं तयोर्न केवलमेव । तथा तस्मिन् काले आक्रोशसमये लोलाः चटुलाः परिस्फुरन्त्यो या अनलज्वालाः वहिहेतयः ताभिः पल्लवितेन निर्यात्स्वपत्रेण व्याप्तेन । अग्निज्वाला मुञ्चतेत्यर्थः। पर्यायप्राप्तो यमकालङ्कारः। शार्दूलविक्रीडितं वृत्तम् ॥ राहुनीति ॥ येन चक्रेण सहसा झटिति अन्नथो दृढो य आलिङ्गनव्यापारः स एव एको मुख्यः । 'एके मुख्याऽन्यकेवलाः' इत्यमरः। विने दस्तत्र दुर्ललितयोलोलुपयो राहुस्त्रीस्तनयो राहुरमणीकुचयोः कार्कश्य- लक्ष्मीः काठिन्यशोभा वृथा व्यथा अकारि कृता । शिरोमात्राऽवशषितस्य राहोरालिङ्गनमुखासम्भवादिति भावः । मुरमित हरिः तत्काले तस्मिसमये लोलाभिश्चञ्चलाभिरनलज्वालाभिरग्निदीप्तिभिः परवि तेन सञ्जात- पल्लवेन । तारकादित्वादितच् । तेन चक्रेण भाक्रोशत एव शपमानस्यैव तस्य शिशुपालस्य वपुः मूर्धविकलं शिरोहीन चक्रे चकार । शिरश्चिच्छेदेत्यर्थः । कर्तरि लिट् । राहोः शिरो वपुर्विकलमकारि, अस्य तु वपुः शिरोविकलं कृतमिति तात्पर्यम् । अत्र चक्रवर्णनेऽप्रस्तुताद्राहुनीकुचकार्कश्यवर्णनात् 'प्रस्तुतत्वेन सम्बन्ध स्तत्पर्यायोकमुच्यते' इति पर्यायोक्तम् ॥ ८ ॥ श्रिया जुष्टं दिव्यैः सपटहरनैरन्वितं पुष्पवर्षे. वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमान निरीय ॥ प्रकाशेनाऽऽकाशे दिनकरकरान् विक्षिपद्विस्मिताऽौ. विशद्धाम वीक्षाम्बभूवे ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के शिशुपालवधो नाम विंशतितमः सर्गः ॥ १६ ॥ श्रियेति ॥ अथ शिरश्छेदाऽनन्तरं वैद्यस्य शिशुपालस्य वपुष्टः शरीरात् निरीय निर्गत्य औपेन्द्रम् उपेन्द्रस्य श्रीकृष्णस्येदं काणं वपुः देहं विशत् विशमान(१) धाम तेजो विस्मिताऽझैः विस्मयोत्फुल्लनयनैः नरेन्द्रर्धाभिषिक्तैः वीक्षाम्बभूवे आलुलोके । तथा च भगवान् पाराशर्यः- तथा चेदिपतेदेहात्तेजोऽयं ददृशुर्नृपाः । उत्पतन्तं तदा राजन् ! गगनादिव भास्करम् ॥ ततः कमलपत्राक्ष कृष्णं लोकनमस्कृतम् । ववन्दे तत्तदा तेजो विवेश च नरोत्तमम् ॥ तदभुतममन्यन्त रष्टवा सवें महीक्षितः। प्रविवेश महाबाहुं यत्तेजः पुरुषोत्तमम् ॥ इति । किंभूतम् भौपेन्द्रं वपुः श्रिया जुष्टं लक्ष्म्या सेवितम् , अपरं किंभूतं वपुः दिव्यैः- नरेन्द्ररौपेद्रं वपुरथ ७५० सन्देहविषौषधिसर्वपायुते- [विंशः भाकाशपतिवैः पुष्पवर्षेः कुछमवृष्टिभिः सपटहरवैः दुन्दुभिध्वनियुक्तैः अन्वितमनुगतं, तथा ऋषिगणैः मुनिवृन्दः स्तूयमान स्तुतिभिः सेव्यमानं, तथा प्रकाशेन उद्दयोतेन देह- भवेन आकाशे खे दिनकरकरान् अहर्पतिकिरणान् विक्षिपत् समीरयत् । यदुक्तम्- दिवि सूर्यसहस्त्रस्य भवेद् युगपदुत्थिता । यदि भाः सहशी सा स्यात् भासस्तस्य महात्मनः ॥ धामाऽप्येवंविधमेव भवति । स हि भगवर्दशः । वपुषो वपुष्टः, पञ्चम्यास्तस् । 'हस्वात्तादौ तद्धिते' इति पत्वं, ष्टुना ष्टुः । ईडो ल्यपि निरीयेति । वीक्षाम्बभूवे इति इक्षेः कर्मणि लकारः, 'इजादेश्च गुरुमतोऽनृच्छ' इत्याम् प्रत्ययः, 'आम' इति लेलृक् । कृञ्चाऽनुप्रयुज्यते लिटि, 'भावकर्मणो रिति तङ् । भुवो वुग्लुङ्लिटोः, द्वित्वं भू-हस्वः । वामनमतेन इति निर्देशाद्भवतेर इत्यत्वाभावः। स येवमाह-भवतेरिति निर्देशः कर्तव्यः, इह न भवतीति । तन्मते नाऽत्राऽत्वं भवत्येव । वास्तवमध्यम(?) ।श्लेषादिसङ्करोऽलङ्कारः। सुवृत्ता नाम वृत्तम्--सुवृत्तैः गौडं ख सदनुलघवः पञ्चस्वागषौ(१)। श्रीशब्दलक्ष्मत्वात काव्यस्य प्रतिसर्गसमाप्तौ श्रीशब्द इति भद्रम् । इति श्रीशिशुपालघधे महाकाव्ये आनन्ददेवायनिश्रीवल्लभदेवविरचितायां सन्देहविषौग्ध्यां सारटीकायां शिशुपालवधो नाम विंशतितमः सर्गः । - श्रियति ॥ अथ शिरश्छेदाऽनन्तरं श्रिया शोभया जुष्टं सेवितं दिव्यैदि वि भवः सपटहरवैः सदुन्दुभिघोषः पुष्पवरैन्वितं क्षणम् ऋषिगणैः स्तूयमानं तथा चैद्यस्य वपुष्टः शरीरतः। पञ्चम्यास्तमिल् । निरीय निर्गत्य। 'इण् गतौ' इति धातोः समासेऽनव्पूर्व क्त्वो ल्यप् । प्रकाशेन आकाशे दिनकरकरानकरश्मीन् विक्षिपत् , उपेन्द्रस्येदमौपेन्द्रं वपुर्ह रेविग्रहं विशत् प्रविशव धाम शिशुपालतेजो विस्मिताक्षर्विकसितनयनैर्न रेन्द्र राजन्यैः वीलाम्बभूवे ईक्षितम् । ईक्षतेः कर्मणि लिट् । 'इजादेव गुरुमतोऽनृच्छः' इत्याम् । 'कृञ्चानुप्रयुज्यते लिटि' इति भुषोऽनुप्रयोगः, 'भावकर्मणोः' इत्यात्मनेपदम् । अत्र भगवान् व्यास:- 'ततश्चेदिपतदेहात्तेजोऽयं ददृशे नृपः । उत्पपात यदा राजन् ! तदा तेजो विवश च ॥ दिवि सूर्यसहस्रस्य भवेयुगपदुस्थिता । यदि भा सदशी सा स्यातू धाम्रस्तस्य महात्मनः ॥ इति । एतेन भगवरपुषोऽपि तदासकवचनसा (?) तारक इत्यनुसन्धेयम् । यदाह नारदः- कामागोप्यो भयात्कंसो द्वेषांद्यादयो नृपाः । सम्बन्धादृष्णयः स्नेहाय्यं भक्त्या वयं प्रभो ॥ इति । सूर्यसहस्राऽभिभाविनः शिशुपालतेजसो हरिशरीरप्रवेशवृत्तान्तस्यालौकिकस्याऽद्भुतस्य प्रत्यक्ष- लक्ष्यमाणत्वादाविकालङ्कारः । तदुक्तम्-'विनापराधेन कृतार्थक (2) पिना भाविकं तदुदाहृतम्' इति । मेघ- विस्फूर्जिता वृत्तम् । 'रसर्वश्वैय्मौ सौ ररगुरुयुता मेघविस्फूर्जिता स्यात्' इति लक्षणात् ॥ ५ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लनाथरिविरचिते शिशुपालवधकान्यव्याख्याने सर्वदूषाख्ये शिशुपालवधो नाम विंशतितमः सर्गः ॥२०॥ - (१) प्रसिधेषु छन्दोमन्थेषु सुवृत्तानाम वृत्तं नोपलभ्यते । एताक्षणमपि न पूर्ण, नावि खम् । .

अथ कविवंशवर्णनम् । अधुना कविः श्रीमाधो निजवंशवर्णनं चिकीर्षुराह-(१) सर्वाधिकारी सुकृताऽधिकारः श्रीवर्मलाख्यस्य बभूव राशः ॥ असतद्दष्टिविरजाः सदैव देवोऽपरः सुप्रभदेवनामा । १ ॥ सवाऽधिकारीति ॥श्रीवर्मलाख्यस्य राज्ञः श्रीवर्मलाभिधानस्य नृपतेः सर्वाऽधिकारी निखिलकर्मस्थानाधिकृतो महासेनाऽधिपतिः सुप्रभदेवनामा बभूव सुप्रभदेवाभिधानोऽभूत् । किलक्षणः सुप्रभदेवनामा सकृताधिकारः सुकृते पुण्ये कर्मण्यधिकारो व्यापारो यस्य सः तथा धर्मेऽवसक्तः। यश्च सुकृत एवाधिकृतः स कथं सर्वाधिकारी । तथा अपरो देवः द्वितीयो राजेव, तत्सादृश्यात् । राजा हि सर्वाधिकारी भवति । अथवा अपरो देवोदे वसदृशः । सरा हि सुकृताऽधिकृताः असक्तदृष्टयोऽनिमिषाः विरजस्का निलयः । उपजातिवृत्तम् ॥ १ ॥ काले मितं तथ्यमुदर्कपथ्यं तथागतस्येव जनः सचेताः ॥ विनाऽनुरोधात् स्वहितेच्छयैव महीपतिर्यस्य बचश्चकार ॥२॥ काले इति ॥ यस्य सुप्रभदेवस्य काले समये यद्वचनमुपदंशवाक्य, तन्महीपतिवर्मला- ख्यऽऽश्चकार अकरोत् । कः कस्येव वश्चकारेत्याह-तथागतस्य बुद्धभट्टारकस्य वचो यथ सचेताः प्राज्ञो जनोऽन्वतिष्ठत । कथञ्चिन्मन्दादरश्चकार नेत्याह-कुतः अनुरोधाद्विना उपरोधभावम् ऋते । कथं चकारेत्याह-स्वहितेच्छयैव स्वस्यात्मनो हितेच्छयाऽनुकूल- चिकीर्षया । यतोऽसौ सचेताः प्राज्ञः। किंलक्षणं वचः, हितदेतत्वमाह-मितं स्वल्पाक्षरम् तथा तथ्य सत्यम् , अपरं किंलक्षणं वचः उदर्कपथ्यमायत्यां हितम् । 'उदः फलमुत्तरम्' इत्यमरः । तथागतस्य बुद्धभट्टारकस्य सचेताः प्राज्ञो जनो मितं तथ्यमुदर्कपथ्यं वचो यथा स्वहितेच्छयैव करोति, तत्राऽनुरोधात्कृत्वोभयतः किलेदमुक्तमिति ॥ २ ॥ तस्याऽभवत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ॥ यं वीक्ष्य नैयासमजातशत्रोर्वचो गुणग्राहि जनैः प्रतीये ॥३॥ तस्येति ॥ तस्य सुप्रभदेवस्य दत्तक इति दत्तमाख्यस्तनजोऽभवत् पुत्रोऽभूत् । किंलक्षणो दत्तकः उदात्तो विपुलचित्तः तथा क्षमी क्षमाशीलः, अपरं किलक्षणो दत्तकः अत एव मृदु- रकठोरः तथा धर्मपरः सुकृतैकसक्तः । यं दत्तकं जनैवीक्ष्य लोकदृष्ट्वा, वैयासं व्यासस्येदं कृष्णद्वैपायनोक्तम् अजातशत्रोर्युधिष्ठिरस्य गुणग्राहि गुणग्राहक वचः प्रतीये वचनं प्रतिपन्न. मङ्गीकृतं भवति । सत्यं गुणिनः पुरुषाः। भगवता कृष्णद्वैपायनेन पार्थस्याऽधिकार्यस्य वचनं किञ्चिदुक्तम् । अत्र च दत्तकोऽयं निखिल णभाजन निदर्शनम् । अन्यथा कथमेवगुणोऽयं स्यात् । क्षमीति शमादित्वादिनुण । व्यासस्येदं वैयासं वचो भारतम् । वृद्धायभवादि- स्वादन्यत्र नरस्यासुलभः(१) । गुणान् गृह्णातीति गुणग्राहि । आख्यानकी वृत्तम् ॥ ३ ॥ सर्वेण सर्वाश्रय इत्यनिन्धमानन्दभाजा जनितं जनेन । यश्च द्वितीयं स्वयमद्वितीयो मुख्यः सतां गौणमवाप नाम ॥ ४ ॥ सर्वेणेति ॥ या दत्तकः स्वयमात्मना सर्वाश्रय इत्येवंभूतं नाम संज्ञाऽन्तरमवाप लेभे किंलक्षणं द्वितीयं नाम सर्वेणाऽखिलेन जनेन लोकेन आनन्दभाजा तुष्टेन सता जनितं कृतम् , - (१)वंशवर्णनपरस्याऽग्रिमस्य लोकपत्रकस्य मनिनायकृता व्याख्या नोपलभ्यत इति केवल वल्लभदेवकृतैषाऽत्र सरगृह्यते ।

