Allahabad University
The Bhaktiniraya And Nama Mahatmya
Front matter
'THE
PRINCESS OF WALES
SARASVATI BHAVANA TEXTS
No 72
(A,B)
EDITED BY
MANGAL DEVA SHASTRI
THE
BHAKTINIRNAYA
&
NAMA-MAHĀTMYA
PRINTED BY MR HP. DUTT
AT THE EUREKA PRINTING WORKS,
BEN TRES CITY
1937
Saleable a: half of the printed price,
No text on this page.
श्रीः।
श्रीमदनन्तदेवविरचितः
भक्तिनिर्णयः
तथा
श्रीमदाश्रमस्वामिविरचितं
वैष्णवकण्ठाभरणीयं
नाममाहात्म्यम्
काशिकराजकीयपाठशालीयपुराणेतिहासाध्यापकेन
व्याकरणाचार्यमीमांसातीर्थफडकेकुलजेनानन्तशास्त्रिणा संशोधिते ।
Edited with Introduction by
Ananta Shastri Phadake Vyakaranacharya,
Professor, Sanskrit College, Benares.
No text on this page.
श्री। किश्चित्प्रास्ताविकम् । अथाय मुद्राप्य प्रकाश्यते भक्तिनिर्णयनामा विद्वद्वरदेवोपनाम- कानन्तदेवविरचितः प्रबन्धः । प्रकृतग्रन्थप्रतिपाद्येयं भक्तिः काण्ड- त्रयात्मकेनापौरुषेयेण भगवतो निश्वासभूतेन शब्दराशिना वेदेन सा- मान्यविशेषरूपेणोपासनान्तर्गतत्वेन किञ्चिदंशेन प्रदर्शितापि, नारद- शाण्डिल्यादिमहर्षिभिः सूत्ररूपेण सूत्रितापि, स्वप्नेश्वरप्रभृतिभिर्भा- ष्यकारैर्भाषितापि,वेदव्यासेन पुराणसागरतः सागरायिताप्यनेकसंसार- दुःखदुःखितानां वेदादिग्रन्थसागरमन्थनपूर्वकभक्तिसुधास्वीकारं कर्तु- मसमर्थानां कृते वेदपुराणादि-सागरमन्थनतत्परस्य भक्तिसुधानिष्का- सनसमर्थस्य बुद्धिरूपमन्थनदण्डचालकस्य कस्यचित्पुरुषधौरेयस्या- पेक्षावशिष्टैवासीत् । सा च पुरुषधौरेयेण विद्ववरिष्ठेन बुद्धिगरिष्ठेनश्री- मदन्तदेवेन प्रकृतप्रन्थामृतं स्वबुद्धिरूपमन्थनदण्डेन वेदादिग्रन्थसागर प्रमथ्य निष्कास्य च संपूरितेति महदुपकृतं ग्रन्थकारेण करालकलि- कालकवलितजर्जरितमतीनां विश्वेषां जनानामुपरि । प्रकरणद्वयात्म- केऽस्मिन् ग्रन्थे प्रथमप्रकरणे ग्रन्थकारण भक्त्युद्देश्यभूतपरमेश्वरस्व- रूपमनेकमतावलम्बिमतेन प्रतिपाद्य भक्त: साधनभक्तिफलभक्तिभेदेन द्वैविध्य,प्रदर्श्य पुनः साधनभक्तेः संकीर्तनादिरूपेणानेकप्रकारकत्वप्रति- पादनपुरःसरं यज्ञादीनां कलियुगे सम्यक्तयाऽनुष्टातुमशक्यतया संकीर्तनभक्तेगृहस्थादेरिव मुमुक्षुणामपि कर्तव्यता प्रतिपादिता । त- प्रापि कीर्तनादेर्यज्ञाद्यनङ्गत्वमनेकफलसाधकत्वं च महता प्रयत्नेन प्रतिपाद्येष्टदेवताभजन-दान-परिचरण-दास्य-स्मरणकीर्तन-चरणोदक- ग्रहण-पादसेवन-स्वीयसर्वस्वसमर्पण-श्रवण-श्रात्मनिवेदनादिप्रति- पादकानि श्रुतिवाक्यानि प्रदर्श्व स्मृतिपुराणबचनैरपि भक्तिरेय जन्मना कदा (२) कर्तव्येत्यनेकशङ्कापकनिरसनपुरःसरं स्वाभिप्रायोनानायुक्तिविलसितः प्रकाशितः। द्वितीये भक्तिफलप्रकरणे प्रथमतोभक्तेर्मोक्षसाधनत्वप्रणा- लिका निर्दिष्टा ततः तावत्कारयादिवचननिचयेन ज्ञानाङ्गत्वं यथा कर्मणां, तथा भक्त्यङ्गत्वमपीति प्रतिपाद्यान्यीयमतेन मोक्षार्थ भक्तेर्वे- दान्तश्रवणेन सह समुच्चयपक्षं संसाध्य तस्याः सर्वपातकनिवृत्त्याद्य- नेकफलकत्वं च निर्दिष्टम् । पतसंसर्गरहितदर्पणतले स्वस्वरूपमिवा- स्मिन् महता प्रयत्नेन निस्सारितशङ्कापङ्कनिचये ग्रन्थे भक्तेः सर्वाङ्गस्व- रूपं सम्यक्तया ज्ञायते। अस्तु । अयं ग्रन्थकारो निजेन भूमण्डल मण्डितवानिति देवकुलवशेतिवृनं लब्धेऽपि सम्यक्तया निर्णेतु न पार्यते । यतो प्रसिद्धदेवकुले हावापदेवी द्वावनन्तदेवी योत्पश्चौ । अपि चापदेवसुतोऽनन्तदेवस्तत्सुत श्रापदेवः, तत्सुतश्च स्मृतिकौस्तुभादिकर्तानन्तदेवः । स्मृतिकौस्तुमे देवकुलविषयकाः श्लोका उपलभ्यन्ते तेचैते- आसीद् गोदावरीतीरे वेदवेदिसमन्वितः। श्रीकृष्णभक्तिमानेक पकनाथाभिधो द्विजः ॥ तत्सुतस्तद्गुणैर्युक्तः सर्वशास्त्रार्थतत्ववित्। श्रापदेवोऽभवहेवात् प्राप यस्सकलान् मनून ॥ मीमांसानयकोविदो मधुरिपोः सेवासु नित्योद्यतः विद्यादानविभावितोत्तमयशा पासीत् तदीयात्मजः। यस्यानन्तगुणैरनन्त इति सनामार्थवत्तां गतं येनावादि च वादिनां श्रुतिशिरस्सिद्धान्ततत्त्वं मुदे । न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदः सततम । मीमांसाद्वयनयवित् तनयस्तस्यापदेवोऽभूत् ॥ तस्यात्मजं वैदिकशास्त्रविशं सन्तोऽसकृत्प्राहुरनन्तदेवम् । इति । एवंच प्रथमापदेवपुत्रानन्तदेवेन निर्मितोऽयं ग्रन्थ उत द्वितीया- पदेवसुतेन मीमांसाकौस्तुभादिनिर्माणपरेण द्वितीयानन्तदेवेन , (३) निर्मित इति संदिग्धमेव । श्रथ ग्रन्थस्थविषयदर्शनेन यो मीमांसा शास्त्रवेत्ता सम्यपरिशीलितभक्तिशास्त्रः स एवास्य ग्रन्थस्य कर्तेति वक्तुं शक्यत्वेऽपि न निर्णतु शक्यम् , यतो द्वयोरपि मीमांसाशास्त्रपारङ्गतत्वं भक्तिविषयक ग्रन्थकत्वं च । यतो श्रीकृष्णभक्तिचन्द्रिका-मनोरञ्जनाभिधानहरिभक्तिसंशकं नाटकद्वयं चानन्तदेवकर्तृ कममुद्रितमुपलभ्यते तदेकविषयकमेकफलकं च दृष्ट्वा तयोरेकानन्तदेवकर्तृकत्वापेक्षयानेकानन्तदेवककत्वमेवोचित प्रतिभाति । एव स्थितेऽस्मिन्विषये प्रथमानन्तदेवकृत एवायं ग्रन्थ इति श्रीकृष्णविषयकमङ्गलाचरणकत्वेनानुमीयते,यतो 'मधुरिपोः सेवासु नित्योद्यतः' इति प्रथमानन्तदेवविषय एव स्पष्टमुपलभ्यते । एवं चाने- कप्रमाणप्रमाणितायाः पण्डितराजजगन्नाथगुरुखण्डदेवस्य वैक्रमस- सदशशतकीयस्थितेः पूर्व न्यायप्रकाशकर्तुरापदेवस्य स्थितियतो खण्ड- देवेन रचित तायां भाडदीपिकायां न्यायप्रकाशोकविषयप्रतिपादन- पद्धतेः खण्डनं कृतमुपलभ्यते । एव च न्यायप्रकाशकर्तुरापदेवतोऽपि पूर्व प्रकृतग्रन्थकर्तुः प्रथमानन्तदेवस्य स्थितिरेवं च प्रायो विक्रमीय- सप्तदशशतपथमपादे स्थितिरिति कथचिद्वक्त पार्यत इति कथयन्ति। अन्ये तु पूर्वोक्तं नैतत्सम्यम्, द्वितीयानन्तदेवस्यैवायं ग्रन्थः, यतः क्वचित्प्रामाणिकग्रन्थेषु भक्तिनिर्णयस्य तत्कृतत्वेनैवोपलब्धः। द्विती- यानन्तदेवस्य वृद्धप्रपितामहेन प्रसिद्धसत्पुरुषैकनाथेन रचितैकना- थीभागवतग्रन्थे स्वीयग्रन्थसमाप्तिकालस्योल्लेख. कृतो दरीहश्यते- वाराणसी महामुक्तिक्षेत्र । विक्रमशक वृषसंवत्सर । शके सोळाशे तिसोत्तर । टीका एकाकार जनार्दनकृपा ।। स्वदेशीचा शक संवत्सर । दण्डकारण्य श्रीरामक्षेत्र । प्रतिष्ठान गोदातीर । तेथील उञ्चार तो ऐका ॥
एव । (४) शालिवाहनशक वैभव । संख्या चौदाशे पंचारणव । श्रीमुख संवत्सराचे नाव । टीका अपूर्व तै जाहली ॥ एवं च द्वितीयानन्तदेववृद्धप्रपितामहस्यैकनाथस्य काल विक्रमीयशिकधिषोडशशतमितो निश्चित एव । एवं वंशप्रवर्धक- प्रतिपुरुष पञ्चविंशतिवर्षसंकलनपद्धत्या द्वितीयानन्तदेवप्रादुर्भाव- कालो वैक्रमाष्टादशशतकप्रारम्भमितो लभ्यते । तथा स्मृतिको- स्तुभादिग्रन्थकारयितुरल्मोडासंज्ञकपर्वतीयदेशपालकस्य द्वितीया- नन्तदेवस्याश्रयदातुर्याजबहादुरचन्द्रदेवस्यापि स्थितिकालः शालि- वाहनशकीयनवत्युत्तरपञ्चदशशतकपरिमितो निश्चित यतस्तेन द्वितीयसस्वतीसंज्ञकपण्डितप्रवराय भूप्रदेशः प्रदत्त इति सूचकस्य पण्डितप्रवरकाशीनिवासिनः पायगुरडे इत्युपनाम्नः कुले ताम्रपत्रस्य विद्यमानत्वात् । एवं चानन्तदेवस्य वैक्रमपञ्चविंश- त्युत्तरसप्तदशशतकपरिमितः स्थितिकालः सम्यक्तया सुसिद्धो भवति । किं च प्रकृतग्रन्थस्थेन लेखकबुधजगन्नाथनामकेन 'शर- नवतिथिमितशाके (१५६५ शालिवाहनशकः संवत् १७३०) इनि कालसूचकेन लिखितश्लोकेनापि संवाद्यतेऽयं कालः । एवं च द्वितीया- नन्तदेवप्रादुर्भावकालस्त्वेतदनुरोधेन प्रायो वैक्रमाष्टादशशतकप्रारम्भ इति निश्चीयत इति प्रवदन्ति । तत्त्वमालोचनीयं विद्वद्धरैः। अनेन कृता प्रन्थाः स्मृत्यादिकौस्तुभा द्वादश । तथा मथुरा- सेतु-प्रायश्चित्तप्रदीपिका-अन्त्येष्टिपद्धति-भगवद्भक्तिनिर्णय-- दत्तकपुत्रविधानऋत्विग्बरणनिर्णयप्रभृतय उपलभ्यन्ते। भक्तिशास्त्रीयप्राचीनपुस्तकान्वेषणं कुर्वता मया श्रीराम- तारकमठसंज्ञकयतिवरसंस्थायामेकमेवाशुद्धिबहुलं पुस्तकमुपलब्ध याचितं च तत्संस्थास्थगुरुपदाधिष्ठितानां संप्रति परमसायुज्यं प्राप्तानां श्रीतिवरपुरुषोत्तमचरणानां तथा मठस्थसर्वकार्यनिर्वाह- (५) कानां पुस्तकालयाध्यक्षाणां श्रीश्रीधरस्वामिचरणां निकट,प्रदत्तं च तैः प्रत्यर्पणसहितमुद्रापणार्थम् । तत् प्रतिलिपिकरणपूर्वकं यथामति श्रीपरमेश्वरकृपया च संशोभ्य भक्तिशास्त्रादिरसिकविद्वज्जनानां मनोविनोदार्थ संप्रकाश्यते। श्रीरामतारकमठस्थपरमपदप्राप्तश्री- परमहंसगुरुस्वामिनां पुस्तकप्रदातृश्रीधरस्वामिचरणाना तथा प्रथम- तोमा कार्यकरणे प्रवर्तकानां प्रिन्सिपलमहामहोपाध्यायश्रीगोपीनाथ- कविराजमहोदयानां ततस्तस्थानापन्नानां तथैव मां प्रकृतकर्मणि प्रोत्साहयतां डॉ० श्रीमङ्गलदेवशास्त्रिडी०फिल्महोदयानां च कृतज्ञतां प्रकाश्यात्र च जातामनेककारणतोऽशुद्धिं संशुद्धिपत्राधारेण संशोध्य गुणान् हंसक्षीरन्यायेन स्वीकुर्वन्तु विद्वांस इति संप्रार्थयते- गवर्नमेंट संस्कृत कॉलेज श्रीअनन्तशास्त्री फडके कार्तिकशुद्धचतुर्थी व्याकरणाचार्यो मीमांसातीर्थश्च । संवत् १६६४, काशी। -
No text on this page.
भक्तिनिर्णयविषयसूचीपत्रम् । पृ० १ २ २ ३ विषयः भज्यस्वरूपनिर्णयः । एकस्योत्कर्षापकर्षत्वं कथमिति शङ्का तार्किकदृष्टया समाधानम् वेदान्तिमतेन समाधानम् कलियुगे संकीर्तनभक्तिर्विधीयते अत्र प्रमाणप्रदर्शनपूर्वकं वाक्यभेदविषये शङ्कोस्थिति व्यवस्थाविधानेन वाक्यभेद इत्युत्तरम् ध्यानादिफले संकीर्तनं विधोयत इत्यन्यदुत्तरम् पुनर्वाक्यभेदप्रदर्शनपूर्वकं समाधानम् संकीर्तनविषये मीमांसकशङ्काप्रदर्शनम् मीमांसकमतखण्डनम् संकीर्तनान्महायज्ञफललाभसमर्थनम् फलतारतम्यविचारखण्डनम् बाह्मणैरपि सकीर्तनं कर्तव्यमिति समर्थनम् नामोच्चारणस्य क्रत्वङ्गत्वखण्डनम् संकीर्तनप्रतिपादकवेदवाक्यप्रदर्शनम् ब्राह्मणस्याध्यापनं नावश्यकम् मुक्तानामपि सकीर्तनेऽधिकारः सुखप्रदमपि संकीर्तनम् मुक्तानां भजनाधिकारविषय श्रौपनिषन्मतम् मुमुक्षूणां संकीर्तनाधिकारबोधकश्रुतिप्रदर्शनम् मन्त्रगतस्याप्याख्यातस्य विधायकत्वम् ६ १२ १३ (२) पृ० १ १८ २१ विषयः विष्णुसकीर्तनमात्रेण विष्णुसायुज्यताया उपपादनम् सकीर्तनकृतां सायुज्यताप्राप्तौ मार्गप्रदर्शनम् तमुस्तोतार इत्यस्य प्रकारभेदेन व्याख्यानम् सकीर्तने श्रुत्यन्तरप्रदर्शनम् दानपरिचरणयोः श्रुतिप्रदर्शनम् दास्ये श्रुतिप्रदर्शनम् स्मरणकीर्तनयोः श्रुतिप्रदर्शनम् चरणोदकग्रहणे श्रुतिप्रदर्शनम् पादसेवने श्रुतिप्रदर्शनम् सर्वस्वार्पण-सकीर्तन श्रवणेपु श्रुतिप्रदर्शनम् श्रवणकीर्तनसामान्यसेवने श्रुतिप्रदर्शनम् एकशरणतयावस्थानात्मनिवेदने श्रुतिप्रदर्शनम् यजनगुणकीर्तने श्रुतिप्रदर्शनम् गायतेीतौ रूढस्वप्रदर्शनार्थ लिङ्गपुराणोतवाक्यप्रदर्शनम् लिङ्ग पुराणीयवाक्यतो ब्राह्मणादेः संकीर्तनकर्तव्यताप्रतिपादनम् संस्कृतातिरिक्तभाषागीतमपि श्रोतव्यम् । मायोपहिते ब्रह्मणि भक्तिकर्तब्यताविषये वेदान्तिनां शङ्का परमेश्वरानुग्रहो भक्तिसाध्यः भक्तमोक्षप्रापकत्वप्रदर्शकपुराणवाक्यप्रदर्शनम् प्रथमप्रकरणोपसहारकरणम् भक्तर्मोक्षप्रापकत्वेऽपि चतुर्लक्षण्या नानर्थकत्वम् मुक्तौ भक्ति-वेदान्तविचारविकल्पसमर्थनम् साधनभक्त्यानुरागात्मकभक्त्युदये कृतार्थता भवति । एतत्साधक परमात्मनो वाक्यम् भक्तिपरेशानुभवविरक्त्येककालं लभ्यत इतिबोधकप्रदर्शनम् २२ २३ .
(३)
पृ०
३८
४२
विषयः
भगवत्प्रबोध एव परिपक्वः सन् ब्रह्मसाक्षात्कारात्मकतया परिणमत इति
सप्रमाणं प्रतिपादनम्
भगवत्प्रसादस्य तत्त्वज्ञानहेतुत्वप्रतिपादनम्
द्वारभेदेऽपि विकल्पो भवतीति प्रतिपादनम्
हरिभक्तितत्त्वज्ञानसमुच्चयपक्षखण्डनम्
मोक्षाकाताविरहवाक्यमोक्षप्रतिपादकवाक्यविरोधपरिहारः
सगुणब्रह्मापि परमानन्दरूपम्
ज्ञानं विना न मुक्तिरिति समाधानम्
यज्ञादेस्तृतीयमार्गत्वपरकशङ्कासमाधानम्
शिवविष्णुभेदवादिनो निन्धाः
भक्तिवेदान्त श्रवणसमुच्चयशङ्कासमाधानम्
भक्तर्मोतभिन्नफलान्तरविचार:
सर्वाण्येतानि फलानि श्रद्धारहितस्यापि भवन्ति
अजामिलविषयकवचनावलोकनेन नियमाणत्वमधिकारिविशेषणमिति-
मतसमाधानम्
कामक्रोधादिरहितवासुदेवभक्तार्थ नामोच्चारणविधिरन्येषां द्वादशाब्दादि-
प्रायश्चित्तविधिरितिमतसमाधानम्
द्वितीयप्रकरणोपसंहारः
५०
No text on this page.
