Svi-ksri-chennai

Avimaarak

T Ganapati Sastri

PDF Proofread

Front matter

No text on this page.

TRIVANDRUM SANSKRIT SERIES
NO. XX.
AVIMARA KA
OF
BHÂSA
EDITED WITHI SOTES
BY
T. GANAPATI SÂSTRI
rutur / the Department or the prebilane 2017 of Sunil sempita
TRIVIRIM
Bhaga's ddorks:
-o. 4.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
PRI VTED IT TIE TRI11\CORE GOIERXVEXT PRE
1912.
(111 Rights Reserved.)

No text on this page.

N
अविमारक
महाकविश्रीभासप्रणीतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त.
गणपतिशास्त्रिणा
संशोधितं
लघुटिप्पण्या च संयोजितम् ।
भासनाटकचके चतुर्थम्।
तच
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळमान्दा १०८८, कैस्ताम्दाः १९१२.

No text on this page.

निवेदना। . इदं नाटकम् 'अविमारकम् ' इति व्यवहृतम् , भविमारकं नाम सौवी- राजकुमारमधिकृत्य प्रवृत्तत्वात् । तस्य पितृसहितस्य ऋषिशापाच्चण्डालरूपेण न्तिभोजनगरे प्रच्छन्नवासः, तेन खमातुलकुन्तिभोजपुत्र्याः कुरङ्गया मत्तग- आद् रक्षणं, ततस्तयोरन्योन्यानुरागः, तस्य कुन्तिभोजगृहे तया सह प्रच्छन्नः प्रयोगः, ततस्तद्वियोगः, तस्य तत्पुनःसमागमप्रत्याशाविरहाज्जीवितत्यागसंरम्भः, वाधरदत्ताङ्गुलीयकमहिम्ना पुनस्तया प्रच्छन्नसंप्रयोगः, अथ शापावसाने नारद रण विदितवृत्तान्तरात्मपितृमातुलादिभिः समागम इत्येतावदस्मिन् रूपके कथा- स्तु । अत्र माधुर्यप्रसादाविव यथाविषयमोजोगुणोऽपि बहुलमादृतः । अस्य षष्ठाकान्ते 'ततः प्रविशति वरवेषेणाविमारकः कुरङ्गी भूनिकश्च' ति त्रयः प्रवेशिताः । तत्र कुरणीभूतिकयोर्न कश्चिद् व्यापारो दर्शितः । कामं तिकस्य भृत्यत्वादस्त्वव्यापारः, कुरड्यास्तु नायिकाया नायकपार्थमजहत्यास्ते- नुष्ठितेषु गुरुजनवन्दनेषु तदाशीर्वादपरिग्रहेषु च साहचर्यमात्रमपि वावश्यं वक्त पम् । अतो माथे, तथाविधस्य नायिकाव्यापारस्य प्रतिपादकं वाक्यं लेखकप्रमा- त् क. संज्ञेऽस्मन्मातृकाग्रन्थे गलितम् । न च मातृकान्तरात् सुब्रह्मण्यमूत्ततु- हाशयोपकृतात् ख. संज्ञादसमग्राद्। उपलब्धं पारितम् । अनन्तशयनम् . त. गणपतिशास्त्री सुदर्शना-भणन्तरं अय्याए वञ्चिदाए चळदी विअ मे हिअअम् ।" (पृ. १०६) पेपदधिकमेष ख. संज्ञम् ।

No text on this page.

पात्राणि । पुरुषाः राजा % 3D कौञ्जायनः? भृतिकः । भटः 3. अविमारकः विदूषकः सौवीरगजः = कथानायिकायाः कुरङ्गयाः पिता कुन्तिभोजनामा कुन्तिभाजस्यामात्यौ । कुन्तिभोजम्य प्रतिहारो जयसेमनामा । कथानायकः । अविमारकम्य वयम्यः संतुटनामा । = अविमारकस्य पिता । देवर्षिः । अघिमारकम्याङलायकप्रदाना । .. - नारदः विद्याधरः स्त्रियः देवी कुरङ्गी सुदर्शना प्रतिहारी चेटी धात्री नलिनिका मागधिका विलासिनी वसुमित्रा हरिणिका सौदामनी कुन्तिभोजस्य महिषा। = कथानायिका कुन्तिभोजदुहिता । अविमारकस्य जननी काशिराजमहिषी । कुन्तिभोजस्य द्वारपालिका । = कुरङ्गयाः किङ्करी चन्द्रिकाख्या । कुरमया उपमाता जयदा नाम । 3D कुरङ्गयाः परिजनः । देव्याश्चेट्यौ । विद्याधरस्य प्रियतमा । -

No text on this page.

॥ श्रीः॥ श्रीगणेशाय नमः। महाकविश्रीभासप्रणीतम् अविम रकम्। (नान्यन्ते ततः प्रविशति सूत्रधारः) - सूत्रधारः उत्क्षिप्तां सानुकम्य सलिलनिधिजलादेकदंष्ट्राग्ररूढा- माक्रान्तामाजिपध्ये निहतदितिसुतामेकपादावधूताम् । सम्भुक्तां प्रीतिपूर्व स्वभुजबशगतामेकचक्राभिगुप्तां श्रीमान् नारायणस्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम् ॥१॥ (नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् । (प्रविश्य) नटी-(क) अय्य ! इअलि । सूत्रधारः -- आर्ये! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्तर्गतो भावः । ननु किञ्चिद् वक्तुकामासि । नटी- (ख) को एत्थ विमओ अय्यो भावओ त्ति । (क) आर्य! इथमस्मि । (ख) कोऽत्र विस्मय आर्यों भावइ इति ।

२
अविमारके
-
सूत्रधारः
तेन हि स्वैरमभिधीयताम् ।
नटी (क) इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि
मे तहिं इत्थिआकरणीअं णिअमकय्यं ।
(नेपथ्ये)
भूतिक! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थम् । म(द)भावस्थो
ह्यञ्जनगिरिः।
सूत्रधारः
आर्ये ! ननु भवत्या श्रुतम्
राजपुत्रीति । तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्या.
नानि । प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः ।
नटी (ख) जं अग्यो आणवेदि ।
(निष्काली)
उद्यानं गता
-
ma
स्थापना ।
(ततः प्रविशति राजा सपरिवार:)
-
राजा
इष्टा मखा द्विजवराश्च मयि प्रसन्नाः
प्रज्ञापिता भयरसं समदा नरेन्द्राः ।
(क) इच्छाम्यार्येण सहोद्यानं गन्तुम् । अस्ति मे तत्र स्त्रकिरणयिं नियमका-
थम् ।
(ख) यदार्य आज्ञापयति ।
* अञ्जनगिरि म गजः

प्रथमोऽङ्कः । ३ - एवंविधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु चिन्तनीयम् ॥ २ ॥ केतुमति ! गच्छ देवीमानय । प्रतिहारी (क) जं भट्टा आणवेदि । (निष्क्रान्ता) (ततः प्रविशति सपरिवारा देवी) देवी (ख) जेदु महाराओ। राजा देवि! नित्यप्रसन्नमपि ते मुखमद्यातिप्रसन्नमिव । किङ्कतोऽयं प्रहर्षः । देवी- (ग) णं महाराण कहिदं--कुरङ्गीणिमित्तं दूदो आअदत्ति । ता अइरेण जामादुअं पेक्खामि त्ति । राजा तादृशमप्यस्ति । न तु तावत् क्रियते निश्चयः । एयुपविश । देवी - (घ) जं महाराओ आणवेदि। (उपविशलि) राजा -देवि! विवाहा नाम बहुशः परीक्ष्य कर्तव्या भवन्ति । कुतः, जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोभिलाषात् । (क) यद् भर्ताज्ञापयति । (ख) जयतु महाराजः । (ग) ननु महाराजेन कथितं- कुरङ्गानिमित्तं दूत आगत इति । तदचिरेण जामातरं प्रेक्ष इति । (घ) यद् महाराज आज्ञापयति ।

अविमारके कोऽत्र । - कुलद्वयं हन्ति मदेन नारी कूलहयं क्षुब्धजला नदीव ॥ ३ ॥ अये शब्द इवै । बहुभिः कारणैभवितव्यम् । अयं हि, बहुत्वाद् दूरसंस्थोऽपि समीप इव वर्तते । सत्सु हेतुसहस्रेषु कुरङ्गयां शङ्कते मतिः ॥ ४ ॥ देवी-(क) हं उय्याणं गआ मे दुहिआ ! राजा (प्रविश्य) भटः-जयतु महाराजः । प आयोञ्जायनो निवेदयि. तुमागतः। राजा शीघ्र प्रवेश्यताम् । भटः-यदाज्ञापयनि महाराजः । (ततः प्रविशति आयनः) कौञ्जायनः ( सनिर्वेदम् ) भोः! कष्टममात्यत्वं नाम । कुतः, प्रसिद्धौ कार्याणां प्रवदति जनः पार्थिवचलं विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति । अमात्या इत्युक्ताः श्रुतिसुखमु.रं नृपतिभिः सुसूक्ष्म दण्ड्यन्ते मतिबलविदग्धाः कुपुरुषाः ॥ ५॥ - (क) हम् उद्यानं गता मे दुहिता १. 'ते' क. पाठः. . २. 'व । अ' क. पाटः. ३. 'ग्धा पुरुषता' ख. पाठः.

प्रथमोऽङ्कः। राजा जयसेन ! कस्मिन् प्रदेशे वर्तते स्वामी । किं ब्रवीषि - उपस्था- नगृह इति । अतस्त्वशङ्कनीयेयं भूमिः। (परिक्रम्य समम्भ्रमम्) प्र- सीदतु प्रसीदतु स्वामी। अलमलं सम्भ्रमेण । स्वैरमुपविश्य कथ्यतां वृत्तान्तः। कौञ्जायनः-शृणोतु स्वामी । ननु स्वामिनाहमुक्तः स्वामिदारिकया सह गच्छोद्यानम इति । - एवमुक्तम । पुनः किम् । कौआशयः लगत्वोद्यानं यथामुखमाक्रीड्य निवर्त- मानायां राजसुतायां दबीदासहसितकथितश्रवणबृंहितमदस्रव- न्मदजलाईदुर्दिनान ना निहतपतितसादिपुरुषः क्षितिरजोवगु- ण्ठिताव्यता भीम नातिनानिव पवनो दृष्टादृष्टलघुप्रचारः स्वा- मिसचिवाना : नायतुकाम इबैकपुरुषविशेष प्रकाशयि- तुमिच्छन्निन्त्र मा देशम्भ्युपगतो हस्ती। राजा. तु विस्तरः । ननु कुशलिनी कुरङ्गी । कौञ्जायनः-- कथमकुशलिनी भवति विद्यमानेषु स्वामि- भाग्येषु । दिष्ट्या । यथेष्टमिदानी ब्रूहि । कौमायनः ततः प्रद्रुतेषु प्राकृतजनेषु हाहाकारमात्र प्रतीकारासु स्त्रीषु समाश्रितनिहतेषु सुपुरुषेषु उद्यानगतानां स- वोपकरणानां परीक्षणाय मुहूर्तव्याक्षिप्ते मयि च नीतिगुप्ते सह- सैव स्वामिदारिकाया यानमेव प्राप्तः स हस्ती । - -

६
अविमारके
-
देवी-(क) हं इदो वरं किण्णुखु भविस्सदि ।
राजो-अथ केन सनाथीकृता कुरङ्गी ।
कौञ्जायनः अथ कश्चिद् दर्शनी- (इत्य/क्ते तिष्ठति)
राजा यथेष्टमिदानी ब्रूहि । निष्परिहारा व्यापदः ।
कौञ्जायनः -अथ कश्चिद् दर्शनीयोऽप्यविस्मितस्तरुणो-
ऽप्यनहङ्कारः शूरोऽपि दाक्षिण्यवान् सुकुमारोऽपि बलवान् स्वा-
मिदारिकायां हस्तिनाभिभूयमानायां तत्कालदुर्लभमभयं प्रदाय
निर्विशङ्कः समासादितवांस्तं द्विपवरम् ।
राजा-
-
अनृणः सकारुण्यस्य । ततस्ततः ।
-
कौञ्जायनः ततस्तेन सललितसरभसकरतलताडनप्ररुष्टः
सहसैव खामिदारिकां विहाय ते हन्तुकामः प्रतिनिवृत्तः स
व्यालः ।
देवी-- (ख) कुसळो होदु ।
राजा-
ततस्ततः।
(क) हम् इतः परं किन्नुखलु भविष्यति
(ख) कुशलं भवतु।
१. 'जा
थी' क. पाठः.
२. 'तमेव ह' ख. पाठः.
* व्यालो दुष्टगजः ।

प्रथमोऽङ्कः । कौआयनः -- अथ तदनन्तरमभ्यागतेन भूतिकेन मया च पुनर्यानमारोप्य द्रुतमानीय कन्यान्तःपुरमेव प्रवेशिता स्वा- मिदारिका। राजा- अहो महानयं प्रमादः । अथ भूतिकः किमर्थ नाभ्यागतः। कौआयनः- उक्तोऽहं भूतिकेन - गलेमं वृत्तान्त स्वामिने कथय । अहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञात्वा शीघ्रभाग- मिष्यामीति । राजा-तेन हि सर्व परीक्ष्यागभिप्यति भूतिकः । कौञ्जा- यन! कतरकुलसमुद्भूतः स परव्यसनसहायः । कौआयनः स्वामिन् ! इह विसंवादयत्यात्मानमन्त्यजो- ऽहमिति । देवी (क) महाराअ! अकुळीणो कहं एव्वं साणुक्कोसो भवे । राजा - किन्नुखलु भवेदेतत् । (ततः प्रविशति भूतिकः) भूतिकः (सविस्मयम्) अहो प्रच्छन्नरत्नता पृथिव्याः । अस्य तावत् पुरुषस्य निर्व्याजेन विक्रमेण मन्दीभूता इव मन- (क) महाराज! अकुलीनः कथमेवं सानुक्रोशो भवेत् 'प्यक क. पाठः.

८ अविमारके स्विनां विक्रमबुद्धयः । एकस्तु मे संशयः, किमर्थमात्मान- मन्वयं चच्छादयति । अथवा कः शक्तः सूर्य हस्तेनाच्छादयि- तुम् । इह हि, उप- छन्ना भवन्ति भुवि सत्पुरुषाः कथञ्चित स्वैः कारणैर्गुरुजनैश्च नियम्यमानाः । भूयः परव्यसनमेत्य विमोकामा विस्मृत्य पूर्वनियमं विवृता भव । ॥ ६ ॥ जयसेन ! कस्मिन् प्रदेशे वर्तते स्वामी ! : अबीपि स्थानगृह इति । अतस्त्वशः जाययं भू । यावत् प्रविशा- मि । (प्रविश्य; अये अयं नाराजो देव्या सहारते । (उपगम्य) जयतु महाराजः। राजा देवि! त्वमभ्यन्तरं प्रविश्थाश्वासय कुरङ्गीम् आमप्यनुपदमागमिष्यामि । देवी (क) जं महाराओ आणवेदि । (निष्क्रान्ना) राजा को वृत्तान्तस्तस्य परार्थमनवेक्षितशरीरस्य । भूतिकः-शृणोतु स्वामी । स मुहूर्तमनादरमत्वरितं स- - (क) यन्महाराज आज्ञापयति विमोकु ण्यर्थान्तर्भावाद् विमोचयितुमित्यर्थः, कामी येषां ते विमोक्तुकामाः । , प्रथमोऽङ्कः। राजा ललितं प्रियवयस्येनेव तेन हस्तिना प्रक्रीड्य निवर्तनानुवर्त- नगतिविशेषैर्विमोह्य लज्जित इव तेन कर्मणी महाजनप्रशंसा- मसहमानः समवनतशिरस्कः वैरं स्वमेवावासं गतः। -भोः! प्रीतोऽम्मिा । अयं हि मे द्वितीयो लाभः । भूतिकः-अथ तद(न)न्तरगलभ्य तस्तिनीभिन्तं गज- वरं सङ्ग्राह्येमां गजशालां प्रवश्य नग्य गुरुपस्य प्रवृत्तिमन्वयं च ज्ञातुमन्यापदेशेन गतवानमि । राजा अथ किं कृतो निश्चयः । श्रुतमस्माभिरन्त्यज इति । भूतिकः शान्तं शान्तं पापम् । नायं तादृशः । केनापि कारणेनात्मानमन्वयं चच्छादयति । राजा-अथ किं भवता परीक्षितम् । भूतिकः किमत्र परीक्षितव्यम् । दैवं रूपं ब्रह्मजं तस्य वाक्य क्षावं तेजः सौकुमार्य बलं च । यद्येवं स्यात् सत्यमस्यान्त्यजत्वं व्यर्थोऽस्माकं शास्त्रमार्गेषु खेदः ॥ १ ॥ राजा किमस्त्यस्य कलत्रम् । भूतिकः-सर्वमस्ति । कलत्रं स्वयमनिविष्टः । १. 'तमनवेक्षितः प्रि' ख पाट:. २. 'णाज' स. पाठः. ३. 'स्वयमे' ख. पाठः.

१० अविमारके - राजा यद्यपि स्त्रीदर्शनं परिहतं, किमर्थ तस्य पिता न परीक्षितः। भूतिकः -- दृष्टस्तत्रभवान् सत्पुत्रसम्पन्नः। स हि, व्यायामस्थिरविपुलोच्छ्रितायतांसो ज्याघातप्रचितकिणोल्बणप्रकोष्ठः । प्रच्छन्नोऽप्यनुकृतिलक्ष्यराजभावो मेघान्तर्गतरविवत् प्रभानुमेयः ॥ ८ ॥ राजा अलमेतावता प्रसङ्गेन । पुनरप्येषा परीक्षा क्रिय- ताम् । भूतिकः - यदाज्ञापयति स्वामी । राजा अथेदानी काशिराजदृतं प्रति किं कर्तव्यम् । भूतिकः- स्वामिन् ! दूतशतान्यागतान्यागमिष्यन्ति च । न तत्र कर्तव्यमिहास्ति लोके कन्यापितृत्वं बहुवन्दनीयम् । सर्वे नरेन्द्रा हि नरेन्द्रकन्यां मल्लाः पताकामिव तर्कयन्ति ॥ ९॥ राजा-कोऽभिप्रायः। भूतिकः - सर्वत्र दाक्षिण्यं न कर्तव्यम् । गुणबाहुल्यं त दात्वमायति चावेक्ष्य *त्वरतां दीर्घसूत्रतां च परित्यज्य देशका १. 'स्त्रीजन' क. पाठः. * त्वरतां त्वरमाणत्वम् प्रथमोऽङ्कः। ११ लाविरोधेन साधयितव्यं कार्यमित्यर्थः । राजा -युक्तमभिहितं भूतिकेन । कौञ्जायन ! किमर्थं तू- ++ ष्णीं भूतः । कौआयनः - स्वामिन् ! बहुप्वपि क्षत्रियेषु पूर्वसम्बन्ध- . विशेषौ सौवीरराजकाशिराजौ स्वामिनो भगिनी पतित्वे तुल्यौ अस्मत्सम्बन्धयोग्याविति स्वामिना चिन्तितौ । तत्र पूर्वमेव सौवीरराजेन पुत्रस्य कारणाद् दूतः प्रेपितः । स चास्माभिरति- बाला कन्येत्यपदेशमुक्त्वा सुपूजितो विसर्जितः । इदानीं तु का- शिराजेन पुत्रस्य कारणाद् दूतः प्रेषितः । तत्र बलाबलचिन्तायां स्वामी प्रमाणम् । राजा- सम्यगुक्तं कौञ्जायनेन । भृतिक! सर्वराजमण्डल- मपोह्य द्वयोः स्थापितयोः कं प्रति विशेषः । भूतिकः-न भृत्यदृषणीया राजानः, स्वामिनो हि स्वा- म्यमात्यानाम् । राजा अलमुपचारेण । बेहि को निश्चयः । भूतिकः- इदानीं तु न प्रत्याख्यातव्यम् । स्वामिन् ! सौवीरराजकाशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ । अथ देव्या भ्रातेति सौवीरेन्द्रो गुणाधिकः । 1. 'कौञ्जायनः -- इ' क. पाट:. २. 'व्यम् । भूतिकः - स्वा' क. पाट:. त्वमिति शेषः।

१२ अविमारके राजा -- न खलु भवानस्मत्सङ्कल्पानभिवादकः । भूतिकः - उभयथानुगृहीतोऽस्मि । राजा-- भोः ! किन्नुखलु सौवीरेन्द्रेण पुनर्न दूतसम्पातः क्रियते । --- भूलिकः तत्रास्ति में कथित् सन्देहः । सुष्ठ परीक्ष्य वश्यागीति नोकवानस्मि । रजा ननु कुशली तत्रभवान् । भूतिकः अदल्लि चारपुरुषाः न दृश्यते तत्रभवान् सपुत्रः कार्याममात्याः किल वर्तयन्ति । न विद्यते कारणमन किञ्चि- न लन्यते गाल प्रवेशः ॥ १० ॥ राजा....औः ! कित्सब भवेदेतत् । कागातः कुमतिभिः चिवैगडीतो रोगातुर: स्यानरागंगवेक्षते वा । शतो द्वित्रतमुपेत्य करोति शान्ति को वा भवेन्नम्पहरोधहेतुः ॥ ११ ॥ शीघ्र परीक्ष्यतामेव वृत्तान्तः । भूतिकः .--- यदाज्ञापयति स्वामी। १. 'जा- अपन' क. पाटा. २. 'श.' क, पाठः. ३. 'न कु' ख. पाठः. -:' क. पारः. ५. 'जमपेजक पाट:. जा- - ६. क. पाटः.