७५२ सन्देहविषौषधियुतं कविवंशवर्णनम् । अपरं किंलक्षणं नाम गौणं गुणप्रवृत्ति निमित्तभूतमागतमर्थानुगम् । सर्वेषामाश्रयत्वात् । यथा हि सवें तत्र द्विजदीनाऽनाथाऽतिथिमित्रबान्धवा विश्राम्यन्ति, तथाऽसौ सर्वाश्रयः । न तु तैलपायिकावन्नाममात्रेण । अत एवाऽनवद्यमनिन्धं प्रशस्यं श्लाघ्यम् । किंलक्षणो यः अद्वितीयः सर्वोत्कृष्टः, अविद्यमानोऽस्मादधिको गुणो यस्य(१) सोऽद्वितीयः इति कृत्वा । तथा सतां मुख्यः प्रधानोऽग्रणीः। सर्व त्वेतद्विरुद्धमिवाऽवभासते। तथा हि-यस्य हि द्वितीय नाम विद्यते कथमसावद्वितीयो भवेत् । यश्च मुख्यः स कथं गौणमप्रधान स्यात् , यस्य च लोकैरपरं नाम जनितं स कथं तत्स्वयं लेभे । अविरोधस्तु मुख्यः स्यादेवेति। नामस्वरूप- मात्राऽवस्थाप्यमानस्य सर्वाश्रयस्य प्रातिपादिकार्थमात्रे सति कर्मत्वाभावाद् द्वितीया- ऽनुपपतिः। मुखमिव मुख्यः । शाखादिभ्यो यः। विरोधाऽलङ्कारः । इन्द्रवज्रा वृत्तम् ॥४॥ श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्मलक्ष्मीपतेश्चरितकीर्तनमात्रचारु ॥ तस्याऽऽत्मजः सुकविकीर्तिदुराशयाऽदः काव्यं व्यधत्तशिशुपालवधाभिधानम्॥ श्रीशब्देति ॥ तस्य दत्तकस्यात्मजोऽपत्यम् भदः शिशुपालवधाभिधानं शिशुपालवध. नामकं कान्य ग्रन्थरूपं व्यधत्त अरचयत् । शिशुपालवध इत्यभिधानं नाम यस्य तत्तथा । कया हेतुना सुकविकीर्तिदुराशया सकवीनां श्रेष्ठविदुषां वररुचि-सुबन्धु-सोमनाथ-भवभूति- क्रीडाचन्द्र-कालिदास-बिलण-भारवि-बाण-मयूरादीनां या कीर्तिः ख्यातियशस्तत्र या दुराशा दुरमिलाषस्तया । महाकविकीर्तिलिप्सयेत्यर्थः । दुष्टत्वं त्वाशायाः स्वल्पबुद्धित्वेन सुकविकीतरप्राप्यत्वात्। तथा च कालिदासः- 'मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले मोहादुदाहुरिख वामनः ॥ इति । किंलक्षणं काव्यम् , श्रीशब्दरम्यकृतसर्गसमाप्सिलक्ष्म श्रीरित्ययं शब्दो ध्वनि- मङ्गलवाचकत्वात् , तेन रम्यं कृतं मनोहरं विहितं सर्गाणां समासौ अर्थादध्यायानां समापने लक्ष्म चिह्न यत्र तत्तथोक्तम् , अपरं किलक्षणं काव्यम् लक्ष्मीपतेः श्रीनारायणस्य कीर्तनमात्रचारु कीर्तनमात्रेण वर्णनमात्रेण चारु मनोज्ञम् , न त्वलङ्कारादिनेत्यनौद्धत्य- कथनम् । भङ्गया तु सर्वेऽत्र काव्यगुणाः सन्तीत्युक्तं भवति । श्रीरित्यय शब्दः, मयूर- व्यसकादित्वात्समासः । यदि श्रीश्चासौ शब्दश्चेति कर्मधारयः केवलमेव। चरितकीर्तनमात्र- मित्यस्वपदेन विग्रहः। सुप्मुपेति समासः। वसन्ततिलका वृत्तम् । उदात्तो मध्यमोऽलङ्कारः। इति कविवंशवर्णनम् । सूनुरानन्ददेवस्य रणभून्योमतास्यवः(१)। यवत्त टीका काव्येऽस्मिन् वल्लभः सूरिवल्लभाम् ॥ विवरणमन्यद् दृष्ट्वा बुधैस्ततो ज्ञास्यते विशेषोऽत्र । प्रायेण येन भुक्तं तजानीयात् कुतोऽविशेषज्ञः(२) । इति श्रीआनन्ददेवायनिवल्लभसूरिविरचिते माघकाव्ये वंशविवरणम् । समाप्तमिदं माघकाव्यम् । (१) "अविद्यमानो गुणादधिको गुणो यस्य(?)" इति 'निर्णयसागर'मुद्रितपुस्तके। (२) श्लोकस्यमिदं मुद्रितपुस्तके नोपलभ्यते । - .

॥श्रीः॥ शिशुपालवधस्य. पद्यानामकाराद्यनुक्रमणिका । श्लो० पृ० पृ० श्लोकाः श्लो श्लोकाः श्लोकाः लो० अ ४० अथोपपत्तिं छलना ६९/२५६ अनुवनमासतभ्रवः २२ ४६० अकृतस्वसन ४७४०३ अदयमिव करानै ६२/२३० अनुवनं वनराजि ४६ ६९ अकृत्वा हेलया पाद ५२/१९५ अद्रीन्द्रकुलचर ४३/२५६ अनुवपुरपरेण २१ ७.४ अक्षितारासु क्व्यिाध९९/३२८ अधरेष्वलक्तकरसः ४६/५६३ अनुवर्त्म वल्लभ ९२ १४६ आखिद्यताऽऽसन्न १२२७३ अधिकमरुणिमान ६३/३२० अनुलेपनानि २४ १८० अग्रे गतेन वसतिं १५/४५७ अधिकोनमद्धन ४१/७२२ अनुसन्ततिपातिनः ११ ६९ अङ्काधिरोपितमृग ५३ ५९९ आधिगम्य च रन्ध्र ७३/५१८ अनृतां गिरं ५९२ अचिराजितमीन ५८/३३१ अधिजानु बाहु ५४ ६९४ अन्तकस्य पृथौ तत्र ७१ ५५३ अचिरान्मया सह ६६६.८५ अधिनागं प्रजविनो ४५/१९३ अन्तर्जलौघ ३८ २१७ अजगणन् गणशः १५/२६९ अधिरजीन जगाम ५२/३६८ अन्यकालपरिहार्य ७१ ८ अजनमास्फालित ९ ३९९ अधिरजीन वधूभिः ५१ ६५ अन्यदा भूषणं १०. अज्ञातदोषैर्दोषझै ११३/४६२ अधिरात्रि यत्र ५१, ७३ अन्यदुच्छृङ्खलं सत्त्व ६२ २७३ अतनुकुचभरानतेन ६६ ४५५ आधरुक्ममन्दिर ३५/३५३ अन्ययाऽन्यवनिता २८ ५७६ अतिकोमलमेकतो १८४४७ अधिरुह्यतामिति १८६३२ अन्यूनोन्नतयो ५२९ अतिभूयसाऽपि ४|४५५ अधिरूढया ३६३०२ अन्यून गुणममृतस्य ५२ ४६. अतियाति नः ४६ २४० आधिलवङ्गममी ६६/६८६ अन्येन विदधेऽरीणां ५० ५१५ अतिरक्तभाव ९५६८ अधिवहिपतङ्ग ५,१६४ अन्योन्यव्यतिकर ५३ ५९६ अतिविस्मयनीय ६६४९१ अध्यध्वमारूढ ३०६४६ अन्योन्येषां पुष्करै ३२ २४९ अतिशयपरिणाहवान् ५ ४७ अध्यासामासुरुत्तुङ्ग ५/४१४ अन्वेतुकामो १६ ५३५ अतिसत्वयुक्त १५/१५९ अनतिचिरोज्झितस्य ४१२९० अन्वेष्टुं दयितमिवा २७ २४० अतिसुरभिरभाजि ६७ २२ अनन्यगुास्तव ३५२७३ अपगतनवयावकै ३९७ अतुहिनरुचिना ४६ ५८६ अनपेक्ष्य गुणागुणं ४४४४१ अपदान्तरं च ४९७ अत्र चैष सकले ५८ ८८ अनल्पत्वात्प्रधानत्वा ९०३४१ अपयाति सरोषया ८३ २६१ अथ किल कथिते ३६ ४६८ अनवद्यवाद्य ६६/५८८ अपराधशतक्षम ५४६ अथ गौरवेण ४५/२६. अनवरतरसेन ३१३१२ अपराहशीतल '५१२ अथ तत्र पाण्डु १६१७ अनारतं रसति ३२ १६२ अपशकमत ११ अथ प्रयनानिमिता १३.३८४ अनिमिषमविरामा १८५३७ अपहाय तुङ्गमपि १९ २१० अथ रिम्सुम, १५७८ मनिराकृतताप २४६९९ अपूर्वयेव तत्काल ८५ ३२३ अथ लक्ष्मणा ३१/५८९ निरूपितरूप ८९ अप्यनारभमाणस्य ९१ ६९८ अथ वक्षोमणिच्छाया८३ ५८ अनि.डितकार्यस्य २८ ३७२ अप्रभूतमतनीयसि ८३ ५५३ अथवाऽऽध्वमेव ६४/५४७ अनिशान्तवैर ४९/३४८ अप्रसन्नमपरा १४ ५१९ अथवा न धर्म १९ १७१ अनुकृतशिखरौघ ६८५८७ अबुधैः कृतमान ५८६ अथवाऽभिनिविष्ट ४३ २४७ अनुगिरमृतुभि १६८१ अभमवत्ताः प्रसभा ३५ ७३७ अथ सस्मितवीक्षिता५२ ९८ अनुत्सूत्रपदन्यासा ११२/५३९ अभनक तरू २४ ३१७ अथ सान्दसान्ध्य १५/३३८ अनुदेहमागतवतः ७३ ६९६ अभावि सिन्ध्या ७६ ७३१ अथ सूर्यरुचीव ३७३८० अनुनयमगृहीत्वा ९७१८ अभिचैद्यमगात् ३ ६२५ अथोच्चकैर्जरठ ५२ २२२ अनुययौ विविधो २७५१३ अभितर्जयभिव ३ ११५ अथोच्चकैस्तोरण २६ ३१४ अनुरागवन्तमपि १०३११ अभितापसम्पद ६६७ अथोत्तस्थे रणा ११६२८ अनुल्लसद्दिनकर ६१३१५ अभितिग्मरश्मि ११ ४ ४८ १ लो० पृ० ७४ . २ शिशुपालवधस्य- पृ० श्लोकाः लोकाः लो०। पृ० लोकाः श्लोक ४४० अभितः क्षुभिता ५७४०१ अवतमसभिदायै ५७ ४२१ आगच्छतोऽनूचि ३४ ७६६ भभितः सदोऽथ ६१/३२० अवधार्य कार्य २२/४९१ आगताधवसितेन ५६६ आभिधाय तथा २/५२५ अवधीज्जनगम ३५/३५० आगतानगणित २० ५५४ अभिधाय सक्षमिति ६७/३३२ अवधीर्य धैर्यकलिता ५९ २८३ आघ्राय श्रमज ५४७ आभिधित्सतः ५० २६१ अवनतवदनेन्दु ३८/१४८ आच्छादितायत ०१९ २७७ अभिमतमभितः ७२/३३८ अवनम्य वक्षसि ७४/१६४ आच्छाब पुष्पपट ५२ २५९ अभिमुखपतितै २९/५१९ अवनीभृतां त्व २१/७१० आच्छिद्य योध १११ २६४ अभिमुखमुपयाति ४१४४२ अवलोक एवं ७/२०१आजिघ्रति प्रणत ५४ ७१९ अभिवीक्ष्य विदर्भराज ६४५३ अवलोकनाय ३०६६४ आतन्वद्भिर्दिक्षु ४५३ अभिवीक्ष्य सामि ३१/२४८ अवसरमधिगम्य ३६५० आताम्राऽऽभा रोष ४२ ५२१ अभिशत्रु संयति २०२७३ अवसितललित ६४४९६ आत्मनैव गुणदोष ५४ २३९ अभिषिषणयिषु ६४/६१५ अवारितं गतमुभयेषु २७ १९० आत्मानमेव जलधेः ३२ ५३४ अभिहन्यते १४५९७ अविचालितचारु ५९ आत्मोदयः परज्यानि३० ६९४ अभीकमतिकेनेद्धे ७२ ३२६ अविभावितेषु ४०५०० आदितामजननाय ६५ ३८ अभीक्ष्णमुष्णैरपि ६६३१५ अविभाव्यतारक १२/४९० आयकोलतुलितां ४३ २४४ अभीष्टमासाद्य ७४/५४० अविमृश्य गोवध २६ ६४० आधावन्तः संमुखं १७ २६ अभूदभूमिः प्रतिपक्ष ४२/२७७ अविरतकुसुमा ७१/४७८ आननेन शशिनः १८ ४२४ अभ्याजतोऽभ्यागत ४१/४०० अविरतदयिताङ्गा ५५ ३५६ आननैर्विचकसे ३६ ४३५ अभ्युद्यतस्या ७०२८४ अविरतरतलीला १७/२९५ आनन्दं दधति ७२३ अमनोहरतां यती १५/२५३ अविरलपुलकः १५/२८८ आनाभः सरसि २२ ३१५ अमलात्मसु प्रति ३७७२१ अविषह्यतमे कृता १०६६८ आपतन्तममुं दूरा ३९ अमानवं जातमजं ६७११७ अवेक्षितानायतवल्ग ३०६९० आपदिव्यापृतनया ५४२ अमुना करेण ३० २०४ अव्याकुलं प्रकृत ६०६५२ आपस्काराल्लून ३२५ अमृतवैर्विदध ३६/४३८ अव्याहतक्षिप्रगतैः ७६ २९९ आबद्धप्रचुर ४५ ९६ अमृतं नाम यत्सन्तो१०७ ३२ अशक्नुवन् सोड ५३ ४९७ आभजन्ति गुणिनः ५७ ३६५ अम्बरं विनयतः ६२/२५३ अशिथिलमपरा १६/६४१ आमूलान्तात्सायकेना२१ १२१ अम्भश्च्युतः कोमल ३९, १४ अशेषतीर्थोपहृताः १८३६४ आमृशद्भिरभितो ५९ १५३ अयमतिजरठाः २९/२०३ अश्रावि भूमिपतिभिः५८ ३०६ आमृष्टास्तिलकरुचः ६१ ५२६ अयमुप्रसेन ३८/२५८ असकलकलिका २६ ३६६ आयताङ्गुलिरभूत् ६५ ६८९ अयशोभिदुरालोके ५८४५२ असकृद्गृहीत २८ १७५ आयस्तमैक्षत ६ २२७ अरमयन् भवना ६६ असम्पादयतः कश्चि४७/६६६ आयान्तीनामविरत ८० ६१८ अरातिभिर्युधि ३१६१९ असिच्यत प्रशामित ३८२८४ आयान्त्यां निज ११ ३९४ अरुणजलजराजी ४० ५२० असुरस्त्वया २३/४३४ आयामवद्भिः ६५ २१९ अरुणिताखिलशैल २१६९७ असृगजनोऽनक्षति ७८ २७९ आयासादलघु ३५३ अर्पितं रसित २७५६९ अहितादनपत्रप: ७/१७४ आरक्षमममवत्य ६०६ अलक्ष्यत क्षणदलिता ३.