Sringeri Sharada Peetham
Surya Sataka
Front matter
THE
SŪRYA-SATAKA
OF
MAYŪRA
With the Sanskrit Commentary
TRIBHUVANA PĀLA
MOTILAL BANARSIDASS
Delhi
Varanasi
Patna
श्रीमयूरकविविरचितं
सूर्यशतकम्
त्रिभुवनपालप्रणीतया व्याख्यया समुपेतम्
मोती लाल बना र सी दास
दिल्ली
वाराणसी
पटना
मोतीलाल बनारसी दास
मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-७
शाखाएं : १. चौक, वाराणसी-१ (उ० प्र०)
२. अशोक राजपथ, पटना-४ (बिहार)
-
भारत सरकार के शिक्षा एवं समाज कल्याण
मंत्रालय द्वारा आर्थिक सहायता से प्रकाशित
पुनर्मुद्रण : दिल्ली, १९८३
मूल्य : रु० ३ (रुपया तीन मात्र)
-
श्री नरेन्द्र प्रकाश जैन, मोतीलाल बनारसीदास, दिल्ली-७ द्वारा प्रकाशित तथा
श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, ए-४५, फेज १, नारायणा, नई दिल्ली-२८
द्वारा मुद्रित।
-
,
महाकविश्रीमयूरप्रणीतं सूर्यशतकम् श्रीत्रिभुवनपालविरचितया टीकया समेतम् । जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्ताः सिक्का इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।। टिप्प०-1 अस्य सूर्यशतकस्य प्रणेता श्रीमयूरकविर्वाणभट्टस्य श्वशुर उज्जयिन्यां वृद्धभोजमहीपतेः सभायामासी दिति मानतुङ्गाचार्यप्रणीतभक्तामराख्यस्तोत्रटीकाप्रारम्भे मेरुतुङ्गप्रणीतप्रबन्धचिन्तामणौ च समुपलभ्यते. प्रबन्धचिन्तामणौ बाणभट्टो मयूरस्य भगिनीपतिरासीदित्युक्तमस्ति. अथ च अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ॥ इति शार्ङ्गधरपद्धत्यादि- प्रसिद्धराजशेखरपद्येनापि बाणमयूरयोः समकालोद्भवत्वं प्रतीयते. तस्मान्मयूरकविरपि ख्रिस्ताब्दीयसप्तम- शतकपूर्वार्धसमुद्भूत इति ज्ञेयम् . सूर्यशतकमपहाय मयूरप्रणीतः कोऽप्यन्यो ग्रन्थो नाद्याप्युपलब्धः, सूर्यशतकपद्यानि तु ध्वन्यालोककाव्यप्रकाशादिषूदाहृतानि सन्ति. दृश्यन्ते च सूर्यशतकातिरिक्ता अपि कतिपयश्लोकाः सुभाषितावल्यादिषु मयूरनाम्ना समुद्धृताः. 'दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वाङ्गिकृन्तति ॥' इति मयूरप्रशंसापद्यं च सूक्तिमुक्तावलौ राजशेखरनाम्ना समुद्धृतं वर्तते. सूर्यशतकस्य काश्मीरकवल्लभदेव-मधुसूदन त्रिभुवनपालविरचितं टीकात्रयं प्राचीनम् , यज्ञेश्वरशास्त्रिप्रणीता नवीना टीका च वर्तते. तत्र वल्लभदेवकृतटीकास्माभिः कश्मीरेषु षट्त्रिंशश्लोक- पर्यन्तमासादिता. मधुसूदनकृता नोपलब्धा. अतस्त्रिभुवनपालविरचितटीकासमेतमेतच्छतकं मुद्रयितुमारब्धम् . तत्रास्सन्मुद्रणाधारभूतानि पुस्तकान्येतानि-प्रथमं त्रिभुवनपालकृतटीकासमेतं प्रायः शुद्ध १६८५ मिते शकाब्दे लिखितं एकोनत्रिंशत्पवात्मकं मुम्बईनगरवास्तव्यश्रीपण्डित- ज्येष्ठाराममुकुन्दजीशर्मणां सकाशाद धिगतम् ; द्वितीयं तादृशमेव पुस्तकं नातिशुद्धं वर्षशतद्वयप्राचीन- मिवोपलक्ष्यमाणं त्रिषष्टिपत्रात्मकं जयपुरराजगुरुकुलोद्भूतोदुम्बरभट्टश्रीकृष्णकुमारशर्मणां संग्रहा- त्याप्तम् , तत्र त्रिभुवनपालस्य नाम नास्ति; तृतीयं मूलमात्रं षट्त्रिंशश्लोकपर्यन्तं वचमदेवकृतटीको- दृतटिप्पणसमेतं नवीनं कश्मीरलिखितं पञ्चदशपत्रात्मकमस्मदीयम् . पाठा०-१ 'सक्तैः. (=संसक्तैः' इति वल्लभदेवः).
२ - सूर्यशतकम् आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥ अभिनवा नूतना भानवीया भानवः सावित्रा रश्मयो वो युष्मभ्यं विभूत्यै समृद्ध्यै भूयासुर्भवन्तु । किं कुर्वन्तः ? । सान्द्रश्चासौ सिन्दूररेणुश्च सान्द्रो बहल: सिन्दूररेणुः सिन्दूररजस्तद्दधत इव । किंभूतम् ? । जम्भस्यारातिर्जम्भारातिः शक्रस्तस्येभो हस्ती ऐरावणस्य कुम्भौ मस्तको तयोस्तौ वा उद्भवो यस्येति विग्रहः । एतदुक्तं भवति- ये वर्गस्थास्ते उदयरागभृतस्तानवलोक्यैरावणकुम्भस्थं सिन्दूररेणुं दधत इव मन्यन्ते । उदयश्चासौ गिरिश्च तस्य तटी तस्या धातवो गैरिकादयस्तेषां धाराकारो द्रवो धाराद्रवः प्रपातस्तस्येवोधैः प्रवाहैः समूहैरविच्छिन्नैः सिक्ता अत एव रक्ता इव । उदयगिरिस्थानामेवं बुद्धिर्जायते तुल्यकालं समकालमायान्त्या आगच्छन्त्या पद्मखण्डदीप्त्या इवारुणाः । सहैव सवित्रा कमलवनानां रुगागच्छति । एवं दीप्या धरास्थानां प्रतीतिर्भवति । किं कुर्वन्तो भानवः ? । त्रैलोक्यमुद्भासयन्तः । अभिनवत्वं तेषां दिक्करणापेक्षया ॥ १॥ भक्तिप्रहाय दातुं मुकुलपुटकुटीकोटरकोडलीनां लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये ॥ कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥ ते भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये कमलवनोद्घाटनं कुर्वते पद्मखण्डानामुन्मीलनं विदधते । उत्प्रेक्षते-लक्ष्मीमाकष्टुकामा इवापक्रष्टुमनस इव । यतो लक्ष्मी सदैव कमलवनेषु कृतसंनिधानामाक्रष्टुमिव । किं कर्तुम् ? । दातुं वित- रितुम् । कस्मै ? । भक्तिप्रहाय । भक्त्या प्रबो नम्रो भक्ति प्रह्वस्तस्मै । कीदृशीं श्रियम् ? । मुकुलपुटकुटीकोटरकोडलीनाम् । अत्र 'मुकुल'शब्देन कुडालमुच्यते । तस्य यः पुटः स एव कुटी शालेव मुकुलपुटकुटी तस्याः कोटरमभ्यन्तरं तस्य क्रोडोऽवनम्रप्रदेशस्तत्र लीनां संश्लिष्टाम् । कीदृशाः कराः । कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः । कालस्येवाकारो यस्य स कालाकारः स चासावन्धकारश्च तस्याननं मुखं तत्र पतितं यजगत्तस्य साध्वसं भयं तस्य ध्वंसो नाशस्तत्र कल्याः पटवः समर्था एव । पुनः किंलक्षणाः । किसलयरुचयः किसलयानामिव रुचिर्येषां तेऽमिनवाकुरभासः ॥ २॥ गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।। टिप्प०-१'शतकेऽस्मिन्स्रग्धरावृत्तम् । आशीःसामान्यालंकारःसर्वत्रैव । विशेषालंकारस्तूप्रेक्षारूपक- श्लेषादयः' इत्यपि वल्लभदेवव्याख्यानम्. २ 'काद्भियंकरत्वाच्च कालनिभोऽन्धकारः' इति वल्लभः.
३ त्रिभुवनपालटीकासमेतम् निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा- नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥ ब्रनः सूर्यस्तस्य पादा रश्मयः पान्त्ववन्तु । कान् ? । वो युष्मान् । किं कुर्वन्तः । अम्भोरुहाणां पद्मानां गर्भेष्वभ्यन्तरेषु शिखरिषु च पर्वतेषु शिताग्रेषु तीक्ष्णप्रान्तेषु तुल्यं समं पतन्तो गच्छन्तः। अन्यस्य हि पादा यथा हरितशाद्वलोपचितायां भूमौ निपतन्ति तथा न शर्करिलायां कण्ट कितायां वा । बनस्य पुनर्दिवातिशययुक्तेषु पद्मगर्भेषु तीक्ष्णशृङ्गेषु च पर्वतेषु समं पतन्ति । वासरस्य दिवसस्य प्रारम्भे मुखे तस्यैव व्युपरति- समये चास्तमानकाले तथैव सदृशा एकरूपाः । त्रिभुवनभवनप्राङ्गणमिव त्रिभुवन भवनप्राङ्गणं तस्मिंस्त्रैलोक्यवेश्माजिरे निष्पर्यायमविद्यमानक्रमं प्रवृत्ताः प्रसृताः । अन्यस्य हि पादाश्चरणा गृहाङ्गणे पर्यायेण प्रवर्तन्ते । तस्य पुनः समकालमेव । ऊष्माणमौष्ण्यं भृशं बिभ्रतोऽत्यर्थं दधतः । उत्प्रेक्षते-संतताध्वश्रमजमिव । संततश्चासावध्वा च संतताध्वा। अध्व'शब्दोऽत्राधिकगमने वर्तते। तेन श्रमस्तस्माजातस्तमिव । भृशमविच्छिन्नं गाढं गमनखेदसंभवमिव । अन्यो हि यः पान्थस्तस्य पादा ऊष्माणमेव बिभ्रति दधति ॥३॥ प्रभ्रश्यत्युत्तरीय त्विषि तमसि समुद्वीक्ष्य वीतावृतीन्प्रा- ग्जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् । ते सान्द्रीभूय सद्यः क्रमविशदशाशादशालीविशालं शश्वत्संपादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥ ते रश्मयो मरीचयो मङ्गलं कल्याणं वो दिशन्तु ददतु । यान्किरणांस्तिग्मरोचि. स्तीक्ष्णदीधितिः सूर्यो वितनुते विस्तारयति । कथं यथा भवति ? । अतनु विस्तीर्ण यथा भवति । किं कृत्वा? । जन्तून्प्राणिनो वीतावृतीन् ,आवरणमावृतिः वीता गता आवृतिर्येषां ते तान्समवलोक्य समुद्वीक्ष्य । प्राक्पूर्व तमस्यन्धकारे प्रभ्रश्यति पतति सति । कीदृशे ? । उत्तरीयस्येव विड् यस्य तदूत्तरीयत्विट् तस्मिन्नंशुकनिमे तिमिरे। कानिव ? । तन्तून् यथा । तन्तवः सूत्राणि यथा तान् । यथा कश्चित्तन्तुवायोऽतनुपटान्वितनुते प्राणभृतो विगत- वाससो दृष्ट्वा । ते सान्द्रीभूय घनतां प्राप्याम्बरं वासोऽमलं विमलमुत्पादयन्ति । एवं मरीचयोऽपि सान्द्रीभूय सद्यस्तत्क्षणमम्बरमाकाशं शश्वत्सर्वदा विमलमुत्पादयन्ति । कीदृशम् ? । क्रमविशददशाशादशाली विशालम् । क्रमेण पर्यायेण विशदाः परिपाच्या स्पष्टा दश च ता आशाश्च दशाशा दश दिशः क्रमविशदाश्च ता दशाशाश्च ता एव दशास्ता. सामाली पतिस्तया विशालं विस्तीर्णम् । तदपि वासो दशाली विशालम् ॥ ४ ॥ न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधीः प्रोषितामा भावद्भावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।। पाठा०-१'यो हि यत्प्रसादेन लब्धात्मलामः स तस्याभ्युगमनं करोति' इति वल्लमः.
-- ४ सूर्यशतकम् पक्षच्छेदव्रणासृक्स्रुत इव दृषदो दर्शयन्प्रातरद्रे- राताम्रस्तीव्रभानोरनमिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥ तीव्रभानोर्गभस्त्युद्गमः किरणोदयो वो युष्माकमनभिमतनुदे अनमिमतमनभीष्टं पापं शत्रुर्वा तस्य नोदनं नुत् तस्यै स्ताद्भवतात् । कीदृश इव ? । पूर्व प्रथमं पावकेन वह्निना कृताभ्युद्गतिरिव अभ्युद्गमनमभ्युगतिः । विहितखागत इव । किंभूतेन पावकेन ? । भावदावोद्गतेन भाखतो ग्रावाणो भावदावाणोऽर्कोपलाः सूर्यकान्ताभिधाना मणिविशेषा- तेभ्य उगतो भावद्भावोद्वतः। ते हि रविकरस्पृष्टा अग्निमुद्वमन्ति । 'ओषधि' शब्दे- नौषधिस्थं तेज उच्यते, तात्स्थ्यात् । यथा गिरिदह्यते पन्थानो मुष्यन्त इति । तत्तिर- स्कुर्वनभिभवन् । ओषधीनामीश ओषधीशः । तस्मिन्नोषधीनां भतरीन्दौ मुषितरुचि मुषिता स्कृ ग्यस्य स तस्मिन्मुषितरुचि हतभासि शुचेव शोकेनेव प्रेषिताभाः प्रोषिता आभा यासामोषधीनां तास्तथोक्ताः । भर्तरि हततेजसि पत्न्यः शोकेन गतधृतयो भवन्ति । प्रातर।रुदयाचलनान्नो दृषदः शिला दर्शयन्प्रकटयन् । कथंभूता इव ?। पक्षच्छेद- व्रणासक्नुत इव । पक्षाणां छेदः पक्षच्छेदस्तेन व्रणास्तषामसूग्रुधिरं पक्षच्छेदव्रणासृक् तत्त्रवन्तीति ताः। अङ्गाहक्षतजस्राविणार्यथा । यतो गभस्त्युद्गम आताम्रो लोहितो- ऽतस्तदनुरञ्जिताः शिला एवमुत्प्रेक्ष्यन्ते । पूर्व किल पर्वताः पक्षवन्तोऽभूवंस्तेषामिन्द्र- स्तांश्चिच्छेद ॥ ५॥ शीर्णघ्राणाझिपाणीन्द्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघातानघौघः पुनरपि घटयत्येक उल्लाघयन् यः॥ धर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विघ्नवृत्ते- दत्ताः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ६॥ धर्माशोरादित्यस्य घृणयो मयूखा वो युष्माकमहोविघातं पापापनोदं विदधतु कुर्वन्तु । शीघ्रं तत्क्षणम् । किंविशिष्टाः ? । दत्तार्घा दत्तो विश्राणितोऽ? येभ्यस्ते । कैः । सिद्धसंधैः सिद्धा अणिमादियुक्तास्तेषां संघा वातास्तैरिति । किंभूतोऽसौ धर्मांशुः ? । यः पुनरपि भूयोऽपि घटयति करोति । कान् ? । शीर्णघ्राणानिपाणीन् । घ्राणं नासा अङ्गी पादौ पाणी हस्तौ। घ्राणं चानी च पाणी चेति समाहारद्वन्द्वः । शीर्णा घ्राणाङ्गि- पाणयो येषां सामर्थ्यादङ्गिनां ते तथोक्तान् । तथा अपघनैरङ्गैर्ऋणिभिरुपलक्षितान् । घर्घराव्यक्तघोषान् घर्घरो जर्जरोऽव्यक्तोऽस्फुटो घोषो ध्वनिर्येषाम् । घ्राणादिलुप्ततायां कण्ठौष्ठादिवणितायां च कारणमुपवर्णयन्नाह-अघौघैः पापसमूहैर्दीर्घाघ्रातांश्चिरतर- प्रस्तान् । किं कुर्वन् ? । उल्लाघयन्निाधीकुर्वन् । एकोऽसहायः । रुद्रादयोऽपि सूर्यमूर्ति- मारूढा एव नीरोंग कुर्वन्तीति संबन्धः ( भावः) । किम्भूतस्य भानोः ? । अन्तर्द्विगुण- घनघृणानिन्ननिर्विघ्नवृत्तेः । अन्तर्मध्ये चेतसि द्विगुणा घना बहुला घृणा दया। घना चासौ । ।
त्रिभुवनपालटीकासमेतम् घृणा च धनघृणा । अन्तर्द्विगुणा चासौ घनघृणा च तया निन्ना परवशा निर्विघ्ना अन्त- रायरहिता वृत्तिर्यस्य स तथोक्तः ॥ ६ ॥ विभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ॥ ध्वान्तादाच्छिद्य देव द्विष इव बलितो विश्वमाश्वभुवानाः कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥ हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन- यन्तु । पुनर्विशेष्यन्ते--उच्छायहेलोपहसितहरयः। उच्छ्राय उच्चैस्त्वं तस्य या हेला लीला तया उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिविष्णु- यते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः? । बिभ्राणा धार- यन्तः । किम् ? । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्दीर्घः संजातः । पुनरपि किंभूतः । क्रान्ताकाशान्तरालाः। कान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः। तदनु अनन्तरं च दश दिशो दशाशाः पूरयन्तः पूर्णाः कुर्वन्तः। ततोऽपि पुनरपि विश्वं जगदनुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा ? । आच्छिद्याकृष्यापहृत्य । कुतः। ध्वान्तादन्धकारात् । कस्मादिव ? । देवद्विष इव सुरशत्रोरिव । बलितो बलिनानः, अन्यत्र बलितो बलवतः। पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो बलेविश्वमा. च्छिद्य व्याप्तवानिति ॥ ७ ॥ उद्गाढेनारुणिम्ना विदधति बहुलं येऽरुणस्यारुणत्वं मूर्धोद्भूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।। शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशन्तु प्रेवन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ।।८।। ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशन्तु ददतु । येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन? । अरुणिम्ना लोहि- तत्वेन । उद्गाढेन प्रवलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः कवि. काव्रणशोणितच्छायाः। मूोद्भूतो सत्यां मस्तकोत्कम्पे सति ये शैलानां पर्वतानां शेख- रत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः ? । श्रितशिखरिशिखाः सन्तः समा. पाठा०-१ 'देवद्रुहः वल्लभ०. २ 'श्रितशिखरशिखाः' वल्लभ०. AND टिप्प.-1'अश्लिष्ट शृङ्गकोटयः सन्तः' इति वल्लभव्याख्यानम् ।
६ सूर्यशतकम् .. . त्रितपर्वताप्रभागाः । अथवा श्रिताः शिखरिण्यः शिखा यैस्ते । किं कुर्वन्तः ? । प्रेसन्तो गच्छन्तः । व? । खे व्योम्नि । खचितदिनमुखाः स्पष्टीकृतदिवसप्रारम्भाः ॥ ८॥ दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः पूर्वाहे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।। दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥ दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु जनयन्तु । किंभूताः ।। दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्रजानां लोकानाम् । कैः कृत्वा ? । पयोमिर्जलैः । समुचितसमयाकृष्टसृष्टैः समुचितो योग्यः समय कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते-पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भागस्तत्र विक्षिप्ताः । क। दिशि दिशि सर्वासु दिक्षु । विरमत्यह्नि याति दिवसेऽस्तमनसमये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः। दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावः। दीर्घ च तदुःखं च तस्य प्रभव उत्पत्तिस्थानम् , स चासौ भवश्च संसारस्तस्माद्भयं तदेवोदन्वा. न्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां परमुत्कृष्टम् । किंभूतां प्रीतिम् ? । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् । गावो धेनवश्वोच्यन्ते । ता अपि पयोमिर्दुग्धैः समुचितसमयाकृष्टसृष्टैः प्रजानां दत्तानन्दा भवन्ति । पूर्वाह्न प्रत्युषसि विप्रकीर्णा भवन्ति । अहोऽवसाने संहारभाजः । दीर्घदुःखप्रभवभवभयोदनवदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पणैर्लोकाः संसार तरन्तीत्यागमविदः ॥९॥ बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।। युष्माकं ते स्वचित्तप्रेथितपृथुतरप्रार्थनाकल्पवृक्षाः कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥१०॥ दिनकर किरणा रविपादाः भवतां कल्मषस्य पापस्य केतवो विनाशकाः कल्पन्ता संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रियाविशेषणमिदम् । स्वं च चित्तं च स्खचित्तम् , तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः। ये लोकाना प्रजानां प्रबोधं तत्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः-प्राकृतो वैकारिको दक्षि. णासा (?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्तत्रैकहेतुः पाठा०-१'अक्लिष्टसृष्टैः' वल्लभ०. २ 'प्रथिमपृथुतर' वल्लभ०. 2'स्व टिप्प०-1 'समुचिते योग्ये समये वर्षाख्ये अक्लिष्टमयान्' इति वल्लभन्याख्या. भवतां यश्चित्तं तस्य यः प्रथिमा विस्तवरत्स्ता इति वल्लभव्याख्यानम्,' 9 । त्रिभुवनपालटीकासमेतम् प्रधानं कारणम् । किंभूतानां प्रजानाम् ? । शिरसि मस्तके नतिर्नमस्कारस्तत्र रसस्तेनाबद्धो विरचितः संध्याञ्जलियेस्ते तथोक्तास्तेषाम् । कयेव ? । विपुलाम्भोजखण्डाशयेव । विपुलो विस्तीर्णोऽम्भोजखण्डः कमलाकरः विपुलश्वासावम्भोजखण्डश्च तस्याशा तयेव । बन्ध- ध्वंसैकहेतुतापि मुकुलावस्थाविघातककारणता । प्रबोधो ज्ञानं विकासश्च ॥ १० ॥ धारा रायो धनायापदि सपदि करालम्बभूताः प्रपाते तत्त्वालोकैकदीपा स्त्रिदशपतिपुरपस्थितौ वीथ्य एव ।। निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा- स्त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः केल्मषादः ॥ ११ ॥ तीव्रभानोरादित्यस्य मयूखाः कल्मषात्पापाद्वो युष्मांस्त्रायन्तां रक्षन्तु । दिवसमुख- सुखाः दिवसारम्भे सुखकारिणः । खरूपकथनमेतत् । पुनरपि च निरूप्यन्ते- रायो द्रव्यस्य धाराः प्रपाताः । क । धनायापदि द्रव्यार्थकायपीडायाम् । धनाया धनेच्छा तस्या आपत्प्रार्थना धनस्य प्राप्तिस्तत्रापि । सपदि तत्क्षणम् । करालम्बभूता इति हस्तेष्वादायोत्तारयन्तीत्यर्थः । क ? । प्रपाते नरके दुर्गतौ । तत्त्वालोकैकदीपाः तत्त्वस्य परमार्थस्यालोके दर्शने एकदीपाः, प्रकाशकत्वात् । त्रिदशपति रिन्द्रस्तस्य पुरं नगरमम- रावती तत्र प्रस्थितिः प्रस्थानं तत्र वीथ्य एव पन्थान एव । पुनरपि कीदृशाः ? । निर्वाणोद्योगिनो मोक्षोत्सुकास्ते च ते योगिनश्च तेषां प्रगमोऽपुनरावृत्तिस्तस्य निजा आत्मीया सा चासौ तनुश्च तस्या द्वारिं तस्यां वेत्रायमाणाः प्रतीहारा इवाचरन्तः । ये हि सिद्धा योगिनो भवन्ति, ते हि सूर्यतनुद्वारेण न स्खलनमासादयन्ति । उद्युक्तानां योगिनां तु सूर्यतनुः तत्र द्वाःस्थाः प्रयातुं न ददति । अथवा प्रगच्छन्त्यनेनेति प्रगमः पन्थाः । निर्वाणोद्योगियोगिनां प्रगमश्चासौ निजतनुद्वाश्चेति तत्समासः ॥ ११ ॥ प्राचि प्रागाचरन्योऽनतिचिरमचले चारुचूडामणित्वं मुञ्चन्त्यो रोचनाम्भः प्रचुरमिव दिशामुच्चकैश्चर्चनाय ॥ चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्यमाना- श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥ चण्डरोचीरुचो धर्मघृणिपादाश्चिन्तितानां मनोरथानामुचितं योग्यं वो युष्माकं चेष्टन्तां व्याप्रियन्तां संपादयन्तु वा । किं कुर्वत्यः ? । आचरन्त्यो विदधत्यः । किं तत् ? । चारुचूडामणित्वं मनोहरशिखारनत्वम्। क्व ? । अचले पर्वते । किंभूते?। प्राचि पूर्वदिक्संब. न्धिनि । प्राक्प्रथमम् । अनतिचिरं स्वल्पकालम् । किंभूताः १ । रोचनाम्भो रोचनाजलं मुञ्चन्त्य इव । प्रचुरं प्रभूतम् । दिशामाशानां चर्चनाय भूषणाय । तादर्थं चतुर्थी । उच्च- कैरत्यर्थम् । प्रथममतिलोहितत्वाञ्चण्डांशुरोचिषः शिरोरलत्वेनोत्प्रेक्षिताः । तदनु पिशङ्गयः पाठा०-१'तीव्रभासः' वल्लभ०. २ 'कश्मलादः' वल्लभ०. ३ 'सुचिरं' वल्लभ०. - । ८ सूर्यशतकम् सत्यो रोचनाम्बुत्वेनेति । पुनः किंभूतः । अय॑मानाःसस्पृहमीक्ष्यमाणाः । कैः । चक्र- नाम्नां लोचनाञ्चलैत्रप्रान्तः। अविचलैर्निश्चलैः । कथम् । चतुरं विदग्धं यथा भवति । चात्कैश्चाटुकालिभिः। चक्रवाकाणां हि भगवति गभस्तिमालिन्यभ्युदिते सति वियुक्तानां परस्परं समागमो भवतीति सादरं तद्रुचोऽय॑न्त इत्येवमभिहितम् । अचरमा अप्राचीनाः ॥ १२॥ एक ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि- भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ॥ युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो- र्यान्ति प्राहे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥ १३ ।। भानोः संबन्धीनि दीधितीनां दश शतानि, सहस्रमिति यावत् । युष्माकं शिवं भद्रं दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह-यानि एकं ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि? । दृशौ द्वे चक्षुषी द्वे । त्रिज- गति त्रैलोक्ये गदितानि कथितानि । कैः ? । अब्जजास्यैः कमलयोनिवदनैः । कियद्भिः । चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां तेजसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्खलमत्यर्थ नानाविधान्यु- चावचप्रकाराणि, तीव्रमन्दादिभेदेन विद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिदश- मुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि । भूयोऽपि किंभूतानि? । अष्टदिग्भाजि अष्टाशाश्रितानि । पूर्वाह्न दिनमुखे नवत्वं प्रत्यग्रत्वं यान्ति भजन्ते। पूर्व ज्योतिस्त्वेनैकत्वम् । पुनर्मुक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम्। चतुर्यु ब्रह्मवक्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा वसन्तादिसंख्यायाः षट्त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्टत्वम् । आश्रय- मेदाझेदः । पूर्वाहे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रदर्शितेति ॥ १३ ॥ आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव ग्रीष्मे दावाग्नितप्ता इव रसमसकृये धरिच्या धयन्ति ॥ ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमतौं मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीशवो वो भवन्तु ॥ १४ ॥ मार्तण्डस्य भानोरभीशवो दीधितयो वो युष्माकमशुभभिदेऽकल्याणविनाशाय भवन्तु जायन्ताम् । चिरं बहुकालम् । किंविशिष्टाः ? । ये धरित्र्या भुवो रसं जलं धयन्ति पिबन्ति । असकृदनेकवारम् । किंभूता इव धयन्ति ? । शोषिण इव शोषयुक्ता इव । पाठा०-१'ददतु' वल्लभ०.
