Scl
The Mathuri Panchalakshani
Front matter
No text on this page.
THE
KASHI-SANSKRIT-SERIES
(ILARINAS SANSKRIT (RAV TUMULĀ)
NO. 78
( Nyaya Section, No. 11 )
THE
MATHURI PANCHALAKSHANT
With a Commentary by
PANDIT SRI UMANATHA ARJYALA
Edited with the
MATHURISINHAVYAGHRALAKSHAN COMMENTARY
By
I'ANDIT SRI ITARIRAM SHUKLA
and
MATHURIPANCITALAKSIIANIKROI) APATIN
Collected by
PANDIT HARIHARA SASTRI
L. BHU
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office, Vidya Vilas Press,
North of Gopalmandir, Benares City.
wwww
1930.
[ALL RIGHTS RESERVED BY THE PUBLISHEN
SALE 3
Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.
Printed by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares,
exqoxa0000100xologo google goed doexo A2,902
0403
www
Www
Agents:
1 Otto Harrassowitz, Leipzig:
GERMANY
3 The Oriental Book-supplying Agency,
POONA,
हरिदास संस्कृत ग्रन्थ मा लास मा ख्य- काशीसंस्कृतसीरिजपुस्तकमालायाः ७८ न्यायविभागे (११)एकादशं पुष्पम् । माथुरीपञ्चलक्षणी नेपालदेशीयेन श्रीमदुमानाथोपाध्यायेन विरचित या व्याप्तिचन्द्रिकाख्यया व्याख्यया सहिता तथा माथुरीसिंहव्याघ्रलक्षणम् पं० श्रीहरिरामशुक्लविरचितव्याख्यया सहितं संशोधितश्च श्रीहरिहरशास्त्रिसङ्कलितपञ्चलक्षणीमाथुरीक्रोडपत्रेण च समलङ्कृतम् । HAMPA प्रकाशका जयकृष्णदास-हरिदास गुप्त- चौखम्या संस्कृत सीरिज़ आफिस, विद्याविलासप्रेस, गोपालमन्दिरके उत्तर फाटक, बनारस सिटी। १९८६ राजकीयनियमानुसारेणास्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः ।
PORGOODANCEDAS । इस कार्यालय द्वारा "चौखम्बासंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "काशीसंस्कृतसीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्य. मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें, इसके अलावा हमारे यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परिक्षा प्रार्थनीय है पत्रादि प्रेषणास्थानम्- जयकृष्णदास-हरिदास गुप्तः- चौखम्बा संस्कृतसीरिज़” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। BroccorporaGracrosorroGraroGraGracebooooorace DRODODARA acapeDS vommam श्रीगणेशाय नमः । माथुरी पञ्चलक्षणी। Mad 7 नन्वनामतिहेतुव्याप्तिज्ञाने का व्याप्तिः, न तावद- अनुमानप्रामाण्यं निरूप्य व्याप्तिस्वरूपनिरूपणमारभते । 'नन्वि- त्यादिना' । अनुमितिहेतुरित्यस्यानुमाननिष्ठप्रामाण्यानुमितिहेतुरित्य- र्थः । व्याप्तिज्ञान इत्यत्र च विषयत्वं सप्तम्यर्थः, तथा चानुमा. ननिष्ठप्रामाण्यानुमितिहेतुव्याप्तिज्ञानविषयीभूता व्याप्तिः केत्यर्थः । अनु. माननिष्ठप्रामाण्यानुमितिहेत्वित्यनेन व्याप्तेरनुमानप्रामाण्योपपादकत्वकथना- दनुमानप्रामाण्यनिरूपणानन्तरं व्याप्तिनिरूपणे उपोद्धात एव सङ्गतिरिति सूचितमिति प्राहुः । उपपादकत्वं चात्र ज्ञापकत्वम् । केचित्तु अनुमितिपदमनुमितिनिष्ठेतरभेदानुमितिपरम् , तथा चानु- मितिनिष्ठेतरभेदानुमितौ यो हेतुः प्रागुक्तव्याप्तिप्रकारकपक्षधर्मताज्ञानज- न्यज्ञानत्वरूपः तद्घटकं यद्वयाप्तिज्ञानं तदंशे विशेषणीभूता व्याप्तिः केत्यर्थः, घटकत्वार्थकसप्तमीतत्पुरुषसमासात् , तथा च प्रागुक्तानुमितिलक्षणे उपो- श्रीगणेशाय नमः । अथ माथुरीपञ्चलक्षणीव्याख्या। अनुमानमप्रमाणम् प्रमाणाभासत्वात् प्रमाणमितिकारणतावच्छेदकधर्मशून्यत्वात् व्याप्तिज्ञानशून्यत्वादिति यावत् , इत्येवं चार्वाकमतं व्याप्तिसाधनेनानुमानप्रामाण्यं व्यव. स्थाप्य पूर्वप्रन्थे चिन्तामणिकारा निरास्थन्नित्यभिप्रायकं पदमुपन्यस्यन्ति मथुरानाथाः,अ. नुमानप्रामाण्यं निरूप्येति । उपोद्धात इति । तत्त्वं च प्रकृतसिध्यनुकूलचिन्ताविषयत्वम् । चिन्तां प्रकृतसिध्धर्थामुपोद्धातं विदुर्बुधाः ॥ ३ ॥ इतरभेदानुमिताविति । अनुमितिरितरभिन्ना साध्यव्याप्यहेतुमान्पक्ष इत्याकारक ज्ञा- नजन्यज्ञानत्वादित्यनुमितावित्यर्थः ।, घटकमिति । तत्त्वं च तद्विषयिताव्यापकविषयिता- निरूपकत्वम् । तद्विषयिताव्याप्यावषयितानिरूपकत्वं घटितत्वम् , यथा रामशब्दघटकत्वं रेफादौ । तत्र रामशब्दनिरूपितविषयिताव्यापिका या विषयिता सा रेफनिरूपितविषयि. , प्रथमळक्षणम् । व्यभिचरितत्वम् , तद्धि न साध्याभाववदवृत्तित्वम् । द्धात एव संगतिरत्र सूचितत्याहुः । न तावदिति। 'अव्यभिचरितत्वम्' अव्यभिचरितत्वशब्दप्रतिपाद्यम् । तत्र हेतुमाह । तद्धीति | हि यस्मात्तव्यभिचरितत्वं नेति सर्वत्र सम्बध्यते । तथा च व्याप्तिर्यतः साध्याभाववदवृत्तित्वादिरूपाव्यभिचरितत्वशब्दप्रति- पाद्यस्वरूपा न अतोऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा नेत्यर्थः पर्य- वसितः । विशेषाभावकूटस्य सामान्याभावहेतुता प्रसिद्धैवेति न नद्वयो- पादानमनर्थकमिति विभावनीयम् । साध्याभाववदवृत्तित्वमिति । वृत्तम् वृत्तिः, भावे निष्ठाप्रत्ययात् । वृत्त- स्याभावोऽवृत्तम् , वृत्त्यभाव इति यावत् । साध्याभाववतोऽवृत्तं साध्या- भाववदवृत्तं, तद्यत्रास्ति तत्साध्याभाववदवृत्ति, मत्वर्थीयेन्प्रत्ययात् , तस्य भावः साध्याभाववदवृत्तित्वम् । तथा च साध्याभाववद्वत्त्यभाववत्त्वमिति फलितोर्थ इति प्राञ्चः। ता तन्निरूपकत्वं रेफस्येति तत्र व्यापकत्वम्प्राप्तम् । तच्च तत्समानाधिकरणात्यन्ताभा- वाप्रतियोगित्वम्, प्रकृते रेफविषयितायां रामशब्दनिरूपितविषयिताधिकरणं यद्रामश- ब्दविषयकं ज्ञानं तनिष्ठो योऽभावः स रेफविषयित्वाभावो न जातस्तत्र रेफविषयित्वस्यैव सत्त्वात् , जातश्च घटायभावस्तत्प्रतियोगित्वं घटे अप्रतियोगित्वस्य रेफविषयितायां सत्त्वात् , तन्निरूपकत्वस्य च रेफादौ सत्त्वाल्लक्षणसमन्वयः(१) व्याप्तिपदार्थः अव्य. भिचरितत्वशब्दप्रतिपाद्यो न साध्याभाववदवृत्तित्वादिप्रतियोगिकभेदकूटवत्वादित्यनु- मानाकारो 'व्याप्तिर्यत' इत्यादिपतया लभ्यते । प्रसिद्धैवेति । यथा पर्वतीयादिवह्नि. विशेषाभावकूटैर्वह्निसामान्याभावो बोध्यते । का व्याप्तिरित्युक्तावनुमानप्रामाण्योपपादक- (१) प्रसङ्गाच्छिष्यबुद्धिवेशद्यार्थ विषयादिपदार्थः प्रदर्यते तथाहि विषयास्त्रिविधाः । प्रकारसं: सर्गविशेष्यभेदात् विषयताऽपि त्रिविधा प्रकारतासंसर्गताविशेष्यताभेदात् प्रकारात्मके विषये ज्ञानस्य सम्बन्धः प्रकारता । संसर्गरूपे विषये ज्ञानस्य सम्बन्धः संसर्गता । विशेष्यरूपे विषये ज्ञानस्य सम्बन्धः विशेष्यता। ज्ञाने विषयस्य सम्बन्धो विषयिता। सापि त्रिविधा प्रकारितासंसर्गिताविशेष्यिताभेदात् प्रकाराख्यविषयस्य ज्ञाने सम्बन्धः प्रकारिता। संसर्गाख्यविषयस्य ज्ञाने सम्बन्ध संसर्गिता । विशष्यरूप- विषयस्य ज्ञाने सम्बन्धी विशेष्यिता । यद्धर्मविशिष्टस्य येन सम्बन्धेनान्वयस्तनिष्ठप्रकारतायाः स धर्मःस च सम्बन्धोऽवच्छेदको भगति यथा नीलो घटः इत्यत्र नीलपदार्थनिष्ठपकास्ताया धर्मविधयाऽवच्छे. दक नीलत्वम् सम्बन्धविधयाऽवच्छेदकोऽभेदसम्बन्धः। तथा च नीलत्वावच्छिन्नाभेदसम्बन्धावच्छिन्न- प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताको बोधो नीलो घट इति वाक्याज्जायते.एवमन्यत्राप्यूह्यम् । " माधुरी पञ्चलक्षणी। तदसत्। “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" इत्यनुशासनविरोधात् , तत्र कर्मधारयपदस्य बहुव्रीहीतरसमासपरत्वात् । तच्चागुणवत्त्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये तद्दीधितिर- हस्ये च स्फुटम् । अव्ययीभावसमासोत्तरपदार्थेन समं तत्समासानिविष्ट- पदार्थान्तरान्वयस्याव्युत्पन्नत्वात् । भूतल उपकुम्भं भूतलेऽघटमित्यादौ च भूतलवृत्तिघटसमीपतदत्यन्ताभावयोरप्रतीतेः । एतेन वृत्तरभावोऽवृत्ती- . : स्वसङ्गतेरप्राप्तत्वादतोऽनुमितिहेतुव्याप्तिज्ञाने इत्युक्तम् । न चानुमित्युपपादिका व्याप्तिः के. त्युक्तावेव सर्वसामञ्जस्ये अलं ज्ञानान्तोपादानेनेति वाच्यम् । कथमनुमित्युपपादिका व्या. प्तिरित्याकारकाकाङ्क्षानिवृत्त्यर्थमेव तदुक्तमिति भावः । ननु प्रथमव्याप्तिपदोपादानस्य किं प्रयोजनमिति चेन्न । अनुमित्यनुत्पादकस्यापि घटस्य वह्निव्याप्यधूमवान् पर्वतो घटवांश्चेति समूहालम्बनज्ञानविषयत्वेन तत्रानुमित्युपपादकत्वाप्तिः स्यादतो व्याप्तिपदोपादानं कृतम् । त. दुपादाने च व्याप्तिविशिष्टज्ञाने अनुमितिहेतुत्वान्वये तत्रापि अनुमित्युपपादकत्वस्यापि प्रा. तत्वादुद्देश्यतावच्छेदकस्य विधेयव्याप्यत्वनियमात् यथा धनवान् सुखीत्यादौ धनादेः सु- खप्रयोजकत्वमिवेति भावः । बहुव्रीहीतरसमासेति । एवं च बहुबाहेमत्वर्थीयो भवत्येव अन्यथा पीताम्बरवानि- त्यादिप्रयोगा दुर्वाराः । तच्चेति । न कर्मधारयादित्यनुशासनं च । साधयति । गुणसाध- म्त्यर्थः । ननु नगुणपदयोबहुव्रीहिं ततो मतुपं ततो भावे त्वं च विधाय गुणसामान्या भाववत्त्वं हि गुणानां साधर्म्यमिति ब्रूते । नगुणपदयोर्बहुव्रीहिमात्रेणेव विवक्षितसाध. र्यलाभे मतुपो वैय्यर्थ्यमित्यत्र प्रतिभाति । नन्तत्पुरुषं विधाय ततो मतुबितित्वसङ्गतम् , अनुशासनविरोधात् । नसमासेऽगुणपदेनागुणवत्त्वस्याबोधनेन साधर्थप्रतिपादनस्यैव भङ्गापत्तेश्च । गुणप्रतियोगिकभेदवत्वस्यबोधनन द्रव्यादावतिव्याप्तेर्गुणादावव्याप्तेश्च । क- र्मधारयं विधाय मतुब्बिधाने वृत्तिद्वयं कल्पनीयम् , बहुव्रीहिमात्र कल्पने मत्वर्थे बहुव्री- हिरितिवार्तिकबलेन मत्वर्थस्य भानसम्भवादेकयैव बहुव्रीहिकृत्या वृत्तिद्वयप्रतिपित्सिता. र्थलाभादिति लाघवमूलकमेतदनुशासनम् । कर्मधारयपदस्य बहुव्रीहीतरपरत्वे तु, पीता- म्बरवानित्यादौ बोधवैलक्षण्यमेव प्रयोजकमितिदिक् । यत्र रुढिशक्त्यासर्पजातिविशेषवाचकः कृष्णसर्पशब्दस्तत्र बहुव्रीहिणा विशेषजाते- रप्रतिपत्तेस्तत्प्रतिपत्तये कर्मधारयं कृत्वा मत्वर्थीयो भवत्येव । यथा कृष्णसर्पवान् देशः । तत्समासानिविष्टेत्यादिग्रन्थस्यायं भावः । अव्ययीभावसमासात्तरपदार्थेन समं तत्स. मासघटकीभूतपदाप्रतिपाद्यार्थविषयकबोध त्याव्युत्पन्नत्वादित्यर्थः। तेन तत्समासानिविष्ट . समीपपदप्रतिपाद्यसामीप्यरूपान्वयस्यव्युत्पन्नत्वेऽपि नोपकुम्भमित्यादिसमासस्य तत्स. मासत्वहानिरिति बोध्यम् । - प्रथमलक्षणम् । त्यव्ययीभावानन्तरं साध्याभाववतोऽवृत्ति यत्रेति बहुव्रीहिरित्यपि प्रत्युक्तम् । वृत्तौ साध्याभाववतोऽन्वयानुपपत्तेः । अव्ययीभावसमासस्याव्ययतया तेन समं समासान्तरासम्भवाच्च । न[पाध्यादिरूपाव्ययविशेषाणामेव समस्य. मानत्वेन परिगणितत्वात् । वस्तुतस्तु साध्याभाववतो न वृत्तियत्रेति त्रिपदव्यधिकरणबहुव्रीयु. तरं त्वप्रत्ययः, साध्याभाववत इत्यत्र निरूपितत्वं षष्ठ्यर्थः, अन्वयश्चास्य वृत्तौ । तथा च साध्याभावाधिकरणनिरूपितवृत्त्यभाववत्त्वमव्यभिचरित- त्वमिति फलितम् । न च व्यधिकरणबहुव्रीहिश्च न सर्वत्र साधुरिति वाच्यम् । अयं हेतुः साध्याभाववदवृत्तिरित्यादौ व्यधिकरणबहुव्रीहिं विना गत्यन्तराभावेनात्रापि व्यधिकरणबहुव्रीहेस्साधुत्वात् । साध्याभावाधिकरणवृत्त्यभावश्च तादृशवृत्तित्वसामान्याभावो बोध्यः । तेन धूमवान्वन्हेरित्यादौ धूमाभाववज्जलहृदादिवृत्त्यभावस्य धूमाभाववठ्ठ. त्तित्वजलत्वोभयत्वाद्यवच्छिन्नाभावस्य च वन्ही सत्त्वेऽपि नातिव्याप्तिः । साध्याभाववद्वृत्तिश्च हेतुतावच्छेदक सम्बन्धेन विवक्षणीया, तेन वन्ह्यभा- ववति धूमावयवे जलढ्दादौ च समवायेन कालिकविशेषणतादिना च धूम- एतेनेति । तादृशपदार्थान्वयस्याव्युत्पन्नत्वेन । तमेवार्थं स्फुटयति । वृत्तौं साध्याभा- वक्त इति । यदि भूतलोपकुम्भं भूतलाघटमित्यादि प्रयोगस्य प्रामाणिकत्वमित्याग्रहश्वे- तदा पूर्वोक्तयुक्त्या खण्डन न सम्भवति तदाप्याह । अव्ययीभावसमासस्येति । अस. म्भवाच्चेति । सामर्थ्यविरहादेवेत्यर्थः । भूतलोपकुम्भमित्यादिप्रयोगस्य प्रामाणिकत्वे अव्ययीभावसमासस्याप्यव्ययत्वेन तेन समं समासान्तरासम्भवात् तत्प्रयोगस्य प्रामाणि- कत्वं न स्यादित्यर्थं मनसि निधायाह । नञ् उपाध्यादीति । तथा च अव्ययीभावसमास- घटकव्याकरणपरिगणिताव्ययेन सममव्ययीभावसमासातिरिक्तसमासान्तरस्य सम्पत्तिन भवतीति नियमार्थः । एवं च उपकुम्भमित्यस्य अव्ययत्वेऽपि व्याकरणपरिगणितत्वाभा. वात् शिष्टप्रयोगानुसारेण तेन समं समासान्तरस्य सम्पत्तिर्भवत्येव, साध्याभाववतोऽवृत्ति योति तु प्रामाणिकमेव नास्ति विवादग्रस्तत्वादिति दिक् । वहौसत्त्वेऽपिनातिव्यप्तिरिति । सध्याभावनिष्ठाऽवच्छेदकताभिन्नावच्छेदकत्वानिरू- पिता या अधिकरणनिष्ठावच्छेदकता तादृशावच्छेदकृताभिन्नं यत् वृत्तितात्वनिष्ठावच्छेदकता. भिन्नावच्छेदकत्वं तदनिरूपिता या प्रतियोगिता तन्निरूपिताभावत्वेनैव ताशवृत्तित्वाभावस्य निवेशः । नतु साध्याभावनिष्ठावच्छेदकतानिरूपिता या अधिकरणनिष्ठावच्छेदकता.ताद- - माथुरी पञ्चलक्षणी। स्य वृत्तावपि न क्षतिः । साध्याभावश्च साध्यतावच्छेदकसम्बन्धावच्छिन्न- साध्यतावच्छेदकावच्छिन्नप्रतियोगिताको बाध्यः । तेन वन्हि मान् धूमा- दित्यादौ समवायादिसम्बन्धन वह्निसामान्याभाववति संयोगसम्बन्धेन तत्तद्वह्नित्ववह्निजलोभयत्वाद्यवच्छिन्नाभाववति च पर्वतादौ संयोगेन धूमस्य वृत्तावपि न क्षतिः । ननु तथापि गुणत्ववान् ज्ञानत्वात् सत्तावान् जातेरित्यादौ विषयि. त्वाव्याप्यत्वादिसम्बन्धेन तादृशसाध्याभाववति ज्ञानादौ ज्ञानवजात्या- देवर्तमानत्वादव्याप्तिः । न च साध्याभावाधिकरणत्वमभावीयविशेषण- ताविशेषेण विवक्षितमिति वाच्यम् । तथा सति घटत्वात्यन्ताभाववान्ध. टान्योन्याभाववान्वा पटत्वादित्यादौ साध्याभावस्य घटत्वादेविशेषणतावि. .. शावच्छेदकतानिरूपिता सती वृत्तितात्वनिष्ठावच्छेदकतानिरूपिता या प्रतियोगिता तन्निरूपका- भावत्वन। तथा च नातिव्याप्तिरिति भावः। धूमवान्वढेरित्यादौ धूमाभावनिष्ठा याऽवच्छेद- कता तादृशावच्छेदकताभिन्ना याऽवच्छेदकता जलहदादिनिष्ठा तन्निरूपितैवाधिकरणनिष्ठा- वच्छेदकता जातेति नातिव्याप्तिः । उभयाभावमादायापि नातिव्याप्तिः धूमाभावनिष्ठा. वच्छेदकताभिन्ना या घटत्वादिनिष्ठावच्छेदकता तदनिरूपिता या आधिकरणनिष्ठावच्छेद. कता तद्भिन्नोभयत्वनिष्ठावच्छेदकता तन्निरूपितैवोभयनिष्टा प्रतियोगिता जातेति नाति. व्यप्तिरिति बोध्यम् । न क्षतिरिति । तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकधर्माव- वच्छिन्नप्रतियोगिता(१)काभावाधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वा. भाववत्वं लक्षणम् । जात्यादेवर्तमानत्वादव्याप्तिरिति। येन सम्बन्धेन यस्य यत्र सत्त्वं तत्सम्बन्धावच्छिन्न- प्रतियोगिताकतदभावस्य तत्र स्वरूण अविद्यमानत्वात् ; यथा संयोगसम्बन्धेन वहे: पर्वतादौ सत्त्वेन संयोगसम्बन्धावच्छिन्न प्रतियोगिताकवह्नयभावस्य पर्वतादौ स्वरूप. सम्बन्धेन अविद्यमानत्वं, एवं समवायेन गुणत्ववात ज्ञाने समवायसम्बन्धावच्छिन्नप्रति- योगिताकगुणत्वाभावस्य स्वरूपेणाविद्यमानत्वेऽपि विषयित्वसम्बन्धेन गुणत्वाभावस्य वि. द्यमानत्त्वात्तत्र ज्ञाने च ज्ञानत्वस्य समवायेन विद्यमानत्वा तुतावच्छेदकसमवायसम्बन्धा- वच्छिन्नवृत्तित्वस्यैव सत्त्वेन वृत्तित्वाभावस्यासत्त्वादव्याप्तिरिति भावः । अव्याप्यत्वं नाम स्वाभाववदत्तित्वम् ; धूमाभावाभावो हि धूमस्तद्वृत्तित्वस्य वह्नौ सत्वाळूमाभावाव्या- प्यत्वं तस्य। वह्नयभाववदवृत्तित्वाद्वहिव्याप्यत्वं धूमस्य, एवं समवायेन सत्तावत्वेऽपि द्रव्या. (१) सध्यतावच्छेदकधर्मनिष्ठावच्छेदकताभिन्नावच्छंदकट्वानिरूपितप्रतियोगिताकाभाव इत्यर्थः । U ।'
