Tms
Vaararuchasan'grah
Front matter
No text on this page.
NO. XXXIII.
THE
VÂRARUCH ASANGRAHA
OR
VARARUCHI
With the commentary DíPAPRABHA
NÂRÁYANA
EDITED)
BY
T. GANAPATI SÂŞTRÍ,
('uruter ' the l'operiment for the probleemotion of Sanskrit Werniseripts,
TRIVANDRUM.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
PRINTED AT THE TRAVANCORE GOVERNMENT PRESS
1913.
(:11l Rights Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ३३.
वाररुचसंग्रहः
श्रीवररुचिप्रणीतः
श्रीनारायणकृतया दीपप्रभाख्यया व्याख्ययोपेतः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितः ।
स च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोळम्बाब्दाः १०८९, क्रेस्ताब्दाः १९१३.
No text on this page.
PREFACE. nende. The edition of the l'âraruchasangraha with the commentary of Dipaprabhâ is based on al correct palm leaf manuscript, written in Malayalam character, which is alwut two centuries old and obtained from Mr. Krishna Tantri of Thazhaman Matham, Chenyannur. The Sangraha consisting of 25 Slokas treats briefly of Kiiraku, Samisa, Tadılhita, Ting and Krit, which the commentary explains beautifully, in concise and vigorous language. The commentator by suggesting ('7 Filtretat HTUT DESTİ fit:', p. 54) his inability to grasp fully the meaning of the author of the Sangraha raises him to a position of a very great emi. Again the cominentator, in another place, observes सूत्रकारकल्पः संग्रहकारस्तद्वच्छान्दसं प्रयोगं कृतवान् "(1.35) thus giving to the author a position equal to that of the Sûtrakâra (afora) himself, in respect of freedom of language, and would appear to identify him with 'araruchi, otherwise known as Kâtyâyana, the author of the Vârtikas or supplementary notes on the Sûtras of Panini. Probably, the present l'araruchi might be one of the "Nine Genis" that adorned the Court of l'ikramârlitya. There is a work named Âxaucháslıțaki. (Hai9124) ascribed 10 Vararuchi which comprises all the injunctions relating to Åsaucha (pollution). This Åsauchâshtuka is likely to be the work of the present l'araruchi who writes short treatises on great subjects. Three more works are also found ascribed to Vararuchi :- (1) Vârarucha (Jyotisha), (2) l'ârarucha (Lexicon), and (3) Prakrituprakâsn by Vararuchi. As all these works treat of Sastraic (Scientific) subjects, we are led to think that they are written by one and the same Vararnchi, desirous of olisplaying his mastery of various branches of knowledge.
The commentary, Dîpaprabhá quotes Bhartrihari, Kaiyit Jinendra and Haradatta, but no author posterior to the From this and also froin the style and manner of the comme tary, we may take it to have been written by an ancient grai marian of a higher order. In fact, it rivals, in force and di nity of language, the Purushakâra, the commentary on Daiv The closing verse of Dipaprabhâ, वेदो नाम महत्पदं जनपदो यत्र द्विजानां ततिः साज वेदमधीत्य वाच्यमखिलं मीमांसतेऽस्य स्फुटम् । तत्र ग्रामवरे कचिन्निवसता नाना च नारायणे. नैषा वाररुचार्थदीपनपरा दीपप्रभा निर्मिता ॥" discloses that the author Narayana livel in a village within the country called Veda. It is not known fotimitele. when this country is situated. The tract of country between lotivim and Alwaye, in North Travancore is tradizionally known alone the Nambudiri Braluniny, as * Tesla Nalu". If this tra litinu can be relied on, the Vela Janaua of the tra! Aitor may be identified with the above tract, ils Viilu 1:11. :! (illutri. The colophon at the end of the Kinikilpaddrums of peopeta deva has the following verse :- विद्वद्धनेशशिष्येण भिषक्केशवम् नुना । तेने वेदपदस्थेन बोपदेवद्विजेन यः ॥" (कविकल्पद्रुमः) Here the meaning of thi' sor / 97, to boi ilmes with the natural significance of the ro FII. in za ruke : spot (FUTA) which can be either it village or it to or it country. But the author Bopadera camot litt'e 1116 aunt the first thos, fora he would have then, to avoid anbiguity mentioned 20 mm aagreea respectively. wherefore the wind 72 should be taken here to mean it Jagt i. Pus il Mull; ita We knoir frun the present commentary that ther is an entry called Vala It follows froin this that Bonprandes il With al-co il lative of the country, called Verda. If the native vuntries of Narayant and ui Bopadeva be identical, that of Nârânyana, the commentator should then be in Central India, for Bopadeva, the protegee of Hemadri is known to be a native of Berar. If their native countries be different, the Veda of Narayana may be the same as the Veda Nâdu in North Travancore. If 80, the cominentator may be the same as Narayana, the author of Tantrasunuchchaya,* who is known to be an ancient author born in Jayantamangala (Chennassumanakkal) existing in Veda Nilu. It is evident from the colophon, "Telontafoneg Toga TĀ EFHITAKE" at the end of the Tantrasamuchchaya, that it was written in 1529 of the Kali vear, and that its author lived in the first half of the 15th century A. I). TRIVANDRUM. T. GANAPATI SÂSTRÎ. * This work trots of religious formularies for the wroship of tho Deities
No text on this page.
निवेदना। - वाररुचसङ्ग्रहो नामायं दीपप्रभाख्यया व्याख्ययोपेतः (चेन्नूर्) कृष्णतन्त्रिमहाशयसकाशादुपलब्धं केरलीयग्रन्थलिपिमुपद्विशतवर्षवृद्धं शुद्धमादर्श- माश्रित्य संशोधितः । कारकाणि , समासाः, तद्धिताः , तिङः, कृतश्चेत्येतावदत्र वस्तुजातं पञ्चविंशत्या कारिकाभिः संगृहीतम् । तच्चोदारगम्भीराभिरनतिपरिमिताभि. भणितिभिर्दीपप्रभयोपपादितम् । संग्रहकारो वररुचिस्तत्रभवता दीपप्रभाकारेण "न कार्येन भासन्ते तादृशां गिरः" (पृ.५४) इत्यात्मनस्तदुक्तिगतकृत्स्नार्थप्रतिपत्त्यपाटवं शंसता गौरवस्य परां काष्ठां नीतः । कचिच्च "सूत्रकारकल्पः संग्रहकारस्तद्वच्छान्दसं प्रयोगं कृतवान्' (पृ.३५) इति संग्रहकारस्य सूत्रकारतुल्यं शब्दप्रयोगे स्वातन्त्र्यं वदन्नसो तं वरणाचं कात्यायनापरनामानं वार्तिककारवररुचिमेव मन्यत इव । विक्रमार्कसभानवरत्नान्तर्गतो वा वररुचिरस्य संग्रहस्य कर्ता कामं स्यात् । अस्त्याशौचाष्टकमिति कश्चिद् ग्रन्थो वररुचिप्रणीत उपलब्धः, यत्राशौचविधयः सर्वे निपुणं संगृहीताः । इदमाशौचाष्टकमपि विपुलविप्रकीर्णार्थसंग्रहणस्वभावस्य प्रकृतस्यैव वररुचेः कृतिः सम्भाव्यते । त्रयोऽन्ये वररुचिसम्बन्धवन्तो ग्रन्था वर्तन्ते १. वाररुचम् (ज्योतिश्शास्त्रम्) २. वाररुचम् (अभिधानम् ) ३. वाररुचः (प्राकृतप्रकाश:) इति । सर्वेषामेषां शास्त्रविषयताया नियमेन दर्शनादिदमुहितु शक्यं , यद् नानाशास्त्र- विशारद एक एव वररुचिरुच्चावचशास्त्रग्रन्थप्रणयनकौतुकादेनान् ग्रन्थान् विरचित- . वानिति । दीपप्रभायां भर्तृहरिः कैयटो जिनेन्द्रो हरदत्तश्च स्मर्यन्ते , न तु तद- र्वाचीनः कश्चित् । तेन तद्वाक्यशैलीगुणविशेषेण च तस्याः कर्ता प्राचीनः कश्चिन्मा- ननीयो महावैयाकरण इति प्रत्येतुं शक्यते । सा हि प्रौढ्या दैवव्याख्यानेन पुरुष- कारेण तुलयितुं शक्यते । दीपप्रभाकारो नाम्ना नारायण इति , वेदाभिधानज- नपदान्तर्गतः कश्चिद् ग्रामस्तस्य निवासस्थानमिति च - २ "वेदो नाम महत्पदं जनपदो यत्र द्विजानां ततिः साङ्ग वेदमधीत्य वाच्यमखिलं मीमांसतेऽस्य स्फुटम् । तत्र ग्रामवरे कचिन्निवसता नाम्ना च नारायणे- नैषा वाररुचार्थदीपनपरा दीपप्रभा निर्मिता ॥" इत्यस्माद् प्रन्यान्तिमपद्यादवगम्यते । स चासौ जनपदः क सन्निविष्ट इति न नि- श्वयः । उत्तरवञ्चिमण्डले कोट्टयपुरादुत्तरत आलुवानगराद् दक्षिणतश्च सन्नि- विष्टस्य भूभागस्य 'वेदनाडु' इति व्यपदेशोऽस्तीति केरलीयब्राह्मणाः कथयन्ति । तस्य प्रामाण्ये स वेदजनपदो मन्तुं शक्यः । नाडुशब्दस्य केरलभाषायां जनपद- वाचित्वात् । 'विद्वद्धनेशशिष्येण भिषक्केशवसूनुना । तेने वेदपदस्थेन बोपदेवद्विजेन यः ॥" इति कविकल्पद्रुमस्यान्ते श्लोकः पठयते । अत्र ‘वेदपदस्थेन' इत्यत्र स्थाधात्वर्थान्व- यानुगुण्यात् पदशब्दः स्थानवाची युक्तः । स्थानं च ग्रामरूपं पुररूपं जनपदरूपं वा वक्तव्यम् । तत्र ग्रामे विवक्षिते 'वेदग्रामजुषा' इत्यसन्देहायावक्ष्यद् बोपदेवः । पुरविवक्षायां 'वेदपुरस्थेन' इत्यवक्ष्यत् । अतो वेदाख्यजनपदस्य प्रकृतग्रन्थाधीत- त्वाच्च जनपदरूपमेव स्थानं पदशब्देन ग्रहीतुमुचितम् । एवञ्च नारायणवद् बोप- देवोऽपि वेदाख्य जनपदवासीति फलति । यदि नारायणबोपदेवयोर्वेदजनपदाव- भिन्नौ , तर्हि हेमादिशिष्यस्य बोपदेवस्योत्तरदेशीयत्वादुत्तरदेशेष्वेवं वेदाख्यो जन- पदो नारायणोक्तो मृग्यः । यदि तु तौ भिन्नौ , तर्हि वश्चिमण्डलान्तर्गत एव नारायणस्य जनपदः प्रत्येतव्यः । एवं तु प्रकृतो नारायणम्तन्त्रसमुच्चयाख्य- ग्रन्थकारानारायणादभिन्न इत्यपि कामं सम्भाव्यतां , यतः स वेदजनपदान्तर्गत- जयन्तमङ्गला(चेन्नस्मनक्कल् )भिजनः प्राचीनश्च । स हि तन्त्रसमुच्चयस्यान्ते 'कल्यब्देष्वतियत्सु नन्दनयनेष्वम्भोधि(१५२९)सङ्ख्येषु' इति तन्निर्माणकालं वदन् १४२६तमे कैस्ताब्दे स्वस्य सत्तामावेदयति । अनन्तशयनम् । त. गणपतिशास्त्री.
॥ श्रीः॥ वाररुचसंग्रहः। दीपप्रभाख्यव्याख्योपेतः । यस्य प्रसादजलबिन्दुनिपातलब्ध- शाखोपशाखकुसुमाः फलिताश्च भान्ति । प्रारम्भरूपतरवोऽखिलदेहभाजां स्तान्मे स वाररुचसमहविग्रहाय ॥ तत्र तावञ्चिकीर्षितग्रन्थस्य 'मङ्गलाचारे'त्यादिस्मृतिसिद्धाविनपरिसमाप्त्या- दिप्रयोजनसिद्ध्यर्थ शिष्टाचारानुसरणार्थं च प्रबन्धारम्भेऽवश्यकर्तव्यं मङ्गलाचरणं अन्थगौरवमयात् तस्मिन्ननिवेशितं विधायं सुप्तिकृतां कारके विधानात् समा- सतद्धितयोः कारकहेतुकसुबन्तनिमित्तत्वाच्च सकलनिदानभूतकारकावधारणस्य प्रथमप्राप्ततां दर्शयति प्रयोगमिच्छता ज्ञातुं ज्ञेयं कारकमादितः। इति।प्रयुज्यत इति प्रयोगः। 'अकर्तरि च कारके संज्ञा- याम्' (३. ३. १९) इत्यत्र संज्ञाग्रहणस्य प्रत्याख्यातत्वात् कर्म- णि घञ् । लोकेनादिप्रयुक्ताः साक्षाद्वाचका ये शब्दाः साधवो गवादयः, तेषां स्वरूपं गवाधुच्चारणेच्छुभिः बाला- दिभिरशक्त्यादिनान्यथोच्चारितेभ्यः साधुशब्दस्मारणहारेणार्थप्र- त्यायनसमर्थेभ्यो गाव्याद्यादिमदपशब्देभ्यो विवेकेन परि- ज्ञातुमिच्छता तदुपायजिज्ञासुना प्रथमं कारकस्वरूपम- वधार्यमित्यर्थः । तत्र प्रयोगं ज्ञातुमिच्छतेत्यनेन 'व्याकरणस्य यत् प्रयोजनं साधुशब्दपरिज्ञानं नाम, तदेवास्य प्रकरण- २ वाररुचसंग्रहः। स्यापि । विषयश्च स एव, ये साधुशब्दाः । अधिकारी च स एव, यः शब्दसाधुत्वं जिज्ञासुः' इत्यप्युक्तं भवति ॥ कर्मादिभेदप्रदर्शनपूर्वकं तत्स्वरूपमाह संज्ञया षड्दिधम् इत्यादिना । तत् कारकं संज्ञया कर्तृकर्मकरणसंप्रदाना- पादानाधिकरणरूपया षट्प्रकारयुक्तं भवतीत्यर्थः । ननु हेतोरपि स्वव्यापारे प्रेषणादौ कर्तृत्वात् 'कारके' (१.४.२३) इति तत्राधि- काराच्च कारकत्वात् सप्तविधं वाच्यम्। नैतदस्ति। 'तत्प्रयोजको हेतुश्च' (१.४.५५) इत्यत्र चकारेणैकसंज्ञाधिकारहेतुकबाधप्रसङ्गप- रिहाराय कर्तुः समुश्चितत्वात् कतैव सन् हेतुसंज्ञो भवतीत्य- र्थाश्रयणात् कर्तर्यन्तर्भूतत्वात्। तथा चोक्तं- 'कतैव विहितां शास्त्र हेतुसंज्ञां प्रपद्यत' इति ॥ अवान्तरभेदमाह- भेदास्त्रयोविंशतिधा पुनः ॥१॥ इति । तेषां कर्मादीनां भेदास्त्रयोविंशतिप्रकारा द्र- ष्टव्याः ॥ १॥ एवमुक्ते कथमित्याकाङ्क्षायां तत्पूर्त्यर्थं कर्बधीनत्वात् करणादीनां प्रवृत्ति- निवृत्त्योस्तस्य प्राधान्यात् प्रथमं तद्भेदं दर्शयन्नाह- तत्र पञ्चविधः कर्ता इति । तत्र तेषु कर्मादिकारकेषु मध्ये पश्चप्रकारः कर्ता ३ वाररुचसंग्रहः। भवति । कथम् । स्वतन्त्रकर्ता त्रिविधः अभिहितानभिहित- कर्मकर्तृभेदेन । तत्राभिहितानभिहितभेदः सुविषय एव क- चित् प्रदर्शितोऽन्यत्राप्यूहनीय इति सार्वत्रिकोऽप्ययमत्रैवोक्तः हेतुकर्ता द्विविधः चेतनविषयोऽचेतनविषयश्चेति । अभिहिते 'देवदत्तः पचति, यज्ञदत्तस्तिष्ठतीति । अत्र तिङा कर्तुरभिहित- त्वादनभिहिताधिकारविहिततृतीयाविभक्तेरभावात् प्रथमैव भ- वति । तथा चोच्यते-'अभिहिते प्रथमाभाव' इति । अ. नभिहिते ‘पन्यते देवदत्तेन, स्थीयते यज्ञदत्तेने ति। अत्र स्व. तन्त्रः कर्ता (१.४.५४) इति कर्तृसंज्ञायां कर्तृकरणयोस्तृतीया (२. ३.१८) इति तृतीया। कर्मकर्तरि 'भिद्यते कुसूलः स्वयमेव, पच्यते ओदनः स्वयमेवेति। भिनत्ति कुसूलं देवदत्त इत्यस्मिन्नर्थे कुसू. लस्य कर्मणः सौकर्यातिशयात् कर्तृत्वविवक्षायामयं प्रयोगः । 'कर्मवत् कर्मणा तुल्यक्रियः' (३.१.८७) इति कर्मवद्रावादात्मने- पदम् । चेतनविषये 'पाचयत्योदनं देवदत्तेने ति । अत्र प्रयो- जकव्यापारेण व्याप्यमानत्वात् प्रयोज्यस्य कर्मसंज्ञा प्राप्ता 'ग. तिबुद्धि-(१.४.५२)इत्यादिना नियम्यते। तेन स्वव्यापारे स्वात- न्यमाश्रित्य कर्तृसंज्ञायां तृतीया भवति । तदुक्तं "गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥" इति। अचेतनविषये भिक्षा वासयति, कारीषोऽग्निरध्यापयतीति। अचेतनानां प्रेषणाध्येषणव्यापारासंभवात् कथं हेतुसंज्ञाप्राप्ति- रिति चेत् । न । तत्समर्थाचरणसद्भावात् । तथाचोक्तं भगवता ४ वाररुचसंग्रहः। , भाष्यकारेण-'नावश्यं स एव वासं प्रयुङ्क्ते य आह उष्यतामिति। तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽपि वासं प्रयोज- यति । भिक्षाश्चापि प्रचुरा व्यञ्जनवत्यो लभ्यमाना वासं प्रयो- जयन्ति । तथा कारीषोऽग्निर्निर्वात एकान्ते सुप्रज्वलितोऽध्ययनं प्रयोजयतीति । एवं वा कर्तुः पञ्चविधत्वम् । स्वतन्त्रकर्ता द्विवि- धः चेतनकर्ता अचेतनकर्तेति । हेतुकर्ता प्रेषणाध्येषणतत्स- मर्थाचरणलक्षणव्यापारभेदात् त्रिविधः। चेतने 'देवदत्तः पच- ती'त्यादि । अचेतने 'नदी वहति, कूलं पतति , एधाः पचन्ति स्थाली पचतीति। प्रवर्तयितृत्वादीनां धर्माणां शब्दविषयतया स- माश्रयणादत्र कर्तृत्वं मुख्यमेव । तथाचोक्तं "धर्मेरम्युदितैः शब्दे नियमो न तु वस्तुनि । कर्तुर्धर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥" इति । व्याकरणान्तरे त्वर्थी कर्ता। 'तथायुक्तं च-(१.४.५०)इति लक्षणं चेतनाचेतनविषयं प्रणीतम् । प्रेषणे 'देवदत्तः कटं कारयति, यज्ञदत्त ओदनं पाचयतीति । अध्येषणे 'छन्दो- ऽध्यापयति माणवकं, व्याकरणमध्यापयतीति । निकृष्टविषयो नियोगः प्रेषणम् , अभ्यर्हितविषयोऽध्येषणमित्यनयोर्भेदः । (तत्समर्थाचरणे) 'भिक्षा वासयति , कारीषोऽग्निरध्यापयतीति। उक्तं च-प्रेषणाध्येषणे कुर्वस्तत्समर्थानि चाचरनिति ॥ , १. 'योजयति य', २. 'ति ब्रवीति किं तर्हि तू' इति मुद्रितपुस्तक- पाठः.
