S.P College, Srinagar
The Amarusataka
Front matter
No text on this page.
P R A 1 A P
COLLEGE
T
7)དག་
SR
LIBRARY.
Class No.
461ܝܙ 9
Book No.
A 52A
136 ܟ
Accession No.
No text on this page.
KÂVYAMÂLÂ 18.
THE
AMARUS'ATAKA
OF
AMARUKA.
With the Commentary of Arjunavarmadeva
EDITED BY
PANDIT DURGÂPRASAD,
AND
KÂS’ÎNÂTH PÂNDURANG PARAB.
REVISED BY
WASUDEV LAXMAN SASTRÎ PAŅS'ÎKAR.
Second Edition.
PUBLISHED
BY
PANDURANG JÂWAJI,
PROPRIETOR OF THE “NIRNAYA SAGAR” PRESS,
BOMBAY
1929.
Price 12 Annas.
891-263
A
52
ace.no: 6136
( All rights reserved by the Publisher.]
PUBLISHER-Pandurang Jawaji,
"Nirnaya Sagar" Press,
PRISTEE:-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bomlay,
काव्यमाला १८. श्रीअमरुककविविरचितम् अमरुशतकम्। अर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्यया समेतम् । es जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह्वपाण्डुरङ्गात्मजकाशिनाथ- शर्मणा, पणशीकरोपाह्वलक्ष्मणशर्मतनूजेन वासुदेवशर्मणा च संशोधितम् । तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । द्वितीयावृत्तिः १९२९. अस्य प्रन्यस्य पुनर्मुद्रणादिविषये सर्वथा पाण्डुरङ्ग जावजी इत्यस्यैवाधिकारः । मूल्यं १२ आणकाः।
No text on this page.
अमरुककविः। अमरुशतकं मण्डनमिश्रपन्याः शारदायाः प्रश्नानामुत्तरदानार्थं गतासोरमरुकाख्यमही- पतेदेहं प्रविष्टेन श्रीशंकराचार्येण प्रणीतमिति वहूनां प्रवादः. "भगवाञ्छंकराचार्यो दिग्विज- यच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्णनार्थ सभ्यैरभ्यर्थितः 'शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्' इति वचनादमरुनानो राज्ञो मृतस्य परवपुःप्रवेशविद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास । पिशुनैः कापटिकोऽय. माजन्मब्रह्मचारीत्युपहसितः शान्तरसमत्र व्याचटे इति किंवदन्ती" इति रविचन्द्रः स्वकृ. ताया अमरुशतकटीकायाः प्रारम्भे लिलेख. किं त्वेतत्सर्व शंकरदिग्विजयानवलोकनमूलं प्रमादविलसितम्. तथा हि माधवकविप्रणीते शंकरदिग्विजये नवमदशमसर्गयोः “कला कियत्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्सां कथमेव पूरुषे ॥' इति श्रीशंकराचार्य प्रति शारदाप्रश्नाः। ततः शारदाप्रश्नश्रवणानन्तरं यद्यस्याः प्रश्नानामुत्तरं न दास्यामि तदा ममाल्पज्ञता प्रतीयेत, उत्तरदाने तु संन्यासिनो मम कामशास्त्रचर्चया धर्मक्षयो भवेदिति विचार्य प्रश्नोत्तरदाने मासमात्रमवधि विधाय शिष्यैः सह गगनमुत्पपाताचार्यः । गगने वम्भ्रम्यमाण एव मृग. यार्थमायातमटव्यामेव दैवयोगान्तप्राणं विलपन्तीभिः प्रमदाभिः परीतममरकाख्यमही. पतिं तरुमूले विलोक्य सनन्दनाख्यशिष्येण सह संमच्य शिष्यैः कृतरक्षमात्मकलेवरं कुत्रचन गिरिगडरे निधाय योगयुक्त्यामरकनृपशरीरे प्रविवेश । प्रमुदितैर्मन्त्रिभिर्महिषी- भिश्च समेतो नृपशरीरधारी राजधानी च जगाम । तत्र च मनोहरतराभिर्महीपतिपक. जाक्षीभिस्तांस्तान्भोगानुपभुज्य कामतत्त्वं सम्यगभिज्ञाय 'वात्स्यायनप्रोदितसूत्रजातं तदी- यभाष्यं च विलोक्य सम्यक् । वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥" इत्याख्यायिका वर्तते. एतेन श्रीशंकराचार्यों वात्स्यायनीयकामसूत्रानुकूलं कमपि निवन्धं रचयामास, तत्रैव च शारदाप्रश्नानामुत्तराण्यप्यन्तर्भावयांचकारेति प्रतीयते. न त्वमरुश- तकनिर्माणसूचनमात्रमपि शंकरदिग्विजये समुपलभ्यते. नाप्यमरुशतके शारदाप्रश्नोत्त- रानुरूपं किमप्यस्ति. एवं रविचन्द्रोक्तमप्यसंवद्धमेव. यतस्तत्रैव पोडशे सर्गे आचार्यस्य काश्मीरयात्रा तत्र च शारदासदने तत्तद्देशवासिभिर्वादिभिर्विवादश्च सम्यग्वर्णितः. किं तु शृङ्गाररसवर्णनाथ सभ्यैरभ्यर्थित इत्यादिरविचन्द्रोक्तं तत्र नोपलभ्यते तस्मादेवंविधा निर्मूला जनश्रुतयः कथं प्रमाणत्वेन खीकर्तुमर्हाः? अथ यदि शारदाप्रश्नोत्तरदानार्थ निबन्धं प्रणीयामरुशतकमप्याचार्येणैव निरमायीति को विकल्पावकाश इत्युच्यते, तर्हि तनिबन्धनिर्माणं शारदाप्रश्नोतरदानार्थमात्मनः सर्वज्ञताकीर्तिरक्षार्थ च, किं त्वमरुशतक- प्रणयनं शृङ्गारव्यसनितयैवेत्यप्यशीकार्यमिति महती विडम्बना यतिवरस्य. तस्मादस्य शत- कस्य प्रणेतामरुककविः कश्चिदन्य एव. स च कदा कुत्र समुत्पन्न इति न ज्ञायते. किं तु ध्वन्यालोकस्य तृतीयोहयोते 'मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो २ ३ दृश्यन्ते । तथाह्यमरुकस्य कवेर्मुक्ककाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव इत्यानन्दवर्धनाचार्य उक्तवानुदाहृतवांश्च बहूनमरुशतकश्लोकांस्तत्तत्स्थलेषु. तस्मानिस्ता- ब्दीयनवमशतकात्प्राक्तनोऽमरुककविरिति ज्ञायते. शतकस्यास्य भूयस्यष्टीका वर्तन्ते । तत्रास्माभिः (१) अर्जुनवर्मदेवकृता रसिकसंजी- विनी, (२) वेमभूपालकृता शृङ्गारदीपिका, (३) रुद्रमदेवकृता, (४) रविचन्द्रकृता, (५) सूर्यदासता शृङ्गारतरङ्गिणी, (६) शेषरामकृष्णकृता रसिकसंजीविनी, (७) कर्तृनाम- रहिता, इति टीकासप्तकमासादितम्. तत्रार्जुनवर्मदेवः सुप्रसिद्धस्य मालवाधिपते जनरे- न्द्रस्य वंश्यः सुभटवर्मसूनुरासीदिति तत्कृतटीकाप्रारम्भश्लोकेभ्यः काव्यमालायां ३ लेखे मुदितात्तदीयदानपत्राच्च ज्ञायते. तच्च दानपत्रं १२७२ मिते विक्रमाव्दे लिखितमिति निस्ताब्दीयत्रयोदशशतकपूर्वाधेऽर्जुनवर्म आसीदित्यपि सुव्यक्तम् . अर्जुनवर्मदेवश्च टीकायां 'यदुक्तमुपाध्यायेन वालसरस्वत्यपरनाना मदनेन' इति वदंस्तत्तत्स्थलेषु मदनोपाध्यायप्र- णीतान्वहूश्लोकान्प्रमाणत्वेनोपन्यस्तवान् . दानपत्रसमाप्तौ 'रचितमिदं-राजगुरुणा मदनेन' इत्यस्ति. तस्मात्कस्यचनालंकारनिवन्धस्य प्रणेता अर्जुनवर्मगुर्मदनोपाध्यायोऽपि तत्समय आसीत् . तत्प्रणीतग्रन्थस्तु नाद्यापि दृक्पथं गतः. 'हरिहर गवं परिहर कवि- राजगजाशो मदनः । मदन विमुद्रय वदनं हरिहरचरितं स्मरातीतम् ॥' इति प्राचीन पद्यमपि कदाचिदस्यैव मदनोपाध्यायस्य वर्णनपरं स्यात् . वेमभूपालस्तु शृङ्गारदीपिकाप्रारम्मे इत्थमात्मानमवर्णयत्- 'अन्योन्यमेलनवशात्प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः । प्राप्तं दशामथ मनोरथलाभ योग्यां पायाचिरं रतिमनोभवयोः सुखं वः ॥ आसीच्चतुर्थान्वयचक्रवतों वेमक्षितीशो जगदेकवीरः । एकादशेति प्रतिभान्ति शङ्का (?) येनावताराः परमस्य पुंसः ॥ राज्यं वेमः सुचिरमकरोत्प्राज्यहेमाद्रिदानो भूमीदेवैर्भुवमुरुभुजो भुक्तशेषामभुत । श्रीशैलापात्प्रभवति पथि प्राप्तपातालगने सोपानानि प्रथमपदवीमाहरुक्षुश्चकार ॥ मावक्षोणिपतिमहेन्द्र महिमा वेमक्षितीशाप्र(नु)जो रामायैः सदृशो बभूव मुगुणैस्तस्य त्रयो नन्दनाः । कीर्त्या जाग्रति रेडियोतनृपतिः श्रीकोमटीन्द्रस्ततो नागक्ष्मापतिरित्युपात्तवपुपो धर्मार्थकामा इव ॥ वेमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ । भूलोकमेकोदरजन्मवाञ्छया भूयोऽवतीर्णाविव रामलक्ष्मणौ ।।
३ स वेमभूपः सकलासु विद्याखतिप्रगल्भो जगनोष्वगण्डः कदाचिदास्थानगतः कवीनां काव्यामृताखादपरः प्रसन्नात् ॥ अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । श्रुत्वा विकसितचेता तदभिप्रायं प्रकाशतां नेतुम् ।। मूलश्लोकान्समाहृत्य प्रक्षिप्तान्परिहत्य च । विधत्ते विदुषामिष्टां टीकां शृङ्गारदीपिकाम् ॥' अनेनायं वेमभूपालः केरलदेशीयः कश्चन शूद्रमहीपतिरासीदिति भाति. अभिनव- वाणकविप्रणीते वीरनारायणचरिताभिधे गद्यकाव्ये वर्णितनिलिङ्गदेशान्तर्गत 'अद्दयी' नामनगर्यधीशः कदाचिदयमन्यो वेति संदेहः. रुद्रदेवस्तु नात्मानं वर्णितवान्. केवलं टीकासमाप्तौ- 'अमरुकशतमिदमित्यं स्वबुद्धिविभवादसाधितत्त्वज्ञः । रुद्रमदेवकुमारो विदग्धचूडामणिय॑वृणोत् ॥' इयमायां वर्तते. रविचन्द्रविषये किमपि न ज्ञायते. सूर्यदासः कदाचन सिद्धान्तसुन्दरकर्तृज्ञानराज. दैवज्ञात्मनो राजकृष्णविलोमकाव्य-भगवद्गीताटीकयोः प्रणेतैव स्यात् . शेषरामकृष्णस्तु कश्चन वाराणसेयः शास्त्री. एतासु सप्तस्वपि टीकाखर्जुनवर्मप्रणीता श्रेष्ठतमेति सैवास्माभिमुंद्रिता. वेमभूपति कृ. तापि समीचीनव. रुद्रमदेवकृतातिसंक्षिप्ता. रविचन्द्र कृतायां शान्तरसोऽपि व्याख्यातः. स च शुचिरसस्यन्दिष्वमरुकश्लोकेषु परिशील्यमानेषु 'रहसि प्रौढवधूनां रतिसमये वेदपाठ इव' सहृदयानां शिरःशूलमेव जनयति. सूर्यदासेनार्जुनवर्मप्रणीतटीकायाः सर्वस्वमपह- तम्. शेषरामकृष्णेन वेमभूपालटीका सम्यगेव लुण्ठितेत्युभावपि परार्थहरणप्रवणावतिसा- हसिकौ पाटचराविति न संदेहः. सप्तमी कर्तृनामरहिता टीका तु टिप्पणमात्रं केनचिजै- नेन प्रणीतेति भाति. एवं शंकरकृता हरिहरभट्टकृता अमरुदर्पणं चेति टीकात्रयमन्यद- प्यस्ति. तच्चास्माभिर्नासादितम्. अस्मदृष्टान्यमरुशतकमूलपुस्तकान्यपि कानिचिदर्जुनवर्मदेवटीकायाः, कानिचिच वेम- भूपालटीकायाः प्रायोऽनुकूलानि सन्ति. टीकाद्वये च श्लोकविन्यासभेदः. कानिचिच पद्यान्येकेन व्याख्यातान्यपरेण परित्य कानि. अमरुशतकपुस्तकेष्वनुपलभ्यमानानि कानि. चन पद्यानि सुभाषितावल्यादिष्वमस्कनाना, कानिचिच शतकपुस्तके पूपलभ्यमानान्यप्य. न्यकविनाम्ना समुद्धृतानीत्यादि सर्व परिशिष्टेषु श्लोकानुक्रमणिकायां चास्माभिर्दर्शितम- स्तीति शिवम्.
४ अस्मन्मुद्रणाधारभूतानि पुस्तकानि त्वेतानि- (१) अर्जुनवर्मटीकासमेतं कश्मीरलिखितं प्रायः शुद्ध नवीनमस्मदीयम्. तत्पत्राणि २६. (२) अर्जुनवर्मटीकासमेतं जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तशर्मणां प्रायः शुदं १६९५ विक्रमसंवत्सरे लिखितम्. तत्पत्राणि ६४. (३) अर्जुनवर्मटीकासमेतमेव डॉक्टर् पी. पीटर्सन्महाशयेन मथुरातः समानीय दत्तं १६६५ विक्रमाव्दे लिखितं नातिशुद्धमष्टपत्रविकलम्. (४)वेमभूपालकृतटीकासमेतं जयपुरराजगुरुपर्वणीकरोपाह्वनारायणभट्टानां नातिशुद्धम्. तत्पत्राणि ३१. (५) तादृशमेव मुम्बईनगरवास्तव्यपण्डितज्येष्टाराममुकुन्दजीशर्मणाम्. तत्पत्राणि ३४. (६) रुद्रमदेवकृतटीकासमेतं शुद्ध १५७९ विक्रमाव्दे लिखितं सुरतनगरवासिना केवल- दासात्मजेन भगवान्दासश्रेष्टिना समानीय दत्तम्. (७) इतस्ततः संपादितानि त्रिचतुराणि मूलपुस्तकानि.
काव्यमाला। अमरुककविविरचितम् अमरुशतकम्। महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्ययोपेतम् । देवी रतिर्विजयते मृगनामिचित्रपत्रावली पृथुपयोधरसीनि यस्याः । भाति त्रिलोकविजयोपनतखकान्तप्रकान्तसायकनिशाणनकालिकेव ॥ भ्रूलास्योत्सविनी सविभ्रमगतिर्मूर्च्छनितम्बस्तना संकीर्णे वयसि स्थिताईभणितिः सा पार्वती पातु वः । यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्टानमाकुञ्चिते ॥ अमरुककवित्वडमरुकनादेन विनिळुता न संचरति । शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥ आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्य- सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि । आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः क्रीडाधानः कलानाममरुकमुकवेः केऽप्यमी श्लोकपादाः ॥ क्षिप्ताशुभः सुभटवर्मनरेन्द्रसूनुवारबती जगति भोजकुलप्रदीपः । प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ।। अव्युत्पत्तिमतामन्तःप्रबोधाय सचेतसाम् । काव्यामिधेयालंकारलक्षणं लिख्यते मनाक् । तत्रादिमोऽयमाशंसनश्लोकः ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- प्रेसनखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूर- लोभभ्रमद्धमरविभ्रमभृत्कटाक्षः ॥ १ ॥ १ 'तजनीमध्यमामध्ये पुरोऽङ्गुष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कटकामुसः ॥' इति भृङ्गारदीपिका. २'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः.
२ काव्यमाला । 'यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलामिज्ञास्तं कटाक्षं प्रच- क्षते ॥' सर्वमालाया कटाक्षस्त्वां पातु रक्षतु । किंविशिष्टः । ज्याकृष्टीत्यादि । वाणास- नगुणाकर्षणेन रचितो यः खटकामुखो नाम हस्तस्तस्य पृष्ठं तत्र परिस्फुरन्यः करजकि- रणकलापस्तेन संवलितः करम्वितः । खटकामुखलक्षणं चैतत्-'अस्या एव यदा मुष्टे- सोऽङ्गुष्टः प्रयुज्यते । हस्तकः शिखरो नाम तदा ज्ञेयः प्रयोक्तृमिः ॥ शिखरस्यैव ह- स्तस्य यदाङ्गुष्टनिपीडिता । प्रदेशिनी भवेद्वका कपित्थो जायते तदा । उत्क्षिप्ता च यदा वक्रानामिका सकनीयसी । एतस्यैव कपित्थस्य तदा स्यात्खटकामुखः ॥' अथ कटाक्ष- स्योपमानगर्भ विशेषणमाह-पुनः किंविशिष्टः । मञ्जरितेत्यादि । मजरी उद्भिद्यमानमु- कुलसंततिः । सा संजातास्येति तारकादिभ्य इतच् । मञ्जरितो यः पटवः स एव कर्ण- पूरस्तत्र लोभस्तेन भ्रमन्यो भ्रमरस्तस्य विभ्रमो विलासस्तं बिभतांति क्विप । इति तावद्वाक्यार्थः । रहस्यं चैतत्परमार्थसहृदया मन्यन्ते-यं रसमुपनिवद्धमेष कविः प्रवृत्तः स यद्यप्यकृत्रिमानुरागस्त्रीपुंसपरस्परानुरागकल्लोलितः परां कोटिमधिरोहति तथापि ना- यिकायाः प्राधान्यम् । तत्प्राधान्यप्रकाशनपरथायमौचित्यात्कटाक्षमुख्यत्वेनाभीष्टदेवता- शंसनश्लोकोऽपि प्रथमं लिखितः, 'क्षिप्तो हस्तावलग्नः' इत्यादिश्लोकस्तु चरमम् । किं च धर्मार्थयोरुपरिवर्तमानस्य मोक्षात्किंचिदर्वाचीनस्य पुरुषार्थविशेषस्य निधानमपत्येनैव पितॄणामानृण्यहेतुभूता नितम्बिनीविहाय किमन्यदुपादेयम् । यदुक्तमुपाध्यायेन वालसर- खत्यपरनाम्ना मदनेन–'संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सु- खसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । यलक्ष्मीसमुपार्जनं पुलकिनां रक्तखरं गायतां यत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥' कामशास्त्रेऽप्युक्तम्-'किं स्यात्परत्रे- त्याशङ्का यस्मिन्कायें न जायते । न चार्थप्नं मुखं चेति शिष्टास्तस्मिन्व्यवस्थिताः॥' परस्त्रीगतोऽप्ययं रस उपनिवध्यमानो न पातकाय। एवंविधसंविधानकैः स्त्रीणां चारित्र- खण्डनं भवति तस्मात्प्रयत्नेनैताः संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वा- त्स्यायनो महर्षिस्तत्तदुपायैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च–'संदृश्य शा- तो योगान्पारदारिकलक्षितान् । न याति च्छलनं कश्चित्स्वदारान्प्रति शास्त्रवित् ॥' यद्यपि धनुर्वेदे खटकामुखः प्रणीतोऽस्ति तथाप्यत्र नृत्यसंस्कार एवायं हस्तको देव्याः एवं च महान्विशेषः । लास्यलीलयैव देव्या दुरतिक्रमदैत्यकुलक्षयः कृत इति प्रभावाति- शयप्रतीतेः । 'यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः' इत्युक्तत्वात्खटकामुखे कटा- क्षनिवेशनं युक्तम् । सहृदयंमन्यैश्च पुनरत्र मुंरटाप्रभृतिपञ्चमुष्टीनां मध्ये केयं मुष्टिः कै- शिकप्रमुखपञ्चन्यायेषु कश्चायं न्याय इत्यादिशरासनशास्त्रचर्चा क्रियते । वयं त्वेवं बूमः-यत्र शृङ्गारैकरसः कविः पुरुषायितप्रवृत्तकामिनीवदनमेव त्वां पातु किं हरिहरस्कन्दादिभिर्दैवतैरिति देवताशंसनमप्यपार्थकप्रायं प्रतिपादयति तत्र को नाम धनुर्वेदमनिर्वेदः पाटवयितुमुत्सहत इति । प्रेहन्नखांशुपाणिपृष्टकटाक्षयोर्मअरित- १ 'मुचटी' इति द्वितीयपुस्तके.
अमरुशतकम्। ३ पल्लवकर्णपूरभ्रमराभ्यां सहोपमानोपमेयभावः । तेन कोमलारुणपाणिनिर्मलनखा- न्तरतरङ्गितचपलापानचमत्कारेण चन्द्रचूडचित्तानुमोदननिवन्धिनी देव्याः सौन्दर्य- विभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्र- तिपादनाकायैव कवीनाम् । इतराकाङ्क्षया तु कलकिन एव ते स्युः । उपनि- बद्धं च भेट्टबाणेनैवंविध एव सङ्ग्रामप्रस्तावे देव्यास्तत्तद्भङ्गिभिर्भगवता भर्गेण सह प्रीति- प्रतिपादनाय बहुधा नर्म । यथा--'दृष्टावासक्तदृष्टिः प्रथममथ तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्मे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपतेः पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥' अत एवाम्बिकाया इति पदं न्यस्तम् । कोऽभिप्रायः। अन्येषां सर्वेषामपि मातुर्भगवतश्च नीलकण्ठस्य प्रि- यायाः। अन्यथा कटाक्षादिवर्णनप्रस्तावे कोऽवकाशोऽम्बिकादीनां पदानामिति । संव- लितोऽम्बिकाया इत्यत्र, लोभभ्रमद्भमरेलादो चानुप्रासो नाम शब्दालकारः । यदाह भ- दृरुद्रटः–'एकद्वित्र्यन्तरितं व्यञ्जनमविवक्षितखरं बहुशः । आवय॑ते निरन्तरमथवा यदसावनुप्रासः ॥' अत्र वीररसस्यानुगुणो विकटपदानां प्रकृष्टो न्यासोऽनुप्रासः । अलं- काराणां सामान्यलक्षणं चैतत्-'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।' ज्याकृष्टी- त्यादौ मजरीत्यादौ च यथाशक्तिसमासाद्गौडीया रीतिः । यदुक्तम्-'द्वित्रिपदा पाश्चाली लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥' ये च दण्डिनाचार्येण-श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्व- मोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥' इति गुणाः प्रतिपादितास्ते चात्र शृङ्गाररसोचिता वाहुल्येन भविष्यन्ति । तस्माद्वैदर्भमार्गे सर्वथा समास एव न स्यादिति न वाच्यम् । ओजसः समासभूयस्त्वात् । तोजोगुण एव गौडीयो मार्ग इति चेत् , गोडीये केवलं यथाशक्ति समास एव, वैदर्भे पुनः श्लेषप्रसादादयो- ऽपीति । ननु गुणा अपि काव्यशोभाहेतवस्तत्कथं 'काव्यशोभाकरान्' इत्योद्यलंकार- लक्षणं समानजातीयव्यवच्छेदकं स्यात् । उच्यते-नहि गुणाः कटककेयू दिवदाभर- णत्वेनालंकुर्वन्ति । किं तु शौर्यौदार्यवत्प्रकर्षमादधते । उक्तं चानन्दवर्धनाचार्येण 'उपकुर्वन्ति तं सन्तं येऽद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ तमर्थमवलम्वन्ते येऽगिनं ते गुणाः स्मृताः। अजाश्रितास्त्वलंकारा मन्तव्याः कटका- दिवत् ॥' अर्थालंकारश्चात्र कल्पितोपमा । यदुक्तम्-‘सा कल्पितोपमाख्या यरुपमेयं विशेषणैर्युक्तम् । तादृग्भिस्तावद्भिः स्यादुपमानं तथा यत्र ॥' यथा-'मुखमापूर्णकपोलं मृगमदलिखितापत्रमेतत्ते । भाति लसत्सकलकलं सलाञ्छनं चन्द्रविम्यमिव ॥' सामा- न्यलक्षणं चतत्-'उभयोः समानमेकं गुणादिसिद्धं यथा यदेकत्र । अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा ज्ञेया ॥' श्रुतालंकारैरत्रोत्प्रेक्षा कैश्चिदुक्ता। सा च न भवति । सिद्धोपमानसद्भावाभावात् । यदुक्तं- 'अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भा- १ चण्डीशतके.
20 काव्यमाला। वम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥' यथा-'चम्पकशिखराग्रमिदं कुसु- मसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधक्षुरिव ॥ यत्र संभा- वनमात्रेण 'लिम्पतीव तमोऽङ्गानि' इत्यादिवटुपमानोपमेयभाव एव नास्ति तत्रातिशयो- त्प्रेक्षाव्यवहारः । भट्टरुद्रटमते हि चतस्रोऽलंकाराणां जातयः-वास्तवमौपम्यमतिशयः श्लेष इति । अत्र यद्यपि दैत्यदलनोपक्रमे भ्रूभङ्गलोचनलौहित्यादिविकाराभावादुप- मायाः सौन्दर्यविभ्रमसंपत्तिं धैर्यातिशयशालिनी प्रतिपादयन्त्या 'उत्साहात्मा वीरः स च त्रिधा धर्मयुद्धदानेषु' इति वचनाद्युद्धवीररसे गौडीरीतिव्यजितौजसि तत्परता । तथापि न रसस्य प्राधान्यम् , किं तु त्रयस्त्रिंशत्कोटित्रिदशैरप्यशक्ये कर्मण्यध्यवसिताया देव्याः प्रभावातिशयमात्रात्मनो वाक्यार्थस्य । तेनोपमाया रसवदलंकारत्वम् । तदुक्तम्- 'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' भ्रमरसाधर्म्यारोपणेन कवेरसितः कटाक्षोऽभिप्रेतः । वर्णयन्ति सितमसितं सितासितं च कटाक्षम् । तत्र सितो यथा धनंजयस्य– 'उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमद्भूलतं खेदाम्भःनपिताङ्गयष्टि विगलद्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाधिफेनपटलप्रख्याः कटाक्षच्छटाः ॥' असितो यथा कस्यापि-‘गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः कालि- न्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्टकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधैव क्षपयसि ॥' सितासितो यथा-'अदृश्यन्त पुरस्तेन खेलाः खजनप- दूयः । अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥' इति ॥ क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृहन्के शेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतत्रिपुरयुवतिमिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥ २ ॥ स शांभवः शराग्नियुष्माकं दुरितं दहतु हरतु। स कः । य आर्द्रापराधः। कामीव त्रिपुरयुवतिभिर्वाष्पझलज्झलायितलोचनेन्दीवराभिः करव्यतिषक्तः प्रेरितः। वलात्कारेण वत्राञ्चलमवलम्बमानस्ताडितः । निरस्तश्च शिरोरुहेषु लगन् । पादप्रणतस्तु पर्याकुलतया नावलोकितोऽपि । निर्भत्सितश्च परिप्वजमान इति । अत्र भगवतः पिनाकपाणेर्बाणा- नलभस्मीकृतोद्भटदानवेन्द्रस्य प्रभावातिशयद्योतको वीररसोऽङ्गीकृतः । क्षिप्तो हस्ताव- लग्न इत्यादिना दनुजेन्द्रदयितानामीारूपो विप्रलम्भशृङ्गारः, साश्रुनेत्रोत्पलाभिरित्य- नेन प्राणेश्वरशोकात्मा करुणरसश्चाङ्गम् । न चानयोरन्योन्यं विरोधः । अन्यपरत्वात् । यथाहि महषाणामाश्रमेष्वहिनकुलादीनाम् । यदुक्तम् -'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । वाच्यानामतभावं च प्राप्तानामुक्तिरच्छला ॥' विशेपतस्तु प्रस्तुतपरिपो- पकारिणावेतौ । ईर्ष्यारूपस्तावदत्र विप्रलम्भकारः करुणमेव पुष्णाति । यदुक्तम्- अमरुशतकम्। ॥ "प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासै- रधिकतरं शोकावेशमुपजनयन्ति । यथा-'अयं स रसनोत्कर्षी पीनत्तनविमर्दनः । ना- भ्यूरुजघनस्पशी नीवीविषेसनः करः ॥” इति । इह हि यास्तत्तदुपायपरिचर्याचतुरेण कान्तेन कुपिताः प्रसादितास्ता एव दनुजराजराजीवलोचनाश्विरमननुभूतान्यविषयतया विपद्व्यसनेऽपि मानिनीमानदर्शनं दर्शयन्त्यो दारुणदहनेन परिभूयन्त इति प्रतीतेः करु- णोऽपि प्रतिपक्षगतत्रिपुररिपोरभिनन्यवन्द्योदयस्य वीरं पुष्णाति । अत्रास्याश्रुणी व्य- भिचारिसात्त्विको भावी प्रकर्षण रसतां गतौ । यदुक्तम्-'निवेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विवोधो हर्षश्चाप्यवहित्यमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः प्रयान्ति रससंस्थितिम् ॥ स्तम्भः खे- दोऽथ रोमाञ्चः स्वरभोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥' अलंकारश्च क्षिप्तो हस्तावलग्न इत्याचेकैकवाक्यप्रतिपादितशराग्निसापराधकामिवृत्तान्ते- नार्थश्लेषणानुग्राह्योपमा । अर्थश्लेषलक्षणम्-‘एकार्थवाचकानामेव शब्दानां यत्रानेको- ऽर्थः सोऽर्थश्लेपः' इति । तेन 'यत्रैकमनेकार्थर्वाक्यं रचितं पदैरनेकस्मिन् । अर्थे कुरुते निश्चयमर्थ लेषः स विज्ञेयः ॥' इति भट्टरुद्रटेन यल्लक्षणं कृतं तच्छब्दश्लेषमेव प्राप्नोति। अनेकार्थानां हि शब्दानामन्वयव्यतिरेकाभ्यां तस्य प्रवृत्तिनिवृत्ती । यथा-'तवैष विद्रुमच्छायो मरुमार्ग इवाधरः । करोति कस्य नो वाले पिपासाकुलितं मनः ॥' अत्र हि प्रवालशब्देन श्लेषो न भवति । अभनपदो यथा—'तव तन्वि कुचादेतौ भूधराविव राजतः । अन्योन्यमण्डलाक्रान्ती संघिहीनौ करार्थिनौ ॥' अत्रापि परिणाहान्तरहस्त- शब्दैः श्लेषो न भवति । अर्थश्लेषे तु क्षिप्तो हस्तावलग्न इत्यादिपु प्रेरितः करव्यतिषत्त इत्यादिभिः पदैः श्लेपो न निवर्तते । संकरश्चायम् । यदुक्तम्-‘मिश्रालंकाराणां तिल- तण्डुलवच्च दुग्धजलवद्वा । व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा ॥' अत्रापि वाक्या- थस्यैव प्राधान्यम् , संकीर्णस्य रसादेश्चाङ्गत्वम् । तेन रसवदलंकारस्थितिः पूर्ववदेव । यच्च प्राग्वीररसस्यानत्वं प्रतिपादितं तद्विप्रलम्भकरुणावेक एव । आर्द्रशब्दो नवोद्भिन्न किस- लयादी प्रसिद्धः । अत्र तु खार्थे स्खलद्गतित्वादमूर्तस्यापराधस्य नूतनत्वं लक्षयति । तेन चातिदुःसहत्वं व्यङ्ग्यम् । अत एवार्दापराधः कामी वहिसमानत्वेन प्रतिपादितः । संतापातिशयजनकत्वात् । लक्षणा चेयं वृत्तिः । यदुक्तं काव्यप्रकाशे-'मुख्यार्थवाथे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इति । इयमेव च विदग्धवक्रोक्तिरिति स्पृहणीया कवीनाम् । वाचकलाक्षणिकव्यजकानां शब्दा- नाममिधा लक्षणा व्यक्तिरिति तिस्रो वृत्तयः । अर्था अपि तावन्त एव वाच्यलक्ष्य- व्यङ्ग्या इति । आददानोंऽशुकान्तमित्यत्र 'आठो दोऽनास्यविहरणे' इत्यात्मनेपदम् । तेन व्यादानं मुखप्रसारणे वर्तत इति दोषो नाशङ्कनीयः । गृह्णन्केशेष्वित्यत्र क्रियाया- ..
