Allahabad University
Trivandrum Sanskrit Series No Xix
Front matter
TRIVANDRUM SANSKRIT SERIES.
NO, XIS
THE
MÂNAMEYODAYA
NÂRÂYANA BHATTI
AND)
XÂRÂ YANA PANDITA
EDITED BY
T GANAPATI SÁSTRÍ
I'mitor of the Departmnt for the publication of Sanent *cripta
TRIVANDRUM
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE
TRIVANDRUM:
PRISILD AT TID IBATASCORE GOVERLENT FR2$5,
1912.
(All Right& Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्क: १९.
मानमेयोदयः
नारायणभट्ट-नारायणपण्डिताभ्यां प्रणीतः
संस्कृतग्रन्धप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
सशोधितः।
मच
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः।
कोळम्यादाः १०८७, कैस्ताब्दाः १९१२.
No text on this page.
PREFACE. llanameyodaya is a treatise on Parramimamsa, containing two Parichchhealan, मानपरिच्छेद ant मेयपरिच्छेद. Refuting the views of other schools of philosophy, it explains Prominus and Prameyas in the two Purichehheddus respectively, in the light of Kumarilabhatta's school of Parramumam ce and forms more than any other work an Aast introduction to the subject of Pirrmimamsci. The first part of the work was written by Narayan Bhatta, the well-known pwet of Keralt, of whom an account was given in the preface to l'aryuniya. He has also intended to write the second part of the work its is evident from the following introductory verge of the work:- " मानमेयविभागेन वस्तूनां द्विविधा स्थितिः । अतस्तदुभयं ब्रूमः श्रीमत्कौमारिलाध्वना ॥" bur, for mosons unknown, le had left it untinished, because it is known to have been completed, at the instance of Vimelu. king of Sailablhi (Calicut) by another Vardyana Panlita, il disciple of Krishnu, as the concluding stanzas of the work show:- यत्कीर्तिन हि माति हन्त महति ब्रह्माण्डमाण्डोदरे यस्याज्ञां प्रणतः शिरोभिरनिशं धत्ते नृपाणां गणः । सोऽयं नाटकतर्ककाव्यनिपुणः प्रज्ञातपातञ्जलो भक्तश्चक्रिणि मानवेदनृपतिर्जागर्ति धात्रीतटे ॥ पृथ्वीवृत्रजिता नितान्तमहितेनतेन संचोदितै- रस्माभिः कृशशेमुषीविलसितैरभ्यासहीनैरपि । प्राङ् नारायणसूरिणाधरचितं तन्मानमेयोदयं मोहात् पूरयितुं कृता मतिरियं सन्तः प्रसीदन्तु नः ॥" "यः ख्यातः पुरुषोत्तमस्त्रिजगति प्रज्ञाकवित्वादिभिः पुत्र्यास्तस्य सुतस्तदीयतनयात् कौमारतन्त्राम्बुधेः ।
सुब्रमण्य इति त्रिलोकविदितादापीतशास्त्रामृतः
सोऽहं पूरितवानिदं प्रकरणं नाना च नारायणः ।।"
The following works are known to have been written by this
author from the last stanzas of each sarga of his commentary on
Kumarasambhara:
1. Månameyodaya.
2. Srimisotsavachampu.
3. Asleshasatakádi.
4. Bhagavataprabandha.
5. Nrisimhachampů.
Vaidehinavasamgamachampü.
Amongst these, the commentary of Kumarasambhava has been
undertaken for publication in this series.
The present edition of the work is based on two inanuscripts
named $ and e, the first of them, running up to the end of the first
Parichchheda, was obtained from Janalikkara Matham, and the second
from the Palace Library, Both these manuscripts are written in
Malayalam characters and are almost accurate.
Trivandrum.
T. GANAPATI SASTRI.
निवेदना। एष मानमेयोदयाख्यः पूर्वमीमांसाग्रन्थः । अत्र द्वौ परिच्छेदौ मानप- रिच्छेदो मेयपरिच्छेद इति । भाचे प्रमाणानि द्वितीये प्रमेयानि च इमारिखम- तानुसारेण परमतनिराकरणपूर्व निपुर्ण निरूपितानि । मीमांसकसम्मतानां पदार्थ. नामेतदपेक्षया सुखतरव्युत्पादको अन्योऽतिविरल एव । तत्र प्रमाणपरिच्छेदस्य प्रणेता पण्डितकविचूडामणिः केरलीयो नारायण भट्टः, यस्य वृत्तान्तं नारायणीयोपोदाते वितत्यावोचाम । यद्यपि- "मानमेयविमागेन वस्तूनां द्विविधा स्थितिः । अतस्तदुमयं ब्रूमः श्रीमत्कौमारिलाध्वना ॥" इति प्रमेयपरिच्छेदोऽपि चिकीर्षिततयानेन प्रतिज्ञानः, तथापि कुतश्चिदसौकर्याद्, मन्वे, स न कृतः । अत एवार्धनिर्मितमिमं ग्रन्थ शैलाधीश्वरस्य मानवेदनृपते- श्रोदनानुसारात् प्रमेयपरिच्छेदरचनया कृष्णशिप्योऽन्यो नारायणपण्डितः पूरयामास । तथाच अन्वान्ते श्लोकाः "पत्कीर्तिन हि माति हन्त महति ब्रमाण्डमाण्डोदरे यस्याज्ञां प्रणतैः शिरोमिरनिशं धत्ते नृपाणां गणः । सोऽयं नाटकतर्ककाव्यनिपुणः प्रज्ञातपातलो मकथाक्रिणि मानवेदनृपतिर्जागर्ति धात्रीतटे ॥ पृथ्वीवत्रजिता नितान्तमहितेनैतेन सञ्चोदितै- रस्मामिः कृयामुषीविसितैरम्यासहीनैरपि । पार नारायणरिणार्थरचितं तन्मानमेवोदयं मोहात् पूरयितुं कृता मतिरियं सन्तः प्रसीदन्तु नः॥" "यः ख्यातः पुरुषोत्तमसिजगति प्रज्ञावित्वादिमिः पुयास्तस्य सुतस्तदीवतनयात् कौमारतन्त्राम्बुधेः।
२
सुब्रमण्य इति त्रिलोकावदितादापतिशास्त्रामृतः
सोऽयं पूरितवानिदं प्रकरणं नाना च नारायणः ।।"
-
एतप्रणीतम्ब कुमारसम्भवविवरणस्य सर्गान्तिमपद्येभ्योऽवगता एनड़-
तयस्त्वेता भवन्ति
१ मानमेयोदयः ।
४ भागवतप्रबन्धः ।
२ श्रीमासोत्सवचम्पू । ५ नृसिंहचम्पूः ।
३ मावशतकादि। वहानवसङ्गमचम्पूः ।
तत्र अमारसम्भवविवरणम् अस्यां ग्रन्थावली जिप्रथयिषुभिरस्माभिः
संशोषनायोपात्तमस्ति ।
अस्य अन्धस्य द्वावादीवाश्रित्य संशोधन निर्वर्तितम् । तयोरेको
मासिकरमठीवः प्रमाणपरिच्छेदान्तः क. संज्ञितः, द्वितीयो राजकीयमन्जमा-
गस्थः समनः ल. संजितः । द्वावप्येतो केरलीयलिपी प्रायः शुद्धो च ।।
अनन्तायनम् .
त. गणपतिशास्त्री.
श्रीः॥ श्रीनारायणभप्रणीतः मानमेयोदयः। प्रमाणपरिच्छेदः। प्रत्यक्षपरीक्षा। आचार्यमतपोधो बालाननिनिनीषताम् । धीमतां कोऽपि गोपालपोतः पोत इवास्तु नः ॥१॥ मानमेयविभागेन वस्तूनां द्विविधा स्थितिः। अतस्तदुभयं ब्रूमः श्रीमरकोमारिलाधना ॥२॥ प्रमाकरणमेवात्र प्रमाणं तर्कपक्षवत् । प्रमा चाज्ञाततत्त्वार्थज्ञानमित्येव भिद्यते ॥३॥ अज्ञातादेना। ज्ञातविग्ययोः स्मृत्लनुवाइयोनिरासः । तत्रानुवादानामप्रामाण्यं तार्किकादीनां नानुमतम् । वयं तु ब्रूमः । अनुवादो शर्थपरिच्छेदे व्यवहारे वा न पूर्वज्ञानात् कश्चिद् विशेषमाघ । अकः फलविशेषाभावात् फलाथै च प्रमाणानां स्वीकरणात् स्मृत्यादिवदनुवादोऽपि बहिष्कार्य एवेति । नन्यज्ञातावगमस्यैव प्रमावे घटोऽयं घटोऽयमिति धारावाहि- कझानेमु द्वितीयादीनामप्रमात् स्यात् । मैक्म् । तत्राप्ययम- यभित्युचरोचरेषां कालांशानामज्ञातानामवगमाद् उपरे भने . मानमेयोदये घटादिसहावस्य च पूर्वज्ञानेनानषिगतत्वात् । ननु कालभेद- स्यौपाधिकत्वात् केनोपाधिनावच्छिन्नानां कालांशानामत्रावगम इति वक्तव्यम् । उच्यते । पूर्वपूर्वज्ञान नितानां प्राकट्याना- मुत्तरोत्तरज्ञानपर्यन्तमवस्थानात् तदवच्छिन्नानां कालांशानां तत्र तत्रावगम इति । न च प्राकट्यभेदानां सूक्ष्मत्वात् तदवच्छि- मानां कालभेदानामपि सूक्ष्मतया दुरवगमत्वमिति वाच्यम् । सूक्ष्मते कमलदलशतं सूच्या युगपद् मिन्नमितिवत् सकृदव- बुद्धो घट इति यौगपद्यामिमानप्रसङ्गात् । इह त्वयमयमिति पुनः पुनः क्रमेणैव प्रतीतेर्धारावाहिकस्वभावसिद्धत्वाद् योगपद्याभि- मानस्य विरोध एव । तस्मात् प्राकट्यभेदानां कालभेदानां च न सूक्ष्मत्वम् । न प्राकट्यस्यैवाभावात् कालस्य च प्रत्यक्षला- भावात् कथं कालांशावगम इति चेद्, न । तयोः साधयिष्य- माणवादिति । तत्वपदेन भ्रमसंशयादीनामयथार्थज्ञानानां नि- रासः। तत्रायथार्थज्ञानस्याभावात् तत्त्वपदमनर्थकमिति प्राभा- कराः प्राहुः । एवं हि तेषां मतम्-इदं रजतमित्यत्रेदमित्य- गृहीतविशेषं शुक्तिशकलं गृह्यते । रजतमिति च रजतमात्र सर्यते । तयोच भेदाग्रहात् पुरोवर्तिनि रजतार्थिनः प्रवृत्तिः, न तु शुक्तिशकलस्य रजतत्वेन भानमस्तीति । (तत्) तत्त- खानस्य स्वविषय एवं प्रवृत्तिकरत्वनियमाद् रजतज्ञानस्थापीक.... ४ न प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा । 1 विषयत्वाभावे तत्र प्रवृचिर्न सिध्येत्, तवेदमेव रजतामिति सामानाधिकरण्यं तयोरमेदप्रतीति विना न सिम्येदित्यादिदिशा निराकरणीयम् । तस्मादन्यवाग्रहणरूपम्रमाविज्ञानसहावात् तन्निरासाथै तत्त्वपदम् । तदेवमज्ञाततत्त्वावगमरूपायाः प्रमा- याः करणत्वेनेन्द्रियसनिकर्षादीनां प्रमाणत्वं सिद्धम् । इह च प्रमाशब्देन लक्षणया तत्कार्यभूतस्य प्राकट्यस्यापि प्रतिपादनात् प्राकट्यरूपप्रमाकरणत्वेन ज्ञानस्यापि प्रमाणत्वमाहुः । एतावता च वयं फलप्रमाणवादिन इति गीयामहे । तार्किकास्तु प्रमा- करणं प्रमाणम् । यथार्थानुभवः प्रमा। अनुमवश्व स्मृतिव्यति- रिक्तं ज्ञानमिति लक्षयन्ति । तद् अनुवादस्याप्रामाण्यसाधनात् तद्यावर्तकस्य च पदस्यात्राभावादतिव्याप्तम् । 'अनुभूतिः प्रमा- णम् । स्मृतिव्यतिरिक्ता च संविदनुभूतिरिति प्राभाकराः । तदपि भ्रमादीनां साधनात् तेषामपि स्मृतिव्यतिरिक्तत्वात् ते- वतिव्याप्तम् । किश्च सर्वज्ञानेष्वप्यात्मा ज्ञानस्वरूपं विषय इति त्रितयमपि प्रकाशते । सर्वत्र चात्मस्वात्मांशयोः प्रमाणत्वं प्र. त्यक्षत्वमप्यस्तीति तेषां मतम् । ततम स्मृतिव्यतिरिक्तज्ञानस्यैव प्रमाणवे स्मृतेरात्मस्वात्मांशयोरप्रामाण्यं स्यादित्यव्याप्तिरप्यस्ती- ति। 'अविसंवादि विज्ञानं प्रमाणम् । अविसंवादित्वं चार्थकित याकारित्वमिति बौद्धाः। तत्र भूतभविष्यहिषयस्यानुमानस्या- १. 'दियुक्तिहन्या ।' स. पाठः, २. 'दुः।ता' ख. पाठः. ३. 'मिति बौदाः । अख. पाठः. .
क्रियाकारितामागादप्रामाण्यं स्यात्, स्मृतेश्च कचिदक्रिया- कारित्वात् प्रामाण्यं स्थाद्, इति । सस्मादज्ञाततत्वार्थज्ञानसाधनमेव नः। प्रमाणमिति निर्ण: तहिशेष पथ ब्रो॥ ४ ॥ प्रत्यक्षमनुनाच श.ई चोरनितिस्तथा। अयोपचिरमाषश्च षट् प्रमाणानि मादृशाम् ॥ ९॥ चार्वाकास्तावदेकं द्वितवमगि युनबद्धबैशेषिको द्वौ भासर्वशव सायस्त्रितयमुदय नावाश्चनुरकं वदन्ति । माहुः प्राभाकराः पञ्जकति च वर्ष चेपि चेदान्जविज्ञा कटू सणिकास्त्वष्टकमभिदधिरे सम्भकैतियोगात् । तत्र इन्द्रिसनिकर्मजं प्रमामं प्रत्यक्षन् । कानि पुनरि- न्द्रियाणि । उच्यते । चक्षुरसनप्राणस्पर्शनोत्राणि मनश्चेति प्रडिन्द्रियाणि । चर्नाज की कान्तरगतं तेजोऽथ जिह्वाग्रग- स्तोयां रसवं क्षितेश्य प्राणं च घोणोदरे। सदाप्रसृताच मरुतलवार इ नाम कमांदर- व्योमेव धरणं मनस्त विभु तद् देहे च कार्यहम् ॥ तत्र रूझानस्य केनचित् कारणल भवितव्यमिति सा- मामेन सिरीबीपाविसेजस एव रूपानावदर्शनाबू बैजस चक्षुः कल्प्यते । तथा रसज्ञानस्यापि कारणकल्पनायां रसव्य- अकत्वमपामेव शुष्कवस्तुषु दृष्टमिति रसनमाप्यतया कल्प्यते । 'एवं चन्दनगतस्य पार्थिवनिम्बस्वगनुलेपनस्य गन्धाभिव्यञ्जक- त्वदर्शनाद् गन्धामिव्यञ्जकत्वेन कल्प्यमानं प्राणं मार्यिवं प्रमाणपाल अपनि । व्यजनपवनस्य चाङ्गससिलिलस्पीमिव्यञ्जकत्वदर्श- नाव खर्शपलम्भकस्व त्वगिन्द्रिग्रस्य बाक्लीयत्त्रम् । शब्दग्राह- कतवा कल्यस्य श्रोत्रस्य तु परिशेगझकासात्मकत्वम् । चारा- भाना सस्वन्यन्द्रिकरम्मरणारचत्वं न दृष्टमिति तेनप्रकृती. मामन्येन्द्रियारम्भमत्तात् तेषां श्रोत्र न मालि । भूतात्मक- स्वमेव च बहिन्द्रियाणां दृष्टमित्यवशिष्टस्याकाशाख्यस्य मूत- स्यैव धोवस्त्रमिति । ताम्विोस्तु शब्दस्याकाशगुणत्वात् तद्रा- छकानव श्रोषस्थाकाशात्मकत्रमिति साधयन्ति । तत् तस्थ मुगत्वासिडेरयुक्तम् । मनस्तु सुखाद्यपरोशज्ञानसाधनेन्द्रियत्वेन करप्पते । तस्य च विमुत्वं सापवियते । स्थापि शरी- सच्छिास्वैव तस्येन्द्रियत्वमिति तत्प्रदेश एवं कार्याणि करोति। रूपाविनेष्वपि तच्चक्षुरादिपरतन्त्रं प्रवर्तन एव, अनुमा- नादिष्वपि लिङ्गादिसडायमिति स्थितिः । अत्र चक्षुःश्रोत्रयोः प्राप्यकारिखे विवादोस्तीति तमोची कहिसिनियत्वात् त्व- गादिवत् प्राम्यकारित्वं साधनीयम् । ततश्च चक्षुषः पृथुतर- प्रथिवीपादिदर्शनात पृथ्वगत्वमपि तेजःस्वभावसिद्धमाश्रयणी- यम्। नथोन्मीलनक्षण एव दुस्तरशनैश्वरादिदर्शनाद् व्याप्याव- स्थितेन बाझतेजमा निर्गमनसमय एवैकीभावः कल्पनीयः । न च बाझतेजसः सकलन्यापित्वात् केरलेभ्योऽपि गङ्गादर्शन- प्रसङ्गः । अदृष्टोग्गृहीतेनैवालोकभागनैकीमावात् । तार्कि- सन्तु तदिदं दूरदर्शनं शातिशयात् साधयन्ति । तदनन्त- १. रिशेप्यादा स.पाठः. २. कादबर' स.पाठः. ३.परवानाख. पाठः मानमेयोदये योजनान्तरितेष्वपि शनैमरादिषु झटितिदर्शनं वेगमात्रादस- म्भाव्यमित्युपेक्षितमस्मामिः । एतानि च चक्षुरादीन्यनुहूतरू- पस्पर्शत्वात प्रत्यक्षेण न गृह्यन्त इति सिडानीन्द्रियाणि । सन्निकर्षस्तु द्विविधः संयोगः संयुक्ततादात्म्यं चेति । तत्र पृथि- व्यतेजसां चक्षुस्त्वगिन्द्रियाम्यां संयोगाद् ग्रहणम् , वायो- स्त्वक्संयोगाद, दिङ्नभस्तमसा हक्संयोगात, शब्दस्य श्रोत्र- संयोगाद्', आत्मनो मनःसंयोगात् । अत्र विमुनोरप्योत्ममन- सोरजन्यसंयोगसाधनात् संयोगः। कॉलस्य तु युगपदादिप्रत्य- यस्य कालविषयत्वेन्द्रियजन्यत्वयोर्वक्ष्यमाणत्वात् तस्य च स- बेन्द्रियजन्यत्वात् सर्वैरपीन्द्रियैः संयोगाद् ग्रहणम् । यदा तु चक्षुरादिसंयुक्तेषु पूर्वोक्तेषु प्रथिव्यादिषु तदात्मभूतानां जाति- गुणकर्मणां ग्रहणं, तदा संयुक्ततादात्म्यं सन्निकर्षः। तदुक्तं- "रूपादीनां तु संयुक्तद्रव्यतादात्म्यमेव नः। प्रतीतिकारणं तस्मान्न सम्बन्धान्तरस्पृहा ॥" इति । यदा तु जातिगुणकर्मगतानां सत्तारूपत्वकर्मत्वादीनां ग्रहणं, तदा तेषामपि परम्परया तादात्म्यसंभवात् संयुक्ततादा- स्यमेव सनिकर्ष इति मन्यामहे । यहा यथा परे रूपत्वादि- महणाय संयुक्तसमवेतसमवायमाश्रयन्ते, तथास्माकमपि संयु- सत्यात्मतादात नाम तृतीयः सनिकर्षोऽस्तु । का हानिः । ..नि स. पा. २. 'सोई ख. पाठः. १. 'पि शब्दम:' १. यात सकसन्द्रियसयोगाद् ग्रहणं, तो खल्वर्थान्तरपर- मी सान्द्रापि गोते इति स्थितिः । यदा' ख. पाठः, प्रमाणपरिच्छेदे प्रमयपरका । जातिगुणकर्मणां च स्वाश्रयस्तादात्म्यमेव सम्बन्ध इति पश्चा- व साधयिष्यते । तस्माद् द्वेषा त्रेधा वा सन्निकर्षः । तार्किकाः पुनस्तादात्म्यस्थाने समवायमभिषिञ्चन्तोऽन्यथा सन्निकर्षमाहुः- संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति षोढा सन्निकर्षः । तत्र चक्षुरादिभिः संयोगाद् द्रव्याणां ग्रहणम् । चक्षुरादिसंयुक्त द्रव्ये समवायाद् गुणादीनां ग्रहणम् । संयुक्त द्रव्ये समवेतेषु गुणादिषु समवायाद् गुणत्वादीनां ग्रहणम् । शब्दस्य चाकाश- गुणत्वादाकाशात्मकेन श्रोत्रेण समवायाद् ग्रहणम्। शब्द- त्वादीनां तु श्रोत्रसमवेते शब्दे समवायाद् ग्रहणम् । अमा- वस्य तु भावधर्मभूतयोः संयोगसमवाययोरभावात् संयुक्तभू- तलादिविशेषणविशे यरूपसन्निकर्षेण ग्रहणम् । तथैव समवाय- स्याप्यद्रव्यत्वेन संयोगाभावात् समवायान्तराश्रयणेऽनवस्था- प्रसङ्गाद् विशेषणविशेष्यभाव एवं सन्निकर्ष इति । तत्रायंत्रितयं तावन्नाममात्रेण भिद्यते । समवायादयस्त्वन्ये सन्निकर्षा निराश्रयाः ॥ ८॥ शब्दस्य हि श्रोत्रगुणत्वाभावात् समवायाख्यः समवे- तसमवायाख्यश्च सन्निकर्षों निरवकाशः । अभावस्य च प्रत्यक्ष- त्वाभावात् समवायस्य च शशायमाणत्वाद् विशेषणविशे- प्यभावसन्निकर्षोऽपि हेयः । किञ्च चक्षुःसंयुक्तेनार्थेनामावस- मवाययोर्विशेषणविशेष्यभावो न सम्भवति । दण्डी पुरुष इत्यादौ सम्बन्धान्तरपूर्वकस्यैव विशेषणविशेष्यमावस्य दर्शनाद, अमावसमवाययोचार्थेन सम्बन्धान्तराभावादिति । प्राभाकper माननाद रास्तु संयोगः, संयुक्तसमवायः, समवायः इति त्रेधा सन्निकर्ष- माहुः । तन्मते रूपत्वादीनाममावात् संयुक्तसमवेतसमवायो नाश्रयणीयः, शब्दत्वस्याभावान समवेतसमवायोऽपि । अमा- वस्य चाभावात् समवायस्य च प्रत्यक्षत्वाभावाद् विशेष- णविशेष्यमावोऽपि नाश्रयगीय इति । तदापि मतं रूपत्वा- दीनां साधनात् तार्किकैरेव निराकृतम् । तस्मादुक्तप्रकार एवं सनिकर्ष इति । तनेन्द्रियसन्निकर्षजं ज्ञानं द्विविध निर्विकल्पकं सकि- कल्पकं चेति । तत्रेन्द्रिय सन्निकानन्तरमेव द्रव्यादिस्वरूप- मात्रावगाहि शब्दानुगमशून्यं यत् सम्मुग्धज्ञानं जायते, तद् विरिकल्पनामावाद् निर्विकल्प कमित्युच्यते । यत्तु तदनन्तरं शवस्मरणसहकृतं जात्यादिविशिष्टवस्तुविषयं रक्तोऽयं घटो. ऽयमित्यादिव्यतविज्ञानं, तत् सविकल्पकम् । तत्र शान्दिका निर्विकल्पकं नास्तीत्याहुः । तदुक्तं --"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।” (वाक्यप. का. १. श्लो. १२४) इति । तरयुक्तम् । पूर्वमर्थदर्शनाभावे शब्दस्मग्णस्य हेतभा- वप्रमात् । सोक्तास्तु निर्विकल्पकमेव प्रत्यक्षमाश्रित्य सवि- कल्लकस्य प्रमाणत्वं प्रत्यक्षत्रं च नास्तीत्याहुः । तदप्ययु- कम् । तस्य प्रत्यक्षतया लोकसिद्धस्य निषेधे लोकविरोधात् । तदुई "चन्द्रशब्दाभिघयत्वं शशिनो यो निषेधति । स एव सविकल्पस्य प्रत्यक्ष निवारयेत् ॥”
प्रमाणपरिषद परीक्षा। इति । किञ्च सविकल्पकालन्तरमेवार्थकियादर्शनात् तस्यार्थकि- याकारित्वलक्षणं प्रमाणत्वं दुर्निवारम् । नन्वर्थक्रियाकारित्व- मस्यार्थतोऽतिविप्रकर्मामाबाद् दैवागतमेव । न स्वाभाविकम् । वस्तुतस्वयं विकल्पो मिथ्या, अवस्तुभूतसामान्यादिविष- यत्वाविति चेत् । मैवम् । अनुमानविकल्पस्याप्यप्रामाण्य- प्रसङ्गात् सामान्यादेवस्तुत्वस्य सापयिष्यमाणलाच । अतः प्र- माणमेव सविकल्पकम्। ननु तथापि कथमस्य प्रत्यक्षशब्दवा- च्यवं, निर्विकल्पकव्यपवानेन साक्षादक्षजत्वामाबात, परम्पर- याक्षजस्य प्रत्यक्षत्वेऽनुमानादीमामपि प्रत्यक्षत्वप्रसङ्गात् । मैवम्। पङ्कजाविश्विद योगरूढिस्वीकारेणानुमानादिषु प्रत्यक्षशब्दस्या- प्रवृत्त । अत्र गुरुराह-न पङ्कजादिषु रूढिरस्ति, अवयव- शक्यैव पद्मे वृत्त्युपपत्तेः । कुमुदादिष्वैप्रवृत्तिस्तु तेष्वप्रयोगादेव भविष्यतीति । तदयुक्तम् । पङ्कजशब्दस्य पने वृत्तौ का सामनीति चिन्तायां योगमात्रस्य कुमुदादिष्वपि सम्बावेन व्याभि- चाराद् रूढिरपि सामग्रीत्वेन कल्प्या। योगश्च प्रतीतो न हातुं शक्य इसुभयसिद्धेः । तस्माद् योगरूढिशच्या निर्विकल्पकस- विकल्पकयोरेव प्रत्यक्षशब्दवाच्यत्वं नाक्षापेक्षाणामप्यनुमानादी- नामिति सिद्धम् । सविकल्पकेन च द्रव्यजातिगुणकर्मनामाभिः पसचा विकल्पो भवति । यथा वेणुमानवं, गोपोऽयं, स्वामो- वं, गायखवं, गोविन्दोऽयमिति । प्रत्वमिज्ञाप्रत्यक्षमपि ग्रहो ... तास. पाठः १. यस. पास ३. 'क्षवा स. पा १. "ति । स एवायमिति प्रस. पाल, मानमेयोदये विकल्प इति केचित् । तन्न । नामकल्पनायामन्तर्भावात् । नाम्ना हि पूर्वमनुभूतरूपे स्मारिते तद्रूपविशिष्टतयार्थस्य कल्प- ना नामकल्पनेत्युच्यते । तेन गोविन्दोऽयमित्यस्यायमर्थः-यो- ऽसावस्माभिगोविन्दशब्दवाच्यतया पूर्व गृहीतः, स एवायमिति । यदा तु शब्दवाच्यत्वमतन्त्रीकृत्य पूर्वापररूपयोरैक्यावगम एवं तात्पर्य, तदा स एवायमिति प्रत्यभिज्ञा स्पष्टा भवति । सा च प्रत्यभिज्ञा संस्कारसहितेनेन्द्रियेणैकज्ञानत्वेन जन्यते । तया च म इति अयामिति च हे भाने जन्यते । तत्र स इति भानजननशक्तिः संस्कारकृता । अयमिति भानजननशक्तिरि- न्द्रियकृता इत्पलमनेन । इह च प्रत्यक्षजानेषु क्विक्षामेदेनेन्द्रि- यस्य वत्सन्निकर्षज्ञानस्य वा करणत्वं भवति । अतः सिद्धे- मिन्द्रियसभिकर्षजं प्रमाणं प्रत्यक्षमिति । गुरुस्त्वाह-सा- क्षात्प्रतीतिः प्रत्यक्षम् । त(द) मेयमातृप्रमास्विति त्रिपुटं भवती- ति । तत्र किमिदं साक्षात्त्वं नाम । ननु साक्षाहीः स्वरूपधीः। अवादिस्वेनैव रूपेण मानम् । लिङ्गादिभ्यस्तु परसम्बन्धिरूपे- वाग्न्यादीनां भानादसाक्षात्त्वमिति चेत्, तर्हि नामादिपरस- म्बन्धिरूपेणे भानात् सविकल्पकस्यासाक्षात्त्वं स्यात् । अथ तत्र परसम्बन्धिरूपभाने सत्सपि स्वरूपधीरप्यस्तीत्युच्यते, तर्झनुमा- नाविवपि तथाभावात् साक्षात्त्वं स्यात् । आत्मस्वात्मनोस्तु सर्वज्ञानेषु प्रत्यक्षत्वकथनं निराकरिष्याम इत्यास्तामेतत् । कल्प- बनु म.पाठः २. 'दमिदामि' स. पाठः. 1. सलय काठः जैन भा' क. पाठः ३. 'न रू ख. पाठ प्रमाणपरिच्छेदे मनुमानपरीक्षा। ११ नापोढमभ्रान्तं प्रत्यक्षमिति बौद्धाः। कल्पनापोढपदेन विकल्पा- नां निरासः, अभ्रान्तपदेन निर्विकल्पकेऽपि भ्रमत्वेनामिम- तानां केशोण्डुकादिज्ञानानामिति । तदपि सविकल्पकस्य प्रत्य- क्षत्वसाधनादव्याप्तमिति । यत् पुनर्भूतभविष्यदादिविषयं योगि- ज्ञानमीश्वरज्ञानं चेन्द्रियसन्निकर्षजत्वाभावेऽप्यपरोक्षमस्तीति त- त्सङ्ग्रहणायापरोक्षप्रमाव्याप्तं प्रत्यक्षमिति लक्षयितव्यमिति तार्कि- कैरुक्तम् । तदप्ययुक्तम् । प्रत्यक्षस्य विद्यमानोपलम्भत्वनियमाद् भूतादीनां प्रत्यक्षत्वस्यानुपपत्तेः । तस्मादस्मदुक्तं प्रत्यक्षलक्षणं रमणीयम्। इन्द्रियव्यतिरिक्तानि द्रव्याण्येषां च जातयः । प्रायश्च गुणकर्माणि प्रत्यक्षाणीति वक्ष्यते ॥९॥ इति मानमेयोदये प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा। अथानुमानपरीक्षा। व्याप्यदर्शनादसन्निकृष्टार्थज्ञानमनुमानम् । यथा पर्वते धूमवत्त्वदेर्शनादग्निमत्त्वज्ञानम् । किमत्र धूमस्य व्याप्यत्वम् । उच्यते । यद् यतो बहिर्न वर्तते, तत् तस्य व्याप्यम् । धूमश्च दहनादन्यत्र न वर्तत इति धूमस्य व्याप्यत्वम् । दहनस्तु घूमा- दन्यत्रापि वर्ततेऽङ्गारावस्थायामिति तस्य व्यापकत्वमेव। तदियम- १. 'म्मनत्व' क. पाठः. २. 'ज्ञाना' क. पाठः १३ मानमेयोदये भिमयोरन्योन्यवास्वभावाद् विषमव्याप्तिः । कचित् तु सम- व्यातिरप्यस्ति यथा कुतकत्वानित्यत्वयोः। तत्र खलु कृतकानां सर्वेषामनित्यत्वमस्ति । भनित्यानां सर्वेषां कृतकत्वमप्यस्तीति समव्याप्तिरेव । का पुनरियं व्याप्तिः । उच्यते । स्वाभाविकः सम्बन्यो व्याप्तिः । स्वाभाविकत्वं चोपाधिराहिलम् । उपाधि- रिति च साध्यस्य साक्षात्प्रयोजकं हेत्वन्तरमुच्यते । तत्सहावे हितहरमेव साध्यसम्बन्ध कचिल्लभमानः प्रस्तुतो हेतुः स्क्य- मेवासाघको भवति । तद् यथा 'अग्नीषोमीवहिंसा अधर्मः, हिंसावाद, बाह्यहिंसादिवदित्यवैदिकानां साङ्यानां च प्रयोगः। तत्र निखिल्लमुपादिः । तदेव ह्यधर्मवस्व साक्षात्प्रयोजकम् । बाबहिंसानामपि च निषिद्धलकृतमेवाधर्मत्वमिति ऋतुहिंसायाँ निषिद्धत्वाभावे हिंसात्वमात्रेणाधर्मत्वं न सिध्यतीति । साधना- व्यापकत्वे सति साध्यसमव्याप्त उपाधिरिति तस्य लक्षणम् । निषिद्धत्वं हि साधनभूतहिंसात्वदेशे सर्वत्र न वर्तते, क्रतुहिं- सार्या निषिद्धत्वामावात् । साध्यभृतेन चाधर्मत्वेन निषिद्धत्वस्य समव्याप्तिरस्ति, निषिद्धानां सर्वेषामप्यधर्मत्वाद्, अधर्मभूतानां सन निषिद्धत्वादिति । तत्सामग्रीत्वं महानसत्वं पर्वतान्यत्वं चाम्न्यनुमितावुपाधिर्मा भूदिति तहिशेषणत्रितयम्। मन यदि साध्यसमन्यास उपाधिरित्येवोध्येत, तर्हि धूमवत्वेना- निमत्वे साध्यमानेऽभिसामग्रीकत्वमुपाधिः स्यात् । अस्ति हि पामानयत्वमास्ति करे क. पाठ: २. 'नां प्रक. पाठः स.पाठः, १. भव' ख. पाठः .
प्रमाणपरिषदेगनुमानपरीक्षा । १५ तस्वामिना समव्याप्तिः । अतस्तनिवृत्यर्थमुक्कं साफ्नाव्यापक इति । अमिसामग्री हि साधनमूतस्य घूमस्थ व्यापिकैव, पूने सति सर्वत्रामिसामग्र्या अवश्यमावात् । यदि तु साफ्नाम्या क इत्येवोत, तर्हि तत्रैव महानसत्वमुपाधिः स्यात् । न हि धूमे सति सर्वत्र महानसत्वमस्तीति साधनाव्यापकत्वस्य भावा- त् । अतस्तनिवृत्यर्थ साध्यव्यापकत्वमाश्रयणीयम् । न हिम- हानसत्वस्याग्निव्यापकत्वमस्ति, मठादिष्वमिसहावेऽपि तदमा- वात्। अथ यदि साधनाव्यापकत्वे सति साध्यव्यापके उपाधिरि- त्येवोच्येत, तथापि पर्वतेतरत्वमुपाधिः स्यात् । पर्वतेतरत्वं वि- नापि पर्वते धूमस्य दर्शनेन साधनाव्यापकत्वात् । अभिमत्त्वेन पूर्वमवधारितानां सर्वेषामपि पर्वतेतरत्वेन साध्यव्यापकत्वस्यापि सहावात् । अतस्तनिवृत्त्यर्थ समशब्दः । न हि तस्यामिना स- मव्याप्तिरस्ति, पर्वतेतरेषां सर्वेषामनिमत्त्वाभावादिति । अन्यत्र वा विशेषणकृत्यं दर्शयितव्यम् । यदि साध्यसमव्याप्त एवोपाधिः स्यात, तर्हि 'शब्दोऽनित्यः जन्यत्वाद् घटवदित्यत्र सकरीक- त्वमुपाधिः स्याद्, अनित्यत्वसकर्तकत्वयोः समव्याप्तिसहावात् अतस्तनिवृत्त्यर्थमुक्तं साधनाव्यापक इति । सकर्तृकत्वं हि सा- धनाभिमतस्य जन्यत्वस्यापि व्यापकमिति साधनव्यापकत्वादनु- पावित्वम् । साधनाव्यापकस्यैवोपाधित्वे तु तत्रैव सावयवत्वं घ- टत्वामखादिरुपाधिः किं न स्यात् । न हि जन्यानामपि गुणा- दीनां सावयवत्वं घटत्वं वास्तीति साधनाव्यापकत्वस्य सहा- १. 'अप्यव' ख. पाठः २. 'क इसे ख. पाठः.
