University Library,gurukul Kangri Vishwavidyalaya

मध्यमव्ययोगः दूतवाक्यं दुतघटोतकचं कर्णभारम उरुभन्गम

Shaastrii Ta Gand-apati · 2005/07/25

PDF Proofread

Front matter

TRIVANDRUM SANSKRIT SERIES.
NO. XXII,
THE
MADHYAMAVYAYOGA, DUTAVAKYA, DUTAGHATOTKACHA,
KARNABHÁRA AND ÚRUBHANGA
BHÂSA
FDITFD) WITH VOTES
BY
T GANAPATI SÂSTRI
l'urutus of the Department for the poohli nation of sundhrit manuscripto
IRITANIRIM
basa's Works: --Hos, 6, 7, 8, 9 & 10.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE,
TRIVANDRUM
PRINTED AT THE TRAVAVCORE "OVERNMENT PRESA,
1912
(All Rights Reserred.)

. अनन्तशयनसंस्कृतग्रन्थावलिः. ग्रन्थाङ्कः २२. amannaama , मध्यमव्यायोगः, दूतवाक्यं, दूतघटोत्कचं, कर्णभारम् , ऊरुभङ्गम् . इत्येतानि महाकविश्रीभासप्रणीतानि संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण त. गणपतिशास्त्रिणा सशोधितानि लघुटिप्पण्या च संयोजितानि । भासनाटकचक्रे षष्ठसप्तमाष्टमनवमदशमानि । -oremon- तानि च अनन्तशयने महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितानि। mommoms कोळम्बाब्दाः १०८८, ऊस्ताब्दाः १९१२, PREFACE. This volume contains the followmg live plays (1) Madhyamavyayoga, (2) Datavåkra, (3) Dataghatotkacba, (4) Karnablára and (5) Crubhanga, each of which consists of a single Act. In the first of thone plays, Bhimasena la represented as rescuing a brahmin fainily from the hands of Ghatothacha, in the second, Sıtkrishậa acting the part of a messenger on behalf of the Pândavas to the court of Duryodhana, in the third, Ghatotkacha in-tigated by Srikrishna who became indignant at the murder of Abhimanyu werving as a messenger to Duryodhana', party, in the fourth, Karna bestowing on Indra Kavacha and Kuņdala as boon, and in the last, Bhimasena smashing Duryodhana's thigh, in the fight with gadas. In the introduction to Swapnavânoasa larta. reference was made to the fragment of a play with no name, It is now loarnt to be Dutavâkya', a complete copy (a worn out manuscript marked a) of the same with colophon, 'marTİ AFTER subsequently being obtained from Mr. Kubrahmanyan Moottatu of Ilarippad. Thir sume manuscript contains also a complete (opy (marked ) of the play, Karşabliâra with the aid of which the portions lost at the beginning and at the end of the copy o of the same were in-erted. If the title Kargalbåra i. e. respon. sibility of Karna as a commander is to he significant it seems probable that the play can have at least one Act moro to describe the feats of Karna. Of those plays, Dútavákya alone contains no Prakrit dialects. While Sanskrit dramas invariably end like comedies, the play, Urubhanga winds up with a tragie reene and Dataghatotkachy with neither, TRIVANDRUM T. GANAPATI SÂSTRÎ, ॥श्रीः॥ श्रीगणेशायनमः। महाकविश्रीभासप्रणीतः मध्यमव्यायोगः। mammeew-- Khare. य ------ (ततः प्रविशति मूत्रधारः) 5) तान्यन्त तd: ५ सूत्रधारः बापायात् स बोऽसुखधूहृदयावसादः ( पुरवी पादो हरेः कुवलयामलखड्नीला नीला यः प्रोद्यतस्त्रिभुवनैकमणे रराज सु in दर्भ (नाग) वैदर्यसम इवाम्बरसागरस्य ॥१॥ दर्शक सरा एवमामिश्रान विज्ञापयामि । अये किन्नुावलु मथि विज्ञा- पनव्यग्रे शब्द इव श्रूयते। अङ्ग! पश्यामि । (नेपथ्ये) भोस्तात! कोनुखल्वेषः । सूत्रधारः भवतु, विज्ञातम् । भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । वास्यते निर्विशङ्केन (केन)चित पापचेतसा ॥२॥ दुली मनात भुगतायुगनिधने प्रतिमाकृतिहरस्य ॥ ४ ॥ मध्यमव्यायोगः । (नेपथ्ये) भोस्तात! कोनुखल्वेषः। सूत्रधारः हन्त इंदं विज्ञातम्। एष खलु पाण्डवम- ध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसा(नि?ग्नि)रकृतवैरं ब्राह्मणजनं वित्रासयति । भोः! कष्टं कष्टं खलु पत्नीसुतपरि- वृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि, श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो वृद्धो हिजो निशिचरानुचरः स एषः । व्याघ्रानुसारचरितो वृषभः सधनुःSmagran सन्त्रस्तवत्स (क) इवाकुलतामुपैति ॥ ३ ॥ (निष्क्रान्तः) (ततः प्रविशति सुतत्रयकलत्रपरिवृतः केशवदासः पृष्टतो घटोत्कचश्च) वृद्धः -भोः! कोनुखल्वेषः, (त? अ)रुणरविकरप्रकीर्णकेशो भ्रकुटिपुटोज्ज्वलपिङ्गलायताक्षः सतडिदिव घनः सकण्ठसूत्रो स्थापना । emperame सार Amer- + युगनिधने युगसंहारे प्रश्नस्येति शेषः ।

sintonia con फाली Mon मला मध्यमव्यायोगः। प्रथमः भोस्तात! कोनुखल्वेषः। नि (Ama ग्रह(नियु)गलनिभाक्षः पीनविस्तीर्णवक्षारसाती E कनककपिशकेशः पीतकौशेयवासाः । तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो नव इव जलगर्भो लीयमानेन्दुलेखः ॥५॥रमा द्वितीयः-क एष भोः! कलभदशनदंष्ट्रो लाङ्गलाकारनासः सूद 2mnuu करिवरकरबाहुनीलजीमूतवर्णः । हुतहुतवहदीप्तो यः स्थितो भाति भीम- भार स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥ तृतीयः- भोस्तात ! कोनुखल्वस्मान् पीडयति । वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतन्त्रिणाम् । सर मृगेन्द्रो मृगसङ्घानां मृत्युः पुरुषविग्रहः ॥७ ब्राह्मणी- (क) अय्य! को एसो अह्मा सन्दावेइ । घटोत्कचः भो ब्राह्मण! तिष्ठ तिष्ठ । किं यासि मयविनाशितधैर्यसारो वित्रस्तदारसुतरक्षणहीनशक्ते! । เติเนน) (क) आर्य! क एषोऽस्मान् सन्तापयति । जलगर्भो मेघः ।

समापसी मध्यमव्यायोगः। oC तााग्रपक्षपवनोइतरोषवह्नि- तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥ हात : भीत:) भो ब्राह्मण! न गन्तव्यं न गन्तव्यम् । वृद्धः-- ब्राह्मणि ! न भेतव्यम् । पुत्रकाः! न भेतव्यम् । सविमर्शा ह्यस्य वाणी। घटोत्कचः भोः! कष्टम् । maani डर जगजाला जानामि सर्वत्र सदा च नाम हिजोत्तमाः पूज्यतमाः पृथिव्याम् । अकार्यमेतच्च मयाद्य कार्य मातुर्नियागादपनीतशङ्कम् ॥९॥ वृद्धः ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तम् - अनपतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदवात्पन्नं भयम् । ब्राह्मणी--(क) किं दाणि अय्यो मज्झत्थवण्णो* विअ दिस्सदि। वृद्धः किं करिष्यामि मन्दभाग्यः । --- (क) किमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते । MATHMOfor- Veratuwaimun mar- * मध्यस्थवर्ण इन क्षत्रिय इव ।

चत) नंगप्रकारैरवरुद्धदिक्पथम् । मध्यमव्यायोगः । ब्राह्मणी-(क) णं विक्कोसामो । चितास प्रथमः भवति ! कस्य वयं विक्रोशामः । काDrm इदं हि शुन्यं तिमिरोत्करप्रभै- खगैर्मगैश्चापि समाकुलान्तरं? forms वनं निवासाभिमतं मनस्विनाम् ॥१०॥ Rani वृद्धः-ब्राह्मणि! न भेतव्यं न भेतव्यम् । मनस्वि- जननिवासयोग्यमिति श्रुत्वा विगत इव मे सन्त्रासः । शङ्के नात्रातिदूरेण पाण्डवाश्रमेण भवितव्यम्। पाण्डवास्तु, युद्धप्रियाश्च शरणागतवत्सलाच दीनेषु पक्षपतिताः कृतसाहसाच । एवंविधप्रतिभयाकृतिचेष्टितानां दण्डं यथार्हमिह धारयितुं समर्थाः ॥११॥ ४ nomगमm प्रथमः भोस्तात! न तत्र पाण्डवा इति मन्ये । वृद्धः पुत्र! कथं त्वं जानीषे । प्रथमः-- तस्मादाश्रमादागतेन केनचिद् ब्राह्मणेन (क- थित)-शतकुम्भं नाम यज्ञमनुभवितुं महर्षेधौम्यस्याश्रम गता इति । (क) ननु विक्रोशामः ।

६
मध्यमव्यायोगः ।
*
Angana
-
प्रथमः
वृद्धः-हन्त हताः स्मः।
प्रथमः तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह
स्थापितः किल मध्यमः।
वृद्धः
यद्येवं, सन्निहिताः सर्व एव पाण्डवाः ।
स चाप्यस्यां वेलायां व्यायामपरिचयार्थ वि(प्र)-
कृष्टदेश इति श्रूयते ।
e non
वृद्धः हन्त निराशाः स्मः । भवतु, पुत्र! व्यपश्चयि.
ध्ये तावदेनम् । KAA (Fromin (ar
प्रथमः – अलमलं परिश्रमेण
वृद्धः ----पुत्रं(निवेदप्यर्थिनी ? खलु प्रार्थना । भवतु,
पश्यामस्तावत । भोः पुरुष ! अस्त्यस्माकं मोक्षः ।
शर्त
घटोत्कचः मोक्षोऽस्ति समयतः।
विर
Mana
p100 ritmi
निराश
शत
वृद्धः
कः समयः। 20
ज्ञप्तः
-
घटोत्कचः-- अस्ति मे तभवती जननी । तयाहमा-
पुत्र ! ममोपवासनिसर्गार्थमस्मिन वनूप्रदेशे कश्चिन्मा-
नुषः परिसम्यानेतव्य इति । ततो मयासादितो भवान् ।
पत्न्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।
क
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥

मध्यमव्यायोगः । ७ वृद्धः--हं भो राक्षसापशद! मागा 10oma किमहं श्रुतवान् वृद्धः पुत्रं शीलगुणान्वितम् । पुरुषादस्य दत्त्वा हा कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥ घटोत्कचः यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि । सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥ १४ ॥ वृद्धः एष एव मे निश्चयः। कृतकृत्यं शरीरं मे परिणामेन जर्जरम् । राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥ १५ ॥ ब्राह्मणी-- (क) अय्य! मा मा एवं । पदिमत्तधम्मिणी पदिव्वदत्ति णाम । गहीदफळेण एदिणा सरीरेण अय्यं कुठं च रक्खि, इच्छामि । घटोत्कचः न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या। वृद्धः अहमनुगमिष्यामि भवन्तम् । घटोत्कचः आ वृद्धस्त्वमपसर। 4tml Am - प्रथमः भोस्तात! ब्रवीमि खलु तावत् किञ्चित् । (क) आर्य ! मा मैवम् । पतिमात्रधर्भिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्य कुलं च रक्षितुमिन्छामि ।

मध्यमव्यायोगः । वृद्धः--पुत्र कथय । प्रथमः मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् । रक्षणार्थ कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥ द्वितीयः-आर्य! मा मैवम् । m-पि ॥ चर WZ ज्येष्ठः श्रेष्ठः कुले लोके पितृणां च सुसम्प्रियः । ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मर ॥ १४ तृतीयः आर्यो ! मा मैवम् । ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः । ततोऽहं कर्तुमस्म्यहाँ गुरूणां प्राणरक्षणम् ॥ १८ ॥ - "लाइन प्रथमः वत्स! मा मैवम् । of आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते । ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥ वृद्धः-- ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् । ब्राह्मणी-(क) जह अय्यो जेहमिच्छदि, तह अहं पि कणिटुं इच्छामि । द्वितीयः-पित्रोरनिष्टः कस्येदानीं प्रियः । (क) यथार्यो ज्येष्ठमिन्छति, तथाहमपि कनिष्टमिन्छामि ।

मध्यमव्यायोगः । घटोत्कचः •अहं प्रीतोऽस्मि, शीघ्रमागच्छ । द्वितीयः स्मान १०. आ कटको and an amano निर्व धन्योऽस्मि सद्ध गुरुप्राणाः वैः प्राणैः परिरक्षिता । बन्धुस्नेहाद्रि महतः काल स्नेहरतु दुर्लभः ॥ २० ॥ घटोत्कचः अहो स्वजनवात्सल्यमस्य ब्राह्मणवटोः । द्वितीयः-भोस्तात! अभिवादये । वृद्धः-एोहि पुत्र! विनिमाय गुरुप्राणान् खैः प्राणैर्गुरुवत्सल ! । अ कृतात्मदुरावापं ब्रह्मलोकमवाप्ताहि ॥३१ द्वितीयः - अनुगृहीतोऽरिम । अम्ब ! अभिवादये । ब्राह्मणी--(क) जाद! चिरं जीव । द्वितीयः - अनुगृहीतोऽस्मि । आर्य ! अभिवादये । प्रथमः एोहि वस! परिप्वजस्व गाढं मां परिवक्तः शुभैः । कीर्त्या तव परिप्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥ द्वितीयः- अनुगृहीतोऽस्मि । तृतीयः-आर्य! अभवदिय । -- On7 He (क) जात ! चिरं जीव ।

१० मध्यमव्यायोगः । द्वितीयः-स्वस्ति । तृतीयः-- अनुगृहीतोऽस्मि। द्वितीयः-भोः पुरुष! ब्रवीमि किश्चित् । घटोत्कचः - ब्रूहि ब्रूहि शीघ्रम् । द्वितीयः- एतस्मिन् वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि । । dan rand घटोत्कचः --दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहारकालः । शीघ्रमागच्छ । द्वितीयः भोस्तात! एष गच्छामि । (निष्क्रान्तः) HTR - वृद्धः हा हा परिमुषिताः स्मो भोः! परिमुषिताः स्मः । यस्त्रिशृङ्गो मम त्वासीन्मनोज्ञो वंशपर्वतः । स मध्यशृङ्गभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥ हा पुत्र! । कथं गत एव। coaur 9 तरुण! तरुणतानुरूपकान्ते! नियमपराध्ययनप्रसक्तबुद्धे !। कथमिह गजराजदन्त(मीभ)म- स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥ घटोत्कचः -चिरायते खलु ब्राह्मणवटुः । अतिक्रामति मरता - मध्यमव्यायोगः । मातुराहारकालः । किन्नुखलु करिष्ये। भवतु दृष्टम् । भो ब्रा- ह्मण! आहूयतां तव पुत्रः। वृद्धः अतिराक्षसं खलु ते वचनम् । जिट घटोत्कचः कथं रुष्यति, मर्षयतु मर्षयतु भवान् । अ. यं मे प्रकृतिदोषः । अथ किन्नामा तव पुत्रः । वृद्धः एतदपि न शक्यं श्रोतुम्। घटोत्कचः --- युक्तं भोः । ब्राह्मणकुमार ! किन्नामा ते राना भ्राता। प्रथमः तपस्वी मध्यमः । -- घटोत्कचः मध्यम इति सदृशमस्य । अहमेव यास्या- मि। भो भो मध्यम ! मध्यम ! शीघ्रमागच्छ । (ततः प्रविशति भीमसेनः) भीमसेनः भोः! कस्यायं स्वरः । खगशतविरुते विरौति तारं द्रुमगहने दृढसङ्कटे वनेऽस्मिन् । जनयति च मनोज्वरं स्वरोऽयं बहुसदृशो हि धनञ्जय(स्वर)स्य ॥ २५ ॥ घटोत्कचः--चिरायते खलु ब्राह्मणवटुः । अतिकामति मातुराहारकालः। किन्नुखलु करिष्ये । भवतु दृष्टम् । उच्चैः मध्यमव्यायोगः । शब्दापयामि । भो मध्यम ! शीघ्रमागच्छ । भीमसेनः-भोः! कोनुखल्वेतस्मिन् बनान्तरे मम व्यायामविनमुत्पाद्य मध्यम! मध्यम! इति मां शब्दापयति । भवतु, पश्यामस्तावत् । (परिक्रम्यावलोक्य) अहो दर्शनीयोऽयं पुरुषः । अयं हि, सिंहास्यः सिंहदंष्टो मधुनिभनयनः स्निग्धगम्भीरकण्ठो बभ्रुभ्रूः श्येननासो द्विरदपतिहनुर्दीर्घविश्लिष्टकेशः । व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥ २६ ॥ घटोत्कचः चिरायते खलु ब्राह्मणवटुः । अतिक्रामति मातुराहारकालः । किमिदानी करिष्ये । भवतु, उच्चैराह्वानं करिष्ये। भो भो मध्यम ! शीघ्रमागच्छ । भीमसेनः-- भोः प्राप्तोऽस्मि । घटोत्कचः -न खल्वयं ब्राह्मणवटुः। अहो दर्शनीयोऽयं पुरुषः । य एषः, सिंहाकृतिः कनकतालसमानबाहु- मध्ये तनुर्गरुडपक्षविलिप्तपक्षः । विष्णुर्भवेद् विकसिताम्बुजपत्रनेत्रो नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥२७॥ S 'उरः प्रभृतिभ्यः कप्' (५-४-१५१) इति नित्योऽपि कबिह न कृतः ।