त्रिभुवनपालटीकासमेतम् ९ शोषिणोऽपि श्रममिव दधतः खेदमिव दधाना बिभ्राणाः । श्रमाधाने हेतुमाह-आवृत्ति- भ्रान्तविश्वाः । आवृत्त्या पौनःपुन्येन भ्रान्तं पर्यटितं विश्वं जगस्तेि तथोक्ताः । क ? । ग्रीष्मे निदाघकाले । शोषिणः खोमणेव । पुनरुत्प्रेक्षते-दावाग्नितप्ता इव, जल. मतीव नरा धयन्ति तद्वदेते इत्युत्प्रेक्षिताः । तेऽभीशवः प्रावृषि वर्षाकाले उद्वान्ततोया उद्गीर्णपयस्काः । किंभूताः ?। आत्तपानातिशयरुज इव आत्ता प्राप्ता पानातिशयरुग्यैस्ते । हिमतौँ हेमन्तेऽप्रचण्डा मन्दा अपटवः। यथा कोऽपि पानीयपानातिशयात्प्राप्तवेदनो मन्दो भवति तद्वदेतेऽपि ॥ १४ ॥ तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था- मारूढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।। उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमाना श्मश्रुश्रेणीव भासां दिशतु दशशती शर्म धर्मत्विषो वः ॥ १५ ॥ भासां दीधितीनां दशशती धर्मत्विषः सूर्यसंबन्धिनी वो युष्मभ्यं शर्म सुखं कल्याण दिशतु यच्छतु। केव? । श्मश्रुश्रेणीव मुखरोमराजिरिव । किं कुर्वती ? । किंचिदुद्भिद्यमाना उद्गच्छन्ती। कस्मिन् ? । दिनमुखे । अन्यत्र,-यूनां मुखे उद्भिद्यते। किं कुर्वाणा? । तन्वाना विस्तारयन्ती । काम् ? । अवस्थाम् । कासाम् ? । दिग्वधूनाम् । दिश एव वध्वस्तासाम् । कीदृशीम् ? । समधिकमधुरालोकरम्याम् । समधिकः सभ्यगधिको मधुरो मृदुर्य आलोकः प्रकाशस्तेन रम्याम् । पुनरपि किंभूता ? | आरूढप्रौढिलेशोत्कलितकपिलिमा । प्रौढिः प्रौढत्वं तस्या लेशः। आरूढश्चासौ प्रौढिलेशश्चति समासः । तेनोत्कलितो वर्धितः कपिलिमा कपिलत्वं यस्याः सा तथोक्ता । अलंकृतिभूषणम् । केवलैव एकैव । किंभूते दिनमुखे ?। उजम्मा विकासिन्यम्भोजनेबद्युतिर्यत्र तत्तथोक्तं तत्रेति । श्मश्रुश्रेण्या अपि सर्वमेतत्संबन्धनीयम् । सापि वधूनां समधिकमधुरामालोकरम्यामवस्थां वितनुते । आरूइप्रौढिलेशोत्कलित कपिलिमा भवति । अलंकृतिश्चासौ केवलैव मुखस्य संपद्यत इत्यादि समानम् ॥ १५ ॥ मौलीन्दोमॆप मोपीड्युतिमिति वृषभाङ्केन यः शङ्किनेव प्रत्ययोद्घाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा । कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव स्तुतोऽलं त्राणाय स्तात्तनीयानपि तिमिररिपोः स विपामुद्गमो वः ॥ १६ ॥ तिमिररिपोरादित्यस्य स त्विषां भासामुद्गम उदयस्त्राणाय रक्षायै वो युष्माकं स्ताद्भव- तात् । तनीयानपि तनुतरोपि । किंभूतः ? । यः स्तुतः । केन ? । वृषभाङ्कन पिनाकिना। शङ्किनेव। किमिति ? । मौलीन्दोर्मोलिचन्द्रस्यैषोऽयं द्युतिं प्रभा मा मोपीन्मा खण्डय. त्विति । धात्रा ब्रह्मणा च यः स्तुत इति संबन्धः । किंभूतो नुतः ? । प्रत्यग्रेति । तत्क्षण- १० सूर्यशतकम् विकासिसरोरुहान्तरालसुखोपविष्टेनेव । मा संकोचदुःस्थिात कामपि कार्षीदितीव । तथा कृष्णेन विष्णुना ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव तिमिरश्यामनिजशरीरपरिभूति- त्रसनशीलेनेव । अलमत्यर्थम् । 'इव'शब्दः सर्वत्रोत्प्रेक्षायाम् । एष ध्वान्तभ्रान्या ममैव तनुं परिभूयादितीव । आद्यैरपि देवैः स्तुत इति महत्त्वं रवेदर्शयति ॥ १६ ॥ विस्तीर्ण व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धीन् कुर्वद्भिदृश्यनानानगनगरनगाभोगपृथ्वी च पृथ्वीम् ॥ पद्मिन्युच्छास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा- मुस्रा विस्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥ ते सहस्रत्विषः सहस्ररश्मेरुस्रा गभस्तयोऽनभिमतं दुःखं विस्रंसयन्तु ध्वंसयन्तु । वो युष्माकम् । द्रुतं शीघ्रम् । यैः पद्मिनी जगच्चोषसि प्रातःकाले उच्छ्वास्यते । ध्वंसयित्वा । काम् ? । तमिस्रामन्धकारं रात्रिं वा । किं कुर्वद्भिः। विस्तीर्ण पृथुलं व्योम गगनम् , दीर्घा आयता दश दिशो दशाशाः, सपदि तत्क्षणं व्यस्तवेलाम्भसोऽधीन् विक्षिप्तवेलाजला- न्समुद्रान्कुर्वद्भिः। पृथ्वीं च धरां कुर्वद्भिः। कथंभूताम् । दृश्यनानानगनगरनगाभोग- पृथ्वीम् । नगाः पर्वताः नगराणि पत्तनानि नगा वृक्षास्ते च ते नानाप्रकाराश्चेति समासः । दृश्या उपलभ्याः । दृश्याश्च ते नानानगनगरनगास्तेषामाभोगो विस्तारस्तेन पृथ्वी विस्तीर्णाम् ॥ १७ ॥ अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ॥ दिकालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥१८॥ तिग्मभानोरादित्यस्यार्चिषां भासामुद्गम उदयो वो युष्मभ्यं शिवं कल्याणं दिशतु यच्छतु । किविशिष्टोऽसौ ? । विश्वं जगत्प्रतिहततिमिरं कर्तुमीशः । एकदेशस्थितोऽप्येकदेशे वर्तमानोऽपि । एकदेशस्थितस्यापि तिमिरोच्छेदकारित्वं प्रदीपेन समानो धर्मः । प्रदीपो वेश्मेव । सामान्यदीपात्किंचिदधिकोऽयम् । अस्तव्यस्तत्वशून्यः । अतो विनाशस्तेन व्यस्तत्वं व्यसनं तेन शून्यो न भवति । विनाशे नासौ बाध्यते । निजरुचिश्च न भवति, किं त्वनिजरुचिः; तैलादिना आधीयमानत्वात् । तथा अनिशा दिवसस्तत्र नश्वरोऽसौ अस्तव्यस्तत्वशून्य इति । न स्तव्योऽस्तव्योऽस्तवाहः । तथा तत्त्वशून्यश्च प्रदीपः । अर्चिषामुद्गमस्तु स्तव्यस्तत्त्वभूतश्चेति । किंभूतः ? । नवाख्या प्रत्यग्रव्यपदेशं यातो गत इति । क्व?। दिशि ककुमि । किंभूतायाम् ? । शातक्रतव्यां पौरन्दर्याम् । तथा दिकाला- पाठा०-१ 'विस्रावयन्तु वल्लभ०. टिप्प०-1 वल्लभदेवटीकायाममाच्छोकादनन्तरम् ‘इति रश्मिवर्णनम्' इत्यस्ति. HARYAMAMR. ........ M त्रिभुवनपालटीकासमेतम् ११ पेक्षया दिक् प्राच्यादिः कालः पूर्वाह्लादिः प्राच्यां दिशि पूर्वाह्ने दृश्यत इति नव उच्यते । परमार्थतस्त्वनवः पुराणः व्यपदेशशून्योऽसौ। तिग्मभानोस्त्रिभुवनमटतो गच्छ- तोऽतिक्रामतः॥१८॥ मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकं लोकालोकस्य पार्श्व प्रतपति न परं यस्तदाख्यार्थमेव ।। ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैयो द्युसीम्नि स्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोधः ॥ १९ ॥ रोचिषामोघो रोचिरोघो दीप्तिपुञ्जः। स तापनः सूर्यसंबन्धी मयूखबातो वो युष्मा- नवतु रक्षतु । किंभूतः ?। यो न प्रविष्टोऽहिलोकं फणिसद्म । किमिति ? । मा गान्मा यासी- दिति म्लानि पीडामयमहिलोको मृणालीकोमलः । ततो यद्यहं पातालं गच्छेयं तदा नूनमयं म्लानिं यास्यतीति । दयया कृपया। लोकालोकस्य परं पार्श्व तदाख्यार्थमेव तत्संज्ञार्थमेव न प्रतपति न प्रकाशयति । तस्य हि लोकालोकसंबन्धात्तदभावाच्च लोकश्च स आलोकश्च सः । अर्वाचीने पार्श्वे यत्र भगवान्प्रतपति तत्र लोका विद्यन्ते, नापरत्र । यदि तत्रापि भगवान्प्रतपेत् तदा सोऽपि लोक एव स्यात् । तदालोकालोक इत्याख्या तस्य नश्येत् । अनेन कारणेन तस्य परं पार्श्व न प्रतपति । ऊर्ध्वमुपरिष्टाब्रह्माण्ड. खण्डस्फुटनभयपरित्यक्तदैर्घ्यः । ब्रह्माण्डखण्डस्य स्फुटनं दलनं तस्माद्भयं तेन परित्यक्तं देयं द्राधिमा येन स तथोक्तः । क्व ?। घुसीम्नि गगनमर्यादायाम् । दिवः सीमा घुसीमा तस्मिन् । किविशिष्टः ? । स्वेच्छावश्यावकाशावधिः । स्वेच्छावश्यो वशंगतोऽवकाशावधिः स्थानमर्यादा यस्य सः ॥ १९ ॥ अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारे सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।। धन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोजिहाने तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥ दिनपतेरादित्यस्य तद्धाम तत्तेजो वो युष्मभ्यं कामाधिकमभिलाषाधिकं दिशतु पच्छतु । कामाधिकं सामर्थ्यात्प्रस्तावात्प्रार्थितमेव । यत्र यस्मिन्धा-न्युजिहाने उद्गच्छति पति न खल्वहर्लक्षणः काल एवाश्यामो भवति, अपि तु भुवनान्तोऽपि । कालस्याश्या- रत्वं श्यामा रात्रिस्तद्र हितत्वम् । न विद्यते श्यामाऽस्मिन्निति कृत्वा। तेजस्युद्गच्छत्य- हर्लक्षणः कालो भवति तस्य रात्र्या सहानवस्थानलक्षणो विरोध इत्यश्यामः । भुव. नान्तः पुनः श्यामगुणरहितः । कस्मिन्नवसरे ? । अन्धकारे तमसि वीते विगते सति । 'वीतान्धकारः' इति पाठान्तरम् । तत्र वीतं गतमन्धकारं यस्मादवसरादिति योज्यम् । पाठा०-१ 'वीतान्धकारः' वल्लभ०.
१२ सूर्यशतकम् किं च, स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति न विलीयते द्रवति, अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति । प्रालेयपादो हिमकिरणश्चन्द्रमा अपि। बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव । सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः। तेषां बन्धो रचना । सिद्धा हि भगवन्तमुपतिष्ठमाना अञ्जलीन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते । कीदृशं तद्धाम ? । प्रेक्षणीयं प्रेक्षाहं रमणीयमिति ॥ २० ॥ यत्कान्ति पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां नो धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ॥ कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या- श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥२१॥ भाखतो रवेस्तन्महस्तत्तेजो वो युष्माकमघभित् पापविनाशि स्ताद्भवतु । किंभूतम् ? । त्रिलोक्या लोकत्रयस्यैकमद्वितीयं चक्षुर्लोचनमिव । किंविशिष्टम् ? । सामान्यचक्षुर्विसदृशं प्राकृतलोचनविलक्षणम् । तदेव वैलक्षण्यं दर्शयति -यत्कान्ति पङ्कजानां पद्मानां न हरति न च्छिनत्ति, प्रत्युत विशेषेणाधिक्यरम्यामतिशयरमणीयां महत्प्रभां कुरुते । इतरत्तु चक्षुः कान्ति पङ्कजानामादत्ते तदनुकारं किल तद्भवतीति । तथा नो धत्ते न पुष्णाति । तार- काभां नक्षत्रद्युतिम् । तिरयति तिरस्करोति । नितरामतीव । आशु शीघ्रम् । नित्य- मेव सदैव । इतरत्तु तारका कनीनिका तया आभां शोभां धत्ते पुष्णाति । निमेषं काल- विशेष कर्तुमुत्पादयितुमेव नालं समर्थम् , किं तु दिवसमपि । परमुत्कृष्टमेव । इतरत्तु मुहूर्तमपि निर्निमेषं न भवतीति व्यतिरेकः ॥ २१ ॥ क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरजेलस्पर्शतर्षाहतेव द्रागाशा नेतुमाशा द्विरदकरसरःपुष्कराणीव बोधम् ।। प्रातः प्रोल्लक्ष्य विष्णोः पदमपि घृणयेवातिवेगादवीय- स्युद्दाम द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥ दिनपतेवितो द्युतिर्दीप्तिौं युष्माकं दुनिमित्तमशुभं दहतु भस्मीकरोतु । किं कुर्वती ? । उद्दामं द्योतमाना । किंभूता? । मां पृथ्वीमृता गता प्राप्ता। 'ऋ गतौ' । क्षेपीयः क्षिप्रतरम् । कस्मादिव ? । क्षपाम्भःशिशिरतरजलस्पर्शत दिव । क्षपाम्भोऽवश्यायजलं तेन शिशिरतरं शीतलतरं च तज्जलं च तस्य स्पर्शस्तत्र तर्षोऽभिलाषस्तस्मादिवेत्यु- त्प्रेक्षा । पुनरपि किंभूता? । आशा दिशः ऋतेति संबन्धः। द्राकू शीघ्रम् । किं कर्तुमिव? । । पाठा०-१'नाधत्ते' वल्लभ०, २ 'तल' वल्लभ०. टिप्प-1 ‘निशाजलातिशीतल भूपृष्ठसंपर्काभिलापात्' इति वल्लभव्याख्यानम् .
त्रिभुवनपालटीकासमेतम् १३ नेतुमिव प्रापयितुमिव । कम्? । बोधं विकासम् । कानि ? । आशाद्विरदकरसरःपुष्कराणि । आशासु द्विरदा दिग्गजास्तेषां करा हस्तास्ते सरांसीव त एव वा सरांसि, पुष्कराधारत्वात् । तेषां पुष्कराणि कराग्राणि पद्मान्यप्युच्यन्ते । तानि हि विकासयन्तीत्येवमुक्तम् । प्रातः प्रत्युषसि प्रोल्लच्यातिकम्य विष्णोश्चक्रिणः पदं व्योम । घृणयेव जुगुप्सयेव । त्रिपदीकाले विष्णुना व्याप्तं तन्महतामयुक्तमेतावन्मात्राणां पदानां हरणमिति । परपदे किल स्थातुं न युक्तमित्यतिवेगादतिरंहसो दवीयसि दूरतरे ऋतेति संबन्धः। उद्दामं प्रभूतम् । क्रियाविशेषणं वा ॥ २२ ॥ नो कल्यापायवायोरदयरयदलत्क्ष्माधरस्यापि गम्या गाढोद्गीर्णोज्वलश्रीरह नि न रहिता नो तमःकजलेन ।। प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥ उष्णत्विषस्तिग्मभानोर्दीप्तिद्युतिर्वो युष्मान् सुखयत्वानन्दयतु सुखिनः करोतु। किंभूतस्य ? । निखिलद्वीपदीपस्य निखिलानि समग्राणि द्वीपानि जम्बूप्रभृतीनि तेषां दीप इव दीपः, प्रकाशकत्वात् तस्य । सैव वर्तिरन्यरूपा ! अन्यद्रूपं यस्याः साऽन्यरूपा । अभिन्नरूपया दीपस्य वा भवितव्यम् । वर्तिः कीदृशी? । वर्तिरिव सामान्यवर्तिरूपा न, अन्यरूपा; तद्विलक्षणेत्यर्थः । तदाह-कल्पापायवायोरपि नो गम्या । कल्पस्यापायः कल्पापायः कल्पान्तस्तस्य वायुः प्रलयमारुतस्तस्यापि न गमनीया। किंभूतस्य ? । अदयरयदलत्क्ष्मा- धरस्य । चण्डवेगेन :क्ष्माधराः पृथ्वीधरा यस्मिन्वायो यस्य तथोक्तस्य प्रचण्डवेगस्फुटगिरेः । पुनः किंभूता? । अहनि दिवसे गाढोद्गीर्णोज्वलश्रीर्गाढा उद्गीर्णा उज्वला श्रीर्यया सा गाढोद्गीर्णोज्वलश्री शोद्वान्तनिकामदीप्तकान्तिः । किं च न न रहिता न न वर्जिता तमःकज्जलेन तिमिरमष्या, अपि तु रहितैवेत्यर्थः । अन्यच्च, प्राप्तोत्पत्ति- लब्धजन्मा । कस्मात् ? । पतङ्गा दिनपतेः । न पुनरुपगता नैव प्राप्ता। कम् ? । मोषं खण्डनम् । इतरा तु वर्तिर्वायुगम्या भवति । दिवसे गाढोद्गीर्णोज्वल श्रीन भवति । कजलेन रहिता न च । पतझाच्छलभान्मोषमुपैति नोत्पत्तिमिति व्यतिरेकः ॥ २३ ॥ निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपा पर्याप्त नोदयादौ दिनगमसमयोपप्लवेऽप्युन्नतैव ।। अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं ब्रनस्येद्धा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥ २४ ॥ ब्रनस्य सूर्यस्य रुचिदीप्ती रुचितस्याभिलषितस्य वस्तुनः पदार्थस्य वो युष्माकमाप्तयेऽस्तु पाठा०-१'शम्या' (=विनाश्या' ) वल्लभ०. २" चिरस्य' वल्लभ०. दलन्तः शीर्यमाणाः सूर्यशतकम् भवतु । कथंभूता?। इद्धा दीप्ता। केव?। रुचिरिवाभिलाष इव । कस्य? । अध्नस्य । अन्यस्याश्रुतत्वात् । तदेव दर्शयति-निःशेषाः समस्ता आशा दिशः। निशेषाश्च ता आशाश्च तासामवपूरो भरणं तत्र प्रवणानुकूला गुरुश्चासौ गुणश्च गुरुगुणस्तेन श्लाघनीय- खरूपा चेति समासः । इतरा तु रुचिः समस्तमनोरथभरणानुगुणश्लाघात्मा न भवति । पुनरपि किंभूता ? । पर्याप्तमलं दिनादौ दिवसारम्भे उन्नतैव नावनता। किं तत्रैव ? । नो; किं तु दिनगमसमयोपप्लवेऽपि दिवसापायकालविपद्यपि। इतरापिरु चिरभिलाष उदयकाले; तद्विरतौ च नोनमत्येव । किं च, अत्यन्तमतीव तमसान्धकारेण साकं सहकत्रैकस्मिन्प्रदेशे क्षणमपि मुहूर्तमपि वस्तुमासितुमनभिज्ञा अवेदित्री । इतरापि तामसाभावेनेति ॥ २४ ॥ बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।। आदध्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥ अहर्पतेर्दिननाथस्यातप उड्योतो वो युष्माकं लक्ष्मीमादध्यात्कुर्यात् । आदध्यादिति प्रार्थनायां लिङ। किंभूताम् ? । अपारामपर्यन्ताम् । क इव ? । अपरोऽन्यो गुह इव कार्तिकेय इव । बालोऽजरठः । किंभूतो गुहः, किंभूतश्चातपः । आतपगुहयोः श्लेषं दर्शयति-शक्तिं बिभ्राणो जगद्दयोतनसामर्थ्यं दधानः । कीदृशीम् ? । प्रशमितबलवत्तारकौर्जित्यगुर्वीम् । प्रशमितं शान्ति नीतं बलवदतीव निःशेषं तारकौर्जित्यं नक्षत्रतेजस्तेन गुर्वीम् । गुहोऽपि शक्तिमायुधविशेषं बिभर्ति । बलवांश्चासौ तारकश्च बलवत्तारकोऽसुरविशेषस्तस्यौर्जित्यं तेजस्विता प्रशमिता यया सा प्रशमितबलवत्तारकोर्जित्या सा चासौ गुर्वी चेति समासः । आशु शीघ्रम् । पुनरपि किं कुर्वन् ? । कुर्वाणः। कम् ? । शिखिनं वह्निम् । कथम् ? । अधोऽधस्तात् । लीलयानादरेण तिरस्कुर्वाणः परिभवनम् । कम् ? । शिखिनं मयूरमधः कुर्वाणः । लसचन्द्रकान्तावभासमपि । चन्द्रकान्ताश्चन्द्रमणयः। लसन्तश्च ते चन्द्रकान्ताश्च तेषामवभासः कान्तिस्तमपि। अथ लसंश्चासौ चन्द्रश्च तस्य कान्तश्चावभासश्च तमपि । शिखिनं वह्नि किंविशिष्टम् । लसच्चन्द्रं वसु सुवर्ण रत्नं वसु मणि (?) सर्व तस्येव कान्तः कमनीयोऽवभासो दीप्तिर्यस्य तम् । गुहोऽपि शिखिनं मयूरमधः स्थापयति । लीलया विलासेन। किंविशिष्टम् ? । लसन्तो ये चन्द्रका मेचकास्तेषामन्तास्तैरवभासते यस्तमपि । पुनरपि किं कुर्वन् ? । आवहन् । काम् ? । रतिं धृतिम् । किंभूताम् ? । अतिशयिनीमधि- कतराम् । केषाम् ? । वीक्षणानां विलोचनानां कोकाभिधानविलोचनानाम् । क । अन्धकारे तमसि । संसेव्यत्वात् तेजस्तदानीमक्ष्णोः इतरत्तस्यैव संबन्धिना मेलनीयम् (?) गुहोऽप्यन्धकारेः श्रीशिवस्य दृशामानन्दमादधाति । बालो डिम्भः ॥ २५॥ पाठा०-१'आदेयात्' वल्लभ०. २ 'ईक्षणानां' वल्लभ०.