- , वाररुचसंग्रहः। एवं कर्तृभेदमुक्त्वा विभक्त्यनुक्रमानुसारेण कर्मादिभेदमाह - कर्म सप्तविधं भवेत् । इति । कथं सप्तविधत्वम् । उच्यते । 'कर्तुरीप्सिततमं कर्म'(१.४.४९) इति त्रिविधं निवर्त्य विकार्य प्राप्यं चेति । यस्योपादानं मृदादि नास्ति, तन्निवर्त्यम् । यथा संयोगं करो. तीति। यस्यापि सदपि तन्न विवक्ष्यते, तन्निवर्त्यम् । यथा घटं करोतीति। यस्यापि सतोऽप्यभेदो न विवक्ष्यते, किं तर्हि , भेद एव, तदपि निवर्त्यमेव । यथा मृदा घटं करोतीति । उक्तं च हरिणा- "सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥" इति। किमिदं निवर्त्यत्वं नाम । असतः स्वरूपलाभ इति चेत्। न। सत्कार्यवादिमते तस्यानित्यत्वात् । सर्वपार्षद हीदं शास्त्रम् । तस्माज्जन्मना प्रकाश्यमानत्वं निर्वय॑त्वम् । एतच्चोक्तं- "यदसज्जायते सहा जन्मना यत् प्रकाश्यते । तन्निवर्त्यम्" इति । प्रकृतिविकारभेदविवक्षायां तु विकार्य कर्म । अत्रावान्तर- भेदो द्रष्टव्यः मूलोच्छिन्नप्रकृतिकमुत्पन्नगुणान्तरप्रकृतिकं चेति। आद्यस्य काष्ठानि भस्म करोतीत्यायुदाहरणं , द्वितीयस्य सुवर्ण कुण्डलं करोतीति । विकार्य तु कर्म द्वेधा व्यवस्थितम् । उक्तंच wo वाररुचसंग्रहः। "प्रकृत्युच्छेदसम्भूतं किश्चित् काष्ठादिभस्मवत् । किश्चिद गुणान्तरोत्पत्त्या सुवर्णादिविकारवद ॥ इति। यत्र क्रियाकृतो विशेषः प्रत्यक्षानुमानागमैन ज्ञायते, केवलं क्रियया प्राप्यते, तत् प्राप्यम्। यथा आदित्यं पश्यति, नगरमु- पसर्पति, ग्रामं गच्छतीति। निर्वत्र्ये तु कर्मण्यात्मलाभ एव विशेषः प्रत्यक्षादवधार्यते । विकार्येऽपि भस्मकुण्डलादौ प्रत्यक्षेण । कचि- दनुमानात् । यथा वृक्षमवसिञ्चतीत्यत्र । तदानीं सूक्ष्मत्वाद् दुरवधारत्वेऽपि पश्चात् प्रचिततरविशेषदर्शनादनुमीयते नून- मवसेचनक्रियाकृतो विशेष एष इति । कचिदागमात् । 'बीहीन प्रोक्षती'त्यत्र प्रोक्षणेन वीहिषु कश्चिदतिशयो गम्यत इत्यागमा- दवगम्यते । कर्ममीमांसकास्त्वेभ्योऽतिरिक्तं संस्कार्यमेतत् करें- सङ्गीकुर्वन्ति । उक्तं च - "क्रियाकृता विशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत् प्राप्यं कर्म कथ्यते ॥" इति। अत्र केचिच्चोदयन्ति । ननु नास्त्येव प्राप्यं कर्म, सर्वत्र क्रियाकृतविशेषावधारणात् । तथाहि-दृष्टिविषेण विषधरेण नि- रीक्षितो विषयो ज्वलनज्वालावलीढो लक्ष्यत इति तावत् संप्र. तिपन्नम् । तत्साधादन्यत्रापि क्रियाहितो विशेषः समुन्नेयः । तैजसं हि चक्षुःप्राप्यकारीति तेन युक्तो विषयोऽवश्यं विक्रियते। यथा चायस्कान्तसन्निधौ लोहस्य भ्रमणं, कतकसन्निधौ च ज. लस्य प्रसादः। एवं सर्वत्र । अत्रोच्यते। कचिद् विशेषदर्शने- ऽपि सर्वत्र तथाभावे प्रमाणाभावः। किन क्रियाफलेऽत्र विका- , वारस्यसंग्रहः। रोऽभिमतः । आदित्यादीनां तु दर्शनादिक्रियाहेतुत्वं, न फल- ता, कर्तृत्वात् फलस्य (?) यत्र पुनरत्रभवतो विकारबुद्धिः, तत्रापि न क्रियावशाद् विकारः। (अपितु) तेजःसंपर्कादेव । अयं- स्कान्तादावपि वस्तुस्वभावादेव, न क्रियातः। न चेद् विकार- योगः, कथं तर्हि क्रियासिद्धावङ्गतेति चेद् , योग्यदेशापत्त्यादयो विशेषाः साधनतां संपादयन्ति प्राप्यकर्मण इत्यदोषः । य- थोक्तम् - "आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥" इति । सूत्रान्तरनिर्दिष्टं चतुर्विधं तटस्थमनीप्सितमकथितमन्यपू- वकं चेति । तटस्थे ग्रामं गच्छन् वृक्षमूलान्युपसर्पती'त्यादि। अनी- प्सिते 'विषं भुङ्क्ते, व्याघ्रान् पश्यतीति । उभयत्रापि तथायुक्तं चानीप्सितम्' (१.४.५०) इति कर्मसंज्ञा । ईप्सितादन्यदित्यर्था- श्रयणात्।अकथिते 'गां दोग्धि पयः, धनिनं याचते धनमिति। अत्र संज्ञान्तरैरपादानादिभिरकथिते गवादिके 'अकथितम्-'(१. ४. ५१)इति कर्मसंज्ञा। अन्यपूर्वके 'देवदत्तमभिक्रुध्यति, देवदत्त- मभिद्रुह्यतीति । अत्र 'क्रुधद्रुह-(१.४.३७) इत्यादिना संप्रदान- संज्ञायां प्राप्तायां 'क्रुधदुहोरुपसृष्टयोः कर्म' (१. ४. ३८) इति कर्मसंज्ञैव भवति, विशेषविहितत्वात् । तथा अक्षान् दीव्यतीत्यत्र पूर्वसूत्रेण करणसंज्ञमेव कर्मसंज्ञं भवति 'दिवः कर्म च (१.४.४३) इत्यनेन । एतच्चोक्तं हरिणा "निर्वयै च विकार्य च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ , ८ - बाररुचसंग्रहः। औदासीन्येन यत् प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥” इति ॥ करणभेदमाह करणं द्विविधं चैव इति । अत्र केचिद् बाह्याभ्यन्तरभेदेन द्विविधत्वमा- चक्षते । यत् शरीरावयवादन्यत् , तद् बाह्यं, दात्रेण लुनाति परशुना छिनत्तीति । आभ्यन्तरं मनःप्रभृति, मनसा पाटलि- पुत्रं गच्छति, शिरसा देवं नमस्कुरुत इति । वयं तु स्वकरणा- न्यकरणभेदेनैतदुक्तमिति मन्यामहे । तत्र कर्तुरन्यद् दात्राद्यन्य- करणमित्युच्यते। यदा पुनः करणान्तराभावप्रतिपादनाय कर्तु- व विवक्षाप्रापितरूपभेदायत्तः करणभावः, तदा तत् स्वकर- णमित्युच्यते , तैक्ष्ण्यमात्मना छिनत्तीत्यादि ॥ संप्रदानं त्रिधा मतम् ॥ २॥ इति। अत्र स्वव्यापारभेदाद् भेदो द्रष्टव्यः। अनिराक. रणं प्रेरणमनुमतिश्च स्वव्यापरः। अनिराकरणे ‘उपाध्यायाय गां ददाती'त्यादि । स ह्युपाध्यायस्तद् गवाद्यभिसंबध्यमानं न निराकरोति । यदि क्रुद्धो निराकुर्याद् , दानमेव न संपद्येत । परस्वत्वापादनपर्यन्तं हि तत् । प्रेरणे 'माणवकाय भिक्षां ददा- ति धार्मिक' इत्यादि । स हि माणवको धार्मिकं संप्राप्य तं प्रेर- यति भिक्षां ददातु भवानिति । अनुमत्यां 'राज्ञे श्लोकं ददाति कविरि'त्यादि । स हि राजा श्लोकार्थपर्यालोचनेन कविं श्लाघ- , ९ वाररुसंग्रहः। मानस्तदाममनुमन्यते । अत्रानिराकरणस्या(ना)ङ्गत्वं संभा- वनया, अनुमतेस्तु सर्वत्र भावात् । गोबलीवर्दन्यायेनात्र भेदः ॥ २॥ अपादानं द्विधा चैव - इति । चलाचलभेदेन दैविध्यम् । चले 'धावतोऽश्चात् पतितः, सार्थाद् गच्छतो हीन' इत्यादि । अचले 'ग्रामादाग- च्छति, पर्वतादवरोहती'त्यादि । ननु ध्रुवस्य स्थिरात्मकस्य चल- त्वानुपपत्तेः सपरिस्पन्दानामश्चादीनामियं संज्ञा न प्राप्नोति । मैवम् । अत्र ध्रुवशब्द एकरूपवाची, न तु कूटस्थादिपर्यायः । ऐकरूप्यं चापायविषयमाश्रीयते । तदयमर्थः अपाये साध्ये यद् ध्रुवं यदेकरूपं, तेनापायेनानाविष्टमिति यावत् । ततश्च धावतोऽश्चात् पतित इत्यत्र पतनक्रियावेशाद् देवदत्तस्यैवा- पाययुक्तत्वादध्रुवत्वम्। अश्वस्य तु तदभावाद् ध्रुवत्वमेव । उक्तं च हरिणा "द्रव्यस्वभावो न धौव्यमिति सूत्रे प्रतीयते । अपायविषयधौव्यं यत् तु तावद्विवक्षितम् ॥ सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः । आविष्टं यदपायेन तस्याघ्रौव्यं प्रचक्षते ॥" इति। केचित् तु पठन्ति 'संप्रदानं द्विधा मतम् । अपादानं त्रिधा चैव' इति । तस्मिन् पाठे शास्त्रीयलौकिकभेदेन संप्रदानस्य दैविध्यं , निर्दिष्टविषयमुपात्तविषयमपेक्षितविषयं चेत्यपादानस्य १० वाररुचसंग्रहः। त्रैविध्यं च द्रष्टव्यम् । तत्र 'रुच्यर्थानां प्रीयमाणः (१.४. ३३) इत्यादिभिः सूत्रविधीयमाना शास्त्रीयेत्युच्यते। 'कर्मणा-(१.४, ३२) इति सूत्रेण विधीयमाना लौकिकी । यद्यपि सर्वा संप्रदान- संज्ञा शास्त्रेणैवोच्यते। तथापि हरिप्रभृतिभिः संप्रदीयते यस्मै स संप्रदानसंज्ञ इत्यन्वर्थसंज्ञाङ्गीकरणाल्लौकिक एव संप्रदानार्थः 'कर्मणा इति सूत्रेणोक्तः । 'रुच्या'दिभिस्तु यस्यां- कस्याञ्चित् संज्ञायां शेषषष्ठयां वा प्राप्तायां विधानाल्लौकिकार्था- भावाच्छास्त्रेणैव संप्रदानसंज्ञा कथ्यत इत्येवं शास्त्रीयलौकिक- भेदः । तत्र 'रुच्या दिसूत्रेण कर्मसंज्ञायां प्राप्तायां विधीयते दे- वदत्ताय रोचते मोदक इति। अत्र हि रुचिधातुः प्रीणयत्यर्थे वर्तते, अनेकार्थत्वाद् धातूनाम् । देवदत्तं मोदकः प्रीणयतीत्यर्थः । तथा च प्रीयमाण इति विशेषणमुपपन्नं भवतीति देवदत्तो रुचेः कर्म । अपरे हेतुसंज्ञायां प्राप्तायामित्याहुः। शेषषष्ठयां प्राप्तायामि- त्यन्ये । एवं 'श्लाघ[स्थाशपां ज्ञीप्स्यमानः' (१. ४. ३४) इति । अत्र ह्याख्यानकर्म संप्रदानं, ज्ञीप्स्यमानशब्दवाच्यत्वात् तस्येति दर्शने कर्मसंज्ञायां प्राप्तायां विधानम् । देवदत्ताय श्लाघत इत्यस्य ह्ययमर्थः --- देवदत्तं प्रति श्लाघमानस्तामेव श्लाघां तमेव ज्ञापयितुमिच्छतीति । अपरे यस्मा आख्यायते स संप्र- दानमिति वदन्तः शेषषष्ठयां प्राप्तायामित्याहुः । एष मतभेदः कैयटमिथैर्वर्णितः 'ज्ञीप्यमाने विवदन्ते यस्मा आख्या. यते स संप्रदानं, य आख्यायते स इत्यन्य' इति । 'धारेरु- त्तमर्णः' (१. ४. ३५) इति तु शेषषष्ठयां प्राप्तायाम् । देवद- त्ताय शतं धारयतीत्यत्र हि शतधारणस्य देवदत्तो निमित्तं, वाररुचसंग्रहः। ११ तेन दत्तत्वाद् धनस्य । पुष्पेभ्यः स्पृहयतीत्यत्र पुष्पाणामीप्सि- ततमत्वात् कर्मसंज्ञायां प्राप्तायां 'स्पृहेरीप्सितः (१. ४. ३६) इति विधानम् । एवं 'क्रुधदुहेासूयार्थानां यं प्रति कोपः' (१. ४. ३७) इति । देवदत्ताय राध्यतीक्षत इत्यत्र देवदत्तस्य गणक- प्रयोजकत्वाद्धेतुसंज्ञायां प्राप्तायां 'राधीक्ष्योर्यस्य विप्रश्नः' (१.४. ३९) इति वचनम् । एवं 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (१.४. ४०) इति । देवदत्ताय गां प्रतिशृणोतीत्यत्र हि देवदत्तो याच्या गां प्रतिजानानं प्रयुङ्क्ते । 'अनुप्रतिगृणश्च' (१. ४. ४१) इति कर्मसंज्ञायां प्राप्तायाम् । 'होत्रेऽनुगृणाती'त्यस्य हि होतारं शंसन्तं प्रोत्साहयतीत्यर्थः । एवं संप्रदानस्य दैविध्यं व्याख्या- तम् । अपादानस्य त्रैविध्ये हरिः प्रमाणम्। य आह निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥" , इति । कैयटमिश्रा अप्याहुः 'त्रिविधं चेदपादानमि'त्यादि । तत्र यस्य धातुनापायलक्षणो विषयो निर्दिष्टः, तन्निर्दिष्टविषय- मपादानम् । यथा-ग्रामादागच्छति, पर्वतादवरोहतीत्यादि । उपात्तः क्रियान्तरस्य गुणभावेन प्रधानभावेन वा यत्रापायल- क्षणो विषयः, तदुपात्तविषयम् । यथा-वलाहकाद् विद्योतत इति। अत्रहि निःसरणाने विद्योतने विद्योतनाङ्गे निःसरणे वा धु- तिर्वर्तते । वलाहकान्निःसृत्य ज्योतिर्विद्योतते , वलाहकाहा विद्योतमानं निःसरतीत्यर्थः। तथा कुसूलात् पचतीत्यादानाङ्गे पाके पचिर्वर्तते । एवं ब्राह्मणाच्छंसीति । यत्र क्रियाशब्दस्यांनु- १२ वारस्यसंग्रह। पलब्धेरनुमीयमाना क्रिया, तदपेक्षितक्रियम् । यथा माथुराः पाटलिपुत्रकेभ्य आयतरा इति । उपात्तविषये धातुनवापायः स्वीकृतः, अत्र तु तदभाव इति भेदः ॥ एवं विभक्त्यनुक्रमानुसारेण सम्प्रदानापादानभेदमुक्त्वा प्राप्तावसरं शेष- लक्षणं सम्बन्ध कारकान्यत्वादतिक्रम्याधिकरणभेदमाह - तथाधारश्चतुर्विधः। इति । यथा कर्मादीनां भेदः, तथाधारस्यापि भेदश्चतु- विध इत्यर्थः । कथम् । व्यापकमौपश्लेषिकं वैषयिक सामीपिकं चेति । व्यापके 'तिले तैलं, दनि सपिरिति। अत्र तिलादेस्तैला. दिना समवायसम्बन्धात् सकलावयवव्याप्त्या व्यापकमित्युच्यते। औपश्लेषिके 'कटे आस्ते, रथे तिष्ठतीति । अत्र सङ्गिनः कटादेः सकलावयवव्याप्त्यसम्भवात् कतिपयावयवव्याप्त्या कर्तुरुपश्ले- षादौपश्लेषिकमेतत् । आधाराधेयसम्बन्धस्योपश्लेषस्य सर्वाधिकर- साधारणत्वाद् गोबलीवर्दन्यायेनौपश्लेषिकस्यान्येषां च भेदः । वैषयिके 'खे शकुनयः, जले मत्स्या' इति। अत्राकाशादेस्तात्त्वि- कावयवाभावात् कल्पितप्रदेशतया सम्बन्धाद्वैषयिकमेतत् । अ- नन्यत्रभावश्चात्र विषयार्थः । सामीपिके 'गङ्गायां घोषः प्रतिवस- ती'त्यादि। अत्र प्रवाहरूपायां घोषवासस्याशक्यत्वात् समीपस्या- धेयेन सम्बन्धात् सामीपिकमेतत् । नन्वत्र मुख्य भवति गौणे कार्य कथं भवेत् । मैवमस्मिन् प्रकरणे ह्ययं न्यायो न विद्यते ॥