श्री १०८ भैरवाय नमः। श्रीमदनन्तदेवविरचितः भक्तिनिर्णयः । स जयति गोकुलसदनः। सरसिजवदनः शिशुर्घनश्यामः ॥ पदनखरुचिजितमदनः। कृतखलकदनः कृपाजलधिः ॥१॥ अभ्यस्य विद्या धनमर्जयन्तु । ख्यातिं च मूर्खान्मति साधयन्तु ॥ वयं तु गोविन्दपदारविन्द-। द्वयं सदानन्दमयं भजामः ॥२॥ इह खलु कर्मकृतानाम् । विषयसुखानां विपाकमालोक्य ॥ भगवद्भक्तिं कुर्मः। संमृतिदुखान्यपाकुर्मः ॥३॥ ननु कोऽसौ भगवान् यस्य भक्तिराद्रियते। उच्यते । “योऽसौ सर्वस्य वशी सर्वस्येशान सर्वमिदं प्रशास्ति" "एको दाधार भुव- नानि विश्वा" "यः सर्वज्ञः सर्वविद्” “यो ब्रह्माणं विदधाति पूर्व" "अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः" "यो रुद्रो विश्वा भुवनानि विवेश" "अनश्नन्नन्यो अभिचाकशीति" “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति" २ भक्तिनिर्णये- इत्यादिवाक्येषु पुरुषसुक्ते विष्णुसूक्ते रुद्रानवाके चान्तर्याम्ब्रिाह्म- णादावष्टादशपुराणेषुपपुराणेषु पञ्चरात्राद्यागमेषु च निरूप्यते । यश्च नैय्यायिकादिभिर्महादार्शनिकैस्तत्तद्युक्तिकलापैः प्रतिपाद्यते । यश्चाबालगोपालाङ्गनं परमेश्वर इति प्रसिद्धः । यश्च वेदबारिष्यह- दादिशब्दनिरूप्यते । यश्चैवं सर्वजनप्रसिद्धः स एव । ननु पुराणेषु विमतिदृश्यते। तथाहि । केषुचिल्लिङ्गपुराणा- दिषु रुद्र एव जगदीश्वरो निरूप्यते । विष्णुपुराणादिषु विष्णुः, देवीपुराणादिषु देवी जगदीश्वरत्वेन निरूप्यते । न च रुद्रविष्ण्वादि- शब्दैरेकमेव वस्तु निरूप्यते, ततश्च शब्दभेदमात्रं न वस्तुविरोध इति वाच्यम् । रुद्रो यत्र निरूप्यते तत्र विष्णोरुत्कृष्टत्वेन निरूप्यते । एव विष्णुरपि रुद्रादप्युत्कृष्टत्वेन । देव्यपि तदुभयोत्कृष्टत्वेन । नचै- तत्सभवति, एकस्योत्कर्षापकर्षासभवात् । न च जगदीश्वरा बहवः संभवन्ति । न च कस्यचित् पुराणस्याप्रामाण्यम् । अष्टादशपुराणा- नां प्रामाण्यात् । न च सर्वशस्य बादरायणस्य भ्रान्तत्वं प्रतारकत्वं वा संभवति। अत्र तार्किकाः समादधते । एव जगदीश्वरस्तत्त- ल्लीलाविग्रहोपहितो रुद्रविष्यवादिशब्दैव्य॑पदिश्यते । रुद्रा- राधनविशेषतया विष्णोरपकर्षवचनं लिङ्गपुगणादिषु। विष्रावारा- धनविशेषतया रुद्रापकर्षवचनं विष्णुपुराणादिषु । 'न हि निन्दा निन्द्य निन्दितु प्रवर्तते, अपि तु विधेयं स्तोतुम' इति न्यायात् । वर्ण- यन्ति च- गङ्गा मूर्धनि शीतदीधितिकला मौलौ ललाटस्थले ज्वाला हौतवही गले गरलजा लेखा सुनीलाकृतिः । सर्वाङ्गेऽपि च दृष्टिकर्षणकरी कर्पूरकान्तिः परा यस्याकेऽपि च कापि पङ्कजमुखी कस्मैचिदस्मै नमः॥१॥ यस्याने जलदद्युतिः कटितटे सौवर्णवर्णा पटी एक प्रथमं प्रकरणम् । ३ नेत्रे फुल्लसरोरुहप्रतिमता वक्त्रे शशाङ्काकृतिः। कराठे कौस्तुभकान्तिरुज्वलतमा वक्षस्थले चोत्तमा काप्यम्भोजमुखी पदे सुरसरित्कस्मैचिदस्मै नमः ॥२॥इति ततश्च लीलाविग्रहभेदमात्रंन वस्तुभेदः। ततश्च न कश्चिद्दोष इति। वेदान्तिनस्त्वखण्डमद्वितीयं चैतन्यं मायोपहितमीश्वरः। स एव सत्त्वेनोपहितो विष्णुरिति रजसोपहितो ब्रह्मेति तमसोप- हितो रुद्र इति चाभिधीयते । न तु लीलाविग्रहमात्रकृतोऽयं भेदः । तथा सति प्रतिकल्पं लीलाविग्रहाणामानन्त्येन ब्रह्मविष्णुरुद्राणा- मानन्त्यप्रसङ्गात् । न चेष्टापत्तिः। “एको विष्णुरेको रुद्र" इत्यादि- पुराणादिप्रसिद्धिविरोधात् । लीलाविग्रहानन्त्येन च “नमोऽस्त्व- नन्ताय सहस्रमूर्तये" "सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम्" इत्यादिव्यपदेशोपपत्तेः । अत एव रामकृष्णादयो विष्णोरवतारा इति पौराणिकी प्रसिद्धिरप्युपपद्यते। सत्योपहितं-(तः) तं लीलाविग्रह- मङ्गीकरोति । यश्च विष्णुपुराणे विष्णुर्लिङ्गपुराणे रुद्रो देवीपुराणे देवीत्यभिधीयते स मायोपहितं चैतन्यमेवोच्यते। ब्रह्महरिहराणां तन्मूलत्वाभिधानात् । कर्पूरगौरमेघश्यामादिलीलाविग्रहविशेषो- पहिताराधने स्तवनाय चेतरेषामपकर्षाभिधानम् । 'न हि निन्दा निन्दितु प्रवर्तते' इति न्यायात् । ततश्च सर्वज्ञः सर्वेश्वरः सर्वव्यापी सर्वाधारः सर्वहेतुरीश्वर एक पत्र तेषु तेषु पुराणेषु तेन तेन शब्देना- भिधीयते, तत्तद्गुणोपहितश्च ब्रह्महरिहरादिशब्दैरिति न कोऽपि विरोध (इति समादधते)। ततः सिद्धा 'भगवति भक्तिं कुर्म' इति प्रतिज्ञा । सा च भक्ति- विधा-साधनभक्तिः फलभक्तिश्चेति । तत्र फलभक्तिरने वक्ष्यते । साधनभक्तिः-संकीर्तन-श्रवण-स्मरण-पादसेवन-अर्चन-वन्दन-दास्य- श्रात्मनिवेदनाद्यनेकप्रकारा। तत्र यशादीनां बहुवित्तव्ययायाससा भक्तिनिणये- ध्यत्वाद् ध्यानादीना चित्तैकाग्रयसाध्यत्वात् कलियुगे च तेषामश- क्यानुष्ठानत्वात्संकीर्तनभक्तिर्विधीयते । ननु तत्कि यज्ञादिफलसङ्कीर्तनेन लभ्यत इति वृषे । श्रोमितिचेत् । तर्हि तत्प्रमाणं वक्तव्यम् । उच्यते ध्यायन् कृते यजन्यस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ इति वचनं नानापुराणेषु दृश्यमानं प्रमाणम् । तथाहि। तत्र हि ध्यानादयो न विधेया वाक्यान्तरप्राप्तत्वात् । वाक्यभेदाच्च । अत एव ध्यानादीनां कृतादयः काला अपि न विधेयाः, 'यदाप्नोति तदाप्नोति' इत्येतद्वैयर्थ्यप्रसङ्गाच्च । ध्यानादिषु यच्छब्दोपबन्धात् संकीर्तने तच्छब्दप्रयोगाच्च । अन्यथा ध्यानादीनां संकीर्तनान्तानाम- विशेषेण विधाने यत्तच्छब्दोपबन्धवैपम्यं न स्यात् । अत्र केचिदाहुः । अत्र वाक्ये ध्यानादीनां व्यवस्था विधीयते, तेन न वाक्यमेदः । यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्र कौण्डि- न्याय' इति दधितक्रयोर्व्यवस्था। नन्वत्र सामान्यविशेषभावः । तेन ब्राह्मणसामान्ये विहितस्य दध्नः तक्रेण कौण्डिन्यायेति विहितेन बाधः । यथा आहवनीये जुहोति" इति होमसामान्ये विहितस्याss- हवनीयस्य “पदे जुहोति" इतिपदेन बाध' । व्यवस्थात्वार्थिकी। तस्मान्नैतद् व्यवस्थापरमतोऽन्यदुदाहर्त्तव्यम् । एवं तर्हि "वाघ्नी पौर्णमास्यामनुच्येते वृधन्वती अमावास्यायाम्" इत्युदाह- रणम् । अत्र ह्याज्यभागयोः क्रमेण पठितस्यानुवाक्याचतुष्टयस्याव्य- वस्थया प्राप्तस्य व्यवस्थामा विधीयते । वानी पौर्णमास्यामनु- वाक्ये अमावास्यायां वृधन्वती इति । एवं प्रकृतवाक्ये कृतादिषु ध्यानादीनां व्यवस्थेति । अत्र ब्रूमः । नेदं व्यवस्थाविधायकम् । यदि कृते ध्याये- प्रथमं प्रकरणम्। ५ तदा । घजेद्यस्त्रेतायामित्यादिरूपानुपूर्वी स्थान स्याञ्च 'यदानोति' इति व्यवस्थाविधानं स्यात्। 'यदानोति तदाप्नोति'इति ध्यानादीनां संकीर्तनान्तानां फलैक्यं प्रतीयते । न च तदपि विधेयं, वाक्यभेदप्रसङ्गात् । नाप्यनुवादः । वाक्यान्तरेणाप्राप्तत्वात् । किंच कृतादिषु ध्यानादीनां व्यवस्थाविधाने युगान्तरेषु ध्यानादीनाम- नुष्ठानं न स्यात् । वात्रन्योरिवामावास्यायाम् । अतो नात्र व्यवस्था- विधानं किन्तु ध्यानादिफले संकीर्तनं विधीयते । ननु तथापि वाक्यमेदो दुष्परिहरः, तत्तत्कालीनध्यानयज्ञार्चन- जन्यफलविशेषाननेकानुद्दिश्य संकीर्तनविधानात् । प्रत्युदेशवाक्य- परिसमाप्तेः । यथा ग्रहोद्देशेनैकत्वसंमार्गविधाने । उच्यते । तेषां फलविशेषाणामेकेन तच्छब्देनोपसंग्रहात्तदामोतीत्येकोपस्थिति- विषयत्वान्न वाक्यभेदः। यथा “सर्वेभ्यो दर्शपौर्णमासौ' इत्यत्रानेके- षामपि फलानामेकेन सर्वशब्देन ।न च कृते ध्यायन्' इत्यादेर्वैयर्थ्यम् , 'तदाप्नोति इति तच्छब्देनैवोदेश्यसमर्पणादितिवाच्यम्। कृते ध्याय- नित्यादेरभावे 'तदामोति' इति तच्छब्दस्य तत्तत्फलविशेषोपस्था- कत्वाभावात् । सर्वनाम्नामुपस्थितवाचकत्वात् । यथा “वैश्वदेव्या- मिक्षा"इत्यत्रामिक्षापदाभावे वैश्वदेवीशब्दस्य नामिक्षोपस्थापकत्वम्, तद्धितस्य "सास्य देवता" ( पा० सू० ४।२।२४) इति सर्वनामार्थे विहितत्वात्तस्य चोपस्थितवाचित्वात् । तदुक्तम्- श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः। अमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । न च कलिकालविधानप्रयुक्तो वाक्यभेदः। कलिविशिष्ट- कीर्तनविधानात् । तत्र संकीर्तनस्य कर्मत्वनिर्देश एकस्मि- न्वाक्ये भाव्यद्वयसमावेशयोगः। न हि सम्भवति सकीर्तनं भावयेत्तत्फलं च भावयेदिति । करणत्वनिर्देशे सेतिकर्तव्यता- करणत्वनियमात् , संकीर्तने चेतिकर्तव्यतान्तरानुपलब्धेः ६ भक्तिनिर्णये- संकीर्तनकृतिरेवेतिकर्तव्यतेति द्योतयितु 'संकीर्त्य' इतिक्त्वा- प्रत्ययनिर्देश । अत्र केचिद्भगवद्भजनशून्या मीमांसकंमन्याः परमेश्वरसंकीर्त- नाऽसहिष्णवः केवलं नरके पतिष्णवः प्रलपन्ति । संकीर्तनं नाम न कश्चिद्धर्मः श्रुतिषु स्मृतिषु वा प्रसिद्धः । विशेषतो ब्राह्मणाना- मग्निहोत्राधिकारिणां संकीर्तनं न संभवति । 'ध्यायन् कृते' इत्या- दिवाक्यं त्वर्थवादमात्रमिति । तदत्यन्तमसाधु । अर्थवादमात्रमिति कोऽर्थ । किमप्रमाणमेव, किं वा विध्येकवाक्यतामन्तरेणैवाप्रमाणम् । नाद्यः । श्रुतिस्मृतिवत् पुराणानामपि प्रामाण्यात् । 'पुराणं पञ्चमो वेद.' 'पुराणन्यायमीमांसा'इत्यादिवचनसन्दर्भेस्तन्निर्णयात् । य एव वैदिकार्थमनुतिष्ठन्ति त एवैवं स्मरन्तीति कर्तृ सामान्यस्य मन्वा- दिस्मृतिष्विव पुराणेष्वपि तुल्यत्वाच्च, शिष्टपरिगृहीतत्वाच्च । न द्वितीयः। ध्यायन् कृते' इत्यादेविंध्येकवाक्यतामन्तरेण प्रामाण्येऽ र्थवादत्वोक्तिविरोधः । विधिनात्वेकवाक्यत्वात्' (जै०सू०१।२७)इत्य- र्थवादाना विध्येकवाक्यतानिरूपणात् । अपि च कम्मिन्नर्थे प्रामा- ण्यम् । यदि तावत् संकीर्तनकर्त्तव्यता, तहि संकीर्तनं कथ न धर्मः । श्रथ संकीर्तनमत्र विधीयत एव, 'ध्यायन् कृते'इत्यादि यदा- मोति तदामोति' इत्यन्तमर्थवाद' । तन्न । संकीर्तनविधेः फला- काङ्क्षत्वादार्थवादिकस्यापि फलान्वयात् । अन्यथा रात्रिसत्रविधेः "प्रतितिष्ठन्ति" इत्यर्थवादिकफलान्वयाभावप्रसङ्गः । विधेः फलाकाङ्क्षाराहित्ये विश्वजिन्न्यायोच्छेदप्रसङ्गः । अथ “यस्य पर्णमयी जुहूर्भवति" इत्यस्य पर्णताविधे. “न स पापं श्लोकं शृणोति" इत्यर्थवादवत्संकीर्तनविधेरय- मर्थवादः। तन्न। पर्णता हि वाक्यादव्यभिचारतक्रतुसम्बन्धिजुहूद्वारा ऋत्वङ्गम् । ततश्च तत्र फलश्रुतिरर्थवादो युक्तः। न च संकीर्तनस्य क्रत्वङ्गत्वे प्रमाणमस्ति । संकीर्तनं हि गुणकीर्तनं नामकीर्तनं च ।
प्रथमं प्रकरणम् । - तत्र नामसंकीर्तनस्य- यस्य स्मृत्या च नामोक्त्या तपोयशक्रियादिषु । न्यूनं सम्पूर्णतामेति सद्यो वन्दे तमच्युतम् ॥ इति वाक्यात् कयश्चित् त्वङ्गत्वेऽपि गुणकीर्तनस्य तदभावात्। फलाकाङ्क्षायामार्थवादिकं फलं सम्बध्यत एव । नामसंकीर्तनस्यापि सत्यप्युक्तवाक्यात् त्वङ्गत्वे- सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिण । यद्वाभिरोचते नाम तत्सर्वार्थेषु योजयेत् ॥ इति वाक्येन पुरुषार्थतास्त्येव । यथा खादिरताया “खादिरो यूपो भवति" इति वाक्यात् त्वर्थत्वेऽपि "खादिरं वीर्यकामस्य" इति वाक्येन पुरुषार्थतापि। ततश्च 'कलौ संकीर्त्य केशवम् ' इत्यत्र संकीर्तनत्वेनोभयोः फलाकाङ्क्षायां 'यदानोति तदामोति' इति फलान्वयो घटत एव । तदयं वाक्यार्थः । कृतयुगे ध्यानेन यत्फलं त्रेतायां यशानुष्ठानेन द्वापरेऽर्चनेन यदवाप्यते तत्कलौ संकीर्त्य केशव प्राप्नुयादिति । यज्ञाश्च पशुसोमयागा. सत्रपर्यन्ताः । ननु कथं महायागफलं केशवसंकीर्तनेन लभ्यते । उच्यते । यदि तावदितिकर्तव्यता पृच्छयते तर्युक्तैव संकीर्तनकर्मिका कृतिः। यथा ह्यनिद्दिष्टेतिकर्तव्यताकेषु दर्विहोमेषुतत्कृतिरेवेति कर्त्त- व्यता । अथ महावाक्यफलं कथमल्पेन लभ्यतेति। तर्हि नास्ति वच- नस्यातिभारः। दृश्यते हि “सत्रायावगूर्य विश्वजिता यजेत" इति फलोद्देशेन विश्वजिद्विधानम् । अयश्च विश्वजित् कल्प्य (क्लुप्त)फलाद् विश्वजितोमासाग्निहोत्रन्यायेन भिन्न एव । किश्च चतुर्थे वार्तिककारैः "सर्वेभ्यो दर्शपौर्णमासौ" इत्यत्र सर्वशब्दस्य संकोचो माभूदि- त्याकाशगमनादिफलोद्देशेनापि तद्विधानमाशक्य तस्यायोग्यतया- संभवात् सर्वशब्देन ये वेदे स्वर्गकामादिशब्दोपात्ताः कामास्त एवाभिधीयन्ते' इत्युक्तम् । ततश्च "ज्योतिष्टोमेन स्वर्गकामो यजेत" भक्तिनिर्णये- इत्ययमपि सर्वशब्देन संगृह्यते । एवं च फलतारतम्यं कथञ्चित्क- ल्प्येत । न च तदपि, सर्वश्रुतिसंकोचात् । 'अल्पेन कर्मणाऽल्पं फलं महता महत्'इति न्यायः स वचनेन बाध्यत एव । अत एव "सत्रा- यावर्य विश्वजिता' इत्यत्र तारतम्यम् । ततश्च यत्र फलविरोधो नास्ति तत्र फलतारतम्यकल्पना । यथाग्निहोत्रज्योतिष्टोमादिषु । अत एव वार्तिककारैरुक्तमर्थवादपादे 'तच्चैतत्समानफलेष्वग्निहो- त्रादिषु' इति । यत्र वचनं विरोधि न तत्र न्यायः प्रवर्तते । अतः "सर्वेभ्यो दर्शपौर्णमासौ" इत्यत्र ज्यतिष्टोमजन्यफलभूमापि दर्श- पौर्णमासतो भवति । कस्तर्हि महत्सु कर्मसु प्रवत्ततेति चेत् । श्रूयतां तर्हि । तश्चिकीर्षुरेव तत्र प्रवर्त्तताम् । दृश्यते हि कस्य(स्मै)चित् महदेव रोचते कस्य(स्मै)चिदल्पमेवेति । शक्त्यशक्त्यपेक्षया(वा)व्यवस्था कल्प्यताम् । दृश्यते टेकपापक्षयफलेषु गुरुलघुप्रायश्चित्तेषु शक्त्य- शक्त्यपेक्षया व्यवस्थानिरूपणं निबन्धग्रन्थेषु । तस्मादल्पेनापि संकीर्तनेन यज्ञफलं पूर्णमेव भवतीति युक्तमेतत् । सर्वफलार्थतापि दर्शपौर्णमासवत् संकीर्तनस्य श्रूयते- कलेर्दोषनिधे राजन्नस्ति धेको महान् गुणः। अत्र संकीर्तनेनैव सर्वः स्वार्थोऽभिलभ्यते ॥ इति । वस्तुतस्तु सर्वधर्मतोऽप्युत्कृष्टफलं संकीर्शनमित्यग्रे वक्ष्यामः । यदुक्तं विशेषतो ब्राह्मणानां संकीर्तनं न संभवतीति तत्परिहाराय विचारोऽयमारभ्यते। किमिदमत्रैवर्णिकाधिकार(रंवाs)मब्राह्मणाधि- कारं वा सर्वाधिकारं वेति । तत्र केचित्पण्डितंमन्या मन्यन्ते । अत्रै- वर्णिकाधिकारमिति । त्रैवर्णिकानां ब्राह्ममूहूत्तोपक्रमप्रदोषपरिस- मापनीयनित्यकर्मव्यग्राणां संकीर्तने कालाभावात् । किञ्च- ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।
प्रथम प्रकरणम् । গণ। अधीतास्तेन येनातं हरिरित्यक्षरद्धयम् । इत्यनधीतस्य नामसंकीर्तनेनाधीतसंपत्तिश्रवणादनधीतशुदाधिका- रत्वं निर्णीयते । अपि च- स्त्रीशूद्रद्धिजबन्धूनां त्रयी न श्रुतिगोचरा। इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ (भाग १-४-२५) इति स्त्रीशूद्रादीनामर्थे भारतनिर्माणाद्भारतस्य च पुरा- णमात्रोपलक्षणत्वात्सकीर्तनस्य च पौराणत्वात्स्त्रीशूद्राधिकारत्वं नीर्णीयते । न हि केशवसंकीर्तनं कुर्यादिति क्वचिद्वदे श्रूयते । क्षत्रियादीनामध्यापनादिव्यापाराभावात् स्यात् कथं- चित् संकीर्तनाधिकारः। ब्राह्मणानां त्वध्यापनादिव्यापूतानां न कश्चित्सकीर्तनकालो लभ्यत इति ब्राह्मणेतराधिकार संकीर्तन- मिति। अत्र ब्रूमः । एवं हि ज्योतिष्टोमाद्यनुष्ठानं च न स्यात्, ब्राह्ममुहूर्त- मारभ्य नित्यकर्मावरुद्धत्वात्कालस्य । यदि च कथञ्चित्संकोचं सोवा ज्यातिष्टोमाद्यनुष्ठानं, तुल्यमिदं संकीर्तनेऽपि। तस्यापि वि- हितत्वात्। यश्चोक्त 'ऋग्वेद' इत्यादिवाक्याच्छूद्राधिकारत्वमिति । तन्नानिष्टं, सर्वाधिकारत्वात् । नचैतदैकान्तिकं शूद्राधिकारतासूचक लिङ्गम् । तथाहि । येनोक्त हरिरित्यक्षरद्वयं तेनाधीता इतिप्रत्यक्षबाधि- तम्। अथ प्रशसा क्रियते, ब्राह्मणस्यापिसा भवतीति नासाधारणं शूद्र- लिङ्गम् । अधीतवतापि येन ब्राह्मणोनोक्तं तेनाधीता इति । अथ त्वेतद्वाक्यमेवं व्याख्यायते । येनेति कर्तृसमाना- धिकरणयच्छब्दयोगेन “य एवं विद्वान् पौर्णमासी यजते" इतिवदनुवादत्वाशङ्कायामप्यपूर्वार्थत्वाद् “यो दीक्षितो यदग्नी- पोमीयं पशुमालभेत" इतिवद्विधित्वम् । न चायं सर्वाड- प्यर्थवादः, विध्यन्तरैकवाक्यताभावात् । तस्मानामोच्चारणमत्र विधीयते, न चोक्तमिति भूतार्थत्वान्न विधिरिति वाच्यम् । “उपांशु १० भक्तिनिणेये- - पौर्णमास्यां यजन्" इति भूतार्थत्वेऽपि पौर्णमासीकालविधित्वात्, अन्यथोपांशुयाजस्य “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यनेन वचनेन फलसम्बन्धाभावप्रसङ्गात् । श्रथ यजेतेति वक्तव्य “उपांशु पौर्णमास्यां यजन्" इतिच्छान्दसः प्रयोगस्तर्हि वदेदितिवक्तव्य उक्त- मितिच्छान्दसःप्रयोगः। ततश्च नामोच्चारणमत्रविधीयते तस्य फला- काङ्क्षायां 'तेनाधीता' इत्यादिफलसमर्पकम् । तथाहि । यथा हि यज- मानकार्ययशसाधकतया “यजमानः" इति(शब्दप्रयोगः)प्रस्तरस्तावक- स्तथा 'तेनाधीता' इतिप्रत्यक्षबाधितत्वात् स्तुतिशक्तेरध्ययनजन्यफल- साधकतया नामोच्चारणं स्तूयते । ततश्चार्थवादोपस्थिताध्ययनफल- मेवास्य नामोच्चारणविधेः फलमिति रात्रिसत्रन्यायेन कल्प्यते । न च नामोश्चारणं क्रत्वङ्गं, मानाभावात् । 'यस्य स्मृत्या च नामो- क्त्या'इत्यादेर्वाक्यस्याच्युतस्तुतिरूपत्वात् । श्रास्तां वा क्रत्वङ्ग नाम- कीर्तनवादोऽय ऋग्वेद'इत्यादिः। सर्वथा नैवेदमेकान्तिक शूद्राधिका- रलिङ्गम् , यशाना त्रैवर्णिकाधिकारत्वात्तदङ्गनामकीर्तनस्यापि त्रैवणि- काधिकारत्वात् । यच्चोक्त स्त्रीशूद्रद्विजबन्धूनाम् इत्यादिवाक्यावष्टम्भेन संकीर्तनस्य शूद्राधिकारत्वमिति। तत्रोच्यते।