त्रिभुवनपालटीकासमेतम् १५ : ज्योत्स्नांशाकर्षपाण्डद्युति तिमिरमषीशेषकल्माषमीष- जुम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ॥ प्रातःप्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्ती कान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥२६॥ तीक्ष्णत्विषस्तिग्मांशोः कान्तिर्दीधितिवों युष्माकमक्ष्णां दृशां मुदं हर्षमुपनयतादा- हरतात् । अतुलामपरिमिताम् । केव ? । तूलिकेव चित्रकारलेखनीव । किं कुर्वती ? । उन्मीलयन्ती प्रकटयन्ती। किं तत् ? । जगत् । किंभूतम् ? । चित्रं नानाप्रकारम् । तूलि- कापि चित्रं कर्म । किंभूतं चित्रमिति श्लेषयति-ज्योत्स्ना चन्द्रिका तस्या अंशो लेशस्त- स्याकर्ष उपादानं तेन पाण्डुद्युति पाण्डुच्छायं जगत् । चित्रमपि शुक्लवर्णानुप्रवेशात्पा- ण्डद्युति । तथा तिमिरशेषकल्माषम् । मषीवत्तिमिरं तिमिरमषी तस्याः शेष उद्धारः (?) तेन कल्माष कर्बुरम् । इतरदपि मषीलेशशारं भवति । किंच, पिङ्गं पीतम् । केन । सरसिजरजसा पद्मपरागेण । कीदृशेन ? । ईषजृम्भोद्भूतेन किंचिद्विकाससमुद्गतेन । चित्रमपि हरितालादिना । अपि च शोणशोचि अरुणच्छायम् । कया ? । संध्यया संध्या- समयेन हेतुना। चित्रं हिङ्गुलादिना। कदेत्याह-प्रातःप्रारम्भकालेऽहर्मुखारम्भसमये । सकलं समस्तमिति वा । जगचित्रमिति समस्तं वा । जगचित्रमिव जगचित्रमिति । ज्योत्स्नांशाकृत्स्नपाण्डु' इति पाठान्तरम् । तत्र ज्योत्नांशो ज्योत्स्नालेशस्तेनाकृत्स्नपाण्डु असमस्तपाण्डु । स्तोकत्वाज्योत्स्नाया इति योज्यम् ॥ २६ ॥ आयान्ती किं सुमेरोः सरणिररुणिता पाद्मरागैः परागै- राहोस्वित्स्वस्य माहारजनविरचिता वैजयन्ती रथस्य ।। माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु लोकै- राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभावः ॥ २७ ॥ सवितुरादित्यस्य प्रभातप्रभा प्रातद्युतिर्वो युष्माकमघनुदे पापनुत्यै स्ताद्भवतु ? । किंभूता। आलोकिता वीक्षिता। किं कृत्वा ? । आशय वितळ । लोकैनैः । कथम् ? । एवमित्थम् । देव दर्शयति-किं कुर्वती ? । आयान्त्यागच्छन्ती । सुमेरोदेवाचलात् । सरणिर्मार्गः । अरुणिता रक्तीकृता। कैः ? । परागैः रजोभिः । किमीयैः । पाद्मरागैः पद्मरागमणिजन्मभिः। पाहोखिद्वितर्के । रथस्य स्यन्दनस्य स्वकीयस्य वैजयन्ती पताका । कीदृशी? । हामरजनविर- चेता। महारजनस्यायं रागो माहारजनः कौसुम्भं वासः तेन रचिता निर्मिता। पुनरपि कीदृशी? । प्रष्ठवाहेति । प्रष्टा उत्तमा ये वाहा वाजिनस्तेषामावलिः । पतिस्तस्या विधुत- शेरांसि चलितमूर्धानस्तेषु चामराली चमरपतिः सा किं नु । कीदृशी ? । माञ्जिष्ठी मजिष्ठया तेति । एवमिति प्रत्येक योज्यम् ॥ २७ ॥ पाठा०-१'चामरालीव' वल्लभ०. टिप्प०-1 'माहारजनेन कौसुम्भवाससा' इति वल्लभव्याख्यानम् । ।
सूर्यशकतम् ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदेह्नस्त्विषं यः ॥ स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा- माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥ सोऽर्कप्रकाशः सूर्यालोको युष्मदाशां भवन्मनोरथं पूरयन्पूर्ण कुर्वन्मा विरंसीन्मा विरामं यासीत्, पुनःपुनः पूरयत्विति यावत् । प्रातरसकलपटिमा अपरिपूर्णतेक्ष्ण्यः । किंभूतः ? । आशाकाशेति । आशा दिशः। आकाशं खम्। आशाश्चाकाशं चाशाकाशे तयोरवकाशोऽन्तरालं तत्रावतरणमवतारस्तत्र तरुणो नवः प्रक्रमः सामर्थ्य यस्य स एवमुक्तः, तत्रावतरणे पटुरित्यर्थः । भूयो विशेष्यते-यो ध्वान्तध्वंसं विधत्ते तमश्छेद कुरुते, न च तपति । कथम् ? । रुचिमद्दीप्तिमत् , कठोरमिति भावः। तथा नातिरूपं रूपत्वविशिष्टं गुणं व्यनक्ति प्रकटयति, मन्दत्वात् । न्यक्त्वं न्यग्भावं नीत्वापि प्रापय्यापि नक्तं रात्रि न वितरतितरां नातिशयं तावन्न प्रयच्छति अह्नो दिवसस्य विषं दीप्तिम् । स्वरूपकथनमिदम् । अथवा महानुभावानां शर्मोपादानं तमसो ध्वान्तस्य ध्वंसं मोहच्छेदं खस्य च परस्य च विधत्ते, न खेच्छया तपत्युत्तापयति, नातिरूपं व्यनक्ति आत्मानं न श्लाघते । नक्तं रूपं विपक्षं प्रतिक्षिप्य दिवसकल्पमित्रस्य तेजोवृद्धिं करोति ॥ २८ ॥ तीव्र निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षण चाणु प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ॥ यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति ज्योतिस्तहिप्रकारं सवितुरवतु वो वाह्यमाभ्यन्तरं च ॥ २९ ॥ बाह्यं बहिःकरणपरिच्छेद्यं आभ्यन्तरं योगसमाधिगम्यं ज्योतिः । तीवमित्यादिना यथाक्रमं स्वरूपमेवाह-यत्तीनं तीक्ष्णं यनिर्वाणहेतुर्मुक्तिकारणम् विपुलं विस्तीर्ण रश्म्याख्यं यत्प्रकर्षणातिशयेनाणु सूक्ष्मम् । यत्प्रत्यक्षमिन्द्रिया दिग्राह्यं यत्परोक्षमतीन्द्रि- यम् । यदिह संनिकृटं यदपरं विप्रकृष्टम् । यनश्वरं नष्टमस्थायि यच्छाश्वतं नित्यम् । यत्सर्वस्य जगतः प्रसिद्धं यत्कतिपये कि यन्त एव योगिनो विदन्ति द्विचतुरा व्यासादयो योगिनो जानन्ति तदेवंविधमिति सूर्यते जो द्विप्रकारं द्विविधं बाह्यमाभ्यन्तरं च युष्मा- बक्षत्विति प्रथमोक्तिः ॥ २९ ॥ रत्नानां मण्डनाय प्रभवति नियतोदेशलब्धावकाशं वहेर्दादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ॥ : पाठा०-१ 'न्यक्कां' वल्लभ०. २ 'अहि' वल्लभ०.
१७ त्रिभुवनपालटीकासमेतम् यश्च त्रैलोक्यभूषाविधिरघदहनं ह्रादि वृष्ट्याशु तद्वो बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥ अर्कतेजो रविधाम वो युष्मानवताद्रक्षतु । किंभूतम् । बाहुल्योत्पाद्यकार्याधिकतरम् बाहुल्येन प्राचुर्येणोत्पाद्यं तच्च तत्कार्थं च तेनाधिकतरम् । बाहुल्येनोत्पादनीयानि भूयासि कार्याणि यस्य तद्वाहुल्योत्पाद्यकार्यम् । अतस्तेभ्योऽधिकतरम् । अमीष्वमीषु तेजो विद्यते । अन्यदीपतेजोभ्यो व्यतिरेकं दर्शयति--रलानां पद्मरागमणिप्रभृतीनां मणीनां मण्डनाय भूषणायैव संपद्यते न दाहाय। कीदृशं तत् ? । नियतोद्देशलब्धावकाशम् । नियतः परिमितः स चासावुद्देशश्च तस्मिल्लब्धोऽवकाशो येन तत् ? । 'नियतोद्देशवर्ति यत्कर्णादौ न्यस्तं तमेव द्योतयतीत्यर्थः । वह्नेः पावकस्य तेजो, दार्वादि काष्ठादि दग्धं भसीकर्तुं प्रभवति न मण्डनाय । इन्दोश्चन्द्रस्यानन्दमाहादं कर्तुं प्रभवति न मण्डनाय । कीदृशं तत् ? । निजजडिमतया सहजशीतलत्वेनोपलक्षितम् अर्कतेज एकमेव तु त्रैलो- क्यस्य भूषाविधिर्जगदलंकारक्रिया। अघदहनं पापापनोदि । ह्रादि वृष्ट्या कृत्वा आशु आनन्दकारि। तथा हि-'आदित्याजायते वृष्टिः'। एकस्यैवार्कतेजसो मण्डनाद्यनेक- क्रियाकारित्वम् । अत एवाह-बाहुल्योत्पाद्यकार्येति ॥ ३० ॥ मीलचक्षुर्विजिह्मश्रुति जडरसनं निन्नितघ्राणवृत्ति खव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ॥ विस्रस्ताङ्गं पतित्वा स्वपदपहरतादेश्रियं वोऽर्कजन्मा कालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥ अर्कजन्मा भानुप्रभवः प्राक्प्रतापो नवप्रतापो वो युष्माकमश्रियमलक्ष्मीमपहरताव्य- पनयतु । किं कुर्वन् ? । जगद्भुवनमुत्थापयन् । किंभूतम् ? । कालव्यालावलीढम् । व्याल इव काल: समयभुजंगस्तेनावलीढं प्रस्तम् । क इव। अगद इव विषापहारी भेषजयोग इव । यथा कालसर्पदष्टं जगजन्तुचक्रमगद उत्थापयति तद्वदिति । किं कुर्वाणं जगदुत्था- पयन् । स्वपत् शयानम् । किं कृत्वा ? । पतित्वा । कीदृशं तत् । मीलच्चक्षुः मीलन्ती चक्षुषी यस्य तत्संकुचल्लोचनम् । एवं विजिह्मश्रुति । योऽहिना दष्टः सोऽपि मीलच्चक्षु- विजिह्मश्रुतिश्च भवति । जडा विजिह्मा मन्दा रसना रसनेन्द्रियं यस्य तजडरसनं अपटु श्रवणेन्द्रियं यस्य तत्तथोक्तम् । मूकजिह्वम् । निनितघ्राणवृत्ति निन्नितावसादं याता घ्राणस्य नासिकाया वृत्तिर्यस्य तत् । स्वविषयगन्धोपलब्धिलक्षणवृत्तिनिग्निता यस्य । किं च, खव्यापाराक्षमत्वक् स्वव्यापारः स्पर्शपरिच्छित्तिस्तत्राक्षमा त्वग्यस्य तदेव मुक्तम् । परिमुषितमनः परिप्लुषितमनस्कं व्यपहतचित्तम् । इन्द्रियाणि मनोऽधिष्ठितानि । श्वास- मात्रावशेषं श्वासैकयोगि। एतेन बुद्धीन्द्रियाणां विषयेऽपाटवत्वमुक्तम् । कर्मेन्द्रियाणां , २ 'अप्रियं' वल्लभ०. पाठा०-१'यत्तु. सूर्य. २ १८ सूर्यशतकम् तु स्वव्यापाराक्षमत्वं दर्शितम् । विस्रस्ताङ्गमिति। अगदस्यापि सर्वमेतदस्ति । अगेदपक्षे काल इव व्यालः मृत्युहेतुत्वादिति योज्यम् ॥ ३१ ॥ निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारि स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः॥ दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धं वध्याद्रध्नस्य सिद्धाञ्जन विधिरपरः प्राक्तनोऽर्चिःप्रचारः॥ ३२ ॥ ब्रनस्याचिःप्रचारो रश्मिप्रसरो युष्मद्विरुद्धं भवदहितं वध्याद्धन्तु । प्राक्तनः पूर्व- कालीनः। कीदृशोऽसौ ? । सिद्धाञ्जनविधिः सिद्धमव्यभिचरितं च तदञ्जनं च तस्य विधि- रिव विधातेव । अपरोऽन्यः । स एव विशेष्यते-किंभूतः । दाता दृष्टिम् । दातेति ताच्छील्यात्तृन् । अत एव दृष्टि मिति द्वितीया । किंभूताम् ? । प्रसन्नाम् । (साधु ददातीति दाता। तृन् । ) किं कुर्वन् ? । अपनुदन् । किम् ? । नैशमम्भोऽवश्यायजलम् । निःशेषं सम- स्तम् । प्रसभं प्रकाशम् । कीदृशं तत् ? । अश्रुलेशानुकारि नयनजलकल्पम् । सिद्धाञ्जन- विधिरप्यश्रु व्यपनयति । पुनरपि कीदृशः ? । स्तोकस्तोकापनीतारुणरुचिः स्तोकस्तोकेन लेशेनापनीता उत्सृष्टा अरुणरुचिर्लोहितद्युतिः येन । किंचिदुज्झितबालभावत्वात्स एवमुक्तः । अथवा स्तोकस्तोकं लेशेनापनीताभिभूता अरुणस्य सारथेरनूरो रुचिर्येन । तथा इतरोऽपि लोचनानां शनैःशनैररुणतामपहरति । अचिरात्संक्षेपात् । अस्तदोषानु- षङ्गस्त्यक्तरात्रिसंपर्कः । इतरोऽपि निर्धूतकामलादिदोषसंसर्गः । आशु शीघ्रं वध्यादित्यनेन संबन्धनीयम् ॥ ३२ ॥ भूत्वा जम्भस्य भेत्तुः ककुभि परिभवारम्भभूः शुभ्रभानो- बिभ्राणा बभ्रभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ॥ भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्राग्- विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥ वैभाकरी सावित्री सा विभा कान्तिर्वो युष्माकं विभवोद्भूतयेऽर्थसंपत्त्यै विभवतु विभुर्भवतु । किं कुर्वती ? । भ्राजमाना शोभमाना। विभ्रान्ति । क्रियाविशेषणमेतत् । किं कुर्वाणा? । बभ्रभावं कपिलिमानं विभ्राणा धारयन्ती। किं कृत्वा ? । परिभूतेः प्रारम्भ- भूमिभूत्वा संपद्य । शुभ्रभानोर्वलक्षगोः । क्व ? । ककुभि दिशि । कस्य जम्भस्य भेत्तुर्जम्भा- सुरारेरिन्द्रस्य । कथम् ? । प्रसभं प्रकटम् । किंच, अभिनवाम्भोजजृम्भाप्रगल्भा प्रत्यग्र- पङ्केरूहप्रबोधविदग्धा या भूषा अलंकृतिः । भूयिष्टशोभा बाहुल्येन । त्रिभुवनभवनस्य त्रिलोकीवेश्मनः । अस्य एतस्येति प्रत्यक्षेण निर्दिशति । यथा कोऽपि बलिनः पक्षे स्थित्वा खप्रतिपक्षं हत्वा स्वगृहं समृद्धया भूषयति तद्वदत्र बोद्धव्यम् ॥ ३३ ॥ पाठा०-१. 'स्थित्वा' वल्लभ०. २. 'निर्भान्ति.' ?
