Sringeri Sharada Peetham
Prasthanabheda
Front matter
Prasthanabheda
BY
MADHUSUDANA SARSVATI.
SRIRANGAM:
SRI VANI VILAS PRESS.
1912.
।। श्रीः ।
SRI SHARADA PEETHAM
SRINGERI
21 ११
Acc No. 265
प
2-201
Cat No.
॥ प्रस्थानभेदः॥
श्रीमधुसूदनसरस्वत्या
विरचितः।
श्रीरङ्गम्
भीवाणीविलासमुद्रायत्रालये
संमुद्रितः ।
१९१२.
॥ श्रीः॥ ॥ प्रस्थानभेदः॥ - अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्य साक्षात्परम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथा हि-- ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः । शिक्षा व्याकरणं निरुक्तं छन्दो ज्यौतिष कल्प इति वेदाङ्गानि षट् । पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गा- नि । अत्रोपपुराणानामपि पुराणेऽन्तर्भावः, वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायाम् , महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रे ; एवं मिलि- त्वा चतुर्दश विद्याः । तथा चोक्तं याज्ञवल्क्येन-- 'पुराण- न्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां २ प्रस्थानभेदः । - धर्मस्य च चतुर्दश' इति । एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ- शास्त्रं चेति चत्वार उपवेदाः। सर्वेषां चास्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि ; अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् । ननु-- नास्तिकानामपि प्रस्थानान्तराणि सन्ति ; ध्वनन्तर्भावात्पृथग्गणयितुमुचितानि । तथा हि-- शून्यवादे- नैकं प्रस्थानं माध्यमिकानाम् । क्षणिकविज्ञानमात्रवादेनान्य- द्योगाचाराणाम्। ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादेनापरं सौ- त्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैभा- षिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहा- त्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहप- रिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मि- लित्वा नास्तिकानां षट् प्रस्थानानि । तानि कस्मानोच्य. न्ते!- सत्यम् ; वेदबाह्यत्वात्तेषां म्लेच्छादिप्रस्थानवत्पर- म्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमेव । इह च सा- क्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितः । ततो न न्यूनत्वशङ्कावकाशः ॥
प्रस्थानभेदः । ३ -- अथ संक्षेपेणैषां प्रस्थानानां स्वरूपभेदे हेतुः प्रयोजन- भेद उच्यते बालानां व्युत्पत्तये-- तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा अनुष्ठानकारकभूतद्रव्य- देवताप्रकाशकाः । तेऽपि त्रिविधा ऋग्यजु:सामभेदात् । तत्र पादबद्धगायत्त्र्यादिच्छन्दोविशिष्टा ऋचः ‘अग्निमीळे पुरोहितम्' इत्याद्याः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । 'अग्नीदग्नीन्विहर' इत्यादि- संबोधनरूपा निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ॥ ब्राह्मणमपि त्रिविधं विधिरूपमर्थवादरूपं तदुभयविलक्ष- णरूपं चेति । तत्र शब्दभावना विधिरिति भाट्टाः। नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किका- दयः सर्वे। विधिरपि चतुर्विध उत्पत्त्यधिकारविनियोगप्रयोग- भेदात् । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः आ- मेयोऽष्टाकपालो भवति' इत्यादिः । सेतिकर्तव्यताकस्य कर- णस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः 'दर्श- .
