Central Archaeological Library, Asi
Siddhantasiddhanjana (pt.i)
Front matter
GOVERNMENT OF INDIA
ARCHÆOLOGICAL SURVEY OF INDIA
.
CENTRAL
ARCHÆOLOGICAL
LIBRARY
)
ACCESSION NO.
23923
CALL No. Salvi Kril Gen
1.G.A.79
.
OF THE PHIR,
w
INDIA
.
-
1
Library Reg No
OGY
܂. ܂܂
ܫ
- ܟ
ܕ݁ܰܝ
LUF ANDRE AM TRIVANDRUM SANSKRIT SERIES. No. XLVII. THE 5 SIDDHÂNTASIDDHẬNJANA SRÎ KRISHNANANDA SARASVATİ 1 EDITED BY T. GANAPATI SASTRÎ Curator of the Department for the publication of Sanskrit Manuscripts, Trivandrum. . 23923. Part I. 19642 Sal ht PUBLISHED UNDER THE AUTIIORITY OF THE GOVERNMENT OY HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE. 16.96gis Geen 400 Wire WWW TRIVANDRUM- PRINTED BY TIIE SUPERINTENDENT, GOVERNMENT PRESS 1918. (All Rights Reserved.)
OENTI Dtó 1.EULOGICAL
LIBRARY NEW DELHI.
Acc. No.1,..23.9.23
Dato... 21:56
Wall No.....Salf.Kril. Gran
Asleynoundatimaanwar
।।
सिद्धान्तसिद्धाञ्जनं
J
OF THE DIRECTOR GENERAL OF 4
INDIA.
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ४७.
श्रीकृष्णानन्दसरस्वतीप्रणीतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
:: . संशोधितम् ।
प्रथमो भागः।
।
Powermemamles
ama
Library
OFFICE
तश्च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालयाध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
mmu
कोळम्बाब्दाः १०९१, कैस्ताग्दा १९५६
- PREFAOE. Siddhantasiddhânjana written by Krishnananda Sarusvatî is a treatise on the Verlantir, and is so called as it gives an effective licly like " Siddhânjana” (magical gintinent) in clearly seeing the well-established truths of that philosophy. The work subjects the objections raised against the Advaita philosophy hy other schools, to a wise and penetrating kriticism, and maintains with convincing reasoning the doctrines of that philosophy. The subjects discussed in the work can be known from the contenis prefixed to the work. - * ܙܚܙܕ The edition of the work is based on two correct palm. leaf manuscripts written in Tamil grantha character. One of them was lent to me by Brahmasri Pandit Anantanârâyana Sastriar, son of the late revered scholar Svâmi Dikshitar of Vadiviswaram, which is referred to in the footnotes by the letter a. The other manuscript marked # belongs to Professor K. Sundararana Iyer, M. A. of Kumbakonom. At the end of this manuscript occurs the following verse of the copyist, "सौम्याग्दे मृगभास्करे दिनमणाविन्दोः कलां पञ्चमी पुष्णत्यश्चितपौष्णभे रविदिने लमे शुभंयावपि । कृष्णानन्दगुरुप्रसादमाहितस्तद्धयानधन्याशयो रामानन्दयतिः स्वयं लिखितवान् सिद्धान्तसिद्धाञ्जनम् ॥" which shows that Râmânanda Yati, who copied the manus cript, is a disciple of Krishnananda Sarasvatî, the author of the present: work. The folios of the manuscript accordingly present an old and extremely worn-out appearance, and a - few of them are also missing. Both these manuscripts contain but the first Lipti' of the work. When the printing of the work was begun, with the help of the two manuscripts, Brahmasri Pandit Yajnasvâmi SÅstriar of Mannarkudi, Tanjore District, grand-son of the late illustrious scholar Mahamahopadhyâya Raju Sastriar, 2 1 I informed me of the existence of a decayed.manuscript of the work, in his possession. As the manuscript, he said, could not be transmitted to me, he consented to compare the proofs of the work with luis mauuscript, as the printing progressed, and furnish me with the variant readings. The readings of this manuscript; named 7, are added as an appendix to the work. For the kind help rendered to me by Pandit Yajnasvâmi Sâstriar and also by Pandit Anantanarayana Sastriar and Professor K. Sundararama Iyer, take this opportunity of expressing my indebtedness to them. As the work is a voluminous one, it is intended to publish it in four parts. The first part of the work is now issued; and the rest will appear in due course. There is a cominentary for the work called Ratnațâlika written by Bhaskara Dikshita, as is evident from the introductory verse, "तत् (वेङ्कटपतियज्वे)सूनुर्विवृणोत्येष सिद्धाजनकृतिं गुरोः । सर्वतोमुखयागस्य कर्ता भास्करदीक्षितः ॥" From the colophon of the commentary, "sflour accredit गुरुचरणारविन्दपरिचरणलब्धविद्यावैशद्यस्य सर्वतोमुखयाजिनो भास्करदीक्षितस्य कृती सिद्धान्तसिद्धाधनव्याख्यायां रत्नतूलिकायाम्", it is also clear that the author of the Siddhantasiddlárjana is a preceptor of Bhaskara Dikshita. This Bhaskara Dikshita being one of the donees of the Tiruvasanallur Village Grant by Raja Sahaji I, who ruled Tanjore from 1084–1711 4. C., it is quite probable that the author of Siddhantasiddhanjana, flourished in the latter part of the 17th century A. O. This is corroborated liby the fact that the date of copying the manuscript, as given in the verse, RIP quoted above, falls on the 13th of January 1670 4. C., as calculated by Dewan Bahadur L. D. Swamikannu Pillai Ayl., M. A.,. B. Jus, LLB., F. M. " Trivandrum 16-3-1916 T. GANAPATI SÂSTRÍ.
'. निवेदना। . * । , अयं श्रीकृष्णानन्दसरस्वतीप्रणीतः सिद्धान्तसिद्धाञ्जनं नाम कश्चिद् वेदान्त- अन्थः। सिद्धान्तानां सिद्धाजनमिव सिद्धाञ्जनं सम्यग्दर्शनसाधनमित्येष तथा व्यपदिश्यते । अद्वैतसिद्धान्तसिद्धाः परमार्थाः परोद्भावितनानादूषणनिराकरणपटुभियुक्तिन्यायोपपत्तिसमन्वि- तैर्विचारैरिह स्थाप्यन्ते । प्रकरणात् प्रसङ्गाच्च येऽर्थी विचारविषयतां गताः, ते विषयानुक्रम ण्या सामान्यतो बोढुं शक्याः । अस्य संशोधनाधारभूतौ द्वावादशौं । तत्रैकः ख.संज्ञः शुद्धस्तालपत्रात्मको मिलग्रन्थ- लिपि वटिवीश्वरग्रामवास्तव्यमहाविद्वदग्रेसरश्रीस्वामिदीक्षितपुत्रैः श्रीमद्भिः पण्डितान- न्तनारायणशास्त्रिभिर्मह्यमुपकृतः, अन्यस्तु क.संज्ञितः कुम्भकोणस्थाङ्गलविद्यामन्दिर- प्रवक्तृभूतपूर्वैः श्रीमद्भिः एम्. ए. पदाङ्कः सुन्दररामायः । तत्र द्वितीयो ग्रन्थकर्तृशिष्येण तत्रभवता रामानन्दयतिना लिखित इत्यवगम्यते-- "सौम्याग्दे मृगभास्करे दिनमणाविन्दोः कलां पञ्चमी पुष्णत्यञ्चितपौष्णभे रविदिने लग्ने शुभंयावपि । कृष्णानन्दगुरुप्रसादमहितस्तद्धथानधन्याशयो रामानन्दयतिः स्वयं लिखितवान् सिद्धान्तसिद्धाञ्जनम् ॥" इति ग्रन्थान्ते लेख कश्लोकदर्शनात् । लक्ष्यते च महती तन्त्र जराजर्जरता पत्रेषु, लुप्तानि च कतिपयानि तत्र तत्र पत्राणि । द्वाविमावादशौं प्रथमलिप्यन्तावेव । द्वितीया लिप्तिर्ग्रन्थकारेण निर्मिता न वेत्यनिश्चयः । उकादर्शद्वयाधारण संशोध्य मुद्रणे आरब्धे चोलान्तर्गतमन्ना- कुंटिग्रामवास्तव्याः सर्वशास्त्रविशारदमहामहोपाध्यायश्रीत्यागराजमखीन्द्रपौत्राः श्रीमन्तः पण्डितयशस्वामिशास्त्रिणः कस्यचित् सिद्धान्तसिद्धाअनादर्शस्य जीर्णपत्रस्य स्ववशे सत्ता मह्यमवेदयन् ; तस्य च देशान्तरगतागतपीडासहतां पश्यन्तोऽस्मन्मुद्यमाणपत्रेषु तत्सं- वादविसंवादौ स्वयं परीक्ष्य मह्यं निवेदनीयौ चावोचन् । तथा तयोर्निवेद्यमानयोर्ये पाठभेदा ग.संज्ञितात् तस्मादादर्शादधिगताः, ते तत्तत्सम्पुटेषु परिशिष्टतया योज्यन्त इति व्यवस्था- श्रिता । एवं कृतोपकारेषु पण्डितयज्ञस्वामिशास्त्रिषु श्रीमदनन्तनारायणशास्त्रिषु श्रीम- त्सुन्दररामार्येषु चाहमत्यन्तं कृतज्ञतां वहामि । अतिविपुलस्यास्यः ग्रन्थस्य चतुर्मि: सम्पुटैः प्रकाशनं ग्राहकाणामनुकूलमिति मत्वा प्रथमः सम्पुटोऽयमिदानी प्रकाश्यते, अन्या- श्व कमेण प्रकाशयिष्यामः । अस्य ग्रन्थस्य रत्नतूलिकाभिधानं किमपि व्याख्यानं भास्करदीक्षितेन प्रणी- तमुपलभ्यते । तस्यामुखे-- ' "तत् (वेङ्कटपतियज्व)सूनुर्विणोत्येष सिद्धाजनकृति गुरोः । सर्वतोमुखयागस्य कर्ता भास्करदीक्षितः ॥" 2 इति दर्शनात , प्रकरणसमाप्तौ “श्रीकृष्णानन्दसरस्वतीगुरुचरणारविन्दपरिचरणलब्ध- सकलविद्यावैशद्यस्य सर्वतोमुखयाजिनो भास्करदीक्षितस्य कृती सिद्धान्तसिद्धाञ्जनव्या- ख्यायां रत्नतूलिकायाम्" इति लेखनाच भास्करदीक्षितस्य सिद्धान्तसिद्धा- अनकर्ता गुरुरिति स्पष्टम् । भास्करदीक्षितश्च तजापुराधिपतेः ऊस्ताब्दीयसप्तदशशत- कान्तस्थितस्य शाहजिराजस्य समकालिकेषु तिरुविशैनल्लूराख्यग्रामदायप्रतिग्रा- हिषु पण्डितेष्वन्यतम इति तद्गुरोरस्मद्रन्थकारस्य सप्तदशशतकोत्तरार्धं जीवितसमयः सम्भा- व्यते । सा चेयं संभावना' रेवतीरविवारयुक्तायाः सौम्याब्दमकरशुक्लपञ्चम्याः 'सौम्याग्द' इत्यायुदाहृतश्लोकप्रकाशिताया ग्रन्थलिपिकरणसमाप्तितिथेः १६७० तमस्ताब्दजनवरिमा- सीयषोडशदिवसरूपत्व गणितवता श्रीमता एल्. डि. स्वामिकण्णुपिळळे महाशयेन दृढीकृता । अनन्तशयनम् १६-३-१९१६॥ त. गणपतिशास्त्री. U Agrono ", सिद्धान्तसिद्धाञ्जनपथमभागस्य विषयानुक्रमणी । पृष्ठम्: विषयः , १८ . . विषयः उपोद्धातप्रकरणम् अनुबन्धचतुष्टयप्रदर्शनम् शारीरकपदार्थः अथशब्दार्थः भानन्तर्यप्रतियोगि अतः शब्दार्थः परमतेऽथातःशब्दवैयर्थ्यम् जिज्ञासापदवृत्तिः उपपदविभक्तेः कर्मत्वाभिधायकत्वम् सुब्विभक्तौ लक्षणाभावः प्रकृतेर्लप्तप्रत्ययार्थशक्तिनिरासः ब्रह्मशब्दार्थः ब्रह्मपदव्युत्पत्तिः ब्रह्मपदार्थमुख्यामुख्यत्वविवेकः भगवच्छब्दार्थः वनशब्दार्थः जिज्ञासाशब्दार्थः सनन्तनिर्देशफलम् धर्मब्रह्मविचारयोरैकशास्त्र्यचोयम् धर्मब्रह्मजिज्ञासयोभित्रशास्त्रत्वम् मीमांसयोः क्रमनियमाभावः उपनयनस्याध्ययनाङ्गत्वाभाव: उपनयनस्याध्यापनाङ्गत्वाभावः विचारस्य रागतः प्राप्तत्वम् विचारस्य रागतः प्राप्तत्वनिरासः धर्मविचारस्य प्राथम्यशङ्का धर्मविचारस्यानुपयुक्तत्वम् कर्माणां वेदनसाधनत्वम् ब्रह्मवेदनस्योपासनात्मकत्वम् विकल्पस्याटदोषत्वम् वेदनस्यामायणमनुष्ठेयत्वम् पृष्ठम्. ३ कर्मणां वेदनानमत्वम् देवानां कर्मानधिकारः ब्राह्मण्यशब्दार्थः त्रयो धर्मस्कन्धाः ११ परीक्ष्यलोकान् इति श्रुतिविचारः १२ विद्या चाविद्यां च इति श्रुतिविचारः १४ । अतिमृत्युमेति नान्यः पन्थाः इति श्रुति- विवारः ८१ आत्मक्रीडः इति श्रुतिविचारः ८३ यतेः काभावः २२ विविदिषाशब्दार्थः ८६ कर्मकाण्डोक्तन्यायानां ब्रह्मविचारानुपजी- २३ व्यत्वम् १२ २६ साधनचतुष्टयस्य पूर्ववृत्तत्वाक्षेपः २७ साधनचतुष्टयस्य पूर्ववृत्तत्वसमर्थनम् दुःखत्रयातुरत्वज्ञानस्य पूर्ववृत्तत्वनिरासः ९८ औपनिषदविचारप्रयोजकचोद्यम् ३१ श्रवणविध्याक्षेपः ३३ / श्रवणविधिसमर्थनम् १०१ ३८ द्रष्टव्य इत्यस्य फलपरत्वम् १११ निदिध्यासनमात्रस्याविधेयत्वम् ११२ ५१ | मनसोऽप्रमाणत्वम् ५५ सुखाद्यनुभवान्यथासिद्धिः ५८ | मोक्षस्य ध्यानासाध्यत्वम् ६० विद्युपास्योर्भेदः ६३ । स्मृतिप्रतिलम्भस्याहेतुत्वम् मुक्तरुपासनासाध्यत्वे दोषाः ६६ / सहकार्यन्तरविधिः वेदान्ते विध्यसम्भवशङ्का १२१ ६९ / अधिकारिविशेषणम् १२५ संन्यासस्य श्रवणाङ्गत्वम् ૨૮ ९९ ... ४८ ६.१५ "
.
-
पृष्ठम् .
विषयः
मातुरसंन्यासस्य श्रवणानजत्वम्
शान्दापरोक्षाक्षेपः
आपातत्वविकल्पः
संशयविकल्पः
अपरोक्षत्वनिर्वचनम्
१४२
पृष्ठम्. । विषयः
१३. शाब्दापरोक्ष्ये दोषोद्धारः
१३३ / आपातत्वनिष्कर्षः
१३५ / संशयलक्षणम्
१३६ | परोक्तापातत्वभङ्गः
१३८ । वाक्यजज्ञानस्यापवर्गहेतुत्वम्
+
--
पाठभेदः। पृष्ठे. पर क.ख. ग्रन्थपाठः. ग. ग्रन्थपाठः, १८ -- साध्यत्वस्यावर्जनीयत्वाद् ब्दप्रा र्थत्वा प्रामाण्य इति हेत्व २५ साध्यत्वाभावाभिप्रायत्वाद् ब्दप्रसिद्धिप्रा र्थत्वावेदका प्रमाण इति.कल्पनाहेत्व षस्याभेदन्यायस्य शब्दान्तरा- भ्यासादिभे स्य तादर्थ्यस्य त तकक र्य युक्तम् । " षस्य भे -- स्यत १०२ र्यम् । १२५ कार १३७ १७ नन्दाप्ति उत्था किशे नन्दावाप्ति व्युत्था क्तिविशे है। शुद्धिपत्रम् । पृष्ठे पतौ अशुद्धम् २ षोढा भवा थाभा ३., : प्रि- कार्य (गा? भावा) मपे २६ स्य हि शुद्धम् सोढा भावा थत्वाभा प्री. ऋय्य योगा मनपे स्येह. त्मावबो व्युत्था ९२ १९ १२५ १३१ मावो. ५ उत्था चावृ वस्या च बृ १४३ वनस्या.
॥ श्रीः॥ सिद्धान्तसिद्धाञ्जनं श्रीकृष्णानन्दसरस्वतीप्रणीतम् । गणेशाय नमस्तस्मै यन्मूला मन्त्रमातृका । सोऽहमात्मा यतः सोऽपि तां च शक्तिं परां भजे ॥ १ ॥ श्रीपारिवाज्यसाम्राज्यलक्ष्मीललितमूर्तये । वासुदेवयतीन्द्राय गुरवे करवै नमः ॥ २ ॥ जडीकृतजगत्यन्तस्तमस्सम्भेदमर्मणे । रामभद्रयतीन्द्राय महते महसे नमः ॥ ३ ॥.. जगज्जन्मस्थेमाप्ययनियमसीमादिमगुरु- विचेयो योगेनानिदमुदयवाचामवधिषु । प्रकाशानन्दात्मा परिमुषितनिश्शेषकलुष- स्त्रिभेदातीतो धीनदनचटुसाक्षी विजयते ॥ ४ ॥ स्वालोकक्षणविप्लुतस्वपरधीभेदेऽन्यराजन्यके साकूतस्मितविभ्रमाञ्चितमुपायान्त्या निजस्यन्दनम् । रुक्मिण्या मिषति त्वशेषदिविषद्वर्गे रथारोपण- व्याजालिङ्गनतो हरेरवतु नः स्तैमित्यमानन्दज़म् ॥ ५ ॥ परिचयमुपयामों भारतीपादपझे यदुपनिहितलाक्षापङ्कलक्षण्यमुद्रा। GP. T. 125. 500.. 5-3-5. D J सिद्धान्तसिद्धाञ्जने प्रणयकलहनने पद्मभूमौलिदेशे प्रथमशरविलासं पञ्चबाणस्य धत्ते ॥ ६ ॥ ये वेदान्तसुधोदधिं सुमनसां निश्रेयसाय स्वयं निर्मथ्योदहरान्निरूपणगुणावृत्तेन चेतोमथा । अद्वैतामृतमासुरानुशयिनामास्वादनीयेतरं तानास्माकगुरोरुपैमि भगवत्पादादिमान् देशिकान् ॥ ७ ॥ सम्पद्यन्ते सरसिरुहभूसम्पदः किम्पचाना लिम्पन्त्यन्तःकरणमिह यन्नैव नैलिम्पभोगाः । सम्पत् सा नः समजनि यतः सानुकम्पैरपाङ्ग- स्तं पर्येमि प्रणतिभिरहं वासुदेवं यतीन्द्रम् ॥ ८ ॥ सन्तः सन्तु सहस्रशः समदृशः सर्वप्रियम्भावुका जागर्ति त्रिजगद्गुरुर्मनसि नः श्रीरामभद्रो यमी । औदासीन्यमनादृतावधि दया सान्द्रा धुताधिः शमः शब्दब्रह्म परं च यस्य विषये लोकोत्तरं वर्तते ॥ ९ ॥ श्रीपरहंसवतंसं चतुरानननव्यदिव्यगतिशीलम् | श्रीमत्स्वयम्प्रकाशं परमगुरुं नौमि योगीशम् ॥ १० ॥ येन ज्ञानहगञ्जिता न रजसा संक्षुभ्य संक्षिप्यते शश्वत् पश्यति शान्तसन्तततमःप्रत्यूहमन्तर्हितम् । तृष्णादूषिक्या न दुष्यति न वा निद्राति तत्तादृशं कृष्णानन्दसरस्वती वितनुते सिद्धान्तसिद्धाञ्जनम् ॥ ११ ॥ मृषोत्कर्षश्लाघारभसमविषोढा समयिना- मनारूढं दोषं सदसि परिहस्ये परिहरन् । तथापि त्रय्यन्तप्रवणभगवत्पादसरणौ यते मादृान्दप्रकृतिमतिभेदं शमयितुम् ॥ १२ ॥ "" mammmmsahenrimayam पञ्चमीबहुव्रीहिः । इतरदिति वा पाठः ।
उपोद्धातप्रकरणम् । - पुरोभागी भागी पुरुषपशुतायामगुणवित् समस्तो नाम स्तादपि किमियता नः सुवचसाम् । स चापि स्यादेकः क्वचिदपि गुणज्ञो गुणवता- मपर्यन्तानन्ता निरवधिरनेहापि भ वान् ॥ १३ ॥ इह मम कृतबुद्धयो निबन्धे धियमवधाय निगूढभावबन्धे । गुणमभिदधतामथागुणं वा ...' द्वितयमभावविदोदितं दुनोति ।। १४ ।। प्रगल्भन्ते येषां प्रकृतिमुषिताशेषकलुषा धियः शास्त्राम्भोधौ जगति ऋजवस्ते कतिपये । ममामीषामञ्चन्मतिमुकुरबिम्बेषु महतां निबन्धः सन्धत्तामनिशमनुबिम्बव्यतिकरम् ॥ १५ ॥ उपोद्घातप्रकरणम् । इह खलु तावदतीतानेकभवपरम्परासमर्जितसुकृतसम्पदावर्जितभगवदनुप्र- हासादितसत्त्वप्रसादतया सम्पन्नविवेकवैराग्यादिसाधनो मात्रयापि दुःखानुषङ्गद. विष्ठां पुरुषार्थकाष्ठामभिलषस्तदुपायं पर्येषमाणो यद्यधीतसाङ्गस्वाध्यायः स्यात्, तत एव तदुपायमात्मतत्त्वज्ञानमधिगम्य जिज्ञासते । अथ प्रागेव स्वाध्यायाध्य- यनात् प्रवर्जितः स्यात् , ततो यावदुपयुक्तवेदानुवचनादपि तदधिगमे तस्य जि- ज्ञासा न विरुध्यते । ननु सर्वेषाम् उपनयनप्रभृति समान आचार्यकुले वासः । 'बुद्धा कर्माणि यत् कामयेत, तदारभेत' (आप० ध० प्र.२.ख. २१. सू० ५)इति स्मर- णात् । उपकुर्वाणस्य सतो विद्याग्रहणानन्तरमेव प्रव्रज्या युक्ता, न प्रागिति चेद् , न । विद्याग्रहणस्यातदधिकारनिमित्तत्वात् । 'यदहरेव चिरजेत् , तदहरेव प्रबजे- दिति वैराग्यमानस्यैव तदधिकारहेतुत्वश्रवणात् । "यदा मनसि वैराग्यं जायते सर्ववस्तुषु । तदैव सन्यसेद् विद्वानन्यथा पतितो भवेत् ॥" इति स्मरणाच्च । न च विवेकवैराग्यादेविद्याग्रहणानन्तर्यनियमहेतुरस्ति । तस्य सत्त्वशुद्यधीनतया कालनियमायोगात् । न चाश्रमिणामेवैष सत्येव वैराग्ये पारि- ४ सिद्धान्तसिद्धाञ्जन बाज्यनियम इति शङ्कयम् । आचार्यकुलादेः. प्रनज्याधिकाराहेतुत्वेन प्रत्यु- तत्वात् । 'ब्रह्मचर्य समाप्य गृही.भवदि'त्यादिश्रवणस्य च कषायपाकसम्भवा- भिप्रायत्वात् । "कषायं पाचयित्वा तु श्रेणीस्थानेषु च त्रिषु । प्रव्रजेत्तु परं स्थानं पारिवाज्यमनुत्तमम् ॥" इति स्मरणात् । प्राचीनसुकृतैरेव परिपक्वकषायस्य प्रथममेव विवेकवैराग्यादि- समुदये बाधकाभावात् । अन्यथा (सो ? स्वो)पनयनादू_ 'स तानि प्राग्वा त्यजे- दिति. प्रागुपनयनादपि सन्न्यासविधिविरोधापातात् । यद्येवमविधिपरिगृहीतो वेदान्तो जिज्ञासितोऽपि न फलवदर्थावबोधमाधातुमर्हति । वैधाध्ययनसंस्कारा- भावात् । विशिष्टानुपूर्वीकसकलस्वाध्यायविषयत्वादध्ययनविधेः , एकदेशाध्य- यनस्याशास्त्रीयत्वाद् , उपनीताधिकारिहीनत्वाच्च । स्वाध्यायो हि शक्य- सर्वफलार्थतयाध्ययनेन संस्क्रियते , विशेषाभावात् । अन्यथा लोकावगत- कारणादेवाक्षरावाप्तौ तद्विधिवैयर्थ्यप्रसङ्गादिति चेद्, मैवम् । नहि विचारिता- दपि वेदान्ताद् अविधिगृहीतत्वापराधेनार्थतत्त्वज्ञानमेव न जायते । लोकवेद- साधारणसामग्रीकशब्दनिष्पाद्यज्ञानस्वरूपे संस्कारानुपयोगात् । न खल्वावनी- बादिसंस्कारः समिदादिदाहेऽप्युपयुज्यते । नापि जनितस्य विज्ञानस्य वैफल्यं. क्षममुत्प्रेक्षितुम् । अविद्यादिनिवृत्त्यवसानदृष्टफलस्यानुभविकत्वात् । न च शूद्रादेवि स्वाध्यायग्रहणं प्रवजितस्य वेदान्तग्रहणं दुरितायेति प्रमाणमस्ति , येन तदुरितमलीमसे चित्तसत्त्वे ज्ञानमेव नोदीयेत । 'नाध्येतव्यं न वक्तव्य- मिति निषेधस्य. च वैधानुपयुक्ताध्ययनप्रवचनविषयत्वात् । यद्वा : ‘सर्वेषु : वेदे- वारणमावतयेदुपनिषदमावतयेदिति. प्रव्रजितस्योपनिषदध्ययनं पृथग्विधिविधे- यमस्तु । न च परिव्रजतः स्वाध्यायविधिप्रापितवेदत्यागे विहिते प्रतिप्रसवो- ऽयम् उपनिषदध्ययनस्य , न विधिः, आवर्तयेदिति गृहीतस्य गुणनाभिधानादिति १. 'वि', २. 'वावर क. पाटा.. * ईङ् गतौ' इति धातुः । -- उपोद्धातप्रकरणम् । वाच्यम् । सर्वेषु वेदेष्विति विशेषणात् । न च स्वाध्यायविधिः स्वपदोपादाने संति सर्ववेदविषयो भवितुमर्हति । न चानधीतानामावृत्तिः सम्भवति । न च सर्ववेदाध्यायिविषयमिदं सर्वेषु वेदेष्विति , 'वेदानीत्य वेदौ वे' त्यादिस्मर- णादिति वाच्यम् । इतरस्योपनिषदावृत्तिप्रतिप्रसवाभावप्रसङ्गात् । उपनिषदमा- वर्तयेद् यदि कश्चित् सर्ववेदाध्यायी स तु सर्वेषु वेदेष्विति विभागकल्पना- गौरवाच्च । न च सर्वेषु वेदेषु यथास्वमुपनिषदमावर्तयोदित्यर्थः, विशेषणवैय- •देव । उपनिषदमावर्तयेदित्येव तस्य तस्य स्वस्वाध्यायोपनिषदावृत्तिसिद्धेः । तस्मात् 'सर्वेषु वेदेषूपनिषदमधीयीते'ति विधिरेवायमधिगम्यते । न च वाक्य- भेदः उपनिषदमधीयीत , तां च सर्ववेदगतामिति । 'सर्ववेदेष्वधीयते'त्येव वि- धाने सति आक्षिप्तसामान्यस्योपनिषदमिति विशेषोपसंहारमानत्वात् । 'सा वैश्व- देवी'त्यादौ आमिक्षेत्यादिवत् । न चाशक्यार्थविधानम् । न खलु सर्वासु शाखास्वित्याह । सर्वेषु वेदेष्विति तु प्रतिवेदमेकैकोपनिषदध्ययनेऽपि समाप्यते । अथवा 'सर्ववेदगतयोपनिषदाधीयीते ति नित्ये विशिष्टविधौ न कोऽपि दोष इति । अपिच ब्रह्मविद्यार्थस्योपनयनमपि तत्र तत्र श्रूयमाणम् उपनिषदध्य- यनविधि स्वाध्यायविधिव्यावृत्तं तदेकदेशविषयम् अवष्टभ्नाति । न चैवं स्वाध्यायविधिना अधीतवेदस्यापि प्रव्रजितस्य पुनरुपनयनोपनिषदध्ययने प्रसज्ये- यातामिति दोषः । इष्टत्वात् । 'उप त्वायानी'त्यादिलिङ्गदर्शनात् । न चाधी- तवेदार्थावधारणार्थमेवेदमुपनयनमिति नियन्तुं शक्यम् । विशेषहेत्वभावात् । न चोपनयनस्यानकध्यकल्पनादोषः । आगमिकार्थस्य यथागमं प्रतिपत्तव्यत्वात् । 'महाशाला महाश्रोत्रिया'' इति प्रक्रम्य 'तान् हानुपनीयैतदुवाचेति ब्रह्मविद्यार्थ पृथगुपनयनप्राप्तिदर्शनात् । 'नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयातेति तदनेक- स्वानुगमाच्च । तस्माद् युक्तं प्रागध्ययनादपि प्रव्रजितस्य वेदान्तमात्राध्ययनादपि ब्रह्मजिज्ञासेति । तदेतदाह भगवान् भाष्यकारः-- "धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः।" इति । यदि स्वाध्यायविध्यध्यापितसाङ्गस्वाध्यायः, तदा कश्चिद् विचार्य धर्ममनु- ष्ठाय तत्प्रसादलब्धविवेकादिसाधनो ब्रह्म जिज्ञासते। कश्चित्तु स तादृश एव प्राची- नसुकृतसम्पदासादितविवेकादिः प्रथममेवानुपयोगादनपेक्ष्य धर्मजिज्ञासां ब्रह्माज- ज्ञासामेवारभते । अन्यः पुनरुत्कटतमसुकृतसम्भारपरिपाकवशादनधीतवेद एव -- ''. सिद्धान्तसिद्धाञ्जने re विवेकादिसम्पत्त्या निरस्तसमस्तैषणो निश्रेयसीयंस्तदुपायमन्विच्छति । स स- वोऽपि पृथगुपनिषदध्ययनमालम्ब्य विशेष्यतेऽधीतवेदान्तस्येति । अन्यथा हि न वक्तव्यमधीतवेदान्तस्येति । स्वाध्यायविधिप्रवर्तितस्यैकदेशाध्ययननिष्ठाना- योगात् । जिज्ञासालम्बनस्य च योग्यतया वेदान्तस्य सन्निधिलभ्यत्वात् । अतो नायमर्थः यादि कश्चिदनधीतवेदान्तः, स धर्म जिज्ञासताम् , अधीतवेदान्तस्य तु तामनपेक्ष्य ब्रह्मजिज्ञासोपपत्तिरिति । एतेन यत् केनचिदन्न प्रलपितं. 'वेदान्तमात्राध्ययनमशास्त्रीयम् । कृत्स्नाध्ययने तु धर्मजिज्ञासाप्राथम्यम् अध्य- यनक्रमादिने ति, तत् सम्प्रदायाज्ञानमूलतया निरस्तम् । धर्मजिज्ञासाप्राथम्य- हेतवश्चाग्ने निरसिप्यन्ते । यत्तु एवं सुकृतातिशयादेव धर्मजिज्ञासानपेक्षावद् ब्रह्म- जिज्ञासानपेक्षापि किं न स्यादिति । तन्न । अतीतभवनिप्पादितसकलब्रह्मवि- चारस्य प्रतिवन्धक्षये सहजसिद्धज्ञानस्य वामदेवादेरिव विचारानपेक्षत्वेऽप्यक्षतेः । अतादृशस्य ज्ञानार्थतयैव ब्रह्मविचारापेक्षणात् । नहि स्वर्गादिवद् धर्मैकसाध्य ब्रह्मज्ञानम् । तस्य प्रमाणफलत्वात् । एवंविधपुरुषधौरेयस्य दुर्लभतमतया च प्रायशः क्रमयोगेन वर्तन्ते शास्त्राणि । न चैतावता कचिदवसितमुदसनीयम् । विषयविशेषोपपत्तेः । तममुं जिज्ञासुमधिकृत्य ब्रह्मजिज्ञासाशास्त्रमारभमाणो भग- वान् बादरायणः शास्त्रप्रवृत्त्यङ्गमनुबन्धमादावसूत्रयद्- "अथातो ब्रह्मजिज्ञासा।" इति । अस्य सूत्रस्य तावत् 'तद्विजिज्ञासस्व ,' 'सोऽन्वेष्टव्यः स विजिज्ञा- सितव्यः', 'आत्मा वारे द्रष्टव्यः श्रोतव्य' इत्यादिविचारविधेः विप्रकीर्णश्रुता- धिकारिविशेषणतया विविधाम्नानविरुद्धावभासविषयप्रयोजनतया च विचिकि- त्सिताधिकारिविषयप्रयोजनसम्बन्धानुबन्धस्यापेक्षिततन्निर्णयोपयोगिन्यायोपदर्शकत्वे नं श्रुतिसङ्गतिः । तत एव सकलशास्त्रोपोद्धाततया समर्थनीयारम्भक- विचारद्वारा . ब्रह्मविषयतया च शास्त्रप्रथमाध्यायप्रथमपादसञ्जतयः । ब्रह्मणि विचारविधिसमन्वयप्रतिपादनाद्वा प्रथमाध्यायसङ्गतिः । सूत्रे ब्रह्मशब्दोपादानाद् 'आत्मा श्रोतव्यः', 'तद् विजिज्ञासस्वेति तुल्यविषयत्वप्रदर्शनमुखेनात्मब्रह्मसामा- नाधिकरण्यलक्षणस्पष्टब्रह्मालिङ्गोपक्षेपेण प्रत्यगेकरसे ब्रह्मणि विचारविधिसमन्वया- मिधानात् : स्पष्टब्रह्मलिङ्गवाक्यान्तरविचारावतारहेतुतया पादसङ्गतिरिति । - - amaves-.-ewspoY शारीरकपदार्थः । अनुबन्धचतुष्टयप्रदर्शनम्। तत्राथेत्याधिकार्यनुबन्धः । सूच्यते । ब्रह्मजिज्ञासेति विषयानुबन्धः । अर्थात्तु विचारस्य प्रमाणाधिष्ठानतया प्रत्यक्षाद्ययोग्यतया च सन्निहितो योग्यश्च वेदान्त इत्यव्यवहितविषयानुबन्धो लभ्यते । अर्थादेव फलसम्बन्धानुबन्धाव पीति । चतुर्लक्षणं चैतदुपक्रम शास्त्रम् । चतुर्धा चेह ब्रह्म जिज्ञास्यते किं ब्रह्म, कथं लक्षणं, किमस्य साधनं , कथं फलं चेति । तत्रायद्विकेन सलक्षणं ब्रह्म प्राधान्येन प्रतिपाद्यते । उत्तरद्विकेन च ससाधनं फलम् । यद्यपि चाद्यलक्षणे ब्रह्मणि वेदान्तानां समन्वयः, द्वितीये स्मृत्याद्यविरोधः प्रतिपाद्य इत्याद्यद्विकेऽवान्तरभेदः, उत्तरद्विके च साधनं तृतीये, चतुर्थे फलमिति प्रतिपाद्यभेदः, तथाप्यविरोधस्य प्रमाणप्रति. ष्ठार्थतया प्रमाणस्य च प्रमेयभूतब्रह्मशेषतया साधनस्य फलशेषतया च प्रधान- विषयैकत्वे द्विकद्विकविभागो न विरुध्यते । आद्यद्विकेनोपेयं ब्रह्म प्रतिपाद्यते, उत्तरद्विकेनोपायो भक्तिरिति कश्चित् । तन्मन्दम् । आधाद्विके तावत् प्रथमलक्षणे 'तत्तु समन्वयाद्' (ब्र० अ० १. पा० १. सू० ४) इति ब्रह्मणि समर्थितसमन्वयानां वेदा- न्तानां गतिसामान्यप्रपञ्चनेन, द्वितीये प्रमाणविरोधपरिहारेण च प्रमाणतात्पर्य- स्यापि सूचनात् । उत्तरद्विकेच विद्याफलस्य चतुर्थे प्रायेणोपवर्णनात् । अथ प्रमाणं प्रमेयार्थमित्याद्यद्विकस्योपेयविषयत्वमुच्येत , उपायश्चोपेयार्थ. इत्युत्तरद्विकस्यापि तदेकविषयत्वे नार्थभेदः स्यात् । एतेन विषयविषयिरूपप्रतिपाद्यभेदेन द्विकद्वि- कभेद इति प्रत्युक्तम् । जगद्व्यापारवर्जमैश्वर्यादिरूपस्य तुर्याध्यायप्रतिपाद्यफलमे- दस्याविषयित्वात् । यत्तु फलस्य मुक्तेरपि भगवदनुभवरूपतया विषयित्वेन क्रोडी- काराद् न तुर्याध्यायप्रतिपाद्यभेद इति । तन्न । प्रमाणस्यापि तर्हि समन्वया- दिप्रतिपाद्यस्य विषयित्वेन क्रोडीकारे द्विकद्वयार्थभेदायोगादिति ॥ । शारीरकपदार्थः । ताम चतुर्लक्षणी शारीरकमीमांसामाचक्षते । शरीरमेव शरीरकं, तत्र भवः शारीरको जीवः, न ब्रह्म । तस्यान्तर्यामिरूपेण वा स्वरूपेण वा शरीर एव भवाभावेन शारीरकाव्यपदेश्यत्वात् । असाधारण्येन हि व्यपदेशा भवन्ति । तस्य सिद्धान्तसिद्धाञ्जने ब्रह्मात्मना मीमांसेत्यर्थानुगमात् । एतेन जगच्छरीरः परमात्मा शारीरकः, 'त- स्यैष. एव शारीर आत्मेति श्रुतेः, तद्विषयं शास्त्रं शारीरकमीमांसति परोक्तमपा- स्तम् । परमात्मनः शारीरत्वस्याग्रे निरसिष्यमाणत्वात् । सेयं शारीरकमीमां- सा पथित्रयगतागतपरिखिन्नजननिराबाधविश्रमस्थानभूतपरमपदगतिसंसरणायमाना निगमान्तविषयविवेचनी विविधकुबुधजनजल्पितविकल्पशतकण्टकिता मा भूदिति परमपदलाभनियतविश्रमाभ्यर्थिजनसार्थ कृतार्थयितुकामेन भवभयाभितप्तसुजनभा- गधेयसम्भारसमुद्भूतनिभृतदयाविधेयहृदयतया परानुग्रहैकप्रयोजनकृतशरीरपरिग्र- हेण श्रीशङ्करेण भगवता भाष्यकारेण व्याख्याता ॥ अथशब्दार्थः। तत्र, प्र अथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः" इति भाष्यम् । इदं तु परस्यापि समानम् । नायमर्थः ----- अथातो ब्रह्मजिज्ञासा, ब्रह्मजिज्ञासा प्रस्तूयत इति । प्रारम्भादेव प्रारभ्यमाणत्वावगमे तदुक्तिवै. यात् । श्रोतृबुद्धिप्रणिधानस्य च न्यायपरे सूत्रे मन्दफलत्वात् । अथापि कथञ्चित् प्रस्तोतव्यत्वमुच्येत । तन्न । न्यायसूत्रस्योपदेशपरत्वायोगात् । सूत्रमूले च प्रारम्भविध्यभावेन · तदपेक्षितन्यायपरत्वासम्भवात् । अनिरूपि- ताधिकारितया प्रतिपत्तृशून्यस्य विधेरनुपपत्तेश्च । 'ब्रह्मजिज्ञासाया अनधि- कार्यत्वादिति भाष्यीयो हेतुस्तु वक्ष्यमाणन्यायेनाश्रयणीयायां जिज्ञासापदा- वयववृत्तौ यावदतो न विचारो लक्ष्यते सूत्रार्थवत्त्वादिविमर्शविलम्बात्, तावद- धिकारार्थत्वभङ्गेनानन्तर्यार्थः प्रत्येष्यत इति । मजलं त्वन्यार्थोदकुम्भदर्शनेनेवार्था- न्तरप्रयुक्ताथशब्दश्रवणेनैव भवदपि यदि ब्रह्मजिज्ञासेत्यतो विभज्य तदर्थः क- रुप्येत अथ मङ्गलं भवतीति, वाक्यं भिद्येत । अथार्थैकत्वं ब्रह्मजिज्ञासा मङ्गलमिति, स्तुतिमात्रं सूत्रं स्यात् । अतः सा कर्तव्येति वा विभज्याध्याहियेत, स च नान्य- थासम्भवे युक्तः । पूर्वप्रकृतापेक्षयाऽर्थान्तरपरत्वं च एकविषये विकल्पान्तरोपन्या- १. 'क' ख. पाठः.
अथशब्दार्थः । J * सविषयमेव दृष्टम् । यथा बुद्धिनित्या अथानित्यति । न चेह विकल्पान्तरमुपन्य- स्यते । अथैवं मनुषे-नायमस्ति नियमः, विषयैक्ये विकल्पान्तरोपन्यास एवं प्रकृतादर्थादर्थान्तरपरत्वम् अथ शब्दस्येति । 'जाया मे स्यादथ प्रजायेय, . वित्त मे स्यादथ कर्म कुर्वीये 'त्याद्यविकल्पान्तरोपन्यासेऽपि प्रकृतजायादिसत्त्वमपेक्ष्य प्रक्रियमाणप्रजननाद्यर्थान्तरपरत्वदर्शनात् । एवमिहापि पूर्ववृत्तं किञ्चिदप्रेक्ष्य ब्रह्मजिज्ञासारूपार्थान्तरपरोऽथशब्दो भविष्यतीति । सत्यम् । किन्तु विरोधगर्भया वा हेतुत्वगर्भया वा प्रकृतापेक्षया अर्थान्तरपरत्वमथशब्दस्य भवदपि भवेत् । तत्ता- वदेकमथेदमकमित्यादावपि तादात्म्यविरोधगर्भवादपेक्षायाः । एवञ्च प्रकृते हेतु- भावगर्भायामपेक्षायामानन्तर्यविषयत्वावश्यम्भावेन लाघवादानन्तर्यपरत्वमेवाथश- ब्दस्य । तदिदमुक्तं भाष्ये-- -- "पूर्वमकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।" इति । विषयविवेचनेऽनुज्झितानन्तर्यार्थत्वाद् लाघवेन तादर्थे सम्भवति प्रकृतांपेक्षावच्छिन्नमर्थान्तरम् अर्थान्तरावच्छिन्ना प्रकृतापेक्षा वा नाथशब्दार्थः गौरवादित्यर्थः । नन्वानन्तर्यमप्यर्थान्तराश्रय प्रकृतापेक्षावच्छिन्नं च । अयम- स्मादनन्तर इति प्रतीतेः । एतेन तादर्थेऽपि तुल्यं गौरवम् इति चेद्, न । पूर्वप्रकृतापेक्षाया आनन्तर्यप्रतीतौ परिकरमात्रत्वेनाशाब्दत्वात् , परत्वादिप्रतीताव- परत्वाद्यपेक्षावदिति । नापि प्रश्नपरत्वम्, प्रतिवंचनानुपलम्भात् । नापि कास्न्ये- परत्वं, विशेषणवैयर्थ्यात् । जिज्ञासाकर्तव्यतामात्रं हि साधयितुमिष्टमनेन सूत्रे ण । नैकदेशकास्यविकल्पिता सा, असंशयपदत्वात् । अपि च अधिकाराद्यर्थे- ऽथशब्देऽतश्शब्दो हेतुपरः सन्नप्रकृतविषयः कल्प्येत । प्रकृतविषयत्वे तस्य तत्रैव हेतुत्वेनानन्वयात् । नयंधिकर्तव्यत्वादधिकर्तव्या जिज्ञासा , मङ्गलत्वान्म- गलमिति वा सङ्गच्छते । इष्टंफलत्वादधिकर्तव्या जिज्ञासा मङ्गलं वेति तु सङ्ग- च्छते । न चैवमप्रकृतविषयत्वं प्रकृतविषयत्वे सम्भवति युक्तमांश्रयितुम् । त- स्मायुक्तम् 'अथशब्द आनन्तर्यार्थः परिगृह्यत' इति । यत्तु अथशब्दस्य स्वा- रस्थमानन्तर्यार्थत्वे हेतुरुच्यते । तदालोचनीयं सर्वत्र प्रसिद्ध्यविशेषे किं नाम स्वारस्यमिति । प्रसिद्धिप्राचुर्यादानन्तर्ये शीघ्रप्रत्यय इति चेत् । किमर्थ तबथश- बद आनन्तर्ये भवतीति . वचनम् । प्रथमतरप्रतीतानन्तर्यव्यवधानादर्थान्तरस्या- C १० सिद्धान्तसिद्धाञ्जने , प्राप्तावनिराकार्यत्वात् । वृत्तविशेषाप्रतीत्या प्रसिद्धिप्राचुर्ये सापवादे प्राप्तिरर्थान्त- रस्यापीति चेत् । कुतः पुनरिदानी वृत्तविशेषलाभः । उत्तरभागविचारपरब्रह्म- जिज्ञासापदसामर्थेन पूर्वभागविचाररूपवृत्तविशेषस्याक्षेपादिति चेत् । तर्हि सम- भिव्याहृतानां सम्भूयकारित्वेन प्रथममेव तेन तदाक्षेपेऽर्थान्तरशङ्कानुपपत्तिः । य- दपि वृत्तहेतुपरातश्शब्दशिरस्कतयानन्तर्यार्थत्वनिर्णयोऽथशब्दस्येति । तदपि न । एतदुक्तं भवति- अतोऽपि न तृप्तिरित्यादावतश्शब्दस्य प्रकृतिप्रत्यययोरवृत्ते- ऽहेतौ च प्रयोगदर्शनेन वृत्तहेतुपरत्वानिर्णयात् । यदि च वृत्तानन्तर्यपराथश- ब्दपूर्वकतया . तन्निर्णयः , प्राप्तं तहस्तरेतराधीनार्थनिर्णयकत्वादितरेतराश्रय- त्वम् । अथ विपराभ्यां जेरात्मनेपदं विधीयते । अन्तरान्तरेण युक्ते द्वितीया । तत्र बहुवि जयति वनम् । परा जयति सेना । नगरस्यान्तरा नदी, बाह्येत्यर्थः । वनस्यान्तरेण, वर्ल्समध्येनेत्यर्थः । एवमादावनतिप्रसङ्गाय परस्परसाहचर्यादुप- सौँ निपातौ, च निर्णीयेते । तथा गुरुभार्गवौ , रामकृष्णावित्यादौ परस्परसा- हचर्याद् ग्रहविशेषयोर्बलकेशवयोर्वा प्रत्ययो जायते, न स्वगुरुजामदग्न्ययोः , न वा दाशरथ्यर्जुनयोः । एवमिहापि परस्परसाहचर्यादथातश्शब्दयोरर्थविशेषप्रत्यये नान्योन्याश्रयदोष इति चेद् , मैवम् । नादाहरणेषु तदेव कार्यकालं साहचर्य साक्षादेव तत्तद्विशेषनिश्चयहेतुः, किन्तूपसर्गेषु निपातेषु गणिते पुराणादौ च तत्तद्विशेषनियतसाहचर्यानुस्मरणद्वारेणैव । अन्यथा सन्देह एवेति व्याख्यानतो विशेषप्रतिपत्तिर्नान्यथा । अत एव भाष्ये लक्षणप्रतिपदोक्तपरिभाषा अन्यतरनिर्ण- 'यो वातिप्रसङ्गपरिहारायोपन्यस्यते । ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति , अथवान्तरेणशब्दो दृष्टापचारः । अयं तु खल्वन्तराशब्दोऽदृष्टापचार' इत्यादिना । यद्यप्ययमपि दृष्टापचारः अन्तरायां पुरीति , तथापि निर्णीतान्यतरसाहचर्यादेवा- न्यतरनिर्णयो न तु साहचर्यमात्रादित्यभिप्रायः । प्रकृते तु लक्षणप्रतिपदोक्तपरि- भाषैव निर्णयहेतुः । न चैवमथातश्शब्दयोरर्थनिर्णयहेतुरस्ति स्वसामर्थ्यादन्यत्र । यत्तु अथशब्दः आनन्तर्यार्थः स्वस्वारस्याद्, अतश्शब्दस्वारस्याच्च । अत- शब्दो वृत्तहेतुभावपरः, स्वस्वारस्यादथशब्दस्वारस्यांच्चेत्युच्यते । न तु पर- स्परार्थनिर्णयापेक्षया परस्परार्थनिर्णय इति नान्योन्याश्रय इति । तन्न । परशब्द- स्वारस्यं हि न साक्षात् परशब्दार्थनिर्णयहेतुः । किन्तु स्वार्थनिर्णयद्वारा । तत्र च तदेवानिवार्यमन्योन्याश्रयत्वम् । अपिच स्वारस्यशब्दितात्. प्रसिद्धिप्राचुर्यादतश्श- आनन्तर्यप्रतियोगि। ब्दस्य वृत्तहेतुपरत्वनिर्णये च व्यर्थम् 'अतश्शब्दो वृत्तस्य हेतुभावे' इति वचनम् । यदपि ब्रह्मजिज्ञासापदसामर्थ्येन पूर्वभागविचाररूपवृत्तविशेषाक्षेप इति । तदपि न । उत्तरभागविचारत्वप्रत्ययो हि पूर्वभागविचारसत्तामात्रमाक्षिपति । पूर्वोत्तरभा- वस्य सावधिकत्वात् । तस्य वृत्तत्वाक्षेपस्तु कुतस्त्यः । उत्तरभागविचारस्यं सहेतु- कत्वप्रतिपत्तेरिति चेद् , एवं तर्हि कार्यत्वाद् वृत्तं कारणमाक्षिपतु । किमुत्तरभाग- विचारत्वरूपसामर्थ्यवर्णनेन । न चोभयसामर्थ्येन पूर्वविचारमेव वृत्तं हेतुमाक्षिप- तीति युक्तम् । अथशब्दस्यानन्तर्यार्थत्वासिद्धौ कार्यत्वस्यैव ब्रह्मजिज्ञासायामप्रति- पत्तेः । वृत्तविशेषाक्षेपाभावे च तव तस्यानन्तर्यार्थत्वासिद्धेः । उत्तरविचारत्वेन पू. विचारसत्तामात्राक्षेपेऽपि तस्य तदानन्तर्यपरत्वनिर्णयासम्भवात् । आनन्तर्यप्रत्य- यस्य वृत्तत्वप्रत्ययसापेक्षत्वात् । तस्य चानन्तर्यप्रत्ययाधीनत्वादसम्भव उक्तः । तस्माद् यत्किञ्चिदेतत् ॥ आनन्तर्यप्रतियोगि। Prammar- - अथ कस्मादानन्तर्यमथशब्देनोपदिश्यते । ब्रह्मजिज्ञासाप्रवृत्तिहेतुभूतात् पू- वृत्तादिति. ब्रूमः । अथ तदेव निर्वक्तव्यम् । निरुक्तमेव भगवता भाष्यकृता "नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमा- दिसाधनसम्पत् , मुमुक्षुत्वं च।" इति । जिज्ञासा तु मुमुक्षुत्वानुषङ्गसिद्धेति न पृथगुक्ता । ननु किमर्थमिदमुपदि- 'श्यते, विवेकादिमतो मोक्षमाणस्य स्वत एव तत्साधनजिज्ञासाविचारप्रवृत्त्या- दिसिद्धेरिति चेत् ,, सत्यम् । किन्त्वयमधीतवेदवेदाङ्गो नित्यादीनि यावज्जी- वादिविधिप्रयुक्त्या नियतानुष्ठानानि प्रतिपद्य तदनुष्ठानसीमानभिज्ञतया समु- पजातमुमुक्षाजिज्ञासोऽपि ब्रह्मविज्ञानेन कर्मणामनुपकारमुपमर्दै च सम्भावयन् तदकरणनिमित्तप्रत्यवायपरिहारायोज्झित्वा मोक्षतत्साधने कर्मस्वेव प्रविवृत्सुब्रह्म- जिज्ञासायां नाधिक्रियेत । तन्मा भूदिति तदुपदेशः। तथा च सति मुमुक्षाजिज्ञा- सोदय एव. कर्मानुष्ठानावधिरित्यतोऽवसिताधिकारतया जीर्णस्येव तदकरणेऽपि प्र- त्यवायाभावं प्रतिपद्यमानस्य निरन्तरायमनन्तरं विचारप्रवृत्तिरुपपद्यत इति । अथ सिद्धान्तसिद्धाञ्जने कथमुक्तानन्यमेवाथशब्देनोपदिश्यते , न कर्मविचारानन्तर्यम् । सम्भवात् साम- •द् ब्रह्मविचारविधिप्रदेशेषु श्रवणाचेति वदामः । न च धर्मविचारस्य ब्रह्मवि- चारात् प्राग्भावनियमसम्भवः । न वा सामर्थ्यम् । नापि विधिप्रदेशेषु श्रवणमिति । तदिदमुक्तं भाष्ये- 'तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्व च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये" । इति । धर्मजिज्ञासाया ऊर्ध्वं च तेषु हि सस्विति विवेकादिपूर्वभावनियम उक्तः । धर्मजिज्ञासायाः प्रागपीति तस्या अनियतत्वं, सत्सु तेषु शक्यते न विपर्यय इति अन्वयव्यतिरेकाभ्यां सामर्थ्य , धर्मजिज्ञासाया ऊर्ध्वं च न विपर्यय इति तस्या असामर्थ्य चोक्तं भवति । हिशब्देन च प्रसिद्धिपरेण विवेकादेविधिप्रदेशेषु श्रवणं सूच्यते, अर्थादितरत्र तदभावश्चेति ॥ mmmmmmmmmm- अतश्शब्दार्थः। अतश्शब्दो हेत्वर्थः । ननु यत्किश्चिदानन्तर्यमवक्तव्यं, हेत्वानन्तर्यपरे चाथशब्दे हेतुरर्थसिद्ध इति किमतश्शब्देन । नैवम् । अथशब्दाक्षिप्तहेत्वसिद्धि- शङ्कापरिहारार्थत्वात् । ननु न तावद्विवेकादेः स्वरूपासम्भवशङ्का सम्भवति विवेकादिमदधिकारिणो जिज्ञासोपदेशे तस्यैव स्वानुभवसिद्धतदसम्भवशङ्कानुप- पत्तेः । न च तटस्थशङ्कापीह निराकार्या । अधिकारिणो विधिप्रतिपत्त्यविधा. तात् । न चानेनैव विवेकादिराधीयते, प्रागधिकाराज्ञाने तत्राप्रवृत्तः, अधि- कारिणः प्रवृत्तिः, प्रवृत्तस्याधिकार इतीतरेतराश्रयापातात् । न च विवेकादेरनु- ष्ठेयतया अङ्गत्वमपीति तद्विधावसम्भवशङ्का स्यादिति शङ्कयम् । तथाप्यतद्वि- धिविषयत्वेनास्य सूत्रस्य तत्सम्भवसाधने अर्थान्तरत्वात् । अथ सतोऽपि विवेका- देहेतुत्वासम्भवशङ्केति चेत् । कुतः पुनरेषा शङ्का । न खलु हेत्वन्तरश्रवण तन्निषेधो वा काचदुपलभ्यते । 'यस्माद् वेद एवामिहोत्रादीनां श्रेयस्साधनानाम् अनित्यफलता दर्शयती'त्यादिभाष्यविरोधाच्च । तत्र विवेकादिस्वरूपासम्भवश- कासमाधानं हि गम्यते । तस्मादतश्शब्दो हेत्वर्थ इत्ययुक्तमिति । उच्यते ।
गुणवादत्वात् । ब्रह्मज्ञानाच 'निचाय्य तं मृत्युमुखात् प्रमुच्यते', 'ब्रह्मविदामोति अतश्शब्दार्थः । अधीतवेदमात्रस्य तावदापाततोऽस्ति नित्यानित्यविवेकादिः । किन्तु धर्मापवार्जि- तपापतमःपिधानतया कर्मब्रह्मकाण्डयोः 'अपाम सोमममृता अभूम', 'य एवं वेद प्रतितिष्ठति, अन्नवानन्नादो भवति', 'अग्निहोत्रं जुहुयात् स्वर्गकामः', 'ज्योतिष्टोमेन स्वर्गकामो यजेत', 'तमेवं विद्वानमृत इह भवति', 'तमेव वि- दित्वा अतिमृत्युमेती'त्यव्यवस्थितनित्यानित्यफलश्रवणेऽपि तद्यथेह कर्मचितो लोकः क्षीयत' इत्याद्यविशेषितकर्मफलानित्यत्वमधीयानस्य क्वचिदपि ब्रह्मविज्ञान- फलानित्यत्वाध्ययनशून्यस्य कर्मफलानित्यत्वे ज्ञानफलनित्यत्वे च भवत्युत्कटतमा सम्भावना । एवंरूपविवेकेनैव यदि किञ्चिदपास्ताशेषाशिवममृताख्यं फलमश्नुवीय, अलमवर्जनीयदुरितभूयिष्ठेन कर्मफलेनेत्येवं विरज्य शमादिसम्पत्त्या प्रव्रजितस्य मुमु- क्षोः ब्रह्मजिज्ञासायां प्रवृत्तस्य तदशैथिल्याय विवेकादिदाळमापादयितुं प्रागेव सम्भा- वितकर्मफलानित्यत्वोपपादकन्यायोऽतश्शब्देन सूच्यते । प्राग् ब्रह्मजिज्ञासाप्रवृत्तेरूज़ च विवेकवैराग्यादितारतम्योपपत्तेः । अत एव हि प्रवृत्तस्य वैराग्यदाक्य रंहति- पाद आरभ्यते । तदयमर्थः कर्मफलनित्यत्वशङ्काकलङ्कशूकोऽपि नानुवर्तितव्यः, येन मात्रयापि विवेकादिशैथिल्ये ब्रह्मजिज्ञासाप्रवृत्तिकातर्यमापद्येथाः । नापि ज्ञानफलानित्यत्वसम्भावनातुषोऽपि कल्पयितव्यः । तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते', 'जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति', 'अनेवंविद् महत् पुण्यं करोति तद्धास्यान्ततः क्षीयत' इति कर्मफलानित्यत्वश्रवणात् । यत् क्रियते व्यावर्तते वा तदनित्य- मिति न्यायोपबृंहितत्वात् । अल्पाधिककर्माभ्यासविधिसामर्थ्येन च तदनित्यत्वा- धिगमात् । 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति', 'हिरण्यदा. अमृ- तत्वं भजन्ते' इत्यादेश्चानुग्राहकन्यायाभावाद् वर्तमानापदेशत्वाद् न्यायानुगृही- तश्रुत्यन्तरविरोधे सत्यविरोधापेक्षतदर्थविधिकल्पनायोगाद् अन्यानर्थक्यप्रसङ्गाच परमित्यादिपरमपुरुषार्थश्रवणाद्, 'अन्नवानन्नादो भवती'त्यादेर्यथादृष्टेनैव स्तुति- मात्रपरत्वोपपत्तेः, तस्यानुषङ्गिकफलत्वेऽपि नित्यपरमफलाविघाताच्चेति ॥ ...ते जुः ख. पाठः, १४ सिद्धान्तसिद्धाञ्जने परमते अथातश्शब्दवैयर्थ्यम् । नन्वेवमतश्शब्देनैव ब्रह्मजिज्ञासाहेतुसिद्धौ किमथशब्देन । न । सर्वथैवा- नुपस्थितेऽतःशब्दवृत्त्यसम्भवेन हेतुत्वप्रत्ययायोगात् । यस्य तु ब्रह्मजिज्ञासापद; सामर्थ्याक्षिप्ततया बुद्धिस्थः कर्मविचारः, तस्य तत्र हेतुभावोऽतश्शब्देन शक्या- वगम इति ध्रुवमथशब्दवैयर्थ्यम् । यत्तु आनन्तर्योक्तिमुखेन तस्य हेतोः शास्त्रा- न्तरश्रवणव्यवधिनैरपेक्ष्यद्योतनार्थोऽयम् अथशब्द इति । तन्न । नहि कर्मविचा- रपूर्ववृत्तत्ववादिनः शास्त्रान्तरव्यवधानप्रसङ्गः, येनानन्तर्याभिधायिना तन्निवर्येत । ब्रह्मजिज्ञासायामनवसरग्रस्तशास्त्रान्तरसापेक्षविवेकादिपूर्ववृत्तत्वव्युदासायानन्तर्यप- रोऽथशब्द इति चेत् । अहो परविद्वेषव्यसनिता तान्त्रिकहतकस्य । यः स्वार्थो- पपत्तिनिरपेक्षं परार्थविधातायैव प्रणिधत्ते । अपि च स्वतो वा शास्त्रान्तरापेक्षया वा वृत्ते सति विवेकादावानन्तर्यं ब्रह्मजिज्ञासायामस्माकमप्यनुपहतम् । वृत्ते पूर्व- विचारे सत्युत्तरविचार एवानन्तरितो न शास्त्रान्तरसापेक्षविवेकाद्यवसर इत्यान- न्तर्यमुच्यत इति चेत् । न । कर्मविचारपूर्वभावनियमाभावेन तस्यानन्तर्यप्रति- योगित्वासिद्धेः । न च विवेकादि शास्त्रान्तरसापेक्षमेवेति वक्ष्यते । एवमथशब्दे- नैव परस्य विवक्षितार्थसिद्धौ अतश्शब्दवैयर्थ्यम् । नहि वृत्तस्य हेतुतामनपेक्ष्या- नन्तर्यमेव ब्रह्मजिज्ञासायामथशब्दो विदधीत, येन तत्र हेतुतया तद्धेतुतापरोऽतश्श- ब्दो युज्येत । यत्किञ्चिदानन्तर्य हि न वक्तव्यम् अनुक्तसिद्धत्वात् । यद्युच्ये- त -- उत्तरविचाररूपब्रह्मजिज्ञासापदसामोपस्थापितपूर्वविचाररूपेण धर्मजि- ज्ञासेत्ये (व.) तदानन्तर्येऽथशब्दोक्ते तन्निर्वाहाय तस्य हेतुभावोऽतश्शब्देन बोध्यत इति । एवं हि उत्तरविचारात्मना अवधिभूतपूर्वविचाराक्षेपवद् ब्रह्मजिज्ञासात्मना विरोधिभूतलोकजिज्ञासाक्षेपस्याप्युपपत्तेस्तदानन्तयमेवाथशब्देन किमिति नोच्येत न चैतदात्मनास्याक्षेपो न त्वन्यात्मनान्यस्येति नियमहेतुरस्ति । एवमाक्षेपाविशे- षेऽपि धर्मविचारस्य ब्रह्मविचारहेतुत्वानुसन्धानमेव तदानन्तर्योपग्रहनियमहेतुरेषि- तव्य इत्यतोऽथशब्दसामर्थ्यावगते धर्मविचारहेतुत्वे कृतमतश्शब्देन । न च ब्रह्म- जिज्ञासाया हेत्वानन्तर्ये प्रतिज्ञाते हेतुराकाक्ष्यते , येन तादर्थेनातरशब्दार्थवत्त्वं स्यात् । न च धर्मविचारस्य हेतुत्वमप्यथशब्देन प्रतिज्ञायते , वृत्तहेतुभावासिद्धौ तस्य तदानन्तर्यार्थत्वभङ्गप्रसङ्गाद् , अतश्शब्दार्थहेत्वसिद्धिप्रसङ्गाच्च । न च कर्म- विचारे प्रतीतहेतुभावस्यैवासिद्विशङ्कापरिहारपरोऽतश्शब्दझे नानर्थक इति श- ।
- । , परमत अथातश्शब्दवैयर्थ्यम् । २५ यम् । कर्मफलरक्तस्य ब्रह्मजिज्ञासाप्रवृत्त्ययोगेन तद्विरागाय कर्मफलाल्पास्थिर- स्वनिर्णयहेतुत्वेन कर्मविचारस्य ब्रह्मजिज्ञासाहेतुत्वावगममुपजीव्य तदानन्तर्यमथ- शब्देन प्रतिज्ञायत इति वक्तव्यम् । तत्रैवं सबीजे हेतुत्वावगमे कुतस्तदसिद्धिः शङ्कयेत । विचारितकर्मण एवाल्पास्थिरफलत्वमतो निर्णीयत इति चेत् । एवं तर्हि प्रागस्मात् कर्मविचारहेतुत्वानवगतौ तदानन्तर्यमथशब्दार्थो न गृह्येत , हेतु- भूतवृत्ताज्ञानात् । एतेन ब्रह्मज्ञानार्थं कर्मणामुपादेयानां स्वरूपविवेकहेतुत्वेन कर्म- विचारस्य ब्रह्मविचारहेतुत्वावगमो व्याख्यातः । यथायोगं प्रागेव कर्मविचारस्य ब्रह्मविचारहेतुत्वावगमेऽतश्शब्दवैयर्थ्यात् । अन्यथाथशब्देन तदानन्तर्यग्रहायो- गात् । अपि च परमते विचारस्यावैधत्वेनाधिकारपरिच्छेदानपेक्षत्वादथातश्शब्द- योरेवानर्थक्यम् । स्वरूपसतैव हेतुना विचारप्रवृत्तिकार्यसिद्धौ तदुपदेशस्याधिकार- परिच्छेदार्थत्वात् तस्य चानपेक्षणीयत्वात् । अपि च कर्मविचारानन्तर्यमथश- ब्दार्थ(त्व?)मुपयता तस्य ब्रह्मविचारनिरपेक्षहेतुत्वोपगमात् काम्यकर्मविधीनामननु- ष्ठानलक्षणमप्रामाण्यमापादितम् । न चैच्छिकविचारमकुर्वतामेवोपद्रष्टुवचनादिना काम्यकर्मानुष्ठानमुपपद्यत इति शङ्कयम् । एवं हि कर्मफलानित्यत्वमुपश्रुत्य विचारि- तवेदान्तस्य ब्रह्मज्ञानाङ्गकर्मानुष्ठानमपि तथैव सम्भवतीत्यनियतवृत्तो धर्मविचारो न ब्रह्मजिज्ञासाहेतुः स्यात् । न च पाक्षिकादस्मादानन्तर्यमथशब्दार्थो नियन्तुं शक्यः । यदपि कृतकर्मविचाराणामेवादृष्टवैगुण्यादमुमुक्षुतया काम्यानुष्ठानमुपप- द्यते, विवेकादिपूर्ववृत्तत्ववादिभिरपि तस्मिन् कचित् विचाराभावस्यादृष्टवैगुण्यो- पपाद्यत्वादिति । तदप्ययुक्तम् । तथाप्यदृष्टसाद्गुण्ये मुमुक्षुत्वादेव ब्रह्मजिज्ञासो- पपत्तौ कर्मविचारानर्थक्यात् । नहि मुमुक्षानपेक्षं धर्मविचारोऽदृष्टसाद्गुण्येऽपि ब्रह्मजिज्ञासाप्रवृत्तिहेतुः, येन न - विनिगम्येत । यदपि समीचीनः कर्मविचारो ब्रह्मजिज्ञासाप्रवृत्तिहेतुः, असमीचीनस्तु काम्यानुष्ठान इति । तदपि तुच्छम्, तथा विभागानाकलनात् । कर्मविचारस्य हि कर्मफलाल्पास्थिरत्वप्रतीतिपर्यन्तत्वा- भावोऽसमीचीनत्वमयुक्तम् अल्पाधिककर्माभ्यासविधिप्रत्ययसामर्थ्यात् । 'फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यात्' (जैमि० १. २.. १ १७) इति न्यायाच्च । अर्थवादनयनेयत्वोन्नयनाद् उपनिषदामात्मज्ञानानन्तस्थिर- . - .. १. विकवि'.ख. पाठा ... १६ सिद्धान्तसिद्धाञ्जने फलप्रत्ययविघटकत्वमसमीचीनत्वं तु ध्रुवम् । तथा च ब्रह्मविचारप्रवृत्तिविघाताय कर्मविचारः स्यादित्यग्रे स्फुटामिति । अपि च यदि 'हृदयस्याग्रे अवद्यति, अथ जिह्वायाः, अथ वक्षसः' इत्यादाविव धर्मब्रह्मविचारयोः क्रमप्रमाणमाहत्योपलभे- महि , सर्वानुपपत्तिपरिहारेणापि कथञ्चिदिह तदानन्तर्यमेव प्रतिपद्येमहि । न तूपलभामहे । नापि विचारविधिप्रकरणे विवेकादेरिव तस्योपादानमस्ति । न वा धर्मविचारमन्तरा ब्रह्मविचारो न भवति , न वा तस्मिन् सत्यवश्यं भवति, येन सामर्थ्यादेव तदानन्तर्यमिह प्रतिपद्येत । अपि च सत्यां क्रमापेक्षायां पौर्वापर्यनि- यमाय प्रमाणमत्र मृग्येत, तदपेक्षा च शास्त्रस्य जिज्ञास्यैक्ये भवति, तत्तदंशभे- दस्य युगपद् जिज्ञासितुमशक्यत्वात् । यथा द्वादशलक्षण्यां धर्मरूपजिज्ञास्यैक्ये यथायोगं क्रमनियम आद्रियते , फलैक्ये च कर्मणोऽपि , यथाग्नेयादीनां तदङ्गानां च । तथा अधिकृताधिकारस्य च , यथा दर्शपूर्णमासाधिकृताधि- कारस्य गोदोहनादेरप्प्रणयनक्रम आद्रियते । न चैतत्रितयं धर्मब्रह्मजिज्ञासयोरिति विवृतं भाष्ये । तस्माद् विवेकादिसाधनसम्पत्त्यानन्तर्यमथातश्शब्दाभ्यामुपदर्श्यते ब्रह्मजिज्ञासाधिकारपरिच्छेदाय, न कर्मविचारानन्तर्यमिति युक्तः पन्थाः । तथा च 'अध्ययनमात्रवतः' (ब्रह्मसू० ३. ४. १२) इति सूत्रवृत्तौ कर्मविचारनिर- पेक्षो ब्रह्मविचार इति तान्त्रिकेणैव दर्शितं वेदार्थविचारे पुरुषः स्वयमेव प्रवर्तते, ततः कर्मार्थी कर्मविज्ञाने प्रवर्तते , मोक्षार्थी ब्रह्मविज्ञान' इति । न च मोक्षार्थी विचारितकर्मेति पूर्यते विद्यायाः कर्माङ्गत्वनिरासाय , उत्सूत्रहेत्वन्वेषण- प्रसङ्गात् । कर्मोपादानाय हि कर्मविचारानन्तर्यमिष्यते । तथा च कर्मज्ञानयोरेक- पुरुषानुष्ठेयत्वे समसमुच्चयानुपगमेनाङ्गाङ्गिभावस्यावर्जनीयत्वात् । कर्मणामदृष्टद्वारा विद्याङ्गत्वाद् वरं कर्तृदेवतासंस्कारद्वारा विद्याया एव कर्माङ्गत्वमित्यापद्यतेति । एतेन कर्मविचारानन्तर्याभिधायिनाथशब्देन तत्रत्याधिकार्येवात्रापीति सूच्यत इति केनचिदुक्तं निरस्तम् । कर्मविचारस्य हि ब्रह्मविचारहेतुत्वे विचारितकर्मैवाधि- क्रियतां किमधीतवेदोपलक्षणेन । विचारम्य प्रमाणाश्रयत्वाद् वेदाध्ययनमपि हेतु- रिति चेत् । तर्हि उभयानन्तर्यमथशब्दार्थोऽस्तु । किं तत्सूचनक्लेशेन । नच अर्थ- लाघवं प्रयोजनम् । नहि वेदाध्ययनानन्तर्येऽभिहिते विचारितकर्मा लभ्यते। अभि- हिते तु कर्मविचारानन्तर्येऽकृतवैधसाङ्गवेदाध्ययनस्य कर्मविचाराप्रवृत्त्याधीतवेदो लभ्यत इति वाच्यम् । अभिधेयानन्तर्येऽनभिधेयप्रतियोगिभेदस्य तदभिधानागौ- , - --- जिज्ञासापद्रवृत्तिः । १७ रवकरत्वात् । कर्मविचारस्य तदहेतुल्वे च तदानन्तर्याभिधायी अथशब्द इति बालि- शभाषितम् । आनन्तर्यप्रतियोगितया विचारप्रवृत्तिहेतुबेदाध्ययनस्यैवाक्षेपौचित्या- च्छिरोवेष्टनेन किं नासिकाग्रहणेन । न च धर्मशास्त्रप्रणयनानन्तरमिदं ब्रह्मशास्त्रं प्रणीतमित्येतावता तद्विचारानन्तरमेतद्विचारप्रवृत्तिरिति नियन्तुं शक्यते, अतिप्रस- ङ्गात् । अनन्तरशास्त्रप्रणयनस्य च सामग्रीसमवधानापेक्षतयानुपयोगिकर्मविचारो- पजीवनतात्पर्यकल्पनायोगात् । नहि भगवतो बादरायणस्य न्याया न प्रतिभा- सन्ते, येन न्यायज्ञानापेक्षयापि तदुपजीवनं कल्प्येत । तत्र तत्र परोदीरितन्या- योपदर्शनं तु लाघवार्थमित्यग्रे दर्शयिष्यत इत्यास्तां तावत् ॥ . । जिज्ञासापदवृत्तिः। "ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठी, न शेषे ।" इति भाष्यम् । समानमिदं परस्यापि । एवं सत्येव विधित्सितजिज्ञासाया ब्रह्मैव विषयः प्रयोजनं चेति प्रत्याय्येत । तृतीयासमासे हि जिज्ञासाया विषयः प्रयोजनं चेत्युभयमपि न सिध्यति । सप्तमीसमासे विषयसिद्धावपि न प्रयोजनसिद्धिः । चतुर्थीसमासे तु न विषयसिद्धिः, तदनुपपत्तिश्च तादर्थ्य- प्रकृतिविकारभावाभावात् । ननु नेह षष्ठी विद्यते , कुतो व्याख्यायते | उच्यते । यदि समासे लुप्ता विभक्तिः स्मृता बोधयतीति पक्षः, “सा व्याख्यायमाना न दुष्यति । यदि च प्रातिपदिकस्य लुप्तविभक्तयर्थे लक्षणा , तथापि न स योग्य- तादिना कर्मत्वं करणत्वमित्येव लक्ष्यते । प्रातिपदिकेनाविभक्तयर्थलक्षणायां हि योग्यताद्यनुसरणम् । यथा गङ्गायां घोष इत्यादौ । प्रातिपदिकेन नियत- विभक्तयर्थलक्षणा त्वनुशासनाधीना । यदि हि कृद्योगे कर्मणि षष्ठी तस्याः समासो वा नानुशिष्येत, इह तदर्थः कर्मत्वं न लक्ष्येत । तदिह समासाभिव्य- अनाय विग्रहवाक्यगता षष्टी व्याख्यायते । ननु प्रतिपदविधाना षष्ठी न सम- स्यते । न । कृयोगा च षष्ठी समस्यते इति प्रतिप्रसवोपपत्तेः । कथं तर्हि सर्पिषो ज्ञानमित्यादौ न समासः , सापि हि कृद्योगेति । न । कृद्योगविहिता हि सा समस्यते । न चैषा तथा । 'ज्ञोऽविदर्थस्य करणे' (२. ३. ५१) इत्य- र्थविशेषोपाधिमात्रविहितत्वात् । अत एव सर्पिषो जानीत इति तिङन्तोपपदापि , an १८ सिद्धान्तसिद्धाञ्जने . सा न दुष्यति । एवमादिविषये च प्रतिपदविधानषष्ठीसमासनिषेधोऽपि सावकाशो भवति ॥ उपपदविभक्तेः कर्मत्वाभिधायकत्वम् । अत्र केचित् -- उपपदविभक्तिः प्रयुज्यमानापि दाराः कलत्रमित्यादि- वत् प्रयोगसाधुत्वमात्रफला । तद्विधानमपि तादर्थ्य नैवोपपन्नम् । अर्थविशेषाश्चा- क्षिप्यन्ते । अत एव हि उपपदविभक्तेः कारकविभक्तिबलीयस्त्वमिति वदन्ति । तत्र मते कर्मणि षष्ठीति नाभिधेयत्वाभिप्रायम् । कर्मण्याक्षेप्य इति व्या- ख्येयम् । ..अपरे. मन्यन्ते- 'कर्तृकर्मणोः कृति' (२. ३. ६५)इति तावत् कृद्योगा षष्ठी-विधीयते । तत्र पाणिनेाकरणस्य कृतिरित्यत्र कोऽयं कर्तृकर्मणोराक्षेपो नाम । किमर्थापत्तिः, उताहो लक्षणा । नापत्तिः । विना ताभ्यां प्रातिपदि- कस्य तदर्थस्य बानुपपत्त्यभावात् । नापि प्रत्ययस्य , साधुत्वमात्रफलत्वोपग- मात् । अथ समभिव्याहृतक्रियान्वयानुपपत्त्या तदाक्षेप इत्युच्येत । एवं हि 'कर्मणि द्वितीया' (२. ३. २) इत्यादिविधावपि घटं पश्यति कटे शेते इत्यादी तथैव-कारकाविशेषाक्षेपे द्वितीयादेरपि साधुत्वैकफलत्वापतेः । सप्तम्यन्तनिर्देशस्यो- भयत्रापि तुल्यत्वात् । लक्षणापि हि न प्रातिपदिकन्यः । समभित्र्याहृतक्रियान्व- यानुगतिरपीजल्य सर्वत्र समवेतातिप्रसङ्गात् । अथ निमक्तेः कर्मादौ लक्षणे- युच्येत । तन्न । अर्थविशेषनिर्देशेन द्वितीयादितुल्यविधित्वे सति लाक्षणिकत्व- कल्पनायोगात् । एतावांस्तु विशेषः -- कमाणे द्वितीया कर्तरि तृतीयां कृयोगे तु. तयोरेव षष्ठीति यदन विधीयते। न चैतावता तस्याः शक्तिविरोधः । पदा- न्तरयोगस्य शश्यार्थविशेषव्यव थामात्रहेतुत्वात् , भानोर्गावः प्रकाशन्त इत्या- दौ भानुपदयोगे गवार्थविशेषव्यवस्थादर्शनात् ।। "याच. क. पाठ - . - - -- । । सुब्बिभक्तौ लक्षणाभावः । सुब्विभक्तो लक्षणाभावः। न च सुब्विभक्तो लक्षणा युक्ता । 'तान्येकवचन द्विवचनबहुवच- नान्येकशः (१. ४. १०२) इत्यन्वर्थगुरुसंज्ञा विधाय पुनः 'येकयो- विचनैकवचने' (१. ४. २२) 'बहुषु बहुवचनम् ' (१. ४. २१) इति नियमविरोधात् । न च वाच्यं द्वित्वैकत्वयोरिति धर्मग्रहणे कर्तव्ये धर्मि- ग्रहणं ज्ञापयति- अनेकद्रव्ये. पटादाववयवावयविनोरेकान्तभेदाभावेऽपि ना. वयवबहुत्वेनैकस्मिन् पटे. बहुवचन पटा इति , न वावयव्येकत्वेन तन्तुप्वे- कवचनं तन्तुरिति , किन्तु तत्र तत्र तत्तद्वचनव्यव थैवेति । संज्ञावि. धानेऽपि धर्भिग्रहणात् तत एवोक्तनियमलम्भनात् । न चैकस्य विधिनियमपरत्व. मयुक्तं, प्राप्त्यपेक्षत्वान्नियमस्येति वाच्यम् । विषयविशिष्टसंज्ञाविवाने निय- मस्यार्थलभ्यत्वात् । अन्यथा ‘सोमेन यजेते'त्यादिविशिष्टविधावगतेः । तत्रापि द्रव्यांशस्य नियाम्यत्वात् । अतः गङ्गापदस्येव तीरे वचनानामपि व्यत्यय लक्ष- णया प्रयोगप्राप्तौ तन्नियमाय 'येकयोरि'त्यादि विधिरिति सुविभक्तो लक्षणा- निवृत्तिरवगम्यते । नचातो नियमाद् वचनांशलक्षणानिवृत्तावपि : वि. भक्त्यंशलक्षणा न निवर्तते , नियामकाभावादिति वाच्यम् । यतो द्वि- त्वैकत्वयोरिति धर्मग्रहणे कर्तव्ये धर्भिग्रहणं ज्ञापयति --- स्वार्थसम्बन्धितया प्रकृत्यर्थ एवावस्यन्ति वचनानि , न तेषां प्रकृत्यर्थे स्वार्थैकाधिकरण्यसम्बन्धेना. र्थान्तरेऽपि लक्षणेति । न च वचनांशस्यैवायमपि नियमः इति शङ्कयम् । तस्योक्तनियमद्वयसामर्थ्यादेव तत्सिद्धौ कृतकरणानर्थक्यात् । अतो वचनस्य स्वेन रूपेण विभक्तिरूपेण वा स्वार्थैकाधिकरण्यसम्बन्धे नान्यथा वा संख्यान्तरे कार- कान्तरे वा नं लक्षणेति 'छकयोरिति सूत्रतात्पर्यपर्यवसानात् सिद्धः सुब्बि- भक्तौ लक्षणाभावः। तिङ्साधारण्ये सत्यस्य सूत्रस्य तत्रासम्भवदप्मुक्तस्वारस्य- महातव्यम् । सम्भवो ह्यनुर्तिव्यः । न त्वन्यत्रासम्भवादन्यत्र सम्भवस्त्य- . 1 , . क्तव्यः ॥ नन्वेवम् ‘अदितिः पाशानि 'त्यादौ कथमवयवबहुत्वे लक्षणा । अथ न लक्षणा, 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (१. २. ५८) इत्यनुशासनादिति चेद् , न । प्रयोगसमवायिनो मन्त्रस्य - व्यक्तिवचनतया सन्निहितविशेषपरत्वेन जातेरनाचिख्यासितत्वात् । न च पाशप्रकृतेरेव पाशा- , - २० सिद्धान्तसिद्धाञ्जने , वयवे लक्षणा, प्रत्ययस्तु स्वार्थवृत्तिरेवेति वाच्यम् । एवं हि पाशावयवाना- मक्रत्वङ्गतयानुष्ठेयार्थाप्रकाशकस्य मन्त्रस्यानर्थक्यनदृष्टार्थत्वं वा प्रसज्येत । ' गुणे स्वन्याय्यकल्पनैकदेशत्वात् (जै० ९. ३. १५) इति सूत्रं च विरुध्येत । उच्यते । न पाशप्रातिपदिकपरस्य बहुवचनस्य पाशावयवबहुत्वे लक्षणां सम्भवति । प्रत्ययाना- मौत्सर्गिकप्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तिविरोधात् । किन्तु पाशावयवबहुत्वं पाशे समारोप्य तत्र स्वशक्त्यैव बहुवचनस्य बृत्तिः । यथा विष्णुत्वमारोप्य प्रति- मादौ विष्णुशब्दस्य, यथा वाग्नित्वमारोप्य दिव्यनिशब्दस्य वृत्तिः अग्निर्मूर्धा च- क्षुषी 'चन्द्रसूर्यावि'त्यादौ । उक्तं च हरिणा "गोत्वानुषङ्गो बाहीके निमित्तात् कैश्चिदिप्यते । अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥" इति । सूत्रे चारोपितविषयत्वकल्पनैवान्याय्यकल्पनाभिमता । प्रकृत्यर्थसम्बन्धी ख- ल्वर्थः प्रत्ययस्य मुख्यः, 'तान्येकवचने'त्यादिधर्भिग्रहणस्वारस्यात् । नच वचनानां संख्येयपर्यन्तत्वाय धर्मिग्रहणं मा भूद् , अन्तरेण प्रकृति केवलानाममा- योग इति प्रकृत्यर्थसम्बन्धस्य समभिव्याहारलभ्यत्वादिति वाच्यम् । व्युत्पत्ति- सिद्धप्रकृतिप्रत्ययसामानाधिकरण्यभङ्गप्रसञ्जाद्, एकार्थवृत्तित्वाभावाद्, एकस्मि- नेव गवि गाव इति प्रयोगसाधुत्वप्रसङ्गाच्च । अर्थाभावेऽपि हि साधवो दृश्य- न्ते गोदौ पञ्चाला वरणा आपो दारा इत्यादयः । अतः प्रकृत्यर्थसम्बन्धो- पाधिनैव संख्याकारकादिरर्थः प्रत्ययस्य मुख्यः । पाशानित्यादौ चाविद्यमानप्रकृ- त्यर्थसम्बन्धारोपात् तत्र लक्षणाव्यवहारो भवन्नपि गौणः । अन्यथा पाशानिति विभक्तिलक्षणाङ्गीकारे पाशावयवबहुत्वलक्षणायां व्युत्पत्तिविरोधात् पाशगतैकत्व एव लक्षणां ब्रूयुः। अथैवम् आरोपालम्बनत्वे पौरुषेयत्वं स्याद् । 'ब्राह्मणो यजेते'- स्यादावपि स्यात् । न च साम्प्रतिकोऽयमप्यारोपः, प्रकरणनिवेशप्रयोजनेनाग- मविवक्षारूपस्यैवास्यानादित्वोपगमात् । एवञ्च षट्सु यागेषु फलसम्बन्धवि- धानाय समुदायोपाधिगततद्वित्वारोपेण दर्शपूर्णमासाभ्यामिति द्विवचनम् , एक. स्मिन्नप्यमीषोमदेवतारूपेऽधिष्ठानद्वित्वारोपेण 'आशासाना मेधपतिभ्यामिति द्वि- 1. 'णां भ', २. 'ध' ख, पाठ.. .
