Jayakar Library , Pune

Rigvedantargata Shankhayanabrahmana. Vol.65

18-01-2006

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
maramanawwwmummam
ग्रन्थाङ्कः ६५
ऋग्वेदान्तर्गतं शाखायनब्राह्मणम् ।
रा. रा. गुलाबराय वजेशंकर छाया " राजकोट
वकील" इत्येतैः, संशोधितम् ।
तत्
हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
"
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८३२
ख्रिस्ताब्दाः १९११
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं सपादरूपकः (१८४)

ॐ तत्सद्ब्रह्मणे नमः। - XOX अथ ऋग्वेदे शाङ्खायनबाह्मणम् । ॥ हरिः ॐ ॥ अस्मिन्वै लोक उभये देवमनुष्या आसुस्ते देवाः स्वर्ग लोकं यन्तोऽ- निमूचुस्त्वं नो अस्य लोकस्याध्यक्ष एधीति तानग्निरुवाचाथ यद्दोऽहं घोरसंस्पर्शतमोऽस्म्यनपचायितारो मनुष्याः कथं धरतद्भविष्यति यन्मनु- ध्येष्विति ते देवा ऊचुस्तस्य वै ते वयं घोरास्तनूर्विनिधास्यामोऽथ यैव ते शिवा शम्या यज्ञिया तनूस्तयेह मनुष्येभ्यो भविष्यसीति तस्याप्सु पवमा- नामदधुर्वायौ पावकामादित्ये शुचिमथ यैवाऽस्य शिवा शग्म्या यज्ञिया तनूरासीत्तयेह मनुष्येम्पोऽतपदेता वा अग्नेस्तन्वस्तधदेता देवता यज- त्यत्राग्निः साङ्गः सतनूः प्रीतो भवति ता वै तिम्रो भवन्ति यो वा इमे लोका इमानेव तं लोका(?,नामोति पौर्णमासं प्रथमायै तन्त्रं भवत्या. मावास्यं द्वितीयायै तेन हास्य दर्शपूर्णमासावन्वारब्धौ भवत ईळि- तवत्यौ हव्यवाद्धृत्यौ प्रथमायै संयाज्ये तत्संयाज्यारूपं द्यग्नी द्वितीयायै द्वौ ह्यग्नी यजति सप्तदशसामिधेनीका तृतीया सप्तदशसामिधेनीका वा इष्टिपशुबन्धास्तदिष्टिपशुबन्धानाप्नोति सद्वन्तावाज्यभागी भवतोऽसा- नीति वाऽग्नीनाधत्ते स्यामिति कामयते स यदि ह वा अपि स्वैषा वीर इव सन्नग्रीनाधत्ते क्षिण एव संभवति क्षिप्रे भोग्यतामश्नुते यः सद्वन्तौ कुरुते विराजो संयाज्ये श्रीविराळन्नाद्यं श्रियो विराजोऽन्नाद्य- स्योपाप्त्यै ता वै गायत्र्यो भवन्ति गायत्रो वा अग्निर्गायत्रच्छन्दाः स्वेनैव तच्छन्दसाऽग्रीनाधत्ते ता वा उपांशु भवन्ति रेतःसिक्तिी अग्न्याधे- यमुपांशु वै रेतः सिच्यतेऽभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञ- स्यैव समृद्ध्यै द्वादश दद्याद्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अश्वं त्रयोदशं ददाति यस्त्रयोदशो मासस्तस्याप्त्यै ॥ १॥ देवासुरा वा एषु लोकेषु संयत्ता आसुस्तेम्योऽग्निरपाकामत्स- ऋतून्प्राविशत्ते देवा हत्वाऽसुरान्विजित्याग्निमन्वछंस्तं यमश्च वरुण- श्चान्वपश्यत्तां तमुपामन्त्रयन्त तमज्ञपयंस्तस्मै वरमददुः सहैतं. वरं वने प्रयाजान्मे . अनुयाजाँश्च केवलान्घृतं चापां पुरुषं चौषधीनामिति २ ऋग्वेदे शाङ्खायनबाह्मणम् । [१अध्यायः तस्मादाहुरानेयाः प्रयाजानुयाजा आग्नेयमाध्यमिति ततो वै देवा अभ- वन्परासुरा भवत्यात्मना परात्य देयो य एवं वेद ॥ २ ॥ तदाहुः कस्मिन्नती पुनरावधाते ति वर्षास्थिति हैक आहुर्वर्षानुवै सर्वे कामाः सर्वेषामेव कामानामाप्त्यै मध्यावर्षे पुनर्वसू नक्षत्रमुदीक्षक पुनरादधीत पुनर्वा वसु वित्तमुग्नमत्यित्यथो पुनः कामस्योपाप्त्यै तब न तस्मिन्काले पूर्वपक्षे पुनर्वसुभ्यां संपद्यते ये वैषाऽऽपान्या उपरिष्टा- दमावास्या भवति तस्यां पुनराधीत सा पुनर्वसुभ्यां संपद्यत उपा- प्तोऽमावास्यायां कामो भवत्युपाहो वर्षासूपाप्तः पुनर्वस्वोस्तस्मात्तस्यां पुनरादधीत पञ्चकपालः पुरोडाशो भवति पञ्चपदा पङ्किः पालो वै यज्ञो यज्ञस्यैवाऽऽप्त्यै ॥३॥ विभक्तिभिः प्रयाजानुयाजान्यजत्य॒तवो वै प्रयाजानुयाजा ऋतुभ्य एनं तत्समाहरत्यन आयाहि वीतयेऽग्निं दूतं वृणीमहेऽग्निनाऽग्निः समि- ध्यतेऽग्निर्वृत्रागि जवनदोः स्तोमं मनामहेऽग्यायो मयों दुध इत्येतासा- मृवां प्रतीकानि विभक्तयस्ता वै षड् भवन्ति पड्वा ऋतव ऋतुभ्य एवैनं तत्युनः समाहरतीति यथायथमुत्तमौ प्रयाजानुयाजो तथा हास्य प्रया- जानुपाजेभ्योऽनितं भवति वार्चनः पूर्व आज्यभागः पाप्मन एव वधा- यायो हास्य पौर्णमासात्तन्वाइनितं भवत्यग्निं स्तोमेन बोधयेत्यनाये बुद्धिमते पूर्व कुर्यादिति हैक आहुः स्वपितीव वा एतस्याग्निर्योऽग्नि. प्रबोधयतीति वाघ्नस्त्वेव स्थितोऽग्न आयूंपि पवस इत्युत्तरस्य पुरोनुवाक्या पवस इति तत्सौम्यं रूपं केवलाग्नेयो हि यज्ञक्रतुस्तद्यत्यवमानस्य कीर्तयति तथा हास्य सौम्यादाज्यशागादनितं भवति पदपतयो याज्यापुरोनुवाक्याः पञ्चपदा पतिः पाको पै यज्ञो यज्ञस्यैवाऽऽप्त्यै ॥४॥ व्यतिषता भवन्ति व्यतिषक्ता इव वा इमे प्राणा आत्मानं भुञ्जन्तीति सा सर्वैव ससामिधेनीकोपांशु भवत्या पूर्वाभ्यामनुयाजाभ्यामाज्यतो विभक्तयोऽनुप्रोता भवन्त्यथो सर्वे वै कामा विभक्तिषु तस्मादुपांशु भवन्ति सर्वेषामेव कामानामाप्त्या उच्चस्त्वेवोत्तमेनानुयाजेन यजत्युच्चैः- सूक्तवाकशंयोर्वाकावाह तद्यथाऽविदमित्याविर्नटं कुर्यादेवं तदाविष्का- मान्करोत्यापमिति त्रयमु हैक उपांशु कुर्वन्ति विभक्तीरुत्तरमाज्यभागं हविरित्येतावध्यागन्तु(?) भवतीति सा वा उपांशु निरुक्ता भवति द्वयं मुद्दासयते तदेवैनं तत्पुनः रमध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । वा अग्ने रूपं निरुक्तं चानिरुक्तं च तदेवास्य तेनाऽऽप्नोति सर्वाग्नेयं हैके कुर्वन्ति न तथा पुनरुत्ल्यूतो जरत्संव्यायः पुनः संस्कृतः कद्रथोऽनयाहिरण्यं वा दाक्षिणा पुनः कर्म ह्येतदादित्या द्वितीया प्रतिष्ठा वा अदितिः प्रतिष्ठित्या एवं प्रतिष्ठित्या एव ॥५॥ इति शाङ्खायनबाह्मणे प्रथमोऽध्यायः ॥ १॥ कुर्यात्तस्यै . . 2 --- योऽसौ . . - . ॥ हरिः ॐ॥ धर्मों वा एष प्रवृज्यते यदग्निहोत्रं तदसौ वै घों तपत्येतमेव तत्त्रीणाति स वै सायं च प्रातश्च जुहोत्यग्नये सायं सूर्याय प्रातः सौर्य वा अहरानेयी रात्रिर्मुखत एव तदहाराने प्रीणातिः पयसा जुहुयादेष ह वै सर्वासामोषधीनां रसो यत्पयः सर्वेरेव तद्रसरग्रीन्ग्री- णाति तदु वा आहुर्यदशनस्यैव जुहुयात्सर्व वा इदमनेरनं स्वेन वैतदन्ने नानीन्त्रीणातीति गार्हपत्येऽधिभित्याऽऽहवनीये जहुयाछ्रपणो वै गाह- पत्य आहवनीयस्तरमाद्गार्हपत्येऽधिश्रित्याऽऽहवनीये जुहुयाद्यन्तान- गारान्करोतीमाधेव तं लोको वितारयति तस्माद्धीमो लाको सह सन्तौ नानेवाथ यदधिश्रित्यावज्योतयति श्रपयत्येवैनं तदथ यदपः प्रत्यानयत्यापः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति हविष एव कृत्स्न- ताया यथयत्पुनर्वज्योतयत्यप ए: तच्छृपयति त्रिरुपसामुदग्धोमीयमु- द्वासयति त्रैविध्याय त्रिवृद्धि देवकर्मानच्छिन्नं निदहरेत्तथा ह यज- मानोऽप्रच्यावुको भवत्यथोपवेषेण दक्षिणतोऽङ्गारानुपस्पृशति नमो देवेभ्य इति न हि नमस्कारमतिदेवाः सुप्रत्यूहळानगारान्प्रत्यूहेत्तथा हास्य नान्तमचारिणी च न नश्यति चतुरुन्नयेञ्चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽस्यै पञ्चकृत्ल उन्नयेत्याङ्क्तो वै यज्ञो यज्ञस्यैवाऽऽप्त्यै ॥१॥ उपसदोऽग्निहोत्रे वेदितव्या उन्नीयोत्तरेण गार्हपत्यमुपसादयति तदिमं लोकमाप्नोत्याहवनीये होऽयं द्वितीयं तदन्तरिक्षलोकमानोति हुत्वा तृतीयं तदमुं लोकमानोति पालाशी समिधमभ्यादधाति सोमो वै पलाशः सा प्रथमा सोमाहुतिः प्रादेशमात्री भवति प्रादेश मात्रं हीम आत्मनोऽभिप्राणावयगुन्लं समिधोऽतिरित्यानुभंनिवाभि- जुहोति द्वयङ्गुले वा इदं मुखस्यान्नं धीयते धूमायन्त्यां ग्रामकामस्य जुहुयाज्ज्वलन्त्यां ब्रह्मवर्चसकामस्याङ्गारेषु पशुकामस्याभ्याधायेति त्वेव स्थितमत्र ह्येवते सर्वे कामा उपायन्त इत्युभे- आहुती हुत्वा जपति या ४ । सायमुपमार्टि ऋग्वेदे शाजायनबाह्मणम् । [२अध्यायः यज्ञस्य समृद्धस्याऽऽशीः सा मे समृध्यतामिति या वै यज्ञस्य समृद्ध स्याऽऽशीः सा यजमानस्य भवत्युत्तरावतीराहुतीर्जुहुयादुत्तरोत्तरेण एव तत्स्वर्गाल्लोकानाप्नोति मुचो बुध्नेनाङ्गारानुपस्पृशति स्वर्ग एव तं लोके यजमानं दधाति विरुदीची सुचमुघच्छति रुवमेव तत्स्वायां दिशि प्रीत्वाऽवसृजति तस्माछूयमानस्योत्सरतो न तिष्ठेनंदेतस्याबलस्य देवस्य परिमार्धेऽसानीति तामुत्तरतः प्रतीचीमादित्यं तदस्तं नयति दक्षिणत ऊवा प्रातरादित्यं तदुन्नयति यत्पूर्वमुपमा तत्कूर्चे- निलिम्पत्योषधीस्तेन प्रीणाति यद्वितीयं तदक्षिणेन कूर्चमुत्तानं पाणि निदधाति पितस्तेन प्रीणात्यथ यहिः प्रदेशिन्या प्राश्नाति गर्भान्पूर्वेण प्रीणाति तस्मादनश्नन्तो गर्भाः प्राणन्ति वयांस्युत्तरेण तस्माद्दरांसि बहु किंच किंचिदिव मक्षयन्ति श्वेतमिव प्रस्रावयन्त्यथ यत्सुचा भक्षयति भूतं च तेन भव्यं च प्रीणात्यथ यत्सुचं निलंढि सर्पदेवजनां. स्तेन प्रीणात्यथ यत्तुचं मार्जयते रक्षोदेवजनांस्तेन प्रीणात्यथ यत्मागु- दीचीरप उसिञ्चति गन्धर्वाप्सरसस्तेन प्रीणात्यथ यत्पागुदीची सुचमु- दिशति रुद्रमेव तत्स्वायां दिशि दधात्येवमग्निहोत्रेण सर्वाणि भूतानि " प्रीणाति ॥२॥ आहवनीय एव जुहुयादिति हैक आहुः सर्वेषु त्वेव जुहुयाद्धोमाय ह्येत आधीयन्ते चतस्रो गाई पत्ये चतस्रोऽन्याहार्यपचने द्वे आहबनी ये ता दश संपद्यन्ते दशशिनी विराछीधिराळम्नाद्यं श्रियो विराजोऽन्ना- यस्योपाप्त्यै स य एवं विराट्संपन्नमग्निहोत्रं जुहोति सर्वान्कामाना- प्रोति ॥३॥ h अथ यधुत्वाऽमीनुपतिष्ठते प्रीत्वैव तद्देवेष्वन्ततोऽथं वदते यवेव वत्संस्पृशति तस्माद्वात्सप्रं तथा ह यजमानात्पशवोऽनुत्क्रामुका भव- त्यथ यदप आचम्य व्रतं विसृजतेऽस्वेव तद्वतं दधाति ता अस्य व्रतं गोपायन्त्या पुनर्होमात् ॥ ४ ॥ अथ यत्प्रवत्स्यंश्च प्रोषिवांश्चाग्नीनुपतिष्ठतेऽभिवादो हैप देवतायै यदुत्काशं भवत्यथोऽग्निभ्य एवैतदात्मानं परिदधाति ये चैनमन्यञ्चो भवन्ति ॥ ५॥ अथ यदरण्योरग्नीन्समारोहयते देवरथो वा अरणी देवरथ एवंने तत्समारोहयते स एतेन देवरथेन लोक समश्नुते यद्वेव पुनः पुनर्निर्मन्थते तेनोहेवास्य पुनराधेयमुपाप्तं भवति ॥६॥ ." स्वस्ति स्वर्ग ५ वाचैव २अध्यायः ऋग्वेदे शाजायमबाह्मणम् । यैवैके चाऽऽनन्दा अन्ने पाने मिथुने राज्या एव ते संतता अव्यव. च्छिन्नाः क्रियन्ते तेषां रात्रिः कारोतरो य उ वैके चाऽऽनन्दा अन्ना- देव ते सर्वे जायन्ते ते देवा अब्रुवन्कथन्विमान्वयमानन्दा तस्मादृशस्यैव प्रतिगृह्णीयामेति तेऽपामृवं रसमुदौहंस्ता ओषधयश्च वनस्पतयश्च सम- भवन्नोषधीनां च वनस्पतीनां चोवं रसमुदौहस्तत्फलमभवत्फलस्योवं रसमुदौहंस्तदन्नममवदन्नस्योवं रसमुदौहंस्तद्रेतोऽभवद्रेतस ऊवं रसमुदौ- हंस पुरुषोऽभवत्सोऽयं पुरुषो यः प्राणिति वाऽपानिति वा न तत्मान नापानेनाऽऽहेति प्राणिपं वाऽपानिपं वेति वाचैव तदाह तत्प्राणापानौ वाचमपीतो वाड्मयौ भवतोऽथ यच्चक्षुषा पश्यति न तचक्षुषाऽऽहेत्यद्राक्ष- मिति वाचैव तदाह तच्चक्षुर्वाचमप्यति वाङ्मयं भवत्यथ यच्छ्रोत्रेण शृणोति न तच्छ्रोत्रेणाऽऽहेत्यौपमिति तदाह तच्छ्रोत्रं वाच- मप्येति वाङ्मयं भवत्यथ यन्मनसा संकल्पयते न(त)न्मनसाऽऽहेति समचीक्लपमिति वाचैव तदाह तन्मनो वाचमप्येति वाड्मयं भवत्यथ यदङ्गैः सुशीम वा दुःशीमं वा स्पृशति न तदङ्गैराहेति सुशीमं वा दुःशीमं वाऽस्माक्षमिति वाचैव तदाह तत्सर्व आत्मा पाचमध्यति वाङ्मयो भवति तदेत चाऽभ्युदितं नेन्द्रादृते पवते धाम किंचनेति वाग्या इन्द्रो न छूते वाचः पवते धाम किंचन स वै सायं जुहोति ॥ ७॥ अग्निज्योतिज्योतिरनिरिति तं ज्योतिः सन्तं ज्योतिरित्याह स सत्यं वदति तस्यायं वाङ्मय आत्मा सत्यमयो भवति सत्यमया उ देवा अथ स्वाहेति जुहोति तस्यैतां देवाः सत्यहुतस्याऽऽगुति प्रतिगृह्णन्ति राज्या उ शीर्ष सत्यं वदति स यदि ह वा अपि तत. ऊध्वं मृपा वदति सत्य हैवास्थोदितं भवति राव्या उ हि शीपं सत्यं वदत्यथ प्रातर्जुहोति सूर्यो ज्योतिज्योतिः सूर्य इति तं ज्योतिः सन्तं ज्योतिरित्याह स सत्यं वदति तस्यायं वाङ्मय आत्मा सत्यमयो भवति सत्यमया उ देवा अथ स्वाहेति जुहोति तस्यैतां देवाः सत्यहुतस्याऽऽहुतिं प्रतिगृह्णन्त्यह्न उ शीर्ष सत्यं वदति स यदि ह वा अपि तत ऊर्य सृपा वदति सत्यं हैवास्योदित मवत्यह्न उ हि शीर्ष सत्यं वदति स वा एषोऽनिरुद्यत्यादित्य आत्मानं जुहोत्यथास्तं यं सायेऽनावात्मानं जुहोति रात्रिरेवाहं जुहोत्यहोरात्र्यां प्राण एवापाने जुहोत्यपानः प्राणे तानि वा एतानि षड्जह्वत्यन्योन्य आत्मानं यो ह वा एतानि षड् जुह्वति वदाजुह्वत एवास्य हुतं भवति जह्वत एवास्य द्विर्तुतं भवति य एवं वेद स यदि ह वा अपिसुरिशानेने- आहुती देवा गृहन्ति यस्यों hor ऋग्वेदे शासायनबाह्मणम् । ६२अध्यायः वं विद्वानग्निहोत्रं जुहोति प्रति हैवास्यैते चा अपि देवाः सकृदनन्ति तत एव सोऽमृतः सत्यमयो ह वा अमृतमयः संभवति य एवं वेद तद्यथा ह अद्धा देवह्म सत्यवादिनलापसिनो हुतं भवत्येवं हैवास्य हुतं भवति य एवं विद्वानग्निहोत्रं जुहोति तस्मादेवं- विदाग्नहोत्रं जुहुयादिति ॥८॥ उदिते होतव्याश्मनुदित इति मीमांसन्ते स य उदिते जुहोति प्रवसत एवैतन्महते देवायाऽऽतिथ्यं करोत्यथ योऽनुदिते जुहोति संनि- हितायैवतन्महते देवायाऽऽतिथ्यं करोति तस्मादनुदिते होतव्यं तद्धापि वृषशुष्मो वा तावतः पूर्वेषामेको जीणिः शयानो राव्यामेवोभे आहुती हूयमान दृष्ट्वावाच राज्यामेवोभे आहुती जुह्वतीति सच्यां हीति स होवाच वक्तास्मोन्वे वयममुं लोकं परेत्य पितृभ्योऽथो एनं नः श्रद्धा- तारो यद्वेवैतदुभयेयुराग्रहोत्रमहूयतान्येार्वा तदेतार्ह हूयते रात्र्यामेवेत्ये- तदेव कुमारीगन्धर्वगृहीतोवाच राज्यामेवोभे आहुती जइतीति राव्या हीति सा होवाच संधौ जहुयात्समुद्रो ह वा एप सर्वहरो यदहोरात्रे तस्य हैतेऽगाधे तीर्थ यत्संध्य तद्यथाऽगाधाभ्यां तीर्थाभ्यां समुद्रमती- यात्ताहक्तवत्संधौ जुहोत्यथो देवसेना ह वा एषाऽध्वगा हनिष्यन्ति यदहोरात्रे तस्या हैते पक्षसी यत्संध्ये तद्यथापक्षाभ्यां क्षिप्रमध्वानमन्वि. यात्ताहक्तद्यसंधौ जुहोत्यथो मृत्योर्ह वा एतौ वाजबाढू यदहोरात्रे तद्यथा प्राजबाहुभ्यां परिजिग्रहीष्यन्नन्तरेणातिमुच्येत तादृक्तद्यसंधौ तदुह स्माऽऽह कौषीतकि: सायमस्तमिते पुरा तमसस्तस्मिन्काले जुहुयात्स देवयानः केतुस्तमेवाऽऽरभ्य स्वस्ति स्वर्ग लोकं समश्नुते प्रातः पुरोदयादपहते तमासे तस्मिन्काले जुहुयात्स देवयानः केतुस्तमे- वाऽऽरभ्य स्वस्ति स्वर्ग लोकं समश्नुतेऽथ योऽतोऽन्यथाऽग्निहोत्रं जुहोति श्यामशबलौ हास्याग्निहोत्रं विपीदतोऽह शबलो रात्रिः श्यामः स यो महाराने जुहोति श्यामो हास्याग्निहोत्रं विपीदत्यथ यो महाह्ने जुहोति शबलो हास्याग्निहोत्रं विषीदति तद्वै खलु यदैव कदा: चन जुहुयाद्भुतसमृद्धिमेवोपासीतेति हुतसमृद्धिमेवोपासीतेति ॥९॥ इति शाङ्खायनब्राह्मणे द्वितीयोऽध्यायः ॥२॥ जुहोति हे ॥ हरिः ॐ॥ यदर्शपूर्णमासयोरुपवसति न ह वा अवतस्य देवा हविरश्नन्ति " अध्यायः ऋग्वेदे शाङ्कायनबाह्मणम् । तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति पूर्वा पौर्णमासीमुपवसेदिति- पैङ्ग्यमुतरानिति कौषीतकं यां पर्यस्तमयनुत्सर्पदिति सा स्थितिरुत्तरां पौर्णमासी मुपवसेदनियि पुरस्तादमावास्यायां चन्द्रमसं यदुपवसति लेन पूर्वी प्रीणाति यद्यजते तेनोत्तरामुत्तरामुपवसेदुत्तरामु ह वै समुद्रो विजते सोममनुदेवतमेतद्वै देवसत्यं यच्चन्द्रमास्तस्मादुत्तरामुप- वसेत् ॥ १॥ अथ यत्पुरस्तात्सामिधेनीनां जपति स्वस्त्ययनमेव तत्कुरुते हिंकृत्य सामिधेनीरवाह वज्रो वै हिंकारो वज्रणव तद्यजमानस्य पाप्मानं हन्ति विहिकरोति त्रिवृद्ध वज्रो वज्रमेव तदभिसंपादयत्येतेन वै देवानिवृता वज्रेणभ्यो लोकेभ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैवस्त्रि(? वृता बजेगेभ्यो लोकेभ्यो द्विपतो भ्रातृव्यान्नुहत एकादश सामिधेनीरन्वाहै- कादशाक्षरा वै बिष्टुप्त्रैष्टुभ इन्द्रस्तदुभाविन्द्राग्नी आप्नोति त्रिः प्रथमया निरुत्तमया पञ्चदश संपद्यन्ते पश्चदश वै पूर्वपक्षापरपक्षयोरहानि तत्सामिधेनीभिः पूर्वपक्षापरपक्षावाप्नोत्यथो वज्रो वै सामिधेन्यः पश्च- दशो वै वज्रो वज्रेणैव तद्यजमानस्य पाप्मानं हन्ति यद्वेव त्रिः प्रथमां त्रिरुत्तमां यज्ञस्यैव तर्हिरलो नाति स्थन्ने विषेसाय तासां वै त्रीणि पष्टिशतान्यक्षराणां भवन्ति, त्रीणि वै पष्टिशतानि संव- सरस्याह्नां तत्सामिधेनीभिः संवत्सरस्याहान्यानोति ता वै गाय त्र्यो भवन्ति गायत्रो वा अग्निगर्गायत्रच्छन्दाः स्वेनैव तच्छन्दसाऽनिं स्तौत्यभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्थैव समृद्ध्या उत्तमायै तृतीये वचने प्रणवेन निगदमुपसंदधात्यग्ने महाँ असि ब्राह्मणभारतेत्यग्निर्वे भरतः स वै देवेभ्यो हव्यं भरत्यथ यद्यजमा. नस्याऽऽयमाह न ह वा अनायस्य देवा हविरश्नन्ति तस्मादस्याऽऽ- यमाहाऽथैतं पञ्चदशपदं निगदमुपसंदधात्येष ह वै सामिधेनीनां निवित्तस्मात्पञ्चदशपदो भवति पञ्चदश हि सामिधेन्यः स वा च्छन्द- स्कृतो भवति द्वयं वा इदं सर्वं छन्दस्कृतं चाच्छन्दस्कृतं च तेन सर्वे- ण मिं स्तवानीति तस्य सप्त पदानि समस्यावस्येत्सप्त वै च्छन्दांसि सर्वेषामेव च्छन्दसामाप्त्या अथ चत्वार्यथ चत्वारि चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै ॥२॥ अथ यद्यवग्राहं देवता आवाहयति नाना ह्याभ्यो हवींषि गृहीतानि मवन्त्यथ यदग्निमग्निमावाहयत्येषा ह वा अग्नेयज्ञिया तनूर्याऽस्य हव्य- ऋग्वेदे शाङ्खायनबाह्मणम् । ३अध्यायः वाट्सा वा असौ यददोऽमुध्यादित्यस्योपरिष्टाद्वयवभाति ज्योतिरिव तस्मात्पुरुषं पुरुषं प्रत्यादित्यस्तद्यदाहाऽग्निमन आवहति सामावहेत्येव तदाहाऽथ यद्देवाँ आज्ययाँ आवाहयति प्रयाजानुयाजांस्तदावाहयत्यथ यदग्निं होत्रायाऽऽवाहयति स्विष्टकृतं तदावाह [य]त्यथ यत्स्वं महिमान- मावाहयति वायुं तदावाहयति वायुर्या अग्नेः स्वो महिमा तेन हि संपाद्य महिमानं गच्छति यद्येव वाचाऽन्वाह वाचा यजति तेनोहैयास्य स्वो महिमेष्टो भवत्या च बह जातवेदः सुयजा च यजेत्याहाऽऽवह च जातवेदो देवाँ सुषजा च देवता यजत्येदैनं तदाहाथ यत्पुरस्तात्सामिधेनीनां जयति वजो वै सामिधेन्यस्तमेवैतच्छमयति पुरस्तञ्चोपरिष्टाचाथ यत्सु- गादापनेन सुचा वा दापयति देवरथमेव तद्युनक्ति देवेभ्यो हविः प्रदा- स्यन्स एतेन देवरथेन स्वस्ति स्वर्ग लोकं समश्नुते ॥३॥ प्रयाजान्यजन्तवो वै प्रयाजा ऋतूनेव तत्पीणाति ते वै पञ्च भवन्ति तैपत्किंच पञ्चविधमधिदेवतमध्यात्म तत्सर्वमाप्नोति समिधो यजति वसन्तमेव वसन्ते वा इदं सर्व समिध्यते तनूनपातं यजति ग्रीष्ममेव ग्रीष्मो हि तन्वं तपतीळो यजति वर्षा एव वर्षाभिहींळितमन्नाद्यमुत्ति- ठति बहिर्यजति शरदमेव शरदिहि बहिष्ठा ओषधयो भवन्ति स्वाहाकृत तिमन्तं यजन्ति हेमन्तमेव हेमन्ते वा इदं सर्व स्वाहाकृतं तदाहुर्यत्पञ्चप्र- याजाः पकृऋतवः कैतं षष्ठमृतुं यजतीति यदेव चतुर्थे प्रयाजे समानयति तदेनमितरेष्वनुविभजत्यथ यदुत्तमे प्रयाजे देवताः समावपति प्रयाजभाज एवैनास्तत्करोति तद्यथाऽग्निः सर्वेषु हविःषु भागी भवत्येवं तदग्नेर्भागे देवता भागिनीः करोति नावाग्निं होत्रादित्याह पशवो वै प्रयाजा रुद्रः स्विष्टकृन्नेदुद्रेण यजमानस्य पशून्मवृहाजानीति स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति हैक आहुर्न तथा कुर्याद, ह वै यज्ञस्याऽऽज्यमधं हविः स यद्वाऽन्यतरव्यादधं ह वै यज्ञस्य समिष्टं स्यादर्धमसमिष्टं तस्मात्स्वाहादेवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्वित्येव ब्रूयात् ॥ ४ ॥ अथ यत्पौर्णमास्यां वार्चनावाज्यभागौ मवतः पौर्णमासेन वा इन्द्रो वृत्रमहन्नथ यदमावास्यायां वृधन्वन्तौ क्ष वा अत्र चन्द्रो गच्छति तमेवैतदाप्याययति तं वर्धयति तौ वै जुषाणयाज्यौ भवतः समानह - विषो हि प्रयाजैर्भवतोऽथो ब्रह्म वै जुषाणो ब्रह्मणैव तद्देवेभ्यो हविः प्रयच्छति तो वै निवृतौ भवतो ये यजामहो निगदो वषट्कारश्चक्षुर्भ ह वै or ३अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । आज्यभागौ विवृद्वै चक्षुः शुक्लं कृष्णं लोहितमिति तो न पशौ न सोमे करोति पशुना वै चक्षुष्मानध्वरो नेच्चतुरक्षं बीभत्सम- प्रवरं करवाणीत्यथ यदावत्यो हूतवत्यः पुरोनुवाक्या भवन्ति प्रवत्यः प्रत्तवत्यो याज्या हूत्वैव तद्देवेभ्यो हविः प्रयच्छति ता वै गायत्री त्रिष्टुभो भवन्ति ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब्रह्मक्षत्राभ्यामेव तद्दे- वेभ्यो हविः प्रयच्छत्यथो एतावान्वै छन्दसो विकारः सर्वेणैव तच्छ- न्दसो विकारेण देवेभ्यो हविः प्रयच्छत्यृगन्ते वषट् करोति तथा हास्य सर्वा याज्या रूपवत्यो भवन्ति षळिति वषट्करोति षड्वा ऋतव ऋतूनेव तत्त्रीणाति बार्हतरार्थतरं वषट् कुर्यात्पुरस्ताद्दीर्घमुपरिष्टाद्धस्वं यद्धस्वं तद्रथंतरं यद्दी तबहदथो इयं वै रथंतरमसौ बृहदनयोरेव तत्पतितिष्ठत्यथो एतावान्वै वाचो विकारः सर्वेणैव तद्वाचो विकारेण देवेभ्यो हविः प्रयच्छति भूर्भुव इति पुरस्ताद्येयजामहस्य जपत्योज: सहस्सहओजः स्वरित्युपरिटाद्वषटकारस्य वज्रो वै वषटकारस्तमेवैतच्छ- मयति पुरस्ताञ्चोपरिटाचाथो एते एव वपट्रकास्य प्रियतमे तनूर्यदो- जश्च सहश्च ताभ्यामेवैनं तच्छमयति ॥ ५॥ अथ यदग्निं प्रथमं देवतानां यजत्यग्निर्वे देवानां मुखं मुखत एव तद्दे वान्प्रीणात्यथ यत्पौर्णमास्यामग्नीषोमो यजत्यग्नीषोमौ वा अन्तर्वत्र आस्तां ताविन्द्रों नाशक्नोदभिवज्र प्रहतुं ताभ्यामेतं भागमकल्पयत्पौ. र्णमासं तौ वा उपांशु निरुक्ती भवतोऽजामितायै यदुपांशु यजति तेन सोमं प्रीणाति यन्निरुक्तं तेनाग्निमथ यदमावास्यायामिन्द्राग्नी यजति प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एवाथ यत्सन्नयनमावास्यायामिन्द्रं यज- त्येतज्ज्योतिर्वा अमावास्या न ह्यत्र चन्द्रो दृश्यतेऽथ यदसन्नयत्पुरोळाशा- न्तरेणोपांश्वायजत्यजामिताया अथ यत्संनयन्सांनाय्यस्यान्तरेणोपांश्वा- ज्यस्य यजति तस्योक्तं ब्राह्मणमथ यदग्निं स्विष्टकृतमन्ततो यजत्येष ह वै देवेभ्यो हविः प्रयच्छति यो वा अन्नं विभजत्यन्ततः स भजतेऽथो रुद्रो वै स्विष्टकृदन्तभाग्वा वा एष तस्मादेनमन्ततो यजति तस्य स- च्छन्दसौ याज्यापुरोनुवाक्ये निगदो व्यवैति तेनाजामि भवति वषट्कृ- त्याप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे- क्रियते ॥६॥ . अथ यत्पदेशिन्यामिळायाः पूर्वमञ्जनभधरौष्ठे निलिम्पत्युत्तरमुत्तरौ- ठेऽयं वै लोकोऽधरौष्ठोऽसौ. लोक उत्तरौष्ठोऽथ यदोष्ठावन्तरेण तदिदमन्त- २ * १० ऋग्वेदे शाङ्खायनब्राह्मणम् । [३अध्यायः रिक्ष तद्यत्याश्चातीमानेव ते लोकाननुसंतन्वन्धीणात्यथ यदिळामुपह्वयते सर्वेष्वेव तद्भूतेषूपहवमिच्छतेऽथो अन्नं वा इळाऽन्नमेव तदात्मन्धत्तेऽथो पशवो वा इळा पशूनामेवाऽऽप्त्यै तस्यां चतुरानीति चतुष्टयं वा इदं सर्व मस्यैव सर्वस्याऽऽप्त्या अथ यदिळामुपहूयावघाति पशवो वा इळा पशू- नेव तदात्मन्धत्तेऽथ यध्वर्युबर्हिषदं पुरोळाशं करोति पितॄनेव तत्प्रीणा- त्यथ यज्जपेनोत्तरेळां प्राश्नाति ब्रह्म वै जपो ब्रह्मणैवैनां तच्छमयत्यथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजमाप: शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यदन्वाहार्यमाहरन्त्येतदक्षिणी दर्शपूर्णमासौ तस्माद- न्वाहार्यमाहरन्त्यथ यत्समिधमनुमन्त्रयत इध्मस्य वा एषैकाऽतिशिष्टा भवति तस्मादेनामनुस्ताति ॥ ७ ॥ अथ यत्रीननुयाजान्यजति त्रयो वा इमे लोका इमानेव तं लोका- नाप्नोत्यथ यत्सर्वमुत्तममाह प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठित्या एवाथ यत्सू- क्तवाकमाह प्रतिष्ठा वै सक्तवाकः प्रतिष्ठित्या एवाथ यद्द्यावापृथिव्योः कीर्तयति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एवानिरिदं हविरजुषतेति हैक आहुर्न तथा कुर्यादझ्यावर्तते हास्य देवता पुनर्यज्ञ इति मन्वाना पुनम हविः प्रदास्यतीति सा यजमानस्याऽऽशिपो निवर्तयति तस्माद्ध- विरजुषत हविरजुपतेत्येव ब्रूयादथो या एवैतत्पुरस्ताद्देवता यजति ताभिरेवैतदन्ततः प्रतितिष्ठत्यथ यत्सूक्तवाके यजमानस्य नाम गृह्णात्येष ह वै दैव आत्मा यजमानस्य यमृत्विजः संस्कुर्वन्ति तस्मादस्य नाम गृह्णात्यत्र हि जायत उच्चैर्गृह्णीयाद्यद्यथाऽऽचार्यः स्यात्तथा ह यज- मानोऽपच्यावुको भवत्यथ पञ्चाऽऽशिषो वदतीळायां तिस्रस्ता अष्टावेता- भिर्वे देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमान एताभिरेव सर्वा अष्टीरश्नुतेऽथ बर्हिषि प्राश्चमञ्जलिं निधाय जपति नम उपेति न हि नमस्कारमतिदेवा अथ यच्छंयोर्वाकमाह प्रतिष्ठा वैशंयोर्वाकः प्रति- ष्ठित्या एवाथो शंयुह वै बार्हस्पत्यः सर्वान्यज्ञाञ्छमयांचकार तस्माच्छं- योर्वाकमाहाथ यदप उपस्पृशति शान्ति, भेषजमापः शान्तिरेवैषा मेषजमन्ततो यज्ञे क्रियते ॥ ८॥ अथ यद्वार्हपत्ये पत्नीसंयाजैश्चरन्ति गार्हपत्यभाजो वै पल्य आह- वनीयभाग्यजमानस्तस्माद्गार्हपत्ये पत्नीसंयाजैश्चरन्ति ते वै चत्वारो • Amravashan R १ वानिति, इति पाठान्तरम् ।

। अध्यायः
ऋग्वेदे शाङ्खायनब्राह्मणंम् ॥
११
भवन्त्या चतुरं वै द्वंद्व मिथुनं प्रजननं प्रजात्यै ते वा उपांशु भवन्ति
रेतःसिक्तिर्वै पत्नीसंयाजा उपांशु वै रेतः सिच्यतेऽभिरूपा भवन्ति
यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्येव समृद्ध्या अथ सोमं त्वष्टारं देवानां
पत्नीरग्निं गृहपतिमिति यजत्येता ह वे देवता मिथुनानामीशते ता
अत्र प्रीणन्ति ता अत्र प्रीता मिथुनानि दधति सोमं प्रथमं यजति
रेतस्तसिञ्चति त्वष्टारं द्वितीयं त्वष्टा वै रेतःसिक्तिं विकरोति ततः
पत्न्यः पत्नीसंयाजा ह्येतेऽथ यदग्निं गृहपतिमन्ततो यजत्येतस्विष्टकृतो
वै पल्यस्तस्मादेनमन्ततो यजत्यथ यहचं जपति स्वस्त्ययनमेव तत्कु-
रुतेऽथ यदिळामुपह्वयते यन्मार्जयते यच्छंयोर्वाकमाह तस्योक्तं ब्राह्म-
णमथ यद्वेदे पत्नी वाचयति वृषा वै वेदो योपा पत्नी मिथुनमेव
तत्पनीषु दधाति तस्मात्पत्नी वेदतृणान्यन्तरोरू कुरुतेऽथ, यद्वेद
स्तृणाति तेन हास्य दर्शपूर्णमासौ संततौ भवतोऽथो एतेनैवास्याग्नि-
होत्रं स्तीणं बहिर्भवत्यथ यद्वेदातिशेषमुपतिष्ठत आशिषमेव तद्वदतेऽथ
यदाहवनीयमुपतिष्ठते प्रीत्वैव तद्देवेप्वन्ततोऽथं वदतेऽथ यदप उपस्पृ-
शति शान्ति भेपजमापः शान्तिरेवैपा मेपजमन्ततो यज्ञे क्रियते
क्रियते ॥ ९ ॥
इति शाङ्खायनब्राह्मणे तृतीयोऽध्यायः ॥३॥
تع
हरिः ॐ ॥ अनुनिर्वाप्यया वै देवा असुरानपानत तथो एवैतद्यजमा-
नोऽनुनिर्वाप्ययैव द्विपतो भ्रातृव्यानपहते स वा इन्द्राय विमृध एका-
दशकपालं पुरोळाशं निर्वपतीन्द्रो वै मृधां विहन्ता स एवास्य मृधो
विहन्त्यथो आमावास्यमेवैतत्प्रत्याहरति यत्पौर्णमास्यामिन्द्रं यजत्यत्र
संस्थितदर्शपूर्णमासी यजमानो यद्यपरपक्षे भङ्गं नीयान्नास्य यज्ञविकर्षः
स्यादथ यदमावास्यायामदितिं यजति यज्ञस्यैव स भारताय सा संया-
ज्याऽतो विमृद्वती भवति ॥ १ ॥
अथातोऽभ्युदिताया एति ह वा एप यज्ञपथाद्यस्योपवसथे पुरस्ता-
चन्द्रो दृश्यते सोऽनये दात्रेऽष्टाकपालं पुरोळाशं निर्वपत्यग्निर्वै दाता स
एवास्मै यज्ञं ददातीन्द्राय प्रदात्रे सायं दोहितं दधीन्द्रो वै प्रदाता स
एवास्मै यज्ञं प्रयच्छति विष्णवे शिपिविष्टाय प्रातदोहिते पयसि चलं
यो वै विष्णुः स एवास्मै यज्ञं ददाति तद्यदेता देवता यजति नेद्यज्ञ-
[ दयानीति तिसृधन्वं दक्षिणा तत्स्वस्त्ययनस्य रूपम् ॥ २॥

१२ ऋग्वेदे शाङ्खायनब्राह्मणम्। [४ अध्यायः अथातोऽभ्युष्टाया एति ह वा एष यज्ञपथाद्यस्योपवसथे पश्चाञ्चन्द्रो दृश्यते सोऽग्नये पथिकृतेऽटाकपालं पुरोळाशं निर्वपत्यग्निः पथिकृत्स एवैनं पुनर्यज्ञपथमपि पाथयतीन्द्राय वृवघ्न एकादशकपालमिन्द्रो वै वृत्रहा स एवैनं पुनर्यज्ञपथमपि पाथयति वैश्वानरीयं द्वादशकपालमसौ वै वैश्वानरो योऽसौ तपत्येष एवैनं पुनर्यज्ञपथमपि पाथयति तद्यदेता देवता यजति नेद्यज्ञपथा यानीति दण्डोपानहं दक्षिणा तदभ- यस्य रूपम् ॥३॥ अथातो दाक्षायणयज्ञस्य दाक्षायणयज्ञेनैष्यन्फाल्गुन्यां पौर्णमास्यां प्रयुङ्क्ते मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी तस्मात्तस्या- मदीक्षितायनानि प्रयुज्यन्तेऽथो दक्षो ह वै पार्वतिरेतेन यज्ञेनेष्ट्वा सर्वा- कामानापतधदाक्षायणयज्ञेन यजते सर्वेषामेव कामानामाप्त्यै नाशने काममापयति सोमं राजानं चन्द्रमसं मक्षयामीति प्रनसा ध्यायन्नना- यात्तदसौ वै सोमो राजा विचक्षणश्चन्द्रमास्तमेतमपरपक्षं देवा अभिषु- ण्वन्ति तद्यदपरपक्षं दाक्षायणयज्ञस्य व्रतानि चरति देवानामपि सोहम पीथोऽसानीत्यथ यदुपवसथेऽग्नीषोमीयमेकादशकपालं पुरोळाशं निर्व- पति य एवासौ सोमस्योपवसथेऽग्नीषोमीयस्तमेव तेनाऽऽनोत्यथ यत्मा- तरामावास्येन यजत ऐन्द्रं वै सुत्यमहस्तत्सुत्यमहराप्नोत्यथ यदद्मावास्या- यामुपवसथ ऐन्द्राग्मं द्वादशकपालं पुरोळाशं निर्वपत्यैन्द्राग्नं वै सात- स्तृतीयसवनं तत्तृतीयसवनमाप्नोत्यथ यन्मत्रावरुणी पयस्या मैत्राव रुणी वा अनुबन्ध्या तदनूबन्ध्यामाप्नोति स एष सोमो हविय॑ज्ञाननु. प्रविष्टस्तस्माददीक्षितो दीक्षितव्रतो भवति ॥ ४ ॥ अथात इळादधस्येळादधेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष पशुकामस्यान्नाद्यकामस्य यज्ञस्तेन पशुकामोऽ- नाद्यकामो यजेत तत्र तथैव प्रतानि चरति दाक्षायणयज्ञस्य हि समासः॥ ५॥ अथातः सार्वसेनियज्ञस्य सार्वसेनियज्ञेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुङ्क्ते तस्या उक्तं ब्राह्मणं स एष प्रजातिकामस्य यज्ञस्तेन प्रजातिकामो यजेत तद्यध्वर्युर्हवींषि प्रजनयति रूपम् ॥६॥ अथातः शौनकयज्ञस्य शौनकयज्ञेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुके तस्या उक्तं ब्राह्मणं स एष तुस्तूर्षमाणस्य यज्ञस्तेन तुस्तूप्रमाणो यजेत स य इच्छेहिषन्तं भ्रातृव्यं स्तृण्वीयेत सोऽनेन यजेत स्तृणुते ह ॥ ७ ॥ तत्मजात्यै प THAN स एप [४अयायः] ऋग्वेदे शाङ्क्षायनबाह्मणम् । १३ अथातो वसिष्ठयज्ञस्य वसिष्ठयज्ञेनैष्यन्फाल्गुन्याममावास्यायां प्रयुके ब्रह्म वै पौर्णमासी क्षत्रममावास्या क्षत्रमिवैष यज्ञः क्षत्रेण शत्रून्सहा ३ हति वसिष्ठोऽकामयत हतपुत्रः प्रजायेय प्रजया पशुभिरभिसौदासा- न्भवेयमिति स एतं यज्ञक्रतुमपश्यद्वसिष्ठयज्ञं तमाहरत्तेनायजत तेनेष्ट्वा प्राजायत प्रजया पशुभिरभिसौदासानभवत्तथो एवैतद्यजमानो यसि ठयज्ञेन यजते प्रजायते प्रजया पशुभिरभिद्विषतो भ्रातृव्यान्भवति॥ ८॥ अथातः साकंप्रस्थाय्य :य साकंप्रस्थाय्येनष्यन्नेतस्यामेवामावास्यायां प्रयुके तस्या उक्तं बाह्मणं स एष श्रेष्ठ्यकामस्य पौरुषकामस्य यज्ञस्तेन श्रेष्ठ्यकामः पौरुषकामो यजेत तद्यत्साकं संप्रतिष्ठन्ते साकं संप्र- यजन्ते साकं भक्षयन्ते तस्मात्साकंप्रस्थाय्यः ॥९॥ अथातो मुन्ययनस्य मुन्ययनेनैष्यन्नेतस्यामेव पौर्णमास्यां प्रयुक्ते तस्या उक्तं बाह्मणं स एप सर्वकामस्य यज्ञस्तेन सर्वकामो यजेत ॥ १० ॥ अथातस्तुरायणस्य तुरायण यज्ञेनेष्यन्नेतस्यामेव पौर्णमास्यां प्रयुके तस्या उक्तं बाह्मणं स्वर्गकामस्य यज्ञस्तेन स्वर्गकामो यजे- ताथ यत्कृष्णाजिनं प्रतिमुञ्चते ब्रह्म वै कृष्णाजिनं ब्रह्मणैव तद्यशं समर्धयति तानि वै त्रीणि हवींषि भवन्ति त्रयो वा इमे लोका इमा- नेव तं लोकानाप्नोति ॥११॥ अथात आग्रयणस्याऽऽग्रयणेनान्नाधकामो यजेत वर्षास्वागते श्यामा- कसस्ये श्यामाकानुद्धर्तवा आह सा या तस्मिन्कालेऽमावास्योपसंप- येत तयेष्वाऽथैतयेष्टा यजेत यदि पौर्णमास्येतयेष्ठाऽथ पौर्णमासेन यजेत या नक्षत्रमुपेप्सेत्पूर्वपक्षे नक्षत्रमुदीक्ष्य यस्मिन्नक्षत्रे कामयेत तस्मिन्यजेत तस्यै सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणं सौम्यश्चरुः सोमो वै राजौषधीनां तदेनं स्वया विशा प्रीणात्यथ यन्मधुपर्क ददात्येष ह्यारण्यानां रसः ॥ अथ वसन्त आगते पक्केषु वेणुयवेषु वेणुयवानुद्धर्तवा आह तस्या एतदेव पर्वैतत्तन्त्रमेषा देवतैषा दक्षिणेतद्वाह्मणं तां हैक आग्नेयीं वा वारुणी वा प्राजापत्यां वा कुर्वन्त्येतत्तन्त्रमेवैतद्ब्राह्मणम् ॥ १३ ॥ अथ वीहिसस्ये वा यवसस्येवाऽऽगत आग्रयणीयानुद्धर्तवा आह तस्या एतदेव पर्वैतत्तन्त्रमथ यदैन्द्रानो द्वादशकपाल इन्द्रामी वै देवानां मुझे मुखत एव तद्देवान्त्रीणात्यथ यद्वैश्वदेवश्चरेते वै सर्वे देवा यद्विश्वे । १२॥

१४ ऋग्वेदे शाङ्खायनब्राह्मणम् । [६अध्यायः देवाः सर्वेषामेव देवानां प्रीत्या अथ ययावापृथिवी य एककपालो द्यावापृथिवी वै सस्यस्य साधयित्र्यौ प्रतिष्ठा पृथिव्योझनासामनुवेद तद्य- देता देवता यजत्येताभिर्देवताभिः शान्तमन्नमत्स्यामीत्यथ यत्प्रथम गां ददाति प्रथमकर्म ह्येतद्ययेतस्यैळायात्पौर्णमासं वाऽऽमावास्यं वा हविः कुर्वीत नवानामुभयस्याऽऽप्त्या अपि वा पौर्णमासे वाऽऽमावास्ये वा हवींप्यनुवर्तयेदेवतानामपरिहाणायापि वा यवाग्वैव सायं प्रातरग्निहोत्रं जुहुयान्नवानामुभयस्याऽऽप्त्या अपि वा स्थालीपाकमेव गार्हपत्ये अपयित्वा नवानामेताभ्य आग्रयणदेवताभ्य आहवनीये जुहुयास्विष्ट- कृञ्चतुर्थीभ्योऽमुष्यै स्वाहाऽमुष्यै स्वाहेति देवतानामपरिहाणायापि वाऽग्निहोत्रीमेव नवानादयित्वा तस्यै दुग्धेन सायं प्रातरग्निहोत्रं जुहुया. दुभयस्याऽऽप्त्या एत एतावन्तः पातास्तेषां येन कामयेत तेन यजेत त्रिहविस्तु स्थितास्त्रयो वा इमे लोका इमानव तं लोकानाप्नोतीमानेव तं लोकानाप्नोति ॥ १४ ॥ इति शाङ्खायनबाह्मणे चतुर्थोऽध्यायः॥४॥ ॐ अथातश्चातुर्मास्यानां चातुर्मास्यानि प्रयुञ्जानः फागुल्यां पौर्ण. मास्यां प्रयुङ्क्ते मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुख- मुत्तरे फल्गू पुच्छं पूर्वे तद्यथा प्रवृत्तस्यान्ता समेतौ स्यातामेवमेवैती संवत्सरस्यान्तौ समेतौ तद्यत्फाल्गुन्यां पौर्णमास्यां वैश्वदेवेन यजते मुखत एव तत्संवत्सरं प्रीणात्यथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यामि तस्मादृतुसंधिषु प्रयुज्यन्त ऋतुसंधिषु हि व्याधिर्जायते तानि वा अष्टौ हवींषि भवन्त्यष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति चतसृणां वै पौर्णमासीनां वैश्वदेवं स मासोऽथ यदग्निर्मथ्यते प्रजाति। वैश्वदेवं तस्मादेतं देवं गर्भ प्रजनयत्यथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्य- भागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवामुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रियां विराजमाप्नोति ॥१॥ अथ यदग्नीषोमो प्रथमौ देवतानां यजति दार्शपौर्णमासिके वा एते देवते तस्मादेतौ प्रथमो यजत्यथ यत्सवितारं यजति सविता वै प्रसबा. नामीशे सवितृप्रसूतताया अथ यत्सरस्वतीं यजति वाग्वै सरस्वती वाच- मेव तत्मीणात्यथ यत्पूषणं यजत्यसौ पूषा योऽसौ तपत्येतमेव तत्पी- - वै । . -- [५अध्यायः] ऋग्वेदेशाङ्खायनबाह्मणम् । १५ णात्यथ यन्मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसो भैषज्यमेव तत्कुरुतेऽथ यद्वैश्वदेवी पयस्यैते वै सर्वे देवा यद्विश्वे देवाः सर्वेषामेव देवानां प्रीत्या अथ य[]यावापृथिवी य एककपालः प्रतिष्ठे वै द्यावापृ- थिवी प्रतिष्ठित्या एवाथ यत्प्रथमजं गां ददाति प्रथमकर्म ह्येतदथ यत्पुर- स्ताद्वोपरिष्टाद्दा शंयोर्वाकस्यानावाहितान्बाजिनो यजति देवा अश्वा वै वाजिनस्तानेव तत्पीणात्यत्र देवाः साश्वाः प्रीता भवन्त्यथो ऋतवो वै वाजिन ऋतूनेव तत्पीणात्यथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥२॥ वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ताः सृष्टा अप्रसूता वरुणस्य यवां चक्षुस्ता वरुणो वरुणपाशैः प्रत्यमुश्चत्ताः प्रजाः प्रजापतिं पितर- मेत्योपाधावन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्येमहीति तत एतं प्रजापतिर्यज्ञक्रतुमपश्यद्वरुणप्रघासं तमाहरत्तेनायजत तेनेष्ट्वा वरुणमग्रीणात्स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच पाप्मनः प्रजाः प्रामुञ्चत्य ह वा अस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्ते य एवं विद्वान्वरुणप्रघासैर्यजतेऽथ यदर्मि प्रणयन्ति पमेवामुं वैश्वदेवे मन्थन्ति तमेव तत्प्रणयन्त्यथ यदमिर्मथ्यते तस्योक्तं बाहाणमय यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजी संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि तन्नक्षत्रियां विराजमानोति समानानि पञ्चसश्चराणि हवींषि पौष्णान्तानि तेषामुक्तं ब्राह्मणम् ॥ ३॥ अथ यदैन्द्राशो द्वादशकपालः प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एवाथो मध्यस्थो वा इन्द्रस्तस्मादेनं मध्यतो यजत्यथ यद्वारुणी पयस्येन्द्र उ वै वरुणःस उ वै पयोभाजनस्तस्माद्वारुणी पयस्याऽथ यन्मारुती पयस्याऽ- प्सु वै मरुतः शितास्तस्मादेनान्पयसा यजत्यापो हि पयोऽथो इन्द्रस्य वै मरुत ऐन्द्रं पयस्तस्मान्मारुती पयस्याऽथ यत्काय एककपालः प्रजाप- तिर्वै कस्तमेव तत्पीणात्यथो सुखस्यैवैतन्नामधेयं कमिति सुखमेव तदात्म- न्धत्तेऽथ यन्मिथुनौ गावौ ददाति तत्प्रजात्यै रूपमथ यद्वाजिनो यजति तेषामुक्तं ब्राह्मणमथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणा- त्यथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं --- भवति ॥४॥ 14 .

