Others
Harishrchandropaakhyaanama~
Front matter
No text on this page.
LL-THEKYPE
SEMINSi
MADHA
॥ श्रीगणेशाय नम
श्रीमहाभारतवनपान्तर्गतम्,
॥हरिचन्द्रोपाख्यानम्
on+Ele+
सटिप्पणम्
इदं
कुंभघोणनिवासिना,
रा. सुदर्शनशर्मणा, साहित्यशिरोमणिना,
यथामति संशोध्य खकृतलघुटिपाच्या सह
कुंभघोणस्थ
"श्रीविद्या"
मुद्राक्षरशालायाम्
मुद्रापयित्वा प्रकाशितम् ।
Edited & Published
BY
R. SUDARSANA SARMA, SAHITYA SIROMANI,
PRINTED IT THE
"SRI VIDYA" POWER PRESS,
KUMBAKONAM
(अस पुनद्रवाचधिकार प्रकाशकायतः)
All Rights Reserved
Prloo Rs.1-8-0.5
1935.
sponta
No text on this page.
THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE. ) MADRAS. ॥श्री॥ ॥ उपोहातः॥ ॥ हरिश्चन्द्रोपाख्यानम् ॥ सत्यसन्धस्य हरिश्चन्द्रस्योपाख्यानं श्रीमन्महामारतवनपर्वान्तर्गत- मिति संप्रदायः। परंतु मुद्रितमारतपुस्तकेषु कापि तमो- पलभ्यते । श्रीमध्व. टी. आर्. कृष्णाचार्यैः मुद्राप्य प्रकाशिते भारत- पुस्तके वनपर्वणि नलोपाख्यानपर्वणि ७७-तमे अध्याये षोडशश्लोका- स्मकमिदमाख्यानं अधिकपाठतया दृश्यते ॥ ३३-अध्यायात्मकं हरिश्चन्द्रोपाख्यानमतिप्राचीनं किमपि लन्धमसामिः । " मार्कण्डेय उवाच, इति श्रीमन्महाभारते वनपर्व- णी"त्यादि पर्यालोचनया आख्यानमिदं श्रीमन्महाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वान्तर्गतमिति निश्चीयते । आधुनिकविमर्शनप्र- कारखोपयोगमावश्यकता वाऽसिनिर्णये न वयं पश्यामः ।। यद्यप्यसदुपलब्धकोशस्थकथासन्दर्भः स्कान्दांतर्गतां ६०. अध्यायात्मिका हरिश्चन्द्रकथां मात्रयाऽनुसरति । तथापि ३३-अध्या- यात्मकमाख्यानं बहुभिश्चारुतरैरंशैविशेषैश्च विराजते ॥ रमणीय- देवनागराक्षरैः मनोहरमसृणचिक्कणपत्रेषु प्राचीनकोशानुसारेण सम्प- परिशोध्य ३३ अध्यायात्मकं हरिश्चन्द्रोपाख्यानं असाभिर्मद्राप्य प्रकाशितम् । उपाख्यानमिदमन्तरा भारतं न संपूर्ण भवतीति विप- चितामाशयः । अतः पुस्तकमिदं सर्वैर्भारतसंगृहीतभिस्सहदरवश्वं प्रायमिति प्रार्थ्यते । अस्य मूल्यं रू-१-८-०. प्रेषणादिम्पयः पथका। इत्थं सहदयवशंवदः, रा. सुदर्शनशर्मा, साहित्यशिरोमणिः ॥
No text on this page.
TE KOPPUSWAMY SASTI LESEARCH INSTITUTE, MYLAPOR ॥ श्री॥ HARDRAS-800300A ॥ हरिश्चन्द्रोपाख्यानकथाऽनुक्रमणिका । अ.१-पाण्डवानां वनवाससमये अ.५-विश्वामित्राश्रमे राजा प्रवेश तेषामनुग्रहाय प्राप्त मार्कण्डेयंप्रति राज्ञो इतो न गंतव्यमित्यक्षरीर- बहुगुणवतो हरिश्चन्द्रस्य राज्यं वाक् श्रवणम् । राज्ञः खपल्युत्स- त्यक्त्वा भार्यापुत्राभ्यां सह कुतः गोपबर्हणस्य शयनम् । खमे रा- क्लेशानुभव इति युधिष्ठिरप्रश्नः॥ जानं प्रति विश्वामित्रशापः। शाप अ.२-सुधर्मा इन्द्रे सपरिवारे अधि- श्रुत्वा राजस्समयं सप्रार्थना- तिष्ठति सभ्यः बहुभी ऋषिभिः बोधः। भार्यया भयकारणभः॥ बहूनां राज्ञां प्रशंसनं । वसिष्ठेन-अ.६-खेन कन्याद्वयदर्शनम् । पे- विशेषतः हरिश्चन्द्रगुणानुवादः। द्वादशवर्षपर्यन्तं वासः । तदा तच्छ्रवणेन विश्वामित्रकृतोहरिश्च- चण्डालेन रक्षणं । छवादीनां केन न्द्राधिपः । पुनरपि वसिष्ठेन चिद्योगिनाऽपहारः । रतस्य स- हरिश्चन्द्रस्तुतिः ॥ पेण प्रसनम् । तत उत्तमे पुरे- अ. ३-हरिश्चन्द्रेण सत्यत्यागे का- वासः इति गज्ञा मायां प्रति ख- रितेवसिष्ठेन स्वस्योपवीतत्यागा- दृष्टखमवर्णनम् । मार्यया स- दिप्रतिज्ञा । पुनरपि सत्याचावने माश्वासितस्य राज्ञः दुःस्वमदोष- विश्वामित्रप्रतिज्ञा।। शान्त्यर्थ रात्रिसूक्तादिकं जप्त्वा अ.४ वसिष्ठेन हरिश्चन्द्रं प्रति वि- वनानिर्गमनसमये ऽशरीरवारलेन श्वामित्राश्रमं मा गच्छेति कथनम्। निरोधः । ततो राजा-देवताम्यो विश्वामित्रेण दुष्टमृगाणां निर्माण। बलिदानम् ॥ मृगैर्जनानां पीडां श्रुत्वा हरिश्च-अ. ७ विश्वामित्रमनोनिर्मिता- न्द्रस्य सपरिवारस्य मृगयार्थ ग-लकन्यकाभ्यां राज्ञः समीपमाम- मनं । विश्वामित्रेण मायामृगनि-त्य छत्रचामरयाचनम् । राक्षा र्माणम् । तन्मृगग्रहणाय भार्या- निषिध्य तयोः कशया तारन। प्रार्थितस्य राज्ञःमृगमनुसृत्य ग- तेन विश्वामित्रस्य कोपः ।। मनम् । मृगस्यान्तर्धानम् ॥ अ. ८-विश्वामित्र पेवेतिककर्म- २ हरिश्चन्द्रोशख्यानस व्यमिति नृपे चिन्तयति विश्वा- दत्ता भवान् यथेच्छ गच्छवि मिशागमनम्। अादिसमेतस्य राजवचनम्। यत्किचिदमा सा राजसत्पुरतोऽवस्थानम् ॥ द्वीपदातेव जल्पसीति ऋषिणो आ. ९-अस्पदाश्रममागल्य मत्सुते राज्ञा ससदीपदानम् । मदीयभूर कस्माताडिते । छत्रचामरयाच- न स्थातव्यमिति ऋषिणोक्तर नयापराधिन्यौ चेन्मयि निवेद- राज्ञः काशी प्रति प्रस्थानम् ।। तीये । तयोर्दण्डनरूपं तवापराधं अ.१३-मुनिना पुनरपि चण्डाल ययनयोः पाणि गृहासि तर्हि- कन्यकापाणिग्रहणे राज्ञश्चोदनं ममिष्य इति विश्वामित्रवचनं ॥ नृपेण निराकरणम् । प्राक्पति अ, १०-चण्डालकन्यकापाणि गृ- ज्ञातबहुसुवर्णकयज्ञपर्याप्तधनं ३ हाणेति विश्वामित्रवाक्यं श्रुत्वा हीति ऋषियाचना। राजा किर्र कौपिनाय नाहं पाणिगृहीष्या- टादीनां दानम् । किरीटादिदा मि शरणागतं मामुद्धरेति राज- नस्य भूमिदानान्तर्गतत्वात्पृथ ग्देयमिति मुनिवचनम् । मासा अ.११-अपराधःक्षन्तव्यइति राज न्तः आर्जयित्वा ददामीति राज प्रार्थना । त्वं धनिकोऽपि लुब्ध- वचनम् । राज्ञः काशी प्रति प्रस्था इति विश्वामित्रेण राज्ञो निन्दा। नम् । धनग्रहणाय विश्वामित्रो सासवर्णकयझे बहुधनं प्रायच्छं। नक्षत्रनामकाशध्यस्य हानीमपि पाचितं दास्यामीति अ.१४-विश्वामित्राज्ञया मार्यापुत्रा राजवाक्यम् । तर्हि मह्यं बहुसुव- भ्यां सह नृपस्य वनगमनम् । रा प्रकाशपर्याप्तं धनं देहीति विश्वा. ज्ञानिवारितस्यापि सत्यकीर्तिना विमानसम् । राज्ञा अपये धन- मकस्य मत्रिणो राजानुसरणम्। दानम् । ऋषिणा प्रतिग्रहः ॥ अ.१५-वने श्रमेण गच्छन्तं राजा अ.१२-विश्वामित्रेण पुनरपि कन्य- नं दृष्ट्वा अहोऽतिचालालक्ष्मीरि कापरिणवताय निर्वन्ध। मम ए- त्यादिमन्त्रिको विलाप बने रस बैल भार्या अलम् । भक्ते दक्षिणा तो राज्ञः सप्तविंशतिदिनापगमः । प्रार्थना।।
३ कांबाबुकमणिला। १.१६-विश्वामित्राय दक्षिणा दा विकस्म बाईनन् । साइन्मया- कम्पप्रातिरिति रामविन्ताचनाय राज्ञो भार्याकार- इदानीमनुभूगमावदुःखामेषान- त्रियस्य वाचनं निन्दितमिति रा- हुदुःखानुमानन्तरं सुसमातिरि- मोके मां पुत्रं च विक्रीणीति ति मरित्रवचनम् । अपरिहार्येऽर्थे मार्याप्रार्थना ॥ नशोचनीयमिति चन्द्रवत्युक्तिः अ. २०-राजा स्वयमनिच्छतोऽपि पक्षसूले उपविष्टं राजानं प्रति वि. विक्रीणामि भार्या पुत्रं चेत्युदो- धामित्रेण दक्षिणानः । इत- षणम् । मूल्य बृहीति कालको- स्तृतीये दिवसे दक्षिणां दास्या- शिकप्रश्नः । मूल्यं ज्ञात्वा काल- मीति नृपवचनं भुत्वा पुनःप्रष्टुं- कौशिकेन मूल्यदानम् । जन्मा. शिष्ययात्राप्य विश्वामित्रगमनं ॥ न्तरेष्वपि हरिचन्द्रो मे भर्ता भू- अ.१७ अपराहे रामः काशी प्रति यादित्युक्त्वा चन्द्रवत्याः पुत्रस्य गमनम् । मध्ये मार्ग दावानिदर्श-च प्रस्थानम् । कालकौशिकेन क- नम्। चन्द्रवत्या दावामिप्रवेशा- शाताडनपूर्वकं खगृहं प्रति वयो- थं पतिप्रार्थना। राजा निरोधः। नयनम् ।। अ.१८-अमात्यप्रभृतिषु बडौ प-अ. २१-विश्वामित्रसैव कालकी- तनोन्मुखषु पति प्रणम्य चन्द्र- शिकत्वकथनम् । नक्षत्रके द्रव्य- बती सदाऽनौ प्रविवेश तदाऽः दानं । रात्रौ समदृष्टसूर्यवाक्येन पीतत्वम् । दावामिना पूर्वदग्धा- परेयुः स्वविक्रयोबोषणम् । मूल्य- नापपि जीवनम् । तेषांकाशी प्रदानेनैतहणार्थ विकतसच- स्वागमनं । गङ्गायांसात्वा विश्व- ण्डालस्यागमनम् ।। नाथालये जागरणम् । एकोननि-अ.२२-चण्डालदास्ये विषा- असितमदिने पुरवीगीतु द्रमार्थ जानं प्रति मूल्यं बहीति पण्डालं- प्रश्नः । विश्वामित्रस्य समान १.१९- कन्धे सुवर्णभारमा- मागपासवनं देहीत्यतातिरा सनबीच्या गच्छतः कालको जनि सदन जाने समायो- हरिचन्द्रोपाख्यान जनविस्तीर्णमण्डलमेकयोजनोग-द्रवत्याः निरोधः । ब्रामणगृहे तं धनं दास्यामीति चण्डालवच- रात्रिभोजनपर्यतं. कार्याणि कृत्वा नम्। तदत्तं धनं प्रतिगृहराज्ञःवि-निशीथे वनं गत्वा सस्तीरे पति- वामित्राय दानम् । विश्वामित्रेण तस्यपुत्रस्य दर्शनम् । विलापश्च ॥ पुनरपि कन्ये गृहाणेति कथनम् । अ. २६-श्मशानवासिनो रामः चं- राज्ञा प्रतिषेधः । विश्वामित्रस्य द्रवतीरोदनध्वनिश्रवणेनागमनं । गमनम् ॥ तं पिशाचं मत्वा चन्द्रवत्या रा- अ.२३ चण्डालेन खपादसंवाहना क्षस मां खाद मा पुत्रमिति दूरे य राज्ञो नियोगः । राजश्चिन्ता || स्थित्वा कथिते नाहं राक्षसः किं- चण्डालनिर्बन्धेन पादसंवाहने प्र| तु हरिश्चन्द्रइति नृपोक्तिः। चन्द्र- वृत्तस्य राज्ञः चण्डालेन श्मशानं वत्या राज्ञः पादयोः पतने मां प्रति प्रेषणम् । तत्र मन्त्रिणा सह मा स्पृशेति राज्ञो वचनम् । अहं ते- कुटीरे राज्ञो निवासः ॥ जाया अयं ते पुत्रस्सर्पदष्टो मृत अ. २४-श्मशाने वसता राज्ञा मं- इति चंद्रवत्याः कथनम् ॥ त्रिणं प्रति पुण्येन सुखप्राप्तिःपा-अ.२७-मृतं पुत्रमाकर्ण्य राज्ञो विला- पेन नरकानुभवः अतस्सर्वदाध-प:। तदा तत्रागत्य मत्कन्यका मोऽनुष्ठेय इति कथनम् । मंत्रि-| विवाहे कृते पुत्रसुजीवयिष्य इति गाधर्मखरूपे पृष्टे राज्ञा दशविध- विश्वामित्रवचनम् । इतोप्यधिक धर्मोपदेशः ॥ श्रमे प्राप्तेऽपि नाहं सत्यं त्यजेय- अ.२५-सपुत्रायाश्चन्द्रवत्याः नाम-| मिति राज्ञो वचनान्मुनर्गमनम् ।। पगृहे शुश्रूषया कालयापनं। क-अ.२८ मृतमिममादायाहं श्मशानं दाचिद्वालकैस्सह काष्ठभारमादा- यास्यामि, त्वं विप्रगृहं गच्छे. यागच्छतो लोहिताश्वस्य भारेप-| त्युक्ता राज्ञा चन्द्रवतीप्रेषणम् । तिते तद्वन्धनार्थ दर्भच्छेदनसमये चन्द्रवत्याः मार्गे कंचित् बालं सर्पदष्टस्य लोकान्तरगमनम् । त- हन्तुं प्रवृत्तानां चोराणां दर्शन। वणेन पुत्रं द्रष्टुं प्रवृत्तायाः च-चोराभिवार्य तया बालरक्षणस- कथाऽनुक्रमणिका । मये राजमृत्यैरागत्य इयमेव वा-अ.३१-दासस्य मे वरो माऽस्तु । लहनने प्रवत्तेति राजे निवेदनं । मत्प्रभोवीरवाहोः पुत्रादिसंपभू- विश्वामित्रेण चन्द्रवत्या वाक्तं- यादिति राजप्रार्थना । तदानी भनम् । एतस्याः वधार्थ वीरवाहु- वीरबाहुना चण्डालरूपं त्यक्ता य. सकाशे प्रेषणम् । तेन वपुत्रस्य मधर्मरूपेणागत्य त्वत्सत्यरक्षणा- हरिश्चन्द्राहाने नियोजनम् ॥ थं चण्डालरूपेण द्रव्यदानमिति अ.२९-हरिश्चन्द्रे वीरवाहुः कुतो कथनम् । विश्वामित्रेण त्वत्सत्य- मामाह्वयतीति सविचारमागते परीक्षार्थमेव त्वं क्लेशित इत्युक्ता एनां हनेति वीरबाहोराज्ञा । हंतुं लोहिताश्वं जीवयित्वा योगसा- प्रवृत्तेन तेन स्वभार्येति ज्ञात्वा तां मर्थेन हैमं सिंहासनमानीय रा- इष्टदेवतां स्मरेति कथनं । हरि- ज्ञोऽभिषेकायोधमः ।। श्चन्द्रस्य खेष्टदैवतस्य चन्द्रवत्याः अ. ३२-ब्रह्मादिभी राज्ञोऽभिषेकः। स्मरणम् । कथमेषा हन्तव्येति प्राग्गृहीतस्य सर्वस्य द्रव्यस्य वि- राज्ञो विचारः। धैर्येण मां संह- श्वामित्रेण दानं । दत्तं न प्रति- रेति भार्यावचनम् ॥ गृहामीति राज्ञोक्ते गृहाणेति - अ.३०-विश्वामित्रेण हननोद्यतस्य सिष्ठाझा । विश्वामित्रेण पूर्व ज- राज्ञः बाहुस्तंभनम् । विष्टब्धं बाहुं याविजयाख्यचण्डालकन्यकालेन मुश्चत्विति राजप्रार्थना । पुरत कथितयोर्बलातिबलाख्यमंत्रयो । आगत्य एनां माऽवधीः मत्पुत्र्योः र्दानं राज्ञे । पश्चाशत्कोटिवर्षपर्यत पाणिं गृहाणेति मुनिवचनम् । स्वकृततपसःफलदानश्च । ब्रह्मा- राजा यदा नाभृणोत्तदा ऋषि- दिभिरस्य याजनम् । राजस्सत्ये णा बाहुमोचनम् । राजनि छेदार्थ धर्मे च खैर्यरूपवरप्रार्थना ।। प्रवृत्ते यदा शिरो न च्छिन्नं तदा अ. ३३ ब्रह्मणा वरदानम् । राशी अक्षणा पाणमाच्छिद्य नेदं श्म- बहुवर्षपर्यन्तं राज्ये निवासः । शानमित्यादिकथनपूर्वकै वरं - ततः ब्रह्मलोकप्राप्तिः । एतदुपा- णीवेत्याज्ञापनम् ॥ ख्यानश्रवणपारायणफलकपनं ।।
No text on this page.
THE KUPPUSWAMY SASTI RESEARCH INSTITUTE MYLAPORE MARDRAS-800004 १॥ ॥ श्रीगणेशाय नमः॥ श्रीमन्महाभारतवनपर्वान्तर्गतम् ॥ ॥ हरिश्चन्द्रोपाख्यानम् ॥ प्रथमोऽध्यायः ॥१॥ युधिष्ठिर उवाच- भगवनिह लोकेऽस्मिन् सत्यवादी दया परः । शौर्यवान्वीर्यसंपनो धृतिमान्बुद्धिमान्कृती ॥ सदा दानपरो धीमान्वदान्यः सत्यसङ्गरः । पुण्यश्लोकः पुण्यकीतिः पुण्यचारित्र शीलवान् ।। पुण्यात्मा पुण्यकीर्तिश्च सतां पुण्यानिधिस्सुधीः पर- ण्यः शरणार्थिभ्यो दाता यज्वा सुधार्मिकः ।। सत्यशीलस्सत्यपरः सत्यवाक्यरतस्सदा । एकदारव्रतपरः परदारसहोदरः॥ सर्वतदाता सत्पात्रे यज्ञे सर्वस्वदक्षिणः । सप्तद्वीपैकराजेन्द्रः सप्ताििनपूज- कः ॥५॥ सर्वदा सद्गतिपरः परसैन्यविमर्दनः । कामक्रोधादिरहितः कामदः कामिनां सदा ॥ संग्रामे निर्जितारातिर्मार्गनिधने यमः । सप्तद्वीपार्णवां पृथ्वी निस्सपलां निरामयां ॥ निर्बाधां च निराव नीरोगां च निराकुलाम् । निःशत्रुजनसंवाधां निष्पापां निरवा- हाम् ॥ निरीतिबाधां निर्व्याधि चोरमार्गविवर्जिताम् । निक्षामा क्षोभनिर्मुक्तां दुर्भिक्षभयवर्जिताम् ॥ एवमादिगुणोपेतां शासिता नियमैस्सदा । युद्धे चाप्रतिमो वीर्ये क्षमया पृथिवी समः ॥१०॥ अमिना सदृशःकोपे प्रसादे शशिना समः । समुद्र व गाम्भीर्ये बलेन मरुता समः ॥ धर्मेण सहशस्सत्ये वीर्य बलमिदा समः पुत्रेण सदृशो धर्माधर्मविनिर्णये ॥ असतां निग्रहे चैव सतां परिपालने। बृहस्पतिसमो बुद्धया धनदेन समाश्रिया ।। प्रबल्यो प्रसारित्संगी विश्वजित् क्रतुर्जित्तथा । एतैवान्यैर्गुणैर्युको महाराजसिकः॥
२ हरिश्चन्द्रोपाख्यानम् । [अ०.२. एवमादिगुणैर्युक्ता राजानो बहवःपरे । विंशत्रिंशवपश्चाशदयुतं नियुतं तथा ॥१५॥ वर्षाणां च सहस्राणि पालयित्वा महीं नृपाः । धर्म कीर्ति यशोदीप्तिमादाय ब्रह्मणोंऽतिकम् ॥ गत्वा वसन्ति कल्पान्ते- तेषु मुख्यस्त्रिशंकुजः। हरिश्चन्द्रो महाराजस्सत्यधर्मपरायणः ॥ यथा क्रमानुसेवीच पुरुषार्थचतुष्टयम् । यभामस्मरणे नृणां तत्तदोषो न विद्यते ॥ यद्वाहुबलमाश्रित्य खर्गे तिष्ठति वासवः । यस्य यज्ञेषु सर्वेषु राजसूयादिषु द्विजाः ॥ भुक्त्वा हवीषि विबुधाः पुरोडाशमुखानि च । वृप्ति परमिकां प्रापुराशिषाचाप्ययूयुजन् ॥२०॥ हरिश्चन्द्रो महा राजा पुराणे परिपठ्यते । भोगेष्वासक्तचित्तोऽपि राजा राज्यधुरन्ध रः॥ राज्यव्यापृतचित्तोऽपि नानृतं किंचिदब्रवीत् ।स्वमान्तरेप्यसौ वक्ति सत्यमेव हि भूपतिः ॥ कथं स राजा धर्मात्मा भार्यापुत्रसम- न्वितः । राज्याभिरस्य सौख्याच क्लेशितश्च पुरा किल ॥ लोहिता- धेन पुत्रेण चन्द्रवत्या च भार्यया । एतत्कथय विप्रेन्द्र पुण्यश्लो- कस्य धीमतः । यच्छ्रुत्वा ब्रह्महाचापि मुच्यते ब्रह्महत्यया ॥२४॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने प्रथमोऽध्यायः॥ द्वितीयोऽध्यायः ॥२॥ मार्कण्डेय उवाच-भृणु राजन् पुरावृत्तं श्रोत्पापहरं शुभम् । धन्यं यशस्यमायुष्यं कान्तिदं पुष्टिवर्धनम् ॥ युधिष्ठिर उवाच- सुधर्मायां सुरेन्द्रस्य के तत्रासन नृपोत्तमाः । ऋषयश्चैव तंत्रासन् तान्मे कथय विस्तरात् ॥ तस्यां सभायां योगीन्द्र विश्वामित्रवसिष्ठयोः कथं विवादस्तत्रासीत्तत्रस्थाखिलभीतिदः ॥ हरिश्चन्द्रे कृपावापि वसिष्ठस्य मुने वद । विश्वामित्रस्य किं कोपो हरिश्चन्द्रे कृपात्मनि ।। का प्रतिज्ञा चकारासौ वसिष्ठो भगवान् ऋषिः। विश्वामित्रोऽकरोत् किंवा हरिचन्द्रकते वद ॥५॥ एतदाख्यानमखिलं सर्वश्रोहमनो- हरम् । अतुलं श्रोतुमिच्छामि सर्वपापहरं शुभम् ॥ सर्वश्लेशोपशमनं A अ०. २.] हरिचन्द्रोपाख्यानम्। ३ चतुर्वर्गफलप्रदम् । श्रोतुमिच्छामि तत्सर्व त्वत्प्रसादान्महाहने। मार्कण्डेय उवाच- श्रूयतामभिधास्यामि पुराणाख्यानमुत्तमम् । धन्यं यशस्यमायुष्यं पावनं कीर्तिवर्धनम् ॥ यच्छ्रुत्वा मनुजो राजन अमहत्यां व्यपोहति । हरिश्चन्द्रो महाराजः प्रजापतिरिकापरः । सूर्यवंशेऽभवद्वीरः त्रिशंकानन्दवर्धनः ॥ तेन राज्ञा स्वधर्मेण पाल्य माने महीतले । देवलोकोऽपि चुक्षोभ हरिश्चन्द्रप्रभावतः ॥१०॥ एतस्मिमेव कालेतु कदाचित्कार्यगौरवात् । संभूय देवैर्देवेन्द्रो ऋषि भिस्सहशिष्यकैः ।। अध्यतिष्ठद्देवसभां गन्धर्वाप्सरसां गणैः। आदि- त्यैर्वसुमीरुद्रैर्विश्वेदेवाश्चिमारुतैः॥ पूर्वेन्द्रैः पूर्वमनुभिर्मनिभिःपूर्व पूर्वकैः । साध्यादिभिर्देवगणैः यक्षराक्षसपमगैः ॥ एतैरन्यैर्देवगणैः ऋषिभिस्सहशिष्यकैः । उपास्यमान अध्यास्ते सुधा तां सुरेष- रः॥ सभायामृतवःषदच मूर्तिमन्त उपासते । सुगन्धी शीतलो मन्दो वायुर्वाति सुखप्रदः ॥१५॥ नृत्यमानेऽप्सरगणैर्गीयमानेच किनरैः । गन्धर्वैस्तूयमाने च शस्यमाने मुनीश्वरैः ॥ महान् कोला- , हलो जातः कथाः कथयतां नृप । इक्ष्वाकुप्रभृतीनां च राज्ञामाहव- शालिनाम् ॥ उर्वशीरमणानां च सूर्येद्वन्वयजन्मनाम् । ऋषयः केषि- दिक्ष्वाकुप्रभृतीन् भूमिवल्लभान् ॥ प्रशशंशुर्वसिष्ठापाः व्यासाधाः सोमवंशजान् । स्तुवन्ति केचिबहुपं ययातिमपरे जगुः ॥ मान्धातारं पृथु चान्ये भार्गवच्यवनादयः । अम्बरीषं महाभागं नारदाधास्सुर र्षयः ॥२०॥ दत्तात्रेयोऽर्जुनं चैव हैहयाधिपति तथा । राजानं सगरं चान्ये गर्गाद्या मुनिपुवाः ॥ भगीरथं दिलीपं च कुरुं पूरंच हस्ति- नम् । रन्तिदेवं नृगंचैव वसुमन्तं प्रतर्दनम् ॥ उशीनरं च तत्पुत्रं शिषि परमधार्मिकम् । दुष्यन्तं भरतं चैव नागानन्दं विदूरथम् ॥ ऋषमं चाजमीदं च कुशनामं कुजध्वजम् । अत्रि गुर्भरद्वाजः कयो मेधातिथिर्वसुः ॥ शलभो मुद्रो बोध्यो रोमशो गोतमोऋषि। पुलस्त्यांगिरावैव प्रशशंसुः पृथक्पृथक् ॥२५॥ नृपेषु शस्यमानेर ४ हरिश्चन्द्रोपाख्यानम् । [अ०. २. तत्रतत्र समातले । मुनिभिः शस्यमाने तु गुणशीलानुवर्तनैः ॥ स्तूय माने हरिश्चन्द्रे वसिष्ठेन महात्मना । गुणशीलवयोरूपैराचारचरणेन च ॥ विशेषात्सत्यवाक्येन धर्मेण च दमन च । एकदारव्रतेनैव तच्छ्रुत्वा कुशिकात्मजः ॥ सर्वानतीत्य भूपालान् सर्वसद्गुणशालि- नः । वसिष्ठोऽतिशयास्तौति हरिश्चन्द्रं त्रिशंकुजम् ॥ तच्छ्रुत्वा वचनं क्रुद्धो वसिष्ठेन समीरितम् । विश्वामित्रो महातेजाः मनस्येवमचिन्त- यत् ॥३०॥ पातयाम्यहमेवैनं सत्याचलितमानसम् । इति निश्चित्य मनसा वसिष्ठान्तिकमागमत् ॥ मार्कण्डेय उवाच- सभायां च तदा तस्यां विवादः सुमहानभूत् । विश्वामित्र उवाच- शृण्वन्तु देवा राजानः सर्वे च मुनिसत्तमाः ॥ विषयेन्द्रियसंयोगी सर्वैश्वर्यसमृद्धि- मान् ॥ ललनामध्यगो राजा भोगेष्वासक्तमानसः। एकदारव्रतो नास्ति सत्यवाङ्नास्ति कुत्रचित् ॥ न श्रद्दधे वसिष्ठस्य वचोऽहं सुर- सत्तमाः। विश्वामित्रेणैवमुक्ते वसिष्ठोऽपि महानृषिः ॥३५॥ शृण्वतां चैव देवानां मुनीनां चैव सर्वशः। दक्षिणं पाणिमुद्धृत्य सर्वे शृण्वं त्वितीरयन् ॥ एवमादिगुणैर्वा स इतोप्यधिकएव वा । मातृतुल्या- न्यदारोऽसौ सत्यवाक्चत्रिशंकुजः ॥ अप्सरोगणमध्यस्थः त्रैलोक्या- धिपतिश्च वा। एकदारव्रतश्चैव सत्यवाक्च पुनःपुनः ॥ त्रिशंकुजो हरिश्चन्द्रः शक्रतुल्यपराक्रमः । स्वमेऽपि नस्मरेद्योषामन्यामौशीनरी विना । सत्यान्नच्यवते राजा प्राणैः कण्ठगतैरपि ॥४०॥ विश्वामित्र उवाच- पश्चाशत्कोटिवर्षाणि तपश्चीर्ण मया पुरा। तावद्भारत वर्षेषु ये राजानः प्रकीर्तिताः ।। तेषु राजसु सर्वेषु सूर्येन्द्वन्वयजन्मसु एकदारव्रतं चापि सत्यवाक्यं न शुश्रुमः ॥ वसिष्ठ उवाच- पश्चा शत्कोटिवर्षाणि तपश्चीणं त्वया पुरा । सत्यमेतन्नसन्देहः एताव- कालगोभवान् । एतादृशः सत्यवादी परदारपितोपमः ॥ हरिश्चन्द्रो पमो राजा त्वया दृष्टः कदाचन । ब्रह्मर्षित्वं मया दत्तं यदा ते कुशि कात्मज ॥ ततोपि पूर्वमेवाहं ब्रह्मणोङ्गात्समुद्भवः । तदा प्रभृत्येवा- अ०. २.] हरिश्चन्द्रोपाख्यानम् । ५ द्यांतं राजानः कोटिकोटिशः ।।४५।। मया दृष्टा ह्यसंख्याता तेष्वनेन समो नहि । शासितेयं वसुमती लोकपालोपमैनूपैः ॥ प्रियव्रतोत्तान पादौ क्षत्रियाग्यो महाबलौ। दृष्टौ मया धर्ममूर्ती सप्तद्वीपाधिपा. वुभौ ॥ प्रियव्रतेन तेनेयं सप्तद्वीपा वसुंधरा । प्रदक्षिणीकृता सप्तवारं सप्ताब्धयोऽभवन् ।। रथस्य वीथयः सप्त प्रियव्रतनृपस्य च । पालया- मास पृथिवी सप्तद्वीपार्णवावृताम् ।। प्रियव्रतश्चैकएव ह्यनन्यांतपवार णः । तस्य पालयतः पृथ्वी पद्मानां दशपञ्चच । वर्षाणि कौशिक मया दृष्टानि नरसंख्यया ॥५०॥ यस्यराज्ञस्सप्तपुत्रास्सप्तद्वीपाधि- पाऽभवन् । द्वीपान्पालयतां तेषामापद्यत समागमः ॥ एकदारव्रते सत्ये त्रिशंकुज समो न सः । उत्तानपादमहिमा मया वक्तुं न शक्यते । तभ्यामसौ हरिश्चन्द्रः समानोवाऽधिकोपिवा । सत्ये दमेच धर्मेच प्रजानां परिपालने । किबहूक्त्या मुनिश्रेष्ठ मया दृष्टाजगत्त्रये त्रैका- लिकं त्वया दृष्टं चतुर्थांशो न विद्यते ॥ शासितेयं वसुमती लोकपा- लांशजैमुने । तामेवभूमिमधुना हरिश्चन्द्र. प्रशासति । ५५।। सप्त- द्वीपाणवां पृथ्वी सत्यधर्मपुरस्सरम् । सत्यमेव पुरस्कृत्य चातुर्वण्र्य प्रशासति । धर्मात्मा सत्यवादी च नाऽन्यो राजा त्रिशंकुजात् । कि गाधिज बहूक्तेन शृणु मे तादृशं वचः ॥ वायुर्वा न चले स्थानात् अग्निर्वा शीतलो भवेत् । हिमवांश्च चलेत् स्थानान्मेरु, वियदुत्पतेत् ॥ शुष्येयुःसागराःसप्त सूर्यो भवतु चन्द्रमाः । शीतांशु रुष्णगुचस्यात् भूमिराकाशगा भवेत् ॥ आकाशो भूमिगश्च स्यात् भास्करोदेतु पश्चिमे । भवेयुरुदिताश्चैवं नह्यादित्यान्वयोद्भवः ॥६०॥ त्रिशंकुजो हरिश्चन्द्रः कामक्रोधभयादपि । अर्थलोभाद्धेतुवादान्मात्स र्यात्स्वर्गलोभतः ॥ त्रैलोक्यराज्यलाभोद्वा प्राणत्यागभयादपि । खमान्तरेप्यऽसौ राजा हरिश्चन्द्रः प्रतापवान् ॥ अनृतां न वदेद्वाचं नचान्यां स्त्रियमीक्षते । वेदोक्तपरमाचारः सत्यवादी दयापरः ॥ भोगेष्वासक्तचितोऽपि ललनाकेलिलोलितः। स्मरेण साक्षादाविष्टः wr हरिश्चन्द्रोपाख्यानम् । [अ०. ३. सत्यानापैति भूमिपः॥ ऊर्वशीमेनकारम्भा विश्वाचीच तिलोत्तमा । एताश्चान्याविवस्त्राश्च सर्वाभरणभूषिताः ॥ मुनिमोहनशीलाश्च बाहु- पाशैर्निबध्यच । मोहयन्तु स्वलीलाभिर्विभ्रमामयन्तु वा। तथापि निर्विकारोऽसौ विकारं नाप्नुयात्वचित् ॥६६॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने द्वितीयोऽध्यायः॥ तृतीयोऽध्यायः ॥३॥ मार्कण्डेय उवाच- वसिष्ठेनैवमुक्ते तु विश्वामित्रो महामुनिः। क्रोधरक्तान्तनयनः इदं वचनमब्रवीत् ।। कोहि नाम पुमान्लोके राज्य लक्ष्मीसमन्वितः । सत्यवागेकदारश्च मया नश्रूयते की ॥ नदृश्यते मया कुत्र वचो नश्रद्दधामि ते । सत्यादसौ यदि मया च्यावितः पृथिवीपतिः । तदा ते किं पणो ब्रह्मन् इन्द्रस्य वद सन्निधौ ॥ वसिष्ठ उवाच- व्यसनासक्तचित्तोऽपि ललनाकेलिलम्पटः । स्वप्नांतरे- प्यऽसौ राजा नानृतं वदति क्वचित् । शृण्वन्तु ऋषयस्सर्वे देवाश्चेद्र- पुरोगमाः ॥५॥ प्रतिज्ञां मम दुर्धर्षा तत्सत्यं प्रत्युदाहृताम् । वेद धर्मानतिक्रम्य दिग्वासा दक्षिणामुख. ॥ विशिखोऽनुपवीतश्च धूलि धूसरदेहभृत् । सुरां पिबन् कपालेन शिरसो ब्राह्मणस्य च ॥ या- स्यामि प्रेतराजाशां यद्यसावनृतं वदेत् । कृतायां दुःष्प्रतिज्ञायां वसिष्ठेन महात्मना ॥ महान् कोलाहलो जज्ञे सुधर्मायां नरेश्वर । हाहेति चुक्रुशुःकेचित्केचिद्धलहलेति च ॥ धिग्धिगित्यपरे प्राहुरेहा- हन्तेति चापरे । ब्राह्मणेन नवक्तव्यं श्रोतव्यश्च कदाचन ॥१०॥ ब्राह्मण्यमपिसंप्राप्तः कौशिकस्तपसा महान् । न क्षात्री प्रकृति मुक्त्वा चाद्यापि शममेयिवान् ॥ (जन्मारभ्य) जन्मान्तराद्वसिष्ठस्य कोपो- नास्तीति च श्रुतम् । अधुनापि तथाकोपः कुतोवाऽयं समागतः ॥ इत्थमासीत्सुधर्मायां महान् कोलाहलो नृप । सर्वे देवाश्च मुनयस्तेन वाक्येन तेजिताः ॥ पिधाय कर्णावासिनास्तूष्णीमासनवाङ्मुखाः ।
अ०.४.] ७ । हरिश्चन्द्रोपाख्यानम् । प्रतिज्ञाते वसिष्ठेन हरिश्चन्द्राय पार्थिव । त्रैलोक्यमगमत्क्षोभं युगांत समये यथा ॥ मार्कण्डेय उवाच- अवगत्ये सुनासीरः दुष्प्रतिज्ञा भयङ्कराम् । उवाचात्मभुवः सूनुं ब्रह्मतेजोनिधिं मुनिम् ॥१५॥ असद्वाक्यमयुक्तं ते वक्तुमेतत् द्विजोत्तम । क्रुद्धाअपि महात्मानो न वदन्त्यतिगर्हितम् ॥ वैशम्पायन उवाच- एवमुक्ते सुरेन्द्रेण वसिष्ठं प्रति भूमिप । विश्वामित्रोऽभ्युवाचेदं बलाराति सभातले ॥ विश्वामित्र उवाच-शृण्वन्तु ऋषयस्सर्वे शृणोतु बलसूदनः । प्रतिज्ञां मम दुर्ध- षां माकुप्यन्तु मुनि प्रति ॥ अनेकमायाव्याजेन क्षुद्रोपद्रवणेन च । महत्या पीडयाचैव प्राणान्तकरणेन च ॥ कियत्कियन्मया शक्यं कर्तुं तस्य महीपतेः । तावत्तावत्करिष्यामि ह्यसह्यं दुःखमञ्जसा ॥२०॥ स्वयमेवात्मनः छित्वा शिरो मरणमाप्नुयात् । यथा राजा तथा दुःख करिष्यामि दिवानिशम् ॥ सुव्यक्तं पातयिष्यामि दुरन्ते दुःखसा- गरे । तथादुःखाभिभूतोऽपि सत्यानच्यवते यदि ॥ या प्रतिज्ञा कृता घोरा वसिष्ठेन तवान्तिके । अहमेव प्रतिज्ञां तां पारं यास्यामि दुस्सहाम् ॥ ब्रह्मलोकनिवासस्स्याद्यावदिन्द्राश्चतुर्दश । सत्यवाक्य प्रभावेण हरिश्चन्द्रस्य भूपतेः ॥२४॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने तृतीयोऽध्यायः॥ चतुर्थोऽध्यायः ॥४॥ मार्कण्डेय उवाच- विश्वामित्रवसिष्ठौ तौ कृत्वैवं सुरसमनि। प्रतिज्ञां मनसाऽचित्यां गच्छतोऽथ सुरालयात् ॥ ततो देवादयस्सर्वे खं खं धाम प्रपेदिरे । कौशिकः स्वाश्रमं प्राप्तो वसिष्ठोऽपि स्वमाश्रमम् अथागत्य पुरी प्राज्ञो वसिष्ठो लोकविश्रुताम् । अयोध्यां भरतश्रेष्ठ हरिश्चन्द्रमकल्मषम् । दृष्ट्वा तं कथयामास प्रवृत्तं देवसमनि ॥ वसिष्ठ उवाच-विश्वामित्राश्रमे राजनगन्तव्यं कदाचन । अहितस्ते दिवा रात्रं प्रीणैरपि धनैरपि ॥ अतस्त्वया नगंतव्यं विश्वामित्राश्रमं प्रति ।
८ हरिश्चन्द्रोपाख्यानम् । [अ०.४. गन्ताचेत्पतितश्चस्याः दुरन्तेदुःखसागरे ॥५॥ एवमुक्तो वसिष्ठेन हरिश्चन्द्रो महातपाः । प्रोवाच वचनं धीमान् सर्वशास्त्रविशारदः ।। त्वंहि नः परमो धर्मः त्वंहि नः परमो गुरुः । त्वंहि नः परमंब्रह्म त्वंहि नः परमागतिः ॥ त्वया यदुक्तं तत्सर्व करिष्ये तपतां वर । इत्युक्तः सवसिष्ठस्तु स्वाश्रमं निरगादशी ॥ अयोध्यायाः पतिः श्रीमान् प्रजा' धर्मेण पालयन् । अयोध्यायाविनिर्गत्य राज्यं योग बलेन च ॥ संपालयन्निस्सपत्नं निश्शत्रुपरिबाधनम्। गते बहुतिथे काले विश्वामित्रो महामुनिः। नानाविधान् मृगान्दुष्टान् प्रजोपद्रवकारिणः ॥१०॥ आकाशे पक्षिणश्चापि प्राणिपीडाकरान् बहून् । सृष्ट्वा घोरान् महाभागो नाशयामासचौषधीः ।। खिलीकृत्याखिल राज्यं राजानं च युधिष्ठिर । स्ववशे स्थापयामांस हरिश्चन्द्रमकल्मषम् ।' मृगोपद्रव माकर्ण्य प्रजाकोशेन पार्थिवः । प्रजापालनधर्मजः प्रजानामनुकम्प- या ॥ सर्वशस्त्रास्त्रसंपन्न किकिणीजालमण्डितम् । युक्तंहयसहस्रण व्याघ्रचर्मपरिष्कृतम् ॥ मणिकाञ्चनचित्राङ्गं प्रकीर्णकपरिष्कृतम् । नानाविधाभिश्चित्राभिः पताकाभिरलंकृतम् ॥१५॥ रविमण्डलसंस- गिगिरिदुर्गाद्यसङ्गतम् । मेघदुन्दुभिनिर्घोषं सर्वायुधपरिष्कृतम् । स राजा युधिविक्रान्तः सर्वायुधसमन्वितः । स्त्रीपुत्रमन्त्रिसहितः पुरो- धोन्यस्तराज्यधूः॥ आस्थाय विपुलं यानं संगृहीतशरासनः । प्रयु- ताशीर्द्विजवरैः कृतमङ्गलशोभितः ॥ सशरं च धनुगृह्य सन्नद्धः कवचावृत । स्तूयमानो गीयमानः सूतमागधवन्दिभिः ॥ मृगया रसिको राजन् स्वपुरान्निर्ययौ वशी। तस्यनिष्क्रांतिसमये दारुणा भयशंसिनः ॥२०॥ अभूवन्नाकुलाभूमावुत्पाताबहवो नृप । निर्घातो भूमिकम्पश्च शिवारावाश्च दारुणाः ॥ ववपुरबुदा धूलि रक्तबिन्दु विमिश्रितम् । अपसव्यं तदा चक्रुः सर्वेच मृगपक्षिणः ॥ तस्य ध्वजाग्रे गृध्रश्च विलिल्ये भयसूचकः । श्वामेम्से चोरुकंपश्च निष्कारण भयातुरः । प्रविश्य सुमहद्धोरं वनं व्यालनिषेवितम् ॥ हत्वा मृगान् मा अ०.४.] हरिश्चन्द्रोपाख्यानम् । ९ वराहांश्च सिंहव्यालयकांस्तथा । तरक्षन्महिषान्दुष्टानन्यांश्च प्राणि हिंसकान् । प्रजापीडान्विनिमन्हि विचचार महावने ॥२५॥ प्राच्या च दक्षिणस्यां च दुष्टसत्वानहन्बली। उत्तर दिशमाक्रम्य कैलासा लंकृतां शिवाम् ॥ तिस्रो दिशस्समुद्रांताश्चरित्वैवं बलीयसः । प्राणिहिंसाकराभिनन्विचचाराखिले वने ॥ तत्राश्रमो महानासी- द्गाधिसूनोर्महात्मनः। दैवयोगाद्विवेशाथ कालपाशैश्च पाशितः ।। द्वित्रयोजनमात्रस्थं विश्वामित्राश्रमं नृपः। प्रविष्ट एव कस्मिश्चिन्नदीतीरे निविष्टवान् । भेरीशङ्खनिनादांश्च हेलितास्फोटितात्रवान् । निःसा- णपटहारावान्सेनाकलकलारवान् ॥३०॥ श्रुत्वा रावान्हि गाधेयो हर्ष- मापातुलं महत् । आगतःकिं स राजेति हर्षकोपाकुलो मुनिः ।। सृष्ट्वा मायामृगं सद्यो दर्शनीयं मनोरमम् । महामोहमयं प्राज्ञो लोकविस्मय कारकम् ॥ आजुहावाथ राजानं सस्त्रीकं धर्मनंदन। दृष्ट्वा स तं मृगं राजा मायात्मकममन्यत ॥ सीतारामौ तदा दध्यौ मारीचUगहारितौ। दृष्ट्वोवाच मृग साध्वी मनो विस्मयकारकम् ॥ गृहीत्वा देहि मे राजनयामि गृहमात्मनः। सर्वज्ञोऽपि तदा राजा दैवपाशेन यंत्रि- तः ॥३५॥ चोदितश्चंद्रवत्यैवं सीतयेव रघूत्तमः । मृगमन्वसरद्राज- भाकृष्टशरकार्मुकः । समंत्रिपुत्रभार्यश्च रथेन महता ययौ । आकाशगः कदाचित्स कदाचिद्भूमिगो मृगः ॥ हस्तग्राह्यः कदाचित्स कदाचिडू- रगोऽभवत् । दृग्गोचरोऽभवत्वापि क्वाप्यदृश्योऽभवत्पुनः ॥ यदा तद्रहणे राजा निराशस्सोऽभवत्पुनः। औशीनर्या पुनदृष्टः लोभनाय सुशीलया ॥ पत्नीभावमनुज्ञाय पुनस्तं मृगमन्वगात् । परावरज्ञो भूतानां नीतिशास्त्रविशारदः ॥४०॥ हितकृत्प्रियवादीच राज्ञः प्राणो- बहिश्चरः । 'सोऽपि नोवाच दैवेन पर्यालीढमनोरथः ॥ राजा सोऽपि परीतात्मा देवेन पिहितात्मधीः। मिथ्यामृगात्मकं दैवमात्मनःपूर्व- सूचितम् ॥ प्रियाप्रेरणरूपेण भागधेयेन कल्पितम् । शरं संधाय धनुषि ह्यन्वगात्कुहनामृगम् । मृगमन्वगमग्रजा गच्छन्नेवाविशदनम् । 2-H.