मध्यमव्यायोगः। भो मध्यम! ला खल्वहं शब्दापयामि । भीमसेनः अतः खल्वहं प्राप्तः। घटोत्कचः-किं भवानपि मध्यमः । *- भीमसेनः--न तावदपरः । حے मध्यमोऽहमवध्यानामुत्सितानां च मध्यमः । मध्यमोऽहं क्षितेर्भद्र ! भ्रातॄणामपि मध्यमः ॥ २८ ॥ सपी घटोत्कचः-- भवितव्यम् । भीमसेनः -- अपिच, मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः । भवे च मध्यमो लोके सर्वकार्यषु मध्यमः ॥ २९ ॥ वृद्धः 'मध्यमस्त्विति सम्प्रोक्ते नूनं पाण्डवमध्यमः । अस्मान् मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥ - (प्रविश्य) १. मध्यमः करितालाब कमm अस्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम् । ( 560 आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वल जलम् ॥ ३१ ॥ (उपगम्य) भोः पुरुष! प्राप्तोऽस्मि । ) ای 'भो मभ्यमे'ति पठनयिं भाति ।

१४ मध्यमव्यायोगः। प्राप्तवानिदानी खल्वसि । मध्यम! मध्यम! घटोत्कचः इत इतः। (भीममुपगम्य) भो मध्यम! परित्रायस्व ब्राह्मण. वृद्धः कुलम् । भीमसेनः न भेतव्यं न भेतव्यम् । मध्यमोऽहमभि- -- वादये। वृद्धः--वायुरिव दीर्घायुभव। भीमसेनः-- अनुगृहीतोऽस्मि । कुतो भयमार्यस्य । वृद्धः-श्रूयताम् । अहं खलु कुरुगजेन युधिष्ठिरेणा- धिष्ठितपूर्वे कुरजाङ्गले यूपग्रागवालाव्यो माठरसगोत्रश्च कल्प शाखाध्वर्युः केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिश्युद्यामकग्रामवासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्ना- मास्ति । तस्य पुत्रोपनयनानुभवनार्थ सकलत्रोऽस्मि प्रस्थितः । भीमसेनः--अरिष्टोऽस्तु पन्थाः । ततस्ततः । comaanan AMMAR -- वृद्धः ततो मामेष हि, सजलजलदगात्रः पद्मपत्रायताक्षो मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः । जगति विगतशकस्त्वद्विधानां समक्षं १ का rnd ससुतपरिजनं भो! हन्तुकामोऽभ्युपैति ॥ ३२ ॥ ramme मध्यमव्यायोगः । १५ एवम - भीमसेनः अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः। भवतु, निग्रहीष्यामि तावदेनम् । भोः पुरुष! तिष्ठ तिष्ठ। घटोत्कचः-- एष स्थितोऽस्मि । भीमसेनः--किमर्थं ब्राह्मणं प(रा)स्यसि । पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च । वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवागतः ॥३३॥ घटोत्कचः अथकिम् । राहुरेव । भीमसेनः आः, निवृत्तव्यवहारोऽयं सदाररतनयैः सह । सर्वापराधेऽवध्यत्वान्मुच्यतां हिजसत्तमः ॥३४॥ सामानही३१rn घटोत्कचः-न मुच्यते। भीमसेनः (आत्मगतम्) भोः! कस्य पुत्रेणानेन भवित- व्यम्। गांना भ्रातॄणां मम सर्वेषां कोऽयं भो! गुणतस्करः । दृष्ट्वैतद् बालशौण्डीर्य सौभद्रस्य स्मराम्यहम् ॥३५॥ (प्रकाशम्) भोः पुरुष! मुच्यताम् । घटोत्कचः न मुच्यते । गोमा परास्यसि निरस्यसीत्यर्थः ।

भीमसेनः- १६ मध्यमव्यायोगः । जयविना मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता। न मुच्यते तथाह्येष गृहीतो मातुराज्ञया ॥३६॥ श्रृषुः खल्वयं तपस्वी। माता किल भनुष्याणां दैवतानां च दैवतम् । मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥३७॥ (प्रकाशम् ) भोः पुरुष! प्रष्टव्यं खलु तावदस्ति । घटोत्कचः-- ब्रूहि ब्रूहि शीघ्रम् । भीमसेनः का नाम भवतो माता । - घटोत्कचः हिडिम्बा नाम राक्षसी। कौरव्यकुलदीपेन पाण्डवेन महात्मना । सनाथा या महाभागा पूर्णेन द्यौरिवात्मना* ॥ ३८ ॥ भीमसेनः-- (आत्मगतम् ) एवं, हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य गर्वः। रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु । प्रजासु बीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥ , (प्रकाशम्) भोः पुरुष ! मुच्यताम् । घटोत्कचः न मुच्यते । * आरमना चन्द्रेण । 'आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि' इति केशवस्वामी ।

मध्यमन्यायोगः । १७ भीमसेनः--भो ब्राह्मण ! गृह्यतां तव पुत्रः। वयमेनम- नुगमिष्यामः। द्वितीयः--मा मा भवानेवम् । त्यक्ताः प्रागेव मे प्राणा गुरुप्राणेष्वपेक्षया । युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥ भीमसेनः-आर्य! मा मैवम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमः खलु ब्राह्मणः । तस्मान्मच्छरीरेण ब्राह्मणशरीरं वि- निमातुमिच्छामि । pm wr घटोत्कचः-एवं, क्षत्रियोऽयम्। तेन गर्वः। भवतु, इममेव हत्वा नेष्यामि । अथ केनायं वारितः afr भीमसेनः मया। घटोत्कचः किं त्वया । भीमसेनः अथकिम् । घटोत्कचः-तेन हि भवानेवागच्छतु । भीमसेनः- एवम् , अतिवीर्यबलं नानुगच्छामि । यदि ते शक्तिरस्ति, बलात्कारेण मां नय । बर दस्ता पहा घटोत्कचः-किं मां प्रत्यभिजानीते भवान् । भीमसेनः-मत्पुत्र इति जाने ।

१८ मध्यमव्यायोगः। स घटोत्कचः कथं कथं तव पुत्रोऽहम् । भीमसेनः- कथं रुष्यति, मर्षयतु मर्षयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते । अत एव मयाभिहि- तम्। घटोत्कचः- भीतानामायुधं गृहीतम् । भीमसेनः करात शंपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे । किंरूपमेतद् वद भद्र ! (तस्य) गुणागुणज्ञः सदृशं प्रपत्स्ये ॥ ४१ ॥ media घटोत्कचः एष ते भयमुपदिशामि, गृह्यतामायुधम् । शत - भीमसेनः-आयुधमिति। गृहीतमेतत् । घटोत्कचः-- कथमिव । भीमसेनः काञ्चनस्तम्भसदृशो रिपूर्णा निग्रहे रतः । अयं तु दक्षिणो बाहुरायुधं सदृशं मम ॥४२॥ घटोत्कचः-- इदमुपपन्नं पितुर्मे भीमसेनस्य । भीमसेनः अथ कोऽयं भीमो नाम । मारने परा जान मध्यमव्यायोगः । १२ मानका विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः । एतेषु कथ्यतां भद्र ! केन ते सदृशः पिता ॥४३॥ घटोत्कचः-सर्वैः । भीमसेनः धिगनृतमेतत् । घटोत्कचः कथं कथम् । अनृतमित्याह । क्षिपसि मे गुरुम् । भवतु, इमं स्थूलं वृक्षमुत्पाट्य प्रहरामि । कथमनेनापि न शक्यते हन्तुम् । किन्नुखलु करिष्ये । भवतु, दृष्टम् । एतद् गिरिकूटमुत्पाट्य प्रहरामि । शैलकूटं मया क्षिप्तं प्राणानादाय यास्यति भीमसेनः- रगा रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद् वने ॥४४॥ घटोत्कचः-कथमनेनापि न शक्यते हन्तुम् । किन्नुखलु करिष्ये। भवतु, दृष्टम् । नाक नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः तिष्ठेदानीं सुसन्नडो नियुद्धे नास्ति मत्समः ॥ ४५ ॥ माह (इत्युभौ नियुद्धं कुरुतः) पराकम घटोत्कचः (भीमसेन बद्धवा) ब्रजसि कथमिह त्वं वीर्यमुल्लङ्घय बालो. गंज इव दृढपाशैः पीडितो महुजाभ्याम् ।

२० -- - (नियुद्धबन्धमवधूयार व्यपनय बलदर्प दृष्टसारोऽसि इमारीताका सजीजा मध्यमव्यायोगः। भीमसेनः (आत्मगतम्) कथं गृहीतोम्यनेन । भोः सु- धाएं मन योधन ! वर्धते सह शत्रुपक्षः । कृतरक्षो भव । (प्रकाशम्) भोः पुरुष! अवहितो भव।। घटोत्कचः अवहितोऽस्मि । भीमसेनः शक न हि मम परिखेदो विद्यते बाहुयुद्धे ।। ४६ ॥ घटोत्कचः कथमनेनापि न शक्यते हन्तुम् ।, किन्नु- खल करिष्ये । भवतु, दृष्टम् । अस्ति "मातृप्रसादलब्धी मायापाशः । तेन बढ्दैनं नेष्यामि। कुतः खल्वापः । भो गिरे! आपस्तावत् । हन्त स्रवति । (आचम्य मन्त्रं जपति) भोः सतह मुष की) बार पुरुष! देवर * Ime मायापाशेन बद्धस्त्वं विवशो न गमिष्यसि । राजसे रज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥ (इति मायया बध्नाति) भीमसेनः कथं मायापाशेन बद्धोऽस्मि । किमिदानी करिष्ये । अस्ति महेश्वरप्रसादलब्धो मायापाशमोक्षो मन्त्रः। तं जपामि। कुतः खल्वापः । भवतु, भो ब्राह्मणकुमार ! आनय क. मण्डलुगता अपः। वृद्धः-इमा आपः।

६१ - भारातपात: मध्यमव्यायागः। भीमसन आचम्य मन्त्र जपको मीयो मोचयति 627 घटोत्कचः अये पतितः पाशः। किमिदानी कैरिष्ये। भवतु, भोः पुरुष! पूर्वसमयं स्मर। भीमसेनः समय इति । एष स्मरामि । गच्छाप्रतः। (उभौ परिकामतः) वृद्धः-पुत्रकाः! किं कुर्मः । अयं गच्छति वृकोदरः। आक्रम्य राक्षसमिमं ज्वलदुग्ररूप- मुग्रेण बाहुबलवीर्यगुणेन युक्तम् । एष प्रयोति अनकैरवधूय शीघ्र- मासारवर्षमिक मोवृषभः सलीलः ॥४८॥ तवागमन घटोत्कचः इह तिष्ठ । त्वदागमनमम्बायै निवे- दयामि। RE/ उदर 3 २६ प. was. भीमसेनः बाढम् । गच्छ। घटोत्कचः -- (उपमृत्य) अम्ब! अभिवादये घटोत्क- 2 चोऽहम् । चिराभिलषितो भवत्या आहारार्थमानीतो मानुषः। (प्रविश्य) हिडिम्बा-(क) जाद! चिरं जीव । कीदिसी माणुसो आणीदो। - -- -- (क) जात! चिरं जीव । कीडशो मानुष मानतिः

२२
मध्यमव्यायोगः ।
घटोत्कचः- भवति! वामात्रेण मानुषो, न वीर्येण ।
हिडिम्बा-(क) किं बह्मणो ।
घटोत्कचः -न ब्राह्मणः।
र:- ग
हिडिम्बा-(ख) आदु थेरो ।
घटोत्कचः-न वृद्धः।
हिडिम्बा-(ग) किं वाळो।
घटोत्कचः-न बालः।
हिडिम्बा
(घ) जइ एव्वं, पेक्खामि दाव णं ।
(उभौ परिकामतः)
हिडिम्बा-(ङ) किं एसो माणुसो आणीदो।
घटोत्कचः-भवति! कोऽयम् ।
हिडिम्बा-(च)उम्मत्तअ! दव्वदं खु अ।
--
(क) किं ब्राह्मणः ।
(ख) अथवा स्थविरः।
(ग) किं बालः ।
(घ) यद्येवं, पश्यामि तावदेनम् ।
(क) किमेष मानुष आनीतः ।
(च) उन्मत्तक! दैवतं खल्वयम् ।

मध्यमव्यायोगः । २३ य घटोत्कचः-आः कस्य दैवतम् । हिडिम्बा (क) तव अ मम अ । घटोत्कचः - कः प्रत्ययः । 서 뗏 din विटाला R नसहामाना हिडिम्बा-(ख) एसो पच्चओ । जेदु अय्यउत्तो । भीमसेनः (विलोक्य) का पुनरियम् । अये देवी हिडिम्बा । अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने । जातकारुण्यया देवि! सन्तापो नाशितस्त्वया ॥ ४९ ॥ हिडिम्बे! किमिदम् । हिडिम्बा-(कर्णे) (ग) ईदिसं विअ । श्रीछा करन भीमसेनः जात्या राक्षसी, न समुदाचारेण । हिडिम्बा- (घ) उम्मत्तअ! अभिवादेहि पिदरं । हतराण पुत्र घटोत्कचः - भोस्तात ! अहं स धार्तराष्ट्रवनदवाग्निर्घटो- कचोऽभिवादये । पुत्रचापलं क्षन्तुमर्हसि । (क) तव च मम च । (ख) एष प्रत्ययः । जयत्वार्यपुत्रः । (ग) ईदृशमिव । (घ) उन्मत्तक ! अभिवादय पितरम् ।

॥ . मध्यमव्यायोगः । यातायन २१ भीमसेनः एह्येहि पुत्र! व्यतिक्रमकृतं कान्तमेव । (इति परिष्वज्य) धार्तराष्ट्रवनदवामिपुत्रीपेक्षीणि पितृहृदयानि । पुत्र! अतिबलपराक्रमो भव । घटोत्कचः-अनुगृहीतोऽस्मि । वृद्धः- एवं, भीमसेनपुत्रोऽयं घटोत्कचः । भीमसेनः--पुत्र! अभिवादयात्रभवन्तं केशवदासम् । घटोत्कचः भगवन् ! अभिवादये। वृद्धः-पितृसदृशगुणकीर्तिर्भब । घटोत्कचः- अनुगृहीतोऽस्मि । 31 वृद्धः - भो वृकोदर ! रक्षितमस्मत्कुलं, स्वकुलमुड़वं च । गच्छामस्तावत् । भीमसेनः अनुग्रहात तु भवतः सर्वमासीदिदं शुभम् । आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ ५॥ वृद्धः-कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद: च्छामस्तावत् । भीमसेनः- गच्छतु भवान् सकुटुम्बः पुनदर्शनाय । प्रमाण वृद्धः-बाढम् । प्रथमः कल्पः। (निष्क्रान्तः सकलत्रपुत्रः केशवदासः) mi Aur

मध्यमव्यायोगः।
२५
भीमसेनः-हिडिम्बे! इतस्तावत् । वत्स! घटोत्कच!
इतस्तावत् । तत्रभवन्तं केशवदासमाश्रमपदहारमात्रमपि सम्भा-
वयिष्यामः।
"यथा नदीनां प्रभवः समुद्रो
यथाहुतीनां प्रभवो हुताशः । AT (ane
यथेन्द्रियाणां प्रभवं मनोऽपि
Tw
तथा प्रभु! भगवानुपेन्द्रः ।। ५१ ॥
(निष्क्रान्ताः सर्वे )
१०
मध्यमव्यायोगोऽवसितः ॥
शुभं भूयात् ।
-
इतः प्राग् 'भरतवाक्यम्' इत्यपेक्षितं भाति । प्रभवति ईष्टे इत प्रभवम् ईशित ।
पचायच ।

No text on this page.

॥ श्रीः॥ श्रीगणेशायनमः। महाकविश्रीभासप्रणीतं दूतवाक्यम्। (नान्द्यन्ते ततः प्रविशति सूत्रधारः) रमाला । अङ्ग! पश्यामि । सूत्रधारः पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः। व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा- पनव्यग्रे शब्द इव श्रूयते (नेपथ्ये) भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः-भवतु, विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । मन्त्रशाला रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥ (निष्क्रान्तः) स्थापना। १. 'पर्येति मन्त्रशालायो भृ' क. ख. पाठः.

