Scl
Sahstra Deepika Of Partha Sarathi Misra
Front matter
No text on this page.
August 1913. THE CHOWKHÂMBÂ SÂNSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO.188. । Registered According to Act XXV. of 1867. ( ALL RIGHTS RESERVED ) शास्त्रदीपिका*। मीमांसाधुरन्धरश्रीपार्थसारथिमिश्रप्रणीता। पण्डितमवररामकृष्णविरचित. युक्तिस्नेहप्रपूरण्याख्यव्याख्यया तथा मीमांसकप्रवर- सोमनाथकृतया मयूखमालिकया च व्याख्यया समलङ्कृता SHASTRA DEEPIKA, OF PARTHA SARATHI MISRA.,. With the Commentary Called Yuktiiasneha Prapoorani by Pandit Rama Krishna Misra, and the Mayakha Malika by Somanath, Edited by Pandit Laxman Shastri Dråvida, Professor, Government Sanskrit College, Calcutta. FASCICULUS• I-१ PUBLISHED AND SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT BOOK-DEPÔT. BENARES. HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAMA MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Dasa Gupta, AT THE VIDYA VILÂSA PRESS. BENARES. Price Rupee one. AGENTS:- OTTO केवलं प्रथमाध्यायप्रथमपादान्तं युक्तिस्नेहप्रपूरणी अग्रे च मयूखमालिकेवोत बोध्यम् ।
॥श्रीः॥ - आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवकः -१८८ Home- २ : " ५ " • ... ... ... . ... अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमाम पृष्ठशतके मुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकः स्तवको मुद्रायित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यूते । प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यून्ते । काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । भारतवर्षीयैः, ब्रह्मदेशीयः, सिंहलद्वीपवासिभिश्चैतग्राहकैर्देयं वार्षिकमाग्रिम मूल्यम्-मुद्राः ७ प्रानकाः ८ अन्यैर्देयं प्रतिस्तवक प्रापणव्ययः पृथग् नास्ति । साम्प्रतं मुद्रयमाणा ग्रन्थाः- (८) ब्रह्मसूत्रभाष्यम्बादरायणप्रणीतवेदा- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता न्तसूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृत- खण्डे व्याख्यानम् । सम्पूर्णम् । (वेदान्तः) ६ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १० (९) स्याद्वादमञ्जरीमल्लिषेणनिर्मिता सम्पूर्ण २ ३.) इलोकवार्तिकम् । भट्टकुमारिलविरचितम् (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् - पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया श्रीभाष्यकृतां परमगुरुभिः- श्री व्याख्यया सहितम् । सम्पूर्णम् । १० श्रीयामुनमुनिभिर्विरचितम् । सम्पू- (४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टा- र्णम् (वेदान्तः) द्वैतदर्शनप्रकरणम् । श्रीमल्लोकाचार्यम- (११) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- णीतम् । श्रीनारायणतीर्थविरचितभा- रकाचार्यसंगृहीतः । आचार्यचित्सुख- भाषाप्रकाशसाहितं सम्पूर्णम् (वेदान्तः)२ मुनिविरचितव्याख्योपेतः (वेदान्तः)४ (५) काणप्रकाशः। श्रीब्रह्मदेवविरचितः १ (१२) विभक्त्यर्थनिर्णयो. न्यायानुसारिप्रथमा- (६) भादृचिन्तामाणि: महामहोपाध्या दिसतविभक्तिविस्तृतविचाररूप: म. यश्रीगागाभट्टविरचिता । तर्कपादः म. श्रीगिरिधरोपाध्यायविरचितः । ( मीमांसा) सम्पूर्णः (न्यायः) (6) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर- (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृत- चिता संपूर्ण (मीमांसा) २ म् । सम्पूर्णम् ( मीमांसा) : ...
॥ नमः परमात्मने ॥ शास्त्रदीपिका। श्रीपार्थसारथिमिश्रविरचिता। श्रीरामकृष्णविरचितयुक्तिस्नेहपूरण्याख्यव्याख्यासहिता । श्रीगणेशायनमः। आनन्दाञ्चितवदनं सदनं रघुनन्दनं दयामुक्त्योः। सीतालक्ष्मणसहितं वन्दे गिरिशादिवन्द्याङ्घ्रिम् ॥१॥ विधिश्रुतिस्मृतिद्वारमद्वारं योगिनामपि । वाञ्छितार्थप्रदं धर्मप्रमाणं राममाश्रये ॥ २ ॥ वाचं देवीं गिरिशतनयां गोत्रदेवीं च भक्त्या वन्दे व्यासं मुनिवरमथो जैमिनि सूत्रकारम् ।। व्याख्यातारं गहनवचनं भाष्यकारं च पूज्यं भट्टाचार्य शिखिगतितर्नु तन्मतज्ञान् गुरूँश्च ॥ ३॥ अस्त्यत्र रेवोत्तरतीरवर्ती देशः प्रसिद्धो भुवि मालवाख्यः॥ ओंकारमाहिष्मतिकाविशालतीर्थाद्यधिष्ठानकृतात्यभिख्यः ॥४॥ वसिष्ठपाराशरवत्सकौत्सशाण्डिल्यसद्भार्गवगौतमाद्याः ॥ वंशाः प्रसिद्धा भुवि मालवानां पूर्वक्षितीशेन्द्रसमर्चितानाम् ॥५॥ १ गिरिशादिभिर्वन्द्यमिति २-पा० पु० । २ इत आरभ्याऽन्ये श्लोकाः पुस्तकान्तरे न सन्ति ते यथालि- खिता एवाऽत्र सम्मुद्रिता इति न सुधीभिर्दोषदृष्टिभिर्भवितव्यम् ।
युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०१सू०१ वंशो विद्याविनयविमलस्तेषु कश्चित्मसिद्धः कर्मब्रह्मप्रवणमतयः सर्व एव द्विजेन्द्राः ॥ गोत्रं वंशप्रवरसहितं यत्र पाराशराख्यं नक्रिविष्णो(?) भुवनजननी देवता सा पुरेति ॥ ६ ॥ शिवदासाभिधस्तत्र वंशे पाराशराहये । वेदशास्त्रार्थसम्पन्नः सदाचारपरोऽभवत् ॥ ७ ॥ तत्पुत्रोऽभून्मित्रशर्मा द्विजेन्द्रो मित्रं साक्षाह्मतेजोविशेषैः । विद्वदृन्दैः पूजितः सर्वशास्त्रव्याख्या- शिष्योगीतकीर्तिः पृथिव्याम् ॥ ८॥ जनार्दनस्तस्य सुतो मनीषी जनार्दना_निरतो बभूव ॥ वेदेषु शास्त्रेषु च गीतकीर्तिः महीपतीन्द्रार्चितरम्यमूर्तिः ॥ ९ ॥ तस्माजातो वेदशास्त्रेष्वधीती गङ्गादेव्यां भैरवाख्यो द्विजेन्द्रः ॥ कीर्तिर्येनोपार्जिता विश्ववन्द्यावृत्तिश्चाग्य भूपतेः शेषवंश्यात्॥१०॥ समुत्पन्नस्तस्मादतिविमलकीर्तिर्द्विजवरः कृती पूनादेव्यां दिशि दिशि च नारायण इति ।। प्रसिद्धः शास्त्रेषु क्षितिपतिसमूहार्चितपदः परब्रह्मानन्दामृतरससमास्वादनपटुः ॥११॥ तस्मादभूद्धर्मरतनूरथाव्यां(?) श्रीमाधवः पुण्यचरित्रकीर्तिः ।। वेदान्तवित्त्यक्तभवप्रवृत्तिः श्रीरामचन्द्रार्पितचित्तवृत्तिः॥१२॥ स देशादागतः काश्यां शास्त्राध्ययनसिद्धये ॥ सकलत्रः कृती भाग्यात् स्थिति तत्र चकार ह ॥ १३ ॥ तस्माज्जातः प्रभावत्यां रामकृष्णाभिधः सुधीः ।। पितृभक्तिपरः काश्यां सर्वशास्त्रविशारदः ॥ १४ ॥ तत्तद्वन्यविनिर्माणात्स्वविद्या प्रकटीकृता ।। निर्विष्टौ इति पु० पा०।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । ३ ॥ श्रीगणेशाय नमः॥ लक्ष्मीकौस्तुभवक्षसं मुररिपुं शहासिकौमोदकी- हस्तं पद्मलाशताम्रनयनं पीताम्बरं शाङ्गिणम् । मेघश्याममुदारपीवरचतुर्बाहुं प्रधानात्परं श्रीवत्साङ्कमनाथनाथममृतं वन्दे मुकुन्दं मुदा॥१॥ कीर्तिश्च येन विपुला पूर्वापरसमुद्रयोः ॥ १५ ॥ राजराजाभिधश्रीमद्गोपीनाथद्विजोत्तमात् ॥ विद्वन्नागरवृन्देषु प्राप्तं भट्टपदं स्थिरम् ॥ १६ ॥ गजपतिसदसि प्राप्ता पदवी बलभद्रराजगुरोः ।। पण्डितशिरोमणिरिति प्रतापमार्तण्डनिर्माणात् ॥ १७ ॥ स तु शास्त्रप्रसादेन व्याचष्टे शास्त्रदीपिकाम् ॥ निमित्तमात्रमत्रैष व्याख्याता रघुनन्दनः ॥ १८ ॥ न शास्त्रदीपिका टीका कृता केनापि सूरिणा ॥ तदपूर्वाध्वसञ्चारी नोपहास्यः स्खलन्नपि ॥ १९ ॥ ग्रन्थकारो ग्रन्थारम्भे तत्समाप्तिप्रचयगमनाभ्यां शिष्टा- चारपरिप्राप्तविशिष्टेष्टदेवतामणतिरूपं मङ्गलमाचरति- लक्ष्मीकौस्तुभेति । अध्येतॄणां लक्ष्मीसौभाग्यादिप्राप्तिसूच- नार्थ जगदीश्वरस्यैताद्विशेषणम् । प्रस्तरशष्कुलीन्यायेन विघ्नवि- घातकत्वसामर्थ्यप्रदर्शनार्थ द्वितीयम् । विशेषणान्तराणि तु भ- क्तानुग्रहार्थस्वीकृतशरीरध्यानौपयिकानि । मतान्तरपसिद्धन- धानेनान्यथासिद्धिवारणार्थं प्रधानात्परमित्युक्तम् । नचैवं देव- ताधिकरणविरोधः, उद्देश्याया एव तद्विषयत्त्वात् । उक्तं च "नास्माकं शब्द एव देवता नाकसदामिन्द्रादीनां देवतात्वाङ्गी- कारात्" । अत एव वार्तिककारैः"विशुद्धज्ञानदेहाय" इत्यादिना महादेवो नमस्कृतः । उक्तं च भट्टोम्बेकेन- (१) मीमांसाश्लोकवार्तिके १ श्लोकः । s- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०१सू०१ न्यायाभासतमइच्छन्नशास्त्रतत्त्वार्थदर्शिनीम् । कुमारिलमतेनाऽहं करिष्ये शास्त्रदीपिकाम् ।।२।। "ग्रन्थारम्भे ऽभिमतदेवतानमस्कारं करोति वार्तिककार" इति । अथवा देवतास्तुतेरेव प्रधानकर्मण एतत्फलं न देवतायाः, तस्या गुणत्वाङ्गीकारात् । केचित् पुनरेतत्कर्मपरत्वेन व्याचक्षते, तथाहि-अनेक- पद्धत्यादिभिर्विशुद्धं यज्ज्ञानं तद्गम्यं स्वरूपं यस्य । वेदत्रयस- माहाररूपं चक्षुपिकं प्रमाणं यस्य तस्मै । स्वर्गादिफलप्राप्ति- हेतवे । सोमस्याध रसरूपं त्याज्यतया यो धारयति तस्मै नम इति । तेषामीश्वरद्रोहिणां प्रतीयमानार्थपरित्यागेनार्थान्तरं क- ल्पयतामनुपादेयमेतद्व्याख्यानम् ॥ १॥ इदानीं सप्रयोजनं कर्तव्यं प्रतिजानीते । न्यायाभासति । अत्र पूर्वार्धन प्राभाकरायुद्भावितन्याया- भासतमोनिराकरणेन शास्त्रतत्त्वार्थप्रदर्शनं ग्रन्थस्य प्रयोजन- मुक्तम् । शास्त्रदीपिकां करिष्य इति कर्त्तव्यप्रतिज्ञा । कुमारिल- मतेनेति मतान्तरनिराकरणं ध्वनितम् ॥ २ ॥ कर्त्तव्यं प्रतिज्ञाय मीमांसाशास्त्रविषयत्वं द्योतयितुं तदा- घसूत्रं लिखति । अथातो धर्मजिज्ञासेति । एतच्च धर्मविचाररूपं मीमांसाशास्त्रम् । लक्षणानि चास्य द्वादश प्रमाणभेदशेषप्रयुक्तिक्रमाधिकारसामान्यातिदेशविशे- पातिदेशोहबाधतन्त्रप्रसङ्गाख्यानि । प्रमाणादयः प्रसङ्गान्ता द्वा- दश पदार्थाः क्रमात् द्वादशानामध्यायानां विषयाः । तत्र प्रथमे ऽध्याये चतुर्भिः पादैः क्रमेण विध्यर्थवादस्मृतिनामधेयानि वि- चारिवानि । द्वितीये तूपोद्धातभेदतदपवादप्रयोगभेदाः । तृतीये ५ [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । ( १ प्रथमं धर्मजिज्ञासाऽधिकरणम्) अथाऽतो धर्मजिज्ञासा* ॥ १ ॥ श्रुतिलिङ्गवाक्यादीनि त्रिभिः पादैविचारितानि । चतुर्थे निवी- तादिश्रुत्यादिबलाबळविचारः । पञ्चमे प्रतिपत्तिकर्म । षष्ठे ऽनारभ्याधीतानि । सप्तमे बहुप्रधानोपकारकप्रयाजादीनि । अ- ष्टमे याजमानानि । प्रधानस्य प्रयोक्तृत्वमप्रधानाप्रयोक्तृता । फलचिन्ता जघन्यानचिन्तेत्येवं चतुर्थगाः । पञ्चमस्याये श्रुत्यादिभिःक्रमो निरूपितः। द्वितीये क्रमविशेषः। तृतीये प्रयाजादिविद्धिः । चतुर्थे श्रुत्यादिबलाबलविचारः। अधिकारी तस्य धाः प्रतिनिध्यर्थलोपने । दीक्षा सत्रं देयवह्नी षष्ठपादेष्वमी स्थिताः । सप्तमाये प्रत्यक्षवचनातिदेशः। द्वितीये तस्यैव शेषः। तृतीये नामातिदेशः । चतुर्थे निर्वापौषधलिङ्गन प्राकृतधर्मातिदेशः। स्पष्टाल्लिङ्गादथास्पष्टात्मबलादपवादतः ॥ अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः । ऊहारम्भो ऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः ॥ नवमाध्यायपादेषु चतुइँते प्रकीर्तिताः । द्वारलोपो ऽस्य विस्तारः काय्यकत्वं समुच्चयः ॥ ग्रहसामप्रकीर्णानि नजाश्चाष्टपादगाः । उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः ॥ आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः । * अथ कृत्स्नवेदाध्ययनाऽनन्तरं यतोऽधीतो वेदो विवक्षितार्थः अतो धर्मस्य जिज्ञासा-विचारः कर्तव्य इति शेषः ।
युक्तिस्नेहपूरणीसहितायां [अ०१पा०११०१सू०१ अनेन सूत्रेण प्रारिप्सितस्य शास्त्रस्य श्रोतृप्रवृ- त्तिसिद्धये धर्मज्ञानं प्रयोजनं कथ्यते । यदा हि धर्म- जिज्ञासा कर्तव्येत्युक्त्वा शास्त्रमारभ्यमाणं दृश्यते तदा नूनमिदं शास्त्रं धर्मज्ञानप्रयोजनमित्यवगम्यते । प्रसङ्गस्तन्त्रनिपुतिस्समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसङ्ग्रहः । सङ्गतिस्वरूपं चात्र ग्रन्थान्तरादवगन्तव्यम् । सूत्रतात्पर्य दर्श- यति । अनेनेति । प्रयोजनपरत्वेन सकलशास्त्रशेषत्वमस्य ध्वन्यते। किमर्थं प्रयोजनकथनमित्यपेक्षायामाह । श्रोत्रिति । ननु नानेन प्रयोजनं कथ्यते तद्वाचकपदाभावादत आह । यदा हीति । कर्त्तव्येत्युक्त्या सूत्रे कर्त्तव्यतापदाध्याहारस्सूचितः । कर्तव्यता- नुपदेशे ऽथातः शब्दयोरनन्वयापत्तेः । यथा "अथातोधर्मजिज्ञासासूत्रमाद्यमिदं कृतम् धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजन" मिति । मंद- फलमेतदितिचेत् ।न। उक्तोत्तरत्वात् । अनाश्वासात्तदनुपपत्तिरि- तिचेत् । न । आप्तत्वेन तदनुपपत्तेः। वक्ष्यति हि "तच्चेत्प्रत्ययिता" दिति। तथा "अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयरें" निति । १ माधवीयजैमिनीयन्यायमालाविस्तरस्था एव श्लोकाः शब्द- तः क्वचिदर्थतश्चोदाहृताः। सङ्गतिस्वरूपं तत एव ज्ञातव्यमिति क- थनात्ते प्रदर्श्यन्ते श्लोकाः-- ऊहित्वा सङ्गतीस्तिस्त्रस्तथाऽवान्तरसङ्गतिम् । ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकम् ॥ पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ २ मी. श्लो. वा. श्लो. ११ । ३ शाबरभाष्ये २ । अ. १ पा. २ सू । ४ जैमिनिसूत्रे १ अ. ३ पा. ७ सू.। -- ७ [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । विदितं तावत्प्रयोजनं, सम्बन्धोऽपि शास्त्रस्य प्र- स्तावहेतुर्वक्तव्यः ? यथा शास्त्रान्तरेषु शिष्यप्रश्नान- न्तर्यादिसम्बन्धः प्रस्तावको वर्ण्यते, तथेहाऽपि शास्त्रारम्भप्रयोजकानां सम्बन्धानामन्यतमो वक्त- व्यः ? अनेन सम्बन्धेनेदं शास्त्रमायातमिति, अन्य- थाह्यऽसम्बद्धमलपितं स्यात् । सत्यम् । इह तु य एवाऽयं प्रयोजनेन सह शा- उक्तं च- "सर्वस्यैव हि शास्त्रस्य कर्मणो वा ऽपि कस्य चित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यत" इति ।। ननु प्रयोजनवत्प्रवृत्त्यङ्गत्वात्सम्बन्धोऽपि सूत्रकारण वक्त- व्यः, अविदितप्रयोजनवदविदितसम्बन्धे ऽपि श्रोतुरप्रवृत्तेरिति चोदयति । विदितमिति । यथा “अथातोधर्म व्याख्यास्याम इत्यादिषु शिष्यप्रश्नानन्तर्यरूपसम्बन्धोऽभिधीयते तथाऽत्र सू- त्रकारण प्रयोजनवत्सम्बन्धोऽपि वक्तव्यः अन्यथा सूत्रका- रस्यासम्बद्धपलापित्वेन तद्वचने न श्रद्दधीरनित्यर्थः । उक्तञ्च- "सिद्धार्थ ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजन" इति । परिहरति । सत्यमिति । यदैवास्य शास्त्रस्येदं प्रयोजन- मित्युक्तं तदैव तयोर्धमज्ञानविचारयोः साध्यसाधनभावलक्षण: सम्बन्धो ऽर्थादुक्तो न चार्थात्प्राप्त सूत्रकारा अक्षरैर्निबध्नन्ति असूचकत्वेनासूत्रत्वप्रसङ्गादित्यर्थः । अयमाशयः । नाऽस्य ५मी. श्लो. वा. श्लो. ८॥ १ काणादसूत्रे १ अ. १ आ. १ सू. । २मी. श्लो. वा. श्लो. १९ ।
युक्तिस्नेहमपूरणीसहितायां [अ०१पा०१२०१सू०१ स्त्रस्य साध्यसाधनत्वसम्बन्धः स एव शास्त्रस्य प्र- स्तावको नान्यः। भवति हि साधनत्त्वमेव साध्यार्थि- नः साधने प्रवृत्तिहेतुः । सचाऽयं सम्बन्धः प्रयोजनो- त्यैवाऽज्ज्ञायत इति न सूत्रकारेण पृथगुक्त इत्य- दोषः॥ शास्त्रस्य शिष्यप्रश्नानन्तर्यसम्बन्धो हेतुः लोकहितैषिणा जैमिनिना स्वयमेव धर्मज्ञानसाधनीभूतस्य शास्त्रस्याऽऽरब्ध- त्वात् । अतः साध्यसाथनसम्बन्ध एवात्र । स च सम्बन्धिनो. रभिधानादेवार्थात् ज्ञात इति भाष्यकारोऽप्येनमेव सम्बन्धं "धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वे" त्यादिना ऽऽक्षेपस- माधानाभ्यामुपपादयिष्यति । अतो न सम्बन्धान्तरगवेषणा कार्येति भावः । स एवेत्यनेन क्रियानन्तर्यगुरुपर्वक्रमरूपस- म्बन्धान्तरनिराकरणम् । तथाहि-काणादे तन्त्रे शिष्यप्रश्नक्रि. यानन्तर्यरूपसम्बन्धो दर्शितः । गुरूपर्वक्रमात्मकश्च सम्बन्धो यथाऽत्रैव कैश्चिदुक्तः तद्यथा- "ब्रह्मा प्रजापतये मीमांसांप्रोवाच, सोपीन्द्राय, सोऽप्यग्नये, स च वसिष्ठाय, सोऽपि पराशराय, पराशरः कृष्णद्वैपायनाय, सोऽपि जैमिनये, सोऽपि स्वोपेदशादनन्तरमिमं न्यायं ग्रन्थे नि- बद्धवानिति । कचित्तु ब्रह्मा महेश्वरो वा प्रजापतये मीमांसा प्रोवाच प्रजापतिरिद्रायेन्द्र आदित्यायेत्येवमादि पाठान्तरम् । त- दत्र क्रियारूपस्तावत्सम्बन्धो न वाच्यो निष्प्रयोजनत्वात् , न ह्ये- वंरूपसम्बन्धसद्भावासद्भावयोः श्रोतॄणां शास्त्रप्रवृत्तौ निवृत्तौ वा शास्त्रगोचरे ज्ञाने वा कश्चिद्विशेषः, तथा गुरूपर्वक्रमरूपोऽपि सम्ब- न्धो निष्फलो निर्हेतुकच, न ह्यस्मिन्सम्बन्धे किञ्चित्पमाणम- १शा. भा.१पा. १ अ.१सू..।
[जिशासाधिकर०] शास्त्रदीपिकायाम् । ९ स्ति अतः सप्रमाणकः सप्रयोजनश्च सम्बन्धोवाच्यः स च सा- ध्यसाधनत्वरूप एव युक्त इति भावः । नन्वत्र सूत्रकृतैवाऽथशब्दं प्रयुआनेनाध्ययनक्रियानन्तर्य- लक्षणस्य शास्त्रसम्बन्धस्योक्तत्वात् कथमुच्यते सूत्रकारण न पृथगुक्त इति । उच्यते ।अत्राऽथशब्दोऽध्ययनजिज्ञासाक्रिययोरेव सम्बन्ध- माह, न शास्त्रस्य प्रयोजनेन सह, ते च क्रिये शास्त्रादत्यन्तभिन्ने। ननु जिज्ञासापदेनैव विचाररूपा शास्त्रशब्दवाच्या क्रियोपा. तैव कथमुच्यते शास्त्रादत्यन्तभिन्नति ? । मैवं जिज्ञासापदस्य ज्ञा- नेच्छारूपक्रियावाचकस्य मीमांसापर्यायत्वाभावात् । श्रोतृक्रि- या हि ज्ञानेच्छारूपा जिज्ञासा, वक्तृक्रिया तु विचारात्मिका मी- मांसा, कुतस्तयोरैक्यम् । कथन्तर्हि जिज्ञासाशब्दस्य मीमांसा- यां प्रयोगः ?, उभयोरपि सन्प्रत्ययान्तत्वसाम्येनैकार्थत्वभ्रमा- दितिब्रूमः । अयमत्र विवेकः विषयोऽत्र ज्ञाप्यजन्यभेदेन द्वि- विधः, ज्ञाप्यो धर्मः, जन्यस्तज्ज्ञानं, सम्बन्धस्तु धर्मेग सह शास्त्रस्य ज्ञाप्यज्ञापकभावलक्षणस्तज्ज्ञानेन सह जन्यजनक- लक्षणः, धर्मज्ञानमवान्तरप्रयोजनं, परमप्रयोजनञ्चाभ्युदय- निःश्रेयसे, तत्कामोऽधिकारी इत्यनुबन्धचतुष्टयं श्रोतृप्रवृत्तिसि- ब्यर्थ सूत्रकारेण श्रुत्यर्थाभ्यामुक्तम् । लोकानुग्रहश्च शास्त्र- प्रणयने कारणम् । नचैवमपि शिष्टाचारपरम्परामाप्तमङ्गला- ऽनाचरणात्सूत्रकारस्याशिष्टत्वशङ्कया तच्छास्त्रे प्रवृत्त्यनुपपत्तिः ? नैष दोषः। सूत्रादौ मङ्गलार्थाऽथशब्दप्रयोगेण मङ्गलाचरणस्य कृतत्वात् । भाष्यकारेणापि लोकशब्दं प्रयुञ्जानेन तत्वानुस्मरण- रूपं तत्कृतं, वार्त्तिकारैरपि “विशुद्धज्ञानदेहाय" इत्यनेन देवत.न- मस्काररूपं स्पष्टमेव मङ्गलमाचरितं, ग्रन्थकारेणापि तन्मतानु- युक्तिस्नेहमपूरणीसहितायां [अ०१पा०११०१सू०१ अत्रेदं चिन्त्यते किमध्ययनानन्तरं धर्मजिज्ञास- या गुरुगृहेऽवस्थातव्यम् ? उत गुरुगृहात्समावर्तित- व्यम् ? इति । यदि हि स्वाध्यायाध्ययनविधिना धर्म- मात्रार्थमध्ययनं स्वर्गाद्यर्थेन विधीयते ततस्तन्मात्रे- णैव शास्त्रार्थस्य समाप्तत्वात् “अधीत्य स्नायात्" इति स्मृतिवचनबलेन च समावर्तितव्यमिति । सारिणा तत्कृतमिति न कस्य चिदुपालम्भः । एवमनेन सूत्रेण सकलशास्त्रशेषरूपेण श्रोत्प्रवृत्त्यौपयिक- विषयादिनिरूपणेन शास्त्रारम्भे प्रतिज्ञाते तत्सिद्ध्यर्थमध्ययनवि- धिविचारमारभते । अत्रेदमिति । इदं विचारशास्त्रं विधिप्रयुक्त्याऽनारभ्यमा. रभ्यं वेति मुख्यो विचारस्तत्सिद्ध्यर्थमध्यनविधेरदृष्टार्थत्वं दृष्टा- थत्वं वेति विचार्यते । भाष्यकारेण च शास्त्रादावेतत्सूत्रमध्य- यनविधेरदृष्टार्थत्वमाशय दृष्टार्थत्वप्रतिपादनपरमिति व्याख्यातं "दृष्टोहि तस्यार्थः कर्मावबोधनं नाम" इत्यादिना । तस्या- ऽयमेव प्रसनकोविधिरित्युचित एवादौ तद्विचारः । कथं पुन- रदृष्टार्थत्वकोटेरुदयो यतोऽध्ययनकरणिकायां भावनायां नि- योगः प्रतीयमानो नियोज्यविशेष विनाऽपर्यवस्यन् अश्रुतस्व- र्गादिपरित्यागेन “फलमात्रेयो निर्देशा"दितिन्यायेन घृतकु- स्यादिकाममवलम्बते । न चार्थवादत्वं पारार्थ्यानवगमात् । न च कर्मावबोधार्थत्वेन पारायं अध्ययनस्य तादर्थेन श्रव- णात् । अतो नादृष्टार्थत्वशङ्केति । उच्यते । अध्ययनकराण- कायां भावनायां निर्वय॑मानायां तावदर्थावबोधो जायते स चाहवनीयादिवदुपकारकत्वेन कर्मार्थो भवति, अतोऽध्ययनमपि १ ज. सू. ४. अ. ३. प्रा..१८ सू. ।