१० हरिश्चन्द्रोपाख्यानम् । [अ०. ५. दूरं नीत्वा स राजानं गाधिपुत्राश्रमांतिकम् ॥ प्रवेश्य च स्वयं पश्चात्तिरो भावमुपेत्यच । इतस्त्वं स्वपुरं भूयो न पश्यसि नृपोत्तम । इत्युक्त्वा कुहनासत्वं नृपोत्तम तिरो(दधे)हितम् ॥४५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने चतुर्थोऽध्यायः॥ पंचमोऽध्यायः ॥५॥ मार्कण्डेय उवाच- दृष्ट्वाऽऽश्रमपदं दिव्यं सर्वसत्वनिषेवितम् । वृक्षैःपुष्पफलोपेतैस्सराजा विस्मयान्वितः ॥ कस्येदमाश्रमपदं मनसो हाँदकारकम् । वायुर्मन्दः प्रवात्येष मनोज्ञः सुखशीतलः । आ- तपाद्यध्वखेदोत्थस्वेदवारिलवान्नुदन् । गङ्गाशीकरवर्षीच कम्पयन्प- लवानहो ॥ भिन्दन्वाति तरङ्गौघान् मृतान् सञ्जीवयन्निव । किन्वे- तनंदनवनं वैभ्राजं ब्रह्मणो वनम् ॥ कौबेरं वारुणं वैतदहो वनमिदं महत् । दृष्टमात्रेच सर्वेषां क्षुत्पिपासे विनश्यतः ॥५॥ नारिगकदली निम्बनीपसालकपित्थकैः । प्लक्षाश्वत्थवटांकोलै कोविदारकरञ्जकैः ।। घोटार्जुनासनालोधैरिसूदुम्बरतिन्दुकैः । पुन्नागचम्पकांकोलताल- सालसमाकुलैः ॥ सजीरतित्रिणीबिल्वखरेलालवङ्गकैः । मल्लिका- जातिपझैश्च केतक्युत्पलपाटलैः ॥ मालतीयूथिकाकुन्दमधूकचिरि- बिल्वकैः। करवीरैः कोविदारैः कर्णिकारधवांकुशैः ॥ श्लेष्मातक कदम्बैश्च सिधुवारातिमुक्तकैः। त्रिपत्रसप्तपत्रैश्च कर्कन्ध्वामूलकैरपि ॥१०॥ शिरीपलिकुचैर्वृक्षैः पीलुकैरणमर्दकैः । तरङ्गः शिंशुमारैश्च नारिकेकैः सदाफलैः ॥ तिन्दुकैः पारिभद्रैश्च कुंभीखदिरकेतकैः । वानीरैः पीलुकैश्चैव जंबीरैःसुरखादिरैः ॥ बीजपूरैश्च जंबीरैर्मधुकै जीरकैरपि । शाखोटकैरुपगन्धैः करहाटकरद्रुमैः ॥ चम्पकैः मज- रीभिश्च मंजिष्ठैर्भूर्जवंशकैः। त्वक्सारैःकेसरैश्चैव शिरीषाषाढमालवैः॥ पलाशकिंशुकैश्चम्पैः श्लेष्मातककलिद्रुमैः। मल्लिकाकुन्दपबैश्च कल्हार कुमुदैरपि । यूथिका मालती जाती शतपुष्पा शतावरी ॥१५॥ सिंह- अ०.५. हरिश्चन्द्रोपाख्यानम्। ११ व्याघ्रवराहाखुखंजरीटैश्च गोमृगैः । रुरुसारङ्गभल्लूकैः शश- गोधाशशत्वचैः ॥ कृष्णसारखराभीरवारणैः शाकरैरपि । सुगालै- जम्बुकैश्चैव वनमार्जाररोहितैः ॥ हंससारसकादम्बैः वनवायस कुक्कुटैः । चक्रवाकैश्शुभैः खङ्गैः कोकिलैः शुकसारिभिः ॥ बकभासैश्च भेरुण्डैः शुभैः कोयष्टिकैस्तथा । वानरैर्वनजैश्चान्यैः शद्वितं सुमनोहरम् ॥ नदीनदसरिद्भिश्च वापीकूपमहाहदैः। का- सारैः कच्छदेशैश्च देवखातैस्सदाजलैः ॥२०॥ अहो वनस्य सौरम्यं अहो शैत्यं विशालता। न मे मनो विनिर्गन्तुं वांछतीतः कदा- चन ॥ क्षुत्पिपासा च मे नास्ति श्रमो नास्त्यध्वसंभवः। संत्यज्येदं न यास्यामि स्वर्गलोकमिदं मम ॥ मया न दृष्टमेतावत्कालं वनमिदं महत् । किं वदाम्यस्य माहात्म्यं वनस्यातिमनोहरम् ॥ सिंहस्तिनं पिबत्येषः कुंजरोत्सङ्गसंस्थितः । पञ्चास्यशावकोप्यस्ति ग्रीवायां मत्तहस्तिनः ॥ मार्जारमूषको चैव रमतश्च परस्परम् । छायां मिथः समासनाः भोगिनश्च कलापिनः ॥२५॥ मण्डूकसाश्चान्योन्यं स्नेहं कुर्वन्ति भूमिप । वैरं नैजं च यैर्येषां ते तदुत्सृज्य तैस्सह ॥ स्कन्धोत्संगांगसंलग्नाः क्रीडन्तो रेमिरे मिथः। कस्येदमाश्रमपदं महि- मा कस्य वा मुनेः ।। कस्यापिचाश्रमः तस्य मुनेर्लोके भविष्यति । इति विसयतस्तस्य वागुवाचाशरीरिणी ॥ न गन्तव्यं त्वया राजन् यस्या श्रमपदं भवान् । प्रत्यादिष्टो वसिष्ठेन तदिदं प्राप्तवानसि ॥ को निवर्तयितुं शक्तो लोके देवविचेष्टितम् । ततो वियद्वचः श्रुत्वा वज्र- पातोपमं भृशम् । संवर्ताम्बुधिवेलेब सचुक्षोभाकुलेन्द्रियः॥३०॥ चन्द्र- वत्युवाच-किं खिन्नोऽसि महाराज श्रुतं खे किं वचस्त्वया । कुह- नामृगवांछायाः जिह्वायां मृत्युराविशत् ॥ गृहीत्वेमं मृगं मह्यं देहीति प्रेरितो मया । अनुत्सृज्य मृगं घोरं प्राविशस्त्वं वनं महत् ॥ राष- वस्य यथा सीता दण्डकारण्यवासिनः । दुःखहेतुरहं जाता तथा ते मम मानद । किं करोमि क्व यास्यामि पतिताः सो हविर्भुजि ॥ THE KUPPUSWAMI SASTRI RESEARCH INSTITUIS MANDAO १२ हरिश्चन्द्रोपाख्यानम् । [अ०. ५. मार्कण्डेय उवाच- श्रवणादेववाक्यस्य चन्द्रवत्यास्तथैवतु । भीता खिलेन्द्रियो भूत्वा भार्यामिदमुवाच ह। शृणु भद्रे वचो मह्यं येनाह भृशदुःखितः ॥३५॥ अहं शोचामि नैवं मे तव चैवात्मजैस्यच । गुरुवाक्याभिचारो यः स मां दहति सांप्रतम् ॥ वार्यमाणो वसिष्ठेन सुहृदा गुरुणा मम । न कृतं वचनं तस्य तन्मां दहति सांप्रतम् ।। मया मूढेन मूर्खेण गुरुवाक्यावमानिना । विनाशितावुभौ लोकौ ऐहिकामुष्मिको चह ॥ अप्रमत्ता हि विद्वांसो धर्मशास्त्रार्थनिश्चयाः । सत्यधर्मपराश्शान्ताः गुरुधर्मपरायणाः ॥ नातिकामंति मर्यादांगुरवो दर्शयति याम् । एवमुक्त्वा महीपालो निषसादाऽऽसने शुभे ॥४०॥ मार्कण्डेय उवाच-विषण्णवदनं दीनमधोवदनमातुरम् । दीर्घमुष्णं विशेषेण निश्वसंतं मुहुर्मुहुः। दृष्ट्वा पतिं चंद्रवती दु:खिता वाक्य- मब्रवीत् ॥ चंद्रवत्युवाच- मा विषादं कृथा राजन् दैवं हि दुरति क्रमम् । अतीतं माऽनुशोचस्त्वं अतीतं नानुवर्तय ।। गतोदकप्रवा- हस्य सेतुं बनीहि माधव । यथाकालानुवर्ती स्याः दैवारोपितपौरुषः॥ दैवमेवानुवर्तस्व कृतं सर्वोऽनुवर्तते । स्वकृतं च स्वयं अक्तं (भोज्यं) शुभं वा यदि वेतरत् । यत्र येन च भोक्तव्यं श्रेयो वा यदि वेतरत् ॥४५॥ अवश्यं नीयते जंतुस्तेन तत्रैव मानद । इत्याश्वस्तस्स भूपालो निषसाद महीतले ॥ दीर्घमार्गातपक्लांतो रथवेगेन खेदितः । गुर्वाज्ञालंघनोद्भूतमनःखेदावखेदितः ॥ गाधिजोदुम्बरस्यांता- सभूतोस्तमानसः । इतिकर्तव्यतामूढश्चिन्तान्दोलितलोलधीः ॥ भाविकर्मबलेनैव निद्रावशमुपेयिवान् । सोऽब्रवीदात्मनःपत्नी निद्रा- मुद्रितलोचनः ॥ स्वपाम्यहं तवोत्सङ्गे निषीदेत्यस्वपत्तदा । उपविष्टाऽस्वपञ्चापि गण्डविन्यस्तबाहुका ॥५०॥ राज्यलक्ष्मी- विनिर्गच्छेत्किमेतस्मान्महीपतेः । इतिडोलायितमनाः तं त्यक्त्वा गौढनिद्रया ॥ स मुहूर्त नृपः सुप्त्वा सहसोत्थाय सत्वरः । बाहुं दक्षिणमुद्धृत्य वाष्पपर्याकुलेक्षणः ॥ अबवीमिश्वसन्दीर्घ कोऽयं THE Im BESEARCH I । TRI MAttri our ॥ [अ०.६. हरिश्चन्द्रोपाख्यानम्। शापोऽतिदारुणः। नमोक्तव्यस्त्वया गापः शिष्योऽहं तव कौशिक ॥ शतापराधिनः पुत्रा. शिष्या वा मुनिसत्तम । पित्रा च गुरुणा वाते न शप्तव्याः कदाचन ।। नांतरं विद्यते स्वामिन् गुरूणां शिष्यपुत्रयोः। वसिष्ठश्च भवांश्चैव ममैव भवतो गुरू ॥५५॥ दासोऽहं तव दासोऽहं दासोऽहं तव कौशिक । इत्याक्रुश्य ततो मौनी पश्यन्ननिमिषेक्षणः ॥ अतीव निश्वसन् दीर्घ कोऽयं स्वमोऽतिदारुणः । इतिस्तब्धमना भूपो निभृतं समतिष्ठत ।। श्रुत्वातामात्मनःपत्युर्विकलां वाचमीरिताम् । विनिद्रा भैंमती भीता भर्तारमिदमब्रवीत् ॥ दुःखाश्रुपूर्णनयना नेत्रा बुपिहितानना। औशीनरी पतिप्राणा कम्पिताखिलविग्रहा । रंभेव विहता वर्षे महावेगेन वायुना ॥ चंद्रवत्युवाच-किमस्ति ब्रह्मणो भीतिः किमस्त्यसुरमर्दनम् । किमस्ति भीः पुरारातेः तदा ते खलु साध्वसम् ॥६०॥ देवासुरमहायुद्धे देवारिभयवर्द्धन । सुराणाममयो दत्तस्त्वद्वाहुबलसंश्रयात् ॥ स्वर्ग शास्ति शचीजानिः कुतस्ते भय मागतम् । विपरीतमिदं मन्ये यत्ते साध्वससंभवः । अग्नौ शैत्यं खौ शैत्य इन्दावौष्ण्यं यथाऽऽगतम् । यत्परिप्लवनं मेरोर्यद्धिमालयचालनम्।। अचांचल्यं तु यच्चापां खपुष्पस्येव सौरभम् । शंशश्च मृगसंभूतः यदत्तद्वत्करिष्यति ॥६॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने पञ्चमोऽध्यायः ॥ षष्ठोऽध्यायः ॥६॥ हरिश्चंद्र उवाच- शृणु कल्याणि मे वाक्यं परमार्थार्थसं- श्रयम् । देवेऽनुकूले भद्रं ते सर्व संपत्स्यते नृषु ॥ प्रतिकूले सति तदा ब्रह्मणोप्यशुभं भवेत् । शिरच्छेदो भवेद्धातुः पिनाकी च कपाल धृक् ॥ तथैव विष्णोर्जन्मानि मरणानि बहून्यपि । उदयास्तमयौ भानोः नानुवर्तेत को विधिम् । पापिना धर्मिणा वापि यतिक्रांतुं न शक्यते । यज्ञदानतपःकर्मजपहोमार्चनादिभिः ॥ मंत्रैश्च प्रजया १४ हरिश्चन्द्रोपाख्यानम् । अ०.६. वापि पौरुषोत्साहनीतिभिः । ओजसा तेजसा चैव सत्वेन च बलेन च ॥५॥ रथनागाश्वसंपत्त्या ज्ञातिसंपत्तिबांधवैः । प्राप्तव्यमेव प्राप्नोति जित्वापि भुवनत्रयम् ॥ अटित्वापि जगत्कृत्स्नमप्राप्तव्यं नचा- प्नुयात् । यत्र नाहं गमिष्यामि प्रतिज्ञामकरोदिति ॥ पौर्विक तत्र तं नीत्वा भोजयेच्च शुभाशुभम् । तस्मादाज्ञां समुल्लंघ्य वसि- ष्ठस्य विधेर्बलात् ॥ विश्वामित्राश्रमं प्राप्तः कालस्यांतर्गतोऽबले । भागधेयं तदाक्रांतं नीयमानं शुभाशुभम् ॥ भोक्तुं भोक्तव्यपापेन धर्मो नत्राति तगली । शृणु सुश्रोण्यहं सुप्तस्तवोत्संगोपबर्हणः ॥१०॥ दुःस्वप्नं दृष्टवान् घोरमदृष्टं चाश्रुतं भयम् । सुवृत्तस्य शुचेश्चापि दयालोरपिधर्मिणः ॥ शुद्धांतःकरणस्यापि दिवास्वमोऽशुभप्रदः । रौद्रःस्वप्नो मया दृष्टः सुप्तेन वरवर्णिनि ॥ तेन मे हृदयं त्रस्तं देहकंपो ऽतिदारुणः। कृष्णे कृष्णाम्बरधरे कृष्णमाल्यानुलेपने ॥ तरुण्यौ रूप संपन्ने ममालम्ब्यकरावुभे । हसंत्यौ च रुदंत्या च नैर्ऋती दिशमी यतुः ॥ शृणु चान्यं पुनःस्वममागामिभयशंसिनम् । स्वमे मया भानुबिम्बं द्विविधं समदृश्यत ॥१५॥ राहुयपरिग्रस्तं परिवेषद्वया- वृतम्। चंद्रोदयः पश्चिमायां राहुग्रस्तो वरानने ॥ अगाधे निर्जले घोरे सर्पवृश्चिकसंकटे । निरालम्बे निराधारे तृणवीरुत्समावृते ॥ निपा- त्यमानमान्मानं दृष्टवान् तनुमध्यमे । रक्तानुलेपमाल्याभिश्चण्डाली- भिर्भयाकुले ॥ कूपे तत्रोषितं घोरं मया द्वादशवत्सरम् । तत्र मे रक्षकः कश्चिचण्डालो भृशदारुणः ॥ केनचिद्योगिवर्येण कोशो मेऽ पहृतो बलात् । छत्रं च चामरं चैव हेमदर्पणमेव च ॥२०॥चूडारत्नं मह- दिव्यं धृतं मूर्ध्नि चिरं मया । सौवर्णभाजनं मह्यं हय उच्चैःश्रवोपमः॥ गजो मे राजयोग्यश्च शिबिकाच धृता चिरम् । सर्वमेतच्चापहृतं तेन योगीश्वरेण तु ॥ रत्नं किंचन मे हस्तात्सर्पः कश्चिदपाहर । सव्यतराद्भुजात्काचिनिर्गत्य मम रूपिणी ॥ श्यामा रूपगुणोपेता पद्म- स्था श्रीरिवापरा। अनुयाति द्विजं कंचित्पतितो गोमयहदे ॥ वना कल्प. [अ०.६. हरिश्चन्द्रोपाख्यानम् । हतं गृहं पश्चाद्विशीर्ण पतितं भुवि । हेमरत्नमयादुच्चैरासनात्पतितो- स्म्यहम् ॥२५।। एतस्मिन्नंतरे विप्रः स्वमे चागत्य कौशिकः । अया चद्भाजनं हैमं भुज्यमानं मया निशम् ॥ शृंगारकं च सौवर्ण राज योग्यानि यानिच । एतत्सर्व मयादत्तं यष्टुकामाय शोभनम् ॥ ततोऽपरं श्रुणु स्वप्नं मया दृष्टं महद्भयम् । मध्याह्नार्कप्रतापेन पर- तेजोपमर्दिना ॥ शातकुम्भेन महता प्रकारेण सुवर्चमा । पञ्चतालो- न्नतेनैव नवरत्नप्रभावता ॥ संवीतं खचरं सम्यक् आखातैः परितो- वृतम् । वैदूर्यमुक्तारचितैः गोपुरैश्वातिशोभितैः॥३०॥ स्थगितार्कपथैः शुभैः शोभनरुपशोभितैः। द्वारैश्चतुर्भिविस्तीर्णैर्जाम्बूनदकपाटकैः ॥ हेषारवैर्घोटकानां मत्तमातङ्गबृंहितैः । श्रुतिस्वनैर्द्विजेद्राणां गीति- माधुर्यनिस्वनैः ॥ रूपयौवनलावण्ययोषिभूषणसिंजितैः । द्रुमनिभैौमैः पक्षिजालसमाकुलैः ॥ देवांगनासमानाभिः रूप- लावण्यसंपदा । वनिताभिः परिवृतं चत्वरापणशोभितम् ॥ पुरं देवपुरप्रख्यं विरिंचिपुरसंनिभम् । तन्मध्ये मेरुसङ्काशो मया दृष्टो गिरीश्वरः ॥३५॥ दृष्टपूर्वश्चंद्रवति श्रुतपूर्वोऽपि न क्वचित् । तन्मस्तके विशालायां शिलायां महदद्भुतम् ॥ दिव्यं सिहासनं दृष्टं दिव्यरन विभूषितम् । तत्राहमुपविष्टोऽस्मि त्वया सह सुलोचने ॥ मुक्ता माणिक्यनद्धेन हेमदण्डेन शोभिना । छत्रेण ध्रियमाणेन शोभमानस्त दासने ॥ सुलोचना(धूय)वीज्यमानन्यजनैरुपशोभितः । तनुमध्या धूयमानचामरैरुपशोभितः ॥ यावदग्निश्च वायुश्च यावदिन्द्राश्चतुर्दश । तावत्तत्राहमवसं त्वया साकं शुचिस्मिते॥४०॥ विश्वामित्रं शप्तुकामं दृष्ट्वा चाभ्युत्थितस्ततः । गृहीतशापकं कुद्धं मंदारसमलोचनम् । दृष्टमेवं मया स्वमे दैवं हि दुरतिक्रमं ॥ मार्कण्डेय उवाच- श्रुत्वा सुभाषितं पत्युः चन्द्रवत्यतिदुःखिता। पातिव्रत्यसमाचारात्सर्वज्ञा सर्वदर्शिनी ॥ संपद्विपद्धैर्यसारा भर्तृशोकविनाशिनी । शंकवं प्रत्युवाच दिशंती धैर्यमुत्तमम् ॥ चन्द्रवत्युवाच- एवमेतन्महाराज १६ हरिश्चन्द्रोपाख्यानम् । [अ०.६. यदुक्तं हि त्वयानघ । अवश्यं व्यसनं घोरं भविष्यति न संशयः ।। दृष्टमेतत्स्वमफलं अनुभूतं मया पुरा । भ्रातुज्येष्ठस्य मे राजन् शिबेरौ- शीनरस्यच ॥४५॥ अश्वमेधेन यजतस्तस्याभूद्विपदुत्तमा । इन्द्राग्निभ्यां सुखोदर्का देहव्ययकरी नृप । अनेन स्वमदोषेण तव भावि महद्भयम् । त्वया च श्रमदृष्टेन सुखोदकं भविष्यति ॥ मार्कण्डेय उवाच- एव मुक्ते तया राज्या सूर्यवंशार्णवोडराट्। राजचन्द्रो हरिश्चन्द्र. पुनरूचे- स्म नां प्रियाम् ॥ प्रत्यूषे वायसाः स्थित्वा सूर्योन्नतमुखाः शुभे । व्या- हरन्ति महाघोरं गोपुरेषु गृहेषु च ॥ महोल्का' प्रपतत्युा सूर्य माहत्य भीतिदा । गृहे सदा वसंत्युग्रा उदीच्यां दिशि गोधिकाः॥५०॥ निर्घातश्च महान् घोरो दिग्दाहोऽतिभयावहः । वामनेत्रान्तांसबाहु स्फुरणं मम जायते ॥ दुःस्वमदुनिमित्तैश्च महोत्पातैर्महद्भयम् । भविष्यति न संदेहो दिष्ट हि बलवत्तरम् ॥ चन्द्रवत्युवाच- तवापि जन्मनक्षत्रे वक्रमङ्गारकः स्थितः । मन्दो वसति तत्रैव चाष्टमे चन्द्रमाः स्थितः ॥ जन्मस्थितौ मन्दभौमौ सप्तमस्थो दिवाकरः। राहुश्च नवमः शुक्रः षष्ठे चाशुभदो ध्रुवम् ॥ एष चैवो- पघातस्ते विपरीतः समुद्भवः । याहि शीघ्रं गृहं राजन् गुरुवाक्य- पुरस्सरम् । ५५॥ अस्तं न यावदभ्येति भानुमान लोकपावनः । जपै- नियमदानैश्च लक्षहोमैविधानतः ॥ कोटिहोमविधानेन विप्राणां भोजनेन च । गवां कोटिप्रदानेन दानरुचावचैरपि ॥ अलभ्यं लभ्यते मत्रसाध्यं साध्यते तद।। नक्षत्रग्रहपीडा च शान्तिमा- याति भूपते ॥ व्याध्यादिरोगा नश्यन्ति रक्षोभूतगणास्तथा । डाकिन्याद्या ग्रहास्सर्वे पिचाशप्रेतगुह्यकाः ॥ सर्वाण्येतानि नश्यति नित्यं भोजयतो द्विजान् । विप्रान् भोजयतो नित्यं किं न साध्यं हि भूमिप ॥६०॥ यं यं कामयते कामं तं तं प्रामोति मानवः । भोजयन् बामणानित्यं शुचीन्वेदविदो ध्रुवम् ॥ (दैवं पुरुषकारेण निवर्त यितुमीश्वरः । विपत्समागता मूर्ध्नि पादयोः सा समाप्यते ॥
अ०. ६.] हरिश्चन्द्रोपाख्यानम् । १७ परिहारेण होमेन ब्राह्मणानामनुग्रहात् । दैवं पुरुषकारेण निवर्तयितु- मर्हसि ॥ यद्भावि तद्भवत्येव यदभावि न तद्भवेत् । भावाभाव विधिस्त्वेवं संसारे दुरतिक्रमः ॥ तस्माद्भद्रं पुरस्कृत्य गुरुवाक्य प्रमाणतः। सत्यवाक्यं पुरस्कृत्य विधिवद्युक्तमाचर ६५।। भवितव्यं पुरस्कृत्य सुधीः पौरुषमाचर । चरन्वै मधु विन्देत चरन्वै सुखमश्नुते । चरन सर्वमवाप्नोति चरन् स्वर्ग समश्नुते । अचरन् क्षरते मयों वल्मीकमिव वृष्टिभिः ।। पराधीनपरं मर्त्य लक्ष्मीरव्यवसायिनम् । उपगृहति नो वृद्धं श्यामव जरठं पतिम् ॥ गुरुवाक्यं पुरस्कृत्य ब्राह्मणातिथिपूजकः । नाशयित्वाऽऽशु पापानि प्रयातिस्म त्रिविष्टपम् ॥ तारयन्त्यापदो विप्राः धनभोजनमानिताः । गोभू हिरण्यकन्याभिर्गजधान्यानदानकैः । निर्हरन् सर्वपापानि श्रेयो राज्यमवाप्नुहि ॥७०॥ मार्कण्डेय उवाच- इत्युक्तो राजराजेन्द्रा हरिश्चन्द्रस्स्वभार्यया । प्रक्षाल्यपादावाचम्य दुःस्वमायुपशान्तये ॥ दुःखमाद्युपशान्त्यर्थ एन्द्रं मन्त्रद्वयं (मन्त्रंपरं) जपन् । रात्रिसूक्तं जपन् हुत्वा महासौरं जजाप ह । औषस्यमनुवाकं च स जप्त्वा रथ मारुहत् । दत्वा सुवर्ण विप्रेभ्यो गाश्च दत्वा सदक्षिणाः ॥ एत- स्मिन्नव कालेतु वागुवाचाशरीरिणी । भो भी राजनगन्तव्यं समा साद्य पदं मम ॥ अदृष्ट्वा मामसंभाष्य शक्तिर्गन्तुं न ते पुनः। ऋषीणा- माश्रमान राज्ञः प्राप्य तानानुमान्य च ।।७।। गच्छतः स्वपुरं तस्य श्रीश्चवायुर्विनश्यति । सुखोदकं परं ते मे दर्शनं राजसत्तम ।। महता दर्शनं पुंसां महासौभाग्यभोगदम् । श्रुत्वेति वियता वाणी राजाऽभूद्विस्मयाकुलः ॥ कस्येयं वागनन्तस्य किमग्नेः पवनस्य वा । इन्द्रस्य वा यमस्यापि श्रीदस्य वरुणस्य वा ॥ विश्वामित्रमुनेऽपि भयशोकसुखप्रदा । नूनं भवेदियं तस्य महर्षेश्वेश्वरस्यच । सदा कोपनशीलस्य नान्यस्येदं वचो भवेत् ॥ मार्कण्डेय उवाच- चिन्तयन्तं पुनर्वाणी सुरसमसमुद्भवा । उवाचास्यवनस्याह देवता 3-H १८ हरिश्चन्द्रोपाख्यानम् । अ०.६.] भक्तभाग्यदा॥८०॥ अप्रीणयित्वा मां राजन् मा गच्छ गृहमात्मनः । ती महाबलिपूजाभिः कुरु राजन् सह स्त्रिया ॥ श्रुत्वेति प्रीतिमान् राजा पत्न्या साकमरिन्दमः । दिव्यशाकानदानैश्च परमानस्य राशिभिः ॥ उच्चावचैर्भक्ष्यभोज्यैः दधिक्षीरघृतादिभिः । देवतास्ताः प्रीणयितुं समाहूता मुनीश्वराः ॥ सपत्नीकाः समागच्छन् हरिश्चन्द्रेण भूमिप । तस्मिन्नेव क्षणे * तस्य नानारूपा महोद्धताः॥ दिव्यसत्व बलोपेताः दिव्याभरणभूषिताः । दिव्यमाल्यानुलेपाच दिव्यायुध शरासनाः।।८५।। दिव्याश्चर्यमयाभीमाः सूर्यपावकवर्चसः। ब्राह्मयादि सप्तमातृभ्यः स्त्रीपुंरूपाः पृथक् पृथक् ॥ तत्तत्संख्यास्यनयनास्तत्तद्वा- हनसंस्थिताः । तत्तद्वरायुधधराः मदक्लीबा मदोद्धताः ॥ एते चान्ये तदनुगा द्वात्रिशत्कोटिसंख्यया । आगता भोक्तुकामास्ते ब्रह्मांड- प्रासगृभवः ॥ एतान्नृपस्समालोक्य धीराणामग्रणीस्तदा । बुद्धि- मान् धर्मनिष्ठश्च गां वसिष्ठस्य मोऽस्मरत् ॥ स्मृता सा गौपा- भ्याशं तदिष्ट साऽददत्तदा । भुक्त्वा तृप्तास्ततस्सर्वे ऋषयोऽपि सदारकाः ॥९०॥ सुतृप्ताश्च सुदृप्ताश्च सुपुष्टाः सप्रिया नृप । नृपस्य पश्यतस्तस्य चन्द्रवत्यास्तथैव च ॥ तत्सूनोरोहिताश्वस्य सत्यकीर्ते- स्सुमन्त्रिणः । अन्तर्दधुनूपश्रेष्ठ ते देवा देवताश्च ताः । प्रीणयित्वा सुरगणान् राजा स्वरथमारुहत् ॥१२॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने षष्ठोऽध्यायः ॥ सप्तमोऽध्यायः ॥७॥ मार्कण्डय उवाच- एतस्मिन्नेव काले तु विश्वामित्रो महा मुनिः । मनसा मायया सृष्ट्वा चण्डालवपुषान्विते ॥ रूपेणाप्रतिमे लोके कर्णान्तायतलोचने । वृत्तपीनोन्नतकुचे चम्पकादामबाहुके || नितम्बविस्तारभर विपुलश्रीणिमण्डिते । रंभास्तम्भसमानोरू स्मर तूणीरजंघक । कर्मपृष्ठप्रपदकं पक्कबिम्बफलाधरे । वपाश्रपणीकुसुम- [अ०.७. हरिश्चन्द्रोपाख्यानम् । १९ समनासाग्रशोभिते ॥ अष्टमीचन्द्रविलसल्ललाटतिलकोज्वले । राका शशाङ्कवदने अनर्थ्यस्निग्धकुन्तले ॥५॥ योगीन्द्रमुनिमोहिन्यौ मोहदे मदनस्यच । अनुमेयसुमध्यंच मुक्ताताटंकशोभिते ॥ कात्या मरकतश्यामे वयसा षोडशान्विते । दृष्ट्वैव कन्यके द्वे ते राजन् प्रोवाच कौशिकः ॥ कुरुतां मम सांनिध्ये वाक्यं मत्प्रीतये सुते । स कुप्येत यथा राजा तथेदं वाच्यतां शुभम् ॥ राजचिह्न राज योग्यं राजवंशक्रमागतम् । दातव्यं च सितछत्रं चामरव्यजने उभे ॥ अदेयं यद्भवेद्वस्तु प्रार्थनीयं तदेवहि । कृत्वा कृत्यमिदं बोले शीघ्र- मागंतुमर्हथः ॥१०॥ उक्ते ते मुनिनैवं तु पितुराज्ञापुरस्सरम् । जया च विजयानाम प्रापतुर्नृपमुत्तमम् ॥ शान्तं दान्तं जितक्रोधं गम्भीरार्णवसन्निभम् । अक्षोभ्यं करुणासिन्धुं धैर्येण हिमवन्निभम् ।। प्रतापे वह्निसङ्काशं प्रसादे शशिसन्निभम् । धर्मेण सदृशं धर्मे सत्यं मूर्तमिव स्थितम् । तं प्रणम्योचतुःकन्ये स्थित्वा दूरे श्रमान्विते ॥ कन्यके ऊचतुः- त्वं हि राजन् जगत्राता सर्वभूतदयापरः । अनाथ प्राणिसुखदः प्रपन्नक्लेशनाशनः ॥ उष्णेनावामाकुलिते चातपेन भृशाकुले । सर्वेषां सर्वदो नित्यं त्राता भव जनाधिप ॥१५॥ यदेतत्स्वर्णदण्डं च चन्द्रमण्डलसन्निभम् । मुक्तावैर्यमाणिक्यपद्म- रागादिभूषितम् ॥ दिव्यपट्टपरीधानं गन्धमाल्यैरलंकृतम् । आव- योर्दीयतां छत्रं करे भानुप्रतप्तयोः ॥ मार्कण्डेय उवाच- श्रुत्वा तद्वचनं राजा कटाक्षेण निरीक्ष्य च । ज्ञात्वा चण्डालवपुषौ संनिरीक्ष्य विभावसुम् ॥ आचम्य प्रयतो भूत्वा हस्ताङ्गुळ्या प्रचोदयत् । ते पुन थोचतुर्भूपं विषमेण समाधिना ।। प्रत्याख्यानं न कर्तव्यं तीव्रस्तपति भास्करः । तप्यते नौ शरीरेऽहो ग्रीष्मे कुसरितो यथा॥२०॥ द्रष्टव्ये च सुसंभाष्ये पुन्यौ वो दीयतां नृप । आवयोर्भाषणे 'दृष्टे तव दोषो न विद्यते ॥ दीयतां छत्रमेकस्याः अपरायाः प्रकीर्णकम् । नोचेदावां मरिष्यावः स्त्रीहत्यां समवाप्नुहि ॥ सत्यकीर्तिरुवाच- २० हरिश्चन्द्रोपाख्यानम् । [अ०.७. स्त्रियावेते महाराज जात्या हीने भविष्यतः । आगते कन्यके तात इति मे निश्चिता मतिः ।। नहि ताभ्यां वचो ब्रूहि महान् दोषोऽभि- जायते। इदं रूपमियंकान्तिरियंमूर्तिरिमे ध्रुवम् ॥ चण्डालजाति संभूते नूनं भूप भविष्यतः । उक्त्वैवं नृपति मन्त्री ते कन्येचाभ्य- भाषत ॥२५॥ सत्यकीर्तिरुवाच- यो राजा पृथिवी शास्ति चातु- वर्ण्यपुरस्सराम् । सप्तद्वीपार्णवयुतां तेनेदं धार्यते शुभे ॥ छत्रं च चामरं चैव सिहासनमनुत्तमम् । एतानि त्रीण्यदेयानि कस्मैचिच्छा- सता महीम् ॥ कन्यके ऊचतुः- वर्णानामाश्रमाणां च प्रजानां परिपालनम् । राज्ञो धर्म प्रशंशन्ति ह्यापद्धर्मोऽन्य उच्यते ।। त्यागिनः किं विचारेण गुणवनिर्गुणेष्वपि । नहि संहरति ज्योत्स्नां चंद्रश्चंडालवे मसु ॥ निर्गुणेष्वपि सत्वेषु दयां कुर्वन्ति साधवः । समं वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि ॥३०॥ विशेषात्स्त्रीषु सन्नासु दयां कुर्वन्ति भूमिपाः । अदेयं विद्यते नैव राज्ञां सन्नेषु भूमिप । गरीयः कि शरीरात्तु छत्रादिकमनुत्तमम् । एतत्सर्व शरीरस्य रक्षार्थ सश्चितं नृपैः ॥ अदेयं नास्ति तल्लोके त्यागिनां भूमिवल्लभ । खदेहमपि तत्याज नागानन्दः शिविर्नृपः ॥ तस्माददेयं नास्त्येव वदान्यस्य महीपतेः । आवाभ्यां दीयतां छत्रं चामरं तापशान्तये ॥ मार्कण्डेय उवाच-उक्तस्सताभ्यां तन्मन्त्री कोपात्संरक्तलोचनः। निर्बन्धात्प्रतिहंतव्ये इत्यवोचन्नृपोत्तमम् ॥३५॥ मंत्रिण्यथैवमुक्ते तु राजा वचनमब्रवीत् । अयुक्तमीदृशं वक्तुमदेयं दीयतामिति ॥ किमन्यद्वस्त्ररत्नानि मणिकांचनभूषणम् । मया युवाभ्यां दातव्यं वदतं दीयते मया ॥ श्रुत्वैवं नृपतेर्वाक्यं पुनस्ते चोचतुर्नुपम् । क्षमावन्तं दयावन्तं सदा दाक्षिण्यशालिनम् ॥ क्षुधितेभ्यो दद स्वान्नं क्षुन्न नश्यति वारिणा । षा विमुद्यतां तोयं तृष्णा तायेन नश्यति ॥ अग्निःस्याच्छीतशान्त्यै च व्याधिशान्त्यै महौषधम् । यहखं या विपल्लोके तस्य तस्य प्रतिक्रिया ॥४०॥ धात्रा सृष्टा मा [अ०.७. हरिश्चन्द्रोपाख्यानम् । २१ महीपाल यधुक्तं तत्समाचर । वर्षातपपरित्राणं छत्रमाहुर्मनीषिणः । तत्परित्राणकं भूप देहि नौ मान्यवस्तु यत् ॥ मार्कण्डेय उवाच- इतिनिबन्धसंजातरोषरक्तविलोचनः। कशया ताडयामास चोभे चण्डालकन्यके ॥ ताडिते तु ततो गत्वा रुदन्त्यौ कुशिकात्मजम् । क्रोशन्त्यौ पेततुस्तस्य पादयोः पृष्ठताडिते ॥ कशया ताडिते तात हरिश्चन्द्रेण ते सुते । पृष्ठयोरावयोः पश्य कशाघातव्रणं मुने । त्वयि नाथे स्थिते तेन ताडिते चह्यनाथवत् । यस्याभिधानश्रवणा त्रैलोक्यं कम्पते भिया । आवां तव सुते तस्य कांदिशीके त्वयि स्थिते ॥४५॥ मार्कण्डेय उवाच- तच्छ्रुत्वा वचनं ताभ्यां प्रज्वलनिव मन्युना । क्रोधरक्तान्तनयन इद वचनमब्रवीत् ॥ मद्वचः शृणुतां पुज्यौ विश्वामित्रो ह्यहं यदि । मदप्रियकरं स्वर्गात्पातयेयं च वासवम् ॥ हरिश्चन्द्रं किमु सुते मत्कोपाग्निपतंगकम् । रोदि- तव्यं युवाभ्यां च न तथा मां निरीक्ष्य च ॥ इत्याश्वास्य सुते चोभे राजानं दूरसंस्थितम् । अवोचलमालोक्य कोपात्प्रस्फुरिताधरः ।। शृण्वन्तु लेखा मुनयो भूतान्यंतर्हितानि च । अशास्त्रीयमिदं लोके सद्रिश्चापि विगर्हितम् ॥५०॥ सर्वदोषाकरां वापि सर्वपापखरूपिणीं। पतिनी च सुरापां च स्त्रियं दण्डेत भूमिपः ।' यस्सामान्य- स्त्रियं हन्यात् भ्रूणहा स निगद्यते । शतापराधिनी योषां खराष्ट्रा- द्विप्रवासयेत् ॥ शिक्षयेत स्त्रियं स्त्रीभिः पुरुषैने कदाचन । सामान्य- मेतच्छास्त्रीयं लोके सद्भिरनुष्ठितम् ।। विशेषतो मम सुते याचमाने च किंचन । तथैवानपराधिन्यौ निष्पापे निरुपद्रवे ॥ मनाथेऽताड यद्राजा कशयाऽनाथवत्स्वयम् । धर्मज्ञस्सत्यवादीच दयावान् सर्व जन्तुषु ॥५५॥ कार्याकार्यविदव्यग्रः वदान्यः सत्परिग्रहः । एव- मादिगुणोपेतो लोकेषु परिगीयते ॥ स राजा कृतवानित्थं विद्वच्छात्र विगर्हितम् । तं पातयाम्यहं पापं दुरन्ते शोकसागरे ॥ क्लेशैरुचा वचैश्चैव नानोपद्रवकोटिभिः । सह्यामह्यतरैरैर्दुःखैरामरणान्तकैः ।।
२२ हरिश्चन्द्रोपाख्यानम् । [अ०.८. कोहि नाम पुमान् लोके मम विप्रियकन्नरः । निर्गच्छेदाश्रमादसा- जीवन्नपि शचीपतिः ॥ पातालानि प्रविशतु सप्तभूरादिकानपि । शरणं यातु देवां स्त्रीन्पातयाम्यहमञ्जसा ॥६॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने सप्तमोऽध्यायः ।। अष्टमोऽध्यायः ॥८॥ मार्कण्डेय उवाच- श्रुत्वा मुनीरितं वाक्यं श्रुतमात्रेण मृत्युदम् । धीराणामग्रणीराजा दध्यावात्मनि कौशिकम् ॥ विश्वामित्राश्रमे राजन्न गन्तव्यं कदाचन । इत्थं निवारितस्तेन वसिष्ठेन महात्मना । मया मूढात्मना चैव देवापहृतचेतसा । अनाहत्य वसिष्ठोक्ति गतं तत्र करोमि किम् ॥ उक्त्वैवमादि स नृपो दिव्यशक्त्युपबृंहितः । तपोवीर्यबलोपेतो भार्यामिदमुवाचह ॥ अपराधो न मेऽस्तीह शाप तस्याददामि वा । शक्तिरस्ति च मे शप्तुं तस्य शापं ददामि वा ॥५॥ चन्द्रवत्युवाच- शप्तुं नास्ति च ते शक्तिरस्तिचेदपि भूमिप । अयुक्तमिदमस्माकं ब्राह्मणे ब्रह्मकोविदे ॥ शापोप्यस्थान दत्तश्चेद्दहेदात्मानमेव च। तन्नदातुं ब्राह्मणेभ्यश्शापं युक्तं महीपते ।। शोपे तु भृगुणा दत्ते पदा चोरसि ताडिते । दुर्वाससा तदा शप्ते हरिः कि वाऽशपत्तदा॥प्रतिशापो हि दत्तः किं हरिणा मुंगवे पुरा । शक्तोऽपि क्षान्तवान्विष्णुः भृगुशापं पुरा किल || आकृष्य ताडिता वापि शप्ता वापि द्विजन्मना । क्षमावान् बाहुजो भूयात् क्षत्रं ब्रह्म पुरस्सरम् ॥१०॥ ब्रह्मशापं पुरा सोढ़ा ययातिः सुरसमनः । अद्यापि न प्रच्यवते देवेशसमभोगवान् ॥ तस्मात्क्षमस्व भूपाल शापं भूसुरकोपजम् । किंचाद्भुततपोवीर्यो विश्वामित्रोऽग्यतापसः ॥ वलोक्यसृष्टिमपरां कर्तुं शक्नोति मानद । तस्मात्स्पर्धस्व मा तेन ब्रह्मण्या भव सर्वदा। स सान्त्व्यमानो भूपालः स्वदेव्या धर्मशीलया। देवाधीनं जगत्सवं ज्ञात्वा पुनरभाषत ॥ हरिश्चन्द्र उवाच- अ०.८.] हरिश्चन्द्रोपाख्यानम् । २३ पुरुषो नातिवर्तेत दैवं तद्बलवत्तरम् । येन यत्रापि भोक्तव्यं शुभं वाऽशुभमेव वा ॥१५॥ स तत्र नीयते रज्वा बलादिव विधेबलात् । अगाधेऽपि जले मत्स्यश्चरन् काले समागते ॥ निरापराधी वध्येत कालेनांतकरूपिणा । अनकयोजनशतात्खेचरः खेचरी वन ॥ अनेककालसंतुष्टः यत्र पाशशतावृतम् । आमिषं स्वयमेवाशु तध्नुः पतितोऽवशः ।। रसनारससंमूढः पाशवन्धं न पश्यति । अपारसत्व- बलवान् गजो वन्योऽपि बध्यते ॥ सूर्याचन्द्रमसौ पश्य प्रियं काल- वशानुगौ । याताऽस्तमुदयं चापि तिष्ठतो न क्षणं कचित् ॥२०॥ सोऽहं दैवपरीतात्मा वार्यमाणो महात्मना । विश्वामित्राश्रमं प्राप्तः शलभः पावकं यथा ।। एवं देव्यागते काले गमिष्यामि तपोवनम् । अवश्यमेव गन्तव्यं देववर्मनरेण ह ।। मार्कण्डेय उवाच-इत्युक्त वति राजेन्द्रे यातुकामे मुनीश्वरः। स्वयमेव तदा यांगी प्रादुरासी- त्तपोधनः ॥ कन्यकाभ्यामनुगतो विशाखाभ्यामिवोडुराट् । दृष्ट्वा तं मुनिमायान्तमभ्युत्थाय कृताञ्जलिः ॥ सार्घ्यपाणिः सपत्नीकः सपुत्रः सहमन्त्रिणा। हेमभृङ्गारमादाय पूर्ण परमवारिणा । २५॥ प्रत्युद्गम्य च गाधेयं प्रणम्य च पुनःपुनः । प्रक्षाल्य पादो तोयेन दत्वाऽऽसनपरिग्रहम् ॥ अर्घ्य गां च निवेद्याथ विधिवच्छास्त्रवर्त्मना। पृष्ट्वा सानुनयं प्रीतः तपसां निधिमाश्रमे ।। अतिष्ठन्प्राञ्जलिःपश्य- न्मुनीन्द्रप्रवरं तदा । विद्युत्पिगातिदीर्घाभिः जटाभिरुपलक्षितम् ।। त्रिर्यत्रिपुण्डविलसल्ललाटतिलकोज्वलम् । कृष्णाजिनोत्तरासङ्गं शुभ्र यज्ञोपवीतिनम् ॥ कमलान्तरगौराङ्गं सुवर्णफलकोरसम् । आजानु बाहुं सुग्रीवं सुललाटकपोलकम् ॥३०॥ ईपल्लम्बितकर्णाग्र मांसला- सभुजद्वयम् । वृत्तायतांगुलिकरमुरस्तुल्योरुदामकम् ॥ नातिदी? रुजंघाशि मांजिष्ठारुणवाससम् । अन्तःकृपामहाम्भोधि बहिःकाप भयानकम् ॥ अन्तर्भावविवक्षास्यं स्फुरदोष्ठपुटद्वयम् । निश्चल- हरिश्चन्द्रोपाख्यानम् । [अ०.९. न्मौक्तिकामाखद्दन्तपङ्त्या विराजितम् । पश्यन्पुरोवतिष्ठत्तं पुत्रस्त्री मन्त्रिसंयुतः ॥३३॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने अष्टमोऽध्यायः ॥ नवमोऽध्यायः ॥९॥ मार्कण्डेय उवाच- शृणु राजन् कौशिकस्य वृत्तान्तं क्रूरनिश्चयम् । समालोक्य हरिश्चन्द्रमापादतलमस्तकम् ॥ राजानं कम्पयन् रोषा दमर्षायतलोचनः । ऊर्ध्वत्रिवक्रभ्रुकुटिर्भूपालमिदमब्रवीत् ॥ विश्वा- मित्र उवाच- भो भो राजन्नाश्रमोऽयं मम क्रोधविवर्जितः । विनीतसत्वसंपन्नः शरण्यः सर्वदेहिनाम् ॥ राजन् वनान्तरमिदं अत्र कोपो न विद्यते । कथमाश्रममात्मीयं मां च ज्ञात्वा प्रविश्य च ॥ इमे च मत्सुते ज्ञात्वा दयां संत्यज्य जन्तुषु । मामनादृत्य सुतयोः कथं दण्डं प्रयुक्तवान् । आज्ञेयं किं कृता भूप सामर्थ्य कि त्वया कृतम् । ५॥ हरिश्चन्द्र उवाच- मुक्ताविद्रुमंवेदूर्य शैमालङ्कारभूषणम् । अमृतास्वादमाहारं निराकृत्य सुते तव ।। उपायनैव विप्रन्द्र मद्राज्यहरणोद्यते । सर्वलक्षणसंपन्नं सर्वालङ्कार शोभितम् ॥ सूर्यान्वयसमुद्भते पालैः पूजितं सदा । मनुप्रभृति भूपालपारंपर्यक्रमागतम् ॥ गच्छेयेन जरा जैत्रं छत्रमेतदयाचताम् । अस्मिन् छत्रे त्वपहते हृतं राज्यं न संशयः ॥ राज्यं कोशो रलं ब्रह्मन् अहो तद्राज्यलक्षणम् । छत्रं च चामरे चैव सामान्यं पद लक्षणम् ॥१०॥ पृथिव्यां सागरान्तायां इक्ष्वाकूणां क्रमागतम् । प्रतिषेधयतो मेऽद्य हर्तुमेते समुद्यते ॥ उपच्छंदयमानंच विषमेण समाधिना। राज्यापहारिणं क्षत्रं समरे चाततायिनम् ॥ गोब्राह्म- णानां हन्तारं हन्यादेवाविचारयन् । राज्यापहारिणी चोरां सर्व प्राणिवधोद्यताम् ॥ त्वत्प्रेरितो दाशरथिः ताटकां हि निजनिवान् । भृगुपत्नी 'हेरिर्जन्ने हनूमान् सिंहिकां तथा ॥ एवं प्रजाहितकरा.