काररुषसंग्रहः। सापकप्रहणात् सिद्धे यत् तमग्रहणं कृतम् । स्वरितेनेति सूत्रेणाप्यधिकं कार्यमाहतम् ॥ एवं मेदं प्रदर्य सामान्य कारकमाचष्टे- करोति कारक इति।अन्वर्थत्वयुक्तेयं संज्ञेत्यर्थः । अन्यथा 'अकथितमि'- त्यत्राप्रधानवाच्यकथितशब्दाश्रयणे ब्राह्मणस्य पुत्रं पन्थानं पृ. च्छतीत्यत्र ब्राह्मणस्यापि कर्मसंज्ञा प्रसज्येत । अत्र च संज्ञा- या भाव्यमानत्वाद् भूतविभक्त्यनुपपत्त्या भाव्यमानविभक्तेः प्रथमायाः स्थाने सुब्व्यत्ययेन सप्तमी कृता । न च का- रकसंज्ञाया अपादानादिभिः समावेशः स्तम्बरम इत्यादौ सप्तमीकृदन्तोत्तरपदप्रकृतिवरसिद्यर्थो न प्राप्नोति, एकसंज्ञा- धिकारादिति वाच्यम् । 'ध्रुवमपाय' इति योगविभागेन कारक- संज्ञाविधानादपादानमिति सूत्रे ध्रुवमपाय इत्यनुवर्तनात् कार- कं सदपादानसंज्ञं भवतीत्येवमपादानादीनां विधानाच्च । न तु संज्ञाशब्दानां स्वरूपवाच्यत्वमेव युक्तमिति वाच्यम् । महत्याः संज्ञायाः करणादावृत्त्याद्यनुमानात् कारकं क्रियां कुर्वत् का- रकसंज्ञं भवतीत्यर्थलाभात् । शक्तिश्च कारकं , न तु द्रव्यम् । 'क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुरि'त्युक्तत्वात् ॥ नन्वेवं स्वतन्त्रस्यैव क्रियानिष्पत्तौ व्यापारदर्शनात् तस्यैव कारकसंज्ञा स्याद् , न तु कर्मादीनाम् । न च सर्वेषां तद्वत् स्वातन्त्र्यं, कर्तृसंज्ञाया अपि सर्वेषां प्रसङ्गादित्याशक्यह - १४ वाररुचसंग्रहः सर्व तत्स्वातन्त्र्याववक्षया ॥ ३ ॥ इति । कर्मादीनामपि कारकत्वमस्त्येव । तेषां कर्मादीनां यत् स्वव्यापारे वातन्त्र्यं, तद्विवक्षयेत्यर्थः। 'पूरणगुण-(२.२. ११)इति षष्ठीसमासप्रतिषेधोऽत्र न भवति, 'वर्तमानसामीप्ये-' (३.३.१३१) इति निर्देशेन तस्यानित्यत्वज्ञापनात् । अन्ये वाहुः-लोकप्रसिद्धाः शुक्लादयो गुणशब्देन तत्र गृह्यन्ते, न तु संसर्गादिलक्षणलक्षिता इति । अयमाशयः-यद्यपि विक्लेदना- दिप्रधानक्रियानिष्पादने कर्मादीनां स्वातन्त्र्यं नास्ति, तथापि वि- क्लित्तिज्वलनधारणावधिभावोपनिगमानुमत्यादिलक्षणेषु स्वव्या- पारेषु खातन्त्र्यात् तदाश्रयेण कारकसंज्ञा तेषां प्रवर्तत एव । स्व- व्यापारे स्वातन्त्र्यमनुभवतामेव प्रधानक्रियायामुपयोगात् कर्तृ- सन्निधावपि स्वव्यापारस्यानिवर्तनादविरोधः स्वातन्त्र्यपारतन्त्र्य- योः । अत एव करणं कारकमित्यादिसामानाधिकरण्योप- पत्तिः । कर्तृसंज्ञा तु कारकाधिकारादेव स्वातन्त्र्ये लब्धे पुनः खतन्त्रश्रुतेनियमार्थत्वात् स्वातन्त्र्यमेव यस्य , तस्य विधा- नात् पारतन्त्र्योच्छुरितानां कर्मादीनां न भवतीति न (कदा ? का) चिदनुपपत्तिः ॥ ३॥ एवं कारकसंज्ञां प्रतिपाद्य संज्ञावाक्यानां विधिवाक्यशेषभूतत्वात् तत्र विहितां सुब्विभक्ति नियमोक्तिमुखेन दर्शयति तत्र कर्तर्यभिहिते प्रथमैव विधीयते। इति । तिकृत्तद्धितसमासैरनभिहिते कर्तरि प्रातिपदि. कमात्रस्यावशिष्टत्वात् तत्र विहिता प्रथमैव भवति, नान्या -
पाररुचसंग्रहः।
१५
विभक्तिः । तत्र तिङाभिहिते देवदत्तः पचतीत्याधुदाहरणम् ।
छन्दोध्यायी देवदत्त इति कृता । श्राद्धी श्राद्धिको ब्राह्मण
इति तद्धितेन । ऊढरथोऽनड्डानिति समासेन ॥
तृतीया वाथ षष्ठी वा स्मृतानभिहिते द्विधा ॥ ४ ॥
इति । वाशब्दः समुच्चये । अथ शब्दः पादपूरणार्थः,
मङ्गलार्थो वा । 'मङ्गलमध्यानि शास्त्राणि प्रथन्ते' इति हि
भाष्यकारः प्राह । यथा 'भूवादयो धातवः' (१. ३. १) इत्यत्र
वकारः । अत्र विभक्तिः सामान्यं, तस्य द्वित्वसङ्ख्या भेदिका,
इति सामान्यभेदकधर्मलक्षणविधार्थविहितधाप्रत्ययोपपत्तिः ।
एवं सर्वत्र । अनभिहिते कर्तरि द्विप्रकारा विभक्तिः तृतीया
षष्ठी च । तृतीया 'ओदनः पच्यते देवदत्तेन' । षष्ठी 'भवतः
शायिका, भवत आसिका' । 'कर्तृकर्मणोः कृति' (२.३.६५) इति
कर्तरि षष्ठी । राज्ञां मतः, राज्ञां बुद्धः। 'क्तस्य च वर्त-
माने' (२. ३. ६७) इति षष्ठी । 'न लोका-(२. ३. ६९) इति
प्रतिषेधे प्राप्ते वचनम् । भवतः कटः कर्तव्यः । 'कृत्यानां कर्त-
रि वा'(२. ३. ७१) इति षष्ठी ॥ ४ ॥
तथा कर्मण्यभिहिते विभक्तिं विद्धि पूर्विकाम् ।
इति । तथेति कर्तृवदित्यर्थः । पूर्वैव पूर्विका । यावादि-
त्वात् कन् । प्रथमामित्यर्थः । ओदनः पच्यते देवदत्तेनेसायु.
दाहरणम् ।
अनुक्ते प्रथमां हित्वा पञ्चमी सप्तमी तथा ॥५॥
१६ बारकचत्रह। इति । अनुक्ते कर्मण्येता विभक्तीहित्वा वर्जयिला परि. शिष्टा द्वितीयादयो भवन्ति । द्वितीया 'प्रामं गच्छति, ओद. नं पचति' । तृतीया 'पित्रा सञ्जानीते, मात्रा सञ्जानीते' । 'संजो- ऽन्यतरस्यां कर्मणि' (२. ३. २२) इति तृतीया । चतुर्थी 'प्रामाय गच्छति, ग्रामाय व्रजति'। 'गत्यर्थकर्मणि-(२.३.१२)इत्यादिना चतुर्थी । एधेभ्यो ब्रजति, फलेभ्यो व्रजति । 'क्रियार्थोपपदस्य कर्मणि स्थानिनः (२.३.१४) इति चतुर्थी । न त्वा तृणाय मन्ये, न त्वा बुसाय मन्ये । 'मन्यकर्मण्यनादरे विभाषाप्राणिषु' (२. ३. १७) इति चतुर्थी । षष्ठी अपां स्रष्टा, पुरां भेत्ता । 'कर्तृकर्मणोः कृति' (२. ३. ६५)इति षष्ठी । 'अधीगर्थदयेशां कर्मणि (२. ३. ५२) इत्यादिभिर्विहिता षष्ठी नात्रोदाहरणम् । तत्र 'शेष इत्यधि- कारात् कर्मणि शेषत्वेन विवक्षिते षष्ठीविधानात् । 'कर्तृकर्मणोः कृति' इत्यत्र तु पुनः कर्मग्रहणाद् न शेषाधिकारः । तथा च धर्मानुस्मरणमित्यादौ समासो भवति । अन्यथा 'शेष' इत्येव सिद्धायां षष्ठयां पुनर्विधानान्नियमार्थाद् यथा मातुः स्मृत- मित्यादौ समासो न भवति, (य? त)थात्रापि न स्यात् । सूत्रप्रा- प्त्यपेक्षयैतदुक्तं , न तूपसङ्ख्यानमप्यपेक्ष्य । तेनाधीती ब्या- करण इत्यादौ 'क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्' (वा.२.३. ३६) इति कर्मणि सप्तमी भवति ॥ ५॥ तृतीया पञ्चमी चैव षष्ठी च करणे त्रिधा। इति । अनुक्त इत्यनुषङ्गः । उक्ते तु मांसपचमो वह्नि- रित्यादौ पूर्ववत् प्रथमा द्रष्टव्या । एवं सम्प्रदानापादानाधिकर- , पाररुचसंग्रहः। १७ गेषु गोनोऽतिथिः प्रस्कन्दनः स्तम्बः निशानिशाणे (?) त्यादौ प्रथमा द्रष्टव्येति भावः । तृतीया 'दात्रेण लुनाति, परशुना छि- नत्ति' । पञ्चमी 'स्तोकान्मुक्तः, अल्पान्मुक्तः' । 'करणे च स्तो. का-(२.३.३३) इत्यादिना पञ्चमी । षष्ठी 'सर्पिषो जानीते, मधुनो जानीते' । 'ज्ञोऽविदर्थस्य करणे' (२. ३. ५१)इति षष्ठी । घृतस्य यजते, सोमस्य यजते। 'यजेश्च करणे' (२. ३.६३) इति षष्ठी। यद्यपि 'ज्ञोऽविदर्थस्य करण' इत्यादौ शेषाधिकारात् कर्मादिव्य- तिरिक्तस्य च शेषत्वान्न करणे षष्ठीति सिद्धान्तः, तथापि प्रयो- गबाहुल्यप्रतिपादनाय भूतपूर्व करणत्वमाश्रित्य षष्ठी च करणे विधे' त्युक्तमिति केचित् । अन्ये तु 'तृतीया पञ्चमी चैव करणे कारके द्विधेति पठन्ति ॥ षष्ठी चतुर्थी तृतीया संप्रदाने त्रिधा मता ॥६॥ इति । षष्ठी 'पुरुषमृगश्चन्द्रमसो दातव्यः' । 'चतुर्थ्य- थे बहुलं छन्दसि' (२. ३. ६२) इति षष्ठी । अत्रापि पूर्ववत् षष्ठीप्रदर्शनोपपत्तिः। 'चतुर्थी च तृतीया च सम्प्रदाने द्विधा मतेति वा पाठः। चतुर्थी 'उपाध्यायाय गां ददाति' । 'चतुर्थी सम्प्रदाने (२.३.१३) इति चतुर्थी । तृतीया 'दास्या मालां सम्प्र- यच्छते, वृषल्या सम्प्रयच्छते' । दास्यै मालां ददातीत्यर्थः। 'दाणश्च सा चेञ्चतुर्थ्यर्थे(१.३.५५) इत्यात्मनेपदम् । अशिष्टव्यवहारे तृती- याया वक्तव्यत्वाच्चेच्छब्दस्य चार्थवृत्तित्वाद्वा तृतीया ॥६॥ पञ्चमी खल्वपादाने वर्तते न ततोऽन्यतः। इति। खल्वित्यवधारणे । अन्यत इति आद्यादित्वात् प्रथ- १८ वाररुषसंग्रहः। माथें तसिः। अपादाने कारके पञ्चम्येव । ततः पञ्चम्या अन्या विभक्तिर्नास्ति । वृक्षात् पर्ण पततीत्याधुदाहरगम् ॥ सप्तम्येवाधिकरणे इति। स्थाल्यां पचतीत्यायुदाहरणम् । ननु च 'कृत्वोऽर्थ- प्रयोगे कालेऽधिकरणे (२. ३.६४) इति द्विरह्रो भुत इत्यादाव- धिकरणे षष्ठयपि भवति । नैषाधिकरणे,शेषाधिकारादित्यदोषः । एवमपि पुष्येण पायसमश्नीयादित्यादौ 'नक्षत्रे च लुपि'(२.३.४५) इत्यधिकरणे तृतीयापि भवति । सा किं न दर्शिता । एवं तर्हि एवकारो भिन्नक्रमः। अधिकरण एव सप्तमी, न कारकान्तर इति सप्तमी नियम्यते। कथं तर्हि अघीती व्याकरण इत्यादौ 'क्तस्ये- विषयस्य-'(वा० २. ३. ३६) इति कर्मणि सप्तमी । उपस- यानानपेक्षया चैतदुक्तमित्यदोषः । अन्ये त्वस्य व्याख्यान(स्य स ? स्यासा)मञ्जस्यं मन्यमानाः पाठान्तरं वर्णयन्ति "पश्चमी खल्वपादाने तथाधिकरणे द्विधा। तृतीया सप्तमी चैव” इति ॥ प्रकृतमुपसंहरति- कारकस्यैष सत्रहः ॥ ७॥ इति । अत्र यदि सामान्येन येनकेनाप्यभिहितेऽनमि- हितेच कर्मादिकारके विभक्तयो भवन्तीत्युच्यते, तदा कटं करोति भीष्ममुदारं शोभनं दर्शनीयमित्यादौ ईप्सिततमविशेषणवि- वारस्यसंग्रहः। १९ शिष्टकटवस्तुगतकर्मणः साकल्येन तस्मादुत्पद्यमानया द्वितीय- याभिहितत्वाद् भीष्मादिभ्यो द्वितीया न स्यात् । यथा कृतः कटः शोभनो दर्शनीय इत्यादौ करोतेरुत्पद्यमानेन क्तप्रत्ययेन सर्वस्य कर्मणोऽभिहितत्वादन्येभ्यो द्वितीया न भवति । तस्मा- द्विशेषविषयमभिहितानभिहितत्वमत्राभिमतम् ॥७॥ के पुनस्तद्विशेषा इत्यत्राह- समासस्तद्धितस्तिकृच्चत्वारस्तेऽभिधायकाः । त एवानभिसम्बन्धाद् भवन्त्यनभिधायकाः ॥८॥ इति।अनभिसम्बन्धादिति समासादीनां कर्मादिनाभिधे- येनाभिधायकत्वेन सम्बन्धाभावादित्यर्थः । न्यायसिद्ध चैतत् , न तु वचनलभ्यम् । तथाहि-इह यस्माद् या विभक्तिरुत्पद्यते, तया तहाच्यगतकर्मादि वक्तुं द्योतयितुं वा शक्यते, नान्यवा- च्यगतमपि । कटशब्दश्च कटत्वजातियुक्तमर्थमाह , नतु भीष्मा- द्याकारविशिष्टम् । ततश्च यथा तहिशिष्टप्रतिपादनाय तत्प्रयो- गो भवति, एवं तद्गतकर्मादिप्रतिपादनाय तेभ्योऽपि द्वितीयाद- यो भवन्त्येव । क्तप्रत्ययस्तु प्रकृत्यर्थस्य क्रियारूपस्य कर्मत्वा- भावात् तं प्रति यस्य कर्मभावः, तमभिधत्त इति युक्तं भीष्माद्या- कारविशिष्टकटकर्माभिधानं तस्य ॥ ८ ॥ - अमिधायकोक्तिप्रसनायातसमासस्वरूपमाह षोढा समासः संक्षेपाद इति । अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिकर्मधारय-
२०
वाररुचसंग्रहः।
भेदेन षट्प्रकारः समासः । संक्षेपात् संकोचाद् , अवान्तरभेदा-
विवक्षयेत्यर्थः । तत्र द्विगुकर्मधारययोस्तत्पुरुषेऽन्तर्भावाद् गोब-
लीवर्दन्यायेन भेदः॥
अष्टाविंशतिधा पुनः।
इति। अवान्तरभेदविवक्षायां त्वष्टाविंशतिप्रकार इत्यर्थः॥
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥ ९ ॥
इति । यदि नित्यत्वमनित्यत्वं च भेदकधर्म आश्रीयते,
तदा दैविध्यम् । तत्र नित्यसमासः कारणभेदात् त्रिधा भवति।
कश्चिद्विभाषाधिकारात् प्राग विधानात् । यथा-अधिस्त्रीत्यादिः।
कश्विन्नित्याधिकारविहितत्वात् । यथा-उद्दालपुष्पप्रभञ्जिकादिः
'नित्यं क्रीडाजीविकयोः (२.२.१७)इत्यादिना विहितः । क-
श्चित् सामर्थ्यात् । यथा सुराजा, अतिराजा, ब्राह्मणार्थः सूप
इत्यादिः। अत्र स्वादीनां विग्रहवाक्यस्थानां शोभनाद्यर्थप्रति-
पादनसामर्थ्याभावादन्येन विग्रहप्रदर्शनात् सामर्थ्या वाक्याभा-
वलक्षणं नित्यत्वम् । अनित्यसमासो विभाषाधिकारविहिताप-
त्रिगर्तादिः । एवं लुगलुक्त्वाभ्यामपि दैविध्यम् । लुग् 'राजपु.