प्रथमोऽङ्कः । १३ राजा -कौञ्जायन! किमिदानी काशिराजदूतं प्रति कर्त- व्यम्। कौञ्जायनः- एवं गते काशिराजेंदूतः पूजयितव्यः । बहुमुखाँ विवाहा यथेष्टं साध्यन्ते । राजा अहो कार्यमेवापेक्षते बुद्धिरमात्यानां, न स्नेहम् । (नेपथ्ये) जयतुं स्वामी, जयतु महाराजः । दश नाळिकाः पूर्णाः । भूतिकः स्वामिन् ! शेषमभ्यन्तरे चिन्तयिप्यामः । अतिकामति स्नानवेला । स्वामिदारिका चाश्वासयितव्या । महा- देवी च चिरं प्रतीक्षते । महाजनोऽप्यस्मिन्नुपद्रवे स्वामिनं द्रष्टु- मिच्छति । राजा. अहो महद्भाशे राज्यं नाम । कुतः, धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्ध्या प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ कालयोगेन कार्यो । ज्ञेयं लोकानुवृत्तं परचरनयनैमण्डलं प्रेक्षितव्यं रक्ष्यो यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः॥ (निष्क्रान्ताः सर्वे) प्रथमोऽङ्कः । . 'नीक क. पाठ.. २ 'जपू' क पाठ. ३. 'र' ख. पाठ ४. 'वा हि वि ५. 'तु महाराज., जयतु स्वामी । द' ख. पाट.. ६. 'व.' क. पाठ:. ख.पाठ'. + महता भार, महद्भिर्भरणीयं राज्यमित्यर्थः ।

-- अथ द्वितीयोऽङ्कः। (ततः प्रविशति विदूषकः) विदूषकः-- (क) भो ! ण जाणन्ति अवत्थाविसेसं इस्सरपुत्ता णाम । अदो तत्तभवं अविमारओ इसिसावेण कुळपरिभंसं अन्तअकुळप्पवासं अत्तणो विण्णाणं गुरुजणं च अचिन्तअन्तो जदा हत्थिसम्भमदिअसे कुन्तिभोअदुहिआ कुरङ्गी दिट्ठा, तद- प्पहुदि अण्णादिसो विअ संवुत्तो । ही ही किं बहुणा, मए सह गोहिँ णेच्छदि, सव्वआळं चिन्तअन्तो अहिरमदि । सच्चो खु लोअप्पवादो सङ्घआरिणो अणत्य'त्ति । एत्थ सम्बन्धो। सा राअदारिआ सअं अन्तज ति (पुच्छदि !)। अहं पि दाव बह्मणपरिवादं परिहरन्तो बह्मणकुळेसु परिभमिअ पच्छण्णो त- त्तहोदो आवासं एव्व गच्छामि । (क) भोः: न जानन्त्यवस्थाविशेपमीश्वरपुत्रा नाम । अतस्तत्रभवान् अविमारकः ऋषिशापेन कुलपरिभ्रंशमन्त्यजकुलप्रवासमात्मनो विज्ञानं गुरुजनं चाचिन्तयन् यदा हस्तिसम्भ्रमदिवसे कुन्तिभोजदुहिता कुरङ्गी दृष्टा, तदाप्रभृत्यन्यादृश इव संवृत्तः । ही ही किं बहुना, मयापि मह गोष्ठी नेच्छति, सर्वकालं चिन्तयन्नभिरमते सत्यः खलु लोकप्रवादः 'सङ्घचारिणोऽनर्था' इति । कोऽत्र सम्बन्धः । सा राजदारिका स्वयमन्त्यज इति पृच्छति । अहमपि तावद् ब्राह्मणपरिवादं परिहरन् ब्राह्मणकुलेषु परिभ्रम्य प्रच्छन्नस्तत्रभवत आवासमेव गच्छामि ।

द्वतीयोऽङ्कः. । (ततः प्रविशति चेटी) चेटी- (क) एदरिस अवत्थापरिब्भटे राअउळे अबहुक- य्यदाए णअरं पेक्खिढुं णिग्गदह्मि । (परिक्रम्यावलोक्य) अयि एसो भय्यसन्तुट्ठो गच्छइ । होदु, एदेण सह हसन्ती मुहुत्तअं णिव्वेदं विणोदेमि । (उपसृत्योर्ध्वमवलोक्य) हळा कोमुदिए ! किं छडो बह्मणो । किं भणासि ण ळभामि त्ति। विदूषकः- (ख) चन्दिए ! किं एदं । चेटी- (ग) अय्ये ! कञ्चि बह्मणं अण्णेसामि । विदूषकः- (घ) बह्मणेण किं कय्यं । चेटी-- (ङ) किमण्णं, भोअणत्थं णिमन्तेदं । विदूषकः- (च) भोदि ! अहं को, समणओ। चेटी (छ) तुवं किळ अवेदिओ। (क) एतस्मिन्नवस्थापरिभ्रष्टे राजकुलेऽबहुकार्यतया नगरं प्रेक्षितुं निर्गतास्मि । अयि एष आर्थसन्तुष्टो गच्छति । भवतु, एतेन सह हसन्ती मुहूर्तकं निर्वेदं वि. नोदयामि । हला ! कौमुदिके! किं लब्धो ब्राह्मणः । किं भणसि - न लभ इति । (ख) चन्द्रिके! किमेतत् । (ग) आर्य! कञ्चिद् ब्राह्मणमन्वेपे । (घ) ब्राह्मणेन किं कार्यम् । (ङ) किमन्यद् , भोजनार्थ निमन्त्रयितुम् । (च) भवति ! अहं कः, श्रमणकः । (छ) त्वं किलावैदिकः । - 'व्य ब' ख. पाठः, १६ अविमारके विदूषकः- (क) किस्स अहं अवेदिओ । सुणाहि दाव । अत्थि रामाअणं णाम णदृसत्थं । तस्सि पञ्च सुळोआ अस- म्पुण्णे संवच्छरे मए पठिदा । चेटी-- (ख) जाणामि जाणामि । अय्यस्स कुळोइदो ईदिसो मेधाविभावो। विदूषकः- (ग) ण केवळं सुळोआ एव, तेसं अत्थो वि (उ ? मु)णिओ । अण्णं च । अवरो विसेसो, बह्मणो दुळ्ळहो अक्खरओ अत्थो अ। चेटी (घ) तेण हि भणाहि किं णाम एवं अक्खरं । (नाममुद्रिकां दर्शयति) विदूषकः-- (आन्मगतम् ) (ङ) अजाणमाणो किं भणिसं । (विचार्य) एवं दाव भणिस्सं । (प्रकाशम्) भोदि ! एवं अक्खरं मम पुत्थए णत्थि। (क) कस्मादहमवैदिकः। शृणु तावत् । अस्ति रामायणं नाम नाट्यशास्त्रम् । तस्मिन् पञ्च श्लोका असम्पूर्ण संवत्सरे मया पठिताः । (ख) जानामि जानामि । आर्यस्य कुलोचित ईदृशो मेधाविभवः । (ग) न केवलं श्लोका एव, तेषामर्थोऽपि ज्ञातः । अन्यच्च । अपरो विशेषः, ब्राह्मणो दुर्लभोऽक्षरज्ञोऽर्थज्ञश्च । (घ) तेन हि भण किं नामैतदक्षरम् । (ङ) अजानानः किं भाणष्यामि । एवं तावद् भणिष्यामि । भवति! एतदक्षर मम पुस्तके नास्ति । ३. 'भोदु दिदं । (प्र' ख. १. 'कुदो' ख. पाठः. २. 'उणिओदो । अ' क. पाठः. पाठ:. ४. 'स्सं । भो' क. पाठः.

द्वितीयोऽहः। चेटी-(क) जदि ण जाणासि, अदक्खिणं भुजेहि । विदूषकः-- (ख) भोदु भोदु । चेटी- (ग) पेक्खामि दाव अय्यस्स अङ्गुळीअअं । विदूषकः - (घ) पेक्ख पेक्ख ममकेरअं दंसणीअं । चेटी--(गृहीत्वा) (ड) एसो भट्टिदारओ इदो एव्व आअच्छदि। विदूषकः- (परावृत्यावलोक्य) (च) कहिं कहिं तत्तभवं । चेटी-(छ) विळोभिदो मुद्धबह्मणो । इमं जणसमूहं पवि- सिअ चउप्पहमग्गे वञ्चिअ गमिस्सं । (निष्क्रान्ता) विदूषकः- (सर्वतो विलोक्य) (ज) चन्दिए! चन्दिए ! कहिं कहिं चन्दिआ।हा वञ्चिदो मि। गण्डभेददासीए सीळं जाणन्तो वि अत्तणो भोअणविस्सम्भेण छळिदो मि । (परिक्रम्य) भोअणं वि (क) यदि न जानासि, अदक्षिणं भुय । (ख) भवतु भवतु। (ग) पश्यामि तावदार्यस्याङ्गुलीयकम् । (घ) पश्य पश्य मदीयं दर्शनीयम् । (ङ) एप भर्तृदारक इत एवागच्छति । (च) कुत्र कुत्र तत्रभवान् । (छ) विलोभितो मुग्धब्राह्मणः । इमं जनसमूहं प्रविश्य चतुष्पथमार्गे वञ्चयित्वा गमिष्यामि । (ज) चन्द्रिके! चन्द्रिके! कुत्र कुत्र चन्द्रिका । हा वञ्चितोऽस्मि । गण्डभेद- हास्याः शीलं जाननप्यात्मनो भोजनविसम्मेणच्छलितोऽस्मि । भोजनमप्यलीकं चिन्त- * गण्डभेददास्या प्रन्थिभेददास्याश्चौरदास्या इत्यर्थः ।

अविमारके अळिअं चिन्तेमि । (अग्रतो विलोक्य) हन्त एसा धावइ । चिट्ठ चिट्ठ अधम्मिट्ठदासि! चिट्ठ। किं धावइ एव । जाव अहं वि धावामि। (धावति) मम पादा सिविणे हत्थिणा आसादिअमाणस्स विअ तहिं तहिं एव्य पडन्ति । हन्त कुम्भदासीए वुत्तन्तं तत्तहोदो णिवेदइस्सं । (निष्क्रान्तः) प्रवेशकः। (ततः प्रविशत्युपविष्टोऽविमारकः) अविमारकः अद्यापि हस्तिकरशीकरशीतलाङ्गी बालां भयाकुलविलोल; विषादनेत्राम् । स्वप्नेषु नित्यमुपलभ्य पुनर्विबोधे जातिस्मरः प्रथमजातिमिव स्मरामि ॥१॥ अहो बलमनङ्गस्य । कुतः, दृष्टिस्तदाप्रभृति नेच्छति रूपमन्यद् बुद्धिः प्रहष्यति विषीदति च स्मरन्ती । यामि । हन्तैपा धावति । तिष्ठ तिष्ठ अधर्मिष्टदास ! तिष्ठ । किं धावत्येव । यावदह- मपि धावामि । मम पादौ स्वप्ने हस्तिनासाद्यमानस्येव तत्र तत्रैव पततः । हन्त कुम्भदास्या वृत्तान्तं तत्रभवते निवेदयिष्यामि । * विषादशब्दो विषादिपरः । 'विषादि' इति वा पाठः ।

द्वितीयोऽङ्कः । -. १ ९ पाण्डुत्वमेति वदनं तनुतां शरीरं शोकं व्रजामि दिवसेषु निशासु मोहम् ॥ २॥ अथवा अयुक्तमधृतिवं पुरुषाणाम् । सङ्कल्पमानो हि विजृम्भते मदनः । तस्मादहमिदानीं न सङ्कल्पयामि । (स्मृन्बा) अहो तस्या रूपसम्पद् , रूपानुरूपं यौवनं , यौवनसदृशं सौकुमार्यम् । अत्र हि, प्रतिच्छन्दं धात्रा “युवतिवपुषां किन्नु रचितं गता वा स्त्रीरूपं कथमपि च ताराधिपरुचिः । विहाय श्रीः कृष्णं जलशयनसुप्तं कृतभया धृतान्यस्त्रीरूपं क्षितिपतिगृहे वा निवसति ॥ ३ ॥ कथमहं पुनरारब्धश्चिन्तयितुम् । किमिदानीं करिष्ये । मनश्च तावदस्मदिच्छया न प्रवर्तते । इह हि, प्रतिषिद्धं प्रयत्नेन क्षणमात्रं न 'वीक्षते । चिराभ्यस्तपथं याति शास्त्रं दुर्गुणितं यथा ॥ ४ ॥ अथवा न शक्यं मनो जेतुम् । चिन्तयिष्याम्येनाम् । अहो सर्वेषां स्त्रीगुणानामेकत्र समवायः। (चिन्ताभिभूत उपविशति ) (ततः प्रविशति धात्री नलिनिका च ) धात्री --- (सवितर्कम् ) (क)अहो सङ्कडदा कय्यरस । जइ एवं (क) अहो सङ्कटता कार्यस्य । यद्येवं क्रियते, राजकुलं दूषितं भवति । यदि न * युवतिवपुषां स्त्रीरूपाणाम् । * न वीक्षते प्रतिषेधानुसारेण न तिष्टतीत्यर्थः ।

२०
अविमारके
१
करीअदि, राअउळं दूसि होइ । जदि ण करीअदि, अवस्सं
सा विवज्जइ । मए अणेएहि उवाएहि विआरिदं च । मम वि सा
अज वि पच्छादेदि । अहव किं ताए पच्छादिदं । सा तदप्प
हुदि सुमणावण्णअंणेच्छदि, आहारं णाभिळसदि, ण रमदि गो.
ट्ठीजणेण, दिग्धं णिस्ससदि, असम्बद्धं कहेदि, कहिदं ण जाणा-
दि, गूढं हसदि, विवित्ते रोदिदि, रोअं अवदिसदि, तणुआ
होदि, पण्डुभावं गच्छदि। एक पि तहिं अच्छरिअं । एवंविधेहि
अवत्थाविसेसेहि अत्तणो ळजाए भएण कुळमाणेण बाळभावण
अ एकस्सा वि किञ्चि ण मन्तेदि ।
नलिनिका--(क) किस्स ण मन्तेदि । मम सव्वं कहेदि।
धात्री-- (ख) हळा! जाणामि दे अभिप्पाअं,
जाणिअ सव्वहा इमं एदेण जोजेहि त्ति।
,
क्रियतेऽवश्यं सा विपद्यते । मयानेकैरुपायैर्विचारितं च । ममापि साद्यापि प्रच्छाद
यति । अथवा किं तया प्रच्छादितम् । सा तदाप्रभृति सुमनावर्णकं नेच्छति, आहार
नाभिलपति, न रमते गोष्टीजनेन, दीर्घ निःश्वसिति, असम्बद्धं कथयति, कथितं न
जानाति, गूढं हसति, विविक्ते रोदिति, रोगमपदिशति, तन्वी भवति, पाण्डुभाव
गच्छति । एकमपि तत्राश्चर्यम् । एवंविधैरवस्थाविशेषैरात्मनो लज्जया भयेन कुलमा-
नेन बालभावेन च एकस्या अपि किञ्चिन्न मन्त्रयते ।
(क) कस्मान्न मन्त्रयते । मम सर्व कथयति ।
(ख) हला! जानामि तेऽभिप्रायम् , अवस्था ज्ञात्वा सर्वथेमामेतेन योजयेति ।
१. 'अआरणं णि' ख. पाठः,

-- द्वितीयोऽङ्कः। नलिनिका (क) किंणुखु ईदिसो तादिसहि गुणविसे- सहि अकुळीणो भवे । धात्री- (ख) तहिं च सन्देहो। सुदं च मए भट्टिणीए स- मीवे अमच्चेहि किळ भणिदं-ण सो तादिसो। दुक्खुळजो त्ति अत्ताणं केण वि कारणेण पच्छादेदि त्ति। नलिनिका-- (ग) कोणुखु भवे । धात्री (घ) जदि सो सन्देहो णत्वि. को अण्णा अदि- रित्तगुणो जामादुओ भवे । (नेपथ्ये) यदि च विभवरूपज्ञानसत्त्वादयः स्यु- नं तु कुलविकलानां वर्तते वृत्तशुद्धिः । ध्रुवमिह कुलमस्य श्रोष्यसि प्राप्तकाले त्यज कुलगतशङ्कां साध्यतां स्वन्तमेतत ॥ ५ ॥ धात्री (ङ) हळा ! केण खु भणिदं । (क) किन्नुखल्बीदृशस्तादृशैर्गुणविशेषैरकुलीनो भवेत् । (ख) तत्र च सन्देहः । श्रुतं च मया भट्टिन्याः सभीपेऽमात्यैः किल भणितं- न स तादृशः । दुष्कुलज इति आत्मानं केनापि कारणेन प्रच्छादयतीति । (ग) कोनुखलु भवेत् । (घ) यदि स सन्देहो नास्ति, कोऽन्योऽतिरिक्तगणो जामाता भवेत् । (ङ) हला ! केन खलु भणितम् ।

२२ अविमारके - नलिनिका (क) एत्थ को वि ण दिस्सदि । धात्री (ख) पहिट्ठरोमकूवं मे सरीरं । असंसअं दव्वेण भणिदं । अहं पुण जाणामि ण एसो केवळो माणुसत्ति । नलिनिका-(ग) गदो तस्स कुळसन्देहो । अह्माणं वअ- णं करेदि ण करेदि त्ति चिन्तमि । (विचिन्त्य) धण्णो खु सो ज- णो इमं एवं उम्मादेदि । किं बहुणा, सअं कामदेवो वि भट्टि- दारिआए रूवं पेक्खिअ किळिस्सिदि । तेण सो वि किलिस्सि- दित्ति तकेमि । धात्री (घ) हळा ! एसो तस्स आवासो, जं (त)दा हत्थि- सम्भमदिअसे कोदूहळेण आअदह्म । नलिनिका - (ङ)हळा ! अहो दस्सणीअं किदोवहारं च दुवारमुहं । हळा ! एहि पविसामो । (क) अत्र कोऽपि न दृश्यते । (ख) प्रहृष्टरोमकूपं मे शरीरम् । असंशयं देवेन भणितम् । अहं पुनर्जानामि नेष केवलो मानुष इति । (ग) गतस्तस्य कुलसन्देहः । अस्माकं वचनं करोति न करोतीति चिन्तयामि । धन्यः खलु स जनमिममेवमुन्मादयति । किं बहुना, स्वयं कामदेवोऽपि भर्तृदारिकाया रूपं प्रेक्ष्य क्लिश्यते । तेन सोऽपि क्लिश्यत इति तर्कयामि । (घ) हला! एष तस्यावासः, यं तदा हस्तिसम्भ्रमदिवसे कौतूहलेनागते स्वः। (ङ) हला! अहो दर्शनीयं कृतोपहारं च द्वारमुखम् । हला! एहि प्रविशावः । ३. 'से आअदह्म कोहळेण । १. 'कोच्चि ण' ख. पाठः. १. 'जणं इ' क. पाठ:. नलिनिका' ख. पाठः. ४. 'हं । धात्री' क. पाठः.

द्वितीयोऽEः । २३ - - धात्री (क) हळा ! कहिं भट्टिदारओ । किं भणासि चउस्साळे वत्तदि त्ति। (परिक्रम्यावलोक्य) अअं अह्माणं भट्टिदारओ एको एव किं वि चिन्तअन्तो चिट्ठइ। नलिनिका. (ख) हळा! णं पविसामो । धात्री - (ग) एवं करेम । (प्रविश्य) सुहं अय्यस्स। अविमारकः-अहो तस्या रूपसम्पत् । धात्री (साकुलम् ) (घ) किण्णुहु भवे । सुहं अय्यस्स । अविमारकः- उरः स्तनतटालसं जघनभारखिन्ना तनुः धात्री - (ङ) अम्मो विप्पळवदि । अविमारकः- मुखं नयनवल्लभं प्रकृतिताम्रबिम्बाधरम् । धात्री (च) धण्णो खु सो जणो इमं एवं उम्मादेदि। . (क) हला! कुत्र भर्तृदारकः । किं भणसि - चतुःशाले वर्तत इति । अयम- स्माकं भर्तृदारक एक एव किमपि चिन्तयंस्तिष्ठति । (ख) हला! ननु प्रविशावः । : (ग) एवं कुर्वः । सुखमार्यस्य । (घ) किन्नुखलु भवेत् । सुखमार्यस्य । (ङ) अम्मो विप्रलपति । (च) धन्यः खलु स जन इममेवमुन्मादयति ।

२४ अविमारके अविमारकः-- भयेऽपि यदि तादृशं नयनपात्रपेयं वपुः धात्री -(क) सुत्थिदं कय्यं । अविमारकः-- कथन्नु सुरतान्तरप्रचुरविभ्रमं तद् भवेत् ॥६॥ धात्री (ख) सा एव इमं उम्मादेदि । नलिनिका- सुट्ठ भणिदं- एसो वि किळिस्सिदि त्ति । धात्री (घ) लुदु विज्ञादं तुए। सुहं अय्यरस । अविमारकः (विटोक्य मत्रीलम् ) स्वागतं भवतीभ्याम् । उभे ङ) अवि सुहं । अविमारक :-भविष्यति वां दर्शनेन । धात्री--(च) अय्य! किं चिन्तीअदि । अविमारकः भवति! शास्त्रं चिन्त्यते । -- (क) सुस्थित कार्यम् । (ख) सेवेममुन्मादयति । (ग) सुष्ठु भणितम् - एपोऽपि क्लिश्यत इति (घ) सुष्ठु विज्ञातं त्वया । सुखमार्यम्य । (ङ) अपि सुखम् । (च) आर्य ! किं चिन्त्यते ।

द्वितीयोऽङ्कः । धात्री (क) किं णाम एवं रमणीअं सत्थं विवित्थे चि- न्तीअदि। अविमारकः-भवति! योगशास्त्रं चिन्त्यते । धात्री-- (सभितम् ) (ख) पडिग्गहिदं भङ्गळवअणं जोअ. सत्थं एव्व होदु। अविमारकः-- (आभगतम् ) कोनुखलु वाक्यार्थः । अन्य- दप्यभिलाषवशादन्यथा सङ्कल्पयामि । (प्रकाशम्) किमभिप्रेतं भवत्याः । धात्री --(ग) जो इच्छन्तीओ आअह्म । अणुमदा अय्येण जोओत्ति णं णि िकय्यं अमाअंगअउळे विवित्ते आवासे । तहिं पि को वि जो अडिअदा जो चिन्तअन्ता अच्छदि । तेण सह अय्येण सुटु जोअविहाणं चिन्ती- तहिं एव अदु त्ति । अविमाकः - कथमद्यापि सावशेषाणि म भाग्यानि । (आसनादुत्थाय) भवति! पुनर्दत्ता इव मे प्राणाः । कुतः, तस्या भयाकुलितदृष्टिविषं मनोज्ञं सौम्यप्रकारमतितीक्ष्णमवेक्ष्य वक्रम् । (क) किं नामैतद् रमणीय शास्त्रं विविक्ते चिन्त्यते । (ख) प्रतिगृहति मङ्गलवचनम् | योगशास्त्रमेव भवतु | (ग) योगमिच्छन्त्यावागते स्वः । अनुमत आर्येण योग इति ननु निष्ठितं मस्याके राजकुले विविक्त आवासे । तत्रापि कोऽपि जनोऽधिकतरं योगं तयन्नस्ति । तेन सह तत्रैवार्येण सुष्ठ योगविधानं चिन्यतामिति । १. 'अवआसे' ख. पाठ:.

अविमारके १ उन्मादमभ्युपगतोऽस्मि चिरं भवत्यो- क्यिामृतेन पुनरद्य कृतः ससंज्ञः ॥ ७ ॥ धात्री -- (क) दिट्ठिआ अय्येण परिपाळिदो अअंजणो। अळमदिप्पसङ्गेण । अज एव पविसिदव्वं कण्णाउरं । अमच्चो अय्यभूदिओ कण्णाउररक्खओ कासिराअदूदेण सह अह्माअं महाराएण पूइदो पत्थिदो अ । अविमारकः बाढम् । प्रथमः कल्पः। भवति! कस्ताव दौषधमुपलभ्य मन्दीभवत्यातुरः । धात्री (ब) पवेसमत्तं एव्व दुळ्ळहं । सकं अब्भन्तर चिरं वसिडें । अविमारकः प्रविष्ट एवाहं चिन्तयितव्यः । क्रियतामन गलविशालाः प्रासादमालाः । धात्री (ग) एवं करेम । सव्वं अब्भन्तरकरणीअं संपा देम । अप्पमत्तो एव पविसदु अय्यो । २ (क) दिष्टयाण परिपालितोऽयं जनः । अलमतिप्रसङ्गेन । अद्यैव प्रवेष्टव्यं क न्यापुरम् । अमात्य आर्यभूतिकः कन्यापुररक्षकः काशिराजदूतेन सहास्माकं महारा जेन पूजितः प्रस्थितश्च । (ख) प्रवेशमात्रमेव दुर्लभम् । शक्यमभ्यन्तरे चिरं वस्तुम् । (ग) एवं कुर्वः । सर्वमभ्यन्तरकरणीयं संपादयावः । अप्रमत्त एव प्रा. शत्वार्यः। १. 'पुनर्भवत्या' क. पाठ:.