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । अथा क्षरग्रहणादिपरम्परोपजायमानवाक्यार्थ- ज्ञानार्थमध्ययनं विधीयते ? ततस्तस्य विचारमन्तरे- णाऽसम्भवाध्ययनविधिनैवार्थाद्विचारोविहित इति गुरुगृह एवाऽवस्थाय विचारयितव्यो धर्मः। सद्वारा कर्मार्थमाधानवत् , एवञ्चाध्ययनस्य पारार्थेऽवगते घृत- कुल्यादेस्तदर्थवादानुपपत्तौ फलसमर्पकत्वाऽयोगात् । नन्वेव- मपि दृष्टार्थावबोधार्थत्वेनादृष्टार्थत्वानुपपत्तिः । मैवम् । ता- दर्थ्य विध्यानर्थक्यापत्तेः । विधि विनाऽपि तल्लाभात् । अतो विध्यर्थवत्वायाऽदृष्टार्थत्वकल्पनेति । अत्र शास्त्रारम्भसिद्ध्यर्थत्वे- नाध्ययनविधेरदृष्टार्थत्वं दृष्टार्थत्वं वेति विचारे कर्तव्ये ग्रन्थकारस्या- ऽध्ययनानन्तरं गुरुगृहे ऽवस्थातव्यमुत ततोनिवर्तितव्यमिति विचारोऽनुपपन्नस्तत्सिद्ध्यर्थश्चाध्ययनाविधष्टादृष्टार्थत्वविचारो- ऽत्यन्तमनुपपन्नः शास्त्रारम्भसिद्ध्यर्थत्वादध्ययनविधिविचारस्ये- त्यादिबहुग्रन्थविरोधात् । तस्मादस्मदुक्त एव विचारक्रमो- ऽनुसन्धेयः । ग्रन्थोऽपि शाब्दक्रमं बाधित्वा तत्रैव योज्यः । अथवा सूत्रकारेणाध्ययनानन्तरं धर्मजिज्ञासा कर्त्तव्येत्युपदे- शार्थमथशब्दः प्रयुक्तस्तस्य प्रयोजनं । “वेक्ष्मधीत्य स्नाया" दिति स्मृतिप्राप्तस्नानकालबाधः, वेदमधीत्य तावन्न स्नातव्यं यावन्न धर्मो जिज्ञास्यत इति तदर्थोऽध्ययनविधिविचार इति ग्रन्थकर्तुरभिप्रायः । ततस्तस्येति । विचारस्येतिकर्तव्यतारू- पत्वादध्ययनविधेरेव तत्पर्यन्तोव्यापारः। नचैवं प्रवृत्तिभेदापत्तिः आविचारात्प्रवृत्तेरेकत्वात् । एका हि प्रवृत्तिरङ्गप्रधानयोः व- क्ष्यति च- "अङ्गपधानवत्या भावनायां युगपत्पुरुषनियोग" इति । मीमांसा चेतिकर्तव्यतात्वेनाङ्गम् । तदुचम्- १२ युक्तिस्नेहपूरणीसहितायां [अ०१पा०१०१सू०१ -- विनाऽपि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत्॥३॥ "धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यतामागं मीमांसा पूरयिष्यति" इति । अतो वैध एवायं शास्त्रारम्भ इति सिद्धान्तकोट्युपपत्तिः। नन्वेवं सति न प्रयोजनस्य वाक्यार्थत्वं स्यात् । अध्ययन- विधिदृष्टार्थत्वप्रलिपादनस्यैव वाक्यार्थत्वावगमात् । ततश्च मी- मांसायाः प्रयोजनं वक्तुमेतत्सूत्रमिति भाष्यं नोपपद्यत । नैष दोषः । मीमांसारम्भासिद्ध्यर्थमिह दृष्टार्थत्वं प्रतिपाद्यत इति फलतः प्रयोजनपरत्वाभिधानम् । तदप्रतिपादने च शास्त्रार म्भानुपपत्तेः सूत्रस्य शास्त्रादावनन्वय एव स्यात् ऽध्ययनविधिदृष्टार्थत्वे सूत्रतात्पर्ये सति विचारस्य कर्तव्यतो- पपत्तौ धर्मज्ञानस्य प्रयोजनत्वे फलिते सूत्रस्य तदुक्तिवचनत्त्वो- पपत्तिः । अतो यत्कश्चिदुक्तं नात्र प्रयोजनं पदेनोपात्तं, न चापदार्थस्य वाक्यार्थत्वं, न चावाक्यार्थे तात्पर्य, प्रयोजनप- रत्वे च कर्त्तव्यताऽनुपदेशात् अथातः शब्दयोरनन्वय इति, तदपास्तम् । फलतस्तस्य प्रयोजनपरत्वात् वाक्यार्थस्यैवान्य- परत्वे अनन्वितपदार्थकत्वचोद्यानक्काशादित्यलम् । एवं विचारस्वरूपमुपवर्ण्य पूर्वपक्षमारभते । तत्रेति । प्रमाणान्तरसिद्धत्वादेवार्थज्ञानार्थत्वं न यु- तमित्यर्थः । नचैवमानर्थक्यापत्तिरित्याह । कल्प्यस्त्वि- ति तुशब्दः सिद्धान्तापेक्षयाऽतिशयद्योतनार्थः । सिद्धान्ते पुरुषार्थरूपस्यार्थावबोधस्य भाव्यत्वमत्र पुरुषा- र्थरूपस्य स्वर्गस्य, एवं च चेतनप्रवर्त्तनात्मकविध्युपपत्तिरि- [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । १३ स्वाध्यायसंस्कारद्वारेणाऽध्ययनस्यार्थज्ञानहेतुत्वं विनैव विधिना प्रमाणान्तरेण सिद्धमिति तादयें वि- ध्यानर्थक्यम् । नचाऽवघातादिविधिवनियमार्थत्वम्, अवघातोहि दर्शपूर्णमासाऽपूर्वे नियम्यते- अवघात- निष्पन्नरेव तण्डुलैरपूर्व सिक्ष्यतीति, न तण्डुलस्वरूपे, प्रमाणान्तरविरोधात् । तददिहाऽपि ज्ञानस्याध्ययन- मन्तरेणाऽपि दर्शनात् तत्स्वरूपे नियमाऽसम्भवात् क्रत्वपूर्वेष्वेवाऽध्ययननियमो विधातव्यः-अधीतैरव वेदैरवगतानि काणि फलदानीति । नचैवं युक्तम्- अक्रत्वर्थत्वाध्ययनस्य, अनारभ्याऽधीतत्वात् श्रु- त्याद्यभावाचाऽक्रत्वर्थत्वम् । तस्माददृष्टार्थमेव स्वा- ध्यायाध्ययनमित्यध्ययनमात्रादेव समाते शास्त्रार्थे गुरुगृहात्समावर्तितव्यम् । ति । पूर्वार्द्ध व्याचष्टे । स्वाध्यायेति । न तावदयमपूर्वविधिः वेदाध्ययनमर्थज्ञानहेतुः अध्ययनत्वात् भारताध्ययनवदिति प्रमाणान्तरेणैव प्राप्तत्वादप्राप्ते च शास्त्रस्यार्थवत्वादित्यर्थः । नाऽप्यवघातवनियमविधित्वमित्याह । नचेति । कथं नचे- त्यपेक्षायामाह । अर्थत्वादिति । अनारभ्याधीतत्वेनाऽध्य- यनस्याक्रत्वर्थत्वादित्यर्थः । पर्णतावद्भविष्यतीतिचेन्नेत्याह । श्रुत्याद्यभावादिति । ननु सर्वथा फलाश्रवणे विश्वजिन्न्या- येन तत्कल्पनं, श्रूयते चात्र फलं- "यं यं ऋतुमधीते तेन तेनास्येष्टं भवती"ति-- क्रतुफलावाप्तिः। "यहचोऽधीते पयस कुल्या अस्य पितृन् स्वधा अभि- वहन्ति पयआहुतिभिरेव तदेवांस्तर्पयति ते पितरोदेवाश्चैनमध्ये- - १४ युक्तिस्नेहपूरणीसहितायां [अ०१पा०११०१सू०१ इति प्राप्ते- अभिधीयते- लभ्यमाने फले दृष्टे ना ऽदृष्टपरिकल्पना। विधेश्च नियमार्थत्वान्नानर्थक्यं भविष्यति ॥४॥ यदुक्तं ज्ञानस्वरूपे क्रत्वपूर्वे वा न नियमः सम्भ वतीति। तत्राऽभिधीयते। नोभयथाऽपि ब्रूमः, कथं त- हि ? योऽयमग्निहोत्रादिष्वधीतेवदानां त्रैवर्णिकाना- मेवाऽधिकारो नाऽनधीतवेदानां शूद्राणामित्यधिका- तारं तृप्ता आयुरादिभिस्तर्पयन्ति" इत्यायुरादिप्राप्तिः । यथा- "यः स्रग्व्यपि द्विजोधीते स्वाध्यायं शक्तितोन्वहम् । आहैव स नखाग्रेभ्यः परमं तप्यते तप" इति तपः फलप्राप्तिः। कथमर्थवादात्फलकल्पनमितिचेत् निर्देशात् प्रतिष्टा- वदिति ब्रूमः श्रुतपरित्यागस्यायुक्तत्वात् अतो न स्वर्गकल्पना युक्तति । मैवम् । एतत्फलश्रुतेर्जपयज्ञाध्ययनगोचरत्वा "दहरहः स्वाध्यायमधीयीते"ति विध्यन्तरश्रवणात् , “ यं यं क्रतुमधी- यीते'त्याधुपक्रम्य “नित्यं स्वाध्यायवान् द्विज" इत्युपसं- रात् । वेदाक्षरस्वीकरणार्थे तु प्रथमाध्ययने ऽध्ययनविधिवि- हिते न किञ्चित्फलं श्रूयते, यतो निर्देशादिति स्यात् अतो ऽदृष्टार्थमेवाध्ययनमिति । सिद्धान्तं प्रतिजानीते । इति प्राप्त इति । यदुक्तमध्ययनस्यार्थज्ञानार्थतायाः प्रमा- णान्तरसिद्धत्वाद्विधेरानर्थक्यमिति तत्परिहरति । विधेश्चेति । पूर्वपक्षोक्तं दृषणमनूध परिहरति । यदुक्तमिति । स्वाभिप्रेतं नियमं प्रश्नपूर्वमुपपादयति । कथं तीति । नन्वध्ययनविधौ [जिज्ञासाधिकर] शास्त्रदीपिकायाम् । १५ रनियमः स प्रयोजनमध्ययनविधेः । तथाहि-असत्यध्ययनविधावग्निहोत्रादिशास्त्रा- णि विद्वांसमलभमानानि अविद्वांसमेवाधिकृत्य विद्यामन्तरेणाऽनुष्ठानासम्भवाविद्यामाक्षिपन्त्यविशे- षाचतुरोवर्णानधिकुर्युः । सति त्वध्ययनविधौ त्रैव- णिकानामेव विदुषामधिकारो भवति न तुरीयादेः। तथाहि-" वसन्ते ब्राह्मणमुपनयीत "ग्नीष्मे रा- जन्यम्" "शरदि वैश्यम्" इति द्वितीयानिर्देशादुप- नयनसंस्कृतास्त्रैवर्णिकाः किमस्माभिः कर्तव्यमित्य- पेक्षन्त, तत्सन्निधौ चाध्ययनमनिर्दिष्टकर्तृकं वि- धीयमानं कर्तारमपेक्षते, तत्रापेक्षासंनिधियोग्यत्वैरे. वं विज्ञायते त्रैवर्णिकैरेवोपनीतैरक्षरग्रहणेनाऽध्यय- नादिपरम्परयाऽर्थज्ञानं कर्तव्यमिति । एवं च फल- वध्ययनकर्तृभूतमाणवकसंस्कारत्वादुपनयनमध्यय- नाङ्गम् । अध्ययनमपि दृष्टार्थज्ञानार्थम् । अर्थज्ञानं स्वनुष्ठानौपयिकत्वात्प्रसिद्धफलकमेवेति सर्वेषां फ. लवत्त्वम् । एवञ्च त्रैवर्णिकेषु विद्वत्सु लब्धेषु नाग्नि- होत्रादिविधयश्चतुर्थवर्णस्य विद्यामाक्षिपन्ति, किन्तु त्रैवर्णिकानेव विदुषोऽधिकुर्वन्ति । सोऽयमधिकारनि- त्रैवर्णिकानुपादानात् कथं त्रैवर्णिकाधिकारनियमसिद्धिरि- त्याकाङ्क्षायामाह । तथाहीति । उपनयनविध्येकवाक्यतया त्रैवर्णिकलाम इति भावः । नन्वेवंरूपाधिकारनियमस्या- ऽपशूद्राधिकरणन्यायसिद्धत्वान्नाध्ययनविधिप्रयोजनत्वमित्याश- याह । सोऽयमिति । तत्राऽप्यध्ययनविधिवशादेव तनियम- सिद्धिरित्यर्थः । एतच विभवादुक्तं वस्तुतस्त्वपूर्वविधिस्वीका- १६ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०१सू०१ यमोऽपशद्राधिकरणे वक्ष्यमाणोऽध्ययनविधिप्रसा- दलभ्य इति फलवानेव विधिः । तेनाऽर्थज्ञानावसान- मध्ययनमध्ययनविधिना विधीयत इति विचारमन्त- रेण तदनुपपत्तेरध्यनविधिरेव विचारमाक्षिपस्तविरुद्धं स्मात स्नानं बाधते, इति सिद्धमध्ययनानन्तरं धर्म- जिज्ञासा कर्तव्येति। रेण पूर्वपक्षोक्तदोषपरिहारात् नियमार्थत्वं सम्भवति । अनार- भ्याधीतस्यापि सामर्थ्यात् क्रत्वर्थत्वोपपत्तेः । यावद्धि फ- लवत् कर्मानुष्ठानोपयोगिज्ञानोपायतया सामर्थेन किश्चित्क- ल्पयितुमारभ्यते तावत्स्वाध्यायोऽध्येतव्य इति प्रत्यक्षया श्रुत्याऽध्ययनमेव तदुपायत्वेन विधीयते । लिङ्गतः शीघ्रं प्र- तेः उपनयनप्रक्रमाधीतत्वाच्च । तदेकवाक्यतयाधिकारनियमो ऽपि सिध्यति । हन्त ती पूर्वविधिरेवायं जात इति नियम- भावानुपात्तिः, नैष दोषः फलतस्तदुपपत्तेः। अपूर्वविधित्वे सत्यु- पायान्तराक्षेपाभावानियमः फलति । परिसंख्यावत् । वाक्या- र्थत्वे हि परिसंख्यायाः स्वार्थहानादिदोषः प्रसज्येत अतोऽ- पूर्वविधित्वेनैव निस्तारः अतोऽत्रापि न नियमो वाक्यार्थः कि- न्त्वपूर्वविधेः फलमिति न पूर्वपक्षोक्तदोषावकाशः । न चैता- वताऽध्ययनस्य क्रत्वङ्गतापत्तिः तदापादितज्ञानस्यैव क्रत्वङ्ग- त्वात् यदेवेत्यादिना तस्यैव क्रत्वङ्गत्वबोधनात् । अध्ययनं तु ज्ञानाङ्गमेव । यथा आधानसाध्यानामग्नीनां क्रत्वर्थत्वेऽपि नाधा- नस्य क्रत्वर्थत्वम् । एवमिह ज्ञानस्य क्रत्वर्थत्वेऽपि नाध्य- यनस्य क्रत्वर्थत्वमिति सर्व समञ्जसम् । फलितमाह। तेनेति । अयं च ग्रन्थकारस्याभिप्रायोऽस्माभिरथवेत्यादिना पूर्वमेव प्रकटीकृतः । नन्वेवं हुमादीनामनर्थकानामध्ययनं कथमर्थज्ञाना- ? र्थ [जिशासाधिकर०] शास्त्रदीपिकायाम् । १७ के चित्पुनराचार्यकरणविधिप्रयुक्तत्वमध्ययनस्या- ऽङ्गीकृत्य किमाचार्यकसिद्धिरेवाऽध्ययनस्य प्रयोजनम् ? उतार्थज्ञानम् ? इति विचार्य, अन्तरङ्गत्वादर्थज्ञानभि- त्याहुः । किं पुनः कारणमाचार्यकरणविधिप्रयुक्तत्वे- ऽध्ययनस्य ? अध्ययनविधेरधिकारिशून्यत्वादाचार्य- करणविधिप्रयुक्त्या चात्मलाभे विश्वाजदादिवत् फल- कल्पनानुपपत्तिः। कः पुनराचार्यकरणविधिः ? कथं वा तेनाऽध्ययनस्य प्रयुक्तिः । उच्यते- स्यात् । नैष दोषः । गीतिकालोपलक्षकत्वनैव तेषामर्थवत्वो- पपत्तेः । अध्ययनोपात्तेन स्वाध्यायेन यच्छक्नुयात् तत्कुर्या- दिति वचनव्यक्त्या सर्वेषां यथासामर्थ्य विनियोगकल्पनात् । एतच्चार्थवादाधिकरणे विशेषतोऽस्माभिर्निरूपणीयमिति नेह प्रतन्यते । उपसंहरति । इतीति । एवं स्वमतेन पूर्वोत्तरपक्षावुपपाद्य एकदेशिमतेन तौ दर्श- यितुमाह । के चिदिति । आचार्यकस्य पुरुषान्तरगामित्वेन बहिरङ्गत्वादध्ययनप्रयोजनत्वमेव कथमिति चेन्न । प्रथमावगत- त्वादिति ब्रूमः । अध्ययनमन्तरेण चाध्यापनस्यैवासिद्धः। अर्थ- ज्ञानं तु पश्चाद्भावित्वान्न प्रयोजनम् । अन्तरङ्गत्वादिति । अध्या- पनकर्तगामित्वेनान्तरङ्गत्वादित्यर्थः । प्रथमावगतत्वात् तत्म- योजनमिति चेन्न । प्रथमावगतत्वेऽपि तस्य प्रयोजनवाप- रिकल्पनात् । अकल्पितेऽपि तस्य प्रयोजनत्वेऽध्ययनानुष्ठानस- म्भवात् । नियोग एव शब्दादवगतः प्रयोजनं स्यानार्थज्ञानमिति वेन्न । अर्थज्ञानस्याऽपि प्रतीयमानस्य त्यागायोगात् । फलक ल्पनां निराकरोति । आचार्येति । फलकल्पनानुपपत्तेरर्थ- युक्तिस्नेहमपूरणीसहितायां [अ०१पा०१०१०१ . "उपनीय तु यः शिष्यं वेदमध्यापयेविजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते" इति स्मृत्यनामितः-'उपनीयाध्यापनेनाचार्यकं कु- त्'ि इत्याचार्यकरणविधिः । अत्र चाऽध्यापनमाचार्य- त्वसाधनन्, उपनयनन्तु क्त्वाप्रत्ययात्तस्यैवाङ्गम्। तच्च केन द्वारेणोपकरोतीत्यपेक्षायामुपनेयासत्तिरेवाऽस्य द्वारमङ्गीक्रियते लिङ्गात् । तदुपनेयोऽपि नाकिञ्चि- स्करोऽङ्गामति तयापारापेक्षयामुपनयनं प्रक्रम्य वि- हितमध्ययनमध्यापनोपकारित्वादुपनीतस्य व्यापार- त्वेनाध्यवसीयते । तदेवं स्वाङ्गभूतमुपनयनं प्रयुञा- नोऽध्यापनविधिस्तव्यापारेणाध्ययनं प्रयुक्त । तदिदमनुपपन्नम्- तथाहि-नियोगार्थस्याध्ययनस्याचार्यकप्रयोजनता अर्थज्ञानप्रयोजनता वा न शक्यते शास्त्रेण बोधयितुं, साध्यवयस्यैकत्राऽसम्भवात् । नियोगार्थतैव शास्त्रेण योध्यते, भज्ञानार्थतायां त्वनुज्ञामात्रमिति चेत् ? तथाऽप्यर्थव्यं स्यादेव । किञ्चैवं सकृदुच्चरितस्य लि- प्रत्ययस्य विध्यर्थत्वमनुज्ञार्थत्त्वं चेति वैरूप्यमपि ज्ञानार्थत्वं पर्यवस्यतीति भावः । आचार्यकरणावधिनाऽध्य- यनस्य प्रयुक्तिमुपपादयति । अत्रेति । क्त्वाप्रत्ययेनाध्यापन- समानकर्तृकमवगम्यमानं तस्यैवाङ्गमित्यर्थः । तच्छेषत्वात्तेन- तत्प्रयुक्तिरुचिता न त्वध्ययनस्येत्याशङ्याह। तदेवमिति । उक्त- रीत्या परम्परया तत्प्रयुङ्क्त इत्यर्थः । दूषयति । तदेतदिति ।(१) नियोगार्थतैवेति । नियोगस्यैव शब्दादवगम्यमानत्वादध्ययनप्र- (१) तदिदमनुपपन्नमित्येवमूलपाठः सर्वेषु पुस्तकेषु दृश्यते ।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । १९ स्यात् । तेम संशय एवानुपपन्नः। तथा सिद्धान्तो- ऽप्यनुपपन्नएव । प्रमाणान्तरसिद्धत्वादर्थज्ञानार्थत्वं न शास्त्रगोचरतामनुभवतीति । तत्र यदेवास्मदभिप्रेतं विधेर्नियमार्थत्वं महता प्रयत्नेन भवद्भिर्दूषितं तदेव भवद्भिरपि मुक्तलझरनन्यगतिकत्वादाश्रयणीयमाप- नम् । नियमानङ्गीकारे च पूर्वपक्ष एव श्रेयानापयेत । आचार्यत्वस्यादृष्टत्वेन प्रयोजनतोपपत्तेः । अर्थज्ञाना- र्थत्वे चाध्ययनं स्वाध्यायसंस्कारो नियोगार्थत्वे तु प्र. धानकर्मेति बैरूप्यमपि स्यात् । अर्थाज्जातमर्थज्ञानं प्रयोजनं न शास्त्रत इति चेत् ? आचार्यत्वमपि प्र- योजनं न स्यात् तस्याप्याज्जातत्वात् । स्मृतिवा- धेन चलानोत्कर्षों न स्यादशास्त्रस्वीकृतत्वादिचारस्य। किंच-नियोज्यः कल्यनीयोऽत्र विध्यर्थानुपपत्सितः। नचोपनयनस्याङ्गभावोऽस्त्यध्यापनं प्रति ॥५॥ द्वितीयाश्रुतिसामर्थ्यात्सा माणवकसंस्क्रिया ॥ तथा सत्यन्तरङ्गत्वादङ्गमध्ययनस्य तत् ॥ ६ ॥ यत्सावनियोज्याऽभावादप्रयोजकत्वमध्ययनविधे- योजनत्वमिति भावः।प्रमाणान्तरेति । “अपाते शास्त्रमर्थव"दिति न्यायात्प्रमाणान्तरसिद्धस्य न शास्त्रविषयत्वामित्यर्थः । विध्यर्थव.-- स्वाय नियमाङ्गीकारे चास्मत्पक्षप्रवेश इत्याह । लवेति । प्रका- रान्तरेण वैरूप्यमाह। अर्थेति । अर्थाजातमिति । शास्त्रतस्तु नि- योग एव प्रयोजनं नियोगार्थत्वस्यैव शास्त्रेण बोधनादिति भावः । अशास्त्रीयत्वे चार्थज्ञानस्य तत्सिद्ध्यर्थस्य विचारस्याप्यशास्त्री- यत्वात्स्नानोत्कर्षत्वं न स्यादित्याह । स्मृतीति । इदानीमेकदेश्युक्तानि स्वपक्षणानि परिहरति । किं चेति ।
२० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०१सू०१ रिति । तद्युक्तम् । अभावासिद्धेः । अश्रुतस्यापि विश्वजिदादिवत् कल्पनात्, कार्य हि विध्यर्थः सम्ब. न्धिशब्दश्चायं कार्यमिति, कस्य चिद्धि किञ्चित् कार्य भवति, न सर्व सर्वस्थ, अतः कस्येदं कार्यमित्यस्ति सम्बन्ध्यपेक्षा, साऽवश्यमध्याहृतेन केन चिन्निवर्त- नीया अस्येदं कार्यमिति, यस्येदं कार्य स एव नियो- ज्य इत्युच्यते । यद्यपि कथश्चित् परप्रयुक्तानुष्ठानादेवात्मलाभः स्यात्, तथाऽपि न तावता कार्यत्वं सिद्ध्यति, न हि कृतिसाध्यतामात्रं कार्थत्वम् । किं तर्हि ! यत्कृति- साध्यं कृति प्रति प्रधानभूतं तत् कार्यमित्युच्यते, प्रा- धान्यं च कृतेस्तदुद्देशेन प्रवृत्तिः, ततश्चाध्ययनानियो- गेन कार्येण भवताऽवश्यं पुरुषव्यापारोद्देश्येन भवि. तव्यम् । न चाऽसति नियोज्ये तदुद्देशेन कश्चित्सव- तेत, अध्यापनविधिनाहि प्रवर्त्यमानो माणवकः कथं चिद्ध्ययनमात्रमनुतिष्ठेन्न त्वपूर्वमुद्दिशेत्, न हि तस्य प्रथमार्द्ध व्याचष्टे । यत्तावदिति । कल्पनामुपपादयति । कार्य हीति । नियोज्यकल्पना विनापि नियोगस्वरूपसिद्धिमाश- झ्याह । यद्यपीति । परप्रयुक्तं-अध्यापनप्रयुक्तं यदनुष्ठानं तत एवाध्ययननियोगस्यात्मलाभ इत्यर्थः । कथं न सिद्ध्यत्यत आ- ह। न हीति । अध्यापनविधेस्त्वध्यापननियोग एवोद्देश्यो- नाध्ययननियोगः। अनन्यपरक युद्देश्यस्यैव च कार्यत्वादिति भावः। अस्त्वेवं कथमेतावता नियोज्यकल्पनेत्यतआह। नचेति । अतो नियोज्यकल्पनमावश्यकमिति भावः । एतदेवोपपाद- यति । अध्यापनेति । अध्ययनमात्रमिति । तेन विनाऽध्याप- [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । २१ तदुद्देश्चं प्रमाणाभावात्,प्रयाजाद्यपूर्वाणि दर्शपूर्णमा- साऽपूर्वोपकारित्वात् तदधिकृतेन पुरुषेण तत्सिद्ध्यर्थ- मुद्दिश्य क्रियमाणानीति युक्तं यदसत्यपि साक्षा- नियोज्योपादाने कार्यत्वं लभन्ते, अध्ययननियोगस्य तु नान्यौपयिकत्वं यतस्तद्रूपेणोद्देश्यता स्यात् । अ- र्थज्ञानस्य च नियमफलत्वेन नियोगाऽनपेक्षत्वात् । तस्मादस्य कार्यत्व सिद्धये ऽवश्यं नियोज्यः कल्पनीयः। यच्चाध्यापनविधेरुपनयनद्वारमध्ययनप्रयोजकत्वमु- क्तम् । तदप्ययुक्तम् । उपनयनप्रयुक्तरेवाभावा- न्, तद्वारेणाध्यापनप्रयुक्तिर्दूरापास्ता । त्काप्रत्य- येन हि समानकर्तृकत्वमेवोच्यते तेन चैकप्रयोगता कल्प्यते, अङ्गाङ्गिभावस्त्वेकप्रयोगतावशात् कल्पनी. यः, द्वितीयया तु साक्षादङ्गित्वमेवोच्यत, अतो यथा त्रिवृता यूपपरिव्याणं यूपार्थ नोपाकरणार्थम्, एवमु- नविद्ध्यनिर्वाहादित्यर्थः । तस्य-माणवकस्य । असा-वध्ययन- नियोगः । प्रयाजापूर्ववत्कार्यत्वमाशङ्ग्याह । प्रयाजादीति । अर्थज्ञानौपयिकत्वमाशमाह । अर्थेति । अध्ययनफलत्वेन त- न्मात्रापेक्षत्वमिति भावः । निगमयति । तस्मादिति । द्वितीयाई व्याख्यातुमाह । यच्चेति । उपनयनस्याध्यापना- ङ्गत्वे शेषिणा शेषप्रयुक्तिः स्यात् न त्वेवमस्तीति भावः । एवम प्यङ्गाङ्गिभावः सेत्स्यतीत्याशङ्याह । द्वितीययेति । तृतीयार्द्धव्या- ख्यानं चैतत् । वसन्तेब्राह्मणमित्यादि द्वितीययेत्यर्थः । यथा "आश्विनं ग्रहं गृहीत्वा त्रिता यूपं परिवीयानेयं सक- नीयं पशुमुपाकरोतीति” यूपपारव्याणं यूपार्थ द्वितीयानिर्देशा- त्सन्निधानाच्च । एवमुपनयनं माणवकसंस्कारार्थ नाध्यापना- २२ युक्तिस्नेहपूरणीसहितायां [अ०१पा० १०१सू०१ पनयनमपि माणवकसंस्कारार्थ नाध्यापनार्थम् । स्मृ तिगतश्च स्काप्रत्ययः, प्रत्यक्षवेदगता तु वसन्ते ब्राह्म- णमिति वितीया, अतोऽपि माणवकार्थत्वम् । भवतु माणवकसंस्कारस्तद्वारेण त्वध्यापनाङ्गं नाध्ययनाङ्ग- मिति चेत् ? मैवम् । अन्तरङ्गत्वाद्ध्ययनस्य तादर्थ्य- मेव संस्कारस्य युक्तम् । अध्ययनमपि फलवद्ध्याप- नमपि, तयोः कस्याऽयं माणवकसंस्कारोऽङ्गं भवतु इत्यपेक्षायामध्यापनस्य पुरुषान्तरगामित्वेन बहिर- त्वात् माणवकगताध्ययनार्थत्वमेव युक्तम् । यथैव यध्ययनस्याऽऽचार्यकसिद्धिप्रयोजनतामनादृत्य . "वे- दमधीत्य स्नायात्” इति स्मार्त बाधित्वाऽन्तरङ्गत्वाद- थज्ञानातैवाऽऽश्रीयते तथोपनयनस्याऽप्यध्ययनार्थ- ता वेदितव्या। स्मरणादपि पाणिनीयादध्ययनाङ्गतैवोपनयनस्या- वगम्यते । अध्ययनाङ्गतां हि स्मरन्नाचार्यकरणे नयतरात्मनेपदं विधत्ते, अध्यापनाङ्गत्वे हि कत्रभि- र्थमित्यर्थः । काश्रुत्याऽध्यापनाङ्गत्वमिति चेत् । नेत्याह । स्म- तीति । अत्राशङ्कते। भवत्विति । परिहरति । मैवमिति । अध्य- यनसमानाधिकरणत्वादुपनयनस्याध्ययनार्थत्वमेव युक्तं, न बाहिरङ्गाध्यापनार्थत्वमित्यर्थः । एतदेवोपपादयितुमाह । अध्य- नमिति । इतश्चाध्ययनाङ्गमित्याह । स्मरणादपीति । " संमाननोसर्जनाचार्यकरणा- नभृतिविगणनव्ययेषु निय"(२) इति पाणिनीयसूत्रादित्यर्थः। एतदुक्तं भवति अध्यापनाङ्गत्वे हि फर्जभिप्रायत्वा- (१)१ अ.३ पा.३६ स. !