६७६ आहतानभि वाहिन्या२५/ ८१ आरभन्तेऽल्पमेवाझा:७९ ६०० अलपलपति ७६४१० अहाय यावन्न ७३०३ आरूढः पतित ४६१ अलसैमदेन ३०८ आर्द्रत्वादतिशयिनी ६७ १८५ अल्पप्रयोजनकृतोरु २५/६४८ आकम्प्राप्रैः केतुभिः ३०/ ४६ आलप्याऽलमिदंबभ्रो४० ३२६ अवकाशमाशु x/११० आकर्षतेवोर्ध्वमपि १५/२८४ आलापैस्तुलित १२ २७३ अवचितकुसुमा ६१/२९. आकृष्टप्रतनुवपु २५/४२८ बालोकयामास हरिः ५० २७२ अवजितममुना ६०/६३८ आक्रम्याऽऽजेरप्रिम १४३४२ भालोक्य प्रियतम ८४ ६०६ अवश्या यदहस ४/६५४ भाक्रम्यैकामप्रपादेन ५११८८ मालोलपुष्करमुखो ३० व ४८ लो) पृ० पृ० ४४ २८ ६८ पद्यानामकारानुक्रमणिका । पृ० श्लोकाः श्लोकाः शो श्लोकाः लो० १७४ आवर्तिनः शुभफल ४४०६ इत्थं रथाश्वभ १)३३९ उदितोरसाद ३६३ आवृतान्यपि ५६६७६ इत्यालिङ्गितमालोक्य २४३३५ उदितं प्रियां प्रति ६९ ३६६ भाशु लचितवतीष्ट ६४४७८ इत्युदीरितगिरं १७. २० उदीर्णरागप्रति ३२ १६३ आश्लिष्टभूमि रसितार७२ २१५ इदमपास्य विरागि ११ ८२ उदतुमत्यजन्नीहां ८१ ५२ माश्लेषलोलुपवधू १७२३५ इदमयुक्तमहो । ५६/७०७उद्धतान् द्विषतस्तस्य१०३ १५५ आसादितस्य तमसा ३४२६८ इदमदमिति ५०/३५५ उद्धरिव परस्पर ३२ २८७ आसीना तटभुवि ७४ इन्द्रप्रस्थगमस्तावत् ६३ ३७० उद्धतैनिभृतमेक २८६ आस्कन्दन् कथमपि १६ ४४६ इभकुम्भतुङ्ग १६/४३४ उद्धृतमुचैर्ध्वजिनी ६६ १८७ आस्तीणतल्प २७.७२४ इषुवर्षमनेकमेकवीर १८१३७ उद्धृत्य मेधैस्तत एव७५ ३७४ आस्तृतेऽभिनव ८९७१५ इष्टं कृत्वाऽर्थ ११९ १७६ उद्यत्कृशानुशकलेषु ९ ६४५ आस्थद् दृष्टेराच्छदं ३० १६७ इह मुहुर्मुदितैः ६०/६३६ उद्यन्नादं धन्विभिः ९ ३०१ आस्माकी युवति ५० २९५ उद्वीक्ष्य प्रियकर ३६९ आहतं कुचतटेन ७४३७० ईदृशस्य भवतः ७७/२९८ उद्वोढुं कनक ४८४ उन्नमन् सपदि ४४५ इतरानपि क्षिति १४.७३१ उचितस्वपनोऽपि ३६/२०९ उन्नम्रताम्रपट ७२७ इतरेतरसन्निघट्ट २६ १४८ उच्चारणज्ञोऽथ गिरी १८२९१ उन्निद्रांप्रयकमनोरमं २८ १५२ इतस्ततोऽस्मिन् २७ ४२६ उच्चैर्गतामस्खलितां ४५/ ६३ उपकऽरिणा सन्धि३७ ३९० इति कृतवचनायाः ३५ १५३ उच्चमहारजतराजि २८५३० उपकारकस्य २७० इति गदितवती ५६ १७८ उच्छिद्य विद्विष इव १२,५७८ उपकारपरः २२ ३४० इति गन्तुमिच्छु ८२/६६३ उत्क्रान्तानामामिषायो७३ ५३० उपकारिणं निरुपकार ६ ५१६ इति चुक्रुधे ११/१८४ उत्क्षिप्तकाण्डपटका २२ ३२५ उपगूढवलमलधूमि ३८ ७२४ इति चेदिमहीभृता १७/४९९ उत्क्षिप्तगात्रः स्म ५,२३८ उपचितेषु परे ६३ ५७५ इति जोषमवस्थितं १६१५१ उत्क्षिप्तमुच्छ्रितसिता २५ ९३ उपजापः कृतस्तेन ९९ ५५० इति तत्तदा ५८२८५ उत्क्षिप्तस्फुरित १४/३२३ उपजीवति स्म सततं३२ ३१० इति धौतपुरन्ध्रि ७१६४९ उत्क्षिप्योच्चैरस्फुरन्तं ३८३३४ उपताप्यमानमलघू ६५ ७४८ इति नरपतिरस्त्रं ७६२०३ उत्खाय दपचलितेन ५९/४६२ उपनीय बिन्दु ५४४ इति निन्दितुं ३३ ३५८ उत्तरीयविनयात् ४२ ३३७ उपनेतुमुन्नति ३२७ इति निश्चित ४३/१३९ उत्तालतालीवन २४ उपप्लुतं पातुमदो ३८ ५९९ इति पूर इवोदकस्य ७५, ४९ उत्तिष्ठमानस्तु परो १०७३८ उपमानमलम्भि ५४ २० इति ब्रुवन्तं तमुवाच३१/२०६ उत्तीर्णभारलघुना ६२२६८ उपरिजतरुजानि ४९ ५४६ इति भीष्मभाषित ४७/२९२ उत्तुङ्गादनिल ३१२५८ उपवनपवना ३७५ इति मदमदनाभ्यां ९१४११ उत्थातुमिच्छन् ९/३१३ उपसन्ध्यमास्त ६०० इति यस्य ससम्पदः ७८६५५उत्पत्याऽऽरादर्धचन्द्रा५३ ८१ उपायमास्थितस्यापि ८० २६४ इति वदति सखीजने ४३/१३८ उत्पित्सवाऽन्तनदभर्तु७७/६१६उपेत्य च स्वनगुरुपक्ष २८ २५२ इति वदति सखीजने १३/१३९ उत्सङ्गिताम्भःकणिको७९१०. उपेयिवांसि कर्तारः११४ २१५ इति वदन्तमनन्तर १३/४२९ उत्सेधनिधृत ५३ ११८ उपेयुषो वम निर ३२ ५२६ इति वाचमुद्धत ३९३२२ उदमाज्ज कैटभजित३० ६९९ उपैतुकामैस्तत्पारं ८७ १२० इति विशालतार्था ११८१४९उदयति विततोलरश्मि२० ५८६ उभयं युगपन्मयो ४२ ७६ इति संरम्भिणो वाणी६७३८१ उदयमुदितदीप्ति १२/१०७ उभा यदि व्योम्नि ६०५ इतीरिते वचसि १३९७ उदयशिखरिशृङ्ग ४७/४६५ उरगेन्द्रमूर्धरुह ४९५ इत्थमत्र विततक्रमे ५३/४६७ उदयाद्रिमूनि ६४ ७२५ उरसा विततेन १७२ इत्थं गिरः प्रियतमा १/ २१ उदासितारं निगृहीत ३३ ६७१ उल्मुकेन दुमं प्राप्य ३४३ इत्थं नारीर्घटयितु ८७६१९ उदासिर पवनविधूत३९/१९६ उष्णोष्णशीकरसृजः ४५ ८. ८ लो० पृ० लो० पू० ८ ४८ शिशुपालवधस्य- श्लोकाः श्लोकाः श्लोकाः श्लोक ३५ कलासमग्रेण गृहा ५९/७३४ कृतकेशविडम्बने. ४३ ३६७ ऊरुमूलचपलेक्षण ६७६६. कश्चिच्छस्नाऽऽबाध ६४ ३९३ कृतगुरुतरहार ३० ऋ ६५३ कश्चिद् दूरादायतेन ४९ ५७० कृतगोपवधुरते: ७२० ऋजुताफलयोग ९६५७ कश्चिन्मूर्छामेत्य ५८७४७ कृतदाहमुदार्चषः ४१४ ज्वीर्दधान १८३४६ कस्यचित्समदनं ९३८२ कृतधवलिमभेदैः १४ ए ३०४ कस्याश्चिन्मुखमनु ५६/२६१ कृतभयपरितोष ३७ ४८९ एक एव वसु ४०३६९ कान्तया सपदि ७३/७३६ कृतमण्डलबन्ध ४९५ एक एव सुसखैष ५२ २४५ कान्ताजनेन रहसि ७७/२३२ कृतमदं निगदन्त ५० १५२ एकत्र स्फटिकतटांशु२६/२८९ कान्तानां कुवलय २३/४०५ कृतसकलजगद्विबोधो ६५ २८१ एकस्यास्तपनकरैः ४ १२२ कान्तेन्दुकान्तोपल ४४५१५ कृतसभिधानमिव ७०८ एकेषुणा सङ्घतिथान् १०७ ३४५ कापिशायनसुगन्धि ४६७३ कृतस्य सर्वक्षितिपैः १४ १६७ एतस्मिन्नधिकपयः ५९ ३६४ कामिनामसकलानि ५५ ८५ कृतापराधोऽपि परै ८६ ५०८ एष दाशरथिभूय ८१ ३६५ कामिनः कृतरतो ६१ ११९ कृतास्पदा भूमिभृतां ३४ ओ ४१३ कालीयकक्षोद १४/६७९ कृतोरवेगं युगपत् ३२ ४२१ ओजस्विवर्णोज्ज्वल ३५५६४ काश्चित्कीर्णा रजोभि ९६ १८ कृतः प्रजाक्षेमकृता २८ ६६४ ओजोभाजां यद्रणे ७५३१९ किमलम्बताऽम्बर २०६९८ कृत्तैः कीर्णा मही रजे८१ ६७३ ओजो महौजाः कृत्वा१६ ५५२ किमहो ! नृपाः ९८ कृत्वा कृत्यविद १११ ४३ ओमित्युक्तवतोऽथ ७५ ५८१ किमिवाऽखिललोक ३१/१५० कृत्वा पुवत्पातमुच्चै २३ ६४८ ओषामासे मत्सरे) ३५.५४२ किमिवात्र चित्रमय २९/६७० कृत्वा शिनेः शाल्वचमूं अं ५३८ किल रावणारि २१६८६ केनचित् स्वासिना ४८ ३५९ अंशुकं हृतवता ४३ २६३ किसलयशकले ३९ ३६३ केनचिन्मधुर ५०५ किं कमिष्यति ७५/५०१ केवलं दधति ६६ ५३ ककुमिकन्यावक्त्रान्त२०२९१ किं तावत्सरसि २९/६७५ केशप्रचुरलोकस्य २२ ३२७ ककुभां मुखानि ४२/४८७ किं नु चित्रमधि ३५ ३५४ कोपवत्यनुनया ७४४ ककुभः कृतनाद ६७/४७५ किं विधेयमनया ११४२२ कोशातकीपुष्प ३७ ६०० कटकानि भजन्ति ७७६६६ कीर्णा रंजे साऽऽजि ७९ १०३ कौबेरदिग्भागमपास्य १ ५४४ कटुनाऽपि चैद्य ४०१९१ कीर्ण शनैरनुकपोल ३५५३७ क्रमते नभो रभस २० १८२ कण्ठावसकतनु १८/२४३ कुटजानि वीक्ष्य ७३/६६५क्रव्यात्पूगैः पुष्करा ७८ १९७ कण्ड्यतः कटभुवं ४६ १२१ कुतूहलेनेव जवा ४१३४४ क्रान्तकान्तवदन ३ ३२८ कदलीप्रकाण्ड ४५/६४२ कुन्तेनोच्चेः सादिना २३/४४२ क्रान्तं रुचा काश्चनवप्र३ २३. कनकभङ्गपिशङ्ग ४७/५४८ कुपिताकृति ५२ ५०६ कामतोऽस्य ददृशु ७७ ५१४ कनकाऽङ्गदद्युतिभि ७/४०४ कुमुदवनमपत्रि ६४६५१ कमन् दन्तौ दन्तिनः४३ १०९ कपाटविस्तीर्णमनो १३३५४ कुर्वतां मुकुलिता ३०५८७ क्रियते धवल: ५१५ करकुड्मलेन २९६ कुर्वद्भिर्मुखरुचि ३८६४५ क्रुध्यन् गन्धादन्य २७ ३९३ करजदशनचिह ३७६५१ कुर्वन् ज्योत्स्ना ४४/७०७ क्रूराऽरिकारी ४९ करदीकृतभूपालो ९२४६ कुर्वन्तमित्यतिभरेण ७९ ६३४ क्रोधावेशाद्धावतः ८३ करप्रचेयामुत्तुङ्गः ८३६३६ कुर्वाणानां सम्पराया ८१४३ क्वचिज्जलाऽपाय ४५५ करयुग्मपम ३७/५८५ कुशलं खलु तुभ्य ४१४०४ क्षणमतुहिनधाम्नि ६५ ३३८ कररुद्धनीवि ७५/१५५ कुशेशयैरत्र ३३/३.८ क्षणमयमुपविष्टः ६८१ करेणुः प्रस्थितो ३६ २१७ कुसुमकार्मुक १६/५६२ क्षणमात्ररोधि २४ करोति कंसादिमही ३९२३८ कुसुमयन्फलिनी ६२/५१४ क्षणमाश्लिषद्धटित ३२१ कलया तुषार २७३३४ कुसुमादपि स्मितहशः६७ ५५५ क्षणमीक्षितः पथि ७१ १३० कला दधानः सकला ६०२६४ कृतकृतकरुषा ४/५३४ क्षणमेष राजस १० १०४ ४ ४८ ६ .