प्रथमलक्षणम् । । .. शेषसम्बन्धेनाधिकरणाप्रसिद्ध्याऽव्याप्तिरिति चेन्न । अत्यन्ताभावान्योन्यामा. वयोरत्यन्ताभावस्य सप्तमपदार्थस्वरूपत्वात् । तस्य प्रतियोग्यादिस्व- रूपत्वनये तु साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभाववृ. तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वस्य विवक्षितत्वात् । वृत्त्यन्त प्रतियोगिताविशेषणम् । तादृशसम्बन्धश्च वाहमान् धूमादित्यादिभावसाध्यकस्थले विशेषणताविशेष एव । घटत्वात्यन्ताभाव. वाम्पटवादित्याद्यभावसाध्यकस्थले तु समवायादिरेवः । समवायविषयि- स्वादिसम्बन्धेन प्रमेयादिसाध्य के ज्ञानत्वादिहेतौ साध्यतावच्छेदकसमवाया- दौ अव्याप्यत्वसम्बन्धेन सत्ताभावरूपसाध्याभावस्य सत्त्वात्तत्र च समवायेन जातिरूपहेतो. विद्यमानत्वादव्याप्तिरितिभावः । अप्रसिद्ध्येति । घटत्वजातिरूपस्य साध्याभावस्य तु सम. वायेनैव घटादिरूपमधिकरणं प्रसिद्धम् । जातेः स्वरूपसम्बन्धनाधिकरणन्तु अप्रसिद्धमेवे- ति भावः । समवायेनैव घटत्वाधिकरणं घट इति यावत् । अतिरिक्तत्वाभ्युपगमादिति । प्रतियोगिप्रतियोगितावच्छेदकस्वरूपादिति शेषः। एवं च प्रकृते घटत्वात्यन्ताभावः पट. निष्ठस्तदभावश्च स्वरूपेण सम्बन्धेन घटे तत्र पटत्वस्यासत्त्वेन नाव्याप्तिरिति भावः । अथ प्रमेयवद्वान् घटत्वात् इत्यादी समवायन साध्यतायां वस्तुमात्रस्यैव सा- 'व्यतावच्छेदकत्वेन तनिष्ठावच्छेदकताभिन्नावच्छेदकत्वाप्रसिद्ध्याऽव्याप्तिरिति चेन्न । साध्य तानिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपित साध्यतावच्छेदकसम्बन्धावच्छिन्न. प्रतियोगिताकाभाववद्वृत्तित्वाभावस्यैव लक्षणत्वात् । विशिष्टान्यत्वघट कवैशिष्टयं च स्व. सामानाधिकरण्य स्वावच्छेदकसम्बन्धावच्छिन्नत्व स्वानवच्छेदकानवच्छिन्नत्व स्ववृत्तित्त्वै. तच्चतुष्टयसम्बन्धेन । स्ववृत्तित्वघटकवृत्तित्वं च स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेन । एवं च साध्यतावच्छेदकताविशिष्टान्यावच्छेदकता घटत्वनिष्ठावच्छेदकता जाता तस्याम- वच्छेदकतायां स्वसामानाधिकरण्यविरहात् तादृशावच्छेदकत्वानिरूपिताप्रतियोगिता वह्नि. निष्ठा प्रतियोगिता तादृशप्रतियोगितानिरूपकोऽभावो वयभावस्तदधिकरणनिरूपित- वृत्तित्त्वाभावस्य धूमे सत्त्वाल्लक्षणसमन्वयः । प्रमेयवद्वान् घटत्वादित्यत्र च साध्यता. निरूपिता याऽवच्छेदकता सा प्रमेयत्ववच्छिन्ना प्रमेयनिष्ठाऽवच्छेदकता तादृशावच्छेद- कताविशिष्टान्या या अवच्छेदकता सा घटत्ववान्नास्तीत्याकारकाभावीय प्रतियोगितानि- रूपिता घटत्वत्वावच्छिन्नघटत्वनिष्ठावच्छेदकता तस्यामवच्छेदकतायां । प्रमेयत्वावच्छि- अप्रमेयनिष्ठावच्छेदकतायाः सामानाधिकरण्यस्य तदवच्छेदकसम्बन्धावच्छिन्नत्वस्य च सत्त्वेऽपि स्वानवच्छेदका नवच्छिन्नत्वविरहात् । कुतः स्वं प्रमेयत्वाच्छिन्नप्रमेय - मिष्ठावच्छेदकत्वं तदवच्छेदक' प्रमेयत्वं तदनवच्छेदकं च घटत्वत्वादिकं तदवच्छिन्नत्व- मेव घटत्वनिष्ठावच्छेदकतायामिति तदनवच्छिन्नत्वविरहात् , अतः तस्यामवच्छेदकतायां माथुरी पश्चलक्षणी। दिसम्बन्धावच्छिन्नप्रेमयाद्यभावस्य कालिकादिसम्बन्धेन योऽभावः सोपि प्रमेयतया साध्यान्तर्गतः, तदीयप्रतियोगितावच्छदककालिकादिसम्बन्धेन साध्याभावाधिकरणे ज्ञानत्वादेवृत्तव्याप्तिवारणाय सामान्यपदोपादानम् । साध्यसामान्यीयत्वञ्च यावत्साध्यनिरूपितत्वं, स्वानिरूपकसाध्य कभिन्नत्व. विशिष्टत्वं नास्तीति विशिष्टान्यत्वं समायातं तदनिरूपितप्रतियोगिताको योऽभावः स च समवायसम्बन्धावच्छिन्नप्रतियोगिताकप्रमेयवदभावस्तदधिकरणं यजात्यादिकं तद्वृत्तित्वं घटत्वे नास्ति अतस्तदभावस्य घटत्वे सत्वाल्लक्षणसमन्वयो जातः । स्वानिरूपकसाध्यकभिन्नत्वं च साध्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितानव- च्छेदकत्वं । भेदप्रतियोगितावच्छेदकताघटकसम्बन्धश्च निरूपकत्वमेवेति भावः । साध्य. तावच्छेदकसमाधिकरणभेदप्रतियोगितानवच्छेदकीभूता या प्रतियोगिता सा कालिकस. म्बन्धावच्छिन्न प्रतियोगिताकप्रमेयाभावाभावनिरूपिता कालिकसम्बन्धावच्छिन्नप्रमेयाभाव- निष्ठा प्रतियोगिता न जाता कुतः साध्यतावच्छेदकस्यः यथा कालिकसम्बन्धावच्छिन्न- प्रतियोगिताकप्रमेयाभावाभावे सत्त्वं तथा अन्यस्मिन्नपि प्रमेये सत्त्वं स्यात् , तत्र निरूप. कत्वसम्बन्धेन कालिकसम्बन्धावच्छिन्नप्रमेयाभावनिष्ठप्रतियोगितावानेति भेदस्य प्राप्तत्वात् भेदस्य प्रतियोगितावच्छेदकताघटकसम्बन्धन प्रतियोगितावच्छदकेन सह विराधित्वात् । अत्र प्रतियोगितावच्छेदकताघटकसम्बन्धश्च निरूपकत्वमेव; यन्निरूपितत्वं यत्र तन्निरूपकत्वं तत्र यथा वह्नयभावनिष्ठप्रतियोगितायां वह्निनिरूपतत्वं वर्तते वहावपि वह्यभावनिष्ठप्रति- योगितानिरूपकत्वं वर्तते प्रमेयवान् ज्ञानत्वादित्यादा च समवायसम्बन्धावच्छिन्नप्रतियो. गिताकप्रमेयाभावनिष्ठकालिकसम्बन्धावच्छिन्नप्रतियोगितायां समवायसम्बन्धावच्छिन्नप्रति योगिताको यः प्रमेयाभावस्तस्य च यः कालिकेनाभावस्तन्निरूपितत्वमेव नतु समवाय. सम्बन्धावच्छिन्नप्रतियोगिताकप्रमेयाभावनिष्ठप्रतियोगिताको यः स्वरूपेणाभावस्तादृशा- भावनिरूपितत्वं । तथा च कालिकसम्बान्धावच्छिन्नप्रमेयाभावनिष्ठप्रतियोगिताया निरू. पकत्वसम्बन्धेन समवायसम्बन्धावच्छिन्नप्रतियोगिताको यः प्रमेयाभावः तस्य च यः कालिकेनाभावस्तत्रैव सत्त्वम् । नतु समवायसम्बन्धावच्छिन्नप्रतियोगिताको यः प्रमेयाभा. वस्तस्य च यः स्वरूपेणाभावस्तत्र, तथाच साध्यतावच्छदकप्रमेयत्वाधिकरणं यथा कालि कसम्बन्धावच्छिन्नप्रमेयाभावनिष्ठप्रतियोगिताकाभावस्तथा स्वरूपसम्बन्धावच्छिन्नप्रतियो- गिताकप्रमेयाभावाभावोऽपि तत्र निरूपकत्वसम्बन्धेन कालिकसम्बन्धावीच्छन्नप्रमेया. भावनिष्ठप्रतियोगित्वस्याविद्यमानत्वेन तत्प्रतियोगितावच्छेदकत्वमेव कालिकसम्बन्धाव. च्छिन्नप्रमेयाभावनिष्ठप्रतियोगितायां · अतः सा प्रतियोगिता न साध्यसामान्यनिरूपिता' जाता च स्वरूपसम्बन्धावच्छिन्नप्रमेयाभावनिष्ठेव । तत्प्रतियोगितावच्छेदकस्वरूपसम्ब. न्धेन साध्याभावाधिकरणं यजात्यादिकं तद्वृत्तित्वाभावस्य ज्ञानत्वहेतौ सत्त्वाल्लक्षणस- मन्वयः । यत्सम्बन्धावच्छिन्नयत्प्रतियोगिताकाभावो गृह्यते तदभावनिरूपिता तत्सम्ब.
प्रथम लक्षणम् । मिति यावत् । अस्यैकोक्तिमात्रपरतया गौरवस्यादोषत्वात् । अनुमितिका- रणतावच्छेदके च भावसाध्यकस्थले अभावीयविशेषणताविशेषेण साध्या- भावाधिकरणत्वमभावसाध्य कस्थल च यथायथं समवायादिसम्बन्धेन सा. ध्याभावाधिकरणत्वमुपादेयम् । साध्यसाधनभेदेन कार्यकारणभावभेदात् । न च तथापि घटान्योन्याभाववान्पटवादित्यादावन्योन्याभावसाध्य. न्धावच्छिन्नतन्निष्ठप्रतियोगिता भवति, यथाऽत्रैव कालिकसम्बन्धावच्छिन्नप्रमेयाभावनि टप्रतियोगितानिरूपकः प्रमेयाभावाभावो गृह्यते तदभावनिरूपिता कालिकसम्बन्धाव- च्छिन्ना प्रमेयाभावनिष्ठप्रतियोगिता भवति, स्वस्य प्रतियोगित्वस्यानिरूपकं स्वानिरू- पकं स्वानिरूपकं साध्यं यस्य प्रतियोगित्वस्य तत्स्वानिरूपकसाध्यकं तस्माद्भिनं तस्य भाव इत्यर्थः। यथा वह्निमानित्यादौ वह्नयभावनिष्टप्रतियोगिताया निरूपकमेव वह्नयभा- वाभावो वह्निरूपः साध्यः तथा च स्वनिरूपकसाध्यकत्वे सति न स्वानिरूपसाध्यकमिति स्वानिरूपकसाध्य कभिन्नत्वं समायातम् । स्वानिरूपकसाध्यकभिन्नत्वलक्षणे साध्यतावच्छेद. कवह्नित्वाधिकरणवाहिनिष्ठभेदः पटभेदस्तत्प्रतियोगिता पटनिष्ठा तदवच्छेदकत्वं पटत्वे भेदप्रतियोगितानवच्छेदकीभूता च वह्नयभावनिष्ठा वह्निनिरूपिता प्रतियोगिता प्र. तियोगितावच्छेदकीभूतस्वरूपसम्बन्धन वन्यभाषाधिकरणनिरूपितवृत्तित्वाभावस्य धू. मादौ सत्वालक्षणसमन्वयः तथा साध्यतावच्छेदकं घटत्वाभावत्वं तदधिकरणं घटत्वाभावस्तत्र यो भेदः पटाभावनिष्ठप्रतियोगितावनेत्याकारको भेदस्तत्प्रतियोगिताव- च्छेदकत्वं पटाभावनिष्ठप्रतियोगितायां तदनवच्छेदकत्वं घटत्वाभावाभावनिष्ठप्रतियोगिता. यां तदवच्छेदकसम्बन्धश्च समवायस्तैन सम्बन्धेन घटत्वाभावाभावश्च साध्यभावो घट- त्वरूपस्तदधिकरणं घटस्तन्निरूपितवृत्तित्वाभावस्य पटत्वादौ सत्त्वाल्लक्षणसमन्वयः। कारणतावच्छेदके चेति । अनुमितिकारणतावच्छेदके व्याप्तिज्ञाने इत्यर्थः। ननु अन- न्तानन्तलक्ष्यभेदेन तत्र तत्र सध्यतावच्छेदकप्रतियोगितावच्छेदकसम्बन्धस्य विभिन्न- तया अनेकव्याप्तिस्वरूपगौरवमाशङ्याह । अस्यैकोक्तिमात्रेत्यादि । साधारणोक्तिपरत- येत्यर्थः । अभावीयविशेषणताविशेषेणेति । वह्निमान् धूमादित्यादौ संयोगसम्बन्धा- वच्छिन्नवाहिनिष्टप्रतियोगितानिरूपकवह्नयभाववृत्तियां प्रतियोगिता सा साध्यसामान्यीयन. तियोगिता भवति कुतः वह्नयभावाभावनिरूपिता प्रतियोगिता वह्नयभावनिष्टा जाता वह्नयभावाभावस्य च वह्निस्वरूपत्वात् तत्र प्रतियोगितावच्छेदकस्वरूपसम्बन्धेन वह्नयभा. वाधिकरणजलहदादिनिरूपितवृत्तित्वाभावस्य धूमादौ सत्त्वाल्लक्षणसमन्वयः। समवा. यदीति । घटत्वाभाववान् पटत्वादित्यादौ साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्न. घटत्वाभावनिष्ठप्रतियोगितानिरूपको घटत्वाभावाभावरूपसाध्याभावस्तवृत्तिर्या प्रातयोगिता .सा साध्यसामान्यनिरूपिता भवति कुतः घटत्वाभावाभावाभावस्य घटत्वाभावस्वरूपत्वात् तस्य च साध्यस्वरूपत्वात् तत्प्रतियोगितावच्छेदकसम्बन्धश्च समवायस्तेन घटत्वाभावा, माथुरी पञ्चलक्षणी। कस्थले घटत्वादिरूपे साध्याभावे न साध्यप्रतियोगित्वं न वा समवाया. दिसम्बन्धस्तदवच्छेदकः तादात्म्यत्यैव तदवच्छेदकत्वादित्यव्याप्तिस्तदव- स्थेति वाच्यम् । अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वेन घटभेदस्य घट- भेदात्यन्ताभावत्वावच्छिन्नाभावरूपतया घटभेदात्यन्ताभावरूपस्य प्रतियो- गितावच्छेदकीभूतघटत्वस्यापि समवायसम्बन्धेन घटभेदप्रतियोगित्वात् । न चान्यत्रात्यन्ताभावाभावस्य प्रतियोगिरूपत्वेऽपि घटादिभेदात्यन्ताभावाभावो न घटादिभेदरूपः, किन्तु तत्प्रतियोगितावच्छेदकीभूतघटत्वात्यन्ताभाव- स्वरूप एवेति सिद्धान्त इति वाच्यम् । यथाहि घटत्वावच्छिन्नघटक- त्ताग्रहे घटात्यन्ताभावाग्रहात् घटात्यन्ताभावाभावव्यवहाराच्च घटात्य. न्ताभावाभावो घटस्वरूपस्तथा घटभेदवत्तापहे घटभेदात्यन्ताभावा- ग्रहात् घटभेदात्यन्ताभावाभावव्यवहाराच्च घटभेद एव तदत्यन्ताभा- वत्वावच्छिन्नप्रतियोगिताकाभावः इति तादृशसिद्धान्तो न युक्तिसहः । विनिगमकाभावेनापि घटत्वत्वावच्छिन्नप्रतियोगिताकात्यन्ताभाववद्धटभेद- स्यापि घटभेदात्यन्ताभावाभावत्वसिद्धरप्रत्यूहत्वाच्च । अतएव तादृशसि. द्धान्तो नोपाध्यायसम्मतः। अतएव च 'अभावविरहात्मत्वं वस्तुनः प्रति- योगिता' इत्याचार्याः । अन्यथा घटभेदात्यन्ताभावप्रतियोगिनि घटभेदे तल्लक्षणाव्याप्त्यापत्तेःअन्योन्याभावप्रतियोगितावच्छेदकघटत्वात्यन्ताभावे तल्लक्षणस्यातिव्याप्त्यापत्तेश्च । न चैवं घटत्वत्वावच्छिन्नप्रतियोगिताक: घटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वापत्तिरिति वाच्यम् । तदत्यन्ता- भावत्वावच्छिन्नप्रतियोगिताकाभावस्यैव तत्स्वरूपत्वाभ्युपगमात् तद्वत्ता. ग्रहे तादृशतदत्यन्ताभावाभावस्यैव व्यवहारात् । उपाध्यायैर्घटत्वत्वाव. भाषाधिकरणे घटे पटत्वादेरवृत्तित्वेन लक्षणसमन्वयः । साध्याभावे इति । स च घटभे- दात्यन्ताभावो घटत्वात्मकः । न साध्यप्रतियोगित्वमिति । साध्यसामान्यं च घटभेदरूपं तदीयप्रतियोगिता घट एव वर्तते नतु घटत्वे अतः साध्यसामान्यीयप्रतियोगिता नं साध्याभावनिष्ठेत्यर्थः। तदवच्छेदकत्वादिति । घटभेदात्मकसाध्यसामान्यायप्रतियोगि- तावच्छेदकत्वात् , तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यैव भेदत्वादिति भावः । घटस्वरूप इति। यद्वत्तापहे यदत्यन्ताभावस्याभहस्तत्र तदभावाभावस्य तत्स्वरूपत्व मिति सिद्धान्तः, यथा घटवत्ताग्रहे घटात्यन्ताभावस्याग्रहो घटात्यन्ताभावाभावस्य प्रहस्तत्र - २ १० प्रथमलक्षणम् । च्छिन्नप्रीतयोगिताकघटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वाभ्युपगमाच्च । न चैवं साध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेनैव साध्यामा- वाधिकरणत्वं विवक्ष्यतां, किं साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभा- ववृत्तित्वस्य प्रतियोगिताविशेषणत्वेनेति वाच्यम् । कालिकसम्बन्धाव. च्छिन्नात्मत्वप्रकारकप्रमाविशेष्यत्वाभावस्य विशेषणताविशेषेण साध्यत्वे आत्मत्वादिहेतावव्याप्त्यापत्तेः । कालिकसम्बन्धावच्छिन्नसाध्याभावस्य विशेषणताविशेषसम्बन्धेन योऽभावस्तस्यापि साध्यरूपतया कालिकस. म्बन्धवद्विशेषणताविशेषोऽपि साध्यीयप्रतियोगितावच्छेदकसम्बन्धस्तेन सम्बन्धनात्मत्वप्रकारकप्रमाविशेष्यत्वरूपसाध्याभाववत्यात्मनि हेतोरात्म- त्वस्य वृत्तेः । प्रतियोगितावच्छेदकवत्प्रतियोग्यपि अन्योन्याभावाभावस्ते. न तादात्म्यसम्बन्धेन साध्यतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्या- भाववृत्तिसाध्यसामान्यीय प्रतियोगित्वस्य नाप्रसिद्धिः । इत्थंचात्यन्ताभाव- त्वनिरूपितत्वनापि साध्यसामान्यीयप्रतियोगिता विशेषणीया । अन्यथा घटान्योन्याभाववान्घटत्वत्वादित्यादावव्याप्त्यापत्तेः, तादात्म्यसम्बन्धस्यापि घटाभावाभावस्य घटस्वरूपत्वमित्यर्थः, एवं घटभेदात्यन्ताभावाभावस्य घटभेदस्वरू- पत्वमेव नतु घटत्वात्यन्ताभावरूपत्वमिति यावत् । आत्मत्वप्रकारकेति। आत्मत्वप्रकारकप्रमानिरूपिता या विशेष्यता तादृशविशेष्यता- निष्ठा या कालिकसम्बन्धावच्छिन्ना प्रतियोगिता तनिरूपको योऽभावस्तस्य स्वरूपेण साध्यता । आत्मत्वस्य वृत्तेरिति । तद्विशेषणे तु-प्रकृते नाव्याप्तिः कुतः कालिकसम्बन्धाव- च्छिमात्मत्वप्रकारकप्रमाविशेष्यतानिष्ठप्रतियोगिताकाभावात्मकं यत्साध्यं तादृशसाध्यस्य यः स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावः तस्यैव साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रति. योगिताकसाध्याभावतया तद्वृत्तिकालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वप्रकारकप्रमावि- शेष्यत्वाभावात्मकसाध्यनिरूपिता कालिसम्बन्धावच्छिन्नैव प्रतियोगिता तदवच्छेदककालि कसम्बन्धेन