POT १ , । r सुब्विभक्तो लक्षणाभावः। २१ वचनम् , 'ओषधे त्रायखैन', 'स्वधिते मैनं हिंसीरिति चेतनत्वारोपेण सम्बोधन- मित्याग्रुपपन्नम् । किं पुनः 'यजमानः प्रस्तर' इत्यादौ तत्सिद्धयादिरालम्ब्यते, न पुनरारोपः । कथं नाम गुणवादेन विध्यपेक्षिता स्तुतिः सन्निकृप्यतेति । प्रोद्गातृणामित्यादौ तु न पाशन्यायोऽनुगम्यते । उद्गातृप्रातिपदिकलक्षणाया- मुद्गातृगणस्य चमसभक्षणप्राप्तौ प्रतिपत्तिभूमप्रयोजनात् । अभिधेयच्युतावर्थवशेन शब्दवृत्तिव्यवस्थितिरिति हि न्यायः । यथा 'समानमितरच्छयेनेने' । त्यत्र सह- शसन्निहिताभिधेयासम्भवाद् इतरशब्दस्याप्यर्थवशेन सदृशे वृत्तिरिप्यते, न सन्निहिते । अत एवोद्भिदादौ प्रवृत्तिविशेषप्रयोजनेन द्रव्यभेदवृत्तिराशङ्कयते । परन्तु अर्थविशेषानियमाद् मत्वर्थलक्षणादोषाच्च कर्मनामत्वं व्यवस्थाप्यत इति । एवं सति 'सक्तून् जुहोति', 'अग्निहोत्रं जुहोती'त्यादौ च पदार्थास्तन्मि- तिर्वा शाब्दमितौ करणमिति मते कथञ्चित् करणत्वोपस्थितौ शाब्दमितिः स्यात्, प्रत्ययस्तु यथायोगं होमभावनाविषयताप्राप्तकर्मत्वानुवादः । अथवा 'व्यत्ययो बहुलम्'(३. १. ८५)इतिच्छन्दसि द्वितीयापि करणशक्ता स्यात् । अत एव विभक्ति- विपरिणाम इष्यते नीतिनिपुणैः । एवं सति अमिहात्रेण होमेनेति सामानाधिकरण्य- मुपपायेत, 'चतुर्हातारं जुहुयादित्यादौ करणमन्त्रे द्वितीया चेति । कारकवि- भक्तिबलीयस्त्वं तु पदान्तरयोगनिरपेक्षत्वनिबन्धनम् । उपपदविभक्तेश्च दौर्बल्यं तत्सापेक्षत्वकृतमेव, न लाक्षणिकत्वकृतमनर्थकत्वकृतं वेति । अन्ये तु र्थेषु व्यत्ययेन प्रत्ययविधानमेव सुब्बिभक्तौ लक्षणाभावं गमयति । अन्याय्यापि बनेका शक्तिः कल्प्यते लक्षणा मा भूदिति। अन्यथा लक्षणयैव तत्तदर्थविशेषोप- स्थितिसम्भवेऽनेकशक्तिकल्पनावैयर्थ्यात् । युक्तं हि गवादिपदानां गौर्बाहीक इत्यादौ लाक्षणिकत्वे सत्येव शक्यार्थेयत्तापरिच्छेदाय नामकोशेषु स्वर्गेषुपशुवा- ग्वज्राद्यर्थभेदपरिसंख्यानं, तेषां सम्बन्धनियमाभावेन लक्षणायोगात् । कारकवि- शेषाणां पुनरेकार्थसमवायेन सम्बन्धनियमसम्भवाद् लक्षणायोगेऽप्यनेकशक्तिवि- । नाना- * 'आदिशब्देन गौणवृत्त्युपपादकं जातिसारूप्यादिक गृह्यते । तथा चोक्तम् "तत्सिद्धिजातिसारूप्सप्रशंसालिङ्गभूमभिः । षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ॥" (जैमि० न्या० अध्या० १. पा० ४. अधि० १८) + जैमि० अध्या. ७. पा० १. अधि० २. + जैमि० अध्या० १. पा. ४. अधि० २.
१२ सिद्धान्तसिद्धाञ्जने धानस्य लक्षणाव्यावृत्तिफलत्वादिति वदन्ति । सर्वथापि कृयोगविहिता कर्मणि पठी समासे लुप्तेति तदेव ब्रह्मणो जिज्ञासाकर्मत्वं ब्रह्मप्रातिपदिकेन लक्ष्यते ॥ -- . F प्रकृतेलुप्तप्रत्ययार्थशक्तिनिरासः। कश्चिदाह --- लुप्तविभवत्यर्थेषु प्रातिपदिकस्य मुख्यमेवाभिधानम् । गङ्गायां घोष इत्यादौ सम्बन्धिनो हि लक्षणा, दृष्टा, न सम्बन्धमात्रस्य । विभ क्त्यर्थश्च स्वयं सम्बन्धरूपः । सम्बन्धस्य स्वपरनिर्वाहित्वेऽपि तदजानतोऽपि विभक्त्यर्थावगमात् । न चाज्ञातसम्बन्धो लक्षणा, अतिप्रसङ्गात् । तस्मात् प्राति- पदिकस्य न लुप्तविभक्त्यर्थे लक्षणेति । तन्मन्दम् । विभक्त्यर्थकारकभेदस्य सम्बन्धातिरेकात् । सम्बन्धमात्रत्वेऽपि वा वनं श्रितो वनश्रित इत्यादौ तुल्यवप्रका- रत्वभानाय कथञ्चिदपि तत्सम्बन्धज्ञानस्योपगन्तव्यत्वात् । अन्यथा *'निषादस्थ- पति याजयदि'त्यादावपि मुख्य निषादप्रातिपदिकस्य पष्ठ्यर्थसम्बन्धाभिधाने निषादस्थपत्यधिकरणविरोधात् । षष्ठीसमासे लक्षणाप्रसनेन हि तत्र पूर्व- पक्षनिरास इति ॥ । mamminatime ब्रह्मशब्दार्थः। ब्रह्मशब्दने च नित्यशुद्धबुद्धमुक्तस्वभावमस्पृष्टाशिवलेशं प्रत्यगेकरसम- द्वितीयं वस्तु जिज्ञासाकर्मत्वेन समर्प्यते । अन्यथा तस्यार्थान्तरपरत्वे तज्जि- ज्ञासा न मुमुक्षोरारभ्येत । यदि हीह :सविशेषं प्रत्यगात्मविलक्षणं ब्रह्म गृह्येत, निरवधिकबृहत्त्वबोधिब्रह्मश्रुतिस्तावदुपरुध्येत । उपासनानिष्ठं च शास्त्रमापद्येत । न. चोपासिक्रिययाविद्यामयानर्थबाधेन निरतिशयानन्दावभासस्वरूपनिष्ठात्मा मोक्षो घटते, ज्ञानस्यैवाज्ञानविरोधित्वात् । कथं पुनरयमों ब्रह्मशब्दादवगम्यते । ईडगर्थे मानान्तराविषये लोकव्य- वहाराभावेन व्युत्पत्त्यनुपपत्तेः । न च यूपाहवनीयस्वर्गादिवदलौकिकत्वेऽपि 'सत्यं ज्ञानमनन्तं ब्रह्म', 'यतो वो इमानि भूतानि जायन्ते', 'तद् ब्रह्मे'त्यादिभिर- * जैमि० अध्या ६, पा० १. अधि० १३.
द - ब्रह्मपदव्युत्पत्तिः । ... यमर्थो व्युत्पाद्यत इति शङ्कयम् । तेषामस्यां दशायामनध्यवसितार्थत्वात् । अन्य- था कृतं विचारारम्भेण । अपि च , एक वाक्यं न पदार्थ व्युत्पादयितुं वाक्यार्थ- मवबोधयितुं च क्षमते, सकृत्प्रयुक्तस्य सकृदर्थकारित्वात् । न च सति सम्भवे वाक्यावृत्तिर्युक्ता । एतेन सूत्रवाक्यादपि ब्रह्मपदव्युत्पत्तिः प्रत्युक्ता । यूपादिशब्दा- श्व भिन्नवाक्यैरेव व्युत्पाद्यन्त इत्यनन्तरमेव वक्ष्यते । न च परमाप्तप्रणीतसूत्राक्ष- रमात्रमप्यनर्थकं युक्तं , ब्रह्मपदे चानर्थकेऽविदितार्थे वा सूत्रमेव तथा स्यात् । त- स्माद् ब्रह्मपदार्थप्रतिपत्त्युपायो वक्तव्यः ॥ ब्रह्मपदव्युत्पत्तिः। उच्यते । बृहेर्वृद्धिकर्मणो मनिन्प्रत्ययान्तस्येदं रूपं ब्रह्मेति । निर्वतारो- ऽपि हि भवन्ति- बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मेति परिपठ्यते" इति। ततश्च तदेकोपाधिना जात्यादिष्वेव तद् व्युत्पाद्यते । सूत्रे च मुमुक्षुजिज्ञासा- विषयसमर्पणपरं ब्रह्मपदं प्रसिद्धजातिजीवादिबाधे प्रकरणोपपदादिसङ्कोचहेत्वभावाद् देशकालवस्तुगुणदोषसम्बन्धपरिच्छेदरूपसर्वविधाल्पत्वविरोधिरूपमनवधिकबृहत्त्व- मपूर्वमर्थ प्रतिपादयतीत्यवगम्यते। ततो मुमुक्षुजिज्ञासासमभिव्याहा रोरा)ोंदीरि- तविमर्शसनाथया प्रथमावगतव्युत्पत्त्यैवापूर्वार्थोपस्थितौ सूत्रवाक्यार्थः प्रतिपद्यत इति न सङ्कटं किञ्चित् । तदिदमाह भगवान् भाष्यकार:- 'ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृहतेर्धातोरानुगमात्" । इंति । नच विचारकर्तव्यतापरे सूत्रेऽयमों विमृष्टोऽपि पदमात्रोपस्थितो निर्विचिकि- समधिगतो भवतीति तदधिगमाय लक्षणादिमुखेन विचारमारप्स्यते भगवान् सूत्र- कार: -'जन्माद्यस्य यतः' (ब्र० १. १. २): इत्यादिना । जगत्कारणत्वमपि नि- विशेषस्यैव लक्षणं, न सविशेषस्येत्यग्ने दर्शयिष्यते । अत एव सविशेषस्य ब्रह्म- णोऽत्र शास्त्रे जिज्ञास्यत्वमुत्सूत्रमौत्प्रेक्षिकमिति दर्शयति भगवान् भाष्यकार:- 1 1. 'क्षा' ख. पाठ:.
सिद्धान्तसिद्धाञ्जने. "ब्रह्म च वक्ष्यमाणलक्षणं जन्माघस्य यत. इति ।" इति । अत्राह । न बृहत्त्वोपाधिना सर्वत्र ब्रह्मशब्दस्यका शक्तिरिति युज्यते , बृहन् कुम्भो महदाकाशमित्यादिवत् ब्रह्म कुम्भ इत्यपि प्रयोगांपत्तेः । न च त्रसरेण्वादावापेक्षिकबृहत्त्वेऽपि ब्रह्मशब्दः क्वचित् कदाचित् प्रयुज्यते । न च पङ्कजादिपद याविशेषतपङ्कजनिकादिवृत्तेरेव व्यक्तिविशेषविषयत्वनियामकपद्म- स्वादिवद् ब्रह्मशब्दत्य कश्चिज्जात्यादिविषयत्वनियामकानुगतोपाधिरुपलभ्यते , येन शक्तिर्वा प्रयोगो वा नियम्येत । तदेवमनुगतनिमित्तासम्भवादनेकशक्तिकल्प- नागौरवाद्, 'अन्यायश्चानेकार्थत्वामि'ति न्यायात् , स्वरूपतो गुणतश्च निरवधि- कबृहत्त्वे पुरुषोत्तम एव ब्रह्मशब्दो मुख्यः अन्यत्र तु जात्यादौ बृहत्त्वगुणलेशयो- गादौपचारिक एव । यथाह सूत्रकारः---'स्याच्चैकस्य ब्रह्मशब्दवत् ' (ब्र०२.३.५) इति , परं जैमिनिर्मुख्यत्वात्' (ब्र० ४. ३. १२) इति च । गरुडपुराणमपि- "वेढे भूरिप्रयोगाञ्च गुणयोगाच्च शाङ्गिणः । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने.! ॥ इति "यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र खुपचारतः ॥" इति च । मुमुक्षुजिज्ञासासमभिव्याहाराच्च । 'वेदाहमेतं पुरुषं महान्तमि' त्युक्त्वा तमवं विद्वानमृत इह भवतीति श्रुतेर्महापुरुषज्ञानस्यैव मोक्षहे त्वावगमात् । स सर्वभूतप्रकृति विकारान् ', . “ समस्तकल्याणगुणात्मकोऽसौ' - ‘स ईश्वरो व्यस्तसमस्तरूपः' इत्युक्त्वा , 'संज्ञायते येन' 'तज्ज्ञानमज्ञानमतोऽन्यदुक्तमि' स्मृतेश्च । तस्मात् स्वभावतो निर्दोषनिरतिशयासंख्येयकल्याणगुणगणास्पद पुरुषोत्तमशब्दितं ब्रह्मेह जिज्ञास्यमुपदिश्यत इति । अत्र ब्रूमः । एवमलौकिके व्युत्पत्त्यनुपपत्त्या ब्रह्मपदगर्भ श्रुतिसूत्रे प्रतिप- तिवन्ध्ये प्रसज्येयाताम् । न च सत्यज्ञानादिवाक्यैब्रह्मपदं व्युत्पद्यते । तेषां वा- ४. क्षा' ख, पाठः.. .
. ब्रह्मपदव्युत्पत्तिः । क्यार्थबोधनिष्ठःवात् । नहि 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्युक्त्वा तद् यो वेद नि. हितं गुहायाम् इत्युच्यते, येन पूर्ववाक्यं व्युत्पत्तिपरं स्यात् । न च तस्याव. तिर्युक्ता । न चैवमस्य लक्षणवाक्यत्वा नुपपत्तिः । लक्ष्यस्वरूपबोधपरत्वात् । 'अ- सविदाप्नोति परमि'त्युक्तार्थसंबादाय ह्येषगुदाहियते । तत्र वेदनकर्मतयैव ब्रह्म- ण्युपादीयमाने सामानाधिकरण्यनिर्देशसामर्थ्याद् नान्तरीयकतया तद् ज्ञानादि- रूपमवगम्यत इत्यत इदं लक्षणवाक्यमुच्या इति । स्वर्गादौ तु 'यन्न दुःखेन सम्भिन्नमित्यादिना व्युत्पादिते 'स्वर्गकामो यजे. ते'त्यादिवाक्यार्थो बुध्यते । तथा 'खादिरो यूपो भवतीति खदिरविकारविशेषो यूप इत्यवगते 'यूपं तक्षती'त्यादौ यूपशब्दस्याव्युत्पन्नतया यूपात्मना तक्षणाद्यनन्वयितया च खदिरं तक्षतीत्येव वाक्यार्थे प्रतिपद्यमाने यूपपदोपादानफलं विमृशतो नूनं तक्ष- णादिसंस्कृतः खदिरविकारविशेषो यूप इत्यर्थाद् व्युत्पद्यते । ततो 'यूपे पशुं नियु- जीतेति वाक्यार्थप्रतिपत्तिः । एवमग्निमाधत्त' इति संस्कार्यत्वेऽवगते । 'नक्तं गार्हपत्यमाधत्ते, दिवाहवनीयमि'त्यादिविशेषविधिषु गार्हपत्यादिरूपेण संस्कार- विध्यनन्वयितया तत्पदोपादानफलविमर्शे नूनं नक्तमाहितो गार्हपत्यसंज्ञो दिवा- हित आहवनीयसंज्ञ इत्यर्थाद् व्युत्पद्यते । तत 'आहवनीये जुहोती'त्यादिवाक्या- । रफ्यचषालचात्वालादिशब्दाश्च गोश्वाजादिशब्दवद् निगमादिनैव व्युत्पद्यन्ते । तथा च पातञ्जलं दर्शनं वेदे याज्ञिकाः संज्ञां कुर्वन्ति , स्फ्यो यूपश्चषाल इति । तत्रभवता उपचारादन्येऽपि जानन्ति इयमस्य संज्ञेति' इति । न हि 'त्ययेनोद्धन्ति', 'चात्वालाद् धिष्णियानुपवपती'त्यादिसिद्धपदसान्नि- ध्येऽपि तदर्थों व्युत्पाद्यते । वसन्ते सहकारे पिने मधुरं रौतीत्यादौ च बहुशो दृष्टसम्बन्धतया वसन्तादिपदार्थानां सम्भावनामात्रेण पिकशब्दः कोकिले व्युत्पन्नो यदृच्छया न विसंवदते, कुसुमिते सहकारे पिको ध्वनतीत्यादौ कदाचिद् भृङ्गेऽपि व्युत्पत्तौ विसंवाददर्शनात् । नचैवमननुभूतचरसम्बन्धार्थ- कसिद्धपदसान्निध्येऽप्यसिद्धपदव्युत्पत्तिः सम्भवति । "चित्रीयते चरन्नेष महिषः कर्कसङ्कटे" इत्यादावप्रसिद्धार्थपदसमभिव्याहारे वाक्यार्थबोधस्यैव प्रतिबन्धात् । न चेह सत्यादिवाक्ये कारणवाक्ये वा ब्रह्मपदार्थानन्तर्भावेन वाक्यार्थः प्रतिपद्यते विग : mam सिद्धान्तसिद्धाञ्जने - . येन 'यूपं तक्षती ' त्यादाविवार्थाद् ब्रह्मपदं व्युत्पाद्यत । अस्यां दशा- याम् उक्तागमस्यानवधृतार्थत्वाच्च । न चोदाहृतपुराणवाक्यने शक्त्यवधारणा युक्ता । अधीतस्वाध्यायस्य कर्मविचारानन्तरमेव ब्रह्मवि चारमुपेत्य शास्त्रान्तराद्य- वसराभावेन नित्यानित्यविवेकाद्यसम्भवे यतमानम्य तान्त्रिकस्य तदयोगात् । अन्यथा पुराणादिनैव ब्रह्मतत्त्वावगमोऽप्यस्त्विति कृतं तद्विचारेण । निरुक्तव्याकरणाभ्यां तु वृद्धिपर्यायबृहत्त्वोपाधिना जातिजीवादिसाधारण्येव शक्तिरवधार्यते । तत्र तत्र प्रयोगे च प्रकरणोपपदादिना विशेषलाभ इति युक्तम् । तत्र कारणभूतस- विशेषविषये प्रयुज्यमानो ब्रह्मशब्दः पुष्कलार्थो भवति , स्वरूपतो गुणतश्च निरतिशयबृहत्त्वयोगात् । तत्रापि गुणानां ब्रह्मणो गुणेभ्यश्च ब्रह्मणो व्यवच्छि- द्यमानतया नात्यन्तिकं बृहत्त्वम् । तथापि कारणातीते. सर्वविधाल्पत्वविरोधिस्व- रूपमात्रे निर्विशेषे प्रवृत्तिनिमित्तासम्भवेन कारणरूप एव ब्रह्मपदशक्तिः पर्यव- स्यति । अल्पत्वविरोधिस्वरूपलक्षणया तु ब्रह्मतत्त्वमुपस्थाप्यते 'सत्यं ज्ञानमन- न्तमित्यादिषु । न चा(बत्रा)मुख्यग्रहणं न्याय्यम् , अविशेषितानन्त्यविरोधात् , प्रकरणादिविशेषपर्यवसानहेत्वभावाच्च , 'ब्रह्मविदामोति परमिति मुक्तिहेतुवेद- नमात्रविषयत्वाभिधानाच्च । अत एव मुमुक्षुजिज्ञासासमभिव्याहारात् सौत्र- मांप ब्रह्मपदं न सविशेषविषयमित्यवोचाम । 'तमेवं विद्वानि'त्यादि च निर्विशेष- विषयं व्याख्यास्यते ॥ ब्रह्मपदार्थमुख्यामुख्यत्वविवेकः ।.. . नन्वेवमेकनिमित्तैकशक्तिकत्वे ब्रह्मपदस्य किंकृतो मुख्यामुख्यत्वविभागः, * परं जैमिनिर्मुख्यत्वात् ' (ब्र०४. ३. १२) 'तस्मिन्नेव ब्रह्मशब्दो. मुख्यवृत्तः' इत्यादिः । उच्यते । सामान्यशक्तस्य गवादिपदस्य खण्डादाविव ब्रह्मपदस्य जा- तिजीवादिविशेषेष्वौपचारिकता स्यात् । न चैवमपि परमात्मन्यपि विशेषेऽमुख्य- त्यापत्तिः । वेदान्तेषु तदुपबृंहणस्मृतीतिहासादिषु च प्रयोगप्राचुर्यात् प्रथमतरप्र- त्ययत्वे निरूढवृत्त्या मुख्यत्वोक्त्युपपत्तेः । तदिदमुक्तं वेदे भूरिप्रयोगाच्चे'ति । free Popuremenuwarter 'न ब्रह्मपदार्थानन्तर्भावे श' ख. पाठः, भगवच्छब्दार्थः । अथवा परप्रकरणोपपदादिविशेषाभावे स्वरूपतो गुणतश्चासङ्कुचितबृहत्त्वेनैवाल्प- त्वविरोधिस्वरूपेणैव या ब्रह्मणि ब्रह्मापदादुपस्थिते तावतैवासङ्कीर्णस्वार्थवृत्तितया तत्र रूपान्तरोपस्थित्यनपेक्षणाद् , जात्यादौ च बृहत्त्वमात्रस्य साधारणतयाशक्या- सङ्कीर्णरूपविशेषोपस्थित्यवश्यम्भावाद् मुख्यामुख्यविभागो न विरुध्यते । न चैवं त्र्यणुकादावपि प्रयोगापत्तिः, अप्रयोगादेवाप्रयोगसम्भवात् । ‘आरोपे सति नि- मित्तानुसरणम् , नहि निभित्तमस्तीत्यारोपः' इति न्यायात् । नहि यद् यत्र शक्तं, तत् तत्रावश्यं प्रयोक्तव्यमिति नियमः । पुमन्तदैवतपद्मादिशब्दस्यामरक- मलादिशक्तावपि तत्राप्रयोगादेवाप्रयोगदर्शनाद् लिङ्गभेद इव प्रत्ययभेदे श- क्येऽप्यप्रयोगोपपत्तेः Parmommyamammer भगवच्छब्दार्थः। एतेनालौकिकज्ञानादिमति ज्ञानादिमत्येव वा भगवत्पदशक्तिरपि व्याख्या- ता। न च परमेश्वरे . "ऐश्वर्यस्य समग्रस्यं वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। ज्ञानशक्तिबलैश्चर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥" 1 इति निर्दोषसमग्रज्ञानादिसमुदायस्य भगवत्पदशक्यत्वस्मरणाद्, अन्यत्र च. , " उत्पत्तिं च विनाश च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।।" इति स्मृतेः, वसिष्ठो भगवानृषिः' इत्यादिप्रयोगाच्च यथागममुभवी शक्तिः प्रति- पत्तुं युक्ता । गौरवात् । नन्वत एव भगवच्छब्दं प्रकृत्य तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र खुपचारतः ॥" --- .
, २८ सिद्धान्तसिद्धाञ्जने इति स्मरणादनीश्वरे शक्यगुणलेशयोगेन गौणत्वं स्यादिति चेद्, न । सामान्ये- नैकशक्त्युपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वात् । स्मृतेरपि विषयविशेषेण प्र- योगप्राचुर्याप्राचुर्याभ्यां शक्यार्थपौष्कल्यापौष्कल्याभ्यां च निरूढाभिप्रायत्वोपपत्तेः । अत एव 'परिभाषासमन्वितः' इत्युक्तम् । परिभापति हि समयेनाव्यभिचरितप्र- योग उच्यते । वैयाकरणपरिभाषेत्यादिदर्शनात् । अत एव 'ज्ञानशक्तिबलै- श्वर्ये'त्यत्र तिरश्चामपि ज्ञानादीनि भगवच्छन्दवाच्यानीत्यभिप्रायेणाशेषन इत्यु- पात्तम् । परमात्मन एव बभिन्नस्य ज्ञानशक्त्यादेरविद्यामयः प्राणिभेदेषु खि- ल्यभावः । तस्यैव सर्वम पत्वात् । न तु समुदायाभिप्रायेण । समुच्चितैकविभक्ति- निर्देशादेव ज्ञानादिसमुदायासद्धेः । अपि च ज्ञानादि प्रत्येकमेव शक्यमस्तु । अनेकार्थत्वस्य समुदायशक्तिपक्षेऽप्यवर्जनीयत्वात् । न कोषाध्यमवादन- न्तरं समुदायः शक्यतावच्छेदकः, येनैकार्थ्य स्यात् ।। SHRA myawwook घनशब्दार्थः । न खलु वनशब्दस्यैकदेशस्थत्वमप्यर्थः । गौरवात् । किन्त्वेकदेशपरिचिता वृक्षा एवानिरूपितभेदा अपि बहवो वनशब्दवाच्या इति शक्त्यनेकत्वम् । य- दाहुः 'वृक्षा हि बहवो वनमि'ति । अन्यथा मानान्तरानवगम्ये वनशब्द- बुद्ध्योरामासत्वप्रसङ्गात् । न च वृक्षाश्रयं बहुत्वं बह्वाश्रयं वा वृक्षत्वं वनशब्द- प्रवृत्तिनिमित्तमित्यैकार्य शङ्कयम् । अतिप्रसङ्गात् । एकदेशाद्यवच्छेदस्य चापे- क्षायाम् उक्तस्यानपेक्ष्यत्वात् । न च तदतिरिक्तो वृक्षेषु समुदायो नाम । तस्य पर्याप्यवृत्तित्वे छिन्नशिष्टे एकस्मिन्नपि वृक्षे वनशब्दप्रयोगापत्तेः । व्यासज्यवृत्तित्वे च वृक्ष एकस्मिन् वृणे समुदायविनाशात् तत्रैव वनशब्दस्य समुदायान्तरविष- यत्वकल्पनायाम् अनेकार्थत्वापरिहारात् । न च समुदायभेदानुगतमेकं सामा- न्यम् । मानाभावात् । देशकालकार्याधुपाधिनापि सर्वत्र समुदायव्यवहारोपपत्तेः । न च वनत्वं नाम सामान्यभेदः । वृक्षजातिभेदैरेव साङ्कर्यात् । वनशब्दस्य युग- पदनेकवृत्तित्वेऽपि 'अहं सम्माष्टी त्यादौ ग्रहशब्दस्येव नैकवचनानुपपत्तिः । .. १. 'था' ख. पाठः, Autumnnada-name Primegasmmelinewfamil Humanit. जैन ०३. १. अधि.० ७.१३, १४, १५.
जिज्ञासाशब्दार्थः I २५ अथवा तदुपाधिसंख्यारोपेण वचनानि भवन्ति वनमित्यादीनि । वर्णेषु बुद्ध्यादिसं- ख्यारोपेण पदमित्यादिवत् । कालादावेकस्मिन्नेवोपाधिसंख्याश्रयवचनभेददर्शनात् कालः कालौ काला इति । तदेवमिह प्रत्येकशक्तिपक्षे समुदितशक्तिपक्षे च तुल्ये शक्त्यनेकत्वे न ज्ञानादिसमुदायोपाधौ क्लेष्टुं युक्तम् । ‘विना हेयैर्गुणादिभिरि ति च न निर्दोष- त्वमपि वाच्यकोटिनिविष्टमित्यभिप्रायः । गौरवात् । किन्तु ज्ञानादिमात्रशक्तिकं पिपीलिकादावपि भगवत्पदं किं न प्रयुज्यतेति शङ्किते दोषाभिभूततया ज्ञानादे- रसत्कल्पत्वाद् अप्रयोग इत्यभिप्रायः । 'ऐश्वर्यस्य समग्रस्ये'त्यत्रापि सामग्र्यं दोषानभिभवो भगवत्पदप्रयोगाप्रतिबन्धायोच्यते । एतदभिप्रायेणैव " एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥" इति स्मयते । तस्माद् दोषानभिभूतोद्भूतज्ञानशक्तयादिमति भगवत्पदप्र- योग इति न गौणः कल्पनीयः । प्रह्लादादौ च यः परस्य गौणप्रयोगाभावहेतुः, स एव नस्तदभावहेतुः । यदि च परस्य प्रयोग इष्टः, स एव नो मुख्यः प्रयोग इति । अस्तु वा भगवच्छब्दस्य परमेश्वरे मुख्यत्वम् , अन्यत्र गौणत्वम् । ब्रह्मशब्दस्य तु निरुक्ताद्यवगम्या शक्तिः साधारण्येव युक्ता । अन्यथा जिज्ञासा- सूत्रस्य प्रतिपत्तिवन्ध्यतापत्तेरिति ॥ 14 जिज्ञासाशब्दार्थः। ज्ञातुमिच्छा जिज्ञासा । नन्वत्र विचारकर्तव्यत्वपरे सूत्रेऽविवक्षिताव्यवा- र्थस्यैव विचारलक्षणा युक्ता । तस्य विध्युपपत्तेः । अन्यथा ब्रह्मजिज्ञासा भवती- त्यनुवादमात्रत्वापत्तेः, 'तद्विजिज्ञासस्व' 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः'. इत्यादिविधिश्रुतिमूलत्वानुपपत्तेश्च । न खलु ज्ञानं प्रमाणवस्तुपरतन्त्रं विधीयते, नापि वस्तुसौन्दर्यज्ञानाधीनेच्छा । अपुरुष- तन्त्रत्वात् । न च तथैव विचारो लक्ष्येत, लाक्षणिकजिज्ञासापदोपादानानर्थक्याद् अथातो ब्रह्मविचार इत्येव सूत्रं प्रणीयेत । 'स्वायत्ते शब्दप्रयोगे नावाचक ३० सिद्धान्तसिद्धाञ्जने । HINoM ऽप्यथ- प्रयोक्तव्यमिति न्यायात् । सम्भवन्मुख्यशब्दे च लाक्षणिकप्रयोगे हि प्रयोजन मृग्यते । गङ्गायां घोष इत्यादौ च पावनत्वादिप्रत्ययः प्रयोजनम् । इत्युभयथापि दोष इति । उच्यते । तदेव लाक्षणिकपदोपादानप्रयोजनं दर्शयितुमवयवार्थोऽनु- वर्ण्यते । विधित्सितविचारस्येप्यमाणज्ञानफलत्वप्रत्ययः प्रयोजनम् । निष्फलवि- चारविधानायोगात् । स्वरूपावगतिपर्यन्तं हि ज्ञानमशेपसंसारबीजानर्थनिबर्हणं परमपुरुषार्थत्वादेपितव्यमिति । तदिदमाह भगवान् भाष्यकारः "ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा निश्रेयसप्रयो- जना प्रस्तूयते । इति । अन्ये तु शब्दतः प्रधानस्येच्छाया अनधिकार्यत्वेन तत्समानवाक्येs शब्दस्याधिकारार्थत्वनिरासेन प्रकरणमात्रोपात्तसाधनचतुष्टयसम्पत्त्यानन्तर्यार्थतया विशिष्टाधिकारिसूचनायावयववृत्तिनिरूपणमित्याहुः । कश्चिदाह---- 'इप्यमाणं ज्ञानमत्र विधीयत' इति । तद् बालिशभाषितम् । प्रमाणफलज्ञानम्यापुरुषतन्त्रत्वेनाविधेयत्वात् । न च विचारात्मकं ज्ञानं विधीयेत । तस्येष्यमाणत्वायोगात् । फलविषयत्वादिच्छायाः । फलोपाधिका साधनेऽपि स्यादि- च्छेति चेत् । किं पुनरायुष्मता फलमभिपन्नम् । न विचारानुगृहीतवाक्यजा प्रमि- तिः। असुखदुःखाभावत्वात् । भगवत्स्वरूपगुणविभवविषयस्यापि परोक्षस्याप्रयो- जनत्वात् । अनुकूलवेदनीयापरोक्षस्यैव प्रयोजनत्वात् । अथ तदपि साक्षात्कारप- यन्तध्यानात्मतापन्नं सुखापरोक्षसाधनमितीष्येत, आवश्यकत्वात् तदेव स्वरूपावग- तिरूपं ब्रह्मज्ञानमिष्यमाणमिह गृह्यताम् । बहिरङ्गानपेक्षतया. स्वारसिकत्वात् । किमनेन बकबन्धयलेन । तस्य चाविधेयत्वात् तल्लक्षितो विचार एव विधीयत इति । अथ कथमेवं सति विचारो लक्ष्येत । इध्यमाणापरोक्षज्ञानेन तदिच्छया वा जिज्ञासापदमुख्यार्थेन विचारस्य साधनतया साध्यतया वा सम्बन्धानधिग- मात् । विचार्यतत्त्वापरोक्षहेतुभावस्य क्वचिदपि धर्मविचारादावभावात् । अत एव तद्विषयेच्छासाध्यताया अप्यभावात् । इष्यमाणसाधनतया हीच्छया किञ्चित् सा- ध्येत; नान्यथा । न खलु शैत्येच्छया वह्निः साध्यते । न चाज्ञातमुख्यसम्बन्धो लक्षणा । अतिप्रसङ्गात् । तस्मादश्लिष्टा विचारलक्षणेति । . --- है सन्नन्तनिर्देशफलम् । ३१ उच्यते । यद्यपि प्रागतो न्यायादन्तरेण विधि विचारस्येप्यमाणब्रह्मसाक्षा- स्कारफलत्वमशक्यमधिगन्तुं, तथापि तत्साक्षात्कारेऽपि निर्णयांशेनाधिगतसम्बन्धो विचारो लक्षयिष्यते । धर्मविचारादौ तस्य विचार्यतत्त्वनिर्णयफलत्वावगमात् । तञ्च न साक्षादेव । विचारस्य तर्कमयत्वात् । अनुग्राह्ये च प्रमाणेऽपरोक्षफले तादर्सेनेह विचारविधानं युक्तम् । यद्बा, 'द्रष्टव्यः श्रोतव्य' इत्यापाताधिगतवै- धसाधनतासम्बन्धस्य विचारस्य जिज्ञासापदेनेप्यमाणज्ञानसाधनतया ज्ञानेच्छासा- ध्येतया वोपस्थितिरुपपन्नेति न किञ्चिदश्लिष्टम् । जिज्ञासाशब्दश्चाखिलो विशिष्ट- मर्थमिष्यमाणज्ञानं ज्ञानेच्छां वा प्रतिपाद्य विचारं लक्षयति , द्विरेफादिसमासवत् । नहि द्विपदेन रेफपदेन वा भ्रमरो लक्ष्यते , किन्तु समासेन विशिष्टमर्थं प्रति- पायेति । केचित्तु---- सना विचारोऽजहल्लक्षणयोपस्थाप्यते । ज्ञानपदेन च साध्या- वस्थं ज्ञानमिति वदन्ति । तच्चिन्त्यम् । प्रत्ययमात्रार्थेन ज्ञानानन्वयिनेच्छामात्रेण विचारस्य सम्बन्धैनियाँभावात् । अभिधेयाविनाभूते च प्रवृत्तिलक्षणोच्यते । न चैवमविनाभावादेवाक्षेपसिद्धेः शब्दवृत्तिवैयर्थ्यमिति वाच्यम् । समभिव्याहृतपदा- नां सम्भूयकारित्वोपपादनार्थत्वात् । शब्दशक्तिमूलाक्षेपस्यैव वा लक्षणापर्यायत्वो- पगमाच । न च निश्चितप्रमाणभावेनापाताधिगते निर्णयेच्छा विचारं व्यभिचरति, येन सन्प्रत्ययमात्रेणेव जिज्ञासापदेनापि स न लक्ष्येत । यद्युच्येत-जिज्ञासाप- दस्य न विचारे लक्षणा युक्ता । तस्य कचिदप्यशक्तेः । शक्तस्यैव शक्याविनाभूते लाक्षणिकत्वात् । द्विरेफ इति च समभिव्याहृतान्वितस्वार्थवृत्ते रेफपदस्यैव भ्रमर- लक्षणा, न समासस्येति । तहीँहापि समभिव्याहृतान्वितस्वार्थवृत्तेः प्रकृतेः प्रत्य- यस्य वा विचारे लक्षणास्तु , न तु पर्युदस्तप्रकृत्यर्थस्य प्रत्ययमात्रस्य । उक्त- दोषात् ॥ सन्नन्तनिर्देशफलम् । अथापि स्यात्- जिज्ञासापद्रस्य विचारे नाजहल्लक्षणा । काकेभ्यो दधि रक्ष्यतां , छत्रिणो यान्तीत्यादाविव लक्ष्यतावच्छेदकानुगतोपाधेरेकान्वयस्य चाभा- १. 'वं श', , २. 'धनत', ३. 'न्धा', ३. 'न्धा', ४. 'म', ५. 'णा', 'च'..ख. पाठ:
i ३२ सिद्धान्तासद्धाञ्जने वात् । जहल्लक्षणायां च नेष्यमाणज्ञानफलविचारकर्तव्यत्वावगमः , येन लाक्षणि- कपदोपादानं सौत्रमर्थवत् स्यादिति । न, इष्यमाणज्ञानसाधनतालक्षितविचारस्य वि- हितस्य फलापेक्षायां तस्यैव सन्निहितस्येष्यमाणज्ञानस्यार्थादेव फलत्वप्रत्ययोपपत्तेः। गङ्गापदलक्ष्यतीरमात्रस्य प्रतिसम्बन्ध्यपेक्षायां सन्निहितगङ्गाया एव तथात्वावग- मात् । यदि छत्र ब्रह्मविचार इत्येव सूत्रं प्राणेप्यत् , विचेतव्यफलो विचारविधिः प्रासङ्ख्यत । अधिकारगृहीतस्यापि मोक्षम्य दविष्ठतयानितिद्वारतया च द्रागि- ति तत्सम्बन्धेनाशक्यप्रत्ययत्वात् । जिज्ञासेति तु सूत्रिते विज्ञानेन तन्नान्तरीयके- ण मोक्षेण च निर्दिष्टफल एव विचारविधिः स्यात् । सन्नन्तनिर्देशोऽपि तदर्थ एव । अन्यथा साध्यतयानधिगतं विज्ञानं न साधनविचारं लक्षयित्वा शक्नोति तस्य फ- लत्वेन सम्बन्धुमिति । यत्तु , सन्नन्तनिर्देशो विचारस्य रागप्राप्तत्वज्ञापनार्थ इति । तदसारम् । 'ब्रह्मविचारः कर्तव्यः' ब्रह्माधिगमः कर्तव्यः' ' इप्यमाणं ज्ञानं विधेयम् ' 'इच्छाविषयभूतं विचारात्मकं ज्ञानमेव तात्पर्यतो विधीयते' इत्यादिम्ववचन- विरोधात् । अज्ञातज्ञापनमन्त्र विधिरिष्ट इति चेत् । किमिहाज्ञातं जिज्ञापयिषितमा- युष्मतः । ज्ञातमेव तावद्विचारे विचार्यप्रमितिहेतुत्वं , शक्यत्वे हितसाधनत्वे चाव- गते विचारस्य रागत एव कर्तव्यताप्राप्तिरिष्टा । कार्यव्युत्पत्तिविमर्शविरुद्धावगमं विचारस्य कर्तव्यस्य शक्यत्वं ज्ञाप्यते इति चेद् , न । वेदान्तेषु ब्रह्मज्ञानानन्त- स्थिरफलापाताधिगमेन मुमुक्षोरधिकारिणोऽभावे शास्त्रानारम्भप्रसङ्गात् । तेषु तद- धिगमे च स्वानुभवविरोधेन कार्यव्युत्पत्तिविमर्शस्यैव निरोधात् । अस्मादेव न्या- यात् तेषु तदधिगमोपगमे च प्रवृत्तस्य तदधिगमस्तदधिगमे च मुमुक्षोः प्रवृत्तिरि- त्यन्योन्याश्रयापत्तेः । अथ हितसाधनत्वमज्ञातं ज्ञाप्येत , तर्हि तन्मुखेन विधित एव विचारकर्तव्यतावगम इति न जिज्ञासेति तस्य रागप्राप्तत्वं युक्तं सूचयितुम् । सूत्रस्य विषयस्वभावपरिवृत्तिप्रसङ्गात् । रागतः प्रवृत्तिश्च विचारे निषेधिप्यते । अत्र केचित्--- ब्रह्म जिज्ञासितव्यमिति यदि नियमः, यदि वा परिसङ्ख्या, उभयथापि कपिलसुगताद्यभिमतप्रधानादितत्त्वजिज्ञासाव्यावृत्तिरिह विवक्षितेति व्याचक्षते । । १, 'ति' ख. पाठः.