२८ दूतवाक्यम् । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः-भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति-अद्य सर्वपार्थिवैः सह मन्त्रयितुमि- च्छामि। तदाहूयन्तां सर्वे राजान इति। (परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते। य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः । श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३॥ " - > 4 (ततः प्रविशति यथानिर्दिष्टो दुर्योधनः) दुर्योधनः- उद्धृतरोषमिव मे हृदयं सहर्ष प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४॥ काञ्चुकीयः-जयतु महाराजः। महाराजशासनात् समा- नीतं सर्वराजमण्डलम् । दुर्योधनः-सम्यक् कृतम् । प्रविश त्वमवरोधनम् । काञ्चुकीयः यदाज्ञापयति महाराजः। (निष्क्रान्तः) in- --- 1, 'ति दु' क, पाठः,

२९
दूतवाक्यम् ।
दुर्योधनः- आर्यो ! वैकर्णवर्षदेवौ ! उच्यताम् - अस्ति
ममैकादशाक्षौहिणीबलसमुदयः। अस्य कः सेनापतिर्भवितु-
महति ।
किं किमाहतुर्भवन्तौ-महान् खल्वयमर्थः। मन्त्रयित्वा
वक्तव्यमिति ।
सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः। आचार्य!
अभिवादये। प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभि-
वादये। प्रविशतु भवान् मन्त्रशालाम्।मातुल ! अभिवादये।
प्रविशतु भवान् मन्त्रशालाम् । आर्यो! वैकर्णवर्षदेवौ! प्रवि-
शतां भवन्तौ। भो भोः सर्वक्षचियाः! स्वैरं प्रविशन्तु भवन्तः।
व्यस्य! कर्ण! प्रविशामस्तावत् ।
समान आए
(प्रविश्य)
आचार्य ! एतत् कूर्मासनम्, आस्यताम्। पितामह ! एतत्
सिंहासनम्, आस्यताम् । मातुल! एतच्चासनम् , आस्यताम् ।
आर्यो ! वैकर्णवर्षदेवौ! आसातां भवन्तौ। भो भोः सर्वक्षत्रियाः!
स्वैरमासतां भवन्तः।
किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः ।
नन्वयमहमासे । वयस्य ! कर्ण! त्वमप्यारस्व (उपविश्य)
२. 'तदासन' क. ग. पाठः.
३. 'तदासन' क. ग.
.. 'द आग' क. ग. पाठः.
४. 'तदासन' क. ग. पाठः.
पाठ..
-----
+ कि येति शेषः।

३० दूतवाक्यम् । आयौं ! वैकर्णवर्षदेवौ ! उच्यताम्-अस्ति ममैकादशाक्षौहि- णीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ-अत्रभवान् मान्धारराजो वक्ष्यतीति । भवतु, मातुलेनाभिधीयताम् । सात किमाह मातुल:- अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनाप- तिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु भवतु। पितामह एव भवतु । वय- मप्येतदभिलषामः। । सेनानिनादपटहस्वनशङ्खनादै- श्चण्डानिलाहतमहोदधिनादकल्पैः । गाङ्गेयमूर्ध्नि पतितेरभिषेकतोयैः सार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥ (प्रविश्य) काञ्चुकीयः -- जयतु महाराजः । एष खलु पाण्डवस्क- न्धावाराद् दौत्येनागतः पुरुषोत्तमो नारयणः । दुर्योधनः--मा तावद् भो बादरायण! । किं किं कसभृ- त्यो दामोदरस्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः। बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवा- सन्नमाश्रितस्य भृत्यजनस्य समुदाचारः । सगर्व खल्वस्य वच. नम् । आ अपध्वंस!।

३१ दूतवाक्यम् । काञ्चुकीयः-- प्रसीदतु महाराजः । संभ्रमेण समुदा- चारो विस्मृतः। (पादयोः पतति) दुर्योधनः-संभ्रम इति । आ मनुष्याणामस्त्येव संभ्रमः। उत्तिष्ठोत्तिष्ठ । काञ्चुकीयः-- अनुगृहीतोऽस्मि । दुर्योधनः इदानी प्रसन्नोऽस्मि । क एष दूतः प्राप्तः । काञ्चुकीयः दूतः प्राप्तः केशवः। दुर्योधनः केशव इति । एवमेष्टव्यम् । अयमेव समुदा- चारः । भो भो राजानः! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तः- अर्घ्यप्रदानेन पूजयितव्यः केशब इति । न मे रोचते । ग्रहणमस्यात्र हितं पश्यामि । ग्रहणमुपगते तु वासुभद्रे हृतनयना इव पाण्डवा भवेयुः । गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥ अपिच योऽत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्ण- भारेण दण्ड्यः । तदप्रमत्ता भवन्तु भवन्तः। कोनुखलु ममाप्र- त्युत्था(प?)नस्योपायः। हन्त दृष्ट उपायः। बादरायण! आनीय- तां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् (अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य । शज ३२ दूतवाक्यम् । काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराजः । अयं स चित्रपटः । दुर्योधनः ममाग्रतः प्रसारय। काञ्चुकीयः-- यदाज्ञापयति महाराजः । (प्रसारयति) दुर्योधनः-- अहो दर्शनीयोऽयं चित्रपटः । एष दुःशा- सनो द्रौपदी केशहस्ते गृहीतवान् । एषा खलु द्रौपदी, दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना । राहुवक्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥ एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदी दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति । एष युधिष्ठिरः, स्या सत्यधमघृणायुक्तो द्यूतविभ्रष्टचेतनः । करोत्यपाङ्गविक्षेपैः शान्तामर्ष वृकोदरम् ॥ ८ ॥ एष इदानीमर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठ- स्तृणाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम् ॥९॥ समासान्त विधेनित्यत्वमाश्रयणीयम् । 'सर्वराआन्' इति वा पाठो भवेत् ।

- दूतवाक्यम् । ३३ एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ, कृतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौ स्पष्टदष्टाधरोष्ठौ । विगतमरणशङ्कौ सत्वरं भ्रातरं मे हरिमिव मृगपोतो तेजसाभिप्रयातौ ॥१०॥ एष युधिष्ठिरः कुमारावुपेत्य निवारयनि- नीचोऽहमेव विपरीतमतिः कथं वा रोषं परित्यजतमद्य नयानयज्ञौ । द्यूताधिकारमवमानममृष्यमागाः सत्त्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥ इति । एष गान्धारराजः, अक्षान् क्षिपन् 'सकितवं प्रहसन् सगर्व सङ्कोचयनिय मुदं द्विषतां स्वकीया॑ । स्वैरासनो द्रुपदराजसुतां रुदन्ती काक्षेण पश्यति लिखत्य(भिखां ?) नयज्ञः ॥ १२ ॥ एतावाचार्यपितामहौ तां दृष्ट्वा लजायमानौ पटान्तान्तर्हित- मुखौ स्थितौ । अहो अस्य वर्णाढ्यता । अहो भावोपपन्नता । अहो युक्तलेखता। सुव्यक्तमालिखितोऽयं चित्रपटः। प्रीतोऽस्मि बनाया कोऽत्र। $ सकैतबमित्यर्थः । ‘स कितव.' इति वा पाटो भवेत् । . * रुदधातोस्तुदादित्वमायत एवं प्रयोगात् कल्प्यम् ।

४ दूतवाक्यम् । काञ्चुकीयः-जयतु महाराजः । दुर्योधनः बादरायण! आनीयतां स विहगवाहनमात्र. विस्मितो दूतः। काञ्चुकीयः- यदाज्ञापयति महाराजः । (निष्क्रान्तः) दुर्योधनः-वयस्य ! कर्ण! प्राप्तः किलाद्य वचनादिह पाण्डवानां दौत्येन भृत्य इव कृष्णमतिः स कृष्णः । श्रोतुं सखे ! त्वमपि सजय कर्ण! कर्णी 'नारीमृदूनि वचनानि युधिष्ठिरस्य ॥ १३ ॥ (ततः प्रविशति वासुदेवः काञ्चुकीयश्च) वासुदेवः -अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिम- मित्रतया चाहवदर्पमनुक्तग्राहिणं सुयोधनं प्रति मयाप्यनुचित- दौत्यसमयोऽनुष्ठितः । अथच, इतिती कृष्णापराभवभुवा रिपुवाहिनीभ- कुम्भस्थलीदलनतीक्षणगदाधरस्य । भीमस्य कोपशिखिना युधि पार्थपत्रि- चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥ इदं सुयोधनशिबिरम् । इह हि , + नारीमृदनि स्त्रीवचनविक्लवानि । वृत्ती नारीशब्दो नारीसमवेतपचनक्रियावती ।

दूतवाक्यम् ।
३५
"आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता
विस्तीर्णाः शस्त्रशाला बहुविधकर(?णै): शस्त्रैरुपचिताः ।
हेषन्ते मन्दुरास्थास्तुरगवरघटा बृहन्ति करिण
ऐश्वर्य स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥
भोः!
दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः ।
सुयोधनो हि मां
दृष्ट्वा
नैव कार्य करिप्यति ॥ १६ ॥
भों बादरायण ! किं प्रवेष्टव्यम् ।
काञ्चुकीयः-- अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः ।
वासुदेवः- (प्रविश्य) कथं कथं मां दृष्ट्वा संभ्रान्ताः सर्वक्ष-
त्रियाः। अलमलं संभ्रमेण । स्वैरमासतां भवन्तः ।
'दुर्योधनः- कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रि-
याः । अलमलं संभ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः ।
नन्वहमाज्ञप्ता।
वासुदेवः भोः सुयोधन! किमास्से
दुर्योधनः (आसनात् पतित्वा आत्मगतम्) सुव्यक्तं प्राप्त एवं
केशवः
उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः।
केशवस्य प्रभावन चलितोऽस्म्यासनादहम् ॥ १७ ॥

दूतवाक्यम् । अहो बहुमायोऽयं दूतः । (प्रकशम् ) भो दूत! एतदासनमास्य- ताम् । वासुदेवः-आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः! स्वैरमासतां भवन्तः । वयमप्युपविशामः । (उपविश्य) अहो द- र्शनीयोऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखि- तम् । अहोतुखलु, सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् । को नाम लोके स्वयमात्मदोष- मुद्घाटयेन्नष्टघृणः सभासु ॥ १८ ॥ आः अपनीयतामेष चित्रपटः । -- दुर्योधनः बादरायण ! अपनीयतां किल चित्रपटः। काञ्चुकीयः यदाज्ञापयति महाराजः । (अपनयति) दुर्योधनः- भो दूत ! - धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः । यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥ वासुदेवः-सदृशमेतद् गान्धारीपुत्रस्य। अथकिमथकिम् ।

दूतवाक्यम् ।
-
कुशलिनः सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलम-
नामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः-
अनुभूतं महद् दुःखं संपूर्णः समयः स च ।
अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् ॥२०॥
-
इति।
दुर्योधनः कथं कथं दायाद्यमिति ।
बने पितृव्यो मृगयाप्रसङ्गतः
कृतापराधो मुनिशागमाप्तवान् ।
तदाप्रभृत्येव स दारनिस्पृहः
परात्मजानां पितृतां कथं व्रजेत् ॥ २१ ॥
वासुदेवः-- पुराविदं भवन्तं पृच्छामि ।
विचित्रवीर्यो विषयी विपन्तिं
क्षयेण यातः पुनरम्बिकायाम् ।
व्यासेन जातो धृतराष्ट्र एष
लभेत राज्यं जनकः कथं ते ॥ २२ ॥
मा मा भवान्,
एवं परस्परविरोधविवर्धनेन
शीघ्रं भवेत कुरुकुलं नृप! नामशेषम् ।
तत् कर्तुमर्हति भवानपकृष्य रोष
यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति ॥ २३ ॥

३८ दूतवाक्यम् । दुर्योधनः- भो दूत! न जानाति भवान् राज्यव्यवहारम् । राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून भुज्यते तल्लोके न तु याच्यते न तु पुनीनाय वा दीयते । काङ्क्षा चेन्नृपतित्वमाप्तुमचिरात् कुर्वन्तु ते साहसं स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् ॥ २४ ॥ वासुदेवः - भोः सुयोधन ! अलं बन्धुजने परुषमभिधा- तुम्। पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम् । वञ्चयेद् यः सुहृवन्धून स भवेद् विफलश्रमः ॥२५॥ दुर्योधनः- स्यालं तव गुरोर्भूपं कंसं प्रति न ते दया । कथमस्माकमेवं स्यात तेषु नित्यापकारिपु ॥ २६ ॥ वासुदेवः अलं तन्मदोषतो ज्ञातुम् । कृत्वा पुत्रवियोगार्ता बहुशो जननी मम । वृद्धं स्वपितरं बड्वा हतोऽयं मृत्युना स्वयम् ॥ २७ ॥ दुर्योधनः- सर्वथा वञ्चितस्त्वया कंसः । अलमात्मस्त- वेन । न शौर्यमेतत् । पश्य, 'जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरेऽथ । -- N जामाता कसः ।

दूतवाक्यम् । पलायमानस्य भयातुरस्य शौर्य तदेतत् क गतं तवासीत् ॥ २८ ॥ वासुदेवः-भोः सुयोधन ! देशकालावस्थापेक्षितं खलु । शौर्य नयानुगामिनाम् । इह तिष्ठतु तावदस्मद्गतः परिहासः । स्वकार्यमनुष्ठीयताम् । कर्तव्यो भ्रातृपु स्नेहो विस्मर्तव्या गुणेतराः। सम्बन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ २९ ॥ दुर्योधनः देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत् । पिष्टपेषणमेतावत् पर्याप्तं छिद्यतां कथा ॥ ३० ॥ वासुदेवः (आत्मगतम्) प्रसाद्यमानः सान्नायं न स्वभावं विमुञ्चति । हन्त संक्षोभयाम्येनं बचोभिः परुषाक्षरैः ॥ ३१ ॥ (प्रकाशम्) भोः सुयोधन ! किं न जानीषेऽर्जुनस्य बलपराक्रमम् । दुर्योधनः-न जाने । वासुदेवः - भोः! श्रूयता, कैरातं वपुरास्थितः पशुपतियुद्धेन सन्तोषितो वह्नः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता ।

दूतवाक्यम् । * देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥३२॥ अपिच, तवापि प्रत्यक्षमपरं कथयामि । ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् । विक्रोशन घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥ किं बहुना, दातुमर्हसि महाक्याद् राज्याध धृतराष्ट्रज !। अन्यथा सागरान्तां गां हरिप्यन्ति हि पाण्डवाः ॥३४॥ दुर्योधनः--कथं कथम् । हरिप्यन्ति हि पाण्डवाः । प्रहरति यदि युद्धे मामतो भीमरूपी प्रहरति यदि साक्षात् पार्थरूपेण शक्रः । परुषवचनदक्ष ! त्वदचोभिर्न दास्ये तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ॥ ३५ ॥ वासुदेवः -भोः कुरुकुलकलङ्कभूत! अयशोलुब्ध! वयं किल तृणान्तराभिभाषकाः। दुर्योधनः- भो गोपालक ! तृणान्तराभिभाष्यो भवान् । अवध्या प्रमदां हत्वा हयं गोवृषमेव च । मल्लानपि सुनिर्लज्जो वक्तमिच्छसि साधुभिः ॥ ३६ । वासुदेवः-भोः सुयोधन ननु क्षिपसि माम् ।

दूतवाक्यम् । ४१ दुर्योधनः आः अभाष्यस्त्वम् । अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा । अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भापे ॥ ३७ ॥ वासुदेवः-न व्याहरति फिल मां सुयोधनः । भोः! शठ ! बान्धवनिःस्नेह ! कार्क ! केकर! पिङ्गल!। img त्वदर्थात् कुरुवंशोऽयमचिरान्नाशमेष्यति ॥ ३८ ॥ भो भो राजानः! गच्छामस्तावत् । दुर्योधनः- कथं यास्यति किल केशवः । दुःशासन ! दुर्मर्षण! दुर्मुख ! दुर्बुद्धे ! दुष्टेश्वर! दूतसमुदाचारमतिक्रान्तः केशवो बध्यताम् । कथमशक्ताः । दुःशासन! न समर्थः खल्वसि। करितुरगनिहन्ता कंसंहन्ता स कृष्णः पशुपकुलनिवासादानुजीव्यानभिज्ञः । हृतभुजबलवीर्यः पार्थिवानां समक्ष स्ववचनकृतदोषो बध्यतामेष शीघ्रम् ॥ ३९ ॥ अयमशक्तः । मातुल! बध्यतामयं केशवः। कथं पराङ्मुखः * कार्क! इति दुश्चापलात्, केकर! इति विकृताक्षत्वात् , पिङ्गल : इति मार्जारवृत्तित्वाद् बानरवृत्तित्वाद्वा क्षेपपराणि संधोधनान ।

'१२ दूतवाक्यम् । पतति । भवतु, अहमेव पाशैर्बधामि । (उपसर्पति) वासुदेवः-कथं (विबन्धु)कामो मां किल सुयोधनः। भवतु, सुयोधनस्य सामर्थ्य पश्यामि । (विश्वरूपमास्थितः) दुर्योधनः- भो दूत! सृजसि यदि समन्ताद् देवमायाः स्वमायाः प्रहरसि यदि वा त्वं दुर्निवारैः सुरास्त्रैः । हयगजवृषभाणां पातनाज्जातदपों नरपतिगणमध्ये बध्यसे त्वं मयाद्य ॥ ४० ॥ आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । 'अयं केशवः । अहो ह्रस्वत्वं केशवस्य । आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । अयं केशवः। अहो दीर्घत्वं केशवस्य । कथं न दृष्टः केशवः । अयं केशवः । सर्वत्र मन्त्रशालायां केशवा भवन्ति। किमिदानी करिष्ये । भवतु, दृष्टम् । भो भो राजानः! एकेनैकः केशवो बध्यताम् । कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः। साधु भो जिम्भक ! साधु । मत्कार्मुकोदरविनिःसृतबाणजालै- विक्षरत्क्षतजरञ्जितसर्वगात्रम् । - . main aamtamnna mommommmmmunarwa-corian--- + 'जम्भको मायावी।