आत्मत्वप्रकारकप्रमाविशेष्यत्वात्मकसाध्याभावाधिकरणे जन्ये हेतोरात्मत्वस्या. वृत्तेः । तेन तादात्म्यसम्बन्धेन साध्यतायामिति । प्रमेयस्तादात्म्येन घटभेदवान् घटभेद. निष्ठतब्यक्तित्वादिति पक्षसाध्यहेतुविन्यासः, । तथा च साध्यतावच्छेदकतादात्म्यसम्बन्धाव- च्छिन्नसाध्यतावच्छेदकावच्छिन्ना या घटभेदरूपसाध्यनिष्ठा प्रतियोगिता तनिरूपकोऽभावो घटभेदभेदरूपः घटभेदभेदरूपसाध्यभावे च घटभेदरूपसाध्यनिरूपितप्रतियोगित्वविरहात् कुतः घटभेदस्य घटभेदभेदाभावरूपत्वाभावादत आह । प्रतियोगितावच्छेदकवत्प्रतियो- AR - माथुरी पञ्चलक्षणी। निरुक्तसाध्याभाववृत्तिसाध्यायप्रतियोगितावच्छेदकत्वात् । यद्वा साध्य. ताच्छेदकसम्बन्धावच्छिन्नसाध्याभाववृत्तिसाध्यसामान्यीयनिरुक्तप्रतियोगि. त्वतदवच्छेदकत्वान्यतरावच्छेदकसम्बन्धेनैव साध्याभावाधिकरणत्वं विव. क्षणीयम् । वृत्त्यन्तमन्यतरविशेषणम् । एवं च घटान्योन्याभाववान् पट. वादित्यादौ साध्याभावस्थ घटत्वादेः साध्यप्रतियोगित्वविरहेऽपि न क्षतिः। तादृशान्यतरस्य प्रतियोगितावच्छेदकत्वस्यैव तत्र सत्त्वात् । न च तथापि कपिसंयोगी एतद्वृक्षत्वादित्याद्यव्याप्यवृत्तिसाध्यके सद्धतावव्याप्तिरिति वाच्यम् । निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या निरुक्तसंसर्गकनिर- ग्यपि अन्योन्याभावाभाव इति । तथा च नाप्रसिद्धिरिति भावः । प्रतियोगितावच्छेदक- त्वादिति । घटभेदाभावरूपसाध्याभावो घटरूपस्तद्वृत्तिर्या साध्यसामान्यघटभेदनिरूपिता प्रतियोगिता तत्र प्रतियोगितावच्छेदकसम्बन्धस्तादात्म्यन्तन सम्बन्धेन घटभेदाभावाधि- करणे घटत्वे घटत्वत्वस्य वृत्तित्वेनाव्याप्तिः स्यात् तन्निरूपितत्वेनापि विशेषणत्वे तु नाव्या- प्तिः कुतः तादात्म्यस्यैव भेदप्रतियोगितावच्छेदकसम्बन्धरूपत्वं अत्यन्ताभावत्वनिरूपितप्र- तियोगितावच्छेदकसम्बन्धत्वन्तु न तस्य तत्र सम्बन्धघटकतया समवायादीनामेव प्रवे- शात् । एवञ्च समवायेन साध्याभावरूपघटत्वाधिकरणे घटे घटत्वत्वस्यावृत्त व्याप्तिरिति बोध्यम् । इत्थञ्चेति । अन्योन्याभावाभावस्य प्रतियोगिरूपत्वस्वीकारे चेत्यर्थः । यदि तु प्र. तियोगितावच्छेदकरूपएवासौ स्यात् तदा तु नात्राव्याप्त्यापत्तिः। घटत्वरूपे घटभेदाभावे या घटभेदाभावाभावनिरूपिता प्रतियोगिता तस्याः समवायस्यैव प्रतियोगिताच्छेदकस. म्बन्धत्वात् । तत्र सत्त्वादिति । घटत्वे सत्वादित्यर्थः । तत्र घटत्वे समवायनैव प्रतियो. तावच्छेदकत्वम् । एवञ्चेत्यादि । पूर्वोत्तरीत्या नाव्याप्तिरिति बोध्यम् । अव्याप्तिरिति । वाच्यमिति । मूलावच्छेदेन कपिसंयोगाभावाधिकरणे वृशे एतद्वृक्षत्वरूपहेतोर्विद्यमान. वेनाव्याप्तिरिति भावः। साध्याभावत्वावच्छिन्नोतविशेषणानुपादाने 'विशिष्टं शुद्धानाति- ध्यते' इति न्यायाच्छुद्धसत्त्वाधिकरणत्वेन गुणादीनां विशिष्टसत्ताधिकरणत्वमपि गुणो गुणकर्मान्यात्वविशिष्टसत्ताभाववान् गुणत्वादित्यादौ साध्यतावच्छेदकस्वरूपसम्बन्धावच्छि. ना ताशसत्ताऽभावनिष्ठा या प्रतियोगिता तादृशप्रतियोगितानिरूपको यः साध्याभावः स व तादृशसत्ताभावाभावरूपस्तवृत्तिया साध्यसामान्यानरूपिता प्रतियोगिता सा च सत्ताभा. निरूपिता स च साध्याभावः सत्तारूप इति सत्तानिष्ठा प्रतियोगितावच्छेदकसम्बन्धश्च समवायस्तेन सम्बन्धन तादृशसत्तारूपसाध्याभावाधिकरणे गुणादौ गुणत्वस्य वृत्तरव्याप्तिः स्यात् । तद्विशेषणोपादाने तु साध्याभावत्वरूपगुणकर्मान्यत्वविशिष्टसत्तात्वावच्छिन्ना या. नरूपकता तादृशनिरूपकतानिरूपिता याऽधिकरणता सा गुणादौ नास्ति. विशेषणविशे- प्रथमलक्षणम् । वच्छिन्नाधिकरणता तदाश्रयावृत्तित्वस्य विवक्षितत्वात् । गुणकर्मान्यत्व. विशिष्ट सत्त्वाभाववान्गुणत्वादित्यादौ सत्त्वात्मकसाध्याभावाधिकरणत्वस्य गुणादिवृत्तित्वेऽपि साध्याभावत्व विशिष्टनिरूपिताधिकरणत्वस्य गुणा- द्यवृत्तित्वान्नाव्याप्तिः । न चैवं कपिसंयोगाभाववान्सत्त्वादित्यादौ निरव- च्छिन्नसाध्याभावाधिकरणत्वाप्रसिद्धथाऽव्याप्तिरिति वाच्यम् । केवलान्वयि- न्यभावादित्यनेन ग्रन्थकतैवास्य दोषस्य वक्ष्यमाणत्वात् । न च तथापि कपिसंयोगिभिन्नं गुणत्वादित्यादौ निरवच्छिन्नसाध्याभावाधिकरणत्वाऽप्र- सिद्ध्याऽव्याप्तिः, अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनये तस्य केवलान्वय्यनन्तर्गतत्वादिति वाच्यम् । अन्योन्याभावस्य व्याप्यवृत्ति. तानियमवादिनये अन्योन्याभावान्तरात्यन्ताभावस्य प्रतियोगितावच्छेदक- स्वरूपत्वेऽपि अव्याप्यवृत्तिमदन्योन्याभावाभावस्य व्याप्यवृत्तिस्वरूपस्या- तिरिक्तस्याभ्युपगमात् । तच्चाने स्फुटीभविष्यति । ननु तथापि समवायादिना गगनादिहेतुके इदं वन्हिमद्गगनादित्या- दावतिव्याप्तिः । वन्यभाववति हेतुतावच्छेदकसमवायादिसम्बन्धेन गगना- देरवृत्तेः । न च तल्लक्ष्यमेव हेतुतावच्छेदकसम्बन्धेन पक्षधर्मत्वाभावा. च्चासद्धेतुत्वव्यवहार इति वाच्यम् । तत्रापि व्याप्तिभ्रमेणैवानुमितेरनुभव- सिद्धत्वादन्यथा धूमवान्वन्हेरित्यादेरपि लक्ष्यत्वस्य सुवचत्वात् । एवं द्रव्यं गुणकर्मान्यत्वविशिष्ट सत्त्वादित्यादावप्यव्याप्त्यापत्तिः । विशिष्टसत्त्वस्य के- त् । विशिष्टसत्ताधिकरणता च द्रव्ये तत्र च गुणत्वस्यावृत्तेर्लक्षणसमन्वयः । अमुमर्थ वक्ति गुणकर्मान्यत्वविशिष्टेत्यादिना। निरवच्छिन्नसाध्याभावेति । साध्याभावश्चात्र संयो. गरूपः। कपिसंयोगिभिन्नामिति । कपिसंयोगवद्भेदः साध्यः साध्याभावश्च प्रतियोगि. तावच्छेदकसंयोगरूपः यथा घटवभेदाभावो घटस्वरूपः । ननु अन्योन्याभावस्य अब्याप्यवृत्तिस्वरूपत्वेन अप्रावच्छेदेन कपिसंयोगवति वृक्षेऽपि मूलावच्छेदेन , कपिसं. योगवदृक्षभेदस्य सत्त्वेन केवलान्वयिन्यन्तर्भाव इत्याशङ्कयाह । अन्योन्याभावस्येत्यादि । देशकालानवच्छिन्नवृत्तिताकत्वं व्याप्यवृत्तित्वम् । अन्योन्याभावान्तरात्यन्ताभावस्येति । साध्याभावस्येति यावत् । अव्याप्यवृत्तिः संयोगस्तद्वान् वृक्षस्तत्प्रतियोगिकान्योन्या- भावो घटादौ तदभावश्च वृक्ष तत्र गुणत्वस्यावृत्ते व्याप्तिरित्यर्थः । अतिरिक्तस्यति । प्रतियोगितावच्छेदकसंयोगातिरिक्तस्येत्यर्थः । न च तल्लक्ष्यमिति । एवं च व्याप्तिमत्त्वं पक्ष- माथुरी पञ्चलक्षणी। १३ वलसत्ताऽनतिरेकितया द्रव्यत्वाभाववत्यपि गुणादौ तस्य वृत्तेः । गुणे गुण- कर्मान्यत्वविशिष्टसत्तेति प्रतीतेस्सर्वसिद्धत्वात् । सत्तावान् द्रव्यत्वादित्या- दावव्याप्तिश्च । सत्ताभाववति सामान्यादौ हेतुतावच्छेदकसमवायसम्बन्धेन वृत्तेरप्रसिद्धेरिति चेन्न । हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणताप्रतियोगि- कहेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतानिरूपितविशेषणताविशेषसम्बन्धेन निरुक्तसाध्याभावत्वविशिष्टनिरूपितनिरुक्तसंसर्गकनिरवच्छिन्नाधिकरणता- श्रयवृत्तित्वसामान्याभावस्य विवक्षितत्वात् । वृत्तिश्च न हेतुतावच्छेदकस- म्बन्धेन विवक्षणीया । अस्ति च सत्तावान् द्रव्यत्वादित्यादौ सत्ताभावाधि. करणतावद्वृत्तित्वस्य हेतुतावच्छेदकसमवायसम्बन्धावच्छिन्नाधेयतानिरूपि. तविशेषणताविशेषसम्बन्धेन सामान्याभावो द्रव्यत्वादौ,हेतुतावच्छेदकसमवा. वृत्तित्वञ्चोभयमेव सद्धेतुत्वप्रयोजकम् , नत्वन्यतरमात्रम् , अन्यथा धूमवत्पर्वतादिवृत्ति- त्वस्य वह्नौ सत्त्वात्सद्धेतुत्वव्यवहारः स्यात् । धूमव्याप्तेर्वह्नावसत्त्वादेव न तद्व्यवहारः वह्निमद्गगनादित्यादौ च मूलोक्तरीत्या व्याप्तिसत्त्वेऽपि पक्षे तमसि समवायेन गगनस्या- वृत्तेः पक्षवृत्तित्वाभावान्न तद्व्यवहारः । वृत्तरप्रसिद्धेरिति । पर्वतो वह्निमानित्यादौ तु वह्नयभावाधिकरणहदादिनिरूपितवृत्तित्वस्य शैवालादौ प्रसिद्धर्न तत्राप्रसिद्धिदोषः । सामन्याभावस्य विवक्षितत्वादिति । हेतुतावच्छेदकावच्छिन्नेहत्व(१)धिकरणतानिरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयता तादृशाधेयताप्रतियोगकस्वरूपसम्बन्धा(२)वच्छि- ना साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेद. कसम्बन्धावच्छिन्नसाध्याभावत्वावच्छिन्ननिरूपकतानिरूपितनिरवच्छिन्नाधिकरणताश्रयनि रूपितवृत्तितानिष्ठा या प्रतियोगिता ताशप्रतियोगिताकाभाववत्त्वं व्याप्तिः । घटप्रतियोगिकसंयोगेन घटस्यैव सत्त्वं न तु पटस्य तत्सम्बन्धावच्छिन्नतदभावस्य केव. लान्वयित्वात् , तथा द्रव्यत्वत्वावाच्छन्नद्रव्यत्वनिष्ठनिरूपकतानिरूपिता याऽधिकरणता तान्नरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्ना द्रव्यत्वनिष्ठाधेयता तादृशाधेयताप्रतियो. गिकस्वरूपसम्बन्धेन सत्ताभावाधिकरणतावद्यत्सामान्यं तन्निरूपिता या स्वरूपसम्ब. न्धावच्छिन्ना वाच्यत्वनिष्ठा वृत्तिता तस्याः कुत्रापि सत्त्वं नास्ति इति तदभावस्य द्रव्यत्वे सत्त्वाल्लक्षणसमन्वयः । धूमवान् वन्हेरित्यादौ च नातिव्याप्तिः, कथम् हेतुतावच्छे. दकावच्छिन्नहेत्वधिकरणतानिरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयता वहिनिष्ठा तादृशाधेयताप्रतियोगिकस्वरूपसम्बन्धेनैव धूमाभावाधिकरणतावत् य. (१) हेतुनिष्ठनिरूपकतानिरूपिता याऽधिकरणतेत्यर्थः । (२) स्वरूपसम्बन्धेत्यादेः वृत्तितानिष्ठप्रतियोगितायामन्वयः । यथा क রূহৃষ্ট। । यसम्बन्धावच्छिन्नाषेयतानिरूपितविशेषणताविशेषसम्बन्धावच्छिन्नप्रतियो. गिताकसत्ताभावाधिकरणतावद्वृत्तित्वाभावस्य व्यधिकरणसम्बन्धावच्छि. नाभावतया संयोगसम्बन्धावच्छिन्नगुणाभावादरिव केवलान्वयित्वात् । द्रव्यं सत्त्वादित्यादौ च द्रव्यत्वाभावाधिकरणगुणादिवृत्तित्वस्यैव समवायसम्ब. धावच्छिन्नाधेयतानिरूपितविशेषणतासम्बन्धेन सत्तायां सत्वान्नातिव्याप्तिः। द्रव्यं विशिष्ट सत्त्वादित्यादावव्याप्तेर्वारणाय प्रतियोगिकान्तमाधेयताविशेषणम् | वस्तुतस्त्वेतल्लक्षणकर्तृनये विशिष्टसत्त्वं विशिष्टनिरूपिताधारतास- म्बन्धेनैव द्रव्यत्वव्याप्यं न तु समवायसम्बन्धेन, तथा च प्रतियोगिका- न्तमाघेयताविशेषणमनुपादेयमेव । तदुपादाने हेतुतावच्छेदकभेदेन का- र्यकारणभावभेदापत्तेः । हेतुतावच्छेदकसम्बन्धेन सम्बन्धित्वे सतीत्यने- दयोगोलकं तनिरूपिता या वृत्तिता तस्या वह्नौ सत्त्वेन तदभावस्य तत्रासत्त्वात् । पर्वतो वह्निमान्धूमादित्यादौ च धूमत्वावच्छिन्नधूमनिष्ठनिरूपकतानिरूपिता याऽधिकरणता. पर्वतनिष्ठा तादृशाधिकरणतानिरूपिता या संयोगसम्बन्धावच्छिन्ना धूमनिष्ठाऽधेयता- तादृशाधेयताप्रतियोगिकस्वरूपसम्बन्धेन वह्नयभावाधिकरणतावद्ह्रदादिनिरूपिता या मीनशैवालादिनिष्ठा संयोगसम्बन्धावच्छिन्ना वृत्तिता तस्याः कुत्रापि सत्त्वं नास्तीति तद- भावस्य धूमे सत्वाल्लक्षणसमन्वयः । प्रतियोगिकान्तमाधेयताविशेषणमिति । उक्तलक्षणे हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणतानिरूपितेत्यादिविशेषणमित्यर्थः । तद्विशेषणानु- पादाने तु हेतुतावच्छेदकसमवायसम्बन्धावच्छिन्ना या सत्तानिष्ठाधेयता तादृशाधेयता प्रतियोगिकस्वरूपसम्बन्धेनैव या द्रव्यत्वाभावाधिकरणता गुणादिनिष्ठा तदाश्रयो गुणादिः तनिरूपिता या सत्तानिष्ठा वृत्तिता तस्या विशिष्टसत्तायां सत्त्वादव्याप्तिः स्यात् विशिष्टशुद्धयोरनतिरेकादिति भावः । तदुपादाने तु विशिष्टसत्तारूपहेतु- निष्ठनिरूपकतानिरूपिता याऽधिकरणता द्रव्यनिष्टा . तन्निरूपिता . या वायसम्बन्धावच्छिन्नाधेयता विशिष्टसत्तानिष्ठा , तत्प्रतियोगिकस्वरूपसम्बन्धेन द्रव्यत्वा. भावाधिकरणता गुणादिनिष्ठा तदाश्रयो गुणादिः तन्निरूपिता. या समवायसम्बन्धावच्छि- मा. सत्तानिष्ठवृत्तिता तस्याः कुत्रापि सत्त्वं नास्तीति तदभावस्य विशिष्टसत्तायां सत्त्वा. नाव्याप्तिरित्यर्थः । नतु समवायादिसम्बन्धेनेति । गुणकर्मान्यत्वविशिष्टसत्तानिरूपिता- धारत्वसम्बन्ध एव हेतुतावच्छेदकः तादृशहेतुतावच्छेदकसम्बन्धेन या आधेयता विशि. ष्टसत्तानिष्ठा तत्प्रतियोगिकस्वरूपसम्बन्धेन द्रव्यत्वाभावाधिकरणताश्रयो गुणादिः तन्निरूपि. ता या समवायसम्बन्धावच्छिन्ना. वृत्तिता शुद्धसत्तानिष्ठा तस्याः कुत्रापि सत्त्वं नास्तीति त- दभावस्य विशिष्टसत्तायां सत्वाल्लक्षणसमन्वयः । सम्बन्धित्वे सतीत्यपि विशेषणादिति । सम- माधुरी पञ्चलक्षणी। नापि विशेषणाद्वहिमानगगनादित्यादौ नातिव्याप्तिः । ननु तथाप्युभयत्वमु. भयत्रैव पर्याप्तं नत्वेकडेति सिद्धान्तादरे घटत्ववान् घटपटोभयत्वादित्यादौ पर्याप्त्यात्मकसम्बन्धेनोभयत्वहेतुकेऽतिव्याप्तिः, घटत्वाभाववति हेतुताव. च्छेदकसम्बन्धेन हेतोरवृत्तेः घटो न घटपटोभयमिति प्रतीतेरिति चेन्न । तहशसिद्धान्तादरे हेतुतावच्छेदकसम्बन्धेन साध्यसमानाधिकरणत्वे सतीत्य. नेनैव विशेषणीयत्वात् । अत एवोक्तं निविशतां वा वृत्तिमत्त्वं साध्यस. मानाधिकरणत्वं वेति केवलान्वयिग्रन्थे दीधितिकृता । कचित्तु निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणताविशेषसम्ब. न्धेन यथोक्तसम्बन्धेन वा निरवच्छिन्नाधिकरणता तदाश्रयव्यक्त्यवर्तमान हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धविच्छिन्नाधिकरणत्वसामान्यं तद्ध- मवत्त्वं विवक्षितम् । धूमवान्वहेरित्यादौ पर्वतादिनिष्ठवयधिकरणत्वव्य- क्तेधूमाभावाधिकरणावृत्तित्वेऽपि अयोगोलकनिष्ठवन्यधिकरणताव्यक्तेरतथा. स्वान्नातिव्याप्तिरित्याहुः । हेतुतावच्छेदकसमवायन गगनहेतोः सम्बन्धित्वाभावात् तस्य तेन सम्बन्धन कुत्रापि अ. वृत्ते तिव्याप्तिरिति भावः। विशेषणं च साध्याभाववदवृत्तित्ववतो बोध्यम् । विशेषणी- यत्वादिति । घटत्वरूपसाध्याधिकरणे घटे हेतुतावच्छेदकपर्याप्तिसम्बन्धन घटपटोभयत्व. रूपहेतोरवृत्तेः साध्यसामानाधिकरण्याभावानातिव्याप्तिरिति भावः। निविशतां चेति । वह्निमान् गगनादित्यादावतिव्याप्तिवारणाय वृत्तिमत्त्वं हेतोर्विशेषणम् गगनस्य समवायेन वृत्ति- मत्वाभावान्नातिव्याप्तिरित्यनुपदमेवोक्तम् । केचिीत्वत्यादि। अत्यन्ताभावान्योन्याभावयो- रभावस्यातिरिक्तत्वमते आद्यः सम्बन्धः। तस्यानतिरिकत्वमते तु साध्यतावच्छेदक. सम्बन्धाच्छिन्नप्रतियोगिताकसाध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगतावच्छेदकसम्बन्धे. नेति विवेकः । तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभाववृत्ति- साध्यसामान्यीय प्रतियोगितावच्छेदकसम्बन्धावच्छिन्ना या साध्याभावत्वावच्छिन्ना नि. रूपकता तादृशनिरूपकतानिरूपिता या निरवच्छिन्नाधिकरणता तदाश्रयावृत्तिहेतुताव. च्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिन्नधिकरणता तद्धर्मवत्वं व्याप्तिरिति लक्षणम् । अत- थात्वादिति । अवृत्तित्वाभावात् वृत्तित्वादेवेति यावत् । वह्निनिरूपिता पर्वतवृत्तिरधिक. रणता अयोगोलकादौ हेतुभूतवह्निनिरूपिताधिकरणता च वह्नित्वधर्मावच्छिन्नैवेति अयो. गोलकनिष्ठवहिनिरूपिताधिकरणताव्यक्तः पर्वतादिनिष्ठवह्वयधिकरणताव्यक्तेश्चैश्यावृत्ति- त्वमेवेति नातिन्याप्तिः । यद्धर्मावच्छिन्नेतिविशेषणदानस्येदमेव फलम् । अन्यथा उभयो.