+11 धर्मब्रह्मविचारयोरैकशास्त्र्यचाद्यम् । ३३ अत्राह- । -- . ब्रह्मणो जिज्ञास्यत्वमात्रे सिद्धेहि तस्यैव जिज्ञास्यत्वसिद्धिः । न चोभयं जिज्ञासासूत्रप्रतिपाद्यं ब्रह्म जिज्ञास्यं ब्रह्मैव जिज्ञास्यमिति च, वा- क्यभेदप्रसङ्गात् । अपि , अधीतक्रमेण पूर्वभागविचारानन्तरमुत्तरभागविचारस्य न प्रधानादिनिरासापेक्षा, तदानीं तदप्रसक्तेः । वेदान्तार्थश्रद्धाढिम्ने तु ईक्षल्यादौ वेदान्तानामतत्परत्वोपादानेन, ‘विप्रतिषेधाच्चासमञ्जसम् ' (ब्र० २. २. १०) इत्यादौ तदागमाप्रामाण्यतत्प्रमेयदौस्थ्योपपादनेन च तन्निरसनमग्रे भविष्यतीति व्यर्थ कृतकरणमिति । तन्न । 'ब्रह्मविदामोति परमि' त्युपश्रुत्य ब्रह्म निश्चिचीषतो विचार्यतत्त्वनिर्णयफलतया विचारस्य प्राप्तत्वेन विचारविधेर्विषयनियमार्थत्वोपपत्तेः। अपि च, अनन्वितपदानतिरेके सत्यर्थभेदेन सूत्रमावर्त्यमानमपि न वाक्यभेददो- षमावहति । चोदनासूत्रं हि धर्मस्वरूपपरं तत्प्रमाणपरं च व्याख्यातं शबरस्वामिना । अलङ्कारो हि सूत्रस्य विश्वतोमुखत्वमनेकार्थत्वम् । अन्यथा तत्र तत्र विवक्षितार्थ- वर्णकभेदोपन्यासो न सङ्गच्छेत । न च प्रधानाद्यप्राप्त्या तन्नियमानुपपत्तिः । ताप- त्रयातुरस्य तन्निवृत्त्युपायान्वेषिणो व्यक्ताव्यक्तज्ञविज्ञानाद्युपायान्तरस्य यदृच्छोप- देशादिनापि प्राप्तिसम्भवात् । अन्यथा सर्वथैवाप्रसङ्गादग्रेऽप्यनिषेध्यत्वापातात् । नापि कृतकरत्वम् । अत्र प्रतिज्ञामात्रोक्तस्य परतः प्रपञ्चनोपपत्तेः । चोदनासूत्रो- क्तधर्मप्रमाणस्य 'तस्य निमित्तपरीष्टिः' (जै० १. १. ३) इत्यादिना प्रपञ्च- नसम्प्रतिपत्तेः, " . । - 1 '', “इष्टं हि विदुषामेतत् समासव्यासधारणम्" इति । तस्माद् यदि प्रधानादीनामपि कथमपि जिज्ञास्यत्वप्राप्तिः शङ्कयेत , तन्नि- यमोऽपि सूत्रेणानेन क्रियमाणो न दुष्यतीति । तस्माद् न्यायनिव्यूढसद्भावविवे- कादेरनन्तरं निःश्रेयसफला ब्रह्ममीमांसा प्रतिपद्यते ॥ इति सूत्रार्थसङ्ग्रहः ॥ , RAN धर्मब्रह्मविचारयोरैकशास्त्रयचोद्यम् । अत्राह- धर्मब्रह्मविचारौ तावदेकं शास्त्रम् । यथाह वृत्तिकारः-- 'सं- हितमेतच्छारीरक जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिरिति । युक्त चैतत् । अर्थैकत्वादेकं वाक्यम्' (जै० २. १. ४६) इति प्रधानप्रतिपाचैक्यादे- म सिद्धान्तसिद्धाञ्जने कप्रबन्धत्वं व्याख्येयवेदस्य तावदवसीयते । प्रतिपाद्यैक्यं च वेदस्य पुरुषार्थपर- त्वाद् ब्रह्मपरत्वाद्वा । ब्रह्मपरत्वं च 'सर्वे वेदा यत् पदमामनन्ति', 'वेदैश्च सर्वै- रहमेव वेद्यः' इत्यादिश्रुतिस्मृतिभ्यः । ततश्चैकग्रन्थव्याख्यानत्वाद् धर्मब्रह्मजि- ज्ञासे एकं शास्त्रं सम्प्रतिपन्नवत् । न च वक्तृभेदः शास्त्रभेदप्रयोजकः, जयादि- त्यवामनवृत्यादौ व्यभिचारात् । नापि प्रतिज्ञाभेदोपक्रमः, 'अथातो धर्मजिज्ञासा' (जै० १, १. १) अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा' (जै० ४. १. १) इति प्रतिज्ञाभेदेऽपि शास्त्रैक्यात् । साधारणप्रतिज्ञावैधुर्ये सति स शास्त्रभेदक इति चेद- स्तु । प्रस्तुते तदसिद्धिः। भागद्वयासाधारणार्थप्रतिज्ञाद्वये कृते साधारणप्रतिज्ञान- स्यार्थसिद्धयुपपत्तेः । साधर्म्यवेधर्म्यसमजात्योरुद्देशे तदुभयानुगतप्रतिधर्मोद्देशव- दिहापि वेदाथजिज्ञासेत्यनुगतरूपोपपत्तेः । अर्थविशेषप्रतिज्ञा तु मुखतः क्रियते, प्रतिपादनौपयिकतयावश्यकत्वाद्, न साधारणी । अस्तु वा 'अथातो ब्रह्मजिज्ञा- सेति साधारणप्रतिज्ञा । धर्मविचारस्तु ब्रह्ममीमांसातृतीयलक्षणतुरीयपादसङ्गतो- ऽपि पृथक् क्रियते विस्तीर्णत्वात् । तन्त्रान्तरे यथाहिकभेदेन निग्रहान्तर्भूतच्छल- जाती तदन्तर्भूतहेत्वाभासाश्चाध्यायभेदेन हिरु निरूप्यन्ते तद्वत् । प्रतिपत्तिसौ- कर्यलक्षणक्रमात् तु. कर्मविचारस्य पूर्वभावः । अस्तु वा 'अथातो धर्मजिज्ञासा' इत्येव साधारणप्रतिज्ञा.। अलौकिकश्रेयस्साधनं हि धर्मः । ' . "श्रेयस्साधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण च धर्मत्वम् ॥ इति भट्टोक्तेः । ब्रह्मणश्च श्रेयस्साधनतया धर्मत्वात् । भारते च . "ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् ॥" इति सिद्धेऽपि ब्रह्मणि धर्मशब्दप्रयोगाच्च । तत्र "द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते" इत्यभियुक्तोक्तेः । सिद्धरूपधर्मस्य पूर्वभागे, उत्तरभागे च 'आत्मेत्येवोपासीते'त्यु- पासनादिसाध्यधर्मस्य च साङ्कर्येऽपि, कर्मात्मा साध्यधर्मः ब्रह्मात्मा सिद्धध- राधनरूपतया धर्मब्रह्मविचारयोरैकशास्त्र्यबोद्यम् । ३५ मश्च प्रधानप्रतिपाद्यो व्यवतिष्ठते । तथा च सत्यां साधारण प्रतिज्ञायां धर्मशब्दस्य साध्यवर्ने प्रसिद्धिनाचुर्ये ग बुद्रित्यत्वाद्वा धर्मजिज्ञासापदतन्त्रतया वा अर्थतो वा विशेषप्रतिज्ञासिद्धिरित चोदनासूत्र धर्मलक्षण कृत्वा तम्मिन् निरवशेषे विचारिते बहुग्रन्थव्यवधानाद् धर्मशब्दस्य ब्रह्मणि प्रसिद्धिप्राचुर्याभावे- नाशब्दार्थत्वशङ्का च मा भूदिति पुनः 'अथातो ब्रह्मजिज्ञासे'ति प्रतिज्ञाय तस्य लक्षणमुक्तं जन्मादिसूत्र इति न वैयर्थ्यम् । ननु कर्मणामपि परमपुरुषा- आम्नायस्योदाहृतश्रुतिस्मृतिभ्यामाराध्यब्रह्मैकार्थ्यावगमान्नोक्तव्य- वस्था युक्ता । न । परदेवताराधनरूपतामनपेक्ष्यैव स्वप्राधान्येन कर्मणामाद्यतन्त्रे विचार्यत्वात् । अत एव विनापि परदेवताज्ञानमनुष्ठितकर्मणामन्तवत्फलमुच्यते “यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवतीति , "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥" इति च । उत्तरतन्त्रे चाराधनीयपरमपुरुषविचारमपेक्ष्य तदाराधनरूपता पश्चाद- वगम्यते । एतेन जिज्ञास्यभेदान्न शास्त्रैक्यामिति प्रत्युक्तम् । षट्कद्वयार्थभेदव- दध्यायार्थभेदवच्चान्तरालिकार्थभेदस्य शास्त्रैक्याविरोधित्वात् । फलभेदोऽप्यत । षट्कद्वयचिन्तितप्रकृतिविकृतिप्रयोजनभेदवदस्याशास्त्रभेद- कत्वात् , अलौकिकश्रेयोलक्षणैकरूपफलेऽभ्युदयनिःश्रेयसरूपावान्तरभेदस्याप्रयो- जकत्वात् । नाप्यर्थविरोधादशास्त्रैक्यम् । असिद्धेः । अक्रियार्थानामानर्थक्यमाशङ्कय विध्येकवाक्यतया प्रामाण्यसमर्थनस्य जैमिनीयस्य सामान्यविषयस्य स्वातन्त्र्येण स्वयं पुरुषार्थपर्यवसायितया वेदान्तानां ब्रह्मणि प्रामाण्यसमर्थनेन विशेषविषयेण वैयासिकेन केवलमपवादात् । उत्सर्गापवादभावे च 'आहवनीये जुहोति पदे जुहोति', 'कर्मण्यम्' (३.२. १) 'आतोऽनुपसर्गे कः' (३. २. ३) इत्यादाविव शास्त्रैकत्वाविरोधात् । न च कर्मसु सन्निधानानुपपत्त्यादिना देवतानिराकरणे तात्पर्य एव निरस्तः १. 'वि' ख. पाठः सिद्धान्तसिद्धाञ्जने जैमिनेः, येन देवताभ्युपगमवादेन वैयासिकेन विरुध्येत । अश्रुतवेदान्तानामश्रद्धा कर्मणि मा भूदिति नहिनिन्दान्यायेन कर्मप्राधान्यपरत्वात् तस्यान्वारुह्यवादत्वाद्वा- नित्यसंयोगनिरासेन वेदप्रमाप्ये कर्मावश्यकतायां च तात्पर्यातिशयात् । तथा च यथा marnewala Nonmen wams 'अभीष्टार्थव्ययेनापि जयति क्षेत्रहारिणम् । लब्धक्षेत्रैर्न दुप्पापः स्यादर्थ इति निश्चयात् ॥' तद्वदिह सिद्धे प्रामाण्ये पुनरभिमतसिद्धिः प्रत्यापत्स्यत इति । कथमन्वारुह्यवाद- त्वम् । 'सम्पत्तरिति जैमिनिः--' (ब्र० १.२. ३१) 'अन्यार्थं तु जैमिनिः-' (ब्र० १.४.१८) 'परं जैमिनिः ' (ब० ४.३.१२) 'ब्राह्मण जैमिनिः (ब्र० सू० ४. ४.५) इत्यादौ ब्रह्मस्वरूपगुणोपासनफलाभ्युपगमदर्शनात् । अथापि स्यात् ---- *विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात्' (जैमि ०८. १.३२) इत्यष्टमाधिकरणे ऐन्द्रे पुरोडाशे द्रव्यसामान्यादानेयविध्यन्तः प्राप्नोति, न देवतासामान्यात् सान्नाय्यविध्यन्तः, शब्दोद्देश्यमात्ररूपतया ‘गुणत्वेन देवताश्रुतेः* (जै० ८ १. ३४) इति देवताप्राधान्यनिरसनं यागदेशसन्निधानेन हविर्भोक्तृतया देवताप्राधान्याभ्युपगमेन वैयासिकेन विरुध्यत इति । न । तत्र गुणत्वस्याभ्युञ्चयमात्रत्वात् , द्रव्यस्यापि यागे गुणत्वात् । सूत्रशेषोक्ता तु कर्मण- स्त दुपाख्यत्वादिति मूलयुक्तिः यद्यपि द्रव्यदैवतं. यागस्य रूपमित्युभयोपाख्य कर्म , तथापि कर्मरूपसमवायिनो द्रव्यस्य हविष्ट्दैन शास्त्रगम्यत्वेऽपि स्वरूपेण पुरोडाशादेरविलम्बप्रत्ययतया प्राधान्येन प्रबलतया कर्मणस्तदुपाख्यत्वमुच्यते । देवता तु स्वरूपेणापि विलम्बितशास्त्रगम्येत्यप्राधान्येन दौर्बल्यान्न तया विध्यन्त- नियम इत्ययमों विवक्षितो जैमिनेः । श्रुतिलिङ्गादौ प्रत्यक्षानुमानादौ च प्रबल- दुर्बलभावस्य विलम्बाविलम्बहेतुकत्वान्न देवतानिरासे तात्पर्यम् । 'चोदना पुनरा- रम्भः ' (जैमि० २. १. ५) इति च क्षणिकस्य कर्मणः कालान्तरभाविफलसिद्धि- द्वारमात्रं समर्थ्यते, न तु कर्मफलदातेश्वरो वार्यते । तच्च द्वारमपूर्वसंज्ञितमीश्वर- प्रसाद एवास्तु । न कश्चिद्विरोधः । नन्वेवं जैमिनेरपि सर्वसम्प्रतिपत्तौ ‘धर्म जैमिनिरत एव' (ब्र० सू० ३. १. ....'न्द्र' क...पाठः 'श्रुतिः' इति मुदितजैमिनीयसूत्रपाठः " .. re ------------- धर्मब्रह्मविचारयोरैकशास्थ्यचोद्यम् । ४०) 'स्वर्गकामो यजेते'ति श्रुतेः , अपूर्वद्वारा कालान्तरभाविफलजननोपपत्तेश्च धर्म एव फलदातेति जैमिनिमतमनूद्य 'पूर्वं तु बादरायणो हेतुव्यपदेशात्' (ब्र० ३.२. ४१), 'फलमत उपपत्तेः' (ब्र० ३. २. ३८) इति निर्दिष्टः पूर्वः परमेश्वर एव फलदाता । तस्य धर्माराधितस्य सेवितस्येव राज्ञः फलदत्वोपपत्तेः । अचेतनस्य धर्मस्य चेतनानधिष्ठितस्य तदनुपपत्तेश्च । 'अन्नादो वसुदान' इत्या- दिश्रुतेः। "लभते च ततः कामान् मयैव विहितान् हितान्' H 1 इत्यादिस्मृतेश्च । एष ह्येव साधुकर्म कारयतीति हेतुकर्तृव्यपदेशाचेति दूषणम् । तथा 'शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः' (ब्र० ३.४, २) कर्तुरात्मनः कर्मार्थतया तद्विज्ञानं विषयद्वारा कर्माङ्गं, प्रोक्षणादिवत् , 'ब्रह्मविदामोति परमिति फलश्रुतिरर्थवादः। यथान्येषु प्रयाजादिषु 'वर्म वा एतद्यज्ञस्य क्रियते' इत्यादिरिति तन्मतमनूद्य 'अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्' (ब्र० ३. ४. • ८) कर्तृव्यतिरिक्तस्यापहतपाप्मत्वादिगुणकस्य परमात्मनो वेद्यत्वेनोपदेशाद् एष आ- त्मापहतपात्मे'त्यादिषु तदर्शनाद् विद्या पुरुषार्थसाधनामिति दूषणम् । तथा 'परा- मर्श जैमिनिरचोदना चापवदति हि'। (ब्र० ३. ४.१८) 'त्रयो धर्मस्कन्धा' इत्यादौ ऊर्ध्वरेतसामाश्रमस्य परामर्शमात्रं, न त्वनुष्ठेयत्वं, चोदनाभावात् 'वी- रहा वा एष देवानां योऽग्निमुद्रासयते' इत्याद्यपवादाचेत्यनूद्य 'अनुष्ठेयं बाद- रायणः साम्यश्रुतेः' : (ब्र० ३. ४. १९). अनुष्ठेयम् आश्रमान्तरं गार्हस्थ्यवत् तेन सह परामर्शसाम्यादित्यादिदूषणम् । इत्येवंजातीयकमनुपपन्नमिति चेत् । उच्यते। विपक्षनिरासार्थत्वेन सर्वोऽयमन्वारुह्यवादो जैमिनरुपन्यस्य निर- स्यते । कथमन्वारुह्यवादत्वं, ब्रह्मतदुपासनतत्फलाभ्युपगमस्यात्रैव दर्शितत्वात् । तद्भू- तस्य तु नातद्भावो जैमिनेरपि-' (ब्र० ३. ४. ४०) इति नैष्ठिकाद्याश्रमभ्रंशस्य जैमिनेरनभिमतत्वोपन्यासेनाश्रमान्तरानुष्ठानाभ्युपगमसूचनाच्च । अन्यथा कस्य भ्रंशोऽनभिमतः स्यात् । अपि च ब्रह्मण आश्रमान्तरस्य वा निरसनीयत्वे तस्य द्वादशलक्षण्यामसूत्रयिष्यत । तत्रासूत्रितम् । अपि तु धर्मसिद्धौ यतमानस्याभ्यु- च्चितमजानन्तस्तदेव तत्त्वं मा भौत्सुरित्यौडलोम्यादिमतवदुपन्यस्य निस्स्थत इत्यदोषः । 'भावं जैमिनिः---' (ब्र० ४. ४. ११) इति मुक्तस्य देहेन्द्रिया- ३८ सिद्धान्तसिद्धाञ्जने दिभावोपगमो जैमिनेर्बादरायणस्यापीति नात्र विरोधः । तस्माद् 'अथातो धर्मजि- ज्ञासा' (जै० १.१. १) इत्यादि 'अनावृत्तिः शब्दात्' (ब० ४. ४. २२) इत्येव मन्तमेकं शास्त्रम् । तच्च व्याख्येयपाठक्रमादिना सङ्गतिविशेषेण च विशिष्टक्रम- मिति धर्मजिज्ञासानन्तरमेव ब्रह्मजिज्ञासारब्धव्यति ।। . + धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । अत्राभिधीयते । यत्तावत् साधकमुक्तं वेदरूपैकग्रन्थव्याख्यानत्वादेकं शास्त्रं धर्मब्रह्मजिज्ञासे इति । तत्र न तावदेकप्रतिपाद्यत्वं साध्यं , बाधात् । 'अथातो धर्मजिज्ञासा'. 'अथातो ब्रह्मजिज्ञासेति व्याख्येयवेदप्रतिपाद्यार्थभे- दोपक्षेपेण प्रतिज्ञाभेदात् । यत्तु शास्त्रयोरेंकदेशालम्बनत्वमुक्तं प्राचीनैः, का- र्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च न वस्तुतत्त्वनिष्ठः, वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्यादि । न तदितरेतरत्रे- तरेतरस्याविचार्यत्वाभिप्रायम् । अक्रियार्थाविशेषप्रवृत्तार्थवादनयविरोधात् । सर्वा- पेक्षासूत्रविरोधाच्च । प्रतिपाद्यार्थप्रतिपादनप्रवृत्तिमुखभेदेनोभयत्र सकलवेद- विचारेऽपि भागशब्दोपादानाविरोधाच्च । यदपि वेदस्यार्थविवक्षामुक्त्वा धर्म- ग्रहणं कुर्वतो जैमिनेरभिप्रायवर्णनं धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, स च पर्युदस्तो जैमिनिना न्यायान्तरविषयत्वादिति गम्यत इति । तदपि परप्रत्ययनेयमत्युपच्छन्दनमात्रम् । अन्यथा समन्वयाधिकरणविरोधात् । जैमि- नेरपि सिद्धरूपवेदार्थाभ्युपगमे तन्मते 'आम्नायस्य क्रियार्थत्वात् -' (जैमि० १. २.१) इति वेदस्य कार्यार्थतया ब्रह्मप्रमाणत्वाभावेन तत्पूर्वपक्षानुपपत्तेः । ननु 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति', ' सर्वे वेदा यत् पदमामनन्ति', विष्णुनामा स वेदेषु वेदान्तेषु च गीयते' इत्यादौ कर्मणामन्यार्थत्वं ब्रह्मणः स्वप्राधान्येन सर्ववेदप्रतिपाद्यत्वं चावगम्यत इति चेत् । सत्यमवगम्यते बादरा- यणस्य, न तु जैमिनेः । अक्रियार्थानामन्तरेण विधिशेषत्वं प्रामाण्यानभ्युपग- १. 'क्त्वा प्र' ख. पाळ:.
# ५० धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । मात् । एतेन कादिप्रतिपादनद्वारोपनिषदां नैराकाङ्क्षयं व्याख्यातमिति तन्त्रवा- तिककृता अर्थवादन्यायातिदेशात् । * एतेन प्रतिज्ञाभेदो भागद्वयासाधारणार्थविषय इति प्रत्युक्तम् । साधारणा- र्थप्रतिज्ञाभावे तदसिद्धेश्च । प्रतिज्ञाभेदस्य व्यवस्थितैकदेशार्थविषयत्वाज्ञाने ताद- र्थिकत्वानुपपत्तेश्च । साधर्म्यवैधर्म्यसमोद्देशे च युक्तं तदनुगतप्रतिधर्मसमोद्देश आक्षिप्यत इति । यदि हि साधर्म्यवैधोत्कर्षापकर्ष--' (न्यायदर्श० अ० ५. आ० १. सू०१) इत्यादिना जातिभेदानुद्दिश्य "साधयवैधाभ्यां साध्योपसंहारे तद्विपर्ययोपपत्तेः साधर्म्यवैधय॑समौ' (न्यायदर्श० अ० ५. आ० १. सू० २) इति लक्षितौ प्रतिधर्मावान्तरभेदौ न स्यातां, तार्ह शब्दोऽनित्यः कृतकत्वाद् घटबद्, व्यतिरेकेण व्योमवदिति वा साध्योपसंहार कृते घटवैधयेणाकाशसाधर्म्यण वा- मूतत्वेन नित्यः स किं न स्यादिति प्रतिवादिनः साध्यविपर्ययार्थ युक्तव्याप्त्याद्य- गमनुपेत्य प्रत्यवस्थानमिव तत्रैव प्रत्यक्षादिना तथा प्रत्यवस्थानं जातिन स्यात् । तच्चायुक्तम् । जाति म स्थापनाहेतोः प्रतिषेधासमर्थो हेतुः । “असदुत्तरं जाति- रित्याद्यभियुक्तोक्तसामान्यलक्षणक्रोडीकारात् । जात्यन्तरानन्तर्भावाच्च प्रतिधर्म- समायामनभ्युपेतयुक्ताङ्गसाधनेन प्रत्यवस्थानमिति लक्षितायां तत् सङ्गृह्येत, सूत्रे च विभागोपादानस्य सर्वजातीनामवान्तरभेदसद्भावप्रदर्शनफलत्वात् । न चैवमिह साधारणप्रतिज्ञाक्षेपकारणमस्ति । प्रस्थानभेदेनापि प्रतिज्ञाभेदोपपत्तेः । न च ब्रह्मजिज्ञासेति साधरणप्रतिज्ञा जैमिनेरिष्टा । कृत्स्नाम्नायस्वापि धर्मेकाोपगमात् । तथा च शबरस्वामी --- 'दृष्टो हि तस्यार्थः कर्माववोधनं नामेति । न च बाद- रायणस्य तदैकशास्त्र्यमुपगन्तुं युक्तम् । अतदर्थतया कुप्तमपि योग्यमपेक्षितं ताद- र्थ्यमहति । ग्रामे कल्प्ये पूर्व तटागवदिति न्यायादिति वाच्यम् । विरोधात् । जैमिनीयधर्मविचारे प्रवृत्तस्योपनिषदामपि कमैकपरत्वावबोधनेन तत्रैव निरूढा- -- १. 'कार्थ' ख. पाठः. Animate-uAnsum HAMNAALHER Mhrama से 'साधर्म्यवेधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधय॑समौ' इति मुद्रित- न्यायदर्शनपाठः, सिद्धान्तसिद्धाञ्जने --- भिनिवेशस्य .. ब्रह्मविचारांप्रवृत्तेः, वरघाताय कन्योद्वाहनन्यायापातात्.। एतेनात्रैव सङ्गतोऽपि धर्मविचारः पृथक् क्रियते, बाहुल्यादिति प्रत्युक्तम् । जैमिनीयविचा- रस्य विरोधेनानपेक्ष्यत्वात् । “उपजीव्योऽपि विटपी विरोधी वास्तुकर्मणि । अनपेक्ष्यो यथा तद्वदुद्देश्यपरिपन्थि यत् ॥" इति न्यायात् । न चेह सङ्गतिरपि धर्मविचारस्य । प्राचीनकर्मभिरेव विशुद्धसत्त्वस्य प्रत्रजितस्य ब्रह्मविचारप्रवृत्तस्य तद्विचारप्रयोजनाभावात् । न च 'सर्वापेक्षा च यज्ञा- दिश्रुतेरश्ववत्' (ब्र० ३. ४. २६) इति तातीयन्यायस्य विद्यामनुतिष्ठता कर्माणि शमादिवदनुष्ठयानीति विवक्षितोऽर्थः, येन तद्विचार इह समगंस्थत । अग्रे विद्या- कर्मसमुच्चयस्य निरसिष्यमाणत्वात् । 'शास्त्रयोनित्वात्' (ब्र० १.१.३) इत्य- विशेषादशेषशास्त्रप्रमाणकत्वे ब्रह्मणो निरूपिते सर्वस्य शास्त्रस्य क्रियानिष्ठत्वन्या- येन तदाक्षिप्य सिद्धेऽपि ब्रह्माणि प्रामाण्यमात्रमुपपादितं समन्वयाधिकरणे न कृत्स्न- स्येति कर्मणां तादोपादानेन क्रियाभागस्यापि ब्रह्मपरत्वप्रतिपादनाभिप्रायत्वोप- पत्तेश्च । किन्तु तत्रैव सङ्गतावपीहाभिधीयते कर्मणां साधनांशनिवेशादिति । यत्तु 'अथातो धर्मजिज्ञासेत्येवालौकिकश्रेयस्साधानतारूपण. साधारणविचारप्रतिज्ञेति । तन्न । जैमिनेः प्रतिज्ञातब्रह्मविचाराकरणायोगात् । न च तस्य. विघ्नो विस्मरणं वा । द्वादशलक्षणीलक्षितन्यायाविषयमवशेषितं. सङ्कर्षे विचारयतो महर्षेस्तदयो- गात् । न च तुल्यन्यायतया तदकरणं, बादरायणस्यापि तदनारम्भप्रसङ्गात् कृत- करणानर्थक्यात् । न चान्येन करिष्यत इत्युपेक्षा युक्ता । अपि च न धर्मशब्दः सिद्धसाध्यसाधारणालौकिकलौकिकश्रेयस्साधनतैकशक्तिकः । धर्म जैमिनिरत एव' (ब्र०..३.२.४०) इति जैमिनिमतेन ब्रह्मप्रतिद्वन्द्वितया धर्मशब्दप्रयोगात् । आप- स्तम्बस्य च 'यत्त्वार्याः क्रियमाणं प्रशंसन्ति, स.धर्म' इति क्रियायामेवालौकिकश्रे- यस्साधने धर्मशब्दप्रयोगात् । द्रव्यक्रियागुणादीनामपि क्रियारूपाविष्टानामेव धर्म- शब्दाभिधेयत्वात् । श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात् तेष्वेव धर्मता ।। ||" 'तोऽपि' ख. पाठः धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । ४१ इति श्रेयस्साधनत्वचोदनालक्षणत्वयोः सिद्धरूपेणानुपपत्तेः । 'भावार्थाः कर्मशब्दा- स्तेभ्यः क्रिया प्रतीयेत' (जै० २. १. १) इति भावार्थस्यैव विधेयत्वोपगमात् । अविधेयस्य च धर्मत्वे 'चोदनालक्षणोऽर्थो धर्मः' (जै० १. १. २) इति सूत्र- विरोधात् । " साध्यवराहते चेष्टाविधेये नित्यमर्थता" इति भट्टवचनस्य च क्रियावत् स्वरूपेण साध्यत्वस्यावर्जनीयत्वात् । विधेयतायां क्रियानुप्रवेशेन साध्यत्वस्यावर्जनीयत्वात् । 'अन्यत्र धर्माद्' इति ब्रह्मणो धर्म- शब्दार्थादन्यत्वश्रवणाच । श्रेयस्साधनतयैव कर्तृकालादेरपि धर्मत्वप्रसङ्गाच्च । अलौकिकश्रेयोसाधारणसाधनत्वस्य च ब्रह्मण्यसम्भवात् । 'कृष्णं धर्म सनातनम्' इति च धर्माराध्यत्वात् तत्फलदानेन जगद्धारणयोगाद् धर्मसंस्थापनाञ्च श्रीकृष्णस्य धर्मतया स्तुत्युपपत्तेः । अपि च त्वन्मते सर्वशब्दवाच्यत्वाङ्गीकारेणोत्कर्षविशेषशा- लिधर्मशब्दनिर्देश्यत्वोपपत्तेब्रह्मणि धर्मशब्दवृत्तौ न क्रियाधर्मप्रसिद्धिविरोधेन यत्ना- न्तरमनुसरणीयम् । अपि चैवम् 'अथातो धर्मजिज्ञासे त्येव सिद्धे पुनः 'अथातो ब्रह्मजिज्ञासे'ति प्रतिज्ञावैयर्थ्यम् । अलौकिकश्रेयस्साधनतैकरूपप्रतिज्ञायामप्यर्थविशेषप्रतिज्ञाप्रतिपा- दनौपयिकीति चेद् , न । धर्मे तदभावेन वैरूप्यकल्पनापत्तेः । साध्यधर्मे धर्मश- ब्दप्राचुर्यात् तस्य बुद्धिस्थत्वे च स एव मुख्योऽर्थोऽन्यो गौण इति न युगपदुभय. ग्रहणं, युगपद् वृत्तिद्वयविरोधात् । अन्यथा 'अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्-' (जै० ९. १. ३६) इति मन्त्राणां प्रथमप्रत्याय्यमुख्यार्थविनियोगन्या- यविरोधात् । मुख्यगौणयोरुभयोरपि तुल्योपस्थितिप्रसङ्गात् । उभयविशेषलक्षणायां चोक्तदोषानतिवृत्तेः । एतेन तन्त्रतापि निरस्ता । अलौकिकश्रेयस्साधनतासामान्य- शक्तस्य क्रियारूपविशेष लक्षणावश्यम्भावेन वृत्तिद्वयविरोधस्य तन्त्रतोक्तिमात्रेणा- परिहरणीयत्वात् । अथावृत्तिः सूत्रस्य, तत्कल्पना तावदेको दोषः । अपि च आवृ. तावपि स एवायं धर्मशब्द इति कथमर्थविशेषलाभः । लक्षणसूत्रसमभिन्याहारा- दिति चेत् । तर्हि प्रसिद्धिप्राचुर्याल्लक्षणसूत्रसमभिव्याहाराच्च प्रथममेव क्रियाधर्मप्र. तीतौ कुतः साधारणप्रतिज्ञा । सूत्रस्यान्यतः साधारणप्रतिज्ञार्थत्वासिद्धावावृत्त्यसि. द्वेः । आवृत्तस्यैव लक्षणसूत्रसमभिव्याहार इति नियन्तुमशक्यत्वात् । तस्माद् नैकप्रतिपाद्यकत्वमैकशास्त्र्यं साध्यम् । स्वतन्त्रभिन्नार्थविषयप्रतिज्ञाभेदबाधात् । नाप्येकप्रयोजनकत्वं, बाधादेव । बादरायणमते वेदस्य ब्रह्मैदम्पर्येण क- .. G . . ४२ सिद्धान्तसिद्धाञ्जने मणामपि तादर्थ्यान्निःश्रेयसैकफलत्वेऽपि जैमिनेः स्वप्रधानानामेव कर्मणामभ्युदयफ- लत्वोपगमात् । अत एव नैकपुरुषानुष्ठेयत्वं साध्यं, राजसूयबृहस्पतिसवादिव. दितरेतरासम्भिन्नाधिकारिकर्तृकत्वात् । शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावा- च । एकग्रन्थव्याख्यानत्वं चैकशास्त्र्येऽप्रयोजकं बहुलमर्थविरोधात् । विध्येक- वाक्यतया क्रियार्थवादप्रामाण्यसमर्थनस्य वेदान्तसाधारणत्वात् । ननु तदुत्सृष्टं जैमिनिना सिद्धे वेदान्तप्रामाण्यसमर्थनेन केवलमपोद्यते । तथा च टीकायाम् ' अथातो धर्मजिज्ञासे 'ति धर्मोपाधौ तदीयविचारप्रवृत्तिमा- दाक्रियार्थानर्थक्यचोद्यसमाधाने कर्मकाण्डीयविषयतया व्यवस्थापिते । न चा- र्थवादादेरेव प्रामाण्याङ्गीकारानङ्गीकाराभ्यामर्थविरोधः । सिद्धे मानान्तरेण विरुद्धे वा सिद्धान्तिनोऽपि तदनङ्गीकारात् । अतादृशे च बोधकतामात्रस्य परेणापि स्वी- कारात् । अत एव ‘स प्रजापतिरि' त्यादौ मानान्तराविरुद्धार्थोपपादनं 'नित्यः कश्चिदर्थः स्याद् , आकाशो वायुर्वा प्रजापतिरि' त्यादि शाबरं दृश्यते । अन्यथा य- थातथापि स्तुतिनिन्दोपलक्षणसम्भवेन तदानर्थक्यात् । प्रयोजनपर्यन्तता चार्थवा- दादेविधिशेषतयैवेति न विवादः । तस्मादुत्सर्गापवादो नैकशास्त्र्यविरोधीति । उच्यते । नात्रोत्सर्गापवादः, तुल्यविषयविरोधात् । एतेनोपनिषदामि'- त्यादिवार्तिकस्य सूत्रतात्पर्यनिरूपणायां च जैमिनिमतं हीदं चोदनालक्षणोऽर्थ एव वेदप्रतिपाद्य इति , चोदनेति क्रियायाः प्रवर्तकं वचनं, तमाशङ्कय सिद्धवस्तु वेदप्रतिपाद्यमिति सूत्रकारैः साधयितुं युज्यत इति स्ववचनस्य च कर्मविधिशेषतयोपा. सनविधिशेषतया वा वेदान्तानामपिप्रामाण्यं, न स्वत इति जैमिनेर्मतमित्येवमर्थकत्वे तेषामेव सिद्धान्तेऽनन्यशेषतया प्रामाण्याङ्गीकारात् । अक्रियार्थानर्थक्यचोद्यादेरर्थ- विशेषव्यवस्था च न जैमिनेरेषोऽभिप्राय" इति किं तर्हि यद्यक्रियार्थानामर्थवत्त्वाय विध्येकवाक्यता , न सा वेदान्तानां , स्वार्थवृत्त्यैवार्थवत्त्वादिति जैमिनिसिद्धान्त- सकलाक्रियार्थविध्येकवाक्यत्वभङ्गेनांशाभ्युपगममात्रम् । अत्र साक्षितया नदीयध- मजिज्ञासोपक्रमोपन्यासस्तु परप्रत्ययनेयमत्युपच्छन्दनमित्युक्तम् । धर्मजिज्ञासेत्यार- भ्य वेदान्तानां विधिशेषत्वाभिधाने विरोधोद्धाटनं वा । सकलाम्नायस्य धर्मैकार्थ- ताया दूष्यत्वात् । वेदान्तानामुपासनाविधिनिष्ठत्वस्यापि निराकार्यत्वात् । न चा- क्रियार्थानर्थक्याप्रामाण्यचोद्यसाधारण्येऽपि विधिशेषतया तत्समाधानमर्थवादादि- मात्रविषयम् । वेदान्तानां स्वत एव पुरुषार्थतया प्रामाण्यप्रकारोपपादनं तु न कृ- तमभिसन्धिनिगृहनार्थमिति वाच्यम् । येन विध्यर्थवादमन्त्रनामधेयविभागस्य वेद- + , धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । स्य सर्वप्रकार प्रामाण्यं व्युत्पाद्य स्मृत्याचारयोरपि व्युदपादि, स खल्वक्रियार्था- नामविशेषेणानर्थक्यादप्रामाण्यचोद्यमुद्भाव्य कचिदेव समाधायान्यत्राभिसन्धि निगू- हत इत्यसारोप्रेक्षणस्यायुष्मतो मतिमान्द्यनिमित्तत्वात् । कुतश्च जैमिनेरुपनिषद- प्रामाण्यचोद्यसमाधानाभिसन्धिनिगृहनमुत्प्रेक्ष्यते । तद्विषयसूत्राभावादिति चेत् । नन्वर्थवादविषयमेव सूत्रं विधिना त्वेकवाक्यत्वात् --' (जै० १. २. ७) इति । अविधिशेषतया प्रामाण्योपपादकं नास्तीति चेत् । तत एव विधिशेषतया तत्प्रा- माण्यं जैमिन्युपज्ञमिति ब्रूमः । अविधिशेषतया सदपि प्रामाण्यं नोपपादयति , व्युत्पाद्यधर्मोपमर्दभयादिति चेत् । ननु कुतस्त्यमुपमर्दभयं तव कर्मसमुच्चयमिच्छतः । अपि च पूर्णाहुत्या सर्वकामावाप्तिफलस्य गर्गत्रिरात्रब्राह्मणविद्यया मुख- शोभाफलस्य च 'अन्यानर्थक्यात्' (जै० १. २. ४) 'तथा फलाभावात्' (जै० १. २. ३) इतीतरकर्मानर्थक्यमनुपलम्भबाधं च दोषमभिधाय समादधे 'सर्वत्वमाधिकारिकम्' (जै० १. २. १६) 'विद्याप्रशंसा' (जै० १. २. १५) इति । तच्च समानं वेदान्तेषु । 'सर्वांश्च लोकानामोति, सर्वांश्च कामान् इति प्रजापतिविद्ययैव सर्वलोककामावाप्तौ 'तेषां सर्वेषु लोकेषु कामचारो भवतीति तदूनफलदहराद्युपासनानर्थक्यात् । यद्यपि सर्वकर्मापेक्षितामिसंस्का- रतया पूर्णाहुतेरवश्यापेक्ष्यायाः सर्वकर्मावाप्तिफलत्वे स्यादन्यानर्थक्यं, नेतरे- तरनिरपेक्षासु विद्यासु । तथाप्यल्पगुणविषयत्वादल्पया प्रजापतिविद्यया तावति फले तदेकदेशफलस्य बहुगुणविषयत्वाद् महतो विद्यान्तरस्यानर्थक्यमेव । अमि- होत्रेणाल्पेन स्वर्गावाप्तावग्निष्टोमाद्यानर्थक्यस्याप्यन्यानर्थक्यन्यायविषयत्वात् । 'फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यात्' (जै० १. २. १७) इति कृषिन्यायेन कर्मतारतम्येन फलतारतम्यकल्पनया तस्यापि समा- धानात् । तथा ज्योतिर्विद्यायां तदेतद् दृष्टं च श्रुतं चेत्युपासीत, चक्षुष्यः श्रुतो भवतीति वर्तमाननिर्दिष्टसुन्दरत्वयशस्वित्वफलानुपलम्भाच्च। तत्र तदन्यान- र्थक्यसमाधानं यदि वेदान्तेषु नानुगम्येत 'विकल्पोऽविशिष्टफलत्वात्' (ब० ३, ३. ५९) इति न्यायात् । न तावता तत्राभिसन्धिनिगृहनं जैमिनेरयुक्तिकमायि- तव्यम् । सर्वथैवात्मविद्यायाः काङ्गतोपगमादपापश्लोकश्रवणवदविवक्षितार्थानि फलवचनानि प्रशंसामात्रमिति तदभिप्रायोपपत्तेः । तदिदं रात्रिसत्रन्यायेन तत्फ- लविधिपरत्वाङ्गीकारप्रवृत्तवैयासिकदर्शनेन विरुद्धम् ॥ , .... + सिद्धान्तसिद्धाञ्जने न च देवतानिरासो जैमिनेरतात्पर्यादन्वारुह्यवादत्वाद्वा तदभ्युगमेन न वि- रोध इति युक्तम् । देवताधिकरणे देवतादिषु-मन्त्रादिप्रामाण्यनिरासेन शब्दातिरि- क्तदेवता नभ्युपगमे तात्पर्यावगमात् । अहृदयवादफलाभावाच्च । देवतातत्प्राधा- न्याभ्युपमेऽपि तदाराधनात्मसु कर्मसु श्रद्धाविच्छेदाप्रसङ्गाद्, "वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥" इति निषेधेन प्रकारान्तराप्रसक्तेः । ऐन्द्र आग्नेय इत्याचाराध्याराधननिब- न्धनाच्च विग्रहवत्त्वे देवतानाम् ऋत्विजामिव सन्निधाय हविरस्वीकरणे कर्मलोपभि- या तदनादरप्रसङ्गस्यापि तदन्तर्धानादिशक्तिकल्पनया केवलमुद्देश्यत्वेन सन्निधा- नानपेक्षया वा सुपरिहरत्वात् । स्थानाधुपाधिकस्य कस्यापि नित्यार्थस्य सम्भवेन तादर्से सत्यनित्यसंयोगानवकाशाच्च । १ एतेन कर्मणां देवताप्रीत्यर्थत्वे फलदानात् प्रागपि तत्प्रीणितदेवतानाश- सम्भावनया फलालाभशङ्कया. कर्मण्यश्रद्धा स्यात् । श्रुतवेदान्तानां तु तत्तद्देव. तान्तर्यामी सकलकर्माराध्यो निखिलकल्पानुयायी फलदातेत्याश्वासोपपत्तिरिति प्रत्युक्तम् । देवतावादिवेदस्य कथमप्यनित्यसंयोगापरिहारात् । अश्रुतवेदान्ताना- मपि नरपत्युत्तमर्णन्यायेन फलसिद्ध्याश्वासोपपत्तेः । यथा तत्स्थानस्थोऽन्योऽपि ऋणं दायीति विस्रम्भान्नरपतेरुत्तमो भवति, एवं कल्पान्तरेऽप्यद्यतनेन्द्रवाय्वा- दिस्थानाधिकृतेन्द्रवाय्वादिदेवता कर्मफलं दास्यति, तस्याः समस्ततत्कार्यकारि- स्वादिति विश्वासाच् श्रद्दधानः कर्मणा तद्देवतानामाराधको भविष्यतीति कुतः कर्मण्यश्रद्धासम्भावनापि । अथवा कर्माराध्यां देवतां व्युत्पादयता जैमिनिना इयदिदमपि व्युत्पाद्यतां सर्वदेवतान्तर्वामीश्वरो नित्यः फलदातेति । एवं- कारमपि कर्मण्यश्रद्धा परिहरिष्यते । न त्वनभिमतदेवतानिरासः । तथा च गीतासु- 'यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ . भा १. 'प्रणीत', २. 'काया: क' कः पाठः, धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । . स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान् हितान् ॥" इति । वस्तुतस्तु अतिथिप्रीत्यर्थे कर्मण्यातिथ्ये कथमश्रद्धा परिहरणीया जैमिनिना । 'अतिथौ तत्प्रधानत्वं तस्य प्रीतिविधानत्वाद्' इति हि सूत्रम् । अथ तत्रातिथिप्रीत्यन्तमनुष्ठितं कर्मैव फलदमिति श्रद्धाप्येत , अन्यत्रापि देवताप्रीत्य- न्तमनुष्ठितं तथेति श्रद्धाप्यतां , मा भूदतिथिवद् देवता फलदेति । इयांस्तु विशेषः - एवं कृतेऽतिथिः प्रियते इति प्रत्यक्षतोऽवगम्यते । शास्त्रेण तु देव- तेत्यवगमनीयमिति । , . अपि च देवतानिरासाधीनायामानायप्रामाण्यादिसिद्धौ पुनस्तत्सिद्ध्युपा- याभावेन तदभ्युपगमबाधः । न चात्र क्षेत्रजयन्यायः । तत्रेष्टार्थव्ययविजित- क्षेत्रद्वारार्थान्तरप्राप्तेरविरोधात् । प्रकृते च प्रामाण्यसिद्ध्यर्थमेव निरस्ताया देव- तायाः पुनरङ्गीकारे तन्निरासैकजीविततसिद्धिविघातात् । आष्टमिकाधिकरणे च देवताराधनरूपत्वात् कर्मणां फलदात्री देवता प्रधानमिति तत्सामान्यमेव विध्य- न्तनियमे हविस्सामान्याद् बलीय इति प्राप्ते 'गुणत्वेन देवताश्रुतिः' (जै० ८. १. ३४) इति नाभ्युच्चयमात्रं , गुणत्वस्य द्रव्यसाधारण्येऽपि शब्दोद्देश्य(त्व)- मात्रेण रूपेण गुणत्वमिति विशेषविवक्षया गुणत्वमित्यनुक्त्वा 'गुणत्वेन देवता- श्रुतिरिति सूत्रणात् । नावमिकाधिकरणे च देवताप्राधान्यनिरासाद् 'देवता वा प्रयोजयेदतिथिवद् भोजनस्य तदर्थत्वात्' (जै० ९. १. ६) इति देवताप्रा- धान्यं पूर्वपक्षयित्वा 'अपि वा शब्दपूर्वत्वाद् यज्ञकर्म प्रधानं स्याद् *गुणत्वेन देवताश्रुतिः' (जै० ९. १.९) इति कर्मप्राधान्य सिद्धान्तमभिधाय अतिथौ तत्प्रधान त्वमभावः कर्मणि स्यात् तस्य प्रीतिविधानत्वात्' (जै० ९.१.१०) इत्यतिथिप्री- तिपर्यन्ततयातिथ्यविधिवद् देवताप्रीत्यर्थतया कर्मविधानाभावान्न देवताप्राधान्यमि- त्यभिधानात् , अभ्यासे च तात्पर्यावगमात् । अत एव विग्रहवच्चेतनदेवतानि- रासो जैमिनेरार्थिको विवक्षितः, शब्दमात्रोद्देश्यमानतया देवतायाः प्राधान्यनि- रासाभिप्रायत्वात् । यत्त्वत्र यज्ञकर्मप्राधान्यमङ्गग्राहकतयोच्यते फलसाधनतया च । सिद्धान्तेऽपि देवताप्राधान्ये कर्मणो वैधफलसाधनताहानापत्तेः । तस्य . 1 - 'गुणत्वे दे', 'प्रीतिप्रधानत्वात्' इति मुद्रितजैमिनीयसूत्रपाठः ।
. . M सिद्धान्तसिद्धाञ्जने प्रीतिविधानत्वादित्यपि न यागस्य देवताप्रीत्यर्थाभावादातिथ्यवैषम्यमुच्यते । कि तर्हि येन यावता द्रव्येणातिथिः प्रियते, तेन तावता स पूजनीय इत्यातिथ्यस्य प्रीतिविधानत्वम् । नैवं यागस्य । आज्यचरुपुरोडाशादिभिरेव चतुर्ग्रहीतद्विरवत्त- परिमितैरेव विधितो देवताप्रीतेरिष्टत्वात् । तस्माद् न देवतानिरासाभिप्रायो जैमि- नेरिति । तन्न । देवताप्रीत्यर्थत्वे यागस्य तदुद्देश्यत्वाम्नानावगतेऽङ्गवैकल्ये तद- सिद्ध्योद्देश्यसिद्धयर्थस्य तत्प्रयुक्तत्वाद् देवताया अपि तत्प्रयोजकत्वलक्षणाङ्ग- ग्राहकत्वावश्यम्भावात् । कर्मणि वैधफलसाधनताप्रतिपत्त्यनुबन्धित्वेऽपि फलवद् देवतायाः कर्माराध्यतया प्राधान्योपगमात् । अन्यथा ‘फलमत उपपत्तेः' (ब्र० ३. २. ३८) इति न्यायविरोधात् । राजानमुपास्स्वेतिवदमुं यजामुं य. जेति विधेरिष्टदेवता कर्मणैव फलसाधनीत्यभिप्रायावगमाच्च । प्रीतिविधानत्वमपि यागस्य सिद्धान्ते न निवार्यम् । यागस्य देवपूजात्मकत्वात् । 'आहुत्यैव देव- ता हुतादः प्रीणाती'त्यर्थवादाच्च । इयांस्तु विशेषः - अतिथिप्रीत्यर्थ द्रव्यं लोकतोऽवगम्यते , देवताप्रीत्यर्थ तु विधित इति, न चैतावता प्राधान्यं हीयत इति । अत एवापूर्वाधिकरणविरोधसमाधानमपि निरस्तम् । यत्तु 'मध्वादिष्वसम्भवादनधिकार जैमिनिः' (ब्र० १. ३. ३१) इत्य- धिकारनिरासाद् देवतायाः सद्भावो जैमिनेः सूच्यत इति । तद् ‘ज्योतिषि भावाच' (ब्र० १. ३. ३२) इत्युत्तरसूत्रपालोचनविधुरस्य प्रलापः । यत्तु ज्योतिषि ब्रह्मणि अधिकारस्य भावाद् मध्वादिष्वनधिकारो देवानाम् । देवमनु- प्यादिसाधारणे ब्रह्मोपासने 'तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतमिति देवानामुपासकत्ववचनस्यान्योपासनानिवृत्तिपरत्वादिति । तन्न । ज्योतिष्येव भावा- दिति हि तदा सून्येत । अन्यथा तादर्थ्यानभिव्यक्तेः । अपि च नेदं देवानां ब्रह्मोपासनाधिकारविधिपरम् , अफलत्वाद् , अर्थित्वादेरपर्युदासाच्च स्वत एव भावात् । बृहस्पतिसवादावब्राह्मणादेरिवादेवस्थानधिकारपरत्वायोगाच । ब्रह्म- प्रतिपादनपरं त्विदं 'तद् ब्रह्म, यद्देवा उपासत इति मनुष्या उपासीरन्नि'ति । तत्र निर्निबन्धननियमानुबन्धेनान्योपासनानिवृत्तिपरत्वकल्पनममूलम् । अन्यथा 'ब्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्त' इति दर्शनाद् मनुष्याणामप्य- - , १. 'दप' क. पाठः, . । धर्मब्रह्मजिज्ञासयोभिन्नशास्त्रत्वम् । न्योपासनानिवृत्तिप्रसङ्गात् । अपि च वाक्यादस्मादेव देवानां ब्रह्मोपासनाधिकारे प्रतिपत्तव्ये तदन्योपासनाधिकाराभावे च वाक्यावृत्तिगौरवमापद्येत । न चार्थि. त्वसामर्थ्यादिन्यायादेव तदधिकारसिद्धिः । देवानामर्थित्वादिसिद्धेरेवमादिवाद- मूलत्वात् । अपि च यत् तदवस्थब्रह्मोपासनं शास्त्रे विहितं, तत्र सर्वत्रैव देवानामधिकारे 'तदुपर्यपि बादरायणः सम्भवात् ' (ब० १. ३. २६) इत्येव सिद्धे किं मध्वादिष्वसम्भवादनधिकारं जैमिनिः' (ब्र० १. ३. ३१) इत्यधिकरणारम्भेण । यत्तद्विधासम्भवचोद्यस्य सर्वस्यैवाविशेषोपात्तसम्भवन्याया- पनेयत्वात् । न च अत्र मधुवाक्यस्य ब्रह्मोपासनपरत्वं प्रतिपाद्यते, ‘य एतामेवं ब्रह्मोपनिषदं वेदे'त्युपसंहारदर्शनात् । यथाह वृत्तिकारः --- 'अस्ति हि मध्वादि- षु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वादि'तीति वाच्यम् । अधिकारचिन्ता- सङ्गतिप्रसङ्गात् । न चेह ब्रह्मोपासनपरत्वे कश्चिन्यायः सूत्रकृता सूच्यते । ब्रह्मो- पनिषदमित्युपसंहारस्य 'तद्धैतद् ब्रह्मा प्रजापतय उवाचे ति ब्रह्मप्रवचननिमित्त- समाख्यामात्रविषयत्वेऽप्युपपत्तेः । 'सूर्य आत्मा जगतस्तस्थुषश्चे' त्यादित्योपास- नस्यापि ब्रह्मोपनिषत्त्वोपपत्तेश्च । तस्माद् वस्वादिव्यामिश्रासूपासनास्वधिकारा- सम्भवान्न ब्रह्मविद्याधिकार इत्यभ्युचितवादहानेन भूतमये ज्योतिषि भावाचादि- त्यादिशब्दानामर्थित्वादेरसम्भवादनधिकारो देवानामिति स्वाभिसन्धिसारेण मन्त्रा- दिप्रामाण्याक्षेपेण प्रत्यवतिष्ठते जैमिनिरित्येव युक्तम् । यद्यपि सम्भवादित्येवास- म्भवशङ्का यावती समाधेया गम्यते, तथापि मन्त्रादिप्रामाण्योपक्षेपेण देवाना- मधिकारः सम्भाव्यते । तत्र व्यतिरेकानुपलब्ध्यभावं यौक्तिकमाशङ्कय विरोधः कर्मणीति चेन्न- 'शब्द इति चेन्न-' (ब० १. ३. २७,२८) इति परिहते, पुनः 'ज्योतिषि भावाच्च' (ब० १, ३. ३२) इति प्रत्यक्षतो व्यति- रेकादप्रामाण्यमाशङ्कय तत्समाधानेन स एव सम्भवः समर्थ्यते, भावं तु देवाना- मधिकारस्य ब्रह्मविद्यायां बादरायणो मन्यते, सम्भवादेव । अस्ति हि मन्त्रादि- प्रामाण्यम् । न हि ज्योतिषि व्यपदेशो मन्त्रादिप्रतिपन्नचेतनदेवतात्मतामपवदति, 'ब्राह्मणो यजेते'त्यादिष्वपि प्रसङ्गादिति न्याय्यतरम् । 'फलमत उपपत्तेः। (ब्र० ३. २, ३८) 'पुरुषार्थोऽतश्शब्दाद् (ब्र० ३. ४. १) इत्यादी स्वमतोपक्षेपं परमतमाशङ्कय समाधानेन तथा सूत्रकारोलीविज्ञानात् । यत्तु 'य एतामेवं ब्रह्मोपनिषदं वेदेति ब्रह्मविद्यात्वश्रवणाद् वस्वादीनामुपास्यत्वप्रतिपत्तेश्व स .
१८ सिद्धान्तसिद्धाञ्जने संशये बुभुत्सितार्थपरीक्षणमिह कार्यामति । तदिहासङ्गत्यादिना परिहृतम् । प्रातर्दननयनेयं च परस्येति कृतकरणापत्तिश्च, तत्रापि 'मामेव विजानीहि' 'प्रा- णोऽस्मि प्रज्ञात्मे ति श्रवणाद् जीवरूपेण स्वरूपेण परमात्मोपासनं व्याख्यात. मिति । यत्पुनर्ब्रह्मसूत्रेषु 'धर्म जैमिनिः- ' (ब्र० ३.२. ४०) इत्यादेः पूर्वपक्षस्य निरसनीयस्यान्वारुह्यवादत्वमुक्तम् । तन्न । तन्मुख्यसिद्धान्तत्वे बाधकाभावात् । 'परं जैमिनिः --' (ब्र० ४.३.१२) इत्यादितदीयसिद्धान्तोपन्यासस्य चान्वा- रुह्यवादविषयत्वाद् ब्रह्मसंन्यासाद्युपगमतन्निरासाभ्यां विप्रतिषेधेनासामञ्जस्योद्घाटन- परवेनाप्युपपत्तेर्वा । यदपि स्वशास्त्रेऽसूत्रितत्वाद् ब्रह्मसंन्यासाद्यपलापो नेष्टो जैमि- नेरिति । तन्न । अत एव ब्रह्मसंन्यासादेरनिष्टत्वापत्तेः, अक्रियार्थानामानर्थ (क्यं ? क्या- त्) सोमविद्याप्रजमृणश्रुतिसंयोगादिति ब्रह्मसंन्यासाद्यपलापस्यार्थतः सूत्रितत्वाच्च । तस्मादर्थविप्रतिषेधाद् धर्मब्रह्मजिज्ञासाशास्त्रभेदसिद्धिरिति । अत्रायमर्थसंक्षेपः धर्मब्रह्मविभिन्नप्रमे यचिन्ताप्रतिज्ञानात् । धर्मब्रह्मैकार्थ्यं कृत्लाम्नायस्य नांशतो द्वितयम् ।। जैमिनिवेदविभाजोरिष्टं तस्मान्न शास्त्रैक्यम् । बहुलाच्चार्थविरोधात् सिद्धः शास्त्रस्य भेदो नः ॥ - मीमांसयोः क्रमनियमाभावः। अथापि स्यादेकं शास्त्रं धर्मब्रह्मजिज्ञासे, तथापि न क्रमनियमः । यदि हि अध्ययनविधिरर्थज्ञानपर्यन्तो विचारं प्रयुञ्जीत, तत एवाध्ययन इव विचारेऽपि कमो नियम्येत । न च तदुभयमध्ययनविधेरिष्टं तान्त्रिकस्यापि 'अध्ययनमात्र- वतः' (ब० ३. ४. १२) इति सूत्रविरोधात् । कः पुनरत्र दोषः । अत्राह अध्ययनविधेरर्थज्ञानपर्यन्तत्वे . 'आचार्यकुलाद्. वेदमधीत्य अभिसमावृत्य' 'वेदमधीत्य स्वायाद्' इति श्रुतिस्मृत्योस्तदैकार्थेन कृत्सवेदार्थज्ञानस्य यज्ञाद्यनु- ष्ठानशेषत्वेन विनियोगादात्मब्रह्मशब्दसामानाधिकरण्येन वेदान्तेषु ब्रह्मज्ञानस्य सम्प्रतिपन्नकात्मद्वारा प्रोक्षणादेरिव ब्रीह्यादिद्वारा कर्मशेषत्वोपपत्तेः, असम्प्र- तिपन्नातिरिक्तात्मकल्पने तज्ज्ञानस्य कर्मसु विनियुक्तस्य समुद्रमनोध्यानवददृष्टा- र्थत्वाद् , दृष्टसम्भवेऽदृष्टकल्पनायोगाद्, न जीवाधिकोपदेशो वेदान्तेष्वित्यप्रामा- णिकेश्वरविचाररूपं शास्त्रमनारम्भणीयं प्राप्नुयात् । अक्षरग्रहणपर्यन्तत्वे तु तस्य फर्मस्वर्थज्ञानस्याविनियोगेन कर्मानुष्ठायिजीवातिरिक्तात्मप्रतिपादनसम्भवात् प्रामा- णिकपरमात्मविचाररूपं शास्त्रमारम्भणीयं स्यादिति । ब्र० सू० अध्या० १. पा० १. अधि० ११. 4 mmswimmit मीमांसयोः क्रमनियमाभावः । ४९ अत्रेदं वक्तव्यम् - १० वयं तु ब्रूमः - अध्ययनविधावर्थज्ञानपर्यन्तेऽपि कथमर्थज्ञानस्य कर्मशेषतावगतिरिति । न हि क्त्वाश्रुतिर्विनियोजिका, 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते'त्यादावपि प्रसङ्गात् । श्रुतिलिङ्गाद्यन्यत्वेन तद्वतो विधानस्यापि लिङ्गमात्रत्वात् । सामर्थ्य तु तत्तत्कर्मानुष्ठाने तत्तज्ज्ञानस्यैवेत्यात्मज्ञानस्य तच्छेषत्वा- सिद्धेः । तस्यापि पारलौकिकफलकर्मानुष्ठापनसामर्थेऽप्यधिकोपदेशात् । न ह्यप- हतपाप्मादिलक्षणात्मज्ञानमपि तदौपयिकम् । केवलव्यतिरेकाभावात् । तज्ज्ञान- विनियोगविध्यभावे सति तद्दष्टार्थत्वायाधिकोपदेशान्यथासिद्धेरनवकल्पनात् । तत्सामर्थ्यस्य च तद्न्यथासिङ्ख्यधीनत्वात् । आत्मब्रह्मशब्दसामानाधिकरण्यं च ब्रह्मरूपावसानमपि स्यादिति । अध्ययनविधेरर्थज्ञानपर्यन्तत्वे गुरुकुलादसमावृत्तस्यैव दृष्टफलार्थज्ञानाय विचार आक्षिप्येत, 'वेदमधीत्येति क्त्वाश्रुतेरानन्तर्यमनादृत्य पूर्वकालत्वमात्रबृत्युपपत्तेः । सानाभिसमावृत्त्योर्वा गुरुकुलबासवर्जमखानादिनियम- निवृत्तिलक्षणत्वाश्रयणात् । यथाह वार्तिककारः "इहालानादिनियमो यः कृतो ब्रह्मचारिणः । अवधित्वमनाश्रित्य सोऽवसानमपेक्षते ॥ ततोऽपेक्षावशात् स्नानमस्नानादिनिवर्तनम् । विरोधसाहचर्याभ्यां दृष्टार्थत्वाय लक्षयेत् ॥" इति । अध्ययनविध्येकार्थतया चेदमधीत्येत्यर्थज्ञानावधिकाध्ययनानन्तरमभिसमावृ. तिविध्यविरोधाच्च। सर्वथैव वेदान्तविचारे शमदमसंन्यासादिसाधनोपदेशानर्थक्यम् । अथाध्ययनविधिरर्थज्ञानाय विचारं प्रयुञ्जानोऽन्यत्र निरपेक्षोऽपि ब्रह्मविचारं शमादिसाधनापेक्षः प्रयोक्ष्यते शाखाभेदाध्ययनमिव शिरोव्रतादिसापेक्ष इति चेत् । न । कृत्स्नकर्मविधीनामननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात् , प्रागेवोपनिषदर्थविचारौप- यिकतया संन्यासादिसाधनानुष्ठाने पुननिवेशाभावात् । 'अरण्यमियाद् न पुनरे- यात्' 'संन्यस्याग्नीन् न पुनरावर्तयेद्' इति श्रवणात् । "आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा ।।" इति निन्दास्मरणाच्च । आह च सूत्रकारः ---- -'तद्भूतस्य तु नातद्भावः' (ब ३.४, ४०) इति । संन्यासश्च श्रवणाङ्गमित्यो वक्ष्यते । अथोच्येत . धर्मवि- . H ५० सिद्धान्तसिद्धाञ्जने चारानन्तरमेवोपयम्य कर्मविधयोऽनुष्ठास्यन्ते । कालान्तरे च संन्यासादिसव्य- पेक्षोऽध्ययनविधिरुपनिषदर्थविचारं प्रयोक्ष्यत इति । तथा सति वेदैकदेशमविचा- र्याचार्यकुलादभिसमावर्तमानस्याध्ययनविध्यनुष्ठानमन्तराले विहतमिति 'वेदमधी- त्य स्नायादि'त्यादि विरुध्येत । अथावृत्त्या गुरुमुखोच्चारणानूच्चारणस्याध्ययनश- ब्दत्वप्रसिद्धेस्तस्य च नान्तरीयकाक्षरग्रहणपर्यन्तस्य साङ्गस्य करणस्य निष्पत्त्यै- वाध्ययनविधिचारितार्थ्यात् , फलनिष्पत्तेरविध्यधीनत्वाद् अधीत्य समावृत्तौ न विरोध इति चेत् । एवं तर्हि वेदार्थविचारो नाध्ययनविधिनानुष्ठाप्येत । उपद्रष्टु- वचनादिनाप्यनुष्ठानसम्भवे चानियतकर्तव्यो विचारः प्रसज्येत । तत्र च वेद- मधीत्याभिसमावृत्त्येत्याद्यवगतवेदाध्ययनानन्तरकालीनगुरुकुलावसानस्य बाधेन तदनन्तरविचारकर्तव्यतापरम् 'अथातो धर्मजिज्ञासे'ति सूत्रमुपरुध्येत । अत्र सा- मान्यज्ञानाधीनधर्मविशेषजिज्ञासायामन्वयव्यतिरेकसिद्धहेतोरध्ययनादानन्तर्यस्या, वाच्यत्वाद् , अनन्तरधर्मजिज्ञासाविरोधिगुरुकुलावसाननिवृत्तेरेवाथशब्दलक्ष्यत्वात्। यथाह भाष्यकारः-- 'अधीते वेदे द्वयमापतति गुरुकुलाच समावर्तितव्यं वेदवा- क्यानि च विचारयितव्यानि । तत्र गुरुकुलान्मा समावर्तिष्ट । कथं नु वेदवा- क्यानि विचारयेदित्येवमर्थोऽयमुपदेशः' इति । वार्तिककारोऽपि "आनन्तर्यवचोयुक्तिराश्रितैवान लक्ष्यते । श्रुतार्थं तु परित्यज्य लक्षणार्थो विधीयते ॥ प्रतीता धर्मजिज्ञासा वेदाध्यायादनन्तरा । तत्कालस्यावरुद्धत्वात् स्नानाभावं तु लक्षयेत् ॥" इति । स्नानमत्र गुरुकुलनिवृत्तिः समावर्तनम् । “वेदमधीत्य स्वायादिति स्मृतेः 'वेदमधीत्याभिसमावृत्त्येति श्रुत्यैकार्थ्यात् । तस्मादध्ययनविधेरर्थज्ञानफलत्वे फलनिष्पत्तेरविध्यधीनत्वेऽपि दृष्टफलार्थज्ञानस्य साङ्गाध्ययनेऽपि विना विचार- मनुत्पत्तौ सर्वोषधावहननवत् सकृद् द्विस्त्रियं ब्रीडवहननेऽपि विनावृत्तिं दृष्टफल- तण्डुलानुत्पत्ताविवातत्फलत्वशङ्काया अवहन्तिविधेरावृत्त्याक्षेपपर्यन्ततयेवाध्ययन- विधैर्विचाराक्षेपपर्यन्ततया समाधेयस्वाद, विचारावसाने तस्मिन्नौपनिषदा वादाः कथमपि धर्मैकार्थाः कल्प्येरनिति अथातो ब्रह्मजिज्ञासे ति नारभ्येत । पार्थ- गर्थेऽपि वा धर्मजिज्ञासैकाधिकारितया संन्यासाद्यपेक्षायोगाद् अथातो ब्रह्म- .
उपनयनस्याध्ययनाङ्गत्वाभावः । ५१ . Halam . + जिज्ञासेति नारभ्येत, ब्रह्मार्थविचाराय पृथगारम्भेऽपि 'ब्रह्मजिज्ञासे'त्येव स्यात् । अथ वैधे भागद्वयविचारे युगपत्प्राप्तेऽशक्यत्वात् क्रमापेक्षायाम् अध्ययनक्रमेण पूर्वभागे विचारितेऽवसरदानायाथातश्शब्दावित्युच्येत, फल्गुफल: सूत्रभागः कल्प्येत । तस्मादौपनिषदविचारस्य विशिष्टाधिकारिकत्वाद् अध्ययनविधेरर्थज्ञान- फलत्वे तदयोगाद् अक्षरावाप्तिमात्रफले तस्मिन्नापातप्रतिपन्नफलवदर्थनिर्णयाय यथाधिकारं यथाविषयं च विचारारम्भ उपपद्यत इति । कः पुनरेवं सत्यध्ययन विधावधिक्रियताम् । अत्राह स्वाध्यायग्रहणकाम एवाधिक्रियते , ' स्वाध्यायोऽध्येतव्य' इति तस्य कर्मत्वावगमात् । कर्तुरीप्सि- ततमस्यैव कर्मत्वात् । फलकामस्य सफले कर्मण्यधिकारादिति । यथोक्तं श्रुतप्रका- शिकायां - स्वाध्यायसिद्धिरधिकारिविशेषणं स्यात् । स्वाध्यायोऽध्येतव्य' इति स्वाध्यायस्याध्ययनसाध्यत्वावगमादिति, अक्षरराशिग्रहणफलमित्यनेन स्वाध्याय- ग्रहणकामत्वमध्ययनाधिकारिविशेषणमिति सूचितमिति च । एवं ह्यध्ययनकाम एवाधिक्रियताम् । अध्ययनस्य सुख- दुःखाभावान्यत्वेन कामनायोगः स्वाध्यायग्रहणस्यापि । अर्थज्ञानादिपरम्परया पुरुषार्थावसानं चाध्ययनस्यापि, अक्षरग्रहणार्थज्ञानादिपारम्पर्योपपत्तेः । अध्य- यनप्रवृत्तिदशायामध्ययनस्य पुरुषार्थपर्यवसानाज्ञानं च स्वाध्यायग्रहणस्यापीति । अपि च 'अग्नीनादधीते'त्यादावग्निकामनाधिकारः स्यात् , कर्मनिवृत्त्या पुरुषार्थ- पर्यवसानोपपत्तेः । तत्र चोत्तरक्रतुविधिप्रयुक्तानुष्ठानत्वोपगमविरोधः । अपि च तत्साध्यकामस्य तदधिकारित्वेऽङ्गसाध्यनानात्वेन साङ्गप्रधानकाधिकारित्वभङ्गः । अपि च कामाधिकारित्वेऽध्ययनमनित्यं स्यात् , कामस्याधिकारहेतोरनियाम्यत्वात् । तत्र च 'अश्रोत्रिया अननुवाक्या अनमयः शूद्रसधर्माण' इति निन्दावचनमुपरुध्येत । आचार्यककामाधिकारकाध्यापनविधेरनित्यतया नित्याध्ययनस्य तत्प्रयुक्तिनिरा- करणं च पीड्येत । नित्यक्रतुविधिनेवाग्निकामनायाः स्वाध्यायकामनाया नित्य- जपयज्ञादिविधिना प्रयुक्त्युपगमे चाधानमिवाध्ययनं न स्वविधिप्रयुक्तं स्यात् । तस्मादुपनीतोऽधिक्रियत इति युक्तम् ॥ अत्र ब्रूमः - . -- उपनयनस्याध्ययनाङ्गत्वाभावः। ननु उपनयनमध्ययनाङ्गतयानुष्ठेयं, नाधिकारः । अन्यथा तस्योद्देश्य रूपतया स्वर्गकामगृहदाहादिवद् अनङ्गत्वादननुष्ठेयत्वप्रसङ्गादिति । उच्यते । न 23923. -- ५२ सिद्धान्तसिद्धाञ्जने तावदुपनयनमध्ययनाङ्गम् । 'अष्टवर्षं ब्राह्मणमुपनयीते ति ब्राह्मणादिसंस्कारतया पुरुषार्थत्वात् । । गाभैहोमर्जातकर्मचौलमौजीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामुपमृज्यते ॥" ७ इत्यादौ मौञ्जीनिबन्धनोपलक्षितोपनयनस्यैनश्शान्त्यर्थतास्मरणात् । 'यस्यैते चत्वारिंशत् संस्कारा अष्टावात्मगुणाः स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति' इति स्मरणात् । किञ्च, " अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता ब्रात्या भवन्त्यार्यविगर्हिताः ॥" .. इत्युपनयनासंस्कारे पातित्यस्मरणाद् , उचितविहितकर्मानहताया एवं पातित्यश- ब्दितत्वात् । 'संस्कृतस्य च कर्मानुष्ठानयोग्यतापत्तेरुपनयनादिनियमः' इति स्मरणात् । कर्मणामुपकारकमात्रमुपनयनं संस्कृतानामेव कर्मार्थतयामिसं- स्कारकमिवाधानम् । तच्चादृष्टांशेन साधारण्येऽपि धात्वर्थभूताचार्यासत्तिरूप- ष्टांशेनापि प्रयोजनमपेक्षमाणम् अध्ययनविधावधिकारिसापेक्षे कर्तृविशेषणम् अधिकारनिमित्तं भवति । हन्तैवम् इतरेतराकाङ्क्षया वाक्यविनियोगाद- ध्ययनाङ्गमुपनयनमापन्नं, सामर्थ्याद् अध्ययनैकाश्रयत्वाच्चेति चेत् । न । एका- श्रयत्वमात्रस्याङ्गत्वाप्रयोजकत्वात् , वैधाचार्योपगमननियमस्य प्रागुपनयनविधेः सामर्थ्यानवगमात् । अध्ययनविधौ कर्ताक्षेपपर्यवसन्ने तत्संस्कारकतया तद- विधेः विनियुक्तबीहिप्रोक्षणादिवद् दौवारिकान्याङ्गत्वाप्रतीतेः । अन्यथा विशे- षाभावेन सर्वकर्तृकेऽध्ययनविधौं शूद्रपरिवर्जनाभावप्रसङ्गात् । उपनयनसं- स्कारस्य च यथाविधानं ब्राह्मणादिकविशेषणतया शूद्रे रथकारादिवदनपेक्ष्यत्वात् । अथ 'पा (ह) वा एतच् श्मशानं यच्छूद्रः, तस्माच् शूद्रसमीपे नाध्येतव्यम्' 't' क. पाठः, उपनयनस्याध्ययनाङ्गत्वाभावः । M । की - 'अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदः' इत्यादिनिषेधाद् "यस्य येनार्थसम्बन्धो दूरस्थेनापि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् ॥" इति न्यायेन तदेकवाक्यतापन्नाध्ययनविधेस्त्रैवर्णिककर्ताक्षेपपर्यवसाने सन्निधि- बलेन ब्राह्मणादिपदोपस्थिते तत्रोपनयनं विधीयमानमङ्गमङ्गीक्रियतामिति चेत् । न । एवं विहितवेदाध्ययनाभावेऽपि शूद्रस्याविहितवेदाध्ययनप्रसङ्गात् । निषे- धस्य विहिताध्ययनकर्तृनियमार्थत्वोरीकारात् । तद् मा भूदिति स्वतः पुरुषार्थे शूद्रस्याध्ययननिषेधेऽध्ययनविधेरुपनीतमनपेक्ष्याविशिष्टक क्षेपे शूद्रस्य विहितप्र- तिषिद्धमध्ययनं प्रसज्ज्येत । वैधाध्ययनातिरिक्तविषयतया सामान्यतन्निषेधस्य विहिताध्ययनमेव वा प्रसज्ज्येत । तस्मात् सर्वार्थोपयोगितयोपनयनसंस्कारो दृष्टां- शेनाध्ययनाधिकारिनिमित्तमिति युक्तम् । न चैवं 'तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षे'त्यत्र दध्यानयनं वैश्वदेवाङ्गं न स्यात् । उपनयनवदवगतविनि- योगकारकगोचरे विधानाभावात् । अर्थज्ञानद्वारा सामावगतविनियोगे स्वाध्याये संस्कारतया विधीयमानाध्ययनं च क्रत्वङ्गं स्यादिति वाच्यम् । सा वैश्वदेवीति तच्छब्देन प्रकृतपरामार्शना आमिक्षासामानाधिकरण्यापन्नस्त्रीलिङ्गेन दध्यानयन- संस्कृतपयःपरामर्श संस्कारविशिष्टस्यैव विनियोगावगमात् स्वतः · पुरुषार्थत्वा- भावात् , तत्प्रकरणसम्बन्धेन तदङ्गत्वौचित्याच्च । 'अष्टवर्षं ब्राह्मणमुपनयीत, तम- ध्यापयीते'त्युपनयनस्य · तच्छब्दश्रुत्यविशेषेऽपि बैजिकादिदोषनिहरणार्थत्वाव- गतेः । अतत्प्रकरणसम्बन्धवाक्यस्य चाविकारिसम्बन्धेऽप्युपपत्तेश्च वैशेष्यात् । 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते'त्यत्रेव 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते'ति क्त्वाश्रुत्यविशेषेऽपि : ह्यङ्गाङ्गित्वाभावः । पृथगधिकारश्रवणादिवैशे- प्यात् । न चाध्ययनस्यार्थज्ञानादिद्वारा क्रत्वङ्गतापत्तिः । अनुष्ठेयार्थज्ञानस्य हितै- षिवचनादप्युपपत्तौ स्वाध्यायस्य तादानियमात् । सामर्थ्यसाधारण्येन व्यभि- चारात् । अन्यनिमित्तज्ञानानुष्ठितात् फलसिद्धावध्ययनसंस्कारानर्थक्यात् । स्वा- ध्यायादेवानुष्ठेयार्थज्ञानमेषितव्यमिति चेत् । एवं तर्हि संस्कृतस्यैव तस्य तादर्थ्या- वधारणादनवगतविनियोगे संस्कारविधानादध्ययनं क्रत्वङ्गं स्यात् । न चाध्यय- नस्य दध्यानयनतुल्यता । प्रकरणसम्बन्धस्य विशेषकत्वात् । तद्वदत्र संस्कार- सिद्धान्तसिद्धाञ्जने प्रत्यवमर्शनाभावात् । सामर्थ्यस्य स्वाध्यायस्वरूपमात्रानुगतत्वात् । नित्यतयाध्य- यनस्य स्वतः पुरुषार्थत्वाच्च । संस्कृतविनियोगे संस्काराङ्गत्वस्यापुरुषार्थत्वनिबन्ध- नत्वात् । ननु 'जायमानो वै ब्राह्मणस्त्रिभिणवा जायते, ब्रह्मचर्येणार्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इत्युत्पत्त्यैव ब्राह्मणस्य विद्यादिसम्बन्धबोधनादवगतकर्तृभावे ब्राह्मणे विधीयमानसंस्कारो विद्याङ्गतां प्रतिपद्यत इति चेत् । एवं सत्युपनयनं सोमाद्यङ्गं स्यात् , तुल्यन्यायत्वात् । न चायमवदानार्थवादो ब्रह्मचर्याङ्गकाध्य- यनादेाह्मणसम्बन्धपरः । अपि चैवम् ऋणश्रुतेर्ब्राह्मणसम्बन्धविधिपरत्वे सोमवि- द्याप्रजं न त्रैवर्णिकविषये नित्यं स्यात् , ब्राह्मणसम्बन्धावरुद्धत्वात् । अथ ब्राह्म- णग्रहणमुपलक्षणमित्युच्येत, कुतः पुनरेवं निश्चयः । अध्ययनविंधावधिकारिसा- पेक्षे गुर्वासत्तिपर्यन्तोपनयसंस्कृतस्य त्रैवर्णिकस्यापि सामर्थ्यसाम्येनाधिकारित्वान्व- यादिति चेत् । न तर्हि उपनयनमध्ययनाङ्गम् , उपनीतस्यैवाधिकारिणः कर्तृ- स्वावगमात् । यत्तु 'वसन्ते ब्राह्मणमुपनयीत' (आप० ध० १. १. १. १८) इति द्वितीयाश्रुत्या उपनयनस्य तादर्थ्यावगमात् तस्य च तदीयकार्यपुरुषार्था- ध्ययनाङ्गतानतिरेकाद् उपनयनमध्ययनाङ्गमिति । तन्न । न ह्यध्ययनमात्रमुपनी- तकार्यम् । कर्मणामपि तत्कार्यत्वादुपनयनं लदङ्गमपि प्रसज्ज्येत । अथ कर्माणि स्वविधिसामर्थ्यादत्रैवर्णिकानामपि पुरुषार्थतया कार्यत्वेन प्राप्तान्युपनयनपूर्वकाध्य- यनविधुरेषु विद्याप्रयुक्तिकल्पनागौरवदोषेण तद्वत्सु त्रैवर्णिकेषु व्यवस्थाप्यन्ते । वचनात् तु क्वचिद् ‘एतया निषादस्थपतिं याजयेदि'त्यादावत्रैवर्णिकार्थान्यप्यनुमन्य- न्ते । तत्रैवं सत्युपनीतमात्रकार्यत्वाभावेन कर्मणामुपनयनाङ्गकत्वाभावेऽपि स्ववि- धिनैवोपनीतमात्रकार्यतयावगम्यमानस्याध्ययनस्य तदङ्गकत्वं स्यात् । तथा च स्मृतिः 'उपनयनं विद्यार्थस्य श्रुत्तितः संस्कारः' (आप० ध० १. १. १. ८) इति । नैवम् । बैजिकायेनश्शमार्थमध्ययनानधिकारिणां मूकादीनामप्युप- नयनविधानेन तयोरङ्गाङ्गित्वायोगात् । न ह्यङ्गिप्रयुक्तिमनपेक्ष्यानुष्ठीयमानमङ्गं नाम भवति । "मूकोन्मत्तौ न संस्कार्याविति केचित् प्रचक्षते । कर्मण्यनधिकाराच पातित्यं नास्ति चैतयोः ॥" इति तदसंस्कारस्य परपक्षत्वं ब्रुवता मनुना तयोरपि संस्कारस्य स्वपक्षत्वसूचनात् । एनश्शमार्थतया माहोमादिसहपाठाच्च । तथा च अध्ययनविधिः स्वतः पुरुषा- है . १. क्ति' क. पाठः.