दूतवाक्यम् । पश्यन्तु पाण्डुतनयाः शिविरोपनीतं त्वां बाष्परुद्धनयनाः परिनिःश्वसन्तः ॥ ४१ ॥ (निष्क्रान्तः) वासुदेवः भवतु, पाण्डवानां कार्यमहमेव साधयामि । भोः सुदर्शन ! इतस्तावत्। (ततः प्रविशति मुदर्शनः) सुदर्शन:- एष भोः! श्रुत्वा गिरं भगवतो विपुलप्रसादा- निर्धावितोऽस्मि परिवारिततोयदौधः । -- कस्मिन् खलु प्रकुपितः कमलायताक्षः । कम्याद्य मूर्धनि मया प्रविजृम्भितव्यम् ॥ ४२ ॥ कनुखलु भगवान् नारायणः। अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः । एकोऽनेकवपुः श्रीमान् द्विषर्लनिषूदनः ॥ ४३ ॥ (त्रिलोक्य) अये अयं भगवान् हस्तिनपुरद्वारे दूतसमुदाचारेणोप- स्थितः। कुतः खल्वापः कुतः खल्वापः। भगवति! आकाश- गङ्गे! आपस्तावत् । हन्त स्रवति । (आचम्योपसृत्य) जयतु भगवान् नारायणः। (प्रणमति) वासुदेवः -सुदर्शन ! अप्रतिहतपराक्रमो भव । 'सुदर्शनः ---- अनुगृहीतोऽस्मि । माटर ।

सम दूतवाक्यम् । वासुदेवः-दिष्ट्या भवान् कर्मकाले प्राप्तः । सुदर्शनः--कथं कथं कर्मकाल इति । आज्ञापयतु भग- वानाज्ञापयतु। कि मेरुमन्दरकुलं परिवर्तयामि संक्षोभयामि सकलं मकरालयं वा । नक्षत्रवंशमखिलं भुवि पातयामि नाशक्यमस्ति मम देव! तव प्रसादात् ॥ ४४ ॥ वासुदेवः -- भोः सुदर्शन ! इतस्तावत् । भोः सुयोधन! यदि लवणजलं वा कन्दरं वा गिरीणां ग्रहगणचरितं वा वायुमार्ग प्रयासि । मम भुजबलयोगप्राप्तसंजातवेगं भवतु चपल! चक्रं कालचक्र तवाद्य ॥ ४५ ॥ सुदर्शनः--भोः सुयोधनहतक ! (इति पुनर्विचार्य) प्रसीदतु प्रसीदतु भगवान् नारायणः । महीभारापनयनं कर्तुं जातस्य भूतले । अस्मिन्नेवं गते देव! ननु स्याद् विफलः श्रमः ॥४६॥ वासुदेवः --सुदर्शन! रोषात् समुदाचारो नावेक्षितः। गम्यतां स्वनिलयमेव । सुदर्शनः- यदाज्ञापयति भगवान् नारायणः। कथं कथं गोपालक इति । त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्र- दूतवाक्यम् । १५ भवान् । शरणं व्रजन्तु भवन्तः । यावद् गच्छामि । अये एतद् भगवदायुधवरं शार्ङ्ग प्राप्तम् । तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं हरिकरधृतमध्यं शत्रुसङ्घककालः । कनकखचितपृष्ठं भाति कृष्णस्य पार्श्वे नवसलिलदपाधैं चारुविद्युल्लतेव ॥ ४७ ॥ भो भोः! प्रशान्तरोषो भगवान् नारायणः । गम्यतां स्वनिल- यमेव । हन्त निवृत्तः। यावद् गच्छामि । अये इयं कौमोदकी प्राप्ता। मणिकनकविचित्रा चित्रमालोत्तरीया सुररिपुगणगात्रध्वंसने जाततृष्णा । गिरिवरतटरूपा दुर्निवारातिवीर्या ब्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ॥४८॥ हे कौमादकि! प्रशान्तरोपो भगवान् नारायणः । हन्त निवृत्ता। यावद् गच्छामि । अये अयं पाञ्चजन्यः प्राप्तः । पूर्णेन्दुकुन्दकुमुदोदरहारगौरो नारायणाननसरोजकृतप्रसादः । यस्य स्वनं प्रलयसागरघोषतुल्यं गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ॥ ४९ ॥ हे पाञ्चजन्य! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः । अये नन्दकासिः प्राप्तः। पुष्प

दूतवाक्यम् ।
वनिताविग्रहो युद्धे महासुरभयङ्करः ।
प्रयाति गगने शीघ्र महोल्केव विभात्ययम् ॥५०॥
हे नन्दक! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः।
यावद् गच्छामि । अये एतानि भगवदायुधवराणि ।
सोऽयं
खगः
खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः
सेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा।
सैषा शामभिधाना प्रलयवनरवज्यारवा चाप(रेखा
सोऽयं गम्भी)रघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः॥
हे शा!! कौमोदकि! पाञ्चजन्य !
दैत्यान्तकृन्नन्दक ! शत्रुवह्ने!।
प्रशान्तरोषो भगवान् सुरारिः
स्वस्थानमेवात्र हि (गच्छ तावत् ॥ ५२ ॥
हन्त निवृत्ताः। यावद् गच्छामि । अये अत्युद्भूतो वायुः । अति-
तपत्यादित्यः । चलिताः पर्वताः। क्षुब्धाः सागराः। पतिता वृक्षाः।
भ्रान्ता मेघाः । प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः। किन्नु-
खल्विदम् । अये अयं भगवतो वाहनो गरुडः प्राप्तः ।
सुरासुराणां परिखेदलब्धं
येनामृतं मातृविमोक्षणार्थम् ।
आच्छिन्नमासीद् द्विषतो मुरारे-
स्त्वामुहहामीति वरोऽपि दत्तः ॥ ५३ ॥

दूतवाक्यम् । हे काश्यपप्रियसुत! गरुड! प्रशान्तरोषो भगवान् देवदेवेशः। गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि । एते + + + + + + + + + + + + + संभ्रमचलन्मकुटोत्तमाङ्गाः । रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं श्रुत्वा श्रयन्ति सदनानि (नि)वृत्ततापाः ॥ ५४ ॥ यावदहमपि कान्तां मेरुगुहामेव यास्यामि । (निक्रान्त) वासुदेवः यावदहमपि पाण्डवशिबिरमेव यास्यामि । (नेपथ्य) -- नखलु नखलु गन्तव्यम् । वासुदेवः अये वृद्धराजस्वर इव । भो राजन्! एष स्थितोऽस्मि । (ततः प्रविशति धृतराष्ट्रः) धृतराष्ट्र कनुखलु भगवान् नारायणः । कनुखलु भ. गवान् पाण्डवश्रेयस्करः। कनुखलु भगवान् विप्रप्रियः । कनुखलु भगवान् देवकीनन्दनः। मम पुत्रापराधात् तु शाङ्गपाणे! तवाधुना । एतन्मे त्रिदशाध्यक्ष! पादयोः पतितं शिरः ॥ ५५ ॥ (पतति) वासुदेवः -हा धिक् । पतितोऽत्रभवान् । उत्तिष्ठोत्तिष्ठ दूतवाक्यम् । धृतराष्ट्र:- अनुगृहीतोऽस्मि । भगवन् ! इदमयं पाचं च प्रतिगृह्यताम् । वासुदेवः सर्व गृहामि । किं ते भूयः प्रियमुपहरामि । धृतराष्ट्रः यदि मे भगवान् प्रसन्नः, किमतःपरमि- - च्छामि । वासुदेवः धृतराष्ट्रः गच्छतु भवान् पुनदर्शनाय । यदाज्ञापयति भगवान् नारायणः। (निष्क्रान्तः) - (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवहिन्ध्यकुण्डलाम् । महीमेकातपत्राङ्को राजसिंहः प्रशास्तु नः ॥ ५६ ॥ (निप्क्रान्ताः सर्वे) दूतवाक्यं समाप्तम् । शुभं भूयात् । ra- 4 ॥श्रीः॥ श्रीगणेशाय नमः । महाकविश्रीभासप्रणीतं दूतघटोत्कचम्। -- (नान्द्यन्ते ततः प्रविशति सूत्रधारः) । सूत्रधारः नारायणस्त्रिभुवनैकपरायणो वः पायादुपायगतयुक्तिकरः सुराणाम् । लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनप्रतिसमापनसूत्रधारः ॥ १ ॥ ५. एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञाप- नव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भो भो! निवेद्यतां निवेद्यतां तावत् । सूत्रधारः-भवतु, विज्ञातम् । एष खलु संशप्तकानीकनि- वाहित जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षि- तैर्धार्तराष्ट्रः परिवार्य निहतः कुमारोऽभिमन्युः । तथाहि, दूतघटोत्कचम् । यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः । नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ २ ॥ (निष्क्रान्तः) स्थापना। (ततः प्रविशति भटः) भटः-निवेद्यतां निवेद्यतां पुत्रशतश्लाघ्यबान्धवाय विज्ञा- नविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलु, योधस्यन्दनवाजिवारणवधैविक्षोभ्य राज्ञां बलं बालेनार्जुनक(भीम) येन समरे लीलायता दर्शितम् । सौभद्रः स रणे नराधिपशतैर्वेगागतैः (सर्विश्व- खेशतस्व?) पितामहस्य सहसैवोत्सङ्गमारोपितः ॥३॥ इति । (ततः प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च) धृतराष्ट्र कथं कथं भोः! धनूरेखान्तर्गतं 'सर्वतः खे 1 लीलाशब्दो लोहितादिगणे कण्ड्वादिगणे वा द्रष्टन्यः । यातस्य' इति पठनीयं भाति ।

दूतघटोत्कचम् । ५१ केनैतच्छ्रुतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति । कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥ गान्धारी (क) महाराअ! अत्थि पुण, जाणीअदि केवळं पुत्तसंखअकारओ कुळविग्गहो भविस्सदि त्ति । धृतराष्ट्र:-गान्धारि ! ज्ञायते । गान्धारी (ख) महाराअ! कदाणुखु । धृतराष्ट्र:- गान्धारि ! शृणु । अद्याभिमन्युनिधनाजनितप्रकोपः । सामर्षकृष्णधृतरश्मिगुणप्रतोदः । पार्थः करिष्यति तदुग्रधनुस्सहायः शान्ति गमिष्यति विनाशमवाप्य लोकः ॥५॥ गान्धारी-(ग) हा अभिमओ! ईदिसे विणाम (उ)त्तम- पुरुसक्खअकारए कुळविग्गहे वत्तमाणे बाळभावणिमज्ज (क) महाराज! अस्ति पुनः, ज्ञायते केवलं पुत्रसंक्षयकारकः कुलविग्रहो भवि- ध्यतीति । (ख) महाराज! कदानुखलु। (ग) हा अभिमन्यो ! ईदृशेऽपि नामोत्तमपुरुषक्षयकारके कुलविग्रहे वर्तमाने ५२ दूतवटोत्कचम् । अम्माणं "भ(कळ?)ग्गकमेण करअन्तो कहिं दाणि पोत्तअ! गदो सि । दुःशला--(क) जेण दाणि बहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिहें । धृतराष्ट्रः-अथ केनैप व्यसनार्णवस्य सेतुर्बद्धः । भटः महाराज! मया । धृतराष्ट्रः- को भवान् । भटः महाराज! ननु जयत्रातोऽस्मि । धृतराष्ट्रः जयत्रात! केनाभिमन्युनिहतः कस्य जीवितमप्रियम् । पञ्चानां पाण्डवाग्नीनामात्मा येनेन्धनीकृतः ॥६॥ भटः महाराज! वहुभिः खलु पार्थिवैः सह समागतैनि- हतः कुमारोऽभिमन्युः । स्यात् तु जयद्रथो निमित्तभूतः । धृतराष्ट्रः --किं किं जयद्रथो निमित्तभूतः। बालभावनिमज्जनमस्माकं भाग्यक्रमेण कुर्नन् कुत्रेदानी पौत्रक ! गतोऽसि । (क) येनेदानी वध्चै उत्तरायै वैधव्यं दत्तं, तेनात्मनो युवतिजनाय वैधव्य. मादिष्टम् । * दुर्भाग्यक्रमेणेत्यर्थः । तुदशब्दो वा भकारात प्राक् पालाः ।

- दूतघटोत्कचम् । भटः महाराज! अथकिम् । धृतराष्ट्र:- हन्त जयद्रथो निहतः। (तच्छुत्वा दुःशला रोदिति) -- धृतराष्ट्रः कैषा रोदिति । प्रतिहारी (क) महाराअ! भट्टिदारिआ दुश्शळा । धृतराष्ट्रः वत्से! अलमलं रुदितेन। पश्य, भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते। येन गाण्डीविबाणानामात्मा लक्षाकृतः स्वयम् ॥ ७॥ दुःशला -- (ख) तेण हि अणुजाणादु मं तादो, अहं पि गमिस्सं वहूए उत्तराए सआसं । धृतराष्ट्रः वत्से! किमभिधास्यसि । दुःशला-- (ग) ताद! एवञ्च भणिस्सं- अज्ज काळिअं च दे वेसग्गहणं अहं वि उवधारइस्सामि त्ति । (क) महाराज! भर्तृदारिका दुःशला । (ख) तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि वध्वा उत्तरायाः स- काशम् । (ग) तात ! एवञ्च भणिष्यामि- अद्य कालिकं च ते वेषग्रहणमहमप्युपधारयि- व्यामीति ।

दूतघटोत्कचम् । गान्धारी-(क) पुत्तिए! माखु माखु अमङ्गळं भणाहि । जीवदि खु दे भत्ता। दुःशला- (ख) अम्ब ! कुदो मे एत्तिआणि भाअधेआणि । (जो?)जणदणसहाअस्स धणञ्जअस्स विप्पिअं करिअ को हि णाम जीविस्सिदि। धृतराष्ट्रः सत्यमाह (तिचस्थिनी?") दुःशला । कुतः, --- कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः। पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं तं हला क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥८॥ जयंत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीव. धन्वना। भटः-महाराज ! किं वार्जुनसमीपे वृत्तमेतत् । धृतराष्ट्रः-कथमर्जुनोऽपि नात्रासीत् । (क) पुत्रिके! माखलु माखल्वमङ्गलं भण । जीवति खलु ते भर्ता । (ख) अम्ब! कुतो मे एतावन्ति भागधेयानि । जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति । * 'तपस्विनी' इति पाव्यम् । 2 इहात्मनेपदानित्यत्वं बोध्यम् ।

दूतघटोत्कचम् । भटः महाराज! अथकिम् । धृतराष्ट्रः- कथमिदानी वृत्तमेतत् । भटः-महाराज! श्रृयता-संशप्तकानीकनिवाहिते ज- नार्दनसहाये धनञ्जये स बालभावाददृष्टदोषः सङ्ग्राममवतीर्णः कुमारोऽभिमन्युः। धृतराष्ट्रः- हन्त ! युक्तरूपोऽस्य वधः । को हि समर्थः सन्निहितशार्दूलां गुहां धर्षयितुम् । अथ शेषाः पाण्डवाः किम- नुतिष्ठन्ति । भटः-महाराज ! श्रूयतां, चितां न तावत् स्वयमस्य देह- मारोपयन्त्यर्जुनदर्शनार्थम् । तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥९॥ धृतराष्ट्रः- गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः.॥ गान्धारी-(क) महाराअ ! णं तहिं गाहामो। धृतराष्ट्रः गान्धारि! शृणु, (क) महाराज! ननु तत्र गाहावहे ।

दूतघटोत्कचम् ।
अद्यैव दास्यामि जलं हतेभ्यः
स्वेनापराधेन तवात्मजेभ्यः ।
न त्वस्मि शक्तः सलिलप्रदानैः
कर्तु नृपाणां शिबिरोपरोधम् ॥१०॥
(ततः प्रविशति दुर्योधनो दुःशासनः शकुनिश्च)
दुर्योधनः- वत्स!
वत्स! दुःशासन!
यातोऽभिमन्युनिधनात् स्थिरतां विरोधः
प्राप्तो जयः प्रचलिता रिपवो निरस्ताः।
उन्मूलितोऽस्य च मदो मधुसूदनस्य
लब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥
दुःशासनः- अहोतुखलु,
रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य शत्रोर्बलं
सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।
प्राप्तश्च व्यसनानि भीष्मपतनादस्माभिरस्याहवे
तीवाः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ॥१२॥
शकुनिः-
जयद्रथेनाद्य महत् कृतं रणे
नृपैरसम्भावितमात्मपौरुषम् ।
प्रसह्य तेषां यदनेन संयुगे
समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥

मातुल! दूतघटोत्कचम् । दुर्योधनः शकुनिः वत्स! किम् । दुर्योधनः मातुल! इतस्तावत् । वत्स! दुःशासन! इतस्तावत् । तत्रभवन्तं तातमभिवादयिष्यामः । शकुनिः वत्स ! दुर्योधन ! मामैवम् । कामं न तस्य रुचितः कुलविग्रहोऽय- मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् । युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपम् एवं प्रहृष्टवदनैरभिगन्तुमेनम् ॥ १४ ॥ दुर्योधनः मातुल ! मामैवम् । यथा तथा भवतु, तत्र- भवन्तं तातमभिवादयिष्यामः (परिक्रामति) दुर्योधनः- तात! दुर्योधनोऽहमभिवादये । दुःशासनः- तात! दुःशासनोऽहमभिवादये। शकुनिः शकुनिरहमभिवादये। सर्वे-कथमाशीर्वचनं न प्रयुज्यते । धृतराष्ट्रः- पुत्र! कथमाशीर्वचनमिति । सौभद्रे निहते बाले हृदये कृष्णपार्थयोः । जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥ तुल्यरूपं युक्तरूपमित्यर्थः ।