द्वितीयोऽकः । अविमारकः भवति ! सकृदभिधीयतां राजकुलस्य वि- धानम् । धात्री- (क) एवं विअ । अविमारकः हन्त भोः! श्रुत्वा तु राज्ञो गृहसंविधानं प्रविष्टमात्मानमवैति बुद्धिः । न पौरुषं वै परदूषणीयं न चेद् विसंवादमुपैति देवम् ॥ ८ ॥ विचिन्य) भवति! कोऽस्माकमस्मिन कार्ये प्रत्ययः । उभे- (ख) अअं पञ्चओ । जेदु भट्टिदारओ। अविमारकः हन्त गम्यतां सम्प्रति । प्रतीक्ष्यतामर्ध- त्रम् । उभे (ग) जं भट्टिदारओ आणवेदि । (निष्क्रान्ते) (ततः प्रविशति विदूषकः) विदूषकः (घ) अहो णअरस्स सोहा संपदि । अत्थं - -- (क) एवमिव । (ख) अयं प्रत्ययः । जयतु भर्तृदारकः । (ग) यद् भर्तृदारक आज्ञापयति । (घ) अहो नगरस्य शोभा सम्प्रति । अस्तमासादितो भगवान सूर्यो दृश्यते दधि- एतद्वाक्योत्तरं किञ्चिद् वाक्यमपेक्षितं प्रतिभाति २८ अविमारके आसादिदो भअवं सुय्यो दीसइ दहिपिण्डपण्डरेसु पासादेसु अग्गापणाळिन्देसु पसारिअगुळमहुर(स)सङ्गदो विअ । गणिआ- जणो णाअरिअजणो अ अण्णोण्णविसेसमण्डिदा अत्ताणं दंस- इदुकामा तेसु तेसु पासाइसे सविब्भमं सञ्चरन्ति । अहं तु तादिसाणि पेक्खिअ उम्मादिअमाणस तत्तहोदो रत्तिसहाओ होमि त्ति "अरादो णिग्गदो ह्मि । सो वि दाव अह्माअं अध- ण्णदाए केण वि अणत्थसञ्चिन्तणेण अण्णादिसो विअ संवुत्तो। एदं तत्तहादो आवासगिहं । अज्ज णअरापणाळिन्दे सुणामि तत्तहोदो गिहादो णिग्गदा राअदारिआ(ए) धत्ती सही(अ)त्ति । किंणुखु एत्थ कय्यं । अहव हथिहत्थचञ्चळाणि पुरुसभग्गाणि होन्ति । अहव गच्छदु अणत्थो अह्माअं । अवस्थासदिसं राअ- उळं पविसामि । (प्रविश्य ही ही एसो अत्तभवं कामुअजणव- ण्णएण अणुछित्तो विष पण्डभावेण इदो एव आअच्छदि । अब सव्वं अागे हादि सुरूवाणं । उपन्य जेदु भवं । पिण्डपाण्डरेषु प्रासादेवापणादिन्दपु प्रसारितगुलमधुर (म)मङ्गत इब । गणिकाजनो गरिक मनचा विकोपारावामान दर्शयितुकामा तेषु नेषु प्रासादेषु सविभ्रमं संचरनः। तु सामान र मरतो मात्रमहाबा भवामीति न- गरान्निर्गम । नर्थमंचिन्तनेनान्यादृश इव संवृत्त: ला नमवत आत्रा गृहम् । या नागपणाचन्द शृणोमि तत्रभवतो गृहान्निर्माता राजदारिका(या) धात्री जग्बी (भनि । किनुग्धपत्र कार्यम् । अथवा हस्तिह- म्तचञ्चलानि पुरुषभाग्यानि भवनि । अथवा गन्छ बनर्थोऽ माकम् । अवस्थासदृशं राजकुलं प्रविशामि । हो ही "पोऽत्रभवान् कामुक जनवर्णकेनानुलिप्त इव पाण्डु- भावनेत एवाग अति । अथवा सर्वमलागे भवनि मुरूपाणाम् । जयतु भवान् । १. 'सतो अ : २ ‘सु अग्गापणालिन्देसु सवि' ख. पाटः. ३. 'ति' ख. पाठः. .

द्वितायोऽङ्कः । .. -- - अविमारकः वयस्य ! अतिविलम्बितमिव भवता नगरे । विदूषकः- (क) तुमं दाव आमन्तणविप्पळडो विअ ब- ह्मणो अहोरत्तं चिन्तसि । अहं पि दाव दिअसे णअरं परिब्भ- मिअ अळवभोआ पाअडगणिआ विअ रत्तिं पस्सदो सइदु आ- अच्छामि। अविमारकः-- सखे ! प्रियं ते कथयिष्यामि । विदूषकः (ख) किं समत्तो अमाअं इसिसावो । अविमारकः मूर्ख! अवश्यं भवितव्येऽर्थे कः प्रहर्षः। विदूषकः (ग) किं पुण अण्णं। अविमारकः किं न दृष्टा कुरझ्या धात्री नलिनिका च । विदूषकः (ब) आम भो! दिट्ठाओ तत्तहोदीओ। किं आणीदं । अविमारकः अस्मच्छोकौषधमानीतम । विदूषकः - (ङ) पेक्खामि दाव । अविमारकः काले द्रक्ष्यसि । अद्य तावच्छ्यताम् । -- -- - । (क) त्वं तावदामन्त्रणविप्रलब्ध इव ब्राह्मणोऽहोरात्र चिन्तयासि । अहमपि ता- वद् दिवसे नगरं परिभ्रम्यालब्धभोगा प्राकृतगणिकव रात्रौ पार्श्वतः शयितुमा- गच्छामि । (ख) किं समाप्तोऽस्माकमृषिशापः । (ग) किं पुनरन्यत् । (घ) आम भोः! दृष्टे तत्रभवत्यौ । किमानीतम् । (क) पश्यामि तावत् ।

३० अविमारके भवं । -- विदूषकः- (क) भणादु भणादु अविमारकः किं बहुना । तत्रभवती ब्रवीति अद्यैव प्रवेष्टव्यं कन्यापुरमिति । विदूषकः-- (विहस्य) (ख) केण खु उवाएण अब्भन्तरं पवि- सिअ जीवग्गहणं पत्तुकामोऽसि । अमच्चा णाम विसमसीळा कुन्तिभोअम्स । अविमारकः-- कथं भवतापि शङ्कनीयम । पश्य, भग्ना मयैकेन पराः ससैन्या अद्यापि गन्धेन न संश्रयन्ते । किं मानुषैः सोऽप्यसुरेश्वरो मे हतो भुजाभ्यामविरूपधारी ॥ ९ ॥ विदूषकः - (ग) जाणामि जाणामि भवदो अमाणुसाणि कम्माणि । सव्वहा सङ्कणीओ रत्तिच्छण्णो परगिहप्पवेसो । (क) भणतु भणतु भवान् । (ख) केन खलूपायेनाभ्यन्तरं प्रविश्य जीवग्रहणं प्रामुकामोऽमि । अमात्या नाम वषमशीलाः कुन्तिभोजस्य । (ग) जानामि जानामि भवतोऽमानुपाणि कर्माणि । सर्वथा शङ्कनीयो रात्रि च्छन्नः परगृहप्रवेशः । १. 'व्यमयैव प्रवेष्टव्यं क' ख. पाट:. न संश्रयन्ते न संयुज्यन्ते । योगानुकूलव्यापारवृत्तेर्धातोरिह योगमात्रे वृत्तिदि- वक्षणात् ।

द्वितीयोऽः | .. ३१ -- अविमारकः - एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभो- जस्य कन्यापुरम् । तदनुमन्तुमर्हति महाब्राह्मणः । विदूषकः-- (क) कहं मं उज्झिअ गच्छसि । अहं भवन्तं सव्वकाळं ण मुञ्चामि । अक्कोसन्तो वि एको इच्छिदव्यो । अविमारकः न जानाति भवान् शास्त्रमार्गम् । एकः परगृहं गच्छेद् द्वितीयेन तु मन्त्रयेत् । बहुभिः समरं कुर्यादित्ययं शास्त्रनिर्णयः ॥ १० ॥ तस्मादेकेनैव मया प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् । न ते वयं शङ्कनीयाः । पश्यतु भवान् , मितगुणमिह कुन्तिभोजसैन्यं नृपभवनं विभवैः सुखं प्रवेष्टुम् । वयमपि च भुजायुधप्रधानाः किमिह सखे! भवतापि शङ्कनीयाः ॥ ११ ॥ विदूषकः- (ख) जइ एवं किदो णिञ्चओ, संपदि णअरं प्रविसामो । तहिं मम अत्थि मित्तो । तस्स आवासे काळं पडिवाळह्म । (क) कथं मामुज्झित्वा गच्छसि । अहं भवन्तं सर्वकालं न मुञ्चामि । आक्रोश- येक एष्टव्यः । (ख) यद्येवं कृतो निश्चयः, संप्रति नगरं प्रविशावः । तत्र ममास्ति मित्रम् । यावासे कालं प्रतिपालयावः । " १. 'याः । विदू' ख. पाठः.

३२ अविमारके अविमारकः सम्यग् भवानाह । साम्प्रतमभ्यन्तरं प्र. विश्य कृताह्निको महाराजेनाभ्यनुज्ञातो वासगृहे शयनसंविधानं प्रविश्याज्ञातो नगरं प्रविश्य भवतो मित्रगृहे कालं प्रतिपा- लयामि । (प्रविश्य) चेटी- (क) जेदु भट्टिदारओ । आवृत्तं ह्राणोदअं । अविमारकः-अयमयमागच्छामि । गच्छाग्रतः । (ख) जं भट्टिदारओ आणवेदि । (निष्क्रान्ता) अविमारकः - वयस्य ! अस्तमितो भगवान् दिवाकरः । चेटी -- सम्प्रात पूर्वा तु काष्ठा तिमिरानुलिप्ता सन्ध्यारुणा भाति च पश्चिमाशा । द्विधा विभक्तान्तरमन्तरिक्षं यात्यर्धनारीश्वररूपशोभाम् ॥ १२ ॥ विदूषकः - (ग) सुदु भवं भणादि । अदिक्कन्दो दिअ- सो । आरूढो पओसो। (क) जयतु भर्तृदारकः । आवृत्तं स्नानोदकम् । (ख) यद् भर्तृदारक आज्ञापयति । (ग) सुष्ठु भवान् भणति । अतिक्रान्तो दिवसः । आरूढः प्रदोषः + ईश्वरभागस्य द्रुतकनकवर्णत्वप्रसिद्धेररुणत्वोपपत्तिः ।

द्वितीयोऽङ्कः ।
अविमारकः-- अहो विचित्रम्वभावता जगतः । कुनः,
व्यामृष्टसूर्यतिलको विततोडुमालो
नष्टातपो मृदुमनोहरशीतवातः ।
संलीनकामुकजनः प्रविकीर्ण(शूचो)।
वेषान्तरं रचयतीव मनुष्यलोकः ।। १३ ।।
(निष्क्रान्ती
द्वितीयोऽङ्कः ।

अथ तृतीयोऽङ्कः।
(ततः प्रविशति कुरङ्गी चेव्यौ च)
कुरङ्गी - (क) हळा! किं तेण भणिअं ।
चेटी- (ख) भट्टिदारिए! केण ।
कुरङ्गी-- (स्वगतम्) (ग) हं भिन्दामि खु मन्दभाआ ।
(प्रकाशम् ) कण्णेउरचेडेण।
मागधिका-(घ) दिट्ठो मए कण्णेउरचेडो । भणिदं च ।
ण किञ्चि आह ।
कुरङ्गी- (ङ) हन्त भट्टिणीए णिवेदेमि- कण्णेउरचेडी
मम सुअपञ्जरं ण करेदि त्ति ।
मागधिका-(च) णं णिट्ठिदो सुअपञ्जरो भट्टिदारिआए
(क) हला! किं तेन भणितम् ।
(ख) भर्तृदारिके ! केन ।
(ग) हं भिननि खलु मन्दभागा । कन्यापुरचेटेन ।
(घ) दृष्टो मया कन्यापुरचेटः । भणितं च । न किञ्चिदाह ।
(ङ) हन्त भट्टिन्यै निवेदयामि --- कन्यापुरचेटो मम शुकपञ्जरं न करोतीति
(च) ननु निष्ठितः शुकपञ्जरो भर्तृदारिकायाः ।
१. 'कण्णऊर' ख. पाठः.
. 'कण्णाउरचेडेण' इति स्यात् ।

तृतीयोऽङ्कः। - कुरङ्गी - (क) वाचाडे ! किं अण्णो वि अस्थि । मागधिका (ख) भोदव्वं । कुरङ्गी (ग) हळा! का वेळा । मागधिका (घ) ओगाहो पओसो । कुरङ्गी- (ङ) तेण हि पासादं आळहामो । मागधिका - (च) विळासिणि! अग्गदो जाहि । विरएहि सअणासणाणि । विलासिनी--(छ) सुत्ता खु तुवं । को काळो विरइदाणि सअणासणाणि । मागधिका (ज) हळा! जाणामि दे अळसत्तणं । दिवस- रइदाणि भणासि रइदाणि त्ति । (क) वाचाटे! किमन्योऽप्यस्ति । (ख) भवितव्यम् । (ग) हला! का वेला । (घ) अवगाढः प्रदोषः । (ड) तेन हि प्रासादमारोहामः । (च) विलासिनि! अग्रतो याहि । विरचय शयनासनानि । . (छ) सुप्ता खलु त्वम् । कः कालो विरचितानि शयनासनानि । (ज) हला! जानामि तेऽलसत्वम् । दिवसरचितानि भणसि रचितानीति '17 3.

अविमारके - -- विलासिनी (क) हळा! मा एव्वं भणाहि । भट्टिदारिअं अन्तरेण अण्णादिसाणि होन्ति । मागधिका (ख) हळा! गदुअ जाणामि । (सर्वाः परिक्रामन्ति) मागधिका (ग) एसो पासादो। कुरङ्गी ----- (घ) अग्गदो आहि । (आरोहण नाटयति) मागधिका. -~~~- (ङ) साहु विळासिणि! साहु । अत्तणो णा. मसदिसं कि । दम्सि सिळादळे ग्इदं सअणं । बिलासिनी च) अब्भन्तरमण्डवे खु रइदं सअणं मागधिए ! पवाब पेक्य मे अळसत्तणं । सागधिका छ? अदिपण्डिदा खु संवुत्ता । एवं पण्डित. चेडबुलं भत्तारं ळभेहि । करशी-ज) हळा ! इमम्मि मिळादळे मुहुत्तअं उव- विसा । क. हा वाण । मतदारिकामपणान्यायानि भवन्ति । स, इन्टा . राया जानामि । एप पासादः । व अग्रता याहि । (ट) साधु बिलामिनि ! गाव । आत्मनो नाममा कृतम् । एतस्मिन् शिला ले रचितं कायन । (च) अभ्यालरमण्डी खट रचिनं शयनम् । मागधिके ! पश्य पश्य मेऽलसत्वम् । (छ) अनिपण्डिता ग्बल गंवृत्त । एवं पण्डितचेटवृत्त भर्तारं लभस्व । (ज) हला! अस्मिन् शिलातले मुहूर्तकमुपविशामि । ।

तृतीयोऽङ्कः ।
-
मागधिका--(क) जं भट्टिदारिआए रुइदं । होदु ।
(सर्वा उपविशन्ति)
मागधिकाः (ख) भट्टिदारिए ! कहेमि वक्खाणं :
कुरङ्गी- (ग) हला! जाणामि दे असम्बद्रप्पळावं ।
मागधिका -- (घ) भट्टिदारिए ! अभिणवा खु कहा।
कुरङ्गी-- (ङ) याचेमि, मा णिब्बन्धिअ, मुहत्तअंसआमि।
विलासिनी--(च) सुहं सेहदु भट्टिदारिआ । मे कहेहि
कुरङ्गी -- (आमगतम्। (छ) किंणुखु भवे ।
भागधिका . (ज) हळा! सुणाहि भट्टिदारिअं अन्तरण ।
कुरङ्गी- (i) हं विदिदं रहस्सं । परिब्भगृह्मि ।
विलासिनी (ञ) हळा ! कहिं तुए सुदं ।
(क) यद् भर्तृदारिकायै रुचितम् । भवतु ।
(ब) भर्तृदारिके ! कथयामि व्याख्यानम् ।
(ग) हला! जानामि तेऽसंवद्धप्रलापम् ।
(घ) भर्तृदारिके ! अभिनवा खलु कथा ।
(ङ) याचे, मा निर्बध्य, मुहूर्तक शये ।
(च) सुग्वं शेतां भर्तृदारिका । मम कथय ।
(छ) किंनुखलु भवेत् ।
(ज) हला! शृणु भर्तृदारिकामन्तरेण ।
(झ) ह विदित रहस्यम् । परिभ्रष्टास्मि ।
(अ) हला! कुत्र त्वया श्रुतम् ।
'धि --- अ' ख. पाटः.
२. 'सेदु' ख. पाठः.

अविमारके मागधिका (क) भट्टिणीपरिचारिआए वसुमित्ताए कहिदं। विलासिनी (ख) सणाम भट्टिणीए कहिदं होदि। मागधिका (ग) अस्थि कासिराअपुत्तो जअवम्मा णाम । तस्स दिण्णा भट्टिदारिआ । तस्स अ दूदो आअदो महाराएण पूइदो । पडिग्गहिदं च वण्णिआरं । कुरङ्गी - (आत्मगतम्) (घ) एवं अळिअं । अहं अत्तणो 'पभामि । मागधिका- (ङ) तहिं किळ भट्टिणीए भणिदं-बाळा खु मे दुहिआ, ण सकुणोमि एकं पि दिअसं अपेक्खन्ती जी- विउं । जदि मे महाराओ पसण्णो, एत्थ एव्व जामादुओ आ- णीदव्वो त्ति । विलासिनी (च) तदो तदो। -- (क) भट्टिनीपरिचारिकया वसुमित्रया कथितम् । '(ख) स्वयं नाम भट्टिन्या कथितं भवति । (ग) अस्ति काशिराजपुत्रो जयवर्मा नाम । तस्मै दत्ता भर्तृदारिका । तस्य च दूत आगतो महाराजेन पूजितः । प्रतिगृहीतं च वर्णिकारम् । (घ) एतदलीकम् । अहमात्मनः प्रभवामि । (ङ) तत्र किल भट्टिन्या भाणतं.-बाला खलु मे दुहिता, न शक्नोम्येकमपि दि- वसमपश्यन्ती जीवितुन् । यदि में महाराजः प्रसन्नः, अत्रैव जामातानेतव्य इति । (च) ततस्ततः । . * 'पभवामि' इति स्यात् ।

तृतीयोऽङ्कः । मागधिका (क) तदो तं पि किळ अणुमदं महाराएण । अज णक्खत्तं सोभणं त्ति तेण अ दूदेण अमच्चो अय्यभूदिओ -- पत्थिदो। -- कुरङ्गी - (स्वगतम् ) (ख) हन्त काळन्तरिदं कय्यं । विलासिनी (ग) पिअं भट्टिदारिआए रूवजोव्वणं सफळं संवुत्तं त्ति । (प्रविश्य) नलिनिका-(घ) भणिदं हि मम मादाए-गच्छ एवं वुत्तन्तं भट्टिदारिआए कहेहि । पिअणिवेदिअमाणाणि पिआणि पिअदराणि होन्ति । अह असा वि मं पेक्खन्ती सव्वं विम्सत्थं ण भणादि । अहं पि काले पस्सदो पभवामि त्ति । जाव भट्टि- दारिआए पिअं णिवेदेमि । (परिक्रामति) (क) ततस्तदपि किलानुमतं महाराजेन । अद्य नक्षत्रं शोभनमिति तेन च दूतेना मात्य आर्यभूतिकः प्रस्थितः । (ख) हन्त कालान्तरित कार्यम् । (ग) प्रियं भर्तृदारिकाया रूपयौवनं सफलं संवृत्तमिति । (घ) भणितं हि मम मात्रा – गच्छेतं वृत्तान्तं भर्तृदारिकार्य कथय । प्रियनि- 'वेद्यमानानि प्रियाणि प्रियतराणि भवन्ति । अथ च सापि मां पश्यन्ती सर्व विश्व- स्तं न भणति । अहमपि काले पार्श्वतः प्रभवामीति । यावद् भर्तृदारिकायै प्रियं निवेदयामि । १. 'तं कि क. पाठ:. २. 'ओ अ।' ख. पाठः

अविमारके
कुरङ्गी--- (क) कोणुखु अभूदपुब्बो रोओ चिन्तिअमाणो
मं उम्मादेदि । सुमणावण्णअं णेच्छदि । ण तुस्सदि गोट्ठीए ।
इदं एत्थ दारुणं मणोहरं च । (निःश्वस्य) णळिणिए ! किं एदं ।
मागधिका– (ख) भट्टिदारिए ! माअधिआ खु अहं ।
विलासिनी (ग) भट्टिदारिए! विलासिणी खु अहं ।
नलिनिका- (उपगम्य) (घ) भट्टिदारिए ! अहं णळिणिआ।
सोवाणसदेण खु भट्टिदारिआए विज्ञादं । भट्टिदारिए! भट्टिणी
भणादि।
कुरङ्गी- (ङ) किं त्ति ।
नलिनिका- (कर्णे) (च) एवं विअ ।
कुरङ्गी -- (छ) हं हीणं चारित्तं ।
नलिनिका (ज) णं सम्भावणीआ एसो। णं सो एव सो ।
(क) कोनुखल्वभूतपूर्वो रोगश्चिन्यमानो मामुन्मादयति । सुमनावर्णकं नेच्छति।
न तुप्यति गोष्टया । इदमत्र दारुणं मनोहर च । नलिनिक : किंमतत ।
(ख) भर्तृदारिके . मागधिका खल्यहम् ।
ग) भर्तृदारिके ! विलासिनी खल्वहम् ।
(घ) भर्तदारिके ! अहं नलिनिका । सापानशब्देन खलु भर्तृदारिकया विज्ञातम् ।
भट्टेदारिके ! भट्टिनी भणति ।
(ङ) किमिति ।
(च) एवमिव ।
(छ) हं हीनं चारित्रम् ।
(ज) ननु संभावनीय एषः । ननु स एव सः ।

तृतीयोऽ ।
-
कुरङ्गी- (क) णळिणिएं ! संवाहेहि मं ।
नलिनिका- (ख) जं भट्टिदारिआ आणवेदि ।
विलासिनी (ग) णळिणिए ! विवाहो कदा भविस्सिदि ।
(नेपथ्ये)
अद्ये।
नलिनिका-चिरं जीवे ।
(नेपथ्ये)
राजपुरुषाः! अमात्यः प्रस्थित इति कश्चिदमात्यभृत्यः कन्यापु-
ररक्षणार्थ नाभ्यागतः । तद् यथेष्टं भवतु । तावदहं श्वो राज्ञो
निवेदयिष्यामि।
विलासिनी (घ) हळा णळिणिएं ! किं भणिदं ।
नलिनिका (ङ) जदा सो भट्टिदारओ पविसदि, तदा
होदि विवाहो।
.
(क) नलिनिके! संवाहय माम् ।
(ख) यद् भर्तृदारिकाज्ञापयति ।
(ग) नलिनिके ! विवाहः कदा भविष्यति ।
(घ) हला नलिनिके! किं भणितम् ।
(ङ) यदा स भर्तृदारकः प्रविशति, तदा भवति विवाहः ।
१. 'ए(+++ + ? भादारआए') क. पाठ:. २. 'चैव ।न' ख. पाठः.
४. 'ध्ये। ख. पाठः, ५. 'ए! भट्टिदारिआए किं' ख, पाठः,
३. 'व।
अक. पाठः.

अविमारके
१
-
विलासिनी (क) अविग्घेण पविसदु।
नलिनिका- (ख) एवं होदु ।
मागधिका-(ग) हळा ! एहि चउस्साळे उपविसामो।
विलासिनी (घ) एवं होदु । गदप्पाओ पओसो।
आरूढा जोहा।
नलिनिका (ङ) हळा ! मम वि अत्थर अत्थरेहि ।
मागधिका -(च) अत्थि अवआसो । सेवेहि भट्टिदारिअं,
जाव णिहं ळभदि।
नलिनिका (छ) एवं होदु।
(उभे निष्क्रान्ते)
(ततः प्रविशति खड्गहस्तश्चोरवेषेण रज्जुहस्तोऽविमारकः)
अविमारकः- (सविमर्शम् ) भोः! कष्टं तारुण्यं नाम । कुतः,
रागं विजृम्भयति संश्रयते प्रमादं
दोषान् न चिन्तयति साहसमभ्युपैति ।
--
(क) अविघ्नेन प्रविशतु ।
(ख) एवं भवतु ।
(ग) हला! एहि चतुःशाले उपविशामः ।
(घ) एवं भवतु । गतप्रायः प्रदोषः । आरूढा ज्योत्स्ना ।
(ङ) हला! मगाप्यास्तरमास्तृणु ।
(च) अस्त्यवकाशः । सेवस्व भर्तृदारिका, यावन्निद्रा लभते ।
(छ) एवं भवतु ।
१. 'रअं पत्थ' ख. पाठः.
२. 'स्तोऽवि' ख. पाठः.