उपनयनस्याध्यापनाङ्गत्वाभावः । -- 1. थतया सर्वसाधारणोऽपि स्वतोऽपेक्षिताचार्यासत्तिप्रयुक्तिकल्पनागौरवं माभूदित्युप- नयनविधिलब्धाचार्यासत्तिके)पनीतेषु व्यवस्थाप्यत इति तुल्यः कर्मविधिभिर- ध्ययनविधे(य:) स्वविधिस्वरसत उपनीतमात्रकार्यत्वाभावः । स्मृतावप्युपनयनं विद्यार्थमित्यस्मरणाद् विद्यार्थस्येति संस्कारप्रतिसम्बन्धितया पुरुषोपादानात् तद- र्थसंस्कारस्य तदीयसर्वकर्तव्योपकारकमात्रत्वावगमात् । न चादृष्टांशेन तथाभूत- मप्युपनयनमाचार्यासत्तिरूपदृष्टांशेनाध्ययनाङ्गमपि स्यादिति वाच्यम् । तदंशेना- प्युपनयनप्रभृत्यनुष्ठेयनियमग्रहणस्य " उपनीय गुरुः शिप्यं शौचाचारांश्च शिक्षयेद्" इत्यादिस्मृतेराचार्यायत्तत्वेन साधारण्यात् । तस्मात् स्वतः पुरुषार्थत्वे सति श्रुत्या- दिविनियोजकाभावान्नाध्ययनाङ्गमुपनयनम् ।। - उपनयनस्याध्यापनात्वाभावः। भ अत एव नाध्यापनाङ्गमपि। ननु 'अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयी- ते त्यात्मनेपदश्रुतेः स्वरितभितः कञभिप्राये क्रियाफले तद्विधानाद् अध्यापन- क्रियासाध्यमाचार्यकं कर्तृगामि क्रियाफलमिति फलवत्सन्निधानात् तदेकफलमुप- नयनमध्यापनाङ्गं स्यात् । उपनेयासत्यध्ययनद्वारा तस्य तत्र सामर्थ्याच्च । अथ 'सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः' (१. ३. ३६) इत्यकर्त्रभिप्रायार्थोऽयमारम्भः । न च कर्तृगाम्याचार्यकफलोद्देश्यक एवोपन- यनेऽकर्तृगाम्युपनेयसंस्कारोऽपि विद्यत इत्येतावता तत्प्रवृत्तिः । कञभिप्रायादि- विवक्षायाः प्रधानफलविषयत्वात् । अन्यथा यजन्ति याजकाः, पचन्ति पाचकाः इत्यादौ — स्वरितजितः ...' (१. ३. ७२) इत्यात्मनेपदं स्यात् । दक्षिणादिफ- लस्य कभिप्रायत्वात् । एवं तर्हि तत्रात्मनेपदमेव किं न स्यात् । न स्यात् । यागपाकारम्भफलस्याकभिप्रायत्वाद् , यागपाकक्रियासन्तत्यंविच्छेदप्रयोजकंवर- णप्रवर्तनादिरूपारम्भस्य स्वामिगामिस्वर्गान्नवत्त्वफलोद्देश्यकत्वात् । उक्तं च हरिणा " यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधान फलं तेषां न लाभादि प्रयोजनम् ॥ इति । अन्यथा कभिप्रायाद्यव्यवस्थया सूत्रवैयादिति चेत् । न । अध्या- पनफलाचार्यकरणसम्बन्धबोधनादुपनयनस्य कथञ्चिदध्यापनोपकारकत्वमात्रेण ·ल- Homemunde IAN ५६ सिद्धान्तसिद्धाञ्जने स्फलपरम्परासम्बन्धकल्पनापेक्षया तदङ्गतया साक्षात्फलसम्बन्धकल्पनस्य न्याय्य- त्वात् । आधानाङ्गे तु पूर्णाहुतौ कथञ्चिदुपकारकतामात्रेण परम्परयाप्युपकार्याग्नि- होत्रादिकर्मफलसम्बन्धोऽनुकीय॑ते स्तवनाय 'पूर्णाहुत्या सर्वान् कामानामोतीति । अनारभ्याधीताधानाङ्गस्यातदङ्गत्वेन साक्षादग्निहोत्रादिफलसम्बन्धासम्भवात् । उदु- म्बरता पुनः प्रकरणादङ्गमङ्गिफलसाक्षात्सम्बन्धेन स्तूयते----'औदुम्बरो यूपो भवति, ऊर्वा उदुम्बरः, ऊ पशवः, ऊर्जेवास्मा ऊर्ज पशूनवरुन्ध' इति, सोमापौष्ण- स्याङ्गिनः पशुफलत्वात् । तद्वदिह स्यात् सन्निधानात् सम्भवाच्चेति चेत् । न । पुरुषस्य कर्तव्यप्राप्तियोग्यतापादनेनोपनयनस्य स्वतः पुरुषार्थतया श्रुत्यादिविनि- योजकाभावेनाङ्गत्वानुपपत्तेः । सन्निधानस्य सम्बन्धमात्रगमकत्वात् । सम्भव- मात्रस्यातिप्रसक्तत्वात् । उपकारकमात्रेणाध्यापनफलसम्बन्धस्य कल्पनीयत्वात् । अथ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥" (मनु० अध्या० २. श्लो० १४०) *- इति स्मृत्यनुमितायाम् आचार्यककामः शिष्यमुपनीयाध्यापीतेति श्रुतावुपनय- नाध्यापनयोः क्त्वाश्रुत्यवगतक.क्योपपादकतयाक्षिप्यमाणं प्रयोगैक्यं समप्राधा- न्येऽङ्गाङ्गित्वे विपर्यये च सम्भवदप्युपनेयासत्यादिदृष्टद्वाराध्यापननिवृत्तिसामर्थ्यादु- पनयनस्य तदङ्गतामावहतीति चेत् । न । 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन य- जेते 'त्यादाविव क्त्वाश्रुतेरवगतमपि क.क्यमुदस्य कर्तृत्वाधिष्ठानपुरुषैक्यमात्राल- म्बनत्वाभ्युपगमात्। वाक्यांन्तरे स्वतन्त्रफलत्वावगत्यविशेषात् । अपि च 'उपनीय तु यः शिष्यमित्यादि न साङ्गाध्यापनविधिपरम् । किन्तु 'आचार्याय दक्षिणा देये त्यादिविध्यपेक्षिताचार्यसंज्ञाविधिपरं, न केवलेनोपनयनेन नापि केवलेनाध्या- पनेन, किन्तूंभाभ्यामाचार्यो भवतीति . "न विद्यया कैवलया तपसा वापि पात्रता । यत्र वृत्तमिमें चोभे तद्धि पात्रमनुत्तमम् ।।" इतिवत् तत्संज्ञाविधिप्रायपाठात् । अनन्तर श्लोके उपनयनस्याध्यापनाङ्गत्वाभावः। . , "निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥" (मनु० अध्या० २. श्लो० १४२) इति संज्ञाविध्युपलम्भात् । अपि चैवं "स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति" इत्यत्रापि गुरुत्वकामो निषेकादिक्रियाः कृत्वा वेदमस्मै दद्यादिति विधिकल्पने निषेकादीनामप्यध्यापनाङ्गत्वं स्यात् । न चैवम् । तस्मादुपनयनस्यानन्याङ्गतयो- पनीताधिकारिकमध्ययनमिति । तथा च न्यायरत्नमालायाम्-"अप्राप्तविधिरेवायं न यावद्धि फलवकर्मानुष्ठानोपयोगिज्ञानोपायतयाध्ययनानुष्ठानमुत्प्रेक्ष्यते , तावदेव द्विजातीनामुपनीतानां तत्प्रक्रमाधीतया 'स्वाध्यायोऽध्येतव्य' इति प्रत्यक्षश्रुत्याध्य- यनं विधीयते, श्रुतेर्लिङ्गाच्छीघ्रं प्रवृत्तेः" इति । केचित् पुनः 'एतया अन्नाद्यकामं याजयेदित्यादाविव उपनयीताध्यापयीतेति वृत्त्यर्थप्राप्तानुवादित्वात् 'तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमी- प्सेत्' (आप० ध० १. १. १. ११) इति स्वातन्त्र्यलिङ्गाद् आचार्योपगमनस्यो- पनयनपदोपलक्षितस्य सामर्थ्याद् अध्ययनविध्यपेक्षिताचार्यासत्तिफलस्यार्थवशा- दपि प्राप्नुवतः 'अष्टवर्षो ब्राह्मण उपगच्छेत् , सोऽधीयीते ति नियमविधिपरिणामेन आचार्यासत्तिरूपदृष्टसमवाय्यदृष्टार्थतयोपनयनस्याध्ययनाङ्गतामाश्रित्य प्रदोषादि- कालदीक्षादिवदधिकारिविशेषणत्वमविरुद्धमित्युपनीताधिकारिकमध्ययनमित्याहुः । सर्वथापि साधिकारत्वात् स्वविधिप्रयुक्तानुष्ठानं स्वाध्यायाध्ययनम् , आधान- संस्कारेणारण्यादौ समारोप्यस्यापचारे नश्यतश्च देवतात्मनोऽग्नेरिवाध्ययनसंस्कारेण स्वाध्यायस्यानुत्पाद्यतया सिद्धस्याध्ययने कारकभावोपपत्त्या पुरुषार्थविधिपरिणामो- पपत्तेः । नित्यं च तत् । अनधीयानस्य 'अश्रोत्रिया' इत्यादिदोषश्रवणात् । तथा च स्वप्रधानतया विधीयमानमदृष्टद्वारा पुरुषार्थ कर्मप्रधानतया च संस्कारार्थम् । संस्कृतश्च स्वाध्यायो ब्रह्मयज्ञजपफलवदर्थावबोधादावुपयोक्ष्यते । दृष्टरूपेण स्वाध्या- यावाप्त्यर्थं च । अदृष्टार्थत्वेऽपि गुरुमुखोच्चारणानूच्चारणरूपस्याध्ययनस्य ब्रह्म- यज्ञादौ स्वाध्यायविनियोगबलेनावृत्त्याक्षेपात् । एवमुपनयनमपि पुरुषार्थ माणवक- स्य संस्कारार्थम् , आचार्यासत्याध्ययनार्थं च । यदि च कांस्यादिशुद्धिरिव तद- शुद्धरुपनयनसंस्कार एव पुरुषैनसो निबर्हणार्थः, मा भूत् स्वतन्त्रादृष्टार्थम् । T - , . I . ६८ सिद्धान्तसिद्धाञ्जने न काचित् क्षतिः। आधानमपि 'अनाहितामिता स्तेयं' 'नास्तिक्यं चोपपातकम्' (मनु० अध्या० ११. श्लो० ६५, ६६) इति मनूक्तानाहिताग्नित्वनिमित्तोपपात- कपरिहारार्थतया पुरुषार्थम् , अग्निसंस्कारार्थं च । यथा ' सूक्तवाकेन प्रस्तरं प्रह- रतीति विधीयमानं यागात्मनार्थकर्म देवतादिसंस्कारकर्म च, तद्वत् । अथ कथमे- कस्मिन् वाक्ये स एव स्वाध्यायाध्ययने पुरुषार्थे गुणः संस्कारार्थे प्रधानम् । उपा- देयश्च प्रथमे उद्देश्यश्च द्वितीये विधेयश्चानुवाद्यश्चेति प्रतीयेत । प्रस्तरणप्रहरणा- दावपि कथम् । विरुद्धत्रिकद्वयान्यतरस्कन्धस्य नान्तरीयकतया समाधानं च समा- नमुभयत्र । अन्ये तु आवश्यकजपाद्युपयोगिखाध्यायविधुरा एवाश्रोत्रिया निन्द्यन्ते । ततश्च स्वाध्यायावाप्तौ लोकावगतसाधनेऽध्ययने नियमार्थो विधिरिति साङ्गविहिता- ध्ययनावाप्तस्वाध्यायादेव पुरुषार्थसिद्धिरित्याहुः । ननु सक्तुन्यायेन स्वाध्यायेनाधीयीतेति विधि विपरिणम्य स्वाध्यायाध्य- यनेन यच्छक्यमक्षरावाप्त्यादि तद् भावयेदित्यध्ययनविधेरर्थज्ञानफलत्वं यदि नाद्रियते, वेदाध्ययनानन्तरकालविहितस्नानबाधेन विचारप्रयोजकाभावात् तदन- न्तरकालकर्तव्यतया विचारशास्त्रं नारभ्येत । अध्ययनविधेरर्थज्ञानरूपदृष्टफलपर्य- वसानाय हि विचाराक्षेपः , तदभावे तदभावादिति ॥ , विचारस्य रागतः प्राप्तत्वम् । - সর্বাহ अध्ययनविधिगृहीतसाङ्गस्वाध्यायात् फलवदर्थापातप्रतीतेः फलस्य च तदर्थनिर्णयायत्तानुष्ठानाधीनत्वात् तन्निर्णयरागादेवाधीतवेदः पुरुषः स्वयमेव विचारे प्रवर्तते । अथापि "वेदाङ्गानि समस्तानि कृष्णपक्षेषु संपठेत् " (मनु० अध्या० ४. श्लो० ९८) 'षडङ्गो वेदोऽध्येतव्यः' इत्यनुष्ठानसादेश्यादङ्गाध्ययनस्य वेदाध्ययनाङ्गत्वेऽकि- श्चित्करस्य तदयोगात् किञ्चित्कारापेक्षायां वेदाध्ययनस्वरूपसन्निपातित्वाभावेन विषयद्वारा तदर्थज्ञानफलोपकारित्वावश्यम्भावेऽध्ययनविधेरर्थज्ञानफलत्वाक्षेपात् तादर्थेन तत्प्रयुक्त एवं विचारो न रागप्रयुक्त इत्यापद्यत इति चेत् । नानुष्ठानै- ककाल्यमात्रादङ्गाङ्गिभावः , दर्शादावभावात् । नापि वेदाध्ययनतन्त्रमध्यविधा- नादनाध्ययनस्य तदङ्गता , तुल्यविधित्वेन तदसिद्धेः । अपि च विषयावच्छि... - न , विचारस्य रागतः प्राप्तत्वम् । ५९ ". नस्याङ्गाध्ययनस्य वेदाध्ययनाङ्गत्वे शिक्षादीनां वेदाङ्गत्वसंशब्दनं विरुध्येत । तस्माद् वेदतदङ्गाध्ययनयोः स्वस्वविषयावाप्तिफलयोर्नाङ्गाङ्गितेति । न चैवं वेदाध्य- यनवदङ्गाध्ययनस्याप्यक्षरावाप्तिमात्रफलत्वे वेदार्थापातप्रतीतेरप्यनुपपत्तेस्तन्निर्णय- रागाभावात् प्रयोजकाभावेन विचारप्रवृत्तिरेव न स्यादिति वाच्यम् । शिक्षादी- नामङ्गतया वेदस्य किञ्चित्कारापेक्षायां दृष्टसम्भवन्यायेन स्वरवर्णप्रकृतिप्रत्ययवि- भागादिज्ञानद्वारा तदर्थज्ञानोपयोगकल्पनया तदापातप्रतीतिसम्भवात् । न चैवं रागप्रयुक्तत्वे विचारस्य 'आचार्यकुलाद् वेदमधीत्य , अभिसमावृत्त्य' 'वेदमधीत्य सायाद्' इति वेदाध्ययनानन्तरकालमेवाभिसमावर्तनप्रसङ्गः, अध्ययनविधेरप्य- क्षरावाप्तिमात्रावसानतया विचारानाक्षेपकत्वेन बाधकाभावात् । किश्चातः । वृत्ते निवेशे नैयमिकनैमित्तिकादिकमविद्वानननुतिष्ठन् अन्धतमसमापयेतेति । न । अव्यक्तस्य सन्ध्योपासनादिवद् उपद्रष्ट्राधुपदेशजन्मनापि तस्य ज्ञानेनानुष्ठानो- पपत्तेः । न च शूद्रस्याप्येवं प्रसङ्ग इत्यपशूदनयविरोधः:, न शूद्राय मतिं दद्याद् न चास्योपदिशेद् धर्म न चास्य व्रतमादिशेद्' (मनु० अध्या० ४. इत्याद्युपदेशनिषेधात् , तस्य मन्त्राभावात् । तस्माच्छूद्रो यज्ञे अनवकप्त इत्याहत्य यज्ञानवकृप्तिवचनाच्च । यद्येवमनपेक्ष्य एव विचारः प्राप्तः । सत्यम् । नानुष्ठानाय तदपेक्षा, स्न्यादीनामन्तरेणापि विचारमनुष्ठानात् । किन्तूपद्रष्टव- चने प्रामाण्यमूलत्वनिश्चयाय प्रष्टुणामुपपादनाय च । न च वृत्ते निवेशे नैयमि- काद्यवरुद्धासंवेशनकालस्य विचारावसरो न लभ्यते । अत एवाहापस्तम्बः 'संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद् भूयः श्रुतमिच्छन्' (१.४.१३.१८) इत्यारभ्य तच्छास्त्रैविप्रतिषिद्धम्' (१. ४. १३. २०) 'नि. वेशे हि वृत्ते नैयमिकानि श्रूयन्ते' (१. ४. १३. २१) 'अमिहोत्रमतिथयः' (१. ४. १.४. १) इत्यादि, इति वाच्यम् । श्रावयितुरिव श्रोतुरपि तदवसरलाभोष- पत्तेः । वृत्त्यर्थतया रागप्राप्तस्यैवाध्यापनस्य शास्त्रानुमतत्वेऽपि कर्मच्छिद्रेष्वेव कार्यत्वात् । श्रोतुरप्येवं कर्मच्छिद्रसंभवात् , तस्यापि हितैषिवचनतो यावदनु- ष्ठेयज्ञानसंभवात् । स्मृतिश्च नैरन्तर्येणाचार्यपरतया समिदाहरणादि कुर्वतो गुरुकु- लवासो नैयमिकाद्यनुष्ठानोपरोधीति तन्निषेधाभिप्राया । अन्यथा श्रावणमपि न श्लो० ८०) . n ।
६० सिद्धान्तसिद्धाञ्जने स्यात् , श्रावयितुरपि 'निवेशे हि वृत्ते नैयमिकानि श्रूयन्त' इति हेतोस्तुल्यत्वात् । अत एव युधिष्ठिरादीनां गृहिणामेव सतां भीष्मादेर्धर्मश्रवणं भारतादिषूपाख्या- यते । तस्माद् रागत एव विचारप्रवृत्तिरिति ॥ विचारस्य रागतः प्राप्तत्वनिरासः । तदिदमापातरमणीयम् । वेदार्थमविचार्याचार्यकुलात् समावृत्तस्य दारसङ्घहे तदनन्तरकर्तव्याज्ञानात् । हितैषिवचनमेलनैकान्त्याभावात् । अन्यथानपेक्ष्यतया विचारशास्त्रस्यैवानारम्भप्रसङ्गात् । यत्तु हितैषिवचने प्रामाण्यनिश्चयाय तदपेक्षेति । तन्न । प्राविचारात् तत्र तदनिश्चयेऽनुष्ठानविघातात् प्रत्यवायापातात् । यदपि प्रष्टुपदेशार्थो विचार इति । तदात्मनः शूद्राद्युपदेश्यत्वमिच्छतामनुरूपं, सुतरा- मपि क्षत्रियादेरुपदेष्टुत्वसम्भवात् । अथौषमन्यवप्रभृतीनां क्षत्रियाद् विद्याग्रहण- मनुश्रूयते । सजातीयावरोपदेष्टुत्वं च क्षत्रियस्य न विरुध्यते , भीष्मादेयुधिष्ठिरा- धुपदेशलिङ्गादिति चेत् । युक्तं प्राचीनशालादीनामुपास्यविषये समुपजातसन्देहा- नामारुणिं ब्राह्मणमुपेत्य तस्याप्यविदितार्थत्वेनापदि क्षत्रियाद् विद्याग्रहणम् । तथा च लिङ्गं- 'न प्राक् त्वत् तु पुरा विद्या ब्राह्मणान् गच्छति' इति । तथा स्मार्त- मपि लिङ्गं ब्राह्मणालाभ एव क्षत्रियाद् वैदिकार्थग्रहणं दर्शयति । यथा "ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रण चर्विजः । प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयते ॥ ते चोचुर्न वयं विद्मः कशेरुः पृच्छयतामिति । कशेरुरपि तेनोक्तस्तथेति प्राह भार्गवम् ॥ शुनकं पृच्छ राजेन्द्र! नाहं वेनिं स वेत्स्यति । स गत्वा तमपृच्छच्च सोऽप्याह शृणु यन्मुने! । न कशेरुन चैवाहं न चान्यः साम्प्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥" (विष्णुपु० अं० ६. अध्या० ६. श्लो० १४-१७) इत्यारभ्य "ततः सर्वं यथावृत्तं धिर्मधेनुवधं द्विज! । कथयित्वाथ पप्रच्छ प्रायश्चित्तं हि तद्गतम् ॥" (विष्णुपु० अं० ६ अध्या० ६ श्लो० ३२) + धर्मधेनुः प्रवर्यहविर्विशेषार्थ पयोदोग्नी धेनुः । भी । ". -- विचारस्य रागतः प्राप्तत्वनिरासः । इत्यादि । एतेन भीष्मादीनां धर्मोपदेष्टुत्वं व्याख्यातम् । तत्रैव भीष्मवदन्यो धर्मज्ञो नास्तीत्यर्थवाददर्शनात् - "अद्यैव परिपृच्छध्वं यद् वो मनसि वर्तते । -ज्ञानान्यल्पीभविष्यन्ति भीष्मे लोकान्तरं गते ॥" न चैवमायतावापदमालक्ष्य क्षत्रियादेरुपदेशार्थो विचार इति युक्तम् , अपुरु- षार्थ दुःखाकरे प्रवृत्त्ययोगात् । न च वृत्त्यर्थः क्षत्रियादेरुपदेशः शास्त्रेऽनुज्ञा- यते । तस्माद् रागाधीने विचारे न त्रैवर्णिकस्य तत्सिद्धिः । अपि च उपयमान न्तरं विचारमुपयतः 'बुद्ध्वा कर्माणि यत् कामयेत, तदारभेत' (आप० ध २. ९. २१. ५) इति स्मृतिरुपरुध्येत । अपि चैवं परिणयानन्तरं गुर्वधीनस्योदकाहरणादिशुश्रूषापरस्य कर्मलोपः स्यात् । यत्तूदकाहरणादि- शुश्रूषाध्ययनधर्मो न विचारयतोऽस्तीति । तन्न । उदितशास्त्रविप्रतिषेधस्मृतेरन- र्थकत्वप्रसङ्गात् । 'ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे' इत्युपास्यविषयसंशय- विच्छेदनार्थमपि प्रवृत्तानां प्राचीनशालादीनां समिदाहरणादिलिङ्गदर्शनात् । धर्मधेनुवधनिमित्तप्रायश्चित्तोपदेशमात्रेण खाण्डिक्यविषये केशिध्वजस्य गुरुनिष्क्र- यदानस्मृतिलिङ्गाच "निष्पादितो मया यज्ञः सम्यक् त्वदुपदेशतः । सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥" (विष्णुपु० अं० ६. अध्या० ६० श्लो० ४२) इति । 'नासमयेन कृच्छू कुर्वीते ति दुरवधारणग्रन्थादिग्रणे शुश्रूषादिनियमस्म- रणाच्च । तस्माद् यत्किञ्चिदपि वैदिकार्थसंस्पर्शि काव्यादिव्यतिरिक्तं गुरोरधिगम्यते, तत्र शुश्रूषादावध्ययनतुल्यतैव । नियमान्तरे परं विशेषं इति । यत्तु वित्तख्या- त्यादिप्रयोजनान्तरस्पृहया शिष्यस्नेहेन वा शुश्रूषामनपेक्ष्य गुरोः श्रावणमुपपद्यत इति । तन्न । तथाप्यशुश्रूषमाणस्य श्रोतुर्धर्मलोपापत्तेः । शुश्रूषामात्रापेक्षिणामपि गुरूणां संभवाच्च । न च तदात्वे तेषां त्यागेनान्येषां ग्रहणमनापदि युक्तम् , तिस्मिन्नेव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः' (आप० ५० १. १. १. १२) इति स्मृतिविरोधात् । अपि च 'एकां शाखामधीत्य श्रोत्रियोऽङ्गाध्या- य्यनूचानः' इति लिङ्गदर्शनादङ्गाध्ययनानियमेनाध्ययनविधिगृहीतस्वाध्यायमा- . + तस्मिंश्चैव' इति मुद्रितापस्तम्बीयपाठः ।
६२ सिद्धान्तसिद्धाञ्जने . " त्रादापाततोऽप्यर्थप्रत्ययाभावे तन्निर्णयरागाभावेन. तत्प्रयुक्त्या विचारारम्भो न स्यात् । तस्मानियमेन विचारमिच्छता नियंतमेव तत्प्रयोजकमास्थेयम् । तत्र नित्यादिविधयो विधेयज्ञानं तत्प्रवृत्तावपेक्षमाणास्तादर्थेन विचारं प्रयोजयन्ति । 'वेदमधीत्य स्वायादि'त्यादेरपि विध्याक्षिप्तविचारप्रवृत्त्यविरोधिनि पूर्वकालत्वादिमात्रे वृत्त्युपपत्तेः । न चैवं काम्यानां विचारनियमो न स्यात् , प्रयोजकानियमादिति वाच्यम् । नित्यादिप्रतिसम्बन्धितया तेषामपि तत एव, विचार्यत्वाद् , अधर्मवत् । अन्यथा ततो विविच्य नित्यादिविज्ञानायोगात् । विचारितेषु तु काम्येष्विच्छातोऽनुतिष्ठेन्न वानुतिष्ठेत् । न कश्चिद्विरोधः । यद्यु- च्येत ---- विचारो न सर्वेषामवश्यकर्तव्यः, स्त्रीणामभावात् । तत्र येषां स्वभाव- विशुद्धसत्त्वानां साङ्गाध्ययनादेव निर्विचिकित्साविज्ञानोपजनः, कृतं तेषां विचा- रेण । येषां तु विना तेन न संशया निवर्तन्ते, ते पुनरनुष्ठेयनिर्णयाय काममूहा- पोहकुशलाः स्वयमेव परोक्तपद्धत्या वा विचारयेयुरिति । तथापि प्रागुवाहादेव विचारितावधृतवेदार्थस्यानन्तरकर्मानन्तरायसम्भवान्न दारसंयोगानन्तरं विचार इत्येव नियम्यत इति । अन्ये मन्यन्ते "यो हवा अविदिताःयच्छन्दोदैवतेन मन्त्रेण यजति याजयति वाध्यापयति वा स्थाणुं वर्छति गर्ने वापद्यते प्र वा मीयते पापीयान् भवति यातयामान्यस्यच्छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति श्रेयांश्च भवत्ययातयामान्यस्यच्छन्दांसि भवन्ति । तस्मादेतानि मन्त्रे मन्त्रे वि- द्याद्” इति श्रुत्या वेदार्थज्ञानस्य विहितत्वाद् , वेद्यतया देवताग्रहणस्यानुऐयमा- त्रोपलक्षकत्वाद्, "अविदित्वा ऋषि छन्दो दैवतं योगमेव च । योऽध्यापयेद् यजेद्वापि पापीयान् जायते तु सः ॥" इति स्मृतौ च योगशब्दोदितविनियोगरूपब्राह्मणार्थस्य ज्ञातव्यत्वाभिधानाद् , " यधीतमविज्ञातं निगदेनैव शब्द्यते । अनमाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।।५।। इत्यर्थाज्ञाने निर्वीर्यत्वनियमाद्, 4 । i -- १. 'ण'ख. पाठः, , धर्मविचारस्यानुपयुक्तत्वम् । "स्थाणुरयं भारहरः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । अर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ||" इति वेदार्थाज्ञानज्ञाननिन्दाप्रशंसावचनाच तज्ञानस्य विधेयत्वोन्नयनाद्, आह्त्य च तस्यापुरुषतन्त्रस्य विधानानुपपत्तेः, करणस्य च स्वाध्यायस्थान्यतो लब्धत्वात् तदर्थनिर्णयानुबूलो विचार एवानेन विधीयते । न च तत्र मन्त्रा- णामृप्यादिविज्ञानविधानप्रतीतस्तस्य चाङ्गाध्ययनसाध्यत्वादनपेक्ष्या मीमांसेति वाच्यं, निर्विचिकित्सज्ञानस्य मीमांसापेक्षत्वात् । न चैवं संशयाभावाय रागत एव विचारः स्यादिति युक्तं , विचारानियमप्रसङ्गस्योक्तत्वात् । एतेन 'अक्षर्मा दिव्यः कृषिमित् कृषत्व वित्ते रमस्व बहुमन्यमान' इतिवत् कृष्यादाविव राग- प्राते विचारे तन्द्रालुप्ररोचनार्थं 'यदर्धातमित्यादि , इति निरस्तम् । प्ररोचनया विधिशक्त्यनुपजने तन्नियमायोगात् । तस्मात् स्वविधिप्रयुक्तानुष्ठान एव विचार इति । तदेवमध्ययनविधितो न विचारक्रमनियमः ॥ धर्मविचारस्य प्राथम्यशङ्का । नाप्यर्थाद् वेदान्तविचारे, कर्मविचारस्यानुपयोगात् । यत्तु अनित्यफ- लाद् विरज्य नित्यफलप्रेप्सोहिं वेदान्तविचारप्रवृत्तिः कर्मफलानित्यत्वाधिगममूला । न च तदधिगमो धर्ममीमांसाव्युत्पाद्यन्यायालोचनेन विना सम्भवति । 'अक्षय्य ह वै चातुर्मास्ययाजिनः सुकृतं भवति' 'अपाम सोमममृता अभूम' 'हिरण्यदा अमृतत्वं भजन्ते' 'अनन्तं हवा अपारमक्षय्यं लोकं जयति, योऽग्निं नाचिकेतं चिनुते' 'नास्येष्टापूर्त क्षीयेते, योऽग्निं नाचिकेतं चिनुते' इत्यादिकर्मफलनित्यत्वाधिगम- स्यान्यानर्थक्येन गुणवादत्वादिन्यायापोद्यत्वात् । अपि च विधित्सितब्रह्मविद्याङ्ग- तयानुष्ठेयानि कर्माणि, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेने ति तत्र तेषां विनियोगात् । तेषां च कर्मविचाराधीनानुष्ठेयाननु- ठेयरूपविभागज्ञानाभावे सर्वापेक्षानयविषयब्रह्मविद्यासाधनभावस्य दुरधिगमत्वात् । यज्ञादिपदार्थाज्ञाने तद्विनियोगरूपवाक्यार्थज्ञानायोगाच्च । तस्मात् फलद्वारेण कर्मणां हानाय स्वरूपेणोपादानाय च धर्मविचारप्राथम्यं नियम्यत इति ।। धर्मविचारस्थानुपयुक्तत्वम् । अत्रोच्यते अधीतवेदान्तापाताधिगतानन्तस्थिरफलाभिलाषवतस्तदुपा- यबुभुत्सया ब्रह्मविचार एव प्रवृत्तिः स्याद् विना धर्मविचारम् । कर्मफलफल्गुत्वा- ema Pr " ६४ सिद्धान्तसिद्धाञ्जने ज्ञानेऽप्यधीतवेदोपादापितकर्मब्रह्मविद्याफलनित्यत्वापाताधिगमस्य स्वरसतो नित्य- फलप्रेप्सोस्तदुपायजिज्ञासायां विशेषहेत्वभावेन धर्मविचारप्राथम्यस्यानियाम्यत्वात् । अपि च 'निचाय्य तन्मृत्युमुखात् प्रमुच्यते' 'तमेवं विद्वानमृत इह भवति' 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादि ब्रह्मविद्याफलनित्यत्वं क्रियाभागेऽपि विपरीताध्ययन. शून्यतयाविप्लुतमधीयानस्याभिलषितनित्यफलसम्भावनोत्कट्येन वेदान्तविचारप्रा- थम्यमेव स्यात् । कचित् कर्मफलनित्यत्वश्रवणेऽपि वेदान्तेषु 'प्लवा लेते अदृढा यज्ञरूपाः' 'नास्त्यकृतः कृतेन' 'न ध्रुवैः प्राप्यते हि ध्रुवं तत्' 'अन्त- वदेवास्य तद् भवति' 'अमुत्र पुण्यचितो लोकः क्षीयत' इत्यादिविपरीताध्य. यनेन तत्सम्भावनाशैथिल्यात् । प्राचीनपुण्यविशेषसम्पदापादितकतिपयन्याय- विशेषानुसन्धाने तत्फलानित्यत्वनिश्चयोपपत्तेश्च । परस्यापि यत् फलं तदनित्य- मेवेति न्यायहायं लौकिकसुखविलक्षणस्वर्गादिवदलौकिकब्रह्मज्ञानादनन्तस्थिरफ- लमपि स्यादिति सम्भावनायाः सुकृतविशेषायत्तत्वस्योपेयत्वात् । अपि चैवं विचा- रितकर्मा तदनित्यफलत्वावगमे यदि ततोऽवर्जनीयदुःखभूयिष्ठफलानिर्विघेत , कामं प्रत्यवायपरिहाराय नित्यादीनि केवलमनुतिष्ठेत् । कुतो वेदान्तविचारे प्रवृत्तिः । यद्यधीतवेदान्ताधिगतानन्तस्थिरफलाभिलाषादित्युच्येत, किं कर्मवि- चारेण । सत्यपि नित्यफलाभिलाषे कर्मफलवैराग्याय तदपेक्षेति चेत् । किं वैरा- ग्येण । कर्मस्वप्रवृत्तिरिति चेत् । ननु ब्रह्मजिज्ञासया सा न विरुध्यते, समुच्चि- ता च कर्मप्रवृत्तिरिति ते मतम् । काम्यकर्मप्रवृत्तिविरोधिनीति चेत् । न । स्वरू- पतो नित्यकर्मभिरविशेषात् । न च तत्फलाभिसन्धिरपि विरोधी । तवापवर्गेऽपि 'सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्' 'स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा वयस्यैर्वा' 'कामान्नी कामरूप्यनुसञ्चरन्' इत्यादिसर्वकामोप- भोगोपगमात् । प्रियाप्रिययुक्तकर्मनिमित्तसंसारगोचरदेहाद्युपभोग्यानि काम्यफ- लानीति तदभिसन्धिर्विरोधीति चेत् । न । केवलानि तथा भविष्यन्ति । ब्रह्म- विद्यासमुदितानि तु 'स एकधा भवती'त्यादिशास्त्रसिद्धसांकल्पिकदेहभोग्यानि भविष्यन्तीत्यविरोधात् । अपि च सासङ्गस्यापि कर्मणः स्वावस्थस्याविरोधित्वाद् ब्रह्मज्ञाने साधनमनुतिष्ठतोऽपि प्रतिबन्धसम्भवाद् 'ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्' (ब्र० ३. ४. ५१) इति सौत्रलिङ्गात् तद् यदि ब्रह्मविद्या जायेत, १. 'वनित्यत्वनि' ख. पाठ..
धर्मविचारस्यानुपयुक्तत्वम् । , ६५ तयैव सर्व कर्म धक्ष्यते । अथ न, कर्मफलान्यपि भुञ्जीयेति विचारितकर्मा काम्यानि च न विजयात् । अपि च फलाभिसन्धेः "एवान्यपि च कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानि" 'फले सक्तो निबध्यत' इत्यादिशास्त्रादन्यतो वा ब्रह्मज्ञानविरोधित्वावगमे तत एव तत्त्यागोपपत्तेः कृतं कर्मविचारेण । अपि च इच्छामात्रोपनमदपरिमितदि- व्यभोगानुगतनित्यनिरतिशयानन्दानुभवं ब्रह्मविद्याफलमधीयानस्य क्लेशात्मकना- नाकर्मसम्बन्धाधीतफलाभिसन्धेः स्वरसतो हानसम्भवेन कर्मविचारानर्थक्यम् । अपि च कर्मविचारेण तत्फलानित्यत्वाधिगमेऽपि तदधिकफलान्तरानवधारणाद् अनवलम्बनो न ततो निर्विद्येत । तथा चाभोणकः- "अलाभे मत्तकाशिन्या जरठालिङ्गनं वरम्" इति । न चापाताघिगतानन्तस्थिरफलावलम्बनो निश्चितमल्पमप्यास्त्रादितजाती- यमह्नाय त्यक्तुमुत्सहेत । अपि निर्वर्तितकर्मविचारो वेदान्तानामपि तदुपद- शितन्यायेन कथंचित् कमॆदम्पर्यमवस्यन् न पृथग् विचारमीक्षेतापीत्युक्तम् , कर्तृ- संस्कारज्ञानपरतया वा कर्तृप्रशंसया वा पारिप्लवार्थतया वा वेदान्तानामप्रयोजक- त्वावगमात् । तथा च दर्शितं -- 'शेषत्वात् पुरुषार्थवादो यथान्येषु --' (ब्र० ३. ४. २) इति. 'पारिप्लवार्था---' (ब्र० ३. ४. २३) इति च । तस्मान्न फलद्वारा हानाय कर्मणां विचारापेक्षा । नापि स्वरूपेणोपादानाय । यदि हि जिज्ञासादि ब्रह्मविद्यया समुच्चित्या- नुष्ठानायेत्युच्येत , किं पुनस्तथानुष्ठितेन कर्मणा भवतीति वक्तव्यम् । न तावद् ब्रह्मविज्ञानं, तस्य विचारोपस्कृतप्रमाणफलत्वात् । नापि भक्त्युपासनाशब्दितं ध्यानं, तस्यापि यथाविज्ञानमेव निष्पत्त्युपपत्तेः । निरन्तराभ्यासेन च तस्य साक्षात्कारपर्यन्तत्वोपपत्तेश्च । नापि मोक्षः, तत्राविद्यानिवृत्त्यंशस्य "भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चांस्य कर्माणि तस्मिन् दृष्टे परावरे ॥" 'क' ख. पाठ..
सिद्धान्तसिद्धाञ्जने ' अत्राह mmaa "ज्ञानाग्निः सर्वकर्माणि भस्मसाद् कुरुते तथा" इति ज्ञानैकसाध्यत्वावगमात् । न च ज्ञानस्य स्वप्रधानतया तथा व्यपदेशः । कर्मणामारादुपकारकत्वे 'तमेतमि'त्यादिविद्याविनियोगविरोधात् । कथमपि तेषां मुक्त्युपायत्वे 'नान्यः पन्था' इत्यादिनिषेधविरोधाच्च । इष्टप्राप्तिस्तु स्वतस्सिद्धा न पृथगुपायसाध्या । विद्यासामर्थ्यादविद्यामूलकर्मकृतप्रकृतिसम्बन्धावरणभङ्गे स्वतस्सि- द्धनित्यज्ञानादेव निरतिशयानन्दगुणब्रह्मस्वरूपानुभवस्य परेणोपगतत्वात् ॥ कर्मणां वेदनसाधनत्वम्। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनेति न यज्ञा- दयो विविदिषायां विनियुज्यन्ते , विषयसौन्दर्यलभ्यत्वादिच्छायाः । रुचि- रूपाया अपि वेदान्तविचारादिप्रवृत्तिपर्यन्तायाः कर्मफलदोषदर्शनप्रगुणितानन्त- स्थिरफलाभिलाषादेव सम्भवात् । अपि च विविदिषा वेदनार्था सती न स्वतन्त्रा कर्मभिरुद्देश्या । ततश्चावान्तरसाध्यौदनोपायप्रवृत्तेः परमसाध्यक्षुदुपशमेच्छाधीन- त्ववदिहापि परमसाध्यवेदनेच्छाधीनत्वं विविदिषोपायप्रवृत्तेः स्यादिति तस्यां जातायां तदुपायविधिवैयर्थ्यम् । अजातायां च तदर्थविविदिषोपायप्रवृत्त्यसम्भ- वात् । तथा च वेदनेच्छायां सत्यां तदर्थविविदिषोद्देशेन कर्मविधानं, तद्विधाने च वेदनेच्छासिद्धिरितीतरेतराश्रयत्वम् । विविदिषाया वेदनाभिरुचिरूपाया अपि धर्माभिरुचेरिवातदुद्देशकृतसुकृताधीनत्वोपपत्तेश्च । अतः, 'असिना जिघांसती'- त्यादिवदिह शाब्दप्रत्ययार्थप्राधान्योज्झमार्थप्राधान्येनेप्यमाणवेदने यज्ञादयो विनि- युज्यन्ते ॥ ब्रह्मवेदनस्योपासनात्मकत्वम् । तच्च वेदनं मुक्तिहेतुतया कर्मभिरुद्देश्यं , न तावद् वाक्यजमेव । 'विज्ञाय प्रज्ञां कुर्वीत' 'अनुविद्य विजानाति' इत्यादितदधिकविज्ञानविधानात् । तच्च सामान्यतो विधीयमानं यावन्तः केचन विशेषाः श्रुत्यादिषु विधीयन्ते, तावतोऽनु- द्रुत्य पर्यवसति 'छागो वा मन्त्रवर्णात्' (जै० ६. ८. ३१) इति न्यायात् । तत्र मननशिरस्कविचारोपस्कृतवाक्यजन्यं ज्ञानं विधित्सितज्ञानस्वरूपोपकारितया २. 'विज्ञाय प्रज्ञां कुर्वीत' 'अनुविद्य विजानाति' 'सोऽन्वेष्टव्यः स विजिज्ञासि- तव्यः' 'श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादावनूद्यमानं न तद्विशेष- रूपतामहति । न च 'सोऽन्वेष्टव्यः' 'श्रोतव्य' इत्यादिः श्रवणादिविधिः स्यादिति शङ्कयम् , अधीतसाङ्गवेदाधिगतफलवदर्थनिर्णयरागप्राप्तविचारे विधिवैयर्थ्यात् । " - - ।
ब्रह्मवेदनस्योपासनात्मकत्वम् । ६७ मननस्य च तत्प्रतिष्ठार्थतार्थप्राप्तत्वात् । तस्माद् ‘ओमित्येवं ध्यायथ आत्मानम्' इति ध्यानरूपताविशेष उच्यते । निदिध्यासितव्य इत्यादौ सन्नन्तनिर्देशाद् ध्यानस्य मुक्त्युपायतयेष्यमाणत्वाभिप्रायात् । 'सत्त्वशुद्धौ ध्रुवा स्मृतिः, 'स्मृति- प्रतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष' इति क्षणिकस्मरणस्वरूपेणं ध्रुवत्वानुप- पत्तर्विजातीयप्रत्ययानन्तरितसन्ततिरूपत्वं विशेषः प्रतिपाद्यते । "अबिन्दुसन्ततिरिव ध्यानं चिन्तनसन्ततिः । तैलधारावदच्छिन्ना ध्रुवानुस्मृतिसन्ततिः ॥" 'आत्मानमेव लोकमुपासीत'' आत्मेत्येवोपासीत' 'मां ध्यायन्त उपासते' "तेषामहं समुद्धर्ता मृत्युसंसारसागरात् " इत्यादिषु तत्परत्वं तदेकनिष्ठालक्षणं विशेषोऽभिधीयते । तात्पर्यपूर्वकानुवृत्तावेव राजानमुपास्ते गुरुमुपास्त इत्यादिप्रयोगात् । 'निचाय्य तं मृत्युमुखात् प्रमुच्यत' । इत्यादौ दर्शनसमानाकारताविशेषो निरूप्यते । *चायो दर्शनकर्मत्वात् । सा च विशदतरावभासरूपता स्मृतेरपि न विरुध्यते, "वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्" "चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत्" इत्यादिदर्शनात् । 'यमेवैष वृणुते तेन लभ्य' इत्यादौ प्रीतिरूपत्वविशेष उपक्षि- . । ": त्यते । कथम् । . "नायमात्मा प्रवचनेन लभ्यो न मेधयीं न बहुना श्रुतेन ।" किन्तु परमात्मनो मामयं प्रामोत्वित्यनुग्रहणलक्षणेन वरणेन यस्य चायं परमात्मा निरतिशयप्रियः, स एव तस्य प्रियतमः सन् वरणीयो भवति । प्रीतिविषयश्च प्रिय इत्युच्यते । तथा च स्मृतिः १. 'यू' क. पाठः 'तन्मृ' इति मुद्रितकठवल्लीपठाः । + 'तिल' इति मुद्रितच्छाग्दोग्योपनिषत्पाठः । * मुद्रितधातुपाठे 'चाय' इत्येव पठ्यते । .
६८ सिद्धान्तसिद्धाञ्जने 7 ha । "प्रियो हि ज्ञानिनोऽत्यर्थमयं स च मम प्रियः" इति, "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥" इति च | सततयुक्तानां परमात्मना सततयोगमाशंसमानानाम् । 'आशंसायां भूतवच्च' (३. ३.. १३२) इति कर्तरि क्तः । तस्मिन् निरतिशयप्रीति- मतामित्यर्थः । प्रीतिपूर्वकं ददामीत्यन्वयः । तथा च परमपुरुषानुग्रहद्वारा तल्ल- म्भनी प्रीतिर्मुक्त्युपायवेदनावस्थाभेदरूपत्वं नातिवर्तते । 'आत्मक्रीड आत्म- रतिरि'त्यादौ चानुक्षणं नवीन इवेष्टविषये निरतिशयस्वदनरूपरत्यात्मकत्वविशेष उदीर्यते । "या प्रीतिरविवेकानां विषयेष्वनपायिनी । स्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ।। युवतीनां यथा यूनि यूनां च युवतौ यथा । मनोऽभिरमते तद्वन्मनो मे रमतां त्वयि ॥" इत्यादिषु प्रीतिरत्योः पुरुषार्थतयेष्यमाणत्वावगमात् । भक्तिरूपत्वं चापरो । विशेषः । "नाहं वेदैर्न तपसा न दानेन न चेज्यया " इत्यादि साधनान्तरं निषिध्य । "भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ! ॥" इत्यादेः "तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते इत्यादिश्रुत्यैकार्थ्यात्, "पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया" "धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । , . १. 'या' ख. पाठ.
६९ । M वेदनस्याप्रायणमनुष्ठेयत्वम् । समस्तजगतां मूले यम्य भक्तिः स्थिरा त्वयि ॥" इत्यादिस्मराणाच । स्नेहपूर्वकानुध्यानात्मा सेवापर्याया भक्तिः । उक्तं च "स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते । भज इत्येष धातुर्वै सेवायां परिकीर्तितः ॥ तस्मात् सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी ॥" इति ॥ . . . meen-- - . विकल्पस्याष्टदोषत्वम् । न चामून्यन्यान्यन्यानि मुक्तौ साधनानि विधीयन्ते, अष्टदोषदुष्टविक- ल्पापत्तेः । विकल्प मन्यतरशास्त्रपरिग्रहे त्रिभङ्गयन्तरेणैकैकत्र प्रामाण्यत्यागाप्रामा- ण्यग्रहणत्यक्तप्रामाण्यग्रहणगृहीताप्रामाण्यत्यागरूपदोषचतुष्टयस्यावर्जनीयत्वात् । त्रिभङ्गयन्तरमनपेक्ष्याप्येकैकत्र प्रतिपत्तिबाधोऽनुष्ठानबाधोऽपूर्वबाधः श्चेति चत्वारो दोषा इत्यप्याहुः । लघुगुरुयत्नविकल्पायोगाच्च । चशब्दाश्रवणाद् द्वन्द्वानिर्देशाच्च न समुच्चयः । निरपेक्षसाधनत्वावगमविरोधाच्च । तथा चोदि- ताशेषविशेषोपसंहारपरं सूत्रम् --- 'आवृत्तिरसकृदुपदेशात्' (ब्र० ४.१.१)इति ॥ फलबाघ- * वेदनस्याप्रायणमनुष्ठेयत्वम् । तदेवंरूपं वेदनमहरहरनुष्ठानाभ्यासाधेयातिशयमाप्रायणादनुष्ठेयं, 'प्रायणा- न्तमोङ्कारमुपासीते'ति श्रुतिदर्शनात् । "क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् । निष्पाद्य मुक्तिकार्य वै कृतकृत्यं निवर्तयेत् ॥" इति स्मृतेश्च । न ह्यत्र देहान्ते मुक्तस्योपासनानिवृत्तिविधेया, स्वतस्सिद्धेः किन्तु मुक्तेः प्रायणोत्तरकालत्वात् तावदनुष्ठेयमुपासनमिति । तथा च सूत्रम् । 'आ प्रायणात् तत्रापि हि दृष्टम्' (ब्र० ४. १. १२) इति । तदुत्पत्तये च यज्ञादीनि यावज्जीवमनुष्ठेयानि, "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते" इत्येवंशब्दगृहीतप्रकृतविद्याकर्मणोर्यावज्जीवमनुष्ठेयत्वश्रवणात् । तथा च भगवान् सूत्रकारः --- 'सर्वापेक्षा च यज्ञादिश्रुतेः ----' (ब्र० ३. ४. २६) 'अमिहोत्रादि तु तत्कार्यायैव ---- (ब्र० ४. ६. १६) 'सहकारित्वेन च' (ब० ३. ४. ३३) इति ।
सिद्धान्तसिद्धाञ्जने तदिदं प्रपञ्चितं वाक्यकारेण – 'वेदनमुपासनं स्यात् तद्विषये श्रवणात्' 'उपासनं स्याद् ध्रुवानुस्मृतिदर्शनाद् निर्वचनाच्च' 'तल्लब्धिर्विवेकविमोकाभ्यासक्रि- याकल्याणानवसादानुद्धर्षेभ्यः, सम्भवाद् निर्वचनाच्च' इति । अत्र शमादीनां काम्यनिषिद्धविषयत्वेन विहितकर्मसमुच्चयोपपत्तिः सम्भवः । निर्वचनं श्रुतिः । विवेकादीनां स्वरूप चाह - 'जात्याश्रयनिमित्तादृष्टादन्नात् कायशुद्धिर्वि- वेकः' 'विमोकः कामानभिष्वङ्गः' आरम्बणसंशीलनमभ्यासः' 'पञ्चमहा- यज्ञाद्यनुष्ठानं शक्तितः क्रिया' 'सत्यार्जवदयादानाहिंसानभिध्या कल्याणानि' 'अपकारास्मृतिरनभिध्या' 'देशकालवैगुण्याच् शोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः' अतीतं पुत्रमरणादि शोकहेतुः, भावि च भयहेतुः । तदनुस्मृतेरभास्वरत्वं मनसोऽवसादः । किमुक्तं भवति, तज्जं दैन्य- मिति । तद्विपर्ययोऽनवसादः इत्यर्थलभ्यम् । तुष्टिरुद्धर्षः । स च देशकालसाद्गु- ण्यात् प्रियवस्त्वनुस्मृतेश्च भनस उत्सेकः । स च विद्याविरोधी । तद्विपर्ययोऽनु- द्धर्ष इत्यर्थलभ्यम् । अत्र यथाक्रमं निर्वचनानि- 'आहारशुद्धौ सत्त्वशुद्धिः' 'शान्त उपासीत' 'अथ मुनिः' 'सदा तद्भावभावितः' 'क्रियावानेष ब्रह्मविदां वरिष्ठः' 'तमेतं वेदानुवचनेन' 'सत्येन लभ्यः' 'न येषु जिह्ममनृतं न माया च' 'नायमात्मा बलहीनेन लभ्यः', 'शान्तो दान्त' इत्यादीनि । तस्मादिष्यमाणवेदनोपायकर्माधिगमाय प्रथमं ताद्वचारापेक्षेति । * कर्मणां वेदनानङ्गत्वम् । अत्राभिधीयते ---- आस्तामुपासनं वेदनमन्यद्वा मुक्तिहेतुरिति । न तावद् अभिमतवेदनोत्पत्ती आहत्य कर्माणि सन्निपतन्ति, स्मृतिमयस्य ध्यानस्यानुभव- संस्कारमूलत्वात् । स्मृतिसन्तत्यविच्छेदे सन्निपातीनि तानीति चेत् । अहो बतेद- मप्रबुद्धित्वमाकीर्णकस्य, अनेककारकव्यापारपूर्वापरानुसन्धानवैयग्र्ये ध्येयस्मरण- रूपस्यैवोच्छदात् । आलम्बनसंशीलनसामर्थ्यादेव स्मृतिसन्तत्यविच्छेदोपपत्तेश्च । लोकवदेव ध्यानस्य निरन्तराभ्यासानुनिष्पादिदर्शनरूपापत्तावपि कर्मणामसन्निपा- तित्वात् । वेदने कर्माणि विनियुञ्जाना श्रुतिरुपयोगं कमपि पश्यतीति चेत् । अहो बतायं तन्त्रमात्रपरतन्त्रप्रज्ञस्याम्नायविस्रम्भः । वाक्यकारः क्रियाया ध्रुवानुस्मृतिहेतु- तामादिक्षदिति चेत् । अन्धगोलापॅलन्यायोऽयमाकीर्णजन्मनः । सुखदुःखाप्तिहानि- हेतुमात्रसम्पत्तिरेव धर्माधीनेति किमत्र विशेषविवक्षयेति चेत् । किमेवं पाकादावपि 4 . कर्मणां वेदनानङ्गत्वम् । ७१ क्षुधादुःखहानसाधने प्रवर्तमानो विचार्यैव धर्म समुच्चित्याचरतु । वेदनोद्देशेन विधानमत्र विशेष इति चेत् । न । दृष्टहेतुसम्भवे वेदने तदुपयोगस्याद्याप्यनि- रूपणात् । शास्त्रार्थाधिगमे दृष्टहेतुकेऽपि तदप्रत्यूहाय देवतारधनाद्यनुसरणादिहापि विद्योत्पत्तिप्रतिबन्धकदुरितोत्सादने तदुपयोग इति चेत् । ननु प्रासङ्गिकनिजस्मृ- तिमात्रनिहतनिखिलस्मर्तृदुरितराशिं परमात्मानमनुध्यायतः कुतः प्रतिबन्धसंभवः । तथा च स्मृतिः "हरिहरति पापानि दुष्टचित्तेरपि स्मृतः । अनिच्छयापि संम्पृष्टो दहत्येव हि पावकः ॥ सकृत् स्मृतोऽपि गोविन्दो नृणां जन्मशतार्जितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥" २॥ । . इति । श्रुतिरपि 'अस्य सर्वे पाप्मान प्रदूयन्ते' 'एवंविदि पापं कर्म न श्लिष्यते' इत्याद्या । तथा च सूत्रं -'तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ----' (ब्र० ४ १. १३) इति । ततश्च उपायदशाप्रभृति भगवज्ञानस्य प्रीतिरूपत्वेनेष्यमाण- तया विचारात्मकं ज्ञानं विधेयमित्युपगमात् स्वस्मिन् प्रीतिमतः स्वप्रियत्वेन भगवता वरणीयतया श्रवणादिप्रवृत्तिमात्रेण परमात्मपरिपालनीयस्य तदनुगुण- विवेकवैराग्यशमदमादिकं यमनियमादिकं चे समेधयतो न दुरितसम्भवः । "सर्वधर्मान् परित्यज्य मामेव शरणं व्रज । अहं त्वा. सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥" इति स्मृतेः । उक्तं च श्रुतप्रकाशिकायाम् 'अहं स्मरामि मद्भक्तमित्युक्तप्र- कारेण साक्षात्कारविरोधिनिवर्तनादिकं भगवत एव भर इति न स्वरूपप्रच्युति- संभवः' इति । ननु श्रूयते - 'शृण्वन्तोऽपि बहवो यं न विद्युः' इति । स्मयते - "योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिम्" इति । तच्च लिङ्गं विद्याप्रतिबन्धकभाव इति । सत्यम् । किन्तु उपस्थितविपाकेन प्रबलेन कर्मणा तत्प्रतिबन्धः । तच्च विद्यया कर्मणा चाशक्यसमुच्छेदं, भोगान्त- ७२ सिद्धान्तसिद्धाञ्जने . ." त्वात् । तथा च सूत्रं -- 'भोगेन वितरे क्षपयित्वा सम्पद्यते' (ब्र० ४. १. १९) इति । अत एवारब्धावसाने जन्मान्तरसञ्चितसाधनो गर्भ एव सन् वामदेवः प्रतिपेद इत्युच्यते । तथा च मन्त्रलिङ्ग 'गर्भ नु सन्नन्वेषाम वेदमहं देवानां जनिमानि विश्वा' इत्यादि । अपर आह -नित्यं तावदग्निहोत्रादि कर्म स्वच्छन्दविच्छेदे प्रत्यवाय- हेतुरिति यावज्जीवमनुष्ठेयम् । विद्या चाप्रायणमनुष्ठेया, अन्तिमप्रत्ययापेक्षणात् । स च चन्द्रादित्यादिप्रकाशवत् तारतम्यवती बहुप्रतिबन्धा च । कर्म च विद्या- सहकारित्वेनानायते "विद्यां चाविद्यां च यस्तद्वेदोभयं सह" इति । तस्य यद्यपि न फलोपकारित्वं, विदुषः सुकृतदुष्कृतविधूननेन विद्यासामर्थ्यादेव मोक्षोपगमात् । तथापि विद्यास्वरूपोपकारित्वमेव कल्प्यते । तच्च न विविदिषोपजने. नैव , येन विद्याकर्मणी व्यवर्धायेयाताम् । न खल्वतिदेशोऽयं, येन कप्तोपकार- मुखेन सहकारिताश्रीयेत । विधिस्त्वेषः । तदनुसारेणोपकारकल्पने च कारणान्त- रप्रसूतेन स्वाकरणप्रयुक्तेन वा दुरितेनारब्धदुरितजन्येन व्याधिना निषिद्धरुच्या- दिना वा मलिनचित्तस्य विद्यास्वरूपप्रतिष्ठयोरभावेन तत्तन्निवृत्त्या सर्वदैवापाय- णानुष्ठेयविद्यास्वरूपोपकारित्वं कर्मणामुपपादयितुं न्याय्यम् । न चारब्धदुरितस्य भोगैकनाश्यतया विद्ययाप्यनिवर्त्यस्य न नित्यकर्मणा निवृत्तिरिति वाच्यम् आरब्धभोगदुरितनिवर्तकश्रीरुद्रसहस्रनामजपादिवदमुष्य प्रबलत्वोपपत्तेः । अत एवारब्धदोषेण दुश्चरितरुचिर्भवतीति तदुपरमश्चोयते "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥" इति । नित्यकर्मणोऽपि प्रबलेनारब्धदुरितेनामतिपूर्वके प्रामादिके दुश्चरणे तद्वि- षयम् ‘एवंविदि पापं कर्म न श्लिष्यत' इति, बुद्धिपूर्वकतद्विषयं च । "अपि चेत् पातकं किञ्चिद् योगी कुर्यात् प्रमादतः । योगमेव निषेवेत. नान्यं यज्ञं समाचरेत् ॥" इति । तस्माद् विद्यासहभावः कर्मणाम् , उपयोगाद् , इति । । . १. दधीया क. पाटः.
MON कर्मणां वेदनानकत्वम् । r1 अत्रोच्यते न तावद् यावज्जीवानुष्ठेयानि कर्माणि । 'जरया वास्मा- न्मुच्यते, त्रिंशतं वा वर्षाणि जीर्णो वा विरमेद्' इत्यवधिविधानात् । 'यदि वेत- रथा ब्रह्मचर्यादेव प्रव्रजेद्' इत्यादिसन्न्यासविधानाच्च । न चानधिकृतविषयं तत् , क्लीबोन्मत्तादीनां कर्मस्विव प्रव्रज्यायामनधिकारात् । "काणं कुष्ठं तथा कुब्जं खञ्जकं वामनं तथा । मूकं च बधिरं चैव सन्न्यासं नैव कारयेत् ॥" इत्यादिनिषेधात् । सकलकर्मत्यागसंकल्पात्मकसन्न्यासस्यानेकाङ्गस्याप्राप्तकर्मभिः क्लीवादिभिरनुष्ठातुमशक्यत्वाच्च । न च 'स तानि प्राग्वा त्यजेदिति प्रागुपनयनाद- प्राप्तकर्मणामपि विधीयमानस्य सन्यासस्य न कर्मप्राप्त्यपेक्षेति वाच्यम् । 'जाय- मानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते' इति जन्मनैव कर्मसम्बन्धश्रवणात् । यद्यप्यत्र यघृणशब्दं ब्रह्मचर्यादिकमेव, न तत्सम्बन्धः, जायमानस्यानुपलम्भात् । अथ तद्विधिसम्बन्धः, सोऽपि न । जायमानस्य विधिप्रतिपत्त्यसामर्थ्यात् । तथापि कर्मविध्यधिकारयोग्यतामात्रमविरोधात् प्रतीयमानं न निवार्यते , निर. थकवाक्यप्रयोगायोगेनावदानस्तुत्यर्थतयापि कथञ्चिदर्थस्य कल्पनीयत्वात् । तस्मादधिकृतस्यैव कर्मसन्न्यासेन विदुषो न नित्याकरणे प्रत्यवायः । अन्यतः सम्भवतोऽपि दुरितस्य विद्ययैवाश्लेषविनाशोपगमात् । अपि च नित्यकर्मानि- वर्तनीयबलवदारब्धदुरितनिमित्तरोगविगीतरुच्यादेरपि सबीजस्य जपयोगादिनि- वय॑त्वे तेनैवावश्यकेन सर्वद्वारप्रतिबन्धनिवृत्त्या विद्यापरिपाकोपपत्तौ कृतं कर्म- भिः । पापाश्लेषवचनस्य 'अपि चेत् पातकं किञ्चित् ' " उपपातकसङ्केषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥" इत्यादेश्च विषयभेदकल्पने मानाभावात् । तदभावे जन्मान्तरेऽपि प्रतिबन्धक्षय- मपेक्ष्य विद्याविपाकोपपत्तेः । अपि चामिहोत्रादिकर्मणामनुष्ठितानां विदुषो विद्यो. पकारित्वे तदीयताप्रयोजकसम्बन्धशून्यत्वलक्षणाश्लेषो विरुध्येत । तदश्लेषश्च इतरस्याप्येवमसंश्लेषः (ब्र० ४. १. १४) इति । श्रूयते च 'उभे उ हैवैष एते तरती त्यादि । न चारब्धप्रतिबद्धफलविषयं तदश्लेषसूत्रं यादृच्छिकसुकृतविषयं काम्यविषयं वेति नियन्तुं शक्यम । विशेषहे- स्वभावात् । तात्कालिकान्नारोग्यादिफलस्य च कर्मणो भिक्षाटनादिदृष्टप्रवृत्तितुल्य- सूत्रितः - ..
