Central Library, University Of Rajasthan

The Shivanama Kalpalatalavala

Bhavanishankar, Pandit · 2010/04

PDF Proofread

Front matter

(२) पृष्ठाकः पृष्ठाकः मोद्धूलितविग्रहः मः जंगभूषणः :: ३८ ३१ ५२ तपतिः .. ... हादेवः हासेनजनकः इश्वरः गपाणिः ६० ६९ ५८ ११ ३२ १५ ६५ २५ २३ १० २५ ६४ १९ २३ ... ... ५६ ४३ ५९ २९ शशिशेखरः शाश्वतः शितिकंठः शिपिविष्टः शिवः शिवाप्रियः शुद्धविग्रहः शूलपाणिः श्रीकठः सदाशिवः सर्वज्ञः सहस्रपाद सहस्राक्षः सात्वि: सामप्रियः सूक्ष्मतनुः सोमः सोमसूर्यामिलोचनः स्थाणुः स्वरमयः ४१ ७४ ... ७४ १६ त्युंजयः ज्ञमयः द्रः लाटाक्षः वामदेवः "विरूपाक्षः "विश्वंभरः विष्णुवल्लभः 'वृषभारूढः • षांकः रभद्रः शेमकेशः १६ ... ... ६४ ३८ ५७ ४३ ४१ २२ ४७ อุ ३ : : oc ... ४७ ५८ ३९ ७१ :: करः शंभुः शवः १३ २४ हरिः हविः हिरण्यरेताः ४२ ४९ - प्रामाण्येनोपन्यस्तानां ग्रंथानां ग्रंथकृता च निर्देशः क्रमांक: क्रमांकः ८ १ २ ३ ९ - ... ० अग्निपुराणम् ... । अनेकार्थध्वनिमंजरी अभिनववृत्तरत्नाकरः अमरः आनुशासनिक पर्व आपस्तबकल्पः कामिके (सदाशिवप्रतिष्ठामंडलम् ) ४ काशीखण्डम् केदारम कौमम् गीता जाबालश्रुतिः जैमिनिसूत्रम् तंत्रराजा - : : १० ११ १२ १३ १५. ur ७ " (३) क्रमाक: क्रमाका ... १६ दीक्षिताः (अप्पय)... नानार्थग्नमाला पाणिनीयव्याकरणम् . पैंगलसूत्रम् ३३ ३४ ... ब्रह तर्कस्तवः ३५ ३६ ३७ ३८ . .. ... ३९ ४० २३ १५ विष्णुभागवतम वृत्तरत्नाकरः १७ शंकरसंहिता १८ शारीरकम् १९ शिवधर्मः २० शिवधर्मोत्तरम् . २१ शिवपुराणम् २२ शिवस्तवः शैवागमः २४ षदिशबाह्मणम्... २५ संग्रहः २७ सुभूति चंद्रः सौप्तिकपर्व २८ २९ सौभिकम् सौरसंहिता ३१ हरिवंशः ३२ हैमव्याकरणम् ४१ ब्रह्मांडपुराणम् ... ब्रह्मोत्तरखंडः मुंडकम् रसरत्नाकरः रामायणम् लैंगम् वराहपुराणम् वातुळशुद्वागमः वामनपुराणम् . यवीयसंहिता ... ४२ ... २६ . ... ... ४४ ४५ ४६ ४५) - सिष्ठम् विष्णुपुराणम् श्रीः। शिवनामकल्पलता। ससुधापूररत्नावालसहिता। वेदान्तगीतविभवं पुरुषं पुराणमात्मानमाद्यमनघं करुणावतीर्णम् । यस्यावलम्बनवशाद्विलयं प्रयाति विघ्नान्धकारनिचयस्तमहं भजामि ॥ १॥ आनन्दवनजानन्दलहरीजालनिर्भरः। मोक्षकपदवीनाथः श्रीनाथोऽस्तु गतिर्मम ॥२॥ अद्वैताब्धिगलत्सुधारसयुतै?तप्रभावोद्भवैः पद्यैः सूक्तिभिरुक्तवाक्यरचनैायामृताप्लावितैः ।। विद्याबोधनत प्रसिद्धविभवान्विद्वत्समाजोल्लस- गोपालेन्द्र यतीन्द्रपूज्यचरणाश्रीबालपूर्वान्भजे ॥३॥ मुक्तापीतपयोदमौक्तिकजपावणर्मुखैः पञ्चभि- रुयक्षञ्चितमिन्दुकुन्दधवलच्छायं निजातावृतम् ।। घण्टाशूलकृपाणपाशहुतभुक्टङ्काहिवज्रांकुशा- भीतिद्योतकराजमण्डिततनुं वन्दे मुदे शंकरम् ।। ४ ।। स्कान्दादौ शिवनामकल्पलतिका रूढां पुमथैः फलै- रानम्रामुपलभ्य भास्करमखी रत्तालवालं व्यधात् ।। वृत्तानां शतकं ससप्तदशकं यत्रोर्मितं तत्सुधा- सारैः पूरयति स्म व्यंकटपतिः काशीपतिप्रीतये ॥ ५॥ काहं मृढ. क्व शिवमहिमा भारतीभावदूरः क्वाह शंभोः परमधुरिमोद्दामनामस्तवेऽईः॥ स्वामिन्भुयो विषमविपया वैखरीय मदीये- स्यारम्भेऽस्मिन्नचलगतिरस्त्वद्रिकन्येव धन्या॥ ६॥ इहखल्वाखिलानिगमागमायातिविस्तृतावविधावियाप्रबन्धजालैरत्यन्तमनादिभावनैकबद्धाशमौधि- तपशान्तिमलभमानान्प्रबलकलिमलकलुषीकृतस्वान्ताजन्मवृद्धिजरामृत्युतापसंतप्तचित्तविभ्रान्तान्ब- हतरविविधविषमविषयाकरभवजलधिपतनभयाकुलायमानबाह्यान्तरभावाशान्त्यादिगुणयोग्यान्पुरु. गधौरेयान्परितः पर्यालोच्य परमकृपालुरखिलनिगमागमस्मृतिसूक्तसूत्रोतहासविद्यान्यायमन्त्रतन्त्राय- खेलसंदर्शनसंदर्भतत्वज्ञःश्रीमद्गम्भीररायभारतीदीक्षितार्यवर्यात्मजवैभवोल्लसितभारती विलासास्पदश्री- - शिवनामकल्पलता। भास्कररायदीक्षिता मचित्परमेश्वर भक्ताग्रगण्यः परमपावनीमशेषजनमनःसमाल्हादकारिणी सम- लमलकुलषापहारिणी संसारसागरोत्तारिणीमभिनवमनोहारिशिखरिणीमुखपरिगणितहरिण- परमशिवाष्टोत्तरशतामृतनामशक्तिपातपादिकां शिवनामनिर्वचनाम्या •i स्तुति प्रणिनीषुस्तत्परिसमाप्तिप्रतिबन्धकप्रत्यूहापोहाय परमपुरुषार्थसप्राप्तये पा परमशिवप्रतिपादक मङ्गलं जनानुजिघृक्षया ग्रन्थतो निबध्नाति शार्दूलविक्रीडितेन । ता. ॐ मोक्षस्यैकानिदानमन्जनयनब्रह्मेन्द्रचद्रादिभि- देवैः प्राणपदीकृतं कलिमलमध्वंसि धर्माकुरः ॥ भारत्यापि सुदुनिरूपमहिम त्रय्यन्तरे गोपितं- चतुर्मङ्गलदं शिवेति विमलं नामैव नस्तारकम् ॥ १॥ मोक्षस्यति । धर्मार्थकाममोक्षाख्यचतुर्विधपुरुषार्थेष्वपि नित्यनिरतिशयानन्दावाप्तिरूपमोक्ष परमपुरुषार्थः । न स पुनरावर्तते न स पुनरावर्तत । इति श्रुत्या तस्यैव परमत्वावगमादित्यत धनमवादो दर्शयति । मोक्षस्यैकनिदानमिति मोक्षस्य सालोक्यसामीप्यसारूप्य- .... पञ्चविधस्याप्यपवर्गस्य एकं निदानमादिकारणमित्यर्थः । अनितरसा- धनप्राप्यत्वमाविष्फर्तुमेकेति मुख्येत्यर्थः । मोक्षमुख्योपायत्वे मानमाह । अब्जन- यनेत्यादिना । तथाचानादिपुरुषोत्तमाब्जयोनिप्रभृत्यखिलसुरगणैः साधारणफलकामरेन्त ध्यानकनिष्ठेन मनसा स्थिरीकृतमित्यर्थः । नन्वनादिवासनामलदूषितान्तःकरणानामाधुनिकज नवृन्दानां कथमत्र प्रवृत्तिः स्यादत आह कलीत्यादि । कलिमलस्य कलिप्रयुक्तपापराशेः प्रध्वंसि मलोच्छेदकारीत्यर्थः। ननु स्वयमेव तध्वंस उत कारणान्तरसद्भावात् । नायः। भजनवृत्तिवेयर्थ्यादत- श्वरममाह धर्माकुर इति तथा च ‘सामानाधिकरण्यं हि तेजस्तिमिरयोः कुत । इति न्यायाद्ध- माकुरः स्वयमुत्पद्यमानस्तविरोधिलयपूर्वक एवोत्पयत इति भावः । ननु निरवधिकनिरन्तरानन्द दायिमंगलाकरपरमशिवनिजगुणगणभजनादिरूपसाधनान्तरस्यापि संभवान्नामैन मित्येवकारासंभवादित्याशंक्याह भारत्यापीति सुतरां दुःखेनापि निरूपयितुमशक्यो महिमा प्र- भावो यस्येति तत्तथा तथाच भारतीवाग्विजृम्भणस्याष्यगोचरमहिमत्वे किमस्मदुक्तिस्तत्र फलती- ति कैमुतिकन्यायान साधनान्तरसंभव इत्यपिना सूचितम् । वेदॆकप्रमाणसंवेद्यत्वं दर्शयति त्रय्य- तर इति त्रयी वेदस्तस्य यदन्तरं मध्यभागस्तस्मिन्नित्यर्थः । तथाहि ऋग्यजुःसामात्मकस्य वेदत्रयस्य योऽयं मध्यभागः सप्तकाण्डसमुदायात्मको यजर्वे-स्तस्य यो मध्यभागश्चतुर्थकाण्ड- स्तस्य यो मध्यभागः श्रीरुद्राध्यायस्तस्य यो मध्यभागो 'नमः सोमाय च? इत्यनुवाकस्तस्य यो मध भागो 'नमः शिवाय च । इतिषडाक्षरात्मकः शैवमहामन्त्रस्तन्मध्यवर्तीत्यर्थः । तथाचोक्तं शंकरसंहि- सायां ' सर्वासामपि विद्यानामुत्कृष्टा श्रुतिरुच्यते ॥ चतुर्णामपि वेदानां यजुर्वेदों विशिष्यते ॥ यजु- बेदश्चतुष्काण्डः श्रीरुद्रस्तत्र तत्र च ॥ नमः सोमाय चेत्यत्र वरा पञ्चाक्षरी मता ॥ तन्मध्ये नस्तारक.

-- ससुधापूररत्नावालसहिता। नीवरत्नं स्याच्छिव इत्यक्षरद्वयम् । इति । यद्यपि त्रय्यन्तरे गोपितमित्यस्मिन्नर्थे नेतच्छंकरसंहि- तोपबृंहणमुपपादकं चतुर्वेदान्तर्गतत्वेन पंचाक्षरवर्तितया शिव इत्यस्य प्रतिपादितत्वात् । तथापि 'सहस्रे शतम् । इतिन्यायेन त्रयीगोपितत्वमप्यस्यैवेत्यदोषः । व वक्तुर्मगलामिति घृणाक्षरन्याया- दवशोच्चारयितुरप्यत्यन्तशुभावहमित्यर्थः । अत एव स्मर्तुतियातुरित्यादिकमुपेक्षताम् । तथाचोक्तं विष्णुभागवते ' यद् यक्षरं नाम गिरोरतं नृणां सकृत्य सङ्गादघमाशु हन्ति तत् ॥ पवित्र कीर्ति तमलंघ्यशासनं भवानहो देष्टि शिवं शिवेतर " इति। विमलमिति। भाणवकार्मणमायीयाख्यमल- त्रयासस्पर्शित्वेन निर्मलमित्यर्थः । तारकमिति । परमगहनसंसारपारावारपरपारप्रापकं शिवेति नामैव नान्यदेवताप्रतिपादकं नामान्तरमित्यर्थः ॥ १॥ नन्वन्यदेवताप्रतिपादकनामान्तरस्याप्यन- सरणे किं वाधक सेव्यः श्रीपतिरेक एव जगतामित्यायभियुक्तायुक्तः । असति बाधके वस्तुमात्रस्यैवार्थप्रतिपत्तिकरत्वाच्चेत्याशंक्य साधकबाधक प्रमाणाभ्यामर्थतोऽपि शम्भुरेव सेव्यो नान्य इत्याह नग्धरया। आनन्त्यौदार्यसत्यादतिमृतिहृतिभिः स्वल्पसेवातितोषा- संकष्टोच्छिरयुत्युपेक्षाभयहितवचनैरुत्तमत्वाच शम्भुः ।। सेव्यो विष्णूपमन्युट्ठहिणमुनिमुतश्रीदमन्थेच्छुदेव- दक्षश्रीरामवेदैरशिशुपशुवधूराक्षसैः साक्षिभिर्नः ॥२॥ आनन्यति शम्भुरेव इत्येतत्साधकहेतूनुपदर्शयति । आनन्त्येत्यायुत्तमत्वादित्यन्तेन । नान्यस्मिन्नेताहशा गुणाः संभवंतीति भावः । उपदर्शितनवसंख्याकहेतुसाधकप्रमाणान्यपि नव दर्शयति । विहिवत्यादिना वेदै रित्यन्तेन तथाच । विष्ण्वादिसाक्षिका ये आनं यादयो गुणास्तेभ्यः शंम्भुरेव सेव्य इति यथाक्रममन्वयः । तथाहि आनंत्ये विष्णुः साक्षी। पुरा हि परस्परजयालिप्स्वो ब्रह्मविष्ण्वोश्चिरकालमूर्धाधःपर्यटतोरपर्यवसितायन्तभावयोर्नितान्तमन्तःश्रान्तयोर्मध्ये विष्णोः परावर्तनस्य शिवपुराणे विस्तरेण कथनात् । ब्रह्मणस्तथात्वेऽपि अनृतवचनप्रयुक्तशाप प्रात्या सत्यादृतौ साक्षित्वभवगन्तव्यम् । औदार्ये उपमन्युर्यथा महर्षेधिपादस्य तनय उपमन्युरिति प्राकृतबुद्ध्या पयःपानार्थमाराधितः शम्भुः परमोदार- क्षीरार्णवमारात्मायच्छदित्यादि। तथाचोक्तं लैंगे 'उपमन्युरिति ख्यातो मन्युश्च द्विजसत्तमः ॥ कुमार इव तेजस्वी क्रीडमानो यदृच्छया ।। कदाचित्क्षीरमल्पं स पीतवान्मातुलाश्रमे।। ईथैया मातुलसुतोऽ पिबत्क्षीरमनुत्तमम् ।। पीत्वा जलं यथाकामं दृष्ट्वा जग्राह मातरम् ॥ मातर्मातर्महाभागे मभ देहि पय- स्विनीम् । इत्यादिना क्षीरे याचिते 'दुःखिता विललापालं स्मृत्वा नैर्धन्यमात्मनः।। स्मृत्वा पुनः पुनः क्षारमुपमन्युरिति द्विजः ॥ दहि देहीति तामाह रोदमानो महामुनिः। इत्यादि। माता पुत्रः दुःखमसहमाना ' आलिंग्याघ्राय दुःखार्ता प्रददौ कृत्रिमं पयः त्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमः नैव क्षीरमिति प्राह मातरं बालभावापन्नः पीत्वा वै कृ- ॥

शिवनामकल्पलता। चातिविह्वलः ।। दुःखित सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ संमृज्य नेत्रे पुत्रस्य कराभ्यां कमले- क्षणा ॥ क्षीरं वत्स कुतोऽस्माकं वने निवसतां सदा । अधनानां पुरास्माभिर्महादेवो न पूजितः ।। पूर्वजन्मनि यइत्तं शिवमुद्दिश्य वाडव ॥ तदेव लभ्य नान्यत्तु विष्णुमुद्दिश्य वा प्रियम् ॥ निशम्य वचनं मातुरुपमन्यमहामतिः ।। बालोऽपि मातरं प्राह प्रणिपत्य पयस्विनीम् ॥ त्यज शोकं महा- भागे महादेवोऽस्ति चेक्वचित् ।। अचिरादा चिरादापि क्षीरोदं साधयाम्यहम् ॥ तां प्रणम्यैवमुत्ता च तपः कर्तुं प्रचक्रमे ॥ तमाह च तदा माता कुर्वन्तमतिशोभनम् ॥ अनुज्ञातस्तया तत्र तपस्तेपे सुदुष्करम् ।। हिमवत्पर्वतं प्राप्य वायुभक्षः समाहित । इत्यादि ग तपश्चर्यमुक्कोक्तं 'रू स्वमेव भगवानास्थाय परमेश्वरः ।। दर्शयामास विप्राय बालेन्दुकृतशेखरम् ॥ क्षीरं धारासहस्रं च क्षीरो- दार्णवमेव च ।। दध्योदनार्णवं चैव घृतोदार्णवमेव च ।। फलार्णवं च बालस्य भक्ष्यलेह्यार्णवं तथा ।। आपुपगिरयश्चैव तदाऽतिष्ठन्समंततः ॥ उपमन्युमुवाचेदं सस्मितो भगवान्प्रभुः ।। मुंश्व भोगान्य याकाम बान्धवैर्वत्स पश्यताम् ॥ उपमन्यो महाभाग तवैषाम्बा हि पार्वती ॥ मया पुत्रीकृतोऽस्यय दत्तः क्षाराणवस्तवः इति । सत्त्यादृतौ द्रुहिणः स चोक्त एव । मृतिहृतौ मार्कण्डेयः तच्च मृत्युञ्जय नामबैनवे स्फुटीभविष्यति । स्वल्पसेवातितोषे श्रीदः कुबेरः । तथाहि कश्चित्काशीस्थो द्विजबालः कलहद्यूतादितत्परः कामं दुर्जनसंगत्या द्राचाररतः खलो मातापितृदूरकृितोऽनवलम्बनाखिन्नमनाः किं करोमि क्क यामि कथं वा धनं प्रामुयामित्येवं पुनः पुनरितस्ततोऽनुधावमानः क्षुधितः कथंचिदेव- योगा क्वचित्पुण्यफलप्रभावकसंवेद्यमनवद्यान्तर्मुखाशेपविद्वज्जनवृन्दविलासोल्लसितमुमाकान्तालयमद्रा- क्षीत् । ततस्तत्रत्यमशेषाभिलषितमन्नादिकमपहर्तुमन्तमन्दिरमविश्यात्यादरेणैवात्मीयवसन- दशाकृतवयां परमशिवानुपातिनी प्रदीपच्छायां निराकाषीत् । ततः प्रसन्नो भगवानमय दैश्वर्याकरदिक्साम्राज्याधिपत्यं दत्तवानित्यादिबहुतरं प्रपंचितं खण्डे ॥ संकष्टोछित्तावमृतमन्थेछुदेवाः । तच्च प्रचण्डोद्दण्डसंवर्तकालदावानलज्वालामाला- कुलितकालकूट विषापहरणादिना प्रसिद्धम् । तथा चोक्तमभियुक्तैः 'दृष्ट्वा कौस्तुभम- प्सरोगणमपि प्रक्रान्तवादा मिथो गीर्वाणाः कति वा न सन्ति भुवने भारा दिवः केवलम् ॥ प्रक्रान्ते गरले द्रुते सुरगणे निश्चेष्टिते विष्टपे मा भैप्टेति गिराविरास धुरि यो देवस्तमेव स्तुमः । इति मूलकृताप्युक्तं शिवस्तवे 'विकुण्ठो वैकुण्ठो गतधृतिरिवासींच्छतधृतिः प्रचेता निश्चेता निभृतमघवा. नास्तमघवा ॥ कृतान्तोऽभूत्तान्तो भसितभवनं विश्वभवनं विलोले काकोले शिव शिव भवानेव शरणम् । इति । उपेक्षायां सत्यामभयदाने दक्षः तच्च दक्षाध्वरहरेतिनामनिर्वचने व्यक्तिर्भ- विष्यति । हितोपदेशे श्रीराम: तच्च उपदेशतात्पर्यगोचरनिरतिशयानन्दानुभवादिरूपपरम प्रयोजनप्राप्तिफलकशिवगीतादौ प्रतिपदं प्रसिद्धम् । उत्तमत्वे वेदाः कः सर्वोत्तम इति प्रश्ने कृते ऋग्वेदादिभिश्चतुर्भिः प्रसिद्धान्तितस्य शिव एवेत्यर्थस्य शैवे काशीखण्डादौ च स्फुटत्वात् । अथैवमानन्त्यौदायांद्युपदर्शितगुणजातस्यान्यत्रासंभवेऽप्यन्याहशानामेव तुल्यबलप्रभावानामना- दिसंसिद्धवात्सल्यादिगुणानामाश्रयत्वेनान्योऽप्यासेव्यताम् ॥ तथाचोक्तं 'वात्सल्यावभयप्रदान काशी- + ससुधापूररत्नावालसाहता। एव जगतामेते यतः करणादातीतिनिर्वीपणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ॥ सेव्यः श्रीपतिरेक साक्षिणः प्रहादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः' इति तथा च प्रन्हादादिसाक्षिका ये वात्सल्यादयो गुणास्तदाश्रयत्वेनान्यस्यापि सेव्यत्वापत्त्या शम्भुरेव सेव्य इत्यवधारणाश्रयणमसंगतमेवेत्यत आह अशिश्वित्यादि। शिशुपशुवधूराक्षसभिन्नैः साक्षिभिरित्यर्थः । तत्र षण्णामपि साक्षिणा साक्षित्वायोग्याशशुत्वादिधर्माकान्ततया प्रत्युत बाध- कप्रमाणमात्रोपयोगित्वान्नान्यसेवनं सिद्ध्यतीति भावः । यद्यप्युपमन्योः शिशुत्वेन बाधकप्रमाणो- पयोगित्वमेव तथापि बहुतरसायकप्रमाणान्तःपरिगणनात्प्रकृतोपयोगित्वमवगन्तव्यम् । शि- वनामभजनातिरिक्तोपायान्तरेष्वसारप्रयुक्तमसामर्थ्यमावेदस्तदेव पुनर्पढयति स्रग्धरया । 'नाथ त्वच्छक्तितत्त्वाव्ययचरितभगव्यूहमूर्त्यङ्गसाङ्ग- प्रत्यङ्गो पाङ्गकृत्यागमभजनकलांशादिनिष्कर्षमूढाः ॥ त्वन्नामापित्यजामो यदि दुरितहरं सान्ववायाः कृतार्थाः केनोपायेन जायेमहि कलिहतके जन्मभाजो वयं हि ॥३॥ नाथेति । शक्तयश्च तत्वानि च अव्ययानि च चरितानि च भगश्च व्यूहश्च मूर्तयश्च अड्गा- नि च सांगानि च प्रत्यङ्गानि चापाङ्गानि च कृत्यानि चागमाश्च भजनानि च कलाश्च अंशादिश्चोत तेषां योऽयं निष्कर्षस्तत्त्वागमस्तस्मिन्मूढाः सामर्थ्यशून्याः सन्तः कलिहतके जन्मभाजो नयं यदि दुरितहरं त्वन्नामापि त्यजामस्तदा सान्ववायाः कृतार्थाः केनोपायेन जायेमहि न केनाप्युपायेनेत्यन्वयः । असामर्थ्ययोतनाय कलिहतक इति विशेषणं काकाक्षिन्यायेन जन्मनि कृतार्थतायां चेत्युभय- त्रान्वेति । कलिहतके कलावित्यर्थः । विशेषणस्य परनिपातनात् । हतको हिंसकः पापकारीति यावत् । तथाच पापैकसाधनीभूतेऽस्मिन्कलियुगे जन्मशालिनो वयं कथं त्वन्नामभजनमपि विना कृतकृत्या भवेमेत्यर्थः । तत्र शक्तयो यथा इच्छाज्ञानक्रियादिरूपाः तदुक्तं शैवागमे 'इच्छाज्ञान- क्रियारूपास्त्रिशूलं शक्तयो मताः । इति । तत्त्वानि षट्त्रिंशत् यथा शिवः शक्तिः सदाशिवः ईश्वर: शुद्धविद्या चति पंच शुद्धतत्वानि प्रकृतिबुद्धिरहंकारो मनश्चेति ज्ञानेन्द्रियाणि पञ्च कर्मेंद्रियाणि पच तन्मात्राणि पञ्च भूतानि पञ्च इतिचतुर्विंशतितत्वानि अशुद्धानि माया कालो नियतिः कला भाविया रागः पुरुषश्चति सप्तशुद्धाशुद्धानि इति षट्त्रिंशत्तत्वानि अव्ययानि। यथा उक्तं च विष्णुपुराणे 'ज्ञानं विरागतैश्वर्ये तपः सत्यं क्षमा धृतिः।। स्रष्मृत्वमात्मसंबन्धो ह्याधिष्टातृत्वमेव च ॥ अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे॥ इति। चरितानि परमशिवचरितानि दारुवने भिक्षाटनप्रभृत्यनेकानि तत्तच्छे- वागमप्रसिदानि भगोयथा 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ॥ ज्ञानवैराग्ययोश्चैव पण्णा भग इतीरणा' इति । व्यूहो यथा शिवो भवे हरश्चैव मृडश्चैव तथा पर । इति । मूर्तयो यथा सोमघायुमासमेतवृषभारूढनुत्तरूपवैवाह्यभिक्षाटनकामारिकालकालत्रिपुरारिजलच- पदेशानुमहविषापहारिचक्रदानस्वरूपविघ्नप्रसादोमारकंधेकपाटसुखासनदक्षिणामूर्तिलिङ्गभाराख्याः

शिवनामकल्पलता।
.
,
पञ्चविंशतिः । अहानि यथा ' सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः।। अनन्त
शक्तिश्च विभोनिधिज्ञाः षडाहुरङ्गानि महेश्वरस्य । इत्युक्तानि । अथवाङ्गानि साङ्गप्रत्यङ्गो.
पाङ्गानि च वातुलशुद्धप्रतिपादितानि । तत्रागानि यथा 'शिरो वक्रं च हृदयमंगमित्यभिधीयते ।।
शक्तिप्रतापी त्रिगुणा अभेद्योऽनुग्रहस्तथा ।। ऋद्धिा या वैभवं च नादसंइतिरेव च ॥ एते दश
गुणाः प्रोक्ता महेशविभवावहा । इति । प्रत्यंगानि यथा 'वक्षः कण्ठस्तनौ बाहू नाभिगुह्योदरं
तथा ॥ नेत्रे नासास्यकर्णं च पाणिपादतलांगूलि ॥ ऊरू जानू च जथे च प्रत्यंगमिति कीर्तितम् ।
इति । उपांगानि यथा वस्रोपवीतमालाश्च गन्धमाभरणं तथा ॥ आसनावरणं चैतदुपांगमि-
ति कीर्तितम् । इति ।। कृत्यानि यथा 'सृष्टिस्थितिसंहारतिरोधानानुग्रहाख्यानि पंच कृत्यानि ।
तिरोवानानुग्रहो बन्धमोक्षौ । आगमाः शैवागमाः । भजनानि परमशिवनमनादीनि ।
कलाः 'निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ शान्त्यतीते च पंचेताः कलाः स्युः
परमेशितुः । ॥ अशांश्च शरभभैरववीरभद्रावतारविशेषाः ।
ममैवांशो जीवलोक? इत्यायुक्तेः ।
जीव एव वा । आदिपदात्परमशिवस्य निर्विशेषत्वमिति ।
एवं वर्णद्वयात्मकस्य शिव इति विशिष्टनानो वैभवातिशयमुत्का प्रत्येकं पुनस्तावेव वर्णो संस्तौति
शिखरिण्या
शिवेति द्वौ वर्णो परपदपतध्द्धसगरुतौ तौ संसाराब्धेः स्वविषयकवोधांकुरदले ।।
श्रुतेरन्तर्गोपायिततररहस्यब्रुवचरौ घरट्टयावाणौ भवविटपिवीजौघदलने ॥ ४॥
शिवेति । परपदं परं धाम परमोत्कृष्टा गतिरिति यावत् । तत्र पतंत आपतंतो व्याप्रीयमाणा
ये हंसास्तेषां गरुतौ पक्षाविव स्थितौ तथा च चिदंशभूतानां जीवानां पुनस्तदैक्यावाप्तिहेतुत्वेन परम-
शिवप्रतिपादकत्वमुक्तं भवति । तच्च भवजलनिधिनिमग्नानां कथं भवेदित्याशंकामपातुमाह
तटाविति ।संसाररूपो योऽयमब्धिरणवस्तस्य तटौ मर्यादाभूतौ संसारार्णवतारकावित्यर्थः ।
तटं विम्वित्यमरः । नन्वत्र कथं संसारार्णवतारकत्वं शिवनाम्नः संभवति 'तमेवैकं जानय आत्मा-
नमन्या वाचो विमुंचथ अमृतस्यैष सेतुः यज्ञात्वा मृत्युमत्येति नान्यः पंथा अयनाय वियते? 'तं
ने ज्ञात्वा मृत्युमत्येति जंतुर्नान्यः पन्था दुःखविमुक्तिहेतुः” इत्यादिबहुतरप्रमाणबलात्परमशिवत-
त्वावगमस्यैव तथात्वोपदेशनादित्याशक्याह स्वविषयकोत स्वविषयकयोधः स्वस्वरूपावगमस्तस्य
योऽकरस्तस्य दले पीविव स्थितौ वासुपर्णासयुजेत्यादिश्रुतेः। न केवलं सकलदेवसामान्यवाचिनाम-
वन्नाम किंतु समस्तवेदार्थगार्भित मुख्यमित्याह श्रुतारत्यादि।श्रुतेर्वेदराशेर्यदंतः मध्यभागस्तत्र गोपायि-
सतरं यद्रहस्यं तस्यआहातराहरणं तत्र चरौ चराविवस्पृशौ वेदान्तसंवेद्याखिलाशयास्पदाद्वैतब्रह्मपति-
पादकावित्यर्थः । भवविटपिनः संसारमहीरुहस्य यानि बीजानि अनादिवासनात्मकाः प्राणिदोषास्ते-
घांसमूहस्य दलने चूर्णीकरणे घरग्रावाणौ तण्डुलादीनां पिष्टीकरणोपयुक्तपाषाणविशेषा
विवस्थितामित्यर्थः ॥४॥

- ससुधापूररत्नालवासहिता। अत्र च मनोवाक्कायकर्मभ्यःकृतं कर्म शुभाशुभम् || भुंजान एव मुच्येत नान्यथा कल्पकोटिमिः। कायिकं वाचिकं हार्दमुत्तमं तूत्तमोत्तरम् ।। कायेन मनसा वाचा कर्मणा दुष्कृतं कृतम्' इत्यादि- प्रमाणमात्रपरिशीलनपर्यवसितधीमतां केषांचिदर्थान्तराशंकापनोदनव्याजेन पुनस्तमेव स्तौति शाई- लविक्रीडितेन स्वामिन्कर्माण काायके न जरया शक्तोऽस्मि नो मानसे चांचल्यान्मनसो न निर्धनतया पूर्वेष्टदानादिके । तस्माद्वाचिककर्मणैव विदुषा साध्यं विदित्वा भवन् नाम्नामष्टशतं निरुच्य जनुषः साफल्यमीहे तमाम् ॥५॥ स्वामिन्निति । स्वामिन्निति संबुद्धिः हे स्वामिन्प्रभो करचरणाद्यखिलाषयवानामपाटनेन जरसा जरया कायिके कर्मणि नाहं शक्तोऽस्मि नापि मानसे ध्यानादौ संशयाकारवृत्तिमत्स्वरूपत्वेन मनसो निसर्गतश्चाञ्चल्यात् । नवा पूर्तेष्टदानादिके । तेषां धनैकसाध्यत्वेन तदभावात् । तथा च कायिकवाचिक मानसिकयोरेकैकस्यवाप्याश्रयेण उक्तबाधाद्दाचिकमेव कर्म प्रकृतोपयुक्तमित्यार्यवय- रादिष्टमित्यष्टोत्तरशतशिवनामनिर्वचनेनैव जन्म सफलयामीत्यर्थः ॥ ५॥ अथ तेषां नाम्नां समूलकत्वध्वननपुरःसरं स्वग्रन्थनाम निर्दिशति शिवनामकल्पवल्ल्याः शिवचरितानन्दकाननभवायाः ।। रुचिरं रत्नावालं रचये सत्पद्यरत्नवरैः ॥ ६ ॥ शिवनामेति । शिवरहस्ये हि 'शरीरार्धमहम् इत्यादिना द्वाविंशतिश्लोकान्पठित्वा 'शिवो महेश्वर ? इत्यादिभित्रयोदशभिः श्लोकैरष्टोत्तर शतनामान्युत्का 'इमानि दिव्यनामानिइत्याद- योऽष्टौ श्लोकाः पठिताः शंकरसंहितायां तेष्वेव प्रथमभागस्यायांत्यश्लोकावेव पठित्वा नामोत्तरभागे 'एवमष्टोत्तरशतम् इत्यादिना नव श्लोका अन्य एव पठिता इति स्थितिः । तत्र ' नामकल्पलतेयं मे सर्वाभीष्टप्रदायिनी? इति शिवरहस्ये त्रयोदशश्लोक्यामन्वर्थकनामर्नेिदशो दृष्ट इत्याशयेन कल्पवल्ल्या इत्युक्तिः । शिवचरितं रहस्यसंहितारूपमेवानन्दकाननं काशीश्वरमोदप्रदं वनमथवा शिवचरितमा- नन्दकं येषां ते शैवाः विष्ण्वादयस्तषामाननानि तत्र भवायाः उत्पन्नाया रुचिरं रत्नानामावालमा. वापः सिच्यमानजलधारणयोग्या वेदिका 'स्यादालवालमावाप? इत्यमरः । सत्पद्यान्येव सप्तदशाधि- कशतसंख्यानि रत्नवराणि तैः कृत्वा रचये करिष्यामि । 'वर्तमानसामिप्ये वर्तमानवद्वा । इत्यादिना लडात्मनेपद्युत्तमैकवचनं किंच कट पयवर्गाक्षराणामेकादिसंख्यापरतया प्रसिद्धत्वेन सत्पद्य (११७) स्योक्तसंख्यापरत्वात् । अत्र च नाम्नामष्टशतं निरुच्य जनुषः सःफल्यभीहे तपाम् । इत्यत्र निखिलनिगमागमप्रमाणैकतासर्यकत्वेन निष्कृष्टार्थप्रतिपादकत्वलक्षणस्य निर्वचनस्य प्रागसिद्धिं विना अनुपपत्तेः । प्रकृतस्तवपातपायाष्टोत्तरशतसंख्याकान्यपिनामान्यनादिसिद्धानि । तत्तच्छेवागमेषु शिवरहस्यादिषु स्पष्टप्रतिपादितानि इत्याविष्कृतामत्यतस्तदप्यत्र व्याख्यायते। तदुक्तं शिवरहस्ये 'पा- ८ शिवनामकल्पलता। - वत्युवाच । शरीरार्धमहं शम्भोर्येन पाप्स्यामि केशव ॥ तदिदानी समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥१॥ अत्र च शिवरहस्ये सप्तमेंऽशे त्रयोदशेऽध्याये हिमवत्पर्वतस्थे मानससरसि मानसेश्वराहिकण्ठे. श्वरसिद्धेशलिंगेशगौरीलिंगात्मकनामचतुष्टयशालि शिवलिंगस्य महात्म्यप्रकरणे कण्वकश्य पसंवाद 'तदा कण्वः समागत्य स्नात्वाब्धेर्मानसे जले। मानसशं समभ्यर्च्य काश्यपं प्राह सादरम्।। कण्व उवाच 'संसारदाहखिन्नानां मयांनामकृतात्मनाम् ॥ घोरसंसारविच्छेदः कथं भवति सत्वरम्' इत्यादि प्रश्ने कश्यप उवा शिवाभिघं महः सेव्यं सर्ववेदान्तसंश्रुतम् इत्यादिना शिवभक्तिनामभस्मरुद्राक्षादिमहि- मानमुत्कोक्तम्। 'अत्र पूर्व शिवा नित्याप्याविर्भूता हिमालये ॥ चक्रे प्राप्तशिवाप्यत्र शिवं प्राप्तुं तपो मुदे ।।' प्राप्तः शिवो यया परमशिवैक्यं प्राप्ताप्यनादिभूता चिच्छक्तिरखिललोकानन्दावाप्तये पुनः शिवं प्रातुमिव तपश्चक्रे इत्यन्वयः । इत्येवं गौरीतपोविशेषादिमहिमानमुक्त्वा 'ध्येया त्वमेव सर्वेषां भुक्तिमुक्तिप्रदायिनी ॥ त्वयापि ध्यायते देवी ध्यातव्यं तव किं शिवे, इत्यादिविष्णुकृतप्रश्नस्य प्रत्युत्तररूपध्वनिरूपो देवीप्रश्नोऽयं पार्वत्युवाचेति । यादृशेन स्तोत्रेण शंमोः शरीरार्धमहं प्राप्स्यामि तादृशं स्तोत्रं समाचवेत्यन्वयः । केशवति साभिप्रायकसंबुद्ध्या त्वया हियेन ध्यातेन हर्यर्धेश्वरात्मकत्वेन प्रसिद्ध शरीरार्धं लब्धं तदेव ध्यायते मयति ध्वनितं तदुक्तं वातुलशुद्धे पंच- विंशतिमूर्तिप्रकरणे 'त्रयोदशं हरेरर्धमर्धनारी चतुर्दशम् । इति । विष्णुरुवाच 'शरीराध महेशस्य प्राप्तमेव त्वया शिवे ॥ तथापि पृच्छसे देवि यतो वात्सल्यभावतः ॥२॥ वात्वल्याशयतः पृच्छसे पृच्छसीत्यर्थः । त्वया ततोऽहं वक्ष्यामि स्तोत्रमेकं शिवप्रदम् । इति त्वयेति तुभ्यामि- त्यर्थः । स्तोत्रं स्तव्यनिष्ठगुणाभिधानरूपस्तुतिप्रतिपादकशब्दसंदर्भरूपमित्यर्थः । एक मुख्य तत्र हेतुः शिवप्रदामिति मङ्गलप्रदत्वात्परमशि (भिन्न कैवल्यप्रदत्वादा मुख्यमित्यर्थः । पुत्रोऽहं तव कल्याणि ततो वात्सल्यभावतः ।। मया सह त्वया देवि शिवे संभाषणं कृतम् । इति ॥ ३ ॥ वात्सल्यस्य भावः सत्ता शिव इति विषयसप्तमी संभाषणं प्रश्नरूपं तथा च वत्सभूतेन मया ' शरीरार्धमहं गम्भोर्येन प्राप्स्यामि केशव ) इत्यादिना यच्छिवविषयकप्रश्नरूपं संभाषणं कृतं तद्दात्सल्यभाव एव कृपातिशयाविशेषप्रयुक्तमेवनतु मदीयसामर्थ्यप्रयुक्तमित्यर्थः । 'दक्षहस्तांगुष्ठनखान्महाराज्ञः समुत्थितः । महामत्स्याकृतिः श्रीमानादिनारायणोविभुः' इत्यादिना देवी- पुत्रत्वनापि विष्णोः प्रतिपादनादिति । स्वयं पुत्रभावं प्राप्तः सन्परमपुरुषो विष्णुः परां शक्तिं संस्तो- तुमुपसक्रमते । 'तव यत्पादपद्मं तत्सर्ववेदान्तसंस्तुतम् ।। दृष्टं मया कृतार्थोऽस्मि त्वत्पादांबुजवीक्ष- णात् ।। यं पश्यास जगदं। कृपया तमनेकधा ॥ पूजयन्ति सुराः सिद्धा मुनयश्च न संशयः लक्ष्यायाः सुभगा जातास्त्वत्पादांबुरुहार्चनात् ॥ त्वत्पादपद्मं सततं ध्यायते कमळादिभिः ।। त्वमादिशक्तिः परमा सर्ववेदान्तसंस्थिता ॥ त्वमेवोंकाररूपा त्वं सर्ववेदान्तरूपिणी ॥ त्वमाद्य न्तविहिना त्वं सच्चिदानंदरूपिणी || विज्ञानसागरा साक्षाज्ज्ञानधाराविमोहिनी ॥ कलाकाष्ठामुहू तादिकालोन्नयनकारिणी ।। त्वत्त एव समुत्पन्ना वयं ब्रह्मादयः सुराः ॥ त्वत्त एव समुत्पन्ना लोकाः सर्वेऽपि शांमवि इति । समुत्पन्ना आविर्भूताःलोकाश्चतुर्दश भुवनानि 'तव नेत्रत्रयं चंद्रः सूर्योs सह ससुधापूररत्नावालसहिता। ॥ ॥ ग्निश्च महेश्वरि ।। सोमसूर्याग्निलोचनेत्यर्थः ॥ तवैव मूर्तयः सर्वाः पवनाद्याः शिवप्रिये ॥ त्वदन्य दृश्यते नात्र त्वमेव सकलं शिवे ॥ निष्कलापि त्वमेवांब सकलासि त्वमीश्वरि ॥ सकलनिष्कलभावं विवृणोति 'त्वमेव सकला देवि सृटिस्थित्यन्तकारिणी ।। त्वमेव निष्कला देवि सर्वोपाधिविवर्जिता ।। प्राप्या त्वमेव सर्वेषां मुक्तिरूपा स्वभावतः । त्वामीदृशीं विदित्वैव सच्चिदानंदलक्षणाम् ।। भज- न्ति मुनयः सर्वे नित्यं वेदैः स्तुवन्तिच ।। ईदृशी त्वं निराकारा साकारेवाद्य दृश्यते ॥ यतस्त्वमपि विज्ञानमतो रूपं न ते ध्रुवम् ॥ त्वं तपोज्ञानयोगानां फलदासि शिवप्रिये ।। त्वामुद्दिश्यैव मुनिभिः सततं तप्यते तपः॥ संतुष्टा तपसा देवि ददासि परमं पदम्।। सुप्रीतायास्तवोमेऽत्र नादेयं वस्तु दृश्य- ते ॥ उमे इति संबुद्धिः । सुप्रीतायास्तव अदेयं वस्तु न दृश्यते । सर्वं त्वया प्राप्तमेवेत्यर्थः । शिवे त्वयैव सृष्टानि वैकुंठादिपदान्यपि ॥ तानि दत्तानि चास्मभ्यं त्वयैवार्चितया ध्रुवम् ॥ यतः शिवस्त्व- मेवासि ततो दत्तं शिवेन यत् ॥ तत्त्वयैव ध्रुव दत्तं सर्वकल्याणसंश्रये। इत्येवं परां शक्तिं प्रस्तुत्य परमेश्वरप्रतिपादकनामोत्कर्ष दर्शयति। 'रत्नराशौ मनोज्ञानि रत्नानीव पुरा मया।। वेदराशौ गृहीता- नि शिवनामानि शोभने । संत्यनतानि नामानि महादेवस्य शोभने ॥ तानि सर्वाणि नामानि पावनानि न संशयः । तत्र दिव्यानि नामानि प्रसिद्धानि वरानने । बहून्यपि ततस्तेषामावृत्तिर- तिदुर्लभा ।। अस्तिगुह्यतमं देवि नानामष्टोत्तरं शतम् ।। शंभोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ।। अस्तीति वर्तमानव्यपदेशान्नामानि शिवनैवोद्धृतानि अधुनापि वर्तन्त इत्यनादि सिद्धत्वमाविष्कृ- तामिति । अस्य सर्वकामप्रदत्वमुत्तररामायणे रावणदिग्विजययात्रायां नर्मदातीरे शिवपूजाकारणेs प्युक्तं यथा ततस्ते राक्षसाः स्नात्वा नर्मदाया वरांभास ॥ उत्तीर्यपुष्पाण्याज हुर्बल्यर्थ रावणस्य तु ॥ नभंदापुलिने ह्यद्य शुभ्राभ्रसलिलप्रभे ॥ राक्षसेन्ट्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ पुष्पेषूपरतेष्वेव रावणो राक्षसेश्वरः॥ अवतीर्णो नदी स्नातुं गंगामिव महागजः ।। तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ॥ इत्यादिना स्नानजपादिकमुक्त्वोक्तं 'यत्र यत्र स याति स्म रावणो राक्षसाधिपः ।। जाम्बूनदमयं लिंग तत्र तत्र स्म नीयते ॥ स तत्र कांचनमयं लिंग संस्थाप्य सैकते ।। अर्चयामास पुष्पैश्च गंधैरामोदगन्धिभिः ।। लिंगं त्वपूजयद्रक्षो रावणो लोकरा- वणः ।। जप्योपहारैः सततं गंधैः पुष्पैश्च नित्यशः ।। बलिधूपप्रदानैश्च रावणो लिंगमार्चयत् ।। सवादिवनिनादैश्च शर्वमाराधयत्प्रभुम् । घृतक्षीराभिषेकैश्च दध्ना चाप्युदळेन च।। पदैको (१) यसमि श्रेनामाष्टशतसंस्तवैः ।। शुशुभे तब तल्लिङ्गं नानारत्नविभूषितम् ।।अर्चयित्वा तु तं देवं यदाचरति रा- वणः ॥ तत्सर्व सिद्धयते तस्य विधिनार्चयतो हरमिति ॥ ६ ॥ . %D अस्य श्रीपरमशिवाष्टोत्तरशतनामकल्पलतास्तोत्रमहामन्त्रस्य नारायण ऋषिः अनुष्टुप्छन्दः श्रीउमामहेश्वरो देवता। ॐबीजम्। नमः शक्तिः । शिवान कीलकम्। श्रीसांवसदाशिवप्रीतये जपादौ विनियोगः । मूलेन षडंगकरन्यासं कृत्वा ध्यायेत् । धवलवपुषमिन्दोमडले सन्निविष्टं भुजगवल. यहारं भस्मदिग्धांगमीशम् ।। हरिणपशुपाणिं चारुचन्द्रार्धभौलिं हृदयकममध्ये शंकर चिन्ता 2 १ शिवनामकल्पलता। यामि ॥ १॥ हरिणपरशुपदं वराभययोरप्युपलक्षणम् ॥ ' जपकाले तु मंत्रस्य ध्येयो देवश्चतुर्भुजः।। वराभयपरश्वेणलसत्करसरोरुह । इति कामिकोक्तेः । ॐ शिवो महेश्वरः शंभुः पिनाकी शशिशेखरः ॥ वामदेवो विरूपाक्षः कपर्दी नीललोहित ॥ १॥ एषु नवसु नामसु प्रथमं निर्वक्ति " ॐ शिवाय नमः॥ प्रकृत्या नैर्मल्यादमलगुणयोगादपि शमाज्जगत्याधारत्वाद्भजदमृतदानाच भवतः ॥ बलादिच्छाशक्तेः प्रथितपुरि भद्रश्रव इति प्रतीतस्त्वं लिंगे त्रिपुरहर तस्मादसि शिवः१ प्रकृत्यति । प्रकृत्या शिवः । स्वभावतः शोभनरूप इति यावत् । शोभनत्वं चानन्दघनत्वं नैर्म- ल्यादनादिजीववयांणवकार्मणमायीयाख्यमलत्रयाभावलक्षणत्वं शुद्धत्वम्।अणु वस्तस्यानादिजीवि- तापादकः अविद्यासंबंध आणवं मलम् ।। अनादिकर्मफलं वासनारूपं कार्मणम्।। अस्ति प्रकाशत इति व्यवहारयोग्यसामग्यां सत्यामपि नास्ति न प्रकाशत इति व्यवहारयोग्यत्वपरूमावरणं मायीयं मल- मिति (तादृशमलत्रयाभाववत्वं चाकर्मवश्ये सर्वज्ञे परमात्मनि स्वभावत एव संभवति इति बहुतरं त- लच्छैवागमेषु प्रपंचितं तथाचोक्तं वायुसंहितायाम् अनादिमलसंश्लेषप्रागभावात्स्वभावतः।। अत्यन्तप- रिशुद्धात्मेत्यतोऽयं शिव उच्यते इति।अथवा शिवशब्दः कल्याणगुणवचनः 'श्वःश्रेयसं शिवं भद्रं क- ल्याणं मंगलं शुभमित्यमरः शिवाःशोभना गुणा अस्य सन्ति इति शिवःअर्शआदेराकृतिगणचान्मत्वर्थी- ऽच् प्रत्ययः । शोभनगुणाश्रय इत्यर्थः । तदप्युक्तम् अथवाऽशेषकल्याणगुणैकायन ईश्वरः॥शिव इत्यु- च्यते सद्भिः शिवतत्वार्थवेदिभिः इतिायद्यप्यत्र परमशिवस्य निष्कलत्वाद्गुणाः कथमपि न संभवंति नि- कलं निष्क्रिय शान्तं निरवयं निरंजनम् ।। अचिन्त्यमव्यक्तमनंतरूपं शिवं प्रशांतममृतं ब्रह्मयोनि- म् । इत्यादिश्रुतेः ॥ 'शिवतत्वं महासेन निष्कलं त्विति कीर्तितम्' इतिवातुलशुद्धवचनाच्च। तथापि 'स एव मायापरिमोहित्मा शरीरमास्थाय करोति सर्वम् । यः स्यन्नपानादिविचित्रभोगैःस एव जाग्रत्य- रितृप्तिमेति । सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणत् ॥ योगिनामुपकाराय स्वेच्छया गृण्हते तनुम् । इति 'तथैव योगिनां चापि ज्ञानिनां मन्त्रिणां तथा ॥ जपपूजानिमित्ताय निष्कलं सकलं भवेत् इति अतिवातुलशुद्धवचनशुद्धात्पराशक्तिपरिकल्पितगुणा नादाय तथा व्यपदेश इत्यवगन्तव्यम् । अथ वा शमादिति श्याम्यति इति शिवः शांत इत्यर्थः 'उमासहायं परमेश्वरं शिवं त्रिलोचनं नीलकंठं प्रशान्तम् । इति श्रुतेरिति । शिवादय- श्वेतिहमव्याकरणसूत्रेण कनि इत्वमलोपयोश्च रूपमिति सुभूतिचन्द्रः। अथवा जगत्याधारत्वाज्जगत्याः प्रपंचस्याधार आश्रयस्तस्य भावः तस्मात् । अथवा शेते असबन्धेन वर्ततेऽस्मिन्सर्वमिति शिवः । सर्वा- धारकमित्यर्थः । 'सनिघृष्वरिष्वलिष्वशिवपटुप्रव्हेष्वा अस्वतंत्र इत्यौणादिकान्निपातनात्तंत्रपदोक्त- कर्तृभिन्नेऽधिकरणेऽर्थे रूपं सर्वकारणीभूतचिच्छक्तेरप्याधारतया परमशिवस्यैव जगदाधारत्वात्। तथा च श्रुतिः मायान्तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ॥ यो योनि योनिमधितिष्ठते। कोयस्मिन्निदं -- समुधापूररत्नावालसहिता। ११ संचविचैति विश्वम्। तमीशानं वरदं देवमीड्यं निश्चाय्येमां शांतिमत्यंतमेति । आधारमानंदमखंड- बोधं यस्मिल्लयं याति पुरत्रयंच) इत्यादिरिति ।भजदमृतेति।भजनमुपासनम् भवत इत्यत्र विष- यत्वं षष्टयर्थस्तस्यभजने अन्वयः तथा च भवद्विषयकोपासकानाममृतदानाचत्यर्थः । अथवा वष्टि- लोकहितमिति शिवः । लोकानां भजतां हितं परमामृतरूपं वष्टि इच्छति ददातीति यावत् । वशकान्तावितिधातोः पचायच् । पृषोदरादित्वात्साधुत्वम् । वर्णस्य व्यत्यये अकारस्य इकारादेशे च शिव इति रूपसिद्धिः । कान्तिरिच्छा । 'हिसिधातोः सिंहशद्वो वशकान्तेः शिवः स्मृतः।। वर्णव्यत्ययतः सिद्धः पश्यकः कश्यपो यथा? इत्याभियुक्तोक्तेः। तथा चोक्तं महाभारते 'समेघयति यन्नित्यं सर्वार्थानामुपक्रमम् ॥ शिवमिच्छन्मनुष्याणां तस्मादेव शिवः स्मृतः' इति । अथवा वष्टि इच्छाश्रय इत्यर्थः । रूपसिद्धिः पूर्ववदेव । सा चैषा चिद्रूपा पराशक्तेर्भेद एव । 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाच । इतिश्रुतेः । वातुल- शुद्धेऽपि 'शिवस्य तु परा शक्तिः सहस्रांशुसमुद्भवः ॥ पराशक्तेः सहस्रांशादादिश क्तिसमुद्भवः ।। आदिशक्तिसहस्रांशादिच्छाशक्तिसमुद्भवः । तथा 'शक्तिराज्ञापरा शैवी चिद्रूपा परमेश्वरी ।। शिवेऽवतिष्ठत्यखिलं यथा कारणभूतये' इति । शिवपुराणेऽपि तस्यांकमध्यमारूढा शक्ति- रिच्छाव्यया परा ॥ महालक्ष्मीरित ख्याता श्यामा सर्वमनोरमा ' इति ॥ बलादिच्छाशक्तरित्यत्र बलशब्द आश्रयत्वपरः। इच्छाशक्तयाश्रयत्वादित्यर्थः। भद्रश्रव इति भद्रकर्ण-हदइतिप्रथिता प्रसिद्धा या पू: पुरं क्षेत्र विशेष इति यावत् । तत्र त्वं लिंगे शिवेश्वरत्वेन प्रतीतो अवगत इत्यर्थः । अष्टषष्ठि- क्षेत्रगणनावसरे 'भद्रकर्ण-हदे शिवम् इति काशीखण्डात्पानाच्च । त्रिपुरहरोत संबुद्धिः । तस्माद- सिशिव इति । तस्मात्त्वमुपदर्शितनैमल्यादिहेतुसमूहाच्छिवोऽसि शिवपदप्रतिपायो भवसीत्यर्थः । इंदं च श्रुतिप्रसिद्धं नाम 'नमः शिवाय च शिवतराय च तस्मात्सवर्गतः शिवः न सन्न चासञ्छिव एव केवलः सर्वमन्यत्परित्यज्य शिव एवैको ध्येय? इत्यादिश्रुतेः । शिखरिणीवृत्तमिदम् । तथा च पैंगल सूत्रम् ‘शिखरिणी यमौ सौ भ्लौ गृतुरुद्राः इति । प्रतिपादं यगणः । - मगणः नगणः ।।, सगणः॥८, भगणः ॥, लघुर्गुरुश्च षनिरेकादशभिश्च पादे यतिरित्येतत्सप्तदशा क्षरमत्यष्टिछंदोरूपं समवृत्तं शिखरिणीसंज्ञकं भवति इत्यर्थः । तदुक्तं वृत्तरत्नाकरे 'रसै रुद्रैच्छिन्ना यमनसभलागःशिखरिणी' इति लक्षणमेतत् ॥ ॐ महेश्वराय नमः। तवेश्वरत्वं त्रिजगद्विलक्षणं त्वमीश्वराणां महतामपीश्वरः ।। जगतिरोधानकरः श्रुतीरितस्त्वं पंचविशोऽपि परो महेश्वरः ॥ २॥ तवेश्वरत्वमिति।इश ऐश्वर्य इतिधातोःकर्तरिस्थेशभासेत्यादिना वरच्प्रत्यये ईश्वर इति रूपं महा- श्वासावीश्वरश्चेति कर्मधारयः । ईशितृत्वं महत्वं च प्रवर्तनीयेष्वखिललोकप्रवर्तकत्वलक्षणं जगद्वैल- क्षण्यमंगेषु जघन्यस्य गुह्यस्य पूजने केनापि प्रवर्तयितुमशक्येऽप्यत्यादरेणाखिललोकप्रवर्तनात् ।