सत्यम्.स्त्रीशूद्रादीनामर्थे भारतादिनिर्माण न तु तन्मात्राथै, तत्र ब्राह्मणादीनामपिधर्मनिरूपणात्। 'इतिहासपुराणाद्यैर्वेदार्थमुपबृहयेत्' इति ब्राह्मणादिकर्तव्यवेदार्थनिर्ण- योपायत्वेनोपादानाच्च । यच्चोक्तं संकीर्तनस्य पौराणत्वात् स्त्रीशूद्रा- धिकारत्वमिति । तदप्यसत् । पुराणादिनिर्माणस्य स्त्रीशूद्रार्थत्वाभा- वात् । किञ्च पुराणानामनित्यातीन्द्रियवेदमूलत्वस्य स्मृतीना- मिव शास्त्रकृद्भिनिराकृतत्वात, प्रत्यक्षवेदवाक्यमेव दृष्ट्वा बादरा- यणादिभिः पुराणनिर्माणात्, अस्मदादिभिस्तददर्शनेऽपि संकीर्तन वेदविहितमेव । दृश्यन्ते च अस्मदादिभिरपि संकीर्तनप्रतिपाद- कानि वेदवाक्यानि । तमु स्तोतारः पूर्व्यम्० पास्य जानन्तो नाम चिद्विविक्तन । प्रतत्ते प्रथमं प्रकरणम्। अद्य शिपिविष्टनामार्यः शंसामि । त्वेष ह्यस्य स्थविरस्य नाम । मनामहे चारुदेवस्य नाम । त्वेषं रुद्रस्य नाम । इत्यादीनि । यदप्युक्तं ब्राह्मणानामध्यापनादिव्यापृतत्वेन संकीर्तनकाला- भावादब्राह्मणाधिकारं संकीर्तनमिति । तदप्ययुक्तम् । अध्यापनादेरा- वश्यकत्वाभावात। पराणां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ (मनु०-१०-७६) इति विध्यभावाच्च, ज्योतिष्टोमाद्यननुष्ठानप्रसङ्गाच्च । वस्तुतस्तु 'श्रावयेच्चतुरो वर्णान्'इत्यस्य "एतया निषादस्थपति याजयेत्" इतिवत्प्रयोज्यव्यापारपरत्वेन श्रवणविधिपरत्वात्तस्य चाध्ययन- विधिवदृष्टार्थत्वात् पुगणार्थकामाश्चत्वारो वर्णाः पुराणानि श्रुणुयु- रित्यर्थोऽवसीयते । ततश्चोत्तरकतुष्वध्ययनसिद्धार्थज्ञानवतामिव पौराणेषु कर्मसु श्रवणविधिसिद्धार्थज्ञानवतां चतुर्णा वर्णानामधि- कारो निश्चीयते । श्वाद. पुल्कसको वापि शुद्ध्येरन्यस्य कीर्तनात् इत्यदिवचनात्तु चण्डालादीनामप्यधिकारः । तेषां हि पुराणश्रवणा- भावेन शूद्रस्येवाध्ययनाभावेन वैदिकेषु कर्मसु, पौराणेषु कर्मसु संकीर्तनादिषु न्यायेनानधिकारेऽपि “एतया निषादस्थपतिं याज- येत्” इतिनिधादेष्टाविव निषादस्य,उक्तवचनादधिकारो निर्णीयते । तस्मात्संकीर्तन त्रैवर्णिकाधिकारमत्रैवर्णिकाधिकारम् (च)। तत्रापि मुक्ताना मुमुक्षणां विषयिणां च परमेश्वरसंकीर्तनेऽधिकारः। ननु मुक्ता इत्युक्ते ज्ञानिनो वक्तव्याः। विदेहकैवल्ये संकीर्तनायोगात्। तषांचन किञ्चित्कर्त्तव्य नैव तस्य कृतेनार्थोनाकृतेनेह कश्चन (भ गी.) इतिकर्मकरणाऽकरणसाध्यफलाभावस्मरणात् । सत्यम् । अदृष्टार्थे कर्मविषयेतद्वाक्यम् , दृष्टार्थेषु तु ज्ञानिनोऽपिप्रवर्त्तन्ते, अन्यथा भोज- नाद्यभावेन देहपातप्रसङ्गात् । ननु तत् कीर्तनं किं दृष्टार्थ ब्रवीषि । श्रोमितिचेत्-न । भोजनादिवद्विध्यभावप्रसङ्गात् । उच्यते । सकीत- , भक्तिनिणये- नमदृष्टार्थ विधीयत इत्यत्र न विवादः। बहुभिर्वाक्यैः फलार्थत्वेन विधानात् । किन्तु दृष्टार्थमपि तद्भवति । दृश्यते संकीर्तनं कुर्वतां सद्यश्चित्तविश्रान्तिः । अत एवानुभववाक्यम्- अमृतं दिवि किल मधुरम् भवति च भुवि काव्यनाटकं मधुरम् । मधुरादपि मधुरतरम् बल्लवस्य नाम यद्गीतम् ॥ इतिकृष्णकीर्तनकृतां रोमोद्गमादिसुखातिशयलिङ्गदर्शनादपि सुख- हेतुत्वं ज्ञायते । अत एव शानिनां संकीर्तनजन्यादृष्टाभावेऽपि संकीर्तनतः सुखातिशयो भवत्येवेति तदभिप्रायेण मुक्तानां सकी- तनाधिकाराभिधानम् । अत एवोक्तम्- श्रात्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकी भक्तिमीहरभूतगुणो हरिः ॥ (श्री.भा.१-.-१०)इति अस्यार्थः । मुनयः-श्रवणमननसम्पन्नाः, आत्मारामा:-कृतसा- क्षात्काराः, अविद्यानाशेन च निर्ग्रन्थाः-अहङ्कारग्रन्थिरहिताः,तेऽ- प्युरुक्रमे-श्रीकृष्णे, भक्तिं-कीर्तनादिरूपाम् अहेतुकी-तजन्यादृष्टफ- लाभिसन्धिशून्याम् । तर्हि कथं प्रवृत्तिः, न हि फलमनभिसन्धिाय कश्चित्प्रवर्ततेऽत उक्तम् इत्थ भूतगुणो हरिः' इति । सोऽयं भगव- द्गुणानां महिमेत्यर्थ. । ततश्च भगवद्गुणानुवादजन्यसुखाति- शयाय प्रवर्तन्त इति सूचितम् । च शब्द संसारिसमुच्चयार्थः । अपिशब्दः प्रवृत्त्ययोग्या अपि प्रवर्तन्त इतिविरोधाभासद्योतनार्थः। तत्सिद्ध मुक्तानामप्यधिकार इति । अत एव शुकयोगीन्द्रस्य भागवत- संकीर्तनाय परिक्षिन्निकटे गमनं श्रूयते, स हि मुक्तमण्डलीमूर्धन्य- त्वेन प्रसिद्धः। केचित्तु मुक्तानामपि न सर्वकर्मानधिकारः । काम्येषु कर्मसु संसारोपपादकेषु निषिद्धेप्विव न प्रवर्तन्ते कामाभावात् । नापि प्रथमं प्रकरणम् । - भजन्त प्रायश्चित्तेषु पापचरणाभावात् । नित्यनैमित्तिकेषु तु प्रवर्तन्त एव । तेषां संसारानापादकत्वात् पापक्षयमात्रफलकत्वात् । 'नैव तस्य कृतेनार्थ (भगी०३-१८)इत्यादिवाक्यस्य शानिनस्तुतिमात्रपरत्वात् । एवश्च परमेश्वरसंकीर्तनस्यापि ससारानापादकत्वात्प्रत्युत विरोधि. त्वात्पापक्षयमात्रफलकत्वाच्च तदुदेशेन मुक्ता अपि संकीर्तनेऽधि- क्रियन्ते । अत एव गीतासु- चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जन । आतॊ जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ (१०७-१६) इतिज्ञानिना संकीर्तनरूपभजनाधिकारः प्रतिपाद्यते। अत्र इति वर्तमानापदेशत्वेऽप्यपूर्वार्थत्वाद्विधिः स्वीक्रियते भजयेयुरिति । तत्र चत्वारोऽधिकारिणः-श्राों-जिज्ञासु-अर्थार्थी-शानी-चेति । तत्रातस्यार्तिनिवृत्तिः, जिज्ञासोनि, अर्थार्थिनस्त्वर्थः फलमिति व्यवसीयते सामर्थ्यात् । ज्ञानिनः फलाकाङ्क्षायामुक्तफलासंभवा- निष्कामत्वेन विश्वजिन्यायानवताराद् योग्यतया पापक्षय एव कल्प्यते । न चात्र वाक्यभेदः । चत्वारो मां भजेयुरित्येकार्थ- प्रतिपादकत्वात्। के चत्वार इत्यपेक्षायां वाक्यविशेषस्था नियन्ते । सुकृतिन इति सुकृताभाव प्रार्तादयोऽपि न परमेश्वरं भजन्त इत्यु- च्यते । तस्मादस्ति मुक्तानामप्यधिकारः संकीर्तनादौ । अन्यथा भजन्त इत्यस्य शानिनो विषयेऽनुवादत्वमा दिविषये च विधित्व- मितिवैरूप्यप्रसङ्गः। तदेतन्मतमोपनिषदा न मन्यन्ते । तथाहि. । शानिना न कुत्राप्यधिकार उपयुज्यते । नित्यनैमित्तिकेष्वपि फलाभावात्सकल- पापक्षयस्य ज्ञानोदयेनैव सिद्धत्वात् । न च मानाभावः, 'क्षीयन्ते चास्य कर्माणि तस्मिन्दष्टे” इतिश्रुतेः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा' इतिस्मृतेश्च मानत्वात् । नचै- तदर्थवादमात्रम् । अर्थवादानामपि साधकबाधकमानाभावे स्वार्थे भक्तिनिर्णय- प्रामाण्यात् । अत एव "वज्रहस्तः पुरन्दरः" इत्याद्यर्थवादे देवता- विग्रहादिसिद्धिः। ततश्च परमेश्वरसंकीर्तनेाप न पापक्षयोहेशेन प्रवृत्तिः, किन्तु परमात्मपरिचर्यापरिशीलनपरिप्रापितसंकीर्तना- द्यनुरागानुवृत्तिवशात्संकीर्तनादौ प्रवृत्ति. । दृष्ट फलश्च सकल- शरीरेन्द्रियाद्याप्यायनं निष्पद्यत इत्येप एव मुक्तानामधिकार- शब्दार्थः । 'चतुर्विधा भजन्ते माम् इत्यादिषु विधित्वेऽपि ज्ञानिन प्रत्यनुवाद एव। न च वैरूप्यम् । “अवहन्यात्" इत्यप्राप्तदशायां विधि- त्वेऽपि प्राप्तिदशायामनुवादत्वात् । तस्मादुक्तविध एव ज्ञानिन संकीत्त- नाधिकारः । मुमुक्षूणामप्यधिकारः सकीर्तने,तस्य मोक्षफलकत्वात् । तथाहि । विष्णुसूक्ते श्रयते-- तमु स्तोतारः पूर्व्य यथा विद ऋतस्य गर्भ जनुषा पिपरीन । श्रास्य जानन्तो नाम चिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे ॥ इति । अस्यार्थः । तत्र केचित् । त-प्रसिद्धम्, उ-इत्यनर्थको निपात । स्तोतार:-स्तुध्वम्, पूर्व्य-जगत्कारणम्, यथा विद-गुणा- नामानन्त्येऽपि स्वमतिपरिणामावधीत्यर्थः । ऋतस्य-वेदान्तवाक्यस्य, गर्भ-प्रतिपाद्यम् । स्तुतेः फलमाह-जनुषा पिपर्सनेति । जन्म पूर्यता- मितिवक्तव्ये कर्मक प्रयोगे तद्वद्यत्ययकरणत्वनिर्देशः छान्दसः । जन्मसमाप्तिः फलमिति भावः । स्तुत्यसंभवे जानन्तो यूय, अस्य- परमात्मनो नामचित् नामापि, विविक्तन-वदतेति । एवं परानुपदिश्य भ्रुतय स्वयमूचुः । एते भजन्तु मा वा वयं तु ते-तव, महः-प्रकाशा- त्मकं स्वरूपं, हे विष्णो सुमति-शुद्धज्ञानात्मकं, पुस्त्व छान्दसं,भजा- महे-सेवामह इति । वयन्तु बम:-तं “यः पूाय” इत्यादिपूर्वमन्त्रे जगधेतुत्वादिना प्रतिपादितम् । नचास्मिन्मत्रे पूर्व्यमिति विशेषण- वैयर्थ्यम । तस्य तात्पर्यान्तरस्यानुपदं वन्यमाणत्वात् । 'उ' इतिजन्म- प्रथमं प्रकरणम् । मरणादिसंसारक्लेशैः सतप्यमानानुपदेश्यान् श्रुतिः परमकरुणया कोमलमामन्त्रयते मातेव शिशून् । स्तोतार इति स्तुध्वं-संकीर्तन कुरुध्वमित्यर्थः । ननु यज्ञाद्यनुष्टाने प्रवर्त्तन्ते भगवद्गुणसंकीर्तने तु लज्जन्ते तत्राह-पूर्व्य-पूर्व भवः पूर्व्यः तं पूर्वजमित्यर्थः । न हि स्वपूर्व- जस्तवने लजोचितेति भाव । तञ्चार मन्त्र विधीयते, अपूर्वार्थ- त्वात्। ननु मन्त्रगतत्वेन "देवाश्च याभिर्यजते ददाति च" इत्यादिमन्त्र- गताख्यातवत् स्तोतार इत्यस्याविधायकत्वम् । मन्त्राणां स्मारकत्वेन विधायकत्वाभावात् । ब्राह्मणस्यैव विधायकत्वात् । उच्यते । दर्शि- तमेतद्वार्तिककारैमन्त्राणामपि “वसन्ताय कपिजलानालमेत' इत्यादीनां विधायकत्वम् । ब्राह्मणस्यापि 'यस्योभयं हविरातिमार्छ- त्" इत्यस्याविधायकत्वम् । अतश्च ब्राह्मणगतत्वं मन्त्रगतत्व वा न विधायकत्वाविधायकत्वयोःप्रयोजकं, किन्तु यच्छब्दादिविध्युपघातका- भावेतद्भावे चोभयगतस्यापि विधायकत्वमविधायकत्वञ्च । "देवांश्च याभिः" इत्यत्र यच्छब्दयोगात्प्राप्तार्थत्वाच न विधिः । प्रकृतमन्त्रे तु तद्वैपरीत्याद्विधिरेव । फलाकाङ्क्षायामाह-ऋतस्य गर्भ जनुषा पि- पर्तनेति। "मृतं पिबन्तौ” इतिमन्त्रे जीवेश्वरप्रतिपादके शारीरभाष्य- कृद्भिः ऋतशब्दः कर्मफलत्वेन व्याख्यातः, पिबन्तावितिच्छत्रिन्या- येन पिबदपिबत्परः । तद्वदत्रापि ऋतस्य-कर्मफलस्य" सुखदुःखात्म- कस्य, गर्भ-कारणभूतं भ्रान्तिज्ञान, जनुषा-जनकेनाशानेन सहार्थे तृतीया, पिपर्तन-पूरयत-समापयतेत्यर्थः । सकार्याशाननिवृत्तिः फलमितिभावः । इतिकर्तव्यताकाङ्क्षायामाह-यथाविदेति । यथा ज्ञायते वैदिकैर्वा पौराणिकर्वा पौरुषेयैर्वा संस्कृतैर्वा प्राकृतैर्वा स्तोत्रैर्गुणसकीर्त्तनं कुर्यादिति । ततश्च कथञ्चित् संकीर्तन- निष्पादनमेवेतिकर्तव्यतेति भावः । एवञ्च सति तत्वज्ञानमवान्तर- व्यापार इति सिध्यतीत्याह-जानन्त इति । अस्य विष्णोर्नाम, श्रा- भक्तिनिर्णये- ईषत्, विविक्तन-वदतेत्यर्थः । चिदित्ययं भगवद्गुणसकीर्तनात्तद्गुण- ज्ञानसापेक्षान्नामसकीर्तनस्याल्पायाससाध्यत्वं प्रतिपादयति । फलन्तु मोक्षाख्यं मध्यमणिन्यायेनोभयत्र सवध्यते । अथ श्रुति : उभयविधसकीतनस्य फलान्तरं सूचयन्ती उपदेश्यान्पुरुषान् प्रति ब्रूते-महः-प्रकाशात्मकं,ते-त्वा, सुमति-शुद्धबुद्धि, भजामहे । विष्णो इति सम्बोधनं ते इत्येकवचन च सकीत्तेनकर्तृणा विष्णुसायुज्या- भिप्रायेण । अन्यथा पादत्रयेण पुरुषसंवोधनमन्त्यपादे तु विष्णो: सम्बोधनमित्यसंबद्धं स्यात् । भजामह इति बहुवचनमितरलोक- साहित्याभिप्रायेण । एतदुक्त भवति-गुणनामकीत नकर्त्तारो विष्णु- सायुज्यं गच्छन्ति सकललोकभजनीयाश्च भवन्तीति । ननु विष्णुरहमित्यहंग्रहोपासनाविरहे संकीर्तनमात्रण कथं विष्णुसायुज्यम् । अहंग्रहोपासनया वा कथ प्राप्तिः । वचनादितिचेत्, प्रकृतेऽपि तुल्यम् । इदमेव सकीर्तनकृता विष्णुसायुज्यप्रतिपादक पुराणवाक्यानां मूलभूतं श्रुतिवाक्यम् । पातञ्जलसंहितायां- नृहरे इति यो नित्यं कीर्तयेच्छुद्धबुद्धिमान् । विमुक्तः सर्वपापेभ्यो हरिसायुज्यमृच्छति ॥ वात्स्यायनसहितायां- गोनासुरापो नियतं हरिरित्यसकृद्धदन् । एनस सर्वमुक्तात्मा हरेः सायुज्यमाप्नुयात् ।। शातातपसहितायां- नाम्नां मे किल सकीर्तनात् मयि नरः सायुज्यमायात्यहो॥ इति । विष्णुपुराणेऽपि-हिरण्यकशिपुरावणयोःपरमेश्वरव्यतिधातित- योरपि न मुक्तिः, चैद्यस्य कृष्णसायुज्यप्रस्तावे 'चैद्यस्यैव कथं मुक्ति इति प्रश्ने द्वेषेण निरन्तरं श्रीकृष्णस्य त्वहंकारयुक्तनामकीर्तनस्यै- तत्फलमिति। यत्तु पापक्षयसायुज्यश्रवणमर्थवादे तज्जातेष्टौ "पून एव १ प्रथम प्रकरणम् । स तेजस्व्यन्नाद इन्द्रियात्री पशुमान्भवति' इत्यत्रेव संवलिताधिकारा- भिप्रायम् । सवलिताधिकारत्वं नाम अनेकेषा व्यासज्यवृत्तिफलत्वं, लाघवेनानेकसंबन्धकल्पनान्न प्रत्येक "सर्वेभ्यो दर्शपौर्णमासौ" इतिवत्फलत्वमिति । ननु संकीर्तनादिभक्तिकृतां विष्णुसायुज्यप्राप्ती को मार्गः । न तावधूमादिमार्गः, तस्य विष्णुसायुज्यप्रापकत्वाभावात् । नाप्य- चिरादिमार्गः, तस्योपासकानधिकृत्याम्नानात् । उपासनं हि द्विवि- धम्,अहंग्रहोपासन प्रतिकोपासनं च । संकीर्तनादिभक्तिश्च नोभयम् । न चान्यो मार्गाऽस्ति । उच्यते। श्रूयते हि पुराणेषु विष्णुभक्तानां विष्णुदुतैर्नयन विमानागमनं च। एवं सदाशिवभक्तानां शिवदूतै- नयनम् । न च तदप्रमाणम्। देवताविग्रहन्यायेन बादरायणोक्तेन प्रामा- ण्यात् । ततश्च विष्णुसायुज्य गतानां तदनुग्रहात्तत्वज्ञानोत्पत्ति- मुक्तिश्च भवति । तदेवं निरूपितं विष्णुसायुज्यद्वारं संकीर्तनस्य मोक्षफलकत्वम् । अथ प्रकारान्तरेण व्याख्यायते । स्तोतार इति संबोधनान्तम् तं विष्णु, यथा-यथावत्, विद-वित्त-जानीतेत्यर्थः। ऋतस्य गर्भ- उपनिषद्प्रतिपाद्यं, 'स्तोतार'इति कर्तृ विशेषणत्वेनोपात्तापि स्तुति- निफलत्वेन संबध्यते, "हिरण्यदा अमृतत्वं भजन्ते"इत्यत्र दानमिवा- मृतत्वेन । ननूपनिषत्प्रतिपाद्यस्य परमात्मनो गुणकीर्तनेन कथं यथावज्ज्ञानं लभ्यतेऽत आह-जनुषा-जन्मना, पिपर्तन-तं प्रीणयते- त्यर्थः । स्तुत्या प्रसन्नो भगवान् शानं ददातीत्यभिप्रायः। किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इति वचनात् । तञ्च मोक्षफलमिति भावः । एवं जिज्ञासून् प्रत्यभिधाय तत्वशानिनः प्रत्याह-अा-अास- मन्ताद्भावेन,अस्य-विष्णोः,जानन्त इति सम्बोधनम् । अस्य विष्णोर्नाम- चित्-सहस्रनामसु यदेव रोचतेतद्,विविक्तन-विशेषेण गुणसंकीर्तन- ३ भक्तिनिर्णये-- साहित्येन वदत । तत्वज्ञानिनां भगवद्गुणसंकीर्तनप्रवृत्तानामनुभव- मभिनीय त्वां भजामहे वय, तत् मह-उत्सव इति, तद्भजनमुत्स- वात्मकमिति कृतार्थानामपि तत्वज्ञानां संकीर्तनादिषु प्रवृत्तिरुप- पन्नति दर्शयति । इदमेव तत्वज्ञानिनां संकीर्तनादिभक्तिप्रतिपादक- पुराणवाक्याना 'आत्मारामाश्च मुनय' इत्यादीनां मूलम् । अत्र च “तमु स्तोतार" इत्युपक्रमात् “भजामह" इत्युपसंहारान्नवविधभज- नस्य कर्त्तव्यत्व सच्यते । तथा- प्रतत्ते अद्य शिपिविष्टनामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके ॥ अस्यार्थः । हे शिपिविष्ट शरीरान्तर्यामिन्, तत् ते-तव, नाम, अद्य-इदानीम्, प्रशंसामि-संकीर्तयामि, आर्य -श्रेष्ठः, श्रेष्ठत्वं च शान्तिदान्त्यादिगुणयोगात्, वयुनानि-शातव्यानि, विद्वानितिनामो- चारणे शान्तिदान्त्यादिसम्पन्नस्य पुरुषस्य ज्ञातव्यं नावशिष्यते। तं त्वा गृणामीति-गुणकीर्त्तनं करोमि, तवसं-महान्तं, अतव्यान्- अल्प अहं, अस्य रजस-लोकस्य, पराके-परे पारे, क्षयन्तं- निवसन्तं त्वाम। अथ विष्णुसप्रदानकदाने परिचरणे च श्रुतिः । नू मत्ततॊ दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् । प्रयः सत्राचा मनसा यजात एतावन्तं नर्यमा विवासात् ॥ अस्यार्थः । यो मतॊ-मर्यः, उरुगायाय-बहुभिः कीर्त्यमानाय विष्णवे, दाशत्-दधात् । यः सत्राचा-समीचीनेन मनसा, प्रयजाते- यजते विष्णुमर्चयतीत्यर्थः । सनिष्यन-फलमिच्छन्,नू-क्षिप्रं, दयते- प्राप्नोति, विशेषात्सर्वं फलं प्राप्नोतीत्यर्थः। तत एतावन्तं-महान्तं, नर्य-नरेषु हितं विष्णु, विवासात् परिचरेदित्यर्थ । अनेन श्रवणकीर्तनादीनामनक्तानां संग्रहः ।