[जिज्ञासाधिकर] शाखदीपिकायाम् । २३ प्रायत्वात् क्रियाफलस्य त्रित्वादेवात्मनेपदं सिद्धयेत् । "उपनीय तु यः शिष्यम्" इति काप्रत्ययो हि कथं चित् “दर्शपूर्णमासाभ्यामिष्ट्वा" इति वदसत्यप्यङ्गा- निभावे ऽवकल्पते। पुनर्विधानं चाऽऽत्मनेपदस्थात्यन्ता- नर्थकम् । तस्माद्ध्ययनाङ्गमुपपनयनं स्यात् । न तु स्यात, तज्जन्यः संस्कारो हि माणवकसम- वायी? सत्यम् । माणवकसमवेतोऽपि न तदर्थः । कत्र- व क्रियाफलस्य स्वरितत्रित इत्यनेनैव सूत्रेण नित्वादेवाचार्य- कलाधनेऽप्यर्थे वर्तमानानयतेरात्मनेपदं प्रामोतीति सम्मानना- दिसूत्रमनर्थकं स्यात् अतस्संमाननादिसूत्रेणाचार्यकरणे यदात्म- नेपदविधानं तदकर्तृगामिन्यपि क्रियाफले यथाऽऽत्मनेपदं स्या. दित्येवममिति । यथाह वृत्तिकारः "अकञभिमायार्थः पुन- रारम्भ' इति । क्त्वाश्रुत्योपनयनस्याध्यापनाङ्गत्वमाशङ्मयाह । उपनीयेति । सूत्रस्य वाक्यत्वात्तदपेक्षया क्त्वाप्रत्ययश्रुतेर्बली- यस्त्वमिति शङ्काभिप्रायः । कालार्थसंयोगे ऽपि वापत्ययोपपत्ति रिति परिहाराभिमायः । उपनयनाङ्गत्वे पूर्वमर्थादुक्तमेव सं- माननादिसूत्रानर्थक्यमिदानी प्रकटीकरोति । पुनरिति । वस्तु- तस्तु पुनरित्यादिग्रन्थः सिद्ध्यदित्यस्यानन्तरं द्रष्टव्यः । उ- पनीयेत्यादिग्रन्थस्तु वेदितव्येत्यस्यानन्तरं द्रष्टव्यः । आ- नर्थक्यं परिहर्तुं शकते । न स्यादिति । यस्मादुप- संस्कारो माणवकसमवायी तस्मादकत्रभि- मायार्थः पुनरारम्भोऽर्थवानित्यर्थः । परिहरति । सत्यमिति । न तदर्थः-न माणवकार्थः, यदि माणवकार्थः स्यात् तदा अत्र- भिप्रायार्थः पुनरारम्भोऽर्थवान् स्यात् किन्तूपनयनकर्बर्थः ततश्च भिवादेवात्मनेपदं स्यादिति भावः । ननूपनयनकर्तर्यसमवेतस्य नयनजन्यः ४ युक्तिस्नेहमपूरणीसहितायां [अ०२पा०अ०१सू०१ धत्वं च फलस्य कभिप्रायत्वं, न तु तत्समवायः- अन्यथा हि "अग्नीनाद्धीत" इत्यात्मनेपदं न स्यात्- आधानफलस्याऽऽहवनयित्वादेरग्निसमवेतत्वेन तृसमवायाऽभावात् । इयं च स्मृतिः- "उपनीयतु यः शिष्यम्" इति, अतो बलीयसी द्वितीया श्रुतिः, तस्मानाध्यापनाङ्गमुपनयनमिति न तद्वारेणाध्याप- नस्य प्रयुक्तिः। यच्च "उपनीतस्य व्यापारापेक्षायामुपनयनं प्रक्र- म्य विहितमध्ययनं तव्यापारत्वेनाध्यवसीयते" इति, तद्प्यबुद्धिपूर्वकम्-एवं हि वदताऽध्यापनाङ्गमध्यय- नमित्युपपादितं भवति, यदा ह्यध्यापनार्थत्वेनोपनी- तस्य माणकस्य तदुपयोगिव्यापारापेक्षायामध्ययनवि- घिरध्ययनं तदुपयोगिव्यापारतया विधत्ते-त्रैवर्णिकैर- पनीरध्यापनौपथिकव्यापारापेक्षरध्ययनव्यापारः क- तव्य इति, तदाऽपि स्पष्टमेवाध्यापनशेषोऽध्ययनमिति दूरनिरस्तमर्थज्ञानार्थत्वमिति सुनिरूपितो वाक्यार्थः । अथाऽध्ययन विधिरध्ययनमर्थज्ञानार्थतया विध- संस्कारस्य कथं कर्बर्थत्वं तत्राह । कर्थत्वमिति । इतश्च ना- ध्यापनाङ्गत्वमित्याह । इयं चेति। निगमयति। तस्मादिति । फलित- माह । इतीति । पूर्वपक्षोक्तं दूषणान्तरमनूय परिहरति । यच्चेत्यादिना । न- न्वस्त्वध्यापनाङ्गमेवाध्ययनं किमेतावतानिष्टं स्यादत आह। इती- ति । अध्यापनार्थत्वेऽध्ययनस्यार्थज्ञानार्थत्वं न स्यादित्यर्थः । ततः किमत आह । इतीति ।इदानीं तन्मतेनैवार्थज्ञानार्थत्वमाशा निराकरोति । अथेत्यादिना। तदौपायकत्वं अध्यापनौपयिकत्वम् ।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । ते नाध्यापनौपयिकतया, तदाऽऽथ- अध्ययनस्य त. दौपयिकत्वं केन प्रमाणेन गम्यते ? नह्यत्र प्रत्यक्षादी- नि क्रमन्ते । सन्निधानादिति चेत् ? न सन्निधानं नाम स्वयं प्रमाणं, शब्दस्य त्वर्थ प्रतिपादयतः सन्निध्यपेक्षा- योग्यत्वानीतिकर्तव्यता, नेत्रस्येवोन्मीलनम् । श. ब्दश्चेद्ध्यापनौपायकतयाऽध्ययनं विद्ध्यात् नार्थज्ञा- नार्थता सिद्ध्येत् । अर्थज्ञानार्थतया विधानेऽध्यापनौप- यिकता न सिद्धयेत् । अतो नोपनयनसन्निधौ "स्वा- ध्यायोऽध्येतव्य" इति विहितस्याध्ययनस्योपनयनद्वा- राऽध्यापन विधिना प्रयुक्तिसम्भवः । यदि परमध्यापनस्याध्ययनमन्तरेणाऽसम्भवात् पदार्थस्वभावेनाध्ययनमाक्षिप्यते ? तथा सत्यविहि- तेन लौकिकेनाध्ययनेन तत्सम्भवान्न विहितस्याध्य- यनस्य नियोगतस्तत्प्रयुक्तिः । नच प्रयुक्तिलाघवा- दपि विहितोपजीवनम् । तदुपजीवनेऽपि प्रयुक्त्यन- केनेति । अध्ययनविधेरथज्ञानार्थतया विधायकत्वस्योक्तत्वादि- त्यर्थ इति भावः। अध्येतव्य इत्यस्य विधायकत्वमाशङ्याह। शब्द- स्य विति । प्रकारान्तरेणाध्यापनप्रयुक्तिमाशङ्ख्य निराकरोति । यदीति । तत्पयुक्तिरिति । तेनाध्यापनेन विहित- स्यैव प्रयुक्तिलभ्यत इत्यर्थः । विहितप्रयुक्त्यलाभे च प्रतीयमानस्याप्यर्थस्याविवक्षितत्वादविवक्षितस्य च विचारा- नईत्वादनारभ्यमेव शास्त्रं स्यात्कथञ्चिदर्थविवक्षायां वा विधे- रतत्परत्वान्न वैधत्वं विचारस्य सिद्ध्यति अवैधश्च न वैधं स्ना- नमुत्रष्टुमर्हतीति भावः । कथं चेत्यपेक्षायामाहं । तदिति । लौकिकोपजीवनेऽपि प्रयुक्तिसम्भवादित्यर्थः । इतोऽप्येवमि- युक्तिस्नेहपूरणीसाहितायां [अ०१पा०१०१सूर बलोपात् । विहितमप्यध्ययनमध्यापनविधिनैव त्व- न्मते प्रयुज्यते न स्त्र विधिना । तस्माल्लौकिकमेवाध्यय- नमुपनीतानामध्यापनविधिराक्षिपेत् । विधिविहित- मध्ययनं परप्रयुक्त्यभावादधिकं प्रकल्पयेत् । किञ्च य- गुपनयनमध्यापनाङ्गं ततोऽध्ययनविधिरर्थज्ञानार्थः सन्नाध्यापनार्थतयोपनीतैस्त्रैवर्णिकः सम्बध्येत । ये. ऽध्यापनार्थतयोपनीतास्वर्णिकाः तदुपयोोगव्यापार- मेपक्षन्ते तेऽर्थज्ञानार्थमधीयीरन्-इत्यसम्बद्धमेव स्यात्। ततश्चोपनीतैरसम्बध्यमानोऽध्ययनविधिश्चतुर्णामपिव- र्णानां स्यादिति शुद्राधिकारप्रसङ्गः । तस्मादुपनीता- नां प्रयोजनापेक्षिणामध्ययनकरणिकाऽर्थज्ञानभावना विधीयत इत्यध्ययनाङ्गनेवोपनयनम् । स्वविधिप्रयुक्तं चाऽध्ययनम् । प्रपञ्चेनाऽयं पक्षो न्यायरत्नमालाया- त्याह। विहितमिति । अध्ययनविधिप्रयुक्त्यभावे च लौकिकमेवा- क्षिपेदित्याह । तस्मादिति । अस्त्वेवं किमेतावताऽनिष्टं स्यादत आह विधीति । परेणाध्यापनेन या प्रयुक्तिः सा विधिविहितस्य न लभ्यत इतिकृत्वा · विधिविहितमध्ययनं स्वतन्त्रमधिकारं कल्प- येदित्यर्थः । इतोऽपि नाध्यापनाङ्गमुपनयनमित्याह । किञ्चे- ति । नन्वस्तु नामैतदसम्बद्धमिव अध्यापनाङ्गत्वं तूपनयस्य सिद्धं तत्राह । ततश्चेति । अध्यापनाङ्गत्वे सतीत्यर्थः । अध्य- यनाङ्गत्वे तु नैतदुषणमित्याह । तस्मादिति । यदा त्वध्ययना- अमेवोपनयनं तदा न तद्द्वारेणाध्ययनस्य प्रवृत्तिः सम्भवति । न चाङ्गमाकृष्यमाणं प्रधानमाकर्षति प्रधानानामनङ्गवशवर्तित्वा- दिति । ननु नात्र मुख्यत्वेनाध्यापनविधिप्रयुक्तिनिराकृता, ना. प्यध्ययनस्य स्वविधिप्रयुक्तिरुपपादिता, उपनयनस्याध्यापना- [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । मेव निरस्त इत्युपरम्यते । तस्मात् पूर्वोक्त एव विचार किमदृष्टाथेमध्यन- मुताऽक्षरग्रहणादिपरम्परया अर्थज्ञानार्थमिति । इत्वमात्रनिराकरणादत आह । प्रपञ्चेनेति । न निराकरणं ग्रन्थान्तरस्थमुपयुज्यते । अतस्तत्रत्यमेवैतत्सझेपणोच्यते मया ॥ स्यादेतत् नियोज्याश्रवणानाध्ययनविधिरध्ययनस्य प्रयो- जको भवितुं क्षमस्तस्मादध्यापनविधिप्रयुक्तिरङ्गीक्रियते इति । मैवम् । अध्यापनेऽपि तुल्यत्वात् न ह्यष्टवर्षे ब्राह्मणमुपन- यीत तमध्यापयीते " त्यत्र नियोज्यः कश्चिछुतः तद. श्रवणे चाध्यापनप्रयोजकत्वमपि न सम्भवति दूरेऽध्य- यनप्रयुक्तिः तत्राऽऽचार्यककामस्य नियोज्यत्वकल्पने ऽध्यय- नविधावर्थज्ञानकामस्य नियोज्यत्वकल्पनं तुल्यम् । ननु ज्ञाते- ऽर्थे कामना स्यादज्ञाते वा, नायः ज्ञाते तदनुपपत्तेः नहि ज्ञात एवार्थो ज्ञातुमिष्यते । न द्वितीयः सर्वथा बुद्ध्यनारूढेऽर्थे जिज्ञा- सानुपपत्तेः अतोनार्थज्ञानकामस्य नियोग्यता सम्भवती- ति। नैष दोषः, केन चिद्रूपेणाऽवगतस्य केन चिद्रूपेण जि- ज्ञासादर्शनात् । अत्र च धर्माधर्मयोरानर्थहेतुत्वमात्रेणावगतयो- विशेषरूपेणापरिज्ञातयोहानोपादानाशक्तस्तत्परिज्ञानेच्छा सम्भ- वतीति धर्माधर्मज्ञानकामः स्वाध्यायमधीयीतेति नियोज्यलाभः । नैमित्तिकनिषेधाधिकारयोर्यद्यपीष्टानिष्टप्राप्तिपरिहारार्थता नास्ति तथाऽपि विध्यर्थानुष्ठानसिख्यर्थमेव तद्वाक्यार्थज्ञानमपेक्षित- व्यम् । हन्त ? तर्हि प्रागपि वेदाध्ययनाद्धर्मजिज्ञासोपपत्ते- स्तदानन्तर्यमनुपपन्नम् । न जिज्ञासाभेदात् । यथाऽऽहुः- "जिज्ञासैकोपनीतस्य द्वितीया पठितश्रुतेः ।
२८ युक्तिस्नेहप्रपूरणसिाहतायां [अ०१पा०१अ०२सू०१ ज्ञातविद्यान्तरस्यान्या या मीमांसापुरस्सरेति" ॥ अन्तिमजिज्ञासाया वेदाध्ययनानन्तर्योपपत्तिः। अत एवा- ऽऽह भाष्यकारः “तादृशीं तु धर्मजिज्ञासामधिकृत्याऽथशब्द प्रयुक्तवानाचार्यो या वेदाध्ययनमन्तरेण न सम्भवति" इति(१)। विषयभूताध्ययनफलं ज्ञानं न नियोगजन्यमिति न तत्का- मस्य नियोज्यत्वं नियोगफलस्यैव नियोज्यावच्छेदकत्वादिति चेत्, तर्हि आचार्यकमपि न नियोज्यविशेषणं स्यात् तस्याऽपि विषयफलत्वात् । कश्वासावध्यापनविधियत्प्रयुक्तमध्ययनं स्यात् । " उपनीय तु यः शिष्यं वेदमध्यापयेद्विज' इत्यादिस्मृत्योपनीयाध्यापयेदाचार्यकसिद्ध्यर्थमेवंरूपं व. चनमिति चेत् । एतस्याध्ययनविधिपरत्वात् । यथैवा "ना- धकामं याजये"दित्यादिषु याजयतेः परः श्रूयमाणोऽपि वि. धिर्यागपर एव, याजयेदिति प्रयोजकव्यापारवचनशब्दस्य द्रव्यार्जनार्थप्राप्तविंग्व्यापारानुवादत्वस्य वक्ष्यमाणत्वात् । ए: वमध्यापयेदित्यध्ययनविधिपर एव नाध्यापनविधिपरः द्रव्यो- पायतथैव तस्य प्राणत्वात् । यथाहुः- "नाध्यापनमिदं वाक्यं विधातुं क्षमते यतः । द्रव्यार्जनार्थप्राप्तत्वाधच्छब्देन च सङ्गतेः" ।। एव “मष्टवर्ष ब्राह्मणमुपनयीत, तमध्यापयीते"त्यत्रापि अष्टवर्षों ब्राह्मण उपगच्छेत्सोऽधीयीतेत्यध्ययनविधिरेव ना- ध्यापनविधिः । किं चाऽत्र स्मार्तवाक्यसदृशरूपं मूलमनुमीय- ते । इह पुनरध्यापनकर्तरि लौकिका आचार्यशब्द प्रयुञ्जते इति सिद्धानुवादात्कथं कर्तव्यताश्रुतिरनुमातुं शक्यते । "उपनीय ददद्वेदमाचार्यः स उदाहृत". (१) शा. भा. १ अ.१ पा १ सू.।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । २९ तु इत्यप्यनुवादो नात्र कचिदपि विधिगन्धः । किं चा- ऽप्रवृत्तप्रवर्तनं विधेरर्थः आचार्यके धनाद्यर्थ स्वयमेव प्रवृत्त इति किं तद्विधिनेत्युक्तमेव । यद्यपि- "विद्यादानेन सुमतिब्रह्मलोके महीयत" इत्यादिभिर्विद्यादानात्मकमध्यापनं फलान्तरशेषतया वि- हितं भवेत् तथाऽपि नाध्ययनस्य तत्प्रयुक्तिः तत्र सर्वत्र नियोज्याऽश्रवणात् । नियोज्यताऽपि फलसाधनत्वश्रवणाद्भ- विष्यतीति चेत् । एवं रूपाधिकारमावस्याध्ययनेऽपि सद्भावात्। अत्र कश्चित् अर्थज्ञानं स्वयमपुरुषार्थत्वान्नाध्ययनस्य प्र- योजकं ज्ञानसाध्यानि त्वग्निहोत्राद्यपूर्वाणि तद्वारेणाऽध्ययनस्य प्रयोजकानि भवन्ति । नच तेषां ज्ञानमहं श्रुत्याधभावात् । उपकारकमानं तु भवति, आचार्यकस्य त्वध्यापनमङ्गमेव । अतस्तत्स्वागदारेण प्रयोजकं तस्मादध्यापनविधिप्रयुक्तमध्ययन- मित्याह । तदयुक्तम् । यद्यपि न कर्माङ्गं ज्ञानं अध्ययनं तु ज्ञानाङ्गमेव, तेन च प्रयुज्यमानमध्ययनं शेषिप्रयुक्तमे- व भवति, अध्यापनप्रयुक्तं तु न शेषिप्रयुक्तं भवति अध्ययनस्य तदनङ्गत्वात् उपकारकमावत्वेनैवाङ्गीकारात् । यद्यपि ज्ञानं स्वरूपेणापुरुषार्थस्तथाऽपि कर्मानुष्ठानौ- पयिकतया पुरुषैरीमानत्वात् पुरुषार्थो भवति आचार्यक- मपि न स्वरूपेणाभिलषितं, दक्षिणालाभसिद्ध्यर्थमेव तु पुरुषरू- पेणार्थ्यते अतो यथा तस्य प्रयोजकत्वमेवं ज्ञानस्याऽपि । अस्तु वाऽग्निहोत्राऽपूर्वमेव ज्ञानद्वारेण प्रयोजकमन्तरङ्गत्वात्, न त्व ध्यापनं पुरुषान्तरगामित्वात् । वस्तुतस्तु तदपि न प्रयोजक उत्तरविधिप्रयुक्तत्वे फलार्थितैव प्रवर्तिकेत्यापन्नं ततः शूद्रादे- ३० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०१सू०१ अथवा नाऽत्र किं चिहिचार्यते-नावमिकन्याये- नैवाध्ययनस्याक्षरसंस्कारादिपरम्परया ऽर्थज्ञानार्थत्व- रप्यधिकारः प्रसज्येत फलार्थिताया अविशेषात् । “विद्यादानेन सुमति"रित्येतदपि पुरुषार्थमापकविद्यादानाभिप्रायम् । नचाध्यय- नस्य पूर्वपक्षे पुरुषार्थताऽस्तीति न ब्रह्मलोकप्राप्तिफलविद्यादान- विधिवशादपि तस्य प्रयुक्तिः सम्भवति । तत्सिदं नाध्यापनविधि- प्रयुक्तमध्ययनमित्यलमातविस्तरेण।एकदेशिमतं निराकृत्य पूर्वो. क्तं स्वाभिप्रेतमेव विचारस्वरूपमुपसंहरति । तस्मादिति । विचारस्य पौनरुक्त्यमाशङ्याह । अथवेति । नन्वध्ययनस्य स्वाध्यायार्थत्वे ऽध्ययनेन स्वाध्यायं भावयदिति वाक्या- र्थः स्यात् ततश्च स्वाध्यायस्याध्ययनं प्रत्युद्देश्यत्वानुवाद्यत्व- प्रधानत्वानि स्युः अध्ययनस्य तु तं प्रत्युपादेयत्वाविधेयत्वगु. णत्वानीति विरुद्धत्रिकद्वयम् । अध्ययनस्य पुनर्ज्ञानार्थत्वे ऽध्य- यनेनार्थज्ञानं भावयेदध्ययनं च स्वाध्यायेनेति वाक्यार्थः तत- श्व स्वाध्यायस्याध्ययनं प्रत्युपादेयत्वादीनि स्युः अध्ययनस्य तु तं प्रत्युद्देश्यत्त्वादीनीति । तथा स्वाध्यायस्यार्थज्ञानं प्रत्युपादे- यत्वादीनि अध्ययन प्रति संस्कार्यत्वेनोद्देश्यत्त्वादीनीति । अत्रोच्यते । न स्वाध्यायोद्देशेनाध्ययनं विधीयते नाप्यध्यय- नोद्देशेन स्वाध्यायविधिः किं तु स्वाध्यायाध्ययनेन वि. ध्यन्तरापेक्षितं सम्पादयेदित्येकरूपैव वाक्यप्रवृत्तिः अपेक्षितस- म्पादनं चाध्ययनस्य स्वाध्यायसंस्कारमुखेनैवेति स्वाध्यायस्य प्राधान्यमध्ययनस्य च तच्छेषत्वामिति न वैरूप्यं एवं स्वाध्या- यस्यापि न वैरूप्यं । अधीतेन स्वाध्यायेनार्थ जानीयादित्येक- यैव वचनव्यक्त्या तत्परिहारात् । अत एव स्वाध्यायस्य संस्का- यत्वेऽप्यर्थज्ञानं प्रत्युपादेयतया तद्गतैकत्वस्य विवक्षितत्वादेक- ३ [जिज्ञासाधिकर] शास्त्रदीपिकायाम् । सिद्धेः । नवमे हि साम्नामृगक्षराभिव्यक्तिद्वारेण स्तुत्युपयोगित्वदर्शनात् तार्थ्यमेव नादृष्टार्थत्वमि- ति वक्ष्यते तेनैव न्यायनाध्ययनस्यार्थज्ञानार्थत्वसिद्धे- रध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति सिद्धमेवैतत्प्र- योजनविवक्षया मूत्रकारणोच्यते । यदाहु:- शाखाध्ययनेऽपि अध्ययनशास्त्रार्थनित्तिस्सिध्यतीति शाखा- न्तराधिकरणे दर्शितं। कथमेकेनैव वाक्येनोभयसिद्धिरिति चेत् । न । सामवदिति ब्रूमः । यथा “साम्ना स्तुवीते"तिस्तुतौ विनि- युक्तस्यापि साम्नः स्वाभाविकाक्षरसंस्कारत्वं न हीयते तदा- रेणैव स्तुतिसाधनत्वात्। न हि तत्र! वाक्यान्तरेण विनियोगो- स्ति । अथ च तत्संस्कारत्वमेव साम्नो भवति । एवमध्ययन- स्यापि स्वाध्यायं संस्कुर्वत एवार्थज्ञानजनकत्वं नान्यथा, अत एवंजातीयकं स्वभावतः संस्काररूपमपि संस्कार्योदेशेनाविधाना- दर्थकर्माभिधानमपि लभते । ननु साम्नतिगीतिमात्रविनियोगेन ची स्तुतावविनियोग त् अनङ्गभूतानां च संस्कार्यत्वानुपपत्तिः। मैवम् । सामविनियोगेनैव सामर्थ्याचामपि स्तोत्रविनियोगोप- पत्तेः अतोदृष्टार्थत्वेऽप्यध्ययनविधेः नियमार्थत्वान्नानर्थक्यामिति सिद्धम्।न च क्रत्वर्थेष्वेव नियमविधिः न पुरुषार्थेष्विति वाच्यम्। पुरुषार्थेष्वपि द्रव्यार्जनादिषु नियमविध्यभ्युपगमात् । अत्र तु पूर्वोक्तन्यायेनापूर्वावधित्वे सिद्ध फलत एव नियमो भवति । तस्माजपयज्ञपारायणक्रतुज्ञानसिद्धिप्रयोजनमध्ययनम् । अतएव नित्यं अवश्यानुष्ठेयजपयज्ञादिसाधनत्वात् । नावमिकमेव न्यायं विवृणोति । नवमे हीति । नन्वयमर्थश्चेन्नवम एव सिद्धस्तर्हि- किमर्थोऽत्र सूत्रारम्भ इत्यत आह । इति सिद्धमेवैतदिति । प्रयो- जनकथनार्थमेवात्र सूत्रारम्भो न तु तद्विचारार्थ इत्यर्थः । अ- युक्तिस्नेहमपूरणीसहितायां [अ०१पा०११०१सू०१ "धर्माख्यं विषयं वक्तुंमीमांसाया प्रयोजनम्"(१) इति । "नत्वत्र कस्य चिदेदवाक्यस्यार्थीविचार्यते"। तदप्याहुः "न चाऽत्र चोदनाव्याख्या गौरवंतत्र चोदितम्"(२)।। इति तत्सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्यति स्मिन्नर्थे वार्तिककृत्संमतिमाह । यदाहुरिति। नात्र वेदवाक्यस्या- र्थो विचार्यत इत्यत्रापि संमतिमाह । तदपीति । एतच्च प्रत्या- ख्यानपक्षे भाष्ययोजनार्थवार्तिकं । नचात्रेत्यादि । उभयव्या- ख्यायां हि यनगौरवमुक्तं न चात्र चोदना कापि व्याख्याय. ते सूत्रमपि चेन्न व्याख्यायेत निर्विषयमेव भाष्यं स्यात् अतो युक्तैव सूत्रव्याख्येत्यर्थः । अतो गौरवमयाद्यत्पत्याख्यानं तच्चो. दनाव्याख्यायामिति भावः । तस्मादर्थज्ञानार्थत्वादध्ययनस्या- र्थज्ञानस्य च विचारमन्तरेणासम्भवा दध्ययनानन्तरं धर्म- जिज्ञासा कर्तव्येत्युपपादितमर्थं निगमयति । तत्सिद्धमिति । अयमत्र सूत्रार्थः- अत्राऽथशब्दस्य चत्वारोऽर्थाः आन- न्तर्यमधिकारः पूर्वप्रकृतादर्थादर्थान्तरत्वं मङ्गलं च । तदत्र न तावदधिकारार्थः : इच्छाया अनधिकार्यत्वात् । अत आनन्तर्या- । आनन्तर्य च पूर्ववृत्ताद्वेदाध्ययनात् यतस्तस्मिन्सत्येव धर्मजिज्ञासाऽवकल्पते । वेदवाक्यगतानेकविधविचारात् । तदुक्तम्- "येन वृत्तेन जिज्ञासा विनानैवोपपद्यते । र्थः (१) श्लो. वा. श्लो. ११ । १ सुः । (२) श्लो. वा. श्लो. ६४१ सू. ।
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । तदानन्तर्यमुक्तं हि दृष्टार्थमवकल्पते ।। सङ्कल्पादिभिरप्येषा विना सत्यं न सिद्ध्यति । साधारण्यात्तु ते ऽप्यत्र नोपदेश्याः कथञ्चन ।। तस्माद्धर्मबुभुत्सायामसाधारणकारणम् । निर्वृत्तं सूत्रकारेष्टं तच्च नाध्ययनादृते"(श्लो.वा.सू.१श्लो.७०)। तथाचोक्तम्- "वेदाध्ययनमेव वेदार्थविचारात्मिकायां धर्मजिज्ञासायां दृष्टार्थ तेन विना तदनुपपत्ते"रिति । नन्वविचा- रितोपादाने बुद्धिपूर्वकमुपादानं न स्यात् अतोऽध्ययना- लागेव जिज्ञासा युक्तति । केनोक्तं बुद्धिपूर्वकमुपादत्त इति । कुमारहितषिभिः पुत्रादिभिरेवाध्ययने तस्य प्रवर्तनात् । विचा- र्याधीयानस्तु विचारस्यानेककालसाध्यत्वादध्ययनकालाति- पाताद्वात्यतामापद्येत । नन्वेवं सति “वेदमधीत्य स्नाया" दिति स्मृतिर्बाधिता स्यानेति धूमः पूर्वकालतामात्रे कापत्यय- स्मरणात् अतो वेदाध्ययनानन्तरं धर्म विचार्य स्नास्यता न पूर्वकालता बाधिता भवति । उक्तं च- “न ह्यत्राऽनन्तर्यस्य वक्ता कश्चिच्छब्दोस्ति पूर्वकालतायां का स्मर्यते नानन्तर्य"मिति (शा.भा.१मू.)। अथवा इण्गताविति गत्यर्थस्य धातोनिार्थत्वम- भिप्रेत्य वेदमर्थतो ज्ञात्वा स्नायादिति व्याख्येयम् । यथाऽऽहुः- "ग्रन्थग्रहणमात्रे च कृते स्नानं विरुक्ष्यते । अधीत्येत्यधिगम्येति व्याख्याने त्वविरोधिता"(इलो.वा.९१)। अत्रेदं वक्तव्यं अस्तु नाम पूर्वकालतामात्रे कापत्ययस्य- रणं तथापि लोके भुक्त्वा व्रजतीत्यादौ पौर्वापर्यविशेषरूपमा- नन्तर्यमेव प्रतीयते तदत्राध्ययनानन्तरमनेककालसाध्यविचारा- नुष्ठाने पौर्वापर्यमेव बाधितं स्यात् किमु वक्तव्यमानन्तर्य बा- धितमिति । अतोऽध्ययनानन्तरमेव द्वयमापतति गुरुकुलात्स- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा० ११०१सू१ मावर्तनं वेदवाक्यविचारश्चेत्यस्त्येव विरोधः । तथाऽधीत्ये- ताडोरूपे ऽस्त्येव विरोधः । इतरे हि नित्यसहचरितोऽधि- शब्द एकदेशभूतो न हि तस्य केवलस्य प्रयोगो दृष्टपूर्वः अत इडोरूपे समुदायप्रसिद्धिः इणोरूपे त्ववयवप्रसिद्धिः, सा च स- मुदायप्रसिद्धर्दुर्बला, अधीत्येति च स्वाध्यायाध्ययनाधिकारे श्रुतत्वात्तद्विषयमेवावगम्यत इति नाधिगमार्थकल्पना युक्तति । अथोच्येत गुरुकुलादनावृत्तस्यैव स्नानमात्रमेतददृष्टार्थ न सं. स्काररूपं विधीयते ऽतोगुरुगृह एवावस्थायानन्तरं विचारः कर्तव्य इति नास्ति विरोधः । तत्रोच्यते । ब्रह्मचारिणो हि न स्नायादित्यस्नानादिनियम उक्तः तस्यावध्यपेक्षायामधीत्य स्नायादिति विहितं स्नानमस्नानादिनियमनिहात्तिं लक्षयति । तत्सहचरिताश्च गुरुकुलचासादय इति तन्नित्या तेषामपि नि- त्तिर्लक्ष्यते इत्यपेक्षितार्थविधाने स्मृतेदृष्टार्थत्वमितरथाऽदृष्टार्थ स्नानविधानं स्यात् । न च दृष्टे सम्भवति तद्युक्तं यथा लोके भोजनकाले स्थलमात्रसंमार्जनोपदेशेऽपि तत्सहचरितसकलज- नोपकरणसंमार्जनोपदेश एवमत्रापीति । ननु लोके कर्मार्थ- लक्षणं श्रुतिस्मृत्योस्तु यावदुपात्तमात्रविषयत्वात्सहचरितग्रहणम- न्याय्यम् ? स्यादेतद्यद्यधीत्य स्नायादितिस्मृतिः श्रुतिमूला स्यात् , न्यायमूला त्वेषा न्यायश्च सकलब्रह्मचारिधर्मनिवृत्ती समानः । ब्रह्मचारिधर्मा हि गुरुकुलवासादयोऽध्ययनाङ्गमध्यय- नसमाप्तौ समाप्यन्ते इष्टिसमाप्ताविव व्रतमिति न्यायः । अतो- ऽस्नाननिवृत्तौ तत्सहचरितानां सर्वेषां निवृत्तिः । ननु भवतु नाम गुरुकुलनिवृत्तिरेव स्मृत्यर्थः तथापि तदुत्तरकालमध्ययन- विध्याक्षिप्तस्य विचारस्य करणान्नैव विरोधः । सत्यम् । भवे- दपि स्मृत्यनुरोधेनानन्तरं स्नानं, यदि तावन्मात्रमेव स्मर्येत किं [जिशासाधिकर०] शास्त्रदीपिकायाम् । तु स्नानोत्तरकालमपि नानाविधानि कर्माणि स्मर्यन्ते। यदि ता- न्यध्यनुरुद्ध्यन्ते ततोऽत्यन्तं वेदबाधः स्यात् । न चाविदितवे- दार्थः कर्माण्यनुष्ठातुमीष्टे ततः कियदुरमपि गत्वा ऽवश्यं स्मार्तस्य कस्य चित्पदार्थस्य बाधोऽङ्गीकर्तव्यस्तदध्ययनानन्तरं प्रथमोपनिपातिनो विरोधिनः स्नानस्यैव बाधनं युक्तम् । ननु सत्यपि विरोधे वाचनिकत्वेन स्नानस्य बलीयस्त्वान्न बाधो युक्तः धर्मजिज्ञासैव तु न्यायप्राप्ता दुर्बलत्वात् बाधितव्या। मैवम् । "स्वाध्यायोऽध्येतव्य" इति करणेतिकर्तव्यतयोर्योगपद्यविधाने- नाध्ययनविधिविरोधात्स्नायादिति स्मृतेरेव बाधः । अत एवा- ऽऽह भाष्यकार:"अतिक्रमिष्याम इममाम्नाय"(शा.भा.)मित्यादि। किञ्चैकस्य वेदवाक्यस्य बाधे स्मृतिरप्रमाणीभवति किं पुनस्स- मस्तस्यैवानर्थक्यापत्तौ । एवं च विरोधानुसारित्वाबाधस्य यन्मात्रमेव विरुद्ध्यते तद् बाधितव्यं, गुरुगृहपरित्यागमा च धर्मजिज्ञासाविरोधि । तस्मात्तावन्मात्रमेव बाधितव्यं न तु.मधु- मांसादिभक्षणमपीति न तद्वाधः । यथाऽऽहुः- "तस्माद्गुरुकुले तिष्ठन्मधुमासाद्यवर्जयन् । जिज्ञासेताविरुद्धत्वाद्धर्मामत्यवगम्यते" (श्लो.वा.१०१) ।। ननु मधुमांसादिभक्षणवदारसङ्ग्रहोऽपि विरोधाभावात्माप्नु- यात् । न । स्नात्वा भार्यामधिगच्छेदिति स्नातकस्यैव दानग्र- इणस्मरणात् सकलब्रह्मचारिधर्मनिवृत्तौ स्नातकव्यपदेशात् । तदुक्तम्- "गुरुगेहादनावृत्तः स्नातको हि न कथ्यते । तत्परत्वविधानाच न तावद्दारसङ्ग्रहः" (श्लो.वा.१०३) ।। सूत्रकारेणाऽपि योऽयमथशब्देन स्मृत्यर्थवाध उक्तः स दृष्टार्थत्वेन गुरुकुलनिवृत्त्यंशमात्रस्य नाविरुद्धस्य. मधुमांसभक्ष- ...
युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०१ णादेरिति । एतच्च मौढिमात्रेणोक्तमस्नातस्य मधुमासादिभक्षण- निषेधात् समावर्तनात्पूर्व ब्रह्मचारिव्रतपरित्यागे चावकीर्णित्वा- पत्तेः । अतो यावद्विचारसमाप्ति ब्रह्मचारित्रतयुक्तेनैव भवितव्य. मिति युक्तम् । ननु वेदमधीत्य स्नायादिति वाक्यादध्ययना- नन्तरं गुरुगृहानिवृत्त्य स्वाध्यायोऽध्येतव्य इत्यस्माच पुनः प्रविश्य धर्म जिज्ञासमानो विरोधाभावान स्मृत्यर्थ बाधेत । मैवम् । अध्ययनविधिविरोधापत्तेरकृतार्थस्य स्मृत्या निवर्तयि- तुमशक्यत्वाद्विचारसहितमध्ययनं हि विध्यर्थस्तस्मिन्ननुष्ठित एव कृतार्थो भवति अकृतार्थस्य च निर्गमो ऽदृष्टार्थस्सन्ननर्थक एव स्यात् कृतार्थस्य ह्याश्रमान्तरनिवेशाय गुरुगृहानिर्गमो दृष्ट इति । उक्तं च-- "निर्गमा हि कृतार्थस्य दृष्टार्थो गुरुवेश्मनः । स्मर्यते तस्य नार्थः स्यादकृतार्थस्य निर्गमे"(श्लोवा.१०९) । अतःशब्दोऽत्र हेत्वर्थो यस्मादधीतो वेदो धर्मजिज्ञासायां हेतुतिस्तस्मात्तदध्ययनानन्तरं धर्मोजिज्ञासितव्य इति । आ- नन्तर्योपदेशतदृष्टार्थत्वाभ्यापथशब्देनैवाध्ययनस्य जिज्ञासा प्रति हेतुत्वमुक्तं किमतश्शब्देनेति चेत् । न । आनन्तर्योपदेशाद्धि अध्ययनेन धर्मज्ञाने योग्योभवतीत्येतावदेवाथशब्देनोक्तं स्यात् न त्वनुष्टानहेतुत्वमतस्तद्वक्तुमतश्शन्द इति । यथाऽऽहुः-- "योग्यत्वमथशब्देन यद्यपि प्रतिपादितम् । तदेव हेतुरत्रेति नातःशब्दाद्विना भवेत् "(श्लो.वा.१११)। अयं श्लोकाऽभिप्रायः स्वाध्यायोऽध्येतव्य . इत्यध्ययनवि- धिरेवेतिकर्तव्यताभूतस्य धर्मविचारस्योत्पादकोऽनुष्ठापकश्च तत्रो- स्पत्तावथशब्देनाध्ययनस्य हेतुत्वमुक्तम् । दर्शितं चैतत् "तस्मिन् हि सति साऽवकल्पत"(शा.भा.) इति । भतश्शब्दोऽप्यध्ययनवि- [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । ३७ धेरेव धर्मजिज्ञासां प्रति अनुष्ठापकत्वलक्षणप्रयोजकत्वमाहेति । अकथ्यमाने तु धर्मजिज्ञासां प्रत्यध्ययनविधेरनुष्ठापकत्वे फ- लार्थताऽप्यनुष्ठापकत्वेनाशक्त सा च शूद्रेऽपि सम्भवात्त- स्यापि विचारं प्रयुञ्जीत, अतोऽध्ययनविधिरेव विचारस्य प्रयो. जक इति वक्तुमतश्शब्द इति । अथवा जिज्ञासाहेतुत्वेऽप्यध्य- यनस्याथशब्देनैव प्रतिपादिते ऽप्यध्ययनविधिप्रयुक्तोऽयं वि- चारोऽनन्तरमेव स्मृत्यर्थबाधेन कर्तव्य इत्यत्र न किञ्चित्यमा- णमित्याशङ्कायां प्रयोगवचनचोदितयोगपद्यपर्यालोचनयाऽध्य- यनस्यैव स्नानबाधं प्रति हेतुत्वमतश्शब्द आह - अध्ययनानन्तरं स्नानं न कर्तव्यं तदाक्षिप्तविचारणविरोधादिति ॥ धर्मस्य जिज्ञासा धर्मजिज्ञासा । नन्वत्र “धर्माय जिज्ञासा धर्मजिज्ञासा" इति भाष्यकार आह तत्कथं षष्ठीसमासः १ । उ- च्यते । नाऽत्र भाष्यकारस्य चतुर्थीसमासोवाभिप्रेतः किन्तु षष्ठीसमास एव चतुर्थीसमासानुपपत्तेः । यत्र हि तादर्थं च- तुर्थीसमासो भवति तत्र विकृतिरेव चतुर्थ्यन्ता प्रकृत्या समस्यते यथा यूपाय दाविति । अप्रकृतिविकारयोस्तु न समासो यथा रन्धनाय स्थाली अवहननायोलूखलमिति । अत एवाह वार्ति- ककारः "तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्य"मिति । न- चेदं सामर्थ्यपदर्शनपर अतोऽप्रकृतिविकारयोरपि यत्र सामर्थ्य तत्र समासोभवत्येव धर्मजिज्ञासापदेऽपि सामर्थ्यस्य विद्यमान- त्वाद्युक्तस्तादर्थ्यसमास इति वाच्यम् । “समर्थः पदविधि"रित्य- नेनैव सिद्धत्वात् बलिहितसुखरक्षितग्रहणानर्थक्यमसङ्गाच्च । रन्धनाय स्थालीत्यादिषु समासमसङ्गाच्च । न चाऽत्र धर्मो- जिज्ञासाविकारस्तस्मादसमासः । तदुक्तम्- "प्रकृत्या विकृतिर्यस्माचतुर्थ्यन्तात् समस्यते । स -- ३८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०१सू०१ तादर्थे यूपदार्वादौ तेनाऽस्मिन्न समासता"(इलो.वा.११८)। अतो नाऽयं चतुर्थीसमासः किन्त्वश्वघासादिवत् षष्ठीस. माप्त एव । अत एव भाष्यकारः “सा हि तस्य ज्ञातुमिच्छा' इति षष्ठयन्तेन विगृह्णाति। कथं तर्हि धर्माय जिज्ञासेति विग्रहव- चन ? नेदं विग्रहवचनं किन्तु षष्ठयर्थविशेषप्रदर्शनार्थम् । तदुक्तम् । "सा हि तस्येत्यनेनोक्तो धर्मस्येत्येष विग्रहः। धर्मायेति तु तादर्य षष्ठी वृत्तेति कथ्यते" (श्लो.वा.११९) । यदाह भट्टोंवेकः "धर्माय जिज्ञासेति विगृहीतषष्ठयर्थपरं भाष्यम् । ननु तादर्थ्यलक्षणसम्बन्धविशेषविवक्षायां तादर्थे च- तुर्युपसङ्खथानमिति चतुर्युव प्राप्नोति तत्र च समासानुपपत्तिः सम्बन्धमात्रविवक्षायान्तु तादर्थ्यकथनमसम्वद्धम् । अत्रोच्यते सूत्रकारेणाऽत्र सम्बन्धसामान्यविवक्षयैव धर्मजिज्ञासेति षष्ठी- समासः प्रयुक्तो निर्विशेषसामान्यानुपपत्तेस्तु तादर्थ्यरूपविशे- षनिष्ठता धर्मायेति भाष्येण दर्शितेति न कश्चिद्दोषः। धर्मजि- ज्ञासेत्यत्र कर्तव्येति शेषः। अत्र केचित्- न चाऽत्र ज्ञातुमिच्छा जिज्ञासा इच्छा- या अकर्तव्यत्वात् । सामान्यतो ज्ञाते विशेषजिज्ञासा विचारं विना सम्भवतीत्यन्तीतविचारजिज्ञासा- पदसामर्थ्याद्वेदाध्ययनानन्तरं तहेतुको धर्मविचारः कर्तव्य इति प्रतिज्ञासूत्रार्थस्तम्पद्यत इत्याहुस्तन्न युक्तिसहमिव । “सा हि तस्य ज्ञातुमिच्छेति" भाष्यविरोधात् । न चेच्छायाः कर्त- व्यत्वानुपपत्तिः बुभुक्षावदुपपत्तेः दृश्यते च मन्दाग्नीनामपि भेषजादिनाऽपि तत्कर्तव्यता । न चेच्छाया इच्छाविषयत्वाभा- वात्कर्तव्यत्वानुपपत्तिः मन्दाग्नीनां भोजनेच्छायामिच्छादर्श- नात् । अत एव भाष्यकारेण "धर्म जिज्ञासितुमिच्छे"दिति न [जिज्ञासाधिकर०] शास्त्रदीपिकायाम् । ३९ सा चतुर्विधा-धर्मस्वरूपप्रमाणसाधनफलैः । नन्वध्ययनविधिना वेदवाक्यार्थविचारमात्राक्षे- पाद्धर्मस्वरूपप्रमाणजिज्ञासयोः कः प्रसङ्गः ? । उच्य- ते- उपोद्धातत्वात्प्रसङ्गः, यदि हि वेदवाक्यार्थो ध- म: स्यात् वेदश्च प्रमाणं ततोऽसौ विचारः कर्तव्यो- भवति । इतरथा काकदन्तपरीक्षावत् स्यात् । तद्- ध्यनविधिरेव प्रमाणादिविचारमाक्षिपति । धर्मग्रहणं धर्मजिज्ञासां कर्तुमिच्छेदिति धर्मज्ञानेच्छानिवृत्त्यर्थं द्वितीयेच्छो- पात्ता, इच्छोपदेशेनाऽपि च कर्तव्यतोपदिष्टा भवत्येव तत्पूर्व- भावित्वादिच्छायाः । उक्तं च व्याख्यातभिः "अनुपात्तम- पीच्छारूपं सूत्रकृता मूत्रितेच्छाभिनित्यर्थ भाष्यकृतोक्तमि- च्छेदिति । तदाह "मूत्रितेच्छाभिनित्यै द्वितीयेच्छाऽत्र मूत्रिता"(इलो.वा.११७)। जिज्ञासापदस्य विचारवाचित्त्वे तु न का चिदनुपपत्तिः । एवं तावत्सूत्रार्थमुपपाद्य सम्पति सूत्रोपात्तजिज्ञासाभेदं दर्श- यति । सेति । यदाह भाष्यकार: "स कथं जिज्ञासितव्यः ? को धर्मः ? कथं लक्षणकः ? कान्यस्य साधनानि ? कानि साधनाभासानि ? किंफलश्चेति ? । साधनाभासशब्दश्चात्र वार्तिककारैर्व्याख्यातः । तथाहि- "अन्यसाधनमन्यस्य साधनाभास उच्यते । क्रत्वर्थ पुरुषार्थस्य तदर्थ च क्रतो"रिति (श्लो.वा.१२२)। प्रसङ्गाभावादाचं जिज्ञासाद्वयमाक्षिपति । नन्विति । स. माधत्ते । उच्यते इति । उपोद्घातत्वं विवृणोति । यदीति । प्रसङ्गादधर्मजिज्ञासामप्युपक्षिपति । धर्मेति । एतस्य प्रतिज्ञामू- त्रत्वेऽपि ग्रन्थान्तरोक्तरीत्याधिकरणमेवं व्याख्येयम् । तथाहि- - - युक्तिस्नेहपूरणीसहितायां [अ०१पा०११०१सू०१ चोपलक्षणार्थम्- अधर्मस्यापि हानाय जिज्ञास्यत्वात्। अकारप्रश्लेषेण वा सूत्रमधर्मजिज्ञासायामपि व्याख्ये- यमिति निरवद्यम् । "स्वाध्यायोऽध्येतव्य इत्यस्य विधानस्य प्रयुक्तितः । विचारशास्त्रं नारभ्यमारभ्यं वेति संशयः ॥ अर्थधीहेतुताऽधीतेलॊकसिद्धाऽवधातवत् । नियामकं न चैवातो वैधारम्भो न सम्भवी ।। दर्शापूर्ववदस्त्यत्र क्रत्वपूर्व नियामकम् । अर्थनिर्णायक शास्त्रमत आरभ्यतां विधेः" इति ।। ननु प्रसिद्धश्चेद्धर्मो न जिज्ञास्यः प्रसिद्ध ज्ञानेच्छाऽभा- धात् । अथाप्रसिद्धो न तरां । तदेतदनर्थकं धर्मजिज्ञासापक- रणम् । उक्तं च-- "प्रसिद्धः शक्यते ज्ञातुं प्रसिद्धत्वात्तु नेष्यते । अप्रसिद्धस्त्वशक्यत्वात् न तरामित्यतोऽब्रवीत्"(श्लो.वा.१२४)। उच्यते । सन्दिग्धत्त्वं सप्रयोजनत्वं च विचाराक्षेपे का- रणद्वयमुक्तं, धर्मश्च तथा, तस्मादयमपि जिज्ञास्यः । के चिच्चै- त्यवन्दनादिकं धर्ममामनन्ति, अपरे ऽग्निहोत्रादिरूपं, तत्र वि- चारं विनैव प्रवर्तमानो यं कश्चिदेवोपाददानो विहन्येतानर्थ च प्राप्नुयात् । निःश्रेयससाधनत्वाच्च सप्रयोजनवं धर्मस्य सकलजनसिद्धं तस्माद्धर्मो जिज्ञास्य इति । तदुक्तम्- "जिज्ञास्यः संशयाद्धर्मः श्रेयस्करतयापि च । असन्दिग्धोडजिज्ञास्यो यो वा स्यानिष्पयोजनः"(इलो.वा.१२५)। अतस्तनिर्णयार्थ शास्त्रमारब्धव्यम् । एवमथातोधर्मजिज्ञासेत्यनेन शास्त्रारम्भमुपपायेदानीं शा- १ जैमिनीयन्यायमाला १ अ०१ पा० १ अ० । -- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । (द्वितीयं धर्मलक्षणाधिकरणम् ) सू• चोदनालक्षणोऽर्थो धर्मः* ॥ २ ॥ प्रथमं तावत्को धर्मः ? कथं लक्षणकः ? इत्येतद्- दयमनेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते-यो धर्मः स चोदनालक्षणः चोदनैव तस्य लक्षणं प्रमाणं चोदना च तस्य लक्षणमेवेति श्रुत्या प्रमाणविधावांचोदना- गम्य एवाग्निहोत्रादिधर्मो नातल्लक्षणश्चैत्यबन्दनादि. रिति स्वरूपमपि सिद्ध्यति । तथा यश्चोदनालक्षणः स धर्म इति स्वरूपविधावर्थात् प्रमाणसिद्धिर्वेदि- तब्या। स्त्रमारभते । “चोदनालक्षणोऽर्थो धर्म" इति । सूत्रतात्पर्यमाह । प्रथममिति । एतद्वयं धर्मस्य स्वरूपं प्रमाणं चेत्यर्थः । किं श्रु- त्या किं चाऽर्थागम्यत इत्याकाङ्क्षायां वचनव्यक्तिभेदेन तद्द- शयति । यो धर्म इति । ननु स्वरूपविशेषेऽपेक्षिते प्रमाणविशे- षविधानमसङ्गतमित्यत आह । स्वरूपमपीति । धर्मपदार्थस्येदं प्रमाणमित्युक्ते प्रमाणायत्तत्वात्पमेयसिद्धेरादिदमुक्तं भवति । यच्चोदनाप्रवेदितं तद्धर्मस्वरूपमिति । ननु यदि प्रमाणान्तरा- नवगम्यो धर्मः कथमनूद्यते अप्रमाणसिद्धस्यानुवादासम्भवात् । प्रमाणान्तरमयेयत्वे तु चोदनैव प्रमाणमेवेति विधानं विरुद्धय- ते । सामान्यतः सिद्धस्यानुवाद इति चेत् । न । निर्मूलाया- स्सामान्यसिद्धरसंभवात् । लोकप्रसिद्धिमूलमिति चेत् । प्रत्य- क्षादिप्रमाणातिरिक्ताया लोकप्रसिद्धरसम्भवात् विचित्रानेक- प्रकारत्वाच लोकप्रसिद्ध नै तया धर्मसिद्धिः । नाप्यर्थापत्तिः * चोदनैव लक्षणं प्रमाणं यस्य स्वरूपाधिगमे सोऽर्थः-बलव- निष्टाननुबन्धीष्टसाधनं धर्म इति सूत्रार्थः।
४२ युक्तिनेहमपूरणीसाहितायां [अ०१पा०११०२सूर कश्चित्त्वाह-कार्यरूपो वेदार्थो न सिद्धरूप इ- जगद्वैचित्र्यस्य स्वभावादेवोपपत्तेः । प्रमाणान्तरसिद्धे च वस्तु- नि चोदनाया अनुवादकत्वापत्तेः । धर्मानुवादेन चोदना- प्रमाणविधौ चार्थपदस्यानन्वयप्रसङ्गः । नहि तदाऽनर्थस्य ध. मत्वं प्राप्तं यन्निवत्येत । नाऽपि सामान्यतो धर्मे चोदना प्रमा- णत्वेन विधातुं शक्यते तस्याः शब्दान्तरावसितभेदाग्निहोत्रा- दिधर्मविशेषविषयत्वात् । अत्रोच्यते । ज्योतिष्ठोमादयस्तावरिक्र- याविशेषा धर्मत्वेन कार्यतया स्मर्यन्ते । वक्ष्यति च “यो यागम- नुतिष्ठति तं धार्मिकमिति हि समाचक्षते (शा. भा.)।तत्र निर्मूल- मेवेदं स्मरणमिति चार्वाकाः । योगिप्रत्यक्षमूलमिति वैशेषिका- दयः। एवं चानेकधा मूलविप्रतिपत्तौ प्रत्यक्षाद्यनुप्रवेशव्यवच्छेदेन चोदना प्रमाणत्वेन प्रतिज्ञायते "चोदनैव तत्र प्रमाण"मिति । चोदनाया एव विधानान्नात्र प्रमाणान्तरसिद्धता सम्भवति अतो यथा मन्वादिस्मरणप्रतिभासिन्यष्टकादौ चोदना मूलमिति वक्ष्यति तथेहापि च द्रष्टव्यम् । मूलविशेषानवधारणाभिमायं चैतत् वार्तिकम् - "धर्म सामान्यतः सिद्धे प्रमाणं चोदनोच्यत' ( श्लो. वा. सू. २) इति । न चाऽर्थपदानन्वयः एतद्वचनव्यक्तिसाधनत्वेनार्थवत्वात् अर्थपदाभावे हि यश्चोदनालक्षणस्त धर्म इति वचनव्यक्तिः सम्भाव्येत । अस्यां च श्येनादेरनर्थस्यापि धर्मत्वमापद्यत चो- दनालक्षणत्वात् नित्यानुवादभूते त्वर्थग्रहणे नेयं वचनव्यक्तिः सम्भवति ॥ प्रसङ्गादेकदेशिकृतं. सूत्रार्थवर्णनं दूषयितुमुपन्यस्यति- कश्चित्विति । कथमनेन सूत्रेणाऽयमर्थ उच्यते ऽत आह -- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ४३ त्येतदनेन सूत्रेणोच्यते, चोदनालक्षणशब्देन कार्य- मुच्यते, धर्मशब्देन वेदार्थ इति । तयुक्तम्-यानि तावद्विधिवाक्यानि तेषां वि- धावेव प्रामाण्यं वस्तुस्वरूपे चाऽप्रामाण्यं विस्पष्टमेवे- ति न तत्र किश्चिद्वक्तव्यम् । क्षेपिष्ठादिवाक्यानामपि विध्येकवाक्यतया तत्रैव प्रामाण्यम् । मन्त्राणामपि प्रकरणेन प्रधानविधिशेषत्वं द्वितीयपादे वक्ष्यत इति न तत्रापि किञ्चिद्वक्तव्यमस्ति । तेन कस्याऽत्र सि- द्धार्थतां निरस्य कार्यार्थतोच्यते ? । अविनाशी वा अरे अयमात्मा" इत्यादीनामुपनिषदाक्यानामिति चेत् ? न, तेषामपि यदि विध्येकवाक्यत्वमस्ति ततो- ऽर्थवादाधिकरणेन गतम्, अथ नास्ति ? कथं तेषां कार्यार्थता स्यात् ?1 अथ तेषां विध्यश्रवणाद्विध्यन्तरेणैकवाक्यत्वा- भावाच कार्यार्थत्वानुपपत्तेव्युत्पत्तिविरहाच्च सिद्धार्थे प्रामाण्याऽयोगाप्रामाण्यमेवाभिमतम् ? । किमिदा- नीमात्मादिवाक्यानामप्रामाण्यप्रतिपादनपरमिदं स्मू- ब्रम् ? सुव्याहृतं तर्हि शास्त्रारम्भे प्रथमं तावत्सूत्र- कारोऽप्रामाण्यमेव वेदवाक्यानां प्रतिपादयतीति । कथं च कार्ये एव प्रामाण्यम् ? । तत्रैव व्युत्पत्तेः- ? चोदनेति । दूषयति । तदिति । गूढाभिप्रायमाशय निराक- रोति । अथेति । येषां कार्यार्थत्वानुपपत्तिस्तेषामप्रामाण्यमेव सूत्रकारस्याभिमतमिति भावः । एतदेव दूषयितुं पृच्छति । कथमिति । उत्तरमाह । तत्रैवेति । व्युत्पत्तेः- सङ्केतग्रहात् ।
४४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ प्रवृत्त्यधीना हिव्युत्पत्तिः, सा च कार्यावगमाधीनेति व्युत्पत्तिरपि तत्रैव भवतीति चेत् ? नावश्यं प्रवृत्त्य- धीनैव व्युत्पत्तिः-काष्ठैः स्थाल्यामोदनं पचतीत्या- दिवर्तमानापदेशेष्वपि प्रसिद्धतृतीयार्थानामप्रसिद्ध- काष्ठप्रातिपदिकार्थानां च पुरुषाणां काष्टार्थे व्युत्प- त्तिदर्शनात् । अथ प्रथमव्युत्पत्तिः कार्यविषयैव-नहि तदा शब्दान्तरवशेन शब्दान्तरस्याऽर्थे व्युत्पत्तिः सम्भ- वति सर्वस्य धर्मस्थाऽप्रसिद्धत्वादिति चेत् १ । अस्त्वे- वम् , तथापि पश्चाबहुशः सिद्धार्थे शब्दप्रयोगदर्शना- त् कोऽयं राजा ? पाञ्चाल इत्यादिषुः प्रश्नप्रतिवच. नादिषु कार्यस्य व्यभिचारादव्यभिचार्यर्थमात्रं वा- च्यमिति सुज्ञानम् । यथैव हि कस्यां चियक्तौ प्रथम गोशब्दस्य प्रयोगदर्शनात् सैव वाच्येत्यवगमे सत्यपि पश्चायत्यन्तरे प्रयोगं दृष्ट्वा पूर्वव्यक्तिव्यभिचाराद- व्यभिचारिसामान्यमेवार्थ इत्यध्यवसीयते तथा का- थपरतामवगतामपि पश्चात्सिद्धार्थप्रयोगदर्शनेन बा- धित्वार्थमानमेवाव्यभिचारादाच्यामिति युक्तम् । किश्च प्रथमव्युत्पत्तौ कतिपयानामेव शब्दानां कार्यार्थत्वमवगतं न सर्वशब्दान:मतः पञ्चाव्युत्पा- द्यमानस्य काष्टादेः सिद्धार्थे व्युत्पत्तिः केन वार्यते । न च व्युत्पत्तौ शब्दानां पौर्वापर्यनियमोऽस्ति, अतः एतदेवोपपादयति । प्रवृत्त्यधीनेति । उत्तरं निराकरोतिः । ना- ऽवश्यमिति , । विशेषं शङ्कते । प्रथमेति । परिहरति । आस्त्वि- ति । इतश्च न कार्य. एव प्रथमव्युत्पत्तिरित्याह- किं चेति ।
शक्योऽवगन्तुम्- [धर्मलक्षणाधिकर०) शाखदीपिकायाम् । सर्वे शब्दाः पञ्चाद्व्युत्पाद्यमानाः कैश्चित्सिद्धार्था भवन्ति । सर्वेषां तु कार्यार्थत्वे सिद्धार्थपरेषु लौकिक- वाक्येषु सर्वशब्दानां लाक्षणिकत्वान्न कश्चिदन्विता- भिधायी स्यात् । तत्राऽन्वितप्रतीतिः कथं सिद्ध्येत् । वक्तृज्ञानानुमानादिति चेत् ? न, यद्विषयं हि वाक्यं तद्विषयमेव वक्तृज्ञानमनुमातव्यम् । न चान्वितप्रति- पादकं वाक्यमुच्चारितमिति कथमन्वितज्ञानानुमानम् । अथार्थस्वरूपस्मारकैः पदैरन्वितज्ञानमनुमीयते !, ततः कार्यवाचकेऽप्यासिद्धरन्विताभिधानं न स्यात् । किञ्च प्रथममेव कार्यव्यभिचारः यदा हि पुत्रस्ते जात इत्युक्तस्य कस्य चिन्मुख विकास पावस्थः पश्यति तदा हर्षहेतुरनेन शब्देन प्रतिपा- दित इति हर्षहेतुभूतसिद्धार्थप्रतिपादने शब्दस्य सामर्थ्य कल्पयति । यद्यपि च तदानीमर्थविशेषो न ज्ञायते हर्ष- हेतूनां बहूनां सम्भवात्। तथापि सिद्धार्थता तावद्व गता, तावतापि कार्ये व्याभिचारः सिद्धः । किं च बहुशः पुत्रजनने सति एवं शब्दप्रयोगादऽन्येषु हर्षहे- तुष्वप्रयोगात् पुत्रजननरूपार्थविशेषोऽपि सुज्ञान एव । किं च प्रवृत्त्यधीनापि व्युत्पत्तिर्नावश्यं कार्यवि- षयैव भवति, तथा हि-यदा. कश्चित् प्रवृत्तावऽत्य- न्तासमर्थ वृद्धमाऽऽतुरं वा प्रति विनोदार्थ वाक्यं प्रयुङ्क्ते 'नद्यास्तीरे पञ्च फलानि सन्ति' इति, तत्रान्यो देवसङ्गतः कश्चिदर्थी तद्वाक्यमर्थाच्छुत्वा नदीतीरं ग- त्वा फलान्याहरति, एतत्सर्वं पश्यन्नन्यो व्युत्पित्सुः (१) ध्वपिसिद्धेरिति पु० पा० ।
युक्तिस्नेहप्रपूरणीसाहितायां [अ०१पा०११०२सू०२ फलसद्भावप्रतिपादने शब्दस्य सामर्थ्य व्युत्पद्यते, त- स्मान्नैकान्ततः कार्यार्थता शब्दानाम् । का चास्य सूत्रस्य वचनव्यक्तिः? यदि तावद् 'य- कार्य तवेदार्थ एव' इति कार्यमुद्दिश्य वेदार्थता वि- धीयते, तथा सति-उद्देश्यस्योपादेयेन स्वरसनिय- मात्सर्वस्य लौकिकस्थापि गवानयनादिकार्यस्य वेदा- र्थता स्यात् । किं चोपादेयस्य वेदार्थस्योद्देश्येन कार्य- रूपेणाग्नोरिव धूमेनाव्यातेरऽकार्यपि वेदस्य प्रामाण्य- मनिरस्तं स्यात् । अथ 'यो वेदार्थः स कार्यरूप एव' इति' ततो यो धर्मः स चोदनालक्षण इति वचनव्यक्तिः स्यात्, त- प्रार्थशब्दोऽभ्युदयवाची कस्य विशेषणम् ?, यापा- देयस्य चोदनालक्षणपदार्थस्य ? ततः सर्वस्य वेदार्थस्य कार्यत्वमर्थत्वं च विधीयते इति श्येनादिनियोगाना- मप्यर्थत्वं स्यात् । अथोद्देश्यवेदार्थविशेषणम् ?, ततोऽयमों भवति- योऽर्थात्मक:-अभ्युदयात्मको वेदार्थः स कार्यरूपः, ततश्च इयेनादिनियोगानां निषिद्धफलत्वेनाऽनभ्युद- यरूपाणां कार्यता न स्यात् । दूषणमुपसंहरति । तस्मादिति । वचनव्यक्त्यसम्भवेनापि त- तयाख्यानं दूषयति । का चेति । तत इति । सूत्रगतधर्मश- ब्दस्य वेदार्थपरत्वादेवं वचनव्यक्तिः पर्यवस्यतीत्यर्थः । ततः किमतआह । तत्रेति । अभ्युदयः प्रयोजनम् । श्येनादीना- मपि वेदार्थत्वेनाद्देश्यत्वात्तत्राऽप्यर्थत्वं विधेयमित्यर्थः । ततश्चे- ति । योऽर्थरूपो वेदार्थस्तस्यैव कार्यताविधानादिति, भावः । ?
धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । मा भूदिति चेत् ? न, तेषामपि लिङा कार्यता- ऽवगमात् । श्येनयागस्य कार्यता निवारयितुं शक्यते न नियोगस्य, तस्य कार्यैकस्वभावत्वात् । असति च कार्यत्वे श्येनवाक्यस्य कार्यार्थत्वाऽभावात् सिद्धार्थ- तैव वक्तव्या स्यात्, न च तथा सम्भवति विधिप्रत्य- ययोगात् । सिद्धे चार्थे व्युत्पत्तिविरहादप्रामाण्यमेव श्येनादिवाक्यानां स्यात् । अथ पूर्वसूत्रावेदार्थपरं धर्मपदमनुष्यज्य 'चोदना- लक्षणो वेदार्थः' इत्येकं वाक्यम् 'अर्थो धर्मः' इत्यपरं वाक्यम् । तदिदं स्वप्रज्ञाविलसितमात्रम् , अनुषङ्गदा- क्यभेदयोर्विना फलमाश्रयणात् । अप्रतिज्ञातस्य च धर्मस्य लक्षणमसङ्गतम् । अथ प्रतिज्ञातस्यैव वेदार्थस्य कार्यत्वसिद्धये धर्म- त्वमुच्यते ?। किं कार्य एव धर्मरूपो वेदार्थः स एव जिज्ञास्यो नान्यः ?, तथा चेत् ? य एव जिज्ञास्यो ध- मस्तस्यैव सूत्राक्षराविनाशेन जिज्ञासा प्रतिज्ञातव्ये. ति वेदार्थप्रतिज्ञावचनमर्थकम् । इष्टापत्तिं शङ्कते । मा भूदिति । तेषामपीति । श्येनादिनियो. गानामपीत्यर्थः । कार्यत्वानङ्गीकारे दोषमाह। असतीति । सिद्धे चेति । तन्मते व्युत्पत्तिविरहादित्यर्थः । प्रकारान्तरेणाशन निराकरोति । अथेति । प्रतिज्ञातस्येति । प्रतिज्ञासूत्रगतधर्म- पदस्य वेदार्थपरत्वात् वेदार्थस्यैव तत्र प्रतिज्ञा न धर्मस्येति भावः । धर्मत्वमुच्यत इति । धर्मशब्देन प्रतिज्ञातं वेदार्थमुद्दिश्य चोदनालक्षणशब्देन तस्य कार्यत्व उक्त कस्मात्कार्य इत्यपे- भायां तस्य कार्यत्वसिद्धयेऽर्थपदेन धर्मत्वमुच्यत इत्यर्थः .४८ युक्तिस्नेहप्रपूरणीसहितायां [अ०२पा०अ०२सू०२ अथ त्वर्थशब्दमनादृत्य यो वेदार्थः स कार्य रूप इत्युच्यते ?, ततोर्थपदमनर्थकं वस्तुमानपर्यायमनुवा- दकं स्यात् । अनर्थव्युदासार्थता चास्य भाष्यकारेणो. क्ता, तस्माविशेषणनेवैतत् । विशेषणत्वे चाभ्युद- यरूपस्य वेदार्थस्य कार्यत्वाभिधानादऽनभ्युदयरूपस्य वेदार्थस्य कार्यत्वं न स्यादिति सर्वस्य वेदस्य कार्य एव प्रामाण्यामिति नियमो न स्यात् । ततश्च “अधि- नाशी वा अरे अयमात्मा " इत्यादीनामात्मस्वरूपप- रत्वं न निराकर्तव्यमित्यास्तां तावत् । तस्माद्धर्भस्व- रूपप्रमाणप्रतिपादनार्थमेवेदं सूत्रम् । तदिह धर्म विषयीकृत्य चिन्त्यते-किमस्य न किं चित् प्रमाणमस्ति ? किं वा प्रत्यक्षादिकमेव प्रमाणम् ? उत चोदनैव ? अथ वा विकल्पः ? अथ वा समुच्चय ? आद्य इति । धर्मरूपो वेदार्थो जिज्ञास्य इत्यत्र धर्मस्यार्थत्वात्स एव जिज्ञास्य एवं च सूत्राक्षरविनाशो न भवति वेदार्थपरत्वे तु धर्मपदस्य तद्विनाश इत्यर्थः । आनर्थक्याङ्गीकारे च भा- ष्यविरोध इत्याह । अनर्थेति । ततश्चेति । नियमाभाव इत्यर्थः । अतोऽस्मदुक्त एव सूत्रार्थो युक्त इत्याह । तस्मादिति । उक्तं च- "द्वयमेकेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते" । स्वरूपेऽपि हि तस्योक्ते प्रमाणं कथ्यतेऽर्थतः''(श्लो. वा.२) एवं तावत्सूत्रतात्पर्यमुक्त्वा सम्प्रति सूत्रमूचितं विचार- स्वरूपं दर्शयति । तदिहेति । ननु प्रतिज्ञासूत्रेऽनुपपन्नोयं विचा- रः पुनरुक्तश्च सदौत्पत्तिकसूत्राभ्यामस्यार्थस्य वक्ष्यमाणत्वात् । नापि प्रतिज्ञोपपचिः। सम्भवदर्थविषयं हि वाक्यं प्रतिज्ञोच्यते। न बासमर्थः सम्भवति यत्प्रत्यक्षायोग्य वस्तु तत्र वाक्यं प्रमाणमिति।
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् ४९ इति । तत्र शब्दस्य प्रमाणान्तरप्राप्तमापकत्वेन स्वय- मप्रमाणत्वात् प्रत्यक्षादीनां चाऽसामादप्रमाणको धर्म इत्येकः पक्षः, प्रत्यक्षादिगम्य एवेत्येकः पक्षः, योगिनां प्रत्यक्षगम्यः, अर्चाचीनानां तु चोदनागम्य इत्यपरः, जगदैचित्र्यार्थापत्त्या किमप्यदृष्टमस्तीति सामान्येन प्रसिद्धो धर्मश्चोदनयाऽग्निहोत्रादिविशेष- रूपेण गम्यते तस्मात्समुच्चय इति पक्षान्तरम्, चो- दनैव सा च प्रमाणभेवेति सिद्धान्तः । तदिह चोद- नैव प्रमाणं सा च प्रमाणमेवेत्यवधारणद्वयंप्रतिज्ञायते । निमित्तसूत्रे तु प्रथमद्वितीयसूत्रमात्रालोचनया वेदो धर्ममूलमित्यादिवदुपदेशशास्त्रताशङ्का मा भू- दिति परीक्षाशास्त्रमेवेदमिति ज्ञापयितुं परीक्षाप्र. तिज्ञानम् । यद्यपि चोपरितनव्यापारादेव परीक्षाशा- स्त्रत्वं गम्यते तथापि वक्ष्यमाणमेव श्रोतृबुद्धिसमा- धानाय कीर्तितम् । प्रत्यक्षसूत्रे तु प्रत्यक्षस्य विद्यमानोपलम्भनत्वाद् भविष्यति धर्म प्रामाण्याऽसंभवात् तत्पूर्वकत्वेनेत- रेषामप्यप्रामाण्यात् प्रमाणान्तर-नियम-विकल्प- -------- उच्यते । वक्ष्यमाणोऽप्यर्थः प्रतिज्ञासमर्थनार्थमत्रोच्यमानो न दुष्यति । नचात्र पूर्वपक्षयुक्तय उक्ताः विचारस्वरूपमात्रकथना- त् । सम्भवदर्थविषयत्वं चाग्र एवोपपादयिष्यति । आचं विवृणोति । तत्रेति । एवं सूत्रसूचितं विचारं समिप्य सूत्रा- र्थमुपसंहरति । तदिहेति । इदानीमुत्तरसूत्राणि सङ्गमयन् भा- प्यकारमतेन तावदेतत्पादगतपदार्थाननुक्रामति । निमित्तेति ।