१२ शिवनामकल्पलता। तन्त्र न तथा चोक्तं महाभारते 'सत्येन ब्रह्मचर्येण लिंगमस्य यथास्थितम् ॥ समर्चयन्ति लोकाश्च महेश्वर इति स्मृतः' इति अस्थायमर्थः । यथास्थित लिंगरूपेणाविर्भूतं न तु विष्ण्वायवतारविशेषादिवद्रूपांतरेण तिरोहितं एवंभूतमपि लिंगं लोकाः लोकाः समर्चयन्ति। 'यथाकथीचवज्ञया कितु सत्यब्रह्मचर्यायखिलनियमोपेतया परमया भक्त्या समर्चयन्ति । यतोऽतो महेश्वर इति । एतदृष्ट्वानुशासनिकेऽप्यभिहितम् । ' यस्य ब्रह्मा च विष्णुश्च त्वं च शक्रः सहामरैः।। अर्चयध्वं सदा लिंगं तस्भाच्छ्रेष्टतरो हि काइति । अथवा ईशितृत्वे मह- त्वमुत्कृष्टत्वं स्वर्गादिरूपं यत्किंचिदाशितृत्वमिन्द्रादीनामप्यस्ति अत एव छन्दोगानां षड्विंशबाह्म- णे उत्पातशांतिप्रकरणे इन्द्रयमादिषु चेश्वरायस्वाहेतिमन्त्रप्रतीतिर्दृष्टा तव्यावृत्त्यर्थं महेति इ- न्द्रादीनामपि ईश्वरत्वाच्छिवो महेश्वर इत्यर्थः । तथा च श्रुतिः 'ध्येयः सर्वेश्वरः शंभुराकाशमध्याइ- ति। 'सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यत' इति भारतवचनाच्च । एतदभिप्रायेणैव ' महेश्वरश्च सा इतिभारतवचनम् ।। महतःप्राणिनः इन्द्रादीन्प्रत्यपि यदस्येशितृत्वमिदमेतदीयेशितृत्वस्य महत्वमिति नतु महतामीश्वरो महेश्वर इति षष्ठीतत्पुरुषरूपव्युत्पत्त्यंतरप्रदर्शनपरम् ।। तथासति व्यधिकरणत्वादु- त्तरपदस्य 'आन्महतः समानाधिकरणजातीययोः' इत्यात्वाभावप्रसक्त्या महदीश्वरइत्येव स्यात् ।एतेन 'त्वमीश्वराणां महतामपीश्वर इति मूलं व्याख्यातम्। यद्वा ईश्वरत्वे महत्वं विशेषणमखिलजगदुपसंहार- कारिणो रूद्रादपि विशेष ख्यापयितुं व्याप्त्यर्थकादश्रोतेरंतर्भावितार्थादाशुकमणि वरट्च इत्यौणा- दिकवराटि चकारादुपपाया इत्वे च निष्पन्नस्येश्वरपदस्य संहारकसामान्यपरतया रुद्रेऽपि प्रवृत्तेः । व्याप्तिश्च व्यापकस्यात्मनोऽवच्छेदकशरीरनाशे सिद्ध्यतीति मरणरूपैव 'गुरोर्व्याप्तिदिनं चैवःइत्यादिना तंत्रराजे तथाप्रयोगदर्शनात् । तेन त्रिमूर्तिसंहारिका चतुर्थीमूर्तिमहेश्वर इत्यर्थः । सृष्टिस्थितिसंहार- तिरोधानानुग्रहरूपपंचकृत्येषु त्रिमूर्तितिरोधानं बन्धो वा चतुर्थमूर्तेः कृत्यं निवृत्त्यादि कलाभिमुख्येन ब्रह्मादीनां पंचानामपि यथायथं सृष्टयादिपंचकृत्यकर्तृत्वस्यानेकशैवागमेषु प्रतिपादितत्वात्। उक्तं च शिवपुराणे शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।। संहारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ नामाष्टकमिदं तस्य प्रतिपादकमीशितुः ॥ आयं तु पंचकं तत्र शात्यतीताद्यनुक्रमात् ॥ संज्ञा सदाशिवादीनामइति महेश्वरस्य स्वरूपमपि तंत्रेधूक्तं 'नानारूपधरो देवो नानाभेदसमन्वितः।। नानाचिन्हसमापेतो नानालीलाधरो हरः ॥ तथा 'जटामुकुटसंयुक्तमकवकं त्रिनेत्रकम्। वरदाभयह- स्तं च मृगीपरशुधारकम् ॥ इदं रूपं महेशस्य रूपभेदमथो शृणु । इति । तथा वातुलशुद्धेऽपि महेश्वरसहस्रांशाहुदेवसमुद्भवः ॥ महेश्वरस्य कोट्यंशाब्रह्मविष्णुसमुद्भवः ।।। इति । तथा पाझे शिवराघवसंवादेऽपि 'य एकः शाश्वतो देवो ब्रह्मवन्यः सदाशिवः ॥ त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोऽव्ययः ॥ सिसृक्षा तस्याथ वीक्ष्यात्मस्थं गुणत्रयम् ॥ दक्षिणादसृजत्पुत्रं ब्रह्माण वामतो हरिम् ॥ ब्रह्मादेशान्महेशानं त्रीन्पुत्रानसृजत्प्रभुः इति । एवमन्यत्रापि 'परः शिवः शिवाच्छक्तिः शक्तेनीदसमुद्भवः।। नादाद्विन्दूदयस्त- स्मात्सदाशिवसमुद्भवः ॥ सदाशिवान्महेशस्थ तमोरुद्रसमुद्भवः ॥ रुद्राद्विष्णुस्ततो ब्रह्मा ततः सर्व- .. जाता ससुधापूररत्नावालसहिता। १३ मिदं जगत् ॥ इति एतत्सर्वं महेश्वरत्वमेवोक्तं (?)जगत्तिरोधानकर इति । बन्धात्मकचतुर्थकार्यकर इत्यर्थः श्रुतीरित इति 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।तस्य प्रकृतिलीनस्य यः परः स महेश्वरः॥तमीश्वराणां परमं महेश्वरम् इत्यादि श्रुति- प्रतिपाद्य इत्यर्थः। एवंभूतो महेश्वरः पंचविंशोऽपि चंद्रशेखरादिभेदभिन्नपंचविंशतिमूात्मकोऽपि पर- शिवाख्यचतुर्थशिव एवं त्वम्।तत्प्रभेदरूपत्वादितिभावः।पंचविंशतेमहेश्वराणां प्रत्येकसंख्यापूरकत्वा- विशेषात्प्रयोगो नानुपपन्नः । अतएव आपस्तंबकल्पे 'पदं त्रैधं विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शोते भस्मन्युपपत्तिस्तृतीयमाहवनीये तृतीयं पत्न्यै प्रयच्छतीति । त्रयाणामपि तृतीयपदेनैव व्य- वहारः।एतेन पंचदशान्याज्यानीति व्याख्यातम्॥ शिवमद्वैतं चतुर्थमन्यम् इति श्रुतिसिद्धोहि तुरीयः। शिवपुराणेषु परशिव इति व्यव-हीयते आगमषु तु स त्रिविधः परमः सदाशिवो महेश्वर इति तत्र सदा- शिव:पंचविधः। कर्तृकर्मसदाख्यौ द्वौ मूर्तामूर्तसदाख्यौ च द्वौ शिवसदाख्यश्चैकः इति।महेश्वरस्तु पंचवि- शतिविध इति । तत्तत्स्वरूपनिरूपणपूर्वकमेतत्सर्व बातुलशुद्धतत्वभेदपटले प्रपश्चितम्।संग्रहेऽपि शिव- मेकं विजानीयात्सदाख्यं पंचधा भवेत् ॥महेशस्तुमहासेनः पंचविंशतिशभेदकः ॥एतद्वै तत्वसंयुक्तमे- कत्रिंशदिति स्मृतम्' इति । अथवा सांख्यमतरीत्या त्वं पंचविंशत्तत्वपरोऽपि घड़िशत्तत्त्वमपि उभय- थापि श्रुतीरित इत्यर्थः । तथा च मायां वितिश्रुतेरुपबृंहणं वायुसंहितायाम् अथवा त्रिगुणं तत्वं माययमिदमव्ययम्॥मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्।। मायाविक्षोभकोऽनंतो महेश्वरसम- न्वयात् इति । पुरुषविशेष ईश्वर' इति महति पुरुषे ईश्वरपदस्य योगसूत्रे प्रयोगश्च ।यो वेदादावितिश्रु- तेरुपबृंहणमपि तस्यामेवअत्र 'त्रयोविंशतितत्वेभ्यः परा प्रकृतिरुच्यते ॥ प्रकृतस्तु परं प्राहुः पुरुषं पंचविंशकम् ॥यं वेदादी स्वरं प्राहुर्वांच्यवाचकभावतः ॥ वेदैकवेद्यं यस्यादौ वेदांते च प्रतिष्ठितम् ।। स एव प्रकृतौ लीनो भोक्तायं प्रकृतेर्यतः ॥ तस्य प्रकृतिलीनस्य परो यः स महेश्वरइति प्रकृतेः पुरुषाणा च प्रवर्तकः षड्विंश इति भावः । इति सर्व शिवम् ॥ वंशस्थाख्यं वृत्तानेदं तथा च पैंगलसूत्रं 'वंशस्थं ज्तौज्रौ । प्रतिपादं जगणः ।, तगणः ।, तगणः~~, जगणः।- ८, एतद्वृत्तं वंशस्थाख्यं भवतीत्यर्थः। तदुक्तं वृत्तरत्नाकरे 'जतौ तु वशस्थमुदीरितं जरौ। इति द्वादशाक्षरात्मकजगछिन्दारूपं समवृत्तमितिलक्षणात् । ॐ शंभवे नमः। शं भावयसि च भवसे शं च भवसि चेति वा देव ॥ त्वं देवदारुविपिने लिंगे प्रथितोऽस्यतः शम्भुः ॥ ३ ॥ शं सुखं भावयत्युत्पादयतीति शंभुः । 'शिवकर ? इतिश्रुतेः । यद्वा भवतिरयं प्राप्त्यर्थ- कः। भूप्राप्तावात्मनेपदी । तथाच शं भवते सुखं प्रामोति शंभुरानन्दवानित्यर्थः। 'आनंदो ब्रह्मेति व्य- जानात्। आनंदाद्धयेव खल्विमानि भूतानि जायन्ते आनंदेन जातानि जीवन्ति आनंदं प्रयंत्यभिसं- विशतिः 'सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति । आनंद ब्रह्मणो रूपं तच्च देवे व्यव-

१४
नमः।
॥
शिवनामकल्पलता ।
स्थितम्' इत्यादिश्रुतेः । अत्र च गुणगुणिनोरभेदादानंदविशिष्टार्थप्रतिपादनेऽप्यासा श्रुतीनां प्रा-
माण्यमवगंतव्यम् । अथवा शं सन्सुखरूपः सन्भवति सत्ताश्रय इति शंभुः। भूसत्तायामितिधातोः सुख-
सत्तास्वरूप इत्यर्थः । 'सत्यं ज्ञानमनंतं ब्रह्म नित्यं विज्ञानमानंदं ब्रह्माइत्यादिश्रुतेः । देवदारुविपि-
ने दारुकावने लिंग इति दारुकावनान्तरे विराजमानं यल्लिंगं तत्र शंभ्वीश्वर इति प्रसिद्धो भवसी-
त्यर्थः । 'देवदासाने शंभुम् । इतिपुराणात्। अत उपदर्शितार्थप्रतिपादकत्वात्क्षेत्रविशेष प्रसिद्धत्वाञ्च
शंभुपदप्रतिपायो भवसीत्यर्थः। इदं च श्रुति प्रसिद्ध नाम 'नमः शंभवे च मयोभवे चा 'सर्वेश्वरः शंभुरा-
काश मध्या इतिश्रुतेः । उपगोताख्यवृत्तमिदम् । तथाच पैंगलसूत्रम् 'अंत्येनोपगीतिः आर्याद्वितीया-
र्घलक्षणकमर्धद्वयं यत्र सोपगीतिरित्यर्थः । लक्षणं वृत्तरत्नाकरे'आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं त-
स्यात् ॥ यद्युभयोरपि दलयोरुपगीति तां मुनिना॑वतः इति ।। ३ ।।
ॐ पिनाकिने
नाकोऽपि येन पिहितो मुनिकण्वमूर्धवल्मीकवेणुजधनुत्रितयाग्रजन्मा ।
यः सप्तशीर्षफणिरूप उदारकर्मा चापस्तमाहवसि नाथ ततः पिनाकी ॥४॥
नाकोऽपीति त्रिपुरदहनावसरप्रयुक्तशरानलज्वालया पिहित आच्छादितो नाकः स्वर्ग येनेति पि
नाकं तदस्यास्तीति पिनाकी पृषोदरादित्वात्साधुः । प्रशंसायां मत्वर्थीय इति। प्रशंसा च 'नमस्ते
अस्तु धन्वने। 'अवतत्य धनुस्त्व 'याते हेतिर्मिनुष्टम' इत्यादिश्रुतिप्रसिद्धा।नाकोऽपि येन पिहित इ-
त्यतच्छब्दार्थमाह मुनिकण्वेत्यादिना यः सप्तशीर्षेत्यादिना वाक्यद्वयेन। कण्वस्य महामुनेर्योऽयं मूर्धा
उत्तमांगं तत्र संजातो यो वल्मीकस्तत्संभूतवेणुप्रकृतिकं यद्धनुस्त्रितयं पिनाकशाङ्गगांडीवाख्यं चापत्रय
तत्राग्रजन्मा प्रथमोत्पन्न इत्यर्थः । तथाचोक्तमुमामहेश्वरसंवादे 'युगान्तरे महादेवि कण्वो नाम महा-
मुनिः।। स हि दिव्यं तपश्चर्यं कर्तुमेवोपचक्रमे इत्यादिना। 'पिनाकं नाम मे चापः शाङ्ग नाम हरे-
धनुः । तृतीयमवशेषेण गांडीवमभवद्धनुः । स च सोमाय निर्दिश्य ब्रह्मलोकगतं पुनः” इति किंच
सप्त शीर्षाणि सप्त शिरांसि फणारूपाणि यस्यति तथा तदुक्तं महाभारते उपमन्यूपाख्याने 'इंद्रायुध-
सहस्राभं धनुस्तस्य महात्मनः ॥ पिनाकमिति विख्यातं स च वै पन्नगो महान् । सप्तशीर्षा महाका-
यस्तीक्ष्णदंष्ट्रो विषोल्बणः । ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः । शरश्च सूर्यसंकाशो दृष्टः पाशु-
पताह्वयः । येन च त्रिपुरं दग्धं सर्वदेवमयः शरः” इति। अत एवोदारकर्मा । तदुक्तं लैंगे 'सोमश्च भ-
गवान्विष्णुः कालाग्निर्वायुरेव च । शरे व्यवस्थिताः सर्वे देव मूचुः प्रणम्य तम् । दग्धमप्यथदेवेश शरं
मोक्तुमिहार्हसि। अथ संसृज्य धनुषि ज्यां हसंस्त्रिपुरार्दनः। मुमोच बाणं विप्रेन्द्र विकृष्याकर्णमीश्वरः।
तत्क्षणात्तत्पुनर्दग्धं त्रिपुरं तच्छरार्चिषा इतिस्पष्टमन्यत् । इदं श्रुतिप्रसिद्धं नाम 'प्राणेश्वरः कृत्तिवासाः
पिनाकी? इति। वसंततिलकावृत्तमिदं तथा च पैंगलसूत्रं 'वसंततिलका त्भौ जौ गौ प्रतिपादं तगण:-
भगण:- जगणायं गुरुद्वयं-- चेति चतुर्दशाक्षरं शक्करीछन्दोरूपमेतद्वृत्तं वसंत-
तिलकारन्यं भवतीत्यर्थः। लक्ष्यन्तु वृत्तरत्नाकरे 'उक्ता वसंततिलकातभजाजगोगा इति लक्षणात् ॥ ४॥

ससुधापूररत्नावालसहिता । ३५ ॐ शशिशेखराय नमः। मतिमयोऽखिलजीवसमष्टिरप्यमथिदक्षमखे हिमगुवृथा ।। इति धिया दयया विधृतस्त्वया शिरसि तेन भवान्शशिशेखरः ॥ ५॥ मतिमय इति । शशी चन्द्रः स एव शेखरः शिरोमूषणं यस्येति तथा अयंच चन्द्रः न पारदृश्यमानः प्राकृतः किंतु मतिमयो ज्ञानस्वरूप इत्यर्थः । तथाचोक्तं शिवपुराणे 'ज्ञानचन्द्रकलाचूडं दशदिग्बाहुमंडलम् । इति । तथा वराहपुराणेऽपि 'जटास्वरूपेण समस्तसागराः कुलाचलाः सिन्धुवहाश्च सर्वशः ॥ शशी परिज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाइति । तथा आखिलजीवसमष्टि : सर्वेषां प्राणिनामैकात्म्यापन्नः । तथा सोमस्य वराहपुराणे प्रजापालनसत्यतप.संवादे प्रपंचितं 'तस्मिंस्तु मथितो जातो पुनः सोममहीयत ।। योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन्पुरुषः परः। स एव सोमो मन्तव्यो देहिनां जीवसंज्ञितः इति हिमगुरिति हिमशब्दः शीतलवचनः 'तुषारः शीतलः शीतो हिमः' इत्यमरः। गोशब्दः किरणपरः। हिमाः शीतलाः गावः किरणा यस्येति हिमगुः । शीतकिरण इत्यर्थः । एवंभूतश्चन्द्रः अनपराधोऽपि संभ्रमवशात्क्रुद्ध- न वीरभद्रावतारेणेतरैरपराधिभिस्सह दक्षाध्वरे अमाथि माथितः शिक्षित इति यावत् । ततस्त्वनपराधिनि शिशिनि कृतदयाचित्तेन शिवेन तदोषोपशमाय शिरसा पुनधृत इत्यर्थः । तथाचोक्तमानुशासनिके उमामहेश्वरसंवादे 'सोमस्तत्र मया देवि कपितेन भयादितः ॥ पश्यंश्चानपराधी सन्पादांगुष्ठेन ता- डितः ॥ तथा विनिकृतनाह सामपूर्वं प्रसादितः॥ तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये ॥ त- दाप्रभृति सोमं हि शिरसा धारयाम्यहम्। एवं वै पापहानिस्तु भवोदेति मतिर्ममइति। इदं चानपराधि पीडनमत्यतपापावहमिति लोकशिक्षणम् । द्रुतविलंबिताख्यं वृत्तमिदम् | तथाच पैंगलसूत्रं ' द्रुतविलं- बित नभौ धौ प्रतिपादं नगणो भगणद्वयं रगणश्चैतद्वृत्तं द्रुतविलंबिताख्यं भवतीत्यर्थः । लक्ष्यं च कैदारे ' द्रुतविलंबितमाह नभौ मरौः इति । ॐ वामदेवाय नमः। वामार्धेन क्रीडसि त्वं त्रिलोकीवक्राचारो वल्गुमोदोऽसि तस्मात् ।। विश्वोत्तीर्णः स्रष्टतामप्यतीतः प्रेयानात्मा कथ्यते वामदेवः ॥ ६ ॥ अत्र वामेन वामार्धेन वामार्धाभिमानिन्या पराशक्त्योत यावत् । दीव्यतीति देवः क्रीडाशाली दिवुक्री डादावितिधातोःसृष्टिस्थित्युपसंहारादिरूपविविधप्रपंचकार्यकर्तेत्यर्थः। तथाच स्वतंत्र की इत्यागमप्रमा णसिद्धजगत्कर्तृत्वव्यपदेशस्य परमशिववृत्तेस्तवनमपि पराशक्तिसंवलनप्रयुक्तत्वेनास्वयं न किंचिदपि कार्य करोतीति भावः। न तस्य कार्य करणं च वियते न न्यूनतश्चाप्याधिकश्च विद्यते॥परास्य शक्तिर्विविधै व श्रूयते स्वामाविकी ज्ञानबलक्रिया च? इतिश्रुतेः। लिप्यते न स पापेभ्यः पद्मपत्रमिवाम्भसा? इतिश्रुतेः 'शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्' इत्यायाभियुक्तो क्तेश्चेति।शक्तेः सकलकार्यनिर्वाहक शिवनामकल्पलता। त्वस्य परमशिवस्य पृथग्भावस्य तदौदासीन्यस्य च दर्शितत्वात्। तेन स्रष्टतामप्यतीत इत्यर्थःसूचितःअ- थवा वामो वको लोकविरुद्धकपालवेलपैशाचर्दैगंबरादिविलक्षणाचरणवान्सचासौ देव इति कर्मधारयः दीव्यतिरस्मिन्पक्षे व्यवहारार्थकः।लोके हीष्टलिप्सयानिष्टपरिजिहीर्षया वा मंगलादिकं निषेव्यते। परम शिवस्य चेष्टानिष्टात्मकार्यकारणसघातरूपप्रपंचसंसर्गिकत्वेनाचिन्त्यापरिमितमहिमाधारत्वात्स्वछन्द- चारीत्यर्थः । तेन विश्वोत्तीर्ण इत्येतत्प्रदर्शितम् । अथवा वामः सुंदरः ‘मंगलायतनं देवं युवानम- तिसुदरम् ? इत्यागमोक्तेः । सचासौ देवो मुदित इति यावत् । दीव्यतेर्मोदार्थकत्वात् । तथा चा- कृत्रिमातिशयितपरमप्रेमास्पद इत्यर्थः । 'न वा अरे सर्वस्य कामाय प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवति । इति श्रुतेः । तेन प्रेयानात्मेत्यर्थः सुचित इत्याशयेनाह वामाधनत्यादि। त्रिलोकीवक्राचारः त्रयाणां लोकानां समाहारः त्रिलोकी तक्रस्तविरुद्ध आचार आचरणं यस्येति तथा वल्गुमोदः वल्गुः सुंदरो मोद आनंदो यस्येत्यर्थः । तस्मादिति । उपदर्शितत्रितयहेतोरि- त्यर्थः । एतस्य विश्वोत्तीर्ण इत्यादिष्वन्वयः । तथा च वामार्धन क्रीडनात्स्रष्टुतामप्यतीतः त्रिलो- कीवक्रा चरणाविश्वोत्तीर्णः मनोहरानन्दवत्वात्मेयानात्मेति व्युत्क्रमण यथायोग्यमन्वयः । यद्यपि वामश्चासौ देव इति समासे सौंदर्यस्य देवपदप्रतिपाये आनंदवत्येवान्वयः। वल्गुमोदोऽसि । ततस्त- स्मादिति । तन्निर्वचनेन विशेषणीभूतानन्द एवान्चय इति परस्परविरोधिव्याख्यानव्याख्येययोरेकार्थ- कत्वस्थ व्युत्तिबललभ्यत्वात् । तथापि 'विशिष्टेऽन्वितस्यासति बाधके विशेषणेऽप्यन्वय, इति न्यायात्सौन्दर्यस्य मोदविशेषणत्वेनाप्यन्वयसंभवादविरोध इति । इदं श्रुतिप्रसिद्धं नाम ‘वामदेवाय नमो ज्येष्ठाय नम' इति । शालिनीसंज्ञकं वृत्तमिदं तथा पैंगलसूत्रं 'शालिनी स्तोत्गौग समुद्रर्षयः प्रतिपादं मगणः, तगणद्वयं, गुरुद्वयं च, चतुर्भिः सप्तभिश्च यतिरिव्येतद्वृत्तं शालिन्याख्यं भव- तीत्यर्थः । लक्ष्यं तु केदारे 'शालिन्युक्ता म्तौतगौगोऽब्धिलोको । इतितल्लक्षणात् ॥६॥ ॐ विरूपाक्षाय नमः। विषमाणि विविधशक्तीन्यक्षाणि विलक्षणानि वाक्षाणि ।। हरहेमकूटशैले लिंगे व्यक्तोऽस्यतो विरूपाक्षः ॥ ६॥ - स विषमाणीति । विरूपाणि विषमाणि लोचनानि अक्षीणि यस्य स विरूपाक्षः सोमसूर्या ग्निलोचन इत्यर्थः । अथवा' विरूपाणि इच्छाज्ञानक्रियात्मकत्वेन विविधशक्तीन्यक्षीणि यस्येति पूर्ववत् । इच्छाज्ञानक्रियात्मकलोचनत्रयवानित्यर्थः । तथाचोक्तं शैवागमे 'इच्छाज्ञानक्रियारूप- विलसल्लोचनत्रयम् । इति । अथवा विरूपाणि विलक्षणान्यक्षाणि इंद्रियाणि यस्य तथा इन्द्रियपदं त्वगादिधातूनामप्युपलक्षणं लोके ह्याहंकारिकाणि भौतिकानि इंद्रियाणि भौतिकास्त्वगाया धातवः प्रसिद्धाः नैतादृशास्त्वगाया धातवश्चक्षुरादीनि चेन्द्रियाणि परम- शिवस्य संभवति । 'निष्क्रियं निष्कलं शान्तं निरवा निरंजनम् । अपाणिपादमश्रोत्रम् । इत्यादि श्रुतेः । किन्तु उपासकैानार्थ परिकल्पितान्यप्राकृतानि इन्द्रियाणि तथैव त्वगाया धातव इत्यर्थः ससुधापूररत्नावालसहिता। १७ तदुक्त शिवपुराणे 'अप्राकृतशरीरं तमतिमन्मथरूपिणम् ॥ धृतरीतिघनीभूतसच्चिदानंदविग्रहम् । इति । अथान्यत्रापि शैवागमे 'नास्ति देहेऽस्थिरुधिरं न मांसं वापि किंचन ॥ प्रतिबिंबमिवाकाशे शकचापमिवांबरे ॥ ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः: । इति । कामिकेऽपि 'चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम् ॥ भुवनाध्वा स संचिंत्यो देवदेवस्य शूलिनः ॥ सप्तकोटिमहामन्त्रैर्मूलविद्या- समुद्भवैः ।। मंत्राध्वा रुधिरात्मासौ विचिंत्यः पार्वतीपतिः ।। अनेकभेदसंभिन्ना मंत्राणां पदसंहतिः।। पदाध्वासौ पशुपतेः शिरामांसतया स्थितः ।। पृथिव्यादीनि षड्रिंशत्तत्त्वान्यागमवेदिभिः ॥ उक्ता- न्यमीभिस्तत्वानि शुक्रमज्जास्थिरूपधृक् । इति । एवं परमशिवस्य पंचाननैरुगतानि यानि कामिकाय- टाविंशत्यागमात्मकानि प्रमाणानि तदात्मकत्वेनापि ध्यातव्यं रूपमुक्तं तत्रैव प्रदेशान्तरे यथा 'कामिकं पादकमलं योगजं गुल्फयोयुगम् ॥ चित्यं पादांगुलीरूपं कारणं प्रसृतिद्वयम् ॥ अजिता जानुनोर्युग्मं दीप्तमूरुद्दयं विभोः ॥ गुह्यं बीजात्मकं सूक्ष्मं सहस्रं तु कटि- द्वयम् ।। पृष्ठभागोंऽशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥ विजयं जठरं प्राहुनिश्वास हृदयात्म- कम्।। स्वायंभुवं स्तनद्वंद्वमनलं लोचनत्रयम्॥ नीरामः कण्ठदेशोऽथ रुरुतंत्रं श्रुतिद्वयम्।।मुकुटं मुकुट नेत्रबाहवो विमलागमाः । चन्द्रज्ञानमुरः शंभोबिबं वदनपंकजम् ।। जिव्हा प्रोद्गीतमीशस्य ललितं गंडयोर्युगम् ।। सिद्धं ललाटफलकं संतानं कुंडलद्वयम् ॥ यज्ञोपवीतं सर्पोक्त हारस्रक पारमेश्वरम् ।। किरणं रत्नभूषास्य वातुलं वसनात्मकम् ॥ एवं तंत्रात्मक रूपमीश्वरस्य विचिन्तयेत् । इति । हर हेमकूटशैल इति । हरेति संबुद्धिः हेमकूटमिति क्षेत्रविशेष: 'हेमकूटे विरूपाक्षम् । इति पाझे । अत इति उपदर्शितहेतोः विरूपाक्ष इति प्रसिद्धो भवीत्यर्थः इदं च श्रुतिप्रसिद्ध नाम 'ऊर्ध्वरेत विरूपाक्षं विश्वरूपाय वै नमो नम । इति । गीत्याख्यं वृत्तमिदम् । तथाच पैंगलसूत्रम् 'आर्धिसमा गीतिः । आर्यापूर्वार्धलक्षणकमर्धद्वयं यत्र तद्गीत्याख्यं वृत्तं भवतीत्यर्थः । तदुक्तं वृत्तर- लाकरे 'आर्याप्रथमपदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।।दलयोः कृतयतिशोभा तां गीति गीतवान्भुजंगेशः' इति ॥ ॐ कपर्दिने नमः। नदीपूरैः शोधादथ सुरधुनीशोधनात्तत्पदानात्कचग्रंर्भेदोऽतिशयित गुणः स्यात्कपदों वराटः।। तदाधारः पूरस्थगनमपि तत्पावनं तत्प्रकाशक्षमत्वं मैराली प्रथयास तनु छालगण्डे कपर्दी ॥८॥ नदीपूरिति पुरपूर्तीवित्यस्माद्धातोः संपदादित्वाद्भावे क्विपि रालोप' इति विलेपे पूरशब्दो रेफांतः पूर्तिवाची अन्तर्भावितण्यात्तत एव धातोः कर्तरि वा क्विपि पूरपर्यायः परशब्दः । कशब्दो जलवाची 'मारुते वेधसि बध्ने पुंसि कः के शिरोऽबुनोः' इत्यमरः । कस्य पर कपर जलप्रवाहः । स च गांगे विवक्षित. । तेन दायति शुध्यतीत्यर्थे दैपशोधने । इतिधातोः 'सुपि स्थ । इत्यत्र- सुपीतियोगविभागात् सुप्युपपदे ' आतोधातोः कप्रत्ययो भवतीति कर्तरि कप्रत्यये--कपर्द इति रूपास द्धिरित्यभिप्रायेणाह । नदीपूरैः शोधादिति । शोधश्चायं नैर्मल्योन्माने न तु पावित्र्यं पवित्रं परमेशतत्वम् । इत्यभियुक्तोक्तेरन्यप्रयुक्तपावित्र्यानपेक्षणात् । तथाचोक्तं रामायणे 'पपात जा- न्हवी पुण्या पुण्ये रुद्रस्य मूर्धनि । अथवा कपरं गंगाप्रवाहं दायति शोधयति पवित्रीकरोतीत्यर्थे अंतर्भावितण्यक्किप् कर्मण्युपपदे 'आतोनुपसर्गे का इत्यादि पूर्ववत् । तथाचोक्तं रामायणे 'भवांगपतितं तोयं पवित्रमिति पस्पृशुः । इति परिकरालंकारेण हेतुत्वाभिप्रायकं तोयविशेषणमत्रे- - स्वतः . १८ शिवनामकल्पलता। त्यभिप्रेत्याह अथ सुरधुनीशोधनादिति । अथवा कपरं गंगाप्रवाहं ददाति भगीरथायोति तथेत्याशयेनाह तत्पदानादिति । अथवा कपड़ों जटानां ग्रन्थिविशेषः । 'पर्दोऽस्य जटाजूट। इत्यमरकोशादित्यभिप्रायेणाह कचग्रन्यद इति । यदा कपर्दशब्दो गुणविशेषपरः । पई इत्यधिकृत्य — भूमनिन्दाप्रशंसासु नित्ययोगेपतिशायने । इतिसुतसंहिताटीकाकारोक्तकोश- वचनादित्याशयेनाह आतिशयितगुणः स्यादिति अचिन्त्यापरिमितानंदसंघायिगुणविशेषो वा कपर्दपदार्थ इत्यर्थः । अथवा कपड़ वराट इति तदाधार इति योगेन च्या वा कपर्दिव्युत्पत्तीनां यथासंभवं ऋमेण प्रयोजनान्याह पुरस्थगनमित्यादिना । अत्र कपरा जलप्रवाहेण दायति शुद्धतीति प्रथमव्याख्याने तावानपि जलप्रवाहः प्रॉ- छनवस्त्रानुषंगिवारिबच्छुद्धिमात्रफलकत्वेन कथंचित्किंचिदपि भूमौ विनिपातेन पर्यवसानात् । गंगातीरभावलक्षणमहिमोक्त्या पुरस्य गंगाप्रवाहस्य स्थगनं स्थिरीभावं प्रथयाति प्रकटीकापि इत्युत्तरेण संवन्धः। कपरं गंगाप्रवाहं दायति शोधयति इतिद्वितीयव्याख्यानं च ' एवंविधे कलियने दोषाणामेकशोधनम् ॥ महादेवनमस्कारो ध्यानं दानमिति श्रुतिः । इतिकौमोक्त्या 'अपविनः पवित्रो वा सर्वावस्थांगतोऽपि वा ॥ यः स्मरेदेवमीज्ञानं स बाह्याभ्यंतरः शुचिः इतिशिवधर्मवचना- त्परमशिवस्य सर्वातिशयपावनोदत्या 'अनाभिलषिता दृष्टा स्पृष्टा पीताबगाहिता ।। गंगा तारयते नृणामभौ वंशो विशेषतः' इत्यानशासनि वचनप्रतिपन्नं यद्गापावित्र्यं तदपि प्रथयसि त्वमेवेत्ययः । 'भवांगपतितं तोयं पवित्रमिति पस्पृशुः” इत्युपदर्शितप्रमाणवलाचावतोऽपि गंगापावित्र्यस्य मगवतः परमशिवस्य जटास्पर्श एव कारणमिति भावः । अतएव 'जटास्वरूपेण समस्तसागरा: कुलाचलाः सिंधुबहाश्च सर्वत? इत्यादिना सिंधुवहादीनां महानदीनां जटाश्रयत्वोत्तिरपि संगच्छते इति । कपर गंगाप्रवाहं दातीतितृतीयव्याख्याने अविद्यमानस्यार्थस्य बानमंत्वाभवेन दुर्वाग्रावलंव्यंवुणिना रूपेण तिरोमावितस्य गंगाप्रवाहस्य योऽयं प्रकाशः प्रकटीकरणं तत्क्षमत्वं तत्सामर्थ्य प्रथयभीत्यर्थः । कपड़ों वराट इति पंचमव्याख्याने परमशिवावतारस्य मैरालाश्यत्य या तनुर्मुर्तिः सा मेराली तादृशीं तनुं वा प्रथयसि करोषीत्यर्थः । तन्त्रचितामा मैरालास्यस्य शिवावतारस्य पदमालाधारणक्याया विस्तरेण स्मरणात् । उलगड. पदात्स्वार्थिकस्तद्धित छन्द्रत आनुगुण्याय कृतः। 'डालगंडे कपार्दनम् । इति अपष्टिक्षेत्राच्या पद्मपुराणात् । श्रुतिप्रसिद्धं चेदं नाम ' नमः कपर्दिने च व्यप्तनाय च ' इति श्रुतेः । मेघ- विस्फर्जिताख्यं वृत्तमिदं तदुक्तं वृत्तरत्नाकरे ' रसवश्वमान्सौ रगुत्युता मेघविर्जितं स्यात् । अत्र प्रतिपाई यगणः मगण: नगणः सगणः रगणद्वयं गुरुरेकश्च पतिः पतिः सप्तभिश्च यतिरित्येत- दृत्तं मेघविस्फजिताख्यं भवतीत्यर्थः । अयं तु अतिवृतेर्भवः ॥ . ॐ नीललोहिताय नमः । नेमांगनं प्रकृतिपुरुष खेरन्तश्च रूपं युगपट्टपुस्तव ।। घोऽलिकांबुकणतो ऽरुणासिताज्जातः शिव त्वमिति नीललोहितः॥ ९ ॥ नेमममंगना यत्य वयुपत्ताहां तव शरीरमित्युक्त्या 'त्रयोदन हरेरयमनारी चतुर्दशन् । इतिशतुलशुद्धवचनप्रतिपन्नार्धनारीश्वगत्मणत्वन नीललोहित इत्युक्तं भवति । तथाच श्रुति तं सत्यं परं ब्रह्म पुरुष कृष्णपिंगलम । इति पिंगलं लोहितमित्यर्थः । वेदपादस्तवेऽपि 'मैं .