मानमेयोदये वात् । अतः साध्यव्यापकत्वमप्याश्रयणीयम् । सावयवत्वघट- त्वादीनां गुणक्रियादावनित्यत्वव्यापकत्वाभावात्।तथापि शब्दे- तरत्वस्यानित्यत्वव्यापकत्वादुपाघित्वं स्यादिति तन्निवृत्त्यर्थं सम- शम्द इति । इदं त्वनुमानं व्याप्तिप्रदर्शनमात्रपरमेव । न स्व- सिद्धान्तपरमिति वेदितव्यम् । ननु पर्वतेतरत्वाभावेऽप्यग्निरस्ति चेदयं दोषः स्यादिति तर्कस्यासम्भवेन पर्वतेतरत्वस्याग्निव्याप- कत्वमेव नास्ति । सत्यम् । तथापि तस्य व्यापकत्वेनावगमाद- क्लेशेन तन्निरासाथै समशब्दचिदानन्दादिभिराश्रितः। समव्याप्तिमतामेव सर्वथापि ह्युपाधिता। इति विस्पष्टतार्थ च समशब्दो न दूषणम् ॥१०॥ अस्य चोपाधेः साध्यव्यापकत्वाद्यनिश्चये शङ्कितोपाधि- त्वम् । यथा-मैत्रीतनयत्वेनाष्टमगर्भस्य श्यामत्वे साध्ये शा- काद्याहारपरिणाम उपाधिः । अष्टमपुत्रे च तस्य नास्तित्वे स्थित एव तस्य साधनाव्यापकत्वं भवेत् । स च तत्रापि शङ्कयत ए- वेलानिमितमेव साधनाव्यापकत्वम् । अतः शङ्कितोपाघिरसा- विति । कचिव साधनस्य विशेष एव प्रयोजको भवति । यथा "अयं दिजो वेदज्ञो भविष्यति द्विजत्वाद्' इत्यत्र बुयादिमवि- जत्वमुपाधिरिति । तस्मादुपाधिमिच्छद्भिः पक्षभूमिमनाप्नुवन् । सपक्षान् व्याप्नुवन् धर्मो मृम्यतामिति सङ्ग्रहः ॥११॥ १. श्व भारभ्य वेदितव्यमित्यन्तं ख. पुस्तके न दृश्यते. २. "मिति । अ ख. पाठः. ३. साधनाव्या' स. पाठः १, कादिप ख. पाठः, ५. 'दिम' स.पाठः.
प्रमाणपरिच्छेदे गनुमानपरीक्षा । १५ सोऽयमीदृश उपाधिघूमस्याग्निसम्बन्धे नास्तीति स्वा- भाविक एवासौ सम्बन्धः । स पुनः स्वाभाविकः सम्बन्धः कथं गृह्यत इति चेत् । उच्यते । आदौ तावन्महानसादौ भूयो भूयो धूमस्यामिसम्बन्धं पश्यन् क्रमेण च महानसत्वगृहत्वग्रामत्वा- दीनुपाधित्वेनाशङ्कय व्यभिचारदर्शनेन निरस्यन्नन्यानप्युपाधीन निपुणं निरूप्य योग्यानुपलम्भेन निराकुर्वन् भूयोदर्शनोपाध्यभा- वग्रहणजनितसंस्कारसहितेनेन्द्रियेण सोऽयमेकरूप एव धूमाग्न्योः स्वाभाविकः सम्बन्ध इति निश्चिनोतीति । प्राभाकरास्तु- धूमस्याग्निसम्बन्धः सकृद्दर्शनादेवावगम्यत इति सकृद्दर्शनग- म्यैव व्याप्तिः । उपाधिशङ्कानिरासार्थमेव तु भूयोदर्शनमर्य्यत इत्याहुः । तद्युक्तम् । अनुमानाङ्गभूत एव सम्बन्धो व्याप्ति- रित्युच्यते । निरुपाधिकत्वविशिष्टस्यैव च सम्बन्धस्यानुमाना- गत्वं, न धूमानिसम्बन्धमात्रस्य निरुपाधिकत्वावधारणं च भूयो- दर्शनसाध्यमेवेति तैरप्युक्तम् । अतो भूयोदर्शनगम्यैव निरुपाधि- कसम्बन्धरूपा व्याप्तिः । ननु न भूयोदर्शनमात्रेण निरुपाधि- कत्वावधारणं, तस्य मैत्रीतनयत्वश्यामत्वयोरपि भावाव । सत्व म् । अत एवाह चिदानन्दः न केवलं भूयोमिदर्शनैस्तादृश- मवधारणं सिध्यतीति प्रमाणोत्पत्त्यनुगुणस्तर्कोऽपि तत्र सहका- रीति । कः पुनस्तकः । उच्यते। प्रमाणेन साध्यमानस्यार्थस्या- न्ययात्वशङ्कायां तन्निरासार्थमन्यथात्वे दोषकथनं तर्कः । अत एवानिष्टप्रसङ्गस्तर्क इति तार्किकाः । अयमेव च विपक्षे बाधक १. 'लै' ख. पाठः.
२१ मानवोदये इति चोच्यते । यथा यात्रामिन स्यात् तर्हि थूमोऽपि न स्याद्' इत्यादि । अस्य च तर्कस्य पञ्चाङ्गानि । यदाहुः "व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्वये। अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥" इति । मत्र साध्यवैपरीत्यमग्न्यमानादिकमारोप्य तेम लिज तेन धूमाभावाद्यनिष्टस्य प्रसञ्जनं हि तर्केण क्रियते । तत्र प्रस- अकस्याहार्यलिङ्गस्य प्रसझनीयेन व्याप्तिरेष्टन्या । तवा प्रतिप्त- कैरप्रतिपातः। प्रसञ्जनीयविपर्यये पर्यवसानम्, एवं चेदेवं स्वाद्, नचैवमिति । प्रसझनीयस्य चानिष्टत्वं प्रसिद्धम् । अनामुकूलत्वं प्रतिपक्षासाधकत्वमिति । अवैकल्ये च तर्कामासत्वं भवति । व्याप्यमावे यथा 'यमिमरखं न स्यात् तर्हि पर्वतत्वमपि न स्या- विति । प्रतिहतौ यथा 'थदीयं मेवोन्नतिर्दृष्टिमती न स्यात् तहि निविडापि न स्यादिति तर्कस्य 'यदीयं वृष्टिमती स्यात् तहि पातोद्रेवती न स्यादिति तर्केण प्रतिहतिः। विपर्ययप- बक्सानामावे वया 'शब्दोऽनित्यः कृतकत्वाद्' इति मीमांस प्रति प्रयोगे वधनियो न स्यात् तहिं कृतकोऽपि न स्यादिति तको तत्र कृतकमायमिति पर्यवसाययितुं न शक्यते, मीमां- सकपक्षे शब्दस्य कृतकत्वाभावात् । इष्टत्वमप्यत्रैव, कृतकत्वा- म्साल तं प्रतिसाद । अडकूलत्वे यथा 'अनुमेयं कर्म क- माद आदित्यकर्मक्' इलमान्वया कमैंव न सिध्येविति पाठ ति यो क. पाठ.. १.क्र. पाठ प्रमाणपरिच्छेदे अनुमानपरीक्षा । तर्कः। स च प्रत्यक्षवादिनामप्यनुकूलः । तैरपि प्रत्यक्षत्वं साध- यित्वान्यथा कर्मैव न स्यादिति वक्तुं शक्यत्वादिति । आत्मा- श्रयादयश्च दोषास्तर्क एवान्तर्भूताः अनिष्टप्रसङ्गरूपत्वात् । स्वेनैव स्वस्य सिद्धिर्या तदात्माश्रयदूषणम् । अनेनान्यस्ततश्चायमित्यन्योन्याश्रयं भवेत् ॥ १२ ॥ अनेनान्यस्ततश्चान्यस्ततोऽसाविति चक्रकम् । अतीतास्पृष्टमन्यान्यग्रहणं त्वनवस्थितिः॥ १३ ॥ मौरवं लाघवं चेति तर्को सार्वत्रिकावुभौ । गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥ १४ ॥ दोषप्रसङ्गरूपत्वं गौरवस्यैव विद्यते । साध्ये गुणकथाद्वारा लाघवस्य प्रसङ्गता ॥ १५॥ साध्याभावानुवादेन दोषः साध्ये गुणोऽपि वा। यत्रानुकूलतर्कोऽसौ साध्यसिद्धावनुग्रहात् ॥ १६ ॥ साध्यस्यैवानुवादेन यदनिष्टप्रसञ्जनम् । स तर्कः प्रतिकूलः स्यात् साध्यसिद्धिनिरोधनात्॥१७॥ इति । स चायं तर्को व्याप्तिग्रहणवेलायामनुमानोत्थानसमये बा व्यभिचारशङ्कां निरस्य व्याप्तिं शोधयन्ननुमानस्यानुग्राहको भवति । ननु यद्यग्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्यनेनैव तर्केण व्यभिचारशङ्का न निवर्तते, अग्न्यभावेऽपि धूमः किं न स्यादिति शङ्कायाः पुनरप्यनपायात्।सत्यम् । अत एव शङ्का- व्याघातपर्यन्तं तर्कमार्गेणैव गन्तव्यमिति तार्किकाः । इह च यद्यम्न्यभावेऽपि धूमः स्यात, तईि कारणं विनापि कार्यजनन- मानमेयोदये मङ्गीकृतं म्यादिति तर्के प्रयुक्त तदपि किं न स्यादिति शङ्का न लोकविदामकुरति । ननु तथापि धूमस्याग्निः कारणमिति कुतो निर्णीयत इति शङ्का नापैति । मैवम् । यद्यग्निः कारणं न स्यात् तर्हि कारणान्तरानुपलम्भन धूमस्य निष्कारणत्वमेव प्रसदिति तर्के सति समस्तविजयात् । तदेवं तर्के व्याभिचार- शङ्कायां सर्वतो निरुहायामुपाध्यन्तरशङ्काकथापि विधूतैव । ततश्चादृश्योपाधिशङ्का सर्वथा दुरिति चार्वाकदुर्वादोऽपि निर्वा- सित इति। अथवोपाधिशकैव तनिष्कास्यते स्फुटम् । उपाधिर्मानयोग्यो वा तदयोग्योऽथवा भवेत् ॥१८॥ अयोग्यश्चेन्न शक्येत योग्यश्चत् किं न दृश्यते । अनुमानादिगम्यश्चेल्लिङ्गादिः किं न दृश्यते ॥ १९ ॥ इत्यादि । ततश्च- शाव्याघातपर्यन्तमेवं सर्वानुमास्वपि। सकंजालं प्रयोक्तव्यमत्यल्पं चेदमुच्यते ॥ २०॥ यतः प्रत्यक्षशाब्दादिप्रमाणान्यखिलान्यपि । सर्व विना न जीवन्ति प्रत्यक्षे तावदीक्ष्यताम् ॥ २१ ॥ अयं घट इति प्रत्यक्षं हि सुगतकथितपरमाणुगोचरता- पराणोदिना तणानुगृहीतमेवावयविगोचरं भवति । यदि पर- मागविषयता स्यात्, तर्हि एकत्वेन महत्त्वेन चावभासो न - १.को नि. पाठः, २. र्णय इ' ख. पाठः, प्रमाणपरिच्छेदे अनुमानपरीक्षा । स्यादिति तर्कः । तथा अयं गौरिति प्रत्यक्षमपि यद्यत्यन्तभिन्न- विषयं स्यात् तहीदंगोत्वे इति प्रतीतिः स्यादिति तर्केणानुगृही- तमेवाभेदस्यापि ग्राहकं भवतीत्यादि । एवं शाब्देऽपि ब्रूमः । अध्ययनविधिरेव तावद् यदि स्वर्गफलः स्यात् तहि दृष्टार्थत्वे सम्भवत्यदृष्टग्रहणाद् गौरवं स्यादिति तर्कानुग्रहेणार्थज्ञानफले- बोधको भवति । यद्यर्थज्ञानफलः स्यात् तर्हि विधिवैयर्थ्य स्यादिति प्रतिकूलतर्कश्च तत्र तत्र निरसनीयः । तथा- “उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः। सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥” (मनु.अ.२.श्लो.१४०) इति स्मृतिः । यद्यध्यापनविधिः स्यात् तर्हि 'तु यो द्विजस्त- माचार्य प्रचक्षत' इत्यंशेनैकवाक्यता न स्यादिति तर्केणाचार्य- लक्षणपरता निश्चीयतेऽस्याः स्मृतेः । तथा-'अक्ताः शर्करा उपदधाती'त्यत्र यदि घृतेनाञ्जनं न स्यात् , तर्हि 'तेजो वै घृत- मिति वाक्यशेषो विरुध्यत इति तर्काद् घृताञ्जनपरता साध्य- त इति । एवं सर्वत्र तौधेरर्थाभासनिरासतः। वाक्यार्थस्थापनी सर्वा मीमांसा तरूपिणी ॥ २२ ॥ उक्तं च मनुना- "आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः।।" (अ.१२.लो.१.६) ३. 'त्र नि क. पाठः. १. 'श' क. पाठः. २. 'लफलबो' ख. पाठः. १. इत आरम्य 'स्मृतेः' इत्यन्त ख. पुस्तके न दृश्यते ।
२. मानमेयोदये इति । एवमुपमानार्थापत्त्यभावेष्वपि तत्र तत्र तर्कापेक्षणमूहित- व्यम्। तस्मात् सर्वप्रमाणानां तर्कोऽनुग्राहकः स्थितः । साध्ये विपर्ययाशकाविच्छेदस्तदनुग्रहः ॥२३॥ अस्याविज्ञाततत्त्वोऽर्थः सन्दिग्धो विषयो मतः । हेतुरारोपितं लिङ्गं फलं तत्त्वार्थनिर्णयः ॥२४॥ तदेवं तत्त्वसिद्धचर्षमन्यथानिष्टवर्णने । प्रसरत्यसदारोपतत्साधनपरम्पस ॥२५॥ तत्र चारोपवादेऽपि सिद्धान्तत्वभ्रमः कचित् । वेदश्दीश्वराधीनस्तहीशोऽपि न सिध्यति ॥ २६ ॥ इत्युक्तावीश्वराभावः सिद्धान्त इति मन्वते । असम्भाव्यस्य चारोपादसन्तोषः क्वचिद् भवेत् ॥२७॥ अपकर्षाप्रतिष्ठश्चेत् परमाणुस्तथासति । अनन्तावयवारम्भान्मेरुसर्षपयोर्द्वयोः ॥२८॥ स्यात् तुल्यपरिमाण(त्व)मित्यायुक्तिर्यथा भवेत् । तत्र चास्य प्रमाणस्य तर्कोऽयं तस्य सिद्धये ॥ २९ ॥ अन्यदुक्तमिति व्यक्तं विविश्चन् नैव मुह्यति । तस्मात् तर्कप्रकारोऽयं प्रसङ्गप्रापितोऽपि सन् ॥ ३०॥ अत्यन्तमुपकारीति विस्तरात् प्रस्तुतो मया ॥ ३० ॥ इति । तदेवं तर्कसहायेन भूयोदर्शनेनैव निरुपाधिकसम्बन्धो- अधार्यते। २. 'इत पारम्ब सार्धं पर्व क. पुस्तके न पश्यते । १. क. पाठ प्रमाणपरिच्छेदे अनुमानपरीक्षा । २१ भूयोदर्शनतः शक्या दृश्योपाधिनिराक्रिया । अदृश्योपाधिशका तु तर्केरेव निरस्यते ॥ ३१ ॥ इति विभागः । अतः सिहा व्याप्तिः । बौद्धास्तु तादात्म्य- तदुत्पत्तिम्यामेव व्याप्तिसिद्धिरित्याहुः । यथा- शिंशपात्व- स्य वृक्षत्वेन व्याप्तौ तादात्म्यं, धूमस्यामिना व्याप्तौ तदुत्पत्ति. रिति । तन्न । कृचिकोदयरोहिण्यासत्त्योर्व्याप्तौ तदुभयाभावात् । तस्माद् निरुपाधिकत्वावधारणादेव व्याप्तिसिडिः। व्यातिनियमः प्रतिबन्धोऽव्यभिचारस्तथाविनाभावः। व्याप्यं पुनर्नियम्यं गमकं लिङ्गं च साधनं हेतुः ॥३२३॥ इत्युभयोः पर्याया इति तस्य तु दर्शनं त्रिविधम् ॥३३॥ व्याप्तिग्रहणवेलायां धूमदर्शनं प्रथमम् । पर्वतोपान्तग- तस्य धूमदर्शनं द्वितीयम् । ततश्च व्याप्तिस्मरणानन्तरं तादृशो धूमोऽत्रास्तीति यदनुसन्धानं, तत् तृतीयम् । तदत्र व्याप्यद- र्शनमभिमतं, तदनन्तरमेव वहिज्ञानस्योत्पत्तेरिति । असनिक- ष्टपदेन पुनः किमुच्यते । अपरिच्छिन्नमिति ब्रूमः । तदुक्तम्- "असन्निकृष्टवाचा च द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा ।" इति। पूर्व सत्त्वेन परिच्छिन्ने ह्यग्न्यादौ पुनरनुमानमनुवादः स्याद्, असत्त्वेन परिच्छेदे च बाधितत्वेनाप्रामाण्यमेवेति तदुभयनिव- तनार्थमसन्निकृष्टपदमिति । अत्र चार्वाकाः- अग्निविशेषस्या- नुमेयत्वे व्याप्त्यसिद्धिः । अग्निसामान्यस्यैव धूमसामान्येन व्या- - १. 'मिन्या' ख. पाठः.
१२ मानमेयोदये - सेः । मामान्यम्यानुमेयत्वे तु तस्य पूर्वमेव परिच्छिन्नत्वात् सिद्धसाध्यत्वम । तयाचासनिकृष्टपदमप्ययुक्तम् । तदुक्तम् - "अनुमाभनपस्मिन् निममा वादिदन्तिनः। विशेषेऽनुगमाभावः मामान्ये सिद्धसाध्यता ॥" इति । अत्रोच्यते । न तावत् सामान्ययोरेव केवलयोर्व्याप्ति- सिद्धिः। तथाहि सति धूमत्वेन वह्नित्वं स्वतः सम्बद्धमिति व्याप्तिग्रहः स्यात् । तथाच वह्नित्वजानिसम्बन्धाद् धूमत्वमेव वह्निः : स्यात् । अतो विशेषद्वारेणैव सामान्ययोर्व्याप्तिः सिध्यति । विशेषश्च तत्र तत्र विभिन्नत्वान्न नियतो निरूपयितुं शक्यत इत्यनियतविशेषालिङ्गितयोाप्तिरिति स्थितिः । ततश्च पर्वतव- तितया दृष्टो घूमोऽनियतविशेषालिङ्गितमग्निं पर्वतेऽनुमापयति । इह च यद्यप्यनियतविशेषालिङ्गितमग्निसामान्य व्याप्तिवेला- यामेव गृहीतं, तदेव चानुमेयं, तथापीदानी पर्वतेऽग्निरस्तीति देशकालविशेषस्याप्यनुमीयमानत्वात् तस्य च पूर्वमप्राप्तत्वात् सिद्धसाध्यत्वस्यानवकाश एव । व्याप्तिश्च पक्षधर्मत्वमनुमा द्वयं विदुः । व्याप्त्या झुक्कप्रकारेण वहिसामान्यवेदनम् ॥ ३४॥ धूमस्य शेलनिष्ठत्वरूपा या पक्षधर्मता । तथा पर्वतसम्बन्धो वहेरप्यवगम्यते ॥३५॥ इति । गुरुस्त्वाह-धूमवतो देशस्य वह्निमत्त्वमप्यस्तीति व्या- लिलावामेव गृहीतत्वाद् धूमवत्त्वमेव पर्वतस्येदानीमपूर्व ग्रही- , १. तिः । त' स. पाठ.. २. 'पास' ख. पाठः, प्रमाणपरिच्छेदे अनुमानपरीक्षा | २३ तव्यम् । अग्निमत्त्वं तु तस्य पूर्वगृहीतमेवावगम्यत इति । तद- युक्तम् । धूमवत्त्वं तावत् पर्वतस्येदानीमेव गृह्यत इत्युक्तम् । अतः कयं धूमवत्त्वप्राप्तिं विनात्र वह्निमत्त्वप्राप्तिः पूर्वमासीदि- त्यविचारेयतो गुरोरयमुन्माद इति । अतः सिडमसनिकृष्टज्ञा- नस्यानुमानत्वम् । अत्र च प्रमाणातप्रकारेण प्राकट्यरूपानु- मितिकरणत्वादेव ज्ञानस्यानुमानत्वमुक्तम् । ज्ञानरूपानुमिति- करणत्वाच्च धूमादेरप्यनुमानत्वमस्त्येवेति । तच्चानुमानं त्रि- विषम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । देघा हि व्याप्तिः अन्वयव्याप्तिय॑तिरेकव्याप्तिश्चेति । तत्र साध- नस्य सद्भावे साध्यस्यापि सद्भावोऽन्वयव्याप्तिः । साध्यस्या- भावे साधनस्याप्यभावो व्यतिरेकव्याप्तिः । व्यतिरेके च व्या- प्यव्यापकभावोऽन्वयाद् विपरीतो भवति । अग्न्यभावो छत्र व्याप्यः । धूमाभावश्च व्यापक इति । अग्नेर्भावस्य भूयस्त्वात् तदभावोऽल्पतां व्रजेत् । धूमभावस्य चाल्पत्वात् तदभावो महत्तरः॥३६ ॥ इति वैपरीत्यस्योपपत्तिः । तत्र यस्योभयविधौ व्याप्तिरस्ति तद- न्वयव्यतिरेकि । यथा धूमानुमानादि । तत्र हि धूमस्याग्न्य- न्वयो महानसादौ दृश्यते । अग्न्यभावे धूमाभावश्च महाहूदा- दौ दृश्यते। तेनान्वयव्यतिरेकित्वम्। यस्य पुनरन्वयव्याप्तिरेवा- स्ति, तत् केवलान्वयि । यथा-ज्ञानं ज्ञानान्तरप्रकाश्यं वस्तुत्वा- द् घटवदित्यादि । अत्र हि ज्ञानप्रकाश्यत्वाभावे वस्तुत्वाभावो न १. 'रतो' ख. पाठः २. 'धापि व्या ख. पाठः.
२१ मानमेयोदये कचिदपि दर्शयितुं शक्यः, सर्वेषामप्यर्थानां ज्ञानप्रकाश्यत्वात् । अतो व्यतिरेकव्याप्त्यभावः । यस्य तु व्यतिरेकव्याप्तिरेवास्ति, तत् केवलव्यतिरेकि । यथा-सर्व ज्ञानं स्वप्रकाशं ज्ञानत्वाद्, यस्य स्वप्रकाशत्वं नास्ति तस्य ज्ञानत्वमपि नास्ति, यथा घट- स्वेति । अत्र हि यस्य स्वप्रकाशत्वं तस्य ज्ञानत्वमप्यस्तीति कचिद् दर्शयितुमशक्यत्वादन्वयव्यामिर्नास्ति । स चायं केव- लव्यतिरेकी हेतुरावीतहेतुरिति चोच्यते । तं च कौमारिलाः प्रायो नेच्छन्ति व्यतिरेकिणम् । तत्स्थाने चाभिषिञ्चन्ति पञ्चमी प्रमिति पुनः ॥ ३७॥ कचित् प्रसिद्धमन्यत्र साध्यते झनुमानतः । स्वप्रकाशवधर्मो हि सिद्धो नान्यत्र कुत्रचित् ॥ ३८॥ तेन तत्साधने पक्षो झप्रसिद्धविशेषणः। एकञ्च दुष्टपक्षोऽयं व्यतिरेकी निवार्यताम् ॥३९॥ यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः । न दोष इति भाषन्ते तार्किकास्तदसङ्गतम् ॥ ४०॥ तर्को हि नाप्रसिद्धार्थ कचित् साधयितुं क्षमः। अतोप्रसिद्धतादोषस्तकें सत्यपि दुस्त्यजः॥४१॥ इति । ननु वेद्यत्वं कचिदत्यन्तं नास्ति धर्मत्वाद् यथा घटत्वं पयदिपिलमेने प्रमाणेन वेद्यत्वेविरहरूपे स्वयंप्रकाशत्वे सामा- १. 'मस्तीदिकचिदपिद क. पाठः. २. 'मच सि' ख. पाठः. ३. 'ता क. पाठः. १. 'दि स. पाठः. १. 'नानुमानेन' क. पाठः. १. त्वावि' क. पाठ प्रमाणपरिन्छेदे अनुमानपरीक्षा । २५ न्यतः प्रसिडे पुनर्विशेषेण पक्ष साध्यत इति नाप्रमिडविशेष- णत्वं पक्षस्य । तदुक्तं- "सामान्यतोऽनुमानन प्रसिद्धेऽपि विशेषणे । कथं कथय पक्षोऽयमप्रसिद्धविशेषणः ॥" इति । अस्तु वा तावम् । अत एव चिदानन्दः केवलव्यतिकिणम् । नैव साक्षान्निराचके नापि साक्षापाददे ॥ ४२ ॥ तस्मात् सामान्यतः सिद्धिहीनाश्चेद व्यतिक्षिणः । सर्वथा वारणीया इत्येतत् तावद व्यवस्थित ॥४३॥ इह च स्वप्रकाश नास्ति सामान्यतोऽनुमा । वस्तुत्वादेहि धर्मस्य नात्यन्तं नास्तिता क्वचित् ॥४४॥ इति । अत्र चान्वयव्यतिरेकिताः पञ्च रूपाणि पक्षधर्मत्वं. सपक्षे सत्त्वं. विपक्षाद् व्यावृत्तत्वम् . अबाधितविषयत्वम्, अ- सत्प्रतिपक्षत्वं चेति । तत्र जिज्ञासितमाध्यः पर्वतादिः पक्षः । तन्निष्ठत्वं हेतोः पक्षधर्मलम । निश्चिनमाध्यो महानमादिः सप- क्षः। तत्र वर्तमानत्वं सपक्षे सत्त्वम् । निश्चितसाध्याभावो म- हादादिविपक्षः । तत्रावर्तमानत्वं विपक्षाद् व्यावृत्तिः। साध्य. स्याबाधितत्वमबाधितविषयत्वम् । प्रतिहेत्वभावोऽसत्प्रतिपक्षल- मिति । केवलान्वयिनस्तु विपक्षाद् व्यावृत्तिर्नास्ति, विपक्षाभा- वात् । अतस्तस्य चत्वारि रूपाणि । केवलव्यतिरेकिणः सपक्षे १. 'पक्षः पर्वतादिः।' ख. पाठ', २. 'ध्य सपक्षा महानसादिः । स्व.पाठः, ३. 'को विपक्षो महाहदादिः।' ख. पाठः, , , २१ मानमेयोदये सत्त्वं नास्ति, सपक्षाभावात् । यदि तु सपक्षे सत्यपि पक्षमा- प्रवृत्तिहेतुः स्यात्, तीसाधारणो नाम हेत्वाभास एव स्यात् । यथा 'नित्या भूः गन्धवत्त्वादिति । अत्र हि नित्यत्वेन स- पक्षभूतानामाकाशादीनां सद्भावेऽपि भूमात्रवृत्ति गन्धवत्त्वम् । अतोऽसति सपक्षे पक्षमात्रवृत्तिः केवलव्यतिरेकीति लक्षयन्ति तार्किकाः। पक्षमात्रस्थितं सिध्येत् पक्षमात्रस्थहेतुना। अन्यत्र स्थितमाक्रष्टुं तद्गतस्यैव पाटवम् ॥४५॥ इति । अतः सपक्षे सत्त्वाभावाच्चतूरूप एव व्यतिरेकी । तत् सिद्धं दैविध्यं त्रैविध्यं चानुमानस्य ॥ ४५३ ॥ तच्च पुनरपि द्वेधा दृष्टं सामान्यतो दृष्टं चेति । तत्र- दृष्टैकव्यक्तिविषयं दृष्टमिष्टं हि मादृशाम् । कृत्तिकोदयमालक्ष्य रोहिण्यनुमितिर्यथा ॥ ४६३ ॥ एवं सामान्यतो व्याप्तिदृष्ट्या यत्रानुमीयते । तद्धि सामान्यतो दृष्टं यथा वह्नयनुमादिकम् ॥ १७ ॥ तार्किकादयस्तु-प्रत्यक्षयोग्यार्थविषयमग्न्याद्यनुमानं दृष्टम्, अतीन्द्रियार्थविषयं चक्षुराद्यनुमानं सामान्यतो दृष्टमि- त्याहुः । तदयुक्तम् । अतीन्द्रियार्थानामनुमातुमशक्यतया च- क्षुरादीनामप्यर्थापत्त्यैव साध्यमानत्वात् । तथाहि- व्यातेरिति शेषः ।
प्रमाणपरिच्छेदे अनुमानपरीक्षा । २७ व्याप्त्येकशरणं तावदनुमानमिति स्थितम् । तद् व्याप्तिदर्शितान्मार्गाच्चलितुं क्षमते कुतः॥ ४८३ ॥ ततश्च व्याप्तिविज्ञाने यादृशं वस्तु दृश्यते । ताडगेवानुमातव्यं यथोष्णो भास्वरोऽनलः ॥ १९ ॥ न चातीन्द्रियवस्तूनां प्राग्दृष्टाकारयोगिता। दृश्यत्वं तेजसां दृष्टं चक्षुषस्तदसम्भवात् ॥ ५० ॥ अत एव हि सर्वत्राप्यत्यन्तादृष्टसाधने । विशेषबाधकं नाम दोषं घोषयितास्महे ॥ ५१५ ॥ तस्माद् रूपादिसन्दर्शनान्यथानुपपत्तितः । चक्षुराद्याः प्रसाध्यन्ते न तेष्वनुमितिर्मता ॥ ५२३ ॥ इति । तच्चानुमानं स्वार्थपरार्थभेदेनापि द्विविधमाहुः । यत्र स्वयमेव धूमादिकं दृष्ट्वा व्याप्त्यादिनिरूपणेनानुमीयते, तत् स्वार्थम् । यदा पुनः स एवार्थः परवाक्येन बोध्यते । तदा परार्थमित्याहुस्तयोरेतावती मिदा ॥ ५३३ ॥ तत्र परार्थानुमानवाक्यं पञ्चावयवमिति तार्किकाः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । यथा - अयं पर्वतोऽग्निमान् , धूमवत्वाद्, यो यो धूमवान् स सोऽग्निमान् यथा महानसः, धूमवांश्वायं, तस्मादग्निमानेवेति । अत्र १. 'यननि' ख, पाठः, २८ मानमेयोदये परं बोधयितुं पक्षवचनं प्रतिज्ञा पर्वतोऽग्निमानिति । साधनत्वा- वेदकं लिङ्गवचनं हेतुः धूमवत्त्वादिति । व्याप्तिप्रदर्शनपुरस्सरं दृष्टान्ताभिधानमुदाहरणं यो या धूमवान् स सोऽग्निमान् यथा महानस इति । सिद्धव्याप्तिकस्य पक्षे उपनयनमुपनयः धूमवां- चायमिति । सहेतुकं पक्षस्य पुनर्वचनं निगमनं तस्मादग्निमा- निाते । अत्र ब्रूमः प्रतिज्ञया निगमनं हेतुनोपनयस्तथा । गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम् ॥ ५४३ ॥ तस्मात् त्र्यवयवं ब्रूमः पौनरुक्तयासहा वयम् । उदाहरणपर्यन्तं यद्वोदाहरणादिकम् ॥ ५५ ॥ सौगतास्त्वाहुः-यो धूमवान् सोऽग्निमान् यथा महानसः, धूमांश्चायमित्येतावदुक्तौ तस्मादग्निमानित्यर्थात् सि- ध्यति । अत उदाहरणोपनयो हावेवावयवाविति। तदपि साध्या- शेऽध्याहारदोषप्रसङ्गादपास्तम् । तदेवं पौनरुक्त्येन तथाध्याहारदोषतः । तर्कबौद्धमते हित्वा वयं त्र्यवयवे स्थिताः ॥ ५६३ ॥ तत्रोदाहरणान्तं यथा-पर्वतोऽग्निमान , धूमवत्त्वाद् , यो धूमवान् सोऽमिमान् यथा महानस इति । उदाहरणादि- यो धूमवान् सोऽग्निमान् यथा महानसः, धूमवां- श्वायं, तस्मादग्निमानिति । , कं यथा १. र प्रतिपादयि ' ख. पाठः. २. 'नं हि प्र' ख. पाटः, ३. 'यो यो धू' क. पाठः.
