Sri Sringeri Sharada Peetham
Kanyodvahasamayamimansa And Vidhavodvahatimiralokah
Front matter
नेपालकविदुषा पण्डितडिल्लीराजशर्मणा विरचितं
ग्रन्थयुगलम्
कन्योद्वाहसमयमीमांसा
विधवोद्वाहतिमिरालोकश्च
Kanyodvahasamayamimansa
&
Vidhavodvahatimiralokah
Written by
Pt. Dilli Raj Sharma
प्रकाशक:
अच्युतराज रेग्मी
बानेश्वरः, काष्ठमण्डपः, नेपालः ।
दूरभाष: ४७०१९५
प्रथमं संस्करणम्
वि.सं. २०५२ (ई.१९९५)
सर्वेऽधिकारा: प्रकाशकाधीनाः
मूल्यम्- पञ्चाशद् रुप्यकाणि
.-
मुद्रक: नेपाल प्रिन्टिङ्ग सपोर्ट रामशाहपथ, काष्ठमण्डपः, नेपालः । दूरभाषः ४२०४७४
सुसांख्ययोजक: वसन्त भट्टराई ।
न ग्रन्थकार:
प्रकाशकस्य मन्तव्यम् पञ्चपञ्चाशद्वर्षपूर्व पूज्यपितृपादेन प्राध्यापकेन डिल्लीराजशर्मणा विरचितस्य प्रस्तुतधर्मशास्त्रग्रन्थस्य पाण्डुलिपिश्चिरकालं यावत् पुस्तकधान्या गर्भगृहेऽतिष्ठत् । सम्प्रति पुनस्तत्रभवत: प्रेरणयैतस्य ग्रन्थस्य प्रकाशनं सञ्जातमिति कथने नात्युक्ति: । देववाण्यां विरचितो ग्रन्थोऽयं संस्कृतवाङ्मयसेविनां धर्मशास्त्रमर्मज्ञानां च विदुषां कृते प्रमोदाय समुपयोगाय नवानुभूतये च भवेदिति मामकीनो विश्वास: । समाजस्य च - सनातनो हिन्दुधर्मः समाजस्य स्थिरतायै सुव्यवस्थापनाय च प्रारम्भिकाङ्गरूपस्य परिवारस्य शुद्धौ विशेषमहत्त्वमादधाति । सामाजिकस्थिते- रुच्छङ्खलत्वे वर्णसङ्करबहुलत्वे तद्दोषः परिवारेषु समुत्पद्येतेति परिवारसङ्घटनेकवधाननैरन्तयं दृग्गोचरीकृत्यास्मत्पूर्वजैराचारसंहितानिर्माणं व्यधायि । वर्णसड्करबहुले समाजे कश्चिदपि जनो धर्मार्थकाममोक्षरूपपुरुषार्थसाधने न क्षम इत्यस्माकं पूर्वजा मुनयः शास्त्रकाराश्च परिवारघटनस्य प्रथमसोपानरूपं विवाहबन्धनं व्यवस्थापितवन्तः। षोडशसंस्कारेषु विवाहस्य विशिष्टं महत्त्वमुपपाद्य ते विवाहस्य निर्दुष्टपरम्परासंरक्षणाय विवाहकालस्य विवाहकार्यसम्पादनस्य विवाह- गर्भाधानावकाशसमयस्य च विषये विवाहितयोः पत्युः पत्न्या वा निधने जाते तदीयपरिवारस्य वर्णसाङ्कर्यदोषस्पर्शनिवारणस्य सम्बन्धे च कीदृश्याचारपद्धतिः समुचितेति विशदमनुसन्धाय स्वनिष्कर्ष प्रत्यपादयन् । अमुमेव विषयमवलम्ब्य कन्योद्वाहसमयमीमांसा विधवोद्वाहतिमिरालोकश्चेति ग्रन्थद्वयं निर्मितमस्ति । अस्य ग्रन्थद्वयस्य सम्पादने मुद्रणादिकार्ये च समर्पितचित्त: प्राध्यापक: डा. माधव भट्टराईमहाभाग: सविशेष धन्यवादा) विद्यते यस्य सश्रमसहयोगेनाहं नितरामनुगृहीतोऊस्मि । अन्ततः, अस्य ग्रन्थयुगलस्य प्रकाशनेन सनातनधर्मावलम्बिनि हिन्दुसमाजे पाणिग्रहणविषयकं शास्त्रीयज्ञानमुपलभ्य विद्यमानप्रदूषितभौतिकावस्थात: किञ्चिन्मात्रमपि समुन्नतदृष्ट्या विचारणाय प्रेरणा समेषां जायतामिति परमात्मानं प्रार्थये । अच्युतराज रेग्मी वैक्रमाब्द: २०५१।१२।१५ ख-२/७०५ महादेवस्थानम्, बानेश्वरः, काण्ठमण्डपः, नेपाल: । दूरभाष: ४७०१९५ आमुखम् अध्यापकरूपेण नैपालकविद्वत्समाजे ख्यातिमापन्नो डिल्लीराजशर्मा (रेग्मी) सिद्धहस्तो ग्रन्थकारश्चापि वेविद्यत इति कन्योताहसमयमीमांसा विधवोदाहतिमिरालोकश्चेति ग्रन्थयुगलस्यावलोकनाद् विज्ञायते । अथच विविधशास्त्रेषु गभीरपाण्डित्यं दधानस्तत्रभवान् विशेषेण व्याकरणशास्त्रे धर्मशास्त्रे मीमांसादिदर्शनेषु चाप्रतिहतगतिरिति प्रमाणीभवति । श्रीडिल्लीराजशर्मा १९५२तमे वैक्रमाब्दे पश्चिमनेपालस्य पाल्पामण्डले समजनि । धर्मशास्त्राचार्य काव्यतीर्थञ्चेत्युपाधिद्वयं लभमानाऽसौ महानुभाव: १९९०तमवैक्रमाब्दात् २००८तम वैक्रमाब्द यावत् काष्ठमण्डपस्थरानीपोखरीसंस्कृतपाठशालायामध्याप्य २००९तमवैक्रमाब्दात् काष्ठमण्डपस्थराजकीयसंस्कृतमहाविद्यालये धर्मशास्त्रविषय- मध्यापयन् २०१९तमवैक्रमाब्दे सांसारिकलीला परिसमाप्तवान् । नेपाले संस्कृतविद्वत्परम्पराया इतिहास: समृद्धोऽस्तीति तद्विदो वदन्ति । प्रायो द्विसहस्राब्दव्यापिनि नेपालकसंस्कृतसाहित्येतिहासे प्रारम्भत एव काव्यरचनाप्रचारो दरीदृश्यते । नेपालेतिहासस्य प्राचीनार्वाचीनकालयो राजभाषा संस्कृतमेवासीदिति तदा संस्कृतस्य समृद्धिः स्फुटमनुमीयते । तदानीन्तना के संस्कृतग्रन्था अपि साम्प्रतं प्रत्यक्षप्रमाणत्वेन समुपलब्धा वेविद्यन्ते । तेषु काव्य-नाटकग्रन्था तेषु काव्य-नाटकग्रन्था व्याकरणग्रन्था ज्यौतिषग्रन्थास्तन्त्रधर्मशास्त्रग्रन्थाश्च ख्यातिमापद्यन्ते । न केवलं संस्कृतविदो विद्वांस: किन्तु बहवो नेपालनपाला अपि संस्कृतग्रन्थान् रचयामासुः । तत्राष्टमशताब्दयां वर्तमानो विदग्धकाव्यनिपुणो लिच्छविनरेशो जयदेवः (द्वितीयः), सप्तदशशतान्यां बर्तमानो नानारूपकग्रन्थनिर्माणचतुरो मल्लनरेशो जगज्ज्योतिर्मल्ल:, तस्यामेव शतान्या वर्तमानोऽनेकभक्तिकाव्यप्रणयनपर: कवीन्द्रोपाधिधारी राजा प्रतापमल्लः, ऊनविंशशतके वर्तमानो बृहत्पुरश्चर्यार्णवनामकग्रन्थप्रणेता शाहनरपति: प्रतापसिंहश्च विख्यातिं भजन्ते । श्रीडिल्लीराजशर्मा संस्कृतग्रन्थकारपरम्परायां ग्रन्थकाररूपेणेत: पूर्व ख्यातिं न लभते, किन्तु ग्रन्थद्वयमिदं तदीयवैदुष्यख्यापनाय प्रभवतीति मन्यते पञ्चपञ्चाशद्वर्षपूर्व प्रणीतं ग्रन्थयुगलमिदं ग्रन्थकारस्य जन्मशताब्दीवर्षावसरे प्रकाश समेतीति महत: हर्षस्य संयोगस्य च विषयः । - अद्यत: अस्मिन् ग्रन्थयुगले नारीसमस्याया: पक्षद्वये विशदं निरूपितमस्ति कन्याविवाहकालविषये विधवाविवाहविषये च । साम्प्रतिकजगति विषयद्यमिदं निश्चप्रचमपि विवादास्पदीभूतं भवति । यतो वर्तमानसमये कन्याविवाहस्य समर्थनं विधवाविवाहस्य विरोधश्च प्रातिकूल्यं भजत: । परन्तु विहिते गभीरविश्लेषणे समाजस्य निर्दुष्टत्वाय विषयद्वयस्यास्यानुशीलनं सर्वेषां हितकरं प्रतीयत इति नात्र सन्देहलेशः ।
कन्याविवाह-विधवाविवाहयोरौचित्यानौचित्यविषये सम्प्रति जनानां विचारो य: कोऽपि स्यात्, नियमानां व्यवस्था या कापि स्यात् किन्तु ग्रन्थेऽस्मिन् धर्मशास्त्रीयविचार: परिचर्चितोऽस्ति । अस्माकं धर्मग्रन्थेष्वपि वस्तुतो विचारवैविध्यं संलक्ष्यते । यथा कन्याविवाहप्रकरणे कन्यात्वसम्बन्धे नैका विप्रतिपत्तय: सन्दृश्यन्ते। अनूढात्वं कन्यात्वम्, अरजोदर्शनात्वं कन्यात्वम्, उत पुरुषसम्पर्करहितत्वं कन्यात्वमिति विप्रतिपत्तिबाहुल्यं स्फुटं प्रतिपाद्य निष्कर्षरूपेण तेषां त्रयाणां समष्टावेव कन्यात्वं समर्थितं ग्रन्थकारेण । एवमेव कन्यावस्थायामेव विवाहसम्पादनविषये पूर्वोत्तरपक्षयोस्तस्तिथा प्रस्तुता:, यथा कस्याप्येकस्य पक्षस्य समर्थनेऽपि पर्याप्तानि शास्त्रीयप्रमाणानि समुपन्यस्तानि । इदमेव ग्रन्थस्यास्य वैशिष्ट्यं वैचित्र्यञ्च । तथैव च विधवाविवाहस्य पोषणे विविधग्रन्थानां प्रमाणानि समुपन्यस्य निष्कर्षे तद्विरोधे स्वमतं प्रकाशितम् । एतेनोभयदृष्ट्या विषयवस्तुनो विन्यसनाद् ग्रन्थोऽयं विशेषेणोपयोगितां बिभर्तीति विश्वसिमि । एतद्वचनमुदाहरणद्वारा स्फुटीक्रियते । यथा कन्याया: पुनर्विवाहसम्बन्धे- । वरो पद्यन्यजातीय: पतितः बलीव एव च । विकर्मस्थ: सगोत्रो वा दासो रीमियोऽपि वा। ऊढापि देया सान्यस्मै सहावरणभूषणा । (कात्यायनः) सा चेरमतयोनिः स्याद् गतप्रत्यागतापि वा। पौनर्भवेन भी सा पुनः संस्कारमर्हति ॥ (मनुः) इत्यादिरीत्या कन्यायाः पुनर्विवाहस्यादोषत्वं पूर्वपक्षरूपेण संस्थाप्योत्तरपक्षरूपेण तन्निषेधो व्यधायि। विधवाविवाहसम्बन्धेऽपि प्रथमं नानाप्रमाणैः पूर्वपक्ष: परिपोषित:, पश्चात् सयुक्ति प्रत्याख्यातः । यथा- नष्टे मृते प्रबजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ (पराशरः) देवराद् वा सपिण्डाद् वा स्त्रिया सम्पङ् नियुक्तया। प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥ (मनुः) रक्षेत् कन्यां पिता विन्नां पतिः पुत्राश्च वार्धके। अभावे ज्ञातयस्तेषां न स्त्री स्वातन्त्र्यमर्हति ॥ (याज्ञवल्क्य:) न दत्त्वा कस्यचित् कन्यां पुनर्दद्याद् विचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ (मनुः) । । उक्तोद्धरणावलोकनेन पक्षद्वयस्थापि मतं स्पष्टीकृतमिति प्रमाणीभवति नियोगकरणाकरणसम्बन्धे ग्रन्थकारो वदति- "...उभयेषामपि तेषां वचनैर्विशेषत्वेन प्रबलैर्बाध: स्वीकर्तव्यो भवति ।" विषयप्रतिपादने ग्रन्थकारमहाभागो नितरां क्षमः विवेच्यविषयस्य पूर्वोत्तरपक्षनिरूपणेन साकं स्वनिष्कर्षप्रस्तुतौ तस्य कौशलमुदाहार्यमस्ति यस्य दिग्दर्शनं पूर्व विहितम् । धर्मशास्त्रनिरूपणेन साकं यथास्थलं प्रसङ्गानुसारं वैदिकसाहित्यस्य व्याकरणस्य मीमांसाया महाभारतस्य पुराणानामपि चर्चा कृता । धर्मग्रन्थेषु मनु-याज्ञवल्क्य-यम-पराशरस्मृतीनां निर्णयसिन्धु-पारस्करगृह्यसूत्रादिविधग्रन्थानामालोडनेन समुपस्थापितो विचारसार: साम्प्रतिकसमाजे महतीमुपयोगितां लभते । ग्रन्थकारस्य शैली नातिगूढा न चाति परिस्पुटा प्रतिभाति । स्थले स्थले नैयायिकसरणिं समाश्रित्यापि विषयविशदीकरणेन ग्रन्थकार: सरलतामनुसरति केवलं विषयगाम्भीर्ये पितु तार्किकत्वेऽपि डिल्लीराजशर्ममहाभागस्य लेखनशैली नितरां प्रशंसापदवीमधिरोहति वस्तुत: पूर्वोत्ररपक्षप्रतिपादनपुर:सरं गभीर-तार्किक- सुव्यवस्थितपद्धत्या शास्त्रीयविषयनिरूपणे महानुभावोऽसौ समेषां नैपालकविदुषां पुरः पुष्कलं स्थानं ध्रुवमधिगच्छति । नेपाले संस्कृतग्रन्थप्रकाशनं नातिसुकरम् । मुद्रणालयेषु संस्कृतज्ञानां नैयून्यं कार्येऽस्मिन् काठिन्यं जनयति । प्रस्तुतग्रन्थप्रकाशने पि तत् काठिन्यमन्वभावि । तथापि विलम्बेनापि तस्य प्रकाशनं सजातमिति हर्षस्य विषयः । प्रस्तुतग्रन्थप्रकाशनप्रसङ्गे समन्वितोऽयं जन एतदवसरप्रदानाय नेपालसर्वकारस्य पूर्वमन्त्रिणे ग्रन्थकारात्मजाय अच्युतराजरेग्मीमहाभागाय साधुवादमर्पयति । तेन महानुभावेन प्रकृतग्रन्थं प्रकाश्य स्वजनकं प्रति समादर: प्रदर्शितः, संस्कृतवाङ्मयसंवर्धने महती श्रद्धा च प्रकटिता। ग्रन्थद्वयमिदं सम्प्रति विदुषा पुरतो वर्तते सारगर्भत्वविषये प्रामाणिकत्वविषये च विशदं समीक्षणं स्यादिति मे मनीषा वर्तते । अन्ततो ग्रन्थकारस्य जन्मशताब्दीवर्षावसरे ग्रन्थद्वयस्यास्य प्रकाशनं महिमान्वितं सामयिकं चास्ति । एतेनैकतो ग्रन्थकर्तुर्वेदुष्यं प्रख्याप्यते चेदन्यतो विवाहकर्मसम्पादनविषये स्माकं पूर्वजानां सक्ष्मचिन्तनस्य परिचय उपलभ्यत इत्युक्त्वा विरमामि । विदुषां विधेय अस्य १ वैशाखः, २०५२ वि.सं. (१४ अप्रिल, १९९५ ई.) डा. माधव भट्टराई अध्यक्षः, अनिवार्यसंस्कृतविषयसमितेः, महेन्द्रसंस्कृतविश्वविद्यालयस्य , अध्यक्ष : साहित्यविभागस्य, वाल्मीकि- विद्यापीठस्य,काष्ठमण्डपनेपालस्थस्य । ,
अथ कन्योद्वाहसमयमीमांसा
कन्यात्वविचारः
तत्र तावत्कन्यात्वमेव मीमांस्यते- किन्नाम तत्त्वम् ?
अनूढात्वम् ? उत पुमसम्प्रयुक्तात्वम् ? आहोश्विदजातरजो-
दर्शनात्वम् ? विष्वप्येतेष्वर्थेषु 'कन्या'शब्दस्य प्रवृत्तिनिमित्तसद्भावसन्दर्शनात्-
इति।
अथ पूर्वपक्षः
तत्र केचिदेवमाहुः
अनूढात्वं कन्यात्वम्-
पितृवेश्मनि या कन्या यं पुत्रं जनयेद्रहः
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥
९।१७२। इति मनुना, तथा-
कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः
शुद्धिं च कारयित्वा तामुदहेदनृशंस्यधीः ॥
पिता ऋतून्स्वपुत्र्यास्तु गणयेदादितः सुधीः ।
दानावधि गृहे यत्नात्पालयेच्च रजोवतीम् ॥
दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि ।
दातव्यैकापि नि:स्वेन दाने तस्या यथाविधि ॥
दद्याद्वा ब्राह्मणेष्वत्नमतिनि:स्व: सदक्षिणम् ।
तस्यातीतर्तुसंख्येषु वराय प्रतिपादयेत् ॥
उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः ।
अदृष्टरजसे दद्यात् कन्यायै रत्नभूषणम् ॥
तामुदहन्वरश्चापि कुष्माण्डैर्नुहुयाद्विजः।
इति निर्णयसिन्धौ, आश्वलायनेन, तथा-
(१)
अन्यथा व्यासः विवाहे वितते यज्ञे होमकाल उपस्थिते । कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति यानिकाः ॥ स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युञ्जानामाहुति हुत्वा ततस्तत्र प्रवर्तयेत् ॥ इति तत्रैव मदनपारिजाते यत्नपार्वेन, तथा “अथ यदि कन्योपसाद्यमाना चोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयेत् । पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं च दधात्वियम् । अथ द्वादशरात्रमलङ्कृत्य प्राशयेत्पञ्चगव्यमथ शुद्धां कृत्वा विवहेत्” इति तत्रैव वौधायनेन च जातरजोदर्शनायाः पुंसम्प्रयुक्तायाश्चाप्यनूढाया एव कन्या- पदप्रयोगव्यवहारप्रदर्शनान् । अत एव- पाणिनेरपि “कन्याया: कनीन चे"ति कन्याशब्दादपत्यार्थे प्रत्ययस्मरणमत्यन्तं संगच्छते । पुंसम्प्रयुक्ताया, जातरजोदर्शनायाश्च कन्यात्वाभावेन "कन्याया: कनीन चे" तिसूत्रं व्यर्थमेव भवेत् । अत एव च- सिद्धान्तकौमुद्यां “कन्याया: कनीन चे"तिसूत्रव्याख्याने कानीनो कर्णश्चेत्युदाहरणं ददतो भट्टोजीदीक्षितस्याऽप्यनूढाया एवापत्यमित्यर्थ इति स्पष्टोल्लेख,स्तथा-तस्यैव व्याख्याने- "ननु कन्या ह्यक्षतयोनिस्तस्याश्चाई पत्यसंभव एव नास्तीत्या- शङ्कयाssहाsनूढाया इति" इतितत्त्वबोधिनीकारस्योल्लेखश्चातीव सुसङ्गच्छेते । ताभ्यां यक्षतयोनित्वं नामाऽ जातरजोदर्शनात्वमित्येवाऽभिप्रेत्य तत्त्वस्य त्वसम्भवमेव निश्चित्य तथा समाहितं सुस्पष्टमवगम्यते । एतेन- सत्यवती-कुन्त्योरनुद्वाहावस्थायां पराशरसूर्याभ्यां व्यासकर्णयोर्जनने पि कन्यात्वमविरुद्धम् । अत एव हि- कुमार्याः पाणिं गृह्णीयाद् इति पारस्करगृह्यसूत्रभाष्येषु- “कुमार्या अनन्यपूर्विकाया" इतिविश्वनाथोक्तिस्तथा- कुमार्या अनन्यपूर्विकाया: कन्यायाः अनेन विंशतिप्रसूताया: स्मृत्यन्तरविहितस्य पुनर्विवाहस्याऽनियम इच्छा चेत्करोती" ति हरिहरोक्तिश्चेति द्वयमेव सुसङ्गतम् । तथा चैतावता: नूढानां हि जातरजोदर्शनानां पुंसम्प्रयुक्तानाञ्चापि कन्यात्वमविरुद्धं भवति । अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ । गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ॥१६४॥ इति (२) याज्ञवल्क्येन, तथा- काममामरणात्तिष्ठेद् गृहे कन्यत्मत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥९८९॥ त्रीणि वर्षाण्युदीक्षेत कुमार्यतुमती सती । ऊर्ध्वन्तु कालादेतस्मादिन्देत सदृशं पतिम् ॥९।९०॥ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥९॥९२॥ पित्रे दद्यान्न शुल्कन्तु कन्यामृतुमती हरन् । स हि स्वाम्यादतिकाम्येदृतूनां प्रतिरोधनात् ॥९।९३॥ इति मनुना, तथा- वरयित्वा तु यः कश्चित्प्रणश्येत्पुरुषो यदा । रक्तागमास्त्रीनतीत्य कन्या न्यं वरयेदरम् ॥ इत्यपरार्के कात्यायनेन, तथा- ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयंवरम् ॥ इति तत्रैव विष्णुना, तथा- प्रतिगृह्य तु यः कश्चिद्वरो देशान्तरं व्रजेत् । त्रीनृतून्समतिक्रम्य कन्याsन्यं वरयेदरम् ॥ इतिस्मृत्यन्तरवचने च जातरजोदर्शनानामप्यनूढानामेव कन्यात्व- व्यवहरणात् । अत एव- पूर्वत्रोदाहृतवचनेषु तत्र तत्र कन्याकुमारीशब्दौ प्रयुक्तौ, तयोश्च नार्थान्तरत्वमाभिधानिका अपि पठन्ति; तद्यथा- “कन्या नार्या कुमार्या चे"तिहैम:, “कन्या कुमारिकानार्योरिति मेदिनी च । तदेवम्- अनूढात्वमेव कन्यात्वमिति । परे त्वेवमाहुः- पुमसम्प्रयुक्तात्वं कन्यात्वम् । उद्वाहितापि सा कन्या न चेत् सम्प्राप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सा ॥ इति नारदेन निर्णयसिन्धौ- उद्वाहिताया जातरजोदर्शनायाश्चापि पुमसम्प्रयुक्ताया कन्यात्वं प्रतिपाद्य पुनर्विवाहस्मरणात् एव अत (३) एवेदमेवाऽभिप्रेत्य- बरो यचन्यजातीयः पतित: क्लीव एव च । विकर्मस्थ: सगोत्रो वा दासो दीर्घामयोपि वा ॥ ऊढापि देया सान्यस्मै सहावरणभूषणा । इति तत्रैव कात्यायनेनापि जात्यन्तरीय-पतित-क्लीव-विकर्मस्थ- सगोत्र-दास-दीर्घामयादिभि:सकृदूढाया अपि पुनरन्यस्मै प्रदानप्रतिपादनमतीव युज्यते । अत एव विज्ञानेश्वरोपि- अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ॥ इति याज्ञवल्क्यवचनव्याख्याने "क्षतात्वं पुंसम्प्रयुक्तात्वम्” "अक्षतात्वञ्च पुमसम्प्रयुक्तात्वम्”. इत्येवाऽभिप्रेत्य- “तत्र क्षता संस्कारात् प्रागेव पुरुषसंबन्धदूषिता, पुन: संस्कारदूषिता” इति मिताक्षरायामुक्तवान् । एतेन- पुमसम्प्रयुक्तात्वमेव कन्यात्वं, न त्वनूढात्वमजातरजोर्दनात्वञ्चापीति निश्चेतुं सुशक्यमेव, खलु पुंसम्प्रयोगद्वारैव क्षतात्वं प्रतिपादितं तेन, न तु तथोद्वाहद्वारा रजोदर्शनद्वारा च । अक्षता यत: - तथा च- पूर्वदत्ता तु या कन्या, अन्येनोढा यदा भवेत् । संस्कृतापि प्रदेया स्याबस्मै पूर्व प्रतिश्रुता ॥ इत्यपरा मनोदत्ताया, वाग्दत्ताया, वैवाहिमन्त्रसंस्कृतायाश्चापि पुमसम्प्रयुक्ताया एव कन्यात्वं प्रतिपाद्य पुनर्विवाहस्मरणं कात्यायनस्याप्यतीव सुसङ्गच्छते । अत एव तत्रैव- “कन्या, कुत्सिता,न्यजातीयकर्मशीला, व्याध्युपहता, परिणीता यद्यक्षतयोनि: स्यात्परित्यक्तव्या" इति सुमन्तुनोद्वाहिताया जातरजोदर्शनायाश्चापि पुमसम्प्रयुक्ताया एव कन्यात्वं प्रतिपाद्य परित्यागोऽभिहित:, अन्यथा “यद्यक्षतयोनि:स्या"-दिति हेतुत्वेनोपन्यासं नाकरिष्यत्स:, पुमसम्प्रयोगेणैवाऽ क्षतयोनित्वं, नत्वनुद्वाहेन रजोदर्शनाभावेन चापीति तस्याः न्त:करणसिद्धान्तात् । तथा चैवंस्थिते- सिद्धान्तकौमुद्यां- “कुमारू वयसी" ति पाणिनेः सूत्रस्य "वृद्धकुमारी”त्युदाहरणं प्रदर्शयता भट्टोजीदीक्षितेन पुंसा सहा : सम्प्रयोगमात्रं प्रवृत्तिनिमित्तमुपादायैव प्रयुक्तस्य कुमारीशब्दस्य वृद्धाशब्देन सामानाधिकरण्यमुपपादितं सङ्गच्छते, अन्यथा कुमारीशब्दस्य प्रथमवयो- वृद्धाशब्देन सामानाधिकरण्याभावात्तयोर्विशेष्यविशेषणभावा- वाचकतया rammammamaAINITAMrat संभवेन"विशेषणं विशेष्येण बहुल"मिति विशेषणसमासस्य “पुंवत्कर्म- धारयजातीयदेशीयेयु” इति पुंवद्भावस्य च विषयत्वाभावेन कुमारीशब्दे परे पूर्वपदान्तोदात्तत्वविधायकस्य "कुमार्या वयसी"ति पाणिने:सूत्रस्य, तद्व्याख्याने भट्टोजीदीक्षित कृतोपपादनस्यापि वैयर्थ्यमेव भवेत्, इति तदङ्गी- करणीयत्वेनैतत्त्रयमपि सिद्धम् । अत एव लोकेपि “वृद्धकुमारी", वृद्धकन्या, "ममैषा कन्या वृद्धा जाता" इत्येवमादिको व्यवहारश्च प्रसिद्धयति । एतावता लोकेपि वृद्धकन्यानां पुत्रवद्दायहरणं केषाञ्चित् सङ्गच्छते । तदेवम्- पुमसम्प्रयुक्तात्वमेव कन्यात्वमिति । अपरे तु पुनरेवमाहुः- अजातरजोदर्शनात्वं कन्यात्वम् । सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा । पौनर्भवेन भर्ना सा पुन:संस्कारमर्हति ॥९।१७६॥ इति मनुवचनेन-“सकृदुद्वाहिता गतप्रत्यागता-गता पूर्वोद्वाहकं त्वक्त्वा पुरुषान्तरसम्प्रयोग प्राप्तापि प्रत्यागता पुनस्तमेव प्रत्यावृत्ता, वा- अथवा अपिशब्दादनुवाहितापि गतप्रत्यागता गता पूर्व पुंसम्प्रयोगं प्राप्तापि, गतप्रत्यागता-पश्चात्ततो निवृत्ता सती, अक्षतयोनिः स्याच्चेद्रजोदर्शनेन क्षतयोनिर्न भवेद्यदि, सा-तादृशी द्विविधापि रजोदर्शनाभावेन कन्यात्वस्या प्रणाशात् पौनर्भवेन भर्ना सह पुनर्विवाहसंस्कारमर्हति" इत्यर्थबोधकेनाइजातरजोदर्शनाया एव पुंसम्प्रयुक्ताया अनूढायाश्चापि द्विविधाया रजोदर्शनाभावेन कन्यात्वस्याऽप्रणाशमभिप्रेत्य पुनर्विवाहसंस्कारप्रतिपादनात् । अत एव- उदाहात्पथमे शुचौ यदि वसेद्भर्तुर्गुहे कन्यका हन्यात्तज्जननीं क्षये निजतनुं ज्येष्ठे पतिजेष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषामभावे भवेत् ॥ इति निर्णयसिन्ध्वादिषु ज्योतिर्निबन्धवचनेनाऽप्यूढायाः पुंसम्प्रयुक्ता- याश्चापि कन्यापदेनाऽभिधानमतीव सुसङ्गच्छते । तदेवम्- अजातरजोदर्शनात्वमेव कन्यात्वम् इति । इति पूर्वपक्षः। (५) अथोत्तरपक्षः तदित्थं सति विप्रतिषेषे वयन्त्वथैवं पूर्व पूर्वपक्षिभि: प्रमाणत्वे- नोदाहृतानां स्मृतिवचनानां सिद्धान्तपक्षे यथायथं सुसङ्गतिं प्रदर्शयन्त: सन्त: प्रथमतस्तेषां त्रयाणामेव पक्षाणां व्यष्टिभावं निराकुर्म:- अनूढात्वस्य कन्यात्वं वदतां खण्डनम् तत्र तावदनूढात्वमात्रकन्यात्ववादिभि: “पितृवेश्मनि या कन्ये"त्यादीति मानवादिवचनानि यान्युदाहृतानि तत्र किञ्चिदेवं प्रतिवदाम: "न तावत्तेन वचननिचयेन मन्वादिभिः कन्यात्वस्य लक्षणं कृतमपितु जातापत्यादावप्यनूढामात्ररूपार्थे कन्यापदं प्रयुक्तमित्येव तेषामाख्यानम् । अथच- तमेव जातापत्यादावप्यनूढामात्ररूपार्थे कन्यापदप्रयोगं साधनं कृत्वा जातापत्यादावप्यनूढामात्ररूपार्थे पक्षे कन्यात्वसिषाधयिषायामपि तेषामभिमत- मेव यद्यभविष्यत्तर्हि "प्रथमग्रासे मक्षिकापात" इति न्यायेन प्रथमत एव "पितृवेश्मनि या कन्ये" ति मानववचनं प्रमाणत्वेन नैवोदाहरिष्यन् । सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा । पौनर्भवेन भर्ना सा पुन: संस्कारमर्हति ॥ इति पुनस्तेनैव मनुना पुन:संस्कारस्मरणादेव हि सकृत् संस्कृताया अपीति बोधनेन सकृत्संस्कृताया अपि रजोदर्शनत: पुंसम्प्रयोग- तश्चाक्षतयोन्यास्तथाऽ नूढाया अपि “गतं गमनं पुंसम्प्रयोगस्तत: प्रत्यागताया: प्रत्यावृत्तायाः क्षतयोन्या अर्थाज्जातरजोदर्शनाया: पुंसम्प्रयुक्ताया अप्यनूढाया इव पुमसम्प्रयुक्ताया ऊढाया अपि पुन: संस्कारार्हत्वस्मरणद्वारा कन्यात्वज्ञापनात्, अन्यथा अनूढाया एव कन्यात्वस्वीकारे तु रजोदर्शनतः कन्यात्वस्या प्रणाशेन तज्जन्य-दोषस्याप्यदोषत्वेन स्वीकर्तव्यतया पुनस्तैरेव पूर्वत्रोदाहृतैः “पित्रादि- रजोवत्युभयकर्तृकप्रायश्चित्तप्रतिपादकनिर्णयसिन्धुमदनपारिजातोदतारवला- यनयज्ञपार्श्ववचनै रजोदर्शनजन्यपित्रादिसंबन्धिस्वाम्यातिक्रमभ्रूणहत्यादिना- नादोषाणां, जातरजोदर्शनाकर्तृकाणां गुणवद्वरलाभपक्षकपित्रादिकर्तृकदानाभाव- पक्षकर्तुत्रयोपासनोत्तरस्वयंवरविधानमातापितृभ्रातृदत्तालङ्काराऽग्रहणतद्ग्रहण- पक्षचौर्यरूपदोषसद्भावानां, वरकर्तृकजातरजोदर्शनापितृसम्प्रदानकशुल्कदाना- भावस्य च प्रतिपादकैर्मनुयाज्ञवल्क्याइपरार्कोदतकात्यायनयमविष्णु- स्मृत्यन्तरवचनैश्चापि सह सुतरां विरोधो भवेत् । एवम् पुंसम्प्रयोगतोपि (६) कन्यात्वस्याs प्रणाशेन तज्जन्यदोषविशेषस्याऽ प्यदोषत्वेन स्वीकर्तव्यतयोद्वाहात् पूर्व पुंसम्प्रयुक्तायास्तत्पित्रादीनामुपभुञानस्य पुरुषान्तरस्य च दोषबोधक- स्मृतिवचनैश्चापि सह विप्रलापो भवेत्, स्मर्यन्ते युद्वाहात्पूर्व पुंसा सह सम्प्रयोगे सम्प्रयुक्तायास्तत्पित्रादीनामुपभुजानपुरुषस्य चैवंविधा दोषाः, ते च यथा- तत्र तावन्मनु:- पित्रा भर्ना सुतैर्वापि नेच्छेदिरहमात्मनः । एषां हि विरहेण स्त्री गर्ये कुर्यादुभे कुले ॥९॥३॥ इति । रेत:सेक: स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्वीषु गुरुतल्पसमं विदुः ॥११।५८ इति च । तथा याज्ञवल्क्योपि- सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं विदुः ॥३।२३५॥ इति । अपरार्के यमश्च- रेत: सेके कुमारीषु चाण्डालीष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते । इति । पुनस्तत्रैव ऋतुरपि- रेत: सेक: स्वयोन्यासु गोषु शिष्याङ्गनासु च । सखिभार्यासुतस्त्रीषु गमनाद् गुरुतल्पगः ॥ इति । अत्र कुमारीशब्दस्य कन्यात्वमर्थस्तयोर्नार्थान्तरत्वात् । यतो हि पूर्वपक्षिभिरेव “कन्या नार्या कुमार्यां च" इति हैम:, “कन्या कुमारिकानार्यों: इति मेदिनी चेति पूर्वत्रोदाहृतमेव प्रमाणत्वेन ! यत्तु- अनूढाया पक्षान्तरस्वीकारे "कन्यायाः कनीन चे" ति पाणिनिसूत्रस्य वैयर्थ्यमुद्भाव्य सिद्धान्त- कौमुदीतत्त्वबोधिनीकारयोः पूर्वोत्तरपक्ष-रूपोल्लेखप्रदर्शनेन सत्यवती- कुन्त्योः कन्यात्वाऽविरोधनिदर्शनं स्वीकृतं, तत्रापि पुनरेवं प्रतिब्रूम:- "शब्दानुशासनस्मृतेराचार्यस्य महर्षेर्भगवतः पाणिनेर्देशकालविप्रकृष्टानामपि समस्तश्रुतिस्मृतीनां साक्षात्कर्तृत्वेनाः नुद्वाहपुमसम्प्रयोगा: रजोदर्शनसमष्टि- विशिष्टाया एव कन्यात्वं स्वीकुर्वद्भिर्मनुयाज्ञवल्क्यादिमहर्षिभिः सह विसंवादाभावात् सर्वदा सर्वत्रैकमत्येना नूढामात्रवाचकत्वं कन्याशब्दस्याः भि- प्रेतं नैवाः वश्यं भवेत् तादृशानां मनुयाज्ञवल्क्यादीनामपि तादृशेन एव कन्यात्वपक्षप्राबल्याय (७) कन्यात्व- पाणिनिना च सह न तथा वश्यं भवेत् अपितु तेषां पारस्परिकसार्वदिकसार्वत्रिकैकमत्यसद्भावसंरक्षणाय कन्यात्वा प्रणाशजनका- S नुद्वाह-पुमसम्प्रयोगाऽ रजोदर्शनसमष्टिविशिष्टत्वस्यैव कन्यात्वलक्षणाङ्गी- कर्तव्यतया कन्यात्वप्रणाश-जनकोद्वाहपुंसम्प्रयोगरजोदर्शनसमष्टिविशिष्ट- त्वस्याs कन्यात्वलक्षणाङ्गीकरणीयत्वेपि . प्रत्येकत एवापि प्रणाशजनकेषु त्रिषु निमित्तेषु मध्ये ह्येकतमत एवोभयत एव वा कन्यात्वस्य साकल्येन प्रणाशस्वीकारे व्यष्टिपक्षस्वीकारस्या: नावश्यकत्वेन किञ्चिन्मात्र- नाश-स्वीकर्तव्यतयाऽ न्यतोऽ प्युभयत एकतमतो वा तस्य किञ्चित्सत्ताया अवश्यं वक्तुं शक्यत्वादथापि कन्यात्वकिञ्चिन्मात्रसत्तामत्या अपि कन्यात्वा प्रणाशजनका-इनुद्वाहपुमसम्प्रयोगा: रजोदर्शनसमष्टिवैशिष्टयाभावेन "कन्याभिन्नापि नाs कन्या, किन्तु “कन्यासदृशी" तद्भिन्नस्यैव तद्गतधर्मवत: सादृश्याद्” इति तादृश्यपि “कन्या"भवतीति कन्यासादृश्यविशिष्टार्थवाचकात् कन्याशब्दादपत्यार्थे णप्रत्ययं स्मरत: पाणिने: “कन्याया: कनीन चे” ति सूत्रवैयोद्भावनमत्यन्तमयुक्तम् । नहि पाणिनिना शब्दानुशासकेना" s नूढेव कन्ये"ति स्वचिदुक्तम् । शाब्दिकानां हि शब्दसाधुत्वमात्रवदर्थेऽपि तात्पर्याs दर्शनेन कन्यासादृश्यविशिष्टार्थवाचकस्य कन्याशब्दस्य विवक्षयापि सूत्रसार्थक्योपपत्तेः, सत्यप्यर्थे शब्दसाधुत्व-मात्रवत्तात्पर्ये वस्तुतो र्थभेदाभावेन सूत्रसार्थक्या: नुपपत्त्यभावात्, किन्तु कन्याशब्दादपत्यार्थे “S ण्"प्रत्ययं स्मरत: पाणिनेः "कन्याया: कनीन चे”ति सूत्रे पठितस्य कन्याशब्दस्य को S इतिविचारे जातरजोदर्शनाया: पुमसम्प्रयुक्तायाश्चापत्यासम्भवेन तद्वैपरीत्य- संभवादनू द्वैव कन्येति तदभिप्रायानुमानेन स्वपक्षप्राबल्यचिकीर्षामात्रप्रदर्शनात् । "स्त्रीभ्यो ढक" इत्यादावपि स्त्रीवाचकशब्दानां हि स्त्रीत्वविशिष्टार्थबोधकतया स्त्रीत्वविशिष्टार्थत्वस्य चाऽजातरजोदर्शन- पुमसम्प्रयुक्तास्वपि सत्त्वेन तादृशीनामपत्यासम्भवात्तद्वैपरीत्यसम्भवेन "जातरजोदर्शनपुंसम्प्रयुक्तात्वमेव स्त्रीत्व"मितिलक्षणाङ्गीकर्तव्यतया जात- रजोदर्शनानां पुमसम्प्रयुक्तानां च स्त्रीत्वविशिष्टार्थबोधक-शब्दाभिधेयताभावेन स्त्रीत्वं न स्वीकर्तव्यं भवेत् । एवञ्च ता: का: ? न स्त्रियो, नैव वा पुरुषा, न च वा नपुंसका इति तत्र तत्र बहुष्वपि महाननर्थो भवेत् । तथा चैवं पाणिनेः सूत्रस्य सङ्गत्यां सत्यामत एव सिद्धान्तकौमुदीतत्त्वबोधिनीकारयोरपि तादृशपूर्वोत्तरपक्षरूपोल्लेख: सिद्धान्तपक्षे संगत एव, अनूढाया हि रजोदर्शनेन, पुंसम्प्रयोगेण च कन्याभिन्नतायामपि कन्यासादृश्यसद्भावात् । अत एव हि अन्यथा (८) तथा यच्च ननु कन्या स्यक्षतयोनिरिति तत्त्वबोधिनीकारेणाप्यक्षतयोन्या अर्थादनुद्वाहपुमसम्प्रयोगा: रजोदर्शनसमष्टिविशिष्टाया एव “हि" शब्देन कन्यात्वमन्त:करणेन निश्चित्य पूर्वपक्षरूपतस्तु तथा सम्भवमाशङ्क्या पि पुनरनूढाया एवेत्यर्थात् कन्यासादृश्यविशिष्टाया एवेत्येवशब्देन समाहितमपि पूर्ववत्सङ्गतमेव । एतेन सत्यवती-कुन्त्योरनुद्वाहावस्थायां व्यासकर्णजननेन कन्यात्वं विरुद्धमेव, कन्यात्वाभावेन कन्यासादृश्य- मात्रसद्भावात् । अत एव च कानीनस्य कन्यासदृशीजातत्वान्निकृष्ट- त्वेनाः दायादबान्धवत्वमर्थाद् गोत्ररिक्थहराभाववत्त्वमविरुद्धम्, कानीनश्च सहोढश्च कीत: पौनर्भवस्तथा । स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥९/१६०॥ इति मनुस्मरणात् । कुमार्या: पाणिं ीयात् इति पारस्कर- गृह्यसूत्रभाष्येषु विश्वनाथहरिहरयोरुक्ते: स्वपक्षमात्रे सङ्गमनं प्रदर्शितं, तत्रापि पुनरेवं प्रत्याचक्ष्महे- तत्र हि तावद् विश्वनाथहरिहराभ्यामनूढात्वस्यैव पक्षस्य स्वीकारेण तथोक्तमिति कथनमात्रमपि लज्जाकरतरन्तेषाम्, कुमार्या अनन्यपूर्विकाया इति विश्वनाथस्य, कुमार्या अनन्यपूर्विकाया: कन्याया इति हरिहरस्य चोक्तिदर्शनात् । नह्यनन्यपूर्विकात्वमनूढात्वमात्रेण भवतीत्यपि तु पुमसम्प्रयोगेणापि भवतीति तैस्तदुक्ते: स्वपक्षमात्रे संगमनप्रदर्शनं स्वप्नेपि नैव चिन्तनीयम् । एव हरिहरेण तत्रैव अनेन विंशतिप्रसूतायाः . स्मृत्यन्तरविहितस्य पुनर्विवाहस्याऽ नियम इच्छा चेत्करोतीति चोक्तम् । तस्य चायमर्थ:- विंशतिप्रसूताया ह्यूढाया विंशतिप्रसवजन्या निष्टनिवृत्त्यर्थकस्य पुनरुद्वाहस्य रागत एव प्राप्तावपि तत्रेतिकर्तव्यताया अप्राप्तेरुद्वाह- पुंसम्प्रयोगरजोदर्शनसमष्टया कन्यात्वप्रणाशात् कन्याकुमार्योश्च नार्थान्तर- तयाऽ नेनाऽ प्राप्तौ तज्जन्या निष्टनिवृत्तिकामाया एव पूर्वपतिनैव सह पुनरुद्वाहे “हीत्थ” मिति स्मृत्यन्तरेण तदुपदेशो विधीयते, न पुरुषान्तरेण, न चान्यथेति सा तथेच्छावती चेदेव करोतीति नानीदृशीति तस्यानियमाभाव इति, नतु कुमार्या अनन्यपूर्विकामात्रार्थतया विंशतिप्रसूतायास्त्वन्यपूर्विकात्वेन तद्द्वारा पुरुषान्तरपुनरुद्वाहनिषेधकस्यैतस्य तद्विधायकस्मृत्यन्तरविरोधा- द्वैकल्पिकत्वाङ्गीकरणीयतयेच्छाया अनियम इति सत्यपि (९) अत , शास्त्रस्य तथा यथाकथञ्चित्तन्मते नैतेनापि तेषामभिप्रेतार्थसिद्धि:, विंशतिप्रसूताया अपि पुनरुद्वाहवैकल्पिकत्वसिद्ध्या कथन्नामाऽ नूढाया एव कन्यात्वं स्वीकुर्वन्ति-इति- विंशतिप्रसूताया अपि कन्यात्वस्वीकर्तव्यत्वादर्थान्तरदोषादिमहानपातस्तेषां भवेत् । किञ्च-अत एव तत्रैव कर्काचार्यजयरामाभ्यामपि “कुमारीग्रहणं विंशतिप्रसूताव्युदासार्थ; स्मर्यते हि विंशतिप्रसूताया: पुनर्विवाहः” इत्युक्तम् । तथा तत्रैव-“कुमार्या अक्षतयोन्या विंशतिप्रसूताव्युदासार्थ कुमारीग्रहणं स्मर्यते हि तस्या: पुनर्विवाहः” इति, तथा पुनस्तत्रैव पदार्थक्रमे “अनन्यपूर्विका” मिति याज्ञवल्क्यवचनव्याख्यानावसरे- "अनन्यपूर्विका"मित्यनेन- “मनोदत्ता, वाग्दत्ता, अग्निं परिगता, सप्तपदीं नीता, भुक्ता,गृहीतगर्भा, प्रसूता" चेति सप्त पुनो व्यावर्त्यन्ते” इति चोक्तवता गदाधरेणाऽक्षतयोनित्वार्थप्रदर्शनपूर्वकं मनोदत्तादिसप्तपुनर्वा व्यावर्तनं कृत्वा“ क्षतयोनि"पदेनाऽ नुद्वाहपुमसम्प्रयोगाऽ रजोदर्शनसमष्टि- विशिष्टाया एव कन्यात्वं स्वीकृतं सुतरामवगम्यते । अपिच वयं पुनरेवमभिदध्महे-“कुमार्याः पाणिं गृह्णीयात्” इत्यत्र कुत्सितो मारो यस्या इत्यर्थे समस्तादत एव प्रथमवयोवाचकात्कुमारशब्दाद् "वयसि प्रथमे” इतिङीप्प्रत्ययविधानतो व्युत्पन्नस्य कुमारीशब्दस्याः नुद्वाहपुमसम्प्रयोगारजोदर्शनसमष्टिविशिष्टस्यैव स्त्रीरूपार्थस्य वाचकत्वं न त्वनुद्वाहमात्रविशिष्टस्य, पुमसम्प्रयोगमात्रविशिष्टस्य, रजोदर्शनाभावमात्र- विशिष्टस्य वाsपीति तत्रभगवता सकलश्रुतिस्मृतिसाक्षात्का पारस्करेणाs- भिप्रेतं निश्चिनुमः। कुत्सितमारविशिष्टात्वञ्चात्र “प्राणान्तबाधाजननपर्यन्तक्रमिकदुःखो- त्पादकत्वरूपावयवार्थानभिधायक-विकाररूपापरिणतात्मकसामुदायिकापरार्था- भिधायकमनसिजोत्पत्त्यधिकरणावस्थाविशेषवैशिष्ट्यम्” । तच्च- स्थविराणा- मपि स्त्रीणां बाधते मैथुनो ज्वर इत्युक्तिदर्शनाद्युवतिप्रभृत्यामनुद्वाहिताया- मपि न संभवतीत्यत एव तद्विशिष्टाया एवोद्वाहः कर्तव्यो भवतीति तादृश्येवाऽ नूढा कुमारीपदवाच्या । अथाऽ जातरजोदर्शनापि तादृश्येव भवति; मारविकारेषत्प्रादुर्भावादेव हि रजोदर्शनं जायते। मारविकारेषत्प्रादुर्भावोप- पुंसम्प्रयोगविषयकव्यवहारश्रवणदर्शनमननोत्कण्ठादिना सम्भवति, नाs न्यथेति सापि कुमारीपदाभिधेया । अथैवं पुमसम्प्रयुक्तापि तादृश्येव भवति, उद्वाहिताया अपि असञ्जातरजस्काया अनुत्पन्नमारविकाराया गौरीमपि च रत्ययं गच्छेत्पुरुष आकुलः इति स्मरणात् पुंसम्प्रयोगत क्रमश्च बालाया (१०) एव शनैः शनैर्मारविकारोत्पत्तेरिति सापि कुमारीपदवाच्या । तस्मान्नानूठैव कुमारी भवितुमर्हति पुंसा सह सम्प्रयुक्तायां, जातरजस्कायाञ्च व्यभिचारात् । नापि वा पुमसम्प्रयुक्तैव कुमारी भवितुमर्हति, ऊढायां, जातरजस्कायाञ्च व्यभिचारात् । नच वाप्यजातरजस्कैव कुमारी भवितुमर्हति; पुंसम्प्रयुक्ताया- मूढायाञ्च व्यभिचारात् । एवन्न द्विविधैवापि कुमारी भवितुमर्हति; तदन्यत्रैकत्र व्यभिचारात् । अथोढापि या ह्यजातरजस्का पुमसम्प्रयुक्तैव बालविधवा चेदपि न सा कुमारी भवितुमर्हति; जातोद्वाहलभ्यपुंसम्प्रयोगसंकल्पजकिञ्चिन्मार- विकारोत्पन्नपूर्वात्वसंभवात् । एवन्नानुद्वाहिते अजातरजस्के पुमसम्प्रयुक्ते चापि मनोदत्तवाग्दत्ते कुमायौँ भवितुमर्हतः, पित्रादिकर्तृकस्वकर्मकदाना- ऽन्यविवाहतादृशवार्ता-श्रवणमननाद्युभयजन्यपुंसम्प्रयोगस कल्पजमार विकारेष- दुत्पत्तिसम्भवात्तादृश्या: । तथैवाः जातरजस्के पुंमसम्प्रयुक्ते चाप्यग्निपरिगत- सप्तपदीनीते अर्धाद्वाहयुक्ते न कुमार्यों भवितुमर्हत:; भाविपुंसम्प्रयोग- संकल्पजमारविकारकिञ्चिदुत्पत्तिसम्भवात्, यतो ह्येतन्निबन्धनमेवाः म्नायते प्रथमवयस: “कौमार" मिति नामधेयान्तरं, नानीदृशमिति, तस्मान्नाs- नूढात्वमेव कन्यात्वमिति । पुमसम्प्रयुक्तानां कन्यात्वमिति वदतां खण्डनम् पुमसम्प्रयुक्तात्वकन्यात्ववादिभिस्तु सहाः स्माकं पुनरित्थं प्रतिवाद:- न तावत्किमपि स्वचिन्नारदकात्यायनसुमन्तुभिरन्यैर्वा कैरपि केनचिद्वचनेन पुमसम्प्रयुक्ताया एव कन्यात्वमिति लक्षणं कृतमिति वक्तुमपि शक्यते तैरपि, किन्तूढाया जातरजोदर्शनायाश्चापि पुमसम्प्रयुक्ताया एव कन्यापदप्रयोगद्वारा कन्यात्वं प्रतिपादितमित्येव तेषामपि प्रकथनम् । तत्र तावत्- निर्णयसिन्धौ नारदेन- उद्वाहितापि सा कन्या न चेत्संप्राप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सा ॥ इति वचनेनोढाया जातरजोदर्शनायाश्चापि पुमसम्प्रयुक्ताया एव कन्यापदप्रयोगद्वारा कन्यात्वं प्रतिपादितं कथं भवति ? तत्र तावत् “पुन: संस्कारमर्हेते"ति पुन: संस्कारार्हात्वस्मरणादेव सकृत् संस्कृतापीति ज्ञाप्यते, ततस्तथैवो"द्वाहितापी"त्यनेन 'यद्यपि मुख्या कन्या: नूढैव, तथापि-उद्वाहमात्रेण क्षता नतु रजसापीति" ज्ञापितं भवत्येव । तथा च सकृत्संस्कृता स्त्री (११) क्षता न तु "कन्यात्वप्रणाशजनकानामुद्वाहपुंसम्प्रयोगरजोदर्शनाना" मेकेनोद्वाहमात्रेण रजसापीत्यत एवा: मुख्यापि सम्प्राप्तमैथुना नचेत्समस्त- लक्षणानाक्रान्तत्वेन कन्यात्वस्य कात्स्येंना प्रणाशे पि-अर्थात्-“कन्यात्वा - प्रणाशजनकानामनुद्वाहपुमसम्प्रयोगाsरजोदर्शनानां” मध्ये “पुमसम्प्रयोगा- रजोदर्शनयोः सद्भावेनैकस्यैवाऽनुद्वाहस्या : भावेपि समस्तलक्षणाकान्तत्वा- भावात्कन्यात्वस्य किञ्चिन्मात्रावस्थित्या कन्याभिन्नापि कन्यासदृशी भवतीत्यत एव यथा कन्या तथैव सा इत्युक्तम्, तद्भिन्नस्यैव तद्गतधर्मवत: सादृश्यात् । अत एव तत्रैव कात्यायनो पि- वरो यद्यन्यजातीयः इत्यत्र- ऊढापि देया इत्यपिशब्देना नूढाया एव मुख्यकन्यात्वं ज्ञापितमित्येतदपि पूर्वेणैव व्याख्यातं भवति । एवम्- अपरार्के तेनैव पूर्वदत्ता तु या कन्या इत्यत्र- सकृत्संस्कृतापीति-अपिशब्देना * नूढाया एव मुख्यकन्यात्वं ज्ञापितं भवतीतीदमपि पूर्वेणैव समानम् । तथा तत्रैव-सुमन्तुना- कन्या कुत्सिता इत्यत्र- परिणीताया अक्षतयोन्या: कुत्सितात्वादिना परित्यागस्मरणन्तु प्रथमतृतीयपक्षयोरपि संघटत एवेति पक्षत्रये संघटनात् स्वत एव सिद्धान्तपक्षे सुसंगतं, रजोदर्शनाभावेना प्यक्षतयोनित्वसंभवात्, तथाच पुमसम्प्रयोगेणैवा- क्षतयोनित्वं, नत्वनुद्वाहेन रजोदर्शनाभावेन चेति सुमन्तोरन्त:करण- सिद्धान्तमनुमिन्वद्भिस्तै: स्वयं दूरे पलायितव्यं भवत्येव । यत्तु “तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता, अक्षता पुन: संस्कारदूषिता” इति-मिताक्षराकृतोल्लिखितमुदाहृत्य तदभिप्रायस्य स्वपक्ष- निश्चायकत्वसुशक्यताभिहिता, तत्रैवम्प्रत्युच्यते- तत्र हि तावन्मिताक्षराकृता क्षताशब्दस्य दूषितेत्यर्थप्रदर्शनात् दूषिताशब्दयोन्तरत्व स्वीकृतमेव । ततश्च पुरुषसम्बन्धेन दूषिताया: क्षतात्वेन संस्कारेण दूषिताया अपि क्षतात्वेनैव भवितव्यत्वे पुनरक्षतारूपोऽर्थ आर्थिक एव स्वीकर्तव्यो भवति, न शाब्दिकः । तथा चैवमर्थ:- संस्कारात्प्रागेव पुरुषसंबन्धेन दूषिता पुरुषसम्बन्धेना दूषितापि संस्कारेण दूषितार्थात् संस्कारेणैव क्षता, पुरुषसम्बन्धेन त्वक्षता भवतीति संस्कारदूषिताया: पुरूषसम्बन्धा दूषितात्व- द्वारेणा क्षतात्वमुक्तमिति नैव विरोध: । यद्वा- क्षतेत्यस्य कर्मार्थकक्तान्तत्वमेव अक्षतेत्यस्य तु अविद्यमानं क्षतं पुरुषसम्बन्धद्वारा, रजोदर्शनद्वारा च यस्या इत्यर्थे- भावार्थकक्तान्तक्षतशब्दस्या विद्यमानशब्देन सह ननोऽ स्त्यर्थानां - क्षता- क्षता, (१२) - वाच्यो बाचोत्तरपदलोपः इति वार्तिकेन समासे विद्यमानशब्दस्य लोपे च कृते परिनिष्ठितत्वेन, तत्र-क्षता पुरुषसम्बन्धदूषिता, अक्षता पुन: पुरुष- सम्बन्धेन, रजोदर्शनेन चाक्षतापि पुन: “संस्कारदूषिता” इति स एवाs र्थः । तथाच-“एकत:-"क्षता"s पि, अन्यतस्तु" अक्षता, एकतो"s क्षतापि" अन्यतस्तु-“क्षता" भवतीत्युद्वाहतो, रजोदर्शनतश्चापि क्षतात्वसंभवान्मिताक्षरा- कृतस्तथोल्लेख: प्रथमतृतीयपक्षयोरपि संघटत एवेति पक्षत्रयेपि संघटनात्सिद्धान्तपक्षे सुसंगत एव भवति । यदपि सिद्धान्तकौमुद्याम् “कुमायां वयसी"ति पाणिनेः सूत्रे- उदाहृतस्य वृद्धकुमारी"ति प्रयोगस्य पुंसा सहाs सम्प्रयोगमात्रप्रवृत्ति- निमित्तोपादानद्वारा साधुत्वं प्रदर्शयतो भट्टोजीदीक्षितस्योपपादनं संगमय्य पक्षान्तरे “वृद्धकुमारी"ति प्रयोगस्य . समासपुंवद्भावयोर्निर्विषयत्वनिर्देशन कुमारीशब्दे परे पूर्वपदान्तोदात्तत्वविधायकस्य “कुमार्या वयसी"तिसूत्रस्य, भट्टोजीदीक्षितकृतोपपादनस्य च वैयर्थ्यमुद्भाव्य स्वपक्षस्यैव तत्साधकत्व- समर्थनेन लोकेपि वृद्धकुमारी-वृद्धकन्या इत्यादिव्यवहारप्रसिद्धस्तथा- किञ्चिज्जातीयवृद्धकन्यानां पुत्रवद्दायहरणस्य चापि संगमनं प्रदर्शितम्, तत्राप्येवं प्रतिब्रूमः- हि तावद् वयोरूपार्थे द्योत्ये कुमारीशब्दे परे पूर्वपदान्तोदात्तत्वविधायके “कुमार्या वयसी” तिसूत्रे कृतेपि वयोग्रहणे प्रथमवयोवाचित्वेनैव "वयसि प्रथमे" इतिङीव्विधानत: कुमारीशब्दस्य व्युत्पन्नतया तत एव तद्रूपार्थस्य द्योतनसंभवेन पुनर्वयोग्रहणसामर्थ्यात् पुमसम्प्रयोगात्मकवयोs न्तररूपार्थवदनुद्वाहा रजोदर्शनाधिकरणावस्थाविशेषो- भयात्मकवयो न्तररूपार्थस्यापि विनिगमनाविरहेण त्रिविधस्यैव तादृशवयो- न्तरसमष्टिरूपार्थस्य ज्ञापनसंभवाद् गुणवद्वरालाभादिकारण- वशाद्यावज्जीवमनुद्वाहिताया, रोगविशेषान्तरग्रासवशाद्यावज्जीवमजातरजो- दर्शनाया:, स्वकीयप्राग्भवीयकर्मोत्पादितसंसाराऽ सारतातत्त्वबोधोद्भावितविषय- वैराग्यानुष्ठितनियमविशेषजन्यरजोवरोधाऽनुद्वाहपुमसम्प्रयोगवशादूर्ध्वरेतस्काया अत एव यावज्जीवं सनकबालखिल्यादिवत्कौमारब्रह्मचारिण्याश्चापि वार्धक्यसंभवेन तासां त्रिविधानामपि प्रथमवयोतिरिक्ता नुद्वाहपुमसम्प्रयोग- रजोदर्शनाभावात्मकवयोन्तररूपस्य सद्भावाद् वृद्धकुमारीशब्दाभिधेयतया तादृशार्थवाचककुमारीशब्दस्य वृद्धाशब्देन सामानाधिकरण्यसद्भावेन विशेष्य- विशेषणभावसंभवाद् विशेषणसमासपुंवद्भावसविषयकत्वसत्तया कुमारीशब्दे तत्र (१३) परे पूर्वपदान्तोदात्तत्वविधायकस्य “कुमार्या वयसी"ति सूत्रस्य सार्थक्योपपत्तेरत एवापि लोके वृद्धकुमारी, वृद्धकन्या इत्यादिव्यवहारप्रसिद्धस्तथा किञ्चिज्जातीयवृद्धकन्यानां पुत्रवद्दायहरणस्य