ऋग्वेदे शाढायनब्राह्मणम् । [५अध्यायः] ऐन्द्रो वा एप यज्ञक्रतुर्यत्साकमेधास्तद्यथा महाराजः पुरस्तात्सैना- नीकानि प्रत्युह्याभयं पन्थानमन्वियादेवमेवैतत्पुरस्ताद्देवता यजति तद्य. थाऽदः सोमस्य महाव्रतमेवमेतदिष्टिमहाव्रतमथ यदग्निमनीकवन्तं प्रथम देवतानां यजत्यमि देवानां मुखं मुखत एव तद्देवान्त्रीणात्यथ यन्मध्यंदिने मरुतःसांतपनान्यजति मध्यंदिने वै संतपति तस्मान्मध्यंदिने मरुतः सांतप- नान्यजत्यथो इन्द्रस्य वै मरुत ऐन्द्रो मध्यंदिनस्तस्मान्मध्यंदिने मरुतः सांतपनान्यजत्यथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वा एतद्यगृहमे- धीयः सायंपोषस्तस्मात्योपवन्तावाज्यभागौ यजति यजमानमेव तत्पो. षयत्यथ यत्प्रातः पूर्णदर्पण चरन्ति पूर्वेयुः कर्मणवैतत्प्रातः कर्मोपसंतनो- त्यथ यन्मरुतः क्रीळिनो यजतीन्द्रस्य वै मरुतः कीठिनस्तस्मादेनानि- न्द्रेणोपसंहितान्यजत्यथ यदग्निं प्रणयन्ति यन्मथ्यते तस्योक्तं ब्राह्मणमथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजी संयाज्ये तस्योक्तं बाह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींपि स्विष्टकृन्नवमस्त. नक्षत्रियां विराजमाप्नोति समानानि षट्र संचराणि हवींप्येन्द्रानान्तानि तेषामुक्तं बाह्मणमथ यन्महेन्द्रमन्ततो यजत्यन्तं वै श्रेष्ठी भजते तस्मा. देनमन्ततो यजत्यथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपत्येतमेव तत्पीणात्यथ यहपभं ददात्येन्द्रो हि यज्ञक्रतुः ॥ ५॥ अथ यदपराह्ने पितृयज्ञेन चरन्त्यपक्षयभाजो वै पितरस्तस्मादप- राहे पितृयज्ञेन चरन्ति तदाहुर्यदपरपक्षमाजः पितरोऽथ कस्मादेनान्पू- पक्षे यजन्तीति देवा वा एते पितरस्तस्मादेनान्पूर्वपक्षे यजन्त्यथ यदेकां सामिधेनीमन्वाह सकृदिव वै पितरस्तस्मादेकां सामिधेनीम- न्वाह सा वा अनुष्टुब्भवति वागनुष्टुप्पराञ्च उ वै पितरस्तानेवैतद्वाचाऽ- नुष्टुभागमयत्यथ यद्यजमानस्यार्पेयं नाहनेद्यजमानं प्रवृणजानीत्यथैतं निगदमन्वाह तस्योक्तं बाह्मणमथ यत्सोमं पितृमन्तं पितन्वा सोमवतः पितृन्बर्हिषदः पितूनग्निष्वात्तानित्यावाहयति देवा वा एते पितरस्तस्मा- देनानावाहयत्यथ यदग्निं कव्यवाहनमावाहयत्येतस्विष्टकृतो वै पितर- स्तस्मादेनमावाहयति न हैके स्वं महिमानमावाहयन्ति यजमानस्यैष महिमेति बदन्त आवाहयेदिति वेव स्थितमग्नेयवैष महिमा ॥ ६ ॥ अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्ता उत्सृजति प्रजा वै बहिर्ने पजां षड भवन्ति पड़ा ऋतव ऋतवः पितरः पितृनेव तत्पीणात्यथ यज्जीवनवन्तावाज्यभागौ यजति यजमानमेव तज्जीवयत्यथ प्रवृगजानीति ते वै . [५ अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । १० यत्तिस्रस्तिस्र एकैकस्य हविषो भवन्ति त्रीणि वै हवींषि मवन्ति तेषां समवद्यति तस्मात्तिस्रस्तिस्र एकैकस्य हविषो भवन्त्यथो देवकर्मणैवैत- पितृकर्म व्यावर्तयत्यथो परामु वै परावतं पितरो गता आह्वयत्यैवैनां प्रथमया द्वितीयया गमयति प्रैव तृतीयया यच्छत्यथ याग्निं कव्यवाह- नमन्ततो यजत्येतत्स्विष्ट[ कृ] तो वै पितरस्तस्मादेनमन्ततो यजत्यथ यदिळामुपहूयावघ्राय न प्राश्नन्ति पशवो वा इळा नेद्यजमानस्य पशू- न्प्रवृणजामेत्यथ यद्ध्वर्युः पितृभ्यो ददाति पितॄनेव तत्मीणात्यथ यत्पवित्रमतिमार्जयन्ते शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ यहचं जपन्ति स्वस्त्ययनमेव तत्कुर्वतेऽथ यदुश्चः परेत्य गार्हपत्याहवनीया उपतिष्ठन्ते प्रीत्वैव तद्देवेष्वन्ततोऽथं वदन्तेऽथो दक्षिणासंस्थो वै पितृयज्ञस्तमेवैतदुदक्संस्थं कुर्वन्त्यथ यत्प्राश्च उप- निष्क्रम्याऽऽदित्यमुपतिष्ठन्ते देवलोको वा आदित्यः पितृलोकः पितरो देवलोकमेव तत्पितृलोकादभ्युत्क्रामन्त्यथ यत्सूक्तवाके यजमानस्य नाम न गृह्णाति नेद्यजमानं प्रवृणजानीत्यथ यत्पत्नीसंपाजैर्न चरन्ति नेत्पत्न्यः यदुदश्चः परेत्य त्र्यम्बकैश्चरन्ति तत्स्वायां दिशि प्रीणन्त्यथो दक्षिणासंस्थो वै पितृयज्ञस्तमेवैतदुदक्संस्थं कुर्वन्त्यथ यदन्तत इष्ट्वेष्ट्या यजत एतत्संस्था वै साकमेधास्तस्मादन्तत इट्वेष्ट्या यजतेऽथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति ॥७॥ त्रयोदशं वा एतं मासमाप्नोति यच्छुनासीर्येण यजत एतावान्वे संवत्सरो यदेष त्रयोदशो मासस्तदत्रैव सर्वैः संवत्सर आप्तो भवत्यथ यदग्निर्मथ्यते यद्वैश्वदेवस्य तन्त्रं तत्तन्त्रं या न मथ्यते पौर्णमासमेव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासं प्रतिष्ठित्या एवाथ यदग्निर्मथ्यते तस्योक्तं बाह्मणमथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तस्योक्तं बाह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि स्विष्टकृन्नवमं तन्नक्षत्रियां विराजमानोति समानानि त्वेव पञ्च संच- राणि हषींषि भवन्ति पौष्णान्तानि तेषामुक्तं ब्राह्मणमथ यच्छुनासीरौ यजति शान्तिर्वै मेषजं शुनासीरौ शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रिय- तेऽथ यद्वायुं यजति प्राणो वै वायुः प्राणमेव तत्पीणात्यथ यत्सौर्य प्रवृणजामेत्यथ रुद्रमेव ३ १८ ऋग्वेदे शाङ्खायनब्राह्मणम् । [५ अध्यायः एककपालोऽसौ वै सूर्यो योऽसौ तपत्येनमेव तत्पीणात्यथ यच्छ्रेता दक्षिणैतमेव तत्पीणात्येतस्यैव तद्रूपं क्रियते ॥ ८॥ अथ यत्प्रायश्चित्तप्रतिनिधीन्कुर्वन्ति यदाहुतीर्जुह्वति स्वस्त्ययनमेव तस्कुर्वते यज्ञस्यैव शान्त्यै यजमानस्य च भिषज्यायै ॥ ९ ॥ अथ यत्स्वैरग्निभिर्यजमानं संस्थापयन्ति देवरथो वा अग्नयो देव- रथ एवैनं तत्संस्थापयन्ति स एतेन देवरथेन स्वर्ग लोकमेति सुकृतां यत्र लोकः सुकृतां यत्र लोकः ॥ १० ॥ इति शाङ्खायनबाह्मणे पञ्चमोऽध्यायः॥ ५॥ " हरिः ॐ प्रजापतिः प्रजातिकामस्तपोऽतप्यत तस्मात्तप्तात्यश्चाजाय. ताग्निर्वायुरादित्यश्चन्दमा उपाः पञ्चभी तानवबीयूयमपि तप्यध्वमिति तेऽदीक्षन्त तान्दीक्षितांस्तेपाना ,पाः प्राजापत्याप्सरो रूपं कृत्वा पुरस्ता- प्रत्युदैत्तस्यामेषां मनः समपतत्ते रतोऽसिञ्चन्त ते प्रजापतिं पितरमे- त्याबुवनेतो वा असिञ्चाम हा इदं नो माया र दिति स प्रजापति- हिरण्मयं चमसमकरोदिषुमात्र पूर्व व तिर्यञ्चं तमन्नेतत्समसिञ्चत्तत उदतिष्ठत्सहस्राक्षः सहस्रपात हस्रेण प्रतिहिाभिः ॥ १ ॥ स प्रजापति पितरमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति नाम मे कुर्वित्यबवीन्न वा इदमविहितेन नाम्नाऽन्नमत्स्यामीति स वै त्वमि. त्यबवीद्भव एवेति ह वा एनं न भवो हिनस्ति नास्य प्रजां नास्य पशून्नास्य बुवाणं चनाथ य एनं द्वेष्टि स एवं पापीया- न्भवति न स य एवं वेद तस्य बतमामेव वासः परिदधी- यद्भव आपस्तेन तेति ॥२॥ तं द्वितीयमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति द्वितीयं मे नाम कुर्वित्यब्रवीन्न वा इदमेकेन नाम्नाऽन्नमत्स्यामीति स वै त्वमित्यब- वीच्छ एवेति यच्छर्वोऽग्निस्तेन न ह वा एनं शो हिनस्ति नास्य प्रजा नास्य पशून्नास्य बुवाणं चनाथ य एनं टेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं सर्वमेव नाश्नीयादिति ॥३॥ तं तृतीयमभ्यायच्छत्तमबवीत्कथा माऽभ्यायच्छंसीति तृतीयं मे नाम कुर्वित्यबवीन्न वा इदं द्वाभ्यां नामभ्यामनमत्स्यामीति स वै त्वमित्यब- . . [३अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । १९ वीत्पशुपतिरेवेति यत्पशुपतिर्वायुस्तेन न ह वा एनं पशुपतिहिनस्ति नास्य प्रजां नास्य पशून्नास्य बुवाणं चनाथ य एनं दृष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं ब्राह्मणमेव न परिव- देदिति ॥४॥ तं चतुर्थमभ्यायच्छत्तमबवीत्कथा माऽभ्यायच्छसीति चतुर्थं मे नाम कुर्वित्यब्रवीन्न वा इदं विभिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यबवी- दुग्र एव देव इति यदुनो देव ओपधयो वनस्पतयस्तेन न ह वा एनमुग्रो देवो हिनस्ति नास्य प्रजां नास्य पशुमास्य ब्रुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्भवति न स य एवं वेद तस्य व्रतं स्त्रिया एव विवरं नेक्षेतेति ॥५॥ तं पश्चमभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति पञ्चमं मे नाम कुर्षित्यनवीन वा इदं चतुभिर्नामभिरन्नमत्स्यामीति स वै त्वमित्यब्रवी- न्महानेव देव इति यन्महान्देव आदित्यस्तेन न ह वा एनं महा- न्देवो हिनस्ति नास्थ प्रजा नास्य पशून्नास्य बुवाणं चनाथ य एनं द्वेष्टि स एव वापीयान्भवति न स य एवं वेद् तस्य व्रतमुद्यन्तमेवैनं नेक्षेतास्तं यन्तं चेति ॥६॥ तं षठमभ्यायच्छत्तमब्रवीत्का माऽभ्यायच्छसीति षष्ठं मे नाम कुर्वित्यबवीन्न वा इदं पञ्चभिन्न मभिरन्नमत्स्यामीति स वै त्वमित्यबवी- दुद्र एवेति यदुद्रश्चन्द्रमास्तेन न ह वा एनं रुद्रो हिनस्ति नास्य प्रजां नास्य पशून्नास्य बुवाणं चनाथ य एनं देष्टि स एव पापीयान्म- पति न स य एवं वेद तस्य व्रतं विमूर्तमेव नाश्नीयान्मज्जानं चेति ॥ ७॥ तं सप्तममभ्यायच्छत्तमब्रवीत्कथा माऽभ्यायच्छसीति सप्तमं मे नाम कुर्वित्यबवीन्न वा इदं षड्रभिन ममिरन्नमत्स्यामीति स वै त्वमित्यबवी- दीशान एवेति यदीशानोऽन्नं तेन न न ह वा एनमीशानो हिनस्ति नास्य प्रजां नास्य पशूसास्य ब्रुवाणं चनाथ य एनं दृष्टि स एव पापीयान्भवति न स य एवं वेद तस्य ब्रतमन्नमेवेच्छमानं न प्रत्याच- क्षीतेति ॥८॥ तमष्टममभ्यायच्छत्तमम्वीकथा माऽम्यायच्छसीत्यष्टम मे नाम कुर्वित्यबवीन्न वा इदं सप्तमिनमभिरनमत्स्यामीति स वै त्वमित्यबवी-: . . . . .

२० प्राग्वेदे शाङ्खायनब्राह्मणम् । [३अध्यायः दशनिवेति यदशनिरिन्द्रस्तेन न ह वा एनमशनिहिनस्ति नास्य प्रजां नास्य पशूनास्य सुवाणं चनाथ य एनं द्वेष्टि स एव पापीयान्म- वति न स य एवं वेद तस्य व्रतं सत्यमेव वदोद्धिरण्यं च विभृयादिति स एषोऽटनामाऽधाविहितो महान्देव आह वा अस्याष्टमात्पुरुषात्प्रजाऽ- समत्ति वशीयान्वशीयान्हवास्य प्रजायामाजायते य एवं वेद ॥९॥ प्रजापतिस्तपोऽप्यत स तपस्तप्त्वा प्राणादेवेमं लोकं प्राबृहदपानाद- न्तरिक्षलोकं व्यानामुं लोकं स एतांस्त्रील्लोकानभ्यतप्यत सोऽग्निमेवा- स्माल्लोकादसृजत वायुमन्तरिक्षलोकादादित्यं दिवः स एतानि त्रीणि ज्यो ध्यभ्यतप्यत सोऽमेरेव!ऽसृजत वायोर्यजूंष्यादित्यात्सामानि स एतां वीं विद्यामभ्यतय्यत स यज्ञमतनुत स ऋचैवाशंसद्यजुषा प्रातर- सानोद्गायदथैतस्या एव अय्यै विद्यायै तेजोरसं प्राबृहदेतेषामेव वेदानां भिषज्याय स भूरित्यचां प्राबृहद्भुव इति यजुषां स्वरिति सानां तेन दक्षिणतो ब्रह्माऽऽसीत्तस्य दक्षिणतो वर्षीयानुदीचीनप्रवणो यज्ञः संतस्थे तस्य ह वै दक्षिणतो वर्षीयानुदीचीनैव प्रवणो यज्ञः सति- ठते यस्यैवं विद्वान्ब्रह्मा भवति ॥१०॥ तदाहुर्यदृचा होता होता भवति यजुपाऽध्वर्युरध्वर्युः साम्नोद्गातोद्गाता केन ब्रह्मा ब्रह्मा भवतीति यमेवामुं वय्यैविद्याय तेजोरसं प्राबृहत्तेन ब्रह्मा ब्रह्मा . भवति तदाहुः किंविदं किंछन्दसं ब्रह्माणं वृणीतेत्यध्वर्युमि- त्येके स परिक्रमाणां क्षेत्रज्ञो भवतीतिच्छन्दोगमित्येके तथा हास्य त्रिभिदेहविर्यज्ञाः संस्क्रियन्त इति बहवृचमिति त्वेव स्थितमेतत्यरिचर- णावितरौ वेदावत्र न भूयिष्ठा होत्रा आयत्ता भवन्तीत्यग्भिग्रहा गृह्यन्त ऋक्षु सामानि गीयन्ते तस्माद्वृच एव स्यात्तदाहुः कियद्द्ब्रह्मा यज्ञस्य संस्करोति कियदन्य ऋत्विज इत्यर्धमिति ब्रूयावे वै यज्ञस्य वर्तनी वावाऽन्या संस्क्रियते मनसाऽन्या सा या वाचा संस्क्रियते तामन्य ऋत्विजः संस्कुर्वन्त्यथ या मनसा तां ब्रह्मा तस्माद्यावहचा यजुषा साना कुर्युस्तूष्णीं तावद्ब्रह्माऽऽसीतार्धं हि तद्यज्ञस्य संस्करोति ॥ ११ ॥ अथ यत्रैनं ब्रूयुर्बह्मन्प्रणेष्यामो ब्रह्मन्य च तरिष्यामो ब्रह्मन्प्रस्था- स्यामो ब्रझन्स्तोष्याम इत्योइमित्येतावता प्रसूयादेतद्ध वा एकमक्षरं त्रयीं विद्यां प्रति प्रति तथा हास्य त्रय्या विद्यया प्रसूतं भवति ब्रह्माणि वै यज्ञः प्रतिष्ठितो यदै यज्ञस्य स्खलितं बोल्वणं वा भवति ब्रह्मण एव %3D ह वै . [४ अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । २१ तत्पाहुस्तस्य त्रय्या विद्यया भिषज्यत्यथ यद्धय॒च्युल्वणं स्याच्चतुर्मू- हीतमाज्यं गृहीत्वा गार्हपत्ये प्रायश्चित्ताहुतिं जुहुयाद्भः स्वाहेप्ति तट्ट- चमृचि दधात्य॒र्चाचे प्रायश्चित्तिं करोत्यथ यदि यजुष्युल्बणं स्याच्चतु- गृहीतमाज्यं गृहीत्वाऽन्वाहार्यपचने प्रायश्चित्ताहुतिं जुहुयाद्धविर्यज्ञ आग्नीधीये सौम्येऽध्वरे भुवः स्वाहेति तद्यजुर्यजुषि दधाति यजुषा यजुषि प्रायश्चित्तिं करोत्यथ यदि साम्न्युल्बणं स्याञ्चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये प्रायश्चित्ताहुतिं जुहुयात्स्वः स्वाहेति तत्साम सान्नि दधाति साना सान्नि प्रायश्चित्तिं करोत्यथ यद्यविज्ञातमुल्बणं स्याच्चतु- गृहीतमाज्यं गृहीत्वाऽऽहवनीय एव प्रायश्चित्ताहुतिं जुहुयाद्भूर्भुवः स्वः स्वाहेत्येप ह वै यज्ञस्य व्यृद्धं समर्धयति य एताभिर्व्याहृतिभिः प्रायः चित्तं कराति न ह बा उपसृतो ब्रूयान्नाहमेतद्वेदेत्येता व्याहृतीविद्वा- सर्व ह वा उ स वेद य एता व्याहृतीर्वेद तद्यथा ह दारुणः श्लेष्म- संश्लेषणं स्यात्परिचर्मण्यं वैवमेवैता व्याहृतयस्त्रय्यैविद्यायै संश्ले- षण्यः ॥ १२॥ अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तदथोपविशतीदमह- मर्वावसोः सदसि सीदामीत्यर्वावसुर्ह वै देवानां ब्रह्मा तमेवैतत्पूर्वे साद- यत्यारिष्टं यज्ञं तनुतादित्यथोपविश्य जपति बृहस्पतिर्ब्रह्मेति बृहस्पतिर्ह वे देवानां ब्रह्मा तस्मिन्ने धैतदनुज्ञामिच्छते प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उवादनादेतद्वै यज्ञस्य द्वारं तदेतदशन्यं करो- तीष्टे च स्विष्टकृत्याऽनुयाजानां प्रसवादेतद्ध वै यज्ञस्य द्वितीयं द्वारं तदे- वैतदशून्यं करोत्यथ यत्र ह तद्देवा यज्ञमतन्वत तत्सवित्रे प्राशिवं परि- जहरुस्तस्य पाणी प्रतिच्छेद तस्मै हिरण्मयो प्रतिदधुस्तस्माद्धिरण्यपाणि- रितिस्तुतस्तद्भगाय परिजहुस्तस्याक्षिणी निर्जघान तस्मादाहुरन्धो भग इति तत्पूष्णे परिजरुस्तस्य दन्तान्परोवाप तस्मादाहुरदन्तकः पूषा करम्भभाग इति ते देवा ऊचुः ॥ १३ ॥ इन्द्रो वै देवानामोजिष्ठो बलिष्ठस्तस्मा एनत्परिहरतेति तत्तस्मै परि- जहस्तस्य ब्रह्मणा शमयांचकार तस्मादाहेन्द्रो ब्रह्मेति तत्प्रतीक्षते मित्रस्य त्वा चक्षुपा प्रतीक्ष इति मित्रस्यैवैनं तच्चक्षुषा शमयत्यथैनत्प्रति- गृहाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताम्यां प्रति- गृह्णामीत्येतामिरेवैनं तद्देवताभिः शमयति तद्वयुह्य तृणाति प्रापदण्डं ૨૨ ऋग्वेदे शाङ्खायनबाह्मणम् । [४ अध्यायः] स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति पृथिवी वा अनानां शमवित्री शपयत्यवैनं तत्तत आदाय प्राश्नात्यग्नेट्वाऽऽस्येन प्राश्नाप्रीत्याग्न; अन्नानां शमयिता शमयत्येवैन तथापोऽन्या चामति शान्तिरतीति शान्ति भेषजमापः शान्तिरे- वैवा भेषजमन्ततो यज्ञे कियतेऽथ प्राणान्संभृशन्ति तद्यदेवात्र प्राणानां क्रूरीकृतं यद्विलिष्ठं तदेतदाप्याययति तद्भियज्यतीन्द्रस्य त्वा जठरे सादयामीति नाभिमन्तोऽभिवृशन्तोन्दो खेवैनं तच्छमयांचकाराथ यत्सावित्रेण जपेन प्रसौति सविता वै प्रसविता कर्मण एव प्रसवाय॥४॥ प्रजापतिर्ह यज्ञं ससृजे सोऽग्न्याधेयेनैव रेतो सृजत देवान्मनुष्यानसु- रानित्यग्निहोत्रेण दर्शपूर्ण नासायाभिमसृजत तेभ्य एतदन्नपानं ससृज एतान्हविर्यज्ञान्सौम्यमध्वरमित्यथो यं ये काममैच्छंस्तं तमेतैरय- नैरापुरन्नाद्यमाग्रयणेन तदाहुः कस्मादयनानीति गमनान्येव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य चातुर्मास्यैराप्नुवन्तस्वर्गाल्लोकान्स- न्किामान्सर्वा इष्टीः सर्वममृतत्वं स एष प्रजापतिरेव संवत्सरश्चतुर्विंशो यञ्चातुर्मास्यानि तस्य मुखमेव वैश्वदेवं दर्शपूर्णमासी पर्वाण्यहोत्राण्य- स्थिमज्जानि बाहुवरुणप्रघासाः प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टय आत्मा महाहविर्या इमा अन्तर्देवतास्तदन्या इष्टी: प्रतिष्ठा शुनासीरीयं स एष प्रजापतिरेव संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि सर्व वै प्रजापतिः सर्व चातुर्मास्यानि तत्सर्वेण सर्वमाप्नोति य एवं वेद य एवं वेद ॥१५॥ इति शाङ्खायनब्राह्मणे षष्ठोऽध्यायः ॥ ६ ॥ हरिः ॐ वाग्दीक्षा वाचा हि दीक्षते प्राणो दीक्षितो वाचा दीक्षया देवाः प्राणेन दीक्षितेन सर्वान्कामानुभयतः परिगृह्याऽऽत्मन्न दधत तथो एवैतद्यजमानो वाचैव दीक्षया प्राणेन दीक्षितेन सर्वान्कामा- नुभयतः परिगृह्याऽऽत्मन्धत्त आग्नावैष्णवमेकादशकपालं पुरोळाशं निर्व- पत्यग्निर्वं देवानामवरार्यो विष्णुः परार्ध्यस्तद्यश्चैव देवानामवरायो यश्च पराय॑स्ताभ्यामेवैतत्सर्वा देवताः परिगृह्य सलोकतामाप्नोति तस्मा- कामं पूर्वो दीक्षित्वा संसनुयात्पूर्वस्य ह्यस्य देवताः परिगृहीता भवन्ति शरीराभिः प्राणदीक्षाभिर्दीक्षते प्राणा वै प्रयाजा अपाना अनुयाजा- स्तद्यत्मयाजानुयाजैश्चरन्ति तत्माणापाना दीक्षन्ते यद्धविषा तच्छरीरं [४६अयायः] ऋग्वेदे शाङ्खायनबाह्मणम् । २३ सोऽयं शरीरेणैव दीक्षमाणेन सर्वान्कामानाप्नोति प्राणापानैर्दीक्षमाणैः सर्वासां देवतानां सलोकतां सायुज्यम् ॥ १॥ पञ्चदश सामिधेनीरन्वाह वज्रो वै सामिधेन्यः पञ्चदशो वै वज्रो वार्चनावाज्यभागौ भवतो वज्रो वार्चनावाज्यभागौ त्रिष्टुभौ हविषो याज्यापुरोनुवाक्ये वज्रस्त्रिष्टुबेतेन वै देवास्त्रिः समृद्धेन वज्रेणैभ्यो लोके- भ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैव त्रिः समृद्धेन वजेणेभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते वज्रो वार्चनावाज्यभागौ ता उक्ताव- थातो हविषो याज्यापुरोनुवाक्ये उप वां जिह्वा घृतमाचरण्यदित्यावती तत्पुरोनुवाक्यारूपं प्रति वां जिह्वाघृतमुच्चरण्यदित्युद्वती तद्याज्यारूपं त्रिष्टुभौ संयाज्ये बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीयं यजमाने दधात्यागुर उदृचमितीळायां च सूक्तवाके चाऽऽह यदा वा आनावैष्णवः पुरो. ळाशो निरुप्यतेऽथैव दीक्षित इति ह स्माऽऽह तस्मादागुर उदृच- मित्येव याद्यथैव दीक्षितस्य न सूक्तवाके यजमानस्य नाम गृह्णाति देवगर्भो वा एप यद्दीक्षितो न वा अजातस्य गर्भस्य नाम कुर्वन्ति तस्मादस्य नाम न गृह्णाति ॥ २॥ न वेदे पत्नी वाचयति नैनं स्तृणात्यसंस्थित इव वा अत्र यज्ञो यत्सौम्योऽध्वरो नेत्पुरा कालात्सौम्यमध्वरं संस्थापयानीति तदाहुः कस्माद्दीक्षितस्यान्ये नाम न गृहन्नीत्यग्निं वा आत्मानं दीक्षमाणोऽ- भिदीक्षते तद्यदस्यान्ये नाम न गृहन्ति नेदग्निमासीदामेति यदु सोऽ- न्यस्य नाम न गृह्णाति नदेनमनिर्भूतः प्रदहानीति यमेव द्विष्यात्तस्य दीक्षितः सन्नाम ग्रसेतैव तदनमनिर्भूतः प्रदहत्यथ यमिच्छद्विचक्षण- वत्या वाचा तस्य नाम न गृह्णीयात्सो तत्र प्रायश्चितिश्चक्षुर्यै विचक्षणं चक्षुषा हि विपश्यत्येषा हत्येव व्याहृतिर्दीक्षितवादः सत्यमेव स यः सत्यं वदति स दीक्षित इति ह स्माऽऽह तदाहुः कस्माद्दीक्षितस्याशनं नानन्तीति हविरेप भवति यद्दीक्षते तद्यथा हविषोऽनवत्तस्याश्नीयादेवं तत्कामं प्रसूतऽश्नीयात्तद्यथा हविषोऽयातयामस्याश्नीयादेवमु तत्तदाहुः कस्माद्दीक्षितोऽग्निहोत्रं न जुहोतीत्यसुरा वा आत्मन्न जुहुवुरुद्वातेऽनग्नौ ते पराभवन्ननगो जुह्वतोऽथ देवा इममेव प्राणमग्निमन्तरा दधत तद्य- त्सायं प्रातर्वतं प्रदीयतेऽग्निहोत्रं हैवास्यैतस्मिन्प्राणेऽनौ सन्ततमव्यव- च्छिन्नं हुतं भवत्येषाऽग्निहोत्रस्य संततिर्दीक्षासु प्रोपसत्सु चरन्ति का मीमांसा सुत्यायाम् ॥ ३॥ . .

२४ ऋग्वेदे शाङ्खायनबाह्मणम् । [५अध्यायः] अथातः कैशिनी दीक्षा केशी ह दाल्भ्यो दीक्षितो निषसाद तं ह हिरण्मयः शकुन आपत्यो वाचा दीक्षितो वा असि दीक्षामहं वेद तां ते बवाणि सकृदयजेत्तस्य क्षयादिभेमि सकृदिष्टस्याहो त्वमक्षिति वेत्थ तां त्वं मह्यमिति स ह तथेत्योवाच तौ ह संप्रोचाते स ह स आसोलोवावाणिवृद्ध इटन्वा काव्यः शिखण्डी वा याज्ञसेनो यो वा स आस स स आस सहोवाच शरीराणि वा एतयेष्ट्या दीक्षन्ते या वा इमा पुरुषे देवता यस्यै ता दीक्षन्ते स दीक्षित इति ह स्माऽऽह स यत्राध्वर्युरौद्यभणानि जुहोति तदुप यजमानः पञ्चाहुतीर्जुहुयान्मनो मे मनसा दीक्षितां स्वाहेति प्रथमां वाड्ये वाचा दीक्षितां स्वाहेति द्वितीयां प्राणो मे प्राणेन दीक्षितां स्वाहेति तृतीयांमध्ये प्राणमाह मध्ये ह्ययं प्राणश्चक्षुर्मे चक्षुषा दीक्षितां स्वाहेति चतुर्थी श्रोत्रं में श्रोत्रेण दीक्षितां स्वाहेति पञ्चमी तदु ह स्माऽऽह कौषीतकिर्न होतव्या अतिरिक्ता आहु- तयः स्युर्यद्धयेरन्नध्वर्युमेव जुह्नतमन्वारभ्य प्रतीकैरनुमन्त्रयेत मनो मे मनसा दीक्षितामिति प्रथमां वाङ्मे वाचा दीक्षितामिति द्वितीयां प्राणो मे प्राणेन दीक्षितामिति तृतीयां मध्ये प्राणमाह मध्ये ह्ययं प्राणश्चक्षुर्मे चक्षुषा दीक्षितामिति चतुर्थी श्रोत्रं मे श्रोत्रेण दीक्षितामिति पञ्चमी दीक्षयत्यु हि वै ता याः पुरुषे देवता नो अतिरिक्ता आहुतयो हूयन्त इत्यथ खलु श्रद्धव सकृदिष्टस्याक्षितिः स यः श्रद्दधानो यजते तस्येष्टं न क्षीयत आपोऽक्षितिर्या इमा एषु लोकेषु याश्चेमा अध्यात्मन्स यो माक्षितिरिति विद्वान्यजते तस्येष्टं न क्षीयत एतामु हैव तत्केशी ह दाल्भ्यो हिरण्मयाय शकुनाय सकृदिष्टस्याक्षितिं प्रोवाचापराह्ने दीक्षते. ऽपराह्ने ह वा एष सर्वाणि भूतानि संपृक्तेऽपि ह वा एनं रजना अतियन्ति तस्माल्लोहितायन्निवास्तम्बेत्येतमेवाऽऽत्मानं दीक्षमाणोऽभि. दीक्षते य एष तपति तस्मादपराह्ने दीक्षते सर्वेषामेव कामानामाप्त्यै॥४॥ प्रायणीयेन वै देवाः प्राणमाप्नुवन्नुदयनीयेनोदानं तथो एवैतद्यज- मानः प्रायणीयेनैव प्राणमाप्नोत्युदयनीयेनोदानं तौ वा एतौ प्राणोदाना- वेव यत्मायणीयोदयनीये तस्माद्य एव प्रायणीयस्यत्विजस्त उदयनीयस्य स्युः समानौ हीमो प्राणोदानौ ॥५॥ प्रायणीयेन ह वै देवाः स्वर्ग लोकमभिप्रायाय दिशो न प्रजजुस्तान- निरुबाच मामेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स प्राची दिशं प्राजानात्तस्मात्माश्चमग्निं प्रणयन्ति प्राग्यज्ञस्ता NON २५ [७ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । यते प्राञ्च उ एवास्मिन्नासीना जुह्वत्येषा हि तस्य दिक्प्रज्ञाताऽथांब- वीत्सोमो मह्यमेकामाज्याहुतिं जुलताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स दक्षिणां दिशं प्राजानात्तस्मात्सोमं क्रीतं दक्षिणा परिव- हन्ति दक्षिणा तिष्ठन्नभिष्टौति दक्षिणा तिष्ठन्परिदधाति दक्षिणा एवैन- मासीना अभिषुण्वन्त्येषा हि तस्य दिक्प्रज्ञाताऽथाब्रवीत्सविता मह्यमे- कामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामीति तस्मा अजुहवुः स प्रतीची दिशं प्राजानात्तदसौ वै सविता योऽसौ तपति तस्मादेनं प्रत्यञ्च- मेवाहरहर्यन्तं पश्यन्ति न प्राश्चमेषा हि तस्य दिक्प्रज्ञाताऽथाबवीत्पथ्या स्वस्तिमह्यमेकामाज्याहुतिं जुहताहमेकां विशं प्रज्ञास्यामीति तस्या अजुहयुः सोदीची दिशं प्राजानाद्वाग्वै पथ्या स्वस्तिस्तस्मादुदीच्या दिशि प्रज्ञाततरा घागुद्यत उदश्च उ एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति ह स्माऽऽहैषा हि वाचो दिक्म- ज्ञाताऽथाबवीददितिर्मह्यमेकामन्नस्याऽऽहुतिं जुहुताहमेकां दिशं प्रज्ञा- स्यामीति तस्या अजुहवुः सोध्वां दिशं प्राजानादियं वा अदितिस्तस्मा- दस्यामूर्धा ओषधय ऊर्ध्वा वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्त्यूोs- निर्दीप्यते यदस्यां किं चोर्ध्वमेव तदायत्तमेषा हि तस्यै दिक्प्रज्ञाता॥६॥ एवं वै देवाः प्रायणीयेन स्वर्ग लोकं प्राजानंस्तथो एवैतद्यज- मानः प्रायणीयेनैव स्वगं लोकं प्रजानाति ते समे स्यातां प्राय- णीयोदयनीये देवरथो वा एष यद्यज्ञस्तस्य हैते पक्षसी यत्पा- यणीयोदयनीये ते यः समे कुरुते यथोभयतःपक्षसा रथेन धावयन्न- ध्वानं यत्राऽऽकूतं समश्नुवीतैवं स स्वस्ति स्वर्ग लोकं समश्नुतेऽथ यो विषमे कुरुते यथाऽन्यतरतःपक्षसा रथेन धावयन्नध्वानं यत्राऽऽकूतं न समश्नुवीतैवं स न स्वस्ति स्वर्ग लोकं समश्नुते तस्मात्समे एव स्थातां प्रायणीयोदयनीये शंय्वन्तं प्रायणीयं शंय्वन्तमुदयनीयम् ॥ ७ ॥ पथ्यां स्वस्ति प्रथमां प्रायणीये यजत्यथाग्निमथ सोममथ सवितारम- थादितिं स्वर्ग लोकं प्रायणीयेनाभिप्रैति तद्यत्पुरस्तात्पथ्यां स्वस्ति यजति स्वस्त्ययनमेव तत्कुरुते स्वर्गस्य लोकस्य समष्टया अग्निं प्रथममुदयनीये यजत्यथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिमिमं वै लोकमु- दयनीयेन प्रत्येति तद्यत्परस्तात्यथ्यां स्वस्ति यजति स्वस्त्ययनमेव तत्कुरुतेऽस्य लोकस्य समष्टयै ता वै पञ्च देवता यजति ताभिर्यत्किंच पञ्चविधमधिदैवतमध्यात्म तत्सर्वमाप्नोति तासां याज्यापुरोनुवाक्यास्ता -- . .

२६ ऋग्वेदे शाङ्खायनब्राह्मणम् । [७अध्यायः वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवत्यो भवन्ति मरुतो ह वै देवविशोऽन्तरिक्षभाजना ईश्वरा यजमानस्य स्वर्ग लोक यतो यज्ञवैशकं कर्तास्तद्यत्स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीत- वत्यो भवन्ति नैनं मरुतो देवविशो हिंसन्ति स्वस्ति स्वर्ग लोकं सम- श्नुते ता वै विपर्यस्यति याः प्रायणीयायां पुरोनुवाक्यास्ता उदयनी- यायां याज्याः करोति या पाज्यास्ताः पुरोनुवाक्याः ॥८॥ प्रेव वा एषोऽस्माल्लोकाच्च्यवते यः प्रायणीयेनाभिप्रेति तद्यद्विपर्यस्यति तदस्मिल्लोके प्रतितिष्ठति प्रतिष्ठायामप्रच्युत्यामथो प्राणा वै छन्दांसि प्राणानेव तदात्मन्व्यतिषजत्यववर्हाय तस्माद्धीमे प्राणा विष्वञ्चोऽ- वाञ्चोऽनुनिर्वाश्चि त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदनय इत्यनुष्टुभी संयाज्ये तति यज्ञस्य प्रायणीयं घागुदयनीयं वागनुष्टुब्वाचा यज्ञस्ता- यते नैते विपर्यस्यति प्रतिष्ठे वै संयाज्ये नेत्प्रतिष्ठे व्यतिषजानीति शंय्वन्तं भवस्यभिकान्त्यै तद्रूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तार्या वसेदेषं तद्यवेव शंय्वन्तं भवति सर्वा ह वै देवताः प्रायणीये संगच्छन्ते सयोऽत्र पत्नीः संयाजयेद्यथा संगतां भूमानं देवानां पत्नीरभ्यधनयेदेवं तधस्तं तत्र ब्रूयात्संगतां वा अयं भूमान देवानां पत्नीरभ्यवानपीत्समा- मस्य पत्न्यभ्यव इष्यसीति तथा ह स्यात्तस्मादु शंय्वन्तं भवति देवता- नामसमराय ॥ ९॥ असुरा वा अस्यां दिशि देवान्त्समरुन्धन्नेयं प्राच्युदीची त एतस्यां दिशि सन्तः सोमं राज्यायाभ्यषिञ्चन्त ते सोमेन राजभ्यो लोकेभ्योऽ- सुराननुपन्त तथो एवैतद्यजमानः सामेनेव राज्ञेभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते तं वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया चतुरं वै द्वंद्व मिथुनं प्रजननं प्रजात्यै तदसौ वै सोमो राजा विचक्षणश्च- न्द्रमाः स इमं क्रीतमेव प्रविशति तद्यत्सोमं राजानं क्रीणात्यसौ वै सोमो राजा विचक्षणश्चन्द्रमा अभिषुतोऽसदिति तस्मै कीताय नवाऽन्वाह नबेमे प्राणाः प्राणानेव तद्यजमाने दधाति सर्वायुत्वायास्मिल्लोकेऽमृत- त्वायामुष्मिन्महादभि श्रेयः प्रेहीति प्रवती प्रवर्त्य मानायान्वाह बृहस्पतिः पुर एता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मयशसस्यावरुद्ध्या इमां धियं शिक्षमाणस्य देव वनेषु व्यन्तरिक्षं ततानेति त्रिष्टुभौ वारुण्यावन्वाह क्षत्रं वै त्रिष्टुप्क्षत्रं वै वरुणः क्षत्रयशसस्यावरुद्ध्यै सोम यास्ते मयो- मुव इति चतस्रो गायत्री: सौमीरन्वाह ब्रह्म वै गायत्री क्षत्रं सोमो ब्रह्म- [(अध्यायः] ऋग्वेदे शासायनबाह्मणम् । २७ यशसस्य च क्षत्रयशसस्य चावरुद्ध्या उत्तमाया अर्धर्चमुक्त्वोपरमत्य- मृतं वा ऋगमृतं तत्प्रविशत्यथा ब्रह्म या ऋगुभयत एव तब्रह्मा- धों धर्म कुरुते तद्यत्र ऋचाऽर्धर्चेन वा पादेन वोपरमेदेतद्वाह्मणमेव तद्या ते धामानि हविषा यजन्तीति प्रपती प्रपाद्यमानायान्वाहागं देव- ऋतुभिर्वर्धत क्षयमित्यागतवत्यमित्या परिदधाति संवत्सरो वै सोमो राजेति ह स्माऽऽह कोपीतकिः सोऽभ्यागच्छन्न्तुभिरेव सहावेतीत्य- भिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता पै नवान्वाह तासामुक्तं ब्राह्मणं त्रिः प्रथमया विरुत्तमया त्रयोदश संप- द्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अथ यत्र- योदशीमन्वाहास्ति त्रयोदशो मास उपचरो विज्ञात इव तस्याऽऽप्स्यै तस्याऽऽप्त्यै ॥१०॥ इति शाङ्खायनबाह्मणे सप्तमोऽध्यायः ॥ ७ ॥ वै हरिः ॐ। आतिथ्येन ह वै देवा द्विपदश्च चतुष्पदश्च पशूनापुस्तथो एवैतद्यजमान आतिथ्येनैव द्विपदश्च चतुष्पदश्च पशूनाप्नोत्यासन्ने हवि. ध्यातिथ्येऽग्निं मन्थन्ति शिरो वा एतद्यज्ञस्य यदातिथ्यं प्राणोऽग्निः शीर्षस्तत्प्राणं दधाति द्वादशामिमन्थनीया [अ]न्वाह द्वादश धै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्या अभि त्वा देवसवितरिति सावित्री प्रथमामन्याह सवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन ऋष्टिर्भ- वत्यरिष्ट्यै मही द्यौः पृथिवी चन इति द्यावापृथिवीयामन्याह प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एव त्वामग्ने पुष्करादधीति मथितवन्तं सृचं मथ्यमानायान्वाहोत ब्रुवन्तु जन्तध इति जातवतीं जातायाय हस्तेन खादिनमिति हस्तवती हस्तेन धार्यमाणाय प्रदेवं देववीतय इति प्रवतीं प्रद्वियमाणायाऽऽजातं जातवेदसीत्यावतीमाहूयमानायाग्नि- नाऽग्निः समिध्यते त्वं ह्यग्ने अग्निनेति समिद्धवत्यौ समिद्धमानाय तं मर्जयन्त सुक्रतुमिति परिदधाति स्येषु क्षयेषु वाजिनमित्यन्तवत्याऽन्तो क्षयोऽन्तःपरिधानीयान्तेऽन्तं दधाति त्रिः प्रथमया त्रिरुत्तमया पोळश संपद्यन्ते पाळशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै ॥ १ ॥ एतया न्वत्र च चातुर्मास्येषु चाथ पत्र पशुरालभ्यते तदेतां पराची- मनूच्य यज्ञेन यज्ञमयजन्त देवा इति त्रिष्टुमा परिदधाति त्रैष्टुमाः वै २८ ऋग्वेदे शाङ्खायनबाह्मणम्। [(अध्यायः] पशवः पशूनामेवाऽऽप्त्यै त्रिः प्रथमया त्रिरुत्तमया सप्तदश संपद्यन्ते सप्तदशो वै प्रजापतिरेव तद्वा आधुकं कर्म यत्प्रजापतिसंमितं सप्तदश सामिधेनीरन्वाह सप्तदशो वै प्रजापतिरेतद्वा आधुकं कर्म यत्प्रजापतिसं- मितं वार्चनावाज्यभागौ भवतः पाप्मन एव वधायाथो हास्य पौर्णमा- सात्तत्रादनितं भवत्यतिथिमन्तौ हैके कुर्वन्ति वार्चनौ त्वेव स्थिता- वृग्याज्यौ स्यातामिति हैक आहुर्ऋग्याज्या वा एता देवता उपसत्सु भवन्तीति वदन्तो जुषाण याज्यौ त्वेव स्थितौ सोमं सन्तं विष्णुमिति यजति तद्यदेवेदं क्रीतो विशतीव तदु हैवास्य वैष्णवं रूपं यदेव सोम सन्तं विष्णुमिति यजत्यत्रैवैतेन नाम्ना यद्विष्णुरित्याद्योऽमुना यत्सोम इति तस्मात्सोम इति वदन्तो जुह्वत्येवं भक्षयन्ति त्रिष्टुभौ हविषो याज्यापुरोनुवाक्ये बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्य यजमाने दधाति होतारं चित्ररथमध्वरस्य यस्त्वा स्वश्वः सुहिरण्यो अग्न इति संयाज्ये अतिथिमत्यौ रथवत्यौ त्रिष्टुभावाग्नेय्यौ तद्यथा चतुःसमृद्धमेवं तदुपना- मुक उ एवैनं रथो भवति य एते कुरुत इळान्तं भवत्यभिकान्त्यै तद्रूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीयस्तायां वसेदेवं तदुपांशु हविषः एता इष्टयो भवन्ति दीक्षणीया प्रायणीयाऽऽतिथ्योपसदो रेत:- सिक्तिर्वा एता इष्टय उपांशु वै रेतः सिच्यत उत्सृजन्तः कर्माणि यन्ति पत्नीसंयाजान्ता दीक्षणीया शंय्वन्ता प्रायणीयेळान्ताऽऽतिथ्या देवता उपसत्सु प्रतियजत्युत्सर्ग वै प्रजापतिरेतैः कर्मभिः स्वर्ग लोकमैत्तथो एवैतद्यजमान उत्सर्गमेवैतैः कर्मभिः स्वर्ग लोकमेति ॥२॥ शिरो वा एतद्यज्ञस्य यन्महावीरस्तत्र प्रथमयज्ञे प्रवृज्यादुपनामुक उ एवैनमुत्तरो यज्ञो भवति यः प्रथमयज्ञेन प्रवृणक्ति कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यादात्मा वै स यज्ञस्याऽऽत्मनैव तद्यज्ञं सम- र्धयति तदसौ वै महावीरो योऽसौ तपत्येतमेव तत्पीणाति तमेकशतेना- भिष्टुयाच्छतयोजने ह वा एष इतस्तपति स शतेनैव तं शतयोजनम- ध्वानं समश्नुतेऽथ हैकशततमी स यजमानलोकस्तमेतमात्मानं यजमा- नोऽभिसंभवति यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्त. ब्रह्म तदंत्रैव यजमानः सर्वासां देवतानां सलोकतां सायुज्यमाप्नोत्यन- वानमभिष्टुयात्माणानां संतत्यै संतता इव हीमे प्राणा उच्चैनिरुक्तमभि- टुयात्मामा वै स्तुभो निरुक्तो ह्येष वाग्देवत्यो ह्येष सावित्रीः प्रथमा- [(अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । मभिष्टौति सवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन रिष्टिभंवत्य- रिष्टयै ॥३॥ ब्रह्मजज्ञानं प्रथमं पुरस्तादित्यदो वै ब्रह्मजज्ञानं प्रथम पुरस्ताद्य- त्रासौ तपति तदेव तद्यजमानं दधात्यञ्जन्ति यं प्रथयन्तो न विप्राः संसी- दस्व महाँ असीत्यक्तवती च संनवती चाभिरूपे अभिष्टौति भवा नो अग्ने सुमना उपेतो तपोष्वग्ने अन्तराँ अमित्रान्यो नः सनुत्यो अभिदास- दग्न इति तिस्रस्तपस्वतीरभिरूपा अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै कृणुष्व पाजः प्रसितिं न पृथ्वीमिति राक्षोनीरभिष्टौति रक्षसामपहत्या [अ]गिर्वै रक्षसामपहन्ता ता वै पञ्च भवन्ति दिशां रूपेण दिग्भ्य एवैतानितं निहन्त्यथो यानेवाध्वर्युः प्रादेशानभिमिमीते ताने- वैताभिरनुवदति परि त्या गिर्वणो गिरोऽधिद्वयोरदधा उक्थ्यं वच इत्येन्द्यावभिरूपे अभिष्टोत्येन्द्रमेव स्वाहाकारमेताभ्यामनुषदत्यथो याने- वाध्वर्युः शकलान्परिचिनोति तान्पूर्वयाऽनुवदति यमुत्तममभिनिदधाति तमुत्तरया शुक्रं ते अन्यद्यजतं ते अन्यदर्हन्बिभार्षि सायकानि धन्येति पौष्णीं च रौद्रीं चाभिरूपे अभिष्टौति पौष्णं चैव रौद्रं च स्वाहाकारावे- ताभ्यामनुवदत्यथो यावेवाध्वर्युः सुवर्णरजतौ हिरण्यशकलौ करोति तावेवैताभ्यामनुवदति पतङ्गमक्तमसुरस्य माययेति प्राणो वै पतङ्गो वायुर्वै प्राणो वायव्यमेव स्वाहाकारमेताभिरनुवदत्यपश्यं त्वा मनसा चेकितानमित्येतदस्याऽऽयतने प्रजाकामस्याभिष्टुयादथो उभे असंप- नकारी ॥४॥ सक्केद्रप्सस्य धमतः समस्वरनिति सर्व पवित्रं ते विततं ब्रह्मणस्पत इति द्वे वियत्पवित्रं धिषणा अतन्वतेत्येका ता द्वादश पावमान्यः सौम्य- मेव स्वाहाकारमेताभिरनुयदत्ययं वेनश्चोदयत्पृश्निगर्भा इतीन्द्र उ वै वेन ऐन्द्रमेव स्वाहाकारमेताभिरनुबदति तस्यैकामुत्सृजति नाके सुपर्णमुप यत्पतन्तमिति सोऽयमात्मनोऽतीकाशस्तामुत्तरामु करोति तेनो साऽनन्त- हिता भवत्युभयतो वेनं पापोक्तस्य पावमानीरभिष्टुयादात्मा वै वेनः पवित्रं वै पावमान्यः पुनात्येचैनं तद्गुणानां त्वा गणपतिं हवामह इति बाह्मणस्पत्या अभिरूपामभिष्टौति शिरो वा एतद्ब्रह्म वै ब्रह्मणस्पति- ब्रह्मणैव तच्छिरः समर्धयति स यत्रोपाधिगच्छेबृहद्वदेम विदथे सुवीरा इति तद्वीरकामायै वीरं ध्यायाल्लमते ह वीरं काराधद्धोत्राश्विना वामिति न वा अकूधीच्यो गायत्रच्छन्दस इव वा अकूधीध्यो - गायत्र ३० ऋग्वेदे शाङ्खायनबाह्मणम् । (८अभ्यायः] उ वै प्राणः प्राणो वा अकूधीच्य आनो विश्वाभिरूतिभिरित्यानुष्टुमं सृचं सा धाग्विष्णुर्योनि कल्पयत्वित्येतदस्याऽऽयतने प्रजाकामस्याभिष्टु- यादथो उभे असंपन्नकारी ॥५॥ प्रातर्यावाणा प्रथमा यजध्वमिति पूर्वाह्न सूक्तमाभात्यग्निरुपसाम- नीकमित्यपराले त्रैष्टुभे पश्चर्चे तचक्षुरीळे द्यावापृथिवी पूर्वचित्तय इति जागतं पञ्चविंशं तच्छ्रोत्रं शिरो वा एतत्तदै शिरः समृद्धं यस्मिन्प्राणो वाक्चक्षुः श्रोत्रमिति तानेवास्मिंस्तदधाति कचितो धर्म इत्युक्तेऽरु रुच. दुषसः पृश्निरग्रिय इति रुचितवतीमभिरूपा अभिष्टौति द्याभरक्तभिः परिपातमस्मानिति परिवत्या परिदधात्यभिरूपा अभिष्टौति यद्यज्ञेऽ- भिरूपं तत्समृद्धं यज्ञस्यैव समृद्धय ता एकशतमृचो भवन्ति तासामुक्तं बाह्मणमथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषज- मन्ततो यज्ञे क्रियतेऽथ यद्वकाशैरुपतिष्ठते प्राणा वा अवकाशाः प्राणा- नेव तदात्मन्धत्तऽथ यदप उपस्पृशति शान्ति भेषजमापः शान्तिरवषा भेषजमन्ततो यज्ञे नियते त्रयस्त्रिंशदुत्तरास्त्रयस्त्रिंशद्वै सर्वा देवतास्ता एवैतदुद्यन्तुमर्हन्ति ताभ्यो वै तत्समुन्नीतम् ॥ ६ ॥ अभिरूपादो(?)हवनीया अभिष्टौति यधज्ञेऽभिरूपं तत्समृद्धं यज्ञस्येव समृद्ध्या आसुतेऽसिञ्चत श्रियमानूनामश्विनोक्रषिरित्यासिक्तवत्याव- भिरूपे अभिष्टौत्युदुष्य देवः सविता हिरण्ययेत्युद्यम्यमान उद्यतवती अभिरूपामभिष्टौति प्रतु ब्रह्मणस्पतिरिति ! वृजत्सु प्रवतीं बाह्मणस्प- स्यामभिरूपामभिष्टौति नाके सुपर्णमुपयत्पतन्तमिति घजत्सु पतन्तमि. त्यभिरूपा अभिष्टौति द्वाभ्यां यज द्वंद्वं व वीर्य सवीर्यतायै त्रिष्टुब्बती- भ्यां पूर्वाह्ने त्रैष्टुभो ह्यष बील्लोकान्स्तब्ध्वा मिति जगद्वतीभ्यामपराहे जागतो ह्येष एतमु ह विशन्तं जगदनु सर्वं विशति विपर्यस्यति दाश- तयीभ्यां वषट्रकुर्यादिति हैक आहुर्यथाऽऽन्नातमिति त्वेव स्थितमथोत्तरा अभिरूपा अभिष्टौति यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै हवि- हविष्मो महिसद्म दैव्यमिति पुराऽऽहुतेः प्रापणात्पुनहविषमवनं तदया- तयामानं करोति सूयवसाद्भगवती हि भूया इत्याशीर्वत्या परिदधाति पशुभ्य एव तदाशिष वदते तथा ह यजमानात्पशवोऽनुत्कामुका भव- न्त्यथ यदप उपस्पृशति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियतेऽथ वै सुते प्रवर्य इत्याचक्षते स्तुते बहिष्पवमाने तदश्विनी देवा उपाह्वयन्तैतस्मिन्काल आनीधीये प्रवृज्युस्तद्यथैवाद उपसत्स्वे- -" :