THE WID) in RESEARCH IN हरिनासायालय 691 अ०. ९.] २५ महीपाल दण्ड्या स्त्रियो हत्वा नृपोत्तमाः । जुगुपुश्च प्रजाधर्म ब्रह्मन्नवं कृतं मया ।।१५।। कि चेमे कन्यके ब्रह्मन् जात्या चण्डालयोनिजे । अदर्शनीयऽसं- भाष्ये कथं ते भवतां सुते ॥ दुष्प्रतिज्ञामिमां त्यक्त्वा जातिभ्रंश- करां द्विज । शान्तो भव त्यज स्पर्धा शान्तिर्हि मुनिलक्षणम् ॥ साम्ना दानेन भेदेन मया च प्रार्थित मुहुः । छत्रापहरणाद्युक्ते तदा दण्डं प्रयुक्तवान् । मार्कण्डेय उवाच- निशम्ग वाच भूपस्य धर्माचारसमन्विताम् । विचार्यात्मनि भूपाल कोशिकः पुनरब्रवीत् ।। विश्वामित्र उवाच-- अयुक्तं कृतमेताभ्यां यच्छत्रं प्रार्थितं तव । स्थाने कोपस्ततो राजन् कृतोयस्त्वनयोस्त्वया ।।२०।। अयुक्त कृत- मताभ्यां यच्छत्रं प्रार्थितं तव । अप्रार्थनीयमंतच्च प्रार्थनीयमिति प्रभो ॥ अदेयं देयमिति च कार्याकार्ये च या मतिः। सा मतिर्वि- द्यते नैव यस्मात् स्त्रीत्वमनर्थकम् ॥ तच्छृणुष्व राज्ञा महीतले । द्रव्येण ताडनेनैव छेदनात्करपादयोः ॥ कारागार निवासेन *शृंखलापाणिपादयोः। शूलशल्याग्रवासेन प्राणान्त- करणैस्तथा ॥ स्वस्ववर्णपरिभ्रष्टाः जातिभ्रंशकराः खलाः । परदार परद्रव्यपरक्षेत्रापहारिणः ॥२५॥ वनचोरा ग्रामचोरा मार्गचारा दिवानिशम् । राजाज्ञादूषकाश्चैव गजद्रव्यविघातकाः ॥ राज्यकण्ट किनश्चैव ग्रामकण्टकिनस्तथा। दुराचाराश्च कुहकास्तथा सङ्कीर्ण मैथुनाः ।। स्वस्वजातिसदाचारदूषकाःपरदूषकाः। नानोपायात्परप्राण द्रव्यदारापहारिणः ॥ एते चान्य च ये चोरा. दण्ड्याम्ते राजसत्तम । पुत्राणां च पिता शास्ता शिष्याणा गुरुरात्मवान् ।। स्त्रीणा शास्ता पतिर्भूप नैतेषां शिक्षकोऽपरः । अहं शास्ताऽनया न्यो मत्सुतेऽ भवतामिमे ॥३०॥ मामनादृत्य कस्मात्त्वं घोरं दण्डं प्रयुक्तवान् । त्वहतेऽन्यमहं लोके ममानिष्टकरं नरम् ॥ पातयाम्याशु तपसा साक्षा दपि सुराधिपम् । अपराधं च कोपं च त्वदनीतिसमुद्भवम् ।। अमि- व्येऽहं महीपाल तत्कुरुष्व मम प्रियम् । भवतोऽपि हितं चैव कुशलं 4.H.
२६ हरिश्चन्द्रोपाख्यानम्। [अ०.१०. तव मे प्रियम् ॥ एते मम सुते राजन् तपस्तप्त्वा मया चिरम् । वरप्रदानाद्रुद्रस्य मनसा निर्मिते मया ॥ गृहाणपाणिमनयोस्सुतयो- मम भूमिप । सफलं तव जन्मस्या(दन)दावयोश्च महत्प्रियम् ॥३५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने नवमोऽध्यायः॥ दशमोऽध्यायः ॥१०॥ मार्कण्डेय उवाच- अश्राव्यं तद्वचः श्रुत्वा विषमाक्षरसंयुतम् । को पिधाय पाणिभ्यां विश्वामित्रमुर्दक्षत ॥ पश्य देव मुनेः क्रौर्य पूर्वजात्युचितं खरम् । उत्तरं कि वदाम्यस्य पश्यास्मद्विधिमागतम् ।। इत्युक्त्वा हृदयेऽखिद्यद्दह्यमान इवाग्निना । कोऽयं मुनेः स्वभावोऽयं इति चिन्त्य तमब्रवीत् ॥ हरिश्चन्द्र उवाच- किमुक्तं भवता ब्रह्मन् सर्वज्ञेन महात्मना । किमेत भवतःपुत्र्यौ किमतस्ते परं यशः ।। तव भाग्यस्य सदृशं नास्त्यस्मिन् भुवनत्रये । चण्डालजातिसंसृष्टी मनसः कीदृशी गतिः ॥५॥ चण्डालजातेः क्षत्रस्य संबन्धः संभवे- स्कथम् । ब्रह्मणा वदनाजातास्साकं स्वीभिर्द्विजोत्तमाः ॥ नाना- गोत्राभिचरणास्तं विवाह्याः परस्परम् । ब्राह्मणस्यानुलोमेन विवाहो विद्यते त्रिषु ॥ क्षत्रियादिषु वर्णेषु क्षत्रियस्य द्वयोस्तथा । वैश्यस्य शूद्रे शूद्रस्य विवाहः शूद्र एव च ।। शूद्रस्य वैश्ये वैश्यस्य क्षत्रे क्षत्रस्य वै द्विजे । प्रातिलोम्येन जातानामुत्तरोत्तरनीचता ॥ एते भ्यो य च ते येभ्यस्तभ्य एतेभ्य एव च । एवं सङ्करजेन्मादि (चा) राचण्डालं प्रजायते ॥१०॥ नासृजत्सृष्टिकाले हि चाण्डाली सृष्टिमात्मभूः । सकरात्सङ्कराजाता चाण्डालीजातिरन्तिमा ॥ चण्डालस्पर्शने विप्रः पुनस्संस्कारमर्हति । संभाषायां ब्रामणेन संभाषताथ दर्शने ॥ ज्योतिषां दर्शनादेव तस्मात्पापात्प्रमुच्यते । तजातिसंभवा कन्यां परिणेष्यन्ति किं द्विजाः ॥ अन्त्यजापाणिग्रहणं न शंसन्ति भवद्विधाः । चण्डालजातिग्रहणे नियोजयसि कौशिक ।।
अ०.१०.] हरिश्चन्द्रोपाख्यानम् । एतत्प्रियं कथं ते स्यान्मम चैव कथं प्रियम् । वसिष्ठस्पर्धजां त्यक्त्वा दुष्प्रतिज्ञामिमां द्विज ॥१५॥ पूजामिमांमयोयुक्तां गृहीत्वाऽनुग्रहं कुरु। ऋते तस्मादभीष्टं ते मत्तः प्राप्नुहि कौशिक || मार्कण्डेय उवाच- एतभिशम्य वचनं हरिश्चन्द्रस्य कौशिकः। अनाधाय मनस्येतद्राजानं पुनरब्रवीत् ॥ कौशिक उवाच- ज्ञाताऽहं सर्वशास्त्राणां वक्ता शास्त्र- गणस्य च । मम न ब्रूहि शास्त्रं त्वं मदुक्तं कुरु भूमिप ॥ अहं शास्ता जन स्थास्य गुरुरित्येव मंस्यथाः। मामनादृत्य कस्मात्त्वं डमे दण्डेन चावधीः ।। पाणिं गृहाण तसात्वं सुतयोर्मे सुमध्ययोः । ततोऽहं तव सुप्रीतो भवामि रघुनन्दन ॥२०॥ एतदेव प्रियं राजन्मम नान्यत्प्रियं वसु । प्राप्तव्यं तु मर्यंतच्च सर्वथा मद्वचःकुरु ॥ नैते चण्डालसंभूते तनये मम सुव्रत । अनयोः पाणिग्रहणे दोषस्तव न विद्यते ॥ अहं प्रमाणं भवतो वचस्तच्छूद्दधस्व मे । वचो मे सर्वशास्त्रं सान्म- न्वादिस्मृतिसंमितम् ॥ मजिहास्पन्दनं यच्च मदोष्ठस्फुरणं तथा । वेदशास्त्रपुराणानि तदेवावेहि भूमिप ॥ तस्मान्नब्रूहि मे शास्त्रं यदि जीवितुमिच्छसि । वचो मम कुरुष्वाग्यं न श्रोष्यास विनंक्ष्यसि ॥२५॥ एवमुक्तस्ततस्तेन गाधिजेनातिमानिना। विसितः सय- निर्मुक्तः पुनरूचे मुनीश्वरम् ॥ हरिश्चन्द्र उवाच- पुनःपुनरिदं ब्रूहि पूर्वमुक्तं च यन्मया । कोपं न याम्यहं ब्रह्मन्नयुक्तं न करोमि तत् ॥ ब्रह्मणा क्षत्रियास्सृष्टाः बाहुवीर्येण जीविनः । उद्वाह्याः क्षत्रियाःजात्या क्षत्रियर्मार्गसंस्थितैः ॥ चण्डालकन्यके ह्येते सर्व जात्या बहिष्कृते । एतयोर्दर्शनं स्पर्शो भाषणं च विगर्हितम् ॥ चंडालं पतितं दृष्ट्वा द्विजः पश्येच्च भास्करम् । ज्वलन्तं पावकं रात्रौ विनं वा वेदपारगम् ॥३०॥ अद्यैव वास्तु मरणं श्वो वा भूयान्ममाऽनघ । पक्षमासर्तुवर्षेषु न वचः श्रद्भधामि ते ॥ त्वं पुरूपा च गायत्री ब्रह्म तेजश्च मूर्तिमान् । मूर्तिमांस्तपसोराशिः पश्चात्कोटिवत्सरम् ॥ चतु- दिक्षुच मध्येच तपस्तप्त्वा पुरा महत् । धूम्रज्वालाकुलं लोकं काल । ॥
२८ हरिश्चन्द्रोपाख्यानम् । [अ०. ११. ॥ यित्वा त्रिविष्टपम् ॥ ऋषित्वं ब्रह्मसंबद्धं प्राप्तवान् कुशिकात्मज । तपःसुचरितं तप्त्वा प्रीणयित्वाऽसुरारिणम् ॥ भृशाश्वतनयान्प्राप्तो मत्ररूपान् महौजसः । पुरा वसिष्ठशापेन चण्डालत्वमुपागतम् ।। ॥३५।। *पितरं याजयित्वा च *हत्वा वासिष्ठकान् शतम् । म्वलोकं प्रापयित्वा च ततस्तं यष्टुमञ्जसा || अन्तरिक्षे स्थापयित्वा द्विती- यां सृष्टि-मारभत् । कस्त्वया सदृशो लोके तपसा ब्रह्मवर्चसा ॥ बुद्ध्या नीत्या च युक्त्या च सामर्थ्येन विदांवर । त्वत्त' पूज्य- तमो नास्ति त्वत्तो नास्ति महत्तरः ॥ एवं प्रभावो भगवान् कि मां योजयमि प्रभो। अस्मिन्कर्मण्यधर्मे मां किनु पातयसि प्रभो ॥ शरणं त्वां प्रपन्नोऽस्मि मुंच मां यामि मे गृहम् । एताभ्यां किं च मे कार्य एते त्यक्त्वा घृणी भव ॥४०॥ छित्वा कंटकवृक्षं न(नः) शिरस्याक्रष्टुमर्हसि । चण्डालकन्यकाभ्यां च ब्राह्मणेन तपस्विना ।। सबन्धो दृष्टपूर्वो न श्रुतपूर्वो न हीदृशः । अकृत्ये निश्चितां बुद्धि त्यक्त्वा कुशिकनन्दन । चण्डाल्यौ चाश्रमं ते तु पुण्यं गच्छ मुनी- श्वर ॥ मार्कण्डेय उवाच- आश्वासितो नृपेणेत्थ कौशिको निर्ध- णाग्रणीः। जज्वाल मन्युनाऽतीव सर्पिषेव हुताशनः ॥४३॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने दशमोऽध्यायः॥ एकादशोऽध्यायः ॥११॥ मार्कण्डेय उवाच- नृपवागाज्यकोपाग्निज्वालाकुलितमानसः । कौशिको मुनिमुख्योऽमौ नृपमुख्यमथाब्रवीत् ॥ विश्वामित्र उवाच- शृणु भूपाधम वचो मम स्वकुलपांसन | श्रुतिस्मृतिपुराणानां न तत्वज्ञोऽसि कर्मणाम् ।। बहिष्कृतस्त्वमेतेभ्यो बुद्धियुक्तिविवर्जितः । न धर्मनीतिशास्त्रज्ञः प्रज्ञावानिव भाषसे । अनादृत्य च मां चैव मद्वाक्यमधमाधम । जनिष्यति भवान् केन केन राजाऽसि भूतले ।। हरिश्चन्द्र उवाच- अयुक्तमव भगवन् वक्तुमर्हसि मां प्रति । नाह अ०. ११.] हरिश्चन्द्रोपाख्यानम् । २९ कोपस्य पात्रं ते मय्यनुग्रहवान् भव ॥५॥ किचिच्च नापरावं ते इतःपूर्व मया क्वचित् । कृते पराधेऽपि मुने क्षन्तव्यं हि भवादृशैः ॥ तपस्विनः क्षमासाराः क्षमया ध्रियते जगत् । कोपं च हेतुसंभूतं निगृह्णन्ति भवादृशाः ॥ अकारणान्मयि क्रोधः क्रियते भवता वृथा। क्षमा या सर्वभूतेषु सैव कैवल्यसाधनम् ।। अक्षमां नरकं प्राहुः शास्त्र ज्ञाश्च भवादृशाः । क्षमा तीर्थ क्षमा स्नानं क्षमा सन्ध्या क्षमा जपः ।। क्षमा मत्रः क्षमा ध्यानं क्षमा यागः क्षमा श्रुतम् । गङ्गादिसर्व- सरितां क्षमात्वेका विशिष्यते ॥१०॥ ब्रह्मलोकादयो लोकास्सा- धितास्तपसापि च । नस्युरक्षमिणस्सर्वे सुखदा इतिन श्रुतम् ।। मोक्ष- इदस्य सलिलं क्षमैव परिकीर्तिता। दयापुलिनसंघातः दमःकच्छप संहतिः ॥ शमो मकरसङ्घश्च तपो द्वीपं प्रचक्षते । आर्जवं सराण- ज्ञेया शौचं तीर्थमुदाहृतम् ।। नौका दण्डो मुमुक्षास्यान्मत्र्याद्या मत्स्य- जातयः । यमाश्च नियमाश्चैव शैवलाब्जादयस्तथा ।। वैराग्यश्च तदा खातं स्यादहिसापि कौशिक । अकृत्यं कटुकं माया दुरुक्तं देहशोष- णम् ।।१५।। प्ररोहतीषुणाविद्धं वनं परशुना हतम्। दुरुक्तपरुष- क्रूर वाध्यतं न प्ररोहति ।' मार्कण्डेय उवाच- एवं तस्य वचः : सुमहातपाः । कोपेन महता राजन् प्रजज्वाला नलो यथा ।। आस्याद्वमन्महाधूमं ज्वालागारस्फुलिङ्गकान् । दह- निव दृशा भुपमवदद्वदतां वरः ॥ अदातुर्यत्प्रभुत्वं तु क्रोधो यश्चा तपस्विनः। तावुभो निष्फलौ लोके बालिशाचरितं त्विदम् ।। अदातापि प्रभुर्मानी तपोमान्यतिकोपयुक् । तावुभौ नरकं यात- श्चिरं नरकयातनाम् ।।२०।। अदाता यःप्रभुलॊके स्वामी यश्चाधमो (नो) भुवि । अविद्यः शिक्षको यश्च दुर्भार्यो यो गृहाश्रमी ।। दुष्पुत्र' पुत्रवान्मानी धनाढ्यो दानवर्जितः । सविद्यो नोपदेष्टा च ह्येवमाद्या वृथा नराः ॥ एतेषु को भवान् ब्रूहि वृथा अल्पसि भूपते । अदाता च भवान् क्रोधी लोभी बालचरित्रवान ॥ एवंविधो भवान् मूर्खः श्रुत्वा कौशिकः ३० हरिश्चन्द्रोपाख्यानम् । [अ०. १२. परान् दूषयति स्वयम् । दत्वा त्वं हि विकत्थस्व नो दक्षः क्षत्रियो भवान् ।। वर्षन्मेघाः प्रवर्षन्ति निशन्दं हि तपात्यये । गर्जन्मेषाः न वर्षान्त वृथा गर्जन्ति निर्जलाः ॥२५॥ हरिश्चन्द्र उवाच- सर्वे ददति राजानो दातारोऽपि स्वशक्तितः। म्वस्ववित्तानुसारेण धनवा- निव निर्धनः ॥ न ददाति धनी चापि न ददात्यखिलं वसु । अहं च प्रददाम्याय यावदिच्छसि दक्षिणां। दक्षिणांकां प्रदास्यामि भवते गुरुसत्तम । अदातुर्यत्प्रभुत्वं तद्वालिशाचरित भवेत् ॥ सत्यमेतदहं जाने क्रोधलोभौ तपस्विभिः । एतदज्ञानचरितं भवत्येव हि दृश्यते । बहुसौवर्णको यज्ञः पुराऽवर्तिष्ट ऋद्धिमान् । तदाऽदांच कियत्केभ्य स्तदागाः वैभवान्मुने ॥३०॥ इदानीमपि गादास्ये या इच्छति भवांश्च ताः । सर्वान् सर्वैस्तुलयितुं नाहसि त्वं विदांवर ॥ विश्वामित्र उवाच- ददासि चेदिमां देहि दाता चेञ्जगतीतले । द्विवचो नाभि भाषेथाः यदि सत्यपरो भवान् ॥ बहुसौवर्णको यागः सुनिवर्तेत यावता । तावद्धनं सप्रयच्छ मह्यं कुशलमस्तु ते ॥ हरिश्चन्द्र उवाच- धन्योस्म्यनुगृहीतोऽस्मि यन्मत्तो भगवान् स्वयम् ।प्रतिगृह्णासि तत्पात्रं मयाप्तं जन्मनःफलम् ।। कोटिजन्मान्तरे मह्यं न लभ्येत कदाचन । तस्मात्प्रतिगृहाणेदं यथादत्तं सदक्षिणं ॥ ३५ ॥ इत्युपश्लाघ्य गाधेयं मणिकाश्चननिर्मितम् । भृङ्गारमादाय तदा करे कृत्वाऽमलं जलम् ॥ हिरण्यगर्भगर्भस्थं इति मत्रं समुच्चरन् । कोशागारमदादेकं ऋषिहस्ते नृपाग्रीः ॥ उदके पतिते हस्ते देवस्यत्वेति मत्रतः । अग्नये हिरण्यमित्यनुगृह्णन्मुदाऽन्वितः। स्वस्ति वाच्य महीपालं प्रीतो मुनिरभाषत ॥३८॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने एकादशोऽध्यायः॥ द्वादशोऽध्यायः ॥१२॥ विश्वामित्र उवाच-- त्वय्येव वर्तते राजन् दातृत्वं त्वन्यदुर्लभम् ।
- अं०.१२.] हरिश्चन्द्रोपाख्यानम् । त्रैलोक्यविश्रुतं ह्येतदभवन्मत्प्रतिग्रहात् ।। दुस्तोषे मयि संतुष्टे तपः क्षुभ्यजगत्रये । तपश्चाब्रह्मलोकेषु दुर्लभं नहि विद्यते ॥ तस्माच्छु- णुष्व मे वाक्यं (क्षा) छत्रं संत्यज भूमिप । अहं हि ते प्रवक्ष्यामि कुरु मे प्रियमुत्तमम् ॥ एते मम सुते राजन् मम सत्येन ते शपे । न यो- निजे मानसे मे नेते चण्डालसूतिजे ॥ भवान् परिणयस्वेमे त्रैलोक्ये नास्ति त्वत्समः। अमरत्वं प्रयच्छामि जरापलितवर्जितम् ॥५॥ एतत्स्वीकारमात्रेण निर्जरोऽपलितोभवेः । नित्यं बली नित्ययुवा कल्पायुश्च भविष्यसि ॥ एतद्धनं पुनर्दास्ये जामाता भव में नृप । एकस्य बहुभार्यत्व वेदशास्त्रप्रसिद्धकम् । तस्मात्कुरुष्व राजेन्द्र पाणि ग्रहणमुत्तमम् ॥ हरिश्चन्द्र उवाच- बालिशा हीनविद्याश्च वेद- शास्त्रविगर्हिताः। ते वदन्ति दुराचारा असद्वाक्यं पुनःपुनः ॥ तवानेन च किं ब्रह्मन् धर्महीनेन कौशिक । अस्वयेणायशस्येन नरका वपातिना ॥ अहं कदापि विप्रेन्द्र सर्वावस्थासु सर्वदा। धनप्रा- णापहारऽपि नानृतं वक्तुमुत्सहे ॥१०॥ मरुश्चेत्प्रपतेद्वापि रोदस्योः परिवर्तनम् । अर्णवानां शोषणं चेनानृतं वक्तुमुत्सह ।। अनृतं वचनं- चैव यल्लोके सद्विगर्हितम् । वेदशास्त्रविरुद्धं च यद्यन्नरकदुस्सहम् ।। वर्णाश्रमपरिभ्रष्टं मर्यादाभदनं च यत् ॥ जातिभ्रंशकरं चैव कुल नाशकरं च यत् ॥ सङ्कीर्णजातिस्त्रीयोनी रेतः पातनमेव च । अनिबद्धप्रलापश्च परपेशुन्यमेव च ॥ परदोषगुणारोपः परदाराभि- मर्शनम् । एवमादीन्यधर्माणि वदन्त्यनृतमित्यपि ॥१५॥ विश्वस्याह सदा मित्रं प्रतिज्ञोतं मुनीश्वर । औशीनरीमृतेत्वन्यां नावहेयमिति- स्मह ॥ त्यजामि तां न प्रतिज्ञां प्राणायांत्वधुनैव मे। गुण- शीलदयारूपश्रद्धाभक्तिसमन्विता || पतिदेवा पतिप्राणा पतिदेहा पतिप्रिया । कर्मणा मनसा वाचा पतिदैवा दिवानिशम् ॥ धर्मानु- कूलापत्युर्हि छायेवानुगता पतिम् । एकैवालं गृहस्थस्य बह्वयो विषय हेतवः ॥ विषयासक्तचित्तानां नृपाणां नास्ति सद्गतिः । एक- ३२ हरिश्चन्द्रोपाख्यानम् । [अ०. १२. भार्यस्य यत्सोख्यं तन्नास्त्यब्जभुवोऽपि ह ॥२०॥ बहुना कि विवादेन न श्रद्दध्या वचस्तव । मया ते दक्षिणा दत्ता मयाऽऽतिथ्यं कृतं तव । स्वपदं गच्छतु भवानहं यामि गृहं मम ।। विश्वामित्र उवाच • सुवर्ण- रत्ननिचयैरास्तीर्णा वसुधामिमाम् । अध्यर्धयोजनोच्छायां स्वर्णदो राजसत्तमः ॥ पश्चाशत्कोटिगायुक्तां दत्वा विप्राय याचते । सोऽपि नैवं विधा वाचं सगर्वा नावदन्नृप । लुब्धःस्वल्पतरं दत्वा यथा त्वं नृप भाषसे । सुवर्णदातुस्सदृशः स्वर्णदो नान्यभूमिपः ।। हरिश्चन्द्र उवाच- मन्वानेनैव मा लुब्धमिदमुक्तं त्वयानघ । दर्शयित्वा प्रति निधि मा लुब्ध इति मन्यसे ॥२५।। सर्वे ददति दातागं भक्त्या शक्त्यनुसारतः। भवतीव च सत्पात्रे दानं शक्त्यनुसारि ह ।। सप्तद्वीपवती पृथ्वी याचित्रेऽथ ददाम्यहम् । अन्यस्मै वाथ भवते कि करोति भवांस्तदा ॥ मार्कण्डेय उवाच- इत्युदारां गिर श्रुत्वा हरिश्चन्द्रस्य कौशिकः । उत्प्लुत्योत्प्लुत्य हर्षेण हस्तताल ननत ह ॥ प्रतिद्वन्द्विछलनाक्तं वचो विप्र यथार्थवत् । कृत्वाबला- प्रतिग्राह्य नृत्यते भवता वृथा । इत्युक्तवति भूपाल नरीनृत्यमुर्दक्षत । गृहीतऽयं मया भूमि. त्वया दत्ता न संशयः । स्वस्ति तेऽस्तु चिर जीव स्वस्ति तेऽस्तु सुखी भव ॥३०॥ हास्येनोक्तं मया वाक्यमिति भूपः पुनःपुनः । न दत्ता च मया भूमिर्नदत्तति नृपोऽवदत् ॥ गृहीतेय मया भूमिहीतेयमिति द्विजः । स्वमान्तरेप्यसौ राजा परिहासकथा- स्वपि ॥ विषयासक्तचित्तोऽपि नानृतं वदति छलात् । इत्थं हि वाग्वसिष्ठस्य सत्या यदि नरेश्वर ॥ अन्यस्मै वाथ भवते इति माम- वदस्स्वयम् । तद। दत्ता त्वयंयं भूगृहीतेयं मया ध्रुवम् ॥ तयोः संवदतोरित्थं राज्ञी सा पतिदेवता। भारमनवद्याङ्गी मधुरां गिर- मेरयत् ॥३५॥ चन्द्रवत्युवाच- असत्यं वाथ सत्यं वा परिहास- कथापि वा । प्रतिद्वन्द्विछलं वापि विषयासक्तवागपि ॥ *गुरुणा यद्वचस्तू क्तं तत्तथ्यं कुरु भूमिप। वसुधेयं त्वया दत्ता गृही.