रुषः, ब्राह्मणकम्बलः' । अलुग् 'दूरान्मुक्तः, अल्पान्मुक्तः । स्तो
कान्तिक-(२.१.३९) इति समासः। 'पञ्चम्याः स्तोकादिभ्यः' (६.
३.२)इत्यलुक् । एवमानवधिकालुक्प्रकरणस्थौजःसहोम्भस्तम
सःप्रमृतिसूत्रविहितौजसाकृतादयो द्रष्टव्याः ॥९॥
वाररचसंग्रहः। २१ अष्टाविंशतिधेत्युक्तं विवृणोति - तत्राष्टधा तत्पुषः इति । सप्तविभक्तयन्तनञ्तत्पुरुषभेदेनाष्टप्रकारस्तत्पु- रुषः। तत्र प्रथमातत्पुरुषः-पूर्व कायस्य पूर्वकायः, अपरका- यः । 'पूर्वापराधर-(२.२.१)इत्यादिना समासः। अर्ध पिप्पल्याः अर्धपिप्पली । 'अर्ध नपुंसकम् (२.२.२)इति समासः। द्वितीयं भिक्षायाः द्वितीयभिक्षा, तृतीयभिक्षा। 'द्वितीयतृतीय-(२.२.३) इत्यादिना समासः । प्राप्तो जीविकां प्राप्तजीविकः, आपन्नजी- विकः । 'प्राप्तापन्ने च द्वितीयया'(२.३.४)इति समासः। मासो जातस्य स मासजातः, संवत्सरजातः । 'कालाः परिमाणिना' (२.२.५) इति समासः। द्वितीयातत्पुरुषः-कष्टं श्रितः कष्टश्रितः, कान्तारश्रितः। द्वितीया श्रिता-'(२.१.२४)इत्यादिना समासः। खटारूढो जाल्मः । 'खट्वा क्षेपे'(२.१.२६) इति समासः। अहर- तिमृता मुहूर्ताः, रात्र्यतिसृता मुहूर्ताः । 'कालाः' (२.१.२८) इति समासः । मुहूर्तसुखं, सर्वरात्रकल्याणी । 'अत्यन्तसंयोगे च' (२.१.२९)इति समासः। तृतीयातत्पुरुषः-शकुलया खण्डः शङ्कुलाखण्डः। 'तृतीया तत्कृता--(२.१.३०) इति समासः । मासेन पूर्वः मासपूर्वः, पितृसदृशः। 'पूर्वसदृश-(२.१.३१) इत्यादिना समासः। अहिना हतःअहिहतः, नर्भिन्नः नखभिन्नः। 'कर्तृकरणे कृता बहुलम् (२.१.३२) इति समासः । दध्युपसिक्त ओदनो दध्योदनः । 'अन्नेन व्यञ्जनम् (२.२.३४)इति समासः। गुडेन मिश्रा धानाः गुडधानाः। भक्ष्येण मिश्रीकरणम् (२.१.३५) २२ वाररुचसंग्रहः। इति समासः । चतुर्थीसमासः- यूपदारु, कुण्डलहिरण्यं, ब्रा- ह्मणसूपः, कुमारबलिः। 'चतुर्थी तदर्था-(२.१.३६)इति समासः। पञ्चमीसमासः-वृकभयं, दस्युभयम् । 'पञ्चमी भयेन'(२.१. ३७)इति समासः। सुखापे.तः, कल्पनापोढः। 'अपेतापोढ-(२.१. ३८)इति समासः । षष्ठीसमासः-राजपुरुषः, ब्राह्मणकम्बलः। 'षष्ठी' (२.२.८) इति समासः । ब्राह्मणयाजकः, क्षत्रिययाजकः । 'कर्तरि च'(२.२.१६)इति प्रतिषेधे प्राप्ते 'याजकादिभिश्च' (२.२.९) इति समासः । सप्तमीसमासः- अक्षशौण्डः, अक्षधूर्तः। 'सप्त- मी शौण्डैः (२.१.४०)इति समासः। सांकाश्यसिद्धः, आतपशुष्कः। 'सिद्धशुष्कपक्कबन्धैश्च' (२.१.४१) इति समासः । तीर्थध्वाङ्क्षः, तीर्थकाकः। 'ध्वाङ्क्षण क्षेपे'(२.१.४२) इति समासः । मासदेयं, संवत्सरदेयम् । 'कृत्यैर्ऋणे'(२.१.४३) इति समासः । अरण्ये. तिलकाः, अरण्येमाषकाः । 'संज्ञायाम् (२.१.४४) इति समासः। 'हलदन्तात् सप्तम्याः-(६.३.९)इत्यलुक्। पूर्वाह्नकृतम्, अपरा- ह्रकृतम्। 'क्तेनाहोरात्रावयवाः (२.१.४५) इति समासः। तत्रकृतं, तत्रभुक्तम् । तत्र'(२.१.४६)इति समासः। अवतप्तेनकुलस्थितम्, उदकेविशीर्णम् । 'क्षेपे'(२.१.४७) इति समासः । पात्रेसमिताः, उदुम्बरमशकाः । 'पात्रेसमितादयश्च' (२.१.४८)इति समासः। नसमासः अब्राह्मणः, अवृषलः । 'नञ् (२.२. ६) इति समासः॥ षड्डिधः कर्मधारयः। इति । सामान्यविशेषकुत्सितपूर्वपदोपमानपूर्वपदोपमि- तपूर्वपदवर्णोभयभेदेन षड्डिधत्वम् । तत्र सामान्यशब्देन वाररचसंग्रहः। २३ विशेषणं विशेष्येण-' (२. १. ५७) इति सामान्येन विहितः समास उच्यते । विशेषशब्देनापि तत्प्रपञ्चार्थ ये विहिताः पूर्वापरप्रथम-' (२. १. ५८) इत्यादिभिः सूत्रैः, ये च 'पूर्वकाल-(२.१. ४९) इत्यादिभिः पूर्वादिपूर्वनिपाताद्यर्थ, तेषामुभयेषां ग्रहणम् । यद्यपि कुत्सितपूर्वपदादीनामपि विशे- षेऽन्तर्भावः, तथापि प्रसिद्धत्वप्रतिपादनार्थ प्रपञ्चार्थ च भेदे- नोपादानं कृतम् । सामान्ये 'नीलोत्पलं , रक्तोत्पलम्'। नीलं च तदुत्पलं चेति विगृह्य भेदकलक्षणविशेषणवाचिसुबन्तस्य भेद्यलक्षणविशेष्यवाचिना सह 'विशेषणं विशेष्येण बहुलम्' इति समासः । विशेषे 'स्नातानुलिप्तः, दग्धप्ररूढः' । 'पूर्वका- लैक-'इत्यादिना समासः । पूर्वेषुकामशमी, अपरेषुकामशमी। 'दिक्सलये संज्ञायाम् ' (२. १. ५०) इति समासः। संज्ञायां नियमार्थोऽयम् । पूर्वपुरुषः, अपरपुरुषः। 'पूर्वापर-'इत्यादिना समासः। एवमापादपरिसमाप्तेर्यानि सूत्राणि वर्णसूत्रवर्जितानि, तेषामुदाहरणान्यूह्यानि । कुत्सितपूर्वपदे 'वैयाकरणखसूचिः, याज्ञिककितवः' । यः पृष्टो निष्प्रतिभत्वाद् अहो विमलं गगनमिति प्रश्नं विस्मार(यितुं ? यति), स एवमुच्यते-खसू. चिश्वासौ वैयाकरणश्चेति । तेन वैयाकरणत्वकुत्सनेन पूर्व- पदस्य कुत्सितत्वात् 'कुत्सितानि कुत्सनैः' (२. १. ५३) इति विशेष्यपूर्वपदार्थः समासो भवति । एवं याज्ञिककितव इत्ययाज्ययाजनतत्पर उच्यते । उपमानपूर्वपदे 'शस्त्रीश्यामा, कु- मुदश्येनी' । शस्त्रीव श्यामेति विगृह्य 'उपमानानि सामान्यवच- नैः'(२. १. ५५)इति समासः । अत्र शस्त्रयादेः सामानाधिकर- (ण ? ण्य)प्रसिद्ध्यर्थमुपमेयवृत्तित्वमभेदेनोपचारादूरीक्रियते । पू.
वाररुपसंग्रहः। विस्थाश्रयेण चोपमानानीत्युच्यते । एवञ्च गौणत्वाद् विशे- षणं विशेष्येण बहुलम् (२.१.५७) इति समासो न प्राप्नोतीत्यय- मारम्भः। उपमेयपूर्वपदे 'पुरुषव्याघ्रः, पुरुषसिंहः । पुरुषोऽयं व्याघ्र इवेति विगृह्य 'उपमितं व्याघ्रादिभिः- (२. १. ५६) इति समासः । एतद्वचने न केवलं गौणत्वमेव हेतुः, किन्तु विशेष्यपूर्वपदनिपातप्रापणापि। वर्णोभयपदे 'कृष्णशबलः, लोहि- तशबलः' । सामानाधिकरण्योपपत्तयेऽवयवद्वारेण समुदायाभि- धानाद् गौणत्वादयमारम्भः ॥ . षड्विधश्च बहुव्रीहिः इति । तत्र 'अनेकमन्यपदार्थे' (२.२.२४) इति विहितो द्विविधः द्विपदो बहुपदश्चेति । चित्रगुः, शबलगुः, सुसू- क्ष्मजटकेशेन, सुनताजिनवाससा, इत्युदाहरणम् । केचित् तु तद्गुणसंविज्ञानातद्गुणसंविज्ञानभेदेन द्वैविध्यमाहुः । तस्या- न्यपदार्थस्य सम्बन्धी गुण उपसर्जनीभूतो वर्तिपदार्थों व्यवहारे संविज्ञायते यस्मिन् बहुव्रीहौ, स तद्गुणसंविज्ञानः । तस्मादन्योऽतद्गुणसंविज्ञानः । पूर्वस्योदाहरणं 'दीर्घविषाणमा- नयेति । अत्र यद्यप्यन्यपदार्थस्यैव शब्दवाच्यत्वं, तथापि समवायस्य प्रवृत्तिनिमित्तत्वाद् अपृथसिद्धयोरेव च तद्रा- वात् सामर्थ्यादग्न्यानयने पात्रानयनवद् वर्तिपदार्थस्यापि कार्ययोगो भवति । तथा शुक्लवाससमानयेत्याचप्युदाहरणं, यत्र संयोगः प्रवृत्तिनिमित्तम् । विशेषणत्वविवक्षायां चे. दमुदाहरणम् । यदा तु काकनिलयनादिवदुपलक्षणत्वेन , २५ , वाररुचसंग्रहः। विवक्ष्यते यः शुक्लवासा दृष्टः स आनीयतामिति, तदेतन्नोदाह- रणम् । अपरस्य 'चित्रगुः, शबलगुरि'त्याधुदाहरणम् । अत्र हि स्वस्वामिसम्बन्धस्य प्रवृत्तिनिमित्तत्वाद् देशान्तरगतयोरपि स्व- स्वामिभावस्याविहतत्वात् पुरुषस्यैव कार्ययोगः, न तु गवाम् । सूत्रान्तरविहितश्चतुर्विधः-सङ्ख्योत्तरपदोऽन्तरालाभिधेयकः स- रूपोपलक्षितः सहपूर्वपदश्चेति । सङ्ख्योत्तरपदस्तावद् ‘उपदशाः, उपविंशाः, द्वित्राः, द्विदशाः' । 'सङ्ख्ययाव्ययासन्नादूराधिकस- याः सङ्ख्येये (२.२.२५) इति समासः। 'बहुव्रीहौ सङ्ख्येये डज्' (५.४.७३)इति डच समासान्तः। अन्तरालाभिधेये 'दक्षिणपूर्वा दिक्, पूर्वोत्तरा' । दक्षिणस्याश्च पूर्वस्याश्च दिशोऽन्तरालमिति विगृह्य 'दिङ्नामान्यन्तराले' (२. २. २६) इति समासः । सरू- पोपलक्षिते 'केशाकेशि, दण्डादण्डि' । केशेषु केशेषु गृहीत्वेदं युद्ध प्रवृत्तं, दण्डैश्च दण्डैश्च प्रहत्येदं युद्धं प्रवृत्तमिति विगृह्य तत्र तेनेदमिति सरूपे' (२.२. २७) इति समासः । 'इच् कर्मव्यति. हारे' (५. ४. १२७) इति समासान्तः। 'अन्येषामपि दृश्यते (६. ३.१३७) इति पूर्वपदस्य दीर्घः। तिष्ठद्गुप्रभृतिषु 'इच् कर्मव्यति- हारे' इति पाठादव्ययत्वात् सुब्लुक् । इतिकरणाद् विवक्षार्थाद् युद्धक्रियायामेव समासः। सहपूर्वपदे 'सपुत्रः, सच्छात्रः' । सह पुत्रेणागत इति विगृह्य 'तेन सहेति तुल्ययोगे' (२. २. २८)इति समासः । 'वोपसर्जनस्य' (६. ३. ८२) इति सभावः ॥ द्विगुराभाषितो द्विधा ॥ १० ॥ इति । एकवदनेकवद्भेदेन । एकवद्भावे तावत् ‘पञ्च पू- २६ वाररुचसंग्रहः। लाः समाहृताः पञ्चपूली, दशपूली' । 'तद्धितार्थोत्तरपदसमाहारे च' (२.१.५१) इति समासे कृते 'सङ्ख्यापूर्वो द्विगुः (२.१.५२) इति द्विगुसंज्ञायां 'दिगुरेकवचनम्' (२.४.१) इत्येकवहावे च ‘स नपुं- सकम् (२.४.१७) इति नपुंसकलिङ्गतायां प्राप्तायाम् 'अकारान्तो. त्तरपदो द्विगुः स्त्रियां भाष्यते' (वा० २.४.३०) इति स्त्रीत्वविज्ञा- नाद् द्विगोः' (४.१.२१) इति ङीपि रूपम् । अनेकवद्भावे पश्चक- पालः पुरोडाशः पञ्चकपालौ पञ्चकपालाः । पञ्चसु कपालेषु संस्कृत इति विगृह्य तद्धितार्थे विवक्षिते समासे कृते 'संस्कृतं भक्षाः (१.२.१६) इति विहितस्याणो द्विगो गनपत्ये' (१.१.८८) इति लुक् । समाहारद्विगोरेकवद्भावविधानादिह न भवति पञ्चनावप्रियः, दशनावप्रियः। उत्तरपदे समासे कृते 'नावो द्विगोः' (५.४.९९) इति टच् समासान्तः॥ १० ॥ . द्वन्द्वश्चतुर्विधो ज्ञेयः इति। अत्र कश्चित्-समुच्चयान्वाचययोरर्थग्रहणादसा. मर्थ्याच्च द्वन्द्वाभावादितरेतरसमाहारविहितो द्विविध एव द्वन्द्वः। ततश्चार्थस्य चातुर्विध्यं प्रतिपादयितुं तद्वतचातुर्विध्यारोपेण च- तुर्विध इत्युक्त इति प्रतिपादितवान् । वयं तु वदामः-अर्थभेदाद् द्विविधस्यापि द्विपदबहुपदभेदेन हैविध्याच्चतुर्विध इत्युक्तमिति । इतरेतरयोगे द्विपदस्य 'प्लक्षन्यग्रोधौ, देवदत्तयज्ञदत्तौ' बहुपदस्य 'प्लक्षन्यग्रोधधवखदिरपलाशाः, देवदत्तयज्ञदत्तविष्णुमित्राः । स- माहारे द्विपदस्य 'वाक्त्वचं, मुक्त्वचम्' । वाक् च त्वक् च इति विगृह्य समाहारे द्वन्द्वे कृते 'इन्द्राचुदषहान्तात् समाहारे' (५.४.