काव्यमाला। स्त्रिपुरयुवतय एव कर्मत्वेनावधार्याः, न तु केशाः । यथा-'गृहीत इव केशेषु-' इति । आलिङ्गन्योऽवधूत इत्यत्र चरणनिपतितोऽपि दृष्टिमात्रेणापि न संभाव्यते स कथमालि- नितुमिच्छतीत्यर्थः । कस्यांचित्कृते कृत्वा(?) प्रतिपादितः कामातुरस्तस्यालिङ्गनमुचितमिति समाधानम् । अस्य कवेस्तावदन्यः कोऽपि प्रवन्धो न दृश्यते । तनूनमनयोः श्लोकयोः संकीर्णरसोपनिवन्धोऽनेन दर्शितः। अग्रे सर्वत्र शृङ्गाररसस्यैवोपनिवन्धनीयत्वात् । संकी- र्णरसोपनिवन्धस्तु निकषो रसकवीनाम् । किं चामीषां श्लोकानां तावती रसोपकरणसामग्री यावती प्रवन्धेषु भवति । अत एवोक्तं भरतटीकाकारैः–'अमरुककवेरेकः श्लोकः प्रवन्ध- शतायते' इति ॥ आलोलामलकावली विलुलितां विभ्रञ्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः शीकरैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हेरिहरस्कन्दादिमिदैवतैः ॥ ३ ॥ तत्कृशाझ्याः पुरुषायितसंभोगमध्ये खेदालसलोचनं मुखं त्वामनेककालं त्रायताम् । किं वैकुण्ठशितिकण्ठषण्मुखप्रमुखै किमिः । अपि तु न किमपि । नहि ते रसातिरेको- न्मत्तपुरुषायितसंरब्धविदग्धनितम्बिनीवदनचन्द्रविरहदहनदन्दह्यमानं रक्षितुं क्षमन्ते । एतेनानुरागविह्वला तरुणी तवाभिलाषोचितमानुगुण्येन संपादयत्वित्यर्थः । यदुक्तम्- “पातु वो दयितामुखम्' इति सांमुख्ये।” किं कुर्वाणम् । चकलां चूर्णकुन्तलमालां विलुप्तरचनाविशेषां दधानम् । पुनश्च कीदृशम् । कम्पमानकर्णाभरणम् । भूयः कथंभूतम् । स्तोकोत्पुंसिततिलकम् । कैः । सूक्ष्मसूक्ष्मैः श्रमसात्त्विकसंकीर्णेलविन्दुमिः । अनुशया- क्षेपोऽलंकारः । 'मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना ।' परमत्र वाक्यार्थस्य न प्राधान्यम् । किं तु रसस्यैव । नापि रसवदलंकारव्यवहारः । अपि तु रसोऽलंकार्यः । अलंकारश्च यथार्थ एव । 'नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशममनु- मता च तेन तमवपात्य पुरुषायितेन साहायकं दद्यात् ।' इति वात्स्यायनः । अत्र प्रगल्भा नायिका । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्र- तारम्भेऽप्यचेतना ॥' परित्यक्तव्रीडा चेयम् । यदुक्तम्-‘एवमन्येऽपि परित्यक्तबीडा- यन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः।' संभोगशृङ्गारो रसः । यदुक्तम्-‘अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥' शृङ्गारस्य सामान्यलक्षणमेतत्-‘रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितैः । अयोगो विप्रयोगश्च संयोगश्चेति स त्रिधा ॥' रसस्यैवाथ सामान्यलक्षणमेतत्-‘विभा- १ 'वेदाम्भसा जालकैः' इति शृङ्गारदीपिका. शृङ्गारदीपिका. २ 'हरिहरब्रह्मादिमिदैवतेः' इति अमरुशतकम् । वैरनुभावैश्च सात्त्विकैर्व्यमिचारिमिः । आनीयमानः खाद्यत्वं स्थायिभावो रसः स्मृतः ॥' स च व्यङ्ग्यव्यञकभावेन भाव्यभावकमेदेन वा चळमाणात्मकोऽसंलक्ष्यक्रमध्वनिसंज्ञितः। यदुक्तं ध्वनिकृता-'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतखार्थौ । व्यायः काव्यविशेषः स ध्वनिरिति सूरिमिः कथितः ॥' अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्य- परवाच्यश्चेति द्विविधः । 'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवा- च्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ असंलक्ष्यक्रमद्योत्यः क्रमेण द्योतितोऽपरः । विवक्षि- ताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ रसभावतदाभासभावशान्त्यादिरकमः । ध्वनेरा- त्माङ्गिभावेन भासमानो व्यवस्थितः ॥ [क्रमेण परिपाट्या यः खानुस्खानाभसंनिभः । शब्दार्थशक्किमूलत्वाद्विधा सोऽपि व्यवस्थितः ॥' यदाह भरतः-'बहवोऽर्था विभाव्यन्ते वागामिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संस्मृतः ॥ वागङ्गसत्त्वामिनयैर- स्मादर्थो विभाव्यते । वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः ॥' विविधमामिमुख्येन रसं चरन्तीति व्यभिचारिणः । विभावैर्ललनोद्यानादिभिरालम्वनोद्दीपनकारणैः स्थायी रत्यादिको भावो जनितोऽनुभावैः कटाक्षभूभुजाक्षेपादिमिः सहकारिमिरुपचितो रसः । यदाह भरतः-'सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारो यत्र प्रतीयमानमर्थ- संस्पर्शनसौभाग्यं तदिदं काव्यरहस्यं परम्' इति ॥] परपुरुषप्रथमानुरागिणी कामपि नायिकां रहः सहचरी प्राह- अलसवलितैः प्रेमााट्टै हुर्मुकुलीकृतैः क्षणमभिमुखैलजालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥ हे मुग्धे, कथय क एष पुण्यराशिर्भवत्या वीक्ष्यते । कदा । अद्य । कोऽमिप्रायः । अद्य प्राक्कोऽप्येवं त्वया नावलोकित इति । कैः । ईक्षणैः । भावभेदाद्वहुवचनम् । किं कुर्वद्भिरिव । उद्गिरद्भिरिव । किं तत् । हृदयनिहितं भावाकूतममिलापोचितं संकल्पविशे- पम् । वयःसंधौ हि नायिकाश्चिरसंचितं लज्जासंवृतं बहुतरममिलाषं हृदये धारयन्ति । यश्च येनाध्मातो भवति स तमुद्रितीति युक्तमेव । पुनः किंविशिष्टैः । अलसवलितैरसौष्ट- वतिरश्चीनैः । मन्थरतिर्यग्भूतैरिति भावः । यथा कश्चित्केनापि लोभेन स्थानमत्यक्तुकाम इतरेण कार्यवशाद्वलात्कारेण प्रेर्य उत्थाप्यते न च प्राञ्जलो गच्छति तथेक्षणान्यपि हि स्फारोत्फुल्लानि भूत्वा प्रियदर्शनरसपानोयुक्त नि साध्वसेन प्रसह्य साचीक्रियन्ते । पुनः किंभूतैः । प्रेमाः प्रीतिस्निग्धैः । यदाह भगवान्भरतः स्थायिभावदृष्टीनामुपक्रम- 'व्याकोशा नेहमधुरा स्मितपूर्वामिभाषिणी । अपाङ्गभ्रूकृता दृष्टिः स्निग्धेयं रतिभावजा ॥' पुनः कीदृशैः । मुहुर्मुकुलीकृतैर्दर्शनसुखविशेषानुभवेन वारंवारमर्धनिमीलितैः । यथा १ कोष्ठकान्तः स्थितः पाठ. पुस्तकान्तरे नास्ति.
८ काव्यमाला। कश्चिदभिलषितं वस्तु चिरप्राप्यमाखाय नितान्तसौहियेन मान्द्यमाप्नोति । न तु निमीलि- तैरेव । निमेषपराङ्मुखैरित्यत्रानुपपद्यमानत्वात् । पुनस्तर्षातिरेकेण क्षणममिमुखैः । न तु चिरम् । यतस्त्रपातरलैः । कोऽमिप्रायः । आभिमुख्ये प्रियस्यानुरागरूपचेष्टाविशेषात् (षं) किंचिदुपलभ्य लजालोलानि जातानीत्युभयानुरागः । नहि निरनुरागे पुंसि नायिकानां दृष्टयो लजामनुभवन्ति । पुनः किंभूतैः । दर्शनरसान्तरायकातर्येण निमेषपराङ्मुखैः । अनुभवैकवेद्याश्चैवंविधा दृष्टयः । यथास्मत्पूर्वजरूपवर्णने नाचिराजस्य–'सत्रासा इव सालसा इव लसद्गर्वा इव ः इव व्याजिह्मा इव लजिता इव परिभ्रान्ता इवार्ता इव । त्वद्रूपे निपतन्ति कुत्र न जगद्देवप्रभो सुभ्रुवां वातावर्तननर्तितोत्पलदलद्रोणि द्रुहो दृष्टयः॥ त्वयेति पदं न युष्मदर्थमात्रम् । किं त्वर्थान्तरसंक्रमितवाच्यम् । क एवंविधः पुण्यराशिरस्ति यस्त्वया जगदेकस्पृहणीयसौन्दर्यसंपदानेकाभ्युपायेनाशक्यापहारचित्तत्वान्निर्विकारया स- स्पृहमवलोक्यते । अत एव सुकृतीति । मुग्धे इति पदस्य पुनरयमभिप्रायः–यदित्यं मुग्धा त्वं यदेवमभिमतं जनं स्वच्छन्दमवलोकयसि । एवं हि लोकैः सूक्ष्मेशित रुपल- क्षिष्यसे । तस्मात्प्रच्छन्नमाव अहमेव ते समीहितं संपादयिष्यामीति । अत्र कविनि- बद्धवक्तृप्रौढोक्तिनिष्पन्नोऽर्थशक्तिव्यङ्ग्यः । यदेनमेवमवलोकयसि तत्त्वमस्मिन्ननुरक्तेल्यनु- मानालंकारः प्रथमानुरागदर्शनात्मकसंभोगशृङ्गारस्याङ्गम् । यदुक्तम्-'अर्थशक्तेरलं- कारो यत्राप्यन्यः प्रकाशते । अनुमानोपमाव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ ध्वन्यात्म- भूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिरलंकारवर्गों याति यथार्थताम् ॥' यथा- 'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जडराशिरयं पयोधिः ॥' अत्र मुखं चन्द्र एवेति रूपकम् । अनुमानस्योदाहरणं चैतत्- 'वचनमुपचारगर्भ दूरादुद्गमनमासनं सकलम् । इदमद्य मयि यथा ते तथासि नूनं प्रिये कुपिता ॥' परमेष वाच्योऽलंकारः । अत एवोक्तम्-'शरीरकरणं येषां वाच्यत्वेन व्यवस्थितम् । तेऽलंकाराः परां छायां यान्ति ध्वन्यङ्गतां गताः ॥' नाट्यालंकारस्तु हावो नाम । 'हेवाकस्तु सशृङ्गारो भावोऽक्षि- भ्रूविलासकृत् ।' इयं खस्त्री न भवति । नाप्यनुरक्तः पुरुषो वक्ता । कोऽयं मुकृती- त्यनुपपद्यमानत्वात् । दूती चात्र निसृष्टार्था । यदुक्तम्-'निसृष्टार्था परिमितार्था पत्र- हारिणी खयंदूती भार्यादूती मूकदूती बालदूती चेति दूतीविशेषाः । नायकस्य नायि- कायाश्च यथामनीषितमर्थमुपलभ्य स्ववुद्ध्या कार्यसंपादिनी निसृष्टार्था । सा प्रायेण संस्तुत- भाषणयो यकनायिकयोरप्रयुक्ता । संस्तुतसंभाषणयोरपि कौतुकादनुरूपाविमो युक्ती परस्परस्येति । प्रथमानुरागलक्षणं चैतत्-'तत्संमुखी तं न वीक्षते । प्रेक्षिता ब्रीडां दर्शयेत् । रुच्यमात्मनोऽगमन्यापदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकम- तिक्रान्तं च वीक्षते । पृष्टा च किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थ मन्दमन्यतो- मुखी कथयति तत्समीपे चिरं स्थानमभिनन्दति । दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं समुखविकारमाभाषते । तं च देशं न मुञ्चति । य- अमरुशतकम्। किंचिदृष्ट्वा विहसितं करोति । तत्र कथामवस्थानार्थमनुवध्नाति । वालस्याङ्कगतस्य चुम्बनमालिझनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य तास्तास्थ लीला दर्शयति । तन्मित्रेषु विश्वसिति । वचनं तेषां वहुमन्यते करोति च । तत्परिचारकैः सह प्रीतिं संकयां यूतं चारभते । खकर्मसु चैतान्प्रभविष्णुरिव नियुते । तेषु च नायकसंकथामन्यस्य कथयत्खवहिता तां भृणोति । धात्रेयिकया प्रोत्साहिता नायकस्योदवसितं प्रविशति । तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितु- मिच्छति । अनलंकृता दर्शनपथं परिहरति । कर्णपत्रमङ्गुलीयकं सज वा तेन याचिता स धीरमिव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यव- रसंकथासु विषण्णा भवति । तद्विपक्षैश्च सह न संसृज्यत इति । “दृष्ट्वैतान्भावसंयुक्ताना- कारानिङ्गितानि च । कन्यायाः संप्रयोगार्थ तांस्तान्योगान्विचिन्तयेत् ॥” सा च मुग्धानायिका ।-'मुग्धा नववयःकामा रतौ वामा मृदुः कुधि ।' यथा - 'दृष्टेः साल- सतां बिभर्ति न शिशुक्रीडासु वद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा वाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥' 'नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः' इत्यनेन नर्मस्फोटः । यथा माल- तीमाधवे मकरन्देन माधवस्य मालत्यामनुरागो लक्षितः–'गमनमलसं शून्या दृष्टिः शरी- रमसौष्टवं श्वसितमधिकं किं त्वेतत्स्यात्किमन्यदितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा वि. कारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥' प्रथमानुरागलो. कोऽप्येष क्रमौचित्यात्प्रथमं लिखितः ॥ अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ५ ॥ कुपितनायिकाप्रसादने साम दानं भेदः प्रणतिरुपेक्षा रसान्तरं चेति षडुपायाः । त- न्मध्येऽत्र मेद एव । इह हि नायकेनानुपविश्य शिक्षिता सखी वक्री वक्ष्यमाणप्रकारेण मानत्याजनाय नायिकां भीषयति । हे कोपने ईर्ष्यावति, अङ्गुल्यग्रनखेन बाप्पसलिलमप- नीयापनीय लाघवलज्जातिशयेन मानाध्मातहृदया किं कण्ठानिरुद्धगद्गदं रोदिषि । किं- शब्दोऽल्पार्थः । न तु हेतुप्रेरणार्थः । मानरूपस्य हेतोः स्वयं ज्ञातत्वात् । आत्मीयचरि- तेन प्रचुरतरमुच्चैःशब्दं रोदिष्यसि । यस्यास्तव परगृहोपप्लावकानां पिशुनानां शिक्षाक- जापैर्माने मर्यादामतिक्रान्ते विफलप्रसादनोपायतया निर्वेदं यावत्प्राप्तो वहुमानं प्रति प्रियतम औदासीन्यं गमिष्यति । न त्वन्याङ्गनाम् । यस्मात्त्वं पिशुनोपदेशेषु लनासि । तस्यापराधगन्धोऽपि नास्तीति भावः । विक्षिप्य विक्षिप्येति वीप्सया वाष्पनरन्तर्यमु. तम् । अत्र प्रियतमोऽथ च निर्विण्ण इति नायिकायाः सविशेष भयोत्पादनकारणमु.
१० काव्यमाला। कम् । न तु निवेदो व्यभिचारिभावः । तस्य श्रहारे निषिद्धत्वात् । शृङ्गारश्चात्र विप्र. लम्भ एव यदुक्तम्-'विप्रलम्भस्तु विश्लेषो रूढविलम्भयोर्द्विधा । मानप्रवासमेदेन मानो हि प्रणयेjयोः ॥ तत्र प्रणयमानः स्यात्कोपवश्यतया द्वयोः । स्त्रीणामीाकृतो मानः स्यादन्यासगिनि प्रिये ॥ श्रुते चानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् । उत्स्वप्ना- यितभोगाङ्कगोत्रस्खलनकल्पितः ॥ त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ।' न च निविण्णशब्देनैव निर्वेदव्यभिचारभावप्रतीतिः। रसादीनां वाच्यत्वाभावात् । यदु- कम् - तथा हि। वाच्यत्वं तस्य शब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा। पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतत्वप्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेद्यत्वम् । यत्रापि तदस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते । न तु तत्कृतैव सा । विषयान्तरे तस्या अद- र्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मना- गपि रसवत्त्वप्रतीतिः । केवलं स्वाभिधानमात्रादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्याम- मिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वमिधेयत्वं कथंचिदिति । एवंविधस्य रस- ध्वनेरुपनिबन्धक्षमा अमरुकप्राया एव महाकवयः । यदुक्तममिनवगुप्तपादैः-"प्रतीय- मानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनस्यैव महाकविव्यपदेशः । अन्यथा व्युत्प- त्यभ्यासयोर्मध्ये प्रधानभूतया प्रतिभयापि कविरेवोच्यते । यदुक्तम्-"प्रज्ञा नवनवो- लेखशालिनी प्रतिभा मता। तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥” अलंकारश्चात्राप्य- नुमानम् । यदुक्तम् –'यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम् ॥' यथा- 'वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि । प्रियसखि तथैष न चिरादेष्यति तव वल्लभो नूनम् ॥' परमसौ वाच्यः । वाच्यो व्यङ्ग्योऽप्यलंकारो रसस्याङ्गं भवतीत्याचार्याः । गुणस्तु प्रसाद एव । अत एवात्र यमकादयो निषिद्धाः । 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिवन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्मे विशेषतः ॥॥ दत्तोऽस्याः प्रणयस्त्वयैव भवतैवेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह एंव यात्युपशमं नो सान्त्ववादैः स्फुट हे निस्त्रिंश विमुक्तक ठकरुणं तावत्सखी रंदितु ॥ ६ ॥ अत्र नायकं प्रति मानिन्याः सखी वक्री । त्वयैवास्याः प्रणयो वहुमानो दत्तः । न पुनरियं मुग्धा वहुमानोत्पादनाय प्रत्यभियोक्तुं जानाति । अन्यच्च भवतवेयं चिरं लालि. ता । न पुनरनया लालनकारणं किंचिदारब्धम् । अत एव दैवात् , न बुद्धिपूर्वकमद्य पुनस्त्वमस्या नवं व्यलीकं कृतवान् । यः खलु यस्याः स्वयं प्रणयं ददाति, स्वयं च १ 'भवता सेयं' इति नारदीपिका. २ 'एप' इति शृङ्गारदीपिका.
अमरुशतकम्। प्रेमातिरेकेण लालयति, न तस्याः प्रतिकूलं बुद्धिपूर्वकमारभते । तत्रापि किलशब्दप्र- योगः । कोऽर्थः । विप्रियं विप्रियमिति श्रूयते न हि भवान्वस्तुतो विप्रियं करोतीति ज्ञातापराधेऽपि नायके नायिकाया धृत्युत्पादनम् । एवं सति मन्युरेव मानजनितो दुःखवि- शेष एव दुःसहो न सामवादैरुपशमं याति । स्फुटमेतत् । तस्मात् हे निस्त्रिंश निरनुक्रोश, विमुक्त उच्चैःशब्दत्वात्कण्ठो यस्मिन्नसौ विमुक्तकण्ठः स चासौ करुणो यथा भवत्येवं तावत्सखी रोदितु । विमुक्तकण्ठविषये करुणा यत्रेति वा समासः । कोऽमिप्रायः । एवं रोदितुं यदि न प्राप्स्यति तदा मन्युनाध्मातमस्या हृदयं परिपाकोच्छसितवीजविदीर्णदा- डिमफलन्यायेन स्फुटिष्यति । तस्मादुच्चैःशन्दं रोदितुं देहि । पश्चाद्यथा जानासि तथा प्रसादय । अथ च यदि रुदित्वा जीवन्ती निर्वक्ष्यति तदा प्रसादनं घटत इत्यसूया। विषमोऽलंकारः । यदुक्तम्-'कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः । तकिययोरथवा संजायतेति तद्विषमम् ।' यथा-'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ वारंवारमनुनीयमानामपि प्रौढेावशादशिथिलमानग्रन्थि मनस्विनी प्रति प्रधा- नसखी प्राह- लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोन्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै- स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ७ ॥ हे कठिने, बहिः प्राणदयित आस्ते । किं कुर्वन् । शून्यतासूचकचिन्तासंतानसमु- चितचेष्टानुभावेनावनतो भूमिं लिखन् । अकृते प्रसादे द्वारं न मुञ्चतीत्यर्थः । तथा च वर्तन्तेऽनशनाः सख्यः । पुनः कीदृश्यः । निरन्तरवाप्पेणोच्छूने लोकोक्त्या उच्छ्वसिते नयने यासां ताः सततरुदितोच्छूननयनाः । अत्र नायिकाया अमङ्गलचिन्तनमेव हेतुः । किं च, पारशुकैरपि हसितपठितं परित्यक्तम् । तथापि तवावस्था चेयम् । निरुद्धवाप्पा- रुणितनेत्रामायमाननिःश्वासकदर्यमानाधरस्फुरणादिमन्युचेष्टामिरधृप्या तथैव तिष्टसी- त्यर्थः । तस्मान्मानं परित्यज । कदा। अधुनापि । अपिशब्दोऽध्याहार्यः । एतावतीमपि दशां दुर्जनोपहसनीयां प्राप्ता मानं न मुझसीति प्रतीयमानत्वात् । यस्याः कृते सख्यो- ऽपि पजरशुका अथाहारं हसितपठितं च परित्यजन्ति सा त्वं कथमिव प्रियाय न प्रति- भाषसे । प्रियोऽपि यस्यास्तव प्राणदयितस्तदलमतिमानेनेति भावार्थः । अत एव कठिने इति संबोधनम् । अत्रार्थशक्त्युद्भवः सहोक्तिरलंकारः । नायिकायामाहारादिकं कुर्वत्यां सर्वेऽपि कुर्वन्ति, निवर्तमानायां च निवर्तन्त इति प्रतीतेः । सुप्तिव्यङ्ग्यमानं चात्र कर्मलकाराभ्यामेवोद्भासितम् । अत्र न लिखतीति, अपि तु लिसन्निति प्रसादन- पर्यन्तम् । आस्ते इति, न त्वासित इति । भूमिमिति, न भूमाविति । नहि बुद्धिपूर्वक १२ काव्यमाला। - किंचिल्लिखतीति तिढ्सुब्विभक्तिनां व्यङ्ग्यम् । हसितपठितमित्यत्र 'सर्वो हि द्वन्द्वो विभाषेकवद्भवति' इत्येकवचनम् । अत्र श्लोके त्वया तस्यापराधः सोढव्य इति वापि नोक्तम् । एतच्च वक्तुः कौशलम् । अपराधस्मारणे हि मानिनी प्रतिनायिकां स्मरति । ततश्चाधिकं कुप्यति । न चैवंविधः प्रसाधननिर्वन्धः पूर्वमस्यां केवलेन दाक्षिण्येन अपि तु लोकोत्तरेण प्रेम्णा च । उक्तम्-'अक्खडइ पिआ हिअए अण्णं महिलाअणं रम- न्तस्स । दिठे सरिसम्मि गुणेऽसरिसम्मि अईसन्ते ॥" अनेकनायिकाकमनीयनायकव्यलीकविलीयमानविलासां वरवर्णिनीं विदग्धवयस्या वक्ति- नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता- स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचियुवा सहृदयस्तादृक्पतिः कातरे किं नो बर्वरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ८ ॥ अनास्तावहिर्मुग्धा अन्तःशठास्तव रमणमपहरन्ति । निषिद्धा अपि न निव- र्तन्ते । तत्किमिति मुधा ताम्यसि कस्माच रोदिषि । उभयमपि व्यर्थमित्यर्थः । एवं हि तासामभीप्सितं भवति । अत एव तासां प्रियं मा कृथा इति । तर्हि किं समयोचित- मित्याह-कान्त इत्यादि । हे कातरे, किं न विक्रीयते । लक्षणया अनन्याधीनः किं न क्रियते । अनन्याधीनं हि वस्तु विक्रेतुं याति । कोऽसौ पतिः । किं विशिष्टः । कान्तः सुन्दरः । क्रीडारसिकः । तरुणः सहृदयस्तादृगनिर्वचनीयचेतनः । किं कृत्वा । आक्रम्य । मुग्धशठाभ्य एव नायिकाभ्य आच्छियेत्यर्थः । कैः । प्रियशतैः । किंवि- शिष्टैः । वैवरकर्कशैः सोल्लुण्ठनर्मनिरनुक्रोशैः । यदुक्तं गोवर्धनाचार्येण–'अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः। इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः । अत एव केलिरुचिर्न चासंभावितो वश्यतां याति । यतस्तादृक्सहृदयः । 'दक्षिणोऽस्यां सहृदयः' । अपमानितश्च नार्या विरज्यते । स पुनरुत्कृष्ट इति मया खयं मानमुत्सृज्य संगमयितुं कथं युज्यते पतिरिति लाघवलज्जाभीरुत्वेन कातरे इति संबोधनम् । प्रशंसाम- नोज्ञानुनयप्रवर्तिका चेयमुक्तिः । यः कान्त इत्यादि गुणस्पृहणीयो वारितामिरप्यङ्गनाभि- रपह्रियते स त्वयापराधोचितनिग्रहस्थानीयेन वर्वरकार्कश्येन विक्रेयकोटिमानीयते तस्माद्युवतिषु धन्या त्वमिति प्रतीयमानत्वात्परिवृत्तिरलंकारः। वर्वरकर्कशं दत्त्वा पतिर- पहियतामिति पर्यवसितत्वात् । यदुक्तम्-'युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते १ 'आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने ॥' इति गाथासप्तशतीटीकायां (१।४४) छाया. २ 'वर्वरकर्कशैः परुषकठिनैः' इति गुजारदीपिका.
अमरुशतकम्। १३ यत् । क्वचिदुपचयेते वा प्रसिद्धितः सेति परिवृत्तिः ॥' यथा-'दत्त्वा दर्शनमेते म- प्राणा वरतनु त्वया क्रीताः। किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥ ९ ॥ हन्यते क्रीडाकमलादिना ताज्यते । कोऽसौ। प्रेयान् । कीदृशः । धन्य एव । कया। दयितया । किं कुर्वत्या । रुदत्या । किं कुर्वन् । निद्रुतिपरो हसन् । नाहं तत्र गत इत्या- दिवचनेन मानोपशमं लक्षयित्वा स्मयमानः । किं कृत्वा हन्यते । वासनिकेतनं नीत्वा । वासनिकेतनमेव किं कृत्वा नीतः । कोपात्कोमललोलबाहुलतिकापाशेन बवा दृढम् । वा- हुलतिकाया लोलत्वं सात्त्विको भावः । लतिकेत्यनेन दुःसहविरहक्लेशकार्यम् । अत एव बन्धनव्याजादौत्सुक्येन खयंग्रहाश्लेषः । क्व । पुरः । कासाम् । सखीनाम् । कदा। सायम् । यदि मानमेव धृत्वाद्यतनीमपि रात्रिं प्रतिपालयिष्यामि तदा मा कदाचिदल- (य)मन्यत्र वय॑तीयौत्सुक्यप्रतिपादकः सायंशब्दप्रयोगः। अत एव लजापरित्याग- द्योतकं सखीनां पुरः इत्युक्तम् । पुनः किं कृत्वा । व्यलीकं संसूच्य । कथमिति । भूयो- ऽप्येवमिति । अर्थादिदानींतनोऽपराधः सोढ इति लभ्यते । भूयोऽप्येवं करिष्यसीति वाच्ये यदोक्तं तत्र रोषसात्त्विकसंकीर्णसंभ्रमहेतुको वास्तम्भः कारणम् । अत एव स्खलन्मृदुगिरा । अहो अन्यदेव किमपि दयितायाः प्रभुत्वं यत्समकालमेव निग्रह- प्रसादौ । नहि बाहुलतिकाबन्धनं विहाय कश्चिदन्यः प्रसादोऽस्ति । अत्र कविर्वक्ता ईर्ष्यामानात्मकविप्रलम्भारम्भः संभोगशृङ्गारपर्यवसितो रसः। अत्रालंकारो रसनिर्वाहणे- कतानहृदयेन कविनात्यन्तं न निर्वाहं नीतः । यदाह ध्वनिकारः–'अत्र हि बाहुलतापा- शेनेति रूपकमाक्षिप्तमनियूढं च परं रसपुष्टये।' अधीरा प्रगल्भा नायिका ॥ कश्चिद्देशान्तरगमनोपक्रमं विहाय यथापूर्वमवस्थितः केनचिदगमनकारणं पृष्टः प्राह- याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ १० ॥ भाविन्यावश्यके । निःसंदेह इति यावत् । मरणे उत्साहस्तया सूचितः । केन हसि- तेन । अर्थाद्वैलक्ष्यजन्मना । किं कृत्वा । मां दृष्ट्वा । केन । चक्षुषा । न तु चक्षुर्ध्याम् । १'मोहनमन्दिरं' इति शृङ्गारदीपिका. २ 'स्वैरं' इति शृङ्गारदीपिका. अमरु. २ १४ १ काव्यमाला। एष निर्दयहृदयो मामेवंविधां विहाय जिगमिषतीत्यसूयाजन्यावधीरणव्यजकमत्रैकवच- नमिति वचनध्वनिः। किंविशिष्टेन । लज्जामन्थरतारकेण । अत्र मां त्यक्त्वा देशान्तरम- सौ याति तदलमनुपादेयया मयेति लघुत्वसंभावनजन्या लजा । पुनः किंविशिष्टेन । निपतत्पीताश्रुणा निपतत्सत् पीतमपहृतमश्रु येन । प्राणैर्हि दुःखनिस्तारकामो न वा- पमुत्सृजति । क्व सति । मयि सवाष्पे एवं कथयति सति । एवं किम् । हे सुन्दरि, याताः सन्तो भूयः किं न मिलन्ति । अपि तु मिलन्ति । तस्मात्त्वया मत्कृते चिन्ता न कार्या । यतो नितरां कृशासि । नह्येवंविधे कार्ये सचिन्तया वर्तितुं शक्यते । कार्य तत्कालमापृच्छमानप्राणेश्वरविरहसंभावनासंभवमेव । प्रिये सवाष्पे स्वयं निपतत्पीता- श्रुणा चक्षुषेयवाष्पा यदनुवृत्तिं परिजहार तत्र 'त्यक्तश्चात्मा का च लोकानुवृत्तिः' इति न्यायेन प्राणनिरपेक्षतैव कारणम् । अथवा अमङ्गलसूचनमश्रु प्रस्थानकाले न प्रका- श्यत इति प्रीलतिशयः । यथा-'अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मगलवचः परिहृत्य कोपात्कणे कृतं कनकपत्रमनालपन्त्या ॥' भविष्यत्प्रवासात्मको विप्रलम्भः । उत्तरालंकारः। यदुक्तम्-'उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥' उपायाक्षेपश्च । यदु- कम्–'दुष्करं जीवितोपायमुपन्यस्योपरुध्यते । पत्युः प्रस्थानमित्याहुरुपायाक्षेपमी- दृशम् ॥' सखीभिर्मानं शिक्षितापि कृतप्रियसंगमा काचिन्नायिका ताः प्रति प्राह- तद्वक्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो- स्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कनुके संधयः ॥११॥ हे सख्यः, किं करवाणि । अपि तु न किमपि । क्वविषये, यत्कशुके संधयः शतधा यान्ति । दलन्तीत्यर्थः । यतो मानाभिव्यक्तये किं किं न मया कृतमित्याह-तस्य प्रियस्य वफ्राभिमुखं सत्स्वमुखं विनमितं नम्रीकृतम् । दृष्टिः स्वपादयो~स्ता । अत्र तद्वक्रा- भिमुखं मुखं विनमितं दृष्टिः कृता पादयोरिति वाक्यद्वयेनापि दिदृक्षारसस्यैव निषेधो वोद्धव्यः । अभिमुखमुखतया तदर्शनाभिलाषिणी दृष्टिर्निवारितेत्यर्थः । न तु प्रथमवाक्ये विवक्षारसनिषेधः शनीयः । द्वितीयवाक्ये तद्दर्शनोत्सुका दृष्टिः कृता पादयोरिति तच्छब्दसहितपदस्यान्वेषणीयत्वात् । तृतीयवाक्ये विवक्षारससूचकचिह्नतिरस्काराच्च । यद्वा मुखविनमनेनैव दृष्टेः पादगमने सिद्धे दृष्टिः कृता पादयोरिति यदुक्तं तेन प्रेयान- पाझेनापि नावलोकित इत्यर्थः । पादयोरित्यत्र संवन्धपदाभावेन सखीषु वचनच्छलं व्यज्यते । तत्पादयोदृष्टिः कृतेत्यत्रापि प्रतीतिसंभवात् । न केवलमेतदेव कृतम् , तद्वच- १ 'संहाप' रति शृङ्गारदीपिका. २'मत्कजुलीसंधयः' इति शृक्षारदीपिका.
अमरुशतकम्। १५ नश्रवणकौतुकचपले श्रोत्रे च कर्णकण्डूयनव्यपदेशेनाकुञ्चिते। अपरं च स्वविवक्षारस- सूचकः कपोलयोः सरोमाञ्चः स्वेदोद्गमो हस्ताभ्यामाच्छादितः । अत्रेदं प्रकर्षण(?) प्रियविषये प्रीतिप्रकर्ष एव । मानाय नायिकया प्रयत्ने क्रियमाणेऽप्यवयवानां प्रियसंगमो- त्सुकत्वात् । अत्राप्युत्तर एवालंकारः। यथा-'भण मानमन्यथा मे मौनं भ्रुकुटिं वि- धातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखी भवितुम् ॥' यत्नाक्षेपश्च । यदुक्तम्-'यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्यो- पदर्शनात् ॥' यथा-'गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी । निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥' प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं वालालापैः सवाष्पगलजलैः ॥ १२ ॥ वासरशतप्राप्यं देशं प्रियस्य जिगमिषोः प्रस्थानं मुग्धा निषेधति । कैः । अश्रुगलजलै- रालापैः । कथम् । इत्यमुना प्रकारेण । हे प्रिय, प्रथमप्रहरावसाने त्वमिहागमिष्यसि । अथवा मध्याहे । उत वित्तस्मादपि परेण । तृतीयप्रहरेणेत्यर्थः । अत्र 'विवक्षातः का- रकाणि भवन्ति' इति करणे तृतीया । यथा-'समेन धावति', 'विषमेण धावति' इत्यादौ । अपिशब्दस्यायमभिप्रायः-हे निष्करुण, मध्याह्नादप्यनन्तरं वहिः स्थातुं न युज्यत इति । अत्र सप्तम्यन्तानां पदानामन्तरेऽस्य पदस्य तृतीयान्तत्वेनोपक्रमभङ्गो न दोष एव । अर्थस्यान्यथा प्रतीतेः । पददोष एवास्य रसकवेः क्वाप्यस्तु । यदुक्तमुपाध्यायेन- 'पदविह्वलता क्वापि स्पृहणीया भवति रसकवीन्द्राणाम् । घनजघनस्तनमण्डलभारालस- कामिनीनां च ॥' अनेनापि प्रश्नेन यदा नायकोऽनभ्युपगमनसूचकं मौनमेव जग्राह, तदा नायिका पुनराह-अनन्तरमाहोस्वित्सर्वस्मिन्नेव दिनेऽतिक्रान्ते । अत्र मोरध्येन नर्मस्पर्शिन्यां विरहासहिष्णुतायां तात्पर्यम् । अत एव रात्रौ व्यतीतायामुदिते विदा- गमिष्यतीति प्रयोगो न कृतः । विरहासहिष्णुतात्मकविप्रलम्भरसोत्कर्षहेतुर्जाति- रलंकारः॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनि दीर्घोच्छ्वासमुदश्रुणा विरहिणीं वाला चिरं ध्यायता । १ 'परेऽथवा' इति शृङ्गारदीपिका. २'वाक्यैः सबाप्पझलझलैः' इति शृङ्गारदीपिकासंमतः पाठः. 'सबाप्पाणि च तानि झलझलानि च तैः । सबाष्पगद्गदै रित्यर्थः । इति तद्या ख्यानम्.
१६ काव्यमाला। अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा ऋन्दितं ग्रामीणैः पुनरध्वगस्य वसतिामे निषिद्धा यथा ॥ १३ ॥ अर्धरात्रे निर्भरमम्भोधरस्य वर्षतः स्तनितमाकर्ण्य दीर्घोत्कटवासमुत्कटवाष्पा- म्बुना विरहिणीं मुग्धां विरहातिवाहनोपायेष्वनभिज्ञतया शङ्कनीयां गद्गदलोलमनिशं त- देकतानेन स्मरता पथिकेन समस्तामपि रात्रिमसंकोचितकण्ठस्वरं तथा रुदितं तथा ग्रामनिवासिमिभूयः पान्थस्य वासो ग्रामे निवारित इति । यदि मार्गों वहति तदा प्रच- लति । यदि च लोको जाग्रद्भवति तदा वामिश्रणेनापि कियतीमपि विरहव्यथामति- वायति । निशीथे उभयस्याप्यभावादप्रतिविधानस्तपस्खी पान्थः शब्दान्तराभावात्के- वलं नीरदनिनादमेव दुःश्रवं श्रुत्वा मुक्तवासोऽनुद्यमद्योतकमश्रुपातं विधाय ऋन्दितुमे- वारब्धवान् । मेघवृष्टिदृष्टिप्रतिबन्धको बाप्पयोगश्चेत्यपरं गमननिरोधे कारणद्वयम् । वा- रिधरस्य, न तु वारिमुचः । वारिमुच इत्यनेन हि पदेन क्रमात्सलिलक्षयोऽपि संभाव्यते । न तु वारिधरस्येत्यनेन । अत एव सान्द्रसलिलसंपदाध्माततया धीरं वारि किरत इति । वाला पूर्वाननुभूतविरहव्यथाम् । अखिलत्वं क्रन्दनविषयायाः पश्चिमाया एव रात्रेः । न तु सकलरात्र्यभिप्रायेण । अर्धरात्र एव मेघध्वनेः श्रुतत्वात्। ग्रामीणाः प्रायो नायिका- नुरागविदग्धवक्रोक्तिविरहवेदनानर्मभगिष्वनभिज्ञा भवन्ति । परं तैरप्यध्वगस्य वसति- मे निषिद्धा । 'ग्रामाद्यखो' । 'आयनेयीनीयियः फढखछयां प्रत्ययादीनाम्' इति खस्थाने ईनादेशः । प्रवासात्मको विप्रलम्भः । कविर्वक्ता । अत्र न तथालंकारः क- चिदुद्भावनायामवतरति । अस्मिन्काव्ये तथाविधा अलंकाराः प्रायशो न दृश्यन्ते । प्राणात्मकेन रसेनैव चमत्कारः परां कोटिमधिरोहति । यदुक्तमुपाध्यायेन-खभावर- मणीयानां पदार्थानामलंक्रिया। प्रत्युताच्छादकत्वेन न प्रकर्षाय जायते' ॥ कश्चित्तत्कालमागतो मानिनी प्रत्याह- कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति । न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥ १४ ॥ हे कठिनहृदये, इयं निगूढान्तःकोपा तवाकारगुप्तिर्मम चेतो दहति । कथं संवृत्तिः । इलमुना प्रकारेण । प्राय ईर्ष्यास्मितेनापि यन्माधुर्य तत्किमपि नायिकाया रामणीयकं द्यो- तयति । अभ्युद्गमविधिरित्यत्र विधिशब्दस्यायमभिप्रायः-पडा भवन्ति । आचार्यो ऋ- - १ प्रतिवचनमयालपसि च' इति शृङ्गारदीपिका. २ 'दृष्टिः शैधिल्यं भजत इति' इति शृङ्गारदीपिका. ३ 'कोपे' इति शृङ्गारदीपिका.