४ प्रस्थानभेदः । पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिः । अङ्गसंबन्धबो- धको विधिविनियोगविधिः ‘ब्रीहिभिर्यजेत' 'समिधो यज- ति' इत्यादिः । साङ्गप्रधानकर्मप्रयोगैक्यबोधकः पूर्वोक्तवि- धित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके, कल्प्य इत्यपरे । कर्मस्वरूपं च द्विविधं गुणकर्मार्थकर्म चेति । तत्र ऋतुकर्मकारकाण्याश्रित्य विहितं गुणकर्म । तदपि चतु- विधम् उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्मणोऽनीनादधीत' 'यूपं तक्षति' इत्यादावाधानतक्षणा- दिना संस्कारविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । 'स्वाध्यायो- ऽध्येतव्यः' 'गां पयो दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपय:प्रभृते: प्राप्तिः। 'सोममभिषुणो- ति' 'ब्रीहीनवहन्ति ' ' आज्यं विलापयति' इत्यादावभिषवा- वघातविलापनैः सोमादीनां विकारः। 'व्रीहीन्प्रोक्षति' 'प- न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्तीह्यादिद्रव्याणां सं- स्कारः । एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्याश्रित्य विहितमर्थकर्म द्विविधमङ्गं प्रधानं चेति । अन्यार्थमङ्गम् । अ- नन्याथै प्रधानम् । अङ्गमपि द्विविधं संनिपत्योपकारकमारा- .
प्रस्थानभेदः । । . दुपकारकं चेति । तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फ- लोपकारि द्वितीयम् । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिर्विकृतिः । तदुभयविलक्षणो विधिर्द- विहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवा- च त्रिविधः गुणवादोऽनुवादो भूतार्थवाद- श्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ- दियो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः अग्निहिमस्य भेषजम्' इत्यादिः । प्रमाणान्तरविरोधतत्प्रा- प्तिरहितार्थबोधको भूतार्थवादः इन्द्रो वृत्राय वज्रमुदय- च्छत्' इत्यादिः । तदुक्तम्-- ‘विरोधे गुणवादः स्यादनु- वादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समा. नेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्या- यात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् । तच्च बाधि- तविषयत्वाज्ज्ञातज्ञापकत्वाञ्च न गुणवादानुवादयोः । भूतार्थ- वादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिकं प्रामाण्यं न वि- प्रस्थानभेदः । ur हन्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयवि- लक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्र- तिपादकत्वान्न विधिः; स्वत: पुरुषार्थपरमानन्दज्ञानात्मक- ब्रह्मणि स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतम् , सर्वानपि विधीनन्त:करणशुद्धिद्वारा स्वशेषतामापादयत् , अन्यशेषत्वाभावाच्च नार्थवादः । तस्मादुभयविलक्षणमेव वेदवाक्यम् । तञ्च कचिदज्ञातज्ञाप- कत्वमात्रेण विधिरिति व्यपदिश्यते, विधिपदरहितप्रमाणवा- क्यत्वेन क्वचिद्भूतार्थवाद इति व्यवाहियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् । एवं च कर्मकाण्डब्रह्म- काण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः ॥ स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्व हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औ- द्वानप्रयोग: सामवेदेन । ब्राह्मयाजमानप्रयोगौ त्वत्रैवान्त- भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारा- दिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदा- प्रतिवेदं भिन्ना भूयस्यः शाखाः । एवं च कर्मकाण्डे व्या- प्रस्थानभेदः। पारभेदेऽपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे । इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः ।। अथाङ्गानामुच्यते--- तत्र शिक्षाया उदात्तानुदात्तस्वरि- तइस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोच्चारणविशेष- ज्ञानं प्रयोजनम् , तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्- 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयु- को न तमर्थमाह । स वाग्वनो यजमानं हिनस्ति यथेन्द्र. शत्रुः स्वरतोऽपराधात्' इति । तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षा प्रवक्ष्यामि--' इत्यादिपञ्चखण्डात्मिका पाणि- निना प्रकाशिता; प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्य- संज्ञिता अन्यैरेव मुनिभिः प्रदर्शिता ।। एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयो- जनम् । तच्च ‘वृद्धिरादैच्' इत्याद्यध्यायाष्टकात्मकं महेश्वर- प्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्वार्तिकस्यो- परि च भगवता मुनिना पतञ्जलिना महाभाष्यमारचितम् । तदेतत्त्रिमुनि व्याकरणं वेदाङ्गं माहेश्वरमित्याख्यायते ।