तृतीयोऽङ्कः । स्वच्छन्दतो व्रजति नेच्छति नीतिमार्ग बुद्धिं शुभां सुविदुषामवशीकरोति ॥ १ ॥ कथमात्मार्थानेष्वर्थेषु मन्दीभवामि । इह हि , नगरपरिचितोऽहं रक्षिणो ज्ञातसारा- स्तिमिरगहनभीमं वर्तते चार्धरात्रम् । असिरपि सुसहायो निश्चितश्चान्तरात्मा किमिह बहुविचारैः को मया दुष्करोऽर्थः ॥ २ ॥ अहो अर्धरात्रस्य प्रतिभयता। सम्प्रति हि , गर्भस्था इव मोहमभ्युपगताः सर्वाः प्रजा निद्रया प्रासादाः सुखसुप्तनीरवजना ध्यानं प्रविष्टा इव । प्रास्ता इव सञ्चितेन तमसा स्पर्शानुमेया नगा अन्तर्धानमिवोपयाति सकलं प्रच्छन्नरूपं जगत् ॥ ३ ॥ अद्यैव खलु वर्तते कालरात्रिः। तिमिरमिव वहन्ति मार्गनद्यः पुलिननिभाः प्रतिभान्ति हर्म्यमालाः । तमसि दश दिशो निमग्नरूपाः प्लवतरणीय इवायमन्धकारः ॥ ४ ॥ (परिक्रम्य कर्ण दत्त्वा) अये गान्धर्वध्वनिरिव श्रूयते । कोनुखल्वयं सार्वकालसुखी पुरुषः कान्तया सह गान्धर्वमनुभवति । व्यक्त स्वयं वीणां वादयति । कुतः, १. 'वीणां स्वयं वा' ख. पाठः.

४ ४ अविमारके उच्चं हयं सन्निरुद्धाश्च जाला- स्तन्त्रीनादः श्रूयते सानुनादम् । बाह्यस्थानं व्यक्तमेवं प्रयोक्तुं किं सामर्थ्य स्त्रीकराग्राङ्गुलीनाम् ॥ ५ ॥ गीतं तु पुनः स्त्रियाः । इह हि, तानस्तु मन्दो विशदप्रवृत्तो जातश्च नादो मुखनासिकेन । स्थूलोऽपि हेतुः करतालनादः सञ्जायते सहलयस्वनेन ॥ ६॥ (परिक्रम्यावलोक्य) हहह अयमपरः कः क्रुद्धां कान्तां प्रसादयति । महान् खल्वस्यापराधः, येनेयमस्यां वेलायामपि न प्रसीदति । अथवा प्रसन्ना खल्वियं व्यपदेशमिच्छति । कुतः, बाष्पोपरुद्धजडगद्गदजिह्मकण्ठं काहं तवेत्यसकलं प्रणयाद् वदन्ती । सद्भावतः प्रियवशं समुपागतापि स्त्रीभावतः प्रवदति प्रतिकूलमेव ॥ ७ ॥ कोनुखल्वयं पक्षी भैरवस्वरः । आ उलूकः खल्वयम् । कथं हसितमनेन । उलूकस्वरश्रवणभीतया कान्तया परिष्वक्तः खल्वयं तपस्वी । सदृशं वयसः किं परव्यापार(वीक्ष)णम् । साधयामस्तावत् । (परिक्रम्य) कोनुखल्वयमस्मिन नगरापणालिन्दे , 1. 'ल्वयमस्मिन् ' क. पाठः.

तृतीयोऽङ्कः । सशङ्कितमतिस्निग्धं च सम्भाषते । अस्मत्सब्रह्मचारी खल्वयं तपस्वी। सम्पीड्यते परिजनेन शनैर्वदेति संविग्नवद् भवति भूषणनिस्वनेन । सङ्गं वदत्यसुखदं मदनाभिभूतः सङ्केतमिच्छति च नेच्छति चाभिगन्तुम् ॥ ८ ॥ (परिक्रम्य) अये ज्योत्स्ना । नैषा ज्योत्स्ना, उभयपङ्क्तिगतानां प्रा- सादानां गवाक्षान्तरगता दीपप्रभैषा । इह खलु प्रयत्नादात्मा रक्षितव्यः । अये अयं तु तस्करः । एष हि, दृढपरिकरबन्धहृष्टचित्तः परगृहवादनिविष्टदृष्टिचेष्टः । द्रुतगतिरपि दीपिकावलोकी भवति च पादनिपातनादभीरुः ॥९॥ हन्त परिहरिष्याम्येनम् । (एकान्ने स्थितः) गतो नृशंसः। वयमपि तावत् प्रतिष्ठामहे । (परिक्रम्य) अये रक्षिणः खल्वेते । किन्नु- खल्विदानी करिष्ये । भवतु दृष्टम् । इमां शृङ्गाटकस्थां विटस- भां प्रविशामि । (विलय स्थित्वा) आरक्षिणां तु विमुखं मितविक्रमाणां मामभ्युपेत्य हसतीव ममैष खड्गः । नैते तु रक्षिपुरुषा मम भारभूता मत्कार्यसाधनपरोऽहमिह प्रविष्टः ॥ १० ॥ गता रक्षिणः । के रक्षन्ति रक्षितात्मानम् । । । १. 'यं त' क. पाठः, २. 'रः, ' क, पाठः, अविमारके अबहुपुरुषपक्षमेत्य शौर्य निशि विचरन्ति सरागलोभमोहाः। इह तु पुरुषकारसारसाक्षी बहुविषमश्च सुखश्च रात्रिचारः ॥११॥ एतद् राजकुलम् । अहो स्थिरत्वमुच्छ्रितत्वं प्राकारस्य । इह खलु प्रयुज्यते पुरुषाणां कक्ष्याबन्धः । अथवा प्रविष्ट एवाहं चिन्तयितव्यः, यदि स्थिराः कपिशीर्षकाः । इह स्थित्वा रज्जें प्रक्षिपामि । नमः प्रजापतये। नमः सर्वसिद्धेभ्यः । प्रसीदन्तु बलि- शम्बरमहाकालाः। विजृम्भतां रात्रिः। वर्धतां निद्रा । अनुमन्यतां पद्मा । लयं गताः सर्वविघ्ना भवन्तु । हताः परिपन्थिका भवन्तु । जयतु भगवती कार्त्यायनी । (रज्जूं क्षिप्त्या) हन्त बद्धः कर्कटक- रज्जा कपिशीर्षक: । अहो भवितव्यस्य प्रभावः । एकेनैव क्षेपेण सुसंसक्तां रज्जु कार्यसिद्धिमिव पश्यामि । अहो बल- वान् हि भगवान् प्रजापतिः । कुतः, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः को वा न सिध्यति ममेति करोति कार्यम् । यत्नैः शुभैः पुरुषता भवतीह नृणां दैवं विधानमनुगच्छति कार्यसिद्धिः ॥ १२ ॥ भवतु रज्जुमवलम्ब्यारोहामि । (आरुह्य दृष्ट्वा) अहो राजकुलस्य श्रीः । काष्ठादिमयः कपिशीर्षप्रतिनिधिः ।

तृतीयोऽEः ४७ विपुलमपि मितोपमं विभागा- निबिडमिवाभ्युदितं क्रमोच्छ्रयेण । नृपभवनमिदं सहर्म्यमालं जिगमिषतीव नभो वसुन्धरायाः ॥ १३ ॥ इह तु न स्थातव्यम् । अट्टालप्रतोलीन्द्रपथेभ्यः सर्वविघ्ना भ- वन्ति । भवतु अनयैव रज्जावतरिप्यामि । (अवताय) क्वनुखल्वि- दानी रज्जु प्रच्छादयामि । (चिन्य) भवतु दृष्टम् । अस्यां हस्ति- शालायां पाशं छित्त्वा क्षिपामि । (प्रक्षिपति । परिक्रम्य) अये तन्त्रीनादो युवतिकलगीतध्वनियुतः अन्यतो यास्यामि । अये गन्धामोदो गजवरमदोहोधितपटुः । मुहूर्त स्थित्वा यास्यामि । प्रभैषा दीपानामिह तु वितता रक्षिपुरुषाः का मतिः चिराद् रात्रौ शान्तं सह कमलषण्डैर्नृपगृहम् ॥१४॥ यास्यामि । एष तयोक्तो मार्गः । इयं मन्दाकिनी । असौ दारु- पर्वतकः । इयमुपस्थानसभा । अये अयं कन्यापुरप्रासादः । एष तु काष्ठकर्मबहुलतया समासन्नजालत्वाच्च सुखमारोढुम् । अथवा दुरारोहश्चेत्, ग) * 'इन्द्रमहेभ्य' इति वा पाठो भवेत् । इन्द्रमहशब्दश्च शुनकार्थक: ‘इन्द्रमहः पुनः । शुनि द्वे तु शक्रस्य महे' इति केशवस्वाम्युक्तेः । १.

अविमारके कान्तासमीपमुपगम्य मनोभिलाषा- द्वया॑धिरोहणमतेर्मम का विशङ्का । संसक्तनालगतकण्टकभीतचेता- स्तृष्णार्दितः क इह पुष्करिणी जहाति ॥ १५ ॥ भवलारोहामि । (आरुह्य) इदं तयोक्तं जालयन्त्रम् । (विघाट्य प्रविश्यावलोक्य च) साधु कुन्तिभोज! साधु । उत्प्रहसित इव भवनेनानेन स्वर्गः । तथाहि, हंसाः स्वपन्ति मणिरत्नशिलातलेषु वैदूर्यमौक्तिककृताः सिकताप्रतानाः । स्तम्भाः प्रवालविहिताः किमिह प्रलापै- मन्दीभवन्ति मणिदीपहताः प्रदीपाः ॥ १६ ॥ अलं रौद्रवेषेण । (चोरवेषमपनीय कक्ष्याबन्धं विमुञ्चति) नलिनिका- (क) कोणुखु वुत्तन्तो भट्टिदारअस्स । भट्टिदारिआ वि अवत्थादुळ्ळहं णिदं लभदि अज्ज उ मम पिओ आअच्छदि त्ति सुदमत्तेण एव । अविमारकः -(श्रुत्वा सहसोपमृत्यै) भवति! अयं मे वृत्तान्तः । नलिनिका (विलोक्य सहर्षम् ) (ख) साअदं भट्टिदारअस्स । अविमारक (दृष्ट्वा सानन्दम् ) इयमियं सा । यत्र मम, (क) कोनुखलु वृतान्तो भर्तृदारकस्य । भर्तृदारिकाप्यवस्थादुर्लभां निद्रा लभत अद्य तु मम प्रिय आगच्छतीति श्रुतमात्रेणैव । (ख) स्वागतं भर्तृदारकस्थ । १. 'धा' क. पाठः. २. 'क्ष्यां वि' ख. पाठः. ३. 'खु एसो वु' क. पाठः. अ' क. पाठः. ५. 'कः (सान' क. पाठः. -- - तृतीयोऽङ्कः । दृष्टिन तृप्यति परिष्वजतीव साङ्गं वुद्धिस्त्वरां व्रजति बोधयतीव सुप्ताम् । रागोऽभिचोदानि सादयतीव चाङ्गं हर्षात् प्रसीदति विमुह्यति चान्तरात्मा ॥ १७ ॥ नलिनिका - (आत्मगतम् ) (क) एसो खु भअव कामदेखो ओघों विअ उभअपक्खं पीडेइ । (प्रकाशम्) भब्दिार ! अ. लङ्करीअदु सअणअळं । अविमारकः नलिनिका (ब) भटिदारअ ! किं ओबांधति भटि- दारिअं। अविमारकः भद्र! अलमलं बालचापलेन । पश्य, अहं हिनत्रो न सहस्रनेत्री मतिश्च मूढा सुचिगभिलाषा । कामार्णवस्याद्य तु दृष्टपारं चक्रीड्यतां मे सुखमक्षियुग्मम ॥ १८ ॥ नलिनिका - (ग) जाणामि जाणामि भट्टिदारिअं अन्त- रंण भट्टिदारअम्त परिम्समं । बाढम् । (उपविशति) (क) एय खलु भगवान् कामदेव ओघ इबोभय रक्षं पीडयति । भर्तृदारक : अ. लकियतां शयननलम् । (ख) भर्तृदारक : किमवबोधयामि भट्टारिकाम् । (ग) जानामि जानाभि भर्तृदारिकामन्तरेण भतदारकस्य परिश्रमम् । १. 'षात् ।' ख. पाठः. 8 परस्मैपदमात्मनेपदानित्यत्वात् ।

अविमारक - - अविमारकः- अद्य सफलो मे परिश्रमः । कुरङ्गी (बुद्ध्वा) (क) हळा! किं णिरणुक्कासेण भणिअं। नलिनिका--(ख) भट्टिदारिए ! भणिदं खु मए पुढमं । अविमारकः प्राप्तं खलु मया जीवितस्य फलं, येनेय- मीदृशं मोहं गता। कुरङ्गी (आत्मगतम्) (ग) हं परिभट्ठमि । (प्रकाशम् ) हळा! किं मए भणिदं। नलिनिका (घ) भट्टिदारिए ! किञ्चि ण मन्तिदं । अविमारकः अयमस्या मोहविस्तरेण द्वितीयो मे - मोहः। (ङ) णळिणिए! चिरं खु उवविठ्ठा । का वेळा । नलिनिका--(च) संवुत्तं अडरत्तं । कुरङ्गी- (छ) तेग हि परिस्सन्तासि। एहि परिस्सजेहि मं । (क) हला : किं निरनुक्रोशेन भणितम् । (ख) भर्तृदारिके ! भणितं खलु मया प्रथमम् । (ग) हैं परिभ्रष्टास्मि । हलाकि मया भणितम् । (ब) भर्तृदारिक! किञ्चिन्न मन्त्रितम् । (ङ) नलिनिक चिर खपविष्टा । का वेला। (च) संवृत्तोऽर्धरात्रः । (छ) तेन हि परिश्रान्तासि । एहि परिष्वजस्व माम् । १- 'थैव खलु स' क. पा.:. २. 'शम् कि' क. पाठः. ३. 'न्ता । ए' क. पा.

तृतीयोऽङ्कः । नलिनिका- (अपवार्य) (क) अहं संवाहेमि । भट्टिदारअ! परिस्सजेहि भट्टिदारिअं । अविमारकः-(सहर्षम् ) बाढम्। एवमेव त्वमपि प्रियश- तानि शृणु । कुरङ्गी- (ख) अळं अदिसिणेहेण । एहि दाव । नलिनिका (ग) भट्टिदारिए! इअमि। कुरङ्गी - (बलादाकृष्याविमारकमालिङ्गति) (ब) हं को दाणिं मं संवाहेदि। नलिनिका-- (कर्णे) (ङ) एवं विअ । कुरङ्गी- (ससम्भ्रमम् ) (च) हा हीणं चारित्तं । भीदह्मि । अविमारकः न त्वं प्रिये ! मम नवासि मनोभियोगात् किं कम्पसे पवनवेगहता लतेव । - (क) अहं संवाहयामि । भर्तृदारक ! परिष्वजस्व भर्तृटारिकाम् (ख) अलमतिलेहेन । एहि तावत् । (ग) भर्तृदारिके ! इयमम्मि । (घ) हं क इदानीं मां संवाहयति । (ङ) एवमिव । (च) हा हीनं चारित्रम् । भीतास्मि । + जनाभिप्रायेण पुल्लिङ्गनिर्देशः ।

अविमारके - भद्रे! भयं त्यज कुरुष्व मयि प्रसादं किं वा प्रलप्य बहुधा शरणागतोऽस्मि ॥ १९ ॥ (कुरङ्गी सलज नलिनिकां विलोकयति) नलिनिका (क) भट्टिदारअ ! उठेहि उद्देहि । भट्टिदा- रिआ भणादि । उठेहि किळ । अविमारकः वाढम। (उत्तिष्ठति) (प्रविश्य) (ख) जेदु भट्टिदारओ। अविमारकः -कथं भवती । धात्री- (ग) णळिणिए ! अब्भन्तरमण्डवे खु रइदं सअ- णं । भट्टिदारिअं भट्टिद्वारअं च तहिं एव पवेमेहि । नलिनिका (निकान्ता धात्री) नलिनिका --- ) भट्टिदारअ ! अब्भन्तग्मण्डवे खु रइदं सअगं । तहिं एव पविसदु भट्टिदारिआए सह । - (ब) तह । (क) भर्तृतारक ! उत्तिष्ठत्तिष्ठ । भर्तृदारिका भगति । उत्तिष्ट किल । (ख) जयतु भर्तृदारकः । (ग) नलिनिक ! अभ्यन्तरमण्डपे खलु रचितं शयनम् । भर्तृवारिकां भर्तृदारक च तंत्रव प्रवेशय । (घ) तथा । (ड) भर्तृदारक : अभ्यन्तरमण्डपे खन्टु रचितं शयनम् । तत्रैव प्रविशतु भर्तृहारिकया सह । १. ।। (उनिहत धा' क. पाठः,

तृतीयोऽङ्कः ।
अविमारकः त्वमप्येवं प्रियशतानि शृणु । (हस्तेन तम्या
हस्तं गृहीत्वोत्तिष्ठति)
नलिनिका
(क) एदु एदु भट्टिदारओ।
अविमारकः -अयमयमागच्छामि।
(उभौ परिक्रामतः)
अविमारकः (सहर्षम् ) अनृणोऽम्मि यौवनस्य । कुतः,
song
नेत्रे बाप्पपरिप्लुते करधृतौ व्यावल्गमानौ स्तनौ
श्रोणी चाधिकभागिका न विशदौ पादौ हिया भ्यन्दिनौ ।
एतत सप्तपदप्रमाणमिह भोः! सम्पाद्यते योजना
यद्येषा क्षणदा भवेद् युगशतं धन्यो मदन्यः कुतः ॥
-
(निष्क्रान्ता: म
तृतीयोऽङ्कः ।
(क) एवेतु भर्तृदारकः ।
* चानशन्तमिदम्

अथ चतुर्थोऽङ्कः।
(ततः प्रविशति चाङ्गेरिकाहस्ता मागधिका)
मागधिका- (क) अहो परिजणस्स पमादो । आसुय्यो-
दअं पि ण किदा पासादरअणा । ण सुणीअदि गोट्ठीजणको-
ळाहळो । किंणुखु भवे । आ, रत्तिजागरदाए पभादप्पसुत्ता
भवे । जाव भट्टिदारिअं ओबोधेमि । (परिक्रामति)
(ततः प्रविशति विलासिनी वीजनेन)
विलासिनी (ख) मागधिए ! चिट्ठ चिट्ठ ।
मागधिका (ग) हळा! मा वारेहि । भट्टिदारिआए
सुमणावण्णअं मए आणीअदि ।
विलासिनी (घ) किं भट्टिदारिआए सुमणावण्णएण
वा अलङ्कारेण वा।
मागधिका-(ङ) अविणीदे! मा अमङ्गळं भणाहि । सददा-
लङ्किदा भट्टिदारिआ होदु।
(क) अहो परिजनस्य प्रमादः । आसूर्योदयमपि न कृता प्रासादरचना । न
श्रूयते गोष्ठीजनकोलाहलः । किंनुखल भवेत् । आ, रात्रि जागरतया प्रभातप्रसुप्ता
भवेत् । यावद् भर्तृदारिकामवबोधयामि ।
(ख) मागधिके ! तिष्ठतिष्ठ ।
(ग) हला! मा वारय । भर्तृदारिकायै सुमनावर्णकं मयानीयते ।
(घ) किं भर्तृदारिकायाः सुमनावर्णकेन वालङ्कारेण वा-
ङ) अविनीते ! मा अमङ्गलं भण । सततालङ्कृता भर्तृदारिका भवतु ।

चतुर्थोऽङ्कः ।
विलासिनी (क) ण खु । आइदी एव भट्टिदारिआए
अलङ्कारो त्ति भणामि ।
मागधिका (ख) उम्मत्तिए! णणु पुप्फ वि वासीअदि।
विलासिनी (ग) सदिसं एवं । सभावरमणीआणि
मण्डिदाणि अदिरमणीआणि होन्ति ।
मागधिका- (घ) हळा! सुजोजिदो खु भट्टिदारिआए
रूवाणुरूवो भत्ता।
विलासिनी (ङ) अर्को पक्षवादेग । भट्टिद्वारअस्स
समीवे भट्टिदारिआ पदुमिणिआ वि दिरसदि ।
मागधिका-- (च) सुटु भणादि । अहं वि चिन्तेमि
ससरीरो भअवं कामदेवो ईदिसो भवेत्ति ।
विलासिनी-- (छ) तह एव भट्टिदारिआ भट्टिदारअं विणा
खणमत्तं वि ण रमदि ।
--
(क) न खलु । आकृतिरेव भर्तृदारिकाया अन्टकार इति भणामि ।
(ख) उन्मतिक!
नन पुष्पमपि वाम्यते ।
(ग) सदृशमेतत् । स्वभावरमणीयानि मण्डितान्यतिरमणीयानि भवन्ति ।
(घ) हेला ! सुयोजितः खलु भर्तृदारिकाया रूपानुरुपो भर्ता ।
(ङ) अलं पक्षपातेन । भर्तृदारकस्य समापे भर्तृदारिका पभिनीय दृश्यते ।
(च) सुष्छु भणनि । अहमपि चिन्तयामि- सशरीरो भगवान् वारदेव ईदृशो
भवेदिति
(छ) तथैव भर्तृदारिका भदारकं विना क्षणमात्रमपि न रमते ।
। एतदुतरं 'मुजस्स' इत्यपेक्षितं भाति ।

अविमारक (ततः प्रविशति साना नलिनिका) नलिनिका (सशोकम् ) (क) सच्चो खु लोअप्पवादो- बहुविग्घाणि सुहाणि त्ति । एसो खु संवच्छरो अदिक्कन्दो भट्टि- दारिआए अविच्छिण्णसुहसम्भोएण रदि करिअ । अमाअं पुण गोट्ठीजणस्स उत्तरकुरुवासो संवुत्तो । अज उण महाराएण विदिदो एसो खु बुत्तन्तो त्ति सुणिअ सीददि विज सरीरं । भट्टिदारिआ च ळजाभअमअणेहि अभितालिअमाणा सन्दावेण मुद्धा अवअदचेदणा विअ संवुत्ता। एसो खु पासादो णिव्या- विददीवो विअ मे पडिभादि । तेण भट्टिदारएण विरहिदाए मम एकं पि हिअअप्पीदिकरं ण जादं । भट्टिदारओ अविग्घेण णिग्गदो त्ति सुणिअ अज्ज पलादिदं विअ मे हिअअं । सम्प- दि सुरुद्धं कण्णाउरं । (परिक्रम्य) अम्मो सहीओ। हळा माअ- धिए ! किं एदं। मागाधिका (ख) हळा! किं पुच्छसि । णं मण्डणवेळा भट्टिदारिआए। (क) सत्यः खलु लेोकप्रवादः-बहुविनानि मुखातित । एप खलु संव-सरोऽति: क्रान्तो भर्तृदारिकाया अविच्छिन्नमुखसम्भोगेन रति कृन्या । अम्माकं पुनर्गठिीजन- स्योत्तरकुरुवासः संवृत्तः । अद्य पुनर्महाराजेन विदित एप खलु वृत्तान्त इति श्रुत्वा सीहतीव शरीरम् । भर्तृदारिका च लजाभयमदनैरभिताड्यमाना सन्तापेन मुग्धापग- तचेतनेव संवृत्त । एव खलु प्रासाटो निर्वापितदीप इव में प्रतिभाति । तेन भर्तृदा- रकंग विरहिताया ममैकमपि हृदयप्रीतिकरं न जातम् । मतदारकोऽवनेन निर्गत इति श्रुत्वाद्य प्रह्लादितमित्र मे हत्यम् । सम्प्रति मुरुद्रं कन्यापुरम् । अम्मा सख्यो । हला मागधिके ! किमेतत् । (ख), हला! किं पृच्छ से ननु मण्डनवेला भर्तृद रिकायाः । १. 'दं किं एद' क. पाठः. "