अमरुशतकम्। १७ विग्विवायो राजा प्रियः सातक इति । श्रौताचारवतामागमनोचितमेतत् । न पुनः प्रणयोचितम् । शिरस्याज्ञा न्यस्ता, न तु हृदये । सापि पाषाणभारवदतिदुर्वहा । अति- दुर्वहं वस्तु मस्तके धार्यते । अत एवानतिमतीति शिरोविशेषणम् । मिलने दृष्टेर्न शैथि- ल्यम् । मनसो मिलने तु शैथिल्यमेव । अथ च दृष्टेः शैथिल्यं न। अमुना प्रकारेण त्वया दूरादेव स्मितमधुरं यथा भवत्येवमभ्युत्थानं कृतम् । इदं क्रियतामित्यादिकार्यनियोग आज्ञा । सापि प्रियवचनवती मे आनम्रशिरसि प्रतीष्टा । अन्यच्च तव दृष्टेर्मम दृष्ट्या सह मिलने शैथिल्यं नास्तीत्येतावत्संवृतिस्वरूपम् । दूरादेवाभ्युद्गमः कृतो न तु प्रत्यासत्तौ । शरीरसंपर्कसंभावनायामप्यसहनत्वात् । यः पूर्व मम तथा वशीभूत आसीत्तस्यैव प्रियत- मस्यान्याङ्गनासङ्गिनोऽप्यनुवृत्तिं करोमि प्राणांश्च धारयामीत्यात्मन्यसंभावना । अभ्युपग- मोऽपि तस्या नास्ति, अपि तु साटोपत्वम् । तबौदासीन्यमात्रेऽपि मम चेतो दह्यते तत्का नामान्यानासङ्गसम्भावना । तस्मात्पिशुनविजृम्भितमेतत् । यच्च मम हृदये दह्यमानेऽपि तव हृदयस्य काठिन्यं तत्र निगूढान्तःकोपता हेतुः । अन्तर्निसातकर्कशपदार्थ हि कोम- लमपि कठिनं भवति । मिलन इत्यत्र यद्यपि गुणप्रतिषेधो न प्राप्नोति तथापि रूढि- रस्ति । अनुमानालंकारः । यथा-'वचनमुपचारगर्भ-' इत्यादि प्राग्दर्शितम् । औदार्य प्रदर्य सदे(?)त्यनेनौदार्य नाट्यालंकारः । यथा-'अइदुक्किआएँ दिअहं सकलं काऊण गेहवावारम् । गरुए वि मण्णुदुःक्खे मरिमो पाअन्तसुत्तस्स ॥' काचित्प्रणयकलहान्तरिता सहचरी प्रत्याह- कथमपि सखि क्रीडाकोपाद्बजेति मयोदिते कठिनहृदयः शैय्यां त्यक्त्वा बलाद्गत एव सः । इति सैरभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां पुनरपि हतबीडं चेतः करोति करोमि किम् ॥ १५ ॥ हे सखि, किं करोमि । अपि तु न किमपि । यतः पुनरपि मे निस्त्रपमन्तःकरणं तस्मि- प्रियतमे स्पृहां करोति । किंविशिष्टे । यतो व्यपेतघृणे निःशके । पुनरपि कीदृशे । सर- भसमपर्यालोचितमपास्तप्रेम्णि । तस्मादिति कस्मात् । यतः स कर्कशहृदयो बलात्कारेण गत एव । क्व सति । कथमपि प्रणयरोषागच्छेति मयोक्ते सति । कथमपिशब्दस्यायमभि- प्रायः-क्रीडयापि कोपं न करोमि । क्रीडाकोपेऽपि मा कदाचिदसौ वैमनस्यं गच्छेत् । शय्यां त्यक्त्वा गतः, न तु माम् । उपनतेऽप्यमगले न कश्चिदात्मनः स्वयममगलं शंसती त्याशयः । बलाद्गतः सोऽपि किं स्वभावेन गन्तुं शक्नोति । अत एव सरभसं ध्वस्तप्रेम्णि । व्यपेतघृणे इयं मया विना न जीविष्यतीति जानत्यप्युपेक्षितवति । किं करोमि । इतिकर्त- १ 'अतिदुःखिताया दिवसं सकलं कृत्वा गेहव्यापारम् । गुरुकेऽपि मन्युदुःखे स्मरामः पादान्तसुप्तस्य ॥' इति च्छाया. २ 'त्यक्त्वा शय्यां' इति शृङ्गारदीपिका. ३ 'सरभसध्वस्त-इति शृङ्गारदीपिका.
१८ काव्यमाला। व्यतामोहेनोपायमपि न जानामीत्यर्थः । अत्रेदं विमृश्यते-ननु य एष क्रीटाकोपमात्रेण शय्योत्थायं गत एव स किं ग्राम्यः, उतान्यासक्तः। न तावदाद्यः । शृङ्गारोपनिवद्धस्याग्रा- म्यत्वात् । नापि द्वितीयः । सापराधस्य विटस्यापि वा नायिकायाः सुमहत्यपि कोपे प्रसादनैकपरत्वात् । न च सापराधे प्रेयसि क्रीडाकोपो भवति भामिनीनाम् , अपि तु वास्तव एव । तस्मादयं क्रीडाकोपावमानितः सन्नुत्थाय कुड्यान्तरितो भूत्वा प्रियतमाया- स्तत्कालमदर्शनमात्रेण प्राणपरिहारं यावदध्यवसितायाः प्रेमसर्वखनिधानमुद्राभङ्गकारिभि- रभिमानवाक्यैः श्रवणेन्द्रियं चरितार्थयति । प्रणयमानात्मको विप्रलम्भः । 'कलहान्तरि- तामर्षाद्विधूतेऽनुशयार्तियुक्' इति कलहान्तरिता नायिका ॥ दंपत्योर्निशि जल्पतोहशुकेनाकर्णितं यद्वच. स्तत्प्रातर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चश्वाः पुरो व्रीडार्ता प्रेकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ १६ ॥ त्रपापर्याकुला वधूः श्रवणालम्वितशोणमणिशकलं विन्यस्य चश्वाः पुरः प्रणिधाय दाडिमफलरूपेण च्छद्मना वाग्बन्धनं प्रयत्नेन करोति । किं कृत्वा । श्रुत्वैव । किं तत् । वचः । कस्य । अर्थवशाद्विभक्तिविपरिणामेन शुकस्यैव । किं कुर्वतः । प्रभाते श्वशुरश्वश्रू- प्रभृतीनां प्रत्यासत्तावुचैःस्वरं निगदतः । तत्किम् । यद्रात्रौ स्त्रीपुंसयोः किंचिदेकान्तोचितं वाच्यावाच्यं जल्पतोः संबन्धि तेनैव मन्दिरशुकेन श्रुतम् । दंपत्योर्मध्ये वधूरिति संवन्धः । तयोरेतावती लजा यन्निशि दंपलो ल्पतोः दिवा पुनरादौसीन्येन दंपती इति न ज्ञायते । न च परस्परं जल्पतोः । प्रातः श्रुत्वेत्यनेन सुरतालापैर्जागरितसकलरात्रिर- पि प्रथमप्रबुद्धेयं नायिका । कुलाङ्गना हि चरमं शायिन्यः प्रथमं प्रबोधिन्यश्च भवन्ती- ति । एवंविधैरालापैस्तु रजनिरज्ञातैव प्रयाति । यथोत्तरचरिते-'किमपि किमपि मन्दं मन्दमासक्तियोगादविचलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णो. रविदितगतयामा रात्रिरेव व्यरंसीत् ॥' श्रुत्वैवेत्येवशब्दस्याव्ययानामनेकार्थत्वेनाविल- म्बोऽर्थः । केचित् 'तस्यैव तारं वधूः' इति पठन्ति । तेन चान्वयः सुखावहो न भवति । यदुक्तम्-'वाक्यं यत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । समुदायः शब्दानामेकपरा- णामनाकासः ॥ अन्यूनाधिकवाचकसक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षममक्षुण्णं मुम- तिर्वाक्यं प्रयुजीत ॥' उक्तं हि-'अभिहितान्वयवादिनां मते सामान्यरूपाणां पदार्था- नामाकाङ्क्षायोग्यतासंनिधिवशात्परस्परसंसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः प्रकाशते' इति । अखण्डवाक्यवादिनां मते तु वाक्योपदेशः कर्तुं न युज्यते । व्यङ्ग्यव्यञ्जकभावा- भावात् । यदुक्तम् –'सोऽयमिषोरिव दीर्घदी| व्यापारः शब्दस्य' इति । शब्दश्रुतेरन- १ 'तस्यातिमात्रं वधूः' इति शृङ्गारदीपिका. २ 'चजुपुटे' इति शृङ्गारदीपिका. २ 'चजुपुटे' इति शृङ्गारहरीपिका. ३'विदधाति' इति शृङ्गारदीपिका.
अमरुशतकम् । १९ न्तरं यावानथों गम्यते तावता शब्दस्यामिधैव व्यापार इति चेत्, प्रष्टव्या यूयम् 'ब्राह्मण, पुत्रस्ते जातः कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि (न) वाच्यत्वम् । कस्माच्च लक्षणा । लक्षणीयेऽप्यय दीर्घदीर्घमिधाव्यापारेणैव प्रतीतिसिद्धेः । जाया च पतिश्च दंपती । उत्तरपदाधिकारे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । दुर्गसिंहाचार्यस्तु जंदंशब्दौ जायासमानार्थाविति मन्यते । शुकादयस्तु मारिणां भवनेषु भवन्त्येव । यदुक्तम् – 'वृक्षायुर्वेदयोगमेषकुकुटलावकयुद्धविधिशुकसारिकाप्रलापनम्' इत्यादि । दाडि- मवीजमेव पद्मरागसदृशं भवति न तु फलमित्याशङ्का यदि भवति तदा 'दाडिममृषा- बीजेन' इति युक्तः पाठः । वाग्वन्धनमित्यत्र कारणे कार्योपचारः । तेन मुखबन्धनमि- त्यर्थः। अन्योऽपि यः परमर्मोद्धाटनं करोति तस्य बन्धनं विधीयत इत्युक्तिलेशः । कविर्वक्ता । लजया व्यभिचारिभावेन पुष्टः संभोगशृङ्गारः। पद्मरागशकले दाडिमबीज- भ्रान्तिरिति भ्रान्तिमानलंकारः । यदुक्तम्-'वस्तुविशेषं पश्यन्नवगच्छेदन्यमेव तत्सह- शम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति' ॥ यथा-'पालयति त्वयि वसुधां विविधाध्वरधूमशालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशतिनो हंसाः ॥' काचिन्मानिनी मन्यूपतापेन नायकं प्रति सोलुण्ठमभिधत्ते- अज्ञानेन परामुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मैलतैलपङ्कशवलैवेणीपदैरङ्कितम् ॥ १७ ॥ हे कितव, त्वया किमुपार्जितम् , अपि तु न किमपि । किं कुर्वता । मदालिगनरूपेण दुर्नयेनात्मनः सौभाग्यमेतामयोग्यामवस्थां प्रापयता । किं कृत्वा । अन्यागनासंगमलक्ष- णात्परिभवाद्दुःखितामनभिमुखीमाश्लिष्य । केन । अज्ञानेन । कोऽर्थः । यस्यां त्वमनुरक्तस्त- ड्रमेण । कीदृशी सौभाग्यदुरवस्थेत्याह-पश्यैतदित्यादि । वर्तते । किं तत् । तव वक्षः । कीदृशम् । मलतैलपङ्कशवलेर्वेणीपदैरङ्कितं लाञ्छितम् । किंविशिष्टं पूर्वमासीत् । दयिता- कुचव्यतिकरोन्मृष्टाङ्गरागारुणम् । वल्लभास्तनयोर्व्यतिकरेण संवन्धेन प्रोञ्छितो योऽङ्गरा- गस्तेनारुणम् । अत्र दयिताया आज्ञाभङ्गो दुर्नयशब्दार्थः । तेन च तया त्वं निग्राह्योऽ- सीति व्यङ्ग्यम् । पश्यतिक्रियाया वाक्यार्थ एव कर्म, न तु वक्षः । नहि वक्षस्ते पश्येत्यु- तिर्भवति । अपि तु वक्षस्त्वमिति । इयं च नायिका ऋतुस्नानोन्मुखी । अन्यथा तैलप- वादिप्रयोगः शृङ्गारोपनिवन्धे तत्रभवतां छान्दसानामेव मुकरः । तस्मिन्नेवावसरे नाय- केन नूनमन्यागनासङ्गः कृतः । ईर्ष्यामानात्मको विप्रलम्भः । आलिङ्गनेन स्पर्शनात्मकः संभोगोऽपि किं न स्यादिति चेत्, न। परस्परानुकूल्याभावात् । न चैवं प्रतीतिरपि नास्तीति वाच्यम् । पराङ्मुखत्वेऽपि नान्योऽयमिति प्रतीतेः । यथोत्तरचरिते सीतायां १ 'व्यतिकरासक्ताङ्ग' इति शृङ्गारदीपिका. २ 'मम तैलपलमलिनैः' इति शृङ्गारदीपिका.
२० काव्यमाला। .. वनं प्रेषितायां शम्बूकं हत्वा प्रतिनिवर्तमानो यानि दयितया सह पूर्व निषेवितानि गोदा- वरीपरिसरस्थानानि तानि दृष्ट्वा मूर्च्छितो भागीरथीप्रभावाददृश्यसीताकरारविन्दस्पर्शमा- साद्य साहादोच्छासो रामः-'हन्त भोः किमेतत् । आश्श्योतनं नु हरिचन्दनपल्लवानां निप्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीविततरोः परितर्पणो मे संजीवनौषधिरसो नु हृदि प्रसिक्तः ॥ स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोह- नश्च । संतापजं सपदि यः प्रतिहत्य मोहमानन्दनेन जडतां पुनरातनोति ॥' उक्तं च- 'अभ्यासादभिमानाच तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीतिं चतुर्वि- धाम् ॥ प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु । अनभ्यस्तेष्वपि पुरा कर्मखविष- यात्मिका ॥ संकल्पाजायते प्रीतिर्या सा स्यादाभिमानिकी। नान्योऽयमिति यत्र स्यात्प्र- तीतिः प्रीतिकारणम् ॥ तत्त्वज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका । प्रत्यक्षा लोकतः सिद्धा स्यात्प्रीतिर्विषयात्मिका । प्रधानफलभूता सा तदर्थाश्चेतरा अपि ॥' एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमारत- स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविनितः। आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ १८ ॥ गृहागतं प्रियं प्रति विदग्धयानुवृत्तिरूपादुपचारादेव कोपश्चरितार्थतां नीतः । यतो दूरादेवाभ्युत्थानादेकस्मिन्पीटे उपवेशनं त्यक्तम् । ताम्बूलस्य वीटिकाया आहरणं तझ्या- जेन रभसालिङ्गनमपि सम्यग्विनितम् । सखीप्रभृतिपरिजनं सविधे नियुञ्जानया वाड्मिश्र- णमपि न कृतम् । मीलितमलंकारः । यदुक्तम्-'तन्मीलितमिति यस्मिन्समानचिह्नन कोपहर्षादि । अपरेण तिरस्क्रियते नियेनागन्तुना वापि ॥' यथा-'मदिरामदभरपाटल- कपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥' सावहि- त्थादरा नायिका प्रगल्भा ॥ दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषेद्वक्रितकंधरः संपुलकः प्रेमोल्लसन्मानसा- मन्तहर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९ ।। एकासनोपविष्टे द्वे प्रियतमे दृष्ट्वा पृष्टदेशं सप्रयत्नमागबैकस्या लोचने क्रीडानुबन्ध- व्याजेन मुदयित्वा दक्षिणो नायक इतरां चुम्वति । कथंभूतः सन् । यथा द्वितीयो न २ 'मंगतिः' इति शृङ्गारदीपिका. २ 'ताम्बूलानयनच्छलेन' इति शृङ्गारदीपिका. ३ 'संगने' इति शृङ्गारदीपिका. ४ 'पिधाय' इति शृङ्गारदीपिका. ५ 'तिर्यग्वक्रित' इति शृगारदीपिका. ६ 'सपुलकप्रेमो' इति शृङ्गारदीपिका.
अमरुशतकम्। २१ जानातीति मनाङ्गमितग्रीवः । पुनः कीदृशः। सरोमावः। तां किंविशिष्टाम् । प्रीत्युल्लसच्चे- तसम् । पुनः कीदृशीम् । मत्कारणेनेयं वञ्चितेत्यन्तर्निभृतहासलसद्गण्डमण्डलाम् । यस्या नेत्रे मुद्रिते सा ज्येष्ठा । तस्यामपि नायकस्य प्रीतिरस्त्येव । यतः-'दक्षिणोऽस्यां सह- दयः' इति वचनात्पूर्वस्यामपि नायिकायां हृदयेन सह व्यवहरति । तस्माद्विहितक्रीडानु- बन्धच्छल इति योऽयं छलशब्दः स चुम्बितनायिकापेक्षयैव नायके न पुनर्वास्तवेनैव क्रोडानुबन्धेन प्रथमा प्रथममेव संभानिता, द्वितीयस्यां घ नेत्रमुद्रणाचुम्बनात्मकस्य सं- भावनाप्रकारस्य वैशिष्ट्यात्सपुलकत्वाच विशिष्टा प्रीतिः । नूतननायिकायां च विशिष्टप्री- तिप्रतिपादनादेव पूर्वस्यां दाक्षिण्यमात्रादुपचार एवेत्येतेन । द्वयोरपि नायिकयोः प्रियतमे इत्युक्तत्वात् । विशेषोऽलंकारः । यदुक्तम्-'यत्रान्यत्कुर्वाणो युगपत्कर्मान्तरं च कुर्वीत कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥' चरणपतनप्रत्याख्यानप्रसादपराङ्मुखे निभृतकितवाचारेत्युक्ते रुषा परुषीकृते । ब्रजति रमणे निःश्वत्योच्चैः स्तनार्पितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीपु निपातिता ॥ २० ॥ कयाचित्कलहान्तरितया, सखीषु दृष्टिय॑स्ता। कीदृशी । नयनसलिलच्छन्ना । किं- विशिष्टया । उचैनिःश्वस्य स्तनविनिहितहस्तया । क्व सति । दयिते गच्छति सति । कुतो हेतोर्गच्छतीत्याह-चरणपतनस्य यन्निराकरणं तेनालब्धप्रसादे । पुनः कीदृशे। नि- गूढशठचरितेत्यमिहिते । पुनरपि किंविशिष्टे । क्रुधा कर्कशतां यावन्नीते । 'अपमा- नितश्च नार्या विरज्यते यः स उत्कृष्टः' इति वचनादन्यत्र गच्छतो नायकस्य द- क्षिणत्वम् । स्तनार्पितहस्तयेति हृदयसंतापसूचकश्चेष्टाविशेषः । नयनसलिलच्छन्नति सखीष्वेव प्रतिविधानसूचिका दीना दृष्टिः। यदुक्तम्-'अर्धस्रस्तोत्तरपुटा छन्नतारा जलाविला । मन्दसंचारिणी दृष्टिीनेति परिकीर्त्यते ॥' काच्या गाढतरोवनद्धवसनप्रान्ता किमर्थं पुन- मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । मातः स्वप्नुमपीह वारयति मामित्याहितक्रोधया पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ २१ ॥ तया नायिकया शयने शय्यायामवकाशो दत्तः । अर्थात्प्रियस्य । किं कृत्वा । परि- वृत्त्य । केन । वपनच्छलेन। आहितकोधयेव आहितः क्रोधो यया। कथमिति । हे मातः- १ 'प्रत्याख्यानात्' इति शृङ्गारदीपिका. २ 'उक्त्वा' इति शृङ्गारदीपिका, ३ 'स्तनाहित' इति शृङ्गारदीपिका. ४ 'क्लिन्ना' इति शृङ्गारदीपिका. ५ 'अवबद्ध' इति शृङ्गारदीपिका. ६ 'सुप्तिमपीह लुम्पति ममेत्यारोपित' इति शृङ्गारदीपिका.
२२ काव्यमाला। ॥ निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जाने सति । कम् । प्रियायाः परि- जनम् । कथम् । खैरम् । 'मन्दस्वच्छन्दयोः खैरम्' इति वचनान्मन्थरमित्यर्थः । द्विक- र्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिड- नियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्ववस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भा- स्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गरलसचेष्टा- विशेषैर्लम्बितपक्ष्मलोचनाला मदनमदविक्लवतामनुभवन्यासीत् । न पुनर्वास्तवीं नि- द्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम्-'सापि भावजिज्ञासार्थिनी नायकस्यागम- नकाले मृपा सुप्ता स्यात् ।' अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः खप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम्-'इशिताकारल. क्ष्योऽर्थः सौम्यात्सूक्ष्म इति स्मृतः।' यथा-'कदा नौ संगमो भावीत्याकीर्णे वक्तुम- क्षमम् । अवेत्य कान्तमवला लीलापनं न्यमीलयत् ॥' काच्या गाढतरेत्यादि संभोगनर्म। यथा-'सालोए व्विा सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाए धुवइ हसन्ती हसन्तस्स ॥' एते च नर्मभेदाः । 'वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हासेनैव सहारभयेन विहितं त्रिधा ॥ आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि विधा। शुद्धमङ्गं भयं द्वधा त्रेधा वाग्वेपचेष्टितैः ॥ सर्व सहासमित्येवं नाष्टादशधोदितम् ।' मातः स्वप्नुमपीत्यादिना आत्मोपक्षेपनर्म । यथा-'मध्याहं गमय लज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्य विवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मर- स्मरशरत्रस्तां निजप्रेयसी त्वच्चित्तं तु न रजन्ति पथिक प्रायः प्रपापालिकाः ॥' एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि । आवेगाववधीरितः प्रियतमस्तूष्णी स्थितस्तैतत्क्षणा- न्मा भून्म्लान इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२ ॥ कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि । चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवे- गात् । तस्य लक्षणम्-'आवेगः संभ्रमोऽस्मिन्नमिसरजनिते शस्त्रनागाभियोगे त्रासा- त्पांसूपदिग्धस्त्वरितपदगतिर्वर्पजे पिण्डिताङ्गः । उत्पातास्रस्तताङ्गेप्वहितहितकृते शोक- हर्षानुभावा वहेधूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥' अत्र सपत्नीनामग्र- हणमेवाहितम् तत्कृत आवेगः । किं विशिष्टया। ग्लपितया । क सति । एकस्यां शय्यायां सपत्नीनामोच्चारणे सति एकस्मिञ्छयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव १ सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति हमती हसतः ॥' इति च्छाया. २ ‘पराङ्मुखग्लपितया' इति शृङ्गारदीपिका. ३'तत्क्षणं' इति शृङ्गारदीपिका. ४ 'सुप्त' इति शृङ्गारदीपिका.
अमरुशतकम्। २३ न, अपि तु विपक्षरमणीनामग्रहे भूताविष्टस्य ग्रह इव ग्रहे । अत एव नायिकाया आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधीरण- हेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं पुन- रवलोकितः । अत्रौत्सुक्यभावस्योदयः। यदुक्तम्-'भावस्य शान्तिरुदयः संधिः शबलता तथा ।' उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम्-'नरः कलासु कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥' यथास्मत्पूर्वजस्य वाक्पतिराजापरनानो मुञ्जदेवस्य–'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकारकण्टकाप्रैर्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥' तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्सवकारेण म्लानसदृशोऽपि मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशङ्कारः । 'गूढविप्रिय- कृच्छठः' इत्यनेन शठो नायकः । यथा 'शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्त्वाचक्षे घृतमधुमयत्वद्बहुवचोविषेणाघू- र्णन्ती किमपि न सखी मे गणयति ॥' मृदुकोपा मुग्धा नायिका ॥ । एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो. रेन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् । दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो. भग्नो मानकलिः संहासरभसं व्यावृत्तकण्ठप्रहः ॥ २३ ॥ दंपत्योः प्रणयमानकलहो भन्नः । किंविशिष्टः । सहासरभसं यथा भवत्येवं व्याधुटितः कण्ठाश्लेषो यत्र स तथा। अभन्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतो- ावृत्त इति भङ्ग विशिष्टस्यैव मानकलेरिदं विशेषणम् । केवले मानकलहे कण्टग्रह स्या- नुपपन्नत्वात् । केन क्रमेण भग्न इत्याह-एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया किमि- त्येवं कृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि यत्र तद्वीतोत्तरं यथा भवत्येवं ताम्यतोः। उत्तरव्यय एव कथं जात इत्याह-पराङ्मुखतया । पुनः कथंभूतयोः। परस्परं चित्त- स्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्खं खं लाघवमाशङ्कमानयोरित्यर्थः । अथ च मानभङ्गहेतुगर्भ विशेषणमाह-पुनः कीदृशयोः । स्तोकस्तोकं लोचनाञ्चलविवर्तनेन संघ- टमानदृष्ट्योरिति । प्रणयमानात्मकविप्रलम्भपूर्वकः स्पर्शनात्मा संभोगः । 'एकत्रासनसं- स्थितिः-' इत्यारभ्यामुं श्लोकं यावत्षट्श्लोकेषु कविर्वक्ता ।। १ 'अन्योन्यस्य हृदि स्थिते' इति शृङ्गारदीपिका. २ 'सहासरभसव्यावृत्तकण्ठग्रहम्' इति शृङ्गारदीपिका.
२४ काव्यमाला। कस्मात्त्वमद्य विमना इव लक्ष्यसे इत्यादि केनचित्पृष्टः कश्चिन्नायकः कान्ताप्रणयमान चेष्टामाचष्टे- पश्यामो मयि किं प्रपद्यत इति स्थैर्य मयालम्वितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥ २४ ।। पश्यामस्तावदियं मयि स्वयं कीदृशीमालपनादिप्रतिपत्तिमुपक्रमत इत्यपेक्षया मया निर्व्यापारेण स्थितम् । एष निश्चयेन कितवः कस्मान्मां न भाषत इति मनसि विभाव्य तया कोपः खीकृतः । इत्यमुना प्रकारेणान्योन्यस्य या विलक्षा दृष्टिस्तत्र चतुरं यत्को- पप्रसादरूपाया अवस्थाया मध्यं तस्मिन्मया संप्रतिपत्तिप्रवृत्तेन किमपि मिथ्येवोद्भाव्य हसितम् । तया पुनईतिहरो वाष्पस्त्यक्तः । धृति हृतवान् । 'पचादिभ्यश्च' इत्यच् । अधृति सूचितवानित्यर्थः । नहि बाप्यः प्रथममुत्पद्य धृतिं जहार । अपि त्वधृतिसमनन्तरमुत्पन्नो नायकस्य धृति हृतवानिति चेत्, मैवम् । मानिनीमानस्य प्रत्युताश्रुमोक्षान्तत्वात् । 'पश्यामः' इत्यत्र ‘पश्येयम्' इति पाठो युक्तः । मयीत्येकवचनव्यपदेशात् । 'किं मां नाल- पतीति' इत्यत्रेतिशब्दोऽस्थाननिवेशितः । शठशब्दानन्तरं प्रयोजनीयत्वात् । 'अन्योन्य. विलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे' इत्यत्रावस्थान्तरं चतुरताधिकरणं भवितुमशक्तं सत्स्व- संबद्धं मिथुनं लक्षयति । तां विलक्षां दृष्टिं तदेवावस्थान्तरं जानाति न पुनरन्यः कोऽपीति दृष्टेरनिर्वचनीयत्वं चात्र प्रयोजनम् । प्रणयवहुमानलालिता मुग्धा नायिका ॥ कस्यापि विस्रम्भसंभावितस्याग्रे नायको वक्ति- परिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे । तया पक्ष्मप्रान्तध्वजपुटनिरुद्धेन सहसा प्रसादो वाष्पेण स्तनतटविशीर्णेन कथितः ।। २५ ।। तया प्रसादः कथितः । अनुमानेन प्रतिपादित इत्यर्थः । केन । बाप्पेण । किंविशि- प्टेन । पक्ष्मप्रान्तध्वजपुटनिरुद्धेन । पत्मप्रान्तावेव ध्वजौ तयोः पुटं तत्र निरुद्धेन । अव्य- यानामनेकार्थत्वान्निमेषमात्रं रद्धेन । तु निःशेषतो रुद्धेन । अत एव रोद्भुमशक्यत्वा- त्सहसा स्तनतटविशीर्णेन । अयमभिप्रायः-हृदये द्रुताया नायिकायास्तावदश्रूद्गमो जातः । पथात्तया संवरणार्थ रोद्धमारब्धः । अथ दुर्वहतयासौ बलात्कारेण स्तनयोरुपरि पपात । पक्ष्मप्रान्तयोर्ध्वजपुटरूपेण दैर्घ्य साधारणो धर्मः । पुटशब्दोऽश्रुनिरोधप्रयत्न- १ 'मुक्तश्च वापरतया' इति शृङ्गारदीपिका. २ 'तदा पक्ष्मप्रान्तवनपुट' इति शृङ्गारदीपिका.