वाररुसंग्रहः। २७ १०६)इति टच् समासान्तः । प्राण्यङ्गानां द्वन्द्व एकवद् भव- तीत्येकवहावादेकवचनम् । बहुपदस्य पाणिपादशिरोग्रीवम् । पूर्व- वदेकवद्भावः । वृक्षा इत्यादिवदुद्भूतावयवभेदः समूह इतरेतर- योग इति तत्र द्विवचनबहुवचने। तिरोहितावयवभेदस्तु समा- हारः । तत्र वनमित्यादिवदेकवचनं सिद्धम् । 'द्वन्द्वश्वे'त्यायेक- वद्भावप्रकरणं तु विषयविभागार्थ-- प्राण्यङ्गादीनां समाहार एवं द्वन्द्वः, वृक्षमृगादीनामुभयत्र, अन्येषामितरेतरयोग इति ॥ अव्ययीभावो द्विधा मतः। इति । अव्ययपूर्वपदनामपूर्वपदभेदेन । आद्यस्योदाहरणं 'कुम्भस्य समीपमुपकुम्भं' 'यावदमत्रं ब्राह्मणानामन्त्रयस्वेत्यादि। 'समीपार्थे यदव्ययं वर्तते, तत् समस्यते, 'यावदवधारण (२.१.८) इत्येताभ्यां समासः। 'अव्ययीभावश्च'(१.१.४१) इत्यव्ययसंज्ञायाम् 'अव्ययादाप्सुपः (२.४.८२) इति सुब्लुकि प्राप्ते 'नाव्ययीभावाद् (२.४.८३) इत्यादिनाम्भावे 'अमि पूर्वः (६.१.१०७) इति पूर्वरूपे रूपम् । अपत्रिगर्त वृष्टो देवः, परित्रिर्गतम् । 'अपपरिबहिरञ्चवः पञ्चम्या' (२.१.१२) इति समासः । आपाटलिपुत्रं वृष्टो देवः। आङ् मर्यादाभिविध्योः' (२. १. १३) इति समासः । अभ्यग्नि शलभाः पतन्ति, प्रत्यनि । 'लक्षणेनाभिप्रती आभिमुख्ये (२.१. १४) इति समासः । अनुवनमशनिर्गता । 'अनुर्यत्समया'(२.१. १५) इति समासः । अनुगङ्गं वाराणसी। 'यस्य चायामः (२.१ १४) इति समासः। नामपूर्वपदस्य अस्त्यत्र किञ्चित् सूपः सूपप्रति, १ * 'अव्ययं विभक्ती' त्यादिसूत्रेणेत्यर्थः ।
२८ , वाररुचसंग्रहः। शाकप्रति। सुप् प्रतिना मात्रार्थे (२.१.९) इति समासः। एकपरि, द्विपरि । 'अक्षशलाकासङ्ख्याः परिणा' (२.१.१०) इति समा- सः । तिष्ठद्गु, वहद्गु । 'तिष्टगुप्रभृतीनि च' (२.१.१७) इति समासः । पारेगङ्ग, मध्येगङ्गम् । 'पारेमध्ये षष्ठया वा'(२.१. १८) इति समासः। निपातनादेत्वं च। द्विमुनि व्याकरणं, त्रि- मुनि व्याकरणम्। 'सङ्या वंश्येन' (२. १. १९) इति समासः। सप्तगङ्गं, द्वियमुनम् । 'नदीभिश्च' (२.१.२०) इति समासः । उ- न्मत्तगङ्गं नाम देशः, लोहितगङ्गम् । 'अन्यपदार्थे च संज्ञायाम्' (२.१.२१) इति समासः॥ एवमष्टाविंशतिप्रकारतामुपपाद्य गुरुसंज्ञाकरणसामर्थ्यायातपूर्वाचार्यसंज्ञा- परिग्रहप्रयुक्ततदीयावधिलब्धसमासार्थप्राधान्यमाह - तेषां पुनः समासाना प्राधान्य इति । अत्र समासशब्देन समासार्थो लक्ष्यते । नहि संज्ञानां प्राधान्यं समस्ति, संज्ञिप्रत्यायनैकनिष्ठत्वात् । नापि संज्ञिनां शब्दरूपाणाम् , अर्थप्रत्यायनैकपरत्वात् । अथवा तेषां समाससंज्ञाभाजां योऽर्थः, तस्य प्राधान्यमस्तीत्यर्थः ॥ - भेदमाह तच्चतुर्विधम् ॥ ११॥ इति। पूर्वपदोत्तरपदान्यप(दार्थों:दो)भयपदार्थप्राधान्यभेदेन। तत्रोत्तरपदार्थप्रधानस्तत्पुरुषः। यथा- राजपुरुषः, कष्टश्रित इत्यादि । अत्र पुरुषादेः क्रियायोगो विशेषणयोगश्च । शोभनो राजपुरुष आनीयतामिति प्राधान्यं तस्य । राज्ञस्तु तदुपलक्ष- बाररुचसंग्रहः। २९ णत्वेनोपादानात् क्रियाविशेषणयोगाभावादप्राधान्यम् । नञ्स- मासस्यापि भाष्येऽब्राह्मणादिशब्दानामारोपणात् क्षत्रियादिवृ- त्तित्वमभ्युपगम्य ब्राह्मणादिपदार्थप्राधान्यं स्थापितम् । क- चित् तु पूर्वपदार्थप्रधानः । यथैकदेशिसमासः 'प्राप्तापन्ने-(२. २.४) सूत्रविहितश्च । पूर्वकायः, प्राप्तजीविक इति । 'कालाः प- रिमाणिना'(२.२.५) इति विहित उत्तरपदार्थप्रधान एव । मास- जातः, संवत्सरजात इति । तथाच तत्र भाष्यं- किंप्रधानो- ऽयं समासः उत्तरपदार्थप्रधान' इत्यादि । कर्मधारयस्याप्युत्तर- पदार्थप्राधान्यप्राचुर्यम् । उपमितसमासस्तु पूर्वपदार्थप्रधानः। तद्धितार्थद्विगुस्तद्धिताविनाभावी तदर्थप्राधान्यात् खार्थविवे- कानहः । उत्तरपदद्विगुरपि त्रिपदबहुव्रीह्येकदेशीभूतस्तदर्थमे- वानुसरति । समाहारहिगुस्तु यदि समाहियत इति समाहा- रः, तदोत्तरपदार्थप्रधानः । पञ्चपूल्यानीयतामित्यादौ समाहि- यमाणानां पूलानां शब्दवाच्यत्वात् । अथ समाहरणं समा- हारः तदान्यपदार्थप्रधानः। अव्ययीभावः प्रायेण पूर्वपदार्थप्र. धानः । यथोपकुम्भादयः । सूपप्रतीत्यादयस्तूत्तरपदार्थप्रधानाः । उन्मत्तगङ्गादयोऽन्यपदार्थप्रधानाः । बहुव्रीहिरन्यपदार्थप्रधानः । द्वित्रादयोऽन्यपदार्थप्रधानाः । तथा च तद्विधायकसूत्रस्य कैम- र्थक्यं पूर्वपक्षीकृतं वार्तिककृता 'अशिष्यः सङ्योत्तरपदल- क्षणः सङ्ख्येयवार्ताभिधायित्वादिति। अयमर्थः 'सङ्ख्यया- व्यया-(२.२.२५) इत्यादिना विहितः समासो न वक्तव्यः, पू- वसूत्रेणैव सिद्धत्वात् । तथाहि-द्वित्राः, त्रिचतुरा इत्यादौ डौ वा त्रयो वेति वार्थः प्रतीयते। अधिकविंशाः अधिकत्रिंशा इ- , ३० वाररुचसंग्रहः। त्यादावधिका विंशतिर्यासां ता अधिकविंशा गाव इति स. ङयेयम्।तत्र अनेकमन्यपदार्थे (२.२.२४) इत्येव सिडमिति।भा- प्यकारस्तु-'उपदशाः, अधिकदशा' इत्यादौ दशशब्दस्य सङ्ख्येय- वृत्तित्वादुपशब्दस्य च समीपवाचित्वादन्यपदार्थाभावादव्यया. दिग्रहणस्य कर्तव्यतां स्थापयन् उपदशादीनामन्यपदार्थप्राधा- न्यं नानुमन्यते । द्वित्रादयस्तु तत्पक्षेऽप्यन्यपदार्थप्रधानाः । तथा च भाष्यं-'तत्र प्रथमानिर्दिष्टं सङ्ख्याग्रहणं शक्यमकर्तु- मिति । दक्षिणपूर्वादयोऽप्यन्तरालाद्यभिधायिनोऽन्यपदार्थप्रधा- नाः। तथा च वार्तिकं-'दिक्समाससहयोगयोश्वान्तरालप्रधाना- भिधानात् तृतीयासप्तम्योश्च क्रियाभिधानादिति। इतरेतरद्वन्द्वः उभयपदार्थप्रधानः । अथ समूहसमूहिनोआंदो नेत्युच्येत, त- ह्ययमप्युभयपदार्थप्रधान इत्येषा दिक् । नहि शब्दानामभिधा- नवैचित्र्यं परिगणनाहम् । अनर्थकं च तत्परिगणनं, लो- कव्यवहाराधीनत्वादर्थावधारणस्य । अत एव सूत्रकारेण पूर्वा- चार्यलक्षणनिरसनपरं सूत्रं प्रणीतं-'प्रधानप्रत्ययार्थवचनमर्थस्या- न्यप्रमाणत्वात्' (१.२.५६) 'कालोपसर्जने च तुल्यम्'(१.२.५७) इति । सङ्ग्रहकारस्तु बालव्युत्पत्त्यर्थं गुरुसंज्ञाकरणाशयं दर्शि- तवान् ॥ ११ ॥ एवं समासमभिधायाभिधायकोक्त्यनुक्रमानुसारेण तद्धितस्वरूपमाह सामान्यांव्ययभावाख्यस्त्रिविधस्तद्धितो मतः। - इति । * अत्र 'समाहारद्वन्द्वस्तु समूहप्रधानः' इति वाक्यमपेक्षितं भाति ।
पारचसंग्रहः। अत्र सामान्यशब्देन प्रत्ययास्ते विवक्षिताः। येऽपत्यभाजो रक्तादावुत्पन्नाश्चातुरर्थिकाः ॥ शैषिकास्तसिना मुक्ता विकारावयवार्थजाः। वहत्यवधयः प्राधितीयक्रीतावधी अपि ॥ प्राग्वतीया वतिश्चान्त्यस्ततो नानाञ्चिवर्जिताः। खखशालचप्रभृतयो मत्वर्थीयास्ततः परे ॥ पाशबाद्याः शसः प्राग ये मान्तकृत्वोर्थवर्जिताः। समासान्ताश्च ते सर्व सामान्यप्रत्यया मताः ॥ तसि नाञ् वतिस्तेनेत्यादिसूत्रत्रयेण यः । तसिल्प्रभृतयो मान्तौ कृत्वोर्थाश्च शसादयः ॥ अव्ययाख्या मता भावशब्देन त्वतलादयः । प्रकृतिः प्रत्ययोऽर्थश्च तद्विशेषणमेव च ॥ उदाहरणमित्येतान्युन्नेयानीह पण्डितैः । सङ्ग्रहप्राणनाशः स्यात् तद्धितार्णवमजने ॥ अत्र समासतद्भितयोरुत्पत्तौ विशेषमाह - पदानां तु समर्थानां प्रथमाता प्रसूयते ॥ १२ ॥ इति । अयमर्थः-समाससंज्ञा तावत् 'समर्थः पद- वेधिः (२.१.१) इति समर्थवचनात् समर्थयोईयोर्बहूनां वा स- षां प्रवर्तते, न त्वेकस्य । तेन राज्ञः पुरुष इति विगृ- घ राजपुरुषशब्दयोरुभयोरेका संज्ञा भवति । एवं पदविधि- वात् तद्धितोऽपि प्राप्तः । 'समर्थानां प्रथमाहा (४. १. ८२) ३२. वाररुचसंग्रहः। इत्यधिकारात् समर्थानां पदानां मध्ये प्रथमनिर्दिष्टादेवोत्पद्यते, नान्यस्मात् । तेनोपगोरपत्यमिति विगृह्य तस्यापत्यम् (४. १. ९२) इत्यत्र तस्येत्यस्य प्रथमनिर्दिष्टत्वादुपगुशब्दादेवाणप्रत्ययः, नापत्यशब्दादपि । औपगव इति । वाग्रहणाद् विकल्पेनायं प्रत्ययः । तेन तद्धितेन वाक्यस्य बाधा न भवति । सम- र्थानामिति प्रथमादिति च स्वार्थिकप्रत्ययावधिरधिकारः, यतः सामर्थ्यस्य सम्बन्ध्यन्तरापेक्षत्वात् स्वार्थिकेषु च तदभावादु. पस्थानानुपयोगः । वाग्रहणं त्वापञ्चमाध्यायपरिसमाप्तेस्तसि- लादीनां विकल्पार्थमनुवर्तत एव । केषाश्चिन्नित्यत्वं प्रकारा- न्तरेण ॥ १२॥ एवं तद्धितं संगृह्य तदनन्तरं निर्दिष्टतिङमाह - तिङां तु नव पूर्वाध लादेशावपरौ द्विधा । परस्मैपदमाख्यातं तङानावात्मनेपदम् ॥ १३ ॥ इति । अत्र पूर्वार्धशब्देन तत्र भवाः प्रत्यया लक्ष्य- न्ते । न च तदर्थत्वेऽपि तदीयलिङ्गसङ्यानुरोधः, लक्षण- विषये स्वलिङ्गसङ्ख्यापरित्यागात् । यथा गङ्गायां घोष इ- त्यत्र तीरार्थत्वेऽपि स्त्रीलिङ्गतैव । अपरशब्देन शतृक्कसू विव. क्ष्येते। द्विपाशब्देन द्विधाभूतावुच्यते । आन इत्युत्सृष्टानुब- न्धयोः शानच्कानचोः सामान्यनिर्देशः । अयमर्थः -- 'तिप्त- रिम-' (३.४.७८) इत्यादिसूत्रनिर्दिष्टानामष्टादशानां प्रत्ययानां - १. 'च' क. पाठः.