- ५० युक्तिस्नेहपूरणीसहितायां [अ०१पा०१अ०२सू०२ समुच्चयनिराकरणाचोदनैवेत्ययमर्थः सिद्ध्यति । औत्पत्तिकसूत्रे तु स्वतः प्रामाण्यमऽर्थान्यथात्व- कारणदोषज्ञानाभ्याम ऽप्रामाण्यमित्याश्रित्याग्निहोत्रा- दिचोदनाभ्योऽसंदिग्धज्ञानोत्पत्तेः स्वतः प्रामाण्यं प्रा- सम् । न चापवादकमान्यथात्वज्ञानं साक्षादस्ति, नापि कारणदोषज्ञानम्, पुरुषाश्रयत्वाच्छब्दोषाणा. म् । पदपदार्थसंबन्धस्याऽकृत्रिमत्वात् तद्वारेण पु- रुषानुप्रवेशाभावाचोदनानामिति स्थिते- 'शब्दस्यैवानित्यत्वात् कुतः सम्बन्धानत्यता(इलो'.वा.) इत्याक्षिप्य शब्दस्य नित्य नया शब्दाधिकरणे स- म्बन्धनित्यत्वे समाहिते, मा भूत् पदपदार्थसम्बन्धद्वा- रेण पुरुषानुप्रवेशः, वाक्यवाक्यायोस्तु लोके स म्बन्धादर्शनान्निमूलोऽग्निहोत्रादिवाक्यार्थप्रत्यय इत्य- तो व्यामोहः सामयिको वा। अतो न वाक्यार्थे वेद- स्य प्रामाण्यमित्याशय, पदार्थानां सम्बन्धग्रहणं स- मयं चानपेक्षमाणानामेव वाक्यार्थे प्रामाण्यं सम्भ- वतीति तद्भूताधिकरणेन प्रतिपादिते- पुनर्वेदानां वाक्यात्मकत्वात् काठकादिसमाख्या- नाच पौरुषेयत्वात् तद्वारेण दोषसंस्पर्शमाशय-स्म- तव्यत्वे सत्यऽस्मरणाद् योग्यानुपलब्धिनिरस्तस्य कर्तुरनुमानासम्भवात् समाख्यायाश्च प्रवचननि- मित्तत्वादऽपौरुषेया वेदाः इति तदेकदेशानां चोदना- नां सिद्धं प्रामाण्यमित्येवं समस्तः प्रथमः पादश्चोदना- सूत्रप्रतिज्ञातार्थोपपादनेन तस्यैव परिकरः । सोऽयं- भाष्यकारानुसारेण पादार्थोऽनुकान्तः। वृत्तिकारमतं - [धर्मलक्षणाधिकर०] . शास्त्रदीपिकायाम् । ५१ तु पश्चादनुक्रमिष्यामः । प्रकृतमनुसरामः-प्रतिज्ञातं तावच्चोदनैव प्रमाणं सा च प्रमाणमेवेति । ननु प्रत्यक्षादेरन्यानपेक्षं प्रामाण्यं सम्भवतीति तस्यैव धर्मे प्रामाण्यम्, शब्दस्य तु सर्वदैव प्रमाणा- न्तरप्रमितविषयत्वान्न तदनपेक्षं प्रामाण्यं सम्भवती- ति, उच्यते-प्रत्यक्षं तावत्संयुक्तविषयत्वेन विद्यमा- नोपलम्भनत्वाद्भविष्यति धर्मे न समर्थम् । यद्यपि गोदोहनादिद्रव्यम्, यागादिक्रिया, नीचै- स्त्वादिगुणश्च, फलसाधनत्वाद् धर्मशब्देनोच्यते ना- ऽपूर्वाद्य इति श्रेयस्करभाष्ये वक्ष्यते, तथापि तेषां फलसाधनरूपेण धर्मत्वात् फलस्य च जन्मान्तरादि- भावित्वाद् धर्मस्वरूपेण प्रत्यक्षविषयत्वं न सम्भव- ति, तत्पूर्वकत्वाचानुमानादिकमपि न प्रमाणम् । ग्रन्थो निगदव्याख्यातः। प्रतिज्ञातार्थमुपपादयितुमाह । प्रकृत- मिति । शब्दस्येति । यथाहुः- "प्रमाणान्तरदृष्टं हि शब्दोऽर्थ प्रापयेत्सदा । स्मृतिवञ्च स्वयं तस्य प्रामाण्यं नोपपद्यते" ( श्लो. का. २२) इति । ननु फलसाधनस्य द्रव्यादेरेव धर्मत्वाङ्गीकारात्तेषां चैन्द्रिय- कत्वात्कथं न धर्मस्य प्रत्यक्षविषयत्वमित्याशय निराकरोति । यद्यपीतिय एव श्रेयस्करः स एव धर्मशब्देनोच्यते । कथमवग- म्यते? योहि यागमनुतिष्टति तं धार्मिकमिति हि समाचक्षते यश्च यस्य कर्ता स तेन व्यपदिश्यते । यथा पाचको लावक इति । तेन यापुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते। न केवलं लोके वेदे ऽपि- ? युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ भावनाबलजं तु योगिप्रत्यक्षं भविष्यत्यपि ध- में समर्थमिति मनोरथमात्रम् । भावना झनुभूतगोच- रनियताऽनुभूतेष्वेव निश्चयरूपां स्मृतिं जनयेत् । न च सात्र प्रमाणं स्मातत्वादेव, नतरां प्रत्यक्षमनिन्द्रिय- जत्वात् । नेन्द्रियजत्त्वं प्रत्यक्षलक्षणम्, अपि तु क- ल्पनापोढत्वाम तिचेत् ? सुतरां धर्मस्याऽप्रत्यक्षत्वं फलसाधनरूपस्याविकल्पग्रहणासम्भवात् । तस्माद- निमित्तं प्रत्यक्षम् । तत्पूर्वकत्वाच्चानुमानाद्यपि । काश्यपीयाः पुनः प्रातिभज्ञानमृषीणां धर्मे प्रव- तत इत्याहुः, तत्तु लिङ्गाद्याभासजत्वात् प्रमाणमेव न भवति किं पुनर्धर्मे, । शब्दस्य तु बुद्धिजनकत्वा- "यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यास"निति यजतिशब्दवाच्यमेव धर्म समामनन्तीति श्रेयस्करभाष्ये वक्ष्यत इत्यर्थः । तथापीति। "द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ।। श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण तु धर्मत्वं तस्मान्नेन्द्रियगोचरः" (श्लो. वा. १४)। भावनेति । योगाभ्यासजनितः संस्कारविशेषो भावना तज्जनितं तु ज्ञानं स्मृतिरूपमेव भवतीत्यर्थः । बाह्यमतेन शङ्क ते। नेन्द्रियेति । कल्पनेति । नामजात्यादियोजनारहितत्वमित्य- र्थः। अविकल्पेति । फलसाधनत्वेन रूपेण धर्मत्वं नचतेन रूपेण निर्विकल्पकेन ग्रहणं सम्भवति वस्तुस्वरूपमात्रावगाहित्वात् तस्येत्यर्थः । प्रातिभमिति । प्रतिभा-धर्मविशेषस्तज्जन्यमित्यर्थः । तचिति। तत्तु प्रमाणमेव न भवति किं पुनर्धर्म इति सम्बन्धः।
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । दसत्यऽपवादे युक्तं प्रामाण्यम् । ननु न बुद्धिजननमात्रात् प्रामाण्यं युक्तम्, अय- थार्थेष्वपि वाक्येषु बुद्धिजननाविशेषात् । सत्यम्। तत्र तु कारणदोषबाधकप्रत्ययाभ्यां युक्तमप्रामाण्यं वेदे तु तद्भावात् स्वतः प्राप्तं प्रामाण्यमऽनपोदितं भवति। यादृच्छिकत्वेन लिङ्गाद्याभासकल्पत्वादित्यर्थः । शब्दस्य तु धर्मे युक्तं प्रामाण्यं सम्भाव्यमानत्वात् अर्थगोचरशक्तिर्हि प्र- माणानां प्रामाण्यं सा च शब्दे सम्भवति । यत:- "अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि" इत्यन्तासत्यपि गगनकुसुमसंसर्गादौ स धियमुपजनयिष्यती- त्यर्थः । नन्वेवं सति तद्वदेवापामाण्यमापद्यते बुद्धिजनकत्वाविशे- षात् एवञ्च प्रामाण्यं साधयतोऽप्रामाण्यमापतितमित्यभिप्रायेण शङ्कते । नन्विति । परिहरति । सत्यमिति । अयमाशयः । उत्स- गोहि ज्ञानजननेन प्रामाण्यं तत्पौरुषेयेषु वन्ध्यामुतोयातीत्यादिषु दोषादपोद्येतापि, अपौरुषेयेतु शब्दे पुंदोषाभावात् स्वयमदु- तृत्वाच्च प्रमाणतैवानपोदिता सेत्स्यतीति । यथाहुः- "अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि । तेनोत्सर्गेस्थिते तस्य दोषाभावात्प्रमाणता" (श्लो.वा. ६)। उक्तश्चान्यैः-- "प्रमाणं भ्रमः संशयः स्मरणं सं- म्वाद इति पञ्चधा ज्ञानं विभजामहे तस्मात्सर्वमेव शाब्दमर्थगो- चरं प्रमाणप्रमाणश्च, दोषसदसद्भावनिबन्धनश्च णेतरविभागः प्रत्यक्षादिवदेवे"ति । ननु चोदनाप्रामाण्यसद- सद्भावविचाराधिकारे तत्मामाण्याक्षेपपरिहारप्रातसमाधाने वक्तव्ये सर्वविज्ञानप्रामाण्यप्रतिज्ञावचनमसम्बद्धमप्रस्तुताभिधा- भया- ५४ . युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०२सू०२ कथं पुनः प्रामाण्यस्य स्वतः प्राप्तिः ? । तदर्थमिदं सर्वज्ञानान्यधिकृत्य चिन्त्यते-किं प्रामाण्यमप्रामाण्यं चोभयं स्वत एवावगम्यते ?, अथ वाऽन्यतरदपि स्व- भावेनाऽनिरूपितं कारणगुणदोषप्रत्ययाभ्यामवगम्य. ते ?, आहोस्विदप्रामाण्यं स्वतोऽवगम्यते प्रामाण्यं कारणगुणज्ञानात् संवादज्ञानादर्थक्रियाज्ञानाद्वाऽव धार्थते ?, उत प्रामाण्यं स्वतः प्राप्तं सर्थान्यथात्व- कारणदोषज्ञानाभ्यामवगम्यमानेनाऽप्रामाण्येनाऽपोद्य- ते ! इति। तत्र सर्वकारणानां स्वकार्यशक्तेः स्वाभाविकत्वा- दुभयमपि ज्ञानस्थ स्वरसादेवावगम्यते इति केचित्, नादित्याशक्य चोदनापामाण्यसिद्ध्यर्थमेव सर्वविज्ञानप्रामा- ण्यचिन्तेत्याह । तदर्थमिति । अयमाशयः। यदाहि सर्वसंविदामौ- त्सर्गिकं प्रामाण्यं बाधकारणदोषायत्तश्चाप्रामाण्यमिति सिद्ध- म्भविष्यति वेदे चापौरुषेये तदुभयाभावात्स्वतः सिद्धमेव प्रामा- ण्यमिति । तदेवं वादिविप्रतिपत्त्या संशय्य द्वयं स्वत इत्याचं पक्षं परिगृह्णाति । तत्रेति । स्वयमतदात्मनो देवैरपि तादात्म्या- पत्तेः कर्तुमशक्यत्वात् द्वयं स्वतः, नहि सिकतासु तैलादि- कमाधातुं शक्यमिति एतच्च सत्कार्यवादिमतं त- न्मते हि सर्वमेव कार्यजातं सदुत्पद्यत इति प्रामाण्याप्रामाण्या- त्मकमपि स्वत एव, यत्स्वतोऽसत्तन्न साध्यं यथा शशविषाण- मसदुत्पत्तौ च मृत्तिका घटस्य वीरणङ्कटस्येत्युपादाननियमो न स्यादसत्वाविशेषेण हि सर्व सर्वस्मादसदुत्पद्येत । यस्य यदुत्प- त्तिशक्तिरस्ति तां निश्चित्य यो यदर्थीस त दुपादत्त इति शक्ति- तोनियम इति चेत् । नैवम् । अविशेषात् । अस्माकं शक्त्यात्म- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । तयुक्तम्-न हि ज्ञानं स्वविषयस्य तथात्वमतथात्वं च युगपच्छनोति वेदयितुं विरोधात् । अथ कापि ज्ञानव्यक्तिः स्वप्रामाण्यं स्वतो बो- धयति काप्यऽप्रामाण्यमित्युच्यते, तथापि न युक्तम्- ना विकार उपादानेऽस्तीति मतं भवतस्तु विकारोत्पत्तिशक्ति- रुपादानेऽस्तीति वाचोयुक्तिमात्रं भिद्यते नार्थः । सत्वे कारक- व्यापारानर्थक्यमिति चेत् । न । अभिव्यक्तिफलत्वात् । स- न्तोपि हि विकाराः पूर्वमनभिव्यक्ताः कारकव्यापारैरभिव्य- ज्यन्ते । अभिव्यक्तावुत्पत्तिशब्दोऽनर्थक इति चेत् । आभि- व्यक्तिभेदात् । घटस्यान्धकारतिरोहितस्य दीपेन तदुत्सारणमाभि- व्यक्तिः । मृदि तु मृत्स्नाकारस्य प्रोत्सारणं कुलालेन क्रियते स्थूलाकारता प्रकटीक्रियते सा च पूर्वमपरिदृष्टेत्युत्पत्तिव्यपदेश इति दिक् । तमिमं पक्षं प्रतिक्षिपति । तदयुक्तमिति । न तावदे- कस्यां ज्ञानव्यक्तौ द्वयं सम्भवति विरोधात् । प्रामाण्यामामाण्ये हि परस्परपरिहारास्थितिविरोधेन विरुध्येते कथमेकव्यक्तिनि- वाशनी स्याताम् । अथैकस्यैव विज्ञानस्य द्वयं स्वत एव प्रकाशत इति मतं तथापि विरोधः । यदुक्तमसतस्साध्यत्वानुपपत्तिः तन्न । सतोप्यात्मादेरसाध्यत्वदर्शनात् । यदपि सिकतासु तै- लादिनैज्ञायते इति तदप्ययुक्तम् । तस्य तदुत्पादनशक्त्यभावा- त् । न हि सर्वं सर्वोत्पादनशक्तियुक्तम् । अधिकं दृषणं ग्रन्थान्त- रादवगन्तव्यम् । अतो यथा नैकस्यानेश्शीतोष्णस्वभावत्वं वि- रुद्धधर्माध्यासस्य भेदनिबन्धनत्वात् । एवं न ज्ञानस्य प्रमा- णाप्रमाणस्वभावत्वम् । अथ विरोधपरिजिहीर्षया भिन्नव्यक्त्याश्रयं नीलपीतवत्स्वतोद्वयमित्युच्यते । तदप्ययुक्तमित्याह । अथेति ।
५६ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०२सू०२ कारणान्तरनिरपेक्षस्य ज्ञानस्यैवोपलम्भहेतुत्वे किंक ज्ञाने भवतीति न शक्यं विवेक्तुम् । अतो यमपि स्वस्वभावेनानिरूपितं कारणगुणदोषज्ञानाभ्यामवग- म्यत इत्यरे । तदप्यपेशलम्-एवं हि गुणदोषावधा- रणात् प्रागन्यतरेणाप्याकारणार्थमनवगमयविज्ञानं निस्स्वभावं स्यात् । तस्मादप्रामाण्यं स्वतः, प्रामाण्यं तु संवादज्ञानादिभिरित्येतदेव युक्तम् । तथा हि-न ज्ञानमुत्पन्नमित्येतावताऽर्थतथात्वा- वधारणं युक्तं व्यभिचारादनिश्चयाच, अप्रामाण्यमेव तस्यां वेलायां प्राप्तम्, पश्चात् कारणगुणज्ञानात्संवा- कथं न युक्तमत आह । कारणान्तरेति । स्वतोद्वयवादिना प्रामा- ण्याप्रामाण्यावधारणे कारणान्तरस्य संवादादेरनपेक्षणात् । ज्ञा- नस्यैवोपलम्भहेतुत्वे सर्वज्ञानेषु बोधरूपायाः स्वतोविशेषापति- भासनात् कस्यां ज्ञानव्यक्तौ प्रामाण्यं कस्यां नेत्यनिश्चयाव्य- वहारोच्छेदः स्यादिति भावः । परतोद्वयमिति पक्षान्तरमुत्थाप- यति । अपेशलत्वे कारणमाह । अत इति । एवं हीति । सर्व हि विज्ञानं स्वभावद्वयेऽन्तर्भूतं किञ्चित् प्रमाणस्वभावमवशिष्टमप्रमा- णस्वभावमिति स्वभावान्तराभावात्पूर्व च केनापि रूपेणाऽनव- धारणे निःस्वभावत्वं स्यात् निःस्वभावस्य चाभाव एव प्राप्त इति परतोपि कस्य प्रामाण्याप्रामाण्ये स्यातामिति भावः । ननु ज्ञाने सत्वगुणत्वज्ञेयत्वादिस्वभावसद्भावात्कथं निःस्वभावत्वम्। मैवम्। सत्वगुणत्वादीनामप्यन्यतरांशपातित्वाद्गुणदोषावधारणात्माक्- प्रामाण्याप्रामाण्यानवधारणे च स्वभावद्वयवर्जितं क्रियात्मकं किं स्वभावकं स्यादित्यनवधारणं स्यात् अत एतत्पक्षासम्भवात्प- क्षान्तरमेव युक्तमित्याह। तस्मादिति । युक्तमेव दर्शयति । तथा- ..
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् हीति । अयमाशयः। अप्रामाण्यं नाम प्रामाण्याभावस्तस्याव- स्तुत्वान्न कुतश्चिदुत्पादः प्रामाण्यन्तु वस्तुत्वात्कारणगुणजन्यम् । ननु प्रामाण्याभावस्य प्रध्वंसादिरूपस्य मीमांसकैर्वस्तुत्वेनेष्टत्वा- दवस्तुत्वादित्यसिद्धो हेतुः सिद्धत्वे वाघटादिप्रध्वंसेनानकान्तिकः। उच्यते । एतन्मतवादिनोबौद्धस्य तुच्छमभावो न वस्त्वन्तरं, यदि वस्त्वन्तरं स्यात्सत्यपि तस्मिन् भावस्य पूर्ववदर्शनं स्यादविशेषात् । न हि घटे सति पटस्यानुपलब्धिः । भावविरोधित्वादभावस्या- यमदोष इति चेत् । न । यद्यकिञ्चित्करोयं भावस्याभावः ? कथं विरोधी स्यात् । अथ किञ्चित्करः ? तथापि न तावद्भावस्वरूपं करोति अर्थान्तरकरणे तु कोविरोधः । तस्माद्धटाभाव इति घ- टस्य भावो नास्तीत्यर्थः। नच घटादिमध्वंसेनानैकान्तः तस्य तेन निर्हेतुकत्वाभ्युपगमात् । प्रामाण्यं तु स्वालम्बनाव्यभिचारि- त्वं तस्य च वस्तुत्वाद्युक्ता गुणैरुत्पत्तिरिति । ननु के पुनरमी गुणाः ये प्रामाण्यस्योत्पादका इत्युच्यन्ते यदि भेषजादिमिरा- हितातिशयविशेषा इत्युच्यन्ते तमुनाहितातिशयानां न प्रामाण्यं जायेत । उच्यते- "विशुद्धिरिन्द्रियादीनां गुणानामतिशयः कृतः। साम्यं वातादिधातूनां विशुद्धिरभिधीयते ॥ साम्येन हि स्थिता वातादयः प्रामाण्यमुपजनयन्ति, तद्वै- पम्ये तु तिमिरादयो दोषा जायन्ते, शब्दे तु वक्तुराशयशुद्धिM- णो, विप्रलम्भादयश्च दोष इति तज्जन्यमप्रामाण्यं, प्रामाण्यं त्वर्थ- निश्चयोवस्त्वात्मक इति तद् गुणेभ्योजायते ज्ञायते चेति । यदि प्रामाण्यं स्वतः स्यात् अप्रामाण्यमप्यवस्तुत्वेनाजन्यत्वाद- न्यानधीनं, तर्हि सर्वज्ञानानामपि प्रामाण्यप्रसङ्गः स्वप्नादिज्ञाना- नामपि ज्ञानत्वाविशेषात् । ननु कथमप्रामाण्यमजन्यं दोषान्वय- - -- ६८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ दज्ञानादर्थक्रियाज्ञानाद्वा प्रामाण्यावगमादपोद्यते । श- ब्दे चाप्तप्रणीतत्वं गुणः, न च वेदे तदस्त्यपौरुषेय- त्वाभ्युपगमात् । “वनस्पतयः सत्रमासत" "शृणोत ग्रावाण" इत्येवमादीनामुन्मत्तप्रलपितकल्पत्वात् , अ- प्रत्ययिततरप्रणीतत्वादप्रामाण्यमेव वेदानामिति प्राप्त अभिधीयते-- परापेक्षं प्रमाणत्वं नात्मानं लभते कचित् । मूलोच्छेदकरं पक्षं को हि नामाध्यवस्थति ॥७॥ यदि हि सर्वमेव ज्ञानं स्वविषयतथात्वावधारणे स्वयमसमर्थ विज्ञानान्तरमपेक्षेत ततः कारणगुणसं- व्यतिरेकानुविधायित्वेन तज्जन्यत्वावगमात् । कामली हि पीतं शङ्ख जानाति, तदपगमे च शुक्लं, अतोऽवस्तुनोपि हेतुजन्यत्वमा- पन्नं, तदनभ्युपगमे वा स्वप्नादिज्ञानानामपि प्रामाण्यापत्तिः । उ- ध्यते । नात्र दोषैरमामाण्यं जन्यते तेषां प्रामाण्यजनकगुणोत्प- त्तिप्रतिबन्धकत्वेनोपक्षीणत्वात् । सत्सु च दोषेष्धसन्तो गुणा न स्वकार्य प्रामाण्यं जनयन्तीत्यप्रामाण्यमेवानपोदितं स्वाभा- विकमास्ते । तदुक्तं- "तस्मात्कारणशुद्धत्वं ज्ञानप्रामाण्यकारणम् । स्वभावतोऽप्रमाणत्वं तदभावे न लक्ष्यते" इति (श्लो.वा.४४)। एवं च गुणाधीनप्रामाण्याभ्युपगमान्नित्यवेदवादिनाञ्च तद- सम्भवादाप्तप्रणीतत्वे च प्रमाणाभावाद्वेदानाममामाण्यमापन्न- मित्याह । शब्दे चेति । परतः प्रामाण्येन पूर्वपक्षं कृत्वा संपति तमेव दूषयन् सिद्धान्तमारभते । इति प्राप्त इति। श्लोकार्थ विवृणोति । यदि हीति । अर्थक्रियाज्ञानं चाव्यभिचारात्स्वतःम- एवं तावत् ? [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ५९ वादाऽर्थक्रियाज्ञानान्यपि स्वावषयभूतगुणाद्यवधारणे- ऽपरमपेक्षेरन् , अपरमपि तथेति न कश्चिदर्थो जन्म- सहस्रेणाप्यध्यवसीयेतेति प्रामाण्यमेवोत्सीदेत् । अर्थ-अर्थक्रियाज्ञानं स्वतः प्रमाणमिति चेत् ? को विशेषः ?, अव्यभिचार इति चेत् ? न, स्वप्नाव- स्थायाम सत्यप्युदकाहरणेऽर्थक्रियाविज्ञानदर्शनात् । अथ सुखज्ञानमेवार्थक्रिया ? तच्चाव्यभिचार्येव न हि क चिदप्यसति सुखे सुखज्ञानमस्ति । सत्य. मेतत्, नतु तेन पूर्वज्ञानस्य प्रामाण्याध्यवसानं सम्भ- वति-अप्रमाणेनापि प्रियासङ्गमाविज्ञानेन स्वप्नावस्था- माणमर्थक्रियां निश्चाययच्छनोति पूर्वज्ञानस्य प्रामाण्यं निश्चाय. यितुमतो नानवस्थेति शङ्कते । अक्रियेति। उपलक्षणं चैतत् ज्ञा- नान्तरसंवादोपि नार्थतथात्वाभावे घटत इति ततोऽप्यर्थतथात्व- निश्चयः तथा गुणवत्कारणजन्यं यथार्थमेव भवतीति कारण- गुणावधारणादपि शक्यते ऽर्थस्य तथाभावो निश्चेतुमिति । प- रिहरति । नेति । अतोऽर्थज्ञानं व्यभिचारान स्वतःप्रमाणमित्यर्थः। अर्थक्रियाशब्देन नोदकाहरणादिकमुच्यते किन्तु ज्ञानमेव सु- खात्मकं, सर्व च ज्ञानं स्वार्थे स्वत एवं प्रमाणमव्यभिचारा- दिति शङ्कते। अथेति । परिहरति। सत्यमिति । पूर्वज्ञानं-सुखजन- कज्ञानम् । भवतु नाम तेन ज्ञानेनाथक्रियायास्सुखस्य सत्यत्वनि- श्चयः तथापि पूर्वज्ञानस्य याथार्थ्य दुनिरूपं, अयथार्थादपि ज्ञा- नात्सुखोत्पत्तरित्यर्थः । किञ्चार्थक्रियालिङ्गकानुमानप्रवृत्तेः पूर्व केनचिदर्थस्य निर्णयोऽङ्गीकर्तव्यः अन्यथा व्याप्तिग्रहणस्यैवा- सम्भवः । यच्च पूर्वमर्थनिर्णायकं तस्य स्वतः प्रामाण्यमङ्गीक- व्यं एवं च सर्वत्र तथैवास्तु किं वैरूप्याङ्गीकारेण ?। सिदा- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ यां सुखदर्शनात् । तस्मात् स्वतः प्रामाण्यं प्राप्तमऽर्था- न्यथात्वकारणदोषज्ञानाभ्यामपोद्यत इत्यवश्यमङ्गी- करणीयम् । एवं च शब्देऽनाप्तपुरुषसंस्पर्शकृतत्वाद् दोषाणामऽपौरुषेये वेदे तदभावात् साक्षाचार्थान्यथा- त्वज्ञानाभावादनपोदितं प्रामाण्यं भवति । पौरुषेय- वचनानि तु पुरुषवुद्धिप्रभवत्वाद् भ्रान्त्या विप्रलिप्स- या वा प्रयुक्तानि मूलदोषेण दुष्टत्वादयथार्थानि भ- वन्तीति वैषम्यम् । न्तमुपसंहरति । तस्मादिति। नन्ववस्तुत्वात् दोषजन्यमप्रामाण्यं न भवति अतस्तजन्यं च कथं ततो निश्चेतुं शक्यम् । उच्यते । न निश्चयप्रागभावरूपमप्रामाण्यं, किंत्वविद्यमानार्थप्रकाशत्वरूपं, तच्च शक्यं दोषज्ञानेन निश्चेतुं, अर्थान्यथात्वस्य दोष- निमित्तत्वात् । दुष्टेषु कारणेष्वयथार्थत्वदर्शनात् । स्वतःमामा- ण्योपपादनफलमाह । एवं चेति । ननु गुणविधुरेषु दुष्टेषु च का- रणेष्वयथार्थज्ञानं जायते तत्कथमयं निर्णयो दोषनिमित्तकमेवाय- थार्थत्वं न गुणाभावनिमित्तकमिति । सत्यम् । यद्यपि प्रसिद्धेषु अयथार्थज्ञानेषु गुणाभावो दोषश्चेति द्वयं दृष्टं, तथापि वेदे गुणा- भावेऽपि प्रामाण्यदर्शनात्तन्मा बाधीति दोषानिमित्तमेवायथार्थत्वं शुक्तिकारजतज्ञानादीनां कल्प्यते दोषस्यैव तिमिरादेस्तन्निमि- 'तत्वेन बहुलमुपलब्धेः । किं च गुणाभावस्याप्रामाण्यहेतुत्वे गु. 'णस्य प्रामाण्यहेतुत्वं वाच्यं तच्च न युज्यते गुणाभावेऽपि शुक्तिर- जतादिज्ञानेषु शुक्लत्वभास्वरत्वादिरूपाणां तथाभूतानामेव दर्श- नात् धर्म्यशे प्रामाण्याच्च । तस्मात्स्वकारणादेव यथार्थत्वं ज्ञा- नस्य, दोषावयथार्थत्वमिति । अत्रेयमुपपत्तिः । गुणज्ञाना- रसंवादज्ञानात्पूर्व ज्ञानं तावज्जायत एव, तच्चोत्पन्नमपि तत्संश- [धर्मलक्षणाधिकर०] शाखदीपिकायाम् । ६१ यात्मकमवभासते । अत एव ज्ञानोत्पत्तेरनन्तरमेव प्रमातॄणां भ्रा. न्तिसंविदितेऽपि रजते सम्यग्रजतबोध इव प्रवृत्तिदृश्यते अतो. जातोपि निश्चयः पश्चात्कथमप्रमाणं भविष्यति । सत्यापि संवादे गुणज्ञाने वा तावदेव प्रमाणस्य सत्त्वं नाधिकं किञ्चित् । अतः किं तदपेक्षयेति । यथाऽऽहुः- स्वतः सर्वप्रमाणानां प्रापाण्यामिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते" (इलो.वा.४७)। अत्र पूर्वार्द्धन ज्ञानहेतूनां प्रामाण्येऽपि व्यापार इति प्रति- ज्ञातं उत्तरेण तु सामग्यन्तराभावस्तत्र हेतुरुक्तः । अन्येन- विज्ञानसामग्यतिरिक्तेनेत्यर्थः । लोके च स्वशब्द आत्मीय- वचनः । ननु स्वतः प्रामाण्यवादिनामपि गुणवदिन्द्रियादिका- रणिकैव प्रमाणोत्पत्तिरास्थेया, तद्यदि गुणाः प्रमाणोत्पत्तौ का. रणं तदाऽर्थनिश्चयाख्ये तत्कार्येऽपि तदधीनता युक्ता, तदायत्त- मामाण्याश्रयणात् । उच्यते । प्रमाणोत्पत्तावपि न गुणा इत्येवा- पेक्ष्यन्ते, किन्तु दोषनिराकरणौपयिकतया, दोषाणां प्रामाण्यो- त्पत्तिविघातकत्वात् । गुणैरुत्सारितानां च तद्विघातकत्वा- सम्भवात् । अत एवाप्सत्स्वपि वक्तृगुणेषु वेदे दोषाभावमात्रा- देव प्रामाण्यं सिद्ध्यति । किञ्च गुणाः प्रमाणोत्पत्तौ कारणं नैतावता प्रमाणकार्येऽप्यनिश्चयाख्ये तदपेक्षा युक्ता, नहि घटः स्त्रोत्पत्तौ मृत्पिण्डदण्डादिकारणापेक्ष इति स्वकार्यजलाहरणेपि तदपेक्षेत । लब्धात्मनां स्वकार्येषु कारणनिरपेक्षाणामपि प्रवृत्तिदर्शनात्, कारणगुणाद्यपेक्षायां त्वनवस्थायाः परि- हर्तुमशक्यत्वात् । स्वतः प्रामाण्ये तु नानवस्थापत्तिः, बा. नस्वभावादेवार्थनिश्चयस्य सिद्धत्वात् मिथ्यात्वाशङ्का तु तद्धेतु- भूतदोषाज्ञानादयत्नेनैव निवर्तत इति । तस्माद्बोधस्वभावानुब- ६२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०२सू०२ धिज्ञानानामौत्सर्गिकमेव प्रामाण्यं, यथाऽऽहु:- "तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता। अर्थान्यथात्वहेतूथदोषज्ञानादपोद्यत" इति (श्लो.वा.५३)। अन्यथात्वज्ञानं च द्वेधा नैतदेवमिति पूर्वावगतरूपोपम- र्दैन तत्त्वप्रकाशनेन वा । हेतवो ज्ञानानामिन्द्रियादयस्तेषु वाता- दिसमुत्था दोषास्तिमिरादयः तज्ज्ञानेनोत्सर्गतः प्राप्नुवन्ती प्रमा- णताऽपोद्यत इति श्लोकार्थः । नन्वस्तु नाम स्वतः प्रामाण्यम- प्रामाण्यं तु कथं परतस्तस्यावस्तुत्वेन दोषैरजन्यत्वात् । उच्यते। त्रिविधमप्रामाण्यं तत्र संशयविपर्ययोञ्जनात्मकवस्तुत्वाद्दो- षजन्यत्वं युक्तमेव । ज्ञानप्रागभावस्त्वक त्ववस्तुतयैव प्रसिद्धः । न चास्माकमप्यसौ दोषैर्जन्यते ज्ञानकारणाभावादेव तत्सिद्धेः । यथाऽऽहु:- "अप्रामाण्यं विधा भिन्नं मिथ्यात्वाज्ञानसंशयः । वस्तुत्वात् द्विविधस्याऽत्र सम्भवो दुष्टकारणादिति"(श्लो.वा.५४)। नन्वप्रामाण्यस्याऽपि परतस्त्वेऽनवस्था स्यात् पारतन्त्र्य- स्यैवाऽनवस्थापादकत्वात् । मैवम् । पराश्रयतामात्रस्यानव- स्थानापादकत्वात् । सजातीयापेक्षायां ह्यनवस्था भवति यथा प्रामाण्यस्य प्रमाणापेक्षायां, अप्रामाण्ये तु णेन नैतदेवमिति साक्षाद्विपर्ययज्ञानात् । ननु स्वतः प्रामा- ण्यपक्षे पूर्वज्ञानमप्यसन्दिग्धमेवोत्पन्नं कथमप्रमाणं भविष्यति येन परेण बाध्यते, पूर्वेणैव परं किं न बाध्येत । नैष दोषः । उत्सर्गतः पूर्वस्याऽपि प्रामाण्यं प्राप्तमेव, अपवादभूतेन तूत्तरेण बाध्यमानं तदप्रमाणं भवति । नच वैपरीत्येन बाधः शयः, यद्धि यद्धाधमानमवभासते तत्तस्य बाधकमभिधीयते । नचाना- गतोचरवाधरूपेण पूर्वमवभासते । उत्तरन्तु पूर्वज्ञानबाधमन्तरे- . स्वतःप्रमा- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ६३ - णानुत्पद्यमानं तस्य बाधकं भवति तच्च स्वत एवं प्रमाणमिति न काचिदनवस्था । ननु नेदं रजतमित्यादिना परेण पूर्वस्य बाधो युक्तो विषयैक्यात् , दोषज्ञानं तु कारणदोषविषयत्वेन पूर्वस्माद्भिन्नविषयं, कथं तेन पूर्वज्ञानप्रमाणताऽपोद्यत इत्युच्यते। सत्यमेवम् । तथाऽप्यर्थात्तुल्यार्थतामासाद्य बाधो भवति दोषा- णामयथार्थज्ञानहेतुत्वात् । तथाहि शो पीतमिदमिति ज्ञाने जाते परतश्च ज्ञानकारणदोषे ऽवगतेऽर्थात् पीतमा शङ्खस्य प्रतिक्षि- तो भवति यथा क्रत्वर्थपुरुषार्थत्वेन भिन्नविषययोरपि चमस- गोदोहनयोरवान्तरव्यापारैक्ये न बाध्यबाधकभावस्तथेहाऽपि । तत्किमेष एवोत्सर्गो यत्सर्वदा परेण पूर्व बाध्यते । नेति ब्रूमः । यदोत्तरज्ञाने बाधधीन भवति कारणदोषज्ञानं वा तदा पूर्वस्य बाधः । यदा तु बाधकज्ञानं सापवादं भवति तदा पूर्वज्ञानमेव . निरपवादमौत्सर्गिकमामाण्यं लभत इति । ननु प्रमाणेन सता तृतीयेन वाधकं बाध्येत तदेव तु कथं प्रमाणं ?, दोषाऽज्ञाना- दिति ब्रूमः । सर्वं हि ज्ञानं स्वत एवं प्रमाणं यद्यपि विज्ञायमा- नदोषं भवति । अतस्तृतीयेन बाधकज्ञानेन बाधिते पूर्वस्यैव भामाण्यं भवतीति । यस्य तु तृतीयेऽपि ज्ञाने दोषज्ञानं बाधकं वा जायते तस्यास्तु चतुर्थज्ञानावसानो निर्णयः । नत्वेवं, प्रायेण प्रथमज्ञान एव निर्णयदर्शनात् । उक्तं च- "एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः । प्रार्थ्यते तावतैवैकं स्वतः प्रामाण्यमश्नुते" (श्लो.वा.६१)। शब्दे च वऋधीना एव दोपाः, वेदे च वक्तुरभावाभिरा- श्रया दोषा न भवन्तीति निरपवादं प्रामाण्यमुपपन्नं भवति । "पौरुषेये द्वयं दृष्टं दोषाभावो गुणस्तथा । प्रामाण्यं तत्र गुणतो नैव स्यादनवस्थितेः ।।
युक्तिस्नेहमपूरणीसहितायां [अ०१पा०अ०२सू०२ के' चित्याहुः-न लोकेपि शब्दस्याऽयथार्थत्वम- स्ति तदभावात्, न हि लोके शाब्दं प्रमाणमस्ति - तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः । अपामाण्यद्वयासत्वात्तेनोत्सर्गो ऽनपोदितः"(श्लो.वा.६५)। गुणाश्च स्वरूपसन्त एव दोषानुत्सारयन्ति न ज्ञायमानाः, ततोऽसन्तो दोषा न जाता इति सहजं प्रामाण्यमवतिष्ठते । यदि तु प्रमाणान्तरेण ज्ञाता एव गुणा दोषानुत्सादयेयुस्तदाऽनवस्था स्यात् नत्वेवं, नापि संवादापेक्षं प्रामाण्यमनवस्थानात् । वेदे च प्रमाणान्तरसंवादाऽसम्भवादनुवादकत्वापत्तेश्च । "तस्मात् दृढं यदुत्पन्नं न विसंवादमृच्छति । ज्ञानान्तरेण विज्ञानं तत्पमाणं प्रतीयताम्" (श्लो.वा.८०)। अत्र वार्तिककारैः स्वतः प्रामाण्योपयोग्यन्यदपि निरूप्या- नन्तरं भाष्यव्याख्याप्रङ्गेन सुगतसार्वज्ञमाहतसार्वज्ञं च निरा- कत्यानन्तरं सृष्ट्यादौ नित्य एवारमागमः सुप्तप्रतिबुद्धन्यायेन हिरण्यगर्भस्य प्रतिभातस्ततः प्रभृत्येषा स्वाध्यायपरम्परेति वेदान्तवादिमतं सिद्धान्तपरिपन्थित्वेन- "नित्यागमावबोधोऽपि प्रत्याख्येयोऽनया दिशा"(इलो.वा.१४३) इत्यादिना निराकृत्यानन्तरं भाष्यग्रन्थान् व्याख्याय तत्सूचितमनुमानं च- "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोत्यक्षबुद्धिवत्" (श्लो.वा.१८१)। इत्यादिनोत्का भाष्यार्थोपसंहारः कृतस्तत्सर्व तत्रैवावग- न्तव्यं विस्तरभयाबह लिखितम् । प्रसङ्गादेकदेशिमतं निराकर्तुमुपन्यस्यति । कश्चित्त्विति । (१) टकिानुसारेण कश्चित्स्वाह इति युक्तः पाठः ॥
[धर्मलक्षणाधिकर०] शाखदीपिकायाम् । क्तृभिप्रायानुमापकत्वात् पुरुषवचसाम् , तेनानु- मानस्यैवायं व्यभिचारो न शब्दस्य । न वा तस्यापि, विवेकाग्रहणादालिङ्गे लिङ्गव्यवहारप्रवृत्तिः । यदि तु शब्दस्यैवायं व्यभिचारोऽभ्युपेयते स्वाभाविकमेवा- ऽप्रामाण्यं स्यात्, न हि पुरुषदोषेण शब्दस्य दोषो भवति, यथावस्थितशब्दाभिव्यक्तिमात्रे पुरुषस्य व्यापारात् । तदिद्मसारम्-यदि लोके शाब्दं नास्ति तदा वेदेपि कथं तत्स्यात् ? । 'न ह्यभिप्रायानुमानक्षीणस्य शब्दस्वार्थ प्रति वाचकत्वे प्रमाणमस्ति' इत्युक्तं न्या- यरत्नमालाया। तदभावात्-लोके शब्दलक्षणप्रमाणाभावात् । कथमेतावता (१) न्यायरत्नमालायामेवमुक्तम् "किं च स्वरूपमात्रमपि नाभिधेयम् पदविशेषस्यैव वाचकत्ववद् विशिष्टार्थविषयेणैव विज्ञानेन व्याप्तिग्रहणसंभवात्, यथा हि वाचकत्वं प्रतिपदम- ऽर्थविशेष प्रतिगृह्यते-गोपदं सास्नादिमतो वाचकम्, अश्वपदं वाजिवाचकमिति तथा तदन्वितार्थविषयविज्ञानव्याप्तिस्तस्य तस्य- ग्रहीतुं शक्यते, आप्तस्य गोपदरचना आकासितसंनिहितयोग्या- र्थान्तरान्वितसास्नादिमद्विज्ञानपूर्विकेति वा । ततश्च पदानाम्- अर्थस्वरूपवाचित्वमपि नैव प्रसिध्यति । प्रागेवान्वितवाचित्वमतो वेदाऽप्रमाणता ॥ नन्वनुमितमप्यर्थ पश्चादनुवदद्वाक्यं वाचकम् स्यात् ?, तन्न, अ- नुवादकत्व प्रमाणाभावात् । नानुवादकत्वमन्तरेण किं चिदनु- पपन्नं यतस्तत् कल्प्येत । शक्तत्वादनुवादकत्वमितिः चेत् ? तदि तरेतराश्रयम्-शक्तेरनुवादस्ततश्च शक्तिरिति । तस्मान्न वाचक त्वं सिद्ध्यति । यदि परम्- अर्थविशेषाविज्ञानानुमानसिद्धर्थ पुन- वाचकत्वमवस्थाप्येत १ तच्चान्तरेणापि वाचकत्वं शब्दविशेषस्य शानविशेषेणैव व्याप्तिग्रहणसम्भवादनुपपन्नम् । तस्माल्लोकवचसा.