-- ससुधापूररत्नावालसहिता। १९ पुलक्षणं वंदे पुरुषं कृष्णपिंगलम् । इति प्रकृतिपुरुषात्मकत्वादा तथेत्याह प्रतिपूरुषमिति प्रकृतिश्च पूरुषश्च तयोः समाहारः प्रकृतिपूरुषं परमशिवाश्रितायाः विद्यावरिकायाः प्रकृतेस्तमःप्रधान- तया लोहित्यौचित्यात् । ब्रह्माण्डान्तर्वय॑शेषप्राणिराशिप्रवर्तकस्य च पुरुषस्य रजःप्रधानतया नील- त्वौचित्यादितिभावः। तथाचोक्तं लैंगे 'नीलश्च लोहितश्चैव प्रवानपुरुषान्वयात्? इति । भानुमंडलांत- ध्येयस्वरूपत्वाद्वा तथेत्याह रवेरंतश्चेति च शब्दः इतीत्युत्तरत्र संबध्यते । 'इतिहेतुप्रक- रणप्रकर्षादिसमाप्तिषु । इत्यमरः । सूर्यमंडलातर्वर्तित्वेन श्रूयमाणं यद्रूपवयं कंठावच्छेदेन नीलत्वं तदन्यावच्छेदेन लौहित्यं तद्वद्यद्दपुतिस्तवेत्यर्थः । तथा च श्रुतिः ‘य एषोऽतरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुः हिरण्यकेश आप्रणाखात्सर्व एव सुवर्णः । 'असौ यो व सर्पति नीलग्रीवो विलोहित । इति च ।। अर्धांगना शरीरत्वात्प्रधानपुरुषान्वयात् ॥ भानुमध्यपरामर्षादाविर्भावाच्च भावत । इतिहेतुचतुष्टयेनापि नीललोहितपदप्रतिपाद्यो भवसीत्यर्थ. । आविर्भावादिति चरमहेतुं दर्शयति वधोऽलिकेत्यादि । वेधसो ब्रह्मणः यदलीकं ललाटं तद्भवो योऽयमंबुकणः स्वेदबिंदु- स्तस्मादित्यर्थः । अरुणासितालोहितनीलाज्जातः आर्विभूतः । तथा च सृज्यमानाया प्रजाया वृद्धिकामश्चतुर्मुखः पुत्रेच्छातः परमशिव एव पुत्रो मे भूयादित्यभिसंधायाग्नौ जुहाव जुहृतस्तस्य लला- टात्समुद्गतः स्वेदबिंदुरग्नौ पतंल्लोहितो भूत्वा पुनर्नीलः सन्नदतिष्ठत् । ततो भगवान्नीललोहितनामा- आविरभूदित्यादि अशेषेण प्रपंचितं शिवपुराणे यथा भूत्वा लोहितमाश्वेव पुवर्नीलमभूत्ततः ॥ नीललोहित इत्येव तेनाविरभवत्प्रभुः इति । तथा लैंगेऽपि 'वृद्ध्यर्थं भगवान्ब्रह्मा पुत्रैः स्वैर्मानसः सह ॥ दुश्चरं विचचारैष समुद्दिश्य तपः स्वयम् ।। तुष्टश्च तपसा तस्य भावं ज्ञात्वास्य वाञ्छितम् ॥ ललाटमभिनिर्भिय ब्रह्मणः पुरतः स तु ॥ पुत्रस्त्वहमिति प्रोच्य स्त्रीस्वरूपोऽभवत्तदा ॥ तस्य पुत्रो महादेवो ह्यर्धनारीश्वरोऽभवत् । इति । इदं च श्रुतिप्रसिद्ध नाम 'द्रापे अंधसस्पते दरिद्रं नील- लोहित । इतिश्रुतेः । ललिताख्यं वृत्तमिदं तदुक्तं वृत्तरत्नाकरे ‘धीरैरैभाणि ललिता तभी जरौ । इति प्रतिपादं तगणः भगणः जगणः रगणश्चेति एतत्प्रतिपादयतिकं ललिताख्यं वृत्तं भवतीत्यर्थः अयं तु जगत्या भेदः। मुलश्लोक शंकरः शूलपाणिश्च खट्रांगी विष्णुवल्लमः ।। शिपिविष्टोऽबिकानाथः श्रीकण्ठो भक्तवत्सलः ।। एतान्यष्टौ नामानि निर्वक्ति ॥ ॐ शंकराय नमः । कर एव सुखं धत्से भक्तानां कुरुषे च तत् ॥ पीठे चंद्रपुराभिख्य नाम्ना ख्यातोऽसि शंकरः ॥ १०॥ करोतीति करः । शं सुखं करे यस्येति शं करोतीति वा शंकरः । शमित्युपपदे कृञ्धातोरच्प्रत्य- यादित्यभिप्रायेणाह कर एवेत्यादि । पीठ इति अष्टषष्ठिपीठान्तः परिगणितं यच्चंद्रपुराख्यं पीठं तत्रत्यलिंगे शंकरत्वेन प्रसिद्धत्वाञ्च शंकरपदेन निर्वाच्यो भवसीत्यर्थः । स्पष्टमन्यत् । इदं च श्रुति- प्रसिद्धं नाम नमः शंकराय च मयस्कराय च । इति । पथ्यावक्राख्यं वृत्तमिदंतथाच पैंगलं सूत्रं 'पथ्या युजोजा इति प्रतिपादं प्रथमाक्षरोत्तरं मयरसतजभनान्यतमो गुणो विषमपादे चतुर्थाक्षराद्यगण २० शिवनामकल्पलता। तथैव समपादे चतुर्थाक्षराज्जगण एव पादांतिमाक्षरं गुरुर्वालधुर्वेत्येतद्वृत्तं पथ्याख्यं भवतीत्यर्थः । तथा च केदारे 'युजोर्जेन सरिद्भर्तुः पथ्यावकं प्रकीर्तितम् । ॐ शूलपाणये नमः शिव तृप्तपुरस्थलिंगमध्ये प्रकटस्संस्त्रिगुणात्मकाललोकैः ॥ शुचिभक्तिदशादिभिस्त्रिशूलं विदधस्त्वं प्रथितोऽसि शूलपाणिः ॥ ११ ॥ शिवेति त्रिगुणेत्यादि । त्रिगुणाश्चात्मानश्च कालाश्च लोकाश्चेति तथा शुचयश्च भक्तयश्च दशाश्च आदिश्चेति च द्वंद्वः । शुचयोऽग्नयः । गुणाः सत्वादयः आत्मकाललोकशुचिभक्तिदशादिभि- स्त्रिभिरिति त्रित्वस्योत्तरत्रापि संबंधः । तयाच सत्वरजतमोरूपगुणैः, आत्मांतरात्मपरमात्माख्यैरा- मवर्गः भूतभविष्यद्वर्तमानाख्यैः कालैः, स्वर्गमत्युपातालाख्यलोकः, गार्हपत्याहवनीयदक्षि- णाख्यैरग्निभिः । इच्छाज्ञानक्रियात्मिकाभिः शक्तिभिः । बाल्ययौवनवार्धक्याख्यैरवस्था- विशेषैः, जागृतत्स्वमसुषुप्तिभिर्वाऽवस्थाभिरादिपदग्राह्याभिः, सृष्टिस्थितिसंहृतिरूपकृत्यादिभिश्च परि- कल्पितं यत्रिशूलं तद्विधारणाच्छूलपाणिरिति प्रसिद्धो भवसीत्यर्थः । तथाचोक्तं पद्मपुराणे 'अथ यज्ञात्मको विष्णुस्त्रिशूलं मनसाकरोत् । गुणावस्थाग्निकालात्मलोकशक्तित्रयात्मकम् । इति ।, अत- एव शैवागमादौ 'इच्छाज्ञानक्रियारूपास्त्रिशूले शक्तयो मताः । ॥ तथा ' त्रैगुण्यं शूलमेतस्य परशुः सत्यनिष्ठता ? इति च । एवंभूतस्य त्रिशूलस्य करस्थत्वोक्त्या अनिर्वचनीयसामर्थ्याश्रयीभूताया अपि मायायाः स्वाधीनत्वमुक्तं भवति । शिवतृप्तपुरस्थलिंगमध्य इति । शिवेति संबुद्धिः। तृप्तपुरमिति क्षेत्रविशेषः । स्पष्टमन्यत् । इदं च श्रुतिप्रसिद्धं नाम ' तस्य ललाटाव्यक्षः शूलपाणिः पुरुषोऽजायत । इति । औपछन्दसिकाख्यं वृत्तमिदं तथा च पैंगलसूत्रं ( ? ) औपछदसिकं प्रति- पादं विषमपादयोः षण्मात्रोत्तरं रगणयगणौ समपादयोस्त्वष्टमात्रोत्तरं तावेव गणौ एतदौपछंद- सिकाख्यं मात्रावृत्तं भवतीत्यर्थः । मात्रास्वपि केचन नियमा आकरे द्रष्टव्याः तथा च केदारे 'पर्यंतयों तथैव शेषमौपछंदसिकं सुधीभिरुक्तम् । इति ॥ ११ ॥ ॐ खटांगिने नमः। द्रुहिणस्यैकं वदनं मिथ्यावचनं दृष्ट्वा सद्यश्छिन्नं न ततो वेधोमरणं शंभोः क पुनर्हिसाजन्यं पापम् ।। अथ दंडा) वहसि त्वं तज्जनशिक्षार्थ खटाया वा चरणं यत्तद्विमलं सत्वं प्रथितस्तेन त्वं खट्टांगी ॥ १२ ॥ द्रुहिणस्यति ‘खट्वांग दंडार्धम् । इत्यापस्तंबस्मृतेर्दडार्धमेव खटांगपदार्थः । तच्च दंडस्यार्धमिति वा नरशिरःकपालपोतदंडविशेषो वा दंडामित्यन्यदेतत् । तद्वहसि लोकशिक्षार्थ स्वीकरोषि खटांगीत्यर्थः । ननु ब्रह्मशिरोलवनप्रयुक्तपापहरणार्थमेवेदं खटांगमुररीक्रियताम् ‘कणलपाणिः खट्वांगी ब्रह्मचारी सदोत्थितः ॥ पूर्णीदशभिर्वत्र महा प्रतिमुच्यत । इतिशांतिपर्वणि प्रायश्चित्त- विधारणार्थत्वेन प्रतिपादितत्वात् । तत्किं जनशिक्षार्थमित्युक्तमत आह द्रुहिणस्येत्यादि द्रुहिणस्य ब्रह्मणो मिथ्यावचनं भिथ्यारूपं मृषावचनं यस्मितादृशमकं वदनं सबस्तत्कालमेव छिन्न । - ससुधापूररत्नावालसहिता । २१ लूनं संहतमिति यावत् । मिथ्यावचनं दृष्ट्वेत्यनेन मिथ्यावचनस्य दर्शनस्योच्छेदहेतुत्वप्रति- पादनात्स्वस्य प्रागुपदर्शितसत्यसंधत्वमुक्तं भवति । ननु ‘न हिंस्यात्सर्वभूतानि 'अहिंसा परमो धर्मः, 'न ब्राह्मणं हन्यात् । इत्यादिबहुतरप्रमाणपरिवर्जितब्रह्महननादिदोषप्रसक्तया प्राणिहिंसक- त्वादिरूपक्रौर्यादिधर्मधर्मितया 'त्रिलोचनं नीलकंठं प्रशांतम् । इत्यादिप्रमाणसिद्धप्रशांतत्वादि- स्वरूपधर्मविरोध इत्याशंक्याह तत इति । ततस्तावन्मात्रेण ब्रह्मशिरोलवनमात्रेण वेधोमरणं नाभूदित्यर्थः । अत एव न हिंसाप्रयुक्तपापानुबंधोऽपीत्याह कपुनरिति । एकस्मिंच्छिरस्युच्छिन्नेऽ प्यवशिष्टानामनपायात्कुतो हिंसाप्रसक्तिः कुतस्तजन्यपापं परमशिवस्य संभवतीत्यर्थः । स्वाभाविक- ज्ञानबलक्रियत्वेन परमशिवस्येच्छामात्रशक्तिप्रधानत्वादिति भावः । तथाच प्रत्यवायरहितेनापि परमशिवेनैवं प्रायश्चितमाचरितं याद किमु वक्तव्यमल्पमतिमदाधुनिकजीवराशेरित्यापामरसाधारण- खिठलोकप्रायश्चित्तप्रवृत्तिदायार्थमित्यर्थः । प्राणवियोगाभावेऽपि दुहिणशिरोलवनमात्रेण तद्धननविहितप्रायश्चिताचरणे प्रवृत्तियदि किमु साक्षात्तधकर्तुस्तदाचरणे वक्तव्यभित्यभि- प्रायेणाह बहसीति वर्तमानार्थकलट्प्रत्ययनाविशेषेण यावत्कालपरामर्शे सार्वकालीनं स्यात् । तद्धा- राणस्य प्रयोजनाकांक्षायामेतस्यापि प्रयोजनत्वेनोपवर्णयितुमुचितत्वादिति भावातथाचोक्तं ब्रह्माण्डपु- रणे 'यद्यप्यमुक्तप्राणोऽसि तथाप्येषोऽनघोऽपि सन् ॥ भिक्षाचरणमात्रेण प्रयाश्चित्तो भविष्यति एवंकृते न केनापि ब्रह्मद्रोहः कृतो भवेत् । इत्युत्का सौ गणेशानो देवं देवोऽभ्यभाषत ॥ ब्राह्मणे नावमंतव्यमितिलोकस्य क्लप्तये ॥ युवां भिक्षाटनं कर्तुं नियुक्तावनघौ मया । इति । अथवा खट्वाया मंचस्य अंगं पादः सोऽस्त्यायुधत्वेनेति खट्वांगी खट्वांगायुयवानित्यर्थः । तदुक्तं कामिके सदाशिवप्रतिष्ठापटले 'पिंगलाभजटाजूटं दशदोर्दडमंडितम् ॥अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् ।। खट्वांगं दक्षभागस्थैर्वहतं करपल्लवैः ॥ भुजंग चाक्षमालां च डमरुं नील- पंकजम् ॥ बीजापूरं च वामस्थैर्वहतं सुप्रसन्नकम् । इति । इदं सद्वांगं न प्राकृतमित्याह विमलं सत्वमिति । शुद्धसत्वप्रवर्तकेच्छाज्ञानक्रियारूपशक्तित्रयात्मकमित्यर्थः । तदुक्तं शैवागमे 'इच्छाज्ञानक्रियारूपास्त्रिशूलं शक्तयो मताः ॥ उक्तास्ता एव खट्रांगशुद्धसत्वावर्तका ? इति । एतेन महान् प्रभुबै पुरुषः सत्वस्यैव प्रवर्तक । इतिश्रुतिसिद्धशुद्धसत्वप्रर्वतकत्वं सूचितम् । शुद्धसत्वस्व- रूपं यत्खट्रागं तद्वहसीति पूर्वेण सबंधः । तेनेति उपदर्शितरीत्या तार्थप्रतिपादकत्वेन खद्वांगीति प्रतिपाद्यो भवसीत्यर्थः । शंभुसंज्ञकं वृत्तमिदं तथाचोक्तमभियुक्तैः 'दशबाणार्धयतिधारी स्तौभयमा- मोगंगः शंभुः प्रोक्त इति। प्रतिपादं समणः तगणः यगणः भगणः मगणद्वयं गुरुश्च दशभि पंचभि- श्चतुर्भिश्च यतिरित्येतद्वृत्तं शंभुसंज्ञकं भवतीत्यर्थः। 'नवबाणार्यतिधारी? इत्यपि पाठान्तरम् । तच्चो- दाहरणान्तरविषयमन्वेष्टम् ॥ अतिधृतेर्भेदोऽयम् ।। ॐ विष्णुवल्लभाय नमः। वितरन्हरये तपस्यते पदरेखाजनितं सुदर्शनम् ।। वपुरर्धमपि प्रियाय ते प्रथितस्त्वं भुवि विष्णुवल्लभः ॥ विष्णुवल्लभः उपासकत्वेन प्रीतिविषयो यस्येत्यभिप्रेत्याह वितरनिति जलंधरवधार्थ स्वपदांगु- ठरेखातः आविर्भूतं यत्सुदर्शनं तच्चिरकालतपस्यते उपाशीनाय विष्णवे वितरन्ददानस्त्वं विष्णु- प्रियो भवसीत्यर्थः । तथाचोक्तमन्यत्र 'चरणांगुष्ठरेखोत्थं जलमध्ये सुदर्शनम् ॥ प्रदाय विष्णवे शूलं स्वयं जयाह वैष्णवम् । इति शैवशूलं दत्वा वैष्णवं सुदर्शनं जग्राहेत्यर्थः । विष्णोरुपासकत्वं च सौप्तिकै पर्वणि अश्वत्थामानं प्रति परमशिवेनैव प्रदर्शितम् । 'सत्यशौचार्जवत्यागैस्तपसा नियमेन क्षात्या धृत्या च भत्त्या च कर्मणा मनसा गिरा ।। यथावदहमाराध्यः कृष्णेन क्लिष्टकर्मणा ।। .

२२ शिवनामकल्पलता। पक्रम्य तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते । इति ॥ अथवा विष्णोर्वल्लभः उपास्यत्वेन प्रिय इति तथेत्याशयेनाह वपुरर्धमपीति । ते तब प्रियाय त्वद्भजनैकपरायणाय अर्धवपुरपि वितरन्निति पूर्वेण संबंधः । वपुरपीत्यपिना भोगायतनसमष्टयात्मकत्वेन शरीरस्य परमप्रेमास्पदतया दातुमयोग्यस्या- पिदाने किमन्यासामणिमादिसिद्धीनादाने वक्तव्यमिति निसर्गसिद्धं पारमैश्वर्यमौदार्यमित्यर्थःसूचितः तथाच परप्रेमास्पदीभूत इत्यर्थस्तात्पर्यविषयीभूत इति द्रष्टव्यम् ।। 'उमासहायं परमेश्वरं विभुम् इत्यु 'स एव विष्णुः स प्रमाणः स कालाग्निः' इत्यादिश्रुतेः । आवयोरतरं नास्ति शब्दै रथैश्च गोपतेः । इत्यादि श्रुतेश्च परस्पराभेदस्य स्पष्टीकृतत्वात् । त्रयो- दर्श हरेरर्धमर्धनारीचतुर्दशम् ॥ इत्यादिवातुलशुद्धवचनप्रतिपन्नार्धनारीश्वरहर्यर्धादिघटि तपंचविंशतिमूर्तीनामपि परमशिवाभेदस्यान्यत्र प्रपंचितत्वात् । इति सर्वमवदातं वैतालीयाख्यं वृत्तमिदं तथाचोक्तं पैंगले 'वैतालीयं द्विस्वरा अयुक्पादे युवादे बसवोऽर्गः । इति । अयुक्पादः विषमपादः युपादः समपादः द्विरिति वसव इत्यत्राप्यन्वति स्वराः सप्त वसवः अष्टाव- धिकारसूत्रान्मात्रा इत्यनुवर्तते तथाच विषमपादयोः चतुर्दश मात्राः । समपादयोः षोडश मात्रा: पादचतुष्टयेऽप्यंते लघुरित्यन्वेति । रगणः लघुर्गुरुश्चेति अक्षरपंचकात्मिकाः अष्टौ मात्राः । अंते पादा वसानवर्तिन्यः तथा च विषमपादयोः षण्मावाः पूर्ववर्तिन्यः अन्याश्चात्यवर्तिन्य इत्येतद्वैतालीयसं. ज्ञकं वृत्तं भवति । तथाच कैवारे ' षड्विषमेष्टौ समे कलास्ताश्च समे स्युर्नो निरंतरः । नसमात्रप- राश्रिताः कला वैतालीयं ते रलौ गुरुः त्येतन्मात्रासंज्ञकं वैतालीयाख्यं वृत्तं भवतीत्यर्थः ॥ १३ ॥ ॐ शिपिविष्टाय नमः। पशवः परमात्मनि धीविरक्षाविपदोऽपि नराश्च सुराः शिपयः ॥ तदनुग्रहकृद्धृदयं प्रविशन्प्रथितोऽसि विभो शिपिविष्ट इति ॥ १४ ॥ पशव इति । शिपयः पशवः इत्यन्वयः । शिपयः शिपिपवाच्याः पशवः इत्यर्थः वै विष्णुः पशवः शिपिः' इतिश्रुतेः । ते पशवः किं परिदृश्यमानाः प्राकृतगवादिरूपाः नेत्याह द्विपदोऽपीत्यादि । द्विपादत्वोपलक्षिता ये नराः सुरा वा सर्वेऽपीत्यर्थः । ननु लोमवल्लांगूल- वत्त्वस्य चतुष्पात्त्वस्य वा पशुपदप्रवृत्तिनिमित्तं तेषां कथं तथात्वमत आह परमात्म- नीति । विषयत्वं सप्तम्यर्थः । तथाच परमात्मविषयकस्वरूपावगमाभावादज्ञानाश्रयत्वाविशेषेणो- पदर्शितानामपि पशुपदप्रवृत्तिविषयत्वं संभवत्येवेति भावः तथाचोक्तं शारीरिके भगवत्पादैः 'पश्वादिभिश्चाविशेषात् । इति तथा लैंगेऽपि 'देवादयः पिशांचाताः पशवः परिकीर्तिताः ॥ तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृत । इति । तदनुग्रहेति । तेषां शिपिपदप्रतिपाद्यानां यावन्नरसुरादिप्रपंचात्मकपशूना योऽयमनुग्रहः कृपावलोकनविषयीकरणं तत्करोति इति तदनुग्रह- कृत् । हृदयं प्रविशन् इति । अशेषप्राणिनां हृत्पुंडरीकं प्रविशन् ' इति श्रुतेः तत्तत्प्राणिविशेषांतर्यामितयेति यावत् । वस्तुतस्तदीयमानसध्याने विषयीभाव एव हृदय- प्रवेशः । तथाचानायोपरतांतःकरणानामशेषजंतूनामप्यनुग्रहार्थं तत्तत्प्राणिविशेषात:स्फुरितः संस्तथा प्रसिद्धो भवसत्यिर्थः । शिपिविष्ट इति शिपिविष्ट इतिनामव्युत्पत्तिः । श्रुतिप्रसिद्धं चेदं नाम 'नमो गिरिशाय च शिपिविष्टाय च? इति श्रुतेः ॥ तोटकाख्यं वृत्तमिदम्। तथा च पैंगलसुत्रं तोटकं सः । इति प्रतिपादं चत्वारोऽपि सगणा यत्र भवंति तत्तोटकाख्यं वृत्तं भवतीत्यर्थः । तथैव केदारे लक्ष्यम् ' इह तोटकर्मबुधिस' कथितम् । इति ॥ १४ ॥ ॐ अंबिकानाथाय नमः। नाथास हिमाचलमुमां मनसा तां नाथसेऽथ तन्नाथः ॥ प्रकटोसि देविकायां लिंगे तेनाविकानाथः ॥ १५ ॥ ( यज्ञो तत्सृष्ट्वा तदेवानुप्राविशत् ।

1 ससुधापूररत्नावालसहिता। २१ अधिकां नाथति याचते इति वा अंबिकाया नाथः पतिरिति वा । तथाचांबिकायाचकः अंबिके च्छुरंबिकापतिरिति वा यथायथमर्थः । इत्यभिप्रेत्य परमाशिवाभिमुख्यं द्योतयन्नाह नाथसीत्या- दि। हिमाचलं प्रत्युमा नाथसि याचसे अथवा मनसा तां नाथसे आशासे इत्यन्वयः नाथूनाधृ- याज्रोपतापैश्वर्याशी:ष्विति पठितस्य धातोरनुदात्तेतो ह्याशिष्यर्थ एवात्मनेपदस्य 'आशिषिनाथ । इतिसूत्रेण नियमात् । अतएव नाथू इत्यात्मनेपदस्य धातोराशासनमेवार्थः । देविकेति । देवि- काख्यक्षेत्रविशेषे विराजमानं यल्लिगं तंत्राबिकानाथेश्वरत्वेन प्रकटः प्रसिद्धः इत्यतोऽप्यंबिकानाथ पदप्रतिपाद्यो भवसीत्यर्थः । श्रुतिप्रसिद्धं चेदं नाम 'नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽचिकापतय उमापतये पशुपतये नमो नम ? इति । आर्यावृत्तमिदं 'स्वरा अर्धं चायर्धिम्? इत्यादिसूत्राष्टकेनोक्तं एतल्लक्ष्म केदारे 'त्रिष्वंकेषु पादोदलयोगद्येषु दृश्यते यस्याः: ॥ पथ्येति ना- म तस्याश्छन्दोविद्भिः समाख्यातम् ॥ इति । अस्मिन्वृत्ते पूर्वार्धे गुरुसहिताः सप्त गणाः तत्रापि षष्ठः जगणो वा नगणः नतु अन्यः यरता गणा न संत्येव किंतु चतुर्मात्राभावात् । विगणेषु यतिरिति पूर्वार्धं भवति । उत्तरार्धे तु सर्व प्राग्वदेव षष्ठस्थाने लघुरिति पथ्यार्याख्यं वृत्तं भवतीत्यर्थ ॥१५॥ ॐ श्रीकंठाय नमः श्वेलं गंगामिदोर्लेखामाद्योत्था वा कांति कंठे ।। विभ्रन्मांडल्येशे लिङ्गे विख्यातोऽसि त्वं श्रीकण्ठः।। १६ ॥ अत्रच श्रीयुक्तः कण्ठो यस्यति मध्यमपदलोपिसभासे विधानुलिप्तकंठवाञ्शोभोपरक्तकण्ठ. वान्वेत्यर्थ इतेिकेषांचियाख्यानं तत्स्पष्टत्वादुपेक्ष्य प्रकारान्तरेण व्युत्पत्तिमनुसरति श्वेलमित्यादि श्रीशब्दः वेडपरः तज्जन्यशोभापरश्च 'श्रीर्वेषरचनाशोभासंवत्सु रविशाखिषु । वाणीलक्ष्मीलवं- गेषु विष बिल्वेऽप्यथ त्रिषु ।। इति नानार्थरत्नमालावचनात् । कमित्यव्ययस्य जलवाचितया जलसामान्यलाभे प्रकृते च तद्विशेषविवक्षायां गांगमेव जलं कम शब्दार्थः। ठशब्दश्चन्द्रवाची, बृहध्दनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डल) इति अनेकार्थध्वनिमंजर्युक्तेः । तथा च श्रीश्च कमच ठश्चति श्रीकंटाः ते चास्य संतीति श्रीकंठ इति द्वंद्वोत्तरं मत्वर्थीयाच्प्रत्ययांतेन श्रीकंठपदेन हालाहलं विषं तज्जन्यकांतिं च कंठावच्छेदेन गांगजलं चांद्री कलां च तदन्यदेशावच्छेदेन वहसीत्यर्थः । कंठे बिभ्रदित्यत्र कंठदेशस्तदन्यदेशस्याप्युपलक्षकः। मांडल्येश इति मांडल्येशाख्ये क्षेत्र विशेषे श्रीकंठे- श्वरत्वेन प्रसिद्धत्वात् श्रीकंठपदप्रतिपाद्यो भवसीत्यर्थः । विद्युन्मालाख्यं वृत्तमिदं । तथा च पैंगलं सूत्रम् । 'विद्युन्माला मौ गौ प्रतिपादं मगणद्वयं गुरुद्वयं चेत्तद्वृत्तं विद्युन्मालाख्यं भवतीत्यर्थः। तथा च वृत्तरत्नाकरे लक्ष्यं । मो मो गो गो विद्यमालेत्यनुष्टुप्छंदोभेदोऽयम् ॥ १६ ॥ ॐ भक्तवत्सलाय नमः दासानुरस्यावपसीति तर्णकान् भक्तात्मकानोदन बालको भयम् । पोपाय गृहास्यथ तेषु सौहृदं पुष्णासि तस्मादसि भक्तवत्सलः ॥ १७ ॥ भक्तान् दासान् वत्से उरसि लानि गृण्हातीति भक्तवत्सलः 'उरो वत्सं च वक्षश्चइत्यमरः अथवा वत्सशब्दस्तर्णकपरः तथा च भक्ताश्च ते वत्साश्व तान् लाति तथा अथवा 'वत्सांसाभ्यां कामबल , इति मत्वर्थेलच्प्रत्ययसमवधाने वत्सशब्दः कामवचनः । तद्वान् वत्सलः भक्तेषु वत्सलः प्रेमा- तिशयशालीति तथेत्यभिप्रायेणाह दासानुरस्यावपसीत्यादि । आवपसि गृण्हासीत्यर्थः । तर्णकान् शिशुविशेषान् — सद्योजातस्तु तर्णक , इत्यमरः पोषाय रक्षणार्थं तेषु भक्तेषु सौहृदं प्रेमातिशय विशेष पुष्णासि पूरयसीत्यर्थः । इंद्रवंशाख्यं वृत्तमिदं । तथा च पैंगलसूत्र । 'इंद्रवंशा तौज्रौ प्रतिपादं तगणद्वयं जगणो रंगणश्चैतद्वृत्तं इंद्रवंशाख्यं भवतीत्यर्थः । तथाच केदारोक्तिः 'स्यादिंद्रवंशा ततजैर- संयुतः इतितल्लक्षणात् । . । - २३ शिवनामकल्पलना। यः पवित्रायुधं तत्पयुक्ता या प्रदृतिः प्रहारस्तजन्या यः कालः नीलतन्य गलमये विधारणा- च्छितिकंठपदप्रतिपायो मवमीत्यर्थः। तथाचोतं हरिबंश पारिजातापहरो ऋगकृतविचोदवान- वे 'दनः प्रहारः कुलशन पूर्व तवेगानापगजातवीर्यम्॥ठे नभ्य त गर्ने यत्प्रवृनं तमाळ्यानम्वं नी- लकटोऽतिचायः इति, कालंजरगिरिरितिक्षेत्रविगंधःस्पष्टमन्यत् अर्थ गीगंज मात्रावृनमिदं तयाचाच मभियुक्तरभिनववृत्तरत्नाकर 'तुग्गीभिब्रिभिर गीति तुगाब्दा हि चतुष्कलात्मकपरः। गजम्थयानि तुरंगचतुष्कला भवन्नाम । तत्रैव विशद परिभाषितत्वात । तथा च प्रतिपादं चतुर्मात्रानाशात्रय यत्र तदधांगी संज्ञकंवृनं भवतीत्यर्थः । २१ । ॐशिवाप्रियाय नमः। मनिधृतिः कृनिवलं गर्गमिंद्रियं मनः ॥ समस्तमेव त शिवा भवाननः शिवामियः ॥ २२ ॥ शिवा चिच्छक्तिः प्रिया स्वात्माभिन्नत्वेन परमप्रेमास्पदीभृता यस्यति शिवाप्रियः । नमस्तव्य- नेनौकानुतात्मकः सर्वोऽपि प्रपंचः परमशिवाभिन्नपराशक्तिस्वन्पवयुक्तं भवति। तयाचजमनियुनः शरीरमविदवत्तमंतरात्मा ज्ञानक्रियाकारण मामन जालमिच्छा ॥ ऐश्वर्यमावरणमायतनानि च त्वं किं तन्न यद्भवति दवि शशांकमाळेः ' तथा 'शंभाजानक्रियेच्छावलकरामनःशांतितेजः स्वोंकाकारादिव्यामनवरमहिषीनोग्यधर्मम्वन्या नवर्तपतः स्वयमपि च परब्रह्मणस्तस्य शतिः सर्वश्वकमामिमुनिभिरभिनता वेदतंत्राभियुन्ना इति। शेषमतिरोहिताम् । प्रमाणिकामंजई वृत्तनिद्र प्रमाणिका जरों लगा इनिपंगल सत्रात्प्रतिपाई जगणः गणः लघुगुनश्चेति ॥ २२ ॥ ॐ उग्राय नमः। उच्यम्यतनिग्विटजनानामुदन्छस्यप्यथ जगदम् ॥ प्रव्यक्तः सन्कनखलीलगे वायरित्रमामि तदुनः ॥ २३ ॥ उसमवाये इति थाती: उच्यति सर्वलोकांतः समवेतो भवति वा उकाताच्छन्द्र- च्छति सर्वस्मादपि लोकाद उर्च वर्नन विश्वानीगी भवनि का उग्र इत्यभिप्रायशाह उच्यतीत्यादि निखिल जनानामखिन्छलोकानामुच्यामि मनवनाऽसि नचलोडांतर्ध्यापक इत्यर्थः । उद्गच्छनि कर्म ध्यामापि अतएव कनखलाख्य क्षेत्रविगंप उग्रवरा प्रयत्नाऽसि व्यष्टिमनट्यात्मकप्रपंचमात्रव्यापि त्वेन स्थूलाभावव्यातः । अथवा वाय्वधिष्ठातृमृतिविशेषा वा उग्र इत्याह वायोतिरिति शिवयुगो स्पंदयन्यवनों विश्वं विमति यंदत च यत् ॥ उग्र इत्युच्यत समिती मद्रस्य वेबमः इति । श्रुति प्रसिद्धं चेई नाम 'नम उग्राय च भीमाय च इति । मनाल्यं वृत्तमिदं नया च पंगलमूत्रं 'मना म्मीसो । प्रतिपादं मगणः भगणः मुगणः गुनधन्यतदृनं मनायं मुवतीत्यर्थः । तथा चोट ममियुक्तः । 'युक्ता मना मममगुयना । इति ।। २३ ॥

ससुधापूररत्नावालसहिता। २७ ॐ कपालिने नमः। कमलभवकरोटिवातमालाधरत्वात्तदधिकवलशाली भासि कंकालनाथः ।। परशिव करवीरक्षेत्रमध्यस्थलिंगे निवससि सुखंद्यो नामतस्त्वं कपाली ।। २४ ।। कपालमस्यातीति कपाली तथा कपालव्यूहमालाधर इत्यनेनाने कब्रह्मांडदर्शित्वलक्षणं सदात- नत्वं सूचितं तच्च समबलत्वविषमबलत्वाभ्यां बाधितं सदधिकब वत्चे पर्यवस्यतीत्यत आह तद- धिकेति तदपेक्षया कमलभवापेक्षया अधिकं बलमस्यास्तीति तथाचोक्तमन्यत्राभियुक्तैः 'कल्पांतरे द्रुहिणकोटिकरोटिमालाभस्मांगराकमलांगवराहशृगैः ॥ आकल्प एव तव भंगलविग्रहस्य लोकोत्तरं किमु बलं शिव न व्यनक्तीति । कंकालनाथ इति पंचविंशतिम.यंतर्गतो मूर्तिविशेषः तदुक्तं वातुल- शुद्धे 'कंकालं षोडशं भवेत् इति। करवीरक्षेत्र इति। करवीराख्ये क्षेत्रविशेषे कालीश्वर इति नाना निवससीत्यर्थः । तथाच तादृशक्षेत्रे निवासयोगेन कपालमालाधारणाघ्या मूर्तिविशेषात्मकत्वाव- त्युभयथापि कपालीति भासीति प्रसिद्धो भवसीत्यर्थः । मालिन्याख्यं वृतनिई तथाच पैंगळसूत्रं ' मालिनी नौम्यौय्चेति । । प्रतिपादं नगणवयं मगणः यगगद्दयं चेत्ये द्वृित्तं मालिन्याख्यं भवती- त्ययः । तथाच वृत्तरत्नाकरे 'ननमयययुतेयं मालिनी भागिलोकैः । इति । अष्टाक्षरे सप्तमाक्षरे यतिरिति ॥ २४ ॥ ॐ कामारये नमः। कर्पूरश्वेत त्वं कामेच्छोटूरे निष्कामानामासन्नः ॥ दर्प कंदर्पस्य प्रक्षिण्वन्विख्यातोऽभूलोंके कामारिः ॥ २५ ॥ कामः कामनासौ अरि:शत्रुर्यस्य यदवाप्तौ कामना विरोधिनी स कामारिरित्याशयेनाह कामेच्छो- दूर इत्यादि । कर्पूरश्वेत इति संबुद्धिः कर्पूरवत्पांडुवर्ण इत्यर्थः । कामः काम्यमानपदार्थसमूहस्तमिच्छती तिकामेच्छुः सकामः कामनैकबद्धचित्त इति यावत् । तस्य दूरे विदूरवर्ती तथाच कामनारूपप्रती- बंधग्रहग्रस्तत्वान्न कथंचिदपि परमशिवभावैक्यं प्राप्तुं शक्नोतीत्यर्थः । एतेन यदवाप्तौ कामना विरोधिनी स कामारिरितिपदव्युत्पत्तिः सूचिता । तामेव पुनर्व्यतिरेकमुखेनापि दृढयति निष्का- मानामिति निर्गता कामना एभ्यः फलविषयकात्याशाशून्यानामित्यर्थः । आसन्नः प्रत्यासनस्त- निकटवर्तीति यावत् । कामनारूपप्रतिबंधकविरहानिसर्गत एव परं परमशिवभावं प्राप्नोतीत्यर्थः । तथाचोक्तं शिवपुराणे 'फलोद्देशेन देवेशि लघुर्मथि समाश्रयः ॥ फलार्थी तदभावे मा परित्यक्तुं क्षमो यत । इति । तथा शिवगीतायामपि 'त्यका पुत्रादिषु स्नहं निष्कामी निष्परिग्रह.|यावज्जीवं विरक्तः संल्लिंग एवार्चयेच्छिवम् ।। एकेन जन्मना तस्य ददाम्यते परिग्रहम्' इति । तथा च लैंगेऽप 'महादेवपरा नित्वं चरंतो ह्यध्वरेतसः ॥ अर्चयंति महादेवं वाङ्मनःकायसंयताः ॥ रुद्रलोक

No text on this page.