प्रथम प्रकरणम् १६ - अथ विष्णोर्दास्ये श्रुतिः- त्रिदेवः पृथिवीमेष एतां विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम ॥ अस्यार्थ. । एष-देवः । शतर्चिषं शतं श्रोषि यस्याः, एतां पृथीवीं-त्रीन् लोकानित्यर्थः, महित्वा -महत्वेन, त्रिः विचक्रमे- विक्रान्तवानिति, सोऽयं-विष्णुः, प्रास्तु--प्रभुरस्तु स्वामी भवत्व- स्माकम् । “एको दाधार भुवनानि विश्वा' इतिवचनात्स्वामिन एव स्वामित्वस्याप्रार्थनीयत्वात् तदासा वयं भवामेति तात्पर्य्याल- भ्यते । तवसस्तवीयान्-महतो महीयानित्यर्थः। किमिति तस्यैव दास्यं प्रार्थ्यतेऽत आह-हि-यस्मात्, अस्य-पुराणपुरुषस्य नाम, त्वेषं- दीत महत् । महतो हि दास्यमाशास्यं लोकानाम् । अनेन च हेतुवन्निगदेन विष्णोर्दास्यमेव प्रार्थ्यतेऽस्मिन्मन्त्र। अन्यथा स स्वामी अस्तु यतोऽस्य नाम महदित्यसंबद्धं स्यात् । अस्माकं तहास्यमस्तु यतोऽस्य नाम महदिति तु युक्तम् । अथ विष्णुस्मरणे कीर्तने च श्रुतिः- विचक्रमे पृथिवीमेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमाचकार ॥ अस्यार्थः । एष-विष्णुः, एतां पृथिवीं लोकत्रय, मनुषे-स्वस्मरण- शीलाय भक्ताय देवगणाय, क्षेत्राय-निवासाय, दशस्यन्-असुरेभ्योऽ- पहृत्य दास्यन्, विचक्रमे-विक्रान्तवान् वामनावतारे , देवैःस्तुत इति कृत्वापि तेभ्यस्त्रैलोक्यं दत्तवानित्याह-ध्रुवास इति । कीरयः- कीर्तनशीलाः, उरुक्षिति-महान्तं निवासं, सुजनिमा-सुजन्मा कृष्णाद्य- वतारैश्चकार । अनेन विष्णोर्भक्तवत्सलता सूच्यत इति तदावेदक- पुराणवाक्यानां समूलत्वम् । अथ विष्णोश्चरणोदकग्रहरो श्रुतिः- भक्तिनिर्णये- तदस्य प्रियमभि पाथा अश्यां नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि वन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥ अस्यार्थ: । अभिप्रियं-रुच्य, तत् पाथ:-उदक, अश्या-पिबेयं, तकिमत अाह-यत् अस्य-विष्णोः, परमे पदे मध्वः-मधुरस्य, उत्सः- निष्यन्दो वर्तते, यत्र-प्राथसि पाने वा, नरो-नरा, देवयवाः-देवं विष्णु प्राप्तुमिच्छन्ते, मदन्ति--हृष्यन्ति , स हि--पुरुषः, इत्था-इत्थं पान- प्रकारेण, उरुक्रमस्य-विष्णोः, बन्धुः सुहृद्वल्लभ इत्यर्थः । अथवा, स:- अहं, इत्था-इत्थं, उरुक्रमस्य-विष्णोः, बन्धुः सखा भवेयमिति भावः । तदनेन सख्यं निर्दिश्यते । अस्यैव मन्त्रस्यार्थान्तर- व्याख्यानेऽपि नेदं व्याख्यातुमसमर्थमिति भवत्येव विष्णोश्चरणोद- काहरो सख्ये च लिङ्गम् । अथ पादसेवने श्रुतिः- यस्य श्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भूवनानि विश्वा ॥ अस्यार्थः । यस्य-विष्णोः,(त्री-)त्रीणि, मधुना पूर्णा पूर्णानि-अानन्द- रूपाणीत्यर्थः । त्रित्वं पादप्रक्षेपत्रित्वात् । अक्षीयमाणा-पादप्रक्षेपणे अक्षीणानि पदानि, स्वधया-अन्नेन, उपलक्षणमेतत्सर्वफलेन, मदन्ति-मादयन्ति-हर्षयन्ति तदाश्रितजनानिति भाष्यकारैयाख्या- तम् । यः त्रिधातु-त्रिप्रकार, पृथिवीं उत द्या, किंबहूक्त्वा विश्वा- सर्वाणि भुवनानि, एकः दाधार-दधारेति । अथ स्वीयसर्वस्य भगवदर्पणे संकीर्तने श्रवणे च श्रुतिः- यः पूर्व्या वेधसे नवीयसे सुमजानये विष्णवे ददाति । यो जातमस्य महतो महिब्रवत्से दुश्रवोभियुज्यं चिदभ्यसत् । अस्यार्थः । यः-पुरुषः, पूा-कारणय, वेधसे-कञ, नवीयसे नित्यनूतनाय, सुमजानये-सुमती श्रीर्जाया यस्य तस्मै विष्णवे, प्रथमं प्रकरणम्। २१ ददाशति-अर्पयति, अविशेषात्सर्वदेहादि । यो जातं-जन्म, उपलक्ष- णमेतद् गुणकर्मणाम् । अस्य-विष्णोः, ब्रवत्-व्यात् , स इत निपातौ अवधारणार्थी प्राप्नुयादेवेति । युज्यं चिद् गन्तव्यमुत्तमपदं,अभ्यसत्- प्राप्नुयात् , श्रवोभिः-अनैः कीर्तिभिर्वा, यद्वा श्रवणैः सन्निधानाज- न्मगुणकर्मणाम् । “द्वा सुपर्णा सयुजा" इति मन्त्रवर्णात् । युज्यं चित्-स्वरूप परमात्मानं अभि-श्राभिमुख्येन अनुरागेण अन्नेन वा असन्-प्राप्नुयात् । अथ श्रवणेकीर्तनेसामान्यसेवने (च) श्रुतिः- प्रविष्णवे शुषमेतु मल्म गिरिक्षित उरुगायाय विष्णे। य इदं दीर्घ प्रयतं सधस्थमेको विममे त्रिभिरेभिः पदेभि ।। अस्यार्थः । प्रकर्षण शूषं-बलं, एतु-आयातु, मद्-महत् , किमर्थ विष्णवे-विष्णु सेवितु, गिरिक्षिते-वाचि तिष्ठते । विष्णुपदा- देव सर्वस्य सर्वत्रावस्थानप्रतीतेः पुनरुक्तिरितिचेन्न , अर्थविशेष- द्योतनार्थत्वात् । तथाहि । कस्य वाचि तिष्ठत इत्यक्षते उरुगाया- येति सन्निधानात् यत्रैनं गायन्ति तस्यां वाचि विशेषेण तिष्ठत इति लक्ष्यते, ततश्च 'मद्भता यत्र गायन्ति तत्र तिष्ठामि नारद' इति श्रुतिमूलमेतत् । अतश्चावश्यं सेवनीय इत्यर्थः । वृष्णो-काम- वषिणे, अतोऽपि सेव्य इति । महत्वातिशयमाह-य इदं दीर्घ प्रयत- नियत, सधस्थं स्थानं लोकत्रयं, त्रिभिः पदेभिः, एक इत्-एक एव, विममे-विक्रान्तवानिति । अथ भगवदेकशरणतयोवस्थानात्मनिवेदने श्रुति : यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ इति शरणप्रपदन-भगवदेकशरणतयावस्थानमात्मनिवेदनं भक्ति- रभिधीयते । मुमुक्षुरिति तस्य मोक्षफलकत्वम् , तश्च शानद्वारेति २२ भक्तिनिर्णये-- दर्शयति-श्रात्मबुद्धिप्रकाश श्रात्मनां-जीवानां बुद्ध प्रकाशयितारं तत्वज्ञानप्रदमित्यर्थः। देव-द्योतनात्मकं, तस्यैव सामर्थ्यातिशयमाह- यो ब्रह्माणमिति । यद्वा प्रपद्य इत्यत्र तकारलोपः छान्दस प्रपद्ये- तेत्यर्थः । अहमिति नास्मच्छब्दः किन्तु अहङ्कारोपहितजीवा- भिधानम् । अथास्य यजने गुणकीर्तने च श्रुतिः- वषट् ते विष्ण श्राकृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्। वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ अस्यार्थ.। त्वा-त्वां, मे-मम, शोभनस्तुतिरूपा गिरो, वर्धन्तु- वर्धयन्तु प्रीणयन्तु, अनेन भगवद्गुणकीर्तनात्मकस्तुते फलमुच्यते। परमं फलं सूचयन्नाह-यूयं पात स्वस्तिभिः सदा न इति । बहुवच- नानि छान्दसानि । पातेत्यनेनान्वितानि सदा स्वस्तिशब्देन ब्रह्मान- न्दावाप्तिः, न ह्यन्यत्सदा स्वस्ति भवतीति । एवं तावत् भगवद्गुण- कीर्तनादिषु क्वचिद्विधिरेव यथा “तमु स्तोतार." इति । यथा वा "एतावन्त नर्यमाविवासात्" इत्यन्यत्र तु श्रुतिलिङ्गानि । उभयथाप्यु- क्तवक्ष्यमाणवाक्यानां समूलत्वम् । निरूपितं हि शास्त्रकारैः "दक्षिणं हि दीक्षितः पूर्वमङ्क्ति, सव्यं हि मनुष्याः पूर्वमञ्जते” इति दीक्षित- दक्षिणाक्षिपूर्वाञ्जनविधिशेषार्थवादलिङ्गमूला मनुष्यसव्यपूर्वाञ्जन- स्मृतिरपि । यथा वा अवदानविधेः “जायमानो वै ब्राह्मणस्त्रिभिऋ. णवा जायत" इत्याद्यर्थवादलिङ्गमूला ऋणत्रयापाकरणस्मृतिः । एवं श्रवणकीर्तनादिभगवद्भक्तिप्रतिपादकानां पुराणवाक्यानां “तमु स्तोतार" इत्यादिविधिश्रुति-तल्लिङ्गमूलत्वं सिद्धम् । अतश्च “उरुगायाय वृष्णे"उरुगायाय दाशत्" "एतमेव वीणया यंगायन्ति" इत्यादिश्रुतिलिङ्गमूलानि भगवद्गुणगानकर्तव्यताप्रतिपादकानि पुराणवाक्यानि । गायतेः पङ्कजशब्दस्य तामरस इव गीतौ रूढत्वात्, अत एव लिङ्गपुराणे उत्तरार्धे- प्रथमं प्रकरणम्। २३ कृष्णः स्तुत्यति केनेह सर्वदेवेश्वरेश्वरः। वक्तुमर्हसि चास्माकं सूत सर्वार्थविद्वान् । सूत उवाच-पुरापृष्टोमहातेजा मार्कण्डेयो महामुनिः । अम्बरीषेण विप्रेन्द्रास्तद्वदामि यथातथम् ॥ इत्यम्बरीषमार्कण्डेयसंवादं प्रक्रम्य- पुरा त्रेतायुगे कश्चित्कौशिको नाम वै द्विजः। वासुदेवपरो नित्यं सामगानरतः सदा । भोजनासनशय्यासु सदा तद्गतमानस । उदारचरितं विष्णोर्गायमानः पुनः पुन । विपणस्थलं समासाद्य हरेः क्षेत्रमनुत्तमम् । अगायत हरिं तत्र लयतालसमन्वितम् ॥ इत्यादिना भगवद्गुणगायकस्य कौशिकस्य तदन्नदातुश्च पद्माक्षस्य नित्यं तद्गानं शृण्वतस्तच्छिष्याणां च राजन्यवैश्यविप्राणां गान- विद्याधिकानां वासुदेवपरायणानां गालवनामकस्य वैश्यस्य च विष्णु- परायणस्य सभार्यस्य तद्गानं शृण्वतः, अन्येषाञ्च ब्राह्मणानां शृण्वतां स्वगुणगानार्थ कलिङ्गराजेन कृतेऽपि निग्रहे विष्णुगुणव्य- तिरिक्तगाननिवृत्तानां सर्वेषां कालगति गतानाम्- वेष्टित स्वगुणै राजन् ब्रह्मा प्राह च तान् सुरान् । कौशिकादीन् द्विजानद्य वासुदेवपरायणान् ॥ गानयोगेन ये नित्यं पूजयन्ति जनार्दनम् । तानानयत भद्रवो यदि देवत्वमिच्छथ ॥ इत्यादिना विष्णुलोकगमनं भगवदनुग्रहश्च श्रूयते । ततोऽवलोक्य भगवान् हरिनारायण प्रभुः । कौशिकेत्याह सप्रीत्या तांश्च सर्वान्यथाक्रमम् ॥ जनघोषो महानासीन्महाऽऽश्चर्ये समागते ।
२४
भक्तिनिर्णये-
ब्रह्माणमाह विश्वात्मा शृण ब्रह्मन्यथोचितम् ॥
कौशिकस्य तु ये विप्रा साध्यसाधनतत्पराः ।
हिताय संप्रवृत्ता ये कुशस्थलनिवासिनः॥
मत्कीर्तिश्रवणे युक्ता गानतत्वार्थकोविदाः।
अनन्यदेवताभक्ताः साध्यदेवा भवन्त्विमे ॥
मत्समीपे ततोऽन्यत्र प्रवेशं देहि सर्वदा।
एवमुक्त्वा पुनर्देवः कौशिकं प्राह माधवः ॥
स्वशिष्यैस्त्वं महाप्राज्ञ. संसक्तो मम वै सदा ।
गणाधिपत्यमापन्नो यत्राहं त्वं समास्व वै ॥
गालवं मालतीं चैव प्राह दामोदरो हरिः।
मम लोके यथाकाम भार्यया सह गालव ॥
दिव्यरूपधरः श्रीमान् शृण्वन्गानमिहाधिपः ।
प्रास्व नित्यं यथाकाम यावल्लोका भवन्ति वै॥
पद्माक्षमाह भगवान् धनदो भव मानद ।
धनानामीश्वरो भूत्वा यथाकालं हि मां पुनः ।
प्रागम्य दृष्ट्वा नत्वा च कुरुष्व च यथासुखम् ॥ इत्यादि ।
अम्बरीषं प्रति-तस्मात्त्वया महाराज विष्णुक्षेत्रे विशेषतः ।
अर्चाचं गाननृत्यादिवाद्योत्सवसमन्वितम् ।
कर्त्तव्यं विष्णुभक्तैर्हि पुरुषैरनिश नृप ।
श्रोतव्य च त्वया नित्य स्तोतव्योऽसौ हरिःस्वयम् ॥इति।
विष्णुक्षेत्रे ततो विद्वान् कारयेद्भक्तिसंयुतः।
गानं नृत्यादिकं चैव विष्ण्वाख्यानकथां तथा ॥
जातिस्मृति च मेधां च तथैव परमोन्नतिम् ।
प्रामोति विष्णसायुज्यं सत्यमेतनराधिप ॥ इति ।
प्रथमं प्रकरणम्। - ततोऽप्यनिमाध्याये कौशिकादीनां गानयोगेन भगवदनुग्रह- मवलोक्यानुतप्तो नारदस्तप्त्वाऽऽकाशवाचा नियुक्तो गानबन्धुमुलु- केन्द्रमाह-'प्राज्ञ शृणु सर्व यथातथम्' इत्युपक्रम्य- यहत्तं यद्धत चैव यद्वाचा श्रुतमेव च । यदधीतं मया सर्व कलां नार्हन्ति षोडशीम् । विष्णोर्माहात्म्ययुक्तस्य गानयोगस्य वै ततः ॥ इत्यादिना गानयोगविषये तं प्रार्थितवान् । गानबन्धुरपि भुव- नेशं नाम राजानं प्रकृत्य- तस्य राज्ञः पुराभ्यासीद्धरिमित्र इति स्मृतः । ब्राह्मणो विष्णुभक्तश्च सर्वद्वन्द्वविवर्जितः ॥ नदीपुलिनमासाद्य प्रतिमां स हरेः शुभाम् । अभ्यर्च च यथाशास्त्र घृतदध्युत्तरं बहु । मृष्टानं पायसं दत्त्वा हरेरावेद्यपूर्वकम् । प्रणिपत्य यथान्यायं तत्र विन्यस्तमानसः । अगायत हरिं साक्षात्तालवर्णलयान्वितम् ॥ इत्यादिना भगवद्गुणगायकं हरिमित्रं प्रशस्य तत्प्रतिबन्ध- कर्तुंश्च राशो यमयातनां निरूपितवान् । न चैतदब्राह्मण- विषयम- ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं नृप । हरेः सालोक्यमाप्नोति रुद्रशानाधिको भवेत् ॥ अन्यथा नरकं गच्छेत् गायमानोऽन्यदेववत् ॥ इति । तत्रैव ब्राह्मणकर्तव्यताप्रतिपादनात् । 'तत्सिद्धं ब्राह्मणेनापि विष्णोर्गुणगानं कर्तव्यमिति, श्रोतव्यञ्च तदिति । तकर्तृणां पद्मा- क्षप्रभृतीनामुत्तमगतिश्रवणात् , भगवति चित्तानुरागहेतुत्वाच्च २६ भक्तिनिये-- - भगवद्गुणगानस्य कर्तव्यता श्रोतव्यता च विज्ञायते । तस्मात्केना- प्युपायेन मनः कृष्णे निवेशयेत्' (भाग०७-१-३१)इतिभागवतवचनात्। अतश्च तत् (पूर्वोक्त) निरस्तम्। यदुक्तं भाषागीतं न श्रोतव्यं न कर्तव्यञ्चेति । (तन्न युक्तम् ) । परमेश्वरातिरिक्तविषयस्य नथात्वेऽपि परमेश्वरगुणनामकीर्तनभाषागीतस्य पुनः पुनः क्रियमाणस्य श्रूयमाणस्य वा भगवति चित्तानुरागहेतुत्वेन प्रत्यक्षसिद्धत्वात् । न च “न म्लेच्छितवै म्लेच्छो वा यदपशब्दः" इति निषिद्ध- त्वाद्भाषया भगवद्गुणानुवादोऽप्यकर्त्तव्य इति वाच्यम् । तस्य विहितत्वेन निषेधाप्रवृत्तः। न च भगवद्गुणनामकीर्तनकर्त्तव्यता- विधेरुक्तनिषेधानुरोधेन संकोचो युक्तः, साधुशब्देनैव भगवद्गु- णनामकीर्तन(कर्तव्यं)इति वाच्यम् । निषेधस्य रागप्राप्तविषयकत्वेना- प्युपपत्तेः । नचैवंसाक्षाच्छ्यते साधुशब्देनैव भगवद्गुणनामकीनं कर्तव्यमिति । किञ्च भगवति द्वेषादिकतॄणामपि चैद्यादीनां सद्गतिः सायुज्यादिरूपा श्रूयते, सा च न द्वेषादे फलं तस्य निषिद्धत्वात्, किन्तु द्वेषादिजन्यानुषङ्गिकपरमेश्वरस्मरणस्य । तथाच तेन सद्गतिश्चेद् भाषयापि भक्त्या गुणानुवादे च सद्गतिर्भ- वतीति किं वक्तव्यम् । तस्मात्केनाप्युगयेन मनः कृष्णे निवेशयेत् । (भाग०७-१-३१) स्तवैरुच्चावचै स्तोगैः पौराणे प्राकृतैरपि । पस्मिन्प्रतिश्लोकमवद्धवत्यपि । (भाग०१२-१२-५१) गोपीप्रस्तावे- यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् । (भाग०१०-४७-६३) इत्यादिवचनैश्च कथञ्चिद्गुणानुवादः कर्तव्य इति विज्ञायते । किश्च भाषया लौकिकविषयवार्तासु तत्तदभिनिवेशपूर्विकासु न दोषः, परमेश्वरगुणानुवादे तु परमेश्वरस्मारके भाषाकृते दोष इति प्रथमं प्रकरणम् । :। यदेव वदतां परमेश्वराननुराग एवावशिष्यते । वयन्तु विद्मः किश्चित्परमेश्वरस्मारकं तदनुरागे हेतुभूतं वा तत्सर्वं विहितं 'तस्मा- केनाप्युपायेन मनः कृष्णे निवेशयेद्' इतिप्रतिप्रसवात् । 'ग्राम्य- गीतं न शृणुयात्' इति तु न परमेश्वरगीतनिबन्धनकम् , ग्राम्यपदोपादानात् । तत्सिद्धं कथञ्चित् परमेश्वरभक्तिः कर्तव्येति । अत्र केचिदन्तर्विषयप्रवणा ब्रह्मज्ञानवार्तामात्रनिवर्त्तननिपुणाः तन्मात्रेणैव कृतार्थमन्या भगवद्भक्तिशून्याः प्रलपन्ति, मायो- पहिते ब्रह्मणि भगवति तल्लीलाविग्रह वा मायिनि किमित्यादरः क्रियते , प्राप्याभावात्, स्वयं कर्तुरेव ब्रह्मरूपत्वात् , कर्तृत्वस्य मिथ्यात्वात् । स्नानसन्ध्यादिकन्तु लोकव्यवहारार्थं क्रियते न तु तेनापि किञ्चिल्लब्धव्यमस्ति । एवं निषिद्धवर्जनमपि नरकाभावा. लोकव्यवहारार्थमेव । त पते नामान्तरेण नास्तिका इत्युपेक्ष्याः । कथं नास्तिकाः, वेदान्तानां ब्रह्मणि प्रामाण्याभ्युपगमादितिचेत् । हन्त तर्हि (क)स्वर्गनरकाद्यभावः पुण्यपापनुष्ठाने।वेदेनैव ब्रह्मप्रतिपा- दनवत्पुण्यपापानुष्ठातृणां स्वर्गनरकादिप्रतिपादनात् । जाते ब्रह्मज्ञाने नास्ति स्वर्गनरकप्राप्तिरितिचेत्। कथं वैराग्यादिसाधनाभावेब्रह्मज्ञाना- वातिर्भवताम् । वैराग्यादिसाधनमेव न भवतीतिचेत,तत्प्रतिपादुकस्य "ब्राह्मणो निर्वेदमायाद्" इत्यादिवेधचनस्याप्रामाण्याभ्युपगमेन नास्तिकत्वात् । यदुक्तं-मायोपहिते ब्रह्मणि तल्लीलाविग्रहे वा मायिके किमित्यादरः क्रियत इति। तत्रेदमुत्तरम् । शुद्धस्यैव ब्रह्मणो मायोपहितस्य लीलाविग्रहो भक्तानुग्रहार्थ इति तदा. दरः क्रियते। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सस्भवामि युगे युगे ॥ (भ०गी०४-८) २८ भक्तिनिर्णये-- - इतिवचनात् । कितदनुग्रहेणेतिचेत् । न। तदनुग्रहेण विना परब्रह्मप्राप्त्यभावात् । “यमेवेष वृणुते तेन लभ्यः” (कठ०२-२३) इतिश्रुतेः । अत्र हि यवृत्तयोगः प्राथम्यमित्याधुद्देश्यलक्षणम् । तवृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥ इतिन्यायेन यं वृणुते-अनुगृहाति तेनैव लभ्य इत्यर्थः । अन्यथा एवकारस्यासम्बद्धत्वापातात् प्रयोजनान्तराभावाच्च । तादृशश्चा- नुग्रहो भक्तिमात्रसाध्य:- न साधयति मां योगो न साङ्ख्य धर्म एव च । न स्वाध्यायस्तपस्त्यागो यथा भक्तिममोर्जिता ॥(भाग११-१४-२०) इतिवचनात् । अत्रयोगो-ध्यानयोगः, साङ्ख्यम्-अध्यात्मविचारः, धर्मो-यशादिः, स्वाध्यायः-अध्ययनम्, तपः कृच्छादि, त्यागः-सन्यासः, ऊर्जिता-अभ्यासेन वृद्धिं गता भक्तिर्यथामां साधयति-वशीकरोति, न तथा योगादय इति । तत्सिद्ध भक्तिः कर्त्तव्येति । यत्कर्मभिर्यत्तपसा शानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि । सर्व मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।। (भाग०११-२-३२) इतिवचनेन तत्तत्फलार्थकर्मस्थानापन्नत्वावेदनाश्च सुखरूपा भक्ति' कर्तव्यति। अर्थतस्या मोक्ष (प्रापकत्व) प्रतिपादकानि पुराणवाक्यानि प्रद- य॑न्ते । भगवद्गीतासु- भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वतः । ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥ (अ०१८-५५) शान्तिपर्वणि- तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
प्रथमं प्रकरणम् । २६ ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ अनादिनिधनं विष्णु सर्वलोकमहेश्वरम् । लोकाध्यक्ष स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ तथा च तत्रैव- वासुदेवाश्रयो मत्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ तथा- - न वासुदेवभक्तानामशुभं विद्यते क्वचिद् । जन्ममृत्युजराव्याधिभयं नैवोपजायते । ब्रह्मपुराणे- अप्यन्यचित्तोऽशुद्धो वा यः सदा कीर्तयेद्धरिम्। सोऽपि दोषक्षयान्मुक्ति लमेच्चेदिपतिर्यथा ॥ पद्यपुराणे- संसारसर्पदष्टानां नष्टचेष्टैकमेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन्नरः ॥ तथा-- -- यत्र तत्र स्थितो वापि कृष्णकृष्णेति कीर्तनात् । सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् ॥ सर्वधर्माझिझता विष्णोर्नाममात्रैकजल्पकाः। सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ॥ विष्णुपुराणे- विष्णुसंस्मरणादेव समस्तक्लेशसंक्षयः । मुक्तिं प्रयाति स्वर्गादिस्तस्य विनोऽनुमीयते ।
३०
भक्तिनिर्णये
भयं भयानामपहारिणि स्थिते
मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन् भृते जन्मजरोद्भवानि
भयानि सर्वाण्यपयान्ति तात ॥ (अ०१-१६-३६)
शिवपुराणे सुधर्मनामराक्षसं प्रति रुद्रवाक्यम्-
कृष्णनाम सदा गेयं ध्येय गेयं हरेरपि ।
कीर्तनीयं सदा नाम मुरारेः परमा गतिः ॥
महादेव महादेव महादेवेति यो वदेत् ।
एकेनैव भवेन्मुक्तिर्द्वाभ्यां शम्भुर्ऋणी भवेत् ॥
श्रीभागवते-
एतनिर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ (भाग०२-१-११)
कलेषिनिधे राजन्नस्ति ोको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥(भाग०१२-३-५१)इति ।
कीर्तनादेवेत्ययं कलेर्गुणः, युगान्तरे तु साधनान्तरादपीति
कीर्तनादिभक्तिर्मुक्तिसाधन सर्वयुगेषु । तथा-
तत्तेऽनुकम्पां प्रसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिविदधन्नमस्ते
जीवते यो मुक्तिपदे स दायभाक् ॥(भाग०१०-१४-८)
वृहन्नारदीये.