प्रमाणपरिच्छेदे अनुमानपरीक्षा । २९ अथ प्रतिज्ञाहेत्वोश्च दृष्टान्तस्य च दूषणम् । क्रमेण कथ्यतेऽस्माभिर्यद् वेद्यं वादिनां पुरः॥ ५७३॥ तत्र परप्रतिपादनार्थ पक्षवचनं हि प्रतिज्ञा । जिज्ञासि- तधर्मविशिष्टश्च पक्ष इत्युक्तम् । ततश्च तद्रुपपरिच्छेदात् तद्वि- परीतपरिच्छेदाद् वान्यत्राप्रसिद्धत्वाद् वा यो न जिज्ञासितो धर्मस्तद्विशिष्टस्य न पक्षत्वमिति सिद्धविशेषणो बाधितविशेष- णोऽप्रसिद्धविशेषणश्च पक्षाभास एवेति तदावेदकं वचनमपि प्र- तिज्ञाभास एव । तद् यथा वह्निरुष्ण इति सिद्धविशेषणः। वह्निग्नुष्ण इति बाधितविशेषणः । क्षित्यादिकं सर्वज्ञकर्तृकमित्य- प्रसिद्धविशेषणः, घटादिषु क्वचिदपि सर्वज्ञकर्तुकत्वस्यासिद्धत्वात्। बाधकप्रमाणभेदेन बाधितविशेषणत्वावान्तरविशेषो द्रष्टव्यः । तत्र वह्निरनुष्ण इति प्रत्यक्षबाधः पूर्वमुक्तः । अनुमानस्यापि य- दा प्रबलत्वं स्पष्टं भवति, तदानुमानबाधः । यथा 'मन इन्द्रि- यं न भवति अभूतात्मकत्वाद् दिगादिवदिति। अत्रेन्द्रियत्वेन मनसोऽनुमीयमानत्वान्मनोधर्मिग्राहकेणैवानुमानेन तस्यानिन्द्रि- यत्वं बाधितम् । एवं शीघ्रभाविनामनुमानानां सर्वत्र बाधकत्वं द्रष्टव्यम् । शाब्दबाधो यथा - यागादयः स्वर्गसाधनं न भव- न्ति क्रियात्वाद् गमनवदिति । अत्र 'स्वर्गकामो यजेते त्या- दिवाक्यैर्यागादेः स्वर्गसाधनत्वबोधनात् तदभावः शाब्दबाधितः। स्पृश्यं नरास्थि प्राण्यङ्गत्वात् शङ्खवदिति । 'गौर्गवयसदृशो न भवति प्राणित्वात् पुरुषवदित्यत्रोपमा- नबाधः । 'देवदत्तो बहिर्नास्ति तत्रादृश्यमानत्वादि'त्यत्रार्थाप- -- यथा वा ३० मानमेयोदये तिबाधः, अर्थापत्त्या बहिर्भावस्य साध्यमानत्वात् । 'रूपवान् वायुः द्रव्यत्वात् पृथिवीवदित्यत्रानुपलम्भबाधः । अन्येऽपि प्रतिज्ञादोषाः सन्ति । यावज्जीवमहं मौनीत्युक्तौ हि स्वोक्तिबाधनम्। नेन्दुश्चन्द्रगिरा वाच्य इति लोकविरुद्धता ॥ ५८१ ॥ शब्दादेः प्रागनित्यत्वमुक्तं येनैव तेन तु । नित्यत्वे पुनरुक्ते स्यात् पूर्वसञ्जल्पबाधनम् ॥ ५९॥ इति । व्याप्तः साधनधर्मों हेतुः । असिद्धो विरुद्धोऽनैकान्ति- कोऽसाधारणश्चेति चत्वारस्तदाभासाः । तत्रासिद्ध उच्यते । हेतोाप्तिमतः पक्षसम्बन्धित्वेन वेदनम् । सिद्धिरित्युच्यते हेतुसम्पूर्तिस्तावतैव हि ॥ ६० ॥ तेषामेकतमांशस्याप्यभावे स्यादसिद्धता। हेतोप्तेश्च पक्षस्य सम्बन्धस्य ग्रहस्य च ॥ ६१३ ॥ तत्र हेतुस्वरूपस्यैवासिद्धौ स्वरूपासिद्धः । यथा 'बुद्धो मोहरहितः सर्वज्ञत्वादि'त्यत्र सर्वज्ञत्वं नाम नास्माकं कचित् सिद्धम् । अस्य विशेषणासिद्धो विशेष्यासिद्ध इति च हौ भेदी भवतः । आयो यथा 'बुद्धो धर्मोपदेष्टा सर्वज्ञत्वे सति शरी- रित्वादिति , अन्यस्तु 'शरीरित्वे सति सर्वज्ञत्वादिति । व्या- त्यभावे व्याप्यत्वासिद्धः । यथा-क्रतुहिंसा अधर्मः हिंसा- लादिति । अत्र सोपाधिकवाद् व्याप्त्यभावः । पक्षाभावे वा- १. 'धितत्वा' क. पाठः २. 'सिद्धौ स्या' क, पाठः, प्रमाणपरिच्छेदे अनुमानपरीक्षा । ६१ - श्रयासिद्धः । यथा-गगनकुसुमं सुरभि कुसुमत्वादिति । हेतोः पक्षसम्बन्धाभावे सम्बन्धासिद्धः। यथा-शब्दोऽनित्यः चाक्षुषत्वादिति । यस्य तु पक्षैकदेशे सम्बन्धो नास्ति, स भा- गासिद्धः । स एव पक्षव्याप्त्यभाबाद् व्याप्त्यसिद्ध इति च कचिदुच्यते । यथा-वेदाः पौरुषेयाः उपाख्यानात्मकला- दिति । यदा तु विशेषणस्य विशेष्यस्य वा पक्षसम्बन्धो नास्ति, तदा विशेषणासिद्धविशेष्यासिद्धौ भवतः । यथा अनित्यं गगनं जन्यले सति द्रव्यखादिति, द्रव्यत्वे सति जन्यला- दिति च । यत्र तु विशेषणं व्यावाभावाद् व्यर्थमेवेति सम्ब- न्धान भवति, स व्यर्थविशेषणासिद्धः । यथा घटोऽनित्यः द्रव्यले सति कृतकलादिति । एवं कृतकवे सति द्रव्यला- दिति व्यर्थविशेष्यासिद्धः । यदा तु हेतुः पक्षसम्बन्धिलेन न प्रयुज्यते, किन्वाश्रयान्तरसम्बन्धिलेन, तदा व्यधिकरणासिद्धः। अनित्यो घटः तुदुणस्य कृतकलादिति । अत्र न घटाश्रितं कृतकत्वं, किन्तु तद्गुणाश्रितमिति व्यधिकरणा- सिद्धः । यत्रे पक्षाद् व्यतिरेकाभावेन पक्षसम्बन्धित्वं नास्ति, स व्यतिरेकासिद्धः। यथा अनित्यं गगनं गगनत्वादिति । अत्र गगनस्वरूपादन्यद् गगनत्वं नाम नास्तीति । एषां स्वरू- पादीनामज्ञानेऽज्ञानासिद्धः सन्दिग्धासिद्धो वा भवति । यथा- देवदत्तो बहुधनो भविष्यति तहेतुभूतादृष्टशालित्वादिति । अत्र तादृशादृष्टंसद्भावे प्रमाणं नास्तीत्यज्ञातत्वम् । एवम् 'अ- यथा २. 'स्य तु प' क. पाठः, ३. 'ष्टशा- १. 'द्धः । (यथा?) स' क. पाठः, लित्वे प्रक. पाठः.
३२ मानमेयोदये ग्निमान् पर्वतः धूमवत्त्वादित्यतावत्प्रयोगेऽनुपदर्शितव्याप्तिक- त्वाद् व्याप्त्यज्ञानासिद्धः। एवमेव सन्दिग्धविशेषणासिद्धादयो- ऽप्यज्ञानासिद्धभेदा अहितव्याः । तार्किकास्तु-पक्षे हेतुस्व रूपाभाव एव स्वरूपासिद्धिरिति सम्बन्धासिद्धस्य स्वरूपासिद्ध- त्वमाहुः । तदयुक्तम् । सर्वज्ञत्वाः स्वरूपमेव क्वचिदपि ना. स्ति। चाक्षुषत्वादेस्तु पक्षसम्बन्धमानं नास्तीति पृथक्त्वप्रतीतेः। एते चासिद्धभेदाः यदान्यतरस्यैव वादिनोऽसिद्धा भवन्ति, तदान्यतरासिद्धा इत्युच्यन्ते । तत्र 'बुद्धो मोहरहितः सर्वज्ञ- त्वादि'त्युक्तोऽस्माकमेवासिद्धः । एवमुभयोरप्यसिद्धावुभयासिद्ध- ता वेदितव्या । यथा शशो हिंस्रः विषाणित्वादिति । अथ विरुद्धः। स च बाधक इत्येवं वार्तिके व्यपदिश्यते । द्विधा चासौ स्वरूपस्य विशेषस्य च बाधनात् ॥६२३ ॥ तत्र साध्यविपरीतव्याप्तः साध्यस्वरूपविरुद्धः । यथा 'शब्दो नित्यः कृतकत्वादिति । अत्र नित्यत्वविपरीतेनानित्यत्वेन व्याप्तं कृतकत्वमिति नित्यत्वं प्रति विरुद्धत्वात् तस्य बाधक भवति । साध्यविशेषस्य विपरीतेन विशेषेण व्याप्तो विशेषवि- रुद्धः । यथा 'क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति । अत्र साध्यस्य क्षित्यादिकर्तुरशरीरित्वं नाम विशेषः । तस्य विपरीतेन शरीरित्वरूपेण विशेषेण व्याप्तं घटादिपु कार्यत्वं दृष्ट- मित्यशरीरित्वस्य बाधकं भवति । अशरीरित्वबाधे च कर्तृमत्तापि बाध्यते । प्रत्यक्षात् सशरीरित्वविशेषे बाधिते सति ॥ ६३३ ॥ १, 'हि' क. पाठः, प्रमाणपरिच्छेदे अनुमानपरीक्षा । अशरीरित्वमादाय स्थास्यामीति कृतोद्यमा। कर्तृमत्ता हि तस्यापि बाधे नश्यनिराश्रया ॥ ६४१ ॥ इत्थं साध्यनिरोधित्वादेष दूषणमेव नः। 'तमीहशमजानमस्तार्किकेभ्योऽयमञ्जलिः ॥ ६५१ ॥ सव्यभिचारोऽनैकान्तिकः । विपक्षेऽपि वर्तमान इति यावत् । स एव साधारण इति चोच्यते । यों-अनित्यः शब्दः प्रमेयत्वादिति । अत्र हि प्रमेयत्वं नित्येष्वपि वर्तत इत्य- नैकान्तिकम् । यत्र तु विपक्षवृत्तित्वं सन्दिग्धं, स सन्दिग्धान- कान्तिकः । यथा क्षणिका भावाः सत्त्वादित्यत्राक्षणिक- स्वेऽपि सत्त्वस्य बाधाभावाद् विपक्षवृत्तिः शङ्किता भवति । स. ति सपक्षे पक्षमात्रवृत्तिरसाधारणः। यथा नित्या भूर्गन्ध- वत्त्वादिति । केचित् पुनराहुः--- असाधारणोऽप्यनैकान्तिक एव । यथा खल्वन्वयस्य विपक्षेऽपि वर्तनात् प्रमेयत्वस्य व्यभि- चारित्वम् , एवं व्यतिरेकस्यापि स्वस्थानभूतं विपक्षमतिक्रम्य सर्वेषु सपक्षेष्वपि वर्तनाद् गन्धवत्त्वस्यापि व्यभिचारित्वम- स्तीति । सत्यं किन्त्वन्वयस्यैव स्वस्थानादतिलचनम् । व्यभिचारतया ख्यातं क्लिष्टस्त्वदुदितः क्रमः॥ ६६: ।। तेन साधारणस्यैव व्यभिचारित्वमीरितम् । हेत्वाभासान्तरत्वेन चासाधारण ईरितः ॥ ६७३ ॥ १. 'था नित्यः' ब. पाठः, ९. 'त्वमानि' ख. पाठः मानमेयोदये यदा त्वदुक्तमार्गेण तस्यापि व्यभिचारतः। अनैकान्तिकतैवास्तु नास्माकं काचन क्षतिः ॥ ६८३ ॥ तस्मात् त्रेधा चतुर्धा वा हेत्वाभासा व्यवस्थिताः। पञ्चधा तार्किकाः प्राहुः षोढान्ये तदसङ्गतम् ॥ ६९३ ॥ असिद्धविरुद्धानकान्तिकप्रकरणसमकालात्ययापदिष्टभेदे- न पञ्चधेति तार्किकाः । अप्रयोजकः षष्ठ इति केचित् । अन- ध्यवसित एव षष्ठ इति भासर्वज्ञः । तत्र प्रतिहेतुमान् हेतुः प्रकरणसमः सत्प्रतिपक्ष इति चोच्यते । यथा अप्रत्यक्षो वायुः अरूपवत्त्वाद् मनोवत् , प्रत्यक्षो वायुः स्पर्शवत्त्वाद्, घटवदिति । सोऽयमुक्तेष्वेवान्तर्भावयितव्यः । तथाहि-तुल्य- बलं विरुद्धहेतुद्वयं तावन्न सम्भवति । तथासति वस्तुनोऽनुमा- नद्वयबलप्रापितविरुद्धरूपद्वयंप्रसङ्गात् । प्रबलदुर्बलयोर्विरोधे दु. बलस्य प्रबलापहृतविषयत्वेन बाधितविशेषणत्वाभिधं पक्षदूषण- मेवेदं, किं हेत्वाभासान्तरकथया । ननु हेत्वोर्विशेषानवगमवेला- यामाभिमानिकतुल्यबलत्वसम्भवात् तादात्विकं प्रकरणसमत्वम् । मैवम् । तदापि बाधितविशेषणत्वस्य सन्देहावस्थैव भवतु, न तु जायन्तरमन्वेषणीयम् । अन्यथा सन्दिग्धासिद्धादीनामप्यन्य- त्वं स्यादिति । अथवा संशयहेतुरनैकान्तिक इत्यनैकान्तिकस्य लक्षणमाश्रीयते। साधारणधर्मादसाधारणधर्माद विप्रतिपत्तेश्च सं- १. 'यमा' क. पाठः २. 'तस्य वि' ख. पाठः. ३. 'यस्य प्र' ख. पाठः ४. 'धे तु दु' ख. पाठः ५. 'स्वाद् बा' ख. पाठः. ६. 'मस्ति'। का पाठः, प्रमाणपरिच्छेदे अनुमानपरीक्षा । शयो भवति । यथा साधारणाद् ऊर्ध्वत्वात् स्थाणुर्वा पुरुषो वेति, असाधारणाच गन्धवत्त्वात् पृथिवी नित्यानित्या वेति, वादिविप्रतिपत्तेश्च शब्दो नित्योऽनित्यो वेति । तत्र विप्रतिपत्ति- हेतुकः संशयः प्रतिसाधनप्रयोगे प्राप्त इत्यनैकान्तिकेष्वेव प्र- करणसमोऽन्तर्भावयितव्यः । तस्य चास्य सप्रतिसाधनस्यैकेनैव हेतुना प्रतिकूलसाधने विरुद्धाव्यभिचारी नामावान्तरजातिः। यथा- क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदित्यत्र 'क्षि- त्यादिकमीश्वरकर्तृकं न भवति कार्यत्वाद् घटवदिति । अत्र हि कार्यत्वं घटादिषु सकर्तृकत्वेनेवेश्वरकर्तृकत्वाभावेनाप्यव्यभि- चरितम् । ईश्वरकर्तृकत्वाभावश्च सकर्तृकत्वमुखेनेश्वरं साधयतां तेषां विरुद्ध एवेति विरुद्धाव्यभिचारित्वं कार्यत्वस्य । एवं परोदितैरेव पक्षहेतुनिदर्शनैः। विरुद्धसाधनेऽस्माकं विरुद्धाव्यभिचारिता॥ ७० ॥ सर्वसत्प्रतिपक्षाणां विरुद्धाव्यभिचारिताम् । कदाचिदूचुराचार्या न त्वमुष्यैव केवलम् ॥ ७११ ॥ चिदानन्देन तु व्यक्तमयमेव तथोच्यते । यथातथास्तु नामैतन्नाभासान्तरमत्र नः ॥७२१ ॥ तत् सिद्धं बाधितविशेषणेऽनैकान्तिके वान्तर्भूतं सप्र- तिसाधनत्वं नाम दूषणम् । भासर्वज्ञस्तु स्वपक्षपरपक्षसिद्धा- वपि त्रिरूपो हेतुः प्रकरणसम इत्युक्ता तत्र दुर्लभलब्धमेकमु- १. 'नाव्य' क. पाठः मानमेयोदये दाहरणं दर्शयति । यथा शब्दोऽनित्यः पक्षसपक्षयोरन्यतर- वात् सपक्षवदिति । अत्र हि 'शब्दो नित्यः पक्षसपक्षयोर- न्यतरत्वादि'त्यपि वक्तुं शक्यमिति । तदिदमयुक्तम् । इह खलु पक्षसपक्षयोरन्यतरत्वादित्यस्यानित्यत्वे साध्ये शब्दघटयोर- न्यतरत्वादित्यर्थः। नित्यत्वे तु शब्दाकाशयोरन्यतरत्वादित्यर्थः । अतः कथमेक एव हेतुः पक्षद्वयेऽपि समान इत्युच्यते । शब्दसादृश्यमेवात्र विद्यतेऽर्थस्तु भिद्यते । तस्माद विरुद्धधर्माभ्यां व्याप्ति कस्य सम्भवेत् ॥७३॥ कथं तर्हि भवान् ब्रूते विरुद्धाव्यभिचारिणम् । सत्यं न साध्यते तत्र साक्षात् साध्यविपर्ययः॥७४३ ॥ सकर्तृकत्वं वदतामिष्टा हीश्वरकर्तृता । सैवात्र वार्यतेऽस्माभिसेनार्थात् प्रतिकूलता ॥ ७५३ ॥ भवांस्त्वनित्यनित्यत्वे साक्षादेव विरोधिनी एकेन साधयन्नद्य हास्यतामेव यास्यति ॥७६३ ॥ इति । यस्तु बाधितविषयापरपर्यायः कालात्ययापदिष्टो नाम हेत्वाभास उक्तः 'अग्निरनुष्णः अद्रव्यत्वादि'त्यादिः, सोऽपि बाधितविशेषणो नाम पक्षाभास एव । ननु नो पक्षदोषानेवानुमन्यामहे वयम् । पक्षदृष्टान्तदोषाणां हेत्वाभासेषु योजनात् ॥ ७७१ ॥ तत्र सिद्धविशेषणे तावत्- १. 'कृतकत्वा' क. पाठः.
प्रमाणपरिच्छेदे अनुमानपरीक्षा ।
पक्षः खल्वाश्रयो हेतोन च निश्चितधर्मवान् ।
पक्षत्वं भजते तस्मादाश्रयासिद्धिरेव सा ॥७८॥
तथैव यदि दोषः स्यादप्रसिद्धविशेषणः ।
तदापि पक्षतानाशादाश्रयासिद्धिरुच्यताम् ॥७९३ ॥
किञ्च,
किं पक्षदोषैः कथितैरिदानी
दृष्टान्तदोषा अपि वक्ष्यमाणाः ।
अन्तर्गता एव हि हेतुदोषे
न हेतुदोषादपरोऽस्ति दोषः ॥ ८० ॥
तदेवं सर्वदोषेषु हेत्वाभासप्रवेशिषु ।
निःसहायः कथं तिष्ठेत् स बाधितविशेषणः ॥८१३॥
तस्मादितरदोषवद् बाधितविशेषणोऽपि हेत्वाभासतयैव
वक्तव्य इति । अत्र ब्रूमः।
आभाससङ्करे तावत् पुरः स्फुरितदूषणम् ।
उद्भाव्यमिति सर्वेषां निर्विवादं हि वादिनाम् ॥ ८२३ ॥
ततश्च पक्षवचने दोषः कोऽपि चकास्ति चेत् ।
पक्षस्यैव स वक्तव्यः किं न्यायं नानुमन्यते ॥८॥
पक्षदुष्टत्वमाश्रित्यैवोक्ता सिद्धविशेषणे।
वयापि ह्याश्रयासिद्धिः किं पुरो भावि तत्र ते ॥८४३॥
एवं साध्यस्याप्रसिद्धिस्तथा बाधितसाध्यता।
पक्षोक्तावेव निर्भातीत्युचिता पक्षदोषता ॥ ८५३ ॥
मानमेयोदये इत्थं दृष्टान्तदोषाश्च वक्ष्यमाणाः समर्थिताः । यो यत्र स्फुरितो दोषः स तस्यैवेति निर्णयात् ॥८६॥ नावदत् पक्षदोषादीनक्षगदमुनिः पुरा । तद्भक्तिमोहिता मा मा न्यायं त्यजत तार्किकाः ॥८७॥ इति । तस्माद् बाधितविशेषणः पक्षाभास एवेति न पञ्चमो हेत्वाभासोऽङ्गीकार्य इति । ये पुनरनुकूलतर्काभावे हेतोः प्रयो- जकत्वं नास्तीत्यप्रयोजकं नाम हेत्वाभासान्तरमातिष्ठन्ते, तेऽपि व्याप्यत्वासिद्धमेव तथा मन्यन्ते । सर्वेष्वप्यनुमानेष्वनुकूलतकै- य॑भिचारशङ्कामणस्य निरुपाधिकत्वं स्थापनीयम् । ततस्तद- भावे निरुपाधिकसम्बन्धानिश्चयाद् व्याप्त्यसिद्धिरेव । सोऽयं व्याप्त्यसिद्धो हेतुरुपाधिमानित्यन्यथासिद्ध इत्यप्रयोजक इति परप्रयुक्तव्याप्युपजीवीति सन्दिग्धव्याप्तिक इति च व्यपदि- श्यते, न त्वाभासान्तरमिति । यत्तु भासर्वज्ञेनोक्तं साधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः। यथा-नित्या भूर्गन्धवत्त्वादिति, सर्व क्षणिकं सत्त्वादित्यादि च । तत्रादिमः प्रकारोऽसाधारण एव । 'सर्व क्षणिकं सत्त्वादि'त्यत्र तु सर्वस्य पक्षीकृतत्वात् सपक्षभूतं विपक्षभूतं वा किश्चिन्नास्तीत्यन्वयव्याप्ति- य॑तिरेकव्याप्तिर्वा न वक्तुं शक्येति व्याप्त्यसिद्धिरेवेयं, न वा- भासान्तरमित्यास्तामेतत् । तस्मादस्मदुक्तैव हेलाभासव्यवस्थेति । अथ दृष्टान्ताभासाः। साध्यसाधनयोाप्तिप्रतिपत्तिस्थलं हि यत् । तदुदाहरणं नाम दृष्टान्त इति चोच्यते ॥ ८८ ॥ - साध्या- यथा प्रमाणपरिच्छेदे अनुमानपरीक्षा । ३९ तद् द्विविधं साधर्म्यवैधर्म्यभेदात् । तत्र साधनस्य सा- ध्येनान्वयोपदर्शनं साधर्म्यम् । यथा -यो धूमवान् सोऽग्नि- मान् यथा महानस इति । साध्याभावस्य साधनाभावेनान्व- योपदर्शनं वैधर्म्यम् । यथा - योऽग्निमान् न भवति नासौ धूमवान् यथा पाथ इति । साध्यहीनः साधनहीनः उभय- हीनः आश्रयहीन इति साधर्योदाहरणाभासाश्चत्वारः। तद् नित्यो ध्वनिः अकारणत्वाद् यदकारणं तन्नित्यमि- त्यत्र प्रागभाववदिति साध्यहीनः, प्रध्वंसवदिति साधनहीनः, घटवदित्युभयहीनः, नरशृङ्गवदित्याश्रयहीनः । नित्यत्वमत्रा- विनाशित्वमेव विवक्षितं, न कोटिद्वयराहित्यम् । वैधयॊदा- हरणाभासा अपि साध्याव्यावृत्तादयश्चत्वारः। यथा यन्नित्यं न भवति न तदकारणमित्यत्र यथा प्रध्वंस इति साध्याव्या- वृत्तः, यथा प्रागभाव इति साधनाव्यावृत्तः, यथा गगनमित्यु- भयाव्यावृत्तः, यथा नग्शृङ्गमित्याश्रयहीनः । अत्र चोभयविधो- दाहरणेऽपि अव्याप्त्यभिधानं विपरीतव्याप्त्यभिधानमिति च द्वौ दोषौ । तत्र 'अग्निमान् पर्वतः धूमवत्त्वाद् यथा महानस' इत्ये. तावदुक्तेऽव्याप्त्यभिधानं, 'यो धूमवान् सोऽनिमानि ति व्या- तेरनुक्तत्वात् । तथैव 'योऽग्निमान् न भवति, नासौ धूमवानि'- ति व्याप्तिमनुक्कैव 'यथा महाद' इत्येतावत्युक्तेऽप्यव्याप्त्यभि- धानम् । यदा तु 'यो धूमवान् सोऽग्निमानि ति वक्तव्ये 'योऽग्नि- मान् स धूमवानि'त्युच्यते, तदा विपरीतव्याप्त्यभिधानम् । तथैव * उत्पत्तिशून्यत्वे सति नाशाप्रतियोगिस्वरूपमन्त्र कोटिद्वयम् ।
मानमयोदये योऽमिमान् न भवति, नासौ धूमवानिति वक्तव्ये यो धूमवान् न भवति, नासावग्निमानिति प्रयोगेऽपि द्रष्टव्यमिति । अनुमानप्रपञ्चोऽयं बहुभिर्बहुधोदितः। चिदानन्दोक्तरीत्या तु मयैवमिह दर्शितः ॥ ८९ ॥ इति मानमेयोदये प्रमाणपरिच्छेदेऽनुमानपरीक्षा । - अथ शब्दपरीक्षा । अनुमानतः परस्तादुपमानं वर्णयन्ति तर्कविदः। वादिपरिग्रहभूम्ना वयं तु शाब्दं पुरस्कुर्मः ॥ ९० ॥ तत्र तावत् पदैर्ज्ञातैः पदार्थस्मरणे कृते । असन्निकृष्टवाक्यार्थज्ञानं शाब्दमितीर्यते ॥ ९११ ॥ तदिदं शाब्दज्ञानं व्युत्पत्त्यधीनमिति तत्प्रकारमा- दो प्रदर्शयामः । बालो हि 'गामानय', 'पुत्रस्ते जात' इत्या- दिवाक्यानन्तरं प्रवृत्तिं हर्षादिकं वा कस्यचिदुपलभ्य तयोर्बु- चिपूर्वकत्वाद् गवानयनपुत्रजननाद्यर्थबुद्ध्यनन्तरमेवास्य प्रवृत्ति- हर्षादिकं जातमिति बुध्यमानस्तादृशार्थबुद्धेश्च शब्दानन्तरमेव जातत्वाद् गामानयेत्यादिशब्दस्य गवानयनाद्यर्थबोधकत्वमव- धुंध्यते। तदा च पिण्डित एव शब्दः पिण्डितस्यैवार्थस्य बोधकत- यो ज्ञातः । ततश्च 'गां बधान, अश्वमानये'त्यादिप्रयोगान्तरेषु , १. मा शान्द राय धुक. पाठः प्रमाणपरिच्छेदे शाब्दपरक्षिा । पदान्तरयोगत्यागरूपावापोहापौ दृष्ट्वा गोशब्दः सास्नादिमतो वाचकः, आनय(न?)शब्द आनयनक्रियावाचक इत्यादिपदार्थ- विवेकमवधारयति । तच्च पदैः पदार्थबोधनं शब्दशक्तिजन्यत्वा- दभिधानमेवेति पार्थसारथिप्रभृतयः । शब्दोऽपि संस्कारोबो- धनद्वारेणैव पदार्थ बोधयतीति स्मरणमेव पदार्थज्ञानमिति चिदा- नन्दादयः । तथाच पदानां प्रत्येकमर्थेषु नियमितानामप्या- दितः प्रभृति परिदृष्टमेकविशिष्टार्थज्ञानतात्पर्य तावदवतिष्ठते । एवं पदार्थज्ञाने स्थिते यत् पुनस्तदनन्तरमेकविशिष्टार्थज्ञानरूपं वाक्यार्थज्ञानं जायते, तत् पदैरेव वा पदार्थस्मृतिभिर्वा जन्यत इति चिन्तायां पदानां पदार्थबोधोपक्षीणत्वाद् व्यवहितत्वाच्च पदार्था एव स्वसंसर्गरूपं वाक्यार्थ बोधयन्तीत्ययं तावत् तार्कि- कादिसाधारणः पक्षः । वयं तु पदार्था लक्षणयैव वाक्यार्थ बो- धयन्तीति ब्रूमः । वाच्यार्थानुपपत्त्या हि लक्षणा भवति । अत्र च पदैः स्मार्यमाणा गवादिपदार्था यद्यन्योन्यान्वयं विना सा- मान्यरूपा एवावतिष्ठेरन्, तर्हि पदानां व्युत्पत्तिसमयावधृतमेक- विशिष्टार्थबोधतात्पर्य विरुध्येतेति सामान्यरूपस्य वाच्यस्या- नुपपत्तेरन्योन्यान्वयरूपे विशेष एव पदार्थाः पर्यवस्यन्ति । तत- श्व गौरियमानीयमानैव, आनयनं च गोसम्बद्धमेति परस्परा- न्वयलाभाद् गवानयनरूपवाक्यासिद्धिः । तेनात्र पदावगताः पुनः पदार्था मिथोऽन्वयं यान्ति । इत्येवमभिहितान्वयसिद्धान्तो दर्शितोऽस्मदादीनाम्॥ १. 'तार्कि' ख. पाठः. २. 'धकता' क. पाठः. ३. 'ध्यत इ' क. पाठ , १२ मानमेयोदये सकलपदान्तरपूर्तावितरपदार्थैः समन्वितं स्वार्थम्। सर्वपदानि वदन्तीत्यन्येषामन्विताभिधानमतम् ॥९३३॥ गामानयेति प्रथमश्रवणे हि गवानयनरूपस्यान्वितस्या- र्थस्य शब्द एव बोधकतया ज्ञातः । अतस्तदनुसारेण पुनरपि पदानामेवान्वितार्थबोधकत्वं वाच्यं, न तु पदार्थानाम् । आवा- पोहापाभ्यां हि पदार्थेषु विविच्यमानेष्वपि तत्र तत्र तैस्तैरन्विता एव पदार्था दृष्टाः, न त्वेकाकिन इत्यन्विते स्वार्थे पदानां श- क्तिर्न परित्यज्यते । ननु किं केवलपदार्थबोधः पदेभ्यो नास्त्ये- व । अस्तीति ब्रूमः । पदानि तावत् पृथक् पदार्थान् स्मारय- न्त्येव, न तु तावता विरमन्ति । स्मारितमेव तु स्वं स्वमर्थ पुनरितरपदार्थान्वितत्वेनाभिधायैव विरमन्तीति राधान्तः। अतः पदाभिधेय एवान्वितरूपी वाक्यार्थः, न तु पदार्थगम्यः। पदा- थंगम्यत्वे च प्रमाणान्तरप्रतिपन्नानामपि पदार्थानामन्वयः स्या- द्, न चासौ दृश्यत इति । तदिदं गुरुमतं गौरवादेव हेयम् । अस्मन्मते हि पदार्थानां स्मृतिसिद्धत्वाद् वाक्यार्थस्यापि लक्ष- णासिद्धत्वाच्छक्त्यन्तरकल्पनैव नास्तीति पदेषु शक्तिकल्पनाप्र- स्ताव एव भवतां गौरवमायातम् । किञ्च पदशक्तितः पदार्थ- शक्तिरेव लघीयसी । तदा खलु गमनरूपस्यैकस्यैवार्थस्यान्वय- बोधकत्वे कल्पिते गमनपर्यायाणामन्येषामप्यन्वयः सिध्यति । पदशक्तौ तु गमनार्थानामनन्तानों पदानां शक्तिः कल्पनीयेति , १. घे शक्तिर्न पदानां परि' ख. पाठः, नामपि शक. पाठ, २. 'णां सर्वेषां' ख. पाठः.
प्रमाणपरिच्छेदे शाब्दपरीक्षा । १३ महागौरवम् । एकवाक्ये च सर्वपदैः प्रत्येकमितरान्वितस्वार्थे बो- ध्यमाने पदे पदे वाक्यार्थप्रत्ययोऽपि बलादापन्न इति कष्टतरमेत- दिति । यत्तु पदार्थानामन्वयबोधकत्वे प्रमाणान्तरप्रातिपन्नानाम- प्यन्वयः स्यादित्युक्तं, तत्र ब्रूमः । भवतामपि गां बधानेत्यु- ते विगलितरशनो बन्धनापेक्षोऽपि दृश्यमानस्तुरगो बन्धनेन कथं नान्वयं भजते । तत्र खल्वश्वस्य शब्दप्रतिपन्नत्वाभावादन- न्वय इति बलाद् वक्तव्यम् । तथाच तद्वदेव प्रमाणान्तरप्रति- पन्नानामपि शब्दप्रतिपन्नत्वाभावादेवानन्वयः सिद्ध इति तत्रापि नास्माकं किञ्चिदधिकं कल्पनीयम् । तस्मादस्मदुक्त एवान्वयप्र- कारो लघीयानिति । अत्राकाङ्क्षा च योग्यत्वं सन्निधिश्चेति तत् त्रयम् । वाक्यार्थावगमैः सर्वैः कारणत्वेन कल्प्यते ॥ ९४३ ॥ गौरश्वः पुरुषो हस्तीत्याकाङ्क्षारहितेष्विह । अन्वयादर्शनात् तावदाकाङ्क्षा परिगृह्यते ॥ ९५ ॥ अग्निना सिञ्चतीत्यादावयोग्यानामनन्वयात् । योग्यतापि परिग्राह्या सन्निधिस्त्वथ कथ्यते ॥ ९६३ ॥ शब्दैः सन्निहितत्वेन बोधितत्वं हि पदार्थानां सन्निधि- रित्युच्यते। अतः सन्निहितत्वाभावाच्छब्दबोधितत्वाभावाच्च द्वेधा सन्निध्यभावो भवति । तत्र भिन्नकालोच्चारितयोर्गामानयति पद- योः सन्निहितत्वाभावादनन्वयः। गां बधानेत्यत्र बन्धनापेक्षस्य दृश्यमानस्याश्वस्य शब्दबोधितत्वाभावादेवानन्वयः । अतः श- ब्दप्रतिपन्नानामेवान्वय इति नियमः सिद्धः । गुरुस्तु बुद्धिस- मानमयोदये १ निधिमात्रमेव सन्निधि मन्यते, न तु शाब्दसन्निधिम् । सोऽपि गां बधानेत्यत्राश्वस्यान्वयं वारयितुमशक्नुवन् शाब्दानामेवान्वय इत्यकामेनाप्यनुमंस्यत इति प्रागुक्तम् । ननु तत्र वाक्यस्याश्वं प्रति तात्पर्याभावादेव तस्यानन्वयोऽस्तु, न शाब्दत्वाभावात् । मैवम् । तथा सत्यग्निना सिञ्चेदित्यादावपि तात्पर्याभावादेवान- न्वय इति योग्यत्वादीनामप्यपरिग्रहप्रसङ्गात् । तस्मादन्वयसिद्धौ तात्पर्य न स्वयं क्वचिद्धेतुः । सामग्रयन्तरभावे नियमार्थं त्वर्थ्यते पुनस्तदपि ॥९७३॥ इति स्थितिः। एवं गत्यन्तराभावाद् गुरुणापि समाश्रितः । शाब्दानामेव संसर्ग इत्ययं नियमोऽधुना ॥ ९८ ॥ तेन द्वेधोपकारो नस्तत्रैकः पूर्वमीरितः । मानान्तरावबुद्धानां नान्वयः स्यादितीदृशः ॥ ९९३ ॥ अन्योऽपि द्वारमित्यादावध्याहारे भविष्यति । शाब्दस्यैवान्वयाहत्वाद् द्वारमावियतामिति ॥ १० ॥ शब्दाध्याहार एव स्यादित्येवं मादृशां मतम् । गुरुस्त्यावरणार्थस्य तत्राध्याहारमिच्छति ॥ १०१३ ॥ बुद्धिसन्निधिमात्रेणाप्यन्वेतीति दुराशया। तत्र यद्यवलिप्तोऽयं गुरुर्नाद्यैव शिक्ष्यते ॥ १०२३ ॥ अर्थाध्याहृतिरेति तर्हि गर्जिष्यति ध्रुवम् ॥ १०३ ॥ ॥ १. 'तिः इति ।' ख. पाठः.
प्रमाणपरिच्छेदे शाब्दपरीक्षा । इत्यास्तामेतत् । उक्तस्तावद् वाक्यार्थज्ञानप्रकारः। असन्निकृष्ट- वाक्यार्थज्ञानं च शाब्दमित्युक्तम् । इदमेवागम इति चोच्यते । असन्निकृष्टपदेन चानुवादानां बाधितार्थानां च वाक्यानामप्रा- माण्यमुक्तम् । तच्च शाब्दं द्विविधं पौरुषेयमपौरुषेयं च । तत्राप्त- वचः पौरुषेयं, वेदवचोऽपौरुषेयम् । गुरुस्त्वाह-वैदिकमेव शाब्द- मस्ति । पुरुषवचनानि तु वक्रभिप्रायानुमापकान्येव, न स्वय- मेव वाक्याथै बोधयन्ति, शङ्काकुण्ठितशक्तित्वात् । व्युत्पत्तिस- मयसिहापि शब्दानां बोधकत्वशक्तिर्व्यभिचारबहुलेषु पौरुषेय- वचनेषु तदाशङ्काशङ्कया कुण्ठिता भवति । तत्र चानेन वक्रा- मुमर्थमवबुध्यैव वाक्यं प्रयुक्तमिति यावन्नानुमीयते, तावद- न्यथात्वशङ्का न निवर्तत इति वाक्यमुदास्त एव । तथा तात्प- र्यमपि नरगिरां तहुयधीनमिति वक्तबुधनुमानं विना तात्पर्या- निश्चयादपि वाक्यमुदास्ते । तस्माद् वक्तृधीस्तावदनुमातव्या । तत्र नद्यास्तीरे फलानि सन्तीति वाक्ये श्रुते पदार्थेषु च पृथक् पृथक् स्मृतेष्वनुमिनोति 'एतानि पदान्येतेषां पदार्थानां संसर्ग- मवबुध्यैव प्रयुक्तानि आप्तप्रणीतपदत्वाद् गामानयेति पदवदि- ति । एवञ्च वक्तुः पदार्थसंसर्गज्ञानमवगन्तुं परिश्रान्तः श्रोता पदार्थसंसर्गरूपं वाक्यार्थमपि बलाल्लभत इत्यनुमेय एव नरवच- स्सु वाक्यार्थः। एवं व्यभिचारभये गलिते वाक्यार्थनिर्णये जाते। पुनरभिधत्ते शब्दोऽप्यनुवादतयेति तस्य राधान्तः॥१०४॥ ३. 'तत्वा' क. १. 'न शा' क. पाठः. २. 'क् स्मृ' ख. पाठः पाठः. १. 'तात्पर्यान' ख. पाठः.