७४ सिद्धान्तसिद्धाञ्जने . तया नाश्लेषविषयत्वम् । न च 'विद्यां चे 'त्यादिसहकारित्ववचनं विशेषहेतुः, विविदिषाविरोधिदुरितनिवृत्त्यापि विद्योपकारितयान्यथासिद्धेः । न च कालवि- शेषसंकोचकल्पनमयुक्तमिति शङ्कयम् । वेदानुवचनशास्त्रैकार्योपपत्तौ सम्प्रति तत्संकोचाकल्पनात् । तस्माज् ज्ञानार्थप्रवृत्तिप्रतिबन्धकदुरितनिवृत्त्या कर्मणां तदुपयोगे वक्तव्ये तत्प्रवृत्तेरपि तदितरदोषसंशीलनप्रगुणितप्रवृत्तिविषयगुणभूमपरि- भावनाप्रकर्षमूलाभिरुचौ सत्यां स्वत एव भावात् तदभिरुचिविरोधिविषयकषा- यास्वादकारिप्रबलदुरितारोचकचिकित्सायां कर्माणि विनियुज्यन्ते 'तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति' इति । न च वेदनेच्छासदसद्भावयोर्विविदिषोद्देशेन कर्मविधानानुपपत्तिः, वेदनोद्देशेनापि तदनुपपत्तिप्रसङ्गात् । ब्रह्मवेदने सति सिद्धस्यानुद्देश्यत्वात् । असति च तज्ज्ञानाभावेन तदुद्देशायोगात् । यद्युच्येत- श्रुते मते ब्रह्मणि तदुपासनोद्देशेन कर्मविधानमिति । तर्हि निरतिशयसुखाप्तिहेतु- तयापाताधिगतब्रह्मवेदने जाताभिलाषस्यैव दुरितवशेन विषयरागाद्यरोचकोपहतस्य प्रवृत्तिपर्यन्ताभिरुचीच्छया कर्मभैषज्यसेवोपपत्तिरिति तुल्यम् । तथाहुः- प्रत्यक् प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः। कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥" इति ॥ देवानां कर्मानधिकारः। एवं सति देवादीनामपि तद् यो यो देवानां प्रत्यबुध्यत, स एव तद- भवत्, तथर्षीणामित्यादिलिङ्गावगतो ब्रह्मविद्याधिकार उपपद्यते । तथा च सूत्रं- 'तदुपर्यपि बादरायणः सम्भवात् ' (ब्र० १. ३. २६) इति । कर्म- समुच्चये च विद्यया देवादयो नाधिक्रियेरन् , अत्रैवर्णिकतया देवादीनामनमित्वात् । 'वसन्ते ब्राह्मणोऽमीनादधीते त्याद्यधिकारिनियमात् । अव्यायत्वाच्च कर्मस्वनधि- कारात् ॥ ब्राह्मण्यशब्दार्थः। यत्तु मनुष्यकर्तृकाधान एवं त्रैवर्णिकञ्यार्षेयाधिकारिनियमः। 'देवावै सत्र- मासत' 'विश्वसृजः प्रथमाः सत्रमासते'त्यादिलिङ्गात् । इन्द्रादीनां वृत्रवधादिपा- पप्रायश्चित्ततया क्रत्वनुष्ठानस्मरणाच्च । यद्वा न ब्राह्मणादेब्राह्मण्यादावुत्पत्तिमात्रं १. "ति प्रसि' ख, पाठः.. . --- 7- ब्राह्मण्यशब्दार्थः । ब्राह्मण्यादि, तदभिव्यङ्ग्यजातिविशेषो वा, आदौ ब्रह्मणो मुखबाहूरुपज्जानां पश्चादृश्यशृङ्गविश्वामित्रादीनां च तदभावप्रसङ्गात् । किन्त्वदृष्टविशेषः । स च देवादीनामपि सम्भवति। तथा च लिङ्गं वाजपेयं प्रकृत्य 'तं बृहस्पतिरुदजयत् , तेनायजत, तेनेन्द्रमयाजयदि ति । वाजपेयश्च ब्रह्मक्षत्राधिकारिको गम्यते, 'स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञ' इति । श्रूयते च 'ब्रह्म बृहस्पतिः, क्षत्रमिन्द्र' इति, 'मरुतो वै देवानां विश' इति च । अतोऽमिसम्बन्धो युक्तः । न च यष्टव्यदेवतान्तराभावाद् यजनानुपपत्तिः, अग्नीन्द्रादिशब्दवृत्तिनिमित्तज्ञान- शक्त्यैश्वर्यादिविशेषाणां निरुपाधिकाश्रयतया तत्तच्छब्दवाच्यस्य परमात्मनोऽव्य- वधानेन देवताभिराराध्यत्वादित्यादि । तन्न । अग्न्याधानसामान्यस्य ब्राह्मणाद्यधिकारनिबद्धस्य मनुष्यकर्तृकाधान इति विना हेतुं विशेषणायोगात् । अन्यथा असङ्करजन्ममनुष्याधान इति विशेष्य निषादस्थपतेरिष्टिविधानादाधानमवकल्प्येत । तथा च 'स्थपतीष्टिः प्रयाजवदग्न्या- धेयं प्रयोजयेत्' (जै० ६.८.२०) इत्याष्टमिकाधिकरणविरोधः । लिङ्गमात्रं तु 'गावो वा एतत्सत्रमासते' त्यादिसाधारणमिति गवामप्यधिकारः स्यात् । यथास- म्भवं च सामर्थ्यस्य कल्पनीयत्वात् । न च वृत्रवधादिनिमित्तं पापमिन्द्रादेः । 'न ह वै देवान् पापं गच्छती'त्यादिश्रुतेः । त्रिशीर्षाणं त्वाष्ट्रमहनमिति प्रकृत्य 'तस्य मे तत्र न लोम च मीयत' इति लिङ्गाच । यत् पुनरदृष्टविशेष एव ब्राह्मण्यादि देवा- दीनामपीति । तन्न । तस्य जीवसमवायित्वात् । देहेषु च तज्जन्यतावच्छेदकानु- गतरूपाभावात् । भावे वा सैव ब्राह्मण्यादिजातिरस्तु । सा च न देवादिषु । मनु- ष्यत्वादिसाकर्यमधिजग्मुषो ब्राह्मणत्वाद्यवधारणेऽपि देवादिसंशयप्रसङ्गात् । किन्तु मनुष्यत्वव्याप्यजातिरेव । यद्यप्यनीन्द्रादेब्रह्मक्षत्रादिविभाग आम्नायते । तथापि न ताज्जात्यविवक्षैव । 'आग्नेयो वै ब्राह्मणः' 'ऐन्द्रो राजन्यः' 'मारुतो वैश्यः इत्यादिसम्बन्धभेदनियमनेनान्यार्थत्वात् । अन्यथात्रैव ब्राह्मणराजन्यादिशब्दस्य मानुषे सङ्कोचकल्पनापत्तेः । अत एवं 'अमिरेव देवेषु ब्रह्माभवद् , प्येषु, अमावेव देवेषु लोकमिच्छन्ते , ब्राह्मणे मनुष्यवि'त्यत्र ब्राह्मणत्वेन विव- क्षितेऽनौ ब्राह्मणशब्दो न प्रयुज्यते । चातुर्वर्ण्यसृष्टौ च 'अग्निमसृजते'त्येव ब्रूते तु ब्राह्मणमिति । तदेतद् देवानां ब्राह्मण्याद्यभावे लिङ्गम् । तस्माद् ‘ब्रह्म बृहस्प- तिरि 'त्यादिप्रयोगो गौणः , पालनेन राजन्यानुप्राहकतया च क्षत्रस्येन्द्रस्य पौरो- हित्याद् ब्राह्मणानुग्राहकत्वाच्च । ब्राह्मणत्वाभिव्यञ्जकं तु नैकरूपमिति मुखजाना- . ब्राह्मणो मनु- न .. 1 सिद्धान्तसिद्धाञ्जने . मन्यजानां वा तदविरुद्धम् । एवं च भृगुवचसा वीतव्यस्य तपसा विश्वामित्रस्य च ब्राह्मण्यजात्यवच्छेद्यरूपपरिणामो वेदोज्झमन्यपरिश्रमेण द्विजस्य शूद्रत्वाद्यव- च्छेद्यरूपपरिणामश्च कल्पनीयो नन्दिनहुषादीनामिव जात्यन्तरपरिणामः, न तु दुरधिगमादृष्टविशेष एव ब्राह्मण्यादिः, 'ब्राह्मणो यजेते'त्यादिविध्यप्रतिपत्तिप्रस- ङ्गात् । इति देवानामग्न्यभावादकर्माधिकारो युक्तः। एवमप्यत्र्याषेयत्वानुद्वाराच्च । न चास्मदादीनामिन्द्रादिपदशक्येषु वज्रस्तादिलक्षणेषु हविरुद्देश्येषु तेषां यौगिके- श्वरोद्देशविवक्षायामैन्द्रामेयादिशास्त्रमेकार्थमनुगमयितुं शक्यम् । तस्मादार्थवादिक- मैतिहासिकं वा कर्मानुष्ठानं यदि देवानामुपपादनीयं, तर्हि भवान्तरविषयं तन्नेत- व्यम् । अन्यथा देवानामपि कर्माधिकारे 'पुनरैत्यस्मै लोकाय कर्मणे' 'कर्मभूमि- रियं ब्रह्मन्' "अस्मिन् कृतं तत् परिगृह्य सर्वममुत्र भुङ्क्ते पुनरैति मार्गम्' इत्याद्यसामञ्जस्यादिति दिक् । ननु सगुणासु दहरादिविद्यासु कर्मसमुच्चय इष्यते । तत्र चाधिकारो देवादीनामपीति । उच्यते । न तादर्सेन कर्मविधिरस्ति । यावज्जीवाद्यधिकारविहितानि तु समुच्चीयन्ते, प्रत्यवा(या य)प्रतिबन्धेन विद्यो- त्पत्त्युपकारात् । तत्रैवं सति कर्मानधिकारे देवादीनामसमुच्चितैव विद्या स्यात् । अथवा मा देवानधिकृत सगुणा विद्या । अचिरादिपर्वा हि गतिविद्योपक्रममादित्या- दीनामसम्भविनी । न च कचिदगतिवादं विद्याविधिरस्ति, येन विद्याविधिसाधा- रण्ये गतिवादः सङ्कोच्येत । देवाधिकारवादश्च तत्र तत्र निर्विशेषविद्याविषयो नेष्यते । तस्मादकर्मसमुच्चयो विद्यायाः । न चैवं 'सर्वापेक्षा-' (ब्र० ३. ४.२६) इत्यादिविरोधः । न हि तत्र विद्या विविदिषा वा कर्मकार्यमिति निर्णीयते । किं तर्हि 'अत एव चानी- न्धनाद्यनपेक्षा' (० ३. ४. २५) इति पूर्वसूत्रे विद्यायाः अकर्माणतया स्वतन्त्रपुरुषार्थत्वाद् ऊर्ध्वरेतसामपि विद्यासम्बन्धश्रवणाद्वाग्न्याधानादिकर्मानपे- क्षायामुदितायामत्यन्ततदनपेक्षाप्राप्ताविदमुच्यते- 'सर्वापेक्षे 'ति । तद्विविदि- पाद्वारत्वेऽपि न विरुध्यते । एवं ब्रह्मविद्याधिगमे पुण्यस्याप्यश्लेषऽभिहिते सर्वा- पेक्षाविरोधमाशङ्कय ‘अमिहोत्रादि तु तत्कार्याय-' (ब्र० ४. १. १६) इत्युक्तम् । उत्पन्नया हि विद्यया नश्यन्ति कर्माणि, न श्लिष्यन्ते वा । अमिहो- त्रादीनां च ज्ञानफलापवर्गित्वादविरोध इत्यभिप्रायः । भाष्यकृतस्तु-'ज्ञानस्यैव १. 'द्ध' क. पाठः । --- में ।
त्रयो धर्मस्कन्धाः । wam- , प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यत' इत्याहुः । सहकारित्वं तु यद्यपि तुल्यवत्कार्यकारित्वे स्याद् , दर्शादिवद् दण्डचक्रादिवच्च । अङ्गस्यापि फलोपकारित्व एव, प्रयाजादिवत् स्वरूपसन्निपातिनो द्रव्यादेर्यागसहकारित्वाव्यप- देशात् । तथापि यावज्जीवादिविधिविहितत्वादाश्रमार्थानि कर्माणीति स्थिते तेषा- मेव विद्यार्थत्वे विविदिषार्थत्वे वा नित्यानित्यसंयोगविरोधो मा शङ्कीति संयोगपृथ- क्त्वमात्रमुच्यते 'सहकारित्वेन च' (ब्र० ३. ४. ३३) विहितत्वाद्- (ब्र० ३, ४. ३२) इति । ततश्च स्वोत्पत्तिव्यवधानेन विद्यया फले कर्तव्येऽदृष्टद्वारा विविदिषाद्वारा वा तदुत्पत्तिमपेक्ष्योपपद्यते तत्सहकारित्वं न तु विद्याफलमपेक्ष्यैव , कर्मणाममृतत्वसंयोगाश्रवणात् ।। त्रयो धर्मस्कन्धाः। न च 'त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् , सर्व एते पुण्यलोका भवन्ति , ब्रह्मसंस्थोऽमृतत्वमेतीति यज्ञादिधर्मस्कन्धेष्वन्यतमस्य ब्रह्म- संस्थस्य मुक्तिहेतुत्वमुच्यते , ब्रह्मणि संस्था यस्येति सन्निकृष्टापेक्षत्वादिति वा- च्यम् । 'सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेती'ति व्यवच्छिद्य व्यपदेशादमीषु ब्रह्मसंस्थ इत्यप्रत्ययाद् , अत एव ‘अथैष ज्योतिरि' त्यावाविव समासान्तर्गतसर्वनानोऽप्युपपाद्यविषयत्वात् । अपि च धर्मस्कन्धा इत्याश्रमा गृह्यन्ते, अन्तरेणाश्रमसम्बन्धं पृथग्विधिविहितकर्मरूपभेदे सति त्रैराश्यकरणा- योगात् । तथा च ब्रह्मसंस्थः परिबाडुच्यते, परिशेषादिति युक्तम् । न च तप इत्येव सोऽपि गृह्यते, अरण्यनित्यतासामान्यात् । 'तपो नानशनात् परम्' इति श्रवणात् । 'अष्टौ ग्रासा मुनेर्भक्ष्या' इति परिव्राजोऽष्टग्रासीभोजननियमस्यानशन- प्रायत्वात् । तस्य च मासे मासे चान्द्रायणसमसंख्यग्रासतया यतिचान्द्रायणत्व. प्रसिद्ध्या च तन्नियतस्य यतेः तपश्शब्दोपपत्तेश्चेति वाच्यम् । एवं कयापि कल्प- नया सम्भवमात्रेणात्यन्तधर्मभेदेऽपि तप इत्येव गृह्यादेरपि ग्रहणप्रसङ्गात् । बहु- केर्मायस्ततया गुरुकुलश्रान्ततया च तस्यापि तपस्वित्वात् । 'एतत् खलु वाव तप इत्याहुः, यः स्वं ददाती'ति, 'तपो हि स्वाध्याय' इति च दानादौ तपश्शब्द- निगदात् तन्नियतस्य तन्निर्देशोपपत्तेश्च । निर्देशभेदे सति नान्तर्भाव इति तु तुल्यं यतेरपि ब्रह्मसंस्थ इति स्वधर्मनियतनिर्देशभेदात् । एवं च चतुर्वाश्रमेषु त्रय इति निर्देशोऽनाञ्जसो न कल्पितो भवति । Aur सिद्धान्तसिद्धाञ्जने 'अण्डजानि च जरायुजानि च स्वेदजानि चोद्भिजानि चेति प्रसिद्धच- तुर्विधभूतग्रामे 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति । आण्डजं जीब- जमुद्भिज्जमिति परिसंख्यानं तु स्वेदजोद्भिज्जौ भूम्युदकोद्भेदप्रभवत्वेनैकीकृत्य कथ- ञ्चिन्नीयते गत्यन्तराभावात् । तथा च सूत्रं -- 'तृतीयशब्दावरोधः संशोकजस्य (ब्र० ३. १. २१) इति । तस्मात् सर्वकर्मसन्न्यासिनः कार्यान्तराभावेन ब्रह्मणि संस्था समाप्ति- स्तदेकनिष्ठाधर्म इति गृह्याद्यतुल्यशीलफलतया पृथक् स्कन्धो निर्दिश्यते 'ब्रह्मसं- स्थोऽमृतत्वमेतीति । तत्र कुतोऽमृतत्वफले कर्म समुच्चीयेत ।। परीक्ष्य लोकान् । " परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेद्" इति कर्मत्यागेन मुमुक्षोर्ज्ञानार्थप्रवृत्त्युपदेशाच्च । न च कृतेन कर्मणा अकृ- तोऽसाध्यो लोको नास्ति । किन्तु सर्व एव कृता इति लोकान् कर्मणा चितान् प्राप्यान् परीक्ष्य न्यायैर्निश्चित्यानिर्वेदं कर्मायादिति तदर्थ इति वाच्यम् । अकृत इति कर्मचितानिति च निष्ठार्थबाधेनार्थिलक्षणादोषात् । “तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥" इति प्रक्रम्य "एोहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥" इति नित्यानामाश्रमकर्मणां सत्यशब्दितब्रह्मलोकफलत्वमभिधाय, "प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥" इत्यादिना अवरं काम्यकर्मेति भाष्यदर्शनात् , यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते" इति तत्रैव लिङ्गदर्शनाच काम्यकर्म निन्दित्वा नित्यस्यापि ज्ञानहीनस्य ब्रह्मलोक- फलत्वानुपपत्तेः विद्यां चाविद्यां च । । . "तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्य चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ इति विद्याकर्मसमुच्चयाद् ब्रह्मलोकफलमुपसंहृत्य कैवल्याय कर्मत्यागेन केवलज्ञा- नविधानतात्पर्यविरोधाच्च । अन्यथा सर्व एव लोकाः कर्मसाध्याः । अतः कर्म कुर्यात् । 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेदिति किं केन सङ्गच्छेत । न च "न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः" इति श्रुतेः ब्रह्मलोकस्य केवलकर्मासाध्यतया समुच्चित्य विद्या विधीयते तद्विज्ञा- नार्थमितीति वाच्यम् । 'तपःश्रद्धे ये झुपवसन्त्यरण्य' इत्येव सिद्धत्वात् । तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इति श्रुत्यन्तरे कर्मचितलोकेषु परीक्षणीयार्थस्य दर्शितत्वेन कर्मचितान् परीक्ष्यति तद्विरुद्धविषयत्वकल्पनायोगात् । 'न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्' "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः इत्याहत्य सहोपासनया कर्मणोऽमृतत्वसाधनत्वनिषेधात् । अकार्यतया अमृतत्व- स्याप्रसक्तधनसाधनत्वनिषेधायोगाद् धनसाध्यकर्मणश्च पृथनिषेधाद् न धनेनेति दैववित्तस्य विद्याया एव निषेधनीयत्वात् । प्रपञ्चितश्चायं प्राचीनैरकर्मसमुच्चयों मुक्तावित्यास्तां तावत् । तस्मादू विरोधिदुरितनिवृत्त्या विविदिषायामुपकारीणि कर्माणि, दुरितनिवृत्तिद्वारस्य कृप्तत्वात् । 'तमेतमि 'त्यविशेषेण नित्यकाम्यविनि- योगेऽपि काम्यानामपि 'विवाहादिदेहेन न बैन्द्रं भुज्यते पदम्" स्वफलभोगोपयोगितया कतिपयदुरितनिवृत्तेरपेक्षणीयत्वात् । तथा च श्रुतिः 'धर्मेण पापमपनुदति' . विद्यां चाविद्यां च। "विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती विद्ययामृतमश्नुते ।।" - सिद्धान्तासिद्धाञ्जने । । इति । न ह्यत्रानित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या विवक्षिता, तस्या मृत्युरूपायास्तत्तरणोपायत्वायोगात्। 'मोहो मृत्युः सम्मतो यः कवीनाम्' इति श्रवणात्। नापि मृत्युरत्र ‘यमं त्वेके मृत्युमतोऽन्यमाहुरि'ति स्मृत्या यमः, अविद्या शब्दितकर्मकर्तव्यत्वायोगात् । किन्तु स्वतः संयोगपृथक्त्वेन वा विहितं कर्माविद्या, अविद्यामूलत्वात् । विविदिषाद्वारकविद्योत्पत्तिविरोधीनि नानाफलानि दुरितानीतराणि च मृत्युः । तथा चायमर्थः ---- विद्या ज्ञानम् । चकारात् तदनुबन्धं च । अविद्या कर्म । चकारात् तदुपकरणं च । यो वेद अधिगच्छति । किं ते समुच्चिते । नेत्याह-उभयं , पृथगधिकारत्वात् । " अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया" इति विभागाभिधानात् । एकाधिकारत्वे च साधनरूपैकत्वे तदुभयमित्यनु- पपत्तेः । विनापि तेन समुच्चयप्रतिपत्तेस्तदुपादानवैयर्थ्याच्च । स इति पदम् । हेति निपातः । सहति वा तदर्थे निपातः । यच्छब्दस्य प्रतिसम्बन्धितच्छब्दापेक्षत्वात्। अव्ययानामनेकार्थत्वाच्च । अविद्यया यावज्जीवादिविधिना विविदिषोद्देशेन वानु ष्ठितकर्मणा मृत्यु तीर्खा विविदिषाद्वारोत्पन्नविद्ययामृतमश्नुत इति । अनेनान्यदे- वाढरित्यादिपूर्ववाक्योदितफलभेदः स्पष्टीकृतः । न चैवम् अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः॥" इति केवलकर्मविद्यानिन्दावचनं समुच्चयपरमुपरुध्येतेति वाच्यं, तत्परत्वासिद्धेः । असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥" इति भेददर्शनापेक्षकर्मानुष्ठायिनो निन्दित्वा "यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥" इति केवलविद्यया मोक्षेऽभिहिते केवलकर्मरतनिदर्शनेनापक्ककषायस्यैव " मोहात् तस्य परित्यागस्तामसः परिकीर्तितः ।। दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥' इति स्मृतिदर्शनाद् ब्रह्मविद्यापदेशेनालस्यात् कर्मत्यागनिन्दया कषायपाकावधि- " . --- आतिमृत्युमेति नान्यः पन्थाः । ८१ कर्मावश्यकतापरत्वात् । अनन्तरमेवाविद्यया मृत्यु तीवेति तदाशयोद्धाटनात् । तथा च स्मृतिः- - "तपो विद्या च विप्रस्य नैश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्यया च विमुच्यते ॥" इत्याद्या । न च विद्यानन्तरमुपेयप्राप्तिविरोधि किञ्चित् कर्मान्यद्वा कर्म कर्तव्यमस्ति। विद्यासामर्थ्यादेव कर्माविद्याविदाहादित्युक्तम् । अन्यथा 'अन्यदेवाहुरि'त्यादिफल- भेदोक्तिविरोधात् । योग्यत्वात् सहेत्येव पदं साम्प्रदायिकमाश्नित्य सगुणविद्या- समुच्चयोऽनेन विधीयत इत्यपि भगवत्पादाः । केवलब्रह्मविद्यायां तु दुरितनिव- त्यादिद्वारैव कर्माण्युपकुर्वन्ति । स्मृतावपि "कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञान प्रवर्तते ॥" इत्यत्र कषाये विरोधिदुरितमूलरागादौ क्षपित इत्येव पर्याप्तौ तत इति ग्रहणं विविदिषाव्यवधि दर्शयति । "तदर्थमुक्तं तप एतदिज्या ताभ्याम सौ पुण्यमुपैति विद्वान् । पुण्येन पापं विनिहत्य पश्चात् स जायते ज्ञानविदीपितात्मा ।। ज्ञानेन चात्मानमुपैति विद्वान्" इत्यादौ च पश्चाद्रहणमुक्ताभिप्रायम् । अन्यथा तत इति पश्चादिति च वैयर्थ्यात् । 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषती'त्यत्र यद्यप्युन्निनीषा भगवतोऽपवर्गप्रापिपयिषैव, तथापि न तदुपायतयैव कर्मणाम- नुष्ठापनमीशस्य । "तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादि कर्मापवर्गोपायत्वनिषेधात् । न च ज्ञानप्रतिपदोऽचिरादिकादन्योऽध्वा ब्रह्म- गमाय निषिध्यते, न कर्म साधनान्तरमिति वाच्यं, 'तमेव विदित्वे'त्यवधा- रणोपादानात् । तत्र ज्ञानोपक्रमादचिरादेरन्य इत्यधिकाबापस्यामूलत्वाच्च, . ८२ सिद्धान्तसिद्धाञ्जने मुक्तो कर्मानुपयोगस्योक्तत्वाञ्च । नापि दारुयन्त्रमिव चेतनमाविष्टभूत इवेशः कारयति, अबुद्धिपूर्वकत्वे कर्मनिमित्तसंसारभोगानुपपत्तेः । किन्तु समीहितसा- धनतया कार्यताबुद्धिजननेन । "यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्" इति स्मृतिलिङ्गात् । तदयमर्थः यंकञ्चिदुन्निनीषन् भगवान् मुक्त्युपायविद्या- भिरुचीच्छामुत्पाद्य तादर्थेन साधु कर्म कारयति । तस्माद् विरोधिदुरितनिवर्तनेन निःश्रेयसोपायविद्यार्थप्रवृत्त्युपयोगिविविदिषोदयमात्रावसानानि कर्माणि विद्यातः सुदूरमपव्यस्यन्ते । अथाप्यदृष्टद्वारा विद्यावसानान्येव कर्माणि । तथापि न ब्रह्मविचाराव्य- वहितपूर्वसमयविचारणीयानि, चित्रादिवदनियतफलतयातिक्रान्तजन्मान्तरशताच- रितैरपि तैरदृष्टद्वारे सति धर्मक्षपितदुरिततया न्यग्भूतरजम्तमोमलचित्तसत्त्व- स्य प्रत्यक्षोपपत्त्यादिमूलविवेकवैराग्यादिशालिनो दृढतमविविदिषायामुज्झितसकल- कर्मलिङ्गस्य विचारादिभिरेव विद्योत्पत्त्युपपत्तेः । अथ विद्यापरिपाकपर्यन्तोपायानु- ष्ठानौपयिकविविदिषानुच्छेदायैव निवर्तनीयदुरितानन्त्ये तदा तदाङ्कुरत्तत्तदुरित- निवृत्तये तव सन्न्यासश्रवणादिनियमवत् कर्मणामपि सहाचरणं स्यादिति चेत् । तत्र यदि प्रकृतिसम्बन्धापगमे नित्यविज्ञानेन ब्रह्मस्वरूपगुणविभवानुभवावधिर्वि- द्याविपाक इत्युच्येत, न तावत् कर्माचरणसम्भवः, देहादुत्क्रान्तस्य लिङ्गमात्रा- नुगतस्य तदयोगात् । न चोत्क्रामत एव ब्रह्मप्राप्तिः, विदुषः सम्परायकाल एव सर्वकर्महानावपि विद्यया ब्रह्मप्राप्तौ देवयानपथिकस्य लिङ्गशरीरस्थित्यभ्युपग- मात् । नापि प्रायणावधिविद्याविपाकः, तदुत्तराधासम्भवेन तदश्लेषवचनविरो- धात् । नापि दर्शनरूपापत्त्यवधिः, अधिमानतीव्रसंवेगानामासन्नतमायां दर्शन- रूपापत्तौ विद्याकर्मणोरामायणानुष्ठेयत्वोपगमविरोधात् । अपि च विद्यात्मक एव परमधर्मे सकलदुरितघस्मरे किं कर्मणेत्युक्तम् । तथाच स्मृतिः- "इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥" (याज्ञ० १.८) इति । आत्मलाभान्न परं विद्यते' (आप० ध० १. ८..२२. २) इति च । अपि च प्राप्ते समुच्चये तादात्विकदुरितनिवृत्तिः प्रयोजनमि- क यतेः काभावः । ८३ त्युपपत्तिमात्रम् । प्राप्तिरेव तु वक्तव्या । यज्ञादिश्रुतिस्तावत् फलपर्यन्तप्रवृ- त्तिहेतुतीव्रतमविविदिषासम्पन्नं नाधिकर्तुमलम् । तदेकफलत्वे कर्मणो लब्धफला- धिकारिकत्वायोगात् । न च विद्योपायमनुतिष्ठत एव नवनवा विविदिषा कल्प्या, वैयर्थ्यात् , तस्याः प्रवृत्तिहेतोरेवाफलानुवृत्त्युपपत्तेः । न च विषयरागान्तराये विद्यानुष्ठानसन्धानाय विविदिषान्तरं कल्प्यम् । निरवशेषविमृष्टविषयरागकषाय- स्यैव ब्रह्मविद्याधिकारात् । साक्षात्कारपर्यन्तविद्यास्वरूपोपकारित्वेऽपि कर्मणां विरोधिनिवृत्तिद्वारस्य व्यवधानेऽपि सम्भवेन समसमयानुष्ठानानियमात् ।। . आत्मक्रीडः। "आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः" इति न या काचिदेव क्रिया विहितक्रिया बोच्यते, येन रतिशब्दोदितज्ञा- नसहभावो गम्यते । किन्तु श्रवणनिर्वृत्तविज्ञानो. मननं कुर्वन्नात्मक्रीड उच्यते । स्वपक्षविपक्षपरिष्कारतिरस्कारानुगुणनानायुक्तिप्रतिसन्धानं हि तर्करसिकचित्तस्य क्रीडनमिव भवति । निदिध्यासनमेव स्वादुतापन्नं रतिरुच्यते। तान्येतानि श्रवणादी- नि क्रियान्तरसमुच्चयव्यावर्तनेन फलविवक्षयानूद्यन्ते-'क्रियावानेष' इति । तस्येदं फलमाह -~~-'ब्रह्मविदां वरिष्ठ' इति । श्रवणनिवृत्तौ ब्रह्मवित् । मननप्रतिष्ठायां ब्रह्मविद्वरः, विषयासम्भावनादिनिवृत्त्या स्थिरीकृतज्ञानत्वात् । निध्यानपरिपाके च तद्वरीयान् तस्यैव साक्षात्कारकल्पत्वात् । एतदन्ता च दुर्लक्षव्यवधिसाक्षा- कारफलावधिश्रवणादिक्रियैका पर्यवसन्नेति तावतैव प्राप्तफलतया क्रियावानिति प्रशंसापरमतुप्प्रत्ययेन कर्तव्यसमाप्ति सूचयित्वा तेषामेष वरिष्ठोऽभिधीयते, आत्मरतेः क्रियान्तराभावात् । “यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।।" इति स्मरणात् ॥ . यतेः कर्माभावः। ‘स खल्वेवं वर्तयन्यावदायुषमिति न. निर्गुणविद्याविषयं, लोकविशेष- सम्पत्त्यनुबन्धात् प्रकृतदहरविद्याविषयत्वोपपत्तेः । अन्यथा 'एतमेव प्रवाहिनो लोकमिच्छन्तः प्रव्रजन्तीति विद्यार्थसन्न्यासविधिविरोधात् । न च तदाश्रम- कर्मसमुच्चयो विद्यायाः स्यादिति शङ्कयं , विद्याङ्गसन्न्यासे शमदमादिव्यतिरेके- सिद्धान्तसिद्धाञ्जने णानुष्ठेयकर्माभावात् 'ते ह स्म पुत्रैपणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीति श्रवणात् । " मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुनरान् । अतस्ते कर्मसूद्युक्ताः प्रावर्तन्ताविचक्षणाः ॥ अतः सन्न्यस्य सर्वाणि कर्माण्यात्मावबोधतः । हत्वाविद्यां धियैवेयात् तद्विष्णोः परमं पदम् ॥" इति भाल्लविश्रुतेः । "सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी" "मोक्षस्य सर्वोपरमः क्रियाभ्यः" "सानं त्रिषवणं प्रोक्तं यतीनां तु त्रिदण्डिनाम् । न तत्परमहंसानां युक्तानामात्मदर्शिनाम् ॥" "नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी।" "त्यज धर्ममधर्म च उभे सत्यानृते त्यज ॥ 'सत्यानृते सुखदुःखे वेदानिमं च लोकममुं च परित्यज्यात्मानमन्वि- च्छेद्' (आप० धर्म० २. ९.२१. १३) इत्यादिस्मृतेश्च । दृष्टार्थभिक्षाचरणादिषु च नियमानिष्टेः । 'तच्छास्त्रैविप्रतिषिद्धम् ' (आप० धर्म० २. ९. २१. १६) इति सत्यादिवर्जनं प्रतिषिद्धमिति चेद् , न, तस्य स्वयमेव विहित- सर्वतः परिमोक्षमेके' (आप० धर्म० २. ९. २१. १२) इति प्रक्रम्य सत्यादिवर्जनमुक्तमेकीयमतमिति चेद्, न , ‘तस्य मुक्तमाच्छादनं विहितम्' (आप० धर्म०२.९.२ १.११) इत्युक्त्वा सर्वतः परिमोक्षवचनस्य वासो- मात्रविषयत्वात् , प्राक् सत्यादेः स्वयमविहिततया तद्वर्जनस्यैकीयमतत्वानुपप- तेश्च । अपि च यदि सत्यादिवर्जनं तत्पदेन परामृश्य विप्रतिषिद्धमुच्यते । 'स- त्यं परं परं सत्यमित्यादिना सत्यादीनि ज्ञानसाधनपर्वाण्यनुक्रम्य 'तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति नैष्कर्म्यलक्षणस्य सन्न्यास- स्योत्कर्षाभिधानं सत्याद्यवरसाधनहानेन परसाधनभूतसन्न्यासोपादानफलं न स्यात् , तदुपादानमात्रस्य साधनत्वाभिधानादेवोपपत्तेरुत्कर्षोक्त्यनपेक्षत्वात् । न चैवं सत्यानृतादिविधिनिषेधातिक्रमे स्वैरचारी निरयमापद्येत , दूरे तस्य निःश्रेय- , त्वात् ।
यतेः कर्माभावः . । 11 साधिगम इति वाच्यम् । विषयरसवशंवदहृदयो हि तादयन सत्येव विधित निषेधसम्बन्धे स्वच्छन्देन तमतिक्रामन् प्रत्यवेयान्निरयं चर्च्छत् । विधित एव तु विधिनिषेधसम्बन्धमतिक्रान्तस्य दृष्टानुश्रविकनिखिलविषयवितृष्णस्य संसा- रमहाविषभेषजब्रह्मविद्यैकप्रयोजननिखिलवाङ्मनःकायप्रवृत्तेः परमहंसपरिव्राजक- स्योक्तदोषाप्रसङ्गात् । तस्य प्राणयात्रादिदृष्टार्थप्रवृत्ताववर्जनीयतया सम्भवतोऽपि प्रामादिकवृजिनस्य ब्रह्माधिगमकालानलशल्मलीतूललवमात्रस्याकिञ्चित्करत्वात् । न चैवमपि सत्यादिपर्वाम्नातस्य शमादेरप्यनपेक्षाप्रसङ्गः, सर्वविषयवितृष्णस्य स्वत एव भवतस्तस्यावर्जनीयत्वात् । विक्षेपनिवृत्त्या ज्ञानस्वरूपसंन्निपातितया तद- ङ्गत्वनियमाय प्रतिप्रसवाच्च । नापि सुखदुःखवर्जनं शास्त्रविप्रतिषिद्धमुच्यते । सुखदुःखयोरारब्धनिमित्तजन्मनोः स्वरूपेण हातुमशक्यतया तदभिनन्दद्वेष- त्यागस्य सर्वशास्त्रसम्प्रतिपन्नस्य निषेधायोगात् । अथोच्येत --- 'स्वाध्याय एवो- त्सृजमानो वाचम् -'(आप० धर्म० २. ९. २१ १०) "यथोक्तान्यपि कर्माणि परिहाप्य द्विजोत्तमः । आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ।। सर्व तु सन्न्यसेद् विद्वान् वेदमेकं न सन्न्यसेत् ।" इत्यादिशास्त्रैः विप्रतिषिद्धं वेदहानमुच्यत इति । न । "कुड्डम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः ॥" इति बाप्कलश्रुती 'यज्ञोपवीतं वेदांश्च सर्व तद् वर्जयेद् यतिः" इति कठश्रुतौ "नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन" इति दक्षस्मृतौ च वेदत्यागस्य विहितत्वात् । 'स्वाध्याय एवोत्सृज- मानो वाचमि'त्यादेश्च प्रणवोपनिषदादिविषये कुटीचकादिविषये वा सावकाश- त्वात् । 'कुटीचको नाम पुत्रादिभिः कुटिं कारयित्वे'त्यादि प्रस्तुत्य ‘जपस्वाध्या- -- ". -- *- १, 'पानुपा' ख, पाठः, " सिद्धान्तसिद्धाञ्जने + - यध्यानतत्परः' इत्यादिस्मरणात् । नापि लोकहानं विप्रतिषिद्धमुच्यते, साधनभूतपुत्रवित्तलोकैषणाव्युत्थानस्य श्रुतिचोदितत्वाद्, 'अनिहोऽनमुत्रश्चरे- दिति स्ववचनविरोधाच्च । आत्मान्वेषणस्य च मुक्तिहेतुतया सकलश्रुत्यादिसि. द्धस्य शास्त्रविप्रतिषेधोक्तचसम्भवात् , 'बुद्धे क्षेमप्रापणं शास्त्रविप्रतिषिद्धमुच्यत' इत्यत्र वक्ष्यामः । तस्माज्ज्ञानसन्न्यासे परमहंसाख्ये कर्माभावान्न तत्समुच्चयो विद्यायाः । न चैवं सति 'बुद्धा कर्मणि यत् कामयेत, तदारभेत' (आप० धर्म २. ९. २१. ५) इति मौनस्य कर्मावबोधानन्तर्यनियमानन्वयः, अनुष्ठेयकर्मा- भावादिति वाच्यम् । लक्षणाय 'चत्वार आश्रमाः मौनं गार्हस्थ्यम्' (आप० धर्म० २. ९. २१. १) इत्यादिविभागोद्देशेन समभिव्याहृतस्यापि मौ- नस्य सर्वकरणव्यापारोपरमात्मकस्य नैष्कर्म्यसन्न्यासस्य कर्मावबोधानन्तर्यान- न्वयेऽपि विरोधाभावात् ॥ विविदिषाशब्दार्थः । अपि च न वेदानुवचनादीनि विद्यायां विकल्प्यन्ते, अष्टदोषापातात् । समुच्चीयन्ते तु, पृथक्पदोपात्तसकलसाधनोपरक्तैकभावनाविधानात् । अत एव कथं नाम सर्वावच्छिन्नैकभावना विधीयतेति फलपदे विधिप्रत्ययोपादानमर्थवत् , विविदिषाया विधेयसाधनसमभिव्याहारादेवापेक्षितफलभावप्रत्ययोपपत्तेः । अन्यथा वाक्यभेदप्रसङ्गात् । न चारुणादिवदिह विशिष्टविधिः, विविदिषायाः फलत्वे- नाविधेयत्वात् । प्राप्तफलभावनायां च भिन्नकरणविभक्तिनिर्दिष्टानेकविधाने वाक्यभेदापरिहारात् । नहि फलकर्तव्यताप्युपदेशगम्या, किन्तूपायकर्तव्य- तैव । यथाहुः -- 'वेदैवासौ मयैतत्कर्तव्यमिति । उपायं तु न वेद । तस्योपायः कथनीय' इति । आह च वार्तिककारः . . "सर्वत्रावस्थितो न्यायो भावनांशद्वये विधिः” इति, "फलांशे भावनायाश्च प्रत्ययो न विधायकः" इति च । फलविधिरिति तु तत्सम्बन्धितारूपेण तदुपायविधिरेवोच्यते, विधे- र्भावार्थविषयत्वात् । नहि दर्शादिवत् समुच्चित्य साधनता वेदानुवचनादीनां, येन पृथक्साधनविभक्तिनिर्देशो विरुध्येत । दण्डचक्रादेरिव साधनानां तेषां ८७ विविदिषाशब्दार्थः । समुच्चयविधानात् । अत एव फलान्तरापनयमात्रेणानपेतसाधनरूपाणामेव यज्ञा- दीनां विविदिषासंयोगविधौ कृप्तमेव द्वारभुपजीव्यते, नापूर्वमारब्धदुरेतनि- वृत्त्यादि द्वारं कल्प्यते । न च तानि सर्वाणि ज्ञानमनुतिष्ठतानुष्ठातुं शक्यन्ते । न चाचार्यकुलादिषु भिन्नकालप्रयोगस्थानामेव तेषां विद्यासमुच्चय इति वाच्यम् । तथापि चातुराश्रम्यनियमानुपपत्तेः । 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद्वेति प्रव्रज्यानियमश्रुतेः । 'वनी भूत्वा प्रव्रजेत्', "वनेषु तु विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्ता सङ्गान् परिव्रजेत् ॥" है. wit इत्याद्याश्रमक्रमनियमस्य कषायपाकसम्भवाभिप्रायत्वात् । तथा च लिङ्गं- "यदहरेव विरजेत् तदहरेव प्रव्रजेत् ", "भावतः करणैरेभिर्बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।। संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥" इत्यादि । न च वेदानुवचनश्रुतिश्चातुराश्रम्यविषया, विशेषनियमायोगात् । अपि च सूत्रकारः 'स्तुतयेऽनुमति' (ब्र० ३. ४. १४) 'इति विदुषो न कर्म नियम्यते । "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इति विद्यास्तुतये कर्मानुमतिरेव । तथापि 'न कर्म लिप्यते नरे' इति वाक्यशेषेण विद्यास्तुता भवतीत्याह । 'कामकारेण चैके' (ब्र० ३. ४. १५) इति च किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक' इति विदुषः कर्मत्याग व दर्शयति । 'उपमर्दै च' (ब्र० ३. ४. १६) इति च यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येदिति विद्यया भेदाश्रयकर्मोपमर्दमधीयत इति वदन् विरोधा- दसमुच्चयं मन्यते । यत्तु ब्रह्मविद्या कर्माङ्ग मा भूदिति समस्तसांसारिकदुःखमूलपुण्यापुण्यकर्म- णो विद्ययोपमर्दोऽनेन सूज्यत इति । तन्न । कर्माङ्गावबद्धब्रह्मविद्यायाः कर्मसमृद्धयर्थ- का ८८ सिद्धान्तसिद्धाञ्जने वाजीकारात् । स्वरूपेणाविरोधे तस्यास्तदङ्गताया एवोपपत्तेरत्यन्तस्वातन्त्र्यायो. गात् । "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्याम्नायत इति चेत् , प्रशंसैषा विद्याया भविष्यति । अपि च तव समुच्चित्या- नुष्ठेयानामग्निहोत्रादीनामङ्गं विद्या भविष्यति, अविरोधात् । मुक्तावदृष्टद्वारत्वस्यो- भयत्रापि तुल्यतया नियमहेत्वभावात् । एवं च 'यदेव विद्यया करोतीति नासा- र्वत्रिकी कल्पिता भवति । अथ विद्यायाः श्रुतामृतत्वसाधनभावमवभज्यारादुप- कारेण कर्माङ्गत्वकल्पनाद् वरं कर्मणामेव विद्याङ्गत्वमङ्गीकृतं, विद्यासाधनताश्रव- णात् । प्रतिबन्धनिवृत्त्या ज्ञानस्वरूपोपकारसम्भवाञ्चेति चेत् । तथापि सौत्रोप- मर्दन्यायानुपपत्तिः । अपि च 'शान्तो दान्त' इत्यादिसर्वकरणव्यापारोपरमरू- पशमाद्यङ्गकत्वाम्नानाद् विद्यायास्तद्विरोधिव्यापारात्मककर्मैककाल्यानुपपत्तिः । न च निषिद्धकाम्यविषयत्वे शमादीनामविरोधः, नित्यादिविषयप्रवृत्त्या भिन्नविषयत्वा- दिति शङ्कयम् । नियमहेत्वभावाद् , विद्यार्थे सर्वकर्मत्यागस्य चोदितत्वाच्च । अपि च विद्याकर्मणी नाप्रायणमनुष्ठेये । नयुत्पन्नैव विद्या पुनरुत्पाद्यते । न च फलाय विद्यान्तरमुत्पादनीयम् । तत्त्वविज्ञानपरिशुद्धौ सकृदुदिततत्त्वसाक्षा- कारादेवाविद्यावरणनिवृत्तौ निरङ्कुशनिरतिशयब्रह्मानन्दानुभवसम्भवात् । सा चैषा मुक्तिरिति तदवसानं श्रवणादिमयं विज्ञानमनुष्ठेयमित्युच्यते । 'क्षेत्रज्ञः करणीं ज्ञानं करणमित्यादौ निवर्तयेदिति चानपेक्ष्यत्वमुच्यते, न त्वामायणमाव- त्तिर्विधीयते, विपरीतलक्षणाहेत्वभावात् । न चैवमावृत्तिन्यायविरोधः, परविद्या. विषये साक्षात्कारावधि साधनावृत्तेरिष्टत्वात् । उपासनात्मकं च विज्ञानमाप्रायणा- दनुष्ठेयं चोद्यते स खल्वेवं वर्तयन्” इत्यादौ । यत्रेदं 'प्रायणान्तमोङ्कारमभिध्या- यीते ति निगद्यते अदृष्टफलस्यान्त्यप्रत्ययसापेक्षत्वात् कर्मफलवत् , तद्धि प्राय- णकाले प्रतिपत्तव्यभावनाविज्ञानमपेक्षते । 'यचित्तस्तेनैष प्राणमायाति प्राणस्ते- जसायुक्तः सहात्मना यथासङ्कल्पितं लोकं नयति', "तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य" इत्यादिश्रुतेः, 'तदोकोग्रज्वलनं तत्प्रकाशितद्वारः-' (ब० ४. २. १७) .
-- ८९ . 4) विविदिषाशब्दार्थः । इत्यादिसूत्राच । विद्यायामन्त्यप्रत्ययश्च प्रत्ययात्मकोपासनानातिरिच्यते । यत्रे- दमुच्यते 'स यावत्क्रतुरस्माल्लोकात् प्रैति', "भन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥" इत्यादि । तत्र च विद्याफलेऽपि कर्मसमुच्चयो न निवार्यते । न च "यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" "इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय त मृत्युमविद्यया ॥" इत्याद्याचारदर्शनात् परविद्याकर्मसमुच्चय इति वाच्यम् । 'विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे' "न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥" इत्यादिविपरीतदर्शनात् । तथा च सूत्रं 'तुल्यं तु दर्शनम्' (ब्र० ३. ४. ९) इति । न च त्यागवचनानि साभिसन्धिकर्मविषयाणि, काम्यकर्मणो मोक्षकफलब्रह्मविद्याविरोधित्वादिति वाच्यम् । विद्याप्रक्रम एव तत्त्यागेन विदुष- स्तदप्रसक्तेः । अनुष्ठानवचनानां यावज्जीवादिचोदितनित्ययज्ञाध्ययनादिविषयत्वौ- चित्यात् । अत एव विदुषो भरतस्य नित्यानाचरणमेव दर्शयति 'न पपाठे' त्यादि। तं तादृशमसंस्कारविप्राकृतिविचेष्टितम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥" इत्यादिलिङ्गाच्च । अपि च केकयस्य तावदपरब्रह्मविदो युक्तं कर्माचरणम् । परविदोऽपि वा तस्य लोकसङ्ग्रहप्रयोजनत्वात् । "लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि" इत्यादिस्मरणात् । इयाज केशिध्वज इत्यादौ च नांयमर्थों ज्ञानव्यपाश्रयोऽधिग- तब्रह्मानुभव इति, किन्त्वपेक्षितं फलमुपायप्रवृत्तेराश्रयो भवतीति ज्ञानव्यपाश्र- यो विविदिषुरुच्यते । तस्येदं प्रयोजन- "ब्रह्मविद्यामधिष्ठाय सन्तं तत्प्रतिबन्धकम् । walam N भ ९० सिद्धान्तसिद्धाञ्जने मृत्युं दुरितं तरितुम्" इति । खाण्डिक्याय ज्ञानोपदेशस्तु तस्य शास्त्रन्यायनैपुण्येनाप्युपपद्यते । अथवा ज्ञानमेव व्यपाश्रयोऽस्य न कर्मादि, ततो लब्धव्याभावात् । स तथाभूतोऽपि ब्रह्म- विद्या समूलकर्मनिर्माथिनीमप्यधिष्ठाय नियम्याभिभूय प्रवृत्तफलं मृत्यु पाप्मा- नमविद्यया लोकसङ्ग्रहार्थमध्यनुष्ठितेन कर्मणा तदनुष्ठानायासजनितदुःखफलेन तरितुमियाज यज्ञानित्यर्थः ।। "अहं ह्यविद्यया मृत्युं ततुकामः करोमि वै । राज्यं यागांश्च विविधान् भोगैः पुण्यक्षयं तथा ।।" इति तस्यैव भोगनिमित्तपुण्यक्षयवचनसमभिव्याहारात् । "जातिस्मरोऽप्यसौ पापक्षयकाम उवाह ताम्' इति भरताख्याने दर्शनाच्च । "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति यदि ते ज्ञानिनः, कर्मणैव हि सह संसिद्धिं गताः लोकसंग्रहं कुर्वन्तो न कर्मात्याक्षुः । अथ न, कर्मणा निरभिसन्धिकृतेन संसिद्धिं सत्त्वशुद्धिलक्षणां गता इत्यर्थः, " योगिनः कर्म 'कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये" इत्यादिदर्शनात् । तस्मात् तवाविधेयंश्रवणमननाङ्गत्वायोगेन विधेयनिदिध्यास- नाङ्गतया समुञ्चित्योपादानस्यापि कर्मणां शमादिवदनन्तरविचारेऽप्युपपत्तेर्न तद्वि- चारप्राथम्यनियमः । अथोच्येत 'तमेताम'त्यादिवाक्यार्थस्य विद्याकर्मसाध्यसाधनभा- याय तायीकविचारगोचरस्य, यज्ञादिपदार्थाज्ञाने दुर्ज्ञानतया तज्ञानाय कर्मविचारप्राथम्यमिति । तथापि तृतीयलक्षणस्यैवं कर्मविचारानन्तर्य स्यात् , तत्रैव विद्याकर्मसाध्यसाधनभावचिन्तनात् । यधुच्येत--विषयफलयोरपि विद्यांश- तया सकलस्यापि ब्रह्मविचारस्य साध्यविचारत्वेन तत्साधनयज्ञादिपदार्थज्ञानाय कर्मविचारप्राथम्यं प्राप्यत इति । एवं सति सर्वापेक्षादिविचारोऽपि फलविचारा. नन्तरमेव स्यात् , साध्यपदार्थज्ञानस्य तावद(व)सानत्वात् । अपि च न सविषय- फलाया विद्यायाः कर्मसाध्यत्वमेव ब्रह्मविचारशास्त्रस्य तात्पविषयोऽर्थः प्रतिपत्तव्यः, येन कर्मविचारपश्चाद्भावो नियम्येत । मुक्तिविद्यासाध्यसाधनभायो हि तदर्थः । तच्चोभयमत्रैव व्युत्पाद्यत इति न कर्मविचारापेक्षा । न च प्रधानार्थसंस्पृष्टसंस्प- " --- . . विविदिषाशब्दार्थः शिनोऽपि पदार्थैकदेशस्य कर्मणो विज्ञा(ना)य तद्विचारप्राथम्यनियमः, प्रधाना- दिव्यावृत्तविषयतया विद्याज्ञानाय सांख्यादेरपि तत्प्रसङ्गात् । अपि च यज्ञादि पदानां लोकविदितार्थत्वे न तद्विचारापेक्षा । अविदितार्थत्वे च नतराम् । विद्या- प्रकरणे विधेयस्य प्रकरणान्तरन्यायेनान्यत्वे सति भिन्नविषयविचारानिरूप्यत्वात् । अन्यथा 'एष एव प्रथमो यज्ञो यज्ञानामि'त्यादिवाक्यार्थज्ञानोपयोगिपदार्थज्ञा- नाय तद्विचारप्राथम्यं नियम्येत । अथ यज्ञादिपदार्थानां व्युत्पन्नत्वेऽपि विना वि- शेषविज्ञानं विनियोगप्रतिपत्त्यपर्यवसानमिति चेत् । किश्चातः । सञ्जाततीव्रविवि- दिषस्य सर्वकर्मसन्न्यासेन ब्रह्मज्ञानप्रवृत्तस्य तदनपेक्षत्वात् । विविदिषोद्देशेनानुष्ठेय- स्वरूपविज्ञानतत्साधनत्वविज्ञानं चोभयविचारसाध्यमिति चेत् । तथापि न पौर्वापर्यनियमविशेषहेत्वभावात् । व्याख्येयवेदाक्षरपाठक्रमस्य वैधाध्ययनधर्मत्वे. नान्यप्रयुक्तविचारे संक्रमयितुमशक्यत्वात् । न चाधीतक्रमेण धर्म जिज्ञासते , प्रथमातिक्रमे कारणाभावादिति वाच्यम् । वेदान्तेषु नित्यनिरतिशयफलसम्भा. वनौत्कट्येन तदुपायजिज्ञासाप्राथम्योपपत्तेः । एतेन चेतनानां त्रिवर्गे प्रथमप्राव. ण्यसम्भवादर्थस्वभावादेव धर्मविचारप्राथम्यमिति निरस्तं , सम्भवमात्रेण प्राथ- म्यनियमानुपपत्तेः । त्रिवर्गे प्रवणचित्तस्य विचारितकर्मणोऽपि ब्रह्मविचारस्थाना- रभ्यत्वात् । कुतूहलाद्वा बहुश्रुतत्वबुध्या वा तदारम्भेऽपि कर्मवि(चारस्य) सतोऽप्यहेतुत्वेनानपेक्ष्यत्वात् । त्रिवर्गकामस्यापि त्रैवर्गिकमिदमन्यदन्यथेति विचा- रात् प्रागनिर्णयेन कदाचिद् ब्रह्मविचारप्राथम्यसम्भवाच्च । यत्तु विचारद्वयविषय- कर्मब्रह्मविद्ययोः हेतुहेतुमत्तया पौर्वापर्यनियमे सति तच्छेषविचारयोरपि तथा स्याद् , मुख्यक्रमण चाङ्गानां तदर्थत्वादिति । तन्न । जन्मान्तरविचारितानुष्ठित- कर्मणामपि प्रतिबन्धकदुरितनिवृत्तिद्वारा विद्याहेतुत्वोपपत्तेः । न चातीतभवकर्म- विचारोऽपीदानीन्तनब्रह्मविचारप्रवृत्तिहेतुः, येन तदनन्तरा ब्रह्मजिज्ञासा चोद्येत, तस्य चिरान्तरितत्वेन तद्रानन्तर्याभिधानवैयर्थ्यात् । यत् पुनरुद्गीथादिविषये कर्मसमृद्ध्यर्थोपासनानि कर्माश्रितानीति तद्विचा- रेणेह क्रियमाणा पूर्ववृत्तां धर्मजिज्ञासामपेक्षत इति । तच् शास्त्रार्थानवबोधनि- मित्तं मत्तप्रलपितमरमणीयम् । न ह्युद्गीथाद्युपासना ब्रह्मविचारशास्त्रार्थः । किं तर्हि कर्मार्था सा प्रथमतन्त्र एव विचार्या सती ब्रह्मज्ञानेन मानसत्त्वादिसामान्यात् तन्निरूपणेनेह शक्यत्वाचेह प्रासङ्गिकी विचार्यते । न च तदपेक्षितापि धर्मजि- - ९२ सिद्धान्तसिद्धाञ्जने . 4 ज्ञासा प्रधानब्रह्मजिज्ञासाप्रवृत्तिहेतुः, तत्रानपेक्ष्यत्वात् । न चोद्गीथाद्युपासनानां ब्रह्मदृष्टिरूपाणां ब्रह्मज्ञानाधीनत्वादिहैव सङ्गतिर्युक्ता, न प्रथमतन्त्र इति श- ज्यम् । तथापि कर्माश्रयत्वेन तदपेक्षाणां कर्मसमृद्ध्यर्थतया तदपेक्षितानां च पूर्व- तन्त्रसजतेरेव युक्ततरत्वात् । न च सोपासनानि निरभिसन्धीन्यपि कर्माणि सत्व- शुद्धिव्यवधानानि सन्ति शमाद्यङ्गकप्रवृत्तब्रह्मविद्यायामझतया करणतया वा तदैव समुच्चीयन्ते, येनेतरेतरापेक्षयेहाप्युपासनाविचारः सङ्गच्छेत । अपि चैवमपि शास्त्रप्रवृत्तेरतत्प्रधानतया तदपेक्षितधर्मविचारहेतुकत्वमयुक्तमतिप्रसङ्गादित्युक्तम् । न चैवमुपासनानां विधेयक्रियात्वसामान्यादाश्रयकर्मनिरूपणेन शक्यत्वाच्च कर्मकाण्ड एव विधिस्तद्विचार एव विचारश्च स्यात् , कर्मोपयोगित्वस्य विशेषक- त्वादिति शङ्कयम् । आम्नायस्य नियोगपर्यनुयोगायोगात् । वदन्ति हि --- 'आ- म्नातस्यार्थं वक्तुं प्रभवामो नाम्नातं पर्यनुयोक्तुमि'ति । विचारस्य च तदधीनत्वा- नातिक्रमः । न तु ब्रह्मकाण्डे विधानात् तद्विचारे विचाराच्च तासां ब्रह्म- विद्योपयोगः शक्यते कल्पयितुं, 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति कर्मसमृद्ध्यर्थत्वस्य प्रत्यक्षत्वात् । न चैवमुद्गीथाद्युपासनाविधि- विचारावनर्थको स्थाता, विद्यार्थिना कर्मणामननुष्ठेयतया तदाश्रयोपासनानुप- योगात् , कर्मणश्च तत्तत्फलमाशासानस्य ब्रह्मविचारप्रवृत्त्यसम्भवेन तदधिगमस्यै- वा(गा ? भावा)दिति वाच्यम् । विचारितवेदान्तेभ्य उपश्रुत्य कर्मिणस्तदनुष्ठानोप. पत्तेः । वस्तुतस्तु संयोगपृथक्त्वेन कृच्छ्रफलसंयोगविहितब्रह्मविचारे तादयन कर्मिणोऽपि प्रवृत्तिसम्भवादन्यार्थप्रवृत्तस्यापि तस्य निीतकर्माश्रयोपासनानुष्ठान- योगात् तद्विधिविचारावर्थवन्ताविति ॥ *- . . - , ? । कर्मकाण्डोक्तन्यायानां ब्रह्मविचारानुपजीव्यत्वम् । यत्तु 'धर्ममीमांसान्यायोपजीवित्वाद् ब्रह्ममीमांसायास्तदानन्तर्यनियम' इति । तत्र यद्यपि वेदप्रामाण्योपयोगिन्यायमात्रमुपजीव्यते । तथापि न धर्मविचारस्य प्राथम्यनियमः । न च वेदप्रामाण्यविचारप्राथम्यागीकारे तत्रतत्रोक्तसङ्गतिविशेषेण तत्प्रमेयधर्मभेदादिविचारा एव प्रथमं प्रवर्तन्त इत्यर्थप्राप्तं तदानन्तर्य ब्रह्मविचार- स्येति वाच्यम् । यदृच्छासन्निपातिनस्तदानन्तर्यनियमस्य हेत्वानन्तर्यपरसौत्राथ- शब्दार्थत्वायोगाद् , वेदप्रामाण्यस्य धर्मब्रह्मोभयप्रमेयविचारोपयोगसाधारण्ये सति सङ्गतिविशेषानिरूपणेन धर्मविचारप्राथम्यनियमस्यैवासिद्धेश्च ।