समुधापूररत्नावालसहिता। २९ , ॐ गंगाधराय नमः। अमरतटिनी निजं बलमवेक्ष्य भवच्छिरसि गानादपीपतदतीव वेगोद्धरा ॥ पटुतरजटाटवीमुपगता न दृष्टा कचित्वरमशिवतां दधन्निगदितोऽसि गंगाधरः॥२७॥ अमरेत्यादिः । धरतीति धरः गंगाया धरः गंगाधरः इत्याशयेनाह अमरतटिनी स्वर्नदी कुटिला- परनाम्नी निजं बलमवेक्ष्य स्वीयपराक्रमातिशयविशेषमालोच्य गर्वाद्वस्तुतः परमशिवभावानपायि- न्या अपि परागक्तेः कुतोऽपि ब्रह्मशापात्प्राप्तब्रह्मपरभाव जलरूपायाः पुनस्तत्प्राप्तिपूर्वकेच्छाविहारमहो- त्सवानुभवो भावीति स्व स्वरूपानुसंधानप्रयुक्तपारवश्यात् । अथवा स्वर्गमृत्युपातालाख्येघु त्रिध्वतीव वेगादतवरत्याः मम धारणे के वा शक्ताः स्युर्न कोऽपि शक्नोतीत्याहंकारिकवृत्तिविशेषाद्भव- च्छिरसीति । अन्यत्र सामयदेशनाभावादितिभावः । तथाचोक्तमारण्यके पर्वणि भगी- रथं प्रति गंगायाः ‘करिष्यामि महाराज वचस्ते नात्र संशयः ॥ वेगं तु मम दुधर्ष पतंत्या गगनच्यु- तम् ॥ न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ॥ अन्यत्र विबुधश्रेष्ठान्नीलकंठान्महेश्वरात् । इति अन्यत्रापि ब्रह्मतस्तवे दीक्षितैरप्युक्तम् ‘गंगा धृता न भवता शिव पावनीति नास्वादितो मधुर इत्यपि कालकूटः ॥ संरक्षणाय जगता करुगातिरेकात्कर्मद्वयं कलितमेतदनन्यसाध्यम् । इति । अतिवेगोटुरेति । अत्यंतवेगेन उध्दुरा त्वरितगामिनी गगनादपीपपतझ्योम्नः पुनः पुनरापतत् । एवंभूतापि सा पराशिवपटतरजटाटवीमनुप्राप्य इच्छाविहारवनवासमहोत्सवायनुभवनेच्छया स्वसा- मर्थ्यावगुंठनप्रयुक्तलज्जया वा क्वचिदपि न दृष्टेत्यर्थः । एवंभूतगंगाधारणाद्नंगाधर इतिनाम्न लोके गिदितो भवसीत्यर्थ.। मालाधराख्यं वृत्त मैदम् । तथाच पैंगलानामुक्तिः 'नसजसय लागुरुर्याद तदेष मालाधरः प्रतिपादं नगणः सगणो जगणः सगणः यगणश्चति पंच गणा लघुर्गुरुश्चेनद्वृत्तं मा- मालाधराख्यं भवतीर्थः ॥ २७ ।। ॐ ललाटाक्षाय नमः उडुशशिरविसंहर्ता प्रलयसमयसप्ताचिः ॥ तमुपारिनयने विभ्रद्भव भवसि ललाटाक्षः ॥ २८ ॥ उद्धिति ललाटे अक्षि नयनं यस्येति ललाटाक्षः उडवो नक्षत्राणि शशी चंद्रः रविर्भानुस्तेषां संहर्ता संहारको यः प्रलयसम सप्तार्चिः प्रलयकालीनप्रचंडोइंडवातोपहितानलः तमुपरिनयने बिभ्रन्नयनत्वेन स्वीकुल्ललाटाक्ष इति प्रसिद्धो भवसीत्यर्थः । स्पष्टमवशिष्टम् । भुजगशिशुभृताख्य वृत्तमिदं तथा च वृत्तरत्नाकरे ‘भुजगशिशुभृता नौमा इति । प्रतिपादं नगणद्वयं मगण इति गणत्र- यात्मकं भुजगशिशुभृताख्यं भवतीत्यर्थः ।। २८ ।।

ससुधापूररत्नावालसहिता। ३१ सह . भगवान्हरिः ॥ इत्यादिकमुत्का 'दैत्यैरन्येस्तथान्यैश्व रथनागतुरंगमैः ॥ संनद्धैः संन्नह्य शर्वं जेतुं ययौ बली ।। भवोऽपि देव्या दैत्येद्रं मेरुकूटमिव स्थितम् ।। सांबः सनंदी सगणः प्रोवाच प्रहसन्निव ॥ किं कृत्यमसुरशान युद्धेनानेन सांप्रतम् ॥ मदाणैर्भिन्नसर्वांग मर्तुमभ्युद्यतो बद , इत्यादिना पदांगुष्ठेन लीलयैव महार्णवे पातित इत्यादिकं तत्रैव प्रपंचितं 'कृत्वा र्णवांभसि च तं भगवानूथांगं स्मृत्वा जगत्त्रयजयेन सुरांश्च सर्वान् ॥ कामांधकोऽतकपुरत्रययज्ञमूर्ति लोकत्रयांतककरः प्रहसंस्तदाह इति । शुद्धविराट्संज्ञकं वृत्तमिदं तथाच पैंगलसूत्रं 'शुद्धविराम सौ ज्गौग' प्रतिपादं मगणः सगणः जगणः गुरुश्चैतद्वृत्तं शुद्धविराडिति भवतीत्यर्थः । तथा च वृत्त रत्नाकरे ' सौ ज्गौ शुद्धविराडिदं मतम् इतितल्लक्षणम् ॥ ३० ॥ ॐ भीमाय नमः। भिया वातो वाति ज्वलनदिनकरौ शक्रमृत्युप्रचेतो मुखादेवास्त्वत्तोभयचकितहृदस्तत्पराः स्वस्वकार्ये । नभोधिष्ठात्री ते तनुरतिविपुला सप्तगोदावरे च प्रतीतस्त्वं लिंगे गिरिवरतनगगनाथ तेनासि भीमः ॥ ३१ ॥ भियोति बिभेत्यस्मात्सर्वमिति भीमस्तदेव दर्शयति वातः वायुः ज्वलनः वन्हिः दिनकरः सूर्यः, शक इंद्रः मृत्युः कालः, प्रचेता वरुणः भयचक्तिह्रदः भयेन चकितानि विव्हलीभूतानि दयानि येषां तादृशस्तत्पराः । तथा च वावग्न्यकेंद्रमृत्युवरुणप्रभृतयो ये देवगणास्ते सर्वेऽपि परमशिवप्रयुक्तभयाकुलितहृदयाः तत्तन्मर्यादानल्लंघनेन स्वस्वकार्येषु शोषणदाहनप्रकाशनरक्षण प्राणिहरणाप्यायनरूपेषु निरंतरमप्यासक्ता भवन्ति इत्यर्थः । तथा च श्रुतिः 'भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चंद्रश्च मृत्यु(वाते पंचम ? इति । तथा' यदिदं किंच जगत्सर्व प्राण एजति निःसृतं महद्भयं वज्रमुत्थितं य एनं विदुरमृतास्ते भवति इति एवं निर्देशेन शिवस्यैव भेदैः प्राणादिमिनिजैः ॥ विभाति सर्वभूतानां शरीराणि प्रभंजनः ॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ पाकं च कुरुते व वन्हिः शंकरस्यैव शासनात् । इति । अथवा आकाशाधिष्ठातृ. मूर्तिविशेषो वा भीमपदवाच्य इत्याह नभ इति । परम.शवस्य जगद्व्यापिका या तनुः सैव नमोऽधि छात्री मातरित्यन्वयः । तदुक्तं शिवपुराणे 'सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥ मूर्ति मस्य भीमाख्या भृतवृंदस्य भेदिका ? इति । सर्वेषां प्रवेशनिर्गमावकाशदा भूतवृंदस्थ पृथिव्यादिचतुष्क- स्य पंचीकरणादिप्रक्रियया स्वानप्रवेशेन व्यावतिकति तदर्थादिति । सप्तगोदावर इति गोदावरी नदी यत्र सप्तधा भिन्ना स क्षेत्रविशेषस्तत्रत्यलिगे भीमेश्वर इति प्रसिद्धो भवसीत्यर्थः । गिरिवर- तमयामार्थति संबुद्धिः । श्रुतिप्रसिद्धं चेदं नाम 'नम उग्राय च भीमाय च इति । शोभाख्यं - ३० शिवनामकल्पलता । ॐकालकालायन नमः। मार्कंडेयः कालमुखाद्विमुक्तो दग्धो रुद्रः काल इति प्रसिद्धः ।। तूर्यां मूर्ति विभ्रदुमादिनाथ प्रख्यातोऽसि त्वं भुवि कालकालः ॥ २९ ॥ कलयति नाशयति इति कालः मृत्युः कालाग्निरुद्रो वा तस्यापि कालः उपसंहारक इति कालकाल इत्यभिप्रायेणाह मार्कंडेयः कंडुतनयः कालमुखात्कालस्य मृत्योर्मुखमास्यं तस्मान्मुक्त: मोचितः एतेन मृत्यूपसंहारकः इत्याद्या व्युत्पत्तिर्दर्शिता । मार्कंडेयमृत्युनाशनं च लैंगे प्रतिपादितं यथा 'ततो निशम्य कुपितस्तीक्ष्णदंष्ट्रो भयंकरः ॥ करालवदनः कालः पाशहस्तो महाबलः ।। सिंहनाई ततः कृत्वास्फोटयोच्चोञ्चैर्मुर्मुहुः ।। बबंध च मुनि कालः कालप्राप्तं तमाह च ।। मया बद्धोऽसि विप्रर्षे इतो नेतुं यमालयम् ॥ ब्रूहि वै देवदेवेन तव रुद्रग किं कृतम्॥ क शर्वस्तव भक्तिः कक्क पूजा पूजया फलम्।। क्वचाहं कनु मे भीतिश्चित्तबद्धोऽप्ति वै मया ॥लिगेऽस्मिन्सस्थितश्चैव तव रुद्रो महेश्वरः । निश्चेऽष्टोभून्महादेवः कथं कथय शंकरः । ततः सदाशिवः स्वयं मुनि निहंतुमागतं निहंतुमंतकं मनः स्मरांगयज्ञदाहकः।। स्फुरन्बहिर्गतो वराच्छिवः स्वयं त्रिलोचन स्त्रियंबकत्वचेष्टया च नंदिना गणेश्वरौइत्यादि।कालाग्निरुद्रोपसंहारकत्वाद्दा कालकाल इति द्वितीयां व्युत्पत्तिं दर्शयति दग्धो रुद्रइत्यादि। काल इति प्रसिद्धो यो रुद्रः सकलजगदुपसंहारकारकः कालाग्निरुद्र इत्यर्थः । तादृशोऽ पि दग्धः नाशित इति वा कालकाल इत्यर्थः । अथ परमशिवपंचविंशतिमूर्त्यतर्गता या अष्टमूर्तिस्तां विभ्रत्तदात्मकः सन्कालकाल इति प्रसिद्धो भवसीत्याह तूर्या मूर्तिमिति तथाचोक्तं वातुलशुद्धे 'काल कालमथाष्टमम् । इति उमादिनाथेतिसंवृद्धिः श्रुतिप्रसिद्धं चेदं नाम । 'ज्ञः कालकालो गुणी सर्ववि या इति । गुणांगीसंज्ञकं वृत्तमिदं तथैव पैंगला अ हुः स्तौज्गौगः स्यादव्धिनगैर्गुणागी? इति।प्रतिपाद तगणः जगणः गुरुद्वयं च चतुर्भिः सप्तभिश्च यतिः इत्येतद्वृत्तं गुणांगीसंज्ञक भवतीत्यर्थः ॥ २९॥ ॐ कृपानिधये नमः। देतयपु जलधरांदिषु स्वीयानामपकारिकवपि ।। सालोक्यादिपदानि दित्ससि त्वं ख्यातोऽसि ततः कृपानिधिः ॥ ३० ॥ कृपायाः प्राणिमात्रसंतापहरणेच्छाया निधिः आश्रय इति कृपानिधिः देतेयेष्वित्यादि दितिकुलसमुद्भूता ये जलंधरप्रभृतयो दैत्येंद्राः कामं सुरगणोन्मूलनकबवतास्तेष्वपि सालोक्यसा- मीप्यसायुज्यादिस्थानानि वितरन्कृपानिधिरितिप्रसिद्धो भवसीत्यर्थः । जलंधरदैत्यादीनां वाणांध- कासुरप्रभृतीनां परिग्रहः तथाचोक्तं लगे 'जलंधर इति ख्यातो जलमंडनसंभवः ।। आसीदंधकसं. काशस्तपसा लब्धविक्रमः । तेन देवा; सगंधर्वाः सयक्षोरगकिन्नराः ॥ निर्जिताः समरे सर्व ब्रह्मा न मगणः ।

३२ शिवनामकल्पलता। वृत्तमिदं तदुक्तमाभियुक्तैः 'रथाश्वाश्चैः शोभा यमनततगर्गेन युक्ता यदि स्यात् । इति प्रतिपादं यगणः, मगणः, नगणद्वयं, तगणद्वयं, गुरुदयं चेत्येतद्वृत्तं शोभाख्यं भवतीत्यर्थः ॥ ३१ ।। .. परशुहस्ताय नमः। अमोघचरितत्वं व्यनक्ति परशुस्ते ।। शिवागमवचोभिस्ततः परहशुस्तः ॥ ३२ ॥ अमोघेति । परशुहस्ते यस्येति बहुव्रीहिः 'प्रहरणार्थेभ्य । इतिवार्तिकेन हस्तशब्दस्य परनि- पातः । शिवागमवचोभिरमोघचरितन्वं तव परशुर्यनक्ति इत्यन्वयः । शैवे प्राधान्यप्रतिपादकाः ये आगमाः तदीयाभिवाग्भिरनन्यसाधारणाखिललोकरक्षणादिलक्षणमाचरणं व्यनक्ति प्रकटयती- त्यर्थः । तथा ' त्रैगुण्यं शूलमेतस्य परशुः सत्यनिष्ठता । इत्याद्याः प्रागुपदर्शिताः स्मृतयश्चानुसंधेया इति । कुमारललिताख्यं वृत्तमिदं तथा च पैंगलसूत्र ' कुमारललिता सार । प्रतिपाई जगणः सगण: गुरुश्चेत्येतदृत्तं कुमारललितःख्यमुष्णिग्भेदो भवतीत्यर्थः ।। ३२ ॥ ॐ मृगपाणये नमः। दारुवनस्थैरत्वाभिचरद्भिः प्रेषित एणो वेदशरीरः ।। याचनमद्रा वा तव हस्ते तर थितोऽसि त्वं मृगपाणिः ॥ ३३ ॥ मृगः पाणौ यस्येति तथा मृगोऽपि हननसाधनत्वात्प्रहरणमेव मृगशब्दो मृगवत्परो वा अयं च मृगः न प्राकृतः किं तु ऋषिकृताभिचारयुक्तवेदे परिणत इत्याह दारुवनस्थैरिति दारुकावनकृता वासैः परमाशिवं प्रत्याभिचरद्भिः अनिष्टमापादयद्भिश्चतुर्दशसंख्याकैरपि ऋषिभिः प्रयुक्तो योऽयं वेदात्मकशरीरशाली एणः मृगशिशुस्त्तस्य हस्ते धारणान्मृगपाणिरितिप्रसिद्धो भवसीत्यर्थः । पुरा हि भिक्षाटनव्याजेन सर्वी ऋषिपत्नीव्यामोहयंत संचरतं परमशिवं प्रत्यभिचारेणोत्पादिताः ये महागजव्याघादयो दुष्टजन्तवः ते चाकिंपित्कराः प्रत्युत व्याघ्रचर्माम्बरधरत्वादिरूपनाममात्रो- पक्षीणसामर्थ्यात्स्वरूपहीनाश्चाभवन्नित्यादिकं प्रतिपादितमन्यत्र तथाचोक्तं स्कादे 'ततो मग समुत्थाय शीघ्रमागच्छदंबरात् ।। सर्वाज्ञानविहीनांस्तान्मृगतुलल्यानिवाब्रुवन् ॥ आदाय वामहस्तेन दधारेशश्च निश्चल ? इति । तस्य मृगस्य वेदात्मकत्वमुक्तं मृत्युंजयध्याने 'स्वकरकलितमुद्रापाशवेद क्षमालम् । इति । अत्र वेदशब्दो मृगवाची ' मुद्रापाशमृगाक्षसुत्रविलसत्पाणि हिंमाशुप्रभम् । इति समानार्थकत्वेन ग्रंथांतरेषु प्रतिपादनात । अथवा मृगो मागणं याचनमिति यावत् । मृगया मृग? इत्यमरः। तदेव हरते यस्येति वा तथा च याचनमद्रेत्यत्र याचनाया मुद्रात्वोत्कीर्तनातू अशेषस्याप्याश्रितजनस्यानवरतमभिलापितान्कामानहमेव दास्यामाति संकलनेन सचनादनाविदिसिद्ध मार्ग ससुधापूररत्नावालसहिता। भक्तवात्सल्यं सूचयन्नाह याचनमुद्रा चेति स्पष्टमन्यत् । रुक्मवतीसंज्ञकं वृत्तामर्द तथाचौक्तं पैंगलसूत्र 'रुक्मवर्ती भूमौ स्गौ? प्रतिपादं भगणः मगणः सगणः गुरुश्चेत्तवृत्तं रुक्मवतीसंज्ञक भवतीत्यर्थः । तथाच वृत्तरत्नाकरे 'भ्मौ सगयुक्तौ रुक्मवतीयम् । इतितल्लक्षणात् । पंक्तर्भेदः ३३ ॐ जटाधराय नमः विविधतनुको दक्षध्वंसे बभूविथ यः पुरा मृगमनुययाचे कोऽन्यस्तु स्थितो मखमंडपे । अखिलसरितः पारावारान्पवित्रतरान्धराशिरसि कचतापन्नान्बिभ्रन्छुतोऽसि जटाधरः॥ पुराहि दक्षाध्वरहरणावसरे परशिवप्रकोपामिदाहे भयायज्ञपुरुषो मृगरूपेण पलायितः । अन्ये च सर्वे यथायथमज्ञातपूर्वचर्याः स्थगिताशयाश्चासन्। ततश्च भगवान्स्वयमेव साक्षाकिरातोपयुक्तचा- पबाणादिना तापसोपयुक्तजटादिना च द्विविधविशेषेण द्वे रूपे बभार । तत्रैकेन रूपेण यज्ञात्मकं मृगमनुससार । अपरेण चाध्वरशालाप्रविष्टजनहननोत्सुकमनाः स्थितः स एव च वीरभद्र इत्याख्या- यिका वामनपुराणे प्रसिद्धा यथा 'तमेवानुससारेशश्चापमानम्य वेगवान् ।। शरं पाशुपतं कृत्वा काल- रूपो महेश्वरः ॥ अर्धेन यज्ञवाटं च जटाधर इति श्रुतिः, इत्यादि । तामेवाख्यायिका प्रदर्शयति विविधतनुकइत्यादिना । स्पष्ट श्लोकार्धम् । अथवा केशाः संहतरूपेण सर्पाकारजटाः स्मृतास्तासां धरो जटाधरः इत्यभिप्रायणाह अखिलसरित इति । सर्वाश्च महानद्यः सर्वे समुद्राः शैलाश्च कुलाचलें प्रभृतयः शिरसि केशपाशतापन्नास्ता एव जटास्त्तासां धारणाज्जटाधर इति प्रसिद्धो मवसीत्यर्थः। तदु- तं वाराहपुराणे जटास्वरूपेण समस्तसागराः कुलाचलाः सिंधुवहाश्च सर्वतः॥ शशी परिज्ञानमिदं तव स्थितं न देव पश्यति कुदृष्टयो जना? इति | हरिणसिंज्ञकं वृत्तामिदं तथा च पैंगलसूत्रं ' हरिणी न्सौ- म्रास्लौग्रससमुद्रऋषयः इति । प्रतिपादं नगणः सगणः मगणः रगणः सगणः लघुर्गुरुश्चषभिश्चतु. भिः सप्तभिश्च यतिरित्येतद्वृत्त हरिणी भवतीत्यर्थः । तथाचोक्त केदारे 'रसयुगहयैन्साम्रोस्लौगाय दो हरिणी तदा । अयं तु अत्यष्टर्भेदो हरिणीसंज्ञकः । ३४ । अथ मूलम् कैलासवासी कवची कठोरस्त्रिपुरांतकः ॥बूपांको वृषभारूढो भस्मोद्धूलितविग्रहः ।। इदं नामसप्तकं निक्ति तत्रादौ प्रथमनामव्याख्यानं निर्वक्ति हरेरित्यादिना ॐ कैलासवासिने नमः हरेर्मुर्भिमरौ हिमे मंदराद्रौ भवत्केलिभूम्यो भवत्कलिगम्याः ।। तदूर्ध्वं परा ज्ञानलभ्यास्ति तासु स्थितत्वेन जातोऽसि कैलासवासी।। केलीनां विलासानां समूहः कैलमास्यतेऽस्मिन्नित्यासः आवासस्थानं कैलस्यासः तंत्र वस्तुं शीलमस्यास्तीति कैलासवासी तदेव दर्शयति हरेरित्यादि 'वैकुंठादूर्ध्वदेशे हिमगिरिशिखरे मंदराद्रौ

No text on this page.

ससुधापूररत्लावालसाहिता । आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते ॥ बलसंहननोपेता दर्पयुक्ताश्चरंति ताः ॥ अहं तु तप आतिठस्तस्मिन्काले शुभानने । एकपादश्चोर्ध्वबाहुर्लोकार्थं हि भवद्गिरौ ॥ गावो में पार्श्व आगत्य दपोसिक्ताः समंततः ॥ स्थानभ्रंशं तदा देवि चक्रिरे बहुशस्तदा । अपकारण चैतासां मनःक्षोभोऽ- भवन्मम ॥ तस्माइग्धा यदा गावो रोषाविष्टेन चेतसा ॥ तस्मिंस्तु व्यसने घोरे वर्तमाने पशून्प्रति ॥ अनेन वृषभेणाहं शमितः संप्रसादनैः ॥ तदाप्रभृति शांताश्च वर्णभेदत्वमागताः ॥ श्वेतोऽयं वृषभो देवि सर्वसंस्कारसंयुतः ॥ वाहनत्वे ध्वजत्वे च तदाप्रभृति योजितः ॥ तस्मान्मे गोपतित्वं च दैव!भिश्च कल्पितम् । इति । वृषस्य धर्मरूपत्वं स्कांदे प्रतिपादितं ' तस्माद्धर्मः सदा शंभोवृषरूपेण वाहनम् । इति । शैवागमे 'शुद्धस्फटिकसंकाशो धर्मरूपो वृषः स्मृत । इति । वृषशैलमिति क्षेत्रवि- शेषः । स्वागताख्यं वृत्तमिदं तथाच पैंगलसूत्रं स्वागता नौं भगौग्। प्रतिपादं रगणः नगणः भगणः गुरुद्वयं चैतद्वृत्तं स्वागताख्यं भवतीत्यर्थः । तथाच वृत्तरत्नाकरे ' स्वागतेति रनभाद्गुरुयुग्मम्। इति त्रिष्टुब्भेदः ॥ ३९ ॥ ॐ वृषभारूढाय नमः। नंद्यारोहात्रपुरदाहे हरिणा पृष्टे वेदाधानां गोवृषरूपे समुपात्तत्वात् ॥ धर्मज्ञानैश्वर्यविरागेषु निरूढत्वाद्विख्यातोऽसि त्वं सुरंदे वृषभारूढः ॥ ४० ॥ वृषसेचने इतिधातोः सर्वकामानां वर्षणादृषभः । 'ऋषवृषभ्यां कित् । इत्यौणादिको भष्प्रत्ययः। तमारूढो वृषभारूढः द्वितीयेतियोगविभागात्समासः । नंदिवाहन इत्यभिप्रायेणाह नंद्यारोहादिति । अथवा त्रिपुरदहनप्रस्तावे सकलदेवमयरथमधिरोहति परमशिवे तद्भाराक्षमतया भुनजानुषु वेदात्म- काश्वेषु हरिणा वृषभरूपेण स्वपृष्टभागे रथस्य धारणादिति परंपरया वा वृषभारूढ इत्यभिप्रत्याह पुरदाहेत्यादि । हरिणा विष्णुना वेदाश्वानां वेदात्मकानामश्वा- नामुपात्तत्वात् । तथाचोक्तं लैंगे ' इंद्रियाणि मन श्चैव भूषणानि समंततः ॥ श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः' इत्यायुपक्रम्य 'आरुरोह रथं युक्तंरणमंडलविभ्रमः ॥ सर्वदेवमयो भूत्वा कंपयन्निव रोदसीम् ।। ऋषिभिः स्तूयमानश्च वृतश्चाप्सरसां गणैः ।। सुशोभमानो वरदः संप्रेक्ष्यैव स सारथिम् ॥ तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम् ॥ शिरोभिः पतिता भूमौ तुरंगा वेदरूपिणः ।। अथ ध्वस्तात्रयस्यास्य भगवान्धरणीधरः ॥ वृषंद्ररूपी चोत्थाय स्थापयामास वै रथम् ॥ क्षणातरे वृषेद्रोऽपि जानुभ्यागमद्धराम् ।। अभीषुभिश्च भगवानुद्यम्य च भयाद्विधिः ।। स्थापयामास देवस्य वचनादै रथ शुभम् ।। ततोऽश्वांश्चादयामास मनोमारुतरंहसः ।। पुराण्युद्दिश्य स्वस्थानि दानवानां तरस्विनाम् । इति । अथवा वृषशब्दो धर्मवचनः । भाशब्दश्च ज्ञानपरः । ऐश्वर्यस्य धर्मसाध्यत्वा- द्वैराग्यस्य च ज्ञानस्य साध्यत्वाद्धर्मज्ञानेश्वर्यविरागाश्चत्वारोऽपि वृषपदप्रतिपाद्यास्तेष्वारूढो वृषभारूढस्तदैकनिष्ठ इत्यभिप्रेत्याह धर्मज्ञानेत्यादि । शेषं सुगमम् । गोवृषाख्यं वृत्तमिद तथाचोक्तमभियुक्तैः 'वेदैदिग्भिमीतयसा गोवृष उक्तो गौः प्रतिपादं मगणः तगणः सगणः गुरुदयं २ शिवनामकल्पलता। च चतुर्भिर्दभिश्च यतिरित्येतद्वृत्तं गोवृषसंज्ञकं भवतीत्यर्थः वृत्तनाम्नोऽपिसंग्रहान्मुद्रालंकारः ५० ॐ भस्मोद्धूलितविग्रहाय नमः। स्वांगे भस्म विलिंपन्नाथ ज्ञानांगशिरोवतमुपदिशासि ॥ भूतेशाभिधतीर्थेऽपि त्वं भस्मोद्धूलितविग्रहनामा ।। ४१ ।। भस्मना भूत्या उद्ध्वलितः विग्रहो देहो यस्य स भस्मोद्धूलितविग्रहः स्वांगे निजशरीरे भस्म भूतिं विलिंपयन्नाथेति संत्रुद्धिः ज्ञानांगेति परमशिवपरतत्वावगमननिदानभूतं यच्छिरोवताख्यं- कर्म तद्भस्मोदूलन मेवेत्युपदिशसीत्यर्थः । शिरोवतस्य भस्मोद्धुलनात्मकत्वं ब्रह्मविद्यांगत्वं च सौर- संहितायां मुंडके च प्रतिपादितं यथा 'अमिरित्यादिभित्रैः पत्रिशुद्ध्यत भस्मना ।। सर्वांगोद्भूलनं कुच्छिरोव्रतसमाव्हयम् । इति तस्मा एवैतां ब्रह्मविद्या वदेत शिरोवतं विधिविद्यस्तु चीर्णम्' इति च पापरोगपाशानां त्रयाणा भर्त्सनाद्रस्मेत्यर्थः । तत्र पापनाशकत्वं जाबालश्रुतौ प्रतिपादितं 'पा नाशयते कृल्नमपि जन्मशतार्जितम् । इति । रोगमर्सनं चानुशासनिके उमामहेश्वरसंवादे प्रदर्शितं 'रक्षार्थ मंगलर्थे च भस्म दत्तं मया पुग' इति । पाशनिर्हरणं ब्रह्मोत्तरखंडे प्रसिद्धं यथा 'उद्लनं त्रिपुंडू च मायापाशनिवृत्तये ॥ आचरंति मुनिश्रेष्ठा अथर्वशिरसि स्थितम् । इति ॥ तथा वासिठे लैंगेऽपि 'भर्त्सनाविपापानां पाशाना च महामुने ।। भस्मति कीयंते रक्षोरोगाणां चापि भर्त्सनात इति । भूतेशाभिधतथिमिति क्षेत्र विशेषः । शे स्पष्टार्थम् । पादाकुलकाख्यं वृत्तमिदं तथाच पेंगलसूत्रं एभिः पादाकुलकं पाइशमात्रापादैः' मात्रासमकादिजातिपंचकसंबंधिभियः कश्चिदनियमेन घटिता जातिः । पादाकुलकाख्यं वृत्तं भवतीति । तथाच वृत्तरत्नाकरे 'यदतीतकृतविविध- लक्ष्ययुतैमात्रासमादिपादैः कलितम् ॥ अनियतवृत्तपरिणामसहितप्रथितं जगत्सु पादाकुलकम् । इति ॥ ४१ ॥ .. अथ मूलम्। सामाप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ॥ सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः इति सप्त नामानि निर्वक्ति तत्रादौ सामाप्रयपदं व्याख्याति ॐ सामप्रियाय नमः चंदनस्पर्शशीतामृतस्पंदिनी सांत्ववाक्सामवेदोऽथ सामानि वा ।। तैः प्रयुक्तैरतीवेश संप्रीयसे गायसे तेन लोकेषु सामप्रियः ॥ ४२ ॥ चंदनेति । चंदनस्पर्शवच्छीतला चित्ताल्हादकारी अमृतस्यदिनी सुधावर्षिणी या सांत्ववाक्सव सामपदार्थः तत्र प्रियः सामाप्रिय इत्यर्थः । मुदुवाविप्रयत्वं च परमाशवस्य शिवधर्मोत्तरे प्रदात अमृतस्यदिनी वाचं :चंदनस्पर्शशीतलाम् ।। सर्वत्रेत्र प्रयुंजानः शिवलोके महीयते । यथा ससुधापूररत्नावालसहिता । साम्नश्व इति । सर्वाभ्यहितत्वात्तत्प्रीत्यौचित्यात् । तथाच श्रुतिः ऋचो ह यो वेद स वेद देवान्यजूंषि यो वेद स वेद यज्ञम् । सामानि यो वेद स वेद सर्वम् इति । तथा गाता, यामपि 'वेदानां सामवेदोऽस्मि? इति । अथवा सामानि गीतविशेषा ' गीतिषु सामाख्या। इति जैमिनिसूत्रात् । तत्र प्रियस्तथेत्याभप्रेत्याह । अथ सामानिवेति सामगानप्रियत्वं च परमशिवस्य प्रसिद्धमेव तथाचोक्तं भारते उपमन्यूपाख्याने 'ब्रह्मा भवं सदास्तोषीद्रयंतरमुदीरयन् ॥ ज्येष्ठसा- म्ना च देवेशं जगन्नारायणप्रभुः । इति । तैरिति यतः सामगानविशेषैः स्तूयमानः सन्नतीव प्रीयसे अतः लोकेषु सामप्रिय इत्येवं गीयस इत्यर्थः । स्रग्विणीसंज्ञकं वृत्तमिदं तथा च पैंगलसूत्रं 'स्रग्विणी रः' जगत्यधिकारात्प्रतिपादं चत्वारो रगणाश्चेत्तद्वृत्तं स्रग्विणीसंज्ञकं भवतीत्यर्थः। तथा च कैदारे लक्ष्यं रैश्चतुर्भिर्युता स्रग्विणी सा मता' इति ॥ ४२ ॥ 3 ॐ स्वरमयाय नमः। षड्जोदात्तपुखाः स्वरा अवयवा वेदैकवपुषःसाव व्यंजनको भवान्स्वरमयी शक्तिस्तव मता ॥ ॐ कारावयवेषु प्रभृतयो रुद्रेश्वरशिवाः सर्वे यस्य विभूतितां विदधते सोऽपि स्वरमयः ॥४३॥ स्वराः सप्त स्वराः गंधर्वशास्त्रप्रसिद्धा उदात्तादयो वा तन्मय इत्यर्थः । अथवा स्वरशब्दो यावद- सुपरस्तन्मयः । अथवा स्वरो नाम अच् । स चात्र विवक्षया प्रणवरूपः । 'यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ॥ तस्य प्रकृतिलीनस्य यः परः स महेश्वरः । इति प्रयोगदर्शनात् । तन्मय- स्तत्स्वरूपः सर्ववेदसारप्रणवात्मक इत्यर्थः । तदेव क्रमेण दर्शयति । षड्जेत्यादिना षड्जप्रभृतयः उदात्तप्रभूतयश्च ये स्वराः निषादर्षभगाधारषडजमध्यमधैवतपंचमाः उदात्तानुदात्तस्वरितप्रचयाख्या वा ते सर्वेऽपि आगमैकशरीरस्य परमशिवस्यावयवविशेषा एव ।'ध्वनीनामपि वर्णाना वेदो मूर्ति- रुदीरिता । इत्यागमवचनेन तेषां वेदैकवपुषः संभवात्। तथाचावयवावयाविनोरभेदात्स्वरमयत्वोपपत्ति- रिति भावः । यावद्वर्णात्मकत्वेन स्वरमयत्वं दर्शयति सांबेत्यादिना । सांबेति संबुद्धिः । व्यंजनक इति कादयः क्षांताः व्यंजनानि तदात्मकः परमशिवः । आदयो विसर्गाताः स्वरास्तन्मयी शक्तिः । शिवशक्त्योरभेदाच्च स्वरमय इत्यर्थः । तदुक्तं शैवतंत्रे ' आकारादिविसर्गीतस्वराः शक्तिरुदीरिता॥ ककारादिक्षफारान्ता वर्णाः परशिवः स्मृतः । इति । प्रणवात्मकत्वेन स्वरमयत्वं दर्शयति ॐ कारेत्यादि आकारोकारमकारनादबिंद्वाख्याः पंचावयवाः प्रणवस्य तत्र मप्रभृतयो रुद्रेश्वरशिवा इत्यनेन आका रोकारप्रतिपाययोः ब्रह्मविष्णुरुद्रेश्वरसदाशिवापरनामान: परमपुरुषास्ते सर्वेऽपि यस्य विभूतिता विधते त्वदीयसामर्थ्यातिशयवशात्स्वस्वकार्यकरणोपयुक्तसामथ्यशालिनो भवतीत्यतः स्वरमयो भवानित्यर्थः । 'प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥शिवरुद्रादिशब्दानां प्रणवो हि पर: स्मृतः॥ तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥ वाच्यवाचकयोरैक्यं मन्यमाना मनस्विन इति । चतुर्मा- त्रात्मकत्वेनापि प्रणवः प्रतिपादितस्तत्रैव यथा अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ।। अकारश्चायुकारश्च मकारो नाद इत्यपि ॥ अकारं बव्हचं प्राहरुकारो यजुरुच्यते॥ मकारः सामना ४० शिवनामकल्पलता। दोऽस्य श्रुतिराथर्वणी स्मृता ॥ अकारस्तु महान्बीजं रजः स्रष्टा चतुर्मुखः॥ उकारः प्रकृतियोनिः सत्वं पालयिता हरिः। मकारः पुरुषो बीजं तमः संहारको हरः ॥ नादः परः पुमानीशो त्रिगुणोऽ विक्रियः शिवः ।। एवं तिसृभिरैवैषां मात्राभिर्निखिलक्रियाः ॥ अभिधाय शिवात्मानं बोधयंत्यर्धमात्रया। इति । शार्दूलललिताख्यं वृत्तमिदं तथाचोक्तमनियुक्तैः 'छंदो भानुरसौ मसौ जसतसाः शार्दूललिलतम् । इति । प्रतिपादं मगणः सगणः जगणः सगणः नगणः सगणश्च द्वादशाभः पड्भिश्च यतिरित्येतद् तं शार्दूललालिताख्यं भवतीत्यर्थः ॥ ४३ ॥ ॐ त्रयीमूर्तये नमः। सांव ऋग्वेदकोऽस्यागलांतादाचनाभेर्यजुर्वेदरूपः ॥ नाभिदेशादधः सामवेदस्तेन तेऽभूत्रयीमूर्तिनाम ॥ ४४ ॥ ऋग्यजुःसाम्नां त्रयाणां समुदायस्त्रयी ' इति वेदास्त्रयस्त्रयीइत्यमरात्। सैव मूर्तिः शरीरं यस्येति । · त्रयीमूर्तिर्वेदत्रयीशरीरक इत्यर्थः । तदेव विभज्य प्रदर्शयति सांवेत्यादिना सांबति संवृद्धिः । आगलांतादिति ब्रह्मरन्धादि कंठांतमृग्वेदस्वरूपः । आ च नाभेरिति कंठादिनाभिपर्यन्तं यजुर्वेद- स्वरूपः । नाभिदेशादिति । नाभ्यादिपादपर्यंतं सामवेदस्वरूप इत्येवं वेदत्रयात्मकमूर्तिमानित्यर्थः । ननु देव्या एवं त्रयीमूर्तित्वं कूर्मपुराणे हिमवंतं प्रति देवीवचनेन प्रदर्शितं यथा ' ममेवान्या परा मूर्तिर्वेदसंज्ञा सनातनी ॥ ऋग्यजुःसामरूपेण सर्गादौ संप्रवर्तते' इति । तथाच शिवपुराणे ' शब्द जातमशेषं तु धत्ते शर्वस्य वल्लभा ॥ अर्थस्वरूपभखिलं धत्ते मुग्धेदुशेखर । इत्यशेषशब्दजालमूर्ति- कत्वं तस्या एव प्रपंचितमिति तत्कथं परमाशिवस्य त्रयीमूर्तिकत्वोपवर्णनमिति चेन्न । परमशिवस्य वस्तुतः पराशक्तिप्रयुक्तभेदाभावात् । तच्छरीरभिन्नशरीरतया च शक्तिप्रतापस्य परमशिव एव पर्यवसानादित्यभिप्रायेण तथोक्तमिति । सर्वमवदातम् । त्रयीसंज्ञकं वृत्तमिदम् । तथा चोक्तमाभ- युक्त: ' रन्द्रयक्षेत्रयीनामकं ग ' इति प्रतिपादं रगणत्रयं गुरुश्च यत्र भवति त्रयीसंज्ञकं वृत्तं भवतीत्यर्थः । अयं पंक्तेर्भेदो दशाक्षस्पारमाणः ॥ ४४ ।। ॐ अनीश्वराय नमः। ईश्वरत्वावधिर्यः सं सर्वेश्वरः ॥ तस्य नेशः परस्त्वं ततोऽनीश्वरः ॥ ४५ ॥ न विद्यते ईश्वरो यस्य सः अनीश्वरः । निरवधिकैश्वर्यशालीत्यर्थः । उच्चनीचात्मकेऽस्मिन्प्रपंचे सर्वेऽपि लोकास्तरतमभावेन तत्तत्प्राणिप्रवर्तकलक्षणेश्वर्यशालिन एवेति सावधिकमेवैतषामैश्वर्य निरवधिकैश्वर्यशाली च परमशिव एव । सर्वजगदीशितुस्तस्येश्वरांतरानपेक्षणादित्य श्वरत्वं तस्ये- त्यभिप्रेत्याह ईश्वरत्वति । ईश्वरत्वस्य सकलपाणिप्रवर्तकत्वलक्षणश्वर्यस्य योऽयमवधिमर्यादाश्रय' स एवं सर्वेश्वरः। तस्य सर्वेश्वरस्य ईशः नियंता परः अन्यः न विद्यते इत्यतस्त्वमेवानीश्वर इत्यर्थः । तथाच श्रुतिः' न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिंगम् ॥ स कारण कारण • .

ससुधापूररत्नावालसहिता । ४१ काधिपाधिपो नचास्य कश्चिज्जनिता नचाधिप । इति । इदं च श्रुतिप्रसिद्ध नाम । 'भावग्राहमनी शाख्यं भावभावकरं शिवम् । इति । विमोहाख्यं वृत्तमिदं तथा चोक्तमभियुक्तैः ‘रौ विमोहा यदि । स्रग्विणीति केचित्पेठुः । तस्योदाहरणं वृत्तरत्नाकरे स्याद्ररौ स्रग्विणीति । एवं च प्रतिपादं रगण द्वयं यत्र तद्विमोहाख्यं च स्रग्विण्यपि नाम द्वयात्मकं वृत्तं भवतीत्यर्थः ॥ ४५ ॥ 1 ॐ सर्वज्ञाय नमः। पत्रिंशत्तत्वी त्वय्येवाध्यस्ता ॥ सर्वाधिष्ठानं तत्त्वं सर्वज्ञः ॥ ४६ ॥ सर्व जानातीति सर्वज्ञः । षट्त्रिंशत्तत्वानां समाहारः षट्त्रिंशत्तत्वी तानि त्वय्येवाध्य- स्तानि तथा च प्रागुपदार्शतशिवशक्त्यादिघटितषट्त्रिंशत्वात्मकं यज्जगत्तत्त्वय्येबाध्यस्तम् । अत स्तदधिष्ठानत्वलक्षणं सर्वज्ञत्वं परशिवस्य तवैवेत्यर्थः । तथा च श्रुतिः ‘स विश्वविश्वकृत्त्वात्मयोनिः । विश्वकृविश्वाधि निमित्यर्थः । तथाच 'ज्ञः सर्वेकालो गुणी सर्वविद्यत इति इदं च श्रुतिप्रसिद्धं नाम यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपस्तस्मादेतद्ब्रह्म नामरूपमयं जगत् । इति । सर्वज्ञसंज्ञकं वृत्तमिदं तथाचोक्तमभियुक्तैः 'मोगौ सर्वज्ञ, इति। प्रतिपादं मगणः गुरुद्वयंचैतद्वृत्तं सर्वज्ञसंज्ञकं भवती- . त्यर्थः ॥ ४६॥ ॐ परमात्मने नमः। अतयमयस्त्वं भूतान्यखिलानि ॥ भूयः कथितोऽसि श्रुत्या परमात्मा ॥ ४७ ।। परमश्चासावात्मा च परमात्मा । पारम्यं त्वेतदखिलजंतुजालमभिव्याप्यतत्तत्प्रयोजनप्रवृत्ति जनकत्वलक्षणमन्तयामित्वंच तथाच श्रुतिः 'ततः परं ब्रह्म परं बृहतं यथानिकायं सर्वतंत्रेषु गूढं विश्वस्यै- वं परिवेष्टितारमीशानं ज्ञात्वा मुक्ता भवंति यो रुद्रोऽग्नौ यो अप्सु य औषधीषु यो रुद्रो विश्वा भुवनानिवे श 'सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः ॥ स एव कालो भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । यस्मिन्नुक्ता ऋषयो देवताश्च तमेव ज्ञात्वा मृत्युपाशं छिनत्तिा यो योनि योनिमधि तष्ठत्येक इत्यभिप्रेत्याह अंतर्यमयन्नित्यादि । भूतानि प्राणि: नः शेषं स्पष्टम् । इदं च तनुमध्याख्यं वृत्तम । तथा च पैंगलसूत्रं 'तनुमध्या त्यौ' प्रतिपादं तगण- यगणश्चैतद्वृत्तं तनुमध्याख्यं भवतीत्यर्थः । तथाच कैदारे लक्ष्यं 'त्यौ चेत्तनुमध्येति गायत्रीभेदोऽयम् ॐ सोमसूर्यमिलोचनाय नमः। भास्वदादयो लोचनानि ते मानसातिगं त्वा विदंति नो ॥ भांतमन्वमी भांति सांप्रतं तेन सोमसूर्याग्निलोचनः ॥ ४८ ॥ त्वदीयानि यानि सोमसूर्याग्न्यात्मकादीनि लोचनानि तानि मानसातिगं वो नो विदति म जानंति नप्रकाशयति चति यावत्। तत्र हेतुर्मानसातिगमिति मानसपदं चेंद्रियसामान्यवाचि तथा

४२
शिवनामकल्पलता।
चेंन्द्रियसामान्यजन्यवृत्तिविषयीकरणायोगत्वाज्जगत्प्रकाशकान्यपि त्वदिद्रियाणि त्वत्प्रकाशने अ
समर्थान्येवेति भावः 'यतो वाचो निवर्तते अप्राप्यं मनसा सहा इतिश्रुतेः।एतेन सामसूर्यानयो लोचनानि
यस्येति नामव्युत्पत्तिः प्रदर्शिता । तदुक्तमानुशासानके उपमन्यूपाख्याने दिवसकरशशांकवान्हिनत्रं
त्रिभुवनसारमपारमीशमाद्यम्।। अजरममरमप्रसाध रुद्रं जगति पुमानिह को लभेत शांतिम्॥ इति ॥
किंच भांतं स्वतःप्रकाशमानं यमनुसृत्य अमी भास्वदादयः सूर्यादयो भांति प्रकाशते अतः सोमसूर्याग्नि
वल्लोचनयति प्रकाशयतीति सोमसूर्याग्निलोचनः इत्येवं निर्वचनमपि सांप्रतं युक्तमित्यर्थः । तथाच
च श्रुतिः 'न तत्र सूर्योभाति न चंद्रतारकं नेमा विद्युतो भाति कुतोऽयमग्निः तमेव भांतमनुभाति
सर्व तस्य भासा सर्वमिदं विभाति । इति । स्मृतिरपि 'न तद्भासयते सूर्यो न शशांको न पावकः ।।
यद्गत्वा न निवर्तते तद्धाम परमं मम इति इदं तुलोचनाख्यं वृत्तं तथाचोक्तमभियुक्तैः ‘रोयजौ गुरु-
लोचनं भवेत् इति। प्रतिपादं रगणः यगणः जगणः गुरुश्चैतद्वृत्तं लोचनाख्यं भवतीत्यर्थः। पंक्तभेंदोऽ
यं दशाक्षरपादोऽत्र ॥४८॥
हविर्यज्ञमयः सोमः पंचवक्रः सदाशिवः ॥ विश्वेश्वरो वीरभद्र गणनाथः प्रजापतिः ॥
इति नव नामानि विक्ति । तत्रादौ हविः पदं प्रपंचयति ।
ॐ हविपे नमः।
दुग्धमात्रस्य कुहरे यथा घृतं प्राणिमात्रस्य दहरे तथा भवान् ॥
चेतसा संमथित एव लभ्यते हृयमानं त्वमखिलं ततो हविः ॥ ४९ ॥
हविःशब्दो घृतवाची घृतमाज्यं हविः सपिरित्यमरात् । तत्सदृशाय नमः इत्येतद्वृत्तपुरःस-
मरमुपवर्णयति तथाहि दुग्धमात्रांतः संल्लीनमापि घृतं सम्यङ्मथनादहिःप्रकाशमापद्यते तथा प्राणि-
मात्रांतःसल्लीनोपि भवाञ्श्रवणायनकसाधनैर्मनसा पुनःपुनः परिचीयमानः प्राप्त इव भवसीत्यर्थः
तथा च श्रुतिः 'घृतामिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ॥ सततं मंथयितव्यं
मनसा मंथानभूतेन इति ॥ अथवा हविः हूयमानं सोमरसात्मकद्रव्यसामान्यं परब्रह्मस्वरूपं तावद्रूप
इत्यर्थः । तदुक्तं शिवपुराणे ' रजसा तं महादेवी देवो रसयिता शिव । इति । तथा च मोक्तव्य-
वस्तुमात्रस्य देविरूपतया तदभेदात्परमशिवोऽपि तद्रूपः । तथा 'ब्रह्मार्पणं ब्रह्म हविब्रह्माग्नौ
ब्रह्मणा हुतम् ॥ ब्रह्मैव तेन यंतव्यं ब्रह्मकर्मसमाधिना । इतिस्पृतेः । ब्रह्मात्मकहवील्पत्वं तस्येत्य-
भिप्रेत्याह हूयमानामित्यादि । स्पष्टमन्यत् । दुग्धाख्यं वृत्तमिदम् । तथाचोक्तमाभयुक्तः ' दुग्धवृत्तं
रमजरैरुदीरिम् । इति । प्रतिपादं रगणः भगणः जगणः रगणश्चैतद्वृत्तं दुग्घाख्यं भवतीत्यर्थः
जगत्या भेदोऽयं दादशाक्षरपरिमितपादः ॥ ४९ ॥