मानमेयोदये तदिदमयुक्तम् । व्यभिचारविशङ्कामप्यनादृत्येन्द्रियादिवत् । स्वमर्थमभिधातुं किं समर्था न पदावली ॥१०५॥ तात्पर्यमपि सुज्ञानं स्वतो ज्ञानानुमां विना । यथा वेदे यथा चान्येष्वनालोचितकर्तृषु ॥ १०६ ॥ वक्तज्ञानानुमानान्तं यदि च प्रतिपाल्यते। तर्हि तस्याप्यशक्यत्वाद् भग्नाशः किं करिष्यसि ॥१०७॥ आप्तप्रणीतत्वं खल्वत्र हेतुत्वेनोक्तम् । आप्तत्वं च भ्रा- त्याद्यभावोऽभिमतः । भ्रान्तिश्चास्य पुरुषस्य नास्त्येवेति कचि- दपि न निरूपयितुं शक्यते । 'ऋषीणामपि भ्रान्तिराशङ्कयते, किमङ्ग! पुनरर्वाचीनानामित्युक्तत्वात् । एवमस्मिन् देशे काले वास्य नान्तिर्नास्तीत्यपि दुर्निरूपमेव । तस्मादन्ततोऽस्मिन् वा- क्यार्थेऽस्य भ्रमो नास्तीति वाक्यार्थज्ञानपुरस्सरमेव भ्रान्तिनि- वारणीया । अतो वाक्यार्थावगमात् पूर्वमाप्तत्वमसिद्धमेवेति कथं तेनानुमीयत इति हतं गुरुमतम् । एवं लौकिकशब्दानामनुमानत्ववारणात् । सर्वशाब्दानुमानत्ववादिनोऽपि हि खेदिताः ॥१०८ ॥ द्विप्रमाणा हि काणादादयो गुरूक्तप्रकारेणैव सर्ववाक्या- नामनुमेयत्वमाहुः । तेऽप्यनेनैव निरसनीयाः । तैरपि निर्दो- षवाक्यत्वादिहेतुभिरेव वाक्यार्थोऽनुमातव्यः । निर्दोषत्वं च १. 'स्वार्थ बोधयितु कस्मादसमर्था पदावली' क. पाठः,
प्रमाणपरिच्छेदे उपमानपरीक्षा ।
भ्रान्त्यादिराहित्यम् । तच्च वाक्यार्थनिरूपणपुरस्सरमेव निरूप-
णीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिद्धिरेवेत्यास्तां तावत् ।
तदेवं लौकिकं वैदिकमपि शाब्दं सिद्धम् । तत्र-
दुष्टवक्तृप्रणीतत्वदोषः शब्दे यदा भवेत् ।
तदा स्याद् व्यभिचारोऽपि पौरुषेयगिरां क्वचित् ॥१०९॥
अपौरुषेये वेदे तु पुरुषस्पर्शसङ्गतः ।
कलङ्को न विशङ्कयत तत् कुतो व्यभिचारिता ॥११॥
वैदिकं च विधिमन्त्रार्थवादभेदेनोपदेशातिदेशभेदेन च
बहुविधमित्यादि तु परिमितकथया न बोधयितुं शक्यत इत्यु-
परम्यते ।
इति मानमेयोदये
प्रमाणपरिच्छेदे शाब्दपरीक्षा।
अथोपमानपरीक्षा।
दृश्यमानार्थसादृश्यात् स्मर्यमाणार्थगोचरम्।
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता ॥ १११ ॥
यथा गवये गोसादृश्यदर्शनानन्तरं स्मर्यमाणे गवि
गषयसादृश्यज्ञानम् । तथाहि-
नगरे खलु पूर्व गां पश्यतोऽपि न भासते ।
तत्स्थं गवयसादृश्यं गवयस्यानिरीक्षणात् ॥ ११२ ॥
मानमयोदये कदाचित् तु वनं प्राप्य गवयं वक्षिते यदा। तदा तद्गतगोसाम्यं प्रत्यक्षेणैव गृह्यताम् ॥ ११३॥ यत् पुनस्तावदेवास्य भाति दूरस्थिते गवि । गवयेनापि सादृश्यं तत्र किं नाम कारणम् ॥ ११४ ॥ न हि पूर्वगृहीतं तद् येन स्मर्येत साम्प्रतम् । दूरस्थितत्वाच्चेदानीं प्रत्यक्षेण न गृह्यते ॥ ११५ ॥ स्पष्टं च भासते तस्मात् प्रमाणान्तरमर्थ्यते । तत्रोपमानमाचख्युः शाबराः शाङ्करा अपि ॥ ११६॥ तत्र च- गवयस्थितसादृश्यदर्शनं करणं भवेत् । फलं गोगतसादृश्यज्ञानमित्यवगम्यताम् ॥ ११७॥ तार्किकास्तु उपमानमन्यादृशमन्वेषयन्तो गोगतसाह- श्यज्ञानमनुमानीकुर्वन्ति । यथा यो यद्गतसादृश्यप्रतियोगी स तेनापि सदृशः, यथा करतलं करतलान्तरेण । गवयगतसा- दृश्यप्रतियोगी च गौः । तस्माद् गवयेनापि सदृश इति । त- दयुक्तम् । इह हि यो यद्गतसादृश्यप्रतियोगी, स तेनापि सह- श इति सामान्यव्याप्तिमात्रेणानुमीयमाने यःकश्चिदग्निरस्तीति- वदनियतविशेष यत्किञ्चित् सादृश्यमस्तीत्येतावदेव भासते, न तु नियतमेव गोर्गवयसादृश्यं प्रत्यक्षवदेव विस्पष्टं परिच्छि- द्येत । तस्मानियतपरिच्छेददर्शनान्न सामान्यतोदृष्टानुमानमि- १. 'सामान्यम' ख. पाठः.
प्रमाणपरिच्छेदे उपमानपरीक्षा । १ दम् । अतोऽनुमानाभावान्मानान्तरमेव । ननु तदानीमेव गोर्ग- वयसाधर्म्यवत् पुरुषादेर्गवयवैधय॑मपि स्पष्टं प्रतिभासते । त- त्रापि किं प्रमाणान्तरमाश्रीयते । नेति ब्रूमः । तत्र खलु पुरु- षस्य गवयगतधर्माभावरूपं वैधर्म्यमभावप्रमाणे वावगम्यत इति किं प्रमाणान्तरेणेति । तार्किकैस्तूपमानमन्यदुन्नीतम् । कश्चित् खलु नगरागतं वनचरं प्रति गवयो नाम क इति पृष्ट्वा गोसदृशो गवय इति श्रुतातिदेशवाक्यः पुनर्वनमुपेत्य मृगविशेष पश्यन् अयमेव स गोसदृश इति प्रत्यभिजानाति । ततश्वायमेव गवय इति संज्ञासंज्ञिसङ्गतिमपि जानाति । तदिदं सङ्गतिग्रहणमुप- मितिः । तत्करणं वाक्यार्थप्रत्यभिज्ञानमुपमानमिति । न चेदं सङ्गतिग्रहणं प्रमाणान्तरसाध्यम् । पूर्व वाक्यश्रवणसमये हि संज्ञिनो गवयस्यादृष्टत्वात् तत्र सम्बन्धग्रहो न शक्यते कर्तुम् । दृश्यमाने तु गवये वाक्यमतिवृत्तमेवेति न वाक्यस्य तद्बोधने प्रागल्भ्यम् । ननु गोसदृशे पिण्डे गवयशब्दः प्रयुज्यत इति तावद् वाक्यादवगतम् । तेन दृश्यमानेन गवयेऽनुमीयतां 'ग- वयशब्दोऽस्य वाचकः लक्षणादीन् विनात्र प्रयुज्यमानत्वाद् यथा गोर्गोशब्द' इति । तदप्ययुक्तम् । तत्र प्रयुज्यमानत्वमा- त्रमेव हि वाक्यादवगतम् । लक्षणाद्यभावस्तु वाचकत्वसिद्धेः पूर्व दुर्विज्ञान एवेति विशेषणासिद्धोऽयं हेतुः । तस्मादुपमान- साध्यमेवेदं सम्बन्धज्ञानम् । १. 'ति स्थितिः । न ख. पाठः, मानमेयोदये बुड्दा एतत्साधर्म्यवाक्यार्थादुपमानं समीरितम् ॥ ११८ ॥ एवमेव हि वैधाद धर्ममात्राच्च सम्भवेत् । यथा तुरङ्ग इत्येष द्विशफो न गवादिवत् ॥ ११९ ॥ इति वैधर्म्यवाक्यार्थं देशान्तरं गतः। पशुमेकशफं दृष्ट्वा तुरङ्ग इति बुध्यते ॥ १२०॥ तथैव धर्ममात्रे च श्रुते सम्बन्धधीः क्वचित् । दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः ॥ १२१ ॥ इति श्रुत्वा ततोऽन्यत्र विजानन्ति क्रमेलकम् । एवं साधर्म्यवैधर्म्यधर्ममात्रविभेदतः ॥ १२२ ॥ त्रेधातिदेशवाक्यार्थस्तस्मादुपमितिस्त्रिधा ॥ १२२५ ॥ इति । तदिदं दुर्मतं हेयं यतः सम्बन्धधीरियम्। प्रत्यक्षानुगृहीतेन शाब्देनैवोपजन्यते ॥ १२३१ ॥ को गवय इति गवयशब्देवाच्यार्थ पृष्टवता हि पुरुषेण गोसदृशो गवय इत्युत्तरवाक्यस्यापि वाच्यार्थप्रदर्शन एव ता- त्पर्यमित्यवधार्यते । तेनाप्रदर्य वाच्यार्थं न शब्दः पर्यवस्यति । पूर्वं च गवयज्ञानान्न शक्यं तत्प्रदर्शनम् ॥ १२४३ ॥ ततश्चानवगततात्पर्यमपर्यवसितमेव वाक्यं पुनर्गवये प्र- १. 'दस्य वा' ख. पाठ प्रमाणपरिच्छेदे उपमानपरक्षिा । ११ त्यक्षीक्रियमाणे स्मृतिगतं प्रत्यक्षोपदर्शितवाच्यार्थतया प्रतिलब्ध- तात्पर्य तदानीमेव संज्ञासंज्ञिसम्बन्धस्यावबोधकं भवति । यथा खलु नवकम्बलो वणिगिति भणितिनिशमनमनु विपणिमुपगतो वणिजि नवसु कम्बलेषु दृश्यमानेषु सङ्ख्याविशेषतात्पर्यमवधार्य वाक्यार्थ बुध्यते, तथात्रापि द्रष्टव्यम् । तस्मात् प्रत्यक्षानुगृहीत- शाब्दसाध्यमेव सङ्गतिग्रहणमिति न प्रमाणान्तरमन्वेषणीयम् । किञ्च उपमानपदं लोके सादृश्ये सति विश्रुतम् । वैधम्र्ये धर्ममात्रे च तत्प्रयोगः कथं हि वः ॥ १२५६ ॥ तथातिदेशशब्दोऽपि वाक्ये साधर्म्यबोधके । प्रसिद्धः सोऽपि चान्यत्र कथ्यमानो दुनोति माम् ॥१२६३॥ इति । तस्मादनितरशरणं गोगतसादृश्यबोधमेव वयम् । उपमानं गृह्णीमो मानत्रयवादिनोऽपि तेन जिताः॥१२७॥ अत्र सादृश्यविषये गुरुणा कलहोऽस्ति नः। पदार्थान्तरमेवेदं सादृश्यं मन्यते गुरुः ॥ १२८६ ॥ वयं गुणादिसामान्यसमाहारं वदामहे । पदार्थावसरे किञ्चित् तत्प्रकारो वदिष्यते ॥ १२९३ ॥ इति मानमेयोदये प्रमाणपरिच्छेदे उपमानपरीक्षा । + 'भासनोपसभाषा- (१. ३. ४७.) इति सूत्रेणात्मनेपदम् ।
५२ मानमेयोदये अथार्थापत्तिपरीक्षा। - अन्यथानुपपत्त्या यदुपपादककल्पनम् । तदर्थापत्तिरित्येव लक्षणं भाष्यभाषितम् ॥ १३०३ ॥ तत्र च प्रमाणद्वयविरोधोऽनुपपत्तिरित्युच्यते । तेनैवं लक्षणं शिक्षणीयं- साधारणप्रमाणानामसाधारणमानतः । विरोधादविरुद्धांशे धीरर्थापत्तिरिष्यते ॥ १३१३ ॥ यथा जीवनमानस्य गृहाभावप्रमाणतः । विरोधात् करणीभूताद् बहिर्भावस्य कल्पनम् ॥ १३२३ ॥ गणितागममूलेनानुमानेन देवदत्तो गृहे बहिर्वा कचि- जीवतीति साधारण्येनावगम्यते । तस्य गृहे नास्तीत्यनेन विरोधे सत्यविरोधाय बहिरस्तीति कल्प्यते । तदिदं प्रमाणयविरोधक- रणकमर्थापत्तिज्ञानमिति । अमुष्यास्त्वनुमानत्वमिच्छन्तस्तार्किका जगुः । न मानयोर्विरोधोऽस्ति प्रसिद्ध चाप्यसौ समः॥ १३३३ ॥ इति । प्रमाणयोस्तावद् विरोधो न सम्भवति । इदं रजतं नेदं रजतमितिवदेकस्याप्रमाणवप्रसङ्गात् । ननु तथाप्युक्तप्रमाणयो- विरोधो दृश्यत इति चेत्, तदप्याशामात्रम् । अत्र हि गृहे बहिर्वेति सन्देहास्पदस्यैव देशविशेषस्य गृहाभावप्रमाणेन बाधो १. 'णम' क. पाठः प्रमाणपरिच्छेदे अर्थापत्तिपरीक्षा । जातः । जीवनप्रमाणेन हि जीवनमात्रं देशसामान्यसम्बन्धो वा विषयीकृतः, न तु तदुभयमपि गृहाभावप्रमाणेन स्पृष्टमाघ्रातं वा । तस्माज्जीवनगृहाभावप्रमाणयोर्विरोधस्यैवाभावात् कथं तेन करणभूतेनापत्तिरित्युच्यते । अपिच, ईदृशस्य विरोधस्य प्रसिद्धानुमितिष्वपि । सम्भवादनुमाजालमपत्तिसिष्यते ॥ १३४३ ॥ यत्र धूमस्तत्राग्निरिति व्याप्तिग्राहकप्रमाणेन हि पर्वते. ऽप्यग्निः प्राप्तः । धूमो वा दृश्यमानः पर्वते स्वकारणमग्निमाक्षिप- तांति व्याप्तिग्राहकप्रमाणेन धूमदर्शनेन वा पर्वते क्वचिदग्निरस्ती- त्यवगतम् । तस्य चोर्ध्वदेशेऽनुपलम्भेन विरोधादधोदेशे वह्निः कल्प्यत इत्यर्थापत्तितापत्तिः । तस्मादियमनुमानपक्षे प्रक्षेप्तव्या। इत्थं चानुमीयते-देवदत्तो बहिरस्ति जीवत्त्वे सति गृहेऽस- त्त्वाद् यो जीवन् यत्र नास्ति स ततोऽन्यत्रास्ति यथाहमिति। अतो वञ्चितमेतत् पश्चमप्रमाणमिति । तदिदं शिक्ष्यतेऽस्माभिर्विरोधोऽस्त्येव मानयोः। न प्रसिद्धानुमाभङ्गो बहिर्भावे च नानुमा ॥ १३५ ॥ तत्र यत् तावदुक्तं प्रमाणयोर्विरोधे सत्येकस्याप्रमाणलं स्यादिति, तद् इदं रजतं नेदं रजतमितिवदुभयोरप्यसाधा- रणप्रमाणयोर्विरोध एव । १ १. 'हाभावात्' क. पाठः.
मानमेयोदये ब्रूमः। साधारणप्रमाणस्य त्वसाधारणमानतः । बाधेऽपि सावकाशत्वादप्रामाण्यं न जायते ॥ १३६३ ॥ तस्मात् प्रमाणद्वयविरोधः सम्भवत्येव । यत् पुनरुक्त- मिहापि सन्दिग्धस्य देशविशेषस्यैव बाधो न जीवनप्रमाणस्येति। अत्र ज्ञायमानेऽनुमानेन देवदत्तस्य जीवने । ज्ञातव्यो देशसम्बन्धोऽप्यस्यावस्थितिसिद्धये ॥ १३७३ ॥ तत्र देशत्वसामान्यमानं सम्बध्यते यदि तर्हि देशत्वसम्बन्धाद देशः स्यात् पुरुषोऽप्यसौ ॥१३८॥ ततश्चानियतव्यक्तिदेशसामान्यसंश्रितम्। ज्ञायते जीवनं तस्य कचिज्जीवत्यसाविति ॥ १३९३ ॥ तस्माद् गृहे बहिर्वेति सन्दिग्धमपि कञ्चन । विशेषमवलम्ब्यैव प्रमितं खलु जीवनम् ॥ १४०३ ॥ तत्रैकस्य विशेषस्य बाधेऽन्यग्रहणात् पुरा । बाध्यतैव निरालम्बा जीवनप्रमितिः स्वयम् ॥ १४१३ ॥ एवं बहिष्ट्वसिद्धेः प्राग् गृहाभावग्रहागताम् । प्रतिरोधदशां सूक्ष्मामविदन्तो वदन्ति ते ॥ १४२३ ॥ इति । यदप्युक्तं प्रसिद्धानुमानानामप्यर्थापत्तित्वं स्यादिति, तदपि न । तत्र हि पर्वतस्य क्वचिदग्निप्रापकं साधारणप्रमाणं १. 'स्य वि' ख. पाठः, २. 'त' ख. पाठः.
प्रमाणपरिच्छेदे अर्थापत्तिपरीक्षा । किन्नामेति वक्तव्यम् । ननूक्तं व्याप्तिग्राहकप्रमाणेन पर्वतेऽप्यग्निः प्राप्त इति । हन्त भोः! प्राभाकरपृष्ठचुम्बिना केनेदं प्रलपितम् । अदृष्टपर्वतः पूर्वं कथं तस्याग्निशालिताम् । अवगच्छेदिति ध्वस्तमनुमानेऽपि तन्मतम् ॥ १४३३ ॥ यत् पुनरुक्तं धूमः स्वकारणमग्निमाक्षिपतीति तस्य कोऽर्थः । हन्त धूमोऽग्निमनुमापयतीति व्याख्यातव्यम् । ततश्च पर्वतेऽग्नि- प्रापकमनुमानमेव तत्र साधारणप्रमाणतयोक्तमिति नास्त्यनुमा- नकबलीकारः। तस्योर्ध्वानुपलम्भेन बाधे चाधः प्रकल्पनम् । अर्थापत्तितयैवेष्टमिति कष्टं न किञ्चन ॥ १४४३ ॥ इति । यत् पुनरनुमानं बहिर्भावसिद्धौ प्रयुक्तं, तत् स्वरूपा- सिद्धमायुष्मताम् । जीवनमात्रस्य निर्विशेषस्य निरूपयितुमश- क्यत्वात् । बहिर्भावग्रहणात् पूर्व जीवनगृहाभावौ समुच्चित्य प्रत्येतुं न शक्यते । अतो जीवनविशिष्टगृहाभावरूपस्य लिङ्ग- स्याप्रतिपत्तेः स्वरूपाज्ञानासिद्धोऽयं हेतुः। तदुक्तं बृहट्टीकायां- "तस्माद् यो विद्यमानस्य गृहाभावोऽवगम्यते । स हेतुः स बहिर्भावं नागृहीत्वा च गृह्यते ॥” इति । अतः पृथगेवार्थापत्तिः। तार्किकध्वंसनोपायमेतादृशमजानता। गुरुणा तु प्रलपितो जीवनस्यात्र संशयः ॥१४५३ ॥ १. 'नासा' क. पाठः मानमेयोदये - जीवनं किल विज्ञातं वेश्मवर्तितया पुरा । तस्माज्जीवनसन्देहो भवेद् वेश्मन्यदर्शनात् ॥ १४६३ ॥ सन्दिग्धं जीवनं वेतद् बहिर्भावस्य बोधकम् । अर्थापत्तेः प्रभावोऽयं यत् सन्दिग्धोऽपि बोधयेत् ॥१४७॥ एवं जीवनसन्देहे स्यात् सन्दिग्धविशेषणः । हेतुरित्यनुमानत्वनिरासः सुकरोऽत्र नः ॥ १४८३ ॥ इति । तदिदमपहसनीयम् । तथाहि- जीवनं यदि सन्दिग्धं गृहाभावनिरीक्षणात् । तर्हि तन्निर्णयः कार्य आप्तवाक्यादिना पुनः ॥१४९३ ॥ तत्प्रियाकण्ठसूत्रादिचिह्नसन्दर्शनेन वा । न च तत् प्रार्थ्यते किञ्चित् तस्मान्नास्त्येव संशयः॥१५०॥ किञ्च नास्ति बहिर्भावग्रहः सन्दिग्धजीवनात् । मृतत्वस्यापि शङ्कायां बहिरस्तीति धीः कथम् ॥१५१३ ॥ यस्माज्जीवति वा नो वा तस्मात् तिष्ठत्यसौ बहिः । इति कल्पयितुं शक्तः कोऽपरो गुरुणा विना ॥१५२३ ॥ अर्थापत्तिप्रभावेण सर्वं सम्भवतीति चेत् । हन्तैवं सर्ववस्तूनामदृष्ट्या नाशसंशये ॥ १५३ ॥ अन्यत्रास्तीति निश्चित्य कृतार्थीक्रियतां मनः। तस्मात् सन्दिग्धता तावन्नैवार्थापत्तिकारणम् ॥१५४३ ॥ आप्तवाक्यादिकम् ।
प्रमाणपरिच्छेदे अर्थापत्तिपरीक्षा । इति । अतोऽस्मदुक्तविधैवार्थापत्तिः । सा पुनर्दयी दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टार्थापत्तिरुक्ता । यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये। शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥ १५५३ ॥ यथा द्वारं हारमित्यस्मिन् वाक्येऽन्वयसियर्थ शब्दग- म्येनावरणाद्यर्थान्तरेण भवितव्यमिति साधारणप्रमाणम् । तस्य श्रुतशब्दानुपलम्भेन बाधे सत्यश्रुतशब्दगम्यत्वेनावरणाद्यर्थः क- ल्पनीयः । तत्र च शब्देन सहैवावरणाद्यर्थकल्पनोयुक्तः शब्दा- देवार्थगतेाघवतः शब्दमेव कल्पयति । सेयं शब्दकल्पनरूपा श्रुतार्थापत्तिः । गुरुस्तु आवरणाद्यर्थस्यैव कल्प्यतया शब्दकल्प- नाभावाच्छ्रुतार्थापत्तिर्नास्तीत्याह । स तु शब्दप्रतिपन्नस्यैवान्व- यसाधनात् पूर्वमेव मूकीकृतः । किञ्च यदि वाक्यपूरणार्थमर्थ एव कल्प्यते, तर्हि 'सूर्याय जुष्टं निर्वपामी'त्यादा सूर्यरूपोऽर्थ एवोहितव्यः, न तु सूर्यायेति पदकल्पनं स्यात् । ननु प्रकृती पदार्पित एवायमंशो दृष्ट इति विकृतावपि पदं कल्प्यम् । मैवम् । न हि दृष्टत्वमात्रेण विकृतौ धर्मा आकृष्यन्ते, किन्तु प्रयोजनायैव । न तु तस्यांशस्य पदबोधितत्वेन युष्माकं किञ्चित् प्रयोजनमस्ति, अन्वयस्यान्यथोपि सिद्धत्वात् । दृष्टत्वमात्रेण ग्रहणे चावहतगतमेव संस्कारान्तरं दृष्टमित्यवघातोऽपि कृष्णलेषु " , १. 'ष्टमा क. पाठः. २. 'था दृष्टत्वा क. पाठः, मानमेयोदये कर्तव्यः स्यात् । तस्माच्छुतार्थीपत्त्यैवोहसिद्धिरित्यास्तामेतदिति । इति मानमेयोदये प्रमाणपरिच्छेदेऽर्थापत्तिपरीक्षा । अथाभावपरीक्षा । अथोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् । अभावाख्यं प्रमाणं स्यादभावस्यावबोधकम् ॥ १५६३ ॥ अत्र ह्यनुपलम्भः करणम् । तस्य च ज्ञानाभावरूपत्वा- दभावः प्रमाणमित्युच्यते । तत्र च. विषयं तदधीनांश्च सन्निकर्षादिकान् विना । उपलभस्य सामग्रीसम्पत्तिः खलु योग्यता ॥ १५७१ ॥ सा च ज्ञाततयाभावज्ञानस्य सहकारिणी । अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः ॥ १५८३ ॥ ततश्च विषयभूतं घटं, तदधीनांश्चेन्द्रियसन्निकर्षादीन विना यच्चक्षुरुन्मीलनालोकसम्पातमनःप्रणिधानादिकं घटोपल- म्भकारणं, तत् सर्वमिदानीमेव सञ्जातमित्यक्गमे सति तत्सहकृतः सन् घटानुपलम्भो घटाभावं बोधयतीत्येवं सर्वत्र द्रष्टव्यम् । . योग्यत्वावंगमार्थं हि सूक्ष्मार्थाभाववेदने । सूक्ष्मबोधकनेत्रांशुसम्पातार्थ प्रयस्यते ॥ १५९६ ।। १ Applymotein १. 'मत्र स' ख. पाठः. २. धि' ख. पाठः, प्रमाणपरिच्छेदे अभावपरीक्षा । ५९ योग्यत्त्वस्य च सन्देहे विपर्यासेऽथवा सति । अभावेऽपि हि सन्देहो भ्रमो वास्त्येव तद् यथा ॥१६०३॥ तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गुलीयकम् । सर्वोर्वीस्पर्शसन्देहादभावेऽप्येति संशयम् ॥ १६१३ ।। तथैव सर्वतोऽस्पर्शे मत्वा सर्वाभिमर्शनम् । सत एवाङ्गुलीयस्याप्यभावं बुध्यते भ्रमात् ॥ १६२३ ॥ तस्माद् योग्यत्वनिर्णयोऽत्र सहकारी । अनुपलम्भस्तु द्विविधः प्रमाणाभावरूपः स्मरणाभावरूपश्च । तत्र प्रत्यक्षप्रमा- णाभावरूपादनुपलम्माद् घटायभावज्ञानमुक्तम् । एवमनुमानग- स्यार्थानामभावग्रहणे योग्यानुमानानुदयो बोधको द्रष्टव्यः। यथा रूपदर्शनबोधकस्य चेष्टालिङ्गकानुमानस्यानुत्पत्तिरुलूकस्य दिवा रूपदर्शनाभावं बोधयतीत्युक्तं मनोरथमित्रैः । एवमन्येप्रमाणे- स्वपीति । स्मरणाभावाद् यथा--प्रातरिह मैत्रो नासीदिति सा- यङ्काले ज्ञानम् । तत्र हि प्रातःकालविशिष्टमैत्रस्य सायङ्काले दर्श- नयोग्यत्वाभावात् स्मरणयोग्यत्वे सत्यस्मरणमेव तदानीं प्रातः- कालविशिष्टमैत्राभावस्य बोधकांश्रीयते इति । तार्किकास्तु- अभावस्य प्रत्यक्षादिगम्यत्वमाचक्षाणा अनुपलम्भगम्यतां नस- म्मन्यन्ते । तदयुक्तम् । तेऽपि हि सायङ्काले प्रातःकालीनाभा- वज्ञानस्येन्द्रियजन्यत्वाभावादुक्तप्रकारेणानुपलम्भजत्वमेव बला- दङ्गीकुरिन् । ननु तत्र स्मरणाभावेन लिङ्गेन प्रातःकालीना- ३. 'मित्याश्री' क. १. 'वं मन्यते' क. पाठः. २. 'न्यत्र प्र' क.पाठ.. पाठः, ४. 'ते । ता' क. पाठः.
१० मानमेयोदये भावोऽनुमीयत एव । मैवम् । स्मरणाभावस्य ज्ञातुमशक्यत्वात । स्मृत्यभावं मनोग्राह्यमिच्छन्ति किल तार्किकाः। तच्चायुक्तं वयं तावद् ज्ञानाप्रत्यक्षवादिनः ॥ १६३३ ॥ मनःप्रत्यक्षगम्यत्वं ज्ञानानां वारयामहे । ततश्च तदभावोऽपि मनसा गृह्यते कथम् ॥ १६४३ ॥ इति । नन्वभावस्य प्रत्यक्षत्वमनुमिमीमहे । तदिदमुदितमुदय- नेन- "प्रतिपत्तेरापरोक्ष्यादिन्द्रियस्यानुपक्षयात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः || इत्यादि । प्रयोगस्तु--अभावः प्रत्यक्षः अपरोक्षप्रतीतत्वाद् घटवदिति । तत्राभावस्यापरोक्षप्रतीतत्वाभावात् स्वरूपासिद्धो हेतुः । भूतलादेस्त्वपरोक्षत्वादभावस्यापि तत्त्वभ्रम एवायुष्मता- मिति । नन्वभावज्ञानं प्रत्यक्षम् अनुपक्षीणेन्द्रियजन्यत्वाद् घटज्ञानवदिति । तदपि विशेषासिद्धम् । यतः पूर्वोक्तयोग्यतासिद्धावुपक्षीणमिहन्द्रियम् । ग्राह्या चाभावबोधार्थं योग्यता तार्किकैरपि ॥ १६५ ॥ घटो यदि भवेदत्र तर्हि दृश्येत भूमिवत् । इति तात्मना तेऽपि योग्यतामेव गृह्णते ॥ १६६३ ॥ . अस्ति चेदुपलभ्येतेत्यस्य कोऽर्थो विचार्यताम् । घटादन्योऽत्र सर्वोऽपि ज्ञानहेतुरभूदिति ॥ १६७३ ॥ -- विशेषो विशेषणम् ।
प्रमाणपरिच्छेदे अभावपरीक्षा । ६१ यत् पुनः अभावज्ञानं प्रत्यक्षम् अज्ञातकारणत्वाद् घटादिज्ञानवदिति, तत् स्मृतावनैकान्तिकम् । संस्कारो हि स्मृतौ हेतुः स चाज्ञातोऽवबोधकः । अज्ञातकरणाप्येवं स्मृतिर्नाध्यक्षतां गता ॥ १६८३ ॥ इति । यत् पुनः अभावज्ञानं भावरूपकरणाविष्टमनोजन्यं ज्ञानत्वाद् ज्ञानान्तरवदित्यनुपलम्भकरणत्वं न युक्तमिति, तदपि न । अभावज्ञानमिन्द्रियेतरकरणकम् अभावज्ञानत्वाद् अनु- मेयाभावज्ञानवदित्येपि वक्तुं शक्यत्वादिति । यत्तु अभावज्ञान- मिन्द्रियकरणकम् इन्द्रियदोषेण दूष्यमाणत्वाद् यथा चक्षुर्दो- षेण दूष्यमाणं रूपज्ञानं चक्षुःकरणकमिति, तदप्यसिद्धमेव । न खल्विन्द्रियदोषः स्यादभावभ्रमकारणम् । योग्यताभ्रम एवात्र तत्कारणमितीरितम् ॥ १६९१ ॥ इति । यानि पुनः चक्षुरभावग्राहकम् इन्द्रियत्वाद् मनोव- दित्यादीन्यन्यान्यप्यनुमानानि, तानि सर्वाणि सम्बद्धस्यैवेन्द्रि- यस्य ग्राहकत्वादभावेन सम्बन्धानभ्युपगमौद् विशेषणविशेष्य- (भाव)रूपसम्बन्धस्य च सम्बन्धान्तरपूर्वकत्वनियमाद् विशेष- विरुद्धानि। अपि चेन्द्रियसम्बन्धयोग्यतैव हि वस्तुनः । प्रत्यक्षत्व उपाधिःस्याव्याप्त्यसिद्धास्ततोऽखिलाः॥१७०३॥ ३ १. 'ति प्रतिहेतुविरुद्धत्वा' क. पाठ'. स' ख. पाठः. ४. 'न च स ख. पाठः. २. 'दास' ख. पाठ.. ३. 'ण्यपि ५. 'माद् विशेषविरु' ख. पाठः, ६२ मानमेयोदये ननु विशेषणविशेष्यभावो नाम सम्बन्धोऽस्त्येव । मैवम् । प्रत्यक्षत्वे ह्यभावस्य स्थिते कश्चित् कथञ्चन । कष्टोऽपि सन्निकर्षः स्यात् तदेवाद्यापि न स्थितम् ॥१७१३॥ किञ्च अभावभूतले विशेपणविशेष्यभावरहिते सम्ब. न्धान्तररहितत्वाद् मेरुविन्ध्यवदिति विशेषणविशेष्यत्वमेवात्र नास्तीति कथमसतः सन्निकर्षलवादः । किञ्च, प्रतियोगिस्मृतिर्न स्यादादिलो निर्विकल्पके । ततश्च सविकल्पेनैवाभावज्ञानमिच्छसि ॥ १७२३ ॥ तस्मादेवमनुमीयते अभावः प्रत्यक्षो न भवति निर्विकल्पकानहत्वाद् अतीद्रियवस्तुवदिति । तदेवं नैयायि- कवयात्यनिरोधादनुपलम्भवेद्य एवाभाव इति स्थितम् । अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः । तेन प्रमाणचिन्तामेवैनां परिहसत्यसौ ॥ १७३३ ॥ तमप्यपाकरिष्यामः पदार्थानां समर्थने । तदेवं निष्प्रतिद्वन्द्वा पदप्रमाणी समर्थिता ॥ १७४३ ॥ ये तु सम्भवमैतिह्यमिति मानान्तरं विदुः । तेऽनुमाने च शाब्दे च चोरवृत्तिमुपाश्रिताः ॥ १७५३ ॥ तथाहि- - १. 'पवि' ख. पाठः. --- * पौराणिकाः।
प्राहुरन्तर्भावो हि सम्भवः। ६३ प्रमाणपरिच्छेदे अभावपरीक्षा । यत् सहस्रादिसंख्यासु शतादेः सत्त्ववेदनम् । खार्यादिपरिमाणेषु प्रस्थादिग्रहणं च यत् ॥ १७६३ ।। तत् सम्भव इति तच्चानुमानिकं ज्ञानमिच्छन्ति स्वच्छचेतसः॥ १७७३ ॥ एकस्य ताव द्वित्वादौ समावेशनिरीक्षणात् । ज्ञायतेऽधिकसंख्यायामल्पसंख्यासमन्वयः ॥ १७८६ ॥ ततश्च व्याप्तिविज्ञानादल्पसंख्याः शतादयः। सहस्रादिषु गम्येरन्नधिकत्वेन हेतुना ॥ १७९३ ॥ तथैव परिमाणेष्वप्यधिकादल्पवेदनम् । ऊह्यमित्यनुमानत्वसम्भवात् सम्भवो हतः ॥ १८०३ ॥ प्रवादमात्रशरणं वाश्यमैतिह्यमुच्यते । वटेवटे वैश्रवणस्तिष्ठतीत्यादिकं यथा ॥ १८१३ ॥ तत् प्रायो मूलराहित्यादप्रमाणतयेष्यते । नन्वेवं कृष्णरामादिकथापि हि कथं हि वः ॥ १८२३ ॥ मैवं स्मृतिवदाप्तोक्तिप्रसिद्धया मूलसम्भवात् । मानान्तराविरोधाच्च शाब्दमेव हि तादृशम् ॥ १८३३ ॥ किञ्च कृष्णादिवृत्तान्तसाधुता साधु साधिता । न्यायनिर्णयकारेण पुरुषोत्कर्षसाधने ॥ १८४३ ॥ --- me- १. 'सत्यता' ख. पाठः, मानमेयोदये तस्मात् कुत्रचिदैतिचं सत्यं चेच्छाब्दमेव तत् । अतः षडेव मानानि मानयन्ति मनीषिणः ॥ १८५३ ॥ "राम! षड् युक्तयो लोके याभिः सर्वोऽनुदृश्यते” । इति रामायणेऽप्युक्तं तस्मात् सर्व सुमङ्गलम् ॥ १८६३ ॥ इति श्रीनारायणभट्टप्रणीते मानमेयोदये प्रमाणपरिच्छेदेऽभावपरीक्षा । समाप्तश्च प्रमाणपरिच्छेदः। 1 आरण्यकाण्डे सर्गः ७२. श्लोकः ८.