यन्नामोच्चारणादेव महापातकनाशनम् ।
यं समभ्यर्च्य विप्रेन्द्राः पर मोक्षो भवेद् ध्रुवम् ॥
अहो चित्रमहो चित्रमहो चित्रमहो द्विजाः।
हरिनाम्नि स्थिते लोकः संसारे वर्त्तते पुनः ॥
-
प्रथमं प्रकरणम्। - भविष्ये- ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजादयः। यत्र तत्रानुकुर्वन्ते विष्णोर्नामानुकीर्तनम् ॥ सर्वपापविनिर्मुक्तास्तेऽपि यान्ति सनातनम् । ब्रह्मवैवर्ते नामोच्चारणमधिकृत्य- बर्जस्तिष्ठन् स्वपन भुञ्जन् श्वसन वाक्यप्रपूरणे। उक्त्वा स्वरूपतां याति भक्तियुक्तः परं व्रजेत् ॥ वाराहे- यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ वामनपुराणे- ये मानवा विगतरागपरावरज्ञाः नारायणं सुरगुरु सततं स्मरन्ति । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ।। मात्स्ये- परदाररतोवापि परापकृतनाशकः । स शुद्धां मुक्तिमाप्नोति कृष्णनामानुकीर्तनात् ॥ गारुडे- यदिच्छसि परं ज्ञानं ज्ञानाच्च परमं पदम् । तदादरेण महता कुरु गोविन्दकीर्तनम् ॥ ब्रह्माण्डे- के शवा पुरुषा लोके येषां हृदि न केशवः । केशवार्पितचित्ता ये न शवा न पुनर्भवाः ॥ - - ३२ भक्तिनिर्णये- - आदित्यपुराणे- हरेः संकीर्तन पुण्य महापातकनाशनम् । सर्वकामप्रदं लोके ह्यपवर्गफलप्रदम् ॥ एवं तत्तत्पुराणेषु बहूनि वचनानि (सन्ति तानि) विस्तरभयान्न प्रदर्श्यन्ते । एतेषां च “तमु स्तोतार' इत्यादिप्रदर्शितश्रुतिलिङ्गमूल- कत्वम् । तत्सिद्धं मुमुक्षुभिः श्रवणकीर्तनादिहरिभक्ति कर्तव्येति । इति श्रीमदापदेवसूनुनानन्तदेवेन कृते भगवद्भक्ति- निर्णये हरिभक्तिकर्तव्यतानिरूपणं नाम प्रथमं प्रकरणम् ॥ 10:- अथ भक्तिफलविचारपरं द्वितीयं प्रकरणम् । - अर्थतस्या. फलविचारः प्रस्तूयते । नन्वेव भक्तेस्तत्वज्ञानद्वारा मोक्षसाधनत्वे चतुर्लक्षणी शास्त्रमनर्थकमापद्यते। अनर्थकमेवास्तु का नो हानि. । यद्वा तस्य वेदान्तविचारात्मकत्वात्तस्य मोक्षसाधन- ज्ञानोद्देशेन "श्रोतव्य" इत्यादिवाक्यविहितत्वादानर्थक्यानुपपत्ते, (किन्तु)तुल्यार्थत्वेन बीहियववद् विकल्पः। नन्वल्पायाससाध्याया भक्तेस्तद्विपरीतवेदान्तविचारेण सह कथं विकल्पः। उच्यते । कथमल्पायाससाध्यत्व भक्तेरवगतम् । यथा हि यज्ञाद्यनुष्ठानसा- ध्यविविदिषावतः पुरुषस्य वेदान्तविचारः फलवानेवं यज्ञाद्य- नुष्ठानसाध्यश्रद्धस्य श्रवणादिभक्तिः फलवती । अत एवोक्तं भागवते- तावत् कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥(स्कं०११-२०-६)इति । - तया- यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विणी न चासक्तो भक्तियोगोऽस्य सिद्धिदः॥(स्कं०११-२०-८) तथा- अस्मिन्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः। ५ ३४ भक्तिनिर्णये- - ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यहच्छया ।। (स्कं०११-२०-११) अत्र ज्ञानमध्यात्मविचारः, भक्तिः श्रवणादिका तथा- जातश्रद्धो मत्कथासु निर्विरणः सर्वकर्मसु । वेद दुखात्मकान्कामान् परित्यागेऽप्यनीश्वर ॥ ततो भजेत मां प्रोतः श्रद्धालुह ढनिश्चयः॥(स्कं०११-२१-२७) ततश्च यज्ञाद्यनुष्ठानसाध्यविविदिषाविरहे वेदान्तविचारोऽपि यथा न मोक्षफलपर्यवसायी तथा यज्ञाद्यनुष्ठानसाध्यश्रद्धाविरहे संकीर्तनादिभक्तिरपि न मोक्षफलपर्य्यवसायिनी। पापक्षयादौ तु नोक्तश्रद्धाद्यपेक्षेति वक्ष्यते । ननु पुराणाख्यदुर्बलप्रमाणबोधिताया भक्तेः श्रुत्याख्यप्रबल- प्रमाणबोधितेन वेदान्तविचारेण कथं विकल्पः । उच्यते । पुराणना- मपि “तमु स्तोतारः" इत्यादिश्रुतिमूलत्वावेदनात् । दुर्बलप्रबलभावा- भावात् । नन्वनयोरक्यं द्वारभेदो वा। नाद्यः, भक्तस्तार्पयावधा- रणहेतुत्वाभावात् । विचारस्य तद्धेतुत्वात् । नान्त्यः, तदनवगमात , विकल्पानुपपत्तेश्च । न हि प्रयाजावधातयोदृष्टादृष्टार्थयोर्विकल्पः सम्भवति । उच्यते । द्वारभेद एव । तथाहि । वेदान्तविचारणा- द्वितीये ब्रह्मणि वेदान्ताना तात्पर्यावधारणे प्रमाणसम्भावनानिवृत्ती, मननेन च प्रमेयासम्भावनायां चित्तस्य तदैकाग्रयायोग्यतारूपायां निवृत्तायां, निदिध्यासनेन च विपरीतभावनायां निवृत्तायां तत्वसा- क्षात्कारोदये मुक्तिः । प्रकृते तु श्रवणकीत्तनादिसाधनमक्तेरनुवृत्तौ भगवति परप्रेमलक्षणानुरागात्मिका फलभक्तिः परप्रेमास्पदभगव- न्मूर्तिस्फूर्तिश्च जायते । ततश्च देहगेहादौ विरक्तस्य भगवत्प्रसा- दात्तत्वसाक्षात्कारोदये मुक्तिरिति । ननु पूर्वा प्रणालिका निरूपिता शास्त्रकारैर्नोत्तरा । किमेतावता। न हि सर्वे सर्व निरूपयन्ति । युक्ता चेयं प्रणालिका । तथाहि । भग- वतः श्रवणकीर्तनाद्यनुष्ठाने प्रहर्षः सकलजनानामनुभवसिद्धः ।
द्वितीयं प्रकरणम् । - विशेषतो यज्ञाद्यनुष्ठानजन्यश्रद्धाविशेषवताम् । यदनुबन्धेन च प्रह! यस्य तस्य तत्रानुरागः सम्पद्यते। चकोगदेरिव चन्द्रादौ । अनुरागे च सम्पद्यमाने तत्स्फुरणं तदन्यविषयेषु चित्तानुबन्धशै- थिल्यञ्च । नवतरुण्या इव वल्लभविषये। नतश्च श्रवणकीर्तनादि- नाऽभ्यस्तेन भगवति पूर्णानुरागात्मकफलभक्तिपरिपाके सकलशक्ति- युक्तो भगवान् प्रसीदतीति तस्य तत्वज्ञाने मुक्तिरिति । नचैतद- र्थवादमात्रम्, (१) तदर्थप्रतिपादकानां पुराणवचनानामुपलम्भात् । तत्र भक्त्या साधनात्मिकयाऽनुरागात्मकभक्त्युदये कृतार्थता भव- तीत्युक्तं भगवद्गीतासु- स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसवाः ॥ (१०११-३६) इति । अर्जुनो ह्येवं ब्रूते श्रीकृष्णम्प्रति-तव प्रकृष्टया-उपचितया कीर्त्या-कीर्तनेन कृतेन श्रुतेन वा, यशसा वा श्रुतेन, जगत्-जनः, प्रह- यति-प्रकर्षेण सुखीभवति, अनुरज्यते-त्वय्यनुरागञ्च प्राप्नोति । तत्र हर्षों द्वारं त्वय्यनुरागश्च-फलभक्तिः फलम् । ननु केषाञ्चित् भगवच्छ. वणकीर्तनादिनापि न प्रहर्षों दृश्यते, नतरां भगवत्यनुरागः।सत्यम्। नैतावता काचित्क्षतिर्वचनानुभवयोः। न हि ज्वरितानां दुग्धपाने हर्षों न दृश्यत इति तन्न हर्षहेतुः। अत एव यशोद्यनुष्ठानोत्पन्न- श्रद्धस्व विशेष एवोक्तश्रवणकीर्तनादिषु फलपर्यन्तप्रवृतिहेतुरु- च्यते । प्रकृतमनुसरामः । तव प्रकीर्त्या यत् प्रहृष्यति अनुरज्यते च जगत्तत् स्थाने-युक्तम् । तत्र हेतुगर्भ विशेषणं हृषीकेशेति। त्वं हृषीकाणामिन्द्रियाणामीशोऽसि ततो भक्तजनस्येन्द्रियाणि स्वाभि- मुखीकरोषीति भावः । रक्षांसि-रागादयो विवक्षिताः, राक्षसाना- मप्रसक्तत्वात् । नश्यन्तीत्यभिप्रायेणाह-भीतानि दिशो द्रवन्तीति । न चैतकल्पनामात्रमितिपाठ ।
३६ भक्तिनिर्णये- सर्वे नमस्यन्ति च सिद्धसङ्घा इति सकलकृतार्थाऽभिवन्द्यो भवती- त्यर्थः । तथा तत्रैव श्रीकृष्णवाक्यम्- भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वतः। ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ।। (अ०१८-५५)इति । अत्र-भक्त्या साधनभक्त्या श्रवणादिकया, मामभिजानातीति न तत्वज्ञानोक्तिः, तत्वतो ज्ञात्वेति वैयपित्तः, किन्तु अभीत्याऽऽभि- मुख्यम्-अनुराग उच्यते, जानातीति स्फूर्तिः। अनुरागेण मामनुभवती- त्यर्थः । स्फूत्तर्विषयभूतां मूत्तिमाह यावानिति। परिमाणार्थवत्प्रत्य- यसामर्थ्यापारमितमायालीलाविग्रहोपहितं स्वरूपं यावानिति नि- गद्यते । कथं तस्यानुरागफूर्त्तिविषयता, तबाह यश्चास्मि तत्वत इति । अानन्दरूपत्व तत्वशब्देनोच्यते । अत एव तैत्तिरीयकश्रुतौ “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति" (तै०३-६)इतिजगत्का- रण प्रक्रम्य तस्य तत्वनिर्णयवाक्यम्-"आनन्दाद्ध्येव खल्विमानि भूता- नि जायन्ते" (तै०३-१)इति श्रानन्दरूपत्वापरित्यागायुक्ता लीलाविग्र- होपहितेऽप्यनुरागस्फूर्त्तिविषयतेतिभावः। एव मद्भक्तस्यानुरक्तस्य मदनुस्मरणवतः पुंसोऽत एव तत्वज्ञान भवतीत्याहत्ततो मां तत्वतो ज्ञात्वेति । तत इति तच्छब्देन पूर्वमभिजानाति समत्वेन मामितिनि- र्दिष्टः प्रधानभूतः परमात्मा निर्दिश्यते । "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा" इतितच्छब्देनेव दध्यानयनकर्मीभूतं प्रधानं पयः। न च 'यावान्यश्चास्मि तत्वतः' (भगी०१८-५६) इत्यनेन व्यवधानम् । तत्राप्यस्मिक्रियाकर्तृ त्वेन परमात्मन एव निर्देशात् । यच्छब्दस्य तच्छब्दापेक्षत्वात् । अतश्च मत्तो मा तत्वतो ज्ञात्वा इत्यर्थ : 'विशते तदनन्तरम्' इतितच्छब्देन नपुंसकेन तत्वं निर्दिश्यते । अनन्तरमव्यवहितमित्यर्थः । अन्यथा वैयर्थ्यांपत्तेरिति । तथा गीतायाम्- ..
द्वितीयं प्रकरणम् । अहं सर्वस्य प्रभवो मत्त सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ मच्चित्ता मद्गतप्रारणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ तेषां सततयुक्ताना भजतां प्रीतिपूर्वकम् । ददामि बुद्धयोगं तं येन मामुपयान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानज तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥(अ०१०-८-११)इति। अत्र भजन्त इति सामान्यत उक्तस्य भजनस्य विशेषोक्तिर्मच्चि- त्ता इति, स्मरणस्य मद्गतप्राणा इति मद्गतजीवना इत्यर्थः । यद्वा चित्तोपादानान्मद्गतवहिरिन्द्रिया इत्यर्थः। ततश्च श्रवणार्चनादि- सङ्गहः। बोधयन्तः-स्मारयन्त:, कथयन्त: संकीर्तयन्तः, तुष्य- न्तीति प्रेमभक्तिनिर्देशः। रमन्तीति पुनरुक्तिप्रसङ्गाद्विषयविरक्तिल- भ्यते । 'ददामि भक्तियोगं तम्' इति भगवन्मूर्तिस्फूर्तिः। तत्व- ज्ञानस्याग्रे वक्ष्यमाणत्वात्, 'येन मामुपयान्ति ते' इति भगवन्मूर्ति- स्फुरणस्य परिपक्वस्य भगवत्प्राप्तिहेतुतां दर्शयति । अनुकम्पार्थ- मिति भक्तानां गुरूपसदनवेदान्तश्रवणाभ्यासादिक्लेशासहिष्णु- तोक्तिः । आत्मभावस्थ इति तदीये भक्तिवशीकृतत्वमुक्तम् । तमः- संसारम् । नाशयामीत्युत्तमपुरुषनिर्देशादहमेव मेघश्यामः पूर्ण- ब्रह्मात्मना स्फुरामीति । श्रीभागवतेऽपि- भक्तिः परेशानुभवो विरक्ति- रन्यत्र चैष त्रिक एककालः। प्रपद्यमानस्य यथाश्नतः स्युः तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ (स्क०११-२-४२) इत्यच्युताभिं भजतोऽनुवृत्या भक्तिविरक्तिभंगवत्प्रबोधः। - भक्तिनिर्णये- भवन्ति वै भागवतस्य राजन् तत: परां शान्तिमुपैति साक्षात् ॥(स्कं०११-२-४३) इति । अत्र प्रपद्यमानस्येति साधनभक्त्युपन्यास । भक्तिः-प्रेमलक्षणा, परेशानुभवो-भगवन्मूर्तिस्फूर्तिः । अन्यत्र- यत्र-गृहादौ विरक्तिः, एष त्रिक एकस्मिन् काले भवति । यथाश्नतो-भुजानस्य तुष्टिः-सन्तोषः, पुष्टि धातूनामाप्यायन तुधाध्वंसश्चेत्येष त्रिक एकस्मिन् काले भवति अनुघासं प्रतिघास, एव प्रतिभजनं प्रेमादित्रिके जायमानेऽनुवृत्त्या नैरन्तर्येण, अच्युताधिं भजतो भगवति भक्तिः-परप्रेम यथा प्रह्लादादे , विरक्तिरपि पूर्णा वान्तक रिव,अन्ते भगवत्प्रबोधः-पूर्णा भगन्मूर्तिः- स्फूर्तिः कामातुरस्येव स्त्रीरूपस्फूर्ति, एते-त्रयोऽपि भागवतस्य- अनन्यपरस्य भवन्ति । ततः पूर्णभगवन्मूत्तिस्फुर्तिपरिपाके परां शान्ति-परमशमात्मक भगवत्स्वरूप साक्षात्कृत्य उपैति-प्राप्नोति । पूर्वश्लोकापेक्षया भक्तिविरक्तिभंगवत्प्रबोध इतिव्युत्क्रमाभिधानमेक- कालत्वान्न दोषाय । भगवत्प्रबोध एव परिपक्वः पूर्णानन्दब्रह्मसा- क्षात्कारात्मकतया परिणमत इति तस्य फलावस्था सूचयितु चान्ते निवेशः । अत एवाभियुक्ताः- वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ इति । तथा तत्रैव- प्रोक्तेन भक्तियोगेन भजतो माऽसन्मुने । कामा हृदिस्था नश्यन्ति सर्वे मयि हृदि स्थिते ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि यस्मिन्दृष्टेऽखिलात्मनि ॥ (भाग०११,२०,१९,२०) द्वितीयं प्रकरणम् । ३६ " अत्र मयि हृदि स्थिते इति प्रेमभक्तिर्मूर्तिस्फूर्तिश्च विवक्षिता । कामा हृदिस्था नश्यन्तीति विरक्तिः । भिद्यते इत्यादितत्वसाक्षा- कारः । अत्र सर्वेषु वाक्येषु साधनभक्त्या फलभक्तिविरक्तिमूर्ति- स्फूर्तित्रिक भगवत्प्रसादः तत्वज्ञानश्चेति प्रणालिका सम्पूर्णा न श्रूयते 'स्थाने हृषीकेश तव' ( भ० गी०११-३६) इत्यत्रानुरागात्म- कफलभक्तिमात्रनिर्देशात् । 'भक्त्या मामभिजानाति' (भ०गी०१८-५५) इत्यत्रविरक्तेरनिर्देशाद्भक्तिः परेशानुभव' इत्यत्र भगवत्प्रसादानिहे. शात्तथापि यत्र योऽशो न श्रूयते तत्र सोऽनूपसंहर्त्तव्यः । वाक्या- न्तरे श्रुतत्वात् तत्तेजोऽसृजत" (छ/०६-२३) इत्यत्र सृष्टिश्रुतावाका- शवायुवद्भगवत्प्रसादश्च सर्वत्राप्युपसंहर्त्तव्यः, “तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमीशम्" (क०२-२०)"यमेवैष वृणुते तेन लभ्यः" (क०२ २३) ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥(भगी०११,६-७) इत्यादिवचनैर्भगवत्प्रसादस्य तत्वज्ञानहेतुत्वावधारणात् । एवञ्च यत्रापि भक्तर्मुक्तिहेतुत्वमानं श्रूयते, तत्राप्युक्तप्रणालिकोपसंहर्त्तव्या । तदेवं मोक्षहेतुतत्वज्ञाने जनयितव्ये वेदान्तविचारभक्तियोगयोार- मेदः सिद्धः । कथं तर्हि द्वारभेदे विकल्पः। न हि प्रयाजावघातयो- दृष्टादृष्टयोर्विकल्पः सम्भवतीत्युक्तमितिचेत्। श्रूयतामवधानेन । दृष्टो हि द्वारभेदेऽपि विकल्पः । यथा ज्योतिष्टोमोद्भिदयागयोः पशुफलकयोः । न हि पश्वर्थिना द्वयं समुच्चयेनानुष्ठेयम् । प्रयाजा- वघातयोस्त्वेकप्रयोगविधिपरिगृहीतत्वादविकल्पः । ब्रीहियवयोस्तु सत्यप्येकविधिपरिगृहीतत्वे द्वारैक्याद्विकल्पः । हरिभक्तिवेदान्त- भक्तिनिर्णय- - विचारयोस्तु नैकप्रयोगविधिपरिग्रहः, तस्माद्विकल्प एव। ननु कि विकल्पेन, समुच्चय एवास्तु । न । मानाभावात् । न हि “दर्शपूर्ण- मासाभ्या स्वर्गकामो यजेत" इति षण्णां यागानामिव तयोः समु- दयादेकं किञ्चिदुपलभ्यते । किञ्च स हि अङ्गप्रधानभावेन वा समप्रधान्येन वा । नाद्यः हरिभक्तिरङ्ग वेदान्तविचारः प्रधानमि- त्यत्र श्रुतिलिङ्गाद्यभावात् , “तमु स्तोतार. पूर्व्य यथा विद” इत्यादि- वाक्येन तत्वज्ञानाङ्गत्वात् । उपकारकत्वमङ्गमाश्रित्य चतुर्लक्षण्या- त्मको विचारो हरिभक्तरङ्गमिति वक्तु शक्यते । हरिभक्तिप्राप्ये भग- वत्स्वरूपे वेदान्तानां समन्वयः प्रथमेऽध्याये, तत्रव प्रमाणन्तरावि- रोधो द्वितीये, हरिभक्तिसाध्यं तत्वज्ञानात्मकं साधन तृतोये, पर- ब्रह्मानन्दावाप्तिफलं चतुर्थे, न तु विपरीतोऽङ्गप्रधानभावः कथमपि शक्यो वक्तुम् । न द्वितीयः। अधिकारभेदात् । अतिविरक्तो वेदान्त- विचारेऽधिकारी यः खलु 'अथातो ब्रह्मज्ञिासा' (वे० सू०१-१-१) इतिसूत्रे श्रथ शब्देनोच्यते। भक्तियोगे तु इपद्विरक्तोऽधिकारी 'न निर्विप्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः'। (भाग० ११-२८-८) इतिवचनात् । समप्राधान्येन समुच्चयो ह्याग्नेयादिवत्तुल्यधिकारप्र- सङ्गात्। ननु ईषद्विरक्तस्य भक्तियोगाधिकारे कथ तत्वसाक्षात्कारोदयः। इषदासक्तेः सत्वात् । किश्च सकृदनुष्ठितो भक्तियोगस्तत्वसाक्षात्का- रहेतुरावृत्तो वा। नाद्यः । तथा सति को न मुच्येत' इतिमुक्तः सर्व- सुलभत्वप्रसङ्गात्। न द्वितीया कियत्यावृत्तिरित्यपरिशानात्। उच्यते। न हि भक्तियोगस्य सकृदनुष्ठानमात्रेण तत्वसाक्षात्कारं ब्रूमः। येनेष. दासक्तेन तत्प्रतिबन्धः सम्भाव्येत।