अमरुशतकम्। २५ प्रतिपादकः । तटशब्दः स्तनयोः परिणाहं द्योतयति, विशीर्णशब्दस्तु काठिन्यम् । अन्यथा कथं बाष्पः कणशो विशीर्णतां व्रजेत् । अनुनयेन मानो गत उत वयमित्याह-तस्याः परिम्लाने माने अपराधातिशयात्पूर्वमनुनीयमानापि प्रसादं कथमपि न चकार पश्चाद्यया कश्चित्तीव्र रुदन्निवारितोऽपि न निवर्तते किं तु परिश्रान्तः खयमेव, तथा तस्या मानः खयं शिथिलो बभूव । अत एव विषादद्योतकं मुखशशिनि करधृत इति । अर्थवशाद्वि- भक्तिविपरिणामेन तया करधृत इत्यर्थः । परिम्लानता कुसुमादिषु प्रसिद्धा अमूर्ते माने स्खलद्गतिः स्वसंवद्धं शैथिल्यं लक्षयति । व्यङ्ग्यं चात्र चमत्कारेण केवलमनुमेयं गूढ- मेवं । यथा-'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्त- संस्था मतिः । उरो मुकुलितस्तनं जघनमंसवन्धोद्धरं वतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥' न केवलमेवं सति, अन्यच्च मयि क्षीणोपाये । ननु षण्णामुपायानां मध्ये प्रण- तिरस्त्येव । तत्कथं 'क्षीणोपाये' इत्युक्त्वा 'प्रणिपतनमात्रैकशरणे' इत्युक्तम् । युक्तमेवै- तत् । परमिदं प्रणिपतनमुपायतया नारब्धम् , किं त्वनन्यगतिकत्वेन । अत एव मात्र- प्रत्ययः, शरणशब्दप्रयोगश्च । मुखशशिनीति काव्यालंकारो रूपकम् । नाट्यालंकारः कोपकालुष्येऽपि माधुर्यम् । यदुक्तम्-'यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः।' भावहावहेलास्त्रयोऽङ्गजाः । शोभा कान्तिदीप्तिर्माधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययत्नजाः सप्त । 'लीला विलासो विच्छित्तिविभ्रमः किलकिञ्चितम् । मोहायितं कुट्टमितं विव्वोको ललितं विहृतम् ॥ इति स्वाभाविका दश । अनुल्वणत्वं माधुर्यम् । यथा-'सरसिजमनु विद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्क- लेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क तदित्युदीर्य सहसा तत्संप्रमाष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तस्याश्च तद्विस्मृतम् ॥ २६ ॥ सा मया परिरब्धा । किंकृत्वा । क्व तदित्युदीर्य । व तत्सान्द्रविलेपनम् , अपि तु न क्वापीत्यर्थः । किं कर्तुम् । वेगेन संप्रमाष्टुं तदेव विलेपनं खहृदयलग्नं प्रोञ्छितुम् । विले- पनप्रोञ्छनमेव केवलमधिकृत्यालिङ्गिता, न तु प्रीयेत्याह-रभसेन हर्षविशेषेण । क्क सति । तया इत्युक्ते सति । इति किम् । किमिति चरणप्रणामसंवन्धच्छद्मना हृदयमपढू- यते । किंविशिष्टं वक्षः । तस्या यद्धनश्रीखण्डादिविलेपनं स्तनयुगं तस्य प्रकृष्टमालिकनं तेन विलेपनमयी मुद्रा तया लाञ्छितम् । अन्यदपि यन्मुद्रालाञ्छितं निधानादिकं भवति तत्प्रयत्नेन गोपाय्यते। व्यतिकरव्याजेनेति व्याजशब्दस्यायमाद्योतकोऽभिप्रायः । तत्त्रि- १ 'स्तनतट' इति शृङ्गारदीपिका. २ 'गोपायते' इति शृङ्गारदीपिका. ३. 'तन्व्या च' इति शुशारदीपिका. अमरु. ३ २६ काव्यमाला। यतमास्तनविलेपनलाञ्छितस्य वक्षसो रक्षणं तव महत्प्रयोजनम् , चरणानतिव्यतिकरस्तु मिथ्यारम्भ इति । यद्यपि तस्या इति पदस्य स्तनयुगपदेन सह संवन्धस्तथापि वक्षःपदेन सह संवन्धविधायको भिन्नविभक्तिर्निदेश उचितः । तस्यात आधीनं तव हृदयमिति प्रतीतेः । आश्लिष्टापि मानं तल्याज न वेत्याह-तस्याश्च परिरम्भसुखवशात्तद्विलेपनं विस्मृतम् । चशब्दस्तुल्यकालताप्रतिपादनार्थः । यदैवालिङ्गिता तदैव कोपकारणं विस्मृ- तवतीति प्रीतिप्रकर्षः । अत्र कोपस्य शान्तिरित्यत्र भावशान्तिः। ईर्ष्यामानात्मकविप्रल- म्भारम्भपर्यवसितः संभोगः । नायको वक्ता पूर्ववत् । पिहितमलंकारः । यदुक्तम्- 'यत्रातिप्रवलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं विदध्यादाविर्भूतमपि तत्पिहितम् ॥ 'व्यक्तागा वितथो धृष्टः' इत्यनेन धृष्टो नायकः । माननर्म चैतत् । यथा- 'तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसति मा गाः कामिनां मण्डनश्रीब्रजति हि सफलत्वं वल्लभालोकनेन' ॥ त्वं मुग्धाक्षि विनैव कञ्चलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । शय्योपान्तनिविष्टसस्मितसंखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २७ ॥ अलीकवचनानामुपन्यासो यत्र-तद्यथा भवत्येवं वयस्याजनः शनकैर्निर्गतः । किवि- शिष्टः । शय्योपान्तेत्यादि । कान्तशय्योपान्ते निविष्टा या सखी नायिका तस्या नेत्रो- त्सवेन प्रमुदितः । क्व सति । कञ्जलिकया वीटिकासंस्पृशि प्रियतमे इत्यभिधायिनि सति । इतीति किम् । हे विहलाक्षि, त्वं कञ्चलिकामन्तरेणैव रमणीयां शोभां दधासि । अत्र मदनालसलोचनां दृष्ट्वा ग्राम्येतरभङ्गीभणितिप्रक्रमेण रिरंसुः कामी मुग्धाक्षीति संवु- वुधे । सत्यां कञ्चलिकायामङ्गसौन्दर्यस्य प्रत्युत पिधानं भवतीति विनैवेत्येवकारस्य तात्प- र्यम् । कञ्चलिका चेयं दाक्षिणात्यचोलिकारूपैव । तस्या एव ग्रथनपदार्थे वीटिकाव्यप- देशः । अन्यत्र कैषातनिकेत्येवमादयः । भवतीप्वप्युपविष्टास्वयमेवंविधं चेष्टत इति सल- जकृतस्मिताया नायिकायाः सखीजनं प्रत्यवलोकनमात्रमेव नेत्रोत्सवः । ननु स्पर्शसुखेन नयननिमीलनं नायिकानां प्रसिद्धम् । यदाह कालिदासः-'मधु द्विरेफः कुसुमैकपात्रे पपो प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥' इत्यादिषु तिर्यक्संभोगेऽपि तदेव श्लाघ्यम् । तत्कथमत्र विकखरदृष्टिता व्याख्यायते । अत्रोच्यते-नहि सर्वासामेव नायिकानां स्पर्शसुखेन लोचननिमीलनं स्पृहणीयम् । प्रौढनायिकानामेवोपवर्ण्यमानत्वात् । ता हि सुरतारम्भ एवाचेतना भवन्ति । इयं च मध्या नायिका । मुग्धाक्षीति मदनालसलोचनेति कान्तं प्रत्यनभियोगित्वात् । १ 'वेणिका' इति शृङ्गारदीपिका. 'तनी' इति तद्वाचकी हिन्दीभाषाशब्दी. २ 'वधू' इति शृङ्गारदीपिका. ३ 'कस' अमरुशतकम् । २७ यदुक्तम्-एवमपरेऽपि व्रीडानुपहताः खयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा 'खेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरो- कम्पेऽपि वृद्धि गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेश- कर्षणघनाश्लेषामृते लुब्धया ॥' सद्भावरहःसहचरीणां परस्परसौभाग्यसाक्षात्कारेणाहादो भवतीत्यालीजन आनन्दितः। कविर्वक्ता । विनैव कञ्चलिकया धत्से मनोहारिणी लक्ष्मी- मित्यनेन विभावनालंकारः। यदुक्तम्-'सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधे- यम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥' अत्रार्थशक्त्याक्षिप्तो रिरंसालक्षणो- ऽर्थः कविना सखीजनसव्याजगमनात्मिकया खोक्त्या भूयोऽपि व्यजितः । यदुक्तम्- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः। यत्राविष्क्रियते स्वोक्त्या सान्यैवा- लंकृति_नेः ॥' यथा-'अम्वा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागार- कर्मश्रमशिथिलतनुः कुम्भदासी तथात्र। अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्यं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' मनोहारिणी लक्ष्मीमित्यनेन शोभा नाम नाट्यालंकारः-'रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।' यथा-'तां प्राङ्मुखीं तत्र निवेश्य वाला क्षणं व्यलम्वन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥' मुग्धाक्षीत्यनेन कान्तिश्च-'मन्मथाप्यायिता छाया सैव कान्ति- रिति स्मृता ॥ यथा मानं त्याजिता सती तत्कालमवलम्व्यमानेया॑तिरेकेण संयुज्यमाना रहसि रमणे रतिरमणरहस्यसर्वखमुन्मुद्रयति न तथा नित्यमेवेत्यनुसंधाय सखीभिः प्रणयमानं शिक्षिता सती ताः प्रति काचिदाह- भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २८ ।। लोचनगोचरे सति तस्मिअने मानस्य निर्वाहः कथं भविष्यति, अपि तु न कथमपि । तस्मिन्नित्यनिर्वचनीयचमत्कारे जने इत्यर्थान्तरसंक्रमितत्वेन प्राणेश्वर इत्यर्थः । नहि कृत्रि- मैरुपायैरयुतसिद्धं वस्तु निहोतुं शक्यते। तदत्र क उपायाः किं च वस्त्वित्याह-भ्रूभङ्ग इत्यादिना । एवमेव तावत्प्रियतमं दृष्टिः सोत्कण्ठमुद्रीक्षते । भ्रुकुटिकौटिल्ये नाटिते पुनर- धिकं सोत्कण्ठमुदीक्षते । यथा कश्चित्पक्षी वलात्करेण रुध्यमानः कथंकथमप्युड्डीय यत्रयो भवति तत्रैव गत्वा रमते । अभिनीतेऽपि वाचंयमत्वे ममेदं दग्धमुखं सस्मितं भवति । धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यन्ते । अथ च तेन सार्धमालापनमन्तरेणाप्रयोजन- माननं दग्धमेव । काठिन्यं गत इत्येव न, अपि तु काठिन्यं गमिते । तथाभूतेऽपि मनसि तनुः पुलकं विभर्ति। अथ च प्रिये काठिन्यं गमिते चेतसि तनुः तनुःखे (2) कृशेत्यर्थः ।
२८ काव्यमाला। तस्मिन्दृष्टे मानस्य कथं निर्वाहो भविष्यति । कोऽर्थः-मया भ्रूभङ्गादीनि दुष्कराणि कृतानि, परंतु न मानो नियूंढः । तस्मादतः परं मानार्थे यत्नमपि न करिष्यामीति प्रीतिप्रकर्षों भविष्यत्या व्यज्यते । उत्तरयत्नाक्षेपालंकारौ । सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला वाला केवलमेव रोदिति लुठल्लोलोर्दकैरश्रुमिः ॥ २९ ॥ सा वाला भर्तुळलीकप्रस्तावे केवलं रोदित्येव । कीदृशी । लम्बितपक्ष्मलोचनेन्दीवरा कैर्विशिष्टा । अश्रुभिः । कथंभूतैः । निर्मलकपोलयोर्यन्मूलं नेत्रयोरधोभागस्तत्र क्षरितैः । पुनः किंविशिष्टैः । लुठल्लोलोदकैः निमेषार्धवद्धविन्दुजालतया लुठत्पतनशीलत्वेन लोल- मुदकं येषां तैः । पुनः कीदृशैः। नैरन्तर्येण प्रथममेवोन्मृष्टकजलत्वात्स्वच्छैः। अथवा ईर्ष्यामानेऽप्यनुपन्यस्तवक्रोक्त्यादेर्नायिकायाः स्वच्छतानुमापकैः । उपचारेणाश्रुभिरपि खच्छैः । ननु किमिति रोदित्येवमुटुण्ठनादिकमेव किमिति नारभत इत्याह-नो जानाति । किं तत् । सविभ्रमानवलनावक्रोक्तिसंसूचनम् सहेलं भ्रूक्षेपादिभिरङ्गवलनादिभिरनृजुभणि- तिभिश्चापराधस्य सम्यगनुमानम् । तदेव किमिति न वेत्तीत्याह-सख्योपदेशं विना सख्येनोपदेशः अर्थात्सख्यास्तं विना । अत्र तावत्कविः प्रायस्तटस्थो वक्ता । सेति पदं च दूतीदूतप्रभृतिकस्य रतिवासनालिङ्गितान्तःकरणस्य वा वक्तुर्युज्यते, न तु तटस्थस्य । तस्मात् 'कान्तस्य प्रथमेऽपराधसमये' इति पाठो युक्तः । अथानुरक्त एव वक्तास्तु । मैवम् । पत्यु- रित्यनुपन्नत्वात् ॥ काचिदन्यानायिकानुरक्तं नायकं प्रति ब्रूते- भवतु विदितं व्यर्थालापरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते ॥ ३०॥ हे प्रिय, भवतु अनुनयोपक्रमैरालापैरास्ताम् । कोऽर्थः-ज्ञातं तव खरूपम् । प्रसाद- नप्रवृत्तस्यापि सर्वाकारमन्यासक्तिशंसिन्येव च्छाया वाह्याकारेण दाक्षिण्यमात्रमेतत् । अत एव व्यर्थालापैः पूर्यताम् । त्वदधीनं मे जीवितमित्यादीनामालापानामर्थस्य विगतत्वाद्य- थता। तस्माद्यत्रैव प्रतिभासते तत्रैव गम्यताम् । नहि प्रियस्य समीहितप्रतिवन्धः कर्तु १ 'प्राणेशप्रणयापराधसमये' इति शृङ्गारदीपिका. दीपिका. २ 'लोलालकैः' इति हार- अमरुशतकम् । २९ युज्यते । अस्मिन्प्रेमवैशसे तव खल्पोऽपि दोषो नास्ति । अस्माकमेव दैवं वक्ष्यमाणम- रणाध्यवसायेन प्रतिकूलम् । अस्माकमिति बहुवचनमौदासीन्यव्यजकम् । अनेकार्थत्वाद- व्ययानाम् । तुशब्दोऽवधारणार्थः । केन प्रकारेण विधिः पराङ्मुख इत्याह-तव यदीत्या- दि । तव यद्यनिर्वचनीयेन प्रकारेण कोटिं प्राप्तं प्रेम इमां प्रसादनसमयेऽप्यन्यासक्तिशं- सनलक्षणामवस्थां प्रपन्नमस्मादस्माकं खभावगत्वरे निन्धजीविते गते का व्यथा । अपि तु न कापि । प्रकर्षप्राप्तस्य प्रेम्णो विपर्यासे त्वेषैव स्थितिः । यथा रत्नावल्याम्-'समा- रूढा प्रीतिः प्रणयवहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्व खलु मया । प्रिया मुञ्च- त्यद्य स्फुटमसहना जीवितमहो प्रकृष्टस्य प्रेम्णः स्खलितमविषयं हि भवति ॥' तनुरपि न ते दोष इत्यत्र तवैव गरीयान्दोष इति विपरीतलक्षणया निषेधे विधिः। एवं च त्वयि निरनुक्रोशेऽस्माकं विधिः पराङ्मुख इति प्रीत्यतिशयः । तवेत्यर्थान्तरसंक्रमितत्वेन शठस्य- त्यर्थः । वयं त्वदेकशरणाः, तस्मात्का नः पीडा । अपि तु तवैव । प्रकृतितरले इत्यनेन संसारस्यानित्यता प्रतिपाद्यते । वैराग्यं च शृङ्गारोपनिवन्धे वयं तावदनुचितं मन्यामहे । ययोदाहृतं दोषनिर्णये मम्मटालकाभ्याम्-'प्रसादे वर्तख प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः । निधानं सौख्यानां क्षणममिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र शृङ्गारे प्रतिकूलस्य शान्त्यस्यानित्यताप्र- काशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी । यद्यपि शुद्धतार्किकाणां जातिघो- टिक(?)वैयाकरणानामैकान्तिकच्छान्दसानां च दन्तकलहो न निवर्तिष्यते, यद्यपि च करणीय(?)सहृदयाः प्रस्रवणनिरोधवाधिता (2) इव नासासंकोचं करिष्यन्ति, तथापि परमार्थसहृदयैः कृतयोगक्षेमाः पाठान्तरमभिदध्महे-'अकृतविफले का नः पीडा गते हतजीविते' इति नायकस्यान्यासक्तिलक्षणस्य नायिकायाः प्रीतिलक्षणस्यान्तरस्य प्रतीतिज- नको भावो नामालंकारः। यदुक्तम्-'अभिधेयमभिदधानं तदेव तदसशसकलदोष- गुणम् । अर्थान्तरमवगमयति वाक्यं तदसौ परो भावः ॥' काचित्खैरिणी जरदभिसारिकया सोपदेशमभिधीयते- उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियममिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥ ३१ ॥ हे मुग्धे, यदि त्वमित्यं वादितपटहा प्रियं प्रत्याभिमुख्येन गच्छसि, तदा अधिक- त्रासेनोत्कम्पो यत्र तद्यया भवत्येवं ककुभः किमित्युत्कंधरमीक्षसे । एवमाहतडिण्डिमा। एवं कथमित्याह-वक्षसि पारिप्लवं मुक्तादाम न्यस्तम् । शब्दायमाना मेखला नितम्बे १ 'त्रासोत्कम्पा' इति कारदीपिका.
३० काव्यमाला। - निवेशिता । किंविशिष्टे । घने । प्रचुरपरिणाहिनीत्यर्थः । चरणौ च शिक्षानरत्नमञ्जीरौ । हारश्वाकचक्यायमानतया प्रकाशकः, काञ्चीनूपुरौ च सशब्दत्वेन । पादौ रणन्मणिनूपु- रावित्यत्र यद्यपि बहुव्रीहिणैव प्रकाशमानात्मकोऽर्थः संघटते, तथाप्युरसि हारवजघने काञ्चीवदाधाराधेयभावेनाप्रयोगादुपक्रमभङ्गो दूषणम् । ईषदूषणत्वाच्चादूषणप्रायम् । मुग्धे इत्यत्र मोहः प्रियसंगमौत्सुक्यवती विह्वलतैव । अन्यथोपलम्भकारणानि भक्त्वा किमि त्यभिसरणमारभते । आहतडिण्डिमेत्यत्र लक्षणया सुप्रकाशकत्वमर्थः । अधिकत्रासोत्क- म्पमित्यत्र च संकल्पकल्पितेन प्रियसमागमेन सात्त्विक एव तावदुत्कम्पः । त्रासेन पुनर- धिक इति । अथ चाहतडिण्डिमा यदि प्रियमभिसरसि तदा किमद्यापि दिशः समुदी- क्षसे । वेगेन गत्वा समीहितं साधयेति साभ्यसूयं कार्यशिक्षा । विषमोऽलंकारः । यदु- तम्-'विषम इति प्रथितोऽयं वक्ता विघटयति कमपि संवन्धम् । यत्रार्थयोरसन्तं वर- मतमाशय तत्सत्त्वे ॥' यथा-'यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः । सततं खलेषु भवतां क्व खलाः क्व च सजनस्तुतयः ॥' अभिसारिकाश्च प्रदोषेषु विवाहा- दिप्रकरणेषु मध्याह्नशून्येषु मार्गेपु वसन्तोत्सवे उद्यानयात्रासु विदूरेषु चैवंविधेष्वन्येष्वपि संविधानकेषु कामुकमभिसरन्ति । यदुक्तम्-'अटव्यामन्धकारे वा शून्ये वापि सुरा- लये। उद्याने वा सरित्कुञ्ज प्रदेशे गर्हितेऽथवा ॥ परदारेषु संकेतः कर्तव्यो रतिसिद्धये । दूतीवक्रेण निश्चित्य स्वयं तत्र पुरा व्रजेत् ॥ ततः प्राप्तां प्रियां शीघ्रं सेवेत रतिको- विदः । प्रेपयेदन्यमार्गेण स्वयमन्येन च व्रजेत् ॥ यथा न ज्ञायते कैश्चित्सुनिगूढो विच- क्षणः ।' अभिसारयन्ति च दूत्यो नायिकामनेककौतुकवासनाभिः । यदुक्तमीश्वरकामिते- 'प्रागेव स्वभवनस्थां ब्रूयात् अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्श- यिष्यामीति । काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि । मणिभूमिका वृक्षवाटिकां मृद्वीकामण्डपिकां चित्रकर्माणि यत्राणि क्रीडामृगान्-' इत्यादि । भवननर्म चैतत् । यथा रत्नावल्यामालेख्यदर्शनावसरे-'जाणिदो मए एसो सव्वो वुत्तन्तो समं चित्तफलएण । ता गदुअ देवीए कहइस्सं ।' इत्यादि । काचित्प्रोषितभर्तृका विरहार्तिमोहेन प्रतिविधानमाकासन्ती वर्षारम्भवलाहकं प्रत्याह- मलयमरुतां व्राता वाता विकासितमल्लिका- परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ ३२ ॥ हे घन, चैत्रीयाश्चन्दनसमीरा वहन्ति स्म । निदाघकालोऽपि पर्यवसितः । किं- १ 'शातो मया एप सों वृत्तान्तः समं चित्रफलकेन । तद्गत्वा देव्यै कथयिष्यामि ।' इति च्छाया.
अमरुशतकम् । ३१ विशिष्टः। दलितकोमलविचकिलानां परिमलभरो यस्मिंस्तथा । उभयोरप्युद्दीपनविभा- चयोः सुगन्धित्वोक्तिः। ताभ्यामपि प्रियो न मेलितः। अतएव वाता इति भग्न इति चाक्षमत्वोक्तिः । लोके खप्रयोजके वायुरिति व्यपदिश्यते परिश्रान्ते च भग्न इति । उभा- वाक्षिप्य मेघमुत्तेजयति-यदि परं तं प्रियमुद्दीपनविभावोद्गमेऽपि खस्थावस्थत्वात्त्यक्तानु- रागं मेलयितुं त्वमुद्यच्छसे । मेघागमे हि यथाकथंचिदूरदेशान्तरादप्यागत्य पान्थाः कान्ताभिः सह संगच्छन्ते । अमुमेवार्थमाख्यानेन द्रढयति य एव गवां निवर्तने प्रत्या- नयने क्षमते स एव धनंजयः । किमस्माकं त्रुटितम् । कोऽर्थः—वयं जीवाम एव । धनं- जयपदमुचितम् । गोसमूहस्यापि धनशब्देन प्रसिद्धत्वात् । आख्यानकवाक्यान्तःपतित- त्वात्किं नदिछन्नमिति न गर्भितं नाम दूषणमाधत्ते । क्वचिदेवंविधस्य दोषस्यापि गुणप्र- तीतेः । यथा काश्मीरकविहणस्य–'कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दा- मध्वनिपण्डितान्परिजने किंचिच्च निद्रायति। कस्मात्कुप्यसि यावदस्मि चलिता तावद्विधि- प्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः ॥' इत्यत्र कस्मात्कुप्यसीति । अत्र हि संकेतप्राप्तस्य कामुकस्य वैमनस्यमपनेतुं स्खविलम्बकारणमुदाहरन्ती खैरिणी वाक्यस्या- न्तरेव प्रसत्तिजनकं कस्मात्कुप्यसीत्यवोचत् । तथा प्रोषितभर्तृकापि मेघात्संभाव्यमानेऽपि प्रियसमागमे संकल्पितसमीहितसिद्धिरसमाप्तेऽपि वाक्ये किं नश्छिन्नमिति संतोषव्यञ्जकं पदमुक्तवती॥ काचिदेकग्रामप्रवासेन मन्दमन्दोद्दीपितमन्मथानलज्वालाभिभूततनुर्व्याधिव्यपदेशेन मानमन्युमनुभवन्ती सपत्ननायिकासक्तं नायकं प्रति सोल्लुण्ठकरुणोपन्यासमाचष्टे- प्रातःप्रातरुपागतेन जनिता निर्निद्रता चक्षुषो- मन्दाया मम गौरवं व्यपगतं प्रोत्पादितं लाघवम् । किं तद्यन्न कृतं त्वया मरणभीर्मुक्ता मया गम्यतां दुःखं तिष्ठसि यच्च पध्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥ ३३ ॥ यद्यपि मानविषयस्यार्थस्यात्र मुख्यता तथापि संविधानकवशेन रुग्विषय एवार्थ आदौ प्रतिपाद्यते-प्रतिप्रभातमागतस्त्वम् । रोगिणो हि विशेषाविशेषपरिज्ञानमिष्टजनः प्रभात एवागत्ल करोति । मम चक्षुषोर्निद्रा निवारिता। किंविशिष्टायाः। मन्दायाः सरुजः । दिवाखापो हि निषिद्धः सव्याधेः। दृष्टौ हि मीलनोन्मीलनपरिज्ञानार्थमवनं कार्यमिति विशेषणं चक्षुषोरिति प्रसिद्धं युक्तम् (2)। अन्यथा जनिता निन्द्रितेत्येतावतैव पूर्यते । उचितप्रतिविधानैरेव यत्र पारवश्यं व्यपगतम् । अन्तर्भूतकारितार्थत्वे व्यपग[मि]तमि- त्यर्थः । अन्यथा नायककर्तृकयोनिद्रानिरोधलाघवोत्पादनवाक्ययोरन्तरा गौरवं स्वयमेव व्यपगतमिति प्रयोक्तुं न युज्यते। स्फूर्तिमत्त्वं प्रकणोत्पादितम् । अथवा किं बहुना, .. १ 'गौरवव्यपनयादुत्पादितं' इति शृङ्गारदीपिका. २ 'किं मुग्धेन कृतं त्वया रमणमीः' इति शृङ्गारदीपिका.
३२ काव्यमाला। किं तत्समयोचितं न कृतं त्वया। अपि तु सर्व कृतम् । अत एव मृत्युभयं परित्यक्तं मया। अतःपरं निःसंशयं जीविष्यामीत्यर्थः । इदानीं गम्यताम् । यतः कृच्छ्रमास्ते भवान् । यच्चेदानी मुद्गरसप्रायं पथ्यं करिष्यामि तदाकर्णयिष्यसि । कोऽर्थः-पथ्यं श्रुति- विषयमेवास्तु, न तु दृष्टिविषयम् । दृष्टिविषये किल भवदीयकार्यसंकोचक्लेशकारिणी वेला लगिष्यति । अथ प्रातःप्रातरुपागतोऽसि, न तु रात्रौ। तदा हि कदाचित्संगमावकाशो- ऽपि संभवति । अन्यच्चान्याङ्गनासङ्गशंसीन्यधरक्षतादीन्यपि प्रातदृश्यन्ते । तानि चाक्षि- दुःखमुत्पादयन्ति । अत एव जनिता निर्निद्रता चक्षुषोः । अन्यथा विरहवेदनाजागरित- सकलरात्रेर्दिवा कदाचिन्निद्रापि मुहूर्त घटते। कचाकर्षणताद्यकरणादक्षमाया मम बहु- मानो व्यपगमितः। तुच्छता तु प्रकर्षेण जनिता। अथवा किं तद्यत्त्वया विरुद्ध न कृतम् । अत एव मया मरणे निश्चयः कृतः । तदितः स्थानाद्गम्यताम् । यतोऽत्र दुःखं तिष्टसि । तत्रैव ते सुखमित्यर्थः । यच्चेदानी प्राणपरित्यागलक्षणमुचितं करिष्यामि तदवश्यं श्रोष्यसि । न तु कर्णपिधानादिना शोकावेगं सूचयिष्यसि । तवैव समीहितत्वात् । कर्ता- स्मीत्यत्र लुटि उत्तमैकवचनम् । मन्दाशब्दशक्त्युद्भव उपमालंकारः । यथा सरागा वरा- कीति संभाव्यते तथा त्वयाहं संभावितेति प्रतीतेः। यदुक्तम्-'ननु शब्दशक्त्या यत्रा- र्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदानीं श्लेषस्य विषयोऽपहृत एव स्यात् । नापहृत इत्याह-'आक्षिप्त एवालंकारः शब्दशक्त्या प्रकाशते। यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥' कस्यांचिदनुरक्तः कश्चित्स्वयं सवितर्कमनुसंधत्ते। विस्रम्भपात्रस्य वा प्रतिविधानप्रत्या- शया कस्याप्यग्रे निवेदयति सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्का वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ३४ ॥ सा अनिर्वचनीया मुग्धा, वयं च तदप्राप्तिपर्याकुलतया अप्रगल्भमनसः। अथ च यत्रैव वाल्यं तत्रैवाप्रगल्भमनस्कत्वं युज्यते। सा स्त्री, वयं च तां विना स्थातुं न शकुम इति गतधैर्याः । अथ च यत्रैव स्त्रीत्वं तत्रैव कातरत्वमुचितं भवति । सा पीनं चोन्नति- मच एवंविधं स्तनयुगलं बिभर्ति, वयं च तद्गाढालिङ्गनमप्राप्नुवन्तः सखेदाः । अथ च य एव गुरुपदार्थभार वहति स एव सखेदो दृश्यते। 'भरं' इति पाठे स्तनभारं विभती- त्यर्थः । अत्र पाठे धरभरमित्यनुप्रासालंकारः। भारश्च साक्षादुक्तः । पूर्वत्र तु पाठे पीनो- तिमत्त्वेन भार आक्षिप्यत इति । सा महता नितम्वभरेणाक्रान्ता, वयं च तां तत्प्रा- ग्भारलीलालसगामिनी स्मरन्तो जडिना गन्तुं न क्षमाः। अथ च य एव महता भारे- णाकान्तो भवति स एव गन्तुं न शक्नोति । एवं सत्यन्यजनावलम्बिमिर्दोषर्वयमसौष्टवाः अमरुशतकम् । ३ संवृत्ता इत्याश्चर्यमेतत् । असंगतिरलंकारः। यदुक्तम्-'विस्पष्टं समकालं कारणमन्यत्र कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥' दोषैरित्यत्र विपरीतलक्षणया गुणैरित्यर्थः । अत एवानिर्वचनीयताद्योतकः सर्वत्र साशब्दः। अथ च तस्या एव दोषो या यथा कथंचिदागत्य संकेते मया सह न संगच्छत इत्यभिप्रायः। अन्यच्च सा बाला चेष्टाविशेषानुमेयानुरागापि प्रच्छन्नचाराद्ययोग्यतया संगमोपायं न जानातीत्युभयानुरागः एकानुरागे हि शाराभास एव स्यात् । यथा बालरामायणस्योन्मत्तदशाननाङ्के । तत्र हि सुलभानेकस्त्रीरत्नस्यापि रावणस्य यदप्राप्तावुन्मादो जातस्तस्याः प्राणेश्वररामचन्द्रक- चेतसो जानक्याः स्पृहणीयतातिशयः प्रतिपादितो भवति, न तु रसोपनिवन्धः। उभ- यानुरागाभावातू॥ काचिद्भाविप्रोषितभर्तृका आत्मानं प्रति सोपालम्भमाचष्टे- प्रस्थानं वलयैः कृतं प्रियसखैरौरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥३५॥ हे जीवित, कृत्याकृत्यविवेकपराङ्मुखतया प्रियतमे देशान्तरं गन्तुं निःसंदेहमनसि सति सर्वे सुहृदः सहैव प्रचलिताः। कथमित्याह-प्रस्थानं वलयैरित्यादि । दौर्बल्यवशेन पतनशीलतया हस्तमभरणैः प्रस्थानं कृतम्। किं विशिष्टैः। प्रियसखैः वल्लभसहचरैः प्रिये तिष्ठति तिष्ठद्भिर्गच्छति गच्छद्भिरित्यर्थः । एवमस्रादिष्वपि प्रियसखत्वं योज्यम् । अनैरप्यनवरतं गतम् । अश्रूणामप्रवृत्तिरेवावस्थितिः गतिश्च प्रवृत्तिरेव । न त्वभाव एव । तथा सत्यश्रूणामभाव एव स्यात् । संतोषेण क्षणमपि न स्थितम् । मनसापि पुनः प्रथम- मेव गन्तुमुपक्रान्तम् । तत्त्वयाप्यवश्यगन्तव्ये सति कुतो हेतोः प्रियसुहृत्संघातः परि- त्यज्यते । गम्यतामेवेत्यर्थः । आस्तां तावप्रियतमे गते, गन्तुं निश्चितचेतस्यपि नायिका जीवितनिरपेक्षा वभूवेति भावः। सहोक्तिरलंकारः। यदुक्तम्-'भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथारूपम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥' यथा- 'कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः। प्रतिदिनमुपैति वृद्धिं कुचकलश- नितम्बभित्तिभरः॥ संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानर्तितभूलता । सीत्काराश्चितलोचना सरभसं यैश्चम्विता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ३६ ॥ १ 'आस्थितं' इति शृङ्गारदीपिका. २ 'सर्वैः समं प्रस्थितं' इति मृङ्गारदीपिका. ३ 'किमुत्सृज्यते' इति शृङ्गारदीपिका. - ३४ काव्यमाला। तैरेव पीयूषं लब्धं यैः सहर्षोत्तरलं मनखिनी चुम्विता । अधररस एवामृतमि- त्यर्थः। यावदप्रसादं हि मानिनी महान्तं संतापमुत्पादयति, प्रसन्ना च लोकोत्तरमान- न्दम् । अत एवाचेतनैरमरैः खेदाय विलोडितः क्षीरोदः । किं कुर्वती चुम्बिता, दष्टाध- रत्वात्कराग्रं समन्ताद्धन्वती। कथं सचकितम् । चकितमत्र चमत्कृतिरेव । क्व सति । ओष्ठप्रवाले हठात्खण्डिते सति । किंविशिष्टा । सविलासतरङ्गितभ्रूवल्लिः । कैर्विशिष्टा । मा मा मुच्च शठेति कोपवचनैः । मा मेति पर्याकुलताप्रतिपादकाभ्यां शब्दाभ्याम् , मुञ्चेति क्रियया च संभोगाभियोगस्य निषेधः। न तु ताभ्यां मुश्चेति क्रियायाः । कोपस्य वचनै- रेव, न तु वास्तवेन कोपेन । पुनः कीदृशी। सीत्काराञ्चितलोचना सीत्कारपूर्वकं विलास- दशास्पर्शेन कूणिते लोचने यया सा तथोक्ता । कलहरूपं चैतत्सुरतम् । यदुक्तम्-'कल- हरूपं सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य' इति । सीत्कारः कामि- नीनां दयितस्पर्शसुखातिशयेन हृदयोल्लासचमत्कारपूर्वकः श्वसितात्मा मन्मथोद्दीपनो मुखस्य चेष्टाविशेषः। आक्षेपोऽलंकारः। यथा-'कुतः कुवलयं कर्णे करोषि कलभाषिणी। किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥' अनुभवी वक्ता। यदपि चामी श्लोकाः संभो- गमीामानं प्रणयमानेन, प्रणयमानमभिसरणेन, अभिसरणं प्रवासविप्रलम्भेन, तिर- यन्ति तदपि कवेरभिसंधानम् । अतिनिरन्तरमेकरसोपनिवन्धोऽप्युद्वेजको भवति । यथा नाटकादावभिनेयः सान्तरोपनिवन्धो रसश्चमत्कारी स्यात्तथैवंविधकाव्येषु श्रव्योऽपीति । किलकिञ्चितं चात्र नाट्यालंकारः। यदुक्तम्-'क्रोधाश्रुहर्षमीत्यादिसंकरः किलकिञ्चि- तम् ।' यथा-'रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकल- कण्ठार्धमधरे। कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रोधोद्धान्तं पुनरपि विदध्या- न्मयि मुखम् ॥' 'सानन्दान्तः कुट्टमिते कुप्येत्केशाधरग्रहे' इत्यनेन कुट्टमितमपीति ॥ काचिन्नमसख्याः पुरतः कथयति- सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं प्रेमावेशितया मया सरलया न्यस्तं मुखं तन्मुखे । ज्ञातेऽलीकनिमीलने नयनयोधूर्तस्य रोमाञ्चतो लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३७॥ हे सखि, अयं ते दयितः सुप्तस्तस्मादस्माभिरपि सुप्यतामिति मां प्रत्युक्त्वा सख्यो गताः । ततः प्रघटनानन्तरं प्रेमग्रहगृहीतया तत्रापि प्राजलया मया प्रियमुखे स्वमुख निवेशितम् । अथ तस्य धूर्तस्य रोमाञ्चचिह्न नेत्रयोमिथ्यासंकोचने ज्ञाते मम व्रीडा वभूव । तेन च संभोगसमयोचिताभिनींवीव्यपनयनप्रायाभिः परिपाटीभिः सापि लु- ण्ठिता । कोऽर्थः-अहमपि तत्कालोचितप्रवृत्तिरभूवम् । सुप्यतामिति पदस्याग्रे १ तरलया' इति नारदीपिका.
अमरुशतकम्। ३५ उक्त्वेत्यध्याहरणीयम् । सुप्तमुखचुम्बनं च नायिकानां रागोद्दीपनम् । यदुक्तम्-'सुप्तस्य मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । यच्च तेन रिरंसुना विज- नमाकाङ्क्षतालीकनिमीलनं कृतं तत्सख्यो जानन्ति, अत एवायमित्यर्थान्तरसंक्रमितत्वेन धूर्तोऽस्मन्निर्गमाय सुप्त इत्युपन्यस्य खयमुत्थाय गताः । अर्थान्तरसंक्रमितस्योदाहरणमे- तत्-'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्ल(लाका घना वाताः शीकरिणः पयोदसुह- दामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र हि पितृमरणादिदुःखसहनक्षमत्ववि- शिष्टो राम इति संज्ञा प्रतीयते न तु संज्ञिमात्रम् । यदुपज्ञेन ध्वनिवर्त्मना संचरमाणाः सचेतसः प्रहर्ष प्राप्नुवन्ति तेषामाचार्याणामुक्तिषु मीमांसायां के वयम् । परं तथाप्या- त्मावबोधार्थमिदमुदाहरणं परामृशामः-ननु सर्वसहत्वे हेतुभूतकठोरहृदयत्वेनैव राम इति संज्ञिनो वैशिष्ट्यमुच्यते । यदि कठोरहृदयत्वमत्र सर्वसहत्वे हेतुभूतमभविष्यत्तदा राम इति पदमेव न प्रायोक्ष्यत । वैदेही तु कथं भविष्यतीत्यनेनैव दाशरथिप्रतीतेः । तस्मात्कठोरहृदयत्वविशिष्टस्यैव संज्ञिनस्तत्त्वान्तरं ध्वननीयम् । येन मया प्रवासकाले मातृभिः स्थाप्यमाना त्वमयोध्यायामुपेक्षिता सोऽहं शतकोटिकोटिकर्कशचेताः सर्वसहः । नहि मया त्वमाहूता, अपि तु स्वयमागता । यथा-कृतककुपितैर्वाष्पाम्भोभिः सदैन्य- विलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्य- न्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' यच्चालोचनकारेण पितृमरणादिदुःखसहनक्षमत्वं ध्वनिविषयीकृतं तदसत् । दुःखस्य विजातीयत्वात् । नहि प्रियाविरहसंतप्तः पुमाजीवतो लोकान्तरितस्य वा पितुः स्मरति ॥ काचिन्मानिनी बहुभिरुपायैरतिनिर्वन्धप्रसादनेन गतकल्पं मानं परित्यक्तुमनाः प्रियं प्रति ब्रवीति- कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ ३८ ॥ तस्यावयोरेवंविदितस्य प्रेम्णस्तदिदमतिगर्हितमधुना वैशसं विनाशो जातः । पश्य, मान्धो भूः । तस्य कस्येत्याह-यत्र प्रणयकलहेषु भ्रकुटेरभिनय एव रोषः । वाक्पा- रुष्येणापि मनसो दूषयितुमशक्यत्वाद्वचननिरोध एव यस्मिन्निग्रहः । क्रीडाकमलादि- नापि ताडनस्य दुष्करत्वात्परस्परमनुवृत्तिवशीकरणव्यजकमीषद्धसितमेव प्रसादनम् । सामदानाद्युपायानामपि भेदसूचकत्वात् । उभयोरपि तुल्यकालमेव प्रसादनमभिलषित- मिति प्रतिपादयितुमन्योन्यशब्दप्रयोगः । दृष्टिक्षेप एव यत्रानुग्रहः । चरणपतनाद्यसंभवे १ 'विग्रहो' इति शृङ्गारदीपिका. २'यत्र दृष्टिः प्रसाद" इति शृङ्गारदीपिका.
३६ काव्यमाला। बाहौ धृत्वोत्थापनादिसंप्रतिपत्तेरभावात् । कीदृशं प्रेम्णो वैशसमित्याह-त्वमुरःस्थलैकधा- रणीयः पादसमीपे लुठसि, न तु पादयोः । अपराधातिशयाभावात् । न च मे दुर्जन्याः खान्तस्थस्य क्रोधशल्यस्य परित्यागः । कोऽर्थः तथा निःशवेन किमप्याचरितं यथाहमप्य- नन्यशरणा ते दुर्जनी जाता। अवसरोऽलंकारः। यदुक्तम्-'अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणीक्रियते । अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः ॥' यथा-'तदिदम- रण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्याहुसहायश्चकार रक्षःक्षयं रामः ॥' धीराधीरा प्रगल्भा (मध्या) नायिका । चतुर्थवाक्ये यत्रशब्दप्रयोगाभावादुपक्रमभङ्गः ॥ सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३९ ॥ मानिन्या मानत्यागसूचकं बाष्पसलिलमस्तोकं दुर्निवारत्वेन मुक्तम् , प्रतिवचनं च न किंचिदुदीरितम् । किंविशिष्टया । तिर्यगामीलिताझ्या अपराधक्षपणलक्षणयापमानलजया साचि यथा भवत्येवं वाष्पनिरोधवुद्ध्या समन्तात्संकोचिते अक्षिणी यया सा तथोक्का तया। व सति । नाथे निर्बन्धेनेति निगदति सति । इति किम् । हे सुतनु, मौनं त्यज । मा- नजनितातिकार्कश्याद्वाङ्गिरोधहृदयाध्माननिरुच्छ्वासात्कुसुमशरजयश्रीकामणमङ्गनिर्माणमिदं दुर्दशां मा नैषीरिति भावः । अथवा यदि वचनामृतैरभिषिच्य मां संतप्तं नाहादयति तर्हि चरणपतितं दृष्टिप्रसादेन संभावय । आत्मनः प्रियामानात्मकविप्रलम्भदुःसहताका- रणमाह-निश्चयेन तव जातु कदाचिदीदृशः क्रोधो नासीत् । यदि चाभविष्यत्तदा त- संस्कारवशादिदानीमपि सहिष्ये ॥ कश्चिन्नमविदग्धो वियोगी तदेकतानेन मानिनीसर्वस्वमनुध्यायति- गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्मा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि किं लीना विलीना किम् ॥४०॥ किं नु शयिता, उतस्विदुपरतैव, अथवान्तःकरणेऽभेदं प्राप्ता, आहोखिवतां ययौ, इ- त्यमुना संदेहेनानिर्वचनीयावस्था। मदकलकलहंसचचकोटित्रोटितकोमलमृणालिनीकिस- लयवत्परिक्लान्तरङ्गकैः प्राभातिकनीलेन्दीवरवन्मुकुलितेन लोचनयुगलेन विलयं गच्छन्ती नोपलव्धेत्यर्थः । तस्यापि तत्कालमानन्देन मन्दचेतनत्वात् । केन क्रमेणैवंविधा वमूवे- नु १ 'प्रोद्भित्र' इति शृङ्गारदीपिका. २'काञ्चीप्रदेशाम्बरा' इति शृङ्गारदीपिका.