अथ
श्रीनारायणप्रणीतः
प्रमेयपरिच्छेदः।
द्रव्यनिर्णयः।
कुमारिलवचोजालपयोधिशरदिन्दवे ।
शिष्यसन्तानसन्तानतरवे गुरवे नमः ॥१॥
यत्कीर्तिन हि माति हन्त महति ब्रह्माण्डभाण्डोदरे
यस्याज्ञां प्रणतः शिरोभिरनिशं धत्ते नृपाणां गणः।
सोऽयं नाटकतर्ककाव्यनिपुणः प्रज्ञातपातञ्जलो
भक्तश्चक्रिणि मानवेदनृपतिर्जागर्ति पृथ्वीतटे॥२॥
पृथ्वीवृत्रजिता नितान्तमहितेनतेन सञ्चोदितै-
रस्माभिः कृशशेमुषीविलसितैरभ्यासहीनैरपि ।
प्राङ् नारायणसूरिणा विरचितं तन्मानमेयोदयं
मोहात् पूरयितुं कृता मतिरियं सन्तः प्रसीदन्तु नः ॥
प्रमेयं
बहुधा
लोके
प्राहुः प्राभाकरादयः।
प्रमाणाभासविश्वासव्याकुलीभूतचेतसः॥४॥
आचार्यमतपीयूषपारावारविहारिणः ।
वयं तावत् प्रमेयं तु द्रव्यजातिगुणक्रियाः ॥५॥
अभावश्चेति पञ्चैतान् पदार्थानाद्रियामहे ।
परिमाणगुणाधारं द्रव्यं द्रव्यविदो विदुः ॥६॥
६६ मानमेयोदये पृथिवी सलिलं तेजः पवमानस्तमस्तथा । व्योमकालदिगात्मानो मनः शब्द इति क्रमात् ॥७॥ एकादशविधं चैतत् कुमारिलमते मतम् । यथाशास्त्रं विधास्यामस्तत्स्वरूपनिरूपणम् ॥ ८॥ तत्र तावद् गन्धवती पृथिवी । सा पुनर्धराधरमहीरुहा- दिरूपा शरीरघ्राणेन्द्रियरूपा च । स्वाभाविकद्रवलाधिकरणं सलिलम् । तत्तु सरस्सरित्सरस्वत्करकादिरूपं रसनेन्द्रियरूपं च । उष्णस्पर्शगुणं तेजः । तत् पुनरर्कचन्द्राग्निनक्षत्रसुवर्णादिरूपं नयनेन्द्रियरूपं च । तस्य पुनरुद्भूतानुद्भूताभिभूतभेदे(न) त्रिविधौ रूपस्पर्शी । तत्रोद्भूतरूपस्पर्श तेजस्तप्तायसपिण्डादिगतम् । अनु- द्भूतरूपस्पर्श तेजो नयनेन्द्रियम् । अभिभूतरूपस्पर्श तेजः सुवर्णम् । अभिभवस्तु बलवद्भिः पार्थिवरूपादिभिरिति द्रष्टव्यम्। तयोरेव रूपस्पर्शयोरेकैकानुद्भवे सति द्विविधं तेजः । तत्रोद्भूत- रूपमनुद्भूतस्पर्श तेजः प्रदीपप्रभामण्डलम् । अनुभूतरूपमुहूत- स्पर्श तेजस्तप्तवारिगतम् । एवमभिभवेऽपि त्रैविध्यं द्रष्टव्यम् । तत्र सुवर्णे रूपस्पर्शयोरुभयोरभिभवः । चन्द्रिकायां जलस्पर्शा- दुष्णस्पर्शाभिभवः । झटिति प्रक्षिप्तजले तप्तायसपिण्डादौ रूपा- भिभव इति । अरूपत्वे सति स्पर्शवान् वायुः । स च मन्दवा- तनिःश्वासवातादिरूपस्त्वगिन्द्रियरूपश्च । तत्रेन्द्रियभूतानां भू- तानामापत्तिगम्यत्वं प्रागेव समर्थितम् । अन्यानि तु प्रत्यक्ष- लक्ष्याणि । तत्र पृथिव्यतेजसां प्रत्यक्षले न विवादः । वायुरनु पणाशीतस्पर्शानुमेय इति 'तार्किकाः । तथाहि-योऽयं वायौ प्रमेयपरिच्छेदे द्रव्यानर्णयः । १७ नापि जलतेजसोः, तयोः शीतोष्णस्पर्शलात् । नापि पृथिव्याः, तस्या नयनेन्द्रियग्राह्यत्वेनानुपलम्भनिरस्तत्वात् । अतः पारिशे- ष्याद् वायुसिद्धिरिति । तदिदमज्ञानविजृम्भितम् । शीतादिषु स्पर्शविशेषेषूपलभ्यमानेषु शीतो वायुरुष्णो वायुरनुष्णाशीतो वायुरिति वायुद्रव्यस्यैकस्य प्रत्यभिज्ञायमानत्वात् कृष्णो घटः पीतो घटः श्वेतो घट इतिवत् सकलस्पर्शानुगतमेकमेव वायु- द्रव्यं प्रत्यभिजानतां भवतां 'स्पर्शमात्रमेव वयं प्रत्यभिजानीमो नान्यत् किञ्चिदिति वचनमनुभवविरुद्धमेव । प्रयोगश्च भवति । 'वायुः प्रत्य(क्षत्वान्म?क्षः म)हत्त्वानिन्द्रियत्वे सति स्पर्शवत्त्वाद् भूतत्वाद् वा घटवदिति । यत् पुनः 'वायुरप्रत्यक्षः अनात्मले सति नीरूपद्रव्यत्वान्मनोवदित्युक्तं, तदरूपिद्रव्याणामपि दि- कालादीनामस्मन्मते प्रत्यक्षवात् तेष्वनैकान्तिकम् । नापि पारि- शेष्याद् वायुसिद्धिः । असिद्धद्रव्यकल्पनातः सिद्धस्यैव द्रव्यस्य गुणान्तरकल्पनाया लघीयस्तरत्वात् । कल्पनालाघवस्यैव हि गुणवत्तरत्वमाहुराचार्याः- 'कल्पनालाघवं यत्र तं पक्षं रोचयामहे । कल्पनागौरवं यत्र तं पक्षं न सहामहे ॥ इति । अतस्त्वगिन्द्रियप्रत्यक्षो वायुः । नेत्रेन्द्रियमात्रग्राह्यमालो- काभावप्रकाश्यकृष्णरूपं तमः। कलायकोमलच्छायं दर्शनीयं भृशं दृशाम् । तमः कृष्णं विजानीयादाधारं गुणकर्मणाम् ॥९॥ तत् पुनरन्धतमसादिरूपम् । 'आलोकाभावस्तम' इति तार्किकाः। तदयुक्तम् ।
मानमेयोदये गुणकर्मादिसद्भावादस्तीति प्रतिभासतः। प्रतियोग्यस्मृतेश्चैव भावरूपं ध्रुवं तमः ॥१०॥ नीलादिरूपयुक्तस्य स्पर्शवत्त्वं च दृश्यते । स्पर्शाभावान्न रूपि स्यात् तम इत्यप्यपेशलम् ॥ ११ ॥ स्पर्शयुक्तस्य सर्वत्र रूपवत्त्वं च दृश्यते । रूपाभावेन वायोरप्यस्पर्शत्वप्रसङ्गतः ॥ १२ ॥ स्पष्टदृष्टरूपस्पर्शत्वं चोभयत्रापि तुल्यमेव । 'आलोकदर्शने सति ग्राहकभूतात्मस्वरूपोपलम्भात् सामान्यतो नीलद्रव्यस्मरणे सति स्मृतित्वमगृह्णतस्तयोरुंदाग्रहनिबन्धनस्तमोनैल्यव्यवहार' इति गुरुमतम् । तदपि हास्यम्। आत्मग्रहणस्य नैल्यस्मृत्या भेदा- ग्रहे सतीदं नील(मिति)व्यवहारमपहायाहं नीलमिति व्यवहार- स्वीकारप्रसङ्गाद्, देशान्तरे कालान्तरे चाप्यबाधितस्य प्रत्ययस्य भ्रान्तिमूलत्वकल्पनानुपपत्तेश्च । ननु तमसश्चाक्षुषत्वे पिहितलो- चनस्य पटलपिहितलोचनस्यात्यन्तान्धस्य च कथं नीलं तम इति प्रतीतिः । तत्र पटलपिहितलोचनस्य पिहितलोचनस्य च तत्तदावरणच्छायाग्रहणात् तमोव्यवहारः । महत्त्वभ्रमस्तु सा- मिष्यदोषात् । पक्ष्मादीनाम् अग्रहणं तु निमीलनदशायामा- लोकाभावात् । अन्यत् पुनरार्जवस्थित्यभावादिति द्रष्टव्यम् । अत्यन्तान्धानां पुनर्नीलबुद्धिरेव सिद्धा । 'तमसीव प्रविष्टोऽहमि' त्यादिवाक्यं पुनः ‘अमृतमिव पाथः पीतमि'त्यादिवाक्यवद् वाक्यान्तरश्रवणजनितसंस्कारवशादिति द्रष्टव्यम् । 'तमः कृष्णं प्रमेयपरिच्छेदे द्रव्यनिर्णयः । तस्माद् 'द्रव्यान्तरं तमः नीलात्मकत्वाद् नीलोत्पलनै- ल्यवत् । पृथिवीगुणस्तम इति कौमारिलेष्वेव केचिन्मा- न(कि)रणावलीकारादयः प्राहुः । तदप्यनुमन्यामहे । अतस्तमो द्रव्यं गुणो वा । गुणपक्षे दश द्रव्याणि । एतानि पञ्चावयवि- द्रव्याणि । अवयवाश्च परमाणवः। अत्रावयवव्यतिरिक्तावयवि- सद्भावं प्रतिषेधयन्तो बौद्धास्तु 'महानेको घट' इत्याद्यबाधित- प्रत्यक्षप्रमाणबलेन परिहर्तव्याः । अत्र तार्किकाः पुनरस्मदादी- नामनुमानैकगम्यान योगिनां प्रत्यक्षोपलक्ष्यांश्च कांश्चन पदार्थ- विशेषान् परमाणूनाद्रियन्ते तैरिदमखिलमवयविद्रव्यं कुलाल इव घटं परमेश्वरः सृष्टिकाले यणुकादिक्रमेण विरचयति, कवि- रिव काव्यमखिलमपि वेदराशिमारचयति, संहारकाले च बालक इव घटं चतुर्विधमवयविद्रव्यं परमाणुपर्यन्तं विनाशयतीति प्रतिपन्नाः । , जालरन्ध्रविसरद्रवितेजो- जालभासुरपदार्थविशेषान् । अल्पकानिह पुनः परमाणून् कल्पयन्ति न कुमारिलशिष्याः॥१३॥ तदतिरिक्तप्रमाणाभावादनुपयोगाच्च तदतिरिक्तकल्पनस्य । नन्व- स्त्येव तदतिरिक्त प्रमाणम् । वातायनातपगतः पदार्थो- ऽवयवी, महत्त्वाद् घटवदित्यनुमानेन तस्य स्वन्यूनपरिमाणार- . * पृथिव्यप्तेजोवायुतमांसि ।
मानमेयोदये म्भकसिद्धिः । न च महत्त्वमसिड, दृश्यद्रव्यत्वहेतुना घटादिव- न्महत्त्वसमर्थनादित्यन्ते तदतिरिक्तप्रमाणसिद्धिरिति । मैवम् । आपक्षिके हि पदार्थानां महत्त्वाल्पत्वे । यद्येतस्मादपि न्यूनपरि- माणः कश्चिदुपलभ्येत, तर्हि (त? म)हानेवायम् । स च नोप- लभ्यते । अनुमानं पुनर्योग्यानुपलम्भबाधितविषयत्वादप्रमाणम् । एवमपि दृश्यस्य घटादिवन्महत्त्वं साधयतां तार्किकाणामवयव्या- रम्भकस्य मृत्पिण्डादेरवयवित्वमहत्त्वयोर्दर्शनेन तदारम्भकाणा- मप्येवमणुतरतमभावस्य न क्वचिदपि विश्रमः । तथाच सति मशकमत्तमातङ्गयोरप्यनन्तावयवपरिप्रापितत्वाविशेषेण तुल्यप- रिमाणत्वादिबहुविधदृष्टविरोधः प्रसज्येत । तस्माल्लोकसिद्धानेव वयं परमाणूनाद्रियामहे । नापि योगिप्रत्यक्षात् तत्सिद्धिः । योगिनामपि प्रत्यक्षमिन्द्रियसन्निकर्षजं प्रत्यक्षत्वाद् अस्मदा- दिप्रत्यक्षवत्, योगीन्द्रियमतीन्द्रियविषयकं न भवति इन्द्रिय- त्वाद् अस्मदादीन्द्रियवदिति योगिप्रत्यक्षस्याप्यस्मदादिप्रत्य- क्षानतिरेकसिद्धेस्तदतिरिक्तपरमाणुसिद्धावपि नास्मन्मते किञ्चन हीयत इत्यास्तामेतत् । नापीश्वरारब्धं जगद्, वेदव्यतिरेकेणेश्व- रसद्भावे प्रमाणाभावात् । अस्तु वेदादेव तत्सिद्धिरिति चेद्, न । वेदानामपीश्वरकर्तृकत्वं साधयतां तार्किकाणां बेदप्रामाण्या- दीश्वरसिद्धिः, ईश्वरप्रामाण्याच्च वेदसिद्धिरितीतरेतराश्रयचक्रकयोः . प्रसङ्गाद । -- प्रमेयपरिच्छेदे द्रव्यनिर्णयः । शरिणः करचरणाद्यवयवाभावेन जगन्निर्माणाशक्तेः। अपिच- शरीरेण विना यन्न कर्ता कुत्रापि दृश्यते । विशेषणविरुद्धं तत् कर्तृत्वमशरीरिणः ॥ १४ ॥ यथा विशेषविरोधस्यानुमानदूषणत्वं, तथानुमाननिर्णये बर्णितम् । किञ्च घटादयः शरीरिकर्तृकाः क्षित्यादयः पुनरीश्वर- कर्तृका इति येन सन्निवेशविशेषेण भवद्भिरप्यवधार्यते, घटा- दीनां तादृशसन्निवेशविशेषवत्त्वं सकर्तृकल उपाधिरिति कार्य- त्वमप्रथोजको हेतुः । किञ्च आत्मत्वं क्षित्यादिकर्तृव्यक्तिसम- वेतं न भवति, जातित्वाद् गोत्ववत् । एवमेव गोत्वदृष्टान्ते- न सत्त्वपर्यन्तं समर्थनात् प्रतिहेतुविरुद्धं च कार्यत्वम् । इत्थं निरस्ते परमते स्वपक्षस्थापनार्थमनुमानमुच्यते । क्षित्यादयः क- र्तृशून्याः, शरीरिजन्यत्वाभावाद्, आत्मवदिति । मनु क्षित्यादी- नामकर्तृ(क)त्वे कार्यत्वमेव हीयेत । उपादाननिमित्तासमवा- यिभेदेन त्रिविधं हि कारणम् । तत्र यत् कार्यमपि स्वात्मतयो- पादत्ते, तदुपादानकारणम् यथा तन्तवः पटस्य । उपादानप्र- त्यासन्नमनन्यथासिद्धमसमवायिकारणम् । यथा तस्यैव तन्तुसं- योगः। उक्तकारणद्वयानन्तर्भूतं कारणं निमित्तकारणम् । य- था तन्तुवायवेमादयः । तस्मात् क्षित्यादीनां तदभावे कथं का- यत्वम् । उच्यते। नास्मन्मते कार्योत्पत्तौ त्रिविधकारणाकाङ्क्षा। जायते हि भूतभविष्यतोषिययोः समवाय्यसमवायिनिरपेक्षण निमित्तमात्रेण ज्ञानेनैव प्राकट्याभिधानं कार्यम् । अतः कारणमात्रेण विनैव कार्योत्पत्त्यनुपपत्तिरिति कारणमात्रमेव कल्प्यम् । कादिकं तु यथादर्श(न)मेवाङ्गीक्रियते । ननु , ७२ मानमेयोदये कधिष्ठितत्वाभावे कथं कारणानां कार्यानुगुणतया परस्प- रोपसर्पणम् । न हि तन्तुवायमन्तरेण तन्तुतुरप्रिभृतयः पटोत्प- त्तये परस्परमुपसर्पन्ति । यथा भवन्मते क्षित्यादिकर्तुः शरीर- व्यापारेण विनैव कारणानां परस्परोपसर्पणं, तथास्मन्मतेऽपीति ब्रूमः। अपिच सिद्धेऽपीश्वरे कर्तरि भवन्मते सकलकालदेशेषु तुल्यतया प्रवृत्तयोविद्वेषादिकारणानां (कथं) परस्परोपसर्पणहेतु- त्वंम् । तत्तच्चेतनगततत्तददृष्टपरिपाकवशादिति चेत, तर्हि तेनै- व कारणानां परस्परोपसर्पणादिसिद्धेः किमीश्वरपरिकल्पनव्यसने- नेति सिद्धस्तार्किकेश्वरनिरासः । वैदिकश्वरः परमकारुणिकः पुन- रस्माकमनुगुण एव । एवमकर्तृकत्वसाधनात् प्रपञ्चस्यात्यन्तिको विनाशोऽपि परिहृतो भवति । लोकस्यात्यन्तिको नाशो वैदिकानां न सम्मतः । महतां वेदमार्गाणां स्रोतोभङ्गप्रसङ्गतः ॥१५॥ ईश्वरो ननु लोकादौ वेदानपि विधास्यति । ततो न वेदमार्गाणां विच्छेदो दोषमावहेत् ॥ १६ ॥ प्रयोगश्च भवति । वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् भारतादिवाक्यवदिति । अत्र वदामः। सोपाधिकं विरुद्धं च विशेषप्रतिहेतुभिः । वाक्यत्वं नैव वेदानां पौरुषेयत्वसाधकम् ॥१७॥ प्रमाणवाक्यानां पुरुषस्वातन्त्र्ये तावद(स्मा ? क्षा)दि- प्रमाणान्तरोपलक्ष्यमूलत्वमुपाधिः । न चैवं सत्यष्टकादिकर्तव्य- प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ७३ त्वप्रतिपादकानां मन्वादिवाक्यानामप्यपौरुषेयत्वापत्तिः । तेषा- मपि वेदवाक्यरूपमानान्तरोपलक्ष्यमूलत्वात् । मातापितृसम्बन्धो- त्पन्नपाञ्चभौतिकशरीरत्वादिगुणविशिष्टानामेव पुरुषाणां वाक्य- स्वातन्त्र्यदर्शनादतादृशस्य स्वातन्त्र्यकल्पनं विशेषविरुद्धं च । 'विप्रतिपन्नः कालो न वेदशून्यः कालत्वात् सम्प्रतिपन्नकालवत्, विमतं वेदाध्ययनं परतन्त्राध्येतृकं वेदाध्ययनत्वात् सम्प्रतिप- न्नाध्ययनवद्, आत्मत्वं वेदकर्तृव्यक्तिसमवेतं न भवति जाति- त्वाद् गोत्ववदिति प्रतिहेतुविरुद्धं च वाक्यत्वम्। नन्वेवमेव भारतादीनामप्यपौरुषेयत्वं साधनीयमिति चेद्, न । तेषां दृढ़- तरकर्तृस्मरणबाधितविषयत्वाद् नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तत इति भवद्भिरभ्युपगतत्वाच्च । ननु श्रूयत एवं वेदवा- क्येषु वेदानां पौरुषेयत्वं 'वक्रेभ्यो वेदास्तस्य निःसृताः, ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायोः, सामवेद आदित्यात्', 'तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे' इत्यादिषु । अतः कथमपौरुषेयत्वमिति चेद्, मैवम् । एतानि हि वाक्यानि परस्परविरुद्धानि प्रमाणान्तरबाधितविषयाणि च । आदित्यो यूप' इत्यादिवाक्यवदेतेषामर्थवादत्वपरिकल्पनात् । काठकादि- समाख्यापि तस्य (स्या)देव । कठादेः प्रकृवचनतया तच्छि- ष्याणां कठानामाम्नायः काठकमित्येतस्मिन्नर्थे प्रत्ययस्मरणान्न कठादीनां वेदवाक्यविषयं प्रति स्वातन्त्र्यमवगमयति । अतो न वेदवाक्यानां पुरुषानुप्रवेशाभावादप्रामाण्यगन्धोऽपि । पुरुष- कृता हि शब्दे दोपाः। ननु पुरुषगुणनिबन्धना एवं शब्दे गुणाः, यथा रामायणादिपु । तस्मात् पुरुषाभावे पुरुपगुणस्य दुरापा- .
मानमेयोदये स्तत्वादप्रामाण्यं वेदवाक्यानां तदवस्थमेव । स्यादेतदेवं, यदि गुणात् प्रामाण्यमित्यभ्युपगम्यते । न चैवमभ्युपगतमस्माभिः । तस्माद् गुणाभावेऽपि दोषाभावमात्रेण वेदानां प्रामाण्योपपत्तिः। अपिच, स्वत एव सर्वप्रमाणानां प्रामाण्यम् । अप्रामाण्यं तु कारणदोषैरापाद्यते । यथा चक्षुरादीनां पित्तादिषु दोषेषु सत्सु शङ्खादिपीततामतिः, तदभावे च यथार्थभूतशुक्लिमावधारणम् । अत्र प्रामाण्यविषये वादिनो बहुधा जगुः । वदन्ति केचित प्रामाण्यमप्रामाण्यमिति स्वतः ॥१८॥ उभयं परतः प्राहुरक्षपात्पक्षिलादयः । अप्रामाण्यं स्वतस्तत्र प्रामाण्यं परतो विदुः ॥ १९ ॥ वौद्धा मीमांसकास्तत्र प्रामाण्यं तु स्वतो विदुः । अप्रामाण्यं तु परतस्तत्र चिन्ता विधीयते ॥ २० ॥ अत्र प्रामाण्याप्रामाण्ये सकलप्रमाणेषु स्वत एव वर्त- माने कारणगुणदोषाभ्यामभिव्यज्यते, अत्यन्तासतामुत्पत्त्यनुप- पत्तेः, उपपत्तौ वा गगनकुसुमादीनामप्युत्पत्तिप्रसङ्गात् । तस्मात् कारणभूतेषु मृदादिषु (प्रामाण्या)प्रामाण्ययोरप्यभिव्यक्तिरेवेति सत्कार्यवादिनां साङ्ख्यादीनां मतम् । अत्र वदामः। यदि स- र्वत्राप्यसतामनुत्पत्तिरेव, तर्हि मृदादिगतस्य घटादेः कारकव्या- पारात् पूर्वमभिव्यक्तिरस्ति वा न वा। यद्यस्ति, तर्हि कारक- व्यापारानर्थक्यं तदवस्थमेव । अथ नास्ति, तर्हि कथमसदु- त्पत्तिः प्रतिषिध्येत । असत्या एवाभिव्यक्तेरुत्पत्तिस्वीकारात् । , ७५ , प्रमेयपरिच्छेदे द्रव्यनिर्णयः । तस्मान्नैतावता प्रामाण्याप्रामाण्ययोरपि स्वतस्त्वमङ्गीकर्तव्यम् । अपिच, पयःपावकयोरिवात्यन्तविरुद्धयोः प्रामाण्याप्रामाण्ययोः कथमकस्मिन्नेव ज्ञाने समावेशोपपत्तिः । तस्मादुभयोरपि स्वत- स्त्ववादिनो निरस्ताः । गुणात् प्रामाण्यं दोषादप्रामाण्यमित्युभ- यमपि परत इति तार्किकाः । तथाहि-उत्पत्तौ प्रतिपत्तौ च परत एव प्रामाण्यम् । तत्र तावदुत्पत्तौ ज्ञानहेतुमात्राधीनं यदि प्रामाण्यं स्यात् , त_प्रामाण्यज्ञानेष्वपि प्रामाण्यं स्यात् , तत्रापि ज्ञानहेतूनां सम्भवाद्, असम्भवे वा ज्ञानोत्पत्तेरेवानुपपत्तेः । नाप्यप्रामाण्यं ज्ञानहेतुमात्राधीनम्, उक्तेन न्यायेन प्रमाणज्ञा- नानामप्यप्रामाण्यप्रसङ्गात् । तस्मादिन्द्रियादिगुणादेव प्रामाण्यो- द्भवः, तदोषादप्रामाण्योद्भव इति स्थितम् । उभयोरुत्पत्तौ पर- तस्त्वम् । तथा प्रतिपत्तावपि परतस्त्वमेव युक्तं कल्पयितुम् । यदि ज्ञानग्राहकप्रमाणेनैव प्रामाण्यमप्रामाण्यं वा गृह्यते, तर्हि कथं ममेदमुत्पन्नं जलज्ञानं प्रमाणमप्रमाणं वेति संशयोपपत्तिः। न ह्यन्यतरस्वरूपावधारणे शङ्कावतरति, अतिप्रसङ्गात् । कथं तर्हि प्रामाण्यग्रहणम् । उच्यते । 'ममेदमुत्पन्नं ज्ञानं प्रमाणं समर्थप्रवृत्तिजनकत्वाद् यन्न समर्थी प्रवृत्तिं जनयति न तत् प्रमाणं यथा प्रमाणाभासः इत्याद्यनुमानात् । तस्मादर्थक्रि- यानन्तरमेव प्रामाण्यनिश्चयः । एवमप्रामाण्यनिश्चयेऽप्यनुमानं द्रष्टव्यम् । इति सिद्धमुभयमुभयस्मात् परत इति । अत्र वदा- मः।यदि ज्ञानस्य प्रामाण्यमप्रामाण्यमपि हेत्वन्तराधीनं, किमा- त्मकं तर्हि ज्ञानस्वरूपम् । न हि प्रामाण्याप्रामाण्यव्यतिरिक्तं किश्चिदपि स्वरूपमस्ति विज्ञानस्य । ननु सन्देहात्मकमस्तु । न । ' ७६ मानमेयोदये प्रतीतिविरोधात् सन्देहस्याप्रामाण्यपक्षनिक्षे(प? पे)णाप्रामाण्य- स्य स्वतस्त्वप्रसङ्गाच । यत्तु प्रामाण्यस्य ज्ञानहेतुमात्राधीनत्वे शुक्तिरजतादिज्ञानेष्वपि प्रामाण्यप्रसङ्ग इत्युक्तं, तत् तत्रापि पुरोवर्तित्वसत्त्वशुक्लत्वभास्वरत्वाद्यशेषु प्रामाण्यस्यानुवृत्तेरस्माक- मनुकूलमेव । यत् पुनरुदयनेन प्रामाण्यस्य परायत्तत्वेऽनुमानं प्रयुक्तं 'ग्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेष- त्वाद्' अप्रमावदिति, तदप्यसत्। 'प्रमा गुणदोपाभावयोरन्यत- रा(ही? धी)ना न भवति ज्ञानलाद् अप्रमावदित्यनेनानुमानेन बाधितविषयत्वात् । सविशेषणहेतुजात् प्राचीनानुमानादविशे- षणहेतुजस्यास्यानुमानस्य शीघ्रप्रवृत्त्युपपत्तेर्युक्तं च प्राचीनानुमा- नस्य बाधितविषयत्वमिति सिद्धमुत्पत्तौ स्वतस्त्वम्। एवं प्रतिप- त्तावपि स्वतस्त्वमेव युक्तमभ्युपगन्तुम् । तथाहि-तथाभूतोऽय- मर्थ इत्यर्थस्य तथात्वावधारणात् प्रामाण्यसंवित्तिः, अतथाभू- तोऽयमर्थ इत्यतथात्वावधारणादप्रामाण्यसंवित्तिः । तत्र तथाभू- तोऽयमर्थ इति तथात्वावधारणं ज्ञा(नं? न)स्वरूपाधीनमिति तादृशावधारणगम्यं प्रामाण्यं स्वतोऽवगम्यत इत्युच्यते । अत- थाभूतोऽयमर्थ इत्यतथाभावावधारणं तु कारणदोषावगमाद् बा- धकप्रत्ययाद् वा परतो जायत इति तादृशमवधारणगम्यमप्रा- माण्यं परतोऽवगम्यत इत्युच्यते । तस्मादतथाभूतमप्यर्थ तथाभू- तोऽयमर्थ इत्येव ज्ञानस्वरूपमवगमयति । अर्थतथात्वनिश्चयस्य भ्रमरूपत्वात् प्रामाण्यनिश्चयोऽपि तत्र भ्रम इत्येव विशेषः । भ्रमत्वं तु तस्य बाधकप्रत्ययावसेयमेव । न चैतादृशभ्रमदर्श- नादर्थतथात्वावधारणेन प्रामाण्यानुमानं दुष्करमिति वाच्यम् ।
प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ७७ बाष्पे धूमभ्रमदर्शनेऽपि धूमादग्न्यनुमानस्य सुकरत्वात् । न च तथाभूतोऽयमर्थ इत्यर्थतथात्वावधारणमर्थक्रियाज्ञानादिलक्षणप- रापेक्षमिति वाच्यम् । विकल्पासहत्वात् । तथाहि-किमिदम- र्थक्रियादिज्ञानं स्वत एव प्रमाणम् , उत परतः। न तावत् परतः, तस्याप्यर्थक्रियाद्यन्तरापेक्षत्वेनानवस्थाप्रसङ्गात् । अथ स्वत एव, किमपराधमाद्यज्ञानेन, येन तस्य परतःप्रामाण्यपक्ष- निक्षेपः । यत्तु समर्थप्रवृत्तिजनकत्वेन हेतुना प्रामाण्यमाद्यज्ञा- नस्यानुमेयमित्युक्तं, तदप्ययुक्तम् । स्वप्ने कामिनीरूपदर्शना- दिरूपस्यापूर्वज्ञानस्य तदालिङ्गनादिरूपसमर्थप्रवृत्तिजनकत्वेऽपि प्रामाण्याभावेन तत्रानैकान्त्यात् । यत् पुनर्ममेदमुत्पन्नं ज्ञानं प्र- माणमप्रमाणं वेति सन्देहदर्शनात् प्रामाण्यस्य न स्वतोऽवधार- णमित्युक्तं, तदप्यसत् । सर्वेषामपि ज्ञाना(नां) सन्देहग्रस्त- (त्व ? त्वा)दर्शनात् । यत्र पुनः कुत्रचिद् भ्रमदर्शनात् किं तादृशमिदं ज्ञानम् उतान्यादृशमिति संशयो भवति , तत्रापि ज्ञानस्वरूपं प्रथमत एव विषयतथात्वमवधारयति । दूरत्वादीन विषयदोषाणां, तिमिरादीनां करणदोषाणां, पारिप्लवादीनां मनो- दोषाणां चाभावावगमः पुनरतथाभावशङ्कोच्छेदमात्र एवोपक- रोति, न तु ज्ञानस्वरूपाधीने विषयतथात्वावधारणे तदधीने प्रामाण्यनिश्चये च । तस्मात् स्वशब्दस्यात्मीयवाचित्वेन ज्ञान- स्वरूपाधीना(त?)दर्थतथात्वावधारणादवगम्यमानस्य प्रामाण्यस्य ज्ञप्तावपि स्वतस्त्वं सिद्धम् । यत्तु 'प्रामाण्यं परतो ज्ञायतेऽन- भ्यासदशायां सांशयिकत्वाद् अप्रामाण्यवद्' इत्युदयनोक्तमनु- मानं, तदस्मन्मतेऽपि विषयतथात्वावगमरूपात् परत एव प्रा- , मानमयोदये माण्यावधारणात् सिद्धसाधनं द्रष्टव्यम् । एताभिरेव युक्तिभिर- प्रामाण्यं स्वतः प्रामाण्यं परत इति बौद्धसिद्धान्तोऽपि विरुद्धो वेदितव्य इत्यलमतिप्रसङ्गेन । सिद्धानि तावत् तमःपञ्चमान्यव- यविद्रव्याणि तदारम्भकाण्यवयवद्रव्याणि च । स्वरूपाणि निरूप्यन्ते व्योमादीनामथ क्रमात् । नित्यानि चानवयवद्रव्याणि च विभूनि च ॥२१॥ शाङ्कराः पुनः 'आत्मन आकाशः सम्भूत' इत्यादि(श्रु)- त्यनुरोधेन गगनादीनामनित्यत्वमाहुः । तदयुक्तम् । 'विवादप- दानि द्रव्याणि नित्यानि निरवयवद्रव्यत्वाद् आत्मवदित्या- द्यनुमानविरोधेन श्रुतेर्यथाश्रुतेऽर्थे प्रामाण्यानुपपत्तेः । एतानि मनोव्यतिरिक्तानि प्रत्यक्षाणि । तत्र च- व्योमकालदिशामादौ प्रत्यक्षत्वं समर्थ्यते । अनिष्टं भट्टपादोक्तिमाधुर्यानभिलाषिणाम् ॥ २२ ॥ 'दिकालाकाशाः प्रत्यक्षाः अमनस्त्वे सति विभुत्वाद् आत्मवत्' । अपिच, दिक्कालाकाशा यदि न प्रत्यक्षाः, तर्हि तेषां स्वरूपमेव हीयेत, प्रत्यक्षव्यतिरेकेण तेषु प्रमाणाभावात् । नन्वस्त्येव तत्र प्रमाणम् । शब्दस्य विशेषगुणत्वाद् गुणस्य च गुणिनमन्तरेणानुपपत्तेः शब्दगुणाश्रयत्वेन तावदाकाशसिद्धिः, कालस्तु युगपदादिप्रत्ययानुमेयः, दिक् पुनः पूर्वापरादिप्रत्यया- नुमेयेति कथं तेषु प्रमाणाभावः। अत्र वदामः। यत् तावदुक्तं शब्दगुणाश्रयत्वेनाकाशसिद्धिरिति, तदयुक्तम् । शब्दस्य गुण- प्रमेयपरिच्छेदे द्रव्यनिर्णयः । त्वानुपपत्तेर्वक्ष्यमाणत्वात् । भवतु वा गुणत्वं, तथापि कथं दिक्का- लादिव्यतिरिक्ताश्रयसिद्धिः, असिद्धद्रव्यकल्पनतः सिद्धस्यैव द्र- व्यस्य गुणान्तरकल्पनाया लघीयस्तरत्वात् । किञ्च, नयनोन्मील- नानन्तरमेवाबालवृद्धमध्यक्षतयाध्यवसीयमानस्याकाशस्याप्रत्य- क्षत्वं वदन्तः प्राभाकरादयः करतलकलितमामलक(एव? फल)- मपि प्रत्यक्षानुपलक्ष्यमिति वदेयुरेव । नापि कालो युगपदादिप्र- त्ययानुमेयः । तथाहि-युगपदागतौ देवदत्तयज्ञदत्तौ, चिरेणा- गतः पुत्र इत्यादिप्रत्ययाः किं कालविषयाः (उत) अन्यविषयाः। न तावदन्यविषयाः, तेषां लिङ्गानां प्रत्यक्षेण कालसम्बन्धानव- धारणे पूर्ववत् पारिशेष्यासिद्धेः। सम्बन्धावधारणे च कालस्य प्रत्यक्षत्वप्रसङ्गात् । अथ कालविषयाः, कालविषयत्वे *विरुद्ध- जन्या लिङ्गजन्या वा । न तावल्लिङ्गजन्याः, युगपदादिप्रत्यया- तिरिक्तलिङ्गानङ्गीकरणात् । युगपदादिप्रत्ययानामेव लिङ्गत्वे चा- त्माश्रयप्रसङ्गात् । अथाक्षजन्याः, तर्हि प्रत्यक्षत्वमेव कालस्या- पन्नम् । युगपदादिप्रत्ययानामक्षजन्यत्वकालविषयत्वयोः स्थित- त्वात् । अतः 'प्रातःकालोऽयं सायंकालोऽयमित्यादिप्रत्ययानां सूर्योदयादिदर्शनानुगृहीतनयनजन्यत्वात् कालस्य प्रत्यक्षत्वं सि- द्वम् । स च कालः षडिन्द्रियग्राह्य इति पूर्वमेवोक्तम् । एवं दिशोऽपि पूर्वापरादिप्रत्ययाना नेत्रमात्राधीनत्वात् कालविषय- त्वाच्च प्रत्यक्षत्वं समर्थनीयम् । पूर्वापरादिप्रत्ययानां लिङ्गत्वेन * युगपदादिप्रत्ययात्मकलिङ्गविरुद्धाक्षजन्या इत्यर्थः ।
मानमेयोदये - पारिशेष्याद् द्रव्यान्तरकल्पनं तु पूर्वोक्तनयेन पारिशेष्यासिद्धिप्र- भृतिभिर्निराकरणीयम् । तस्माद् व्योमादीनामप्रत्यक्षत्वसाधनप- राणामनुमानानां तत्प्रतीत्यन्यथानुपपत्तिप्रसूतार्थापत्तिबाधितवि- षयत्वात् सिद्धमप्रामाण्यम् । तत्राकाशो विभुरपि घटाद्युपाधिव- शाद् घटाकाशादिव्यपदेशं लभते, कर्णशष्कुल्युपाधिवशेन श्रो- त्रेन्द्रियव्यपदेशं च । कालस्यापि विभुत्वेऽप्युपाधिवशादौपाधिको भेदव्यवहारोऽस्ति । स यथा पञ्चदश निमेषाः काष्ठा । ताभि- स्त्रिंशता मुहुर्तः । ते त्रिंशदहोरात्रः। तैस्तावद्भिर्मासः। तैर्वाद- शभिः संवत्सरः । तैश्च क्रमेण युगादय इति । एवं दिशोऽपि पूर्वापराद्युपाधिवशाद् भेदव्यवहारो द्रष्टव्यः ॥ आत्मा चैतन्याश्रयः। स च मानसप्रत्यक्षगम्यः । अत्र प्राभाकरास्तावदिदमहं जानामीति सर्वार्थवित्तिषु व्यवहारदर्श- नाद् आत्म स्वात्मनोरप्यप्रकाशमानवे तदनुपपत्तेरात्मस्वात्मनोः कर्तृतया वित्तितया च प्रतीयमानत्वमभ्युपगच्छन्ति । तत्राप्र- त्ययगम्यत्वेनात्मनः प्रत्यक्षत्वं, ज्ञानस्य तु स्वयंप्रकाशत्वेनेति च व्यवस्था प्रतिपेदिरे । तत्र ज्ञानस्य स्वयंप्रकाशत्वमुपरिष्टान्निरा- करिष्यामः । आत्मा तु नाहंप्रत्ययगम्यः, सर्वत्रार्थवित्तिष्वपि जानामीति व्यवहारादर्शनात् । यत् पुनरत्र शालिकनाथेन कथितम् 'अवश्यं च ज्ञातुर(व)भासो ज्ञेयानु(भा ? भ)वेष्वनु- वर्तत इत्यास्थेयम्, अन्यथा स्वपरवेद्ययोरनतिशय' इति, तद- प्ययुक्तम् । ज्ञानस्य स्वात्मसमवेतत्वमात्रेणैवातिशयसिद्धः । wwmarn. + स्वात्मपदं ज्ञानार्थकम् ।
प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ८१ न च स्वात्मसमवेतत्वावगमस्यापि व्यवहाराङ्गत्वमस्तीति वा- च्यम् , ऐन्द्रियकज्ञानेष्विन्द्रियावगमस्यापि व्यवहाराङ्गत्वप्रस- ङ्गात् । किञ्च- , अक्षसम्बन्धहीनात्मस्वात्मप्रत्यक्षतार्थिनः । प्रत्यक्षशब्दव्युत्पत्तिः कथङ्कारं भवेद् गुरोः ॥ २३ ॥ तस्माद् यथा दिगादीनां पूर्वापरादिप्रत्ययानुमेयत्वं भवद्भि- रभ्युपगम्यते, तहदात्मनोऽप्यहंप्रत्ययानुमेयत्वमेव युक्तमभ्यु- पगन्तुं, नाक्षसन्निकाहीनस्य प्रत्यक्षत्वम् । तस्मात् स्वप्रकाश- ज्ञानाश्रयत्वेऽप्यात्मनः: स्वप्रकाशत्वानभ्युपगमे ज्ञानजन्यस्य त- प्रकाशस्य घटप्रकाश स्येव कारणान्तरसापेक्षत्वं दुष्परिहरमेव । स्वप्रकाशत्वाभ्युपगमे च सिद्धो राधान्तविरोधः । अत्र प्रकाश- रूपदहनाद्याश्रयेषु वाष्ठादिष्वपि दह्यमानस्यांशस्याङ्गारावस्थत्वेन प्रकाशरूपाद् दहना भिन्नत्वम् । इतरांशस्य तु घटादिवत् परितः प्रसर्पितेजोऽवयवप्रकाश्यत्वमेवेति न कस्याप्याश्रयत्वेन प्रकाश इत्यवगन्तव्यम् । शाङ्करास्तु ज्ञानज्ञात्रोरेकत्वं मन्य- मानाः स्वयंप्रकाशत्वमात्मनः समर्थयन्ति, 'अयं पुरुषः स्वयं- ज्योतिः' (बृ. ४. ३. १९), 'आत्मैवास्य ज्योतिः' (बृ. ४. ३. ५) इत्यादिवेदान्तवाक्यं च तत्र प्रमाणीकुर्वन्ति । तत्र ज्ञान- ज्ञात्रोरेकत्वमत्रैव निराकरिष्यते । न च वेदान्तवाक्यात स्वप्रकाशत्वसिद्धिः ॥ 'समासीन आत्मा जनानाम्' इति श्रुत्यन्तरविरोधाद् , 'आत्मा ज्ञानान्तराधीनप्रकाशः व्यवहा- यत्वाद् घटवदित्व प्रद्यनुमानविरोधाच्च । न च व्यवहार्यत्वम- .