शो पृ० शो० पृ. ६ ७४ पद्यानामकारानुक्रमणिका । पृ० श्लोकाः श्लोकाः सो. ३७९ क्षणशयितविबुद्धाः ६२५४ गुरुतरकलनूपुरा १८१८३ छायाविधायिभि ६२२ क्षणेन च प्रतिमुख ४५/७४२ गुरुतापविशुष्य ६३ १४३ छायां निजस्नीचटुला ६ ३७९ क्षितितटशयनान्ता ४७ गुरु द्वयाय गुरुणो ५३६ क्षितिपीठमम्भसि १७/२४९ गुरुनिबिडनितम्ब ६ २२८ जगति नैशमशीत ४३ १२७ क्षितिप्रतिष्ठोऽपि ५२/५५२ गुरुनिःश्वसन् ६२५२१ जगति श्रिया १९९ क्षिप्त पुरो न जगृहे ५०/५८८ गुरुभिः प्रतिपादितां ४९१०४ जगत्पवित्रैरपि २ ३५५ क्षीबतामुपगता ३४/७२९ गुरुवेगविराविभिः ३० १८ जगत्यपर्याप्तसहस्र २७ १३० क्षुण्णं यदन्तःकरणेन५९/१४१ गुरिजलं दृषदः २५५६ जगदन्तकालसमवेत ७३ ५८८ क्षुभितस्य महीभृतः ५१५५४ गृहमागताय ६८ २४१ जगदशीकर्तुमिमाः ६९ १२५ गोपानसीषु क्षण ४९ ५४ जगाद वदनच्छद्म २१ १७४० खचरैः क्षयमक्षये ५९४२३ गोष्ठेषु गोष्ठीकृत ३८२५५ जघनमलस पावरोरु २० ३६६ प्रन्यिमुदयितुं ६३/६६८ जजोजोजाऽऽजिजि ३ ५०६ गच्छताऽपि गगना ७६ ५०० प्राम्यभावमपहातु ६४ १९८ जज्ञे जनैर्मुकुलिताक्ष ४९ २८२ गच्छन्तीरलस ७.६६५ ग्लानिच्छेदिक्षुत्प्र ७७६१७ जडीकृतश्रवणपथे ३३ २२१ गजकदम्बकमेचक २६ घ ५६८ जनता भयशून्यधीः ६ २३४ गजपतिद्वयसी ५५/६३७ घण्टानादो निस्वनो १०/७२० जनिताऽशनिशब्द ६३० गजबजाक्रमण ६५/५७१ घनजालनिभः १०२२३ जलदपहिरनर्तय ३१ ३५४ गण्डभित्तिषु पुरा ३१५९९ घनपत्रमृतोऽनु ४६ जाज्वल्यमाना जगतः ३ २९२ गण्ड्षमुज्झितवता ३६ ५२ घूर्णयन्मदिरास्वाद १६ २४५ जातप्रीतिया ४१० गण्डोज्ज्वलामुज्ज्वल ८ ५७९ जितरोषरया २६ २५० गतधृतिरवलम्बितुं १०३६७ चक्रुरेव ललनोरुषु ६६६४३ जेतुं जैत्राः शेकिरे २४ ३८१ गतमनुगतवीणै १०७४३ चतुरम्बुधिगर्भ ६६/७४५ ज्वलतः शमनाय ४४४ गतया निरन्तर ११ ७० चतुर्थोपायसाध्ये तु ५४ ७४२ ज्वलदम्बरकोटरा ६२ ३११ गतया पुरःप्रति २ ४ चयास्त्वमित्यव ३/७४२ ज्वलिताउनललोल ६४ ४५१ गतयोरभेदमिति २५/५४९ चरणेन हन्ति २४६ गतवतामिव ७८५३८ चलतैष पाद २२/७२२ तडिदुज्ज्वलजातरूप १३ ३१४ गतवत्यराजत ८६१९ चलाऽङ्गुलीकिसलय ३७६७६ ततस्ततधनुमौवी २६ ७३२ गतसन्तमसैजवेन ४०५७३चलिताऽऽनकदुन्दुभिः१३ ५१ ततः सपत्नापनय १४ १९ गतस्पृहोऽप्यागमन ३०/७४१ चलितोद्धतधूम ६१४३७ तत्पूर्वमंसद्वयसं ६३१ गते मुखच्छदपट ६७५९६ चलितोलकबन्ध ६७४८८ तत्प्रतीतमनसां ३८ ३ गतं तिरश्चीनमनूरु २५५४ चलितं ततोऽनभि ६९४८५ तत्र नित्यावाहितो ३० गत्यूनमार्गगतयो ५३ ३५५ चारुता वपुरभूषय ३३७०२ तत्र बाणाः सपरुषः ९२ ६५९ गत्वा नूनं वैबुधं ६३ १२६ चिकंसया कृत्रिमपत्रि५१/४८३ तत्र मन्त्रपवितं २६ २७८ गत्वोद्रेक जघनपुलिने७४ १०५ चित्राभिरस्योपरि ४४७६ तत्सुराज्ञि भवति १४ ६१६ गम्भीरया विजित २९/६९७ चित्रं चापैरपतज्यैः ७९ ७७ तथापि यन्मय्यपि ते ७१ ६२५ गरीयसःप्रचुरमुखस्य५४ ३८२ चिरतररतखेद १३/३४० तयुक्तमा । तव ७२२ गवलाऽसितकान्ति १२४०२ चिरमतिरसलौल्यात् ६०५९० तदद्य समु गैति २९. गाम्भीर्य दधदपि २६ ९५चिरादपि बलात्कारो१०५.४६७ तदलक्ष्यरत्न ६२ ५३२ गुणवन्तमप्यय १० ३९० तदवितथमवादी ७० गुणानामायथातथ्या ५६ १२८ छन्नेष्वपि स्पष्टतरेषु ५६ २५तदिन्द्रसन्दिष्टमुपेन्द्र ! ४१ ७३० गुरवोऽपि निषध ३४/५२१ छलयन् प्रजाः २५ ३७ तदीयमातङ्गभटा ६३ ४५ गुरुकाव्यानुगां बिभ्र २/३५० छादितः कथमपि १९ ९१ तदीशितारं चेदीना ९५ ५४९ गुरुकोपरुद्धपद ५६/१७९ छायामपास्य १४३३३ तदुपेत्य मा स्म ६० ६४ ८० लो०। पृ० ४७ ४० १ ७० ४८ ६ शिशुपालवधस्य- पृ० श्लोकाः सो. पृ० श्लोकाः श्लोकाः श्लो० ४२ तदेनमुल्लखित ७३/४२० तैवैजयन्तीवन २१४२७ दन्ताप्रनिर्मिन ४५२ तनुभित्रिनेत्र २९/४७२ तोषमेति वितथ ३/३०३ दन्तानामधर २२९ तनुरुहाणि पुरो ४५/४७१ तं जगाद गिर १२०२ दन्तालिकाधरण ८३ तन्त्रावापविदा योगै ८२/४७६ तं वदन्तमिति १२/६८८ दन्तैश्चिच्छिदिरे ५५ ६५३ तन्वाः पुंसो नन्द ५०७०१ तं श्रियाघनयाऽनस्त ८८१५८ दन्तोज्ज्वलासु ७४४ तपनीयनिकाष ६८१७२ तं सद्विप्रेन्द्रतुलिता २५६६ दमघोषसुतेन ३८ सपेन वर्षाः शरदा ६५६५८ त्यक्तप्राणं संयुगे ६१३३२ दयिताय मानपरया ५७ ७२६ तमकुण्टमुखाः सुपर्ण२३ २१८ त्यजति कष्टमसा १८५५९ दयिताय साऽऽसव ८१ १०६ तमझदे मन्दरकूट ६४१७ त्रस्ती समासनकरेणु २४३३७ दयिताहतस्य १२ तमयम/दिकया १४१७५ त्रस्तः समस्तजन ७७२६ दयितैरिव खण्डिता २४ १३८ तमागतं वीक्ष्य ७८२८९ त्रस्यन्ती चलशफरी २४१७१ दर्पणनिर्मलासु २६९ तव कितव! ५४ १८६ त्रासाकुलः परिपतन् २६४९३ दर्शनाऽनुपदमेव ५२३ तव धन्यतेयमपि ३०१६८ स्ववसारन्ध्र ६१२२० दलितकोमलपाटल २३ ५१८ तव धर्मराज ! १७५२३ त्वमशवनुवन्नाशुभ ३१ २२५ दलितमौक्तिकचूर्ण ३५ २५० तव सपदि समीप ७/६३ त्वया विप्रकृतश्चेद्यो ३८७११ दाददो दुद्ददुद्दादी ११४ ३३४ तव सा कथासु ६४५२४ त्वयि पूजनं जगति ३३ १९२ दानं ददत्यपि जडः ३७ ४२० तस्थे मुहूर्त ३२५८७ त्वयि भक्तमता न ४५/७०८ दारी दरदरिद्रोऽरि १०६ ९३ तस्य मित्राण्यमित्रा १०१ ६४ त्वयि भौमं गते जेतु ३९७०३ दिङ्मुखव्यापिन ४७९ तरय साडयपुरुषेण १९५५५ त्वरमाणशाजिक ७२ ११७ दिदृक्षमाणाः प्रति ३१ १११ तस्याऽतसीसूनसमान १७११९ त्वष्टुः सदाभ्यास ३५.६७९ दिवमिच्छन् युधा ३१ ६७४ तस्याऽवदानः समरे १९ द ३१८ दिवसोऽनुमित्र १७ १०६ तस्योल्लसत्काश्चन ५/४८६ दक्षिणीयमवगम्य ३३ ३२४ दिवसं भृशोष्ण ३४ ५.९ तात! नोदधिविलोडनं ८३ ३५१ दत्तमात्तमदनं २३५०४ दिव्यकेसरिवपुः ७२ १३३ तामाक्षमाणः स पुरं ६४ ३४५ दत्तमिष्टतमया ६,३०७ दिव्यानामपि कृत ६४ २८६ ताः पूर्व सचकित १७२२७ ददतमन्तरिता ४१/६७० दिशमर्कमिवाऽपाची ६ ३६ तिरस्कृतस्तस्य जना ६२ ३२० ददृशेऽथ भास्कर २३, २७ दिशामधीशांश्चतुरो ४४ २८८ तिष्ठन्तं पयसि २१७३४ दधतस्तनिमानमानु ४४३६० दीपितरमरमुरस्युप ४७ ९७ तीक्ष्णा नारन्तुदा १०९/१६३ दधति च विकस ५०५०५ दीप्तिनिर्जिविरोचना७४ ७४ ३९८ दधति परिपतन्त्यो ५०/६०९ दुरीक्ष्यतामभजत १० ६७ तुङ्गत्वमितरा नाद्रौ ४८ २४७ दधति सुमनसो २६१३ दुरुद्वहाः क्षणमपरै २२ १४० तुरगशताकुलस्य ८२ ३३४ दधति स्फुटं ६६४१६ दुर्दान्तमुप्लुत्य २२ २१२ तुलयति स्म विलोचन ४६९५ दधतोऽपि रणे भीम ७३ १९९ दुःखेन भोजरितु ५१ ६७ तुल्येऽपराधे स्वर्भानु ४९ ५५७ दधतो भयानक ७५/१४८ दृष्टोऽपि शैलः स मुहुः१७ ५९५ तुहिनांशुम मुं ६४५९५ दधतोऽसुलभ ६५/१८२ दृष्दैव निर्जित १९ ४१५ तूर्णं प्रणेत्रा कृतं १९५५८ दधतः शशाक्ति ८०६७३ दूरादेव चमूभल्लैः १७ ६४५ तूर्ण यावन्नाऽपनिन्ये २९ ३४२ दधत्युरोजद्वय ८६/६५१ दूरोक्षिप्तक्षिप्रचक्रा ४५ ६५५ तूर्याऽऽरावैराहतो ५४ ५३ दधत्सन्ध्याऽरुणव्योम १८११० दैत्याधिपप्राणमुषां १४ ४६४ तृणवाया ५६३८३ दधदसकलमे १५ ४७ घोतितान्तःसभैः कुन्द ७ ५९ तृप्तियोगः परेणापि ३११७० दधद्भिरभितरतटी ६६६४७ द्राधीयांसः संहताः ३३ ६८ तेजस्विमध्ये तेजस्वी ५१ ६ दधानमम्भोरुह ५/३८० द्रुततरकरदक्षा १७७ तंजोनिरोधसमता १०६७२ दधाननसारश्य ११/६२८ दुतद्रवद्रथचरण ६. ८५ तेजः क्षमा वा नैका ८५/७३९ दधुरग्बुधिमन्थना ५६२५२ द्रुतपदमिति १२ १०७ तेनाम्भसा सारमयः ९६११ दधौ चलस्पृथुरसनं १५/४४१ द्रुतमध्वनन्नुपरि । । ४३७ तीजवेनैव श्लो० पृ० श्लो० पृ० ९ पधानामकाराघनुक्रमणिका । पृ० श्लोकाः श्लोकाः श्लोकाः श्लो० ३१४ द्रुतशातकुम्भनिभ ९३३० न मनोरमास्वपि ५० २३ निजीजसोज्जासयितुं ३७ २२२ द्रुतसमीरचलैः २८४४४ न ममौ कपाट १०२८५ नित्याया निजवासते १५ ७३८ द्रुतहेमरुचः खगाः ५३/५२७ न महानयं न च २/२२० निदधिरे दयितोरास २४ ७१४ द्विधा त्रिधा चतुर्धा११७५६० न मुमोच लोचन ८५/ १६ निदाघधामानमिवा २४ २२५ द्विरददन्तवलक्ष ३४/५९८नयति द्रुतमुद्धतिश्रितः७२६८० निधनज्जवहारीमा ३४ ६८७ द्विषद्विशसनच्छेद ५३) १२ न यावदेतावुदपश्य १५,३३७ निपपात सम्भ्रम ५८२ नरकच्छिदमिच्छती ३३ ६९६ निपातितसुहस्सामि ७५ ५११ धन्यो