१६ प्रथमलक्षणम् । अन्ये तु हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुताबच्छेदकावच्छिन्न. स्वाधिकरणताश्रयवृत्ति यन्निरवच्छिन्नाधिकरणत्वं तदवृत्ति निरुक्तसाध्या- भावत्वविशिष्टनिरूपितयथोक्तसम्बन्धावच्छिन्नाधिकरणतात्वकत्वमिति विशे. षणविशेष्यभावव्यत्यासे तात्पर्यम् , स्वपदं हेतुपरम् । इत्थं च कपिसंयोगि. रधिकरणताव्यक्त्योः स्वतो. भेदस्यसत्त्वादवृत्तित्वं पर्वतनिष्ठवह्नित्वावच्छिन्नाधिकरणता. या इति तादृशवह्नित्ववत्त्वं वक्षित्वमेवेति तच्च हेतौ वर्तत इति अतिव्याप्तिः स्यात् । पर्वतो वह्निमान्धूमादित्यादौ तु निरवच्छिन्ना या वह्नयभावनिरूपिताऽधिकरणता तदाश्रयदाद्यवृत्तिर्भवति संयोगसम्बन्धावच्छिन्नधूमत्वधर्मावच्छिन्नाधिकरणता धूमत्वव- त्वं धूमत्वमेव तच्च धूमे इति लक्षणसमन्धयः । तात्पर्यमिति । हेतुतावच्छे. दकसम्बन्धावच्छिन्ना हेतुतावच्छेदकावच्छिन्ना या स्वाधिकरणता (१)तादृशहे. त्वधिकरणताश्रयवृत्ति यन्निरवच्छिन्नाधिकरणत्वं त(२)दवृत्ति यत्साध्यतावच्छे- इकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगताकाभावत्वावच्छिन्नसाध्याभावयु. त्तिसाध्यसामान्यायप्रतियोगितावच्छेदकसम्बन्धावच्छिन्ननिरूपकतानिरूपिताधिकरणता ता- दृशाधिकरणतावृत्ति अधिकरणता(३)त्वं तत्कत्वं व्याप्तिः । यथा वहिमान् धूमा. दित्यादौ हेतुतावच्छेदकसंयोगसम्बन्धावच्छिन्नधुमत्वावच्छिन्नधूमनिरूपकतानिरूपिता या पर्वतनिष्ठाधिकरणता तादृशधूमाधिकरणताश्रयपर्वतवृत्ति यन्निरवच्छिन्नाधिकर(४)णत्वं तदवृत्ति संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नवह्निनिष्ठा या प्रतियोगिता ताशप्रतियोगि- तानिरूपकवथाभावत्वावच्छिन्ना या वन्यभाववृत्ति वयाभावाभावनिरूपिता प्रतियोगि- ता तदवच्छेदकस्वरूपसम्बन्धावच्छिन्ना या निरूपकता तादृशनिरूपकतानिरूपिता याऽधि. करणता हृदनिष्ठा तादृशाधिकरणतावृत्ति यदीधकरणता(५)त्वं तन्निरूपकत्वस्य धूमेसत्त्वा समन्वयः । कपिसंयोगाभाववान्सत्त्वादित्यादौ च समवायसम्बन्धावच्छिन्ना या सत्तात्वाव. च्छिन्नसत्तानिरूपिताधिकरणता तादृशाधिकरणताश्रयगुणादिवृत्ति यन्निरवच्छिन्नाधिकर. णत्वं तदवृत्ति स्वरूपसम्बन्धावच्छिन्ना कपिसंयोगाभावत्वावच्छिन्ना या प्रतियोगिता त- निरूपको यः साध्याभाव(६)स्तवृत्तिर्या कपिसंयोगाभावनिरूपितप्रतियोगिता तदवच्छे- दकसमवायसम्बन्धावच्छिन्ना या निरूपकता तादृशनिरूपकतानिरूपिता याऽधिकरणता अ- प्रांवच्छेदेन वृक्षनिष्ठाधिकरणता तादृशाधिकरणतावृत्ति अधिकरणतात्वं तनिरूपकत्वं सत्त्वे इति समन्वयः । यथा घटनिरूपितभूतलनिष्ठाधिकरणत्वे पटनिरूपिताधिकरणतात्वस्य अ- वृत्तित्वं तद्वत्प्रकृतेप्यूह्यम् । धूमवान् वहरित्यादौ तु नातिव्याप्तिः । संयोगसम्बन्धावच्छि. (१) हेत्वधिकरणतेत्यर्थः। (२) तत्पदेनाधिकरणत्वस्यग्रहः । तदवृत्तीत्यस्य अधिकरणतात्वेऽन्वयः। (३) साध्याभाषाधिकरणतास्वमितियावत् । (१) धूमनिरूपिताधिकरणत्वम् । (५) साध्याभावाधिकरणतात्वम् । (६) कपिसंयोगाभावाभावः।
माथुरी पञ्चलक्षणी। भिन्नं गुणत्वादित्यादावपि नाव्याप्तिरित्याहुरिति संक्षेपः । लक्षणान्तरमाह- साध्यवद्भिन्नेति । साध्यवद्भिन्नो यस्स्साध्याभाववान् तदवृत्तित्वमि- त्यर्थः । कपिसंयोगी एतद्वृक्षत्वादित्याद्यव्याप्यवृत्तिसाध्यकेऽव्याप्तिवार- णाय साध्यवद्भिन्नेति साध्याभाववतो विशेषणमिति प्राञ्चः । तदसत । साध्याभाववदित्यस्य व्यर्थत्वापत्तः, साध्यवद्भिन्नावृत्तित्व- मित्यस्यैव सम्यक्त्वात् । नव्यास्तु साध्यवद्भिन्ने यः साध्याभावस्तद्वदवृत्तित्वमिति सप्तमी. तत्पुरुषोत्तरं मतुप्प्रत्ययः । तथा च साध्यवद्भिन्नवृत्तियः साध्याभाव- स्तद्वदवृत्तित्वमित्यर्थः । एवं च साध्यवद्भिन्नवृत्तीत्यनुक्तौ संयोगी द्र. व्यत्वादित्यादावव्याप्तिः । संयोगाभाववति द्रव्ये द्रव्यत्वस्य वृत्तेः। तदु. नवयधिकरणता अयोगोलकनिष्ठा तदाश्रयोऽयोगोलकं तद्वृत्तियां निरवच्छिन्नाधिकर- णता तद्वृत्ति यधूमाभावाधिकरणतात्वं तन्निरूपकत्वस्यैव वह्नौ सत्त्वात् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभाववृत्तिसाध्यसामान्यीय प्रतियोगितावच्छे. दकसम्बन्धावच्छिन्नसाध्याभावत्वावच्छिन्ननिरूपकतानिरूपिताधिकरणतात्ववृत्तियों हे- तुतावच्छेदकसम्बन्धावच्छिन्नहेतुतानिरूपितावच्छेदकतावद्धर्मनिष्ठावच्छेदकतानिरूपितनिरू- पकतानिरूपिताधिकरप्यतावन्निरूपितवृत्तितावयन्निरवच्छिन्नाधिकरणत्वं तादृशाधिक- रणतानिरूपितवृत्तित्वाभावस्तादृशाभावीया या वृत्तित्वनिष्ठा प्रतियोगिता ' तादृशप्र. तियोगितानिरूपितनिरूपितत्वसम्बन्धावच्छिन्ननिरवच्छिन्नाधिकरणत्वनिष्ठावच्छेदकतानि- रूपितवृत्तित्वनिष्ठावच्छेदकतानिरूपिता याऽधिकरणनिष्ठावच्छेदकता तन्निरूपिता या- ऽधिकरणतानिष्ठावच्छेदकता तन्निरूपिता या निरूपकत्वनिष्ठावच्छेदकता तन्निरूपिता या अवच्छेदकत्वनिष्ठावच्छेदकता तन्निरूपिता या आधेयत्वसम्बन्धावच्छिन्ना धर्मनिष्ठाव- च्छेदकता तन्निरूपिता या अवच्छेदकत्वनिष्ठावच्छेदकता तन्निरूपिता याऽवच्छेदकता ता- दृशावच्छेदकतावती या हेतुता तद्वत्वं व्याप्तिरिति लक्षणम् । इति प्रथमलक्षणव्याख्या समाप्ता। संयोगाभाववति द्रव्ये इति । मूलावच्छेदेन संयोगाभाववति वृक्षे इति फलितम् । तद्वदवृत्तित्वान्नाव्याप्तिरिति । यदि तु अधिकरणभेदेनाभावो न भिद्येत तर्हि गुणादि- निष्ठसंयोगाभावो भूलावच्छेदेन कपिसंयोगाभावश्च न भिद्यत, तथा च गुणादिनिष्ठसंयोगा- भावोऽपि वृक्षे तत्र द्रव्यत्वस्य वृत्तेरव्याप्तिः स्यात् । अधिकरणभेदेनाभावभेदस्वीकारे ३ १८ द्वितीयलक्षणम् । पादाने च संयोगवद्भिन्नवृत्तिः संयोगाभावो गुणादिवृत्तिसंयोगाभाव एव अधिकरणभेदेनाभावभेदात् तद्वदृतित्वाभावान्नाव्याप्तिः । नच तथापि साध्यवद्भिन्नावृत्तित्वमित्येवास्तु किं साध्याभाववदित्यनेनेति वाच्यम् । य- थोक्तलक्षणे तस्याप्रवेशेन वैयर्थ्याभावात् । तस्यापि लक्षणान्तरत्वात् । न च तथापि साध्यवद्भिन्नवृत्तिर्यस्तद्वदवृत्तित्वमेवास्तु किं साध्याभावपदेने. ति वाच्यम् तादृशद्रव्यत्वादिमद्वृत्तित्वादसम्भवापत्तेः । साध्याभावेत्यत्र सा. ध्यपदमप्यत एव, द्रव्यत्वादेरपि द्रव्यत्वाभावाभावत्वाद्भावरूपाभावस्य चाधिकरणभेदन भेदाभावात् । ननु तथापि घटाकाशसंयोगघटत्वान्यतराभाववान् गगनत्वादित्यत्र तु गुणादिवृत्तिसंयोगाभावो हि गुणे एव न तु द्रव्ये इति गुणादिनिष्ठसंयोगाभाववति गु. णादौ द्रव्यत्वहेतोरवृत्तेरव्याप्तिनास्तीति भावः । तथापीति । अधिकरणभेदेनाभावभेदस्वीकारेऽपि । किं साध्याभाववदि- त्यनेनेति । पर्वतो वह्निमानित्यादौ वह्निमत्पर्वतादिभिन्नजलहृदादिनिरूपितवृत्तित्वाभा- वस्य धूमे सत्त्वाल्लक्षणसमन्वयः । धूमवान् वन्हेरित्यादौ च धूमवत्पर्वतादिभिन्नायो. गोलकनिरूपितवृत्तित्वस्यैव वन्ही सत्त्वान्नातिव्याप्तिरिति भावः । तस्येति । साध्यवद्भिन्ना. वृत्तित्वस्य । तथापीति । यथोक्तलक्षणे तस्य प्रशस्वीकारेऽपि । असम्भवापत्तरिति । वह्निमद्भिन्नजलहृदादिवृत्तियों द्रव्यत्वादिस्तद्वान्यः पर्वतस्तनिरूपितवृत्तित्वस्यैव धू. मादौसत्त्वादेव सद्धेतस्थले लक्षणस्य प्राप्तिरेव नास्तीत्यर्थः । साध्याभावपदोपादाने तु नासम्भवः, कुतः, वह्निमत्पर्वतभिन्नह्रदादिवृत्तियः साध्याभावो वह्नयभावस्तद्वान् ह्रद एव तन्निरूपितवृत्तित्वाभावस्य धूमे सत्त्वालक्षणसमन्वयात् । एतदर्थमेवेति । असम्भववारणा- थमेवेत्यर्थः । असम्भवमुपपादयति, द्रव्यत्वादेरपीत्यादीना । साध्यपदं विहाय अभाव- पदमात्रोपादाने तु साध्यवत्पर्वतादिभिन्नहृदादिवृत्तिर्योऽभावो द्रव्यत्वाभावाभावपदबो- ध्यद्रव्यत्वरूपस्तद्वान् पर्वतोऽपि तन्निरूपितवृत्तित्वस्यैव धूमे सत्त्वादसम्भवः स्यात् । साध्यपदोपादाने तु हृदादिवृत्तियः साध्याभावो वह्नयभावस्तद्वान् ह्रद एव तन्निरूपित वृत्तित्वाभावस्य धूमे सत्वान्नासम्भवशङ्का । ननु भावरूपाभावस्याधिकरणभेदेन भेदाभ्युप- गमे प्रकृते नासम्भवः कथम् द्रव्यत्वरूपद्रव्यत्वाभावाभावस्याधिकरणं ह्रद एव न तु पर्व- तादि तत्र च ह्रदे धूमस्यावृत्तेः सत्त्वादित्याशङ्कयाह । भावरूपाभावस्येति । भेदाभावादि. ति । एवं च तादृशपदबोध्यद्रव्यत्वस्याधिकरणं यथा हृदादिस्तथा पर्वतादिरपि तन्निरूपि. तवृत्तित्वस्यैव धुमादौ सत्त्वादसम्भव इति भावः ॥ तथापि इति । भेदाभावस्वीकारेऽपि । ननु घटाधिकरणदेशावच्छेदेन घटसंयोगस्य गगने सत्त्वं तथा च तत्र घटाकाशसंयोग- माथुरी पञ्चलक्षणी। घटानाधिकरणदेशावच्छेदेन घटाकाशसंयोगाभावस्य गगने सत्त्वात्सद्धेतु- स्वादव्याप्तिः । साध्यवद्भिन्ने घटे वर्तमानस्य साध्याभावस्य घटाकाशसं. योगघटत्वान्यतरस्वरूपस्य गगनेऽपि सत्त्वात्तत्र च हेतोवृत्तेः । न च साध्य. वद्भिन्नवृत्तित्वविशिष्टसाध्याभाववत्त्वं विवक्षितमिति वाच्यम् । साध्याभावपद- वैयापत्तेः । साध्यवद्भिन्नवृत्तित्वविशिष्टवदवृत्तित्वस्यैवसम्यक्त्वादिति चेन्न । अभावाभावस्यातिरिक्तत्वमतेनैतल्लक्षणकरणात् । तथा चाधिक- रणभेदेनाभावभेदात्साध्यवद्भिन्ने घटे वर्तमानस्य साध्याभावस्य प्रतियोगि- व्यधिकरणस्य प्रतियोगिमति गगनेऽसत्त्वादव्याप्तेरभावात् । न चैवं सा- ध्याभावेत्यत्र साध्यपदवैयर्थ्य, अभावाभावस्यातिरिक्तत्वेन द्रव्यत्वादेर- भावत्वाभावात्साध्यवद्भिन्नवृत्तिघटाभावादेस्तु हेतुमत्यसत्त्वादधिकरणभेदेना- भावभेदादिति वाच्यम् । यत्र प्रतियोगिसमानाधिकणत्वप्रतियोगिव्य- . घटत्वान्यतराभावरूपसाध्यस्यासत्त्वेनासद्धेतुत्वं स्यादित्याशङ्कयाह । घटानधिकरणेत्यादि । घटे इति । घटाकाशसंयोगघटत्वान्यतराभावरूपसाध्यवत् पटादि तद्भिन्ने घटे। विवक्षि. तमिति । यथा विशिष्टसत्तात्वावच्छिन्ननिरूपकतानिरूपिताधिकरणता विशिष्टसत्तावति द्रव्ये एव न तु शुद्धसत्तावति गुणादौ, तथा साध्यवद्भिन्नघटादिनिरूपितवृत्तितावतो घटा. काशसंयोगरूपस्य साध्यभावस्य घटे एव सत्त्वं न तु गगनेऽपीति नाव्याप्तिरिति भावः । अभावाभावस्यातिरिक्तत्वमतेनेति एवञ्च घटत्वघटाकाशसंयोगान्यतराभावाभावो हि न घटाकाशसंयोगरूपोऽपितु तादृशसंयोगाधिकरणे तादृशसंयोगान्यतराभावरूपप्र. तियोग्यनधिकरणे घटादौ वर्तमानोऽतिरिक्तस्तत्र च गगनत्वस्य हेतोरवृत्ते व्याप्ति- रित्यर्थः । तथाचेति । अभावाभावस्यातिरिक्तत्वस्वीकारे चेत्यर्थः ॥ साध्याभावस्येति । घटाकाशसंयोगघटत्वान्यतराभावाभावस्य घटकाशसंयोगातिरिक्तस्य । प्रतियोगिमतीति । घटानाधिकरणदेशावच्छेदेन घटाकाशसंयोगघटत्वान्यतराभावरूपप्रतियोगिमति इत्यर्थः । घटानधिकरणदेशावच्छेदेन तादृशान्यतराभावो गगने वर्तते । गगने असत्त्वादिति । तस्य घटे एव सत्त्वं घटे च गगनत्वहेतोरसत्त्वालक्षणसमन्वय इत्यर्थः । यदि तु अधिः करणभेदेनाभावो न भिद्यत तर्हि घटे विद्यमानस्य साध्याभावस्य घटाधिकरणदेशा. वच्छेदेन गगने विद्यमानस्य साध्याभावस्य चैक्यात्तदधिकरणं यथा घटस्तथा गगनम. पीति गगने च गगनत्वस्य वृत्तेरव्याप्तिः स्यादिति ध्येयम् । हेतुमत्यसत्त्वादिति । ह्रदवृत्तिघटत्वाभावो ह्रदे एव न तु धूमवति पर्वते यदि तु अ. धिकरणभेदेऽपि अभावभेदो नस्यात्तदातु ह्रदवृत्तिघटत्वाभावाधिकरणं यथा हृदस्तथा पर्व- तोऽपि पर्वतेऽपि घटत्वाभावस्य सत्त्वात् । तादृशाभावस्य चैक्यात् तत्र च पर्वते धूम.