बाररुचसंग्रहः। ३३ मध्ये पौर्वाधिका नव तिबादयो मसन्ताः प्रत्ययाः, लडादेशः शता, लिडादेशः कसुश्च लादेशत्वात् 'लः परस्मैपदम्' (१.४.९९) इति परस्मैपदसंज्ञका वेदितव्याः। परिशिष्टास्तादयो महिङन्ताः लडादेशलिडादेशौ शानच्कानचौ च 'तङानावात्मनेपदम्' (१.४.१००) इति परस्मैपदसंज्ञापवादात्मनेपदसंज्ञकाः । शान- नादयस्तु न लडादेशा इति स्थापितं भाष्ये ॥ १३ ॥ तिकामवान्तरसंज्ञामाह - परस्माआत्मनेभागे वचनानि त्रिधा त्रिधा। त्रयस्ते पुरुषा ज्ञेयाः प्रथमो मध्यमोत्तमौ ॥ १४ ॥ इति। अत्र परस्मैशब्देनात्मनेशन्देन च 'अप्रत्यये तथैवे- ट' इत्युत्तरपदलोपविधानात् परस्मैपदात्मनेपदे उच्यते, यथा देवभीमादिभिः शब्दैर्देवदत्तभीमसेनादयः । वचनशब्देनोच्य- तेऽनेनार्थ इति कृत्वा प्रत्यय उच्यते । परस्मैपदभाग आ- त्मनेपदभागे च ये प्रत्ययास्त्रिधा त्रिधा भूत्वा त्रयः सम्प- नाः, ते क्रमेण प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषसंज्ञका वेदित- । ते 'तिप् तस् झि' इति प्रथमः, 'सिप् थस् थ इति मध्यमः, 'मिप वस् मस्' इत्युत्तमः । एवं 'त आतां झ' इति प्रथमः, 'थास् आथां ध्वम्' इति मध्यमः, 'इट् वहि महिङ्' इत्युत्तमः । सूत्रे त्रीणि त्रीणीत्यस्य विशेष्यप्रदर्शने- नायुक्तताशङ्काप्रतिक्षेपार्थ वचनानात्युक्तम् । अन्यथा 'प्रत्यया ये त्रिधा त्रिधा' इत्युच्येत । एवमुत्तरत्र पदानीत्यपि तानीत्यस्य विशेष्यप्रदर्शनार्थम् ॥ १४ ॥ व्य ३४ वाररुचसंग्रहः। एकद्विबहुसंज्ञानि पदान्येकैकशस्तिकाम् । . इति । पदशब्देन पद्यतेऽनेनार्थ इति प्रत्यय उच्यते, न तु परिभाषितं सुप्तिङन्तम् । तिङां यानि त्रीणि त्रीणि भूत्वा प्रथमादिसंज्ञायुक्तानि पदानि, तान्येकैकश एकमेकं पदं क्रमेणैकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति । तिबि- त्येकवचनं, तसिति द्विवचनं, झीति बहुवचनम् । एवमन्य- त्राप्यूह्यम् । नन्वेकैकश इति कथं साधुः, यावता शसैव वीप्साया घोतितत्वाद् द्विवचनेन न किश्चित् प्रयोजनम् । न च यथा क्रियासमभिहारे विधीयमानो लोट् स्वस्य तदर्था- भिव्यञ्जनासामर्थ्याद् द्विवचनमपेक्षते लुनीहि : लुनीहीत्ये- वायं लुनातीति, तद्वदन्त्राप्यस्त्विति वाच्यम् । 'हिशो ददाति, 'तान्येकवचनद्विवचनबहुवचनान्येकशः' (१. ४. १०२) इत्यादी विनापि द्विवचनेन वीप्साभिव्यक्तिदर्शनात्। किञ्च 'येन नामा- सन्यायेन शस् द्विवचनं बाधते । तथा च जिनेन्द्रहरदत्तात भ्यामुक्तं-'नित्यवीप्सयोः' (८. १. ४) इति. द्विवंचने प्राप्ते तदपवादः शस् विधीयत इति । अत्रोच्यते । यथा वृषश- ब्देनैव वृषार्थप्रतिपत्तावपि वृषभशब्दः प्रयुज्यते, तथैकश इ. त्यनेन वीप्साया द्योतितत्वेऽपि. कचित् द्विवचनमपि प्रयु- ज्यते । नहि. शब्दानां शक्तिवैचित्र्यं सामान्यतो दृष्टेनानुमा- नेन ब्यवस्थापयितुमलम्। यथा स्त्रीत्वं कचिदेकेन प्रत्ययेन न्य- ज्यते । कचिद् द्वाभ्यां गाायणी वात्स्यायनीति । दृषदिल्यादौ प्रातिपदिकेनैव । शद्विवचनयोः सहप्रयोगोऽन्यत्रापि दृश्यते , + - वाररुषसंग्रहः। ३५ 'एकैकशः पितृसंयुक्तादिति । न च सामान्यविशेषभावमात्र- मेव बाध्यबाधकभावनिमित्तं, किं तर्हि, विरोधोऽपीति वार्ति- ककारस्य मतम् । य आह–'नंबहुजकक्षु नानादेशत्वादुत्सर्ग- प्रतिषेध' इति , तदाश्रयेणैतत् प्रयुक्तम् । भाष्यकारस्तु- विरोधाभावेऽपि तक्रकौण्डिन्यन्यायेन बाध्यबाधकभावमिच्छति । तन्मते सूत्रकारकल्पः सङ्ग्रहकारस्तद्वच्छान्दसं प्रयोगं कृतवा- निति मन्तव्यमित्यलमतिप्रसङ्गेन ॥ एवं संज्ञामुपपाच तस्या विधिविषयत्वान्नियममुखेन तदर्थं दर्शयति परस्मै कर्तरि ज्ञेयः इति । 'शेषात् कर्तरि परस्मैपदम् (१. ३.७८)इत्यादि- ना आपादपरिसमाप्तेर्यत् परस्मैपदं विहितं, तत् कर्तर्येव ॥ - - व्यावत्येमाह न भावे नापि कर्मणि ॥४५॥ इति । याति देवदत्तः, अनुकरोति देवदत्तः, पराकरोति देवदत्त इत्यायुदाहरणम् ॥ १५ ॥ आत्मने त्रिषु विज्ञेयः , इति । 'अनुदात्तङित आत्मनेपदम् '(१. ३. १२) 'क- तरि कर्मव्यतिहारे'(१. ३. १४) इत्यादिना प्रकरणेन यदात्मने- पदं नियतं, तत् त्रिषु कारकेषु भवति ॥ त्रिष्वित्युक्तं विवृणोति- ३६ वाररुचसंग्रहः। भावे कर्तरि कर्मणि। इति ॥ तत्र विशेषमाह - - धातोरकर्मकाद् भावे इति । एतच्च ‘लः कर्मणि च भावे चाकर्मकेभ्यः' (३.४. ६९) इति वचनाल्लभ्यते । तथाहि-'भावकर्मणोः' (१. ३.१३) 'शेषात् कर्तरि परस्मैपदम्' (१. ३. ७८) इति भावकर्मकर्तृ- प्वात्मनेपदपरस्मैपदविधानाल्लिङ्गाच्चकारस्यैतेऽर्थी अनुमीयन्ते । तत्र 'लः कर्मणि चेति वचनं वाक्यभेदेन लकारः कर्मणि भव- ति, अकर्मकेभ्यस्तु भाव इत्येवमुत्सर्गापवादरूपेण सकर्मकेभ्यो भाव आत्मनेपदाभावं साधयतीति वार्त्तिककारस्य सिद्धान्तः। य आह- 'लग्रहणं सकर्मकनिवृत्त्यर्थमि'ति । तच्च कैय- टमित्रैर्व्याख्यातं-"लग्रहणमिति । यदीदं नारभ्येत, यथा भावे विधीयमाना घनादयः सकर्मकेभ्यो भवन्ति ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा भावकर्मणोरित्यनेन भाव आत्मनेपदं सकर्मकेभ्योऽपि स्यात । ततश्च पच्यते यवागू देवदत्तनेत्यपि स्यादिति । भाष्यकारोऽपि प्रत्याख्यानवादिमुखेन भावकर्मणो- रित्यत्राकर्मकपदन्यासात् सकर्मकेभ्यो भाव आत्मनेपदाभावमु- पपाद्य कर्तरीति योगविभागाश्रयेण वाक्यद्वयं प्रतिपाद्य प्रथमेन वाक्येनाननियम द्वितीयेन तहिधिं च प्रारम्भवादिमुखे- नानविषये विप्रतिषेधात् ‘कर्तरि कृद् (३. ४. ६७) इत्यस्य प्रवर्त- नात् तस्य भावकर्मार्थत्वाभावाद् दुष्टं प्रत्याख्यानपक्षं निरस्य ,
वाररुचसंग्रहः।
सूत्रारम्भं समर्थयमानो 'लः कर्मणि चे'त्यनेनैव पूर्वोक्तार्थलाभं
मन्यते ॥
प्रथमैकवचस्तथा ॥ १६ ॥
-
आस्यते भव-
इति । भावे प्रथमपुरुषैकवचनमेव, न तु मध्यमोत्तम-
पुरुषौ, नापि द्विवचनबहुवचने । तत्र मध्यमोत्तमौ युष्मदस्म-
सामानाधिकरण्ये विधीयमानौ भावस्य तत्मामानाधिकरण्यास-
म्भवान्न भवतः । आख्यातवाच्यस्य भावस्याश्रयभेदेऽपि भेदा-
प्रतिभानाद् द्विवचनबहुवचने अपि न भवतः । पाकौ पाका
इत्यादौ तु शब्दैक्यादेकशेषतस्तत्सिद्धिः। तथा चोक्तं
"निवृत्तभेदा सर्वैव क्रियाख्यातेऽभिधीयते ।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना ॥"
इति । भूयते देवदत्तेन, आस्यते भवद्याम् ,
द्भिरित्युदाहरणम् ॥ १६ ॥
सकर्माकर्मकाद्धातोः कर्तरि स्मृतमात्मने ।
इति । यदात्मनेपदं कर्तरि स्मृतं, तत् सकर्मकेभ्योऽक-
मकेभ्यश्च भवतीति योजना । एतेन सूत्रे चकारद्वयस्यार्थो द.
शितः। पचते, यजते, आस्ते, शेते इत्युदाहरणम् ॥
यत् कर्मणि तु निर्दिष्टं वर्तते तत् सकर्मकात् ॥१७॥
इति । उक्तार्थम् । पच्यते देवदत्तेन यवागू:, गम्यते
ग्राम इत्युदाहरणम् ॥ १७ ॥
३८ वाररुचसंग्रहः। नाम्नैव सन्नियोक्तव्यः प्रथमः पुरुषो भवेत् । , इति । नामापरपर्यायैः सुबन्तैरेव सम्बन्धे प्रथमपुरुषो भवतीत्यर्थः। आर्थः सम्बन्धः। स शब्द(स्य) सन्निधानेऽसन्निधाने च भवति । तेन पचति देवदत्तः, भवति, पचतीत्यादिप्रयोगः सर्व उपपन्नो भवति । यद्यपि नामान्तर्भूतत्वं युष्मदस्मदोर- प्यस्ति, तथापि 'शेषे प्रथमः'(१. ४. १०८) इति सूत्रे शेषश- ब्देन यदुच्यते, तदेवेह नामशब्देन विवक्षितम् । यद्वा नाम- शब्देन लिङ्गयुक्तस्यार्थस्य वाचकः शब्द उच्यते । तथा च निरुक्तकृता यास्काचार्येण नामलक्षणमुक्तं 'सत्त्वप्रधानानि ना- मानी'ति । सीदन्त्यस्मिन् जातिगुणक्रियादय इति सत्त्वशब्देन जात्याद्याधारभूतं लिङ्गसंख्याकर्मादिकारकशक्तियुक्तमिदंतदादि- व्यपदेशयोग्यं वस्त्वभिधीयते । तद् यस्मिन्नुच्चारिते प्राधान्येन प्रतीयते विशेष्यत्वात् , जात्यादयस्तु गुणभावेन, तन्नामेति तस्यार्थः । 'अलिङ्गे च युष्मदस्मदी', ताभ्यां लिङ्गविशे- षासम्प्रत्ययादित्येवकारेण युष्मदस्मदोर्व्यवच्छेदः ॥ , त्वं युवां यूयमित्येभिस्त्रिभिरेव तु मध्यमः॥१८॥ अहमावां वयं त्वेभिरुत्तमः इति। युष्मदि समानाधिकरणे अस्मदि समानाधिकरणे इत्युच्यते । सामानाधिकरण्यं च समानाभिधेयत्वम् । तच्च कारकत्व एव भवति। ततश्च कर्तरि कर्मणि तिनिधाने तेनाभि- हितत्वाद् युष्मदस्मद्भ्यां तयोः कर्तृकर्मणोः प्रथमयैव भवितव्य- वाररुचसंग्रहः। ३९ मिति त्वमादियोग एव मध्यमोत्तमौ भवतः, न तु त्वामादि- योग इत्याशयः । अत्रापि पूर्ववदार्थसम्बन्धाश्रयणात् 'स्थानि- न्यपी'ति सूत्रावयवप्रतिपादितार्थलाभः । वं पचसि, युवां प- चथः, यूयं पचथ, अहं पचामि, आवां पचावः, वयं पचाम इत्यु- दाहरणम् ॥ व्यावर्त्यमाह - नान्यथामतः। इति ॥ क्वचित्तु मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ भवत इत्याह- अन्यथा तु प्रहासे स्यात् इति । प्रहासः परिहासः, तस्मिन् गम्यमाने त्वमादि- योगे उत्तमो भवति अहमादियोगे मध्यम इत्यर्थः ॥ प्रहासविषयेऽपि कचिदेव, न सर्वत्रेति प्रदर्शयितुमुदाहरणमाह- यथा मन्ये नु भोक्ष्यसे ॥१९॥ इति । मन्योपपदे धातौ मध्यमो विधीयते, मन्यतेश्वो- त्तमः, तस्य चैकवहावः । एहि मन्ये ओदनं भोक्ष्यसे । न च भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि । न च यास्यसि, यातस्तेन पिता इत्युदाहरणम् । ललिड्लुटो लट् च ततश्च लेट् लोट षट् टित्त्वयुक्ताः कथिता लकाराः।
वाररुचसंग्रहः ।
लङ्लिङ्लुङो लुङ् च डितो लकारा.