त्रिभुवनपालटीकासमेतम्
१९
संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या
यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ॥
अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-
दुद्यन्वालप्रवालप्रतिमरुचिरहःपादपप्राक्प्ररोहः ॥ ३४ ॥
अर्कालोको भास्वत्प्रतापो मुदं हर्ष वो युष्माकं क्रियात् । कीदृशः ? । अहःपादपप्राक्प्र-
रोहः अहःपादपो दिवसतरुस्तस्य प्राक्प्ररोहः प्रथमाङ्कुरः । किं कुर्वन् ? । उद्यबुद्गच्छन् ।
उदयशिरश्चक्रवालालवालात । उदेयस्मिन्नित्युदय उदयाचलस्तस्य शिरांसि शृङ्गाणि
तेषां चक्रवालं मण्डलं तदेवालवालं जलाधारस्थानं तस्मात् । किंभूतात् ? । सिक्तमूलात् ।
कथम् ? । संसक्तमनवरतम्। कया ? । यामिन्या रात्र्या। किंभूतया ? । अभिनवेति । उद्यानमिव
भुवनं भवनोद्यानं तस्मिन्कौतुहलं विद्यते यस्याः सा तद्वती तया। कयेव? । कन्ययेव
कुमार्येव । कुमारीणां किलैप धर्म इति । केन? । अमृतेन सुधया। तुषारेणेति परमार्थः ।
किंभूतेन ? । अमृतकर कलशावर्जितेन । अमृतकर ओषधीशः स एव कलशस्तेनावर्जितं
क्षिप्तं तेन सिक्तमूलात् । अन्यत्रामृतेन जलेन करकलशावर्जितेन । पुनरपि कीदृशः ? ।
बालप्रवालप्रतिमरुचि नवकिसलयसमानकान्तिः । प्ररोहोऽपि नवविद्रुमसमो भवति ॥ ३४ ।।
मिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
त्यङ्गन्नक्षत्ररत्नातिनिकरकरालान्तरालं क्वचिच्च ॥
नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिवन्स्ता-
दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः॥ ३५ ॥
अर्कावभासः सूर्यालोको भवदघप्लुष्टये युष्मत्पापभस्मीकरणाय स्ताद्भवतु । क इव ? ।
अपूर्वोऽन्यः पूर्वोऽपि प्राक्तनोऽप्यौर्वोऽग्निरिव वडवानल इव । किं कुर्वन् ?। ध्वान्तराशिं
तिमिरपुजं पिबन्नसन् । कमिव ? । उदधिमिव समुद्रमिव । ध्वान्तराशिसमुद्रयोस्तुल्यतां
दर्शयति-क्वचित्प्रदेशेऽरुणस्यानूरोर्भासा दीप्याभिनवया प्रत्यग्रया भिन्नं विशेषितम् ।
कयेव । विद्रुमाणां त्विषा रुचेव । यथोदधिरपि विद्रुमाणां प्रवालानां विषा भिन्नो भवति ।
क्वचित्प्रदेशे। पुनरपि किंभूतम् ? । त्वङ्गन्ति कम्पन्ते रत्नानीव यानि नक्षत्राणि तेषां
द्युतिस्तस्या निकरस्तेन करालं विषमोन्नतमन्तरालं मध्यं यस्य स तथोक्तस्तम् । समुद्रोऽपि
त्वङ्गन्ती या नक्षत्रकल्पर लद्युतिस्तस्या निकरण करालान्तरालो भवति । पुनरपि किंभूतम् ।
नान्तर्निःशेषकृष्णश्रियम् । अन्तमध्ये निःशेषावशेषरहिता कृष्णश्रीः कृष्णशोभा यस्य सोऽन्त-
निःशेषकृष्णश्रीस्तन्न, अपि तु कृष्णशोभायुक्तमेव । अन्यत्र शेषः फणी। कृष्णो नारायणः ।
श्रीः पद्मा । शेषश्च कृष्णश्च श्रीश्च शेषकृष्ण श्रियः । अन्तर्मध्ये निर्गताः शेषकृष्णश्रियो
यसादुदधेः सोऽन्तर्निःशेषकृष्णश्रीस्तन्न, अपि त्वन्तःशेषकृष्णश्रीयुक्तमेव ॥ ३५॥
सूर्यशतकम् गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाथै- राद्यैर्यो नारदाचैर्मुनिभिरभिनुतो वेदेवेद्यैर्विभिद्य ॥ आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य- ब्रुथोतो द्योतितद्यौर्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥ दिवसकृत आदित्यस्योहयोतोऽवभासो वो युष्माकमवद्यानि पापानि द्यतु खण्डयतु । असावयम् । किंविशिष्टः । द्योतितद्यौः प्रकाशितान्तरिक्षः । पुनः किंभूतः ?। अभिनुतः । कैः। गन्धर्वैर्देवविशेषैः । कथम् ? । गद्यपद्यव्यतिकरितवचोहृद्यम् । अपादपदसंतानं गद्यम् । नियतपादपरिमाणं पद्यम् । गद्यं च पद्यं च गद्यपद्ये ताभ्यां व्यतिकरितं मिश्रितं तच्च तद्वचश्च तेन हृद्यम् । मनोहरमिति यावत् । क्रियाविशेषणमेतत् । आतोद्यवाद्यैर्मनोहरमिति' संबध्यते । आतोद्यानि च तानि वाद्यानि च तैरिति । आतोद्यवाद्यं चतुर्विधम्-ततं विततं नद्धं घनं सुषिरमिति । ततं वीणादिकम् । विततं धनं कांस्यतालादिकम् । धनं आनद्धं मुरजादिकम् । सुषिरं वंशादिकम् । गन्धवैरैव किम् ? । न । मुनिभिश्च नारदायैर्नारदप्रमुखैः । आद्यैरादिभूतैः । वेदेषु वेद्या यथा तैः। विभिद्य विभागीकृत्य । यमासाद्य जगद्यौवनमापद्यते प्राप्यते । पुनरपि भूयोऽपि । सद्यस्तत्क्षणम् । उद्यन्नद्रच्छन् । यौवनमिति मनोज्ञत्वं लक्षयति । यथा यौवने सर्वोऽपि भावो मनोहरो भवति । तथा यमप्यासाद्य मनोहरो भवतीति यौवनमित्युक्तम् ॥ ३६ ॥ आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणा- मेणाकालोकलोपादुपहतमहसामोषधीनां लयेन ।। आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो- राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥ अहिमांशोश्चण्डार्चिष आभा कान्तिर्वो युष्मानवतु । कीदृशी ? । प्राभातिकी औषसी । कि क्रियमाणा?। उत्प्रेक्ष्यमाणानुमीयमाना, न तु नैव नितरां स्पष्टमाविर्भवन्ती प्रकटी- भवन्ती । तावदिति ततोऽनन्तरमाविर्भवन्तीति संबध्यते । कीदृशस्य ? । क्षणं क्षणमात्र- मुदयतटीव्यवहितस्य । कैरनुमीयमाना ?। चन्द्रकान्तैर्मणिभिः। आवानैः शुष्यद्भिः । ते हिमकरस्पृष्टास्तोयं स्यन्दन्ते चन्द्रालोकाभावाच्छुष्यन्ति; अपि च तारकाणामुडूनां तानवात्तनुत्वात् । कुतस्तानवम् । च्युततिमिरतया गलितध्वान्ततया । ओषधीनां लयेन विलीनतया । कीदृशाम् ? । उपहतमहसां नष्टतेजसाम् । कुत उपहतमहस इत्याह- एणाङ्कालोकलोपाचन्द्रोद्दयोतपरिमोषात् । ओषधयोऽपि चन्द्रमसि विलुप्तभासि विच्छाया भवन्ति । आरादित्यवाग्भाग इति योज्यम् ॥ ३७ ॥ पाठा०-१. 'बीतवेधैर्विविध २. 'आवान्तः, त्रिभुवनपालटीकासमेतम् २१ सानौ सा नौदये नारुणितदलपुंनौवनानां वनाना- मालीमालीढपूर्वा परिहृतकुहरो नेम्ना तनिम्ना ॥ भा वोऽभावोपशान्ति दिशतु दिनपतेर्भासमाना समाना राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥ सा दिनपतेरकस्य भा दीप्तिर्वो युष्मभ्यमभावोपशान्तिमभाग्योपशमं दिशतु यच्छतु । किं कुर्वती ? । भासमाना द्योतमाना। यस्याः समसमयमेककालं राजीवरेणोः पद्मपरागस्य राजी पङ्किरुदेत्युद्गच्छति। वयस्येव सखीव या सैमाना तुल्या। या वनानां कानना- नामाली पति न न आलीडपूर्वा, अपि त्वालीढपूर्वैव । द्वौ नौ प्रकृतार्थ गमगतः । कीदृशानां वनानाम् ? । अरुणितदलपुनयौवनानाम् । अरुणितान्यरुणीकृतानि तानि दलानि च तैः पुनर्योवनं येषां तानि तथोक्तानि । सानौ भूधरभूमौ । कीशि ? । औदये उदय- स्यायमौदयस्तत्र। कीदृशी सा। परिहृतकुहरोपान्तनिन्ना। कुहराणामुपान्तानि कुहरोपान्तानि तानि च निम्नानि च परिहतानि कुहरोपान्तनिन्नानि रन्ध्रप्रान्तागाधानि यया सा परिहृत- कुहरोपान्तनिम्ना । तनिम्ना तानवेन हेतुना ॥ ३८ ॥ उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णताये पुष्णात्यालोकमात्रं न तु दिशति हशां दृश्यमाना विघातम् । पूर्वाद्रेरेव पूर्व दिवमनु च पुनः पावनी दिङ्मुखाना- मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३० ।। विभा दीप्तीः इनस्येयमैनी सावित्री एनांसि पापानि वो युष्माकं नुदतु विद्य. तु । मुतिपदैकास्पदं स्तुतिपदैकप्रतिष्ठा । प्राक्तनी प्राभातिकी या पयसां जलानां श्रिये लक्ष्म्यै प्रभवति विभुर्भवति नोष्णतायै औष्ण्याय । कीदृशानाम् ? । उजृम्भाम्भोरुहाणाम् । उज्जृ म्भानि विकासितान्यम्भोरुहाणि येषु पयःसु तानि तेषां विकचकुशेशयानाम् । किंच, दृशामालोकमात्रं पुष्णाति न तु दृश्यमानोपलभ्यमाना विघातं व्यथा 'दिशति यच्छति। या पूर्व प्रथममुदयाद्रेरेवोदयाचलस्यैव पावनी पवित्रयित्री। तदनु द्यां दिवं लक्षीकृत्य पावनी भवती। पुनरपि दिङ्मुखानामाशास्यानाम् । एतदुक्तं भवति--पुनरपि पूर्व उदयाचले तदनु दिवि तदनन्तरमाशामुखेषु भवति ॥ ३९ ॥ पाठ-१ 'लसद्यौवनाना.' २'ततः टिप्प-1 'असमाना अनुपमा' इति यज्ञेश्वरशास्त्रिव्याख्यानम्. 2 'वनानां वृक्षसमूहा. मामालीं पली पूर्वमालीढा पूर्वमास्वादयितुमारब्धवतीत्यालीढपूर्वा सा तथाविधा न भवतीति न, किं वितरवनराज्या आस्वादनतः पूर्वमुदयाद्रिस्थवनराजीमास्वादितुमारब्धवतीत्यर्थः । आदिकर्मणि क्तः कर्तरि चेति कर्तरि निष्ठा । अत एव कर्मणोऽनुक्तवादालीमिति द्वितीयान्तम्' इति शास्त्रिव्याख्यानम्, २२ सूर्यशतकम् वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चै- (रश्चानां तथोच्चारितचतुरऋचां चाननानां चतुर्णाम् ।। उच्येतार्चासु वाच्यच्युतिशुचि चरितं यस्य नोचैर्विविच्य प्राच्यं वर्चश्वकासचिरमुपचिनुतात्तस्य चण्डार्चिपो वः ॥ ४० ॥ चण्डार्चिषस्तिग्मभासो वर्चस्तेजो वो युष्माकमुपचिनुतादुपचयं करोतु । चिरं चिर. कालम् । चकासद्दीप्यमानम् । प्राच्यं प्राचीभवम् । यस्येवं विधं चरितमनुष्ठानमर्चासु प्रति- मासु स्तुतिषु उचैरत्यर्थ विविच्य विभिद्य नोच्येत नाभिधातुं शक्येत । अपर्यन्ततामनेन दर्शयति । कीदृशं तत् ? । वाच्यच्युतिशुचि वाच्यमवयं तस्य च्युतिस्तद्रहितता तया शुचि विशुद्धम्। कै!च्येत ?। प्रपञ्चैर्विस्तारैः । कासाम् । वाचां गिराम् ? । कस्य वाचस्पतेरपि, किं पुनरस्मादृशाम् । कीदृशां वाचाम् ? । अचलभिदिन्द्रस्तस्योचितं योग्यमाचार्यकमाचार्यत्वं यासां तास्तथोक्तास्तासाम् । किं च, पैरश्चानां विरञ्चसंबन्धिनां चतुर्णामाननानां वाचां प्रपञ्चैरिति योज्यम् । कीदृशाम् ? । उच्चारितचतुरऋचाम् । उच्चारिताश्चतुरा अघविघातपटव ऋचो यैस्तानि तथोक्तानि तेषामिति ॥ ४० ॥ मूर्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौधः समुद्रे दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।। सीनि व्योम्नश्च हेग्नः सुरशिखरिभुवो जायते यः प्रकाशः शोणिनासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥ खरांशोस्तीक्ष्णतेजसः प्रकाशः शोभैकदेशः शोभैकास्पदं वो युष्मभ्यं शर्म सुखं दिशतु यच्छतु । यो जायते धातुराग इव परार्थे शोणिन्ना हेतुना । प्रत्येकं संबन्धनीयम् । उषसि प्रातः । मूर्ध्नि शिरसि । कस्य ? । अद्रेः । युज्यमानशब्दो वतिमन्तरेणापि वत्यर्थ गमयति । यथा सिंहः सिंह इत्याह । सिंहवदिति गम्यते । एवं सर्वत्र द्रष्टव्यम् । किं- च, किसलयः पल्लववत्तरुषु शाखिषु । किसलय इति पुंलिङ्गनिर्देशः न पुनर्लिङ्गमशिष्यं लोकाश्रयत्वादिति । यथा पल्लवशब्दस्य पुंलिङ्गस्यापि लोकाश्रयं नपुंसकत्वं. दृश्यते यथा ( तथा ) किसलयस्य नपुंसकस्यापि पुंस्त्वमिति नोच्यते । शोभैकदेशः । सामाना- धिकरण्यात्पुंलिङ्गता। आविष्टलिङ्गत्वात् । अन्यथा आवथन मियमुष्ट्रिका (2) कुलहेतु- र्धनमिति स्त्रीत्वनपुंसकत्वसामानाधिकरण्येनावथनहेत्वोः स्त्रीनपुंसकता स्यात् । यैस्तु किसलयमिति नपुंसकमेवाभिधीयते तेषां नेदं नोद्यम् । समुद्रे वारिधौ विद्रुमौधः । दिङ्मा- तङ्गोत्तमाङ्गेषु दिग्वारणशिरःखभिनवनिहितः प्रत्यग्रस्थापितः सान्द्रसिन्दूररेणुर्बहुल- पाठा०-१'रुचिर.' 'अस्विवाच्य.' ३ "श्रियं.' ४ 'विहित:.' टिप्प०-1 'युष्मा-नुपचिनुताद्वर्धयत्वित्यर्थः' इति शास्त्रिव्याख्यानम्. -- . २ त्रिभुवनपालटीकासमेतम् सिन्दूररेणुः । व्योम्रो गगनस्य सीम्नि मर्यादायामलंकारायोज्वलरूपकर्तृभूतत्वात्सुरशिखरि भुवो मेरुसंभवस्य हेम्नः कनकस्य प्रकाशः ॥ ४१ ॥ अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीते याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युष:पारिजाते । उद्यन्त्यारक्तपीताम्बरविशदतरोद्वीक्षिता तीक्ष्णभानो- लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपुंटापाश्रया श्रेयसे वः ॥ ४२ ॥ तीक्ष्णभानोर्लक्ष्मीः श्रीः श्रेयसे पुरयेऽभ्युदयायास्तु भवतु । केव?। लक्ष्मीरिव पझेव । स्फुटकमलपुटापाश्रया विकसिताम्भोरुहपुटाधिवासा । किं कुर्वती । उद्यन्ती उद्गच्छन्ती। कस्याम् । पुरस्तात्पूर्वस्यां दिशि। कस्मिन्नवसरे ? । अस्ताद्रीशोत्तमाङ्गे अस्तादिरेवेशो महादेवस्तस्योत्तमाङ्गे अस्ताचलेशशिरसि श्रितशशिन्यधिरूढचन्द्रमसि । इतरेऽपीशोत्तमाओं परमेश्वरमूर्धनि । इन्दुयुजि । तमःकालकूटे निपीते ग्रस्ते कालकूट इव तमस्तत्र निपीते ग्रस्ते । अन्यत्र तम इव कालकूटो मोहात्मकत्वात् । तत्र शंभुना पीते. सति । अस्तादिरिवेशः । किंच, याति गच्छति सति । व्यक्ति प्रकटताम् । प्रत्युषःपारिजाते। किंविशिष्टे ? । अरुणकिसलयेऽनूरुप्रवाले। अन्यत्र पारिजाततरावरुणपल्लव इति योज्यम् । किंभूता? आरक्तपीताम्बरविशदतरोद्दीक्षिता ईषद्रतापीतभावभाजि संध्यया नभसि स्फुटतरं दृष्टा । इतरापि आरक्तोऽनुरक्तः पीताम्बरो विष्णुस्तेन व्यक्तं विलोकिता ॥ ४२ ॥ नोदन्याञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ॥ तेजोरूपापरैव त्रिपुं भुवनतलेष्वाधाना व्यवस्था सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलायोद्गता वः ॥४३॥ इति द्युतिवर्णनम् । सा श्रीलक्ष्मीः श्रेयांसि वो युष्मभ्यं दिश्याद्दयात् । अशिशिरमहस उष्णरश्मेर्मण्ड- लाग्रोद्गता मण्डलप्रान्तसमुत्थिता। कीदृशी । तेजोरूपा महःस्वभावा । अपरैवान्यैव, प्रसिद्धश्रीविलक्षणेत्यर्थः । तदेव वैलक्षण्यं दर्शयति-यस्या जन्मभूमि!दन्वान्समुद्रो नोत्पत्तिस्थानम् । कौस्तुभाद्या न वान्धवा यस्याः । तदुदरभुव उदन्वदुदरजन्मनः । पस्याः पद्मं न पाणौ कमलं हस्ते न। न च यस्या नरकरिपूरःस्थली वासवेश्म । नरको ३. 'पुटोपाश्रया.' '४. 'त्रिभुवनभवने.' पाठा०-१.'रुचिरतरोद्वीक्षिता. २. 'तीव्रभासः.' १. 'तेजोवर्णनम् .'
२४ सूर्यशतकम् भौमासुरस्तस्य रिपुर्नारायणस्तस्योरःस्थली सैव वासवेश्म वासगृहमिति । त्रिषु भुवनंतलेषु त्रैलोक्ये । आदधाना कुर्वती । व्यवस्था व्यवस्थानम् । इतरा अनवस्थानेति व्यतिरेकः ॥ इति द्युतिवर्णनव्याख्यानम् ॥ ४३ ॥ रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः पातङ्गाः पङ्ग्ववज्ञाजितपवनजवा वाजिनस्ते जगन्ति ॥ येषां वीतान्यचिह्नोनयमपि वहतां मार्गमाख्याति मेरा- वुद्यन्नुद्दामदीप्तिधूमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥ ते पातङ्गाः सावित्रा वाजिनस्तुरङ्गा जगन्ति भुवनानि रक्षन्तु पान्तु । किं कुर्वन्तः ? । उत्पतन्तः । कथम् ?। अक्षुण्णहेमोपलपटलम् । अक्षुण्णमचूर्णितं हेमोपलपटलं सुवर्णाश्मजालं यत्रोत्पतने । खुरैव्योम स्पृशन्त इति भावः । कुतः ? । लाघवालधुभावात् । अलमत्यर्थम् । मेराविति वक्ष्यति। तत्रोत्पतन्त इत्यस्य संबन्धः। कीदृशास्ते? । पैङ्ग्ववज्ञाजितपवनजवाः । पनववज्ञया जितः पवनजवो वायुवेगो यैस्ते । वायुः किल चरणरहितस्तस्य कियान्वेगो भविष्यतीत्यवज्ञा । येषां मार्ग वम आख्याति सूचयति । कः कर्ता ? । धुमणिमणिशिला- वेदिकाजातवेदाः । दिवो मणिधुमणिरादित्यः । मणिरिव मणिः, अलंकारभूतत्वात् । तस्य मणिशिलाः सूर्यकान्तास्तेषां वेदिकाश्चतुष्कास्तासु जातवेदा जाशुशुक्षणिः। 'जातका जातवेदाः' इति पाठान्तरे जातकाशब्दो वेदिकापर्यायः। किं कुर्वन् । उद्यमुद्गच्छन् । उद्दामदीप्तिः प्राज्यप्रकाशः। किं कुर्वतां वाहानाम् ? । वहतां गच्छताम् ? । व? । मेरौ पूर्वाचले। वीतान्यचिह्नोनयमपि मार्ग विगतापरलिङ्ग इत्यह ( ? ) मपि। अपिशब्द- श्चिह्नान्तराभावेऽपि मार्गप्रख्यापनसामर्थ्य जातवेदसो दर्शयति ॥ ४४ ॥ लुष्टाः पृष्ठंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै- रेकाहाक्रान्तकृत्ल त्रिदिवपथपृथुश्वासशोषाः श्रमेण ।। तीव्रोदन्यास्त्वरन्तामहितविहृतये सप्तयः सप्तसप्ते- रभ्याशाकाशगङ्गाजलसरलगलावाङताग्रानना वः ॥ ४५ ।। सप्तसप्तेः सप्ततुरगस्य सप्तयोऽश्वा अहितविहतये दुरितविनाशाय वो युष्माकं त्वरन्ता- मुत्सहन्ताम् । किंभूताः । तीत्रोदन्या उदग्रपिपासाः । उदन्याया हेतुं दर्शयति- प्लुष्टा दग्धाः पृष्ठे। कैः ? । अंशुपातै रश्मिप्रसरैः । अतिनिकटतया प्रत्यासन्नत्वेन । कथं- भूतैः?। दत्तदाहातिरेकैर्वितीर्णतापाधिक्यैः। कीदृशास्ते ? । एकाहेति। एकं च तदहश्चैका- made - पाठा०-१. 'गलावर्जिताग्राननाः.' टिप्प-1. 'पङ्गोनिजप्रेरकस्यारुणस्यावश्यावहेलनेन । यद्वा पङ्गोः पादविकलस्य वायोरवशया' शास्त्रिव्याख्यानम्.
त्रिभुवनपालटीकासमेतम् २५ हस्तेनाकान्त एकाहाक्रान्तः । कृत्स्नश्चासौ त्रिदिवपथश्च कृत्स्नत्रिदिवपथः । एकाहा- क्रान्तश्चासौ कृत्स्नत्रिदिवपथश्चेति समासः । तेन पृथुः श्वासो येषां त एवमुक्ताः । श्रमेण हेतुना । पुनरपि किंभूताः ? । अभ्याशे समीपे आकाशगङ्गा तस्या जलं तस्मिन्सरल- गलानि अवाङ्गताग्राणि आननानि येषां ते तथोक्ताः । समीपमन्दाकिनीसलिलऋजुकंध- राधोगतकोटिमुखाः ॥ ४५ ॥ मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृष्टदेहा द्रवन्ती व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपदा पद्मरागोपलेषु ।। सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूता सुमेरो- मूर्धन्यावृत्तिलब्धध्रुवंगतिरवतु बध्नवाहावलिर्वः ॥ ४६ ॥ बनवाहावलिः सूर्याश्वपतिवा-युष्मानवतु पातु । कीदृशी? । क्लिष्टसूता कदर्थितसारथिः। क? । मेरोमूर्धनि देवाचलशिरसि । तदेव दर्श्यते। द्रवन्ती गच्छन्ती । कीदृशी सती?। स्फटिकतटदृषइष्टदेहा। स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया सा तथोता। किं कृत्वा ? । मत्वाऽवगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः। खां छायामेव स्फटिकतटदृषत्कान्तामपरानश्वान्बुद्धवावधार्य द्रवन्ती, धावन्तीत्यर्थः । शैलीयं वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किंच पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा मन्दपदविक्षेपा। किंच, व्यस्तेऽहनि विगतवासरे अस्तसंध्येयमिति भ्रान्या। भ्रान्ति- हेतुरकतादिनास्तसंध्यायोमध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकतकटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकटकश्च हरितस्ततो विभ्रमः स्यात् किं मरकत उतावालीति । अदृश्यानवधारिता मूर्तिर्यस्या इत्यर्थः । कीदृशी ? । आवृत्तिलब्धध्रुवगतिः आवृत्त्यावर्तनेन लब्धः ध्रुवा अचपला गतिर्यया सा तथोक्ता ॥ ४६ ॥ हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा खर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेने ।। निर्व्याज तायमाने हरितिमनि निजे स्फीतफेनाहितश्री- रश्रेयांस्यश्वपतिः शमयतु यमुनेवापरा तापनी वः ।। ४७ ।। अश्वपकिस्तुरगावली वो युष्माकमश्रेयांसि पापानि शमयतु । किंभूता ? । तापनी सावित्री । किंच, यमुनेव कालिन्दी यथा । अश्वपतिकालिन्योः साम्यमभिधीयते । किं कुर्वती ? । वहन्ती गच्छन्ती । कथम् ? | हेलालोलं विलासचञ्चलमनायासचञ्चलं वा । किंभूताश्वपतिः। अवकृष्टा संयमिता। विषधरदमनस्याग्रजेन गरुत्मतो ज्येष्ठेनारुणेन । पुनः किंभूता? । वाहिन्या गङ्गाया जनितजवजया कृतवेगाभिभवा । स्यन्दनस्य रथस्य पाठा०-१. 'दुतगतिः.' २. 'स्फीतफेनस्मितश्री:.