२० तृतीयलक्षणम् । . धिकरणत्वलक्षणविरुद्धधर्माध्यासस्तत्रैवाधिकरणभेदेनाभावभेदाभ्युपगमो न तु सर्वत्र । तथा च साध्यवद्भिन्नवृत्तिघटाभावादेहेतुमत्यपि सत्त्वादसम्भ- ववारणाय साध्यपदोपादानात् । यद्वा घटत्वघटाकाशसंयोगान्यतराभावाभावोऽतिरिक्त एव घटाकाश- संयोगघटत्वादीनामननुगततया तथात्वस्य वक्तुमशक्यत्वात् । घटस्वद्र- व्यत्वाद्यभावाभावस्तु नातिरिक्तः, घटत्वद्रव्यत्वादीनामप्यनुगतत्वात् । तथा च द्रव्यत्वादिकमादायासम्भववारणायैव साध्यपदमित्यन्यत्र विस्तरः साध्यवत्प्रतियोगिकान्योन्याभावेति । हेतौ साध्यवत्प्रतियोगिकान्यो. न्याभावाधिकरणवृत्तित्वाभाव इत्यर्थः । अन्योन्याभावश्च प्रतियोग्यवृत्ति. स्वेन विशेषणीयः, तेन साध्यवतो व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिता- कान्योन्याभाववति हेतोवृत्तावपि नासम्भवः । नन्वेवमपि नानाधिकरण- साध्यके वन्हिमान्धूमादित्यादौ साध्याधिकरणीभूततत्तव्यक्तित्वावच्छिन्नप्र- तियोगिताकान्योन्याभाववति हेतोवृतेरव्याप्तिर्दुरा । प्रतियोग्यवृत्तित्वम स्य सत्त्वादव्याप्तिः स्यात् ; अधिकरणभेदेनाभावभेदाभ्युपगमे तु हृदवृत्तिघटत्वाभावा. धिकरणं ह्रद एव तत्र च धूमस्यासत्त्वान्नाव्याप्तिरिति भावः । अध्यास इति । ज्ञानमि. त्यर्थः ॥ कपिसंयोगाभावे अव्याप्यवृत्तिरूपे एव अधिकरणभेदेनाभावभेदाभ्युपगमोऽस्ति । साध्यपदोपादानमिति । तादृशघटाभावादेरधिकरणभेदेन भेदानभ्युपगमेन तादृशाभावस्य हेतुमति अपि सत्त्वेन तत्र च धूमहेतोर्वत्तित्वादव्याप्तिः स्यात् । साध्यपदोपादाने तु हृदा. दिवृत्तिवह्नयभावाधिकरणं हृदस्तत्र धूमस्यावृत्ते व्याप्तिरित्यर्थः ॥ अननुगततयेति । टाकाशसंयोगस्य घटत्वस्य च अन्यतरत्वेन प्रवेशः अन्यतरत्वस्य च तदभिन्नरूपत्वान्न तस्यानुगमकः कश्चिदस्तीति भावः । इति द्वितीयलक्षणव्याख्या । हेतोवृत्तावपि नासम्भव इति । तादृशविशेषणानुपादाने तु वह्निमद्घटोभयत्वावच्छिन्न प्रतियोगिताकभेदस्य वह्निमति पर्वते सत्त्वेन तत्र च हेतो मस्यवृत्तित्वेनासम्भव एव स्यात् , तदुपादाने तु तादृशव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकान्योन्याभावस्तु प्रतियोगि. न्यपि घटे पर्वते च वर्तत इति न तादृशान्योन्याभावोऽत्र विवक्ष्यते अपि तु वह्निमान्ने- त्याकारक एव स च न प्रतियोगिनि पर्वते वर्तते किन्तु तद्भिन्ने हृदादावेव तत्र च धूमस्या- वृत्तेनासम्भव इति ध्येयम् । नाना महानसचत्वरपर्वतगोष्ठादीनि अधिकरणानि यस्य साध्यस्य सनानाधिकरणकसाध्यकः ॥ तत्तद्व्यक्तित्वेति । महानसीयव्यक्तित्वेत्यर्थः । पञ्च. .. :
माथुरी पञ्चलक्षणी! २१ पहाय साध्यवत्त्वावच्छिन्नप्रतियोगिताकान्योन्याभावविवक्षणे तु पञ्चमेन सह पौनरुक्त्यमिति चेन्न । वक्ष्यमाणकेवलान्वय्यव्याप्तिवदस्याप्यत्र दो- पत्वात् । न च तथापि साध्यवत्प्रतियोगिकान्योन्याभावमात्रस्यैवैतल्लक्ष. णघटकल्वे वक्ष्यमाणकेवलान्वय्यव्याप्तिरत्रासङ्गता केवलान्वयिसाध्यकेऽपि साध्याधिकरणीभूततत्तव्यक्तित्वावच्छिन्नान्योन्याभावस्य प्रसिद्धत्वादिति वा- च्यम् । तत्राऽपि तादृशान्योन्याभावस्य प्रसिद्धत्वेऽपि तद्वति हेतोवृत्तेरेवाव्या. तेर्दुरित्वात् । यद्वा साध्यवत्प्रतियोगिकान्योन्याभावपदेन साध्यवत्त्वावैच्छिन्नप्रतियो- गिताकान्योन्याभाव एव विवक्षितः । न चैवं पञ्चमाभेदः, तत्र साध्यवत्त्वा- वच्छिन्नप्रतियोगिकान्योन्याभाववत्त्वेन प्रवेशः । अत्र तु तादृशाधिकरणत्वे. नेति अधिकरणत्वप्रवेशाप्रवेशाभ्यामेव भेदात् । अखण्डाभावघटकतया च नाधिकरणत्वांशस्यात्र वैयर्थ्यमिति न कोऽपि दोष इति दिक् । सकलेति । साकल्यं साध्याभाववतो विशेषणम् । तथा च यावन्ति साध्याभावाधिकरणानि तन्निष्ठाभावप्रतियोगित्वं हेतोयाप्तिरित्यर्थः । धूमा- द्यभाववढ्दादिनिष्ठाभावप्रतियोगित्वाद्वयादेरतिव्याप्तिरिति यावदिति सा. ध्याभाववतो विशेषणम् । साध्याभावविशेषणत्वे तत्तहदावृत्तित्वादिरूपेण यो वयभावस्तस्यापि सकल साध्याभावमध्यप्रदेशातावदधिकरणाप्रसिद्ध्या मेन सह पौनरुक्त्यमिति । वह्निमत्त्वावच्छिन्नप्रतियोगिताकभेदाधिकरणत्वस्य पर्वतादी. नामभावात्तादृशान्योन्याभावाधिकरणत्वस्य ह्रदादावेव सत्वात्तत्र च धूमस्यावृत्तित्वेना. व्याप्तिस्तु निरस्तैव ॥ तत्तयक्तित्वावच्छिन्नान्योन्याभावस्योत । वाच्यत्त्ववद्घटत्वव्य. क्तित्वावच्छिप्रतियोगिताकभेदस्य पटादौ प्रसिद्धरित्यर्थः । अखण्डाभावघटकतया च ना. धिकरणत्वांशस्य वैयमिति । (१)अखण्डपदं न खण्डमखण्डमिति यौगिकं न; अपि तु पारिभाषिकम् । न चाधिकरणत्वप्रवेशे फलाभावात् पौनरुक्त्यमिति वाच्यम् । अनेकैव व्याप्तिरितिसिद्धान्तात् काचित् तत्प्रवेशयुक्तापि अस्त्येवेति तात्पर्यम् । इति तृतीयलक्षणव्याख्या। (१) अयम्भावः साध्यवदन्यावृत्तित्व मितिलक्षणे अन्योन्याभावनिष्ठावच्छेदकता अधिकरणनिष्ठा- वच्छेदकतानिरूपिता एतल्लक्षणे तु आधेयतानिष्ठावच्छेदकतानिरूपिता सा च अधिकरणतानिष्ठावच्छे- दकतानिरूपिता इदमेवानयोलक्षण्यम् ।
चतुर्थलक्षणम् । सम्भवापत्तेः । न च द्रव्यं सत्त्वादित्यादौ द्रव्यत्वाभाववति गुणादौ सतादेर्वि- शिष्टाभावादिसत्त्वादतिव्याप्तिरिति वाच्यम् । तादृशाभावप्रतियोगितावच्छे. दकहेतुतावच्छेदकवत्त्वस्यैव विवक्षितत्वात् । प्रतियोगिता च हेतुतावच्छे. दकसम्बन्धेन विवक्षणीया । तेन द्रव्यत्वाद्यभाववति गुणादौ सत्त्वादेः सं. योगादिसम्बम्धावच्छिन्नाभावसत्त्वेऽपि नातिव्याप्तिः । साध्याभावश्च साध्य तावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताको बो. ध्यः । अन्यथा पर्वतादेरपि वयादेविशिष्टाभावादिमत्त्वेन सभवायादिस . म्बन्धावच्छिन्नवयादिसामान्याभाववत्त्वेन च यावदन्तर्गततया तन्निष्ठाभा. वप्रतियोगित्वाभावाळूमस्यासम्भवात् । न च कपिसंयोग्येतद्वृक्षत्वादि. त्यादौ वृक्षस्यापि तादृशसाध्याभाववत्त्वेन यावदन्तर्गततया तन्निष्ठाभाव- प्रतियोगित्वाभावादेतद्वृक्षत्वस्याव्याप्तिरिति वाच्यम् । किंचिदनवच्छि. नायास्साध्याभावाधिकरणताया इह विवक्षितत्वात् । इत्थं च किंचिदनव . च्छिन्नायाः कपिसंयोगाभावाधिकरणताया गुणादावेव सत्त्वातत्र हेतोरप्य- भावसत्त्वान्नाव्याप्तिः । न च कपिसंयोगाभाववान्सत्त्वादित्यादौ साध्याभा. वस्य कपिसंयोगादेर्निरवच्छिन्नाधिकरणत्वाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । केवलान्वयिन्यभावादित्यनेन ग्रन्थकृतैवास्य दोषस्य वक्ष्यमाणत्वात् । न च पृथिवी कपिसंयोगादित्यादौ पृथिवीत्वाभाववति यावत्येव कपिसंयोगा- सत्त्वादेविशिष्ट सत्ताभावेति । अयम्भावः, द्रव्यत्वाभावाधिकरणगुणादेः शुद्धसत्ताधि रणत्वेऽपि विशिष्ट सत्तानधिकरणत्वेन तस्यामभवीयप्रतियोगित्वस्य सत्वे शुद्धसत्तायामपि सत्त्वादतिव्याप्तिः स्यात्तद्वारणाय तादृशविवक्षायान्तु विशिष्टसत्तात्वस्य तादृशाभावप्रतियो. गितावच्छेदकत्वेऽपि हेतुतावच्छेदकीभूतशुद्धसत्तात्वस्य तादृशप्रतियोगितावच्छेदकत्वाभावेन नातिव्याप्तिरिति बोध्यम् । गुणादावेव सत्त्वादिति । अत्रेदम्वक्तव्यम् , ये तु अधिकरण- भेदेनाभावभेदे गौरवान्नतद्भेदनाभावो भिन्न इति मन्यन्ते तेषां मते वृक्षे अवच्छेदकभेदेन संयोगस्य संयोगाभावस्य च समानाधिकरण्यसम्भवेन विरोधाभावेऽपि गुणादौ निर- वच्छिन्नत्वेन विद्यमानस्य संयोगाभावस्य सावच्छिन्नत्वेन वृक्षे विद्यमानस्य तस्यैक्याद्गु- णादावपि संयोगाभावस्य सावच्छिन्नत्वमेव प्राप्तम् , ऐक्यपक्षे प्रत्युत वृक्षेऽपि साध्याभावा. धिकरणताया निरवच्छिन्नत्वमेवस्यादिति तन्मते कथमेष प्रन्थो योजनीय इति चेत्तेषाम- यमाशयः। तथाहि व्याप्यवृत्तित्वाव्याप्यवृत्तित्वयोरपि अव्याप्यवृत्तित्वं स्वीकार्यम् । अव्या.
माथुरी पञ्चलक्षणी। भावसत्त्वादतिव्याप्तिरिति वाच्यम् । तनिष्ठपदेन तत्र निरवच्छिन्नवृत्ति- मत्त्वस्य विवक्षितत्वात् । इत्थं च पृथिवीत्वाभावाधिकरणे जलादौ याव- दन्तर्गते निरवच्छिन्नवृत्तिमानभावो न कपिसंयोगाभावः किं तु घटत्वाद्य. भाव एव तत्प्रतियोगित्वस्य हेतावसत्त्वान्नातिव्याप्तिः । न चैवमन्योन्या. भावस्य व्याप्यवृत्तितानियमनये द्रव्यत्वाभाववान् संयोगवद्भिन्नत्वादित्या- देरपि सद्धतुतयाऽव्याप्तिः संयोगवद्भिन्नत्वामावस्य संयोगरूपस्य निरवच्छिन्न- वृत्तेर प्रसिद्धरिति वाच्यम् । अन्योन्याभावस्य व्याप्यवृत्तितानियमनयेऽन्यो. न्याभावस्याभावो न प्रतियोगितावच्छेदकरूपः किन्त्वतिरिक्तो व्याप्यवृ. त्तिरन्यथा मूलावच्छेदेन कपिसंयोगिभेदाभावभानानुपपत्तरिति संयोगवद्भि- नत्वाभावस्यापि निरवच्छिन्नवृत्तिमत्त्वात् । वस्तुतस्तु सकलपदमत्राशेषपरं नत्वनेकपरम् एतद्घटत्वाभाववान्पट. स्वादित्याद्यकव्यक्तिविपक्षके साध्याभावाधिकरणस्य यावत्त्वाप्रसिद्ध्याऽव्या- प्त्यापत्तेः । तथा च किंचिदनवाच्छन्नाया निरुक्तसाध्याभावाधिकरणता. या व्यापकीभूतो योऽभावः हेतुतावच्छदकसम्बन्धावच्छिन्नतत्प्रतियोगिता. प्यवृत्तिपदार्थस्य च नासामानाधिकरण्यम् । यथावच्छेदकभेदेन संयोगस्य तदभावस्य च वृक्षवृत्तित्वम् । गुणादिवृत्तित्वेन संयोगाभावस्य व्याप्यवृत्तित्वं वृक्षवृत्तित्वेन चाव्याप्यवृत्ति. त्वम् एवं च गुणादिवृत्तिकापसंयोगाभावाधिकरणताया अभावैक्यवादिनयेऽपि व्याप्यवृत्ति. त्वस्य सुवचत्वाद्ग्रन्थः सुयोजनीय एव अवच्छेदकभेदेनैवाभावभेदस्वीकारादिति भावः । हेतावसत्त्वादिति । घटत्वे एव सत्त्वादित्यर्थः। अन्योन्याभावस्याव्याप्यवृत्तित्वनये तु न अस्य सद्धेतुत्वम् । संयोगवद्भिन्नत्वस्य उत्पत्तिकालावच्छेदेन द्रव्येऽपि सत्वेन तत्र च द्रव्यत्वाभावस्य दुर्घटत्वात् । अन्यथेति । अनतिरिक्तत्वे प्रतियोगितावच्छेदकरूपत्वे । अत्रेदं ध्येयम् , यद्भेदस्य योव्याप्यवृत्तित्वं स्वीकरोति तदभावस्यातिरिक्तत्वमपि स्वीक- रोति, यथा कपिसंयोगिभेदस्य व्याप्यवृत्तित्वं तदभावस्यातिरिक्तत्वम् । अतिरिक्तत्वे तु शाखायां वृक्षे न कपिसंयोगिभेद इति प्रतीतेर्यथा प्रामाण्यं तथा मूले वृक्षे न कपिसं- योगिभेद इति प्रतीतेश्च प्रामाण्यम् । यदि कपिसंयोगिभेदाभावस्य कपिसंयोगरूपत्वं तदा तस्य मूलावच्छेद्यत्वासम्भवेन मूले वृक्षे न कपिसंयोगिभेद इति प्रतीतेरप्रामाण्यं स्यादिति। अशेषपरमिति । व्यापकत्वपरमित्यर्थः। एकव्यक्तिविपक्षे इति । अत्र निश्चिततद्- घटत्वाभावाभावरूपसाध्याभावः एतद्घटत्वव्यक्तिरूप एव तस्याधिकरणन्तु एकव्यक्तिरे.
चतुर्थलक्षणम् । वच्छेदकहेतुतावच्छेदकवत्त्वं लक्षणार्थः । न च सत्तादिसामान्याभावस्या- पि प्रमेयत्वादिना निरुक्तसाध्याभावाधिकरणताव्यापकत्वाद्र्व्यं सत्त्वादि- त्यादावतिव्याप्तिः । तद्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वं व्याप- कत्वमित्युक्तौ तु निघूमत्ववान् निर्वह्नित्वादित्यादावव्याप्तिः । निर्वह्नित्वा वेति साध्याभावाधिकरणमत्रानेकमप्रसिद्धीमत्यर्थः । लक्षणार्थ इति । साध्यतावच्छे. दकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्ना या निरवच्छिन्नसाध्याभावाधिकरणता तस्या व्यापकीभूतो योऽभावस्तन्निरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्ना प्रति. योगिता तदवच्छेदकं यद्धेतुतावच्छेदकं तद्वत्त्वमित्यर्थः । वह्निमान् धूमादित्यादौ वन्ह्य. भाषाधिकरणता ह्रदादिनिष्ठा तयापकीभूताभावश्च धूमाभावस्तत्प्रतियोगिता च धूमे तद- वच्छेदकत्वं च धूमत्वे हेतुतावच्छेदकत्वं च तत्रैव तद्वत्त्वं धूमस्यति समन्वयः । एतद्- घटत्वाभाववान् पटत्वादित्यादौ चैतद्घटत्वाभावाभावबोध्यैतद्घटत्वस्याधिकरणता एतद्- घटनिष्ठा तद्यापीभूताभावः पटत्वाभावस्त प्रतियोगिता च पटत्वे तदवच्छेदकत्वं च पटत्वत्वे हेतुतावच्छेदकत्वमपि तत्रैव तद्वत्त्वं पटत्वे इति समन्वयः । तादृशाधि- करणताव्यापकत्वं चाभावे तादृशाधिकरणतावन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदक- धर्मवत्त्वमेव यथा वयभावाधिकरणतावदह्रदादिनिष्ठात्यन्ताभावश्च घटाभावो न तु धूमाभावाभावस्तत्प्रतियोगितावच्छेदकधर्मश्च घटत्वं अनवच्छेदकधर्मश्च धूमाभावत्वं तद्वत्त्वं धूमाभावस्येति तस्य व्यापकत्वम् । धुमवान् वह्नरित्यादौ तु अयोगोलकनिष्ट- धूमाभावाधिकरणतावदयोगोलकनिष्ठात्यन्ताभावो न वहयभावः किन्तु वह्नयभावा- भावस्तत्प्रयोगितावच्छेदकधर्म एव वह्नयभावत्वं न तु तदनवच्छेदकधर्मवत्त्वं वन्य- भावस्येति तस्य न साध्याभावाधिकरणताव्यापकत्वमिति न तादृशाभावीयप्रतियोगि- तावच्छेदकहेतुतावच्छेदकवत्वं वरिति नातिव्याप्तिः । निरुक्तसाध्याभावाधिकरण. ताव्यापकत्वादिति । द्रव्यत्वाभावाधिकरणतागुणादिनिष्ठा तस्या व्यापकीभूतो योऽभावः सत्त्वादिसामान्याभावः कुतः तादृशाधिकरणतावद्गुणादिनिष्ठात्यन्ताभावश्च न प्रमेया. भावः किन्तुअभावान्तरमेव तत्प्रतियोगितानवच्छेदकप्रमेयत्वात्मकधर्मवत्त्वस्य सत्तादिसा. मान्याभावे विद्यमानत्वात्तस्य व्यापकत्वं ताशाभावनिरूपिता च समवायसम्बन्धावच्छि. ना प्रतियोगिता सत्तानिष्ठा तदवच्छेदकं यद्धेतुतावच्छेदकं सत्तात्त्वं तद्वत्त्वं सत्ताया इति आतव्याप्तिः स्यादित्यर्थः । व्यापकत्वमित्युक्ताविति । प्रकृते नातिव्याप्तिरिति शेषः । द्रव्यत्वाभावाधिकरणतावद्गुणादिनिष्ठो यो भेदस्स च सत्ताभाववानेत्याकारको भेदस्तत्व तियोगितावच्छेदकत्वमेव सत्ताऽभावे तदनवच्छेदकत्वविरहादतो न सत्ताभावस्य त- ज्यापकत्वमिति न तत्रातव्याप्तिः । निर्धमत्ववानिति । धुमाभावः साध्यः वह्नयभावो हे- तुः । निर्धमत्वाभावाधिकरणतावदिति । धूमाधिकरणतावत्पर्वतनिष्ठो यो महानसीयवह्नि- मान्नेत्याकारकभेदस्तत्प्रतियोगिता च महानसनिष्ठा तदवच्छेदकत्वमेव महानसायवलि- माधुरी पञ्चलक्षणी। २५ साध्यवदन्यावृत्तित्वं वा । भावानां वहिव्यक्तीनां सर्वासामेव चालनीयन्यायेन निर्धूमत्वाभावाधिकरण- तावन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वादिति वाच्यम् । तादृशाधिक- रणताव्यापकतावच्छेदकं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिन्ना- भावत्वं तद्धर्मवत्वस्य विवक्षितत्वात् । व्यापकतावच्छेदकत्वं तु तद्वन्निष्ठा. त्यन्ताभावप्रतियोगितानवच्छेदकत्वं नतु तद्वनिष्ठप्रतियोगिव्यधिकरणामा. वप्रतियोगितानच्छेदकत्वं तद्वति निरवच्छिन्नवृत्तिमान्योऽभावस्तत्प्रतियो. गितानवच्छेदकत्वं वा प्रकृते व्यापकतायां प्रतियोगिवैयधिकरण्यस्य निरव. च्छिन्नवृत्तित्वस्य वा प्रवेशे प्रयोजनविरहात् । तेन पृथिवी कपिसंयोगादि- त्यादौ नातिव्याप्तिः । कपिसंयोगाभावत्वस्य निरुक्तव्यापकतानवच्छेदक. त्वादित्येव परमार्थः । साध्यवदन्येति । अत्रापि प्रथमलक्षणोक्तरीत्या हेतौ साध्यवदन्यवृ. व्यक्ताविति तादृशाधिकरणताव्यापकत्वं न निर्वन्हित्वाभावस्येति अव्याप्तिः स्यादित्यर्थः । विवक्षितत्वादिति । पर्वतनिष्टधूमाधिकरणताव्यापकतावच्छेदकं च हेतुतावच्छेदकस्वरूप- सम्बन्धावच्छिन्नवन्ह्यभावत्वधर्मावच्छिन्नवन्ह्यभावनिष्ठप्रतियोगितानिरूपकवन्ह्यभावाभाव- त्वं तद्धर्मवत्त्वं वन्ह्यभावस्य हेतोरिति समन्वयः । ताशाभावाधिकरणतावत्पर्वतनि- ष्ठात्यन्ताभावश्च घटायभावो न तु वन्ह्यभावाभावाभावः पर्वते वन्यभावस्य असत्त्वात् तत्प्रतियोगितावच्छेदकत्वं घटत्वे अनवच्छेदकत्वं वन्यभावाभावत्वस्येति तस्य व्यापक- तावच्छेदकत्वं सिद्धम् । तेनेति । एतादृशव्यापकतावच्छेदकत्वस्वीकारेण । व्यापकता- वच्छेदकत्वविरहादिति । पृथिवीत्वाभाववजलादिनिष्ठात्यन्ताभावश्च एकदेशावच्छेदेन- कपिसंयोगाभावाभावस्तत्प्रतियोगितावच्छेदकत्वमेव कपिसंयोगाभावत्वस्येति साध्याभा- वाधिकरणताव्यापकतावच्छेदकत्वं नास्तीति भावः यदि तु प्रतियोगिव्यधि. करणेत्यादिरूपं तद्गृह्यते तर्हि साध्याभावाधिकरणतावजलादिनिष्ठो यः प्रतियोगिव्य- धिकरणाभावो न कपिसंयोगाभावो नापि कपिसंयोगाभावाभावः किन्तु घटाद्यभावस्तत् प्रतियोगितावच्छेदकत्वं घटत्वे अनवच्छेदकत्वं कपिसंयोगाभावत्वे तथा पृथ्वीत्वाभाववति जलादौ निरवच्छिन्नवृत्तिमान् योऽभावो घटाद्यभावो न तु कपिसंयोगाभावस्तस्य साव- च्छिन्नवृत्तित्वात् नापि कपिसंयोगाभावाभावः तादृशाभावप्रतियोगितावच्छेदकत्वं घटत्वे अनवच्छेदकत्वं कपिसंयोगाभावत्वे इति अतिव्याप्तिः स्यादिति बोध्यम् । इति चतुर्थलक्षणव्याख्या। प्रथमलक्षणोक्तरीत्येति । साध्याभावनिष्ठेत्यादिरूपेणैव .. वृत्तित्वाभावस्य निवेशो wealama २६ चतुर्षलक्षणम् । केवलान्वशिन्य भावात् । इति चिंतामाणिः ॥ त्तित्वस्याभाव इत्यर्थः । तादृशवृत्तित्वाभावश्च तादृशवृत्तित्वसामान्याभावो बोध्यः । तेन धूमवान्वरित्यादौ धूमवदन्यजलहदादिवृत्तित्वाभावस्य धूम- वदन्यवृत्तित्वजलत्वोभयाभावस्य च हेतौ सत्त्वेऽपि नातिव्याप्तिः । साध्यवदन्यत्वं चान्योन्याभावत्वनिरूपितसाध्यवत्त्वावच्छिन्नप्रतियोगिताका- भाववत्त्वं, तेन वह्निमान धूमादित्यादौ तत्तद्वह्निमदन्यस्मिन् धूमादेवृत्तावपि नाव्याप्तिन वा वह्निमत्त्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य स्वावच्छि. न्नभिन्नभेदरूपस्याधिकरणे पर्वतादौ धूमस्य वृत्तावप्यव्याप्तिः । तस्यास्सा. ध्यवत्त्वावच्छिन्नप्रतियोगिताया अत्यन्ताभावत्वनिरूपितत्वेनान्योन्याभाव. स्वनिरूपितत्वविरहात् । अन्योन्याभावत्वनिरूपितत्वं च तादात्म्यसम्बन्धाव. च्छिन्नत्वमेव | साध्यवत्वं च साध्यतावच्छेदकसम्बन्धेन बोध्यम् । तेन वह्निमान्धूमादित्यादौ वह्निमत्त्वावच्छिन्नप्रतियोगिताकस्य समवायेन वह्नि- मतोऽन्योन्याभावस्याधिकरणे पर्वतादौ धूमादेवृत्तावपि नाव्याप्तिः । सर्वम- न्यत्प्रथमलक्षणोक्तदिशाऽवसेयम् । यथा च अस्य न तृतीयलक्षणाभेदस्त. थोक्तं तत्रैवेति समासः । सर्वाण्येव लक्षणानि कैवलान्वय्यव्याप्त्या दूषयति । केवलान्वयिन्यभावादिति । पञ्चानामेव लक्षणानामिदं वाच्यं ज्ञेयत्वा. MAHARA न तु साध्याभावत्यादिरूपेणेति पूर्वमुक्तमत्रानुसन्धेयमिति भावः । तत्तद्वान्हमदन्य. स्मिन्निति । पर्वतीयवह्निमत्पर्वतभिन्नमहानसादावित्यर्थः । सर्वेषां वन्हिमतां साध्य. वदन्तर्गतत्वेन तादात्म्यसम्बन्धावच्छिन्नसाध्यवत्त्वावच्छिन्नप्रतियोगिताकाभाववत्वस्या सत्त्वान्नाव्याप्तिरित्यर्थः । स्वावच्छिन्नभिन्नभेदरूपस्येत्यस्यायमाशयः, यथा घटावच्छिन्न- भिन्नभेदस्य घटानतिरिक्तत्वं तथा वह्निमत्त्वावच्छिन्नप्रतियोगिताकात्यन्ताभावावच्छिन्न- भिन्नभेदस्य वह्निमत्त्वावच्छिन्नप्रतियोगिताकात्यन्ताभावानतिरिक्तत्वम् । तथा च तदभा- वस्य साध्यवत्वावच्छिन्नप्रतियोगिताकतया तदधिकरणं पर्वतादिकं तन्निरूपितवृत्तित्वस्यैव धूमे सत्त्वेनाव्याप्तिः । तादात्म्यसम्बन्धावच्छिन्नत्वपर्यवसितस्य अन्योन्याभावत्वनिरू पितत्वस्योपादाने च अत्यन्ताभावीयप्रतियोगितायां तादात्म्यसम्बन्धावच्छिन्नत्वस्या- सत्त्वेन तादृशाभावस्य संग्रहासम्भवेन नाव्याप्तिरिति भावः । समवायेन वन्हिमत इति । वलयवयवस्येत्यर्थः । धूमादेवृत्तावपि नाव्याप्तिरिति । साध्यतावच्छेदकसंयोगसम्बन्धेन साध्यवत्त्वं पर्वतादेरेव न तु वयवयवस्य तेन सम्बन्धेन साध्यवत्त्वावच्छिन्नप्रतियोगि. ताकभेदश्च वह्निमान्नेत्याकारकस्तदधिकरणं न पर्वतादि किन्तु हृदादि तत्र धूमस्यावृत्तेना- व्याप्तिरित्यर्थः । तत्रैवोत्तमिति । अधिकरणत्वप्रवेशाप्रवेशाभ्यामनयोर्भेदोपपादनमुक्त- माथुरी पञ्चलक्षणी। . . दित्यादिव्याप्यवृत्ति केवलान्वयिसाध्यके द्वितीयादिलक्षणचतुष्टयस्य तु कपि. संयोगाभाववान्सत्त्वादित्याद्यव्याप्यवृत्तिकेवलान्वयिसाध्यकेऽपि चाभावादि. त्यर्थः । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति. योगिताकसाध्याभावस्य साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वावच्छिन्न प्रतियोगिताकान्योन्याभावस्य चाप्रसिद्धत्वात् , कपिसंयोगाभाववान् सत्त्वा- दित्यादौ निरवच्छिन्नसाध्याभाववत्त्वस्याप्रसिद्धत्वाचेति भावः । तृतीयल क्षणस्य केवलान्वयिसाध्यकासत्त्वं च तद्वयाख्यानावसर एव प्रपञ्चितम् । एतच्चोपलक्षणं, द्वितीये कपिसंयोगी एतद्वृक्षवादित्यादावव्याप्तिः । अधि- करणभेदेनाभावभेदे मानाभावेन कपिसंयोगवद्भिन्नवृत्तिकापसंयोगाभावो द्रव्यवृत्तिकापसंयोगाभाव एव तद्वद्वृत्तित्वादेतद्वृक्षत्वस्य । नच साध्यवद्भिन्न- वृत्तित्वविशिष्टसाध्याभाववदवृत्तित्वं वक्तव्यम् । एवं च वृक्षस्य विशिष्टाधि- करणत्वाभावान्नाव्याप्तिरिति वाच्यम् । साध्याभावपदवैय्यर्थ्यांपत्तेः । साध्य. वद्भिन्नवृत्तित्वविशिष्टवदवृत्तित्वस्यैव सम्यक्त्वात् सद्धेतौ हेत्वधिकरणे विशि- ष्टाधिकरणत्वाभावादेव असम्भवाभावात् । तृतीये साध्यवत्प्रतियोगिका. न्योन्याभावमात्रस्य घटकत्वे चालनीयन्यायनान्योन्याभावमादाय नानाधिकर- णकसाध्यके वह्निमान्धूमादित्यादावव्याप्तिश्चेत्यपि बोध्यम् ॥ इति व्याप्ति- पञ्चकरहस्यम् । माथुरी पञ्चलक्षणी समाप्ता । मित्यर्थः ॥ व्याप्यवृत्तीति । देशकालानवच्छिन्नवृत्तितावत्त्वं तत्वम् , केवलान्वयित्वं च अभावाप्रतियोगित्वं वस्तुमात्रवृत्तित्वमिति यावत् । अव्याप्यवृत्तीति । तत्त्वं च देश- कालावच्छिन्नवृत्तितावत्त्वम् । तत्त्वं च वस्तुविशिष्टत्वम् वैशिष्टयं च स्वतादात्म्य स्वस. मानाधिकरणात्यन्ताभावप्रतियोगित्वोभयसम्वन्धेन स्वतादात्म्योपादानात् द्रव्यत्वे गुण- त्वात्मकवस्तुविशिष्टत्वसत्त्वेऽपि न द्रव्यत्वस्याव्याप्यवृत्तित्वम् गुणत्वतादाम्यविरहात् स्वस्मिन् स्वतादात्म्यस्य सत्त्वेन सर्वस्याव्याप्यवृत्तित्वप्रसङ्गवारणाय द्वितीयम् । स. द्धताविति । व्याप्तिमत्त्वं सद्धेतुत्वम् , व्यभिचारिभिन्नत्वं वा, हेतुतावच्छेदकावच्छिन्नाधि. करणतान्यापकसाध्यतावच्छेद कावच्छिन्नाधिकरणताकत्वं वा, परामर्शीयमुख्याविशेष्यता- निरूपितप्रकारताश्रयत्वं हेतुत्वम् । उमानाथविरचिता माथुरीपञ्चलक्षणीव्याख्या समाप्तिमगमत् । विश्वनाथार्पणमस्तु ।
अथ माथुरी सिंहव्याघलक्षणम्। , MEDIA नापि साध्यासामानाधिकरण्यानधिकरणत्वम् । नापीति । अत्र साध्यस्यासामानाधिकरण्यं न साध्याधिकरणवृत्ति. स्वाभावः, द्रव्यं सत्त्वादित्यादावतिव्याप्त्यापत्तेः द्रव्यत्वाधिकरणवृत्तित्वा- भावानाधिकरणत्वात् सत्ताया, नापि साध्यवद्भिन्नवृत्तित्वं, द्वितीयेन पौनरु- क्तयापत्तेः । किं तु साध्याधिकरणत्वाभाववद्वृत्तित्वं तदनधिकरणत्वं च तद्वद्भिन्नत्वम् , अधिकरणत्वप्रवेशे प्रयोजनविरहात्। तथा च साध्याधिक- रणत्वाभाववद्वृत्तिभिन्नत्वं हेतोरव्यभिचरितत्वमिति फलितम् । अव्याप्यवृ. वृत्तिसाध्यकसद्धेतावव्याप्तिवारणायाधिकरणत्वप्रवेशः । अव्याप्यवृत्तरधि- करणता तुनाव्याप्यवृत्तिः। साध्याधिकरणत्वं च साध्यतावच्छेदकावच्छिन्नं साध्यतावच्छेदकसम्बन्धावच्छिन्नं च ग्राह्यम् । अन्यथा गुणकर्मान्यत्ववि- शिष्टसत्तावान् जातेरित्यादौ सत्ताया एव साध्यत्वेन साध्याधिकरणत्वाभा. अथ माथुरीसिंहव्याघ्रलक्षणव्याख्या । द्रव्यं सत्वादित्यादावतिव्याप्त्यापत्तेरिति । गुणवृत्तिसत्ताया द्रव्यवृत्तिसत्ताऽनतिरिक्ततया साध्यतावच्छेदकीभूतद्रव्यत्वाधिकरणनिरूपितवृत्तित्वस्य सत्तायां सत्वेन तदभावस्य न तत्र सत्त्वं किन्तु गुणत्वादावेव तादृशाभावस्य चाधिकरणं गुणत्वादिकमेव तदनधिकरण- त्वस्य सत्तायां सत्त्वादतिव्याप्तिः धुमवान्वरित्यत्र तु अयोगोलकीयवहौ साध्याभूतधूमा. धिकरणपर्वतादिनिरूपितवृत्तित्वाभावस्य सत्त्वात् तादृशाभावानधिकरणत्वस्य अयोगोलकी. यवहौ असत्वेन अतिव्याप्त्यभावात् प्रसिद्धस्थलपरित्यागः। द्वितीयेनेति । साध्यवैय्यधि. करण्यानधिकरणत्वमितिद्वितीयलक्षणनेत्यर्थः । तत्रापि साध्यवैयधिकरण्यत्यस्य साध्यव. द्भिनवृत्तित्वार्थकत्वादिति भावः । किन्विति । तथाच साध्याभूतद्रव्यत्वाधिकरणत्वाभाववद्गु. णादिनिरूपितिवृत्तित्वस्यैव सत्तायां सत्त्वेन तदनधिकरणत्वस्य तत्र अभावात् अतिव्याप्ति- वारणम् वह्निमान् धूमादित्यादिसद्धेतौ साध्याधिकरणत्वाभाववज्जलादिनिरूपितवृत्तित्वानधि- करणत्वस्य धूमे सत्वेन लक्षणसमन्वयो बोध्यः । अव्याप्यवृत्तिसाध्यकसद्धताविति । कपि- संयोगी एतद्वृक्षत्वादित्यादावित्यर्थः कपिसंयोगस्य अव्याप्यवृत्तितया वृक्षे मूलावच्छेदेन तद. भावस्य सत्त्वेन तनिरूपितवृत्तित्वस्य एतदृक्षत्वे सत्त्वादव्याप्तिवारणायाधिकरणत्वप्रवेशः। नचाधिकरणत्वप्रवेशेऽपि मूलावच्छेदेन कपिसंयोगाधिकरणत्वाभावस्य वृक्षे सत्त्वादव्याप्तिस्त- दवस्थैवेत्यत आह । अव्याप्यवृत्तेरिति । तथाच कपिसंयोगस्य अव्याप्यवृत्तित्वेऽपि तदधिक- रणताया अव्याप्यवृत्तित्वाभावेन न मूलावच्छेदेन तादृशाधिकरणत्वाभावस्य वृक्षे सत्त्वं किन्तु गुणादावेव तत्र च एतदृक्षत्वस्याभावान्नाव्याप्तिरिति भावः । सत्ताया एव साध्यत्वेनति ।
.माधुरी सिंहव्याघलक्षणम् । ववत्सामान्यायेव तदवृत्तित्वाजातेरतिव्याप्तिः स्यात् , स्याच्च समवायेन. वन्मादौ साध्ये संयोगेन धूमादिहेतावतिव्याप्तिः । वन्यधिकरणत्वाभावव. ज्जलहदाद्येव तदवृत्तित्वाचूमादेः । इत्थं च साध्यतावच्छेदकविशिष्टस. त्तात्वावच्छिन्नसाध्याधिकरणत्वाभाववद्गुणादि तद्वृत्तित्वाजातेः साध्यता वच्छेदकसमवायसन्बम्धावच्छिन्नवन्यधिकरणत्वाभाववत्पर्वताद्यपि धूमस्य तद्वृत्तित्वाच्च नातिव्याप्तिः । वृत्तिश्च हेतुतावच्छेदकसम्बन्धेन बोध्या, तेन तादृशवन्यधिकरणत्वाभाववति धूमावयवे समवायेन धूमस्य वृत्तावपि न क्षतिः । न चैवं सत्तावान् द्रव्यत्वादित्यादावव्याप्तिः सत्ताधिकरणत्वाभा. ववति सामान्यादौ हेतुतावच्छेदकसमवायसम्बन्धेन वृत्तेरेवाप्रसिद्धरिति विशिष्टशुद्धयोरनतिरिक्तत्वादिति भावः । अत्र यद्यपि घटवृत्तित्वविशिष्टवाच्यत्ववान् घट- त्वादित्यत्र विशिष्टशुद्धयोरनतिरिक्ततया वाच्यत्वस्यैव साध्यत्वेन तदधिकरणत्वाभावस्या. प्रसिद्धतया अव्याप्तिरेव सम्भवति तथापि यत्किंचिद्धर्मावच्छिन्नसाध्यनिष्ठाधेयतानिरूपि- ताधिकरणत्वाभाववनिरूपितवृत्तित्ववद्भिन्नत्वस्य विवक्षणेन घटवृत्तित्वविशिष्टवाच्यत्वत्व. रूपधर्ममादाय तादृशस्थले लक्षणसमन्वयसम्भवन दोषासम्भवात् विशिष्टसत्तावान् जाते. रित्यत्र तु सत्तात्वरूपयत्किंचिद्धर्मावच्छिन्नधेियताघटितलक्षणस्य समन्वयसम्भवात् अति. व्याप्तिरिति । न च तादृशाभाववत्सामान्यनिरूपितहेतुतावच्छेदकीभूतसमवायसम्बन्धाव. च्छिन्नवृत्तित्वाप्रसिद्धयैव नातिव्याप्तिरिति वाच्यम् । सत्तावान् द्रव्यत्वादित्यादावव्याप्तिवा- रणाय अग्रे व्यापकत्वघटितलक्षणस्यैव सिद्धान्ततया तत्र च वृत्तितायां हेतुतावच्छेदकस. म्बन्धावच्छिन्नत्वस्यानिवेशनीयतया तादृशलक्षणानुसारेणैवातिव्याप्तेर्दत्तत्वात् । केचित्तु जातरित्यस्य जातित्वप्रकारकप्रमाविशेष्यत्वादित्यर्थः तथा च स्वरूपस्यैव हेतुतावच्छेदक. सम्बन्धतया तादृशम्बन्धावच्छिन्नसामान्यादिनिरूपितवृत्तित्वप्रसिद्धया तत्रातिव्याप्तस्तादृश- विशेषणोपादानेऽपि सम्भवोऽस्त्येवेत्याहुः। समवायेन वह्नौ साध्ये इति । अत्र यद्यपि साध्य- तावच्छेदकसम्बन्धावच्छिन्नत्वानिवेशे हृदस्यापि कालिकादिना वह्नयादिमत्त्वेन कथं तस्य साध्यानधिकरणत्वं तथापि जन्यमात्रस्य कालोपाधित्वानंगीकारेण तस्य साध्यानधिकरण. त्वसम्भवात् । वस्तुतो यत्किंचित्सम्बन्धेन साध्याधिकरणत्वाभाववानरूपितवृत्तित्वानधि. करणत्वघटितलक्षणस्यैवाभिप्रेततया संयोगसम्बन्धावच्छिन्नवत्यधिकरणत्वाभाववढ्दादि. निरूपितवृत्तित्वानधिकरणत्वस्य धूमे सत्वादतिव्याप्तिः अत एव धूमवान्वह्नरित्यत्र यात्किंचि- सम्बन्धघटितलक्षणस्यागमनान्न तत्रातिव्याप्तिरभिहितेति। तादृशवह्नयधिकरणत्वाभाववती. ति। साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वाभाववतीत्यर्थः । न क्षतिः। नाव्याप्तिः आत्मभिन्नं घटत्वादित्यत्र साध्याधिकरणत्वाभाववति आत्मनि केना- पि सम्बन्धेन घटत्वस्यावृत्तेः 'नित्येषु कालिकायोगात्' इति नियमेन कालिकसम्बन्धेनापि अवृत्तित्वात् इति भावः । वृत्तेरप्रसिद्धत्वादिति । द्रव्यगुणकर्मणामेव समवायानुयोगित्वा- माथुरी सिंहव्याघ्रलक्षणम् । वाच्यम् । तादृशसाध्याधिकरणत्वाभावव्यापकान्योन्याभावप्रतियोगिताव. च्छेदकत्वमित्यस्य विवक्षितत्वात् । साध्याधिकरणत्वाभावसामानाधिकरण्ये- त्युक्तौ धूमवान्वहेरित्यादौ धूमाधिकरणत्वाभाववति जलहदादौ वह्निमदन्यो. न्याभावसत्त्वादतिव्याप्तिरतो व्यापकत्वानुधावनम् अन्योन्याभावप्रतियो- गितावच्छेदकत्वं हेतुतावच्छेदकसम्बन्धावच्छिन्नं हेतुतावच्छेदकावच्छिन्नं च ग्राह्यम् । अन्यथा वह्निमान् धूमादित्यादौ वन्यधिकरणत्वाभाववति धूमाव- यवे धूमवदन्योन्याभावासत्त्वादव्याप्तिः स्यात् , स्याच द्रव्यं जातेरित्यादौ घ. टत्वपटत्वादितत्तज्जातिमतोऽन्योन्याभावस्य द्रव्यत्वाधिकरणत्वाभावव्यापक- त्वेनातिव्याप्तिः। अव्याप्यवृतिमतोऽन्योन्याभावस्तु नाव्याप्यवृत्तिरिति पृथि- वी संयोगादित्याद्यव्याप्यवृत्तिहेतुकव्यभिचारीिण नातिव्याप्तिरिति संक्षेपः ।। इति प्रथमलक्षणम् ॥ दिति भावः । विवक्षितत्वादिति । तथा च सत्ताभावाधिकरणतावत्सामान्यनिष्ठाभावो न द्रव्यत्ववद्भेदाभावः किन्तु अभावान्तरमेव तत्प्रतियोगितानवच्छेदकधर्मवत्त्वस्य द्रव्यत्व वनेदे सत्वात् तादृशभेदप्रतियोगितावच्छेदकत्वस्य द्रव्यत्वे सत्वान्नाव्याप्तिः । अत्र व्याप. कत्वं न तादृशाभावप्रतियोगितानवच्छेदकधर्मवत्त्वं पूर्ववत् द्रव्यं सत्वादित्यादावतिव्या. प्त्यापत्तेः नापि अन्योन्याभावघटितं निधूमत्ववान् वह्निमद्भिन्नत्वादित्यादावव्याप्त्यापत्तेः किं तु तादृशात्यन्ताभावप्रतियोगितानवच्छेदकं यद्धर्मावच्छिन्नावच्छेदकताकप्रतियो- गिताकान्योन्याभावत्वं तद्धर्मवत्वं विवक्षणीयम् तथा च न कोऽपि दोषः । अतो व्यापकत्वानुधावनमिति । तथा च वन्हिमदन्योन्याभावत्वस्य साध्याभावसमाना- धिकरणवृत्तित्वेऽपि साध्याभावाधिकरणतावन्निष्ठाभावप्रतियोगितानवच्छेदकत्वाभावान्नाति. व्याप्तिः साध्याभावाधिकरणताया अयोगोलकादावपि सत्त्वेन तन्निष्ठाभावप्रतियोगिताव. च्छेदकत्वस्यैव वन्हिमदन्योन्याभावत्वे सत्वात् । धूमवदन्योन्याभावासत्त्वादिति । धूमा- वयवे समवायेन धूमस्य सत्त्वात् इति भावः । द्रव्यं जातेरित्यादाविति। हेतुतावच्छेदकस्य इतरवारकपर्याप्तिनिवेशेनैव ( हेतुतावच्छेदकेतरानवच्छिन्नत्वनिवेशेन ) धूमवान्वन्हेरि- त्यत्र तत्तद्वन्हिमदन्योन्याभावमादायातिव्याप्तेवारणसम्भवात् अप्रसिद्धसाध्यकस्थला. नुधावनं तथा च घटान्योन्याभावीयप्रतियोगितावच्छेदकताया निरवच्छिन्नत्वेन हेतुता- वच्छेदकेतरानवच्छिन्नत्वसत्त्वादतिव्याप्तिरस्त्येवेति । अव्याप्यवृत्तीति । तस्याव्याप्यवृत्ति- वाङ्गीकारे तु प्रतियोगिव्यधिकरणसाध्याभाववन्निष्ठाभावीयप्रतियोगितानवच्छेदकत्वस्य कापसंयोगिभेदत्वे सत्त्वेन अतिव्याप्तिः स्यादिति भावः । संक्षेप इति । प्रतियोगिवैय्यधि- करण्याघटितव्यापकत्वांगीकारे तस्याव्याप्यवृत्तित्वाभ्युपगमेऽपि न क्षतिरिति सूचितम् । इति प्रथमलक्षणव्याख्या । ..