८२ मानमेयोदये सिद्धमिति वाच्यम् । आत्मा व्यवहार्यो न भवति इत्यस्यैव व्य- वहारस्यात्मगोचरत्वेन ववचनविरुद्धत्वात् । नन्येवं सत्येक- स्यैव कर्तृत्वं कर्मत्वं च विरुद्धमिति चेद्, मैवम्। भवन्मते क- तत्वकरणत्वकर्मत्वानामिवारमन्मते कर्तृत्वकर्मत्वयोरप्येकस्यैवो- पपत्तेः, आत्मन एव कर्तृत्व(कर्मत्व)योलौकिकवैदिकप्रयोगग- म्यत्वाच्च । 'आत्मानं जानीही ति हि लौकिकाः प्रयुञ्जते, 'आ- त्मा द्रष्टव्यः' (बृ. २, ४. ५) इति श्रूयते च । ज्ञानजन्यफ- लभागित्वलक्षणं कर्मत्वं पुनरात्मनः स्वयंप्रकाशवादिभिरप्यप- श्याश्रयणीयम् , अन्यथात्मन एवाप्रकाशमानत्वप्रसङ्गात् । तस्मान्मालसप्रत्यक्ष एवात्मा । स च देहेन्द्रियज्ञानसुखेभ्यो व्यतिरिच्यते । नानाभूतो विभुनित्यो भोगस्वर्गापवर्गभाक् ॥२४॥ अत्र केचित् स्थूलोऽहं कृशोऽहमित्यादिप्रत्ययानां शरीरगतस्थौल्यकार्यादिविपयत्वात् स्थौल्यकाऱ्यांद्यधिकरणं श- रीरमेवात्मेति सङ्गिरन्ते । तदयुक्तम् । आत्मविशेषगुणानां सु- खदुःखादीनां शरीरगुणत्वानुपपत्तेः । यदि सुखदुःखादयः शरी- रविशेषगुणाः, तर्हि ते यावच्छरीरमवतिष्ठेरन् । न हि ते मृत- शरीरेषुपलभ्यन्ते । तस्मात् सुखदुःखादीनामन्याश्रयत्वमवश्या- श्रयणीयमिति सिद्धः सुखदुःखाद्याश्रयस्यात्मनस्तदनाश्रयाद् देहाद् भेदः । रथूलोऽहं कृशोऽहमित्यादिबुद्धिस्तु शरीरात्मनो- रत्यन्तसंसृष्टतया तोयौषण्यप्रत्ययवदिति द्रष्टव्यम् । दृश्यते च मम शरीरमिति शरीरात्मनोर्मेदव्यपदेशः। न चेन्द्रियाणामा- त्मत्वम् । तत्र बाह्येन्द्रियाणां भौतिकत्वाद्, भूतेषु चात्मगुणानां , प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ८३ चैतन्यादीनामनुपलम्भात् , कार्यगुणस्य च कारणगुणपूर्वकत्व- नियमादचेतनभूतारब्धानां तेषामात्मत्वं निराकरणीयम् । इयमे- व युक्तिदेहात्मवादिनिराकरणेऽपि समर्थेत्यवगन्तव्यम् । अपरो- क्षतया सिद्धरूपादात्मनस्तत्समवेतसुखदुःखाद्यापरो(क्ष्या ? क्ष्य)- साधनेन्द्रियत्वेन साध्यरूपस्यान्तःकरणस्य भेदावगमः पु(न)रना- याससाध्य एव । न च ज्ञानमेवात्मा । तस्य क्षणिकत्वात् । आत्मनस्तु 'योऽहं प्राग् दुःखमन्वभूवं, स एवेदानीं सुखम- नुभवामीति पूर्वापरकालयोरेकत्वावगमाद् अक्षणिकत्वसिद्धेः । यस्य मे पूर्व सुखमासीत् , तस्यैवेदानी दुःखभनुवर्तत इति पूर्वा- परकालयोरात्मन एकत्वावगमेऽपि सुखनिवृत्त्यनुसन्धानविरोधात् सुखरूपत्वमप्यात्मनो निराकरणीयम् । तत्र पुनरौपनिषदाः 'विज्ञानमानन्दं ब्रह्म' (बृ. ३. ९. २८) इत्यादिवेदान्तवाक्यब- लादात्मनो विज्ञानानन्दरूपत्वं समर्थयन्ति । न च विज्ञा- नस्य क्षणिकत्वाद् आत्मनश्च नित्यत्वादात्मनो विज्ञानात्मकत्व- मयुक्तमिति वाच्यम् । विज्ञानस्य नित्यत्वाभ्युपगमात् । नीलपी- तादिविज्ञानविशेषेप्वपि नीलपीताद्युपहितं विज्ञानमेकमेवेति व- यमभ्युपगच्छामः । न च 'विज्ञानमानन्दं ब्रह्म ' इत्यत्र त्रया- णामपि पदानामैकार्ये सत्येकेनैव पदेन चरितार्थत्वादितरपद- हृयाम्नानवैयर्थ्यमिति वाच्यम् । व्यवच्छेद्यभेदादेकार्थत्वेऽपि वै. यानुपपत्तेः, 'प्रकृष्टप्रकाशश्चन्द्र' इतिवत् । अत्र खल्वस्मिन् ज्योतिमण्डले कतमश्चन्द्र' इति चन्द्रप्रतिपादकप्रश्नस्योत्तरभूते 'प्रकृष्टप्रकाशश्चन्द्र' इति वाक्ये प्रकृष्टपदस्याप्रकृष्टनक्षत्रा- दिकं व्यावर्त्य, प्रकाशपदस्याप्रकाशतिमिरादिकमिति व्यवच्छे- मानमेयोदये द्यभेदादवैयर्थ्य भवति । एवमविज्ञानानानन्दव्यवच्छेदार्थ विज्ञा- नानन्दपदवयम् । अपिच, 'प्रकृष्टप्रकाशश्चन्द्र' इत्यत्र प्रकृ- ष्टप्रकाशपदयोरन्योन्यं चन्द्रपदेन चाभिन्नार्थत्वमङ्गीकरणीयम् । अन्यथा चन्द्रप्रातिपदिकार्थस्य पृष्टत्वात् तदितरस्य कथनेन प्र- श्नोत्तरयोः परस्परमसङ्गतिप्रसङ्गात्। तस्माद् विज्ञानानन्दपदयोः परस्परं ब्रह्मपदेन चाभिन्नार्थत्वमवश्याश्रयणीयम् । अत एवा- खण्डमेव वयं वाक्यार्थमङ्गीकुर्मः। प्रयोगश्च भवति 'विज्ञा. नादिपदमखण्डनिष्ठं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इति- वद्' इति । अतः सिद्धं विज्ञानानन्दपदयोरेकार्थत्वमपर्यायत्व- मवैयर्थ्य च । अत्र ब्रूमः। वाक्यार्थं हि गुरुः कार्यमखण्डं शङ्करोऽब्रवीत् । संसर्गापरपर्यायं विशिष्टं ब्रूमहे वयम् ॥२५॥ तत्र कार्यवाक्यार्थनिरासप्रकारं गुणनिर्णये वर्णयिष्यामः नाप्यखण्डं वाक्यार्थः । सर्वेषां पदानामेकस्मिन्नेवार्थे तात्पर्ये स- त्येकेनैव पदेन तस्यार्थस्य प्रतिपादितत्वादितरपदाम्नानवैयर्थ्यस्य दुष्परिहरत्वात् । न च व्यवच्छेद्यभेदादवैयर्थ्यमिति वाच्यम् । एकार्थत्वे पर्याययोरिव व्यवच्छेद्यभेदानुपपत्तेः । न हि 'हस्तः कर' इत्यादिषु कश्चिदपि व्यवच्छेद्यभेदः । नापि 'प्रकृष्टप्रका- शश्चन्द्र' इति वाक्यमखण्डनिष्ठं, तस्य वाक्यस्य संज्ञासंज्ञिस- म्बन्धप्रतिपादनमात्रपरत्वात् । नाप्येवं सति प्रश्नोत्तरयोरसङ्गति- प्रसङ्गः, प्रश्नस्यापि 'कस्यात्र चन्द्रसंज्ञेति संज्ञासंज्ञिसम्बन्धवि- षयत्वात् । दृश्यमानस्य चन्द्रस्खलक्षणमात्रस्य प्रश्नोऽप्यनुपपन्न एव । अतः संज्ञासंज्ञिसम्बन्धस्याज्ञातस्यैव प्रश्नावकाशः। तत्र च प्रकर्षविशिष्टप्रकाशोपलक्षितश्चन्द्रपदार्थ इत्युत्तरमपि सुस्थिरं प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ८५ भवति । तस्माद् विज्ञानमानन्दं ब्रह्मे'त्यादिवाक्यं विज्ञानादि- विशिष्टात्मस्वरूपविषयमेव, न पुनरखण्डार्थविषयम् । विज्ञान- मानन्दं ब्रह्मेति सामानाधिकरण्यं पुनर्मधुरो गुळ इतिवद् भेद- सहिष्णोरभेदादिति द्रष्टव्यम् । किञ्च, ‘स एको ब्रह्मण आनन्दः' (ते. २. ८), 'आनन्दं ब्रह्मणो विद्वान्' (ते. २. ४, ९) इति श्रुतिरानन्दात्मनोः परस्परभेदं प्रतिपादयति । तस्माद् विज्ञानानन्दात्मानः परस्परं भिन्ना एव । विज्ञानस्य नित्यलाभ्यु- पगमः पुनः 'अवेदयन्नेवाहमियन्तं कालमस्वाप्सम्' इति सुषुप्तौ विज्ञानाभावानुसन्धानादनुपपन्न एव । 'सुखमहमस्वाप्सम्' इति सुखानुभवानुसन्धानं पुनरखिलदुःखनिवृत्तिमात्रपरम्, अन्यथा कामिनीसम्भोगादिसुखलवलोपेन प्रबुद्धस्य दुःखोत्पत्त्यभावप्र- सङ्गात् । न ह्यनुभूतनिरतिशयब्रह्मसुखस्य क्षुद्रसुखपरिक्षयाद् दुःखोद्भवः सम्भाव्येत । अनुभूतमपि विस्मृतमिति चेत्, तर्हि कथं सुखमहमस्वाप्सम्' इति सुखानुभवानुसन्धानाद् विज्ञानस्य नित्यत्ववाचोयुक्तिरिति सिद्धमात्मनो देहेन्द्रियादिव्यतिरिक्तत्वम् । सोऽयमात्मा सकलशरीरेष्वेक इत्यौपनिषदाः। तदपि नोपपद्यते। एकस्मिन् सुखिनि दुःखिनि वा सर्वेषामपि सुखदुःखानुसन्धान- प्रसङ्गात् । न चास्त्येवानुसन्धानमिति वाच्यम् । देवदत्तपादल- नकण्टकोद्धरणाय तत्करव्यापारवदितरेषामपि युगपदेव करतल- (व्यापार)प्रसङ्गात् । न चेन्द्रियभेदादनुसन्धानवैधुर्यमिति वा- च्यम् । इन्द्रियभेदेऽपि 'योऽहमश्रौषं, स एव पश्यामी'त्याद्यनु- सन्धानदर्शनात् । न च देहभेदाद(न)नुसन्धानम्। देहभेदेऽपि जातिस्मराणामनुसन्धानदर्शनात् । न च जीवभेदादनुसन्धाना- मानमेयोदये भावः। आन्याव्यतिरिक्तजीवसद्भावे प्रमाणाभावात् । 'तयोरन्यः पिप्पलं स्वादत्यनननन्योऽभिचाकशीति' (श्वे.४.६) इति श्रुति- रात्मवयसद्भावे प्रमाणमिति चेद्, न । विकल्पासहत्वात् । त- थाहि -इयं श्रुति वपरयोर्भेदं प्रतिपादयति वा न वा । नाद्यः, अद्वैतभङ्गप्रसङ्गात् । नापि द्वितीयः, आत्महयसद्भावे प्रमाणा- भावप्रसङ्गात् । ननु कल्पनानिर्मित एव भेद इति नाद्वैतहानिः, नापि पूर्वोक्तवेदनाननुसन्धानदोषानुपङ्ग इति चेद्, न । कल्पना- मात्रनिर्मितता भेदस्य माणिकन्यवस्थाहेतुत्वानुपपत्तेः, अभ्य- था कन्यनानिमितरजतभावेन शुचिःशकलेनापि कटकमकुटा- दिनिर्माणप्रसङ्गात् । तस्माद् ‘एको देवः सर्वभूतेषु गूढः' (श्वे. ६. ११), 'एक एव च भूतात्मा भृते भूते व्यवरियतः' (ब्रह्म- बिन्दुः ११) इत्यादिश्रौतरमातासनागि गमाणातरविरोधाद् न यथाश्रुतेऽर्थ प्रमाणम् । सहस्रसंवत्सरसत्रवाश्यवत् । तत्र हि कर्तव्यखमतिपादनविरोधात महानसंवत्सरपदं राहस्रदिपसपर- तया व्याख्यातमाचार्यः । तत् सिद्धमात्मा प्रतिक्षेत्रं भिन्न इति । ननु कथमात्मनो विगुलम् । श्रूयनाम् ।युगपदेव चरणशिरसोः कण्टकवितस्य समकालमेव वेदनाहयानुप्सन्धानदर्शनादणुवं तावदनुपपन्नम् । मध्यमपरिमाणत्वे तु शरीरतुल्यपरिमाणत्वमङ्गी- कर्तव्यम् । अधिकपरिमाणत्वे शरीरान्तःप्रवेशाभावप्रसङ्गात् । न्यूनपरिमाणत्वे तु शिरःपादवेदनयोयुगपदनुसन्धानाभावप्रस- ङ्गस्य तादवस्थ्यात् । तर्हि शरीरगरिमाणत्वमेवास्त्विति चेद्, * द्वित्वस्फुटतार्थमेकवद्भावो न कृत. कर्तव्योऽपि ।
प्रमेयपरिच्छेदे द्रव्यनिर्णयः । मैवम् । गजादिगतस्यात्मनः पिपीलिकादिदेहानुप्रवेशाभावप्रस- ङ्गात् । तस्मात् पारिशेष्यसिद्धं विभुत्वम् । 'तेनेदं पूर्ण पुरुषेण सर्वम् ' (श्वे. ३. ९) इत्यादिभिः श्रुतिभिश्च विभुत्वसिद्धिः । नित्यत्वं पुनः ‘अविनाशी वा अरे अयमात्मा' (ह. ४. ५. १४) इत्यादिश्रुतेरनवयवद्रव्यत्वाद् विभुत्वाच्च गगनादिवत् साधनीयम् । ननु को पुनः स्वर्गापवर्गों नाम । लौकिकेषु सु- खदुःखेष्वेव स्वर्गनरकादिव्यपदेशः । मोक्षस्तु शशविपाणसदृक्ष इति देहात्मवादिनचाकस्य मतम् । तत्तु देहव्यतिरिक्तात्मस- द्भावप्रतिपादनेन निररतं बेदितव्यम् । सौगतास्तु नीलपीता- दिविषयोपधानविलये सति निरुपधानस्य बोधस(न्धा?न्ता)नस्य स्वरूपेणावस्थानं मोक्षमाचक्षते । तदयुक्तम् । निर्विषयस्य रव- यमवस्थानानुपपत्तेः । निरन्तरमुपजायसानेपु विन(श्च ? श्य)त्सु च बोधसन्तानेपु कस्यापि भोक्षफलानुभवानुपपत्तेः, मुक्तेरपरपु- रुषार्थत्वप्रसङ्गाच्च । एकविंशतिप्रभेददुःखोच्छेदो मोक्ष इति ता- किंकाः कीर्तयन्ति । देहः, षडिन्द्रियाणि, पड् विषयाः, पड् बु- द्धयः, सुखं, दुःखं चेत्येकविंशतिप्रभेदं च दुःखमाचक्षते । तत् सुखस्यापि विनाशेन मुक्तेरपरपुरुषार्थत्वप्रसङ्गादुपेक्षणीयम् । न च सुषुप्तेरिव मुक्तेरपि दुःखाभावमात्रेण समीहितत्वमिति वाच्य- म् । दुःखाभावसमीहितस्याल्पविषयत्वाद्, अन्यथा विस्मृत्य सुप्तोत्थितस्य दुःखाभावेऽनुसन्धीयमानेऽपि कामिनीसम्भोगादि- सुखलवलोपनिमित्तदुःखानुषङ्गाभावप्रसङ्गात् । तस्मात् स्वर्गादि- सुखमुन्मुच्य मोक्षमात्राकाङ्क्षा न मोक्षस्य दुःखाभाव(प्रस- ङ्गामात्ररूपस्व : मात्रस्वरू)पत्वे सम्बोभवीति । एतेन (स खलु ? , मानमेयोदये , , सुख)बुयादिविशेषगुणविलये सत्यात्मनः स्वरूपावस्थानं मोक्ष इति प्राभाकरमतमपि निरस्तं वेदितव्यं, सुखविलयादपुरुषार्थ- त्वस्य तुल्यत्वात् । सततोर्ध्वगमनादयस्तु दूरापास्ताः, तेषामपर- पुरुषार्थत्वस्य स्पष्टत्वात् । प्रकृतिपुरुषविवेकज्ञानात् पुरुषस्य स्वरूपावस्थानं मोक्ष इति साङ्ख्याः। तस्याप्यानन्दव्यतिरे- कसम्भवेनापुरुषार्थत्वमेव । प्रपञ्चविलयो मोक्ष इति शाङ्क- राः। न च तस्यापुरुषार्थत्वम् , आत्मन आनन्दमयत्वाभ्युप- गमात् । तदपि न सङ्गच्छते । प्रपञ्चविलयस्यैवाभावात् । ननु प्रपञ्चरय मायामयत्वादुपपद्यत एव विज्ञानोदये विलयः शुक्तिकास्वरूपावबोधे रजतावबोधविलयवद् इति चेद्, मैवम् । प्रपञ्चस्य मायामयत्वस्य निराकरिष्यमाणत्वाद्, आत्मानन्दयोः परस्परभेदस्य समर्थितत्वाच्च, आनन्दानुभवस्यैव पुरुषार्थत्वेन तद्भावप्राप्तेरपरपुरुषार्थत्वाच्च । कस्तहि मोक्षः, किं च तत्साधनम् । उच्यते । दुःखात्यन्तसमुच्छेदे सति प्रागात्मवर्तिनः । आनन्दस्यानुभूति(स्तु) मुक्तिरुक्ता कुमारिलैः ॥ २६ ॥ ननु यदि संसारावस्थायामप्यात्मसमवेत एवायमान- न्दः, तर्हि कथं नानुभूयते । अनुभवहेतोरभावादिति ब्रूमः । देहेन्द्रियादीनामात्यन्तिकपरिध्वंसानुगृहीतं मनस्तदनुभवसाध- नम् । किं तर्हि तत्र प्रमाणम् । 'आनन्दं ब्रह्मणो रूपं तच्च मो- क्षेऽभिव्यज्यत' इति श्रुतिरेव । न च 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' (छा ८. १२. १) इति श्रुतिरानन्दानु- भूतिबाधिकेति वाच्यम् । तस्या वैषयिकप्रियाप्रियस्पर्शनिवृत्ति- मात्रपरत्वाद्, अन्यथा मुक्तेरपरपुरुषार्थत्वप्रसङ्गात् ।
८९ प्रमेयपरिच्छेदे द्रव्यनिर्णयः । निषिद्धकाम्यकर्मभ्यः सम्यग् व्यावृत्तचेतसः। नित्यनैमित्तिकप्रायश्चित्तप्रध्वस्तदुष्कृतेः ॥ २७ ॥ सुखदुःखानुभूतिभ्यां क्षीणप्रारब्धकर्मणः । युक्तस्य ब्रह्मचर्यायैरङ्गैः शमदमादिभिः॥ २८ ॥ कुर्वाणस्यात्ममीमांसां वेदान्तोक्तेन वर्मना। मुक्तिः सम्पद्यते सद्यो नित्यानन्दप्रकाशिनी ॥२९॥ सुखाद्यापरोक्ष्यसाधनेन्द्रियत्वेन कल्प्यमन्तरिन्द्रियं वि- भुपरिमाणमस्पन्दं च मनः । अणुपरिमाणं त्वचलं च मन इति केचिदूचिरे । तदसङ्गतम् । 'मनो विभु स्पर्शानद्रव्य- त्वाद् अनारभ्यारम्भ(क)द्रव्यत्वाद् वा ज्ञानासमवायिकारणसं- योगाधारत्वाद् वा आत्मवद्' इत्यादिभिरनुमानैर्महत्त्वसिद्धेः । सिद्धे विभुत्वे चाकाशादिवदस्पन्दा(त्म)कत्वमपि न पृथक् साध्यम् । ननु धर्मिग्राहकप्रमाणबाधितान्यनुमानानि। तथाहि- विभुनो मनसोऽनुपहितत्वे गगनादिवदिन्द्रियत्वायोगादुपाधिर्व- क्तव्यः । तत्र श्रोत्रादीनामिव मनसः शरीरैकदेशोपाधित्वं नोपपद्यते । तदवयवनिरोधे मनोनिरोधप्रसङ्गात् । नापि (स)- कलशरीरोपाधित्वं, वेदनाविज्ञानसाधनस्यात्ममनःसंयोगस्य सा- र्वत्रिकत्वेन पादादिगतायाः कण्टकादिवेधवेदनायाः सकलशरी- रव्यापित्वप्रतीतिप्रसङ्गात् । अणुत्वाश्रयणे तु तत्तदेहावयवगता- त्ममनःसंयोगविशेषवशादुपपद्यत एव वेदनायास्तत्तदधिकरणत्व- प्रतीतिरिति मनोग्राहकमेव प्रमाणमणुत्वमपि गृह्णातीति सिद्धो धर्मिग्राहकप्रमाणबाधः। अत्र वदामः । यत् तावदुक्तं मनसोऽनु- मानमयोदये पहितस्य नेन्द्रियत्वमिति, तदङ्गीकुर्मः, सकलशरीरोपाधित्वस्वी- कारात् । न चैवं सति पादादिगताया वेदनायाः सार्वत्रिकत्वप्र- तीतिप्रस(ङ्गा?ङ्गः)। मनसस्तादृशस्वभावस्वीकारेण तत्तदधिकरण- त्वप्रतीत्युपपत्तेः, अन्यथाणुत्वेऽपि सकलशरीरगतस्य चन्दनादि- जनितस्य सुखस्य यौगपद्यप्रतीत्यनुदयप्रसङ्गात् । तस्मादणुत्वम- हत्त्वयोर्गुणदोषसाम्यान्मनोग्राहकं प्रमाणं मनोमात्रमेव गृह्णाति। विभुत्वं तु प्रमाणान्तरावसेयम् । तच्चोक्तमेव । (न च) संयो- गस्यान्यतरकर्मजत्वादिनियमदर्शनाद् विभुत्वेनाकर्मणोरात्ममन- सोः परस्पर(संयोगा?) संयोगासम्भवादात्ममनःसंयोगजन्यज्ञान- स्यानुदयप्रसङ्ग इति वाच्यम् । उभयोरपि विभुत्वे सुतरामितरे- तरसंयोगोपपत्तेः । विभूनां परस्परसंयो(गज ? गः कर्मज इ)ति (न) वयं सङ्गिरामहे, तत्संयोगस्याजन्यत्वात् । न च विभूनां परस्परसम्बन्धस्य क्वचिदप्यनुपलक्ष्यमाणत्वाद् विभुनोरप्या- त्ममनसोः परस्परसम्बन्धानुमानं विशेषविरुद्धमिति वाच्यम् । विभूनामपि दिगाकाशादीनां प्राचीनाकाशः प्रतीचीनाकाश इति परस्परसम्बन्धस्याध्यात्मतयाध्यवसीयमानत्वादस्माभिः । प्रयोगश्च भवति 'विभुनी द्रव्ये परस्परसंयोगिनी अनार- भ्यारम्भकद्रव्यत्वे सति निरन्तरत्वाद् घटवद्', 'आकाशः का- लसंयोगी कालव्यतिरिक्तत्वे सति निरन्तरत्वाद् घटवद्' इ- त्यादि । ननु सुखाद्यापरोक्ष्ये साधनेन्द्रियत्वे(न) कल्प्यमानं द्रव्यं दिगाकाशादीनामन्यत(रदे ममे)वास्तु। किं द्रव्यान्तरक- प्रमेयपरिच्छेदे द्रव्यनिर्णयः । ९१ ल्पनव्यसनेन । मैवम् । तत्र तावत् करणत्वात् कर्तृवैलक्षण्य- सिद्धिः । दिगाकाशादीनां प्रत्यक्षत्वात् तदवगमे (वि ?) मनसः करणभूतत्वाद् दिगाकाशादिव्यतिरेकसिद्धिरपि स्वध्यवसेयेति सिद्धं दशमं मनोद्रव्यम् । श्रोत्रमानेन्द्रियग्राह्यः शब्दः शब्दत्वजातिमान् । द्रव्यं सर्वगतो नित्यः कुमारिलमते मतः ॥३०॥ तत्र श्रोत्रग्राह्यत्वे शब्दस्य न विवादः। शब्दत्वं नाम जातिर्जातिनिर्णये वर्ण्यते च । वियद्गुणत्वं शब्दस्य केचिदूचुर्मनीषिणः । प्रत्यक्षादिविरोधात् तद् भट्टपादैरुपेक्षितम् ॥३१॥ तत्र गुणस्य सर्वत्र साश्रयतया प्रतीयमानत्वादिह च नि- राश्रयतयैव प्रतीतिदर्शनात् प्रत्यक्षविरोधः । 'शब्दो द्रव्यं सा- (क्षादक्षसम्बन्ध(कार्य ? ग्राह्य त्वाद् घटवत्' । 'शब्दो द्रव्यं सत्त्वे सत्यनाश्रयत्वात् (कालवत्) । न चास्यानाश्रयत्वमसिद्धमिति (च?) वाच्यम् । प्रतीतिविरोधाद्, 'विमतं द्रव्यं शब्दाश्रयो न भवति द्रव्यत्वात् सम्प्रतिपन्नवदिति निराश्रयत्वसिद्धेश्च । 'शब्दो द्रव्यं न भवति श्रोत्रग्राह्यत्वात् शब्दत्ववदिति साध्यमिति चेद, न, 'शब्दो गुणो न भवति श्रोत्रग्राह्यत्वात् शब्दत्ववदि'त्येताभ्यामेव हेतुदृष्टान्ताभ्यां गुणवनिवृत्तेरपि सु- साधनीयत्वात् । तस्माद् द्रव्यत्वं प्रमाणान्तरावसेयम् । तत्तूक्त- मेव । 'शब्दो विभुः स्पर्शानद्रव्यत्वाद् अनारम्भकत्वे सत्य- मानमेयोदये नवयवद्रव्यत्वाद् वा आत्मवदिति विभुत्वसिद्धिः।नच द्रव्यत्व- मसिद्धम् । तस्य साधितखात् । एकस्यैव गकारस्य कालदेशा- (दीनां?दिना) तन्त्रीकृतस्य युगपदुपलभ्यमानत्वाच्च महत्त्वासि- द्विः। नैयायिकाः पुनरेनमेव युगपदुपलम्भं व्यक्तिभेदेन समर्थय- न्ति । व्यक्तीनां च विनाशित्वमभ्युपगच्छन्ति । स एवायंगकार' इति प्रत्यभिज्ञानस्य तु जातिगोचरत्वमपि कल्पयन्ति । तच्चायु- क्तम् । यस्य हि प्रत्यभिज्ञानस्य बलवत्प्रमाणविरोधेन (न?) व्यक्तिगतमेकत्वं गोचरीकर्तुमशक्यं, तस्यैव जात्यात्मनैकगोचर- त्वकल्पनं युक्तम् । अन्यथा सर्वत्रापि जात्यात्मना प्रत्यभिज्ञान- कल्पने 'सोऽयं देवदत्त' इत्यादावपि तथात्वप्रसङ्गात् । न चात्र बाधकप्रमाणं किञ्चिदुपलभ्यते । न(नु) 'उत्पन्नः शब्दः' 'विनष्टः शब्द' इत्यादिप्रत्ययोऽत्र बाधक इत्यादि ? ति) चेद्, न, नित्य- विभुलेन सम्मतानामपि गगनादीनां खननपूरणानन्तरभवस्य जननविनाशप्रत्ययस्येवाभिव्यञ्जकसान्निध्यसदसद्भावनिबन्धन- त्वात् तस्यापि । 'नित्यः (श)ब्दः सत्त्वे सत्यकारणत्वाद् व्योमवत्' । न च ता(ल्वा)दिव्यापाराणां कारणत्वदर्शनादकार- णत्वमसिद्धमिति वाच्यम् । ता(ला ? ल्वा)दिव्यापाराणां खनना- देर्मुलोदकाभिव्यञ्जकत्ववदभिव्यञ्जकत्वस्यैवोपपत्तेः । 'ताल्वा- दिव्यापारः शब्दकारणं न भवति व्यापारत्वात् सम्प्रतिपन्नव्या- पारवदि'त्यकारणत्वसिद्धेश्च । ननु 'ताल्वादिव्यापारः शब्दका- रणं भवति शब्दस्य तदनन्तरभावित्वाद् यो यदनन्तरभावी स तत्कारणकः यथा कुलालव्यापारानन्तरभावी घटस्तत्कार- णकः' (इति) कृतिकारणत्वमपि साध्यमिति चेद्, न, मूलोद- , प्रमेयपरिच्छेदे द्रव्यनिर्णयः । कादौ व्यभिचारात् । न च ताल्वादिव्यापाराणामभिव्यञ्जकत्वे शब्दानां विभुत्वादभिव्यक्तस्य वर्णस्य सर्वोपलभ्यत्वप्रसङ्ग इति वाच्यम् । ताल्वादिव्यापारोत्पन्नध्वनिश्रोत्रसंयोगस्यैवाभिव्यञ्जक- त्वाङ्गीकाराद् , ध्वनीनां वायवीयादीनां यावद्वेगं गमनोपपत्तेश्च । न चैकस्यैव गकारस्य तीव्रतीव्रतरमन्दमन्दतरत्वादिविरुद्धधर्मा- नुपपत्तेर्भिन्ना एवैते गकारा इति वाच्यम् । एकस्मिन्नेव मुखे मणिदर्पणकृपाणाद्यभिव्यञ्जकभेदेन भिन्नत्वप्रतीतिव(दिति?