अमरुशतकम्। ३७ त्याह-गाढेत्यादि । अतिनिर्भराश्लेषेणावामनौ वामनौ कृतौ यौ कुचौ तत्र प्रकर्षणोद्भूतः पुलकोद्गमो यस्याः सा तथोक्ता । कथमुल्लापिनीति । मा, मा, मानद मानखण्डन, मा अतिशयेन । मामलमित्यत्र पीडयति क्रियां विना पर्याकुलताद्योतकमर्धोक्तम् । मा मेत्यादि पौनरुक्त्यं च सुन्दरम् । अत्रापि यदि कथ्यते तदा वधू रुष्यति, यदि मौनाय्यते तदा गृहं नश्यति । तथापि करुणबीभत्सस्मारकं मृतेति पदं न मानयामः। तस्मात् 'किं म्लाना शयिता नु किं मनसि मे लीना विलीना नु किम्' इति पठिष्यामः। संशयोऽलं- कारः । यदुक्तम्-'वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः सादृश्या- दनिश्चयः संशयः स इति' ॥ अभिनवनुषा प्रथमनौरम्मे किं करोतीत्याह- पटालग्ने पत्यौ नमयति मुखं जातविनया हठालेपं वाञ्छत्यपहरति गात्राणि निभृतम् । नं शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ४१ ॥ वस्त्राञ्चलाकर्षिणि प्रिये किंचिदशीकाराज्जातप्रश्रया मुखं नमयति । बलात्कारेण परि- रम्भमाकाङ्क्षति सत्यङ्गानि निभृतं यथा भवत्येवमन्यतो नयति । न तु मध्यावत्सभ्रूभङ्गा- भ्यसूयाभिनयपूर्वकमपहरति । अत्रैवावसरे स्पितमुखीं वरसंनिधिं प्रापयितुमागतां सह- चरी प्रति क्षिप्तलोचना तत्कालोचितप्रियप्रश्नोत्तरमाख्यातुं न क्षमते। यदि कथमपि सखी नाभविष्यत्तदा सा कदाचित्किंचिदाख्यातुमप्यक्षमिष्यतेत्यर्थः । इत्थमन्तःकरणे लजया ताम्यति । लजा तस्याः प्रियतमखच्छन्दसंगमप्रतिकूला वैरिणी जातेत्यर्थः । यदुक्तम्-'दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते। ताम्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥' मुग्धानां च प्रियोपक्रान्तसंभोगच्छलारम्भ एवाकल्पिकेयमिति कौतुकिन्यः सख्यो न सत्वरमेव संनिधानमुज्झन्ति । जातिरलंकारः । यदुक्तम्- 'संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥' 'हरति रुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं परि- चुम्बने । यदपि बहुशः पृष्टा किंचिद्रवीत्यपरिस्फुटं रमयतितरां तेनैवासी मनोऽभिनवा वधूः ॥' रते वामा मुग्धा नायिका । विहृतं नाम नाट्यालंकारः। 'प्राप्तकालं न यट्ट्या- द्रीडया विहृतं हि तत् ॥ नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घ दिवसं विषह्य विमं यत्नात्कथंचिद्धृतः । १ 'अशक्ता चाख्यातुं' इति शृङ्गारदीपिकापाठः. २ 'हृदये' इति शृङ्गारदीपिका. अमरु०४ ३८ काव्यमाला। - अन्योन्यस्य हृते मुखे निहितयोस्तिर्यकथंचिदृशोः से द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥४२॥ स प्रणयमानो द्वाभ्यामतिशयेन विस्मृतानुसंधानः स्वयं विहस्य मुक्तः। कयोः सत्योः। शोस्तिर्यकथंचिन्निक्षिप्तयोः । क्व । मुखे । कस्य । अन्योन्यस्य । किंविशिष्टे । कोपा- दन्यतो नीते । दृशोर्मुखे इत्युभयत्रान्योन्यस्येति संवन्धः । स कः । यः प्रसादनेन नाप- गतः। यः सखीप्रभृतीनां वचनैर्न शमितः। यश्च वियोगव्यथया दीर्घ विषयं च दिवसं प्रतिपाल्य गतकल्पोऽपि लाघवशङ्कया यत्नात्कथंचित्कथमपि व्यवस्थापितः। 'यत्रासंभा- व्यभावो वा' इति विषममलंकारः ॥ काचिन्मनस्विनी दयितव्यलीकखेदं सख्याः कथयति- गते प्रेमाबन्धे प्रणयवहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसा- न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ४३ ॥ हे प्रियसखि, न वेद्मि किं कारणं यन्मे हृदयं शतधा न स्फुटति। कस्मिन्सती- त्याह—स्नेहानुवन्धे गते। अन्योन्यगुणवशीकारगौरवे गलिते। निष्प्रपञ्छनायां निवृत्ता- याम् । विधेये प्रियतमे उदासीन इव गच्छति । किं कृत्वा हृदयं शतधा न याति, तत्पू- ोक्तं पर्यालोच्येषद्गुणयित्वेति (?) लोकोक्तिः न परं तदुत्प्रेक्षा। विधेयेन प्रेयसा सह व्यतीतांस्ताननिर्वचनीयवासरान् । इदानींतनदुःखं प्राक्तनं सुखमनुस्मृत्वेत्यर्थः । यथा किंचिदपक्वपात्रस्थितमवष्टम्भेन विना विदीर्यते तथा मानाध्मातं हृदयं प्रेमावन्धेन विना किमिति न स्फुटतीत्युक्तिलेशः । नायिकाः खलु सानुरागमपि नायकमीर्ध्याकालेषु निरनु- रागं व्यपदिशन्तीत्येकानुरागो नात्र शङ्कनीय इति ॥ चिरविरहिणोरत्युत्कण्ठाश्लथीकृतगात्रयो- नवमिव जगजातं भूयश्चिरादभिनन्दतोः । कथमिव दिने "दीचे याते निशामधिरूढयोः प्रसरति कथा वही दूनोर्यथा न तथा रतिः ॥ ४४ ॥ वहुदिनवियोगिनो गधेयैः संगतयोस्तरुणयोर्यथा लम्भकानुपलम्भकैर्भूयसी गृहदे- शान्तरानुभूतवृत्तान्तकथा प्रसरति न तथा संभोगः । किंविशिष्टयोः। महता कप्टेन दीर्घऽहनि व्यतीते सति रात्रिमधिरूढयोः। अथ च दीर्घ निःश्रेणिकाप्रायं पदार्थमतिक- १ 'विहितयोः' इति शृङ्गारदीपिका. २ संबन्धे सपदि स्मितव्यतिकरे' इति शृङ्गारदीपिका. ३ 'प्रेमावेशे' इति शृङ्गारदीपिका. ४ 'उत्कण्ठा.' इति शृङ्गारदीपिका. ५ 'याते दीपें' इति शृङ्गारदीपिका.
अमरुशतकम्। ३९ म्योचैरधिरुयते । प्राप्तयोरित्येतावन्मात्रे वाच्येऽधिरूढयोरिति लक्षणया लब्धोत्कर्षयो. रित्यर्थः। यथा कश्चिदभिमानी गजस्कन्धाधिरूढः संपूर्णमनोरथत्वेन किंचिन्न मान- यति । दिन एव किंविशिष्टयोरित्याह-रत्युत्कण्ठाश्लथीकृतगात्रयोः। अस्मिन्दुरात्मनि दिने गते प्राप्तैकान्तौ खच्छन्दं रस्यावह इति सुरतोत्कलिकया शिथीलीकृतान्यज्ञानि याभ्यां तयोः। रिरंसोर्हि प्रतिक्षणमुद्धृषितहृदयस्यावयवाः शिथिलीभवन्ति । पुनः कथं. भूतयोः । भूयो नूतनमिव संसारमभिलक्ष्यीकृत्य समुददोः। कदा । चिरात् । कोऽर्थः । अद्य प्राग्विरहनिष्फलत्वेन जगन्नष्टमिति ताभ्यां चिन्तितम् । बह्वीशब्दस्यायमभिप्रायः- रतिरपि बह्वी, परं कथामानेन न भवति । सुरतान्तरालेषु परस्परवृत्तान्तोपवर्णनप्रश्नपर- म्परामिर्विभावरी प्रयाति, निद्रायाः कथैव नास्तीति तात्पर्यम् ॥ दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । देत्तः स्वेदमुचा पयोधरभरेणी? न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४५ ॥ यथा कश्चिद्वशीकर्तुकामः सर्वाधिकारेषु स्वीयमेव कुटुम्वं नियुङ्क्ते तथा दयितस्य गृहं प्रविशतः कृशाङ्ग्याः खैरेवाडैमङ्गलमुपढौकितम् । किं तदित्याह-दीर्घत्यादि। उत्स- वेषु या तोरणादिसंनिवेशनीया लोकप्रसिद्धा वन्दनमाला सा दृष्ट्यैव दीर्घा सूत्रिता न तु कुवलयैः। कुसुमानामितस्ततः प्रक्षेप ईषद्धसितेनैव निर्मितो न पुनर्मालल्यादिभिः खेदस्यन्दिना स्तनप्राग्भारेणैवार्घः संपादितः, न तु कलशतोयेन । दृष्ट्यैवेत्यत्र य एवकारः स एव स्मितेनेत्यत्र पयोधरभरेणेत्यत्र चानुवर्तते। वन्दनमालिकेत्यत्र खार्थे कप्रत्ययः। न तु हखार्थे । तथासति दीर्घत्यस्यानुपपद्यमानत्वात् । दैर्येण स्निग्धश्यामलत्वेन पक्ष्मलत्वेन च दृष्टयैव यदर्थः साधितस्तैरिन्दीवरैः किम् । सौकुमार्येण वैशद्येन परिमलेन च स्मितेनैव यत्कार्यमनुष्टितं तेन पुष्पप्रकरणालम् । काठिन्येन प्रथिना सजलत्वेन गरिम्णा च पयो- धरेणैव यद्विधेयं संपादितं तेन कुम्भाम्भसा पर्याप्तमित्याक्षेपोऽलंकारः । इन्दीवरैः कुन्द- जायादिभिरिति बहुवचनापेक्षया दृष्टिस्मितयोरेकवचनेन महानुत्कर्षः। अयमवश्यं गृह- प्रवेशो देशान्तरादागतस्यावधार्यमाणो रसपुष्टिमाधत्ते । अत एव तन्व्येति । 'भाविन्या- गमने भर्तुरात्मानं च गृहं च या। अलंकरोति हर्षेण सा स्याद्वासकसजिका ॥' इत्यनेन तत्कालं वासकसजा नायिका ॥ अद्य त्वमन्यादृशी, वयमेव दुर्जनीभूताः स्मः । युवां पुनरभिन्नावेवेति सस्मितं सख्या प्रभाते पृष्टा काचित्ता प्रत्याह- कान्ते सागसि शापिते प्रियसखीवेपं विधायागते भ्रान्त्यालिन्य मया रहस्यमुदितं तत्संगमाकाया । १ 'दत्तम्' इति शृङ्गारदीपिका. २ अर्व्यम्' इति शृङ्गारदीपिका. ३ 'यापिते' इति शृङ्गारदीपिका.
४० काव्यमाला। मुग्धे दुष्करमेतदित्यतितमामुद्दामहासं बला- दाश्लिष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६॥ सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमुकसखी- वेषं कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा यद्येवं परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेतत्त्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हठादा- लिङ्याद्य रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण मुष्टास्मीति भावः। अत्र कामुकस्य हठाश्लेष उद्दामहासोपलम्मेन नायिकाया अप- सरणं सूचयति । अन्यथा सखीभ्रमेण स्वयं कृताश्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र पत्यौ सखीमोहः, रहस्यमुदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः। यथा-'अभिव्यक्तालीकः सकलविफलोपायविभवश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भ- निपुणम् । इतः पृष्टे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमा- श्लिप्यति वधूम् ॥' समयाभियोगश्चायं नायकस्य । यदुक्तम्-'प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति' इति । प्रदोषागमे छलितेत्युचितम् । अन्यस्यापि यस्य भूतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते-यदैव सा छलिता तदैव नायकः संप्रतिपत्ति- मात्रं कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी लालनीया भवति । आगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते। ततश्चाद्यशब्दः कथमुपपद्यते। अत्रोच्यते-लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने अद्य रात्रौ मया स्वप्नो दृष्ट इति व्यवह्रियते, तथा अद्य प्रदोषागमे इत्यत्रापि ॥ कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरति आशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा- ब्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । मय्यालापवति प्रतीपवेचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः॥४७॥ तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वास्तव- स्थामु स्पृहणीयेति भावः । कथमित्याह-आशयेत्यादि । एष प्रणामं करिष्यतीति चेष्टाविशेषैरनुमीय प्रयत्नाद्वस्त्राचलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति । कोपस्य स्वल्यत्वात् । पूर्वानुभूतस्य कस्यचिन्नर्मण उल्लेखेनाकस्मादागतं हास्यं किमिद- २ 'दुष्कर एप इत्यतितरामुक्त्वा सहासं वलादालिङ्स' इति शृङ्गारदीपिका. २ 'वचना सख्या समं भापते' इति शृङ्गारदीपिका.
अमरुशतकम् । मिति मिथ्यापदार्थनिर्वर्णनाथ ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते। मय्यन्यतो- मुखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वाड्मिश्रणार्थमालापयुक्ते तदन्तरार्थ सख्या सह विप- रीतवचनमाचष्टे । लेशोऽलंकारः। यदुक्तम्-'दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणी- भावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति' ॥ यावन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं संलंप्य पत्युः पुरः। पोरेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४८॥ मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृता- पराधस्य भर्तुरचे अनन्यसामान्योऽयमों मयैव केवलं साधित इत्यद्भुतातिशयेन शुकव- दुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितमुपचक्रमे । संभोगप्रवणा वभूवेत्यर्थः यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः। अलीक- वचनैरित्यत्रालीकशब्दो व्यलीकवदपराधार्थः। यथा-'अभिव्यक्तालीकः' इत्यादि । तेना- पराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थ मिथ्यापराधारोपकैरिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकालतायां प्रति- पादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतःसिद्धं तथाप्यमुकं कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥ दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाश्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९ ।। अहो आश्चर्यम् । यजातापराधे प्रियतम मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् । कथं तथा जातमित्याह-दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षा ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नी- तम् । वक्तुं प्रवृत्ते सत्यद्यापि निःशको वदन्वर्तत इत्याक्षेपबुद्ध्या स्फारितम् । बलादा- लिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुञ्चित- भ्रूलतम् । अत्रारुणतासकाशादश्चितचूलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु सत्स्वपि विशेषतः कोपाश्चितेत्यमुना कोपशब्दप्रयोगेण वहुमानरोष एव पोषं प्रापितः १ 'सा यावन्ति' इति शृङ्गारदीपिका. २ 'व्याहृत्य' इति शृङ्गारदीपिका. ३ 'प्रारब्धा' इति शृङ्गारदीपिका. ४ 'संकुञ्चितभूलतम्' इति शृङ्गारदीपिका. ५ 'पूर्णेक्षणात्' इति शृङ्गारदीपिका.
४२ काव्यमाला। तस्मात् 'किंचाश्चितचूलतम्' इति यत्कैश्चित्पाठान्तरं कृतं तद्यर्थश्रमपालोचितमरमणीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यजकेन बाष्पाम्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञाद्योतकम् । कर्तृक्रियादीपकमलंकारः ॥ अङ्गानामतितानवं कुत इदं कस्मादकस्मादिदं मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर- व्यापी वाष्पभरस्तया वलितया निःश्वस्य मुक्तोऽन्यतः॥५०॥ तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया वाष्पोत्पीडो निःश्वासपूर्वमुक्तः । किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमतानवादिकं खभावादेव । क्व सति । प्राणे- श्वरे मया सह यथाकथंचिदेव वाड्मिश्रणं करोत्वित्यनुसंधानेनेनि पर्यनुयुञ्जाने। इति किम् । हे मनोहरे, अवयवानामतिकार्य कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम्। कथम् । अकस्मात् । कोऽभिप्रायः-मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न चेष्टितमस्तीति वापराधापहवः । प्राणेश्वरशब्दस्य चायमभिप्रायः-य एव प्राणेश्वरः स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपूर्व- मन्यतो भूत्वाश्रुमोक्षः कृतः। व्याजोक्तिरलंकारः। यदुक्तम्-'व्याजोक्तिश्छद्मनोद्भिन्न- वस्तुरूपनिगृहनम्' । यथा-'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थु- लाखिलविधिव्यासङ्गभङ्गाकुलः। हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तः- पुरमातृमण्डलगणदृष्टोऽवताद्वः शिवः' ॥ कश्चित्कुपितनायिकाप्रसादनारम्भविरुपायः कस्यापि रहःसहचरस्याग्रे निवेदयति. पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ।। ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा । २ १ 'कम्पश्च कस्मादयं' इति शृङ्गारदीपिका. 'दयितया' इति शृङ्गारदीपिका. एतघुग्मं झारदीपिकायां नास्ति. किं तु दशरूपावलोकस्य चतुर्धपरिच्छेदेऽसूयो. दाहरणे धनिकेनामरुशतकनाम्नैव समुदतमस्ति. ३ अमरुशतकम्। ४३ अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५२॥ (युगलम्) तन्व्याः पुरतो वार्तान्तरेऽन्याङ्गनानामोच्चारणचकितोऽहं किंचिदवाचितवदनः प्रति- कूलविधिप्रेरितो वैलक्ष्यात्किंचिल्लिखितुं प्रवृत्तः । अथ मयि लिखत्येव केनाप्यनिर्वचनी- यप्रकारेण व्यक्तः स कोऽपि रेखालेखस्तादृशं परिपाकं गतो येन यस्या एव गोत्रस्खल- नमापतितं सैव युवतिर्नामापेक्षया पुनरप्यज्ञैरभिव्यक्तिं जगाम । ततश्चित्रनायिकामुप- लभ्य तया वामोऽथ च प्रतिकूलश्वरणश्चण्डिना निक्षिप्तः । किंविशिष्टः । रूपकालंकारेण ब्रह्मास्त्रम् । यथा वारंवारमतिप्रहारिणि शत्रावनन्योपायतया ब्रह्मास्त्रं मुच्यते तथा मयि प्रथममपराधिनि पुनर्गोत्रस्खलनकारिणि पश्चादन्याङ्गनाचित्रलेखिनि वामपादो न्यस्त इत्यर्थः । किं कृत्वा । अश्रुकलुषं यथा भवत्येवमित्यभिधाय । इति किम् । अहो आश्चर्यमा- श्चर्यमभिव्यक्तम् । कोऽभिप्रायः-लोकाः, पश्यत दुरात्मनोऽस्य तस्यां तदेकतानताम् । गोत्रस्खलने न पर्याप्तमिदानी तामेव लिखन्वर्तते । किंविशिष्टया सत्या निगद्य । आरू- ढप्रणयेत्यादि । प्रकर्ष प्राप्तेन प्रेमविशेषेण य एव मे तथा वशीभूत आसीत्स एवायमित्थ- मुद्वृत्तो जात इत्याश्चर्यकोपव्यजकेन हासेन सह वर्तत इति सहसा उद्गतरोदनखना च गीर्यथा स्यात्तथा । कुटस्यादिः कुटादिरिति षष्टीतत्पुरुषेण कुटादिसंबन्धाल्लिखितुमित्यत्र गुणप्रतिषेधसमर्थनम् । अन्यथा लेखितुमित्येव प्राप्नोति । यथा-'सृष्ट्वा सृष्ट्वा समस्तं ज- नमनुलिखता भूरिभाग्याक्षराणि क्षिप्रं विद्वल्ललाटे कथमपि विधिना लेखितुं विस्मृता श्रीः । दत्त्वास्सिन्हंसपादं मलयजतिलकच्छद्मना मातलेन्दो हस्ते दत्तैः सुवर्णेः प्रति- कृति भवता शोधितो भालदेशः॥' यच्च लेखनारम्मे सैव तरुणी व्यक्ति गता तत्र ना- यकस्य तन्मयी चित्तवृत्तिर्निमित्तम् । चित्रकला च विलासिनां प्रसिद्धैव । यदुक्तम्- 'गीतं वाद्यं नृत्तं चालेख्यं विशेषकपत्रच्छेद्यम्' इत्यादि । विषममलंकारः । यदु- तम्-'यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ कश्चिन्नायिकां समासोक्तिभिरनुनयति- कठिनहृदये मुश्च भ्रान्ति व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदमिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५३ ॥ मामनपराधमुपेक्ष्य मत्संगम विनैव तिष्टसीति हेतोः हे कठिनहृदये, अपराधकयावि. षयां मिथ्यावुद्धिं त्यज । व्यलीककथाश्रितां न तु व्यलीकाश्रिताम् । व्यलीकस्य कथा- १'कथाश्रयां' इति शृङ्गारदीपिका.
४४ काव्यमाला। पि नास्तीत्यर्थः । परगृहभगव्यसनिनां कर्णेजपानां वचनैरिममिति द्वैमुख्येनैवंविधदुः- खस्थं जनमतिविधेयं मां दुःखं प्रापयितुं न ते युक्तम् । अथवा अलमनेन कियन्मे जी- वितेन प्रयोजनम् । तस्मात्सत्यं कथय हे अचेतने, किमिदं त्वया ममोपरि विनिश्चित किं पर्याप्तम् । हे प्रिये, यत्किंचिदभिवाञ्छितं तन्मे विधाय सुखं स्थीयताम् । तवैव सुखार्थमहमकारणोत्पन्नं मानं त्याजयामि । ममाभावे (१) चेत्तव मुखं तत्किं मानत्या- जनेनेत्यर्थः । युक्तमित्यत्र 'नपुंसके भावे क्तः' । तेन 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसां- प्रतम्' इत्यादिवत् 'प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवप्रकाशते' इति न्यायेनेमं जनमित्यत्र न प्रथमा । तत्र तु सांप्रतमित्यत्र द्वितीया न युज्यत इति कर्मविवक्षा ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ५४॥ कस्मिंश्चिद्रामे यामिन्यामध्वगेन मुक्ताश्रुणा तेन प्रकारेण तत्कालोचितं किंचिदुत्क- लिकया गीतम् , यथा 'ककुभोत्था विभाषैव निर्दिष्टा याष्टिकेन या । धैवतांसग्रहन्यासा- गहीना मन्द्रमध्यभाक् । समखरा च संपूर्णा करुणे मधुकर्यसौ ॥' एवंप्रायम् । किंवि- शिष्टम् । विरहक्लेशसूचकम् । अथ वात्मशब्देन जीवात्मा । अत एवोत्तरार्धम् 'आस्तां जीवितहारिणः' इत्यादि । कीदृशेन । वारिभरालसजलधररसितोद्विग्नेन । अत्र लाक्षणिके- नालसशब्देन गर्भवेदनाक्रान्तयुवतिस्तनितवद्गर्जितस्य निःसीमगम्भीरता व्यज्यते निशीथे हि निवातनिर्भर वर्षन्तो बलाहकास्तथैव गर्जन्ति, भवन्ति च वराकाणां वियो- गिनामुद्वेजनार्दुर्ललिताः । अत एवोक्तमुपाध्यायेन-'या क्रिया मान्मथैर्वाणैः शल्यितेषु वियोगिषु । जलं ददति यत्तस्यै तेनामी जलदाः स्मृताः ॥' तथा कथं गीतमित्याह- आस्तां तावत्प्राणहारिणः प्रवासनानो ग्रहणं यावत्प्रेमवाभिज्ञेन लोकेनोभयरूपस्यापि मानस्य जलाञ्जलिर्दत्तः । लक्षणया लोकान्तरं गतो मान इत्यर्थः । 'त्वं तावदास्व दूरे भृत्यावयवोऽपि ते निहन्त्यहितान्' इत्यादिवदव विषमालंकारः ॥ कश्चिद्वियोगी मत्तनायिकायाः प्रणयमानमनुस्मरति- स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवाविचार्येय॑या गच्छन्ती क नु गच्छसीति विधृता बाला पटान्ते मया । प्रत्यावृत्तमुखी सबाष्पनयना मों मुश्च मुञ्चेति सा कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ ५५ ॥ १ 'सा मुन मुञ्चेति मां रोषं' इति शृङ्गारदीपिका.
अमरुशतकम्। मया मुग्धा वस्त्राश्चले गृहीता । किं कुर्वती । गच्छन्ती। कया। ईjया। किं कृत्वा । खमेव नखपदं दृष्ट्वा । पुनः किं कृत्वा। अविचार्य । यतो मदिरामदमत्ता । मया कि कृत्वा विधृता । नु इति प्रश्न । क गच्छसीत्युक्त्वा । अथ सा वलितवदना साम्रदृष्टिः कोपकम्प्रौष्ठी मां त्यज त्यजेति यदवोचत्तत्केन विस्मार्यते । अपि तु न केनापि । अत एव खं करजक्षतं दृष्ट्वा न त्वन्याङ्गनायाः । तस्य तदेकचित्तत्वात् । अत्र बालाशब्दो- ऽज्ञानमात्रापेक्षया न तु वयोपेक्षया । वालानायिकाविधेयनखपदादीनामवर्ण्यमानत्वात् । ताः प्रत्युत संगमेषु परामुख्यो भवन्ति । निर्वन्धेन नीवीनिरसनोद्युक्त प्रेयसि बलात्सु- रतप्रतीपं विदधति । किं च मिथ्यानखपदारोपणेऽपि कम्पन्ते। यदुक्कं मुग्धाविस्रम्भणे- 'अप्रतिपद्यमानां च भीषयेत् । अहं खलु दन्तपदानि तवाधरे करिष्यामि । स्तनम- ण्डले नखपदानि । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य वक्ष्यामि ।' यथानघराघवस्य अभिषेकसुग्रीवाङ्के (सुग्रीवाभिषेकाङ्के)-खवपुषि नखलक्ष्म खेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति सुतनु रहस्ते भीषितायाः स्मरामि स्मर परिमलमुद्राभसर्वसहायाः ॥' मधुमदक्षीबेति रतावसानिकम् । यदुक्तम्- 'सव्येन वाहुना परिरभ्य चषकं गृहीत्वा सान्त्वयन्पाययेत् । भृष्टमांसमातुलुङ्गचुक्रा- द्युपदंशान्मधुरमिदं मृदु विशदमिदमिति विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितायाश्च- न्द्रिकासेवनार्थमासनम् । तत्र चानुकूलाभिः कथाभिरनुवर्तेत । अङ्गसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपतिव्यक्तीकरणमरुन्धतीधुवसप्तर्षिमण्डलदर्शनं च ॥' इति ॥ काचिन्मानिनी शिक्षयति- चपलहृदये किं स्वातव्यात्तथा गृहमागत- श्वरणपतितः प्रेमाः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ५६ ॥ कार्याकार्यपर्यालोचनशुन्यतया हे अव्यवस्थितहृदये, कुतो हेतोर्वल्लभोऽवधीरितः । किंविशिष्टः । गृहमागतः। कथम् । तथा। कोऽर्थः । प्रसाद्य संगमाकाङ्क्षया । पुनः कीदृशः चरणप्रणतः । पुनरपि कथंभूतः। प्रेमाः । लक्षणयातिसरसकोमल इत्यर्थः । कस्मात्स- मुपेक्षितः, खातच्यात् । मामपृष्ट्वैवेत्यर्थः । तदिदानी दुरुत्पन्नानां निजक्रुधां फलमनु- भव । कीदृशी सती। रुदितशरणा । किं तत्फलमित्याह-निरस्तसुखोदया । कियन्तं कालम् । यावजीवम् । जीवोऽपि तव क्षणस्थायीति भावः । रुषामिति बहुवचनेन वारंवारं त्वया कोपं कृत्वा सर्व विनाशितमिति प्रतीयते । किं स्वातछ्यादित्यत्र स्वातव्यमेव त्वया कुतः कृतमिति किंशब्दार्थः । अन्यथा स्वातन्त्र्यहेतुके प्रियसमुपेक्षणे सिद्धे किंशब्दोऽधिकः स्यात् । परिकरोऽलंकारः। यदुक्तम्- 'साभिप्रायैः सम्यग्विशेषणैर्वस्तु यद्विशेष्येत । द्रव्यादिमेदभिन्नं चतुर्विधः परिकरः स इति ॥' यथा-'उचितपरिणाम- ४६ काव्यमाला । रम्यं स्वादु सुगन्धि स्वयं करे पतितम् । फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधे. दानीम् ॥' अत्रान्तरे वहवः प्रक्षेपकश्लोकाः सन्ति । तत्र विचारः-यः कश्चित्वाञ्लोकान्र- चयित्वा परकाव्ये प्रक्षिपति स तावन्न प्रसिद्धये । खानामलेखनाभावात् । तस्मादेवं सं- भाव्यते यद्यस्मिन्सार्वपार्षदे काव्ये मम श्लोका अर्हन्ति तदाहं विशिष्टः कविरिति प्रक्षेपककवेराशयः । तेऽपि सन्तु यथा विसदृशनीरलहरीलेह्यखराणां (2) गायनाना- मोडवप्रयोगेनातोद्यलास्यानुविधानशालिनि रक्तिनिर्भरगीतलास्यमानमनसां प्रविष्टा- नामातोद्यकराणां ततसुषिरघनावनद्धात्मनि वादित्रे मन्दमुन्मुद्रितनिनादे नायिकानां नानाविधदृष्टिवृष्टिभिराप्यायितविदग्धचेतसां ललितहस्तकचारीचमत्कारेणाचितभ्रमि- तनमितकुञ्चितस्तिमितक्षिप्तक्षुभितावयवानां कुचकलशनितम्बडम्बरान्तरतरङ्गितोद- लितललितवलिभागानां क्वचिद्विस्रब्धमिव क्वचित्त्वरितत्वरितमिव क्वचिद्भीतभीतमिव क्वचित्सुप्तसुप्तमिव क्वचिदुनिद्रितोन्निद्रितमिव सान्दमुखरागमनोभवमनोज्ञं नृत्यन्तीनाम- न्तरेऽटचेटकास्तथानिर्वचनीयचमत्काराणाममरुकश्लोकानां मध्ये छन्दोमात्रमेलनेन हा- सोत्पादकतया च प्रक्षेपकश्लोकाः। ते यथा- 'मन्दं मुद्रितपासवः परिपतज्झांकारिझञ्झामरु- द्वेगव्यस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्विनीकुचभरखेदच्छिदः प्रावृषः पारम्मे मदयन्ति कन्दलदलोल्लासाः पयोविन्दवः ॥' अमी झञ्झानिलाः शिरोर्तिमुत्पादयन्ति विदुषाम् ॥ 'इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥' जीवितहारिणी शाकिनी ॥ 'सालक्तकं शतदलाधिककान्तिरम्यं रत्नोघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया मृगनेत्रया यत्सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥' इयं सा भद्रदेशिनां सर्वखं सौभाग्यस्योपरिमञ्जरी (2) ॥ श्रुत्वाकस्मानिशीथे नवधनरसितं विश्लथा पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटापातशीर्णाश्रुविन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥' वियोगमर्म निगूढं दुःखमेवोपवर्णयन्ति । तद्विपर्ययादियं मिथ्यामरणनिःसृताया योषितो मांधारिका (1)॥ १ इतःप्रभृति प्रक्षिप्तं श्लोकपञ्चकं शृङ्गारदीपिकायामपि नास्ति.
अमरुशतकम् । 'पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥' नूनं शाकंभरीखनिकर्मकर एष महानुभावः कविः ॥ नूनमियं श्लोककन्था कुतार्किकच्छान्दसवैयाकरणैर्मथिता। यदुक्तमुपाध्यायेन-'संप- र्केण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः ॥ वाले नाथ विमुश्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा कस्याप्रतो रुद्यते नन्वतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ।। कश्चिन्मानिनीमनुनेतुं संबोधयति-हे मुग्धे । नायिका वक्ति-हे नाथ। नायकः- विमुच्च मानिनि रुषम् । नायिका-रोषान्मया किं कृतम् । अपि तु न किमपि । कोऽ- भिप्रायः-न ते किंचिद्विरुद्धमुक्तम्। न च ताडनादिकं कृतम् । नापि तत्र गच्छ- न्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्टामि । नायकः-रोषात्त्वया किमपि न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका-खेदस्तस्योपपद्यते योऽपराधी भवति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः नायकः-उक्तेरभिप्रायमजानन्निव, तत्किं रोदिषि गद्गदेन वचसा। नायिका-कस्याग्रतो रुद्यते । त्वमन्यासको न मे कष्टं जानासि । त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः-पूर्ववत् । नन्वेतन्ममाग्रतो स्द्यते। नायिका-का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः- वल्लभा त्वं मे। नायिका-नास्मीत्यतो रुद्यते । कोऽर्थः-दयिता नास्मि योषित्संवन्धः पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाकोरभावात् । यत्क्वचि- दर्थान्तरमत्र प्रतीयते तद्व्यङ्गयमेव । वक्रोकेरुदाहरणं चैतत्-'किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव सत्यमित्यं गिरो गिरिभुवः कुटिला जयन्ति ॥' 'गुरुपरततया वत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' धीराधीरा मध्या नायिका । 'न मेऽपराध्यति भवान्सर्वेऽपराधा मयि' इत्यनेन धैर्यम् । 'चापल्यरहिता धैर्य हृदृत्तिरविकत्थना' ॥ श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथ- चुम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः । १ शाकंभरी राजपूतानादेशान्तर्वती 'सांभर' इति प्रसिद्धो लवणाकर.
४० काव्यमाला नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५८ ॥ यथा यथा मौग्ध्यमपगतं तथा तथा प्रियसंगमवाहुल्येनोपलब्धे प्रेम्णि आस्वादाभिज्ञा संवृत्ता सती इत्थममुना प्रकारेण तरुणी पश्चात्तापं विभर्ति । किं कुर्वती। इति स्वमेव नववधूचेष्टितं चिन्तयन्ती। इति किम् । मया मन्दभाग्यया किमिति न प्राणेश्वरः कण्टे आलिङ्गितः । तस्मिन्परिरन्धुमुद्यते मया भुजाभ्यां निजमुरः किं पिहितमित्यर्थः । अस्मि- थुम्बति सति वदनविनतिः किमिति मया कृता। प्रतिचुम्बनं किमिति नारब्धमित्यर्थः । किमिति न दृष्टः । सततं नीरगीलम्बनव्यग्रया सम्यकदाचिदपि स्फारीकृतलोचनया नाव- लोकित इत्यर्थः । नोक्तः कस्मात् । तस्मिन्सविलासमालपति सति प्रत्युत्तरं किं न दत्तम् । अवनतवदनया स्थितमेवेत्यर्थः। तारुण्ये संगमसुखमनुभवन्ती मौरध्येन तदाहं वञ्चितेति चिन्तयतीति भावः ॥ काचिदपमानितानुनया पश्चात्तापयुक्ता यदि त्वं तेन विना स्थातुं न शक्नोषि तत्किमिति मानं करोषीति सख्या निर्भसिता तां प्रत्याह- श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्ग समन्ता- दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य कण्ठपहनिकटपदस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मैयि पुनर्वघ्रमय्यां कदाचित् ॥५९॥ नाहं सर्वदैव मानं करोमि किंत्वत्यन्तकठिनायां मयि निन्द्या मानचिन्ता कदाचिदु- त्पद्यते । क्व सति । तस्मिन्प्राणेश्वर प्रसादनतात्पर्येणागत्य कपोलचुम्बनप्रत्यासन्नस्थान- स्थायिन्यपि। कोऽर्थः । यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नाहं मानं करोमि । तस्मि- प्राणेश्वरे कीदृशे। यस्य नामाप्याकर्ण्य व्यक्तसान्द्ररोमाञ्चं ममाझं सर्वतो जायते । यस्य वचन्द्रमसमवलोक्येदं वपुरुद्भिन्नखेदविन्दुजालतया चन्द्रकान्तमणिसदृशं भवति । दयि- तमुखं दृष्ट्वा खिद्यामीति पर्यवसितत्वाद्भिन्नकर्तृकता नाशङ्कनीया । अयमपि श्लोकः प्रक्षेपक इति संभाव्यते। परं विरुद्धो नास्ति । एवंविधा अन्येऽप्यन्तरान्तरा द्वित्राः श्लोकाः सन्ति । तेऽप्यविरुद्धा इति व्याख्यास्यन्ते ॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्रे कजलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ६० ॥ २ नारङ्गी मुखाच्छादनवस्त्रम्. २ 'यत्समन्तात्' इति शृङ्गारदीपिका. ३'मम' इति शृङ्गा- रदीपिका. ४ 'कथंचित्' इति शृङ्गारदीपिका.