युक्तिस्नेहपूरणीसहितायां [अ०१पा०११०२सूर यच्च व्याभिचाराभ्युपगमे स्वाभाविकमप्रामाण्यं भवति पुरुषदोषस्य शब्देऽनवतारादिति, स्यादेतदेवं यदि यदीयं यदाक्यं तत्स पुरुषोऽभिव्यङ्ग्यात्, तत्तु तेनेच क्रियते-वर्णा नित्याः पदानि च, वाक्यानि तु पुरुषैरेव क्रियन्ते पौरुषेयत्वादेव । यथाऽवस्थितानि व्यज्यमानानि वेदवाक्यवदपौरुषेयाण्येव स्युः । तत श्च वक्त्रभिप्रायानुमापकत्वमपि न स्यात्, तद्यथा- ऽध्येतृभिरभिव्यज्यमानानि वेदवाक्यानि नाध्येतृ- णामभिप्रायं सूचयन्ति तथा पुरुषवाक्यान्यपि न सू. चयेयुः । यदि हि व्यभिचाराऽऽशङ्कया लोके शब्दस्य प्रामाण्यं न सम्भवतीत्युच्यते ?, तर्हि तद् वक्रभि- प्रायानुमानेऽपि तुल्यम्, अन्यथासंविदानस्याप्यन्य- था वाक्यरचनादर्शनात् । किञ्च शब्दस्य चक्षुरादेरिव स्वसामर्थेन बोध- कत्वाद् व्यभिचारेपि न बोधकत्वहानिः । लिङ्गस्या- व्यभिचारिण एव गमकत्वमिति व्यभिचारिणो लि- गत्वमनुपपन्नम्। अथ वक्तुरातत्वाद् व्यभिचारशङ्कां निवा- नुमानम् ? तथा सति शाब्दमेवार्थे प्रमाणमस्तु प्रति- बन्धिकायाः शङ्काया निरस्तत्वात् । अवश्यं हि बु- द्विविशेषमनुमित्सतो प्रथमं पदार्थास्तेषां चाऽन्वय- योग्यताऽऽलोचयितव्या, ते चालोच्यमाना द्रागेव ? मनुमानत्वेन प्रामाण्याङ्गीरणे पदानां वाचकत्वाऽयोगादप्रति- पादकत्वेनाप्रामाण्यं वेदस्य स्यादिति तत्प्रामाण्यसिवर्थ लोके पि शब्दानां शब्दतयैव प्रामाण्यमभ्युपगन्तव्यम्" इत्यादि ।
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । वाक्यार्थ बोधयन्तीति नानुमानं प्रतीक्षन्ते । किश्चानुमिते बुद्धिविशेषे पश्चादनुवादभूतं वाक्यं वाक्यार्थमवबोधयतीति वः सिद्धान्तः, ततश्च यो नामाऽनाप्त एवाऽऽप्तबुद्ध्या गृहीतस्तदाक्यादयथार्थमेव ज्ञानमुत्पन्नमित्यभ्युपगन्तव्यं ततश्च दोषाधीनत्वाद- प्रामाण्यस्य वक्तृदोषाणां च शब्द संक्रान्त्यऽनभ्युप- गमात् स्वारसिकमेव शब्दे दुष्टत्वमापन्नमिति बला- दप्रामाण्यं वेदस्य प्रसज्यत इत्यास्तां तावत् । तस्मा- दनाप्तवचसां सत्येवाप्रामाण्ये वक्तृदोषाधीनत्वाद् वेदे च तद्भावात् प्रामाण्यमेव वक्तव्यम् । तस्माचो- दनालक्षण एव धर्मः श्रेयस्कर इत्यर्थः । यदेव श्रेय- स्साधनरूपं यागहोमादि तदेव धर्म इत्युच्यते लोके, नाऽपूर्वमन्तःकरणवृत्त्यादि वा लोकप्रसिद्धिविरहात् । नन्वऽपूर्वमेव श्रेयस्साधनम् ?, न, अवान्तरव्या- शब्दस्यायथार्थत्वपरिहारोऽत आह । तेनेति । तेनेत्यादिर्व- क्तव्यमित्यन्तो ग्रन्थः स्पष्टार्थः । उपपादितमर्थं निगमयति । तस्मादिति । धर्मपदार्थ व्याचष्टे । श्रेयस्कर इति । लोके या- गहोमादिकर्तरि धार्मिकपदप्रयोगादित्यर्थः । यागादेरेव श्रेय- स्साधनत्वबोधनादितिभावः । अत्र चोदयति । नन्विति । नैयायिकादिभिर्विहितयागादिक्रियासाध्यापूर्वस्यैव धर्मत्वाङ्गी- कारादित्यर्थः । परिहरति । नेति । अतीन्द्रियापूर्वदर्शनमन्त- रेणापि यागादिकर्तर्येक धार्मिकपदप्रयोगदर्शनादिति भावः । तदुक्तम्- "अन्यत्साध्यमदृष्ट्दैव यागादीननुतिष्ठतः ।
६८ युक्तिस्नेहमपूरणीसहितायां [अ०१पा०अ०२०२ पारमात्रत्वात् । तस्माद् यागादिरेव श्रेयस्साधनरूपेण धार्मिकत्वसमाख्यानं तयोगादिति गम्यते"(श्लो.वा.१९२) ननु न तावद्यागादीनां स्वरूपमेव धर्मः तेषामैन्द्रियकत्वे न धर्मत्वनिषेधात् श्रेयस्साधनत्वरूपेणैव धर्मत्वोक्तेः तच्च रूप- मतीन्द्रियत्वादपूर्वमेवाप्रत्यक्ष ततश्चाऽन्यत्साध्यमदृष्ट्वेत्यनेन न्यायेन यागादिस्वरूपस्यैव धर्मत्वमित्यापन्नं स्वरूपाभिधाने चैकस्यैव धर्मपदस्य नानाजातीयेषु द्रव्यगुणकर्मस्वनेकशक्ति- कल्पनास्यात् । न च सकलानुगतप्रीतिसाधनत्ववचनाददो- प इति वाच्यम् । तस्यातीन्द्रियत्वात् विशिष्टवाचकस्य प्रीति- रूपविशेषणमात्राभिधानप्रसङ्गाच । किञ्च विधेयस्य धर्मप- दार्थत्वे भावनाया एव विधेयतया. धर्मपदवाच्यता स्यात् । सा हि त्र्यंशा विधीयत इति सिद्धान्तेन यागादेरविधेय- खात् तद्वरमपूर्वमेव धर्मपदवाच्यं तदन्वयव्यतिरेकानुविधा- नात् धर्मपदस्य । तथा हि फलकाले ऽसत्यपि कर्मण्यपूर्वव- त्तयैव धर्मवानयमित्युच्यते सत्स्वपि च यागादिषु वैगुण्येना- पूर्वानिष्पत्तों न धर्मवानिति प्रयुज्यते अतोऽपूर्वमेव धर्मशब्दा- थः । अत्रोच्यते । धर्मशब्दोऽयं पाचकादिवत्सभाग एव धृ- तिसाधने वर्तते । धृतिरिति च प्रीतिपर्यायः धृङा धृतिः प्र- त्ययेन च तत्साधनमभिधीयते पृषोदरादिमध्यपतितश्चायम् । न चैवं भोजनादौ प्रसङ्गः, चोदनालक्षणश्रेयस्करमात्रे रूढत्वा- त् । नच भावनायां प्रसङ्गः विहितत्वेपि तस्या असाधनत्वा- स् यागादीनामेव श्रेयस्साधनत्वस्य चादनाप्रमाणकत्वात् । न चैवं विशेषणमात्राभिधानापत्तिः अखण्डस्यैव प्रायेण विशेष- षणमात्राभिधायकत्वदर्शनात् । असत्यां च गतौ सर्वाभिधान- स्यैव युक्तत्वात् । उक्तञ्च- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ६९ "यत्र ह्येकखण्डेन शब्देन विशिष्टो बोध्यते तत्र विशेषण- मेव शब्दस्य वाच्यं गवादिशब्दवत्सामशब्दवचेति । केवलरू. व्यभ्युपगमन वा उपाधिद्वयस्याभिधानमेव वाच्यं, प्रीतिसाध- नत्वस्य विहितत्वस्य च, उभयत्र धर्मपदोपचारात् । न च प्रीतिसाधनत्वरूपस्यादृश्यत्वोपलम्भः तद्रूपस्य वेदादवगमा- त् । न चापूर्वस्य वेदादवगतिः तस्यावान्तरव्यापारत्वेन क- ल्प्यत्वात् । असत्यपि कर्मणि कृतयागत्वेनैव धार्मिकपदप्रयोगो- पपत्तेः । यदप्युक्तम्-विगुणे प्रयोगाभावान्न यागादिधर्म इति । तन्न । तथाविधस्याभ्युदयसाधनत्वाभावेन तत्र धर्मपदप्रयो- गाभावात् । फलकाले तु धर्मवत् पदप्रयोगोऽभ्युदयसाधनाभि- प्राय एव तदानीमपि शक्तिरूपेण यागस्य सत्वात् । ननु यागा दिसाधनवादिनोऽप्यपूर्वसिद्धिमन्तराऽन्तर्भाव्यैव साधनत्वं व- दन्ति । तथा ह्याहुः "तेनापूर्व कृत्वेति" । प्रत्यासन्नफलं चा- पूर्वमेव, अतिक्रान्ते कर्मणि तत एव फलसिद्धेः, अतोऽपूर्व धर्म- इत्येव न्याय्यम् । मैवम् । तद्धि कर्मशक्तिः फलशक्तिळ व- स्त्वन्तरमेव वा स्यात् । न चैतस्य साध्यसाधनयोरन्यतररूपा- नुप्रवेशः सम्भवति । न तावत्फलसाधनभूतं सत्कल्प्यते नापि यागसाध्यभूतं श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । नाप्युभयरूप- रहितं निः स्वभावस्यासद्रूपतापत्तेः अतो यागस्य फलोत्पादिका शक्ति, रात्मनो वा फलभोगयोग्यता, फलस्य वाङ्कुरावस्थाऽवा- न्तरव्यापररूप एव वा कश्चित्पदार्थः, सर्वथा तावद्यागादिवा- चकस्य धर्मशब्दस्य तत्प्रतिपादकत्वानुपपत्तिः । न ख़ुदकादर- णोत्पादिका शक्तिर्घटशब्देनाभिधीयते । साङ्ख्यास्तु मनसो वृत्ति- विशेष धर्ममाहुः। शाक्यास्तु चित्तस्य शुभां वासनाम्। आईतास्तु कार्यारम्भकान् सूक्ष्मान्मूर्तिमतः पुद्गलान् धर्ममाहुः। पुद्गलशब्दश्चा- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ धर्मः, तद्रूपाभावाच न शूद्रकृतस्य धमतापत्तिः।चोद- नालक्षणमात्रस्य धर्मत्वं माभूदित्यर्थशब्देन विशेष्यते। चोदनाशब्देन च प्रवर्तकं निवर्तकं च वाक्यमु- च्यते ततश्च निषेधवाक्यैः " न हिंस्थात्" इत्यादि- भिरनर्थत्वेन लक्ष्यमाणानां हिंसादीनामपि धर्मत्वं स्यात् तद्व्यावृत्त्यर्थं य एवार्थ रूपेण प्रवर्तकवाक्यैर्लक्ष्य- हतस्तेष्वेव परिभाष्यते । वैशेषिकाश्चात्मनो विशेषगुणं मीमां- सकैकदेशिनस्त्वपूर्वमेव धर्ममाहुः। सर्वेषु चैतेषु लोके धर्म- शब्दप्रयोगाऽदर्शनात् विधिना तेषां श्रेयस्साधनत्वानवगमा. च्च नास्ति धर्मत्वं अतो यागादेरेव धर्मशब्दवाच्यतेत्युपसंहरति । तस्मादिति । अनधिकारिकृतस्य श्रेयःसाधनत्वाभावात् इति भावः । धर्मपदं व्याख्याय सूत्रगतार्थपदव्यावर्त्यमाह । चोदने- ति । चोदनाशब्दार्थमाह । चोदनेति । न न्वेतदयुक्तं लिङादिप- त्ययमात्रस्यैव विधौ स्मरणात् । तस्य च प्रवर्तनाऽभिधानद्वारेण प्रवर्तकत्वं न वाक्यस्य, सत्यं तावन्मात्रस्य प्रवर्तकत्वं, तथाऽपि तेन स्वव्यापारे पुरुषः प्रवर्तते । अंशत्रयात्मिका च भावना तयापा- रः तदंशलाभश्च नर्ते वाक्यात्सिद्ध्यतीति युक्तमुक्तं प्रवर्तकं वाक्यं चोदनेति । तदुक्तम्- "किमाद्यपेक्षितैः पूर्णः समर्थः प्रत्ययो विधौ ।। तेन प्रवर्तकं वाक्यं शास्त्रेऽस्मि श्चोदनोच्यते"(इलो.वा.चो.मू.३) लक्षणपदं च व्यारव्यातप्रायम् । अस्तु वाक्यस्य चोदकत्वं ततः किमतआह । तेनेति । ननु "उभयमिह चोदनया लक्ष्यते ऽर्थोऽनर्थश्च, कोऽर्थो ? यो निःश्रेयसाय ज्योतिष्टोमादिः, को ऽनर्थो ? यः प्रत्यवायाय श्येनो वज्रइषुरित्येवमादिस्तत्राऽनर्थो ध- म उक्तो माभूदित्यर्थग्रहण" मितिभाष्ये श्येनादेरेवानर्थत्वोक्ते- - ७१ [धर्मलक्षणाधिकर०] शाखदीपिकायाम् । ते तस्यैव धर्मत्वं वक्तुमर्थग्रहणम् । भाष्ये च श्येनादिग्रहणं तत्साध्यहिंसादिलक्ष- णार्थम् । उपरिष्टात्-"हिंसा हि सा सा च प्रतिषि- द्धा" इति विवरणात् । स्तद्विरुद्धं हिंसादीनामनर्थत्वकथनमित्याशङ्याह । भाष्ये चे- ति । कथमेवं भाष्यार्थोऽत आह । उपरिष्टादिति । "कथंपुन- रसावनर्थः हिंसा हि सा सा च प्रतिषिद्धा" इत्यग्रिमभाष्य- ग्रन्थेन हिंसारूपश्येनशब्दार्थविधरणादित्यर्थः । नन्वनर्थश्चो- दनालक्षणपदेनैव व्यावर्तितः विधायकवाक्यस्य चोदनात्वात् तेन चाऽनर्थहेतोहिँसाया अलक्ष्यमाणत्वात् प्राणवियोगफल- को व्यापारो हिंसा सा च "नहिं स्यात्सर्वाभूतानि" इति नि षिद्धत्वादनर्थः स तु निषेधलक्षणो न चोदनालक्षणोऽथ चो दनालक्षणत्वाच्छयेनादय एवाऽत्र प्रत्युदाहरणभूताः तर्हि तेषां विधिविषयत्वेन निषेधागोचरत्वादनर्थत्वमेव नास्ति कथमर्थ- पदेन व्यात्तिः स्यात् । अथश्येनादीनामपि हिंसाफलत्वेन निषेधविषयत्वादनर्थत्वं तन्न । केवलनिषेधविषयत्वस्यैवानर्था- पादकत्वात् कलअभक्षणादिवत्प्रत्यवायहेतुत्वात् श्येनादीनां विधिविषयत्वेन षोडशिग्रहणादिवदनर्थत्वाभावात् । उक्तं च- "यद्यपि स्याद्विधिस्पृष्टे निषेधो नैव तादृशात् । विज्ञायते ह्यनर्थत्वं षोडाशग्रहणादिवत्" (श्लो. वा. २०३)। किं पुनरेषां प्रत्यवायहेतुत्वे प्रमाणम् ? प्रतिषेध एवेति चेत् ? प्रतिषेधविधेनअर्थत्वमात्रपर्यवसायितया निषेध्यस्य प्र- त्यवायहेतुत्वबोधने शक्त्यभावात् । निषिद्ध्यमानक्रियायां च रागादिना प्रवृत्तः पुमानधिकारी लब्ध एवेति नाधिकार्यपेक्षा उक्तं च-"निषिद्ध्यमानक्रियाकर्तुरेवाधिकार" इति । किं पु.
७२ युक्तिस्नेहप्रपूरणीसहितायां [अ०९पा०अ०२सू०२ नस्तस्य विशेषणम् ? भक्षयतिरेवेति ब्रूमः विषयविशेषणस्या- ऽपि सतो बलादधिकारिविशेषणत्वोपपत्तेः । यो भक्षयेत्स नेति वचनव्यक्त्यङ्गीकारात् श्रुतिपरतन्त्राणामशब्दार्थकल्पनानुपपत्तेः । अकरणं तु निषिद्धत्वादेव । नहि विधिनिषेधाभ्यामन्यो हेतु- रस्ति प्रवृत्तिनिवृत्त्योः । अत्रोच्यते । निषेधश्रुत्यापत्तिरेव निषिद्धानां प्रत्यवाय- करत्वे प्रमाणम् । विधिश्रुतिविहितानामभ्युदयहेतुत्वे तथैव व्युत्पत्तेः निषेधश्रवणादि दुःखहेतुरयं निषिद्धो विषय इति सर्व एव प्रतिपद्यते । अत एव न तत्र प्रत्तिः । यचधिकारि- लाभे सति न कल्पनाबीजमस्तीति । तन्न । हिताहितप्राप्ति- परिहारार्थिन एव सर्वत्राऽधिकारात् । न भक्षयतिरधिकारि- विशेषणम् । नित्याधिकारेष्वप्युपात्तदुरितक्षयाकरणनिमित्तम- त्यवायपरिहारार्थिन एवाधिकारसमर्थनात् । ततश्चैवं वचन- व्यक्तिः यतो दुःखजन्म तन्नेति । नाऽपि श्येनादयो ऽत्र हिंसा- शब्देनाभिधातुं शक्यन्ते । स्वरूपभेदात्-हिंसा हि श्येनादीनां फलं भवति अभिचारत्वात् अत एवाभिचारिकं कर्मोच्यते । यथाऽऽहु:- "हिंसा हि फलमेतेषां भिन्ना तेभ्यः स्वरूपतः । सा हि प्राणवियोगात्मा श्येनस्तत्रासिवत् पृथक्" (इलो.वा.२०५) अभिचारो मरणं हिंसेति पर्यायः । तद्यथाऽसिना शत्रौ व्यापाद्यमाने छेदनमेवासिजन्यं हिंसा नासिः एवं श्येनजन्यमा- युईभाग्यछेदनमेव हिंसा न श्येनः अतस्तत्र हिंसाभिधानमनु- पपन्नामिति श्लोकार्थः । ननु “सा हि प्राणवियोगात्मा" इत्य- नुपपन्नं पाणवियोगस्य मरणरूपस्य प्रयोज्यव्यापारत्वात् नहि तत्र विधिप्रतिषेधौ सम्भवतः हिंसाशब्दवाच्यमारणप्रयोजक- [धर्मलक्षणाधिकर०] शाखदीपिकायाम् । . व्यापारविषयत्वात्तयोः नहि मरणमेव मारणं स्वरूपभेदाद्यप- देशभेदाच, नहि म्रियमाणो हिनस्तीत्युच्यते । तस्मादययर्थः प्राणवियोग आत्मा ऽवच्छेदको यस्य प्रयोजकव्यापारस्य स प्राणवियोगावच्छिन्नः प्रयोजकव्यापारो हिंसा न स्वर्गपश्वाद्य- वच्छिन्न इति । ननु लोके मरणफलव्यापारस्य हिंसात्व- प्राप्तिद्धः श्येनोऽपि हिंसा स्यात् ? नेति ब्रूमः कूपादौ गवादि. मरणे तत्कर्तुर्गोवधकर्तृतापत्तेः । ननु कूपादेरुपकारफलत्वेन चोदनान मरणफलत्वम् । आसिद्धस्यानुपकारत्वेन तत्फलत्व- सम्भवात् । अथ मरणोदेशेनान्वीयमान इति विशेषणं श्येनश्च तथा कूपादौ च तदभावः ? तर्हि पदद्वयघटितस्य हिंसार्थत्वे गौरवं स्यात् मरणानुद्देशेन क्षिप्तनाराचाद्धतब्राह्मणे च हिंसा न स्यात् । किञ्चाव्यवाहितमरणफलको व्यापारो हिंसा पचती- त्यादावव्यहितफलव्यापारस्यैव धातुवाच्यत्वदर्शनात् । नच श्येनस्तथा, विलम्बेन मरणसाधनत्वात् । अत एव खड्गाद्या- घातेन विषप्रयोगेण वाव्रणपाकपरम्परया यत्र मरणं तत्र न मुख्यं हन्तृत्वं, प्रायश्चित्तोपदेशश्च मुख्यहन्तृत्वसादृश्यज्ञापनार्थः हन्द व्यपदेशस्य तत्र गौणत्वात् । केचित्तु मरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलो व्यापारी हिंसा श्येनश्चादृष्टद्वारा मरणसाधनमतो न हिंसा । यदि चादृष्टद्वाराऽपि मरणसाधनं हिंसा स्वात् तदा सप्तमीतैला- भ्यङ्गानिषेधस्याऽदृष्टद्वारेष्टभार्याविनाशक वादभ्यङ्गक हिंसकत्वा- पत्तिरित्याहुः । तन युक्तम् । उद्देश्यपदेनैव तद्यावृत्ति- सिद्धेः । अभ्यङ्गस्य मरणाद्देशेनाक्रियमाणत्वात् अदृष्टाद्वारक- पदवैयर्थ्यात् । किंञ्च- १ प्रसिद्धस्यति पु० पा० ।
युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा० १०२सूर "सप्तम्यां स्पृशतस्तैलमिष्टाभार्या विनश्यति" इति नायं विधिःकिन्तु सप्तमीतैलाभ्यङ्गनिषेधस्यार्थवादः यथा "तस्याः पुत्रशतं नष्टं तस्मात्ता परिवर्जयेत्" इति विद्धोपवासनिषेधस्यार्थवादः विधिना चापूर्वद्वारक- ल्पनासम्भवात् तावन्मात्रेण च कूपादौ गोमरणेऽपि न तत्क- तुर्गोवधकर्तृत्वं, नाऽपि परिवेषयितुर्भोक्तृहन्तृत्वं, नाऽपि गलल- मान्नमरणे भोक्तुरात्महन्तृत्वं, व्रणपाकपरम्परया विलम्बेना- ऽपि मरणे मुख्यमेव हन्तृत्वम् । नन्वेवं सत्यन्योद्देशेन कृते नाराचप्रक्षेपे तेन च ब्राह्मणे हते तत्कर्तुर्ब्रह्महन्तृत्वं न स्यात् । अत्र कश्चित् इष्टापत्तिरेवात्र, व्यपदेशस्तु गौणः प्रयोगो ल. क्षणया समर्थयितुं शक्यते । अत एवातदुद्देशेन कृते प्रायश्चित्ता. ईमुक्तमित्याह । तदयुक्तम् । ब्रह्महन्तृत्वेनैव तत्र सम्पूर्णद्वाद- शान्दप्रायश्चित्तविधानात् । "विहितं यदकामानां कामात्तद्विगुणं भवेत्" इति स्मरणात् । "प्रायश्चित्तरपेत्येनो यदज्ञानकृतं भवेत्" इत्यज्ञानकृते प्रायश्चित्तविधानाच्च । तस्मादेवं समाधेयम् । उद्देशपदेनात्रमरणफलकत्वमुच्यते मरणमेव फलं यस्येत्यर्थः । अन्योद्देशेन क्षिप्तनाराचस्य लक्ष्यवेधाभावात् मरणमेव फलं पर्यवसितमिति । प्रकृते तु श्येनजन्यमायुदभाग्यच्छेदनमेव हिंसा तस्यैव मरणफलफव्यापारत्वात् न श्येनः । अत एवोक्तं श्येन- स्तत्रासिवत् पृथक् इति । अत्र श्येनापूर्व कुत्र जायत इति वक्तव्यम् । केचिदाहुः-यो यद्गतफलान्विततया क्रियते स तदनुकूलमतिशयं तद्तमेव जनयतीत्याधेयशक्तिसाधकव्याप्त [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ७५ रिमारणरूपफलान्वितयागकर्तरि जायत इति । एकदेशिनस्तु श्येनापूर्वं यष्टुः प्रत्यवायापूर्वं तत्फलं च न वैरिहिंसा, किन्तु स्ववृत्तिरेव नरकः, अपूर्व तु हिंसामनुत्पाद्य नरकं साधयितुं न शनोतीत्यनन्तरं वैरिहिंसामेव जनयति श्येनवत् क्षिपकारित्वात् , हिंसायाः क्षणिकत्वेऽपि तज्जन्यमपूर्व द्वारम् । बलवदनिष्टसाधन- त्वात् कथं तत्र प्रवृत्तिरिति चेत् ? न कथञ्चिदिति ब्रूमः यो हि हिं. सितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेशो नतु विधानं अत एव विध्याभासोऽयमित्याहुः । तदयुक्तम् । “अभिचरन्यजेते"ति वैरिहिंसाफलत्वेन तस्य श्रवणात् । नरकस्य तत्फलत्वेनाश्रवणात् कथं तर्हि श्येनहिंसाकर्तुर्नरकपातःहिंसारूपकर्मकर्तृत्वादिति ब्रूमः। किश्च उद्देश्यफलरूपाया हिंसाया अपूर्वावान्तरव्यापारत्वमुच्य- मानं नरकस्य चाश्रुतस्य श्येनफलत्वकल्पनमलौकिकमेवेत्युपेक्ष- णीयम् । वस्तुतस्तु वैरिमरणोद्देशेन क्रियमाणः श्येनादिः पु- त्रेष्टिन्यायेन फलसमानाधिकरणं वैरिनिष्ठमेवापूर्व जनयति । नन्वभिचारसाधनत्वेन श्येनश्रवणाद्वैरिमारणरूपफलान्विते या- गकर्तरि तदपूर्व कल्पयितुमुचितम् । सत्यम् । तथाऽपि वैरिम- रणस्योद्देश्यत्वेन तत्फलत्वात् मारणस्याऽपि तादात् | हिं- साजन्यापूर्वं तु नरकरूपफलसमानाधिकरणं यागकर्तृनिष्टमेव । एतच्च कृत्वाचिन्तान्यायेनोक्तम् । भार्यापहारनिमित्तकश्येना- धनुष्ठाने प्रत्यवायाभावात् । षडेतानभिचरन् यजेतेति श्रव- णात् । अथ श्येनादयो नैव विधीयन्त इत्युच्यते यदाह-भा- प्यकार: "नैव श्येनादयः कर्तव्यत्वेन विधेया विज्ञायन्त” इति, कथमविधीयमानस्योपदिश्यमानत्वाभिधानं “योहि हिंसितुमिच्छे. त्तस्यायमभ्युपाय इति हि तेषामुपदेश" इति विध्युपदेशशब्दयो- स्तुल्यार्थत्वात् ।
७६ युक्तिस्नेहप्रपूरणीसहितायां [अ०१षा०१अ०२सू०२ अत्र कश्चिदाह-द्वौ विधेापारौ एकस्तावद्धात्व- थफलयोरुपायोपेयभावज्ञापनाख्यः अपरोऽनुष्ठापकत्वरूपः अयं चाधिकारिविधिप्रमितोपायोपेयभावोत्तरकालीनः प्रयोग- विधेापारः स नैव श्येनादय इति अनेन निषिद्ध्यते । तत्र पुरुषस्य लिप्सयैव प्रवृत्तत्वात् । यस्तु ततः पूर्वभाव्यधिकार- विधिव्यापारः तदभिप्रायेण यो हिंसितुमिच्छेदित्यादि । अत एव श्येनेनाभिचरन्यजेतेति हि समामनन्तीत्यनेन श्येनस्योपा- यमात्रतां दर्शयति नाभिचरितव्यमिति च प्रयोज्यतां निषेधति । एवं च सति निपिद्धेषु चोदनालक्षणेषु उपायेषु अनर्थत्वमनि- पिद्धेषु ज्योतिष्टोमादिष्वर्थत्वमिति । तदयुक्तम् । प्रवर्तनैकपरतया विधेः सर्वत्र प्रयोजकत्वाङ्गी- कारात् । न हि प्रथममुपायोपेयभावो विधितः प्रतीयते किन्त्व- नवगतोपायत्वस्यैव भावार्थस्यानुष्टानं इदं त्वं कुर्वितिविधितः । उत्पत्तिविनियोगयोरप्येतनिर्वाहार्थमेव कल्पनात् । उक्तं च--"ए- कस्यैव विधेः प्रमेयभेदादुत्पत्यादयः क्रमभाविन्यश्चतस्रोऽवस्था- भवन्ति" इति । तत्र प्रवर्तनकपरतया प्रयोजकत्वमेव स्वाभावि- कमतः स एव विधिरिति” । यथाऽऽहुः-- "विधात्री च तृतीयोक्ता प्रयोगो यन्निबन्धन" इति । तस्माद्विधेयोभावार्थो न च तं विधिरनुष्ठापयतीति विरुद्ध- म् । यदप्युक्तं लिप्सयैव तत्र प्रवृत्तिरिति । तत्र ब्रूमः लिप्सायाः प्रवर्तकत्वे करणांशवदितिकर्तव्यतांशेऽपि सैव प्रवर्तिका स्या- ततश्च प्रयोगविधेरुच्छेद एव । अत एवाऽऽहुः-- "उपदेशाभिधानं च नाविधेये ऽवकल्पते । श्येनादेराविधाने च कस्याऽन्यस्य विधेयता ।। सर्वत्र च स्थितो न्यायो भावनांशद्वये विधिः।(श्लो.वा.२०६) [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ওও फलांशे भावनायाश्च प्रत्ययो न विधायक" इति च ॥ केचित्तु अविधेयेष्वेव चोदनालक्षणत्वमात्रेणोपदेशवाचोयु- क्तिः क्रमवदित्याहुः । यथा क्रमस्याविधेयस्याऽपि चोदनालक्ष- णत्वं विध्यनुमतत्वात् एवं श्येनादयोऽपि विध्यनुज्ञामात्रेणैव चोदनालक्षणाः न तु विधीयन्ते । विध्यनुज्ञा च विनियोगविष- यत्वात् । न तावत् क्रमस्य यागादिवाद्विधेयत्वमभावार्थत्वात् । नापि दध्यादिद्रव्यवत् , अमूर्तत्वेनाकारकत्वात् । नाऽप्यरुणादिवत् द्रव्यावच्छेदकतया कारकत्वं एकैकपदार्थावच्छेदकत्वेनाऽनुपल- क्ष्यमाणत्वात् अनेकाश्रयत्वात् । नापि सङ्ख्यादिवद्विधानमपृथ- क्पदाभिधेयत्वात् । पृथक्पदाभिधेया हि सङ्ख्या भवति "तां चतु- भिरभ्रिमादत्त" इति । सा कथं चिद्विधीयेताऽपि न चैवं क्रमः, प्रचयावगम्यत्वात् । तथा चेदं कृत्वा इदं कुर्वीत इति पदार्था एव कर्तव्यबुद्ध्या गृह्यन्ते न क्रमः । पदार्थानां च बहूनां युगपदेकेन कर्ताऽनुष्ठातुमशक्यत्वात्प्रयोगविधिः क्रममभ्यनुजानाति । ताव- न्मात्रेण क्रमः शास्त्रार्थः । एवं च श्येनादयोऽपि न विधीयन्ते नियोगविषयभावगत्या तु चोदनालक्षणा इत्युच्यन्ते । अविधे. यत्वाच्च निषेधविषयत्वोपपत्तिः । अत एव चोभयमिह चोदनया लक्ष्यते इत्यादिश्येनस्वरूपाभिप्रायमेव । हिंसा होत्यपि श्येनस्व- रूपाभिप्रायमेव । प्राणवियोगफले व्यापारो हिंसा श्येनश्च तथाऽतः सोपि हिंसैव । न च श्येनानन्तरमेव निधनानुपलम्भनात् न श्येनो हिंसेति वाच्यम् । किञ्चिद्विलम्बेऽपि तस्य तत्फलत्वा- ऽनपायात् । खड्गाभिहतेऽपि कचिद्वणपाकादिनापि विलम्ब- सम्भवात् अतश्चोदनालक्षणोनिषिद्धत्वेनानर्थश्च श्येनादिर्धर्मो मा. भूदित्यर्थग्रहणम् । नैतदपि युक्तम् । दृष्टान्तासिद्धेः । क्रमस्य विधेयत्वाङ्गीकारात् । यत्र विधि विना पुरुषस्याप्रवृत्तिस्ताद्विधेयं, ७८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ न च फलादन्यत्र पुरुषो रागादिना प्रवय॑ते । न च दीक्षाक्रमा- नुष्ठाने रागादयः प्रवर्तकाः । कथं तर्हि तत्र प्रवृत्तिरिति चेत् विधेरेवेति ब्रूमः विधिर्हि साङ्गे प्रधाने कर्तारमायोजयन् तावत- चैकेन क; युगपदनुष्ठातुमशक्तेरानुपूर्व्यलक्षणं क्रममप्यनुष्ठाप- यति । पाञ्चमिकश्रुत्यादिसहायश्च तत्क्रमानुपूविशेष शाखार्थतया नियच्छति अविनियुक्तस्यानङ्गत्वात् । कथं प्रयोगविधिना- उनुष्ठापनमिति चेत् न । अविनियुक्तस्याऽपि पश्वकत्ववदङ्गत्वोपप- तेः । अन्ये पदार्थाः कर्मस्वरूपानुबन्धाः पृथगङ्गत्वेन विनि- युज्यन्ते क्रमस्तु देशादिवत्मयोगानुबन्ध इति नास्य पृथग्विनि- योगः। किञ्च "अध्वर्युग्रहपति"मित्यादेः क्रमं विना किमन्यद्विधेयं स्यात् कर्तुदीक्षयोनोर्देकादेव प्राप्तेः । नापि वाचकानुपपत्तिः क्त्वाश्रुतेरेव तद्वाचकत्वात् “वषट्कर्तुः प्रथमभक्ष" इत्यादौ चा- नन्यपराभिधानावगमाद्विधेयत्वं सिद्ध्यति । "वेदं कृत्वा वेदि करोति" इति सक्रमपदार्थकर्तव्यतावगपात् । एवं च क्रमस्य विषेयत्वान्न तनिदर्शनेनाविधानमेव श्येनादीनामतोनोदनालक्ष- णत्वासिद्धिः। किश्चाऽत्र श्येनादीनामविधेयत्वे किमन्यद्विधेयमिति वक्तव्यम् ? अङ्गानि विधीयन्ते इति चेत् साधनांशवत्तेष्वपि रा- गादेव प्रवृत्तिसिद्धेः । किश्च विधिविषयाः श्येनादयो न विधी- यन्ते इति महदाचर्यम् । अविधेयस्य विधिविषयत्वानुपपत्तेः । अविधेयत्वे च भावनांशद्वये विधिरिति स्थितसिद्धान्तहानिः स्यात् । एवमंशद्वयस्याविधेयत्वे ज्योतिष्टोमादेरपि विधेयत्वं न स्यात् ततश्चाधर्मत्वापत्तिः । निषिद्धत्वाभावादेव धर्मत्वं भवि- प्यतीति चेत् । न । निषिद्धाङ्गत्वेन प्रत्यवायावहत्वादधर्मत्वाप- तेः । यद्यपि स्वरूपेण ज्योतिष्टोमादयो न हिंसा तथाऽप्यग्नीषो- . मायादिपशुहिंसा तेषां साधनं सा चांशद्वयगामिन्यपि विध्यसं [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ७९ स्पर्शान्निषिद्धा, अतो निषिद्धाङ्गत्वेन प्रत्यवायजनकत्वं, विधेयत्वा भावे यागस्य फलाङ्गत्वं न स्यात् । तथेतिकर्तव्यताया अपि फलवत्साधनाङ्गत्वाभावः प्रसज्येत । स्यादेतत् साधनत्वेन विहिता अपि साध्यतया न विधीयन्त इति कृत्वा अविधेया इत्युच्यन्ते, अत एवाह "नैव श्येनादयः कर्तव्यतया विज्ञाय- न्त" इति । मैवम् । साधनत्वेनाऽपि विधिसंस्पर्शेनानर्थत्वाऽस- म्भवात् विधानमात्रस्यानर्थत्वापरिपन्थित्वात् । वस्तुतस्तु सा- ध्यत्वेन विधानमनङ्गीकारपराहतमेव मीमांसकानाम् । "स्वयमेव हि जानन्ति कर्तव्यं पुरुषाः सदा" इति साध्ये स्वयमेव पुरुषप्रवृत्तिसम्भवात् । तस्मात् न श्येनादिनिवृत्तिरर्थशब्दस्य प्रयोजनमित्यन्यथा वर्णनीयम् । अत्रोच्यते । प्रवर्तकं निवर्तकं च वाक्यं चोदनाशब्देनोच्यते- ऽतोनिषेधचोदनालक्षितानां धर्मत्वं निवर्तयितुमर्थशब्दः । तदुक्तम्- "प्रवृत्तौ वा निवृत्तौ वा या शब्दश्रवणेन धीः । साचोदनेति सामान्यलक्षणं हृदये स्थितम्" (श्लो.वा.२१०)।। अत एव ग्रन्थकारेण यथाश्रुतं भाष्यमुपेक्ष्य प्रवर्तकं निव- तकं च वाक्यं चोदनेत्युक्तम् । कथं तर्हि भाष्यकारस्य प्रवर्तक- वाक्यमात्रोपन्यासः? निवर्तकवाक्योपलक्षणार्थमिति ब्रूमः । यदि प्रवर्तकैकार एव भाष्याभिप्रायो भवेत्तदाऽर्थशब्दस्यैवरूपा व्याख्या नोपपद्यत अनर्थानामप्रवर्तकवाक्यलक्षितानामचोदना- लक्षणत्वात् । अर्थशब्दसहितस्य वा चोदनाशब्दस्यतयाख्यानं "प्रवर्तकं वाक्यं चोदने"ति। अर्थस्य हि प्रवर्तकवाक्यलक्षणत्वात् । अथ वा चोदनासूत्रे सूत्रकारेण सुचितम् । धर्मप्रमाणमेवेति तल्लक्षणमुदीरितम् ॥ १ नर्थत्वापरि इति पु० पा० ।