ऽसि यस्य ८७५३६ नरसिंहमूर्ति १८/६९३ निपाडनादिव मिथो ६८ ४५६ धरणीधरेन्द्रदुहितु ३९/११६ न लङ्घयामास २०६७४ निपीड्य तरसा तेन १८ २१. धरस्योद्धर्ताऽसि ६९/४५८ नलिनान्तिकोपहित ४३ ५०८ निप्रहन्तुममरेश ८२ १५४ धूमाकारं दधति ३० ४६६ नलिनीनिगूढ ५९४१९निम्नानि दुःखादवतीर्य २९ ४१८ धूभङ्गसंक्षोभ २६/२२४ नवकदम्बरजो ३२/६६२ निमेष्वोधीभूतमन ६९ २३७ धृततुषाकरणस्य ६०३९६ नवकनकपिशङ्गं ४३/७०२ नियोक्ष्यमाणेन पुनः ९१ ६८१ धृतप्रत्यप्रशृङ्गार ३७३१३ नवकुङ्कुमाऽरुण ७६१६ निरन्तरस्थागत ३० ५२१ धृतवान्न चकमरि २६,३८६ नवकुमुदवनश्री २२/१३४ निरन्तरालेऽपि विभु९६७ ३६७ धैर्यमुल्बणमनो ६८४६१ नवगन्धवारि ४९६१२ निराकृते यदुभिरित २० ६७९ धौतधाराऽसयः प्रष्ठः३० ३२२ नवचन्द्रिकाकुसुम २८६०८ निरायतामनल ४९८ ध्येयमेकमाथे ६०३९० नवनखपदमङ्गं ३४/६२९ निरीक्षितुं वियति ६१ ध्रियते यावदेकोऽपि ३५१७० नवनगवनलेखा ६५, ७४ निरुद्धवीवधासार ६४ ५६२ ध्रियमाणमप्यगल ८९२२५ नवपयःकणकोमल ३६ ११६ निरुध्यमाना यदुभिः २९ ३२९ ध्रुवमागताः ४९/२११ नवपलाशपलाशवनं २४९२ निर्गुणोऽपि विमुखो ४६ ११४ वजाप्रधामा ददृशे २३ ४६७ नवहाटकेष्टकक ६३ ४८४ निर्जिताखिल ६२४ ध्वजांशुकैधुव ५ नवानधोऽधो बृहतः ४ १९७ निधूतवीतमपि ५१७ ध्वनयन् सभां १३ ५९१ न विदध्युरशङ्कमप्रियं५५३०१ निधोते सति ३४० न विभावयत्यनिश ८१४६३ निलयेषु नक ७०४ न केवलं जनस्तस्य ९७६२० न शून्यतामगम ४०४६२ निलयेषु लोहित ५२ ११२ न केवलं यः स्वतया१९३६१ नस्म माति वपुषः ५०३१७ निलयः श्रियः ०१६ ३८९ नखपदवलिनाभी २९ ४११ नस्याग्रहीतोऽपि १० १० निवर्त्य सोऽनुव्रजतः ११ २४८ नखरुचिरचिते ४४८१ नाजसा निगदितं २३ ६२४ निवाता दधदपि ५१ २१८ न खलु दूरगतो १९५०९ नात्तगन्धमवधूय ८४/ २२ निवेशयामासिथ ३४ २६९ नखलु वयममुष्य ५३ १९० नादातुमन्यकारमुक्त ३३ ५८४ निशमप्य तर्जित ३८ ६७२ नखांशुमजरीकीर्णा १२४९३ नाऽनवाप्तवसुना ४९ ७६ निशम्य ताः शेष ५४४ न च तं तदेति ४१६८३ नानाऽजाववजानाना ४० ३६ निशान्तनारीपरिधान६१ ३३२ न च मेऽवगच्छति ५६ ४१२ नानाविधाऽऽविष्कृत ११६९३ निशिताऽसिलतालून ६७ २५० नच सुतनु ! न वेनि ८४८५ नाऽपचारमगमन् ३२ १३१ निषेव्यमाणेन शिव ६२ ५९७ नचिकीर्षति यः ६८ १८८ नाभीहदैः परिगृहीत २९ ७ निसर्गचित्रोज्ज्वल ५९३ न तदद्भुतमस्य ६०७१० नामाऽक्षराणां ११०१०७ निसर्गरवलया ६८२ न तस्थौ भर्तृतः ३८ ३०० नारीभिगुरुजघन ४७५९३ निहतोन्मददुष्ट ४९ न दूये सात्वतीसूनु ११ ८६ नालम्बते दैष्टिकतां ८८४२२ नि:शेषमाकान्त ११२.न नीतमन्येन नतिं २०७४३ निखिलामिति कुर्वतः६५/१४१ निःश्वासधूम सह रत्न १ ३३३ ननु सन्दिशेति ६१३३० निजपाणिपल्लव ५२/ ७३ नीतिरापदि यदम्यः ६१ ५२७ ननु १२२६ निजरजः पटवास ३७४३० नीते पलाशिन्युचिते ५५ ६३० नभोनदीव्यतिकर ६४४५९ निजसौरभभ्रमित ४५/६४१ नीते भेदं धौतधारा २० ४९ ! सर्व एव को पृ० शो० पृ० wo शिशुपालवधस्य- पृ० श्लोकाः श्लोकाः श्लोकाः श्लोक २८० नीरन्ध्रद्रुमशिशिरा ३७०३ पश्चात्कृतानामप्यस्य ९३ ३२४ प्रतिकामिनीति ६९८ नीलेनाऽनालनलिन ८४४२३ पश्यन् कृतार्थैः ३९३१३ प्रतिकूलतामुपगते १७८ नीहारजालमलिनः ११३६७ पाणिरोधमविरोधित ६९/६११ प्रतिक्षणं विधुवति १६ ५४५ नृपतावधिक्षिपति ४४ ६६ पादाहतं यदुत्थाय ४६/५४८ प्रतिघः कुतोऽपि ५३ २८७ नेच्छन्ती सम २०४१५ पादैः पुरः कूवरिणां २१५९२ प्रतिपक्षजिदप्य ४९१ नक्षताऽर्थिन ४५/३५२ पानधौतनव २६/५२० प्रतिपत्तुमङ्ग। २२ ५४ नैतल्लघ्वपि भूयस्या २३ १३५ पारेजलं नीरनिधे ७०४०२ प्रतिफलति करौघे ५८ ६६४ नैरन्तर्यच्छन्नदेहा ७६ १५० पाश्चात्यभागमिह २२३३२ प्रतिभिद्य कान्त ५८ १९६ नोचैर्यदा तरुतलेषु ४४३३९ पिदधानमन्व ७६ ५७९ प्रतिवाचमदत्त २५ २४१ नोज्झितुं युवति ६८ ६ पिशङ्गमौजीयुज ६/४५१ प्रतिशब्दपूरित प ३६. पीडिते पुनरुरः ४६/३९४ प्रतिशरणमशीर्ण ४१ २२३ पटलमम्बुमुचां २९३४६ पीतवत्यभिमते ८/१९४ प्रत्यन्यदन्ति ७३९ पततां परितः ५५/३४७ पीतशीधुमदिरैः ११/४१२ प्रत्यन्यनागं १२ ११ पतन् पतङ्गप्रतिम १२ १३६ पीत्वा जलानां ७३६५६ प्रत्यावृत्तं भङ्गभाजि ५५ ३१८ पतिते पतङ्गमृगराजि१८५१३ पुर एव शाहिणि २/६४५ प्रत्यासने दन्तिनि २८ ६३३ पत्तिः पत्तिं वाहमेयाय२६९१ पुरस्कृत्य फलं प्राप्तैः६३ ३०९ प्रत्यंसं विलुलित ६८ ४९९ पद्मभूरिति सृजन् ६१/ २७ पुराणि दुर्गाणि ४५/२७६ प्रथममलघु ६९ ६६३ पद्माकार्योधवकै ७२/६२६ पुरा शरक्षतिगलि ५५/३२२ प्रथमं कलाऽभव २९ ४३२ परिनन्वीत वधू ६१ ३१ पुरीमवस्कन्द ५१५१६ प्रथमं शरीरज १२ १९१ पन्थानमाशु ३४१५६ पुरः पतिस्कन्ध ३५/५५८ प्रधिमण्डलोद्धत ३९६ पयसि सलिलराशे ४५/६८५ पुरः प्रयुक्तयुद्धं तत् ४७ १५ प्रफुल्लतापिच्छनिभै २२ ६२३ पयोमुचामभिपततां ४६/४७५ पूर्वमा ! जुहुधि . १० ३० प्रभुव॒भूर्भुवन ४९ १२९ परस्परस्पर्धिपरार्ध्य ५८५०२ पूर्वमेष किल ६७३०१ प्रभ्रष्टेः सरभस ४९ ६०८ परस्परं परिकुपितस्य ८५२३ पृथिर्वी बिभर्थ २९/७२७ प्रमुखऽभिहताश्च २५ ३७ परस्य मर्माविध ६४/७३३ पृथुदर्विभृतस्ततः ४२/७४६ प्रयतः प्रशमं ७३ ६१२ परानमी यदपवदन्त १९/७३६ पृथुवारिधिवाचि ४७४०५ प्रलयमखिलतारा ६६ ७२२ मरिकुश्चितकूपरेण १९६७१ पृथोरध्यक्षिपद्रुक्मी ९५३५ प्रलयं परस्य १६ ३९८ परिणतमदिरामं ४९६५७ पौनःपुन्यादर ५७/२२३ प्रवसतः सुतरा ५७८ परितप्यत एव २३/३९० प्रकटतरमिम मा ३२ ४.३ प्रविकसति चिराय ६३ ५५८ परितश्च धौतमुख ७८३८९ प्रकटमलिनलक्ष्मा ३०५४८ प्रविदारिताऽरुण ५८. परितोषयिता न २०५८१ प्रकटान्यपि नैपुणं ३०५६० प्रविवत्सतः प्रियत ८६ ६.२ परितःप्रमिताक्षरा ८०५७६ प्रकटं मृदु नाम १९ २५ प्रवृत्त एव स्वय ७४६ परितःप्रसभेन ७२/६०७ प्रकुप्यतः श्वसन ६६८२ प्रवृत्ते विलसद्धानं ४६ ४५८ परिपाटलोलतल ४२३९५ प्रकृतजपविधीना ४२११३ प्रवृद्धमन्द्राऽम्बुद ५९१ परिपाति स केवलं ५४/७३२ प्रकति प्रतिपादुकै ३९२६१ प्रसकलकुचबन्धु ३३९ परिमन्थराभि ७८७४० प्रचलत्पतगेन्द्र ५८१०९ प्रसाधितस्यास्य मधु१२ ५५७ परिमोहिणा परि ७६/१३३ प्रजा इवाङ्गादरविन्द ६५६२२ प्रसारिणी सपदि ४४ .३६ परिवेष्टितमूर्तयश्च ४९/६०७ प्रजापतिक्रतुनिधनार्थ ७७३७ प्रसृतं रभसादयो ५१ ३८१ परिशिाथेलितकर्ण ११/७९ प्रज्ञोत्साहावतः ७६ १८४ प्रस्वेदवारिसविशेष २३ ३४ परेतभर्तुमहिषोऽमुना५७/२२६ प्रणयकोपभृतोऽपि ३८३७८ प्रहरकमपनीय २९९ पर्यच्छे सरसि ४६/३३१ प्रणयप्रकाशन ५५/५९० प्रहितः प्रधनाय ५२ ३६२ पल्लवोऽयमिति ५३/६१० प्रणोदिताः परिगत ३५/४३० प्रहानतीव कचि ४४९ पवनात्मजेन्द्र २२/५९३ प्रतनलसिता ६१/१६२ प्राग्भारतः पतदिहे ४९ ४० पृ० लोग पृ० - ४८ ९ पचानामकारानुक्रमणिका । पृ० श्लोकाः शो० श्लोकाः लोकाः शो० ३४७ प्रातिभं त्रिसरकेण १२/६८२ बाणाऽहिपूर्णतूणीर ३९३०६ भ्रश्यद्भिर्जलमभि ७०३ प्रापे रूपी पुराऽरेपाः९४३६९ बाहुपीडनकच ३६५ प्राप्तनाभिनद ६०३४७ बिभ्रती मधुरता १० ९४ मखविघ्नाय सकल १०२ ७५ प्राप्यतां विद्युतां ६६/२०८ बिभ्राणमायतिमती ६५५०२ मत्कुणाविव पुरा ६८ ३.