((अध्याय] ऋग्वेदे शाखायनम्राह्मणम् । ३१ चमेवाप्यत्र सुत्यायामनवानमेवोपचारस्तद्यथाकर्मा प्रवृज्यतेऽथ पशुकर्म तायते स एष महावीरो मध्यंदिनो ने सर्गस्तथदेनेन मध्यंदिने प्रचर- न्त्यसौ वै महावीरोयोऽसौ तपत्येतमेव तत्पीणन्त्येतस्यैव तद्रूपं क्रियते॥७॥ उपसदोऽसुरा एषु लोकेषु पुरोऽकुर्वतायस्मयीमस्मिनजतामन्तरिक्ष- लोके हरिणीं हादो दिवि चक्रिरे ते देवाः परिश्रुतेष्वेषु लोकेष्वेतं पञ्चदशं वज्रमपश्यत्तिस्त्रः सामिधेन्यः समनूक्ता नव संपद्यन्ते षड्या- ज्यापुरोनुवाक्यास्ताः पञ्चदशैतेन वै देवाः पञ्चदशेन वज्रेणैभ्यो लोके- भ्योऽसुराननुदन्त तथो एवैतधजमान एतेनैव पञ्चदशेन वजेणेभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदत उपसद्याय मीहळुष इत्येतं तृचं पूर्वाह्नेऽ- नुब्रूयादुपसदो ह्येतास्तद्वै कर्म समृद्धं यत्प्रथमेनाभिव्याहियत उपसद्य- मिव वा एतदहरमुनाऽऽदित्येन भवतीतीमां मे अग्ने समिधमित्यपराले तदात्रे रूपं समिद्धमिव वा इममग्निं सायं पर्यासत इत्यथ द्वितीयेऽहनीमा मे अग्ने समिधमिति पूर्वाह्ने तदह्नो रूपं समिद्धमिव वा एतदहरमुनाऽऽ. दित्येन भवतीत्युपसद्याय मीळुष इत्यपराह्ने तद्राचे रूपमुपसद्यमिव था इममग्निं सायं पर्यासत इति ते वा एते उभे एव रूपे ज्ञायते तस्मा- दहरहविपर्यासमनुब्रूयादुभे रूपे उभौ कामा उपाप्तावसत इत्यनवानम- नुब्रूयात्प्राणानां संतत्ये संतता इव होमे प्राणास्त्रिस्बिरेकैकामनुबूयायो वा इमे लोका इमानेव तं लोकानामोति ताः समनूक्ता नव संपद्यन्ते षड्वा ऋतवस्त्रय इमे लोका एतदेव तदभिसंपद्यन्ते नैतं निगदं ब्रूयाय एष सामिधेनीषूत्सृज्यन्ते ह निगदा जामिह स्याद्य एतं निगदं ब्रूयान्नाऽऽवाह- येञ्च नेदिति हैक आहुः किमु देवतामनावाह्य यजेदित्यच एवाऽऽवाहये- दग्निमावह सोममावह विष्णुमावहेति ता वै तिस्रो देवता यजति यो वा इमे लोका इमानेव तं लोकायोतिष्मतः करोति ॥ ८॥ गायत्र्यायानेय्यौ गायत्रोऽयं लोकस्तदिमं लोकमानोति त्रिष्टुभौ सौम्यौ त्रैष्टुभोऽन्तरिक्षलोकस्तदन्तरिक्षलोकमाप्नोति जगत्यौ वैष्णव्यों जागतोऽसौ लोकस्तदमुं लोकमानोति विपर्यस्यति याः पूर्वाह्ने पुरोनुवाक्यास्ता अपराह्ने याज्याः करोति या याज्यास्ताः पुरोनुवाक्या अयातयामतायै वषट्कारेण ह वा ऋग्यातयामा भवति समानेऽहन्नया- तयामाभिर्मे वषद्कृतमसदिति यद्वेव विपर्यस्यति ग्रीवाणां स्थेने तस्मा. द्वाऽऽसां ग्रीवाणां व्यतिषक्ताभीव पर्वाणि भवन्त्याज्यहविषो देवताः त वै ३२ ऋग्वेदे शाङ्खायनबाह्मणम् । [९अध्यायः] पयोव्रतो यजमानस्तत्सलोमताः परोवरीयसीरभ्युपेयात्रीननेः स्तनानथ द्वावथैकं परस्पर एव तं लोकान्वरीयसः कुरुते नाभ्युन्नयेत स्वर्ग ह वा एते लोकमभिप्रयन्ति य उपसद उपयन्ति द्वादशो ह वा अन्त- रुष्याः स्वर्गो लोकः स यः सकृदभ्युन्नयेति यथैकरात्रं सार्थान्प्रेषितान- नुप्रेयादेवं तयो द्वितीयं यथा द्विरात्रमेव तं तद्धीयते तृतीयेन स्वर्गा. ल्लोकान्नान्वश्नुतेऽप्यनुगच्छेदिति ह स्माऽऽह पैङ्ग्यो न त्वेवाम्युन्नयेत यत्रैव कामयेत तत्पूर्वो गत्वा स्वर्गस्य लोकस्यावस्येदिति समाप्तिः श्रेय- सीति ह स्माऽऽह कौषीतकिः सम्राजोऽस्मै भक्षे दध्यानयेयुर्न व्रते सोमो वै दध्यनन्तहितो हास्य भक्षो भवति समाप्नोत्यु ते यदि संक्रीणीयुर्या मध्यमोपसत्तया द्यहमन्यतरे घरेयुरावपनं हि सेदमन्तरिक्षलोक आयत- नेनाथासमरमभ्युदैत्यथासमरमभ्युदेति ॥ ९ ॥ इति शाङ्खायनब्राह्मणेऽष्टमोऽध्यायः ॥८॥ A हरिः ॐ। ब्रह्म वा अग्निस्तद्यदुपवसथेऽग्निं प्रणयन्ति ब्रह्मणैव तद्य- जमानस्य पाप्मानमपघ्नन्ति पुरस्तादाहवनीयेन पश्चाद्गार्हपत्येनोत्तरत आग्नीधीयेण दक्षिणतो मार्जालीयेन येऽन्तःसदसं तैर्मध्यतस्तस्मादुप- वसथे प्राञ्चमग्निं प्रणयन्ति विधिष्ण्यान्हरन्ति यजमानस्यैव पाप्मनोऽप- हत्यै देवा वै दीक्षिष्यमाणा वाचमुपासादयन्त बहुत्वमुच्चावचं निग- उछसि सत्यमया उ वयं दममया बुभूषाम इति सा दीक्षा यामामक्ति- मैच्छत तां देवास्तत्र नामजन्त सा प्रायणीये तामु तत्र नो एव सा क्रये तामु तत्र नो एव साऽऽतिथ्ये तामु तत्र नो एव सो वा एतदुप- सदोना च नाऽऽगच्छन्निविद्येव तस्मादु तत्रोपांशु चरेयुर्यथै वैवमिथः संशृण्वीरन्त्सो वा एतदुपवसथेऽनौ प्रणीयमान आगच्छत्तां देवास्तत्रा- मजन्त तस्मादु तत्र प्रथमत एवोचैरनुब्रूयाद्यथैनामागतामनुबुध्येरन्ना- भक्तां जज्ञे ॥१॥ प्रदेवं देव्या धियेति प्रवन्तं तृचं प्रती(हि)यमाणायान्वाहैळायास्त्वा पदे वयमितीयं वा इळा अस्यां हीदं सर्वमीट्टे जातवेदो निधीम- हीति निहतवताऽर्धन निधीयमानमनुस्तौत्यग्ने विश्वेभिः स्वनीकदेवैः सीद होतः स्व उ लोके चिकित्वाग्निहोता होतृषदने विदान इति सन्न- वतीमिः सन्नमनुस्तौति त्वं दूतस्त्वमु नः परस्पा इति दूतवत्या परिद- [९अध्यायः] ऋग्वेदे शाजायनब्राह्मणम् । ३३ धात्यभिरूपान्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्धयै ता वा अष्टान्वाहाष्टाक्षरा गायत्री गायत्रो वा अग्निर्गायत्रच्छन्दस्वेनैव तच्छन्दसाऽग्निं प्रणयन्ति त्रिः प्रथमया त्रिरुत्तमया द्वादश संपद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै ताः समनूक्ता अष्टादश गायत्र्यः संपद्यन्त आग्नेयमेव च्छन्दोभिर्यस्य ह कस्य च षट् समानस्य च्छन्दसस्ता गायत्रीमभिसंपद्यन्ते यस्य सप्त ता उष्णिहं यस्याष्टौ ता अनुष्टुभं यस्य नव ता बृहतीं यस्य दश ताः पनि यस्यैकादश तास्त्रिष्टुभं यस्य द्वादश ता अगतीम् ॥२॥ वाक्च वै मनश्च हविर्धाने वाचि च वै मनसि चेदं सर्व हितं तबद्ध- विर्धाने प्रवर्तयन्ति सर्वेषामेव कामानामाप्त्यै वे हविर्धाने भवतश्छदिस्तृ- तीयमभिनिदधति तैर्यत्किंच त्रिविधमधिदेवतमध्यात्मतत्सर्वमाप्नोति प्रेतों यज्ञस्य शंभुवेति प्रवती प्रवर्तमानाभ्यामन्याह द्यावा नः पृथिवी इमं तयो- रिद्धृतवत्पय इत्याशीर्वती पूर्वाऽथो द्विदेवत्या इयोहविर्धानयोर्यामश्व युर्वमन्याहुतिं जुहोति तान्पूर्वयाऽनुवदति यद्धविर्धाने प्रवर्तयन्ति तदुत्तरया यमे इव यतमाने यदैतमित्यभिरूपया हविर्धाने अनुस्तौति प्रवां मरन्मानुषा देवयन्त इप्ति बहवोह्येने हरन्त्यधिद्वयोरदधा उक्थ्यं वचो विश्वा रूपाणि प्रतिमुश्चते कविरिति यच्छदिस्तृतीयमभिनिद्धति तस्पू- वयाऽनुवति यद्धविर्धाने परिश्रयन्ति तदुत्तरया ॥३॥ अथो रराट्यामेवोत्तरया ते यदामन्येतात्र नेङ्गयिष्यन्तीति यदेनेनभ्य- कुर्युरथाऽऽवामुपस्थमगुहेति यदा वै क्षेमोऽथोपस्थः परित्वा गिर्वणो गिर इति परिवत्या परिदधात्यभिरूपान्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्यै ता वा अष्टौ भवन्त्येताभिः देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते त्रिः प्रथमया त्रिरुत्तमया द्वादश संपद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यै- वाऽऽप्त्यै यदेव त्रिः प्रथमां विरुत्तमां यज्ञस्यैव तदर्हिरसौ नाति स्थेने विप्रेसाय तदु होतारमभिभाषन्ते यथा होतरभयमसत्तथा कुर्वीत संप्रेषितः पुरर्चप्रतिवदनाद्दक्षिणस्य पादस्य प्रपदेन प्रत्यञ्नं लोक- मपास्यत्यपेतो जज्ञं भयमन्यजज्ञं च वृत्रहन्नपचक्रा आवृत्सतेऽत्यत उदचक्राणामभ्याचारस्तत उ ह तस्मा अर्धायाभयं भवति स प्राध्य दक्षिणस्य हविर्धानस्योत्तर वर्मोपनियेतायं वै लोको दक्षिणं हवि- र्धानं प्रतिष्ठा वा अयं लोकः प्रतिष्ठायामनुच्छिन्नोऽसानीति यत्र तिष्ठन्प- स्थे ५ ३४ ऋग्वेदे शाङ्खायनबाह्मणम् । [९अध्यायः] रिदध्यानं तत इति वेति येयाद्यस्तत इति वेति वेयाधस्तं तत्र बूया- चोष्यत इति तथा ह स्यात्परिधाय दक्षिणं बाहुमन्वावृत्य वाचंयमो यथैतं प्रत्पेत्य यत्र तिष्ठन्प्रथमामन्यवोचत्तत्स्थित्वाऽत्र चाग्निः प्रहरणे चाथ पथावसथमभ्युपेयात् ॥ ४ ॥ ब्रह्म वा अग्निः क्षत्रं सोमस्तद्यदुपवसथेऽशीपोमो प्रणयन्ति ब्रह्मक्षबा. भ्यामेव तद्यजमानस्य पाप्मानमपन्नन्ति तदुवा आहुरासीम एव होता प्रथमामनुबूयात्सर्वाणि ह वै भूतानि सोमं राजानं प्रणीयमानमनुप्रच्य- धन्ते तद्यदासीनो होतैतासृचमन्वाह तत्सर्वाणि भूतानि यथायथं निय. च्छसीति साधीहि देव प्रथमाय पित्र इति सावित्री प्रथमामन्वाह सवितृप्रसूततायै सवितृप्रसूतस्य ह वै न काचन रिष्टिर्भवत्यरिष्टया उत्तिष्ठ ब्रह्मणस्पत इत्युत्थापयति प्रैतु ब्रह्मणस्पतिरिति प्रणयन्ति ब्राह्मणस्पते अभिरूपे अन्वाह ब्रह्म वै ब्रह्मणस्पतिर्बह्मणैव तद्यज्ञं समर्धयति होता देवो अमर्त्य उप स्वाऽग्ने दिवे दिव इति केवलानेय्यौ तृचावन्वाहाग्निं हि पूष्यं हरन्ति तौ वा इतवन्तौ भवतोश्रीयमाणं ह्यग्निं स्तौति स यत्रोपाधिगच्छेद्भूतानां गर्भमादध इति तदर्भकामायै गर्भ ध्यायालभते ह गर्भमथाऽऽग्नीधीयेऽग्निं निदधति तबध्वर्युराहुतिं जुहोति तां संप्रत्येतामनुब्रूयादग्ने जुषस्व प्रप्तिहर्य तद्वच इति तस्या एवैषा याज्या जुषस्व प्रतिष्हयेत्यभिरूपा ॥५॥ अथ केवलं सोमं प्राञ्चं हरन्ति तस्मात्केवली: सौमीरन्वाह सोमो जिगाति गातुविदितीतवत्तृचमनुब्रुवन्ननु समेत्यथाध्वर्युराहवनीये पुनरा- हुतिं जुहोति तां संप्रत्येतामनुब्रूयादुप प्रियं पनिमतमिति तस्या एवैषा याज्याहुतीवृधमित्यभिरूपाऽथ पूर्वया द्वारा राजानं प्रपादयन्ति तस्मि- प्रपाद्यमाने तमस्य राजा वरुणस्तमश्विनेति बजं च विष्णुः सखिवां अपोर्णत इत्यभिरूपां प्रपाद्यमानायान्वाहान्तश्च प्रागा अदितिर्भ- वासीति प्रवती प्रपन्नाय श्येनो न योनि सदनं धिया कृतं गणानां त्वा गणपतिं हवामहेऽस्तन्नाद्यामसुरो विश्ववेदा इति सन्नवतीभिः सन्नमनु- स्तोत्येवा बन्दस्व वरुणं बृहन्त मित्याशीर्वत्या परिदधात्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्धथै ता विंशतिमन्वाह ता विरा- जमभिसंपद्यन्ते वैराजः सोमोऽन्नं विराळन्नं सोमोऽनेन तदन्नायं समर्ध- यति त्रिः प्रथमया त्रिरुत्तमया चतुर्विंशतिः संपद्यन्ते चतुर्विशति। संवत्सरस्यार्धमासाः संवत्सरस्यैवाऽऽप्त्या एवं यदि पूर्वया द्वारा राजानं try, [१० अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । प्रपादयन्ति या वा अपरया तेनैव होताऽनुसमीयादारमा वै यज्ञस्य होता माणः सोमो नेत्प्राणादात्मानमपादधानीत्युत्तरतो दक्षिणा तिष्ठन्प- रिदधाति यश सोमो राजाऽन्नाद्यममुत एव तदर्वागात्मन्यशो धत्तेऽर्वागात्मन्यशो धत्ते ॥६॥ इति शालायनशाह्मणे नवमोऽध्यायः॥५॥ चे -" हरिः ॐ। वज्रो वा एप यधूपस्तदुपवसथे यूपमुच्छ्रयन्ति वज्रेणैव तद्यजमानस्य पाप्मानमपघ्नन्ति स नापनत एव स्यादशनायतो पा एतलू- पमभिनत इवोदरेणाथाऽऽहवनीयं पुनरभ्यावृतस्तद्वै सुहितस्य रूपमन- शनायुका हास्य मार्या भवति य एवं रूपं कुरुते पालाशं ब्रह्मवर्थस- कामः कुर्वीत बैल्वमन्नाद्यकामः खादिरं स्वर्गकामस्यरनि[:]स्याल्लो- कानां रूपेण चतुररनिः पशूनां रूपेण पञ्चारनिः पङ्कयै रूपेण पळरनिर्ऋतूनां रूपेण सप्तारनिश्छन्दसा रूपेणाष्टारनिर्गायत्र्यै रूपेण नवारस्निहत्यै रूपेण दशारनिधिराजो रूपेणकावशारलिस्त्रिष्टुमो रूपेण द्वादशारनिर्जगत्यै रूपेणैता मात्रा संपदो यूपस्य तासामेका संप- दमभिसंपाद्य यूपं कुर्वीत तदु वा आहुर्न मिमेधूपमपरिमित एव स्यान्मितं ह वै मितेन जयत्यमितममितेनापरिमित एव (वा)स्यावरुद्ध्यै यत्रैव मनसा बेला मन्येत तधूपस्य च वेदेश्चेति ह स्माऽऽह प्रजापति मनो यज्ञ उ वै प्रजापतिः स्वयं वै तद्यज्ञो यज्ञस्य जुषते यन्मनसो वाजपे- ययूप एवावधृतः सप्तदशारनिः सोऽष्टाश्रिनिहितो मवति सर्वेषामेव कामानामष्टया अथैतं प्रणेनिजति तद्यदेवेदं परशुना क्रूरीकृत इव तष्ट इव भवति तदेवास्यैतदाप्याययति तद्भिषज्यत्यथैनमभ्यञ्जति तथा एवेमाः पुरुषा आपस्ता एवास्मिंस्तद्दधाति स्वभ्यक्तं स्वयमेव यजमानः कुर्वीत तथा ह यजमानो वक्ष इव भवति ॥१॥ अञ्जन्ति त्वामध्वरे देवयन्त इत्यक्तवतीमभिरूपाऽज्यमानायान्वाहो- च्छयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज्जातो जायते सुदिनत्वे अह्नामूर्ध्व ऊघुण ऊतय ऊो नः पाचंहसो निकेतुनेत्युच्छ्रितवतीचोदती- वोच्छ्रीयमाणायान्वाह युवा सुवासाः परिवीत आगादिति परिवीत. वत्या परिदधात्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध ता वै सप्तान्वाह सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्यै त्रिः प्रथ- मया त्रिरुत्तमयैकादश संपद्यन्त एकादशाक्षरा त्रिष्टुप्त्रैष्टुभाः पशवः पशू- .. ३६ ऋग्वेदे शाङ्खायनबाह्मणम् । [१० अध्याय नामेवाऽऽप्त्या इति न्वेकयूप एकपशू चाथ यद्येकयूप एकादशिनीमालमेर- न्पशौ पशावेवाध्वर्युः संप्रेष्यति पशौ पशावेध युवा सुवासाः परिवीत आगादिति सैव परिधानीया सा परिवीयमाणायेति न्वेकयूपेऽथ कथं यूपै- कादशिन्यामित्येता एव सप्त सप्तदशभ्योऽनुबूयादथ यमुत्तमं सम्यन्वन्ति तस्मिन्यत्सूक्तस्य परिशिष्येत तदनुवर्तयेत्पुरस्तान्मगाथस्य तच्छृङ्गाणी- बेच्छृहिणां संवृक्ष इति सर्वानेवानुवदति युषा सुवासाः परिधीत आगादिति सैव परिधानीया सा परिवीयमाणायतमाहुरनुपहरेद्यजमानो वा एष यधूपः स्वर्गों लोक आहवनीयस्तदेनं स्वर्ग लोकं गमयति तत्स्वय॑मिति तदु वा आहुस्तिष्ठेदेव यदिदमास्थानं स्वरोस्तत ईश्वराय यदि नासुररक्षास्यन्ववपातोस्तस्मात्त्वेष उद्यतो वज्रो यज्ञवास्तौ तिष्ठे- देवासुररक्षांस्यपन्नन्नपबाधमानो यज्ञं चैव यजमानं चाभिगोपायनित्यथ यूप्य एको द्रव्य एको गर्य एको योऽवाचीनवकलः स गय॑स्तस्यासा. न्येयादथ य ऊर्ध्ववकलो व्यः स मानुषः कामं तस्यापि कुर्वीताथ यस्य प्रसव्या आदित्यस्यान्वावृत्तावकला स्वयूप्यस्य स्वर्य एकस्थो भ्रातृव्यो यो घाऽनुवृत्तः पलाशैरामूला स्यात्सोऽनग्नः स पशव्यस्तं पशु- कामः कुर्वीत ॥२॥ अग्नीषोमयोर्वा एष आस्यमापद्यते यो दीक्षते तद्यदुपवसथेऽनीषोमीयं पशुमालभत आत्मनिष्क्रयणो हैवास्यैष तेनाऽऽत्मानं निष्क्रीयानृणो भूखाऽथ यजते तस्मादु तस्य नाश्नीयात्पुरषो हि सप्रतिमया तदु वा आहुर्हविर्हविर्वा आत्मनिष्क्रयणं हविषो हविष एव स तर्हि नाश्नीयाद्य आत्मनिष्क्रयणमिति नाश्नीयात्तस्मादु काममेवासि(शि)तव्यमहोरात्रे वा अग्नीषोमो तथदिवा वपया चरन्ति तेनाहः प्रीतमाग्नेयं रात्रिमनुसं- तिष्ठते तेन रात्रिः सौमी प्रीता सैषाऽहोरात्रयोरतिमुक्तिरित्यहोरात्रे यज्ञेन मुच्यते नैनं ते आप्नुतो य एवं विद्वानेतं पशुमालभते तमाहुर्विरूपः स्याच्छुक्तं च कृष्णं चाहोरात्रयोरूपेण शुक् वाऽथ लोहितं वाऽग्नीषोम- योरूपेणेति तस्यैकादश प्रयाजा एकादशानुयाजा एकादशोपयाजास्तानि त्रयस्त्रिंशत्रयस्त्रिंशद्वै सर्वे देवाः सर्वेषामेव देवाना प्रीत्यै प्राणा वै प्रयाजा अपाना अनुयाजास्तस्मात्समा भवन्ति समाना हीमे प्राणापा- नास्तदाहुः कस्मादृचा प्रयाजेषु यजति प्रतीकैरयानुयाजेष्विति रेत:- सिध्यं वै प्रयाजा रेतोधेयमनुयाजास्तस्माचा प्रयाजेषु यजति प्रतीकैर- नुयाजेष्वित्यथा यत्सर्वमुत्तममाह स्वर्ग एव तं लोके यजमानं दधात्या- प्रीभिरामीणाति सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञं संभरते [१० अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ३७ तदयातयामानं यो यजते तस्य रिरिचान इव वा एतस्य आत्मा भवति तमस्यैताभिरा- प्रीभिरामीणाति तद्यदा प्रीणाति तस्मादाप्रियो नाम पर्यग्नि पशुं करोति रक्षसामपहत्या[अ] निर्वै रक्षसामपहन्ता त्रिःप्रसविपर्यनिं करोति तद्यथा तिम्रोऽग्निः पुरः कुर्यादेवं तत्तस्मात्पुनः परीहीत्यग्नीधं ब्रूयाद्यमिच्छेन्न प्रच्यवेतेति ॥३॥ देव्याः शमितार उत च मनुष्या आरमध्वमुपनयत मेध्यादुर आशा- साना मेधपतिभ्यां मेधमिति तद्धैक आहुर्यजमानो वै मेधपतिरिति को मनुष्य इति बूयाद्देवतैव मेधपतिरिति षड्विंशतिरस्य वक्रय इति पर- शव उ ह वै वक्रय उभयतोऽसृक्यर्यवानित्यसृग्माजनानि ह वै रक्षांसि भवन्ति नेद्रक्षसां भागेन देवं भागं प्रसृजानीति स एषोऽधिगुः संशासन- मेवाङ्गानि वा परिकीरिति यद्ध वा अदुष्टं तद्देवानां हविर्न वै ते दुष्टं हविरदन्ति नवकृत्वोऽध्रिगाववानीति नवेमे प्राणाः प्राणानेव तद्यजमाने दधाति सर्वायुत्वायास्मिल्लोकेऽमृतत्वायामुष्मिंत्रिः परिदधात्यपरत्वाय सकृत्पुरस्तादाह सकृदिव वै पितरः पितृदेवत्य इव वै पशुरालभ्यमानो भवत्यथ यत्रिरुपरिष्टादाह त्रि देवत्रा देवदेवत्यमेवैनं करोति परिधायोपांशु जपत्युभावपापश्चेत्यपापो ह वै देवानां शमिता तस्मा एवैनं तत्संप्रयच्छति स हि देवानमु वेद ॥ ४ ॥ स्तोकीयान्वाह स्तोकानेवैताभिरग्नये स्वदयत्येता पुरोनुवाक्या एता याज्यास्तस्मादमिरूपा भवन्ति स्वाहाकृतिभिश्चरित्वा वपया चरन्ति प्रयाजानेव तत्पशुभाजः कुर्वन्ति न स्वाहाकृतीश्च वपां चात(न्त )रेण वाचं विसृजेत प्राणा वै स्वाहाकृतय आत्मा वपा नेत्याणांश्चाऽऽत्मानं चान्येनाम्तर्दधानीत्यथ यदनुष्टुभोऽनीपोमीयस्य पशोः पुरोनुवाक्या भवन्ति गायत्री वै सा याऽनुष्टुङगायत्रमग्नेश्छन्दोऽथ यत्रिष्टुभो याज्याः क्षत्रस्यैवैतच्छन्दो यत्रिष्टुप्क्षत्रं सोमस्तद्यथाछन्दसं देवते प्रीणात्यथ वै पशुमालभ्यमानं पुरोडाशो निरुप्यते मेधो वा एष पशूनां यत्पुरोडाशः समेधमेवैनं तद्यज्ञियं करोत्यथ यत्र पशुपुरोडाशो न निरुप्यते तत्पुरोडाशः स्विष्टकृदच्युतोऽग्निर्वे स्विष्टकृत्तस्मादच्युतो भवति वैश्वामित्री पुरोडाशः स्विष्टकृतः पुरोनुवाक्यामनूच्य वैश्वा- मिव्या यजति तति यज्ञस्य पुरोडाशो वाग्वै विश्वामित्रो वाचा यज्ञ- स्तायते ॥५॥ अथ ह वा उ तेषां MALHARMA । यत्रिषु'। - सप्तदशो वै ३८ ऋग्वेदे शाङ्खायनबाह्मणम् । [११अध्यायः] अथ मनोतामन्वाह सर्वा हवै देवताः पशुमालभ्यमानमुपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति तासां सर्वासांपशावेव मना- स्योतानि भवन्ति ता अत्र प्रीणाति तथा हाऽऽसां सर्वासां पशावेव मनांस्योतानि भवन्ति ता अन प्रीणाति तथा हाऽऽसा सर्वासाममोघा. यैवोपसमेतं भवति तदाहुर्यन्नानादेवताः पशव आलभ्यन्तेऽथ कस्मादा- नेयमेवान्वाहेति तिखो बै देवानां मनोता अग्नि देवानां मनोता तस्मि- न्ह्येषां मनांस्योतानि भवन्त्यथो वाग्वै देवानां मनोता तस्यां ह्येषां मनांस्योतानि भवन्त्यथो गौ देवानां मनोता तस्यां ह्येषां मनां- स्योतानि भवन्त्यग्निः सर्वा मनोता अग्नौ मनौताः संगच्छन्ते तस्मादाग्ने- यमेवान्वाहेति ता वै त्रयोदश भवन्ति त्रयोदश वै पशोरवदानानि तेषां समवद्यति त्रिः प्रथमया त्रिरुत्तमया सप्तदश संपद्यन्ते प्रजाप- तिरेतद्वा आधुकं कर्म यत्प्रजापतिसंमितं सप्तदश सामिधेनीरन्याह सप्तदशो वै प्रजापतिरेतद्दा आधुकं कर्म यत्प्रजापतिसंमितमथ यत्र पशुरालभ्यते तद्वनस्पतिरच्युतोऽग्निर्वे वनस्पतिः स वै देषेभ्यो हविः प्रयच्छति तस्मा- दच्युतो भवति स उ वै पयोमाजनोऽत्राग्निः सर्वेषु हविःषु मागी भवति तदाहुर्यद्धाममाजो देवा अथ कस्मात्पाथोभाग्यनस्पतिरिति धाम वै देवा यज्ञस्यामजन्त पाथः पितरः पितृदेवत्य इव वै पशुः पितृदेवत्यं पयस्तस्मादिति बूयात्तदाहुः कस्मात्सौम्य एवाध्वरे प्रवृत्ताहुती जुह्वति न हविर्यज्ञ इत्यकृत्स्नैव वा एषा देवयज्या यद्धविर्यज्ञोऽथैषैव कृत्स्ना देवयज्या यत्सौम्योऽध्वरस्तस्मात्सौम्य एवाध्वरे प्रवृत्ताहुती जुह्वति न हविर्यज्ञ इति जुष्टो वाचो भूयासं जुष्टो वाचस्पतेर्देवि वाग्यत्ते वाचो मधुमत्तमं तस्मिन्नो अद्यधात्स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेण जुहोति वाचं तदुत्सृजते तस्माद्वा गत ऊोत्सृष्टा यज्ञं वहति मनसोत्तरां मनसा हि मनः प्रीतं मनसा हि मनः प्रीतम् ॥ ६॥ इति शाङ्क्षायनब्राह्मणे दशमोऽध्यायः ॥१०॥ हरिः ॐ अथातः प्रातरनुवाको यदेवैनं प्रातरवाह तत्प्रातरनुवाकस्य प्रातरनुवाकत्वमथ यत्प्रपदो जपति यदाहुतीर्जुहोति स्वस्त्ययनमेव तत्कु. रुते हिंकृत्य प्रातरनुवाकमन्वाह वज्रो वै हिंकारो वज्रेणैव तद्यजमा- नस्य पाप्मानं हन्त्युच्चैर्निरुक्तमनुब्रूयादेतद्ध वा एकं वाचो नन्ववसितं पाप्मनो यन्निरुक्तं तस्मान्निरुक्तमनुबयाद्यजमानस्यैव पाप्मनोऽपहत्या [११अध्यायः] ऋग्वेद शाङ्खायनवाह्मणम् । ३९ अर्धर्चशोऽनुयाक्संमिता वा इमे लोका अयं लोकः पूर्वोऽर्ध!ऽसौ लोक उत्तरोऽथ यदर्धर्चावन्तरेण तदिदमन्तरिक्षं तद्यदर्धर्चशोऽन्वा- हैभिरेव तं लोकैर्यजमानं समर्धयत्येष्वेव तं लोकेषु यजमानं दधाति ॥ १॥ अथ वै पतेः पञ्च पदानि कथं सार्धऽर्चशोऽनूक्ता भवतीति प्रणव उत्तरयोस्तृतीयस्तथा साऽर्धर्चशोऽनूक्ता भवत्याग्नेयं ऋतुमन्वाह तदिम लोकमाप्नोत्युषस्यमन्वाह तदन्तरिक्षलोकमामोत्याश्विनमन्वाह तदमुं लोकमानोति गायत्रीमन्वाह मुखमेव गायव्यनुटुभमन्याह वागनुष्टुम्मुखे तद्वाचं दधाति मुखेन वै वाचं वदति त्रिष्टुभमन्वाह बलं वै वीयं त्रिष्टु- ब्बलमेव तद्वीय यजमाने दधाति बृहतीमन्वाह गोश्वमेव बृहत्युष्णिह- मन्वाहाजाविकमेवोष्णिग्जगतीमन्वाह बलं वै वीर्य अगती बलं वीर्य पुरस्ताभ्रिष्टुब्धलं वीर्यमुपरिष्टाजगती ॥२॥ मध्ये बार्हताश्चौष्णिहाश्च पशवो बलेनैव तवीर्येणोभयतः पशून्परि- गृह्य यजमाने दधाति तथा ह यजमानात्पशवोऽनुत्कामुका भवन्ति तद्यथा ह वा अस्मिल्लोक मनुष्याः पशूनश्नन्ति यथैभिर्मुञ्जत एवमेवामुष्मि- ल्लोके पशवो मनुष्यानश्नन्त्येवमेभिर्भुञ्जते स एनानि ह प्रातरनुवाके- नावरुन्धे तमिहावरुद्धा अमुष्मिल्लोके नाश्नन्ति नैनेन प्रतिभुञ्जते यथैवैनानस्मिल्होकेऽनाति यथैभिक एवमेवनानमुब्मिलोकेऽनात्येवमे- भि के पकिमन्याह प्रतिष्ठा वै पतिः सर्वेष्वेव तद्भूतेषु यजमान प्रतिष्ठा- पयति ॥३॥ अथ सर्वा ह वै देवता होतारं प्रातरनुवाकमनुवक्ष्यन्तमाशंसमानाः प्रत्युपतिष्ठन्ते मया प्रतिपत्स्यते मया प्रतिपत्स्यत इति स यदेका देवता- मादिश्य प्रतिपधेताथेतराभ्यो देवताभ्यो दृश्येतानिरुक्तया प्रतिपद्यते तेनो न कस्यैचन देवताया आवृश्चत आपो रेषतीरिति प्रतिपद्यत आपो वै सर्वा देवताः सर्वाभिरेव तदेवताभिः प्रतिपद्यत उप प्रयन्तो अध्वरमित्यु- पसंद्धात्युपेति तदस्य लोकस्य रूपं प्रयन्त इति तदमुध्योपेति तनेरूपं प्रयन्त इति तदमुष्याऽऽदित्यस्यैवमेव सर्वासु प्रतिपत्सु सर्वेषु क्रतुष्वाग्नेय उपस्याश्विने पूर्वा पूर्वैव व्याहृतिरो रूपमुत्तराऽमुष्याऽऽदित्यस्याथैतदै नाना छन्दांस्यन्तरेण गर्ता इवार्थते बलिछे अरिष्टे अनाते देवते ताभ्यां प्रतिपद्यते समानेन सूक्तेन समारोहेत्तद्गर्त्यस्कन्धं रोहस्य रूपं स्वयं यत्र वा समानस्याऽऽर्षेयः स्यात्तदनवानं संक्रामेइमृतं वै प्राणोऽमृतेन तन्मृत्यु वै 4 ४० ऋग्वेदे शाङ्खायनबाह्मणम् । [११अध्यायः तरति तद्यथा वंशेन वा मयेन वा गतं संक्रामेदेवं तत्प्रणवेन संक्रामति ब्रह्म वै प्रणवो ब्रह्मणैव तद्ब्रह्मोपसंतनोति ॥ ४ ॥ शुद्धः प्रणवः स्यात्मजाकामानां मकारान्तः प्रतिष्ठाकामानां मका- रान्तः प्रणवः स्यादिति हैक आहुः शुद्ध इति त्वेव स्थितो मीमांसितः प्रणवोऽथात इह शुद्ध इह पूर्ण इति शुद्ध एव प्रणवः स्याच्छस्त्रानुव चनयोर्मध्य इति ह स्माऽऽह कौषीतकिस्तथा संहितं भवति मकारान्तोऽ. वसानार्थे प्रतिष्ठा वा अवसानं प्रतिष्ठित्या एवाथो उभयोः कामयो- राप्त्या एत उ ह वै छन्दः प्रवहा अवरं छन्दः परं छन्दोऽतिप्रवहन्ति तस्याऽऽप्तिर्नास्ति च्छन्दता छन्दोऽतिप्रोल्हस्याति यन्नेव यं द्विष्यात्तं मनसा प्रेव विध्येच्छन्दसां कृन्तत्रेषु द्रवति वासं वा शीर्यत इति ह स्माऽऽह समानोदर्काण्युत्तमानि ऋतूनां पाङ्गान्यन्वाह रसो वा उदर्कः पशवश्छन्दांसि रसमेव तच्छन्दांस्यभ्युपनिवर्तन्त उपनिवर्तमिव वै पशवः सौयवसे रमन्ते सैकोना विराइद्विरनूक्तया संपदि विरात्रिरनू- क्तयैका विराजमत्येति ॥५॥ यो वै यज्ञे कामा यः संपन्ने यो न्यूने योऽतिरिक्ते यदै यज्ञस्य संपन्नं तत्स्वयं यम्यूनं तदन्नाद्यं यदतिरिक्तं तत्प्रजात्यै तदत्रैव यजमानः सर्वा- कामानाप्नोत्यभूदुषा रुशत्पशुरित्याशीर्वत्या परिदधाति पशुभ्य एव तदाशिषं वदते तथा ह यजमानात्पशवोऽनुत्क्रामुका भवन्ति तस्यां वाच- मुत्सृजति तदेनमजनीति देवेभ्यो निवेदयत्यत्र हि जायते या वाज देवहितं सनेमेति द्विपदामभ्यस्यति पशवो वा एतानि चतुरुत्तराणि च्छन्दांसि यजमानच्छन्दसं द्विपदा अधिष्ठायामेव तत्पशूनां यजमानं दधात्यधीव वै पशून्पुरुषस्तिष्ठति त्रिःसप्तानि ऋतूनां छन्दांस्यन्वाह तदेकविंशतिरेकविंशो वै चतुष्टोमः स्तोमानां परमस्तत्परमं स्तोममा- मोति यद्देवैकविंशतिदश वै मासाः पञ्चर्तवस्त्रय इमे लोका असा- वादित्य एकविंशस्तेनैव तत्सलोकतायां यजमानमध्यूहति ॥ ६ ॥ तदाहुर्यदिमा हविर्यज्ञस्य वा पशोर्वा सामिधेन्योऽथ काः सौम्यस्या- ध्वरस्येति प्रातरनुवाक इति ब्रूयादक्षरैर्ह वा इतरासां संवत्सरमुपेप्से- त्य॒ग्भिर्हि शतमात्रमनुबूयाच्छतायुर्वै पुरुष आयुरेवास्मिंस्तद्दधाति विंश- तिशतमनुयाविंशतिशतं वा ऋतोरहानि तदृतुमाप्नोत्तुना संवत्सरं ये च संवत्सरे कामास्त्रीणि षष्टिशतान्यनुब्रूयात्रीणि चै षष्टिशतानि संवत्सरस्याह्नां संवत्सरस्यैवाऽऽप्त्यै सप्तविंशतिशतान्यनुब्रूयारसप्त वै [१२अध्यायः] ऋग्वेदे शासायनब्राह्मणम् । ४१ विशतिशतानि संवत्सरस्याहोरात्राणां तत्संवत्सरस्याहोरात्राण्यामोति सहस्रमनुब्रूयात्सर्वं वै तद्यत्सहस्रं सर्व प्रातरनुवाकस्तत्सर्वेण सर्वमाप्नोति य एवं वेद तदु ह स्माऽऽह कौषीतकिः प्रजापतिर्फे प्रातरनुवाकोऽपरि- मित उ वै प्रजापतिः कस्तं मातुमर्हदित्येषा हैव स्थितिः ॥७॥ तदाहुर्यत्सदस्युक्थानि शस्यन्तेऽथ कस्माद्धविर्धानयोः प्रातरनुवाक- मन्वाहेति शिरो वा एतद्यज्ञस्प यद्धविर्धाने प्राणाच्छन्दांसि शीर्षस्त- पाणं दधाति सदस्युक्थानि शस्यन्त उदरं वै सदोऽन्नमुक्थान्युदरसा चेयमु वा अनाधं तद्यथा ह वा अन्न एनं यज्ञः प्रतिमया यथा धान्य- मेघ प्राप्तरनुषाको यथा पात्राण्येवमुक्थानि स योऽल्पकमन्वाह यथाऽ- ल्पधान्ये पात्राणि समृच्छेरन्नेवं तस्योक्थानि समृच्छन्त उक्थानामनु समरमीश्वरो यजमानं भ्रषोऽन्येतोस्तस्माद्बह्वथ एवानुबूयादुक्थानि तत्प- रिबृंहति या यज्ञस्य समृद्धस्याऽऽशीः सा मे समृध्यतामिति या वै यज्ञस्य समृद्धस्याऽऽशीः सा यजमानस्याथो त्रीणि वा एतानि सहस्राण्यधि- यज्ञं प्रातरनुवाक आश्विनं महदुक्थं महारानमुपाकुर्यात्पुरा वाचो विस- र्गाद्यतत्पशवो मनुष्या धांसीति वाचं व्यालभन्ते पुरा ततोषाचं ह वा एतमूतान्याप्याययन्ति यद्वाचंयमानि शेरत आपीनां वाचमभ्यासिक्तां प्रथमत कनवामेति न प्रातरनुयाकं चोपांश्वन्तर्यामौ चान्तरेण वाचं विसृ. जेत प्राणापानौ वा उपांश्वन्तर्यामौ पाक्प्रातरनुवाको नेत्प्राणापानौ च वाचं चान्येनान्तर्दधानीति तद्धके छन्दसा योग इति जपित्वाऽथाऽऽपो रेवतीरिति प्रतिपद्यन्ते नाऽऽपो रेवत्यै पुरस्तात्चि परिहरेदिति तदिह स्थितमनावस्काय तदिह स्थितमनावस्काय ॥ ८॥ इति शामायनबाह्मण एकादशोऽध्यायः ॥ ११ ॥ -- हरिः ॐ । यज्ञो वा आपस्तद्यदपोच्छ्रयन्ति यज्ञमेव तदुच्छ्रयन्त्यथो अग्र्या आपो रस ऊर्जेनैव तद्रसेन हविः संसृजन्त्यथो अमृतत्वं वा आपोऽमृतत्वमेव तदात्मं धत्ते सद्ध स्म वै पुरा यज्ञमुहो रक्षांसि तीर्थे- प्वपो गोपायन्ति तोके चापोऽच्छजघ्नुस्तत एव तान्सञ्जिघ्नुस्तत एत- स्कवपः सूक्तमपश्यत्पञ्चदशचं प्र देवत्रा ब्रह्मणे गातुरेविति तदन्वब- वीत्तेन यज्ञमुहो रक्षांसि तीर्थेभ्योऽपाहंस्तत उ हैतदुर्धाक्स्वस्ति रिष्ट्याः पुनः प्रत्यायन्यथादोऽमुत्रास्वध्वर्युराहुतिं जुहोति तो संप्रत्येतामनुग्मू- ६ A ४२ ऋग्वेदे शाङ्खायनब्राह्मणम् । १२अध्यायः याद्धिनोता नो अध्वरं देवयज्ययेति तस्या एवैषा याज्या देवयज्येत्यभि- पाऽऽवर्भूततीरधनु द्विधारा इत्यावृतासु प्रतिपदापो अदृश्रमायतीरिति प्रतिख्यातासु समन्यायन्त्युपयन्त्यन्या इति समायतीषु यन्ति वा आप उपयन्त्यन्या आपो न देवीरुपयन्ति होत्रियमिति होतृचमसेऽवनीयमा- नास्वाधेनवः पयसा तूर्यर्था इत्यापो वै धेनव आपो हीदं सर्व हिन्व- न्यथाध्वर्युहातारमभ्यावृत्य तिष्ठति तं होता पृच्छत्यध्वर्यवैषीरपाइश्त्येषी- यज्ञमित्येवैनं तदाहोतेवनंनमुरिति प्रत्याहाविदाम तद्यदास्वप्स्व शीर्माणं सत तस्मा इत्येवैनं तदाह प्रत्युक्तो होतैतं निगदं प्रतिपद्यत ऊ रसो निगद ऊर्जमेव तद्रसं निगदेन हविषि दधाति ॥१॥ अम्बयो यन्त्यध्वभिरित्यापोपा अम्बयोऽपोहीयति स्तोत्येमा अग्म- अवतीर्जीवधन्या इत्यागतास्वाग्मन्नाप उशतीर्बहिरेदमित्यागतवत्या परि- दधात्यभिरूपाऽन्वाह यद्यज्ञेऽभिरूपं तत्समृद्धं यज्ञस्यैव समृद्ध्या अनूक्तः पातरनुवाक आसीदप्राप्ता उक्थान्यासंस्तानेतस्मिसंनिधावसुरा उदायंस्ते देवाः प्रतिबुध्य विभ्यत एतं त्रिः समृद्धं वज्रमपश्यन्नाप इति तत्प्रथम वज्ररूपं सरस्वतीति तद्वितीयं वज्ररूपं पश्चदशचं भवति तत्तृतीयं वज्र- रूपमेतेन वै देवास्त्रिः समृद्धेन बजेणेभ्यो लोकेभ्योऽसुराननुदन्त तथो एवैतद्यजमान एतेनैव त्रिः समृद्धेन वज्रेणैभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान्नुदते ॥२॥ माध्यमाः सरस्वत्या सत्रमासत तद्धापि कवषो मध्ये निषसाद तं हेम उपोदुर्दास्या वै स्वं पुत्रोऽसि न वयं त्वया सह भक्षयिष्याम इति स ह क्रुद्धः प्रद्रवत्सरस्वतीमेतेन सूक्तेन तुष्टाव तं हेयमन्वियाय तत उ हेमे निरागा इव मेनिरे तं हान्यावृत्योचुर्ऋषे नमस्ते अस्तु मा नो हिंसीस्त्वं वै नः श्रेष्ठोऽसि यं वेयमन्वेतीति तं ह ज्ञपयांचकुस्तस्य ह क्रोधं विनिन्युः स एष कवषस्यैव महिमा सूक्तस्य चानुवेदिताऽथ यत्सह पत्नीभिर्यन्ति गंधर्वा ह वा इन्द्रस्य सोममप्सु प्रत्यायिता गोपा: यन्ति त उह स्त्रीकामास्ते हाऽऽसु मनांसि कुर्वते तद्यथा प्रमत्तानां यज्ञ- माहरेदेवं तदुपनामुक उ एवैनं यज्ञो भवति य एवं वेद ता वै विंशति- मन्वाह ता विराजमभिसंपद्यन्ते बैराजी आपोऽन्नं विराळन्नमापोऽ- नेन तदन्नाधं समर्धयति त्रिः प्रथमया विरुत्तमया चतुर्विंशतिः संप- द्यन्ते चतुर्विंशत्यक्षरा गायत्री गायत्री प्रातः सवनं वहति तदु ह प्रातः सवनरूपा न्वाप इतीति न्वा आपोनप्नियस्य ॥३॥ .