अ०.१३.] हरिश्चन्द्रोपाख्यानम् । ३३ तेय मया ध्रुवम् । सत्ये वचसि तिष्ठ त्वं सत्ये सर्वमवाप्यते । सत्येन स्वर्गमामोति सत्येनैवापुनर्भवम् ॥ सत्येन राज्यं संपञ्च सत्यं सन्ततिवृद्धिकृत् । इयं साम्राज्यसंपच्छ्रीः सत्ये भूयो भविष्यति ॥ श्रुत्वा वचः स्वदेव्युक्तं त्रिशंकुतनयो नृपः । इदं दैवहतं चैकं इत्यु- क्त्वा जोषमास्थितः ॥४०॥ विश्वामित्रोऽपि राजानं सगर्वमिदमत्र- वीत् । मा राजन् विमना भूयाः सत्यमुक्तं मया ध्रुवम् ॥ मही दत्ता त्वया सर्वा गृहीतैव मया च सा! यदि सत्यं पुरस्कृत्य वर्तसे नृप- सत्तम ॥ द्विर्नब्रूहि वचो भूयस्त्वद्विधो द्विर्नभाषते । सत्यं श्रेष्ठं महायज्ञात्सत्यं हि परमं तपः ॥ व्रतानां चैव सर्वेषां सत्यवतमनु- त्तमम् । सत्यं तु सुकरं वक्तुं सदैकान्तनिवासिनाम् ।। पुत्रदारविही- नानां सदैव वनवासिनाम् । अस्वमवनितातुल्यप्रमदासङ्घमध्यगः ।। ॥४५॥ दिव्यानभुग्दिव्यभोगी प्रजाकार्यधुरंधरः। विषयेन्द्रियसं- योगी परिहासकथास्वपि ॥ वने विवादकालेऽपि स्त्रीसंभोगेषु यो नृपः । सत्यं न संत्यजेद्यस्तु सएव त्रिपुरान्तकः ।। सत्येन भासते भावान् सत्येनैवाग्निरेधते । सत्येन ध्रियते भूमिस्सत्ये सर्व प्रति- ष्ठितम् ॥ हरिश्चन्द्र उवाच- दत्तेयं सकलाभूमिः श्रद्धापूर्व द्विजोत्त- म । यास्यामि नगरी शंभोस्त्वद्भूमौ न वसाम्यहम् ॥ परुषं कटुकं करं दुरुक्तं यन्मया मुने । क्षन्तव्यं तत्त्वया ब्रह्मन् नमस्तेऽस्तु नमो नमः ॥५०॥ इति दत्वा मही भूयो विश्वामित्राय योगिने । निर्ज- गामात्मनो राज्यानमन्त्रिस्त्रीपुत्रसंयुतः ॥५१॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने द्वादशोऽध्यायः॥ त्रयोदशोऽध्यायः ॥१३॥ मार्कण्डेय उवाच--एतस्मिमेव काले तु मायाचण्डालकन्यके। पतित्वा पादयोस्तस्य दर्शयामासतुव्रणम् ॥ कन्यके ऊचतुः- सृष्ट्वा चावां ताडयित्वा कृत्वा चैवात्मनो हितम पातयित्वा महागते श्रेयः 5.म. KUPPUSWAMI ISTRI RECEI. CRETUTE MADRAS.4 ३४ हरिश्चन्द्रोपाख्यानम् । [अ०. १३. कि लभते भवान् ॥ विवाहयस्व राजानमावाभ्यां विधिवत्पितः। नभवेवान्यभार्ये च हरिश्चन्द्रमृते भुवि ॥ पश्य पश्य कशापात- वणाद्रक्तं विनिस्सृतम् । दर्शयामासतुःपृष्ठे व्रणरक्तांकित शुभे ॥ श्रुत्वा तद्वचनं योगी स्वसुतास्नेहयन्त्रितः । आत्मप्रतिज्ञापूर्त्यर्थं राजानं पुनरब्रवीत् ॥५॥ विश्वामित्र उवाच- कथं गच्छसि भूपाल कृत्वा मे विप्रियं महत् । भोभोराजन्नगन्तव्यमेह्येहि पुनरेहि भोः ।। सुतयोः पश्य मे पृष्ठे व्रणे स्रवति लोहितम् । कथमेतदहं दृष्ट्वा कथं सोढाऽस्मि भूमिप ॥ कुरुष्व पाणिग्रहणमनयोमत्प्रियं कुरु । नो चेत्त्वां पातयिष्यामि दुरन्ते शोकसागरे ।। हरिश्चन्द्र उवाच- नाहं मूढो न बधिरो न मूल् बालिशोऽपि वा। किनिमित्तं भवान् ब्रह्मन् प्रतारयति लीलया ॥ नाहं लोभानचक्रोधानकामानार्थकारणात् । न हेतुवादादन्यस्मात्सत्यं जयां कथंचन ॥१०॥ विश्वामित्र उवाच- गृहाण पाणिमनयोः पृथिवी च परंतप । मम प्रियमिदं राजन् शाधि राज्यमकण्टकम् ॥ हरिश्चन्द्र उवाच- पृथिवी सकला दत्ता स- शैलवनकानना । अतःपरं पुनर्ब्रह्मन् किमर्थं बाधते भवान् ।। ज्ञातोऽ स्यद्य भवान् सम्यक् मया पूर्वात्मिका मतिः। न त्वां त्यजति रोषा- त्मन् तपसा ब्राह्मणो ह्यसि ॥ न शान्तियुक्तं ब्राह्मण्यं संप्राप्तं तपसा त्वया। वसिष्ठस्पर्धया पूर्व तत्ते शान्ति विद्यते ॥ विश्वामित्र उवाच- धिक्त्वां धिक्त्वां दुराचारं मम पूर्वात्मिकां मतिम् । निन्दसे मूर्ख मूर्खाग्य नत्वं जीवन् विमोक्षसे ॥१५॥ या दत्ता प्रथमं राजन् बहुवर्णस्य दक्षिणा । तां प्रयच्छ महाराज दत्वा गच्छ यथासुखम् ॥ हरिश्चन्द्र उवाच- मुकुटं रत्नखचितमङ्गदं च तथा- विधम् । सुवर्णमणिमालाश्च करकण्ठविभूषणम् ।। हृदयोदरबन्धं च कटिसूत्रविभूषणम् । अङ्गुलीयानि हारांश्च केयूरादीनि सर्वशः ।। अन्यानि राजयोग्यानि वस्त्राण्याभरणानि च । सुतस्यैतानि जायायाः भूषणाछादनानि च ॥अतिवायुमनोवेगान् जात्यश्वान् मन्दुरागतान् ।
अ०. १३.] हरिश्चन्द्रोपाख्यानम् । ३५ ऐरावताभान् शोमन्तः कुलजान् पर्वतोपमान् ॥२०॥ सृणिग्रैवेय वर्मादिविलसन्तो महागजान् । रथं च स्वर्णविकृतं मेरुमन्दरसन्नि- भम् ॥ व्याघ्रचर्मपरीधानं दिव्यवाजिसमावृतम् । मुक्तामाणिक्य मालाढ्यं किङ्किणीजालमण्डितम् ॥ हेमघण्टाघणात्कारं क्षुद्रघण्टा- निनादितम् । वृषध्वजपताकाभिः स्वर्णदण्डविराजितम् ॥ सहस्र- सूर्यचन्द्राभं शङ्खचक्राक्षसंयुतम् । एतादृशं रथं चैव गोमहिष्या- विकादिकान् ॥ यत्किचिद्रव्यसङ्घातं पत्तनग्रामसंस्थितम् । खेट- खर्वटसंस्थं च ग्रामस्थं दुर्गसंस्थितम् ॥२५॥ सर्व जनपदोद्भूतं विप्र- ग्रामधनादृते । ऋते च दैववित्ताचदन्यत्सर्व निवेदितम् ॥ मार्कण्डेय उवाच- श्रुत्वैतद्वचनं राज्ञो विश्वामित्रो महामुनिः। आहूय संहसि त्वैव गर्वोत्सितो वचोऽब्रवीत् ॥ कौशिक उवाच - भो भो राजन् प्रीतमनास्त्वनो बुद्धिमतां वरः । मह्यं ददासि मद्रव्यमत्यन्तं चतुरी भवान् ।। वसुधायां मदीयायामखिलायां महीपते । सत्यां तदुद्भवं सर्व राजयोग्यं च यद्वसु ॥ राजलक्षणयोग्यानि छत्रयानासनानि च । एतच्चान्यच्च यत्किचित् तत्सर्व विद्धि मामकम् ॥३०॥ मदीया पृथिवी सर्वा सशैलवनकानना। तदुद्भव च तत्सर्व मदीयं विद्धि पार्थिव ॥ पृथिव्यां सागरान्तायां भूषणादिधनं च यत् । मामकं विद्धि राजेन्द्र यच्चान्यत्तत्प्रदीयताम् ॥ येन केनाप्युपायेन दत्वा मे दक्षिणां पृथक् । दुरन्ताहणदुःखात्वं मोचयात्मानमात्मना ॥ इहलोके परत्रैव यथा प्रीतो भविष्यसि । नृणां नृपतिशार्दूल लोक- द्वयसुखावहम् ।। शावी च सूतकी चैव दशरात्रेण शुद्धयति । अग्नि- त्यागी ऋणी चैवमात्महा च सदा ऋणी ॥३५॥ तस्मादसाहणा- द्धोरान्मोचयित्वा सुखी भव । अन्यथा पाणिग्रहणं कुरु त्वं सुत- योर्मम । ऊँर्वी दक्षिणया साकं सत्येनात्मानमालभे ॥ हरिश्चन्द्र उवाच- सत्यं सत्यं द्विजश्रेष्ठ ददाम्यन्यद्धनं द्विज । मया तद्वि- स्मृतं सर्व ज्ञातमद्य सुनिश्चितम् ॥ ददामि नात्रसन्देहस्सत्यमुक्तं मया हरिश्चन्द्रोपाख्यानम्। [अ०. १३. द्विज । नित्यमेवं गुरुतया वर्तेथाः मुनिसत्तम ॥ निषकादिश्मशा- नान्तचत्वारिशत्सुसंस्कृतः । लोकमान्यो गुरुर्विद्वान् तपसा ब्रह्मणा समः ॥ एवं गुणखभावस्त्वं धर्मतो मे पिता ह्यसि । अहं च भवतः पुत्रः इमे चापि सुते तव ॥४०॥ एकोदरप्रसूतानां मिथोऽस्माकं कथं भवेत् । विवाहः पुत्रपुत्र्योश्च कथं मां हन्तुमिच्छसि ॥ एते मया विवाह्ये चेत्तवपुत्र्यौ तथैव च । तस्मादेतन्नवक्तव्यमेकोदर- विवाहकम् ॥ तुभ्यं धनं प्रदास्यामि मया पूर्व प्रतिश्रुतम् । देहि मह्यं मासमेकं येन दास्यामि ते वसु ॥ ऋणी मर्त्यः परिक्षीणः शनै- च्यो न निर्दयम् । शिष्यमेकं संप्रयच्छ यस्मिन् दद्यां धनं शनैः ।। यथोदितं यथा दद्यां दयादाक्षिण्यशालिने । एतावती कृपां मह्यं कुरु कारुण्यसागर ॥४५॥ मार्कण्डेय उवाच- एवमुक्त्वा तदा राजा निश्चक्राम तदाश्रमात् । स्त्रीपुत्रमन्त्रिसहितस्तेवनेनें वनं ययौ । अथ नक्षत्रकं नाम शिष्यं परमनिष्ठुरम् । प्रेषयामास भूपाय संदिश्य च हिताहितम् ॥ पृथिव्यां सागरान्तायां न स्थातव्यं कदाचन । त्रिशंकुजेन मद्वाक्यं शाधि यस्त्वं दिवानिशम् ॥ द्वीपेषु मुक्तिक्षेत्रेषु वस्तव्यं च यथासुखम् । सामान्यभोजनं दाराः संभोगाच्छादनानि च । सामान्यमेतत्सर्वेषां राज्यभारो ममैव हि । वानप्रस्थयतीनां च योगिनां क्षेत्रवासिनाम् ।।५०॥ देवारामतटाकानां राजा नाहं तु शिक्षिता । केवलं पालकस्तेषां तावत्स्वर्गो न शिक्षते ॥ अङ्गं सप्तविधं चैव चतुरङ्गबलं तथा । ऐश्वर्यं च धनं कोशो भूमिराज्ञा ममैव हि ॥ ममाज्ञां च पुरस्कृत्य सदाचारोऽनुवर्त्यताम् । गच्छ शीघ्रं महाराज दक्षिणा मे प्रदीयताम् ।। शृणु नक्षत्र मद्वाक्यं सावधानमना भवान् । प्रातमध्यंदिने सायं दीयतां दक्षिणा गुरोः । इति सन्दिश मा भैषीः राजानं मम शासनात् ॥५४॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने त्रयोदशोऽध्यायः ३ अ०. १४.] हरिश्चन्द्रोपाख्यानम् । चतुर्दशोऽध्यायः ॥१४॥ हरिश्चन्द्र उवाच- अवश्यं चाप्रमत्तेन गुरोराज्ञानुवर्तिना । शिष्टाचारेषु यो धर्मो धर्मशास्त्रे च पठ्यते ॥ स एव सम्यकर्तव्यो विविधं धर्मलक्षणम् । सत्यमेव पुरस्कृत्य सर्वधर्मेष्वनुत्तमम् ॥ यथा न्यायं यथोपेतं दास्येऽहं यज्ञदक्षिणाम् । यथा ते दक्षिणां दत्वा मुक्तोऽहं ऋणबन्धनात् ।। अनृणो भवामि योगीन्द्र तथामाऽनुगृहाण भोः । इत्युक्त्वा दण्डवद्भूमौ प्रणिपातपुरस्सरम् ॥ वर्म चोक्त्वा- भिवाद्यैव सोऽतिष्ठत्संयताञ्जलिः। ऋषेरभिमुखःपश्यन् भक्त्या तन्मुखपङ्कजम् ॥५॥ सोऽपि कोपाचिरं तूष्णी नाशीर्वचनमुक्तवान् । आचारपद्धतिभयात् धर्मस्य विजयीभव ॥ इत्येवमुक्तो मुनिना सहसा प्रतिगृह्य तत् । राजा कृतार्थमात्मानं मन्यमानस्तदाश्रमात् । मुनि प्रदक्षिणीकृत्य सोऽपयातुं प्रचक्रमे ॥ मार्कण्डेय उवाच- पत्नी च पुत्रमाश्वास्य मन्त्रिणं च विशेषतः । तिष्ठ मन्त्रिन्ममैवाज्ञा पुरस्कृत्य गृहे वस ॥ विश्वामित्रं समाश्रित्य तद्धितेऽप्सुर्दिवानिशम् । नातिदूरसमीपस्थो दिधारात्रमतन्द्रितः ॥ अनुशास्येति तं राजा वनं गन्तुं प्रचक्रमे । स पत्न्या च सुतेनैव धैर्यवीर्यसमन्वितः ॥१०॥ एवं मन्त्रिणमाश्वास्य यावद्गन्तुं प्रचक्रमे । मूर्छाविह्वलितस्तावन्मन्त्री भूमौ पपातह ।। मूर्च्छया पतितं दृष्ट्वा राजा मूर्छामवाप ह । तौ दृष्ट्वा महिषीपुत्रौ पेततुर्भुवि मूञ्छितौ ॥ सुचिरात्तैस्समाश्वस्तो राजा मन्त्रिणमब्रवीत् । समाश्वसि हि भो मन्त्रिन कालस्य कुटिला गतिः।। वियोजयति यः कालः कालो योजयति प्रजाः। तस्मात्कालानुगाः सर्वे कालात्मकमिदं जगत् ॥ महान्तं वाऽमहान्तं वा भारं योजयते नरम् । यदा यत्र नरः सोऽपि कालस्तं वोढुमर्हति ॥१५।। जीवकर्मा- न्वितः कालो जीवं जनयति प्रभुः । पुनरियति क्षिप्रं कर्मलोपं च मा खिदः ॥ कंचित्कालं सुखयति तं दुःखापयति कचित् ।
३८ हरिश्चन्द्रोपाख्यानम् । [अ०. १४. ब्रह्मादिमशकान्ताश्च सर्वे कालस्य किङ्कराः ॥ कालमेवाऽनुवर्तन्ते ब्रह्माद्या अमृतान्धसः। तस्मात्कालकृतं ज्ञात्वा मा तप्यस्व महामते ॥ यदा यत्र कृतं येन यावत्कर्म शुभाशुभम् । तदा तत्रैव तेनैव भुज्यते तावदेव हि ॥ अन्यस्य कर्तुर्नान्यस्य कर्तुरेव फलं यतः । अन्यस्य कर्मणां भोक्ता नान्यश्च भुवि विद्यते ॥२०॥ अहं च स्वकृतं भोक्ष्ये मुझ्व त्व यत्कृतं शुभम् । एवमुक्तस्सत्यकीर्तिः हरिश्चन्द्रेण कौरव ।। दुःखशोकपरीतात्मा राजानं ह्येनमब्रवीत् । त्यक्त्वा मां गच्छसि यदि प्राणांस्त्यक्ष्याम्यसंशयम् ॥ सुखं वा यदि वा दुःखं त्वया भोक्ष्ये त्वहं नृप । न मां त्यजेः प्राणसमं दोसस्ते न भवाम्यहम् ॥ इह वा परलोके वा भवत्संगो भवेन्मम । यदा त्यजेद्भवान् प्राणान् त्वदेहे चिरसंभृतान् । तदा मां त्यज राजेन्द्र तावजीवाम्यहं यदि ।। मार्कण्डेय उवाच- एवमुक्तो महाराजो निश्चक्राम त्रिशंकुजः । मनसा दयमानेन पत्नीमन्त्रिसुतान्वितः ॥२५॥ एकवासस्सुसंवीतः क्षुत्पिपासादितः शुचिः । आतपात्तप्तसर्वाङ्गस्ताम्यत्खिद्यन्मुखाम्बु- जः॥ केवल पादचारेण प्रस्खलन्वै पदे पदं । सूक्ष्मपाषाणनिचये ना- नाकण्टकितान्तरे ॥ कण्टकाकृतिपाषाणनिरन्तरमहीतले । सिहव्या- प्रवराहादिवृकश्वापदभीकरे। वृश्चिकादिविषप्राणिदुष्टदुर्जनसाध्वसे । दिवाभीतशिवाकाककङ्कगृध्ररवाकुले । वराहशल्यगोधाऽ खुझिल्लिका गणनादिते। शुष्यत्त्रिकण्टकीवृक्षखण्डमण्डलमण्डिते ॥३०॥ वात्या- वगोत्थदावाग्निज्वालालीढककुन्मुखे । निम्नोन्नतमहीभागे क्षुद्रपर्वत- दुर्गमे । निर्वारितप्तवालूकवक्रकानननिम्नगे । प्रशस्तवृक्षरहिते निः- च्छाये निर्जने वने । इत्थ सस्त्रीमन्त्रिसुतः प्रययौ काननाध्वनि ॥३२॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने चतुर्दशोऽध्यायः ॥ पश्चदशोऽध्यायः ॥१५॥ मार्कण्डेय उवाच- एतस्मिन्नेव काले तु प्रयातस्य प्रजे.
अ०. १५.] हरिश्चन्द्रोपाख्यानम् । । शितुः । पक्षिणश्च मृगाश्चैव दक्षिणेऽशुभसूचकाः ॥ गच्छन्तं गहने घोरे दृष्ट्वा तं धैर्यवारिधिम् । दुःखशोकाकुला मन्त्री विललापाति दुःखितः ॥ अहोऽतिचञ्चला लक्ष्मीः क्षणं तिष्ठति न क्वचित । गजकर्णानुसारेण पुनरायाति याति च ॥ अव्यवस्थितचित्तव महा- स्नेहविवर्धिता । सति वाऽसति वा पुंसि न चिरं तिष्ठति क्वचित् ॥ सप्तद्वीपार्णवां पृथ्वी यश्शशासैकगद् पुरा । यस्याश्रयवयादव स्वराद् स्वपिति निर्भयः ॥५॥ स्वर्गे यं च प्रशंसन्तो दिवारात्रमत- न्द्रिताः । विनिद्रा भोजना आसनस्थमा अमृतान्धसः ॥ यत्कार्मु- कविसृष्टानां शराणां नर्तपर्वणाम् । देवासुरनृपन्द्रेषु कश्चिच्छक्तोऽ स्ति तेजसा ॥ अश्वानां हेषितरवैः वारणानां च बृहिते. । स्त्रीणां कटककाञ्च्यादिभूषणानां च मिञ्जितैः ॥ सूतमागधबन्दीनां स्तुति- संघातचाटुभिः । निरस्यते पौरघोषो यस्य वे मनि नित्यशः ॥ यो यदा मृगयासक्तो विनिर्गच्छति पट्टणात् । पृथिवीमन्तरिक्षं च द्यां चैव रजसाऽऽवृणोत् ॥१०॥ रथाश्वगजपादातसमुत्थेन विसारिणा । विहारनिर्गमे यस्य सहस्राणां शतं शतम् ।। अश्वाश्च वारणा लक्षाः रथानां च शतं शतम् । कोटिसंख्यापदातीनां विनिर्गच्छति संघशः।। सहस्रसंख्या राजानो यं यान्तमनुयान्ति हि । मध्ये यस्य सहस्राणां छत्राणां सत्रयाजिनाम् ।। राजसूयोद्भवं छत्रं रविमण्डलसन्निभम् । सह- सधुर्य हेमाझं नानारत्नपरिष्कृतम् ॥ सहस्रादित्यसंकाशं हरिदश्वरथोप- मम्। रथमारुह्य यो याति विहारतरुवाटिकाम् ॥१५॥ सोऽयं राजा महाटव्यां पादचारेण गच्छति। यं नित्यं सेवते वायुर्जलमण्डलमध्य- गम्॥ दिव्याङ्गरागलिप्ताङ्गं दिव्यस्त्रीपरिवेष्टितम् । सोऽयमद्यातपक्लान्तः स्वेदातः पांसुवेष्टितः ॥ वेणुवीणाकाहलीनां भेरीणा शङ्खनिस्वनम् । पणवानकशृङ्गाणां गोमुखानां च निस्वनम् ।। सप्तस्वराणां गानं च किन्नरीणां च निस्वनम् । स्तोत्रं स्तुति च गीतं च चाटुवाक्यं प्रियं- वचः ।। कोकिलालापसल्लापं ललनागीतनिखनम् । तर्कवादं शास्त्र- हरिश्चन्द्रोपाख्यानम् । [अ०. १५. पाठं वेदघोषं च नित्यशः ॥२०॥ यः शृणोति दिवारानं श्रवणा- नन्दपूरितः। स शृणोत्यद्य विपिने सिंहव्याघ्रवृकस्वनम् ॥ अशिवो- लूककाकोलगृध्रकौशिकनिखनम् । ऋक्षवानरभल्लूकगोलांगूलकुला- रखम् ॥ मुक्तामाणिक्यवैडूर्यपद्मरागादिराजिते । विठ्ठमस्वर्णविकृते प्रासादे शतभौमिके ॥ सर्वर्तुकुसुमोद्देशे सर्वकालसुशीतले । सर्व- सौरभ्यपवने सुगन्धिद्रव्यलेपिते ॥ रत्नस्तंभे रत्नकुड्ये चन्द्रकान्त- शिलातले । दिव्यास्तरणसंवीते हेमरत्नविभूषिते ॥२५॥ परितः पतितखच्छजलधारासुशीतले। पर्यङ्के रत्नरचिते पुष्पास्तरणमंवृते ।। दिव्यपालेयसंसिक्तकदलीदलवीजनः। वीज्यमानःस नारीभिः ताल- वृन्तैश्च वीजितः ॥ पीनहस्तोन्नतकुचश्यामाहस्तविसारितैः। दोधूय- मानो यश्शेते ज्योत्स्नाशुभैः प्रकीर्णकैः ।। सोऽयमद्य महीपृष्ठे स्वयं- तृणसमन्विते । सूक्ष्मपाषाणनिचये दुःस्पर्शे कण्टकान्विते । वनवा- त्यासमालूनपतितै र्णपल्लवैः । कार्यमाणः पांसुभिश्च कर्णनासाक्षि- पूरितः ॥३०॥ शिवाकृतरवं शृण्वन् शयिष्यति कथं त्वहो । यस्य प्रीतिं सुखं भोगं भाग्यं कीर्ति यशो धृतिम् ।। राज्यसंपदमैश्वर्य धर्म सत्यं च मार्दवम् । दयां धैर्य च गाम्भीर्य शौर्य दाक्ष्यं वदा- न्यताम् ॥ सौजन्यं भावशुद्धिं च प्रजारञ्जनकौशलम् । विद्या बुद्धि सदाचार राजनीति च सगुणम् ॥ श्रियं रूपं च लावण्यमङ्ग- प्रत्यङ्गसौष्ठवम् । वर्णाश्रमस्थापनं च वाग्मितां सत्यसन्धताम् ।। इत्येवमादिकानन्यानवर्णयितुमादितः । शक्नोत्यपि स्वरूपं च शेषो- ऽपि किमुतापरे ॥३५॥ सोऽयं त्रिशंकुजो राजा कुत्र गच्छति तिष्ठति । यथा ह्यष्टाङ्गयोगैश्च जपहोमसुरार्चनैः ॥ कोटिहोमैश्च दानैश्च व्रततीर्थ- निषेवणैः । कोशाश्वरथमातङ्गैस्सत्वेन च बलेन च ॥ बुद्ध्या पौरुष- सामथ्र्यैः ब्रह्मणा च हरेण च । विष्णुनापि सुरैस्सेन्ट्रैस्सवित्रा शशि- नापि वा ॥ व्यासाद्यैः ऋषिभिश्चैव बुद्ध्या च दृढया तथा। न शक्यते दैवबलं चान्यथा कर्तुमंजसा || गत्वा च मृगयां हत्वा मृगान् TRA RESEARCH 10,1 TRE Kubwoord अ०.१६.] हरिश्चन्द्रोपाख्यानम् । MADHas ourat दुष्टानशेषतः। पालयामि प्रजाः सर्वा इति निश्चित्य भूमिपः॥४०॥ इत्थं परोपकाराय प्रवृत्तस्य महीपतेः । अनिच्छयैव संप्राप विपदस्य विधेर्बलात् ॥ सीतया चाप्यरुंधत्या दमयन्त्या सुकन्यया। नालाय- न्या च पारन्त्या लोपामुद्या च कृष्णया । सावित्र्या च सरस्वत्या शीलवत्याऽनसूयया । ख्यात्या च माद्या कुन्त्या च छायया च नृप त्वया ॥पतिव्रताभिरन्याभिः पुण्यस्त्रीभिर्दिवानिशम । श्लाघ्यमाना वरारोहा भृत्यमृष्टानदायिनी॥ पातिव्रत्येन शीलेन सत्यन च नयेन च। पतिदैवतका चापि पतिप्रीतिकरैर्गुणैः ॥४५॥ समाँ नाप्यधिका- प्येवं कोमलाङ्गी कुलाङ्गना। मृदुपादतला तन्वी कथं व्रजति कानने ॥ पादछायाश्रिताभर्तुःच्छायेवानुगता पतिम् । सर्वलक्षणसंपन्नां सौम्यां सोमसमानना॥ उशीनरसुतां पश्यन् कथं गच्छेत भूमिपः । सप्तरक्तं त्रिगम्भीरं त्रिविस्तीर्ण षडुन्नतम् ।। सिहास्यमायतभुजं सम्राट लक्षणलक्षितम् । धूलिधूसरसर्वाङ्ग क्षुत्पिपासाकुलान्तरम् ।। कथमे- पसुतं पश्यन् तेवनेन वनं गतम् । आत्मना सदृशं पुत्रं बिम्बाद्वि- म्वमिवोद्धृतम् ॥५०॥ गुणरूपप्रमाणैश्च स्वयमेवायमित्यपि । पाद- चारेण गच्छन्तं विषमे विपिनाध्वनि || पश्यतो भूपतेः पादौ कथं गन्तुं च शक्नुतः । मन्त्री स विललापैवं भूयो राजानमन्वगात् ।' वनाइनान्तरं गच्छन्नाससाद महद्वनम् । गच्छतां च नदी नद्यास्तथैव च गिरेगिरिम् ।। देशाद्देशं भूमिपानामाश्रमादाश्रमान्तरम् । तेषां दिनान्यतीतानि मासेऽस्मिन् सप्तविशतिः : अपरस्मिन् दिने प्रातः पत्नीमालोक्य दुःखितः । न दक्षिणामुनेर्दत्ता इति तामब्रवीनृप ॥५५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने पञ्चदशोऽध्यायः॥ षोडशोऽध्यायः ॥१६॥ हरिश्चन्द्र उवाच-कि विषण्णाऽसि नीतिज्ञे विषादन च किं भवेत् । काननेऽस्मिन् महाघोरे निर्जने घोरसंकटे ॥ कुत्र नो बान्धवास्सन्ति व यास्यामो वरानने । कुन गत्वा सुखं यामो 6-H
हरिश्चन्द्रोपाख्यानम् । [अ०. १६.
दक्षिणा कुत्र लभ्यते॥ विश्वामित्रस्य किं कुर्मः का नो गतिरनुत्तमा।
अंतो न विद्यते देवि कदापि मम संपदः॥ अधुना व गता सौ मे
कुतस्ते मित्रबान्धवाः। चिरं मयाऽनुभुक्ताऽपि स्वपलब्धोपमाऽभवत्।।
संपच्चिरानुभूतेश्च लब्धं दुःखं महत्तरम् । अस्माकं कश्शरण्योऽद्य
मो भीरिति च को वदेत् ॥५॥ राज्यं कुतो मे काशश्च चतुरङ्गवलं
कुतः । किं करोमि वरारोहे पश्य देवबलं मम ॥ सत्यकीर्तिरुवाच--
इतोप्यतिमहदुःखं पुनर्यास्यसि भूमिप । तत्परं च महासौख्यं
प्राप्स्यसि त्वं नृपोत्तम ॥ एतन्मया स्वप्नदृष्टं सत्यस्स्वमो भविष्यति।
स्वमे भवान्मया दृष्टस्तैलहूदनिमज्जितः॥ त्रिनिमज्य त्रिरुत्थाय पुन-
गोमयकर्दम । निमज्य तत उत्थाय भार्या तेलमपाययत् ॥ ततः
कैलासशिखरे भवन्तं दृष्टवॉस्थितम् । तस्मादापन्महाघोरा ते भवि-
व्यत्यसंशयम् ॥१०॥ तदापदमिमां प्राप्य न प्राप्तुं मोहमर्हसि ।
भवद्विधा महात्मानो न शोचन्ति महापदि । ददाति सत्वमीशानः
पुरस्ताच्छुक्रमुच्चरन् ॥ चन्द्रवत्युवाच- देशो विशालो राजेन्द्र
मुनयो बान्धवास्सुराः। देशे देशे च वसतिःग्रामे ग्रामे च ना गृहम् ।।
पानीयं शीतलं लभ्यं मरस्सु च नदीषु च । भक्तार्तिभञ्जनपरो
भर्गो नो वसुदो नृप॥ भक्तानां नो महेशश्च स्वदेशा भुवनत्रयम् ।
के केषां चैव मित्राणि के केषां चैव बान्धवाः ॥ के केषां सुहृदश्च-
स्युः के केषां गतिरच्युता । केषां तु कैश्च संयोगो वियोगोऽपि नरे-
श्वर ॥१५॥ म्वकर्मभिश्च संयोगो वियोगश्च स्वकर्मभिः । सर्वे क्षयान्ताः
निचयाः पतनान्ताः समुच्छ्याः ।। संयोगा विप्रयोगान्ताः मरणान्तं
च जीवितम् । जातस्य वै ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ॥
तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि । अनादिनिधनो ह्येष संसार-
स्सर्वदेहिनाम् ॥ संसारदावतप्तानामितश्वेतश्च धावताम् । नास्ति
छायाश्रयो भूप विश्वेशाश्रयणाहते ॥ नात्यन्तदुःखिनस्सन्ति न चैव
सुखिनस्तथा। सुखदुःखे समे नृणां स्वस्वकर्मसमार्जिते ॥२०॥
. अ०. १६.] हरिश्चन्द्रोपाख्यानम् । स्वकर्म पितृवल्लोके स्वकर्म जननी यतः। स्वकर्म भ्रातपुत्राश्च स्वकर्म स्वर्गमोक्षकॉन् ॥ एवं विदित्वा विद्वांसः दत्तदेहानहंकृताः। पुत्र- मित्रकळत्रादिममतासङ्गवर्जिताः ॥ निरीहा निष्परिस्पन्दास्त्यक्त- सर्वपरिग्रहाः। निरीषणा जगन्मित्राः स्वस्तिकाद्यासनस्थिताः॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहृत्य मनो हृदि । निबीजध्यानमासाय नासाग्रन्यस्तलोचनाः॥ ध्यायन्त्यहर्निशं ब्रह्म गिरिकन्दरसानुषु तस्माद्ध्येयो महादेवः शशिभास्करलोचनः ॥२५॥ करोत्यनुग्रह सद्यः सर्वदा भक्तवत्सलः । एवं विवदतोभूप तयोर्वासरमध्यगः ॥ बभूव वासरपतिः चरनाकाशमण्डले । एतस्मिन्नन्तरे ते च चित्रभानूस्रतापिताः ॥ वृक्षमूलमुपाश्रित्य तत्र ते समुपाविशन् । तदाऽऽजगाम योगीन्द्रो विश्वामित्रोऽतिकोपितः॥ प्रतिश्रुन- धनाभावान्मामातिक्रमणेन च । राजाऽश्रौषीन्महाशब्दं सेनावाद्य- समीरितम् ॥ भेरीमृदङ्गनिःसाणढक्कापटहसुध्वनिम् । महलं पणवं चैव तांपट्टू दौन्दुभं दिवि ॥३०॥ वेणुवीणाशङ्खरवं शृङ्गगोमुखताल- जम् । सूतमागधवैतालिस्तुतिगीतरवादिकम् ॥ हेषारवं तुरगाणां गजानां बृहणं तथा । झङ्कारवं रथौघाणां सेनाकलकलध्वनिम् ।। चाटुवाद्यं प्रियरवं मल्लवारणबन्दिनाम्। श्रुत्वैव विस्मितो राजा किमे- तदिति चिन्तयन् ॥ ऊर्ध्वाननो विवृत्ताक्षः सधैर्यमवतिष्ठति । रथे- भहयपादातैर्निबिडं भीकरं महत् ॥ परिवार्य हरिश्चन्द्रं नृपमक्षौहिणी- बलं । हस्त्यश्वरथपादातसंबाधं सागरोपमम् ॥३५॥ विष्वगायत माश्चर्य संक्षुभ्यत्सागरोपमम् । म दृष्ट्वा विस्मितमनाः आका- शादिदमागतम् ॥ किमेतत्किमियं माया कि चित्तभ्रमणं मम । इति चिन्तयतस्तस्य विचित्रं समदृश्यत ।। दिव्यप्रसूनवर्ष च देवगन्धर्व- वर्षितम् । तत्पुष्पवर्षमध्यस्थमपश्यञ्च योगिनम् ॥ विद्युत्पिङ्ग- जटाजूटं त्रिपुण्ड्रोद्भासिताननम् । दक्षिणांसलसद्दण्डं साक्षमालकमण्ड- लुम् ॥ भसितोद्भासिसर्वाङ्गं शुभ्रयज्ञोपवीतिनम् । कृष्णाजिनोत्तरा- ४४ हरिश्चन्द्रोपाख्यानम्। [अ०. १६. सङ्गमुदितादित्यसन्निभम्॥४०॥ पुण्डरीकदलाभासं सन्ध्यातपनिभा- शुकम् । पृष्ठसंबद्धतूणीरशरकार्मुकभीकरम् ॥ एकतो ब्राह्मणाकोऽयं एकतः क्षत्रलांछनः । अपूर्वमिदाश्चर्य कोऽयं मे दर्शनातिथिः ।। इति विस्मयमानं तं विस्मयानिमिषेक्षणम् । अंबरे कालमेघस्थ इदं वचनमब्रवीत् ॥ दीयतां दक्षिणा राजन् या त्वयोक्ता पुरा मम । बहुसौवर्णके यागे तत्र कि समुपार्जितम् ।। शक्तिस्ते नास्तिचेद्राजन् कुरुष्व वचनं मम । राज्येन सह वित्तेन गृहाण मम कन्यके ॥४५॥ उभयोस्त्वमशक्तश्चेत्पतिष्यस्यघवारिधौ । महता नृप दोषेन याव- दिन्द्राश्चतुर्दश ॥ हरिश्चन्द्र उवाच-अहं स्वप्मेऽपि विप्रेन्द्र नानृतं वक्तुमुत्सहे। जन्मान्तरशतेनापि किपुनस्त्वत्रजन्मनि । कुर्वन्तु तव पुत्रास्ते चण्डाल्योः पाणिसंग्रहं । ते च पुत्थ्यौ तवाहं च न सरामि वदामि च ॥ मार्कण्डेय उवाच- एवमुक्तो नृपेन्द्रेण भूयस्सकुशि- कात्मजः। क्रोधरक्तान्तनयन इदं वचनमब्रवीत् ॥ त्रीण्येवाहानि शिष्टानि मासस्यास्य वृथामते । ऊर्ध्व दिनत्रयान्नाहं गृह्णामि ऋतु- दक्षिणां ॥५०॥ हरिश्चन्द्र उवाच-इतस्तृतीयदिवसे पूर्णा दास्यामि दक्षिणां। भानोरस्तमयात्पूर्व सत्येनाहं शपामि ते ॥ ददामि हस्ते शिष्यस्य तव नक्षत्रकस्य च । सत्यमेवपुरस्कृत्य मुने भवदनुग्रहात् ।। यथोदितं प्रदास्यामि सुवर्णमणिविद्रुमम् । शतं सहस्रं लक्षं वा गृह्णातु तव शिष्यकः॥ मार्कण्डेय उवाच- इत्युक्तस्समुनिस्तेन स्फुरमाणोष्ठ- संपुटः । पुनरूचे महीशेशं नाहं त्रिंशदिनात्परं ।। सवितयुदिते किंचित् प्रतिगृह्णामि दक्षिणां । ततः परं भवान् लोके मृषावादी भविष्यति ५५॥ इत्थमावेद्य राजानं पुनः शिष्यमुवाच ह। श्रुणु नक्षत्र राजानं याचख मम दक्षिणां । दिनत्रयमहोरात्रं निस्त्रपस्त्वं दिने दिने । मार्कण्डेय उवाच- एवमुक्त्वा ततः शीघ्रं पश्यतः कौशिकस्ततः। तिरोदधे नृपस्यास्य ससैन्योऽद्भुतविक्रमः ॥५७।। इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने षोडशोऽध्यायः॥
अ०.१७.] हरिश्चन्द्रोपाख्यानम् । ४५ सप्तदशोऽध्यायः॥१७॥ मार्कण्डेय उवाच-ततोऽपराण्हे संप्राप्ते मन्दत्विषि दिवाकरे। अनुगम्यमानः पुत्रेण जायया मन्त्रिणा पुरीम् ॥ वाराणसी नृपश्रेष्ठ मोक्षनिश्रेणिकां ययौ। अथ प्रयान्तमालोक्य हृदये धर्मनन्दन ।। विघ्नं चकार मँगवानानयी धारणां स्मरन् । मूलाधारगतं वहि वायुभ्यां समुदीर्य च ।। ध्यात्वा विराजमात्मानमश्रियाशनमञ्जसा। खयं वैश्वानरो भूत्वा ध्यानेनात्मानमात्मनि ॥ प्रादुरासीत्ततःशीघ्रं भगवान् हव्यवाहनः । परिवेष्ट्य च राजानं समन्ताद्योजनत्रयम् ॥५॥ ज्वालाजिह्वो लेलिहानस्तरुगुल्मलतावलि । दहन्मृगान्पक्षिणश्च धूम्रज्वालास्फुलिङ्गकैः ॥ खेचराः प्रपतन्त्यनौ धूमज्वालाष्मताडिताः। सिंहव्याघ्रवराहाश्च सारङ्गाश्च तरक्षवः।। वृकवञ्चकभल्लूकाः राजानं पर्युपस्थिताः । राजा पत्नी सुतो मन्त्री धूमरुद्वेक्षणा भृशम् ।। मार्कण्डेय उवाच-दह्यमाने वने तस्मिन्सालतालादिभूरुहे । स दृष्ट्वा पृथिवी- पालो महादावं समुत्थितं ।। आहयोशीनरसुतामिदं वचनमब्रवीत् । पश्यसि त्वं वरारोहे महादावं समुत्थितं ॥१०॥ अस्माकं का गतिर्लोके क यास्यामः कुतो वयं । कुत्र स्थितानि मित्राणि कुतो मे स्नेहबान्धवाः।। कुतो मे राज्यसंपत्तिः कुतो मे द्रव्यसंचयः। ऋणिनो मे गतिः का नु लोकयोरुभयोरपि ॥ जन्मान्तरशतोपात्तं पश्य मे पापसंचयं । बुद्धि कथय मे देवि गति दुःखविमोचनी । युगधर्मविदो विप्रा युगधर्म वदन्ति हि । सम्यक् प्रवृत्तस्य मम कार्यविना भवन्ति हि ॥ साध्वी योषा सदा देवि भोजनाच्छादनादिभिः। भ्रियते हि यदा भर्ना सा भार्येत्युच्यते बुधैः ॥१५॥ भार्यायां दह्यमानायमशक्तो रक्षितुं प्रिये । कथं भर्ता भवेयं ते लोको मां किन्नु वक्ष्यति॥ दह्यमानां कथं पश्ये प्राणेभ्योऽपि गरीयसीं । पुत्रं च मे कथं पश्ये दह्यमान- मनाथवत् ।। आत्मानं नानुशोचामि न पत्नी तनयं न च । अनुरक्तं च दक्षं च सत्यकीर्ति महामतिं ।। अनुशोचामि भद्रं ते मम प्राणसमं हरिश्चन्द्रोपाख्यानम् । [अ०. १७. गतम् । ज्वालावितानितनभाः धूमव्याप्तदिगन्तरः।। कालयानो वन मर्व सर्वसत्वक्षयंकरः। कृष्णवा समायाति समीपं मे झटित्यहो। ऋणिनो मे गतिः का नु ऋणं पापफलं महत् ।।२०। चन्द्रवत्युवाच- न कश्चित्कस्यचिन्मन्त्री न कश्चित्कस्यचित्सुहृत् । न कश्चित्कस्य चिद्वन्धु कश्चित्कस्यचित्सखा ॥ विदेशः कः परोदेशः स्वदेशः कस्य को नृप । कर्म मित्रं कर्म सुहृत्कर्म संबन्धिबान्धवाः ॥ कर्मदाया दवान्लोको खकर्म सुखदुःखवान् । करोति सर्वमीशानः प्राणिकर्म फलोदयः ॥ ईश्वरस्सर्वभूतानां हृद्देशेषु व्यवस्थितः। भ्रामयशेष भूतानि यन्त्रारूढानि मायया ॥ मा विषादं महाराज कुरु वीर कदाचन ॥ सामान्यमरणाः सर्वे ब्रह्मादिमशकान्तकाः। विद्वानेवं महाप्राज्ञो न शोचति महामतिः ॥२५॥ मार्कण्डेय उवाच- अथ धूमेन महता ज्वालया च तदा नृप। अर्दिताः विह्वलास्सर्वे प्रजानन्ति न कि- चन ॥ सधूमैस्सहसार्चिभिर्दह्यमाना इतस्ततः। कतिष्ठामः क या- स्यामः इत्यशोचन्मुहुर्मुहुः॥ तदा प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च । बाष्पपर्याकुला देवी भर्तारमिदमब्रवीत् ।। चन्द्रवत्युवाच- शृणु विज्ञापनं भूप मम मा विक्लवो भव । भवान् धैर्यधनो भूत्वा ज्ञात्वा लोकभवाभवौ । मरणं यस्य यत्काले विहितं पूर्वकर्मणा । अवश्य- मेव गन्तव्यं तत्र सत्येन निश्चितं ॥३०॥ तसादहं हितं वच्मि लोक- योरुभयोरपि । आज्ञा मे दीयतामद्य सत्यलोकप्रदायिनी ॥ भर्तु- राज्ञां पुरस्कृत्य हरिद्रांजनलेपना। म्रियते भर्तुरग्रे या तक्रार्याप्यन्य- जन्मनि ॥ त्वदने मरणं श्रेयो मम मांगल्यनायक । देहि त्वं मरणा- नुज्ञां यदि मे त्वं प्रियंकरः ॥ क्षणिकं चापि वैधव्यं स्त्रीणां नरक- मिष्यते । न सोढव्यं च वैधव्यं विधवेति वचोऽशुभं ॥ दह्यमानम- शक्ताऽस्मि वीक्षितुं त्वां नरेश्वर। अहमेव पतिष्यामि ज्वलिते हव्य- वाहने॥३५॥ त्वद्धताज्याहुतिरिव वसोधीरेव चाध्वरे। प्राग्जन्म- शतसाहस्रतपसा तत्तु लभ्यते । महद्धि मरणं स्त्रीणां भर्तुरने ममेश्वर ।।
अ०. १८.] हरिश्चन्द्रोपाख्यानम् । ४७ मार्कण्डेय उवाच- इति राशीवचःश्रुत्वा हरिश्चन्द्रो दयार्णवः । निश्चेष्टः स्थाणुवत्तस्थौ क्षुभितेन्द्रियमानसः ॥ हरिश्चन्द्र उवाच- भर्तृत्वं भरणात्पत्युः पतित्वं परिपालनात् । द्वाभ्यां हीनस्य मे राशि जीवितं च निरर्थकम् ॥ अपि कीटपतङ्गानां मृगादीनांच शोभने । स्त्रियो रक्ष्याश्च पोष्याश्च तन्मैवं वक्तुमर्हसि ॥ चन्द्रवत्युवाच अनयोर्मम वा मृत्युस्तव वानु भविष्यति। इत्यहं नाभिजानामि कालस्य कुटिलागतिः॥४०॥ मरणं भवतस्तावदैवाद्यदि समागतं। त्वया विना क्षणमपि नाहं जीवितुमुत्सहे ॥ निमेषमपि वैधव्यमहं सोढुं नहि क्षमा। अतस्त्वदने मे देहं निक्षेपिण्ये हुताशने। जन्मन्यागा- मिनि नृप भवदीयं भविष्यति ॥ हरिश्चन्द्र उवाच सर्वेषामाश्र- माणां च गृहस्थो गतिरुच्यते । आधारभूता तस्य स्त्री तस्मात्त्वं गति- रुत्तमा ॥ भार्यामित्रं गृहस्थस्य हीत्याहुर्ब्रह्मवादिनः। तदशक्तस्य भवती रक्षितुं हव्यवाहनात् ॥ जीवितान्मरणं श्रेयो न मृतो रक्षितुं क्षमः । रक्षितुं त्वामशक्तोऽहं निक्षेपिष्ये कलेवरं । पुत्रस्य माता त्वं तिष्ठ माता पुत्रस्य सद्गतिः ॥४५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने सप्तदशोऽध्यायः॥ अष्टादशोऽध्यायः॥१८॥ चन्द्रवत्युवाच- अयुक्तमेतद्राजेन्द्र लोकवृत्तिर्विचार्यताम् । सदा सर्वजनस्यास्य सेतुरूपेण वर्तसे ॥ द्वौ भागौ पुरुषस्यैतौ स्त्रियः पुंसश्च तो समौ । स्त्री पुंसो वामभागस्स्यात् पुमान् दक्षिणभागकः ॥ तत्र वीर्य पुरस्कृत्य द्वौ भागौ पुरुषो रणे । प्रवर्तते महाराज स च न्यायो न लंधितः ।। मृतं स्त्री पतिमन्वेति नानुगच्छेत्पतिस्त्रि- यम् । तस्मान्ममैव मरणं श्रेयस्ते पुरतो नृप ॥ मार्कण्डेय उवाच- पुत्रः पित्रोर्वचः श्रुत्वा क्लेशशोकाक्षरान्वितम् । उवाच पितरं श्लक्ष्णं वाक्यमुजीवयभिव ॥५॥ लोहिताश्व उवाच-- पितरौ रक्षतःपुत्रं ४८ हरिश्चन्द्रोपाख्यानम् । [अ०. १८. बालं रक्षति तौ सुतः। प्रवृद्धो वार्धके भावे परलोकेऽपि तौ सुतः ।। अतस्त्वदग्रे मे देहन्यामो भवतु पावके । पुत्रस्य मरणं पित्रोः रक्षार्थ मुक्तिदं स्मृतम् ॥ तस्माद्युष्मद्रक्षणार्थ देहं निक्षिप्य पावके। ब्रह्मणः सदनं यामि त्वत्पादाब्जनिषेवणात् ।। मार्कण्डेय उवाच-तदैवं विवद- स्वेषु सत्यकीर्ति महामतिम् । तं मर्तुकामं विज्ञाय विकारेङ्गितचे- ष्टितैः। शपथेनात्मनो राजा प्रत्यषेधन्महामतिः ।। मार्कण्डेय उवाच- एतस्मिन्नन्तरे देवी भर्तारं सा पतिव्रता । प्रदक्षिणमुपावृत्त्य विहि- ताञ्जलिरब्रवीत् ॥१०॥ यदि दत्तं यदि हुतं गुरवस्तोषिता यदि । कर्मणा मनसा वाचा पति तोषितो यदि ॥ स्त्रमावस्थाद्यवस्थासु सर्वासु च मया यदि । यदि देवाःप्रसन्ना मे मुनयस्ताषिता यदि ॥ हरिश्चन्द्रो हि मे भर्ता भवेजन्मनि जन्मनि । परोपकारशीलस्तु प्राणे- रपि धनैरपि ॥ इत्थं त्रिशंकुजो राजा जन्मायुतशतेष्वपि । सत्य- वांश्च दयावांश्च सर्वलोकहिते रतः ॥ इति सप्रार्थ्य देवशं बवा परिकरं दृढम् । कृताञ्जलिपुटा भूत्वा स्मरन्ती पतिमात्मनः ॥१५॥ शीतं हृदं यथा मत्सी प्रविवेश हुताशनम् । आज्याहुतिरिव क्षिप्रं विरराज हुताशने ॥ तत्पातिव्रत्यतिग्मांशोः सहस्राधिकतेजसः । प्रशशाम दवाग्निस्सः तेजोरुस्पर्धितेजसः॥पातिव्रत्य महातेजः प्रल- यानलसन्निभम् । अत्यरिच्यत दावाग्निमर्कतेज इवानलम् ॥ दावाग्नी प्रमृता ये च मृगपक्षिसस्पिाः। मक्षिका मशका दंशास्सस्तैस्सह तद्वनम् ॥ पलाशपुष्पस्तबकफलगुच्छसमृद्धिमत् । अभवत्तद्यथा पूर्व सुस्फीतं सर्वतश्शुभम् ॥२०॥ वह्निमन्तर्हितं दृष्ट्वा शीतलं तद्वनं तथा। पातिव्रत्यं महातेजः पातिव्रत्यमहो महो। त्वत्प्रसादाम्महा- देवि मांचितो हव्यवाहनात् । गच्छामस्तां पुरी काशी विश्वनाथ- परिग्रहाम् ॥ मृतानां यत्र जन्तूनां साक्षाद्विश्वेश्वरो हरः । सोमस्त रति कर्णेषु तारकं भवतारकम् । इत्युक्ता पतिना साध्वी दण्डवत्प्राण- पत्य च । विनयावनता भूत्वा भर्तारमिदमब्रवीत् ।। चन्द्रवत्युवाच- अ०.१८.] हरिश्चन्द्रोपाख्यानम् । ४९ वक्तव्यमित्थं किं भूप तारितोऽहं त्वयेति ह । किं सामर्थ्य स्त्रियो लोके किंकर्यास्ते नरेश्वर ॥२५॥ भर्तुराज्ञावशायाश्च सर्व तत्पत्युरेव च। या पूज्यमाना पतिना स्तूयमाना च गर्विता ॥ सा जायते मृता भूमौ चण्डालश्रेणिसूकरी । तन्नाहं भवता स्तुत्या नोपश्लाघ्या कदाचन ॥ जगत्सृष्ट्यादिसामर्थ्य विद्यते हि स्त्रियो यदि । तद्वतः पादशुश्रूषा वैभवं नान्यदेव हि ॥ स्ववशे पतितं नारी रूपसामर्थ्य- गर्विता । करोति या सा राजेन्द्र चण्डालश्रेणिस्करी ॥ तद्भवत्पाद- शुश्रूषा संप्राप्ताऽशेषवैभवा । नोपश्लाघ्या यतो दासी भवदुच्छिष्ट- सेविनी ॥३०॥ मार्कण्डेय उवाच- निशम्येति वचस्तस्यास्समा- लिङ्गथ त्रिशंकुजः। आशीभिर्वर्धयित्वा तां समाश्वासयदच्युतः ।। तद्वनादथ निर्गत्य स राजा धर्मनन्दन । स्त्रीपुत्रमन्त्रिसहितो विश्वनाथ- प्रियां पुरीम् ।। दृष्ट्वा प्रमोदभरितो दानवारिसमो बले । अवाप परमां प्रीति सर्वाशुभविनाशिनीम् ॥ अपश्यत्परमप्रीतः तां पुरी सुमनोहरां । प्राकाराट्टालसंयुक्तां रथ्यापणसुचत्वरां ॥ राजमार्गेण महता विस्तीर्णेन विराजितां। समाधिपूजनायुक्तैर्वेदवदाङ्गपारगैः ॥३५॥ योग ववश्यैश्च कामक्रोधविवर्जितैः। अत्यक्तस्वाश्रमाचारगृहस्थै- ब्रह्मचारिभिः॥ वानप्रस्थैर्यतीनैश्चाप्यग्निहोत्रपरायणैः। शौर्यादि- गुणसंपन्नैब्रह्मण्यैब्रह्मवत्सलैः॥ वदान्यः क्षत्रियेश्चैव सर्वक्रतुषु दीक्षितैः। वैश्यैस्वकर्मसंयुक्तैश्शूद्रैश्शुश्रूषणे रतैः ॥ स्त्रीभिश्च पुरुषै- चैव रूपलावण्यशालिभिः। गोभिरश्वेगजैरुष्ट्रेस्सदा संभावितां शुभां॥ आम्रादिसुवनोपेतां पुष्पारामसुगंधिनी। सनारिकेलकदलीं पूगी- वनपरिष्कृतां ॥४०॥ वापीकूपतटाकैश्च सरोनदनदीहदैः। मत्स्य- कासारकेदारैः कुमुदोत्पलमंडितैः॥ पभेदीवरकल्हारजलजादिपरि- प्कृतैः । हंससारसकोयष्टिदात्यूहवरटाह्वयैः ॥ सारिकाशुकसारङ्गः कोकिलैर्जालपादकैः। कोयष्टिकैः टिट्टिमकैजलवायसकुक्कुटैः ॥ जलजैःस्थलजैरन्यः पक्षिभिश्च समाकुलैः । हृष्टपुष्टप्रमुदितैः परमा- 7-H.