१ प्राप्यते स्म गत ७८१७९ बिभ्राणया बहल १३ २५६ मदनरसमहौष २३ ६७२: प्राप्य भीममसौजन्यं १३ ३४५ बिम्बितं भृतपरिसुति ५३९२ मदमदनविकास ३६ ३७१ प्राप्य मन्मथमदा ८०/१५७ विम्बोष्ठं बहु मनुते ३८३८३ मदरुचिमरुणेनो १६ ४२६ प्रायेण नीचानपि ४६ ८४ बुद्धिशस्त्रः प्रकृत्यङ्गो ८४ ६३१ मदाम्भसा परि ६८ १६९ सालेयशीतमचलेश्वर ६४ ३२ बृहच्छिलानिष्ठुर ५४३४९ मद्यमन्दविगलस्त्रप १७ ४८५ प्राशुराशु हवनीय ३१/१२५ बृहत्तुलैरप्यतुलै ५० १६२ मधुकरविटपा ४३३ प्रासादशोभा ६३] ९३ बृहत्सहायः १०० २१४ मधुकररववाद २७९ प्रियकरपरिमार्गा ७५/३३४ ब्रुवते स्म दूत्य ६२२५७ मधुमथनवधू २५ २३५ प्रियतमेन यया भ २१९ मधुरया मधुबोधित २० २६० प्रियमभि कुसुमो ३२/५०० भक्तिमन्त इह ६३ ७४५ मधुरैरपि भूयसा ७१ २५० प्रियमिति वनिता ११४२७ भग्नद्रुमाश्चक्रु ४९ ३४० मधुरोन्नतश्रु २१४ प्रियसखासदृशं ८६४९ भन्नेऽपीभे स्वे परा ३९५७५ मधुरं बहिरन्तरप्रियं १७ ४८९ प्रीतिरस्य ददतो ४१६६१ भग्नैर्दण्डैरातपत्राणि ६७/११८ मध्येसमुद्रं ककुभः ३३ ४२४ प्रीत्या नियुक्तां ४० १६९ भग्नो निवासोऽय ६३/६२१ मनस्विनामुदित ४२ १६८ प्रीत्यै यूनां व्यव ६२/४३२ भग्नोरुरोधः ६० ६५ मनागनभ्यावृत्त्या वा४३ ३७२ प्रेक्षणीय कमिव ८२/३२९ भजते विदेश ४८ ६१५ मनोरमैः प्रकृति २६ ४९२ प्रेम तस्य न ४७ ७२८ भवति स्फुटमागतो २९ ५८ मन्त्रो योध इवाधीरः २९ २९६ प्रेम्णोरः प्रणयिनि ४० ४८ भवद्विरामवसर ८४१३ मन्द्रैगंजानां १५ ४३७ प्रोथैः स्फुरद्भिः ७३ ३२६ भवनोदरेषु ३९ ९५मन्यसेऽरिवधः १०६ ५३ प्रोल्लसत्कुण्डलप्रोत १९६६९ भवन् भयाय लोकानां४ ५० मम तावन्मतमदः १२ ३९९ प्लुतमिव शिशिरांशो५३ ३७३ भातु नाम सुदृशां ८६३३४ मम रूपकीर्ति ७१२प्लुतेभकुम्भोरसिजै:११५ ७६ भारतीमाहितभरा ६९६२३ ममौ पुरः क्षणमिव ४७ १७३ भास्वत्करव्यतिकरो ३ १६६ मरकतमयमादनीषु. ५६ १४७ फलद्भिरुष्णांशुकरा १६ ६४२ भित्वा घोणामायसेन२२४९८ मय॑मात्रमवदाधर ५९ ३०५ फेनानामुरसि ५९ ६६१ भिन्नाननर्मोहभाजो ६६४७० मर्त्यलोकदुरवाप १६१ भिन्नेषु रत्नकिरणैः ४६५९४ मलिनं रणरेणुभिः ६२ ४८१ बद्धदर्भमय २२.६६० भिन्नोरस्कौ शत्रुणा ६५/५८३ महतस्तरसा ३५ ६९८ बन्धौ विपनेऽनेकेन ८०६८८ भीमतामपरो ५४६०१ महतः कुकुराऽन्धक ७९ ६१७ बबृंहिरे गजपतयो ३१७१० भीमास्त्रराजिन ११२७३२ महतः प्रणतेष्विव ३८ ४२ बलावलेपादधुनापि ७२५११ भीष्मोक्तं तदिति ८८ ९५महात्मानोऽनुगृह्णन्ति१०४ १३४ बलोमिभिस्तत्क्षण ६९/४१६ भूमद्भिरप्यस्खलिता २३ १३ महामहानीलशिला १६ ४०२ बहिरपि विलसन्त्यः ५९/६०२ भूयांसः क्वचिदपि ८२६२७ महीयसां महति ३९३ बहु जगद पुरस्तात् ३९६९२ भूरिभिर्भारभिीरा ६६ ६६ मा जीवन् यः परा ४५ .३७ बहुलाऽअनपङ्कपट ५० ६५० भृङ्गश्रणीश्यामभासां ४१ ६४७ मातझाना दन्तसब ३४ ५२१ बहुशो रणेषु ४५९८ मृतभूतिरहीनभोग ७१३५२ मानभाण्टुना २५ ४७२ बहुपि प्रियमयं ४५५९ मृशमङ्गसाद ८२३५१ मा पुनस्तमामि २१ ७८ बहुपि स्वेच्छया ७३/२३६ मृशमयत ५० ९१ मा वेदि यदसावेको ९६ ६५६ बाणाऽऽक्षिप्तारोह ५६६२३ मृशस्विदः पुलक ४८७११ मांसव्यधोचितमुबै ११३ १३१ बाणाहवव्याहत ६१४१८ भेरीभिराकृष्ट २७६४० मिश्रीभूते तत्र श्लो० पृ० श्लो| पृ० १ ४० ७४ १० शिशुपालवधस्य- पृ० श्लोकाः श्लोकाः श्लोकाः श्लो० ४४३ मुकुटांशुरजित ९/१२१ यत्सालमुत्तुजतया ४० ४५ यियक्षमाणेनाहूतः ७०६ मुक्ताई ऽनेकशरं १०१/६२१ यथा यथा पटहरव:४३/११४यियासतस्तस्य महीध्र२४ २८३ मुक्ताभिः सलिल ९/१२२ यदानारूपसरूप ४२/६२१ यियासितामथ १०८ मुक्तामयं सारसना १०५८४ यदनर्गलगोपुराननः ३७४०३ युगपदयुगसप्ति ६१ २०५ मुक्तास्तृणानि परितः६१५१७ यदपूपुजस्त्वमिह १४ ३२७ युगपद्विकासमुदया ४१ १६० मुक्तं मुक्तागौरमिह ४४५८३ यदपूरि पुरा ३६ १६ युगान्तकालप्रति : २३ ५४१ मुखकन्दराऽन्तर २७५४३ यदयुध्यमान ३२ ६९८ युद्धमित्थं विधूताऽन्य ८२ २६६ मुखकमलकमुन्नमय्य ४४५१७ यदराज्ञि राजवदिहा १५/६१४ युधे परैः सह २४ ४५१ मुखमीक्षितुं २६ ५२५ यदि नाऽङ्गनेति ३६/३५८ यूनि रागतरले ७१७ मुखमुल्लसितत्रिलेख १२५२ यदि मयि लघिमान १४ ९२ ये चान्ये कालयवन ९८ २३१ मुखसरोजरुचं ४८ ५१८ यदि वाऽर्चनीयतम १८६९५ येनाङ्गमूहे व्रण २९३ मुग्धत्वादविदित ३२६०७ यदुत्पतत्पृथुतर ५१८९ ये पक्षिणः प्रथम २८३ मुग्धायाः स्मर १३ ५४१ यदुदस्य बाहुमय २८ २९४ योग्यस्य त्रिनयन ३३ ५२० मुचुकुन्दतल्प २४४४० यदुभर्तुरागमन २३०५ यो बाह्यः स खलु ५८ २४३ मुदमब्दभुवामां ७२ ५४४ यदुवाच दुष्टमति ३४३७४ योषितामतितरां २५९ मुदितमधुभुजो ३० १५८ यदेतदस्याऽनुतट ३९ ३७३ योषितः पतित ८५ ३८८ मुदितयुवमनस्का २७३७१ यद्यदेव रुरुचे ७९ ४९० यं लघुन्यपि लघू ४२ ४५० मुदितस्तदेति २४ ५४ यद्वासुदेवेनाऽदीन २२५१० यं समेत्य च ललाट८५ १४५ मुदे मुरारेरमरैः १०/४४० यमुनामतीतमथ १५१० यः कालतां बल्लवतां८६ २५३ मुहुरसुसममानती १७४७७ यस्तवेह सवने १६ र २७३ मुहुरिति वनविभ्रमा ६८५०६ यस्य किञ्चिदपकर्तुं ७८ ६९२ रक्तस्नुतिं जपासून ६४ २७० मुहुरुपहसितामिवा ५५ १२९ यस्यामजिह्मा महती ५७ ४९४ रक्षितारमिति ६१३ मुहुः प्रतिस्खलित २११२४ यस्यामतिश्लक्ष्णतया ४६ ३२४ रजनीमवाप्य रुच ३३ ५२४ मृगविद्विषामिव ३४४३५ यस्या महानीलतटी ६८ ८ रणद्भिराघटनया .८९ मृग्यमाणमपि ३९.१२. यस्याश्चलद्वारिधि ३७ ५५७ रणसंमदोदय १०४ मृणालसूत्राऽमल ३ ३५० या कथञ्चन सखी १८६९३ रणाङ्गणं सर इव ६९ २०७ मृत्पिण्डशेखरित ६३ ४३५ या धर्मभास ६७ ६८८ रण रभसनिभिन्न ५६ २६७ मृदुचरणतलाप्र ८९ यातव्यपार्णिप्राहादि ९२ ३३ रणेषु तस्य प्रहिताः ५६ ८६ मृदुव्यवहितं तेजो ८७ ६३७ यातैश्चातुर्विध्यमस्त्रादि११ ३७७ रतरभसविलासा २ ३७३ मृष्टचन्दनविशेष ८४१६१ या न ययौ प्रिय ४५ १२८ रतान्तरे यत्र गृहा ५५ २०७ मेदस्विनः सरभसो ६४१८१ यानाज्जनः परिजनैः१७ २१३ रतिपतिप्रहितेव १६५ मैत्र्यादिचित्तपरिकर्म५५ २८० यान्तीनां सममसित २ १२३ रतौ हिया यत्र ४५ ७९ म्रदीयसीमपि घना ७४४१४ यान्तोऽस्पृशन्त १७ ४६ रनस्तम्भेषु संक्रान्त ४ य ६७३ या बभार कृताऽनेक १५ २५९ रथचरणधराङ्गना २८ ५३१ य इमं समाश्रयति ९ १६६ या बिभर्ति कल ५७ ४४८ रथमास्थितस्य १९ १०१ य इहात्मविदो ११६६०२ यामूढवावानूढ ८१४४७ रथवाजिपत्ति १७ ७५ यजतां पाण्डवः स्वर्ग६५ ६४४ यावच्चके नाऽजनं २६ १५ रथाङ्गपाणेः पटलेन २१ १४५ यतो महा_णि ११/१८५ यावत्स एव समयः २४/११९ रथाजभत्रैऽभिनवं ३६ ११५ यतः स भर्ता जगतां२५ ५१ यावदर्थपदां वाच १३ ६३४ रथ्याघोषैर्वृहया ६४६ यत्नाद्रक्षन् सुस्थित ३१४३१ यावधगाहन्त न ५७/४३२ रन्तुं क्षतोत्तुङ्ग नितम्ब५९ ३६१ यत् प्रियव्यतिकरा ५१ ६८९ यावन्न सत्कृतैर्भर्तुः ५७४४१ रभसप्रवृत्तगुरु ३ १४६ यत्राधिरूढन १३ १९४ यां चन्द्रकैर्मद ४०५५१ रभसादुदस्थुरथ १४७ यत्रोज्झिताभिर्मुहु १५/१११ यां यां प्रियः प्रेक्षत १६/४५३ रभसेन हारपद ३२ १० ४८ ३ लो० पृ० शो० ९४ ४८ m पद्यानामकाराधनुक्रर्माणका । ११ श्लोकाः श्लो पृ० श्लोकाः श्लोकाः १२७ रम्या इति प्राप्तवती:५३/५८. वचनैरसता २७५६३ विदुषीव दर्शन ६९२ रयेण रणकाम्यन्तौ ६५ १२० वणिक्पथे पूगकृतानि ३८ १५७ विद्वद्भिरागमपरैः ३७ ११३.रराज सम्पादक २२ २१६ वदनसौरभलोभ १४७०१ विद्विषोऽद्विषुरुद्वीक्ष्य ८९ २२० रवितुरङ्गतनूरुह तुल्य २२४१९ वन्येभदानाऽनिल २०७०७ विधातुमवतीर्णोऽपि१०५ ५२८ रहितं कलाभि ३,३३० वपुरन्वलिप्त परिरम्भ५१ १३ विधाय तस्यापचितिं १७ २९६ रागाऽन्धीकृत ३९,२४२ वपुरम्बुविहारहिमं ७१ ६५ विधाय वैरं सामर्षे ४२ ७०६ राजराजी रुरोजा १०२/४४३ वपुषा पुराणपुरुषः ८३३१ विधृते दिवा सवयसा५३ १४५ राजीवराजीवशलोल ९७०५ वररोऽविवरो वैरि १०० २७१ विनयति सुदृशो ५७ ६६२ रामेण त्रिःसप्तकृत्वो ७०/१५९ वर्जयन्या जनः ४२७२४ विनिवारितभानुताप १६ ६७० रामे रिपुः शरानाजि ५ ७८ वर्णैः कतिपयैरेव ७२६०४ विनिहत्य भवन्त ७४८ राहुस्त्रीस्तनयोरकारि ७८ ६३५ वर्धाऽऽबद्धा धौरितेन ५ २९ विनोदमिच्छन्नथ ३१६ सचिधाम्नि भतीर १३ ४३३ वर्म द्विपानां ६४ ६१ विपक्षमखिलीकृत्य ३४ १५५ रुचिरीचत्रतनूरुह ३२/४५९ वलयार्पिताऽसित ४४ २७६ विपुलकमपि यौवनो७० २१८ रुरुदिषा वदनाम्बुरुह १७/४४९ वशिनं क्षितेरयनया २३ ३७८ विपुलतरनितम्बा ५ ५४९ रुषितेषु राजसु ५५ ३२१ वसुधाऽन्तनिःसृत २५५६० विपुलाऽचलस्थल ८४ ३५६ रूपमप्रतिविधान ३७/१५० वहति यः परितः २१४६५ विपुलाऽलवाल ३६३ रेचितं परिजनेन ५५ ६९१ वाजिनः शत्रुसैन्यस्य ६२ ५६७ विपुलेन निपीज्य ६६१ रेजुभ्रष्टा वक्षसः ६८६८४ वारणाऽगगभीरा सा ४४४५७ विपुलेन सागर २०३ रेजे जनः स्नपन ५७३६८ वारणार्थपदगद्द ७०६९९ विभावीविभवी ८६ ५०७ रेणुकातनयता ८०५०४ वारिधेरिव कराग्र ७३ १४६ विभिन्नवर्णा गरुडा १४ १८३ रोचिष्णुकाञ्चनचयां २०४८६ वारिपूर्वमखिलासु ३४ ३३ विभिन्नशङ्खः कलुषी५५ ६३९ रोदोरन्ध्र व्यश्नु १५/३०८ वासांसि न्यवसत ६६ २३१ विरतसस्यजिघत्स ४९ ६३७ रोषावेशादाभिमुख्येन १२/६८०वाहनाऽजनि मानाऽसे ३३ ३१२ विरलातपच्छवि ३ ३८५ विकचकमलगन्धैः १९ ६४ विराद्ध एवं भवता ४१. १३५ लक्ष्मीभृतोऽम्भोधि ७१५७३ विकचोत्पलचारु १२ १११ विरोधिनां विप्रहभेद१८ २५५ लघुललितपदं १९/४४८ विकसत्कलाय २१ ५५ विरोधिवचसो मूकान्२४ २३ लघूकरिष्यन्नतिभार ३६ १३७ विक्रीय दिश्यानि ७६/६०९ विलचितस्थिति १२ ४७१ लज्जितेन गदितः २३८८ विगततिमिरपङ्क २६ १४४ विलम्बिनीलोत्पल ३५२ लब्धसौरभगुणो २४ २२७ विगतरागगुणोऽपि ३९२६७ विलसितमनुकुर्वती ४६ ६५२ लब्धस्पर्श भूव्यधा ४७ २३२ विगतवारिधरा ५१३८८ विलुलितकमलाघः २८ १४. लवङ्गमालाकलिता ८१६०९ विचिन्तयन्नुपनत ११२३३ विललितामनिलैः ७१ लिलयिषतो लोका ५०/६०४ विच्छित्तिर्नवचन्दनेन८४ २१२ विलुलिताऽलक ३ ३५७ लीलयैव सुतनोः ३८ २६९ विजनमिति बलादमुं५१ १९ विलोकनेनैव तवा २९ ४२५ लीलाचलस्त्रीचरणा ४४ ७२ विजयस्त्वयि सेनायाः५९ ५२ विवक्षितामर्थविद १५ ३८५ लुलितनयनताराः २०५७५ विजितकुधमीक्षता १५६१० विवर्तयन् मदकलुषी १३ ६५८ लूनप्रीवात्सायकेन ५९ ३९६ विततपृथुवरत्रा ४४ ५८५ विविनक्कि न बुद्धि ३९ ६.३ लोकालोकव्याहतं ८३ २६१ विततवलिविभाव्य ३३ ५५० विश्ढोरुबाहु ७०४ लोकाऽऽलोकीकलो ९८ ३५ विदग्धलीलोचित ६०३२१ विशदप्रभापरिगतं २६ ४८२ लोलहेतिरसना २५/५५३ विदतुर्यमुत्तममशेष ६५ ४६३ विशदाऽश्मकूट ६७७ लोलाऽसिकालियकुला२८/६९६ विदलत्पुष्कराकीर्णाः ७७ ५५५ विशिखान्तराण्यति ७० ४३६ लोलेररित्रैश्चरणै ७१/४३९ विदलितमहाकूला ७७ ७९ विशेषविदुषः शास्त्रं ७५ व ७.१विदिते दिवि केऽनीके९० ३७४ विश्रमार्थमुपगूढ ३०४ वक्षोभ्यो घनमनु ५७/५८५ विदुरेष्यदपाय ४०६२९ विषनिणि प्रतिपद ६३ ८८ १२ शे० पृ० लो० पृ० शिशुपालवधस्य- श्लोकाः श्लोकाः श्लोकाः श्लो ६२५ विषङ्गिभिः कचि ५३/४७९ शब्दितामनपशब्द २०१३३ श्लिष्यद्भिरन्योन्य ३३५ विषतां निषेवित ६८६९४ शरक्षते गजे मौः •७० ११५ श्यामारुणैरिण ६८३ विषमं सर्वतोभद्र ४१७२८ शरदेव शरश्रिया २७ ष ६४३ विष्वद्रीचार्विक्षिपन् २५/७०७ शरवर्षी महानादः ९६ ५७ षड् गुणाः शक्तय २७ ५८२ विसृजन्त्यविकत्थनाः३२/६८७ शस्त्रवणमयश्रीम ५२ ९० षाडण्यमुपयुजीत ६८४ विस्तीर्णमायामवती ४३४७७ शासनेऽपि गुरुणि १५ १५७ विहगाः कदम्बसुरभा३६७२६ शिखरोन्नतनिष्ठुरांस २२/१०८ स इन्द्रनीलस्थल ११ ७ विहङ्गराजाजरुहै ७/७३५ शिखिपिच्छकृतधजा ४६ ३९० सकलपपि निकामं ३१ ५४० विहरन् वने २५/७१८ शितचक्रनिपात २५७२ सकलाऽपिहित ५४३ विहितागसो मुहु ४२७२३ शितशल्यमुखा १४४६९ सकले च तत्र ३१६ विहिताञ्जलिर्जनतया १४५४७ शितितारकाऽनुमित ४८ ५२४ सकलैर्वपुः सकल .३२ ७२९ विहिताऽद्भुतलोक ३२५६७ शिरसा प्रणतः ४.६१४ सफल्सनं द्विरदगणं २३ ५७१ विहिताऽपचितिमही ९४४५ शिरसि स्म जिघ्रति १२ १४ स काञ्चने यत्र मुने १९ ५४६ विहितं मयाऽद्य ४६ ६२७ शिरोरुहरलिकुल ५८/६७६ सकारनानारकास २७ ४७४ वातविघ्नमनघेन ९३८६ शिशिराकरणकान्तं २१ ६१० सकुडमेरविरल १४ ६३९ वीर्योत्सेकलाधि १६२३९ शिशिरमासमपास्य ६५ ६२ सखा गरीयान् शत्रुश्च ३६ ६५८ वृत्तं युद्धे शरमाश्लिष्य६० ५४३ शिशुरेष शिक्षित ३१३५८ सङ्कथेच्छुरभिवातु ४१ ७०९ व्यक्काऽऽसीदरिता १०९३०७ शीताति बलव ६२/१६० सङ्कीर्ण कीचकान ४३५ व्यक्तं बलीयान ६९/१२४ शुकाङ्गनीलोपल ४८६३५ सटीडन्ती तेजिता ७४७ व्यगमन् सहसा दिशां७४२०० शुक्कांशु कोपरचितानि ५२ २८७ सङ्खभ पयसि १८ ४५४ व्यतनोदपास्य ३३४०८ शुकैः सतारैर्मुकुली ४३७२ सङ्गताभिरुचित ४५४ व्यलगन् विशङ्क ३४४८८ शुद्मश्रुतिविरोधि ३७७१९ सजलाम्बुवराऽऽरव ५ ७३३ व्यवहार इवाऽनृता ४१६३८ शुद्वाः सा न वाचत्१३ ३४३ सज्जितान सुरभी २६१ व्यवहितमविजानती ३५/७४८ शुद्धिं गतैरपि परा ७७६३३ सजग्माते तावपाया १ '३१९ व्यसरन्नु भूधरगुहा १९/७०९ शूरः शरिरशिशिरै१०८ ३५९ सजहार सहसा ६५० व्याप्त लोकैर्दुःख ४०२९२ आणि द्रुतकनको ३० २८ सटाच्छयाभिनघनेन ४७ ४१५ व्यावृत्तवक्त्रः २०४२८ शैलाधिरोहाभ्यसना ५१२५० सततमन'भभाषणं ४२५ व्यासेद्धमस्मानव ४३/१७६ शैलोपशल्य निपत १५ स तप्तकार्तस्वर २० १५४ व्योमस्पृशः प्रथयता ३१६५४ शोचित्वाऽग्रे भृत्ययो ५२/५०३ सत्यवृत्तमपि ३८७ व्रजति विषयमक्ष्णा २५/४९६ शोभयन्ति परित ५६७१६ सत्वं मानविशिष्ट १२० ५२९ व्रजति स्वता ५/१२. शौरेः प्रतापोपनतैः ३३/७१२ सदामदबलप्रायः ११६ ४४२ व्रजतोरपि प्रणय ६३०७ श्च्योतद्भिः समधिक ६३/७२८ स दिवं समचिच्छद २८ ५६१ व्रजतःक्क तात ! ८७/४२७ श्च्योतन्मदाऽम्भः ४०/७१५ सदैव सम्पन्नव ११० २३६ व्रणमृता सुतनोः ५९/४२९ श्मश्रूयमाणे मधु ५४६४१ सद्वंशवादासंगिनी १९ २६६ व्रततिविततिभि ४५/७४९ श्रिया जुटं दिव्यैः ७९५१४ स निकामर्मित श १ श्रियः पतिः श्रीमति १/७१८ स निरायतकेतना ५२६ शकटं व्युदास ३७२८२ श्रीमद्भिर्जितपुलिनानि ८३४९ सन्तमेव चिर ३५६ शङ्कयाऽन्ययुवती ३५/२५७ श्रुतिपथमधुराणि २४६६३ सन्दानान्तादस्त्रिभिः ७१ ५६१ शठ! नाकलोक ८८३७६ श्रुतिसमधिकमुच्चैः १३८७ सपदि कुमुदिनीभि २४ ७२९ शतशः परुषाः पुरो ३१५०३ श्रीतमार्गसुखगान ६९४७३ सप्ततन्तुमाधगन्तु ४४८ शनकैश्च तस्य २०३०८ श्लक्ष्णं यत्परिहित ६५/४८० सप्तभेदकरकल्पित २१ १३४ शनैरनीयन्त रयात् ६८७३१ श्थतां व्रजतस्तदा ३५/४० स बाल आसीद्वपुषा ७० २२४ शमिततापमपोढ ३३/२७३ श्लथशिरसिजपाश ६२/७२० समकालामेवाऽभि १ ४४ ८ ८ ३ श्लो०] पृ० सो० पृ० पचानामकाराघनुक्रमणिका । १३ पृ० श्लोकाः श्लोकाः श्लोकाः शो० २६ समत्सरेणाऽसुर ४३/४२५ स ब्रीहिणां याव ४२३७४ सुनुवामधिपयोधर ८७ २७२ समदनमवतंसिते ५९ २८ स सञ्चरिष्णुर्भुवना ४६६१४ सुमेखलाः सिततर २५ ५८३ समन किमा! ३४६१० ससम्भ्रमश्चरणतला १५/२१५ सुराभिणि श्वसिते १२ २१४ समभिसत्य रसा १०/१८७ सस्नुः पयः पपु २०६२८ सुसंहतैर्दधदपि ५९ ३२८ सममेकमेव दधतुः ४४४८७ स स्वहस्तकृतचिह्न ३६ १९५ सेव्योऽपि सानुनय ४२ २२९ समय एवं करोति ४४/५६२ सह कजलेन ९०६७५सोढुं तस्य द्विषो नालं२१ ५९४ समराय निकामकर्कश६३ १०२ सहजचापलदोष ११७३४४ सोपचारमुपशान्त २ ५७४ समरेषु रिपून् १४/५८१ सहजाऽन्धदृशः २९/ ८०सोपधानां धियं धीराः७७ ५६३ समरोत्सुके नृप ९३/७४१ सहसा दधदुद्धता ६०३६४ सोष्मणः स्तनशिला ५८ ६३० समस्थलीकृतविवरेण ६६ ५५६ सहसा ससम्भ्रम ७४३०० सौगन्ध्यं दधदपि ४८ ६१२ समाकुले सदसि १८६८७ सहस्रपूरणः कश्चि ५१२९७ संक्रान्तं प्रियतम ४१ १६४समीरशिशिरः शिरःसु५४ १४२ सहस्रसंख्यैर्गगनं ४ ५५ संक्षिप्तस्याऽप्यतो २५ ३०समुरिक्षपन् यः पृथिवी५० ९६ सहिष्ये शतमागांसि १०८४१३ संमूर्छदुच्छृङ्गल १३ ६२६ समुन्नमद्धननिकुरम्ब ५६ १३७ साटोपमुर्वीमनिशं ७४४८२ संशयाय दधतोः २४ ४४६ समुपेत्य तुल्यमहतः १५६७५ सादरं युध्यमानाऽपि२३/१९३ संसर्षिभिः पयसि ३९ ६० समूलघातमघ्नन्तः ३३ ४७६ साधिताऽखिलनृपं १३२८१ संस्पर्शप्रभवसुखो ६ ६७१ समं समन्ततो राज्ञा १०६३५ सान्द्रत्वक्कास्तल्पला ६६८३ संहत्या सत्वतां चैद्यं४२ ६. सम्पदा सुस्थितंमन्यो३२ ६४८ सान्द्राऽम्भोदश्यामले ३६ ५०४ स्कन्धधूननविसारि ७१ ९२ सम्पादितफलस्तेन ९७ ७० सामवादाः सकोपस्य५५/१४४ स्कन्धाधिरूढोज्ज्वल ७ ७७ सम्प्रत्यसाम्प्रतं वक्तु ७० १६६ सायं शशाङ्गकिरणा ५८६९० स्खलन्ती न क्वचि ५९ ५६४ सम्प्रत्युपेयाः कुशली९५ २०८ सार्ध कथञ्चिदुचितै ६६ २४४ स्तनयोः समयेन ७५ ५०७ सम्प्रदायविगमा ७९४२९ सावज्ञमुन्मील्य ५२ १९८ स्तम्भं महान्तमुचितं४८ ३६१ सम्प्रवेष्टुमिव ४८ १२४ सावर्ण्यभाजः प्रति ४७१५१ स्थगयन्त्यमः ९४सम्भाव्य त्वामतिभर१०३ ३४९ सावशेषपदमुक्त १६३१९ स्थगिताम्बरक्षिति २१ ४७३ सम्भृतोपकरणेन ७/४७२ सा विभूतिरनुभाव ५ ९० स्थाने शमवतां २६४ सरजसमकरन्द ४२६७७ सा सेनागमनारम्भे २९ ८७ स्थायिनोऽर्थे प्रवर्तन्ते८९ ३८७ सरभसपरिरम्भा २३ १८० सिक्ता इवामृत १६४९६ स्नातकं गुरुमभीष्ट ५५ ४०० सरसनखपदान्तः ५४ २९८ सिक्तायाः क्षणमव० ४३३०२ स्नान्तीनां बृह ४०० सरसिजवनकान्तं ५६ २९४ सिञ्चन्त्याः कथमपि ३४४३३ स्निग्धाअनश्याम ६२ ६०५ सरागया नुतघन २३९९ सितरुचि शयनीये ५२ १३२ स्निग्धाअनश्याम ६३ ५६ सर्वकार्यशरीरेषु १७ सितं सितिम्ना २५२९५ स्निह्यन्ती दृशमपरा ३५ ४९९ सर्ववेदिनमनादि ६२ ३७० सीत्कृतानि मणितं ७५/३६१ स्नेहनिर्भरमधत्त २६७ सललितमवलम्ब्य ४७ ३०९ सीमन्तं निजमनु ६९३५७ स्पर्शभाजि विशद ३९ ७३० सलिलाऽऽर्द्रवराह ३३४३८ सीमन्त्यमाना ७५/४८३ स्पर्शमुष्णमुचितं २७ ३१ सलीलयातानि न ५२ ५७७ सुकुमारमहो! २१२०९ स्पष्टं बहिः स्थितवते६७ १६३ सवधूकाः सुखिनो ५१५३३ सुकृतोऽपि सेवक ११ ८. स्पृशन्ति शरव ५१३ स वमन् रुषाऽश्रु ४४४५ सुखवेदनाहृषित १३/ ३४ स्पृशन्सशकः समये ५८ २२८ स विकचोत्पल ४२/४६४ सुखिनः पुरोऽभि ५५३७७ स्फुटतरमुपरिष्टा ३ ६१९ सविक्रमक्रमणचलै ३६ ६७४ सुगन्धयद्दिशः शुक्ल २०२७१ स्फुटमिदमभिचार ५८ ७४४ सवितुः परिभावुकैः ६९ १२८ सुगन्धितामप्रतियन ५४२१२ स्फुटमिवोज्ज्वलकाञ्चन५ १०१ सविशेष सुते पाण्डो११५४६८ सुतरां मुखेन ६५/१२२ स्फुरत्तुषारांशुमरीचि४३ ७३५ सविषश्वसनोडतोरु ४५५५९ सुदृशः समीक ८३/२२१ स्फुरदधीरतडि २५ ४३१ स व्याप्तवत्या ५८ ३४२ सुदृशः सरसव्यलीक ८५/३२९ स्फुरदुज्ज्वला ४९ श्लो० पू० श्लोकाः १४ शिशुपालवधस्य पद्यानामकारायनुक्रमणिका । पृ० श्लाकाः श्लो| पृ० श्लोकाः ५५१ स्फुरमाणनेत्र ६०५३१ स्वयमक्रियः कुटिल ८५७७ हरिमर्चितवान् ३९ स्मरत्यदो दाशरथि ६८५१९ स्वयमेव शन्तनु. २०४६९ हरिराकुमार २४२ स्मररागमयी ६८ स्वयं प्रणमतेऽल्पेऽपि५०/६२४ हरेरपि प्रति परकीय५० २७३ स्मरसरसमुरः ६५, ४१ स्वयं विधाता सुर ७१/४६६ हसितुं परेण ५० २१३ स्मरहुताशन ६६५९ स्वर्गवासं कारयन्त्या२६/४०८ हस्तस्थिताऽखण्डित ३ २३४ स्मितसरोरुहनेत्र ५४ ७१ स्वशक्त्युपचये ५७६५३ हस्तेनाऽप्रे वीतभीति४८ ७४३ स्मृतिवर्त्म तस्य ४३ ३४६ स्वादनेन सुतनो ७३४८ हावहारि हसितं १३ ५३९ स्रवताऽमुना २३/४९४ स्वादयन् रसमनेक ५०/५९१ हितमप्रियमिच्छसि ५६ ५१७ सस्तासन्धी २५/४७४ स्वापतेयमधिगम्य ९/२३७ हिमऋतावपि ताः ६१ ४५९ संसमानमुपयन्तरि ४५/४१० स्वैरं कृतास्फालन ६/४५६ हिममुक्तचन्द्ररुचिरः ३८ ३०७ स्वक्षं सुपत्रं २२८१ स्त्रं रागादुपरि ५/२६८ हिमलवसदृशः ७३ ४९० स्वगुणैराफलप्राप्तेः ६१ ७२ हतेह हिडिम्बरिपुणा ६०२९६ हुतायाः प्रतिसखि ४२ ६१. स्वच्छाम्भःस्नपन ७०६८६ हन्तुं विद्विषतस्तीक्ष्णः४९/ ४३ हृदयमरिवधोदया ७४ ३३३ स्वजने सखिष्वनु १२ १७ हरत्यघं सम्प्रति २६/२०१ हेम्नः स्थलीषु परितः५५ ५२५ स्वनतो नितरां रयेण२१२३३ हरितपत्रमयीव ५३/३६२ हीभरादवनतं ५९७ स्वभुजद्वयकेवला ६९५५२ हरिमप्यमंसत ६१३५१ हीविमोहमहर २२ ९७ स्वयकृतप्रसादस्य ११० कविवंशवर्णनस्य पद्यानामकाराद्यनुक्रमणिका । पृ० श्लोकाः श्लोकाः श्लोकाः ७५१ काले मितं तथ्यमुदर्क २७५२ श्रीशब्दरम्यकृत ५/७५१ सर्वेण सर्वाश्रय ७५१ तस्याऽभवद्दत्तक ३/७५१ सर्वाधिकारी सुकृता १ श्लो) पृ० श्लो० पृ० श्लो - सर्वविधपुस्तकप्राप्तिस्थानम्-- जयकृष्णदास हरिदास गुप्तः- चौखम्बा संस्कृत सीरिज़ आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी।

सन्देहविषौषध्यां प्रमाणितानां ग्रन्थानां ग्रन्थकाराणां च वर्णक्रमण नामानि । अमरः प्रकाशवर्षः ( उपाध्यायः) वररुचिः कामन्दकः भट्टशङ्करः वामनः कालिदासः भारविः विश्वः कुमारसम्भवम् मनुः वैजयन्ती किरातार्जुनीयम् महाभारतम् व्यासः निघण्टुः रघुकाव्यम् शालिहोत्रम् पञ्चोपाख्यानम् रुद्रटालङ्कारः हलायुधः पाराशर्यः रुद्रटः सर्वकषायां प्रमाणत्वेनोल्लिखितानां ग्रन्थानां ग्रन्थकाराणां च वर्णक्रमेण नामानि । अगस्त्यः दशरूपकम् रत्नप्रकाशः अनेकार्थः दिवाकरः रत्नाकरः अभिधानचिन्तामणिः नारदः रससागरः अभिधानरत्नमाला न्यासकारः राजपुत्रीयम् अमरः न्यासोद्योतः रामायणम् अलङ्कारसर्वस्वकारः पालकाप्य(व्य)म् रेवतोत्तरम् आपस्तम्बः पिङ्गलनागः वसन्तराजीयम् उत्तरकाण्डम् (रामायणे) भट्टः वाग्भटः उत्सलः भट्टमल्लः वामनः उत्पलमाला भरतः विश्वः कल्याणवर्मा भविष्यपुराणम् विश्वप्रकाशः कामन्दकः भागवतम् विष्णुपुराणम् कामन्दकीयम् भारविः वृत्तरत्नाकरटीका कालिदासः भाष्यम् वैजयन्ती काव्यप्रकाशः भाष्यकार: व्यासः काव्यप्रकाशकारः भोजराजः शब्दार्णवः काशिका मनुः शाश्वतः किरातार्जुनीयटीका महाभारतम् सज्जनः केशवः मिताक्षरा सजीविनी कैयटः मिहिराचार्यः स्वामी गणव्याख्यानम् मृगचर्मीयम् हयलीलावती घण्टापथ: मेदिनी हरिः जैमिनिः याज्ञवल्क्यः हलायुधः त्रिकाण्डः यादव: हेमचन्द्रः त्रिकाण्डशेषः योगयात्रा हैमः दण्डी-आचार्यः रजराजः काशीसंस्कृतसीरीज-प्रन्थमाला । इयं कांशी-संस्कृतप्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीना: नवीनाथ दुर्लभाः सुलभाश्च भत्युपयुक्ताः संस्कृतप्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्या प्रकाश्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । १ नलपाकः । नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका. सहितम्। (वेदान्तं १)रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाष्योपस्काराभ्यांसमन्वितम् ( वैशेषिकं १ )रु०२-० ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्यण्या च समलङ्कतम् । (वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः (भैरवी ) चन्द्रकलाटीकासहितः-प्रथम भाग अव्ययीभावान्तः। (व्याकरणं १) रु०५-० ५ लघुशब्देन्दुशेखरः ( भैरवी )चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। द्वितीय भाग। (व्याकरणं १) रु०८-० ६ कारिकावली मुका० दिन० राम० शब्दखण्डसहिता तथा “गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि- कृतव्याख्यासहिता। (न्यायं १)रु०६-० ७ पञ्चीकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रि- कासमवेतविवरणेन च समन्वितम् । ( वेदान्तं २)००-८ ८ अलङ्कारप्रदीपः । श्रीविश्वेश्वरपाण्डेयनिर्मितः । (काव्यं १) रु००-८ ६ अनङ्गरङ्गः। महाकविकल्याणमल्लविरचितः। (कामशास्त्र)रु०-१२ १० जातकपारिजातः श्रीवैद्यनाथशर्मणा विरचितः। (ज्यो०१)रु०२-० ११ पारस्करगृह्यसूत्रम्। कात्यायनसूत्रीयश्राद्ध-शौच-सान-भोजन- कल्पसहितम् । (कर्मकाण्डम् १) रु००-८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि. म्बार्कमतभाष्यचतुष्टयसहितम् । (गैदिकं २) रु०१-४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्यया च संवलितम् । ( वेदान्तं ३) रु०१-४ १४ कुमारसंभवं महाकाव्यम्। महाकवि श्रीकालिदासविसञ्जीवनी शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) २०१-८ १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवद्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंदः १)२००- १६ कारिकावलि । मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि- (न्याय २)०१-० । प्पणा।

No text on this page.

No text on this page.

No text on this page.

Sisupalavadha

Author
Sastri, Gagannath, Ed.
Title
The Sisupalavadha
File name
Sisupalavadha
Text
OCR done
Citation
1929
Published
2007/02/21
Publisher
Jai Krishnadas -haridas Gupta, Benares
Language
Sanskrit
Pages
796
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Literature
Keywords
Hindu Mythology
DLI number
292664
Barcode
4990010200614.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
hMFcDNWrKbn
Download PDF

Sisupalavadha