माथुरी सिंहव्याघ्रलक्षणम् । साध्यवैयधिकरण्यानधिकरणत्वं वा । तदुभयमपि साध्यानाधिकरणानधिकरणत्वं तच्च तत्र साध्यवैयधिकरण्यमिति | साध्यवैयधिकरण्यं साध्यवद्भिन्नवृत्तित्वम् , साध्यवदवृत्तित्वपरत्वे द्रव्यं सत्त्वादित्यादावतिव्याप्तिः । अव्याप्यवृत्तिमतो ऽन्योन्याभावस्तु नाव्याप्यवृत्तिरित्यव्याप्यवृत्तिसाध्यकसद्धतौ नाव्याप्तिः । अनधिकरणत्वमित्यत्राधिकरणत्वांशस्याधिकस्य प्रवेशान्न साध्यवदन्यावृ. त्तित्वमित्यनेन यथाश्रुतस्य पौनरुक्त्यम् । अखंडाभावघटकतया चाधिकर- णत्वांशस्य न वैयर्थ्यम् । साध्यवद्भिन्नत्वं च साध्यतावच्छेदकसम्बन्धाव. च्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगितावच्छेदकताकं बोध्यम् । तेन वन्हिमान धूमादित्यादौ धूमस्य समवायेन वन्हिमतो भिन्ने यत्किञ्चित्सा- ध्यवघ्यक्तिभिन्ने च पर्वतादौ वृत्तित्वेऽपि न क्षतिः । तादृशसाध्यवद्भिन्नत्व. व्यापकान्योन्याभावप्रतियोगितावच्छेदकत्वमिति तु समुदायार्थनिष्कर्षः । अन्यथा पूर्ववत्साध्यवद्भिन्नवृत्तित्वानधिकरणत्वमित्यत्र वृत्तहेतुतावच्छेदक- सम्बन्धेनैव वाच्यतया सत्तावान् द्रव्यत्वादित्यादावव्याप्त्यापत्तः। शेषं पूर्व- वत् । लक्षणद्वयमेकदैव दूषयति- तदुभयमपीति । साध्यानधिकरणानधिकरणत्वं-साध्यानधिकरणानधिक- रणत्वनियतं, साध्यानधिकरणावृत्तित्वव्याप्यमिति यावत् । तच्च व्यापकीभू- अव्याप्यवृत्तिमत इति । अन्यथा कपिसंयोगी एतद्वक्षत्वादित्यत्र मूलावच्छेदेन एतद् वृक्षे कपिसंयोगिभेदसत्त्वादव्याप्तिः स्यादित्यर्थः । अखण्डेति । साध्यवदन्यावृत्तित्वमित्यत्र. बृत्तित्वपदार्थस्य प्रतियोगितासम्बन्धनाभावेऽन्वयः अत्र तु निष्ठत्वसम्बन्धेन तस्याधेयताया- मन्वयः आधेयतायाश्चाधिकरणतायामन्वयः तस्य च प्रतियोगितासम्बन्धेनाभावेऽन्वयः इदमेवानविलक्षण्यम् । नक्षतिः । नाव्याप्तिः इदं वन्हिमद्गनादित्यस्य सद्धेतुत्वांगीकारे असम्भवो न सम्भवति तस्यासद्धेतुत्वांगीकारे तु विशेषरूपेण संसर्गत्वानभ्युपगमे विष. यतायाः संसर्गत्वानभ्युपगमे च दधित्वविशिष्टप्रमेयवान् स्थूलदधित्वादित्यत्र लक्षणसमन्व. योबोध्यः एतस्याप्यनंगीकारे तु क्षतिपदं असंभवपरं द्रष्टव्यम् । पूर्ववदिति । प्रथमलक्ष- णोक्तवदित्यर्थः । लक्षणद्वयस्य साध्यानधिकरणानधिकरणत्वबोधकत्वाभावात् साध्यानाधि. करणानधिकरणत्वपदं व्याचष्टे । साध्यानधिकरणानधिकरणत्वनियतमिति । साध्यवद्भिन्न- वृत्तित्वानधिकरणे साध्यानधिकरणानधिकरणे च उभयत्रैव साध्यानधिकरणानधिकरणत्व. सत्त्वादिति भावः । व्यापकीभूतं चेति । तथाच व्यापकाभावस्य व्याप्याभावव्याप्यत्वेन व्या- ।
३२ माधुरी सिंहव्याघ्रलक्षणम् । यत्किञ्चित्साध्यानधिकरणानधिकरणे धूमे चाप्रसिद्धमिति ॥ तं साध्यानधिकरणावृत्तित्वं च । तत्र । केवलान्वायसाध्यके। अप्रसिद्धमित्य- न्वयः । साध्यानधिकरणत्वस्य साध्याधिकरणत्वावच्छिन्नप्रतियोगिताकभे- दवत्त्वरूपस्य तत्राप्रसिद्धेः । यत्किञ्चिदिति । यदि च साध्यानधिकरणत्वं न तत्सामान्यभेदः किं तु साध्याधिकरणप्रतियोगिताकभेदवत्त्वमानं तदा वन्हिमान् धूमादित्यत्र यत्किञ्चिद्वन्टनधिकरणे पर्वतादौ वर्तमाने धूमप्यप्रसिद्धमित्यर्थः । अप्य. र्थकचकारात्केवलान्वयिसाध्यकसमुच्चयः । तथा च व्यापकाभावाव्याप्यी भूतं तदुभयलक्षणमपि तदुभयत्राप्रसिद्धमिति भावः । साध्यानधिकरणानधि- करणत्वमिति यथाश्रुतं तु न संगच्छते यथोक्तलक्षणद्वयस्य तत्स्वरूपत्वाभा- वादिति ध्येयम् । भट्टाचार्यानुयायिनस्तु, तदुभयमपि, तदुभयलक्षणवाक्यमपि । साध्यानधिकरणानधिकरणत्वम् , साध्यानधिकरणानधिकरणत्वबोधजनक- म्। साध्याधिकरणस्वसामान्याभाववद्वृत्तित्वाभावसाध्यवसामान्यभिन्नवृत्ति. स्वाभावान्यतरबोधजनकमिति यावत् । तच । तादृशान्यतराभाववत्त्वं च । तत्र । केवलान्वयिसाध्यके । अप्रसिद्धमित्यन्वयः । साध्याधिकरणत्वसामा- न्याभावादेरप्रसिद्धत्वादिति भावः । ननु तदुभयवाक्यं न प्रागुक्ताभावान्य. तरविषयबोधजनकमपि तु साध्याधिकरणत्वप्रतियोगिकाभाववद्वृत्तित्वसा- मान्याभावसाध्यवत्प्रतियोगिकभेदवद्वृत्तित्वसामान्याभावान्यतरबोधजनक- मेव । साध्याधिकरणत्वप्रतियोगिकाभावसाध्यवत्प्रतियोगिकभेदौ च केव. लान्वयिन्यपि प्रसिद्धावित्यत आह । यत्किञ्चिदिति । शेषं पूर्ववदित्याहुः ॥ माथुरीसिंहव्याघ्रलक्षणं समाप्तम् । पकीभूतसाध्यानधिकरणानाधिकरणत्वस्य अप्रसिद्ध्याऽभावेन व्याप्यीभूतसाध्यवैश्यधिक. रण्येत्यादिलक्षणस्याभावः सुलभ एव वन्यभावात् धूमाभाववदिति भावः । नतत्सा- मान्यभेद इति । तथाच केवलान्वायस्थले साध्याधिकरणत्वसामान्याभावस्याप्रसिद्ध. त्वेऽपि यत्किचित्साध्याधिकरणत्वाभावस्य प्रसिद्ध्या नाप्रसिद्धिनिबन्धनाव्याप्तिः सम्भव- तीत्यर्थः। केवलान्वयिसाध्यकसमुच्यय इति । तथाच केवलान्वयिनि तादृशाभावस्य प्र- सिद्धत्वेऽपि तदधिकरणनिरूपितवृत्तित्वस्यैव वाच्यत्वहेतौ सत्त्वात् अव्याप्तिः सुदृढेवेति । इति श्रीहरिरामशुक्लकृता माथुरीसिंहव्याघ्रलक्षणव्याख्या समाप्ता । । MOMINDIANRN :
माथुर्याः पञ्चलक्षण्याः क्रोडपत्रम् गिरो गुरूणां निध्याय प्रीतये दूरदर्शिनाम् । श्रिया हरिहरेणेदं क्रोडपत्रं प्रतन्यते ॥ (१) २ पृ०७५० अथ विशेषाभावकूटस्य सामान्याभावहेतुता प्रसिद्धैवेति मथु. रानाथोक्तिः कथं सङ्गच्छते ? तद्पप्रागभावतद्पप्रागभावध्वंसयोरन्यतरघटकतव्य- क्तित्वावच्छिन्नाभावकूटस्य घटादौ सत्त्वेऽपि तादृशान्यतरत्वावच्छिन्नाभावस्य तत्रासत्त्वा- दिति चेन्न, निरवच्छिन्नस्वरूपसम्बन्धेन बिशेषाभावकूटस्य सामान्याभावहेतुताप्रसिद्धि- रित्यस्यैव मथुरानाथाभिप्रेतत्वात् । (२) ३ पृ०१५० न कर्मधारयादिति । अत्र कर्मधारयपदं बहुब्रीहीतरपञ्चसमासान्यत- मत्वावच्छिन्ने लाक्षणिकम् , न तु षट्समासान्यतमत्वावच्छिन्ने, पञ्चमात्रगतान्यतमत्वा- पेक्षया षट्समासगतान्यतमत्वस्य गुरुत्वात् । यत् समासत्वस्यान्यतमत्वरूपता विनाऽ. न्यद् दुर्वचम् । एतलघुशरीरान्यतमत्वावच्छिन्ने लाक्षणिकत्वलाभायैव बहुब्रीहीतर- त्वोक्तिः, बहुव्रीहिघटितगुरुतरसमासान्यतमत्वस्य नियममध्ये प्रक्षेपस्यानावश्यकत्वात् । यत्तु बहुब्रीहीतरत्वानिवेशे साध्याभाववदवृत्तित्वमित्यत्र मतुप्प्रत्ययस्यासाधुता- पत्तिः । अयं भावः-साध्यस्य अभाव इत्यर्थकतत्पुरुषसमासोत्तरं मतुप्प्रत्ययो न भवति, साध्यम् अभावो यस्येत्यर्थकबहुब्रीयुत्तरं मतुप्प्रत्ययः साधुरेव । एवं च उक्ता. र्थकतत्पुरुषोत्तरमतुप्प्रत्ययस्यासाधुत्वनिर्वाहाय तदर्थकबहुव्रीयुत्तरं तस्य साधुत्व. निर्वाहाय च नियमे बहुब्रीहीतरत्वनिवेशस्यावश्यकत्वम् । प्रकृते च तत् पुरुषार्थकबहु- ब्रीहिरेव, अतो मतुप्प्रत्ययः सुष्ठुपपद्यते । इत्युक्तम् , तच्च मनसि विचित्ररसं प्रसूते । यतो बहुव्रीहितत्पुरुषयोस्तुल्यार्थकत्वं पुरा केनापि पण्डितेन न श्रुतमिदानीमपि न श्रूयते । तथा हि साध्यम् अभावो यस्येतिविप्रहार्थकबहुव्रीमतुप्प्रत्ययान्तात् साध्या. भिन्नाभावनिरूपितसम्बन्धिविशिष्टोऽवगम्यते, तत्प्रत्ययान्तात् इतिविग्रहार्थकतत्पुरुषाच्च साध्यनिरूपिताभावसम्बन्धविशिष्टः । एतावता किं बहु- व्रीहितत्पुरुषयोस्तुल्यार्थकत्वमायातम् ? (३) अथ धूमाधिकरणताया अपि वढ्यभावाधिकरणत्वेन तन्निरूपितवृत्तिताया नियमतः पर्वतनिरूपितत्वेन संयोगसम्बन्धावच्छिन्नायास्तस्या धूमे सत्त्वेन वह्निमान् धूमादित्या- साध्यस्य अभाव ( २ ) .. दावव्याप्तिरिति चेदत्र प्राञ्चः,-अधिकरणतानिरूपितत्वमधिकरणनिरूपितत्वं चैतयोई योनैको निरूपितत्वरूपानुगतो धर्मः । तथा सति धूमः पर्वते वर्तत इतिवद् धूमो धूमाधिकरणतायां वर्तत इति प्रतीत्यापत्तेः । अत एव विलक्षणनिरूपितत्वे सप्तम्यर्थतां स्वीकृत्योपपत्तिः कार्या, तादृशापत्तिश्च वार्या । एवं रीत्यैव कार्य्यस्य कारणं न तु कार्य्यताया इत्यादिकमुपपादनीयम् । षष्ठ्या विलक्षणनिरूपितत्वार्थकत्वात् । नव्यास्तु साध्याभावावच्छिन्ननिरूपकतानिरूपितानरूप्यताववृत्तिताया एव निवे. शनीयत्वात् । दर्शिताधिकरणतानिष्ठं निरूपकत्वं च निरवच्छिन्नमधिकरणतात्वाव- च्छिन्नं वा कथञ्चिदित्येव स्वीकरणीयम् , न तु साध्याभावाद्यखिलधर्मावच्छिन्नत्वमपि मानाभावात् । एवञ्च निरूपकतायां साध्याभावावच्छिन्नत्वनिवेशनेनवाधिकरणतानिष्ठनि- रूपकताया व्यावर्तनसम्भवेन नाव्याप्तिः । एवञ्च घटत्वाभाववान् घटपटोभय. स्वादित्यादी मथुरानाथप्रदर्श्यमानातिव्याप्तिरपि सूपपद्यते । अन्यथा घटत्वाभाववत्पटनि- रूपितस्य घटपटोभयत्वावच्छिन्ननिरूपकताकनिरूप्यताबवृत्तित्वस्य हेतौ सत्त्वादतिव्या. प्त्यभिधानमसङ्गतं स्यादिति प्राहुः । प्रकृतपदार्थतत्त्वमविद्वद्भिः प्राचीनक्रोडपत्रकारैरत्र यः समाधानप्रयासः कृतः, स च श्रोतृवृन्दस्य व्यामोहकर एवेति तत्प्रदर्शनमुपक्षितम् । (४) ६पृ० २५० तस्य प्रतियोग्यादिस्वरूपत्वनये विति । अथ यथा प्रतियोगित्वनिरूपकत्वाधि. करणत्वावच्छेदकत्वकार्य्यत्वकारणत्वादीनां स्वावच्छेदकस्वरूपत्वेऽपि तेषां स्वरूपसम्बन्धेन वर्तमानत्वं सर्वसम्प्रदायानुमतं तथा घटत्वाद्यभावाभावानामपि स्वरूपसम्बन्ध एव नियामक आस्ताम् , अन्यथा प्रतियोगित्वादीनामपि समवायादिको नियामकः स्यात् । एवञ्च व्याप्ति- लक्षणे सर्वत्र स्वरूपसम्बन्धेनैव साध्याभावाधिकरणत्वनिवेशः साधीयानस्तु । न च स्वरू. पसम्बन्धो घटत्वादिरूपघटत्वाभावाभावप्रतियोगिकरवेन न क्लृप्तः समवायादेरेव क्लृप्तत्वादि ति वाच्यम् , प्रतियोगितात्वादिना स्वरूपसम्बन्धप्रतियोगिताया अपि क्लप्तत्वात् । न च स्वरूपसम्बन्धे स्वाभावाभावत्वावच्छिन्नप्रकारतानिरूपितसांसर्गिकविषयत्वकल्पने गौर- वमिति वाच्यम्, भवन्मते समवायादौ घटत्वत्वाद्यवच्छिन्न प्रकारतानिरूपितसांसर्गिकवि. क्लृप्तत्वेऽपि स्वाभावाभावत्वावच्छिन्नप्रकारतानिरूपितसांसर्गिकविषयतायाः कल्प्यत्वेन लाघवानवकाशात् । अन्यथा प्रतियोगित्वादेः स्वरूपसम्बन्धकल्पनेऽप्यगतिः स्यात् । इति चेन्न, यतः---अयं न विशिष्टसत्तावान् किन्तु विशिष्टसत्ताभावप्रतियोगि. मान् , इयं न घटपटोभयवती किन्तूभयाभावप्रतियोगिमती अयं न द्वौ किन्तु द्वित्वाव- च्छिन्नभेदप्रतियोगीत्यादिप्रतीत्यनुरोधेन प्रतियोगित्वादेः स्वावच्छेदकस्वरूपत्वेऽपि तस्य सम्बन्धान्तरस्वीकारावश्यकत्वम् । स्वाभावाभावादेः स्वरूपतापक्षे तु विशिष्टसत्ताभा- ववति देशे उभयविशेषाभाववति देशे च तदभावाभाववतोऽप्रतीतेः सुतरां प्रतियोगि. तावच्छेदकसम्बन्ध एव स्वाभावाभाववत्ताया नियामकत्वमुपगन्तव्यम् । न च स्वाभावा- षयत्वस्य ( ३ ) भावत्वावच्छिन्ननिरूपकताकाधिकरणतावैलक्षण्यमुपगम्य उक्तप्रतीतिसमुदाय उपपाद- नीयः किं सम्बन्धवलक्षण्यन तदवलक्षण्येन वा इति वाच्यम् , एकत्यामेवाधिकरण. तायां लाघवेन वैशिष्टयाचवच्छिन्नत्वस्वाभावाभावत्वावच्छिन्नत्वयोः कल्पनात् । इत्यकामेनापि तादृशसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेनैव साध्याभावाधि- करणत्वं निवेशनीयम् । (५) ६ पृ०४५० साध्यसामान्यीयेति । अत्र तादृशसाध्याभावत्वव्यापकसाध्यसामान्यीयप्रतियोगि. तावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं वक्तव्यम् । तेन कालिकसम्बन्धावच्छिन्नप्र. मेयाभावस्य स्वरूपेण साध्यत्वे आत्मत्वादिहेतौ कालिकसम्बन्धेन साध्यस्य योऽभावः सो. ऽपि प्रमेयतया साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभावान्तर्गतस्तस्य विशेषणताविशे- घेणाभावस्य साध्यरूपत्वेन विशेषणताविशेषोऽपि साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्या- भाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धस्तेन सम्बन्धेन प्रमेयात्मकसाध्या- भावाधिकरणे आत्मनि हेतोवर्तमानत्वेऽपि नाव्याप्तिः । न चैवमपि कालिकसम्बन्धावच्छिन्नप्रमेयाभावस्य कालिकेन साध्यतायां स्वादिहेतौ प्रमेयत्वावच्छिन्न कालिकसम्बन्धावच्छिन्न प्रतियोगित्वस्य निरुक्तसाध्याभावत्व. व्यापकतया साध्यसामान्यीयतया च तदवच्छेदककालिकसम्वन्धेन साध्याभाववति काले हेतोवृत्तेरव्याप्तिर्दुवारैवेति वाच्यम् , तादृश साध्याभावत्वसमनियतसाध्यसामान्यायप्रति. योगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वस्य विवक्षणीयत्वात् । इदमत्रावधेयम् ,-विषयित्वसम्बन्धेन प्रमेयसाध्यकस्थले साध्यसामान्यीयप्रति- योगित्वं तत्सम्बन्धावच्छिन्न प्रतियोगिताकप्रमेयाभावे कथमपि न हि सम्भवति । विष- यित्वसम्बन्धावच्छिन्नप्रमेयाभावस्य स्वरूपेण योऽभावः स न निखिलप्रमेयस्वरूपः, न वा तादृशाभाववत्ताया नियामको विषयित्वसम्बम्धः । तथा सति प्रमेयाभावाभावत्वा- वच्छिन्नाविषयकशुद्धप्रमेयत्वावच्छिन्नविषयकज्ञाने प्रमेयाभावत्वावच्छिन्नाभावस्यासत्त्व- प्रसङ्गात् । अतो विषयित्वसम्बन्धावच्छिन्नप्रमेयाभावस्य स्वरूपेण योऽभाव एषोऽतिरिक्त एव तद्वत्तानियामकः स्वरूपसम्बन्ध इत्येव विचारसहम् । न च तादृशाभावाभावो निखिलप्रमेयस्वरूप एवास्ताम् , तद्वत्तानियामकस्तु स्वरूप- सम्बन्ध इति वाच्यम् , तथा सति प्रमेयत्वादिरूपप्रमेयस्य स्वरूपसम्बन्धन सर्वत्र सत्त्वेन ताशाभावाभावस्य तत्सम्बन्धन सर्वत्र सत्त्वापत्तेः । एवञ्च जगदीशायभिमतं साध्यवत्ताबुद्धेविरोधितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं निवेशयितुं युक्तमेव । एतेन कपिसंयोगिनस्तादात्म्येन साध्यतायां सद्धेतौ कपिसंयोगिभेदाभावस्यातिरिक्तताया मथुरानाथस्वहस्तितत्वेन साध्याभावरूपकपिसंयोगिभेदे साध्यसामान्यीयप्रतियोगित्वासत्त्वे. ऽपि साध्यवत्ताबुद्धिविरोधिताघटकसम्बन्धतया स्वरूपस्य प्राप्तत्वेन तत्र नाव्याप्तिरिति समाहितम् ।