कर्मकाण्डोक्तन्यायानां ब्रह्मविचारानुपजीव्यत्वम् । - वस्तुतस्तु न वेदप्रामाण्येऽपि जैमिनीयन्याया उपजीव्यन्ते । इहापि शास्त्रयोनित्वाधिकरणे ब्रह्म शास्त्रकर्तृ न वेति विचारे सकर्तृकत्वे 'बुद्ध्यनुप्रवेशान- नुप्रवेशाभ्यां प्रामाण्याप्रामाण्यविचारस्याप्यनुगतत्वात् । देवताधिकरणे च वि- प्र(ह)बद्देवताभ्युपगमे डिस्थादिवदिन्द्रादिपदानामेकव्यक्तिवृत्तितायामाधुनिकसङ्के- तितत्वेनाप्रामाण्यं मा शङ्कीति शब्द इति चेन्नातः प्रभवात् - (ब्र० १. ३. २८) इति पूर्वसिद्धाभिधानानुस्मरणपूर्विकैवेन्द्रादिसृष्टिरित्यभिधाय वाक्येऽपि पुबुद्धिमूलत्वनिरासाभिप्रायेण च 'अत एव च नित्यत्वम्' (ब्र० १. ३. २९) सम्प्रदायाविच्छेदे सति कर्तुरस्मरणादिति स्थिरीकृत्य, 'समानना- मरूपत्वाचावृत्तावप्यविरोधः (ब्र. • ३. ३. ३०) इति सृज्यमानवस्त्व- नित्यत्वनिमित्तनित्यानित्यसंयोगविरोधमूलाप्रामाण्यपरिहाराच । यत्तु भाष्ये गता- र्थत्वमाशङ्कय तत्र पर्यहारि ‘कर्तुरस्मरणादिति* स्थिते वेदनित्यत्वे तदेव नित्यत्वं स्थितं द्रढयतीति । तत्तस्यैतदसाधारणविषयत्वाभावाभिप्रायं, न तु न्या- योपजीवनाभिप्रायम् । अन्यथा अक्रियार्थत्वादर्थवादवद् वेदान्तानामपि विध्येक- वाक्यतया प्रामाण्यापत्तौ ब्रह्मतात्पर्यभङ्गप्रसङ्गात् । पदपदार्थसम्बन्धोत्पत्तिकत्वादि- न्याया उपजीव्यन्ते नांशान्तरमित्यर्धजरती(या)योगात् । न च विधिना त्वेकवा. क्यत्वाद् (जै० १. २. ७) इति विधिसमभिव्याहाररूपैकवाक्य- तोपजीवनेन विध्याकातितस्तुत्यादिना विधिशेषतया प्रामाण्योपपादनमर्थवादा- दिविषयमेव, वेदान्तानां विधिसमभिव्याहाराभावादिति वाच्यम् । अर्थवादेषु स्तुत्याद्यभिधानाक्षमतया तल्लक्षणोन्मेषाय विधिसमभिव्याहारोपजीवनात् । वेदा- न्तेषु पुनरभिधानवृत्त्यैव विध्यपेक्षितदेहादिव्यतिरिक्तात्मनो भोक्तृरूपस्य कर्तुः पारलौकिककर्माव्यभिचारिण इज्यदेवतादेश्च प्रतिपादनादनारभ्याधीतत्वेऽपि पर्ण- मयीवाक्यवदर्थद्वारकविध्येकवाक्यतायाः जैमिन्यभिमताक्रियार्थप्रामाण्यमूलयुक्तेः सम्भवात् । अक्रियार्थत्वेनाप्रामाण्यचोद्यसाम्ये ‘सत्याक्षिप्तैकदेश एव समाहितो जैमिनिना वेदान्तभागश्चावशेषित इति हेत्वभावात् । भगवतो महर्षेस्तस्य प्रमा- दाज्ञानकल्पनायोगाच्च । तस्मान्न प्रामाण्यांशेनोपजीव्या धर्मजिज्ञासा । न च विद्याभेदाभेदनिरूपणाय द्वैतीयीकन्यायापेक्षा 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्' (ब्र० ३. ३. १) 'नाना शब्दादिभेदात्' (ब्र० ३. ३. ५८) इति संयोगरूपचोदनाख्याविशेषस्य भेदन्यायस्य चात्रैव ५ 'कर्तुरस्मरणादिभिः स्थिते' इति मुद्रितशाङ्करभाष्यपाठः । - ९४ सिद्धान्तसिद्धाञ्जने . सूत्रितत्वात्। यदपि शमदमादीनां ब्रह्मविद्याङ्गत्वावगमस्तातीयीकश्रुतिलिङ्गादिलभ्य इति धर्ममीमांसापेक्षेति, तदेतत् कुशकाशावलम्बनं प्रौढमतयो नाद्रियन्ते । विवेकादिमन्तं मुमुक्षुमुद्दिश्य विद्योपायविधानात् । तादर्थेनोपादेयतया तदङ्गतापि भवन्ती तेषां न निवार्यते, रूपभेदोपपत्तेः । तत्र च श्रुतिलिङ्गादिन्यायानां लौकि- कानामेवोभयैरप्युपजीवनात् । अन्यथा ईक्षत्यादिभिर्लिङ्गैरात्मब्रह्मादिश्रुत्या च ब्रह्मणि वेदान्तसमन्वयो नेह प्रतिपाद्येत, मन्त्रादिसमन्वयन्यायसिद्धत्वात् । इयांस्तु विशेषः । तत्र विनियोज्यमन्त्रबहिर्भूता श्रुतिः । यथा 'ऐन्द्या गार्हपत्य- मुपतिष्ठत' इति । इह तु तदन्तर्गतैव ‘अनेन जीवनात्मने त्यात्मश्रुतिः 'सदेव सोम्ये'त्यादिवाक्यं ब्रह्मणि विनियुङ्क्ते । बोध्यार्थबोधने निरपेक्षशब्दः श्रुतिः । तथा चात्मशब्दः । श्रुत्यादिभिश्च तादर्थ्यमवबोध्यते । तच्च द्विविधम् - एक शब्दविधया तात्पर्यलक्षणम् , अपरमर्थविधया तदीयतालक्षणम् । तत्र मन्त्रा- णाम् 'उरु प्रथस्वे'त्यादीनां ब्राह्मणविहितपुरोडाशप्रथनादौ शब्दविधया तात्पर्या- भावाद् 'उरु प्रथस्वेति पुरोडाशं प्रथयती'त्यादिभिर्तीयादिवत् पदार्थविधयैव तदीयता नीयमानानामकिञ्चित्कारे तदनुपपत्तेरुपकारकल्पनयां तदीयत्वे बोधनीये प्रथनप्रकाशसामर्थ्य लिङ्गतामापद्यते । न सा श्रुतिः, बोध्यस्यार्थविधया तदीय- स्वस्य बोधने निरपेक्षत्वाभावात् । आत्मपदादात्मनि बोध्यमाने 'सदेवे'त्यादीनां शब्दविधया तत्प्रमितिपरत्वस्य तदेकवित्तिवेद्यतया तद्बोधने निरपेक्षत्वेन श्रुतिरेव सा । ईदृशतादर्थ्यबोधोपयोगि च सामर्थ्य लिङ्गम् । यथा 'तदैक्षते'ति चेतनाव्यभिचरितेक्षणप्रकाशसामर्थ्य ब्रह्मपरत्वे लिङ्गम् । एवं वाक्यमपि 'यतो वा इमानि भूतानि जायन्ते' इति तद् ब्रह्मेत्यस्य विभागे सति साकायतया 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्युक्तावमर्शि यवृत्तसामनाधिकरण्यरूपं सत्यादिरूपे ब्रह्मणि कारणवाक्यं विनियुङ्क्ते । एवं प्रकरणमपि । यथा 'अन्योऽन्तर आत्मा- नन्दमय' इत्युपक्रमाद् ‘एतमानन्दमयमात्मान'मित्युपसंहारात् तावत एकवाक्यत्वे 'सैषानन्दस्य' , 'आकाश आनन्द' इत्यादिशब्दभेदेऽप्यानन्दमयपरत्वमवगम्यते । एवं यथायोगमन्यदप्युन्नेयम् । न चैतावताविशेषेणागतार्थतेति । यपि प्रथमतन्त्रसिद्धदृष्टान्तन्यायोपादानं तत्र तत्र 'कुशाच्छन्दस्तुत्यु- घगानवत्तदुक्तम्' (ब्र० ३. ३. २६) 'औपसंदवत्तदुक्तम्' (ब्र० ३. ३. ३३) 'प्रदानवदेव तदुक्तम्' (ब्र० ३. ३. ४३) 'लिङ्गभूयस्त्वात् . " ' , साधनचतुष्टयस्य पूर्ववृत्तत्वाक्षेपः । ९५ तद्धि बलीयस्तदपि' (ब्र० ३. ३. ४४) इत्यादिषु , तदपि न धर्मजिज्ञा- साप्राथम्यं नियच्छति, प्रसाध्याङ्गकदृष्टान्तोपादानोपपत्तेः । तद्विषयस्तु न्यायः स्वयमेव वक्तव्यः सन् यत्नलाधवादन्योक्तोऽनुस्मार्यतेऽनन्तरप्रणयनादस्य शा- स्वस्य । अत एव 'विधिर्वा धारणवद्' (ब्र० ३. ४. २०) इति दृष्टान्तमात्र- मुपन्यस्य तेन जैमिनिन्यायोऽनुस्मार्यते । तत् कस्य हेतोः , स्वयमेव न्यायस्य विवक्षितत्वात् । अत एव च 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ' (ब. ३. ३. १) इत्यादिना न्याया एवोच्यन्ते । अन्यथा सर्ववेदान्तप्रत्ययं कर्मवत् तदुक्तं, नाना यजत्यादिवत् तदुक्तमित्यायेव सूब्येत । तथा सर्वापेक्षेत्येव सिद्धे 'सहकारित्वेन च' (ब्र० ३.४. ३३) 'विहितत्वाद् -' (ब्र० ३. ४. ३२) इति संयोगपृथक्त्वन्यायो न सूत्र्येत, पौनरुक्तयात् । न च कामाधिकारस्यास्फुटत्वादिह तत्स्फुटीकाराय तदिति वाच्यं, यज्ञादिना विविदिषन्तीति रात्रिसत्रन्यायेन तस्यापि सिद्धत्वात् । तस्मान्न धर्मजिज्ञासानन्तरं ब्रह्मजिज्ञासा चोद्यते, तदहेतुत्वात् । किन्तु नित्यानित्यवस्तुविवेकाधनन्तरमेव ।। . momen साधनचतुष्टयस्य पूर्ववृत्तत्वाक्षेपः। अत्राह किमधीतमात्रवेदादस्य नित्यानित्यवस्तुविवेकादिः, उत शा. स्वान्तरपर्यालोचनया, अथवा स्वरसत इति । नाद्यः, 'अक्षय्यं ह वै चातुर्मास्य- याजिनः सुकृतं भवती'त्यादिषु कर्मफलानामपि नित्यत्वावंगमात् । 'अन्नवानन्नादो भवति, महान् भवति प्रजये'त्यादिषु ब्रह्मज्ञानस्याप्यनित्यफलत्वप्रतीतेः । 'अ- सद्वा इदमग्र आसीत्', 'अथात आदेशो नेति नेती'त्यादिश्रुतेः, आत्मस्वरूपा- सत्त्वादेरपि प्रतीतेश्च । यद्यपि 'पुण्यचितो लोकः क्षीयते', 'ब्रह्म वेद ब्रह्मैव भवति' 'सत्यं ज्ञानमनन्तं ब्रह्म', 'असन्नेव स भवति, असद् ब्रह्मेति वेद चेदिति कर्म- (ब्रह्म)विज्ञानफलनित्यत्वानित्यत्वादि श्रूयते, तथापि विवेको न व्यवतिष्ठेत । न चानवस्थितापातनित्यानित्यविवेकः कर्मफलवैराग्यादिहेतुः । न चापातप्रतीतिरुभय- विचारसाधारणी सत्यधीतक्रमात् प्राथमिकं धर्मविचारमतिक्रम्य ब्रह्मविचार एव प्रवृ. तिहेतुरिति नियन्तुं शक्यं, तन्निर्णयस्य च विचारद्वयसाध्यतया पाश्चात्त्यस्यातहेतु- सिद्धान्तसिद्धाञ्जने --- . । , ." त्वात् , शमादेश्च 'शमदमाद्युपेतः स्याद् (ब्र० ३. ४. २७) इति ब्रह्ममी- मांसातार्तीयन्यायनिरूप्यरूपत्वात् । 'तस्मादेवंविच् शान्तो दान्त उपरतस्ति- तिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्यदिति च विचारितशास्त्रज- न्यज्ञानवत एव ध्यानातया शमादिविधानाद् , एवंविदिति ज्ञानवतः परामर्श- नात् । न द्वितीयः, 'अष्टवर्षों ब्राह्मण उपगच्छेत् , सोऽधीयीते ति प्रथममेवाध्य- यनविधिवश्यतयाधीतवेदस्य विचारप्रवृत्तावन्तराले शास्त्रान्तरानवकाशान् । वेदान्तविचारप्रवृत्तौ शास्त्रान्तरीयप्रधानपरमाणुतटस्थेश्वराकाशादिनित्यताप्रतीते- रप्रयोजकत्वात् । व्यक्ताव्यक्तज्ञविज्ञानप्रमाणादिषोडशपदार्थतत्त्वज्ञानादेनिःश्रे- यसहतोरपि तत एवाधिगमे वेदान्तविचारायनपेक्षाप्रसङ्गाच्च । अत एवे- तिहासपुराणादिश्रवणान्नित्यानित्यविवेकादिरिति प्रत्युक्तम् । न तृतीयः वेदान्तविचारानारम्भप्रसङ्गात् । यत्तु इदं नित्यं वस्तु, इदमनित्यमिति न नित्यानित्यवस्तुविवेकः, उक्तदोषादेव । किन्तु नित्यानित्ययोः वसन्तीति नित्यानित्यवस्तूनि , तद्धर्माः सत्यत्वासत्यत्वादयः, तेषां चात्मानात्मवर्गे यन्नित्यं . तत् सत्यं बहुसुखमुपादेयं च, अनित्यं तु विपरीतमित्येष दृष्टानुमानमूलो विवेकः स्वरसत एव पुरुषधौरेयस्य जायते । ततोऽनृताल्पदुःखमयादनित्यादारोपितरजतादेरिवान- वगतविवेकनित्यपुरुषार्थानालम्बनेऽपि तजिहासारूपमनाभोगात्मकं वैराग्यमुपाव- तते । ततो रागादिप्रवर्तनाशून्यस्य सर्वेन्द्रियप्रवृत्त्यभावरूपशमादिसम्पदुपनमति । ततः प्रत्यक्षाद्यधिगतजननमरणाद्यनर्थात्यन्तनिवृत्त्या नित्यसुखप्रेप्सोस्तदुपायब्रह्म- विचारादिप्रवृत्तिरनन्तरभाविनीति । अन्न ब्रूमः । अनित्यस्य तावदनृतत्वमसम्प्र- तिपन्नम् । न च विगीतं सर्वमनृतम् । अनित्यत्वादारोपितरजतादिवदित्यनुमातुं शक्यं , दृष्टान्तासम्प्रतिपत्तेः । शुक्त्यादावपि रजतादिसत्त्वोपगमात् । अनृत- स्यापि सुखादिहेतुत्वे तद्विवेकस्य जिहासानुपयोगित्वात् । अनृतस्यापीष्टस्वमादेः सर्वाभिलषितत्वेनानृतत्वहेतुना दुःखरूपत्वानुमानायोगाच्च । न चानित्यस्य सुखा- झुपयोगिनोऽपि दृष्टानुमितावर्जनीयदुःखसम्भेदतया हेयत्वम् , अतिशयितसुखा- न्तरालाभात् । न खलु मृष्टान्नालाभे कणोऽपि क्षुधितेन हीयते । न च ततः क्लेशाधिक्यं , येनान्धान्धुपतितवराटिकेवोपेक्ष्येत । न च यन्नित्यं तद् दुःखास- म्भिन्नसुखरूपतयोपादेयं , यतो नित्यस्य तद्रूपत्वं न व्याप्त्याधिगम्यते, कालादौ व्यभिचाराद् , आत्मनोऽप्यहं दुःखीति दुःखसम्भेदानुभवाच्च । शास्त्रात् तु , : साधनचतुष्टयस्य पूर्ववृत्तत्वसमर्थनम् । तदापातविवेको विचारद्वयसाधारणः । निश्चयरूपस्तूभयविचारनिर्वर्त्य इति न प्रथमं ब्रह्मविचारप्रवृत्तिहेतुः । अपिच यदि नाम किमपि नित्यं दुःखासम्भिन्न- सुखरूपं स्यादिति सम्भावनाया इदं तदित्यनिश्चितविशे(ष्या ? षा)यास्तदुपादि- सामूलस्य साधारण्यान्नित्यानित्यवस्तुविवेकानन्तरं शास्त्रान्तराणामप्यारम्भः स्या- त् । न च कर्मकाण्डे शास्त्रान्तरे वा नित्यफलासत्त्वनिश्चयात् तदनारम्भः, अक्ष- य्यादिवाक्यान्यपरत्वस्य कर्ममीमांसावसेयत्वात् । शास्त्रान्तराप्रामाण्यस्य चो(भय- १ त्तर)मीमांसातपादावसेयत्वात् प्रथमं तन्निश्चयासम्भवात् । न च 'अथातो ब्रह्मजिज्ञासे'त्येवान्यत्र नित्यसुखफ़लाभावाधिगमः, तस्य स्वशास्त्रारम्भौपयिकवि- षयप्रयोजनपरत्वात् । ब्रह्मविचारप्रवृत्तस्याद्यसूत्रात् तदधिगमस्तदधिगमे च तत्प्र- वृत्तिरित्यन्योन्याश्रयाच्च । तस्मान्न कथमपि नित्यानित्यवस्तुविवेकादि ब्रह्ममीमां- साप्रवृत्तिहेतुरिति ॥ . . • . साधनचतुष्टयस्य पूर्ववृत्तत्वसमर्थनम् । अत्रोच्यते--- अधीतवेदान्तस्य 'पुण्यचितो लोकः क्षीयत' इत्यादिकर्म- फलानित्यत्वं 'तमेवं विद्वानमृत इह भवती' त्यादिविद्याफलनित्यत्वं चाविप्लुतम- धीयानस्य वेदान्तेष्वेवोत्कटतमनित्यफलसम्भावनायामुपचितप्राचीनसुकृतसन्दृब्धा- याम् 'असद्वा इदमन आसीदि त्याम्नानेऽपि विद्याफलभूतज्ञानानन्दात्मकब्रह्मसत्ता- यामेवोत्कटतमसम्भावनासम्भवाद् यदि किञ्चिदपास्ताशेषाशिवममृताख्यं फलम- अनुवीय, यावत् किश्चिदवर्जनीयभूरिदुरितमन्तवत्फलम् , अलमनेनास्माकमित्येव- मनिर्धारितविशेषस्यापि वैराग्यस्य कृतकर्मफलरूपविषयविशेष एवोत्कटतया विवे- कादेविचारद्वयसाधारण्यायोगात् । * साधनलक्षणे च शमादेरणतया निरूप्य- त्वेऽपि वैराग्येण स्वरससिद्धस्येहाधिकारिविशेषणतयोपादानाविरोधात् । किन्तु तदङ्गमप्युपगम्यते ब्रह्मविचारे सामर्थ्यात् । यत्तु शास्त्रजज्ञानवत एव शमाद्यङ्ग- कमुपासनं विधीयत इति । तन्न । एवंविच्छब्दस्य तं विदित्वा न कर्मणा लिप्यते पापकेने त्यन्तरोक्तमहाफलां ब्रह्मविद्यां विजानतस्तत्साधनविचारप्रवृत्त्यु- पयोगिशमादिविधिः सुशक इति तदनुवादपरत्वात् । 'सम्यक् प्रशान्तचिन्ताय शमान्विताय. ........प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति शमादिश्रवणार्थत्वश्रुत्यन्तरै- कार्थ्यसम्भवेऽर्थभेदकल्पनायोगाच्च । न चाङ्गत्वमधिकारिविशेषणत्वं च विरुद्धं, शारीरकतृतीयाध्याये । (1) ९८ सिद्धान्तसिद्धाञ्जने विधिप्रतिपत्त्युपाधेरधिकारिविशेषणत्वात् प्रतिपन्नविधेश्च कथम्भावान्वयादिति वा- च्यम् । कर्मणि विद्याशौचादिवदविरोधात् । शमाद्यभावे स्वप्रवृत्त्युपयोगिश्रवण- विधिप्रतिपत्त्यनुपपत्तेः । अधिकारिविशेषणमपि सत् तादर्थेनाफलोदयानुष्ठेयतया तदङ्गतामपि प्रतिपद्यते। एवमनधीतवेदस्यापि सुकृतसम्भारादेव प्रत्यक्षोपपत्तिद्वारापावरणे यद् दृश्यं तत् कार्यमनित्यमनृतं सर्वशो दुःखानुगतं । कार्यमनृतं च नामूलमिति तन्मूलस्यापि ताइक्वेऽनवस्थानात् तददृश्याकार्यादिरूपमित्येतावति विवेके परत्र वैराग्येण तल्लिप्साकुलस्य ध्रुवादेरिव हितैषिवचनादपि प्रव्रज्यापूर्वकं तदुपायवे- दान्ताध्ययनविचारप्रवृत्तिरुपपन्ना । न च कार्यत्वादिकमनुमातुमशक्यं, दासेरक- विनेयासम्प्रतिपत्तावपि विशुद्धसत्त्वस्य स्वदृष्टया दृष्टान्तोपादानसम्भवात् । न चानृतमपि सुखरूपत्वे न जिहासितमिति वाच्यम् , अनृतस्यानृतत्वदर्शने विप्रल- 'म्भनतया जिहासोपपत्तेः । अन्यदानृतत्वबुद्धावपीष्टस्वमस्य तत्काले सत्यरूपगृही- तस्य सुखहेतुतया काम्यत्वोपपत्तेश्च । न च विनाशवियोगादिदुःखभूयिष्ठमनि- त्यमनृतमिति जानन्नपि न जिहासति तदधिकालाभादिति युक्तं, पिपासोरलब्ध- जलस्यापि मरीचिकोदकहानाद् दृश्यकार्यविपरीतस्वभावस्य कस्यचित् तन्मूलस्य सम्भावनाच्च । अत एव यन्नित्यं वस्तु तत् सुखमित्यादि व्याप्त्या वा शास्त्रेण वा नाधिगम्यत इति निरस्तम् । कालात्मादिविशेषमनपेक्ष्य कस्यापि तादृशस्य सम्भावनाद् । न चैवं शास्त्रान्तराणामपि प्रसङ्गः, सुकृतविशेषोपनतहितैषिव- चनस्यातद्विषयत्वात् । एवं सम्भावनया प्रवृत्तस्याद्यसूत्रसूचितन्यायालोचनया तद्दाढ्योपपत्तेः । न चैवं सुकृतवशादेव ब्रह्मज्ञानेऽपि विचारणादिवैयर्थ्यमिति निरस्तमधस्तात् । तस्मादतीतानेकभवानभिसन्धिवाङ्मनःकायकृतसुकृतप्रबन्धा- वर्जितपरमेश्वरानुग्रहासादितसत्त्वप्रसादस्य · पुरुषधौरेयस्य हिताहितप्रेप्साजिहा- सापर्याकुलतयावस्थिते सकलजगति सर्वशो दृष्टानुमानाभ्यामसारत्वदुःखमयत्व- प्रसंख्याने सति सर्वतो निर्विण्णस्य शमादिसम्पत्तौ, नित्यनिर्गलितामङ्गलपरा- मृतफलप्रेप्सोरौपनिषदविचार आरभ्यते 'अथातो ब्रह्मजिज्ञासेति ॥ . . दुःखत्रयातुरत्वज्ञानस्य पूर्ववृत्तत्त्वनिरासः । अपर आह ---दुःखत्रयाभिघातज्ञानानन्तरं तन्निविवृत्सोः ब्रह्मजिज्ञासा- रभ्यत इति । . ।
औपनिषदविचारप्रयोजकचोद्यम् । ९९ - अत्र कश्चिद्- ऐहिकदुःखनिवृत्तेरायुर्वेदादिभिरुपायावगमाद् निरयदुःख- निवृत्त्युपायनियमादिविधायकशास्त्रबाहुल्यात् स्वर्गादेरल्पास्थिरतया तापत्रयान्तर्ग- तत्वज्ञानस्य कर्मविचारापेक्षत्वात् तदानन्तर्यमेवास्तु ब्रह्मजिज्ञासायाः, आवश्यक- त्वात् , किं दुःखत्रयाभिघातज्ञानानन्तर्यवचनेन । कर्मविचारमनपेक्ष्य सांख्यादिभि- रेव तदवगमे च मुक्त्युपायस्यापि तत एवावगमाद् वेदान्तविचारानारम्भप्रसङ्गा- दित्याह । तदसत् । ऐहिकादिदुःखबातस्योपायान्तरेणैकान्तिकात्यन्तिकनिवृत्त्यस- म्भवात् । तथा च उपायान्तरे दृष्टे जिज्ञासानर्थक्यमाशङ्कयोक्तमीश्वरकृष्णेन "दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावाद् " इति । स्वर्गादितापत्रयान्तर्गतत्वज्ञानं चान्तरेणापि कर्मविचार प्राचीनसुकृतविशे- पैरेव प्रक्षीणचित्तमलस्य तद् यथेहे 'त्यादिकर्मफलानित्यत्वमधीयानस्यैव भवतीत्यु- क्तम् । न खलु सुकृतैरेव तत्त्वज्ञानमपि, प्रमाणफलत्वेन विचारितवेदान्तादिसाध- नापेक्षत्वादिति । इदं त्विह वक्तव्यम् । न दुःखत्रयाभिघातज्ञानमात्रं ब्रह्मविचारप्रवृत्तिहेतुः, दृष्टानुश्रविकसुखेषु दुःखसम्भेदवेदनेऽपि रागोत्कट्येन तदुपमर्दिब्रह्मविचारप्रवृत्त्य- सम्भवाद् , निखिलविषयवैराग्यस्यापि हेतुत्वे शमादिसम्पत्त्यनिवारणाद् विवेका- यानन्तर्यमेव फलितमिति न सिद्धान्तादतिरिच्यते । तस्माद् यथोक्तसाधनसम्प- त्यनन्तरं ब्रह्मजिज्ञासारब्धव्येति भगवत्पादीयं मतमनवद्यामिति ।। 5 . । -- औपनिषदविचारप्रयोजकचोद्यम् । कः पुनरौपनिषदविचारस्य प्रयोजकः । न तावत् स्वाध्यायविधिरित्यु- क्तम् । नापि मुक्तिफलापाताधिगतब्रह्मतत्त्वनिर्णयरागः, प्रव्रज्याद्यनपेक्षाप्रस- ङ्गात् । विधीयते च ज्ञानार्थतया प्रव्रज्यादि ‘एवमेव प्रवाजिनो लोक- मिच्छन्तः प्रव्रजन्तीति, 'शान्तो दान्त उपरत' इति च । नापि, श्रव- णविधिः, तदसम्भवात् । न तावच्छ्रोतव्य इति श्रवणमर्थकर्म विधीयते, कर्मणि कृत्यसम्प्रत्ययात् । 'स्वाध्यायोऽध्येतव्य' इत्यादावपि गुणकर्मविध्यु- पपत्तेः । न चेहापि श्रवणं गुणकर्म विधीयते, यावता यैस्तु द्रव्यं चिकीर्येत गुण- " , RE १०० सिद्धान्तसिद्धाञ्जने स्तत्र प्रतीयेत, यथा पिण्डपयोव्रीह्यादिषु संयवनदोहनप्रोक्षणादयः । न चोत्पाद्या- प्यादीनामन्यतमं ब्रह्म, नित्यत्वादात्मत्वादविकारित्वाच्च, ब्रह्मणो भूतभाव्युप- योगाभावाच्च । अपि चैवं न श्रवणादि स्वविधिप्रयुक्त्यानुष्ठीयेत, नान्यप्रयुक्त्या च, आधाने कर्मविधिवत् प्रयोजकान्तरस्याभावात् । अथोच्येत अत एव 'हिरण्यं भार्यमित्यादाविव विनियोगभङ्गेन ब्रह्मणा श्रोतव्यमित्यर्थकर्मैव विधीयते, शृणो- तेस्तु सकर्मकतया कर्मापेक्षायामात्मनः श्रवणादिनिर्वर्तनविधावपेक्षायां च यत् सामर्थ्यसिद्धं कर्मत्वं तदनूद्यते कर्मणि कृत्येनेति । तन्न । एवमप्यात्मनः उत्पाद्या- धन्यतमत्वप्रसङ्गात् । अपिच श्रवणादिविध्युपगमे शास्त्रस्य ब्रह्मणि तात्पर्याभाव- प्रसङ्गः, भूतभव्यन्यायेन शेषस्य तदुपपादनार्थत्वात् । तद्विधेरपि ब्रह्मसाक्षा- कारोद्देश्यतया तादर्थेऽपि ग्रहैकत्वादिवदुद्देश्यविशेषणस्य ब्रह्मणोऽविवक्षणी- यत्वात् । तस्याप्युद्देश्यत्वे वाक्यभेदप्रसङ्गाद्', अनुत्पाद्यादितया तस्य विधेयक्रि- यानुद्देश्यत्वाच्च ॥ , . है श्रवणविध्याक्षेपः। अपिच; कार्य वा भावना का विध्यर्थः प्रधानं, फलं तु उत्पत्त्यनुबन्धि- तया प्रधानमपि विधिप्रतिपत्त्यनुबन्धितया गुण एव, भूतभव्यन्यायात् । उभय- प्राधान्ये परस्परान्वयायोगात् तत्र स्वर्गादिकं प्रतिपत्तारं भावनां वा विशिंषद् विधावुपसर्जनभावेन प्रतिपद्यमानमपि मानान्तरविरोधाद्यविवक्षाकारणाभावेन वि- ध्यपेक्षितफलभावेन सम्बन्ध्यमानं तथाभूतमुपेयते । निर्विशेषब्रह्मसाक्षात्कारस्तु न तथा, मानान्तरविरोधात् । यद्यपि च फलभूतमुद्देश्यमनुज्झितभाव्यस्वभावमेव विधिप्रतिपत्तिमनुबध्नातीति प्राधान्यं न जहाति । उक्तं च *प्रतिपदाधिकरण- पूर्वपक्षे- ऐकरूप्येण सम्बन्धः प्रधानेन प्रसिध्यति । तस्मात् फलपदेनैव सर्वं सम्बध्यते पदम् ॥" इति, तथापि न तस्य विधि प्रत्येव प्राधान्यं तन्निरूपकतया गुणत्वेन सह प्रति- पत्तुं शक्यं, वैरूप्येण विरोधात् । किन्तु करणभूतधात्वर्थक्रियां प्रत्येव बुध्यमान- मपि प्राधान्य बुध्यते। न खलु तदेवैकं कर्म विधेयभावनां प्रत्यपि । 'त्रीहीन् प्रोक्ष- - जै० अध्या० २.पा. १, सू० १ ४) श्रवणविधिसमर्थनम् । १०१ ती'त्यत्र सेचनक्रियाकर्म व्रीहिरूपेण लौकिकम् अदृष्टातिशयेन तु वैधमिति भेदात् । अत एव शेत इत्यादौ करोतिसमानाधिकरणाख्यातार्थभावनाया भाव्यापेक्षितया सुखादिभाव्यसम्प्रत्ययेऽपि न धातोः सकर्मकता । अन्यथा धात्वर्थभावनयोरवि- लक्षणकर्मत्वे शीङादेरपि सकर्मकत्वप्रसङ्गः । उक्तं च भट्टैः "अन्यदेव हि धात्वर्थव्याप्यं कर्म सकर्मके । अन्यदेव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥ इति, यजेरपि तु यत् कर्म पूज्यत्वाद् देवतेप्यते । तदुज्झित्वैव पुत्रादेः कर्मत्वं भावनाश्रितम् ॥ इति च । तस्माद् विधिफलं ब्रह्मविज्ञानं यदि ते मतम् । भावनागुणभावेन शब्दतः सम्प्रतीयताम् ॥ तत्र चोक्को दोषः । अपि च यद्यपि श्रवणं नाम ब्रह्मणि वेदान्ततात्पर्य- निर्णयानुकूलोपक्रमोपसंहारादिलिङ्गोपपादनात्मा मीमांसाशब्दिता विचारापरपर्याया मानसी क्रियैव न ज्ञानमिति विधेयं पुंस्तन्त्रत्वात् , तथापि तन्नाज्ञातं शक्य- विधान । ज्ञायमानं च यदि ब्रह्मणा तात्पर्येण वा न विशेष्येत, विषयविशेषा- सम्बुद्धौ विधिरेव न सम्बुध्येत । अथ विशेष्येत । प्रागेवं ब्रह्म तात्पर्य च ज्ञातमेवेति कृतं विधिना, कृतकृत्यत्वात् । अत एव हि सिद्धान्ते न ज्ञानविधिरिष्यते । विधेयवित्त्यवित्तिभ्यां विधेरनुपपत्तितः ।। । एतेन मननादि श्रवणाझं विधीयत इति प्रत्युक्तमिति ॥ । 1 श्रवणविधिसमर्थनम् । अत्राभिधीयते--श्रोतव्य इति तावद्विधिः, कृत्याश्चेति विधौ स्मरणात् । ननु 'अहे कृत्यतृचश्च' (३. ३. १६९) इत्यपि स्मर्यते । किं चातः, भवति श्रोतुमर्ह आत्मेति । एवं सति वांदमात्रमनर्थकं स्यात् । द्रष्टव्य इति चार्थिः फलार्थवादः, ज्ञानस्याविधितन्त्रत्वात् । तच्च श्रवणमर्थकर्म विधीयते । हिरण्यं १०२ सिद्धान्तसिद्धाञ्जने भार्यमि'त्यादाविव श्रुतिविनियोगमङ्गोपपत्तेः । न च स्वाध्यायाध्यायोऽपि गुण- कर्मैव तान्त्रिकाणाम् । तद्विधिर्वि(श्व)जिन्यायेन स्वर्गार्थः दृष्टसम्भवन्यायेनार्थावबो- धार्थों वेति निरूपणविरोधात् । स चायं पुरुषार्थ एव सन् स्वाध्यायसंस्कारार्थोऽपी- ति कर्मणि कृत्योपादानम् , अन्यथार्थावबोधस्याध्ययनविधिफलत्वानुपपत्तेः । वैधाध्ययनसंस्कारापेक्षयैव तस्य फलपर्यवसानात् । लिखितपाठोपपादितज्ञानस्य तदनिष्टेः। अस्मिन् मते चाध्ययनस्य नित्यत्वान्न फलापेक्षा । तथा च पार्थसारथि- मिश्राः-'अप्राप्तविधिरेवायमिति। न चै(वश्व)मितिकर्मत्वादात्मनः उत्पाद्याद्यन्य- तमत्वापत्तिः । असिद्धेः । विचारस्य वेदान्तविषयत्वात् । तथा च भाष्यं-'वेदा- न्तमीमांसशास्त्रस्य' इति, 'वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते' इति च । विहितविचारावधारिततात्पर्यो वेदान्तो ब्रह्मापरोक्षं जनयतीति फलोपाधिना तद्विषयत्वमुच्यते । 'आत्मा द्रष्टव्यः श्रोतव्य' इति साक्षात्कारे च कर्मत्वमात्मनः स्वतोऽपरोक्षस्वभावस्यापि नैसर्गिकाविद्यामलापनयादुपपन्नं । 'तद् विजिज्ञास- स्वे'त्यादावष्यवयवार्थेष्यमाणज्ञानोद्देश्यतयैव ब्रह्मणस्तदुपलक्षितविचारविधिसम्ब- न्धावगमात् । तदिदमुक्त भाष्ये- 'जिज्ञास्यापेक्षित्वाज्जिज्ञासाया' इति । तत्रावयवार्थाविवक्षायां तल्लक्षितविचारस्य वेदान्तविषयतया ब्रह्मविषयत्वनियम- नायोगात् , जिज्ञासापदोपादानार्थवत्त्वानुपपत्तेश्च । अथाप्याहूत्य ब्रह्मविषय एव विचारः स्यात् , तथापि स्वसाध्यतत्त्वनिर्णयेनैव संयोगेनेव गतिमिविषया । न चेह श्रवणविधावात्मा कारकतयोपादीयते भरणे हिरण्यवद् , येन मानान्तर- विरोधे वेदान्तानामैदम्पर्य हीयेत । न च 'सोमेन यजेते'त्यादिवद् विशिष्ट- विधित्वात् तस्यैवात्मनि तात्पर्यम् । विशिष्टविधेर्यथासि(द्धा ? द्ध)कारकव्यपा- श्रयत्वात् । अन्यथा तस्य द्विापारप्रसङ्गात् । न च वाक्यान्तरं श्रवणविधि- मपेक्ष्यात्मानं प्रतिपादयति, तस्यैव वैयर्थ्यप्रसङ्गात् , किन्तु विचारितवेदान्तजन- नीयसाक्षात्कारगोचरतया । उद्देश्यस्याप्युपायानुष्ठानहेतुत्वादात्मना श्रोतव्यमि- त्यनुबध्यते । न च विधेयक्रियोद्देश्यतैवात्मनः; असाध्यत्वात् । यत्तु- एवमु- द्देश्यविशेषणत्वादात्मनोऽविवक्षेति । तन्न । अविशेषितसाक्षात्कारमात्रस्योद्देश्य- त्वासम्भवेन वाक्यार्थप्रत्ययस्यैवापर्यवसानात् । तादर्थेन च 'यस्योभयं हवि- रातिमार्च्छति ऐन्द्रं पञ्चशरावमोदनं निर्वपेद्' इत्यत्रोद्देश्यरूपार्तिनिमित्तस्येव हविषा ब्रह्मणा साक्षात्कारस्यापि विशेषणीयत्वात् । उक्तं च -~~~-'मृष्यामहे " श्रवणविधिसमर्थनम् । हविषा विशेषणमिति । न चावस्तुसता विषयेण साक्षात्कारः प्रमाणवस्तुपरतन्त्रो विशेष्यते, अविकल्पमयज्ञानत्वविरोधात् । एवं सत्येव 'ब्रह्म वेद ब्रह्मैव भवती'- त्यादिश्रुतनित्यफलापरोक्षोद्देश्यकविधिप्रतीतिपर्यवसानोपपत्तेः । न चैवं प्रधान- तमस्याविवक्षा युक्ता । नन्वत एव समुदीरितदोषो मा प्रसाक्षीदिति श्रवणवि- धिमेव जह्याम । मा भूदुक्तकल्पनाक्लेशः । तत् किं वेदानुवचनादिविधिमपि परि- हरेम, तस्यापि ब्रह्मविषयेष्यमाणज्ञानफलत्वात् । तथा च 'सहकारित्वेन च' (ब्र० ३. ४. २३) इति सूत्रविरोधः । तत्र याद्देश्यफलाविघाताय ब्रह्मविवक्षा तक्र्येत । तय॑तां तथैव श्रवणविधावपि, न कश्चिद्विरोधः । यत्तु विधिप्रतिपत्ता- वुद्देश्यस्याप्युपसर्जनभाव इति, तत् तथैव । किन्तु तत्प्राधान्यमपि तदेकवित्ति- वेद्यत्वादशक्यं त्यक्तुम् । अन्यथा फलकरणेतिकर्तव्यतानामपरित्यक्तरूपाणामेव भावनान्वयानुपगमे तुल्यकल्पत्वापत्तेः । यद्यपि च धात्वर्थभावनारूपप्रतिपत्त्यनु- बन्धितया कर्मणी भिद्यते, न तु भाव्यरूपम् 'अग्मीनादधीते'त्यत्रामीनामाधान- भावनाप्रतिपत्त्यनुबन्धिकर्मरूपभेदेऽपि तद्भाव्यरूपाभेदावगमात् । व्यापारव्यापारि- तया भावनाधात्वर्थयोरेकसाध्यनिष्ठत्वात् ।। न चावश्यममुयोः कर्मभेदनियमः । धात्वर्थानुबन्धिकर्मणो भावनाननुबन्धित्वेऽपि भावनानुबन्धिनस्तस्याधात्वर्थस्य धा- त्वर्थानुबन्धित्वाविरोधात् । अन्यदेवेत्यादिभट्टवचनस्य (चेत्ताचोक्ता)भिप्रायत्वोप- पत्तेः । यदि च शेत इत्यादौ धात्वर्थातिरेकिप्रत्ययार्थानुबन्धिभाव्यरूपं कर्म, धात्व. नुबन्ध्यपि तत् स्वव्याप्यापेक्षया तु धात्वर्थस्य सकर्मकत्वव्यपदेशः नोद्देश्यापे- क्षयेत्यनतिप्रसङ्गात् । तदिदमुक्तम्- "अन्यदेव हि धात्वर्थव्याप्यं कर्म सकर्मके" इति । तथा च भाव्यात्मनोद्देश्याप्रतीतौ धातुविधिप्रत्ययार्थयोः करणभावनारूप- भेदप्रतीत्ययोगादवर्जनीयतयोद्देश्यप्राधान्यमपि विधिप्रतीतौ भासत एव । अत एव न गुणप्रधानभावविरोधः । आर्थमुद्देश्यप्राधान्यमन्तर्भाव्यैव शाब्दभावनाप्राधान्याव- गमात् । अन्यथा भावनाकिमंशाकाहानिवृत्तौ तत्प्रत्ययापर्यवसानात् । 'वाजपेयेन यजेते'त्यादौ हि वाजपेयेन यागं यागेन स्वाराज्यमिति शब्दसमभिव्याहारभेद- मनपेक्ष्य निरूपकभेदेऽपि साध्यत्वं नाधिगम्यते । वाजपेयवतेति मत्वर्थलक्षणायां तु योग्यतया तस्य साध्यसाधनभावपर्यवसानात् पदमात्रोपस्थितसाध्यरूपयागकरण- क भावना वाक्यार्थो बोध्येत । अन्यथा 'सामेन यजेते'त्यादावगतेः । किन्तु सत्यां - - १०४ सिद्धान्तसिद्धाञ्जने - "-- - y । गतौ लक्षणैव दोष इति वाजपेयपदं नामधेयमिति स्थितम् । ब्रह्मविज्ञानस्य त्वमृत- फलार्थवादेन स्वरसत एवेष्यमाणतया सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इति सन्नन्तसमभिव्याहृतैकार्थतया च साध्यत्वोपस्थितौ त(द)न्वितविधिप्रतिपत्तावपि प्रा- धान्यावगमाद् विवक्षैवात्मनोऽपि । यद्यप्येवमार्थे फलप्राधान्येऽपि न फलपदेन पदान्तरसम्बन्धः, किन्तु शाब्दं प्राधान्यमन्वयहेतुरिति विधिनैव फलपदान्यपि स- म्ब(न्ध्य?ध्यन्ते न तु ब्रह्मपदानि, येन ब्रह्मणि तात्पर्याभाव आपद्येत । स्वर्गार्थवा- दपदान्यपि हि स्वर्ग प्रत्याय्य विधिना सम्बध्येरन्निति युक्तं, स्वर्गस्य विहितक्रिया- साध्यत्वात् । साक्षात्कारस्तु विधिफलगृहीतोऽपि मानाधीन इति ब्रह्मणि प्रत्यायिते किं विधिना साध्येत । तेन साक्षात्कारफलेन श्रवणादिविधिनैव विध्यसंस्पर्शन ब्रह्मतात्पर्यगृहीतानि सत्यज्ञानादिपदानि ब्रह्म प्रत्याययन्तीति श्लिष्यत इति । । अथवा, । नात्मसाक्षाक्रियाकामः श्रवणादिविधेरिह । प्रतिपत्तेष्यते येन शङ्कयेतात्माविवक्षणम् ॥ नित्यानित्यविवेकादिसाधनाढ्याधिकारिके। श्रवणादिविधावन्यो नाधिकारी विमृश्यते ॥ मुक्तरुपायो विज्ञानं तस्य च श्रवणादिकम् । श्रवणादिविधौ तेन विज्ञानमुपबध्यते । विहितश्रवणादीनामनुष्ठानेऽन्यहेतुके । करणस्य विनिष्पत्त्या धर्मो ज्ञानं च जायते ॥ श्रवणादिमधर्मस्य यज्ञदानादिधर्मवत् । सत्त्वशुद्धिसमर्थत्वात् कल्प्यते ज्ञानहेतुता ॥ यद्यप्युद्दिश्यते मुक्तिः श्रवणादिविधाविह तद्धर्मानुपयोगेन सा ज्ञानेनैव साध्यते ॥ दृष्टवृष्टयादिसाध्येऽपि शुष्यदोषधिजीवने । तत्कामिकार्यकारीरीधर्मो वृष्टौ हि साधनम् ।। तदुद्देश्यविधेर्धर्मस्तव्यापारे समाप्यते । इति दृष्टफले मुक्तौ नापूर्वपरिकल्पना ॥ । . .
, श्रवणादिविधौ तस्माद् न किञ्चिदविवक्षितम् ।। श्रवणविधिसमर्थनम् । १०५ इति । यदपि विषयज्ञानाज्ञानाभ्यां श्रवणविधेरसम्भव इति । तदपि न, आपा- ताधिगतविषयनिरूपितस्य श्रवणस्य विधिसम्भवात् । अवगतिपर्यन्तस्य विषया- परोक्षस्य श्रवणविधिफलस्यानपेक्ष्यत्वात् । ज्ञानविधिस्तु न सम्भवति, ब्रह्मणि वि- ज्ञाते तस्य कृतकरत्वात् । आपातज्ञाते निर्णयापरोक्षस्याप्यपुरुषतन्त्रतया अविधे- यत्वात् । मनननिदिध्यासनयोः श्रवणं प्रति फलोपकार्यङ्गतयाविधेयत्वादिति । अथापि स्यात् । नायमपूर्वविधिः , विचार्यतत्त्वनिर्णयार्थतया विचारस्य प्राप्तत्वात् , तदपरोक्षे चानुग्राह्यप्रमाणाधीने विषयस्वभावाधीने वा तस्य पृथग- विधेयत्वात् । वैधफलत्वे च मुक्तेरनित्यत्वापत्तेः । नापि नियमः । दृष्टफले ज्ञान- स्वरूपे साधनान्तरभावाभावाभ्यां तदसम्भवात् । अथापि कथञ्चिन्नियम्येत यदि ज्ञानं मुक्तिर्वा तददृष्टेन साध्येत । न त्वेवम् । दृष्टफलत्वोपगमात् । अन्यथा- त्यन्तपरिपक्वकषायस्य साङ्गवेदान्ताध्ययनमात्रेण ब्रह्मविज्ञानं मुक्तिर्वा न स्यात् । यत्रेदमुदितमाचार्यैः "कृत्स्नानात्मनिवृत्तौ तु कश्चिदामोति निवृतिम् । श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् ॥" इति । अन्यत्रापि । 'योऽपि वाक्यश्रवणादेव प्रतिपद्यते तस्याप्यतीन्द्रियशक्तिमत्त्वाद् न किञ्चिदपेक्षितव्यमस्ति' इति । न चान्यद्विचारनियमादृष्टसाध्यं, यत्र सफलस्त- नियमः स्यात् । नापि परिसंख्या, 'इमामगृभ्णन् रशनामि त्यस्य लिङ्गादश्व- रशनादानादन्यत्र गर्दभरशनादान इव विचारस्य विचार्यतत्त्वज्ञानादन्यत्राप्राप्तः । गृहमेधीयेष्टावाज्यभागादन्यस्याङ्गस्येव ज्ञाने श्रवणादन्यस्य नित्यवदप्राप्तेश्च । तु- ल्यविधानस्य मननादरपरिसंख्येयत्वाच्च । न च पुरुषार्थतया केवलमुभयप्राप्तावा- स्मश्रवणादिविधिरनात्मदर्शनादिपरिसंख्येति युक्तम् । सर्वविषयविरक्ते मुमुक्षावधि- कारिणि पुमर्थतयानात्मदर्शनाद्यप्राप्तेः । नित्यवदुभयप्राप्तावेवान्यतरपरिसं- ख्यानात् । जीवनमात्रोपयोगिनोऽपि तस्य परिसंख्यानेऽर्थविधाताद् , मुमुक्षौ च वि- चारस्यैवाप्राप्तेरिति । तस्मान्न श्रवणविधिरिति । अत्रोच्यते विधिरेव तावदयं स्याद्, विचारस्य विचार्यसाक्षात्कार- हेतुभावाप्राप्तेः । अपरोक्षयोग्येऽपि षड्जादौ साक्षात्कारस्य तद्विवेचकधर्मश्रवण- ग . - P १०६ सिद्धान्तसिद्धाञ्जने संस्कारसचिवश्रुतिप्रणिधानलभ्यतया गान्धर्वादिविचारस्य तत्र हेतुत्वानाकल- नात् । आत्मा द्रष्टव्य इति साक्षात्कारफलमुद्दिश्य श्रोतव्य इति श्रवणविध्य- भावे शब्दस्य साक्षात्कारकरणत्वानवगमेन तदनुग्राहकविचारस्यापि तत्साधन- त्वाप्राप्नेश्च । शाब्दापरोक्षोपपादनस्यैतद्विधिमूलत्वात् । स च साक्षात्कारः प्रमाणप्रवृत्त्यादिदृष्टोपायोऽपि नैयोगिकः , प्रतिग्रहादिदृष्टोपायस्यापि पश्वादेः चि- त्रादिनियोगफलत्वोपगमात् । अथवा नियमः स्याद् , अधीतवाक्यापातावगते प्रत्यगात्मन्यप्यहङ्कार- सम्पिण्डितात्मदर्शनसाधनत्वेन क्लप्तस्य मनसः केवलं प्रणिधानापेक्षया साधना- न्तरस्य प्राप्तिसम्भवात् । सङ्कीर्णाधिगतरत्नतत्त्वसाक्षात्काराय चक्षुष एव प्रणि- धानदर्शनात् । तथा च पाक्षिक्यामप्राप्तौ विचारस्य नियमः । तददृष्टवैगु- ण्ये च कियतोऽपि दुरितस्यानिवृत्तेर्ज्ञानोदयप्रतिबन्धादित्येके । आवमानाद् वाक्यादन्यत्रार्थतत्त्वनिर्णयदर्शनादात्मापाताधिगमहेतोर्वाक्यस्यैवात्मतत्त्वनिर्णयाय केवलाभ्यासप्राप्तौ तन्नियम इत्यपरे । प्रसक्तविधेयविरोधिमात्रनिवृत्तिफलत्वाद् नियमविधेरनात्मदर्शनप्राप्तौ तन्नियम इत्यन्ये । न चैवं जीवनविलोपप्रस- ः, विरोधित्वेन विशेषणात् । अविरोधिनो जीवनमात्रोपयोगिव्यवहारस्यानि- वर्तनीयत्वात् । एतेन परिसंख्यापि व्याख्याता । न च मुमुक्षावमुमुक्षौ वा नित्य- वदुभयाप्राप्तिः , मोक्षमाणस्य जिज्ञासोरर्थतत्त्वनिर्णयहेतुतया विचारस्य नित्यवत् प्राप्त्युपपत्तेः । विरक्तस्यापि स्वभावादेवानपेक्षितानात्मदर्शनस्य नित्यवत् प्रस- जतो विचारविधिना परिसङ्ख्यानोपपत्तेश्च । यथाहुराचार्याः "नियमः परिसंख्या वा विध्यर्थस्य भवेद् यतः । अनात्मादर्शनेनैव परात्मानमुपास्महे ॥" इति । आह च भगवान् भाष्यकार: "किमर्थानि तर्हि 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादीनि विधिच्छायापन्नानि वाक्यानि । स्वाभावि- कप्रवृत्तिविषयविमुखीकरणानीति ब्रूमः ॥ . " १. 'व्य इत्यादीनि विधिच्छायानि वचनानि स्वा', इति मुद्रितशारीरकशाङ्करभा- ज्यपाठः।
... श्रवणविधिसमर्थनम् । १०७ इसि । तदिदं भाष्यं नियमार्थ परिसंख्याथै वा, स्वाभाविकप्रवृत्तिनिवृत्ति- फलस्य तुल्यत्वात् । नियमस्याप्यप्राप्तांशपरिपूरणेनेतरनिवृत्तिफलत्वात् । परि- संख्यायां तु इतरनिवृत्तिराहत्यफलमिति विशेषः । केचित्तु ---- द्वैतात्मविचार एव नियम्यते । ब्रीहिसामान्योपाधाववहनन- नखनिर्भेदनादिवद् ब्रह्मविवित्सोरात्मसामान्योपाधौ द्वैतात्मविचारस्यापि पक्षे प्रा- प्तिसम्भवात् । श्रोतव्य इति विधौ च प्रकरणगतैः इदं सर्वं यदयमात्मे त्या- दिभिरद्वैतात्मविचारनियमोपपत्तेरित्याहुः । अन्ये तु-श्रोतव्य इति स्वतन्त्रविचारव्यावृत्त्या गुर्वधीनो विचारो नियम्यते । न च तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिरि'त्यादिविहितगुरू- पगमनस्य दृष्टसम्भवन्यायेन तस्मै स विद्वानुपसन्नाय.. प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति वाक्यशेषेण चोपनिषदध्ययनविचारद्वारा ज्ञानार्थत्वावगमात् तत एव स्वतन्त्रविचाराप्राप्तिरिति वाच्यम् । एवं सति 'अष्टवर्षों ब्राह्मणमुपगच्छे दि ति गुरूपगमनविधेरेवोक्तन्यायेनाध्ययनद्वारा स्वाध्यायावाप्त्यर्थत्वावगमात् तत एव लिखितपाठादिव्यावृत्तेरध्ययननियमवैयर्थ्यप्रसङ्गात् । यत्तु, अध्ययनविध्यभावे गुरूपगमनविधिरेव नास्ति तस्य तादर्थ्यादिति । तन्न । अध्ययनानधिकारेऽपि मूकादीनामुपनेयत्वस्योक्तत्वात् । वेदान्तेऽपि गुरूपगमनविधेर्विचारार्थतया तद्वि- ध्यभावे तदभावस्य सुवचत्वाच्च । अपि च, बोध्यभेदेन प्रतिशाखं पृथगेका- र्थविधानसम्भवाद् नान्येनान्यवैयर्थ्यम्, अन्यथा विनिगमकाभावादित्याहुः । अपरे तु --- ब्रह्मसाक्षात्कारे मानान्तरव्यावृत्त्या वेदान्तनियम इत्याहुः । तथा च वार्तिक "सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतव्य इत्यतः प्राह वेदान्तावरुरुत्सया ॥" इति । नियमादृष्टं च दृष्टफल एव ज्ञानस्वरूपे हेतुः । तस्य हि सर्वापेक्षा च, यज्ञादिश्रुतेः । यत्तु, युक्तं 'नीहीनवहन्ती'त्यत्रावहन्तेस्तण्डुलस्वरूये नियन्तुमशक्यत्वादा- हत्य प्रकृतापूर्वोशसाधनत्वायोगाच्च तबारभूतनियमादृष्टं कल्प्यतः इति । न चै- वमिह अवर्णनियमादृष्टस्य कल्पकमस्ति, यत् सर्वापेक्षानयेन ज्ञाने विनियु- १. णादिनि ख. पाठः. । - १०८ सिद्धान्तसिद्धाञ्जने ज्येत । न च धनार्जने प्रतिग्रहादिनियमवदेष नियम इति युक्तं, तनियमस्य प्राङ्मुखभोजननियमवत् पृथक्पुरुषार्थत्वात् । नहि धनार्थ एव प्रतिग्रहादिनियमः । तस्माद् दृष्टफलज्ञानार्थ एव श्रवणादिनियमानुपपत्तिरिति । अत्रोच्यते - 'ब्रीहीनवहन्ती'त्यत्रापि दृष्टफलांशे नियमबाधादपूर्वीशस्य तदसाध्यत्वाद् विधिरेव हीयताम् । मा भूद् वाक्यानर्थक्यमिति विधित्वमुपेत्य तदु- पपत्तये नियमादृष्टं कल्प्यत इति चेत् । हन्तैवं प्रकृतेऽपि श्रोतव्य इति विधिस्वर- सत्वे सति तदुपपत्तये नियमादृष्टं कल्प्यताम् । किन्तु तदन्यत्र क्रत्वपूर्वसिद्ध्यर्थ, प्रकृते तदभावात् पुरुषार्थमेवावतिष्ठते प्रतिग्रहादिनियमादृष्टवदेव । तत्र च धन- मन्यायेनापि सम्भवीति पुरुषार्थोऽपरः कल्प्यते । ब्रह्मविज्ञानं तु परमपुरुषार्थो यज्ञादिश्रुत्या, "सर्व कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते" इत्यादिस्मृत्या च सर्वादृष्टसाध्यं गम्यत इति नातिरिक्तकल्पनापेक्ष्यते । साध्य- विशेषानपेक्षमेव वाक्यावैयर्थ्याय कप्तस्य श्रवणनियमादृष्टस्य कियतोऽपि दुरितस्य निवृत्त्या विज्ञाने सामोपपत्तेः । अथवा, अत एव विधेर्ज्ञानस्य तददृष्टसाध्य- स्वमधिगम्यतां, वाक्यार्थवत्त्वाय विधित्वे कल्प्यमानादृष्टस्यावहन्त्यादाविव साध्या- स्तराभावात् । न ह्यन्यथा धनमर्जयन्निवाधीतमात्रवेदान्तादात्मज्ञानमर्जयन् प्रत्यवै- ति, येन तेन तत्परिहारः साध्येत । न च स्वर्गः कल्प्यो गौरवात् , ज्ञानेन सर्व- भेदोपमर्दाच्च । न चातिविशुद्धसत्त्वस्य वाक्यश्रवणमात्राधेयज्ञाने तददृष्टव्यभि- चारो दोषाय, अन्यलभ्ये पश्वादौ चित्रादेरपि व्यभिचारात् । तन्निवर्तनीयदुरितनि- वृत्तिद्वारविशेषोपपत्तेश्चेति। अथापि स्यात् । न तावदयं काम्यविधिः । कमिपदाद्युपबन्धेन साध्यभा- वापन्नस्य विध्युद्देशे फलस्याश्रवणात् । न च रात्रिसत्रन्यायेनार्थवादिकममृतत्वं फलतया विपरिणम्यते, तस्य वैधफलत्वानभ्युपगमात् । इष्यमाणज्ञानस्य वैध- फलत्वे तदुपायावृत्तिन्याया विरोधात् । नापि नैमित्तिकः । उपरागगृहदाहादेरिव निमित्तस्यः कस्यचिदनुपादानात् । नापि नित्यविधिः । 'यावज्जीवं', 'वसन्ते वसन्त' इत्यादिवद् नियतनिमित्तवीप्सादेरश्रवणाद् , अकरणे प्रत्यवायाभावाच्च । -1 1 ', 'तु पु' ख. पाठः, + 'आवृत्तिरसकृदुपदेशात्' (ब० ४. १. १) . श्रवणविधिसमर्थनम् । ननु 'अरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छम् । "नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु संन्यासी पतत्येव न संशयः ॥" इत्यादौ तदकरणे दोषो दृश्यत इति चेद् । अत्राहुः-'त्रिशीर्षाणं त्वाष्ट्रमहनमि'त्यादीनि साहसान्यनुक्रम्य, 'तस्य मे तत्र न लोम च मीयते स यो मां विजानीयाद् नास्य केन च न कर्मणा लोको मीयत' इत्यादिज्ञानप्रशंसार्थवादसमभिव्याहारेण तदेकार्थस्य 'अरुन्मुखानित्यादेः श्रवणाकरणप्रत्यवायपरत्वमयुक्तम् । अन्यथातुरसंन्यासविधेरननुष्ठानप्रसङ्गात् , तस्य श्रवणासम्भवात् । अपि च " मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् । बाहुजातोरुजातानां नायं धर्मो विधीयते ॥" इति स्मरणात् 'ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्ति,' 'ब्राह्मणः प्रव्रजेद् गृहादि'- त्यादौ ब्राह्मणग्रहणं विवक्षितार्थ मन्वानानां मते क्षत्रियादेरसन्यासात् , तस्य मुमुक्षोः श्रवणविधिरनित्यः स्यात् । संन्यासिन एव तदकरणे दोषाम्नानात् । न च स. एव विधिः काम्यो नित्यश्च , संयोगपृथक्त्वकल्पनायां च गौरवात् । न च संन्यासिन एव श्रवणाधिकारः 'एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ती'ति संन्यासस्य ज्ञानार्थत्वावगमात, तस्यातुरसंन्यासविधिसामर्थेन विरोधिदुरितानिवृत्त्य- दृष्टद्वारा जन्मान्तरेऽपि सम्भवतो विचारेण सहाननुष्ठेयत्वात् । 'शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येदि'त्यत्रोपरतपदेन सन्यासाभिधानेऽपि न तावच्छान्त्याद्यधिकारकविचारविधानं युक्तम् । अर्थवाद- कल्पनीयाधिकारस्य श्रोतव्यादिविधेरेतदधिकारविधित्वायोगेनं मुमुक्ष्वधिकारक- विचारान्तरविधिकल्पनापातात् । न च स एव विचारः संयोगभेदेन विधीयते, न विचारान्तरमिति वाच्यम् । निबद्धाधिकारकतया स्वतन्त्रोत्पत्तिशून्यत्वात् । अपि चैवं नित्ये विचारविधौ यतेानानन्तरमपि यावज्जीवानुष्ठेयो विचारः स्यादजिज्ञा- सोरपि च, अन्यथा तस्य नित्यत्वायोगात् । न चैवं युक्तं, 'तद् विजिज्ञासस्व' 'अथातो ब्रह्मजिज्ञासा' (ब० १.१.१) इति विचारे विधेये जिज्ञासापदोपादाना- -- १. 'क्षुः सुस' ख. पाठः.
११० सिद्धान्तसिद्धाञ्जने, . नर्थक्यप्रसङ्गात् । तस्माद् 'अरुन्मुखानिति विद्याप्रशंसार्थवाद एव, इत्थं मही- यसी विद्या यस्यां यतिद्रोहोऽप्यकिञ्चित्कर इति । अस्तु वेदं संन्यासिनो वेदान्ताध्ययनाकरणप्रत्यवायपरम् । रौतेः शब्द- कर्मणः किपि, रौति यथार्थं ब्रह्मेति रुद् वेदान्तो येषां मुखे नास्तीति तदर्थोपपत्तेः। यतेश्च 'सर्वेषु वेदेष्वारणमावर्तयेदुपनिषदमावर्त्तयेदित्यादिवेदान्ताध्ययनविधा- नात् । अथवा, अरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छम् । अतो वेदान्तानधि- कारिणा न प्रव्रजितव्यभित्येवम्परमस्तु । यद्वा, 'प्रक्रमात्तु नियम्येत ---' (जै. ६.२. १३) इति न्यायात् काम्यस्यापि वैधस्य संन्यासदिन एवारब्धश्रवणस्य नित्य- वद्भावात् तदकरणे प्रत्यवायपरमस्तु । एतेन 'नित्यं कर्म परित्यज्ये' त्यपि व्याख्यातम् । तस्मान्न श्रवणविधिरिति । अत्राभिधीयते -काम्यविधिरेवायं स्यात् । 'एतावदरे खल्वमृतत्वमि'त्या- द्यार्थवादिकफलकल्पनात् 'फलमात्रेयो निर्देशाद्-'(जै० ४. ३. १८) इति । न्यायात् । तत्र च ज्ञानद्वारा अदृष्टोपयोगो व्याख्यातः, अथवा न तावद् द्रष्टव्य इति दर्शनं विधीयते, अपुंस्तन्त्रत्वात् । ननु ‘पन्यवेक्षते', "अमिचित् कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात् पश्येत नित्यशः ॥" 'न ननां स्त्रियमीक्षेते'त्यादिज्ञानविधिनिषेधा दृश्यन्ते । सत्यं दृश्यन्ते । किन्तु मां भूदशक्यार्थविधानादप्रामाण्यमिति तदुपायविषया व्यवस्थाप्यन्ते । न च ज्ञानमेवोपायमुपनिबध्य कार्यतया बोध्येत केवलमिष्टसाधनतया वेति वाच्यं, तदुपायप्रवृत्तेः श्रोतव्य इत्यादिनैव सिद्धौं तत्प्रयोजनाभावात् । तस्मादपेक्षित- फलपरत्वेऽर्थवत्त्वाद् द्रष्टव्य इंति स्ववाक्यनिर्दिष्टं विज्ञानमेव फलं कल्प्यते, कमि- पदाद्यश्रवणात् । द्रष्टव्य इति साध्यरूपासमर्पणेऽपि विघितः साधनावगमे योग्य- समभिव्याहारेणैवाकाशितफलपरत्वोपपत्तेः । ग्रामो गन्तव्योऽश्वमानयेत्यादौ साध्य- साधनभावावगमस्य सर्वजनीनत्वात् । न चैवं विधिवन्निगदनयविरोधः । तत्र विधिविभक्त्यभावेनोंदुम्बरताया हितसाधनतानवगमे पशूदुम्बरतासमभिव्याहार- मात्रेण फलसाधनभावासिद्धया पशूनानोती'त्यफलपरत्वव्यवस्थापनात् । . .. ... । १. 'दप्रसङ्ग ए' ख. पाठः. २. 'का' ख, पाठः. + जै० अध्या० ६. पा २. अधि० २. सू० १९-२५..
द्रष्टव्य इत्यस्य फलपरत्वम् । यत्तु न द्रष्टव्य इति फलदशाभिप्रायम् । 'येनाहं नामृता स्याम्', 'एता- वदरे खल्वमृतत्वमि'त्यर्थवादोपहृतफलत्वात् । किन्तु निदिध्यासितव्य इति विधित्सितोपायदशाभिप्रायम् । अपरोक्षदशापन्नस्योपासनस्यं कर्माविद्याकृतप्रकृति- बन्धनिवृत्तौ निरतिशयविकासिनित्यविज्ञानेन ब्रह्मानन्दानुभवलक्षणमोक्षफलत्वो- पगमात् । स्मृतिप्रतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः' 'भिद्यते हृदयप्रन्थिः, तस्मिन् दृष्टे परावर' इत्यैकार्थेन रूपविशेषोपसंहारात् । अन्यथा साधन- भेदे सत्यन्याय्यविकल्पापत्तेः , समुच्चये सापेक्षत्वकल्पनापत्तेः , तदनुपपत्तेश्च , ध्यानवद् दर्शने दर्शनस्यासाधनत्वात् । मोक्षे च ध्यानस्याव्यवहितकिञ्चि- कारायोगाद् , दर्शनेनैव व्यवधाने तेन सह समुच्चयायोगात् । तस्माद् द्रष्टव्य इत्यस्य सन्निहितनिदिध्यासनविध्यपेक्षितदर्शनसमानाकारत्वरूपविशेष- णसमर्पकतया, विशिष्टे निदिध्यासने विधेये श्रवणं मननं च स्वरूपोपकार्य- ङ्गमर्थप्राप्तमनूद्यत इति ॥ , 1. द्रष्टव्य इत्यस्य फलपरत्वम् । - तत्र वदामः । द्रष्टव्य इति दृशिपरकृत्यप्रत्ययो न विधिरिति परस्यापि सम्प्रतिपन्नम् । तदर्पितविशेषणविशिष्टनिदिध्यासनविध्युपगमात् । पृथग्विशे. षणविधौ च वाक्यभेदप्रसङ्गात् । ततश्च किं द्रष्टव्य इति सन्निहितविहितसाधनस्य फलसमर्पणपरोऽस्तु, किं वा दर्शनसमानाकारत्वलक्षणया विधेयविशेषणसमर्पण- पर इति । वयं तु पश्यामः युक्तं विध्यपेक्षितफलसमर्पणमिति । सन्निहितानु- पातिनी हि फलाकाङ्क्षा विधेः समानपदोपात्तं भावार्थमेवादित्समाना कुतोऽपि हेतो- स्ततो विच्छिन्ना सती यदि स्ववाक्येऽपि फलं न लभेत, ततः काल्पनिकमार्थ- वादिकं वा मृगयते । प्रकृते च स्ववाक्यगतदर्शनशब्दाभिधेयसाक्षात्कारस्था र्थवादिकामृतत्वपर्यवसायिनः फलत्वसम्भवाद् न सा दूरमनुधावति । न चैव- मावश्यकत्वादार्थवादिकामृतत्वमेव फलाकाङ्क्षा आदत्तामिति वाच्यम् । प्रथममेव सन्निधिबलग्राहितफलंभावे साक्षात्कारे तदुपपादनायार्थवादापेक्षायामपि प्राथमिक- दर्शनफलभावाधिगतिबाधेनार्थवादिकामतत्वस्य दविष्ठस्य फलत्वकल्पनानौचि- - + स्मृतिलम्भे' इति भाष्यसम्मतः पाठः ।
.. ११२ सिद्धान्तसिद्धाञ्जने त्यात् । विधेश्च न स्वरसतो विधेयविशेषणापेक्षा यथा फलापेक्षा, अन्तरङ्गत्वात् । अतो यावत् प्रकरणान्तरपालोचनामूलापेक्षावशेन विधेयविशेषणपरत्वं द्रष्टव्य- शब्दस्य, तावत् प्रथमतरवृत्तस्वारसिकापेक्षावशेन फलपरत्वमवसीयते । स च साक्षात्कारोऽविद्यामुच्छिन्दन्नात्मस्वरूपनित्यानुभवपर्यन्तोऽमृतत्वफलो मनननिदि- ध्यासनयोगपरिशुद्धमनस्सनाथेन विचारितवेदान्तेन जन्यत इति श्रवणमेव साक्षा- कारहेतुतया चोद्यते । अर्थविशेषतात्पर्यावधारणस्य प्रमाणांशतया तद्धेतुविचार- स्यापि तथाभावात् । अत एव च नावृत्तिन्यायविरोधः, शब्दस्य परोक्षप्रमाण- त्वस्वाभाव्यानुगमेन प्रथममप्राप्तसाक्षात्कारसाधनभावेन तदंशविचारविधौ सङ्घ- टिते, तत एव प्रमाणफलस्य विषयस्वभावानुपातिस्वाभाव्यानुगमन्यायोन्मेषेण वैधस्यापि साक्षात्कारस्य प्रमाणवस्तुतन्त्रतया विचारानुगृहीतवेदान्तजननीयत्वा- वमर्श, दृष्टफलसिद्ध्यर्थविचाराद्यावृत्त्यनपवादात् । अदृष्टस्यापि तादर्थे दृष्टसा- मग्रीघटकतयाविरोधात् । चित्रादेस्तु पश्वादि न दृष्टफलमिति विशेषः । विधि- बलादेव तु श्रवणमप्यदृष्टद्वारा प्रस्तुतप्रतिबन्धक्षये जन्मान्तरेऽपि फलजनकमित्य- नियतफलमिष्यते । मनननिदिध्यासने च तदङ्गतया विधीयेते , विषयासम्भाव- नादिनिवृत्त्या फलोपकारित्वात् । तत्र तत्त्वविदाचार्याधीनन्यायोपायग्रहणावधारितवेदान्ततात्पर्यविषयार्थस्यै- वमेच युक्तमिति युक्तितः प्रतिष्ठापनं मननम् । श्रुते मते ब्रह्मैकात्म्ये विजातीय- प्रत्ययवासनोदसनेन तदेकप्रत्ययसन्ततिकरणं निदिध्यासनम् ॥ । . , निदिध्यासनमात्रस्याविधेयत्वम् । न चेदमेव विधीयते , श्रोतव्यो मन्तव्य इति चानुवादस्तादर्सेन प्राप्त- त्वाद् , विधिलाघवाञ्चेति वाच्यम् , अफलविधानानुपपत्तेः । न च निदिध्यासनं ब्रह्मतत्त्वसाक्षात्कारफलं , तस्याप्रमाणत्वात् । ध्यानपरिपाकमयसाक्षात्कारस्य च वस्तुयाथात्म्यानवभासितया अमृतत्वफलापर्यवसायित्वात् । न हि परोक्षाव- गत वस्तु परमार्थसदपि स्वरूपेण भावनामयसाक्षात्कारे प्रकाशीभवति, कामि- परिभावितकामिनीसाक्षात्कारादावदर्शनात् । ननु श्रद्धाभक्तिप्रणिधानैर्यतमानस्य तदावर्जितः परमात्मा स्वात्मानं प्रकाशयति । ter . मनसोऽप्रमाणत्वम् । ११३ "यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।" "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। इत्यादिदर्शनादिति चेत् । सत्यम् । तथापि नाप्रमाणमूले परोक्षम्मृतिसन्ततिपरि- पाकात्मकसाक्षात्काराभासे स प्रकाशेतेति लोकदर्शना हुपेयते, दृष्टानुसारित्वात् कल्पनायाः । तदवधेरेव तव ध्यानस्य विधेयतया तत्फलत्वानुपपत्तेश्च । एतेन "तत्त्वमस्यादिवाक्यार्थभावनाजापरोक्षधीः । मूलप्रमाणदान न भ्रमत्वं प्रपद्यते ॥" इति प्रत्युक्तम् । वस्तुतत्त्वावभासिसाक्षात्कारस्य प्रमाणफलत्वात् । न चव "ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः "योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्" इत्यादिविरोधः । ध्यानस्य साक्षात्कारोपयोगाप्रत्याख्यानात् , प्रमाणसहकारि- त्वेऽपि तदुपपत्तेः । अन्यथा तस्य ज्ञानकरणत्वमपरोक्षप्रमाणत्वं च कल्पनीयमिति गौरवात् । ध्यानयोगपरिशुद्धेन मनसा ब्रह्मसाक्षात्कारः स्यादिति चेत् , स्यान्नाम । ध्यानं तु परानमेवेति समभिव्याहृतश्रवणाङ्गमेवास्तु, सन्निहितत्वात् ॥ . मनसोऽप्रमाणत्वम् । अपि च न मनोऽपि प्रमाणं, प्रमाणसहकारित्वादालोकादिवत् । न च व्याप्यदर्शने व्यभिचारः, संशयोत्तरप्रत्यक्षे मानसहकारित्वेऽपि तस्यानुमितौ प्रमाणत्वादिति वाच्यम् । विशेषदर्शने सति संशयसामग्र्यभावेन स्वसामग्र्यादेव प्रत्यक्षसम्भवात् , तस्यापि तद्धेतुत्वे कल्पनागौरवात् । अपि च यदि मनः प्र. माणं स्याद् रूपादिप्रत्यक्षं मानसमापद्येत । न च करणान्तरासहकृतमनोजन्य- त्वाभावादमानसत्वमिति वाच्यम् । मनःप्रामाण्ये तदेकप्रमाणत्वापत्त्या करणान्त- राभावात् । इन्द्रियादीनामालोकादिवत् तत्सहकारित्वोपपत्तेः । अथेच्छादिसाधा- रणकारणत्वाद् मनसो न तदेकप्रमाणत्वं , प्रमासाधारणकारणस्यैव प्रमाणत्वादि- १, ‘णपरत्व' क. पाठः.