ऋग्वेदे शाङ्खायनबाह्मणम् । ४३ [१२अध्यायः] अथवा उपांशु प्राण एव तं हूयमानमनुप्राण्यात्प्राणं मे पाहि प्राणं मे जिन्व स्वाहा त्वा सुभव सूर्यायेति स एव तस्य वषट्कारस्य स्वाहा- कारो न ह वै ता आहुतयो देवान्गच्छन्ति या आ वषट्कृता वा स्वाहा- कृता वा भवत्यन्तर्यामोऽपान एव तं हूयमानमन्ववान्यादपानं मे पाय- पानं मे जिन्व स्वाहा त्वा सुभव सूर्यायेति स एव तस्य वषटकारस्य स्वाहाकारो न ह वै ता आहुतयो देवान्गच्छन्ति · या वषट्कृता वा स्वाहाकृता वा भवन्ति तौ वा एतौ प्राणापानावेष यदुपश्चिन्तर्यामी तयोर्वा उदितेऽन्यमनुदितेऽन्यं जुह्वतीमावेव तत्पाणापानौ वितारयति तस्माद्धीमी प्राणापानौ सह सन्तौ नानेव यदेवोदितेऽन्यमनुदितेऽन्यं जुह्वत्यहोरात्राभ्यामेव तदसुरानन्तरयन्त्युमयतो ह्यमुमादित्यमहोरात्रे पाप्मानं वा यजमान इति ह स्माऽऽहाथ यस्यैता उमा उदिते जुह्व- त्युभो वाऽनुदित उदकयाजी स न सोमयाजी यस्यैवैतौ यथायथं हूयेते स सोमयाजीतीति न्वा उपांश्वन्तर्यामयोः ॥४॥ अनुत्थेयः पवमानो नाति नानूत्थेय इत्याहुक्रंच एतदायतनं यत्रैतद्धोतास्तेऽथातः सानो यत्रामी साम गायन्ति स योऽनत्ति- ठत्यूचं स स्वादायतनाच्च्यवयत्यूचं स सानोऽनुवनिं करोति तस्माद- नानूत्तिष्ठेन्नेहचं स्वादायतनाच्यवयानीति नेहचं स सानोऽनुवर्तमानं करवाणीति पदि तु स्वयं होता स्यादनूत्तिष्ठेदौपगात्रं यस्य भवति स्वर्गों वै लोकः स्वरसामः स्वर्गे लोके स्वरे सामन्यात्मानमतिसृजा इत्यथ पवमाने ह वा उ प्रातः सर्वा देवताः संतृप्यन्ते कथं तत्रापरिभक्षितो भवतीति स स्तुते पवमान एतं जपं जपेदुपता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य मक्ष उप मां देवा हयन्तामस्य सोमस्य पवमा- नस्य विचक्षणस्य भक्षे मनसा त्वा मक्षयामि वाचा त्वा मक्षयामि प्राणेन त्वा मक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामीति स एष देवैः समुपहवस्तथा हास्यासौ सोमो राजा विचक्षणश्चन्द्रमा भक्षो मक्षितो भवति यममुं देवा मक्षं भक्षयन्ति ॥ ५॥ अथ पशुसोम एवैष प्रत्यक्षं यत्पशुरुदकपेयमिव ह स्याघदेष आल- म्यते सवनान्येतेन तीवी करोति तद्यद्वपया चरन्ति तेन प्रातःसवनं तीवीकृतं यच्छ्रपयन्ति यत्पशुपुरोळाशेन चरन्ति तेन माध्यंदिनं सवनं तीवीकृतमथ यत्नेन तृतीयसवने प्रचरन्ति तेन तृतीयसवनं तीवीकृतं स एष सवनानामेव तीवीकारो याश्च सोमपा देवता याश्च पशुभाज- • ४४ ऋग्वेदे शालायनब्राह्मणम् । [१२भाध्यायः नास्त्रयस्त्रिंशद्वै सोमपा देवता याः सोमाहुतीरन्धायत्ता अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रो द्वात्रिंशत्प्रजापतिस्त्रयस्त्रिंशत्रय- त्रिंशत्पशुभाजनास्ता उभय्यः प्रीता भवन्ति पदेष आलभ्यते तमेतमै- न्द्रामः स्यादिति हैक आहुरिन्द्राग्नी वै सर्वे देवास्तदेनेन सर्वान्देवान्मी- णातीति वदन्तस्तदु वा आहुराग्नेय एवैष स्यादैन्द्राः पुरोळाशास्तत्सम- मिन्द्रानी मजेते इस्यग्ने प्रातःसवनं प्रातःसवन एष आलभ्यतेऽनेवा एतं सन्तमन्यस्मै हरन्ति येऽन्यदेवत्यं कुर्वन्ति तद्यथाऽन्यस्य सन्तम- स्पस्मै हरदेवं तदपि केवलं संवत्सरं संवत्सरः सदामाग्नेय एष न ध्यवे. तेति तद्ध्यु हैक आहुः शिक्षायामेवावधृत आग्नेयः॥६॥ तस्य भुवो यज्ञस्य रजसश्च नेतेति मुवद्वतीवपायै याज्या प्रषः शुकाप भानवे मरध्वमिति शुक्रवती पुरोळाशस्य प्रकारवो मननावच्यमाना इति हविष्मती हविष एकादशिनी त्वेवान्वायातयेयुरिति सा स्थिति- यदि पृष्ठोपायं भवत्यथाऽऽवाहन आवह देवान्यजमानायाग्निमग्न आवह वनस्पतिमावहेन्द्रं वसुमन्तमावहेति तत्प्रातःसवनमावाहयतीन्द्रं रुख- वन्तमावहेति तन्माध्यंदिनं सवनमावाहयतीन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिमन्तं विश्वदेव्यावन्तमावद्देति तत्तृतीयसवन- मावाहपति तत उ हैके वनस्पतिमावाहयन्त्यन्तत आवाह्यस्तृतीयसवने ह्येनं पजन्तीति वदन्तस्तदु वा आहुराष्मा वै पशुः प्राणो वनस्पतिर्यस्तं तत्र ब्रूयात्याणादात्मानमन्तराऽगान्न जीविष्यति तथा ह स्यात्तस्मात्पशु- मेघोपसंधाय वनस्पतिरावाह्यो मीमांसितः पशुः ॥ ७ ॥ प्रजापतिः प्रजाः सृष्ट्वा रिरिचान इवामन्यत स हैक्षत कथं नु तेन यज्ञक्रतुना यजेयं येनेट्वोपकामानाप्नुयाम वान्नाद्यं हन्धीपेति स एतामेका- दशिनीमपश्यत्तामाहरत्तया यजत तयेष्ट्वोपकामानाप्नोदवान्नाद्यमरुन्धत्तयो एषैतद्यजमान एतयैवैकादशिन्येष्ट्वोपकामानाप्नोत्यवान्नाद्यं रुन्धे तस्यै वा एतस्था एकादशिन्यै याज्यापुरोनुवाक्याश्चैव नाना मनोतायै च हवि. षोऽथेतरत्समानमाग्नेयः प्रथमो ब्रह्म वा अग्निब्रह्मयशसस्यावरुद्धयै सार- स्वतो द्वितीयो वाग्वै सरस्वती वाचा वा इदं स्वदितमन्नमद्यतेऽन्नाद्य- स्योपाप्त्यै सौम्यस्तृतीयः क्षत्रं वै सोमः क्षत्रयशसस्यावरुद्धयै पौष्णश्च- नुर्थोऽन्नं वै पूषाऽन्नाद्यस्योपाप्त्यै बार्हस्पत्यः पञ्चमो ब्रह्म वै बृहस्पतिर्ब- ह्मयशसस्यावरुद्धथै वैश्वदेवः षष्ठो विश्वरूपं वा इदमन्नमद्यतेऽन्नाद्यस्यो. पाप्त्या ऐन्द्रः सप्तमः क्षत्रं वा इन्द्रः क्षत्रयशसस्यावरुद्धचै मारुतोऽष्टम - [१३अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ४५ आपो वै मरुतोऽनमापोऽन्नाद्यस्योपाप्त्या ऐन्द्रानो नवमो ब्रह्मक्षत्रे वा इन्द्रामी ब्रह्मयशसस्य ध क्षत्रयशसस्य चावरुद्धयै सावित्रो दशमः सवि. तृप्रसूतं वा इदमन्नमद्यतेऽन्नाद्यस्योपाप्त्यै वारुण एकादश क्षत्रं वै वरुणः क्षत्रयशसस्यावरुद्ध्या एवं वै प्रजापतिर्ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा ब्रह्मणा चोभयतोऽनाद्यं परिगृह्णानोऽवरुन्धान ऐत्तथो एवैतद्य- जमान एवमेव ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा चोमयतोऽ- नायं परिगृह्णान्नोऽवरुन्धान ऐत्यवरुन्धान एति ॥८॥ इति शाखायनबाह्मणे द्वादशोऽध्यायः ॥ १२ ॥ हरिः ॐ। प्रजापति यज्ञस्तस्मिन्सर्वे कामाः सर्वममृतत्वं तस्यैते गोप्तारो यद्धिष्ण्यास्तारसदः प्रसृप्स्यं नमस्यति नमो नम इति न हि नमस्कारं मतिदेवास्ते नमसिता होतारमतिसृजन्ते स एतं प्रजापतिं पशं प्रपद्यते तत्रैव यजमानः सर्वान्कामानाप्नोति ॥१॥ अथ हविष्पङ्मया चरन्ति पशवो वै हविष्पङ्किः पशूनामेवाप्स्यैतानि वै पञ्च हवींषि भवन्ति दधिधानासक्तवः पुरोळाशः पयस्येति पञ्च- पदा पङ्क्तिः पाको यज्ञः पालाः पशवः पालः पुरुषो यज्ञस्य च पशूनां चाऽऽप्त्यै सेयं निरुप्यते पशूनामेव परिग्रहायाथो सवनानामेव तीव्रीका- रायाथ पै हविष्पङ्किः प्राण एव तस्मायेनैव मैत्रावरुणः प्रेष्यति सेन होता यजति समानो ह्ययं प्राणस्तदाहुर्यया वै प्रातर्यजत्युक्सा तदह- र्यातयामा भवत्यथ कस्मादेषा सर्वेषु सवनेष्वयातयामेति यदेव सवन- पितारयन्नेति प्रातः प्रातःसावस्येति प्रातःसवने माध्यंदिनस्य सवन- स्येति माध्यंदिने सवने तृतीयस्य सवनस्येति तृतीयसवने तेनायातयामा सदाहुः कस्मास्पातरेव पयस्या न मध्यंदिने न तृतीयसवन इति यज्ञो वै मैत्रावरुण एतद्वै यज्ञो जायते यत्प्रातःसवने पयोमाजनो वैतरण: कुमारस्तद्यथा जातायस्तनमुपदध्यादेवं तवृद्धो वा उत्तरयोः सवन- योर्यदा वै वर्धतेऽतिस्तनो वै तदा तस्मात्प्रातरेव पयस्या न मध्यंदिने न तृतीयसवन इति ॥२॥ हविरग्ने वीहीत्यनुसवनं पुरोळाशः स्विष्टकृतो यजत्यवत्सारो ह पाश्रवणो देवानां होता सतमेतस्मिन्युम्ने मृत्युः प्रत्यालिल्येऽनिर्वै मृत्युः ४६ ऋग्वेदे शाङ्खायनब्राह्मणम् । [१३अभ्यायः] स हविरग्ने बीहीति हविषाऽग्निं प्रीस्वाऽथातिमुमुचे तथो एवं विद्वा- होता हविरग्ने वीहीस्येव हविषाऽनिं प्रीत्वाऽथातिमुच्यत एतेहै वा अन्तराकाशैर्देवाः स्वर्ग लोकं जग्मुस्तोनतस्मिन्युम्ने मृत्युः प्रत्यालिल्ये- निर्वै मृत्युस्ते हविरग्ने वीहीति हविषाऽग्निं प्रीत्वाऽथातिमुमुचिरे तथो एवैवं विद्वान्होता हविरग्ने वीहीत्येव हविषाऽग्निं प्रीत्वाऽथातिमुच्यते तानि वा एतानि षळक्षराणि हविरग्ने वीहीति पळङ्गोऽयमात्मा पड़ि- धस्तदात्मनैवाऽऽत्मानं निष्क्रीयानृणो मूत्वाऽथ यजते स एषोऽवत्सा- रस्य प्राश्रवणस्य मन्त्रः स न मन्येत केन वा उ केन वा यजा इत्यृषि- कृतेन मन्त्रेणर्चा यजानीत्येव विद्यात् ॥३॥ अथ सोम इति वै पशुमघोचामैवं पुरोळाशान्दशान्या एते सोमां- शवः प्रत्नोंऽशुर्यमेतमभिषुण्यन्ति तृप्तोऽशुरापो रसोऽशुर्बीहि वृषोंऽ- शुर्यवः शुक्कोंऽशुः पयो जीवोंऽशुः पशुरसृतोऽशुर्हिरण्यमगंशुर्यजुरंशुः सामांशुरित्येते वा उ दश सोमांशवो यदा वा एते सर्वे संगच्छन्तेऽथ सोमोऽथ सुतः ॥४॥ पुरोळाशैश्चरित्वा द्विदेवत्यैश्चरन्त्यात्मा वै पजमानस्य पुरोळाशाः प्राणा द्विश्वत्यास्तद्यत्पुरोळाशैश्चरित्या द्विदेवत्यैश्चरन्ति प्राणानेव तय- जमाने दधाति सर्वायुत्वायास्मिल्लोकेऽस्तत्वायामुष्मिंस्तथा ह यजमानः सर्वमायुरस्मिल्लोक एत्याप्नोत्यमृतस्वमक्षितिं स्वर्गे लोक पेन्द्रवायवः प्रथमो वाग्वा इन्द्रः प्राणो वायुश्चक्षुमैत्रावरुणः श्रोत्रमाश्विनस्ते वा एते प्राणा एष यद्विदेवत्यास्तस्मादनवानं यजति प्राणानां संतत्यै संतता इव हीमे प्राणा नानुवषट्करोति प्राणा वै द्विदेवत्याः संस्थाऽनुवषट्कारो नेत्पुरा कालापाणं संस्थापयानीति युक्ता इव हीमे प्राणा ऐन्द्रवायवं पूर्वाद्धर्थ सादयति पूर्वाद्धर्षो ह्येष एषां प्राणानामभिधानतर इवाभित इतरौ पश्चादुपनिदधात्यमित इव हीदं चक्षुश्च श्रोत्रं च तानवगृह्यास्तेने- त्मवर्तन्ता इति नापिदधाति प्राणा वै द्विदेवत्या नेत्याणानपिधा- मीति ॥५॥ इदं ते सोम्यं मध्विति प्रस्थितानां याज्या मधुश्चुतां मधुमत्यनु वष- करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ होत्राः संय- जन्ति यजमानमेव तहणतायै संप्रमुञ्चन्ति द्विदेवत्यानां प्रथमो भक्षोऽ- थेळाऽथ होतृचमस आत्मा यजमानस्य पुरोळाशाः प्राणा द्विदे. वत्या अन्नं पशव इळाऽनेन वै प्राणाश्चाऽऽत्मा च संहितस्तस्माद्विदे- ये [१३अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । -- वत्यानां प्रथमो भक्षोऽथेळाऽथ होतृचमसस्तानध्वर्यवे प्रयच्छति नानु- सृजति प्राणा वै द्विदेवत्या नेत्प्राणाननुसृजानीति विरेन्द्रवायवस्य भक्ष- यति द्विर्हि तस्य वषट्करोति सकृन्मत्रावरुणस्य सकृदाश्विनस्य सर्वतः परिहारमाश्विनस्य भक्षयति सर्वतो ह्यनेन श्रोत्रेण शृणोति संस्रवान्हो- तृवमसेऽवनयतीळामाज एवैनांस्तत्करोति ॥६॥ अथेळामुपह्वयते दक्षिणेनोत्तरेळां धारयत्सव्येन होतृचमसं च पात्री च संयच्छत्यसंस्पर्शयन्वज्रो वा आज्यं रेतः सोमो नेद्वज्रेण रेतो हिन- सानीति तस्यां न सुन्धदाहानाशिषो निराहोपहूयेळामपघायावस्यत्ति प्राश्नात्युत्तरेळामथाप आचम्य होतृचमसं भक्षयत्येतदै परममन्नाचं यत्सोमः परममेवैतदन्नायं सर्वे समुपहूय भक्षयन्ति ॥७॥ अथ वै प्रत्युपहवोऽच्छावाकस्य प्रत्येता वामा सूक्ता यं सुन्वन्यज- मानो अग्रभीदुत प्रतिष्ठोतोपवक्तउत नो गाय उपहूता इति यदि नोप- जुहूषत्युतोपहूत इत्यभ्यस्यति यापजुहूपते प्रत्युपहूतोऽच्छावाको निव- तध्वं माऽनुगातेत्येतस्य सूक्तस्य यावती: पर्याप्नुयात्तावतीरनुष्ट्रवेद्धोता वा प्रतिकामिनमच्छायाकं सा तत्र प्रायश्चित्तिः ॥८॥ प्राणा वा ऋतुयाजास्तद्यतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधति स वा अयं त्रेधा विहितः प्राणः प्राणोऽपानो व्यान इति पक्रतुनेति यजन्ति प्राणमेव तथजमाने दधति चत्वार ऋतुभिरित्यपानमेव तद्यज- माने दधति द्विर्ऋतुनेत्युपरिष्टाद्यानमेव तद्यजमाने दधाति सर्वायुत्वा- यास्मिल्लोकेऽमृतत्वाधामुष्मिंस्तथा ह यजमानः सर्वमायुरस्मिल्लोक एत्यामोत्यमृतत्वमक्षितिं स्वर्गे लोके ते या एते प्राणा एव यहतुयाजा- स्तस्मादनवानं यजन्ति प्राणानां संतत्यै संतता इव हीमे प्राणा नानु वषट् कुर्वन्ति प्राणा वा ऋतुयाजाः संस्थाऽनुवषट्रकारो नेत्पुरा काला- माणान्संस्थापयानीति युक्ता इव हीमे प्राणास्तदाहुः कस्माद्धोता यक्षद्धोता यक्षदित्येव सर्वेभ्यः प्रेष्यतीति वाग्वै होता वाग्यक्षद्वाग्यक्ष- दित्येव तदाहाथो सर्वे वा एते सप्त होतारोऽपि व ऋचाभ्युदितं सप्त होतार ऋतुशो यजन्तीत्यथ यद्विरुपरिष्टाहादश त्यजामि ता येते वै द्वादश भवन्ति द्वादश मासाः संवत्सरः संवत्सरस्यैवाऽऽवाप्स्यै स योऽत्र भक्षयेद्यस्तं तत्र ब्रूयाद्दशान्तो भक्षो ननु वषट्कृतः प्राणानस्य व्यगान्न जीविष्यति तथा ह स्याद्य उ वै न भक्षयेद्यस्तं तत्र ब्रूयात्माणों वै ४८ ऋग्वेदे शावायनबाह्मणम् । [१४ अध्यायः भक्षः प्राणादात्मानमन्तरगान्न जीविष्यतीति तथा हैव स्याल्लिम्पेदिवैधा- वेष जि दत्र च द्विदेवत्येषु चेति तदु तत्र शासनं वेदयन्तेऽथ पदमू व्यतिचरतो नान्योन्यमनुप्रपद्येते अध्य' तस्मादतुर्ऋतुं नानुपपद्यते तस्मादृतुर्ऋतुं नानुप्रपद्यते ॥९॥ इति शाङ्खायनबाह्मणे त्रयोदशोऽध्यायः ॥ १३ ॥ हरिः ॐ। अथात आज्यमाज्पेन वै देवाः सर्वान्कामानाजयन्त सर्व- ममृतत्वं तथो एचैतद्यजमान आज्येनैव सर्वान्कामानाजयति सर्वममृतस्त्वं तदा इई पहिधमाच्यं तूष्णी जपस्तूणीं शंसः पुरोरुक्सूक्तमुक्थवीर्य याज्येति षऋतुः संवत्सरः षड्विध एतेन धै देवाः पड्डिधेनाऽऽज्येन पळूऋतुं संवत्सरमाप्नुवन्धड्विधं संवत्सरेण सर्वान्कामान्सर्वममृतत्वं तथो एवैतद्यजमान एतेनैव षड्विधेनाऽऽज्येन पझतुं संवत्सरमाप्नोति षड्विधं संवत्सरेण सर्वान्कामान्सर्वममृतत्वमथ यत्पुरस्तात्तूष्णीं जपं जपत्ति स्वर्गो वैलोको यज्ञस्तद्यत्पुरस्तात्तूष्णीं अपं जपति स्वस्त्ययनमेव तस्कुरुते स्वर्ग- स्थ लोकस्य समष्ट्या अथैतं तूष्णीं शंसमुपांशु शंसप्ति सर्वेषामेव कामा- नामाप्त्या अग्निोतिज्योतिरनिरिति तदिमं लोकं लोकानामाप्नोति प्रातःसवनं यज्ञस्येन्द्रो ज्योतिर्योतिरिन्द्र इति तदन्तरिक्षलोकं लोका. नामाप्नोति माध्यंदिनं सवनं यज्ञस्य सूर्यो ज्योतिज्योतिः सूर्य इति तदमुं लोकं लोकानामाप्नोप्ति तृतीयसवनं यज्ञस्याथ धै निविदसावेव पोऽसौ तपस्येष हीदं सर्व निवेदयन्नेति सा पुरस्तात्सूक्तस्य प्रातः सवनेऽधीयते पुरस्ताद्धयेष तदा भवति मध्ये सूक्तस्य माध्यंदिने सवने मध्ये ह्येष तदा भवत्युत्तमाः परिशिष्य तृतीयसवने पश्चाद्धचेष तर्हि परिक्राम्तो भवति तदेतस्यैव रूपेण निविदं दधतेति तदु वा आहुरञ्जयो वै प्रातः सपनं वहति शितिपृष्ठा माध्यंदिनं सवनं श्वेतानकाशास्तृतीयसवनमि- स्यादित्येनैवं द्वादशपदा पुरोरुचमुपसंशंसति द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै ॥१॥ अथ सप्तर्चमाज्यं शंसति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्यै तद्वा आनुष्टुभं भवति वागनुष्टुप्तद्यत्किंच वाचाऽनुष्टुमाऽभ्यनूक्तं तत्सर्व- माप्नोति पदे विगृह्णाति तत्मजात्यै रूपं वीववै स्त्रियै पुमान्गृह्णाति यद्वेव विगृह्णाति प्रतिष्ठयोस्तदूपमथो एतद्ध वै मृत्योरास्यं यदेते पदे अन्तरेण स योत्रावानन्तं ब्रूयान्मृत्योरास्यमापाति न जीविष्यति तथा [१४ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ह स्यात्तस्मात्तदनवानं संक्रामेदमृतं वै प्राणोऽमृतेन तन्मृत्युं तरति समस्तेनोत्तरेणार्धचैन प्रणौति वज्रमेव तत्पाप्मने भ्रातृव्याय प्रहरति ता दश गायत्र्यः संपद्यन्तेऽष्टाक्षरं हि दशमं पदं गायत्री वैसा याऽनु- टुब्गायत्रमग्नेश्छन्दो दश प्रातःसवनेऽध्वर्युग्रहान्गृह्णाति नवसु बहि- पवमानेन स्तुवते हिंकारो दशमो दशेमास्ते नाना कुर्वन्तो विराजमभि- संपादयन्त्येतद्वै कृत्स्न मन्नाद्य यद्वैरादतदेतत्संपाद्यं यजमाने प्रतिद्धति त्रिः प्रथमया त्रिरुत्तमयैकादश संपद्यन्ते याज्या द्वादशी द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै ताः संशस्ताः षोळश गायत्र्यः संपद्यन्ते तद्गायत्रीमाज्यमभिसंपद्यत आग्नेन्या यजतीन्द्रमेव तदर्धभाज सवनस्य करोति याज्यायां देवता अन्वाभजतेति ह स्माऽऽह कौषीत- किस्त्रयस्त्रिंशदक्षरा वै विराट्रब्रयस्त्रिंशदेवता अक्षरभाजो देवताः करो- त्यग्न इन्द्रश्च दाशुषो दुरोण इति पदं परिशिष्य विराजोऽर्धर्च वाऽनिति श्रीविराळन्नाद्यं श्रियां तद्विराज्यन्नाचे प्रतितिष्ठत्युत्तरेण विराजोऽर्धर्चेन वषट् करोति स्वर्ग एव तं लोके यजमानं दधात्यनु वपद् करोत्याहुती- नामेव शान्त्या आहुतीनां प्रतिष्ठित्यै ॥ २॥ शोंसाबो ३ इति प्रातःसवन आह्वयते यच्छुद्धं प्रणवं कुर्वन्ति तदस्य लोकस्य रूपं यन्मकारान्तं तदमुष्य तद्यच्छुद्धं प्रणवं कुर्वन्ति परावा असौ लोको नेत्पराञ्चो गामेत्यथो प्रजापतिर्वा अयं लोकः प्रजात्या एवाथो प्रतिष्ठा वा अयं लोकः प्रतिष्ठित्या एव शोसामो देवे. त्यध्वर्युस्तान्यष्टावक्षराण्युक्थमवाचीति प्रातःसवन उपांशु होता बूयादु- क्थशा इत्यध्वर्युस्तान्यष्टौ गायच्या सवनं प्रतिपद्य गायत्र्यां प्रत्यष्ठा- तामध्वर्यो शोसावो३ इति माध्यंदिने सवन आह्वयते शोसामो दैवेत्य- ध्वर्युस्तान्येकादशाक्षराण्युक्थमवाचीन्द्रायेति माध्यंदिने सघन उपांशु होता ब्रूयादुक्थशा इत्यध्वर्युस्तान्येकादश त्रिष्टुभा सवनं प्रतिपद्य त्रिष्टुभिः प्रत्यष्ठातामध्वर्यो शोशोसावो३ इति तृतीयसवनेऽभ्यास- माह्वयते शोशोंसामो देवेत्यध्वर्युस्तानि द्वादशाक्षराणि रोमशेन त्रयो- दशवाचीन्द्रायोक्थं देवेभ्य इति तृतीयसवन उपांशु होता ब्रूयादुक्थशा इत्यध्वर्युस्तानि द्वादश संपदि जगत्या सवनं प्रतिपद्य जगत्यां प्रत्यष्ठाता- मेतद्वै तद्यन्मध्य ओप्यते स यदिह वा अपि व्यूहळच्छन्दा भवति कुलप्ता- न्येवैवं विदुषश्छन्दांसि यज्ञं वहन्त्यथो एतदेष ऋगभ्यनूक्तेति ह स्माऽऽह यद्गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जग- ऋग्वेदे शाङ्खायनबाह्मणम् । [१४ अध्यायः] जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्यथो यदिमा देवता एषु लोकेष्वध्यूहळा गायत्रे अस्मिल्लोके गायत्रोऽयमग्निरध्यूहळस्त्रैष्टुभेऽ- न्तरिक्षलोके त्रैष्टुभो वायुरध्यूहळो जागतेऽमुष्मिल्लोके जागतोऽसावादि- त्योऽध्यूहळः ॥३॥ आज्यं शस्त्वा प्रउगं शंसत्यात्मा पै यजमानस्याऽऽज्यं प्राणा प्रउगं तद्यदाज्यं शस्त्वा प्रउगं शंसति प्राणानेव तद्यजमामे दधाति सर्वायुत्वायास्मिल्लोकेऽमृतत्वायासुष्मिंस्तथा ह यजमानः सर्वमायुर- स्मिल्लोक एत्याप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके पवमाने स्तुत आज्यं शंसत्याज्ये स्तुते मउगं तदेतत्पवमानोक्थमेव तत्पउगमाज्यस्योक्थं ते एतद्विहरति यथा रथस्यान्तरौ रश्मीन्व्यतिपजेदेवं तद्ग्रहाननुशंस- तीति ह स्माऽऽह कौषीतकिर्योऽसौ वायोरिन्द्रवाय्वोर्ग्रहस्तं वायव्येन चैन्द्रवायवेन च मैत्रावरुणं मैत्रावरुणेनाऽऽश्विनमाश्विनेन यत्प्रस्थितानां यजति तदैन्द्रेण यद्धोत्राः संयजन्ति तद्वैश्वदेवेन वागेव सरस्वती सर्वेषु सपनेष्वथ वै पुरोरुगसावेव योऽसौ तपत्येष हि पुरस्ताद्रोचतेऽथ वै पुरो- रुक्माण एवाऽऽत्मा सूक्तमथ वै पुरोरुगात्मैव प्रजा पशवः सूक्तं तस्मान्न पुरोरुचं च सूक्तं चान्तरेण व्याह्वयते शंसस्य पुरोरुचा सूक्तं पुरोरुचे पुरोरुच एवाऽऽह्वयते वायुरग्रेगास्तत्प्राणरूपं वायवा तदपानस्य रूपं गायत्रं प्रउगं शंसति तेन प्रातःसबनमाप्तमैन्द्रं शंसति तेन माध्यंदिनं सवनमाप्तं वैश्वदेवं शंप्सति तेन तृतीयसवनमाप्तम् ॥ ४॥ अथ वैश्वदेवीं पुरोरुचं शंसति सा षट्पदा भवति तां त्वामृतव इत्याहुः षकृतवस्तस्यै वे द्वे पदे अवग्राहं शंसति तस्माद्वंद्वं समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इत्पत्र हैके सारस्वती पुरोरुचं शंसति न तथा कुर्यादतिरिक्तं तद्रुचिता वै वाक्स्वयं पुरोरुग्वै वाग्वाय- वायाहि दर्शताश्विना यज्वरीरिष इत्येते उभे तत्पउगं नवचं च द्वाद शचं च तदेकविंशतिरेकविंशो वै चतुष्टोमः स्तोमानां परमस्तत्परम स्तोममाप्नोति यद्वे वैकविंशतिदश वै मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशस्तेनैव तत्सलोकतायां यजमानमध्यूहति तानि वै सप्त तृचानि भवन्ति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्या अथो एतैर्धे देवा असुराणां सप्तसाप्तान्यवृञ्जत तथो एवैतद्यजमान एतैरेव द्विषतो भ्रातृव्यस्थ सतसाप्तान्यवृतेऽग्नेरग्रे प्रातः सवनमासीदिन्द्रस्य माध्यंदिनं सवनं विश्वेषां देवानां तृतीय सवनं सोऽग्निरकामयत तस्यां मे [१५अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ५१ माध्यंदिने सवनेऽथो तृतीयसवन इतीन्द्रोऽकामयत तस्यां मे प्रातःसष- नेऽथो तृतीयसवन इति विश्वे देवा अकामयन्त तस्यां नो माध्यंदिने सव- नेऽथो प्रातःसवन इति ता अमुतोऽर्वाच्यो देवतास्तृतीयसवनात्प्रातःस- वनमभिप्रायुञ्जत तद्यदभिप्रायुञ्जत तत्प्रउगस्य प्रउगत्वं तस्माद्बह्वयो देवताः प्रउगे तस्मात्सर्वाणि सवनानि सर्वदेवत्यानि भवन्ति विश्वेभिः सोम्यं मध्वित्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवं ह्येतदुक्थं गायच्या गायत्रं प्रातःसवनमन्विदु वषट्करवदन्विदु वषट्करवत् । इति शाङ्खायनबाह्मणे चतुर्दशोऽध्यायः॥ १४ ॥ शस्यन्ते -- हरिः ॐ। देवा वा अर्बुदेन च पावमानीभिश्च ग्राव्णोऽभिष्ठुत्याऽऽप्यु- वन्नमृतत्वमाप्नुवन्सत्यं संकल्पं तथो एवैतद्यजमानो यदर्बुदेन च पाव- मानीभिश्च ग्राव्णोऽभिष्टौत्याप्नोत्यमृतत्वमाप्नोति सत्यं संकल्पमथ स्तुते पवमाने दधिधर्मेण चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हविष्पक्तया चरन्ति तस्या उक्तं ब्राह्मणं भारद्वाज्या मध्यंदिने प्रस्थितानां यजति भरद्वाजो ह मध्यंदिन इन्द्राय सोमं प्रददौ सा वा ऐन्द्री त्रिष्टुभवत्यैद्रं हि त्रैष्टुभं माध्यंदिनं सघनमनु वषट्करोत्याहुप्ती- नामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ होत्राः संयजन्ति तासामुळं बाह्मणमथेळाऽथ होतृचमसस्तस्योक्तं ब्राह्मणं हुतेषु दाक्षिणेषु दक्षि- णानीयन्तेऽवापवर्गो ह्यभिषवो भवत्यथो आत्मानमेवैतनिष्क्रीणाति यह क्षिणा नीयन्तेऽथो दक्षिणाभिर्वे यज्ञं दक्षयति तद्यदक्षिणाभिर्यज्ञं वृक्ष- यति तस्मादक्षिणानामात्मदाक्षिणं वै सत्रं तस्मादहरहर्जपेयुरिदमहं मां कल्याण्यै कीर्यै स्वर्गाय लोकायामृतत्वाय दक्षिणान्नयानीत्यारमानमे- वैतत्कल्याण्यै कीत्यै स्वर्गाय लोकायामृतत्वाय दक्षिणां नयन्ति वैश्वा. मित्री मरुत्वतीयग्रहस्य पुरोनुवाक्यामनूच्य वैश्वामित्र्या यजति सव- नततिर्वै मरुत्वतीयग्रहो वाग्वै विश्वामित्रो वाचा यज्ञस्तायते ते वा ऐन्द्यौ त्रैष्टभौ भवत ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनमनु वषट्करोत्या- हुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै ॥ १ ॥ अथ षड्धिं मरुत्वतीयं शंसति षड्वा ऋतवः संवत्सरः संवत्सरस्यै- वाऽऽप्त्या अनुष्टुभं गायत्रीं बृहतीमुष्णिहं त्रिष्टुभं जगतीमिति षट् छन्दांसि शंसति तस्मात्षड्विधं भवत्यात्वा रथं यथोतय इत्यनुष्टुभा मरुत्वतीयं प्रतिपद्यते पवमानोक्थं वा एतयन्मरुत्वतीयमनुष्टुप्सोमस्य च्छन्द उक्थं ॥ -- ऋग्वेदे शाङ्खायनब्राह्मणम् । [१५अध्यायः पदविग्रहणस्य बाह्मणं गायत्री: शंसति प्राणो वै गायत्र्यः प्राणमेव तदात्मन्धत्त इदं वसो सुतमन्ध इत्यनुचरः सुतवान्पीतवान्पवमानोक्थं ह्येतदिन्द्र नेदीय एविहीतीन्द्रनिहवः प्रगाथो नेदीय उपनिष्कामेति हैन मरुत ऊचुः प्रहर्षयन्तः सोऽबवीद्धत्वा वृत्रं विजित्य युष्माभिर्मेऽयं सह सोमपीथ इति तैरेवास्यैष सह सोमपीथः प्रनूनं ब्रह्मणस्पतिरिति प्रवा- बाह्मणस्पत्यः प्रहरेति हैन ब्रह्मोवाच प्रहर्षयन्सोऽब्रवीद्धत्वा वृत्रं विजित्य त्वया मेऽयं सह सोमपीथ इति स एष ब्रह्मण एव सोमपी- थस्तस्मिन्देवता अन्वाभजतेति ह स्माऽऽह कौषीतकिर्यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इत्यत्र देवता अन्वाभक्ता- स्तदाहुर्यन्नैव स्तोत्रियो नानुरूप इन्द्रनिहवश्च ब्राह्मणस्पत्यश्च प्रगा- थावथ कस्मात्पुनरादायं ककुप्कारं शस्येते ३ इति पुनरादायं वै सामगाः पवमाने स्तुवते तस्यैवैतद्रूपं क्रियतेऽगिर्नेता भग इव क्षितीनां त्वं सोम क्रतुभिः सुक्रतुर्भूरित्यग्नीषोमीयेऽशीपोमो वा अन्तर्वत्र आस्तां ताविन्द्रो नाशक्नोदभिवज्र प्रहर्तुं तावेतं भागमुपनिराकामतां यश्चैनयो- रसौ पौर्णमासे तदेतद्वानमेवोक्थं यन्मरुत्वतीयमेतेन हेन्द्रो वृत्र- महन् ॥ २॥ पिन्वन्त्यपो मरुतः सुदानव इति पिन्वन्त्यपीयापो वै पिन्वन्त्यपीया तद्यदेव वृत्रं हतमापो व्यायन्यत्प्रापिन्वस्तस्मात्पिन्वन्त्यपीया सा वै जगती तया सर्वाणि सवनानि जगदन्ति भवन्ति जनिष्ठा उग्रः सहसे तुरायेति जातवन्मरुत्वतीयमेतद्वा इन्द्रो जायते यद्वृत्रमहन्नेतदु वा एष जायते यो यजते तस्य प्रथमायामध्वर्युः सकृन्मद्वत्पत्यागृणात्यत्र हेन्द्रः प्रथममाद्यत्तदेतत्पृतनाजिदेवसूक्तं यन्मरुत्वतीयमेतेन हेन्द्रः पृतना अज- यत्तस्य मध्ये निविदं दधाति मध्ये वा इदमात्मनोऽन्नं धीयतेऽथ निविदः शंसति प्राणा वै निविदः प्राणानेव तदात्मन्धत्ते तासामेकैकं पदमव- ग्राहं शंसत्येकैकमेव तत्प्राणमात्मन्धत्त उत्तमेन प्रणौतीममेव तत्प्राणमु- सृजते तस्माद्धीमं प्राणं सर्वे प्राणा अनुप्राणन्त्यथोऽन्नं निविद इत्याहु- स्तस्मादेना आरतं शंसेदत्वरमाण इव हि प्रतिकामिनमन्नाद्यमत्ति ये त्वा हि हत्ये मघवन्नवर्धन्नित्युक्थं शस्त्वा यजति ये शाम्बरे हरिवो ये गविष्टावित्येतैर्वा एष एतानि सह वीर्याण्यकरोत्तैरेवास्यैष सह सोमपीथ: सा वा ऐन्द्री त्रिष्टुम्भवत्यैन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनमनु वषट्करो- त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै वागेवासौ प्रथमाऽनुष्टुप्तां .

[१६अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ५३ पञ्च गायत्र्योऽनुवर्तन्ते मन इन्द्रनिहवः श्रोत्रं ब्राह्मणस्पत्यः प्राणोऽपानो व्यान इति तिस्र एकपातिन्य आत्मा सूक्तं यदन्तरात्मस्तं निवित्प्रतिष्ठा परिधानीयाऽनं याज्या ॥३॥ निष्केवल्यं बह्वयो देवताः प्राच्यः शस्यन्ते बह्वय ऊर्ध्वा अथैतदिन्द्र- स्यैव निष्केवल्यं तन्निष्केवल्यस्य निष्केवल्यत्वमथ यबृहत्या प्रतिपद्यते बाहतो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति द्वे तिस्रः करोति पुनरादाय तत्प्रजात्यै रूपं द्वाविवा अग्रे भवतस्तत उपप्रजायेते स्तोत्रियं शस्त्वाऽनुरूपं शंसत्यात्मा वै स्तोत्रियः प्रजानुरूपस्तस्मात्य- तिरूपमनुरूपं कुर्वीत प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपो धाय्यां शंसति प्राणो वै धाय्या प्राणमेव तदात्मन्धत्ते प्रगाथं शंसति पशवो वै प्रगाथ: पशूनामेवाऽऽप्त्या अथो प्राणापानौ वै बार्हतः प्रगाथः प्राणापानावेव तदात्मन्धत्त इन्द्रस्य नु वीर्याणि प्रवोचमिति पञ्चदशचं निष्केवल्यं पञ्चदशो वै वज्रो वज्रेणैव तद्यजमानस्य पाप्मानं हन्ति तस्य मध्ये निविदं दधाति मध्ये वा इदमात्मनोऽन्नं धीयतेऽथ निविदः शंसति प्राणा वै निविदः प्राणानेव तदात्मन्धत्ते तासाभेकैकं पदमवग्राहं शंसत्येकैकमेव तत्प्राणमात्मन्धत्त उत्तमेन प्रणौतीममेव तत्माणमुत्सृजते तस्माद्धीमं प्राणं सर्वे प्राणा अनुप्राणन्त्यथोऽन्नं निविद इत्याहुस्तस्मादेना आरतं शंसेदत्वरमाण इव हि प्रतिकामिनमन्नाद्यमत्ति नितरां परिधानीयां शंसेत्तथा ह पत्न्यः प्रच्यावुका भवत्यनुदायिततरां तथा ह पत्न्यनुद्धतमना इव भवत्यथ यदश्वं ददातीन्द्रो वा अश्व ऐन्द्र ह्येतदुक्यमिन्द्रमेव तत्वीणात्यात्मा 4 स्तोत्रियः प्रजानुरूपो महिषी धाय्या प्रगाथः पशव आत्मा सूक्तं यदन्तरात्मस्तं निवित्प्रतिष्ठा परिधान नीयाऽन्नं याज्या ॥४॥ पवमाने स्तूयमाने होतारं मृत्युः प्रत्यालीयत तमाज्येन न्यकरोदन्यत्र स्तोत्रियादाज्ये सामाज्ये प्रत्यालीयत तं प्रउगेन न्यकरोदन्यत्र स्तोत्रि- यात्तं माध्यंदिने पवमाने प्रत्यालीयत तं मरुत्वतीयेन न्यकरोदन्यत्रैव स्तोत्रियादथ वै निकेवल्ये स्तोत्रियेणैव प्रतिपद्यते तद्यथा भयेऽतिमुच्य मृत्यु यथाऽतिमुमुचान एव तदाहुनिष्केवल्यमेवेदं निकेवल्यमदो महा- वते शस्यन्ते वा अमुत्र चतुरुत्तराणि कथमिहोपाप्यन्त इति तानि वा इहोपाप्ततराणि भवन्ति स्तोत्रियानुरूपौ शंसस्तौ सप्तचतुरुत्तराणि संप- द्यन्ते चतुरक्षरं च पदमुदैति ते पशवस्तान्पशून्यजमाने दधाति विराड्डा ५४ ऋग्वेदे शाङ्खायनबाह्मणम् । [१५अध्यायः अग्निष्टोमो नवतिशतं स्तोत्रियाः संपद्यन्ते प्रत्यक्षमेवैतदग्निष्टोमस्य रूप- मुपैति यद्विराजा यजति पिबा सोममिन्द्रमन्दतु त्वेति पदं परिशिष्य विराजोऽर्धर्चे वाऽनिति श्रीविराळन्नाद्यं श्रियां तद्विराज्यन्नाद्ये प्रति- तिष्ठत्युत्तरेण विराजोऽर्धन वषट् करोति स्वर्ग एव तं लोके यजमानं दधात्यनु वषट् करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहु- तीनां प्रतिष्ठित्यै ॥५॥ इति शाङ्खायनब्राह्मणे पञ्चदशोऽध्यायः ॥ १५॥ पूर्वार्धः समाप्तः ॥

५५ 3 [१ अध्यायः ऋग्वेदे शाङ्खायनब्राह्मणम् । हरिः ॐ। वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानां तृतीयसवनं तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तद्देवतया प्रतिपद्यतेऽथोऽधीतरसंवा एतत्सवनं यत्तृतीयसवनमथैष सरसो ग्रहो यदा- दित्यग्रहस्तेनैव तत्तृतीयसवनं सरसं करोति त्रिष्टुभमादित्यग्रहस्य पुरोनु- वाक्यामनूच्य त्रिष्टुभा यजति बलं वै वीर्य त्रिष्टुब्बलमेव तद्वीयं यज- माने दधाति तस्य नानु वषट् करोति सवनततिर्वा आदित्यग्रहः संस्थाऽनु वषट्कारो नेत्पुरा कालात्सवनं संस्थापयानीति मद्वती याज्या मद्वद्धि तृतीयसवनमथ स्तुते पवमाने पशुना चरन्त्यत्र कालो हि भव- त्यथो सवनस्यैव सरसताया अथ हविष्पत्या चरन्ति तस्या उक्तं बाह्मणमैन्द्रा व्यस्तृतीयसवन उन्नीयमानेभ्योऽन्वाह यत्र ह तभवः प्रजापतेः प्रेमाणं प्रापुस्तदेनानिन्द्रः सोमपीथेऽन्वाभेजे तस्मान्नाऽऽभवीषु स्तुवतेऽथाऽऽर्भवः पवमान इत्याचक्षत ऐन्द्रा व्या तृतीयसवने प्रस्थितानां यजतीन्द्रमेव तदर्धभाजं सवनस्य करोति जगत्या जागतं हि तृतीयसवमं मद्वत्या मद्वद्धि तृतीयसवनमनु वषट्करोत्याहुतीनामेव शान्त्या आहु. तीनां प्रतिष्ठित्या अथ होत्राः संयजन्ति तासामुक्तं ब्राह्मणमथेळाऽथ होतृचमसस्तस्योक्तं ब्राह्मणमौपासनं तृतीयसवन उपास्यन्ति पितृनेव तत्मीणन्ति ॥ १॥ अथ सावित्रग्रहेण चरन्ति प्रातःसवने तमग्रेऽयजस्ताः प्रजनः प्राजा- यन्त तं माध्यंदिने सवने ता उ तत्र नो एव तमत्र तृतीयसवनेऽयजं. स्ततः प्रजाः प्राजायन्त तस्मात्तृतीयसवनेऽवधृतः सविताऽथो आदित्यानां वा एकः सविताऽऽदित्यानां तृतीयसवनंतस्मात्तृतीयसवने सवितारं यजति त्रिष्टुभं सावित्रग्रहस्य पुरोनुवाक्यामनूच्य जगत्या यजति बलं वै वीर्य त्रिष्टुप्पशवो जगती बल एव तद्वीर्येऽन्ततः पशुघु च प्रतितिष्ठति तस्य नानु वषट्करोति प्राणो वै सावित्रग्रहः संस्थाऽनु वषट्कारो नेत्पुरा कालात्प्राणं संस्थापयानीति युक्त इव ह्ययं प्राणो मद्धती याज्या मद्वद्धि तृतीयसवनम् ॥२॥ सवित्रा वैश्वदेवं प्रतिपद्यते सवितृप्रसूता वै देवास्तृतीयसवनं सम- भरंस्तस्मात्प्रतिपदनुचरौ सूक्तमिति सावित्राणि भवन्ति तत्सवितुर्व- णीमह इत्यनुष्टुभा वैश्वदेवं प्रतिपद्यते पवमानोक्थं वा एतद्यद्वैश्वदेवम- नुष्टुप्सोमस्य च्छन्द उक्थं पदविग्रहणस्य ब्राह्मणं गायत्रीः शंसति ५६ त्यन्नं वै सुरूपमन्नमेव तदात्मन्धत्तेऽथो रूपाणामेवैष ऋग्वेदे शाङ्ख्ययनबाह्मणम् । [१अध्यायः प्राणो वै गायव्यः प्राणमेव तदात्मन्धत्ते सावित्रं शंसति सावित्रो हि ग्रहो गृहीतो भवति तमेवैतेनानुशंसति वायव्यां शंसति प्राणो वायच्याः प्राणमेव तदात्मन्धत्ते तस्यै शस्त्रे द्विदेवत्यान्विमुञ्चन्ति वायो प्राणे प्राणान्द्यावापृथिवीयं शंसति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एव तस्मिन्नध्वर्युर्मद्वत्प्रत्यागृणाति महाद्ध तृतीयसवनं सुरूपकृढं शंस- सोमपीथो रूपमेव तदात्मन्धत्त आर्भवं शंसत्यत्र ह्येभ्यः प्रजापतिरेवाकल्पयत्तस्मादत्राऽऽर्भवं शस्यतेऽथ वै नामाऽऽदित्यां बार्हस्पत्यामिति शंसति शुज्ञान्थिना- वाग्रयणमित्येवैताभिरनुशंसत्यथो वैश्वदेवं वै शस्त्रं देवतानामपरिहा- णाय वैश्वदेवं शंसति वैश्वदेवो हि ग्रहो गृहीतो भवति तमेवैतेनानुशं- सति तस्य द्विः पच्छः परिधानीयां शंसत्यर्धर्चशस्तृतीयं सा विराज- मभिसंपद्यते श्रीविराळन्नायं श्रियो विराजोऽन्नाथस्योपाप्त्यै चत्वारि सूक्तानि वैश्वदेवे शंसति पशवो वै वैश्वदेवं चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै तस्मादेनदारतं शंसदमन्ते हास्मि- न्पशवः ॥३॥ षोळशाहावं वैश्वदेवं शंसति षोळशकलं वा इदं सर्वमस्यैव सर्व- स्याऽऽप्य तत्सप्तदशविधं भवत्येकादश देवताश्चतस्रो निविद उक्थवीर्य याज्येति सप्तदशो वै प्रजापतिरेतहा आधुकं कर्म यत्प्रजापतिसंमितं विश्वे देवाः शुणुतेमं हवं म इत्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवं ह्येतदुस्थं महत्या मवद्धि तृतीयसवनं त्रिष्टुमा बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधात्यनु वषट्करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै वागेवासौ प्रथमाऽनुष्टुप्तां पञ्च गायत्र्योऽनुवर्तन्ते मनः सावित्रं प्राणो वायव्या चक्षुषी द्यावापृथिवीयं योऽयमनिरुक्तः प्राणः स सुरूपकृत्नुः श्रोत्रमार्भवं प्राणोऽपानो व्यान इति तिर एकातिन्य आत्मा सूक्तं यदन्तरात्मस्तन्निवित्प्रतिष्ठा परिधानीयाऽन्नं याज्या तदाहुः कस्माद्ब्रह्मक्षत्रे एव प्रच्यावुके बिलच्युतेति ब्रह्म वै प्रातःसवनं क्षत्रं माध्यं- दिनं सवनं वितृतीयसवनं तद्यद्यथोपपादमेव प्रातःसवनमाध्यंदिनयोः परिदधाति तस्माद्ब्राह्मण्यप्रजा अनवधृतं क्षियन्त्यनवधृतं क्षत्रिया अथ यत्तृतीयसवनस्य परिधानीया च्युता तस्माद्विलच्युतेति ॥४॥ घृतस्य यज सौम्यस्य यजेत्याहैताभ्यां वै यज्ञस्तायते यद्धृतेन च सोमेन च ते अत्र प्रीणाति प्रीते यज्ञं वहाते इत्युपांशु घृतस्य यजति .

१६ अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ५७ रेतःसिक्तिर्वै घृतमुपांशु वै रेतः सिच्यतेऽथ यदुच्चैः सौम्यस्य यजति चन्द्रमा वै सोमोऽनिरुक्त उ वै चन्द्रमास्तस्य न परस्तात्पर्यजेदित्याहुस्त- थाऽमी अमुत इदम,श्चः पश्यन्तीति पर्यजेदिति त्वेव स्थितं देव- लोको वा आज्यं पितृलोकः सोमो देवलोकमेव तत्पितृलोकादभ्युत्क्रा- मन्त्यथो पितॄनेव तत्पीणन्ति यत्सोम्येन चरन्त्यथो एतदुपसद उत्सृ- ज्यन्त इत्याहुरग्निं सोमं विष्णुमिति वा उपसत्सु प्रतियजत्यग्निं सोमं विष्णुमितीद हरन्त्येतं सौम्यं सदस्तं होता प्रतिगृह्योपनिधत्तेऽथास्य सर्पिष्यात्मानं पर्यवेक्ष्याङ्गुलिभ्यां सर्पिरुपस्पृशति चक्षुष्या असि चक्षुर्मे पाहीति चक्षुषी विमृजीत चक्षुरेवास्य तद्गोपायन्ति तमुद्गातृभ्यः प्रय- च्छति ॥५॥ अथ पानीवतग्रहेण चरन्ति पत्नीरेव तदाहवनीयभाजः कुर्वन्ति तस्य नानुवषट्करोत्याज्यसंसृष्टो हि भवत्यननुवषट्कारभागाज्यमुपांशु यजति रेतःसिक्तिर्वै पानीवतग्रह उपांशु वै रेतः सिच्यते नानुवषट्र- करोति रेतःसिक्तिर्वै पानीवतग्रहः संस्थाऽनुवषट्कारो नेत्पुरा काला- देतःसिक्ति संस्थापयानीति मद्दती याज्या मद्वद्धि तृतीयसवनं तदा- हुर्यदेषा नेष्टुर्याज्याऽथ कस्मादेनयाऽऽनीधो यजतीत्याग्नेयी वा एषा याज्याऽऽग्नेय आग्नीधस्तस्मादेनयाऽऽग्नीधो यजत्यथो एवं समा अनुक्तानां वषट्कारा भवन्तीति ॥६॥ एकविंशत्याहावमाग्निमारुतं शंसत्येकविंशो वै चतुष्टोमः स्तोमानां परमः प्रतिष्ठानीयः प्रतिष्ठित्या एव तच्चतुर्विंशतिविधं भवति विंशतिः पर्वाणि तानि चतुश्चत्वारिंशंञ्चतुश्चत्वारिंशदक्षरा त्रिष्टुब्बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीर्य यजमाने दधाति वैश्वानरीयं शंसति वैश्वानरीयो हि ग्रहो गृहीतो भवति तमेवैतेनानुशंसति रौद्रीं शंसति घोरो वै रुद्रो भैषज्यमेव तत्कुरु- तेऽथो अन्तभाग्वा वा एष तस्मादेनामन्ते शस्त्रे शंसति मारुतं शंसत्ये- तत्पूगो वै रुद्रस्तदेनं स्वेन पूगेन समर्धयत्यथ यज्ञायज्ञीयस्य स्तोत्रि- यानुरूपौ तौ वै मध्ये भिया एव शंसति मध्ये हीयमात्मनो भिया एव योनिर्जातवेदसीयं शंसति तेनाऽऽग्निमारुतमित्याख्यायते तस्मादेनदभ्यग्रं शंसेद्यथाऽनिं प्रदाव्यमिति मोक्षमाण एवमापोदेवत्याः शंसति शान्तिर्वै भेषजमापः शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते तस्मादेना आरतं शंसेयथाऽप्सु न्युन्दमान एवमहिर्बुधन्यं शंसत्यग्निर्वा अहिर्बु- धन्यस्तमेतयोवलयत्यथो धिष्ण्यानेवैतयाऽनुशंसति देवानां च पत्नी ..

ऋग्वेदे शाङ्खायनबाह्मणम् । [१६ अध्यायः राकां च शंसति पानीवतग्रहमित्येवैताभिरनुशंसत्यथो अन्तभाजो वै पल्यस्तस्माहेना अन्ते शस्त्रे शंसति ॥ ७ ॥ अक्षरपतयः शंसति पशवो वा अक्षरपडयः पशूनामेवाऽऽप्त्या अथो प्राणापानौ वा अक्षरपङ्ग्यः प्राणापानावेव तदात्मन्धत्तेऽथो शस्त्रस्यैव सेन्द्रतायै पैत्रीश्च यामीश्च शंसति नाराशंसानेवैताभि- रनुशंसत्यथो अन्तभाजो वै पितरस्तस्मादेना अन्ते शस्त्रे शंसति स्वावुष्किलीयाः शंसति सोममेवैताभिरिन्द्राय स्वदयत्यथो देवलोको वा इन्द्रः पितृलोको यमो देवलोकमेव तपितृलोकादभ्युत्क्रामन्ति तास्वध्वर्युर्महत्प्रत्यागृणाति मद्धि तृतीयसवनं वैष्णुवारुणी शंसति यज्ञो वै वैष्णुवारुणो यद्वै यज्ञस्य स्खलितं बोल्बणं वा भवति तदेत. याभिषज्यति भैषज्यमेवैषा वैष्णवीं चाऽऽग्नेयीं च शंसत्यमाविष्णू वै देवानामन्तभाजौ तस्मादेने अन्ते शस्त्रे शंसत्येन्द्रया परिदधातीन्द्रस्य ह्येष तमिन्द्र एवान्ततः प्रतितिष्ठति ॥८॥ किंदेवत्यः सोम इति मधुको गौश्र पप्रच्छ स ह सोमः पवत इत्य- नुहुत्यैतस्य वा अन्ये स्युरिति प्रत्युवाच बढचवदेवेन्द्र इति त्वेव पैङ्- ग्यस्य स्थितिरासैन्द्रास इति कौषीतकिरमिना वै प्रतिपद्यते यदाज्ये- नेन्द्रमनुसंतिष्ठत एता परिधानीयां तस्मादैन्द्राग्न इत्येष वा अनिष्टोम एष वा उ कामाय कामायाऽऽहियते यो ह वा एतेनानिष्ट्वाऽथान्येन यजते गर्तपत्यमेव तद्धीयते प्र वा मीयत इति ह स्माऽऽह स वा एषोऽग्निष्टोम आज्यप्रभृत्यानिमारुतान्तो यच्छस्य त्रीणि पशितान्यचां संपद्यन्ते त्रीणि वै षष्टिशतानि संवत्सरस्याह्नां संवत्सरस्यैवाऽऽप्त्या अग्ने मरुद्धिः शुभयद्भिवभिरित्युक्थं शस्त्वा यजत्यानिमारुत्याऽऽग्निमारुतं ह्येतदुक्थं जगत्या जागतं हि तृतीयसवनं मद्वत्या महद्धि तृतीयसवनमनुवषट्- करोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यै ॥ ९ ॥ सोमेनेष्ट्रवा सौत्रामण्या यजेत श्रियं प्रजां विराजं चेच्छन्नन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामण्यात्मा वै यज्ञस्य विपशुर्बाहूपशुस्तस्मादात्मा. नमभितो बाहू भवतस्तस्मादात्मानमभितः पार्श्वे स्यातां यत्सुरासोमय- हाननुवषट्कृत्य सर्वे तस्मात्सोमेनेष्ट्वा सौत्रामणी कुर्याद्य एवं विद्वा- न्सोमेनेष्ट्वा सौत्रामण्या यजेत स श्रियं प्रजां विराजमाप्नोति यश्चैवं वेद श्रीविराळन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अवभृथमवैति यथा सोमे मैत्रावरुण्या वा पयस्यया यजेत तस्या उक्तं ब्राह्मणम् ॥ १० ॥ . ..