५० हरिश्चन्द्रोपाख्यानम् । [अ०. १८. नन्दनिर्भरैः ॥ चन्द्रशेखरपादाब्जस्मरणस्तुतिपूजकैः । स्त्रीबालयु- ववृद्धैश्च भूषणांबरलेपनैः ॥४५॥ शिवसारूप्यसालोक्यसायुज्येश्व- भिकांक्षिभिः । योगिभिर्मुनिभिस्सिद्धैरत्यन्तं तत्वकोविदः ।। सौ- वफ्रजतैश्चैव स्फटिकैश्चन्द्रकैस्तथा। नवरत्नमयैश्शुभैश्शिलावालुक- निर्मितैः ॥ विट्ठमैस्सूर्यकांतैश्च कांस्यलोहविनिर्मितैः । पारदैखपुसी- सैश्च यज्ञवृक्षविनिर्मितैः ॥ साङ्गायुधैस्सवाहैश्च सशक्तिपरिवारकैः । सर्वानुलेपमाल्यैश्च सर्वावरविभूषितैः ॥ सुविशालालयैश्शुभैस्स्वर्ण- प्राकारतोरणैः। गोपुराट्टालशृङ्गैश्च प्राकारैश्चैव संस्थितैः ॥५०॥ पुष्पारामद्रुमारामपरीतैः परितो दिशम् । येषां स्मृत्या कीर्तनेन चतु- वर्गफलप्रदेः । प्रतिमा शिवलिङ्गैश्च निरन्तरसमर्चितैः । एतैर्मनो- हरैरन्यैरद्भुतैरतिशोभिताम् ॥ ते दृष्ट्वा तां पुरी रम्यां मनोनयन- नन्दिनीम् । प्रमोदं परमं प्रापुश्चत्वारस्त महौजसः । ते पुरस्तात्प्रव- हती गङ्गां देवर्षिसेविताम् । सर्वदेवकृतावासां सेवकाघौघनाशिनीम् ।। भगीरथस्य सत्कीर्ति वर्धयंती स्वतेजसा । सीमन्तभूतां भूदेव्याः शूलिमौलिविहारिणीम् ॥५५।। अकामानां सकामानां स्मरतां निर्म- लात्मनाम् । तनुत्यजां स्वके तीरे मुक्ति पञ्चविधां नृणाम् ।। प्रयच्छन्ती ययुर्मोदं दृष्ट्वा गङ्गां सरिद्वराम् । यथाश्रद्धं यथाकामं तर्पयित्वा सुरोत्तमान् ॥ जप्त्वा च वैदिकान् मत्रान् नम- स्कृत्य दिवाकरम् । संपूज्य गङ्गां राजेन्द्रः प्राविशच्छम्भुमन्दिरम् ।। आगमोक्तेन विधिना समाराध्याम्बिकापतिम् । प्रदक्षिणं परि- क्रम्य स्तुत्वा नत्वा प्रसाद्य च ॥ स्वाभीप्सितं च संप्रार्थ्य ध्यात्वा चैक्येन वाक्पतिम् । ततो निर्गत्य तां सर्वां पुरी- मालोक्य सर्वतः॥६०॥ सायं सन्ध्यामुपास्याथ जप्त्वा हुत- हुताशनाः। विश्वनाथालये रात्री जागरश्च प्रचक्रिरे ॥ व्युष्टा- यामयशर्वर्या दृष्ट्वा सूर्योदयं पुनः । प्रतप्यते महीपालो विचार्य मुनिदक्षिणाम् ॥ तेषां निवसतां तत्र मासोऽगाद्विदिनं विना । - अ०. १८.] हरिश्चन्द्रोपाख्यानम् । एकोनत्रिंशे संप्राप्ते वासरे ते महापुरीम् । आलोकयन्तः सर्वत्र चेरुस्ते वीथिवीथिशः ॥६३॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने अष्टादशोऽध्यायः एकोनविंशोऽध्यायः ॥१९॥ मार्कण्डेय उवाच- एतस्मिन्नन्तरे राजन् ब्राह्मणो विभवा- न्वितः । सुवर्णभारमासज्य स्कन्धे साधं द्विजोत्तमैः ॥ अतिस्थूल- प्रमाणश्च प्रहतस्वर्णभारकः । व्रजतां पुरतस्तेषां प्रादृश्यत महापथे। ततश्चन्द्रवती दृष्ट्वा धनाढ्यं धनवाहकम् । उवाच श्लक्ष्णया वाचा भर्तारमतिमानिनम् ।। त्रयाणामपि वर्णानां पिता ब्रामण उच्यते । पितद्रव्यं हि पुत्रेण गृहीतव्यं न संशयः ॥ तालजंघो महाराजः भार्गवाणां पुरा धनम् । याचयित्वा गृहीत्वा च राज्यस्थश्चाभव- त्किल ॥५॥ तस्मात्त्वमपि राजेन्द्र याचयस्व महाधनम् । नूनं दास्यत्यसौ विप्रो विज्ञप्तव्यं त्वया द्विजे ॥ आपद्यपि महत्यां च ब्राह्मणेभ्यो हि भूपतिः। लब्ध्वा धनं समुत्तीर्य स्वापच्चस्तान् पुन- यजेत् ॥ इति श्रुतं मया पूर्व ब्राह्मणेभ्योऽथ भूमिप । याचिते न भवेत्पापं तद्याचय धनं द्विजात् ॥ मार्कण्डेय उवाच- इति पली- वचः श्रुन्या विपशुचितमात्मवान् । अन्वगच्छद्विजवरं पत्नीमित्यू- विवानृपः ॥ हरिश्चन्द्र उवाच- कि कि ब्रूहि पुन—हि श्रुतं सम्पन्न- या नहि । न भेतव्यं त्वया राज्ञि पुनःसम्यक् वदस्व मे ॥१०॥ पुन- स्साकथयामास पूर्वमुक्तं पुनःपुनः। प्रणम्य सान्त्वयित्वैनं कृता- अलिपरिग्रहा ॥ यथाकालानुवर्तीस्याः दैवारोपितपौरुषः। दैवमेवा- नुवर्तख यथाकालं यथावलम् ॥ दैवं करोति राजानं दातारं भिक्षुकं नरम् । कर्तारं स्वामिनं भृत्यं पूज्यं वाग्मिनमेव च ॥ पुनस्तमेव कुरुते दासं याचकमेव च । मूढं बधिरमुन्मत्तं सेवकं जडमेव च ॥ अवाग्मिनं च मूर्ख च विरूपं विकलेन्द्रियम् । दत्वा याचन्ति पुरुषाः हत्वा हन्यन्त एवहि ॥१५॥ पातयित्वाऽथ पात्यन्ते नरा भाग्यविप- ५२ हरिश्चन्द्रोपाख्यानम्। [अ०. १९. यये। स्थितं पूर्व जलं यत्र तत्र तिष्ठेत्पुनर्जलम् । तथैव मानवाः पुष्टाः- रिक्ताः पुष्टा भवन्ति हि । तथा भवानद्यरिक्तः पुनः पुष्टो भविष्यसि ॥ प्रतिगृह्य धनं विप्रात् दत्वा कौशिकदक्षिणाम् । अनृणो भव राजेन्द्र दैवाच्छ्रीमान् भविष्यसि ॥ हरिश्चन्द्र उवाच- नाहं प्रति- ग्रहधनो याचमान इव द्विजः। नोत्तानीकृतहस्तोऽहं दातुः स्वर्ग प्रद- शयन् ।। अवाकरोऽहं सुश्रोणि गृहीतुर्दुर्गति ददन् । षद्कर्मिणो ब्राह्म- पाहि क्षत्रियाश्च त्रिकर्मिणः ॥२०॥ यजनं याजनं चैवाध्यापनाध्य- यने तथा । दानं प्रतिग्रहश्चैव षट्कर्म ब्राह्मणे स्मृतम् ॥ दानमध्य- यनं चैव यजनं विहितं नृपे । देहीति व्यक्षरं विप्रे ददामीति सुलो- चने ।। त्र्यक्षरं पार्थिवे नित्यमिति ब्रह्मविनिर्मितम् । रसभोज्यानभु- विप्रो रक्तमिश्रानभुङ्नृपः ॥ पौरोहित्येन विप्रेण प्रवृद्वे क्षत्रिये धने । अनुग्रहपरो विप्रः क्षत्रियः पालकः स्मृतः ।। गृहीता ब्राह्मणः क्षत्रादाता विप्राय पार्थिवः । नाहं प्रसारये हस्तं देहीति वचनं वदन् ॥२५॥ दर्शयन् दन्तपति चाप्येरण्डदलवच्छुभे । यजना- ध्ययने दानं शौर्य तेजः पराक्रमः ॥ धैर्य दाक्ष्यं पालनं च युद्धे चाप्यपलायनम् । शरणागतानामभयं चोरदुष्टविमर्दनम् ॥ एतानि क्षत्रधर्माणि नचैवोक्तः परिग्रहः। न मे जिह्वा प्रसरति देहीति वचनं प्रति ॥ ददामीत्येव मे देवि हृदि वाचि च तिष्ठति । मानसं मम सत्पात्रे रसनायां ददामि च ॥ हस्ते वारि धनं भद्रे कथं हस्तं प्रसारये । याचित्वा ब्राह्मणद्रव्यं ब्राह्मणाय ददाति यः ॥३०॥ दातुर्दानफलं नास्ति यस्यार्थस्तस्य तत्फलम् । खात्वा गर्ने समे देशे निम्नं पूरयतोऽशुभम् ॥ खात्वोन्नतं च विषमं निम्नं पूरयतः शुभम्। तगृहीत्वा द्विजद्रव्यं नाहं दमि द्विजाय हि ॥ चन्द्रवत्युवाच- भवान्परवशो राजन् कालस्य वशगो हि भोः। करोति कालः पुरुषं दातारं चार्थयाचकम् ॥ कर्मिणं येन मार्गेण वर्तते च तदन्वयः । काले चारोपितोद्योगः कालारोपितपौरुषः ॥ यया कयाचिद्विधया - अ०.२०.] हरिश्चन्द्रोपाख्यानम् । ५३ बहनं प्राप्नुयानरः। रिक्तताऽरिक्तता चोभे दिवारात्रिसमे नृप । पुरुष प्रतिपद्यते नोत्सुको न च सन्तपेत् ॥३५॥ हरिश्चन्द्र उवाच- असिना तीक्ष्णधारेण जिह्वाच्छेदो द्विधा वर. । देहीति वचनं नोक्त्वा दातारमभिवीक्ष्य च ॥ किंचात्मनः परित्यागो वरो देहीति याचनात् । विश्वस्तं यन्मया सत्यं धर्मश्च परमोऽबले। अस्मादिनद्वयादन्तस्तौ दद्यातां धनं मम | चन्द्रवत्युवाच- एवं चेत्संमतं सत्यमितोऽन्यद्वचनं शृणु । तथ्यं हितं च पथ्यं च लोक- योरुभयोरपि ॥ राजन्विक्रीय मां क्वापि गुर्वर्थः संप्रदीयताम् । लोहिताश्वं च ते पुत्रमात्मानं महतो ऋणात् ॥३९॥ इतिश्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने एकोनविशोऽध्यायः विशोऽध्यायः ॥२०॥ मार्कण्डेय उवाच- श्रुत्वैतद्वचनं पत्न्याः श्रुत्याचारसम- न्वितम् । मूर्छापरिप्लुतो राजा पपात धरणीतले ॥ आश्वासितस्तदा राजा भार्ययाँच सुतेन च । शीतोपचारैर्वचनैः परमार्थार्थसंयुतैः ।। संत्यज्यतां विषादोऽयं ज्ञात्वा कालं 'बलोत्तरम् कालयुक्तं कुरुष्वार्य समीपस्थं ऋणं महत् ।। हरिश्चन्द्र उवाच-विक्रीय भवती भद्रे गतिः का नु भवेन्मम । भार्याधीनौ गृहस्थस्य वर्गमोक्षौ न संशयः॥ पुत्रानो नरकाचातुः पुत्रस्यैव हि पुत्रता । पुत्रेण लोकान् जयति श्रुतिरेषा सनातनी॥५॥ विक्रीय तं च पुत्रं मे कुतो लोकाः शुभा मम । मौर्या- विक्रयिणो लोकाः पुत्रविक्रयिणस्तथा । नरकाणि प्रपद्यन्ते यावदि- न्द्राश्चतुर्दश। कीर्तिर्मित्राणि वित्तं च भार्याबन्धुर्गृहे सतः ॥ भार्यैव- श्रीगुहस्थस्य भार्या गौरी सरस्वती। सर्व भार्या गृहस्थस्य भार्याहीनः पुमान् मृतः ॥ भार्याहीनः पुमान् लोके सर्वसत्कर्मगर्हितः। अभा- यस्य सुखं शून्यमभार्यः सर्वतःपशुः॥ अपुत्रस्य गृहं शून्यमपुत्रस्य कुलं मलम् । अपुत्रस्य कुतो लोकाः अपुत्रस्य कुतः प्रियम् ॥१०॥ अभार्याय न दातव्यं नापुत्राय कदाचन। अपुत्रमार्यो लोकेऽस्मिन् ५४ हरिश्चन्द्रोपाख्यानम् । [अ०.२०. चिताकाष्ठो निराश्रमी । विक्रेष्यामि कथं भद्रे त्वामहं वरवर्णिनीम् ।। चन्द्रवत्युवाच- विक्रेतुर्नरकोभार्या द्यूतार्थ नृपसत्तम । न द्यूत- हेतोनच पानहतोनराज्यहेतोर्न च कामहेतोः। विक्रीयसे मां नरदेवदेव मत्यप्रतिज्ञापरिपालनाय । विक्रीय मां स्थापय सत्यधर्मी सुतं च चावां सदने मुरारेः। त्वां मोचयित्वा महतो ऋणाब्धेसद्वाह्य यज्ञैर्यज देव- राजम् ॥ मार्कण्डेय उवाच- मनस्याधाय तद्वाक्यं भूताविष्ट इवा- भवत् । स्थाणुपाषाणवद्राजा निश्चलोऽनिमिषक्षणः ॥ अथाश्वस्तो मुहूर्तेन दीर्घमुष्णं विनिश्वसन् । अन्तर्मनसि हुंकृत्य दुनोति मनसा विधिम् ।।१५।। अहमेवंविधं पापं पूर्वजन्मन्यकारिषम् । अपराधो मया सृष्टैः ततः क्लेशयसे हि माम् ।। मार्कण्डेय उवाच- सीदमान- मिमं भूपमुपेत्यावोचदात्मजः । लोहिताश्वः सांत्वयित्वा पितरं पित- भक्तिमान् ॥ विक्रीणीष्व सुतं भार्या त्वदीयद्रव्यमेव नौ। कः क्लेशस्ते काऽनुचिन्ता त्वदीयद्रव्यविक्रये ।। ब्रह्मद्रव्यं ऋणं घोरं किमर्थ त्वयि तिष्ठति । आरुहद्विषसङ्काशमहिदष्टविषं यथा ॥ अदातुस्तेत्वेकदिनं मासस्यास्यावशेषितम् । तदन्तरे च दातव्या विश्वामित्रस्य दक्षिणा ।।२०॥ मार्कण्डेय उवाच- एवमुक्तस्स पुत्रेण भार्यया च विधेर्बलात् । अवतार्य सुतं पत्नी स राजा पाण्डु- नन्दन । उच्चैरुद्धोषयामास विक्रीणामि स्त्रियं सुतम् । स्वपत्नीमौर- सं चैव वाञ्छा चेत्प्रतिगृह्यताम् ।। तं शब्दं सहसा श्रुत्वा नाम्नाऽसौ कालकौशिकः । अहं गृह्णामि दारांस्ते दासार्थ भवतः सुतम् । कथय- स्वोभयोर्मूल्यं निश्चितं मम कथ्यताम् ॥ हरिश्चन्द्र उवाच-क्रीणामि ब्रह्मणे पत्नी क्षत्रियस्य सुतं तथा । मन्वादिस्मृतिसंप्रोक्तं मूल्यं मे दीयतां द्विज ॥ कालकौशिक उवाच-स्वयमेव भवान् बहि शास्त्रोक्तं मूल्यमुत्तमम् । त्वत्कल्पितं प्रमाण में सत्यं सर्वेषु शोभनम् ॥२५।। हरिश्चन्द्र उवाच- क्षत्रस्त्री पश्चशतिका विप्रार्थ निष्कसङ्ख्यया । क्षात्रः सहस्रसङ्ख्याक इति शास्त्रविदो विदुः॥ कालकौशिक उवाच- अ०.२०.] हरिश्चन्द्रोपाख्यानम् । स्मृत्युक्तमुदितं मूल्यमहं दास्यामि ते नृप | गृहीत्वा पुत्रदारान्मे दासीदासार्थमर्पय ॥ हरिश्चन्द्रस्तदादाय मूल्यं विप्रसमर्पितम् । गृही त्वा दक्षिणं हस्तं पुत्रं विप्रकरेऽर्पयत्।। उशीनरसुतायाश्च केशं विप्र- करऽर्पयत् । तावुभौ दक्षिणाहस्तं प्रणामं चक्रतुर्नुपम् ।। पाशेन बद्धा तां पृष्ठे लोहिताश्वं च पृष्ठतः। नंतुमैच्छत्पाशपाणिः कौशिक कालपूर्वकः ॥३०॥ तावत्प्रदक्षिणीकृत्य ततश्चन्द्रवती नृपम् । दण्डव- प्रणिपत्याह भर्तारं विनताननम् ।। पिता माता सुता भ्राता भर्ता जन्मनि जन्मनि । सुलभा राजशार्दूल मोक्षसोपानपद्धती ॥ सत्यधर्मी न सुलभौ तन्न शोचस्व मत्कृते । त्वदने मरणं वा मे विक्रयो वा सुतस्य च॥ प्रतिज्ञापालनार्थं ते ह्यावयोर्मुक्तिदं नृप । इत्युक्त्वा पादयोस्तस्य दण्डवत्प्रणिपत्य च ॥ कृताञ्जलिपुटा भूत्वा नत्वा देवान् दिशो ऋषीन् । प्रणिपत्य सवित्रे सा मनसा ध्याय भूपतिम् । बाष्पपर्याकुलं दीनं भर्तारमिदमब्रवीत् ॥३५॥ शृण्वन्तु देवा ऋषयः ससिद्धाः दिशां च नाथाः विदिशां च नाथाः। नभस्सशब्दं सगुणस्स वायुस्तेजस्सरूपं सरसास्तथापः॥ पृथ्वी सगन्धा रविचन्द्रकोच दिवाच रात्रिश्च तथैव सन्ध्ये। भूतानि सर्वाणि चराचराणि स्थूलानि सूक्ष्माणि मम प्रतिज्ञाम् । एकस्य चाहर्मतस्य जाया यद्यस्मि भूतले। निर्दोषबीजक्षे- पाच सत्यधर्मपरायणा ।। दयादाक्षिण्यसौजन्यसयुक्ता सर्वजन्तुषु । पतिजीवा पतिप्राणा पतिधर्मपरायणा ।। प्राणोत्क्रमणकालेऽपि यदि में पतिसंस्मृतिः। कथास्वहं पतिकथा कर्मण्यपि पतिक्रिया ॥४०॥ पतिपादोदकस्नाना पत्युाच्छष्टभुजिक्रिया। यद्यमुष्मिन् जगत्यस्मि सदेवासुरमानुषे॥ सहगन्धर्वयक्षेच भुवने सर्वदेव हि । रूपलावण्य- शीलैश्च शौर्यवीर्यपराक्रमैः॥ परोपकारसौजन्यदाक्षिण्यप्रियवाचनैः। दयया सत्यशौर्याभ्यां सत्वेन च बलेन च ।। ह्रिया श्रिया भिया चैव श्रद्धया च तितिक्षया । औदार्येणच दातृत्वे प्रियभावेच सर्वदा ।। आचारबुद्धिनियमैः प्रियसत्याभिभाषणैः। आर्जवेन च सर्वत्र मृदुपू हरिश्चन्द्रोपाख्यानम् । [अ०.२०. ताश्व उवाच- वाभिभाषणैः॥४५॥ ऐश्वर्येण च संपत्त्या प्रभावोत्साहसाहसैः। प्रजा- सङ्ग्रहणेनैव प्रजासंरञ्जनेन च ॥ निग्रहानुग्रहाभ्यांच शिष्टाशिष्टजनेषु च । धर्मबुद्ध्या च सततं विद्वत्सङ्ग्रहणेषु च ॥ एवमादिभिरन्यैश्च सद्गुणैर्लोकविश्रुतैः। हरिश्चन्द्रमृतेनान्यं स्मरामि च वदामि च ।। न शृणोमि न पश्यामि नालपामि कदाचन । मया दत्तं च यत्किचि- त्पत्यनुज्ञापुरस्सरम् । यदि तप्तं यदि कृत तर्पिता ब्राह्मणा यदि । अनिद्राभोजनरता भर्तृशुश्रूषणे रता ॥५०॥ मया सुतोषिता श्वश्रूः श्वशुरश्च सुतोषितः । अतिथिस्तोषितःकाले*भर्तृवर्गस्सुतोषितः ।। अग्नयस्तोषिताश्चस्युस्सायंप्रातरतन्द्रया । सत्वेनाऽनेन मे देवा भानु- वंशाब्धिचन्द्रमाः ॥ त्रिशंकुहृत्पद्ममित्रो हरिश्चन्द्रः प्रतापवान् । जन्मान्तरसहस्रेषु मम भर्ता भवत्वयम् ॥ विक्रीणातु स्वयं राजा स्वयं- धनतया यतः । हंतु पातु दहत्वेष' स मे भर्ता भविष्यति ॥ लोहि- जन्मान्तरसहस्रेषु हरिश्चन्द्रः पिता मम। तस्य पुत्रो भविष्यामि देवाश्चेति च वादिनौ । पततुः पादयो राज्ञो भक्ति- प्रवणचेतसौ ॥४५॥ मार्कण्डेय उवाच- पादयोःपतितो दृष्ट्वा भार्या- पुत्रौ नृपोत्तमः । हाहा हाहेति हाहेति हन्त हन्त विधे विधे । उद्धृत्य हस्तो प्राक्रोशन्मुक्तकण्ठो महीतल । रराज पतितो राजा रसयाऽऽलि- ङ्गितःप्रिया । मा विषादं कृथा राजन् भूयस्त्वामुपयाम्यहम् ॥ इत्थं तदाऽऽश्वासितोऽपि निश्चैतन्योऽभवन्नृपः । लब्धसंज्ञस्समुत्थाय दृष्ट्वा तौ पाशसंयतौ। विवृतास्यस्ततो राजा विललापोन्नतस्वनम् ॥ वृक्षो यथा निजछायां न जहाति कदाचन। तथैवाहमिमां देवी कदाचिना- त्यजं पराम् ॥ त्यक्त्वा मा वल्लभं देवि कुत्र यासि कुलाङ्गने । का मे गतिःक्क यामामि को मे प्रशमयेच्छुचम् ॥६०॥ राज्यत्यागा- नमे दुःखं वनवासानचोद्विजे । यः पुत्रेण वियोगो मे स मां दहति सांप्रतम् ॥ इक्ष्वाकुवंशसंभूतस्सार्वभौमपदोचितः । दासत्वं प्रापितः पुत्रो मम कुक्षौ न जायताम् ॥ विक्रॉयत्वामहं पुत्र पित्रादीनां कथं अ०. २१.] हरिश्चन्द्रोपाख्यानम् । ५७ भवेत् । अनृणत्वे हि मे लोकाः न सन्ति तव विक्रयात् ॥ इतोप्युपरि मादुखं सागरांभसि मन्जितम् । को मे विनोदयेहुःखं त्वामृते सूनृता- त्मज॥ स्मृतिमात्राञ्जसासिद्ध्या सर्वकार्यस्य सांप्रतम् । अकिंचनस्य पापस्य दैवोपहतसंपदः ॥६५॥ द्रव्येण कार्यमापनं द्रव्यं चापि न मेऽण्वपि । युवां विक्रीय द्रव्यार्थ प्रतिज्ञापालनं कृतम् । दग्ध्वा मल- यजं यद्वत्तदङ्गारैरयःक्रिया ॥ मार्कण्डेय उवाच- इतिप्रलपतस्तस्य पश्यतो राजसत्तम। बध्वा दृढतरं पृष्ठे तो पाशैः कालकौशिकः । ताडयंश्च कशापातैनिनाय स्वगृहं द्विजः ॥६७॥ ॥इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने विंशोऽध्यायः।। एकविंशोऽध्यायः ॥२१॥ युधिष्ठिर उवाच-कोऽयं द्विजो द्विजश्रेष्ठ नाना यः काल- कौशिकः । तेन नीतौ कि कुरुतां मातृपुत्रौ द्विजालये ॥ बहुवर्षस्य यज्ञस्य दक्षिणां दत्तवान् कथम् । कुत्र लब्धं धनं तेन सर्वमेतद्वदख मे ॥ मार्कण्डेय उवाच- श्रृणु राजन्कथां पुण्यां ब्रह्महत्यापहारिणीम् । यस्याःश्रवणमात्रेण हयमेधफलं लभेत् ॥ यः कालकौशिको नाना विश्वामित्रः स एव हि । अभिमानच्युतिर्लोके सर्वप्राणिषु दुःसहा ॥ मानभंगं विधायापि राज्ञा वाचयितुं मृषा। भूत्वा जानपदो विप्रः क्रीत्वाऽस्य महिषी सुतम् ॥५॥ हरिश्चन्द्रस्य चक्रेऽथ दुःसहं दुःखमंज- सा। तथापि नाचलत्सत्यात्सत्यसन्धस्त्रिशंकुजः ॥ अथ नक्षत्र- कः शिष्यः कौशिकस्य महातपाः। श्रावयन् कर्णकटुकं राजानं वचनं रुषा || आगत्यायाचत द्रव्यं यज्ञीयं कौशिकस्य च । ददख दक्षिणां राजन्नधुनैव गुरोर्मम ॥ कौशिकाय पुरा दत्ता यागाय रघुनन्दन । तां ददस्वाधुनैव त्वं यदि सत्यव्रतो भवान् ॥ हरिश्चन्द्र उवाच- अभिवादये त्वां विप्रेन्द्र वर्मणाऽनुगृहाण माम् ' यथावर्णानु. रूपेण ममाशीर्वचनं कुरु ॥१०॥ अभिवाद्येति भूपालो विश्वामित्रस्य तद्धनम् । निधाय पुरतस्तस्य नक्षत्रस्य च दर्शितम् ॥ नक्षत्र ॥ 8-11 हरिश्चन्द्रोपाख्यानम् । [अ०. २१. उवाच-कुतः समार्जितं द्रव्यं त्वया स्वल्पमिदं कथम् । अन्याया- र्जितमेतत्ते न गृह्णाति मुनीश्वरः॥ हरिश्चन्द्र उवाच-धनागमेन घोरेण किं पृष्टेन द्विजोत्तम । शोकस्ते जायते श्रुत्वा गृह्यतामिद- मच्युत ॥ नक्षत्र उवाच-- शिष्योऽहं कौशिकस्येह दया मम न विद्यते । द्रव्यस्यागमनं राजन् कथयस्व यथायथम् ॥ किं शैत्यं विद्यते चाग्नेः किं दया विद्यते मम। गुरोरपि दया नास्ति त्वयि गाधिसुतस्य च ॥१५॥ हरिश्चन्द्र उवाच-स्त्रीपंञ्चशतनिष्कस्य विक्रीता मे द्विजन्मने । लोहिताश्वस्सहस्रण गृहाणेदं मयाऽऽर्जितम् ।। नक्षत्र उवाच- बहुस्वर्णस्य यज्ञस्य नेषा संपूर्णतामियात् । संपूर्णा दक्षिणां देहि त्वयोक्तां कुशिकात्मजे॥ हरिश्चन्द्र उवाच- अध्यर्ध- दिवसो विप्र मासस्यास्य हि विद्यते । भानोश्चास्तमयात्पूर्वमद्य वा द्विजसत्तम ॥ दास्यामि दक्षिणां माभूळथितो रुषितोऽपि वा। अतीते समये पश्चाद्यथे; कर्तुमर्हसि ॥ मार्कण्डेय उवाच- इत्युक्त्वा तं विसृज्याथ राजन्निक्ष्वाकुनन्दनः। सुनात्वोत्तरवाहिन्यां भागी- रथ्यां प्रजेश्वरः ॥२०॥ विश्वेशं स समाराध्य स्वान्तर्यजनवर्त्मना। सौरैर्हिरण्यमन्त्रैश्च ऋग्यजुस्सामाथर्वणैः ॥ आपन्नार्तिहरं भानुमुप- स्थातुं प्रचक्रमे । दक्षान्यंगुष्ठं निष्पीड्य वसुधातलमास्थितः ॥ सव्य विन्यस्य लिङ्गोर्ध्व तत्पाणिस्पृष्टहत्तलः। सव्येतरज्ञानमुद्रासं- स्पृष्टब्रह्मरंध्रकः ॥ ईषदुन्मील्य नासाग्रलक्षीकृतविलोचनः। इन्द्रि- याणीन्द्रियार्थाश्च स्वेषु स्थानेषु युक्तधीः ॥ संस्थाप्य ब्रह्मनाध्यन्त- देहाकाशे तु संस्थितं । आत्मैक्येन विवस्वन्तं भावयन्नन्तरात्मनि॥२५॥ अचल स्थाणुवत्तस्थौ निस्तरंगार्णवो मुनिः। एवं समाधिसंपन्ने महाराजे महात्मनि ॥ प्रादुरासीत्तमोरातिर्जगन्मित्रो विभावसुः । मुहूर्ताद्योगवैशिष्ट्यादंजसा प्रीतिमान्नृपे ॥ अथोवाच त्रयीनाथः पाणिना शिरसि स्पृशन् । राजानं पूरयन्नाशाः स्थित्वा विष्णुपदेऽ- प्रतः।। उपारमस्व योगात्त्वमागतोऽहं वरप्रदः। अद्य रात्रौ समास्तीर्य १ THE KUPLEK SKST RESEARCH INSTITJT* अ०. २१.] हरिश्चन्द्रोपाख्यानम् । MARDRAS-600 0dke कुशान्पूर्वाग्रसंस्थितान् । तसिनावाह्य लेखेशमिष्टा गन्धाक्षतादिमिः। संप्रार्थ्य च मतं स्वस्य तस्मिन्नातिष्ठ वाग्यतः ॥३०॥ मनस्याधाय मन्मूर्ति जाग्रश्नासूर्यदर्शनम् । व्युष्टायां तु रजन्यां त्वं मामुपस्थाय युक्तधीः ॥ वयःसुपर्णमन्त्रेण विश्वानीति च मत्रतः। विक्रीणाम्यह- मात्मानं दक्षिणार्थ गुरोर्मम || केता गृह्णातु मूल्येन यो वा को वा महीतले। अटस्व नगरीमित्थमुद्धोषय जनेश्वर । इत्थमादिश्य मार्ताण्ड- स्तत्रैवान्तरधीयत ॥ मार्कण्डेय उवाच-उपदिश्य गते भानौ तत्तथै- वाकरोन्नृपः । रात्रावुषसि चोत्थाय समाराध्य दिवाकरम् ॥ उत्थाय सहसा राजा श्रीमान्सत्यपराक्रमः । उच्चैरुद्घोषयामास पुमान् विक्री- यते मया ॥३५॥ मार्कण्डेय उवाच-- शृण्वद्भुततरां राजन् हरिश्चन्द्र- कथां शुभाम् । शांतिशोकरसाधारां निस्सीमकरुणाकराम् ॥ नूनं सरणमात्रेण चण्डालस्पर्शदोषहाम् । पुण्यश्लोको हरिश्चन्द्रः तद्वर्ण- नरसोत्कराम् ॥ एतस्मिन्नन्तरे राजन् जरापलितविग्रहः । बृहच्छिरा महाश्मश्रुः शिपिविष्टो * महाशिरः ॥ ह्रस्वग्रीवः शूर्पकर्णो गर्ताक्षो मदविह्वलः। अतिस्थूलाधरोष्ठश्च गर्तानतनसोऽसितः ॥ सर्वाङ्ग- श्वेतरोमालिः कर्णनासाग्ररोमवान् । हस्वपादो दीर्घजङ्घः स्थूलोरुः कृशजानुकः ॥ ४० ॥ स्थूलोन्नतश्रोणितटो गर्तपृष्ठोन्नतोदरः। आगलत्पीतमदिरो हस्तावष्टब्धदण्डकः॥ विपरीतगतिर्मार्गे प्रस्खल- न्वै पदे पदे। झर्झरासक्तवामांसो मदाद|क्तवाक्यवान् ॥ एव- मागत्यचण्डालो राजानं तमुवाचह। अहं गृह्णामि दासार्थ मूल्यं गृह्णीष्व तेप्सितं । मूल्यमाचक्ष्व मे शीघ्रं कियन्मूल्यो भवानिति ॥ हरिश्चन्द्र उवाच- नीलकण्ठखरा वाणी परुषा कर्णवेधिनी। नूनं खरेण घोरेण रूपेण परुषेण च॥ मम पापवशान्नूनं चण्डालोऽयं भविष्यति। लक्षयोजनविस्तारे जम्बूद्वीपे न सन्ति किम् ॥४५॥ ब्रामणाः वेदविद्वांसस्तेषु क्रेता च नास्ति माम् । शौर्यादिगुण- युक्तायां क्षत्रजात्यां न कोऽपि किम् ॥ वैश्ये शूद्रे स्वधर्मस्थे THE KU',':"WIM SASTRI RESEARCH INSTITUTE MADRAS-4 १२४ ६० हरिश्चन्द्रोपाख्यानम्। [अ०. २२. क्रेता कोऽपि न मां भुवि । अहो मे महदाश्चर्य तवेच्छाचरितं विधे। वसुधायां विशालायां चण्डालं मामदर्शयः। एतावतोऽपराधः कः निष्कारुण्यविधे मयि ॥४८॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने एकविंशोऽध्यायः द्वाविंशोऽध्यायः ॥२२॥ मार्कण्डेय उवाच- एवं विषीदमानस्य तस्य राज्ञः पुरोहि सः। तदङ्गनिगलद्वक्त्रवारिलेशो विनिःश्वसन् ॥ ब्रूहि मूल्यं किय- तेज किं विचारेण तेऽधुना । तावत्तेऽहं प्रदास्यामि संदेहो भविता न ते ॥ हरिश्चन्द्र उवाच- नहि चण्डाल संदेहो विद्यते मम भूतले । वेदशास्त्रपुराणेषु वेदांगेषु च सर्वशः॥ कश्चिदातास्ति सन्देहो मम विक्रयकर्मणि । बामणक्षत्रविदशद्रे यो वा को वा नरो भुवि ।। मूल्येन भविता केता इति मे निश्चिता मतिः । उत्तमेषत्तमा लोके क्रयविक्रयकारिणः ॥५॥ चण्डाल उवाच- एवं विविच्य भवता किं न प्रोक्तं त्वयाऽनघ । ब्राह्मणः क्षत्रियो वैश्यः शूद्रः क्रीणातु मामिति ॥ अनिर्दिश्य त्वयोक्तं हि पुमान् विक्रीयते मया। मया तदैव क्रीतोऽसि यदि त्वं सत्यसंगरः॥ द्विर्भाषसे यदि वचः तर्हि त्वं भ्रष्यसेऽनृतात् । अन्यथैव वदन्तिस्म मादृशाः पुरुषाधमाः ॥ त्वादृशाः पुरुषा लोके सततं सत्यवादिनः । यदि सत्यं प्रमाणं ते विक्रीतो हि मया भवान् ॥ अहं क्रेता न सन्देहो गृहाण धनमात्मनः। इतोपि कष्टास्वापत्सु नात्याक्षीः सत्यमुत्तमम् ॥१०॥ सत्यानास्ति परो मोक्षो धनतामास्ति पातकम् । सत्ये प्रतिष्ठितं सर्व जगदेतचरा- चरं ॥ असत्यावश्यते सर्व ब्रह्मादिमशकान्तकम्। आत्मना जायते जन्तुरात्मना म्रियते पुनः ॥ अन्यस्य मरणेनान्यो न म्रियेत कदा- चन । पापेनान्यस्य नान्यो यः पापीयान्भवति ध्रुवं ॥ सत्यात्स्वर्ग- मवामोति मृषावादात्पतत्यधः। यदाऽसत्यं वदेन्मर्त्यः तदा सत्यं परि- त्यजेत् ॥ हरिश्चन्द्र उवाच-- यदि शक्रोषि विप्रेन्द्र कौशिक अ०. २२.] हरिश्चन्द्रोपाख्यानम् । मुनिसत्तमम् । परितोषयितुं द्रव्यैः भृत्यस्ते भवितास्म्यहम् ॥१५॥ बहुस्वर्णाभिधो यज्ञः स निवर्तेत यावता । विश्वामित्रस्य भद्रं ते तावद्देहि धनं मम ॥ चण्डाल उवाच- अहं यज्ञं न जानामि द्रव्यसंख्यां कदाचन । न तुष्यात्कौशिको विप्रस्तुष्याद्वा धनका- मुकः ॥ एतावद्दीयते तुभ्यं मया गाधिसुताय ते । श्रृणुष्व दीयमानं मे त्वदर्थ द्रव्यमस्तु ते ॥ दशयोजनविस्तीर्णमण्डलं पृथिवीतले । सुवर्णमुक्तारनौधैरेकयोजनमुन्नतम् । राशीकृत्य प्रदास्यामि विश्वा- मित्राय धीमते॥ मार्कण्डेय उवाच-एवमुक्त्वा ततो राजन् चण्डालो वीरबाहुकः । रत्नौघराशिमकरोदात्मप्रोक्तप्रमाणतः ॥२०॥ तं रन- राशि विश्रीण्य हरिश्चन्द्राय भूभुजे । एतावद्धि मया शक्यं दातुं द्रव्यं महीतले ॥ इतः परं न मे शक्तिः दातुं यत्तव रोचते । इत्थ- मुक्ता स चण्डालो दास आगच्छ मामिति ॥ अथान्तरिक्षादायातो नक्षत्रः प्रीतमानसः । गृहीत्वा तद्धनं सर्व प्रीतिमानभवत्पुनः।। दृष्ट्वा सेन्द्रास्सुराः सर्वे धनराशि समुन्नतम् । नासाग्रन्यस्ततर्जन्यो बह्वा- वर्य प्रपेदिरे ॥ मुमुचुः पुष्पवृष्टि ते राजन् चण्डालमूर्धनि । साधु- वादान् वाचयन्तो देववाद्यान्यवादयन् ॥२५॥ अथ सर्वगतो वायुः खस्थोवाच नृपोत्तमम् । अनृणोऽसि महाराज दत्ता सा दक्षिणा त्वया ॥ अथान्तरिक्षात्सहसा प्रादुरासीन्महीशितुः। अनिर्दिष्टवयो- रूपवेषाकारस्वरूपवान् । उवाच भूपमालोक्य महाविस्मयविस्मि- तम् । चण्डालमेव पश्यन्तं हर्षनिर्भरचेतसा ॥ पुलकांचितसर्वाङ्गमुत्फु- ल्लाम्बुजलोचनम् । कोऽयं विष्णुः शिवो ब्रह्मा धर्मोवेन्द्रश्शचीपतिः॥ मद्वंशस्य निदानं वा घृणिरेष सनातनः । सौर्हिरण्यमंत्रैश्च मया संग्रीणितोऽपि वा॥३०॥ हिरण्यरेता देवास्यो भक्तार्तिप्रविभंजनः। चण्डालमितिपश्यन्तं विश्वामित्रः प्रतापवान् ॥ विश्वामित्र उवाच- ममेयं दक्षिणा दत्ता त्वदुक्ता सत्यसंगर । कुरुष्व मे प्रियं चान्य- घेन तुष्टो भवाम्यहम् ॥ मयि तुष्टे जगत्यस्मिन् दुर्लभं ते न विद्यते । १३३ ६२ हरिश्चन्द्रोपाख्यानम् । [अ०. २३. ११४ शक्तोऽहं ब्रह्मणो लोकं त्वां प्रापयितुमञ्जसा ॥ कैलासं चैव वैकुण्ठं मोक्षं वा प्रापयाम्यहम् । इदं धनमिदं राज्यं पत्नी चाप्रतिमां तव ।। कोशं बलं च दुर्ग च सप्तद्वीपां ससागराम् । पृथिवी च सुते मह्यं एते च विजयाजये ॥३५।। प्रतिगृह्णीष्व भद्रं ते ह्यायत्यामुत्तमां गतिम् । मोक्तास्म्यसत्यदोषात्त्वां प्रापयामि विधेय॒हम् ॥ अशक्तं वापि शक्तं वा त्रिशंको पश्य मां भवान् । प्रतिसृष्टिविधानेन ब्रह्मणः परमेष्ठिनः।। हरिश्चन्द्र उवाच- यदत्र भवता प्रोक्तं न मे श्रोत्रपथं गतम् । इतोपि यत्तवाभीष्टं तद्दास्याम्यहमञ्जसा ॥ चण्डालगमनात्पूर्व वद शीघ्रं मुनीश्वर । भूताक्रान्तस्त्रिदोषी च पित्तोद्रेकी पुनःपुनः ।। अनुभूतमसद्वाक्यमपद्ध बहु भाषते । एतेषु कोभवानद्य नमस्तेऽस्तु मुनीश्वर ॥४०॥ मार्कण्डेय उवाच- एवमुक्तोऽवनीशेन निराशः कुशिकात्मजः । दिवं जगाम योगेन महाकोपो नृपोत्तमे ॥ तस्मि- गते हरिश्चन्द्रः चण्डालं प्रत्यभाषत । विनयावनतो भूत्वा कृता- अलिपरिग्रहः॥ हरिश्चन्द्र उवाच-त्वं मे माता पिता चैव त्वं गति- स्त्वगतेर्मम । त्वं बन्धुस्त्वं सुहृच्चैव त्वं मित्रं त्वं परायणम् ।। यस्त्व- या मोचितस्त्वद्य ऋणादस्माद्भयंकरात् । किं करोमि महाबाहो शुश्रूषां वचनात्तव ॥ सर्व तेऽहं करिष्यामि यद्यपि स्यात्सुदुष्करम् । यत्कि- चिद्वचनं तुभ्यं मल्ललाटलिपिर्यतः । तदद्याऽऽदिश मां तात त्वदुक्तं करवाण्यहम् ॥४५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने द्वाविंशोऽध्यायः॥ त्रयोविंशोऽध्यायः ॥२३॥ मार्कण्डेय उवाच-ततो गृहीत्वा राजानं चण्डालस्सोऽन- यद्गृहम् । सकाशमुपविश्यास्य 'राज्ञोत्संगे प्रसार्य च ॥ चरणौ मर्दयखेति सोऽब्रवीद्धर्मनन्दन । दृष्ट्वा प्रसारितौ पादौ चण्डालेन दुरात्मना ॥ मूर्छितस्सहसा राजा पपात धरणीतले। स मुहूर्ता- द्विनिश्वस्य प्राणान्मन्धाय चात्मनि ॥ अहो विधे कुतो हंसि मामे अ०. २३.] हरिश्चन्द्रोपाख्यानम् । ६३ निघृणो भवान् । इतोपि मे कियद्वाधां करिष्यसि न वेम्यहम् ।। परियात्मनीत्थं च चण्डालं प्रत्यभाषत । शुष्यत्कण्ठोष्ठताल्वास्य स्स्विनगात्रस्सवेपथुः ॥५॥ अत्ययुक्तमिदं मन्ये मम कर्तु कदाचन । यस्मिन् कर्मणि यः प्राप्तस्तसिंस्तद्योजनं वरं ॥ न योजयच्छिरो- रत्नं पादयोनूपुरं च यत् । न योजयेदुत्तमाङ्गे यत्र यद्योग्यमेव हि । तत्र तद्योजयेत्कर्ता विपरीतं न कारयेत् ॥ सत्यकीर्तिरुवाच- अहं प्रेष्यश्च दासश्च नियोज्योऽहं महद्यशः । न च मन्युस्त्वया कार्यों दैवं प्रति नराधिप ॥ सुखदुःखानि लोकेऽस्मिन्भवन्ति महता- मपि । ब्रह्मादीनां महाराज दुर्लङ्घया भवति व्यथा ॥ अहं संवाहयाम्यद्य वीरबाहोः पदद्वयम् । राजन्नपसरान्यत्र भृत्योऽहं भूपते तव ॥१०॥ एवमुक्तो महाराजो बाष्पपर्याकुलेक्षणः। उवाच वचनं धीमान् मन्त्रिणं मन्त्रिणां वरम् ॥ मा मां स्पृश महामन्त्रिन् चण्डालत्वमुपागतम् । असंभाष्यमसंस्पृश्यमकीयं सर्वदा नरैः ।। सत्यकीर्तिरुवाच-आपत्सु रक्षितश्चैव भवता तव भार्यया । लोहि- ताश्वात्प्रियतरो राजस्ते वस्त्रभोजनः ।। न विस्मृता महायज्ञो महा- दानो महोत्सवः। भीताभयमहादानस्तवहस्ता हि नित्यशः ।। स्वर्गे वा नरके वापि पाताले भूर्भुवादिषु । या ते गतिर्महीपाल तां भजि- प्यामि नेतराम् ॥१५॥ चण्डालो भव पापो वा ब्रह्महा वापि कोऽपि वा । यादृशो हि भवानय तादृशोऽहं न संशयः ॥ हरिश्चन्द्र उवाच- नात्र तिष्ठति पत्नीच न सुतो न च बान्धवाः । अनुरक्तश्शुचिर्दक्षः सन्मन्त्रिस्त्वं यथाऽसि मे ॥ मार्कण्डेय उवाच- एतस्मिन्नन्तरे- क्रुद्धो वीरबाहुस्सुदारुणः । अब्रवीत्परमं घोरं स्वजातिसदृशं वचः।। रे रे धिक्त्वां मृषावादिन् पुरुषाधम निस्वप । त्वया जातेन दुष्टेन नष्टं ते तु कुलं शुभम् ॥ धनं मदीयमाच्छिद्य सप्तजन्मसु चार्जितम् । दत्वा स्वगुरवे सर्व मदुक्तं न करोषि किम् ॥२०॥ कार्य त्वदुक्तं वचसा सामान्येन करोम्यहम् । दुष्करं गर्हितमिति विशेषस्त्वधु- हरिश्चन्द्रोपाख्यानम् । [अ०.२०. नोच्यते ॥ दासेन सर्व कर्तव्यं स्वाम्याज्ञावशवर्तिना। मुख्या- मुख्यं न वक्तव्यं युक्तायुक्तं तथैव च ॥ हीनकार्यमहीनं वा दासः कुर्यादलोलुपः । पादसंवाहनं वापि शकदुत्सारणं तथा।। उच्छिष्टो- सारणं चैव यत्किचान्यच्च नित्यशः। क्रेता स्वामी धनं दत्वा यत्कि- चिच्चोदयत्यसौ ॥ तनिश्शंकेन कर्तव्यं दासेनाऽधर्मभीरुणा । यत्किचिदपि यः कुर्यात्स्वामिकार्यमकुत्सितः ॥२५।। सोऽन्यजन्मनि राजास्यात्सार्वभौमो महायशाः। ब्राह्मणः क्षत्रियो वापि वैश्यःशू- द्रोऽपि वेतरः ॥ निषादः पुल्कसो वापि चण्डालोऽपि ततोऽधमः । एवंविधस्य यो यस्य दासत्वं प्राप्नुयानरः ॥ मानयेत्स च तं भक्त्या भावयेत्पितरं गुरुम् । मानयन् मर्दयस्वाद्य चरणो मे नरा- धम ॥ यदि सत्यं प्रमाण ते सत्ये वचसि तिष्ठसि । सदा त्वं सत्य- सन्धश्चत्सत्यमेव समाचर ॥ पशवःपक्षिणश्चैव चण्डालाश्चाधमाधमाः। वर्तन्ते सत्यवचसि कि तेभ्योप्यधमो भवान् ॥३०॥ सत्यकीर्ति- रुवाच- अन्यत्सर्व - अन्यत्सर्वं हि सुलभं सत्यमेकं न लभ्यते । तत्पादो मर्दय- स्वाद्य भवतोऽयं पिता गुरुः॥ जनिता चोपनीता च यस्तु विद्यां प्रय- च्छति । अन्नदाता भयात्राता मूल्यक्रेता विशेषतः।। षडेते पितरःप्रो- ताः धर्मशास्त्रविनिश्चयात् । नोचेदहं मर्दयामि त्वदर्थ त्वम पासर । भृत्योऽस्मि तव दासश्च विनियोज्यश्च सर्वदा ॥ मार्कण्डेय उवाच- मन्त्रिणेवं त्वभिहितो धीरोऽसौ धर्मनन्दन । स्थित्वा तत्पुर उत्तस्थौ गृहीतुं पादमादरात् ॥ चण्डालस्सोपि धर्मात्मा पांदावा- च्छिद्य राजतः । उक्त्या सुमर्दितमिति पुनराह नृपोत्तमम् ॥३५॥ वीरवाहुरुवाच- इमां मे घर्घरी गृह्य वादयन् लगुडेन च । अनुसि- ध्वनुवीथि त्वं ह्यन्वापणमनुव्रजम् ॥ अनुचैत्यं चानुपथमनुदेवाल- यान्तिकम् । वीरबाहोरहं दासस्सत्य(वादी)चारीति नामतः ॥ श्मशानभूमिपालोऽहमिति सर्वां च तां पुरीम् । उच्चैरुद्धोष्य पश्चात्त्वं श्मशाने निवसानिशम् ॥ योजनत्रयविस्तारे पंचयोजनमायते।