चैवं मनःकरणकसुखादिवृत्त्यनुपगमे सुखादिप्रकाशस्य ज्ञानपदवाच्यत्वानुप- ११४ सिद्धान्तसिद्धाञ्जने त्युच्येत, तर्हि तत एव न प्रमाणमेव मन इति ब्रूमः । न च सुखादिप्रत्यक्षे मन इन्द्रियत्वेन करणत्वात् प्रमाणं,जन्यप्रत्यक्षत्वावच्छेदेनेन्द्रियत्वेन करणत्वस्य चक्षुरादौ कप्तत्वाद्, वैधावच्छिन्नानेककार्यतायामेकधर्मानवच्छेद्यकारणताकत्वस्य चासा- धारणकारणार्थत्वादिति वाच्यम् । चक्षुरादिकरणत्वकल्पनामनपेक्ष्यैव मनसः सुखादिप्रत्यक्षरूपकार्यविशेष इच्छादिसाधारणकारणरूपव्यावृत्तेन्द्रियत्वेन करणत्वे कल्प्यमाने लाघवेन जन्यप्रत्यक्षत्वावच्छेदेन तदेककरणत्वकल्पनापत्तेरपरिहार्यत्वात् । अनुमित्यादावपि तस्यैव तथैव रूपभेदकल्पनया करणत्वोपपत्तेः ॥ सुखाद्यनुभवान्यथासिद्धिः। लाघवेन निसर्गसिद्धनित्यसाक्षिण एव सुखाद्युपधानेन सुखादिसाक्षात्कार- तया तत्र करणवैफल्याच्च । न च घटमणिकाकाशवदौपाधिकसुखादिज्ञानभेदाव- भाससम्भवेऽपि घटाकाशादेराकाशमात्रादिव सुखादिज्ञानस्य साक्षिमात्राद् भेदा- भावे मयि सुखानुभवः, सुखमनुभवामीति प्रतिपत्त्यनुपपत्तिरिति वाच्यम् । स्वाश्रित- सुखाद्यवभासितया तथा प्रतिभासोपपत्तेः । अवभासकस्य रक्तवृत्ताद्यवभासका- लोकवदवभास्यसरूपावभासित्वात् । एतेन सुखादिप्रत्यक्षोत्पादविनाशानुभवोऽपि व्याख्यातः । न च सुखं जानामि घटं जानामीति वा ज्ञानविषयतया ज्ञानमव- भासते, अप्रकाशमानस्य विषयानवभासतया स्वयमवभासोपपत्तेः । चाक्षुषादि- वृत्तयोऽपि प्रकाशविषया एव तदैकात्म्येनावभासन्ते, न पृथग् ज्ञानविषयाः । न पत्तिः, वृत्तिविशिष्टस्यैव तथात्वोपगमादिति वाच्यम् । विषयप्रकाशत्वेन सर्वत्र ज्ञानपदवाच्चत्वात् । तच्च क्वचित् साक्षात् , कचिद् वृत्त्युपाधिकमित्यन्यदेतत् । न च खप्रकाशस्वभावस्य नित्यचैतन्यस्य परप्रकाशत्वानुपपत्तिरिति वाच्यम् । नहि चैतन्यमेव परप्रकाशकतारूपान्तरमापद्यते, अविकारित्वात् । सुखादिकं तु तत्र सम्बध्यमानमालोक इव घटादि सोपाधिकमेव परप्रकाशत्वमापादयति ॥ अथ यदि प्रकाशसम्बन्ध एव प्रकाशमानता, रूपवदालोकसम्बन्धे गन्ध रसादेरपि तलासङ्गः । को दोषः। तद्गोचरज्ञानाभावादेवात्मनस्तदप्रतिभासोप- पत्तेः । धर्मादिस्तु चैतन्यप्रकाशसम्बन्धेऽपि न प्रतिभासते, अयोग्यत्वात् । तदा- 1 विद्युपास्योर्भेदः । १११ कारवृत्त्युपजने च तस्यां प्रकाशमानायां तदेकावभासो धर्मादिरिति फलबलादेव कल्प्यते । सुखादि चोत्पत्त्यैव प्रकाशत इति, न तद्गोचरमानसवृत्त्यपेक्षेत्यास्तां तावत् । तस्मादसाधारणविषयाभावाच्च मनो न प्रमाणं, प्रमाद्युपादानत्वाच्च । 'कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिही( रित्येतत् सर्वं मन एवे'. त्यादिश्रुतेः । एतच्चाने निपुणतरं वक्ष्यामः । अपि च, सर्व करणं विषयव्याप्त्या फलमाधत्ते । न चात्मगोचरवृत्त्यतिरेकेण मनसस्तव्याप्तिरधिका शक्या कल्पयितु- मिति तत्करणगवेषणायां विचारितवेदान्त उपतिष्ठते । 'शास्त्राचार्योपदेशसंस्कृतं मन आत्मसाक्षात्कारकरणमिति गीताभाष्यं 'मनसैवानुद्रष्टव्यामि'ति श्रुतिश्च मनसस्तदुपादानत्वादन्तरङ्गसाधनत्वाभिप्रायम् । अन्यथा ब्रह्मण औपनिषदत्वविरो- धाद्, 'आत्मा द्रष्टव्यः श्रोतव्य' इति तदर्शनाय श्रवणविधिविरोधाच ॥ . मोक्षस्य ध्यानासाध्यत्वम् । 4 . नापि मुक्तिफलं ध्यानं विधेयम् । 'तमेव विदित्वातिमृत्युमेति', 'तमेवं विद्वानमृत इह भवती'त्यादौ मुक्तेर्ज्ञानसाध्यत्वावगमात् । उपासनं च कर्मेति परस्यापि सम्प्रतिपन्नम् । यथाह तान्त्रिकः 'प्रकाशश्च कर्मण्यभ्यासाद्' (ब्र० ३. २. २५) इति सूत्रवृत्तौ- 'उपासनात्मके कर्मणि' इति । अन्यत्रापि 'यागात्म- कमुपासनात्मकं च कर्मेति । श्रुतप्रकाशिकाकारश्च, 'उपासनस्य कर्मत्वं सन्ततिरू- पतया प्रयत्नसाध्यत्वादिति ॥ विद्युपास्योर्भेदः। ननु च 'मनो ब्रह्मेत्युपासीते' त्यत्र ‘भाति च तपति च की| यशसा ब्रह्मवर्चसेन य एवं वेद', 'यस्तद्वेद यत् स वेद स मयैतदुक्त' इत्युपक्रम्य 'अनुम एतां भगवो देवतां शाधि या देवतामुपास्से' इत्यादौ विद्युपास्योर्व्यतिकरणोपक्र- मोपसंहारादैकार्थ्यमवगम्यत इति चेद् । न , विदेनिरूढस्योपासिक्रियार्थत्वानुप- पत्तेः । 'मनो ब्रह्मे'त्युपासनाप्रकरणे चोपक्रमोपसंहारैकरूप्यसिद्धिरेव लक्षणाहेतु- रिति युक्तं वेदनशब्देन तत्सन्ततिरूपक्रिया लक्ष्यत इति । न च 'तमेवं विद्वा- नित्यादौ तथा, 'निचाय्य तं मृत्युमुखात् प्रमुच्यते', 'भिद्यते हृदयग्रन्थिः', -- ११६ सिद्धान्तसिद्धाञ्जने 'तस्मिन् दृष्टे परावर' इत्यादिनैकार्थ्यात् । 'आत्मेत्येवोपासीतेति च नोपासनाविधिपरं, एवकारोपबन्धेन विशेषण- परत्वात् । तदयमर्थः ...... यः प्राणनादिकर्तारमात्मानं जानाति, न स वेद । अकृत्लो ह्येषः, विशिष्ट भेदात् । ततः प्राणनादिसर्वव्यापारानाप्नुवन्तं साधारणमा- स्मानमेव पश्येदिति । तत्र चोपासीतेति साक्षात्कारादिफलमुपासनादिकमन्यास- द्धमनूद्यते । एवकारोपहतविधिशक्तित्वाद्वा 'षड् विंश तरित्येव ब्रूयादि'त्यादिवद् इदं स्यात् । एतेन 'आत्मानमेव लोकमुपासीते ति व्याख्यातम् । भगवत्पादास्तु खवाक्यावगतात्मनोऽनुस्मृतिरर्थप्राप्ता बलवदारब्धभोगविक्षेपात् पाक्षिकी नियम्यत इत्यप्याहुः। नापि ‘स यः सर्वेषां भूतानामन्तरपुरुषः स म आत्मेति विद्यादि'त्युपासना- विधिपरम् । विदेर्शानार्थत्वात् । न च ज्ञानमेव विधीयमानमशक्यतयाभ्यासरूपो- पासनात्मतामाक्षिप्य विधीयत इति वाच्यम् । विधित्वसिद्धेः प्रागाक्षेपानुपपत्तेः । न च विदेः क्वचिदुपासनार्थता बलादुपेतेति सर्वत्रैवोपगन्तव्या। ब्रह्मात्माभेदस्य तथाभावे सम्यग् ज्ञानपरत्वोपपत्तेः । न चैवमितिशब्दो विधिप्रत्ययश्च विरुध्ये- यातामिति वाच्यं, स्वरूपमात्रसमाप्तिपरत्वेन साधनविषयत्वेन चोपपत्तेः । छन्द- सिं व्यत्ययबाहुल्येन विधित्वासिद्धेश्च ॥ 4 . " स्मृतिप्रतिलम्भस्याहेतुत्वम् । न च 'स्मृतिप्रतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष' इति ध्रुवानुस्मृतिध्यानक्रि- याफलं मोक्ष उच्यते, साक्षात्कारफलत्वश्रुतिविरोधात् । न च ध्रुवानुस्मृतिरेव दर्शनरूपोपसंहर्तव्या, "भिद्यते हृदयग्रन्थिः' 'सर्वग्रन्थीनां विप्रमोक्ष' इत्यर्थ-:.. प्रत्यभिज्ञानादिति युक्तम् । स्मृतिप्रतिलम्भ इत्यादेः प्रत्यगात्मस्मृतिपरिशुद्धौ कामा- त्मकग्रन्थिविप्रमोक्षपरत्वेनार्थभेदात् । "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः" इत्युक्तकामानामुत्तरवाक्ये "यदा सर्वे प्रभिद्यन्ते हृदयस्य हि ग्रन्थयः" . ततस्तु तं स्मृतिप्रतिलम्भस्याहेतुत्वम् । ११७ इति ग्रन्थिरूपत्वाभिधानात् । यथाहुः "कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः" इति । तदर्थ एव चेह प्रत्यभिज्ञायते, सर्वशब्दान्मुचिग्रहणाद् ग्रन्थिबहुत्वोक्तेश्च । एवं सति निरन्तरायं ब्रह्मतत्त्वसाक्षात्कार मुच्यते । तथा च श्रुतिः पश्यते निष्कलं ध्यायमान' इति । स्मृतिश्च - " यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तम्मै योगात्मने नमः ॥" इति । विपरीतभावनादिचित्तमलापनयनेन 'दृश्यते त्वग्र्यया बुद्धये' त्यादिश्रुति- समर्पितसाक्षात्कारापेक्षितचित्तैकाग्र्योपकारव्यवधानेन च , ध्यानस्य मुक्तिहेतुत्वा- योगात् । न च भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप! ॥" इति परमात्मप्रवेशेऽपि भक्तिहेतुरुच्यते । यदिहीह विशिष्ट निदिध्यासनारूपा भक्तिरिप्येत, सा शास्त्रविज्ञानादिसाध्योति तत्साधनत्वाभिधानं द्विप्येत भक्त्या ज्ञातुं शक्यो द्रष्टुं चेति । तस्माच्छ्रुतमताधिगते ब्रह्मणि श्रद्धा चोत्कण्ठा च भक्ति- रिह गृह्यते । न च सा परमात्मप्रवेशहेतुः । न चैवं भक्त्या शक्योऽहं प्रवेष्टुं चेति निर्देशानुपपत्तिः । अश्वेन शक्यो ग्रामो गन्तुं भोक्तुं चेतिवत् पारम्पर्येऽपि तथा निर्देशोपपत्तेः । 'भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।। इति पारम्पर्यस्मरणाच । न च तदनन्तरशब्दापौनरुक्त्याय तत इति भक्तिः परामृश्यत इति वाच्यम् । तथापि 'सप्तदशारनिर्वाजपेयस्य यूप'. इतिवत् ततो मां ज्ञात्वेत्यव्यवहितान्वयेनोक्तार्थस्यैव उत्तरार्थमनुवादोपपत्तेः । यतो मद- भिज्ञानं मुक्तिसाधनं वृत्तं, तत इत्यर्थेऽप्यपौनरुक्त्ये व्यवहितभक्तिपरामशो- Like योगाच्च ।
सिद्धान्तसिद्धाञ्जने "पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया इत्यत्राप्यात्मभूतस्य साक्षात्कारातिरिक्तलब्ध्ययोगाच्च । अपि च, प्रकृतिसम्बन्ध ? न्धा)वरणापगमे निरवधिविकासिनित्य- विज्ञानेन ब्रह्मस्वरूपगुणविभवानुभवो मोक्ष इति ते मतम् । तत्रोपासिक्रिया स्वगु- (ण ? णा)वरणभङ्ग एव हेतुरेषितव्या । मलप्रक्षालने मणिज्योत्साप्रसरस्येव नित्यसिद्धात्मगुणविकासे पुंव्यापारानपेक्षणात् । स तु प्रकृतिसम्बन्धरूपो बन्धो न स्वाभाविकः, स्वभावस्यापरिहरणीयत्वेनोपासनावैयर्थ्यप्रसङ्गात् । स कर्म- निबन्धन इति चेद् , अथ कर्मसम्बन्ध एव किंनिबन्धनः । स देहसम्बन्धनिब- न्धनः, 'अनुज्ञापरिहारौ देहसम्बन्धाद्--' (ब्र०२. ३. ४८) इति सूत्रणादिति चेत्, स पुनः कर्मसम्बन्धनिबन्धन इतीतरेतराश्रयता । अन्धपरम्परा चानादित्वकल्पना। अथवा नान्धपरम्परां । 'तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापोरन्' , 'तद् य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमा- पोरन्', "शुभैरामोति देवत्वं निषिद्धैर्नारकी गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥" इत्यादौ प्रत्यक्षमूलंदेहसम्बन्धाश्रयपुण्यापुण्यकर्मनिमित्तसदसदेहसम्बन्धप्रतिपाद- नात् । तथापि देहसम्बन्धो नाविद्यारूपतामतिवर्तते । तथैव क्लेशमूलः कर्मस- म्बन्धोऽपि भवितुमर्हति , असङ्गाविक्रियात्मनोऽन्यादृशसम्बन्धानिरूपणात् । न च स्वस्वामिभावः, देहेन्द्रियादावात्मत्वविभ्रमस्य सर्वजनीनत्वात् । तनि- मित्तसम्बन्धस्यापि निमित्तान्त(र)सम्बन्धाधीनत्वेऽन्धपरम्पराप्रसङ्गाच्च । चाविद्यासम्बन्धोऽप्यात्मनः स्वभावः । विद्यया तद्वाधे स्वभावहानप्रसङ्गात् । यथाः स्वभावाद् विनिवृत्तोऽर्थो निःस्वभावः खपुष्पवत् , न इति । न खल्वौठण्यप्रकाशविनाशेऽप्यग्निरवतिष्ठत इति युक्तिमत् । किन्तु सोऽप्य- विद्यैव । न चैवमात्माश्रयादिदोषः । असङ्गस्यात्मनः सम्बन्धापादनस्वभावाया एव तस्या अनादिसिद्धत्वात् । स चायं चिदात्मनोऽविद्यासम्बन्धः तच्छायाप- मुक्तरुपासनासाध्यत्वे दोषाः । ११९ त्याभेदेन तत्प्रकाशात्मतैव, यथांशुमालिमरीचिपटलस्य जलच्छायापत्त्याभेदेन तत्प्रकाशात्मता तद्वत् । स चायमविद्यामनुबध्नन् जीवो नामानादिसिद्धाविद्या- कामकर्माशयानुशयी हायं हायमुपादायमुपादायं चानेकदेहसम्बन्धप्रबन्धारूढो दुरन्तानन्तदुःखोपसृष्टः संसारी विविधकर्मज्ञानाधिकारी वर्गापवर्गयोग्यो भवति । सोऽयमात्मनः प्रकृतिसम्बन्धरूपो बन्धोऽविद्यात्मको न मनोवाक्कायनिर्वर्तनीयेन कर्मणा निवर्तितुमर्हति, न रज्ज्वारोपितः सो घण्टाघोषान्निवर्तते " इति न्यायात् । किन्तु रज्जुसादिरिव वस्तुतत्त्वसाक्षात्कारेणैवेति साम्प्रतम् ।। - मुक्तरुपासनासाध्यत्वे दोषाः । अपि च, एवमुपासिक्रियासाध्यत्वे मुक्तेरनित्यत्वप्रसङ्गः । देवभूयादिवद् यत् क्रियासाध्यं तदनित्यमिति व्याप्तेः, 'पुण्यचितो लोकः क्षीयत' इति श्रुतेश्च । अथ प्रकृतिसम्बन्धकर्माविद्यावरणानिवृत्तिरुपासनाजन्या नानित्या । अ. न्यथा प्रायश्चित्तक्रियासाध्यपापानिवृत्तेरनित्यत्वे पापोन्मज्जनप्रसङ्गेन प्रायश्चित्तसा- तत्यप्रसङ्गात् । अत एव न्यायश्चाभासः । या क्रिया सा न वर्गसाधनमिति न्यायस्य 'स्वर्गकामो यजेते'त्यादिश्रुत्येव 'तमेवं विद्वानमृत इह भवति', 'तयो- र्वमायन्नमृतत्वमेती'त्यादिश्रुत्या तस्य बाधितत्वाच्च । अत एव श्रुतिरपि ब्रह्मो- पासनातिरिक्तपुण्यचितलोकविषया । 'यदि ह वा अप्यनेवंविद् महत् पुण्यं करोति तद्धास्यान्ततः क्षीयते', 'स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयत' इत्युपासनाकर्मणोऽक्षयं श्रुत्यन्तरात् । उपासनयावरणनिवृत्तौ चा- स्मनः स्वाभाविकसत्यसङ्कल्पादिगुणाविर्भावे छन्दतो नानादेहभोगोपकरणसर्ग- संहारेऽप्यविरोधात् । न चैवमपि प्रायणकालपरिमाणानियमेन तदवधिविधेयोपासना- परिमाणानियमान्मुक्तौ तरतमभावप्रसङ्गः, अमिहोत्रज्योतिष्टोमादिसाधनतार- तम्यस्य स्वर्गतारतम्यप्रयोजकत्वकल्पनादिति वाच्यम् । ध्येयब्रह्मसाक्षात्कारपरि- पाकावधिनियमात् पुनरप्रस्मरणेनान्त्यप्रत्ययाय तु प्रायणान्तानुवृत्तिराद्रियते । १, “यत्वश्रु ।', २. 'स्व' ख. पाठ:. .
. १२० सिद्धान्तसिद्धाञ्जने "अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् । यः प्रयाति स मद्धावं याति नास्त्यत्र संशयः ।। इति स्मरणात् । न चैवमदृष्टफलोपासनाविविनिष्ठे वेदान्ते विधिवृत्तमीमांसयैव विद्याविधरपि निरूपितचातूरूप्यतया तद्विचारानारम्भप्रसङ्गः । सिद्धप्रामाण्यब्रह्म- स्वरूपविद्याभेदाभेदविकल्पसमुच्चयादिप्रतिपादनस्य न्यायान्तरापेक्षतया तद्यत्पा- दनाय तदारम्भोपपत्तेरिति । उच्यते । न तावत् तन्निवृत्तिस्तदुपादानावस्थान्तरमित्युक्त्वा प्रकृतिसम्ब- न्धनिवृत्तिनित्यत्वमुच्येत , क्रियाजन्याया घटादिनिवृत्तेः कपालाद्यवस्थाया अनि- त्यत्वात् । कर्माविद्या च तवात्मोपादानेति तन्निवृत्तिरात्मावस्थान्तरं क्रियया साध्येत । तथा च विक्रियापत्तेरात्मनोऽविकारित्वशास्त्रमुपरुध्येत 'अविकार्योऽय- मुच्यत' इत्यादि । अनित्यत्वं च प्रसज्येत विकारित्वाद् मृदादिवत् । अथार्था- न्तरमेव निवृत्तिरिप्येत, तदपि कार्यत्वादनात्मत्वाच्च घटादिवदनित्यं स्यात् । आत्मातिरिक्तकालादेरपि नित्यत्वासम्प्रतिपत्तेरव्यभिचारात् । न च साधनाव- च्छिन्न साध्यव्यापकं भावत्वमुपाधिः । तद्व्यतिरेकस्य साध्यव्यतिरेकाप्रयोजकत्वात् , प्रांगभावे व्यभिचारात् । न चावच्छिन्नसाध्यव्यतिरेकः साध्यः प्रागभावे कार्यत्वा- भावप्रयुक्तः स्यात् पक्षे च' कार्येऽनित्यत्वाभावप्रयुक्त इति वाच्यम् । नित्यत्वा- नित्यत्वविवादे पान सामान । विशिष्टाभावस्यातिरेके सविशेषणे हीति न्यायस्य ध्वंसादिविषयत्वेनानित्यत्वाभावविषयतयैवानुमिति- पर्यवसानकल्पनायोगात् । तदनतिरेके च प्रागभावे व्याप्तिभङ्गात् । अनित्यत्वे सत्यपि तत्र भावत्वाभावात् । अत एव नानित्यत्वव्यापकव्यभिचारित्वेन कार्य- त्वस्य तद्वयभिचारित्वमनुमेयम् । तथाच सूत्रकारः 'नात्माश्रुतेः नित्यत्वाच्च ताभ्यः' (ब्र०. २. ३. १७) इति जीवस्य जन्माभावे नित्यत्वं हेतुमाचक्षाणो ध्वंसस्यान्यम्य वा जनिमतोऽनित्यत्वं मन्यते । अन्यथा तस्य ध्वंसे व्यभिचारात् । न च नियतसत्त्वमेव विनाशानवच्छिन्नसत्ताकत्वं नित्यत्वम् , 'त्यम्नेधुंवे' (वा० १. २. १०४), इति भवत्यर्थे त्यविधानात् । तथा च ध्वंसस्य जनिमत्त्वेऽपि निरुक्तनित्यत्वाभावादेवाव्यभिचार इति वाच्यम् । तव ध्वंसे नित्यपदप्रयोगवि- रोधाद् , लाघवेनोत्तरावाधेविधुरत्वस्याविनाशित्वस्य नियतत्वस्यैव वा नित्यशब्दा- र्थत्वाच्च । ध्वंसेऽपि स्वतोऽन्यतो वानुपाख्यत्वव्यावृत्तिरूपभवत्यर्थसम्भवाच । अथवा तत एव ध्वंसस्यानित्यत्वं, नित्यपदप्रवृत्तिनिमित्तानयतसत्ताभावात् , ।
-- , . , -- । मुक्तरुपासनासाध्यत्वे दोषाः । १२१ निःस्वरूपस्य तस्याविनाशित्वविकल्पायोगाच्च । न चैवं पापध्वंसनिवृत्तौ पापोन्म- ज्जनप्रसङ्गः , उपादानावस्थान्तररूपध्वंसवादेऽवस्थान्तरसामग्रीसन्निपाते तदप्रस- ङ्गात् । पापसामग्रीसन्निपाते च पापसजातीयमवस्थान्तरमेव । न तु ध्वस्तमेवो- न्मज्जति, अवस्थान्तरप्रतिबन्धात् । अत एवातिरिक्तध्वंसवादेऽपि प्रतियोग्युन्म- ज्जनं प्रत्युक्तम् । विनष्टघटायां मृदि घटसामग्रीसमवधानेऽपि सजातीयोत्पत्तिप्रति- बन्धात् । न च ध्वंसप्रागभावकालातिरिक्तकालस्य प्रतियोगिकालत्वनियमः, अ- प्रयोजकत्वात् । लाघवेन स्वविरोधिकालातिरिक्तकालस्यैव प्रतियोगिकालत्वाच्च । ध्वंसध्वंसस्यापि विरोधित्वस्य फलबलकल्प्यत्वात् । न चैवं विद्यया अविद्यादि. ध्वंसस्थाप्यनित्यत्वापत्तिः, तस्य क्रियाव्याप्यत्वाभावेनाकार्यत्वात् । पुनर्ब्रह्मणो. ऽवस्थान्तरापादकसामग्रयन्तराभावाच्च । वस्तुतस्तु विद्यया नाविद्यादेवसः , किन्तु बाध एवेत्यग्रे वक्ष्यामः । न चैवमात्मोपासनासाध्यब्रह्मलोकफलस्याप्य- नित्यत्वे 'न च पुनरावर्तत' इत्यादिविरोध इति वाच्यम् । स एतस्माज्जीवधनात् परात् परं पुरिशयं पुरुषमीक्षते' इति श्रुतेर्ब्रह्मलोक एव सक्षात्कृतात्मतत्त्वस्य परान्तकाले कार्यात्यये तदध्यक्षेण सह मोक्षाभिप्रायत्वादनावृत्तिशब्दस्य । अत एवोपासनासाध्यस्यानित्यत्वे 'तमेवं विद्वानमृत' इत्यादिश्रुतिबाध इति निरस्त- म् । विदेर्शानार्थत्वेन ततोऽविद्यादिबाघे इह परामृतत्वोपपत्तेः । 'तयोर्ध्वमाय- नमृतत्वमेति' इति चाप्लुष्टाविद्याकामकर्माशयस्यैवाभूतसंप्लवस्थानाभिप्रायत्वात् । तथा च सूत्रम् --- 'अमृतत्वं चानुपोष्य' (ब्र० ४.२.७) इति । उक्तविधया क्रम- मुक्तयभिप्रायत्वाद् वा । आत्मोपासनाकर्मणोऽक्षयत्ववचनं चेतरकर्मवैलक्षण्या- दाभूतसंप्लवस्थानफलत्वात् परामृतहेतुसाक्षात्कारफलत्वाद् वा । अपिचैवमुपासिक्रियायाः साक्षात्कारावधेरेव मुक्तिसाधनरूपत्वेऽपि काल- दैादिकृतं तारतम्यं न निहोतुं शक्यमिति मुक्तितारतम्यप्रसङ्गः । न च साधनरूपे तारतम्याभावः , आद्यप्रत्ययप्रभृतिसाक्षात्काररूपतापरिपाकावधेरेव सा- धनत्वात् । नहि साक्षात्काररूपान्तिमप्रत्ययोऽन्त्यप्रत्यय एव वा मुक्तिहेतुः, तावन्मात्रस्योपासनाशब्दार्थत्वानुपपत्तेः । क्रियाबाहुल्ये च फलभूनोऽन्यत्र कुप्तत्वात् । अपिचोपासनाविधिरपि धर्ममीमांसयैव मीमांसित इति ब्रह्ममीमांसाना- रम्भप्रसङ्गः । श्रुत्यादिभिरेव *मन्त्रन्यायेन ब्रह्मणि विनियुज्यमाने वेदान्ते तद्वि- , * जै० अध्या. १.पा. २. अधि० ४. सू० ३१-५३. R १२२ सिद्धान्तसिद्धाञ्जने -- षयस्य ब्रह्मणोऽलौकिकस्यापि यूपाहवनीयन्यायेन सिद्ध्युपपत्तेः। लाघवानुगृहीत- कार्यत्वाद्यनुमानस्य सार्वज्ञ्याद्युपहारसमर्थम्यानुग्राहकत्वात् । यदि हि ब्रह्मात्म- तादात्म्यमुपेयेत, तर्खेव प्रत्यक्षादिविरोधशङ्कापरिहारेण विचारशास्त्रमर्थवत् स्यात् । न च परेण तदुपेयते । ने च सिद्धे ब्रह्मणि समन्वयप्रतिपादनाय विचारारम्भः। वेदान्तस्य ज्ञानविधितात्पर्योपगमेन ब्रह्मणि पृथक् समन्वयायोगात् । लोके सिद्धेऽपि शब्दव्युत्पत्तेरुपगमाच्च । नहि वेदे सिद्धशक्तिरन्येन निरस्यते, जैमिने- रर्थवादनयेऽपि वेदान्तकार्यपरत्वविवक्षाया भवतानभ्युपगमात् । अन्यथार्थविरोधे तव शास्त्रैक्यानुपपत्तेः । नहि प्रभाकरस्येव लोकव्युत्पत्तिविरुद्धकार्यार्थत्वशङ्कोन्मेषः सूत्रकारस्य शक्यशङ्कः, न वार्वाचीनप्राभाकरपक्षस्यैव प्रतिक्षेपः प्राचीनस्य महर्षेः सूत्रकारस्य युक्तः कल्पयितुम् । अथोपनिषदां प्रधानाद्यर्थान्तरपरत्वव्युदासेन ब्रह्मसमन्वयाद्युपपादनाय शास्त्रारम्भः, न स्वप्रयोजनाय, सूत्रप्रणयनवैयर्थ्यात् । परस्य तवाधीतवेदमात्रस्य विचारप्रवृत्तौ शास्त्रान्तरावसराभावेन प्रधानाद्यर्थान्तरशङ्कानवकाशात् । न चौप- निषदैरेव सदादिपदैः प्रधानाद्यर्थान्तरोपस्थितिसम्भवः, तस्यालौकिकत्वेन व्युत्पत्त्य- सम्भवात् । अनुपस्थितमसम्भावितं चोपस्थाप्य तन्निरासः सूत्रकारस्य श्रममात्र- फलः स्याद्, अधीतमात्रवेदान्तावगतब्रह्मोपासनोपपत्तेः । यथाश्रुतगुणविशिष्ट- वस्तूपासनासाध्ये फले वस्तुनः प्रधानादिविवेकवैफल्यात् । यद्यप्याकाशादिपदस्या- र्थान्तरशङ्कासम्भवः, तथापि तावन्मात्रविचार उपयुज्यताम् । एतेनोपासनाविकल्प- समुच्चयादिकमपूर्वमिह व्युत्पादनीयमिति निरस्तम् । तथापि शेषविचारवैयर्थ्या- परिहारात् ॥ -- क सहकार्यन्तरविधिः। .. अपिचैवं निदिध्यासनविधेः स्वप्राधानत्वे 'सहकार्यन्तरविधिः पक्षेण तृतीयम् ----' (ब्र० ३. ४. ४७) इति सूत्रं पाण्डित्यबाल्यशब्दितश्रवणमननापेक्षया तृतीयं यतो न पाण्डित्यमेव, अतो ब्रह्मसाक्षात्कारे वेदान्तवाक्यविचारस्य सहकार्यन्तरं मुनिशब्दाभिधेयं निदिध्यासनं विधीयते, पक्षण प्राप्तमपि भेददर्शनप्राबल्याद- प्राप्तमपि कथं न स्यादिति नियम्यत इत्येवमर्थकं विरुध्येत । यथा च साधना- न्तराप्राप्तावपि नियमः, तथा श्रवणनियमे दर्शितमस्माभिः । । S सहकार्यन्तरविधिः। १२३ कश्चित् पुनराह श्रवणमननाभ्यामन्यदेव पाण्डित्यादित्रयमुपासना- रूपाया विद्यायाः सहकार्यन्तरं विधीयते । तत्र च मौनं श्रवणमननावगतेश्वर- भक्तिविवृद्धसत्त्वोपनतात् ततोऽतिशयितपरिशुद्धपरिपूर्णब्रह्मवेदनरूपात् पाण्डित्या- दन्यदालम्बनसंशीलनरूपं बाल्यपाण्डित्यापेक्षया तृतीयं सहकार्यन्तरं विधीयते । मुनिशब्दस्याश्रमविशेष इव पक्षेण ज्ञानविशेषवति व्यासादौ 'मुनीनामप्यह व्यास' इत्यादिप्रयोगदर्शनादित्येवमर्थके सूत्रे न श्रवणादेः प्रसङ्ग इति । तन्न । 'तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः' इत्यत्र पाण्डित्यादिशब्दैः श्रवणादेरेवाभिधेयत्वात् । 'आत्मा वा अरे द्रष्टव्यः' इत्यादि- वाक्यच्छायानुकारेण त्रिसाधनफलप्रत्यभिज्ञानात् । तथाहि, ब्रह्म जानातीति ब्राह्मणः, “य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया इत्यादिस्मरणात् । तस्माद् ब्राह्मण इति द्रष्टव्यपदार्थः प्रतिसन्धीयते । पण्डा शास्त्र- विज्ञानमस्य सञ्जातमिति पण्डितः । तस्येदं कर्म पाण्डित्यमित्यनेन वाक्यार्थज्ञाना- वसायि श्रवणं, बाल्यशब्देन च दम्भदर्पादिवैधुर्यपरेण मननं लक्ष्यते, विना मननमप्रतिष्ठितश्रौतविज्ञानो हि दम्भदीदिना पूर्यते , 'अनूचानमानी स्तब्ध एयायेत्यादिलिङ्गदर्शनात् । 'अथ मुनिरि'ति परिशेषाद् मननाद् मुनिरिति व्युत्पत्त्या ज्ञानातिशयवति व्यासादौ प्रयोगदर्शनाच्च निदिध्यासनमेव । तत्र हि सर्वेन्द्रियव्यापारोपरमरूपं मौनमुपपद्यते । 'अथ ब्राह्मण' इति तदेव फलमनु. कीय॑ते स्तवनाय | अन्यथा श्रवणमननपरिशुद्धावगते वस्तुनि भक्तिपर्यन्तध्रुवानु- स्मृतिरूपनिदिध्यासनातिरिक्तस्य पाण्डित्यस्य भक्तिनिष्पाद्यस्यालम्बनसंशीलनस्य वा दुर्निर्वचनत्वात् सूत्रस्य निर्विषयत्वप्रसङ्गः । 'भक्त्या त्वनन्यया शक्योऽहं' 'प्रवेष्टुं चेति श्रवणादिसाध्यनिदिध्यासनपरिपाकात्मा भक्तिः ब्रह्मप्राप्तिसाधनमुच्यत इत्यु. दाहृत्य तत्साधनपाण्डित्यादिसाधनमिहोच्यते भक्तिरिति व्याहतवचनस्य दास- विनेयैरप्युपहास्यत्वात् । एवं सति मौनस्य विधेयत्वे तृतीयशब्दस्य पाण्डित्यादि- व्यवच्छेदनापेक्षितहेतुपरत्वसम्भवे च सहकार्यन्तरस्य विधिरिति समासादिसा- मञ्जस्यसम्भवे च पक्षण सहकार्यन्तरविधिरित्येवान्वयसामञ्जस्ये च तृतीयं मौनं १२४ सिद्धान्तसिद्धाञ्जने सहकार्यन्तरं च तद् विधीयत इति विधिश्च सहकार्यन्तरविधिरिति तृतीयशब्दा. नर्थक्येन विशेषणसमासकल्पनाक्लेशेन विधिरिति शब्दासामञ्जस्येन च पक्षण प्रकृष्ट. मननशीले मुनिशब्दप्रयोगादित्यध्याहारेण च सूत्रयोजना चासङ्गतेति स्वावसरे वक्ष्यामः । न चैवं श्रोतव्यादिसिद्धानुवादित्वे सहकार्यन्तरविधिरिति विरुध्येतेति वाच्यम् । शाखाभेद इवैकशाख्येऽप्युपदेश्यभेदेनाप्राप्तत्वात् । न चैवमपि श्रोत- व्यादिवाक्यभेदप्रसङ्गः महावाक्यस्यैकत्वादङ्गविशिष्टा(झी ? जितात्पर्यकत्वात् , पृ- थगुपहृतार्थसमावेशने विधिव्यापारागौरवाच्च । तस्माद् निदिध्यासनमुपासनमेव स्वतन्त्रं मोक्षसाधनं विधीयत इति बालिशभाषितमुपेक्षणीयं विद्वद्भिः । तस्माद् द्रष्टव्यपदनिर्दिष्टफलश्रवणगोचरः । मननादीतिकर्तव्यः श्रोतव्य इति नो विधिः ॥ . name वेदान्ते विध्यसम्भवशङ्का । नन्वैकात्म्येदंपरे वेदान्ते विधिरेव न सम्भवति । दर्शपूर्णमासेदंपरेऽपि प्रक- रणे प्रयाजादिविधाववान्तरतात्पर्यमुपपद्यते, अर्थाविरोधात् । न तु वेदानुवचना- दिविधौ विचारादिविधौ वा, निर्विशेषब्रह्मात्मतत्त्वविषयत्वेनार्थविरोधात् । विधिर्हि नियोज्यमाकान् न नियोज्यब्रह्मात्मदर्शनेन विरुध्यते । यथाह भगवान् भाष्य- कार: " वेदान्ते लिङादयः श्रूयमाणा अप्यनियोज्यब्रह्मात्मतत्त्वविषय- त्वात् कुण्ठीभवन्ति उपलादिप्रयुक्तक्षर तिक्ष्ण्यवत्" इति । अन्यत्रापि "त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिको एकनीडो कथं स्यातां विरुद्धौ न्यायतो वद ॥" इति । अत एव प्रकरणादुत्कृष्य विधीयते 'तिस्रो रात्रीव्रतं चरे'दित्यादिवदिति निरस्तम् । विषयविरोधेन वैषम्यात् । निर्विशेषब्रह्मात्मालम्बनो हि विचारोऽन्यो वा-विधित्स्यते । न चैवं सम्भवति, नियुक्तस्यास्मिन्नधिकृतोऽहं कर्ता ममेदं कर्त- १. 'न प', २. 'स्मवि' ख. पाठः. 'अनियोज्यविषयत्वात्' ! $ 'तैपण्यादिवत्' इति मुद्रितसूत्रभाष्यपाठः ।
।, . है अधिकारिविशेषणम् । १२५ व्यमिति ब्रह्मप्रत्ययविपरीतप्रत्ययोत्पत्तेः । न च निर्विशेषस्वभावाविरुद्धौपाधिक- कर्तृत्वमालम्ब्य विधिः प्रत्येष्यत इति युक्तम् । स्वभावनिर्विशेष औपाधिकविशेष- स्याप्ययोगात् । तथा च सूत्रं-- 'न स्थानतोऽपि परस्योभयलिङ्गम् -' (ब्र० ३. २. ११) इति । नहि स्वच्छः सन् स्फटिकोऽलक्तादियोगादस्वच्छो भवति । आरोपस्तु स्यात् । न तु निर्विशेषात्मावबोधे तदारोपालम्बना विधिप्रतिपत्तिः, ब्रह्मविद्यानर्थक्यप्रसङ्गात् । 'उपमर्द च' (ब्र० ३. ४, १६) इति सूत्रविरो- धाच्च । 'अश्लेष इति चागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति भाष्यविरोधाच्च । विषयानवबोधे विचारादिविधिप्रत्ययानुपपत्तिरेवेति चेत् । उच्यते । यज्ञादयो विचारादयो वा विवक्षितब्रह्मात्मावबोधोपयोगादवान्त- रतात्पर्येण विधीयन्ते । न चार्थविरोधः, निसर्गसिद्धकर्तृत्वारोपालम्बनेनैव वि- चारादिविधिप्रतिपत्तेः । निर्विशेषात्मवियत्वेऽपि तद्विधेरधिकारिणो निर्विचिकित्सा- त्मापरोक्षाभावेन कर्तृत्वाद्यारोपानुपमर्दे ममेदमिष्टसाधनममत्राधिकृतः कुर्वीये- तिप्रतिपत्त्यविघातात् । न च तदत्यन्ताप्रतिपत्तिः, येन तद्विषयो विचारादिवि. धिर्न प्रतिपद्येत, अधीतमात्रेण तदापाताधिगमात् । अथवा, अज्ञाताकलितविषय एव ज्ञानोपायविधिः प्रतिपत्स्यते जिज्ञासा- धिकारानुरोधात् । अज्ञातरूपेणैव तद्विधिविषयावच्छेदकतयात्मनो विधिप्रतिपत्ति- विषयत्वेन कर्तृत्वाद्यनुपमर्दै विध्यननुष्ठानाप्रसङ्गात् । विधिप्रत्ययकुण्ठतादिभाष्यं तु निर्विशेषब्रह्मात्माबोधोपजीवनप्रवृत्तिविधिविषयम् । यथा 'तत्त्वमसि' 'उपा- स्स्वेति । नहीदं शक्यमुभयं प्रतिपत्तुम् । प्रतिबुध्य तु नतरामनियोज्यत्वात् तस्य कर्तृत्वाद्युपमर्दादिति। अन्यथा 'किमर्थानि तर्हि विधिच्छायापन्नानि आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यादीनि, स्वाभाविकप्रवृत्तिविषयविमुखीकर- णार्थानीति ब्रूमः' इति श्रवणादिनियमविध्युपगमभाष्यविरोधात् । तस्मादुप. पन्नः श्रवणादिविधिरिति । अधिकारिविशेषणम् । अत्र च मुमुक्षवाधिकारिविशेषणं, कामाधिकारत्वात् । विवेकादेरपि साम- येन मुमुक्षाहेतुतया तादाद् , विचारविधिस्थलेषु तत्तत्संकीर्तनस्य मुमुक्षाल. क्षणार्थत्वात् , कारणोपन्यासे कार्य सम्प्रत्ययसम्भवादिति केचित् । १. 'त्मबो' ख. पाठः.
. , . १२६ सिद्धान्तसिद्धाञ्जने अत्रेदं वक्तव्यम् । न मुमुक्षवाधिकारिविशेषणं , जिज्ञासोरधिकारात् । आपिच कामाधिकारेऽपि न कामनैव पुष्कलाधिकारनिमित्तम् । अर्थित्वसामर्थ्या- देरिवान्यस्यापि यथाविधानमधिकारनिमित्तत्वसम्भवात् । अन्यथा तत्र तत्र विचारविधिषु विवेकादिकीर्तनवैयर्थ्यात् । न च मुमुक्षानुमानेनार्थवत्त्वम् । विवेका- दिविरहिणामपि मुमुक्षाया नित्यसिद्धत्वेन व्यभिचारात् । मात्रयापि दुःखानु- पङ्गविकलस्य निरतिशयसुखस्य सर्वदा सर्वप्राणिसमीहितत्वात् । नहि निर्गलि- तनिखिलव्यलीकनिरतिशयसुखाभिलाषादन्या मुमुक्षा नाम । न तेषां समस्तसांसा- रिकदुःखातीतस्वरूपसुखाभिलाषलक्षणा मुमुक्षा , किन्तु दुःखासम्भेदेन निरति- शयत्वेन च विषयसुखाभिलाष एवेति चेत् । न , 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेः । स्वरूपसुखस्यैव विषयवृत्त्यवच्छेदे वैषयिक- त्वात् । 'आनन्दो ब्रह्मे'त्यादिश्रुतेरात्मनः परमप्रेमास्पदत्वाच्च । सुखरूपत्वे सति विषयसुखस्य तदतिरेककल्पने गौरवाद् मानाभावाच्च । दुःखं तु स्वहेतुकम- न्यदुपेयते । नित्यसुखात्मन इव नित्यदुःखात्मनो विषयाभिव्यङ्गयस्य कस्यचिद- मानसिद्धत्वात् । न चैवं सुखे कामनानुपपत्तिः, सुखरूपात्मावभासेऽपि यावदज्ञानं दुःखसम्भेदावभासानुवृत्तेः, तदुपशमे विषयवृत्त्यभिव्यक्तसुखकामनायास्तद्रे- दविभ्रममूलत्वात् । सुखोत्पादादिप्रतीतेरपि व्यञ्जकवृत्त्युपाधिकत्वात् , तत्र च निरुक्ताभिलाषस्य मुमुक्षारूपपर्यवसानात् । ननूज्झितसाधनफलैषणं मुक्तिसा- धनप्रवृत्त्यौपयिकी मुमुक्षा न विवेकादिहीनानामिति चेत् । न , अधिगते त- साधने शक्ये च तदभिलाषिणो विषयेष्विव विवेकादिशून्यस्यापि प्रवृत्त्यविरो. धात् । तथापि विषयसुखाभिमुखचेता निरतिशयसुखाभिलाषेऽपि विषयभोग- विच्छेदात्मके ब्रह्मविज्ञाने मुक्त्युपाये न प्रवर्त्यत इति चेत् , तर्हि न कश्चिद् मुमुक्षायां विवेकादेरुपयोगः । किन्तु नित्यानित्यविवेकाभावे नित्यपुमर्थोपाय- प्रवृत्तेरेवानुपपत्तेः, विषयवैराग्याभावे तत्रैव प्रवृत्त्यनुपपत्तेः , शमाद्यभावे तत्र प्रवृत्तिसातत्यानुपपत्तेश्च फलावधिमुक्त्युपायप्रवृत्तावेव । अथापि स्याद् विवे- केनानित्यत्वादिदोषदर्शिनो विषयवैराग्यादिन्द्रियप्रवर्तनाभावे शमादिरित्यन्वय- व्यतिरेकसिद्धहेतुहेतुमत्तया न सर्वेषां विचारप्रवृत्तौ स्वतन्त्रनिमित्तत्वमिति । 'त' ख. पाठः, अधिकारिविशेषणम् । १२७ नैवं स्यात् । विवेकाभावेऽपि रोषादिनिमित्तस्य वैराग्यस्य , तदभावेऽपीन्द्रि- यदौर्बल्यनिमित्तशमादेश्च दर्शनेन व्यभिचारात् । तस्य च विचारप्रवृत्तांवनु- पयोगात् । तद्व्यावृत्त्या विवेकादेरपि पृथग्विचारविधिनिमित्तभावस्याभ्युपेय- त्वात् । चतुर्णामपि विचाराधिकारनिमित्तत्वे ह्यन्योन्यसाध्यसाधनभूता एव विवे- कादयस्तथा नियम्यन्ते । मुमुक्षुत्वे सत्यनन्तरं ब्रह्मजिज्ञासा कर्तव्योत टीकायां च न मुमुक्षुत्वमेवाधिकारिविशेषणमिति तद्ग्रहणम् । किं तर्हि , कचित् क्रमनिय- तपठितानामन्तिमग्रहणे पूर्वमर्थसिद्धं भवतीति । तथा च भाष्यं- "तेषु हि सत्सु शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च" इति । अन्यथा साधनचतुष्टयसम्पत्त्यानन्तय विचारस्य न सूत्र्येत । तस्याधिका- रिविशेषणेयत्तावधारणया तत्प्रवृत्तिफलत्वात् । एवं च तत्र तत्र विचारविधिषु नियाम्यविवेकादयोऽङ्गतयोपादीयन्ते, सामोपपत्तेः । अङ्गत्वेऽपि विधिप्रतिपत्त्युपा- धितयाधिकारानिमित्तत्वं चाविरुद्धमित्यचकथाम ।। तत्र यथा तैत्तिरीये तावदानन्दमीमांसायामुत्तरोत्तरमानन्दोत्कर्षप्रतिपादन- स्य पूर्वपूर्वापकर्षनान्तरीयकतयार्थिको विवेकः । श्रोत्रियस्य चाकामहतस्ये'त्यकाम- हतत्वं वैराग्यं च निरतिशयानन्दावाप्तिसाधनमवगम्यमानं विचारपूर्वकज्ञानद्वारे- त्यवगम्यते । विवेकादेर्विचारप्रवृत्तौ सामर्थ्याद् विद्याया एव तादृशानन्दाप्तिरू- पमोक्षसाधनत्वाच्च । तथा कठवल्ल्यामपि मृत्यूपच्छन्दितविषयविरक्तस्य नचिकेतसो विद्योपदे- शदर्शनाद् वैराग्यं विद्यासाधनमवगम्यते । तथा मुण्डकेऽपि 'परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन, तद्विज्ञानार्थ स गुरुमेवाभिगच्छे- द' इत्याहत्य विवेकवैराग्ये विचाराङ्गतया विधीयेते, गुर्वभिगमनस्य विचाराद्यर्थ- त्वात् । 'प्रशान्तचित्ताय शमान्वितायेति शमादि च गृह्यते । वाजसनेयके च 'शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येदि'- ति शमादिगुणो विचारो विधीयते । धात्वर्थदर्शनस्यापुंस्तन्त्रस्याविधेयतया पश्योदिति तत्साधनविचारस्य लक्षणीयत्वात् । 'पल्यवेक्षत' इत्यादौ विधेयार्थल- क्षणाया उपगम्येत्वन 'न विधौ परःशब्दार्थ' इति न्यायस्य तात्पर्यविषयेतरपरत्वात् । morea १. 'षु स' ख, पाठः, १२८ सिद्धान्तसिद्धाञ्जने पि mmam तत्रैवान्यत्र 'आत्मनस्तु कामाय सर्व प्रियं भवति', 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य' इति स्वव्यतिरिक्तस्य स्वतः प्रियत्वाभावविवेचने तन्मू- लवैराग्यस्यापि विवक्षितत्वाद् विवेकवैराग्यविशिष्टविचारविधिरवगम्यते । न चैवमामिक्षावाजिनयागाविव विचारा भिघेरन् गुणभेदादिति शङ्कयम् । संयोगरूपचोदनाख्यानामविशेषेण शाखान्तरे कर्मणामिवैकत्वे गुणोपसंहारोप- पत्तेः । तथा च जैमिनीयं सूत्रम् 'एक वा संयोगरूपचोदनाख्याविशेषाद्' (जै० ०२. ४. ९) इति । वैयासिकं च - 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषाद्' (७०३. ३. १) इति, 'उपसंहारोऽर्थाभेदाद् -' (ब्र० ३. ३. ५) इति च । ऐक- शाख्ये च 'आत्मा श्रोतव्यः' 'आत्मानं पश्येदि'त्यादौ ब्राह्मणभेदेनापौनरु- तयात् । अथवा $ भूयस्त्वेनोभय श्रुती' (जै० ३. ३. १०) इति न्यायेनैकत्र सगुणविधानमन्यत्र तदनुवादेन गुणमात्रविधानमिति व्यवस्थोपपत्तेः । प्रकृतसंयो. गाभावे हि गुणः कर्म भिन्दीत यथा वाजिनम् । तथा च जैमिनिः ---'गुणश्चापू- वसंयोगे वाक्ययोः समत्वाद् ' (जै०. २. २. २३) इति । ननु च श्रोतव्यवाक्यसिद्धविचारानुवादेन शमाद्यनेकगुणविधाने वाक्य- भेदः । शान्तिवाक्यविहितविचारानुवादे न श्रोतव्यवाक्ये किञ्चिद् विधेयमस्ति, अधिकारस्यापि तत्रैव लाभात् । विचारानुवादेन तत्र मननाद्यनेकगुणविधौ च वाक्यभेदादिति चेत् । न । श्रोतव्यवाक्ये विवेकादिगुणविधानोपपत्तेः 'आत्मनस्तु कामाय सर्वं प्रियं भवति,' 'मन्तव्यो निदिध्यासितव्य' इति गुणविधिवाक्यानि भिन्नान्येवेति वाक्यभेदस्याप्रसञ्जनीयत्वात् । यद्वा श्रोतव्यादिवाक्य एव विशिष्टविचारविधिः, विस्पष्टत्वाद् , 'ब्रह्म तं परा- दादि'त्यादिविषयप्रपञ्चनेन रूपलाभात् स्वरूपफलोपकारिबहुगुणसमन्वयात् , 'आ- मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम् ' 'एतावदरे खल्वमृतत्व- मि'त्यर्थवादाच्च । तदनुवादेन च शमाद्यनेकगुणविधाने वाक्यभेद इष्यत एव । भूत्वेत्यस्य तन्त्रतया यत् पश्येत् तच्छान्तो भूत्वा दान्तो भूत्वेति प्रत्येकमभिस- म्बन्धात् । यथाहुः। "भूत्वेत्यस्याभिसम्बन्धः सर्वैः शान्तादिभिः पदैः" 'भूयस्त्वेनोभयश्रुतिः,' इति मुद्रितजैमिनिसूत्रपाठः ।
संन्यासस्य श्रवणाङ्गत्वम् । १२९. -- इति । यद्वा न वाक्यभेदः । तत्र नाम वाक्यभेदो यत्र प्रधानकरणावच्छि- नां भावनां प्राप्तामनूद्य तदवच्छेदकतया गुणा विधीयन्ते । यथा 'चित्रया यजेत पशुकाम' इत्यादौ प्राप्तयागभावनानुवादेन तत्र चित्रत्वस्त्रीत्वाद्यनेकगुणविधाने वाक्यभेदः । न चेह पश्येदिति विचारभावनानुवादेन तदवच्छेदकतया शमादयो विधीयन्ते । किं तर्हि, भूत्वेति भवनाक्षिप्ता भावना युगपदनेकगुणावच्छिन्नैव विधीयत इति । तस्माद् विविदिषावाक्य इव शान्तिवाक्येऽपि विधेरनेकावच्छि- नकभावनाविषयतया शमादयश्च समुच्चीयन्ते । न चैवमुपरतिपदाभिधेयसंन्यास- स्याप्राप्तेविधिः शमादेनियम इति विधिवैरूप्यापत्तिरिति वाच्यम् । विवेकवैराग्या- दौ सति कर्मणामनुपयोगं पश्यतस्तत्प्राप्तेः । अथवा 'पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीति स्वरूपस्य 'एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्तीति विनियोगस्य च प्राप्तत्वेन तस्यापि नियाम्यत्वात् । स्वाभावस्य वान्यस्य वा विरोधिनो व्यावृत्त्या प्राप्तस्य सतोऽप्राप्तांशपरिपूरणात्मक- नियमस्य सर्वत्रैवाविशेषात् । अथवा प्राप्तसंन्यासमात्रानुवादेन शेषनियमवि- धिरस्तु । न विधिवरूप्यदोषः । उपरतिपदेन संन्यासो वा माभिधायि । मनसो बहिरिन्द्रियप्रवृत्त्यनुरोधनिरोधः शमः । बहिरिन्द्रियस्य विचारविरोधिविषयप्रवृत्ति- निरोधो दमः । इष्टविषयमनोराज्य निवृत्तिरुपरतिः । तितिक्षा द्वन्द्वसहनम् । निष्फ- लानिष्टविषयमनोराज्यनिवृत्तिः समाधानम् । श्रद्धा पुनरास्तिक्यरूपा भक्तिरूपा चे- त्यर्थभेदात् सर्वस्य चास्य नियमोपपत्तेरवैरुप्यमिति ।। । । सन्न्यासस्य श्रवणाङ्गत्वम् । संन्यासश्च श्रवणानं, शमादिभिः सह नियमेन समुच्चयात् । न च एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्तीति श्रवणवदेव ज्ञानफलत्वश्रवणात् फलवत्स- निधावफलत्वाभावादुभयोरप्येकफलत्वेन प्रकरणित्वादनङ्गं सन्न्यास इति वाच्यम् । श्रवणाङ्गशमादिसमुच्चयविरोधात् । न च शमाद्यपि मुमुक्षाजिज्ञासादिद्वारा ज्ञानाङ्ग, 'प्रशान्तचित्ताय शमान्विताय' 'प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति श्रवणार्थत्वाव- गमात् । 'एतमेवे'त्यादौ च नाहत्य ज्ञानफलत्वमुच्यते । न खलु वेदितुमिच्छन्त इति श्रूयते । तस्याहत्य मुक्तिफलत्वानुपपत्त्या व्यवधानकल्पनायां च श्रवणाङ्गत्व- मेव परस्पराकाङ्क्षालक्षणात् प्रकरणादवकल्प्यताम् । निरन्तरश्रवणादिविरोधिवैध १३० सिद्धान्तसिद्धाञ्जने . - कर्मविक्षेपपरिहारेण ब्रह्मतत्त्वसाक्षात्कारफलश्रवणाद्युपकारित्वोपपत्तेः। जन्मान्तरीय- साधारण्येन सन्न्यासस्य ज्ञानसाधनत्वे चादृष्टद्वारकल्पनापत्तेः। एतेन शान्तिवाक्ये विचारमुपलक्ष्य तेन सह ज्ञाने सन्न्यासस्य समुच्चयो विधीयत इति निरस्तम् । शमाधुपादानवैफल्यात् । एकेनैव तद्वत्कर्तृकविचारोपलक्षणसम्भवाददृष्टकल्पना- गौरवाच्च । 'त्यजतैव हि तद् ज्ञेयम्' इत्यङ्गिफलेनाङ्गस्य स्तुतिमात्रं पशुफलसोमा- पौष्णस्याङ्गस्योदुम्बरताया इव पशुफलेन । अन्यथा 'अथ परिवाडि'त्यादि 'ब्रह्म भूयाय भवति', 'त्यागेनैके अमृतत्वमानशुरिति श्रुतेराहत्य मुक्तिफलत्वापत्तेः । अपि चैवं मुमुक्षोरपि विहितकर्मलोपभयेन श्रवणादिविधेरननुष्ठानमेवापद्येत । उक्तं चाचार्यः "मूत्राशङ्को यथोदको नाग्रहीदमृतं मुनिः । कर्मनाशभयाजन्तोरात्मज्ञानाग्रहस्तथा ॥" इति श्रवणागतया संन्यासविधौ च न स दोषः । अत एव मुमुक्षाजिज्ञासोदया- वधिरेव कर्माधिकार इति न्यायोन्मेषात् , 'संन्यस्य श्रवणं कुर्यात् ', 'वेदानिमं च लोकममुं च परित्यज्यात्मानमन्विच्छेद्' (आप० ध० सू० प्र० २. ख०२१. १३) इति तदङ्गत्वस्मरणाच । न च क्त्वाश्रुतिः क्रममात्रपरा, 'दर्शपूर्णमासाभ्यामिष्ट्वा. सोमेन यजेते' त्यादिवदिति वाच्यम् । क्त्वाश्रुत्यवगमितैककर्तृकत्वाक्षिप्तप्रयोगैक्यो- पपादकतया सामर्थ्यानुमिताङ्गाङ्गिभावोपगमे वाधकाभावात् । अन्यथा भिन्नकर्तृ- कत्वे 'समानकर्तृकयोः पूर्वकाले' (३. ४.२१)इत्यनुशासनविरोधात् । दर्शादौ च पृथगधिकारत्वादविधिप्रत्यासत्त्या च प्रकरणान्तरेऽपि प्रयोजनान्यत्वानवगमादिष्ट्वेति पूर्वकालत्वमानं लक्ष्यते । सोमेनेति द्रव्योपादानस्य साधिकारप्रकृतप्रत्यभिज्ञानार्थ- तया 'सन्निधौ त्वविभागाद् -' (जै० २. ३, २६) इति न्यायेन सोमयागस्य दर्शाद्यङ्गतया विधेयत्वायोगाच्च ।। . , आतुरसन्न्यासस्य श्रवणानङ्गत्वम् । नन्वेवं 'यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदि'त्यातुरसंन्यासविधि- विरोधः, आतुरस्य श्रवणानधिकारितया तदङ्गविधिवैयर्थ्यात् । न च ज्ञानार्थात् पारमहंस्यादन्यद् ब्रह्मलोकफलं संन्यासान्तरमत्र विधीयत इति युक्तम् । 'अथ परिवाड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रो हो भैक्षाणो ब्रह्मभूयाय भवति' इति पूर्ववाक्यस्य 'एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्मविद्' इत्युत्तरवाक्यस्य च तत्परत्वे तत्सन्दष्टस्यापि तत्परत्वौचित्यात् । 'एष पन्था' इत्यविशेषेण ब्रह्म- १. 'ति' ख. पाठ:. ही भैक्षण इति मुद्रितजाबालोपनिषदि दृश्यते ।
-- आतुरसंन्यासस्य श्रवणानङ्गत्वम् । १३१ साक्षात्कारोपायत्वनिर्देशात् । अन्यथास्य वाक्यस्य ब्रह्मलोकफलपरत्वे चैष इत्यविशेषादनातुरसंन्यासस्यापि ब्रह्मलोकफलत्वापत्तेः । तस्मादातुरसंन्यासानुरोधे- नादृष्टद्वारा ज्ञानाङ्गं संन्यासो न श्रवणानमिति चेद् । उच्यते--- 'यदहरेव विरजेत् तदहरेव प्रव्रजेत्', 'उत्थाय भिक्षाचर्य चरन्ती' त्याद्युत्पन्नसंन्यासस्य 'एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ती'त्यादौ श्रवणाङ्गत्वेनेव 'संन्यासयोगाद् यतयः शुद्धसत्वाः ते ब्रह्मलोके तु', 'ब्राह्म सन्यासिनां स्मृतम्, 'सन्यासाद् ब्रह्मणः स्थानम्' इत्यादौ ब्रह्मलोकसंयोगेनापि विधिरुनीयते, अपूर्वत्वात् । न चैतमेवेत्यवधारणाद् नान्यफलः संन्यास इति साम्प्र- तम्, उन्नेयविधिरूपस्यास्य तत्सम्बन्धविधावन्यसम्बन्धनिषेधे चावृत्तिकल्पनागौरवा- त् । यत्तु संन्यासान्तरविषयेयं स्मृतिरिति । तन्न । व्यवच्छेदकाभावात् । यद्यपि ब्रह्मलोकादपि विरक्तस्य मुमुक्षोजिज्ञासोरेव पारमहंस्येऽधिकारः, तथाप्यतिमा- तीव्रजिज्ञासायां मतिमान्द्यादिना श्रवणानधिकारिणो ब्रह्मलोकेऽपि तत्त्वं विज्ञाय मुच्येयेति कामयमानस्य तादथ्येन संन्यासाविरोधः । तद्विषया चेयमनावृत्ति श्रुतिः 'न च पुनरावर्तते' इत्याद्या । 'ते ब्रह्मलोके तु परान्तकाले परामृतात् परि- मुच्यन्ति सर्वे' इत्यादिदर्शनात् । अत एव 'इममानवमावर्त नावर्तन्त' इति ब्रह्मलोकादविरक्तानां मानवान्तरे पुनरावृत्तिपरमुपपन्नमनावृत्तिवचनस्य तद्विरक्त- विषयत्वात् । यदपि ज्ञानार्थसंन्यासे कुतोऽपि श्रवणादिप्रतिबन्धे तत्परिपूर्त्यभावे वा स्वनुष्ठिततदाश्रमधर्मस्य तन्नान्तरीयकब्रह्मलोकपरेयमिति । तदपि न । तन्ना- न्तरीयकत्वे मानाभावात् । योगसंसिद्धिमप्राप्तस्य योगभ्रष्टस्य "प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" ।। इति पुनरावृत्त्यभिधानेन नान्तरीयकब्रह्मलोकपरत्वाभावात् । अन्यथा ततोऽपि विर- . पि' क. पाठः, १३२ सिद्धान्तसिद्धाञ्जने तस्यापुनरावृत्तिश्रुतिविरोधात् । अपि च ब्रह्मलोकमन्तरा किं न भवति येन तस्य नान्तरीयकता । न तावत् संन्यासः । ज्ञानार्थतया तत्प्रवृत्तेः । न च तदन- न्तरं कुतोऽपि श्रवणादिप्रतिबन्धे तमन्तरा तद्धर्मानुष्ठानं न भवति । संन्या- सस्य श्रवणानङ्गत्वमते जन्मान्तरीयज्ञानार्थतापि पुष्कलतदनुष्ठानोपपत्तेः । आर- ब्धकाम्यस्यापि नित्यवद्भावेनोद्देश्यफलासम्मवेऽपि सधर्मकस्यावश्यानुष्ठेयत्वाच्च अन्यथा पातित्यापातात् । नाप्युद्देश्यज्ञानमेव तमन्तरा न भवति । कृतश्रवणा- देरिहापि तद्भावात् । तस्माच्छ्रवणादियोगे जानार्थस्यैव संन्यासस्य तदसम्भव- निमित्ते ज्ञानफलादपनीय ब्रह्मलोकफलसम्बन्धो विधीयत इति वा वाच्यम् । *अभ्युदितेष्टौ प्रकृतदेवताभ्यो हविरपनीय देवतान्तरसम्बन्धवत् । एवं चातु- रस्यापि श्रवणानधिकारितया स एव संन्यासो ब्रह्मलोकफलसम्बन्धन विधीयमान- स्तत्कर्तृकत्वनिमित्ते मनसा वाचा वा प्रैषोच्चारणमात्रेण सम्पूर्णोपकार उपदिश्यते, आज्यभागाभ्यामेव गृहमेधीयवत् । अथवा प्रकृतपारमहंस्यविकृतिरूपो यावत् तदुक्तपरिपूर्णोपकारो ब्रह्मलोकद्वारा ब्रह्मज्ञानफलायातुरसंन्यासो विधीयते । 'एष पन्था' इति चैष एव परामृश्यते सन्निहितत्वात् । पथित्वमनुकीयं तेनैती'त्य- भिधानाच्च ब्रह्मलोकमिति पूर्यते । स्यापि विरक्ताधिकारिकत्वात् । 'ब्रह्मविद् भवती'त्यपेक्षितफलमुपसहियते । 'ब्रह्मभूयाय भवतीति प्रकृतरभिहितफलत्वेन निराकाङ्कत्वात् , श्रवणाद्युपकारकतया तत्साध्यज्ञानस्यापि ब्रह्मभूयान्ततयैव फल- त्वोपगमात् । यत्तु विज्ञानेश्वरवचनं 'न केवलमहिकमेव पारिव्राज्यं ज्ञानसाधनम् । अपितु जन्मान्तरीयमपि' इति, तन्न संन्यासस्य श्रौतं श्रवणाङ्गत्वमुपरुन्धे । "जन्मान्तरेषु यदि साधनजातमासीत् संन्यासपूर्वकामदं श्रवणादिरूपम्" ३ इति संक्षेपशारीरकोक्तेः । संन्यस्यैव कृतश्रवणादेर्जन्मान्तरारम्भककर्मशक्तयादि- प्रतिवन्धनानुदितविद्यस्य प्रतिबन्धक्षयेऽनन्तरजन्मनि भरतवामदेवादेरिव तत्संस्का- रदान पिशाचकन्यायेन वाक्यश्रवणमात्रादेव ज्ञानोदयसम्भवादाश्रमान्तरेऽपि ४५. १. 'या पु, २. 'ति वाच्य' ख, पाठः. जै० अध्या० १. पा. ४. अधिः ११. सू०४१. ४२.