[१७अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ५९ ऐन्द्रायान्युक्थ्योक्थानि भवन्तीन्द्राशी वै सर्वे देवा वैश्वदेवं तृतीयस- वनं सर्वेषामेव देवानां प्रीत्या आग्नेयीषु मैत्रावरुणाय प्रणयन्त्यै- न्द्रीवितरयोस्तेन तान्यैन्द्रामानि भवन्ति चत्वारि चत्वारि सूक्तानि शंसन्ति पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यैतानि द्वादश संपद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै चतुराहावानि शस्त्राणि पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै द्विदेवत्या उक्थ- याज्या द्विपायजमानः प्रतिष्ठित्यैतानि चत्वारि संपद्यन्ते पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्या ऐन्द्राव- रुणी क्षेत्रावरुणस्यैन्द्रावरुणं ह्यस्योक्थं भवत्यैन्द्राबार्हस्पत्या ब्राह्मणा- च्छंसिन ऐन्द्राबाहस्पत्यं स्योक्थं भवत्यैन्द्रावैष्णध्यच्छावाकस्यैन्द्रा- वैष्णवं ह्यस्योक्थं भवति प्रथमोत्तमे मद्वत्यौ भवद्धि तृतीयसवनं ता वै तिम्रो भवन्ति त्रयो वा इमे लोका इमानेव तं लोकानाप्नुवन्ति ता वै त्रिष्टुभो भवन्ति बलं वै वीर्य त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधत्यनु- वषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिष्ठित्यै॥ ११ ॥ इति शाङ्खायनब्राह्मणे षोडशोऽध्यायः ॥ १६ ॥ हरिः ॐ आनुष्टुभो वा एष वज्रो यत्पोळशी तद्यत्षोळशिनमुपय- त्यानुष्टुभेनैव तद्दज्रेण यजमानस्य पाप्मानमपघ्नन्ति स वै हरिवान्भवति प्राणो वै हरिः स हि हरति तस्माद्धरिवान्भवति तदसौ वै षोळशी योऽसौ तपत्येतमेव तत्पीणन्त्यथो पोळशं वा एतत्स्तोत्रं घोळशं शस्त्रं तस्मात्षोळशीत्याख्यायते तद्यत्षोळशिनमुपयन्ति षोळशकलं वा इदं सर्व- मस्यैव सर्वस्याऽऽप्त्या अथो इन्द्र उ वै षोळशी तस्माद्धरिवान्भवति हरि- स्तवो हीन्द्र इन्द्र जुषस्व प्रवहाऽऽयाहि शूर हरिहेति ताः पञ्चविंशत्यक्षरा एकैका नवभिनव भिरक्षरैरुपसृष्टाऽऽत्मा वै पञ्चविंशः प्रजापशव उपसर्गः प्रजयैव तत्पशुभिः प्रेष्येरन्नाद्येनेत्यात्मानमुपसृजते ताश्चतुत्रिंशदाराः संपद्यन्ते स्वराड्वैतच्छन्दो यत्किंच चतुत्रिंशदक्षरे स्वाराज्यमेनेनाss- मोति ताः संशस्ताः पञ्चानुष्टुभः संपद्यन्ते दशाक्षरं च पदमुदैत्येकैकस्यै द्वे द्वे त्वावतः पुरूवसो३ इति गायत्रीमुपसंशंसत्येतेषामेवाक्षराणां संपदेऽथो एतया सह स्तोत्रियः पळनुष्टुभः संपद्यन्ते तस्मादेतां शंसति ६० ऋग्वेदे शाह्वायनब्राह्मणम् । १७अध्यायः] संपद एतत्पतिरूपमु हैकेऽनुरूपं कुर्वन्ति तदु वा आहुरसौ वै षोळशी योऽसौ तपति न वा एतस्यान्योऽनुरूपोऽस्ति स योऽत्रानुरूपं कुर्वन्तं बूयादप्रिय एनं भ्रातृव्यः प्रत्याख्यायिष्यत इति तथा ह स्यात्तस्मादत्रा- नुरूपं नाऽऽद्रियेत ॥१॥ अथात ऊर्ध्वानि च्छन्दांसि विहरति प्राणा वै छन्दांसि प्राणानेव तदात्मन्व्यतिषजत्यवचस्य तस्माद्धीमे प्राणा विष्वञ्चोऽवाञ्चोऽनुनि- श्यथो आनुष्टुभो वै पोळशी सर्वाण्येवैतच्छन्दांस्यनुष्टुभमभिसंपाद यति गायत्रीश्च पतीश्च विहरति यजमानच्छन्दसं पकिस्तेजो ब्रह्मवर्चसं गायत्री तेज एव तद्ब्रह्मवर्चसं यजमाने दधात्युष्णिहश्च बृहतीश्च विहरति यजमानच्छन्दसमेवोष्णिपशवो बृहतीर्बार्हतानेव तत्पशून्यजमाने द्धाति द्विपदां च विंशत्यक्षरां त्रिष्टुभं च विहरति यजमानच्छन्दसं द्विपदा बलं वै वीर्यं त्रिष्टुब्बलमेव तद्वीयं यजमाने दधाति द्विपदाश्च पोळशाक्षरा जगतीश्च विहरति यजमानच्छन्दसमेव द्विपदाः पशवो जगतीर्जागतानेव तत्पशून्यजमाने दधाति गायत्रीः शंसति प्राणो वै गायव्यः प्राणमेव तदात्मन्धत्ते सप्तपदा शंसति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्या अथो एतया सह गायत्र्यश्चतस्रोऽनुष्टुभः संपद्यन्ते तस्मादेतां शंसति संपदे ॥२॥ अथ नित्या आनुष्टुभः शंसत्यानुष्टुभो वै पोळशी तदेनं स्वेन रूपेण समर्धयति ता वा अष्टौ भवन्त्येताभिर्वे देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमान एताभिरेव सर्वा अष्टीरश्नुते त्रिः शस्तया परिधानीयया दश संपद्यन्ते दश शिनी विराटूश्रीविराळन्नाद्यं श्रियो विराजोऽन्नाद्य- स्योपाप्त्या उद्यध्नस्य विष्टपमिति परिदधात्यदो वै बध्नस्य विष्टपं यत्रासौ तपति तदेव तद्यजमानं दधाति त्रिरेव पोळशिन आह्वयते स्तोत्रिये निविदे परिधानीयायै विवृद्वै घोळशी त्रिवृतैव तद्वजेण यजमानस्य पाप्मानं हन्ति त एते श्लोका घोपा वीर्याणीत्युक्थानां श्लोकी घोषी वीर्यवान्कीर्तिमान्भवति य एवं वेदोक्थानां वीर्याणि ताः शंसस्ताश्चत्वारिंशदनुष्टुभः संपद्यन्ते चत्वारिंशदक्षरा पतिः प्रतिष्ठा वै पङ्क्तिः सर्वेष्वेव तद्भूतेषु यजमानं प्रतिष्ठापयति ॥ ३॥ विहृतया त्रिष्टुभा यजेदिति हैक आहुरेवाहिवाज्यपाः पूर्वेषां हरिवः सुतानां वाजी हि वाज्यथो इदं सवनं केवलं तेवोला हि वाजी ममद्धि सोमं मधुमन्तमिन्द्रजिष्णुर्हि वाजी सत्रा दृषं जठर आवृपस्वेत्यविहृत- [१७अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ६१ येति त्वेव स्थितं संसिद्धानि वा एतानि देवपात्राणि यद्याज्याः संसिद्धे- नैव तदेवपात्रेण देवेभ्यो हविः प्रयच्छति तन्न राज्यामुपेयादिन्द्र उ वै घोळशी न वा इन्द्रादन्यदुत्तरमस्ति बहुराव्यामुपाह्रियते पर्याया इव त्वदाश्विनं त्वद एवैनं चतुर्थेऽहन्युपेयात्तद्वै षोळशिन आयतनं तद्वैतदहः षोळश्यन्तं संतिष्ठते तदु वा आहुरुपेयादेवं तत्कृत्स्ने वा अहोरात्रे यत्षो- ळशी तद्यत्वोळशिनमुपयन्त्यहोरात्रयोरेव कृत्स्नतायै ॥४॥ अथ यदतिरात्रभुपयन्त्येतावान्वै संवत्सरो यदहोरात्रे तद्यदतिरात्रमु- पयन्ति संवत्सरस्यैवाऽऽप्त्या अथो द्वयं वा इदं सर्व स्नेहश्चैव तेजश्च तदु- भयमहोरात्राभ्यामाप्तं तद्यदतिरात्रमुपयन्ति स्नेहतेजसोरेवाऽऽप्त्यै ॥ ५॥ गायत्रान्स्तोत्रियानुरूपाशंसन्ति ज्योतिर्क गायत्री तमः पाप्मा रात्रिस्तेन तज्ज्योतिषा तमः पाप्मानमपन्नन्ति पुनरादायं शंसन्त्येवं हि सामगाः स्तुवते यथास्तुतमनुशस्तं भवतीति तदाहुरथ कस्मादुत्तमात्म- तीहारादूर्ध्वमाहूय साम्ना शस्त्रमुपसंतन्वन्तीति ॥६॥ पुरुषो वै यज्ञस्तस्य शिर एव हविर्धाने मुखमाहवनीय उदरं सदोऽन्न- मुक्थानि बाहू मार्जालीयश्चाऽऽग्नीधीयश्च या इमा अन्तर्देवतास्ते अन्त:- सदसं धिष्ण्या प्रतिष्ठा गार्हपत्यवतश्रवणावित्यथापरं तस्य मन एव ब्रह्मा प्राण उद्गाताऽपानः प्रस्तोता व्यानः प्रतिहर्ता वाग्योता चक्षुरध्वर्युः प्रजापतिः सदस्य आत्मा यजमानोऽङ्गानि होत्राशंसिनस्तद्यदध्वर्युस्तो- त्रमुपाकरोति चक्षुरेव तत्याणैः संद्धात्यथो अपानमेव तन्मनसा संतनो- त्यथ यत्प्रस्तोता ब्रह्माणमामन्त्रयते ब्रह्मन्स्तोष्यामः प्रशास्तरिति मनो वा अग्रणीभवत्येषां प्राणानां मनसा प्रसूतास्तोमेन स्तुयामेत्यथो अपा- नमेव तन्मनसा संतनोत्यथ यद्ब्रह्मा स्तोत्रमनुमन्यते मन एव तत्पाणैः संदधात्यथो अपानमेव तन्मनसा संतनोत्यथ यत्प्रस्तोता प्रस्तौत्यपान- मेव तत्प्राणे दधात्यथ यदुद्गातोद्गाति प्राणमेव तद्व्याने दधात्यथ यत्पतिहर्ता प्रतिहरति व्यानमेव दधात्येवमेवैताः सर्वा देवताः प्राण एवं प्रतिष्ठिता अथ यद्धोता साना शस्त्रमुपसंतनोति वाग्वै होता वाचमेव तत्प्राणैः संदधात्यथो अपानमेव तन्मनसा संतनोत्यथ यद्धोत्राशंसिनः सामसंतति कुर्वन्त्यङ्गान्येव तत्माणैः संदधत्यथ यद्य- जमानः स्तोत्रमुपगाति प्राणा वा उद्गातारः प्राणानेव तदात्मन्धत्ते तस्मान्नैनं बहिर्वद्यभ्यस्तमीयान्नाभ्युदियान्नाभ्युपाकुर्यान्नाभ्याश्रावयेना- भिवषट्कुर्यान्नाधिष्ण्ये प्रतपेत नेमाणेभ्य आत्मानमपाधानीति ॥ ७ ॥ तत्याणे [१८ अध्यायः- पाप्मानं ६२ ऋग्वेदे शाङ्खायनबाह्मणम् । अथ यत्प्रथमेषु पर्यायेषु प्रथमेषु पदेषु निनर्तयन्ति प्रथमरात्रादेव तदसुरान्निर्मन्त्यथ यन्मध्य मेषु पर्यायेषु मध्यमेषु पयेषु निनर्तयन्ति मध्यमराबादेव तदसुरान्निनन्त्यथ यदुत्तभेषु पर्यायेपूत्तमेघु पदेषु निनर्त- यन्त्युत्तमराबादेव तदसुरान्निनन्ति तद्यथाऽभ्यागारमभिनिनत पुनः पुनः निहन्यादेवमेवैतैः स्तोत्रियानुरूपैरहोरात्राभ्यामेव तदसुरा- निन्ति ॥८॥ गायत्र्याण्युक्थमुखानि शंसन्ति तेजो ब्रह्मवर्चसं गायत्री तेज एव तद्ब्रह्मवर्चसं यजमाने दधाति गायत्रीः शस्त्वा जगतीः शंसन्ति व्याव- यन्ते गायत्रीश्च जगतीश्चान्तरेण च्छन्दांस्यैवैतन्नानावीर्याणि कुर्वन्ति जगतीः शस्त्वा बिटुभिः परिदधति बलं वै वीर्यं त्रिष्टुप्पशवो जगती बल एव तवीर्येऽन्ततः पशुषु च प्रतितिष्ठत्यन्धस्वत्यो मद्वत्यः पीतवत्य- स्त्रिष्टुभो याज्याः समृद्धानिलक्षणा एतद्वै रात्रे रूपं जागृयू रात्री ज्योति जागरितं तमः पाप्मा रात्रिस्तेन तज्ज्योतिषा तमः पाप्मानं तरन्ति यावदु ह वै न वा स्तूयते न वा शस्यते तावदीश्वरा यदि नासुरर- क्षांस्यन्ववपातोस्तस्मादाहबनीयं समिद्धमानीधीय गार्हपत्यं धिष्ण्या- न्समुज्ज्वलयतेति भाषेरज्वलयेयुः प्रकाशमिवैव स्यादारेफन्तः शयीरं- स्तान्ह तं चेष्टिं तन्वा इति पाप्मा नापधृष्णोति ते पाप्मानमपन्नते ते पाप्मानमपन्नते ॥९॥ इति शाङ्खायनब्राह्मणे सप्तदशोऽध्यायः ॥ १७ ॥ .. हरिः ॐ अतिरिक्तसोमो वा एप यदाश्विनं यद्वै यज्ञस्यातिरिच्यते भ्रातृव्यस्तेन यजमानस्य प्रत्युद्यमी भवत्यथ यत्पुरस्तादश्विनौ यजत्य- श्विनौ वै देवानां भिषजी भैषज्यमेव तत्कुरुतेऽथ यत्र ह तत्सविता सूयाँ प्रायच्छत्सोमाय राज्ञे यदि वा प्रजापतेस्तत्सहसमन्वाकरोदुहित्र उह्यमानाया एतदासां देवतानामासीत्ता अब्रुवन्नाजिमया मास्मिन्सहस्र इति ता आजिमावंस्तदश्विना उदजयतां रासभेन तस्माद्ब्रह्मयो देवताः शस्यन्तेऽथाऽऽश्विनमित्याख्यायते तत उ हैतदुत रासभो न सर्वमिव जवं धावति भितं नयति हतं मन्यमानः सहस्रं शंसेत्सहस्रं युदजय- ताम् ॥ १॥ तदाहुर्यबृहत्यायतनानि पृष्ठानि भवन्त्यथ कस्मात्रिष्टुभा प्रति- पद्यत इति त्रिः शस्तैषा तिस्रश्च बृहत्यः संपद्यन्त एका च गायत्रीदमु [१८अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ६३ ह संधे रूपं यत्तिस्रो बृहत्यः प्रथमरूपं गायव्यथ यबृहतीमभिसंपादयति बृहती ह्यभिवतं संपद्यन्तेऽथ यदाहतीनां प्रतिपदा प्रथमं प्रथमं प्रगाथं पुनरादायं ककुप्कारं शंसति पुनरादायं वै सामगाः स्तुवते तस्यै- वैतद्रूपं कियत आग्नेयं क्रतुं शंसति तदिमं लोकमाप्नोत्युषस्य शंसति तदन्तरिक्षलोकमाप्नोत्याश्विनं शंसति तदमुं लोकमाप्नोति सौर्य क्रतुं शंसत्यस्ति वै चतुर्थो देवलोक आपस्तमेव तेनाऽऽप्नोति प्रगाथं शंसति पशवो वै प्रगाथः पशूनामेवाऽऽप्त्या अथो प्राणापानौ वै बार्हतः प्रगाथ: प्राणापानावेव तदात्मन्धत्तेऽथो शस्त्रस्यैव सेन्द्रतायै द्यावापृथिवीयं शंसति प्रतिष्ठे वै द्यावापृथिवी प्रतिष्ठित्या एवं द्विपदां शंसति प्रतिष्ठा- नीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव बार्हस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्बह्मण्येव तदन्ततः प्रतितिष्ठत्यथैषा संपद्भवति ॥ २॥ त्रीणि गायत्रीशतानि ते द्वे बृहतीशते सप्ततिमनुष्टुभः सप्ततिं पसीश्च- त्वारिंशच्छतं बृहतीनां त्रयाणां त्रिष्टुप्शतानां गायत्रीशतमुद्धृत्य तानि त्रीणि बृहतीशतानि तच गायत्रीशतं जगतीशतं च ते द्वे बृहतीशते पञ्चाशत्रिष्टुभः पञ्चाशदुष्णिहः शतं बृहत्यः संपद्यन्तेऽथ याः सप्तपञ्चा- शतं बृहत्योऽत्रैव ताः संपन्ना अथ ये द्वापञ्चाश्यौ त्रिष्टुभौ द्विपदा च तास्तिस्रो बृहत्यः संपद्यन्ते तन्नानाछन्दस्यानां सहस्रं सत्सहस्रं बृहत्यः संपद्यन्ते न सहस्रमतिशंसेन्नार्वाकूसहस्रादित्येषा हैव स्थितिः प्रोत्वे- वाऽऽश्विनस्य विभूतिरतिदृश्यत एष आग्नेयक्रतुराग्नेयादेव तोर्न निश्च- वेताथ यद्याग्नेयं क्रतुं पुराकालात्समतीयादाश्विनमनु यत्किंचिद्विदेवत्य- मृक्षुस्तदनुवर्तयेत्सौर्ये कतौ पावमानीर्यथाछन्दसं गायत्रीर्गायत्रे त्रिष्टुभ- स्त्रैष्टुभे जगतीर्जागते सर्वं सौर्यं न्यङ्गं सौर्यस्याऽऽयतने सर्वानन्द्रान्प्रागा- थान्प्रगाथस्याऽऽयतने सर्व द्यावापृथिवीयं द्यावापृथिवीयस्याऽऽयतने सर्वा द्विपदा द्विपदाया आयतने सर्व बार्हस्पत्यं पुरस्तात्परिधानीयाया एतद्वै किंचिदिवा न प्रहश्यते ॥३॥ अथ वै चक्रीवदाश्विनमालम्बने चक्के अकूधीच्योऽक्ष आवां रथो अश्विना श्येनपत्वेति स उद्धिरथ चत्वार्यागस्त्यानि युक्तानि स एष देवरथः स एतेन देवरथेन स्वस्ति स्वर्ग लोकं समश्नुते स सुपणं स्याद्वयो वै सुपर्णस्तद्यथा पक्षी वयो भूत्वैवं स स्वस्ति स्वर्ग लोकं समश्नुते द्विरे- वाऽऽश्विनायाऽऽह्वयते प्रतिपदे चैव परिधानीयायै च तद्यथा प्रतीघाते- ६ ऋग्वेदे शाङ्खायनबाह्मणम् । [१८ अध्यायः] नानिवेष्टयमानो धापयेदेवं तदथातः परिधानस्यैव मीमांसा यदादित्यो रराट्यामतिसर्पद्यदैनं स्वयं होता निर्जानीयाद्यदास्य लोहितमापीयाद्य- दैनं सर्वे रश्मयः प्रत्युत्पेरन्स कालः परिधानस्यैतस्मिन्ह वा एष कालेऽ- पहतपाप्मा विविक्तपाप्मा भवत्यपहते पाप्मानं विविच्यते पाप्मना य एतस्मिन्काले परिदधात्यथ यदभ्रं स्यादेतद्वा अस्य तद्रूपं येन प्रजा बिभर्तीदमेकं यदयं प्राणोऽध्यात्ममतिलोहितोमदित्येव ॥४॥ तं मन्यमानः परिदध्याद्विभ्राज आहुतिं जुहुयादनिर्जायमान आदित्ये योऽनुपयुक्तः स्यादाविरेभ्यो भवति द्वाभ्यां यजेद्द्वाभ्यां ह्याश्विनमित्या- ख्यायतेऽनवानं गायत्रीमुक्त्वा विराजोऽर्धर्चेऽवानिति श्रीविराळन्नाचं श्रियां तद्विराज्यन्नाये प्रतितिष्ठत्युत्तरेण विराजोऽर्धन वषट् करोति स्वर्ग एव तं लोके यजमानं दधाति विराजैव यजेदिति ह स्माऽऽह कौषी- तकिस्त्रयस्त्रिंशदक्षरा वै विराट्त्रयस्त्रिंशद्देवता अक्षरभाजो देवताः करोत्यश्विना वायुना युवं सुदक्षेति वेव स्थिता अश्विनी त्रिष्टुप्तिरो अहन्यवती तिरो अन्या हि सोमा भवन्त्यथो बलं वै वीर्यं त्रिष्टुब्बल- मेव तद्वीर्यं यजमाने दधात्यनुवषट्करोत्याहुतीनामेव शान्त्या आहु- तीनां प्रतिष्ठित्यै संसन्नेषु च्छन्दोगेषु आहुती जुहोति मह- च्छस्त्रं वाक्च मनश्च प्रीते उद्यत्साते इति ॥५॥ अथ हारियोजनेन चरन्ति हरी एव तत्पीणन्त्यत्र देवाः साश्वाः प्रीता भवन्ति त्रिष्टुभं हारियोजनस्य पुरोनुवाक्यामनूच्य जगत्या यजति बलं वै वीर्यं त्रिष्टुप्पशवो जगती बल एव तवीर्येऽन्ततः पशुषु च प्रतितिष्ठति मद्ती याज्या मद्वद्धि तृतीयसवनमनुवषट्रकरोत्याहु- तीनामेव शान्त्या आहुतीनां प्रतिष्ठित्यैतासां भूयिष्ठा धानानामादधीत पशवो वै धाना भूमानमेव तत्पशूनामात्मन्धत्तेऽथ यहचं जपन्ति यदा- हुतीर्जुह्वति स्वस्त्ययनमेव तत्कुर्वते यज्ञस्यैव शान्त्यै यजमानस्य च भिषज्यायै ता आहवनीयस्य भस्मान्ते निर्वपन्ति ज्योतिर्वै पशूनामाहव- नीयः स एवैनस्तद्गोष्टेनपक्रमे दधति ॥ ६॥ अथ शाकलाजुह्वति तद्यथाऽहिर्जीर्णायै त्वचो निर्मुच्येतेषीका वा मुञ्जादेवमेवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते ॥ ७ ॥ अथ सव्यावृतोऽप्सु सोमानुपपरायन्ति तानि हान्तवेद्यासादयन्ति तद्धि सोमस्याऽऽयतनं व्यवधति दर्भपिञ्जूलानि यदा वा आपश्चौषध- यश्च संगच्छन्तेऽथ कृत्स्नः सोमस्ता वैष्णव्यर्चा निनयन्ति यज्ञो वै प्रवृत्तहोमीये १२९ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ६५ विष्णुर्यज्ञ एवैनास्तदन्ततः प्रतिष्ठापयन्त्यथ प्राणान्संमृशन्ति तद्यदेवात्र प्राणानां क्रूरीकृतं यदिलिष्ठं तदेवैतदाप्याययन्ति तद्धिषज्यन्ति भक्षप- रिधीन्कुर्वते मानुषेणैव तद्भक्षेण देवं भक्षमन्तर्दधते ॥ ८॥ अवभृथोऽमुमेवैतत्सवनैरीप्सन्ति योऽसौ तपत्युद्यन्तं प्रातःसवनेन मध्ये सन्तं माध्यंदिनेल सबनेनास्तं यन्तं तृतीयसबनेन स वा एषोऽप: प्रविश्य वरुणो भवति तस्माद्वारुणमेककपालं पुरोळाशं निर्वपत्येकस्था वै श्रीः श्रीर्वै वरुणः श्रियामेव तदन्ततः प्रतितिष्ठति तेऽन्तरेण चात्वा- लोत्करा उपनिष्कामन्ति तद्धि यज्ञस्य तीर्थमानानं नाम तदेतहचाऽभ्यु- दितमानानं तीर्थं क इह प्रवोचदित्येतेन वै देवास्तीर्थेन यज्ञं प्रपद्य सर्वान्कामानापुस्तथी एवैतद्यजमान एतेनैव तीर्थेन यज्ञं प्रपद्य सर्वा- न्कामानासोति ॥९॥ ते यस्यां दिश्यापो भवन्ति तां दिशमभ्यावृत्य चरन्ति सा वै प्राची दिग्यस्यां देवताश्चतुरः प्रयाजान्यजत्यूते बर्हिष्कान्बर्हिष्मन्तमु- सृजति न पत्र बर्हिस्तीर्यते बार्बनावाज्यभागौ भवतः पाप्मन एव वधायाथो हास्य पौर्णमासातन्त्रादनितं भवत्यप्सुमन्तौ हैके कुर्वन्ति वार्चनौ त्वेव स्थितावथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणात्यथ यदग्नीवरुणौ यजत्यत्राग्निः सर्वेषु हविष्णु भागी भवति द्वाव- नुयाजी यजत्युते यहिप्को बहिष्मन्तमुत्सृजति प्रजा वै बर्हिर्नेत्प्रजामप्सु प्रवृणजानीति त एकशतं प्रयाजानुयाजा भवन्ति शतायुर्वं पुरुषः शत- पर्वा शतवीर्यः शतेन्द्रिय उप य एकशततमः स आत्मा तदेतदङ्गिरसा- मयनं स एनेनायनेन प्रतिपद्यतेऽङ्गिरसां सलोकतां सायुज्यमाप्नोत्यथ याः षड्वा अष्टौ वा वषटकृतयस्तदादित्यानामयनं स एनेनायनेन प्रति- पद्यत आदित्यानां सलोकतां सायुज्यमाप्नोति ॥ १० ॥ अनूबन्ध्या चतुर्थमेवैतत्सवनं यदनबन्ध्या तस्मादच्युता भवति चतुर्थं ह्येवैतत्सवनानां सा वै मैत्रावरुणी भवत्यग्नीषोमीयो हि पुरस्ता- स्कृतो भवति तस्मान्मत्रावरुणी भवति यज्ञस्यैव समारताया अथ यदप्सु वरुणं यजत्यत्र मित्रो हि नो भवति तस्मान्मत्रावरुणी भवति मित्रस्यैवानुलब्ध्यै ॥ ११॥ अथ यदि पशुरानीतोऽनुपाकृतो म्रियेतत्विग्भ्यस्तं कारयेदथान्यं तद्रूपं तद्देवत्यं पशुमालभेरंस्तमा प्रीतं पर्यग्निकृतमुदचं नयेयुस्तं संज्ञप- जुहुयुस्तयोन नैव ६६ ऋग्वेदे शाङ्खायनबाह्मणम् । [१९अध्यायः] येयुस्तल्यानुज्ञायमितरं कर्षयेयुस्तयो ना वपे उखिद्य नाना अपयित्वा नानाऽवदाय समाने वषटकारे जुहुयुस्तयो नैव पशुपुरोळाशौ श्रप- यित्वा नानाऽवदाय समाने वषटकारे हविषी अप- यित्वा नानाऽवदाय समाने वषट्कारे जुहुयुरेवं तृतीयगुदावेवं जाधन्यौ यदि त्वय्येकयैवाऽऽप्रियाप्रीतः स्यात्तेनैव प्रचरेयुरिति सा स्थितिः प्राणा वा आप्रियः प्राणानेवास्मिंस्तधात्यथ याष्टापदी स्यात्कथं स्यादिति गर्भस्य त्वचो वपारूपं फलीकरणानां फालीकरणां गर्भमिति शामित्रे अपयित्वेतरस्य वषट्कारेषु शामित्रा एव जुहुयू रक्षांसि ह वा एतद्यज्ञं गच्छन्ति यदत्रैताहरभवति तानि तेनापहन्ति तदरक्षोहतमेवं नु यदि पशुरनूबन्ध्या भवति या वै पयस्यैतदै मित्रावरुणयोः संह- विर्यत्ययस्या मित्रावरुणयोः पयस्येति हि स्थिता ॥ १२॥ अथ यदि गोपशुर्भवति गोसंस्तयो वै मित्रावरुणौ तस्माद्नोपशुर्भ- वति युवं वस्त्राणि पीवसा वसाथे इति वपायै याज्या पीवसेति तद्वपायै मेसो रूपं यद्वंहिष्ठं नातिविधे सुदानू इति पुरोळाशस्य बंहिष्ठमिति बहुल इव हि पुरोळाशः प्र बाहवा सिसृतं जीवसे न इति हविषो बाह- वेति तद्धविषोऽङ्गानां रूपम् ॥ १३ ॥ उदडवस्यत्युदं हि जीवलोक उदगुदवसाय वैष्णव्यर्चा हुतिं जुहोति यज्ञो वै विष्णुर्यज्ञमेव तदारभते पञ्चकपालः पुरोळाशो भवति पञ्चपदा पतिः पाको वै यज्ञो यज्ञस्यैवाऽऽप्त्यै या वा अष्टाक- पालः पौर्णमासमेव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासं प्रतिष्ठित्या एवेद त्वेव प्रत्यक्षं पुनराधेयस्य रूपं यत्पदपङ्कयो याज्यापुरोनुवाक्यास्तथैव व्यतिपक्तास्तस्यां संस्थितायां यजमानोऽग्निहोत्रं जुहोति संस्थिते ह्यग्न्याधेयेऽग्निहोत्रं हूयते तस्मात्तस्यां संस्थितायां यजमानोऽग्निहोत्रं जुहुयादिति जुहुयादिति ॥ १४ ॥ इति शाङ्घायनब्राह्मणेऽटादशोऽध्यायः ॥१८॥ पूर्णा- भA- हरिः ॐ । ते पै दीक्षिष्यमाणा अग्नीन्त्संनिवपन्त एक धैव तद्वलं वीर्यमात्मन्दधतेऽथैतान्सं निवपनीयामिष्टिं तन्वते ते अग्नये ब्रह्म एवं तेऽटाकपालं पुरोळाशं निर्वपन्त्यग्नये क्षत्रवत एकादशकपालमग्नये क्षत्र- मृते द्वादशकपालं ब्रह्मक्षत्र एव तद्यजमानाः समारोहन्ति ताभ्यामेवैत- ७ स वै [१९ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । स्वस्ति संवत्सरं चरन्ति बहूनां चेष्यमाणानामेघा संनिवपनीयोषा संभरणी या सैवैकस्य दीक्षिष्यमाणस्य भवति ॥ १॥ अथैतेन प्राजापत्येन पशुना यजन्ते प्रजापतिः प्रसूता स्वस्तीमं संवत्सरं समश्नुवामहा इति तस्य हैके वायव्यं पशुपुरोळाशं कुर्वन्त्ये- तदै प्रजापतेः प्रत्यक्षं रूपं यदायुरित्यग्नय उ हैके कामाय कुर्वन्त्यग्निर्वे कामो देवानामीश्वरः सर्वेषामेव देवानां प्रीत्यै तस्य हैके वैश्वानरीयं पशुपुरोळाशं कुर्वन्त्यसौ बै वैश्वानरो योऽसौ तपत्येतमेव तत्प्रीणन्ति ते पुरस्तादेव दीक्षाप्रसवान्कल्पयन्ते तपस्यामावास्याया एकाह उपरि- टाद्दीक्षेरन्माघस्य वेत्याहुस्तदुभयं व्युदितं तैपस्य त्वेवोदिततरमिव त एतं त्रयोदशमधिचरं मासमाप्नुवन्त्येतावान्दै संवत्सरो यदेष त्रयोदशो मासस्तत्रैव सर्वः संवत्सर आप्तो भवति ॥ २॥ माघस्यामावास्यायामुपवसत्युदङ्ङावय॑न्नुपेमे वसन्ति प्राय- णीयेनातिरात्रेण यक्ष्यमाणास्तदेनं प्रथममाप्नुवन्ति तं चतुर्विंशेनाऽऽरभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वं स षण्मासानुदळेति तमूर्ध्वः पळहैर- नुयन्ति स षण्मासानुबङित्वा तिष्ठते दक्षिणाऽऽवयन्नुपेमे वसन्ति वैषुवतीयेनाना यक्ष्यमाणास्तदेनं द्वितीयमाप्नुवन्ति स षण्मासान्दक्षि- गैति तमावृत्तैः पळहैरनुयन्ति स षण्मासान्दक्षिणे त्वातिष्ठत उदङ्ङाव- य॑न्नुपेमे वसन्ति महाबतीयेनाह्ना यक्ष्यमाणास्तदेनं तृतीयमाप्नुवन्ति तं यत्रिराप्नुवन्ति त्रेधा विहितो वै संवत्सरः संवत्सरस्यैवाऽऽप्त्यै तदुतै- पाऽपि गीयते। अहोरात्राणि विदधदूर्णा वाइब धीर्यः षण्मासो दक्षिणा नित्यः षळुदङेति सूर्य इति पड्दाक्षिणा तदै न तस्मिन्काले दीक्षेरन्ननागतं सत्यं भवति दहरकान्यहानि भवन्ति संवेपमाना अवभृथादुदायन्ति तस्मादत्र न दीक्षेरंश्चैत्रस्यामावास्याया एकाह उपरिष्टाद्दीक्षेरनागतं सस्यं भवति महान्यहानि भवन्त्यसंवेपमाना अवभृथादुदायन्ति तस्मादेतस्थितम् ॥ ३॥ अथैतानमग्निचित्यायां पञ्चहविपं दीक्षणीयामिटिमके तन्वते पञ्च- पदा पङ्क्तिः पाको वै यज्ञो यज्ञस्यैवाऽऽप्त्या अर्थतामातिथ्यां पञ्चहवि- षमेवेष्टिमेके तन्वते पञ्चपदा पङ्किः पातों वै यज्ञो यज्ञस्यैवाऽऽप्त्या अर्थता बह्वनीरन्वाह बहून्ह्यग्रीन्प्रणयन्ति ता वै चतस्रो भवन्ति चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै त्रिः प्रथमया त्रिरुत्तमयाऽष्टौ संपद्य- न्तेऽष्टाक्षरा गायत्री गायत्रो वा अग्निर्गायत्रच्छन्दाः स्वेनैव तच्छन्द- घड्व्येष उदमासानेति ६८ ऋग्वेदे शाङ्खायनब्राह्मणम् । (१९अध्यायः साऽग्नीन्प्रणयन्त्यथ चिन्वन्ति यावदहं कामयन्तेऽथैतं संचितं सामभिः परिष्टुवन्त्यथ होतारमाहुरग्न्युक्थमनु जति रुद्रो ह वा एष देवानाम- शान्तः संचितो भवति तमेवैतच्छमयति निरुक्तं वैश्वानरं यजति निरुक्तो ह्येष तदा भवति यदाऽग्नीन्प्रणयन्ति ॥ ४ ॥ अथात ऊर्ध्वमैकाहिकं कर्म हविर्धानयोः प्रवर्तन मनीपोनयोः प्रणय- नमग्नीषोमीयः पशुस्तस्योक्तं ब्राह्मणमथानीयोमीयस्य पशुपुरोळाशम- न्वश्चि देवसूभ्यो हवींषि निर्वपन्त्येता ह वै देवताः सवानामीशते ता अब प्रीणन्ति ता अत्र प्रीताः सवान्प्रस्वन्ति तस्माद्देवस्य स्तावा अष्टौ भवन्त्येताभि देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमाना एताभि- रेव सर्वा अष्टीरश्नुवतेऽत्र हैके सर्वपृष्ठायै हवींषि निर्वपन्ति सर्वं वा अग्निचित्या सर्वेण सर्वमानवामेति तानि वै दश हवींपि भवन्ति दश- दशिनी विराट्च्छ्रीविराळन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अथ सुन्वन्ति यावदहं कामयन्ते ॥५॥ अथानूबन्ध्यस्य वपायां संस्थितायां त्वाष्ट्रेण पशुना चरन्ति रेतः- सिक्तिर्व त्वाष्ट्रः पत्नीशाले चरन्ति पत्नीषु वै रेतः सिच्यत उपांशु चरन्ति रेतःसिक्तिः त्वाष्ट्र उपांशु वै रेत: सिच्यते पर्यग्निकृतमुत्सृजन्ति न संस्थापयन्ति रेतःसिक्तिर्वं त्वाष्ट्रो नेद्रेतःसिक्तिं पुरा कालात्संस्था- पयामेति । तदाहुर्यदेते देवते आवाहयति त्वष्टारं च वनस्पतिं च क्कास्यैते इष्टे भवत इति प्रयाजेषु वा एते देवते यजति तत्रैवास्यैते इष्टे भवतः॥६॥ अथानूबन्ध्यस्य पशुपुरोळाशमन्वञ्चि देविकाभ्यो हवींपि निर्वपन्ति यातयामानि ह वा एतस्य च्छन्दांसि भवन्ति यः सोमेन यजते छन्दांसि वै देविकास्तद्यदेविकाभ्यो हवींषि निर्वपन्ति तथा हास्यायातयामानि पुनर्यामानि भवन्त्यथोऽधीतरसानि ह वा एतस्य च्छन्दांसि भवन्ति यः सोमेन यजते छन्दांसि दै देविकास्तद्यदेविकाभ्यो हवींपि निर्वपन्ति च्छन्दसामेव सरसतायै ता वा एता देव्योऽथैप कः प्रजापतिस्तस्मादेवि- कास्तानि वै पञ्च हवींषि भवन्ति पञ्चपदा पङ्किः पाको चै यज्ञो यज्ञ- स्यैवाऽऽप्त्या अत्र हैके देवीभ्यो हवींषि निर्वपन्ति सर्व वा अग्निचित्या सर्वेण सर्वमानवामेति तानि वै दश हवींषि भवन्ति दशदशिनी विरा- श्रीविराळन्नायं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अत्र हैके दिशाम- वेष्टीः कुर्वन्ति सर्वं वा अग्निचित्या सर्वेण सर्वमानवामेति तानि वै [१९अध्यायः ऋग्वेदे शाङ्खायनबाह्मणम् । ६९ घड्ढवींषि भवन्ति पड़वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै संस्थि- तायां चोदवसानीयायां मैत्रावरुण्या पयस्यया यजेत तस्या उक्तं ब्राह्मणं नैतयाऽनिष्ट्वाऽग्निचिन्मैथुनं चरेतेति ॥७॥ मुखं वा एतत्संवत्सरस्य चतुर्विशं तस्मादशिष्टोमो भवत्यग्निष्टोमो हि यज्ञानां मुखं मुखत एव तत्संवत्सरं प्रीणन्ति तं हैक उक्थं कुर्वन्ति यज्ञस्थैव समारतायतस्य चतुर्विंशस्तोमो भवति चतुर्विंशतिर्वै संवत्सर- स्वार्धमासाः संवत्सरस्यैवाऽऽप्त्यै तस्य त्रीणि पटिशतानि स्तोत्रियाणां संपद्यन्ते त्रीणि वै षष्टिशतानि संवत्सस्याहां संवत्सरस्यैवाऽऽप्त्यै तस्य बृहत्पृठं भवति द्वितीयं वा एतदहां द्वितीयं बृहत्पृष्ठानां तस्मादस्य बृह- पृष्ठं भवत्यथ यत्र चतुर्विंशमहरुपयन्त्यवधृतं वा उ तत्र महावतं बृहदु वा आयतनेन महाव्रतस्य पृष्ठं भवति तस्माबृहदेवैतस्याह्नः पृष्ठं स्यादिति तस्य संवत्संवत्सरमभिपर्युदितं तस्यैतानि च्छन्दोरूपाणि होताऽजनिष्ट चेतन इत्यष्टर्चमाज्यं गायत्रीमात्रं गायत्रीमात्रो वै स्तोमस्तद्वै शस्त्रं समृद्धं यत्स्तोमेन संपद्यते माधुच्छन्दसः प्रउगः स वै समृद्धस्तस्य रूपेणान्ये प्रउगाः कल्पन्ते समृद्धं मे प्रथमतः कर्म कृतमसदित्या त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणम् ॥ ८॥ कया शुभा सवयसः सनीळा इति मरुत्वतीयमनुत्तमा ते मघवन्नकि- न्विति नवमी तया परिदधात्युत्तराः पूर्वाः शस्त्वा मारुत्यो हि ता भवन्त्यथैषा निकेवल्या तस्मिन्वाऽस्ति समान्या मरुतः संमिमिक्षुरिति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं तदिदास भुवनेषु ज्येष्ठमिति बृहदिवो निष्केवल्यं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महा. वतीयेनासा प्रजनयतीति संवत्सरे संवत्सरे वै रेतः सिक्तं जायते तस्मिन्वाऽस्ति सं ते नवन्त प्रभृतामदेपिति संवत्तत्संवरमभिवदति तदे- तस्याह्नो रूपं तत्सवितुर्वृणीमहेऽद्यानो देव सवितरिति नित्यैव वैश्व- देवस्य प्रतिपञ्चानुचरश्च तयोरुक्तं ब्राह्मणं तद्देवस्य सवितुर्वार्यं मह दिति सावित्रं प्रजावन्तं रयिमस्मे समिन्वत्विति संवत्तत्संवत्सरम- भिवदति तदेतस्याह्नो रूपं ते हि विश्वशंभुवेति द्यावापृथिवीयं पनाय्यमोजो अस्मे समिन्वतमिति संवत्तत्संवसरम- भिवदति तदेतस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्या- भवं संवत्सर इदमद्याव्यख्य तेति तत्प्रत्यक्ष संवत्सरमभिवदति तदेत- द्यावापृथिवी ७० ऋग्वेदे शाङ्खायनब्राह्मणम् । २०अध्यायः] स्याह्नो रूपं यज्ञस्य वो रथ्यं विश्पतिं विशामिति शार्यातं वैश्वदेव- मिन्द्रो मित्रो वरुणः संचिकित्रिर इति संवत्तत्संवत्सरमभिवदति तदेत- स्याह्नो रूपं वैश्वानराय धिषणामृतावृध इति वैश्वानरीयं धिया रथं न कुलिशः समृण्वतीति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं वृष्णे शर्धाय सुमखाय वेधस इति मारुतं गिरः समले विदथेष्वाभुव इति संवत्तत्संवत्सरमभिवदति तदेतस्याह्नो रूपं यज्ञेन वर्धत जातवे- दसमिति जातवेदसीयं संददस्वात्रयिमस्मासु दीदिहीति संवत्तत्संवत्स- रमभिवदति तदेतस्याह्नो रूपमित्यानिमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदग्निष्टोमो बोक्थं वाहः संतिष्ठतेऽग्निष्टोम इति पैङ्ग्यमुक्थमिति कौषीतकम् ॥९॥ तद्धैतदहरेके छन्दोगाः सर्वस्तोमं कुर्वन्त्यनेनाना पळहमाप्नुवन्ध- ळहेन संवत्सरं ये च संवत्सरे कामाः षळहो वा उ सर्वः संवत्सर इति वदन्तस्ते यदि तथा कुर्युः पळहकृतं शस्त्रं कल्पयीत यत्प्रथमस्याह्न आज्यं तदाज्यं यो द्वितीयस्याह्नः प्रउगः स प्रउगो यत्तृतीयस्याह्नों मरुत्वतीयं तन्मरुत्वतीयं यच्चतुर्थस्याह्नो निष्केवल्यं तन्निष्केवल्यं यत्प- श्चमस्याह्नो वैश्वदेवं तद्वैश्वदेवं यत्षष्ठस्याल आनिमारुतं तदानिमारुतं तत्र सर्वान्पृष्ठस्तोत्रियान्समाहृत्योपरिष्टात्प्रगाथस्य प्रगाथीकृत्य शंसे- पळहस्याऽऽप्त्यै तद्यथैतेनाला छन्दोगाः पळहमाप्नुवन्ति पळहेन संव- त्सरं ये च संवत्सरे कामा एवमेवैतेनाला होता पळहमाप्नोति पळहेन संवत्सरं ये च संवत्सरे कामास्तद्धस्मैतत्प्रतिश्याह सैषा मुग्धिरेवेति यं कं च च्छन्दोगाः स्तोममुपापोरन तदाद्रियेत यदेवेदं शस्त्रं प्रागैक्ष्याम तत एव नेयादेते वा उ स्तोमसाहे सूक्ते यत्कयाशुभीयतदिदासीये ताभ्या- मेव न निश्चवेतेति न निश्चवेतेति ॥१०॥ इति शाङ्खायनब्राह्मण एकोनविंशोऽध्यायः ॥ १९ ॥ हरिः ॐ देवचक्रं वा एतत्परिप्लवं यत्संवत्सरस्तदमृतत्वं तस्मिन्नेत- षट्तयमन्नाद्यं ग्राम्याश्च पशव आरण्याश्चौषधयश्च वनस्पतयश्चाप्सु- चरं च परिप्लवं च तद्देवाः समारुह्य सर्वाल्लोकाननु परिप्लवन्ते देव- लोकं पितृलोकं जीवलोकमिममुपोदकमग्निलोकमृतधामानं वायुलोक- मपराजितमिन्द्रलोकमधिदिवं वरुणलोकं प्रदिवं मृत्युलोकं रोचनं ब्रह्मणो लोकं नाकं सप्तमं लोकानां तद्यदभिप्लवमुपयन्ति संवत्सरमेव तरूपेण कर्म यद्रूप- [२० अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ७१ तद्यजमानाः समारोहन्ति तस्मिन्नेतत्षट्तयमन्नाद्यमाप्नुवन्ति ग्राम्यांश्च पशूनारण्यांश्चौषधीश्च वनस्पतींश्चाप्सुचरं च परिप्लवं च द्विज्योतिरुप- यन्ति तेन द्वयमन्नाद्यमामुवन्ति ग्राभ्यांश्च पशूनारण्यांश्च द्विर्गामुपयन्ति तेन द्वयमन्नाद्यमाप्नुवन्त्योषधीश्च वनस्पतींश्च द्विरायुरुपयन्ति तेन द्वय- मन्नाद्यमाप्नुवन्त्यसुचरं च परिप्लवं च ॥ १॥ ज्योतिः प्रथममहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि प्रथमस्याह्नः प्र वो देवायामय इत्याज्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं माधुच्छन्दसः प्रउगो रथन्तरं वै साम सृज्यमानं माधुच्छन्दसः प्रउगोऽन्वसृज्यत कर्म समर्धयत्येतद्वा आधुकं समृद्धमा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मण- मिन्द्रो रथाय प्रवतं कृणोतीति मरुत्वतीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूप- माया ह्याकुपवन्धुरेष्ठा इति निष्केवल्यमावदावबै प्रथमस्याह्नो रूपं तत्सवितुर्वृणीमहेऽया नो देवसवितरिति नित्यैव वैश्वदेवस्य प्रतिपञ्चानु- चरस्य तयोरुक्तं ब्राह्मणं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवद्युक्तवद्वै प्रथमस्याह्नो रूपं प्रद्यावायज्ञैः पृथिवी ऋता वृधेति द्यावापृथिवीयं प्रवत्प्रवदै प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवमुशिजो तानि वेदसेत्यभिवदद्राथन्तरं रूपं कथा देवानां कतमस्य यामनीति वैश्वदेवं कतम ऊती अभ्याववर्ततीत्यावदा- वद्वै प्रथमस्याह्नो रूपं वैश्वानराय पृथुपाजसे विप इति वैश्वानरीय प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्र त्वक्षसः प्रतवसो विरप्शिन इति मारुतं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमेति प्रहोता तमस्य माययेति जातवेदसीयं प्रवत्तवटै प्रथमस्याह्नो रूपमिमं लोकं प्रथमेनाह्नाऽऽनुवन्त्यग्निं देवं देव. तानां नामाधिभूतं वाचमात्मन्दधते ॥२॥ गां द्वितीयमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि द्वितीयस्या- हस्त्वं हि क्षेतवद्यश इत्याज्यं त्वं विचर्षणे श्रव इति विवत्तदस्यान्तरि- क्षस्य रूपं विवृतमिव हीदमन्तरिक्षं गार्समदः प्रउगो बृहदै साम सृज्य- मानं गार्ल्समदः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आधुकं कर्म यद्रूपसमृद्धं विश्वानरस्य वस्पतिमिति मरुत्वतीयस्य प्रतिपद्वि- वती तस्या उक्तं ब्राह्मणमिन्द्र इत्सोमपा एक इत्यनुचर इन्द्रः सुतपा विश्वायुरिति विवांस्तस्योक्तं ब्राह्मणमुत्तिष्ठ ब्रह्मणस्पत इत्युद्वान्बाह्मण जग्मुरभि पुरुतमस्य कारोरिति ७२ ऋग्वेदे शाङ्खायनबाह्मणम् । [२० अध्यायः] स्पत्य उत्तिष्ठेत्युददुवै द्वितीयमहरिमा उ त्वा मरुत्वतीयमुदत्तस्योरू बाह्मणं सुत इत्वं निमिश्ल इन्द्र सोम इति निष्के- वल्यं स्तोमे ब्रह्मणि शस्यमान उक्थ इत्युत्तस्योक्तं बाह्मणं विश्वो देवस्य नेतुरिति वैश्वदेवस्य प्रतिपद्विवती तस्या उक्तं ब्राह्मणमा विश्व- देवं सत्पतिमित्यनुचरो विवांस्तस्योक्तं ब्राह्मणं वे वैश्वदेवानां प्रतिपदी द्वावनुचरौ पतुः संवत्सरः षविधो द्वे द्यावापृथिवी द्वे इमे प्रतिष्ठे पळ- जोऽयमात्मा पड्विधोऽनु वे अहोरात्रे द्वाविमौ प्राणापानौ तन्न संवत्सरः संपदो यन्ति नाऽऽत्मसंस्कृतेर्न प्राणसंस्कृतेरमूद्देवः सविता वन्द्यो न इति सावित्रमुद्दत्तस्योक्तं बाह्मणं ते हि द्यावापृथिवी विश्वशंभवेति द्यावापृथिवीयं विवत्तस्योक्तं ब्राह्मणं ततं मे अपस्तदु तायते पुनरि- त्याभवमुद्वत्तस्योक्तं ब्राह्मणं देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेव- मुदत्तस्योक्तं ब्राह्मणं पृक्षस्य वृष्णो अरुघस्य नूसह इति वैश्वानरीयं वृप एव वृषा वा इन्द्रो वृषा त्रिष्टुप्तस्मादृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृष एव तस्योक्तं ब्राह्मणं यज्ञेन वर्धत जातवेदसमिति जातवेदसीयं समिधानं सुप्रयसं स्वर्णरमित्युद्वत्तस्योक्तं ब्राह्मणमन्तरि- क्षलोकं द्वितीयेनाह्नाऽऽनुवन्तीन्द्रं देवं देवतानामोजोऽधिभूतं प्राणमा. मन्दधते ॥३॥ आयुस्तृतीयमहरुपयन्ति तस्य तान्येव च्छन्दो रूपाणि यानि तृतीय- स्याह्नस्त्वमग्ने वसूं रिहेत्याज्यं स्वयं संमृतं वा एतच्छन्दो यदह्नो रूपेण संपद्यते तान्रोहिदश्वगिर्वणस्त्रयस्त्रिंशतमावहेति त्रय इति तत्तृतीयस्याह्नो रूपमौष्णिहौ वैश्वमनसः प्रउगो रथन्तरं वै साम सृज्यमानमौष्णिहो वैश्वमनसः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्दा आधुकं कर्म यद्रूपसमृद्धं तं तमिद्राधसे मह इति मरुत्वतीयस्य प्रतिपत्तं तमिति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कद्यहि तत इया- त्रय इन्द्रस्य सोमा इत्यनुचरस्त्रय इति तत्तृतीयस्थाह्नो रूपं प्रैतु बह्मण- स्पतिरिति प्रवान्ब्राह्मणस्पत्यः प्रदेव्ये तु सूनृतेति निनृत्तिरन्तस्तृतीयमह- नींव वा अन्तं गत्वा नृत्यति कन्यहि तत इयात्तिस्रो मरुत्वतीयानां प्रतिपदस्त्रयोऽनुचरास्त्रयो बाह्मणस्पत्यास्त्रयो वा इमे लोका इमानेव तं लोकानाप्नुवन्ति तिष्ठा हरीरथ आयुज्यमानेऽतिमरुत्वतीयं तिष्ठेति स्थितवत्तदन्तरूपमन्तस्तृतीयमहस्तिष्ठतीव वा अन्तं गत्वा कद्यहि तत इयादिन्द्रस्य नु वीर्याणि प्रवोचमिति निष्केवल्यं तस्य तदेवान्तरूपं यद्भू- २१अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ७३ तानुवाद्यहन्नहिमन्वपस्ततर्देति यदेतद्भूतमिवाभ्युदुष्यदेवः सविता हिर- ण्ययेति सावित्रं घृतेन पाणी अभिप्रुष्णुते मख इति घृतवद्बहुदेवत्यं बै घृतं बहुदेवत्यं तृतीयमहस्तस्माद्धृतवद्धृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घृतवत्तस्योक्तं ब्राह्मणं तक्षत्रथं सुवृतं विद्मनाऽप स इत्यावं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कन्यहि तत इयादानो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवमप्रायुवो रक्षितारो दिवे दिव इति निनृत्तिरन्तस्तृती- यमहर्नीव वा अन्तं गत्वा नृत्यति कद्यहि तत इयाद्वैश्वानराय धिषणामृतावूध इति वैश्वानरीयं घृतं न पूतमग्नये जनामसीति घृतवत्त- स्योक्तं ब्राह्मणमा रुद्रास इन्द्रवन्तः सजोषस इति मारुतं तृष्णजेन दिव उत्सा उदन्यव इति दिव इति तदमुप्य लोकस्यं रूपं स्वामन तायवः समीधिर इति जातवेदसीयं त्वां त्वामिति सप्रमृति यथा वै सोदर्कमेवं सप्रभृत्यन्तरूपममुं लोकं तृतीयेनालाऽऽप्नुवन्त्यादित्यं देवं देवतानां रूपम- धिभूतं चक्षुरात्मन्दधते रूपमधिभूतं चक्षुरात्मन्दधते ॥ ४ ॥ इति शाङ्खायनब्राह्मणे विंशतितमोऽध्यायः ॥ २० ॥ हरिः ॐ देवा वै मृत्यु पाप्मानमपजिघांसमाना ब्रह्मणः सलोकतां सायुज्यमीप्सन्त एतमभिप्लवं पळहमपश्यस्त एतेनाभिप्लवेनाभिप्लुत्य मृत्युं पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमापुस्तथो एवैतद्यज- माना एतेनैवाभिप्लवेनाभिप्लुत्य मृत्यु पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमाप्नुवन्ति त एतेन पूर्वेण व्यहेणाभिप्लुत्य गवा चतुर्थेऽहन्नयजन्त गमनायैवाऽऽयुः पञ्चममहरुपायन्त्सर्वायुत्वाय ज्योतिः षष्ठमहः पुनः परस्तात्पर्यास्यन्मृत्योरेव पाप्मनो नान्ववाऽयनाय ॥१॥ गां चतुर्थमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि चतुर्थ- स्याह्नो होताऽजनिष्ट चेतन इत्याज्यं जातवज्जातवद्वै चतुर्थस्याह्नो रूपं मैधातिथः प्रउगो बृहदै साम सृज्यमानं मैधातिथः प्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आधुकं कर्म यद्रूपसमृद्धं जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयं जातवज्जातवद्वै चतुर्थस्याह्नो रूपमुग्रो जज्ञे वीर्याय स्वधावानिति निष्केवल्यं जातवज्जातवद्वै चतुर्थस्याह्नो रूपं तद्देवस्य सवितुर्वार्यं महदिति सावित्रमजीजनत्सविता सुम्नमुक्थ्यमिति जातव- ज्जातवद्वै चतुर्थस्याह्नो रूपं ते हि द्यावापृथिवी विश्वशंभुवेति द्यावा- पृथिवीयं सुजन्मनी धिषणे अन्तरीयत इति जातवज्जातवद्वै चतुर्थ- ऋग्वेदे शाङ्खायनबाह्मणम् । [२१अध्यायः] स्याह्नो रूपमनश्चो जातो अनभीशुरुक्थ्य इत्यावं जातवज्जात. वद्वै चतुर्थस्याह्नो रूपमग्निरिन्द्रो वरुणो मित्रो अर्यमेति वैश्वदेवं यज्ञं जनित्वी तन्वी निमामृजुरिति जातवज्जातवद्वै चतुर्थस्याह्नो रूपं वैश्वान- राय पृथुपाजसे विप इति वैश्वानरीयं तस्मिन्त्सुम्नानि यजमान आचक इत्यावदादै चतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं हि चतुर्थः महर्जात आपृणो भुवनानि रोदसी ३ इति जातवज्जातवद्वै चतुर्थः स्याह्नो रूपं प्र ये शुम्भन्ते जनयो न सप्तय इति मारुतं जातवज्जात. बदै चतुर्थस्याह्नो रूपं जनस्य गोपा अजनिष्ट जागृविरिति जातवेद- सीयं जातवज्जातवद्वै चतुर्थस्याह्नो रूपमन्नं चतुर्थेनागाऽऽप्नुवन्ति चन्द्र- मसं देवं देवतानां दिशोऽधिभूतं श्रोत्रमात्मन्दधते ॥२॥ आयुःपञ्चममहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि पञ्चम- स्याह्नोऽग्न ओजिष्ठमा भरेत्याज्यं प्रनो राया परीणसेति रायति रयिम- द्रयिमदिति वा अस्य रूपं मध्यासवत्तत्पते रूपं संहार्यप्रउगो रथन्तरं वै साम सृज्यमानं संहार्यप्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आधुकं कर्म यद्रूपसमृद्धं क्वस्य वीरः को अपश्यदिन्द्रमिति मरुत्वतीयं यो राया वज्रीसुतसोममिच्छन्निति रायेति रयिमद्रयिमदिति वा अस्य रूपमेतायामोपगव्यन्त इन्द्रमिति निकेवल्यं गव्यन्त इति पशुमत्पशुम- दिति वा अस्य रूपमुदुष्य देवः सविता हिरण्ययेति सावित्रं घृतेन पाणी अभिYष्णुते मख इति घृतवघृतमिति पशुमत्पशुमदिति वा अस्य रूपं घृतवती भुवनानामभिश्रियेति द्यावापृथिवीयं घृतवत्तस्योक्तं बाह्मणं ततं मे अपस्तदु तायते पुनरित्याभवं सुचेव घृतं जुहवाम विद्म- नेति घृतवत्तस्योक्तं ब्राह्मणं कथा देवानां कतमस्य यामनीति वैश्वदेवं सहस्रसा मेधसा ताविवत्मनेति सहस्रसा इति पशुमत्पशुमदिति वा अस्य रूपं पृक्षस्य वृष्णो अरुषस्य नूसह इति वैश्वानरीयमपामुपस्थे महिषा अगृभ्णतेति महिषा इति पशुमत्पशुमदिति वा अस्य रूपं प्र वस्पळकंत्सु- विताय दावन इति मारुतं गवामिव श्रियसे शृङ्गमुत्तममिति गवामि- वेति पशुमत्पशुमदिति वा अस्य रूपं चित्र इच्छिशोस्तरुणस्य वक्षय इति जातवेदसीयं वाजिन्तमाय सह्यसे सुपित्र्येति वाजवत्तदेतस्याह्नो रूपं मध्यासवत्तत्पङ्क्ते रूपं पशून्पश्चमेनाहाऽऽमुवन्ति रुद्रं देवं देवतानां यशोऽधिभूतं वीर्यमात्मन्दधते ॥३॥ ज्योतिः षष्ठमहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि षष्ठ- [२१अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । पूतमनये स्याह्नः सखायः सं वः सम्यञ्चमित्याज्यं सखाय इति सर्वरूपं सर्वरूपं वै षष्ठमहस्तस्मात्सखाय इति सर्वानेवानुवदति संहार्यप्रउगो बृहद्वै साम सृज्यमानं संहार्यप्रउगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयत्येतद्वा आधुकं कर्म यदूपसमृद्धं महाँ इन्द्रो नृवदाचर्षणि प्रा इति मरुत्वती- यमुरुः पृथुः सुकृतः कर्तृभिर्भूदिति निनृत्तिरन्तः षष्ठमहनींव वा अन्तं गत्वा नृत्यति कयहि तत इयाद्यो जात एव प्रथमो मनस्वानिति निष्केवल्यं तस्य तदेवान्तरूपं यद्भूतानुवादि यो दासं वर्णमधरं गुहा- करिति यदेतद्भूतमिवाभि सोद भवति तहितीयमन्तरूपं तद्देवस्य सवितुर्वायं महदिति सावित्रं दिवो धर्ता भुवनस्य प्रजापतिरिति दिव इति तदमुष्यलोकस्य रूपं घृतेन द्यावापृथिवी अभीवृते इति द्यावापृ- थिवीयं घृतवत्सर्वदेवत्यं वै घृतं सर्वदेवत्यं वै षष्ठमहस्तस्माद्धृतवत्किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यावं श्रेष्ठो यविष्ठ इति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इयादबुधमुत्य इन्द्र- वन्तो अनय इति वैश्वदेवं तस्य तदेवान्तरूपं यत्सोदक वैश्वानराय धिषणा मृता वृध इति वैश्वानरीयं घृतं न जनामसीति घृत- वत्तस्योक्तं ब्राह्मणं धारावरा मरुतो धृष्ण्वोजस इति मारुतं धारावरा इति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कठ्यहि तत इयात्त्वमग्ने युभिस्त्वमाशुशुक्षणिरिति जातवेदसीयं त्वं त्वमिति सप्रभृति यथा वै सोदर्कमेवं सप्रभृत्यन्तं रूपमपः षष्ठेनाहाऽऽनुवन्ति प्रजापति देवं देवतानां तेजोऽधिभूतममृतमात्मन्दधते ॥ ४ ॥ तदाहुः कस्माद्वैश्वदेवान्येवान्वायात्यन्तेनैकदेवत्यानि न द्विदेवत्या- नीति नैकदेवत्येन यातयामं भवति न द्विदेवत्येन वैश्वदेवेनैव यातयामं भवति तस्माद्वैश्वदेवान्येवान्वायात्यन्त एतेषामेवाहां सबलताया एतेषा. मभिप्लवानामयातयामतायै ज्योतिः प्रथममहरुपयन्ति रूपेणायं ह्येकाह उत्तरेषामह्नां ज्योतिगां द्वितीयं गच्छन्ति ह्येनेनाऽऽयु- स्तृतीयं यन्ति ह्येनेनानिष्टोमा प्रथमोत्तमे अहनी चत्वार्युस्थानि मध्ये ब्रह्म वा अग्निष्टोमः पशव उक्थानि ब्रह्मणैव तत्पशूनुभयतः परिगृह्याऽऽ- मन्दधते तेषां वा एतेषां चतुर्णामुक्थानां सहस्रं स्तोत्रियाः साहस्राः पशवः प्र साहस्रं पोषमानोति य एवं वेद पृष्ठ्यान्तान्वा इतश्चतुरश्च- तुरोऽभिप्लवानुपयन्ति पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि पशुभिरेव तच्छ्रियमुभयतः परिगृह्याऽऽत्मन्दधते पृष्ठ्यारम्भणान्या ऊवं विश्व- तस्यैवैकाहस्य -- ७६ ऋग्वेदे शाङ्खायनबाह्मणम् । [२२अध्यायः] जितश्चतुरश्चतुरोऽभिप्लवानुपयन्ति श्रीर्वा अभिप्लवाः पशवः पृष्ठ्यानि श्रियैव तत्पशूनुभयतः परिगृह्याऽऽत्मन्दधते ॥ ५॥ क्लप्तो वा अभिप्लवः क्लप्तच्छन्दा यो वै यज्ञक्रतुः क्लुप्तच्छन्दा भवति सर्वजागतानि वै तस्य निविद्धानानि भवन्ति तृतीयसवने तथा यथा. यथं निविदो धीयन्ते ता एनान्यथायथं धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथायथं दधति तद्यत्सर्वजागतानि निविद्धानानि भवन्ति तृतीयसवने तेनो यः सर्वजागते तृतीयसवने कामः स उपाप्तो यद्वे वैतास्तन्त्र्यास्त्रिष्टुभोऽहरहः शस्यन्ते तेनो यः सर्वत्रैष्टुभे तृतीयसवने कामः स उपाप्तो यद्वेवैपा तन्च्या गायत्र्यहरहः सुरूपकृत्नुः शस्यते तेनो यः सर्वगायत्रे तृतीयसवने कामः स उपाप्तो यद्वेवैष पळहः पुनः पुनरभिप्लवते तस्मादभिप्लवो नामाभिप्लवन्ते ह्येनेन स्वर्गाय लोकाय यजमानाः स्वर्गाय लोकाय यजमानाः ॥ ६ ॥ इति शाङ्खायनबाह्मणे एकविंशतितमोऽध्यायः ॥२१॥ . हरिः ॐ प्रथममहरयमेव लोक आयतनेनाग्निर्गायत्री त्रिवृत्स्तोमो रथंतरं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि करिष्यत्प्रथमे पदे सदेवं यद्वै भविष्यत्तत्करिष्यदावत्प्रवदेषवदर्षवदक्तवाक्तवद्युञ्जा- नवज्योतिष्मद्रुक्मवदित्युप · प्रयन्तो अध्वरमित्याज्यं प्रवत्प्रवदै प्रथम- स्याह्नो रूपं गायत्रं गायत्रप्रातः सवनो ह्येष व्यह इति नु व्यूल्ह उद्धृ- त्यैतत्प्र वो देवायालय इति समूल्हे तस्योक्तं ब्राह्मणं माधुच्छन्दसः प्रउ- गस्तस्योक्तं ब्राह्मणमायाविन्द्रोऽवस उप न इति मरुत्वतीयमावदावद्वै प्रथमस्याह्नो रूपं स्वर्णरादवसेनो मरुत्वानिति स एवास्मिन्मरुन्यङ्ग आ न इन्द्रो दूरादान आसादिति निष्केवल्यमावदाववै प्रथमस्याह्नो रूपं संपातौ निष्केवल्यमरुत्वतीये भवतः प्रथमेऽहन्संपात देवाः स्वर्ग लोकं समपतंस्तस्मादेनौ प्रथमौ शस्यते स्वग्र्यो तद्यत्संपातौ निष्केवल्यमरुत्व- तीये भवतः प्रथमेऽहन्स्वर्गस्यैव लोकस्य समष्ट्यै युञ्जते मन उत युञ्जते धियः प्रद्यावा यज्ञैः पृथिवीकता वृधेहे हवो मनसा बन्धुता नर इत्याभवं तेन नियच्छति युक्तवन्ति च वै प्रवन्ति च प्रथमेऽहन्सूक्तानि शस्यन्ते तद्यदिहेह व इत्यावं करोति तन्नियुत्या प्रच्युत्यै रूपं हयो न विद्वां अयुजि स्वयं धुरीति वैश्वदेवं युक्तवाक्तवदै प्रथमस्याह्नो रूपं तस्य द्वे उत्तमे उत्सृजति कुविदेते अवधृते आग्निमारुते शस्यते३ इति तदु ह स्माऽऽह -.