? सूर्यशतकम् स्यदेन वेगेन। कथम् । सुदूरमतीव । निजस्फीतफेनाहितश्रीः स्वकीयोपचितडिण्डीर- कृतशोभा । कस्मिन्सति । तायमाने विस्तारं याति सति । हरितिमनि हरितगुणे । कथम् । निर्व्याजं निरुपधि । यमुनाप्युच्छाचल (?) चञ्चलं वहन्ती विषधरदमनस्य श्रीकृष्णस्या- ग्रजेन पूर्वजेन बलेनावकृष्टा वृन्दावनं प्रति नीता। पार्श्ववाहिन्या गङ्गाया जवं जयति । स्यन्दनस्य पर्वतादेः क्षरणस्य प्रस्रवणस्य स्यदेन रयेण हरितत्वेन ( ? ) प्रसृतनिजफेनेना हितशोभा भवति । तापनी तपनस्य तापनीति कृत्वा अपरा द्वितीयेति योज्यम् ॥४७॥ मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये वीक्ष्य ब्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।। सूतेऽसूयत्यपीषजडगति वहतां कंधेराधैर्वलद्भि- हिानां व्यस्यताद्वः सममसमहरेहेपितं कल्मषाणि ॥ ४८ ॥ असमहरेविषमाश्वस्य रवेर्वाहानां वाजिनां हषितं शब्दायितं सममेककालं युष्माकं कल्मषाणि पापानि व्यस्यताध्यपनयतु । किं कुर्वताम् ? । वहतां गच्छताम् । कथम् । ईषजडगति किंचिन्मन्दगति । प्रायेण सूतो नोत्तेजयति तन्न । सूतेऽरुणेऽसूयत्यपि सारथी कुप्यत्यपि । कैरुपलक्षितानाम् ? । कंधराधैः । किं कुर्वद्भिः ? । वलद्भिः परिवर्तमानैः। किं कृत्वा । वीक्ष्य दृष्ट्वा । कानि ? मुखानि । कासाम् ? । किंनरीणामश्वमुखीनाम् । कीदृशीनाम् । व्रीडानतानां ब्रीडावतीनाम् । भानुदर्शनोत्सुकाः किंनर्यः प्रतिकुहरमुखेषु तिष्ठन्ति । कस्मिन्नवसरे ? । नाकधान्नां देवानां निकाये जाते नुवति स्तुवाने सति । किंभूते? । कृतनतौ विहितप्रणामे । व?। मार्गोपान्तेऽध्वसमीपे । कस्य ?। सुमेरोदेवाचलस्य ॥ ४८ ॥ धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या- स्तालूत्तानैः खलीनैः खचितमुखरुचञ्चयोतता लोहितेन ॥ उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः क्षेमं हेमाद्रिहृयद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥ ४९ ।। इत्यश्ववर्णनम् । अर्कवाहा रवितुरगाः क्षेमं कल्याणं वो युष्माकं क्रियासुः कुर्वन्तु है। किंभूताः ? । हृयो हृदयप्रियः स चासौ द्रुमश्च हृयद्रुमः स एव हेमाद्रिस्तस्य शिखराणि तेषां शिरांसि तेषा श्रेणिः सैव शाखा तस्याः शुका इव शुकाः। किं कुर्वन्तः। ब्रजन्तो गच्छन्तः। व? वियति खे। किं कृत्वेव?। उड्डीयेव । कुतः ? गतिवशाद्गत्यनुरोधात् । पुनरपि किं कुर्वन्तः । धुन्वन्तः कम्पयन्तः । काः ? । नीरदालीमघपतीः । क्व । पार्श्वयोः । कीदृशीः ?। निजरुचिहरिताः खकीयद्युतिहरितगुणयुक्ताः । पक्षतुल्याः शुका अपि सहजहरितवपुषः पक्षान्धूनयन्ति पाठा०-१. 'कंधराप्रैः. ? - १ त्रिभुवनपालटीकासमेतम् २७ उड्डीय व्रजन्ति च । अपि च, अर्कावाः खचितमुखरुचो रचितमुखशोभाः। केन लोहितेन शोणितेन। किं कुर्वता ? । श्योतता क्षरता । कैतुभिः ? । खलीनैः कविकाभिः । किंभूतैः । तालूत्तानैः तालूपूत्तानानि तालुत्तानानि । तानि हि यदा भवन्ति तदा क्षतं कुर्वन्ति । ततोऽसृक् स्रवति । स्वभावोक्तिरियम् । शुकास्तु स्वभावाल्लोहिततुण्डा भवन्ति ॥ इत्यश्ववर्णनव्याख्यानम् ॥ ४९ ॥ तुरगवर्णनानन्तरं सारथिस्तवनमाह- प्रातःशैलापरङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी- विक्षिप्यापूर्वपुष्पाञ्जलिमुडुनिकरं सूत्रधारायमाणः ।। यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्वैव जातप्रतिष्ठा- मव्यात्प्रस्तावयन्यो जगटनमहानाटिकां सूर्यसूतः ॥ ५० ॥ सूर्यसूतो रविसारथिर्वो युष्मानव्याद्रक्षतु । किं कुर्वन् ? । प्रस्तावयन्प्रारभमाणः । काम् ? । जगदटनमहानाटिकाम् । जगतामटनं भ्रमणं तदेव महानाटिका ताम् । क्व। प्रातःशैला- ग्ररङ्गे । प्रातःशैल उदयाचलस्तस्याग्रं तदेव रङ्गो नर्तनभूमिस्तत्र । कीदृशः सः। रजनि- जवनिकापायसंलक्ष्यलक्ष्मीः । रजनी रात्रिः सैव जवनिका प्रतिसीरा तस्या अपायस्तेन संलक्ष्योपलक्ष्या लक्ष्मीः श्रीर्यस्यारुणस्य स तथोक्तः । किं कृत्वा ? । विक्षिप्य विकीर्य । कम् ?। उडुनिकरं तारकासंघम् । किंभूतम् ? । अपूर्वपुष्पाञ्जलिम् । किंभूतः ? । सूत्रधाराय- माणः सूत्रधार इवाचरन् । सूत्रधारोऽपि नाटिकां रजे प्रस्तावयति । जवनिकापगमदृश्य- लक्ष्मीर्भवति । उडुनिकरतुल्यां पुष्पाञ्जलिं विकिरति । किंभूतां ताम् ? । जातप्रतिष्टामुत्पन्न- स्थितिम् । क ? । अहो यामेघु प्रहरेषु । कियत्सु? । चतुर्वैव अङ्केविव, नाटिकापि चतुरङ्का भवति । किंभूतेषु ? । कृतरुचिपु विहितदीप्तिपु । अन्यत्र कृतशोभेषु ॥ ५० ॥ आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽत्र्यो हरीणां भ्राम्यन्तं पक्षपाताजगति समरुचिः सर्वकर्मैकसाक्षी ॥ शत्रु नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि स्थाम्नां धाम्नां निधिर्यः स भवदघनुदे नूतनः स्तादनूरुः ॥५१॥ नूतनो नवोऽनूरुररुणो भवदधनुदे युष्मत्पापविनाशाय स्ताद्भवतात् । कीदृशः ? । स्थानां स्थिराणां धाम्नां तेजसां निधिर्निधानम् । नेत्रश्रुतीनां सणां शत्रु गरुत्मन्त- मवजयत्यभिभवति । प्रायेण सामर्थ्य किमनयोर्नास्तीत्याह-वयोज्येष्ठभावे समेऽपि सति । एकत्र वयसा कालकृतशरीरावस्थया ज्येष्ठोऽधिकः । अन्यत्र वया पक्षिणां ज्येष्ठः प्रधानं तद्भावे समेऽपि तुल्येऽपीति शब्दच्छलमेतत् । अत्र जयमेव दर्शयति- किंभूतं नेत्रश्रुतिशत्रुम् ? । वाह्यमानं वाहनी क्रियमाणम् । हरिणा विष्णुना। आक्रान्त्या पाठा०-१ 'यातः प्रतिष्ठां' वल्लभ०. - .. -- २८ सूर्यशतकम् विक्रमेण बलात्कारेण । पशुमिव अश्वादिर्यथा । असावपि कदाचिदेवंभूतः स्यादित्याह- वाहको वाहयिता । अग्र्यः प्रधानम् । केषाम् ? । हरीणां वाजिनाम् । हरिशब्दसाम्येनाव- जयं दर्शयति--एक एकेन हरिणा वाह्यते । अपरस्तु बहून्हरीन्वाहयति । किंच, भ्राम्यन्तं पर्यटन्तम् । जगति लोके । कस्मात् । पक्षपातात्पक्षविक्षेपात्पतनाद्भूननाद्वा । अयं तु जगति समरुचिस्तुल्यानुरागः पक्षपातरहितः सर्वकमैकसाक्षी सर्वेषां कर्मणामेकः साक्षी द्रष्टा । पक्षपातादिति शब्दच्छलेनावजयं दर्शयति-पक्षपातो हि राग उच्यते । गरुडस्तु पक्षपातवान् । इतरस्तद्रहितः ॥ ५१ ॥ दत्ताचँर्दूरनर्वियति विनयतो वीक्षितः सिद्धसाथैः सानाध्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।। आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासो यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ ५२ ॥ दशशतरुचेर्भानोः सूतो युष्माकं सानाथ्यं सनाथतां करोतु क्रियात् । सातिरेक सातिशयम् । किंभूतः ? । यः पृष्ठेनार्कमादित्यं भजते। अग्रे वाष्ठादीपनो 'दिगुद्द्योतनः । किं कृत्वा ? | प्रभात एव चन्द्रदीप्तीः । पीत्वा । कीदृशीः ?। प्रततहिमपयःस्यन्दिनीः संतत- प्रसृतमिहिकाम्बुस्राविणीः । क इव ? । जडित इव शीतादित इव । भृशं सुष्छु । जडितोऽपि पृष्ठेऽक निषेवते काष्ठान्यग्रे दीपयति । तथा च 'पृष्ठतोऽक निषेवेत जठरेण हुताशनम्' इत्यागमविदः । पुनरपि किंभूतः ? । वीक्षितो दृष्टः । कैः । सिद्धसाथैः । कीदृशैः ।। विश्राणिताथैः । दूरनर्भक्तिप्रकैः । वियत्याकाशे । विनयात्प्रश्रयात् ॥ ५२ ॥ मुश्चरिश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र- स्तोत्रप्रख्यातवीर्योऽविरतहरिपदाक्रान्तिबद्धानियोगः ॥ कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानां सेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ ५३ ।। सोऽरुणोऽनूरुर्वो युष्मांस्त्रायतां पातु । यः पूष्णा आत्मसम इव कृतः खतुल्य इव विहितः। किंभूतेन है। सेवाप्रीतेन आराधनतुष्टेन । किं कुर्वन् ? 1. रश्मीनवसंयमनरज्जून्मु- वशिथिलयन् । क्व ? । दिनादौ वासरमुखे । भगवानपि दिनादौ रश्मीन्भासो विसृजति । नगमसमये विनावसाने संहरंश्च । (स्वतन्त्रः खैरी) तथा देवोऽपि दिनावसाने । न्यत्र तु (8) तोत्रप्रख्यातवीर्यः प्राजनकर्मणि प्रसिद्धशक्तिः। देवपक्षे स्तोत्रैर्वेदोक्तैर्मन्त्रैः सिद्धं वीर्य यस्य स तथोकः। पुनः कीदृशोऽरुणः ? । अविरतहरिपदेति । अविरता पाठा०-१ 'सिद्धसाध्यैः । २ 'वितत.' ३ 'स्वसमः' वल्लभ०. टिप्प-1 देवपक्ष स्वतत्रस्तोत्रेत्या 'खपरे' शरि विसर्गलोपो वक्तव्यः' इति विमर्गलोपोन.. ।
त्रिभुवनपालटीकासमेतम् २९ । इतस्ततखस्ता हरयोऽश्वास्तेषां पदानि चरणन्यासास्तेषामाकान्तौ सल्लां बद्ध आदरो यस्यासौ। अथवा तुरगपदैराक्रान्तो बद्ध उद्यमो यस्य सः। देवपक्षे अविरतं निरन्तर हरिपदस्याकाशस्याकमणे बद्धोद्यमः । अपरं किं कुर्वन् ? । योऽरुणो द्विजानामीश्वरे गहडे बलालधुत्वमवरजत्वं योजयन् । समयाधिक्यात्पूर्वकालोत्पन्नत्वात् । देवपक्षे द्विजानां ब्राह्मणानामधिपतौ चन्द्रे बलाल्लघुत्वमदृश्यतां योजयन् , कालस्या धिक्यात् । दिनकर किरणो- दयकालः प्रकृष्ट इति भावः । अरुणदिनकरयोः साम्याच्छन्दश्लेषोक्तिरलंकारः॥ ५३ ॥ शातः श्यामालतायाः परशुरिव तमोऽरण्यवहेरिवार्चिः प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ॥ ऐक्यं भिन्दन्छुभूम्योरवधिरिव विधातेव विश्वप्रबोधं वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ ५४॥ धामाधिपस्य सूर्यस्य वाहानामश्वानां विनेतारुणो वो युष्माकं या काचिद्विपत्तिस्तनाम व्यपनयतु विनाशयतु । किंभूतः?। शातस्तीक्ष्णः । उत्प्रेक्षते-इयामालतायाः परशुरिव ! श्यामा रात्रिः सैव लता । 'श्यामा रात्रिलता स्मृता' । परशुरिव कुठार इव, तच्छेदकत्वात् । अपरं किंभूतोऽरुणः । तमोरण्यवर्तेरर्चिरिव । तम एवारण्यं तमोरण्यं तत्र वह्निस्तमोरण्यवह्निस्तस्यार्थिरिव ज्वालेव, दावाग्निरिवेत्यर्थः । अपरं किंभूतोऽरुणः । प्राच्या पूर्वया दिशाने पुरस्ताद्हा एव कुमुदानि तेषां वनं तद्गृहीतुं प्राक्प्रत्युषसि उदस्त उत्क्षिप्तोऽग्रहस्तो हस्ताग्र इव । यथा हस्ताग्रेणानायासेनैव कुमुदानि गृह्यन्ते एवमयं ग्रहान्गृह्णाति । अपरं क इव ?। आकाशधरित्र्योरैक्यमेकीभावं भिन्दन्नपनयन्सन्नवधिरिव मर्यादेव। अपरं किंभूतोऽरुणः?। विश्वं जगत्तस्य प्रबोधं विधाता। क इव?। प्रजापतिरिव। यथा विधाता विश्वं प्रसुप्तमव्यक्त करूपं प्रबोधयति, एवमयं गुप्तं प्रबोधयति ॥ ५४ ॥ पौरस्त्यस्तोयदर्तोः पवन इव पैतत्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः ।। संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥ सौरस्य सूर्यसंबन्धिनः स्यन्दनस्य रथस्याग्रे स विनतानन्दनोऽरुणो वो युष्माकं सुख वितरतु । किंभूतः ? । पौरस्त्यः पूर्वदिग्भवस्तोयदर्तोः प्रावृट्कालस्याने पवन इव । यथैव प्रावृषोऽग्रे पौरस्त्यो वायुरुपलभ्भ्यमानो वर्षाः सूचयंस्तत्कालोपस्थितेषु कृष्यादि- कार्येषु लोकान्व्यापारयति एवमयमपि स्यन्दनस्याग्रे उपलभ्यमानः सौर रथं सूचयं- स्तत्कालभाविषु ग्रामनगरादिकार्येषु लोकान्व्यापारयति । अपरं किंभूतः । पतंश्वासौ पावा-२. 'पतन् . ..
सूर्यशतकम् पावकश्च पतत्पावकस्तस्याग्रे धूम इव । यथा अरण्यां मथ्यमानायामने प्रथम धूम उपलभ्यमानो वैश्वानरस्य पतनं सूचयति । दर्शपौर्णमासादिना यजमानं प्रवर्तयन् । अनुदिते सूर्ये तेषामप्रवृत्तिरित्यतोऽयं धूम इव भवतीति भावः। विश्वस्येवादिसर्गस्त्रै- लोक्यस्य प्रथमा सृष्टिरिव प्रधानान्महान्महतोऽहंकार इत्यादिलक्षणा । पञ्चभूतात्मिका । आदिग्रहणेनावान्तरप्रलयसर्गान्व्यवच्छिनत्ति। यथाऽऽदिसर्गो विश्वस्याविर्भावकारणतामुपग- च्छल्लोकानां स्वस्वपुरुषार्थेष्वपवर्गपर्यन्तेषु प्रवर्तमानानां हेतुतामुपयाति, एवमयमप्यग्रे व्यवस्थितः सौरस्य रथस्याविर्भावविज्ञानं प्रति कारणभावमुपगच्छन्समयाभ्युषितत्व- मुपलक्ष्यते । तस्यामेव वेलायां तेषां होमः प्रवर्तते नानुदिते ॥ ( नृत्योत्सवे ) आदिसर्ग इवासौ भवतीति भावः । प्रणव इव परं पावनो वेदराशेरिति । वेदचतुष्टयस्याग्रे व्यवस्थितः प्रणव इवौंकार इव । परमुत्कृष्टः । पावनः सकलकल्मपक्षयकारी । स हि वेदानामग्र एवोच्चार्यते । स च जपस्मरणोच्चारणद्वारेण पुरुपं पुनाति । एवमनूरुर पि सौरस्य रथस्याग्रे व्यवस्थितः । . स्नानदानजपहोमादिप्रवृत्तिद्वारेण पुरुष पुनात्येव, एवमम्मिन्ननुदिते स्नानादेरसंभवात् । अतोऽसौ प्रणव इव भवतीत्यभिप्रायः । संध्यानृत्योत्सवेच्छोरिल्यादि । संध्यायां नृत्यं तदेवोत्सवस्तमिच्छतीति संध्यानृत्योत्सवेच्छुस्तस्य मदनरिपोः श्रीमहादेवस्याये नन्दिनान्दीनिनादः अग्रे प्रथममुपजायमानः । नृत्याभिलाषिणि (शिवे ) गणेन नन्दिना नन्दिकेश्वरेण कृतो नान्द्या मुरजविशेषेण नादः शब्दः । नन्दिनान्दीनिनाद इवासौ भवतीति भावः ॥ ५५ ॥ पर्याप्तं तप्तचामीकरकटकतटे शिष्टशीतेतरांशा- वासीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः॥ यः सोत्कर्षां विभूषां कुरुत इब कुलक्ष्माभृदीशस्य मेरो- रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेय द्विषो वः॥ ५६ ॥ काद्रवेयद्विषो गरुडस्य गुरुज्येप्टो भ्रातारुणो वो युप्माकमेनां सि पापान्याहाय झटिति दूरं गमयतु । स क इल्याह-योऽरुणः कुलश्माभूदीशम्य कुलपर्वतेश्वरस्य मेरोः सोत्कर्षा सातिशयिनी विभूपां कुरुत इव । कथम् । पर्या प्रभतम् । यः पद्मरागाय- माणः। व?। तप्तचामीकरकटकतटे। ततं यच्चामीकरमिति तप्तग्रहणनोजवलतां दर्शयति । तथा श्लिष्टः संलग्नः शीततरांशुरादित्यो यस्मिन्स तथाभूतस्तस्मिन् । पुनः किंभूते । आसीदन्तो ढोकमानाः स्यन्दनाश्वास्तेपामनुकृतिः प्रतिविम्बं तदेव मरकतं यस्मिस्त- त्तथोक्तमित्येके। इतरे तु आसीदन्त ईपदवसादं गच्छन्तो ये स्यन्दनाधास्तैग्नुकृतं मरकतं यस्मिन् । तप्तचामीकर कटकतटे सौवर्णपापाणे रथस्य प्रज्वलनात् ( प्रतिफलनात् ) । यथा कस्यचित्कुलक्ष्माभृदीशस्य कुलेनैव ये माभृतो राजानस्तेषामीशस्य राज्ञः सौवर्ण उपर्युपरि निवद्धमरकतपद्मरागाभरणविशेषो भूषां कुरुत एवमस्यापि ॥ ५६ ॥ पाठा०-१. 'अश्वानुकृतमरकते.'
त्रिभुवनपालटीकासमेतम् ३१ नीत्वाश्वान्सप्त कक्षा इव नियमवशं वेत्रकल्पप्रतोद- स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ॥ पूर्व प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व- स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राकप्रतीहारपालः॥ ५७ ॥ दिवसपतेः श्रीसूर्यस्य प्राक्प्रतीहारपालो महाप्रतीहारो वो युष्मांस्त्रायताम् । किं कुर्वन् ? । क्षितिभृदधि पतीन्मेरुप्रमुखान्दर्शयन् । किंभूतः ?। रथस्य प्रष्टोऽग्रगामी । तथा वेत्रकल्पो दण्डसदृशः प्रतोदो यस्य स तथोक्तः। किं कृत्वा ? । सप्ताश्वानियमवशं नीत्वा । सप्त कक्षा इव सप्तकक्षाद्वाराणीव । यथा प्रतीहारोऽपि सप्तद्वाराणि नियमवशं नयति एवमश्चान्नीत्वा । सप्तशब्दः काकाक्षिगोलकन्यायेनाश्वैः कक्षाभिश्च संबध्यते। क्व सति । ध्वान्तस्य राशावन्धतमसस्य समूहे तूर्ण क्षिप्रमुत्सारिते दूरभाजि सति । कस्मिन्निव है। इतरजन इव । यथेतरजनो दूरमुत्सार्यते गले धृत्वा क्षिप्यते । कीदृशस्य ? । त्रैलोक्येति । त्रिलोकीसंवन्धि यदास्थानदानं तत्रोद्यतो यो दिवसपतिस्तस्य । मुख्यः प्रतीहारराज -इत्यर्थः ।। ५७॥ वञ्जिातं विकासीक्षणकमलवनं भासि नाभासि वह्ने ! तातं नत्वाश्वपार्वान्नय यम ! महिपं राक्षसा वीक्षिताः स्थ ॥ सप्तीन्सिश्च प्रचेतः ! पवन ! भज जवं वित्तपावेदितस्त्वं वन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ ५८ ॥ पूष्ण आदित्यस्याग्रणीररुणो वो युष्मान्पातु । किं कुर्वन् ? । 'प्रतिदिशमधिपान्दिक्पा- लानिति जल्पन् । इतीति किम् ? । हे वत्रिन ! ईक्षणान्येव कमलानि तेषां वनं तद्भवतो विकासि जातमुन्निद्रतां गतम् । हे वर्षों ! त्वं न भासि न दीप्यसे । कथं ?। यथा भवति आभासि यथा भवति । आ समन्ताद्धासनमाभासः स विद्यते यस्येत्याभासि यथा भवति । हे वढे ! स्वामिन्युदिते सति त्वमतिशयेन दीप्तिमद्यथा भवति तथा न दीप्यस इत्यर्थः । दक्षिणतो यममभिनन्तुमागतमादिशति-हे यम ! इमं महिषमश्वपावनियापसारय। किं कृत्वा । तातं सूर्य नत्वा । अन्योन्यस्यैतेपामत्यन्ताविरोधात् । न त्यां दिशि राक्षसांश्च मानयति-हे राक्षसाः ! यूयं स्वामिना वीक्षिताः स्थ दृष्टा भवथ । देवानामधमजातयोऽपि ते दिक्पालननियुक्तत्वाद्वीक्षिताः स्थेति संवादेन सुखिनः क्रियन्ते । भृत्यो हि स्वामिना यथाई समानितोऽत्यन्तभक्त्या स्वाधिकारेऽप्रमत्तो भवति । पश्चिमायां वरुणमादिशति- हे प्रचेतः, सप्तीनश्वान्सिश्च । जलोत्पादकत्वादसाविममेवादेशमर्हति । अनेन स्वामिना संमानितो भवति । भृत्यो हि खामिनः सकाशादादेशं लब्ध्वात्मानं कृतार्थ मन्यते । तदवसरप्राप्ये कर्मणि वायुमादिशति-हे पवन ! जवं वेगं भज सेवख । येन वरुणालब्धा- पाठा०-१ 'कक्ष्याः' वल्लभ०. २ 'नो भासि' वल्लभ.. - -- २ - सूर्यशतकम् सेका वाजिनस्त्वत्पाच्छैित्यभनुभवन्तः सुखेनैव व्रजन्तीति भावः। उत्तरस्यां दिवि कुबेरमाभाषते--वित्तं द्रव्यं पातीति वित्तपस्तमामत्र्य संभाषते-हे वित्तप धनद ! त्वमावेदितः कथितो मया स्वामिनः। यथायं खाधिकारेऽप्रमत्तः संस्त्रैलोक्यस्थितेरेको हेतुर्निधिद्वयस्यापि शङ्खपद्माख्यस्य पालने नियुक्तोऽतोऽसौ गौरवाद्भगवतो रवेरावेद्यत एव । ईशान्यां शर्वं दृष्ट्वा हे शर्व, त्वां वन्दे । अष्टमूर्तित्वादविरेव शर्वः। तथा चोक्तम्- आदित्यं च शिवं विद्याच्छिषमादित्यरूपिणम् । उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च॥' इति ॥ ५८॥ पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थ तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ॥ योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो- स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः॥५९॥ रविर्य शास्ति शिक्षयति सोऽरुणो वो युष्मानवतु रक्षतु । यथा शास्ति तं प्रकार दर्शयन्नाह--पाशानाशान्तपालादित्यादि । आशान्तमपरां दिशं पालयतीत्याशान्तपा- लस्तस्माद्वरुणतो वरुणात् हे अरुण ! पाशान्मा ग्रहीर्मा गृहाण । सर्वलकाराणामपवादः 'माकि लुङ्'। किमर्थम् ? । प्रग्रहार्थं रश्मिनिमित्तम् , सारथित्वात् । सारथिर्यद्यदुपयुज्यते तत्सर्वमभिलषति । आदित्यस्तु तत्सर्वं निषेधयति । किं च, कृष्णस्य विष्णोश्चके तृष्णा- ममिलाषं जहिहि । कुतः। न हि रथो याति मे नैकचक्रः । हि यस्मान्मम रथो न याति। कथम् ? । एकचक्रः । इत्येतन्न, अपि तु यात्येव । प्रतिषेधतया प्रकृतार्थावगतिः। किं च, वृत्रशत्रोरिन्द्रसकाशादुच्चैःश्रवसमश्वविशेषमष्टमं योक्तुं किमभिलषसि मा त्वमभिलषेत्यर्थः । किंभूतम् ? । युग्यम् । युगमर्हतीति युग्यस्तम्। किंभूतो रविरित्याह—त्यक्ता अन्यापेक्ष. विश्वोपकृतिर्जगदुपकरणं येन स त्यक्तान्यापेक्षाविश्वोपकृतिः । जगदुपकरणं प्रति जनं कंचनाशापालादिकं सहायं नापेक्षत इत्यर्थः ॥ ५९ ॥ नो मूर्छाच्छिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ॥ यः संश्रित्य त्रिलोकीमटति पटुतरैस्ताप्यमानो मयूखै- रारादारामलेखामिव हैरितमणिश्यामलामश्वपतिम् ॥ ६० ॥ मूर्छया मोहेन च्छिन्नापनीता वाञ्छा इच्छा यस्य स तथोक्तः । स तथा नो भवति नास्ति । इतरः पान्थस्तु तथाभूत एव भवति । किं च, श्रमविवशवपुर्नैव । श्रमेण विव- शमनवस्थं वपुर्यस्य स तथोक्तः। तथा नैव । नाप्यास्यशोषी । आस्यशोषो मुखशोषो विद्यते यस्य स आस्यशोषी। अस्यास्यमपि न शुष्यति । एवंविधः श्रीसूर्यस्याप्रेशरः पाठा-१ 'त्वाष्ट्रशत्रोः' वल्लभ०. २ 'इरिततृण' वल्लभ.. .