त् त)- दभिव्यञ्जकध्वनिधर्मसमारोपेण वर्णेऽपि भिन्नत्वप्रतिपत्त्युपपत्तेः । ज्वालैकत्वप्रत्यभिज्ञानवद् (भासी ? भ्रान्ति)मूलमिदं वर्णैकत्वप्र- त्यभिज्ञानमिति न वाच्यम् । कारणदोषबाधकप्रत्यययोरन्यतर- स्याभावे भ्रान्तिमूलत्वकल्पनानुपपत्तेः । ज्वालैकत्वप्रत्यभिज्ञानं हि ज्वालाया विशीर्यमाणावयवत्वदर्शनात् तेनावयविविशरण- स्याप्यनुमेयत्वादेकस्यामेव वर्तिकायां ज्वलद्दीपनिर्वाणे दीपान्त- रोद्दीपने च विहितेऽपि तदनवलोकयतः सैवेयं ज्वालेति पूर्वव- देव प्रत्यभिज्ञानदर्शनाच्च विषयगतसादृश्यादिदोषनिबन्धनमि- (व ? ह) शक्यावगमम् । गकारप्रत्यभिज्ञाने तु विनाशप्रतिनिय- तलिङ्गदर्शनाद् विषयदोषकारणदोषयोरन्यतरस्यादर्शनाच्च न भ्रान्तिमूलत्वकल्पनमुपपद्यते । तस्मादखिललोकैरपि युगपदुप- लभ्यमानोऽयमेक एव गकारः । अपिच शब्दोत्पत्तिपक्षे प्रथम- स्य शब्दस्य ताल्वादिव्यापारोत्पाद्यत्वन , इतरेषां शब्दोत्पाद्य- त्वम् , आद्यस्य कार्यविनाशित्वम् , अ यस्य कारणविनाशित्वं, श्रोत्रसमवेतस्यैव ग्राह्यत्वं, वीचीतरङ्गन्यायेन कदम्बमुकुलन्या- येन वारभ्यत्वमित्यादिबहुतरादृष्टकल्पनाभयाद् नित्यत्वपक्षमेव व- मानमेयोदये यमाद्रियामह इति सिद्धाः शब्दस्य द्रव्यत्वानित्यत्वसर्वगतत्वा- दयः । स पुनरयं शब्दो वाचकावाचकभेदेन द्विविधो भवति । तत्रावाचको भेरीपहरणजन्यध्वनिव्यङ्ग्यः । अन्यस्तु ताल्वादि- व्यापारजन्यध्वनिव्यङ्गयो वर्णात्मकः । वर्णात्मकानां शब्दानां सम्भूयैकत्ववाचिनाम् । समाहारं पदं प्राहुराचार्यमतकोविदाः ॥ ३२ ॥ उत्तीर्णवर्ण यत्किञ्चित् तत्वं स्फोटपदोदितम् । वर्णव्यङ्गय पदं प्रोक्तं पतञ्जलिमतानुगैः ॥ ३३ ॥ तत्र तावदुत्तीर्णवणे पदवरूपे किं प्रमाणम् । नन्वस्ति तावदेकं पदमिति प्रत्यक्षानुभवः । नासौ वर्णविषयः, तेषामनेकत्वादिति तदतिरिक्तत्वादिसिद्धिरिति चेद्, मैवम् । यथारब्धानेकपदारब्धं वाक्यमेकवाक्यार्थावबोधकत्वादेकबुद्धि- विषयं भवति, तथानेकेषामपि वर्णानामेकपदार्थप्रतिपत्तिहेतु- त्वेनैकबुद्धिविषयत्वोपपत्तेरिति वर्णातिरिक्तपदकल्पनानवकाशः। यत् पुनर्वर्णानामक्रमव्युत्क्रमपठितेभ्योऽपि वर्णेभ्योऽर्थप्रतीतिप्र- सङ्गादसङ्गतमित्युक्तं, तद् वर्णानां स्फोटाभिव्यञ्जकत्वपक्षेऽपि समानमेवेति न स्फोटाभिधानं पदान्तरं द्रव्यान्तरं वा कल्प- नीयम् । एतादृशस्य पदस्य पदार्थेन सह प्रत्याय्यप्रत्यायक- (भाव)लक्षणः सम्बन्धोऽपि नित्य एव । पदपदार्थसम्बन्धः साङ्केतिकः, ईश्वरोऽत्र सङ्केतयिता (इति) तार्किकाणां मतम् । तदपि तार्किकेश्वरनिराकरणेन निरस्तं वेदितव्यम् । गवादिजा- तिरेव गवादिपदवेदनीया । व्यक्तिस्तु गामानयेत्यादिवाक्येषु प्रमेयपरिच्छेदे जातिनिर्णयः । जातेरानयनादिक्रियान्वयानुपपत्त्या लक्ष्यते । जातिनित्यत्वं पु- नरत्रैव जातिनिर्णये वर्णयिष्याम इति सम्बन्ध्यनित्यत्वनिब- न्धनं सम्बन्धानित्यत्वमपीत्यलमतिविस्तरेण । तत् सिद्धमेकादशं द्रव्यम् ।। इति मानमेयोदये प्रमेयपरिच्छेदे द्रव्यनिर्णयः। अथ जातिनिर्णयः। जातिः सर्वगता नित्या प्रत्यक्षज्ञानगोचरा । भिन्नाभिन्ना च सा व्यक्तेः कुमारिलमते मता ॥३४॥ .. अत्र बौद्धास्तावज्जातिमेव नानुमन्यन्ते । वदन्ति च- जातिः सर्वगता व्यक्तिगता वा । न तावत् सर्वगता, सर्वत्रो- पलब्धिप्रसङ्गात् । नापि व्यक्तिगता, तत्कालोत्पन्नाया व्यक्ते- यंत्यन्तरवर्तिजात्यन्वयाभावप्रसङ्गात् । न च व्युत्पत्तिसमये तद्गता जातिरव्युत्पन्नेति वक्तव्यम् । मीमांसकैरेव जातोर्नित्य- त्वाभ्युपगमात् । अस्तु तर्हि व्यत्यन्तरादागत्य सम्बन्ध इति चे. द्, न । तैरेव निष्क्रियत्वाभ्युपगमाद् व्यत्त्यन्तरेऽनुपलब्धि- प्रसङ्गाच्च । न चांशेनागत्य सम्बन्ध इति वाच्यम् । निरंशत्वप- रिग्रहात्। अपिच व्यक्तिनाशे किं तयैव सह विनश्यति, त- त्रैव तिष्ठति वा, व्यक्त्यन्तरं प्रति गच्छति वा । नाद्यः, नित्य- त्वात् । नापि द्वितीयः, तत्रानुपलम्भात् । न तृतीयः, निष्क्रि- ९१ मानमेयोदये यत्वाद्, व्यक्त्यन्तरे जातिहयोपलम्भप्रसङ्गाच्च । तदुक्तं- "न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्व नाधारमहो व्यसनसन्ततिः॥" इति । तत्र वदामः । तत्र यत् तावत् पृष्टं सामान्यं सर्वगतं व्यक्तिगतं वेति, तत्र पक्षद्वयमपि वयं कक्षीकुर्मः । सर्वगतत्वे व्यक्तिगतस्यापृथक्साध्यत्वात् । न च सर्वगतत्वे सर्वत्रोपल- ब्धिप्रसङ्गः । व्यक्तेर्व्यञ्जकत्वाङ्गीकरणात् । (न) ह्यभिव्यञ्जकेन विनाभिव्यङ्ग्यस्योपलम्भः क्वचिदपि संभवति । न च व्यक्ति गतत्वे तत्कालोत्पन्नाया व्यक्तेर्जात्यन्वयवियोगयो(रु ? रनु)- पपत्तिः। 'अन्यत्रावस्थितस्यान्येनान्वयो गतिपूर्वक' इत्यादिनिय- मानां पृथक्सिद्धवस्तुविषयत्वाद् न तादात्म्यसम्बन्धसम्बद्ध- योर्जातिजातिमतोरपि शक्यमापादयितुम् । येनकेनचित् सा- धर्येणान्यधर्मस्यान्यारोपे सति विश्वस्य सङ्करप्रसङ्गादिति न पू र्वोक्तदोषानुषङ्गः।शाबलेयादिष्वनुस्यूतो महिषादिभ्यो (व्यावृत्तो) गौरित्येकाकारावभासः प्रत्यक्षप्रमाणनिष्पन्नः कथं न सामान्य- मनिच्छतोऽप्यङ्गीकारयेत् । न चायमगोनिवृत्तिमात्रविषयः प्र- त्ययः । विधिमुखेन जायमानस्य प्रत्ययस्य निषेधमुखत्वाङ्गी- करणानुपपत्तेः । अगोनिवृत्तिशब्दस्यापि निषेधहयविशिष्ट- त्वाद् गोत्वमेवार्थ इति पुनरपि शब्दान्तरेण गोत्वमेवापन्नमा- युष्मताम् । तदुक्तमाचार्यैः- * शक्यमिति सामान्ये नपुसकमव्ययं वा । नियमा इति विपरिणामेना- जया बोद्धव्यः ।
प्रमेयपरिच्छेदे जातिनिर्णयः । "अगोनिवृत्तिसामान्य वाच्यं यः परिकल्पितम् । गोत्ववस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥" इति। ननु सामान्य व्यक्तेरत्यन्तमभिन्नं भिन्नं वा । नायः, व्य- क्तिव्यतिरेकेण जातेरभावप्रसङ्गात् । नापि भिन्नं, गोरेव गोत्वजा- तिसामान्यस्याभिव्यञ्जकत्वं नाश्वस्येति विभागाभावप्रसङ्गादि- ति चेत्, तदयुक्तम् । जातिजातिमतोर्भेदाभेदसमुच्चयाङ्गी- करणादुभयपक्षोक्तदोषानुप्रवेशानुपपत्तेः। ननुच (कथं) पयःपाव- कयोरिवात्यन्तविरुद्धयोर्भेदाभेदयोरेकत्र समुच्चयः, दर्शनबला- दिति ब्रूमः। तत्र तावदयं गौरित्यत्रेदंशब्दने व्यक्तिरभिधीयते, गोशब्देन तु जातिः। तत्र यदि जातिजातिमन्तावत्यन्तभिन्नौ, तर्हि इदंगोत्वे इति प्रतीतिः स्यात् । अत्यन्तभिन्नेषु घटपटादि- षु तथा प्रतीतिदर्शनात् । यद्यत्यन्ताभिन्नौ, तर्हि हस्तः कर इ- त्यादिवत् पर्यायत्वमिदंगोपयोः प्रसज्येत । तस्मादिदंगोपदयो- रपर्यायत्वे सति सामानाधिकरण्यदर्शना(पाद) भेदाभेदसमु- चयमेव वयं जातिजातिमतोराश्रयामहे । समवायात् सामाना- धिकरण्यमिति प्राभाकराणाम् । तदुपरिष्टात् समवायनिराकरणे निराकरिष्यामः । ततो न जातिसिद्धौ काचिदनुपपत्तिः । एवं सिद्धायामपि जातौ तदवबोधस्य पूर्वाकारावमर्शनियतत्वात् तदभावेन सत्त्वशब्दत्वब्राह्मणत्वादीनामभाव इति। तदयुक्तम् । पूर्वाकारावमर्शस्य तत्रापि विद्यमानत्वात् । तथाहि-टीकायां पूर्वाकारावमर्शो नाम किं पूर्वानुभूतानां सर्वेषामाकाराणामवम- शः, उत कतिपयानाम् । नाद्यः, शाबलेयीमुपलभ्य बाहुलेयीमु- पलभमानस्य शाबलेयोगतानां सर्वेषामाकाराणां बाहुलेयीगतत्वे- मानमेयोदये नावमर्शादर्शनात् । दर्शने वा बाहुलेय्याः शाबलेयीत्वप्रसङ्गात् । अथ तर्हि द्वितीय, तर्हि किमपराद्धं सत्त्वशब्दत्वब्राह्मणत्वादिभिः, पूर्वानुभूतस्य सत्त्वाद्याकारस्य तत्राप्यनुभूयमानत्वात् ।ततः पृथि- वीसलिलादिषु द्रव्येषु गोत्वादिषु जातिषु रूपरसादिषु गुणेषु गमनादिषु कर्मसु च सत् सदितिप्रतीतिशब्दप्रयोगयोर्दर्श- नाद् द्रव्यादिचतुष्टयवर्ति सत्त्वं नाम महासामान्यमाश्रयणीयम्। तार्किकास्तु सामान्यस्य सामान्यान्तराश्रयणेऽनवस्थाप्रसङ्गाद् द्रव्यगुणकर्मगतमेव सत्त्वं, न तु जातिगतमित्याहुः। तदयुक्तम् । यदि द्रव्यत्वस्य द्रव्यत्वान्तरं गोत्वस्य वा गोत्वान्तरमाश्रया- महे, तर्हि स्यादेवानवस्था । सत्त्वाश्रयणे तु न काचिद(न)व- स्था । अपिच सत् सदिति शब्दप्रयोगप्रत्यययोस्तत्राविशेषेण विद्यमानत्वात् कथं नाम न तद्गतामपि सत्तामाश्रयामहे । एवमश्रुतचरेऽपि शब्दे श्रूयमाणे (यदि ? झटि)ति शब्दोऽयं शब्दोऽयमित्यनुगताकारबुद्धिदर्शनाच्छब्दत्वसिद्धिः । ननु वाच- कादिपदनिबन्धनोपाधिनिबन्धनेयं (* सत्त्वादावेकशब्दत्वप्रवृ- त्तिः?) इति चेद् , न । तादृशोपाधेरनिरूपणात् । न च सत्त्वे प्रमाणसम्बन्धयोग्यत्वमुपाधिः । प्रमाणसम्बन्धयोग्यत्वावग- मात् पूर्वमेव झटिति सदिति प्रत्ययोत्पत्तिदर्शनात् । न ह्युपा- धिपरिज्ञानात् पूर्वमुपहितत्वबुद्धिरुत्पद्यते । देवदत्तादिविषयवा- चकत्वादिबुद्धेस्तद्गतवाचकादिव्यापारावगमात् पूर्वमुद्भवप्रसङ्गा- तु । अनेनैव शब्दत्वे श्रोत्रग्राह्यत्वमुपाधिरित्यपास्तम् । अ(व- , 'सत्त्वादावेव शब्दत्वप्रतीतिरिति स्यात् ।
प्रमेयपरिच्छेदे गुणनिर्णयः। यव ? न्वय)व्यतिरेकाभ्यां श्रोत्रग्राह्यत्वग्रहणात् पूर्वमेव झटि- ति शब्दोऽयमिति प्रतीतिदर्शनात् । एवमेव ब्राह्मणोऽयमिति शब्दप्रयोगप्रत्यययोर्दर्शनाद् ब्राह्मणत्वमपि साधनीयम् । यत् पु- नर्मातापितृगतो ब्राह्मणशब्दप्रयोगः पुत्रे तत्प्रयोगनिमित्तमि- त्युक्तं, तदयुक्तम् , एकत्र प्रयोगस्यान्यत्र प्रयोगनिमित्तत्वानुप- पत्तेः । उपपत्तौ वा पित्रादिगतेन देवदत्तपदप्रयोगेण पुत्रादा- वपि तत्पदप्रयोगप्रसङ्गात् । तस्माद् भूयसां ब्राह्मणकुलानामे- कवर्गी)करणं ब्राह्मणत्वजातिमन्तरेण नोपपद्यत इति सि- इं ब्राह्मणत्वम् । अविप्लुतब्राह्मण(त?त्व)मातापितृसम्बन्धो- त्पन्नत्वावगमानुगृहीतं चक्षुरेव तद्वाहकमिति न तस्याप्रत्यक्षत्व- मपि । एवमेव द्रव्यत्वगुणत्वरसत्वादीन्यपि सामान्यान्तराणि आशङ्किततत्तदुपाधिनिरसनेन निरुपाधिकत्वसमर्थनात् समर्थ- नीयानीति सिद्धा जातिः ॥ इति मानमेयोदये प्रमेयपरिच्छेदे जातिनिर्णयः। अथ गुणनिर्णयः। कर्मणोऽप्यतिरिक्तत्वे सत्यवान्तरजातिमान् । उपादानवनिर्मुक्तो गुणो गुणविदां मतः॥ ३५ ॥ स च रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्तुसंयोगविभा- गपरत्वापरत्वगुरुत्वद्वत्वस्नेहबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्कार- १०० मानमेयोदये ध्वनिप्राकट्यशक्तिभेदाच्चतुर्विशतिविधः। तत्र रूपं चक्षुरिन्द्रिय- मात्रग्राह्यं पृथिव्यादित्रये तमसि च वर्तमानं विशेषगुणः । तच्च शुक्लकृष्णपीतरक्तश्यामभेदेन पञ्चविधम् । एतेपामवान्तरभेदाः पुनरसङ्ख्याः । रसो रसनेन्द्रियमात्रग्राह्यः पृथिवीजलमात्रवर्ती विशेषगुणः। स च मधुरतिक्ताम्लकषायकटुलवणभेदेन षड्विधः । एतेषामप्यवान्तरभेदा बहुविधाः। गन्धो घ्राणेन्द्रियमात्रग्राह्यः पृथिवीमात्रवर्ती विशेषगुणः। स च सुगन्धदुर्गन्धसाधारणगन्धभे- देन त्रिविधः। जलादौ गन्धप्रतिभानं तु पृथिवीसम्बन्धादिति द्रष्ट- व्यम् । स्पर्शस्त्वगिन्द्रियमात्रग्राह्यः पृथिव्यादित्रये वायौ च वर्त- मानो विशेषगुणः । सोऽपि शीतोष्णानुष्णाशीतभेदेन त्रिविधः । सङ्ख्या पुनरेकत्वादिव्यवहारहेतुः। सर्वद्रव्यवर्तित्वात् सामान्यगु- णः।सा पुनरेकादिपरार्धपर्यन्ता। परिमाणमपि (न?) व्यवहारकारणं सर्वद्रव्यगतं सामान्यगुणः, अणुमहद्दीर्घादिभेदभिन्नं च । तत्रा- णुत्वं परमाणुगतम् । महत्परिमाणं गगनादिगतम् । इतराणि पुनरितरद्रव्यगतानि । पृथक्तुं व्यवहारकारणं सामान्यगुणः । अत्र प्राभाकराः कार्यद्रव्येषु पृथक्तं नानुमन्यन्ते । यदाहुः- पृथक्तं तु गुणो नित्यद्रव्येषु परमाणुपु । भवेद् व्यावर्तको धर्मः कार्यद्रव्येपु नेप्यते ॥” । इति । तदयुक्तम् । कार्यद्रव्येष्वपि भेदप्रतिपत्तेरवश्याश्रयणी- यत्वात् । ननु पदार्थानां स्वरूपमेव भेदः । तच्च कार्यद्रव्येषु प्रत्यक्षगम्यमिति (न) तत्र तदतिरिक्तव्यावर्तकधर्मकल्पनावका- शः । अदृष्टरवलक्षणेषु तु स्वरूपदर्शनाभावाद् युक्तमेव व्यावर्त- - , प्रमेयपरिच्छेदे गुणनिर्णयः । १०१ कधर्मानुमानम् । आत्मनि प्रत्यक्षेऽपि विभुत्वाद् व्यावर्तकधर्म- स्वीकार इति चेद्, मैवम् । स्वरूपभेदपक्षानुपपत्तेः । तथाहि- पदार्थानां स्वरूपस्यैव भेदत्वे घटस्य भेद इति सम्बन्धित्वेन घटात् पटो भिन्न इति विशेषणत्वेन च सेदप्रतीतिनिराश्रया भवेद् , घटभेदपदयोः पर्यायत्वं च प्रसज्येत । औपनिषदास्तु स्तम्भात् कुम्भो भिन्न इति कुम्भभेदाव(ग)मस्य तत्पूर्वभाविस्त- म्भभेदावगमनिबन्धनत्वात् , स्तम्भभेदावगमस्य च तत्पूर्वभावि- कुम्भभेदावगमाधीनत्वाद् भेदप्रतिपत्तिमेव दुःसम्पादनां मन्य- मानाः 'नेह नानास्ति किञ्चन' (बृ. ४. ४. १९) इत्यादिवा- क्यानां प्रत्यक्षादिविरोधं परिहर्तु पृथक्तं नाम गुणान्तरं परमार्थ- तो नास्तीत्याहुः। तदपि न रमणीयम् । स्तम्भकुम्भौ, वादिप्रतिवा- दिनौ, पयःपावकावित्यादीनां परस्परभेदस्य कचिदप्यप्रतीयमा- नत्वे निषेधानुपपत्तेः । न हि घटं क्वचिदप्यजानानाः इह भूतले घटो नास्तीति प्रत्येतुमुत्सहन्ते । प्रतीयमानत्वे तु बलवत्प्रत्य- क्षप्रमाणबाधितविषयत्वाद् भेदनिरासाय प्रवृत्तानामनुमानार्थी ?- नर्थक्य)प्रसङ्गात् । न च भेदप्रतिपत्तौ परस्पराश्रयदोषः। सप्रतियो- गित्वेनैव भेदस्य प्रतिपत्तिरिति नियमस्य सविकल्पकत्वप्रयुक्त- व्याप्त्युपजीवित्वात् । न च सविकल्पके तादृशप्रतीतिदर्शनाद् निर्विकल्पकेऽपि प्रत्यक्षत्वेन हेतुना शक्यं तदनुमानमिति वा- च्यम् । यथाकथञ्चित् साधम्र्येणान्यत्रान्यधर्मारोपे सविकल्पकप्र- त्यक्षस्य निर्विकल्पकपूर्वत्वनियमदर्शनात् प्रत्यक्षत्वेन निर्विकल्प- कस्यापि निर्विकल्पान्तरपूर्वत्वानुमानप्रसङ्गात् । तस्माद् निर्वि- कल्पकसंविदा युगपदवभासितानां स्तम्भकुम्भभेदानां सविकल्प- प्रमेयपरिच्छेदे गुणनिर्णयः। १०३ बुद्धिः स्वयंप्रकाशेति गुरुशङ्करयोर्मतम् । प्रत्यक्षेत्यक्षपादानां तन्निरासोऽभिधीयते ॥ ३६॥ . तत्र स्वयंप्रकाशवादिनस्तावदेवं प्रयुञ्जते-~-'ज्ञानं स्वग- तव्यवहाररूपे कायें (स्वस)जातीयपरानपेक्षं तथाभूतपरगतकार्य- कारित्वाद् यथा प्रदीपः। न हि प्रदीपः स्वगतव्यवहाररूपे कार्य प्रदीपान्तरमपेक्षते । तस्माद् बुद्धिरपि न बुद्ध्यन्तरमिति । तदयुक्तम् । अर्थान्तरानुमापके लिङ्गान्तरावगम्ये लिने व्यभि- चारात् । तत्र हि परप्रकाशकं लिङ्गं स्वप्रकाशाय लिङ्गान्तरम- पेक्षते । ननु ज्ञेयत्वे विज्ञानस्य घटादिवज्ज(ड)त्व प्रसज्ये- तेति चेद्, न, स्वप्रकाशत्वपक्षेऽपि परगतस्य ज्ञानस्य चेष्टालि- ङ्गकानुमानगम्यत्वेन जडत्वप्रसङ्गस्य तादवस्थ्यात् । ततो न धी- कर्मत्वमात्रेण जडत्वसिद्धिर्ज्ञानस्यान्यस्य वा । यदधीनं व्यव- हारानुगुणत्वं तदजडं, यधीनं तु न कस्यचित् तज्जडमि- स्येव विभागः । इत्थं निरस्ते परमते स्वपक्षस्थापनार्थमनुमान- मुच्यते । 'संवेदनं स्वप्रकाशं न भवति वस्तुत्वाद् घटवत्' । 'विप्रतिपन्नो व्यवहारः स्वविषयसंवेदननिबन्धनः व्यवहारत्वाद् घटव्यवहारवत्' । 'संवेदनव्यवहारः संवेदनसंवेदननिबन्धनः सं- वेदनव्यवहारत्वात् परगतसंवेदनव्यवहारवत् । मानसप्रत्यक्षं विज्ञानमिति तार्किकाणां मतम् । ते पुनरेवमाहुः– ज्ञानं प्रत्यक्षं क्षणिकात्मविशेषगुणत्वात् सुखादिवदिति । तदिदम सारम् । सुषुप्त्यवस्थायां प्राणादिक्रियानिमित्तेन प्रयत्नेनानैका- न्त्यात् । अप्रत्यक्षत्वे प्रमाणं च भवति विवादपदं ज्ञानम् १०४ मानमेयोदये अप्रत्यक्षं ज्ञानत्वात् सम्प्रतिपन्नज्ञानवत् । ननु ज्ञानस्य प्राक- ट्यावगम्यत्वेऽपि ज्ञातस्यैव प्राकट्यस्य ज्ञानगमकत्वम् । ततश्च प्राकट्यगतेन ज्ञानान्तरेण भवितव्यम् । तदपि ज्ञानं प्राकट्यान्त- रावसेयमित्यनवस्थाप्रसङ्ग इति चेद् , मैवम् । मूलक्षयाभावेना- स्या अनवस्थाया अदूषणत्वात् । तथा प्राहुः "मूलक्षयकरीं प्राहुरनवस्थां हि दूषणीम् ।" इति । कथं न मूलक्षयाभावः । उत्पन्नस्य ज्ञानस्यावश्यवेदनीय- त्वाभावादिति ब्रूमः। न चाविज्ञायमानस्य विषयप्रकाशकत्वानुप- पत्तिरिति वाच्यम् । चक्षुरादीनामप्यप्रकाशकत्वप्रसङ्गात् । पश्चाद- र्थप्रतिपत्तिगम्यत्वस्य चोभयत्रापि तुल्यत्वात् । विज्ञानं घटा- द्याकारमिति बौद्धाः कथयन्ति । तदुपरिष्टान्निराकरिष्यामः। बुद्धिरयथार्थस्मरणानुवादयथार्थरूपेण चतुर्विधेति प्रमाणपरिच्छे- दे समर्थितम् । सुखं पुनरैहिकसुखं स्वर्गसुखं मोक्षसुखं चेति त्रिविधम् । तत्र मोक्षसुखं प्रागेवाभिहितम् । ऐहिकसुखं तु स्र- क्चन्दनवनितादिजन्यं दुःखमिश्रं च । स्वर्गसुखं पुनर्देशान्त- रप्राप्यं दुःखरहितं च । उभयत्रापि धर्म एव कारणम् । दुःखं पु- नरैहिकमामुष्मिकं च द्विविधम् । तत्रैहिकं रोगादिजन्यम् । आमुष्मिकं तु रौरवमहारौरवादिरूपम् । तत्रोभयत्राप्यधर्मः कार- णम् । इच्छा ममेदं स्यादित्येवमादिरूपा । द्वेषस्तु शत्रुविषयो भा- वविशेषः । प्रयत्नस्तु शरीरादौ भेदनिबन्धनः । एवमेते समुद्दिष्टाः संक्षेपादात्मनो गुणाः ॥ ३६३ ॥ संस्कारस्तु लौकिकवैदिकभेदेन द्विविधः । लौकिकस्तत्र प्रमेयपरिच्छेदे गुणनिर्णयः । १०५ वेगो भावना स्थितावस्थापकश्चेति त्रिविधः । तत्र वेगः पृथि- व्यादिपञ्चद्रव्यवर्तिविशेषगुणः क्रियाहेतुश्च । भावनात्मकस्तु संस्कार आत्ममात्रवर्तिविशेषगुणः । पूर्वानुभवोऽस्य कारणम् । स्मृतिस्तु कार्यम् । स्थितस्थापकस्तु संस्कारः स्पर्शवत्सु द्रव्येषु वर्तमानो विशेषगुणः । स यथा वेणुरन्ध्रप्रयुक्तं वा बद्धं वा बहुवत्सरम् । मुच्यमानं (च?श्व) लालं वक्रभावं न मुञ्चति ॥३७॥ इति । वैदिकस्तु संस्कारस्तक्षणोत्प(व)नप्रोक्षणावहन(सा? ना)- दिभेदभिन्नः । स च द्विती(य ? या)श्रुत्यवसेयः । यथा यूपं त- क्षति, तण्डु)लान् (उत्पवते, व्रीहीन्) प्रोक्षति, बीहीनवहन्ती- त्यादि । तत्र हि द्वितीयाश्रुत्या तक्षणादिभियूंपादीन् संस्कुर्या- दित्यर्थः सिध्यति । स च भूतभाव्युपयोगिद्रव्यमात्रवर्तिविशे- षगुणः । यथाहुः- "भूतभाव्युपयोगं हि द्रव्यं संस्कारमर्हति ।" इति । ध्वनिर्वायुगुणः शब्दाभिव्यञ्जकः । स च प्रागेवोक्तः । प्राकट्यं व्यवस्थापकः सर्वद्रव्यवर्तिसामान्यगुणः। स च संयुक्त- तादात्म्यसम्बन्धेन प्रत्यक्षगम्यः । तच्च प्राकट्यं द्रव्याश्रितमपि तेन तादात्म्यसम्बन्धाज्जातिगुणकर्माण्यपि परम्परया समाश्रयत इति न तेषामविषयत्वप्रसङ्गः। प्राकट्याश्रयो विषय' इति विषय- लक्षणमाहुराचार्याः । ननु किमिदं प्राकट्यं नाम । श्रूयताम् । सन्ति तावल्लौकिकपरीक्षकाणां 'घटः प्रकाशते', 'घटो भाति', 'प्र.