अमरुशतकम्। ४९ ईर्ष्याविकारसंवरणार्थमाघ्राणच्छमना मुखप्रत्यासन्नीकृतस्य लीलातामरसस्योदरे कुरङ्ग- लोचनायाः श्वासा निःसृत्य निःसृत्य प्रौढापमानजन्मनामिषङ्गेणान्तनिरुद्धतया समाप्ति गताः । किं कृत्वा । अन्याङ्गनाया मण्डनं तदिदं प्रेयसः संक्रान्तमत एव कोपविधायि प्रभाते चिरं दृष्ट्वा । इदं किम् । ललाटपट्टमभितस्तत्प्रसादनपादपतनानुमापकं लाक्षा- लक्ष्म । तदालिङ्गनशंसिनी केयूरमुद्रा कण्ठे । तल्लोचनचुम्बनसूचको वक्रे कजलका- लिमा । अपरश्च तत्कृतचुम्बनपिशुनो नयनयोस्ताम्बूलरागः । अहेतुरलंकारः । यदुक्तम्- 'बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसा- वहेतुरिति ॥' 'ज्ञातेऽन्यासङ्गविकृते खण्डितेा कषायिता' इत्यनेन खण्डिता नायिका । धृष्टो नायकः । यच्चेदं लीलातामरसं तदवश्यं विरहसंतापप्रतिविधानोपनतसखीजनोपनी- तशीतोपचारीयम् ॥ काचित्प्राणपरित्यागकृताध्यवसाया देशान्तरं प्रस्थितं प्रियं प्रत्याह- लोललोचनवारिभिः सशपथैः पादप्रणामैः प्रियै- रेन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं ब्रज मङ्गलं सुंदिवसः प्रातः प्रयातस्य ते यत्स्नेहोचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि ॥ ६१ ।। अन्यास्ताः प्राणलोभेन कृपणाः स्त्रियः न त्वहम् । याः प्रस्थितं प्राणेश्वरं निवार- यन्ति । कैः । झलज्झलायमानैर्वाष्याम्बुभिः । न केवलं तैः । किंतु यदि त्वं यास्यसि तदा तेऽमुकस्य शपथ इति सशपथैश्चरणप्रणामैः । किंविशिष्टैः । अनुरागव्यजकत्वा- प्रियैः । अहं पुनरेवं वच्मि-हे प्रिय, पुण्याहं कल्याणं सुदिनं ते तस्माद्यदृच्छया गच्छ । यच तव प्रोषितस्य नेहोचितं मया किंचिदीप्सितमस्ति तन्निश्चयेन गतः सन्क- स्मादपि पथिकादाकर्णयिष्यसि । अथ च यद्यहमिदानीमेव प्राणान्मुञ्चामि तदा तवाम- गलं स्यात् । अत एव पुण्याहमित्यादि । पराभवोऽलंकारः । आशीर्वचनाक्षेपश्च । यथा-'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भू- याद्यत्र गतो भवान् ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्था सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ काचिनिजसख्याः स्वयं स्थापितप्रतिष्ठासु भर्तृकायाः स्वरूपं सिद्धसमीहितत्वेनान्या- सामग्रे कथयति- लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता नो वा पादयुगे स्वयं निपतितं तिष्ठेति नोक्तं वचः । १ 'वान्तैः' इति शृङ्गारदीपिका. २ 'अन्यैः' इति शृङ्गारदीपिका. ३ 'धन्याहं' इति शृङ्गार दीपिका. ४ 'सुदिवसं' इति शृङ्गारदीपिका. ५ 'प्रियतम त्वं निर्गतः' इति शृङ्गारदीपिका. ६ 'स्थितं' इति शृङ्गारदीपिका. ७ 'मुहुः' इति शृङ्गारदीपिका. अमरु.५ काव्यमाला। काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ- स्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ।। सा वस्त्राञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्रुजलता न न्यस्ता । नापि चरणयुगले लुठितम् । तिष्टेति वचनमपि नोक्तम् । कथं तर्हि निवारित इत्याह-काल इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाङ्या केवलमश्रुकल्लोलकल्पितनदीपूरेण वल्लभो निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्यमश्रुभिरेव कृतमित्यनेन मेघाक्षे- पेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा-'काले जलदकुलाकुलदशदिशि पूर्व वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते गगनम् ॥ काचित्परपुरुषानुरागिणी कस्याश्चिजरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्वदुःखं निवेदयति- आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न ब्रीडया। लोकोऽप्येप परोपहासचतुरः सूक्ष्मेणितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥ हे मातः, कं शरणं व्रजामि । अपितु न कमपि । तस्माद्धृदय एव केवलं संतापहेतु- त्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याह- आस्तामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं तावदास्ताम् । ताः कस्याप्यग्रे स्फुटित्वा कथयेयुरित्यर्थः । तर्हि स्वयं दूतीविलसितं कि- मिति नारभ्यते इत्याह-इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन त- स्मिजने दृष्टिमप्यारोपयितुं लजया न शक्नोमि । का कथा गमनानयनादिकार्यस्य । तर्हि लजां परित्यज्य तदवलोकनरसास्वादेनैव किमिति कालो नातिवाह्यत इत्याह- एष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन सूक्ष्मेगितज्ञोऽपि । अपिशब्दः समुच्चये । सूक्ष्मेगितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः । यथा राज्ञः श्रीहर्षदेवस्य–'दुल्लहजणाणुराओ लजा गरुई परव्वसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवर एकम् ॥' १ ‘सललितां' इति शृङ्गारदीपिका. २ 'दुर्लभजनानुरागो लज्जा गुवीं परवश आत्मा । प्रिय- सखि विपमं प्रेम मरणं शरणं केवलमेकम् ।।' इति च्छाया.
अमरुशतकम्। त्वमस्माकमग्रे परं मानस्य वार्तामेव करोषि तत्संनिधौ पुनरन्यैव संपद्यस इति सखीभिः काचिदुपालब्धा खदोषं परिहरति- न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६४ ॥ अहं किं करोमि समस्तान्येव ममाङ्गानि लोचनतां गच्छन्ति श्रवणतामथवेति न जाने । क्व सति । प्रिये संमुखायाते सति । न परं तथा, अभिमतालापं जल्पति च । त- मभिमुखमागच्छन्तमुत्कण्ठया पश्यन्त्यास्तत्पेशलालापानाकर्णयन्याश्च ममेन्द्रियान्त- राणि खव्यापारं परिहरन्तीति तात्पर्यम् । अङ्गशब्दोऽत्रेन्द्रियार्थः । अन्तरङ्गमित्यत्रापि दृष्टत्वात् । उत्तरसंशययथासंख्यान्यलंकाराः । ललितं नाम सात्त्विको नायकगुणः । य- दुक्तम्-'शोभा विलासो माधुर्य गाम्भीर्य स्थैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥' यथा-'लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारम- नोहरेण । किं वा ममैव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत ता- पम् ॥' भावप्रगल्भा नायिका ॥ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥ ६५ ॥ इति प्रिये पृच्छति मानविह्वला कथंचिदन्तधृतवाष्पगद्गदम् । न किंचिदित्येव जगाद् यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ६६ ॥ (युग्मम्) अन्तर्निरुद्धवाष्पगद्दं यथा भवत्येवं वधून किंचिदेवोत्तरं यदवोचत्तेनैव तयास्य प्रि- यस्य कियन्न खदुःखं वर्णितम् । अपि तु भूयः । किंविशिष्टा सती जगाद, बहुदिवसोप- चितेन मानेन विह्वला । क्व सति । सापराधे दयिते इति पर्यनुयुजाने सति । इति किम् । इयं दुर्वला शरीरलता गुरुतरचिन्ताया दुर्वहत्वेन यद्वैचित्त्यं तेन निश्चला निरीक्ष्यमा- णैव सती किमिति भयमुत्पादयति । कार्येन निश्चेष्टतया चामङ्गलचिन्तां प्रणिददाती- त्यर्थः । विशेषेण दृश्यमानैव साध्वसं करोति दूरात्पुनराकृत्यविसंवादेन पूर्ववत्स्वस्थाव- स्थैव प्रतिभासते । यत आभरणनिरादरतया स्वभावरामणीयका । तथा च प्राग्भारे(?)- णानतिस्तन्मात्रं भूषणं यस्याः सा तथा । 'अङ्गानामतितानवं कुत इदं' इत्यादिश्लोकव- दत्रापि संविधानम् ॥ काचिद्दती प्रणयापमानितं नायकं संवोधयति- विरहविषमः कामो वामस्तनूकुरुते तनुं दिवसगणनादेक्षश्चायं व्यपेतघृणो यमः । १ 'कामं तनुं कुरुते' इति शृङ्गारदीपिका. २ 'दक्षः स्वैरं' इति शृङ्गारदीपिका.
५२ काव्यमाला। । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ६७ ॥ हे नाथ, विषमेषुर्युवयोस्तनुं दुर्वलां करोति करोति । किंविशिष्टः । प्रतिकूलः । कीदृशः सन्प्रतिकूलः । विरहे विषमः । संभोगे पुनरनुकूल एवेत्यर्थः । शरीरकाोपन्यासेनैवं प्रतिदिनोत्पद्यमानक्षीणतया कतिपयदिवसैः संभोगयोग्यतैव युवयोरस्तमेष्यतीत्यर्थः । अयमिति प्रत्यक्षनिर्देशेन पुर इव वर्तमानो निरनुक्रोशोऽन्तकश्च दिवसगणनादक्षः एवं- विधानपि दिवसांल्लेखयति । संभोगे विप्रलम्भे चायुःक्षयस्तावदस्त्येव । तस्माद्विप्रलम्मे मृत्युवरमुतखित्संभोग इति यमशब्दस्योपयोगः । देहदौर्बल्येन संभोगपरिहारेण च मान एव व्याधिस्तस्य त्वमपि वशगः । अद्य यावन्मयैवं ज्ञातमासीद्यत्सैव मानव्याघेर्वशगेत्य- पिशव्दार्थः । तस्माद्विचिन्तय, एवमुत्पातपरम्परया प्रमदाजनः कथं जीवति । प्रस्तुते एकस्यामपि प्रमदायां प्रमदाजन इति जात्यपेक्षया लोकोक्तिः । अथवा प्रकृष्टो मदो रिरंसालक्षणो मान्मथो विकारो यस्याः सा प्रमदा । सैव विधेयत्वेन जनः । अथवा नायकस्यानेकनायिकास्पृहणीयत्वेन प्रमदासमूह एवास्तु । किंविशिष्टः । किसलयमृदुः । विरहदुरवस्थां सोढुमक्षम इत्यर्थः । अथ च किसलयकोमलं प्रमदाजनमालिङ्गय किमिति चरितार्थो न भवसीति । असत्समुच्चयोऽलंकारः ॥ कश्चित्प्रियामानोपशान्तं कस्यचिद्विसम्भसंभावितस्याग्रे कथयति पादासक्ते सुचिरमिह ते वामता कैवं मुग्धे मन्दारम्भे प्रणयिनि जने कोऽपराधोपरोधः। इत्थं तस्याः परिजनकथाकोमले कोपवेगे वाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ६८ ॥ तस्यास्तदनन्तरं त्वरितमेव वाष्पोत्पीडैन विलम्वितं न च संपन्नम् । क्व सति । कोप- वेगे सति । किं विशिष्टे । सखीप्रायपरिजनस्येत्थं संवोधकथया शिथिले न तु दृढे । को- पवेगस्य कोमलतयाश्रुभिर्न स्थितम् । कोपसत्तया च न प्रवृत्तम् । स्तम्भितैरेव जात- मित्यर्थः । इत्थं कथमित्याह-हे अचेतने, इह प्रणयिनि जने सुचिरं चरणलग्ने कैव तव मता । प्रातिकूल्यं न युज्यत इत्यर्थः । अथ च येन खेदरोमाञ्चप्रभृतयो भवन्ति त- स्मिन्नपि दयितशरीरस्पर्श तव कठिनायाश्चेतसि मानस्तिष्टतीति भावः । ननु सापरा- धोऽयं वामतां कथं त्यजामील्याह-अस्मिन्मन्दारम्मे । कोऽर्थः-दोषोद्घोषणे कृतेऽपि निरुत्तरतया नम्रमुखे यथाकथंचित्प्रसादमेवाकाङ्क्षति सति । तस्मादपराधस्य क उपरोधः । १ 'नेव कान्ते' इति शृङ्गारदीपिका. २'कोपने कोऽपराधः' इति शृङ्गारदीपिका. ३ 'परिज. नगिरा कोपवेगे प्रशान्ते' इति शृङ्गारदीपिका.
अमरुशतकम् । , प्रणयिजनस्यैवोपरोधोऽस्त्विति भावः । विरोधोऽलंकारः । यदुक्तम्-'यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः ॥ काचिन्मनखिनी दयितमुपालभते- तथाभूदस्माकं प्रथमर्मविभक्ता तनुरियं ततो न त्वं प्रेयानहमपि हताशा प्रियतमा। इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मैयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ ६९ ॥ आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे इति । आवयोरिति वाच्ये प्रणयवहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अह- मपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्रीपुरुषमेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया परिणीता इति यावजीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्का- स्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः ॥ मुग्धे मुग्धतयैव नेतुमेखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । संख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ७० ॥ काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह-नीचैः शंस । यस्मा- त्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भविष्य- तीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति (2) यद्यहमनेन सह विप्रति- पद्ये तदा मे प्राणान्गृहीत्वा तिष्टतीति । अत एव भीतानना संकुचितत्वेन भीतमिवा- ननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं मन्यते । एवं कथं प्रतिबोधितेत्याह-हे मुग्धे, बाल्यदुर्ललितेनैव सर्वः कालोऽतिवाहितुं कस्मा- दारभ्यते त्वया। केवलं मुग्धेत्याशकुनीया भविष्यसि । तस्मादीाकारणं विनापि मानं धारय । माये धृते कथमवस्थातुं प्रभविष्यामीत्याह-धृतिमवस्थापय । नन्वयं विना १ 'पुरा' इति शृङ्गारदीपिका. २'अविच्छि(भि)ना' इति शृङ्गारदीपिका. ३'ततोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः' इति शृङ्गारदीपिका. ४ 'हतानां' इति शृशारदीपिका. ५'अखिलं कालं' इति शृङ्गारदीपिका. ६ 'सख्येदं' इति शृङ्गारदीपिका.
५४ काव्यमाला। कारणैः स्थातुं न शक्नोमि तेन सह वाह्याकारेण (2) धृति वधामीलाह-प्रेयसि विषये प्राञ्जलतां परित्यज । मोहायितं नाम नाट्यालंकारः । 'मोट्टायितं तु तद्भावभावनेष्टकथा- दिषु' । यथा पद्मगुप्तस्य—'चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । बीडार्धवलितं चके मुखेन्दुमवशैव सा' ॥ एष प्रक्षेपकश्लोकोऽपि व्याख्यायते। काचिजरदभिसारिका नवनिष्पन्नखैरिणी प्राह- क प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे । एकाकिनी बैत कथं न विभेषि वाले नन्वस्ति पुडितशरो मदनः सहायः ॥ ७१ ॥ मणिवन्धकनिष्टयोरन्तरं करभः । तदाकारावूरू यस्यास्तस्याः । यथापूर्व पीवरतया ऊर्वोगौरवेण कथं गन्तुं शक्ष्यसीयाशयेन संवोधनं हे करभोरु, निर्भरेऽर्धरात्रे क्व चलि- तासि । यथा मरणाध्यवसिता यदृच्छया मनोगतमाचष्टे तथा मन्मथोन्मत्ततया दुष्करा- भिसारप्रवृत्ता सती उत्तरमाह-जीवितादप्यधिको यत्र स्थाने मम वल्लभो वसति । किं- भूतः । जनो विधेयः । इत्युभयानुरागः । पूर्वा पुनः पृच्छति-हे वाले, असहाया केन प्रकारेण न विभेषि । वतशब्दः खेदार्थो वालाशब्दवत् । सोझुण्ठं खैरिण्युत्तरं ब्रूते- ननु विद्यते सज्जितसायको मदनः सहायः । शरप्रहारोन्मुखमन्मथहेतुकोऽयमारम्भ इत्यर्थः । सहायो हि गन्तव्यं स्थानं प्रापयति । ननु सहायो यं सहायिनमनुगच्छति न तु तमेव प्रहर्तु शरं पुह्वयति तत्कथमत्र मदनः सहायः । सत्यम् । ईदृशमेवात्र साहाय्य यत्पुतितशरसज्जितमेव सहायी गन्तव्यं स्थानं प्राप्यते । यथा हन्यमानखार्थस्येव दर्श- नेन्द्रियस्य तमसि नीलिमोपलम्भः । अथवा नन्वस्ति पुह्नितशरो मदनः सहाय इति सोलुण्ठम् । अहं किं करोमि यद्यद्विषमशरः कारयति तदेव करोमि । यथा विपरीतलक्ष- णायाम् ‘उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥' प्रश्नोत्तरमलंकारः॥ लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूपितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुङ्मलिताननेन्दु ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्तताथवा नतिमृते तेनानिशं चुम्बिता ॥ ७२ ॥ कश्चित्कामुकोऽन्याङ्गनास्वच्छन्ददष्टौष्टो नायिकया क्रीडातामरसेन ताडितः सँल्लोचने १ 'प्राणेश्वरः' इति शृङ्गारदीपिका. २ 'मनः प्रियः' इति शृङ्गारदीपिका. ३ 'वद' इति शृङ्गारदीपिका. ४ ‘पेया' इति शृङ्गारदीपिका. ५ ‘कान्ता कुल्मलिताननेन' इति शृङ्गारदीपिका. ६ 'तदा' इति शृङ्गारदीपिका. ७ 'तेनाभवत्' इति शृङ्गारदी पिका.
अमरुशतकम्। ५५ मुद्रयित्वा स्थितः । किंविशिष्ट इव । कैतवेन कुशेशयकिंजल्कदूषितदृष्टिरिव । अथ सा मुग्धा नायमधरक्षतप्रकाशापहवार्थमभिनयं करोति किंतु मत्प्रहारदूषितदृष्टित्वेन व्यथित एवेति या भ्रान्तिस्तया । अथवाभिनयं जानाति परं प्रेम्णः कुटिलवरूपत्वा- हुण्ठनाथ या धूर्तता तया मुकुलिताननमृगार यथा भवत्येवं वदनमारुतं निश्चला सती तस्य लोचनयोर्ददती तेन प्रणामोपायं विनैव सिद्धसमीहितेन वारंवारं चुम्विता। भ्रान्ति- पक्षे प्रियतमस्यापराधग्रहणं तावडूरत एवास्ताम् , प्रत्युत प्रहरणीकृतपङ्कजकिंजल्कक- ल्कदूषितदृष्टिरिति स्वयमपराधिनी जाता । अतः कुड्मलिताननेत्यनेनानुल्यणमुखमारुत- वितरणप्रयत्नः । अन्यथा चुम्बनार्थमभियुक्ता कोपेन पराङ्मुखी भवति । मौरध्यमप्यत- स्मिंस्तदिति प्रत्यय एव । न तु वयोमौग्भ्यम् । धूर्ततयेत्यनुपपन्नत्वात् । धूर्ततापेक्षया च स्थितेत्यत्र प्रियप्रत्यासत्तिजनितेन त(ह)ोतिरेकेणापराधविस्मरणं हेतुः । अत एव प्रण- त्युपायं विनैव तेन चुम्विता । अत्र केचिद्वायुपदेन जुगुप्साश्लीलमिति दोषमाचक्षते । तद्यदि कीरदेशे कुड्मलिताननेन्दुपदसंनिधावपि कमलपरिमलोद्गारिणो मुखमारुतस्य प्रतीतिर्न भवति भवति चाश्लीलप्रतीतिस्तदा वाग्देवतादेश इति व्यवसितव्य एवासौ । किं तु हादैकमयीवरलब्धप्रसादौ काव्यप्रकाशकारी प्रायेण दोषदृष्टी येनैवंविधेष्वपि पर- मार्थसहृदयानन्दमन्त्रे(प्रदे)षु सरसकविसंदर्भेषु दोषमेव साक्षादकुरुताम् । उक्तं च भट- वार्तिके-'न चाप्यतीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तचित्तानां प्रकाशते ॥' इति ॥ काचित्सखी कोपनिषूतभर्तृकाया नायिकायाः पश्चात्तापमपरस्याः प्रतिपादयति- स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न सखि चपलप्रेम्णा कार्य पुनर्दयितेन मे। इति सरभसं मानावेशादुदीर्य वचस्तया रमणपदवी सारङ्गाक्ष्या निरन्तरमीक्षिता ॥ ७३ ॥ तया कुरणलोचनया गतवतो रमणस्य पदवी निरन्तरं निर्वर्णिता । किं कृत्वा । इत्यमुना प्रकारेणापर्यालोचिताध्यवसितत्वेन सरभसं यथा भवत्येवं मानावेशवशाद्वचनमु. चार्य । इति कथम् । हे सखि, संततचिन्ताप्राग्भारेण हृदयं मे विदीर्यताम् । खेच्छया मन्मथस्तनुं दुर्बलां करोतु । क्षणिकप्रेम्णा प्रियेण न किंचित्प्रयोजनम् । धृत्यौत्सुक्ये व्यभिचारिभावी ॥ काचित्कान्तैकान्तवृत्तान्तं सख्याः कथयति- गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं शय्या संप्रति कोमलानि परुपेत्यारोप्य मां वक्षसि । १ 'कोपाटोपात्' इति शृङ्गारदीपिका. २ 'सशङ्कित' इति शृङ्गारदीपिका. ३ 'पश्याश्ठेष' इति शृङ्गारदीपिका.
काव्यमाला॥ गाढौष्ठप्रहपूर्वमाकुलतया पादाप्रसंदंशके- नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७४ ॥ तेन धूर्तेन स्वच्छन्दमधरपीडनपूर्वकमनङ्गपर्याकुलतया चरणाग्रस्थाङ्गुलियत्रेण मन्नि- तम्बसिचयं मोचयित्वा तत्कालयोग्यमात्मनो यत्समीहितं तत्प्रक्रान्तम् । अत्र संनिवेश- वशेन पुरुषायितम् । तथा आत्मनो यदुचितं न तु मम तेनाग्राम्यत्वं लज्जा च किं कृत्वा । इति हृदये मामारोप्य । इति किम् । हे सुकुमाराशि, इदानीमिदं तल्पं कर्क शम् । कस्मात् । निर्भरमालिङ्गनोद्घटितचन्दनरजःपुञ्जप्रसन्जनात् । इयं च नायिका प्रौढ- त्वेन मनस्विनी पूर्वमासीत् । अन्यथा सात्त्विकखेदेन चन्दनरजो नोपपद्यते ॥ कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याज प्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रम विगैलितदृशा शून्ये गेहे समुच्छ्रुसितं पुनः ॥ ७५ ।। सापराधे प्रिये कथमपि प्रणामशपथादिभिः कृतनिराकरणे सति। अथ तस्यैव गोत्र- स्खलितावसरे सुबहुदिवसमानात्मकविरहदुर्वलतया यथाकथंचित्संगमलौल्येन संप्रतिपि- त्सया परिजनव्यापारादिकं व्याजं विधायाश्रुतं नाटितम् । अथ चासहनवयस्याकर्णेऽन्या- गनानामप्राप्तिः सैव प्रमादस्तेन पर्याकुलं यथा भवत्येवं वाष्पायितदृष्ट्या शून्ये वेश्मनि पुनः समुच्छसितम् । निवृत्ते रुदिते यदि प्राणी रुदितहेतुभूतां दुरवस्थामनुस्मरति तदोत्कम्पितहृदयः पुनरुच्छ्रसिति । संगमलोमेन सैव नायिका परगोत्रस्खलनं सहते न तु सखी । तस्मात्तयैवं चिन्तितं यद्येतद्गोत्रस्खलनमसहनसखीकर्णे प्रमादात्पतितं भवति तदाहमपि लघ्वी कथं जीवामि । अतिबहुमानसंभावनायाः ससंभ्रममिति विशेषणम् ॥ आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ७६ ॥ कयाचिदध्वगवध्वा सकलं दिवसं यावदृष्टिः प्रसरति तावदन्तरे दयितस्यागमनपद्धति- मुद्रीविकया वीक्ष्य प्राणनिरपेक्षतारम्भकं निर्वेदं प्राप्तया वासरान्ते विरलसंचारेषु वर्मम तमसि सम्यगुत्कटं प्रसरति सति निष्प्रत्याशया सशुचा गृहं प्रति पदमेकं क्षिप्त्वा- १ 'ग्रहपीटनाकुलतया' इति शृङ्गारदीपिका. २ 'कृतप्रत्यापत्ती' इति शृङ्गारदीपिका. ३ 'प्राप्ति विशङ्कय' इति शृङ्गारदीपिका. ४ 'विवलितदृशा' इति शृङ्गारदीपिका. ५ 'विश्रान्तेषु' इति शृङ्गारदीपिका.
अमरुशतकम्। ५७ स्मिन्नेवान्तरे कदाचिदागमो मा भूदिति प्रत्याशया औत्सुक्याद्वेगविवर्तितकंधरं यथा भव- त्येवं पुनः पृष्ठतो विलोकितमिति तदेकतानेन प्रीतिप्रकर्षः । पयिष्विति बहुवचनेन सर्व- मार्गेषु प्रियस्यागमनपदवी निर्वर्णितेत्यर्थः । पान्यस्त्रियेत्येकवचनेन विरहहृद्रोगमेषजात्म- कप्रवोधनवाक्यप्रस्तावनादिभिरावासदायिनी वयस्यापि तस्या नास्तीति भावः । तदेवं प्रवासात्मको विप्रलम्भोऽप्येष करुणप्राय एवेति मर्मणि स्पृशति । परमग्रेतनश्लोकस्यौचि- खेन रसिकाः संजीवन्ति । 'दूरदेशान्तरस्थे तु कार्यतः प्रोषिते प्रिये' इति प्रोषितभर्तृका नायिका ॥ आयाते दयिते मनोरथशतैर्नीत्वा कथंचिदिनं वैदग्ध्यापगमाजडे परिजने दीर्घा कथां कुर्वति । दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वद्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७७ ॥ कृशाझ्या रत्यर्थ कातरेण मनसा विशिष्टया प्रदीपो विध्यापितः (निर्वापितः)। किं कृत्वा । दुतपदं प्रदीपसमीपमेत्य चीनदेशोद्भवं वस्त्रं विशेषेणास्फाल्य । एतदेव किं कृत्वा । इति मिथ्याभिधाय । इति किम् । दष्टास्मीति । वृश्चिकादिना हि दष्टो विश्कल- वस्त्राञ्चलचरणविन्यासप्रक्रियोद्धान्तो दीपविध्यापनभाण्डपातनादिकमवश्यं करोति। क सति । दयिते मनोरथशतैरायाते सति । पुनरपि किं कृत्वा दीपः शमितः । उभयत्र संबन्धान्मनोरथशतैरेवमेवमुपालम्भपरिरम्भचुम्बनादिकं करिष्यामीति खरूपैर्महता कष्टेन दिनमतिवाह्य । ननु व्याजेन दीपमुपशमय्य किमिति रतिमाकाङ्क्षतीत्याह-वैदग्ध्ये- त्यादि । इदानीं कीदृशोऽवसरः । कीदृशमत्रत्यानां चेतः । किमस्माभिः कर्तव्यमित्यादि- वैदग्ध्याभावान्मूर्खे परिजने गृहदेशान्तरकथां दीर्घा कुर्वति । इयं च कथा संभोगान्तरा- यत्वाद्विद्विष्टा । यदुक्तम्-'या गोष्टी लोकविद्विष्टा या च खैरविसर्पिणी । परहिंसात्मिका या च न तामवगिरेवुधः ॥ नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ॥ कथां गोष्टीषु कथयंट्रोके बहुमतो भवेत् ॥ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया। गोष्ठ्या समाच- रलोके नृणां बहुमतो भवेत् ॥' कश्चिद्विरही प्रियतमामनुध्यायति- आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरी सर्पत्सान्द्रपरागलम्पटटद्भुङ्गाङ्गनाशोमिनीम् । मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य वाला स्फुर- कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ७८ ॥ ॥ १ गत्वा वासगृहे जडे' इति शृङ्गारदीपिका. २'चेलाञ्चलम्' इति शृङ्गारदीपिका. ३ 'वा. पिका' इति शृङ्गारदीपिका. ४ 'रणत्' इति शृङ्गारदीपिका.
काव्यमाला। मन्येऽवश्यमस्मिन्समये मुग्धा रोदिति । किंविशिष्टा । स्फुरणानुमेयो यः कण्ठध्वा- नस्तस्य निरोधस्तेन कम्पितौ कुचौ येन तादृशः श्वासोद्गमो यस्याः सा तथोक्ता । किं कृत्वा । निजां कृशां शरीरलतामुपरितनांशुकशकलेन पिधाय । पुनः किं कृत्वा । रसाल- शाखिनि मञ्जरीमालम्ब्य । किंविशिष्टाम् । सर्पत्सान्द्रपरागो येषु । ते च रजस्यसंभवा- द्योग्यतया मधुनि मधुलम्पटा मधुकराः प्रसरन्ति । घने कुसुमरजसि परिमललोमेन लम्पटा रटन्तो ये भृङ्गास्तेषामगनाश्च तामिः शोभत इत्येवंशीला ताम् । चूतम एव क इत्याह-यत्र मया सह क्रीडितं यत्रैव च पिष्टविकाराशन(?)द्यूतपणव्यतिकरे जयपरा- जयव्यवस्थया विलसितं तस्या अङ्गणवाटिकायाः प्रदेशे । स्वामित्यनेन विशेषध्वनिना संप्रति तस्यास्तनुरेवेत्यर्थः । प्राणानां गतकल्पत्वात् । यः शाखादिकमवलम्व्य तिष्ठति तस्याङ्गमुद्घाटितं भवति । तथापि विकलतयोत्तरीयशकलेनाच्छाद्य न तु सावधानतया समस्तेन । चूतद्रुमालम्बनपूर्वकं संस्थानमपि प्राणजिहासया दुष्करप्रायम् । मुकुलिता- प्रदर्शनस्यापि विरहिणामशक्यत्वात् । यथा मालतीमाधवे–'धत्ते चक्षुर्मुकुलिनि रणको- किले वालचूते मार्गे गात्रं क्षिपति वकुलामोदगर्भस्य वायोः। दावप्रेम्णा सरसविसिनीपत्र- मात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥' अङ्गनवाटिका च शृङ्गा- रिणां भवत्येव । यदुक्तम्-'तत्र भवनमासन्नोदकं वृक्षवाटिकासहितं द्विवासगृहं कार- येत् ॥ [अथ च मूलगृहद्वारि सहकारारोपणं सुप्रसिद्धम् । यदुक्तम्-'किं द्वारि दैवह- तिके सहकारकेण संवर्धितेन विषपादप एष पापः। अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥' इति ॥ काचित्प्रोषितभर्तृकात्मानमधिक्षिपति- यास्यामीति समुद्यतस्य गदितं विस्रब्धमाकर्णितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥ ७९ ॥ हे सख्यः, स्वस्थावस्थया तिष्टत मद्विषये नाधृतिः कार्या । यतोऽहं जीविताकाङ्गिणी च्छद्मना रोदिमि । यदि. च प्राणनिरपेक्षा भवामि रोदिम्येव न । किं च, दयितस्य प्रवा- सार्थमुद्यतस्य यास्यामीति वचनं मया विस्रब्धं यथा भवत्येवमाकर्णितम् । गच्छन्सन्मद- पेक्षया वारंवारमसौ व्यावृत्य तिष्ठन्नपि दूरं यावदुपेतः । तदैव किल जीवितत्यागावसर आसीत् । तस्मादनेकसङ्ग्रामनियूंढास्मि । इदानीं पुनर्यस्मिन्नेव भवने तेन सह विलसितं तस्मिन्नेषा वज्रमयी आस्थितास्मि । त एते चाण्डालचरिताः प्राणा अपि दृढा एव । अत्र चाय मुक्तरुल्लेखः-पूर्वार्धे यद्यहं यास्यामीति गदिते पर्याकुलीभवामि तदा च गच्छन्तं निवारयामि । यदि जीविताकाड्डिणी भवामि । तस्माद्विस्रब्धचेष्टा गमनोपेक्षिणी च किं न भवामि इति मे पूर्व निश्चितमासीत् । इदानीं कस्मादपि दुर्दैवादेवंविधा कर्कशा संव- अमरुशतकम् । ५९ त्तास्मि । गदितमित्यत्र भावे कः । अत्राविवक्षितवाच्य स्य ध्वनेर्भदोऽत्यन्ततिरस्कृतवाच्यो नाम । यथादिकवेर्वाल्मीके:-'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते' इति ॥ काचित्सखी नायिकां भीषयित्वा मानप्रहापस्मारान्मोचयति- अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद- स्त्वयाकाण्डे मानः किमिति संरले संप्रति कृतः । समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८॥ धूर्तविदग्धानां कुटिलमनोज्ञेषु चेष्टितचमत्कारेषु प्रविश्य क्रीडितुं न जानासीति हे सरले, तस्मिन्नेवावसरे तव दयितोऽन्याङ्गनानवरङ्गस्नेहवागुरायां पतित इत्यकाले संप्रति त्वया किमिति मानः कृतः। किं कृत्वा । प्रेम्णः परिणतिमनालोच्य । दिनानि पञ्च यथा तथास्तु । अक्षिणी निमील्य समयोऽतिवाहनीयः । पानीयमवश्यं पानीयवर्त्मन्यागमिष्य- तीत्यादि किमपि न संप्रधारितमित्यर्थः । न केवलमिदं कृत्वा, एवंविधोपदेशपेशलानस्मा- दृशान्सुहृदोऽप्यनादृत्य । इदानीं पुनः किं कर्तुं याति । यतः प्रलयदहनस्येवोद्भासुराः शिखा येषां तेऽमी स्वहस्तेनाङ्गारास्त्वया सम्यगाकृष्टाः। उपाख्यानमेतत् । अथ च देह- दाहात्मक उपन्यासः । तस्मादिदानी पुनः पर्याप्तमरण्यरुदितैः । लोकोक्तिरियम् । अथ चारण्यप्रायं सर्वमिदानी ते शून्यमासीत् ॥ कश्चिन्मनखिनीमनुनयति- कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति वाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोघे न तु वयम् ॥ ८१ ॥ हे निरनुरोधे, पादोपान्तेऽपि लुठतोऽपि मे भणितं न करोपि मन्युस्ते वल्लभो जातः । किंचिदुपेक्षालेशेनान्तर्गर्भितेयमुक्तिः । अत एव न तु वयमित्यौदासीन्यव्यजकं वहुवच- नम् । कथं मन्युरेव प्रियकार्य करोतीत्याह-कपोल इत्यादि । विषादानुभावतया यस्मि- न्सततं मुखं न्यस्तं तस्य करतलस्य निरोधेन कपोले पत्राली प्रोञ्छिता । खेनाननुभूत- त्वात् । सुधास्वादुरयमित्यनिर्वचनीय ओष्टरसो निःश्वासैः शोषितः। अन्तर्निरुद्धतया कण्ठे सक्तो वाष्पः स्तनतट कम्पयति । अपहुतिरलंकारः ॥ शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । १ 'तरले' इति शृङ्गारदीपिका. २ 'स्तनतटी' इति शृङ्गारदीपिका.