त्रिभुवनपालटीकासमेतम् पान्थोऽरुणो युष्माकं पथ्येतराण्यहितानि क्षपयतु । किंभूतः स क इत्याह-योऽरुणो- ऽश्वपति संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः? । पटुतरैस्तीक्ष्णैः किरणैस्ता- प्यमानः। कीदृशीमश्वपतिम् ? । समीपवर्तिनीमारामलेखामुपवनलेखामिव। यथा कश्चित्पान्यः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति तथाऽयमरुणः॥६०॥ सीदन्तोऽन्तर्निमज्जजडखुरमुसलाः सैकते नाकनद्याः स्कन्दन्तः कन्दरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।। दूरं दुर्वास्थलोका मरकतदृषदि स्थानवो यन्न याताः पूष्णोऽश्वाः पूरयस्तैस्तदवतु जवनहुँकेतेनाग्रगो वः ॥ ६१ ॥ इत्यरुणवर्णनम् । पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् ? । पूरयन्पूर्ण कुर्वन् । यत्स्थान- मश्वा न याता न लचितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनस्तैरेव पूरयन् । किं कुर्वन्तो न याताः ? । सीदन्तः सन्ना भवन्तः । क्क ? । सैकते सिकताप्रदेशे नाकनद्याः खर्धन्याः । अन्तर्निमज्जजडखुरमुसलाः । अन्तर्मध्ये निमजन्ति प्रविशन्ति जडानि खुरमुसलानि येषां ते तथोक्ताः । अत एव सीदन्तः। स्कन्दन्त उल्लङ्घयमानाः कन्दरालीः कनकशिखरिणो मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकत- हषदि मरकतशिलायां स्थानवः स्थातारः । दूरमत्यर्थ दूस्थिलोत्काः ॥ इत्यरुणवर्णन- व्याख्यानम् ॥ ६१ ॥ पीनोरःप्रेरिताभ्रेश्वरमखुरपुटाग्रस्थितैः प्रातरद्रा- वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।। उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः प्राहे श्रेयो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ।। ६२ ।। सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि- रोहन् । व्योमवीथीं व्योममार्गम् । प्राले पूर्वाह्ने । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः । केंभूतैः ? । पीनोरःप्रेरिता|रुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुट- प्रान्तावस्थितैः । क्व ? । प्रातरद्रो मेरौ । पुनरपि किंभूतः ? । आदीर्घारायतशरीरैः । किंभू- तोऽसौ ?। अपगतासङ्गनिःशब्दचक्रः । अपगतासई सारहितमत एव निःशब्दं चक्र यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा इठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूविनतिहठभवद्विप्रतीप- प्रणाम इति ॥ ६२॥ पाठा०-१ 'प्ररयंस्तान्' वल्लभ २ 'कृतरग्रणीः' वल्लभ०. ३ 'इति सूतवर्णनम्' वल्लभ०. ४'प्रेयो' वल्लभ०. सूय. ३ - .
. सूर्यशतकम् ध्वान्तौघध्वंसदीक्षाविधिपंटु वहता प्रेक्सहस्रं कराणा-. मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन । स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भाखतः स्यन्दनोऽस्तु ॥६३॥ भास्वतो भानोः स्यन्दनो रथो वो युष्माकं वृजिनविजितये पापावजयायाऽस्तु भूयात् । किंभूतोऽसौ ? । अर्यम्णा सूर्येण गरिम्णो गौरवस्य पदमुपानीयत नीतः। अध्यासनेनाध्य- हणेन ( उपवेशनेन ) कृत्वा । अतुलमसदृशमपरिमाणं वा । प्राक् पूर्वम् । किं कुर्वता? । कराणां किरणानां भासां सहस्रं दशशतीं वहता धारयता। कीदृशम् ? । ध्वान्तौघध्वंस- दीक्षाविधिपटु । ध्वान्तं तिमिरं तस्यौघः संघातस्तस्य ध्वंसो विनाशः स एव दीक्षा तस्या विधिस्तत्र पटु कल्पम् । किं कुर्वन् ? । ब्रजन्गच्छन् । स्कन्धात्स्कन्धम् । केषाम् ? | मरुतां वायूनाम् । वायुस्कन्धा हि रविरथाधीनाः किलाधाराः। ते च बहवः। तान्क- मेणोल्लङ्घमानो भगवान्मेरुं प्रदक्षिणीकरोतीत्यागमविदः । एतदेवोत्प्रेक्षते-श्रान्तानां नितान्तमत्यर्थं भरं भारं सोढुमक्षमाणामधिकं धर्तुमसमर्थानामिव । 'इव' उत्प्रेक्षायाम् । भारासहनेऽक्षमत्वे च गौरवपदनयनं हेतुः। यथैको भारस्यातिगुरुतयैकेन नेतुं न शक्यते स बहुभिः पर्यायेण नीयमानः स्कन्धात्स्कन्धं व्रजति तद्वदयमपि । एष लोकव्यवहारोऽत्र दर्शयितुं साभिप्रायेण विवक्षितः ॥ ६३ ॥ योक्त्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशूकान्दधानो द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।। सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेन:- क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥ असौ स्यन्दनो रथो वो युष्माकं एनः पापं हरत्वपनयतु । किमीयः ? । सावित्रो भान- वीयः । क्षेपीयः क्षिप्रतरम् । क इव ? । गरुत्मानिव गरुडो तथा । निरतिशयरयप्रीणिता- नूरुः । निरतिशयोऽनतिशयनीयो रयो वेगस्तन प्रीणितोऽनूरुररुणो येन स तथोक्तः । गरुत्मानप्येवम् । अरुणो हि तस्य भ्राता। स तदीयेन निरतिशयेन रंहसा प्रीयते। तथा हरीच्छाविधेयप्रचारः । हरयो वाजिनस्तषामिच्छा तद्विधेयस्तत्कार्यः प्रचारो गतिर्यस्य स तथोक्तः । अन्यत्र हरिविष्णुस्तदिच्छाविधेयस्तदिच्छाधीनः प्रचारो यस्येति योज्यम् । किं कुर्वन् ? । दन्दशकान्फणिनो दधानो बिभ्राणः योक्त्रीभूतान योक्त्र- भावप्रपन्नान् । युगस्य युग्मस्य । पुरोऽग्रतः ग्रसितुमिव । गरुत्मानपि खादितुं दन्दशूका- न्पुरो धत्ते। किंच, द्वेधा व्यस्ता येऽम्बुवाहास्तषामावलिविहितौ बृहन्तौ पक्षौ तयोर्वि- क्षेपस्तेन शोभा यस्य स तथोकः। अन्यन द्वेधा व्यस्ता अम्वुवाहावलयो धनावलयः। पाठा०-१ 'गुरु' वल्लभ०. २ 'द्राक्' वल्लभ०.
त्रिभुवनपालटीकासमेतम् काभ्याम् ? । गरुत्मत्पक्षाभ्याम् । तौ च तौ विहितबृहत्पक्षौ च तयोर्विक्षेपस्तेन शोभा यस्येति ॥ ६४॥ एकाहेनैव दीर्घा त्रिभुवनपदवीं लङ्घयन यो लधिष्ठः पृष्ठे मेरोगरीयान् दलितमणिदृषत्त्विषि पिंषशिरांसि ॥ सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ता द्रिमूर्टि बध्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ।। ब्रनस्य गभस्तिमतः स्यन्दनो रथो वो युष्मानव्याद्रक्षतु । एवमनया भङ्गथा दुरधि- गमपरिस्पन्दनो दुरवधारव्यापारः । तदेव दर्यते----एकाहेनैव एकदिनेनैव दीर्घामायता त्रिभुवनपदवीं त्रिलोकमार्ग लङ्घयन् यो लविष्टो लघुतरः । एतेन शीघ्रगतिमत्ता दर्शिता । तथा गरीयान्गुरुतरः । पृष्ठे मेरोदेवालयस्य । किं कुर्वन् ?। पिंषश्चूर्णयन् । शिरांसि शिख- राणि । कीदृशानि ? । दलिता खण्डिता या मणिदृषदस्तामिस्त्विषो येषु । यदि वा दलिता इतस्ततो विक्षिप्ता मणिदृषत्त्विषो येषु तानि तथोक्तानि । एतेन गुरुतरता ख्यापिताः । यः सर्वस्य निःशेषस्य लोकस्योपरिष्टादुपरि पूज्यत्वेन दिक्संबन्धेन वा । अथ च पुन- भूयोऽप्यधस्तादिवाध इव । अस्ताद्रिमूर्धन्यस्तपर्वतमस्तके। एतेनाधउपरिभावो दर्शितः । एकान्ततः परमार्थतो न लघुर्न गुरुर्नोपरि नाध इति व्यपदेष्टुं न शक्यते। अत एव दुरधिगमपरिस्यन्दन इत्युक्तम् ॥ ६५ ॥ धूर्ध्वस्तात्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूर राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ॥ श्रान्ताश्वश्वासहेलाधुतविबुधधुनीनिर्झराम्भांसि भद्रं देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनपस्थितानि ॥ ६६ ॥ भद्रं कल्याणं वो युष्मभ्यं देयासुर्दिशन्तु । स्यन्दनप्रस्थितानि रथगतानि । कस्यासौ रथः । दिवसपतेर्दिनपतेः । स्यन्दनप्रस्थितानीति सापेक्षत्वेऽपि समासो गमकत्वात् । क प्रस्थितानि ? । दवीयो दिवि दूरतरगगने । भद्रदानक्रियाविशेषणं वा दवीय इति तदा दवीयोऽतीव दूरमित्यर्थः । तान्येव विशेष्यन्ते-धूप्रस्ताग्र्यग्रहाणि धुरा ध्वस्ता विक्षिप्ता अग्र्या अग्रे भवा ग्रहाः कुजादयो यैस्तानि तथोक्तानि । किंच, ध्वजपटपवनेन ध्वजां- शुकमरुता आन्दोलितो विकम्पित इन्दुश्चन्द्रमा येषु तानि। तथा दूरमतीवतया राहौ तमसि पुनर्भूयोऽपि दत्ता चक्रेण व्यथा भयं यस्तानि । ग्रासाभिलाषादनुसरति । अनु- सरंश्चक्रमपेक्षमाणस्ततो बिभेति । श्रान्ताश्वश्वासहेलाधुतविबुधधुनीति । धुतानि कम्पितानि विबुधधुनीनिर्झराम्भांसि सुरनदीप्रस्रवणजलानि येषु तान्येवंभूतानि ॥ ६६ ॥ पाठा०-१ 'कृत्लां' वल्लभ०. ३ 'दूरात्' वल्लभ सूर्यशतकम् .. अक्षे रक्षा निबध्य प्रतिसरवलयैर्योजयन्त्यो युगानं धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य । चर्चाश्चके चरन्यो मलयजपयसा सिद्धवध्व स्त्रिसंध्यं वन्दन्ते यं शुमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ।। अंशुमत्स्यन्दनो भाखद्रथः स वो युष्माकं पापानि दुरितानि नुदत्वपनयतु । यं सिद्ध- वध्वः सिद्धत्रियो वन्दन्ते नमस्यन्ति । द्युमार्गे विहायसि । त्रिसंध्यं त्रिकालम् । तिस्रः संध्या वन्दन्ते । क्रियाविशेषणम् । किं कृत्वा ? । रक्षा मङ्गलविशेष निबध्य बद्धा । अक्षे रथावयवविशेषे । प्रतिसरवलयैः कौतुकोर्णाकङ्कणेर्योजयन्त्यो युगाग्रं युगप्रान्तम् । पुनरपि स्तम्भ इव धू—ःस्तम्भस्तत्र दग्धधूपाः । प्रहितसुमनसो विक्षिप्तपुष्पाः । क्व ?। गोचरे विषये कूबरस्य युगंधरोद्देशस्य । चर्चाः स्थासकान् चक्रे पादे ददत्यो यच्छन्त्यः । केन ? । मलय- जपयसा चन्दनाम्भसा ॥६७ ॥ उत्कीर्णस्वर्ण रेणुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै- रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ॥ मेरोमूर्धन्यधं वो विघटयतु रवेरेकवीथी रथस्य खोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा वधूनीव ।। ६८ ।। रवेरादित्यस्य स्यन्दनस्यैकवीथी एकमार्गों वो युष्माकमघं पापं विघटयतु । केव ?! स्वधुनीव गङ्गेव । किंभूतासौ? । द्रुतखुरदलिता चटुलशफदारिता पार्श्वयोः । कैः । अश्वैः। शश्वदनवरतम् । कथम् ? । उत्कीर्णः स्वर्णरेणुर्यत्र दलने तत् । उत्कीर्णवर्णरेणवश्च ते दूताः खुराश्चेति (वा) विशेषणसमासः। किं च, अश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्ने मिनिम्ना। अश्रान्तमनवरतं यद्धान्तं चक्रं चरणस्तस्य क्रमः क्रमणं तेन निखिला समग्रा मिलन्ती घटमाना या नेमिश्चक्रधारा तया निन्ना अवनता । भरेण प्राग्भारेण हेतुना। मेरोदेवाच- लस्य मूर्ध्नि शिरसि । किं च, खोष्मणा उदक्तमाकृष्टं तच तदम्बु चेति तेन रिक्तं रिक्तत्वा- देव प्रकटितं तच्च तत्पुलिनं च तेथूनोसरा पाण्डुः । खर्धन्यप्यूष्मोदक्ताम्बुरिक्तप्रकटित- पुलिनोसरा भवति ॥ ६८ ॥ नन्तुं नाकालयानामनिशमनुयतां पद्धतिः पतिरेव क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ॥ हेषाह्रादो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥६९।। पाठा०-१ 'चर्चा' वल्लभ०.. २'रेणुद्वैत' वल्लभ०. ३'स्वोष्मोदस्ताम्बु' वल्लभ०. ४ 'उपयता' वल्लभ०. ५'नादो' वल्लभ..
त्रिभुवनपालटीकासमेतम् ३७ - तीव्रभानोरादित्यस्य रथो वो युष्मानव्यात्पायात् । दिवि खे व्यक्तचिह्नो विस्पष्ट- लक्ष्मा । भुवि यथा भूम्यामिव । सा यस्य नाकालयानां घुसदां पतिविततिरेव पद्धतिः पदवी । किंभूतानाम् ? । अनुयतामनुगच्छताम् । नन्तुं प्रणामाय । अनिशमहर्निशम् । किंच, नक्षत्रराशेर्भचक्रस्य क्षोदचूर्ण' एव धूलिः परागः । अदयरयमिलन्ने मिपिष्टस्य प्रखरवेगसंसक्तचक्रधारानिर्दलितस्य । हेषाह्रादो हेषाध्वनिः । हरीणां वाजिनां यः स एव नेमे दः प्रतिध्वानः सुरशिखरिदरीः पूरयन् देवाचलकन्दराणि पूर्णाः कुर्वन् । अथवा हेषाह्रादो हरीणां सुरशिखरिदरीः पूरयन्ने मिनादश्चेति सुरशिखरिदरीः पूरयन् यस्येति पृथगेव संवन्धनीयम् । भुवि यानि चिह्नानि धूलिहेषानेमिध्वनयस्तान्यनया भङ्गया वियत्यपि दर्शितानि ॥ ६९॥ निःस्पन्दानां विमानावलिविततदिवां देववृन्दारकाणां वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो । मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दिराभे मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥ दिनकृतः स्यन्दनो रविरथो वो युष्माकं मुदे हर्षाय स्ताद्भूयात् । किं कुर्वन् ? । दध- द्विभ्रत् । अरि चक्रम् । मण्डितारं विभूषितारम् । कैः । मन्दारैर्वृक्ष विशेषपुष्पैः। यश्चामन्दः शीघ्रो मन्दाकिन्यां पुलिनभृति पुलिनभाजि । देववृन्दारकाणां सुरमुख्यानां वन्दितुं स्तोतुं विन्दतां लभमानानां नो नेति । किं कुर्वताम् ? । वहतां धावताम् । कैः ? । वृन्दैः संघातैः पूगशः । निःस्पन्दानां श्रान्तानाम् । विमानावलिविततदिवां विमानश्रेणिप्रच्छादितनभसाम्। कथं वहताम् ? । आनन्दसान्द्रोद्यमं संहर्षप्रभूतोत्साहम् । मन्दरे पर्वतविशेषे । मृदुमन्दः। मन्दिरामे नगरानुकारे । मन्दिरशब्दो नगरैकदेशेऽप्युपचारात्समुदाये वर्तते । नगरं हि स्थपुटत्वाद्रथस्य वेगं स्खलयति । ततस्तत्र मन्दता युज्यते। देववृन्दारकाणां वृन्दैः कर्तृभिर्मन्दारैः करणभूतैर्मण्डितारमिति च ॥ ७० ॥ चक्री चक्रारपति हरिरपि च हरीन् धूर्जटिळू जान्ता- नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ॥ रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुंचेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥ अहिमरुचेरादित्यस्य स्यन्दनो रथो वो युष्मानवताद्रक्षतु । यस्य अन्वहं प्रतिदिवसमेत- देतदयमयं स्तौति । प्रीतिप्रसन्नः प्रीतितुष्टः । तदेव दर्श्यते-चक्री विष्णुश्चक्रारपङ्गिं चरणारपति स्तौतीति संबन्धः । हरिरिन्द्रो हरीनश्वान् । धूर्जटिभगवानीश्वरो धूजान्ता- पाठा०-१ 'वलितदिशा' वल्लभ०. २'मन्दराभे' वल्लभ०, ३ 'रुच' वल्लभ..
३८ सूर्यशतकम् न्ध्वजाग्रान् । अक्ष चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः। अरुणमनूरुं वरुणः पाशभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रहो वेगं संघः समूहः पूगः सुराणां देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥ ७१ ॥ नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः पादोपान्ते स्तुतोऽलं बलिहरिरभसाकर्षणाबद्धवेगः ॥ भ्राम्यन्व्योमाम्बुराशाव शिशिरकिरणस्यन्दनः संततं वो दिश्यालक्ष्मीमपारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ।। इति रथवर्णनम् ॥ अशिशिरकिरणस्यन्दनस्तीत्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मी श्रियं दिश्या- द्दद्यात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् ? । भ्राम्यन् व्योमाम्बुराशौ नभःपयोधौ । क इव ? । मन्दराद्रिरिव मन्दराचल इव । अपरो- ऽन्यः । तयोः साम्यं दय॑ते-नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहित- परिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तदहीन- श्चेति समासः। यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। तेन विहितपरिकरः कृतवेष्टनः। क्व ?। मूले मूलप्रदेशे । किंच, स्तुतो वन्दितः। सिद्ध- साध्यैर्देव विशेषैः । पादोपान्ते चरणसमीपे स्थितैः, तस्य पूज्यत्वात् । मन्दरोऽपि तैः स्तुतो वर्णितः, तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर ( पर्वत ) समीपे । मरुद्भिर्देवै- र्वायुभिर्वा । अलमत्यर्थम् । किंच, बलिनो बलवन्तस्ते च ते हरयश्च तेषां रभसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः हरिः शत- मखस्तयो रभसा इति। शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्तीर्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥ ७२ ॥ यज्यायो बीजमह्नामैपहततिमिरं चक्षुषामञ्जनं य- हारं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ॥ यदृष्टयम्भोनिधानं धरणिरससुधापानपात्रं महद्य- द्दिश्यादीशस्य भासां तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥ तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणमवि- कलं संपूर्णमलमत्यर्थं दिश्यात् । तदेव निरूप्यते-यदहां दिनानां बीजं कारणम् । ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशिता- न्धकारम् । अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां पाठा०-१ 'अतुल्या' वल्लभ०. २'ज्यायो यत्' वजुभ०. ३'अपहृत' वल्लभ०. ४ 'देवस्य भानोः' वल्लभ०. ५ 'तदधिकममलं मण्डलं मङ्गलं' वल्लभ०. ..