८ प्रस्थानभेदः। कौमारादिव्याकरणानि तु न वेदाङ्गानि , किं तु लौकिक- प्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम् । एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वज्ञाने, वै- दिकमन्त्रपदानामर्थज्ञानाकाङ्कायां तदर्थ भगवता यास्केन 'समानायः समानातः' ‘स व्याख्यातव्यः' इत्यादित्रयोदशा- ध्याय्यात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातो- पसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदिकमन्वपदानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वा- त्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञा- नाय निरुक्तमवश्यमपेक्षितम् , अन्यथानुष्ठानासंभवात् । 'सृण्येव जरी तुर्फरी तू' इत्यादिदुरूहाणां प्रकारान्तरे- णार्थज्ञानस्थासंभावनीयत्वाच्च । एवं निघण्टवोऽपि वैदिक- द्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चाध्याय्यात्मको ग्रन्थो भगवता यास्केनैव कृतः ॥ एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच प्रस्थानभेदः । ९ च्छन्दोज्ञानाकाङ्क्षायाम् , तत्प्रकाशनाय धी: श्रीः स्त्रीम्' इत्याद्यष्टाध्याय्यात्मिका च्छन्दोविवृतिर्भगवता पिङ्गलेन वि. रचिता । 'तत्राप्यलौकिकम्' इत्यादिनाध्यायत्रयेण गाय- त्व्युष्णिगनुष्टुब्बृहती पतिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । ' अथ लौकिकम्' इत्यार- भ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गानिरूपितानि व्याकरणे लौकिकपदनि- रूपणवत् ।। एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्योतिष भगवता आदित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव ।। शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञा- नाय कल्पसूत्राणि । तानि च प्रयोगत्रयभेदात्रिविधानि- तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्खायनादिप्रणीता- नि; आध्वर्यवप्रयोगप्रतिपादकानि बोधायनापस्तम्बकात्या- यनादिप्रणीतानि; औद्गात्रप्रयोगप्रतिपादकानि लाट्यायन- द्राह्मायणादिप्रणीतानि ॥
१० प्रस्थानभेदः । 'आद्यं सनत्कु- एवं निरूपित: षण्णामङ्गानां प्रयोजनभेदः । चतुर्णामु- पाङ्गानामधुनोच्यते- तत्र सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि । तानि च ब्राह्म पानं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्त लैङ्गं वाराहं स्कान्दं वामनं कौम मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । मारेण प्रोकं वेदविदां वरा: । द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थ शिवधर्माख्यं दौर्वासं पञ्चमं विदुः । षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः ॥ अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ।। तत: कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः । ततो वासिष्ठलैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ॥ ततः साम्बपु- राणाख्यं ततः सौरं महाद्भुतम् । पाराशरं ततः प्रोक्तं मा- रीचाख्यं ततः परम् ॥ भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थ- साधकम्' एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि ।। न्याय आन्वीक्षिकी पश्चाध्यायी गौतमेन प्रणीता ।
प्रस्थानभेदः । प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क निर्णयवा- दजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोड- शपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोज- नम् । एवं दशाध्याय्यात्मकं वैशेषिकं शास्त्रं कणादेन प्रणी- तम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्था- नामभावसप्तमानां साधर्म्यवैधाभ्यां व्युत्पादनं तस्य प्र- योजनम् । एतदपि न्यायपदेनोक्तम् ।। . एवं मीमांसापि द्विविधा कर्ममीमांसा शारीरकमीमांसा चेति । तत्र द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्मजि- ज्ञासा' इत्यादिः ‘अन्वाहार्ये च दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता। तत्र धर्मप्रमाणम् , धर्मभेदाभेदो, शेष- शेषिभावः, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः, श्रुत्यर्थपठना- दिभिः क्रमभेदः, अधिकारविशेषः, सामान्यातिदेशः, विशे. पातिदेशः, ऊहः, बाधः, तन्त्रम् , प्रसङ्गश्चेति क्रमेण द्वाद- शानामध्यायानामर्थः । तथा