किन्त्वावृतेन तेन, इत्यच्युताधिं भजतोऽनुवृत्या' इत्यादिवचनात् । श्रावृत्तेरवधिरपि भक्तिविरक्तिभंग- वत्प्रबोध.' (भा०११-२-४३)इत्यनेनोक्तः । ततश्च यावत् परमात्मनि परमप्रेमास्पदे पूर्ण प्रीतिः, पूर्णा च विषयविरक्तिः, पूर्णा च भगव- द्वितीयं प्रकरणम् । न्मूर्तिस्फूर्तिः । स च भगवान् सन्तुष्टः सन् पूर्णब्रह्मात्मना साक्षादा- विर्भवति तावद्भगवद्भजनानुवृत्तिः कर्तव्येति विज्ञायते । ततो न किञ्चिद् दूषणम् । नन्वेतन मन्यन्ते । सत्सु वचनेषु यदि न मन्यन्ते तहि नास्तिकाः। तेषां वचनानामन्योऽर्थ इति चेन्न। श्रौतमर्थ विहाय लक्षणाकल्पने मानाभावात् । किञ्च यद्येतन मन्यते ततो वेदान्तविचार एव मननादिसहकृते वासुदेवभक्ता अधिक्रियन्त इति वक्तव्यम् । तन्न सङ्गच्छते। तथाहि । ते विषयवैराग्येऽ- नुत्पन्ने वेदान्तविचारेऽधिक्रियेरनुत्पन्ने वा। नाद्यः। विरक्ताधिका- रप्रतिपावनविरोधात् । न द्वितीयः । इत्यच्युताधि भजतोऽ- नुवृत्या भक्तिविरक्तिर्भगवत्प्रबोधः' इति वचनात् । तस्यामवस्थायां भगवति पूर्णभक्तिमतो भगवदेकस्फुरणवतश्च तस्य- -- - एवंवतः स्वप्रियनामकीयां जातानुरागो वृतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युग्माववन्नृत्यति लोकबाह्यः ॥ इतिसंसारधर्मातीतावस्थां गतस्य नानालौकिकसाधनापेक्षवेदान्तवि- चारकर्तव्यतानुपपत्तेः । किञ्च भक्तस्य मोक्षाकाक्षासत्वेऽपि फल- भक्स्यवस्थायां मोक्षेऽप्याकाक्षाविरहान्मुमुक्ष्वधिकारकवेदान्तकर्त- व्यता न युज्यते। न हि स्वर्गकामनाशून्याः काम्येष्वप्यग्निहोत्रादिष्व- धिक्रियन्ते। न पारमेष्ठयन महेन्द्रधिष्ण्यं न सार्वभौम न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनाऽन्यत्॥ (भाग०११-१४-१४) ६ भक्तिनिर्णये- इत्यादिपुराणवाक्येषु हि भक्तानां मोक्षाकाङ्क्षाविरहः श्रूयते । अमुमुक्षूणां कथ भक्त्यापि मोक्ष इति चेन्न । नानापुराणवचनावगत- भक्तवत्सलत्वश्रुत्या भगवानेव तादृशानां संसारलेशासहिष्णुर्मोक्षं प्रयच्छतीति गम्यते। तेषामहं समुद्धा मृत्युसंसारसागरात् । (भगी०१२-७) तेषामेवानुकम्पार्थमहमज्ञानज तमः । नाशयाम्यात्मभावस्थो शानदीपेन भास्वता ॥ (भगी०१०-११) इत्यादिवचनाच भगवानेव तादृशानां मोतं प्रयच्छतीति गम्यते । मोक्षाकाताविरहवाक्यानां मोक्षप्रतिपादकवाक्यानाञ्चाविरोधानु- रोधेनानुषङ्गिकत्वं मोक्षस्य कल्प्यते । अन्यथा केषांचिदप्रामाण्या- पत्तेः । उपपन्नश्च भक्तानां मोक्षाकाङ्क्षाविरहो भगवत्यासक्तत्वात् । एतावती कुतो भगवत्यासक्तिरितिचेत् । शृणु । परप्रेमास्पदत्वात्, तदपि, परमानन्दरूपत्वात् । ननु निर्गुणस्य ब्रह्मणः परमानन्दरूपत्वं श्रूयते न तु सगुणस्य भगवतस्तत्सम्भवति ।कथ न संभवति। यतो निर्गुणमेव परं ब्रह्म सगुणतामापद्यते मायया, न तु परमानन्दरूपतां परित्यज्य, नित्यसिद्धत्वात् । ननु विद्यमानापि परमानन्दरूपता माय- याऽऽवृतेति कथं सा स्फुरेत् , अस्फुरणे च कथं भगवत्यासक्तिः । सत्यमितरेषां न स्फुरति । श्रवणकीर्तनादिना भक्तिपरिपाके पर- मानन्दांश आवरणशक्तिनश्यति । वेदान्तश्रवणादिपरिपाक इव प्रपञ्चपारमार्थिकसत्वसम्पादनपटीयसी शक्तिः। कथमन्यथा भग- वनिष्ठस्य प्रेमभक्तस्य मोक्षेऽप्याकाङ्क्षाविरहः श्रूयमाणः संपद्येत । प्रत्यगमेदावरणशक्तिस्तु विद्यत एव, भगवति प्रेमभक्तः परिच्छिन्न- स्फूर्तेश्च सत्वात् । सापि सक्तिर्भगवदनुग्रहात्तत्वसाक्षात्कारोदये सहाश्रयेण निवर्त्तते । सर्वथा सिद्धमेतद् वासुदेवभक्तानां गुरूपसर्प- - द्वितीयं प्रकरणम् । शवेदान्तविचारमनननिदिध्यासनादौ नाधिकार इति । अतश्च ज्ञानमार्गो भक्तिमार्ग इति मोक्षे मार्गद्वयम्। अत एव गीतासूदित- होमप्रकरणेऽनुदितहोमनिन्दावत् भक्तिप्रस्तावे निर्गुणनिष्ठा निन्द्यते। मय्यावश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ सनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥(भगी०१२,२-५)इति । ननु भक्तिमार्गस्य स्वतन्त्रत्वेऽपि न शानं विना मुक्तिः । “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इतिश्रुतेः । तत्र च कि करणं १ । वेदान्तविचाराभावेऽनवधृततात्पर्यस्य वेदान्तवाक्यस्य करणत्वानुपपत्तेः । उच्यते । हरिभक्तिरेव करणम् । यदीच्छसि परं ज्ञानं ज्ञानाञ्च परमं पदम् । तदा यत्नेन महता कुरु गोविन्दकीर्तनम् ॥ इत्यादिवचनेभ्योऽसाधारणकारणत्वावेदनात् । अथवा भक्ति- प्रसनो भगवानेव तत्वज्ञाने कारणम् । तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ (भग०१०-११) भक्तिनिर्णये- इत्यादिवचनात्। कर्तृव्यापारव्याप्यत्वं तु भक्तिवशीकृतत्वा- दिति । यद्वा श्रवणादिभक्त्या सततमनुवर्तमानया सर्वतो विरक्त भगवति पूर्णानुरक्त तन्मूर्तिस्फूतिशीलं तदनुगृहीत चित्तमेव तत्व- शाने कारणम । अथवा तादृश्यामवस्थायां सततं परिशील्यमान कृष्णादि नामैव तत्वसाक्षात्कार करणम् । श्रवणादिपरिपाके वेदा- न्तवाक्यमिव । कृषि वाचकः शब्दो णश्च नियतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ इत्यादिवचनैः कृष्णादिनाम्नां तत्वनिरूपकत्वात् । अत एव वाराहपुराणे- पेयं पेयं श्रवणपुटके रामनामाभिधानं ध्येयं ध्येयं मनसि सततं तारकब्रह्मरूपम् । जल्पन जल्पन प्रकृतिविरतौ प्राणिनां कर्णमूले वीथीं वीथीमटति जटिलः कोऽपि काशीनिवासी॥ इति काशीमरणे स्वधर्मस्य भगवान्महशो रामनामैवोपदिशतीति प्रतिपाद्यते । रामनाम्नोऽपि- - रमन्ते योगिनो यस्मिन्नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति परब्रह्मप्रतिपादकत्वात् । यद्वा भक्तिप्रसन्नो भगवान्भक्ते- भ्यस्तत्वमुपदिशतीति तद्वाक्यमेव तत्वज्ञाने करणम् । सर्वथा सिद्धमेतन्मुक्तौ मार्गद्वयमिति !
द्वितीयं प्रकरणम् । नन्वेवं तृतीयोमार्गः स्यात् । यज्ञादीनामपि"विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन"इतिवाक्येन ज्ञानार्थत्वावेदनात् । 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' (भ०गी० ३.२०)इतिवचनाच्च। ततश्च यज्ञादिभिरपि निरपेक्षस्तत्वज्ञानद्वारा मुक्तिः प्रसज्येत । अत्रो- च्यते। नात्र वाक्ये ज्ञानार्थतया विधानं यज्ञादीनां "विविदिषन्ति"इति वेदनस्य सन्प्रत्ययोपसर्जनस्याख्यातार्थान्वयाभावात् । न ह्यन्योप- सर्जनमन्यत्रान्वेति। यज्ञन'इत्यादितृतीया समभिव्याहारसामर्थ्यवशेन विविदिषाया एवाख्यातार्थे भावनया कर्मत्वेनान्वयात्, यज्ञन विवि- दिषां भावयेदिति ।सन्प्रत्ययार्थश्च निकृष्टा इच्छा न त्वीप्सितत्वम् । तस्माद्यादीनां विविदिषार्थत्वमेव न ज्ञानार्थत्वम् । येषामप्यय- माग्रहः, तेषामपि न मार्गान्तरम् । श्रारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ (भगी०६-३) इत्यादिवाक्यवशेन विवेकवैराग्यादिसाधनसम्पत्तिसंन्यासपूर्व कश्रवणादिप्रणालिक्यैव कर्मणां ज्ञानार्थत्वात्। 'कर्मणैव हि संसिद्धिम्' इतिवाक्ये संसिद्धिशब्देन चित्तशुद्धैर्विवेकादिरूपोक्तप्रणालिकया मुक्तेरभिधानात् । भक्तेस्तु ज्ञानार्थत्वं पूर्वोक्तप्रणालिकावेदकबहु- पुराणवाक्यावगतं नापह्नोतु शक्यते । अत एव . तावत्कर्माणि कुर्वीत न निर्विघेत यावता । मत्कथानवणादौ वा श्रद्धा यावन्न जायते ॥(भाग०११-२०-६) इति मार्गद्वयशेषत्वं कर्मणां विज्ञायते। नन्वेवं वेदान्तशास्त्रस्या- प्रामाण्यप्रसङ्गः। किमुच्यते । न तावद्वेदान्तवाक्यानामप्रामाण्यम् ।
भक्तिनिर्णये- - अखण्डात्मकब्रह्मप्रतिपादकत्वात् । विचारस्य तु प्रामाण्यं नाश्रीयते कैरपि । पाक्षिकत्वन्तु अधिकारिभेदेनाश्रीयत एव । तत्सिद्धं विष्णु- भक्तेः फलभक्त्यादिप्रणालिकया मुक्तिः फलमिति । एवं शिवभक्त- रपि, समानन्यायत्वात् । ये तु विष्णोरुत्कर्षेण शिवापकर्षाभिनिवे- शिनः, ये च शिवोत्कर्षेण विष्णोरपकर्षाभिनिवेशिनस्ते उभयेऽपि न भक्ता इति मन्तव्यम् । पुराणेषु तु तादृशानां नरकवणात् । 'रौरवादिषु घोरेषु नरकेषु पतन्त्यध' इति । अन्ये तु भक्तिप्रसन्नो भगवान् भक्तभ्यो वेदान्तवाक्यमेवोपदि- शतीति भक्तेर्वेदान्तश्रवणेन सह समुच्चय एव, विकल्पस्यायुक्त- त्वादिति वदन्ति । तत्तु भक्तानामीषद्विरक्तानां परिपक्वानाचामुमु- सूणां वेदान्तश्रवणाऽनधिकारात्तथास्तु नाम, न तु भक्तानां वेदान्त- श्रवणाद्यभ्यासक्लेशाश्रयणमिति भक्तर्मुक्तिहेतुत्वं न निकोतु शक्यत इति सिद्धमुक्तिः फलमिति । अथ फलान्तरविचारः प्रस्तूयते । ननु फलान्तराण्यपिश्रूयन्ते। यथा विष्णुपुराणे- अवशेनापि यनाम्नि कीर्तिते सर्वपातकैः। पुमान्विमुच्यते सद्यः सिंहवस्त्रैमृगैरिव ॥ - इत्यादिभिर्बहुवचनैः पापक्षयः श्रूयते । तथा- आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । इति शोभनावाप्ति फलम्। दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेतेन बलं ममैत् ।
द्वितीयं प्रकरणम् । महाविपत्पातकनाशनोऽयं जनाईनानुस्मरणानुभावः॥ इत्यादिभिर्विपन्नाशः। तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने । न याति नरकं शुद्धः स क्षीणाऽखिलपातकः ॥ इत्यादिभिर्नरकेष्वगमनम् । एतदर्थकान्येव पुराणान्तरवचनानि श्रूयन्ते बहूनि । तथा ब्रह्मपुराणे- सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यद्वाभिरोचते नाम तत्सर्वार्थेषु योजयेत् ॥ - इतिवचनेन सर्वार्थता श्रूयते । हेमाद्रौ कालखण्डे प्रान्तभागे विष्णुधर्मोत्तरे तत्तनाम्नां देशकालविभागं प्रतिपाद्य- सर्वाणि नामानि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर। तस्मात्सदा सर्वगतस्य राजन सर्वेषु कार्येषु जपेत भक्त्या ॥ इति । तान्येतानि फलानि फलभक्त्यादिप्रणालिकया मोक्षफलवद्यज्ञा- धनुष्ठानजन्यश्रद्धाविशेषवत एव भवन्ति, उत तदनपेक्षाणि । उच्यते । भगवन्नामोच्चारणेन पापक्षये तावच्छृद्धासामान्यं नापेक्षते कुतस्तद्विशेषापेक्षा । 'अवशेनापि' इत्यभिधानात् । अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । संकीर्तितमघं पुसां दहेदेधो यथानलः ॥
भक्तिनिर्णये- - इतिविष्णुधर्मेष्वभिधानाच्च । न चार्थवादत्वं स्तुतिलक्ष- गाप्रसङ्गात् । भागवतेऽपि- साङ्केत्यं परिहास्यं वा स्तोमं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ इतिवचनपर्यालोचनया न श्रद्धापेक्षत्वं पापक्षये। अत एवा. जामिलस्य पुत्रसंकेतितनारायणनामग्रहणे विष्णुदूतैर्यमदूताना- मपाकरणम्। श्रय हि कृतनिवेशो जन्मकोट्यं हसामपि । ययाजहार विवशो नाम स्वत्ययनं हरेः ॥(भाग०६-२-७) इति । ये त्वत्र केचिन्ध्रियमाणत्वं नामोच्चारणस्य पापक्षयसाधनत्वेऽ- धिकारिविशेषणमित्याहुः। तन्न। किमिदं म्रियमाणत्वं? मरणक्षणस- म्बन्धो वा, मरणाव्यवहितपूर्वकालसम्बन्धो वा, मरणपूर्वकालसम्ब- न्धो वा। नाद्यः। तदानीं नामोच्चारणासम्भवात् । अत एव न द्वितीयोऽपि । न तृतीयः । जीवतोऽपि नामोच्चारणं पापक्षयहेतुरि- ति प्रसज्येत । तस्मानाजामिलवन्त्रियमाणत्वमधिकारिविशेषणम् । अपरे तु नामोच्चारणस्य सर्वपापक्षयहेतुत्वं बहुषु पुराणेषु श्रूयते, तच्च यदि सकलजनसाधारणं तदा द्वादशाब्दादिप्रायश्चि- त्तविध्यानर्थक्यम् । न ह्यनायाससाध्यं नामोच्चारणं त्यक्त्वा कोऽपि तत्र प्रवृत्त । तस्मादत्यन्तं ये वासुदेवभक्ताः कामक्रोधादि- शून्यास्तद्विषयो नामोच्चारणविधिः । इतरेषां द्वादशाब्दादिविधि- रिति । अत एव केचित्केवलया भक्त्या वासुदेवपरायणाः । अघ धुन्वन्ति कात्स्न्यन नीहारमिव भास्करः॥ (भाग०६-१-१५) इति ।
द्वितीयं प्रकरणम् ४६ नदयुक्तम् । वासुदेवापरायणोऽप्यधिक्रियते न तु स एव । प्रय हि कृतनिवेशो जन्मकोट्य हसामपि । यद्याजहार विवशो नाम स्वत्ययनं हरेः॥ (भाग०६-२-७) इत्यादिबहुवचनविरोधात् । अत्र ह्यजामिलाधिकारः । न चाजा- मिलस्य वासुदेवपरायणत्वम् , बहुदोषित्वावधारणात् । एव क्षत्र- वन्धुप्रभृतीना गोविन्दनामोच्चारणात् पापक्षयः श्रूयते- - गोविन्देति समुच्चार्य पदं क्षपितकल्मषः । क्षत्रबन्धुर्विनयात्मा गोविन्दत्वमुपेयिवान् ॥ इति । 'केचिद् केवलया' इत्यादिवाक्यन्तु वासुदेवपरायणानां मुक्ति- प्रतिपादनपरं कात्स्न्येनेत्युपादानात् । कात्न्यं हि सवासनक्षय इति । द्वादशाब्दादिप्रायश्चित्तविध्यानथक्यन्तु नास्ति । नामोच्चा- रणस्य पापक्षयसाधनत्वे श्रद्धाशून्यानां द्वादशाब्दादिप्रायश्चित्ता- धिकारः, नामोच्चारणे तु श्रद्धावतामश्रद्धावताञ्चाधिकारः । तथा- हि । न तावन्नामोच्चारणे विधिरेव नास्तीत्युक्तम् , विधेश्च फलाका- झायामार्थवादिकः पापक्षयः फलमित्यप्युक्तम् । नचाधिकाराव- च्छेद श्रूयते, प्रत्युत सर्वाधिकारत्वं श्रूयते- स्तेनः सुरापो मित्रभृक् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे । सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ इति । ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजादयः। यत्र तत्रानुकुवेन्तो विष्णोर्नामानुकीर्चनम् ॥
५० भक्तिनिणये- - सर्वपापविनिर्मुक्तास्तेऽपि यान्ति सनातनम् ॥ इति । पापक्षयकामनाया अभावेऽप्युच्चारितं नामधेय पापं क्षपयति 'अज्ञानादथवा ज्ञानाद्' इत्यादिवचनप्रामाण्यात् । तस्मात्सर्वेषां नामोच्चारणेन पापक्षय इति सिद्धम् । भगवद्भक्तिविवेकः सोऽय- मनेकप्रकारकोऽभिहितः। तुष्यतु यदुपतिरमुना कथमपि यमुनातटस्थायी ॥ इति श्रीमदापदेवसुनुनानन्तदेवेन कृते भगवद्भक्तिनिर्णये हरिभक्तिकर्तव्यतानिरूपणं नाम द्वितीयं प्रकरणम् ॥ समाप्तश्चायं ग्रन्थः॥ - द्वितीयं प्रकरणम्। परिभाव्य विभूतभव्यमेनं भगवद्भक्तिविवेकमेकवुद्धया । भगवद्भजने भजन्सुभानं भजतां भावुकमक्षयं मुमुनुः ॥१॥ घुलोकसुखवाञ्छया मखमखण्डमातन्वताम् नितान्ततनुतानवावहमिहावहन्तां तपः । मनो जनकनन्दिनीपतिपदारविन्दद्वयी- मरन्दरसलालसं चिरमिदं मदीय पुनः ॥२॥ सैव प्रौढा विरक्तिः सुचरितरचनासंप्रयुक्तिः प्रसिद्धा सैवान्तःसंशयादिक्षयकृदुपनिषत्तत्वविद्या प्रसक्तिः । बोधव्यक्तिश्च सैव प्रकटितपरमानन्दसर्वस्वभुक्ति । सैवाद्वैता च मुक्तिः कथमपि कमलाकामुके या तु भक्तिः॥३॥ शरनवतिथिमितशाके नभःसितस्कन्दबुधवारे। भगवद्भक्तिविवेक बुधो जगन्नाथनामको व्यलिखत् ॥४॥ श्रीगोपालकृष्णप्रसन्नोऽस्तु । ॥ शिवं ॥ श्रीकाश्यां बिन्दुमाधव- सन्निधावयं भक्तिनिर्णयग्रन्थो रामचन्द्रकृतलेखनेन फाल्गुनशुक्लैकादश्यां समाप्तः॥ शके १७६३ संवत् १८९८॥ ॥ शुभमस्तु॥
No text on this page.