६० काव्यमाला। विस्रब्धं परिचुम्व्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता वाला चिरं चुम्बिता ॥ ८२ ।। व्रीडानम्रवदना वाला वल्लमेन स्मयमानेन चिरं चुम्बिता । किं कृत्वा लजानम्रमुखी । पत्युः कपोलस्थली जातपुलकामिति हेतोर्जाग्रदवस्थाशंसिनीं विलोक्य । कपोलावलोकन- मेव किं कृत्वा कृतम् । निद्राव्याजमुपागतस्य मुखं परिचुम्ब्य । कथम् । विस्रब्धम् । विस्रब्धचुम्बनमेव किं कृत्वा कृतम् । सुचिरं निर्वर्ण्य । मुग्धा ह्यन्यदा लबासाध्वसाभ्यां पराङ्मुखीकृताः क्व दयितमुखनिर्वर्णनचुम्बनरसमनुभवन्ति । सुचिरं निवर्णनमेव कि कृत्वा कृतम् । शयनात्स्तोकमुत्थाय । कथम् । प्रबोधशङ्कया शनैः । स्तोकोत्थानमेव किं कृत्वा कृतम् । मा कदाचिदपि कोऽपि मां पश्येदिति शङ्कया शून्यमपि वासगृहं विशेषेण दृष्ट्वा । (अत्र मिन्नकर्तृकत्वशङ्का न कार्या । लज्जाक्रियापेक्षया समानकर्तृकत्वात् ।) नायि- कायाश्च खामिप्रायचुम्बनमेतत् । यदुक्तम्-‘सुप्तस्य मुखमालोकयन्त्याः स्वामिप्रायेण चुम्वनं रागोद्दीपनम्' इति । स्वाधीनपतिका मुग्धा नायिका ॥ लोद्भूलतया विपक्षदिगुपन्यासेऽवधूतं शिर- स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयो- रुत्सृष्टो गुरुसंनिधावपि विधिाभ्यां न कालोचितः॥ ८३ ।। श्वशुरप्रायगुरुजनसकाशेऽपि द्वाभ्यां चातुर्येण कोपप्रसादनात्मको विधिः समयोचितो न मुक्तः । कथं कथमित्याह-तत्र गत्वा आगतोऽसीति सूचकं स्पन्दितया भ्रूलतयान्य- वनितागृहोद्देशोपक्षेपे नायिकया शिरोऽवधूतम् । नायकोऽपि शिरःकम्पनवृत्तान्तनिरीक्षणे विलक्षः स्थितः । किंविशिष्टः । नमस्या भवति यदेवमेव निरपराधस्य ममापराधमारोप- यतीत्याशयेन कृतनमस्कारः । अथवा तस्यै दिशे मम नमस्कार एवेति भावः । न केवलं विलक्षः स्थितः नायिकाया मुखे इदानीं किं ते कितव कर्तुं शक्नोमि यद्येकान्ते लब्यो भवसि तदा शिक्षा ग्राहयामीति कोपात्ताम्रगण्डमण्डले मुखे सत्यामिनयेन प्रणामं सूचय- न्दृष्ट्या तत्पादयोः पतितः । अत्र कोपेन पुलकाद्यभावात्कपोले कर्कशत्वसाधारणधमा मित्तित्वेन रूपितः । दृष्टिश्चेयं लज्जितशङ्किता। यथा-'किंचिदञ्चितपक्ष्माया पतितो- पुटा मिया । त्रपाधोगततारा च शङ्किता दृष्टिरिष्यते ॥ काचित्सखीमिरुपदिष्टं मानं स्थापयितुमक्षमा ताः प्रत्याह- जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना। .. १ वालाभव चम्बिता' इति शृङ्गारदीपिका. २ 'लोलभ्रतया' इति शृङ्गारदीपिका. ३ 'वि- धूत' इति भारदीपिका'. ४ पत्ताम्रकपोलकान्तिनि मुखे दृष्टयां नतः' इति शृङ्गारदीपिका.
अमरुशतकम्। ६१ दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ ८४ ॥ तस्मात्कथयत केनोपायेनात्र संस्थानके मानः स्थैर्य नीयताम् , अपि तु न केनापि । कथंभूतः । निरूप्यमाणनिपुणः। निपुणं निरूप्यमाणो निरूप्यमाणविपुणः । सुप्सुपेति समासः। पूर्वनिपातानियमः । यतो यन्मानात्मकविरहातिवाहनक्षममिति संभावितमा. सीत्तदद्य मे मनो दृष्टेनैव यावदमुना शठेन प्राणेश्वरेण सहसा लुण्ठितम् । किंविशिष्टेन । एतदसंगमे कथं जीविष्यामीति मे धृतितस्करेण । (यदि पुनः संनिधावुपविश्य प्रणामा- दिकमारभते तदा तस्य कथैव का । तच्चानेन कृतमेव न । कथं ज्ञायत इत्याह-उत्कण्ठा न जाता । कुचौ न कम्पितौ । अझं न पुलकितम् । मुखमपि खेदकणचितं न जातम् ।) संनिधावुपविश्य यदि प्रणामादिकमारभते तदा सर्वमेव जातप्रायं भवतीत्यर्थः । अहो नूतनोऽयं तस्करो यदृष्टिमात्र एव पदार्थमपहरतीत्याश्चर्यद्योतकं शठेनेति प्रीतिवचनमेव ।। दृष्टः कातरनेत्रया चिरतरं बवाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ८५ ।। तदा प्रवसतो नायकस्य दयितया प्रथमं जीवितास्था मुक्ता तदनन्तरं दयितो मुक्तः । तदा कदा । यदेत्यादिकं सर्वममानयित्वा गन्तुमेव कितवः प्रवृत्तः । किंविशिष्टः । मुमू- घुमपि वल्लभामुपेक्षत इति निघृणः । इत्यादिकं किमित्याह-स्थापनार्थ दैन्यव्यञ्जकत्वेन कातरचक्षुषा चिरतरमवलोकितः । पश्चादञ्जलिं ववा प्रार्थितः । अनन्तरं वस्राञ्चलेन विधृतः । चरमं गाढमुपगूढः । गन्तुं प्रवृत्तो न तु गत एवेति हेतोरेकानुरागो न शङ्क- नीयः । कर्तृदीपकमलंकारः । यदुक्तम्-'यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥' अतिशयभेदः पूर्व च । यदुक्तम्-'यत्रा- तिप्रवलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाजनकस्य तु तद्भवेत्पूर्वम् ॥' यथा-'दुर्लभजनमभिलषतामादौ दंदह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चात्का- मानलो ज्वलति' ॥ कश्चिद्वियोगी दयितादुरवस्थामनुस्मरति तप्ते महाविरवह्निशिखावलीभि- रापाण्डुरस्तनतटे हृदये प्रियायाः। १ 'पल्लवे च' इति शृङ्गारदीपिका. २'इत्याक्षिप्य समस्तमेवमणो' इति शृङ्गारदीपिका. अमरु०६ काव्यमाला। प्रत्याख्यानपराङ्मुखः मन्मार्गवीक्षणनिवेशिनदीनदृष्टे- नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ८६ ।। नूनमहमेवं मन्ये-दयिताया हृदि च्छमच्छमित्यश्रुविपुषः पतन्ति । किंविशिष्टायाः मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानलज्वालाभि- स्तप्ते । पुनः कीदृशे । आपाण्डुरस्तनतटे । संतप्तवस्तुनिपतितं पयश्छमत्करोतीत्यनुकारः। रूपकमलंकारः। यदुक्तम्-'यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिधा । अविवक्षि- तसामान्या कल्प्यत इति रूपकं झेयम् ॥' परं गृहीतमुक्तोऽलंकारः॥ काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति- चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः प्रियतमो गन्तुं प्रवृत्तोऽधुना। सनीडैरलसैनिरन्तरलुठद्वाष्पाकुलैरीक्षणैः वासोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ।।८७॥ तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन परा- मुखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापराधत्वा- न्मौनेन । पुनरपि केन । चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तः- करणशून्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः। कदा। अधुना । इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया। प्रत्याख्यानं ताव- त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमि- त्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधा- नात् । श्वासेनोत्कम्पिती कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसंगमं प्राप्नोमीति जीवने कृता आशा जीवाशा । किं कृत्वा वारितः । सुचिरं निरीक्ष्य । कैः ईक्षणैः । किंविशिष्टः । अवष्टम्भत्यागव्यजकतया सवीडैः । दैन्यद्योतकतयालसैः । अप- मानातिशयान्निरन्तरलुठद्वाष्पाकुलैः ॥ कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्ते- म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तत्क्षणजातकान्ति रंभसप्राप्ते मयि प्रोषिते । - १ 'मोहनिबध्यमानमनसा' इति शृङ्गारदीपिका. २'प्रत्याख्यात' इति शृङ्गारदीपिका. ३'प्र- वृत्तः शठः' इति शृङ्गारदीपिका. ४ 'तन्वझ्या स पुनस्तथा तरलया तत्रान्तरे वारितः' इति शृङ्गारदीपिका. ५ 'विलास' इति शृङ्गारदीपिका. ६'चालसं' इति शृङ्गारदीपिका. ७'मधुरं माप्ते' इति शृङ्गारदीपिका.
अमरुशतकम् । साटोपं रतिकेलिकालसरसं रम्यं किमप्यादरा- छत्पीतं सुतनोर्मया वैदनकं वक्तुं न तत्पार्यते ॥ ८८ ॥ यन्मा सुतनोर्वदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वा- द्वक्तुं न शक्यते । तस्य विशेषणान्याह-आन्तरेण मर्मस्पृशा दुःखेन कुमुममिव म्ला- नम् । प्रत्यूषतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थेनाहारस्यारोचकत्वात्सुतनोरिति (पदेन) शरीरकार्यात्कृशम् । किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह- वियोगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं वियोगहेतुकम् । म्लानत्वादीनामपि तनिमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहित. त्वाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमा- ह । चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभ- सप्राप्ते सति । अथ चुम्बनसमयविशेषमाह-त्वमद्य यावन्मां विहाय तत्र स्थित इत्या- शयेन मानाद्भूभङ्गादिमिः साटोपम् । रतिक्रीडासमये आईमत एव किमपि रमणीयम् । सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखम- प्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भूयस्तत्क्षणजातकान्तीत्यनेन विलासः । 'तात्का- लिको विशेषस्तु विलासोऽङ्गक्रियादिषु' । सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा- वेषास्माकमवृत्तिरेव सहजब्रीडाधनः स्त्रीजनः । इत्यं लजितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा- सुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥ कयाचिद्विपरीतरतिव्यतिकरे पूर्व पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत् , का पुनः कथा स्त्रीपुरुषविषयविभागस्येति भावः । किविशिष्टया । लजितया । क सति । इत्थं स्मृते- रुपगमे । इत्यं कथम् । सैवाहं लज्जावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा जाता । एतौ च तौ नूपुरी संभोगामियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां श्रुति- संवादेन ज्ञापितौ । एषास्माकं स्त्रीणामक्रियैव । यतः सहजव्रीडैव धनं यस्य स तथोक्तः स्त्रीजनः । अतिशयमेदः पूर्वमलंकारः । 'निःसाध्वसत्वं प्रागल्भ्यं' इत्यनेन च प्राग- भ्यं नाम नाट्यालंकारः ।। विमार्गति वाससी क्षिपति सुमनोमालाशेष प्रदीपशिखां प्रति । करकिसलयं धूत्वा धूत्वा १ कैलिदत्तरभसं' इति शृङ्गारदीपिका. २ 'पीतं यत्' इति शृङ्गारदीपिका. ३ 'मुखमिदं तत्केन विस्मार्यते' इति शृशारदीपिका. ४ 'विलम्बितमेखला' इति शृङ्गारदीपिका.
६४ काव्यमाला। स्थगयति मुहुः पत्युनें। विहस्य समाकुला सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥ ९०॥ संभोगावसाने क्षामाजी रमणीया पति वारंवारमवलोकते । अत एव साकूतं विहस्य लजया संभ्रान्ता भर्तुत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह-इतस्ततः पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थ मृगयति । प्रदीपविध्यापनार्थ सुरतसं- मर्दत्रुटितधम्मिटकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घहितकचुम्बनेऽप्युक्त- मस्ति मुग्धायाः । 'ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छाद- यतीति घट्टितकम्' । 'मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' इत्यनेन कान्ति- र्नाव्यालंकारः । यथा भट्टनारायणस्य—'उत्तिष्टन्त्या रतान्ते भरमुरगपतौ पाणिनै- केन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या । भूयस्तत्कालकान्ति- द्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु॥ काचित्सखी मानिनी भीषयित्वा नायकसंप्रतिपत्ती प्रवेशयति- सन्त्येवात्र गृहे गहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथा- श्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवाः पुनः॥ ९१ ॥ सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा । अधुना। विलम्ब मा कृथा इत्यर्थः । किं पृच्छामीत्याह-प्रेयांसः किं तथा प्रणमन्ति यथा तव प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनै- रनर्थममिहितं कर्णेऽप्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनैर्हि प्रियो- ऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःलेहे तस्मिन्सति किं भवतीत्याह-छिन्नस्नेह- रसाः पुरुषाः पुनर्दुःखानुवा भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ।। काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते- निःश्वासा वदनं दहन्ति हृदयं निर्मूलमन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९२॥ १ 'रम्यं तन्वी पुनः पुनरीक्षते' इति शृङ्गारदीपिका. २ 'दुर्जनप्रलपितं कर्णे भृशं' इति शृङ्गार- दीपिका. ३ 'दुःखानुवृत्त्या यतः' इति नारदीपिका. ४ 'उन्मूल्यते' इति शृङ्गारदीपिका. ५'तथा' इति शृङ्गारदीपिका.
अमरुशतकम् । हे सख्यः, कं स्वार्थमनुसंधाय दयिते वयं मानं कारिताः। वयमिति बहुवचनेन सखी- प्वौदासीन्यम् । अनर्थ एव को जात इत्याह-निःश्वासा इत्यादि । अनन्तदुःखसंवाधत्वेन संततमुल्लसन्तो निःश्वासवायवो मुखमुष्णतया तपन्ति । निराधारतया हृदयं निर्मूलमुन्म- थ्यते । कर्मकर्तरि यक् । चिन्ताज्वरेण निद्रा नागच्छति। संतापशमनं चन्द्ररुचिरं प्रिय- मुखं न दृश्यते । तद्दर्शनमन्तरेण चक्षुषोः साश्रुत्वादहोरात्रं रुद्यते । सरस्त्याजितायाः कमलिन्या इवाझं मे शुष्यति । तदा पादपतितोऽपि युष्मद्भणितेन प्रेयानवगणितः । विष- मालंकारः । यदुक्तम्-'यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवे- त्तदपरमभिधीयते विषमम् ॥ काचिन्मानिनी पुण्यसामग्र्या मनोरथशतप्राप्तप्रियतमसंप्रतिपत्तिः पुनर्विप्रतिपत्तिविषये खगतेन शपथं करोति- अद्यारभ्य यदि प्रिये पुनरहं मानस्य वान्यस्य वा गृहीयां शठदुर्नयेन मनसा नामापि संक्षेपतः । तत्तेनैव विना शशाङ्कधैवलाः स्पष्टाट्टहासा निशा एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ९३ ॥ यद्यहमद्यारभ्य मानस्यान्यस्य वापि परिचरणप्रसादादेर्नामापि गृह्णीयाम् । अस्तु ताव- त्करणम् । केन । मनसा । कीदृशेन । शठदुर्नयेन । कोऽर्थः । मिथ्यवास्य दोषमारोपया- मीति । तदा किं स्यादित्यत आह-संक्षेपत इत्यादि । संदिग्धमरणानेकप्रतिज्ञानां परि- हारेण निःसंदेहमरणाध्यवसायतया संक्षेपतस्तेनैव प्रियेण विना सुधांशुधवला अत एव स्पष्टाहासा इव यामिन्यो मे यान्तु । दुःखितस्य हि हसन्कोऽपि न प्रतिभासते । अत • एव प्राट्काले समन्ततः संनद्धमेघमालामलीमस एकोऽपि दिवसो यायात् । एकसंख्या- विशेषेण चन्द्रवत्यनेकरात्रिभ्योऽपि प्रादिवसस्यातिवाहयितुमशक्यत्वमुक्तम् ।। काचित्सखी नूतनमानिनीमात्मप्रियदुर्नयावेदनेन बोधयति- इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु। पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ९४ ॥ हे सखि, कस्य परिचिताः पुरुषाः । अपि तु न कस्यापि । आत्मीया न भवन्ती- त्यर्थः । अथातिनिर्वन्धमानेनोद्वेजितैस्तैः सह परिचयोऽपि दुर्लभः । यतः स एवान्यो १'नहि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि' इति शृङ्गारदी- पिका. २ 'किं तेनैव' इति शृङ्गारदीपिका. ३ 'किरणस्पष्टा-' इति शृङ्गारदीपिका. ४ 'नैको- ऽपि' इति शृङ्गारदीपिका.
६६ काव्यमाला। जातः। एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः। स एव कः । येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्त्मना मम चित्तं विलसितं तेन तेन पृष्टतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथमि- त्याह-हे प्रियतम, इदं कृष्णम् । स आह-कृष्णम् । ननु श्वेतमिदम् । स आह- अथ किम् । गमिष्यामः । स आह-यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानो- क्त्यानुवृत्तरतिशयः । आस्तां गमनेन । स आह-आस्ताम् ॥ काचिदन्तर्विलीनमाना खगतेन वितर्क संधारयति- चरणपतनं संख्यालापा मनोहरचाटवः कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् । इति हि चपलो मानारम्भस्तथापि हि नोत्सहे हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥ इत्यमुना प्रकारेण नूनं गत्वर एव मानोपक्रमः । तथापि स्फुटमीग्रंया न मानं त्यक्तु- मुत्सहे । इतिशब्दस्यापिशब्दस्याग्रे च हिशब्दो मानारम्भचापल्यस्य मानत्यागानुत्साहस्य च निश्चयं गमयति । इति किम् । चरणपतनेत्यादि । प्रियस्य मच्चरणे पतनम् । तदनुरुद्ध- सखीनामालापाः । किंविशिष्टाः । मनोहराणि चाटूनि येषु ते तथोक्ताः । मदीयदुर्बला- ङ्गस्य प्रियकृतं गाढालिङ्गनम् । वलात्कारेण समन्ताञ्चुम्बनम् । कृशतरतनोरित्यस्य पद- स्यायमभिप्रायः–मया तावन्मानः कृतो यावत्क्षीणेन्दुलेखशेषं मम शरीरमभूत् । ननु यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह-अतिशयेन हृदयदयितः कान्तश्च तकिमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥ तन्वझ्या गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ।। इयं वाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लज्जया तत्सं. निधौ नयनयोरि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहो- द्भवः कामानलः सिक्तस्तस्य संस्तभ्यमानज्वालस्य नूनमेषा वदनद्वारेण धूमावलिरुत्थिता । केन । सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीनां या पद्धतिस्तद्या- जेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुलसति ॥ १ सास्रालापाः' इति शृङ्गारदीपिका. इति शृङ्गारदीपिका. २ 'इति बहुफलो' इति शृङ्गारदीपिका. ३'च' अमरुशतकम्। ६५ काचित्सखीभिर्मामं शिक्षितानध्यवसायगर्भ संदेहमाह- भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोढुं शिक्षितमादरेण हसितं मौनेऽमियोगः कृतः । धैर्य कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९७ ।। मानवीकारे मया सामग्री प्रगुणीकृता सिद्धिः पुनर्दैवाधीना । दैवयोगान्माननि- हो भवति न वेत्यर्थः । कथं परिकरो बद्ध इत्याह-भ्रूमेद इत्यादि । सूत्रपाठप्राथमक- ल्पिकन्यायेन भ्रूभङ्गश्चिरं गुणितः । लोचनयोः संकोचनमभ्यस्तम् । प्रयत्नेन स्मितं निवा- रयितुं शिक्षितम् । वाचंयमत्वेऽभियोगः कृतः । अकातरतां विधातुमपि कथंचिदेत- बेतः स्थिरीकृतम् । एते प्रकारास्वस्मिन्दृष्टे निर्वाहं न गमिष्यन्तीत्यर्थः ॥ काचित्खैरिणी चिरमनोरथप्राप्तकामुकचौर्यरतं साधितसाध्यतया सख्याः कथयति- अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरसहृदयत्वादवहिता । ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीता धम्मिल्ले सखि स च मया गाढमधरे ॥ ९८ ॥ हे सखि, किमपि कथयामीति व्यपदेशेन विजने तेनाहमाहूता । अहं च सखि, सा- भिलाषहृदया तस्य प्रियतमस्य समीप आसीना । अथ च तेन श्रवणोपान्ते किंचिद्वदता पर्याकुलतया मन्मुखमाघ्रायापसरणशयाहं धम्मिल्ले गृहीता । न केवलमेवम् , स च मया गाढमधरे गृहीतः । किमपि कथयामीति विस्रम्भणम् । यदुक्तम्-'विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचने भावं तत्रोपलक्षयेत् ॥ देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै- यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्रीवश्चरणार्धरुद्धवसुधः प्रोन्मृज्य साने दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्पुनर्वीक्षते ॥ ९९ ।। तथापि किमपि ध्यायन्पथिकस्तां दयितासंबद्धां दिशं वारंवारमवलोकयति । अथ- वाशामिवाशाम् । किं कृत्वा । साश्रुणी नेत्रे पदार्थोपलम्भार्थ प्रकर्षात्प्रोन्छ्य । किंवि- शिष्टः । दर्शनोत्कलिकयोत्कंधरः । पुनः कीदृशः । उन्नतो भवितुं पदार्थेनावष्टब्धभूमिः । १ 'गृहीत्वा पन्मिई मम सखि निपीतोऽधररसः' इति शृङ्गारदीपिका. २'चरणान' इति शृङ्गारदीपिका. ३ 'तथैव' इति शृङ्गारदीपिका. ४ 'मुहुः' इति शृङ्गारदीपिका.
६८ काव्यमाला। तथापि कथमित्याह-इति जाननपि । इति किम् । यत्नेनापि कान्ता नयनयोर्गोचरं न गच्छति । किंविशिष्टा । यतोऽन्तरिता । कैः । देशैः । न परं तैः । नदीनां पर्वतानां च शतैः । न केवलमेमिः, विपिनैश्च ॥ चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये रोगे यातेऽतिभूमि विकसति सुतरां गोचरे दूतिकायाः । आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभ- स्तद्नेहोपान्तरध्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ १० ॥ साभिलाषप्रियाश्लेषसंगमप्राप्तिस्तावदूरत एवास्तु । कस्तादृशः सुकृतराशियस्यैवं संप- द्यते । तन्मन्दिरोपान्तरथ्यासंचरणमप्यनिर्वचनीयं (......... अस्मिन्नपि निस्तरणो- पाये कश्चित्परेगितज्ञः प्रतिवन्धीभवतीत्यभिप्रायः । केन । मनसा । संस्तवे चिन्त्य- मानप्रातिवेश्मिकमैत्रीप्रभृत्युपाये । अनुरागे प्रकर्ष गते । दूतिकायाः सुतरां पुष्यवन्म- नोज्ञे......विकसति । अनुभवी वक्ता । 'यत्रासंभाव्यभावो वा' इति विषममेदः ॥) तव प्रियः कथं रमत इति सखीभिः पृष्टा काचिदाह- कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना- द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः॥१०॥ हे सखि, सांप्रतं तावदेतावदेवाहं जानामि । एतावत्किम् । कान्ते शय्यां प्राप्ते सति नितम्वसिचयवन्धनसंस्पर्शनिवृति सम्यग्विस्तारयति । स्पर्शमपि विनैव नीवीवित्रं- सनं जातमिति सात्त्विकातिशयः । विशृङ्खलमेखला तत्रावलम्बितमम्बरं नितम्बे मना- क्स्थितम् । तदङ्गस्पर्श तु क एषः । का वाहम् । रतमाहोस्वित्केन प्रकारेण । कापि स्मृतिर्नास्तीत्यर्थः । अत एवोक्तम्-'धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्ध- चाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥' इति ॥ कश्चिद्वियोगी खगतं वितर्कयति- प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यवे सा पथि पथि च सा तद्वियोगातुरस्य । १ 'चक्षुःप्रीत्या निपण्णे मनसि परिचयाञ्चिन्त्यमाने' इति शृङ्गारदीपिका. २ 'याते रागे विवृद्धि प्रविसरति गिरां विस्तरे' इति शृङ्गारदीपिका. ३ 'ट्रे स' इति शृङ्गारदीपिका. ४ 'तत्क्षणात्तद्वासः श्य' इति शृङ्गारदीपिका. ५ 'केवलं' इति शृङ्गारदीपिका. ६ कोऽसौ' इति शृङ्गारदीपिका. ७ 'तु किं कथमपि' इति शृङ्गारदीपिका.
अमरुशतकम्। ६९ हहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२ ॥ तद्विरहातुरस्य ममान्या कापि प्रकृतिर्नास्ति । तर्हि किमस्तीत्याह-प्रासादादिषु सैव । तस्मादहो आश्चर्यम् । सा सेति सकले जगति कोऽयमद्वैतवादः । आत्मनोऽप्य- लेखितत्वेन तस्यां तादात्म्यम् विशेषोऽलंकारः । यदुक्तम्-'यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥' यथा-'हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पाद- पतनेन ॥' पूर्वार्धे यावन्त एव साशब्दाः प्रयुक्तास्तावन्त एवोत्तरार्धेऽनूदिताः ॥ समाप्तेयं रसिकसंजीविनी टीका। कृतिमहाराजाधिराजवीरचूडामणिश्रीमदर्जुनवर्मदेवस्य । समाप्तमिदं रसिकसंजीविनीटीकासमेतममरुशतकम् । १ परिशिष्टम् । वेमभूपालविरचितशृङ्गारदीपिकाख्यटीकायां केचन श्लोका अधिकाः सन्ति, तेऽत्र सटीकास्तत एवोद्भियन्ते। यथा- नायकोक्तिः- नभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्या प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमवलम्व्य प्रोल्लिखन्ती धरित्री यदनु कृतवती सा तत्र वाचो निवृत्ताः॥ १०३ ।। नभस्याकाशे जलदलक्ष्मीं मेघसामग्री सास्रया सवाष्पया दृष्ट्या दृशा वीक्ष्याव- लोक्य 'हे कान्त हे प्रिय, प्रवससि यदि प्रवासं करोषि चेत्' इति कथंचित्कृच्छ्रेणार्ध सावशेषम् । वाक्यमिति शेषः । उक्त्वा मम पटमंशुकमवलम्व्य गृहीत्वा धरित्री भुवं प्रोल्लिखन्ती कर्षन्ती अनु पश्चात्सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाच उक्तयो निवृत्ता व्यावृत्ता इति संवन्धः । यत्कृतवतीत्यत्र यच्छब्दवाच्यैश्चिन्तानिःश्वासवैवर्ण्य- बाष्पगद्गदिकादिभिरनुभावस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमीत्ययमर्थः प्रवससि यदीत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः। यत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्ता- निःश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमों- ऽवगम्यते । दैन्यं नाम संचारिभावः । अत्र नायिका स्वीया मुग्धा च । नायकोऽनुकूलः। भविष्यत्प्रवासविप्रलम्भशृङ्गारः । तत्र नर्मस्फोटः । जातिरलंकारः । मालिनी वृत्तम् ॥
काव्यमाला। कवेर्वाक्यम्- स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुमि- यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः। तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः॥१०४ ॥ प्रियाः । 'पुमान्त्रिया' इत्येकशेषः । प्रियश्च प्रियाश्चेत्यर्थः । स्मररसनदीपूरेणोढाः स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढा उद्धृताः। बलानीता इत्यर्थः । पुन- भूयो गुरुसेतुभिर्गुरवो गुरुजनास्त एव सेतवः प्रवाहवन्धास्तैर्यद्यस्मात्कारणाद्विधृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपेऽपूर्णमनोरथा अपर्याप्तकामास्तिष्ठन्ति आसते तदपि तथापि लिखितप्रख्यैश्चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखा अभिमुखाः सन्तो नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मका- ण्डानि तैरानीतमाहृतं रसं पिवन्ति आस्वादयन्तीति संबन्धः । अत्र स्मररसनदीपूरे- णोढा इत्यनेनात्यन्ताभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैररित्यनेन स्तम्भ नाम सात्त्विकभावं गता इति गम्यते । अत्रौत्सुक्यं नाम संचारी भावः। संभोगकारः। ययोकं दशरूपके–'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोग उदाहृतः ॥' इति । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म । जातिरलंकारः । हरिणीवृत्तम् ॥ नायकमानेतुं गत्वा समागतां लक्ष्यमाणसंभोगचिह्नां दूती नायिका प्राह- निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापी स्नातुमितो गतासि न पुनस्तस्याघमस्यान्तिकम् ॥१०॥ स्तनतटं कुचतटं निःशेषच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं गलितं चन्दनं यस्मात्तयोक्तम् । अधरो दशनच्छदो निर्मष्टरागोऽपगतालक्तकोऽपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थमनछुने कजलरहिते । तन्वी तवेयं तनुः पुलकिता सरोमाञ्चा। मिथ्यावा- दिन्यसत्यपलापिनी वान्धवजनस्य सुहृजनस्याज्ञातपीडागमे । अज्ञातोऽनवगतः पीडागमो दुः सप्राप्तिर्यया सा तथोक्ता तस्याः संबुद्धिः । अज्ञातवान्धवजनपीडागमे इत्यर्थः । हे दूति संदेशहरे, अतोऽस्मात्प्रदेशाद्वापी दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि यातासि तस्याधमस्य निकृष्टस्य नायकस्यान्तिकं पुनः समीपं तु न गतासीति संवन्धः । अत्र वापीस्नानचिह्नकथनव्याजेन संभोगचिह्नकथनानायकस्याधमत्वकथनाच तदन्तिक- मेव रन्तुं गतासीत्ययमर्थो व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः अमरुशतकम्। ७१ ईर्ष्याक्रोधप्रायं नर्म । समाधिरलंकारः । यथोकं काव्यादर्शे–'युगपनैकधर्माणामभ्या- सश्च मतो यथा' इति । शार्दूलविक्रीडितं वृत्तम् ॥ नायकोक्तिः- आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुमधूरतिखण्ड्यमानमधरं धत्ते न केशरहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ १०६ ॥ आयस्ता आयासं प्राप्ता । ईर्ष्याकोपेनेति शेषः । पुरेव पूर्वमिव वाससो वस्त्रस्य संसने कलहं निवादं न कुरुते न विधत्ते । किं च केशग्रहे कचाकर्षणे पुरेव भुमभूर्भूभगवती सती अतिखण्ड्यमानमत्यन्तं दश्यमानमधरं दन्तच्छदं न धत्ते न वहति । किं च हठा- लिङ्गने प्रसभाश्लेषे पुरेव वामा वक्रा न भवति । किं त्वङ्गानि गात्राणि स्वयमात्मनाप- यति प्रयच्छति । संप्रति पुनरिदानीं तु तन्व्या कान्तया एषोऽयमपरोऽन्यः कोपप्रकारो रोषभङ्गिः शिक्षितोऽभ्यस्त इति संवन्धः । अत्रावहित्यं नाम संचारी भावः । नायिका खीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । अत्र नर्मगर्भः। युक्तिरलंकारः । शार्दूलविक्रीडितम् ॥ कवेर्वाक्यम्- कचित्ताम्बूलाक्तः कचिदगुरुपकाङ्कमलिनः कचिचूर्णोद्गारी कचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ १०७ ॥ क्वचिदेकत्र ताम्बूलाक्तस्ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपकाङ्कमलिनोऽमुरोः पङ्कस्तस्याको लक्ष्म तेन मलिनो मलीमसः । क्वचिदेकत्र चूर्णोद्गारी चूर्णस्य कर्पूरादि- क्षोदस्योद्गारो गलनं सोऽस्मिन्नस्तीति चूर्णोद्गारी । 'अत इनिठनौ' इति मत्वर्थ इनि- प्रत्ययः । क्वचिदपि च कुत्रापि सालक्तकपदोऽलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स तथोक्तः । वलीभनाभोगैर्वल्य एव भङ्गास्तरङ्गास्तेषामाभोगो विस्ता- रस्तैश्च । अलकपतितैरलकेभ्यः पतितान्यलकपतितानि तैः शीर्णकुसुमैः शीर्णानि विकी- र्णानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः प्रच्छदपट आस्तरणवस्त्रं स्त्रियः कान्ताया नानावस्थं बहुप्रकारावस्थानं रतं रमणं प्रथयति ख्यापयतीति संवन्धः । अत्र क्वचित्ताम्बूलात इत्यनेन मार्जारकरणं सूचितम् । यथोक्तं रतिरहस्ये—'प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नतायां स्त्रियः कट्यां मार्जारकरणं मतम् ॥' इति । क्वचिदगुरुपकाङ्कमलिन इत्यनेन करिपदं नाम बन्धविशेषः सूच्यते । यथोक्तम्-'भूगत- ७२ काव्यमाला। - स्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । कामति खकरकृष्टमेहने वल्लमे करि- पदं तदुच्यते ॥' इति । क्वचिचूर्णोद्गारीत्यनेन धेनुकं नाम करणं सूच्यते । यथोक्तम्- 'न्यस्तहस्तयुगला भुवस्तले योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये ॥' इति । क्वचिदपि च सालक्तकपद इत्यनेन पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गाभोगेरियनेनालकपतितैः शीर्णकुसुमैरित्यनेन च रत्युपमर्दातिशयः सूच्यते । जातिरलंकारः । शिखरिणीवृत्तम् ॥ कवेर्वाक्यम्- पुष्पोद्भेदमवाप्य केलिशयनाहूरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते। आच्छाद्य स्मितपूर्णगण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तवकया तन्व्यावधूतं शिरः॥ १०८ ॥ पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनारस्थया क्रीडातल्पं विहाय विप्र- कृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताधरेण कान्तेन प्रियेण भ्रूसंज्ञय साधनेन निभृतं निगूढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासभ- रितकपोलतलमाननं चेलाञ्चलेनांशुकपल्लवेनाच्छाद्य विधाय मन्दान्दोलितकुण्डलस्तवकया मन्दं शनैरान्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तवको गुच्छौ यस्याः सा तथोक्ता तया तन्व्या कान्तया शिरोऽवधूतं तिर्यग्वक्रितमिति संबन्धः । शिरोऽवधूत- मित्यनेन प्रतिषेधः सूचितः । औत्सुक्यं नाम संचारी भावः । नायका खीया मध्याप्रगल्भयोरन्यतरा स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्रा चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म । सूक्ष्मोऽलंकारः। यथोक्तं काव्यादर्शे-'इशिता- कारलक्ष्यार्थसौम्यात्सूक्ष्म इति स्मृतः' इति । शार्दूलविक्रीडितम् ॥ नायिका नायकमुपालभते- शठान्यस्याः काश्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति ।। १०९ ॥ हे शठ धूर्त, अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नशिञ्जितमाका- लिप्यन्नेवालिङ्गन्नेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिविश्लथबाहुबन्धनोऽभव आसीरिति यत्तदेतच्छाट्यं क्वाचक्षे कुत्र ब्रवीमि । यतो घृतमधुमयत्वद्वहुवचोविषेण घृतमधुमयं सर्पिःक्षाद्ररूपं त्वहुवचस्तव भूरिवचनं घृतमधुमयं च तत्त्वहुवचश्च तदेव विषं तेना- घूर्णन्ती भ्राम्यन्ती मे सखी किमपि न गणयति न विचारयति । न विश्वसितीत्यर्थः ।