शाब्दापरोक्षाक्षेपः । विमुक्तिरुपपद्यत इत्येवंपरत्वोपपत्तावदृष्टैकद्वारा जानार्थ एव संन्यास इत्येतद- भिप्रायकल्पनायोगाद् । तस्मात् संन्यासः श्रवणाङ्गम् । गृहस्थादीनां त्वर्थ- वादाधुन्नेयाधिकारतया स्मृत्यनुमेयाधिकारान्तरसंयोगाविरोधेन "दिने दिने च वेदान्तश्रवणाद् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत् " ॥ इति फलान्तरसंयोगविहिते श्रवणे यज्ञादाविव शूद्रस्याहत्य प्रतिषेधाभावेन ताद- येन प्रवृत्तानां दृष्टसामर्थ्यात् प्रमाणाद्यसम्भावनानिवृत्तिर्भवन्ती न निवार्यते । जन्मान्तरे च तादर्थेन संन्यस्य ज्ञानाय श्रवणाद्यनुष्ठाने प्राचीनतदसंभावनादि- निवृत्तिसंस्कारसहकारेण झटिति श्रवणादि परिपच्यते । एतदभिप्रेत्य "वानप्रस्थगृहस्थनैष्ठिकजनैरन्यैश्च वर्णाश्रमैः कर्तव्यध्वनिसेवितं भवति वै जन्मान्तरे पाचकम् । विद्यायाः श्रवणादि लक्षणमिदम्" इत्याधुदितं संक्षेपशारीरकेऽपि । एवं सति 'अरुन्मुखान् यतीन्', 'नित्यं कर्म परित्यज्य' इत्यादिकमक्लेशेनोपपादितं स्यात् । संन्यासादेवारब्धश्रवणस्य काम्य- स्यापि नित्यवद्भावात् तत्त्यागे प्रत्यवायोपपत्तेः । अनङ्गत्वे तु न तथा, श्रव- णस्यानारम्भादिति । तस्माद् विवेकवैराग्यशमदमसंन्यासाद्या. विचारप्रवृत्ता- वपेक्षितव्याः । अत एव साधनचतुष्टयसंपन्नोऽधिकारीति सिद्धान्तप्रवादोऽपीति । तथाचाचार्याः 'त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता" || इति । एवं साधनसम्पन्नस्य विचारितवेदान्तवाक्योपादानो ब्रह्मात्मतत्त्वसाक्षात्कार उपावर्तते । यतः स्वभावादेवाविद्याद्यनर्थबाधेनात्मनः स्वरूपप्रतिष्ठा कैवल्यम् ।। ॥ शाब्दापरोक्षाक्षेपः। अत्राह-न परोक्षप्रमाणादपरोक्षंज्ञानं युक्तम् । नहि कुटजबीजाद् वटा- ङ्कर उपजायते । अन्यथापरोक्षप्रमाणत्वेन शास्त्रस्य प्रत्यक्षान्तर्भावापत्तेः । तथाच "प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
१३४ सिद्धान्तसिद्धाञ्जने इति स्मार्तविभागविरोधः, लक्षणसाकात् । अपि चैवमधिगतशब्दप्रमाणपरिकरस्य वाक्यादेवात्मापरोक्षापत्तौ विचारा: रम्भवैयर्थ्यम् । न चार्थबोधजनने विचारसहकारिसापेक्षो वेदः, निरपेक्षत्वलक्षण. स्वतःप्रामाण्यभङ्गप्रसङ्गात् । न च विचारोऽपि शब्दप्रमाणसामग्र्येव , अविचारय- तोऽपि गवानयनादिवाक्यार्थबोधेन व्यभिचारात् । भेदवासनाप्रतिबन्धादविकल्पब- माभेदमसम्भावयतोऽविद्यानिवर्तकमागमादपरोक्षं न जायत इति चेद्, एवं तर्हि स लेशतोऽपि न ज्ञायेत * जरद्वादिवाक्यार्थवत् । ततश्च विचारारम्भानुपपत्तिः, सर्वथाविज्ञाते जिज्ञासायोगात् । अपि च न तावदविकल्पब्रह्मात्मपरिभावनया भेद- वासनानिवृत्तिः, अज्ञानार्थपरिभावनाया एवायोगात् । भेदवासनानिवृत्त्या तज्ज्ञान- मिच्छत इतरतराश्रयत्वाच्च । अनादिकालोपचितभेदवासनाया आनन्त्यादिदंप्रथम तद्विपरीतभावनयाल्पीयस्या निवृत्त्यसम्भवाच्च । अथोच्येत-- शब्दशक्तथैव जाय- मानमपि ब्रह्मात्मज्ञानं भेदवासनादिप्रतिबन्धादविद्यानिवृत्त्यक्षममापातरूपं जायते, तदवधारणत्वाय विचारादिप्रवृत्तिरिति । तन्न । आ ब्रह्मात्मतत्त्वापरोक्षावधारणाद- विद्यामूलभेदवासनानुवृत्तौ तदवधारणस्यैवासम्भवाद्, भेदवासनानिवृत्त्या च तत्त्वावधारणमिच्छत इतरेतराश्रयत्वप्रसङ्गात् । अपि च तत्त्वावधारणनिवा- विद्याभेदवासना न तत् प्रतिबन्धुमर्हति, सत्यामपि चिरोपचिताहिभ्रमवासनायामा- प्तवाक्यादिना रज्जुतत्त्वावधारणदर्शनात् । अन्यथा निवर्त्यस्यैव प्रतिबन्धकत्वे कदापि तन्निवृत्त्यनापत्तेः। अपि च शब्दशक्तचापि जायमानमपरोक्षे ब्रह्मणि न परोक्षं तव सम्भवति, ज्ञानपारोक्ष्यापरोक्ष्ययोरर्थतन्त्रत्वोपगमात् । अथ करणस्वभावादादौ परोक्षमित्युच्यते, अग्रेऽपि तदेव स्यात् , सहका- रिसहस्रेणापि करणस्वभावानपायात् । तत्तेदंतयोरपि संस्कारेन्द्रियसामर्थ्यव्यवस्थो. पगमात् । प्रत्यभिज्ञानं तु स्मृत्यनुभवात्मकमेकं जायते सामग्रीद्वयसमाजात् । न च प्रमाकरणस्वभावस्य दोषसाचिव्यादप्रमाकरणत्वं, ज्ञानकरणत्वातिरिक्तप्रमाक- रणत्वाभावात् । न चानित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रधर्मत्वा- दिति युक्तम् , अवच्छेदकान्तरोपपन्नकार्यत्वेन विशेषणासिद्धेः । लाघवेनानित्य- . - manamann- "जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं प्रामणी पृच्छति पुत्रकामा राजन् ! समायां लशुनस्य कोऽर्घः ।।
M आपातत्वविकल्पः । १३५ ज्ञानत्वस्यैव तदवच्छेदकत्वात् । न हि दण्डो नीलमृत्साचिव्याद् नीलघटजनकः, नीलघटत्वस्य कार्यतावच्छेदकत्वे गौरवात् । तत्र घटत्वावच्छिन्नकार्ये मृदो नी. लिम्ना नीलघटत्वयोरिव ज्ञानत्वावच्छिन्नकार्ये दोषेण बाधितविषयत्वज्ञानत्वयोरा- र्थसमाजोपपत्तेः । न च विचारेण वेदान्तवाक्यस्यापरोक्षज्ञानजननशक्तिराधीयते, विचारस्यार्थकर्मतया प्रमाणाद्यसस्भावनादिनिवृत्त्या दृष्टद्वारेण साक्षात्कारहेतु- त्वात् । न च विषयस्वभावो भिद्यते येनादौ परोक्षमवगम्यते विचारानन्तरम- परोक्षमित्युच्येत, ब्रह्मात्मनोऽपरोक्षैकस्वभावत्वात् । अनलादिपिरोक्षस्वभाव एव सन् सौक्ष्म्यव्यवधानादिभिरनध्यक्षितः परोक्षमवगम्यते । समिन्धनसमुपसर्पण- निर्मथनादिना सौम्यादिनिहवे त्वपरोक्षमीक्ष्यते । न चेह तथा सम्भवति, आत्मावरणदोषस्य विचारादिभिरनिवर्तनीयत्वात् ।। . . आपातत्वविकल्पः । अथाधीतमात्र ज्ञानमात्मन्यपरोक्षमप्यनवधारणात्मकमिति चेत् । कि- मिदमनवधारणत्वम् । आपातत्वमिति चेत् । ननु पर्याय एपः । अनभ्यस्तवस्तु- विषयज्ञानत्वमिति चेद् , न । आत्मनो नित्याभ्यस्तत्वेनासम्भवाद्, मातृमान- मेयदोषवैधुर्ये तद्विधज्ञानस्याप्यवधारणत्वात् । नापि विशेषाविषयत्वम् , अनुमि- त्यादेरप्यवधारणत्वाद् , निर्विशेषब्रह्मज्ञानस्याग्रेऽप्यनवधारणत्वप्रसङ्गाच्च । नापि सामान्यविषयत्वं, तादृशोऽपि प्रत्यक्षस्यावधारणत्वात् । न च तदेकविषयत्वं, ता- दृशोऽप्यनुमित्यादेरवधारणत्वात् , निस्सामान्यब्रह्मज्ञानस्याग्रेऽप्यनवधारणत्वप्रस- शाच्च, प्रत्यगेकरसस्य ब्रह्मगो देहादिसाधारणाहन्त्वादिसामान्यसम्भवेऽपि विवि- तात्मबोधिना शास्त्रेण तद्विषयज्ञानायोगात् । नापि संशयत्वं, वाक्यात् संशया- योगाद्, विरोधिपदसमभिव्याहारे पदार्थशक्तिविरहनिश्चये ज्ञानस्यैवानुदयात् , तदनिश्चये च भ्रमस्यैवोत्पत्तेः, विरोधिपदासमभिव्याहारे च कोट्यन्तरानुपस्थिती निश्चयस्यैव सम्भवात् ।
१३६ सिद्धान्तसिद्धाञ्जने , संशयविकल्पः। किं चेदं संशयत्वं, न तावदेकस्मिन् धर्मिणि विरुद्धानेकप्रकारकज्ञानत्वं, शब्दजन्यापातज्ञानस्यातथात्वात् , निर्विशेषसविशेषसंशयाव्याप्तेश्च । न च सोऽपि ब्रह्मणि सविशेषत्वनिर्विशेषत्वप्रकारक एव, स्वरूपविरोधाद् निर्विशेषत्वविशेषा- लम्बने कोयन्तराभावात् , चन्द्रोऽयमसौ वेति संशयाव्याप्तेश्च । तस्यानेकधर्मिण्ये- कप्रकारकत्वात् । न चायं चन्द्रत्वे तदतद्वृत्तित्वोल्लेखी, अनुभवविरोधात् । अन्यथा स्थाण्वादिसंशय एव स्थाणुत्वमेतद्वृत्ति पुरुषत्वं वेति नानाधर्मिकैकप्रकारकः किमिति न कल्प्येत । एतेन 'एकाधारे विरुद्धाकृति(युग)युगपत्रख्यातिरन्यो(न्या ? न्य)बाध्या संशय' इति तत्त्वमुक्ताकलापकृदुक्तमपि दुरुक्तम् । उक्ताव्याप्तेः । संशयज्ञान- स्यैकत्वेन भेदगर्भान्योन्यशब्दार्थासम्भवाच्च । नापि विरुद्धानेकैकवैशिष्टयावगा- हिज्ञानत्वं, विरुद्धत्वं चानेकयोरेकसम्बन्धाभावरूपं धर्मयोधर्मिणोश्च समानमिति वाच्यम् । यदि हि वस्तुविरोधो विवक्ष्येत पनसोऽयं पलाशश्चेति भ्रमेऽतिव्याप्तिः, पनसत्वपलाशत्वयोरैकाधिकरण्यसम्बन्धाभावेन विरोधात् । विरोधभ्रमगर्भे वृक्षोऽयं प्लक्षो वेति संशयेऽव्यातिश्च, तत्र वस्तुविरोधाभावात् ।, अथ भासमानविरोधाने- कैकसम्बन्धावगाहित्वं विवक्ष्येत, तथापि कुलीनोऽप्यसौ दुश्ल इति ज्ञानेऽति व्याप्तिः । तत्रापिशब्देन कुलीनत्वदुश्शीलत्वयोर्विरोधोल्लेखनात् । यद्युच्येत- यत्रैकत्रानेकसम्बन्धावगाहनं तत्र तद्विरोधमानं विवक्षितम् । कुलीनत्वादेश्च परत्र निरूपितविरोधमन्तर्भाव्य तत्रोभयसम्बन्धोऽवगम्यते । तथा च ग्राह्यसम्बन्धप्रति- सम्बन्धिनिरूपितविरोधमानगर्भानेकैकसम्बन्धावगाहिज्ञानत्वं संशयत्वमिति । तन्न । यद्यसौ निर्वह्निः स्याद् , निर्धूमः स्यादिति तर्कज्ञाने तथाप्यतिव्याप्तेः । आपाद- नस्य तत्रैव वह्नयभावधूमाभावविरोधमानगर्भत्वात् । अपि च 'अपि शूलधरो निरामय' इत्यादिकाव्यमूलज्ञानेऽतिव्याप्तिः, तस्याप्याहार्यविरोधमानगर्भत्वात् । तत्रानाहार्येति विशेषणे चासमीक्ष्यकारिणि महिषो मनुष्यो वायमिति संशये, 'किमिन्दुः किं पद्माम'त्यादिकाव्यमूलसंशये चाव्यातिः । तस्याहार्यविषयत्वात् । स्थाणुरपि पुरुषोऽयमिति विरोधाभासगर्भभ्रमेऽतिव्याप्तिश्च । अथैकतरसम्बन्धाभा- वावमासनान्तरीयकान्यतरसम्बन्धावभासनियतानेकसम्बन्धप्रतिसम्बन्ध्येकविषयज्ञा- नत्वं संशयत्वम् । विरोधाभासज्ञानं तु न मनागप्येकतरसम्बन्धाभावमबभास- यति, आहारितविरोधयोरुभयोरप्येकसम्बन्धावभासात् । संशयस्तु तथाभूतविष- योऽप्यन्यतरसम्बन्धाभावावभासनियत इति नोक्तदोष इति चेत् । तथापि संशयत्वविकल्पः । . १३७ "खलानां कण्टकानां च द्वयमेवात्र हि क्षमम् । उपानन्मुखभङ्गो वा दूरतो वापसर्पणम् ॥" इत्यादिकाव्यमूलज्ञाने, 'नीहिभिर्यवैर्वा यजेते'त्यादिवाक्यजज्ञाने चातिव्याप्तिः । उभयत्र विकल्पज्ञानस्यान्यतरकोटिसम्बन्धप्रतिक्षेपेणापरकोटिसम्बन्धावभासित्वात् । न चायं संशय एव, शास्त्राप्रामाण्यप्रसङ्गात् । एतेनानियतानेकैकसम्बन्धावाहि- ज्ञानं संशय इति प्रत्युक्तम् । अथात्यन्तिकपरस्परप्रतिक्षेपावभासगर्भान्यतरसम्ब- न्धावगाहिनानैकवैशिष्टयगोचरज्ञानत्वं संशयत्वम् । वैकल्पिकज्ञाने तु नात्यन्तिक- परस्परप्रतिक्षेपावभासः, पाक्षिकत्वात् । अत एव व्रीहिभिर्यवैवा यष्टव्यमिति संश- यस्य ब्रीहिभिर्यवैर्वा यष्टव्यमिति निश्चयो निवर्तकोऽनुष्ठापकश्च । अन्यथा तत्रात्य- न्तिकपरस्परप्रतिक्षेपावभासे संशयसमानविषयत्वेनोक्तरूपत्वायोगादित्युच्येत । तन्न । अस्ति गेहे तमः प्रकाशो वा, नोभयमित्यादिज्ञाने तथाप्यतिव्याप्तेः । न चायं विकल्पज्ञानभेदः। वस्तुस्वभावेन तत्रात्यन्तिकपरस्परप्रतिक्षेपावभासात् । नापि संशय एव, समुच्चयनिषेधेनान्यतरसत्तानिश्चयरूपत्वात् । अथोभयसत्ताकोटिविरोधिनि- श्चयरूपत्वेऽपि तदंशे परस्परप्रतिक्षेपावभासित्वात् संशय एवायं स्यात् । न स्यात् , तदंशेऽप्यन्यतरान्ववसर्गेण समुच्चयमात्रविरोधितया विकल्पज्ञानतुल्ययोगक्षेमत्वात् । न च संशयेऽन्यतरान्ववसों भासते, एकतरमाननियमैदम्पर्यानुभवात् । इयानत्र विशेषः । यद् विकल्पज्ञाने स्वस्वभावाद् विषयस्वभावाच्च नात्यन्तिकान्यतरप्रतिक्षे- पावभासः । संशये तूभयतोऽपि तदवभासः । गेहतमःप्रकाशादिज्ञाने पुनर्विषय. वस्तुस्वभावादेव, न स्वस्वभावादित्यमत्सरैः सूक्ष्मदृष्टयावधातव्यम् । वस्तुतस्तु व्रीहिभिर्वा यवैर्वेत्यादिविकल्पज्ञाने प्रयोगभेदेनोभयसम्भवादन्यतरान्ववसर्गाव- भासेऽपि प्रयोगविशेषे तन्निश्चयेऽतिव्याप्तिः । तत्रैकतरसम्बन्धग्रहण इतरस्यानव- काशेन वस्तुस्वभावादप्यात्यन्तिकान्यतरप्रतिक्षेपावभासादिति । अत एव न संश- याद्यविरोधित्वं ज्ञानस्यापातत्वम् । संशयत्वानिरूपणात् , संशयान्तरे भिन्नविषय- ज्ञाने चातिव्याप्तेः, आत्मन्यपरोक्षस्य तद्विरोधित्वावश्यम्भावाच्च । 'छिद्यन्ते सर्व- संशया' इत्यादिश्रुतेः । -------- Mameterrearra- 1. • 'भासिज्ञा' ख. पाठः. T १३८ सिद्धान्तसिद्धाञ्जने अपि चेदमनवधारणत्वं न प्रमाणस्वभावकृतं, नापि विषयस्वभावकृतम् , अग्रेऽप्यवधारणाभावप्रसङ्गात् । स्वभावस्यापरिहरणीयत्वात् । न च मानविषय- स्वभावावनपेक्ष्य ज्ञानवैजात्यमुपलब्धचरम् । जायमानं ज्ञानं दोषवशादन वधारणं जायत इति चेत् । न तावद् वेदवाक्ये दोषसम्भवोऽपौरुषेयत्वात् । अन्यथा नित्यमेवाप्रामाण्यप्रसङ्गात् । नापि विषयदोषः, शास्त्रस्य तदेकविषय- त्वात् । प्रत्यक्षे हि विषयदोषस्तत्त्वावधारणविरोधी, तस्य साधारणत्वात् । अस- म्भावनादिः प्रमातृदोष इति चेत् । तर्हि ब्रह्मात्माभेदो न ज्ञायेतैव जरद्वादि- वाक्यार्थवदित्युक्तम् । पदार्थशक्तिविरहेण ततो ज्ञानानुदयेऽपि शास्त्रादर्थशक्तया ज्ञानमुदीयत इति चेत् । न खलु पदार्थशक्तिः स्वरूपसती वाक्यार्थधीहेतुः । किन्तु ज्ञाता । योग्यताभ्रमेऽपि तज्जननात् । न चासम्भावनादिदोषे सति सा बोर्बु शक्या । तस्माद् अंधीतमात्रादेव तत्त्वमादिवाक्याज्जायते चेज्ज्ञानमप- रोक्षमवधारणमेव शकुन्ताकाशगमनादाविवासम्भावनादेरपि तत एव निवृत्त्युप- पत्तेः । प्रबलतरासम्भावनादिप्रतिबन्धे वा नैव किञ्चिज्जायतेति विचारशास्त्र- प्रवृत्त्यनुपपत्तिः । नन्वस्मिन् देशे काले वा नेदं सम्भवतीत्यसम्भावयत एवाई- मरीचादिज्ञानं प्रत्यक्षेणानवधारणात्मकमुदेति । न । तत्रावधारण एवाप्रामाण्यसंशया- दनवधारणत्वापत्त्युपपत्तेः । असम्भावितेऽर्थे वाक्यजज्ञानानिदर्शनाच्च । न च यजे- मानप्रस्तरादिवाक्येऽर्थस्यासम्भावना । असम्भावितार्थस्याबोधनात् पूर्वोत्तरपक्ष हेतुदर्शनस्य तदर्थसम्भावनामूलत्वात् । न च प्राग् विचारप्रवृत्तेरहेतुदर्शिनो निर्विशेषचिन्मात्रपरिशेषत्वमात्मनः सम्भावयितुं शक्यम् । तस्मादसम्भावितोऽर्थः, अथ च ज्ञायते, तच्चापातरूपमिति विप्रतिषिद्धमिति । अपरोक्षत्वनिर्वचनम् । अत्राभिधीयते---ज्ञानस्यापरोक्षत्वं न तावज्जातिः, प्रत्यभिज्ञादौ परोक्षत्वेन साकर्यात् । अव्याप्यवृत्तेर्जातित्वायोगात्। तन्त्रिणो वस्तुसंस्थानातिरिक्तजात्यभावेन परोक्षापरोक्षयोः स्वरूपतो विशेषायोगाच्च । नापीन्द्रियजन्यज्ञानत्वं , प्रत्यभिज्ञा- तत्तांशेऽप्यपरोक्षावभासप्रसङ्गात् , तत्तेदन्तयोरपरोक्षज्ञानविषयत्वाविशेषात् , परो- क्षे विषये ज्ञानापरोक्षत्वस्यानुभवविरुद्धत्वाद् , घटं पश्यामि साक्षात्करोमीत्याद्यपरो- क्षाभावप्रसङ्गाच्च । नचेन्द्रियनिमित्तः संस्थानभेदो व्यवतिष्ठते, सर्वस्यापि ज्ञानस्य प. 1. 'अधिकृतमा', २.. 'वो' 'व. पाठः.
, , , अपरोक्षत्वनिर्वचनम् । नइन्द्रियजन्यत्वात् , संस्कारेन्द्रियनिमित्तज्ञानस्यैकस्य संस्थानद्वयायोगाच्च । न चे. न्द्रियजन्यं प्रत्यभिज्ञानं प्रत्यक्षमेव, संस्कारस्तु तत्र सहकारीति वाच्यम् । प्रत्यक्ष- त्वावच्छिन्नकार्य संस्कारस्य व्यभिचारेणासहकारित्वात् । प्रत्यभिज्ञात्वावच्छिन्नका- ये चेन्द्रियस्य व्यावृत्तकरणतावच्छेदकरूपभेदाभावात् तत्र तत्सहकारित्वानवक- ल्पनात् । सामग्रीद्वयसमाजादेव तत्तेदन्तावच्छिन्नविषयकज्ञानोपपत्तौ तस्य पृथक्कर-. णाप्रयोज्यत्वाद् , विषयावच्छेदभेदेन तत्रैव परोक्षत्वापरोक्षत्वसहभावसम्भवेन वै- जात्यकल्पनायोगाच्च । न चेन्द्रियजन्यप्रत्यक्ष एव संस्कारेण तत्तोल्लेखित्वस्यार्थसमा- ज इति वाच्यम् । संस्कारजन्यस्मरण एवेन्द्रियेणेदन्तोल्लेखित्वस्यार्थसमाज इति वैपरीत्यसम्भवात् । न च तमिमं पश्यामि साक्षात्करोमीत्यनुभवो नियामकः । इमं तं स्मरामि मन्य इति विपरीतानुभवस्यापि सम्भवात् । नापि ज्ञानाकरणकज्ञानत्वं प्र- त्यक्षत्वं , संस्कारकरणकस्मृतावतिव्याप्तेः । न च पूर्वानुभव एव तत्र करणम् , अनुभू- तं स्मर्यते नाननुभूतमित्यन्वयव्यतिरेकावगतकारणभावनिहाय तव्यापारतया सं- स्कारकल्पनात् संस्कारस्य च निर्व्यापारत्वादिति वाच्यम् , अवश्यापेक्षितसह- शदर्शनाद्युपकार्यस्य स्मृतिहेतोरनुभवमनपेक्ष्यैव कल्पनात् । न हि सदृशदर्शनादि. कमेव स्मृतिहेतुरननुगमात् । क्रियान्या कुर्वद्रूपस्य । स्वव्यापारादन्यत्र कारणत्वस्यै- वानुपपत्त्या संस्कारस्यापि स्मृतिजनने कस्यापि व्यापारस्य कल्पनीयत्वाच्च । ना- पि निरुक्तानुभवत्वं तत्, सर्वस्यैव विशिष्टज्ञानस्य विशेषणज्ञानकरणकत्वात् तस्या- पि विशिष्टज्ञानजनने व्यापारवत्त्वाविशेषेणेन्द्रियादिकमेव करणं न विशेषणज्ञानमिति नियन्तुमशक्यत्वात् । विशेषणज्ञानाहेतुत्वमतेऽपि महत्त्वाद्यपेक्षाधीजन्याणुत्वादिप्र- त्यक्षाव्याप्तेरपरिहार्यत्वात् । एतेनात्ममात्रसमवेताकरणकज्ञानत्वं प्रत्युक्तम् । तन्त्रि- मतेऽपि सविकल्पकप्रत्यक्षस्य जात्यनुवृत्ताकारावगाहिनोऽतदाकारावगाहिनिर्विक- ल्पकज्ञानजन्यत्वोपगमात् , तस्य च तज्जनने सव्यापारत्वावश्यम्भावेन करणत्वात् । तस्मात् प्रमातृसंविधवहितसत्ताकस्य विषयस्य व्याप्त्या तदव्यवधानोपा: धित्वं प्रमाणज्ञानस्यापरोक्षत्वम् । इन्द्रियप्रणाडिकया बुद्धिवृत्तिमयज्ञानस्य . तत्सं. युक्तविषयोपरागेणोत्पत्तौ विषयसत्तात्मसंविदः प्रमातृसंविदश्वान्तःकरणावच्छेदा- नवच्छेदकृतभेदापगमात् , , तदध्यस्तविषयस्य प्रमातृसंविदव्यवधानादपरोक्षत्व- मिष्यते । ब्रह्मात्मनि तु शाब्दमपि. ज्ञानमुत्पंद्यमानं विषयोपरक्तमेवोत्पद्यत इति १. 'कत्वा' ख. पाठः. २. "त्पा' क. पाठ:. -- 1111 १४० सिद्धान्तसिद्धाञ्जने प्रमातृसंविदव्यवधानोपाधितया भवत्यपरोक्षमपरोक्षार्थावभासित्वात् । तान्त्रिकस्यापि विषयव्यापिज्ञानस्यैवापरोक्षत्वोपगमात् । अर्थस्य चापरोक्षत्वं प्रमातृसंविदव्यवहि. तत्वम् । तथाच शाब्दमन्यद्वानीदृशं परोक्षमवतिष्ठते । तत्र च करणविशेषो- ऽतन्त्रम् । एतेन पीतत्वापरोक्षभ्रमविषये शङ्ख श्वैत्यानुमितिर्वा, अन्धस्य स्पृश्यमाने घटे शुक्लोऽयभिति शाब्दी वा धीरपरोक्षा स्यादपरोक्षार्थविषयत्वादित्ति निर- स्तम् । प्रमाणज्ञानस्य विषयव्याप्त्या तस्य प्रमातृसंविदव्यवधानोपाधितयैवापरो- क्षत्वात् । अनुमित्यादिज्ञानं च न तथा । इन्द्रियद्वारकतयान्तरवस्थस्य बहिर्वि- षयासंश्लेषात् । दशमस्त्वमसीत्यादिवाक्यजज्ञानं चान्तरवस्थमेव विषयस्य प्रमा- तृसंविदव्यवधानोपाधितया भवत्येवापरोक्षम् । आत्मनि च श्रवणमननादी- नामपरोक्षकरूप्येऽपि श्रोतव्यो मन्तव्य इत्यादिभेदनिर्देशस्य करणभेदोपाधिकत्वात् , श्रवणादिपरिपाके सत्यसम्भावनादिशैथिल्येनात्मावगतिपर्यन्तस्यैव प्रमाणज्ञान- स्याविद्यानिवर्तकत्वात् । न चैवमपि देहे सिरास्तीति वाक्यजज्ञानादपि सिरादे- रपरोक्षतापत्तिः, प्रागेवाहङ्काराविष्टतया तदाकारवृत्तेस्तदुपरागोपपत्तेरिति वा- च्यम् । सङ्घातात्मना प्रमातृसंविदव्यवधानेनापरोक्षत्वेऽपि सिरादेः स्वात्मना धर्मादिक्दयोग्यत्वस्य फलबलकल्प्यत्वात् । अत एव घटादेरपरोक्षतादशायां गन्धाद्यपरोक्षत्वापादनमपास्तम् । प्रामातृसंविदसम्भिन्नभावस्य सतः तदाकार- त्यापादिततदव्यवधानस्यापरोक्ष्यप्रयोजकत्वात् । न चैवं शब्दापरोक्षोपगमे शास्त्रस्य प्रत्यक्षान्तर्भावापत्तिः, धर्मादिशास्त्रस्यापरोक्षप्रमाकरणत्वाभावाद् , उप- निषदश्च निरुक्तलक्षणतः प्रत्यक्षत्वेऽप्यविरोधात् । न च 'प्रत्यक्षमनुमानं चेति विभागविरोधः । न हि प्रत्यक्षमित्यपरोक्षप्रमाकरण गृह्यते, विभागविरोधा- देव । किन्तु इन्द्रियम् । ततश्च बोधकस्वरूपसामग्रीवैजात्येनैव तथा विभागो- पपत्तिः । यद्वा, 'शास्त्रं च विविधागममिति धर्मादिविषये नियम्यताम् । न कश्चिद् दोषः ॥ शाब्दापरोक्ष्ये दोषोद्धारः। यत्तु ---- एवमधीतमात्रादेवात्मापरोक्षं जायेत, असम्भावनादिप्रतिबन्धे वा नैवकिञ्चिज्ज्ञायतेति जिज्ञासाद्यनुपपत्तिरित्यादि । ------ १. 'त्ति' ख. पाट -- शाब्दापरोक्ष्ये दोषोद्धारः । १४१ तत्र वदामः । अधिगतशब्दप्रमाणपरिकरस्य नाधीतमात्रादात्मापरोक्ष नोत्पद्यते । तत्तु तदवस्थमेव नाविद्यानिबर्हणम् । भेदवासनामूलासम्भावना- विपरीतभावनाग्रस्तत्वेनानवधारणत्वात् । न चासम्भाविताओं नैव ज्ञायेत जरद्वा- दिवाक्यार्थवदिति युक्तम् । तस्य पौरुषेयस्य भ्रमप्रमादविप्रलिप्सादिमूलत्वेना- धिगताप्रमाणभावस्य ज्ञानाजनकत्वेऽपि वेदवाक्यस्य तद्वैलक्षण्येन कथमप्युपपाद्या- र्थतयानुसंहितस्य ज्ञानजनकत्वोपपत्तेः । जरद्वादिवाक्यस्य प्रामाण्यभ्रमे चार्थ- ज्ञानमनवस्थितं जायत एव । “सृण्येव जरी तुर्फरीतू नैतोशेवतुर्फरी पर्फरीका" (ऋ० अष्ट० ८. अ० ६. व० २) इत्यादौ चाव्युत्पन्नबहुलतया न किञ्चिदपि ज्ञायते, न त्वर्थासम्भावनया। अन्यथा 'यजमानः प्रस्तर' इत्यादौ च श्रुतमात्रेऽसम्भावनया. प्रतीतसामानाधिकरण्यस्य तत्सिद्धयादिभिरुपपादनायोगात् । न च तत्रासम्भाव- ना नास्त्येव, प्रत्यक्षादिविरोधदर्शने तस्या अवर्जनीयत्वात् । अस्ति हि आमरी- चादिप्रत्यक्षमसम्भावनादोषादनवधारणात्मकम् । जलादिज्ञानं चानभ्यासादिदो- पात् । ततो निष्कम्पमप्रवृत्तेरने संशयदर्शनाच्च । तत्र प्रामाण्यसंशयात् तदुभय- मिति चेद्, न । अर्थसत्तानिश्चयस्य स्वत एव प्रामाण्यनिश्चयत्वेन तदयोगात् । एवमिह वाक्यादपि निर्विशेषज्ञानं विषयस्वभावादपरोक्षमेवासम्भावनादिदोषादन- वधारणात्मकमेव यावन्मानतो विषयतश्चोपपत्तिपयलोचनया परिभावनया च न सम्भावनां प्रतिपद्यते । सम्भाविते तु विषये तदेवावधारणात्मकं प्रतितिष्ठति । यथा हेमविषयं प्रत्यक्षं निकर्षणतापनच्छेदनादिप्रत्ययैः प्रतिष्ठां लभते, वा दशमस्त्वमसीति वाक्यजं ज्ञानमात्मन्यपरोक्षमपि परिगणनाभ्यासेन प्रतिष्ठितं भवति, तद्वत् । एतेन वाक्यजमेव ज्ञानमसम्भावितेऽर्थे न भवतीति निरस्तं, द- शमनाशनिश्चयादसम्भावितेऽपि वाक्यादनवधारणज्ञानदर्शनात् । अन्यथा परिंग- णनाप्रवृत्त्ययोगाद्, अपरोक्षविषये दोषादनवधारणतौल्ये करणवैलक्षण्यस्याकि- ञ्चित्करत्वाच्च । एवं च यदिदमुच्यते----नाविद्यामूलभेदवासना तत्त्वावधारणमन्तरा निव- तते । तन्निवृत्त्या च तत्त्वावधारणमिच्छत इतरेतराश्रयत्वम् । न च निवळूया तया तत्त्वदर्शनं प्रतिबध्यते । अतो विचारवैयर्थ्यमित्यादि । तत् तन्त्रैकशरणस्य बुद्धिमोहविलसितम् । अविद्यासूलासम्भावनाविपरीतभावनयोः श्रवणमनननिदि- , यथा -- । १. 'बु'.ख. पाठः. -- १४२ सिद्धान्तसिद्धाञ्जने ध्यासनाभ्यासप्रकर्षेण नितान्तशैथिल्ये सति मूले तदनिवृत्तावपि मानतस्तत्त्वावधा- रणोपगमात् । भीरुकस्य स्तम्भे स्तम्भत्वासम्भावनाया वेतालत्वविपरीतभावनाया- श्चाप्तोपदेशोपसर्पणपरामरैः शैथिल्ये सति मूले तदनिवृत्तावपि प्रत्यक्षतः स्तम्भत- त्वावधारणात् । न च निवर्तकतयोदितस्य ज्ञानस्यानवधारणत्वमापाद्य भेदवास- नासम्भावनादिना शक्तिः प्रतिहन्यते, येन कदापि न निवर्तेत । किं तर्हि, उद्यदेव दोषादनवधारणात्मकमुदेतीति तदवधारणत्वाय विचाराद्यारम्भः । अनवधा- रणत्वं च ज्ञानस्यापातत्वम् ॥ आपातत्वनिष्कर्षः। तच्च निश्चयानधिकविषयत्वे सति स्वविषयकोटिकसंशयाद्यविरोधित्वम् । संशयव्यावृत्तये सत्यन्तम् । विषयान्तरनिश्चयस्य धर्म्यशज्ञानस्य च वारणाय स्व विषयकोटिकेति । तच्चेदं न संशयः, नियतविषयत्वात् । नापि निश्चयः, संशयाद्यः विरोधित्वात् । असद्विशेषसंसर्गावभासविरोधिस्वरूपावगाहिज्ञानं निश्चय इत्यग्रे वक्ष्यते । किन्तु तृतीयमिदं ज्ञानमिति नासम्भवः । न चास्य संशयाद्यविरोधि- त्वेऽपरोक्षत्वस्वभावस्य श्रुतेर्वा विरोध इति वाच्यम् । उदाहृतानवधारणस्वभावानु- रोधेनावधारणात्मन एव तस्य संशयादिविरोधित्वव्यवस्थानात् ।। संशयलक्षणम् । संशयत्वं तु आत्यन्तिकपरस्परप्रतिक्षेपावभासगर्भानेकैकसम्बन्धावगाहि ज्ञानत्वमेव । तथा हि-कोटिद्वयावलम्बनानि ज्ञानानि तावदनेकरूपाणि दृश्य- न्ते । तत्र कानिचिदन्यतरालम्बननान्तरीयकान्यतरात्यन्तिकप्रतिक्षेपावभासपर्य- वसायीनि संशयरूपाणि । यथायं स्थाणुः पुरुषो वा, चन्द्रोऽयमसौ वेत्यादीनि । अन्यानि तु पाक्षिकान्यतरप्रतिक्षेपावभासगर्भाण्यविशेषितान्यतरान्ववसर्गान्तानि विकल्परूपाणि 'ब्रीहिभिर्वा यवैर्वा यजेत', 'रथन्तरसामा बृहत्सामा वा सोम' इत्येवमादीनि । पराणि तु समुच्चयादिनिषेधेनान्यतरपरिशेषरूपाणि गेहे तमः प्र- काशो वा नोभयमित्यादीनि । अपराणि शूरोऽयमस्तु भीरुर्वेत्येवमादीन्युपेक्षारू- पाणि । इतराणि पुनरयं कविरसौ वा नाहं वेदेत्यज्ञानान्तरितालम्बनानि संमुग्ध- १. 'पि' ख. पाठः, संशयलक्षणम् । १४३ ... 7 रूपाणीति । तत्र न तावद् व्यक्तिशेषेऽपि विकल्पज्ञानेऽतिव्याप्तिः, तत्राप्यात्य- न्तिकपरस्परप्रतिक्षेपानवभासात् । अन्यथा पाक्षिकनिश्चयरूपविकल्पज्ञानमेव स्यात् । अनन्तरमैच्छिकान्यतरपक्षपरिग्रहव्यवस्थायामेव परमितरस्यानवकाशः । न च तत्र कोटिद्वयालम्बनमस्ति । गेहतमःप्रकाशादिज्ञानं च संशय एव । अत एव तत्रैकतरनिर्धारणानुयोगे तदंशे मम संशय एवेति लोके प्रतिवक्तारो भवन्ति । न च मध्ये संशयान्तरकल्पने मानमस्ति । अन्यथा निश्चयाधिकपरस्परप्रतिक्षेप- विषयत्वान्नापातरूपम् । नापि निश्चयः, तदंशसंशयाविरोधित्वात् । संशयोऽपि न चेत् , तुरीयमिदं ज्ञानं स्यात् । न च ज्ञानस्वभावमपेक्ष्य विकल्पज्ञानतुल्यत्वेऽपि वस्तुस्वभावानुसारिसंशयरूपता सर्वजनीना निवारणमर्हति । यत्पुनरुपेक्षारूपज्ञानं शूरो भीरा किं नस्तेनेत्यादि , यच्च संमुग्धरूपमयं कविरसौ वेत्यादि , तत्र ना- तिप्रसङ्गः । तयोरात्यन्तिकपरस्परप्रतिक्षेपेणान्यतरनियमपरत्वाभावाद् , लक्षणे तस्यापि विवक्षितत्वात् । अथवा अनेकैकसम्बन्धावगाहीति ताच्छील्यस्य विवक्षि- तत्वादुपेक्षारूपज्ञानस्य विषयसत्त्वानपेक्षत्वाद् अन्यस्याज्ञानान्तरितविषयतया विषयसत्तायामसामर्थ्याच्च ताच्छील्याभावादेव नातिप्रसङ्गः । अस्तु वा तयोरपि तदंशे संशयत्वमेव, परिशेषज्ञानवद् , न कश्चिद् विरोधः । न चैवमपि सविशेष- निर्विशेषसंशयेऽव्याप्तिः, निर्विशेषकोटेः स्वरूपमात्रावसायितयानेकैकसम्बन्धानव- गाहित्वाद् , इतरथा स्वव्याघातेन निर्विशेषकोट्यनुत्थानादिति वाच्यम् । अज्ञा- नविकासात्मनि संशये भेदारोपेण निरुक्तरूपोपपत्तेः । यद्वा अनेकविशेष्यानुपर- तात्यन्तिकपरस्परप्रतिक्षेपावभासगर्भानेककोटिज्ञानत्वमित्येवास्तु, निर्विशेषसंशयश्च तथेति न कश्चिद् दोषः। केचित्तु --- अनवधारणज्ञानं संशयः । तत्त्वं च ज्ञानस्य विषयविषयिभा- वसम्बन्धावान्तरविशेष एव । निश्चयाद् वैलक्षण्यं दण्डी पुरुष इत्यादिविशिष्ट- ज्ञानस्येव दण्डपुरुषसम्बन्धा इत्यादिसमूहालम्बनात् पुरुष दण्ड इत्यादिविशिष्ट- ज्ञानान्तराञ्चेत्याहुः । अन्ये तु-स्वाकारविरुद्धाकारसमबलज्ञानाविरोधिज्ञानं, स्वविषये स्वाकार- विरुद्धद्वयवैशिष्टयावगाहिज्ञानाविरोधिज्ञानं, -स्वविशेष्ये स्वप्रकारीभवद्धर्मविरुद्ध . , 'यत्वं ना', २. 'यत्वान' ख. पाठः.
१४४ सिद्धान्तसिद्धाञ्जने प्रकारज्ञानाभिन्नज्ञानं वा संशय इति लक्षयित्वा आपातज्ञानमपि संशय एवे- त्याहुः॥ । परोक्तापातत्वभङ्गः। यत्तु तान्त्रिकेणोक्तम् --अज्ञाननिवृत्तिमात्रेण संशयविपर्ययसहं ज्ञानमापा- तज्ञानमिति । तन्न, अज्ञाननिवृत्तौ संशयाद्ययोगात् , स्वप्रागवस्थारूपाज्ञाननिवृत्ती संशयादिसहत्वस्य च संशयादौ सत्त्वात् । संशयस्य न विपर्ययसहत्वं, विपर्ययस्य च न संशयसहत्वमिति चेद्, न । धयंशज्ञाने परोक्षजाने च तत्सत्त्वात् । तस्मादसम्भावनादिपुरुषदोषात् प्राथमिकमागामिकज्ञानमपरोक्षमपि संशयविरोधि- निश्चयानधिकविषयत्वे सति संशयाविरोध्यापातरूपमेवेति न विचाराद्यारम्भवैय- N, श्रवणादिपरिपाके च तदेवावधारणपर्यन्तमविद्यां निवर्तयति । एतेन एतन्निरस्तं ----'न, सत्यामपि शाब्दसामग्रयां विपरीतवासनाप्रति- बन्धात् तत्त्वज्ञानं न जायते । न च जातेऽपि जाने तवाविद्याभेदवासनादिकमनु- वर्तते, सर्वदैवानुवृत्तिप्रसङ्गाद् , निवर्तकान्तराभावात् । न चाकस्मिकी तन्निवृत्तिः, स्वभाववादप्रसङ्गात् । नापि स्वत एव, क्षणवादापातात् । ज्ञानानिवर्त्यत्वे चावि- द्याभेदवासनादेः सत्यत्वप्रसङ्गात् । न च तत्त्वज्ञानादज्ञाननिवृत्तौ छिन्नमूलमपि भेददर्शनमनुवर्तते, अकारणककार्यायोगात् , जगद्भूमस्यैवाविद्यामूलत्वकल्पनावे- याद् , मुक्तेरपि ज्ञानानपेक्षत्वप्रसङ्गाच्च । चन्द्रैकत्वज्ञानेऽपि द्विचन्द्रादिभ्रमोऽनु- वर्तते , परोक्षस्यापरोक्षविभ्रमाविरोधित्वात् , तदबाध्यतिमिरादिदोषस्य तन्निमि- चस्यानुवृत्तेश्च । चन्द्रकत्वाद्युपदेशस्य च दुष्टाक्षत्वज्ञानेन तदोषप्रतीकारप्रवृत्ति- फलत्वादिति । अनभ्यासदशापन्नजलादिजानवत् प्राथमिकागामिकज्ञानस्य पुरु- षदोषादापातत्वसम्भवात् ॥ वाक्यजज्ञानस्यापवर्गहेतुत्वम्। यत्तु न वाक्यजमेव विज्ञानमपवर्गहेतुः , 'तमेव धीरो विज्ञाय प्रज्ञा कुर्वीत,' 'अनुविद्य विजानाति' इत्यादितदधिकज्ञानविधानात् , तावन्मात्रेणाविद्या- निवृत्त्यनुपलब्धेश्च । 'तस्य तावदेव चिरं यावन्न विमोक्ष्य अथ सम्पत्स्ये' इति देहा- वधिश्रुतिविरोधाच्च । तथा चापस्तम्बः- 'बुद्धे क्षेमप्रापणम्' (आपस्त० धर्म० २. , m wat-m १. रकज्ञा ख. पाठः, छ । वाक्यजज्ञानस्यापवर्गहेतुत्वम् । १४५ २१.१४) इति वाक्यजज्ञानाद् मोक्षमुक्त्वा शास्त्रप्रत्यक्षविरोधावाह-'तच्छास्त्रै- विप्रतिषिद्धं, बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत, एतेन परं व्याख्या- तम्' (आपस्त० धर्म० २. २१. १५-१७) इतीति । तत्र वदामः यद्यपि 'विज्ञाये ति नापातज्ञानमुच्यते, तस्य संशयाद् विशे- षाभावात् । तथाप्यसम्भावनामात्रतिरस्कारेण श्रवणमननोपकृतं विज्ञानमुच्यते, तस्यासम्भावनाविरोधित्वेन विशेषोपपत्तेः । तथापि चिरानुगतविक्षेपवासनाप्राब- ल्यादनवस्थितमिव तज्ज्ञानं न्यग्भूतविषयं न स्फुटमभिव्यनक्ति वायुविक्षिप्तदी- पालोक इव रत्नतत्त्वम् । तद्विक्षेपप्रशमाय सहकारिभूतं निदिध्यासनं प्रज्ञानं विधी- यते 'प्रज्ञां कुर्वीते'ति । निदिध्यासनं च प्रमाणसहकारीत्युक्तम् । न तु तत्त्वाप- रोक्षावगत्यनन्तरं ज्ञानावृत्तिर्विधीयते, कृतकृत्यत्वेनानियोज्यत्वात् । न चानुपल- ब्धिविरोधः । वस्तुतत्त्वापरोक्षावधारणे तदज्ञाननिवृत्तेरवश्यंभावात् । देहावधिकर- णं तु प्रारब्धक्षयापेक्षया, देहान्तरारम्भप्रयोजकशून्यतया मुक्तस्यैवारब्धबलोपपा- दितभोगाय देहधारणाद्युपपत्तेः । तथा च सूत्रं-'भोगेन वितरे क्षपयित्वा सम्प- यते' (ब्र० ४. १. १९) इति । यत्तु शास्त्रप्रत्यक्षविरोध उक्त आपस्तम्बेनति , तत्र न तावद् 'विज्ञाय प्रज्ञां कुर्वीते'त्यादिशास्त्रविरोध इत्युक्तम् । नापि 'तयोर्ध्वमायन्नमृतत्वमेति', 'तेऽर्चिषमभि- सम्भवन्ती'त्यादिनाडीनिष्क्रमणादिशास्त्रविरोधः । तस्याप्लुष्टाविद्याकर्माशयस्यैव सत उपासनया आभूतसंप्लवस्थानाभिप्रायत्वात् । अन्यथा 'न तस्य प्राणा उत्क्रामन्ति', 'अत्र ब्रह्म समश्नुते' इत्यादिविरोधात् । अपि च 'बुद्धे क्षेमप्रापणमित्येतावद्धयुक्तं, न तु वाक्यजन्यात्मसाक्षात्कारसमकालमिति । तच्च यथाशास्त्रमुपपन्नमिति कुतः शास्त्रविप्रतिषेध उच्यते । अथापि कथञ्चिदात्मबोधक्षेमप्रापणयोरव्यवधानमुपक्षि- प्येत, तथापि न तत्र शास्त्रविरोधः । ब्रह्म वेद ब्रह्मैव भवति', 'तरति शोकमा- स्मवित्', 'ब्रह्मविदाप्नोति परम्', 'अथ सोऽभयं गतो भवति', 'विद्वान्न बिभेति कुतश्चन', 'तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति', 'अ- भय वै जनक! प्राप्तोऽसी'त्यादिशास्त्रशतसम्प्रतिपन्नत्वात् । न च. 'प्रतिवि- ष्ठन्ति ह वा एते य एता रात्रीरुपयन्ती तिवद् 'ब्रह्म वेद ब्रह्मैव भवतीति वि- पाफलसमसमयत्वव्यपदेशो गौण इति वाच्यम् । युक्तं हि तत्र प्रतितिष्ठन्तीत्यस्य U १४६ सिद्धान्तसिद्धाञ्जने प्रथमं क्रियाविधिशक्त्युपजनोपक्षीणतयानन्तरं विध्यपेक्षितफलरूपविपरिणामे वर्तमानव्यपदेशोत्तीर्णत्वादसमानकालत्वं क्रियाफलयोः । न चैवमिह फलाय ज्ञानं विधीयत इत्युक्तम् । 'त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसी' त्यादिश्रुतेर्ब्रह्मभावरूपक्षेमप्राप्तेरविद्यामानान्तरायतया तत्साक्षात्कारेण तन्निवृत्तौ क्षे- नप्राप्तिक्षेपकारणाभावाच्च । न चैवं दुःखाद्युपलम्भविरोधः । यावदारब्धमाविद्यक- भोगदर्शनस्यावर्जनीयत्वात् । अविद्यायाश्च साक्षात्कारदग्धबीजभावाया एवोपस्थि- तजात्यायुर्भोगविपाकेन बलवदारब्धकर्मणा भोगोपदर्शनशक्तिमात्रसंस्थानायास्ता- वदनुवर्तनात् । तथा च लिङ्गं- 'भूयश्चान्ते विश्वमायानिवृत्तिरि'ति, 'तस्य ताव देव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य' इति च । सैषा निरुक्तावस्थैवाविद्याले- शोऽविद्यावासनेति च सिद्धान्तिभिरभिधीयते । सा च निरुद्धाङ्कुरशक्ति भर्जि- तबीजमिव साक्षात्कारनिरुद्धप्रसवशक्तिरपि भोगमात्रायोपयुज्यते । नन्वङ्कुरौ- दनाद्यनेकशक्तिशालिनः शालिबीजस्य कालपरिवासेनान्यथा वाङ्कुरशक्तिविल- येऽप्योदनशक्त्यंशावस्थानमन्योन्यानुपजीवित्वादुपपद्यताम् । इह पुनरात्मतत्त्वसा- क्षात्कारादावरणशक्त्यंशविनाशे. तदुपजीविभोगोपयोगिभेदविक्षेपशक्त्यंशावस्था- नमनुपपन्नमिति चेद्, न । रज्जुतत्त्वसाक्षात्कारेण तदावरणनिवृत्तावपि, यथा सर्पबुद्धिबद्धभावस्य तथैव सर्पभ्रमानुवृत्तेरानुभविकत्वात् । चन्द्रैकत्वसाक्षात्कारेऽपि कुतोऽपि हेतोस्तद्वित्वभ्रमानुवृत्तेश्च । यत्तु चन्द्रैकत्वसाक्षात्कारानिवर्तनीयनिमित्तव- शेन तद्भूमानुवृत्तावपि सर्वमिथ्यात्वमते ब्रह्मतत्त्वसाक्षात्कारानिवर्तनीयस्य कस्या- प्यसम्भवाद् न भेदविक्षेपांशानुवृत्तिर्युक्तेति । तत्र वदामः-- सत्यं न युक्तैवानु- वृत्तिः । दृश्यते तु सा । नहि 'दृष्टेऽनुपपन्नं नाम । तथा चारब्धफलकर्मणामाफ- लावधेरनपवर्जितवेगानामात्मतत्त्वापरोक्षमभिभूय भेदविक्षेपांशानुवृत्तिप्रयोजकतया सुखदुःखाद्यनुभवो न विरुध्यते पुनर्भवबीजशक्तिदाहश्च तत्त्वसाक्षात्कारप्र- योजनं हर्षशोकाद्यभावः प्राप्तप्राप्तव्यता कृतकृत्यता चेति । न च निरुपादा- नानां कर्मणामेव कथमवस्थितिरिति शङ्कयम् । तान्त्रिकस्यापि स्वारम्भकसकल- कर्मप्रक्षयेऽपि विदुषो देवयानपथिकत्वाय कर्मोपादानसूक्ष्मदेहस्थित्युपगमात् । अ- स्माकं तु विक्षेप शक्त्यंशेनाप्यविद्योपादानस्थित्युपगमाच्च । ज्ञानाग्निनिर्दग्धस्यैव तस्यारब्धवलेन कियन्तं चित् कालं व्यवहारतावन्मात्रनिर्वर्तकस्यापि न निवर्तकान्त ।
, me- . वाक्यजज्ञानस्यापवर्गहेतुत्वम् । १४७ रापेक्षया पुनर्निवर्तनीयत्वं, निवृत्तत्वादेव । नहि निर्दग्धपटस्य प्राचीनसंस्थान- विशेषेण पटव्यवहारतावन्मात्रकारिणोऽपि निवर्तकान्तरापेक्षया निवृत्तिः, तद्वत् । एवञ्च ज्ञानोत्पत्तावप्यविद्यानुवृत्तौ न सा निवर्तेतैव , स्वतोऽन्यथा वा तन्निवृत्ती मिथ्यात्वं न स्यात् । बाधितायामप्यविद्यायां छिन्नमूलमपि भेददर्शनमनुवर्तते द्विचन्द्रादिवदिति बालिशभाषितमित्यादि गौतमशापसम्पन्न- कलिदासभावस्य महदवमतिसमुपजातमहापातकोपचिततमःपटलपिहितचित्तसत्त्व- स्य श्रुतिस्मृतिन्यायबाह्यस्य तन्त्रमात्रपरतन्त्रप्रज्ञस्य दुर्जातिवाचाटचटकस्य रटि- तमनादरणीयम् । तदेवं स्मृतेरयमर्थः । तद् बुद्धिसन्निहितं शास्त्रैविप्रतिषिद्धम् । किं तदित्युच्यते 'बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत' (आप- स्त० धर्म० २. २१. १६) इति । अत्रेतिरध्याहार्यः । इति यत् चोद्यं, तच्छा- स्वैर्विप्रतिषिद्धमिति योजना । उदाहृतानि च शास्त्राणि ब्रह्मवेदननान्तरीयकक्षे- - मप्राप्तिपराणि 'ब्रह्म वेद ब्रह्मैव भवती'त्यादीनि । अत्र चोघे दुःखोपलम्भाद् न बुद्धे क्षेमप्राप्तिरित्यस्मिन्नंशे शास्त्रविरोधेन प्रत्युक्ते , प्राप्ते क्षेमे दुःखोपलम्भो मा भूदित्यंशान्तरं परिहरति-'एतेन परं व्याख्यातम्' (आपस्त० धर्म० २. २१. १७) इति । तस्य तावदेव चिरमि'त्यादिजीवन्मुक्तिशास्त्रेण विद्वदनुभवेनोप- पत्त्या च विप्रतिषिद्धत्वेन परं दुःखं नोपलभेतेति चोद्यं व्याख्यातम् , अदूषणत्वेन परिहृतमित्यर्थ इति । स्यादेतत् । यथा देहगोचरेन्द्रियवृत्तिर्न तन्नियन्तारं जीवं साक्षात्कर्तुमीष्टे, एवं जीवगोचरमनोवृत्तिरपि न तन्नियन्तारमन्तर्यामिणमात्मानं साक्षात्कर्तुमीशीत । निवृत्तकर्माविद्यावरणनित्यविज्ञानरूपस्तु ब्रह्मस्वरूपसाक्षात्कारः फलमेव , न साध- नमिति । नैवं, गन्धादिगोचरेन्द्रियवृत्तेस्तत्प्रकारिपर्यन्तत्वाभावनिदर्शनेन शुक्ला- दिगोचरेन्द्रियवृत्तेरपि तदभावप्रसङ्गात् । तद्योग्यत्वमत्र विशेष इति चेत्, तुल्य- मात्मन्यपि । 'यत्साक्षादपरोक्षादिति श्रुतेः, 'मनसैवानुद्रष्टव्यमिति श्रवणाच्च । यदि हि परमात्मा परोक्षस्वभावः स्यात् कथमाविर्भूतनित्यविज्ञानेऽप्यपरोक्षीभवतु, स्वभावहानानुपपत्तेः । न खल्वीश्वरोऽपि वस्तुशक्तिमन्यथयति , शीतोष्णादिवि- पर्ययप्रसङ्गात् । अपरोक्षस्वभावोऽप्यात्मभूतोऽपि सर्वस्य न प्रत्यक्षः , अज्ञानमा- यादिशब्दितेन तिरोधानादिति चेत् । अत्रेदं वक्तव्यम् । किं काचादिवद् द्रष्टु- रिदं तिरोधानं, किं वा तिमिरादिवद् द्रष्टव्यस्य , अथवा न द्रष्टुर्नापि द्रष्ट- - १४८ सिद्धान्तसिद्धाञ्जने :। memo -- - व्यस्य, किन्तु कुड्यादिवदान्तरालिकं साधारणमिति । आये 'मायिनं तु महेश्वरं', 'मायी सृजते', 'मम माया दुरत्यया', "नाहं प्रकाशः सर्वस्य योगमायासमावृतः इत्यादावीश्वरसम्बन्धेनावारकत्वावगमविरोधः । अस्तु तर्हि परमात्मन एव द्रष्ट- व्यस्य तिरोधानम् । न । 'तस्मिंश्चान्यो मायया सन्निरुद्धः', 'अनादिमायया सुप्तः', इत्यादिजीवसम्बन्धावारकैश्रवणात् । यद्युच्येत योगमायातिरो- हिते परमात्मनि जीवस्य ज्ञानाभावपरं तद् भविष्यति, 'माययापहृतज्ञानाः' , "अज्ञानेनावृतं ज्ञाने तेन मुह्यन्ति जन्तवः" इत्यादिदर्शनादिति । तत्र यदि स्वभावावृतः परमात्मा , कदापि न प्रत्यक्षः स्यात् । अथावरणं तस्य न स्वभावः , ईश्वरो हि स्वसङ्कल्पेनैवात्मानमावृणुते इच्छंश्चापावृणोतीति चेत् , तर्हि ध्रुवं दूयमानेष्वशेषेषु जन्तुषु परमात्मनः प्रद्वेषः, यद् निरतिशयानन्दात्मकमखिलानुभाव्यमात्मानमात्मेच्छयावृणुते । कृतप्र- यत्नापेक्षः परमात्मा तत्तत्कर्मज्ञानानुरोधेनावरणमात्मनोऽपावरणं वा करोतीति चेत्, तथापि किमिदमपावरणं नाम मायायाः । न तावदात्मन उत्कृष्यापव- जनं, सर्वानुप्रवेशेन सर्वशरीरस्य परमात्मनस्तदयोगात् । अथावरणशक्ति- प्रतिबन्धः, स तर्हि सर्व प्रत्यनावृतः स्यात् । न झमेर्मण्यादिना दाहशक्तिप्रति- बन्धे कञ्चिदेव प्रत्यदाहकत्वम् । तच्छक्तयनेकत्वे सर्व प्रत्येवावृतः स्यात् । नह्येषा शक्तिरेतं प्रत्यावारिका , अन्या त्वन्यं प्रतीति नियमहेतुरस्ति , पदार्थ- शक्तीनां साधारणत्वात् । ईश्वरसङ्कल्पादेव व्यवतिष्ठत इति चेद् , एवं पदा- र्थस्वभावमनपेक्ष्य सङ्कल्पयन् मोघसङ्कल्पो वा स्यात् , जगद् वा विपरिवर्तयेत् । अपि च , 'भूयश्चान्ते विश्वमायानिवृत्तिः' , "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः" इत्यादौ । ज्ञाननिवर्त्यत्वावगमादज्ञानमायावरणशक्तिप्रतिबद्धवाचोयुक्तिरमूलिका । अथात्मनो जगदात्मना विस्तार एवं परमात्मनो मायावरणं, तदुपसंहारश्चापाव- रणमिति । एवं सुषुप्तिप्रलयसुलभमोक्षाः सर्व एव प्राणिनः स्युरिति किं क्लेशेन । अत एवान्तरालिकं तिरोधानमित्यपि निरस्तम् । परमात्मनः सर्व प्रत्यावृतत्वस्या- नावृतत्वस्य वा प्रसङ्गात् । , , १. 'कत्व श्र' । ख. पाठः, वाक्यजज्ञानस्यपवर्गहेतुत्वम् । १४९ स्यादेतत् । पुण्यपापात्मकं कमैव ज्ञानावरणं क्षेत्रज्ञानाम् । तेन तेन कर्मणा सकुचितज्ञाना हि क्षेत्रज्ञा ज्ञानात्मकमात्मानं परमात्मानं च निरतिशयानन्दादि- कल्याणगुणमन्तर्यामिणमात्मभूतमप्रतिपद्यमाना बाद्या चिद्रूपार्थाकारमेव केवलं पश्यन्ति । दृश्यते हि स्थावरादारभ्योत्तरोत्तरं कर्मतारतम्यकृतं ज्ञानतारतम्यम् । कृष्णबहुले कर्मणि स्थावरादौ तमोमये ज्ञानमत्यन्तसङ्कुचितं भवति । "तमसा बहुरूपेण वेष्टिताः कर्मयोनिना । अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥" इति स्मृतेः । शुक्लबहुले कर्माण देवादी सत्त्वमये प्रायेणासङ्कुचितवृत्ति विज्ञानं भवति । असङ्कुचितविज्ञानसम्पन्ना हि देवा इति प्रसिद्धिः । मिश्रे तु मनुष्यादौ सत्त्वतमोवृत्तिके तत्साधारणमवतिष्ठते । तथा च स्मयते- "अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ।.. यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप! सर्वगा ।। संसारतापानखिलानवामोत्यतिसन्ततान् । तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।। सर्वभूतेषु भूपाल! तारतम्येन वर्तते ।" Mayaw इति । श्रूयते च - 'अविद्यायामन्तरे वर्तमानाः' इत्यादि । अविद्याशब्दं च कर्म । 'विद्यां चाविद्यां चे त्यादौ कर्मणि दर्शनात् । 'त इमे सत्याः कामा अनु- तापिधानाः, 'अनृतेन हि प्रत्यूढाः', 'अनादिमायया सुप्तः' इत्यादावनृतमायाज्ञान- शब्दं च कर्मैव, अविद्या कर्मसंज्ञान्या, 'तया तिरोहितत्वाच्चेति स्मृत्यनुरोधात् । किमेवं 'मायां तु प्रकृतिं विद्यादि'त्यादावपि कमैव मायाशब्दा जगत्प्रकृति- रस्तु । अस्तु नाम । कर्मभिर्हि जगत् प्रक्रियते । कर्मसचिवश्वेश्वरो मायी जगत् सृजतीति श्रुत्यादिसिद्धम् । अथवा मायाशब्दोऽनेकार्थोऽस्तु । 'माययापहृत. ज्ञाना' इत्यादौ कर्मपरः, 'मायां तु प्रकृति'मित्यादावन्यपर इति । अस्तु वा कर्मणि मायाशब्दो भाक्तः, मायावद्विचित्रकार्यहेतुत्वात् । सर्वथापि कर्मावृतज्ञा- नतया क्षेत्रज्ञानां पराग्दार्शनां परमात्मा न प्रत्यक्षीभवति । ध्यानाद्यावर्जितस्वा. नुग्रहलब्धकर्माविद्यापावरणस्य प्रत्यक्षीभवतीति १५० सिद्धान्तसिद्धाञ्जने मैवम् । "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इति कर्मणामपि ब्रह्मसाक्षात्कारनिवर्तनीयत्वावगमात् । तत्र निवृत्तकर्मावरणस्य तत्साक्षात्कारमिच्छत इतरेतराश्रयत्वम् । न च ध्यानमेव दर्शनरूपपरिपाक दृष्ट इत्युच्यते, न फलभूतसाक्षात्कार इति वाच्यमित्युक्तम् । अपिच, वसिष्ठा- पान्तरतमःप्रभृतीनां साक्षात्कृतपरतत्त्वानामेव देहान्तरसङ्गमपुत्रजन्मविपत्त्यादि- निमित्तसुखदुःखानुभवदर्शनेन विनैव सुकृतदुष्कृतविनाशनं यावदधिकारमवस्थि- त्युपगमाद् न कर्म परमात्मसाक्षात्कारविरोध्यावरणमिति युक्तम् । अथ तदधि- गम उत्तरपूर्वकर्मसम्बन्धाभावादारब्धस्य चानावरणत्वादविरोध इति चेद् , न । अनादिकर्मपरम्पराकृतापराधस्य हि क्षेत्रज्ञस्य स्वाभाविकापरिच्छिन्नविज्ञानादिक- ल्याणगुणतिरोधानं पराभिध्यानाधीनमपि देहावस्थेन सूक्ष्मावस्थेन वा अचिद्व- स्तुयोगेन भवतीति 'देहयोगाद्वा सोऽपि (ब्र० ३. २. ६) इति सूत्रं व्याकुर्वता प्रारब्धानावरणत्वस्य वक्तुमशक्यत्वात् । जात्यायुर्भोगोपक्रमो देहादिपरिणाम एव हि कर्मणामारम्भो नाम । अपि च कर्मावरणपक्षेऽप्यावारकस्येश्वरसम्बन्धि- तावगमविरोधो दुष्परिहरः । एतेन भोगाप्रच्यवो जीवस्यावरणम् । स च "स्वसंस्कारोचिंताद् भोगादप्रच्यावः शरीरिणाम् । प्रोक्तं संरक्षणं नाम न्यायेन परिपालनम् ।।" इति श्लोकोक्त इति व्युदस्तम् । मायाज्ञानादिशब्दितस्यैवावारकत्वाधिगमात् , तस्येश्वरसम्बन्धानुपपत्तेश्च । कथं तर्हि कर्माविद्यातिरोधानस्मरणम् । उच्यते । नेयं स्मृतिराहत्य कर्मणामेव तिरोधायकतामाह । किं तर्हि तत्तदेहयोगद्वारा कर्माविद्यातिरोधानाधीनज्ञानतारतम्यप्रपञ्चनपरा, अनन्तरसन्दर्भ "अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका" इत्यादी "हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः" इत्यन्ते तत्तद्देहयोगेनैव ज्ञानशक्तितारतम्याभिधानदर्शनात् । देहयोगः पुनरनाथ- - १. 'संबन्धे अख, पाठः, ब वाक्यजज्ञानस्यापवर्गहेतुत्वम् । १५१ विद्यात्मक एव, स्वभावशुद्धात्मनि तस्यान्यादृशस्यासम्भवात् । 'असङ्गो ह्ययं पुरुषः', 'असङ्गो नहि सज्जते' इत्यादिश्रुतेः । तथा च स्मृतिः- "निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमला धर्माः प्रकृतेस्ते तु नात्मनः ।। जलस्य नाग्निसंसर्गः स्थालीसङ्गात् तथापि तु । शब्दोद्रेकादिकान् धर्मास्तत् करोति यथा नृप! । तथात्मा प्रकृतौ सङ्गादहंमानादिदूषितः । भजते प्राकृतान् धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥" . इति । स चायमविद्यामयो देहयोगः कर्ममूलः, तन्मूलं वा कर्मेत्यविद्याकर्मसंज्ञेत्यु- च्यते । न चानयोरितरेतराधीनत्वं दोषः, बीजाङ्कुरवदनादित्वात् । तथा चोखू- ततमोमय्यनाद्यविद्यैव ज्ञानशक्तेरावरणम् । नन्वेवमपि 'अविद्याजीवसम्बन्धात्', "नाहं प्रकाशः सर्वस्य योगमायासमावृतः' , इत्यादेर्दुरुपपादता । न । न खलु क्षेत्रज्ञो नाम परमात्मनोऽत्यन्तविरूपं तत्त्वान्त- रम् । किंतर्हि, प्रत्यस्तमितसमस्तचिदचिद्भेदावाङ्मनसगोचरस्वयंप्रकाशापरो- क्षचैतन्यसत्तामात्रस्य परमात्मन एवाविद्यामयेन खिल्यभावेनावस्थाभेदः । 'अनेन- जीवेनात्मनानुप्राविश्य', 'क्षेत्रज्ञं चापि मां विद्धी'त्यादिदर्शनात् , 'अंशो ना- नाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके' (ब्र० २. ३. ४३) इति न्यायाच्च । अतस्तद्रूपापत्त्या नानाभावाभिनिवेशितालक्षणं मायाविद्यातिरो- धानं क्वचिद् 'नाहं प्रकाश' इत्यादौ परमात्मसम्बन्धेन, क्वचिद् 'अनादिमायया सुप्तः' इत्यादौ क्षेत्रज्ञसम्बन्धितया च व्यपदिश्यते विशेषाभावादिति । न च मा याविद्याभेदः, गुणमयी जगत्प्रकृतिरात्मशक्तिभूता माया, अविद्या पुनरावरणा- त्मिकैवेति लक्षणभेदादिति वाच्यम् । 'माययापहृतज्ञानाः' इत्यावरणलक्षणनिर्दे शसामान्यात् । "तरत्यविद्यां विततां हृदि यस्मिन् निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः॥"
१५२ सिद्धान्तसिद्धाञ्जने MAnima- इति मायाविद्यासामानाधिकरण्याच, एकस्या एवावरणविक्षेपशक्तिभेदोपपत्तेश्च । न च शक्तिरूपाया नापरा शक्तिः, अतिप्रसङ्गादिति वाच्यम् । नह्यमेरिव दा- हशक्तिरेषात्मशक्तिरुच्यते, आत्मनो निर्विशेषस्वभावत्वाद् मायाया गुणमय- त्वाच्च । किन्तु शक्तिरिव शक्तिः । आत्मनोऽव्यतिरेकेण विविधरूपापत्तिहेतुत्वा- दिति । सैषाविद्या ब्रह्मसाक्षात्कारजन्मनैव निवर्तते सूर्योदयेनेव तम इति न प्रथ- ममविद्यानिवृत्त्यपेक्षयान्योन्याश्रयता । तथाच स्मृतिः- 'अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद् विप्रर्षे ! विवेकजम् ॥" इति । तस्मादधिकारिणो विचारादिविनिवर्तितासम्भावनादिदोषप्रतिबन्धवेदान्तम- हावाक्यहेतुकब्रह्मसाक्षात्कारजन्मनैव सविलासाविद्याबाधे निरतिशयानन्दानुभव- स्वरूपप्रतिष्ठा कैवल्यमात्मनो नोपासनाक्रिययेति तदर्थः श्रवणविधिरिति सिद्धम् ॥ 1- ܟ (इति प्रथमो भागः ।) शुभं भूयात् । 1. 'श्रु', १. 'पात्मसा' स. पा:
No text on this page.
:
1:44
੨੦%