चतुर्थोऽदः ।
..
नलिनिका- (क) अदिक्कन्दो उच्छवो। (रोदिति)
उभे- (ख) सिविणं विअ किं एवं। भणाहि समाणा
भवामो।
नलिनिका (ग) सव्वहा गओ भट्टिदारओ।
उभे-हं।
नलिनिका (घ) अहं पि भट्टिदारिआए दुक्खं पेक्खिदूं
असहन्ती इह आअदह्मि ।
मागधिका (ङ) ण सकं खु भट्टिदारिआए अवत्थादं-
सणं । तह वि भट्टिदारिअं अस्सासइस्सामो ।
उभे-(च) एवं करेझ ।
(सर्वा निष्क्रान्ताः)
प्रवेशकः ।
(ततः प्रविशत्यविमारकः)
(क) अतिक्रान्त उत्सवः ।
(ख) स्वप्न इव किमेतत् । भण समाना भवामः ।
(ग) सर्वथा गतो भर्तृदारकः ।
(घ) अहमपि भर्तृदारिकाया दुःखं प्रेक्षितुमसहमानेहागतास्मि ।
(ड) न शक्यं खलु भर्तृदारिकाया अवस्थादर्शनम् । तथापि भर्तृदारिकामा-
श्वासयिष्यामः
(च) एवं कुर्मः ।

अविमारके अविमारकः (सशोकम् ) कन्यापुरात् कथमपीह विनिर्गतं मे भाग्यावशेषमवलम्ब्य शरीरमात्रम् । अद्यापि तन्मम मनो न तु मामुपैति नावेक्षते मयि तया प्रिययावरुद्धम् ॥ १॥ कानुखलु भवेदवस्था कुरङ्गयाः । हीता भवेत् प्रेष्यजनप्रवादै- भीता च राज्ञा दृढसन्निरुद्धा। बाष्पाविला मामनवेक्षमाणा मोहं ब्रजेद् रात्रिषु किं करिष्ये ॥ २ ॥ हन्त दृष्टः प्रतीकारः । तयापि तावदस्मदपेक्षया नापक्षित आत्मा । तस्मादहमपि तावत् तदर्थे प्राणान् परित्यजामि । (परिक्रम्य) कतिपयदिवसप्रोषितोऽहमस्मि । अद्य तु मानसं शारीरं च दुःखमसह्यमिव मे प्रतिभाति । इह हि, निर्व्याज परिचयवर्धमानरागां रूपाढ्यामभिनवयौवनां मनोज्ञाम् । त्यक्ता तां क्षणमपि वञ्चितोऽस्मि जीवन कष्टोऽन्यः क इह भवेत् कृतघ्नभावः ॥ ३ ॥ सम्प्रति हि मदनेनान्तर्दह्यमानस्य क्षारीभवितुमारब्धो भगवान् सूर्यः सहस्ररश्मिः । (सर्वतो विलोक्य) अहो प्रतिभयता निदाघस्य । सम्प्रति हि, अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात्।

चतुर्थोऽङ्कः । विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्छामिव ॥ ४ ॥ किमिदानीं करिष्ये । न चास्म्यहं गन्तुं समर्थः । कुतः, लिम्पन्ति रूक्षपवनाः सिकताग्निचूर्णैः संस्वेदयन्ति च नगाः परुषैः पलाशैः। दावैर्द्रवीकृततनुः स्रवतीव भारवा- नादित्यपाकचलितः फलतीव लोकः ॥ ५ ॥ हा प्रिये ! हा सुन्दरि! देहि मे प्रतिवचनम् । (मछी नाटयति । पुननिःश्वस्य । ऊर्ध्वमवलोक्य) रुद्धः खलु भगवान् सूर्यः सहस्ररश्मिः। अथवा, किमत्र चित्रं वितताः पयोदा रुन्धन्ति सूर्य ननु वातनीताः । अन्तःस्थितं मे यदि वारयन्ति कामं भवेद् विस्मयनीयमेतत् ॥ ६ ॥ किमनेन जीवन्मरणेन । विसर्जयिष्याम्यात्मानम् । (उत्थाय परिका- मति) किन्नुखलु करिष्ये । भवतु दृष्टम् । अस्मिन्नारण्यतटाके विसर्जयिष्याम्यात्मानम्। धिगधर्मः : खलु मे मरणमार्गः। अभि- मानमोहान्महापथो विस्मृतः । अन्यथा प्रयतिष्ये । (विलोक्य) भवतु दृष्टम् । अये अदूरे दृश्यते दवाग्निः । तस्मिन् प्राणाना- हुतिं करिष्यामि । (उपगम्य प्रणम्य च) भगवन् ! अग्ने !

अविमारके इष्टं चेदेकचित्तानां यद्यग्निः साधयिष्यति । परत्रापि च मे कान्ता सा भवेदेककीर्तनी ॥७॥ (आग्निं प्रविश्य सकुतूहलम् ) किमिदं वर्तते । दग्धाः स्फुलिङ्गनिकरैर्निपतन्ति वृक्षा • ज्वालाश्च मे मलयचन्दनपङ्कशीताः । अग्निर्दयां हि कुरुते मदनातुरेऽति पुत्रं पितेव च *परिष्वजति प्रहृष्टः॥ ८ ॥ भोः! किमतः परं विस्मयनीयम् । अग्निः खलु मां न दहति । अथवा 'एतदप्यस्तिकारणम् । अन्यथा प्रयतिष्ये (परिक्रम्य) एष खलु महान् पर्वतः, असितजलदबृन्दैमिश्रसन्दिग्धशृङ्गो गगनचरकुलानां विश्रमस्थानभूतः । सुकैविमतिविचित्रो मित्रसंयोगहृयो नरपतिरिव नीचो दृश्यते निष्फलाढ्यः ॥ ९ ॥ भवतु तावदस्मिञ्छैले प्राणान् परित्यजामि । मरुत्प्रपातो हि सर्वार्थसाधकः । यावदारोहामि । (आरुह्यावलोक्य) एतत् पानीयं गोत्रस्थं स्नात्वोपस्पृश्य मन्त्रं जपामि। (तथा कृत्वा जपति) १. 'त' क. पाठः. * आत्मनेपदाकरणमनित्यत्वात् । ‘परिष्वजते' इत्येव वा पाटो भवेत्। एतद् अदहनमपि अस्तिकारणं विद्यामानकारणकम् ।

चतुर्थोऽङ्कः । ११ (ततः प्रविशति विद्याधरः सह प्रियया) विद्याधरः प्राक्सन्ध्या कुरुषूत्तरेषु गमिता स्नातः पुनर्मानसे भूयो मन्दरकन्दरान्तरतटेष्वामोदितं यौवनम् । क्रीडार्थ हिमवद्गुहासु चरितां दृष्टिश्च संलोभिता यास्यावो मलयस्य चन्दननगान्मध्याह्ननिद्रासुखान् ॥१०॥ (आकाशयानं निरूप्य) सौदामनि! पश्य पश्य भगवत्या वसुन्धराया दूरस्थां दर्शनीयामाकृतिम् । इह हि , शैलेन्द्राः कलभोपमा जलधयः क्रीडातटाकोपमा वृक्षाः शैवलसन्निभाः क्षितितलं प्रच्छन्ननिम्नस्थलम् । सीमन्ता इव निम्नगाः सुविपुलाः सौधाश्च बिन्दूपमा दृष्टं वक्रमिवाभिभाति सकलं संक्षिप्तरूपं जगत्॥११॥ भद्रे! अवहिता भव । शीतचन्दननिलयं मलयं प्रयास्यावः । सौदामनी (क) अय्य ! तह। (उभावाकाशयानं निरूपयतः) सौदामनी (ख) अय्य! ण पारेमि अविस्सन्ता गन्तुं। विद्याधरः तेन हि कस्मिंश्चित् पर्वते मुहूर्त विश्रम्य गमिष्यावः। - (क) आर्य ! तथा । (ख) आर्य! न पारयाम्यविश्रान्ता गन्तुम् । १. 'तं' ख. पाठः. २. 'म्य यास्यावः' ख. पाठः.

अविमारके - २ - सौदामनी (क) अय्य! पिअं मे। (उभाववतरतः) विद्याधरः-- सौदामनि! पश्य पश्य । जलदगहनमुज्झतीव वेगा- दभिपततीव मही समुद्रमुद्रा । जलदसमयतोयदा इवामी भृशमभिभान्ति नगा विजृम्भमाणाः ॥ १२ ॥ भवति ! अयं पर्वतः समर्थ इवास्माकं मुहूर्तमातित्थ्यं कर्तुम् । तस्माद् विश्रान्तौ गमिष्यावः । सौदामनी (ख) अय्य! एवं करेम। विद्याधरः -- सौदामनि! पुष्पितानां नगानां षड्भागग्र- हणमस्माकं धर्मः । तस्मादनृणान् वृक्षान् करिष्यावः। सौदामनी (ग) अय्य! तह । (पुष्पापचयं नाटयतः) विद्याधरः (अविमारकं विलोक्य) अये कोनुखल्वयम् । आ ज्ञातम् । विद्याधरः खलु मन्त्रभ्रष्टः । कुतः, रूपमीदृशं हि नान्येषाम् । दिष्टया यदयं दृष्टः । भवत्वहमपि विस्मृतं पृ- च्छामि । (क) आर्य! प्रियं मे। (ख) आर्य! एवं कुर्वः । (ग) आर्य! तथा। १. 'यास्यावः' ख. पाठः. २. 'वं । वि' ख. पाठः.

- चतुर्थोऽङ्कः । अविमारकः भवतु कृतं देवकार्यम् । प्रपतामि । (पार्श्व- तो विलोक्य, विद्याधरं दृष्ट्वा) भोः! कोनुखल्वयम् । अथवा, स्वप्नो- ऽयं भवेत् । न ह्यहं सुप्तः । आ अन्तकाले मनुष्याः किमपि पश्यन्ति । तदेतत् स्यात् । तदपि संमूढानां खलु । अहं तु सर्व जानामि । भवतु पृच्छाम्येनम् । भोः! कतरकुलान्वयो भ- वतालतियते । विद्याधरः श्रूयताम्- 'अहं मेघनादो नाम विद्या- धरः। इयं तावदस्मत्कुडुम्बिनी सौदामनी नाम । अद्य भगवन्तम- गस्त्यमाराधयितुं मलयपर्वते विद्याधरैरुत्सवः प्रारब्धः। तत्र वयम- पि सङ्केतिताः । इह मुहूर्त विश्रम्य गमिप्याव इत्यवतीर्णाः । एषो- ऽस्माकं वृत्तान्तः । अथ किमर्थमिदानी भवान् क्षितितलं देव. लोकीकरोति । अविमारकः- (आत्मगतम् ) किन्नुखलु वक्तव्यम् । वर्त- माने ममान्तकालेऽनृतं न वक्तव्यम्। (प्रकाशम् ) भोः! सौवीररा- जपुत्रोऽविमारको नाम्नास्मि । विद्याधरः - (आत्मगतम् ) एतदनृतम् । नेयमाकृतिर्मानुषी । (प्रकाशम्) अथ किमर्थमेकाकी भवानिहागतः। अविमारकः- (आत्मगतम्) किन्नु खलु वक्ष्यामि । (अधोमु- खस्तिष्ठति) विद्याधरः -- (आत्मगतम्) भवत्वहमेव ज्ञास्यामि । (विद्यामा- भगवतोऽग्नेः पुत्र आत्मानं न वर्तयति) भोः! कष्टम् । अयं खलु १४ अविमारके जानाति, कुन्तिभोजदुहितरं कुरङ्गीमभिलषमाणो रममाणश्च तत्र विदिते सति निर्गतः, पुनः प्रवेशोपायमलभमानः प्राणपरित्या- गाभिलाषी मरुत्प्रपातं कर्तुमिहारूढः । सापि च तत्र जीवन्मर- णमनुभवति । अहमस्यास्मिन् कार्ये सहायो भविष्यामि। (प्रका- शम्) भो अविमारक ! अच्छलं मित्रत्वं नाम । न शक्नोषि मया विदितमर्थ प्रच्छादयितुम् । अविमारकः -उच्यताम्। विद्याधरः-अद्यप्रभृत्यावयोः सख्यमस्तु। सकला च भव- तोऽस्माभिरवस्था विदिता । प्राणपरित्यागार्थमिहारूढो भवान् ननु । अविमारकः वयस्य! एवमेतत् । विद्याधरः-भोः! प्रीतोऽस्म्यनेन विस्रम्भण। यदि तत्रा- ज्ञातमेव प्रवेष्टुं स्यादुपायः, किं करिष्यति भवान् । अविमारकः- (सहर्षम्) किमन्यत् । अनुप्रवेक्ष्यामि । तदर्थों हि व्याक्षेपः। विद्याधरः-तेन हि सखे! दृश्यतामङ्गुलीयम्। (इत्यङ्गुलीयकं दर्शयति) अविमारकः -वयस्य ! किमनेन प्रयोजनम् । १. 'रुत्पा' क. पाठः. * चानशन्तमिदम् ।

- - चतुर्थोऽकः विद्याधरः एतदङ्गुलीयकं दक्षिणाङल्या धारयन्नदृश्यो भवति, वामेन प्रकृतिस्थः। अविमारकः वयस्य ! एतदप्यस्ति। विद्याधरः अयं यं करियानि । वयम्य ! किं मां पश्यसि अविमारकः एवम। विद्याधरः-- अवहितो भव । अविमारकः-अवहितोऽसिप । विद्याधरः- (दक्षिणा शुन्यां प्रति वयस्य ! किं मां पश्यसि। अविमारकः -वयन्यछायानि दृश्यते, किं पुनः श- रीरम् । एते खलु लोके सुखिनो नाम । ये सञ्चरन्ति गगने वनितासहायाः कीडन्ति पर्वततटेषु कृतोपदेशाः । सर्व विदन्त्यपि च गन्त्रकृतः प्रनाये- रन्तहिताश्च विवृताश्च सुखं भ्रमन्ति॥ १३ ॥ भवतु, प्रविष्ट एवास्म्यनेन । विद्याधरः (बामाङ्गल्या प्रक्षिप्य) लेन हि गृह्यतामङ्गुलीयकम् । अविमारकः - (प्रनिगृह्य) अनुराहीतोऽस्मि । विद्याधरः-नै न, अहमेवानुगृहीतः । कुतः, न तथा रत्नमासाद्य सुजनः परितुष्यति । यथा तत् 'तद्गताकाङ्क्ष पात्रे दत्त्वा प्रहप्यति ॥ १४ ॥ ५ सि । अवहि' क. पाठः. २. 'चरान्त' क पाठः. ३ 'नन्वह' क. पाठः.

अविमारके अविमारकः एकस्तु मे संशयः । मम शरीरे परीक्षितु- मिति वक्तुमसदृशमिव । विद्याधरः तेन हि प्रक्षिप दक्षिणाङ्गुल्याम् । अविमारकः- विद्याधरः-- वयस्य! गृह्यतामसिः । अविमारकः- - बाढम् । (खडं गृहीत्वा सविस्मयम् ) अहो ख- - बाढम् । (नथा करोति) गस्य प्रभावः प्रच्छन्नरूपम्त्वशनिः कथञ्चित् खड्गीकृतः स्यात्तु तडित्कलापः । निर्भर्त्सयन् सूर्यकृतां प्रीति वनं दवाग्निः सहसाभ्युपैति ॥ १५ ॥ विद्याधरः अहो वीर्यमग्निपुत्रस्य । अस्य खड्गस्य प्रभावं विद्याधरेष्वपि कतिचिन महन्त । अग्निः खलु भगवानिमं रक्षति। अविमारकः (खड़े दृष्ट्वा) अहो भगवतीनां विद्यानां प्रभावः। दिव्यं स्वभावं समुपागतोऽस्मि स एव नामास्मि गुणैर्विशिष्टः । इदं यदा निर्गुणमर्त्यवृन्दै- न ज्ञायते चाम्ति च मे शरीरम् ॥ १६ ॥ वयस्य! कृतमस्मत्कार्यम् । गृह्यतामसिः । -- १. 'मा' ख. पाठः.

चतुर्थोऽङ्कः । विद्याधरः -यदिष्टं भवतः । वयस्य ! अन्तर्हितश्चान्तर्हि- तस्पृष्टश्च तत्स्पृष्टश्चान्तर्हिता भवन्तीति निश्चयः। . अविमारकः-सखे! प्रीतोऽस्मि । अयमभ्युदयादभ्युदयः। सखे! अस्मदपेक्षया विलम्बितमिति तयामि । मा भूदिदानी वेलातिक्रमः । विद्याधरः -प्रविष्टोऽस्मि, यद्यापृष्टो भवान् । अविमारकः-किं बहुना भापितन । विद्यावशानां तु भवद्विधानां कोऽस्मद्विधः स्यात् प्रतिकर्नुकामः । क्रीतोऽस्म्यहं जीवितसम्प्रदानात प्रशाधि मां किं करवाणि भृत्यः ॥ १७ ॥ विद्याधरैः-जानाम्यहं भवतो ला बुद्धिम् । यदि च भवानस्मद्वचनमनुवर्तते, सख्यै मम प्रतिनिवेदय मामिमां च त्वं मामनुस्मर सखे! गतिरीक्ष्यतां मे । क्रीडारसैः प्रतिविलोभय राजपुत्री कार्यान्तरेषु पुनरप्यहमस्मि पार्थे ॥ १८ ॥ अहो पुरुषसारो हि नाम नेच्छति विसर्जयितुं मे मनः। वयस्य। गच्छामस्तावत्। अविमारकः --गच्छतु भवान् पुनदर्शनाय । १. 'र:-भवतु जा' ख. पाटः, ६८ अविमारके विद्याधरः बाढम् । (उस्थितो विद्याधरः सह प्रियया) अविनारकः - (ऊर्ध्वनवलोक्य) एघ हि तत्रभवान् मेघनादो गगनार्णवमवगाढः । य एषः, वातोद्भूतारकेशः सलिलधरदरीमृष्टनष्टाङ्गरागः सम्यग्बडासिकक्ष्यः प्रिययुवतिकरस्पृष्ट सङ्गढमध्यः । वातोद्धृतोत्तरीयो मुकुटमणिगणैस्तारकाः सम्प्रमृद्गन् श्रीमान् विद्याधरोऽसाबुपरिगतिजः क्षीयमाणः प्रयाति ॥१९॥ इयमपि विद्याबलेन प्रियमनुवर्तते । यैषा, जवशिथिलविमुक्तपार्श्वकेशी स्तनतटवल्गनखिन्नसन्नमध्या। वियति दयितदन्तपूर्वकाया तडिदिव तोयधरघु दृष्टनष्टा ॥ २० ॥ गतस्तत्रभवान् मेघनादः । अहमप्यथैव नगराभिमुखो भवि- प्यामि । यावदवतरामि । (अवतीय) परिश्रान्त इवास्मि । भवतु, एतस्मिन् शिलातले मुहूर्त विश्रम्य गमिष्यामि । (उपविशति) (ततः प्रविशति विदूषकः) विदूषकः (क) अहो तत्तहोदो सुगहीदणामहेअस्स सोचीरराअस्स अधण्णदा, (जा)ए चिरं अपुत्तो भविअ अत्तणो - (क) अहो तत्रभवतः मुगृहीतनामधेयस्य सौवीरराजस्याधन्यता, यया चिरमपुत्रो 'अघण्णदा, जाए' इति पाठकरणे सामञ्जस्य भवति ।

चतुर्थोऽEः । ६९ णिअमविसेसेण देवप्पसादेण अ माणुसळोअदुळळभं सुपुत्तं ळ- भिअ पुणो वि तादिसो एव संवुत्तो। सव्वहा मम अ समत्त- जीविददाए बन्धुजणस्स अधण्णदाए परिभट्ठो कुमारो। (परिक्रम्य) अज खु तत्तहादीए भणिदं-- खमेण गदो कुमारो त्ति । अहव को एत्थ जाणादि अदिसुउमारो राअउमारो एआई वम्महेण अभिताळिअमाणो परिब्भट्ठो कुसळो होदि त्ति । अहं वि कुमारं वा कुमारस्स सरीरं वा पक्खिस्सामि दाव सव्वळोअं परिब्भभिअ । जदि ण पेक्वामि, तत्तहादो परत्त सहाओ होमि । परिस्सन्तो खु अहं । भोदु, एदस्सिं पादपच्छाआअं मुहुत्तअं विस्समिअ गमिस्सं । (म्वपिति) अविमारकः कानुखलु सन्तुष्टस्यावस्था । सुष्ठ भवेद् यदि मे निर्गमनं तेन श्रुतं, न श्रुतं चेद् विपत्स्यते स ब्राह्मणः । अथवा किं मम सर्वारम्भैस्तन विना । स हि, गोष्ठीषु हास्यः समरेषु यौधः शोके गुरुः साहसिकः परेषु । , मूत्वात्मनो नियमविशेषेण देवप्रसादेन च मानुषलोकदुर्लभं सुपुत्रं लब्ध्वा पुनरपि तादृश एव सवृत्तः । सर्वथा मम च समात जीविततया बन्धुजनस्याधन्यतया परिभ्रष्टः कुमारः । अद्य खलु तत्रभवत्या भाणितं --क्षेमेण गतः कुमार इति । अथवा कोऽत्र जानाति अतिसुकुमारो राजकुमार एकाकी मन्मथेनाभिताड्यमानः परिभ्रष्टः कुश- लो भवतीति । अहमपि कुमारं वा कुमारस्य शरीरं वा प्रेक्षिप्ये तावत् सर्वलोकं परि- भ्रम्य । यदि न प्रेक्षे, तत्रभवतः परत्र सहायो भवामि । परिश्रान्तः खल्वहम् । भवतु, एतस्यां पादपच्छायायां मुहूर्तकं विश्रम्य गमिष्यामि ।

७० अविमारके महोत्सवो मे हृदि किं प्रलापै- बिधा विभक्तं खलु मे शरीरम् ॥ २१ ॥ (सर्वतो विलोक्य) अये कोनुखलुच्छायायामध्वगः प्रसुप्तः । (उपेत्य) अभ्युदयो मे हृदयस्य यदृच्छयागतः । त्वरते मे मनः परिष्वक्तु- मेनम् । विदूषकः- (बुवा) (क) चिरं खु सुत्तमि । जाव गच्छा- मि । को विस्समो णाम विभट्ठमणोरहाणं । (परिक्रम्याविमारकं विलोक्य) कहं तत्तभवं अविमारओ। अविमारकः अये वयस्यः सन्तुष्टः। (उभौ परिष्वजेते) विदूषकः- (उच्चैर्विहस्य) (ख) भो वअस्स! केहि कहेहि एत्तिअं काळं किं तुए किदं । अविमारकः-वयस्य! एतत् कृतम् । (अङ्गुलीयकं दक्षिणामु- ल्या प्रक्षिप्य तिरस्कृतः) विदूषकः- (ग) हा हा कहिं कहिं तत्तभवं । कहं ण दि- स्सदि। आ तस्सि गदाए चिन्ताए तं विअ पेक्खामि । अहव (क) चिरं खलु सुप्तोऽस्मि । यावद् गच्छामि । को विश्रमो नाम विभ्रष्टमनो- रथानाम् । कथं तत्रभवान् अविमारकः । (ख) भो घयस्य ! कथय कथयैतावन्तं कालं किं त्वया कृतम् । (ग) हा हा क क तत्रभवान् । कथं न दृश्यते । आ तस्मिन् गतया चिन्तया १. 'स्य । त्व' क. पाठः. २. 'भणहि भणेहि' क. पाठः.