ससुधापूररत्नावालसहिता।
४
ॐ यज्ञमयाय नमः।
वेदः पादो युपो दृष्ट्रानलचयनरसनवदनस्तनूरुहधर्मकः
सौवश्वंचुः सर्पिनीसो दिवसरजनिनयनयुगः करसवनत्रयम् ।।
औद्गात्रांत्रो वेदीस्कंधश्च चरणयुगुलमुपनिषत्प्रवर्यकचभ्रमि-
वक्षोदाक्षिण्यो मंत्रास्फिग्विविधमखकरणतनुकोऽसि यज्ञमयाभिधः ॥५०॥
यज्ञमयो यज्ञस्वरूपः मयटः स्वरूपवाचित्वात् तथाच 'यज्ञो वै विष्णुः । इत्यादिश्रुत्यवग-
तयज्ञपुरुषात्मकतोपयुक्तैस्तत्तदवयवैः परमशिवमेव प्रस्तौति ‘वेदः पाद ' इत्यादिना यज्ञांगाना-
मेव परमशिवांगत्वादिादीनां पादत्वायुत्कीर्तनम् । अनलचयोति । अनलरसनः चयनवदनश्चे-
तिक्रमेणान्वयः । तनूरुहाणि रोमाणि तान्येव धर्माः धर्मस्वरूपाणि यस्य स तनूरुहधर्मकः । स्रुव एव
स्रोवस्तदात्मकं चंचुः दीर्घनासाग्रावशेषः सर्पिराज्यं तदात्मिका नासा यस्य सः सपिर्नासः
दिवसरजनी दिवसरात्री तदात्मकं नयनयुगं यस्य सः दिवसरजनिनयनयुगः । सवनत्रयमिति
प्रातमध्यंदिनं तृतीयं चोत सवनत्रयात्मकः करः औद्गात्राण्येव आंत्राणि यस्य सः औद्गात्रांत्रः
वेदिकास्वरूप एव स्कंधः उपनिषदात्मकं चरणयुगलं पादद्वयं प्रवर्यात्मक एव कचभ्रामः
जटानां ग्रंथिविशेषः । वक्षः उरः दाक्षिण्यं दक्षिणास्वरूपं यस्य सः । मंत्रा एव स्फिक् कटिपा-
वसंधिविशेषो यस्य सः इत्येवंरूपाणि विविधानि नानारूपाणि यानि मखकरणानि यज्ञांगानि
तत्तनुकः तन्मूर्तिक इत्यर्थः तथाचोक्तं हरिवंशपद्मपुराणयोः परमाशिवं प्रक्रम्य वेदपादो
यूपदंष्ट्रः ऋतुहस्तश्चितीमुखः ॥ अग्निजिलो धर्मरोमा ब्रह्मशीर्षा महातपाः ॥ अहोरात्रेक्षणो
देवो वेदांतश्रुतिभूषणः। युवतुंडश्चाज्यनासः सामघोषस्वनो महान् ॥ धर्मसत्यमयः श्रीमान्क्रमवि-
क्रमसक्रियः ॥ प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ॥ औद्गात्रांत्रो होमलिंगः फलबीजम-
हौषधीः ॥ वाय्वंतरात्मा मंत्रास्फिग्विकृतः सोमशोणितः ।। वेदीस्कंधो हविर्गधो हव्यकव्यातिवेगवा-
न् । प्राग्वंशकाशो द्युतिमान्नानादीक्षाभिरर्चितः । दक्षिणाहृदयो योगी महामंत्रमयो महान् ।।
उपाकर्मोष्ठचुबुकः प्रवर्यावर्तभूषणः॥ नानाछंदोगतिपथो गुह्योपनिषदासनः॥ छायाफली सहायो वै
मेरुशृंगमिवोत्थितः” इति। भुजंगविजभिताख्यं वृत्तमिदं तथाच पैंगलसूत्र ‘भुजंगविजंभितं मौलो.
सौँ लगौ वसुरुद्रऋषयः । तथाच केदारे लक्ष्यं वस्वीशाश्वछेदोपेतं ममतनयुगनरसलगैर्भुजंगावजूं-
भितम् । इति । प्रतिपाद मगणद्वयं तगणः नगणत्रयं रगणः लघुगुरूंश्च अष्टाभिरेकादशभिः सप्तभिश्च
यदि यतिरित्येतद्वृत्तं भुजंगविजृभिताख्यं भवतीत्यर्थः ॥ ५०॥
ॐ सोमाय नमः।
मूर्तिष्वष्टास्वीश तवैका रजनीशो ज्योषिष्टोमस्तस्य हविश्चैडविडश्च ।।
सौराष्ट्रस्थस्त्वं शिवगंगायमुनस्थो गौर्या साकं नित्यविहारीति च सोमः ॥ ५१ ॥

४४ शिवनामकल्पलता। मूर्तिध्विति अष्टमूर्तिषु । चंद्रात्मकत्वाज्ज्योतिष्टोमात्मको यः ऋतुविशेषस्तत्र सोम इति प्रसिद्ध- त्वाद्वा तत्साधनीभूतं च यद्धविहूयमानसेोमरसात्मकद्रव्यविशेषस्तदात्मकत्वादा एडबिडः कुबेरस्त- दात्मकत्वादा सौराष्ट्राख्यो यो देशविशेषस्तत्र सोमनाथ इतिप्रसिद्धत्वादा गंगायमुनयोर्यत्र संगमस्त- देशे विराजमानत्वादा उमया सह वर्तमानत्वादा सोमत्वं परमशिवस्येत्याह । रजनीशः सोमः अंशां- शिनोरभेदात् । स्वांशभूतसोमसूर्यात्मकत्वमस्येति भावः । 'यज्ञो वै विष्णुः । इत्यादिश्रुतेर्योतिष्टो- मात्मकत्वं तस्य सोमरसस्यापि परमशिवात्मकत्वं हविष्वात् । स्कांदे सनत्कुमारसहितायां काशीग- तदाल्भेश्वरलिंगप्रस्तावे प्रतिपादितं 'मतीनां च दिवः पृथ्व्या वन्हेः सूर्यस्य वत्रिणः ।। साक्षाद- पि च विष्णोश्च सोमो जनयितेश्वर । इति । इदं च' सोमः पवते जनिता मतीनाम् । इत्युच उप- हणम् । ऋचि तु पूयमानत्वेन सोमस्य कीर्तनात्सोमरसस्य शिवात्मकता कुबेरस्यापे सोमत्वं मंत्रतंत्रे प्रतिपादित गौर्या साकमित्यनेन योगार्थः प्रदर्शितः । एतेन व्यष्टिसमष्टव्यात्मकं निखिलवस्तुरूपं परमशिवस्येत्युक्तं भवतीत्यर्थः । श्रुतिप्रसिद्धं चेदं नाम नमः सामाय च रुद्राय च । इति । मत्तमयूराख्यं वृत्तमिदम् । तथा च वृत्तरत्नाकर लक्ष्यं 'वैदै रंधैम्तायसगा मत्तमयूरम्' । मगण: तगणः यगणः सगणः गुरुश्चेति मत्तमयूराख्यं भवतीत्यर्थः ॥५१॥ ॐ पंचवक्राय नमः। सर्वेशब्रह्मतत्वेंद्रियविषयकलाभूतसादाख्यमूर्ति- प्वेकैकश्येन पंचात्मसु तव वदनेष्वादिहीनेषु सत्सु ।। योऽयं मुंदोपसुंदासुरहनननिमित्ताप्सरस्तल्लजेक्षाः प्रादुभावः स तद्भक्त्यतिरभसकृते जायथाः पंचवक्रः ॥ ५२ ॥ अर्धादिभेदेन पंच वक्राणि यस्येत्यर्थः । सर्वेशेति ब्रह्माणि च तत्वानि चेंद्रियाणि च विषया- श्व कलाश्च भूतानि च सादाख्याश्च मूर्तयश्चेति द्वंदः । एकैकश्यन एकैकशः प्रत्येक प्रत्यकमि- तियावत् । पंचात्मस्विति ईशानतत्पुरुषापोरवामदेवसद्योजाताख्यानि पंच ब्रह्माणि पुरुषप्रकृतिबुध्य- हंकारमनोज्ञानेंद्रियविषयाः वचनादानगमनविसर्गानंदाख्याः पंच कर्मेन्द्रियविषयाः निवृत्तिप्रवृत्ति विद्याशांतिशांत्यतीताख्याः पंच कलाः पृथिव्यप्तेजोवाय्वाकाशाख्यान पंच भूतानि शिवसादा- ख्यमूतिसादाख्यकर्तृसादाख्यकर्मसादाख्यानि पंच सादाख्यानि । ब्रह्माविष्णुरुदेश्वरसदाशिवाख्याः पंच मूर्तयश्चेति पंच पंचात्मकानि वदनानि चेत्यर्थः । तदुक्तं वायवीयसहितायाम् ' अथान्या- श्चापि तनवः पंच ब्रह्मसमाव्हयाः ॥ तनुभिस्ताभिरख्याप्तमिह किचिन्नविद्यते ॥ ईशानः पुरुषो घोरो वामः सयस्तथैवच ॥ ब्रह्माण्येतानि देवस्य मूर्तयः पंच विश्रुताः ॥ इति 'ब्रह्मा विष्णुस्तथा रुद्रो संसुधापूररत्लावालसाहिता! ४५ महादेवः सदाशिवः ।। मूर्तयस्तस्य विज्ञेया याभिविश्वमिदं ततम् । इत्यादि । तथा चैकात्मकेषु तव वदनेष्वनादिभूतध्वपि सत्सु योऽयं सुंदोपसुंदाख्यासुरहननार्थ विश्वकर्मणा निर्मिताया अप्सरस- स्तिलोत्तमाख्यायास्तस्याः सौंदर्यातिशयेन जगन्मात्रसंमोहिकाया दिदृक्षातः प्रादुर्भावस्त्वदीयः स तद्भक्त्युद्रेकमात्रप्रयुक्तो नत्वन्यार्थ इत्यर्थः । तिलोत्तमादिदृक्षाप्रयुक्तमुखाबाहुल्यसृष्टिश्चानुशास- निके उमामहेश्वरसंवादे प्रपंचिता यथा ' उमोवाच । भगवन्देवदेवेश सर्वदेवनमस्कृत ॥ चतु मुंखो वै भगवानभवत्केन हेतुना ॥ भगवन्केन ते वक्रमैंद्रमद्भुतदर्शनम् ।। उत्तरं चापि भगवन्प- श्चिमं शुभदर्शनम् ॥ दक्षिणं च मुखं रौद्रं केनार्थ जटिलावृतम् ।। यद्यादृशं महादेव श्रोतुमिच्छा- मि कारणम् ।। एष मे संशयो देव तन्मे शंसितुमर्हसि ।। महेश्वर उवाच ।। तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि भामिनि ॥ पुरा महासुरौ घोरौ लोकोद्वेगकरो भृशम् ॥ सुंदोपसुंदनामानावासतुर्बल गवितौ ।। अशस्त्रवध्यो बलिनौ परस्परजयेषिणौ ।। तयोरेव विनाशाय निर्मिता विश्वकर्मणा ॥ सर्वतः सारमुद्धृत्य तिलशो लोकपूजिता ॥ तिलोत्तमेति विख्याता अप्सरा सा बभूव ह ॥ देवकार्य करिष्यंती हावभावसमन्विता ।। मां तु पश्यंतमायाता रूपेणाप्रतिमा भुवि ।। मया बहुमता चेयं देवकार्य करिष्यति ॥ इति मत्वा तदा चाहं कुर्वतीं यां प्रदिक्षणम् ॥ तथैव तो दिक्षुश्च चतुर्वक्रोऽ भवं प्रिये ॥ रोद्रं मुखमिदं पूर्व तपश्चर्यापरं सदा ।। दाक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः ।। लोककार्यकरं नित्यं पाश्चिमं मे मुखं प्रिये ।। वेदानधीते सततं नाद्भुतं चोत्तरं मुखम् ॥ एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि , ॥ रूपेणाप्रतिमा सेयं तिलोत्तमा पश्यंतं मामागम्य उपसृत्य प्रदिक्षणं कुर्वती अतएव मया बहुमता च सती देवकार्य करिष्यतीति मत्वा तदाहमनेक मुखेन स्थित इत्यध्याहारेण वाक्यपूरणम् । तथैव यथा मया चिंतितं तथैव मामुपसृत्य प्रदक्षिणी- कृत्य मत्प्रसादबलेन देवकार्य साधयितुं प्रवृत्तां तां दिदृशुः द्रष्टुमिच्छुश्चतुर्वको भवामीत्यर्थः । एतेन अप्राकृतसौंदर्यनिधानभूतां पराशक्तिमेव साधनीकृत्य प्रवृत्तेन साक्षान्मदनेनापि चालयितुम- शक्यस्य ज्ञानवैराग्यतपःसत्यादिदिव्यगुणगणालंकृतस्य भगवतः परमशिवस्य प्राकृतसौंदर्याति- शयशालिन्यां तिलोत्तमायां या दिक्षा सा तद्भक्त्यतिशयमात्रयुक्तति भक्तपारवश्यं निसर्गसि- दमित्यतत्सूचितम् । एवंच सुदोपसुंदाख्यौ यावसुरौ तयोर्हनननिमित्तात्तद्धहेतुभुता या अप्सर- स्तल्लजा प्रशस्ता अप्सरास्तिलोत्तमाख्या तल्लजेत्यप्सराविशेषणम्। सौंदर्यवती तदीया याईक्षा ईक्षणं तत्प्रयुक्तः प्रादुर्भावः तत्कृते तदर्थः अजायथाः जातोऽसीत्यर्थः इति । स्रग्धराख्यं वृत्तमिदं तथा च पैंगलसूत्रं ' स्रग्धरा नौ भनौ यो यत्रिः सप्तकः । । तथा च वृत्तरत्नाकरे लक्ष्य ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । इति । प्रतिपादं मगणः रगणः यगणत्रयं च सप्तभिः सप्तभिश्च पादे यतिरित्येतद्वृत्तं स्रग्धरःख्यं भवतीत्यर्थः ॥ १२॥ भगणः नगणः ४६ शिवनामकल्पलता। ॐ सदाशिवाय नमः। यो विधीश्वरदृशा सदाशिवः तादृशोऽपि खलु यः सदाशिवः।। तस्य कालकलना कुतस्तदस्त्यौपचारिकतया सदाशिवः ।। ५३ ॥ सार्वकालीनः शिवः सदाशिव इत्यर्थः । नन्वर्थकालकृतपरिच्छेदशून्येऽस्मिन्परमशिवे सार्वका लीनत्वप्रतिपादकं सदेतिविशेषणमव्यावर्तकत्वादनुपादेयमेवेत्याशंक्य तव्यावृत्ति प्रदर्शयन्भक्ति- मार्गेण तथा प्रयोगः परमशिव इति प्रदर्शयति यो विधीश्वर इत्यादिना विधीश्वर इत्यायंतग्रहणादि ष्णुरुद्रयोः समुच्चयः । तथा च ब्रह्मविष्णुरुद्रेश्वराणां चतुर्णाम १ मूर्तीनामसमानकालीनत्वात्पंचमी सदाशिवाख्या मूर्तिस्तस्याअपि असमानकालीनत्वम् । परमशिवः सदाशिव इति गोणप्रयोगः। एवं ब्रह्मादीनां पंचानामपि असमानकालीनत्वमुत्तरोत्तरस्य पूर्वपूर्वापेक्षया चिरकालवतित्वं परमशिव- स्य कालानवच्छिन्न च प्रतिपादितं शिवपुराणे सृष्टिप्रकरणे केन मानेनास्मिन्काले आयुःसंख्या प्रवर्तत इति पृच्छतः नापीन्प्रति वायुवचनम् ‘आयुषोऽत्र निमेषाणां गणनान्मानमुच्यते ॥ अक्षिप- क्ष्मपरिक्षेपो निमेषः परिकीर्तितः ।। तादृशाना निमेषाणां काष्ठा तु दश पंच च । इत्यारभ्य 'चतुर्युगसहस्रं यत्तत्कल्प इति कथ्यते । इति कल्पमानमुत्का पुनर्वर्णितं ' कल्पो नाम दिवा प्रोक्तं ब्रह्मणो व्यक्तजन्मनः ।। कल्पानां वै सहस्रं तु ब्रह्मवर्षमिहोच्यते ॥ वर्षाणामष्ट साहस्रं यदेतद् ह्मणो युगम् ।। सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा ।। । कल्पते सकलः कालो ब्रह्मणः परमेष्ठिनः ।। तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ ब्रह्मा विष्णुदिने चैको विष्णू रुद्रदिने तथा ॥ ईश्वरस्य दिने रुद्रः सदाख्यस्य तथेश्वरः ॥ साक्षाच्छि- वस्य तत्संख्या तदा सोऽपि सदाशवः । तस्मिन्साक्षाच्छिवे नैव कालात्मा संप्रवर्तत । इति । अत्र चायमर्थः कल्पसहस्रमेको वत्सरः तादृशवत्सराणामष्टसहस्राण्येक युगं तादृशयुगसहस्रमेकं सवनं तादृशसवनानां नवसहस्री ब्रह्मणः परमायुः विष्णोरेकदिनं तादृशपरमायुः रुद्रस्य तादृशरुद्र- परमायुः महेश्वरस्य तादृशमहेश्वर परमायुः सदाशिवस्य एक दिनमिति सर्वत्र संवध्यते।परमशिवस्य तु कालकलनाविरहादेवं दिनमिति व्यवहारमात्र इत्यर्थः । अतएव तत्रैव देशान्तरे 'कालावच्छेद भेदेन गुरूणामप्यसौ गुरुः ।। सर्वेषामेव सर्वेशः कालावच्छेदवर्जित इति । योगसूत्रमपि — सर्वेषामपि गुरुः कालेनानवछेदात् । इति । तथा ' अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ उपचारस्तु क्रियते लोकानां हितकाम्यया । इति तस्येति । एतादृशस्य तव कालकलना कालकृतपरिच्छेदः कुत इत्युपचारमात्रेण परमशिवे सदाशिवतिप्रयोगो लोकानामित्यर्थः । इदं तु श्रुतिप्रसिद्धं नाम ब्रह्मा शिवो मे अस्तु सदाशिवोम् । रथोद्धताख्यं वृत्तमिदं तथा च पैंगलसूत्रं रथोद्धतार्लोिग। तथा च वृत्तरत्नाकरे ' रोनराविह रथोद्धता लगौ । इति । प्रतिपादं रगणः नगणः रगण: लघुर्गु- सश्चैतद्वृत्तं रथोद्धताख्यं भवतीत्यर्थः ।। ५३ ॥

ससुधापूररत्नावालसहिता। ४७ ॐ विश्वेश्वराय नमः। केवलं चिन्मयज्योतिरात्मैव काशी तेन सणि विश्वान्यतीतापि विश्वम्।। तत्र वासात्परिच्छेदबुद्धया गृहीतः काशिकाधीश्वरोऽपीश विश्वेश्वरस्त्वम् ॥ ५ ॥ विश्वेषामीश्वरः विश्वेश्वर इत्य मुम) प्रसिद्धिपूर्वकमुपपादयति केवलमित्यादिना चिन्मय- ज्योतिश्चित्प्रकाशामिका केवलमात्मस्वरूपैव काशीत्युच्यते तेन सर्वाणि विश्वान्यतीतापि अखिल- प्रपंचातिकांता सा विश्वमितिव्यवहारविषय एव । विश्वब्रह्मणोरनन्यत्वादिति भावः । तत्र तादृश्यां पुरि निवसनात्परिच्छेदबुद्ध्या काशिकाधीश्वर इति परिगृहीतोऽपि परमार्थबुद्ध्या विश्वेश्वर एव ब्रह्मसात्म्यिस्य श्रुतिस्मृतिप्रसिद्धत्वेन तदात्मिकाया पुर्या निवसितुग्प्युपपन्नं विश्वेश्वरत्वमिति भावः । स्पष्टमन्यत् । विश्वाख्यं वृत्तमिदं तथाचोक्तमभियुक्तैः ‘रैश्चतुर्मियुतं गेन युक्तं च विश्वम्। इति प्रतिपादं रगणचतुष्टयं गुरुश्चैतद्वृत्तं विश्वाख्यं भवतीत्यर्थः ५४ ॥ ॐ वीरभद्राय नमः । श्रीगौ- वीरः स्वीकृतः पुत्रवुद्धया क्रोधाग्निस्वेदोत्पादितो भद्रनामा ।। भद्रायोगाद्वा राजपूर्वासशालीस्तद्वांस्तद्रूपस्त्वं ततो वीरभद्रः ॥ ५५ ॥ वीर इति कश्चित्परमशिवपुरद्वारवर्ती गणविशेषः स च पराशक्तया पुत्रत्वेन परिग्रहीत इ- त्यतत्पद्मपुराणे प्रपंचितं यथा ' स एष वीरको देवि सदा मे हृदयप्रियः ॥नानाश्चर्यगुरुरि गणैश्व- यंगणार्चितः। ॥ इत्यादितत्प्रशंसाश्रवणोत्तरं देवविचनम् 'ईदृशस्य सुतस्यास्ति ममात्कंठा पुरांतक ।। कदाहमीदृशं पुत्रं द्रक्ष्याम्यानंददायकम् । शिव उवाच 'एष एव सुतस्तेऽस्तु नयनानंदहेतुकः । त्वया पुत्रः कृतार्थः स्याद्दीरकोऽपि सुमध्यमे, इति । तथा च वीरश्च भद्रश्च वीरभद्रौ तावस्य स्त इति काशीखंडे प्रतिपादितं 'ततस्तत्कोपजाइन्हेराविरास महाद्युतिः ॥ भद्रस्तु प्रतिभाकारः कालमृ- त्युप्रकंपन । इति तथा च वरिश्च भद्रश्च वीरभद्रौ तावस्य स्त इति वीरभद्र इत्यर्थः । अथवा दक्षा- ध्वरहरणार्थं परमशिवोत्पादितस्य वीराख्यपराशक्त्युत्पादिता या भद्राख्या शक्तिस्तद्योगाद्वार एवं भद्र इत्याह भद्रायोगादेति तदुक्तं वायवीयसंहितायां यथा 'दग्धं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम्॥ सहस्रवदनं देवं सहस्रचरणेक्षणम् ॥ तथा 'मन्युना चासृजद्भद्रां भद्रकाली महेश्वरीम् ॥ आत्मनः कर्मसाहित्या तेन गंतुं सहैव तु ॥ तं दृष्ट्वा वाछितं वीरं भद्रकालाग्निसंनिभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकर , इति । तथा च वीरश्चासौ भद्रश्च वीरभद्रस्तदानित्यर्थः । राजपू: राजपुरं तत्र वस्तुं शीलमस्यास्तीति तद्दासशाली । राजपुरमि- तिक्षेत्रविशेषः । व्यंकटाचलपरिसरे प्रसिद्धः । तद्वानिति द्वंद्वोत्तरं कर्मधारयोत्तरं वा मत्वर्थीयोऽध्य- ४८ शिवनामकल्पलता। त्यययोगासिद्धस्तद्रूप इति । तथाच वीरभद्रोभयवत्वाद्दीराभिन्नभद्रवत्वादा तद्वत्वं राजपुराख्यो- विशेषे वीरभद्रेश्वर इतिप्रसिद्ध्या तत्स्वरूपत्वं चेत्यर्थ इति । अत्र च वीरभद्रावतारः कल्पभेदेन बहुधा प्रपंचितः । तथाहि ब्रह्मांडपुराणोत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने यथा ' आ- दिदेवो महादेवो ललाटानलसंभवः ॥ एकं स्वेदपयोबिदु नखाग्रेणाक्षिपरिक्षतौ ॥ तत उत्थितवानेको लोकघस्मराविग्रहः ।। कालाग्निरिव दीप्तांगो वीरभद्रो गणेश्वरः ॥ वीरभद्रः स कैलासानिजगाम महाजवः ॥ तस्यैव रोमकुपेभ्यो दीप्तानिटिललोचनात् ।। काभ्यां चैव नां साभ्यां आस्याइंट्राभ- यंकरात् ।। प्रसूता बहवो लोकघस्मरा प्रमथेश्वरा' इति । तथा वामनपुराणे 'क्रुद्धस्य सर्वगात्रेभ्यो निश्चरुः सहसार्चिपः ॥ सह क्रुद्धा त्रिनेत्रास्यगात्ररोमांतरोद्भवाः ॥ गणासंख्यमुखा जाता वीरभद्र पुरोगमा । इति । तथा वाराहपुराणेऽपि यथा शुश्राव याजिनां चौचैरिंद्रागच्छेति कीर्तितः ।। ततः श्रुत्वा महातेजाः सर्वज्ञः परमेश्वरः ॥ चुकोप च भृशं देवो वाक्यं चेदमुवाच ह? इत्यादिना दक्षाध्वरश्रवणजन्यपुनरुक्तं ' तस्याननात्ततो ज्वाला गात्रेभ्यो निर्ययुस्तदा ॥ ततो भूतानि वेताल उच्छुष्माः प्रेतपूतनाः ।। कूष्माडा यातुधानाश्च सर्वे प्रज्वलिताननाः ।। उत्तस्थुः कोटिशस्तत्र नाना- प्रहरणान्विताः ।। एवं कृत्वा स सामग्री देवदेवः प्रतापवान् ।। जगाम दक्षयज्ञाय क्रोधाद्रुद्रः प्रतापवान् । इत्यादि । एवमन्यत्रापि अन्यथा प्रपंचितं तच्च प्रकृतानुपयोगान्नेह संलिख्यत इति।वैश्वदे वीसंज्ञकं वृत्तमिदं तदुक्तं पैंगले वैश्वदेवी मौ याविंद्रिय ऋषयः । । तथैव केदारे 'पंचाश्वैश्छिन्न वैश्वदेवी ममी यौ । इति । प्रतिपादं मगणयं यगणद्वयं पंचभिः सप्तभितिरित्येतद्वृत्तं वैश्वदेवी- सज्ञकं भवतीत्यर्थः ॥ ५५ ॥ . गणनाथाय नमः। शशिकरगुणमुखसंख्यानां प्रमथतुपितमयमुख्यानाम् ।। अधिपतिरसि शिव कैलासे पुरि निवसास गणनाथस्त्वम् ॥ ५६ ॥ गणः संख्या 'गणनं गणना गण । इति गणशब्दस्य संख्यावाचित्वात् । तथाच गणनानामैक- त्वादिपरार्धपर्यंतानां संख्यानां नाथो गणनाथ इत्यभिप्रेत्याह शशिकरेति शशी एकः करौ । गुणास्त्रयः । तथा च एकदित्रित्वमुखाः परार्धाता याः संख्यास्तासामित्यर्थः । अधिपतिरित्यग्रिमेण संबंधः अथवा नंदि गिमहाकालप्रभृतयो ये प्रमयगणाः 'आदित्यविश्ववसववस्तुषितभास्वरानिलाः।। महाराजिकसाध्याश्च रुद्राश्च गणदेवता इति । तुषितमुख्या गणपदव्यवहार्या देवाः । मयरसतज भनसंज्ञाश्च मयादिगणास्तथा च गणानां प्रमथादीनां नाथो गणनाथ इत्यभिप्रेत्याह प्रमथेत्यादि । यद्यपि मयरसादेर्गणसंज्ञा छंदःसूत्रेषु न दृश्यते तथापि 'लः समुद्रागण ' इति सूत्रस्य द्विमात्रा. दिषण्मात्रातानां गणसंज्ञाविधायकतापरत्वेन माध्यवातिकादौ व्याख्यानाददोषः । अथवा परमशि- वाष्टषष्ठिक्षेत्रपरिगणनायां गणनाथस्य कैलासाख्यक्षेत्रवासित्वेन प्रतिपादनात्तथेत्याह फैलासेत्यादि 1 ~ समुधापूररत्नावालसहिता। ४९ स्पष्टमन्यत् वृत्ताख्यं वृत्तमिदं तथा च पैंगला 'वृत्ता नौ स्गौग्। तथाचोक्तमभियुक्तैः ' इह नेन ससगयुतं वृत्तम् । इति प्रतिपादं नगणद्वयं सगणः गुरुद्वयं चेत्तद्वृत्तं वत्ताख्यं भवतीत्यर्थः ॥ ५६ ॥ ॐप्रजापतये नमः अंतरिक्षभूमिनाकसंस्थिता याः सहस्रशः सहस्रसंमिताः ॥ रुद्रनामिकाः प्रजाः सृजस्यतः स्थाणुनामको भवान्प्रजापतिः ॥ १७ ॥ प्रजानां पतिः प्रजापतिरित्यभिप्रेत्याह अंतरिक्षेत्यादि भौमांतरिक्षदिव्याः रुद्रनामिकाः सहस्र संख्याकाः याः प्रजाः ताः सहस्रशः सृजतीत्यर्थः । तथा च श्रुतिः 'सहस्राणि सहस्रशो ये रुद्राः अधिभूम्यां तेषां सहस्रयोजने वधन्वानि तन्मासि नमो रुद्रेभ्यो ये पृथिव्यां येतरिक्षे ये दिवि येषा- मन्नं वातोवर्षमिषवः । इत्यादि स्थाणुनामक इति तथा च वराहपुराणे गौरीविवाहप्रकरणे 'सर्गा- दौ ब्रह्मललाट उत्पन्नः प्रजापतीनामन्यतमः स्थाणुसंज्ञकः स एव प्रजाः सृष्ट्ववान् । जले ममस्त त्र चिरं स्थित्वा कालांतरे पुनर्जलादुत्तीर्य गणान्सृष्ट्वा तैः सहितो दक्षाध्वरं ध्वंसयामासेत्युक्तं यथा रुद्रकोधोद्भवो यस्तु पूर्व मनो महाजले ॥ सहस्रार्कसमाकाशो निश्चक्राम जलाद्यदा? इति एवं प्रजापतेः स्थाणुनामकत्वमित्यर्थः। श्यनिकासंज्ञकं वृत्तमिदं तथा च पैंगले 'श्येनीजॉलोगी तथा च केदारे 'श्योनिका रलौ रलौ गुरुर्यदेति । प्रतिपादं रगणः जगणः रगणः लघुर्मुश्चैत्तद्वृत्तं श्येनि काख्यं भवतीत्यर्यः ॥ ५७ ॥ हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनधः ॥ भुजंगभूषणो भर्गो गिरिधन्वा गिरिप्रियः ।। एतानि नव नामानि निर्वक्ति ॥ ॐहिरण्यरेतसे नमः त्वद्वीर्ययोगेन भवेद्धिरण्यं यद्वाग्निरूपोऽस्यथवा जलार्थम् ।। त्यक्तेन वीर्येण बभूव हैममंडं तदीशासि हिरण्यरेताः ॥ ५८ ॥ त्वदित्यादिना । हिरण्यं रेतो यस्येति बहुव्रीहिः । रेतसि हिरण्यशब्दप्रयोगश्च तज्जनकत्व रूपसंबंधनात् । 'आयुर्वं घृतम् । इत्यदिवदित्यभिप्रेत्याह त्वीर्ययोगेन भवेदिति । हिरण्यामिति पारदयोगेन हिरण्योत्पत्तिस्तु रसरत्नाकरादौ प्रसिद्धैव । ब्रह्माण्डपुराणेऽपि दानप्रकरणे यथा 'हिमवदुहिता पूर्वमुमानाम्नी पतिव्रता ॥ पूर्वजन्मनि सा चासीइक्षस्य तनया सती ॥ दक्षकोपात्तु तत्याज सती चात्मकलेवरम् ॥ हिमवदुहिता जज्ञे लोके गौरीति विश्रुता ॥ दत्ता तेनापि सा तस्मै प्रणिपत्य पिनाकिने । विवाहं कारयामास विधिवदुहितुस्तथा ॥ वैवाहिकेन विधिना जहावाग्निं पितामहः ॥ होमं च कुर्वतस्तस्य विकारो मान्मथोह्यभूत् ।। रूपं दृष्ट्वा ततो देव्या रेतः स्कन्न माहात्मनः ॥ पद्भ्यां च मार्दतं तेन बहुधा समपद्यत ॥ तत्रोत्पना महात्मानो वालखिल्या ५० शिवनामकल्पलता। मरीचिपाः ॥ अग्नौ विशेषमपतत्तच्चाभूज्ज्वलनप्रभम् || जाज्वल्यमानं तद्दीप्त्या चाग्निमध्यगत यथा ॥ शशंसि रेततो देवा दृष्ट्वा पुत्रं विभावसोः ॥ जगृहुः शिरसा चैव भूषणत्वेन योजयत् । एवं सुवर्णमुत्पन्नमानेयं ब्राह्मयमेव च ॥ पवित्रं परमं लोके सुवर्णेन समं क्वचित् ।। न दृश्यते द्रव्यजातं तदानं भूषणं तथा । इति । अथवा 'हिरण्यरेता दहनो हुतभुग्धव्यवाहन? इत्यमरा- दामस्वरूपत्वात्तथेत्याह । यद्देति अग्निस्वरूप इति । तदुक्तं शिवपुराणे 'अहमग्निशिरोनिष्ठस्त्वं सोम- शिरसि स्थिता ॥ अनीपोमात्मकं विश्वमावाभ्यां समाधिष्ठितम् । इति हिरण्यशब्दः हिरण्यात्मना परिणतब्रह्मांडपरः तदेव रेतो यस्येति तथेत्यभिप्रायेणाह । अथवेति जलार्धेत्यादि पुरा हि रुद्रेण सर्गादावपः सृष्टा तन्मध्यात्सृष्टस्य वीर्यस्य हेमात्मकब्रह्मांडात्मना परिणतस्य स्कादे सौरसहिताया प्रदर्शितत्वात् । यथा 'त्रिमूर्तीनां तु सर्गस्यानंतरं परमः शिवः ॥ शब्दादीनां तु भूतानामुत्पत्ति कुरुते स्वयम्' इत्यादिना त्रिमूर्तिसर्गमुक्त्वा 'सदाशिवेश्वरो रुद्रस्तथा नारायणो विधिः ॥ इतिनाम्ना प्रकीय॑ते तेषु रुद्रः शिवाज्ञया ॥ पुरस्तादण्डसर्गस्य ससर्जादौ द्विधा पुनः ॥ अपामेकांशके विद्वान्स्वयं वीर्यमथासृजत् ॥ तदंडमभवध्दैमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं विष्णुब्रह्मेशा- नसमन्वितः ॥ आपो नारा इति प्रोक्ताः सूक्ष्मास्ता मुनिसत्तमाः ॥ शिवस्य नरसंज्ञस्य यतः कार्याणि तास्ततः ।। ता यदस्यायनं प्रोक्तं तेत नारायणः स्मृतः । अंशोपाधिवशेनैव ब्रह्मोति परि कीर्तितः ॥ अपामंतरवस्थानान्नारायण इतीरित ' इति । जलाथें त्यक्तवीर्येण हैममंडं बभूवेत्यर्थः ईशेति संबुद्धिः। शेष सुगमम् । इंद्रवज्राख्यं वृत्तमिदं तथैव पैंगलसूत्रम् 'इंद्रवज्रा तौज्योग् । तथा च वृत्तरत्नाकरे स्यादिंद्रवज्रा यदि तौ जगौ ग' इतिचोभयसंमतेन प्रतिपादं तगणद्वयं जगणः गुरुद्वयमित्येतद्वृत्तमिंद्रवज्राख्यं भवतीत्यर्थः ॥ ५८ ॥ ॐदुर्धर्षाय नमः कैलासे शिखरिण पौलस्त्यप्रागल्भ्यं तृणसमतामाप । एवं सत्यभिभवकारिकस्तस्मात्त्वं भवसि हि दुर्धर्षः ॥ ५९ ॥ दुःखेनापि धर्षयितुमशक्यो दुर्धर्षः कथमप्यलभ्यो दुर्लभ इति प्रयोगात्सर्वातिशयबलशाली- त्यर्थ इत्यभिप्रेत्याह कैलास इत्यादिना । पौलस्त्यप्रागल्भ्यं पौलस्त्यस्य पुलस्त्यवंशोद्भवस्य दशा- ननस्य यत्प्रागल्भ्यमामायं यावदलं तत्तृणसमतां प्राप्तमित्यर्थः। को वा परमशिवपराभवकारी भवेन्न कोऽपीत्यर्थः। तथा च श्रुतिः 'न तत्समश्चाभ्यधिकश्च विद्यत इति । स्पष्टमन्यत् । पणवाख्यं वृत्तमिदं तथा च पैंगले ‘पणवो नौ यौ। तथैव कैंदारे लक्ष्यं 'नौयगोचेस्पणवकनामेदम्। इति- चोभयसंमतेन प्रतिपादं मगणः नगणः यगणः गुरुश्चेत्तदृत्तं पणवाख्यं भवतीत्यर्थः ॥ ५९ ॥ गिरीशाय नमः भूरिंगणे पदवाक्ये निष्कलुषे सुसमर्थः ।। पर्वतराडपि शंभो तेन मतोऽसि गिरीशः॥६०॥ 4

ससुधापूररत्लावालसहिता ।
गिरि वैदिकवाक्ये ईशः समर्थ इत्यभिप्रेत्याह भूरिगण इति । ईशइत्यस्य व्याख्यानं सुसमर्थ
इति । अथवा गिरीणां मेरुमंदरप्रभृतीनामीशः अधिपतिरिति तथेत्याह पर्वतराडपीति । पर्वताधि-
पत्यं च शिवस्य हरिवंशे धन्याश्चर्योपाख्याने नारदं प्रति पर्वतानां वचनेन दर्शितं यथा 'ब्रह्मर्षे
न वयं धन्या नाप्याश्चर्याणि संति नः। अस्माकमीश्वरः शूली गिरीशो वृषभध्वजः। नाश्चर्यो
वापि धन्यो वा तस्मात्परतरो भुवि इति । चित्रपदाख्यं वृत्तमिदं तथा च पैंगलसूत्रं 'चित्रपदा
भौगौ ।। तथा च वृत्तरत्नाकरे 'भौ गिति चित्रपदा गः' इत्युभय संमतेन प्रतिपादं भगणद्वयं
गुरुद्वयं चैतद्वृत्तं चित्रपदावृत्ताख्यं भवतीत्यर्थः ॥ ६॥
गिस्शिाय नमः
मेरुपर्वतमपि धनुर्हेतवे कृशयसि तराम् ।
पर्वते निवससि सुख नाथ तद्भवसि गिरीशः॥ ६१ ॥
गिरि मेरुपर्वतमपि श्यति चापाथै तनूकरोतीति गिरिशः। अथवा गिरौ शेत इति गिरिशः।
शयनं चात्र न प्राकृतं विवक्षितं किंतु सुखावस्थानात्मकमेवेत्याशयेनाह मेरुपर्वतमयीत्यादि ।
स्पष्टोऽप्यर्थः । इदं च श्रुतिप्रसिद्धं नाम । 'नमो गिरिशाय चा इति हलीमुखसंज्ञकं वृत्तमिदं तथा
च पैंगलसूत्रं ' हलीमुखी स ।। तथैव केदारे 'रान्नसा.वह हलीमुखीति चा उभयसंमतेन प्रतिपादं
रगणः नगणः सगणश्चेत्तद्वृत्तं हलीमुखसंज्ञकं भवतीत्यर्थः । संज्ञात्वेऽपि पिपल्यादेराकृतिगणत्वान्डीप्
भवतीति । 'नखमुखात्संज्ञायाम् । इत्यस्य न प्रवृत्तिः ॥ ६१ ॥
ॐअनघाय नमः
दुःखं नाथ न ते पापं च व्यसनम् ॥ त्रैलोक्याधिपते तस्मादस्यनघः ॥ १२ ॥
दुःखमिति । न विद्यते अघं पापं व्यसनं वा यस्मिन्सोऽनघः । मूल्ये पूजाविवर्षों-
हो दुःखव्यसनेष्वधम्' इत्यमरात् । तथा च दुःखस्य पापजन्यत्वाव्यसनस्य दुःखजन्यत्वात्पूर्व-
पूर्वापाये उत्तरोत्तरापायान्त्रितयशून्यत्वमत एव त्रैलोक्याधिपतित्वं चेत्याशयेनाह दुःखं पापं व्यसनं
चेति त्रितयमपि यतस्तव न विद्यते अतस्त्वमनघो भवसीत्यर्थः । 'अयमात्मापहतपाप्मा विजरो
विशोक' इति 'हृत्पुंडरीकं विरजं विशुद्धं विचिंत्य मध्येविदं विशोकम् । अचिंत्यमव्यक्तमनंतरूपं
शिवं प्रशांतममृतं ब्रह्मयोनिम्।। इति । 'समस्तसाक्षिं तमसः परस्तात् इत्यादिश्रुतेः' । 'अचिंत्यो
निर्गुणो नित्यो निरवद्यो निरामयः ॥ निदुःखो निरहंकारो निर्गुणो नित्यो गणनायकः ॥ इत्या-
यागमाञ्चेति । स एव विष्णः स प्राणः स कालामिः स चंद्रमाः ॥ स एव सर्व यदभूतं यच्च
भव्यं सनातनम् । इत्यादिश्रुत्या सर्वात्पकत्वेन त्रैलोक्याधिपत्यस्य प्रतिपादितत्वादित्यर्थः । अन-
घाख्यं वृत्तमिदं तथाचोक्तमभियुक्तैः । 'मोसश्चेदनध' इति । प्रतिपादं मगणः सगणश्चेत्तद्वत्तमन-
भाख्यं भवतीत्यर्थः ॥ ६२॥