अ०. २४.] हरिश्चन्द्रोपाख्यानम् । ६५ क्षेत्रमूल्यं प्रेतवस्त्रं पालकद्रव्यमेव च ॥ सर्वाण्येतानि मे द्रव्यं मदन्ति- सुपानय । प्रेतास्यतण्डुलं नित्यं यावत्तावच्च विद्यते ॥४०॥ तत्सर्थ तव भक्ष्यं स्यादेदचे निर्मितं मया। ब्राह्मणाद्यास्त्वधर्मस्थाः ब्राह्मण्या- शास्त्रियस्तथा ॥ यथापराधं दण्ड्यास्स्युस्त्वया मम नियोगतः। ये याच वध्या वध्यास्युस्त्वया निश्शङ्कमेवच ॥ मा विनाशय मद्रव्यं ममाज्ञां न निवर्तय। निष्कृतिः सर्वपापानां विद्यते स्मृतिचोदिता ।। स्वामिद्रव्यविनाशस्य स्वामिद्रोहकृतश्च हि । मित्रद्रोहकृतश्चापि तथा विश्वासघातिनः ॥ गुरुद्रोहकृतश्चापि निष्कृतिर्नेह विद्यते । गच्छ धर्मे प्रवर्तस्व सत्ये वर्तस्व नित्यशः। समाजय शुभान्लोकान्यथेच्छसि तथाकुरु ॥ मार्कण्डेय उवाच-- श्मशानाभिमुखो राजी नियुक्तो वीरयाहुना । कृत्वा यथोक्तं तेनैव नगर्या सर्वतो नृपः ॥४६॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः ॥२४॥ युधिष्ठिर उवाच- श्मशाने निवसत्राजा सप्तद्वीपाधिपाधिपः। कि कुर्वन्कालमनयत् किं चकार द्विजोत्तम ॥ हरिश्चन्द्रस्य राजर्षेः पुण्यश्लोकस्य धीमतः। कथाश्रवणविच्छित्तौ दूयते च मनो मम ॥ तनूनपात्समीपस्थनवनीतवदच्युत। श्रोतुं न नीयते शोकाच्छू- वणेच्छा प्रवर्तते ॥ कथां श्रावय मां विप्र पुण्यश्लोकस्य पुण्यदाम् । श्रृणोमि सावधानोऽहं सावधानमना भवान् ॥ मार्कण्डेय उवाच-- श्रृणु राजन्नधहरां जगत्प्राणसखी शुभाम् । कौशिकद्विामिसंवृद्धा हरिश्चन्द्राद्रिसंभवाम् ।।५।। दुःखशोकापहां राजन् शीलनुमविवा- हिनीम् । करुणारसकल्लोलां श्रोतचित्तमहोडुपाम् ॥ श्रोहपापा- ब्धिसंतारवीरबाहुसुनाविकाम् । यत्कथा क्षीरवाराशिश्चन्द्रमत्यज- संभवा ॥ हरिश्चन्द्रकथानयां राजन् सुस्नाहि चेतसा। अघदा- वानलज्वालातसाम्बुदां शुभाम् ॥ पापाहिविपसंदष्टविषनाश- गरुत्मतीम् । श्रोत्राभ्यां पिब राजेन्द्र त्रिशंकुजकथां शुमाम् ॥ 9-B हरिश्चन्द्रोपाख्यानम् । [अ०. २४. चण्डालाज्ञां तथाकुर्वन् सत्यधर्माश्रयो नृपः। श्मशानमभितो वीक्ष्य परिक्रम्य सुदारुणम् ॥१०॥ कृत्वैव तत्र कुटिकां तत्रास्ते मन्त्रिणा सह । रौद्रं श्मशानमालोक्य स राजा धर्मनन्दन ॥ अब्रवीन्म न्त्रिणं वाक्यं मधुरं धर्मसंहितम् । धर्माधर्मकरं नृणां विद्यते हि शुभाशुभम् ॥ धर्मेण सुखिनस्तस्माद्धर्ममेव समाचरेत् । पापेन दुःखिनस्तमानपापं कर्तुमर्हसि ॥ स्वकृतं भुज्यते मत्र्यैः सुकृतं दुष्कृतं च वा । धर्मकृद्गर्भवासेऽपि सुखेनास्ते सुनिर्वृतः॥ तस्मिन्व- सति पापात्मा नरः पापी सुदुःखितः। दृष्दैवेहोभयं मर्त्यस्सदा धर्म समाचरेत् ॥१५॥ अधर्मरुचयः पापाः शूलप्रोतास्समन्ततः। छिद्यन्ते क्रकचेनान्ये द्विधा पापपरायणाः ॥ पादयोः पाशसंबद्धाः प्रलंबते (पतंति)ह्यधोमुखाः। प्रदह्यन्तेऽग्निना चान्ये पीड्यन्ते दारु- यन्त्रकैः ॥ कालसूत्रेण संबध्य दारुवत्पाव्यते जनः। धर्मिभिः पापिनस्सर्वे क्लिश्यन्ते वृत्तहेतुतः ॥ धर्मिणः पापिनस्सर्वे सुख- यन्ति परस्परम् । वहन्ति वाहयन्तिस्म पापपुण्यवशादिह ॥ तस्मान्मन्त्रिन्सदा मर्त्यः स्वशक्त्या धर्ममाचरेत् । यो जातो भारते- वर्षे ज्ञानेन्द्रियशरीरवान् ॥२०॥ वाक्पाणिपादचक्षुष्मान् न नरो धर्माचरेत् । बुद्धिमानपि शास्त्रज्ञः सर्वावयववानपि । संमूढः सर्व- कार्येषु पश्चात्तपति दुर्मतिः ॥ सत्यकीर्तिरुवाच--- यस्त्वया श्लाध्यते धर्मो यस्ते धर्मःपरो मतः । लक्षणं तस्य धर्मस्य ब्रूहि मे धर्मसंग्रहम् ॥ हरिश्चन्द्र उवाच-- हन्त ते कथयिष्यामि धर्मलक्षणमादितः । यच्छ्रुत्वा मुच्यते जन्तुर्महद्भिरपि पातकैः ॥ इयं दुर्वसतिस्तस्मा- दुःखशोकप्रणाशिनी। आवयोर्भाषणाकारे श्मशाने मन्त्रिसत्तम ।। अहिंसा सत्यमस्तेयो ब्रह्मचर्यमकल्मषं । अक्रोधो गुरुशुश्रूषा दानं संतोष आर्जवं । एवं दशात्मको धर्मः कथितो ब्रह्मणा पुरा ॥२५॥ सत्यकीर्तिरुवाच- अहिसा कीदृशी प्रोक्ता कीदृशं सत्यलक्षणम् । अस्तेयं कीदृशं प्रोक्तं ब्रह्मचर्य च कीदृशं ॥ अकल्मषं कथं प्रोक्त- अ०. २४.] हरिश्चन्द्रोपाख्यानम्। ६७ मक्रोधः कीदृशस्स्मृतः। कीदृशी गुरुशुश्रूषा किं दानं सर्वपुण्यदम् ॥ सन्तोषः को नृपश्रेष्ठ किमार्जवमुदाहृतम् । दशैतानि नृपश्रेष्ठ वद लक्षणतः पृथक् । धर्मलक्षणविज्ञाने त्वादृशोऽन्यो न विद्यते ॥ हरिश्चन्द्र उवाच- अहिंसां संप्रवक्ष्यामि श्रृणुष्वैकमनाः शुभाम् । यां श्रुत्वा ब्रह्महा शुद्ध्येत्सर्वधर्मसमाश्रयाम् ॥ आत्मवत्सर्वभूतानां सुखप्राप्तिं विचिन्तयेत् । वाचापि कथयेद्यस्तु कर्मणा कुरुते सदा ॥३०॥ कर्मणा मनसा वाचा परेषां न समाचरेत् । मर्मच्छेदकरं दुःखं सोऽहिंसक उदाहृतः॥ यज्ञार्थं चोदिता हिंसा सा हिंसा न प्रकीर्तिता। मधुपर्केऽपि या हिंसा ह्यहिंसा सा * कलिं विना ।। चतु- विधानि भूतानि पुरा सृष्ट्वा प्रजापतिः। स यज्ञे तानि सर्वाणि देवार्थ विनियुक्तवान् ॥ अतो मन्त्रिनहिंसा सा या यज्ञे श्रुतिचोदिता। आत्मार्थ पशुहिंसा च तमसोद्रिक्तया धिया ॥ प्राणिहिंसा समुद्दिष्टा हिंसा सा दुःखदायिनी । अहिंसायां च हिसायां प्रमाणं श्रुतिचो. दना ॥३५॥ यत्र प्रीतिः प्रवृत्तास्यात्प्राणिहिंसासमन्विते। यदि- शास्त्रं न तत्रास्ति तत्कर्ता याति रौरवं ॥ अहिंसानिरतो नित्यं यो वा को वा महीतले । यज्ञदानतपस्तीर्थफलं सर्व समश्नुते ॥ सत्यं तेऽहं प्रवक्ष्यामि सलक्षणमिदं श्रृणु। सत्यस्य लक्षणं गुह्यं दुर्जेयं सर्वमानवैः ॥ सत्यं ब्रूयात्प्रियं ब्रूयानब्रूयात्सत्यमप्रियं । प्रियं च नानृतं ब्रूयादेतत्सत्यस्य लक्षणं ॥ सर्वभूतहितं प्रोक्तं वचनं सत्य- मिष्यते । परप्राण्युपकाराय वचनं सत्यमुच्यते ॥४०॥ कीटकभ्रमर- न्यायाच्छिष्यं यो योजयेद्गुरुः । वेदैर्वेदान्तवाक्यैश्च तत्सत्यमितर- न्मृषा ॥ सर्वस्वहरणे प्राप्ते साधूनां गुणशालिनाम् । येनानृतेन तच्छाम्येत्तत्सत्यमनृतं भवेत् ॥ सत्येन स्वर्गमामोति सत्येन निस्य व्रजेत् । अनृतात्स्वर्गमामोति निरयं त्वनृतानवेत् ॥ लोकमुद्वेजयेयो पिशुनो लोकदूषकः । लोकापवादचतुरः परहिंसापरायणः ॥ लोलुपः कामुक क्रूरो लुण्ठको ग्रामदूषकः । ग्रामद्रव्यापहारी प १४८ ६८ हरिश्चन्द्रोपाख्यानम्। [अ०. २४. परदारपरायणः ॥४५॥ स्वधर्मदूषकश्चैव परधर्मप्रसेवकः। एव- मादिदुराचारो मर्त्यः सर्वत्र सर्वदा ॥ विपद्गते मन्त्रिवर्य सर्वस्व- हरणेन च । तत्प्राणपरिरक्षार्थ सत्यासत्यं वचो वदेत् ॥ इत्ययं पाक्षिको धर्मः परमार्थमिदं श्रृणु। सर्वप्राण्युपकारार्थ हितमेव सदा वदेत् ॥ अस्तेयं ते प्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् । अस्तेनान- परो धर्मः न स्तेनात्यातकं परम् ॥ कर्मणा मनसा वाचा बलेन छअनापि वा। कापट्येन च शाठ्येन परोक्षणापि मानवः । ५०॥ तृणं काष्ठं फलं मूलं सुवर्ण रजतं तथा। वस्त्रकम्बलधान्यानि लोहानि पुसीसकम् ॥ एतानि यानि चान्यानि निचयानि न यो हरेत् । स निर्मलो मनुष्येषु ज्योतिष्ष्विव दिवाकरः ॥ अस्तेयं पुरुष मन्त्रिन्सर्वसंतोषसंयुतम् । कोशागारे च शुद्धान्ते सर्वत्र विनियो- जयेत् ॥ मनश्चोरश्च वाक्चोरः कर्मचोरस्तृतीयकः । यस्मिन्न सन्ति पुरुषे सोऽस्तेयो भुवि दुर्लभः ॥ सर्वद्रव्यापहर्तृणां निष्कृतिर्विद्यते नृणाम् । आत्मापहारिणां कापि निष्कृतिर्नोपपद्यते ॥५५॥ अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते। किं तेन न कृतं पापं चोरेणा- त्मापहारिणा ॥ तं दृष्ट्वा धर्मराजस्य वेपथुर्जायते भृशम् । आत्माप- हारिणो मन्त्रिन् एकविंशतिकोटयः ॥ निवसन्ति ब्रह्मकल्प नरकेषु महत्सु च । साधारणोऽयं सर्वेषां धर्मो बस्तेयलक्षणः । यज्ञैर्यष्टु- मशक्तानां दरिद्राणां विशेषतः । ब्रह्मचर्यमहं वक्ष्ये ब्रह्मलोकसुख- प्रदम् ॥ चतुर्णामाश्रमाणां च ब्रह्मचर्य महत्तपः । स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥६०॥ सङ्कल्पोऽध्यवसायश्च क्रियानिष- त्तिरेव च । एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः ॥ एतन्मैथुन- मष्टाङ्गं चतुर्णा वर्ण्यमुच्यते । स्वदारेषु गृहस्थस्य नहि दोषाय कल्पते ॥ तच्च चेत्परदारेषु गृहस्थस्याघ उच्यते । अष्टम्यां च नवम्यां च पञ्चम्यां निजजन्मभे ॥ विषुवायनपुग्मेषु मन्वादिषु युगादिषु । व्रतोपवासश्राद्धेषु सोमसूर्यग्रहेषु च ॥ सन्ध्ययोश्च दिवा चैव न कुर्या- १४९ अ०.२४.] हरिश्चन्द्रोपाख्यानम् । ६९ न्मैथुनं गृही। प्राग्रजोदर्शनालायां गर्भिणी मलवाससम् ॥६५॥ गतातवां वयोतीतां गृही गच्छन्पतत्यधः। अकल्मषं प्रवक्ष्यामि सर्व- कल्मषनाशनम् ॥ डाम्मिकं कल्मषं प्राहुस्तदभावो ह्यकल्मषम् । सद- म्भो द्विविधाप्रोक्तः परोक्षः साक्षिकस्तथा ।। *आचारधर्मविनयः परो- क्षःसोऽभिधीयते । सत्कारमानपूजार्थ स्तुत्यर्थ यस्समाचरेत् ।। सदा- चारं समीक्षेत साक्षीदम्भः स उच्यते । उभाक्ताव भोज्यानौ नाम- धारकसंज्ञको । बिडालबकवृत्तांश्च शिष्टाचारान्तकारिणः। निशाचर- सधर्माश्च वायात्रेणापि नार्चयेत् ॥७०॥ यथाऽऽदरेण प्रत्यक्षमाचार- मनुवर्तते । परोक्षेण तथाकुर्याददम्भः सोऽभिधीयते ।। यथा न ज्ञायते लोकैस्सदाचारो ह्ययं पुमान् । सर्वकर्मणि यो विप्रो ममाहकारवर्जि- तः॥ जडो मूकश्च मूर्खश्च दुराचारो ह्ययं तथा। निन्धमानो जनैर्वि- प्रः सदाचारे प्रवर्तते । स्तोत्रेण खिद्यते धर्मी मानान्मरणमिच्छति । अवमानात्तपोवृद्धिरवमानादघक्षयः ॥ सत्कारमानपूजाभिर्वर्धते डांभि- को गुणः। एतैस्ततो विनश्येत ततो यात्यधमां गतिम् ॥७५॥ धर्म- लिङ्गी नरो नस्यादलिंगी धर्ममाचरेत् । अग्नीनाधाय विधिवदिष्ट्वा यस्सौमिकर्मखैः॥ विहायतांश्च यस्तिष्ठेन्नामधारः स उच्यते । अस्पृश्यो यमसंभाष्यो ह्यभोज्यानः सदा द्विजैः॥ सदम्भः कल्मषो मत्रिन्नद- म्भस्यादकल्मषः । अक्रोधः श्रूयते मत्रिन् सर्वधर्मप्रवर्धकः ॥ धर्म- नाशकर क्रोधो ह्यथाऽधर्मकरोऽपि च । अक्रोधेनैव जायेत ब्रह्मलोक- स्सनातनः ॥ अक्रोधनाः क्षमासाराः तरन्ति भववारिधिम् । आकृष्ट- स्ताडितोवापि सत्कृतो धिक्कृतोऽपि वा ॥८०॥ निन्दितः कुत्सितो. वापि बलवान्साधुसंमतः । सर्वज्ञो लोकमान्यश्च दुर्बलेन नरेण यः ।। न क्रुद्धयेत्समते सर्व हर्षगद्गदमानसः। स एव साक्षाल्लक्ष्मीशः सभूमि- स्सदिवाकरः ॥ तेनेदं धियते सर्व क्षमया शमशालिना। यश्च क्रुध्येच पुरुषः स याति नरकान् बहून् । क्रोधखामी नरो याति लोकान् सन्ततिकान् शुभान् । सत्सु क्रोधविरामेषु निहन्ति क्रोधमुत्थितम् ।।
७० हरिश्चन्द्रोपाख्यानम् । [अ०. २४. यस्सयाति हरेर्मत्रिन्सायुज्यं नात्र संशयः । श्रुतिस्मृत्युदिताचारैस्तपो- यज्ञव्रताध्वरैः ॥८५॥ वेदस्वाध्यायदानैश्च चिरकालोपसञ्चितम् । धर्मराशि क्षणात्क्रोधो निर्दहेत्तूलराशिवत् ॥ चण्डालमिव तं क्रोधं द्विजवन्मनुजोत्तमः। यस्त्यजेद्दरतः क्रोधं श्रुतवान् सोऽच्युतो भवेत् ।। तुल्येन क्रोधितस्तुल्यः क्षान्तो मध्यम उच्यते । सुदुर्बलो बलवताक्षान्त स्सोधम उच्यते । क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः ॥ यज्ञदानतपोयोगैः सर्वैः शुद्ध्यन्ति वै द्विजाः। श्रूयतां गुरुशुश्रूषा ब्रह्मसायुज्यदायिनी ।। सर्वज्ञत्वप्रदा चेह सर्वविज्ञानदायिनी। शुश्रू- पायै गुरोर्देहमर्थ तज्जीवनाय च ॥९०॥ तत्प्राणपरिरक्षार्थ प्राणान् तस्मै निवेदयेत् । शुश्रूषेत गुरुं शिष्यो दिवारानमतन्द्रितः ॥ त्यक्तदेहा यहङ्कारो विनिद्रो विगतस्पृहः । विक्षुत्तृष्णाप्रमादश्च ध्यायनात्माधि- दैवतम् ।। कुर्वन्नकृत्रिमा भक्ति निश्चलां विजितेन्द्रियः। एवं कुर्वन्गुरोःशिष्यः शुश्रूषामन्वहं वशी ॥ वेदवेदाङ्गशास्त्राणां भाजनं स्यादनुग्रहात् । ब्रह्मलोकमवाप्यान्ते ब्रह्मणा सह युज्यते ॥ शुश्रूषैवं गुरोर्मन्त्रिन सुप्रोक्ता भवते मया । शौचं सलक्षणं वक्ष्ये सर्वधर्मसमा- श्रयम् ॥९५॥ द्विविधं प्रोच्यते सद्भिः शौचं मूलं द्विजन्मनाम् । शौचाचारविहीनस्य कुतोऽनुष्ठानसौष्ठवम् ॥ अधिष्ठानं विना वृक्षा वर्तते नहि कुत्रचित् । बाह्यशौचं मृजलाभ्यां श्रुतिप्रोक्तप्रमाणतः ॥ शिष्टाचारविधानेन शौचं कुर्यात्प्रयत्नतः। शौचे यत्नःसदा कार्यो निस्तन्द्रेण द्विजन्मना ॥ गन्धलेपक्षयकरं कुर्याच्छौचं प्रयत्नतः । मानसं विष्णुचिन्तास्यात्कामादिमलनाशनम् ॥ सर्वत्र मैत्री करुणा निंदितोपेक्षया सह । मौनं च भावसंशुद्धिरन्तःशुद्धिं प्रचक्षते ॥१०॥ शौचाचारवतां मन्त्रिन् भवन्ति सफलाः क्रियाः। संतोषं तेऽभिधा- स्यामि भूषणं जगतामपि ॥ असंतोषापरं दुःखं सन्तोषः परमं सुखम् । आशासक्तिरसंतोषः संतोषस्स्यानिराशता।। सन्तोषामृतप्तस्य यत्सुखं शांतचेतसः। तत्सुखं धनलुब्धस्य नेतश्वेतश्च धावतः ॥ यदृच्छयो अं०. २५.] हरिश्चन्द्रोपाख्यानम् ७१ पपन्भेन वृत्तिर्यायेन केनचित् । तयैव यातिसंतृप्तिस्सतु सन्तोष उच्य- ते ॥ संतोषैश्वर्यतुष्टानां जगत्सर्व तृणायते । निस्पृहस्यैव विप्रस्य कुबेरोऽपि तणायते ॥१०५॥ यः प्रतप्येद्रव्यलाभे संतुष्येत्तदलाभतः । सन्तोषलक्षणं ह्येतदसन्तोषस्ततोऽन्यथा ॥ आर्जवं परमो धर्मो ब्रह्मणा परिगीयते । आर्जवे वर्तमानो यः स शुद्धो योनिबीजतः ॥ सदैक- करणं यस्य सदैकवचनं शुभम् । सदैकचित्तो मेधावी ऋजुवाकाय- मानसः ॥ आर्जवं परमं ह्येतत्सर्वधर्मेष्वनुत्तमम् । अहिंसाद्या आर्ज- वान्ताः दशधर्मास्सलक्षणाः ॥ प्रोक्ता मया मन्त्रिवर्य यथाज्ञाता यथामति । मार्कण्डेय उवाच- इत्थं तत्र हरिश्चन्द्रो मन्त्रिणा सह भूपते ॥११०॥ श्मशानेऽकथयत्पुण्यां कथां धर्मार्थसंयुताम् । आचा- रान् दण्डनीतीश्च चतुर्वर्गकथां शुभाम् ॥ वर्णाश्रमाणां सर्वेषां पृथ- गाचारलक्षणम् । चतुर्णां चाथ वर्णानां धर्माश्चैव पृथक् पृथक् ।। श्मशानपालने चैव खामिकार्ये परोऽभवत् । तस्येत्थं वर्तमानस्य राज्ञस्तस्य महात्मनः ॥ चन्द्रवत्यास्सपुत्रायाः वसन्त्याश्च द्विजालये। व्यतीयुादशाब्दाश्च दुःखेन वसतां नृप ।। अन्योन्यस्पर्धया राजन् विश्वामित्रवसिष्ठयोः। अन्वभूत्सुमहदुःखंसराजा पाण्डुनन्दन । ११५॥ स्वर्णदीवालुकाश्शक्याः वर्षधारास्सहस्रशः । वियद्गतास्तारकाच संख्यातुं राजसत्तम । तस्येयं महती जाता विपत् * काले दुरत्यया । हरिश्चन्द्रस्य यदुखं तदन्येषां न विद्यते ॥११७॥ इतिश्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने चतुर्विशोऽध्यायः॥ पञ्चविंशोऽध्यायः ॥२५॥ युधिष्ठिर उवाच- पतिव्रता महाभागा चन्द्रवत्यसितेक्षणा। विक्रीता राजसिंहेन कि कुर्वत्यनयत्समाः ॥ सुजातस्सुखसंवृद्धो लोहिताश्वोऽतिसुन्दरः। कथं कालमनैषीस निवसन्कालकौशिके । लोहिताश्चकुमारस्य सुकुमारस्य वर्तनम् ।। मार्कण्डेय उवाच-भृणु राजन् चन्द्रवत्यास्सपुत्रायाः प्रवर्तनम् । दिवारात्रमतन्द्रायाः काल- ७२ हरिश्चन्द्रोपाख्यानम् । [अ०. २५. कौशिकवेश्मनि । पशुपालस्त्वटव्यांतु दिवारात्रमभोजनम् । कन्दमूल फलाहारो दिष्टमेवानुचिन्तयन् ॥ पितरं मातरं चैत्र संसरन्मनसा सदा । पादसंवाहनं कुर्वन्नुच्छिष्टापनयं तथा ॥५॥ यच किचित्तदुक्तं तु मलिनाम्बरखण्डधृक् । समिपुष्पकुशेध्मादिसमाहरणकर्शितः ।। विप्रेण ताडितः क्लिष्टः शोकदुःखाकुलोऽनिशम् । सान्त्व्यमानोऽनिशं मात्रा व्यनैषीत्कालपर्ययं ॥ अशुभं वा शुभं वापि ह्यशक्यं शक्यमेव वा। कालकौशिकतद्भार्यातत्सुतायुक्तमञ्जसा। कुर्वन्ती देहसञ्जातश्रमादी- नविचार्य च। शिशूक्तान्यपि कुर्वाणा युक्तायुक्तानि भूपते ॥ ताडनं परुषं वाक्यं कटुकं कर्णशूलकम् । मर्मच्छेदकरं क्रूरमश्राव्यं शृण्वती सदा॥१०॥ संताडनादि तत्सर्व दिष्टमेव विभाविता । एवं सा काल- मनयदुःखिनी पतिना विना ॥ एवं दुर्वसतिं तेषां वसनां धर्मनन्दन। समा नव च तिस्रश्च गता ऊनद्विवासराः ॥ एकदोपान्त्यदिवसे लोहिताश्वस्सवालकैः । इन्धनार्थ गतो बालः शस्त्ररज्वादिवर्जितः ।। अनभ्यासवशात्काष्ठसञ्चयासक्तहस्तवान् । वृक्षच्छायां समाश्रित्य बिभ्यन्नास्ते द्विजन्मनः ॥ विषण्णवदनो दीनो भयाहृदयवेपथुः । तावत्ते बालकास्सर्वे काष्ठभारान्वबन्धिरे ॥१५॥ चिराभ्यासबले- नैव क्षणेन कृतहस्तवत् । तं चानहा॑णि काष्ठानि दृष्ट्वा कानिचिदग्रतः॥ निधाय खिन्नवदनं जहसुस्ते परस्परम् । कृपालवो हि ते सर्वे काष्ठा- न्याणि बालकाः ॥ संभूय योज्य बध्वा च वाहयामासुरोजसा। अशक्तो भारमुद्वोढुं खिद्यमानः पदे पदे ।। पालाशदण्डमादाय पश्चा- तेषां शनैर्ययौ। विसंशोऽल्पपदन्यासो निश्वसंश्च पुनःपुनः।। अन्तर्मन- गलो भारादूरं ते पुरतो ययुः। शनैस्तटाकमासाद्य भृशोदन्याप्रपी- डितः ॥२०॥ काष्ठभारं वहन्नेवात्यशक्तो भारकातरः । आस्वदन्नं प्रविश्याप्सु तसिन्पिबति शीतलम् ॥ प्रमादात्पतितो भारः पीत्या तोयं यथेच्छतः । तीरे भारं समानीय समाकृष्य जलात्ततः ॥ सुविश्रम्य मुहूर्त तु तीरे भारश्रमातुरः। वितुदन्मस्तको भूत्वा बन्धा- 61 अ०.२५.] हरिश्चन्द्रोपाख्यानम् । भावादथातुरः। स वल्मीकाग्रसंरूढान्कोमलाग्रान् सुदीर्घकान् । तद्ध- न्धकरणार्थं तान् गृहीतुमुपचक्रमे ॥ यावत्प्रसार्य हस्तं तान् कुशान् गृह्णाति भूपजः। तावत्स कृष्णसर्पण संदष्टो मुनिचोदनात् ॥२५॥ सर्वावयवसंरोहद्गरलाक्रान्तमस्तकः। अदशत्कृष्णसो मां हाहेति प्ररु- रोद ह ॥ क्रोशन्नुच्चैःपपातोा ममार च नृपात्मजः। दृष्ट्वा ते बालकास्सर्वे भारान् विन्यस्य भूतले ।। मृतं बालं विनिश्चित्य भारा- नादाय ते पुनः । गत्वा न्यवेदयन्मात्रे सर्पदष्टं सुतं मृतम् ॥ गत्वा पश्यानय सुतं वर्तन्यैवाधुना शुभे । सुव्यक्तया न भेतव्यमार्द्रपल्लव- चिह्वया ॥ श्रुत्वा साऽपि पपातोळ मर्छया च परिप्लुता । सा ससा राबुदभ्रष्टा चञ्चलेव नृपांगना ॥३०॥ तमुदन्त ततः श्रुत्वा चामर्षा- त्कालकौशिकः । कशामादाय लोहाग्रां यावदायाति कौशिकः।। ताव- न्मुहूर्तादाश्वास्य स्वयमात्मानमात्मना । गृहं गन्तुमुपाक्रामच्चित्तविन्य- स्तरोदना ॥ सा विह्वलाङ्गयष्टि स्वां मार्जयन्त्यश्रुसन्ततिम् । शून्यं जगत्प्रपश्यन्ती निरालोकं निरास्पदम् ॥ अथ विप्रेण सा मार्गे ताडिता कशया बहु । राजानं चितयंती च दिष्टं चैव पुराकृतम् ।। न किचिदूचे विप्रं च साऽस्तु वा माऽस्तु वा तदा । गृहकृत्यमशेषेण- कृत्वा याहि कुलाधमे।।३५।। बहुमूल्यक्रयक्रीता दासाऽभूत्स ममाधमे । ममैव हानिस्तन्नाशे काऽपि हानिन तेऽधम।। मातृपुत्रत्वसंबन्धो युवयोः कः परालये । तावुभौ स्वामिनः पुत्री स्वाम्याज्ञावशगौ यतः ॥ दासि कस्माद्रोदिपि त्वं कार्यार्थ गृहमात्रज । यतस्त्वद्धानिवृद्ध्यो- हि स्वयं यास्यामि बालिशे ॥ त्वमागच्छ गृहे कार्य कुरु रास- भधर्मिणि । उक्त्वैवं ताडयित्वाऽथ गृहं तामनयविजः ॥ गत्वा तटाकात्सा साध्वी कालकौशिकवेश्म तत् । संत्यक्तरोदना धीरा गृह- कृत्यमथाऽकरोत् ॥४०॥ नेषु सर्वेषु भुक्तेषु रात्रौ भुक्त्वा नृपाङ्गना। पुरादहिविनिर्गत्य क्रोशन्ती कुररी यथा ॥ सुतपञ्चत्ववातौघदुःखदा- वाग्नितापिता । बालकादिष्टया तन्वी वर्तन्या पत्रलक्ष्मया ॥ गत्वा THE (UPPUSY! AMI SASTRI RESEARCH INSTITUTE 10-1 MADRAS.4 ७४ हरिश्चन्द्रोपाख्यानम् । [अ०. २५. तटाकतीरांते वल्मीकोपांतशायिनम् । शिरोपांतस्थकाष्ठौघं विवर्ण- वदनाम्बुजम् ॥ प्रसारितायतभुजपदद्वंद्व भयानकम् । कम्बुकण्ठं महोरस्कं पीनांसं वृषभेक्षणम् ॥ *मुक्तापूरितशुक्लास्यं हेमादर्श कपोलकम् । तिलप्रसूननासाग्रमष्टमीशशिसन्निभम् ।।४५॥ सुस्निग्ध- नीलकेशांतं पाश्चजन्यनिभश्रुतिम् । वृकोदरलसत्तिर्यक्त्रिवलीशालि- तोदरम् ।। तिरस्कृतेभनासोरुमीपदुन्नतजानुकम् । न्यकृतस्मरतूणीर- जवाद्वयमनोहरम् ।। सविन्यस्तातिरूढोरुगुल्फद्वंद्वविराजितम् । कूर्मो- र्द्धभागविलसत्पादपृष्ठद्रयाश्चितम् ।। स्वर्गलोकात्सुविभ्रष्टं जयन्तमिव भूगतम् । किवा को पतितौ स्वर्गादश्विनावेकतां गतौ ॥ पुराराति- भयात्कामस्त्यक्त्वा रतिमिहागतः । किवा कौशिकरोषेण दिवं त्यक्त्वा दिवाकरः ।।५०॥ शेते वाऽसाविहागत्य हरिश्चन्द्रव्यथातुरः। पश्यन्तीत्थं सुतं साध्वी नासाविन्यस्ततर्जनी ॥ अहो मे महदाश्चर्य विधे तव विचेष्टितम् । एतावदुःखमतुलं मया ते सञ्चितं पुरा ।। अधुनाऽस्मि त्वया नूनं क्लेशितास्मो भृशं वयम् । इत्थं विचिन्त्य मनसि सुतं दृष्ट्वा मुहूर्तकम् ।। उदरं स्वं ताडयित्वा पतिता तस्य वक्षसि । लब्धसंज्ञा च सा देवी दुःखेन प्रेरिता स्थिता ॥ रुरोद भृशमुद्विग्ना रोदयन्ती वने स्थिताः । देवताश्च मृगान्पक्षीन् वृक्षगुल्म- लता अपि ।।५५॥ दिवसः को विनाऽर्केण विना चन्द्रेण का निशा । विना वृषेण का गौरी माता पुत्रेण का विना ।। पत्या विना च का भार्या कः पतिर्भार्यया विना। विना धर्मेण को लोकः कः पुमान् विद्यया विना ।। उत्तिष्ठ पुत्र गच्छावः कि मां त्वं नाभिभाषमे । त्वया विना न यास्यामि विवत्सा सुरभिर्यथा ।। पितृविक्रयदोषेण किं त्वं कोपेन तिष्ठसि । द्रव्याभिलाषया राजा न त्वां विक्रीतवान् सुतम् ।। सत्यप्रतिज्ञारक्षार्थ न तं क्रोढुं त्वमर्हसि । उत्तिष्ठ वत्स मे नाथः पिता त्वां प्रतिमोक्षिता ॥६०॥ उत्तिष्ठ राजशार्दूल मां दृष्ट्वा मम सत्सुत । ममानन्दलताकन्द मम प्राणावलम्बन ॥ मम वाञ्छालता- अ०. २६.] हरिश्चन्द्रोपाख्यानम्। ॥ पन्न मद्गजेन्द्रशिशूपम । उत्तिष्ठ केसरिशिशो मम शोकमपानुद ॥ संस्थापय मम प्राणान् नोचद्यास्याम्यहं क्षयम् । उत्तिष्ठ माऽभिषिञ्चल त्वचोमृतधारया ॥ क्व यास्यामि विनाऽहं त्वां कुतो मे त्वां विना गतिः । कैस्साकं किमहं वक्ष्ये को मे दुःखं विनाशयेत् ॥ दुःखिता दुःखिता चाहं दुःखिता दुःखिता भृशम् । क्लिष्टा चाहं पुनःक्लिष्टा क्लिष्टा चाहं पुनःपुनः। रुदित्वैव चिरं देवी चुक्रोशोच्चतरं पुनः॥६५॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः ॥२६॥ मार्कण्डेय उवाच-एवं रुदन्त्या राजेन्द्र चन्द्रवत्या महा- ध्वनिः। कर्ण विदारयामास श्मशानस्थस्य भूपतेः ॥ श्रुत्वा तद्रोदनारावं हृदयद्रावकं परम्। महावने महारात्रौ का नु रोदिति सुस्वरम् ॥ प्रेतेन तत्र भाव्यं तु विचार्येत्थं नृपोत्तमः। मन्त्रिणं तत्र संस्थाप्य रोदनारावमन्वगात् ॥ जिज्ञासार्थ क्षणं तस्थौ गुल्मा- न्तरित एव च। तदापि सा विशालाक्षी पुत्र पुत्रेति रोदिति ॥ इयं का नु सुतोऽयं क इति चिन्तातुरो नृपः। मयापि श्रुतपूर्वोऽयं रोदनध्वनिरुच्चकैः ॥५॥ विचिन्त्यैवं चिर राजा कि मे कार्यमनेन हि। स्वामिकार्यप्रवृत्तस्य निश्चित्यैवं स सत्वरः ॥ शववासस्तदा- दातुं स्वामिनोक्तमहापयन् । प्रेतान्तिकमुपागच्छत्सा भीता दूरतो गता ॥ राजा चण्डालवेषेण वासः शवमुखार्पितं । अपानयति हस्तेन तमस्यन्धे नरेश्वर ॥ गृह्णन्तं पाणिना भूपं राज्ञी वचन- मब्रवीत् । खादस्व रक्षः पुत्रं मा मां च खादस्व दुःखिताम् ॥ अनंतपारदुःखोदशोककल्लोलताडिताम् । निर्विण्णां भक्षयित्वा मां सुतृप्तो भव राक्षस ॥१०॥ त्यज पुत्रमिमं बालं जीविष्यति बलाद्यदि । हा रक्षो भक्ष मां दीनां सुपुत्रेण विना हताम् ॥ इत्युक्त्वा शवमागत्य तमागत्य प्ररोदिति । न पारयामि मे पुत्रं भक्ष्यमाणं त्वयेक्षितुम् । व्यापाद्य मां राक्षसेन्द्र यथेष्टं भक्ष मा ७६ हरिश्चन्द्रापाख्यानम् । [अ०. २६. चिरम् ॥ मार्कण्डेय उवाच- राक्षसेति वच श्रुत्वा तयोक्तं भृशकातरः । राजा दध्यौ चिरं स्वांतः किमहं राक्षसोऽभवम् ।। कुतो मे राजवेषस्सः कुतो मे कान्तिरुत्तमा। कुतो मे रूपलावण्यं कुतो मे मधुरा च वाक् ॥ सुस्निग्धनीलकेशांत आकारः शांभन कुतः। इत्यात्मनि सुसंचिन्त्य राजा तामब्रवीत्पुनः {१५॥ शववस्त्रं तदा- दाय चोचेस्थित्वाऽतिविस्मितः । न राक्षसोऽहमबले न भेतव्यं त्वयाऽनघे ॥ मानवोऽहं प्रजानाथो मनुवंशप्रवर्धनः । शृणु कल्याणि मद्वाक्यं भयं त्यक्ता स्थिरा भव ॥ हरिश्चंद्र इति ख्यातो यदि दृष्टः श्रुतस्त्वया । तं मामवेहि कल्याणि न भीः कार्या कदाचन ॥ अयोध्यायाः पती राजा इक्ष्वाकुकुलनन्दनः। उशीनरसुता भार्या लोहिताश्वश्च मे सुतः ॥ सप्तद्वीपार्णवा पृथ्वी मद्धाहुबलमाश्रिता । कुतोऽपि कारणाद्भद्रे राज्यात्प्रभ्रंशितोऽस्म्यहम् ॥२०॥ अन्यो- न्यस्पर्धया भद्रे विश्वामित्रवसिष्ठयोः । ममदेहाप्रभागा सा मम पुत्रो- ऽहमेव च ॥ सत्यप्रतिज्ञारक्षार्थ विक्रीतौ कालकौशिके। अहं मयापि विक्रीतचंडाले वीरवाहुके ॥ दत्तं श्मशानपालत्वं तेन मे तनुमध्यमे । तवेदं रुदितं श्रुत्वा स्वाम्याज्ञावशगोह्यहम् ॥ शव- द्रव्यमुपादातुमागतोऽहमिहानघे । अतोऽहं राक्षसो नैव पश्य मे वैधसी क्रियाम् ।। मार्कण्डेय उवाच- ततो देवी महाभागा हरिश्चन्द्रं महीभुजम् । विज्ञाय वचसा व्यक्तं भूपस्य व्यथिता बभौ ॥२५॥ उत्थाय सहसाऽऽगत्य हाहा हाहा अहो अहो । क्रोशंत्युच्चैस्तरां तस्य पादयोः पतिताऽग्रहीत् ॥ हरिश्चन्द्र उवाच- का त्वं कोऽहं किमर्थ त्वं पतिता मम पादयोः। चण्डा- लोऽहं न जाने त्वामित्थं तां सोऽभ्यभाषत ॥ मा मा मां स्पृश भद्रं ते चण्डालः पतितोऽस्म्यहम् । इतीदं वचनं साध्वी नाशृणी- न्मूर्छिता तदा ॥ समाश्वस्ता मुहूर्तेन भर्तारमिदमब्रवीत् । हाहा हंत ममैकांत क तद्रूपं मनोहरम् ।। क्व नु सा मधुरा वाणी क १.९
अ०. २७.]