प्रथमं परिशिष्टम् । भक्तिनिर्णयस्थानां ग्रन्थादिनाम्नां संकलनम् । पृष्ठम् । २६ २ ३ ३०,३७ प्रतीकम् । प्रष्ठम् : प्रतीकम पुरुषसूक्ते २ भगवद्गीतासु विष्णुसूक्ते २, १४ | शान्तिपर्वणि रुद्रानुवाके २ ब्रह्मपुराणे अन्तर्यामिब्राह्मणादौ पद्मपुराणे अष्टादशपुराणेषु शिवपुराणे उपपुराणेषु श्रीभागवते पञ्चरात्राद्यागमेपु २ बृहन्नारदीये लिङ्गपुराणादिषु भविष्ये विष्णुपुराणादिपु ब्रह्मवैवर्ते देवीपुराणादिषु वाराहे चतुर्थे वार्तिककारैः वामनपुराणे अर्थवादपादे बार्तिककार मास्ये गीतासु औपनिषदा वार्तिककारै १५ श्रादित्यपुराणे पातम्जलसहितायाम् १६ गीतायाम् वात्स्यायनसहितायाम् १६ । अभियुक्ताः शातानपसंहितायाम् १६ वाराहपुराणे विष्णुपुराणे १६, २६, ४६ ब्रह्मपुराणे शास्त्रकारैः २२ हेमाद्रौ काल खण्डे लिजपुराणे २२ | विष्णुधर्मोत्तरे गोपीप्रस्तावे २६ भागवते ३१ , १३ / ब्रह्माण्डे इति ग्रन्थादिनानां सकलनम् ।
द्वितीयं परिशष्टम्। प्रमाणनयोद्धृतश्रन्यादीनां प्रतीकसकलनम। पृष्टम् । प्रतीकम्। प्रतीकम् । पृष्ठम्। क १ प्रतितिष्ठन्ति. ६ १ यस्य पर्णमयी . १ योऽसौ सर्वस्य वशी एको दाधार० य सर्वज्ञः यो ब्रह्माणं विदधाति अन्तर्बहिश्च तत्सर्व यो रुद्रो विश्वा० १ १ १ 0 .. ७ . यस्य स्मृत्याच १ सर्वार्थशक्तियुक्तस्य. खादिरो यूपो. खादिर वीर्यका १ मत्रागावगर्य ज्यतिष्टोमेन २ अल्पेन कर्मणा. ३ | तच्चैतन्ममानफलेषु० ३ / कलेोपनि ४ ऋग्वेदोऽथ. ४ स्त्रीशूदद्विजवन्धूनाम् य एवं विद्वान यो दीक्षित उपांशु पौर्णमास्याम्. यजमानः ५, इतिहासपुराणायैः नमु स्तोतार: . घनश्नन्न्यः० यतो वा इमानि. महि निन्दा निन्धम्० एको विष्णु नमोऽस्त्वनन्ताय. ध्यायन् कृते यजन्० ब्राह्मणेभ्यो दधिः पाहवनीये पदे जुहोति. वार्चन पौर्णमास्याम् सर्वेभ्यो दर्शपौर्णमासोर वैश्वदेव्यामिक्षा सास्य देवता श्रामिक्षां देवतायुक्ताम्. पुराणं पञ्चमो वेदः पुराणन्यायमीमांसा विधिना स्वेकवा. . . 14 . प्रतत्ते अद्या ६ त्वेशं ह्यस्य. . ० . ६ मनामहे ६ । वेषं रुद्रस्य नाम प्रतीकम् । पृष्ठम् । . [३] पृष्ठम् । प्रतीकम्। ११ | त्रिदेवः पृथिवो. विचक्रमे पृथिवी. तदस्य प्रियमभिः यस्य श्री पूर्णा यः पूा वेधसे द्वा सुपर्णा १२ प्रविष्णवे. पएणां तु कर्मणामस्य श्रावयेचतुरो २० एतया निषाद श्वाद: पुल्क सक:० नैव तस्य कृतेनार्थः० अमृतं दिवि किल. 0 . श्रात्मारामाश्च मुनयः. चतुर्विधा भजन्ते. तीयन्ते चास्य कर्माणि ज्ञानाग्निः सर्ववारिण . . २२ २२ ० वज हस्तः० देवांश्च याभिर्यजते. वसन्ताय कपिम्जा यस्योभयं हविः० ऋतं पिबन्ती नहरे इति यो नित्यम् गोनः सुरापो नियतम्. नाम्नां मे किल चैद्यस्यैव० २३-२५ १३ मद्दता यत्र० १३ | यो ब्रह्माणं विदधाति. १३ । दक्षिणं हि दीक्षितः० जायमानो वै ब्राह्मणः १५ एतमेव वीग्या० कृष्णः स्तुत्यति केनेह. १५ | अम्बरीषण पुरा त्रेतायुगे इत्यादि न ग्लेच्छित. तस्मा केनाप्युपा० १६ | स्तवैरुचोवचैः १६ ब्राह्मणो निवेदमायात्. १७ परित्राणाय साधूनाम् ग्राम्यगीतम्। १७ । यमेवैष. १७ ' यद्वृत्तयोगः० न माधयति २६ पूत एवं स० हिरध्यदा अ. किमलभ्यम् प्रतचे अद्य० नूमों दयते. २८ २८ .
[४] प्रतीकम। पृष्टम् । प्रतीकम् । पृष्ठमा ३ . . D . ३३ . ३३ . यत् कर्मभिः भक्त्या मामभिजानाति तमेव चार्चयन्नित्यम अनादिनिधनम्। वासुदेवाश्रयः न वासुदेव० अप्यन्यचित्तः० संसार सर्पदष्टानाम् यत्र यत्र स्थितो वापि० सर्वधर्मोमिझता.. विष्णुसस्मरणादेव० ३३ ३३ २८ यदिच्छसि पर ज्ञानम० के शवा पुरुषा लोके. हरेः संकीर्तन पुण्यम श्रोतव्य २६ २६ तावत् कर्माणि यदृच्छया मत्कथादौ अस्मिन् लोके वर्तमानः जातश्रद्धो मरकथासु० स्थाने हृषीकेश, २६ आनन्दाद्धयेय- तप्ते पयमित श्रह सर्वस्या मच्चिता मगतप्राणा:० ३० ददामि बुद्धि भक्तिः परेशानु. ३० इत्यच्युताघ्रिम ३० वशीकृते मनस्येपाम प्रेक्तेन भक्तियोगेन ३० भिद्यते हृदयग्रन्थिा भयं भयानामा ३ . ३७ कृष्णानाम सदा० महादेव महादेव एतनिविद्यमानानाम कलेदोषनिधे राजन० तोऽनुकम्पाम. यन्नामोच्चारणादेव अहो चित्रमहो चित्रमा ० तरेजोऽसृजत " ब्राह्मणाः त्रिमा ३६ व्रजस्तिष्ठन . ३१ नमक्रतुः पश्यनि ये तु सर्वाणि कर्माणि ॥ यस्य स्मरणमात्रेण . ये मानवा. ३१ तेषामहम् परदाररतो वापि अथातो ब्रह्मजिज्ञामा पृष्टम । ० द . ४६ . ० . प्रतीकम । पृष्ठम प्रतीकम् । न निविष्णो नातिसक्त'. रौरवादिए एवव्रत स्वप्रियनामकी.. अवशेनापि यन्नानि न पारमेष्ट्यम्- प्रायास. स्मरणे कोऽस्या तेषामेवानुकम्पार्थम दन्ता गजानां कुलिशान. मय्यावेश्य मनो. ४३ तस्मादहर्निश विष्णुम ये त्वक्षरम० ४३ सर्वार्थशक्तियुक्तस्य० सन्नियम्येन्द्रिय सर्वागि नामानि० क्लेशोऽधिकतर अज्ञानादथवा. तमेव विदित्वा० सा३त्यं पारिहास्य वा० यदीच्छमि पर ज्ञानम् अय हि कृतनिर्देश कृषि वाचक शब्दः केचित्केवलया भक्त्या० पेय पेयं श्रवणपुटके गोविन्देति समुच्चार्य रमन्ते योगिन विविदिषन्ति स्नेनः सुराप' कर्मणैव हि संसिद्धिमा सवेषामप्यधवताम् भारुरुक्षोर्मुने इति श्रुत्यादिप्रतीकर्मकलनम् । ४७ ४८,४६ . ४६ . . ब्राह्मणाः क्षात्रीयाः० ० [६] तृतीयं परिशिष्टम् । अथावत्यभक्तिमाहात्म्यबोधकानां श्रुत्यादीनामकारादिक्रमेणानुक्रमणिका पृष्ठम् प्रतीकम् । प्रतीकम् । पृष्ठम् । . ४७ तोऽनुकम्पाम्. ३० अज्ञानादथवा श्रप्यन्यचित्तः . २६ २० तदस्य प्रियः तमु स्तोतारः १०,०४ . २६ . 0 १ अभ्यस्य विद्याम् अमृतं दिवि. श्रयं हि कृत निवेश:० अवशेनापि० अस्मिन् लोके. अहो चित्रम् प्रात्मारामाश्चमु० इत्यच्युताब्धिम् इह खलु कर्मकृतानाम् . ऋग्वेदोऽथ. एतनिविद्यमानानाम एवंव्रतः स्वप्रियनामका कलेदोषनिधे कृष्ण नाम सदा गेयम. केचित्केवलया. के शवाः पुरुषाः० गोग्नः सुरापः० गोविन्देति समुच्चार्य चतुर्विधा भजन्ते माम् तमेव चार्चन् नित्यम् ४८, ४६ | तस्मात्केनाप्युपायेन ४६ | तस्मादहर्निश नित्यम्। ३३ | त्रिदेवः पृथिवाम् स्वेष रुद्रस्य. ५ | स्वेषं ह्यस्य. दन्ता गजानाम् ध्यायन् कृते न निविष्यो नाति न पारमेष्व्यम्। न वासुदेवः न साधयति ३० नाम्नां मे किला ४८ नू मर्तो दयते. नृ हरे इति परदाररतो वापि० 0 १ ० . प्रतते अध० ११,१८ प्रविष्णवे. २४ [८] अथ शुद्धाशुद्धबोधकपत्रम् । अशुद्धम् । शुद्धम्। पृष्टम् । पङ्क्तिम् । अशुद्धम् । शुद्धम् । पृष्ठम् । पक्तिम् | पुरुसुक्ते पुरुषसूक्ते लादि च्छादि २८ निन्ध निन्धं २ संन्यासः २८ जीवते जीवेत १ २२ २० सन्यास' २२ वाक्यफल यागफल २० तारतम्यम्-न तारतम्यम् ८ वृहन्ना बृहन्ना याजस्य यागस्य २ ब्रह्मा ब्रह्मा २२ भक्त *भक्त त्रैवणि भजयेयु कतणां त्रैवर्णि भजेयु कतणां १६ मु ६ अन्यथा अन्यथा प्राथसि पाथसि २० १२ शूष अवै तीया स नीयास भावनया भावनायां ४५ निल्लोतु निहोतुं प्रस्त ममैत् ममैतत् ४६ परिहास्यं पारिहोस्य ४८ सुनुना सूनुना विभूत विभूति २२ सेब्य सेव्य २१ इत्यन्यत्र-इति । अन्यत्र २२ नाईन्ति नार्हति ३ ५ मवद्ध मबद्ध २६ १ पापनु पापानु २७ कृष्ण इति शुद्धाशुद्धबोधकपत्रम् ।
-
श्रीमदाश्रमस्वामिविरचितं
वैष्णवकराठाभरणीयं
नाममाहात्म्यम्
No text on this page.
श्रीः। प्राथमिकं निवेदनम्। अथेदं प्रकाश्यते श्रीमदाश्रमस्वामिविरचितं वैष्णवकराठाभर- णीयं नाममाहात्म्यम् । वैष्णवकण्ठाभरणनामा ग्रन्थो नाममाहात्म्या- द्यनेकप्रकरणयुतो भक्तिशास्त्रीयो भवेदिति केवलमनुमातुं शक्यते। यतो ग्रन्थकारण ग्रन्थान्ते 'वैष्णवकण्ठाभरणे नाममाहात्म्यं समा- तम्' इत्युक्तं, ग्रन्थमध्ये च 'कायव्यूहस्य निराकरिष्यमाणत्वेन' इत्याधुक्तिरुपलभ्यते निराकरण च नोपलभ्यतेऽतो नाममाहात्म्याति- रिक्ते वैष्णककराठाभरणीयभागे तस्य निराकरगं स्यादित्यनुमिता- यामप्यनुलब्धग्रन्थभागसत्तायां ग्रन्थस्य सर्वाङ्गपरिपूर्णोपलब्धि व भवतीति महद्दःखस्थानम । सर्वनाममाहात्म्यबोधकग्रन्थापेक्षयास्य ग्रन्थरत्नस्य विलक्षणवैशिष्ट्यं यावजीवं करिष्यामीति संकल्पित- स्थार्चनादिकस्य स्थाने तत्कर्तुमशक्तस्य पुरुषस्य कृते कलौ केशव- कीर्तनस्यैव प्रतिनिधिरूपेण बोधितत्वेन, नामोच्चारणस्य प्रदोष- मग्निहोत्रमितिवत्प्रातर्निशि तथेतिपुराणवचनेन नियतकालादि- बोधकत्वेन, अनेकफलकमपि नामोच्चारण दोषवर्जितं चेत्सफल भवतीति निश्चायकत्वेन च पार्थक्येन दरीदृश्यते । प्रायो नाम- जापकाः सर्वेप्याधुनिकाः स्वाश्रमविहितकर्मत्यागिनो घेदनिन्दापरा अपि नाम्न एव सर्वदोषनिराकरणपूर्वकं परमेश्वरसायुज्यादिसकल- मुक्तिप्रदत्वमिति मन्वते । प्रतिपादयन्ति च साग्रहं सर्वत्र । तैरवश्यं 'श्रीभगवन्नामकीर्तनं कुर्वतापराधाः सर्वथा परिहर्तव्याः' इत्यादि सप्रमाणं ग्रन्थकारोक्त विशेषतः संचिन्तनीयम् । अस्तु । ।
(२) अत्रोपलब्धनाममाहात्म्यबोधकपद्धतेः श्रीलक्ष्मीधररचित- भगवन्नामकौमुद्या अनुसारित्वेनायं ग्रन्थो भगवन्नामकौमुद्या अनन्तरं जातो ग्रन्थकारश्च विद्वद्वरलक्ष्मीधरसमयादनन्तर जात इत्येव केवलं कल्पयितुं शक्यते। तथा ग्रन्थस्थविषयावलोकनेन भक्ति- शास्त्रे, मीमांसायां, कर्मकाण्डे, पुराणादिषु चास्य विद्वद्वराश्रमस्वा- मिन उत्कट पाण्डित्यं स्यादिति वक्तु पार्यत इतोऽधिकं ग्रन्थकार- विषय इतिवृत्त नोपलभ्यते। विद्वद्वरैरैतिह्यचतुरैरन्यतोऽन्वेषणीयम् । प्रकृतग्रन्थस्यैकमेव पुस्तकं काशीस्थराजकीयस्वरस्वतीभवनत उपलब्धं तदवलम्ब्य यथामति संशोध्य विदुषां पुरत इदं ग्रन्यरत्न निधीयते । अत्र सोसकाक्षग्योजकादितो जाताशुद्धीनिरस्यावत्यान् गुणानास्वादयन्तु विद्वद्वरा भक्तिशास्त्रतत्परा इति सप्रार्थयते- गवर्नमेंट संस्कृत कॉलेज श्रीअनन्तशास्त्री फडके कार्तिकशुद्धचतुर्थी व्याकरणाचार्यों मीमांसातीर्थश्च । संवत् १९६४, काशी।
२ २ ३ ३ वैष्णवकण्ठाभरणे विषयसूचिका। विषयः पृष्ठम् विघ्नादिनाऽशक्येऽर्चनादिके प्रतिनिधित्वेन हरिकीर्तनम् अर्चनादेर्यावजीवकर्तब्यस्वे प्रमाणप्रदर्शनम् यावजीवकर्तव्यत्वेऽपि कालविशेषप्रदर्शनम् नामकीर्तने श्रद्धाभक्त्योर्विकल्पेनाङ्गत्वम् कर्माङ्गनामकीर्तने फलश्रवणमर्थवाद इत्यादिशङ्कोस्थितिः ३ अस्या एकस्य तूभयत्वे इतिन्यायेन खण्डनम् अत्रैव प्रसङ्गतः कामविधिविभक्त्यो प्रदर्शनार्थ विष्णुधर्मीयश्लोक- प्रदर्शनम् नामोच्चारणेऽर्थज्ञानापेक्षा नास्तीति कथनम् नामोच्चारणाभ्यासोपयोगप्रदर्शनम् द्वादशाब्दादिप्रायश्चित्तनिमित्तकनामोच्चारणजन्यफलविषयशङ्कावर्णनम् ७ अस्या अत्यल्पेनापि वह्निकणेन ग्रामदाहदर्शनादित्यादिदृष्टान्तप्रदर्शनेन खण्डनम् द्वादशाब्दाद्युपदेशो मन्दानां कृत इति विवेचनम् नामकीर्तनात्सर्वपापक्षय इत्यत्रानेकवचनप्रदर्शनम् नामापराधप्रदर्शनम् अपराधनिवर्तकोपायप्रदर्शनम् फलाथै नामकीर्तन आवृत्तिरपेच्यते साङ्गे भगवन्नानि सम्पूर्णफलं व्यङ्गे विकलं फलम् भगवन्नामकीर्तनं सर्वपुरुषार्थसाधनमितिसिद्धान्तप्रदर्शनपूर्वक ग्रन्थ- ६ - समापनम्
No text on this page.
श्री१००८भैरवाय नमः।
श्रीमदाश्रमस्वामिविरचिते
वैष्णवकण्ठाभरणे
नाममाहात्म्यम् ।
यदा अर्चनादिकं यावजीवं करिष्यामीति सङ्कल्प्य पश्चात्कर्तु
न शक्नोति तदा अर्चनादिप्रतिनिधित्वेन विहितं श्रीहरिकीर्तनमेव
कर्तव्यम् , यथा “यःसत्रायावगुरते स विश्वजिता यजेत" इत्यत्र
सत्रसंकल्पं कृत्वा सत्रयागं कर्तुमसमर्थस्य तहोषनिहरणद्वारा
तत्फलकामस्य विश्वजित् प्रतिनिधित्वेन विहित इति स तेनानुष्ठी-
यते। तथा-
ध्यायन् कृते यजन् यस्तेषायां द्वापरेऽर्चयन् ।
यदामोति तदामोति कलौ संकीर्त्य केशवम् ॥
इति विष्णुपुराणवचनादर्चनादिफलसाधनत्वेन, हरिकीर्तनस्प
विधानात् । न च अर्चनादेर्यावजीवकर्तव्यत्वे प्रमाणाभावः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिक्षया ।
इतिकूर्मपुराणवचनात् ।
ततःप्रभृतिकालाच्च पूजां विष्णोः समाचरेत् ।
२ नाममाहात्म्यम् । प्राणात्ययेऽपि विप्रेन्द्र रक्षेल्लोपात्प्रयत्नतः ॥ इतिपाश्चरात्रवचनात् । वर प्राणपरित्यागश्छेदनं शिरसोऽपि वा। नत्वनभ्यर्च्य भुञ्जीयाद् भगवन्तं सदाशिवम् ।। इति लिङ्गपुराणवचनाच्च । किञ्च गोविन्दनामोच्चारणं क्षत्रबन्धव उपविश्य 'तत्तवोपकाराय भविष्यत्यनुलिप्यताम्' इति विष्णुधर्मेऽ- भिधानाश्च । यावज्जीव काध्यं भगवन्नाम कीर्तन"यावज्जीवमग्निहोत्रं जुहुयात्' इत्यत्र सामस्त्यरूपजीवनविशेषे निरन्तरानुष्ठानप्राप्ती "प्रदोषमग्निहोत्रं होतव्यं व्युष्टायां प्रातः' इत्यादिना नियतः कालो विधीयते, तथा प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । इति विष्णुपुराणवचनेन उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता। गोविन्देति सदा वाच्यं सुतप्रसवणादिषु ॥ इतिविष्णुधर्मवचनेन च नियतकालविधानानाशक्यानुष्ठान- त्वम् । अत्र विनात्यन्तं शुचित्वाधादरः- चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्रकरो यतः॥ इति विष्णुधर्मोत्तरवचनात्। अत्र च श्रद्धाभक्त्योर्विकल्पेनाङ्गत्वम् । अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।।(भगी०१७-२८) यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥
वैष्णवकराठाभरणे- ३ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहवस्तैमृगैरिव ॥ इत्यादिवचनेभ्यः ।श्रद्धातदभावयोरेकत्रानङ्गत्वाद् ग्रहणाग्रहणवद् विकल्पः।भावाभावयोरतुल्यकक्षत्वाच्छधायां फलातिशयः कल्पनीयः। “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इतिश्रुतेश्च, श्रद्धायां स निश्चीयते तस्मात् कल्यः। श्रद्धया प्रसङ्गतो वा श्रीवासुदेवनाम कीर्तयन् कृतार्थो भवति । ननु कर्माङ्गभगवन्नामकीर्तनम् (न कृतार्थताप्रयोजकम् )- यस्य स्मृत्या च नामोक्त्या तपोयशक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इतिस्मृतेः। न च फलश्रवणविरोधः। “न स पापं श्लोकं शृणोति" इतिवदर्थवादत्वात् । विधीयमाना पर्णता यथा अपापश्लोक- श्रवणेन स्तूयते तथा कर्माङ्गभूतस्य हरिनामकीर्तनस्य स्तुतिः, पापक्षयस्तुतिरिति । मैवम् । 'एकस्य तूभयत्वे संन्योगपृथक्त्वम्' (जैसू०४-३-५)इतिन्यायेन कर्माङ्गत्वेऽपि खादिरताया इव फलार्थत्वा- विरोधातान च कर्माङ्गनामकीर्तनस्तुतिपरंफलवचनमिति शक्यं वक्तुम्। विध्येकवाक्यत्वाभावात् । 'विधिना त्वेकवाक्यत्वात्' (जैप्सू०१-२-७) इतिन्यायात्। 'यस्य स्मृत्या' इत्यादि काङ्गत्वविधायकं वाक्यमन्यत्र, अन्यत्र च फलवचनमिति नैकवाक्यत्वम् ,फलवचनानामनारभ्याधीत- त्वादत एवोपनिषदांनक्रत्वर्थकर्तृस्तावकत्वम्। न चानारभ्याधीत- पर्णतायाः क्रत्वर्थत्वेन तदेकवाक्यत्ववत्फलवचनानां क्रत्वङ्गनाम- कीर्तनैकवाक्यत्वमितिवाच्यम् । जुह्वा पर्णताविधानस्यानर्थक्यात्, क्रत्वपूर्वसाधनलक्षणयातत्रैव पर्णताविधानायुक्तं तदेकवाक्यत्वम्।इह तु हरिनामकीर्तनमात्रस्य अनाश्रितस्य फलार्थत्वेन विधानात् नाममाहात्म्यम। वैयधिभावान्न लक्षणाश्रयणम् । किञ्च फलश्रुतेरर्थवादतायामस्मि- न्वाक्ये किं विधेय यस्य फलवचनं स्तावकम् । क्रतूपस्थापकपदाभा- वेन तदङ्गत्वेन नामकीर्तनविधानानुपपत्तेः। भाव्याकाक्षिणा नामकीर्तनविधेः श्रूयमाणं फलमेव भाव्यत्वेन कल्प्यते, पर्णताविधौ तु ऋतूपकारस्यैव भाव्यत्वान्न फलमाकाङ्क्षत इति भवति फल- श्रुतिरर्थवादः । अपि च पापश्लोकश्रवणादयुक्तमर्थवादत्वम् । त्वर्थत्वेन पर्णताया विधीयमानत्वेन तदेकवाक्यत्वात् । न चोभय- विधानम् वाक्यभेदप्रसङ्गात्। इह तु नान्यद्विधेयमस्ति येन तत् स्तूयेत कर्माङ्गनामकीर्तनं दूरस्थमतोन तेनैकवाक्यत्वमिति फलविधिरेव।न च विध्यश्रवणादर्थवादत्वम्। रात्रिसत्र इवार्थवादस्यैव शक्तिद्वयकल्प- नात् ,विधिविभक्तिश्रवणस्य रात्रिसत्रवाक्येऽपि तुल्यत्वात् न च विध्य- श्रवणमपीत्यनुपदमेव वक्ष्यामः । किञ्च यद्यकत्र कर्माङ्गत्वेन श्रुतमिति पुरुषार्थत्वं व्याहन्येत तर्हि खादिरतायामपि तन्न स्यात् । “खादिरो यूपो भवति" इति क्रत्वर्थत्वेन श्रवणात् । “खादिरं वीर्यकामस्य" इतिफलवचनमर्थवादमात्रमिति स्यात्तथा सति 'एकस्य तूभयत्वे' इतिन्यायोच्छेदः । न च कर्मासम्बन्धाद् विधिप्रत्ययश्रवणाच फल- विधिरेवायं नार्थवादः । अत एव पर्णमय्यधिकरण इदं कामपदरहि- तानामर्थवादत्वमुक्तमिति वाच्यम् । तथा सति रात्रिसत्रस्य प्रतिष्ठा- फलत्वं न स्यादुमयाभावात् । जातेष्ट्यादीनां पूतत्वादिफलत्वं चनस्यात् कामपदाश्रवणात्।नच तत्कल्पनम् , तस्यात्रापि नामकी- तनवाक्ये सम्भवात् । न च पापश्लोकश्रवणेऽपि तत्कल्पनापत्या पर्णमय्यधिकरणविरोध इति वाच्यम् । वाक्यभेदेन फलत्वनिराकरणे तत्कल्पनानवकाशात् । कामपदाभावेऽपिनार्थवादत्वकल्पनमभ्युच्च- यमात्रमिति न किञ्चिदनुपपन्नम्। वस्तुतस्तु नेह' कामविधिविभक्त्यो- रत्यन्तदुर्मिक्षता, विष्णुधर्मे शतशो दर्शनात् ।
वैष्णवकराठाभरणे-
५
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।
विक्रमश्चैवमादीनि जप्यानि विजिगीषुभिः॥
अच्युतं चामृतं चैव जपेदौषधकर्मणि ।
भ्राजिष्णुमद्यहाने च जपेदालम्बनस्थितम (१)॥
विद्यामभ्यस्यता नित्यं जप्तव्यः पुरुषोत्तमः॥
केशवं पुण्डरीकाक्षं पुष्काराक्षं तथा जपेत् ॥
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ।
संग्रामाभिमुख गच्छन्संस्मरेदपराजितम् ॥
पातालनरसिंहं च जलप्रतरणे स्मरेत् ।
चक्रिणं गदिन चैव शाङ्गिणं खगिनं तथा ॥
क्षेमार्थ प्रवसन् राजा दिनु प्राच्यादिषु स्मरेत् ।
अजितं चाधिकं चैव सर्व सर्वेश्वरं तथा ॥
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ।
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ॥
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ।
सवा सिद्धिमवाप्नोति नाम्नामेकार्थता यतः ॥
यं यं काममभिध्यायेत्तन्तमामोत्यसंशयम् ॥ इति ।
अत्र "सर्वेभ्यो ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासौं' इत्यत्रेव
सर्वफलार्थत्वं नाम्नां विधीयते।न चानुवादकत्वमाराङ्कनीयम्।अप्रा-
तत्वेन तदसम्भवात् । अत्र नाम्नामैच्छिको विकल्प: तुल्यार्थत्वात्
सर्वार्थत्वेऽपि न युगपत्सर्वफलप्राप्तिः फलस्योद्देश्यत्वेन तत्सा-
हित्यस्याविवक्षितत्वात , युगपत्सर्वकामनासम्भवाच्च पापक्षयस्तु
सर्वैः समुच्चीयते। अत एव स्वर्गफलार्थमनुष्ठितादपि ज्योति-
ष्टोमात् पापक्षयो जायत इति स्वीक्रिते। पापाक्षयमात्रकामेन तु
भगवन्नाम्नः सकृदुश्चारणं कार्यम् ।
.