५२ शिवनामकल्पलता। ॐभुजंगभूषणाय नमः अभिचारसमर्थदारुकावनगैः पहितानहीन ॥ दधद्रुडादपिविभ्यतस्तनौ कथितोऽसि भुजंगभूषणः ॥ ६३ ॥ भुजकौटिल्ये इतिधातोः भुजाभ्यां गच्छतीति वा भुजं कुटिलं यथा भवति तथा गच्छंतीति वा भुजंगाः त एव भूषणं यस्येति भुजंगभूषणः । अभिचारेति अभिचारेष्वन्येषामनिच्छापादनेषु समर्थाः कृतबुदयो दारुकावनगास्तद्वासिनो मुनयस्तैः प्रेषितान् । अथवा गरुडादेनतेयादपि विभ्यतो भयाकुलितचित्ताश्चाहन्सिर्पविशेषान्वासुकीप्रभृतीस्तनावाभरणत्वेन स्वीकुर्वन्भुजंगभूषण इति प्रसिद्धो भवसीत्यर्थः। तथाचोक्तं स्कांदे । ततः पंचफणा नागा निश्वसंतो विषोल्बणाः ॥ शीघ्रमुत्त्थाय कुंडेभ्यः समाजग्मुर्महेश्वरम् ॥ तानुपादाय नागेंद्रावलितानुपशोभितान् ॥ दधारा भरणत्वेन तेनासीन्नागभूषणः ॥ अपरैरपि नागेंद्रैवासुकिप्रमुखैः शिवः ॥ वैनतेयभयात्प्राप्तरलं चक्रे निजां तनुम्। इति । चारहासिनीसंज्ञकं वृत्तमिदं तथा च पैंगलसूत्रम् । 'अयुक्चारुहासिनी यस्यसर्वे पादा विषमलक्षणयुक्तास्तद्वैतालीयचारुहासिनीनाम ! तथा वृत्तरत्नाकरे लक्षणम् 'अयु- ग्भवा चारुहासिनी' इति । प्रतिपादं षण्मात्रानंतरं रगणः लघुर्गुरुरेवं प्रकारेण समस्तपादेषु लक्षणं चेत्तदृत्तं चारुहासिनीनामकं भवति । अयुग्भवेत्यत्र लक्षणं नोक्तमित्याशंका चेत्तर्हि वैताल्याः प्रयमपादलक्षणमेवात्र पिष्टपेषणभीत्या केदारेण नोक्तमित्यर्थः ॥ ६४ ॥ ॐ भर्गाय नमः भज्यते दुरितानां संदोहो यदवाप्त्यां ।। गायत्रीपतिपाद्यस्त्वं तस्मादसि भर्गः ॥६४ ॥ भज्यते दह्यते पापराशयोऽनेनेति मर्गः सर्वपापनिवर्तक इत्यर्थः पाझार्थाद्भज्जतः करणे घात्रि 'भृस्कोरोषधयोः इतिरमागमें च 'चोःकुः इति कुत्वे च रूपमित्यभिप्रयेणाह भयंत इति यस्य परमशि वस्य अवाप्या प्राप्त्या दुरितानां संदोहाः समूहाः भयंत इत्यन्वयः पापनिवर्तकत्वं परमशिवधर्मो- त्तरे प्रसिद्ध यथा छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जगत् ।। यजेदेकं विरूपाक्षं न स पापेन लिप्यत इति । अथवा 'भर्गो देवस्य धीमाहे इतिश्रुतिप्रसिद्ध्या वा तथेत्याह गायत्रीति भर्गशब्दश्चाय- मकारांत इत्यभिप्रायः । अत एव माधवीये स्मृतिरलेऽपि यथा 'तदित्येतत्परं ब्रह्म ध्येयं सूर्यस्य मंड- ले ॥ भर्गः स साक्षात्कारेणाविद्या तत्कार्यदाहक इति योगयाज्ञवल्क्येअकारांत एव भगशब्दः प्रयुक्तः यथा 'देवस्य सवितुर्मध्ये यो भर्गो नो धियः क्रमात् ॥ प्रचोदयाद्वरेण्यं तद्धीमहीत्यन्वयक्रमात् । इति अत एव मैत्रायणीशाखायां गायव्यर्थनिरूपणावसरे एव 'रुद्रो भर्गात्मक इति श्रूयते गायत्रीपतिपा- द्यत्वं च परमशिवस्य प्रतिपादितं चादित्यपुराणे यथा 'गायत्र्याः परमं तत्वं देवदेवो महेश्वरः ॥ इति ध्यात्वा जपद्दिद्वान्गायत्र्याः फलमश्नुतः इति । कौमे राजवंशानुकीर्तने यथा 'राजावसुमनास्तच्च रविन - ससुधापूररत्नावालसहिता। मंडलमध्यगम्। समुपासिष्ट गायच्याः पुरुषं रुक्मविग्रहम् ॥ अनुग्रहार्थं तस्याद्य भगवान्परम्ः शिवः।। आविर्भूय रवेर्बिबादस्मै रूपमदर्शयत् ॥ शिवशक्तिमयं दिव्यं चंद्रार्धकृतशेखरम् ॥ त्रिलोचनं नील- कंठं ब्रह्मेन्द्रोपेंद्रवंदितम् ॥ अनुगृह्य च तं कालं देहांते तां निजं पदम् ।। तुष्टाश्चरंतरतस्य गायत्र्या- राधनादिभिः । इति 'यो देवः सवितास्माकं धियो धर्मादिगोचरे ॥ प्रेरयेत्तस्य भगस्तु तद्वरेण्ययुपा- स्महे । इतिस्मृत्यंतराश्रयणे तु प्रकृतेऽपि सांतमेव नामास्तु । मदलेखाख्यं वृत्तमिदं तथा चोक्तं कैदारे 'म्सौगः स्यान्मदलेखा । इति । प्रतिपादं मगणः सगणः गुरुश्चेत्तद्वृत्तं मदलेखाख्यं भवती- त्यर्थः ॥ ६४॥ ॐगिरिधन्वने नमः वाग्विषये त्वं मेरुरिव भवसि त्वां तु मनागभिदति न वचो दिव्यरथे वा पुरदहनविधौ वेदमयाः किल चतुरतुरंगाः ।। चक्रयुगं ते दिनरजनिकरौ बाणशरीरभृदभवदुपेंद्रो मेरुरभूत्ते धनुरुरगपतिया॑भवदीश तदसि गिरिधन्वा ॥ ६ ॥ गिगीते। गीः शब्दः सप्तम्यंतः धन्वशब्दश्च मरुवाचकः। प्रथमांतस्तथा च असमस्तं पदद्वयमेकं नामेत्यभिप्रेत्याह वाग्विषय इति यतस्त्वां मनागपि वाचो नाभिदधति अतस्त्वं मरुरिव निर्जलदेशविशेषवन्मनोवाचामगोचरो भवसीत्यर्थः । 'यतो वाचो निवर्तते अप्राप्य मनसा सह । इतिश्रुतेः। अथवा गिरिः सुमेरुर्धन्वा धनुरात्मको यस्येति बहुव्रीहिः। पुरा हि त्रिपुरदहनाव- सरे दिव्यरथमधिरोहति परमशिवे सुमेर्वादीनां धनुरायाकारेण स्वरूपाविर्भाव इत्यस्य तत्तत्पुराणा- दिषु स्पष्टं प्रतिपादितत्वात् । इत्याशयेनाह दिव्यरथे वेत्यादि। चतुरतुरंगाः मनोऽतीतवेगा तिशयास्तुरंगमाः ते च वेदमयाः वेदात्मकाः किलेति प्रसिद्ध्यर्थकमव्ययं सर्वत्रान्वेति दिनरज- निकराविति दिनकरो रजनिकरश्चेति सूर्यसोमात्मकं रथचक्रद्यमित्यर्थः । बाणशरीरेति । बाणात्मकतया शरीरं बिभर्तीति यथा उपेन्द्रो विष्णु: मेरुरिति धन्वाकारण मेरुरभुत् ॥ उरग- पतिरिति धनुषः कोटिद्वयानुस्यूतसुत्रात्मना सर्पराइभवदित्यर्थः । तथा च वेदाश्वे पुष्पवच्चके शरोपेंन्द्रे धनुर्गिरौ ॥ स्थित्वा रथे ददाहाशु त्रिपुरं त्रिपुरार्दन । इति । तदुक्तं लैंगे यथा रुद्रस्य देवस्य निर्मितो विश्वकर्मणा ॥ सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥ सर्वभूतमय- श्चैव सौवर्णः सर्वसंमतः ।। रथांगं दक्षिणं सूर्यो वामांगं सोम एव च । दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ॥ आरेषु तेषु विद्रा आदित्या द्वादशैव तु । शशिनः षोडशारेषु कला वामस्य सुव्रता' इति । एवं शैलेंद्रः कार्मुकस्तस्य ज्या तस्य भुजगाधिपः॥ (?) स्वयं कल्पित विग्रहः ॥ कालाग्निसदृशश्चैव साक्षात्तीक्ष्णः सुदारुणः ॥ एवं कृतरथं दिव्यं कार्मुकं सशराकि- तम् ॥ सारथिर्जगतां चैव ब्रह्माणं प्रभुरीश्वरः ॥ आरुरोह रथं युक्तं रणमंडनसंभ्रमम् । इति । इदं च तन्वीसंज्ञकं वृत्तं तथा च पैंगलसूत्रं 'तन्वी भ्तौ नसौ भौ न्यौ द्विरादित्याः । । प्रति- । अथ A ६४ शिवनामकल्पलता। - पादं भगणः तगणः नगणः भगणद्वयं नगणः यगणश्चेति द्वादशभिर्दादशभिश्च यतिीरत्येतद्वृत्तं तन्वीसंज्ञकं भवतीत्यर्थः । तथा च केदारे ‘भूतमुनी यतिरिहमतनाः स्भौनययाश्च यदि भवति तन्वी, इति प्रतिपादं पूर्ववद्गणाः पंचभिः सप्तभिदशभिर्यतिरिति ॥ द्विरादित्या इत्यपहायेंद्रिय- स्वरमासादिति प्रतीच्याः पठति । अग्निपुराणे च तथोपबृंहणं दृश्यते तत्पक्षे, न प्रकृतश्लोके यतिभंगः ॥ ६५ ॥ गिरिप्रियाय नमः प्रेम भूरि ते विभाति वैदिकस्तवात्मवाचि ।। सर्वपर्वतेष्वपीति नामतो गिरिमियोऽसि ॥६६॥ गिरि वैदिकस्तुत्यात्मिकायां वाचि प्रियः अत्यंतं प्रीतिमान् । तथा च असमस्तं पदद्वयमेकं नाम अथवा गिरयः कैलासमेरुमंदारादयः पर्वताः प्रियाः प्रीतिविषया यस्येति बहुवीहिरित्यभि- प्रेत्याह प्रेमेत्यादि । वैदिकस्तवात्मिकायां वाचि मेरुमंदराद्यात्मकपर्वतेषु च यतस्तव प्रीतिरधिका- अतस्त्वं नामतः गिरिप्रिय इति प्रसिद्धो भवसीत्यर्थः। समानिकासंज्ञकं वृत्तमिदं तथा च पैंगलसूत्रं 'ग्लितिसमानीतिः प्रतिपाद्मष्टाक्षरपादेषु विषमाक्षराणि प्रथमादिसप्तमातानि गुरूाण समाक्षराणि क्ष्यागष्टमांतानि लघूनि यत्र भवन्ति तत्समानी संज्ञकं भवतीत्यर्थः । नव्यमतेऽस्य सूत्रस्य गद्य- परत्वेऽपि गरुडपुराणोक्तपद्यलक्षणमिह संगमनयिं तथाच केदारे लक्ष्य ‘ी समानिकगलौच । इति । रजगणौ गुरुलघुचोति प्रसिद्ध प्रतिपादितम् ॥ ६६ ॥ मलम् । कृत्तिवासाः पुरारातिर्भगवान्प्रथमाधिपः ॥ मृत्युंजय. सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ।। एतानि नामानि निर्वक्ति ।। ॐकृत्तिवाससे नमः वाराणस्यां शिव त्वद्भक्तांस्तुदंतं गजेंद्र विप्रात्सृष्टाभिचारव्याघ्रं च शूलेन हत्वा ।। चर्मद्वंद्वं तदीयं प्रावृत्य विभ्राजमानोऽस्येकाने चंद्वरेखामौले ततः कृत्तिवांसाः ॥६॥ कृत्तिः गजचर्म व्याघ्रचर्म वा वासो वसनं यस्येति कृत्तिवासाः। तदेव प्रदर्शयति वारा- णस्यामित्यादिना पुरा ह्यानंदकाननवासाच्छिवभक्तान्पपीडितुमाविमूतं गजाकारमसुरं तथा दारु- कावनगतमुनिकृताभिचारोत्पादितं व्याघ्रच शूलेन हत्वा तदीयं चर्मद्वयमपि परिधाय विशेषेण प्रकाशमानः परमशिव इत्यर्थः । तथाचोक्तं स्कांदे ' वाराणस्यां पुरा यातो गजरूपो महासुरः ॥ . तापसान्शिवभक्तांश्च निहंतुं कोपदीपितः । इत्युपक्रम्य ' हत्वा तं कुंजरं भीममधृष्यं दिग्गजैरपि ।। पादहस्तरतं चर्म विशस्याच्छ्यिते नवैः ।। प्रावृत्यात्मानमात्मेशस्तूयमानोऽखिलैः मुरैः' इति । तथाः च्याम्रो महाकुन्छ आजगाम नखायुधः ॥ तेषामुषीणां मर्मस्थकोपोइयं निर्गतो यथा ।। ..

ससुधापूररत्नावालसहिता। ६६ तं चादाय त्वचं भित्वा तथा चर्माबरोऽभवत् ॥ शुशुभे चर्मणा तेन नानावर्णयुतेन च । इति । तुदंतं पीडयंतम् । एकामेति क्षेत्रविशेषः । 'एकाने कृत्तिवाससम् । इतिपरमशिवाष्टषष्ठिक्षेत्रमध्ये परिगणनात् । चंद्ररेखामौले इति संबुद्धिः । शिष्टं स्पष्टार्थम । इदं तु श्रुतिप्रसिद्ध नाम 'प्राणे- श्वरः कृत्तिवासाः पिनाकी , चंद्रलेखाख्यं वृत्तमिदं तथा च पैंगलसूत्रानुसारिण आहुः 'नौ म्यौ यांतो भवेतां सप्ताष्टभिश्चंद्रलेखा। । प्रतिपादं मगणः रगणः मगणः यगणद्वयं चेति सप्ताभिरष्टाभिश्च प्रतिपादं यतिरित्येतद्वृत्तं चंद्रलेखाख्यं भवतीत्यर्थः ।। ६७ ॥ ॐपुरारातये नमः भवान्पूर्वमाभाति पश्चादिदं जगद्भाति यद्वा पुराणामरिः ।। तनोः कारणस्थूलसूक्ष्मात्मनो विनाशेन वा ते पुरारातिता ॥ ६८ ॥ पुरा आदौ राति आदत्ते प्रकाशत इति पुरारातिः पुरा प्रथमकालिकी रातिर्यस्येति विग्रहः आदानस्य प्रकाशनस्वरूपत्वात् । तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति? इति श्रुतेः 'यचंद्रमसि यच्चानौ तत्तेजो विध्दि मामकम्' इत्यादिस्मृतेश्चेत्यभिप्रेत्याह भवान्पूर्वमिति त्वत्प्रकाश विषयीभूतमिदं जगदित्यर्थः । अथवा पुराणां कांचनराजतलोहमयानां पूर्वोपदर्शितनगरविशेषाणां स्थूलसूक्ष्मकारणात्मकशरीरविशेषाणां वा अरातिनाशक इति पुरारातिरित्यभिप्रेत्याह यवेति स्पष्टोऽ थः । मंदाकिनीसंज्ञकं वृत्तमिदं तथाचोक्तमभियुक्तैः 'त्रिभिर्यैलगाभ्यां मंदाकिनी इति । प्रतिपाद यगणवयं लघुर्गुरुश्चेत्तद्वृत्तं मंदाकिनीसंज्ञकं भवतीत्यर्थः ।। ६८ ॥ . ॐभगवते नमः पराक्रममती विरागयशसी श्रिया सह जगत्पतित्वमिति षट् ॥ गुणा भगपदोचितास्त्वयि वसंत्यतः श्रुतिगिरेरितोसि भगवान् ।। ६९ ॥ भगोऽस्यास्तीति भगवानित्यत्र भगपदार्थमुपवर्णयति पराक्रमेत्यादि । पराक्रमश्च मतिश्चेति द्वंद्वः । विरागश्च यशश्चेत्यपि बंदः । 'नाशिकास्तनयोनोंडीमुष्टयोः । इतिनिर्देशनाल्पाच्तरघिसंज्ञयोः पूर्वनिपातस्यानित्यत्वात् । श्रुत्युक्तं जगत्पतित्वं चेति षड्गुणाः भगदप्रतिपायाः । ते चास्मिन्संती ति भगवांस्तव पराक्रमो वीर्यं तच्च शरभभैरववीरभद्रायवतारादिषु प्रसिद्ध 'क्षयदीराय प्रभरामहे म- तिम्इत्यादिश्रुतिप्रसिद्धम् । मतिःयावद्वस्तुविषयकज्ञान तथा च श्रुतिः यः सर्वज्ञः सर्ववियस्य ज्ञान- मयं तपः, विरागः सर्वत्रौदासीन्यं तच्च 'न तस्य कारणं च विद्यते न तत्समश्चाप्यधिकश्च? इत्यादिश्रु- तिप्रसिद्धं यशः कीर्तिः सकलजनस्तुतिविषयत्वमिति यावत् । तथा च श्रुतिः 'नमः श्लोक्याय च व- सान्याय चाइति । 'तस्य नाम महद्यशइति भारतेऽपि । 'यं विष्णू रुद्रः शंभुश्च ब्रह्मा लोकपितामहः।। स्तुवैति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ॥ तमचर्यति ये शश्वदुर्गाप्यतितांति ते इति । श्रीः उमा तदत्वं च 'उमासहायं परमेश्वरं विभुमतिइतिश्रुतिप्रसिद्धं जगत्पतित्वं 'सर्वेश्वर्यसंपत्तिः सर्वेशः शंभुरा- ५६ शिवनामकल्पलता। का शमध्य? इतिश्रुतेः। एवं प्रमाणसिद्धाः पडगुणाः तथाचोक्तं विष्णुपुराणे 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ज्ञानवैराग्ययोश्चैव षण्णां भग. इतीरिणा? इति । जलोद्धतारव्यं वृत्तमिदं तथाचोक्तं पंगलसूत्रं 'जलोद्धतगतिसज्सिौरसर्तवः तथैव केदारोक्तिः रसेर्जसजसा जलोद्धतगतिः इति चोभय- संमतेन प्रतिपादं जगणः सगणः जगणः सगणः पाभः घभिश्च यतिरित्येतद्वत्तंजलोद्धतगत्याख्यं रथोद्धतगतिरिति केचित्पठति चेत्यर्थः ॥ ६९ ।। ॐप्रमथाधिपाय नमः मथ्नतितरां यदवैदिकांस्त्वत्पारिपदाः प्रमथा मताः ॥ तानीश सदा परिपालयन्भक्तरुदितः प्रमथाधिपः॥ ७० ॥ प्रकर्षण मनंत्युन्मूलयति अवैदिकान्वेदविरुद्धाचारयुक्तानितिप्रथमास्तेषामप्यधिपः पालक इति प्रमथाधिप इत्यभिप्रेत्याह मनंतीत्यादि तरामितितिडंतात्तरप्ततआम च । पदार्थप्रकर्षयोत- कमव्ययं पारिषदा गणविशेषास्तान्पारिषदान्सदा परिपालयनिति तथा चोक्तं सौभिके 'मनोवाक- मंभिभक्तान्पाति पुत्रानिवौरसान् ॥ पिबत्यसृग्वसा चान्ये क्रुद्धब्रह्मविषां सदा? इति । इदं चोप- स्थिताख्यं वृत्तम् तथा पैंगलसूत्रम् ‘उपस्थिता जौ ज्गौ। तथाचोक्तमभियुक्तैः 'जौ जौग- उपस्थितमीरितम् । इति चोभयोलक्षणैक्यम्। प्रतिपादं तगणः जगणः जगणः गुरुश्चैतद्वृत्तं दशा- क्षरपाद्भवतीत्यर्थः ॥ ७० ॥ ॐमृत्युंजयाय नमः रुद्राच्युतेशब्रह्मणां कोटयो यया गीर्णाः क्षणात् ।। तगोचरो न त्वं विभो तेनाभवो मृत्युंजयः ॥ ७१ मुत्युप॑तिस्तां जयति स्वविषयकोपासनया स्वभक्तानां मृति निवारयतीति मृत्युजयः रुद्रे- त्यादि ब्रह्मविष्णुरुद्रेश्वराणां कालनिर्णयस्य प्रागेव स शिव इति निर्वचने प्रदर्शितत्वान्नेह तत्प्र- पंचः । ते ते च ब्रह्मादयः प्रतिकल्पं छिद्यमानाः कोटिसंख्याका अपि यया मृत्या क्षणमात्रा- देव गीर्णाः क्षीणगति प्राप्ताः विनष्टा इति यावत् । तथापि त्वं न तद्गोचरः । न मृत्युविषयः यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स ? इतिश्रुति- तस्त्वं मृत्युंजयनाम्ना प्रसिद्धो भवसीत्यर्थः । अभव इति जन्मराहित्यपरं मृत्यभावसाधनाय जन्मनो मृतिव्यावर्तकत्वालङ्मध्यमपुरुषः स्पष्टार्थमन्यत् । मृत्युंजयाख्यं वृत्तमिदं । तदु- तमभियुक्तैः ‘तोमोगलामृत्युंजय । इति । प्रतिपादं तगणः मगणः लघुगुरुश्चेत्तद्वृत्तं मृत्युंजयाख्यं भवतीत्यर्थः ॥ ७१॥ ॐसूक्ष्मतनवे नमः दुर्शेयमूर्तिधरोऽप्याम्रातके प्रकठः ॥ सूक्ष्मादपीश कृशस्तेनासि सूक्ष्मतनुः ॥ ७२ ॥ - । ससुधापूररत्नावालसहिता। सूक्ष्मा तनुर्मूर्तियस्यति सूक्ष्मतनुः सूक्ष्मत्वं मूर्ती दुर्जेयत्वमित्यभिप्रेत्याह दुर्जेयमूर्तिः आम्रा- तक इति क्षेत्र विशेषः तत्र भक्तानुग्रहार्थ नामरूपाभ्यां पुनः प्रकटो भवसत्यिर्थः अथवा सूक्ष्मादपि- तनुः सूक्ष्मतनुः तनुशब्दस्य कृशवाचित्वाद्दुर्जेयस्वरूपइत्यभिप्रत्याह सूक्ष्मादपीति तथाच श्रुतिः 'सूक्ष्मातिसूक्ष्म कलिलस्य मध्ये धृतात्परं मंडति वाति सूक्ष्म तथाच 'सूक्ष्मात्सूक्ष्मतरं मित्य तत्व- मेव तत् । इति । चुडामण्याख्यं वृत्तमिदं तथाच पैंगलसूत्रं 'चूडामणिस्तभौग । इति प्रतिपादं तगणः भगणः गुरुश्चैतद्वृत्तं चूडामण्याख्यं भवतीत्यर्थः ॥ ७२ ॥ ॐजगद्यापिने नमः सत्ताभानं प्रियामिति चानुस्यूतं सर्वेष्वर्थेष्वनुभवासिद्धं लोके ॥ सञ्चित्सौख्यं त्रयमपि यौष्माकीणं रूपं तस्माद्भवसि जगद्व्यापी त्वम् ।। ७३ ॥ जगत्समष्टिव्यष्ट्यात्मकप्रपंचजातं व्याप्तुं शीलमस्यास्तीति जगद्व्यापीत्याशयेनाह सत्ताभान- मित्यादिना सत्ता सत्स्वरूपं भानं ज्ञानस्वरूपं प्रियं सुखस्वरूपं चेत्यंशत्रयमप्यनुस्यूतमापामरसा- धारणाखिललोकानुभवसिद्धं च सच्चित्सौख्यात्मकं तत्रितयमपि यौष्माकीणं परमशिवस्वरूपानपा- यिभूतं तदुक्तमन्यत्र 'अस्ति भात प्रियं रूपं नाम चेत्यंशपंचकम् ॥ आयं त्रयं ब्रह्मरूपं जग द्रूपं ततो द्वयम् । इति । तथाचांशत्रयात्मकप्रपंचस्वरूपत्वात्परमशिवस्य जगद्व्यापित्वं सुकर मेवेति भावः। तथा च श्रुतिः ' सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः इति । जलधरमालाख्यं वृत्त- मिदं तदुक्तमभियुक्तैः ‘अब्ध्यंगैः स्याज्जलपरमालाम्भौस्मौ । इति । प्रतिपादं मगणः भगणः सगणः मगणः चतुर्भिरष्टभिर्यतिरित्येतद्वृत्तं जलधरमालाख्यं भवतीत्यर्थः ॥ ७३ ॥ ॐजगद्गुरवे नमः वटतरुनिकटे मुनीनखिलान्सुरान्कमलभवमुखान्प्रबोधनमुद्रया । उपदिशसि परं महस्तव दक्षिणामुख परशिव तन्मतोऽसि जगद्गुरुः ॥७४|| जगतां ब्रह्माद्यखिलसुरमुनिगणानां गुरुः आयब्रह्मणे विद्योपदेष्टेति जगद्गुरुः। 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांतश्च प्रहिणोति तस्मात्' इतिश्रुतेः । तदेवोपदर्शयति वटतर्वित्यादिना वटविटपिनि वटोपगतान्कमलभवप्रभृत्यखिलसुरगणान्मुनिगणांश्च प्रबोधनमुद्रया चिन्मुद्रापर- नाम्न्या उपदिशसि किं तदुपदेशनमित्याकांक्षायामाह परं मह इति । तवेत्यभेदार्थिका षष्ठी । त्वद- भिन्नं महः। तथा च सच्चिदानंदात्मकं यत्परं ज्योतिःस्वरूपं परमशिवतत्वं तदुपदेशेन अविद्यायाः परं पारं तारयसीत्यर्थः । दक्षिणामुखश्चासौ परमशिवश्चेति संबुद्धिः। शिष्टं स्पष्टमपराजिताख्यं वृत्तमिदं तथा च पैंगलसूत्रम् 'अपराजिता नौ सौ गौ स्वरऋषयः । तथा च कैदारे 'ननरसलघुगैः स्वरैरपराजिता' इति । प्रतिपादं नगणः सगणः लघुर्गुरुश्चेत्येतद्वृत्तमपराजिताख्यम् ।। ७४ ॥ अथ मूलम् । भ्योमकेशो महासेनजनकश्चारुविक्रमः॥ रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगंबरः ।। मटावेतानि नामानि निर्वक्ति। co शिवनामकल्पलता। ॐव्योमकेशाय नमः . .. पृथ्वीपायोज्वलनपवनव्योमरूपेषु भूते- प्वल्पाल्पानि प्रथमगदितान्युत्तराणीशितृणि ॥ व्योम्नोऽपीशोऽस्यथ च गमनं कुंतलास्ते विराजो गंगाधारा वियदिव जटास्तेन च व्योमकेशः ॥ ७५ ॥ पृथ्वीत्यादिना व्योमैव व्योमकं स्वार्थे कप्रत्ययः। तस्येशो व्योमकेश इत्यभिप्रेत्याह पृथिव्यप्तेजोवाय्वाकाशात्मकेषु भूतेषु मध्ये प्रथमगदितानि आकाशादितः पूर्वपूर्वोक्तानि वायवादीनि अल्पानि आकाशापेक्षया वायुस्तदपेक्षया तेजस्तदपेक्षयापस्तदपेक्षया पृथि- वीति । उत्तरोत्तरापेक्षया पूर्वपूर्वीण्यल्पाल्पानि व्याप्यानि अभिभाव्यानीति यावत् । एतेन उपद- र्शितार्थान्वयवैपरीत्ये सति पृळ्यादितः आकाशादीनि पूर्वपूर्वापेक्षया उत्तरोत्तराणि ईशितणि इत्यपि व्याख्यातम् । इशितृणि व्यापकानि अभिभावकानि इति यावत् । तथा च पृथिव्यादीनां आकाशादित उत्पत्तेः श्रुतिबोधितत्वेन कार्याणां च कारणेषु विलयनाथै पूर्वपूर्वाण्यल्पाल्पान्यु. त्तरोत्तराणीशितृणि इत्युक्तियुक्तेति भावः । तथा च श्रुतिः ‘आत्मन आकाशः संभूतः आकाशा- दायः वायोरग्निः अनेरापः अद्भयः पृथिवी' इति । व्योम्नोऽपीति ईशः व्यापकः व्योम्नोपीत्यपि- ना पूर्वपूर्वेषां सर्वेषामपि विलयनाधिष्ठातृत्वेन सर्वव्यापक इत्युक्तं भवति । 'यतो वा इमानि भूतानि जायंते येन जातानि जीवति यत्प्रयंत्याभिसंविशंतीति । सर्वव्यापी च भगवांस्तस्मा- सर्वगतः शिवः' इत्यादिश्रुतेः। 'मयि सबै लयं याति मत्तः सर्व प्रवर्तते । इत्यादिस्मृतेश्चेति । अथवा व्योमैव केशो व्योमकेश इत्यभिप्रायेणाह अथचेति अथवेत्यर्थः । कुंतलाः केशसमूहाः विराजः विरापस्य परमशिवस्येत्यर्थः । अथवा केशशब्दो जटावाची व्योमवद्विस्तृताः केशाः जटा यस्यति व्योमकेशः जटानां च व्योमवद्विस्तरणं सफलीकर्तुमुक्तं गंगाधारा इति । जटानां विशेषणं गंगाया आधारभूताया इत्यर्थ इति । मंदाक्रांताख्यं वृत्तमिदं तथा च पैंगलसूत्रं 'मंदा- कांता म्भौ न्तौ त्गौग्समुद्रऋतुस्वरा तथाचोक्तं वृत्तरत्नाकरे ‘मंदाक्रांता जलधिषडगे म्भौनती ताद्गुरू चेत् । इत्युमयमतेऽपि साम्यत्वात् । प्रतिपादं मगणः भगणः नगणः तगणः तगणः गुरुद्वय- मित्येतद्वृत्तं मंदाक्राताख्यं भवतीत्यर्थः ॥ ७५ ॥ ॐमहासेनजनकाय नमः सुब्रह्मण्येन पृष्टे प्रणवपरमार्थोत्र क इति ब्रह्मण्यब्जेक्षण स्वं दिशति सति कारानियमिते ॥ , आत्मा वै पुत्रनामेत्युपदिशति तौ मौचितवति त्वय्यब्जाक्षाब्जपुत्रैः स्त इति महासेनजनकः ॥ ७६ ।। - .. ससुधापूररत्नावालसहिता। ५९ कुमारसंहितायां कथां संगृह्णाति सुब्रह्मण्येनेति सुब्रह्मण्येन स्कंदेन प्रणवपरमार्थः प्रणवस्य सकलवेदसारात्मकस्योंकारस्य परमार्थः अभिप्रायविषयीभूतार्थः । अत्र लोके कः इति पृष्टे सति ब्रह्मणि कमलोद्भवे अब्जेक्षणे विष्णौ स्वं दिशति अहमेव प्रणवपरमार्थोऽहमेव प्रणवपरमार्थ इति स्वयमेव प्रणवार्थत्वेनोपदिशति । सति कारानियमिते अहमहमित्यनिष्टाकुलितचेतोव्यापारा- विमाविति कारागृहे पातिते आत्मेत्यादि अपरमितानंदस्वरूप इति 'परं ज्योतिः परमात्मैव ओंकारगम्यः स च त्वमेव आत्मा वै पुत्रनामा, इतिश्रुतेरित्येवं बहुमन्यमानोपदेशेन काराग्रह- नियमनात् । ब्रह्माविष्णू मोचितवति त्वयि परमशिवे अब्जाक्षाब्जपुत्रैः अब्जाक्षो विष्णुः अब्जो ब्रह्मा पुत्रः स्कंदस्तैः स्तुत इति तथा च ब्रह्मायखिलसुरगणैः कामं स्तुतत्वात् । महासेनजनक इति लोके प्रसिद्धो भवसीत्यर्थः । महासेनाख्यं वृत्तमिदं तथाचोक्तमभियुक्तैः 'नौ भनौ सौ सप्तरुद्रयतिरिति महासेनमुदितम् ।। सरसाख्यमितिकेचित्पेतुः प्रतिपादं मगणः रगणः भगणः तगणः सगणः सप्तभिरेकादशभिर्यतिरिति महासनं भवति ॥ ७६ ॥ ॐचारुविक्रमाय नमः परमशव त्वया ये निषूदिता गजजलंधरत्रैपुरादयः ॥ अपुनरागर्म ते पदं गतास्तव चमत्कृतिश्चारुविक्रमः ॥ ७७॥ चारुः मनोहरः विक्रमः पराक्रमो यस्योति तथा तत्र पराक्रमे मनोहरत्वमुपदर्शयति परम- शिवेत्यादि गजजलंधरत्रैपुरादयो ये सुरविरोधिनः स्वकटाक्षानिरीक्षणादिलीलामात्रे निषूदितास्ता- नेव पुनः परमैश्वर्यास्पदं प्रापितवानित्येतदेव चारुत्वं विक्रमस्येति भावः अपुनरागमं पुनरागमन शून्यं नित्यमिति यावत् । ते तव पदं गताः कैलासं प्राप्ताः । स्पष्टमन्यत् । कामिनीसंज्ञकं वृत्तमिदं तथाचोक्तमभियुक्तैः 'नररलै सगैः कामिनी भवेत् । इति । प्रतिपादं नगणः रगणद्वयं लघुर्गुरुश्चे- तद्वृत्तं कामिनीसंज्ञकं भवतीत्यर्थः । वैतालीयसमपादलक्षणसाम्यादपरांतिका भवति । तथा च चतुर्थपंचममात्रयोर्मेलनात्प्राच्यवृत्तिसंज्ञकं वृत्तं भवतिचेत्यर्थः ।। ७७ ॥ ॐन्दाय नमः बालो धातृललाटाज्जातः सन्नरुदस्त्वं सोऽरोदीघदरोदीदमित्वादपि रुद्रः॥ उल्लाघीकरणाद्वा निश्चितीकरणाद्वा गवर्ते रोदयसि ब्रह्मादीनिति रुद्रः ।। ७८ ।। रोदितीतिरुद्रः रोदनवानित्यर्थ इत्यभिप्रेत्याह बाल इत्यादि धातृललाटाज्जातः आविर्भूतः। अरुद इति । ब्रह्मललाटादाविर्भूतस्य परमशिवस्य शैशवभावाभिव्यंजकं च रोदनं भारते शांतिपर्वाण प्रपंचितं यथा 'ततस्तां विपुलां नीतिपूर्वं जग्राह शंकरः ॥ बहुरूपो विशालाक्षः शिवः स्थाणुरु- ६० शिवनामकल्पलता। मापतिः ।। अनादिनिधनो देवः चैतन्यादिसमन्वितः॥ ज्ञानानि च वशे यस्य तारकादीन्यशे- षतः ।। आणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम् ।। तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः स्वयम् ॥ अरुदत्सुस्वरं घोरं जगतः प्रभुरव्ययः इति । अथवा अग्निस्वरूपत्वादा रुद्रपदप्रतिपाद्यत्वं परम- शिवस्येत्याह अमित्वादपीति । अग्ने रोदनशालित्वे किं प्रमाणमित्याकांक्षायां श्रुतिस्तत्र प्रमाण- यति। सोऽरोदीदिति 'सोऽरोदीघदरोदीत्तद्रुद्रस्य रुद्रत्वम् । इत्यादि । तथाचोक्तं शिवपुराणे बहिरंतर्जगद्विश्वं प्राप्य तेजोमयी शुभा ॥ रौद्री रुद्राभिधा मूर्तिरास्थिता घोररूपिणी । इति । अग्न्यधिष्ठाव्याः रुद्रमूर्तेरग्न्यात्मकत्वस्य तत्रैव स्पष्टं प्रपंचितत्वान्नेह तदिविच्यते अथवा रुजं रोगं द्रावयति नाशयतीति रुद्रः रोगनिवर्तक इत्याशयेनाह उल्लाधीकरणादिति। शरीरादिरोग- निवर्तनद्वारा आरोग्यसंपादनलक्षणमुल्लाघीकरणमेतेन 'आरोग्यं भास्करादिच्छेद्धनमिच्छेध्दुता- शनात् ॥ ज्ञानं महेश्वररादिच्छेन्मुक्तिमिच्छेज्जनार्दनात् '॥ इत्यादिप्रमाणबलात्सर्वात्मकत्वं परमशिवस्यत्युक्तं भवति । तदुक्तं लैंगे ‘भोगैश्वर्यात्मा भगवान देवः सर्वविभूतिदः ॥ रुद्र इत्युच्यते देवेभंगवान्भुक्तिमुक्तिदः । इति । अथवा रुदुःखं तद्धतुभूतमज्ञानं द्रावयतीति रुद्र इत्यभिप्रेत्याह निश्चितीकरणादिति । तदुक्तं वायवीयसहितायां दुःखं दुःखहेतुर्वा तद्राव- यति यः प्रभुः ।। रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्। इति निश्चितीकरणं च दुःखस्य तदेतो- रज्ञानस्य वा निराकरणेन चित्तैकाग्यसंपादनलक्षणमज्ञानकार्यत्वार्चितायामिति भावः अथवा रोदयत्यंतकाले ब्रह्मादीनिति तथेत्याह संवर्ते रोदयसीति स्पष्टोऽर्थः । इदं च श्रुतिप्रासद्धं नाम 'नमस्ते रुद्रमन्यव उतोत इषवे नमः' इति । 'यो रुद्रो अग्नौ सर्वो ह्येष रुद्र , इत्यादिभिः । लोलाख्यं वृत्तमिदं तथा चोक्तभभियुक्तै 'विःसप्तच्छिदलोला मसौम्भौ गौ चरणे चेत्? प्रतिपादं मगण: सगणः मगणः भगणः गुरुद्वयं च सप्तभिः सप्तभिश्च यतिरित्येतद्वृत्तलोलाख्यं भवतीत्यर्थः ।। ७८ ॥ ॐभूतपतये नमः धरणीजलादिषु तथात्मगणेष्वनुविश्य तानियमयन्नटास ॥ अथवा पिशाचनिकरानटयन्भुवनावनाय ननु भूतपतिः ।। ७९ ।। भूतानां पृथिव्यादीनां जीवराशीनां य पतिः नियामक इत्यर्थ इत्यभिप्रेत्याह धरणीजलादिषु इति । आदिपदात्तेजःप्रभृतीनां परिग्रहः आत्मगणाः जीवराशयः अनुविश्य अंतः प्रविश्य 'तत्सृष्ट्वा तदेवानुप्राविशत्। इतिश्रुतेः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ संपश्यन्ब्रह्म परमं याति नान्येन वर्मना' इति स्मृतेश्च । तान्धरण्यादीन्नियमयन्शिक्षयन्नटसि नटनपूर्वकं विहर- सीत्यर्थः । अटसति वा छेदः । अथवा भूता देवयोनिविशेषाः पिशाचापरस्वरूपाः 'पिशाचो गुह्यकः सिद्धो भतोऽमी देवयोनय? इत्यमरः । तेषां पतिनाथ इति । तथा चाह अथवेति पिशाच- निकरान्पिशाचसमूहान्नटयन्नटनं कारयन्भवनावनाय जगद्रक्षणाय । तदुक्तं भारते उमामहेश्वरसंवादे देवीकृतश्मशानवासित्वनियामकप्रश्ने यथा 'यदन्येन न शक्यं हि निहंत भूतज भयम् ॥ तत्रस्थोडी ।

ससुधापूररत्लावालसहिता प्रजाः सर्वाः पालयामि दिने दिने ॥ मनियामाद्भूतसंघा न च घ्नांत हि कंचन ॥ तांस्तु लोकहि- तार्थाय स्मशाने रमयाम्यहम् ? इति स्पष्टमन्यत् । प्रमिताक्षराख्यं वृत्तमिदं तथाच सूत्रं 'प्रमिताक्षरा सजो सौर। तथैव केदारोक्तो 'प्रमिताक्षरा सजससरुदिता इति । प्रतिपादं सगणः जगणः सगणद्वयंचैतद्वृत्तं प्रमिताक्षराख्यं भवतीत्यर्थः। आर्यांगीतिर्वा । 'अर्धे वसुगण आर्यागीतिः इति लक्षणात् ॥ ७९ ॥ - ॐस्थाणवे नमः वृक्षाभस्तब्धो दिवि भुवि पुर उद्दिश्य स्कार वर्षाणि स्थिरतर उदतिष्ठस्त्वम् ।। ज्योतिलिंगेऽपि प्रभवति सति नैश्चल्या. कल्पांते वातेन चलसि तदसि स्थाणुः ॥ ८ ॥ आणुः शंकुमात्रावशेषो ध्रुवो वृक्षस्तद्वत्सर्वत्राचंचलः सन्प्रकाशत इति परमशिवोऽपि स्था- णुपदप्रतिपाय इत्याह वृक्षाभस्तब्ध इति । दिवि भुवि च निश्चलतया स्थित इत्यर्थः । तथा च श्रुतिः 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णपुरुषेण? इति । अथवा त्रिपुरविजयावसरे सज्जीकृतचापः सन्पुराणां क्रमयोगसमयं प्रतीक्ष्य निश्चलतया चिरकालं स्थितत्वात्स्थाणुपदप्रतिपाद्यत्वं परमेश्वरस्ये- त्यर्थेनाह पुर उद्दिश्यति । पू:शब्दो रेफांत इति।पुर इति द्वितीयाबहुवचनांतः। पुरत्रयमुद्दिश्येत्यर्थः । स्फारं यथा तथा वर्षाणि बहुवर्षाणि तथाचोक्तं भारते द्रोणपर्वणि 'अतिष्ठत्स्थाणुभूतः सन्सहस्रपरिव- त्सरान् ॥ यदा त्रीणि समेतानि अंतरिक्षे पुराणि वै॥ त्रिपाणि त्रिशल्येन तदा तानि विभेदसः । इति अथवा आपातालव्याप्यलिंगप्रादुर्भावावसरे ज्योतिर्लिंगात्मना निश्चलतया स्थितत्वात्तथेत्याह ज्योतिलिंगेऽपीति तदुक्तं शैवागमे 'नमोऽस्तु स्थाणुरूपाय ज्योतिर्लिंगामृतात्मने ॥ चतुर्मूर्तिवपुःस्थाय भसितांगाय शंभवे इति । उपदर्शितव्युत्पत्तित्रयं च द्रोणपर्वणि प्रदर्शितं यथा 'दहत्यूर्ध्वस्थितो यश्च स्थाणुवत्तस्थितं च यत् ॥ स्थिरलिंगं च यन्नित्यं तस्मात्स्थाणुरिति स्मृतिः' इति । स्थितः सन्नूर्व विद्यमानं पुरत्रयं दहति । तत्स्थितं तावत्कालं चिरकालं स्थाणुवस्थित इत्यर्थः । कल्पात इति सकलजगत्संक्षोभणकालेऽपि प्रचंडवातैरचलनाद्वा स्थाणुरित्यर्थः । इदं च असंवाघाख्यं वृत्तमिति । तथा च पैंगलसूत्रम् ‘असंबाधा म्तौ सौ गाविंद्रियनवको तथा च वृत्तरत्नाकरे 'म्तौ न्सौ गावक्ष ग्रहविरतिरसंबाधा ' इतिचोभयसंमतेन प्रतिपादं मगणः तगणः नगणः सगणः गुरुद्वयं च पंचभि- नवभिश्च यतिरित्येतद्वृत्तमसंबाधाख्यं भवतीत्यर्थः ॥ ८ ॥ ॐअहिर्बुध्न्याय नमः ब्रह्मांडस्याधो दशशतफणो बुध्न्यभावं प्रयाते पाताले साधुर्वहतिवसुधा सार्णवद्वीपशैलाम् ॥