संकर्षणकाण्डमप्यध्यायचतुष्ट- यात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्ध- मप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव । तथा १२ प्रस्थानभेदः । तन्त्र च चतुरध्यायी शारीरकमीमांसा अथातो ब्रह्मजिज्ञासा' इत्यादिः 'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसा- क्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बादरायणेन कृता। तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्य- मिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीये तु अस्पष्टब्रह्मलिङ्गानि उपास्यब्रह्मविषयाणि । तृतीये पादे अस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वाक्यविचारः समापितः । चतुर्थपादे तु प्र. धानविषयत्वेन संदिह्यमानान्यव्यक्ताजादिपदानि चिन्तिता. नि । एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्धे समन्वये, तत्र संभावितं स्मृतितर्कादिविरोधमाशङ्कय तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो. गकाणादादिस्मृतिभि: सांख्यादिप्रयुक्तैस्तकश्च विरोधो वेदा- न्तसमन्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्ट- त्वं प्रतिपादितम् , स्वपक्षस्थापनपरपक्षनिराकरणरूपपर्वद्वया- प्रस्थानभेदः। १३ त्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्टयादिश्रुतीनां पर- स्परविरोधः पूर्वभागेण परिहृतः; उत्तरभागेण तु जीवविष- याणाम् । चतुर्थपादे इन्द्रियविषयश्रुतीनां विरोध: परिहृतः । तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य पर- लोकगमनागमननिरूपणेन वैराग्यं निरूपितम्। द्वितीये पादे पूर्वभागेण त्वंपदार्थः शोधितः, उत्तरभागेण तत्पदार्थः । तृती- ये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहार: कृत: ; प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोप- संहारानुपसंहारौ निरूपितौ। चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमादी- नि श्रवणनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथ- मे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवत: पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीये पादे नियमाणस्योत्कान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुण- ब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे पूर्वभा- गेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरता; उत्तरभागेण प्रस्थानभेदः । सगुणब्रह्मविदो ब्रह्मलोकस्थितिरुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यम् । शास्त्रान्तरं सर्वमस्यैव शेषभूतमितीदमेव मुमुक्षु- भिरादरणीयं श्रीशंकरभगवत्पादोक्तप्रकारेणेति रहस्यम् । एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठ- दक्षसंवर्तशातातपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोश- नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृ- तानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्म- शास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगति- । र्वाच्या ॥ अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायु- र्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं विकल्पः सिद्धिश्चेति । ब्रह्मप्रजापत्यश्विधन्व- न्तरीन्द्रभरद्वाजात्रेयानिवेश्यादिभिरुपदिष्टश्चरकेण संक्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं प्रस्थानभेदः । १५ वाग्भटादिनापि बहुधेति न शास्त्रभेदः । कामशास्त्रमप्या- युर्वेदान्तर्गतमेव, तत्रैव सुश्रुतेन वाजीकरणाख्यकामशास्त्रा- भिधानात् । तत्र वात्स्यायनेन पञ्चाध्याय्यात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम् , शास्त्रोद्दीपि. तमार्गेणापि विषयभोगे दुःखमावपर्यवसानात् । चिकित्सा- शास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ।। एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः, द्वितीय: संग्रहपादः, तृतीयः सिद्धिपादः, चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षणमधिकारि- निरूपणं च कृतम् । अत्र धनु:शब्दश्चापे रूढोऽपि धनुर्वि- धायुधे प्रवर्तते । तच्चतुर्विधं मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तं चेति । मुक्तं चक्रादि । अमुक्तं खड्गादि । मुक्तामुक्तं शल्या- वान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र मुक्तमत्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजाप- त्याग्नेयादिभेदादनेकविधम् । एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमाराणां तदनुयायि- नां च, ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढा इति ।