श्चत्वार एवं दशधा लकाराः ॥
तत्रायो वर्तमानेऽर्थे कचिद् भूतभविष्यतोः ।
भूतोऽनद्यतनो योऽर्थः परोक्षः स द्वितीयगः ॥
तृतीयश्वानद्यतने भविष्यत्यर्थ ईरितः ।
भविष्यति तुरीयः स्यात् कचिदर्थान्तरेऽपि च ॥
लिङथै पञ्चमं विद्याच्छन्दस्येव स ईर्यते ।
विध्यादिविष्यते षष्ठः कचिदन्यत्र दृश्यते ॥
भूतानद्यतनेऽर्थे स्यात् सप्तमोऽन्यत्र च कचित् ।
विध्यादिष्वष्टमोऽन्यत्र कचित् सम्भावनादिके ॥
नवमो भूतमात्रे स्यात् तथान्यत्रेष्यते कचित् ।
क्रियातिपत्तौ दशमो भूते चापि भविष्यति ॥
सार्वधातुकसंज्ञस्तिङ् लिट आशीलिङस्तु यः ।
तमार्धधातुकं विद्याच्छन्दस्युभयथा भवेत् ॥
शबादयः कर्तरि स्युः परतः सार्वधातुके ।
भावे कर्मणि यक् तस्मिन् स्यतासी लुङ्लुटोर्लटि ॥
सिप् स्मृतो बहुलं लेटि लुङि स्युः सिजङादयः।
एते विकरणाः प्रोक्तास्तत्र शित् सार्वधातुकम् ॥
एवं तिडां दिङ्मानं प्रदर्श्य तदनन्तरोक्तं कृतमाह
कृतनिष्वपि वर्तन्ते भावे कर्तरि कर्मणि ।
इति । कृतस्त्रिषु भावकर्मकर्तृषु वर्तन्ते। अन्येषु करणा-
--
वाररुचसंग्रहः। ४१ दिष्वपीत्यपिशब्दस्यार्थः। तत्र सङ्ग्रहार्थत्वादस्य ग्रन्थस्य प्रसि. इतरान भावादिषु वर्तमानानेवोत्तरत्रोदाहरिप्यामः । अन्ये तु वृत्त्यादिग्रन्थदर्शनवशादृह्या इति भावः ।। तत्र प्रथमं भावे प्रत्ययान दर्शयति- अजब्ल्युटक्तिन्धो भावे युजकाराङ एव च ॥ २० ॥ इति । एते प्रत्ययाः कर्तृवर्जिते काग्क संज्ञायां भवन्ति। क्वचिदसंज्ञायामपि । तत्र भाव बाहुल्याद् भाव इत्युक्तं मल्लग्रा- मन्यायेन । तथाहि-प्रामः प्रसवः। 'अकीर च कारक संज्ञा- याम्' (३. ३. १९). इति कर्मणि घञ् । प्रास्यति तमिति कुन्त उच्यते । गोदायः कम्बलदायः । संप्रदान घन् । यम्ने गां ददाति, स उच्यते । मधुराहारः तक्षशिलाहारः। अपादाने घञ्। आहर- त्यम्मादिन्याहारः । मधुराया आहार; मधुगहारः। यस्मादाहृत्य मधुरां प्रति द्रव्याणि नीयन्ते, स देशविशेष उच्यते। विशेष- णसमासो वा। संज्ञायामुदाहृतम । असंज्ञायामपि दृश्यन्ते । को भवता दायः, दत्त इत्यर्थः। को भवता लाभः, लब्ध इत्यर्थः। नहि कस्यचित् संज्ञा । अत्र केन घञ , अनेनैव । संज्ञाग्रहणं हि प्रत्याख्यातं 'संज्ञाग्रहणानर्थक्यं च सर्वत्र घजो दर्शनादि- ति। वृत्तिकारेण तु-चकारस्य भिन्नक्रमत्वात् संज्ञायां च भवति कचिदसंज्ञायां चेति व्याख्यातमिति तन्मतेऽप्यसंज्ञायां घञ् भ- वति। करणाधिकरणयोस्त्वपवादत्वात् 'करणाधिकरणयोश्च' (३. ३. ११७) इति ल्युडेव भवति, न तु घञ् । इध्मवचनः पला- शशातन इति करणे । गोदोहनी सक्तुधानी इत्यधिकरण ।
वाररुचसंग्रहः। अच् तावत् , चयः जयः क्षयः । 'एरच्' (३. ३. ५६)इत्यच्। भयं वर्षम् । 'नपुंसके भयादीनामुपसङ्ख्यानम् (वा०.३.३.५६)इत्यच् । नपुंसके क्तादिनिवृत्त्यर्थमेतत् । अप्, 'ऋदोरप'(३.३.५७)इत्याद्ये- कत्रिंशत्सूत्रीविहितो द्रष्टव्यः। करः गरः यवः लवः ग्रहः वरः दरः इत्याद्युदाहरणम् । ल्युट् , हसनं छात्रस्य शोभनं यजनं जल्पनम् । 'ल्युट च'(३. ३. ११५) इति ल्युट । क्तिन् , 'स्त्रियां क्तिन्' (३. ३. ९४) इत्यादिसूत्रविहितो द्रष्टव्यः। कृतिः धृतिः, प्रस्थितिः स- ङ्गीतिः, वृष्टिः इष्टिः । घञ् ‘भावे' (३. ३. १८) इत्यारभ्य 'कर्म- व्यतीहारे णच-' (३. ३. ४३) इत्यतः प्राग विहितो द्रष्टव्यः । त्यागः रागः, एकस्तण्डुलनिचायः हौ शूर्पनिप्पावावित्यादीन्यु- दाहरणानि।अत्र घजुत्सर्गः। पूर्वोक्तास्तस्यापवादाः। युच् , का- रणा हारणा आ(मना) श्रन्थना । ‘ण्यासश्रन्थो युच (३.३.१०७) इति युच् । अकारः, चिकीर्पा जिहीर्षा । 'अ प्रत्ययात्'(३. ३. १०२)इत्यकारः । कुण्डा हुण्डा ईहा । 'गुरोश्च हलः'(३. ३. १०३) इत्यः। अङ, जरा त्रपा भिदा छिदा। षिद्भिदादिभ्योऽङ्' (३. ३. १०४) इत्यङ् । चिन्ता पूजा कथा कुम्बा चर्चा । चि. न्तिपूजिकथिकुम्बिचर्चश्व (३. ३. १०५)इत्यङ् । प्रदा उपदा प्रधा उपधा । 'आतश्वोपसर्गे' (३. ३. १०६) इत्यङ् । अत्राकाराङौ क्तिनोऽपवादौ । युच् त्वक्तिनोरपवादः । णजिनुण्क्यबनिण्वुल्शा इण्वुचौ च सयादयः । तुमुन्क्यथुञ्नङो नन्की चकारेण समुच्चिताः ॥ ॥२०॥ सकर्माकर्मकाद्धातोः क्तो भवेत कर्मभावयोः ।
वाररुचसंग्रहः। ४३ इति । यथासङ्ख्यमत्र सम्बन्धः। सकर्मकेभ्यः कर्मणि, अकर्मकेभ्यस्तु भाव इति। 'तयोरेव कृत्यक्तखलाः' (३. ४.७०) इत्यत्र ‘भावे चाकर्मकेभ्य' इत्यनुवर्तनात् । हरदत्तेन तु 'वयं तु ब्रूम' इत्यादिना एवकारस्यायमर्थः कृच्छ्रण साधितः।भुक्त ओ- दनो देवदत्तेन, आसितं भवता, शयितम्। अत्र 'नपुंसके भावे क्तः' (३.३. ११४)इत्येतत्सङ्ग्रहार्थो वाक्यभेदोऽनुषङ्गश्च द्रष्टव्यः। स- कर्म(क?) कर्मकाद्धातोः क्तो भवेदित्येकं वाक्यम्। अत्र भाव इत्य- नुषज्ज्यते। हसितं छात्रस्य, शोभनं शयितमिति। ततः कर्मभावयो- रिति । इह सकर्म(क)कर्मकादित्याद्यनुषङ्गः । यहा ' नपुं- सके भाव क्त' इत्ययमपि (स?) क्तः सकर्मकेभ्यो न भवति। 'तयोरे वेत्यत्र क्तमात्रस्य ग्रहणात् , तत्र च भावे चाकर्मकेभ्य इत्यनुवर्तनात् । अत्र च टीकाकृत् प्रमाणम् । तथा च ‘णेरध्य. यने वृत्तम्'(७. २. २६) इत्यत्र पूर्वोक्तमर्थमधिकृत्य तेनोक्तम्- "अवश्यं चैतद् बोद्धव्यम् । अन्यथा 'नपुंसके भाव उपसङ्ख्या- नमित्यस्मिन् ‘शेषविज्ञानात् सिद्धमिति प्रत्याख्याते सकर्मकाद् भावे क्ते विधीयमाने कर्मणो द्वितीया प्रसज्येत , ग्रामं गतम् ओदनं भुक्तमिती"ति॥ कृत्याश्चैव खलाश्च तयोरेवानुवर्णिताः ॥ २१ ॥ - , इति । अत्र सकर्म(क)कर्मकाहातोरित्यनुवर्तते। पूर्ववद्यथा- सङ्ख्यं सम्बन्धः । कृत्या इति 'तव्यत्तव्यानीयरः' (३.१.९६) इत्यारभ्य ‘ण्वुल्तृचौ' (३.१.१३३) इत्यस्मात् प्राग् ये प्रत्यया उ- च्यन्ते। पक्तव्य ओदनो भवता, भोक्तव्य ओदनः, आसितव्यं , ४४ वाररुचसंग्रहः। भवता, शयितव्यं करणीयं हरणीयम् इति। चेयं जेयम्। 'अचो यत्' (३. १. ९७)इति यत् । कार्य हार्यम् । 'ऋहलोर्ण्यत्' (३.१. १२४) इति ण्यत् । एवमन्येषामप्युदाहरणानि द्रष्टव्यानि । अत्र 'वासरूपोऽस्त्रियाम् (३.१. ९४)इति वचनादुत्सर्गापवादयोः समा- वेशो भवति। तेन जेतव्यमित्याद्यपि भवति । खलर्थशब्देन खलो युचश्च ग्रहणम् । प्रयोगबहुत्वापेक्षं खला इति बहुवचनं, लक्ष. णबहुत्वेन वा। ईषत्करः दुष्करः सुकरः। ईषदुःसुषु कृच्छाकृच्छ्रा- र्थेषु खल्' (३. १२६) इति खल् । ईषदाढ्यंभवं भवता. दुराढ्यंभवं, स्वाढ्यंभ . । ईषदाढ्यंकरो देवदत्तो भवता, दुराढ्यं. करः, स्वाब्यङ्करः । ‘कर्तृकर्मणोश्च भूकृञोः (३. ३. १२७) इति खल्। ईषत्पानः सोमो भवता, दुप्पानः, सुपानः। 'आतो युच्' (३.३.१२८) इति युच । सूपसदनोऽग्निः, सूपसदनमन्तरिक्षम् । 'छन्दसि गत्यर्थभ्यः' (३,३.१२९) इति युच् । सुवेदनामकृणो- 'अन्येभ्योऽपि दृश्यते'(३. ३. १३०) इति युच् ॥२१॥ त्रिषु गत्यर्थकादिभ्यः इति।त्रिषु प्रकृतेषु भाबकर्मकर्तृपु गत्यर्थादिभ्यो धातुभ्यः क्तो भवति।गतो देवदत्तो ग्राममिति कर्तरि । ग्रामो देवदत्तेन गत इति कर्मणि । गतं देवदत्तेनेति भावे। आदिशब्देन श्लिषादीनामु. पादानम्। उपश्लिष्टो गुरुं भवान् । उपश्लिष्टो गुरुर्भवता । उपश्लिष्टं भवता। अतिशयितो गुरुं भवान् । अतिशयितो गुरुभवता । उपस्थितो गुरुं भवान् । उपस्थितो गुरुभवता । उपासितो गुरुं भवान् । उपासितो गुरुभवता । अनूषितो गुरुं भवान् । अनूषितो 'अतिशयितं भवता' इत्यूह्यम् । एवमुत्तरत्रापि । ह्मण गाम्।
वाररुचसंग्रहः । , गुरुर्भवता। अनुजातो माणवको माणविकाम् । अनुजाता माणव- केन माणविका। आरूढो वृक्षं भवान् । आरूढो वृक्षो भवता । अनु- जीर्णो वृषली देवदत्तः। अनुजीर्णा वृषली देवदत्तेन । केवलानां श्लिषादीनामकर्मकत्वादकर्मकग्रहणेन सिद्धत्वात् सकर्मकार्थ सर्वत्रोपसर्गप्रयोगः । तथा च भाप्यम्-'अकर्मका अपि हि धातवः सोपसर्गाः सकर्मका भवन्ति' इति ॥ तथा चैवादिकर्मणि। इति। कर्मशब्दः क्रियावचनः, न साधनवचनः, आदि- शब्देन विशेषणात् । बहूनां समवाये आदिव्यपदेशात् । साधन- कर्म(ण)स्त्वेकत्वाद् विशेषणानुपयोगात् । आयेषु क्रियाक्षणेषु भूतत्वेन विवक्षितेषु यः क्तः, सोऽपि त्रिषु भवतीत्यर्थः । प्रकृतः कटं देवदत्तः । प्रारब्धवानित्यर्थः । प्रकृतः कटो देवदत्तेन । प्रकृतं देवदत्तेन । ननु च केषुचित क्रियाक्षणेष्वतीतेष्वप्यभि- मतफलप्रयोजकसकलक्रियानिष्पत्त्यभावा वर्तमानत्वमेव किया- याः, न तु भूतत्वमिति कथं भूताधिकारविहितप्रत्ययोपपत्तिः। उच्यते । कस्मिंश्चिदेवावयवे समूहरूपस्य समाप्तिः शब्देन गम्यते। तथाहि कश्चित् पाटलिपुत्रं जिगमिषुरेकमहर्गवाह 'इदमद्य गतमिति । तत्र या लोकप्रसिद्धा गमनक्रिया, तस्याः परिसमाप्तिं बुद्ध्यावधार्य प्रतिपादकः प्रतिपादयति । प्रतिप- चापि तथैव प्रतिपद्यते। ततश्चावयवभूतत्वे क्रियाभूतत्वोपपत्त्या भूतप्रत्ययोपपत्तिः। उक्तञ्च- १. 'तयोरेवा' क. पाठः. - वाररुचसंग्रहः। “समूहः स तथाभूतः प्रतिभेदं समूहिषु । समाप्यते ततो भेदे कालभेदस्य सम्भवः ॥" इति। न च प्रारम्भकाले कट(त्व?)/भावात् कथं प्रकृतकटश- ब्दयोः सामानाधिकरण्यमिति वाच्यम् । तादात् कारणे कार्य- शब्दस्य प्रवर्तनात् ॥ गत्यर्थसूत्रेऽकर्मकपदश्रवणात् तत्र च भावकर्मकर्तृग्रहणानुवर्तनाच्चाकर्मके- भ्योऽपि त्रिषु भवतीति कस्यचिद् भ्रान्तिः स्यात् । तन्निराकरणायाह- अकर्मकात् समुत्पन्नो वर्तते कर्तृभावयोः ॥२२॥ इति । न तु कर्मणि, असम्भवात् । तेनान्याथैव क- र्मग्रहणानुवृत्तिः । ग्लानो भवान् ग्लानं भवतेत्युदाहर- णम् ॥ २२॥ कर्तृप्रत्ययानाह इष्णुक्तवतुविच्तृक्तिप्क्मरक्षाकन्ल्युणिन्यचः । उरण्णुककञ्टक्टकाः सर्व एते च कर्तरि ॥ २३ ॥ इति । इष्णुच् , अलङ्करिष्णुः निराकरिष्णुः प्रजनिष्णुः उत्पचिष्णुः उत्पतिष्णुः उन्मदिष्णुः रोचिष्णुः अपत्रपिष्णुः वर्ति- ष्णुः वर्धिष्णुः सहिष्णुः चरिष्णुः । 'अलङ्कृञ्-'(३. २. १३६) इत्यादिनेष्णुच्। दृषदं धारयिष्णुः, वीरुधः पारयिष्णवः। 'णेश्छ- न्दसि (३. २. १३७)इतीष्णुच । भविष्णुः, 'भ्राजिष्णुना लोहित- चन्दनेन' । 'भुवश्व'(३. २. १३८)इतीष्णुच् । क्तवतुः, भुक्तवान् पक्कवान् । 'निष्ठा'(३. २. १०२)इति भूते क्तवतुः। विच्, 'उपय- ४७ वाररुचसंग्रहः। ड्भीरूचं वहन्ति तदुपयज उपयट्त्वम्'। 'विजुपे छन्दसि (३. २. ७३)इति विच् । कीलालपाः शुभंयाः । 'आतो मनिन्क्वनि- ब्वनिपश्च'(३. २. ७४) इति विच् । 'रेडसि पर्ण नयेत्' । 'अन्ये- भ्योऽपि दृश्यन्ते' (३. २. ७५) इति विच् । तृन् , कर्ता कटान् वदिता जनापवादान् । तच्छीले 'तृन्'(३. २. १३५)इति तृन् । मुण्डयितारः श्राविष्ठायना भवन्ति वधूमूढाम् , अन्नमपहर्तार आ- हरका भवन्ति श्राद्धे सिद्धे, उन्नेतारस्तौल्बलायना भवन्ति पुत्रे जाते। अत्र तद्धर्मणि । कर्ता(पि.) कटं, गन्ता खेलमिति तत्सा- धुकारिणि । क्विप् , उखायाः स्रंसत इत्युखास्रत , पर्णानि ध्वंसत इति पर्णध्वत् । 'किप च' (३. २. ७६) इति सोपपदेभ्यः सर्व- धातुभ्यः सामान्येन विहितः विप् । शंस्थाः । 'स्थः क च' (३. २. ७७) इति क्विम् । एतद् बाधकशम्यज्वाधनार्थम् । ब्रह्महा भ्रूणहा वृत्रहा । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (३. २. ८७) इति विप् । नियमार्थमेतद् वचनम्। तत्र धातुः कालश्च नियम्यत इति भाप्य- कृन्मतम् । तदेवादरणीयम् । केचित्तु चातुर्विध्यं नियमस्याहुः । मातृहा पितृहा सप्तमं नरकं प्रविशेत् । 'बहुलं छन्दसि' (३. २. ८८) इति पूर्वेण नियमादप्राप्तः क्विब् विधीयते । एवमुत्तरसू- त्राणां नियमार्थानामुदाहरणान्युन्नेयानि । विभ्राट् , भाः। 'भ्राज- भास-(३. २. १७७)इत्यादिना किप् । भित् , छित्। 'अन्येभ्योऽपि दृश्यते' (३. २. १७८) इति क्विप् । अनुपपदार्थमेतत् । 'क्विप् चे'त्यत्र हि सुप्युपसर्गेऽपीति च वर्तते। तथा चाह 'विविधि- - * 'खेटम्' इति काशिका ४८ वाररुचसंग्रहः । रनुपपदार्थ' इति । विभूरिति कश्चित , प्रतिभूः साक्षी । 'भुवः संज्ञान्तरयोः' (३. २. १७९) इति क्विप् । शुचिषत् अन्तरिक्ष सत् , अण्डसूः प्रसूः, मित्रहिट प्रविट् । 'सत्सूहिष-(३.२.६१) इत्यादिना विप् । प्रपञ्चार्थमेतत् । क्मरच् , प्रसृमरः घस्मरः अमरः। 'सृघस्यदः क्मरच्' (३. २. १६०) इति क्मरच् । पाकन् , जल्पाकः भिक्षाकः कुट्टाकः लुण्टाकः वराकः वराकी । 'जल्पभिक्षकुट्टलु- एटवृङः पाकन्' (३. २. १५५) इति षाकन्प्रत्ययः । ल्युः, नन्दनः रमणः । नन्द्यादिभ्यो ल्युरिति ल्युः । णिनिः, ग्राही उत्साही । ग्रहादिभ्यो णिनिरिति णिनिः । अच् , ओदनस्य पचः। पचादिभ्योऽजित्यच् । अत्र केचित् --- साहचर्य व्यव- स्थाहेतुरिति न्यायाद् नन्द्यादिसूत्रविहितणिन्यचावेवोदाहरन्ति। यथा रामलक्ष्मणावित्युक्ते दाशरथी रामः प्रतीयते, न तु जाम- दग्न्यः । अन्ये तु व्याप्तिन्यायाश्रयेण 'कुमारशीर्षयोणिनिः' (३. २. ५१) 'सुप्यजातौ णिनिस्ताछील्ये' (३. २. ७८) इत्यादिसू- त्रविहितं णिनि, 'हरतेरनुद्यमनेऽच् (३.