( ४ ) अथ साध्याधिकरणत्वाभाववदवृत्तित्वमेव व्याप्तिः समुचिता । अन्यथा वृत्त्यनिया- मकसम्बन्धेन साध्यतास्थले तत्सम्बन्धावच्छिन्नप्रतियोगिताया बहुन्यायविदसम्मत. त्वेनाव्याप्तिः स्यात् । एवं सर्वत्र साध्याधिकरणत्वाभावाधिकरणतायाः स्वरूपसम्बन्धेन निवेशसम्भवेन साध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगितेत्यादिगुरुतरप्रयासो विफलश्च । इति चेन्न, प्राचीनमते तादात्म्यातिरिक्तवृत्त्यनियामकसम्बन्धेन व्याप्यव्यापकभावस्या- सत्त्वात् । अवयवग्रन्थे गदाधरेणेति स्वहस्तितम् । साध्याधिकरणत्वाभावस्तु साध्याभाव एव ! एवं च घटत्वाभावादिसाध्यकसद्धेतौ साध्याधिकरणत्वाभावस्य स्वरूपेणाधिकरणता. निवेशो न हि सम्भवति, तादृशाधिकरणत्वाभावस्य घटत्वस्वरूपत्वात् । अत एव सिद्धान्तलक्षणविचारे द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यापि द्रव्यत्वानतिरेकादिति जगदीशलिखनम् अथ गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानङ्गीकृन्नये साध्यतावच्छेदकावच्छिन्नाधिक- रणत्वाभावनिवेश एवोचित इति चेन्न, गुरुधर्मे अभावप्रतियोगितावच्छेदकत्वानङ्गी- कृन्मते अधिकरणत्वीयनिरूपकताख्यप्रतियोगितावच्छेदकत्वस्यापि असत्वात् । इति विशेषव्याप्तौ दीधितिकृता प्रगल्भलक्षणविचारे स्वहस्तितम् । (६) १० पृ०४५० कालिकसम्बन्धावच्छिन्नेति । ननु कालिकसम्वन्धावच्छिन्नप्रतियोगिताका- स्मत्वप्रकारकप्रमाविशेष्यत्वाभावस्य स्वरूपेण स्वप्रतियोगितादृशविशेष्यत्वानधिकरणघटा- द्यवच्छेदेन कालेऽपि सत्त्वात् केवलान्वयितया केवलान्वयिन्यभावादित्यनेन ग्रन्थकृतैव तद्दोषस्य वक्ष्यमाणत्वात् कथं तादृशाव्याप्तिनिरासाय साध्यतावच्छेदकसम्बन्धावच्छिन्नसा- ध्याभाववृत्तित्वस्य प्रतियोगिताविशेषणत्वमिति चेन्न, यतो गगनाभावस्य कालिक- सम्बन्धेन योऽभावस्तस्य विशेषणताविशेषेण साध्यत्वे आत्मत्वादिदेताकव्याप्तिरिति प्र- तियोगितायां तादृशविशेषणमावश्यकम् । (७) १० पृ०१०प० प्रतियोगितावच्छेदकवदिति । अथात्र घटभिन्नं कपालत्वादित्यादावव्याप्तिः, घटत्वात्मकसाभ्याभाववृत्तिसाध्यीयप्रतियोगितावच्छेदकसमवायसम्बन्धेन घटरूपसाध्या- भावाधिकरणे कपाले हेतोवृत्तः । यद्यपि घटनाशदशायामिदानीमिह कपाले न घट इति प्रतीत्या समवायसम्बन्धन घटस्य निरवच्छिन्नाधिकरणत्वाप्रसिद्ध्या वक्ष्यमाणनिरवच्छि- नाधिकरणत्वनिवेशेनैवाव्याप्तिवारणं सम्भवति, तथापि गुणभिन्नं द्रव्यत्वादित्यत्राव्याप्तिः, गुणत्वरूपसाध्याभाववृत्तिसाध्यीयप्रतियोगितावच्छेदकसमवायसम्बन्धेन गुणात्मकसाध्या- भावस्य निरवच्छिन्नाधिकरणे आत्मादौ हेतोर्विद्यमानत्वात् । मैवम् , यत्साध्याभाववृत्ति साध्यीयप्रतियोगितावच्छेदको यः सम्बन्धः, तेन सम्बन्धेन ततूसाध्याभावाधिकरण, ( ५ ) घट. स्वस्य विवक्षितत्वात् । चैवमननुगमः, स्वनिरूपितत्व-स्ववृत्तिसाध्यीयप्रति- योगितावच्छेदकसम्बन्धावच्छिन्नत्वैतदुभयसम्बन्धेन साध्याभावविशिष्टाधिकरणत्वस्य निवेशनीयत्वात् । न चात्यन्ताभावत्वनिरूपितत्वदलं व्यर्थम् , विषयितया भेदवद्भिन्नभेदस्य घटभेदात्मकस्य ज्ञानभिन्ने सर्वत्र प्रतियोगिसत्त्वात् तद्वारणाय तस्य सार्थक्यात् । न चाभावस्य यः कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्तस्य कालिकसम्बन्धेन साध्यत्वे महाकालत्वादिहेतावव्याप्तिवारणाय साध्यतावच्छेदकसम्ब. न्धावच्छिन्न-साध्यतावच्छेदकावच्छिन्न प्रतियोगिताकत्वावच्छिन्नप्रतियोगितावच्छेदकसम्ब. न्धेन साध्याभावाधिकरणत्वस्य विवक्षणीयतया पुनरत्यन्ताभावत्वनिरूपितत्वदलवैयर्थ्य- मिति वाच्यम् , तद्विशेषणस्यात्रैव तात्पर्य्यात् । इति साम्प्रदायिकाः । गुरुचरणास्तु घटभेदाभावाश्रयो घटो न कपालमितिप्रतीतेः सर्वसम्मतत्वेन तत्. प्रामाण्यानुरोधात् घटभेदाभावत्वावच्छिन्नाधिकरणतायाः घट एव स्वीकरणीयत्वेन कपाले साध्याभावत्वावच्छिन्नाधिकरणताविरहादेव न घटभिन्नं कपालत्वादित्यादावव्याप्तिः । इति प्राहुः। (८) १० पृ० १२ १० इत्थश्चात्यन्ताभावत्वनिरूपितत्वेनापीति । अथात्यन्ताभावत्वनिरूपि. तत्वस्य प्रतियोगितायां निवेशनमनर्थकम् , भेदाभावस्य प्रतियोगिस्वरूपत्वेऽपि नि- रुक्तसाध्याभावत्वावच्छिन्नाधिकरणत्वस्यैव व्याप्तिलक्षणे विवक्षिततया घटान्योन्या- भाववान् घटत्वत्वादित्यादौ वृत्यनियामकतादात्म्यसम्बन्धस्य तादृशसाध्यायप्रति- योगितावच्छेदकत्वेऽपि तत्सम्वन्धावच्छिन्नाधिकरणत्वाप्रसिद्धरव्याप्त्ययोगात् । इति चेदत्र केचित्--वृत्त्यनियामकसम्बन्धावच्छिप्रतियोगिताकाभावादरपक्षे स्वामित्वादि- सम्बन्धन धनाभावस्य स्वरूपेण साध्यतायां तद्व्यक्तित्वादिहेतौ साध्यीयप्र- तियोगितावच्छेदकेन स्वामित्वसम्बन्धेनाधिकरणत्वाप्रसिद्धरव्याप्तिभिया यथोक्तलक्षणे साध्याभावत्वावच्छिन्नसम्बन्धिताया एव प्रवेशनमावश्यकम् । एवञ्च साध्यीयप्रतियोगि. तावच्छेदकतादात्म्यसम्बन्धेन साध्याभावस्य घटत्वस्याधिकरणे घटत्वत्वस्य वृत्तेरव्याप्तिर्दु- परिहारेति प्रतियोगितायां तादृशविशेषणम्। इति वदन्ति । तन्न मनोरमम् -संयोगव- द्भिन्नत्वाभावस्येव वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्याऽप्यतिरिक्तत्वमेव मथुरानाथाभिप्रेतमिति स्वामित्वादिसम्बन्धावच्छिन्नाभावसाध्यकसद्धेतौ साध्याभावस्याति- रिक्ततया साध्यीयप्रतियोगितावच्छेदकेन स्वरूपसम्बन्धेन तादृशातिरिक्तसाध्याभावस्याधि- करणत्वप्रसिद्धरव्याप्त्यनवकाशात् , चैत्रे स्वामित्वसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावो नास्तीति नञ्समभिव्याहृतानुयोगिवाचकपदप्रकृतिकसप्तम्या अधिकरणत्वावगाहिशाब्द- प्रमानिर्वाहानुरोधेन वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावाभावस्याऽतिरिक्त- ताया एव युक्तत्वाच्च । न चैवं स्वाभावीवरहात्मत्वं वस्तुनः प्रतियोगितेत्याचार्योक्तलक्ष- ( ६ ) , . णस्य स्वामित्वेन धनाद्यभावप्रतियोगिनि धनादावव्याप्तिरिति वाच्यम् , प्रतियोगित्वल- क्षणाव्याप्तिपरीहाराय धनादेः स्वामित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावाभावस्वरूप- स्वाङ्गीकारेऽपि निरुक्ताधिकरणत्वावगाहिप्रतीतेः प्रमात्वानुरोधेन स्वामित्वेन धनाभावाभाव- स्यातिरिक्तत्वस्यापि स्वीकारावश्यकत्वात् । वस्तुतस्तु अधिकरणत्वादेरिव सम्बन्धिताया अनुगताकारपृथग्धीविशेषसिद्धतया विनिगमनाविरहेण साध्याभावाधिकरणताघटितव्याप्तेरिव साध्याभावसम्बन्धिताघटितव्या. तेरपि व्यतिरेकिसाध्यकानुमितिप्रयोजकत्वस्य दुष्परिहारतया तादृशसम्बन्धिताघटितव्या- प्तिलक्षणस्य घटाभिन्नं घटत्वत्वादित्यादावव्याप्तिवारपाय परिचायकशरीरे अत्यन्ताभाव- त्वनिरूपितत्वं निरुक्तप्रतियोगितायामवश्यं विशेषणीयम् । (९) १६ पृ०१५० अन्ये विति । अथ हेतुतावच्छ देकसम्बन्धावच्छिन्न-हेतुतावच्छेदकावच्छिन्न- स्वाधिकरणताश्रयनिरूपित-निरुक्तसम्बन्धावच्छिन्ननिरवाच्छन्नवृत्तित्वाभाववनिरुक्तसाध्या- भावकत्वमेव निवेश्यताम् , कि तादृशगुरुतरनिवेशेन ? न च गुणकान्यत्व विशिष्टसत्ताभाववान् गुणत्वादित्यादौ विशिष्टसत्तारूपनिरुक्तसाध्याभावस्य निरुक्तहे. त्वधिकरणनिरूपितनिरुक्तवृत्तित्वेनाव्याप्तिरिति वाच्यम् , निरुक्तस्वाधिकरणताश्रयनि रूपितस्वरूपसम्बन्धावच्छिन्ननिरवच्छिन्नवृत्तित्वाभाववनिरुक्तसाध्याभावत्वावच्छिनयथोक्त सम्बन्धावच्छिन्नाधिकरणताकत्वमेतादृशार्थस्योक्तत्वात् । अत्र ब्रूमः । अधिकरणभेदेनाधिकरणताया नानात्वमते हृदनिष्टधूमाभावाधिकर णतायां हेत्वधिकरणाऽयोगोलकनिरूपित-स्वरूपसम्बन्धावच्छिन्ननिरवाच्छन्नवृत्तित्वाभा- वसत्त्वेन धूमवान् बढेरित्यादावतिव्याप्तिरतो निरुक्तनिवेशनमिति । न च साध्याभावा. धिकरणतासामान्ये निरुक्तवृत्तित्वाभावस्य विवक्षितत्वान्नाव्याप्तिरिति वाच्यम् , सामा- न्यपदस्य व्यापकत्वार्थकतया महागौरवापत्तेः । (१०) १८ पृ०४५० यथोक्तलक्षणे तस्याप्रवेशेन वैयर्थ्याभावादिति । स्वसमानाधिकरणव्या- प्यतावच्छेदकधर्मान्तरघटितत्वस्यैव व्यर्थविशेषणघटितत्वरूपत्वात् साध्यवद्भिन्नवृत्ति साध्याभाववदवृत्तित्वत्वस्य साध्यवभिन्नावृत्तित्वत्वाघटितत्वेनोक्तलक्षणं न व्यर्थविशेषण.. घटितमिति भावः । (११) १८ पृ०६५० ताहशद्रव्यत्वादिमवृत्तित्वादसम्भवापत्तेरिति । अथैतल्लक्षणेऽपि सा- ध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं वक्त- व्यम् । एवञ्च साध्याभावपदाऽऽनर्थक्यशङ्कायामप्याधिकरणत्वस्य तादृशेनैव सम्बन्धेन वि.
( ७ ) . वक्षिततया कालिकसम्बन्धावच्छिन्नप्रमेयाभावादिसाध्यकात्मत्वादिहेतौ तादृशकालिकसम्ब. न्धेन हेतुमत्यसतः साध्यवभिन्नवृत्तरधिकरणे आत्मत्वस्यासत्त्वाल्लक्षणगमनसम्भवेन कथ. मसम्भवोक्तिः सङ्गच्छते ? इति चेन्न, यतस्तादृशप्रमेयाभावाभावत्वं निखिलप्रमेये नाभ्यु. पेयते, परन्तु लाघवात् केवलान्वयिष्वेव । तथा चात्मघटान्यतरत्वप्रतियोगिकस्वरूपकालि- कान्यतरसम्बन्धेन यः साध्याभावत्वावच्छिन्नाभावस्तस्यापि साध्यतया साध्याभाववृत्तिसा. ध्यसामान्यीयप्रतियोगितावच्छेदकनिरुक्तान्यतरसम्बन्धेन साध्यवभिन्नवर्तमानस्य आत्म- घटान्यतरत्वस्याधिकरणे आत्मनि हेतोवृत्तेरसम्भवोक्तिनिराबाधैव न च तथापि जात्यभाववान् जातित्वादित्यत्र साध्याभाववृत्तिसाध्यसामान्यीयप्रति- योगितावच्छेदक-समवायसम्बन्धेन जातिरूपहेत्वधिकरणे कस्याप्यसत्वात् सूपपाद एव लक्षणसमन्वय इति वाच्यम् , स्वरूपसमवायान्यतरसम्बन्धस्यापि निरुक्तप्रतियोगिताव. च्छेदकतया लाभसम्भवेन साध्यवभिन्नवृत्तिगगनाभावादहेतुमत्यपि सत्त्वादसम्भवस्य वजूलेपायमानत्वात् । (१२) २० पृ०४५० यद्वेति । ननु घटत्वघटाकाशतत्संयोगान्यतराभाववान् गगनत्वात् इत्यत्राव्या- प्तिर्दुर्वारैव घटत्वघटाकाशतत्संयोगस्यानुगततया तत्र तादृशान्यतराभावाभावत्वकल्पने बा. धकाभावात् क्लृप्तानां तथात्वकल्पनसम्भवे अतिरिक्ततथात्वकल्पनाऽनौचित्यादिति चेन्न, यद्वेति वाकारस्याऽनास्थासूचकत्वात् वस्तुतो घटत्वघटाकाशतत्संयोगान्यतरा- भावाभावस्य घटे व्याप्यवात्तत्वन्निरवच्छिन्नवृत्तिकतया घटे किञ्चिदवच्छेदेन तादृशान्य- तराभावो नास्तीति प्रतीतेरप्रामाणिकत्वम् , परन्तु तादृशान्यतराभावाभावस्य तादृशान्य- तरस्वरूपत्वे तादृशान्यतरान्तःपातिघटाकाशतत्संयोगस्य अवच्छिन्नवृत्तिकतया तत्प्रतीतेः प्रामाणिकत्वापत्तेः । अतिरिक्तत्वपक्षे घटे तादृशाभावस्य व्याप्यवृत्तित्वेन निरवच्छिन्नवृत्ति. कतया तत्प्रतीतेन प्रामाणिकत्वम् । घटाकाशसंयोगाभावत्वेन साध्यत्वे तादृशसाध्यस्य केवलान्वयितया व्याप्यवृत्तित्वाद् भेदस्य तद्वद्भिन्नत्वस्याप्रसिद्ध रव्याप्तिरशक्योच्छेदेय. न्यतराभावस्य साध्यत्वम् । (१३) २६ पृ० १७ प० केवलान्वयिन्यभावादितीति । ननु केवलान्वयिन्यभावादित्यनेन पञ्चानां लक्षणानां दूषणमसङ्गतं साध्याभाववदवृत्तित्वादिलक्षणस्य स्वावच्छिन्नसाध्यतावच्छेदक- सम्बन्धावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वादिस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकसाध्य- तावच्छेदकाभाववत्त्वार्थे कृते केवलान्वयिन्यव्याप्तिविरहादिति चेन्न, धनी चैत्रत्वादित्यादौ स्वावच्छिन्नसाध्यतावच्छेदकवृत्त्यनियामकस्वामित्वादिसम्बन्धावच्छिन्नप्रतियोगित्वाप्रसिद्ध्या- ऽव्याप्तेः । न च तादृशलक्षणस्य स्वावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभा- ( 6 ) वववृत्तित्वादिसम्बन्धावच्छिन्नप्रतियोगिताकसाध्यतावच्छेदकसम्बन्धाभावत्वार्थकरणान्नेष दोष इति वाच्यम् , धनी द्रव्यत्वादित्यादौ द्रव्यत्वस्य धनत्वावच्छिन्नसंयोगादिसम्बन्धा. वच्छिन्नप्रतियोगिताकाभावववृत्तित्वादिसम्बन्धावच्छिन्नप्रतियोगिताकस्वामित्वसम्बन्धा- भावसत्त्वादतिव्याप्त्यापत्तेः । प्रमादपरिकल्पितं यदि च किञ्चिदालोचितं तदस्ति मम दूषणं पुरुषधर्म एव भ्रमः। यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव गुरुदैवतस्फुरदमोघशिक्षाफलम् ॥ इति श्रीमहामहोपाध्यायराखालदासन्यायरत्नभट्टाचार्यान्तेवासि-श्रीहरिहरशास्त्रि- सङ्कलितपञ्चलक्षणीमाथुरीक्रोडपत्रं समाप्तम् । memainine सर्वविधपुस्तकप्राप्तिस्थानम्- जयकृष्णदास-हरिदास गुप्त- चौखम्बा संस्कृत सीरिज़ आफिस, विद्याविलासप्रेस, गोपालभन्दिर के उत्तर फाटक, बनारस सिटी।
शुद्धिपत्रम् । अशुद्धम् शुद्धम् पृष्टम् पङ्किः प्रमाणमितिका प्रमितिकर २ रितर अनुमितिरनुमितीतर ६ स्वाप्तिः त्वामाप्तिः ३ रु रु ३ स १२ धूमस्त धूमस्त साध्या १४ ह्रया वह्नय साध्या १ तदभिन्न तद्भिन्नभिन्न छिप वच्छिन्नम २ सामा tor भावे १ श्रीः । शक्तिवादः पण्डितप्रवरश्रीहरिनाथतर्क सिद्धान्तनिर्मितया विवृत्याख्य- टीकया सहितः । भो भो विपश्चिदनेसरा! विदितमस्तु तत्रभवतामेतद्-यत् किल न्यायशास्त्रे शब्दखण्डवि- चारग्रन्थेषु सत्स्वपि बहुषु पदपदार्थसंवन्धस्वरूपशक्तिनिर्णयाय यथा खलु शक्तिवादः सर्वमूर्धन्यस्तथा नापरो ग्रन्थ इति दार्शनिकानां नैव तिरोहितम्, अस्य प्रणेता विश्वविख्यातबैदुषीकः श्रीमान् तार्किकचूडामाण- र्गदाधरभट्टाचार्यः, सोऽयं निबन्धोऽतिगम्भीरतया व्याख्यामपेक्षमाणोऽतः श्रीनवद्वी- पनिवासिनैयायिकप्रवरश्रीहरिनाथतर्कसिद्धान्तनिर्मितया विवृत्याख्य. या टोकया पूर्व कलिकातायां मुद्रितोऽपि नानाकारणनिबन्धनाभिरशु- द्धिभिररुन्तुद एव जिज्ञासूनामासीत, ततोऽस्माभिः स्वकीयविद्याविलासयन्त्रालये संशोधय्य प्रकाशितः, ग्राहकाणां सुविधायै रूप्यकत्रयमेव ३) रु० सटीकस्यास्य शक्ति- वादस्य मूल्यं निर्धारितम्, प्राशास्यते चैनं जिघृक्षुभिग्राहकैनिम्ननिर्दिष्ट स्थाने पत्रादिप्रेषणे- नोक्तग्रन्थावाप्तये वयं सूच्येमहीति । जयकृष्णदासहरिदासगुप्तौ १-१२-२९॥ चौखम्भासंस्कृतग्रन्थमाला कार्यालये,. काश्याम् । .
No text on this page.
Mata watasur काशीसंस्कृतसीरीज़। ७१-१ ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूत्यन्त पूर्णानन्दीय व्याख्या साहितया श्रीगोविन्दानन्द प्रणीतयारलप्रमया समन्वितम् । द्वितीयाध्यायस्य द्वितीयपादान्तो प्रथमोमागः ७१-२ ब्रह्मसूत्रशाङ्करभाष्यम् । रत्नप्रभया सहितम् । द्वितीयाध्यायस्य द्वितीयपादान्ताश्चतुर्थाध्याय पर्यन्तः द्वितीयाभागः। ( यन्त्रस्थ) ७२-१ सिद्धान्तशिरोमणिः । श्रीभास्कराचार्य विरचितः । गणि. ताध्यायः चासनामाष्य सहितः । ज्योतिषाचार्य म.म. श्रीमद्वापूदेवशास्त्रिकृतटिप्पणी सहितः । (ज्यो० वि०४) २---- ७२-२ सिद्धान्तशिरोमणिः । गोलाध्यायः वासनाभाष्य सहितः । ज्योतिषाचार्य म. म. श्रीक्ष्मवापूदेवशास्त्रिकृतटिप्पणी सहितः । (ज्यो०वि०५) २-. ७३ काकण्डीश्वरकल्पतन्त्रम् । पण्डित रामकृष्ण शर्मणा सम्पा. दितम् । पण्डित बटुकनाथ शर्मा एम. ए. साहित्योपाध्याय इत्येतेन लिखितया प्रस्तावनया सनाधीकृतम्। (आयुर्वेद शास्त्रविभागे१) ७४ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मल्लिनाथमूरिकृतया घण्टापथसमाख्यव्याख्यया तथा पं० श्रीगङ्गाधरशमणा कृतथा सुधाऽऽख्यव्याख्यया समलङ्कृतम् । (सर्गत्रयमात्रम् )। (काव्य वि०१०) रु००-१२ ७५ चन्द्रालोकः । पीयूषवर्षश्रीजयदेवकवि प्रणीतः । श्रीमत्पद्मना- भमिश्रापराभिधानप्रद्योतनभट्टाचार्य विरचितया चन्द्रालो- कप्रकाशाएराख्य शरदागम' टीकया सङ्कलितः । साहि- त्याचार्येण खिस्ते इत्युपाख्यनारायणशास्त्रिणा भूमिका. दिभिः सम्भूष्य सम्पादितः। ( अलङ्कार वि० ३) रु० ०--१२ ७६ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मल्लिनाथसूरिकृतया घण्टापथसमाख्यया तथा पं० श्रीकन- कलालशर्मणा कृतया भावार्थदीपिनीव्याख्यया समलङ्कः तम्। ( सर्गत्रयमात्रम्) ( काव्य वि०११ ) रु००-६ ७७ शक्तिवादः, श्रीगदाधरभट्टाचार्यप्रणीतः, पण्डितप्रवरश्रीहरिनाथतर्क- सिद्धान्तभट्टाचार्यविरचितविवृतिसहितः । (न्यायविभागे १०) रु०३- ७८. माथुरीपञ्चलक्षणी । पं० श्रीउमानाथाालकृतव्याख्यथा साहिता तथा माथुरीसिंहव्याघ्रलक्षणम् पं० श्रीहरिरामशुक्लविन चितया व्याख्यया सहितं तथा पं० हरिहरशास्त्रिसङ्कलित- माथुरीपञ्चलक्षणीक्रोडपत्रं च। (न्याय वि०११) ME जयकृष्णदास-हरिदासगुप्तः, चौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक बनारस सिटी।