५८ दूतघटोत्कचम् । दुर्योधनः तात! किंकृतोऽयं सम्भ्रमः । धृतराष्ट्रः किंकृतोऽयं सम्भ्रम इति । एका कुलेऽस्मिन् बहुपुत्रनाथे लब्धा सुता पुत्रशताद् विशिष्टा । सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥ दुर्योधनः किं चात्र जयद्रथस्य । धृतराष्ट्र:- तेन किल वरविदग्धेन रुद्धाः पाण्डवाः । दुर्योधनः आ तेन रुद्धाः, बहुभिः खल्वन्यैः । भोः कष्टम् । धृतराष्ट्र बहूनां समुपेतानामेकस्मिन्निघृणात्मनाम् । बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥ दुर्योधनः- तात! वृद्धं भीष्मं छलैर्हत्वा कथं न पतिता भुजाः । हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥ धृतराष्ट्रः पुत्र! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः । * सममिति स्यात् ।

दूतघटोत्कचम् । दुर्योधनः- तात! कथं न समः । धृतराष्ट्रः पुत्र! श्रूयताम्, स्वच्छन्दमृत्युनिहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टः । अयं तु बालः कुरुवंशनाथ- श्छिन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥ दुःशासनः- तात! बालो न बाल इति। अभिमन्युना, धृतराष्ट्र:- किं किं दुःशासनो व्याहरति । दुःशासनः अथकिम् । सर्वेषां नः पश्यतां युध्यतां च 'व्या(चा?धा)मोमं 'गृह्य चापं करेण । सूर्येणेवाभ्यागतैरंशुजालैः सर्वे बाणैरङ्किता भूमिपालाः ॥ २० ॥ . * कृतार्थतुष्ट इत्यर्थः । तथैव वा पाठो भंवत् । + व्याधामोध्म दम्भोलित्विपम् । 'व्याधामः पुसि दम्भोलिः' इति वैजयन्ती, ऊमो घ. मेंऽश्रुणि तथा ज्येष्ठ ऊष्मा स्त्रियां त्विपि' इति बोपालितश्च । * 'त्वापिच्छन्दसि' (७.१.३८) इति सूत्रे अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वाद् भा. षायामसमासे क्त्वो ल्यबि'ति 'स्वधन त्यज्य गच्छति' इति प्रयोगगतो ल्पप साधितो दुर्घटवृत्ती 'समासेऽनपूर्वे' (७ १-३७) इति सूत्रे । सैव गतिरिहाश्रयणीया । अथवा 'व्याधामोष्म' इत्यनु- स्वारो दीर्घलिपिस्थाने लेखकेन भ्रमाद् लिखित इति कल्यम् । तथा च 'व्याधामोष्मागृह्य' इति पाठः स्यात् । व्याधामस्येवोमा यस्य तद् व्याधामोध्म दम्भोलिशक्तिकमित्यर्थः । चापविशे- षणमिदं नकारान्तोत्तरपदकम् । चापशब्दश्चेह नपुसकलिङ्ग आश्रयणीय: 'अस्रियौ चायधनुपा- विति वैजयन्त्युक्तेः । एवञ्च 'आगृह्य' इति ल्यबन्त लास्यते । 'अयमागृहीतकमनीयकङ्कणः' इतिवचात्रापर्वो पहिः सम्यग्ग्रहणे वर्तिष्यते । । :

६० दूतघटोत्कचम् । धृतराष्ट्र:-कष्टं भोः! बालेनैकेन तावद् भोः! सौभद्रेणेदृशं कृतम् । पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥ दुर्योधनः-किं करिप्यति । धृतराष्ट्रः-तत् करिष्यति, यत् सावशेषायुषो द्रक्ष्यथ । दुर्योधनः- तात ! कस्तावदर्जुनो नाम । धृतराष्ट्रः-पुत्र! अर्जुनमपि न जानीषे । दुर्योधनः- न जाने । धृतराष्ट्रः-तेन हि, अहमपि न जाने । किन्तु, अर्जु- नस्य बलवीर्यज्ञा बहवः सन्ति । तान् पृच्छ । दुर्योधनः तात ! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः। धृतराष्ट्रः-पुत्र! श्रूयतां, शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं पृच्छास्त्रैः परितोपितं बहुविधैः कैरातरूपं हरम् । पृच्छानिं भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवे "विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्राङ्गदम् ॥२२॥ दुर्योधनः-यघेतद् वीर्यमर्जुनस्य, किमस्माकं बले न सन्ति प्रतियोडारोऽर्जुनस्य । * विद्यारक्षितं विद्याधरम् ।

दूतघटोत्कचम् । धृतराष्ट्रः पुत्र! यदि, के। दुर्योधनः-ननु कर्ण एव तावत् । धृतराष्ट्रः अहो हास्यः खलु तपस्वी कर्णः । दुर्योधनः--केन कारणेन । धृतराष्ट्रः-श्रूयतां, शक्रापनीतकवचोऽर्धरथः प्रमादी व्याजोपलब्धविफलास्त्रबलो घृणावान् । कर्णोऽर्जुनस्य किल(चा? या)स्यति तुल्यभावं यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ॥ २३ ॥ शकुनिः-प्रभवति भवानस्मानवधीरयितुम् । धृतराष्ट्रः-शकुनिरेष व्याहरति । भोः शकुने ! त्वया हि यत् कृतं कर्म सततं द्यूतशालिना। तत् कुलस्यास्य वैराग्निर्बालेप्वपि न शाम्यति ॥ २४॥ दुर्योधनः-- अये, भूमिकम्पः सशब्दोऽयं कुतोनु सहसोत्थितः। उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ॥ २५ ॥ धृतराष्ट्रः पुत्र! एवं मन्ये, सुव्यक्तं निहतं दृष्ट्वा पौत्रमायस्तचेतसः । उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः॥ २६ ॥ - ६२ दूतघटोत्कचम् । दुर्योधनः-जयत्रात! गच्छ , पाण्डवशिबिरे शङ्खपटह- सिंहनादरवोन्मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम् । यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) संशप्त- कानीकनिवाहितप्रतिनिवृत्तेन धनञ्जयेन निहतं पुत्रमङ्कस्थमश्रु- भिः परिषिच्य जनार्दनावत्सितेन प्रतिज्ञातं किलानेन । दुर्योधनः- किमिति किमिति । भटः भटः - तस्यैव व्यवसायतुष्टहृदयैस्तहिक्रमोत्साहिभि- स्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रकर्षात् कृतः । आक्रान्ता गुरुभिर्धराधरवरैः संक्षेपितैः पार्थिवै- भूमिश्चागतसम्भ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता॥२७॥ - धृतराष्ट्र:- प्रतिज्ञा(सा?स्व)रमात्रेण कम्पितेयं वसुन्धरा । सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ॥ २८ ॥ दुर्योधनः-किमनेन प्रतिज्ञातम् । भटः येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः। श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् ॥ २९ ॥ इति।

दूतघटोत्कचम् । दुर्योधनः -प्रतिज्ञाव्याघाते प्रयत्नमनुतिष्ठामि । धृतराष्ट्र:-पुत्र ! किं करिष्यसि । दुर्योधनः -ननु सर्वाक्षौहिणीसन्दोहेनच्छादयिष्ये जय- द्रथम् । अपिच, द्रोणोपदेशेन यथा तथैव संयोजये व्यूहमभेद्यरूपम् । खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः ॥ ३० ॥ धृतराष्ट्र:- अपि प्रविष्टं धरणीमप्यारूढं नभःस्थलम् । सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ॥३१॥ भटः क्रूरमेवं नरपतिं नित्यमुद्यतशासनम् । यः कश्चिदपरो ब्रूयान्न तु जीवेत् स तत्क्षणम् ॥३२॥ (ततः प्रविशति घटोत्कचः) एष भोः ! घटोत्कचः प्रयामि सौभद्रविनाशचो(द)क दिदृक्षुरद्यारिमनार्यचेतसम् ।

६५ दूतघटोत्कचम् । विचिन्तयंश्चक्रधरस्य शासनं यथा गजेन्द्रोऽङ्कुशशङ्कितो बलिम् ॥ ३३ ॥ (अधो विलोक्य) इदमन्योपस्थानद्वारमुखम् । यावदवतरामि । (अवतीर्य) आत्मनैवात्मानं निवेदयिष्ये । हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो द्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम् । दुर्योधनः- एह्येहि प्रविश स्वशत्रुभवनं कौतूहलं मे महद् धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः॥ ३४ ॥ घटोत्कचः - (प्रविश्य) अये अयमत्रभवान् धृतराष्ट्रः । अयं ननु ललितगम्भीराकृतिविशेषः । आश्चर्यमाश्चर्यम् । वृद्धोऽप्यनाततवली(शुत्रशत)संहतांसः श्रद्धेयरूप इव पुत्रशतस्य धृत्या। मन्ये सुरैस्त्रिदिवरक्षणजातशङ्क- स्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ॥३५॥ पितामह ! अभिवादये घटोत्क, न न, युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति। पश्चाद् घटोत्कचोऽहमभिवादये । धृतराष्ट्र: एह्येहि पुत्र!(?) , ३ हिडिम्बापुत्र! इति वा पौत्र । इति वा संबोधनमिदं स्यात् ।

६५ दूतघटोत्कथम् । न मे (प्रियादारवमिदं?) ममापि यद् भ्रातृनाशाद् व्यसितस्तवात्मा । इत्थं च ते नानुगतोऽयमों मत्पुत्रदोषात् कृपणीकृतोऽस्मि ॥३६॥ घटोत्कचः- अहो कल्याणः खल्वत्रभवान् । कल्या- णानां प्रसूतिं पितामहमाह भगवांश्चक्रायुधः । धृतराष्ट्र:-(आसनादृत्थाय) किमाज्ञापयति भगवांश्चक्रायुधः। घटोत्कचः न न न, आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः। धृतराष्ट्र:- यदाज्ञापयति भगवांश्चक्रायुधः । (उपविशति) घटोत्कचः-पितामह ! श्रूयतां-हा वत्स ! अभिमन्यो ! हा वत्स! कुरुकुलप्रदीप! हा वत्स! यदुकुलप्रवाल! तव जननीभ्रातरं जनार्दनं मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि । पितामह ! एकपुत्र विनाशादर्जुनस्य तावदी- दृशी खल्ववस्था, का पुनर्भवतो भविष्यति । ततः क्षिप्रमिदानी- मात्मबलाधानं कुरुष्व, यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत् प्राणमयं हविरिति । धृतराष्ट्र:-- सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् । पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे धृतः ॥ ३७ ॥ धनूरेखान्तर्गतं 'प्रियाख्यानमिदम्' इति वा 'प्रियं वाक्यमिदम्' इति वा पाव्यं भाति । व्यसितः दुःखितः । तवेति भ्रातरि संबन्धनीयम् ।

दूतघटोत्कचम् । दुर्योधनः - अहो हास्यमभिधानम् । घटोत्कचः-- किमेतद्वास्यते । दुर्योधनः- एतद्धास्यते । देवैमन्त्रयते सार्थ स कृष्णो जातमत्सरः । पार्थेनैकेन या वेत्ति निहतं राजमण्डलम् ॥ ३८ ॥ -- घटोत्कचः हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना। श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥ ३९ ॥ अपिच, भवतापि श्रोतव्यो जनार्दनस्य सन्देशः । दुःशासनः मा तावद् भोः! क्षत्रियावमानिन् ! पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः । सन्देशः श्रोप्यतेऽप्यन्यो नराज्ञस्तस्य सन्निधौ ॥ ४०॥ घटोत्कचः कथं कथम् । अराजा नाम भवतां चक्रा- युधः । हं भोः! मुक्ता येन ('चदा पुरा?) नृपतयः प्रभ्रष्टमानोच्छ्रया येना(?)नृपमण्डलस्य भिषतो भीष्माग्रहस्ताद् वृतम् । * अत्र 'जगपुरापतयः' इति पटनीयं भाति । जरापुरं च जरामन्धनगर स्यात् । + '' इति पाम्य भाति । तथा च अर्ध पत्नी रुक्मिणीत्यर्थः । भीमशब्दश्च भीष्मकनामधेये रुक्मिणीपितरि वर्तते।

दूतघटोत्कचम् । श्रीर्यस्याभिरता नियोगसुमुखी श्री(वृक्षावत्स)शय्यागृहे श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥ ४१ ॥ दुर्योधनः- दुःशासन! अलमलं विवादेन । राजा वा यदि वाराजा बली वा यदि वाबली । बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ॥ ४२ ॥ घटोत्कचः- अथकिम् अथकिम् । प्रभुरेव त्रैलोक्यना- थस्तत्रभवान् नारायणः, विशेषतोऽस्माकं प्रभुः । अपिच, 'अवसितमवगच्छ क्षत्रियाणां विनाशं नृपशतविनिचि(तया त्या) लाववं चास्तु भूमेः। न हि तनयविनाशादुद्यतोत्रास्त्रमु(ग्रे?क्ते): समरशिरसि कश्चित् फल्गुनस्यातिभारः ॥ ४३ ॥ शकुनिः यदि स्याद् वाक्यमात्रेण निर्जितेयं वसुन्धरा । वाक्ये वाक्ये यदि भवेत् सर्वक्षत्रवधः कृतः ॥ ४४ ॥ घटोत्कचः-रेरे! शकुनिरेप व्याहरति । भोः शकुने! अक्षान् विमुञ्च शकुने! कुरु बाणयोग्य- मष्टापदं समरकर्मणि युक्तरूपम् । * विनिचितिर्विनिचयः ।

६८ दूतघटोत्कचम् । न ह्यत्र दारहरणं न च राज्यतन्त्रं प्राणाः पणोऽत्र *रतिरुग्रफलाश्च बाणाः ॥ ४५ ॥ दुःशासनः- हेहेप्रयोगतः क्षिपसि वदसि रूक्षं लङ्कयित्वा प्रमाणं न च गणयसि किञ्चिद् व्याहरन् दीर्घहस्तः । यदि खलु तव दर्पो मातृपक्षोग्ररूपो वयमपि खलु रौद्रा राक्षसोग्रस्वभावाः ॥ ४६ ॥ घटोत्कचः शान्तं शान्तं पापम् । राक्षसेभ्योऽपि भवन्त एक क्रूरतमाः। कुतः, न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः शिरसि न तथा भ्रातुः पत्नी स्पृशन्ति निशाचराः । न च सुतवधं सङ्खये वृत्तं स्मरन्ति निशाचरा विकृतवपुषोऽ(पुत्रा?प्युग्रा)चारा घृणा न तु वर्जिता ॥ ४७ ॥ दुर्योधनः- दृतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः । गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः॥ ४८ ॥ घटोत्कचः -किं किं दूत इति मां प्रधर्षयसि। मा तावद् भोः! न दूतोऽहम् । रतिः रतिहेतव इत्यर्थः । हेतुकार्ययोरभेदोपचार आयुघृतमितिवत् । राप्रयोगतः' इति पाठ्यं भाति, 'रेरे' इति घटोत्कचेन प्राक्संबोधनकरणात । 'हीनसंबोधने तु २ इत्यमरः।

१९ दूतघटोत्कचम् । अलं वो व्यवसायेन प्रहरध्वं समागताः । ज्याच्छेदाद् दुर्बलो नाहमभिमन्युरिह स्थितः॥ ४९ ॥ महानेष कैशोरकोऽयं मे मनोरथः । अपिच, दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः । उत्तिष्ठतु पुमान् कश्चिद् गन्तुमि(च्छेद्?च्छन् )यमालयम्॥५०॥ धृतराष्ट्रः- पौत्र ! घटोत्कच ! मर्षयतु मर्षयतु भवान् । महचना(व)गन्ता भव । घटोत्कचः न शक्नोमि रोषं धारयितुम् । तथापि पि. तामहवचनाद् दृत एवास्मि । किमिति विज्ञाप्यस्तत्रभवान् -- नारायणः । - दुर्योधनः आः कस्य विज्ञाप्यम् । मद्वचनादेवं स वक्तव्या, किं व्यर्थ बहु भाषसे न खलु ते पौरु(प?ष्य)साध्या वयं दूरं नार्हति किश्चिदेव वचनं युद्धं यदा दास्यति । निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत- स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः॥५॥ इति । घटोत्कचः पितामह ! एष गच्छामि । धृतराष्ट्रः पौत्र! गच्छ गच्छ दूतघटोत्कचम्। घटोत्कचः-भो भो राजानः ! श्रूयता जनार्दनस्य पश्चिमसन्देशः, धर्म समाचर (गु?कु)रु स्वजनव्यपेक्षा यत् कासितं मनसि सर्वमिहानुतिष्ठ । जात्योपदेश इव पाण्डवरूपधारी सूर्याशुभिः सममुपैष्यति वः कृतान्तः ॥ ५२ ॥ इति। (निष्क्रान्ताः सर्वे) : दूतघटोत्कचमवसितम्। शुभं भूयात् । - मैं इह भरतवाक्यं न पश्यते ।

॥ श्रीः॥ श्रीगणेशाय नमः। महाकविश्रीभासप्रणीतं कर्णभारम् । (नान्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः नरमृगपतिवालोकनभ्रान्तनारी- नरदनुजसुप(?)वातपाताललोकः। करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः॥१॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापन- व्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय । सूत्रधारः भवतु, विज्ञातम्। सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः । निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥ (निष्क्रान्तः) प्रस्तावना।