चतुर्थोऽङ्कः। फुडीकरिस्सं । भो वअस्स! सावण साविदो सि, जदि अत्ताणं छादेसि । अविमारकः वयस्य! अयमस्मि । विदूषकः- (क) कहिं कहिं सि । अविमारकः (वामाङल्यामकुलीयकं प्रक्षिप्य) वयस्य ! अय- - - मस्मि । विदूषकः- (ख) पुढमं सुद्धो अविमारओ, इदाणिं माआ- विमारओ संवुत्तो। एवं माआवित्तअ ! किस्स तुवं कण्णाउरे पच्छण्णरूवो ण चरसि । अविमारकः- वयस्य ! इदानी खल्वेतदुपलब्धम् । विदूषकः (ग) अच्छरीअंअच्छरीअं। कुदो दाणि एदस्स आगमो। अविमारकः - सर्वमन्तःपुरे कथयिष्यामि । तमिव पश्यामि । अथवा स्फुटी करिष्यामि । भो वयस्य ! शापेन शापितोऽसि, यद्या. मानं छादयसि । (क) क कासि । (ख) प्रथमं शुद्धोऽविमारकः, इदानी मायाविमारकः संवृत्तः । एवं मायावित्तक! कस्मात् त्वं कन्यापुरे प्रच्छन्नरूपो न चरसि । (ग) आश्चर्यमाश्चर्यम् । कुत इदानीमेतस्यागमः । .. 1. 'भावे' ख. पाठः. २. 'मूर्ख ! इ' ख पाठः.

७२ अविमारके विदूषकः-- (क) सम्पदि बुभुक्खिदो सि। अविमारकः--वैधेय! शीघ्रमागच्छ प्रक्षेपभूमिप्रवेशाय । नैवायं हस्तो मोचयितव्यः। विदूषकः-- (ख) अच्छरीअं अच्छरीअं । अहं पि दाव अ- दिस्सो । मम सरीरं अत्थि वा णत्थि वा । उच्छिटुं करिस्सं । थु थु। अविमारकः--मूर्ख! अलमलं विलम्बितेन । त्वरते मे मनः कान्तादर्शनाय । (आकर्षति) विदूषकः-- (ग) ण मे सहा । अविमारकः हन्त भोजनबेलां प्रतिपालेयामि । विदूषकः-- (घ) कञ्चि काळं विस्समिअ गमिस्सामो । अविमारकः किं न स्मरति मां कुरङ्गी । विदूषकः- (ङ) किण्णुखु जीवदि णग्गन्धस्समणिआ। अविमारकः- वयस्य! याचे भवन्तं, शीघ्रमागम्यताम् । (क) संप्रति बुभुक्षितोऽसि । (ख) आश्चर्यमाश्चर्यम् । अहमपि तावददृश्यः । मम शरीरमस्ति वा नास्ति वा । उच्छिष्टं करिष्यामि । थु थु । (ग) न मे श्रद्धा । (घ) कंचित् कालं विश्रम्य गमिप्यावः । (ङ) किंनुखलु जीवति नग्नान्धश्रमणिका। १. 'कः-अ' क. पाठः. २. 'द' ख. पाठः.

- चतुर्थोऽङ्कः । विदूषकः - (क) किस्स तुवं किदसमावुत्तो वडुओ विअ तुवरसि । अविमारकः- मूर्ख! इतस्तावत् । विदूषकः- (ख) मा कड्ढे(हि), अअं अणुधावामि । अविमारकः (परिक्रम्य) एतन्नगरम् । विदूषकः - (ग) पेक्खामि दाव णअरस्स सोहं । अविमारकः-- इदं राजकुलम् । एतन्नरेन्द्रभवनं निशि जातशङ्को यत् साहसं समुपलभ्य तथा प्रविष्टः । भूयस्तदेव दिवसे सुसहायमायो बृन्दं सतामिव पटुः प्रविशाम्यशङ्कः ॥ २२ ॥ (परिक्रम्य) इदानी प्रासादे स्नातयाभ्यन्तरस्थया कुरङ्गया भवित- व्यम् । विदूषकः (घ) जहिं वा तहिं वा पविसामो । अदिक्क. मदि भिक्खवेळा । - , (क) कस्मात् त्वं कृतसमावर्तो वटुक इव त्वरसे । (ख) मा कर्ष, अयमनुधावामि । (ग) पश्यामि तावन्नगरस्य शोभाम् । (घ) यत्र वा तत्र वा प्रविशावः । अतिक्रामति भिक्षावेला । १, 'का' क. पाठः. २. 'वृन्दासता' क पाटः.

७४ अविमारक अविमारकः-- एहि तावदभ्यन्तरमेव प्रविशावः। (प्रविश्य) इह हि, पुरे गृहे वापि पुरा सुखोषितै- मनरिवभिर्दुर्लभचिन्तयागतैः । पुनः कृतार्थर्मुदितान्तरात्मभिः सुखं प्रवेष्टुं सविशेषकर्मभिः ॥ २३ ॥ (निष्क्रान्ती) चतुर्थोऽः।

अथ पञ्चमोऽङ्कः । (ततः प्रविशति कुरङ्गी नलिनिका च) नलिनिका - (क) भट्टिदारिए ! अळं सन्दावेण । कण्णाउर- प्पासादं आळहिअ दिद्विविळोभणं करिम्सामो। कुरङ्गी (ख) हळा! किं तुए मम हिअअं परिवाद । एत्थ हि अजाणन्तेण परिजणेण मम परितोसमिनि बस- रळसजज्जुणकदम्बणीत्राणिर(रळ)-पहुदीगि मेहकामासा- णि परमसुरहीणि आणीअमाणाणि मं उम्भादन्ति । अह अ इमे मोरा अमाअं राअउळमाणसे अदिवीटभदभावं करन्नि । अह्मेहि सददळाळिदा वि अदेसकाळम्मावार अलो अधि:- हि)कञभावं दंसेंदि । सुअसारिआ वि बरसागं एक कह। आरडा । मम णिव्वेदभावं अजाणन्ती सअिसामा वि सव्वळोअवुत्तन्तं कहइस्सामि त्ति आअदा । मन रोआरत्यं (क) भर्तृदारिक ! अलं सन्तापेन । कन्यापुरपालादमाख्य दृष्टिचिननं प्यावः । (ख) हला! किं त्वया मम हृदयं परिज्ञातम् । अत्र ह्य जानता परिजनेन भने ५- रितोपनिमित्तं वकुलसरलसर्जार्जुनकदम्बनीपनिचुलप्रभृतानि मामालबलमानि परम- सुरभीण्यानीयमानानि मामुन्मादयन्ति । अथ चेभे मयूरा अमानं राजकुमानले अतिपीठमर्दभावं कुर्वन्ति । अस्माभिः सततलारिता अप्यदेशक... या मनोऽधिका- भावं दर्शयन्ति । शुकशा रिकारि व्याख्यानमेव कथयितुमारा। मम निभावम- जानन्ती भूतिकारिकापि सर्वलोकवृत्तान्तं कथयिष्यामीला: If रोमानाया . १. सणणि' ख. पाठः ७६ अविमारके - पुच्छिदं आअदो परिजणो मं णिब्बन्धिअ णिवेदेदि । ता इ- च्छामि मुहुत्तअं पासादे अच्छिदं (?)। नलिनिका (क) जं भट्टिदारिआए रुइदं । होदु । (उभे आरोहतः) कुरङ्गी- (ख) हळा! एत्थ वि महन्तो अणत्यो उट्ठिदो विज्जुप्पदीवं धारिअ काळमेहो । नलिनिका- (ग) भट्टिदारिए ! अळं उक्कण्ठिदेण । पेक्ख पेक्ख णवसळिळधररुडसुय्यं पविरळजळणिवाददस्सणीअं गअ- णअळं । कुरङ्गी- (घ) पेक्खामि अ रमणीअं आआसं । (ततः प्रविशत्यविमारको विदूपकश्च) अविमारकः वयस्य ! दृष्टा सा कुरङ्गी । यैषा, रोगादकालागुरुचन्दनार्दा विमुक्तभूषा गतहावभावा । मागतः परिजनो मां निर्बध्य निवेदयति । तदिच्छामि मुहूर्तकं प्रासादे (आसितुम् !)। (क) यद् भर्तृदारिकायै रुचितम् । भवतु । (ख) हला! अत्रापि महाननर्थ उत्थितः विद्युत्प्रदीपं धृत्वा कालमेघः । (ग) भर्तृदारिके! अलमुत्कण्ठितेन । पश्य पश्य नवसलिलधररुद्धसूर्य प्रविरलजल- निपातदर्शनीयं गगनतलम् । (घ) पश्यामि च रमणीयमाकाशम् । १. 'देदु ।' क. पाठः.

पञ्चमोऽङ्कः । विभाति निर्व्याजमनोहराङ्गी वेदश्रुतिर्हेतुविवर्जितेव ॥१॥ विदूषकः - (क) भो ! तुट्ठो मि। तुवं खु सव्वळोए अहं सुरूवो त्ति अत्ताणं आअरसि । जिदो दाणि तत्तहोदीए सहाव- रमणीएण रूवेण। चिन्तेमि भवदो विओएण इअं तणुआ जादा। एवं पि एसो बाळचन्दळेहा विअ दिहिँ तोसेदि । अविमारकः सखे ! अतिपण्डित इवे, किमेतत् । विदूषकः (ख) भो! णिच्चपरिचएण मं परिहँससि । अपुवो जणो मम बुद्धिं अजाणन्तो अहिअदरं पसंसेदि । अहं पि तं जाणिअ एदस्सि णअरे केण वि विरसम्भं ण करोमि । अविमारकः -- अलमौदासीन्येन । बहुजनपरिवारतया न लब्धः क्षणः कान्तां प्रबोधयितुम् । तदिदानी प्रासादगतामपि तत्रैव तां बोधयिष्यावः। (क) भोः ! तुष्टोऽस्मि । त्वं खल सर्वलोकेऽहं सुरूप इत्यात्मानमाचरसि । जित इदानीं तत्रभवत्याः स्वभावरमणीयेन रूपेण । चिन्तयामि भवतो वियोगेनेयं तनुका जाता । एवमप्येषा बालचन्द्रलेखेव दृष्टिं तोषयति । (ख) भोः ! नित्यपरिचयेन मां परिहससि । अपूर्वो जनो मम बुद्धिमजानन्नधि- फतरं प्रशंसति । अहमपि तद् ज्ञात्वैतस्मिन्नगरे केनापि विस्रम्भं न करोमि । २. 'ति कि' क. पाठ:. ३. 'अ' स. पाठः. 1. 'त्थ' क. पाटः, 'भवरससि' ख. पाठः विदूषकः- () छु भयं भगादि । पासादं आळुहामो । अविमारक:---- सखे ! प्रयनादारोढव्यं यथा तथा न प्र- वर्तते प्रासादशब्दः विदूदकः-- (ख) नो! पराक एदं । । सकदि उच्छि8 णकरन्तो भुञ्जि । अहं एत्व चिहामि । तुर्व एव आळुह । अविमार वधि विडइयते भवान् । विदूषकः (ग) भी बिना खुमए एदं। पुणो पुणो कहेहि। अविमारक -~~-इतलावत । (आपाबन्टोक्य) सस्त्रे ! इयम- स्मत्कान्ता सिलातकाल महाल। सपा, सो की रानुष्य जी कालं मनीषाललायममा यमाणा । व्यग्रा विचिन्तयति किचि लालटि- बर्षि निवारयितुन संयक्षमाणा ॥ २ ॥ , (क) सुष्ट नमान् भनि (ख) भो: . न शका या जनाए । अहमत्र तिष्ठा- मि। त्वमेवारोह । (ग) भोः ! विम्म यर । सः पुनः कथय । तबारा मारा- .:. कामक्षित वा । प्रयोगविशेष एवं वाय- मपूर्वः कश्चिद विवि थे।

पशाशयः॥
,
कुरङ्गी--(वगतम् ) (का, कि देश : लेगा। (प्रकाशम्)
णळिणिऐ ! गच्छ, माअधिमा ।
नलिनिका-- (ख) एआणि नादानि उझिअ कहं
गमिस्सं । ण हुँ एश्य को कि ।
(प्रमिय)
हरिणिका-- (जेदु भहितारिओ। अहिसारिए ! भट्टिणी
भणादि-- सम्पदि कीदिगी भीमबहाशि । ई वि ओसधं
ळिम्पेहि किळ ।
कुरङ्गी - 'घ) सालिक माहि तु । तसि देवो
वरिसितुं आरहा । आजति अहिजाआमतोएग
हादुं । ता तुवाहि उमा .
नलिनिका है - अभिविनादिः ।
.-
(क) किमेतेन जगभर .:. :: मनन ।
(ख) एकाकिनी मदारिकामा पनि यो नि ।
(ग) जयतु अतुदारिका । न ति - प्रति दिया वर्गाप
वेदनेति । एतदप्पौषध लिम्प लि।
(घ) नलिनिके! गोनजि लोय तुमारयः । अभिन्छाम्य.
भिनवेनाकाशतोयेन स्नातुम् । नारी ।।
(ङ) यद् भर्तृदारिकाज्ञापानि ।
९. 'आत्मग' रा. पा):.
३
४ 'बि'
ख. पाठः,

अविमारके -- अविमारकः किन्नुखल्वनया व्यवसितम्। कुरङ्गी (क) हळा! एहि दाव। नलिनिका (ख) भट्टिदारिए! इअलि । कुरङ्गी (ग) हळा! णं सीदळं दे सरीरं । नलिनिका-- (घ) भट्टिदारिए ! ण आणामि । कुरङ्गी (ङ) हळा! एहि परिस्सजेहि मं । नलिनिका (च) भट्टिदारिए ! तह । (परिष्वजते) कुरङ्गी (छ) हळा! अदिसीदळं मणोहरं च दे सरीरं । नलिनिका (ज) अणुग्गहीदसि । कुरङ्गी- (झ) हळा ! सम्पदि णस्सदि विअ मे सरीरदाहो । (क) हला ! एहि तावत् । (ख) भर्तृदारिके ! इयमस्मि । (ग) हला! ननु शीतलं ते शरीरम् । (घ) भर्तृदारिके ! न जानामि । (ङ) हला! एहि परिष्वजस्व माम् । (च) भर्तृदारिके ! तथा । (छ) हला! अतिशीतलं मनोहरं च ते शरीरम् । (ज) अनुगृहीतास्मि । (झ) हला! सम्प्रति नश्यतीव मे शरीरदाहः । हन्त कृतः सखीप्रणयः । समाप्त- १. 'झी-स्वग' क. पाठः.

पचमोऽतः । - - (स्वगतम्) हन्त किदो सहिप्पणओ । समत्तो अ अज एदाए सरीरसंसग्गो । (प्रकाशम् ) गच्छ दाणि तुवं । नलिनिका (क) जं भट्टिदारिआ आणवेदि । (निष्क्रान्ता) हरिणिका- (ख) भट्टिदारिए ! भट्टिणीए किं णिवेदेमि । कुरङ्गी (ग) अन्ज विअदरोआ सोत्था होदि त्ति । हरिणिका (घ) कहं तुए विज्ञादं त्ति पुच्छिदा किं विण्णवेमि। कुरङ्गी- (ङ) सुदु तुए विज्ञादं । एदेण ओसधविसेसेण त्ति भणेहि। हरिणिका-- (च) जं भट्टिदारिआ आणवेदि। (निष्क्रान्ता) अविमारकः-- किन्नुखल्वनया व्यवसितम् । उष्णं श्वसिति तन्वङ्गी सर्वतः प्रेक्षते मुहुः । नेत्राभ्यां बाष्पपूर्णाभ्यां किन्नु कर्तुं व्यवस्थिता ॥ ३ ॥ वाद्येतस्याः शरीरसंसर्गः । गच्छेदानीं त्वम् । (क) यद् भर्तृदारिकाज्ञापयति । (ख) भर्तृदारिके! भट्टिन्यै कि निवेदयामि । (ग) अद्य विगतरोगा स्वस्था भवतीति । (घ) कथं त्वया विज्ञातमिति पृष्टा किं विज्ञापयामि । (ङ) सुष्टु त्वया विज्ञातम् । एतेनौषधविशेषेणेति भण। (च) यद् भर्तृदारिकाज्ञापयति । १. "विष्णवेमिस. पाठः.

अविमारके कुरङ्गी- (क) होदु, उत्तरीअवासेण अत्ताणं उब्बन्धिअ वावादइस्सं । (उत्थाय तथा कुर्वती मेघस्तनितं श्रुत्वा) हं परित्ताआहि परित्ताआहि मं। अविमारकः- सखे ! न शक्यमतःपरमुपेक्षितुम् । (अङ्गुली- यकं वामाङ्गल्या प्रक्षिप्य) कान्ते! न भेतव्यं न भेतव्यम् । (इति कुरङ्गी- मुत्थापयति) कुरङ्गी- (सहर्षम् ) (ख) किण्णुखु सच्चं एदं । मूढा विअ जादा। अविमारकः-कान्ते ! व्यपनीयतां शङ्का । (परिष्वजते) कुरङ्गी-- (ग) अच्छरीअं । एकक्खणेण णस्सदि विअ मे सरीरदाहो। अविमारकः अयं खल्वस्याः परिष्वङ्गः, सततपरिचितो मनोभियोगा- दधिकरसः प्रथमात् समागमात् । रणशिरसि नृपेण साहसायो' विजय इवाद्य मयानुभूयते ॥ ४ ॥ (क) भवतु, उत्तरीयवाससात्मानमुद्बध्य व्यापादयिष्यामि । हं परित्रायस्व परि- त्रायस्व माम् । (ख) किन्नुखलु सत्यमेतत् । मूढेव जाता । (ग) आश्चर्यम् । एकक्षणेन नश्यतीव मे शरीरदाहः । १. 'झी-उ' क. पाठः. . इत उत्तरं (इति पतति)' इत्यपेक्षितं भाति । + 'साहसाप्तः' इति हृद्यतरः पाठो भाति ।

पञ्चमोऽङ्कः। विदूषकः (क) कहं रोदिदं आरद्धा। अळं अदिमत्तं सन्दावेण । अहव अहं वि रोदामि । एकं पि तहिं दुळ्ळहं मम णअणादो बर्फ ण जिग्गच्छइ । जदा मे पिदा उवरदो, तदा वि महन्तेण आरम्भेण रोदिदं आरद्धो । बर्फ ण णिग्ग- च्छइ। किं पुण अण्णसन्दावस्स। तह वि अणुस्सुओ रोदामि। अविमारकः-- अलमुत्प्रहसितेन । अच्छलो हि स्नेहो नाम । न ते न बुद्धिर्मम दूषणीया येन प्रकामं भवतास्मि हास्यः । प्राज्ञस्य मूर्खस्य च कार्ययोगे समत्वमभ्येति तनुर्न बुद्धिः॥५॥ (प्रविश्य) नलिनिका- (ख) हरिणिए ! हरिणिए ! । कहं दुवारं रुडं । हद्धि दुवारणिरोहेण अवअइसन्दावं अत्ताणं करिस्सदि त्ति (क) कथं रोदितुमारब्धा । अलमतिमात्रं सन्तापेन । अथवा अहमपि रोदिमि । एकमपि तत्र दुर्लभं मम नयनाद् बाष्पं न निर्गच्छति । यदा मे पितोपरतस्तदापि महतारम्भेण रोदितुमारब्धः । बाष्पं न निर्गच्छति । किं पुनरन्यसन्तापस्य । तथा- प्यनुत्सुको रोदिमि । (ख) हरिणिके! हरािशके!। कथं द्वारं रुद्धम् । हा धिग् द्वारनिरोधेनापगतसन्ता- १. 'क' ख. पाठ:. २. 'हिं मम दु.क पाठः. ३. 'स्स । अ' क. पा..

अविमारके
तकेमि । हरिणिए ! हरिणिए!। हद्धि तं एव संवुत्तं ।
अविमारकः नलिनिकाया इव स्वरः । वयस्य! विघा-
ट्यतां द्वारम् ।
विदूषकः-- (क) जं भवं आणवेदि । (विघाट्य) एदु एदु
भोदी।
नलिनिका-- (ख) हं को दाणिं एसो पुरिसो ।
विदूषकः-- (ग) सुडु विज्ञादं तुए। अहो राअउळस्स वि-
सेसो । को अण्णो जणो मं पेक्खिअ पुरिसो त्ति भणादि । इत्थि.
आ खु अहं ।
अविमारकः-नलिनिके! प्रविशेदानीम् ।
नलिनिका (घ) कहं भट्टिदारओ। भट्टिदारअ! वन्दा-
मि । भट्टिदारअ ! को एसो पुरिसो ।
विदूषकः-- (ङ) अहं पुक्खरिणी णाम चेडी ।
अविमारकः-- योऽस्माभिः सदा कथ्यते सन्तुष्ट इति,
सोऽयं ब्राह्मणः ।
पमात्मानं करिष्यतीति तर्कयामि । हरिणिके ! हरिणिके! । हा धिग् तदेव संवृत्तम् ।
(क) यद् भवानाज्ञापयति । एत्वेतु भवती ।
(ख) ह क इदानीमेष पुरुषः ।
(ग) सुष्टु विज्ञातं त्वया । अहो राजकुलस्य विशेषः । कोऽन्यो जनो मां प्रेक्ष्य
पुरुष इति भणति । स्त्री खल्वहम् ।
(घ) कथं भर्तृदारकः । भर्तृदारक ! वन्दे । भर्तृदारक! क एष पुरुषः ।
(ङ) अहं पुष्करिणी नाम चेटी ।

पञ्चमोऽङ्कः । नलिनिका- (क) आ दिट्ठपुरुवो णअरापणालिन्दे अअं बह्मणो। - विदूषकः- (ख) आम भोदि! जण्णोपवीदेण बह्मणो, चीवरेण रत्तपडो । जदि वत्थं अवणेमि, समणओ होमि । भोदि! किं एदं। नलिनिका (ग) भट्टिदारिआए उवहाणं । विदूषकः- (घ) किं एदिणा बुभुक्खिदाए रोदन्तीए अत्त- होदीए उवहाणेण कय्यं । गच्छ सिग्धं भोअणं आणेहि । अहं अग्गासणीओ होमि। नलिनिका -- (ङ) दुब्बह्मण! एदं पि भोअणं चिन्तेसि । सव्वं दाव चिट्ठदु । कहं दिअसे अणेअपुरुससम्पादे राअमग्गे भट्टिदारओ पविट्ठो। अविमारकः - सर्व भवत्यै सन्तुष्टः कथयिष्यति । . (क) आ दृष्टपूर्वो नगरापणालिन्देऽयं ब्राह्मणः । (ख) आम भवति ! यज्ञोपवीतेन ब्राह्मणः, चीवरेण रक्तपटः । यदि वस्त्रमप- नयामि, श्रमणको भवामि । भवति! किमेतत् । (ग) भर्तृदारिकाया उपस्नानम् । (घ) किमेतेन बुभुक्षिताया रुदन्त्या अत्रभवत्या उपनानेन कार्यम् । गच्छ शीघ्र भोजनमानय । अहमग्रासनीयो भवामि । (अ) दुर्ब्राह्मण! एतदपि भोजनं चिन्तयसि । सर्वं तावत् तिष्ठतु । कथं दिव. सेऽनेकपुरुषसम्पाते राजमार्गे भर्तृदारकः प्रविष्टः । १.णि' ख. पाठः,

अविमारके
नलिनिका (क) विसज्जिदह्मि इमिणा बहुमाणवअणेण ।
होदु, इमं गह्निअ चउस्साळं पविसिअ गोट्ठीजणेण सह वुत्तन्तं
सुणामि । एहि बह्मण ! (इत्याकर्षति)।
विदूषकः (ख) अब्बह्मणं अब्बह्मण्णं ।
कुरङ्गी- (ग) हस्सो खु अअं बह्मणो ।
अविमारकः वयस्य! हास्यः खलु भवान् ।
विदूषकः - (घ) को एत्थ मम अस्सद्धेअं भणादि । अहं
ण हस्सो, तत्तहोदी एव हस्सा । जा अत्तणो अवत्थं जाणिअ
किं पि कत्तुं ववसिअ मेहसदं सुणिअ सव्वं विसुमरिअ पडिदा ।
कुरङ्गी-- (ङ) हं एदं पि इमेहि दिर्छ ।
नलिनिका (च) याचेमि अहं । इदो एहि बह्मण!।
१
-
(क) विसर्जितास्म्यनेन बहुमानवचनेन । भवतु, इमं गृहीत्वा चतुःशालं प्रविश्य
गोष्ठीजनेन सह वृत्तान्तं शृणोमि । एहि ब्राह्मण ! ।
(ख) अब्रह्मण्यमब्रह्मण्यम् ।
(ग) हास्यः खल्वयं ब्राह्मणः ।
(घ) कोऽत्र ममाश्रद्धेयं भणति । अहं न हास्यः, तत्रभवत्येव हास्या । यात्मनो.
ऽवस्था ज्ञात्वा किमपि कर्तुं व्यवस्य मेघशब्दं श्रुत्वा सर्व विस्मृत्य पतिता ।
(ङ) हम् एतदप्याभ्यां दृष्टम् ।
(च) याचेऽहम् । इत एहि ब्राह्मण!।
,
१. हि संदि' ख. पाठः.