६२ शिवनामकल्पलता। . - तन्मूर्धभ्योऽते विषमयवपुः कालसंकर्षणाख्यो रुद्रो भूत्वेदं दहसि निखिलं सोऽस्यहिर्बुध्न्यनामा ॥ ८१ ॥ बुध्न्यशब्दो मूलवाची 'मूळ बुध्न्यविनाम च? इत्यमरात् । 'तत्र साधुइतिसूत्रेण बुघ्नश- व्दस्य यप्रत्यययोगात् बुध्न्यः ब्रह्मांडमूलभूतपातालवर्तीतियावत् स च सहस्रफणाशाली शेषसंज्ञक सर्पराडित्यर्थः। तथाचासमस्तं पदद्वयमेकं नामेत्याह ब्रह्मांडस्यति दशशतफणः सहन्नफणः शेषाख्य- सर्प इतियावत् । वुन्यभावं मूलभावं प्रयाते प्राप्ते पाताले साधुः पातालवतीति यावत्। बुझ्न्यशब्दस्य यप्रत्यय बोधनार्थः 'तबसाघु? इतिसूत्रांतर्गतकदेशस्य साघुरित्यस्य प्रयोगः सार्णवदीपशेला समुद्रदीप पर्वतादिभिः संमीलितां वसुधां ममि वहति धारयतीत्यर्थः । तन्मूर्घभ्यः तस्य शेषाख्यस्य सर्पराजस्य मुर्धभ्यः फणेभ्यः विषमयवपुः विषप्रचुरशरीरः इदं परिदृश्यमानं निखिलं जगद्दहास उपसंहरसी- त्यर्थः। तथाचोक्तं विष्णुपुराणे द्वितीयेऽशे यथा पातालं नाम यत्रास्ते विष्णोर्या तामसी तनुः।। शेषा- ख्या तहणान्वक्तुं न शक्ता देवदानवाः ॥ कल्यांते यस्य वक्रेभ्यो विषानलाशखोज्वलः ॥ संयं- णात्मको रुद्रो निष्काम्यति जगत्त्रयम्। इति। हविर्यज्ञमय इत्येवं नाम पाक्यज्ञाद्युपलक्षणमिति व्याख्याय नामदयामिदामिति तु न भ्रमितव्यं 'अहेवूनिय मंत्रं मे गोपाय ! 'अहये बुघ्नाय स्वाहा ! इत्यादिश्रुतिषु पदद्वयस्येकनामत्वावेदनात् । कुसुमितलतावेलिताख्यं वृत्तमिदं तथा च पंगलसुत्रं 'कुसुमितलतावेल्लिता म्ती न्यौ याविंद्रियर्तुस्वराः । तथा च वृत्तरत्नाकरे लक्षं 'स्या- ततश्चैः कुसुमितलतावेच्छिता म्नानयो यौ। इति चोमयमतेन प्रतिपादं मगणः तगणः नगणः यगणत्रयं पंचभिः षभिः सप्तमिश्च यतिरिस्येदृत्तमष्टादशाक्षरपादश्चेत्तद्वृत्तं कुसुमितलतावेलिताख्यं भवाति । धृतेर्भेदोऽयमित्यर्थः ।। ८१ ।। ॐदिगंवराय नमः महेश दारुकावने महर्पिसिद्धसेविते तताः पतिव्रताः परीक्षमाणया धिया ।। मनोभवातिशायिनी मनोहरा दधत्तनूमुपागतस्तदाश्रमषु मिक्षितुं दिगंवरः ||८२॥ दिश एवांवराणि यस्यति दिगंबरः महेशेति संबुद्धिः तदंगनाः ऋषिपत्नीः पतिव्रताः पतिशुश्रूषणेवव्रताः पत्येकभावितदेवता इति यावत् । परीक्षमाणया बिया पातिव्रत्यशोधनार्थ वुद्ध्या मनोभावातिशायिनी मनोमवस्य मन्मथस्यापि अतिशायिनी संमोहकां मनोहरां हयां तनूमुपागतः प्राप्तः । तदाश्रमेषु प्याश्रमेषु मिक्षितुं भिक्षामादितुं दिगंवर इति तथाचोक्तं लैंगे 'ततस्तेषां प्रसादार्थ भक्तानामनुकंपया ॥ देव कृतयुगे पुण्ये पृष्ठे हिमवतः शुमे । देवदाच्वनं प्राप्तः प्रसिद्धः परमेश्वरः।। भस्मपांडुरादिग्यांगो नमो विकृतलक्षणः ! उल्मुकासक्तहस्तश्च रक्तपिंगल- लोचनः ।। कचित्यहसते रौद्रं कचिजल्पति विस्मितः ।। कचिन्नृत्यति शृंगारं कचिद्रौति मुहु- मुहुः ।। आश्रमे ह्यटते भैह्यं जायते च पुनः पुनः ।। मायां कृत्वा तथालयां देवस्तद्दनमागतः ॥ इति पंचचामराख्यं वृत्तमिदं तदुक्तममियुक्तैः 'निरंतरं लघुर्गुरुवंदति पंचचामरम् । इति षोडशा- क्षरपादः स्पष्टलक्षणमित्यर्थः ।। ८२ ।।

ससुधापूररत्नावालसहिता। ६३ - अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः ।। शाश्वतः खंडपरशुरजः पाशविमोचकः ॥ इत्यष्टौ नामान निर्वक्ति । अष्टमूर्तये नमः मेदिनी भूतमभिमन्यसे शर्व इति पाथसो भवपदेनाभिमानी रुद्रनाम्ना तु वैश्वानरस्योग्र इति मारुतं भीम इत्यंवरस्य ॥ भानुमीशान इति शीतभानुं महादेव इत्यात्मनो यज्वनो वा मन्यसे पशुपतीभूय शंभो जगद्व्याप्य तिष्ठन्भवस्यष्टमूर्तिः ॥ ८३ ॥ मेदिनीत्यादिना पृथिव्यादीनि पंच भूतानि चंद्राकी आत्मा दीक्षित इत्यष्टौ मूर्तयः शरीराणि यस्येति वा मूर्तिशब्दस्य मूर्तिमत्परतया शदिमंज्ञकाः अष्टौ देवताः मूर्तिमत्यः यस्येति वा अष्टमूर्तिः। पृथिव्यायष्टशरीरको वा तदभिमानी शर्वाद्यष्टदेवतासम- ष्टिरूपो वेत्यर्थः इत्याशयेनाह मेदिनीत्यादि पंचभूतानां मध्ये पृथिव्यात्मकं भूतं शर्व इति नाम्ना अभिमन्यसे अभिमानवाभन्भवसि । पाथसः जलस्य विभक्तिविपरिणतस्य भूतपदस्योत्तरत्रापि यथा- योग्यमन्वयः तथा च जलात्मकस्य भवपदेनाभिमानीत्यर्थः । वैश्वानरस्य तेजआत्मकस्य भूतपदस्य रुद्र इति नाम्ना अभिमानीति संबंधः । मारुतमिति वाय्वात्मकं भूतमुग्र इतिनाम्ना अभिमानीत्यर्थः। भानुरर्कस्तमीशानइतिनाम्ना अभिमन्यसे शीतभानुश्चंद्रस्तं महादेवइति नाम्ना अभिमन्यसे आत्मनो यज्वनो वेति विकल्पः । पशुपतीभूयति पशुपतिरितिनाम्ना क्षेत्रज्ञान्दीक्षि- तान्वा अभिमन्यस इति । 'अधिष्ठिता महेशस्य शर्वाद्याभिश्च मूर्तिभिः ॥ चराचरात्मकं विश्वं धत्ते विश्वंभरात्मना, इति । तथा लैंगेऽपि 'अष्टमूर्तिर्जगद्व्याप्य स्थितोऽयं परमेश्वरः ॥ चरा- चराणां भूतानां धाता विश्वभरात्मकः ॥ भवश्वेत्युच्यते देवैभगवान्वेदवादिभिः' इति । आंदोलि- काख्यं वृत्तमिदं तथाचोक्तमभियुक्तैः ' सप्तभिः प्रहरणैः संयुतांतिमगुरुस्त्रिर्दशसु यतियुतांदोलिकोता। प्रहरण पंचमात्रो गणः । 'आयुधवाचकशब्दः पंचकलानां भवेत्संज्ञा , इतिप्राकृतसूत्रवाणीभूषणादौ च परिभाषितत्वात् । तथा च प्रतिपादं सप्तत्रिंशत्संख्याकाः मात्राः दशभिर्दशभिश्च सप्तभिश्च यति- रित्येतद्वृत्तमांदोलिकाख्यं भवतीत्यर्थः । अत्र च सप्तमात्रात्मिकायाः चरमयतेः पादांतिमत्वेन तत्याप्रार्थिकत्वात्तदुपेक्ष्य त्रिर्दशभिर्यतिरित्युक्तमित्यवधेयम् ॥ ८३ ॥ ॐअनेकात्मने नमः यत्किंचिद्रह्मांडे सर्वो वै रुद्रस्तत् ।। संख्येयवाभावाद्विख्यातो नेकात्मा ॥ ८४ ॥ अनेकः आत्मा वस्तुस्वरूपं जीवो वा यस्येत्यनेकात्मा अखिलप्रपंचात्मकः असंख्यातजीव समष्टयात्मको वेति क्रमेण दर्शयति यत्किंचिदित्यादिना यत्किंचिच्छब्दो यावत्परः 'यत्किंचि- .. १ -

६४
शिवनामकल्पलता।
प्राचीनमग्नीषोमीयात् इत्यादौ तथा व्याख्यानात्। तथा च दृश्यादृश्यात्मकं यावद्दस्तुजातं तत्सर्वं
रुद्रात्मकमेवेत्यर्थः । तथा च श्रुतिः 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्सर्वो ह्येष
रुद्रस्तस्मै रुद्राय नमो अस्तु । इति । अथवाएकदित्रित्वाादीभः परिगणितुमशक्यत्वात्तथैतद्दर्श-
यति संख्येयत्ताभावादिति संख्याया अवघ्यभावादित्यर्थः 'असंख्याताः सहस्राणि सहस्रशो ये
रुद्रा आधिभूम्याम् ' इतिश्रुतेः । शेषं सुगमं शेषाख्यं वृत्तमिदं तदुक्तमभियुक्तैः ' मददं शेषाख्यम्।
इति प्रतिपादं मगणद्वयं यत्र भवति तच्छेषाख्यं वृत्तं भवतीत्यर्थः ।। ८४ ॥
ॐसात्विकाय नमः
त्वयि निवसति जन्तुरस्तितागुण इति तानि तव प्रयोजनम् ।।
त्वमपि भवसि तेषु तद्वपुः परशिव तेन मतोऽसि सात्विकः॥ ८५॥
निवसन्ति सत्वान्यस्मिन्निति सात्विकः । तदस्य प्रयोजनमिति प्रयोजनार्थकः ठक्प्रत्ययः ।
अत्र सत्वपदार्थमादौ दर्शयन्प्रत्ययप्राप्त्यर्थमप्याह त्वयि निवसतीत्यादिना सत्वपदं प्राणिपरं
सत्तापरं गुणविशेषपरं च जंतुः प्राणिवर्गः । अस्तिता वर्तमानत्वं कालत्रयाबाध्या सत्तोतयावत् । गुणः
रजस्त मोभ्यां पूर्वो गुणविशेषः। इति शब्दो हेत्वर्थः । तथा च यतो जंत्वादित्रितयमाप त्वाय परमे शिवे
निवसति संस्थितिं प्रामोति अतस्तानि तव प्रयोजनमिति ठप्रत्ययप्राप्तिरुक्ता प्रयोजनत्वं च प्रव-
तकत्वं सत्वप्रवर्तक इत्यर्थः । तथा च अतिः 'महान्प्रभु पुरुषः सत्वस्यैष प्रवर्तक । इति । अथवा
सत्वेषु भवः सात्विकः 'तत्र भव' इत्यर्थः अध्यात्मादित्वाछवृत्तित्वार्थकः ठक्प्रत्ययः । सत्ववर्ती-
त्याशयेनाहत्वमपीति भवसि संबद्धोऽसि तेषूपदर्शितसत्वपदार्थेषु । तत्र हेतुमाह तदपुरिति शुद्धस-
चामात्रशरीरवानित्यर्थः । तदुक्तं स्कांदे सूतसंहितायां 'यस्य मायागतं सत्वं शरीरं स्यात्तमोगुणम् ॥
संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापर । इति । यस्य परमशिवस्य मायागतं सत्वं शरीरं भवति
तस्यैव त्रिमूर्तीनां संहाराय तमोगुणं शरीरं न तु स्वभाविकमित्यर्थः । अत्र च सर्वप्राण्यंतर्यामितया
जंतुवृत्तित्वमभेदप्रत्यासत्या सत्तावृत्तित्वं सत्वगुणैकमूर्तिमत्तया गुणविशेषवृत्तित्वमित्ववधेयं तथा च
राज्ञि राष्ट्रम् ? इत्यादिवदारोपिताधाराधेयभावात् । जगद्विचित्रचरित्रशालिपरमशिव इत्युपदर्शिते
कल्पद्वयतात्पयाविषयीभूतार्थ इत्यखंडवाक्यार्थः। अपराख्यं वृत्तमिदं तथा च गलसूत्रम् 'अर्ध)
इत्यधिकृत्य 'अपरवकं नौरोलौ ग्जौ नौ । इति । प्रतिपादं विषमपादे नगणद्वयं रगण लघर्गुरुश्च
समपादे तु नगणः जगणद्वयं रगणश्चैतवृत्तमपराख्यमघसमवृत्तं भवति तथाचोक्तं केदारे 'अयुजि-
मनरला गुरुः समे तदपरवमिदं नजौजरौः इति 'पद्धिषमे ऽष्टौ सम इत्याधिकृत्य 'वैतालीयेतरे लौ
गुरु । इति लक्षणसाम्याद्वैतालीयसंज्ञकं मात्रावृत्तमपि भवतीत्यर्थः ॥ ८५ ॥
ॐशुद्धविग्रहाय नमः
धनघृतमिव सत्वमात्रपिण्डो नतु वपुरण्वपि ते रजस्तमोऽक्तम् ।।
शिव भवासि च नैव कूटयोधी हरास मलानिति शुद्धविग्रहस्त्वम् ॥ ८॥

ससुधापूररत्नावालसहिता। ६५ ६ शुद्धसत्वमात्रप्रधानो विग्रहः शरीरं यस्येति शुद्धविग्रह इत्याह घनघृतमित्यादिना घनीभूतं घृत- मिव सत्वमात्रपिंडः शुद्धसत्तामात्रशरीरशालीत्यर्थः। तथा च स्मृतिः 'अप्राकृतशरीरं तमति- मन्मथरूपिणम् ॥ घृतमिव घनीभूतं सच्चिदानंदविग्रहम् । इति । मात्रपदव्यावर्त्यमाह नविति ते वपुः अण्वपि रजस्तोभ्यां नाक्तमित्यन्वयः । रजसा तमसा वा न कलुषितमित्यर्थः । अण्वपि नाक्त- मित्यनेन शरीरमात्रस्य त्रिगुणात्मकमायामयवत्त्वेपि लीलामात्रोपयुक्तेऽस्मिन्परमशिवशरीरे न तत्कार्यं किमपि भवितुमर्हतीत्येतत्सचितम् । अतएव 'अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः ।। रजसो मिथुनं सत्वं सत्वस्य मिथुनं रजः ॥ तमसश्चापि मिथुने ते सत्वरजसी उभे ॥ उभयोः सत्वरजसोः मिथुनं तम उच्यते ।। नैषामादिः संप्रयोगो वियोगो वापि लभ्यते । इति सांख्या- भियुक्तिरप्युपपद्यते । अथवा विग्रहशब्दो युद्धवानी । शुद्धोऽमायिकः विग्रहः संग्रामो यस्य अमा- यिकसंग्रामशालीत्यर्थः । इत्याशयेनाह शिवेत्यादि । हे शिव त्वं कूटयोधी न भवसीत्यन्वयः। कूट- योधी मायावीयुद्धवान् । एतेन युद्धेऽपि मायां न करोतीत्यनेन निष्कपटत्वं नित्यसिद्धत्वमित्युक्तं भवति । अथवा शुद्धो निर्मलः विग्रहः शरीरं यस्मात्तदुपासनाच्छरीरं निर्मलं भवतीत्यभिप्रेत्याह हरसि मलानिति अनायविद्यानुवाणवकार्मणमायीयाख्यान्मलानित्यर्थः । पुष्पितामाख्यं वृत्तमिदं तथाच पैंगलसूत्रं 'पुष्पितामा नौ यौँ न्जौ ज्रौ ग् । तथा च केदारे 'अयुजि नयुगरेफतोयकारो युजि जनजौ रमाश्च पुष्पिताया । इतिचोभयमतेन विषमपादयोः प्रथमतृतीययोः नगणद्वयं रगणो यगणश्च समपादयोः द्वितीयचतुर्थयोः नगणः जगणवयं रगणो गुरुश्चैतद्वृत्तं पुष्पिताग्राख्यमर्धसमवृत्त ति । 'पर्यंते यौ'इत्यादिपूर्वोक्तलक्षणेन औपच्छंदसिकं मात्रावृत्तमपि भवतीत्यर्थः ॥ ८६ ॥ ॐशाश्वताय नमः पूतो जगतो जनः सर्वतो संहारतः परे ॥ वर्तमाने जगत्यपि त्वमस्येवेति शाश्वतः ॥ ८७ ।। शश्वत्सदा साधु वर्तत इति शाश्वतः साध्वर्थकः अण्प्रत्ययः जगदुत्पत्तिस्थित्युपसंहाराख्य- कालत्रयवर्तीत्याशयेनाह पूर्वत इति जगदुत्पत्तिपूर्वकाले जगत्संहारोत्तरकाले जगवर्तमानकाले त्वमनुस्यूततया वर्तमानत्वाच्छाश्वतिको भवसीत्यर्थः । तथाचाथर्वशिखायां रुद्रवचनम् 'अह- मेकः प्रथममास वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति स्पष्टार्थ जविपु- लाख्यं वृत्तमिदं तथा च पैंगलसूत्रं 'सर्वत्र सैतवस्य ? अष्टाक्षरेषु चतुर्वपि चतुर्थाक्षरोत्तरं नभ- जान्यतमो गणश्चेत्सैतवाचार्यस्य मतेन विपुला जविपुला भविपुला नविपुलाश्च क्रमेण भवंति। प्रकृते जगणस्यैव सत्वाजविपुलाख्यं वृत्तं भवतीत्यर्थः ।। ८८ ॥ ॐखंडपरशवे नमः गजासुरवधे खंडास्तवजाताः परशवः ।। तदारभ्याखिलैर्देवैर्गीयसे खंडपरशुः ॥ ८८ ॥ . । .

६६ शिवनामकल्पलता। । .. 7 परागृणातीति परशुः । आङ्परयोः खनिशभ्यां डिच्च ? इत्यौणादिकः कुप्रत्ययः । खंडा: विभिन्नाः परशवो यस्यति खंडपरशुरित्यत्र परशोः खंडेने हेतुमाह गजासुखधेत्यादिना स्पष्टोऽर्थः । विपरीतचपलाख्यं वृत्तमिदं तथा च पैंगलसूत्रं 'चपला युजोन् । । अष्टाक्षरपादयोः समयोः चतु- थाक्षरोत्तरं यगणो वा जगणः विषमयोस्तु ,गणः एतद्वृत्तं चपलाख्यं भवति । पादयोय॑त्यासेन निवेशे च विपरीतचपलाख्यं भवतीत्यर्थः ।। ८८ ॥ ॐअजाय नमः न जनिः शिव ते ॥ तदसि त्वमजः ।। ८९ ॥ न जायत इत्यजः स्पष्टं पांचालरमणाख्यं वृत्तमिद तथाचोक्तमाभियुक्तैः 'प्राकृतेष्वष्टभिर्माय:- की च शशिप्रमा । रमणं चैव पांचालं मृगेंद्रश्चैव मंदरः॥ कमल चैव संज्ञाश्व वृत्ताष्टकमुदीरितम्। इति प्राकृतेषु प्राकृतसूत्रेषु वृत्ताष्टकमुदीरितमित्यनेनान्वयः । मायैः मयरसतजभनैः तथाच मगणा- त्मकचरणचतुष्टयमेतद्गोकर्णाख्यमित्येवमष्टभिः संज्ञकैः क्रमादृत्ताष्टकं भवतीत्यर्थः प्रकृते च चतुष्टय- स्यापि सगणात्मकत्वात्पांचालाख्यं वृत्त भवतीति बोद्धव्यम् ॥ ८९ ॥ ॐपाशविमोचकाय नमः अभिमतिगुणपंचपरुर्दशत्रिचतुरयुतविंशतिपाशतः ॥ शिवपदभजनेन विमोचयन्पशुगणमिति पाशविमोचकः ॥ ९० ॥ पाशाः संसारपतनहेतुभूताविद्या कार्यविशेषाः कर्तृत्वभोक्तृत्वायभिमानादयस्तेभ्यो जीवान्वि- मोचयतीति पाशविमोचकस्ते च नानामतभेदेन नानारूपा इत्यावेदयंस्तन्निवृत्तिः परमशिवभज- नपराणां नराणामतिसुलभेत्यभिप्रायेणाह अभिमतीत्यादिना । अभिमतिरभिमानः कर्तव्यभोक्तुत्वा- यहकार इतियावत्स एव पाश इति पाशैकत्ववादिनः । गुणाः सत्वरजस्तमोरूपास्त एव पाशा इत्येके पंच पसंषि पर्वाणि यस्याः अविद्यायाः सा पंचपरुः। तमो मोहमहामोहतामिसाधतामिस्र- रूपभिन्नावियास्मितारागद्वेषाभिनिवेशाख्यपंचक्लेशात्मिका अवियेतियावत्। सैव पाश इत्यन्ये दर्शद्रि- याण्येव पाशा इत्यपरे । त्रयश्चत्वारो वा त्रिचतुरास्तैर्युता विंशतित्रिचतुरयुतविंशतिश्चेति ये पाशाश्च तेभ्य इति पचम्यर्थे तसिल्प्रत्ययः । तथाचोक्तं लैंगे 'चतुर्विंशतितत्वानि पाशाः स्युः परमेष्ठिनः॥ दशेंद्रियमयैः पाशैरंतःकरणसंभवैः ॥ पंचक्केशमयैः पाशः पशून्बध्नाति शंकरः ॥ अविद्यामस्मितां राग द्वेषं च मुनिसत्तमाः॥ वदत्यमिनिवेशं च क्लेशान्नाशितुमागतान् ॥ तमोमोह महामोहस्तामिस्रमिति पडिताः ॥ अधतामिस्रमित्याहुः अवियां पचधा स्थिताम् ॥ अविद्यां तम इत्याहुराभतां मोहमित्यपि ॥ रागमाहुमहामोह द्वैत तामिस्रमुच्यते ॥ अंधतामिस्रमित्याहुस्तथै- वामिनिवेशनम् ब्रह्मादिस्तंबपर्यंतान्पशून्बद्धा महेश्वरः ॥ त्रिभिर्गुणमयैः पाशैः कार्य कारयते स्वयम् । इत्यादि । शिवपदेति उपदर्शितानेकपाशेभ्यः पशुगणं जीवराशिं त्वदीयपादारविंदभक्त्या - ससुधापूररत्नावालसहिता । . विमोचयन्पाशविमोचक इति प्रसिद्धो भवसीत्यर्थः। परमशिवभजनस्य पाशविमोचकत्वमुक्तं लैंगे सएव मोचकस्तेषां भक्त्या स म्यगुपासितः। अविद्यापाशबंधानां नान्यो मोचक इष्यते । तमृते परमात्मानं शंकरं परमेश्वरम् इति। वायवीयसहितायामाप 'भावातिशयलभ्येन प्रसादेन मलक्षयम: इति । मंत्रोपनिषद्यपि 'सयुक्तमेतत्क्षरमक्षर च व्यक्ताव्यक्तं भरते विश्वमीशः।।अनीशश्चात्मा बचते भोक्तभावात् , 'ज्ञात्वा देवं मुच्यते सर्वपाशैः । इति । उज्वलाख्यं वृत्तमिदं तदुक्तमभियुक्तैः ननभरसहिताभिहितोज्वला ' इति । प्रतिपादं नगणद्वयं भगणः रगणश्चैतदृत्तमुज्वलाख्यं भवतीत्यर्थः ॥ ९० ॥ अथ नामश्लोकः मृडः पशुपतिदेवो महादेवो व्ययो हरिः॥ पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ।। एतानि दश नामानि निर्वक्ति ॥ ॐमृडाय नमः पूर्णाहुत्या त्वयि सुहिते यज्ञे पूर्णे सति सुहिते ॥ यष्टन्धातृनपि सुखयस्यार्यानेतस्तदसि मृडः ॥ ९१ ॥ पूर्णेत्यादिना मृड इति मृडसुखन इतिधातोः मृडयतीति मृडः सुखजनक इत्यर्थः । तच्च सुखं ज्ञानेन कर्मणा वेत्युभयथापि संभवतीत्याह सुहिते तृप्ते सुहिते शोभनं हितं दृष्टं यत्र तस्मिंरतथाचेष्टार्थजनकीभूतयज्ञसंपूर्ती जाताया पूर्णाहुत्या परमशिवे च तृप्ते सति यष्टन्या- जकान्ध्यातृज्ञानिनोयष्टुंश्च सुखयसि सुखिनः करोषीत्यर्थः । तदुक्तमन्यत्र ' ज्ञानयोगरताः केचि- कर्मयोगरता: परे ॥ तेषामानंददः शंभुः कालयोगविवर्जितः । आर्य नेत इति आर्यायाः पार्वत्याः नेतो नायक इति संबुद्धिः । पारतीयसंज्ञकं वृत्तमिदं तदुक्तमभियुक्तैः 'पारतीय मभसगणैः । इति प्रतिपादं मगणः भगणः सगण इत्येतद्वृत्तं पारतीयसंज्ञकं भवतीत्यर्थः ॥ ९१ ॥ ॐपशुपतये नमः ख्यातं तंत्रेषु पाशः पशुरथ पतिरित्येतत्त्रयमपि स्वगृपं नाथ जीवान्नियमयसि नुतो मुक्तांश्च कुरुषे ॥ ग्राम्यारण्याधिपत्यं वदसि च यजमानात्माभिमतिमा- भक्तानेपालपीठे रमयसि निवसन्नासीः पशुपतिः ॥ ९२ ॥ पशुशब्दः पशुपाशोभयपरः पशुश्चासौ पाशश्चासौ पतिश्चेति कर्मधारयः । तत्र पशुः पाशः पतिरिति त्रिपदार्थवादिनः शैवाः पाशुपतापरनामकास्तेषां मतमभिप्रेत्याह ख्यातमिति प्रसिद्ध- मित्यर्थः । तत्रेषु शैवतंत्रेषु तथाचोक्तं वायुसंहिताया 'अजडं च जडं चैव नियंत च तयोरपि ।। पशुः पाशः पतिश्चेति कथ्यते त्रितयं क्रमात ॥ अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेत -

६८
शिवनामकल्पलता।
त्रितयं भूयः कथ्यते वेदवोदभिः' इति । त्वद्रूपमिति तथा च पदार्थवितयात्मकप्रपंचस्वरूपः
परमशिव एवेति पशुपाशपतित्रयात्मकत्वात्पशुपतिरित्यर्थः । अथवा पशवः ब्रह्मादिस्थावरांताः
प्राणिनस्तेषां पतिर्नियामक: पशुत्वविमोचकश्चेत्यभिप्रत्याह नाथ जीवानियमयसीति तदुक्तं लैंगे
'ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ पशवः परिकीय॑ते संसारवशवर्तिन? इति । नाथेति
संबुद्धिः । नुतः पशुभिः स्तुतः संस्थान्मुक्तांश्च कुरुषे अनाद्यविद्यावासनात्मकसंसारपाशबंधनशून्या-
न्करोपीत्यर्थः। अथ वा गवाश्वादिपशूनां पतिराधिपतिः स्वामीत्यर्थ इत्याशयेनाह ग्राम्यारण्येति
ग्राम्या ग्रामोद्भवाः सात्विका भावाः गवादयः आरण्याः अरण्योद्भवाः क्रूरभावाः सिंहव्याघ्रादयश्च
तेषां यदाधिपत्यं स्रष्टत्वपालकत्वादिपं तद्दहसीत्यर्थः तथाचोक्तं हरिवंशे 'पालयामि पशून्यस्मात्स-
जामि च यदृच्छया । तेषां च परितो वाहं तस्मात्पशुपतिः स्मृतः इति । अथवा पशुपतिरिति पर-
शिवाष्टमूत्यैतर्गतात्मयजमानाभिमानिमूर्तिविशेष एवेत्याशयेनाह यजमानात्माभिमतिमानिति । तदुक्तं
वायुसंहितायां 'सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥ मूर्तिः पशुपतेर्जेया पशुपाशनिकृतनी? इति
अथवा नेपालाख्ये महापीठे पशुपतीश्वर इति प्रसिद्धिबलात्तथेत्याह भक्तानिति रमयास आनंदयसि
स्पष्टमन्यत् । सुवदानाख्यं वृत्तमिदं तदुक्तं भगवतापिंगलेन सूत्रं ' सुवदना प्रौ भनौ म्भी लगी
स्वरऋषिरसाः, तथा कैदारोक्तिः 'ज्ञेयाः सप्ताश्वषड्भिर्मरभनमयुताभ्लौगः सुवदना' इतिल-
मसाम्यात्प्रतिपादं मगणः रगणः भगणः नगण: मगणः भगणः लघु गुरुश्च सप्तभिः सप्तभिश्च
षड्भिर्यतिरित्येतद्वृत्तं सुवदनाख्यं विंशत्यक्षरपादात्मकं भवतीत्यर्थः ।। ९२ ॥
ॐदेवाय नमः
द्युतिमोदव्यवहारात्सुरजातिष्ववतारात् ।।
शशिमौले जगतीनामधिपत्वादपि देवः ।। ९३ ॥
दीव्यतीतिदेवः दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वमकांतिगतिष्वितिधात्वर्था-
भिप्रायेणाह युतिमोदेत्यादि युतिदीप्तिः मोद आनंदः व्यवहारो व्यवहतिः प्रवृत्त्यादिरूपेणेति
यावत । द्युतिर्मोदो व्यवहारश्चेति तेषां समाहारस्तस्मादिति समाहारइंदः । युतिमोदसहितव्यव-
हारदिति मध्यमपदलोपी वा समासः । तथा च दैदीप्यमानः आनंदवान्व्यवहृतिमांश्चेत्यर्थः । नन्वे
तावता युत्यामोदप्रदर्शनेन धात्वर्थोपपादनेऽपि कथं देवशब्दप्रवृत्तिविषयत्वं परमशिवस्य तत्प्रवृत्तिनि-
मित्ततायाः देवत्वजातेः शरीरविशेषवृत्तितया तत्र तदसंभवादित्याशंक्याह सुरजातिष्ववतारादिति-
यथाच 'मनुष्योऽहं ब्राह्मणो जानामि इत्यादौ शरीरगतमानुषत्वजात्यादिकमादायात्मन्यहमितिप्रयो-
गस्तथा देवजातिमादायापि परमशिवे देवपदप्रवृत्तिविषयत्वं सूपपन्नमिति भावः । अथवा 'राजा
भट्टारको देवः इतिकोषात्प्रमुखस्वामिपर्यायो देवशब्दः सर्वाधिपत्यं बोधयतीत्याह जगतीनामिति ।
लोकानामित्यर्थः । तथाच श्रुतिः 'सर्वेश्वरः शंभुराकाशमध्यः सर्वाधिपत्यं कुरुते महात्मा' इति च।
शशिमौले इति संबुद्धिः स्पष्टमन्यत् । मोदाख्यं वृत्तमिदं तदुक्तमाभयुक्तैः 'सभगा गो यदि मोद
इति । प्रतिपादं सगण; भगणः गुरुद्वयं चेत्येतद्वृत्तं मोदाख्यं भवतीत्यर्थः ॥ ९३ ॥

-- ससुधापूररत्नावालसहिता। ६९ ॐमहादेवाय नमः गीर्वाणानामपि मधुहादीनां नमनीयस्त्वं देवः ॥ शशिविवेऽधिष्ठात्री तव मूर्तिर्जगदाप्याययतीति महादेवः ॥ ९४ ॥ महांश्चासौ देवश्चेति महादेवः तत्र महत्वं ब्रह्मविष्ण्वाद्यखिलसुरगणैः नमस्यत्वं स्तुत्यत्वं चेत्या- शयेनाह गीर्वाणानामपीति मधुहादीनां नमनीयो नमस्कारविषयः स्तवनीयः स्तवनविषयः तदुक्तं सांबपुराणे 'युज्यते यः सुरैः सर्वैर्महांश्चैव प्रमाणतः ॥ धातुर्महोत पूजायां महादेवस्ततः स्मृत? इतिश्रुतिरपि 'तमीश्वराणां परमं महेश्वरं तद्देवतानां परमं च दैवतम् इति । अथवा महादेव- मिति चंद्राधिष्ठातृमूर्तिविशेष एवेत्याह शशिबिंब इति चंद्रमंडलांतःसमधिष्ठिता सा महादेवाख्या मूर्तिरमृतासारेण जगदाप्याययति आनंदयति चेत्यर्थः। तदुक्तं शिवपुराणे 'आप्याययति यो नित्यम- मृतांशुर्निशाकरः ॥ महादेवस्य सा मूर्तिर्महादेवसमाया' इति । कलहंसीसंज्ञकं वृत्तमिदं तथाचोक्तम- भिनवरत्नाकरे 'षण्मास्त्रिभिरुदिता कलहंसीयत्र प्रतिपादमष्टादशमात्राः संति तत्कलहंसीसं- ज्ञकं वृत्तं भवतीत्यर्थः ॥ ९४ ॥ ॐअव्ययाय नमः न जायसे परिणमसि प्रवर्धसे न हीयसे न च विकृतोऽसि नश्यास ॥ त्वमव्ययैर्दशभिरपि क्षमादिभिः परिष्कृतः परशिव तेन चाव्ययः ॥ ९५ ॥ व्ययति विविधतया गच्छति जायते अस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यतीति षड्भा- वविकारान्प्रतिपद्यत इतिव्ययः नश्वरः पदार्थव्यूहःस न भवतीत्यव्ययः ‘यन्नव्योत तदव्ययः इति गोपथब्राह्मणदर्शितां व्युत्पत्तिमभिप्रेत्याह नजायस इत्यादिना नश्यसीति जन्मादिनाशांताः षड्- भावविकाराः शरीरस्यावस्थाविशेषाः सार्वजनीनानुभवसिद्धा इति स्पष्टोऽर्थः । अथवा अव्ययानि प्रागुपदर्शितज्ञानवैराग्यादीन्यस्मिन्संति इत्यव्ययः अव्ययवानित्यर्थः । ज्ञानं विरागमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ स्रष्टत्वमात्मासंबोधो ह्यधिष्ठातृत्वमेव च ॥ अव्ययानि दशैतानि नित्यं तिष्ठंति शंकरे इति । परिष्कृत इति अलंकृतवानित्यर्थः । स्पष्टमन्यत् । रुचिराख्यं वृत्तमिदं तथा च सुत्रं 'रुचिराभौ स्जौग्चतुष्कनवको । तथा पिंगलानुसारिकैदारोक्तिः 'चतुर्ग्रहैरिह रुचिरा ज्मौ स्जौ म् । इति । प्रतिपादं जगणः भगणः सगणः जगणः गुरुचतुर्भिर्नवभिर्यतिरित्येद्वृत्तं रुचि- राख्य भवतीत्यर्थः ॥ ९५॥ ॐहरयेनमः परशिव तव नामसंकीर्तनं कलिकलुषितचेतसां पावना ।। निवसास नगरे हरिश्चंद्रके हरासि च दुरीतानि स त्वं हरिः ॥ ९६ ॥ .

शिवनामकल्पलता। हरति भक्तानां दुरितानीति हरिः 'इन् सर्वधातुभ्याइति संहरतरोणादिक इन्प्रत्ययः । तथा च संकीर्त्यमानं सत्परमशिवप्रतिपादकं नामैव यद्यशेषदुरितापहारि भवेत्साक्षात्स्वयमेव परमशिवः संसारकपाशवदानपि स्वभक्तान्विमोचयतीत्यत्र किं विचित्रमितिकमुतिकन्यायसभिप्रेत्याह परशिवेति कलिकलुपितचेतसां कलिना कलिप्रयुक्तपापेन कलुषितानि दूषितानि चेतांस्यंतः करणानि येषां कलिमलग्रस्तचित्तानां पुरुषाधमानामपि वन्नामसंकीर्तनं पावनं पापनोदकरमिति बहुश्रुति स्मृतिहासादिषु प्रसिद्धमित्यर्थः । अथवा हरिश्चंद्राख्ये क्षेत्रविशेषे हरीश्वरः इति प्रसिद्धिव- लात्तथेत्याह निवसतीति हरसि च दुरितानीति हरिशब्दव्युत्पत्तिप्रदर्शनपरम् । प्रमुदितवदनाख्यं वृत्तमिदं तदुक्तमभियुक्तैः 'प्रमुदितवदना भवेन्नौरराँचेत् इति । प्रतिपादं नगणद्वयं रगणद्वयं चैत्तद्वृत्तं प्रमुदितवदनाख्यं भवतीत्यर्थः ॥ ९६ ॥ ॐपूपदंतभिदे नमः ॥ अधिमखं रदविकासपूर्वकं परिहसंतमवलोक्य पूपणम् ॥ शिव भवानकृत पिष्टभागिनं दलितदंतमिति पूपदंतभित् ॥ ९७ ।। पूष्णः सूर्यस्य दंतान् भिनत्त्युत्पातयतीति पूषदंतभिदित्यत्र दंतोत्पाटनहेतुभूतमपराधं दर्शय- नाह अधिमखमिति यज्ञमध्य इत्यर्थः । रविकासपूर्वकं दंतप्रकाशपूर्व परिहसतं पूषणं सूर्यद्वादश- केप्वकं तथा च पुगहि दक्षाध्वरशालामुपगतानसंख्यान्महर्षिप्रभृतीन्सुरगणानोदासीन्येन परमशिव- मुपहासपूर्वकं सहासमपमन्यमानानवलोक्य परमदारुणभावेन संवर्तसमयप्रज्वलितकालाग्निमग्नाकारण घोरवीरभद्रावतारण पुनः स्वयमेव शिवस्तान्यथोपहासमशिक्षयत् । तत्र च दंतानादाय परिहसितं पूष्णेति देता:पातिताः इत्यादिकं तत्तत्पुराणेषु स्पष्टं प्रतिपादितं तथा च लगे 'वीरभद्रश्चतुःपष्टीरोम- जैस्तेर्गणेवृतः।। व्यष्टभयददीनात्मा तथान्येषां दिवौकसाम् भगस्य नेत्रे चोत्पाच्य करणाग्रेणलीलया॥ निहत्य मुष्टिना देताः पूष्णश्चैव न्यपातयत् इति । शिवपुराणे 'पूष्णो दशनपंक्तिं च दिव्यां मुक्तावली- मित्र ॥ विमेद धनुषः कोट्या ततः सोऽस्पष्टवागभृत् ॥” इति । शिवेति संबुद्धिः हे परमशिव मवान्ग- लितदंत दंतशून्यं पूषणं पिष्टभागिनं अकृत कृतवानित्यर्थः । तथा च श्रुतिः 'पूषाः प्रपिष्टमागदं- तको हि सः इति । स्पष्टार्थमन्यत् । प्रियंवदाख्यं वृत्तमिदं तथाचोक्तमभियुक्तैः ‘भुवि भवेन्नमजरैः प्रियंवदा' इति प्रतिपादं नगणः भगणः जगणः रगणश्चैत्तद्वृत्तं प्रियंवदारव्यं भवतीत्यर्थः !! ९७ ।। ॐअव्यग्राय नमः पौलस्त्येनोन्नमनसमये कैलासादेब्रह्मांडानामपि दहनकाले संवते ॥ युद्धष्वन्यप्वपि बहुपु संतोषोद्रेकादेवीं पश्यन्नटास शिव तस्मादव्यग्रः ॥ ९८ ॥ व्यग्रो विभ्रान्तचित्तः न भवति इत्यव्ययः । निश्चिंत इत्यर्थः । इत्यभिप्रेत्याह पौलस्त्येनेति पौलस्त्यः पुलस्त्यवंशोद्भवो दशाननस्तेन कैलासादेन्नमनत्तमये उच्चालनसमये देवीं पश्यन्नट- सीत्युत्तरेण संवधः । ब्रह्मांडानां चतुर्दशभुवनानामपि दहनकाले संवर्ते प्रलय समय इत्यर्थः सवर्तः - संसुधापूररत्नावालसाहता। ७१ प्रलयः कल्प ? इत्यमरः युद्धेष्वन्येष्विति त्रैपुरादीषु युद्धेषु कालकूटाशनायशक्यकार्येषु चेत्यर्थः । संतोषोद्रेकात्संतोषातिशयात् । एवंरूपेष्वपि कार्यकरणेष्वतिशयितसंतोषवत्त्वादव्यग्रत्वं परम- शिवस्येत्यर्थः । हंसश्यनीसंज्ञकं वृत्तमिदं तदुक्तमभियुक्तैः ‘मौ भौ न्मौ गौ यदि निगदिता हंसश्ये, नी' इति । प्रतिपादं मगणः नगण. मगणः गुरुद्वयं चैतद्वृत्तं हंसश्येनीसंज्ञकं भवतीत्यर्थः । अस्मि- न्वृत्ते यः चतुर्थगणो मगणः सः क्वचित्पाठांतरभेदेन यगणो भवति ॥ ९८॥ ॐदक्षाध्वरहराय नमः पुरा देवो दक्ष इति शिव तवैकः श्वशुरकः परो मयों दक्ष इति विटपिकन्यादरभवः ॥ प्रचेतःपुत्रोऽखिलमखफलदातापि च भवां- स्तयोर्यज्ञौ हा व्यदलयदिति दक्षाध्वरहरः।। ९९॥ अत्र दक्षो द्विविधः अमानुषो मानुषश्च तत्रामानुषो दक्षः प्रजापतित्वेन प्रसिद्धः यस्य जामातृत्वमापन्नः परमशिवोऽपि मानुषश्च राजा तस्यैव अवतारविशेषः तयोरध्वरौ हरति नाशयती- ति दक्षाध्वरहर इत्यभिप्रेत्याह दक्षपदार्थावेव आदौ दर्शयति पुरा देव इति । श्वशुरकेत्यत्र स्वार्थे कुत्सिते वा प्रत्ययः । शिवद्रोही श्वशुर इत्यर्थः । विटपिकन्योदरभव इति । स एव दक्षः क्वचित्कुपितेन परमशिवेन शाखिनां कन्यायां त्वं भवितेति शप्तः सन्विटपिकन्यो- दरान्मानुषत्वं प्राप्त इत्यर्थः। तदुक्तं ब्रह्मपुराणवायुपुराणयोः 'अभिव्याहत्य सप्तर्षीन्दक्षं सोs- भ्यशपत्पुनः ॥ भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ प्राचिनबर्हिषः पौत्रः पुत्रश्चैव प्रचे- तसः ॥ दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।। कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषांतरे। अहं तत्रापि ते यज्ञं हन्मि देव्याः प्रियेक्षया ? इति । चाक्षुषस्य चतुर्दशमन्वंतर्गतस्य मनुविशेषस्य वशे त्वं भवितेति शप्तवानित्यर्थः । अखिलेति तयोः मानुषामानुषयोर्दक्षयोर्यज्ञाविति तथाचाखिल स्याप्यध्वरस्य फलं स्वर्गादिरूपाभिमतार्थसिद्धिं प्रयच्छन्नपि यज्ञौ व्यदयलदिनाशयदित्यध्वरका- रकस्तत्संहारकश्चेत्याश्चर्यकरं भवचरित्रमचिंत्यमित्यभिप्रेत्याह हा इति विषादशुगतिध्वव्ययं स्पष्ट - न्यत् । कलातंत्राख्यं वृत्तमिदं इथाचोक्तमभियुक्तैः ‘कलातंत्रं यो तनसभलघुभिर्गेन सहितम् इति प्रतिपादं यगणः तगणः नगणः सगणः भगणः लघर्गरुश्चैतद्वृत्तं कलातंत्राख्यं भवतीत्यर्थः ॥९९॥ ॐहराय नमः परशिव जनयसि भव इति भणितः स्थिरमपि चरयास मृडपदगणितः ।। सुचरमचरमपि चरमगुणधरः प्रहरसि जगदिदमखिलामिति हरः ॥१०॥ हरत्युपसंहरत्याखिलामति हरः अत्र च सृष्टिस्थित्युपसंहाराख्यं कार्यकारिण्यो भवमृडहरा- ख्यास्तिस्रो मूतयः परमशिवस्य तत्र रजोगुणेन भवमूर्त्या सत्वगुणेन मुडमूर्त्या प्रथमकार्य सृष्टि द्वितीयं चास्थिात यथा करोति तथा तमोगुणेन हरमूर्त्या संहाराख्यं तृतीयकार्यमपि करोतीति 1 - ७२ शिवनामकल्पलता। दृष्टांतपूर्वकं परमशिवस्य हरपदवाच्यत्वमुपपादयति परशिवति जनयसीति भवत्यस्मात्सर्वमिति व्युत्पत्त्य उत्पादयसीत्यर्थः। स्थिरमपि उत्पन्नस्य स्थितिमपि चरयसि मृडयति सुखयतीति व्युत्पत्त्या सुखयसि सुखवत्करोषीत्यर्थः । सुचरं जंगममचरं स्थावरं स्थावरजंगमात्मकप्रपंचमात्रमित्यर्थः । चरमगुणधरः चरमगुणस्तमोगुणस्तद्वान्प्रहरसि उपसंहरसीत्यर्थः । मणिगुणनिकराख्यं वृत्तमिद तथा च पैगलसूत्रं 'मणिगुणनिकरो वस्वृषयः । अत्र चंद्रावतीत्सूत्रात् 'नौनौस् । इत्यनुवर्तते । तथा च प्रतिपादं नगणचतुष्टयं सगणोऽष्टभिः सप्तभिश्च यतिरित्येतद्वृत्तं मणिगुणनिकराख्यं भवतीत्यर्थः तथाच केदारे लक्ष्यं 'वसुययतिरितिमाणिगुणनिकरम् इति ॥ १०॥ अथ च नामश्लोकः ॥ भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ॥ अपवर्गप्रदोऽनंतस्तारकः परमेश्वरः ।। इतिचावशिष्टनामाष्टकं निर्वक्ति ॐभगनेत्रभिदे नमः विष्णुब्रह्मायखिलदिविपद्धृतेमखमंडपे वीरं भद्रापतिमुपगतं सुरासुरमर्दनम् ।। कोपाटोपादरुणनयनो भगस्तमदीदृश- तन्नेत्र समसभमभिनत्ततो भगनेत्रभित् ॥ १०१॥ विष्णित्यादिना विष्णुब्रह्मादयो देवास्तैरखिलैरपि वृत्ते व्याप्ते मखमंडपे यज्ञशालायां भद्रापतिमिति पराशक्तिकोपादाविर्भूतायाः भद्रकाल्याः पतिं स्वामिनं सुरासुरमर्दनं सुरा- सुराणां नाशकं तथा च दक्षाध्वरविनाशाय परमशिवेन प्रेषितं वीरभद्रमित्यर्थः कोपा- टोपाकोधावेशादरुणनयन आरक्तेक्षगो भगः सूर्यमूर्तिविशेषस्तं वीरभद्रं व्यदीदृशत्पुन पुन- रपश्यत् । तन्नेत्रे सूर्यनेत्रे स वीरभद्रः प्रसभं बलात् 'प्रसभं तु बलात्कारो हठः। इत्यमरः । अभिनदिति तथाचोक्तं लैंगे 'दग्धुं वै प्रहितश्चासौ भगवान्परमोष्टिना ॥ तदो- त्पाता बभूवुर्वे लोकानां भयशंसिनः ।। पर्वताश्च व्यशीर्यंत चकंपे च वसुंधरा ॥ मरुतश्चाप्यधूयंत चुक्षुभे मकरालयः ॥ अग्नयो वै न दीप्यते न च दीप्यति भास्करः ॥ महाश्च न प्रकाशते न देवा न च दानवाः ॥ ततः क्षणात्प्रविश्यैव यज्ञवाट महामनाः ॥ रोमजौ सहितौ भद्रकाला- ग्निरिवचापरः ॥ उवाच भगवान्भद्रो दक्षं चामिततेजसम् ॥ संपर्कादेव दक्षस्य मुनिदेवान्पिना- किना ॥ दुग्धुं वै प्रेषितश्चाहं भवतश्च मुनीश्वराः। इत्युक्त्वा यज्ञशालां तां ददाह गणपुं- गवः ॥ गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥ गृहीत्वा सत्वरं सर्वान्गंगास्रोतसि चिक्षिपुः ॥ वीरभद्रश्चतुःषष्ठिरोमजैस्तैर्गणैर्वृतः ॥ व्यष्टभयददीनात्मा तथान्येषांदिवौकसाम् ॥ भगस्य नेत्रे चोत्पाट्य , करेणाग्रेण लीलया ॥ निहत्य मुष्टिना देतान्पूष्णश्चैव न्यपातयत् । इति । तथा वायवीयसंहितायामपि 'भगस्य विपुले नेत्रे शतपत्रसमप्रभे ।। प्रसहोत्पाटयामास भद्रः ..