६ नाममाहात्म्यम् । - सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्ध :परिकरस्तेन मोक्षाय गमनं प्रति ॥ इतिस्मृतेः । परिकरबद्धशब्देन लक्षणया सर्वपापक्षय उच्यते। अक्षरद्वयमित्यभिधानान्नार्थज्ञानापेक्षेति गम्यते । न च- तस्मादहर्निशं विष्णु संस्मरन् पुरुषो मुने। न याति नरकं शुद्ध :संक्षीणाखिलपातकः ॥ इत्यभ्यासश्रवणान्न सकृन्नामकोर्तनं सर्वपापक्षहेतुरिति वाच्यम् । तस्यागामिपापापनोदनार्थत्वेन चोदनात् । सकृन्नामोच्चारणस्य प्रती- तानेकजन्मार्जितकामाकामहतसर्वपापापनोदनार्थत्वेन चोदनात् । सकृन्नामोच्चारणेन अतीतानेकजन्मार्जितकामाकामकृतसर्वपापक्ष- येऽपि पापवासनाऽनिवृत्त्या पुनः पापनुष्ठानसम्भवेन नरकपातावश्य- भावात्तनिवृत्यर्थमभ्यासविधानम् । तेनाभ्यस्तेन पापवासनाविवृत्तः पापाननुष्ठानान्नरकपापसम्भावनाऽपि 'क्षिण भवति धर्मात्मा शश्वच्छान्ति निगच्छति' (श्र० ६ श्लो० ३१) इतिभगववचनात् । अथवा अभ्यासोऽन्ते भगवत्स्मरणार्थः, न पापक्षयार्थः-- अविल्पुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः। विष्णुलोकमवानोति सत्यमेतन्मयोदितम् ।। अन्ते (च) कृष्णस्मरणं भवतापत्रयापहम् । इतिस्मरणात् । तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥(८-७) इतिभगवद्वचनाच्च । तस्मात्सकृदुच्चरितेन भगवन्नाना सर्वपापक्षयः, अभ्यासेन वासनानिवृत्तिः, अन्ते विष्णुस्मरणं चेति सिद्धम्।
वैष्णवकराठाभरणे- . ननु भगवन्नामोच्चारणेनानायाससाध्येन द्वादशाब्दादिनि- वानां कथं निवृत्ति , निवृत्तौ वा तदुपदेशानर्थक्यम् । किञ्च अल्पे कर्मण्यल्पं फलं महति महत्फलं स्थानसामान्यात् । तदुक्तं मट्ट। कर्मणामल्पमहतां फलानां च स्वगोचरे। विभागस्थानसामान्यादविभागोऽपि चोदितः ॥ इति । 'फलस्य कर्मनिष्पतेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात्' (अ०१-२-१७) इतिसूत्रेणैव साक्षाज्जैमिनिना कर्मानु- रूपफलाभिधानाच्च । एवं च क्लेशलेशरहितं भगवन्नाम- कीर्तनं कथं सर्वपापक्षयकरमिति । मैवम् । अत्यल्पनापि वह्निकणेन प्रामादिसर्वदाहदर्शनात् , सिंहशिशुना षष्टिहायनसि. न्धुरोपमर्ददर्शनात् , स्वल्पेनापि ( विषेण ) प्राणिनां प्राणह- रणदर्शनात् , वचनस्यानतिशङ्कनीयत्वाच्च । श्रमस्याप्रयोजकत्वात् , अन्यथा तत्वज्ञानस्य सर्वकर्मनाशकत्वं न स्यात् । ब्रह्मात्माकार- चित्तवृत्तौ श्रमलेशाभावात्साधनश्रमस्योभयत्रापितुल्यत्वात् । नचेष्टा- पत्तिः, कायव्यूहस्य निराकरिष्यमाणत्वेन जन्मकोटिभिरपि कर्मणां भोगासम्भवादनिर्मोक्षप्रसङ्गात् , सुराबिन्दुपानस्य महापापत्व स्यात् , ब्रह्मवध्यादाविव श्रमाभावात्, रहस्यमहापापादौ अघमर्षण- सूक्रादिजपस्य प्रायश्चित्तत्वेन विधानं च न स्यात् , अतो न श्रम एव पापं हन्तीति वक्तुं शक्यम । किञ्च धर्माधर्मयोर्नरकस्वर्गयोर्वा न प्रत्यक्षानुमानादिप्रमाणं विद्यमानोपलम्भनत्वात्प्रत्यक्षस्य, तन्मूलत्वा- दितरेषाम् नैवं श्रुतिस्तदनुसारिणी स्मृतिश्च, तदुक्ते चार्थे नोपपत्त्य- पेक्षा । अतः सुखसेव्येन भगवान्नामोच्चारणेन सर्वपापक्षयः श्रूय- माणोऽसति बाधके प्रमाणेन न शक्योऽन्यथयितुम् । न च "फलस्य कर्मनिष्पतेः" इतिन्यायेन विरोधः । एकफलान्येव यत्र कर्माणि श्रुतानि फलेयत्ता तु श्रुतिवाक्यतो नावगता कर्मणां बह्वल्पायाससाध्यत्वं नाममाहात्म्यम् । नावगत तद्विषयो न्याय :, न तु यत्र फलेयत्ता शाता तत्राय न्याय: प्रसरति । वचनापेक्षया न्यायस्य दुर्बलत्वात् । न च द्वादशाब्दाधु- पदेशानर्थक्यम्। कर्मजडाना महायासद्रव्यसाध्यकर्मश्रद्धावतां भगव- नामोच्चारणेऽप्रवृत्तेः द्वादशाब्दाद्यपदेशस्य तद्विषयत्वात् । अकृ. नपुण्यानां भगवन्नामोच्चारणासंभवात् । स्मृत्युक्तेनैव प्रायश्चितेन यथावदनुष्ठितेन तत्तन्यायनिवृत्तिः । श्रीभगवन्नाम्नि श्रद्धावतां पापिनामनुतापिनां भगवन्नामस्मरणमेव परमं प्रायश्चितम । तदुक्तं विष्णुपुराणे- प्रायश्चितान्यशेषाणि तपःकर्मात्मकानि वे यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ।। कृते पापेऽनुनापो वै यस्यः पुंसः प्रजायते । प्रायश्चितं तु तस्यक हरिसंस्मरणं परम् ॥ सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैः कृतम् । पापराशिदहत्याशु तूलराशिमिवानलः ॥ क्षान्तिः कलेरधौघस्य नामसंकीर्तनं हरेः॥ यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ इत्यादिवचनैः शतजन्मार्जितं पापं भगवन्नाम नाशयतीति निश्चीयते, किं पुनरेकजन्मार्जितं पापं नाशयतीति । स्मरणं नामकी- र्तनान्तर्भूतम् “यद्धि मनसा ध्यायति तद्वाचा वदति मनसा वा अन सकल्पयतीत्यथ वाचा व्याहरति" इतिश्रुतेरिति शङ्करभगव- त्पादाः । किं च किमाश्चर्य श्रीहरिनाम कीर्तनेन पापक्षय इति । यतो भगवानात्मानं स्वनामकीलयत ऋणिनं मन्यते । ऋणमेनत्मवृद्ध मे हृदयानापसर्पति । यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥ इति ।
वैष्णवकण्ठाभरणे- ६ पाराशरोऽपि कैमुतिकन्यायेन विष्णुनाम्नः कीय॑मानात्सर्व- पापक्षयमाह-किञ्चित्रं यदघ प्रयाति पिलयं तत्राच्युते कीर्तिते इति । अयमर्थः । यः स्वभक्तानां सविलासमज्ञानं हन्ति इछामात्रेण च जगतो जन्मस्थितिभङ्ग करोति तस्याच्युतस्य कीर्तने पापक्षयो जायत इति किमाश्चर्यमिति । तत्सिद्ध सकृदुश्चारितं श्रीभगवन्नाम सर्वदुरि- तहरमिति श्रीभगवन्नामकीर्तनं कुर्वता अपराधाः सर्वथा परिह- र्तव्याः । तदुक्तं पाने-नारद उवाच- योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् । कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय ॥ सनत्कुमार उवाच- शृणु नारद गोविन्दप्रिय गोविन्दधर्मवित् । यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परात् ॥ सर्वाचारविवर्जिता' षठधियो व्रात्या जगद्वञ्चकाः। दम्भाहकृतिपापपैशुनपराः पापान्त्यजा निष्ठुराः ॥ ये चान्ये धनदारपुत्रनिरताः सर्वाधमास्तेऽपि हि । श्रीगोविन्दपदारविन्दशरणाः शुद्धा भवन्ति द्विजाः॥ तमपि देववरं करुणाकरं स्थावरजङ्गममुक्तिकरं परम् । अतिचरन्त्यपराधपरा नरा य इह तानवति ब्रुवतामिह ॥ सर्वापराधकरोऽपि मुच्यते हरिसंश्रयः । हरेरण्यपराधान्यः कुर्याद्विपदपांसनः ॥ नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नोऽपि सर्वसुहृदो त्यपराधात्पतत्यधः ॥ नारद उवाच- के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृताः ।
१० नाममाहात्म्यम्। विनिधनन्ति नृणां कृत्यं प्राकृतात्पालयन्ति च ॥ सनत्कुमार उवाच- सतां निदा नाम्नः परममपराध वितनुते यतः ख्यातिं यात कथमु सहते तद्विगर्हाम् । शिवस्य श्रीविष्णोर्य इह गुणनामादि सकलं धिया भिन्नं पश्येत्स खलु हरिनामाहितकरः ॥ धिया--तत्वदृष्टया, व्यावहारिकमेदस्य, इतिहासपुराणयोःसंप्रति- पन्नत्वात् । गुरोरवशा अतिशास्त्रनिन्दनं तथार्थवादो हरिनामकीर्तने । नाम्नो बलाद्यस्य च पापबुद्धिः न विद्यते तस्य यमैविशुद्धिः ॥ धर्मवतत्यागहुतादिसर्व- शुभक्रियासाम्यमपि प्रमादः । अश्रद्दधाने विमुखेऽप्यशृण्वति यश्चोपदेशः स महापराधः ॥ श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः । अहं ममेति परमो नाम्नि सोऽप्यपराधकृत् । एवं नारदशङ्करेण कृपया मह्यमुनीनां पुरः प्रोक्तं नाम शुभावहं भगवतो वयं सदा यत्नतः । यद्शात्वापि न वर्जयन्ति सहसा नाम्नोऽपराधान् दश क्रुद्धां मातरमप्यभोजनपरां खिद्यन्ति ते बालवत् ॥ अपराधविनिर्मुक्तौ नाम्नि यत्नं समाचर । नाम्नैव तव देवर्षे सर्व सेत्स्यति नान्यतः ।।
वैष्णवकण्ठाभरणे-
११
कृतापराधानां अपराधसमाधानमपि तत्रैवोक्तम् । नारदः
सनत्कुमार प्रियसाहसानां
विवेकवैराग्यविवर्जितानाम् ।
देहान्नजायात्मजतत्पराणा-
मुक्तापराधाः प्रभवन्ति नो कथम् ।।
सनत्कुमार:-
नामापराधयुक्तानां नामान्येव हरन्त्यघम् ।
अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥
नामैकं यस्य वाचि श्रवणपथगतं श्रोत्रमूलं गतं वा
शुद्ध वाऽशुद्धवर्ण व्यवहृतिरहितं तारयत्येव सत्यम् ।
तच्चेदेहद्रविणजनदयालोभपाषण्डमध्ये ।
निक्षिप्त स्यान फलजनकं शीघ्रमेवात्र विप्र॥
इदं रहस्यं परमं मया नारद शङ्करात् ।
श्रुतं सर्वाघहरणमपराधनिवर्त्तनम् ॥
देवविष्यवभिधानायेष्वपराधपरा नराः ।
तेषां वै जायते मुक्तिः पठणादेव नारद ॥
फलाथै तु भगवन्नामकीर्तने श्रावृत्तिरपेक्ष्यते ।
तदुक्तं महाभारते-
प्रयोजयामास तदा नाम गुह्यमिदं मम ।
प्रानुपूर्येण विधिना केशवेति पुनः पुनः ।
स चक्षुष्मान्समभवद् गौतमश्चाभवत्ततः ॥ इति ।
१२ नाममाहात्म्यम्। यद्यपि काम्ये कर्मणि सर्वाङ्गोपसंहारसमर्थस्यैवाधिका- रात्सर्वाङ्गोपेतादेव काम्यकर्मणः फलं भवति न व्यङ्गात् । अना- वश्यकत्वेन यथाशक्त्युपबन्धाभावात् । तथापि अदेशेऽकाले यहानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ (भ.गी०१७-२२) इतिव्यासवचनाद् विकलादपि दानादेः विकलं फलं भवतीति निश्चीयते । श्रीविष्णुधर्मेऽपि-- उपवासादिना राज्य प्राप्यते च यथा तथा । भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः॥ रूपन्तथोत्तमं प्राप्य व्रतवैकल्यदोषतः । काणाः खजाश्च जायन्ते भवन्त्यन्धाश्च मानवाः ॥ इति । एवञ्च भगवन्नामकीर्तने साङ्गे सकलं फलं व्यङ्गे तु विकलं फलं भवति, यत्र वा फलं न दृश्यते तत्र कार्यादिवत्प्र- तिबन्धकबाहुल्य कल्पनीयमिति । न च न्यायविरोधः, न्यायस्य वचनापेक्षया दुर्बलत्वातः । यथावदानप्रयुक्तत्वात्पुरोडाशस्याव- दाननाशे न्यायेन पुनः पुरोडाशः प्रामोति “यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुः" इत्यादिवचनादाज्येन यागः क्रियते वचनस्य न्याया- पेक्षया बलीयस्त्वादेवमिहापीति दिक । (इति)सिद्धं भगवन्नामकीर्तनं सर्वपुरुषार्थसाधनमिति! श्रीमदाश्रमस्वामिरचिते वैष्णवकाठाभरणे नाममाहात्म्यं समाप्तम्।।
वैष्णवकण्ठाभरणे
१
मया वारं वारं जठरभरणाय प्रतिदिशं
प्रयातेन wथीकृतमहह जन्मैव सकलम् ।।
हृदिस्थोऽपि श्रीमानखिलपुरुषार्थेकनिलयः।
दयोदारस्वामी न च गरुडगामी परिचितः॥१॥
No text on this page.
[१] पृष्ठम् । १ . ध्यायन् कृते. १ ० १ . १ ० ६ प्रथमं परिशिष्टम् । अथ प्रमाणतयोद्धतवचनप्रतीकसंकलनम् । प्रतोकम् । पृष्ठम् । प्रतीकम् । यः सत्राय विद्यामभ्यस्थता नेत्रबाधासु. पूजयेद्भाव पातालनरसिंहम ततः प्रभृतिकालाच्च० क्षेमार्थ प्रवसन्० वर प्रागपरित्यागात्० २] सस्मरेत्पुरुषो भक्त्या० यावजीवमग्निहोत्रम् २ / यद्वाभिरोचते. प्रदोषमग्निहोत्रम् २ सर्वेभ्यो ज्योतिष्टोमः प्रातर्निशि तथा सन्ध्या २ | सकृदुच्चरितम् उत्तिष्ठता प्रस्वपता० २ | तस्मादहर्निशम् चक्रायुधस्य. क्षिण भवति धर्मात्मा० अश्रद्धया हुतम० अविल्पुतमति तन्नामकीर्तन भक्त्या० २ तस्मात्सर्गेषु कालेषु. अवशेनापि यन्नान्नि ३ कर्मणामल्पमहताम् यदेव विद्यया ३ फलस्य कर्मनिष्पने यस्य स्मृल्या च. ३ प्रायश्चित्तान्यशेषाणि. न स पापं श्लोक ३ कृते पापेऽनुताप'. एकस्य तूभयत्वे ३ / सकृत्स्मृतोऽपि विधिना त्वेकवा ३ शान्तिः कले.. खादिरो यूपो भवति. यद्धि मनसा खादिरं वीर्यकामस्या ऋणमेतत्प्रवृद्धम् रामः परशुरामश्च० किञ्चित्रं यदधम् अच्युतं चामृतम् ५. योऽसौ भगवता. O ० ० ० .
[२] प्रतीकम् । पृष्टम। प्रतीकम् । पृष्टम् । 0 ६ | अपराधविनिर्मुक्तः . 8 सनत्कुमार प्रियः 8 . शृणु नारद गोविन्द सर्वाचारविवर्जिता. तमपि देववरम् सर्वापराधकरोऽपि नामाश्रयः कदाचित के तेऽपराधाः० सतां निन्दा नाम्नः० गुरोरवज्ञा० धर्मवतत्याग श्रुत्वापि नाममाहात्म्यम् एव नारदशङ्करण 8 नामापराधयुक्तानाम् 8 नामैक यस्य वाचि० इदं रहस्यं परमम्० देवविष्यवभि० १० प्रयोजयामास तदा प्रदेशेऽकाले० उपवासादिना० रूपं तथोत्तमं प्राप्य० यस्य सर्वाणि हवीपि. इति प्रमाणवचनसङ्कलनम् २ ० १२ - [३] द्वितीयं परिशिष्टम् । नाममाहात्म्यबोधकवचनानामकारादिक्रमेणानुक्रमणिका । प्रतीकम् । पृष्ठम् | प्रतीकम् । पृष्ठम्। अपराधविनिर्मुक्तौ० नामाश्रयः कदाचित्स्यात् अच्युत चामृतम् ५ नामैक बस्य वाचि० अवशेनापि यज्ञानिक ३ | नेत्रबाधासु० अविस्पुतमति० ६ पातालनरसिहं च प्रयोजयामास ऋणमेतत्प्रवृद्ध मे० प्रायश्चित्तान्यशेषाणि यद्वाभिरोचते. ५ कृते पापे० - यन्नामकीर्तनम्० तान्तिःकले० यस्य स्मृत्याच ३ उत्तिष्ठताप्रस्वपता २ किञ्चित्र यदधम्. 8 क्षेमार्थ प्रवसन्० ० ५ राम परशुरामश्च चक्रायुधस्य नामानिः विद्यामभ्यस्यता० तस्मात्सर्वेपु ६ | श्रुत्वापि नाममा० तस्मादहर्निशम् ६ । सकृदुच्चरितम् ध्यायन् कृते. सकृत्स्मृतोऽपि नामापराधयुक्तानाम्० १५ | संस्मरेत्पुरुषः इति नाममाहाल्यबोधकानुक्रमणिका । ६ १
[४]
तृतीयं परिशिष्टम्।
प्रमाणतयोवृतग्रन्थादिनामस्थानप्रदर्शनम् ।
प्रतीकम् ।
प्रतीकम् ।
पृष्ठम् ।
पृष्ठम्।
६
१
भगवढचमात
भट्ट
जैमिनिना
२
विष्णुपुराणवचनात्
कूर्मपुराणवचनात्
पाञ्चरात्रवचनात्
लिङ्गपुराणवचनात्
विष्णुधर्मवचनेम
श्रुतेश्च
स्मृतेः
२
शङ्करभगवत्पादा
पान
३ महाभारते
६ | व्यासवचनात्
इति ग्रन्थादिनामस्थानप्रदर्शनम् ।
[२] अथ शुद्धाशुद्धबोधकपत्रम् । पृष्ठम । पक्तिः । ३ ३ शुद्वम । श्रुति सयोग दुर्भिक्ष पापानु निवृत्तेः भट्टै अशुद्धम् । स्तुति मन्योग दुमिक्ष पापनु विवृत्ते मः ४ २५ १२ ३ १८ REEEEEEEEEEE सूक्रा सूक्ता ३ इछा इच्छा १३ त्य निदा निन्दा ३ परम प्रथम पठणा पठना इति शुद्धाशुद्धबोधकपत्रम् ।