कर्णभारम् । (ततः प्रविशति भटः) भटः- भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्व. राय-युद्धकाल उपस्थित इति । करितुरगरथस्थैः पार्थकेतोः पुरस्ताद् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य । त्वरितमरिनिना(दादै)दुःसहं लोकवीरः समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥ (पैरिक्रम्यावलोक्य) अये एषोऽङ्गराजः- समरपरिच्छदपरिवृतः शल्य- राजसहितः स्वभवनानिष्कम्येत एवाभिवर्तते । भोः ! किन्नुखलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । २ एष हि, अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः शौर्ये च सम्प्रति सशोकमुपैति धीमान् प्राप्त निदाघसमये धनराशिरुद्धः सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ ४ ॥ यावदपसामि । (निष्क्रान्तः) ३. 'विलो' क. पाठः, १. 'राजाय क. पाठः. २. 'भि' क. पाठः. ४. 'संता' क. पाठः, ५ 'धारमु' क. पाठः. --- + मुलं प्रगतः प्रमुखो मुख्यः ।

कर्णभारम् । (ततः प्रविशति यथोक्तरूपः कर्णः शल्पश्च) कर्णः मा तावन्मम शरमार्गलक्षभूताः किं प्राप्ताः क्षितिपतयः सजीवशेषाः । कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद् धनञ्जयो में ॥५॥ शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः। शल्यः बाढम् । (चोदयति) कर्णः- अहोतुखलु, अन्योन्यशस्त्रविनिपातनिकृत्तगात्र- यौधाश्ववारणरथेषु महाहवेषु । क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥ *भो! कष्टम् । पूर्व कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः । युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥ १. 'थानिर्दिष्टः क ख. पाठा. २. 'श्व' ख. पाठः. Hapnrn.danaya * 'भोः' इत्यतः मा 'स्वगतम्' इत्यपेक्षितं भाति ।

कर्णभारम् । अयं स कालः क्रमलब्धशोभनो *गुणप्रकर्षो दिवसोऽयमागतः । निरर्थमस्त्रं च मया हि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥ भो मैद्रराज! श्रूयतां ममास्त्रस्य वृत्तान्तः । शल्यः- ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् । कर्णः- पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि । शल्यः ततस्ततः। कर्णः - ततः, विद्युल्लताकपिलतुङ्गजटाकलाप- मुद्यत्प्रभावलयिनं परशुं दधानम् । क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥९॥ शल्यः ततस्ततः। कर्णः-ततस्तेन जामद(ग्निनाग्न्येिन)ममाशीर्वचनं दत्त्वा पृष्टोऽस्मि को भवान्, किमर्थमिहागत इति । ४ १. 'शल्यरा' ख. पाठ:. २. 'तस्तं भगवन्तं प्रणम्य कृताञ्जलि: स्थितोऽस्मि । ततः, वि' ख. पाठः. ३. 'त्वा को' ख. पाठः. ४. 'त्युक्तः ।' ख. पाठः. * गुणप्रकर्षों गुणवत्तर इत्यर्थः । ६ इह 'प्रकाशम्' इत्यपेक्षितं भाति ।

कर्णभारम् । शल्यः ततस्ततः॥ कर्णः- भगवन् ! अखिलान्यस्त्राण्युपशिक्षितुमिच्छामी- त्युक्तवानस्मि । शल्यः ततस्ततः। कर्णः तत उक्तोऽहं भगवता- ब्राह्मणेषूपदेशं करिष्या- मि, न क्षत्रियाणामिति । शल्यः अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः। कर्णः- ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धः। शल्यः ततस्ततः। कर्णः+- ततः कतिपयकोलातिकमे कदाचित् फलमूलस- मित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि । ततः स गुरुर्वनभ्रमणपरिश्रमान्मदके निद्रावशमुपगतः । शल्यः- ततस्ततः। कर्णः ततः, कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोधैर्यात् तदा वेदना । 'नि' ख. पाठः, २. 'दिवसाति' ख. पाठ:.

कर्णभारम् । . उत्थाय क्षतजोप्लुतः स सहसा रोषानलोद्दीपितो. बुवा मां च शशाप कालविफलान्यस्त्राणि तेसन्विति ॥१०॥ शल्यः अहो कष्टमभिहितं तत्रभवता । कर्णः-परीक्षामहे तावदस्त्रस्य वृत्तान्तम् । (तथा कृया) एता- म्यस्त्राणि निर्याणीव लक्ष्यन्ते । अपिच, इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः। गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥ शङ्खदुन्दुभयश्च निःशब्दाः। शल्यः भोः! कष्टं खल्विदम् । कर्ण:-शल्यराज! अलमलं विषादेन । हतोऽपि लभते स्वर्ग जित्वा तु लभते यशः। उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥ 11 अपिच, 1 इमे हि युद्धेवानिवर्तिताशा हयाः सुपर्णेन समाचवेगा। , 'जोक्षितः' ख पाठः. २. ' पिख. पाठ:

कर्णभारम् । श्रीमत्सु काम्बोजकुलेषु जाता रक्षन्त्येमी यद्यपि रक्षितव्यम् ॥ १३ ॥ अक्षयोऽस्तु गोब्राह्मणानाम् । अक्षयोऽस्तु पतिव्रतानाम् । अक्ष- योऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य। एष भोः, प्रसन्नोऽस्मिा। समरमुखमसह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढ्यं धर्मराजं च बड्वा । मम शरवरवेगैरर्जुनं पातयित्वा वनमिव हतसिंह सुप्रवेशं करोमि ॥ १४ ॥ ३ शल्यराज! यावद् रथमारोहावः। शल्यः बाढम् । (उभौ रथारोहणं नाटयतः) कर्णः शल्यराज! यत्रासावर्जुनस्तत्रैव चौधता मम रथः। (नेपथ्ये) (क) भो कण्ण! महत्तरं भिक्खं यामि । (क) भोः कर्ण! महत्तर भिक्षा याचे । २. 'स्त्वप' क. पाठः. १. 'न्तु मां य' क. पाठः, क.पाठः. ३. 'भोः, स' + एतदनन्तरम् 'अये शब्द इव' इति, 'शध्वनिः प्रलयसागरपोषतुल्यः' इत्यादि (श्लो. २०) पर्व चाधिकं ख. पुस्तके पठ्यते ।

कर्णभारम् । कर्णः- (आकर्ण्य) अये वीर्यवान् शब्दः । श्रीमानेव न केवलं द्विजवरो यस्मात् प्रभावो महा- नाकर्ण्य स्वरमस्य धीरमधुरं चित्रार्पिताङ्गा इव । उत्कर्णस्तिमिताश्चिता(क्षिाक्ष)वलितग्रीवार्पिताग्रानना- स्तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः॥१५॥ आहूयतां स विप्रः । नन । अहमेवाह्वयामि।भगवन् ! इत इतः। (ततः प्रविशति ब्राह्मणरूपेण शक्रः) शक्रः *भो मेघाः! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । (कर्णमुपगम्य) (क) भो कण्ण! महत्तरं भिक्खं याचेमि । कर्णः-दृढं प्रीतोऽस्मि भगवन् ! यातः कृतार्थगणनामहमय लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः । विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥ शकः .(आत्मगतम्) किन्नुखलु मया वक्तव्यम् । यदि दीर्घा- युर्भवेति वक्ष्ये, दीर्घायुभविष्यति । यदि न वक्ष्ये, मूढ इति मां (क) भोः कर्ण! महत्तर भिक्षा याचे । स्ववाहनभूतान् मेघानादिशति - भो इत्यादिना ।

७९ कर्णभारम् । परिभवति । तस्मादुभयं परिहत्य किन्नुखलु वक्ष्यामि । भवतु, दृष्टम् । (प्रकाशम्) (क) भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो । कर्णः-भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः । तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥ भगवन् ! किमिच्छसि, किमहं ददामि । शक्रः (ख) महत्तरं भिक्खं याचेमि । कर्णः-महत्तरां भिक्षां भवते प्रदारये। श्रूयन्तां मद्विभवाः, • गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुपातम् । (क) भोः कर्ण! सूर्य इव, चन्द्र इव, हिमवानिव, सागर इव, तिष्ठतु ते यशः। (ख) महत्तरां भिक्षां याचे । १. 'अ' ख. पाठः. २. 'मत्र बुद्ध्वा ह' ख. पाठः. ३. 'या' ख. पाठ:. * सन्तीत्यर्थः । प्रजापालनरूपं धर्ममवेक्ष्यैव गुणवत्ता देहाना, स्वभावातु ते गर्हिता इति तात्पर्यम्।

कर्णभारम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥१८॥ शक्रः (क) गोसहस्सं ति । मुहुत्तरं खिरं पिबामि । णेच्छामि कृष्ण! णेच्छामि । कर्णः-किं नेच्छति भगवान् । इदमपि श्रूयता, रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहुसहस्रं वाजिनां ते ददामि ॥ १९ ॥ शक्रः (ख) अस्स ति । मुहुत्त आळुहामि । णेच्छामि कण्ण! णेच्छामि । कर्णः-किं नेच्छति भगवान् । अन्यदपि श्रूयतां, मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम् । सितनखदशनानी वारणानामने रिपुसमरविमर्द वृन्दमेतद् ददामि ॥ २० ॥ (क) गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण! नेच्छामि । (ख) अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण! नेच्छामि । १. ''ख. पाठः. ६ मदेन मदजलेन सरितौ सनातसरौ रेखितावित्यर्थः, कपोलौ यस्य तत् तथाभूतम् ।

कर्णभारम् ।
८१
शक्रः (क) ग़अ त्ति । मुहुत्तअं आळुहामि । णेच्छामि
कण्ण! णेच्छामि।
कर्णः- किं नेच्छति भगवाने । अन्यदपि श्रूयताम् ।
अपर्याप्तं कनकं ददामि ।
शक्रः (ख) गह्निअ गच्छामि । (किश्चिद् गत्वा) णेच्छामि
कण्ण! णेच्छामि ।
कर्णः-तेन हि जित्वा पृथिवीं ददामि ।
शक्रः
(ग) पुहुवीए किं करिस्सं ।
कर्णः-तेन ह्यग्निष्टोमफलं ददामि ।
शक्रा-() अग्गिट्ठोमफळेण किं कय्यं ।
कर्ण:-- तेन हि मच्छिरो ददामि ।
शक्रः अविहा अविहा ।
(क) गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण! नेन्छामि ।
(ख) गृहीत्वा गच्छामि । नेच्छामि कर्ण! नेच्छामि ।
(ग) पृथिव्या किं कारष्यामि ।
(घ) अग्निष्टोमफलेन किं कार्यम् ।
२. 'न् । ते' क. पाठः.
३. 'तेण'
1. 'मि । (आरुह्यावलोक्य) णे' क. पाठः.
क. पाठः,

८२ कर्णभारम् । कर्णः- न भेतव्यं न भेतव्यम् । प्रसीदतु भगवान् । अन्यदपि श्रृयताम् । अझैः सहैव जनितं मम देहरक्षी देवासुरैरपि न भेद्यमिदं सहास्त्रैः। देयं तथापि कवचं सह कुण्डलाभ्यां प्रीत्या मया भगवतो रुचितं यदि स्यात् ॥२१॥ शक्रः (सहर्षम् ) (क) देदु देदु। कर्णः (आत्मगतम्) एष एवास्य कामः । किन्नुखल्वनेक- कपटबुद्धेः कृष्णस्योपायः । सोऽपि च भवतु । धिगयुक्तमनुशो- चितुम् । नास्ति संशयः । (प्रकाशम्) गृह्यताम् । - शल्यः अङ्गराज! न दातव्यं न दातव्यम् । कर्णः शल्यराज! अलमलं वारयितुम् । पश्य, शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः। जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥ --- (क) ददातु ददातु। १. 'न् । अपर्याप्तं कनकं ददामि। शक्रः-आणीभ गच्छामि। णेच्छामि कण्ण! णेच्छामि। कर्णः-अ' क. पाठः. २. 'तो' क. पाठः. ३. 'क्षौ' क, पाठः. 'ये' ब. पाठः, कर्णभारम् । तस्माद् गृह्यताम् । (निकृत्य ददाति) शक्रः- (गृहीत्वा आत्मगतम्) गृहीते एते । पूर्वमेवा(हम ?)- र्जुनविजयार्थ सर्वदेवैर्यत् समर्थितं, तदिदानी मयानुष्ठितम् । त- स्मादहमप्यैरावतमारुह्योर्जुनकर्णयोर्युद्धविशेषं पश्यामि। (निष्क्रान्तः) अङ्गराज! वञ्चितः खलु भवान् । कर्णः-केन । शल्यः शक्रेण । शल्यः कर्णः न खलु । शकः खलु मया वञ्चितः । कुतः, अनेकयज्ञाहुतितर्पितो द्विजैः किरीटिमान् दानवसङ्घमर्दनः । सुरद्विपारफालनकर्कशाङ्गुलि- मया कृतार्थः खलु पाकशासनः ॥ २३ ॥ (प्रविश्य ब्राह्मणरूपण) देवदूतः - भोः कर्ण! कवचकुण्डलग्रहणपश्चात्तापेन पुर- 1. 'मया समर्थितमिदमनु' क. पाठः. २. 'ह्य मत्पुत्रयोरर्जुन + + + द्वन्द्वयुद्धं प' क. ३. 'तो भ' क. पाठः. ४. 'णात् प' ख. पाठः. पाठः. $ किरीढिमान् भर्जुनवान् । किरीटिना स्वायत्तेनापि शक्रो न कृतार्थः, किन्तु मयैव कृतार्थ इति विशेष ध्वनायितुमिदं विशेषणम् ।

कर्णभारम् । न्दरेणानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं गृह्यताम् । कर्णः-धिग्, दत्तस्य न प्रतिगृह्णामि । देवदूतः- ननु ब्राह्मणवचनाद् गृह्यताम् । कर्णः-ब्राह्मणवचनमिति । न मयातिकान्तपूर्वम् । कदा , लभेय । देवदूतः- यदा स्मरसि तदा लभस्व । कर्णः- बाढम् । अनुगृहीतोऽस्मि । प्रतिनिवर्ततां भवान् । देवदूतः-- बाढम् । (निष्क्रान्तः) कर्णः शल्यराज! यावद् रथमारोहावः । शल्यः बाढम् । (रंथारोहणं नाटयतः) कर्णः- अये शब्द इव श्रूयते । किन्नुखल्विदम् । शङ्खध्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत् स तु फल्गुनस्य । नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४ ॥ १. 'ब्राह्मणः-न न, ब्रा' क. पाठ:. २. 'ब्राह्मण:--' क. पाठः. ३. 'ब्राह्मण: क. पाठः. ४, 'हयावः' क. पाठः. ५. 'आरुह्य) क. पाठ:. ६. 'तुल्य. घोषः कृ' क. पाठः.

कर्णभारम् । 24 शल्यराज! यत्रासावर्जुनः, तत्रैव चोद्यतां मम रथः । शल्यः बाढम्। (भरतवाक्यम्) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा । राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५ ॥ (निष्क्रान्ती) कर्णभारमवसितम्। - शुभं भूयात् । 1. 'कवचाई समाप्तम् ।' ख. पाठः, क. पुस्तके भरतवाक्यं नास्ति ।

No text on this page.