युक्तिमोहमपूरणीसहितायां [अ०१पा०११०२सूर० धर्मस्य प्रवर्तकवाक्यप्रमाणत्वात् । एवं च द्विविधचोदना- पक्षे विधिचोदनाभ्यो विधेयानां ज्योतिष्टोमादीनामर्थत्वेनावधा- रणं निषेधचोदनाभ्यश्च निषेध्यानां ब्रह्महत्यादीनामनर्थत्वेन निर्णयः एवमुभाभ्यां चोदनाभ्यामर्थत्वानर्थत्वे लक्ष्येते तल्लक्षणा- नां ज्योतिष्टोमादीनामत्रार्थग्रहणेन धर्मत्वमुक्तम् । विधेयार्थानां च धर्मत्वे कथिते विपरीतार्थानामधर्मत्वमर्थसिद्धमिति तत्सूत्रका- रेण पृथन मूत्रितम् । अत उभयमित्यादिग्रन्थोविधेयप्रतिषे- ध्ययोर्यागादिब्रह्महत्यादिवर्गयोनिदर्शनार्थोऽवगन्तव्यः । कथं तर्हि ब्रह्महत्यादिवर्गपरित्यागेन श्येनाडुपन्यासः श्येनादयो हि विधेयत्वेनेष्टसाधनाः स्वर्गादपि शत्रुवधस्पेष्टत्वात् । सत्यम् । श्येनः स्वयामिष्टसाधनत्वादर्थात्मकोपि अनर्थानुबन्धी, तत्फलस्य हिंसारूपस्याऽऽयुर्दभाग्यच्छेदात्मकस्याविहितत्वानिषिद्धत्वाच्च । तदिदं कार्यगतमनर्थत्वं श्येन उपचरितं, कारणे कार्यवदुपचा- रात् । अथवा श्येनशब्द एव फल उपचरितः कार्ये कारणवदुप- चारात् "हिंसा हि सा सा च प्रतिषिद्धति" न श्येनरूपाभिप्राय प्रतिषेधाभिधानमुपपद्यते तस्य विहितत्वेन प्रतिषेधविषयत्वा- सम्भवादहिंसात्वात् अतस्तत्फलाभिप्राय एव श्येनाद्युपन्यास इति भाष्यकारस्योपचारोऽभिप्रेतः नाभिचरितव्यमित्यत्राप्याभि- चारस्यैव श्येनफलस्य निषेधं दर्शयन्न श्येनस्वरूपं निपिद्धमित्या- ह । यदा तु चोदनाशब्दो यथाश्रुतभाष्यानुरोधेन प्रवर्तकवाक्य- पर एवं व्यवस्थाप्यते तदाप्युभयमिह चोदनया लक्ष्यत इत्या- दिको ग्रन्थो व्याख्याविशेषेणोपपादयितुं शक्यते । तथाहि-उ- भयं साध्यं साधनं च विधायिकया चोदनया लक्ष्यते । ननु फलांशे स्वयमेव पुरुषाणां प्रवृत्तिसम्भवात्साध्यांशविधानाभि- धानमयुक्तम् । सत्यम् । साधनेतिकर्तव्यतांशगोचरमेव वि- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ८१ - धेः प्रवर्तनं तथाऽपि स्वर्गयागादीनां साध्यसाधनसम्बन्धवि- धिप्रमाणकत्वात्साध्यांशविधानाभिधानमुपपनम् । एवं च फलं साधनं चोभयमपि चोदनालक्षणमित्युक्ते पुनरिदमुच्यते । फलं च यागादीनां द्विविधं अर्थोऽनर्थश्च । तत्र ज्योतिष्टोमादीनां तावत्स्वर्गाद्यर्थरूपं फलं प्राप्यतेऽप्रतिषिद्धत्वात् । श्येनादिफलं तु हिंसाधनर्थरूपं प्रतिषेधसद्भावादवाप्यते । एवं च सत्यर्था- स्मकस्य फलस्याऽपि यत्साधनं सोऽप्यर्थ इति अतोऽर्थात्मक- फलसाधनस्य ज्योतिष्टोमादेर्द्धमत्वं वक्तुमर्थपदं प्रयुक्तमित्युक्तं भवति । उक्तं चान्यत्र- "तस्याऽपि साधनं यत्तदर्थ एवाभिधीयते । वक्तुं तस्यैव धर्मत्वमुक्तमर्थविशेषणम्" । एवं श्येनादेरप्यनर्थफलसाधनत्वादेवानर्थत्वम् । अत एव भाष्ये श्येनादिफलपर एव श्येनादिप्रयोगोऽवगन्तव्यः । ननु श्येनादिविधिसामर्थ्यादेव श्येनफलमासाद्यमानं कथमनर्थः स्या- त् ? न हिंस्यादित्यादिशास्त्रान्तरेण निषिद्धत्वादिति ब्रूमः । ननु विधिस्पृष्टे निषेधानवकाशः सत्यपि वा प्रतिषेधे नैवंविधस्या- नर्थत्वमित्युक्तम् । सत्यम् । फलमुद्दिश्य श्येनाविधीयते, एताव- त्येव फलस्य चोदनालक्षणता, न तु फलमेव विधीयते भावना- याः फलांशे प्रत्ययस्याविधायकत्वात् । वक्ष्यति च " जानात्ये- वाऽयं पुरुषोमयैतत्कर्तव्यमुपायन्तु न वेदे"ति । अतः स्वयमेव तत्र पुरुषप्रवृत्तेः न तद्विषयकप्रवृत्तिज्ञापनं विधेः फलम् । साधनेति- कर्तव्यतयोस्त्वप्रवृत्तः पुरुषः प्रवर्त्यत इति तयोविधेयत्वम् । वक्ष्यति च सूत्रकारः "तस्य लिप्साऽर्थलक्षणेति । अतः श्येनफला- शोपनिपातिन्यां हिंसायामेव तत्प्रतिषेधो विधिना न वारित इत्य- नर्थतामापादयति । श्येनस्य तु सत्यप्यनर्थहेतुत्वे विधिसंस्प- ?
८२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०२१०२ शेन निषेधाभावान स्वरूपेणानर्थत्वम् । ननु ध्यंशभावनावि. धानाङ्गीकारात् फलस्य च तदंशत्वात्कथमविधेयत्वम् । मैवम् । उक्तोत्तरत्वात् फलांशस्याऽप्युक्तरीत्या विधिसंस्पर्शात् । श्येनस्य तु स्वरूपेण विधेयत्वं स्फुटीकृतं चैतद्भाष्यकारेण योहीत्यादिना लक्षणे शतुरुत्पत्तिं दर्शयता । अत्रोंवेकभरिदं तु वार्तिककारीयं दूषणं समर्थनं च सर्वमेवालूनविशीर्णमित्यादिना श्येनादौन कस्य चिदनर्थत्वं, ब्रह्महत्यादय एव त्वनर्थत्वेनार्थपदव्यावाः, श्येना- दीनां तु न साक्षान्नाप्युपचारेण, नापि तत्फलस्यानर्थत्वमिति तस्यानर्थत्वप्रतिपादनपरं श्येनो बन्न इत्यादिभाष्यमुपेक्षणीयम् । "गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते'' इत्यन्तेन ग्रन्थेन वार्तिकं भाष्यं च दूषितं तदस्माभिर्ग्रन्थ- विस्तरभयात्मकृतानुपयोगाचन लिखितम् । एवं च साधनेतिकर्त- व्यतयोर्विधेयत्वे देशपश्वादिहिंसाऽपीतिकर्तव्यतारूपा विधीयत एव । फलांशस्थैव तु वैदिकी हिंसा न हिंस्यादिति नि- विद्ध्यते । नन्वेवं सति फलांशोपनिपातिनी सर्वस्वारहिंसा- ऽनर्थो भवेत् । मैवम् । तीर्थबहिर्भूताया एव यज्ञे हिंसाया निषेधात् । इयं तु तीर्थमध्यगता हिंसा विधिस्पृष्टैवेति नानर्थः श्येनफलं तु चिराविपन्ने श्येने तज्जन्यापूर्वच्छिन्नभाग्येषु शत्रुषु विद्यमानेषु भवतीति तीर्थबहिर्भावादनर्थ इति तेन क्र. तुबहिभूता हिंसा वैदिकी निषिद्धयते नान्तःक्रत्विति वि- वेकः । यद्यपि न हिंस्यादित्यादि सामान्येन निषेधेन हिं- सामावनिषेधप्रतीतेः साधनेतिकर्तव्यतारूपा हिंसा निषेधुं शक्यते तथाऽपि पदहोमवत् विशेषेण सामान्यस्य बाधात् न त- १भारते रामायणे चैतत्पद्यमस्ति । ना धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ८३ तथाभावस्य निषेधः । ननु केयं साधनांशगामिनी हिंसा ? न ताव- च्छयेनादिः तस्याहिंसात्वस्योक्तत्वात् । नापि दैक्षपश्चादि- हिंसा तस्या इतिकर्तव्यतात्वात् । उच्यते । प्रधानपशुहिंसै- वात्रोदाहरणं यथा “वायव्यं श्वेतमालभेत भूतिकाम" इति । इयेनोदाहरणं त्वसत्सु भार्यापहारादिषु मन्युहेतुष्वनर्थतया दर्शितम् । आततायिनां वधे दोषाभावस्मरणात् “पढेतान- भिचरन यजेतेति" बौधायनिकाः पठन्ति । "नाततायिवधे दोषो हन्तुर्भवति कश्चन" इत्यादिस्मृतेश्च । नन्वंशद्वयगतहिंसाया अप्रतिषिद्धत्वेऽपि हिंसात्वेनैवाऽनर्थत्वमस्तु । न । निषेधानवष्टब्धत्वेन प्रत्यवायज- नकत्वाभावात् । शास्त्रैकसमधिगम्यत्वात् । नहि त्रिवृत्पानविरेकयोरिव साध्यसाधनभावो, हिंसापत्यवाययोः प्रत्यक्षेणैवावगन्तुं शक्यते । नापि बाह्यहिंसावद्विचिकित्साबलेना- त्रानर्थत्वं शास्त्रीयत्वेन विचिकित्साया अभावात् । नापि “हिं- स्यमानदुःखदर्शनेन कर्तुर्दुःखानुमानं यथाऽऽहुद्धाः “तया च नारीष्वपि सिद्धमित्यादि" तत्काले तत्कर्तुः मुखोपलम्भात् । कालान्तरे दुःखं भविष्यतीति चेत् । न । तस्य प्रत्यक्षागोचर- त्वात् । प्रत्युत हिंसा सुखकरी हिंसात्वादघवदिति प्रत्यक्ष- दर्शनानुसारेण विपर्ययस्यैवानुमातुं शक्यत्वात् । अत्र क- श्चित् विवादपदं हिंसा प्रेत्यकर्तुर्विषयतुल्यफलदात्री क्रिया- विशेषत्वात् शास्त्रोक्तदानवदित्याह । तन्न । विपक्षे गुरुस्खीग- मनादौ हेतोरनैकान्तिकत्वात् । हिंसा प्रत्यकर्तुरदुःखात्मकफ- लजनिका क्रियाविशेषत्वाच्छास्रोक्तदानवदिति साध्यविप- र्ययसाधनाविरुद्धोऽयं हेतुः साध्यविकलचाऽयं दृष्टान्तः स. १ तै० सं० २ का० १०॥ २ तत्त्वंश इति पु० पा० ।
युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०म०२सू०२ म्यदानतुल्यफलाभावात् । अन्या हि प्रीतिदृहीतवतो भवति दातुस्तु सवत्सारोमतुल्यानि वर्षाणि स्वर्गो भवतीति शास्त्रे- णावगम्यते । अपि च जपादयः क्रियाविशेषा न परेषां पी- डानुग्रहयोर्वर्तन्ते चोदितत्वमात्रेण तेषामर्थत्वावगमात् अतस्तद् दृष्टान्तेन चोदिता हिंसाऽर्थ इत्यपि शक्यते साधयितुमतो विरु- द्धाव्यभिचारी हेतुः । किञ्च-. "शास्त्रममाणयोर्धर्माधर्मयोरनुमानगाः । त्यक्तमन्दाक्षमन्दानामुपहासाय केवलम्" ॥ अधिकंतु वार्तिके ऽवगन्तव्यम् । ननु निषेधशास्त्रेण हिं- सामात्रस्य प्रत्यवायशक्तिरवबोधिता सा च दैक्षपशुहिंसायामपि सम्भवति नहि विशेषविधानेन देक्षपशुहिंसातः सा शक्तिरुत्सा- यते शास्त्राणां वस्तुगतविद्यमानशक्तिबोधकत्वात् नहि शास्त्राणां शक्त्यावापोद्वापयोः सामर्थ्यमस्ति अतो देशपशुहिंसाया अ- पि शास्त्रानुसारेणैवानर्थत्वमापतति । तत्कि निषेधशास्त्रात्सु- रापानस्य प्रत्यवायजननशक्तिरवगतेति शूद्रस्याऽपि प्रत्यवायं जनयिष्यति वैश्यस्तोमस्य वैश्यं प्रति फलजननशक्तिर्दर्शितेति विप्रराजन्य योरपि तत्काः फलं स्यात् ? एवमन्यदप्यूह्यम् । तस्मा- च्छास्त्रानुसारेण कर्मणां फलजननशक्तिरास्थया । यथाऽऽहुः- "एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् । सुरापानादिभिः शूद्रः किं याति नरकं कृतैः ।। वैश्यस्तोमेन किं वा स्यात् विप्रराजन्ययोः फलम् । पञ्चम्यामिष्टिकरणान्मध्याह्ने चाग्रिहोत्रतः ।। तस्माद्ययादृशं कर्म यादृशोत्पत्तिहेतुकम् । शास्त्रेण गम्यते तस्य तादृशस्यैव तत्फलम्"(इलो.वा.२५४) एव सामान्यतो हिंसामात्रे प्रतिषेधाज्जातं प्रत्यवायहेतुत्वज्ञा- धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । नं तीर्थेषु “योदीक्षितो यदग्नीषोमीय" मित्यादिविधिना बा- ध्यते । यद्यपि च न शास्त्रस्य शक्त्याऽऽघापोद्वापयोापारस्त- थाऽपि तदनुसारेणैव तत्तक्रियाभदव्यवस्थिता एव शक्तयो- ऽवगम्यन्तेऽतो नातिप्रसङ्गः । कथमेकस्यैव कर्मणः शक्तिभावा- भावाविति चेत् लौकिकर्मवदितिब्रूमः । यथैकमेव भोजनं स्व- स्थातुरकर्तृकं भिन्नशक्तिकं दृष्टं एवमदृष्टार्थेष्वपि कर्मसु भवि- ध्यति । यथा च तत्र स्वस्थातुरकर्तृभेदनिबन्धनभोजनव्य- क्तिमाश्रित्य शक्तिभेदः समाधीयते एवमिहापि हिंसाव्यक्ति- भेदादुपपन्नः शक्तिभेद इति । किंञ्चाङ्गहिसायां पुरुषार्थत्वे सि- द्धे कदा चिदनर्थोऽपि फलतया कल्प्येत । नचैवं, प्रकरणविनि- योगेन क्रत्वर्थत्वावगमात् क्रत्वर्थत्वेऽपि चेयं पशुसंस्काररूपा न प्रयाजादिवदारादुपकारिका, हिंसापूर्वमेव विशसनादिसंस्का- रानुष्टानात् पशुं संज्ञपयतीति पशोः प्राधान्यश्रुतेः । संस्कार- त्वेऽपि वाऽस्या अयं विशेषो यदियं दृष्टार्थ एवावघातादिव- म प्रोक्षणादिवददृष्टार्थः । कोऽस्या दृष्टोर्थ इति चेत् क्रत्वपेक्षितै- कादशावदाननिष्पत्तिरेव । नचासति हिंसासंस्कारे पशो- रेकादशावदाननिष्पत्तिः सम्भवति हिंसानन्तरमेव हृद- याद्यवदानसम्भवात् अवघातानन्तरं वैतुष्यवत् । किञ्च श्ये- नादीनां ज्योतिष्टोमप्रकृतित्वाचोदकप्राप्ताङ्गरूपा हिंसा तत्रापि नाऽधर्मः । एवं चत्र्यंशभावनाविधानेऽपि विधेर्हसवत् नीर- क्षीरविवेकात्माप्तपरिहारेणाप्राप्तमेव विधिनातीति भाव्यांश- स्य च रागादेव प्राप्तस्तत्परिहारः । अतः श्येनादीनां स्वतो न धर्मत्वं पारम्पर्येणानिष्टसाधनत्वात् । नाप्यधर्मत्वं प्रतिषे- धाभावात् । औपचारिकस्तु तत्रानर्थशब्दप्रयोग इति सिद्धम् । यत्कर्म फलद्वाराऽपि नानर्थेनानुबध्यते तत्रैव लोके धर्मशब्दः युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सू०२ प्रसिद्धः । नन्विष्टाभ्युपायश्चोदनालक्षणो धर्म इत्युच्यते श्येन- व तथा, अतः फलस्यानर्थानुबन्धित्वेऽपि स्वतो धर्म एवायं वक्तुमुचितः । सत्यमेवैतत् । श्येनफलस्य तावनिषिद्धत्वेना- धर्मत्वमित्येतावदविवाद, श्येनादिस्वरूपं तु विचारयितव्यं त- त्र यद्यनिष्टानुबन्धरहितेष्टाभ्युपायचोदनालक्षणो धर्म इति लो- के प्रसिद्धिस्तदा न श्येनादीनां धर्मत्वं फलद्वारा निष्टानुब- न्धित्वात् । यदि तु परम्परयाऽननुबन्ध्यप्याहत्य प्रीति- फलो नोदनादिलक्षणो धर्म इति तदा श्येनादीनामपि धर्म- त्वं । यस्तु हिंसात्वसाधम्र्येण बाह्यहिंसावदनीषोमीयादि- ध्वप्यनर्थत्वमित्याह तस्याऽऽगमविरोधो वक्तव्यः । तथाहि श्रू. यते "ऋतौ विधानसामर्थ्यादन्यत्र तीर्थेभ्य" इति । स्मर्यते च "यज्ञार्थं पशवः सृष्टा" इत्यादि । नन्वेवंसति चोदनालक्षणो- धर्मो नेन्द्रियादिलक्षणः अर्थो धर्मो नानर्थ इति वाक्यं भिधे- त । पौरुषेयेषु नायं दोषो विशेषतः सूत्रेषु बर्थसूचकत्वादि- ति चेत् । न सूत्रवाक्यस्याऽपि प्रमाणान्तरामतिपनवेदार्थ- प्रतिपादकत्वेन वेदतुल्यत्वात् । उक्तं च- "नान्यतो वेदवियश्च सूत्रवृत्तिक्रियेष्यते" (श्लो.वा.४२)। उभयं च वेदसूत्रात्मकं वाक्यं वाक्यभेदादिदोषादश- तं अन्यपरस्य चाऽन्यार्थप्रतिपादनाशक्तेः । उच्यते । प्रमा- णान्तरपतिपन्नार्थसूचकत्वात्सूत्रस्य नाऽयं दोषः । प्रमाणान्तरेण चोदनालक्षणो चर्थघ लोके धर्मत्वेन प्रसिद्धः ततो यथा तमर्थ सासाधयति तथा व्याख्येयम् । उक्तश्च- "तस्मादावर्तते सूत्रं तन्त्रं वा शक्तिभेदतः । एकदेशानुमानाद्वा द्वे सूत्रे परिकल्पिते" ॥ ननु सूत्रदयकल्पनायां चोदनालक्षणो धर्म इत्यत्रानर्थस्था- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । ऽपि धर्मत्वं प्रामोति, अर्थो धर्म इत्यत्र च कृष्यादेरपि, नैवम् । "इतरेतरसामीप्यादेतावेव परस्परम् । कल्पेते वाक्यशेषेण नान्यावयवकल्पना" || यदर्थो धर्म इत्येकत्र सूत्र उक्तम् । तच्चोदनालक्षण इति । यच्चोदनालक्षण इत्येकत्रोक्तं तदर्थ इति । अथवा अर्थस्य सत- श्रोदनालक्षणधर्मत्वमुच्यते एकार्थमेवेति । अस्मिन्पक्षेऽर्थवि- शेषणविशिष्टचोदनालक्षणानुवादेन धर्मविधानमापद्यते । तथा च विशेषणविशेष्योभयपरत्वात् वाक्यभेदस्तदवस्थस्तस्माद्वाक्यभे- दपरिहाराय पूर्वोक्तमेव युक्तम् । अत्रेदमुच्यते । यदि सामा- न्यतः सिद्धं धर्ममनूध चोदना प्रमाणत्वेन विधीयते तदाऽनर्थ- स्य धर्मत्वं न प्रामोत्येव अर्थस्यैव धर्मत्वात् अतो नार्थशब्द- ब्दव्युदसनीयं पश्यामः । सत्यमेवम् । तथाऽप्यभिमतवचन- व्यक्तिलाभार्थमेवार्थशब्दप्रयोगः तदभावे हि वचनव्यक्तिसन्दे- हो भवेत् यश्चोदनालक्षणः स धर्म इत्यपि वचनव्यक्तिः सम्भा- व्यते अस्यां च ब्रह्महत्यादीनामपि निषेधविधिलक्षितानां चो- दनालक्षितत्वात् धर्मत्वमापद्येत । न चाऽस्यां वचनव्यक्ता- वर्थशब्दो विधातुं शक्यते वाक्यभेदप्रसङ्गात् । नाप्यनुवदितुं, प्राप्त्यभावात् । नहि चोदनालक्षणोऽर्थसम्बन्धं न व्यभिचरति अनर्थस्यापि तल्लक्ष्यत्वात् । न च तत्परित्यागो युक्तः एकदेश- परित्यागेन सूत्रानर्थक्यापत्तेः । यो धर्म इत्यस्यां तु वचनव्य- क्तौ धर्मस्वार्थत्वाव्यभिचारादनुवादकत्वेनान्वयः अतो विध्य- नुवादयोर्विशेषसूचनार्थ एवायमर्थशब्दो न विशेषणम् । नन्व- स्यां वचनव्यक्तावर्थशब्दस्याविशेषणत्वात् “उभयमिह चोदन- या" इत्यादिभाष्यमसम्बद्धं स्यात् तत्राऽनर्थो धर्म उक्तो माभूत् इत्यर्थग्रहणमिति. व्यावर्तकत्वेन विशेषणत्वाविधानात् ।
८८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०२सू०२ केचित्तु-लक्षणां परिहरन्तः श्येनादिस्वरूपमेवा- र्थपदस्य व्यावत्यं मन्यन्ते, तेषामेव "नैव श्येनादयः कर्तव्या विज्ञायन्ते" इति विधेयत्वनिराकरणेन प्रति- षेधविषयत्वसमर्थनात् । कथं पुनस्तेषां विधेयत्वं नि- राक्रियते ? तत्राहुः-यस्य हि विधिः स्वसिद्ध्यन्यथा- नुपपत्त्याऽनुष्ठानमाक्षिपति तबिधेयमित्युच्यते, का- उच्यते । नायमभिप्रायो भाष्यकारस्य यदेतद्विशेषणं सदनर्थ- स्य व्यावर्तकमिति । किं तर्हि ? अर्थ शब्दप्रयोगे सा वचन- व्यक्तिरेव न सम्भवति यथाऽनर्थस्य धर्मत्वं प्राप्नोतीत्यर्थ- शब्दप्रयोगस्यैतत्फलं यदर्थनिनिरित्यभिप्रेत्योक्तं अनर्थों धर्म उक्तो माभूदित्यर्थग्रहणमिति । एवं च वचनव्यक्तिविशेष- परिग्रहार्थोऽर्थशब्द इति भाष्यकारेण दर्शितं भवति । किञ्च प्रमाणवचनव्यक्त्याश्रयणे प्रमाणलक्षणस्यादौ निवेश उपपद्यते तत्पतिज्ञानात् । स्वरूपवचनव्यक्त्याश्रयणे तु धर्मस्वरूपपरं भेदलक्षणमेवादौ क्रियेत न च तथाऽकरोत्तस्मात्सूत्रकारस्यैषैव वचनव्यक्तिरभिप्रेता। मन्थव्याख्याप्रसङ्गेन श्येनटीकार्थवर्णनम् । मीमांसकोपयुक्तस्वात्सङ्केपेणमया कृतम् ।। अत्र प्रसङ्गादेकदेशिमतं दूषयितुमुपन्यस्यति । केचित्वि- ति । अस्मिन्पक्षे श्येनादिग्रहणं हिंसालक्षणार्थमिति यदुक्तं तत्परिहृतं भवतीत्यर्थः । अत्रोपपत्तिमाह । तषामेवेति । यस्मा. बैव श्येनादय इति भाष्येण तेषां श्येनादीनामेव विधेयत्व- निराकरणेन प्रतिषेधविषयत्वं समर्थितं तस्माच्छयेनादिस्व- रूपमेवार्थपदस्य व्यावामित्यर्थः । विधेयत्वनिराकरणमेव प्रश्नपूर्वकमुपपादयति । कथमिति । श्येनादीनामपि काम्यत्वा- [धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । म्येषु च कर्मसु कामनावशादेव प्रवृत्तिसिद्धेस्तत एव विधिः सिद्ध्यन्नऽन्यथानुपपत्त्यभावान्न स्वयमनुष्ठान- माक्षिपति । ननु कर्तव्यताबोधनमेव प्रवर्तनं कर्तव्यता च वेदे यागस्य लिडैव बोधितेति कथमविधेयत्वम् ? । स. त्यम्, न तु यागस्य कर्तव्यता लिङाऽभिधीयते, स्वार्थस्य कर्तव्यतां लिङऽभिधत्ते यागश्च तस्य विषयः करणं च, सोयं कर्तव्यतात्मा नियोगार्थोऽन्यथानुपप- त्या स्वविषयस्य कर्तव्यतां बोधयन्नऽनुष्ठापक इत्यु- च्यते । श्येनादीनां तु रागादेवानुष्टानसिद्धेनं नियो- गस्तेषामनुष्ठानमाक्षिपतीति न तेषां विधेयत्वम् । असति च विधेयत्वे तेषां निषेधविषयत्वादनत्वमि- ति तव्यावृत्त्यर्थमऽर्थपदमिति । तत्रेदं वक्तव्यम्-कस्मिन्नंशे तेषां व्यावृत्तिरिति । धर्मत्व इति चेत् ?, न, तत्स्वरूपानभिधानात् । इदं हि सूत्रं वेदार्थस्य कार्यत्वप्रतिपादनार्थ न कर्म- स्वरूपलक्षणार्थ यतः श्येनादीनां धर्मत्वं मा प्रसाशी- दित्यर्थपदेन व्यावृत्तिः क्रियेत । तवाऽपि कामवशादेव प्रवृत्तिसिडेार्थो विधिनेति भावः । अत्र चोदयति । नन्विति । परिहरति । सत्यमिति । स्वार्थस्य नि- योगस्येत्यर्थः । कथमविधेयस्य यागस्य कर्तव्यतासिद्धिरत आह । सोऽयमिति । श्येनादीनामपि नियोगादेवानुष्ठानसिद्धे- विधेयत्वमाशयाह । श्येनादीनामिति । दूषयति । तत्रेदमिति । तदिति । तन्मतेन सूत्रेण तत्स्वरूपानभिधानात्-धर्मस्वरूपान- १२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०२सूर यदि परं कार्यत्वव्यावृत्तिः स्यात्सा चायुक्तेत्युक्त प्राक् । भवतु वा वाक्यभेदाङ्गीकारेण धर्मलक्षणार्थ- मपि सूत्रं तथापि चोदनालक्षणपदेन कार्यात्मकमपूर्व- मुद्दिश्य तस्य धर्मत्वमुच्यत इति वो मतम्, तत्र श्ये- नादियागस्य कः प्रसङ्गो ययावृत्त्यर्थमर्थपदं स्यात् ? न हि ज्योतिष्टोमादियागस्यापि धर्मत्वमस्ति, अपूर्व- स्य धर्मत्वाभ्युपगमात् । अथ श्येनाद्यपूर्वस्यैव धर्मत्वमर्थपदेन व्यावय॑ते ? ततो भाष्ये श्वेनादिशब्देन कर्मनामधेयेन तत्साध्य- मऽपूर्व लक्ष्यते इत्यऽविशिष्टा लक्षणा स्यात् । यदि चापूर्वमेव प्रत्युदाहरणम् ततो-"हिंसा हि सा सा च प्रतिषिद्धा" इति भाष्यमसङ्गतं स्यात् । श्येनयागो वा तत्फलं वा हिंसा, न त्वऽपूर्व कथं चिदपि हिंसा- पदास्पदम् । आस्मिंश्च कल्पे-“कथं पुनरसावनः क- तव्यतयोपदिश्यते" इति चोद्यम् “ नैव श्येनादयः कर्तव्या विज्ञायन्ते" इति चोत्तरमऽपूर्वविषयं स्यात् । भिधानादित्यर्थः । एतदेव विवृणोति । इदमिति । उक्तं प्रागि- ति । सिद्धे चार्थे व्युत्पत्तिविरहादप्रामाण्यमेव श्येनादिवाक्यानां स्यात् अतः श्येनादीनामपि कार्यत्वमङ्गीकार्यमित्यर्थादुक्तमिति भावः । भवतु वेति । पूर्वसूत्राद्वेदार्थपरं धर्मपदमनुषज्य चोद- नालक्षणो वेदार्थ इत्येकं वाक्यमर्थो धर्म इत्यपरं वाक्यमिति पाक्यभेदाङ्गीकरणेनेत्यर्थः । तत्रेति । श्येनादीनामपूर्वत्वाभावे- न धर्मत्वप्रसक्त्यभावात् निषेधानुपपत्तिरित्यर्थः । अपूर्व व्या- वर्यत इत्यत्रैव दूषणान्तरमाह । यदि चेति । अस्मिश्चेति ।