पञ्चमोऽङ्कः । विदूषकः- (क) जइ भोअणं देसि, तदो गच्छामि अहं । इ8 आअन्तुअस्स भोअणदाणं । नलिनिका- (ख) एहि मे सव्वाभरणं देमि । विदूषकः-- (ग) णहि घिदवअणेण पित्तं णस्मदि । मम हत्थगदं करेहि । नलिनिका- (घ) एवं होदु । (आभरणान्यवमु य ददाति) विदूषकः -- (ङ) सुणादु नलिनिका (च) मूढ ! बह्मण ! चउस्साळे उवविसिअ गोट्ठीजणेण सह सुणामि । विदूषकः- (छ) तत्तहोदी पुच्छिअ आअच्छामि । नलिनिका (ज) को तुवं, मम सव्वाभरणं गह्निअ व- ळ्ळहो जादो । एहि दाव । (विदूषकं हस्ते गृह्णाति) विदूषकः- (अ) भोदि ! मा मा एवं । अदिसुउमारो खु होदी। अहं । (क) यदि भोजनं ददासि, ततो गच्छाम्यहम् । इष्टमागन्तुकस्य भोजनदानम् (ख) एहि मे सर्वाभरणं ददामि । (ग) नहि घृतवचनेन पित्तं नश्यति । मम हत्तगतं कुरु । (घ) एवं भवतु । (ङ) शृणोतु भवती। (च) मूढ ! ब्राह्मण ! चतुःशाल उपविश्य गोष्ठीजनेन सह शृणोमि । (छ) तत्रभवती पृष्ट्वागच्छामि । (ज) कस्त्वं, मम सर्वाभरणं गृहीत्वा वल्लभो जातः । एहि तावत् । (झ) भवति! मा मैवम् । अतिसुकुमारः खल्वहम् ।

अविमारके नलिनिका (क) जाणामि जाणामि दे सुउमारत्तणं। जइ सुउमारो, सिग्धं एहि । विदूषकः- (ख) भोदि ! अअं आअच्छामि । (निष्क्रान्तौ) अविमारकः प्रिये ! पश्य पश्य परमदर्शनीयान् प्रावृट- कालवल्लभान् कालमेघान् । इमे हि, जलदसमयघोषणाडम्बरानेकरूपक्रिया- 'जम्भका वज्रभृद्दृष्टयो भगणयवनिकास्तटित्पन्नगीवासवल्मीक- भूता नभोमार्गरूढापाः। मदनशरनिशानशैलाः प्ररुष्टाङ्गनासन्धि- पाला गिरिस्नापनाम्भोघटाः उदधिसलिलभैक्षहारा रवीन्द्वर्गला देवयन्त्र- प्रपा भान्ति नीलाम्बुदाः ॥ ६॥ कुरङ्गी- (ग) अय्यउत्त! दरसणीआ दाणिं संवुत्ता । अविमारकः अहो विपुलता विरलता धाराणाम् । तथाहि, (क) जानामि जानामि ते सुकुमारत्वम् । यदि सुकुमारः, शीघ्रमेहि (ख) भवति! अयमागच्छामि। (ग) आर्यपुत्र! दर्शनीया इदानीं संवृत्ताः । 4 + 'जम्भको नृत्तगानविद्' इति यादवः पञ्चमोऽङ्कः । ८२ व्योमार्णवोर्मिसदृशा निनदन्ति मेघा मेघप्ररोहसदृशाः प्रपतन्ति धाराः । Lw रक्षोङ्गनाभ्रुकुटिवत् तडितः स्फुरन्ति प्राप्तोऽग्रयौवनघनस्तनमर्दकालः ॥ ७ ॥ कुरङ्गी- (क) अय्यउत्त! आरडो सम्पदि वरिसिढुं देवो। अविमारकः प्रिये! एहि अभ्यन्तरमेव प्रविशावः । कुरङ्गी (सहर्पम् ) (ख) जं अय्यउत्तो आणवेदि। (निष्क्रान्ती) पञ्चमोऽङ्कः । : .. (क) आर्यपुत्र ! आरब्धः सम्प्रति वर्षितुं देवः (ख) यद् आर्यपुत्र आज्ञापयति ।.

अथ पष्ठोऽङ्कः। (ततः प्रविशति धात्री) -- - धात्री (क) अहो अणवत्थी किदन्तस्स , जं राअदा- रिआ पेढमं महाराएण सोवीरराएण तं विणुसेणं उद्दिसिअ वरिदा । अजै अविदिअसम्भवेण माणुसळोअदुळ्ळभाकिदिगु- णविसेसेण केण वि संओओ जादो । अहँअ दाणि कासिराअ- पुत्तो जअवम्मा णाम भट्टिणीए सुदरसणाए सह अमञ्चेण भू- दिएण आणीदो सम्पदि राअउळं पविठ्ठो । सअंकिळ कासिराओ जेण्णवावारेण ण आअदो । किंणुखु एवं भविस्सदि । (ततः प्रविशति वसुमित्रा) वसुमित्रा--- (ख) अहो विसमसीळा संवच्छरिआ णाम अत्तणो णक्खत्तविसेसं एव्व चिन्तअन्ति, कम्मगोरवं ण जा- (क) अहो अनवस्था कृतान्तस्य, यद् राजदारिका प्रथमं महाराजेन सौवीररा- जेन तं विष्णुसेनमुद्दिश्य वृता। अद्याविदितसम्भवन मानुषलोकदुर्लभाकृतिगुणवि- शेषेण केनापि संयोगो जातः । अथ चेदानी काशिराजपुत्रो जयवर्मा नाम भट्टिन्या सुदर्शनया सहामात्येन भूनिकेनानीतः संप्रति राजकुलं प्रविष्टः । स्वयं किल काशि- गजो यज्ञव्यापारेण नागतः । किन्नुखल्वेतद् भविष्यति । (ख) अहो विपमशीलाः सांवत्सरिका नामात्मनो नक्षत्रविशेषमेव चिन्तयन्ति, १. 'स्था णं कि' ख. पाठ:. २ 'पुडम' क. पाठः. ४. 'माअ च दा' क. पाउ:. ५. 'अरा. पाठः ३. 'ज विगअसम्भमेण्', ६. 'ण आ'ख. क. पाठ:.

पष्ठोऽङ्कः । -- आअ- - णन्ति । अज पविठ्ठो कुमारो, अज एव विवाहो णिउत्तो (परिक्रम्य) किण्णुखु जअदा इअं किं वि चिन्तअन्ती अप्पसण्णा विअ उस्सुआ दीसइ । जअदे! भट्टिणी भणादि- च्छेहि त्ति। धात्री (क) हळा! जाणासि किं णिमित्तं त्ति । वसुमित्रा (ख) किं अण्णं, एदस्सि कय्ये कत्तव्वं चि- न्तेढुं। धात्री (ग) सम्पदि भट्टिणीए को अभिप्पाओ। वसुमित्रा (घ) अत्तणो वंसजादस्स विणुसेणस्स अ- वत्थं अजाणिअ णेच्छदि जअवम्मणो दारिअं दाएं। किन्तु महाराओ सोवीरराअउत्तं अजाणन्तो अज किळ अहिअसन्दावो जादो। कर्मगौरवं न जानन्ति । अद्य प्रविष्टः कुमारोऽयैव विवाहो नियुक्तः । किंनुखलु जयदेयं किमपि चिन्तयन्यप्रसन्नेबोत्सुका दृश्यते । जयदे! भट्टिनी भणति- आ. गच्छति । (क) हला! जानासि किं निमित्तमिति । (ख) किमन्यत् , एतस्मिन् कार्ये कर्तव्यं चिन्तयितुम् । (ग) संप्रति भट्टिन्याः कोऽभिप्रायः । (घ) आत्मनो वंशजातस्य विष्णुसेनस्यावस्थामज्ञात्वा नेच्छति जयवर्मणे दारिका दातुम् । किन्तु महाराजः सौवीरराजपुत्रमजानन्नद्य किलाधिकसन्तापो जातः । १. 'व्यु' ख. पाठः ।

९२ अविमारके - (प्रविश्य) नलिनिका (क) अज किदसङ्केदा विअ अह्माअं सव्व- सङ्कडा । (परिक्रम्यावलोक्य) किण्णुहु एसा मम मादा वसुमित्ताए सह किं वि चिन्तेदि । इमं उपसप्पिअ असुहवुत्तन्तं सुणामि । वसुमित्रा- (ख) हळा णळिणिए! एहि दाव । तुमं कञ्चुइसहवासेण राअउळवुत्तन्तं जाणासि । नलिनिका-(ग) अभिणवो वुत्तन्तो। णं तं णिवेदिउं आअदमि । वसुमित्रा- (घ) भणाहि जादे ! । नलिनिका- (ङ) पेसिदो खु सोवीरराअस्स अमञ्चेहि दूदो- अह्माअं सामी तुह्माणं णअरे सपुत्तदारकळत्तो प- च्छण्णो पडिवसदि त्ति अमाअं गूढपुरुसेहि वुत्तन्तो जाणि- अद सामिणेत्ति । (क) अद्य कृतसंकेतानीवास्माकं सर्वसंकटानि । किंनुखल्वेपा मम माता वसु- मित्रया सह किंगपि चिन्तयति ! इमामुपसर्पासुखवृत्तान्तं शृणोमि । (ख) हला नलिनिके! एहि तावत् । त्वं कञ्चुकिसहवासेन राजकुलवृत्तान्तं जानासि । (ग) अभिनवो वृत्तान्तः । ननु तं निवेदयितुमागतास्मि । (घ) भण जाते!। (ङ) प्रेषितः खलु सौवीरराजस्यामात्यैर्दूत:--अस्माकं स्वामी युष्माकं नगरे सपुत्रदारकलत्रः प्रच्छन्नः प्रतिवसतीत्यस्माकं गूढपुरुषैर्वृत्तान्तो ज्ञायतां स्वामि-- नेति । * आणादो इति शेषः ।

घष्ठोऽङ्कः ।
९३
उभे- (क) कहं पच्छण्णवेसो वत्तदि त्ति । तदो तदो।
नलिनिका-(ख) तदो एवं सव्वं सुणिअ तस्स हस्स
अवसाणं पेक्खिअ अय्यभूदिएण सह गओ किळ महाराओ
तं अण्णेसिदं ।
धात्री (ग) किण्णुखु भवे ।
वसुमित्रा- (घ) णळिणिए! तुवं दाव अब्भन्तरं पविस।
नलिनिका--(ङ) जं अय्या भणादि । (निष्क्रान्ता)
वसुमित्रा ---(च) एहि दाव । वअं भट्टिणी पेक्खामो ।
धात्री -- (छ) एवं करेझ ।
(निष्क्रान्ते)
प्रवेशकः।
(क) कथं प्रच्छन्नवेषो वर्तत इति । ततस्ततः ।
(ख) तत एतत् सर्व श्रुत्वा तस्य लेखस्यावसानं प्रेक्ष्यायभूतिकेन सह गतः
किल महाराजस्तमन्वेषितुम् ।
(ग) किन्नुखलु भवेत् ।
(घ) नलिनिके! त्वं तावदभ्यन्तरं प्रविश ।
(ङ) यदायर्या भणति ।
(च) एहि तावत् । आवां भट्टिनी पश्यावः ।
(छ) एवं कुर्वः।
1. 'आणवेदि' क. पाठः.

अविमारके (ततः प्रविशति कुन्तिभोजः सौवीरराजभूतिकाभ्याम् ) कुन्तिभोजः- वयस्य! किं प्रेक्षसे मम मुखं चिरकालदृष्टो गाढं परिष्वज सखे! स्मर बालभावम् । प्रीत्या भवन्तमनिमेषमवेक्षितुं मे स्नेहान्नवीकृत इवाद्य वयस्यभावः ॥ १ ॥ सौवीरराजः- यदिष्टं भवतैः । (उभौ परिष्वजेते) कुन्तिभोजः- चिन्ताकुलत्वं बजतीव बुद्धि- र्वाक्यं च बाप्पाहतगद्गदं च । नेत्रे सबाष्पे मुखमप्रसन्नं किं हर्षकाले क्रियते विकारः ॥ २ ॥ सौवरिराजः :-- न खल्वहमप्रहृष्टो भवत्सङ्गमेन । किन्तु बलवान् पुत्रस्नेहो नाम। यो मे पुत्रगतः शोको हृदयस्थो विजृम्भते । सोऽद्य लब्ध्वा 'सहायं त्वां बाप्परूपेण निर्गतः ॥ ३ ॥ कुन्तिभोजः--कथं पुत्रगतः शोक इति । भूतिकः- विदितमस्तु स्वामिना । न दृश्यते किलास्मिन् संवत्सरे कुमारः। १. 'ता । (परिष्वजते) ख. पाठः. + 'सहाय' इत्यस्य स्थान 'सखाय' इति वा पागे भनेर ।

षष्ठोऽङ्कः। ९५ सौवीरराजः -बलवान् पुत्रस्नेहो नाम । पश्यतु भवान् अनुपमबलवीर्यरूपवन्त सुतमविमारकमद्य चिन्तयामि । तव चरणरजोञ्चितारकेशो यदि स भवेदिह को नु महिशिष्टः ॥ ४ ॥ भूतिकः- (आत्मगतग) महान् खल्वयं सन्तापो वर्धत एव हि कुमारमन्तरेण । विलोपयाम्येनम । (प्रकाशम् ) कथं स्वामिनो- ऽभ्यागता व्यापत् । कुन्तिभोजः-- अहमप्यनेन व्याक्षेपेण विस्मृतवानेतत् प्रष्टुम् । सौवीरराजः-श्रूयताम । अथवा भूतिकस्तु विजानाति । अप्यस्मन्मुखाच्छ्रोतुमिच्छति । कन्तिभोजः -- वयसवाहिताः स्मः । सौवीरराजः अपि ज्ञायते चण्डभार्गवो नामात्यन्तरोषी - ब्रह्मर्षिः । कुन्तिभोजः- श्रूयते तत्रभवांस्तपोनिधिः । सौवीरराजः- सोऽस्मद्विषयमभ्यागतः । कान्तारे तस्य शिष्यो व्याघेणाभिभूय मारितः । कुन्तिभोजः- -- ततस्ततः। १. 'ति । वयमवहिताः स्मः । १. 'सोऽपि भू' क. पाठः. २. नन्नाच' रा पाठ. सौ' क. पाठः 'तस्तमपारातः । कक ४ .

अविमारके -- सौवीरराजः-ततोऽहमपि तस्मिन् काले मृगयावशाद् यदृच्छयैव तं देशमभ्युपगतः । कुन्तिभोजः-- ततस्ततः । सौवीरराजः - अथ मां दृष्ट्वा विजृम्भमाणरोषभ्रुकुटीपुट- विषमीकृतवदनः प्रलम्बजटाभारः शिष्ये स न्यस्तकरः क्रुहो दहन्निव क्रोधाग्निना महाचनमश्रोतुकामः संरम्भस्खलितवचनो मां बहुधा क्षेप्तुमारब्धः। कुन्तिभोजः- ततस्ततः । सौवीरराजः ततोऽहमपि भवितव्यस्यार्थस्य प्रावल्येना- धृतिः 'वृत्तान्तं न ब्रवीषि, निष्कारणं क्षिपसि' इति संक्रुद्ध- वानस्मि । न भाषसे वृत्तमुपैषि रोष निष्कारणं प्रक्षिपसि प्रकामम् । अभाजनं त्वं तपसां प्रकोपाद् ब्रह्मर्षिरूपण भवाञ्छपाकः ॥ ५॥ कुन्तिभोजः- असदृशमुक्तं भवता । सौवीरराजः--ततस्तच्छ्रुत्वैवाज्यधारावसिक्तो भगवान् हु- ताशन इव प्रज्वलितनेत्रो बहुशः शिरः कम्पयन 'कथं कथम्' इत्युक्त्वा मां शप्तुमारब्धवान् । २ 'णं प्रक्षि' क. पाठः. १. 'शिताह' क. पाठः ४. 'ब्धः।' ख. पाठः. ३. 'न् श' ख. पाठः.

पष्ठोऽङ्कः । - यस्माद् ब्रह्मर्षिमुख्योऽहं श्वपाक इति भापितः । तस्मात् सपुत्रदारस्त्वं श्वपाकत्वमवाप्स्यसि ॥६॥ इति। कुन्तिभोजः- अहो अल्पमूलत्वं महतां चानर्थस्य । भूतिकः-सभाग्यं सौवीरराजकुलम् । कुतः, ब्रह्मर्षिणा प्ररुप्टेन श्वपाकत्वं तदा कृतम् । यस्मात् तेनैव रूपेण न सर्व भस्मसात् कृतम् ॥ ७ ॥ कुन्तिभोजः-- युक्तमभिहितं भवता । ततम्लतः । सौवीरराजः- ततस्तच्छापप्रक्षुब्धमनसा मया सुचिरमनु- नीयमानः शनैः शनैः प्रकृतिस्थो भूत्वानुग्रहं कृतवान् - यावत् प्रच्छन्नरूपेण तावत् संवत्सरं ब्रजे(त् ? :)। ततः सवत्सरे पूर्णे मुक्तशापो भावप्यांस ॥ ८ ॥ इति । एवमुक्त्वा प्रसन्नचित्तेन एहि भोः काश्यप! इत्याहू- यत, स तमनुगतो व्याघेण मारितो बटुः । चरितं च मया संव- त्सरं श्वपाकव्रतम् । अद्यास्मि शापान्मुक्तः । कुन्तिभोजः-- अहो व्यापः प्रवृत्तिनिवृत्तिश्च । दिष्ट्या भवान् वर्धते । भूतिकः जयतु स्वामी। कुन्तिभोजः-ननु विष्णुसेनमाता सपरिवारमन्तःपुरं प्र- मस विष्टा । १. 'त' ख. पाटः. २. 'क' क. पाठः. ३. 'त्युक्त्वान्तमुपागते वटु पूर्व व्या' क. पाठः. .४. 'तः । च' क. पाठः. ५. 'दो' ख. पाठः. ६. 'ते । ननु' ख. पाठः. ७. 'रान्तः' ख. पाठः.

अविमारके भूतिकः-तत्रभवती प्रविश्याभ्यन्तरं चिरकालप्रसुप्तं प्रण- यमुबोधयति । कुन्तिभोजः-- अथेदानी विष्णुसेनः कथमविमारको जातः। भूतिकः-- शृणोतु स्वामी अस्ति धूमकेतुर्नामासुरः। सर्वलोकमारणाय परिभ्रमन् स कदाचित् सौवीरराष्ट्रमुत्सादयितुं प्रवृत्तः। कुन्तिभोजः- अपूर्वा खलु कथा । ततस्ततः । भूतिकः -- ततः स्वदेशे सर्वप्रजानामाति दृष्ट्वा तस्य राक्ष- सस्य च प्रतिक्रियामनवेक्षमाणः स्वामी क्लेशमुपगतः । कुन्तिभोजः ततस्ततः। भूतिकः-- ततस्तत् सर्व बुड्वा कुमारो विष्णुसेनः क्षिति- रणुपरुषगात्रः प्रलम्बमानकाकपक्षः शिशुभिस्तुल्यवयोभिः 'प्रक्रीडमानो दैवयोगात् प्रमत्तेषु रक्षिपुरुषेषु सहसैव तं देशम- भ्युपगतो यत्रासौ राक्षसः। कुन्तिभोजः-- अहो आश्चर्यमाश्चर्यम् । ततस्ततः । भूतिकः -- ततः स राक्षसः प्रीत्या सुसम्पन्नमिवाहारं कु- मारमभिसमीक्ष्य स्वकर्म कर्तुमारब्धः। ३. 'स्तद् वु' ख पाठः. ४. 'जः -त' १. 'शस' क. पाठः २. 'स्य प्र' क. पाठः. ख. पाठः. ५. 'अथ स' ख. पाटः. + प्रकर्षण क्रीडनशीलः । ताच्छील्ये चानश्.

षष्ठोऽकः । ९९ कुन्तिभोजः-- अहो नृशंसता राक्षसस्य । ततस्ततः । भूतिकः-अथ कुमारेण किञ्चित् प्रहस्य, प्रपतदशनिना यथा गिरीन्द्रो दवदहनेन यथा वनप्रदेशः । युधि ललितमनायुधेन तेन क्षितिपसुतेन तदा हतः स नीचः ॥९॥ कुन्तिभोजः-प्रथममेवे हस्तिसम्भ्रमे मयोक्तं - दैवादु- त्पादितोऽयं केवलो मानुषो न भवतीति । सौवीरराजः भवान् सहस्रनेत्रश्चरैः कथं चिन्तयत्यवि- मारकं प्रति । भूतिकः-- स्वामिन् ! गम्यास्तु देशाः सुपरीक्षिता मे न दृश्यते क्वापि चरैः कुमारः। परीक्षितुं तं मनसोऽस्ति शक्ति- नूनं हि मायामनुगच्छतीति ॥ १० ॥ (ततः प्रविशति नारदः) नारदः वेदैः पितामहमहं परितोषयामि गीतैः करोमि हरिमुद्गतरोमहर्षम् । ३. लो न मानुषोऽयं भ' क. पाठः. 1. 'ततः कु' ख. पाठः. २. 'व म' क. पाठः. ४. 'क:-ग' क. पाठः. ५. 'सा' ख, पाठः, अविमारके उत्पादयाम्यहरहर्विविधैरुपायै- स्तन्त्रीषु च स्वरगणान् कलहांश्च लोके ॥११॥ भोः! कुन्तिभोजस्य पित्रा दुर्योधनेन वयं सुचिरमाराधिताः । तस्मिन् मानुषस्वभावमुपगते कुन्तिभोजश्चास्मासु भृत्यत्वमाच- रति । अद्य कुन्तिभोजस्य सौवीरराजस्य च महानविमारकादर्श- नेन कार्यसङ्कटो वर्तते । तदिदानीमहमविमारकप्रदर्शनेन तयो- प्क्षेपं समाक्षिपामीत्यवतीर्णोऽस्मि भूम्याम् । (इति कुन्तिभोजसी- वीरराजयोः पुरतः स्थितः) कुन्तिभोजः अये भगवान् देवर्षिर्नारदः । भगवन् ! अभिवादये। नारदः स्वस्ति भवते । कुन्तिभोजः- अनुगृहीतोऽस्मि । सौवीरराजः भगवन् ! अभिवादये। नारदः शान्तिरस्तु ते । सौवीरराजः- अनुगृहीतोऽस्मि । कुन्तिभोजः- (कर्णे) भूतिक ! एवं क्रियताम् । भूतिकः-- यदाज्ञापयति स्वामी । (निष्क्रम्य प्रविश्य) इदमर्थ्य पायं च । कुन्तिभोजः-- भगवन् ! क्रियतामनुग्रहः । नारदः एवमस्तु । -- १. 'संक्षि' ख. पाठ:. २. 'ये दं' क. पाठः. . ३. 'इति परिक्रम्य' ख. पाठः.