॥श्रीः॥ श्रीगणेशाय नमः। महाकविश्रीभासप्रणीतम् ऊरुभङ्गम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः- भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥१॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा- पनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) एते स्मो भोः! एते स्मः। सूत्रधारः-भवतु, विज्ञातम् । (प्रविश्य) पारिपार्श्वकः--भाव! कुतोनुखल्वेते,

ऊरभङ्गम् ।
स्वर्गार्थमाहवमुखोद्यतगात्रहोमा
नाराचतोमरशतैर्विषमीकृताङ्गाः।
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-
रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २॥
सूत्रधारः मा(र्ष ? रिष!) किं नावगच्छसि । तनयश-
तनयशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशिष्टे
युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,
एतद् रणाहतगजाश्वनरेन्द्रयौधं
सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥
(निष्क्रान्तौ)
स्थापना।
(ततः प्रविशन्ति भटास्त्रयः)
सर्वे
एते स्मो भोः! एते स्मः ।
प्रथमः-
वैरस्याक(तीथ)नं बलस्य निकषं मानप्रतिष्ठागृह
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
सम्प्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसङ्गमम् ॥४॥

ऊरुभङ्गम्।
(९
द्वितीयः
सम्यग् भवानाह।
उपलविषमा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः।
अवनिपतयः स्वर्ग प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत् कृत्वा चिरं निहताहताः ॥५॥
तृतीयः- एवमेतत् ।
करिवरकरयूपो बाणविन्यस्तदर्भो
हतगजचयनोच्चो वैरवसिप्रदीप्तः।
ध्वजविततविमानः सिंहनादोच्चमन्त्रः
पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६॥
प्रथमः इदमपरं पश्येतां भवन्तौ।
एते परस्परशरैर्हतजीवितानां
देहै रणाजिरमहीं समुपाश्रितानाम् ।
कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा
राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७ ॥
द
द्वितीयः
प्रसक्तनाराचनिपातपातितः
समग्रयुद्धोद्यतकल्पितो गजः।
विशीर्णवर्मा सशरः सकार्मुको
नृपायुधागारमिवावसीदति ॥ ८ ॥

९०
ऊरुभङ्गम् ।
तृतीयः-इदमपरं पश्येतां भवन्तौ ।
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं
रनोल्यै)कसायक(वीध)रं रथिनं विपन्नम् ।
जामातरं प्रवहणादिव बन्धुनार्यो
हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥
सर्वे--अहोतुखलु निहतपतितगजतुरगनररुधिरकलिल-
भूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचक.
(ब)न्धादिपर्याकुलस्य शक्तिप्रासहाटकभिण्डिपालशूलमुसलमुद्ग-
रवराहकर्णकणयकर्पणशकुत्रासिगदादिभिरायुधैराकीर्णस्य सम-
न्तपञ्चकस्य प्रतिभयता।
--
प्रथमः -इह हि,
रुधिरसरितो निस्तीर्यन्ते हतद्विपसमा
नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः।
पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः
पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥
द्वितीयः- इदमपरं पश्येतां भवन्तौ । एते,
गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा
दैत्येन्द्रकुञ्जरनताङ्कशतीक्ष्णतुण्डाः।
भान्त्यम्बरे विततलम्बविकीर्णपक्षा
मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥

जरुभङ्गम् । ९१ तृतीयः एषा निरस्तहयनागनरेन्द्रयौधा व्यक्तीकृता दिनकरोग्रकरैः समन्तात् । नाराचकुन्तशरतोमरखगकीर्णा तारागणं पतितमुबहतीव भूमिः ॥ १२ ॥ प्रथमः-ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः। इह हि, (सत्रो?) हर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमकुटव्याविद्धसंवर्तिका । वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता निष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः॥१३॥ द्वितीयः-ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवति । न शक्यं खलु विषमस्थैः पुरुषै राजबला(दा?धा)नं कर्तुम् । तृतीयः-किं(चि?च)रे(भ?) प्रभवति क्षत्रियाणामिति । प्रथमः -कः संशयः। 'द्वितीयः मा मा भवानेवम् । स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं खर्गानन्दहरं निवातकवचप्राणोपहारं धनुः । • सिप्रो' इति स्थात् । 'सिप्रो निदाघसलिले' इति मेदिनी । * 'तृतीय' इति स्मात् ।

ऊरुभनम् । अये शब्दः। पार्थेना(द्रोद्य) बलान्महेश्वररणक्षेपावशिष्टैः शरै- दोसिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः॥१॥ सर्वे किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही। किं मुश्चत्यनिलावधूतचपलक्षुब्धोमिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥१५॥ भवतु , पश्यामस्तावत् । (सर्वे परिक्रामन्ति) प्रथमः-अये एतत् खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदु- र्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदै- वताना प्रत्यक्षं प्रवृत्तं गदायुद्धम् । द्वितीयः भीमस्योरसि (तप्त)काञ्चनशिलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले। अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥१६॥ m * प्रतिप्रहं प्रति कर्तुम॒त्योरिह शेषत्वविवक्षणात् षष्ठी ।

अरुभनम् । तृतीयः-एष महाराजः, शिष्टोत्कम्पनवल्गमान मकुटः क्रोधाधिकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः । यस्यैषा रिपुशोणिताकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरि(वोग्रचरिताद्धोता?) महेन्द्राश(पि?निः)॥१७॥ प्रथमः-एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद् दृश्यता पाण्डवः। निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्फ्रेनिर्गलितप्रहाररुधिरैराीकृतोरःस्थलः । भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढवणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥ द्वितीयः भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति । चारी गतिं प्रचरति प्रहरत्यभीक्ष्णं संशिक्षितो नरपतिबलवांस्तु भीमः ॥ १९ ॥ + वलामानेति चानशन्तं बोध्यम् । + 'वाप्रशिखरोद्धृता' इति पाठ्यं भाति ।

अरुभनम् । तृतीयः- एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तागात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः । प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥ एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः द्वितीयः दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः । तृतीयः- स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्दीक्षते सर्वे- शिष्यप्रीतितया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥ प्रथमः एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलि- युक्तोऽभिमानविनयधुतिसाहसैश्च । वाक्यं वदत्युपहसन्न तु भीम! दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥ द्वितीयः-एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमू- रुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः ।

जरुभगम् । -- तृतीयः- एष संज्ञया समाश्वासितो मारुतिः, संहृत्य भृकुटी ललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां प्रतिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् । पुत्रं दीनमुदीक्ष्य 'सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन सिंहवृषेक्षणः क्षितितलाद् भूयः समुत्तिष्ठति ॥ २३ ॥ प्रथमः हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिक सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता । त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥२४॥ सर्वे हा धिक् पतितो महाराजः । तृतीयः - एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराज दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । (य एषः?); हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतो दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया । सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णकरावलम्बितगतिनिर्वाह्यते पाण्डवैः॥२५॥ प्रथमः--अये अयमप्यमर्षोन्मीलित(रभसं?)लोचनो भीम- * सर्वगतिना वायुना । $ 'द्वितीयः-' इति स्यात् ।

ऊरुभाम् । सेनापक्रमणमुट्ठीक्षमाण इत एवाभिवर्तते भगवान् हलायुधः। य एषः, प्रचलललितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किश्चिदुत्कृष्य मालाम् । असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥ द्वितीयः तदागम्यतां वयमपि तावन्महाराजस्य प्रत्य- नन्तरीभवामः। उभौ-बाढम्। प्रथमः कल्पः । (निष्क्रान्ताः) विष्कम्भकः। (ततः प्रविशति बलदेवः) बलदेवः - भो भोः पार्थिवाः! न युक्तमिदम् । मम रिपुबलकालं लागलं लवयित्वा रणगतमतिसन्धि मां च नावेक्ष्य दर्पात् । रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृद्ध्या पातितः पातयित्वा ॥ २७ ॥ भो दुर्योधन! मुहूर्त तावदात्मा धार्यताम् । * परिवेष एव पारिवेषः । स्वार्थेऽण् । तद्वान् पारिवेषी । • पातित इत्यर्थाद् दुर्योधनः।

ऊरुभङ्गम् । सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् । हन्तोत्क्षि(ताप्योहलं करोमि रुधिरस्वेदापाकोत्त(?रे) भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥ (नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः। बलदेवः- एवंगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । एषः, श्रीमान् संयुगचन्दनेन रुधिरेणानुलिप्तच्छवि- भूसंसर्पणरेणुपाटलभुजो बालबतं ग्राहितः । निवृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरै- राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥२९॥ (ततः प्रविशति भग्नोरुयुगलो दुर्योधनः) दुर्योधनः- एष भोः! भीमेन भित्त्वा समयव्यवस्था गदानिपातक्षतजर्जरोरुः । भूमौ भुजाभ्यां परि(कर्ष?कृष्य)माणं खं देहम?परतं वहामि ॥ ३० ॥ * केदारमार्गे आकुलं व्यापारव्यग्रम् । उरोरूपेऽधिकरणे केदारमार्गव्यापारोक्त्या उरस: केदाराभेदोऽर्थसिद्धः ।

ऊरभङ्गम् । प्रसीदतु प्रसीदतु भगवान् हलायुधः । त्वत्पादयोर्निपतितं पतितस्य भूमा- वेतच्छिरः प्रथममद्य विमुञ्च रोषम् । जीवन्तु ते कुरुकुलस्य निवापमेघा वैरं च विग्रहकथा च वयं च नष्टाः ॥ ३१ ॥ बलदेवः-भो दुर्योधन! मुहूर्त तावदात्मा धार्यताम् । दुर्योधनः-किं भवान् करिष्यति । बलदेवः श्रूयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै- निर्दारितांसहृदयान्मुसलप्रहारैः । दास्यामि संयुगहतान् सरथाश्वनागान् स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२ ॥ दुर्योधनः- मा मा भवानेवम्। प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् । मयि चैवं गते राम! विग्रहः किं करिष्यति ॥ ३३ ॥ बलदेवः-(त?म)त्प्रत्यक्ष वञ्चितो भवानित्युत्पन्नो मे रोषः। दुर्योधनः वश्चित इति मां भवान् मन्यते बलदेवः कः संशयः। दुर्योधनः----हन्त भोः ! दत्तमूल्या इव मे प्राणाः। कुतः, - ऊरुभाम् । ९९ आदीप्तानलदारुणाजतुगृहाद् बुद्ध्यात्मनिर्वाहिणा युद्धे वैश्रवणालयेऽचलशिलावेग(प्रतीसालिना?)। भीमेनाद्य हिडिम्बराक्षसपतिप्राणप्रतिग्राहिणा यद्येवं समवैषि मां छलजितं भो राम! नाहं जितः॥ ३४ ॥ बलदेवः भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्था- स्थति। दुर्योधनः- किं चाहं भीमसेनेन वञ्चितः । बलदेवः अथ केन भवानेवंविधः कृतः । 'राजा श्रूयतां , येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया। तीवां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रिय- स्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः॥ ३५ ॥ (नेपथ्ये) (क) उस्सरह अय्या! उस्सरह । बलदेवः- (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रो गान्धा- (?) दुर्जयेनादेशितमार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदय iii.irani................. ....................... (क) उत्सरतार्याः! उत्सरत । married * 'प्रतीसारिणा' इति स्यात् । * राजा दुर्योधनः ।

१०० ऊरुभङ्गम् । इत एवाभिवर्तते । य एषः, वीर्याकरः सुतशतप्रविभक्तचक्षु- दोद्यतः कनकयूपविलम्बबाहुः । सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्क- देवररातितिमिराञ्जलिताडिताक्षः(?) ॥ ३६ ॥ (ततः प्रविशति धृतराष्ट्रो गान्धारी देव्यौ दुर्जयश्च ) धृतराष्ट्र पुत्र! कासि। गान्धारी--(क) पुत्तअ! कहिं सि । देव्या--- (स) महाराअ ! कहिं सि । धृतराष्ट्र भोः! कष्टम् । वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम | मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥ ३७ ॥ गान्धारि! किं धरसे। गान्धारी- (ग) जीवाविद मि मन्दभाआ । देव्यो-- (1) महाअ ! महाराअ!। re- (क) पुत्रक! कागि । (ख) महाराज! कुत्रासि । (ग) जीवितास्मि मन्दभागा (घ) महाराज ! महाराज!।

ऊरुभाम् । राजा--भोः! कष्टम् । यन्ममापि स्त्रियो रुदन्ति । पूर्व न जानामि गदाभिघात- रुजामिदानीं तु समर्थयामि । यन्मे प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि ॥ ३८ ॥ धृतराष्ट्रः गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी। गान्धारी- (क) महाराअ! ण दिस्सदि । धृतराष्ट्र:- कथं न दृश्यते । अद्यास्मि, योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि । कृतान्तहतक! रिपुसमरविमर्द मानवीर्यप्रदीप्तं । सुतशतमतिधीरं वीरमुत्पाद्य मा(नं.नी) । धरणितलविकीर्ण किं स योग्यो न भोक्तुं सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९ ॥ गान्धारी--(ख) जाद! सुयोधण! देहि मे पडिवअणं। पुत्तसदविणासदुक्खिदं महाराअं च मन्दभाअंप (क) महाराज! न दृश्यते । (ख) जात ! सुयोधन ! देहि मे प्रतिवचनम् । पुत्रशतविनाशदुःखितं महाराज च मन्दभागम् । mami | 'संभावेहि' इति शेषः ।

१०२ जरुभाम् । बलदेवः-अये इयमत्रभवती गान्धारी। या पुत्रपौत्रवदनेष्वकुतूहलाक्षी 'दुर्योधनास्तमितशोकनिपीतधैर्या । अरजस्रमधुना पतिधर्मचिह्न- मार्दीकृतं *नयनबन्धमिदं दधाति ॥ ४० ॥ धृतराष्ट्र:-पुत्र! दुर्योधन! अष्टादशाक्षौहिणीमहाराज! कासि । राजा अद्यास्मि महाराजः । धृतराष्ट्रः-पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् । दुर्योधनः--(अन्य)न्ददामि खलु वृत्तान्तम् । अनेन वृत्तान्तेन ब्रीलितोऽस्मि । धृतराष्ट्र:-एहि पुत्र! अभिवादयस्व माम् । राजा-अयमयमागच्छामि । (उत्थानं रूपयित्वा पतति) हा धिक् । अयं मे द्वितीयः प्रहारः। कष्टं भोः ! हृतं मे भीमसेनेन गदापातकचग्रहे । सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥४१॥ * नयनं बनातीति + दुर्योधनस्यास्तमितेनास्तमयेन यः शोकः, तेन निपीतधैर्या । नयनबन्धं नयनाच्छादनवनमित्यर्थः ।

जरुभङ्गम् ।
१०३
गान्धारी-(क) एत्थ जादा!।
देव्यौ-(ख) अय्ये! इमा म ।
गान्धारी . (ग) अण्णेसह भत्तारं।
देव्यौ
(घ) गच्छामि मन्दभाआ।
धृतराष्ट्र:-क एष भोः! मम वस्त्रान्तमाकर्षन् मार्गमा-
देशयति ।
दुर्जयः (ङ) ताद ! अहं दुज्जयो।
धृतराष्ट्रः-पौत्र! दुर्जय! पितरमन्विच्छ ।
दुर्जयः--- (च) परिस्सन्तो खु अहं ।
धृतराष्ट्रः गच्छ, पितुरङ्के विश्रमयिष्यसि ।
दुर्जयः (छ) ताद! अहं गच्छामि । (उपसृत्य) ताद!
कहिं सि ।
(क) अत्र जाते!।
(ख) आर्ये ! इमे स्वः ।
(ग) अन्वेषेथां भर्तारम् ।
(घ) गच्छामि मन्दभागा(?) ।
(ङ) तात! अहं दुर्जयः ।
(च) परिश्रान्तः खल्वहम् ।
(छ) तात! अहं गच्छामि । तात! कुत्रासि ।

१०४ ऊरुमङ्गम् । राजा अये अयमप्यागतः। सर्वावस्थायां हृदयसन्नि- हितः पुत्रस्नेहो मां दहति । कुतः, दुःखानामनभिज्ञेयो ममाङ्कशयनोचितः । निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२ ॥ दुर्जयः -(क) अअं महाराओ भूमीए उवविट्ठो । राजा पुत्र ! किमर्थमागतः। दुर्जयः-- (ख) तुवं चिरायसि त्ति । राजा अहो अस्यामवस्थायां पुत्रस्नेहो हृदयं दहति । दुर्जयः-- (ग) अहं पि खु दे अङ्के उवविसामि। (अङ्कमा- रोहति) राजा-(निवार्य) दुर्जय ! दुर्जय ! भोः! कष्टम् । हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् । सोऽयं कालविपर्यासाञ्चन्द्रो वह्नित्वमागतः ॥ ४३ ॥ दुर्जयः-- (घ) अङ्के उववेसं किंणिमित्तं तुवं वारेसि । (क) अयं महाराजो भूम्यामुपविष्टः । (ख) त्वं चिरायसीति । (ग) अहमपि खलु ते अङ्के उपविशामि । (घ) अङ्के उपवेशं किनिमित्तं त्वं वारयसि ।

ऊरुभङ्गम् । त्यक्त्वा परिचितं पुत्र! यत्रतत्र त्वयास्यताम् । अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४ ॥ दुर्जयः- (क) कहिंणुखु महाराओ गमिस्सदि । राजा-भ्रातृशतमनुगच्छामि । दुर्जयः- (ख) मं पि तहिं णेहि । गच्छ पुत्र! वृकोदरं ब्रूहि । दुर्जयः (ग) एहि महाराअ! अण्णेसीअसि । राजा पुत्र! केन। दुर्जयः (घ) अय्याए, अय्येण, सम्वेण अन्तउरेण अ । गच्छ पुत्र! नाहमागन्तुं समर्थः दुर्जयः - ( ) अहं तुवं णइस्सं । राजा-- बालस्त्वमसि पुत्र !। दुर्जयः (परिक्रम्य) (च) अय्या! अअं महागओ। (क) कुत्रनुखलु महाराजो गमिष्यति । (ख) मामपि तत्र नय । (ग) एहि महाराज! अविष्यसे । (घ) आर्ययार्येण सर्वेणान्त.पुरेण च । ङ) अहं त्वां नेष्यामि । (च) आर्याः! अयं महाराजः । -- ऊरमझम् । देव्यो--(क) हा हा महाराओ। कासौ महाराजः । -- धृतराष्ट्रः गान्धारी (ख) कहिं मे पुत्तओ। दुर्जयः - (ग) अअंमहाराओ भूमीए उवविट्ठो। धृतराष्ट्र:- हन्त भोः! किमयं महाराजः । यः काञ्चनस्तम्भसमप्रमाणो लोके किलको वसुधाधिपेन्द्रः। कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥ ४५ ॥ गान्धारी -- (घ) जाद! सुयोधण! परिस्सन्तो सि । राजा भवत्याः खल्वहं पुत्रः। धृतराष्ट्रः -- केयं भोः!। गान्धारी--(ङ) महाराअ! अहमभीदपुत्तप्पआइणी । (क) हा हा महाराजः । (ख) कुत्र मे पुत्रकः । (ग) अयं महाराजो भूम्यामुपविष्टः । (घ) जात! सुयोधन ! परिश्रन्तोऽसि । (ङ) महाराज! अहमभीतपुत्रपदायिनी ।