. ससुधापूररत्नावालसहिता। ७३ परमवेगवान' इति । सूर्यनामार्यायो भग इत्युक्तः । तत्र प्रामाण्यं 'भगं श्रीकाममाहात्म्यवीर्य- यत्नार्ककीर्तिषु' इत्यमरः ॥ भाराक्रांतावृत्तमिदं तथाचोक्तमभियुक्तैः ‘भाराकांता जलधिषडगे- मभौ नरसालगौ प्रतिपादं मगण: भगणः नगणः रगणः सगणः लघुर्गुरुश्चतुर्भिः षड्भिः सप्तभिश्च यतिरित्येतद्वृत्तं भाराक्रांताख्यं भवतीत्यर्थः ॥ १०१ ॥ ॐअव्यक्ताय नमः सांख्ये मूलमकृतिरिति यदाचख्यौ यत्पाराशयश्चिदिति गदति तत्त्वं तस्वम् सामष्टयं चाक्षरमपि भुवि नैव व्यक्तं लिंग बाणाभिधमपि शिव इत्यव्यक्तः ।। १०२ ।। व्यक्तं न भवतीत्यव्यक्तं परमशिवतत्वामित्यर्थः । तथाच यत्तत्वं सांख्यैमूलप्रवतिरित्याभ- मन्यते यच्च वेदांतिभिः पाराशर्यप्रमुखैः चित्प्रकाशात्मक परं ज्योतीरूपमिति तत्तत्वं स्वरूप- मेवेत्यव्यक्तस्वरूपः परमशिव इत्यभिप्रेत्याह सांख्य इत्यादि यत्तत्वं सांख्यः मूलप्रकृतिरविकृति- रिति आचरव्यौ इत्यन्वयः । यदाहुः सांख्याः 'मूलप्रकृतिरविकृतिर्महादाद्याः प्रकृतिविकृतयः सप्त ॥ षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष । इति । सूक्ष्मलिंगमचेतनमनादिनिधनं तथा प्रसवधर्मि निरवयवमेकमेवेति साधारणमेतदव्यक्तामेति ब्रह्मांडपुराणेऽपि 'त्रयोविंशतितत्वानि व्यक्तशब्देन सूरयः ॥ वदंत्यव्यक्तशब्देन प्रकृतिं च परां तथा? इति । यत्पाराशमिति यत्तत्वंपारा- शर्यः पराशरात्मजो व्यासः चिदिति गदति चित्प्रकाशात्मकपरंज्योतः स्वरूपमिति वदती- त्यर्थः । तदव्यक्तत्वमाह हि) इत्यधिकरणे 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा- वा/इत्यादिश्रुतिभिस्तथा निर्णयात् । तत्त्वमिति प्रथमं तत्त्वमित्येकं पदं पूर्वेण यत्पदेनान्वितं द्वितीय तत्त्वमिति पदद्वयं तादृशं तत्त्वं त्वमेव त्वत्स्वरूपमेवेत्यर्थः । अथवा व्यक्ताव्यक्तात्मकाखिलप्रपंच- समष्टयात्मकत्वादक्षरात्मकत्वाद्वाणलिंगात्मकत्वादा तथा ' द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ॥ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । इत्यादिप्रमाणोक्तेरित्यभिप्रायेणाह' ध्यं चेत्यादि । समष्टिरूपमित्यर्थः । तदुक्तं नृसिंहपुराणे ' समष्टिबिंदुरव्यक्तं व्यक्तं व्यष्टिं मुनी- श्वरा' इति । अक्षरमपीति तस्याप्यक्षरत्वमुक्तं तथा च मत्स्यपुराणे उक्तम् ' उक्तमक्षरमव्यक्तं न्यक्तं क्षरमुदाहृतम्। इति । भुवि नैव व्यक्तमिति । बाणाभिधं यल्लिंगं तद्भुवि अव्यक्तपदवाच्य- मित्यर्थः । तदुक्तं ब्रह्मवैवर्ते 'स्वायंभुवं बाणलिंगं शैललिंगमिति त्रिया ॥ कीर्तित व्यक्तमव्यक्त व्यक्ताव्यक्तमिति कमात् । व्यक्तं भुक्तिप्रदं मुक्तिप्रदमव्यक्तमुच्यते ॥ भुक्तिमुक्तिप्रदं लिंगं व्यक्ता- व्यक्तं प्रचक्षते ॥ द्विखिस्तुलासमारूढं वृद्धिमेति न हीयते ॥ यदाणलिंगमुदितं शैवं शैलं विदुर्बुधा" इति । शिव इति । एतत्सर्वमव्यक्तप वाच्यं शिवस्वरूपमेव व्यक्तपदवाच्यत्वं परमशिवस्येत्यर्थ इति कुटिलाख्यं वृत्तमिदं तदुक्तमभियुक्तैः ‘मो भो न्यो गौ यदि कुटिलकमुक्तं वृत्तम् इति। प्रतिपादं मगण: भगणः नगणः यगणः गुरुद्वयं चैतद्वृत्तं कुटिलाख्यं भवतीत्यर्थः ॥ १०२ ॥ साम. 10 शिवनामकल्पलता। - ॐसहस्राक्षाय नमः अगणितकरचरणशिरोष्टोदरयुक्प्रतिभयमाश्चर्य युगपत्सृष्टिस्थितिलयकारि यदवच्छेदकभेदेन । क्षेत्रे च सुवर्णाख्ये प्रथितं लिंगे शिव तव यद्रूपं बहुविधकर्मज्ञानेन्द्रियपरिपूर्ण तदिति सहस्राक्षः ॥ १०३ ॥ अक्षशब्दः इंद्रियसामान्यपरः। सहस्रशब्दश्चानत्यपरः । 'शतं सहस्रमयुतमित्यायानंत्यवाच- कम्' इत्युक्तेः । सहस्राण्यनंतानि अक्षााण इंद्रियाणि यस्येत्यत्र सहस्रपदप्रयोगादर्थातरमपि सूचय- माह अगणितेत्यादि अगणितैरसंख्यातैः करचरणशिरोदंष्ट्रोदरायवयवैर्युक्तं प्रतिभयं भयकर 'भयं- करं प्रतिभयम् । इत्यमरः । आश्चयकरं आनंदकारीति यावत् । अत्र हेतुमाह युगपादति एक- कालावच्छेदेन सृष्टिस्थितिलयाख्यानि कार्याणि करोत्याचाति तथा । ननु परस्परविरुद्धानां सृष्टि- स्थित्युपसंहारादिकार्यविशेषाणां कथमेककालावच्छेदेनोपपत्तिरित्याशक्य औपाधिकभदान विरोध इत्याह यदवच्छेदकभेदनेति यदिति प्रत्येकं पदं यद्रूपमुपदर्शितरीत्या विविधाश्चर्यकरमित्यर्थः । अवच्छेदेकभेदेन उपाधिभेदेन क्षेत्रेति यच्च रूपं सुवर्णाभिधे क्षेत्रविशेषे सहस्राक्षेश्वरत्वेन प्रसिद्ध यद्रूपं बहुविधैरनेकप्रकारेः कर्मेद्रियैः ज्ञानेंद्रियैश्च परिपूर्ण व्याप्तं तद्रूपं तवेति पूर्वबान्वयति तथाच यदूपं श्रुतिस्मृत्यादौ गीयमानमनेकाकार तत्सर्वं त्वदीयमवेति भवति सहस्राक्षत्वं परमशिवस्येत्यर्थः। प्रपंचशरीरकस्य सर्वातर्यामिणो भगवतः परमशिवस्य सहस्राक्षादिकं प्रतिपादितं श्रुत्यादिभिः यथा सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापि च भगवांस्तस्मात्सर्वगतः शिवः । ॥'विश्वतश्च- शुरुत विश्वतोमुखो विश्वतो बाहुरुतविश्वतस्पात् ॥ 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । तथा च गीतायामपि भगवद्वचनं 'सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।। सर्वतः श्रुतिमल्लोके सर्व- मावृत्य तिष्ठति । । इदं च आनंदनामकं वृत्तम् । (?) मात्राचतुष्टयपरः नतु मयादिपरः तथा च अर्धमात्रागणसहितैः सप्तगणैः प्रतिपादं त्रिंशत्संख्याकाः मानाः द्वाविंशत्या अष्टभिश्च यतिरित्येत- द्वृत्तमानंदनामकं भात्रावृत्तं भवतीत्यर्थः । अत्र षोडभिश्चतुर्दशाभिश्च यतिरितिविशेषो द्रष्टव्यः । इदं व श्रुतिप्रसिद्धं नाम 'नमोऽस्तुनीलग्रीवाय सहस्राक्षाय मीढुषे । इति ॥ १०३॥ ॐसहस्रपदे नमः जगदवनार्थमष्टसु धृतासु मूर्तिषु स्मरहर भास्करस्य तव मूर्तिरष्टमी ।। गणनपथातिगांत्रिमयविश्वरूपधृक् श्रुतिगदितोऽमि शंकर ततः सहस्रपात् ।। १०४॥ सहस्राणि पादाः किरणाः यस्येति सहस्रपात् । सूर्यात्मक इत्यभिप्रेत्याह जगदवनेत्यादि जगद्रक्षणार्थ शर्वभवरुद्रायष्टमूर्तिषु त्वया धृताष्टमीयं सूर्यमूर्तिस्त्वदीयेत्यर्थः । अथवा सहस्रशब्दः अनंतपरः सहस्राण्यनंताः पादाश्चरणाः यस्येति तथेत्यभिप्रयोणाह गणनपथेति गणनानामेकत्वादि. + समुधापूररत्नावालसहिता। पैराधपयतानां यः पंथास्तदतिक्रांता ये अंध्रयः पादास्तटितं विश्वरूपं धारयतीति तथा एत- सहस्राक्षपदे व्याख्यातं श्रुतिगादतः 'सहस्राक्षः सहस्रपाद्' इत्यादि स्पष्टमन्यत् । प्रभद्रकं वृत्तमिदं तदुक्तमाभियुक्तैः ‘भवति नजी भजो रसहितौ प्रभद्रकं च । इति । प्रतिपादं नगणः जगणः गणः जगणः रगणश्चैतद्वृत्तं प्रभद्रकं भवतीत्यर्थः ॥ १०४ ॥ ॐअपवर्गप्रदाय नमः प्रतीकविदहंग्रहो भृतक इत्युपास्तेनिजा- द्विधेः शिवसलोकता शिवतदात्मता साटिता ॥ भवंति ससमीपता अमृततात्मविज्ञानतोऽ- खिलं फलमतो भवेदिति मतोऽपवर्गपदः ॥ १०५ ॥ अपवर्गान्सालोक्यसायुज्यसारूप्यसामीप्यकैवल्याख्या: पंचविधमुक्तीः प्रददात्युपासकेभ्य इत्य- पवर्गप्रदः । तत्र पंचविधमुक्तीस्तत्साधनीभूतोपासनानि च प्रदर्शयति प्रतीकविदिति भृतकः सेवकः निजाद्विधेः स्वस्वाश्रमविहिततत्तत्कर्मोपासनाविधेः । तथा च प्रतीकोपासना अहंग्रहोपा. सना सेव्यसेवकभावोपासना स्वस्वाश्रमविहितकर्मोपासना चतुष्टयं साधनत्वेनोपन्यस्य तत्फलान्यपि क्रमणोपदर्शयति शिवसलोकतेत्यादि । सलोकता सालोक्यं तदात्मता सायुज्यं साटिता सारूप्यं समानधर्मितेति यावत् । तथा च तदात्मता च सार्षिता चेति वंदोत्तरं शिवपदेन षष्ठीतत्पुरुषः ।. ततः शिवसलोकता च शिवतदात्मतासाटिते चेति पुनदः । एताश्च ससमीपताः सामीप्येन सहिताः भवंतीत्यन्वयः। शिवसालोक्यं शिवसायुज्यं शिवसारूप्यं शिवसामीप्यं च क्रमेण भवन्ति फलानीत्यर्थः। अत्र च प्रतीकेष्ववयवेषु वाङ्मनःप्रभृतिषु देवतोपासनं तस्य फलं सालोक्यं सर्वज्ञत्वसर्वेश्वरत्वायनंतगुणगणके सगुणब्रह्मणि अहमेवेत्युपासनमहंग्रहोपासनं तस्य फलं सायुज्यं प्रतीकविदहंग्रहाभ्यां विना स्वात्मनः प्रत्यक्त्वनैश्वर्यविशेषविशिष्तयोत्कर्षापकर्षपूर्वकमुपासनं भूतकोपासनं तस्य फलं सारूप्यमेव साटितेत्युच्यते । तथा च तैतेरीयश्रुतिः 'एतासामेव देवतानां सायुज्यं साटितां समानलोकतामामोति' इति कर्मोपासनफलसामीप्यं तथा च मांडूकश्रुतिः 'तपः श्राद्धे ये ह्युपवसंत्यरण्ये शांता विद्वांऽसो भैयं चरंतः सूर्यद्वारेण ते रजः प्रयांति यत्रामृतः स पुरुषोऽव्ययात्मा ? इति एताश्च कर्मफलभूताः सातिशयाः अनित्याश्चेत्यवगंतव्यम् । इत्येवं सगुण- ब्रह्मोपासनादि फलमुक्त्वा निर्गुणब्रह्मोपासनायाः नित्यनिरतिशयानंदचित्प्रकाशादै परंज्योतिः- स्वरूपेणावस्थानलक्षणं कैवल्याख्यमपवर्गमाह अमृतेति तद्धेतुमाह आत्मविज्ञानत इति । इदमेव निर्गुणब्रह्मोपासनमित्युच्यते तथा च तैत्तिरीयश्रुतिः ‘एवंविद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते स पितृणामेव महिमानं गत्वा चंद्रमसः सायुज्यं सलोकतामामोत्येतो वै सूर्याचंद्रमसोमहिमानौ ब्रह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमामोति' इत्यत्र केवलकर्मणा चंद्रलोकमाप्तिः। य एवं विद्वानिति विदच्छन्दान ७६ शिवनामकल्पलता। भिहितप्रतीकाद्युपासनात्र यावंतो देवानामहिमानमित्यनेन सालोक्यादित्रयं ब्रह्मणो: विद्दानि- त्यनेन ब्रह्मज्ञानवांस्तु एतो कर्मोपासनाप्राप्यो सूर्यचंद्रयोमहिमानौ सातिशयत्वादिदोषवंती बुद्ध्या- अभिजयति अभितः 'पराकरोति तस्मादधिकं निरतिशयिनं ब्रह्मणो महिमानमामोतीत्यर्थः। तथोक्तं शक्तिरहस्ये 'आत्मबुद्ध्या प्रतीकेन मातृबुद्ध्याप्यहं धिया ।। कर्मणा वा भजन्मर्त्यः कैवल्य- पदमश्नुत? इत्यखिलं फलमितिदर्शितदिशा सालोक्यादिपंचविधमप्यपवर्गफलं परमशिवादेव भवती- त्यपवर्गप्रदत्वं परमशिवस्येत्यर्थः । पृथ्वीसंज्ञकं वृत्तमिदं तथाच पैंगलसूत्र ‘पृथ्वी सौ सौ ग्लौ ग्वनवौ। तथा च केदारे 'जसौ जसुयलावसुग्रहयतिश्च पृथ्वी गुरुः' इति । प्रतिपादं जगणः संगणः जगणः सगणः यगणः लघुर्गुरुश्चाष्टाभिर्नवभिश्च यतिरिति पृथ्वीसंज्ञकं वृत्तं भवती- त्यर्थः ॥ १०५॥ ॐअनंताय नमः नाति विभो नेदानीमिति नेदं ब्रह्मेति न वाचो यत्र प्रसरति ॥ नास्त्येव गुणानामंतो न विभूतः शेषोऽसि धराधृक्तेन त्वमनंतः ॥ १०६ ॥ अंतः परिच्छेदः स च देशतः कालतो वस्तुतश्चेति त्रिविधः स न विद्यते यस्मिन्नित्यनंतः नाति ब्रह्मेत्यनेनान्वयः । नास्मिन्देशे ब्रह्म नास्मिन्काले ब्रह्म नेदं ब्रह्मोत वाचो यत्र यस्मिन्वि- षये न प्रसरति त्रिविधपरिच्छेदशून्य इत्यर्थः। 'नित्यो नित्यानां चेतनश्चेतनानां सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः न स्त्री पंढो न पुमान् इत्यादि । अथवा गुणानां विभूतीनां वा अंतः अवसानं नाशो वा यस्मिन्न विद्यते नित्यनिरवधिकैश्वर्यगुणवानित्यभिप्रेत्याह नास्त्येव गुणाना- मिति 'नांतोऽस्ति मम दिव्यानां विभूतीनां परंतपइति गीतासु । अथवा जगदुद्धारणार्थमवतीर्णः आदिशेषो वा अनंत इत्याह शेषोऽपीति स्पष्टमन्यत् । इदं च श्रुतिप्रसिद्ध नाम 'सत्यं ज्ञान- मनंतं ब्रह्म' इति । मणिमालाख्यं वृत्तमिदं तथा च पैंगलसूत्रं 'मणिमाला त्यौ त्यौ।। तथा च वृत्तरत्नाकरे 'त्यौ त्यौ मणिमाला छिना गुहवः । इतिचोभयसंमत्वात्प्रतिपादं तगणः यगणः तगणः यगणश्चैतद्वृत्तं मणिमालाख्यं भवतीत्यर्थः । अस्मिन्वृत्ते षड्भिः षड्भिर्यतिरिति ॥ १०६ ॥ ॐतारकाय नमः तव पदकमले भजंतो जनास्तारिता यत्त्वया भवजलनिधितो महादेव ताराख्यवर्णात्मकः॥ प्रणवमुपदिशन्द्रिनान्काशिकायां परेतानपि श्रुतिषु निगदितस्तदन्वर्थनामाभवांस्तारकः ।। १०७॥ तारयत्युपासकान्संसारादिति तारकः । तारयतेवुलित्याशयेनाह तव पदकमले इति द्वितीया- विषचनमिदं । भजधातो: सकर्मकत्वाद्भवजलनिधित; संसाराब्धेस्तारिता परमगति मापिता इत्य- ७७ , ससुधापूररत्नावालसाहिता। न्वयः । यदिति यद्यस्माद्धेतोः संसाराब्धेस्तारिता सर्वेऽप्युपासकाः अतस्त्वं तारक इत्यर्थः । अथवा तार एव तारकः तारयतेः पचायचि स्वार्थे कप्प्रत्ययः प्रणवात्मक इत्यर्थः । अत एव श्रुतावपि तार इत्येव श्रूयते 'नमस्ताराय नमः शंभवे च ' इति । अथर्वशिरस्यपि 'अथ कस्मादुच्यते तार इति' यदा तारः प्रणवस्तत्स्वरूप इत्यभिप्रायेणाह प्रणवमुपदिशन्निति अत एवोक्तम् 'अनिलो मृगनाभि- रेणुगन्धिहरवामांगकुचोत्तरीयजन्मा ॥ हरते मरणश्रमं जनानामाधकाशि प्रणवोपदेशकाले । इति । काशिकायां परेतानिति काश्यां मृतिप्राप्तान् । द्विजान्प्रणवोपदेशेन परमगति प्रापयंस्तारक इति श्रुतिषु निगदितोऽसीत्यर्थः । तथाचोक्तं जाबालश्रुतौ 'अत्र हि जन्तोः प्राणेषूत्क्रमणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । इति । द्विजशब्दस्वर्णिकपरः । अन्येषा प्रणवे अनधिकारात् । अतएव तेषां रामनामोपदेश इति व्यवस्था ग्रन्थान्तरकाररुपदार्शता । प्रणवराम- शब्दयोः ब्रह्मैकबोधकत्वाच्छ्रुतौ तारकं ब्रह्मेति तूभयसाधारणमिति । परेतानपीत्यापना मरणे ज्ञानशून्यानपि जंतून्यादि मोचयसि किमु तर्हि साक्षाद्भजनैकसाधनावधूतकल्मष्मानुन्मिषदियांकु- रान्नरवरांस्तथा करोषीत्यत्र किमु वक्तव्यमित्ययमर्थः सूचितः । स्पष्टं शिष्टम् ' लालसाख्यं वृत्तमिदं तथाच गलैरुक्तं 'दशवसुविरतिर्ननौ रैश्चतुभिर्युतौ लालसाव्हयम् । इति प्रतिपादं नगणः रगण चतुष्टयं च दशभिरष्टाभिश्च यतिीरत्येतद्वृत्तं लालसाख्यं भवतीत्यर्थः ॥ १०७ ॥ ॐपरमेश्वराय नमः ग्रामाणां पतयोऽपि सोपपदेश्वरा भुवि भूरिश- स्तेऽपि स्वाश्रितमात्रपोषणपरास्तथैव दिवौकसः ॥ ईशानामपि चेशितासि निजाश्रिताश्रिततछूिता- न्सर्वानप्यवसीशतापरमावधिः परमेश्वरः ॥१०८ ॥ परमश्चासावीश्वरश्चति कर्मधारयः। नियामकत्वलक्षणे संरक्षकत्वलक्षणे वेश्वरत्वे । परत्वं च नियामकांतरासंभावनत्वविषयत्वमखिलजगत्कर्मकसंरक्षकत्वं चेत्याशयेनाह ग्रामाणां पतय इत्यादि ग्रामाणां पतयोऽपीत्यपिना नानानगरदेशद्दीपलोकादीनां समुच्चयः । पतयः ईश्वराः सोपपदेश्वराः सावविकेश्वराः । तथा च ग्रामस्य नगरस्य द्वीपस्य लोकस्य वा नियामकत्वेन ईश्वरत्वाभिमानिनो ये केचित्सर्वेऽपि नियामकातरसंभावनाविषयीकृता एवेति नैषां निरवधिकत्वमीश्वरत्वं संभवती- त्युत्का सर्वजनसंरक्षकत्वलक्षणं द्वितीयमपीश्वरत्वं नास्तीत्याह तेऽपीति ते ऽपि ग्रामायधिपत- योऽपि स्वाश्रितमात्रषोषणपराः ग्रामादीनामेव पोषणे समर्थाः । नतु सर्वान्पोषयितुं यथा एवं च सर्वजनसंरक्षकत्वलक्षणं द्वितीयमीश्वरत्वमाप नैव तेषां संभवतीति भावः । तथैव दिवौकसः देवा दयोऽपि स्वार्गिका एवमेव दर्शितद्विविधैश्वर्यशून्या एवति भावः । एवं च कप्तानां देवतियङ्मनु- घ्याणां 'बोधकत्वमेकं सिद्धयति । इतिन्यायात् । परमशिवस्यैव तादृशोभयविधमैश्वर्यं संभवती- स्याह ईशानाम्पीति ईशान नियामकत्वेन वोपदर्शितानां तत्तदादिमामलोकादीनामांशिता निया- ७८ शिवनामकल्पलता! - t मकः । तथा चार्थतः सर्वेषां नियामक इतिपर्यवसानानियामकांतरासंभावनाविषयीभूतेश्वरत्वल- क्षणपारमैश्वर्यमायमुक्तं भवति । निजाश्रितेत्यादि निजं स्वमाश्रिताः ये देवतिर्थमनुष्यादयस्तदा- श्रिताश्च ये पुनस्तानप्याश्रितास्तथा च साक्षात्परंपरया सर्वानपि लोकानवासि रक्षसीति सर्वलो- कसंरक्षणकर्तृत्वरूपं द्वितीयमपि पारमैश्वर्यमुक्तं भवति अत एवाह ईशतापरमावधिरिति ईशता ईशनं नियामकत्वं संरक्षत्वं चेत्यन्यदेवतस्य परमावधिर्यदपेक्षया नियामकः संरक्षको वा नास्ति तादृशः परमेश्वर इत्यर्थः । हरिणप्लुताख्यं वृत्तमिदं तदुक्तमभियुक्तैः ' मात्सोजो जभरौ च दंति. शरेषुभिर्हरिणप्लुता । इति । प्रतिपादं मगणः सगणः जगणवयं भगणः रगणश्चाष्टाभिः पंचमिश्र यतिरित्येतद्वृत्तं हरिणप्लुताख्यं भवतीत्यर्थः ।। १०८॥ ॥ श्रीसांब वंदे ॥ अथैतदुत्तरभागः शिवरहस्यपठितो व्याक्रियते यथा । इमानि दिव्यनामानि जप्यते सर्वदा मया ॥ नामकल्पलतेयं मे सर्वाभीष्टदमायिनी ।। इमानि उपदार्शताष्टोत्तरसंख्याकानि सर्वदा कालत्रयेऽपि मया विष्णुना। नामान्येतानि सुभगे शिवदानि न संशयः॥ वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥ एतानि यानि नामानि तानि सर्वार्थदान्यतः ।। जयंते सादरं नित्यं मया नियमपूर्वकम् ।। वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च ।। संत्यनंतानि सुभगे वेदेषु विविधेष्वपि ॥ विविधशाखात्मकेषु वेदेष्वित्यर्थः । अष्टोत्तरसहस्रं तु नाम्नामुपदिशत्पुरा ॥ ततोऽपि सारमुद्धृत्याब्रवीदष्टोत्तरं शतम् ।। अडभावश्छांदसः। मूलम् । तानि नामानि जप्यते मया प्रत्यहमादरात् ॥ इत्युत्का प्राणपत्यांवां संपूज्य च जनार्दनः ॥ ततो जगाम वैकुंठं प्रेरितो जगदंवया ॥ शिवमाराधयंती सा गिरिजापि ततः शिवम् ।।

समुधापूररत्नावालसहिता। હe संप्राप्ता शिवरूपं सा भूयः प्राप्तशिवापि सा ।। नित्यप्राप्तशिवरूपापि सा शिवा सर्वानपि लोकान्परमशिवाराधनादीन्यापायतुं परमशि- वमाराधयंती भूयः प्राप्तेवाभूदित्यर्थः । अथ शंकरसंहितास्थ उत्तरभागो व्याख्यायते एतदष्टोत्तरशतं नाम्नामाम्नायसमितम् ॥ आम्नायैः वेदैः समितं सम्यग्बोधितं वेदैकर्मवेयार्थप्रतिपादकमित्यर्थः । यद्यादिच्छास देवाश तदनेनैव यास्यास ॥ प्राप्स्यसीत्यर्थः। श्रीसूतः। शकरस्य प्रिया गौरी जवा कालत्रयं सदा ॥ जप्त्वेति । आगमशास्त्रस्यानित्यत्वादिडभावः । कालत्रयं सदेत्यत्र सदाशब्दः प्रत्यहपरः । प्रत्यहं प्रातर्मध्यान्हसायं कालत्रयेऽपि जपित्वेत्यर्थः । मूलम् । नारायणोपदेशेन समाधि परमं गता। समवाप्य शरीराधैं प्रसादाच्छूलपाणिनः ॥ ततः प्रभृति लोकेऽस्मिन्नर्धनारीश्वरः शिवः ॥ यस्त्रिसंध्यं पठेच्छंभोनाम्नामष्टोत्तरं शतम् ॥ सर्वानामानवाप्नोति भुक्तिं मुक्तिं च विंदति ॥ शतरुद्रियत्रिरावृत्त्या यत्फलं प्राप्यते नरैः ।। तत्फलं प्राप्नुयादेवमेकावृत्त्या पठेन्नरः ।। शतं रुद्राः प्रतिपाद्यत्वेनास्मिन्निति शतरुद्रः नमस्ते रुद्रमन्यव । इत्यनुवाकसमूहः । यद्यप्यत्र हिरण्यबाहुप्रमुखाः शताधिका एव प्रतिपायंते ब्रह्मांडोत्तरभागे 'षोडशावरणं चक्रं किं त हृद्राधिदैवतम्। इत्यध्याये श्रूयते तथापि शताधिकयोजनवत्यपि सागरे 'शतयोजनविस्तीर्णः सागरः समलंकृतः । इतिवच्छतरुद्रः द्वितीयशताभावभावतात्पर्यको द्रष्टव्यः । 'शतरुद्रादिद्यश्च इति तद्धितः । ' नवा एकेनाक्षरेण छंदासि वियंति । इति श्रुतेः । एकाक्षराधिक्येऽपि न छंदोभंग इति छंदोभाष्यवार्तिकराजयोः स्पष्टम् ॥ मूलं 'धन्यः स एव लोकेऽस्मिन्पश्य भक्तिः शिवे भवेत्॥ समाराध्य सदा सांबं ब्रह्म विंदति शाश्वतम् । सकृदा पूजयेल्लिंग यस्तु भक्तिसमन्वितः॥ कुलकोटिं समुद्धृत्य स यात परमां गातम् ॥ बिल्वपत्रैः प्रशस्तैर्वा पुण्यश्च तुलसीदलैः। तिलाक्षतयंजैद्देव ..

शियनामकल्पलता। जीवन्मुक्तो न संशयः ॥ नाम्नामेपां पशुपतेरेकमेधापवर्गदम् ॥ अन्येषां चैव शिष्टानां फलं का क ईशते । एकमपि चेन्नाम चापवर्गप्रदायकम् ॥ भवेक्किमेतैः सर्वैरपि नामभिः, परमशिवमन्या माराधयतः पुरुषधोरेयस्य फलं के वायतुमीशते समर्थी भवंति न केऽपीत्यर्थ इति । इत्येवं परम शिवाष्टोत्तरशतदिव्यामृतनामामानायकमनागम्यानामनवरतमखंडायमानाभिनवानंदरसनिर्भरानुभा-- विकाननेकभंगिभेदभिन्नाभिप्रायविषयीभूतानप्यर्थाननुसंधाय पुनस्तदपर्यवासितांतराल्हादवदनेक परिमितानंदलीलाविग्रहस्यानादितेजःपुंजात्मकानंतरूपधारिणः परज्योतिषः परमशिवस्यापार, भवोल्लसदमृतार्णवतरंगायमाननामरुचिबलपराक्रमातिशयविशेषानशेषेण परिज्ञातुमीशाः ये दधी- चिप्रभृतयो महर्षयस्त एव धन्याः प्रकृतार्थाः परमशिवभावैक्यभाजनानि चेत्यन्यापदेशस्तुति- व्याजेनाचिंत्यापरिमितशक्ति प्रतापमावेदयन्पुनः परमशिवमेव प्रस्तौति जानाति सांव तव धामरुचिं दधीचिर्जानाति ते पदनखारवलं दशास्यः ।। जानाति दौर्वलपराक्रममेप मेरुजनित्यमोघपटुवाणगतिं पुराणि ॥ ११५ ।। जानातीति अवायमभिसंधिः पुरा हि ब्रह्मणःक्षुतादुत्पन्नः क्षुपाख्यो विष्णुपरायणः कश्चित्क्षत्रिय. दधीचिारति कश्चिद्ब्रह्मर्षिः परमशिवभक्ताग्रगण्यस्तयोश्च परस्परं क्षत्रियो वरिष्ठो ब्राह्मणो वेति चिर विवादे संवृत्ते विष्णुपरायणः सर्वोत्कृष्टबलपराक्रमातिशयवानहमेको वरिष्ठो नान्य इत्यभिमन्यमानं क्षुपाख्यं राजानं कोधारक्तालोचनो ब्रह्मर्पिस्तद्वाक्यमसहमानो वाममुष्टिना समताडयत् । सोऽपि कुलिशेन विप्रर्षि पुनरपि अताडयदेवें परस्परप्रहारयोस्तयोरंतःखिन्नमनाः ब्राह्मणः क्षत्रियेण परा- जितः सन्परमशिवाराधनकबललब्धाकवरावध्यकायः सन्धुपाख्यं राजान वामपादेनाताडयत् । सोऽपि चिरकालं विष्णुमाराध्य तल्लब्धवरोऽपि महर्षि वषयावगुंठितसामर्थ्यवानेवासीदिति स्वय- मेव साक्षादनादिपुरुषोविष्णुरात्मीयचक्रायुधप्रमृतीन्यमोघास्त्राण्यमोचयत् । तान्यपि दधी चिप्रयुक्तपरमशिवनामांकितैः कुशमयैः शरैः स्तब्धवीर्याण्यकिंचित्कराण्येवाभवन्नित्यालोच्य पर- मशिवनामभजनबलप्रभावलक्ष्यमिदं सामर्थ्यमनन्यलभ्यमेवेत्याशंक्य परमशिवभजनैकपरायणधी च्याख्यं ब्रह्मर्षिमेव पुनरपि अनुससारेत्यादिकमशेषेण प्रपंचितं लैंगे 'ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः ॥ अभून्मित्रं दर्धाचस्य मुनींद्रस्य सुरेश्वरः ॥ चिरंतनः प्रसंगाद्वै वादः क्षुपदधी- चयोः : ।। अभवत्क्षत्रियःश्रेष्ठो विप्र एवेति सुव्रतः॥ अष्टानामपि लोकानां वपुर्धारयते नृप इत्यादिना 'जगाम भगवान्विष्णुः प्रणिपत्य महामुनिम् ।। क्षुपो दुःखातुगे भूत्वा संपूज्य च मुनीश्वरम् ॥ दधीचिमाभिवाद्याशु प्रार्थयामास विव्हलम् ॥ इत्यंतेन तथा । 'दशास्यो नाम रावणः संग्रामनिर्जि- ताखिलसुरासुरोधबलमपि कदाचित्कैलासाचलं गच्छंस्तब्धगतिकं पुष्पकमवलोक्य किभेतदित्या- श्चर्य कथमकांडनिष्पभमिदं पुष्पकमित्यंतश्चिंतयानस्तबसरप्राप्तनंदिकेश्वरमुखोद्गतं 'निवर्तस्व दशग्रीव शैले क्रीडति शंकर । इत्यादिवाक्यमाकर्णयन्नमर्षताम्रनयनः पुष्पकादवरुह्य कोऽयं शंकर इत्याटियन्भुजाभ्यां कैलासमीषदुत्तोलयामास । ततश्च भगवान्परमशिवस्तत्कृतं दौष्ट्यमवलोक्य प्रहसन्पादांगुष्ठमूलेन पर्वतांतस्तं संपीड्य पुनश्चिरकालं सामाभर्विविधैः स्तोत्रैः स्तुतः सन्पुनर्मोचयामा- . समुधापूररललावालसहिता । ८१ न्यादिकं प्रतिपादितं रामायणे उत्तरकाण्डे 'अथापश्यदशग्रीवो रौक्ममावरणं तदा। गभस्तिजाल- लवीतं द्वितीयमिव भास्करम् । । इत्यादिना 'संवत्सरसहस्रं तु स्तुवतो रक्षसो गतम् ॥ ततः प्रीतो मिहादेवः शैलाये विष्ठितस्तदा ॥ मुका तस्य भुजानराजा प्राह वाक्यं दशाननम् । इत्यतेन । एवं विद्युन्मालितारकाक्षकमलाक्षासुराधिष्ठितानि कांचनरौप्यायसानि ब्रह्मदत्तवरलब्धानि यानि पुराणि तानि च त्रिपुरविजयावसरोन्मुक्तबाणानुसंधानमात्रेणैकीभूय विप्लुटानीत्येतत्प्रसिद्ध लैंगे । यथा- तस्ते सहिता दैत्याः प्रणिपत्य जगद्गुरुम्॥ वरं पुराणि वीण्येव समास्थाय महीमिमाम् ॥ चरिष्यामो हि लोकेशप्रसादाचजगद्गुरोः ॥तथा वर्षसहस्रेषु समेष्यामः परस्परम् ।। एकीभावं गमिष्यंति पुराण्ये- नानि सानुषु ॥ यदा समानि चैतानि यो हन्याद्भगवांस्तदा ।। एकनैवेषुणा देव स नो मृत्युभविष्यति॥ एवमस्त्विति तान्देवः प्रीत्या भासाविशद्दिवम् । इत्यादिस्मृतिप्रसिद्ध फलकपरशिवस्तुत्यंतरापेक्षया प्रकृतस्तोत्रस्य फलविशेषं निर्दिशन्पुनर्निर्देशमुखेनेतरापेक्षया उत्कृष्टत्वं दर्शयति इयं शंभोरष्टोत्तरशतकनामार्थविवृतिविजातीयैरष्टोत्तरशतकवृत्तैर्विरचिता ॥ फलं नामस्वर्थावगतिघु च भूम्नैव विदितं बहूनां वृत्तानां ममितिरधिका यत्र फलति।११६। इयं शंभोरितिाशिवादिपरमेश्वरान्तानि अष्टोत्तरशतसंख्याकानि यानि नामानि तेषां येऽर्थाःनर्मल्या दिपारमैश्वातास्तेषां विवृतिनिरुक्ति: जातीयैः परस्परभिन्नैरष्टोत्तरशतशंख्या वृत्तविरचितेत्यन्वयः । फलामिति । तत्तन्नानां तत्प्रतिपाद्यार्थविशेषावगतीनां च तत्तछुतिरमृत्यागमादिषु भूरिशः प्रतिपादि- समित्यर्थः । तथा श्रुतिः-' अपि वा यश्चांडालः शिव इति वाचं वदेत्तेन सह स वसेत्तेन सह संवदेत्तेन सह भुंजते । इति । 'महापातकविच्छित्त्यै शिव इत्यक्षरद्वयम् ॥ अलं नमस्क्रियायुक्तो मुक्तये कल्पितो मनुः । इत्येवमायाः स्मृतयः'प्रागुपदार्शता अन्याश्चागमपुराणस्मृतिषु पोरपरार्धमवगंतव्याः। बहूना- मिति । शिरुरिण्यादिहरिणप्लुताताष्टोत्तरशतसंख्याकवृत्तानां प्रमितिः परमत्राधिकेत्यर्थः। तथाचो- सरसाधारणासिद्धफलापेक्षयात्रवृत्तविशेषाविज्ञानस्यवाधिकफलत्वोत्या परमशिवभजनैकतत्पराणां स्व- भावत एव तत्त-स्तोत्रादौ प्रवृत्तिसंभवेऽप्यस्यां स्तुतौ लौकिकालौकिकसाधारणाखिल विल्लोकप्रवृ- त्तिविषयत्वव्यंजनेन सर्वोत्कृष्टत्वमेतत्स्तोत्रस्येत्यर्थः ॥ ११६ ॥ एवं स्तोत्रोत्कर्षमुक्त्वा तत्त्वर्तनामोक्तिपूर्वकं 'नाम्नामष्टशतं निरुच्य जनुषःसाफल्यमीहे तमा- म्। इति प्रागुपक्रांतमुपसंहरति इति काशिनिवासिसानिचित्यक्रतुकृद्भास्कररायभारती ।। जनुषः सफलत्वसिद्धये शिवनामाष्टशतं व्यवर्वरीत् ॥ ११७ ।। आग्निचित्येन सहित ऋतुं करोतीति सामिचित्यक्रतुकृत्काशिनिवासी चासौ स चेति तथा भारत्यंतमेकं पदं वा भारतीति कर्तुरुपनाम भास्कररायस्य भारती वाणीति वार्थः । सैव ग्रंथकीति यावत् । व्यवर्वरीदृणोतेव्र्युपसृष्टाद्यड्लकि लुङि रूपम् ॥ अत्रे वृत्ते प्रथमचरण औपछंदसिकस्यो- तरत्रयो वैतालीयस्य अतएव काशीतिपदस्य -हस्वांतः पाठः छंदोनरोधात्काविसमयसिद्धः । .. ।

८२ शिवनामकल्पलता। 'मधुम्नवगुडूचिपाठान्वितम् । इतिवाग्भट्टेन च सप्तमिश्यलवोपहतेति भोजराजेन इतिपदेन कोकि- लानितिकालिदासेनान्यैश्च बहुशः प्रयुक्तत्वात् । 'छंदोव्याकरणयोर्विरोधे छंदो बलीय , इत्यर्थस्य ' इत्यादिपूरण । इतिसूत्रे वार्तिकराजभ ध्यराजयोः समर्थनात् । 'ड्यापोः संज्ञाछंदसोबहुलम् । इति सुत्रात् ‘बाहुलको हस्व । इत्यप्याहुरिति सर्व शिवम् ।। ११७ ॥ श्रीमच्छंकरसंहिताशिवरहस्यादिपसिद्धात्मनां नाम्नामष्टशतस्य षोडशशतश्लोक्या निरुक्तिं व्यधात् ।। श्रीभारत्यु" नामभास्करकृती तां विस्तराहुस्तरां व्याचख्यौ पटु व्यंकटाचलपतिः काशी- पतिप्रीतये ||१|| शिव:मिकल्पवल्या भास्करकविरालवालमाबावत् ॥ तव्ये टाचलसुधीः सुधाभिरा- पूरयामास इतिश्रीवेंकटाचलसूरिप्रणीतः शिवकल्पलतालवालसुधापूरः समाप्तोऽभूत् ।। .. -

No text on this page.

The Shivanama Kalpalatalavala

Author
Bhavanishankar, Pandit
Title
The Shivanama Kalpalatalavala
File name
The Shivanama Kalpalatalavala
Text
OCR done
Citation
1912
Published
2010/04
Publisher
Bombay, Vathalprasad Jestaram Mukundji Kalbadevi Road.
Language
Sanskrit
Pages
81
Library
Central Library, University Of Rajasthan
DLI number
325528
Barcode
99999990003416.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
hgrejpMz2T1
Download PDF

The Shivanama Kalpalatalavala