अमरुशतकम्। वचनमिति शेषः । इति संबन्धः । अत्र नायकवचसां घृतमधुमयत्वकथनेन तदानीं हितत्वं पश्चादहितत्वं च गम्यते । यतो घृतं मधुमिश्रितं विपाके विषत्वमापद्यते । यथोक्तं वाग्भटे-'मधुसर्पिर्वसातैलपानीयानि द्विशनिशः । एकत्र वा समांशानि विरुध्यन्ते परस्परम् ॥' इति । तदेतत्त्वाचक्षे इत्यनेन सखी त्वया वञ्चिता कस्याग्रतो मम दुःखं कथयामीति खनिर्वेदः सूचितः । अत्र नायिका खीया प्रगल्भा च । नायकः शठः । विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शिखरिणीवृत्तम् ॥ दूती नायकमुपालभते- अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ११० ॥ अच्छिन्नं संततं नयनाम्बु अश्रु वन्धुषु कृतमर्पितम् । चिन्ता विचारो गुरुषु जनन्या- दिष्वर्पिता न्यस्ता । दैन्यं दीनत्वं परिजनेऽशेषतः सर्वस्मिन्परिचारकवर्ग । सप्तम्यर्थ तसिल् । दत्तं निहितम् । तापः संज्वरः सखीषु वयस्यावाहितो निक्षिप्तः । एवमनेन प्रकारेण तया विप्रयोगजनितं विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा यतः श्वासैः श्वसितैः परमत्यर्थ खिद्यते खिन्ना भवति । तस्मादद्यास्मिन्दिवसे श्वः परस्मिन्दिवसे वा परनितिमत्यन्तसौख्यं भजति प्राप्नोति । अतो विस्रब्धो निश्चिन्तो भवेति संवन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनोपालम्भो गम्यते । अत्र मूर्छा नाम दशाविशेषः । नायिका परकीया कन्या च । अयोगविप्र- लम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ पूर्व कृतपरिचयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां यदृच्छागतं प्रिय दृष्ट्वा तमुपालभते. रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धि स्तनौ संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः । धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निर्दाक्षिण्य करोमि किं नु विशिखाप्येषा न पन्थास्तव ॥१११॥ प्रथमं ममोरसि रोहन्तावुद्भवन्तौ स्तनौ तवोरसि विवृद्धि प्राप्ती गतौ । मम संल्लापाः संभाषणानि तव वाक्यभङ्गिमिलनाद्वचनरीतिमिश्रणात्परमत्यर्थ मौग्ध्यं मूढतां त्याजिताः । मम वाहुलतिके धात्रीकण्ठमुपमातृकण्ठमपास्य विहाय तव कण्ठे आसजिते आसङ्गं प्रापिते । हे निर्दाक्षिण्य अज्ञातपरचेतोनुवर्तन, एषा विशिखापि इयं रथ्यापि तव पन्था मागों न भवति । एवं सति किं नु करोमि किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं अमरु. ७ ७४ काव्यमाला। किमुपालमे इत्यर्थः । इति संवन्धः । अत्र नायिका साधारणा। सोपालम्भवचनं नर्म। आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ कवेर्वाक्यम्- पराची कोपेन स्फुटकपटमुद्रामुकुलिता प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे । शनैर्नीवीवन्धं स्पृशति सभयव्याकुलकरं विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ११२ ।। कोपेन प्रणयकोपेन पराची पराङ्मुखी । स्फुटकपटनिद्रामुकुलिता । स्फुटं प्रव्यक्ता । तथैव भासमानेत्यर्थः । कपटेन कृता निद्रा तया मुकुलिता निमीलिताक्षी सती वरतनु- स्तन्वी अनेन गात्रेणाझं स्वस्य गात्रं प्रविश्यासाद्य परीरम्भचतुरे आलिङ्गनदक्षे प्रण- यिनि प्रिये नीवीबन्धं वस्त्रग्रन्थि सभयव्याकुलकरं सभयो भयसहितो व्याकुलस्तरलः करो यस्मिन्कर्मणि तत्तथोक्तं शनैर्मन्दं स्पृशति सति, अवलग्नं मध्यं संकोचग्लपितम- म्बराकर्षणकर्शितं विधत्ते करोतीति संवन्धः। अत्र कपटनिद्रयावलग्नसंकोचेन च नायि- काया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । कैशिकीवृत्तेरझं नर्म । युक्तिरलंकारः । शिखरिणी वृत्तम् ॥ नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपा वाक्यमाला- स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने रोपात्तद्वचनोदिताद्विलुलिता नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयकपणालान्तासि गत्यागतै- रुक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ११३ ॥ हे दूति, तव मुखं केन कारणेन स्विन्नं सखेदं जातम् । अयं नायिकायाः प्रश्नः । दिवाकरकरैः स्विन्नमिति दूत्या उत्तरमुक्तम् । ते तव लोचने दृशौ केन कारणेन रागिणी रक्ते । अयं नायिकायाः प्रश्नः । तद्वचनोदितात्तस्य धूर्तस्य वचनं वाक्यं तस्मा- दुदितादुद्गताद्रोषादक्ते इत्युत्तरम् । नीलालकाः कृष्णकुन्तलाः केन विलुलिता व्याकु- लिताः । अयं प्रश्नः । वायुना विलुलिता इत्युत्तरम् । कुङ्कुमं काश्मीरं केन भ्रष्टं विग- लितम् । अयं प्रश्नः । उत्तरीयकषणात्संव्यानघर्षणाद्दष्टम् । इत्युत्तरम् । केन क्लान्तासि तान्ता भवसि । अयं प्रश्नः । गलागतैर्गमनागमनैः क्लान्तास्मि । इत्युत्तरम् । हे दूति, सकलं त्वया यदुक्तं तत्सर्व युक्तमुपपन्नम् । अथरे क्षतस्य व्रणस्य किं कारणमत्रास्मि- प्रश्ने वद ब्रूहि । उत्तरमिति शेषः । इति संवन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्त- अमरुशतकम्। सर्व संभोगचिह्नमपहृतमधरक्षतं कथमपडूयेतेत्ययमर्थो गम्यते । नायिका खीया प्रग- ल्भा च । नायकः शठः । विप्रलम्भशारः । वाक्योत्तरमलंकारः । शार्दूलविक्रीडितं वृत्तम्॥ अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपनप्रकारे कविराह- नान्तःप्रवेशमरुणद्विमुखी न चासी- दाचष्ट रोषपरुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ ११४ ॥ सा नायिका नायकस्यान्तःप्रवेशं स्वगृहान्तःप्रवेशं नारुणन निवारयति स्म । किं च विमुखी पराङ्मुखी नासीत् । किं च रोषपरुषाणि कोपकर्कशान्यक्षराणि वचनानि नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि ऋजूनि पक्ष्माण्यक्षिरोमाणि येषु ते तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं जननिर्विशेष सर्वजनसामान्यं यथा भवति तथा केवलं विलोकितवती दृष्टवती। एवेति शेषः । इति संवन्धः । जननिर्विशेषं विलो- कितवतीत्यनेनापराधिनः प्रियस्यासाधारणं दण्डनं कृतमित्यवगम्यते । अवहित्यं नाम संचारी भावः । अत्र नायिका खीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामान- कृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपालंकारः । वसन्ततिलकावृत्तम् ॥ कवेर्वाक्यम्- प्रियकृतपटस्तेयक्रीडाविडम्बनविह्वलां किमपि करुणालापां तन्वीमुदीक्ष्य ससंभ्रमम् । अपि विगलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ११५ ।। प्रियकृतपटस्तेयक्रीडाविलम्बनविह्वलां प्रियेण कृता प्रियकृता पटस्तेयक्रीडा पटस्य वस्त्रस्य स्तेयं चौर्य तदेव क्रीडा विनोदस्तस्या विलम्बनं कालक्षेपस्तेन विह्वला व्याकुला ताम् । किमपि करुणालापामनिर्वाच्यदीनभाषितां तन्वीं कान्तामुदीक्ष्यावलोक्य त्रिभुव- नमहाधन्वी त्रैलोक्यैकवीरो मन्मथः कामः सुरताहवे संभोगसंगरे गते निवृत्ते सति स्कन्धावारे शिबिरे विगलिते च्युते सत्यपि ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत निवृत्तोऽभूत्स्थाने युक्तमिति संवन्धः। अत्र पटस्तेयक्रीडा संभोगावसाने कृतेति वेदितव्यम्। गते सुरताहवे इत्युक्तत्वात् । सुरतस्याहवत्वरूपणं परस्परोपमर्दस्य विद्यमानत्वात् । अत्र स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहारमेखलाद्याभरणलीलाविलासविभ्रमादिचेष्टाख- रूपोद्दीपनसामग्री कथ्यते । विगलिते इत्यनेन सुरतान्ते लक्ष्यमाणं सामग्रीशैथिल्यं ७६ काव्यमाला । कथ्यते । न्यवर्तत मन्मथ इत्यनेन पुनःसुरतारम्भो गम्यते । यथा लोके शूरः पुरुषः परान्निर्जित्य गलितसंनाहः प्रयातः सन्पश्चात्परैरभिभूतानां खकीयानामार्तनादं श्रुत्वा तत्प्र. शमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भावः । नायिका खीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगनारः । चेष्टाकृतं सहासं शृङ्गारि नर्म । हेतुरलंकारः । हरिणी वृत्तम् ॥ कवेर्वाक्यम्- सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन । यस्ताड्यते दयितया प्रणयापराधा- सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ ११६ ।। स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि भगवता मकरध्वजेन सोऽजीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थ- स्योपादेयत्वमुक्तं भवति ॥ २ परिशिष्टम् । रुदमदेवकुमारप्रणीतटीकायां केचनाधिकाः श्लोकाः । यथा- प्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं मया वाच्यं वोच्चैरिति गृहशुके जल्पति शनैः । वधूर्वकं ब्रीडाभरनमितमन्तर्विहसितं हरत्यर्धोन्मीलन्नलिनमनिलावर्जितमिव ॥ ११७ ॥ काचन नायिका गृहशुके शनैर्मन्दमिति वदति सति मुखं वकं करोति । कथं जल्पति-हे नायिके, मामाहारं देहि । यदि न दास्यसि तदा तवैकान्तवृत्तान्तं समस्तं मयोचैः कथनीयम् । कीदृशं मुखम् , लजातिशयनम्रम् । गुप्तहसितम् । इदानीमुत्प्रेक्षते- अर्धविकसत्पद्मं वायुवक्रीकृतमिव ॥ किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष(रूवा॑क्ष)मालोकिता जीर्णावासरुद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः । एते ते निपतन्ति नूतनघनात्प्रावृभरानन्दिनो विच्छायीकृतविप्रयुक्तवनिता वक्रेन्दवो बिन्दवः ॥ ११८ ।। त एते नूतनघनाजलविन्दवः पतन्ति । कथंभूताः। किंचिन्निषिद्धरेणवः । मयूरवृन्दै रूयनयनं यथा स्यादेवं दृष्टाः । पुराणभवनदरिद्रकान्तानिःश्वासमारुतैरनेकथा कृताः । वर्षागमहर्षिणः । मलिनीकृतवियोगिवनिता वक्रचन्द्राः ॥
अमरुशतकम् । ७७ नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागा- नामोदानन्दितालीनतितरसुरभीन्भूरिशो दिअखेषु । एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः पीत्वा सीत्कारिवकं हरिणशिशुदृशां हैमना वान्ति वाताः॥११९॥ एते ते प्रसिद्धा हेमन्तसंवन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं स्पृष्ट्वा । किं कुर्वन्तः । कुङ्कुमलेपयुक्तस्तनकलशताडनादूर्ध्व गच्छन्तः । पुनः किं कुर्वन्तः । अनेकान्परागानुच्चैनीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् । पुनः कथंभूतान् । परिमलतोषितभ्रमरान् अतिशयसुगन्धान् ॥ पीतस्तुषारकिरणो मधुनैव सार्ध- मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती । मानाकरं मनसि मानवतीजनस्य नूनं विभेद यदसौ प्रससाद सद्यः ॥ १२० ॥ कविरुत्प्रेक्षते-निश्चयेनायं चन्द्रो मधुपात्रे प्रतिविम्वितः सन्मयेनैव सह पीतः सन्मा- निनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञायते-यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥ ललनालोलधम्मिल्लमल्लिकामोदवासिताः । वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥ एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः। अङ्गनाचपलकेशपाशमल्लिकाप- रिमलसुगन्धयः। संभोगखिन्नकामिनीप्रियाः ॥ वान्ति कहारसुभगाः सप्तच्छदसुगन्धयः । वाता नवरंतिम्लानवधूसंगममन्थराः ॥ १२२ ॥ शरत्काले एवंविधा वाता वहन्ति । कीदृशाः । सौगन्धिकमनोज्ञाः। विषमच्छदसुर- भयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्दाः ॥ रामाणां रमणीयवक्रशशिनः स्वेदोदविन्दुप्लुतो व्यालोलामलकावली प्रचलयंश्चुम्बनितम्बांशुकम् । १'क्षित्वोच्चैः' इति पाठः. २ 'कौन्दानानन्दितालीनतिशय' इति पाठः. ३ 'मानान्ध- कारमपि' इति पाठः. ४ 'रतग्लानवधूगमन' इति पाठः. ५'नितम्बाम्बरम्' इति पाठः.
काव्यमाला। प्रातर्वाति मधौ विकृष्टविकसद्राजीवराजीरजो- जालामोदमनोहरो रतिरसग्लानि हरन्मारुतः ।। १२३ ।। मधौ वसन्ते प्रभात एवंविधो वातो वहति । कीदृशः । रमणीनां मनोहरमुखचन्द्रस्य स्वेदजलबिन्दुयुक्तः । तथा तासां चञ्चलां कुटिलकेशपति कम्पयन् । तथा तासां कटीवस्त्रं स्पृशन् । तथा तासां संभोगसक्तिश्रमं स्फेटयन् । कीदृशः । अपहृतकमलपतिपरागसमू- हसौगन्ध्यहृद्यः ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो धारायत्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तःपुष्पसुगन्धिराजिकवरी सर्वाङ्गलग्नाम्बरं कान्तानां कमनीयतां विदधते ग्रीष्मेऽपराहागमे ॥ १२४ ॥ ग्रीष्मस्य संध्यासमये नारीणामेतानि वस्तूनि रमणीयतां कुर्वन्ति । एतानि कानि । चन्दनशुभ्रमङ्गम् । न केवलमङ्गम् । किसलयकोमलस्ताम्बूलरक्तोऽधरश्च । तथा प्रक्षालि- तकजले नयने च । कथंभूते। धारागृहजलस्नानारुणिते । तथा अशुष्कः केशपाशश्च कीदृशः । मध्यस्थितकुसुमसुरभिः । तथा निर्मलसूक्ष्मवस्त्रं च ॥ वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् । उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ १२५ ।। एका सखी एवं ब्रूते-हे सखि, असौ दिवसो वरं न पुना रात्रिः । ततो द्वितीया ब्रवीति-हे सखि, रात्रिरेव श्रेष्ठा न पुनर्दिनं वरम् । ततस्तृतीया वदति-यत्र दिने यस्यां रात्रौ च प्रियतमेन सह मेलापको नास्ति तद्वितयमपि नाशं यातु ॥ मन्दं मुद्रितपांसवः परिपतञान्धिकारा मरु- द्वेगध्वस्त कुटीरकाप्रनिपतच्छिद्रेपु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेच्छिदः प्रावृषः प्रारम्भे मेदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १२६ ।। वर्षायाः प्रारम्भे एवंविधा जलविन्दवो हर्षयन्ति । कथंभूताः । मन्दं यथा स्यादेवं निवारितधूलयः । सर्वदागच्छज्ज्ञाततमसः । वायुवेगापसारिततृणकुटीरकजातच्छिद्रेषु प्राप्त- प्रवेशाः । तथा गृहकर्माकुलगृहस्थकामिनीकुचयुगस्वेदापहारिणः । कन्दलपत्रोलासिनः ॥ १ प्रकाम' इति पाठः. २ प्रकुरुते ग्रीष्मापराहगमः' इति पाठः. ३ इतःप्रभृतिलोकपञ्च- कमर्जुनवर्मदेवेन प्रक्षिप्तमित्युक्त्वा षट्प नाशश्लोकानन्तरमुद्धृत (४६ पृष्ठे ) मस्ति. ४ 'झाकारि- झञ्झामरुत्' इति पाठः. ५ 'निपतन्ति' इति पाठः.
अमरुशतकम् । कोऽपि नायकः कामपि नायिकां दृष्ट्वानुरागातिशयात्पुनरुक्तं दोषमगणयित्वा इदमाह- इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ १२७ ॥ इयमसौ प्रियतमा मम जीवितमानन्दयति । चञ्चलदीर्घनयना । पृथुलोन्नतमांसल- स्तनी। विस्तीर्णकटिप्रदेशभारमन्थरगामिनी ॥ सालक्तकं शतदलाधिककान्तिरम्यं रात्रौ स्वधामनिकरारुणनूपुराङ्कम् । क्षिप्तं भृशं कुपितया तरलायताक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२८ ॥ कस्यचिन्नायकस्य मस्तके चञ्चलदीर्घलोचनया प्रियया कुपितया रात्रौ पदं दत्तं विरेजे शुशुमे । किमिव । सौभाग्यचिह्नमिव । कीदृशम् । सयावकम् । कमलाधिकदीप्तिमनोज्ञम् । निजायतनसमूहरक्तीकृतपादकटकचिह्नम् ॥ श्रुत्वाकस्मानिशीथे नवघनरसितं विश्लथाङ्गं पतन्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥१२९॥ कयाचन पथिकस्त्रियार्धरात्रे नवमेघगर्जितमचिन्तितमेव श्रुत्वा रुद्यते । शयनान्मन्द- शरीरं यथाभवत्येवं भूमौ पतन्त्या । दुःखितसखीजनेन प्रसारितहस्तं धृतया। कथं रुद्यते । उत्कण्ठायुक्तम् । तथा मुक्तकण्ठम् । किं कृत्वा । वल्लभं स्मृत्वा स्मृत्वा । कठिनस्तनोप- रिपतितविदीर्णाश्रुबिन्दु अव्यक्तमृदुवचनं च यथा भवत्येवमनुरुद्यते ॥ कोऽपि नायको दूती प्रति ब्रूते- पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः। तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १३० ॥ यतः प्रमृति कंदर्पव्यथितेन मया तस्या अधररसः प्रचुरः पीतस्तदादि मम तृष्णा- भिलाषो द्विगुणतामेति । अत्र किमाश्चर्यम् । यतस्तत्र लावण्यं सौन्दर्यमस्ति ॥ १'शीर्णाश्रु' इति पाठ..
८. काव्यमाला । स्मृत्वा प्रियां तत्कृतं ३ परिशिष्टम् । मूलपुस्तकेष्वधिकाः श्लोकाः- ग्रामेऽस्मिन्पथिकाय पान्थ वसतिनँवाधुना दीयते रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ १३१ ।। कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः। आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ १३२ ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मर्पितपूर्वमुच्चै- मह्यं समर्पय मदर्पितचुम्बनं च ॥ १३३ ॥ हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १३४ ॥ तन्वी शरत्रिपथगा पुलिने कपोले लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्वन्धनाय सुचिराप्तिसुध्रुचाप- चाण्डालपाशयुगलाविव शून्यकर्णौ ॥ १३५ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि शितशवले लोचने लोलतारे। वक्रं ह्रीनम्रमीपत्स्फुरदधरपुटं वाक्यगर्भ दधाना रन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तहुनोति ।।१३६॥
अमरुशतकम् । ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः। लावण्यवारिपरिपूरितशातकुम्भ- कुम्भौ मनोजनृपतेरभिषेचनाय ।। १३७ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १३८ । ४ परिशिष्टम् । सुभाषितावलावमरुकनाम्ना समुद्धृताः पूर्वागतश्लोकाधिकाः श्लोकाः । यथा- अन्योन्यप्रथितारुणाङ्गुलि नमत्पाणिद्वयस्योपरि न्यस्योच्छासविकम्पिताधरदलं निर्वेदशून्यं मुखम् । आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १३९ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता- मुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १४०॥ आलोकयति पयोधरमुपमन्दिरमभिनवाम्बुभरनीलम् । दयितारचितचितानलधूमोद्गमशङ्कया पथिकः ॥ १४१ ॥ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥१४२॥ किं वाले मुग्धतेयं प्रकृतिरियमथो रौद्रता किं नु कोपः किं वा चापल्यमुच्चैर्ऋतमुत किमु ते यौवनारम्भदर्पः । यत्केशालापवक्रस्मितललितकुचभ्रूविलासावलग्नैः स्वस्थो लोकस्त्वदीयैर्मनसि विनिहितैर्दह्यतेऽमीभिरायः॥ १४३ ।।
८२ काव्यमाला। गच्छेत्युन्नतया भ्रूवैव गदितं मन्दं वलन्त्या तया तेनाप्यश्चितलोचनद्वयपुटेनाज्ञा गृहीता शनैः। संकेताय वलदृशा पिशुनिता ज्ञाता च दिक्प्रेयसा गूढः संगमनिश्चयो गुरुपुरोऽप्येवं युवभ्यां कृतः ॥ १४४ ॥ चटुलनयने शून्या दृष्टिः कृता खलु केन ते क इह सुकृती द्रष्टव्यानामुवाह धुरं पराम् । यमभिलिखितप्रख्यैरङ्गैर्न मुश्चसि चेतसा वदनकमलं पाणौ कृत्वा निमीलितलोचना ॥ १४५ ॥ चलतु तरला धृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोरुत्कम्पान्मे विदीर्यतु कञ्चकम् । तदपि न मया संभाव्योऽसौ पुनर्दयितः शठः स्फुटति हृदयं मानेनान्तर्न मे यदि तरक्षणम् ॥ १४६ ॥ तैस्तैश्चाटुभिराज्ञया किल तया वृत्ते रतिव्यत्यये लज्जामन्थरया तया निवसिते भ्रान्त्या मदीयांशुके। तत्पटांशुकमुद्वहन्नहमपि स्थित्वा यदुक्तोऽधुना वेषो युज्यत एष एव हि तवेत्येतन्न विस्मयते ॥ १४७ ॥ पत्रं न श्रवणेऽस्ति बाष्पगुरुणोर्नो नेत्रयोः कज्जलं रागः पूर्व इवाधरे चरणयोस्तन्व्या न चालक्तकः । वार्तोच्छित्तिषु निष्ठुरेति भवता मिथ्यैव संभाव्यते सा लेख लिखतु च्युतोपकरणा न्यायेन केनाधुना ॥१४८॥ यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः । यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतमभिनयैदृष्टो मानः प्रसीद विमुच्यताम् ॥ १४९ ।। यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनो- रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् ।
अमरुशतकम्।
८३
तत्सानन्दमिलदृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितम् ॥ १५० ॥
याते गोत्रविपर्यये श्रुतिपथं शय्यागतायाश्चिरं
नितिं परिवर्तनं हृदि पुनः प्रारब्धमङ्गीकृतम् ।
भूयस्तत्प्रकृतं कृतं च वलितक्षिप्तकदोर्लेखया
मानिन्या न तु पारितः स्तनभरो नेतुं प्रियस्योरसः॥ १५१ ॥
सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः
तस्या लावण्यमङ्गेषु दाहोऽस्मासु विजृम्भते ॥ १५२ ।।
सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु ।
विरामे मृगशावाक्ष्यास्तमोभूतमिदं जगत् ॥ १५३ ॥
सुरतविरतौ व्रीडावेशश्रमश्लथहस्तया
रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् ।
रतिरसजडैरङ्गैरङ्गं पिधातुमशक्तया
प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १५४ ।।
सख्यस्तानि वचांसि यानि बहुशोऽधीतानि युष्मन्मुखा-
द्वक्ष्येऽहं वहुशिक्षिता क्षणमिति ध्यात्वापि मौनं श्रिता ।
धूर्तेनैत्य च मण्डलीकृतकुचं गाढं परिष्वज्य मां
पीतान्येव सहाधरेण हसता वक्रस्थितान्येव मे ॥ १५५ ॥
उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो
गात्रं सीदति चक्षुरश्रुकलुपं चिन्ता मुखं शुष्यति ।
यस्यैषा सखि पूर्वरङ्गरचना मानः स मुक्तो मया
वन्द्यास्ता अपि योषितः क्षितितले यासामयं संमतः ॥ १५६ ॥
मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं
नो गन्तुं न सखीजनोऽस्ति चतुरो यो मां बलान्नेष्यति ।
मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं
कालो याति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥१५७॥
काव्यमाला। ५ परिशिष्टम् । सूक्तिमुक्तावलावमरुकनाम्ना समुद्धृताः पूर्वश्लोकातिरिक्ताः श्लोकाः । यथा- कान्ते कथंचिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ततस्तमालोक्य कदा गतोऽसीत्यालिङ्ग्य मुग्धा मुदमाससाद॥१५८॥ यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिंल्लभन्तेऽन्तरं यद्दाक्षिण्यवशाद्भयाच्च सहते मन्दोपचारानपि । यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय- स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि मानेन किम् ।। १५९ ॥ दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्रव- त्र्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणा- न्मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १६० ॥ ललितमुरसा तरन्ती तरलतरङ्गौपचालितनितम्बा । विपरितरक्तासक्तेव दृश्यते सरसि सा सख्या ॥ १६१ ॥ ६ परिशिष्टम् । शार्ङ्गधरपद्धतौ पूर्वश्लोकाधिकः श्लोकः । यथा- कान्तामुखं सुरतकेलिविमर्दखेद- संजातघर्मकणविच्छुरितं रतान्ते । आपाण्डुरं विलसदर्धनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ॥ १६२ ॥ ७ परिशिष्टम् । औचित्यविचारचर्चायां पूर्वश्लोकातिरिक्तः श्लोकः । यथा- गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥१६३।। १ औचित्यविचारचर्चायाममरकनाम्नायं शोकः समुद्धृतस्तत्रामरुकस्येति भाति.
अमरुशतकश्लोकानुक्रमणी। श्लोकाङ्कः ३१ १३७ १८ २३ २२ :: ५३ ७५ १५ ::: :: :: ८१ ९० २१ श्लोकारम्भः अहं चन्दनपाण्ड अजानामतितानवं ... अङ्गुल्यग्रनखेन अच्छिन्नं नयनाम्बु... अज्ञानेन पराङ्मुखी... अद्यारभ्य यदि अनन्तचिन्ता अनालोच्य प्रेम्णः अन्योन्यग्रथिता अलसवलितः असद्वृत्तो नायं अहं तेनाहूता आदृष्टिप्रसरात् आयस्ता कलहं आयाते दयिते आलम्ब्याङ्गण आलोकयति आलोलामलका आशय प्रणति आश्लिष्टा रभसा आस्तां विश्वसनं इति प्रिये इदं कृष्णं कृष्णं इयमसौ तरला उत्कम्पो हृदये श्लोकाः श्लोकारम्भः १२४ | उरसि निहितस्तारो... ... ५० ऊरुद्वयं मृगदृशः ... ५ एकत्रासनसंस्थितिः... ... ११० एकस्मिञ्शयने पराङ्मुख १७ | एकस्मिञ्शयने विपक्ष ९३ | कठिनहृदये ६५ कथमपि कृते ८० | कथमपि सखि १३९ कपोले पत्राली ४ | करकिसलयं ... १४० | काश्या गाढतरा ९८ | कान्तामुखं सुरत ७६ | कान्ते कत्यपि १०६ | कान्ते कथंचि ७७ | कान्ते तल्पमुपागते ७८ | कान्ते सागसि १४१ | किंचिन्मुद्रितपांसवः ३ | किं बाले मुग्धतेयं ... ४७ कृतो दूरादेव १४२ कोपस्त्वया यदि ६३ | कोपात्कोपल ६६ कोपो यत्र भ्रुकुटि ९४ क्वचित्ताम्बूलाक्तः १२७ व प्रस्थितासि १५६ क्षिप्तो हस्तावलग्नः .. १६२ १३२ १५८ १०१ :: ४६ ११८ १४३ :: १४ .. ... :: १३३ ९ ३८ १०७ :: २ १ शृङ्गारदीपिकायां नास्ति. २ सुभाषितावलौ अद्वतफुल्लस्य. शार्ङ्गधरपद्धतौ अद्भुतपुण्यस्य. ३ सुभाषितावलौ भीमस्य. ४ शृशारदीपिकायां नास्ति. ५ शृङ्गारदीपिकायां नास्ति. ६ सुभाषितावलौ शार्ङ्गधरपद्धतौ च अर्गटस्य. ७ सुभाषितावली पुलिनस्य. ८ सूक्कीमुक्तावली शाधरपद्धतौ च वामनस्य. अमरु.८ २ काव्यमाला। श्लोकाङ्कः श्लोकारम्भः श्लोकाः १४४ दंपयोनिशि १६ ६ श्लोकारम्भः गच्छेत्युन्नतया गते प्रेमावन्धे गन्तव्यं यदि नाम... गाढालिङ्गनवामनी गाढालेपविशीर्ण ग्रामेऽस्मिन्पथिकाय ४० ८५ ... ... १६० १९ चक्षुःप्रीतिप्रसक्ते १३ ६४ १०३ ११४ :: ४२ :: ४३ दत्तोऽस्याः : प्रणयः ... १६३ दीर्घा वन्दनमालिका दूरादुत्सुकमागते ... दृष्टः कातरनेत्रया ... १३१ दृष्टे लोचनवन्मनाङ् १०० दृष्ट्वैकासनसंस्थिते ... १४५ देशैरंन्तरिता ५६ धीरं वारिधरस्य ९५ ने' जाने संमुखा २० नभसि जलदलक्ष्मी... १४६ नान्तः प्रवेश ८७ नापेतोऽनुनयेन नार्यों मुग्धशठा ८४ | निःशेषच्युतचन्दनं.. १ | निःश्वासा हृदयं ५२ नी वोचैर्विक्षिपन्तः... ६९ पटालग्ने पत्या ११ पत्रं न श्रवणेऽस्ति... ९६ पराची कोपेन १३५ परिम्लाने माने ८६ पश्यामो मयि २६ पादाङ्गुष्टेन भूमि १४७ पादासक्ते सुचिर २७ पीतैस्तुषारकिरणो ८ ४४ १२ :: १०५ ... चटुलनयने चपलहृदये चरणपतनं सख्यालापा चरणपतनप्रत्याख्यान चलतु तरला चिन्तामोह चिरविरहिणो जाता नोत्कलिका ज्याकृष्टिवद्ध ततश्चाभिज्ञाय तथाभृदस्माकं तद्वफ्राभिमुख तन्वद्या गुरुसंनिधी तन्वी शरत्रिपथगा... तप्ते महाविरह तस्याः सान्द्रविलेपन तैस्तश्चाटुमि त्वं मुग्धाक्षि विनैव ... ९२ ... ११९ ४१ :: १४८ ११२ :: २५ २४ :: :: :: १३६ ६८ १२० १ मुभाषितावलौ विज़िकायाः. २ सुभाषितावलौ पुण्ड्कस्य. ३ सूक्तिमुक्तावलावप्यमरुक- नाग्नवोदतः. ४ शृङ्गारदीपिकायां नास्ति. ५ शृङ्गारदीपिकायां नास्ति. मुभापितावलौ दुर्वह कस्य. ६ शहारदीपिकायां नास्ति. ७ शृङ्गारदीपिकायां नास्ति. सुभाषितावलौशाधरपद्धतौ च छमच्छमिकारलस्य. ८ मूक्तिमुक्तावलावप्यमरुकनाम्नवोद्धृतः. ९ सुभाषितावलौ नरसिंहस्य. २० शृङ्गारदीपिकायां नास्ति. ११ शृङ्गारदीपिकायां नास्ति. १२ सूक्तिमुक्तावलौ सुभाषितावलौ शाधरपद्धतौ च नामरहितः. १३ सूक्तिमुक्तावलावप्यमरुकनाम्नैवोद्धृतः. १४ हरविजयस्थोऽयं (२६।६२) शोकः.
अमरुशतकश्लोकानुक्रमणी ३ श्लोकाङ्कः ५४ १२३ १११ :: १२१ ललितमुरसा १६१ ... ६२ ६० ७ :: ७२ लोकारम्भः पीतो यतः प्रभृति पुरस्तन्व्या गोत्र पुष्पोद्भेदमवाप्य प्रयच्छाहारं प्रस्थानं वलयः प्रहरविरती प्रातः प्रातरुपागतेन प्रासादे सा दिशि प्रियकृतपट बोले नाथ विमुच भवतु विदितं बूंभङ्गे रचितेऽपि ... भ्रूमेदो गुणितः मन्दं मुद्रितपांसवः ... मैंलयमरुतां मानव्याधि मुग्धे मुग्धतयैव म्लानं पाण्डुकृशं ... यदि विनिहिता यद्गम्यं गुरु यद्रात्री रहसि याताः किं न मिलन्ति याते गोत्रविपर्यये ... ८३ लोकाङ्कः श्लोकारम्भः १३० | योस्यामीति समु ५१ रात्री वारिभरा १०८ रामाणां रमणीय ११७ रोहन्तौ प्रथम ३५ ललनालोल १२ ३३ | लग्ना नांशुक १०२ लौक्षालक्ष्म ललाट ११५ लिखन्नास्ते भूमिं ... ५७ | लीलातामरसाहतो ३० | लोलद्भूलतया २८ | लोलैर्लोचनवारिभिः ९७ वरमसौ दिवसो १२७ | वान्ति कहार ३२ | विरह विषमः १५७ शेठान्यस्याः काची ... ७० शून्यं वासगृह ८८ श्रुत्वाकस्मानिशीथे ... १४९ श्रुत्वा नामापि १५९ | लिष्टः कण्ठे १५० | संदटेऽधरपल्लवे १० सख्यस्तानि १५१ सति प्रदीपे ४८ सन्त्येवात्र गृहे ६१ १२५ :: १२२ :: :: ६७ :: १०९ :: ८२ १२९ ५९ :: :: :: ::: ५८ ३६ १५५ ... १५३ यावन्त्येव पदा ९१ १ शृङ्गारदीपिकायां नास्ति. एतपुग्मं दशरूपावलोकेऽयमरुकनाम्नैवोदाहृतम्. सुभाषिताव- लावेतपुग्मं दुर्वहकस्य. २ सूक्तिमुक्तावलौ सुभापितावलौ झलझलिकावासुदेवस्य. शारिप- द्धतौ गलज्जलवासुदेवस्य. ३ शृङ्गारदीपिकायां नास्ति. ४ सूक्तिमुक्तावलौ शाधरपद्धतौ कुमारदासस्य. सुभापितावलौ भट्टकुमारस्य. ५ मुभापितावली भदन्तधर्मकीर्तेः. सूक्तिमुक्तावली धर्मकीर्तेः. ६ सूक्तिमुक्तावलौ सुभाषितावलौ च भदन्तारोग्यस्य. शाधरपद्धतौ भदन्तवर्मणः. ७ शृङ्गारदीपिकायां नास्ति. ८ सूक्तिमुक्तावलौ शाधरपद्धतौ च भद्देन्दुराजस्य. ९ गृङ्गारदी- पिकायां नास्ति. १० सुभापितावलौ अर्गटस्य. ११ शाधरपद्धतावप्यमरुकस्यैव. १२ सुभा. पितावलौ दाक्षिणात्यस्य कस्यापि. १३ सुभाषितावलौ शाधरपद्धतौ च शीलाभट्टारिकायाः, १४ अर्जुनवर्मदेवेन दाविंशश्लोकव्याख्यायां प्रमाणत्वेनोपन्यस्तः.
20 काव्यमाला लोकाङ्कः ८९ स्फुटतु हृदयं ७३ १०४ श्लोकारम्भः सा पत्युः प्रथमे सो वाला वयमप्र सा यौवनमदो सालक्तकं शत सालक्तकेन सुतनु जहिहि सुरतविरतौ सुप्तोऽयं सखि श्लोकाङ्कः श्लोकारम्भः २९ सैर्वाहं प्रमदा ३४ १५२ स्मररसनदीपूरेणोढा १२८ खं ११६ खिन्नं केन मुखं ३९ १५४ होरो जलावसनं ... ३७ हारोऽयं हरिणा दृष्ट्वा करजक्षतं ... ११३ १३४ १३८ १ सुभाषितावली लीलाचन्द्रस्य. २ शृङ्गारदीपिकायां नास्ति. ३ सूक्तिमुक्तावलौ शाधर पद्धती चामरुकनाम्नैवोद्धृतः. ४ शृङ्गारदीपिकायां नास्ति. ५ मुभाषितावलौ बाणकवेः.