ऊरुभङ्गम् । १०७ राजा अधोत्पन्नमिवात्मानमवगच्छामि । भोस्तात! कि- मिदानी वैक्लव्येन । धृतराष्ट्रः-पुत्र! कथं विक्लबो भविष्यामि । यस्य वीर्यबलोसिक्तं संयुगाध्वरदीक्षितम् । पूर्व भ्रातृशतं नष्टं त्वय्येकस्मिन् हते हतम् ॥ ४६ ॥ (पतति) हा धिक् । पतितोऽत्रभवान् । तात! समाश्वास- यात्रभवतीम् । धृतराष्ट्रः--पुत्र! किमिति समाश्वासयामि । राजा अपराङ्मुखो युधि हत इति । भोस्तात! शोक- निग्रहेग क्रियतां ममानुग्रहः । त्वत्पादमात्रप्रणताग्रमौलि- ज्वलन्तमप्यग्निम् अचिन्तयित्वा । येनैव मानेन समं प्रसूत- स्तेनैव मानेन दिवं प्रयामि ॥ ४७ ॥ धृतराष्ट्रः वृद्धस्य मे जीवितनिस्पृहस्य निसर्गसम्मीलितलोचनस्य । + नित्याराधनविषयं गृहानिमित्यर्थः ।

१०८ ऊरुभङ्गम् । भोः! कष्टम् । धृतिं निगृह्यात्मनि सम्प्रवृत्त- स्तीवः समाक्रामति पुत्रशोकः ॥ ४८ ॥ बलदेवः दुर्योधननिराशस्य नित्यास्तमितचक्षुषः । न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनाम् ॥ १९ ॥ राजा विज्ञापयाम्यत्रभवतीम् । गान्धारी (क) भणाहि जाद!। राजा- - नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् । अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥ ५० ॥ गान्धारी-(ख) मम मणोरहो खु तुए भणिदो । राजा मालवि! त्वमपि शृणु। भिन्ना मे भृकुटी गदानिपतितैर्या ? ा)युद्धकालोत्थित- वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः। पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ भर्ता ते नपराङ्मुखो युधि हतः किं क्षत्रिये ! रोदिषि ॥५१॥ देवी-(ग) बाळा एसा सहधम्मचारिणी रोदामि । (क) भण जात!। (ख) मम मनोरथः खलु त्वया भणितः । (ग) बाला एषा सहधर्मचारिणी रोदिमि ।

ऊरुभङ्गम् । १०९ - राजा पौरवि! त्वमपि शृणु। वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः शत्रूणामुपरि स्थितं प्रियश(तं न ? तान्न)व्यंसिताः संश्रिताः। युद्धेऽष्टादशवाहिनीनृपतयः सन्तापिता निग्रहे मानं मानिनि! वीक्ष्य में नहि रुदन्त्येवंविधानां स्त्रियः॥५२॥ पौरवी-- (क) एक्ककिदप्पवेसणिच्चआ ण रोदामि । राजा दुर्जय! त्वमपि शृणु। धृतराष्ट्रः गान्धारि! किन्नुखलु वक्ष्यति । गान्धारी (ख) अहं पि तं जव्य चिन्तेमि । अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्या- श्वाम्बायाः कुन्त्या निदेशो वर्तयितव्यः। अभिमन्योर्जननी द्रौपदी चोभे मातृवत् पूजयितव्ये । पश्य पुत्र ! श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज । राजा (क) एककृतप्रवेशनिश्चया न रोदिमि । (ख) अहमपि तदेव चिन्तयामि । + एतदुत्तरं 'न स्वया शोचितुं युक्तम्' इति गम्यमर्थमादाय वाक्यं पूरणीयम् । ततः सामान्य न्यायोपन्यासो नहीत्यादिना। * शुश्रूषितच्या इत्यर्थः।

११० ऊरभङ्गम् । स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥५३॥ बलदेवः- अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव, सन्नाहदुन्दुभिनिनादवियोगमूके विक्षिप्तबाणकवचव्यजनातपत्रे । कस्यैष कार्मुकरवो हतसूतयोधे विभ्रान्तवायसगणं गगनं करोति ॥ ५४ ॥ (नेपथ्ये) दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः । तमेव भूयः प्रविशाम्यशून्य- मध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५ ॥ बलदेवः - अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः । सरभसमयमुग्रं कार्मुकं कर्षमाणः* सदहन इव मेरुः शृङ्गलमेन्द्रचापः ॥ ५६ ॥ + देशे इति वा काले इति वा विशेष्यं गम्यम् । * चानशन्तामदम् ।

ऊहमङ्गम् । १११ (ततः प्रविशत्यश्वत्थामा) अश्वत्थामा (पूर्वोक्तमेव पठित्वा) भोः ! समरसंरम्भोभयब- लजलधिसङ्गमसमयसमुत्थितशस्त्रनककृत्तविग्रहाः स्तोकावशे- षाः श्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः! शृण्वन्तु शृ. ण्वन्तु भवन्तः। छलबलदलितोरुः कौरवेन्द्रो न चाहं शिथिलविफलशस्त्रः सूतपुत्रश्च नाहम् । इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥ किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । (परिक्रम्य) मा तावत् । मयि गुरुनिवपनव्यग्रे वञ्चितः कुरुतिलकभूतः कुरु- राजः । क एतच्छ्रद्धास्यति । कुतः, उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करै- यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः । भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः॥५८॥ तत् कनुखलु गतो गान्धारीपुत्रः। (परिक्रम्यावलोक्य) अये अयम- भिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुरु- राजः । य एषः, ११२ ऊरुभङ्गम् । 'मौलीनिपातचलकेशमयूखजालै- र्गात्रैर्गदानिपतनक्षतशोणिताः । यात्यस्तमस्तकशिलातलसन्निविष्टः सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९॥ (उपसृत्य) भोः कुरुराज! किमिदम् । राजा - गुरुपुत्र! फलमपरितोषस्य । अश्वत्थामा-भोः कुरुराज! सत्कारमूलमावर्जयिष्यामि। राजा किं भवान् करिष्यति । अश्वत्थामा श्रूयतां , युद्धोद्यतं गरुडपृष्ठनिविष्टदेह *(वष्टाष्ट?)भीमभुजमुद्यतशाङ्गचक्रम् । कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः सङ्कीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६० ॥ राजा मा मा भवानेवम् । गतं धाञ्युत्सङ्गे सकलमभिषिक्तं नृपकुलं गतः कर्णः स्वर्ग निपतिततनुः शन्तनुसुतः । है मौलिः किरीटे धम्मिले चूडायामनपुंसकम्' इति मंदिनी । ईकारस्तु तत्र 'कृदिका- रादक्तिनः' इति डीषि। 'वष्टाष्ट' इत्यस्य स्थाने 'अष्टाध' इति पाठ्यं भाति ।

ऊरुमनाम् । शतं भ्रातॄणां मे हतमभिमुखं संयुगमुखे वयं चैवम्भूता गुरुसुत ! धनुर्मुश्चतु भवान् ॥ ६१ ॥ अश्वत्थामा भोः कुरुराज! संयुगे पाण्डुपुत्रेण गदापातकचग्रहे । सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२ ॥ राजा मा मैवम् । मानशरीरा राजानः। मानार्थमेव मया निग्रहो गृहीतः। पश्य गुरुपुत्र ! यत् कृष्टा करनिग्रहाञ्चितकचा छूते तदा द्रौपदी यद् बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः। अक्षव्याजजिता वनं वनमृगैर्यत् पाण्डवाः संश्रिता नन्वल्पं मयि तैः कृतं विमृश भो! दर्पाहत दीक्षितैः ॥६३॥ अश्वत्थामा सर्वथा कृतप्रतिज्ञोऽस्मि । भवता वात्मना चैव वीरलोकैः शपाम्यहम् । निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४ ॥ बलदेवः -- एतद् भविष्यत्युदाहृतं गुरुपुत्रेण । अश्वत्थामा हलायुधोऽत्रभवान् । धृतराष्ट्रः हन्त साक्षिमती खलु वश्चना । अश्वत्थामा--दुर्जय! इतस्तावत् । पा दपनि दाहरणम् ।

११४ ऊरभङ्गम् । पितृविक्रमदायाचे राज्ये भुजबलाजिते । विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥ राजा हन्त कृतं मे हृदयानुज्ञातम् । परित्यजन्ति मे प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत् कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैराव- तशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभि- भाषते मामभिमन्युः । (इमा) उर्वश्यादयोऽप्सरसो मामभिगताः । इमे मूर्तिमन्तो महार्णवाः । एता गङ्गाप्रभृतयो महानद्यः। एष सहनहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः। अयमयमागच्छामि। (स्वगै गतः) (यवनिकास्तरणं करोति) (धृतराष्ट्रः)- याम्येष सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् । अश्वत्थामा यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥ (निष्क्रान्ताः सर्वे) ऊरुभनमवसितम्। शुभं भूयात् । इतः प्रग् ' (भरतवाक्यम्)' इत्यपे क्षतम् ।

श्लोकानुक्रमणिका। पृष्टम् पृष्ठम् ३५ ३३ ६७ ८२ ४८ ७२ " ५१ ५६ २४ २७ ३५ २८ १११ अक्षान् क्षिपन् अक्षान् विमुन्न अङ्गैः सहैव अस्युग्रदीप्ति अद्याभिमन्यु अद्यैव दास्यामि अनुग्रहात् तु अनुभृतं महद् अनेकयज्ञाहुति अन्योन्यशस्त्र अपि प्रविष्टं अयं स काल: अरुपरवि अलं वो व्यव अवध्यां प्रमदां अवमितमवगन्छ अव्यक्तादि अस्माकं भ्रष्ट ८९ आवासाः पार्थिवानां इदं हि शून्यं इमां सागर इमे हि दैन्येन इमे हि युद्धे उत्पन्ने धार्त उत्साहेन मतिं उद्धृतरोप उद्यत्पाञ्जलयः उपलविपमा एका कुलेऽस्मिन् एकाग्रांडेंगुलि एतद् रणाहत एते++++ एते परस्पर एवं परस्पर एपा निरस्त करितुरगनिहन्ता करितुरगरथ करिवरकर ६३ २ ६० ४७ CC ८९ ६७ ४३ ९१ ४१ अस्यामाचम्य अहमवधृत १३ ४१ २२ कर्तव्यो भ्रातृषु ३९ कळभदशन ३ आक्रम्य राक्षस आक्षिप्तलाङ्गल आदीप्तानल आपदं हि पिता ९९ काञ्चनस्तम्भ १८ १७ ८ कामं न तस्य २ पृष्ठम् पृष्टम् ९२ ३८ ८ कि मेधा निनदन्ति कि मेरुमन्दर कि व्यर्थ बहु किं यासि मद्भय ६९ ३ किमहं श्रुतवान् ७ ३ ३ ७५ १० ६२ १७ १०५ १०७ ९८ ६१ कृत शरीरं कृतपरिकरबन्धी कृते वज्रमुखेन कृत्वा पुत्रवियोगाती कृष्णस्याष्टभुजो कृष्णापराभव केनाभिमन्यु केनेतन्छति ३८ ३४ जामातृनाश ज्येष्ठः श्रेष्ठः कुल ज्येष्ठा नाता तनुमृदुल तरुण तरुणता तोय त्यसाय त्यक्ता: प्रागेन त्यक्वा परिचित त्वत्पादमात्र त्वत्पादयोः त्वया हि यत् दष्टोष्ठो मुष्टि दातुमर्हसि दुःखानाम् दुःशासनपरा दुर्योधन दुर्योधने दुष्टवादी गण दूतः खलु भवान् देवा मजैर्मनुष्याणां देवैमन्त्रयते द्रोणोपदेशेन ५१ करात वपु ४ कौरव्यकुल १०४ ३२ १०८ ११० १६ ६३ ६८ ११ ११२ क्रूरमेवं नरपति ३५ ६८ क्षिपसि वदसि खगशतविरुते गतं धाव्युत्सङ्गे गुणवदमृत गृध्रा मधूक ग्रहणमुपगते ग्रहयुगल ९० ३१ ६३ ३ ९ वन्योऽस्मि यद् धर्म समाचर चितां न तावत् ५५ छलबलदलितोरुः जयद्रथेनाद्य जानामि सर्वत्र १११ ५६ धर्मात्मजो धर्मो हि यत्नेः न तु जतुगृहे ४ ६८ पृष्टम् पृष्टम् ननु त्वं चित्र प्राप्तः किलाद्य बहनां समुपेतानां बालेनैकेन ६ १९ १०८ ६५ ७१ भर्तुस्ते नून ५३ ११३ १०८ ९२ नन्वहं भीम नमस्कृत्य वदामि न मे प्रियादार नरमृगपति नारायणस्त्रि निर्भिन्नाग्र निवृत्तव्यबहारो नीचोऽहमेव पल्या चारित्र परित्रजस्व गाढं पाद: पायाद पायात् स बोऽमुर पितृविक्रम ९३ १५ ९३ ३३ tur ९ भवता वात्मना भिन्ना मे भुकुटी भीमस्योरसि भीमां गदा भीमेन भित्त्वा भीष्मद्रोणतटां भृमिकम्पः भूमौ पाणितले भोश्शदोचारणाद् भ्रातृणां मम मणिकनक मत्कार्मुकोदर मदसरितकपोलं ६१ २५ २७ १ १ पुण्यसश्चय ३८ ९ ४२ २३ ० पुत्रनक्षत्र पणेन्दुकुन्द पूर्व कुन्त्यां पूर्व न जानामि पृथिव्यां शासनं प्रचलललित प्रतिज्ञावसिते प्रतिज्ञाम्बर प्रयामि सौभद्र १०१ ६६ मध्यमः पञ्च मध्यमस्त्विति मध्यमाऽहं " ९८ ८ . ६२ ६३ मम पुत्रापराधात् मम प्राणैर्गुरु मम रिपुबल महीभारापनयनं माता किल मनुष्याणां मा तावन्मम मायापाशेन प्रसक्तनाराच प्रसाद्यमानः १६ ७३ २० प्रहरति यदि .

४ पृष्ठम् पृष्ठम् ९ १६ ३२ १६ १६ ११२ १०६ ११३ ३ रुधिरसरितो रूपं सत्त्वं बलं रोषाकुलाक्षः वज्रपातो वञ्चनानिहतं वनिताविग्रहो वने पितृव्यो विचित्रवीर्यो विद्युल्लता विनिमाय गुरु विश्वकर्ता शिवः वीर्याकरः सुत वीर्यालयो विविध १०० ४६ ३७ " ६७ ७४ ७ १९ १० १०७ ७८ १०० ९४ ५८ माल्यैर्ध्वजाय मुक्ता येन मुच्यतामिति मौलीनिपात यः काश्चन यत् कृष्टा कर यथा नदीनां यदि लवणजलं यदि स्याद् वाक्य यद्यर्थितो द्विज यस्त्रिशृङ्गा यस्य वीर्यबलो यातः कृतार्थ यातोऽभिमन्यु यान्त्यर्जुन या पुत्रपौत्र याम्येप सजन युद्धप्रियाश्च युद्धोद्यतं गरु येन मे निहतः येनेन्द्रस्य योधस्यन्दन रवितुरगसमानं राजा वा यदि राज्यं नाम रिपुसमरविमर्दै रुद्धाः पाण्डु वृद्धं भीष्मं वृद्धस्य मे १०७ १०२ ११४ ५ ( ११२ ६२ ९९ . वृद्धोऽप्यनातत वेदोक्तैर्विविधै वैरस्याक्कथनं ब्रजसि कथमिह शक्रं पृच्छ पुरा शक्रापनीत शङ्खध्वनिः प्रलय शठ! बान्धव शपामि सत्येन शिक्षा क्षयं १९ ६० ६१ ८४ ८० ४१ १८ ८२ ६७ ३८ १०१ ५६ शिरसि गुरु शिष्टोत्कम्पन ९३ ५ पृष्ठम् पृष्ठम् शैलकूटं श्यामो युवा २८ : or श्रान्तैः सुतैः श्रीमानेव न श्रीमान् संयुग सुयोधनोऽयं सुरासुराणां सुव्यक्तं निहतं सृजसि यदि सेनानिनाद ३६ ४६ ६१ ४२ ३० ४ श्रुत्वा गिरं सोऽयं खड्गः श्लाध्यश्री १७ संयुगे पाण्डु १०९ ११३ ९५ ६५ ७१ १४ ३२ ११० ३८ ५९ संहृत्य भृकुटी सक्रोधव्यव सङ्ग्रामे तुमुले सजलजलद सत्यधर्मघृणा सत्रोद्वार्तत सन्नादुन्दुभि समरमुखमसा सर्वत्र सम्पदः सर्वेषां नः पश्यतां सिंहाकृतिः कनक सिंहास्वः सिंह सौभद्रे निहते सौभोच्छिष्ट स्पृष्ट्वा खाण्डव स्फुटितकमल स्यालं तव स्वच्छन्दमृत्यु स्वर्गार्थमाहव हतोऽपि लभते हससि त्वमहं हृतं मे भीम हृदयप्रीति हेलासंवृत हे शा!ि कौमोदकि! हैडिम्बोऽस्मि ११० ७६ ६६ १०२ १०४ ७७ ८५ ५९ १२ ४६ ६४

No text on this page.

मध्यमव्ययोगः दूतवाक्यं दुतघटोतकचं कर्णभारम उरुभन्गम

Author
Shaastrii Ta Gand-apati
Title
Madhyamavyayog: Duutavaakyan Dutaghatotakachn Karnd-abhaaram Urubhangam
File name
मध्यमव्ययोगः दूतवाक्यं दुतघटोतकचं कर्णभारम उरुभन्गम
Text
OCR done
Published
2005/07/25
Publisher
Unknown
Language
Sanskrit
Pages
123
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477282
Barcode
99999990173124.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
hcYCSR9NlQI
Download PDF

मध्यमव्ययोगः दूतवाक्यं दुतघटोतकचं कर्णभारम उरुभन्गम