[धर्मलक्षणाधिकर०] शाखदीपिकायाम् । ९१ न च तस्य कर्तव्यत्वं शक्यते वारयितुं कार्यस्वभा- वत्वात्। एवं च यागकर्तव्यतानिषेधार्थमिदं भाष्यमङ्गी- कृत्य यत् तत्समाधानाय प्रयत्यते-'कर्तव्यताविषयो हि नियोगो न पुनस्तस्य कर्तव्यतामाह ' इति तद्- पार्थकम् । काम्थेष्वपि विधिरेव प्रवर्तको न फलं तस्य वि- ध्यधीनोत्पत्तिकत्वेन यागापेक्षाभावात् । विधिस्तु या- गाधीननिष्पत्तित्वाद् यागमनुष्ठापयतीति युक्तम् । यदि च विधिरप्रवर्तकः काम्येषु स्याद् इतिकर्त- व्यताप्यविधेया स्यात् तस्यामपि फलत एव प्रवृत्ति- सिद्धेः साङ्गप्रधानसाध्यत्वात् फलस्य । वक्ष्यति हि- "तयुक्त तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा" (जै. सू. अपूर्वपक्ष इत्यर्थः। ततः किं दूषणं स्यादत आह । न चेति । अत्रैव दूषणान्तरमाह । एवं चेति । अपूर्वकर्तव्यतानिषेधास- म्भवान्नैव श्येनादय इत्यादिभाष्यं यागकर्तव्यतानिषेधार्थमि- त्यङ्गीकृत्य तत्समाधानार्थ प्रतिज्ञातयागकर्तव्यतानिषेधपरत्व- स्थापनाय यत्सत्यते तदपार्थकामिति सम्बन्धः । प्रयत्नमेव दर्शयति । कर्तव्येत्यादिना आहेत्यन्तेन । फलेच्छात एव यागे प्रवृत्तिसिद्धेन यागस्य कर्तव्यतामाहेति भावः । कथमपार्थक- मत आह । काम्येष्विति । एतदनङ्गीकारे दण्डमाह । यदि चेति । अत्र संमतिमाह । वक्ष्यतीति । अङ्गयुक्ते प्रधाने फल- श्रुतिन केवले तस्मात्सकलाङ्गयुक्तं प्रधानानुष्ठानमित्यर्थः । अ- स्त्वितिकर्तव्यतांशेऽपि विधिसम्बन्धः किमनिष्टमेतावता स्या- ९२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०२सू०२ ९ अ. ३ पा. ७) इति । ततश्चाग्नीषोमीयाहिंसाया अपि विध्यभावेन निषेधविषयत्वात् तद्युक्तस्य ज्यो- तिष्टोमस्याप्यनर्थत्वापत्तेः “कोर्थः ? यो निःश्रेयसाय ज्योतिष्टोमादिः" इति भाष्यानुपपत्तिः । ननु "न हिंस्यात्" इति निषेधोऽनारभ्याधीत- त्वात् पुरुषार्थः तेनानेन पुरुषार्थी एव हिंसाः प्रति- षेद्धव्याः क्रत्वनिषेधे हि सोपि क्रत्वर्थः स्यात् । अ- विशेषे त्वेकस्य प्रतिषेधविधेः कत्वर्थत्वपुरुषार्थत्वाप- त्या वैरूप्यं स्यात् । तस्मात्पुरुषार्थानामेव हिंसाना- मिह प्रतिषेधो न क्रत्वर्थानामिति । तदिदं बालसंमोहनम् , नाविशेषेणापि प्रतिषेधे वैरूप्यम् । यदि हि क्रत्वर्थत्वपुरुषार्थत्वरूपं विशेषेणो- द्दिश्य प्रतिषेधः क्रियेत ततः स्यादपि वैरूप्यं प्रतिषे- ध्योपस्थापितक्रतुपुरुषगोचरत्वात् प्रतिषेधस्य । यदा तु हिंसामात्रमुद्दिश्य प्रतिषेधः क्रियते तदास्य किं वै- रूप्यम् ? । तद् यथा-या भोजनार्थ मांसोत्पादने हिं- सा या च वैरनिर्यातनार्थतया साक्षात् पुरुषार्थी तस्यामुभय्यामविशेषेण प्रतिषिध्यमानायामपि नास्ति वैरूप्यम्, एवहामिपि । इतरथा तत्रापि भोजनाङ्गता पुरुषार्थता च प्रतिषेधस्य स्यादिति वैरूप्यं स्यात् । तस्माद् यैव का चिद् येन केनापि प्रकारेण प्रसक्ता हिंसा सा सर्वा सामान्येन प्रतिषिध्यते । पुरुषार्थश्च प्रतिषेधोऽनारभ्याधीतत्वात् । तस्मादग्नीषोमीयहि- दत आह । ततश्चेति । अत्र परिहारं शङ्कते । नन्विति । हिंसा- मात्रनिषेधमाशयाह । अविशेषेति । दूषयति । तदिदमिति ।
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् । साऽप्यसति विधयत्वे प्रतिषेधगोचरः स्यात् । विधे- यत्वे तु विधेर्विशेषविषयत्वात् सामान्यविषयो नि- षेधस्तद्विरोधाद् हिंसान्तराण्यवलम्बते । ननु सत्यपि विधेयत्वे विधेः क्रत्वर्थत्वात् प्रतिषे. धस्य च पुरुषार्थत्वाद्विषयभेदेनाविरोधान्न बाधः । न- हीदं विरुद्धं क्रतोसिया भवितव्यं पुरुषस्य तु तर्ज- नेनेति । सत्यम्-अङ्गविधिमात्राऽऽलोचनायां नास्ति विरोधः, ज्योतिष्टोमविधिस्तु साङ्गं प्रधानं पुरुषस्य विद्धत् पुरुषार्थहिंसानिषेधमनीषोमीयहिंसायामवत- रन्तं निरुणद्धि । न ह्यग्नीषोमीय हिंसा वर्जयता ज्यो- तिष्टोमः शक्यतेऽनुष्ठातुम् । तस्मादस्ति विरोध इति सामान्यस्य बाधः । विधौ त्वऽप्रवर्तके सत्यऽग्नीषोमी- यहिंसापि प्रतिषिद्ध्येत । किमर्थं च श्येनस्थ विधेयत्वं निराक्रियते ? प्रति- षेधसिद्ध्यर्थमिति चेत् ?, कः प्रतिषेधः १, “न हिंस्या- त्सर्वाभूतानि" इति नायं निषेधः श्येने प्रवर्तते हिं- साविषयत्वात् । श्येनफलं च हिंसा न श्येनः । तथा वैरूप्योपपत्तिमाह । प्रतीति । विधेयत्वपक्षे नायं दोष इत्याह । विधेयत्वे विति । अविरोध शकते । नन्विति । विरोधाभावा- दत्राप्यवतरन्तं प्रतिषेधं विशेषविधिर्न वारयतीत्यर्थः। अङ्गवि- धीति । यद्यपि केवलोऽङ्गविधिः क्रत्वर्थ एवेति न तन्मात्रपर्या- लोचनया विरोधः सम्भवति तथाऽपि साङ्गज्योतिष्टोमविधेः पुरुषार्थत्वापत्त्याऽस्ति विरोध इति भावः । इदानी हिंसायामेव प्रत्युदाहरणत्वं स्थिरीकर्तुं श्येनस्य प्रतिषेधविषयत्वमेव प्रति- पादयितुमाह । किमर्थमिति । अयमभ्युपाय इत्यनेन श्येनस्य ९४ युक्तिस्नेहपूरणीसहितायां [अ०१पा०१अ०२सू०२ चोक्तम्-“यो हि हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेशः" इति । कश्चित्त्वाह-श्यनस्य कर्तव्यत्वे सति बलात्त- त्फलमपि हिंसा कर्तव्या भवतीति न निषेधुं श- क्यते, अतः फलकर्तव्यतानिरासार्थ श्येनकर्तव्यता बलान्निरस्यते इति । तदिदमसम्बद्धम्-यथैव हि येनापूर्वस्य कर्तव्यतायां सत्यामपि तत्साध्यफलस्य कर्तव्यता न प्रसज्यते तथा यागस्य कर्तव्यत्वे सत्यपि रागप्राप्तस्य फलस्य नास्ति कर्तव्यतापात्तः । तस्माद- नर्थकं श्येनकर्तव्यतानिराकरणम् । तस्माद्धिसैवात्र प्रत्युदादरणम् । इदं चापरमेकदेशिनः प्रष्टव्याः-अर्थशब्देन कि- मुच्यते इति, यदि श्रेयस्साधनम् ?, नित्यानां धर्मत्वं न स्यात् । अथ यनिषिद्धफलं न भवति तदर्थशब्दे- हिंसासाधनत्वमुच्यते न हिंसात्वमित्यर्थः । प्रकारान्तरेण श्येनकर्तव्यतानिरासमुपपादयितुमाह । कश्चित्विति । एतदपि दूषयति । तदिदमिति । एवं श्येनादिस्वरूपमेवार्थशब्दस्य व्यावयमित्येकदेशिमतं नि. राकृत्य तन्मतेऽर्थशब्दार्थमपि निराकर्तुमाह । इदमिति । तन्मते नित्यानां पण्डापूर्वमात्रजनकत्वेन श्रेयस्साधनत्वा- भावादित्यर्थः । अस्मिन्पक्षे श्येनादिस्वरूपव्यावर्तकत्वमा र्थशब्दस्य भवतीति भावः । एतदपि दूषयति । तथेति । "ब्राह्मणो न हन्तव्य" इत्यत्र ब्राह्मणहननाभावविषय- स्यापूर्वस्यापि धर्मत्वप्रसङ्ग इत्यर्थः । निराकरणमुपसंहरति ।
[धर्मलक्षणाधिकर०] शास्त्रदीपिकायाम् ।
९५
नोच्यते ?, तथा सति नमर्थविषयस्थापूर्वस्य धर्मत्व-
प्रसङ्गः, चोदनालक्षणत्वानिषिद्धफलत्वाभावाच । भ-
वत्विति चेत् ?, न, लोकविरोधात् । यो हि हिंसाया-
मुद्युक्तः प्रतिषेधवशान्निवर्तते न तं धार्मिक इत्याच-
क्षते किं त्वधर्मानिवृत्त इत्येतावत् । तदाहुः-"लो-
कसिद्धस्य लक्षणं परीक्षकैर्वक्तव्यं न वृद्ध्यादिवत्
परिभाषणम्" इत्यास्तां तावत् ।।
॥ इति चोदनासूत्रम् ॥ २॥
इतीति । अधिकरणस्वरूपं त्वेवम् । पूर्वसूत्रे विचारविषयत्वेन
धर्म उक्तस्तत्र लक्षणप्रमाणाभ्यां वस्तुस्वरूपसिद्धधर्मे लक्षणं
प्रमाणं च नास्ति उतास्ति इति संशयः ।
" लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् ।
मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात् " (जै.न्या.मा.) ॥
अतो लक्षणप्रमाणरहितस्य न विचारविषयत्वमिति पूर्वः
पक्षः । माभूच्चक्षुरादिगम्यो लौकिक आकारस्तथापि चोदना-
गम्यश्रेयस्ताधनत्वादिलक्षण आकारोऽस्ति । एवं चार्थत्वे
सति चोदनागम्यो धर्म इति लक्षणमुक्तं सूत्रकृता । अर्थों धर्म
इत्युक्ते ब्रह्मणि घटादौ चातिव्याप्तिस्तनिवृत्त्यर्थ चोदनालक्ष-
ण इत्युक्तम् । अर्थपदं चानर्थव्यावृत्तये । चोदनागम्यत्वे धर्मस्य
चोदनैव तत्र प्रमाणमित्युक्तं भवति । तस्माल्लक्षणप्रमाणाभ्या-
मुपेतो धर्मो जिज्ञास्य इति सिद्धान्तः ॥ २ ॥
युक्तिस्नेहमपूरणीसहितायां [अ०१पा०११०३३ (तृतीयं धर्मप्रमाणपरीस्यताधिकरणम् ) सू० तस्य निमित्तपरीष्टिः* ॥ ३॥ अनेन सूत्रेण चोदनाख्यस्य निमित्तस्य परीक्षण- मस्मिन् पादे वक्ष्यमाणम् अथातः शेषलक्षणम्" अथ विशेषलक्षणम् " इतिवत्सुखग्रहणार्थमनु- कीयंत ॥ ३ ॥ तस्य निमित्तपरीष्टिः ॥३॥ अत्र " चोदनालक्षणोऽर्थों धर्म" इति प्रतिज्ञायां हेतौ वक्तव्ये मध्ये निमित्तपरी- क्षाप्रतिज्ञाया असङ्गतिमाशङ्कयाह । अनेनेति । यद्यपि चो- दनासूत्रे वक्ष्यमाणोऽर्थः सङ्ग्रेपेण प्रतिज्ञातस्तथाऽपि प्रति- ज्ञासङ्करे सति न ज्ञायते कस्य प्रतिज्ञाभागस्य सदौत्प- त्तिकसूत्राभ्यां हेतुरभिधीयते इति सुखग्रहणार्थमस्मिन् पादे नोदनाख्यस्य धर्मनिमित्तस्य परीक्षणं प्रतिज्ञायत इत्यर्थः । अयमत्र सूत्रार्थः तस्य धर्मस्य ज्ञाने यन्निमित्तं प्रमाणं चोदना- भिधानं तत्परीष्टिः परीक्षा कर्तव्येति । इषुगतावित्यस्माद्धातो- रनिच्छार्थस्येति युचि विहिते परेर्वेतिक्तिन्युचोर्विकल्पस्मरणात् युज्विधौ पर्येषणेति रूपं क्तिविधौ तु परीष्टिरिति रूपं सिद्ध्य- ति । अत्र धर्मप्रमाणं परीक्ष्यं न वेति सन्देहे प्रमाणोपदेशेनैव प्रमेयसिद्धेः किं परीक्षयेति पूर्वः पक्षः । नात्रसिद्धवल्लक्षणप्र- कथनमात्रं किन्तु विचारशास्त्रत्वादस्य सर्वथा प्रमाणपरीक्षा कर्तव्येति सिद्धान्तः ॥ ३॥ * तस्य-धर्मस्य निमित्तस्य प्रमाणस्य परीष्टिः-परीक्षणं क्रि- पत इति सूत्रार्थः।
[धर्मे प्रत्यक्षाप्रामाण्याधिकर०] शास्त्रदीपिकायाम् । (चतुर्थ धर्मे प्रत्यक्षस्याऽप्रामाण्याधिकरणम् ) चोदनैवेत्यस्याऽर्थस्य साधनाय प्रत्यक्षादीनाम- निमित्तत्वमुच्यते- सू. सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म त- प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् * ॥ ४ ॥ प्रत्यक्ष तावदिन्द्रियार्थसंप्रयोगजन्यत्वेन विद्य- मानोपलम्भनत्वाद् भविष्यति धर्मे न निमित्तम् । सत्संप्रयोगजन्यत्वमाभासेऽपि तुल्यत्वादलक्षणमिति नैयायिका दूषयन्ति, तत्तु लक्षणानभिधानाऽदूषण- म् । नहीदं लक्षणं प्रत्यक्षस्य, किं त्वनिमित्तत्वकथन- सत्सम्प्रयोगे ॥४॥ सूत्रसङ्गतिं तावत्करोति । चोदनैवेति । अनिमित्तत्वमेवोपपादयति । प्रत्यक्षं तावदिति । अत्र भाष्य- कारेणैतत्सूत्रं सकलमेव प्रत्यक्षस्यानिमित्तत्वकथनपरत्वेन व्याख्यातं, वृत्त्यन्तरे तु “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धि- जन्म तत्प्रत्यक्ष"मित्येतावत्मत्यक्षलक्षणपरत्वेन व्याख्यातमवशिष्टं. तु तस्य धर्म प्रत्यनिमित्तत्वेन, तदस्य लक्षणपरत्वे परोद्भावितं दृषणमनूय परिहरति । सदिति। कथं लक्षणानभिधानमत आह । नहीति । अत्रेयमुपपत्तिः न तावदस्य सूत्रस्य प्रत्यक्षलक्षणपरत्वे "चोदनालक्षणोऽर्थो धर्म" इत्यनया प्रतिज्ञया सम्बन्धः सम्भव- ति । निष्प्रयोजनं च शाब्दप्रमाणाधिकारे प्रत्यक्षलक्षणकथनं, अथानुक्तस्वरूपस्यानिमित्तत्वमेव प्रतिपादयितुं न शक्यते- ऽतस्तल्लक्षणकथनं प्रयोजनवत् ? तीनुमानादेरपि लक्षणं वक्तव्यं स्यात् । नच तदुक्तम् । “सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते" लोकमसिद्धव्यवाहारिणामीमांसकस्य तल्लक्षणकरणं चायुक्त- * सता-विद्यमानेनाऽर्थेन इन्द्रियाणां सम्प्रयोग सन्निकर्षेसति या पुरुषस्य बुद्धिर्जायते तत्प्रत्यक्षं धर्मेऽअनिमित्तं-अप्रमाणं, कुतः प्रत्यक्षस्य विद्यमानवस्तुन एव ज्ञापकत्वात् धर्मस्य च भविष्यत्वा- त् न तद्गम्यतेति सूत्रार्थः ।
युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०४१०४ मात्रम् । तत्र हेतुः विद्यमानोपलम्भनत्वं तत्साधनं च सत्संप्रयोगजत्वम् । न हि सत्संप्रयोगजमऽविद्यमा- नोपलम्भनं सम्भवति । इन्द्रियार्थसंयोगजत्वं सुखादिज्ञानेष्वव्याप्तेरहे- तुरिति चेत् ?, न, तेषामपि मनस्संज्ञकेन्द्रियसंप्रयोग- जत्वात् । मनस्सद्भावे च सुखादिज्ञानमेव प्रमाणम् , अपरोक्षावभासज्ञानस्येन्द्रियाधीनतया रूपादिज्ञानेषु व्याप्तिदर्शनात् सुखादिविषयमऽपरोक्षज्ञानमिन्द्रिय- मनुमापयति । तत्र चक्षुरादीनामसम्भवात् तेभ्यो- ऽन्यद्वतिष्ठते । मेवातोऽनिमित्तत्वकथनपरमेवैतदिति । अस्मिन्नेवार्थे सूत्रं यो- जयति । किन्विति । प्रत्यक्ष धर्मे ऽनिमित्तमित्युक्ते करमादित्य- पेक्षायां विद्यमानोपलम्भनत्वादिति हेतुः। एतदुपपादकत्वेन सत्सम्पयोगजत्वाद्युपन्यासः । सता विद्यमानेनार्थेनेन्द्रियाणां सम्प्रयोगे सति या पुरुषस्य बुद्धिर्जायते तत्प्रत्यक्षं धर्मेऽप्रमाणं विद्यमानार्थग्राहकत्वादिति सूत्रार्थः । अत्रेन्द्रियाणामित्युपलक्ष- णार्थम् । तदुक्तम्- "यद्वन्द्रियं प्रमाणं स्यात्तस्य चार्थेन सङ्गतिः । मनसो वेन्द्रियैर्योग आत्मना सर्व एव वा ।। तदा ज्ञानं फलं तत्र व्यापाराच्च प्रमाणता"(श्लो.वा.६१)। इन्द्रियमिन्द्रियार्थसन्निकर्षों वा इन्द्रियमनःसंयोगो वा आ- ममनस्संयोगो वा । आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति संयोगवितयमेकं प्रमाणम् । बुद्धिजन्मेत्यनेन जायमाना बुद्धिः प्रमाणमित्युक्तं न भूता नापि भाविनी, अत एव बुद्धेः कारकान्तराद्वैलक्षण्यं तद्धि जन्मातिरेकिव्यापारा- - [धर्मे प्रत्यक्षाप्रामाण्याधिकर०] शास्त्रदीपिकायाम् । ९९ . अत्र कश्चित्-नित्यद्रव्यगतविशेषगुणत्वात्सुखा- दीनां द्रव्यान्तरसंयोगजत्वम्, पार्थिवपरमाणुगतरू- पादीनामग्निसंयोगजत्वदर्शनात्, यच द्रव्यान्तरं न- न्मन इत्याह । तन्न युक्तम्-शरीरं हि भोगायतनम् , किं च तस्य भोगायतनत्वमऽन्यत् तत्संयोगापेक्षसुखाद्युत्प- त्तेः ?, अशितपीताद्याधारत्वाचन बहिः शरीरात्सु- खाद्युत्पत्तिः । अतः शरीरसंयोगादेव सिद्धेन द्रव्या- न्तरानुमानम् । किं च पार्थिवगुणानामेव द्रव्यान्तर- संयोगापेक्षा दृष्टा न द्रव्यमात्रगुणानाम् । तेजस्संयो. ग एव च कारणतया दृष्टो न द्रव्यमात्रसंयोगस्तस्मा- नैवं मनस्सिडिरिति मुखाद्यऽपरोक्षज्ञानमेव मनसो लिङ्गम् । न्तरेण प्रधानक्रियां निष्पादयति बुद्धिस्तु जन्मनैवेति । तथाहुः- बुद्धिजन्मेति चाप्याह जायमानप्रमाणताम् । व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः ॥ न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम् । येनार्थग्रहणे पश्चाद्यापियेतेन्द्रियादिवत् ।। तेन जन्मैव विषये बुद्धापार इष्यते"(श्लो.वा.५६)इति।। अत्र केचित् प्रकारान्तरेण मनः साधयन्ति तदूषयितुमु- पन्यस्यति । केचित्विति । अर्थान्तरापत्या दूषयति । तत्त्विति । अर्थान्तरत्वमेव विकृणोति । शरीरं हीति । तत्संयोगापेक्षया सुखाद्युत्पत्तेः सकाशात्--किमन्यद्भोगायतनत्वं शरीरस्य स्यात्, अपि त्वेतदेव यच्छरीरसंयोगेनात्मनि सुखादिकं जन्यते- ऽतः शरीरात्मसंयोगजत्वात्सुखादीनां द्रव्यान्तरं शरीरमेव १०० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०४सू०४ किं पुनरिन्द्रियलक्षणं चक्षुरादिषु मनास चानु- स्यूतम् ? । उच्यते-यत् संप्रयुक्तेऽर्थे विशदावभासं विज्ञानं जनयति तदिन्द्रियमित्युच्यते, तच्च द्विविध- म्-बाह्यमाभ्यन्तरं च, बाह्यं पञ्चविधम्-घ्राणरसन- चक्षुस्त्वक्त्रोत्रात्मकम् । आन्तरं त्वेकं मनः । तत्रा- ऽऽद्यानि चत्वारिच-पृथिव्यप्तेजोवायुप्रकृतीनीत्यक्ष- पादर्शनवदभ्युपगम्यन्ते । श्रोत्रं त्वाकाशात्मकं तै- रभ्युपगतं वयं तु-" दिशः श्रोत्रम्" इति दर्शनाद् दिग्भागमेव कर्णशष्कुल्यवच्छिन्नं श्रोत्रमाचक्ष्महे । मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्योऽन्यद्धा सर्वथा तावदस्ति मनः । तच्चात्मतद्गुणेष्वेव स्वतन्त्रं प्रवर्तते न बाह्येषु रूपादिष्वित्याऽऽन्तरमित्युच्यते । रूपादिज्ञानेष्वपि तच्चक्षुरादिसहायं प्रवर्तते, एवऽम- नुमानादिष्वपि लिङ्गादिसहायम् । अन्यमनस्कस्य संयुक्तेष्वपि रूपादिषु ज्ञानानुत्पत्तेः । स्मृतावपि सं- स्कारपरतन्त्रं प्रवर्तते न स्वतन्त्रम् । नन्वनुमानादीनां मनोजन्यत्वात् तेषां च भूत- भविष्यतोरपि प्रवृत्तेरिन्द्रियजन्यत्वं विद्यमानोपल- सिद्ध्यति न मन इत्यस्मदुक्त एव प्रकारो मनस्साधक इत्य- र्थः । स्पष्टार्थोऽग्रिमग्रन्थः। अत्रानेकप्रकारं सौत्रपदव्याख्या- नमाक्षेपसमाधानपूर्वकं योगिप्रत्यक्ष निराकरणं साङ्ख्यसिद्धा- न्तसिद्धत्तिगमनपक्षनिराकरणमिन्द्रियभौतिकत्वनिरूपणं प्रा- प्यकारित्वादिस्थापनं तत्मासङ्गिकमन्यदपि प्रमेयजातं वार्ति- के टीकायां चावगन्तव्यम् । विस्तरभयादस्माभिर्न लिखित- म् । प्रकृतं निगमयति । तदेवमिति । नन्वनुमानाद्यपि न ध- .. ... ... ... १ ... . : ... ... ... (१४) न्यायसुधा (तन्त्रवार्तिकटीका ) भट्ट- 1 (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका- सोमेश्वरविरचिता । (मीमांसा) १६ पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः। (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । मणिभद्रकृतटीकया सहितः । हरि- श्रीक्षेमराजविरचितवृत्तिसमेता। भद्रमूरिकृतः। ... १ (वेदान्तः) २ (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशा- प्रमेयरत्नावश्च ऽध्यायार्थसंग्रह: श्रीभट्टनारायणात्मज- (२९) अनुमानचिन्तामणिव्याख्यायाः शिरो- भदृशङ्करविरचितः। (मीमांसा ) २ मणिकृतदीधित्या जागदीशी टीका । १३ (१७) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मीमां--(३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- सादर्शनम् । महामहोपाध्यायधीशालि- मिश्रविरचितः परिभाषा-संस्कारप्रका- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृतो शात्मकः। मीमांसासारसंग्रहश्च सम्पूर्ण:(मीमांसा)६ (३१) वीरमित्रोदयः | महामहोपाध्यायश्री- (१८) अद्वैतासद्धिसिद्धान्तसारः । पण्डित मित्रमिविरचितः आदिकप्रकाशः ६ प्रवर श्रीसदानन्दव्यासप्रणीतस्तत्कृत (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपा- व्याख्यासमलङ्कृतः । (वेदान्तः)३ ठिसंकलितः। (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषो- श्रीकर्काचार्यविरचितभाष्यसहितम्।१३ तमाचार्यकृता । (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- चितं असंपूर्णम् (वेदान्तः) २ तमजीमहाराजविरचितः (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- | ३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- नन्दपूर्णविरचितया खण्डनफक्किा- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ विभजनाख्यया व्याख्यया विद्यासागरी-1 (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- तिप्रसिद्धया समेतम्। (वेदान्तः) १३ नारायणतीर्थविरचित-योगसिद्धान्त- (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता १ चन्द्रिकासमाख्यया व्याख्यया संव- (२३) श्रीलक्ष्मीसहस्रम् -बालबोधिनीव्याख्य- लितम् । २ याऽवतरणिकया च सहितम् । ८ (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजका- (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथ- चार्यश्रीरामानन्दसरस्वतीस्वामिकृत- भट्टकृता (वेदान्तः) ब्रह्माऽमृतकर्षिणीसमाख्यव्याख्यासंव- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर लितम् । सिद्धान्तवागीशविरचितानि अनुमान- (३८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- जागीश्याः प्रत्यक्षानुमानगादाधर्याः हेश्वरसूरिविरचितः । ... ૨ प्रत्यक्षानुमानमाथुर्या व्युत्पत्तिवादस्य (३९) श्रीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता शक्तिवादस्य मुक्तिवादस्य शब्दश- श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठ- तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रो- लनाथदीक्षितविरचितटिप्पणीसहितार उपत्राणि २ (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दर अमिश्रविरचितः पूजाप्रकाशः । भहरचितसिद्धान्तसेतुकाऽभिधटीकास- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- हितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवी- न्तापरनामकः । श्रीब्रह्मचारिवनमालि- युतम् .... मिश्रविरचितः। द्वैताद्वैतदर्शनानुगतः।। ... ... .. .. -- .... .. २ ...
(४२) स्वानुभवादः । श्रीमत्परमहंसपरिवा तिकृता । श्रीगङ्गेशोपाध्यायविरचित- जकाचार्यनारायणाश्रमशिष्यमाधवाश्र तत्त्वचिन्तामण्या श्रीरघुनाथतार्किक- मविरचितः । स्वकृतटीकाविभूषितश्च । १ शिरोमाणिविरचितदीधित्या च गर्भिता ।। (४३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्यव्या- (४५) शास्त्रदीपिका। श्रीपार्थसारथिमिश्र प्रणिता। ख्यासमलकृतमिताक्षरासहिता। व्य रामकृष्णविरचितयुक्तिनेहप्रपुरण्याख्य- वहाराध्याय व्याख्ययातथासोमनाथकृतया मयुखमा- (४४) गायधरी । श्रीगदाधरभट्टाचार्यचक्रव- लिकया च व्याख्यया समलकृता । १
No text on this page.
No text on this page.
No text on this page.