[२२अध्यायः] ७७ यह इति . ऋग्वेदे शाङ्खायनबाह्मणम् । कौषीतकिः शंसेदेव सूक्तस्याव्यवच्छेदाय न ह वा ऋक्छस्रेण यातयामा भवति नानुवचनेन वषट्कारेणैव सा यातयामा भवति समानेऽहन्वैश्चा. नराय पृथुपाजसे विप इति वैश्वानरीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्रश- र्धाय मारुताय स्वभानव इति मारुतं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं प्रत- व्यसी नव्यसी धीतिममय इति जातवेदसीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूप- मिमं लोकं प्रथमेनाह्नाऽऽप्नुवन्ति गायत्री छन्दस्त्रिवृतं स्तोमं रथन्तरं साम प्राची दिशं वसन्तमृतूनां वसून्देवान्देवजातमग्निमधिपतिम् ॥१॥ द्वितीयमहरन्तरिक्षलोक आयतनेनेन्द्रनिष्टुप्पञ्चदश स्तोमो बृहत्साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि कुर्वन्मध्यमे पदे सदेवं यदै प्रत्यक्षमस्पृष्टं तत्कुर्वद्धतवद्वज्रववृत्रहवद्वृषण्वदुद्वद्विव स्थितं त्वामि- त्यनिं दूतं वृणीमह इत्याज्यं होतारं विश्ववेदसमिति विवत्तस्योक्तं ब्राह्मणं गायत्रं गायत्रप्रातःसवनो ह्येष नु व्यूल्ह उद्धृत्यै तत्त्वं हि क्षेतवद्यश इति समूल्हे तस्योक्तं ब्राह्मणं गार्समदः प्रउगस्तस्योक्तं ब्राह्मणमिन्द्र सोमं सोमपते पिबेममिति मरुत्वतीयं माध्यंदिने सवने वज्र- हस्तेति वज्रवत्तदेतस्याह्नो रूपं या त ऊतिरवमा या परमेति निष्केवल्यं ताभिरूषु वृत्रहत्येवीन इति वृत्रहवत्तदेतस्याह्नो रूपं तदेवस्य सवितु. र्वार्यं महदिति सावित्रं विरन्तरिक्षं सविता महित्वनेति तत्प्रत्यक्षमन्तरि- क्षस्य रूपं ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं विवत्त- स्योक्तं ब्राह्मणं तक्षव्रथं सुवृतं विद्मनाऽऽप स इत्यावं तक्षन्हरी इन्द्र- वाहा वृषण्वसू इति वृषण्वत्तस्योक्तं ब्राह्मणं यज्ञस्य वो रथ्यं विश्पति विशामिति शातिं वैश्वदेवं वृपाकेतुर्यजतो द्यामशायतेति वृषण्व- तस्योक्तं ब्राह्मणं पृक्षस्य वृष्णो अरुषस्य नूसहो वृष्णे शर्धाय सुमखाय वेधस इति वृषण्वती तयोरुक्तं बाह्मणं नूचित्सहोजा अमृतो नितुन्दत इति जातवेदसीयं होता यदूतो अभवद्विवस्वत इति विवत्तस्योक्तं ब्राह्मणं तस्य प्रातर्मक्षु धिया वसुर्जगम्यादित्युत्तमा परमे वै तदहरभिव- दति परमे वै तदहरभ्यारभ्य वसन्तीति ह स्माऽऽह कौषीतकिरन्तरिक्ष- लोकं द्वितीयेनाह्नाऽऽप्नुवन्ति त्रिष्टुमं छन्दः पञ्चदशं स्तोमं बृहत्साम दक्षिणां दिशं ग्रीष्ममृतूनां मरुतो देवान्देवजातमिन्द्रमधिपतिम् ॥२॥ तृतीयमहरसावेव लोक आयतनेन वरुणो जगती सप्तदश स्तोमो वै रूपं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि चवदुत्तमे पदे सदेवं यदै भूतानुवादि तच्चकृवश्वावद्गोमद्रथवडूतवस्थितवदन्तवत्सो- .

७८. ऋग्वेदे शाङ्खायनबाह्मणम् । [२२अध्यायः दर्कमनिरुक्तं संप्रभृतीनि युक्ष्वा हि देवहूतमानित्याज्यं तदाहुर्यदन्तस्तृ- तीयमहरथ कस्माद्युक्तवदाज्यमित्येतेन वा अह्ना देवाः स्वर्ग लोकमा. यन्युक्ता वै तदायस्तस्मादिति बयादश्चां अग्ने रथीरिवेति रथवत्तदे- तस्याह्नो रूपं गायत्रं गायत्रप्रातःसवनो ह्येष व्यह इति नु व्यूल्ह उद्ध- त्यैतत्त्वमग्ने व रिहेति समूल्हे तस्योक्तं बाह्मणमौष्णिह आत्रेयः प्रउगो जागतं वै तृतीयमहस्तद्यदौष्णिह आत्रेयस्तृतीयस्याह्नः प्रउगस्त- त्पातः सवनं जगती भजते ॥३॥ यर्यमा मनुषो देवतातेति मरुत्वतीयं त्रीति तत्तृतीयस्याह्नो रूपं यद्याव इन्द्र ते शतमिति वैरूपस्य स्तोत्रियः शतं भूमी रुतस्युरिति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कद्यहि तत इया- द्यदिन्द्र यावतस्त्वमित्यनुरूपः शिक्षेयमिन्महयते दिवे दिव इति निनृत्ति- रन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इयादिन्द्र विधा तु शरणामिति निवान्त्सामप्रगाथस्त्रिधात्विति तत्तृतीयस्याह्नो रूपमहं भुवं वसु नः पूर्व्यस्पतिरितीन्द्रसूक्तमहमहमिति सप्रभृति यथा वै सोदकमेवं समभृत्यन्तरूपं यो जात एव प्रथमो मनस्वानित्येतस्मि- स्त्रैष्टुभे निविदं दधाति तदेतदिन्द्र तनूः सूक्तमेतस्मिन्ह गृत्समदो बाभ्रवो निविदं दधदिन्द्रस्य प्रियं धामोपजगामेत्युप ह वा इन्द्रस्य प्रियं धाम गच्छति जयति परं लोकं य एतस्मिन्सूक्ते निविदं दधाति तस्य तदेवा. न्तरूपं यद्भूतानुवादि यो दासं वर्णमधरं गुहाकरिति यदेतद्भूतमिवाभि- सोदकं भवति तद्वितीयमन्तरूपम् ॥ ४ ॥ अभि त्वा देवसवितरित्यभिवाननुचरस्तदाहुर्यदन्तस्तृतीयमहरथ कस्मादभिवाननुचर इत्येतेन वा अह्ना देवाः स्वर्ग लोकमायन्नभिप्रे- प्सन्तो वै तदायंस्तस्मादिति ब्रूयादुदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभि श्रियेति घृतवती तयोरुक्तं ब्राह्मणमनश्वो जातो अनभी. शुरुक्थ्य इत्यार्भवं रथस्त्रिचक्रः परिवर्तते रज इति त्रिचक्र इति तत्तृती. यस्याह्नो रूपं परावतो ये दिधिषन्त आप्यमिति वैश्वदेवं परावत इत्य- न्तो वै परावतोऽन्तस्तृतीयमहरन्ते अन्तं दधात्यर्ध!दर्काणि ह वा एतानि सूक्तानि भवन्ति पदोदर्काण्येकान्यर्धपदोदर्काण्येकान्यथैतत्तृती- यपदोदर्कमेव तत्तृतीयस्याह्नो रूपं वैश्वानराय धिषणामृता वृध इति वैश्वानरीयं घृतं न पूतमग्नये जनामसीति घृतवत्तस्योक्तं ब्राह्मणं धारा- वरा मरुतो धृष्ण्वोजस इति मारुतं धारावरा इति निनृत्तिरन्तस्तृती- [२२अन्यायः] ॥ ऋग्वेदे शाङ्खायनबाह्मणम् । ७९ यमहर्नीव वा अन्तं गत्वा नृत्यति कद्यहि तत इयात्त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदसीयं त्वं त्वमिति सप्रभृति यथा वै सोदक मेवं स प्रभृत्यन्तरूपममुं लोकं तृतीयेनाहाऽऽप्नुवन्ति जगतीं छन्दः सप्तदशं स्तोमं वैरूपं साम प्रतीची दिशं वर्षा ऋतूनामादित्यान्देवा- न्देवजातं वरुणमधिपतिम् ॥५॥ अन्तस्तृतीयमहस्ते देवा अन्तं गत्वा चतुर्थमहरैच्छंस्तस्मादिच्छध्वं तदिष्ट्वाऽविन्दस्तस्माद्युक्तवत्तदाहुर्यदन्तस्तृतीयमहरथ कस्माच्चतुर्थेऽहन्यू- ङ्खयतीति वाच एव तदायतनं यच्चतुर्थमहरन्नं विराळन्नं न्यूखोऽन्नमेव तद्यज्ञे च यजमानेषु च धात्यथो अवाप्यते वै तृतीयेनाहा वाक्तामेवैत- चतुर्थेऽहन्विभावयति यथायस्तप्तं विनयेदेवं तद्वाचो विभूत्यै तस्यैतानि च्छन्दोरूपाणि सम्राद्धत्स्वराङ्गहिरावजातवदूतिमट्टीतिमत्परिवदभिवदुप- वदित्यानिं न स्ववृक्तिभिरिति वै मदमाज्यं विमदेन वै देवा असुरान्वि- मदस्तद्यद्विमदः शस्यते मध्यतश्च होत्रासु चाङ्गगदङ्गादेव तद्यजमानाः पाप्मानं विमदन्त्यग्निर्जातो अथर्वणेति जातवत्तदेतस्याह्नो रूपम् ॥६॥ ता दश जगत्यः संपद्यन्ते जगत्प्रातःसवनो ह्येष व्यहो विंशति- यत्री गायत्री प्रातःसवनं तदु ह प्रातःसवनरूपान्वाय इतीति नुव्यूल्ह उद्धृत्यैतदग्निं नरो दीधितिभिररण्योरिति समूल्हे वैराजमाज्यं वैराज पृष्ठं तत्सलोम वासिष्ठमाज्यं वासिष्ठं पृष्ठं तत्सलोम हस्तच्युती जनयन्त प्रशस्तमिति जातवत्तदेतस्याह्नो रूपमानुष्टुभः प्रउग आनुष्टुमं वै चतुर्थमहस्तदेनस्वेन च्छन्दसा समर्धयति तं त्वा यज्ञेभिरीमह इति यज्ञवत्या मरुत्वतीयं प्रतिपद्यते पुनरारम्भ्यो वै चतुर्थेऽहन्यज्ञो यज्ञमेव तदारभते श्रुधीहवमिन्द्रमारिषण्य इति मरुत्वतीयं ता वा एताख्रिष्टुमो विरावर्णास्ता अत्र क्रीयन्त एता ह्यह्नो रूपेण संपन्ना इन्द्र मरुत्व इह पाहि सोममिति विज्ञातत्रैष्टुभं सवनधरणं तानि वा एतानि विज्ञा. तत्रैष्टुभानि सवनधरणानि मध्यंदिनान्न च्यवन्ते त्रैष्टुभो वा इन्द्रो मध्यं- दिनायतनो वा इन्द्रस्तद्यदेतानि विज्ञातत्रैष्टुभानि सवनधरणान्यपि व्यूल्हच्छदसो मध्यंदिनान्न च्यवन्ते त्रैष्टुभ इन्द्रो नेदिन्द्रं स्वादायतना- च्यवयानीति जातं यत्त्वा परि देवा अभूषन्निति जातवत्तदेतस्याह्नो रूपमिमं नु मायिनं हुव इति मरुत्वतीयं गायत्रं गायत्रमध्यंदिनो ह्येष व्यहः॥ ७॥ अथात इह न्यूङ्खयेदिहा ३ इति स्तोत्रियानुरूपयोश्चैव न्यूङ्खा उक्थ- मुखीययोश्चातनाऽऽद्रियेताऽऽत्मा वै स्तोत्रियः प्रजानुरूपोऽन्नं विरा- वहति ऋग्वेदे शाङ्खायनबाह्मणम् । [२२अध्यायः] ळन्नं न्यूङ्खोऽन्नमेवाऽऽत्मनि प्रजायां च दधात्यानुष्टुमं न्यूझं न्यूजयेदिति हैक आहुरानुष्टुभं वै चतुर्थमहस्तदेनस्वेन च्छदसा समर्धयति वैराज न्यूझं न्यूङ्खयेदिति सा स्थितिरन्नं विराळन्नं न्यूयोऽन्नमेव तदात्मनि प्रजायां च दधाति मध्यमे पदे न्यूजयेदात्मा वै पूर्वं पदं प्रजोत्तम मध्यं मध्यमं पदं मध्ये वा हदमात्मनोऽन्नं धीयते तद्यथाऽऽभिर्यासमन्न- मद्यादेवं तदिन्द्रमिद्देवतातय इत्यष्टेन्द्रः साम्नः प्रगाथ एतेन वै देवाः सर्वा अष्टीराश्नुवत तथो एवैतद्यजमाना एतेनैव सर्वा अष्टीरश्नुवते कुह श्रुत इन्द्रः कस्मिन्नोति कुहश्रुतीयास्ता वा एता विराजों वाऽनु- टुमो वा भवन्ति ता अत्र क्रीयन्त एता ह्यन्नोरूपेण संपन्ना युध्मस्य ते वृषभस्य स्वराज इति विज्ञातवैष्टुमं सवनधरणं तस्योक्तं ब्राह्मणं स्वराज इति स्वराङ्गत्स्वरादिति वा अस्य रूपं त्यमु वः सत्रासाहमिति निष्केवल्यं विश्वासु गीर्वायतमित्यावदावबै चतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं हि चतुर्थमहर्गायत्रं गायत्रमध्यंदिनो ह्येष व्यहः॥८॥ हिरण्यपाणिमूतय इत्यूतिमाननुचर ऊतय इत्यूतिमदूतिमदिति वा अस्य रूपमा देवो यातु सविता सुरत्नः प्र द्यावा यज्ञैः पृथिवी नमोभिः प्रऋभुभ्यो दूतमिव वाचमिष्ये प्र शुकैतु देवी मनीषेत्येति वा वै प्रेति वा प्रायणीयरूपं तस्मादावन्ति च प्रवन्ति च चतुर्थेऽहन्सूक्तानि शस्यन्ते प्राय- णीयरूपेण पुनः प्रायणीयं हि चतुर्थमहद्विपदाः शस्यन्ते द्विपाद्वा अभि- क्रमितुमर्हत्यभिक्रान्त्यैतदूपं तद्यथोपप्रयाय स्वर्गस्य लोकस्य नेदीय- स्तायां वसेदेवं तत्प्रसम्राजो असुरस्य प्रशस्तिमिति वैश्वानरीयं सम्राज इति सम्रात्सम्रावदिति वा अस्य रूपं क ई व्यक्ता नरः सनीळा इति मारुतं तस्य तद्ब्राह्मणं यत्मशुक्रीयस्य हुवे वः सुद्योत्मानं सुवृक्तिमिति जातवेदसीयं तस्य तद्ब्राह्मणं यन्मरुत्वतीयस्य प्र यन्तु वाजास्तविषीभि- रनय इति तिस्रोऽधिकाः समूल्हा आ त्वेषमुग्रमव ईमहे वयमित्यावदावद्वै चतुर्थस्याह्नः प्रायणीयरूपं पुनः प्रायणीयं चतुर्थमहर्वसुं न चित्रमहसं गृणीष इति जातवेदसीयं घृतनिर्णिब्रह्मणे गातुमेरयेत्यावदावद्वै चतुर्थ- स्याह्नः प्रायणीयरूपं पुनः प्रायणीयं हि चतुर्थमहरथोक्थान्युपेत्य सृप्त्वा षोळशिनमुपयन्ति षोळशकलं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्या अन्नं चतुर्थेनालाऽऽप्नुवन्त्यानुष्टुभं छन्द एकविंशं स्तोमं वैराजं सामोदीची दिशं शरदमृतूनां साध्यांश्चाऽऽप्यांश्च देवान्देवजाते बृहस्पतिं च चन्द्रमसं चाधिपती च चन्द्रमसं चाधिपती ॥९॥ इति शाङ्खायनब्राह्मणे द्वाविंशोऽध्यायः ॥ २२ ॥ बृहस्पति [२३अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ८१ हरिः ॐ पशवः पञ्चममहः पतिर्वै तन्वस्थ निदानं पशवः पति- रिति तस्यैतानि च्छन्दोरूपाणि वृषभवद्धेनुमदुग्धवद्धृतवन्मद्र- यिमद्वाजवदध्यासवदितीममू षु वो अतिथिमुषर्बुधमित्याज्यं रायः सूनो सहसो मत्येष्विति राय इति रयिमद्रयिमदिति वा अस्य रूपमध्यासव- चत्पते रूपं जागतं जगत्मातःसवनो ह्येष व्यह इति नु घ्यूल्ह उद्ध- त्यैतदग्निं तं मन्ये यो वसुरिति समूल्हे पात पड्डि पञ्चममहर्यदेतद्- हस्तदेता अस्तं यं यन्ति धेनव इति धेनुमदिति वा अस्य रूपं बार्हतः प्रउगः पशवः पञ्चममहर्हिताः पशवः पशूनामेवाऽऽप्त्यै यत्पाञ्चज- न्यया विशेति मरुत्वतीयस्य प्रतिपस्पाञ्चजन्ययेति तत्पञ्चमस्याह्नो रूप- मित्था हि सोम इन्मद इति मद्वत्पातं तस्योक्तं ब्राह्मणमवित्तासि सुन्वतो वृक्तबर्हिष इति षट्पदाः षड़वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै तासां गायत्रीशंसं शस्त्रमिति ह स्माऽऽह कौषीतकिस्तद्वा अत्र संपन्न यद्वायत्रीशंसं तद्यदृष्टाभिरष्टाभिरक्षरैः प्रणौति तद्वायत्रीरूपं मरुत्वाँ इन्द्र वृषभो रणायेति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं वृषभो रणायेति वृषभवत्तदेतस्याह्नो रूपमयं हयेन वा इमिति मरुस्वतीयं गायत्रं गायत्रमध्यंदिनों ह्येष व्यहः ॥१॥ महानाम्न्यः पृष्ठं भवन्ति महानाम्नीभिर्वा इन्द्रो वृत्रमहंस्तं वृत्रं हत्वा यन्तं देवताः प्रत्युपातिष्ठन्त पराञ्च्यो हास्मादग्रेऽपक्रान्ता बिभ्यत्यस्तस्थुस्तं प्रजापतिः पप्रच्छाशको हन्तूश्मित्येवाह्येवेति प्रत्यु- वाचानिरुक्तमनिरुक्त उ वै प्रजापतिस्तत्माजापत्यं रूपं तमग्निः पप्रच्छा. शको हन्तूइमित्येवाह्यम इति प्रत्युवाच तं स्वो महिमा पप्रच्छा- शको हन्तूइमिति स हास्मादग्रेऽपक्रान्तो विभ्यत्यस्थावेवाहीन्द्रेति प्रत्युवाच तं पूषा पप्रच्छाशको हन्तू३ मित्येवाहि पूषन्निति प्रत्युवाच तं विश्वे देवाः पप्रच्छुरशको हन्तू ३ मित्येवाहि देवा इति प्रत्युवाच तानि वा एतानि पञ्च पदानि पुरीपमिति शस्यन्ते सोरुच एव वेला ता वा एताः शक्वर्य एताभिर्वा इन्द्रो वृत्रमशकद्धन्तुं तद्यदामित्रम- शकद्धन्तुं तस्माच्छक्वर्यः शक्तयो हि प्रत्यस्मै पिपीते यो रयिवो रयिंतमस्त्यमुवो अप्रहणमिति यस्तृचा अस्मा अस्मा इदन्धस इति बृहती दशमीं करोत्येवा ह्यसि वीरयुरिति त्वेव स्थिता पुरीषस्य समानामिव्याहारा तथा स स्तोत्रियेण समो वाऽतिशयो वा संपद्यते यदिन्द्र नाहुषीष्वेति साम्नः प्रगाथो यद्वा पञ्च क्षितीना- m --- ११ ८२ ऋग्वेदे शाङ्खायनबाह्मणम् । [२३अध्यायः] मिति पश्चेति तत्पञ्चमस्याह्नो रूपमिन्द्रो मदाय वावृध इति मद्व- त्पाङ्क्तं तस्योक्तं ब्राह्मणं प्रेदं ब्रह्मवृत्तूर्येष्वाविथेति षट्पदास्तासा- मुक्तं ब्राह्मणमभूरेको रयिपते रयीणामिति विज्ञातत्रैष्टुमं सवनधरणं तस्योक्तं ब्राह्मणं रयिपते रयीणामिति रयिमद्रयिमदिति वा अस्य रूपं मध्यासवत्तत्पङ्क्ते रूपं तमिन्द्रं वाजयामसीति निष्केवल्यं स वृषा वृषभोऽमुवदिति वृषभवत्तदेतस्याह्नो रूपं गायत्रं गायत्रमध्यंदिनो ह्येष यहः ॥२॥ तत्सवितुर्वरेण्यमिति वैश्वामित्रोऽनुचरः पृष्टयानामेव नानात्वाय वाजयन्तः पुरंध्येति वाजवत्तदेतस्याह्नो रूपमुदुष्य देवः सविता दमूना इति सावित्रं वाममद्य सवितर्वाममुश्व इति वाममिति पशुमत्पशुम. दिति वा अस्य रूपं मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षा पप्रथानेभिरेवैरित्युक्षेति पशुमत्पशुमदिति वा अस्य रूपमृ- भुर्विभ्वा वाज इन्द्रो नो अच्छेत्यावं ये गोमन्तं वाजवन्तं सुवीर- मिति गोमन्तमिति पशुमत्पशुमदिति वा अस्य रूपं कोऽनु वा मित्रा- वरुणा वृता यन्निति वैश्वदेवं यज्ञायते वा पशुषो न वाजानिति पशुप इति पशुमत्पशुमदिति वा अस्य रूपं मध्यासवत्तत्पङ्क्ते रूपं हविष्पान्त- मजरं स्वर्विदीति वैश्वानरीयं पान्तमिति तत्पश्चमस्याह्नो रूपं वपुर्नु सञ्चिकितुषे चिदस्त्विति मारुतं समानं नाम धेनुपत्यमानमिति धेन्विति पशुमत्पशुमदिति वा अस्य रूपमग्निर्होता गृहपतिः स राजेति जातवे. दसीयमवानो मघवन्वाजसाताविति वाजवत्तदेतस्याह्नो रूपं मध्या- सवत्तत्पङ्क्ते रूपमिति नु व्यूल्हेऽथ समूल्हे मूर्धानं दिवो अरतिं पृथिव्या इति वैश्वानरीयं नाभिं यज्ञानां सदनं रयीणामिति रयिमद्रयिमदिति वा अस्य रूपमा रुद्रास इन्द्रवन्त: सजोषस इति मारुतं गोमदश्वा- वथवत्सुवीरमिति गोमदश्वावदिति पशुमत्पशुमदिति वा अस्य रूप- मिममू षु वो अतिथिमुषर्बुधमिति जातवेदसीयं तस्योक्तं ब्राह्मणं पशून्प- चमेनाहाऽऽनुवन्ति पति छन्दस्त्रिणवं स्तोमं शावरं सामाची दिशं हेमन्तमृतूनां मरुतो देवान्देवजातं रुद्रमधिपतिम् ॥३॥ पशवः पञ्चममहरथ पुरुष एव षष्ठमहः स वै पुरुषः प्रजापतिः पूर्वोऽस्य सर्वस्यातिच्छन्दो वै प्रजापतिस्तत्प्राजापत्यं रूपमसुरीन्द्रं प्रत्यु- क्रमत पर्वन्पर्वन्मुष्कान्कृत्वा तामिन्द्रः प्रतिजिगीषन्पर्वन्पर्वञ्छेपांस्य कुरुतेन्द्र उ वै परुच्छेपः सर्वं वा इन्द्रेण जिगीषितं तां समभवत्तमर्ह- ...

[२३अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ३ her . णादसुरमायया स एताः पुनः पदा अपश्यत्ताभिरङ्गादङ्गात्पर्वणः पर्वणः सर्वस्मात्पाप्मनः संप्रामुच्यत तद्यत्परुच्छेपः शस्यते मध्यतश्च होत्रासु चाङ्गादङ्गादेव तद्यजमानाः पर्वणः पर्वणः सर्वस्मात्पाप्मनः संप्रमुच्यन्ते नित्याः पूर्वा याज्याः कृत्वा पारुच्छेपीभिर्यजन्ति तद्यदाभिस्तदहर्न वषट् कुर्वन्ति तेनोत्सृष्ट्वा यद्वेवैनान्नान्तरयन्ति नेदच्युतं यज्ञस्य प्रियं देवानामन्तरयामेति नित्यानपूर्वानतुयाजान्कृत्वा गार्समदैर्यजन्ति तद्य- देभिस्तइहर्न वषट् कुर्वन्ति तेनोत्सृष्ट्वा यद्वेवैनान्नान्तरयन्ति नेवच्युतं यज्ञस्य प्रियं देवानामन्तरयामेति तेन तेऽतिच्छन्दसो भवन्ति तथेषां सप्तपदाभिर्वषट्कृतं भवति तदु ह स्माऽऽह कौषीतकिविराळष्टमानि वा एतस्य च्छन्दांसि गोपायन्ति योऽसौ तपति तां ते संपदं मोहयन्ति येऽतिच्छन्दोभिर्यजन्ति ॥ ४ ॥ तद्वै खल्वैकाहिकीमिरेव यजेयुर्देवयानस्यैव पथो समुग्धा इति तद्धाप्यणीचीमौ नो जाबालगृहपतीन्सबमासीनानुपास्यद्यपम- च्छान्नो गाता ३ परुच्छेपा ३ इति त उ ह तूष्णीमासुस्तत उ होत्त- रार्धात्सदसश्चित्रो गौश्रायणिर रभिपरोबादगौश्रोवानाहैवाह्नो गामन- परुच्छेपाः शस्त्रेणाहन्परुच्छेपोऽहायतीष्वैकाहिकीभिरयाक्ष्म तेनों अह्रो नागामेति यथायथं यजेयुर्देवायतनं वै षष्ठमहस्तद्यत्तदहोतैव वषट्- कुर्याद्धोतेनयोर्दैवायतनं संपृञ्चीताध्वर्योहपतेश्चाजि ह वा एते यन्ति स्वर्गे लोके षष्ठेनाह्ना स योऽनवानं समापयति स स्वर्ग लोकमुज्जयति यद्यप्यवान्यात्पुनः पुनः प्रतीसारमुपशिक्षेतैव ॥५॥ अयं जायत मनुषो धरीमणीत्याज्यमयमित्यनिरुक्तमनिरुक्त उ वै प्रजापतिस्तत्प्राजापत्यं रूपमतिच्छन्दसः सप्तपदाः पुनः पदा यदेतदह- स्तदेतानपदं च पुनः पदं चान्तरेणावान्यादात्मा वै पदं प्राणाः पुनः पदं स योऽत्रावानं तं ब्रूयात्माणादात्मानमन्तरगान्न जीविष्यति तथा ह स्यात्तस्मान्न पदं च पुनः पदं चान्तरेणावान्यादातिच्छदसः प्रउग आतिच्छन्दसं वै पष्ठमहस्तदेन स्वेन च्छन्दसा समर्धयति स पूर्यो महानामिति मरुत्वतीयस्य प्रतिपत्स इत्यनिरुक्तमनिरुक्त उवै प्रजा- पतिस्तत्प्राजापत्यं रूपं यं त्वं रथमिन्द्रमेधसातय इति पारुच्छेपं तस्योक्तं बाह्मणं यः शूरैः स्वः सनितेति शूरैरिति स एवास्मिन्मरुन्यङ्गः स यो वृषा वृष्णेभिः समोका इति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं वृषा वृष्णेभिरिति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति ८४ ऋग्वेदे शाङ्खायनब्राह्मणम् । [२३अध्याय:] काहि तत इयान्मरुत्वाँ इन्द्र मीढ़ इति मरुत्वतीयं गायत्रं गायत्र. मध्यंदिनो ह्येष व्यहः ॥६॥ रेवतीर्नः सधमादे रेवाँ इद्रेवतस्तोतेति रैवतस्य योनौ वारवन्तीय- मूल्हं भवत्याग्नेयं सामैन्द्रीषु तन्मिथुनं प्रजात्यै रूपं माचिदन्यद्विशंसतेति साम्नः प्रगाथः सखायो मा रिषण्यतेति सखाय इति सर्वरूपं सर्वरूपं वै षष्ठमहस्तस्मात्सखाय इति सर्वानेवानुवदत्येन्द्रयाापनः परावत इति पारुच्छेपं तस्योक्तं बाह्मणं परावत इत्यन्तो वै परावतोऽन्तः षष्ठमहरन्ते अन्तं दधाति प्रघान्वस्य महतो महानीति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं महतो महानीति निनृत्तिरन्तः पठमहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इयादुप नो हरिभिः सुतमिति निष्के- वल्यं याहि मवानां पत उप नो हरिमिरिति निनृत्तिरन्तः षष्ठमहर्नी ववा अन्तं गत्वा नृत्यति व्यङ्गहि तत हयाद्वायत्रं गायत्रमध्यंदिनो ह्येष यहः ॥७॥ अमित्यं देवं सवितारमोण्योः कवितुमित्यतिच्छन्दसा वैश्वदेवं प्रतिपद्यत आतिच्छन्दसं वै षष्ठमहस्तत्तृतीयसवनमतिच्छन्दाम्यश्नुतेऽथो प्राजापत्यं वै षष्ठमहरतिच्छन्दा धै प्रजापतिस्तत्प्राजापत्यं रूपमभिवा- ननुचरस्तस्योक्तं ब्राह्मणमुदुष्य देवः सविता सवायेति सावित्रं सविता सवायेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति काहि तत इयात्कतरा पूर्वा कतरा परा योरिति द्यावापृथिवीयं पूर्वापरेति निनृत्ति- रन्तः षष्ठमहर्जीव वा अन्तं गत्वा नृत्यति काहि तत इयात्किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यावं श्रेष्ठो यविष्ठ इति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्यहि तत इयादिदमित्था रौद्रे गूर्तवचा इलि वैश्वदेवं क्राणा यदस्य पितरा मंहनेष्ठा इति स्थितवत्त- दन्तरूपमन्तः षष्ठमहस्तिष्ठतीव वा अन्तं गत्वा काहि तत इवा- त्तस्य द्वे उत्तमे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्येतं नाराशंसं समावपत्यात्मा वै सूक्तं प्रजा पशवो नाराशंसं मध्य एव तदात्मन्प्रजा पशूनुभये धात्यहश्च कृष्णमहरर्जुनं चेति वैश्वानरीयमहरर्जुनं चेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इया- प्रयज्य वो मरुतो भ्राजदृष्टय इति मारुतं तस्य तदेवान्तरूपं यत्सोदर्क- मिमं स्तोममर्हते जातवेदस इति जातवेदसीयं तस्य तदेवान्तरूपं यत्सो- दकं मा रिषाम मा रिषामेति तदन्ततोरिष्टयै रूपमपः षष्ठेनाहाऽऽनुवन्त्य- S [२४ अध्यायः] ८५ ऋग्वेदे शाङ्खायनबाह्मणम् । तिच्छन्दसं छन्वस्त्रयस्त्रिंशं स्तोमं रैवतं सामोवां दिशं शिशिरस्तूनां विश्वान्देवान्देवजातं प्रजापतिमधिपतिं प्रजापतिमधिपतिम् ॥ ८ ॥ इति शाङ्खायनबाह्मणे त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ सूक्तानि शस्यन्ते यद्वाहिष्ठं तदनय इत्येते । हरिः ॐ। अभिजिदमिजिता वैदेवा अभ्यजयन्निमस्त्रिील्लोकांस्तस्मात्स. घ्यावृश्चतुरुदयो मबति विश्वजिता जयन्निमाश्चतम्रो दिशस्तस्मात्स चतु- रावृत्र्युदयो भवत्यमिजिदभिजिता वै देवा अभ्यजयंस्तदु हन्विवैव स संज- यदजितं पर्यशिष्यत तद्विश्वजिता जयन्विश्वमजैष्मेति वाव विश्वजित्तौ वा एताविन्द्रानी एव यदभिजिविश्वजितावग्निरेवामिजिमिहींद सर्वमम्यज- यदिन्द्रो विश्वजिदिन्द्रो हीदं सर्वं विश्वमजयत्स वा अभिजिदुभयसामा सर्वस्तोमो भवति तस्मादुमयानि बाईतराथन्तराणि तस्य प्र वो देवायामये उमे तदाज्यं प्र व इति तद्राथंतरं रूपं बृहदर्च विभावसो३ इति बृहदार्हतमुमौ माधुच्छन्द- सगार्ल्समदी प्रउगौ संप्रवयेद्वायव्यां पुरोरुचं शस्त्वाऽथो उभे वायव्ये तृचे ऐन्द्रवायवीं पुरोरुचं शस्त्वाऽथो उभे ऐन्द्रवायवे तृचे अथ पुरोरु- चमथोभे तृचे अथ पुरोरुचमथोमे तृच एवमेव संप्रवयेन्नाऽऽद्रियेत माधु- च्छन्दसान्येव पूर्वाणि सृचानि करोति गार्समदान्युत्तराणि तदु वा आहुः किं तदुमौ संप्रवयेनाऽऽद्रियेत माधुच्छन्दस एव प्रउगे सति गार्समदं वैश्वदेवमुपरिष्टान्माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरेत्तहा अत्रै निरुक्तं पाहतम् ॥ १॥ विश्वे देवास आगत शृणुताम इमं हवम् । एवं बर्हिनिषीदतेति बर्हिरिति तद्धार्हतं रूपमथ माधुच्छन्दसं सारस्वतं तस्यैवोत्तमया परिदध्यादित्यै- काहिकं प्रातःसवनं स्यादिति सा स्थितिरेकाहो वा अभिजित्प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रति- पदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं बाह्मणं जनिष्ठा उग्रः सहसे तुरायेति गौरिवीतीयं पूर्वं शस्त्वेन्द्र पिब तुभ्यं सुतो मदायेत्येतस्मिन्बाहते पञ्चचे निविदं दधातीन्द्रस्य नु वीर्याणि प्रवोचमिति हैरण्यस्तूपीयं पूर्वं शस्त्वा या त ऊतिरवमा या परमेत्येतस्मिन्बार्हते नवर्चे निविदं दधात्येवं नु यदि रथंतरं पृष्ठं भवति यधु बृहद्वाहते पूर्वे शस्त्वैकाहिकयोनिविदौ दध्यादित्येकसूक्ते निष्के- वल्यमरुत्वतीये स्यातामिति सा स्थितिः पिबा सोममभियमुग्र तर्द- ८६ ऋग्वेदे शाङ्खायनब्राह्मणम् । [२४ अध्यायः स्तमु टुहि यो अभिभूत्योजा इत्युमे अभिवती तदभिजितो रूपमथ नित्यमेवैकाहिकं तृतीयसवनं स्यादिति सा स्थितिरेकाहो वा अभि- जित्प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ॥२॥ स्वर्भानुर्हामुरा दित्य तमसा विध्यत्तस्यात्रयस्तमौपजिघांसन्त एतं सप्तदशस्तोमं यह पुरस्ताद्विषुवत उपायंस्तस्य पुरस्तात्तमोपज- घ्नुस्तत्परस्तादसीददेतमेव व्यहमुपरिष्टाद्विषुवत उपायंस्तस्य परस्ता. त्तमोपजघ्नुस्तद्य एवं विद्वांस एतं सप्तदशस्तोमं व्यहमुमयतो विषुव- न्तमुपायन्त्युभाभ्यामेव ते लोकाभ्यां यजमानाः पाप्मानमपन्नते तान्यै स्वरसामान इत्याचक्षत एतैर्ह वा अत्रय आदित्यं तमसोपस्पृण्वत तद्यदपस्पृण्वत तस्मात्स्वरसामानस्तदेतहचाऽभ्युदितम् ॥ ३ ॥ यं वै सूर्यं स्वर्भानुस्तमसा विध्यदासुरः अत्रयस्तमन्वविन्दन्न ह्य १ न्ये अशक्नुवन्निति स्वरसामानो ह वा एतेनाभ्युक्ताः कद्वन्ति मरुत्वती- यानि भवन्ति कद्वन्तौ निष्केवल्येषु प्रगाथाः को वै प्रजापतिः प्रजापतिः स्वरसामान आनुष्टुमानि निविद्धानानि भवन्त्यापो वा अनुष्टुबापः स्वरसामानोऽद्भिहीदं सर्वमनुस्तब्धमुभयतो ह्यमुमादित्यमापोऽवस्ता- चोपरिष्टाञ्च तदेतहचाऽम्युदितम् ॥ ४॥ या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इत्या यज्ञैर्देव मर्त्य इति प्रथमस्य स्वरसाम्न आज्यमावद्राथन्तरं वृहद्वयो हि मानव इति द्वितीयस्य बृहद्बार्हतमग्न ओजिष्ठ मा मरेति तृतीयस्यावद्राथंतरं माधुच्छन्दसः प्रथमस्य स्वरसाम्नः प्रउगो गार्ल्समदो द्वितीयस्यौष्णिह आत्रेयस्तृतीयस्य तेषामुक्तं ब्राह्मणमन्वायत्ता मरुत्वतीयानां प्रति- पदनुचरा अन्वायत्ता ब्राह्मणस्पत्यारूयहरूपेण तेपामुक्तं ब्राह्मणं वीरः को अपश्यदिन्द्रमिति प्रथमस्य स्वरसानो मरुत्व- तीयं वेति कद्वत्कया शुमा सवयसः सनीळा इति द्वितीयस्य कति कद्वायत्साम नभन्यं यथावेरिति तृतीयस्य ताकर्मापतरास्मा इति कर्मेति प्रजापतिः प्रजापतिः स्वरसामानो यज्जायथा अपू- येत्येतस्मिन्नु हैके बृहती तृतीये स्तोत्रियेऽन्वहं स्वराण्यन्वायातयन्ति ते यदि तथा कुर्युरेतावेव स्तोत्रियानुरूपावेषा धाय्या कं नव्यो अतसी- नामिति कद्वान्प्रगाथस्तस्योक्तं बाह्मणम् ॥ ५॥ क्कस्य कद्वत्को वै [२४ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । अथ रथंतरस्य योनियमिन्द्र दधिषे त्वमिति वृचो नैकपातितायै नेदसौ बृहत्येकाकिनी वशस्त्वासदितीन्द्र तुभ्यमिन्मघवन्नभूमेति विज्ञा- तत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणं यस्ते साधिष्ठो वस इत्यानुष्टुभं निष्केवल्यमिन्द्रक्रतुष्टमा भेरत्यावद्राथंतरं कदून्वस्याकृतमिति कद्वान्प्र- गाथस्तस्योक्तं ब्राह्मणम् ॥ ६ ॥ अथ बृहतो योनिः स्वरन्ति त्वा सुते नर इति वृचोनैकपातितायै नेदसौ बृहत्यकाकिनीवशस्त्वासदित्यध्वर्यो वीर प्रमहे सुतानामिति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं बाह्मणं गायन्ति त्वा गायत्रिण इत्यानुष्टुभं निष्केवल्यमुदंशमिव येमिर इत्युद्वद्धार्हतमिमा उ त्वा पुरु- वसो३ इति प्रगाथः पावकवर्णाः कवर्णा इति कद्वांस्तस्योक्तं ब्राह्म- णम् ॥ ७॥ अथ रथंतरस्य योनिरथ बृहतो दानामृगो न वारण इति वृचोन- कपातितायै नेदसौ बृहत्येकाकिनीवशस्त्वासदितीदं त्यत्पात्रमिन्द्रपान- मिति विज्ञातत्रैष्टुभं सवनधरणं तस्योक्तं ब्राह्मणमिन्द्रं विश्वा अवीवृध- नित्यानुष्टुभं निष्केवल्यं त्वाममि प्रणोनुम इत्यभिवद्राथंतरं रूपं तदा. हुर्नानुष्टुप्सु निविदं दध्यान्मोहयति क्लुप्तच्छन्दसो मध्यंदिनमानुष्टुमानि पूर्वाणि शस्त्वा कामस्योपाप्त्यै त्रैष्टुभेषु निविदं दधाति तथा यथायथं निविद्धीयते सैनान्यथायथं धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथायथं दधात्यर्वाग्रथं विश्ववारं त उग्रेति प्रथमेऽहन्नावति राथंतरे पादित उदुनश्चित्रतम इति द्वितीय उद्दति बार्हते संचत्वे जग्मुर्गिर इन्द्र- पूर्वीरिति तृतीये गतवत्यन्तरूपे यदि स्वराणि पृष्ठ्यानि भवन्ति बृह- द्रथंतरे एव तर्हि सामगाः पवमानेषु कुर्वन्ति या बृहद्रथंतरे पृष्ठे स्यातां स्वराणि त्वेव तर्हि सामगाः पवमानेषु कुर्वन्ति स्वराणि स्वेव पृष्टयानि स्युरिति ह स्माऽऽह कौपीतकिः स्वरसामानो ह्येते पृष्ठ्यै। देवाः स्वर्ग लोकमस्पृक्षस्तद्यत्स्वराणि पृष्ठ्यानि भवन्ति स्वर्गस्यैव लोकस्य स्पृष्ट्ये ॥ ८॥ पृष्ठ्यस्य पळहस्य समूल्हस्य याः पूर्वस्य व्यहस्य वैश्वदेवानां प्रतिप- दस्ताः प्रतिपदो यान्युत्तरस्य व्यहस्य तृतीयसवनानि तानि तृतीयस. वनानि सानुचराणि तद्यानि तत्र वैश्वदेवानि भवन्ति तान्युद्धृत्या- न्यानि प्राजापत्यान्यनिरुक्तानि परोक्षवैश्वदेवान्यवधीयन्ते प्र वः पान्तं रघुमन्यवोऽन्धस्तं प्रत्नथा पूर्वथा विश्वथेमथा कदित्थान: पात्रं देवयता- क ऋग्वेदे शाङ्खायनबाह्मणम् । [२५अध्यायः] मिति प्रति नाभानेदिष्ठस्तद्वै खलु प्रत्यक्षं वैश्वदेवान्येवावधीयेरननिरिन्द्रो वरुणो मित्रो अर्यमेति प्रथमेऽहन्यां स्कभित्वीति कद्वद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति द्वितीये ज्योतिष्कृत इति कद्वदुषासा नक्ता बृहती सुपेश- सेति तृतीये नक्तेति कद्वत्को वै प्रजापतिः प्रजापतिः स्वरसामानस्तेऽग्नि- टोमा वोक्थ्याहः संतिष्ठतेऽग्निष्टोमा इति पैङ्ग्यं ब्रह्मवर्चसिनो भवन्ति योऽनिटोमानुपयन्त्युक्थ्याः स्युरिति ह स्माऽऽह कौषीतकिः स वै यज्ञ- क्रतुः समृद्धो य उक्थ्यः पञ्चदश ह्यस्य स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि तानि त्रिंशत्सुतशस्त्राणि स विराजमभिसंपद्यते श्रीविराळ. नायं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै श्रियो विराजोऽन्नाद्यस्यो- पाप्त्यै ॥ ९॥ इति शाङ्खायनबाह्मणे चतुर्विंशतितमोऽध्यायः ॥२४॥ -- N हरिः ॐ। आपस्तपोऽतप्यन्त तास्तपस्तप्त्वा गर्भमदधत तत एष आदित्योऽजायत षष्ठे मासि तस्मात्सत्रिणः षष्ठे मासि दिवाकीर्त्यमुप- यन्ति स षण्मासानुदङ्जेति पळावृत्तांस्तस्मात्सत्रिणः षळेवोन्मिासो यन्ति षळावृत्तानन्तरेणोह वा एतमशनाया च पुनर्मृत्युश्चापाशनायां च पुनर्मृत्युं च जयन्ति ये वैषुवतमहरुपयन्ति तस्यैतानि च्छन्दोरूपाणि सूर्य- वद्भानुमज्ज्योतिष्मद्रुक्मवदुचितवद्धर्यतवदिति समुद्रावूमिर्मधुमाँ उदा- रदित्याज्यं समुद्राद्ध्येषोऽद्य उदैन्तीद्र एकं सूर्य एकं जजानेति सूर्य- वत्तदेतस्याह्नो रूपं ताः संशस्ता एकविंशतिरनुष्टुभः संपद्यन्त एकविंशो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति त्रैष्टुभः प्रउगो विषुवान्या एषोऽहां विघुर्वाश्छन्दसां त्रिष्टुप्तदेनं स्वेन च्छन्दसा समर्धयति ॥१॥ कुविदङ्ग नमसा ये वृधास इति वायव्यमवासयन्नुषसं सूर्येणेति सूर्य- वत्तदेतस्याह्नो रूपमत एवोत्तरं तृचमैन्द्रवायवं यावत्तरस्तन्वो यावदोज इति यावन्नरश्चक्षसा दीध्याना इत्येतेन रूपेणोद्वां चक्षुर्वरुण सुप्रती- कमिति मैत्रावरुणं देवयोरेति सूर्यस्ततन्वानिति सूर्यवत्तदेतस्याह्रो रूपमा गोमता नासत्या रथेनेत्याश्विनं तस्योवं भानुं सविता देवो अदिति भानुमती तृतीया तदेतस्याह्नो रूपमा नो देव शवसा याहि शुष्मिन्नित्यैन्द्रं तनूषु शूराः सूर्यस्य साताविति सूर्यवत्तदेतस्याह्नो रूपं [२५अध्यायः] जुषाणेति प्रउगः प्रजापतिर्वै च्छन्दसः प्रउगस्तस्योक्तं ऋग्वेदे शाङ्खायनबाह्मणम् । प्र ब्रह्मैतु सदनाहतस्येति वैश्वदेवं विरश्मिभिः ससृजे सूर्यो गा इति सूर्य- वत्तदेतस्याह्नो रूपमुतस्यानः सरस्वती सारस्वतं द्वारा वृतस्य सुभगे व्यावरित्येतेन रूपेणैष वा उ सूर्यवांस्त्रैष्टुभस्तृचक्लप्तो वासिष्ठः वसिष्ठः प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति ॥२॥ तदाहुन त्रैष्टुभं प्रातःसवनं स्वान्मोहयति इटुप्तच्छन्दसो यज्ञमुखमैका- हिकमेव स्याज्ज्योतिर्वा एकाहो ज्योतिरेष य एष तपति ज्योतिषैव तज्ज्योतिः समर्धयति तस्य प्रवो देवायाग्नये त्वं हि क्षेतवद्यश इत्येते उभे तदाज्यं ताः शंसस्ता एकविंशतिरनुष्टुभो भवन्ति तासामुक्तं ब्राह्मणं माधु- बाह्मणमा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपदिदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणं कया शुभा सवयसः सनीळा इति मरुत्वतीयं शुभाभा इत्ये- तेन रूपेण त्यं सुमेषं महया स्वर्विदमिति जागतमधारयो दिव्या सूर्य दृश इति सूर्यवत्तदेतस्याह्नो रूपं जनिष्ठा उग्रः सहसे तुरायेत्येतस्मिंस्त्रै- ष्टुमें निविदं दधात्यपध्वान्तमूणुहि पूधि चक्षुरित्येतेन रूपेण ता वा उभय्यस्त्रिष्टुब्जगत्यः शस्यन्ते त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यः प्रतिष्ठितस्तपति तदेनं प्रत्यक्षमाप्नुवन्ति ॥३॥ बृहदेतस्याह्नः पृष्ठं स्यादिति हैक आहुबर्हितो वा एष य एष तपति बृहदेतत्तपतीति वदन्तोऽथो अपृष्ठं वा एतद्यन्महादिवाकीर्त्यमथैते एव प्रत्यक्षे पृष्ठे यबृहद्रथंतरे तस्माबृहदेवतस्याह्नः पृष्ठं स्यादिति या सूर्यवति प्रगाथे बृहत्कुर्युः सूर्यवतश्च प्रगाथानेतस्यैवाह्नो रूपेणेन्द्रः किल श्रुत्या अस्य वेदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्यायेति सूर्यवती तदेतस्याह्नो रूपं महादिवाकीर्त्यमेवैतस्याह्नः पृष्ठं स्यादिति सा स्थिति- रेतद्वै प्रत्यक्षं साम यन्महादिवाकीत्यं तदेनं स्वेन साना समर्धयन्ति तधैके त्रिष्टुप्सु कुर्वन्ति त्रैष्टुभो वा एष य एष तपति तदेनं स्वेन च्छन्दसा समर्धयन्ति बृहतीषु स्यादिति हैक आहुर्बार्हतो वा एप य एष तपति तदेनं स्वेन च्छन्दसा समर्धयन्ति जगतीषु स्यादिति त्वेव स्थितं जागतो वा एष य एष तपति तदेनं स्वेन च्छन्दसा समर्धयन्ति ॥ ४ ॥ विभ्राइबृहत्पिबतु सोम्य मध्विति स्तोत्रियस्तृचो विश्वभ्राड्भ्राजो महि सूर्यों दृश इति विवान्भ्राजिष्मान्सूर्यवांस्तदेतस्याबो रूपं विसूर्यो मध्ये अनुचद्रथं दिव इत्यनुरूपो विवान्सूर्यवाखागत उ वै समान छन्दो विश्वाहा त्वा सुमनसः सुचक्षस इति त्वेव स्थितः सौर्यः १२ ९० ऋग्वेदे शाङ्खायनबाह्मणम् । [२५अध्यायः] सूर्यस्य ज्योग्जीवाः प्रतिपश्येम सूर्येत्येतेन रूपेण बण्महाँ असि सूर्येति सूर्यवान्त्सामप्रगाथस्तदेतस्याह्नो रूपमथ बृहद्रथंतरयोर्योनी शंसतीन्द्रः किल श्रुत्या अस्य वैदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्या- येति सूर्यवती तदेतस्याह्नो रूपं शं नो भव चक्षसा शं नो अह्नति त्वेव स्थिता सौरी सूर्यस्य तत्सूर्य दविणं धेहि चित्रमित्येतेन रूपेण य एक इद्धव्यश्चर्षणीनामिति त्रैष्टुभं दिव्यानि दीपयोऽन्तरिक्षेत्येतेन रूपे- णैवं नु यदि महादिवाकीत्य पृष्ठं भवति या वै बृहत्स्वयोनौ कुर्युबूं. हत आतानं शस्त्वा रथंतरस्य योनि शंसतीन्द्रः किल श्रुत्या अस्य वेदेत्युक्थमुखीया स हि जिष्णुः पथिकृत्सूर्यायेति सूर्यवती तदेतस्यालो रूपम् ॥ ५॥ धौर्न य इन्द्राभिभूमार्य इति त्रैष्टुभमिन्द्रः कुत्साय सूर्यस्य साताविति सूर्यवत्तदेतस्याह्नो रूपं नचेत्स्वयोनौ श्रायन्त इव सूर्यमिति सूर्यास्तो- त्रियस्तदेतस्याह्नो रूपं ययाव इन्द्र ते शतमित्यनुरूपः सहस्रं सूर्या इति सूर्यवांस्तदेतस्याह्नो रूपं यः सत्रा हा विचर्षणिरिति सामप्रगाथस्तनूष्वप्सु सूर्य इति सूर्यवांस्तदेतस्याह्नो रूपमथ बृहद्रथंतरयोोनिं शंसतीन्द्रःकिल श्रुत्या अस्य वेदेत्युक्थमुखीया तस्या उक्तं ब्राह्मणं य एक इद्धव्यश्चर्षणी- नामिति त्रैष्टुभं तस्योक्तं बाह्मणमेवं नु यदि बृहत्स्वयोनौ वा स्वयोनौ वा कुर्युरनुभयसामानं चेत्कुर्युः समानमोक्थमुखीयाया उद्धरेवृहद्रथंतरयो- योनी तमुटुहि यो अभिभूत्योजा इति त्रैष्टुभं गीभिर्वर्ध वृषभं चर्षणीना- मित्येतेन रूपेण समानमुत्तरमभित्यं मेषं पुरुहूतमृग्मियमिति जागतमादि- त्सूर्यं दिव्या रोहयो दृश इति सूर्यवत्तदेतस्याह्नो रूपं ता वा उभय्यस्त्रि. ष्टुब्जगत्यः शस्यन्ते त्रिष्टुब्जगत्योर्ह वा एष आहित आदित्यः प्रतिष्ठित- स्तपति तदेनं प्रत्यक्षं ॥६॥ प्र ते महे विदथे शंसिपं हरी ३ इति तस्य नवशस्त्वाहूय निविदं दधात्याविष्कृधि हरये सूर्यायेति सूर्यवत्तदेतस्याह्नो रूपं सर्वहरेश्चतस्रोऽ. भ्युदैत्यासत्यो यातु मघवाँ ऋजीषीत्येकविंशतिर्महि ज्योती रुरुचुर्यद्ध वस्तोरित्येतेन रूपेण ताः पञ्चविंशतिविश्वजिते धनजिते स्वर्जित इति पड़्जगत्य इन्द्राय सोमं यजताय हर्यतमित्येतेन रूपेण ता एकत्रिंशत्तासु जगतीषु दूरोहणं रोहति जागतो वा एष य एष तपति यजमाना दूरोहण एतमेव तद्यजमाना रोहन्ति पच्छः प्रथमं रोहति तदिमं लोकमाप्नोत्यर्धशो द्वितीयं तवन्तरिक्षलोकमानोति त्रिपच्छस्तृतीय स्पृशन्ति ..