त्रिभुवनपालटीकासमेतम् ३९ द्वारम् । ते हि सूर्यमण्डलद्वारेण मुक्तिं प्रयान्ति । यदखिलभुवनज्योतिषां सकलजगत्ते- जसामेकम द्वितीयमतुलमोक आश्रयः । यदृष्ट्या हेतुभूतयाऽम्भसा पानीयानां निधान- माश्रयः । यद्धरणिरससुधापानपात्रं पृथिव्युदकामृतपानपात्रम् । महद्वृहत् ॥ ७३ ॥ वेलावर्धिष्णु सिन्धोः पय इव खमिवार्थोद्गताम्यग्रहोडु स्तोकोद्भिन्नस्वचिह्नप्रसवमिव मधोरास्यमस्यन्मनांसि ।। प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥ पूष्णो रवेर्मण्डलं वो युष्माकमशुभानि दुरितानि प्रशमयतु ध्वंसयतु । प्रातः प्रभाते । अद्रेः पर्वतस्य शिरःशेखरीभूतं मूर्धालंकारभूतम् । पुरस्तात्पूर्वस्यां दिशि भवः पौरस्त्यः प्राच्यस्तस्य । उद्गभस्ति उदंशु । प्रकृष्टं स्तिमितं स्तिमिततमं बहुलतमं यत्तम स्तिमिरं तस्य ध्वंसनम् । तदेव विशेषयितुमाह-यसिन्धोः पयोधेः पय इव जलमिव वेलाव- र्धिष्णु । वेलया कालमुहूर्तसमयेन वर्धनशीलम् । उदधेरपि पयोवेला जलवृद्धितया वर्धिष्णुर्भवति । अत्र वेला समुद्रक्षोभः । किंच, खमिव नभ इव अर्धोद्गताग्यग्रहोडु मनागुद्भिन्नप्रधानग्रहनक्षत्रम् । अन्यत्र, अगिता अग्रेभवाः पौरस्त्या ग्रहा नक्षत्राणि यस्य तत्तथोक्तम् । सत्तेजसाभिभूतत्वात्किंचिदुपलभ्यमाना उक्ताः। किंच मधोरास्य- मिव वसन्तस्य प्रवेश इव । किंभूतम् ? । स्तोकोद्भिन्नखचिह्नप्रसवमीषदुद्भिन्ननिजचिह्ना- विर्भावम् । अन्यत्र स्तोकमुद्भिन्नरुच आविर्भावो यत्र तत्स्वचिह्न लक्षणं यस्येति । प्रसवं पुष्पं यत्र मध्वास्ते ( अन्यत्र)। किं कुर्वन् ? । अपहरन्मनांसि चेतांसि । जनाना- मित्यध्याहारः ॥ ७४॥ प्रत्युप्तस्तप्तहेमोज्वलरुचिरचलः पद्मरागेण येन ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।। कालव्यालस्य चिह्न महिततममहोमूर्ध्नि रत्नं महद्य- दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥ तदेवंभूतं दीप्तांशो नोः संबन्धि मण्डलं वो युष्मानव्याद्रक्षतु । प्रातरुषसि । किंभूतम् ? । अविकलं जगन्मण्डनं विश्वालंकारः। पुनरपि कीदृशं तत् ? । येन मण्डलेनाचल: पर्वतः प्रत्युप्तः प्रोतः । पद्मरागेण पद्मभासा । कीदृशः ? । तप्तहेमोज्वलरुचिस्तप्तकाञ्चन- दीप्तिः । पद्मरागेणेति शब्दच्छलेन पद्मरागमणितां दर्शयति । किंभूतं यत् ? ज्यायः प्रशस्य. तरम् । किंजल्कपुञ्जः पद्मराग( केसर )राशिरिव । कस्य ? । अम्बरेन्दीवरस्य गगनकुव- लयस्य । अलिकुलशितेभ्रमरवृन्दनीलस्य । चिह्न शिरोरत्नं ( कालव्यालस्य ) अहोमूर्ध्नि पाठा०-१ 'महांसि' वल्लभ०, सूर्यशतकम् .. दिवसशिरसि रत्नं मणिः । महिततमं पूजितम् । महबृहत् । 'यदेतन्मण्डलं तपति' इति श्रुतिरित्यपेक्षते ॥ ७५ ॥ कस्त्राता तारकाणां पतति तनुरवश्याय बिन्दुर्यथेन्दु- विद्राणा हक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।। वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो मार्तण्डीयं पुनीता दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥ मार्तण्डीयं सावित्रं मण्डलं वो युष्मान् पुनीतात्पुनातु । किं कुर्वन् ? । मुष्णन्खण्डयन् । कानि। महांसि तेजांसि । कानीव ? । तमांसीव तिमिराणि यथा। व? दिवि खे । किं तत्रैव ? । न, भुवि च भूमौ च । यत्रोदयगते उदयस्थे कस्त्राता तारकाणां को रक्षिता नक्षत्राणाम् , न कश्चिदित्यर्थः । किं पुनः कारणमित्याह-तत्र पतति ध्वंसते इन्दुश्चन्द्रः । क इव ? । अवश्यायबिन्दुर्यथा तुषारकणवत् । कथंभूतः ? । तनुरल्पः । इन्दुर्हि तारकाणां नाथः। तत्र पतति कस्त्रायते । किं च, विद्राणा म्लाना दृग्दृष्टिः स्मरारेः शंभोः । मुरारेरुरसि विष्णोर्वक्षसि कौस्तुभो मणिविशेषो नोद्भस्तिः नोन्मयूखः । अपि च वड्रग्नेः सापह्नवेव सापलापेव द्युतिः कान्तिः । एतेन सर्वतेजसा मोषः कथितः। उदयगते यत्रेति प्रत्येक मेलनीयम् ॥ ७६ ॥ यत्प्राच्यां प्राक्चका स्ति प्रभवति च यतः प्राच्यसावुज्जिहाना- दिद्धं मध्ये यदह्रो भवति ततरुचा येन चोत्पाद्यतेऽहः ॥ यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥ रवेरादित्यस्य तन्मण्डलं वो युष्माकं मुक्तये निर्वाणायाऽस्तु भूयात् । वेदे 'एतस्मिन्म- ण्डले पुरुषोऽप्येतदमृतं यदेतदर्दीिप्यते' इति श्रुतिः। अतोऽमृतायास्तु। यद्विश्वानु- ग्राहि जगदनुग्राहि विश्वं सृजदपि विश्वं विदधदपि । तदेव दर्श्यते-यत्प्राच्यामैन्द्रयां प्राक्प्रथमं चकास्ति दीप्यते । यतश्चोजिहानादुद्गच्छतोऽसौ प्राची प्रभवति जयति । पदह्रो दिवसस्य मध्ये इद्धं दीप्तं भवति । येन च ततरुचा विस्तारितभासा उत्पाद्यते जन्यते अहो दिवसः । यच पर्यायेण लोकाजगन्त्यवति रक्षति । यच्च जगतां जीवित प्राणितम् । यथोक्तम्-'आदित्याजायते वृष्टिकृष्टेरनं ततः प्रजाः । प्रजासौख्याच देवानां परा तृप्तिरिति श्रुतिः ॥ ७७ ॥ शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां येनोत्तप्ताः स्फुटन्तस्तैडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ॥ पाठा०-१ 'चटिति' वल्लभ०.
त्रिभुवनपालटीकासमेतम् तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छ्रात् संहृत्यालोकमानं प्रैलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥ चण्डांशोस्तीव्रभानोर्मण्डलं वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः ? । धाम विदधतः । प्रलघु स्तोकम् । आलोकमानं आलोको मात्रा प्रमाणं यस्य तत् । आलोक एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया? । अकाण्ड- त्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो मा संपद्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थलीनां मरुस्थलीनामृढानुकारा धृतसादृश्याः । क ?। युगान्ते क्षयसमये । अगेन्द्राश्च राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति अतितापात्तडिति स्फुटन्तः सतडत्कारं विशीर्यमाणाः ॥ ७८॥ उद्ययद्यानवाप्यां बहुलतमतमःपङ्कपूरं विदार्य प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ॥ कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानो- रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥ चण्डभानोस्तीवांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कम- लमिव पद्ममिव । महबृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाकारिणा भ्रमरवातविभ्रमेण । असकृदनेकवारम् । किं कुर्वन् ? । उद्यन्नुगच्छन् । यूद्यानवाप्यां द्यौरवोद्यानं घूयानं, यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगना- कारतया ( रायां) उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा ? । विदार्य मित्त्वा। किम् ? । बहुलतमतमःपङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पकौघस्तं विदार्योदेति । किंच, प्रोद्भिन्नं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं निरन्तरम् । अरुणच्छाययाऽनूरुप्रभया । विस्फुरन्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं च । कस्य हेतोः?। तृप्तिहेतोः । पानस्य (?)॥ ७९ ॥ चक्षुर्दक्षद्विषो यनं तु दहति पुरः पूरयत्येव कामं नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ॥ यद्वीतश्रान्ति शश्वद्भमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति ब्रध्नस्याव्याविरुद्ध क्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥ इति मण्डलवर्णनम् । पाठा०-१ 'कृत्लं' वल्लभ०. २ 'आहृत्य' वल्लभ०. ३'प्रतनु' वल्लभ.. ४ 'बहल' वल्लभ०. ५ 'चण्डरश्मेः' वल्लभ०. ६ 'न दहति नितरां' वल्लभ०. ७'पुनः' वल्लभ०.
४२ सूर्यशतकम् ब्रनस्य रवेमण्डलं वो युष्मानव्याद्रक्षतु । विरुद्धक्रियं विरुद्धव्यापारम् । अथ च हिताधायि तथापि हितकारि । तदेव दर्शयति -चक्षुर्दक्षद्विषो यत् लोचनं भगवतो महेश्वरस्य, न तु कामं दहति प्रत्युत पूरयतीति विरोधः । भगवतश्चक्षुषा कामो मन्मथो दग्धो न तु पूरितः । कामोऽभिलाषस्तं न दहति प्रत्युत पूरयतीति परिहारः । पुरोऽग्रतः । दक्षद्विषश्चक्षुरित्यागमविदः । नियमिनां योगिनां भवाब्धौ संसारसमुद्रे यन्मण्डलं यानपात्रं प्रवहणम् । यजगतां भ्रान्ति मिथ्याज्ञानं हन्ति । भ्रमदपि पर्यटदपि । शश्वदनवरतम् । वीतश्रान्ति विगतश्रमम् । शश्वत्सदा गमनचिह्नाङ्ग ( ? ) मभ्रान्तीति विरोधः । भ्रान्तिशब्दोऽयं संशये। अभ्रान्ति असंशयमित्यदोषः ॥ इति मण्डलवर्णन- व्याख्यानम् ॥ ८०॥ सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भ गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।। साधु साध्यैर्मुनीन्द्रर्मुदिततममनो मोक्षिभिः पक्षपाता- प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥ विश्ववन्द्योदयो रविौं युष्मानवतु रक्षतु । कीदृशोऽसौ भगवान् ? । प्रातः प्रभाते प्रारभ्यमाणस्तुतिरुपक्रम्यमाणस्तोत्रः । कैः कैः कथं कथमित्याह-सिद्धैर्देवविशेषैः सिद्धान्त- मिश्रम् । सिद्धान्तशब्देन सिद्धान्तोक्तविधिरुच्यते, उपचारात् । तन्मिश्रं तदुपेतम् । क्रियाविशेषणम् । एवं प्रतिपदं योज्यम् । तथा विवुधैर्देवैः श्रितविधि विधियुक्तम् । चारणैर्देववर्णकैश्चाटुगर्भ सचाटु गुरुगुणोद्गारसारम् । गन्धर्वमुख्यैर्विश्वावसुप्रभृतिभिर्गीत्या गानेन । मुहुः पुनः पुनरहिपतिभिः फणीन्द्रः । यातुधानैः पिशाचैर्यतात्म। सार्घमघव- त्साध्यैर्देवविशेषैः । मुनीन्द्रैर्महर्षिभिर्मुदिततममनः सातिशयहृष्टचित्तम् , मोक्षिभिः पक्षपा- तात् । योगिभिरात्मभावादिति भावः ॥ ८१ ॥ भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा- च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटकैः ।। निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वक्षिप्रकारं तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटका द्रिम् ॥ ८२ ॥ तप्तांशुरादित्यो वो युष्मान्पात्ववतु । किं कुर्वन् ? । पर्यटन्परिसर्पन् । हाटकादि सुवर्णा- चलम् । क इव ?। तत्परीक्षापर इव तस्य परीक्षा तन्निष्ठ इव । परितः समन्तात् । कथं तत्परीक्षापरः ? । त्रिप्रकारं त्रिधा । स्वर्ण हि तद्दाहच्छेदकषणैस्त्रिधा परीक्ष्यते तद्व- दत्रापि दर्शयति-भासां चक्रवालस्य रुचां कदम्बकस्यासन्नभावान्निकटत्वाद्यस्तापस्त- पाठा०-१ मोक्षुभिः' वल्लभ०. २ 'न्यस्त' वल्लभ०. - ३ 'त्रिप्रकारैः' वल्लभ त्रिभुवनपालटीकासमेतम् स्मात्तापात् । अनेन दाहं दर्शयति - कीदृशस्य ? । अधिकतरपटोरतिशयतीवस्य तस्य च्छेदात् । कैः कृत्वा ? । अच्छिन्नमनवरतं गच्छन्तो वलन्तस्ते च ते तुरगाश्च तेषां खुरपुटास्तेषां न्यासास्त एव निःशङ्कटङ्कास्तैरिति । टङ्काः शस्त्रविशेषाः । अनेन च्छेद दर्शयति । किं च, निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणादपगतसङ्गरथाङ्गभ्रमोल्लेखनात् । अनेन निकषणमाह ॥ ८२॥ नो शुष्कं नाकनद्या विकसितकनकाम्भोजया भ्राजितं तु प्ष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः । नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता- नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥ ८३ ॥ सोऽर्को रविरादित्योऽरुणपादो दयया वो युष्मानवताद्रक्षतु । यत्रेद्धं दीप्तं धाम तेजो धुमार्गे वियत्पथे मृदयति मृदु विदधति सति नाकनद्या नो शुष्कं गङ्गया न शुष्यते स्म । अपि तु भ्राजितं राजितमेव । किंभूतया ? । विकसितकनकाम्भोजया विकखरस्वर्ण- कमलया। किं च प्लुटा नैव न दग्धा नन्दनोद्यानलक्ष्मीनन्दनोपवनशोभा, अपि तु भृशतरं भोग्या भोगार्हा भवति । अमरगिरेमरोः शृङ्गाणि शिखराणि नो द्रुतानि न द्रवभावं गतानि । प्रत्युत द्रुतं शीघ्रं धौतानि । कालधौतानि हिरण्मयानि ॥ ८३ ॥ ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि प्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ॥ कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥ सोऽर्यमा सूर्यो वो युष्मानव्यात् । कीदृशः ? । एकोछमेच्छाविहितबहुबृहद्विश्वकार्यः। एकश्चासावुद्यमश्च तेन कृत्वा इच्छया विहितानि बहूनि बृहन्ति विश्वकार्याणि येन स तथोक्तः । केवलं ध्वान्तस्यैव तमस एव केवलस्य मलिनैकात्मनो मलीमसैकरूपस्यान्त- हेतुर्विनाशकारणं न भवति, किं तु पाप्मानोऽपि एनसोऽपि । कथम् ? । प्राक्पूर्वम् । पादोपान्तभाजां पुनरपि यो न केवलं पङ्कजानां पद्मानां चरणाभ्यर्णवृत्तीनामपि प्रबोधं तत्त्वदर्शनं योजयति । खलु निश्चयेन न केवलं वासराणां कर्ता निःश्रेयसानामप्यप- वर्गाणामपि । 'अपि'शब्दः समुच्चये । खलु वाक्यालंकारे ॥ ८४ ॥ लोटॅल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः संदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।। पाठा०-१ 'कनकाम्भोरुहा' वल्लभ०.
सूर्यशतकम् - निःश्वासायासनिष्ठः परमपरवशो जायते जीवलोकः शोकेनेवान्यलोकानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥ सोऽर्को वो युष्मानक्तात् । यत्रान्यलोकानुदयकरे गते सति जायते जीवलोक इत्थं- भूतो भवति । शोकेनेव विषादेनेव । किमवस्थः ?। लोटन् विवर्तमानः। लोष्टाविचेष्टो लोष्टवच्चेष्टारहितः । श्रितशयनतलः शय्यापतितः । निःसहीभूतदेहो विक्लवगात्रः । प्राणितव्ये जीवितव्ये संदेही संशयितः किं जीविष्याम्युत न जीविष्यामीति संशयानः । किं कुर्वन् ? । सपदि तत्क्षणं दश दिशोऽन्धकारा (निरा ) लोकाः प्रेक्षमाणः पश्यन् । निःश्वासायासनिष्ठः खेदवान् । परमपरवशोऽतीव दुःस्थितः । शोकेनाप्येवं भवति ॥ ८५॥ कामॅल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं नृणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ॥ यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥ सोऽर्को युष्माकं श्रिये विभूत्यै भूयात् । प्रागवस्थाधिकतरपरिणामोदयः पूर्वदशा- प्रकर्षाधिकपरिणत्युद्गतिः। कीदृशोऽसौ ?। यः कामलङ्घयन् लोलोऽपि तरलोऽपि लोकाञ्जगन्ति स्थैर्यकोटिं स्थिरतापक्षमाश्रितः । क?। तदुपकृतिकृतौ लोकोपकारविधानविषये । किं च, नृणां पुंसां दृष्टिं चक्षुर्विजिह्मां मन्दा विदधन्नपि कुर्वन्नप्यन्तःकरणानुरूपाम- त्यन्तभद्रां नितान्तकृतार्था करोति विधत्ते । यस्तापस्यापि हेतुः कारणं भवति जायते। नियमिनां योगिनामेको निर्वाणदायी मुक्तिदायी ॥ ८६ ॥ व्यापन्नतुन कालो व्यभिचरति फलं नौषधीवृष्टिरिष्टा नेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।। आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्षमाभृतः क्ष्मां यस्मिंस्त्रैलोक्यमेवं न चलति तपति स्तात्स सूर्यः श्रिये वः॥ ८७ ॥ स सूर्योऽर्को वो भवतां श्रिये विभूत्यै स्तात् । व्यापन्नतुर्विनष्टर्तुः कालो वसन्ता- दिर्न भवति ऋतूननुवर्तते । ओषधीः कर्मतापन्नाः फलं कर्तृ न व्यभिचरति न विसंव- दति । वृष्टिरिष्टा वर्षणमभिमतं भवति । इष्टैर्यागैर्देवा दिवौकसो न नहि तृप्यन्ति, अपि तु तृप्यन्ति मरुत् वहति वातो वाति । निर्मलाभानि विमलद्युतीनि भानि नक्षत्राणि । आशा दिशः शान्ताः प्रसन्नाः। उधयः समुद्रा मर्यादां न भिदन्ति। क्ष्माभृतः मां बिभ्रति । यस्मिंस्तपति सति त्रलोक्यमेवमुक्तप्रकारेण न चलति न विप्लवं याति ॥ ८७ ॥ . पाठा०-१ 'चिरतरमवशो' वल्लभ०. २ 'लोकाभ्युदय' वल्लभ०.
। त्रिभुवनपालटीकासमेतम् कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ॥ योगोद्योगैकतानो गमयति सकलं वासरं खं स्वयंभू- भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भावान्स बोऽव्यात् ।।८८।। स भास्वान् वोऽव्यात् । यत्र भाखति भुवन विभौ लोकपाले त्रैलोक्यचिन्ताभृति बहुज- गचिन्ताधारे सति ब्रह्मादीनां चिन्ता नास्ति । एतदेव दर्शयति-कृत्तिवासा महादेवः कैलासे भूरिगिरौ (2) विहरति क्रीडति । विरत्रासदेहोढकान्तः वियोगभयादेहे धृता प्रिया पार्वती येन सः । श्रान्तः खिन्नः। शेते स्वपिति । महाहौ महोरगे। अधिजलधि पयोधौ। विना छद्मनाऽव्याजेन । तापादिच्छलं विना। पद्मनाभो नारायणः । किं च, खयं- भूर्ब्रह्मा स्वमात्मीयं वासरं दिवसं गमयति यापयति । योगोद्योगैकतानः । योगश्चित्तवृत्ति]- निरोधस्तत्रोद्योग उद्यमस्तत्रैकतान एकाग्रः । सकलं निरवशेषम् । एते भुवनपतयो नाम[ मात्रेण ] खकार्यैकनिष्ठास्तिष्ठन्ति, अयं तु भगवान्कर्मणि कृतपरिकर इति दर्शितम् ॥ ८८ ॥ एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चीषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।। एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ।। ८९ ॥ स सूर्यों वो युष्माकं श्रियेऽस्तु स्तात् । कीदृशः? । स्वर्गापवर्गप्रकृतिः संसारनिर्वाण- खभावः कारणम् । स्वयमविकृतिर्विकाररहितः। यं सूर्यमयं वर्ग एष गणो वेदवेदी वेद- वेत्ता मण्डलार्चिः पुरुषलसमान (2) ज्योतिरिति शेषः । एवं वेद जानाति । कथंभूतम् ? । वेदत्रितयमयं त्रिवेदीप्रकृतिकम् । तथा च 'त्रयी वा एषा विद्या तपति' इति श्रुतिः । तन्मयम् । कथमेवम् ? । इत्थंभूतं देवं यं वेद । यदेतन्मण्डलं दिनकृत आदित्यस्य संबन्धि खे तपति ता ऋचः स ऋग्वेदः । 'ता ऋचः स ऋचा लोकः' इति श्रुतिः । यान्यर्चीषि दीप्तयो द्योतन्ते भासन्ते तानि सामानि सामवेदः। 'यदेतदचिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकः' इति श्रुतिः । अयमपि मण्डले पुरुष आत्माऽणुः सूक्ष्मो योग- गम्यस्तानि यजूंषि स यजुर्वेदः । ‘य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूषि स यजुषां लोकः' इति श्रुतिः । एतेन वेदत्रितयमयत्वं कथितम् ॥ ८९ ॥ नाकौकःप्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ॥
४६ सूर्यशतकम् ... येनादित्यामिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तु स्तुत्यत्रैलोक्यवन्धैत्रिदशमुनिगणैः सोऽशुमान श्रेयसे वः ॥ ९० ॥ सोंऽशुमान् वो युष्माकं श्रेयसे कल्याणायास्तु । किंभूतोऽसौ ? । स्तुत्यो वन्धः । कैः ? । त्रिदशमुनिगणैः सुरर्षिसंधैः । किंभूतैः ? । त्रैलोक्यवन्द्यैस्त्रिभुवननमस्करणीयैः ! येनांशु- मता आदित्याभिधानमादित्यसंज्ञा आत्मनि स्वस्मिन्विषये न्यस्तमारोपिता। मध्ये वास- वाग्रेसराणां शक्रप्रभृतीनाम् । देवानां प्रायेणादित्यसंज्ञा । अदितेर्देवमातुरात्मजत्वे समेऽपि सत्यविशेषेऽपि सति । तर्हि ते तेजस्विनो न भविष्यन्ति । किंभूतानां तेषाम् ? । नाकौकःप्रत्यनीकक्षतिपटुमहसां देवप्रतिपन्थिक्षयकल्पतेजसाम् । तर्हि जगन्ति विश्वानि ''साधु सम्यक्पातां रक्षतां सताम् । किं तत् ? । जगद्भुवनमिदम् । एतदुक्तं भवति- यद्यप्यदितेरपत्यांमांते व्युत्पत्तिः सर्वेषामप्यस्ति, तन्निमित्तस्यादित्य(त्व )स्य साधारणत्वात् । तथापि भगवानेवादित्य इति लोकप्रसिद्धिः । सूर्यस्यापि हेतुर्दर्शितो निरतिशयगुणैरिति ॥ ९ ॥ भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनी संस्मृताव- प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानां यथाप्रार्थितार्थैः ।। लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व- ण्येवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१॥ सूर्योऽर्को भवतो युष्मात्रक्षतु। किं कुर्वन् ?। बिभ्रद्दधत् । काम् ?! स्वमूर्तिम् । अष्टभेदा- मष्टप्रकाराम् । क इव ? । भव इव भगवान्महेश्वरो यथा । 'क्षितिजलपवनहुताशनयज मानाकाशसोमसूर्याख्याः' अष्टमूर्तयः । सूर्ये ता दर्शयितुमाह-किंभूतः १ । भूमि निधा- नम् । कस्य ? । धान्नस्तेजसः। किंच, जलमयीं जलप्रायाम् । अभिवृष्ट्याऽभिवर्षणेन । जगति लोके। किंच पावनी वायुमयीम् । ( जनानां भक्तानाम् ) । तथाग्नेयीमग्निमयीम् । दाहशक्त्या दाहसामर्थेन । मुहुः पुनःपुनर्यजमानां याजकमयीम् । यथाप्रार्थितार्थैः । तथाकाशे लीनां संबद्धाम् । अमृतकरघटितां चन्द्रेण संगताम् । क्व ? । ध्वान्तपक्षस्य पर्वण्यमावास्यायाम् । तत्र हि सूर्याचन्द्रमसौ संगच्छेते । एवमुक्तया नीत्या सूर्यः स्वय- मेवाष्टमूर्तिः श्रीमहादेवतुल्य इति ॥ ९१ ॥ प्राकालोनिद्रपद्माकरपरिमलनाविर्भवत्पादशोभो भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।। पाठा०-१ 'गुणेनात्मनि' वल्लभ०. २ ‘धाम्नोऽथ' वल्लभ०. ३ 'यजमानात्मिक प्रार्थिताथै: वल्लभ टिप्प०-1 'तथा संस्मृतौ स्मरणेऽपि कृते सति पावनी शुद्धिकरीम् । एतेन पवनस्य वायोरिमां पावनीमिति सूचितम्' इति शास्त्रिव्याख्यानम् . 2 प्रार्थितार्था याचकास्तैीपकभूतैर्यजभाना- त्मिकामिति तदर्थः श्लेषमहिम्ना वायुस्वरूपिणी मिति शास्त्रिव्याख्यानम् । ..