१०६ मानमेयोदये कटो घट' इत्यादयो व्यवहाराः । न चैते भ्रान्तिमूलाः। बाधका- भावात् । अबाधितानामपि प्रत्ययानां भ्रान्तिमूलत्वकल्पने सर्वे- षामपि तथात्वप्रसङ्गात् । तस्मादेते व्यवहारा एव खोपपादाय प्रकाशविशिष्टमर्थमवकल्पयन्ति । तत्र विशेषगुणभूतः प्रकाश- पदार्थः प्राकट्यमित्युच्यते । न चागन्तुकं ज्ञानमेव प्रकाशपदा- र्थ इति वाच्यम् । आत्मसमवेतस्य ज्ञानस्य घटसमवेतत्वव्यव- हारानुपपत्तेः । ननु प्राकट्याश्रयस्यैव विषयत्वे भूतभविष्यतोः प्राकट्याश्रयत्वाभावात् कथं विषयत्वम् । न च तयोर्विषयत्व- मेव नास्तीति वाच्यम् । नदीपूरणघनोन्नतिप्रभृतिभिः भूतभवि- ष्यद्वर्षानुमानाभावप्रसङ्गाद् इति चेद्, मैवम् । भूतभविष्य- तोरपि प्राकट्याश्रयणात् । ननु गुणिनमन्तरेण कथं गुणोत्प- त्तिः। सङ्ख्यावदिति ब्रूमः । न च सङ्खथैव भूतभविष्यतो - स्तीति वाच्यम् । 'तिस्र आहुतयो हुताः', 'षडपूपा भक्षिताः', 'दश मोदकाः कार्या' इत्यादिव्यवहाराणां भ्रान्तिमूलत्वप्रसङ्गात् । इति सिद्धं प्राकट्यम् । शक्तित्वसामान्यवती द्रव्यकर्मगुणाश्रयाम् । अर्थापत्तिप्रमागम्यां शक्तिमाहुः कुमारिलाः ॥३८३॥ सा तु लौकिकवैदिकभेदेन द्विविधा। तत्राद्या पुनरर्थाप- त्तिगम्या । यथा अग्न्यादीनां दाहकत्वशक्तिः । अन्या तु चोदनैकगम्या । यथा-यागादीनां स्वर्गादिसाधकत्वशक्तिः । तत्राग्न्यादीनां दाहकत्वशक्तिर्द्रव्यगता । हिंसादीनां नरकपात- साधकत्वशक्तिः कर्मगता। 'वायव्यं श्वेतमालभेत भूतिकामः' प्रमेयपरिच्छेदे गुणनिर्णयः । १०७ इत्यादिषु श्वेतत्वादिगुणविशिष्टस्यैव द्रव्यस्य भूतिसाधनत्वश्रव- णाद् गुणगतोऽपि कोऽप्यतिशयः कल्पनीयः । स एव गुणग- ता शक्तिरित्युच्यते । एवं सर्वत्र द्रष्टव्यम् । अत्र शक्तिरेव ना- स्तीति तार्किकाणां मतम् । अग्न्यादीनां दाहकत्वादिशक्तिं च स्वभावभेदेन समर्थयन्ति । तदयुक्तम्। स्वभावस्य यावद्रव्य- भावित्वात् । दाहकत्वादेश्व मणिमन्त्रादिनिराकरणेन । न च प्रतिबन्धकाभावादेव दाहक इति वाच्यम्।अभावस्य सर्वत्राप्य- कारकत्वात् । न च नित्यकर्मणामकरणात् प्रत्यवायदर्शनादका- रकत्वमसिद्धमिति वाच्यम् । तत्रापि नित्यकर्मभि(न्नकर्मभा)विता- नामज्ञातोपरिपातानामवर्जनीयानामेनसामेव प्रत्यवायहेतुत्वाभ्यु- पगमात् । यथाहुः "स्वकाले यदकुर्व(श्च) करोत्यन्यदचेतनः । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ॥" इति । कथं तर्हि विशेषज्ञानाभावस्य संशयजनकत्वमिति चेत्, तत्राभावस्य ज्ञापकत्वात् । ज्ञापकत्वकारकत्वयोश्च विशेषादिति शक्तिरवश्याश्रयणीया । प्राभाकराः पुनरेनामनुमानगम्यां स- ङ्गिरन्ते । तत्तु प्रत्यक्षतो दृष्टसम्बन्धस्यैव लिङ्गस्यानुमापकत्व- मिति समर्थयद्भिरस्माभिरेवानुमानपरीक्षायां निरस्तम् । ननु क- थमर्थापत्त्या शक्तिग्रहणम् । उच्यते । यादृशादग्निसंयोगात् सर्वदा दाहदर्शनम्। तादृशादेव मन्त्रादिप्रयोगे (६ ? तदद)र्शनात्॥३९३ ॥ दाहकत्वादेर्मणिमन्त्रादिना निराकरणादिति ग्वण्डवाक्यार्थः ।
मानमेयोदये अग्निसंयोगातिरिक्तं यत्किञ्चित् कारणान्तरम् । अस्ति दृश्यमदृश्यं वेत्येवं साधारणा प्रमा ॥४०॥ दृश्यादर्शनजाभावप्रमाणेन विहन्यते । तत्रा नियोर्विरोधे सत्यविरोधाय कल्प्यते ॥४१३॥ अदृश्यं कारणं किञ्चित् सा शक्तिरिति गीयते । गुणोक्तलक्ष्मसद्भावादस्याश्च गुणता मता ॥ ४२३ ॥ सर्वद्रव्यवर्तित्वादेषापि सामान्यगुणः । ननु द्रव्यव्यतिरिक्ते- प्वपि वर्तनात् कथमस्या गुणत्वमिति चेद्, मैवम् । 'गु- णाश्रयो द्रव्यमिति द्रव्यलक्षणस्यास्माभिरनङ्गीकृतत्वात् । अ- तिव्याप्तं चेदं तार्किकोक्तं द्रव्यलक्षणं, "चतुर्विशतिरुद्दिष्टा गुणाः कणभुजा स्वयम्” इति गुणानामपि सङ्ख्याश्रयत्वस्य तैरेव कथितत्वात् , सङ्ख्यायाश्च गुणत्वस्वीकारात् । इति सिद्धा गु- णाः । अत्र तार्किकास्तु ध्वनिप्राकट्यशक्तीनां गुणत्वं नानुम- न्यन्ते । शब्दधर्माधर्माणां गुणत्वमाकाङ्क्षन्ति च । तत्र ध्वन्या- दीनामगुणत्वपक्षस्तेषां गुणत्वसमर्थनान्निरस्तो वेदितव्यः । श- ब्दस्य द्रव्यत्वं तु प्रागेव समर्थितम् । धर्माधर्मावात्मविशेषगु- णाविति तार्किकाणां मतमुपेक्षणीयमेव, आत्मगुणे लौकि- कानां धर्माधर्मशब्दप्रयोगादर्शनात् । यथाहुः “लोकप्रयोग- गम्या हि शब्दार्थाः सर्व(विवनुः ? वादिनाम्)" इति । अपिच, $ दाहदर्शनतदभावयोः ।
प्रमेयपरिच्छेदे गुणनिर्णयः । श्रेयस्साधनमेव धर्मः। न ह्यग्निहोत्रात् स्वर्गों भवतीत्यत्रानि- होत्रमिवात्मगुणं कस्यचिदपि श्रेयःसाधनतया श्रुतिराभिदधाति । ततो न तत्र धर्मत्वम् । एतेन आर्हतप्राभाकरादिमतेषु पुण्य- परमाण्वपूर्वादिष्वपि धर्मशब्दवाच्यता निरस्ता वेदितव्या । तदुक्तमाचार्यैः- "पुद्गलेषु च पुण्येषु नृगुणे पूर्वजन्मनि । प्रयोगो धर्मशब्दस्य न दृष्टो न च साधनम् ॥ पुरुषार्थस्य ते ज्ञातुं शक्यन्ते चोदनादिभिः।" इति । किञ्च, अत्यन्तापरिदृष्टचरं कार्याद्यपरनामधेयमपूर्वमभिदध- ति लिङादय इत्यपि प्राभाकराणां दुराग्रहमात्रं, संज्ञासंज्ञि- सम्बन्धावधारणं विना कुत्रापि शब्दप्रवृत्त्यदर्शनाद् , लिङादिभ्य एवावगमे परस्पराश्रयप्रसङ्गाच्च । तस्मा(द्दिजा ? ल्लिङा)दीना- मपूर्वाभिधायकत्वानुपपत्तेश्च नापूर्व धर्मशब्दवाच्यतोपपत्तिः । कौ तर्हि धर्माधर्मी, यत्र लोके धर्माधर्मशब्दी प्रवृत्तौ । श्रूय- ताम् । यागादिपु लौकिकानां धर्मशब्दप्रयोगः, यागाद्यनुष्ठा- तरि धार्मिकत्वसमाख्यानात् । अधर्मशब्दप्रयोगस्तु हिंसासुरा- पानादौ । यदाहुः "अन्यत् साध्यमदृष्दैव यागादीननुतिष्ठताम् । धार्मिकत्वसमाख्यानं तद्योगादिति गम्यते ॥" इति । न केवलं लोके, वेदेऽपि “ यज्ञेन यज्ञमयजन्त देवाः, तानि धर्माणि प्रथमान्यासन्” इति । अत्र हि यशशब्दवाच्य- मानमेयोदये मेव धर्मशब्दवाच्यतया व्यक्तमभिदधाति श्रुतिरेव । लिङ्गस- याव्यत्ययस्तुच्छान्दसत्वात् । अपिच, यागादीनामेव श्रेयस्सा- धनतां श्रुतिरभिदधाति । तथाहि 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति श्रूयते । तत्र लिङ्लोट्तव्यप्रत्यययुक्तेषु वाक्येषु द्वे भावने प्रतीयेते शब्दभावनार्थभावना च । तत्रार्थभावना सर्वा- ख्यातसाधारणी । यथाहुराचार्याः- "अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मा भावना त्वन्या सर्वाख्यातेषु गम्यते ॥" इति । तत्रार्थभावनाया अयमभिधानप्रकारः-अत्रत्यस्य लिङ्- प्रत्ययस्य भावयेदित्यर्थः। तत्र किं भावयेदित्याकाङ्क्षा नियोज्य- विशेषणतयोपात्तं स्वर्गपदं पूरयति स्वर्ग भावयेदिति । केन भावयेदित्याकाङ्क्षा प्रकृत्यों यागशब्दः पूरयति यागेन भाव- येदिति । केन यागेनेत्याकाङ्क्षां ज्योतिष्टोमशब्दः पूरयति ज्योतिष्टोमेन यागेनेति । कथं भावयेदित्याकाङ्क्षामङ्गोपाङ्गादि- वाक्यानि पूरयन्ति अग्नीनाधायान्वाधानप्रयाजादिभिरङ्गानि सम्पाद्य भावयेदिति । पुनश्च यागानन्तरं स्वर्गादर्शनसाधनत्व- श्रवणरूपप्रमाणद्वयविरोधमूला श्रुतार्थापत्तिरपूर्व कृति ?)त्वेति शब्दं कल्पयिष्यति । तस्माद् ज्योतिष्टोमयागेनान्वाधानप्रयाजा- धनुष्ठानपुरस्सरः अपूर्व कृत्वा स्वर्ग भावयेदित्यर्थः सम्पद्यत इति । शब्दभावनायाः पुनरन्यत्र स्वर्ग इतिवत् पुरुषप्रवृत्ति- भीव्या । तया भावनया यो लिङादीनां वाच्यवाचकलक्षणः प्रमेयपरिच्छेदे गुणनिर्णयः । १११ यन्त्यर्थवादवाक्यान्यङ्गोपाङ्गादिवाक्यवदितिकर्तव्यताभावमनुभ- वन्तीति विशेषः । इदम् "अभिधाभावनामाहुरि"त्यादिवार्तिका- नुसारिणां सुचरितादीनां मतमनुसृत्योक्तम् । "श्रेयस्साधनता ह्येषा नित्यं वेदात् प्रतीयते । कर्तुरिष्टान्युपाये हि कर्तव्यमिति लोकधीः॥" इत्यादिवार्तिकानुसारिभिश्चिदानन्दादिभिः पुनरिष्टसाधनताप्रति- पादनमेव विध्यर्थ इत्युक्तम् । परितोषपार्थसारथिप्रभृतिभिस्तु पक्षद्वयमपि कक्षीकृत्य तत्र तत्रोक्तमिति तत्तद्न्थादवगन्तव्यम् । सर्वथापि न यागाद्यतिरिक्तस्य श्रेयस्साधनतया धर्मत्वम् । तथा हिंसादीनामेव नरकपातादिसाधनखादधर्मलम् । यागहिंसादयश्च द्रव्यकर्मगुणात्मकाः । तस्मात् तेष्वेव धर्माधर्मयोरप्यन्तर्भावः । तदुक्तमाचार्यपादैः- श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात् तेष्वेव धर्मता ॥" इति । न चापूर्वस्य गुणान्तरलं पदार्थान्तरत्वं वा कल्पनीयं, "तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तौ वापि पश्वादेरपूर्वं न ततः पृथक् ॥” इति शत्त्यन्तर्भावात् । तस्मादस्मदुक्ता एव गुणाः ॥ इति मानमेयोदये प्रमेयपरिच्छेदे गुणनिर्णयः ।
११२ मानमेयोदये अथ कर्मनिर्णयः। अविभुद्रव्यमात्रस्थं प्रत्यक्षं चलनात्मकम् । वियोगयोगयोर्मुलं कर्म कर्मविदो विदुः ॥ ४३३ ॥ तत् पुनरुत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् पञ्च- विधमेव । अत्र प्राभाकरादयः कर्मणो नयनेन्द्रियगम्यत्वं नानुमन्यन्ते । तदयुक्तम् । तस्यापि घटादिवदनन्यथासिद्धेन्द्रि- यान्वयव्यतिरेकानुविधानात् प्रत्यक्षत्यसिद्धेः। ननु संयोगविभा- गाभ्यामेव कर्मानुमेयम्। तेनेन्द्रियान्वयव्यतिरेको संयोगविभाग- दर्शनोपक्षीणौ । तस्मादनन्यथासिद्धत्वमसिद्धमेव । पदाह भट्ट- विष्णुः- "परोक्षं कर्म कर्मत्वादादित्यगतकर्मवत् । अक्षतहावभावित्वं क्षीणं लिङ्गस्य दर्शने ॥" इति । तदिदमसारम् । अप्रत्यक्षत्वस्यानन्यथासिडेन्द्रियान्वय- व्यतिरेकानुविधायित्वाभावप्रयुक्तव्याप्त्युपजीवित्वात् । न च (स्व? सं)योगविभागयोरेवान्यथासिद्धत्वादनन्यथासिद्धत्वमसिद्ध- मिति वाच्यम् । संयोगविभागमात्रस्यैव नेत्रगोचरत्वे ताभ्यां च कर्मानुमाने श्येनसंयोगविभागाभ्यां स्थाणावपि कर्मकल्पनप्रसङ्गा- त्।अथ मतम् अर्थान्तरवियोगपूर्वकार्थान्तरसंयोगस्यैव कर्मानु- मापकत्वम् । स्थाणौ तु श्येनमात्रेणैव संयोगवियोगयोर्दर्शनास तत्र कर्मकल्पनमिति । तर्हि श्येनान्तरवियुक्ते श्येनान्तरसंयुक्ते च स्थाणौ कर्म कल्प्यं स्यात् । नदीप्रवाहवर्तिनि स्थिरे स्तम्भा- दौ जुलावयवसंयोगवियोगयोर्दर्शनात् कर्मकल्पनमपि दुर्वार- प्रमेयपरिच्छेदे कर्मनिर्णयः। ११३ मेव । नन्वन्यत्र कृप्तक्रिये श्येनादौ कर्मकल्पनादेव स्थाणौ सं- योगवियोगयोरुपपत्तेर्न तत्र कर्मकल्पनमिति चेद् , मैवम् । श्ये- नस्थान्यत्र कुत्रापि कृप्तक्रियत्वानुपपत्तेः । तथाहि - नहि भवतामाकाशदेशसंयोगविभागयोर्दर्शनात् पतचिणि कुप्तक्रिय. त्वम् , आकाशदेशस्य भवतामप्रत्यक्षत्वात् । न च वियद्गत- तेजोवयवसंयोगविभागदर्शनात् कृप्तक्रियत्वम् । तत्रापि तेजो- वयवानामेव श्येनावयवैः सह संयोगवियोगयोदर्शनात् तेजोव- यवेष्वेव कर्मकल्पनप्रसङ्गात् । एवं सर्वत्र दर्शयितव्यम् । इति सकललोकप्रसिद्धस्थावरजङ्गमविभागोऽपि दत्तजलाञ्जलिरासी- दायुष्मताम् । अपिच, 'अन्धकारे खद्योतः पतती'ति प्रत्ययो निरालम्बन एव भवेद् , अत्यन्तासत्त्वाद् भवतामन्धकारपदा- र्थस्य । न च तत्रापि खद्योतगतेनैव तेजोंशेन संयोगविभा- गाविति वाच्यम् । खद्योतस्य स्वगतेन तेजसा कदाचिदपि वियो- गाप्रतीतेः । न च नयनस्य विपरिवृत्त्यावलोकनानुमितदेशसं- योगविभागाभ्यां खद्योते कर्मकल्पनमिति (चेद् ? वाच्यम् )। अ- भिमुखपतनादौ तदसम्भवात् । 'यथा देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमवलोक्यादित्येऽपि गतिस्मरणम्' इति भाष्यमप्यु- पेक्षर्णायमासीद् भवताम् , उभयत्रापि कर्मणोऽनुमेयत्वे दृष्टान्त- दान्तिकत्वेन निर्देशानुपपत्तेः । तस्मात् प्रत्यक्षेणैव कर्म- सिद्धिः॥ , इति मानमेयोदये प्रमेयपरिच्छेदे कर्मनिर्णयः । RAM ११४ मानमेयोदये अथाभावनिर्णयः। इत्थं भावपदार्थानां स्वरूपे सुनिरूपिते । अभावाख्यं पदार्थं च पञ्चमं चिन्तयामहे ॥ ४४३ ॥ ननु भावपदार्था अपि केचिदवशिष्टाः सन्त्येव । यथाहुः प्राभाकराः “द्रव्यं गुणः कर्म च जातिशक्ती सादृश्यसङ्घये समवाय एते । अष्टौ पदार्था इह तान् विभज्य संक्षिप्य वक्ष्यामि गुरोर्मतेन॥" इति। "द्रव्यं गुणस्तथा कर्म जातिश्चैतत्रयाश्रया । विशेषः समवायश्च पदार्थाः षडिमे मताः॥" इति तार्किकाश्च। 'प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ता- वयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्था- नानां तत्त्वज्ञानान्निःश्रेयसाधिगम' इति च । ततः कथं सुनि- रूपितलवाचोयुक्तिरिति चेद्, मैवम् । तत्र प्राभाकरोक्तयोः शक्तिसंख्ययोर्गुणलमेवेति गुणनिर्णये वर्णितम् । गोगतं गव- यसादृश्यं तु तत्त्वान्तरमेव न भवति । गवयगतानां गुणावय- वसामान्यानां गवि च वर्तमानलादेव गवि गवयसादृश्यप्रतिप- त्युपपत्तेः । ननु सदृशतामतेर्गुणावयवसामान्यमानपरत्वे तदिति मतिरुत्पद्येत । अत्र तु तद्वदिति मतिरुपजायते । यथाह भव- नाथः-तद्वदिति हि तद्धीः न तदितीति । तदप्ययु- प्रमेयपरिच्छेदे अभावनिर्णयः ।। ११५ क्तम् । गवयगतानां गुणावयवसामान्यानां गवाश्रितलाकारेण निरूप्यमाणानां तहदित्यादिबुद्धिविषयत्वं स्वरूपेण निरूप्यमा- (णां ?णानां) तदित्यनुवृत्ताकारबुद्धिविषयलं, यथा देवदत्तो यज्ञदत्तजन्यत्वेन निरूप्यमाणो यज्ञदत्तपुत्रबुद्धिविषयो भवति, स्वरूपेण तु निरूप्यमाणो देवदत्तबुद्धिमात्रविषय इति। अपिच सादृश्यस्य तत्त्वान्तरत्वे गवयेन गौर्बहुसदृशः, वराहेण पुनरल्प- सदृश इत्यादिप्रत्ययानां कथमुपपत्तिः । नहि भवन्मते साह- श्यस्याल्पत्वबहुवे सम्भवतः । न च परिमाणभेदादल्पत्वबहुत्वे इति वाच्यम्। द्रव्यव्यतिरिक्तस्यापरिमाणत्वात् । न चाश्रयपरि- माणभेदात् परिमाणभेदः। एकस्यैव गोराश्रयत्वात् । अस्मन्मते तु गुणावयवसामान्यानामल्पसङ्ख्याभाजामल्पत्वं बहुसंख्या- भाजां बहुत्वमिति विवेकः सुकरः । तस्माद् द्रव्यजातिगुणेष्वेव सादृश्यस्याप्यन्तर्भावः। विशेषसमवायौ तु शशविषाणसब्रह्म- चारिणौ, तत्सिद्धौ प्रमाणाभावात् । नन्वस्त्येव विशेषसिद्धावनु. मानं 'समानजातीयाः समानगुणकार्याः परमाणवो मुक्तात्मा- नश्च परस्परव्यावर्तकधर्मसमवायिनः द्रव्यत्वाद् घटवद्' इत्या- दि । तदयुक्तम् । पृथक्वेन सिद्धसाध्यत्वात् । तस्माद् नित्यद्र- व्यवर्तिव्यावृत्तिमात्रबुद्धिविषयो विशेष इति भाषिणो वैशेषिका दूषिता वेदितव्याः । समवायेऽपि प्रत्यक्षमनुमानं वा प्रमाणम् । तत्र न तावत् तार्किकाभिमतं प्रत्यक्षम् । अप्रतिभासात् । न च पटाश्रयं शौक्लयम्' 'इह पटे शौक्लयम्' इत्यादिप्रत्ययानामिन्द्रिया- न्वयव्यतिरेकानुविधानात् समवायस्य प्रत्यक्षत्वमिति वाच्यम्। समवायरूपस्यैव विप्रतिपन्नत्वादेतेषां प्रत्ययानां समवायविषयत्वा- मानमेयोदये " सिद्धेः सिद्धेहि समवाये तादृशानां प्रत्ययानां समवायविषयत्वो- पवर्णनमुपपद्यते । कश्च समवायस्येन्द्रियेण सन्निकर्षः। न तावद् विशेषणविशेष्यभावः, तस्येन्द्रियसन्निकर्षवासिद्धेः प्रागेव सम- र्थितत्वाद् , अन्यस्य च सन्निकर्षस्यानुपपत्तेः अनभ्युपगमाच्च । नापि प्राभाकरानुमतमनुमानं प्रमाणम् । तत्र तावद् 'इह गवि गोत्वमिति प्रत्ययोऽधिकरणाधिकर्तव्यतासम्बन्धनिबन्धनः इहेति प्रत्ययत्वाद् इह घटे तण्डुला इति प्रत्ययवद्' इत्यनुमानम् ‘इह भू- तले घटो नास्तीति प्रत्ययेन व्यभिचारादनुपपन्नम् । 'विवादपदं विशेषणविशेष्यभावसम्बन्धनिबन्धनं विशिष्टज्ञानत्वाद् दण्डीति ज्ञानवद्' इत्यनुमानं तु विन(घेष्टा ? ष्टो) घट' इति प्रत्ययेन व्यभि- चारादुपेक्षणीयम् । यत् पुनः, (आगमसन्निविहीनस्याप्युपन?)व- स्तुपरतन्त्रतया भानं समवायगमकम्' इति भवनाथेन कथितं, तत्र प्रष्टव्यः किमेतादृशभानं समवायन व्याप्तम् , उत तेन विना- नुपपन्नमिति । न तावद् व्याप्तम् , अन्यत्र सहादर्शनेन व्याप्ति, ग्रहणानुपपत्तेः । नापि समवायेन विनानुपपन्नं, भेदसहिष्णुना- भेदेनोपपत्तेः । अपिच समवायः समवायिभ्यामत्यन्ताभिन्नो वा, न वा । न तावदभिन्नः, समवायिव्यतिरेकेण समवायस्याभावप्र- सङ्गात् । भिन्नत्वे तु समवायस्य समवायिभ्यां सम्बन्धोऽस्ति वा, न वा । न तावदस्तीति वाच्यं, तस्यापि सम्बन्धस्य सम्बन्धा- न्तरकल्पनेनानवस्थाप्रसङ्गात् । नापि नास्तीति वाच्यं, पिण्ड- सामान्यसमवायानां परस्परं सम्बन्धाभावे सति ‘इयं गौः' इति व्यवहारमपहाय 'पिण्डगोत्वसमवाया' इति व्यवहारस्वीकारप्र- सङ्गात्। तस्मादवयवावयविनोर्जातिजातिमतोः क्रियाक्रियावतोच , प्रमेयपरिच्छेदे अभावनिर्णयः । ११७ परस्परं तादात्म्यमेव सम्बन्धः, तच्च प्रागेवोक्तम् । संशयप्रयो- जनादीनामस्मिन्नन्तर्भावः स्पष्टः । प्रमाणादयो यद्यप्यत्रैवान्त- र्भवन्ति, तथापि प्रयोजनवशाद् भेदेन कीर्तनम्' इति पदा- र्थषटूवर्णनानन्तरं तैरेवानूदितं च । तस्माद् भावपदार्थानामेते- ष्वेवान्तर्भावाद्, अनन्तर्भूतानां च पदार्थत्वानुपपत्तेर्युक्तमभाव- पदार्थनिरूपणम् । प्रागभावादिभेदेन चतुर्धेव विभागवान् । षष्ठप्रमाणविज्ञेयः पदार्थोऽभाव उच्यते ॥ ४५३ ॥ अभावो द्विविधः संसर्गाभावोऽन्योन्याभावश्च । तत्र सं- सर्गाभावः प्रागभावप्रध्वंसाभावात्यन्ताभावभेदेन त्रिविधः । क्षीरे यो दध्यभावः स इह निगदितः प्रागभावः प्रवीणैः प्रध्वंसाभावमाहुर्दधनि तु पयसोऽभावमाचार्यपादाः। अत्यन्ताभावसंज्ञो भवति हि पवनाद्या रूपाद्यभाव- श्चान्योन्याभावमाशु स्फुटयति तुघटादौ पटत्वाद्यभावः॥ अभावाख्यः पदार्थस्तु नास्तीत्याह प्रभाकरः । घटाद्यभावस्तत्पक्षे केवलं भूतलं मतम् ॥ ४७३ ॥ तदुक्तं (न) भावान्तरमभाव' इति । तन्मन्दम् । 'अ- घटं भूतलम' "इह भूतले घटो नास्ती'त्यादिविशिष्टव्यवहा- राणां विशिष्टभूतलविज्ञानमूलत्वे तद्विशेषणभूतस्य तत्वान्तरस्या- वश्याश्रय(णीयत्वात् । न च भूतलवेदनादेवायं व्यवहार इति ११८ मानमेयोदये साम्प्रतम् । घटवति भूतलेऽपि तद्व्यवहारप्रसङ्गात्। अस्ति हि त- त्रापि भूतलविज्ञानम् । ननु तन्मात्रज्ञानस्यैवाभावव्यवहारका- रणत्वमिति चेद्, मैवम् । मात्रशब्दस्य भूतलातिरिक्तार्थत्वे त- त्त्वान्तरत्वापत्तिः, अनतिरिक्तार्थत्वे घटवति प्रसङ्ग इति पूर्वोक्त- दोषानतिवृत्तेः । न चैकाकिभूतलवेदनं तत्कारणमिति वाच्यम् । एकाकिशब्दस्यैकसङयायोगित्वेऽर्थे घटवति प्रसङ्गः, “एकादा- किनिच्चासहाये (५. ३. ५२)इति द्वितीयासहायत्वेऽर्थे तत्त्वा- न्तरत्वापत्तिरिति घट्टकुटीप्रभातन्यायस्य पुनरप्यनतिवृत्तेः । एताभिरेव युक्तिभिः केवलादिशब्दोऽपि व्याख्यातो वेदितव्यः । अत्राह भवनाथः 'यत्राभावधीस्तत्र संसृष्टस्वरूपधीर्नास्ति स्व- रूपधीस्त्वस्तीति द्वयी स्वरूपधीरास्थेया। तत्र संसृष्टस्वरूपधीतो- ऽन्या स्वरूपधीस्तन्मात्रधीः। तद्धीवेद्यं च तन्मात्रमिति न मेया- न्तरम्' इति । तत्र प्रष्टव्यं, संसृष्टस्वरूपधीतोऽन्यस्याः स्वरूपधियः किं प्रमेयमिति । ननूक्तमेव तद्धीवेद्यं च तन्मा- त्रामति, तर्हि मात्रशब्दस्य भूतलातिरिक्तार्थत्वे तत्त्वान्त- रत्वम् , अनतिरिक्तार्थत्वे घटवति प्रसङ्गः । ननु घटवति संसृष्टस्वरूपधीरेवेति न तत्र प्रसङ्ग इति चेद्, न । उक्तया री- त्या स्वरूपधीहयस्यापि तत्रैव प्राप्तत्वादिति न प्राचीनदोषादु- तारः। तस्मादभावो नाम तत्त्वान्तरमवश्याश्रयणीयम् । अतः पञ्चैव पदार्थाः । ननु शून्यमेवेदं जगदिति वादिनि माध्यमि- के जीवति सति कथं पदार्थपञ्चकविभागसिद्धिः । एवं हि स वदति 'सर्व ज्ञानं शून्यविषयं ज्ञानत्वात् स्वप्नादिज्ञानवदिति। ननु तत्रापि विज्ञानमस्त्येवेति कथं जगतः शून्यात्मकत्वमिति , प्रमेयपरिच्छेदे अभावनिर्णयः। ११९ चेद्, मैवम् । ज्ञेयाभावे ज्ञानस्याप्यभावात् । अतः शून्यविवर्त जगदिति माध्यमिकेनोक्तं ज्ञानाभावमसहमानो योगाचारः प्रत्य- वतिष्ठते । अस्तु ज्ञेयाभावः । स्वप्नादौ ज्ञेयानामत्यन्ताभावे स- त्यपि प्रतीयमानत्वात् तदृष्टान्तेन विमतानामप्यत्यन्ताभावस्य सम्यगवगम्यतात् । ज्ञानं तु न निराकर्तुं शक्यं, स्वप्नादावपि ज्ञानोदयदर्शनात् । न च ज्ञेयाभावेन ज्ञानाभावोऽपि कल्पनीयः, प्रतीतिविरोधात् । तस्माद् विज्ञानमेव जाग्रत्प्रपञ्चघटादिरूपेण परिवर्तते । समनन्तरप्रत्ययेन च तदेव गृह्यते । तस्माद् दृश्य- मानं घटाद्याकारं विज्ञानस्यैव । अपिच स्वयंप्रकाशरूपाद् विज्ञानादभिन्ना एव घटादयः। तथाच प्रयोगः- यत् प्रका- शते तत् प्रकाशादाभिन्नं यथोभयसिद्धः प्रदीप' इति । तस्माद् विज्ञानविवर्त जगदिति योगाचारेण साधिते बाह्यवस्तु- निरासमसहमानः सौत्रान्तिकः प्रत्यवतिष्ठते । अस्तु ज्ञानमसा- कार, तथापि न बाह्यमर्थमपह्रोतुं शक्यं, बाह्यपदार्थानामेकरू- पस्य विज्ञानस्याकारसमर्पणमानं प्रति हेतुखादेकरूपमेव विज्ञानं नीलपीताद्याकारेण बहुधा विपरिवर्तत इति दुरुपपादमेव । तस्माद् विज्ञानाकाराणामनेकविधत्वदर्शनात् तत्चदाकारसमर्प- णहेतुभूताः क्षणिकतरा बाह्यपदार्था अपि ज्ञानाकारविशेषदर्श- नानुमेयाः । न च बाह्यपदार्थानां सर्वत्रानुमेयवे प्रत्यक्षानुमान- विभागभङ्गप्रसङ्ग इति वाच्यम् । यस्य साक्षादाकारसमर्पणहेतुत्वं तस्य प्रत्यक्षत्वं, यस्य तु परम्परया तस्यानुमेयत्वमिति विभा- गात्। अथ बाह्यार्थस्य नित्यानुमेयतावचनमसहमानो वैभाषिकः प्रत्यवतिष्ठते । कथं नीलादिद्रव्यं विज्ञानानामाकारं समर्पयति, , १२० मानमेयोदये दृष्टमनुमितं वा । न तावदनुमितम् , आकारसमर्पणात् पूर्वमनु- मानानुदयात् । यदि दृष्टं, तर्हि नीलादिपदार्थानां दृश्यत्वमव- श्याश्रयणीयम् , अन्यथाकारसमर्पणहेतुत्वानुपपत्तेः । असम्ब- न्धस्य हेतुत्वे सर्वस्यापि सर्वत्र हेतुत्वप्रसङ्गात् । अतः क्षणभङ्गुरः प्रत्यक्ष(त्वा ? श्रा)र्थ इति स्थितम् । एष च तेषां सिद्धान्तसं- क्षेपश्लोकः- मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद् योगाचारमते तु सन्ति मतयस्तासां विवोऽखिलः । अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकः प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते ॥ ४८३ ॥ इति । अत्र क्षणिकत्वपक्ष एवारमाकं निराकर्तुनवशिष्टाते इतरेषां स्वयूथ्यैरेव निरस्तत्वात् । तत्र तावत् क्षाणिकत्वे प्रत्यक्ष- मनुमानं वा प्रमाणम् । भवन्मते तदतिरिक्तप्रमाणाभावात् ।। तत्र न तावत् प्रत्यक्षं, तस्य स एवायं घट' इति प्रत्यक्षप्रत्य- भिज्ञानेन पूर्वोत्तरक्षणयोरेकत्वप्रतिपादकत्वात् । न च सदृशाप- रापरोद्भवादयमेकत्वभ्रम इति वाच्यम् । मृदण्डचक्रादीनामभावे विनष्टस्य घटादेः पुनरुद्भवासम्भवात् । न च ज्ञानादेवोत्पत्ति- रिति वाच्यम् । पूर्वमपि ज्ञानादेवोत्पत्त्युपपत्तेर्मुदण्डचक्रादीनां कुत्राप्यनुपयोगप्रसङ्गात् । नाप्यनुमानेन क्षणिकत्वं समर्थनीयं, 'सर्वे भावाः क्षणिकाः सत्त्वाद् विज्ञानवदिति तस्य दृढत- रोल्पनालक्षविरोधेन बाधितविषयतया वह्निशैत्यानुमानवप्रमा- प्रमेयपरिच्छेदे अभावनिर्णयः । १२१ णत्वाद्, विज्ञानस्यापि हित्रक्षणावस्थायित्वाङ्गीकारेण दृष्टान्ता- सिद्धेश्व । अत्र पुनराभिरेव युक्तिभिः प्रत्यक्षादिप्रमाणसिद्धानां पदार्थानां मिथ्यात्वमौपनिषदाः साधयन्ति । 'प्रपञ्चो (ह?) मिथ्या दृश्यत्वात् स्वप्नप्रपञ्चवदिति। 'नेह नानास्ति किञ्चन' (बृ. ४. ४. १९) इत्यादिवेदान्तवाक्यं चात्र प्रमाणम्। अतः प्रत्यक्षादिप्रमाणसिद्धस्य प्रपञ्चस्य मिथ्यात्वाद् ‘एकमेवाद्वितीयं ब्रह्म' (छा. ६. २. १) इत्यादिवेदान्तवाक्यानां यथाश्रुतेऽर्थे प्रामाण्यमविहतमिति । अत्र वदामः । तत्र यत् तावदुक्तं दृश्य- त्वान्मिथ्यात्वमिति, तत्र किमिदं मिथ्यात्वं नाम । किमत्यन्ता- सत्त्वम् , उत सदसद्विलक्षणत्वं, बाध्यत्वं वा। नाद्यः, अत्यन्ता- सतो नरविषाणादेरिव ख्यानानुपपत्तेः । नापि सदसद्विलक्षणत्वं, तस्यान्यत्राप्रसिद्धत्वेन पक्षस्याप्रसिद्धविशेषणत्वापत्तेः । ननु सर्ववादिसिद्धमेव स्वप्नादिप्रपञ्चस्य सदसद्विलक्षणत्वम् । तथा- हि असतो नरविषाणादेरिव ख्यानानुपपत्तेः सतश्चिदात्मन इव बाधानुपपत्तेः सिद्धं स्वप्नादिप्रपञ्चस्य सदसद्विलक्षणत्वम् । मैवम् । सद्विलक्षणस्य नरविषाणादेरिव ख्यानानुपपत्तेः अस- द्विलक्षणस्य चिदात्मन इव बाधानुपपत्तेः सदसद्विलक्षणत्वक- ल्पनेऽपि स्वप्नादिप्रपञ्चस्य ख्यातिबाधयोरनुपपत्तेः । तस्मात् ख्यातिबाधान्यथानुपपत्त्या सदसद्विलक्षणत्वमिति रिक्तं वचः । अतः सदसद्विलक्षणत्वमस्माकमसिद्धमेवेति युक्तमप्रसिद्धविशे- षणत्वम् । नापि बाध्यत्वं मिथ्यापदार्थः, जाग्रत्प्रपञ्चस्य बाधक- भूतप्रमाणान्तरादर्शनात् । न चेदमेवानुमानं बाधकमिति वा- च्यम् । अस्यानुमानस्य प्रपञ्चप्रतिभासबाध्यत्वेन वह्निशैत्यानु- १२२ मानमेयोदये मानवत् स्वोत्थानानुपपत्तेः । ननु प्रपञ्चप्रतिभासस्य मिथ्यात्वाद् युक्तमनुमानोत्थानमिति चेद्, मैवम् । प्रपञ्चप्रतिभासस्य मि- थ्यात्वे सत्यनुमानोत्थानम् , अनुमानोत्थाने सति मिथ्यात्वमिति परस्पराश्रयप्रसङ्गात् । एवमहेतश्रुतीनामप्युत्थाने परस्पराश्रयो- अनुसन्धातव्यः । तस्मादद्वैतश्रुतिरपि न यथाश्रुतेऽर्थे प्रमाणमि- त्यबाधितप्रत्यक्षादिप्रमाणसिद्धानां द्रव्यजातिगुणकर्मणामभावस्य च सत्यत्वं सिद्धम् ॥ opmeena यत्कीर्तिन हि माति हन्त महति ब्रह्माण्डभाण्डोदरे यस्याज्ञां प्रणतः शिरोभिरनिशं धत्ते नृपाणां गणः। सोऽयं नाटकतर्ककाव्यनिपुणः प्रज्ञातपातञ्जलो भक्तश्चक्रिणि मानवेदनृपतिर्जागर्ति धात्रीतटे॥१॥ पृथ्वीत्रजिता नितान्तमहितेनैतेन सञ्चोदितै- रस्माभिः कृशशेमुषीविलसितैरभ्यासहीनैरपि । प्राङ् नारायणसूरिणार्धरचितं तन्मानमेयोदयं मोहात पूरयितुं कृता मतिरियं सन्तःप्रसीदन्तु नः॥२॥ यदत्र क्लिष्टार्थं महति बत कौमारिलमते विरुद्धार्थ वा तत् सकलमपि शोध्यं सुमतिभिः । हरेश्च श्रुत्यन्तप्रथितपरमानन्दवपुषः प्रमेयपरिच्छेदे अभावनिर्णयः । १२३ भो भो दुष्कर्मवर्गाः! परिहरत मदी- यामिमामङ्गवल्ली ब्रूमः सौहार्दयोगात् परिचयजनिता- न्नान्यथा यात शङ्काम् । हन्ता युष्मकुलानां दलितकुवलय- श्यामलैः कोमलैस्तै- गर्गात्रैर्नेत्रोत्सवं नो वितरति भगवान् भार्गवीभाग्यभूमा ॥४॥ यः ख्यातः पुरुषोत्तमस्त्रिजगति प्रज्ञाकवित्वादिभिः पुत्र्यास्तस्य सुतस्तदीयतनयात् कौमारतन्त्राम्बुधेः। सुब्रह्मण्य इति त्रिलोकविदितादापीतशास्त्रामृतः सोऽहं पूरितवानिदंप्रकरणं नाम्ना च नारायणः॥५॥ कृष्णो विबुधाधिपतिनिष्णातो वितरणेषु विद्यायाः। मुष्णातु हृदयतिमिरं पुष्णातु च मङ्गलानि सकलानि॥६॥ कुमारिलवचोजालपयोधिशरदिन्दवे । शिष्यसन्तानसन्तानतरवे गुरवे नमः ॥७॥ सुब्रह्मण्यादधीताः क्षितिविबुधपतेः काशिकातर्कमार्गा रामाचार्याच्च पश्चात् सकलमधिगतं येन कौमारतन्त्रम् । कृष्णात् काव्यार्थमीमांसकपरिवृढतः काव्यमार्गावगन्ता सोऽहं नारायणाख्यो व्यलिखमखिललोकापहासार्थमेतत् ॥ इति श्रीनारायणप्रणीते मानमेयोदये प्रमेयपरिच्छेदे अभावनिर्णयः ।
१२४ वेलालङ्घिपयःपयोधिविसरत्कल्लोलतुल्योदयै- रालापाविषयैर्यशोभिरखिलं लोकं परिष्कुर्वते । लीलानिर्जितशात्रवाय च वयं तुभ्यं किमशास्महे शैलाब्धीश्वर! मानवेदनृपते! जीयाः सहस्रं समाः॥९॥ युष्मत्कीर्तिपयो नितान्तमहता युष्मत्प्रतापाग्निना तप्तादण्डकटाहतोऽपि नितरामुल्सिच्यमानं मुहुः । नैवायाति विशांपते ! विरलतां नैवोष्णभावं कदा- प्यादत्ते नरवर्य! किञ्च नितरां माधुर्यमालम्बते ॥१०॥ त्रिभुवनकमल त्वदीयकीर्तिः प्रचुरमरन्दविलासमादधाति । बुधसमितिरसौ तु चञ्चरीक- प्रकरदझामपि तत्र मानवेद! ॥ ११ ॥ सम्पूर्ण चेदं मानमयोदयनाम प्रकरणम् । शुभं भूयात् ।
No text on this page.