प्रस्थानभेदः । दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षण- पूर्वकं संग्रहणप्रकारो दर्शितो द्वितीयपादे । गुरुसंप्रदायसि- द्धानां शस्त्रविशेषाणां पुन: पुनरभ्यासो मन्त्रदेवतासिद्धिक- रणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासा- दिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्मयुद्धाचरणं दुष्टस्य दण्डश्चोरादिभ्यः प्रजा- पालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादि- क्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ।। एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम् । गीत- वाद्यनृत्तभेदेन बहुविधोऽर्थः । देवताराधननिर्विकल्पकसमा- ध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ॥ एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं शिल्प- शास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशाखं चेति । नानामु. निभिः प्रणीतं तत्सर्वम् । अस्य च सर्वस्य लौकिकवत्प्रयो- जनभेदो द्रष्टव्यः ॥
प्रस्थानभेदः । . एवमष्टादश विद्यालयीशब्देनोक्ताः; अन्यथा न्यूनता- प्रसङ्गात् ॥ तथा सांख्यशाखं भगवता कपिलेन प्रणीतम् 'अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः' इत्यादि षडध्या. य्यात्मकम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्विती- येऽध्याये प्रधानकार्याणि । तृतीयेऽध्याय विषयेभ्यो वैरा- ग्यम् । चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्या- यिकाः । पञ्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सर्वार्थसंक्षेपः । प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् ॥ तथा योगशास्त्रं भगवता पतजलिना प्रणीतम् 'अथ योगानुशासनम्' इत्यादि पादचतुष्टयात्मकम् । तत्र प्रथम- पादे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्तचित्तस्यापि स. माधिसिद्धयर्थ यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधयोऽष्टावङ्गानि निरूपितानि । तृतीये पादे योगिविभू- तयः; चतुर्थपाद कैवल्यमिति । तस्य च विजातीयप्रत्ययनि- रोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥
१८ प्रस्थानभेदः। 3 तथा पशुपतिमतं पाशुपतं शास्रं पशुपतिना पशुपाश. विमोक्षणाय 'अथातः पाशुपतं योगविधिं व्याख्यास्यामः इत्यादि पञ्चाध्यायं विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीव: पशुः, कारणं पतिरीश्वरः, योगः पशुपती चित्तसमाधानम् , विधिर्भस्मना विषवणस्नानादिनिरूपितः ; दुःखान्तसंज्ञो मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयो- गविधिदुःखान्ता इत्याख्यायन्ते । एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र वासु- देवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भग- वान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते संकर्ष- णाख्यो जीवः । तस्मान्मनः प्रद्युम्नः । तस्मादनिरुद्धोऽहं- कारः। सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति भगवतो वासुदेवस्य मनोवाकायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् ॥ तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेद:-- तत्रारम्भवाद एकः; परिणामवादो द्वितीयः; बिबर्सवादस्तृतीयः । पार्थिवाप्यतेजसवायवी- ।
प्रस्थानभेदः । १९ याश्चतुर्विधाः परमाणवो द्वषणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते, असदेव कार्य कारकव्यापारादुत्पद्यते इति प्रथमस्तार्किकाणां मीमांसकानां च । सत्त्वरजस्तमोगुणा- त्मकं प्रधानमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सूक्ष्मरूपेण सदेव कार्य कारणव्यापारेणाभिव्यज्यते इति द्वितीय: पक्ष: सांख्ययोगपात जलपाशुपतानाम् । ब्रह्म- णः परिणामो जगदिति वैष्णवानाम् । स्वप्रकाशपरमानन्दा- द्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पत इति तृतीय: पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानकर्तृणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे प्रतिपाये तात्पर्यम् । न हि ते मुनयो भ्रान्ताः, सर्वज्ञत्वाचेषाम् । किं तु बहिर्वि- षयप्रवणानामापाततः पुरुषार्थे प्रवेशो न संभवतीति नास्ति- क्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः। तत्र तेषां तात्पर्य- मबुढा वेदविरुद्धेऽप्यर्थे तात्पर्यमुत्प्रेक्षमाणास्तन्मतमेवोपादेय. त्वेन गृहन्तो जना नानापथजुषो भवन्तीति सर्वमनवयम् ॥ इति श्रीमधुसूदनसरस्वतीविरचितः प्रस्थानमेदः संपूर्णः॥