२.९) इत्यादिसूत्र(वि)शि- टमचं चोदाहरन्ति । कुमारघाती शीर्षघाती , उष्णभोजी शीत- भोजी, उष्ट्रक्रोशी ध्वाङ्क्षरावी, स्थण्डिलशायी अश्राद्धभोजी, कषायपायिणो गान्धाराः, दर्शनीयमानी, अंशहरः रिक्थहरः, क- वचहरः क्षत्रियकुमारः, पुष्पाहरः फलाहरः, पूजार्हा ब्राह्मणी, स्त- म्बेरमो हस्ती कर्णेजपः सूचकः, शम्भवः शंवद इत्याद्युदाहर- णानि । उः, चिकीर्षुः जिहीर्षुः आशंसुः भिक्षुः । 'सनाशंसभिक्ष उ:'(३.२. १६८) इत्युः । 'विन्दुरिच्छुः' (३. २. १६९)। मित्रयुः। 'क्याच्छन्दसि (३. २. १७०) इत्युः । अण्, कुम्भकारः नग. , ४९ वाररुचसंग्रहः। रकारः काण्डलावः वेदाध्यायः । 'कर्मण्यण' (३. २. १) इत्य- ण् । क्षेमकारः । 'क्षेमप्रियमद्रेऽण च' (३. २. ४४) इत्यण् । उकञ्, अपलाषुकं वृषलसङ्गतं, प्रपातुका गर्भा भवन्ति, कामुका एनं स्त्रियो भवन्ति । 'लषपतपद'(३.२.१५४)इत्यादिना उकञ् । 'कर्तृकर्मणोः कृति'(२.३.६५)इति षष्ठ्याः 'न लोक- (२. ३. ६९)इति प्रतिषेधः । कञ् , तादृशः यादृशः । 'त्यदा- दिषु दृशोऽनालोचने कञ्च' (३. २. ६०) इति कञ् । 'आ स- र्वनाम्नः' (६. ३. ९१) इत्याकारः । टक् , वक्रगः सामगः सुरापः क्षीरपः । 'गापोष्टक्' (३. २. ८) इति टक्। एवमुत्तरसू- त्रोदाहरणानि द्रष्टव्यानि । टः, कुरुचरः मद्रचरः । 'चरेष्टः' (३. २. १६) इति टः । भिक्षाचरः सेनाचरः आदायचरः । 'भिक्षासेनादायेषु च'(३.२.१७) इति टः । पूर्वसूत्रेऽधिकरण इति वर्तते । अनधिकरणार्थोऽयमारम्भः । कः, विक्षिपः विलिखः ज्ञः प्रियः किरः । 'इगुपधज्ञाप्रीकिरः कः (३. १. १३५) इति कः । गृहं वेश्म, गृहा दाराः। गेहे कः' (३.१.१४४) इति कः। गोदः कम्बलदः पाणित्रम् अङ्गुलित्रम् । 'आतोऽनुपसर्गे कः' (३. २. ३) इति कः। एवमुत्तरत्रोदाहरणान्यूह्यानि । ण्वुल्तृच्छणाः वुन्थकनौ ण्युड्बुनिन्खरखचस्तथा । डः ख्युन् खिष्णुच् खुकञ् क्विंश्च ण्विन्युट्विट्कण्विनस्ततः । मानिन्वनिब्बनिबिनिङ्कनिपोऽतृनक्कसू पुनः। कानच् शानंश्च चानश्च क्स्नुक्नुवुधिनुणश्च युच् ॥ आलुत्रुघुरचो रश्च कुरच्च किकिनौ नजिङ् । करबारू कुक्कुकनौ कुकन्डुष्ट्रन्व(र)ञ्चनः ॥
मय- , वाररुचसंग्रहः। इत्रश्चोणादयश्चैव चकारेण समुच्चिताः । अनुक्तानां हि सिद्यर्थ चकार इह पठ्यते ॥ ॥२३॥ भावे स्वोत्तरकाला ल्यम्णमुल्क्त्वाः पूर्वकालजाः। इति पाठः । तुमुन् क्त्वा पूर्वकालजा इति पाठस्त्वयु- क्तः । तथाहि-क्रियार्थायां क्रियायामुपपदे विधीयमानस्य तुमु. नः स्वोत्तरकालजत्वपूर्वकालजत्वे न सम्भवतः, प्रत्युत उत्तर- कालजत्वमेव । शकधृषादिसूत्रविहितस्याप्युभयासम्भवः । एवं 'समानकर्तृकेषु तुसुन्' (३. ३. १५८) इति । नापि 'कालस- -' (३. ३. १६७) इत्यादिविहितस्यात्र ग्रहणाहता । अत्रो- त्तरकालशब्देन तत्रभवो धात्वर्थो लक्ष्यते, पूर्वकालशब्देन पूर्वकालक्रियावचनधातुलक्षणा प्रकृतिः । एवं ह्युच्यमाने सूत्रा- र्थविमर्शनवशादेककर्तृकत्वं लक्षणाङ्गत्वेनानुक्तसिद्धमिति भावः। तेनैतदुक्तं भवति-द्वयोर्बहूनां वा धात्वर्थानां यदैकः कर्ता भ- बति शक्तिभेदेऽपि शक्तिशक्तिमतो.दाविवक्षया कर्तृशक्तिम- देवदत्तादेरेकत्वाश्रयेण , तदा विशेष्यभूताख्यातवाच्यप्रधानकि- यापेक्षयान्ये भूताः परस्परान्वयानर्हाः पूर्वकालवृत्तय इति तेभ्यः सर्वेभ्यः क्त्वादयः प्रत्यया (न?) भवन्ति भावे। न च ‘कर्तरि कृत्' (३.४.६७)इति वचनात् कर्तरि भाव्यमिति वाच्यम् । तुमर्थाधिका- रात्।तुमुनपि कथं कर्तरि न भवतीति चेत् । उच्यते। 'तुमर्थे सेसेनसेऽसेन्-'(३.४.५)इत्यत्र तुमर्थग्रहण सयादिप्रापणार्थत्वेऽन- र्थक, सामान्यविधिनैव सिद्धत्वात्। अतस्तुमर्थग्रहणसामर्थ्यात् तु- मन कर्तरि न भवतीत्यनुमीयते। न चान्योऽर्थो निर्दिश्यते। अतः , वाररुचसंग्रहः 'अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति न्यायात स्वार्थे धातुल- क्षणप्रकृत्यर्थे भावे तुमुन्विधिः । तेन तदर्थवृत्तयः प्रत्यया भावे भवन्ति । अत एव प्रकृत्यर्थस्य साध्यरूपत्वात् तत्रैवैषां वि- धानाल्लिङ्गसङ्ख्यासम्बन्धायोगः। घनादयस्तु प्रकृत्यर्थव्यतिरि- क्ते भावशब्दवाच्येऽर्थे विधानात् तद्भाजः । णमुल् तु प्रकृत्य- र्थस्याभीक्ष्ण्यविशिष्टत्वमप्यभिकाङ्क्षति । ल्यग्रहणं विस्पष्टार्थ, क्त्वाग्रहणेनैव सिद्धत्वात् । ल्यप् , प्रकृत्य कटं गतः, प्रहृत्य। 'समानकर्तृकयोः पूर्वकाले' (३. ४. २१) इति क्वा । 'समासेऽन- पूर्वे क्त्वो ल्यप्' (७. १. ३७) इति ल्यप् । 'इस्वस्य पिति कृति तुक्' (६. १. ७१) इति तुक् । णमुल , पायं पायं व्र- जति, भोजं भोजं व्रजति । पुनः पुनः पीत्वा बजतीत्यर्थः । 'आभीक्ष्ण्ये णमुल च' (३. ४. २२) इति णमुल् । 'आतो युक् चिण्कृतोः' (७. ३. ३३) इति युक् । क्त्वा , स्नात्वा भुङ्क्ते, स्ना- त्वा भुक्त्वा पीत्वा बजतीति । व्यादाय स्वपितीत्यादौ तु स्वप्ना- दिक्रियाक्षणानां व्यादानादेः पूर्वापरकालभावित्वात् समूहिषु च प्रत्येकं समूहस्य समाप्तत्वादपरकालभाविस्वापाद्यपेक्षया व्या- दानादेः पूर्वकालत्वस्यापि भावात् क्त्वादिसिद्धिः । न च विप- रीतप्रयोग आशङ्कनीयः । व्यादानोत्तरकालस्वप्नक्रियाप्रतिपा- दनाय शब्दप्रयोगात् । यदा तु स्वप्नोत्तरकालं व्यादानं प्रति- पाद्यं, तदा सुप्त्वा व्याददातीति भवत्येव । प्राभाकरैस्तु-पूर्व प्रयुज्यमानाहातोरिति व्याख्यातम् । अनुष्ठानविषयं पौर्वकाल्यं नाहतम् । तेषां व्याकरणाधिकरणे वार्तिककारमुखानां सर्वेषां प्रामाण्यमभिधायान्यत्रार्थान्तरवर्णनेन तदभिप्रेतार्थान्यथाकर- , .
५२
वाररुचसंग्रहः।
,
णात् तेषामेवाप्रामाण्यमीकुर्वतां वचनं पूर्वमपरेण व्याहन्यत
इत्युपेक्ष्यं तत्। उक्तं ह्यस्मदाचार्यः -- "व्यादाय स्वपिति संमी-
ल्य हसतीत्युपसङ्ख्यानमपूर्वकालत्वादि"त्यादि ।
कर्मणि प्रथमा तेषां
इति । तेषां ल्यबाद्यन्ताभिधेयानां कर्मणि कारके प्रथ.
मा भवति । कदा, यदानुप्रयोगलकारेण कर्मणोऽभिधानम् ।
पक्त्वौदनो भुज्यते देवदत्तेनेति ॥
द्वितीया तु विशिष्यते ॥२४॥
इति । न केवलं प्रथमैव , किन्तु द्वितीयापि लकारेणा-
नभिहिते कर्मणि शास्त्रेणानुशिष्यत इत्यर्थः । पक्त्वौदन मुझे
देवदत्त इति । एतन्न्यायाश्रयेण कर्तरि प्रथमातृतीये अनुक्त-
सिद्धे इत्यभिप्रायः । ननु लकारेण स्वप्रकृतिवाच्यक्रियासाधि-
न्योः कर्तृकर्मशक्त्योरभिधानेऽपि क्त्वाप्रत्ययेन स्वप्रकृत्यर्थकर्तृ-
कर्मणोरनभिधानात् तत्र तृतीयाद्वितीये स्यातां , न तु प्रथमा ।
.
उच्यते ।
आख्यातादिपदार्थस्य विशप्यत्वात् प्रधानता ।
इतरस्याप्रधानत्वं साधिन्यौ च तदर्थयोः ॥
शक्ती गुणप्रधानत्वं तद्वारानुभविष्यतः।
तत्र प्रधानभूतस्य व्रजेच्छक्तिर्यदा भिदाम् ॥
तदा गुणक्रियाशक्तिस्तहदेव प्रकाशते ।
प्रधानं ह्यनुरुन्धन्ति गुणास्तन्मुखदृष्टयः ॥
॥ २४॥
५३ बाररुचसग्रहः। वर्तमाने तु निर्देशे वर्तेते शतृशानची। इति। निर्देशशब्दः कर्मव्युत्पत्त्याभिधेयवचनः । वर्तमाने प्रारब्धापरिसमाप्तैकफलावच्छिन्नक्रियाक्षणसन्तानलक्षणेऽर्थे वर्त- मानाडातोः परस्य लटः स्थाने शतृशानचौ वर्तेते भवत इत्यर्थः पचन् पचमान इति । अनयोर्विधायकं योगं विभज्य प्रथमा- समानाधिकरणे विकल्पोऽप्रथमासमानाधिकरणे नित्यत्वं च भाष्ये स्थापितम् ॥ द्रव्यसंज्ञापनात् ताभ्यां समासो न तु सिध्यति ॥२५॥ इति । द्रव्यस्यौदनादेः संज्ञापनात् सम्प्रत्यायनादर्थाद् ब्राह्मणस्य पचन्नित्यादिभिः, ताभ्यां शतृशानजन्ताभ्यां सह षष्ठी- समासो न सिध्यति, सापेक्षत्वादसामर्थ्यात् । तेन यत्र सामर्थ्य चोरस्य द्विषन्नित्यादौ, तत् पूरणसूत्रस्थसत्पदप्रयोजनमिति दर्शितं भवति । तथाचोक्तम् - 'इदं तर्हि प्रयोजनं चोरस्य द्विषन् वृषलस्य द्विषन्निति ॥ २५ ॥ ग्रन्थगौरवभीत्याहं श्लोकानां पञ्चविंशतः। पदार्थभारं निर्वोढुं प्रभवेयं भवे भवे ॥ २६ ॥ इति । ग्रन्थगौरवभयात संक्षिप्तैः पञ्चविंशतिसङ्ख्यायु- तैरेतैः श्लोकैः पदपदार्थलक्षणभारं निर्वोढुं प्रभवेयं समर्थः स्यामहं भवे भवे जन्मनि जन्मनि । यदा यदा जन्म, तदा तदेत्यर्थः । पदपदार्थभारनिर्वहणसामर्थ्य नाम पदपदार्थावगम- मूलवाक्यवाक्यार्थावधारणलब्धश्रुतिस्मृतिविहितनित्यनैमिचिक- बाररुषसंग्रहः। काम्यकर्मानुष्ठानजन्यादृष्टपरिपाकासादितप्रत्यवायपरिहारस्वर्गादि- फलावाप्तिकारकता। यहा पदशब्देन पद्यतेऽनेनार्थ इति वाक्य- मुच्यते , अस्मन्मते वाक्यस्यैव वाचकत्वात् । तच्च महावाक्यं, यद्विवर्तोऽयं प्रपञ्चः । तदेवार्थो वस्तु । तद्भारनिर्वहणं नाम व्याकरणसंस्कारपूर्वकयोगशोधितान्तःकरणस्य निवृत्तवर्णपदा- वान्तरवाक्यतदर्थभेदप्रतिभासस्याखण्डसच्चिदानन्दसान्द्रशब्द- तत्त्वसाक्षात्कारः । तथा च भाष्यकारेणानुषङ्गिकप्रयोजनप्रकरणे भाषितं-'महता देवेन नः सात्म्यं(यथा)स्यादित्यध्येयं व्याकरण- मिति । महता देवेनेति परेण शब्दब्रह्मणेत्यर्थः । सात्म्यं तदा- कारता। एतच्च शास्त्रस्यानुषङ्गिकं प्रयोजनं शास्त्रैकदेशसम्बद्धस्य प्रकरणस्याप्युक्तम् । एवं ब्रह्मप्राप्तिविषयप्रार्थनालक्षणमङ्गला- चरणमुखेन सङ्ग्रहः समापितः ॥ २६ ॥ एवं वररुचिप्रोक्तः सङ्ग्रहश्चर्चितो मया। यथामति न कात्स्न्येन भासन्ते तादृशां गिरः ॥ वेदो नाम महत्पदं जनपदो यत्र द्विजानां ततिः साङ्गं वेदमधीत्य वाच्यमखिलं मीमांसतेऽस्य स्फुटम् । तत्र ग्रामवरे कचिन्निवसता नाम्ना च नारायणे- नैषा वाररुचार्थदीपनपरा दीपप्रभा निर्मिता ॥ दीपप्रभासमेतः वाररुचसङ्ग्रहः समाप्तः। शुभं भूयात् ।
Ready for sale. 19 (Stuti) by II. II. Svati Sri Ranna Virma Malârâjah, 1 0 0 Trivardrum Sanskrit Series. 1 No. 1-97 (Vyé karana) liv Deva nith Purnshirâra of ishlîlâ: akamuni. 100 No. 2 - अभिनवकौस्तु मनाला- दक्षि गामूर्तिम् तवी 1)Krishnalila: ukamuni. 0 2 0 No. 3 - pyet: Karya) l'y Vámon: Bhatta Báŋa. 0 4 0 No. 4-fractatuta: (Kavya) by liilak ntha Diksh ta. 2 0 0 No. 5-..olithfaq?: (Alaukárt) by Mala ma Bhatta wili amm niary. 2 12 0 No. ti- guzare: (gâkaran:") by Sara gadera. 2 0 0 No 7 -- EETTAFELTET (Vedinta) by Sadasivendra Sarasvat.. 2 4 0 No. 8-stan? (Nataka) by Ravi Varma Bhû, va. 00 No. 9 - 9181921 STEN (Vecinta) lry Virâpá kshanátha with the commentary of Vidyas zabravartin. () No. 10 --- ATC (Gajalal jhan: ) by Jilakantha. No. 11 ---Trateazu (Nataht) Kulisekhara Varma vith the cult, ntary of Sivaramia. 2 to No. 12 --- uzarena I (evlâu: 1) Hi Bh: gavad âdisesha with the commitar: vf kåghavânalida. 1) 8 0 No. 13 ---92117973.11 ( Viitw.:) b: Krisekhari Varma i ithile wat ntar : of Sivarà ild. 1 - 3 86 No. 14 - affer: Niti) by Kanindakil, with the coirmentary | Saukarârya. No. 15. Falareza (Natalia) b: Bliisa. No. 16---ferraum (Do.) Do. 2 8 0 1 8 0 9 1 1 () No. 17-TERET (Do.) Do. No. 18— frizura (Stuti) by Narayana Bhatta with the commentary of Desamangala Varya. No. 19- vaalea: (Vímâmsâ).by Nârây ana Bhatta av i Narayana Panditär. No. 20—31419 Covátaka) by Blása. No. 21-artan (Do.) Do. No. 22-मध्यमव्यायोग- दूतवाक्य-दूत घटोत्कच-कर्णभारोरुभङ्गानि (Nataka) by Bhâsa 1 No. 23— Araraquara (Rosa) Jy Kesaraswamin (1 & 2 Kandas) No. 24— 794fyriuret: (Kavya) y Chakrakavi. No. 25 — FTUTTGIÀSTITI 1997.1 (Nyaya) by Gingadharasůri 0 No. 26 - 12% (Nátak:) by Bhasa No. 27 - SHRHFHA: (Kavya) by Kálidas a with the two compent iries, Prakasiká of drunagirinathi and Vivarana of Xarayana l'andita (1 & 2 Sargas)1 No. 28-8EF4842: (Dharmasutra) by Vikhanas No. 29-IÚ HET T: (kosa) by Kesaviswamin (3rd Kanda) 2 No. 30-legraal (ilpa) 0] No. 31-drareficiatigi : (Kosa) by Ke-avaswamin (ith, ith, a Oth Kandas) | No. 32- F4179549: (Karya) bi Kálmia.a with the two Cormentinies, Prakasikia of Arubigirinâtba and Vivarana of Lárayana Pandita (3ril, 4th & 5th Sargas) 2 No. 33—andiaG: (Vyåkarana) wiib thu commentary Dipaprabha of Vârâyana 0 Apply to :- 0 The Agent for the sale of Government Sanskrit Publications, Trivandru
No text on this page.