त्रिभुवनपालटीकासमेतम् ४७ सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं देवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥ ९२ ॥ अह्नां पतिरादित्यो वो युष्मान्पायात् । योऽपर इव मुरारातिर्द्वितीय इव मुरारिः। कीदृशो मुरारातिः, कीदृशश्चाह्नां पतिस्तदुच्यते -मुरारिपक्षे प्राकाले पूर्वकाले उन्निद्रा जागरिता सावधाना पद्मा श्रीस्तस्याः करौ हस्तौ ताभ्यां परिमलनं हस्तसंवाहनं तेना- विर्भवन्ती प्रादुर्भवन्ती पादयोः शोभा कान्तिर्यस्य मुरारेः स तथोक्तः। कीदृशोऽहपतिः । प्राकाले पूर्वाह्ने उन्निद्रा विकसिता ये पद्माकरास्तेषां परिमलनमवगाहनं तेनाविर्भवन्ती पादानां किरणानां शोभा यस्य सः । किंच, विनतासूनुनाऽरुणेन नीयमान उह्यमानः । क्व ? । दिवि गगने । भक्त्या भावेन त्यक्तोरुखेदोद्गति त्यक्त ( बृहत् ) जङ्घाखेदोदयं यथा भवति । किं कुर्वन्स्तुतः ? । अधरयल्लङ्घयन् । जगन्ति भुवनानि । मुरारिपक्षे तु जगन्ति कति ? । सप्त । आशु शीघ्रम् । आप्तापरान्तानि प्राप्तपरपाराणि । रविपक्षे तु–सप्ताश्वाप्ता- परान्तानि सप्तमिर श्वैराप्तापरान्तानि आश्रितपश्चिमाशापर्यन्तानि ॥ ९२ ॥ यः स्रष्टाऽपां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको लोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलचयेन धान्ना ॥ सद्यः सिद्ध्यै प्रस प्रसन्नद्युतिशुभचतुराशामुखः स्ताद्विभक्तो द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ।। सोऽर्चिषामाकरो निधानं खनिर्वा सूर्यः सिद्धथै सिद्धयर्थं वो युष्माकं स्ताद्भूयात् । सद्यः सपदि। क इव ?। वेधा इव ब्रह्मेव। किंविशिष्टः । विभक्तः। कथम् ? । द्वेधा । कीदृशश्च सूर्यः, कीदृशो ब्रह्मा तदेव दयते -योऽपां पयसां पुरस्तात्पूर्व स्रष्टा विधाता कर्ता। वेधा हि पूर्व पयः सृजतीत्यागमविदः । सूर्योऽपि प्रागपां स्रष्टा भवति । 'आदित्या- जायते वृष्टिः' इति । अचलवरसमभ्युन्नतेर्हेतुरेक इति । अचलवराः कुलशैलास्तेषां समभ्युन्नतिरुच्छ्रायस्तस्य हेतुः कारणम् । एकोऽद्वितीयः। रविपक्षे तु पुरस्तात्पूर्वस्यां दिशि अचलवरो मेरुः (उदयाद्रिः ) तत्र समभ्युन्नतिरुदयस्तस्य हेतुरेकः । मेरुर्हि भगवतोदयता गौरवं नीयते उदयाचल इति । यस्त्रयाणां लोकानां भूर्भुवःखर्लक्षणानामुपर्युपरिष्टात्स्थितः। सूर्योऽपि त्रिलोक्या उपरि वर्तते । धाना तेजसा । दुर्विलङ्घयेनानभिभवनीयेन । वेधा तु धाम्ना स्थानेन दुर्विलक्येन दुष्प्रापेणोपरि स्थितः । परमतीव । तथा प्रसन्नातीनि शुभानि पाठा०-1 'शुचि' वल्लभ०. टिप्प०-1 'त्यक्ता उरुमहती खेदस्य परिश्रमस्योद्गतिरुद्गमो यत्र कर्मणि यथा स्यात्तथा । यद्वा रथमारुह्याश्वानां नियत्रणादनूरुत्वाद्वा त्यक्तो विसृष्ट ऊर्वोर्जङ्घयोः खेदः परिश्रमो यस्यां सा तथाविधा उद्गतिरूवंगमनं यस्मिन्नयने तत्त्यक्तोरुखेदोद्गति यथा स्यात्तथा दिवि अन्तरिक्षमार्गे नीयमानः । मुरारातिरपि विनतासूनुना गरुडेन-दिवि सुरलोके नीयमान उह्यमानः' इति शास्त्रिव्याख्यानम् .
४८८ सूर्यशतकम् शोभमानानि चत्वार्याशामुखानि दिग्वदनानि यत्रोदिते सति स तथोक्तः । अन्यत्र चतस्त्र आशा इव महत्त्वान्मुखान्याननानि यस्य स तथाभूतः ॥ ९३ ॥ साद्रिचूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राग्दृशो यः सादृश्यं दृश्यते नो सदशशतहशि त्रैदशे यस्य देशे ॥ दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा शं शास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः॥ ९४ ।। दीप्तांशुः सूर्यो वो युष्मभ्यं शं सुखं दिश्याद्यच्छतु। यस्याश्वान् शास्ति नियमयति । कः ? । दन्दशूकाशनाद्यः। दन्दशूकाः सस्तिदशनो गरुडस्तस्याद्यो ज्येष्ठः प्रथमोऽरुणः । आशयविदभिप्रायज्ञः । अतिशयाद्विशेषतः। कीदृशो दीप्तांशुः । अशिवयुगदशादर्शित- द्वादशात्मा अशिवयुगं क्षयसमयस्तत्र दशा तया दर्शिता द्वादशात्मानो येन सः । यो दृशो दिशति चक्षुषि ददाति । दश दिशो दर्शयन्दशाशाः प्रकाशयन् । किंभूताः । साद्रिचूर्वी- नदीशाः अद्रयः पर्वताः द्यौर्नभः ऊत्री पृथ्वी नदीशाः समुद्राः अद्रयश्चति संबन्धः । तैः सह वर्तन्त इति ताः तुल्ययोग इति पुनर्बहुव्रीहिः। प्राक् प्राचीम् । किंच, यस्य सादृश्यं नो दृश्यते तुल्यत्वं नोपलभ्यते । त्रैदशे देशे देवानां स्थाने खर्गे । सह दशशत- दृशा शक्रेण वर्तत इति [तस्मिन् ] देशे ॥ ९४ ॥ तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां नोदन्वन्तो नुदन्ति प्रतिभयमशुभश्वभ्रपातानुबन्धि ।। आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र त्रातुं यातेऽन्यलोकान् स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९५ ॥ स दिवसस्यैकहेतुर्दिनस्य प्रधानकारणं भानुर्वो युष्मभ्यं दिशतु यच्छतु । किं तत् ? । हितं पथ्यम् । यत्रान्यलोकानपरजगन्ति त्रातुं पातुं याते गते सति तीर्थानि पुण्यस्थानानि व्यर्थकानि जायन्ते, अकिंचित्करत्वात् । भास्वत्युदिते सति फलं दातुं समर्थानि तत्सेवकानाम् , न तद्विरहे । कासां संबन्धितीर्थानि ? । ह्रदनदसरसीनिर्भराम्भोजिनीनाम् । हृदा अगाधा जलाशयाः । नदाः शोणादयः । सरस्यो महासरांसि । निर्झराः प्रस्रवाः । अम्भोजिन्यः पुष्करिण्यः । हृदाश्च नदाश्चेति समासः । अपि च, उदन्वन्तः समुद्रा न प्रतिभयं नुदन्ति न पापमपनयन्ति । प्रतिशब्देनात्र पापं विवक्षितम् । अशुभ- श्वभ्रपातानुबन्धि । अशुभश्वभ्रं नरकः । श्वभ्रमिव सः, अधोगतिहेतुत्वात् । तत्र पातस्तदनुभवकारणम् । नाकापगाया अप्यापो जलानि कलुपमुषो नैव पापापहा न। एतानि सर्वाणि तीर्थानि भानुमताधिष्ठितानि स्वकार्यक्षमाणि भवन्तीति वाक्यार्थः । केषाम् ? । मजतां स्नानं कुर्वताम् ॥ ९५ ॥ पाठ४०-१'द्राक्.' वल्लभ०. २ 'स्वर्गापगायाः.' वल्लभ०. ३'लोकं. वल्लभ.
त्रिभुवनपालटीकासमेतम् ४९ एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी. दप्रज्ञाताप्रतक्यं निरवगति तथालक्षणं सुप्तमन्तः ॥ यादृक्सृष्टेः पुरस्ता निशि निशि सकलं जायते तागेव त्रैलोक्य यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ।। असौ रविर्भाखान्वोऽवतु । किंभूतः। सर्गतुल्योदयः सृष्टिसमानोदयः। यद्वियोगाद्य- द्विरहादेतत्रैलोक्यमिदं त्रिभुवनं निशि निशि रात्रौ रात्रौ तादृगेव जायते यादृशं सृष्टः पुरस्तात्पूर्वमासीदस्ति स्म । किंभूतम् ?। पातालपङ्कप्लुतमिव । पातालमधः पङ्कः कर्दम- मनमिव । केन ? । तमसा एकम द्वितीयम् । उद्गाढं प्रबलम् । अप्रज्ञाता- प्रतय॑म् । न प्रज्ञायते स्माप्रज्ञातो बोद्धव्यप्रतीत्यविषयः । अप्रतय॑स्तर्कयितुमशक्यः । अप्रज्ञातं चाप्रतयं च तदेवंविधम् । सुप्तमन्तस्ततश्च निरवगति प्रत्यक्षस्याविषयम् । तथा अलक्षणं लक्षणस्याविषयम् । सांप्रतमप्येवंभूतमेव भवति ॥ ९६ ॥ द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि- र्या यामिन्युज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ॥ यदश्यौ देशकालाविति नियमयतो नो तु यं देशकाला- वव्यात्स स्वप्रभुत्वा हितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥ सोऽहां दिनानां हेतुः कारणमिनोऽर्को वोऽव्यात् । कीदृशोऽसौ ? । स्वप्रभुत्वाहित- भुवनहितः । खं च तत्प्रभुत्वं च तेनाहितं कृतं भुवनहितं लोकपथ्यं येन स तथोक्तः । नो तु पुनर्यमिन देशकालौ नियमयतः इनस्य नियामको न भवतः । कथंभूतौ ? । यद्वश्यौ यद- धीनौ । देशकालौ प्रदेशसमयौ । देशः पूर्वादिदिग्विशेषः । काल: समयः प्रभातादिः । अस्मिन्द्वीपे योऽस्ताचलोऽस्तपर्वतः स खल्वपरत्र द्वीपान्तरे उदयाद्रिरुदयाचलः । अन्यत् । इह देशे या निर्मलचन्द्रकान्ती रात्रिः सोऽन्यत्र दुःसहातपो दिवसः । यदा किल सहस्र- किरणो भगवान्मेरोदक्षिणस्यामुदेति तदा मेरोरुत्तरस्यामस्तमेति । मेरोः पूर्वस्यां मध्यदिनं पश्चिमायां मध्यरात्रं च । अतो हेतोः पूर्वादिदेशः पूर्वादिसंध्याकालः एतौ यस्य रवेश्यो भवतः, न तु रविरेतयोर्देशकालयोर्वश्यः। एतेन सूर्यचक्रभ्रमात् पृथक्पृथग्देशकालनिर्माण गणितशास्त्रे प्रसिद्धमस्तीति भावः ॥ ९७ ॥ व्यप्रैरग्र्यग्रहेन्दुप्रसनगुरु भरै! समप्रैरुग्रैः प्रत्यौरीषदुप्रैरुदयगिरिगतो गोगणैर्गौरयन् गाम् ।। उद्गाढार्चिविलीनामरनगरनगमावगर्भामिवाह्ना- मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥ पाठा०-१ 'नु' वल्लभ०. २ 'गुरुतरैः' वल्लभ०. सूर्य. ४ सूर्यशतकम् । स ग्रहग्रामणीः सूर्यों वो युष्माकं गहनं पापमधं ग्लपयतु स्फोटयतु । उद्गाढाश्च ता अर्चिषश्च ता विलीना हृतास्ते च ते अमरनगरनगग्रावाणश्च तदर्भा यस्याः सा तथोक्ता । अमरनगरं त्रिदशवासः । नगः शैलः । अमरनगरं च तन्नगश्चांत समासः । व? । अग्रे मुखे। अहां वासराणाम् । किं कुर्वन् ?। गां गौरयन् । कैः । गोगण रश्मिसमूहैः । किंभूतैः ? । व्यग्रैः अत्र्यग्रहेन्दुप्रसनगुरुभरैः अग्र्याः पौरस्त्यास्ते च ते ग्रहाश्चाग्र्यग्रहाः ते चेन्दुश्चन्द्रमाश्चाग्यग्रहेन्दवस्तेषां ग्रसनमभिभवस्तस्य गुरुभरो महाभारो येषां तैः । नो समगैरपरिपूर्णैः, बालत्वात् । उदग्रैर्वृहद्भिः, प्रत्यग्रैर्नवत्वात् । ईषदुप्रैः किंचित्तीक्ष्णै , बालत्वात् । एवंभूतैर्मयूखैाँ गौरयन् । द्रुतसुवर्णगर्भामिव करोतीति तात्पर्यार्थः । इन्दो- ग्रहणमिन्दोर्महातेजसोऽप्यभिभवप्रदर्शनार्थम् ॥ ९८ ॥ योनिः साम्नां विधाता मधुरिपुरजितो धूर्जदिः शंकरोऽसौ मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ॥ इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता- स्तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥ स सूर्यों वो युष्मानवतात् पातु । यास्तासां संज्ञानां एकः प्रधानमभिधेयो वाच्यः । कासाम् ?। या अमृतभुजां देवानां यदृच्छानिरभिधेयं प्रवृत्ता भूताः । किमिव ? । डवित्था- दिवत् डवित्थादयो यथा । 'डित्थो डवित्थ' इत्यादयः संज्ञा जातिक्रियादिनिमित्तमन्तरेण यथासंकेतं वाचकत्वेन प्रवर्तन्ते तथा एता अपि संज्ञा एतेषु देवेषु निमित्तमन्तरेणैव प्रवर्तन्त इत्युक्तं भवति । यथैतेषु तथा रवावपि प्रवृत्ताः कदाचिद्भविष्यन्तीत्याह-तदनु- गुणगुणैः गुणशब्दप्रवृत्तिनिमित्तास्तदनुगुणाः संज्ञानुकूला ये गुणास्तैः कृत्वा । एतदुक्तं भवति-तासां संज्ञानां यानि यानि प्रवृत्तिनिमित्तानि तैरेव निमित्त स्वन्तमभिदधते, न ब्रह्मादिवद्यदृच्छमिति। कास्ताः संज्ञाः ? । योनिः साम्नां विधाता। योनिः प्रभवः । साम्नां सामवेदस्य । विधाता वेधाः । तथा मधुरिपुर्विष्णुरजित इति। धूर्जटिमहादेवः शंकर इति । मृत्युरन्तकः काल इति । अलकायाः पतिः कुबेरो धनद इति । जातवेदा वह्निः पावक इति । एतासां हि संज्ञानां यथाक्रमं सामवेदकारणत्वं. 'कलनक्रियाहेतुत्वं धनकर्तृ ( दातृ) त्वं पावनक्रियाकर्तृत्वं प्रवृत्तिनिमित्तम् । तत्तु भावत्येव न तेषु ॥ ९९ ॥ देवः किं बान्धवः स्यात्प्रियसुहृदथवाऽऽचार्य आहोस्विंदर्यो रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।। एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदाऽसौ सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥ १०० ॥ पाठा०-१ 'गणैः' वल्लभ०. वल्लभ०. २ 'आर्यः' वल्लभ०. ३ 'सर्वदा' वल्लभ०. ४ 'सर्वदः' वल्लभ०.
त्रिभुवनपालटीकासमेतम् असौ दशशताभीषुः सहस्रांशुओं युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न निर्गीयते नावधार्यते जगतामेषां मध्ये क इति। किं देवः सुरः। किं बान्धवो ज्ञातिः स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् ? किंवा आचार्य उपदेष्टा ? आहोस्विदर्यः खामी महाकुलीनः ? रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः। गुरुः पूज्यः । उत किं जनकः पिता ? अथ जीवितं प्राणितम् ? उत बीजं कारणम् ? । उत ओजो बलम् ? । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चष्यत इयाह- सर्वा- कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । सर्वथा सर्वप्रकारैः। सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिन्नार्थं मन्यमाना गुरुरिति ( ? )। तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न (तो)ऽपि बान्धवादिभेदैः सर्वात्मकत्वं दर्शितम् ॥ १० ॥ [ श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।। आरोग्यं सत्कवित्वं मतिमतुलवलं कान्तिमायुःप्रकर्ष विद्यामैश्वर्यमर्थं सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥ श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्धयर्थं शतं श्लोका इत्युक्तप्रकारेण रचिताः, सन्तीति शेषः । “विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना. त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोकं षष्ठं गुरु ज्ञेयं सर्वत्र लघ पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक- त्वात्तस्य पद्यमावेऽपि वृत्तिः। तथा चामरसिंहः-'पद्ये यशसि च श्लोकः' इत्यनुशिष्टवान् । अत एव निर्णयसिन्धुप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागू दश पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्युक्त्वाऽव- तारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वाऽस्य लोकहितावहत्वलक्षणप्रयोजना- न्तरं दर्शयितुमाह --भक्त्या युक्त इत्यादिना। एतांश्च श्लोकान्यः पुरुषो भक्त्या युक्तः सन्पठेत् स सर्वपापैर्विमुक्तः, भवतीति शेषः । एतेन वर्गादिफलं स लभत इति सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति भावः। किं चात्रं लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते । प्राप्नोतीत्यर्थः ॥] इति श्रीमदुजयिनीसामान्यपुत्रोदासीनभट्टसाधारणसूनुना (?) त्रिभुवनपालेन विरचिता श्रीसूर्यशतकटीका समाप्ता। पाठा०-१ 'सुख' वल्लभ०. २ 'इति श्रीमयूरपण्डितविरचितं सूर्यशतकं विशेषाचार्यव्याख्या च'. टिप्प-1 अयं श्लोक स्त्रिभुवनपालव्याख्यायां न लभ्यते. मूलपुस्तके यज्ञेश्वरशास्त्रिव्याख्यायां वर्तत इति शास्त्रिव्याख्यासमेत एवात्र गृहीतः.
सूर्यशतकस्थश्लोकानां सूची । श्लो श्लोक १०० ११ ४९ २८ ६३ अक्षे रक्षां निबध्य प्रतिसरवलयै अश्यामः काल एको न भवति अस्तव्यस्तत्वशून्यो निजरुचिर अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि आक्रान्या वाह्यमानं पशुमिव आयान्ती किं सुमेरोः सरणि आवानैश्चन्द्रकान्तैश्युततिमिर आवृत्तिभ्रान्तविश्वाः श्रममिव उजृम्भाम्भोरुहाणां प्रभवति उत्कीर्णवर्णरेणुद्रुतखुरदलिता उद्गाढेनारुणिना विदधति उद्ययूद्यानवाप्यां बहुलतम एकं ज्योतिदृशौ द्वे त्रिजगति एकाहेनैव दीर्घा त्रिभुवनपदवीं एतत्पातालपङ्कप्लुतमिव तमसै एतद्यन्मण्डलं खे तपति दिन कस्त्राता तारकाणां पतति तनु कैलासे कृत्तिवासा विहरति कामॅल्लोलोऽपि लोकाँस्तदुपकृति क्षमा क्षेपीयः क्षपाम्भःशिशिर गन्धर्वैर्गद्यपद्यव्यतिकरितवचो गर्वेष्वम्भोरुहाणां शिखरिषु चक्री चक्रारपरि हरिरपि च चक्षुर्दक्षद्विषो यन्न तु दहति जम्भारातीभकुम्भोद्भवमिव ज्योत्लोशाकर्षपाण्डुद्युतितिमिर तन्वाना दिग्वधूनां समधिक ६७ तीर्थानि व्यर्थकानि ह्रदनदसरसी २० तीवं निर्वाणहेतुर्यदपि च विपुलं १८ दत्तानन्दाः प्रजानां समुचित ४२ / दत्ताधैर्दूरनर्वियति विनयतो ५१ देवः किं बान्धवः स्यात्प्रियसुहृद २७ द्वीपे योऽस्ताचलोऽस्मिन्भवति ३७ धारा रायो धनायापरि सपदि १४ धुन्वन्तो नीरदालीर्निजरुचिह ३९ धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवना ६८ ध्वान्तध्वंसं विधत्ते न तपति ८ ध्वान्तस्यैवान्तहेतुर्न भवति ७९ ध्वान्तौघध्वंसदीक्षा विधिपटु १३ नन्तुं नाकालयानामनिशमनुयतां ६५ नाकौकःप्रत्यनीकक्षतिपटुमहसा निःशेषं नैशमम्भः प्रसभमपनुद ८९ निःशेषाशावपूरप्रवणगुरुगुण ७६ निःस्यन्दानां विमानावलिवितत ८८. नीत्वाश्वान्सप्त कक्षा इव नियम ८६ | नेत्राहीनेन मूले विहितपरिकरः २२/ नो कल्पापायवायोरदयरय ३६ नोदन्वाजन्मभूमिर्न तदुदरभवो ३ नो मूर्छाच्छिन्नवाञ्छः श्रमविवश ७१/नो शुष्कं नाकनद्या विकसित ८० न्यकुर्वन्नोषधीशे मुषितरुचि १/ पर्याप्तं तप्तवामीकरकटकतदे २६ पाशानाशान्तपालादरुणवरुणतो १५। पीनोरःप्रेरितात्रैश्चरमखुरपुटान ३२ २४ ७२ २३ ४३ ६० ८३ ६२ . श्लो. २१ ६४ ३० ७ पौरस्त्यस्तोयदर्ताः पवन इव प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचला प्रभ्रश्यत्युत्तरीयत्विषि तमसि प्राकालोन्निद्रपद्माकरपरिमलना प्राचि प्रागाचरन्त्योऽनतिचिर प्रातःशैलापरणे रजनिजवनिका प्लुष्टाः पृष्ठेऽशुपातैरतिनिकटतया बन्धध्वंसैकहेतु शिरसि नति बिभ्राणः शक्तिमाशु प्रशमितबल बिभ्राणा वामनत्वं प्रथममथ भक्तिप्राय दातुं मुकुलपुटकुटी भासामासन्नभावादधिकतरपटो भिन्नं भासारुणस्य क्वचिदभिनवया भूत्वा जम्भस्य भेत्तुः ककुभि भूमि धाम्रोऽभिवृष्ट्या जगति मत्वान्यान्पार्श्वतोऽश्वान्स्फटिक मा गान्म्लानिं मृणालीमृदुरिति मार्गोपान्ते सुमेरोर्नुवति कृतनतौ मीलचक्षुर्विजिह्मश्रुति जडरसनं मुश्चत्रश्मीन्दिनादौ दिनगमसमये मुर्घ्यदूर्धातुरागस्तरुषु किसलयो मौलीन्दोमॆष मोषीद्दयुतिमिति यः स्रष्टापा पुरस्तादचलनरवम श्लो ५५ यज्यायो बीजमहामपनुततिमिरं ७५ यत्कान्तिं पङ्कजानां न हरति ४ यत्प्राच्यां प्राक्चकास्ति प्रभवति ९२योक्त्रीभूतान्युगस्य ग्रसितुमिव १२. योनिः साम्नां विधाता मधुरिपु ५० रक्षन्त्वक्षुण्णहेमोपलपटलमलं रलानां मण्डनाय प्रभवति नियतो लोटॅल्लोष्टाविचेष्टा श्रितशयन १० वजिजातं विकासीक्षणकमलवनं २५ वाचा वाचस्पतेरप्यचलभिदुचिता विस्तीर्ण व्योम दीर्घाः सपदि वेलावर्धिष्णु सिन्धोः पय इव व्यौरग्र्यग्रहेन्दुप्रसनगुरुभरै? व्यापन्नतुर्न कालो व्यभिचरति शातः श्यामालतायाः परशुरिव शीर्णघ्राणाधिपाणीन्द्रणिभि ४६ शुष्यन्त्यूढानुकारा मकरवसतयो १९ श्लोका लोकस्य भूत्यै शतमिति ४८ संसक्तं सितमूलादभिनवभुवनो ३१ | साद्रिचूर्वीनदीशा दिशति दश ५३ | सानौ सा नौदये नारुणितदलपुन ४१ सिद्धः सिद्धान्तमिश्रं श्रितविधि १६ सीदन्तोऽन्तर्निमजजडखुरमुसलाः ९३ | हेलालोलं वहन्ती विषधरदमन ६ १०१ ३ ३८ ६१