[२९ अयाय: म ऋग्वेदे शाङ्खायनब्राह्मणम् । ९१ तदमुं लोकमाप्नोति केवली स आवेशस्त्रिपच्छोऽर्धर्चशः पच्छस्तदस्मि- लोके प्रतितिष्ठति प्रतिठायामप्रच्युत्यां सैषा दूरोहणीया शंसस्ताः सप्त संपद्यन्ते ता अष्टत्रिंशदेष प्रपूर्वीरवतस्य च निष इति जागतं पळूचमिन्द्रं सिषक्त्युपसं न सूर्य इति सूर्यवत्तदेतस्याह्नो रूपं ताश्चतुश्चत्वारिंशत्पतङ्ग- मक्तमसुरस्य माययेति तिम्रस्तां द्योतमानां स्वयं मनीषामित्येतेन रूपेण ताः सप्तचत्वारिंशदुरुं नो लोकमनुनेषि विद्वानिति त्रिःशस्तया परिधा- नीयया स्वर्वज्ज्योतिरभयं स्वस्तीत्येतेन रूपेण ताः पञ्चाशत्पूर्वा एकपञ्चाशत्ता एकशतमृचो भवन्ति शतायुः पुरुषः शतपर्वा शतवीर्यः शतेन्द्रिय उपयैकशततमी स यजमानलोकस्तत्रैव यजमानान्संस्कुर्वन्ति तत्रैव यजमानान्संस्कृत्याऽऽदौ महाबतीयेनाह्ना प्रजनयतीति पक्षी संपत् ॥ ७॥ अथ कौषीतकी समानमोक्थमुखीयाया ऋतुर्जनित्रीयमुद्धृत्य बृहद्र थंतरे तस्यैवैकादश स्वयोनौ नवान्यत्र तद्रूपामिनं तदपा एक ईयत इत्येतेन रूपेणेन्द्र याहि हरिभिरिति पञ्चदश सरूपैरासुनोगहीत्येतेन रूपेण बरोरेकादश शस्त्वा सर्वहरेर्वा निविदं मध्य एकशतस्यैकपञ्चाशतं शस्त्वा देबरोरभ्युदेति सर्वहरेर्वाऽऽसत्यो यातु मघवां ऋजीपीत्येकवि- शतिस्तास्त्रयोविंशतिर्विश्वजित इति पट्ता एकयानस्त्रिंशद्रोहणीयाः सप्त ताः षत्रिंशदभूरेको रयिपते रयीणामिति त्रैष्टुभं पञ्चचं दश प्रपित्वे अधसूर्यस्येति सूर्यवत्तदेतस्याह्नो रूपं ता एकचत्वारिंशत्त्यमूषु वाजिनं देवजूतमिति तिस्रः सूर्य इव ज्योतिषाऽपस्ततानेत्येतेन रूपेण ताश्चतुश्चत्वारिंशत्पतङ्गस्तिस्रस्ताः सप्तचत्वारिंशदुरुं नो लोकमनुनेषि विद्वानिति त्रिःशस्तया परिधानीयया ताः पञ्चाशत्पूर्वा एकपञ्चाशत्ता एकशतमृचो भवन्ति तासामुक्तं ब्राह्मणम् ॥ ८॥ तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति नित्यैव वैश्वदेवस्य प्रतिप- ञ्चानुचरश्च तयोरुक्तं ब्राह्मणं युञ्जते मन उत युञ्जते धिय [इति]सावित्रमुत सूर्यस्य रश्मिभिः समुच्यसीति सूर्यवत्तदेतस्याह्नो रूपं ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं देवो देवी धर्मणा सूर्यः शुचिरिति सूर्य- वत्तदेतस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यावं यदा वाऽऽख्यञ्चमसां चतुरः कृतानित्यवाऽऽख्यदित्येतेन रूपेण देवान्हुवे बृहच्छ्वसः स्वस्तय इति वैश्वदेवं ये सूर्यस्य ज्योतिषो भागमानशुरिति सूर्यवज्योतिष्मस्तदेतस्याह्नो रूपं वैश्वानराय धिषणामृतावृध इति ..

९२ ऋग्वेदे शाङ्खायनबाह्मणम् । २५अध्यायः] वैश्वानरीयं रुरुचानं भानुना ज्योतिषा महामिति रुचितवद्धानुमज्ज्यो. तिष्मत्तदेतस्याह्नो रूपं प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं विरो- किणः सूर्यस्येव रश्मय इति सूर्यवत्तदेतस्याह्नो रूपं वेदिषदे प्रियधामाय सुद्युत इति जातवेदसीयं ज्योतीरथं शुक्रवर्णं तमोहनमित्येतेन रूपेणे- त्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदग्निष्टोमः संतिष्ठते ज्योतिष अग्निष्टोमो ज्योतिरेष य एष तपति ज्योतिषैव तज्ज्योतिः समर्धयन्ति तेऽस्तत्वमाप्नुवन्ति ये वैषुवतमहरुपयन्ति ॥९॥ ॥ अर्धः॥ पुराऽऽदित्यस्यास्तमयादेतदहः संस्थापयिषेयुः स प्रातरनुवाकमेतदह- दिवाकीयं भवति स प्रातरनुवाकेन स पत्नीसंयाजेनतेनाला पुरादित्य- स्यास्तमयाशमीप्सेयुरनिं मन्ये पितरमग्निमापिमित्येतया तदहोता प्रातरनुवाकं प्रतिपद्यत आपिमित्यापों रेवत्यै रूपेण दिवि शुक्रं यजतं सूर्यस्येति सूर्यवती तदेतस्याह्नो रूपं तदु ह स्माऽऽह कौषीतकिः प्रजाप- तिर्वै प्रातरनुवाको न तमसा एतद्यथायथमेव तमुपाकुर्यात्तत्तस्य समृद्धं तथा यथायथमुपांश्वन्तर्यामौ हूयेते तदु तयोः समृद्धमिति वासिष्ठमाती सूक्तं संरश्मिभिस्ततनः सूर्यस्येति सूर्यवत्तदेतस्याह्नो रूपं शुक्ल एतस्याह्नः पिङ्गाक्षो होता स्यादिति हैक आहुरमुं वा एतेनाढेप्सन्ति योऽसौ तपति तद्यथा श्रेयांसमाहरन्नुपेयादेवं तद्यथोपपादमिति त्वेव स्थितं शस्त्रेणैवैतस्याह्नो रूपमुपेप्सेत्सौर्यः पशुरुपालम्भ्यः सवनीयस्य स उपांशु भवति स यस्तं निर्ब्रयाद्यस्तं तब ब्रूयाद्दुश्चर्मा किलासीद्भवि- ध्यसीति तथा ह स्यात्ते वा एते चत्वार एव पशव उपांशु भवन्ति सौर्यः सावित्रः प्राजापत्यो वाग्देवत्य इत्यथान्ये निरुक्ता अथ स्त्री(बी) न्स्वरसाम्न आवृत्तानुपयन्ति तेषामुक्तं ब्राह्मणम् ॥ १० ॥ त्रयोदशं वा एतं मासमाप्नुवन्ति यद्विश्वजितमुपयन्त्येतावान्दै संव- त्सरो यदेष त्रयोदशो मासस्तदत्रैव सर्वः संवत्सर आप्तो भवति तमाहुरेकाहः पळह इति यद्धयन्वहं पळहे क्रियत एकाहे तद्विश्वजिति क्रियते तद्वा इदं बहु विश्वरूपं विश्वजिति क्रियते यत्सर्वाणि पृष्ठ्यानि सर्वे स्तोमा उच्चावचाः समवधीयन्ते वैराजमवास्य प्रत्यक्षं पृष्ठं भवति माध्यंदिने पवमाने रथंतरं बृहत्तृतीये पवमाने क्रियते शाकरं मैत्रावरु- णस्य वै रूपं ब्राह्मणाच्छंसिनो रैवतमच्छावाकस्य त एतं त्रयोदशमधि- चरं मासमाप्नुवन्त्येतद्धि त्रयोदशं पृष्ठ्यान्युपयन्ति तस्याग्निं नरो दीधितिभिररण्योरिति वैराजमाज्यं तस्योक्तं ब्राह्मणं माधुच्छन्दसः ॥

[२५अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । ९३ न्यूङ्खयति प्रउगस्तस्योक्तं ब्राह्मणमा त्वा रथं यथोतय इति मरुत्वतीयस्य प्रति- पदिदं वसो सुत मन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणं कया शुभा सवयस्यः सनीळा इति मरुत्वतीयं कद्वत्कया शुभीयं को वै प्रजापतिविश्वजिद्यामेवा, वैराजस्य स्तोत्रियानुरूपी तौ स्तोत्रियानुरूपी तयोस्तथैव यथादश्चतुर्थेऽहन्न हि वैराज तत्स्थानमन्यूङ्खनायैषा धाय्यैषा धाय्यैषोष्ठेन्द्रः प्रगाथोऽथ बृहद्रथंतरयो- र्योनी शंसति तदिदास भुवनेषु ज्येष्ठमिति निष्केवल्यं यज्ञो वै भुवनेषु ज्येष्ठो यज्ञ उ वै प्रजापतिर्विश्वजिदथ यदि षष्ठस्याह्नस्तृतीयसवनं तत्तृ. तीयसवनं प्राजापत्यं वै पष्ठमहः प्रजापतिविश्वजिदैकाहिकी प्रतिपदे- काहो वै विश्वजित्पतिष्ठा वा एकाहः प्रतिष्ठित्या एवाभिवाननुचरस्त- स्योक्तं ब्राह्मणम् ॥ ११॥ तदाहुरथ कस्माद्विश्वजिति सर्वपृष्ठ एकाहे तृतीयसवने शिल्पानि शस्यन्ते कस्मादग्निष्टोमे माध्यंदिन इति ये वा इमेऽवाञ्चः प्राणास्तानि शिल्पानि पुरुषो वै यज्ञस्तस्य य ऊर्ध्वाः प्राणास्तत्प्रातःसवनमात्मा मध्यंदिनो येऽवाञ्चस्तत्तृतीयसवनं तानि शिल्पानि तस्मात्तृतीयसवने शिल्पानि क्रियन्त एतद्ध्येपामायतनमथ कस्मादग्निष्टोमे सात्रिके सांव- त्सरिके विश्वजिति माध्यंदिने शिल्पानि शस्यन्त आत्मा वै पृष्ठ्यानि प्राणाः शिल्पानि न वाऽन्तरेणाऽऽत्मानं प्राणाः ख्यायन्ते न प्राणानन्त- रेणाऽऽत्मानो एतन्नाना तस्मादमिष्टोम एवापि विश्वजिति माध्यंदिने शिल्पानि शस्यन्ते नेत्याणेभ्य आत्मानमपादधानीत्यथो प्रजापति विश्वजित्सर्वं वै प्रजापतिर्विश्वजित्तस्मात्सर्वाणि पृष्ठयानि क्रियन्ते सर्वाणि शिल्पानि सर्वं वै प्रजापतिविश्वजित्तत्सर्वेण सर्वमाप्नोति य एवं वेद ॥ १२॥ तत्राऽऽनिमारुते रौद्रीं शस्त्वा होतैव या मरुतं पतिशं संशंसति पालो वै यज्ञो यज्ञस्यैवाऽऽप्त्यै नेदच्छावाकस्य शिल्पमन्तर्यामित्यथो रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानामतिच्छन्दाश्छन्दसां विश्वजिदेकाहानां तदेनं स्वेन च्छदसा समर्धयति तिसृष्वस्य न्यूङ्खयेन्यूलयितुं चेन्द्रियेत सर्वाश्चैव न्यूङ्ख- येदन्नं वै न्यूङ्खोऽन्नं प्राणाः प्राणाः शिल्पानि प्राणेष्वेव तत्प्राणं दधात्यथो विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्वमुदजयत्तस्माद्विश्व- जिदेतद्वा एष जायते विश्वजिता यो यजते तस्मान्यूङ्खयति न्यूलमा- नक इव वै प्रथम चिचरिषश्चरति तदेनममृताच्छन्दसोऽमृतत्वाय प्रज- नयति तेऽमृतत्वमाप्नुवन्ति ये विश्वजितमुपयन्ति ॥ १३॥ .

वाञ्छन्ति ऋग्वेदे शाङ्खायनब्राह्मणम् । [२६अध्यायः] स सर्वस्तोमः सर्वपृष्ठोऽग्निष्टोमः संतिष्ठते यः सात्रिकः सांवत्सरिको विश्वजित्प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्या एवैकाह उ चेद्विश्वजिवा- त्रिसत्रस्य वा विषुवानतिरात्र एव स्यात्स कृत्स्नो विश्वजिद्योऽतिरा- ब्रोवं वै विश्वजितोह्ना क्रियतेऽधं राव्या सर्वपराजिदु हैव स योऽ- न्यत्र सर्ववेदसाद्वा सत्राद्वा क्रियते सर्वज्यानिहव सा योऽन्यत्र विश्वजितः सर्वं ददाति विश्वजिच्चेत्सर्वमेव सर्वमु चद्विश्वजिदेव यो ह वै न सर्व ददाति सर्वं ददानीति बुवन्गर्तपत्यमेवं तद्धीयते प्रवा- मीयते इति ह स्माऽऽह सहस्रं वैनमवरुन्ध इति ह स्माऽऽह कौषी- तकिः सर्व वैतद्यत्सहस्रं सर्वं विश्वजित्तत्सर्वेण सर्वमानवानीति ॥ १४ ॥ वत्सछवीं परिदधीत रिरिचान इव वा एतस्या आत्मा भवति यः सर्व ददाति वत्सं वै पशवो पुनर्मा पशवो वाञ्छानित्यु- दुम्बरे वसेदूर्वान्नाद्यमुदुम्बर ऊर्जोन्नाद्यस्योपाप्त्यै नैषादेव सेदेतद्वा अवराय॑मन्नाद्यं यन्नैषादाऽवराय॑स्यान्नाद्यस्योपाप्त्यै वैश्ये वसेद्वैश्यो वै पुष्यतीव यद्वैश्येऽन्नाद्यं तस्योपाप्त्यै क्षत्रिये वसेदेतद्वै परार्ध्वमन्नाद्य यत्क्षत्रियः पराय॑स्यान्नाद्यस्योपाप्त्यै बाह्मणे समानगोत्रे वसेद्यत्स- माने गोत्रेऽन्नायं तस्योपाप्त्यै संवत्सरं चरेदधः संवेश्य फालकृष्टास्य प्रतिगृह्णन्नान्यं याचन्निदं धत्तमनुवसानं तत्तेनानुवस्ते द्वादशरात्रं चरि- त्वाथान्यस्यै बुभूपायै स्यादिति ह स्माऽऽह कौषीतकिादश वै मासाः संवत्सरः सा संवत्सरस्य प्रतिमेति प्राजापत्यान्यनिरुक्तानि होत्राणा- माज्यानि भवन्ति तस्य तानः शक्तं पार्थिवस्य युञ्जन्ति बध्नमरुषं ता हि शश्वन्त ईळते तमीळिष्वयो अचिषेति वा स्तोत्रियाः षष्ठस्याह्नः स्तोत्रियाननुरूपान्कुर्वीरन्पाजापत्यं वै षष्ठमहः प्रजापतिविश्वजिवितरे पञ्च तदुक्तं पर्यासैः परिदधति प्रतिष्ठा वै पर्यासाः प्रतिष्ठित्या एव प्रतिष्ठित्या एव ॥१५॥ इति शाङ्खायनब्राह्मणे पञ्चविंशतितमोऽध्यायः॥ २५ ॥ हरिः ॐ द्वात्रिंशी प्रथमो मासोद्वात्रिंश्युत्तमो द्वात्रिंशदक्षराऽनुष्टुब्बा- गनुष्टुप्तद्वाचा प्रयन्ति वाचमनूतिष्ठन्तेऽष्टाविंशिनावभितो विषुवन्तं मासा- वष्टाविंशत्यक्षरोष्णिगौष्णियो ग्रीवा अथैतच्छिरो यज्ञस्य यद्विषुवा- न्ग्रीवा एव तत्कल्पयित्वा तासु शिरः प्रतिद्धति तदाहुः कतरेषामेषोऽह्ना मवरेषां परेषामिति नावरेषां न परेषामित्याहुरुभयेषां वा एषोऽह्नामु- भयानि वैतस्यैतान्यहानि तदाहुः कति पळहः संवत्सर इति षष्टिः षळहा:

[२६अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । पळहशस्तदेतदव्यवलम्बिसंवत्सरायनं तद्य एवं संवत्सरस्याहानि युञ्जन्ति त एतान्कामानृध्नुवन्ति ये संवत्सरेऽथ योऽ(ये)तोऽन्यथा संवत्सरस्या- हानि युञ्जन्ति न ते तान्कामानृध्नुवन्ति ये संवत्सरेऽथ हैक ऊर्ध्वा- नेव मासानुपयन्त्यूर्वान्यहान्यूर्व वा उभयं संवत्सरं रोहाम इति मासा एवाऽऽवर्तेरन्नहानीत्येके य एष पृष्ठ्यः पळहः पुनः परस्तात्पर्येति तेन मासा आवृत्ता इति वदन्तस्तदाहुर्विदूररूपं वा एतद्यत्रिवृच्च त्रय- स्त्रिंशश्च स्तोमौ तद्यथा गिरिशिखराद्गर्तमभिप्रस्कन्देदेवं तत्स्तोमकृ- न्तत्रं तस्मादेवाहानि वर्तेरन्नो मासास्तोमकृन्तत्रताया इति ॥१॥ अथातो गोआयुषोर्मीमांसा विकृते गोआयुषी उपेयुरहोरात्रे वै गो आयुषी विकृते वा इमे अहोरात्रे अन्योन्यस्मिन्नथो द्यावापृथिवी वै गोआयुषी विकृते वा इमे द्यावापृथिवी अन्योन्यस्मिन्नथो प्राणा. पानौ वै गोआयुषी विकृतौ वा इमौ प्राणापानावन्योन्यस्मिन्प्रत्यति- छत ते हैक ऊर्ध्वं उपयन्त्यूर्वे उपेतव्ये गोआयुषी इत्यन्वाभिप्लविकाः स्तोमा आवर्तन्ते दशरात्रमनुपृष्ठ्यस्तोमा इति वदन्तस्तदाहुर्यदेवेदं द्वितीयमहथच्च तृतीयमेते वा उ गोआयुषी ॥२॥ अथ कश्चिच्छस्ने वाऽनुवचने वा प्रमत्त उपहन्याद्विचिकित्सा वा स्यादुपहतमबुद्धमतिकान्तं मन्यमानो मनसा वृत्तान्तमीक्षमाणो विनिवृ- त्योपहतमनुपहतं कृत्वाऽऽनन्तर्यात्प्रयोगः स्यावृत्तान्तादिति मीमांस- न्तेऽथ ह स्माऽऽह पैङ्गन्योनानन्तर्यात्प्रयोगः स्यादतिरिक्तो वा एष मन्त्रः स्याद्यो वचना[]द्विरुच्येत तस्मान्नाऽऽनन्तर्यात्प्रयोगः स्यादिति ह स्माऽऽह पैंग्योऽथ ह स्माऽऽ[ह] कौषीतकिः परिमितफलानि वा एतानि कर्माणि येषु परिमितो मन्त्रगणः प्रयुज्यतेऽथापरिमितफलानि येष्वप- रिमितो मन्त्रगणः प्रयुज्यते मनो वा एतद्यदपरिमितं प्रजापतिर्वै मनो यज्ञ उ वै प्रजापतिः स्वयं वैतद्यज्ञो यज्ञस्य जुषते यन्मनो मनसस्तस्मा- दानन्तर्यात्प्रयोगः स्यादिति ह स्माऽऽह पैंग्योऽथ ह स्माऽऽह कौषी- तकिर्मितं ह वै मितेन यजत्यमितममितेनापरिमितस्यावरुद्ध्या अनुल्ब- णममेतदिति ह स्माऽऽहकौषीतकिर्नाऽऽहुतिं जुहुयात्तथा ह यज- मानः स्वर्गाल्लोकान्सन्किामान्सर्वा इष्टीः सर्वं चाऽमृतत्वमाप्नोति सर्वेषां च भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति यश्चैवं क्रियते ॥३॥ अथ ययूवं परिधानात्मणववषट्कारयोर्वोवं याज्यापुरोनुवाक्ययोर्बु- ध्येतातिक्रान्तमुल्बणमेतस्यां वेलायां भवतीति ह स्माऽऽह प्रागहिस्त- ९६ ऋग्वेदे शाङ्खायनबाह्मणम् । [२६ अध्यायः] स्मान्नैतस्यां वेलायामतिकान्तमुल्वणं सदस्यो बोधयेतेति ह स्माऽऽह- पैंग्यः स्थाणुं वर्छति गर्ने वा पतति धीयते वा प्र वा मीयत इति ह स्माऽऽह यद्यतिक्रान्तमुल्बणं च [स] दस्यो बोधयेत कृतस्यानावृत्ति- रिति ह स्माऽऽहाऽऽरुणिर्गुणलोप इति श्वेतकेतुस्तस्मानातिकान्त- मुल्बणं सदस्यो बोधयेतेति ह स्माऽऽह पैंग्योंऽहो वा एतयज्ञस्य यद्यतिक्रान्तमुल्वर्ण सदस्यो बोधयेतेति हैक आहुस्तस्मान्नातिकान्तमु- ल्बणं सदस्यो बोधयेतेति ह स्माऽऽह पैंग्यः ॥४॥ अथ ह स्माऽऽह दैवोदासिः प्रतर्दनो नैमिषीयाणां सत्रमुपगम्योपा- स्यद्यविचिकित्सां पप्रच्छ यद्यतिन्क्रातमुल्बणं सदस्यो बोधयेतविजां वाऽन्यतमो बुध्येत कथं वोऽनुल्बणं स्यादिति त उ ह तूष्णीमासुस्तेषा- मलीकयुर्वाचस्पतो ब्रह्मा स सहोवाच नाहमेतद्वेद हन्त पूर्वेषामाचार्य स्थविरं जातूकण्यं पृच्छानीति तं ह पप्रच्छ यद्यतिक्रान्तमुल्बणं कर्ता वा स्वयं बुध्येतान्यो वा बोधयेत कथं तदुल्बणमनुल्बणं भवेत्पुनर्वच- नेन वा मन्त्रस्य होमेन वेति पुनर्वाच्यो मन्त्र इति ह स्माऽऽह जातूक- येस्तमृलीकयुः पुनः पप्रच्छ शस्त्रं वा अनुवचनं वा निगदं वा याज्यां वा यद्वाऽन्यत्सर्वं तत्पुन—यादिति यावन्मात्रमुल्बणं तावढ्याचं वाऽर्धचं वा पादं वा पदं वा वर्ण वेति ह स्माऽऽह जातूक! (यो) ऽथ ह स्माऽऽह कौषीतकिर्न मन्त्रं पुनर्ब्रयान्नाऽऽहुतिं जुहुयादनुल्बण- मेतदिति ह स्माऽऽह कौषीतकियेद्धि होतारो यज्ञस्य किंचित्तदुल्बण- मबुध्यमानाः कुर्वन्ति सर्वं तदग्निर्देवो होता अनुल्बणं करोति तदेतह- चाऽभ्युदितम् ॥५॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मासः । अनिष्ट- द्धोता ऋतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजातीति यच्चाऽऽह संस्थिते यज्ञेऽयाद्यज्ञं जातवेदा इत्ययाक्षीदिमं यज्ञं जातवेदा इति तदाहान्तरः पूर्वो अस्मन्निषधेति यदाहानिह दैवो होता मानुषाद्धोतुः पूर्वो निषद्य इति तदाहाऽऽशिषमेवोत्तरेणार्धर्चन वदति पूर्वया चर्चा ॥६॥ घष्ठे वा अहन्देवाः स्तोमांश्च मासांश्चाऽऽनुवंस्तानातान्स्तोमानेतानेव पृष्ठ्यस्तोमान्द्वंद्व समास्यन्कुतो ह्यन्यं स्तोममाहरिष्यन्नथैतौ [त्रि]. वृत्पञ्चदशौ स्तोमौ सप्तममहर्वहतश्चतुर्विंशस्तोमो भूत्वाऽथैतौ सप्तदश- त्रिणवौ स्तोमावष्टममहर्वहतश्चतुश्चत्वारिंशस्तोमो भूत्वाऽथैतावेकविंशत्र- यजत अन्तो वै पुनस्ततिरेव म [२६ अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । यधिशौ स्तोमौ नवममहर्वहतोऽष्टाचत्वारिंशस्तोमो भूत्वा तेषां गायच्या प्रथमो मितनिष्टुभा द्वितीयो जगत्या तृतीयस्तद्यच्छन्दोमि- मितास्तस्माच्छन्दोमा अथ याः षट्रस्तोत्रिया अष्टाचत्वारिंशं स्तोमम- तियन्ति तास्ता ऋतव इत्याहुः षकृतवस्ताभिर्दशम महस्तायते ॥ ७ ॥ षष्ठमहरथ सप्तममहस्तस्मात्ततवन्ति सप्तमेऽहं- (हन्) सूक्तानि शस्यन्ते प्रायणीयरूपेण पुनः प्रायणीयं हि सप्तममहः प्रवः शुक्राय मानवे भरध्वमित्याज्यं प्रवत्प्रवदै प्रथमस्याह्नो रूपं प्रवीरया- शुचयो ददिरेवामितिवायव्यं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपमत एवोत्तरं तृचमैन्द्रवायवं ते सत्येन मनसा दीध्याना इति स्वेन युक्तासः क्रतुना वहन्तीति युक्तवाक्तवदै प्रथमस्याह्नो रूपमुद्रां चक्षुर्वरुण सुप्रतीकमिति मैत्रावरुणं देवयोरेति सूर्यस्त तन्वानिति ततवत्ततवद्वै सप्तमस्याह्नो रूप- मागोमता नासस्या रथेनाऽऽनो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देव- यन्तो अर्चन्प्रक्षोदसा धायसा सस्र एषेत्येति वा वै प्रेति वा प्रायणी[य] रूपं तस्मादावन्ति च प्रवन्ति च सप्तमेऽहन्त्सूक्तानि शस्यन्ते प्रायणीयरूपेण पुनः प्रायणीयं हि सप्तममहस्तदाहुर्यत्किंच च्छन्दः प्रातःसवने युज्येता. धर्चश एव तस्य शस्त्रं गायत्र्यै रूपेणाथो प्रातः सवनरूपेणेति तदु ह स्माऽऽह कौषीतकिर्न त्रिष्टुब्जगत्यावेतत्स्थानेऽर्धर्चशः शस्याय यद्यपि प्रातःसवने युज्येयातां पच्छ एवैनयोः शस्त्रमिति सा स्थितिवृहत्पृष्टं राथंतरं शस्त्रं तन्मिथुनं प्रजात्यै रूपमन्वायत्ता मरुत्वतीयानां प्रतिपद- नुचरा अन्वायत्ता ब्राह्मणस्पत्यारूयहरूपेण तेषामुक्तं ब्राह्मणम् ॥ ८॥ कया. शुभा सवयसः सनीळा इति मरुत्वतीयं तदेतत्संज्ञा श्रीसूक्त- मेतेन हेन्द्रश्च मरुतश्च समजानतामभिसंजानते ह वा अस्मै स्वाश्रेष्ठयाय य एवं वेद कया मती कुत एतास एत इत्यावद्राथंतरं त्यं सुमेषं महया- स्वविमिति जागतमेन्द्रं ववृत्यामवसे सुवृक्तिभिरित्यावदाधंतरं तवा- हुर्यद्रथंतरं पृष्ठं सप्तमस्याल आयतनेनाथ कस्मादन्वहं बृहक्रियत इति तानि या एतानि महांस्तोमान्यहानि भवन्ति तस्मादन्वहं वृहत्कि- यत एतेषामेवाह्नां सबलताया एतेषां स्तोमानामसमल्लतायै बृहत आतानं शस्त्वा रथंतरस्य योनिं शंसति नाऽऽहैव नः पिता योऽन्यवादं सैवा- सीदिति ह स्माऽऽह कौषीतकिर्यत्र तु क्व चैते सामनी समानेऽहन्सं- निवपनेयातामन्वेव तत्रेतरस्येतरस्य वा योनिमनुशंसेद्यधुक एव रथं. तरं कुर्युर्मास्य योनिमनुशंसेन्न ह्यन्येषां पृष्ठ्यानां योनिः शस्या भव- १३ ९८ ऋग्वेदे शासायनबाह्मणम् । [२६ अध्यायः] तीति ह स्माऽऽह कौषीतकिस्तमु ष्टु हि यो अभिभूत्योजा अभियं मेषं पुरुहूतमृग्मियमिति [वै] टुभजागते सूक्ते उमे अभिवती तद्राथंतरं रूपं द्वे द्वे सूक्ते निष्केषल्यमहत्वतीययोः शस्येते प्रथमे छन्दोमे द्विपाध- जमानः प्रतिष्ठित्यै तानि चत्वारि संपद्यन्ते पशवो वै छन्दोमाश्चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै ॥ ९ ॥ तत्सवितुर्वरेण्यमिति सावित्रं धियो यो नः प्रचोदयादिति प्रवत्प्रवदै प्रथमस्याह्नो रूपं प्रेतां यज्ञस्य शंभुति द्यावापृथिषीयं प्रवत्व प्रथम- स्याह्नो रूपमयं देवाय जन्मन इत्यार्भवं स्तोमो विप्रेभिरासयेत्यावदा- व मधमस्याह्नो रूपमृजलीती नो वरुण इति पञ्चर्च वैश्वदेवं नीतवन्नी- तबदै सत्तमस्याह्नो रूपमायाहि वनसा सहेति द्विपद्वा आवदाव? प्रथ- मस्याला रूपमोमासश्चर्षणी धृत इति वैश्वदेवं विश्वे देवास आगतेत्याव- दाबदै प्रथमस्याह्नो रूपं गायत्रं गायत्रतृतीयसवनो ह्येष यहो वैश्वानरो न ऊतय इति वैश्वानरीयमा प्रयातु परावत इत्यावदाववै प्रथमस्याह्नो रूपं प्रयवास्त्रिष्टुभमिषमिति मारुतं प्रवत्प्रवद्वे प्रथमस्यान्हो रूपमर्चन्तस्त्वा हवामह इति जातवेदसीयं त्वया यज्ञं वितन्वत इति ततवत्ततवटै सप्त- मस्याझो रूपं गायत्रं गायत्रतृतीयसवनो ह्येष व्यह इत्याग्निमारुतसू. क्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽप्तिर्या प्रथ- मस्याह्नः ॥ १०॥ अर्धः॥ अयं लोकः प्रथमश्छन्दोमोऽन्तरिक्षलोको द्वितीयोऽसौ लोक उत्तमस्तस्मान्महद्वन्ति मध्यमेऽहन्सूक्तानिशस्यन्ते महद्धीदमन्तरिक्षमथो अभ्यारब्धवन्ति स्युः परमे वै तदहरभिवदति परमे वै तदहरभ्याऽऽरभ्य वसन्तीति ह स्माऽऽह कौषीतकिरग्निं वो देवमग्निभिः सजोषा इत्याज्यं यदा महः संवरणाद्यस्थादिति महद्वत्सदभ्यारब्धवस्कुविदङ्ग नमसा ये वृधास इति वायव्यं महद्दवृद्धवन्महद्वन्महद्वद्धयेतदहरत एवोत्तरं तृचमैन्द्रयायवं यावत्तरस्तन्वो यावदोज इति यावन्नरश्चक्षसा दीध्याना इत्यभ्यारब्धवत्प्रति वां सूर उदिते सूक्तैरिति मैत्रावरुणं मित्रं हुवे वरुणं पूतदक्षमिति महद्वत्सदभ्यारब्धवदपस्वसुरुषसो नग्जिहीत इत्याश्चिन- मश्वा मघा गोमघा वां हुवेमेति महद्वत्सदभ्यारब्धवदयं सोम इन्द्र तुभ्यं सुन्व इत्यैन्द्रं ब्रह्मन्वीर ब्रह्म कृति जुषाण इत्यभ्यारब्धवत्प्र ब्रह्माणो अङ्गिरसो न क्षन्तेति वैश्वदेवं प्रक्रन्दनु भन्यस्येवेत्वित्यभ्यारब्धवदु तस्यानः सरस्वती जुषाणेति सारस्वतं वर्धशुभ्रे स्तुवते रासि वाजा - - [२६ अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम् । ९९ निति वृद्धवन्महद्दन्महबद्धयेतदहा राथंतर पृष्ठं चाहतं शस्त्रं बन्मिथुनं प्रजात्यै रूपम् ॥ ११॥ महा५ इन्द्रोनृबदाचर्षणि प्रा इति त्रैष्टुमानां प्रथमं मरुत्वतीयानां महद्वन्महद्वध्येतदहरिमा उ त्वा पुरुतमस्य कारोरिति द्वितीय हव्यं वीर हटया हवन्त इति महद्वत्सदभ्यारब्धक्क स्य वीरः को अपश्यदिन्द्र- मिति तृतीयं सुखं रथभीयमानं हरिभ्यामिति महद्वत्सदभ्यारब्धवन्मह- श्चित्वमिन्द्र यत एतानिति चतुर्थं महश्चिदसि त्यजसो वरूतेति महद्वत्सद- दभ्यारब्धवत्तमस्य द्यावापृथिवी स चेतसेति जागतं पञ्चमं यदैत्कृण्वानो महिमानमिन्द्रियमिति महद्वत्सदभ्यारब्धवत्त्वं महा५ इन्द्र तुभ्यं हक्षा इति त्रैष्टुभानां प्रथमं निष्केवल्यानां महद्वन्महत्यद्धयेतदहस्त्वं महा५ इन्द्र यो ह शुष्मैरिति द्वितीयं महद्वत्सदभ्यारब्धघदपूर्या पुरुतमान्यस्मा इति तृतीयं महे वीराय तवसे तुरायेति महद्वत्सदश्यारब्धवत्ता सुते कीर्ति मघवन्महित्वेति चतुर्थं महद्वत्सदभ्यारब्धपदिमां ते धियं प्रभरे- महो महीमिति जागतं पञ्चमं महद्वत्सदभ्यारब्धवत्पञ्च पञ्च सूक्तानि निष्केवल्यभरुत्वतीययोः शस्यन्ते मध्यमे छन्दोमे पशवो वै छन्दोमाः पालाः पशवः पशूनामेषाऽऽप्त्यै ॥ १२ ॥ हिरण्यपाणिमूतय इति सावित्रमपान्नपातमवस इत्यभ्यारब्धधन्मही द्यौः पृथिवी च न इति द्यावापृथिवीयं महद्वन्महदद्धयेतहहयुवाना पितरा पुनरित्यार्भवमिन्द्रेण च मरुत्वतादित्येभिश्च राजभिरित्यभ्यारब्ध- ववानामिदयो महदिति नवचं धैश्वदेवं वामं नो अस्त्वर्यमन्वामं वरुण शंस्यमिति महद्वत्सदभ्यारब्धवदिमा नु कं भुवनासीषधामेति द्विपदा इन्द्रश्च विश्वे च देवा इत्यभ्यारब्धयद्विश्वेदेवा ऋतावृध इति वैश्वदेवं वृद्ववन्महद्वन्महद्वद्धयेतदहर्गायत्रं गायत्रतृतीयसवनो ह्येष व्यहो वैश्वा- नरो अजीजनदिति वैश्वानरीयं मया वृधान ओजसेति वृदयन्महद्वन्म- हदद्धयेतदहः कद्ध नूनं कधप्रिय इति मारुतमभ्यारब्धवदूतं वो विश्व. वेदसमिति जातवेदसीयमग्ने मृळ महा५ असीति वाऽष्टमष्टमस्यासः पूर्वं तु स्थितं महा५ आ रोधनं दिव इति महद्वन्महद्वध्येतदहर्गायत्रं गायत्रतृतीयसवनो ह्येष यह इत्यामिमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽप्तिर्या द्वितीयस्याह्नः ॥ १३ ॥ अन्तो गतिर्नवममहरसौ द्यौरसौ लोकरतस्माद्गत वन्ति नवमेऽहन्मू- तानि शस्यन्तेऽगन्म महानमसा यविष्ठं सोमस्य मा तवसं वक्ष्यग्न इत्येते .

1
१००
ह
अस्मै
ऋग्वेदे शाङ्खायनब्राह्मणम् । [२६ अध्यायः]
उभे तदाज्यमगन्मेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा
कम्यहि तत इयादस्थुरत्र धेनवः पिन्वमाना इति स्थितवत्तदन्तरूप-
मन्तो नवममहस्तिष्ठतीव या अन्तं गत्वा कश्यहि तत इयादगन्म
महानमसा यविष्ठमित्येतदेव तृचमाज्यं स्यादिति ह स्माऽऽह पैङ्गन्योऽग-
न्मेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कन्यहि तत
इयादष्टाचत्वारिंशं स्तोमं किं तृचं व्यश्नुवीतेति ह स्माऽऽह कौषीतकिः
सोमस्य मा तवसं वक्ष्यग्न इत्येतदुपसंशंसेत्तस्य तदेवान्तरूपं यद्भूतानु
वादि प्राञ्चं यज्ञं चकृम दिवः शशासुरिति यदेतद्भूतमिषाभ्यन्वा-
भिस्तोमो न व्याप्त इति ह स्माऽऽह पैङ्गन्यो यहम्भिरेव स्तोमो न च्याप्त
इत्यक्षरैई वा ऋक्स्तोमं व्यश्नुतेऽक्षरह निविद्वा पुरोरुग्वत्र व्याप्तो
ह वा उ तत्र स्तोमो भवति यत्र निविद्वा पुरोरुग्या शस्यते तस्माद्वद
एव तृचमाज्यं स्यादिति यददः पैङ्गस्य वर्चस उमे इति त्वेव स्थितमे-
तेन विश्वामित्रश्च वसिष्ठश्च समजानतामभिसंजानते ह वा
स्वाश्रेष्ठयाय य एवं वेद तस्मादुभे एव स्यातां वासिष्ठं पूर्व वैश्वामित्र-
मुत्तरम् ॥१४॥
आ वायो भूपं शुचिपा उप न इति वायव्यं चैन्द्रवायवं चाऽऽगतेति
गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कयहि तत इयात्म
सोता जीरो अध्वरेवस्थादिति स्थितवत्तदन्तरूपमन्तो नवममहस्ति.
ठतीव वा अन्तं गत्वा कयहि तत इयादिवि क्षयन्ता रजसः पृथिव्या-
मिति मैत्रावरुणं क्षयन्तेति क्षितवत्तदन्तरूपमन्तो नवममहः क्षियतीव
वा अन्तं गत्वा कन्यहि तत इयादा विश्ववाराश्विना गतं न
इत्याश्विनं प्रतत्स्थानमवाचि वां पृथिव्यामिति स्थितवत्तदन्तरूपमन्तो
नवममहस्तिष्ठतीव वा अन्तं गत्वा कयहि तत इयादिन्द्रं नरो नेम-
धिता
हवन्त इत्यैन्द्रं यत्पार्या युनजते धियस्ता इति पार्याः परास्ति-
दन्तरूपमन्तो नवममहरन्ते अन्तं दधात्यो अग्निः सुमतिं वस्वो
अदिति वैश्वदेवमश्रेदिति श्रितवत्तदन्तरूपमन्तो नवममहः श्रिय-
तीव वा अन्तं गत्वा कयहि तत इयात्मक्षोदसा धायसा सस्र एषेति
सारस्वतं प्रबाबधानेति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा
नृत्यति कयहि तत इयादेते घाउ त्रैष्टुभास्तृचक्लप्ता वासिष्ठाः प्र-
उगाः प्रजापति वसिष्ठः स तं ता यज्ञस्यस पुनस्तताव यातयामा भवति
प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति बृहत्पृष्ठं राथंतरं शस्त्रं तन्मिथुनं
प्रजात्यै रूपम् ॥ १५॥

[२६ अध्यायः ऋग्वेदे शाङ्खायनबाह्मणम् । १०१ व्यर्यमा मनुषो देवतातेति त्रैष्टुभानां प्रथमं मरुत्वतीयानां त्रीति तत्तृतीयस्याह्नो रूपमिन्द्रो रथाय प्रवतं कृणोतीति द्वितीयं यमध्यस्था न्मघवा वाजयन्तमित्यधस्थादिति स्थितवत्तदन्तरूपमन्तो नवममहस्ति- छतीव वा अन्तं गत्वा कड्यहि तत इयात्तिष्ठा हरी रथ आयुज्यमानेति तृतीयं तिष्ठेति स्थितवत्तदन्तरूपमन्तो नवममहस्तिष्ठतीव वा अन्तं गत्वा कञ्यहि तत इयाद्गायत्साम नभन्यं यथावेरिति चतुर्थ सामेति तदमुष्य लोकस्य रूपं प्रमन्दिने पितुमदर्चता वच इति जागतं पञ्चमं तस्य तदेवा- न्तरूपं यसोदर्कमासत्यो यातु मघवा ऋजीषीति त्रैष्टुमानां प्रथम निष्केवल्यानामवस्य शूरेति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इयादस्मा इदु प्रतवसे तुरायेति द्वितीयमस्मा अस्मा इति सप्रभृति यथा वे सोदकमेवं सप्रमृत्यन्तरूपं द्यौर्नय इन्द्रा भिभूमार्य इति तृतीयं द्यौरिति तदमुष्य लोकस्य रूपं तत्त इन्द्रियं परमं पराचैरिति चतुर्थं परमं पराचैरिति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कयहि तत इयादहं भुवं वसु नः पूर्व्यस्पतिर्विश्वजिते धनजिते स्वर्जित इति द्वे जागते अहमहमिति सप्रमृति यथा वै सोद- कमेवं सप्रभृत्यन्तरूपं जिते जित इति. निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कश्यहि तत इयात्पञ्च पञ्च सूक्तानि मरुत्वतीये शस्यन्त उत्तमे छन्दोमे पशवो वै छन्दोमाः पालाः पशवः पशूना मेवाऽऽप्त्यै पळन्ततो निष्केवल्ये षड्या ऋतवः संवत्सरः संवत्सरस्यै. वाऽऽप्त्यै ॥१६॥ अभि त्वा देवसवितरिति सावित्रमभीत्येव वा असौ लोकस्तदमुष्य लोकस्य रूपं प्रवां महिद्यवी अभीति द्यावापृथिवीयं महिद्ययी अभीति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कन्यहि तत इयादिन्द्र इथे ददातु न इत्येका तेनो रत्नानि धत्तनेति हे इत्यार्भवमेक- मेकं सुशस्तिभिरित्येकमेकमिति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृत्यति कन्यहि तत इयादथ वैश्वदेवं मनुः सर्व आयुर्वं मनुरायुरेव तद्यज्ञे च यजमानेषु च दधात्यत्रैव द्विपदास्तासामुक्तं देवास आगतेति वैश्वदेवमागतेति गतवत्तदन्तरूपमन्तो नवममहरैतीव वा अन्तं गत्वा कद्यहि तत इयाद्गायत्रं गायत्रतृतीयसवनो ह्येष व्यहो दिवि पृष्ठो अरोचतेति वैश्वानरीयं दिवीति तदमुष्य लोकस्य रूपं मरुतो यस्य हि क्षय इति मारुतं क्षय इति क्षितवत्तदन्तरूपमन्तो नवममहः भ बाह्मणं विश्वे M बूयान्नन्दति ह १०२ ऋग्वेदे शाङ्खायनबाह्मणम् । [२७अध्यायः क्षियतीव वा अन्तं गत्वा कयहि तत इयादग्नि)ता पुरोहित इति जातवेदसीयं क्षयं पावक शोचिष इति क्षितवत्तदन्तरूपमन्तो नवममहः क्षियतीव वा अन्तं गत्वा कड्यहि तत इयाद्गायत्रं गायत्रतृतीय. सवनो ह्येष व्यह इत्यानिमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽप्तिर्या तृतीयस्याह्नोऽन्वहं द्विपदाः शस्यन्ते सर्वेषु च्छन्दोमेषु पशवो वै च्छन्दोमा यजमानच्छन्दसं द्विपदा अधिष्ठाया- मेव तत्पशूनां यजमानां दधात्यधीव वै पशून्पुरुषस्तिष्ठति पुरुषस्ति- ठति ॥ १७॥ इति शासायने बाह्मणे षड्विंशोऽध्यायः ॥ २६ ॥ ॐ यदिव्युपरि तदशममहरिति ह स्माऽऽह कौषीतकिस्तस्मात्तदवि- वाक्यं भवति न हि तदद्धा बेद कश्चनेनदविद्वान्निर्बवाणीति मितमे- तद्देवकर्म यद्दशममहरनुष्टुबेव स यो व्याहसोऽतिरेचयतीश्वरो विवक्तार भ्रषोऽन्वेतोस्तदु वा आहुव्र्येव वै यज्ञो विदुषा गच्छ- ताऽयं मे समृद्धं भविष्यत्ययं मे तत्समर्धयिष्यतीति यदि कश्चित्प्रमत्त उपहन्याधस्तद्धीयात्स तं देशं पार्श्वतः स्वाध्यायमधीयीतापि वा गृह पतिविजां वैकः पर्यवस]त्स तं देशं पार्श्वतः स्वाध्यायं शंसेद्यदि तथा न मन्येत संप्रत्येव विबूयादुत्सृज्यते दशमेऽहन्यनुष्टुब्बागनुष्टुप्सैषा वाक्प्र. तदोहुषी क्रूररवैव भवति तस्मादुत्सृज्यते नेद्वाचमासीदामेत्यथो सर्वाण्ये- वैतच्छन्दांस्यनुष्टुभमभिसंपादयति तदेनान्वाहेवाभिमृशे शूद्रान्नो एनान्य. ससृक्षाणि नो वेवाऽन्यत्र यामक पुंश्चल्या अयनं मे अस्तीत्यनुष्टुडभ्येषा दशमेऽहन्परिगीता तदाहुर्नानुष्टुम आयतनं रिझच्याविराजस्तत्रानुबूया- समानं वा एतच्छन्दो यद्विराड्वाऽनुष्टुप्चन ह्येकेनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्यामिति तयोर्वा एतयोस्तृचयोः पळक्षराण्यभ्युद्यन्त्यग्नि- टोमसाम्नः स्तोत्रियानुरूपयोः षट्तानि द्वादशाक्षराणि होता प्रातरनुवाके संपादयेन्नाऽऽद्रियेतात्रैव संपन्नमुष्णिगुदेतीति मेनिमहे गायत्री वा तां प्रातरनुवाके संपादयेन्नाऽऽद्रियेतात्रैव संपन्नम् ॥ १ ॥ अग्ने तमद्याश्वं न स्तोमैरित्याज्यं तदेतत्सृष्टं दशमायाह्नेन संपादये- नाऽऽद्रियेतात्रैव संपन्नं माधुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणं त्रिकद्रु- केषु महिपो यवाशिरं तुवि शुष्म इत्यतिच्छन्दसा मरुत्वतीयं प्रतिपद्यते सा संपन्ना चतुःषष्टयक्षरा बृहदिन्द्राय गायत प्रव इन्द्राय बृहत इति सूक्तात्पूर्वी द्वौ प्रगाथौ पिन्वन्त्यपीयया संशंसतीति तत्सं- .. ते अनुष्टुभौ संपद्यते --