षष्टोऽङ्कः । कुन्तिभोजः- (अभ्यर्य) भगवन् ! अस्मद्गृहं परिपूतं भव- दवतरणेन। सौवीरराजः--इदानीं मुक्तशापोऽस्मि देवर्षिदर्शनेन । नारदः नाहं साम्प्रतं युष्मदर्शनार्थमेवागतोऽत्र । अवि- मारकादर्शनेन सम्भूतं दुःखं भवतोत्विावतीर्णोऽस्मि । उभौ-यद्येवं, विमुक्तसन्तापौ स्वः । नारदः भूतिक ! सुदर्शनामानय । भूतिकः-- यदाज्ञापयति भगवान् । (निष्क्रम्य सुदर्शनया साध प्रविष्टः) सुदर्शना (क) अव्भाअदो देवरिसी। भूतिकः-- एवम् । सुदर्शना (ख) सणाहो दाणि मे पुत्तअस्स विवाहो संवुत्तो । (उपगम्य) भअवं वन्दामि । -- - नारदः - एवमेव महाभागे! नित्यं प्रीतिमवाप्नुहि । कुन्तिभोजश्व भूपालो नित्यं स्यात् प्रीतिपीडितः॥ १२ ॥ (क) अभ्यागतो देवर्षिः । (ख) सनाथ इदान्त्रं मे पुत्रकस्य विवाहः संवृत्तः । भगवन् ! वन्दे । १. 'वात्रागतः । अ' ख. पाठः. २. 'नस' ख. पाठः, १०२ भविमारके - सुदर्शनी (क) अणुग्गहीदह्मि । नारदः इदानीं पृच्छतां भवन्तौ प्रष्टव्यम् । उभौ-अनुगृहीतौ स्वः। कुन्तिभोजः--भगवन् ! किं जीवति सौवीरराजपुत्रः। नारदः बाढम् । सौवीरराजः-केन कारणेन न दृश्यते । नारदः विवाहव्याक्षेपात् । सौवीरराजः कथं निर्विष्टः कुमारः। कुन्तिभोजः --अथ कस्मिन् प्रदेशे। नारदः नगरे वैरन्त्ये । कुन्तिभोजः- वैरन्त्यं नाम नगरमप्यस्तीति । भवतु कस्य जामातृत्वमुपगतः। नारदः कुन्तिभोजस्य । कुन्तिभोजः--कः सः। नारदः पिता कुरझ्या भूपालो वैरन्त्यनगरेश्वरः । दुर्योधनस्य तनयः कुन्तिभोजो भवान् ननु ॥ १३ ॥ (क) अनुगृहीतास्मि । १. 'ना-एव अ' क. पाठः. २. 'स्या' ख. पाठः षष्ठोऽEः । १०३ १ - - कुन्तिभोजः-किं बहुभिः प्रश्नः । मत्सुतायां कुरङ्गयां नि- विष्ट इत्युच्यते भगवता। नारदः एवमेतत् । कुन्तिभोजः लजित इवास्मि । केन दत्ता, कथं वा, कथं चायं प्रविष्टः कन्यापुरम् । नारदः दत्ता सा विधिना पूर्व दृष्टा सा गजसम्भ्रमे । पूर्व पौरुषमाश्रित्य प्रविष्टो मायया पुनः ॥ १४ ॥ कुन्तिभोजः -- भवत्वेवं तावन्निष्प्रतिवचनमृषिवचनम् । भगवन् ! इदानीं किं प्राप्तकालं कुमारस्य कुरझ्याश्च । विवाहः पूर्वमारब्धव्यः । नारदः निष्ठितो विवाहो ननु गान्धर्वः स्वसमय एव । इदानीम् । कुन्तिभोजः- अग्निसाक्षिकमिच्छामि । नारदः--नित्यमग्निसाक्ष्येव । तथापि स्वजनपरितोषणार्थ- मभ्यन्तरसमयमात्रमुपाध्यायेन कारयित्वा शीघ्रमानीयतामिह कुमारः सह भार्यया। कुन्तिभोजः- भगवन् ! एष गच्छामि । नारदः-तिष्ठतु भवान् । भूतिक! गच्छ त्वम् । - २. 'मानुष' क. पाठः. ३. 'ब्धः' क. पाठः. १. 'स्मिन् ।' ख. पाठः. "क्षिकमेव' क. पाठः.

अविमारके । भूतिकः- यदाज्ञापयति भगवान् । (निष्क्रान्तः) कुन्तिभोजः- भगवन् ! विज्ञाप्यमस्ति । नारदः- इतस्तावत् । स्वैरमभिधीयताम् । कुन्तिभोजः-- भगवन् ! सुदर्शनायाः पुत्राय जयवर्मणे कुरङ्गी दास्यामीति मयानीता सा पूर्व सनाथा । किं कर्तव्य- मिदानीम् , अभिधीयताम् । नारदः • एवं करोमि । मुहूर्तमेकान्ते तिष्ठ । कुन्तिभोजः- तथास्तु । (तथा कगेति) नारदः-- सुदर्शने! इतस्तावत् । सुदर्शना---(क) भअवं! इअमि । नारदः ननु श्रुतमस्महचनम्। सुदर्शना- (ख) सुदं सोवीरराअउत्तस्स गुणसङ्कीत्तणं । नारदः-मा मैवम् । भवत्या विस्मृतोऽग्निदेवादुत्पन्नोऽग्र- -- जस्ते पुत्रः। सुदर्शनो- (ग) हं, एदं पि भअवं जाणादि । (क) भगवन् ! इयमस्मि । (ख) श्रुतं सौवीरराजपुत्रस्य गुणसङ्कीर्तनम् (ग) हम् , एतदपि भगवान् जानाति । १. 'वम् । शृणु तावद् भ' ख. पाठः. २..'नाए' क. पाट.

षष्ठोऽङ्कः । . १०५ नारदः ममैवाज्ञां कुरुष्व तावत् । सुदर्शना (क) एवं करो(दु ? मि)। भअवं भणादु । नारदः तवायं पुत्रोऽग्नेरुत्पन्नः । त्वद्भगिन्याः सुचेतना. याः प्रसवसमकाल एव तत्सुतः स्वर्ग गतः । तवायं पुत्रस्त्व- द्भगिन्यै त्वया दत्तः। सौवीरराजश्वासावत्यन्तसन्तुष्टः प्रीतिस- दृशीः क्रियाः कृत्वा विष्णुसेन इति संज्ञामकरोत् । अमानुष- स्वरूपबलवीर्यपराक्रमेणानेन वर्धमानेन यस्मादविरूपधारी मा- रितोऽसुरः, तस्मादविमारक इति विष्णुसेनं लोको ब्रवीति । ततः सोऽपि ब्रह्मशापपरिभ्रष्टो हस्तिसम्भ्रमदिवसे कुरङ्गी दृष्ट्वा समुत्थंमदनाभिलाषः परेण पौरुषेण सङ्गम्य कुरङ्गया दर्शनश- कितैः कन्यापुररक्षिभिः परीक्ष्यमाणोऽमिनां भगवता प्रच्छादितो निर्गतः । तेन निर्वेदेनानि प्रविष्टः पित्रा भगवतामिना प्रीत्या परिष्वज्यमानो न दहत्यग्निरिति मरुत्प्रपातार्थ कञ्चित पर्वत- मारूढः। सुदर्शना (ख) अहो अच्चाहिदं । नारदः-- तत्र केनापि विद्याधरेण तद्रूपदर्शनमात्रप्रहृष्टेन (क) एवं करोमि । भगवान् भणतु । (ख) अहो अत्याहितम् । 1. 'व । ना' क. पाठः. २. 'शी' स. पाट:. ३. 'या' ख पा.:. ४. 'न य' क. पाठः. ५. 'त: त' ख. पाटः. ६. 'त्पन्नाभि' ख पाठः, ७. 'ना पितेव प' क. पाठः,

भविमारक
--
प्रीत्यान्तर्धानकार्यमात्रमङ्गुलीयकं दत्तं, यद् दक्षिणाङ्गुल्या धारे-
यन्नदृश्यो भवति, वामेन प्रकृतिस्थश्च ।
सुदर्शना (क) अच्छरीअं अच्छरीअं।
नारदः ततस्तद् दक्षिणाङ्गुल्या धारयन् सन्तुष्टनामधे-
येन ब्राह्मणेन सह कुन्तिभोजस्य कन्यापुरं स्वगृहवत् प्रविश्य
कुरल्या यथेष्टमभिरममाणः सुखमास्ते । एष वृत्तान्तः । किमि-
दानी कर्तव्यम् ।
सुदर्शन (व) अणन्तरं अय्याए वञ्चिदाए चळदी
विअ मे हिअअं. कोदृहळेण तुस्सदि । भअवं! एसु दिअसेसु
कुरङ्गी जअवम्मणो भय्यत्ति पुच्छदि । अज्जप्पहुदि तस्स
वन्दणीआ संवुत्ता।
नारद:-- अभिजनयुक्तमेवाभिहितं भवत्या । कथमिदानी
ज्येष्ठपत्नी कनीयसे दीयते । सुदर्शने! अभिधीयतां काशिरा-
जाय जयवर्मणः कुरङ्गी वयसाधिकेति । नन्वस्ति कुरझ्याः
कनीय नी सुमित्रा नाम । सा जयवर्मणो भार्या भविष्यति ।
(क) आश्चर्यमाश्चर्यम् ।
(ख) अनातरमायया वञ्चितया चटनीव मे हृदयं. कौतूहलेन तुष्यति । भगवन् !
एषु दिवसेषु कुरङ्गी जयवर्मणो भार्येति पृच्च्यते । अद्यप्रभृति तस्य वन्दनीया
संवृत्ता।
१. 'यनन्छय । ना' क. पाट:.
।
१. 'ल्या' क. पाट
४. 'स्ते। कि' ख. पाठ:.
२. समागम' क. पायः.
'वळेदी' क. बाटः.

पष्टोऽङ्कः। - - सुदर्शना- (क) पडिग्गहिदं इसिवअर्ण । नारदः गच्छ कुन्तिभोजमनुवर्तस्व । सुदर्शना- (ख) जं भअवं आणवेदि। (ततः प्रविशति वरचेयेणाविमारकः कुरङ्गी भूनिकश्च) अविमारकः भोः! लज्जित इवास्म्यनेन वृत्तान्तेन । दृष्ट्वा तदानीं गजसम्भ्रमे मां महिक्रमं ये परिकीर्तयन्ति । ते किन्नु वृत्तान्तमिमं विदित्वा चारित्रदोषं मयि पातयन्ति ॥ १५ ॥ (परिक्रम्य दृष्ट्वा) अये अयं खलु भगवान् नारदः । य एपः, शापे प्रसादषु च सक्तबुद्धि- वंदेपु गीतेपु च रक्तकण्ठः । स्निग्धेषु वैरा(ण्यु)पपाद्य यत्ना- नष्टानि कार्याणि "शमीकरोति ॥ १६ ॥ कुन्तिभोजः इत इतः कुमारः। अभिवादयस्वात्मकुल- दैवतं देवर्षिम् । (क) प्रतिगृहीतमृषिवचनम् । (ख) यद् भगवानाज्ञापयति । * 'समीकरोति' इति स्यात् ।

१०८ अविमारके अविमारकः भगवन् ! अभिवादये। नारदः-स्वस्ति भवते सपत्नीकाय । अविमारकः-अनुगृहीतोऽस्मि । मातुल ! अभिवादये कुन्तिभोजः- एह्येहि वत्स! क्षमया जय विप्रेन्द्रान् दयया जय संश्रितान् । तत्त्वबुद्ध्या जयात्मानं तेजसा जय पार्थिवान् ॥ १७ ॥ अविमारकः- अनुगृहीतोऽस्मि । कुन्तिभोजः-वत्स! इत इतः पितरमभिवादयस्व । अविमारकः भोस्तात! अभिवादये। सौवीरराजः-- एह्येहि वत्स ! विरचितवरवेषदर्शनीयो गुरुजनवन्दनमिश्रशुभ्रवक्रः । वयभिव भ(व हर्ष)बाष्पनेत्र- स्त्वमिह भवत्तनयं समीक्षमाणः ॥ १८ ॥ पुत्र! अभिवादयस्व मातुलम् । अविमारकः मातुल ! अभिवादये। कुन्तिभोजः-- एह्येहि वत्स! यज्ञैः शुभैहरिसमो भव नित्ययुक्तैः सत्यैटेलैदशरथप्रतिमो भव त्वम् । , 'प्रकृत्याशिषि' (६. ३. ८३) इति विध्यभुसरणे तु 'सहपनीकाय' इति प्रयोज्यम् । .

षष्ठोऽङ्कः। - 'इत्येपिते(?) पितृसमो भव सम्प्रदानैः स्वेनात्मना सुसदृशेन पराक्रमेण ॥ १९ ॥ सौवीरराजः-पुत्र! सुदर्शनामभिवादयस्व । कुन्तिभोजः-अयुक्तमिव सुचेतनामनभिवाद्य सुदर्शनाम- भिवादयितुम् । नारदः अस्ति कारणम् । अभिवाद्यतां सुदर्शना । उभौ-- एवं क्रियताम् । अविमारकः--भवति! अभिवादये। सुदर्शना- (क) पुत्र ! चिरं जीव एदाए सह । (परिष्वज्य) चिरेण दिट्ठो सि । अज्ज मए अणुभूदो पुत्तसम्पत्तिरसो । (रोदिति) कुन्तिभोजः इमां तु बाष्पार्द्रकुतूहलाक्षी सम्प्रस्रवद्दुग्धपयोदयुग्माम् । अवेक्षितां मातरमप्रकाश्य धात्रीत्वमेवैति सुचेतना मे ॥ २० ॥ नारदः-अलमतिस्नेहेन । प्रविशतु कन्यापुरं सुचेतना सुचेतना सुदर्शना सुदर्शना च सभार्येण पुत्रेण । (क) पुत्र! चिरं जीवैतया सह । चिरेण दृष्टोऽसि । अद्य मयानुभूतः पुत्रसंप- तिरसः । * 'नित्यापितैः पितृसमः' इति पठनीयं भाति । ..

११० अविमारके कुन्तिभोजः-- यदाज्ञापयति भगवान् । सुदर्शना- (क) जं भअवं आणवेदि । नारदः अचिरेण सौवीरराजो विसृज्यतां स्वदेशगम- नाय। जयवर्मणे सुमित्रा प्रदीयतां काशिराज्ञे । त्वमपि सन्नि- हितो भव । कुन्तिभोजः- अनुगृहीतोऽस्मि । नारदः -कुन्तिभोज! किमन्यत् ते प्रियमुपहरामि । कुन्तिभोजः भगवान् यदि मे प्रसन्नः, किमतः परमह- मिच्छामि । गोब्राह्मणानां हितमस्तु नित्य सर्वप्रजानां सुखमस्तु लोके । नारदः सौवीरराज ! किं ते भूयः प्रियमुपहरामि । - सौवीरराजः - यदि मे भगवान् प्रसन्नः, किमतः परमह- मिच्छामि। इमामुदीर्णार्णवनीलवस्त्रां नरेश्वरो नः पृथिवीं प्रशास्तु ॥ २१ ॥ (क) यद् भगवानाज्ञापयति * काशिराजे' इति मन्ये लेखकस्यैव दोषः । 'काशिराजाय' इत्येव तु पाठः स्यात् । एवंविधे विषये समासान्तविध्यनित्यत्वकल्पना पुनरव्युत्पन्नलेखकापराधमार्जनैकफला महाकवि- प्रयोगेषु न शोभते।

षष्ठोऽङ्कः। (भरतवाक्यम्) भवन्त्वरजसो गावः परचक्रं प्रशाभ्यतु। इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ २२ ॥ (निष्कान्ता: सर्वे) षष्ठोऽङ्कः। अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च शुभं भूयात् । * भविमारकः नाटकम, उपचार त् । म व या प्रत्ययान्तवे तु नसकलिङ्गमपि भवति भविमारकम्' इतेि.

No text on this page.

कथावस्तुसंक्षेपः। दीर्घतपसो नाम ब्रह्मर्षेः शापेन वकभोग्येन सकुटुम्बं श्वपाकतामवाप्य कुन्तिभोजनगरे प्रच्छन्नं निवसतः सौवीरराजस्यात्मजो विष्णुसेनोऽविनानोऽसुरस्य मारणादविमारक इति लब्धापरनामा स्वमातुलस्य कुन्तिभोजस्य दुहितरं कुरङ्गी- मुद्यानगतामञ्जनगिरिसंज्ञस्य मदगजस्य ब्याकोपात् परित्रातवान् । तच्च लोको- त्तरमस्यात्युदारं कर्म शृण्वतः कुन्तिभोजस्यैतस्मिन्नसाधारणो बहुमान आसीद् , येन तस्मै कुरङ्गयपि दत्तैव भवेद् , यदि तस्मिन्नन्त्यजत्वशङ्का नाङ्कुशः स्यात् । तयोश्च कुरङ्ग्यविमारकयोः परस्परदर्शनेनाकरितोऽनुरागः क्रमेण परां कोटिं प्रतिपन्नः । अथ कुरङ्गीधाच्या घटनया स कदाचिद् रात्रौ गूढं कुरङ्गया अन्तः- पुरं प्रविश्य तत्र मदनेन चारित्रभ्रंशभयेन च व्याकुलितां कुरङ्गी ललितसरसमु- पुच्छन्दयन् रमयामास । ततः कुरङ्गयाः प्रच्छन्नपुरुषसंप्रयोगशकिषु परीक्षणो- द्यतेषु कन्यापुररक्षिषु , अविदित एव कन्यापुरादविमारको निर्गत्य कुरङ्गीपुनस्स- ङ्गमे निराशोऽग्निप्रसादलब्धजन्मत्वादात्मनोऽग्निपतनेऽप्यविकलतामभिवीक्ष्य भृगु. पतनाय कञ्चित् पर्वतमारुरोह । तत्र यदृच्छया प्रियतमया सह विश्रमितुमव- तीर्णः कश्चिद् विद्याधरोऽस्य वृत्तं संकल्पं च प्रणिधानेन परिज्ञाय कृपाविष्ट उदकशुभहेतुना केनाप्यकुलीयकेन तं योजयामास, यद् दक्षिणाङ्गुलौ धृतं धर्तारं, तत्स्पृष्टं, तत्स्पृष्टस्पृष्टं चादृश्यान् करोति । ततस्तद् दक्षिणाकुल्या स धारयन् संतुष्टनाम्ना स्ववयस्येन विदूषकेण सह कुरझ्या अन्तःपुरमविशकं प्रविश्य तत्र तया सह स्वैरं चिरं रेमे । कुन्तिभोजस्तु चिरं जामातृतयाभीप्सितस्याविमार- कस्याकस्मिकेनादर्शनेन तथा व्याकुलो बभूव, यथा भागिनेयान्तरं काशिराजा- त्मजं जयवर्माणं कुरङ्गया वरणीयं मेने। अथ स कालेन सौवीरराजं स्वराज- धान्यामेव गूढ निवसन्तमन्विष्योपलभ्य यावत् तद्वृत्तान्तं तस्मादेव शृणोति, तावत् तत्रागतानारदादविमारकस्यापि वृत्तं सर्वमवबुध्यते स्म । सुदर्शना च काशिराजगहिषी कुन्तिभोजसोदर्यात्मन एव पुत्रं तं प्रसूतमृतपुत्रायै स्वभगिन्यै सौवीरराजमहिण्यै सुचेतनाय प्रसूतिकाल एवात्मना समर्पितं नारदोबोधनात् सस्मार। अथ नारदः कुरणयविमारकावन्तःपुरादानाय्य कुन्तिभोज-सौवीर- राजादिसहित आशीर्भिरभिननन्द ॥ .

No text on this page.

श्लोकानुक्रमणी। पुटम् पुटम् अत्युष्णा ज्वरि ८८ १८ ८ ९५ ३ जलदगहन जलदसमय जवशिथिल जामातृसंपत्ति तस्या भयाकु तानस्तु मन्दो तिमिरमिव दग्धा: स्फुलि दत्ता सा वि दिव्यं स्वभाव दृढपरिकरब M ६० ४५ १०९ १०३ २ अद्यापि हस्ति अनुपमबल अबहुपुरुष अये तन्त्रीना असितजलद अहं द्विनेत्रो आरक्षिणांतु इमां तु बाष्पा इष्टं चेदेकचि इष्टा मखा द्वि उच्चं हयं स उत्क्षिप्तां सानु उरः स्तनतटा उष्णं श्वसिति एकः परगृहं एतनरेन्द्रभ एवमेव महा कन्यापुरात् क कान्तासमीप कामाहतः कु किं प्रेक्षसे मम किमत्र चित्रं दृष्टिन तृष्यति दृष्टिस्तदा प्रभू १ १८ २३ १०७ दृष्ट्वा तदानी ८१ दैवं रूपं ब्रह्म ३१ १३ धर्मः प्रागेव नगरपरिचि न तत्र कर्तव्य १० ६५ ५८ ४८ ८३ ५१ १२ १०८ क्षमया जय गम्यास्तु देशाः न तथा रत्नमा न ते न बुद्धिर्म न त्वं प्रिये मम न दृश्यते तत्र न भाषसे वृत्त निर्व्याज परि नेत्रे बाष्पपरि पिता कुरडया पुरे गहे वापि पूर्वा तु काष्ठा प्रच्छन्नरूप प्रतिच्छन्दं धा ९९ १०२ ४३ ११० गर्भस्था इव गोब्राह्मणानां गोष्ठीषु हास्यः चिन्ताकुलत्वं ३२ ९४ १९ छना भवन्ति २ पुटम् पुटम् १९ प्रतिषिद्ध प्रय प्रातदशनिना प्रसिद्धी कार्या ८ ७ ४ १०८ प्र.क्सन्ध्या कु बहुत्वाद् दूर बाष्पापरुद्ध ब्रह्मर्षिण ४४ लिम्पन्ति रूक्ष वातोद्भूताग्रकेशः विद्यावशानां तु विपुलमपि मि विरचितवरवेष वेदैः पितामहम व्यामृष्टसूर्यतिल व्यायामस्थिरवि व्योमार्णवोर्मि शापे प्रसादेषु शैलेन्द्राः कल भग्ना मयेकेन १० १११ १ भवन्त्वरजसो मितगुणमिह यज्ञैः शुभैर्ह यत्ने कृते य यदि च विभ १०८ श्रुत्वा तु राज्ञो २१ यस्माद् ब्रह्म यावत् प्रच्छन्न ये सबरन्ति सख्ये मम प्रति सततपरिचितो सम्पीड्यते परि सव्ये करे समु ७८ यो मे पुत्रगतः हंसाः स्वपन्ति ह्रीता भवेत् प्रे ४२ राग विजृम्म रोगादकालागुरु

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Avimaarak

Author
T Ganapati Sastri
Title
Avimaarak
File name
Avimaarak
Text
OCR done
Citation
1912
Publisher
The Travancore Government Press,trivandrum
Language
Sanskrit
Pages
145
Library
Svi-ksri-chennai
Classification
Literature
DLI number
369033
Barcode
5010010078697.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
iQ46Y2rFwnN
Download PDF

Avimaarak