हरिश्चन्द्रोपाख्यानम्
७७
--
चाकारो मनोहरः। क सा हा कांतिरतुला क नु ते रूपमुत्तमम् ॥३०॥
कुत्सितं गर्हितं कष्टं कुतस्ते समुपागतम् । चण्डालं सुपरित्याज्यं
सर्ववर्णविगर्हितम् ॥ अहं ते महिषी राजन्पित्रा दत्ताऽग्निसाक्षि-
कम् । उशीनरेण भूपेन्द्र चन्द्रवत्यसि नामतः॥ भार्या तवाहं दासी-
च च्छायावत्त्वदुपाश्रया । लोहिताश्वः सुतोऽयं ते तव वंशविवर्धनः।।
हृदयानंदजननस्तव वंशस्यभूषणम् । येन त्वमनृणो लोके कुलो-
तारणसूनुना ॥ सोऽयं तवौरसः पुत्र इंधनार्थ गतो वनम् । सर्पदष्टो
मृतः प्रायादारमनांगकंधरः । त्वत्कोपानंदनारण्ये क्रीडितुं
चाप्सरोगणैः ॥३५॥
इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने षड्डिशोऽध्यायः॥
सप्तविंशोऽध्यायः ॥२७॥
मार्कण्डेय उवाच- मृतं पुत्रमथाकर्ण्य विह्वलो गतचेतनः ।
पपात मूर्छितस्सोऽपि छिन्नमूल इव द्रुमः ॥ समाश्वस्तस्ततो राजा
लब्धसंज्ञो नृपोत्तमः । बाष्पपर्याकुलो भूत्वा विललापातिदुःखितः ॥
नष्टोऽस्मि पुत्र नष्टोऽस्मि का गतिर्मम पुत्रक । विहाय पुत्र मामेवं का
गति प्रतिपत्स्यसे | कस्याननं प्रपश्यामि कं च बालालपाम्यहम् ।
एकस्त्वमसि मे पुत्रो महतस्तपसो व्ययात् ॥ देवानां च ऋषीणां च
पितृणां च ऋणत्रयम् । क्रमेणैव प्रहातव्यं त्वयासंक्रामितं मम ॥५॥
को दिशं प्रतिपत्स्येऽहं कं च वा शरणं व्रजे । कं देशं
प्रतिपत्स्यामि को मे दुःखं निवारयेत् । प्रियैराख्यानकथनैः को
मां संतोषयेत्सुत ।। किं मयाऽपकृतं वत्स कमान्मां नाभिभाषसे ।
मूल्यविक्रयदोषेण किं मां नैवाभिभाषसे ॥ उत्तिष्ठ वत्स किं
शेषे श्मशानेऽसिन्सुदारुणे । शवभमसुदिग्धांगः क्षीणपुण्यस्सुरो
यथा ॥ कुरुष्व पूर्णमुत्संगं पूरयख मनोरथं । संमार्जयाश्रुपातं
मे समाश्वासय मातरम् ॥ एषा ते विक्लवा माता संभाष-
यितुमिच्छति । विवृत्य वदनं पुत्र वद मे किमपि प्रियं ॥१०॥
७८ हरिश्चन्द्रोपाख्यानम् । [अ०. २७. उन्मील्य नयने पश्य शोकाग्निक्लिष्टमाननम् । संस्थापय मम प्राणा- न्हृदयप्राणवल्लभ ॥ मार्कण्डेय उवाच-एतस्मिन्नंतरे राजन्विश्वामित्रो वियद्गतः । आपूरयन्दिशस्सर्वा देववाद्यमहास्वनैः ॥ प्रकिरन्पुष्पवर्ष च खभासा द्योतयन्दिशः। धीरोदात्तस्वरो धीमान् राजानमिदमब- वीत् ॥ शृणु गजन्हरिश्चन्द्र वचो मेऽवहितश्शुभम् । तथ्यं पथ्यं हितं चैव लोकयोरुभयोरपि ॥ जीवंतं चेच्छसि यदा कुमारं कुल- भूषणम् । दासीभावविमुक्तां च तव पत्नी यशस्विनीम् ॥१५॥ जयाविजययोः पाणि गृहाण पृथिवीमपि । विक्रीता गृहिणी पत्नी भवता न हि ते सती ।। अनाश्रमी न तिष्ठेस्त्वं क्षणमात्रमपि प्रभो। वहस्व कन्यके मह्यं नानृतेनोच्यते नृप ॥ गृहाण पाणिं धर्मज्ञ सुतयोर्मम मा शुचः। अकार्यकोटि कृत्वापि भुक्त्वाऽभाग्यशतानि च ॥ चण्डालात्प्रतिगृह्यापि कृत्वा वारिधिलंघनं । राज्ञस्संसेव्य चात्यंतं कुटुंबं विभृयान्नरः ॥ कुटुंबभरणासक्तो येन केनापि वा नृप। संपोष्य भृत्यवर्गाश्च गृही स्वर्गाय कल्पते ॥२०॥ कि बहूक्त्या नृपश्रेष्ठ शृणु मे वचनं परम् । स्थापयिष्याम्यहं स्वर्गे भवन्तं भज मे सुते ॥ नो चेदितोऽपि महतीमापदं प्रतिपत्स्यसे । दुरन्तां मरणा- न्तां च पुत्र्यो मे भज भूपते। न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषुराजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पश्चानृतान्या- हुरपातकानि ॥ राज्ञा चोरेण वा प्राप्ते सर्वस्वहरणे नृप । चोरग्रस्ते तन्मरणे मिथ्योक्तं स्वर्गदं विदुः ॥ मार्कण्डेय उवाच- एवमुक्ते मुनी तस्मिन् छलवादिनि सर्वदा । उत्स्मयित्वाऽथ राजेन्द्रः पुन- र्वचनमब्रवीत ॥२५॥ हरिश्चन्द्र उवाच- बुद्धिमानसि विप्रेन्द्र सर्वज्ञोऽसि भवानहो। अतत्वज्ञप्रणीतस्य शास्त्रस्यास्य बिभेम्यहं । कुशास्त्रमार्गनिरता यौक्तिका हेतुवादिनः। यथावसरवक्तारः प्रयान्ति नरकान् बहून् ॥ पंचानृतान्यपि वदेत्परस्यापि हिताय हि । अश्वमेधायुतं पुण्यं सत्यं च तुलया धृतं ॥ अश्वमेधायुतात्पुण्या- अ०. २८.] हरिश्चन्द्रोपाख्यानम् ७९ त्सत्यं दशगुणोत्तरम् । एकप्राण्युपकारश्च महादानशतानि च । महादानशतेभ्यश्च विशिष्टं ोकरक्षणम् । आत्मार्थ प्रवदन्मयो नरक चोपपद्यते ॥३०॥ पितात्वमेव माता मे गुरुबन्धुस्त्वमेव मे । पुत्रोऽहं तव शिष्योऽहं दासोऽहं ते मुनीश्वर ॥ तन्मामेवं समुद्दिश्य मा वादीरशुभं वचः । न च द्वेषान्न च क्रोधान्न भयानार्थकारणात् ।। न हेतुवादादाक्षिण्यात् न स्नेहान्न च चापलात् । न पक्षपातादालस्या त्स्वमेऽपि स्खलनेऽपि वा ॥ दुःखे प्राणात्यये वाऽपि नानृतं वक्तु- मुत्सहे। राज्ञैवमुक्तो गाधेय स्तत्रैवान्तर्हितोऽभवत् ॥ अहोऽस्य धीरता राज्ञ इति विस्मितमानसः। संत्यक्तचोदनो धीरः शोकमोही विसृज्य च ॥३५॥ इति श्रीमन्महाभारत वनपर्वणि हरिश्चन्द्रोपाख्याने सप्तविशाऽध्यायः अष्टाविंशोऽध्यायः ॥२८॥ हरिश्चन्द्र उवाच--- इमं बालं समादाय यास्यामि पितृकान- नम् । इतोपरि स्थितेऽस्माकमशुभं संभविष्यति ॥ त्वं चाशु गच्छ भद्रं ते दिष्टं मनसि निश्रितम् । त्वदर्थ चापि पुत्रार्थ प्राणार्थ चापि भामिनि ॥ असत्यं नात्सहे वक्तुं सत्यं मे परमागतिः । माता पिता सुतो भार्या मित्रसबन्धिबान्धवाः ।। सुहृन्मित्राणि भृत्याश्च सुलभा जन्मजन्मनि । मरणानि च जन्मानि सत्यमेकं सुदुर्लभम् ।। नाथस्य भवनं गच्छ त्वमज्ञाता यथागतम् । क्रयकर्तुः कार्यलोपात्त्वं यास्यस्य- ऽधमां गतिम् ॥५॥ त्यक्ता शोकं च दुःखं च बुद्धिमास्थाय सात्वि- कीम् । अतीतं नानुशोचस्त्वं दिष्टं मत्वा बलोत्तरम् ॥ मार्कण्डेय उवाच-अथ शोकपरीताङ्गी प्रस्खलन्ती पदे पदे । दैवमेवानुशोचन्ती प्रस्थिता ब्राह्मणालयम् || मध्ये मार्ग ददर्शाऽथ सा चोरान् गूढ- संस्थितान् । आदाय बालकं कंचित् द्रव्या, भीमविक्रमान् ॥ व्या- पाद्यमानस्तैीमैर्द्रव्यार्थ बालको रुदन्। मा माऽवधीष्ट मां यूयं द्रव्य- माच्छिद्य गच्छत ।। इत्थमार्तखर श्रुत्वा कृपाविकृतमानसा । न हन्त- हरिश्चन्द्रोपाख्यानम् । [अ०. २८. व्या न हन्तव्यो बालोऽयं मुच्यतामिति ॥१०॥ यदि राजा प्रमाणं वो काशीशो धार्मिकप्रियः । क यास्यथ शिशुं हत्वा द्रव्यमाच्छिद्य पापिनः॥ न गन्तव्यं न गन्तव्यं न गन्तव्यं पदात्पदम् । इति तद्वचनं श्रुत्वा भीताश्चोरा व्यचितयन् । गृहीत्वा पादविक्षेपमागताःपालका इति । भिया सन्त्यज्य तं बालं चोरास्ते प्रद्रुता द्रुतम् ॥ बालस्या- भ्याशमागत्य तमुवाच पतिव्रता। न भेतव्यं न भेतव्यं न भेतव्यं त्वया शिशो ॥ इदानीमागमिष्यन्ति त्वदीया भवदन्तिकम् । मारो- दीर्याम्यहं वत्स परिसान्त्व्येति सा गता ॥१५।। पुरपालास्ततस्सर्वे गूढाः शब्दानुगामिनः । ददृशुस्ते तदाऽऽगत्य बालकाभ्यर्णसस्थि- ताः।। समाश्वास्य शिशुं दूरे संस्थितां करुणास्पदम् । महान्धकारे संस्यू- त प्रज्वलद्दीपपाणयः ।। विचिन्वन्त स्ततचोरान्नापश्यन्कुत्र कञ्चन । द्रव्यं बाल च ता दृष्ट्वा नापश्यन्कश्चनापरम् ।। तामवोचन्ननार्ये त्वं कुत्र यासि कुलाधम । पुत्रसूरिसूनत्वं न प्रसूताऽसि सत्कुले ॥ शिशुनी वध्यतामेषा लब्धद्रव्यापहारिणी । अस्माभिस्स्त्री न हन्तव्या राजानं प्रापयामहे ॥२०॥ इत्युक्ते कैश्चिदपरे तामपृच्छन्नृपोत्तम का त्वं कस्य सुता भार्या कस्य तं भवनं कुतः।। बाल किमर्थमाहारिधुनाs त्रागता कथम् । अन्धे नमसि दुष्पारे निर्मीता कथमागता || एका- किनी सहायं ते न पश्यामो हि कञ्चन । अरण्यवासिनी नित्यं कि वा त्वं वनदेवता || श्मशानदेवता वापि यथार्थ कथयस्व नः । भवत्याऽपहृतो वाऽयं किमन्येनाहृतो वद ॥ मार्कण्डेय उवांच- पृष्टैवं सा दुराचारैः किश्चिन्नोवाच विह्वला । साधु वाऽसाधु वाऽथापि कवलं धर्मतत्परा ॥२५॥ एतस्मिन्नन्तरे गजन् विश्वामित्रो महातपाः। आवर्तयंस्तंभविद्यां वास्तंभं ह्यतनोत्तदा || मत्रस्तंभितवाक्साध्वी नासाग्रन्यस्ततर्जनी । स्थिता स्मिता भागधेयं प्रशशसात्मनि स्थिरम्॥ साधु साधु विधे साधु न कोऽपि सदृशस्तव । भवदुद्दिष्टपन्थानमात्म- भूरपि हंत न॥ अतिक्रांतुं हरो वाऽपि हरिर्वा शक्नुयादहो । इति अ०. २८.] हरिश्चन्द्रोपाख्यानम् । ८१ विस्मितचित्तांतामियं चोरेति ते खलाः॥ सम्यक्पश्चादृढं बध्वा नेतु मारेभिरे तदा । ततः सा बालचोरेति चारैरुक्ताऽतिसाहसः ॥३०॥ प्रावेपत महाभाग प्रवाते कदली यथा। अहो किं बालचोराऽहं साधु साधु विधे नमः ॥ विस्मितामात्मनीत्थं तां पाशबद्धां नृपोत्तम । अज्ञाततदुदन्तास्ते पुनरूचुरनिन्दिताम् ।। कथं पापे दुराचारे निशीथे निरपत्रपे । स्वपुत्रसदृशं बालं कुतो हिसितवत्यसि ॥ तैरेवमुच्य- मानाऽपि सा नोवाच शुभाशुभम् । कशया ताडिता घोरैस्साऽचोरा पापकर्मभिः ॥ भर्तुर्वियोगदुःखेन पुत्रस्य मरणेन च। धिकृत्य मानुषं जन्म मृत्युमेवाभिनन्दति ॥३५॥ न हि कर्मक्षयाजातु ऋते देहः पतिष्यति । एतद्भाधाशतं सर्व मन्वाना प्राकृतं जने ।। मौनेन नीय- माना सा स्थापिता राजसन्निधौ । सभ्यः शास्त्रार्थतत्त्वज्ञैः पृच्छयमाना पुन पुनः । तत्र वृत्तान्तसंबद्व नाब्रवीत्साध्वसाधु वा । तेहोचुः पाल- काः सत्य विनैतां तत्र केचन ॥न सन्ति लुण्ठकाः संभ्याः चोरैवेयं न संशयः । बालकस्यान्तिके चेयं धनं चास्याः पुरस्स्थितम् ॥ पद- पतिर्न दृष्टा च चोराणां वसुहारिणाम् । राज्ञा पृष्टास्सदस्यास्ते वध्यतां बालघातिनी ॥४०॥ सुचित्रवधयोग्येयमित्युक्त तेनूपोऽब्रवीत्। व्या- पाद्यतामियं दुष्टा दृष्टा विकृतदर्शिनी। पतिघ्नी च शिशुनी च निहन्त- व्या न संशयः ॥ मार्कण्डेय उवाच-आज्ञप्तास्ते नरेन्द्रेण तामानीय पतिव्रताम् । उदितारुणवेलाया वीरबाहोस्समार्पयन् ॥ उत्तिष्ठोत्तिष्ठ चण्डालं वीरवाहो नृपाज्ञया । छिन्द्ध्येतां राजतनयभूषणान्यप- हारिणीम् ॥ वीरबाहुस्ततोवाक्यमब्रवीदात्मज तदा । उत्थाप्य तामयं दासः शेतेऽद्यापि सुमन्दधीः॥ स चण्डालसुतो गत्वा पुण्य- श्लोकोटजं नृप । प्राबोधयरिश्चन्द्रमात्मध्यानपरायणम् ॥४५॥ तं सपदष्टमाज्ञाय श्मशाने सनिर्धाय च | सुप्त्वाऽर्धरात्रं खं पुत्र- मुत्थायोषसि संस्थितम् ॥ उत्तिष्ठ दासापशद दासदासाधमाधम । विस्मृत्य स्वामिकार्याणि शेषे कि त्वं प्रमीतवत् ॥ आज्ञापयति ते 11-1
८२
हरिश्चन्द्रोपाख्यानम् ।
[अ०. २९.
स्वामी वीरवाहुः पिता मम । शेषे कि भास्वत्युदिते निद्रा दासस्य
नोचिता ॥४८॥
इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने अष्टाविशोऽध्यायः
एकोनत्रिंशोऽध्यायः ॥२९॥
मार्कण्डेय उवाच- इत्थं प्रबोधितस्तेन शयनादुत्थितो
नृपः। खाम्याज्ञावशगो धीमानुवाचात्मनि दुःखितः ॥ हरिश्चन्द्र
उवाच-वेदार्थे संशयः कि वा वेदान्ते न्यायविस्तरे। प्राभाकरे वा
भाट्टे वा मीमांसाद्वितयेऽपि वा ॥ वैयाकरणशास्त्रे वा कल्पशिक्षानि-
रुक्तके । छन्दस्सु ज्योतिषे वापि पुराणेषु च सशयः ॥ ऋग्वेदे
सामवेदे वा मत्रब्राह्मणनिर्णये । आयुर्वेदे धनुश्शास्त्रे गान्धर्वे नीति-
शास्त्रके ॥ सर्वयागेषु यज्ञेषु सशयः सवनेषु च | *पश्वकादशनी
वापि यूपैकादशनीमपि ॥५|| पशुसोमविकारेषु प्रायश्चित्तेषु सर्वशः।
कैश्च देवासुरे युद्धे असुरैर्योधयाम्यहम् ॥ वीरबाहुरुवाच - त्वया
वध्योरिपुर्योऽस्ति न कश्चित्पृथिवीनले। अजातशत्रु मां विद्धि तस्मा-
च्छृणु वचो मम ।। हन्तव्यैषा दुराचारा बालद्रव्यापहारिणी। पतिप्नी
च महाघोरा राजाज्ञापरिपन्थिनी। असिना तीवधारण शिरःकाया-
दपाहर ॥ हरिश्चन्द्र उवाच- अहो पापमहोपापं शान्तं पाप पुनः
पुनः । हन्त हा हा विधे पापिन् कि मां खेदयसे भृशम् ॥ भग्नाक्षं
शीर्णकवचं न्यस्तशस्त्रं पराङ्मुखम् । दष्टांगुलि कीर्णकेशमपुत्रं चैक-
पुत्रिणम् ॥१०॥ स्त्रीसंज्ञकं च स्त्रीपूर्व भीतं च शरणागतम् । न
कदाचिद्धनिष्यामि सोऽहं हन्यां कथं स्त्रियम् ।। बालवृद्वातुरक्लीब-
बधिरव्यङ्गपगुकान् । स्त्रैणवामनकुब्जादीन् न हन्युर्धर्ममानिनः ॥
स्त्रियःसर्वा न वध्याश्च ह्यपराधशतेष्वपि । न हन्यात्पुरुषो युद्धे स्त्रिय-
मप्याततायिनीम् ॥ स्वयं तया हि मर्तव्यं तां हन्यान्न कदाचन ।
स भूपतेर्वचः श्रुत्वा वीरबाहू रुषाकुलः ॥ अब्रवीत्परुषं वाक्यं
स्वजातिसदृश नृप। मदीयं धनमाच्छिद्य निवेद्य ब्राह्मणाय च ॥१५॥
८३ अ०. २९.] हरिश्चन्द्रोपाख्यानम् । दासो भूत्वा ममाद्यत्वं प्रज्ञावादांश्च भाषसे । एवं तदा त्वया नोक्त यदाऽहमददां धनम् ॥ ममाज्ञां तां पुरस्कृत्य न हन्या यदि पापि- नीम् । छिनधि तव मूर्धानं कुरु शीघ्रं मयोदितम् ॥ यो दोषो हनने चास्याः सोऽस्तु नैव तवानघ । पोतापहारिणी छिन्धि मच्छासनपुर- स्सरम् ॥ सत्य मच्छासन चैव प्रमाणं यदि तेऽनघ । छिन्धि चास्त्र- प्रपातेन नोचेत्तदेहि मे धनम् ॥ मार्कण्डेय उवाच- तस्य तद्वचनं श्रुत्वा स राजा पाण्डुनन्दन | सूनास्थानं समानीय स्थापयित्वा मही- तले ॥२०॥ आदाय विपुलं खङ्गं व्याघ्रचर्मसमावृतम् । कोशाद्वि- कृष्य तं खरं रविमण्डलसन्निभम् ॥ उद्धृत्य दक्षिणं हस्तं विनाम्य च शिरोधराम् । अजस्रावभृथााकेशेष्वाकृष्य पाणिना ॥ दिशोऽवलोक्य परितो भानुमात्मानमेव च। कालकर्मानुगैश्चैव वचनं चेदमब्रवीत् । एवं हि बलवल्लोके कर्म हन्त जगत्त्रये । श्रनिरापराधिनं कालमज्ञो लोको विनिन्दति । अज्ञात्वाऽऽत्मकृतं मूढः स्वकृतं चैक विन्दति । उक्ता सती नृपोऽवादीद्विधि भूयो नरेश्वरः। शोकमोहपरी- तात्मा विस्मृतात्मानुभावतः ।।२५।। हरिश्चन्द्र उवाच- भागधे- य नमस्तेऽस्तु बलवानीदृशो भवान् । अन्ये खलु न सन्तीह पृथि- व्यां बाहुजा विधे ।। अबलाऽतिविशालायां मद्धस्ते बाधितुंगत्वया । कि मयाऽपकृतं भद्र विधे तव पुराभवे ॥ येन नानाप्रकारैस्त्वं मामेवमनुवर्तसे । पृथिव्यां सागरान्तायां भूपालान् सर्वशस्त्वया ॥ विसृज्यैतान् जनपदान् कथमासादितोऽस्म्यहम् । मया कारयितुं कर्म कुत्सितं लोकगर्हितम् ॥ सद्भिर्विगर्हितं चापि स्त्रीवधं नीच- चेष्टितम् । भ्रूणहत्याधिकं चैतल्लोकत्रयविनाशनम् । अयुक्तं ते विधे- तुभ्यं नमस्ते त्यजमामितः।।३०॥ ये धर्मनिरताश्शांतास्सत्यवन्तोऽन- सूयकाः । न प्राप्नुवन्ति ते कापि विपदं काश्चिदेव हि ॥ एवं बहु- विधं दीनं विलप्य स विधिं प्रति । पुनर्दिशोऽवलोक्याह भायां परमशोभनां ॥ चिन्तयस्व यथाकालं मरणं त्वामुपस्थितम् । इष्टा ते हरिश्चन्द्रोपाख्यानम् । [अ०. २९. । देवता काचिद्या ते हृद्यनुभाविता ॥ मार्कण्डेय उवाच-उक्तेति सा तदा देवी हरिश्चन्द्रेण धीमता। समाधाय मनस्स्वस्थं देवतां स्वामुदैर- यत् ॥ चन्द्रवत्युवाच- आढ्यो वाऽथ दरिद्रो वा सुभगो दुर्भगोऽपि वा। मूर्यो वा पंडितो वापि बधिरः काण एव वा ॥३५॥ कुब्जो वा वामनो वापि जडो न जड एव वा। धर्मिठो वाप्यधर्मिष्ठो व्याधितस्सु- खितोऽपि वा ॥ महापातकद्वापि हयमेधयुतोऽपि वा। स्त्रैणा वा द्यूत- देवी वा धूर्ती वा पापकोटिकृत् ।। सत्यवादी दयामूर्तिर्दयावान्धर्म- तत्परः। वदान्यो वेदविद्वाग्मी सप्तद्वीपाधिपो बली ॥ अश्वमेध- सहस्राणां यष्टा दाता धनस्य च । ममेष्टदेवता राजा हरिश्चन्द्रो दया- परः ॥ तदन्यां देवतां कां चिन्नाहं जानामि भूतले। तन्ममास्तु हरिश्चन्द्रो भर्ता जन्मनि जन्मनि ॥४०॥ यदि देवाः प्रसन्ना मे ब्रह्मविष्णुशिवादयः । हरिश्चन्द्रो भवेद्भर्ता मम जन्मनि जन्मनि ।। यदि धर्मःप्रसन्नो मे यदि मे स्यादिवाकरः । एकस्य चाहमेकस्यां जाता यद्यस्मि भूतले । मत्येन तेन मे भी हरिश्चन्द्रोऽवनीश्वरः । स एव देवतेष्टा मे महादेवस्सएव मे । ब्रह्मा च मे हरिस्साक्षात्स्वर्गो मोक्षस्स- एव मे । आकर्ण्य वचनं तस्याः किंचिदभ्युदिते रवौ। हरिश्चन्द्रोड ब्रवीद्भायां स्वामिशासनतत्परः ।। हरिश्चन्द्र उवाच- राज्यलक्ष्मी- वीरलक्ष्मीस्तिस्रो भार्यास्त्वमेव मे । ते मां त्यक्ता गते पूर्व त्वं च मां त्यक्ष्यसि प्रिये ॥४५|| सोढो मया नद्वियोगस्त्वद्वियोगो न हि क्षणम् । किं देवि ते मया कार्य त्यजेमां मत्प्रसङ्गतिम् ।। स्वयं त्वां विनिहन्तारं त्यज मां पापिनं प्रिये । भवद्भरणमत्यर्थ शरणं याहि भास्करम्। स दास्यति पति सौम्यमायुष्मंतं च रक्षकम॥ चन्द्रवत्युवाच- धन्या- स्म्यनुगृहीता च सफलं जन्म जीवितम् । कृतार्था कृतकृत्याऽहं सदृशी न मया भुवि ॥ कियत्कालं मया तप्तं तपःपूर्व भवांतरे। भूत्वा तवाह भार्या च त्वत्तो मरणमाप्नुयाम् ।। न च मन्युस्त्वया कार्यो क्धं प्रति ममाच्युत । कालो हि बलवान्लोके कालो हि दुरतिक्रमः ।।५०।।
अ०. ३०.] हरिश्चन्द्रोपाख्यानम् ८५ कालःपचति भूतानि कालस्संहरति प्रजाः। वियोजयति ताः कालः कालः सुप्तेषु *जाग्रति ॥ कालो मारयते राजकालो जनयति प्रजाः । जायते च म्रियते च कालो नित्यस्सदा नृप ॥ ब्रह्मकोटि- सहस्राणि विष्णुकोटिशतानि च । निवारितानि कालेन प्रदीपा इव वायुना ॥ जातानां च ध्रुवो मृत्युम॒तानां जन्म च ध्रुवम् । प्राणिकर्मानुरोधेन कालेन विहितावुभौ ।। इतीयं नियतिर्भूप त्रिमूर्ती- नामपि ध्रुवा । तस्मादपरिहार्येर्थे मा खिदस्त्वं जनेश्वर ॥ दैवे भारं समारोप्य स्वाम्याज्ञां परिपालय । भवान्धैर्य समास्थाय संस्त भ्यात्मानमात्मना । एकेनैव प्रहारेण शिरकायादपाहर ।।५६।। इति श्रीमन्महाभारते वनपर्वणिहरिश्चन्द्रोपाख्याने एकोनत्रिशोऽध्यायः त्रिंशोऽध्यायः ॥३०॥ मार्कण्डेय उवाच-प्रदक्षिणं च सा कृत्वा भर्तारं प्रणिपत्य च । शीघ्र छिन्धि शिरो अमेति निषसाद महीतले । गृहीत्वा पाणिना केशं विनाम्य च शिरोधराम् । निकृष्य खड्गमुद्धृत्य पाणिना दक्षिणेन च । प्रहमुद्यते राज्ञि हाहाकारो वियत्यभूत् । यावदभ्युद्यतो बाहुः तच्छिरो हर्तुमञ्जसा । तावत्करिकराकारस्तंभितो भूपतेर्भुजः। स्तंभि- तः केन मे बाहुः स्वामिकार्यानुवर्तिनः। इत्थं दिशोऽवलोक्याथ वाक्य- मेतदुवाच ह ॥ हरिश्चन्द्र उवाच-येन मे स्तंभितो बाहुरिन्द्रो यक्षा- धिपोऽथवा | यमो वा वरुणो वापि स्व दर्शयतु मे पुरः॥५॥ विख्यात- श्वेन्पुर्मान्लोके सन्तिष्ठतु ममाग्रतः । राजसी तामसी नैव मम वृत्तिर्हि सात्विकी। सत्यधर्मरता नित्यं स्वामिकार्यहितैषिणी ॥ मार्कण्डेय उवाच- एतस्मिन्नन्तरे राजन् स्तंभयित्वा महाभुजं। आविर्भूय पुरो राज्ञो विश्वामित्रोऽब्रवीद्वचः ॥ माकार्षीस्त्रीवधं राजन् स्त्रीमूलं गृहिणो यशः। स्त्रीमूला निखिला लोकाः आब्रह्मभुवनान्नृप । तस्मात् स्त्रियं मा वधीस्त्वं हितं शृणु वचो मम । ममेदमन्तिमं धर्म्य स्वयं कैवल्यदं शुभम् ।। विश्वामित्र उवाच- गृहाण पाणिमनयोः - ८६ हरिश्चन्द्रोपाख्यानम् । [अ०.३०. स्सुतयोर्मम बालिश । जयाया विजयायाश्च ह्येतत्ते सुमहत्फलम् ॥१०॥ दत्ता त्वयेयं पृथिवी सप्तद्वीपा ससागरा । पुनर्मया च दत्ता या तामा- दातुं त्वमर्हसि ॥ बहुवर्णस्य यद्रव्यं त्वया दत्तं पुरा मम । तदप्यहं प्रदास्यामि मा वृथैव विनंक्ष्यसि ॥ हरिश्चन्द्र उवाच- कि मे राज्येन भोगेन सुतेन च धनेन च । योऽहं प्राणप्रियां देवी स्वयं हन्तुं समुद्यतः ॥ दत्ता सा दक्षिणा ब्रह्मन् या पुरा प्रार्थिता मया। दत्ता च पृथिवी तुभ्यं दत्तं नापहराम्यहम् ॥ इतःपरं प्रियं चापि ब्रूहि किं करवाणि ते । इदानीमुचितं देयं मच्छक्यं यत्तव प्रियम् ॥१५॥ विश्वामित्र उवाच- यदि ते मत्प्रियं कार्य श्रोतव्यं यदि मे वचः। इतोपि यदि दातव्यं गृहाणेदं वचो मम ॥ मार्कण्डेय उवाच- एवमुक्तस्ततो राजा वाक्यमाह पुनःपुनः । एकदोक्तमसद्वाक्यं न वदन्ति मनीषिणः ॥ नाहं स्वमेऽपि भवतो व्यर्थवाक्यं शृणोमि तत् । इत्युक्तो राजसिंहेन कौशिको विद्यया पुन ॥ छिनत्विनि मुनिः को- पात् हस्तस्तंभममूमुचत् । हृदि कोपं समाधाय खड्गमुद्धृत्य संभ्रमात् ॥ स्मरेष्टदेवतां भद्रे इति कण्ठे न्यपातयत् । स खड्गपातस्तत्कण्ठे चंपकादामतां ययौ ॥२०॥ स विम्मितो हरिश्चन्द्रः खङ्गेन निशितेन च। छेत्तुकामः शिरस्तस्यास्स्वामिकार्यधुरन्धरः ॥ पुनःपुनश्च चिच्छेद तत्तन्मालाऽभवत्तदा । सत्यमेव पुरस्कृत्य धर्मः सुचरितो मया ॥ यद्यहं स्वामिभृत्यश्चेत् दयावान् सत्यसंगरः । मया सुप्रीणिता देवा ब्रह्मविष्णुपुरोगमाः ॥ ऋषयः पितरश्चैव सर्वात्मा भगवान् रविः । खङ्गेनास्याः शिरः छिन्नं भूमौ पततु सुन्दरम् ॥ प्रतिज्ञाय ततो राजा खड्गमुद्धृत्य भीषणम् । सर्वप्राणबलेनैव शिरो यावद्धनि- प्यति ॥२५॥ अदृश्यस्तावदागत्य मखरं हस्तमग्रहीत् । कृपाणं च कृपापारवीचिप्रेङ्खणमानसः ॥ यःक्षत्रजातिसंजातस्तपसा ब्रह्म- णा समः । ततो देवगणास्सर्वे ऋषयः पितरस्तथा ॥ यक्षराक्षसग- न्धर्वास्सिद्धविद्याधरोरगाः। आदित्या वसवो रुद्रास्साध्याविश्वे मरु- अ०.३०.] हरिश्चन्द्रोपाख्यानम् द्गणाः ॥ साप्सरोगणगन्धर्वाः अन्ये देवगणाश्च ये । ववृषुः पुष्प- वर्षाणि हरिश्चन्द्रमुपागमन् । गायन्तश्च स्तुवन्तश्च साधुवादान्विते- निरे। आरुदैरावतो वजी स शचीदेविसंयुतः ॥३०॥ संज्ञायुतो रवि- चैव नक्षत्रैस्सह चन्द्रमाः। आरूढविनतासूनुः श्रीमान् विश्वंभरो हरिः॥ आरूढहंसो ब्रह्मा च सरस्वत्या समन्वितः। आरूढवृषभः शूली सोमः सोमार्धशेखरः। स्वैस्स्वैश्च पार्षदैस्साधं श्मशानं तेभि- पेदिरे ॥ अग्निवारुणवायवीशी आरूढस्वस्ववाहनाः। सशक्तिकाः सपत्नीकाः श्मशानं तेऽभिपेदिरे ।। मरीचिः काश्यपोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः। अङ्गिराश्च भृगुर्दक्षो नारदःकर्दमस्तथा ॥ वसिष्ठो वामदेवश्च रोमशोऽगस्त्य एव च । गोतमश्च भरद्वाजः एते चान्ये सशिष्यकाः ॥३५॥ राजानः पुण्यशीलाश्च यज्वानो मृष्टकुण्डलाः । इक्ष्वाकुप्रमुखाश्चैव पुरूरवमुखास्तथा ॥ सूर्यसोमान्वयोद्भूता राजसू- याश्वमेधिनः । एते सर्वे समाजग्मुः श्मशानमतिदारुणम् ॥ मार्कण्डेय उवाच- दृष्ट्वा देवगणान् सर्वान् ब्रह्मविष्ण्वीशमुख्यकान् । सखगो- द्धृतहस्तश्च गृहीतगृहिणीकचः ॥ भीतिविस्मयहृष्टोऽभूत्रिशङ्कुतनयो नृपः। कि निमित्तमिमं देशं देवास्सर्वे समागताः । इत्याश्चर्यविचारेऽभू त्स राजा धर्मनन्दन । ततःपितामहस्साशाद्वेदैर्भारतपञ्चमः ॥४०॥ मूर्तिमद्भिःषडङ्गैश्च स्मृतिभिश्चाध्वरैरपि। वेष्टितस्तं समासाद्य हरि- चन्द्रं नरेश्वरम् ॥ आच्छिद्य खरं तद्धस्तान्मांचयामास भामिनीम् । ब्रह्माणमब्रवीद्राजा विस्मयाविष्टमानसः । कृताञ्जलिपुटो भूत्वा विन- यानतकन्धरः। केशाऽस्थिविपुलं घोरं सर्वप्राणिभयावहम् ॥ भीम शिवाऽशिवारावं गृध्रकाकबकाकुलम् । शिरःकपालसङ्कीर्ण चर्मखंडसम- न्वितम् ॥ रक्तौघसिक्तं दुर्गन्धं शूलप्रोतशवाकुलम् । भस्मास्थि- शकलैश्छन्नं करोटिशकलाकुलम् ॥४५।। चितिभिश्चितिकाष्ठैश्च प्रेत- माल्यानुलेपनैः । मांसाशिप्रेतवेतालडाकिनीभूतराक्षसैः । एवमादि- महाघारैः श्मशानमतिदारुणम् । किमर्थमागता यूयमेकैको लोक- ८८ - हरिश्चन्द्रोपाख्यानम्। [अ०.३०. पूजितः । सर्वलोकगुरुर्देवः श्मशाने किमिहागतः ॥ ब्रह्मोवाच- नैतत्वमशानं राजेन्द्र यज्ञभूमिरियं शुभा। नैते शूलाश्च यूपास्ते सकला- पाः शुभावहाः ॥ नैतान्यत्राणि तास्सर्वाः रशनादर्भनिर्मिताः । नैते केशा महाराज दर्भाः प्रागग्रविस्तृताः ।। नैते रक्तप्रवाहाश्च वह्न- यो ज्वलिता इमे । नैतानि मांसखण्डानि पुरोडाशाः सुरप्रियाः॥५०॥ नैतानि चर्मखण्डानि राजन् कृष्णाजिनानि च। नैतेऽस्थिशकला राजन लाजा शालिवनोद्भवाः ॥ नैतेऽस्थिनिचया राजन् कपाला हि यता हविः । नैते करोटयः शुभ्राः मदन्त्यः समुदाहृताः ॥ नैते मांसा- शिनो भूताः सदस्याः शास्त्रकोविदाः । न प्रेतचितयम्त्वेताः गरुत्म- चितयस्स्मृताः॥नैते शिवारवाघोराः सुब्राह्मणरवास्मृता । अध्रकाक- बकानैते ऋत्विजः श्रोतकोविदाः ।। नैतानि चितिकाष्ठानि दश यज्ञा- युधानि च। सूक्ष्मास्थिशकला नैव शर्कराः सिकतास्तथा।।५५।। नैतानि निम्नस्थानानि चषालानि नृपोत्तम । नोन्नतान्यत्र चैतानि शुभा- ह्युत्तरवेदयः ।। एवमादीनि चान्यत्र सर्वाण्येतानि भूपत । सर्वा. ण्येतानि जानीहि यज्ञीयानि न संशयः ॥ द्वादशाब्दन यज्ञेन नाम्ना सत्यव्रतेन च । अत्रष्टं भवता राजन् तेन तुष्टास्सुरेश्वगः ॥ अनेन सत्ययज्ञन दयया दक्षिणावता । परितुष्टाः स्म राजेन्द्र वयं हरिहरा- दयः ॥ सन्दहमखिलं त्यक्त्वा मयक्तिष्वखिलेषु च । मदुक्तं नान्य- था भूयात्पश्य सर्व च याज्ञिकम् ॥६०। मार्कण्डेय उवाच- इत्युक्तो ब्रह्मणा राजा दृष्ट्वा सर्व च याज्ञिकम् । प्रमादादतिसंहृष्टो विस्मयाऽ निमिषक्षणः ॥ अथ ब्रह्मा हरो विष्णुः अन्ये च सुरसत्तमाः। हस्ते गृहीत्वा राजानं वरयति वरं जगुः ॥ सत्यव्रताभिधानस्य तव यज्ञस्य भूपते । सुस्माताश्च वयं सर्वे ह्यद्यावभृथवासरे। अयं सत्यवतो यज्ञो देव- पिपितृप्तिदः । कि बहुक्तेन वचसा यज्ञेनानेन तेऽनघ । चराचरात्मक विश्वं सुप्रीतं भुवनेश्वर । तस्माद्वरय तेऽभीष्टं यत्तद्यदपि दुर्लनम्॥६५॥ ॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने त्रिंगोऽध्यायः॥ ।
१०. ३१.] हरिश्चन्द्रोपाख्यानम् । ८९ - एकत्रिंशोऽध्यायः ॥३१॥ मार्कण्डेय उवाच-- इत्थमभ्युदितो देवैः कृतज्ञस्सर्वकार्य- वित् । हरिश्चन्द्रोऽब्रवीद्देवान् कृताञ्जलिपरिग्रहः । हरिश्चन्द्र उवाच- नात्माधीनःसुरेन्द्राहं परवान् दास एवच । पराधीनस्य दासस्य नाधिकारस्सुरेश्वर ।। स्वामिनो ममदेवेश वीरबाहोर्महात्मनः। आयुस्सं- तानवृद्धिस्स्यादाचन्द्रार्क सजीवतात् ।। तस्मिन्मस्त्वचला भक्तिरयमेव वरो मम । नान्यस्याहो नरस्याहं दासत्वं समुपागत' ॥ मार्कण्डेय दैवादागत्य चण्डालः कोपी किल नृपोत्तम । भवत्कृ- तोपकाराद्धि दासोऽहं ते भवाम्युत ॥५॥ मूल्यप्रदानवेलायामित्युक्तं हि त्वया पुरा । अधुना तच्च विस्मृत्य गृहीत्वा मूल्यमेव च ॥ मह- द्विपत्समुद्धारं दानं चावसरोचितम् । कृतज्ञतां च सत्यश्च धर्म चैवा- त्मनो हितम् । पुण्यश्लोकमति त्यक्ता कुतो गन्तुं त्वमिच्छसि ।। हरिश्चन्द्र उवाच- सत्यं च तव दासोऽहं जन्मा युतशतेष्वपि । न विस्मृतं मया किचित् तत्त्वयोपकृतेष्वपि ॥ दासस्तवाहमित्युक्त्वा गृहीत्वा च धनं बहु । विश्वासयित्वा भर्तारं पश्चात्त्यक्त्वा तु यो व्रजेत् ॥ नास्ति तत्सदृशो लोके पापसञ्चयवान्नरः । युगकोटिसह- स्राणि कल्पकोटिशतानि च ।।१०॥ नरकेषु स पच्येत परवञ्चनपाप- कृत् । एते मे त्रिदशाः कुर्युः कि भवानिव मत्पिता ॥ देवानां वैभवात् श्रेष्ठयातू पूज्यत्वादखिलस्य च । अभ्युत्थानाभिवादाभ्यामुपसत्तिः कृता मया ॥ देवैर्दत्तश्च सुप्रीतैर्ब्रह्मविष्णुपुरोगमेः । तव दासतया तात न गृहीतो मया वरः ॥ पुरा दुरभिमानेन मया ते पादपल्लंबो। सं- वाहितौ न प्रवरौ ताविदानी गुरू मम ।। संवाह्य पादपमं ते यास्यामि परमां गतिम् । भवान् पिता च माता च गुरुस्सर्व च मे भवान् । किं बहूक्तेन मे तात भवान्मोक्षगतिर्मम ॥१५॥ मार्कण्डेय उवाच- इति संवदतस्तस्य हरिश्चन्द्रस्य भूपतेः । पुरो रराज चण्डालः कोटि- सूर्यमरीचिमान् ॥ दृष्ट्वा तमद्भुतं देवं द्योतयन्तं जगट्ठचा । विस्मया- 12-H
९०
एवमुक्त्वा तिरोधत्त
हरिश्चन्द्रोपाख्यानम् । [अ०.३१.