[२७ अध्यायः
ऋग्वेदे शासायनब्राह्मणम् ।
१०३
P-
--
।
पन्नं जनिष्ठा उग्रः सहसे तुरायेत्यैकाहिकं मरुत्वतीयं प्रतिष्ठा वा एकाह
प्रतिष्ठित्या एव कया नश्चित्र आमुवत्कया त्वं न ऊत्यति वामदेव्यस्य योनों
रथंतरमूलं भवत्यानेयं सामैन्द्रीषु तन्मिथुनं प्रजात्यै रूपं यावन्तः प्रगा-
थास्तावन्त्यौष्णिहानि तृचानि धाय्यामन्या द्विपदा भजते सप्तदशीमन्या
सूक्तस्य तत्संपन्नमिन्द्रस्य नु वीर्याणि प्रवोचमित्यैकाहिकं निष्केवल्यं
प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः प्रतिष्ठानीयं वै छन्दो द्विपदे प्रति-
ठित्या एवामित्यं देवं सवितारमोण्योः कविक्रतुमित्यतिच्छन्दसा वैश्वदेवं
प्रतिपद्यते सा संपन्ना चतुःषष्टयक्षरा ते द्वे अनुष्टुभौ संपद्यते अभि वाननु-
चरस्तस्योक्तं ब्राह्मणं तत्र पुरस्तादानोभद्रीयस्य प्रशुक्रीयं शंसति प्रतिष्ठा
वा एकाहः प्रतिष्ठादशममहः प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या
एव पिराड्सु वामदेव्यमग्निष्टोमसाम भवति श्रीविराळन्नाद्यं श्रियो
विराजोऽन्नाद्यस्योपाप्त्या अथो शान्ति भेषजं वामदेव्यं शान्तिरेवैषा
मेषजमन्ततो यज्ञे क्रियते ॥२॥
अथ यत्समूहळस्यातिरिक्तोक्थमुपयन्ति तेनातिरिक्तोश्धमाप्नुवन्त्य-
थैष दशमस्याको दोहो यथा सहस्रं च पञ्चदश चानुष्टुमः स्युस्तथैतवहः
संपादयेत्पञ्चदशोद्धृत्य शतस्य शतस्य चतस्रश्चतस्र उद्धरति ताः पञ्चप-
ञ्चाशदुखता अथेतरे द्वात्रिंशद्वात्रिंशद्वर्गा अथैषा स्तोमाक्षराऽनुष्टुवष्टा-
क्षरा गायत्री चतुर्विशस्तोम इत्येषा स्तोमाक्षरा अनुष्टुब्द्वात्रिंशी भवत्य-
थैषा पद्याऽनुष्टुबुङगायत्र्यै चोष्णिहश्च पद पदानि विराजनीणि तानि
नव बृहत्यै चत्वारि तानि त्रयोदश घलेः पञ्च तान्यष्टादश त्रिष्टुः
भश्चत्वारि तानि द्वाविंशतिर्जगत्यै चातिच्छन्दसश्चाष्टौ तानि त्रिंश:
विपदायै दे तानि द्वात्रिंशदित्येषा पद्याऽनुष्टुब्दात्रिंशी भवत्यथैषा
देवक्याऽनुष्टुबष्टौ वसष एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रो छात्रिं-
शदित्येषा देवक्याऽनुष्टुब्द्वात्रिंशी भवत्यथ याः पञ्चपञ्चाशद्धृताश्चतु-
श्चत्वारिंशत्ताः पतयस्ततो याश्चत्वारिंशत्तदूधोऽथ याश्चतस्रोऽतियन्ति ते
स्तनाः सैषा स्तोमाक्षरा अनुष्टुबेतेनोधसैतेः स्तनरेतमिन्द्रस्याऽऽत्मानं
प्रत्यमहरमिक्षरत्येतस्या उ एव व्यक्षरेण च्छन्दोमाः स्तोमतश्च शस्त्र-
तश्च वर्धन्ते य उ वै वेद तन्मयः संभवति य एवं वेद स्याऽऽयुषः पुर-
स्तादेतमिन्द्रस्याऽऽत्मानं प्रत्यमहरमिसंमवति तमेषा स्तोमाक्षराऽनुष्टुबेते.
नोधसैतैः स्तनैः सर्वे रसैः सर्वैः कामः सर्वेणान्नाद्येन सर्वेणामृतत्वेना.
मिक्षरति य एवं संपन्नं दशममहः शंसति तस्मादेवं संपन्नं दशममह:
शंसेदिति ॥ ३ ॥

पाव १०४ ऋग्वेदे शाङ्खायनब्राह्मणम् । [२७ अध्यायः] अथ यदृचूहलस्यातिरिक्तोक्यमुपयन्ति मन एव तत्पीणन्ति तत्स- यज्ञैरनुशंसन्त्येषा हि मनसो मात्रा संस्थिते शमेऽहनि पुराप- लीसंयाजेभ्य एतस्मिन्काले संप्रसर्पन्त्ययज्ञिया वै पल्यो बहिर्वेदि हि ता इति वदन्तः संस्थितेषु पत्नीसंयाजेब्धिति त्वेष स्थितमत्रा. ल्पको भ्रातृध्यलोकः परिशिष्टो मवतीति मवतीति ते संप्रसृष्य सार्पराश्य ऋक्षुस्तुवत इयं वै सार्पराज्ञीयं हि सर्पतो राज्यथो सार्पराज्ञी वाग्घि सर्पतो राश्यथो गौ सार्पराज्ञी सर्पतो राश्यायं गौः पृश्निरक्रमादित्येतं तृचं नान्तरियात्स्तोत्रियस्यानन्त- रित्या अस्मासु नृम्णंधा इत्यन्नं वै नृम्णमन्नमेव तद्यज्ञे च यजमानेषु च दधाति वातापे हवनश्रुत इतीन्द्र उ वै वातापिः स हि वातमात्मा शरीराण्यहन्प्रतिपरैत्यध्वर्युः सोऽनिरुक्ते गार्हपत्ये प्राजापत्ये द्वे आहुती जुहोति प्रजापतिर्वै गार्हपत्य आहुतिसंस्थे उ वै स्तुतशने समाप्तं स्तोत्रं समाप्तं शस्त्रं समाप्तं ब्रह्मवद्यमित्यथो अन्ये वाऽपि कामं यजेयुरथ भक्षयेयुरयं वै वेनः प्रजापतेः प्रत्यक्षं तन्वस्ता होता वदेत् ॥४॥ अन्नादी चानपत्नी चेयं वा अन्नाद्यसावनपत्नी भद्रा च कल्याणी च भद्रातत्सोमः कल्याणी तत्पशवोऽनिलया चापभया चानिलया तद्वा- युर्न ह्येष इलयत्यपभया तन्मृत्युन ह्येष विमेत्यनाप्ता चानाप्या चेयं वे पृथिव्यनाप्ताऽसौ द्यौरनाप्या नादृष्टा चानाधृष्या चायं वा अग्निरनाधृष्टोऽ- सावादित्योऽनाधृष्योऽपूर्वा चाभ्रातृध्या चापूर्वा तन्मनो भ्रातृध्या तत्संव- त्सरोऽथासावेव गृहपतिर्योऽसौ तपत्येष हि गृहाणां पतिस्तस्यर्तव एव गृहा एष पतिरेप उ एव देवोऽपहतपाप्मोदयवत्यध्वर्युरपिद्धति सदसो द्वारावेवं शालायाः ॥५॥ औदुम्बरीमन्वारभन्त ऊर्वा अन्नाद्यमुदुम्बर ऊर्जोऽन्नाद्यस्योपाप्त्या उत्तमौ पाणी होता कुर्वीतोत्तमोऽसानीत्युत्तमो हैव. भवति वाग्यता: संमील्याऽऽसत आ नक्षत्राणां दर्शनाद्वाचं ह वा एतदाप्याययन्ति यद्वाचं- यमा आसत आपीनां वाचमभ्यासिक्तामन्तत ऋनवामेति मार्जालीयन्नं तेन नक्षत्रेषु चक्षुर्विसृजन्ते ज्योति नक्षत्राणि ज्योतिरेव तदात्मन्धत्ते ते परया द्वारा हविर्धाने प्रपद्यन्ते अथाध्वर्युरुत्तरस्य हविर्धानस्य कूबरीम. भिपद्याऽऽह सबस्यद्धि गायति गायति सत्रस्यद्धि तत्सत्रस्यद्धिमाप्नुवन्ति सर्वे सानो निधनमुपयन्ति प्रतिठा वै निधनं प्रतिष्ठित्या एव त उत्तरस्य हविर्धानस्याधोक्षं सर्पन्त्येन्द्रीमतिच्छन्दसं जपन्तोऽतिच्छन्दसैव तदधोक्षं 4 .

- . [२८. अध्यायः ] ऋग्वेदे शाङ्खायनब्राह्मणम् । १०५ यजमानाः पाप्मानमपन्नते ते नु वा उ वयमुत्तरेणैव परीम इति हा स्माऽऽह कौषीतकिर्यज्ञस्यानुसंचरं सप्तऋषिभ्योऽनन्तर्हिता इति तेऽग्रेण हविर्धाने समुपविश्य कामान्ध्यायन्ते यत्कामा भवन्त्ययं नः कामः समृध्यतामिति स उ हैभ्यः कामः समृध्यते ये बहुकामा भवन्ति भूर्भुवः स्वरित्येतास्ते व्याहृतीर्जपेयुस्ते प्राञ्च उदश्च उत्क्रम्य वाचं विद्वयन्ते नेद्वाक्यराच्यसदिति सुब्रह्मण्यायै वाचं विसृजन्ते ब्रह्म वै सुब्रह्मण्या ब्रह्मणैव तद्वाचं विसृजन्ते त आनीधीये सह राज्ञा संविशन्ते तद्यथा राजानं वा राजमात्रं वा श्रान्तं वेश्म प्रपादयेयुरेवमेवैतत्सोमं राजानमः हरहर्हविर्धानाभ्यामुपावहृत्यानीधं प्रपादयन्ति त आनीधीये सह राजा संविशन्ते ॥६॥ अथ यत्समूल्हं दशरात्रमुपयन्ति सर्वेषामेव कामानामाप्रया अथ यङ्- ट्यूल्हमुपयन्ति सर्वेषामेव च्छदसामाप्त्या अथ यड्यूल्हसमूल्हा उपयन्ति दशरात्रस्यैव नानात्वाय समूल्ह उ हैवान आस तानि च्छन्दस्सियो- न्यस्य स्थानमभिदध्युः सर्वाणि प्रथमानि स्याम सीणि मध्यमानि सर्वाण्युत्तमान्यथो सर्वाण्येवैतच्छन्दांसि सर्वसवनमाझि करोति गायन प्रातःसवनः प्रथमलयहस्त्रिष्टुम्मध्यंदिनो जगत्तृतीयसवनो जगत्त्रात सवनो द्वितीयरूयहो गायत्रमध्यंदिनस्त्रिष्टुप्तृतीयसवनस्त्रिाप्रातःसवन स्तृतीयरूयहो जगन्मध्यंदिनो गायत्रतृतीयसवनो गायत्रप्रातःसवनं दशममहस्तत्समाना छन्दसः समानं छन्द उपसंगच्छन्तेऽथ यदशममह- रनुष्टुभमभिसंपादयन्ति वाग्वा एतदर्वागनुष्टुब्वाच्येव तद्वाचं प्रतिष्ठाप- यन्ति तेऽमृत्वमाप्नुवन्ति ये दशममहरुपयन्ति ये दशममहरुपयन्ति ॥७॥ इति शाङ्खायने बाह्मणे सप्तविंशोऽध्यायः ॥२७॥ . ॐ प्रजापतिर्ह यज्ञं ससृजे तेन ह सृष्टेन देवा ईजिरे तेन हेट्वा सर्वा- कामानापुस्तस्य हेतरार्ध्यमुपनिदधुर्य एते प्रैषाश्च निगदाश्चाथेतरेण यज्ञेन ऋषय ईजिरे ते हर्विजजुरसर्वेण ह वै यज्ञेन यजामहे न वै सर्वान्कामानाप्नुम इति ते ह श्रेमुस्त एतान्प्रैषांश्च निगदांश्च ददृशुस्तेन ह सश्रेषेण सनिगदेनेट्वा सर्वान्कामानापुरेते ह ते ह वा उ प्रैषाश्च निगदाश्च यहग्मियज्ञस्यानाप्तं तदेमिः सर्वमाप्स्याम इति तानेतान्त्रैषानुप्रैषा- विश्वामित्रो ददर्शाथो पुरोळाशप्रैषानथेतर ऋषय इतरांस्तदाहुः कस्मान्मैत्रावरुण एव सर्वेभ्यः प्रेष्यतीत्येता ह वै देवता: प्रैषाणामाजि- ह ऋग्वेदे शासायनबाह्मणम् । [२८ अध्यायः] मीयुस्तान्मित्रावरुणा उजिग्यतुस्तस्मान्मत्रावरुण एव सर्वेभ्यः प्रेष्यति सधै तिष्ठन्यष्यति तिष्ठन्द वीर्यवत्तमस्तिष्ठन्धा उ श्रितवदनुत्तमो वीर्य- बतीमाश्रितां देवेषु वाचमुधासमिति ॥ १॥ ॐ वक इव प्रणतोऽनुबूयात्तथा ह वर्षुकः पर्जन्यो भवतीति ह स्माऽऽह कौषीतकिस्तद्ध स्म पै पुराऽसुररक्षांसि हवींषि विबनते सत एता वामदेवोऽभिरूपा अपश्यग्निर्होप्ता नो अध्वर इति तामिॉनिं परिणिन्युस्ततो वैतानि रक्षांसि नाष्ट्रा अपजज्ञिरे जुषस्व सप्रथस्तममिति जुष्टयतिमभिरूपामन्याह जुष्टवतीमभिरूपा देवेषु वाचमुद्यासमितीमं नो यज्ञममृतेषु धेहीति विश्वामित्रस्तोकानेवैतामिरग्नये स्वदयत्येता ह वा उ तेषां पुरोनुवाक्या एता याज्यास्तस्मादभिरूपा भवन्ति वैश्वा- मित्री पुरोळाशः स्विष्टकृतः पुरोनुवाक्यामन्वाह तस्या उक्तं बाह्मणं वैश्वामित्रीरनुसवनं पुरोडाशानों पुरोनुवाक्ये अन्वाह विश्वामित्रो हैतान्पुरोळाशः प्रैषां ददर्श सलोमतायै माधुच्छन्दस्यावमिरूपे द्विदेव- त्यानां प्रथमस्य पुरोनुवाक्ये अन्वाह मधुच्छन्दा हैतां द्विदेवत्यः प्रैषां दर्श सलोमप्तायै गार्समदी च मैधातिथीं चोत्तरयोरभिरूपे अन्वाह मैधातिथीः प्रातः सवन उन्नीयमानेभ्योऽन्वाह मैधातिथिह प्रातः सवन इन्द्राय सोमं प्रोवाच ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुषाक्याव- पेण ता वा ऐन्यो भवन्त्येन्द्रो हि यज्ञक्रतुस्ता वै गायत्र्यो मवन्ति गायत्रं प्रातःसवनं ता वै नवान्वाह नवम्वा अत्र चमसानुन्नयन्ति॥२॥ पळु हैके प्रातःसवन उन्नीयमानेभ्योऽन्वाहुः स्वयमच्छावाकः सप्तमी सप्तसप्तोत्तरयोः सवनयोः सप्त वै प्राश्च आसीना वषट्रकुर्वन्तीति वदन्त- स्तबु वा आगुर्यथा सूक्तमेवानुबूयाद्धोतुवैताः पुरोनुवाक्या भवन्ति होतु. वैतांश्चमसाननुचमसमुन्नयन्ति तस्माद्यथासूक्तमेवानुबयादथ होत्राः संयजन्ति तासामुक्तं ब्राह्मणं मित्रं वयं हवामह इति मैत्रावरुण्या मैत्रावरुणः स्वया देवतया यज्ञमुखस्यानवराा इन्द्र त्वा वृषभ वयमित्यैन्या ब्राह्मणाच्छंस्यैन्द्रो हि यज्ञक्रतुर्मरुतो यस्य हि क्षय इति मारुत्या पोता यत्र ह तदिन्द्रं मरुतः पुपुवुस्तदेनादिन्द्रः सोमपीथेड- न्वाभेजे तस्मात्स मारुत्या पोता प्रथतश्चान्ततश्च यजत्यग्ने पत्नीरिहा- वहेत्याग्निपानीवत्या त्वष्टमत्या नेष्टा प्रथमतश्चान्ततश्च यजत्यग्निर्वै देवानां पालीवतो नेष्टविजां तस्मात्स आग्निपात्नीवत्या त्वष्टमत्या नेष्टा प्रथमतश्चान्ततश्च यजत्युक्षान्नाय वशान्नायेत्याग्नेय्याऽऽग्रीध्रोऽ. ग्रीन्ह स समिन्धे तस्मात्स आग्नेय्यानीध्रः प्रथमतश्चान्ततश्च यजत्य- [२८ अध्याय:] ऋग्वेदे शाङ्खायनब्राह्मणम् । १०७ नुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहूतीनां प्रतिष्ठित्या अथेलाथ होतृ- चमसस्तस्योक्तं ब्राह्मणम् ॥३॥ अथ यत्र हतं नामा नेदिष्ठो मानवोऽनिरःसूपहरमीशे स एताम- च्छावाकीयां होत्रां ददर्श स धा इलायामुपड़तायामाजगाम तस्मा- त्तन प्रवृणुते स वा एतस्मात्पूर्वस्मादवान्तरदेशादाजगाम तस्मादेतयां दिश्यासीनोऽच्छावाक उपहवमिच्छते तदाहुः कस्मादच्छाबाकाय पुरो- ळाशवृगलं परिहरन्तीत्यलीकयुर्वाचस्पतो नैमिषीयाणां दीक्षोपसत्सु. ब्रह्मा स सह प्रसूतेऽच्छावाकीयां चकार ते होचुरस्मै वा इमं पुरा ब्रह्म- भागं परिहराम कस्मा एनं परिहरामेति ते होचुरस्मा एवैनं परिहरतेति तत्तस्मै पर्यहरन्स एष ब्रह्मभाग एवाथो इलाभाजो पा इतरे घमसास्त- स्मादच्छावाकाय पुरोळाशवृगलं परिहरन्ति चमसस्यैवापरीलतायै ॥४॥ अथैनमध्वर्युराहाच्छावाकवदस्व पत्ते वाद्यमित्यच्छावाकोपहवामि- ज्छस्वेत्येवैनं तदाहाच्छाबो अग्निमवस इत्याग्नेयीरन्वाहाऽऽग्नेयं प्रातःस- वनं ता वा अनुष्टुभो भवन्ति गायत्री वैसा याऽनुष्टुब्गायत्रमग्ने छन्दस्ता धै तिम्रो भवन्ति त्रिवृद्धा अग्निरङ्काराचि म इत्युत्तमाय तृतीये बचने प्रणपेन निगदमुपसंदधाति यजमानहोतरध्वर्यो अग्नीन्ब्रह्मन्पोतर्नेष्टरुतो- पवक्तरिति प्रशास्ता वा उपवक्ताऽपिवत्सचाभ्युदितमुपवक्ता जनानामि- तीषेषयध्वमू|ऽर्जयध्वमित्यन्नं वा इषमन्नमूर्जमन्नेन समुक्षध्वमित्येवेनं तदाहनि वो जामयो जिहतान्यजामय इति पञ्च जामियञ्चाजामिस्तहो निजिहतामित्येवैनं तदाह तदेतहचाऽभ्युदितम् ॥ ५॥ जामिमजामि प्रमृणीहि शनिति निसपत्नायामनिवाधिता स इति निहता वः सपत्नाः समरण इत्येवैनं तदाह जेषथा अभीत्वरी अषथाs. भीत्वर्या इति सेना वा अभीत्वरी सेनया सेनां जयतेत्येवेनं तदाह श्रवच इन्द्रः शृणवदो अग्निरिति शृणोतु न इन्द्रः शृणोत्वग्मिरित्याशिषमेव तद्वदते प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान्ब्राह्मणान्बाह्मणा ह्वय- ध्यमिति सर्वेष्वेवैतदुपहवमिच्छत उपहवमयं ब्राह्मण इच्छतेऽच्छावाको वेत्यध्वर्युराह तं होतरुपह्वयस्वेति तं होतोपह्वयते स हि तेषां श्रेष्ठी मज- तेऽयं वै श्रेष्ठयुपह्वयते स उपहूत इति ह स्माऽऽह ॥ ६ ॥ प्रत्यस्मै पिपीपत इत्यच्छावाक उन्नीयमानायान्वाह ता वै चतस्रो भवन्ति चतुष्टयं वा इदं सर्वमस्यैव सर्वमस्याऽऽप्त्यै ता या अनुष्टुमो भवन्ति संशंसायै बृहत्युत्तमा भवति श्री बृहती श्रियामेव तदन्ततः . m/ १०८ ऋग्वेदे शाङ्खायनब्राह्मणम् । [२(अध्यायः प्रतितिष्ठति प्रातर्यावमिरागतमित्यैन्द्राग्न्या यजत्येन्द्रानं ह्यस्योक्थं भवति गायच्या गायत्रं प्रातःसवनमनुवपद्करोत्याहुतीनामेव शान्त्या आहु- तीनां प्रतिष्ठित्या अनवानं प्रातःसवने यजेयुरिति ह स्माऽऽह पैङ्गायः क्षिप्रं देवेभ्यो हविः प्रदास्याम इत्यर्धर्चश इति कौषीतकिरेतद्वै छन्दसा पर्व यदर्धर्चः पर्व एव तदेवेभ्यो हविः प्रयछन्ति ॥७॥ अथात ऋतुप्रैषाणामेव मीमांसा कण्यो हैतानृतुप्रैषान्ददर्श मेधा- तिथिर्याज्याः काण्वो ह वै मेधातिथिस्तेन तो मृत्यु पाप्मानमप- जिलाते स र इच्छेन्मृत्यु पाप्मानमपहन्यामित्येताभिर्यजेत् ॥ ८॥ पुरुषो वै यज्ञस्तस्य वागेवाऽऽज्यं सा वा एकैव भवति तस्मादेकदेव समाज्यं शंसति प्राणा: प्रउगन्ते वा इमे बहवः प्राणास्तस्माद्वयो सेवा प्रउगे शस्यन्ते बाहू मैत्रावरुणश्चाच्छावाकश्च तौ वै द्विगुणी भवतस्तस्मात्तौ प्रातःसवने द्विदेवत्याः शंसत इयमेव बेनासेवनी मध्यं ब्राह्मणाच्छंसी तस्माद्राह्मणाच्छंसी प्रातःसवन एकदेवत्याः शंसत्यात्मा अध्यंदिनः स वा एक एव भवति तस्मान्मध्यंदिने होत्रा शंसिन एक- देवत्याः शंसति होता च निष्केवल्यमुरू मैत्रावरुणश्याच्छावाकश्च तो में रिगुणौ भवतस्तस्मात्तौ तृतीयसवने द्विदैवत्याः शंसत इदमेव शिश्नं सय बाह्मणाच्छंसी तस्माद्विरूपं जायते स्त्री च पुमांश्च तस्माद्वाह्मणा- Cी तृतीयसबने विदेवत्याः शंसति बाह्मणाच्छंसी भूयिष्ठाः शंस- स्याका है माह्मणाच्छंसी तस्मादिदमात्मनो मध्यं स्थविष्ठम् ॥ ९ ॥ अथ पदावन्तः स्तोत्रियानुरूपा भवन्ति तत्मथमस्यालो रूपं वैश्वा- मित्रो मैत्रावरुणस्य चाच्छावाकस्य च स्तोत्रियौ भवतो वासिष्ठी नवौं पर्यासावन्तावेवैतत्सदृशौ कुर्वतः स्तोत्रियां छस्त्वा श्वः स्तोत्रि- याननुरूपान्कुर्वन्त्यहीनरूपताया अहीनसंतत्या अहरेव तदह्नोऽनुरूपं कुर्वन्त्यहर्वाह्नोऽनुरूपं तदाहुः कस्मात्स्तुतमनुशस्यते कस्मात्स्तोममति- शंसंतीति न ह वै तत्स्तुतं भवति यन्नानुशस्यते न स स्तोमो देवान्ग- छन्ति यो नातिशस्यते तस्मात्स्तुतमनुशस्यते तस्मास्तोममतिशंसन्ति चतुराहावानि शस्त्राणि पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्या ऐकाहिका उक्थयाज्याः प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवानुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आतीनां प्रतिष्ठित्यै ॥ १० ॥ इति शाङ्खायनब्राह्मणेऽष्टाविंशोऽध्यायः ॥२८॥ KARANP वदन्तु प्रवयं वदामेति २९अध्यायः] ऋग्वेदे शाङ्खायनबाह्मणम् । १०२ ॐ अथ यत्र ह तत्सर्वचरौ देवा यज्ञमतन्वत तान्हार्बुदः कान्वेयो माध्यंदिन उपोदासृप्यो वाचैका वै धेयं होत्रानुक्रियते ग्रावस्तोत्रिया तां वोऽहं करवाण्युपमाह्वयध्वमिति ते ह तथेत्यूचुस्त होपजुहिरे स एता प्रावस्तोनिया अभिरूपा अपश्यत्ते प्रवदत्सु प्रहिते वदन्त्यथ यत्र बृहबृहदिति बृहद्वदन्ति मदिरेण मन्दिनेति तत्र विधू मुश्चा सुषुवुषो मनीषामिति विमुञ्च सुता वै चतुर्दश भवन्ति दश वा अजुम्लयश्चत्वारों ग्रावाण एतदेव तदभिसंपद्यन्ते ता वै जगत्यो भवन्ति जागता धै ग्रावाणोऽथ यत्रिष्टुभा परिदधाति सेनो माध्यंदिने त्रिष्टुवुपाप्ता स वै तिष्ठन्नभिष्टौति तिष्ठन्तीव वै ग्रावाणः स वा उष्णीष्यपि नद्धाक्षोऽभितुष्टाव तस्माद्वा अप्येतर्युष्णीध्येव ग्राव्णोऽ- भिष्टौत्यथो खल्याहुश्चक्षुरियाय ससर्प आस तहत्विलो विषमपीयाय स एताः पावमानीविषापवदनीरभितुष्टाव तद्यत्पावमानीविषापवदनी- रमिष्टौति यज्ञस्यैव शान्त्यै यजमानानां च भिषज्यायै ॥१॥ अथ स्तुसे पवमाने दधिधर्मेण चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हविष्पलया चरन्ति सस्या उक्तं ब्राह्मणं वासिष्ठीमध्यंदिन उन्नीयमानेभ्योऽन्वाह वसिष्ठो ह मध्यंदिन इन्द्राय सोमं प्रोवाच तावा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्यारूपेण ताव ऐन्ध्यनिष्टुभो भवन्त्यैन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनं ता वै दशान्वाह दशन्धा अत्र चमसानुन्नयन्त्यथ होत्राः संयजन्ति तासामुक्तं ब्राह्मण- मैन्द्रीभित्रिष्टुभिर्मध्यंदिने प्रस्थितानां यजन्त्येन्द्र हि त्रैष्टुभं माध्य- दिनं सघनमनुवषद्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथेलाथ होतृचमसस्तस्योक्तं ब्राह्मणं हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते तासामुक्तं ब्राह्मणं वैश्वामित्रीं मरुत्वतीयग्रहस्य पुरोनुवाश्यामन्वाह तस्या उक्तं ब्राह्मणम् ॥ २॥ वामदेव्यं मैत्रावरुणस्य पृष्ठं भवति शान्तिः भेषजं वामदेव्यं शान्ति- रेवैषा भेषजं यज्ञे क्रियते नौधसं ब्राह्मणाच्छंसिनस्तदै निधनवद्भवति प्रतिष्ठा वै निधनं प्रतिष्ठित्या एव काले यमच्छावाकस्य तद्वा ऐलं बृहतीषु कुर्वन्ति पशवो वा इळा पशवो बृहतीबर्हिताः पशवः पशूना- मेवाऽऽप्त्या अथैतां सामप्रगाथां छंसन्ति तथैषां होतुायादनितं भवति पञ्चचे मैत्रावरुणस्य चाच्छावाकस्य चोक्थमुखे भवप्त एकाद- शों पर्यासावन्तावेवैतत्सदृशौ कुर्वतो विश्वामित्रस्य च वामदेवस्य च

११०
ऋग्वेदे शाङ्खायनब्राह्मणम् । [२९ अध्यायः]
मैत्रावरुणः शंसति वामदेयो यस्य पर्यासो भवति विश्वामित्रस्य च
वसिष्ठस्य च ब्राह्मणाच्छंसी वासिष्ठो हास्य पर्यासो भवति भरद्वाजस्य
च विश्वामित्रस्य चाच्छावाको वैश्वामित्रो ह्यस्य पर्यासो भवति ते वै
चतुर्णासृषीणां शंसन्त्याचतुरं वै द्वंद्व मिथुनं प्रजननं प्रजात्य वैश्वामित्रे
मैत्रावरुणस्य च ब्राह्मणाच्छंसिनश्चोक्थमुखे भवतः पर्यासोऽच्छावाकस्य
वाग्व विश्वामित्रों वाचैव तत्सर्वतो यज्ञं तन्वत इत्येतनालणं प्रायणी-
योदयनीययोरैकाह्यं च भवति ॥ ३ ॥
वामदेव्यं मैत्रावरुणस्याहरहः पृष्ठं मपति शान्तिर्वे मेषजं वाम व्यं
शान्तिरेवैषा मेषजमहरहर्यज्ञे क्रियतेऽथैतान्कद्वतः प्रगाथानहरहः शंसन्ति
को वै प्रजापतिः प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्त्यथो अशा-
तानि वा एते अहीनसूक्ताम्यन्यान्यन्यान्युपयुजाना यन्ति तान्येवेतैः
कद्वद्भिः प्रगाथैरहरहः शमयन्तो यन्स्यथैतास्तन्यास्त्रिष्टुम उक्टपति-
पोऽहरहः शस्यन्ते बलं थे वीर्य त्रिष्टुटबलमेव तीर्थेऽहरहः प्रतिप्ति-
हन्तो यन्त्यपप्राच इन्द्र विश्वा५ अमित्रानिति सौकीती मैत्रावरुणोऽ-
पनुत्तवतीं पाप्मन एवापनुत्यै यदा ये सूक्ते तदाये उक्थमुखीये इतर-
योर्बह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनुनेषि विद्वानित्युक्थमु.
खीये ब्रह्मपत्युरुवत्यौ ब्रह्मणि चैव तदुरुगाये चाहरहः प्रतितिष्ठन्तो
यन्ति ॥४॥
अथैतानि शिल्पानि मध्यमे व्यहे शस्यन्ते शिल्पवान्ह्येष मध्यमरूयहो
भवति विराजश्च वै मध्यमश्चतुर्थेऽहन्वैराजं हि चतुर्थमहः पत्यश्च महा-
पतयश्च पञ्चमेऽहन्पाझं हि पञ्चममहरतिच्छन्दसः षष्ठेऽहन्नातिच्छन्दसं
हि षष्ठमहरथो अपृष्ठं वा एतथदन्यत्र बृहत्य क्रियते च्यवन्त उ वाऽत्र
बृहत्यै पृष्ठानि शिल्पेष्वेव तदहरहः प्रतितिष्ठन्तो यन्स्यथो अन्तरिक्षं या
एष मध्यमरूयहो नाऽऽरम्भणं वा इदमन्तरिक्षमप्रतिष्ठानं शिल्पेष्वेव
तदहरहः प्रतितिष्ठन्तो यन्ति तानि वै तृचानि भवन्ति विवृद्वै शिल्पं
नृत्यं गीतं वादितमिति तेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति माचिदन्य-
द्विशंसत माम मा श्रमिष्मेति मैधातिथं मैत्रावरुणस्य दशमेऽहन्पृष्ठं
भवति न हि तस्य प्राप्नशमादलो बृहतीषु पृष्ठ भवत्येकस्था वै श्रीः श्री
बृहती श्रियामेव तदन्ततः प्रतितिष्ठति द्विपदाः शरत्वैकाहिकानि
शंसन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः प्रतिष्ठानीयं वै छन्दो
द्विपदाः प्रतिष्टित्या एव ॥५॥

वै षड्भवन्ति २९अध्याय] ऋग्वेदे शाङ्खायनबाह्मणम् । १११ नौधसं बाह्मणाच्छंसिनस्तस्योक्तं ब्राह्मणं गायत्रीषु ब्रह्मणाच्छंसिने प्रणयन्ति षष्ठेऽहनैव तस्यैवालो रूपेणाहीनरूपताया अहीनसंतत्या अहीनान्सर्वान्कामानाप्नुम इति न ह्या किं चन हीयत उदुब्रह्माण्यैरत अवस्येत्यहरहः पर्यास ऋतवो वा उदुबलीयमृतुष्वेव तदहरहः प्रतिति- छन्तो यन्ति ता षड्वा ऋतव ऋतुम्खेव तदहरहः प्रतिति- छन्तो यन्ति ॥६॥ कालेयमच्छावाकस्य तस्योक्तं ब्राह्मणं षड्यदास्वच्छावाकाय प्रण- यन्ति षष्ठेऽहम्षष्ठस्यैवाह्नो रूपेणाभितष्टेव दीधया मनीषामित्यहरहः पर्यासः प्रजापतिर्वा अमितष्टीयं प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति तदनिरुक्तं भवत्यनिरुक्त उ वै प्रजापतिः प्रजापताषेव तदहरहः प्रतितिष्ठन्तो यन्ति सा वा अत्रैव निरुक्तक उ वै प्रजापतिः प्रजापता. वेव तदहरहः प्रतितिष्ठन्तो यन्ति तेषामेतान्यच्युतानि मवन्ति पृष्ठं मैत्रावरुणस्य पर्यासावितरयोस्तेष्वेव तदहरहः प्रतितिष्ठम्तो यन्ति॥ ७ ॥ दशचं भवति दशेमे प्राणाः प्राणानेव तद्यज्ञे च यजमानेषु च दधाति द्विक्ता होत्राणां मध्यंदिनायुक्तस्यैव होतुः प्रत्युद्यमाया अथो संवत्सरो वै होता ऋतवो होत्राशंसिनस्तघवं समस्ता ऋतव आख्यापन्ते ग्रीष्मो वर्षा हेमन्त इति तस्माद्विषूक्ताहोत्राणां मध्यंदिना अथो आत्मा वै होताऽङ्गानि होत्राशंसिनस्तद्यद्विगुणान्यङ्गानि भवन्ति तस्माद्विषूक्ताहो- त्राणां मध्यंदिनाः स्तोमातिशंसंप्रातःसवनेषु शस्त्वाऽहीनसूक्तानि मध्यं- दिनेषु शंसन्ति चतुर्विशेऽमिजिति विषुवति विश्वजिति महामतीयेऽह- नहीनो ह्येतान्यहान्यहीनसूक्तानि शस्त्वैकाहिकानि शंसन्ति पराञ्चीनि वा एतान्यहान्यनभ्यावर्तीनि भवन्ति तद्यवहीनसूक्तानि शस्त्वैकाहि- कानि शंसन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव पञ्च पञ्चसूक्तानि मैत्रा- वरुणः शंसति सर्वेषु च्छन्दोमेषु पशवो वै च्छन्दोमाः पालाः पशवः पशूनामेवाऽऽप्त्यै चत्वारि चत्वारि ब्राह्मणाछंसी चाच्छावाकश्च पशवो वै च्छन्दोमाश्चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेषाऽऽप्त्यै पञ्चाहावानि शस्त्राणि पशवो वा उक्थानि पालाः पशवः पशूनामे. वाऽऽप्त्या ऐकाहिका उक्थयाज्याः प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवानुवषद्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिष्ठित्यै ॥ ८॥ इति शाङ्खायनब्राह्मण एकोनविंशत्तमोध्यायः ॥ २९ ॥ - - -- . .

सरसं . ११२ ऋग्वेदे शाङ्खायनब्राह्मणम् । [३० अध्यायः] ॐ वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानां तृती- यसवनं तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तदेवतया प्रतिपद्यतेऽथोऽधीतरसं वा एतत्सवनं यत्तृतीयसवनमथैष सरसो ग्रहो यदादित्यग्रहस्तेनैव तत्तृतीयसवनं करोति त्रिष्टुभमादि. त्यग्रहस्य पुरोनुवाक्यामन्याह तस्या उक्तं ब्राह्मणमथ स्तुते पवमाने पशुना चरन्त्यत्र कालो हि भवत्यथो सवनस्यैव सरसताया अथ हवि. ध्यतया चरन्ति तस्या उक्तं ब्राह्मणं वामदेव्यास्तृतीयसवन उन्नीयमाने. भ्योऽन्याह वामदेवो हि तृतीयसवन इन्द्राय सोमं प्रोवाच ता वा आव- त्योहरिवत्यो भवन्ति पुरोनुवाक्यारूपेण ता वा ऐन्द्रा व्यस्त्रिष्टुभो भव- न्तीन्द्रमेव तदर्धभाजं सवनस्य करोति ता वै नवान्वाह दशन्वा अत्र चमसानुन्नयन्ति यथाऽनुप्रायणं तथोड्यनमथ होत्राः संयजन्ति तासा- मुक्तं ब्रह्माणमन्धस्वत्यो मद्वत्यः पीतवत्यो जगत्यो याज्या जागतं हि तृतीयसवनं मद्वत्यो मद्धि तृतीयसवनमनुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथेलाथ होतृचमसस्तस्योक्तं ब्राह्मणमौ- पासनांस्तृतीयसवन उपास्यन्ति तेषामुक्तं ब्राह्मणमथ सावित्रग्रहण चरन्ति तस्याक्तं ब्राह्मणं त्रिशुभं सावित्रग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं ब्राह्मणमथ यदुक्थे अन्तरेणामीत्पात्लीवतस्य यजति तेन तौ होतारमनुसमश्नुवाते ॥१॥ ऐन्द्रानान्युक्थ्योक्थानि भवन्ति तेषामुक्तं ब्राह्मणमथैतान्येन्द्राणि मागतान्यहरहः शंसन्ति पशवो वै जगती आगताः पशवः पशूनामे. वाऽऽप्त्यै तान्यच्युतानि स्युरिति हैक आहुः सवनधरणानीति वदन्तोऽ- न्यान्यन्यानीति त्वेव स्थितमन्यदन्यद्यहरुपयन्त्यथ वारुणं बार्हस्पत्यं वैष्णवमिति शंसन्ति जगती वा एतेषां छन्दस्त्रिष्टुपिन्द्रस्य तद्यच्छन्दसी विपरीते द्विदेवत्यताया ऐन्द्रावरुणमैन्द्राबार्हस्पत्यमैन्द्रावैष्णवमिति शंसति ग्रहानेवैतैरनुशंसन्त्येवं हि ग्रहा गृहीता भवन्ति ॥२॥ चर्षणीधृतं मववानमुक्थ्यमिति मैत्रावरुणस्तस्योक्तं बाह्मणं वासि. ठोऽहरहः पर्यासों भवति बसिष्ठो हैतन्मैत्रावरुणीयायै तृतीयसवनं ददर्श तस्माद्वासिष्ठोऽहरहः पर्यासो भवति क अप्सु मैत्रावरुणाय प्रण- यन्ति तृतीयेऽहंस्तेनो स ब्राह्मणाच्छंसिनो वशमेत्यथ चतुर्थेहन्स्वे स्वेछन्दसि प्रणयन्ति स्वे स्व एव तच्छन्दसि प्रतितिष्ठन्तो यन्ति गायत्रीषु मैत्रावरुणाय प्रणयन्त्युष्णिक्षु ब्राह्मणाच्छंसिनेऽनुष्टु- -- ༤ བད [ ३० अध्यायः ऋग्वेदे शाङ्खायनबाह्मणम् । ११३ प्स्वच्छावाकायोत्तरोत्तरितायै तथैषां चतुर्भिश्चतुर्भिरक्षरैश्छन्दांस्यभ्युः द्यन्ति पङ्क्तिषु मैत्रावरुणाय प्रणयन्ति पञ्चमेऽहन्पातं हि पञ्चममहर्द्विप- दासु षष्ठेऽहन्प्रयणयन्ति द्वैपदं हि षष्ठमहरथो अगूध्वं भद्रमुवंशपुत्र- मिति सामानि कुर्वन्त्यथो द्विपदाः सहचराणि वै शिल्पानि भवन्ति तस्मादव शिल्पानि शस्यन्ते नेच्छिल्पेभ्यो गामेति ॥३॥ नाभा नेदिष्ठेनात्र होता रेतः सिञ्चति तन्मत्रावरुणाय प्रयच्छति तत्स वालखिल्याभिर्विकरोत्यथैता वालखिल्या विहृताः शंसन्ति पच्छः प्रथमे सूक्ते विहरति पर्वश एवैनं तत्संभरत्यर्धर्चशो द्वितीये द्वे वै पुरुषः कपाले ते एव तत्संदधात्युचमृचं तृतीये कृत्स्नमेवैनं तसंभरति विपर्य- स्येन्नाराशंसे तस्माद्विपर्यस्ता गर्भा जायन्ते ॥ ४ ॥ ताये दूरोहणं रोहति वायुर्वै तायः प्राणो वै वायुः प्राण एवास्मि- स्तद्दधाति तं ब्राह्मणाच्छंसिने प्रयच्छति तं स सुकीर्तिना योनिना प्रति- गृह्णाति जातमथैतं वृषाकपिं पतिशंसंन्यूज़ शंसत्यन्नं वै न्यूङ्खो जात एवास्मिंस्तदन्नाद्ये प्रतितिष्ठत्यथैतत्कुंतापं यथा छन्दसं शंसति सर्वेषा. मेव कामानामाप्त्यै नाराशंसी रैभीः कारव्या इन्द्रगाथाभूते छन्दःपारि क्षिती रेतशः प्रलापमित्येतशो वै मुनिर्यज्ञस्यायुरदर्शत्सह पुत्रानुवाच पुत्रका यज्ञस्यायुरदर्शस्तदभिलपिष्यामि मामादृप्तं मंध्वमिति ते ह तथेत्यूचुस्तद्धाभिललाप तस्य ह ज्येष्ठः पुत्रोऽभिसृप्य मुखमभिजग्राहा- तृपदै नः पितेति तं होवाचापनस्य धिक्त्वा जाल्मास्तु पापिष्ठां ते प्रजां करोमि यदै मे जाल्ममुखं नाभ्यग्रहीष्यः शतायुषं गामकरिष्यत्सहस्रायुषं पुरुषमिति तस्मादैतशायना आजानेयाः सन्तो भृगूणां पापिष्ठाः पित्रा हि शप्ताः स्वया देवतया स्वेन प्रजापतिना ॥५॥ आदित्याङ्गिरसीरुपसंशंसत्यादित्याश्च ह वा अङ्गिरसश्चास्पर्धन्त वयं पूर्व स्वर्ग लोकमेष्याम इत्यादित्या वयमित्यङ्गिरसस्तेऽङ्गिरस आदि- स्येभ्यः प्रजिग्युः श्वः सुत्यानोयाजयतन इति तेषां हानिर्दूत आस त आदित्या ऊचुरथास्माकमद्य सुत्या तेषां नस्त्वमेव होता स बृहस्पति- ब्रह्माऽयास्य उद्गाता घोर आङ्गिरसोऽध्वर्युरिति तान्ह प्रत्याच- चक्षिरे तमेताभिः शिशिक्षुस्तदेता अभिवदन्ति ते अश्वं श्वेतं दक्षिणा निन्युरेतमेव य एष तपति तत उ ह आदित्याः स्वरीयुः स्वरेति य एवं वेद ॥६॥ दिशां क्लप्तीः शंसति दिशो हास्मै कल्पन्ते जनकल्पाः शंसति जना हास्मै कल्पन्ते प्रधलिकाः प्रतीराधानतीवादा महानस्याः सर्वा वाचो ह ११४ ऋग्वेदे शाङ्खायनबाह्मणम् । [ ३० अध्यायः ] वइति तस्मात्पुरुषः सर्वा वाचो वदत्येकैकामितरे पशवस्ता वा अष्टौ भवन्स्येताभिर्वे देवाः सर्वा अटीराश्नुवत तथो एवैतद्यजमाना एताभि- रेव सर्वा अष्टीरश्नुवते कन्नरः कपृथप्नुद्दधातनं यद्ध प्राचीरजगन्तेति हे तथा त आनाक्षिप्यो भवन्ति ता दश संपद्यन्ते. दश दशिनी विराट- ड्रीविरालनाचं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै ॥ ७॥ दाधिकी शंसति वाग्वै दाधिकी वाचमेवास्मिस्तदधाति पावमानीः शंसति पवित्रं वै पावमान्यः पुनात्येवेनं तत्तमच्छावाकाय प्रयच्छति तं स पुत्र या मरुता चारयति जातं न्यूङ्खयति न्यूङ्खमानक इव वै प्रथमं चिच- ररिपश्चरति तदेनममृताच्छन्दसोऽमृतत्वाय प्रजनयति तेऽमृतत्वमाप्नुवन्ति थे घडमहरुपयन्ति स्तोत्रियानुरूपौ शस्त्वा वालखिल्याः शंसत्यात्मा वै स्तोत्रियानुरूपौ प्राणा वालखिल्या अनन्तहिता उ हेमे प्राणास्त- दाहुः कस्माबालखिल्या इति यदा उर्वरयोरसंभिन्नं भवति खिलमिति वै तहाचक्षते वालमात्रा उ हेमे प्राणा असंभिन्नास्तद्यसंभिन्नास्तस्मा- हालखिल्याः ॥ ८॥ तार्थे दूरोहणं रोहतीति तदुक्तं गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति द्वितीयेऽहंस्तेनो स मैत्रावरुणस्य वशमेति प्रमंहिष्ठाय बृहते बृहद्रय इति पळूचं द्विस्तावद्यावन्मत्रावरुणस्य कार्गोऽहरहः पर्यासो भवति कृष्णो हैतदाङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीयसवनं ददर्श तस्मात्का- होऽहरहः पर्यासो भवत्यनुष्टप्स्वच्छावाकाय प्रणयन्ति तृतीयेऽहंस्तेनो स ब्राह्मणाच्छंसिनो वशमेत्य॒तुर्जनित्रीयं त्रयोदशचं विस्तावद्यावयाह्म- पाच्छसिन एकाचोपभारद्वाजोऽहरहः पर्यासो भवति भरद्वाजो हैतद च्छावाकीयायै तृतीयसवनं ददर्श तस्माद्भारद्वाजोऽहरहः पर्यासो भवति वैष्णवे विपर्यस्यत्यच्छावाकः पर्यासावितरौ द्विपर्यासौ मैत्रावरु- णस्य च ब्राह्मणाच्छंसी चैकपर्यासोऽच्छावाकस्तद्यदच्युतपर्यासोऽच्छा. वाकः प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव ॥९॥ घतिशतं मैत्रावरुणश्चतुर्विंशे शंसति चत्वारिंशतं ब्राह्मणाच्छंसी चतुश्चत्वारिंशतमच्छावाकस्तविंशतिशतं विंशतिशतवा ऋतोरहानि तह- तुमाप्नोत्युतुना संवत्सरं ये च संवत्सरे कामाः पञ्च पञ्च सूक्तानि मैत्रावरुणः शंसति सर्वेषु च्छन्दोमेषु पशवो वै छन्दोमाः पालाः पशवः पशूनामेवाऽऽप्त्यै चत्वारि सूक्तानि ब्राह्मणाच्छंसी शंसति प्रथमे च्छन्दोमे पशवो वै च्छन्दोमाश्चतुष्टया वै पशवोऽथो चतुष्पादाः पशू- नामेवाऽऽप्त्यै पञ्चपञ्चोत्तरयोः पशवो वै छन्दोमाः पाताः पशवः . वै ] [ अध्यायः ३० ऋग्वेदे शाङ्खायनब्राह्मणम् । ११५ पशूनामेवाऽऽप्त्यै पञ्चसूक्तान्यच्छावाकः शंसति प्रथमे छन्दोमे पशवो वै च्छन्दोमाः पालाः पशवः पशूनामेवाऽऽप्त्यै पपळुत्तरयोः षड्वा ऋतवः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै चतुराहावानि शस्त्राणि पशवो वा उक्थानि चतुष्टया वै पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै षष्ठ एवाहन्मत्रावरुणस्य पश्चाहावं भवति पशवो वा उक्थानि पाताः पशवः पशूनामेवाऽऽप्त्या ऐकाहिका उक्थयाज्याः प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवानुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रति- । ष्ठित्यै ॥१०॥ वै पश्च च्छन्दांसि रात्रौ शंसन्त्यनुष्टुभं गायत्रीमुष्णिहं त्रिष्टुभं जगतीमि. त्येतानि वै रात्रिच्छन्दांसि पञ्चाहावा रात्रिर्वाजपेयस्य चातिरिक्तोक्थ- मुक्थस्यातिग्रहो रात्रिश्छन्दशश्छन्दस एव तदाहूयन्त इति ह स्माऽऽह कीवीतकिरजामिताया अथ यत्तिरोअलयवती विदुभमाश्विनोक्थग्रहस्य पुरोनुवाक्यामन्वाह तिरोअलयवान्प्रैवस्तिरोअनचाहिसोमा भवन्त्यथो बलं वै वीयं त्रिष्टुब्बलमेव तद्वीर्यं यजमाने दधाति चतुराहावान्याप्तोर्या- मस्यातिरिक्तोक्थानि भवन्ति पशवो वा उक्थानि चतुष्टया पशवोऽथो चतुष्पादाः पशूनामेवाऽऽप्त्यै क्षेत्रपत्याः परिधानीयाः कुर्वत इयं वै क्षेत्रं पृथिव्यस्यामदीनायामन्ततः प्रतिष्ठास्याम इत्यस्यामेव तददीनायामन्ततः प्रतितिष्ठत्पथ यत्तिरोअलयवत्यस्त्रिष्टुभो याज्या भवन्ति तिरोअह्नयाहितोमा भवन्त्यथो बलं वै वीर्यं त्रिष्टुब्बलमेव तदीयं यजमाने वृद्धत्यनुवषट्कुर्वन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथ हारियोजनेन चरन्ति तस्योक्तं बाह्मणं त्रिष्टुभं हारियोजनस्य पुरोनुवाक्यामन्वाह तस्या उक्तं बाह्मणमथ यदतिषस्य पुरोनुवाक्या- मन्वाहावीर्यो वा उ स प्रैषो योऽपुरोनुवाक्योऽथो द्विदेवत्येषु वै पुरोनु- वाक्या भवन्ति सर्वेषु च प्रस्थितेषु तस्मादस्य पुरोनुवाक्यामन्वा- हाथ यदतिप्रैषमाह परमेवैतदहरभिवदति परमेवैतदहरभ्यारभ्यवसन्तीति हस्माऽऽह कौषीतकिः परमेवैतदहरभ्यारभ्य वसन्तीति ह स्माऽऽह कौपीतकिः ॥११॥ इति शाङ्खायनबाह्मणे त्रिंशोऽध्यायः ॥ ३० ॥ इति शाङ्खायनबाह्मणं समाप्तम् ।

Rigvedantargata Shankhayanabrahmana. Vol.65

Author
Not Available
Title
Rigvedantargata Shankhayanabrahmana. Vol.65
File name
Rigvedantargata Shankhayanabrahmana. Vol.65
Text
OCR done
Citation
1911
Published
18-01-2006
Publisher
Hari Narayana Apte., Pune
Language
Sanskrit
Pages
116
Library
Jayakar Library , Pune
Classification
Religion
DLI number
496153
Barcode
1999990083029.00
Scanning centre
Pune University
Digital publisher
Jayakar Library , Pune
Rights
Author
VMLT id
hVZSWG36s5p
Download PDF

Rigvedantargata Shankhayanabrahmana. Vol.65