दनिमेषाक्षं धर्मो व्याहत,मारभत् ॥ धर्म मा विद्धि धर्मार्थकाममोक्ष-
चतुष्टयम् । अहिंसादिदशाङ्गं च दयासत्यविलोचनम् ॥ इष्टापूर्त-
करद्वन्द्वं दर्शराकाश्रुतिद्वयम् । चातुर्मास्योत्तमाङ्गं च पशुबन्धशिरो-
धरम् ॥ इष्टिभिश्वाग्निहोत्रेण सर्वावयवसुन्दरम् । धर्मोऽहमस्मि भद्रं
ते नोचेतावद्धनं महत् ।।२०॥ हस्ते दास्यति धर्मात्मन्नेकस्मिन्वासरे
हि कः । पुरा यदा सुधर्मायां विश्वामित्रवसिष्ठयोः ॥ त्वनिमित्तं
विवादोऽभूत्त्वत्सत्यकथनं प्रति । तदाऽहं निन्दितं कृत्वा चण्डालं
विदितं वपुः । भवत्सत्यपरीक्षार्थमत्रकाश्यां पुराऽऽगतः । मामुपा-
स्याखिला लोके सत्पुत्रं लेभिरे सदा ॥ कामहं देवतामिष्ट्वा भवन्तं
पुत्रमाप्तवान् । वत्स त्वय्यास्पदं लब्ध्वा सत्यं लोकेऽनिरास्पदम् ।।
त्वया राजन्नसत्यस्य वासनाऽपि न सविता। तव सर्व मनोभीष्टं मुनि-
र्दास्यति कौशिकः ॥२५।। मार्कण्डेय उवाच
धर्मो राजन् त्रिशङ्कुजम् । मिषतो राजसिहस्य मिषतां च दिवौ-
कसाम् ॥ एतस्मिन्नन्तरे राजन् विश्वामित्रो महातपाः । क्षीरार्णवा-
चिरोद्भूतपूर्णचन्द्रनिभाकृति ॥ सुप्रसन्नाननःश्रीमान् तपसा ब्रह्मणा
समः । यःपूर्व क्षत्रियो भूत्वा तपसा ब्राह्मणोऽभवत् ॥ सोऽभिगम्य
महाराजं सत्यव्रतपरायणम् । करे गृहीत्वा राजानं पश्यन् तन्मुख-
पङ्कजम् ॥ दुग्धाग्धसद्यस्संभूतसुधाधारामुचा दृशा । प्रववर्ष सुधा-
वृष्टि प्राक्दुःखक्लान्तभूपतौ । गृहीत्वाऽनंतरं वृष्टि क्लान्तसस्यमिवा
भवत् ॥३०॥ विश्वामित्र उवाच- राजन् शृणु पुरावृत्तं सुंधर्मा-
परिषद्भवम् । ऋषिप्रख्यातभूपालसदृन्तान्तसमुद्भवम् ।। योऽजनिष्ट-
पुरा विष्णुनाभिपङ्कजजन्मनः । ब्रह्मणः प्रथमः पुत्रो वसिष्ठो वशि-
नां वरः ।। यद्वाक्स्फुरणमात्रण ब्राह्मण्यं प्राप्तवानहं । तस्य वै ऋषि-
मुख्यस्य मम चैव नराधिप। विवादोऽभूत्तदा तत्र त्वत्सत्यवचनं प्रति।
सत्यप्रतिज्ञतायास्ते जिज्ञासार्थ मया नृप ॥ कृता मया प्रतिज्ञेयं क्रतु-
भुक्सार्थसन्निधौ । त्वन्मनःपरिशोधार्थ क्लेशितस्त्वं मया पुरा ॥३५॥
अ०. ३२.] हरिश्चन्द्रोपाख्यानम् ९१ द्वादशैतानि वर्षाणि क्लेशितोऽसीति यन्मया । प्रीत्यैव त्वयि तत्सर्व न द्वेषान्न च वैरतः ।। यदा दावानलाद्धोरागीतोऽसि त्वं वनान्तरे । अहं ते त्रातवान्पत्नी ससुतां कालकौशिकः ॥ दष्टो मयैव ते पुत्रः सर्पो भूत्वा वने निशि । क्लेशिता तव भार्येयं चोरो भूत्वा तथा निशि ॥ यदा यत्र च यदुःखमनुभूत त्वयाऽनघ । तदा तत्र च तहुःखं मयैवोत्पादितं त्वयि । सर्वमेतत्प्रियार्थं ते सत्यसस्थापनाय च ॥ मार्कण्डेय उवाच- उक्त्वैवं नृपतेर्योगी दयापूरप्रवाहया । दृष्ट्यैवाथ च तत्पत्नी पूर्ववच्चाकरोन्नृप ॥४०॥ आस्फाल्य पाणिना पुत्रं लोहिताश्वमजीवयत् । रराज पूर्ववत्सोऽपि शंबरारिरिवापरः ॥ हैमं सिहासनं दिव्यं सूर्यायुतसमप्रभम् । आनीय योगसत्वेन स्थापयित्वा नृपोत्तमम् ॥ लोहिताश्वं तदुत्सङ्गे पार्श्वे चन्द्रवती प्रियाम् । सबि- वेश्य सुरैस्सार्धमभिषेक्तुं प्रचक्रमे ॥४३॥ इतिश्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने एकत्रिशोऽध्यायः॥ द्वात्रिंशोऽध्यायः॥३२॥ मार्कण्डेय उवाच- ब्रह्मशम्भुरमाकान्ताः वाण्युमाकमला- न्विताः । विश्वामित्रवसिष्ठाद्याः सपत्नीकास्सुगस्तथा ॥ अन्ये देव- गणास्सर्वे ऋतवःषट् समागताः। कुम्भानादाय सौवर्णानेकैकञ्च पृथ- क्पृथक् ॥ आनीय पुण्यवारीणि पुण्यतीर्थेभ्य एव च । बद्धा ललाटे वैयाघ्रं सर्वरत्नपरिष्कृतम् ॥ होमवन्मत्ररच्चैव विधिवद्धर्षपूरि- ताः । अभिषिच्य सपनाकं सपुत्रं भूपमादरात् ।। देवाश्च ऋषयश्चैव आयुरस्मै पृथक्पृथक् । अददुर्वर्षमेकैकमथादाद्गाधिनन्दनः ॥५॥ तद्धनं पृथिवी चैव जयां च विजयां तथा । राजा न प्रतिगृह्णाति दत्तापहृतिशङ्कया ॥ वसिष्ठोऽपि समागत्य हरिश्चन्द्रमभाषत । त्वं राजन् प्रतिगृह्णीष्व विश्वामित्रप्रयोजिताम् ॥ प्रत्याख्यानं न कर्तव्य- मृषिरेष महातपाः । श्रुत्वा गुरुवचो राजा प्रलगृह्णान्मही धनम् ।। न कन्यकेन्त्यजा भीत्या विश्वामित्रोऽब्रवीन्नृपम् । प्रतिगृह्णीष्व भूपाल ९२ हरिश्चन्द्रोपाख्यानम् । [अ०. ३२. 1७२ । नैते चण्डालसंभवे ॥ बलाचातिबला चेति द्वे विद्ये लोकविश्रुते । यस्यै- ते लोकविख्याते ब्राह्मणस्य नृपस्य वा ॥१०॥ सप्तद्वीपार्णवा पृथ्वी तस्य तिष्ठेद्वशे नृप । विधायैते मया पूर्व विद्ये चण्डालसंभवे ॥ भवन्मनः परीक्षार्थ जयाविजयसंज्ञया । क्षुत्पिपासापरिश्रान्तिरालस्यं जडता तथा । भयशोकमनस्तापाः न भवेयुः कदाचन ।। मार्कण्डेय उवाच- विश्वामित्रवचः श्रुत्वा हरिश्चन्द्रो दयानिधिः । प्रक्षाल्य पादावाचम्य मुनि तमभिवाद्य च । उपसृत्य च तत्पादौ विद्ये द्वे लब्धवान्नृपः । विश्वामित्राद्विनिर्गत्य मूर्तिमत्यौ नृपोत्तम ॥ जयन्त्यौ वयसा रूपं हरिश्चन्द्रस्य रूपतः । विस्मापयन्त्यौ राजानं भूपं विविशतुश्च ते ॥१५॥ पुनर्गाधिसुतो धीमानवोचनृपसत्तमम् । बद्धाञ्जलिपुटं सम्यग्भक्ति- प्रवणचेतसम् ॥ तपस्तप्तं मया पूर्व पञ्चाशत्कोटिवत्सरम् । तप्तेन तपसा भूप ब्रह्मलोकमवाप्नुहि ॥ सुतेन भार्यया साधं भुक्त्वा भोगा- न्महीतले । त्रिशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥ भवान् राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति । अथ गाधिसुतं देवाः प्रशस्य च पुनःपुनः ।। ब्रह्मरुद्रादयस्सर्वे पुष्पवर्षेरवाकिरन् । ततो देवाः सगन्धर्वाः ऋषयश्च तपोधनाः॥२०॥अभिषिच्य हरिश्चन्द्र स्थापयित्वा महासने स्थगितार्कपथाग्रं च सर्वरत्नविभूषितम् ॥ शतबाहुपरी- णाहं हेमोलूखलभूषितम् । दिव्यवस्त्रपरीधानं दिव्यमाल्यानुलेपनम् ॥ कृत्वा यूपं महोच्छ्रायं पुरुहूतध्वजोपमम् । स्वनत्सु देववाद्येषु हृष्य- त्स्वमरशाखिषु ॥ जुह्वत्सु विप्रमुख्येषु भुञ्जानेषु द्विजेषु च । नृत्य- मानेषु हृद्येषु सुरयोषिद्गणेषु च ॥ गंधर्वेषु सुगायत्सु विद्याधरगणेषु च। दशदिक्षु प्रवर्षत्सुनानाजलधरेषु च ॥२५॥ यूपं च चख्नुस्सुप्री ता ददुर्दानान्यऽनेकशः । नानाशिषः प्रयुञ्जाना रोजानमिदमब्रुवन् । किं तेऽभिलषितं भूप ह्यजसा तद्वृणु प्रभो। हरिश्चन्द्र उवाच- भवत्त- सादात्संप्राप्तं मया यदभिलाषितम् । तत्सर्व विद्यते चान्यत्रिषु लोकेषु दुर्लभम् ॥ सर्वावस्थास्वपि सदा सर्वत्रैवास्तु मे सुराः । अचञ्चला- 02.1 १०.३३.] हरिश्चन्द्रोपाख्यानम् ९३ पतिस्सत्ये जन्मायुतशतेष्वपि ।। धर्मे दयायां दाने च ममास्तु मति- तमा। परोपकारकृत्येषु कर्मणा मनसा गिरा ॥ धैर्यमस्तुमति-- वास्तु देहांतकरणेष्वपि । आलस्यं माऽस्तु मे नित्यं प्रजापालन- कर्मसु ॥३०॥) ब्रह्मोवाच- तथैवास्तु तवाभीष्टं यद्यच्च त्वदभीप्सि- तम् । नंदति भूमिभागास्ते येषां त्वमवनीपतिः ॥ प्रजाःपालय धर्मेण धर्मस्त्वामभिरक्षतु । मासत्रयं तु पर्जन्यो राज्ये वर्षतु वासवः ।। देशस्ते क्षोभरहितः सस्यधान्यवती मही। निराधयो निरातङ्का रोगव्याधिविवर्जिताः ॥ दीर्घायुषो निरातङ्काः स्त्रियश्चाऽविधवा नृप। नाकालमृत्युभविता राज्ये तव नराधिप ॥३४॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने द्वात्रिशोऽध्यायः त्रयस्त्रिंशोऽध्यायः ॥३३॥ मार्कण्डेय उवाच- आशीभिरभिनंद्यैनं राजानमृषयस्सुराः । अभिषिच्य ततो राज्ये गंतुमैन्छन् दिवं सुराः ।। तानब्रवीन्महीपालस्स सुरान्सुमनाकृतिः। विनयावनतो भूत्वा कृताञ्जलिपरिग्रहः ॥ हरिश्चन्द्र उवाच- प्रसन्ना यदि मे यूयं वर मे यदि दास्यथ । एकं वरं प्रदत्तं मे ममाभीष्टमतिप्रियम् ॥ एतद्वैरमियंस्पर्धा विश्वामित्र- वसिष्ठयोः । माभूदितःपरं देवाःप्रीतिरस्त्वनयोःस्थिरा॥ सुरा ऊचुः- दैवसिद्धं तयोर्वैर कदाचिन्नापयास्यति तयोरस्तु त्वयि प्रीतिर्भक्ति- वास्तु स्थिरा तव ॥५॥ एतस्मिन्नन्तरे राज्ञी हरिश्चन्द्रप्रिया सती । देवानृषीस्तर्पयन्ती सपश्चाङ्गं प्रणम्य च ॥ तेषां पुरःस्थिता तूष्णी रचि- ताञ्जलिपङ्कजा । तामूचुस्ते च तास्सर्वाः प्रीताः प्रार्थनया नृप ।। सप- नीका सुरा ऊचुः- वाग्देवीव विधातारं गिरिजेव कपर्दिनम् । पद्मालयेव वैकुण्ठं छायेवच दिवाकरम् ॥ रोहिणीव निशाकान्तं लोपामुद्रेव कुंभजम् । नालायनीव मौद्गल्यं दमयंतीव नैषधम् ॥ औशीनरि महाभागे शीलाचारगुणैश्शुभैः तथा त्वमपि कल्याणि पतिप्रीतिकरा भव ॥१०॥ विश्वामित्र उवाच- सत्येन निर्जिता लोका - ९४ हरिश्चन्द्रोपाख्यानम् । [अ०. ३३. आब्रह्मभुवनानि च। तेषु भुक्त्वा तु विपुलान्भोगान् दिव्यानशे- पतः ॥ लोहिताश्वं सुतं राज्य स्थापयित्वा कलानिधिम् । सपत्नी- मंत्रिपुत्रश्च प्राप्नुहि ब्रह्मण पदम् ॥ ब्रह्मा विष्णुश्च रुद्रश्च लोकपालास्स हामरै । ऋषिभिस्सिद्धगंधर्वैस्साप्सरोगणकिन्नरैः ॥ आशिभिरभि- नन्याथ स्वस्ति वाच्य पुनःपुनः । ऋषिदेवगणास्सर्वे प्रतिजग्मुर्यथा- गतम् ॥ विश्वामित्रो वसिष्ठश्च वर्धयित्वा नृपोत्तमम् । आशीर्भिर्ज- ग्मतुश्चैव यथागतमथो नृप ॥१५॥ काशी प्रदक्षिणीकृत्य विश्वनाथं प्रपूज्य च। अक्षौहिणीनां विशत्या सेनया स समावृतः ॥ सेनारजो- निकायेन वायुवेगविसर्पिणा। कुर्वन्नभस्स्थलं भूमि भूमिश्चापि नभस्स्थ- लम् ॥ सर्ववाद्यस्वनेनापि वीणावेणुस्वनैःशुभैः । गीतस्तोत्ररवैश्वापि सूतमागधवन्दिनाम् ।। महता पुष्पवर्षेण लाजवर्षेण चाक्षतैः । छत्रेण ध्रियमाणेन राजसूयाभिशोभिना । तालवतै:ज्यमानो धूयमानस्स- चामरैः । नीराजमानो योषिद्भिरारार्तिकविदीपकैः ॥२०॥ आशास्य- मानो विप्रौघेःप्रत्युद्यातश्च नागरैः । प्रविवेश पुरी राजा सर्वालङ्कार- शोभिताम् ।। हृष्टपुष्टजनाकीर्णा पुरन्दरपुरीमिव । अतोषयजनं पौरं सभाषणविलोकनैः॥ आलिङ्गननमस्कारैर्यथाजाति यथाक्रमम् । यथा- योगं यथायोग्यं यथा वैशिष्ट्यमेव च । प्रविश्य स्वगृहं राजा स्वांतः पुरमतोषयत् ॥ मार्कण्डेय उवाच- हरिश्चन्द्रमहीपालः सप्तद्वीपैक- पालकः । तावीपार्णवामुर्वी शशासैकपुरीमिव ॥ राजसूयाश्व- मेधादियज्ञैरीजे सुदक्षिणैः। वित्तं ब्राह्मणसात्कृत्वा विस्तार्य च ज- गंधेशः ॥२५॥ मोदयित्वा सुरान्यज्ञैर्दानैाह्मणसत्तमान् । अनाथवाल- वृद्धांधान् मृष्टान्नेरमृतोपमै ॥ एवं जगत्प्रीणयित्वा सत्यशीलो महीपतिः । त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥ पालयि- त्वा मही कृत्स्नां स्थापयित्वा यशो भुवि । जगाम ब्रह्मभवनं मंत्रिभार्यासुतैस्सह ॥ कल्पमेकमुषित्वाऽथ वैकुंठे च शिवालये । कल्पं कल्पमुषित्वाऽथ मेरोरुत्तरतःक्षितौ । धर्मनाभिनृपो भूत्वा युयो- '. ३३.] हरिश्चन्द्रोपाख्यानम् ९५ त्मानमात्मनि। एवमेतन्महीपाल हरिश्चन्द्रेण भूभुजा ॥३०॥ खं महत्तरं प्राप्तं दुरंतं दुस्सहं भुवि । अंते च प्राप्तवान् शंभोस्सा- ज्यं धर्मनन्दन ॥ इदं यशस्यमायुष्यं शत्रुघ्नं कीर्तिवर्धनम् । शांति- ष्टिकरं पुण्यं पापघ्नं धर्मनन्दन ।' पठतां शृण्वतां नृणामायुस्सत्वफल- दम् । आरोग्यसुखदं नित्यं दुःखशोकविनाशनम् ।। दारिय- शनं नृणां महासंपत्प्रदायकम् । देहेन्द्रियमनोबुद्धिवास्थ्यद सर्व ख्यदम् ॥ अस्पृश्यस्पर्शदोषघ्नं चण्डालस्पर्शनाशनम् । महापापहर वामिगुरुद्रोहाघनाशनम् ।।३५॥ य इदं शृणुयान्नित्यं पठेद्वा श्रद्ध- न्वितः । सर्वसिद्धिमवाप्नोति यद्यदिच्छति भूमिप ॥ कीर्त्यर्थी कीर्तिमानोति सुखार्थी सुखमाप्नुयात् । भार्यार्थी लभते भार्या गुण- लसमन्विताम् ॥ बालवैधव्यदुःखार्ता शृणुयात्पुण्यमुत्तमम् । सप्तजन्मनि भर्तारमायुष्मंतं पतिं लभेत् ।। वियुक्तपुत्रा या नारी गोग्यं पुत्रं समाप्नुयात् । चण्डालसूतिकादक्यापतितस्पर्शभाषणे ।। हरिश्चन्द्र हरिश्चन्द्र हरिश्चन्द्रेति कीर्तयेत् । हरिश्चन्द्रं स्मरेन्नित्य प्रातरुत्थाय मानवः ॥४०॥ सुदिनं सुप्रभातश्च मङ्गलं तस्य जायते । शृणुयाद्रजस्खला नारी शीघ्रं सा गर्भिणी भवेत् ।। गर्भिणी जनयेत्पुत्रं सर्ववेदान्तपारगम् । एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।। सत्यवादिहरिश्चन्द्रवृत्तान्त प्रति भूमिप । हरिश्चन्द्रकथा पुण्या गङ्गेवाऽ धविनाशिनी । स्नातानां शृण्वताश्चैव समन्तात्पुण्यवर्धिनी ॥४३॥ इति श्रीमन्महाभारते वनपर्वणि हरिश्चन्द्रोपाख्याने त्रयस्त्रिशोध्यायः॥ ॥ इति श्रीमन्महाभारतवनपर्वान्तर्गतहरिश्चन्द्रोपाख्यानम् संपूर्णम् ।। ॥ श्रीकृष्णार्पणमस्तु । ॥ शुभं भूयात् ॥ HE KUPPUSWAMI SASTRY RESEARCH ISTITUTE MADRASA
No text on this page.
THF KUPP!$!*NY SATTY RESEARCH IL MARDRAS-UUU W04. 41 OOKoxc . ॥ श्रीः॥ ॥ हरिश्चन्द्रोपाख्यानस्थदुर्घटपदार्थविवरणम् ॥ १. अग्निब्राह्मणपूजकः। २. यमसमः । ३. क्रतून् जयति करो- ति क्रतुजित् । ४. नर्तनेनोपचर्यमाणे इन्द्रे इति शेषः । ५. हरि- न्द्रे मुनिभिः शस्यमाने वसिष्ठेन स्तूयमाने च सति । ६. दृष्ट इति शकुः दृष्टः किं न दृष्टः । ७. एकच्छत्रः । ८. मनुष्यमानेन । .. यत्वया दृष्टं त्रैकालिकं समदृष्टे चतुर्थांशोऽपि न। १० प्रशास्ति । १. सन्धिरार्षः। १२. ल्यब्लोपनिमित्ता पञ्चमी । लाभमुद्दिश्य ।। १३. लोलुपः । १४. कदापि । १५. हरिश्चन्द्रस्य सत्य. चिनं प्रति । १६. न श्रोतव्यं च । १७. जन्मान्तरेऽपि । १८. हे गुधिष्ठिर । १९. ज्ञात्वा । २०. त्वां वियुक्तं कुर्यादिति शेषः । २१ पालयन् आस। २२. एकादशकोटिव्याघ्रानिति ग्रन्थांतरे । २३. स्थापनाय प्रयत्नं चकार । *गृद्धः उपविवेशेति शेषः । २४. हृतौ। २५. ज्ञात्वा । २६. अमात्योऽपि । २७. सन्तोष- कारकम् । २८. सारिकाभिः । २९. कुञ्जरः हस्तिशिशुः उत्सङ्ग- संस्थितः सिह्याः इति शेषः । सन्धिरार्षः। ३०. न गन्तव्यमि- त्युक्तः । ३१. वाञ्छायाः सकाशात् मे जिह्वायाम् । ३२. कृते इति शेषः । ३३. कर्म । ३४. भोक्तव्यम् । ३५. आक्रान्ता सुष्वापेति च शेषः। ३६. भ्रान्ता । ३७. त्वत् = त्वया । ३८. मृगात् हरिणात् संभूतः शशः। हरिणात् विजातीयशशोत्पत्तिर्यद्वदसंभाविता तद्वत् तव भयमसंभावितम् । ३९. भोक्तुं प्रसक्तम् । *अहमिति शेषः । ४०. वृक्षैः। ४१. श्रमः दृष्टः अनुभूतः येन तेन त्वयाऽनुभूयमानं दुःखम् । ४२. प्रीतिम् । * राज्ञस्समीपे। ४३. संभूताइति शेषः । ४४. आगत्येति शेषः । ४५. संबोधनद्विवचनम् । ४६. चण्डाल- वपुष्मत्यौ। ४७ अडभावश्छान्दसः। ४८. निश्चयेन । ४९. नौ प्रार्थितमिति च शेषः। ५०. दर्शने । ५१. खिनेषु । ५२. देवाः ।
५३. शापे दत्ते = दूषणे कृते । ५४. श्रीमन्महाभारते आनु० ५० अ० २६४. श्लो०. ४४. T RK Edition । ५५. न दन्तः श्रीकुंभघोणमाहात्म्ये अ०-४३ । ५६. बद्धइति शेषः । ५७. निः आ अपराधी इति पदच्छेदः । ५८. ऊर्ध्वमिति शेषः । ५९. पक्षी। ६०. उरूणि दामानि तुलसीमणिहारादीनि यस्य तम् । ६१. श्रीम- द्वाल्मीकिरामायणे बालका०स०-२६-श्लो० २६.। ६२. श्रीमद्वा०रा० बा०स०२५ श्लो२० ६३. श्रीमद्वा०रा०सुन्दरका० स-१-श्लो-१९६ । *शृङ्खलया। ६४. विचिन्त्य । ६५. स्पर्धाजामिति वक्तव्ये स्पर्धजा- मिति छांदसो इस्वः। वसिष्ठद्वेषजामिति वा पाठः *मत्पितरं त्रिशङ्कुम्। हननतुल्यं चण्डालत्वं प्रापयित्वा । *आर्षः । ६६. केन कर्मणा पुनर्भूमौ त्वं जनिष्यसे ६७. नरकहेतुम् । ६८. अनुभवत इति शेषः। ६९. त्याज्याविति शेषः। ७०. छत्रं = छत्रोपलक्षितराज्याशां । क्षात्रं क्षत्रियस्वभावम् । ७१. भवेदिति शेषः । ७२. मयेति शेषः । ७३. स्वर्णदइति कस्यचिद्राज्ञो नाम । ७४. तस्य सदृशः स एव ना- न्यः। *विश्वामित्रेण । ७५. शोभमानान् । ७६. विलसतः । ७७. आत्मानमिति शेषः । ७८. उर्वी च गृहाण । ७९. पादचारेण । ८०.शिक्षते = यतिप्रभृतीनां शिक्षकस्य स्वर्गों न भवति। ८१. धर्मा- चारमार्गलोपभयात् । ८२. कारयतीति शेषः। ८३. स्वान्यस्य कर्तुः फलं ततोऽन्यस्य स्वस्य न । ८४. आदरार्थोऽभ्यासः । ८५. न भवाम्यहमिति काकुः। ८६. वेगं सोढुमिति शेषः । ८७. अस्ति कि नास्तीत्यर्थः । ८८. प्रवृत्त इति शेषः । ८९. आर्षों डीप् । ९०. एतस्यास्समा अधिका च नास्ति । ९१. सा= संपत् । ९२. भीतिः। ९३. स्थितं त्वामिति शेषः । ९४. ददातीति शेषः । ९५. कर्मणेति शेषः । ९६. कंचन । ९७. विश्वामित्रः । ९८. अग्निं । ९९. विघ्नं चकारेति पूर्वेणान्वयः । १००. आगतम् । १०१. मम शरीरमिति शषः । * उपदिशति । १०२. राममंत्रम् । १०३. जीवो ।
l विनं) वश्यो येषां तैः स्वच्छन्दमृत्युभिः। १०४. मोचयेति । १०५. च शब्देन मंत्रिणा चेत्यर्थः । १०६. बलेन उत्तरं कृष्टम् । १०७. जनाः। * अर्थोऽयं श्लोकः। १०८. तिष्ठाव ने शेषः । * त्वमन्यामिति च शेषः। १०९. सृष्टः कृतः । १०. वीथ्यां स्थापयित्वा । १११. ब्राह्मणाय । ११२. मम । १३. ध्यात्वा । ११४. निर्दोषपितृमातृका । * भर्तृबंधुवर्गः १५. संबोधनम् । ११६. संबोधनम् । ११७. उवाचेति शेषः । १८. जन्मान्तरे इति शेषः। ११९. विक्रीय स्थितः। १२०. ममेति इतिरिति च शेषः । मम पित्रादीनां सद्गतिरित्यन्वयः । २१. मानमिव । १२२. अडभावश्छान्दसः ! १२३. प्रदर्शया- सेत्यर्थः । १२४ दुश्चर्मा । * स्थूलनाडीकः । १२५. ते प्सतमिति च्छेदः । १२६. दण्डनस्येति शेषः । * शूद्रेष्वित्यर्थः । २७. पुण्यादिति शेषः । १२८. सत्यवचनजन्यं पुण्यं कर्ट पुरुष जेत् । १२९. ते = त्वया दीयतामिति शेषः । १३०. दत्वा । ३१. उवाचेति शेषः। १३२. खस्थः उवाच । १३३. मह्यम् । ३४. त्रिशंकुशद्धस्य तत्पुत्रे लक्षणा । १३५. राज्ञः उत्संगे। हन्ति । १३६. प्राप्नुयामिति शेषः । * छान्दसो दीर्घः । ३७ नदीतीरे । १३८. वधार्हपापकृतः । १३९. संहार्याः । ४०. ययाविति शेषः। १४१. अन्यच्छ्रोतुं मनो न नीयते । ४२. अब्दो मेघः। १४३. तां कथां शृण्विति पूर्वेणान्वयः । ४४. धर्मिणः पापिनः अश्वादीन् आहारादिना पापिनः अश्वादयः मिणः अश्वारोहादीन् सुखं प्रापयंति । १४५. यदि नाचरेत्ती- उत्तरेणान्वयः । १४६. श्रवणात् । * कलौ हिसैवेति भावः । ४७. उद्भिजादिभेदेन । १४८ त्रीण्यपि चौर्याणीत्यर्थः । ४९. डंभार्थ कर्म । *स्वानुष्ठानं विना धर्मोपदेशः। १५०. जित- कोधः । १५१. क्रोधरहितेषु । १५२. स्वसमेन । १५३. वसमिति IV शेषः। *कालविशेषे। १५४. कथयेति शेषः। १५५. संयोज्य । १५६. विद्युदिव ' मुक्ताभिः = मुक्ताफलसदृशदन्तैः। १५७. भुवि । १५८. मोक्ता। १५९. पादाविति शेषः। १६०. भावप्रधानो निर्देशः चण्डालत्वम् । *मम पितृऋणं त्वया संक्रामितं = परिहृतम् । १६१. इतः उपरि इतिच्छेदः ।१६२ संबोधनम् । १६३. निक्षिप्य । * सप्तम्यर्थे द्वितीया । १६४. कर्मानुगुणम् । आर्षो दीर्घः । *प्रेषितेति शेषः। *जागर्ति । *सन्धिरार्षः *विश्वे-विश्वेदेवाः १६५. ईशाः-दिगीशाः । १६६. भीतिविस्मयाभ्यां सह हृष्टोऽभूत्। १६७. मत्पिताऽपि कुर्यात्कि अथवा मत्पिता भवानिव । १६८. न संवाहिताविति संबन्धः। *आर्षः। १६९. तिरोदधे। १७०. अहमेवेति शेषः। १७१. पृथ्वीमिति शेषः । १७२. प्रेषिते इति शेषः । १७३. देहान्तकारिष्वपि शत्रुष्वपि मे मतिरस्तु । १७४. प्रयच्छत । १७५. जगत-जगति । ॥ इति श्रीहरिश्चन्द्रोपाख्यानस्थदुर्घटपदार्थविवरणं समाप्तम् ॥
३.२४. कुज. देवाः. वे. ९. १३. मृगें. . 137 ॥ शुद्धिपत्रिका ॥ . पं. अशुद्धम्. शुद्धम्. १५ २२. मानाय. मानाया. कुश. ५१. अ० १८] अ० १९] ५. १.ख्याता. ख्याताः. ५२. २. ष्यसि. व्यति. ५.११. तभ्या. ताभ्या. ५३. १९. भार्थी. [२०.लोकाः ६.१७. दुःष्प्र. दुष्प्र. ५६. ९. भानु. ७.२०... २१. जछा. जच्छा. हारितो. २६. विक्राय. विक्रीय. २१. पत्नीभाव. मनुज्ञोय. ५८. ७.पंश्च. पञ्च. ०.२२. मज. मञ्ज. १३. थेछं. थेच्छं. १३. १७. करि. वि. १७. त्र्यं. छत्र्यं. १५. ३. या नि. यानि. ६१. ५. सुतीय. ते. १२. दुम. १२. आगच्छ. मामिति. १६. १. यान. याऽन. ६२. ५.क्तास्म्य. ताऽस्म्य. १८. अ० ६.] अ० ७.] ६४. [अ० २०.[अ० २३. १९.२४. दृष्टे. दृष्टे. २२.१३८. १३७. २०. २६. यद्दखं. यदुःखं. ६५. ४.द्यास्त्रि. द्या:स्त्रि. २१. २. मान्य. माऽन्य. ६६. १४. वहन्ति. सुर्खयन्ति. २२. १६. शोपे. शोपे. ६८. ५. स्तेना. स्तेया. १७. भृगवे. दत्तः कि. ६. स्तेना. स्तेया. २४. .. त्या. ६९. १८. दम्भ स्था. दम्भः सा. ३२.८. यान. याऽन. ७१. २५. सुकुमारस्य वर्तन. ३८. ९. दोस. न भवाम्यहं. ७२. ४. मिपु. मित्पु. ३९. ९. नतपर्वणां. शरीणां. ४०. ४. वैडूर्य. वैदूर्य. ७६. २१. पतिता. . पतिता. अग्रहीत. ४२. ५. मो. भी. ९०. १८. दुग्धाग्धि. दुग्धाब्धि. ४३. २. मोक्षकान् मोक्षकान. ९२. २३. न्यऽने. न्यने. २५. माल. माला. ९५. ९. यान्वि. यान्वि. ४५. ७. आत्मीनं. भूत्वी. वाघ. - Fo १.त्या. ११. यदुः. 1५९ १८. वाऽघ.