च सङ्गतिसद्भावात् । पुंसा सहाऽ सम्प्रयोगमात्रप्रवृत्तिनिमित्तोपादानद्वारा भट्टोजीदीक्षितकृतोपपादनस्यापि "कन्याया: कनीन चे"तिसूत्रव्याख्याने नूढाया एवाऽ पत्यमित्युक्तवतस्तस्या नूढात्वपक्षे पि सम्मतिदृष्टत्वात्कन्याकुमार्यो र्थान्तरत्वेनाs स्मदीयपक्षत्रय- समष्टिविशिष्टसिद्धान्तपक्षान्तर्गतत्वादिष्टापादकतयैव दोषाभावाद्-इति । तदेवम्- “न पुमसम्प्रयुक्तात्वमेव कन्यात्वम्” इति । अजातरजोदर्शनात्वस्य कन्यात्वं वदतां खण्डनम् अजातरजोदर्शनात्वस्य कन्यात्ववादिभिश्च सहा स्माकं पुनरेवं विप्रतिवाद:- तत्र हि तावदजातरजोदर्शनात्वमेव कन्यात्वमिति क्वचित्केनचिल्लक्षणं कृतमिति तु तैरपि नैव शक्यं वक्तुम्, अपितु- “पुंसम्प्रयुक्ताया उद्वाहिताया अप्यजातरजोदर्शनाया एव रजोदर्शनाभावजन्यस्य कन्यात्वा प्रणाशस्याs- भिप्रायेण-“सा चेदक्षतयोनि:स्या"दितिपुन:संस्कारविधायक मानवं वचनं समवलम्व्य “उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुहे कन्यका” इति निर्णयसिन्ध्वाद्युद्धृतज्योतिर्निबन्धवचनस्योपपत्तिसाधकतया तत्सुसङ्गतिप्रदर्श- कत्वेन स्वपक्षस्यैव मुख्यत्वम् इत्येव तेषामपि जल्पाकत्वम्” । तत्रापि हि तावत्-“सा चेदक्षतयोनि:स्याद्"इत्यस्य मानववचनस्य को र्थः कीदृशश्च स एवाऊ द्यावधि तैर्विचारितो न वा ? किंखलु मुखमस्तीति दशहस्ता हरीतकीत्यपि वक्तुमुचितं भवेत्कदाचिद् । इदं हि वचनं तावदापातत एव पक्षद्वयेः पि व्यवस्थितमिति स्पष्टमेव । परमार्थतो विचारे तु पक्षत्रयव्यवस्थापनसंग्राहकमवश्यम् । तथाहि- पुन:संस्कारस्मरणादेव हि- "उद्वाहितपूर्वे”ति, तथा-“गतप्रत्यागते"ति, “पौनर्भवेन भर्ने”ति च स्मरणाद्- "अनुद्वाहितपूर्वे"ति चोभयोरेवार्थयो: स्क्तो ज्ञापनसंभव एव । तथा पुन:- "अक्षतयोनि"रित्यत्रा क्षतयोनित्वस्य रजोदर्शनजन्यत्ववत्पुंसम्प्रयोगजन्यत्वेनापि द्विधैव संभव:, तथैवं पुन:-“गतप्रत्यागतापि वा" इत्यत्र गतप्रत्यागता- त्वस्याड प्युद्वाहिताया उद्वाहकेन सह सम्प्रयोगतोऽ सम्प्रयोगतो वा निवर्तनेन क्षतयोनित्वा क्षतयोनित्वयोरुभयोरेव संभव:,-तथा- अनुद्वाहिताया अपि येनकेनचित्पुंसा सह सम्प्रयोगतो निवर्तनेनाऽ पि क्षतयोनित्वसंभवः । तथा (१४) . - ऊढा तु च-एवंविधस्तस्याऽ र्थ: संभवति, स यथा- पुन:संस्कारस्मरणादेवोद्वाहितपूर्वेति- बोधनात्- सा-उद्वाहितपूर्वाऽ पि अक्षतयोनि:-उद्वाहकसम्प्रयोगतो, रजोदर्शन- तश्चोभयत एवैकतो वारू प्यक्षतयोनि: स्याच्चेद, वा-अथवा, गतप्रत्यागता- गतं गमनमुद्वाहकसम्प्रयोगस्तत: प्रत्यागता-पलाय्य निवृत्ताऽ पि उद्वाहक- सम्प्रयोगजन्यं योनिक्षतात्मकं दु:खं सोढुमशक्नुवती सती ततः पलायितेति यावत्, पत्युर्मरणादिना तत्सम्प्रयोगतो निवृत्ता वा, अर्थात्- संस्कारमात्रेण क्षतयोनिरपि पुंसम्प्रयोगरजोदर्शनाभ्यान्त्वक्षतयोनि:, संस्कारपुंसम्प्रयोगाभ्यां क्षतयोनिरपि रजोदर्शनेन त्वक्षतयोनि:, तथा “गतप्रत्यागतापी" त्यत्रापि- शब्दादनुवाहितापि, अक्षतयोनी रजोदर्शनतोऽ प्यक्षतयोनि:सती, गतप्रत्यागता- गता-उद्वाहात्पूर्वमेव पुरुषान्तरसम्प्रयोगं प्राप्ता चासौ- प्रत्यागता- पश्चात्ततो निवृत्ता, अर्थात्- संस्कारतो, रजोदर्शनतश्चाऽ क्षतयोनिरपि पुंसम्प्रयोगतस्तु क्षतयोनि: अर्थात्-ऊढा नूढा वैकत: क्षतयोनिरपि तदितरद्वयतस्त्वक्षतयोनि:, द्वाभ्यां क्षतयोनिरप्येकतस्त्वक्षतयोनि:,त्रिभिरेव सर्वात्मना ह्यक्षतयोनिरितियावत् । एतादृशी-ऊढा, पौनर्भवेन भ; कौमारेण सह, अनूढा तु पौनर्भवेन भर्ना भाविनोद्वाहकेन सह पुन:संस्कारमर्हतीति । तथा च- कन्यात्वा प्रणाशजनका S नुद्वाहपुमसम्प्रयोगाऽ रजोदर्शनसमष्टिवैशिष्टच्या- S सत्त्वेन कन्यात्वाऽ सद्भावेपि समष्टया व्यष्टयाऽपि वा कन्यात्वप्रणाशजनकानामुद्वाहपुंसम्प्रयोगरजोदर्शनानामेकतमत उभयतो सर्वथा प्रणाशाभावेन किञ्चिदवस्थितिद्वारा सादृश्यमात्रसद्भावमाश्रित्य तादृशीनां पौनर्भवेन भ; सह पुन: संस्कारं स्मरता मनुना नैकतम उभयो वा पक्ष: स्वीकृतो भवेदिति कल्पयितुं शक्यम् । अपितु-पक्षत्रयमेव समवलम्बितमिति कल्पयितुं सुशकमेवेति कथङ्कारं स्वपक्षमात्रसमवलम्बनं तदङ्गीकृत्य शरणीकर्तव्यं तैरिति कथन्नाम- "उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुर्गृहे कन्यका" इति निर्णयसिन्ध्वा- द्युद्धृतज्योतिर्निबन्धवचनस्योपपत्तिसाधकतया तत्सुसंगतिप्रदर्शकत्वं तदीयपक्षस्य भवेत् । किञ्च- “उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुर्गृहे कन्यका" इत्यत्रत्यकन्यापदेन ह्यूढामात्रस्त्रीरूपार्थो भिधीयते, ऊढायामपि पदप्रयोगस्तु कन्यापदस्य नारीसामान्यवाचकत्वप्रसिद्ध्या तदेव प्रवृत्तिनिमित्त- मुपादाय समुपपद्यते । यतो ह्याभिधानिका अप्येवं पठन्ति- कुमारिकानार्यो:". इति मेदिनी, “कन्या नार्या कुमार्या च” इति हैमश्चेति । अन्यथा- “उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुर्गृहे कन्यका” इत्यत्र-“क्षये निजतनु"मित्यस्य कथंकथमपि सङ्गतिरेव स्यात् वा कन्यात्वस्य कन्या- कन्या- "कन्या न (१५) तस्य च क्षयमासाs s गमनकालपर्यन्तं रजोदर्शनाs वरोधाs सम्भवेन सञ्जाते च रजोदर्शने कन्यात्वप्रणाशाद् वदतामेव व्याघातस्तेषाम्-इति । तस्माद्- “नाजातरजोदर्शनात्वमेव कन्यात्वम्” इति । कन्यात्वसम्बन्धे स्वनिष्कर्षः तदेवम्- उद्वाहपुंसम्प्रयोगरजोदर्शनानां समष्ट्या एव कन्यात्वस्य साकल्येन प्रणाशजनकतावच्छेदकत्वाद् व्यष्टिमात्रस्य तु तदभावेन तस्य किञ्चिदवस्थितावपि तादृश्या: कन्यासादृश्यमात्रस्वीकर्तव्यतयोद्वाहपुंसम्प्रयोग- रजोदर्शनानां समष्टिवद्व्यष्ट्या अपि कन्यात्वप्रणाशजनकतावच्छेदकत्वा- वश्याङ्गीकरणीयत्वेना नुद्वाहपुमसम्प्रयोगा: रजोदर्शनानान्तु समष्टिवद् व्यष्ट्या अपि कन्यात्वाप्रणाशजनकतावच्छेदकत्वाङ्गीकर्तव्यत्वाभावाद्-अथ- किन्नाम कन्यात्वमित्याकाङ्क्षायास्तादवस्थ्यसद्भावे पुनर्वयन्त्वेवं-सिद्धान्तयाम:- कन्यात्वं नाम- "अनूढात्वम्, पुमसम्प्रयुक्तात्वम्, अजातरजोदर्शना- त्वञ्चेत्येतत्त्रितयसमष्टिविशिष्टात्वमेव वाचकमसाधारणं पदमेक"मक्षतयोनित्व"मिति तेषान्त्रयाणामप्यर्थानां सामूहिकयौगपद्ये ह्यक्षतयोनिपदस्यैव वाचकत्वशक्तिसद्भावसन्दर्शनेन तस्य तथा त्रिविध- प्रवृत्तिनिमित्तसमष्टिसम्भवात् । तत्त्वञ्चाः वयवार्थप्रकाशकप्रमाणप्रदर्शनपूर्वक- पदव्युत्पादनानन्तरमत्रैव यथावद्वक्ष्यते तस्तदेवा : रभ्यते- "योनि: कारणे भगतोययोः इति हैमाभिधानाsनुशासनबलाद"प्यक्षतयोनि"रित्यस्य-"क्षता-दूषिता योनि: कारणम् "मातापितृपितामहप्रपितामहज्येष्ठभ्रात्रादिकुलरूपम्”, भाविवर्तमानभूतभर्तृपुत्रादि- कुलरूपम् ,तथा-"ssत्मा," "भग"श्चाप्युद्वाहपुंसम्प्रयोग-रजोदर्शन: समस्तैर्यथासंभवं मिलितैर्व्यस्तैर्वापि प्रत्येकतो यया सा तथाविधा न भवतीत्येवमर्थे-"केने"ति करणाss काङ्क्षायाम् "अनुद्वाहपुमसम्प्रयोगाs- रजोदर्शनानां” समष्ट्यैवेतिकरणत्वेनान्वयकर्तव्यतया तदेवं व्युत्पत्तिविशेष- वशतो निष्पन्नो न्वर्थो यौगिको क्षतयोनि"शब्द: 5 प्रणाशजनका नुद्वाहपुमसम्प्रयोगाs रजोदर्शनसमष्टिविशिष्टं स्त्रीरूप- मर्थमाचष्टे तथाविधोऽपि "क्षतयोनि" शब्दस्तु "कन्यात्व- प्रणाशजनकानामुद्वाहपुंसम्प्रयोगरजोदर्शनानां" समष्ट्या व्यष्ट्या प्रत्येकतोपि विशिष्टं स्त्रीरूपमर्थमभिधत्ते । तथा चैतानेव "क्षतयोनि" शब्दप्रवृत्तिनिमित्तभूतानर्थानभिप्रेत्य स्मृति कारा अप्येवं प्रतिपादयन्ति तत्र तावद्- तथा च- - कन्यात्वा- वा (१६) निर्णयसिन्धौ मरीचि:- गौरी ददन्नाकपृष्ठे वैकुण्ठं रोहिणीं ददन् । कन्यां प्रदन्बह्मलोके रौरवन्तु रजस्वलाम् ॥ इति वालम्भट्यां पैठीनसि:- "यावन्नोद्भिद्यते स्तनौ तावद्देयाऽ थर्तुमती भवति, दाता प्रतिग्रहीता नरकमाप्नोति, पिता पितामहः प्रपितामहश्च विष्ठायां जायन्ते, तस्मान्नग्निका देया" ॥ इति । तथा पारस्करगृह्यसूत्रगदाधरभाष्ये च-सर्वसंग्रहवास्य- कारिकायाम्- प्रदानं प्रागृतोस्तस्या ऊध्वं कुर्वन्सदोषभाक् । ज्येष्ठो भाता पिता माता दृष्ट्वा कन्यां रजस्वलाम् ॥ त्रयस्ते नरकं यान्ति स्वयमित्यब्रवीचमः । यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ॥ असंभाष्यो ह्यपातेयः स विप्रो वृषलीपतिः । वृषलीसंग्रहीता यो ब्राह्मणो मदमोहितः ॥ सततं सूतकं तस्य ब्रह्महत्या दिने दिने । पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥ भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता । दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणीम् । अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥ इति । तथा- 5 परार्के कात्यायन:- पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥ यस्तु तां वरयेत्कन्यां बाह्मणों ज्ञानदुर्बल: । अश्रादेयमपाक्तेयं तं विद्यादृषलीपतिम् ॥ इति । तत्रैव- संवर्तोऽपि माता चैव पिता चैव ज्येष्ठो भाता तथैव च । जयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ इति (१७) मनुरपि- पित्रे दद्यान्न शुल्कन्तु कन्यामृतुमती हरन् । स हि स्वाम्यादतिकाम्येदृतूनां प्रतिरोधनात् ॥ ९।९३॥ इति याज्ञवल्क्यश्च- अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ॥१६४॥ इति । पुनर्निर्णयसिन्धौ संवर्त:- निष्कृतिः स्यात्सुरापस्य हत्याया बह्मवादिनाम् । वृषल्यभिप्रजातस्य निष्कृतिर्नोपपद्यते ॥ बामणो वृषलीं गत्वा त्र्यहं भवति सूतकी । अथाs स्यां गर्भमाधत्ते पतत्याशु न संशयः ॥ इति । ततश्चैवमादिवचननिचयै: “मनोदत्ता, वाग्दत्ता, अग्निं परिगता, सप्तपदीं नीता, "उद्वाहात्पूर्वम्- “जातरजोदर्शना, पुंसा सह सम्प्रयुक्ता, गृहीतगर्भा, प्रसूता," "उद्वाहादुत्तरम्- “कौमारेण भर्ना भत्रन्तरेण वा सह सम्प्रयुक्ता- S जातरजोदर्शना, जातरजोदर्शनाs सम्प्राप्तमैथुना” चेत्येतासु दशविधासु, तथैवंविधास्वन्यास्वपि मध्ये "मनोदत्तवाग्दत्तयोः" कन्यानिष्ठ- स्वनिरूपितस्वत्वनिवर्तकपरस्वत्वोत्पादकरूपपित्रादिकर्तृकमनोवाग्दानाद्यात्मको- द्वाहद्वारा, अग्निपरिगतसप्तपदीनीतयोः पुन: कन्यानिष्ठस्वनिरूपित- स्वत्वगोत्रोभयनिवर्तकवैवाहिकमन्त्रसंस्कारद्वारा, मातापितृपितामहप्रपितामह- ज्येष्ठभ्रात्रादिकुलरूपकारणस्य कन्यानिष्ठस्वनिरूपितस्वत्वगोत्रोभयनिवृत्ति- रूपक्षतत्वेन “क्षतयोनित्वम्,” तथोद्वाहात् पूर्वन्तन्मध्य एव "जातरजोदर्शनाया:, पुंसा सम्प्रयुक्तायाः, जातरजोदर्शनाs- सम्प्राप्तमैथुनाया:, गृहीतगर्भाया:, "उद्वाहादुत्तरम्- कौमारेतरभर्तृसम्प्रयुक्ताऽ जातरजोदर्शनायाश्चेति षड्विधानामन्यासामप्ये- वंविधानां यथायथं रजोदर्शनद्वारा, पुंसम्प्रयोगद्वारा च मातापितृपितामह- प्रपितामहज्येष्ठभ्रात्रादिकुलरूपस्य स्वनिरूपितकारणस्य, भाविनो वर्तमानस्य भूतस्य च भर्तुः स्वजन्यपुत्रनिरूपित कारणस्य, भाविनो वर्तमानस्य भूतस्य च पुत्रस्य तु स्वनिष्ठजननजन्यमातृत्वनिरूपितकारणस्य, स्वस्य पुनर्भाविवर्तमान- भूतपुत्रनिरूपितकारणस्य च रौरवादिनरकभ्रूणहत्यास्वामित्वातिक्रमविष्ठोद्भव- वृषलीपतित्वसतताऽ शुचित्वपतितत्वब्रह्महत्या संभाष्यत्वाsपाङ्क्तेयत्वाs- श्राद्धेयत्वनिष्कृत्यभावादिनानाविधदोषभागित्वरूपक्षतत्वेन, तथा-"भगस्या"s पि वा- सह प्रसूतायाः, (१८) तथा पुंसम्प्रयोगद्वारा, रजोदर्शनद्वारा च शिश्नसंघर्ष-च्छेदरूपक्षतत्वेन च यथायथं क्षतयोनित्वम् । ततश्चैवमेता दशविधा एतादृश्योs न्याश्चापीत्थं क्षतयोनयो भवन्तीति- ताः सर्वा अपि अकन्या: । तदितरा याः खलु मनो- वाग्दानाद्यग्निपरिगमनसप्तपदीनयनान्तादिसंस्कारात्मकोद्वाहेन, पुंसम्प्रयोगेण, रजोदर्शनेन चैतै: समस्तैरेव क्षतयोनयो न भवन्ति- इति ता एवा" sक्षतयोनय:," "कन्याश्च” । तथा चैवम्- उद्वाहपुंसम्प्रयोगरजोदर्शनसमष्टिव्यष्टिविशिष्टात्वं क्षतयोनित्वम्, अनुदाहपुमसम्प्रयोगा S रजोदर्शनसमष्टिविशिष्टात्वमक्षतयोनित्वम् इति- क्षतयोनित्वमकन्यात्वम्, अक्षतयोनित्वं कन्यात्वम् इतीमानि चत्वार्यपि लक्षणानि निरवद्यान्येव । एतावता हि मनोदत्तवाग्दत्तादीनां दशविधानामन्यासाञ्चेतादृशी- नामुद्वाहपुंसम्प्रयोगरजोदर्शनसमष्टित: क्षतयोनित्वाभावेनाS क्षतयोनित्वात् कन्यात्वमित्यापातभ्रमोs पि निरस्त:, कन्यासादृश्यमात्रात्तासाम् । कन्यासदृशीतत्पित्रादीनां पारस्परिकस्वस्वामिभावसम्बन्धस्य साकल्येन सद्भावसंभवो पि निरस्त एव; स हि स्वाम्यादतिकाम्येदृतूनां प्रतिरोधनात् ॥९।९३॥ इति पूर्वोदाहृतमनुवचनविरोधपरिहाराय किञ्चिन्मात्रसत्ताव्यवस्थापनीयत्वात् । नन्वेवमपि- अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन: इति याज्ञवल्क्यवचनविवरणे- “या कृतविवाहा सती क्षतयोनिरक्षतयोनिर्वा कौमारेण भर्ना भर्जन्तरेण वा यथाविधि पुनरुह्यते सा पुनर्भू:" इत्यपरार्कग्रन्थविरोधः; उद्वाहेनैव क्षतयोने: पुमसम्प्रयोगाs- रजोदर्शनाभ्यामक्षतयोनित्वसंभवेन कन्यासादृश्यसद्भावेपि पुनः पुंसम्प्रयोग- रजोदर्शनाभ्यामपि क्षतयोनेस्तु कन्यात्वस्य कात्स्येन प्रणाशेन कन्यासादृश्यमात्रस्या प्यभावादिति, तस्यापि- "या कृतविवाहा सती" इत्यत्र “या कृतविवाहां सती” त्येवं पाक्षिका कारप्रश्लेषसंभवेन- “या कृतविवाहा - सती क्षतयोनिर्वा “या कृतविवाहा सत्यक्षतयोनि" रित्येवं द्विधान्वयेन व्याख्याने न कश्चिद्विरोध: । तथा (१९) "या कृतविवाहा सती क्षतयोनिरनुद्वाहावस्थायामेव रजोदर्शनेन, पुरुषान्तरसम्प्रयोगेण, द्विधैव वा क्षतयोनिर्भवति,” “या "या च कृतविवाहा सत्यक्षतयोनिरुद्वाहिता सती रजोदर्शनाभावेन, कौमारेण भर्ना भर्जन्तरेण वा सहा सम्प्रयोगेण च द्विधैवाऽ क्षतयोनिभर्वती"त्येवमर्थेना पि ग्रन्थ- सङ्गतिसद्भावात्- इति सर्व निरवद्यम् । इति कन्यात्वमीमांसा । ..... - (२०) अथोद्वाहसमयविचारः तदित्थं कन्यात्वे मीमांसिते. थ तद्विशिष्टानामुद्वाहसमयो यथावद् मीमांस्यते- तत्र खलु तावत्पूर्वत्रैव पूर्वोत्तरपक्षेषूदाहृतवचनैरुद्वाहपुंसम्प्रयोग- रजोदर्शनानां समष्टिवद् व्यष्टिमात्रेणापि कन्यात्वप्रणाशस्वीकर्तव्यत्वादनूढाया:, पुमसम्प्रयुक्तायाश्चापि रजोदर्शनमात्रेण कन्यात्वप्रणाशावश्यम्भावेन रजोदर्शनादर्वाचीन एव तत्करणकालो निश्चेतव्यो भवति । अत एव निर्णयसिन्धौ यमः स्मरति- "तस्मादुराहयेत्कन्यां यावन्नर्तुमती भवेत्" इति । तत्रापि रजोदर्शनाः धिकरणकालश्च कतम इत्यपेक्षायामनूढाया: पुमसम्प्रयुक्ताया गर्भत: प्राप्तद्वादशवर्षाया जन्मतस्तु व्यतीतदशमवर्षाया: स्त्रिया रजोदर्शनात्प्राक् कन्यात्वं स्वीकृत्य तदूर्ध्व रजस्वलात्वं प्रतिपादयन्ति- मुनयो, निबन्धकाराः, शिष्टाश्च; तद्यथा- तावद्- निर्णयसिन्धौ गर्गः, पारस्करगृह्यसूत्रगदाधरभाष्ये- संग्रहवाक्यकारिकायाम, गोत्रप्रवरनिर्णये भिनवमाधवीये स्मृत्यन्तरवचनमपि- अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी । दशवर्षा भवेत्कन्या, अत ऊध्वं रजस्वला ॥ इति । अत एव पुनस्तत्रैवाऽभिनवमाधवीये-जन्मतो व्यतीतदशमवर्षे गर्भतस्तु प्राप्तद्वादशवर्षे रजोदर्शनमभिधाय जन्मवर्षादारभ्य रजोदर्शनात् पूर्व कन्यात्वप्रतिपादकं स्मृत्यन्तरवचनमुदाहृतं सङ्गच्छते, यथा- "प्राप्ते तु द्वादशे वर्षे रज: स्त्रीणां प्रवर्तते । आरभ्य जन्मवर्षात् प्राग्रजोदर्शात्तु कन्यका ॥ विवाहार्दा भवेदूल गान्धर्वकाधिकारिणी” । इति । अत एव हि जन्मतो व्यतीतदशमवर्षपर्यन्तं प्राप्तैकादशवर्षपर्यन्तं; गर्भतस्तु प्राप्तद्वादशवर्षपर्यन्तं पुमसम्प्रयुक्ताया अप्यनूढाया: पितृगृहनिवासिन्या रजोदर्शनसंभवेन तत्पितुर्ब्रह्महत्यां, तस्याश्च स्वयंवरात्वं प्रतिपादयति निर्णयसिन्धौ यमो यथा- (२१) वा कन्या द्वादशवर्षाणि या प्रदत्ता गृहे वसेत् । बह्महत्या पितुस्तस्याः सा कन्या वरयेदरम् ॥ इति । ननु ! “अष्टवर्षे” त्यादिवचनेनाS ष्टवर्षाया गौरीत्वं, नववर्षाया रोहिणीत्वं, . दशवर्षाया: कन्यात्वं प्रदर्शितम् । एवं पारस्कर- गृह्यसूत्रगदाधरभाष्ये, संग्रहवास्यकारिकायान्तु- "दशमे नग्निका वा स्यात्” इति, अन्यत्र च-भविष्यपुराणे- "नग्निकां दशवर्षाम्" इतिवचनाद् दशवर्षाया नग्निकात्वं प्रतिपादितम् । किञ्च- “अष्टवर्षा भवेद् गौरी” त्यादौ- “अष्टौ वर्षाणि प्राप्तानि व्यतीतानि वा यस्या इत्येवं व्युत्पादनेनोभयार्थसंभवात् प्राप्ताष्टमवर्षायाः प्राप्तनवमवर्षायाश्च “गौरीत्वम्” एवम्- "नववर्षाणि प्राप्तानि व्यतीतानि वा यस्या दशवर्षाणि प्राप्तानि व्यतीतानि यस्या इत्येवं व्युत्पत्त्योभयार्थसंभवात् प्राप्तनवमवर्षायाः प्राप्तदशमवर्षायाश्च रोहिणीत्वम्, प्राप्तदशमवर्षाया: प्राप्तैकादशवर्षायाश्च “कन्यात्वं,” तथा- “नग्निकात्वं" च प्रतिपादितानि भवन्तीति तथा प्रतिपादिकाभिः स्मृतिभिर्जन्मवर्षत आरभ्य रजोदर्शनात्प्राक् कन्यात्वप्रतिपादिकाया: स्मृतेः परस्परमेकवाक्यत्वसंभवविरोधी भवेत्, तथा च- उत्कृष्टाया : भिरूपाय वराय सदृशाय च । अप्राप्तामपि तां कन्यां तस्मै दद्याद्यथाविधि ॥ ९।८८॥ प्रयच्छन्नग्निकां कन्यामृतुकालभयान्वितः । ऋतुमत्यां हि तिष्ठन्त्यामेनो दातारमृच्छति ॥ ९।८९॥ इत्यादिमन्वादिवचनेष्वपि प्राप्तदशमवर्षायाः प्राप्तैकादशवर्षायाश्च कन्यात्वाङ्गीकर्तव्यतया प्राप्ताष्टमवर्षायाः प्राप्तनवमवर्षायाश्च गौरीत्वेन, प्राप्तनवमवर्षाया: प्राप्तदशमवर्षायाश्च रोहिणीत्वेन तासां पुन: कन्यात्वाभावेन दोषावहत्वाद्- गौरी ददन्नाकपृष्ठे वैकुण्ठं रोहिणी ददन् । कन्यां प्रदन्बह्मलोके रौरवन्तु रजस्वलाम् ॥ इति निर्णयसिन्ध्वादिषु मरीच्यादिवचनम्, तथा तत्रैव- (२२) विवाहयेदष्टवर्षामेवं धर्मो न हीयते ॥ इतिदक्षवचनम्, तथा- सप्तसंवत्सरादूवं विवाहः सार्ववर्णिकः । कन्यायाः शस्यते राजन्नन्यथा धर्मगर्हितः ॥ इति पारस्करगृह्यसूत्रगदाधरभाष्ये- यमवचनं चेत्येवमादीनि वचनान्तराण्यपि विरुध्येरन् । न च- आरभ्य जन्मवर्षात्प्राग्रजोदर्शात्तु कन्यका ॥ इत्यभिनवमाधवीयं वचनं निर्मूलमिति वाच्यम्, अनुवाह- पुमसम्प्रयोगाऽरजोदर्शनसमष्टिविशिष्टाया: कन्यात्वाः वश्यसद्भावाद्,अत एव- षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुङ्क्ते ततस्तद् गन्धर्वश्च तथाः नलः ॥ इति पारस्करगृह्यसूत्रगदाधरभाष्ये, निर्णयसिन्ध्वादौ च, ज्योतिर्निबन्धे- स्मृत्यन्तरवचनेनाऽपि जन्मवर्षत एव कन्यात्वप्रतिपादनाच्च । एवञ्च जन्मवर्षत आरभ्याः नुद्वाहपुमसम्प्रयोगारजोदर्शनसमष्टिसद्भावपर्यन्तं स्वत एव कन्यात्वेः वस्थिते पुन:- अष्टवर्षा भवेद्गौरीत्यादिना गौरीत्व- रोहिणीत्वरूपनामान्तरप्रतिपादनं, कन्यात्वप्रदर्शनञ्चाऽष्टवर्षाया अप्राप्ता- न्तर्रजस्कात्वज्ञापनार्थम्, नववर्षायाः प्राप्तान्तर्रजस्कात्वबोधनार्थम्, दशवर्षाया: स्त्रीत्वबोधकाssकारविशेषात्मकव्यञ्जना नुत्पत्तिसूचनार्थम्, एवं दशवर्षाया: पुनर्नग्निकात्वप्रतिपादनञ्चापि कुचहीनात्वज्ञापनार्थमित्यन्वर्थकान्येवैतानि नामानि । यत: खलु- अष्टवर्षाया अप्राप्तान्तर्रजस्कतया गौराङ्गीत्वेन गौरीतिनामान्तरम्, नववर्षायास्तु प्राप्तान्तरजस्कतया रोहिताङ्गीत्वेन रोहिणीतिनामान्तरम्, दशवर्षायाः पुन: कुचहीनात्वेन नग्निकेतिनामान्तरम्, स्त्रीत्वबोधका कारविशेषात्मकव्यञ्जनराहित्येन कन्येति नाम च । अर्थादेतदुक्तं भवति यावत्स्त्रीचिह्न नोत्पद्यते, तावत्पूर्व विनोपस्थं स्त्रिया अपि स्त्रीत्वेन नावधारणं भवतीत्यर्थात्पंवद्भातीति विनोपस्थं स्त्रीत्वबोधका कार- विशेषात्मकव्यञ्जन-राहित्यात्तादृश्या: "कन्ये "तिनाम, तथा यावत्कुचौ नोद्भिद्येते तावत्पूर्व विनोपस्थं कुचोद्गमस्थानभूतहृत्पावयोर्निर्वस्त्रापि निस्त्रपैव भवतीति “नग्निके"ति तस्या अवस्थाविशेषचिन्हबोधक नामान्तरमपि भवतीति तदभिप्राय इति नैकवाक्यत्वसम्भवविरोध: । अत एवाः यमेवा- र्थ उक्तो गृह्यसंग्रहे. यथा- (२३) अप्राप्तरजसा गौरी प्राप्ते रजसि रोहिणी । अव्यजिता भवेत्कन्या कुचहीना तु नग्निका ॥ व्यजनैस्तु समुत्पन्नैः सोमो मुजीत कन्यकाम् । पयोधरैस्तु गन्धर्वा रजसा ग्निः प्रकीर्तितः ॥ तस्मादव्यजनोपेतामरजामपयोधराम् अभुक्ता चैव सोमायैः कन्यका तु प्रशस्यते ॥ इति । अदितदुक्तं भवति- सोमगन्धर्वाग्नीनामुपभोगद्वारा स्वत्वसद्भावोत्पत्तेः प्रागेव स्त्रीणामुवाहो युक्तः, अन्यथा जन्मत एवारभ्य सार्धवर्षसप्तकं यावदिव व्यञ्जनाद्युत्पत्तिसमकालमेव पुनरपि सोमादय एव क्रमेणोपभुञ्जीरन्नित्यभिप्राय . इति। यत्तु- अस्य गृह्यसंग्रहवचनस्य-सोम: प्रथमो विविदे इत्यादिवक्ष्यमाणश्रुतिविरोधादुपेक्ष्यत्वं केचिद्वदेयुः, तत्रैवं प्रतिवक्ष्याम:- कथं खल्वस्य संग्रहवचनस्य श्रुतिविरोध: ? विरोधो ह्येकविषयक एव, नतु भिन्नविषयकोपि भवतीति श्रुतिर्हि जन्मत एवाssरभ्य क्रमेण सार्धवर्षसप्तकं यावद्विषयीकरोति एतत्तु स्मृतिवचनं सार्धवर्षसप्तकादूर्ध्वमनूढाया व्यञ्जनोत्पत्तिपयोधरोद्गमरजोदर्शनसमकालप्रभृत्येव विषयीकरोति । तत्कथ- मनयोमिथो विरोध: ? अत एव- व्यञ्जनोत्पत्तिपयोधरोद्गमरजोदर्शनानां प्रत्येकत: प्रागेवोद्वहेदुवाहयेद्, अन्यथा- “तदुत्पत्तिसमकालमेव पूर्ववत्पुनरपि सोमो भुञ्जीत, गन्धर्वा भुञ्जीरन्, अग्नि: प्रकीर्तितो भवेदुपभोगे." इत्यर्थस्तस्य स्पष्ट एवेति श्रुतिविरोधाभावादुपेक्ष्यत्ववादस्यैवोपेक्ष्यत्वम्- इति । एवं हि सति- अष्टवर्षा भवेद् गौरीत्यादिवचनस्य गौरी ददन्नाकपृष्ठे इत्याद्युत्तरवचनेना : प्येकवाक्यत्वं सम्भवत्येव । अर्थाद्- अष्टवर्षाया: कन्यायाः प्रदानेन स्वर्गप्राप्तिः फलम्, नववर्षाया: कन्याया: प्रदानेन वैकुण्ठप्राप्ति: फलम्, दशवर्षाया: कन्यायाः प्रदानेन ब्रह्मलोकप्राप्ति: फलम्- इति फलस्तुतिः, अत ऊवं रजोदर्शनसंभवेन रजस्वला चेत्तस्याः प्रदानेन रौरवनरकप्राप्ति: फलम् इति निन्दाश्रुतिश्चोपपद्यते एतच्चाऽनन्तरमेव पुनरपि प्रपञ्चयिष्यते । अत एव- अष्टवर्षाया अपि कन्यात्वं प्रतिपादितमन्यत्र- यथा-निर्णयसिन्धौ संवर्त:- विवाहस्त्वष्टवर्षाया: कन्यायाः शस्यते बुधैः ॥ इति । ननु चा"ष्टवर्षा भवेद् गौरी"त्यादौ- "अष्टौ वर्षाणि गर्भतो जन्मतो वा प्राप्तानि व्यतीतानि वा इत्येवं व्युत्पत्त्या चतुर्धार्थसम्भवेन तत्र विनिगमना- (२४) यस्या" च तथा तथा- जन्मत: विरहाच्चतुर्विधानामेवाऽर्थानामभ्युपगन्तव्यत्वमिति चेत्सत्यम्, इष्टापत्ते:, चैवमभ्युपगमे ह्येवं पर्यवस्यति- तद्यथा- “गर्भत: प्राप्ताष्टमवर्षा, व्यतीतसप्तमवर्षा च जन्मतस्तु सैव प्राप्तसप्तमवर्षा, व्यतीतषष्ठवर्षा चेति चतुर्विधापि जन्मत: षष्ठवर्षोर्ध्वात्वेनैकैव प्रथमा (१), गर्भतो व्यतीताष्टमवर्षा, प्राप्तनवमवर्षा च जन्मतस्तु सैव प्राप्ताष्टमवर्षा, व्यतीतसप्तमवर्षा चेति चतुर्विधा, प्राप्ताष्टमवर्षा, व्यतीतसप्तमवर्षा च गर्भतस्तु सैव प्राप्तनवमवर्षा व्यतीताष्टमवर्षा चेत्यपरा चतुर्विधा चेत्युभयतोष्टविधाऽपि जन्मत: सप्तमवर्षोर्ध्वात्वेनैकैव द्वितीयाs पि (२), जन्मतो व्यतीताष्टमवर्षा, प्राप्तनवमवर्षा च गर्भतस्तु सैव प्राप्तदशमवर्षा, व्यतीतनवमवर्षा चेति चतुर्विधापि जन्मतोऽ ष्टमवर्षोर्ध्वात्वेनैकैव तृतीयाs पि (३) चेति जन्मत: षष्ठवर्षोर्ध्वानां नवमवर्षाभ्यन्तराणां गर्भतस्तु तासामेव प्राप्तदशमवर्षाणां त्रिविधानामप्यष्टवर्षात्वमविरुद्धम् । (१) एवम् - गर्भत: प्राप्तनवमवर्षा, व्यतीताष्टमवर्षा च जन्मतस्तु सैव प्राप्ताष्टमवर्षा, व्यतीतसप्तमवर्षा चेति सप्तमवर्षोत्वेिनैकैव प्रथमा (१), गर्भतो व्यतीतनवमवर्षा, प्राप्तदशमवर्षा च जन्मतस्तु सैव प्राप्तनवमवर्षा, व्यतीताष्टमवर्षा चेति चतुर्विधा, तथा- जन्मत: प्राप्तनवमवर्षा, व्यतीताष्टमवर्षा च गर्भतस्तु सैव प्राप्तदशमवर्षा, व्यतीतनवमवर्षा चेत्यपरा चतुर्विधा चेत्युभयतोऽष्टविधाsपि जन्मतो ष्टमवर्षोर्ध्वात्वेनैकैव द्वितीयाs पि (२), जन्मतो व्यतीतनवमवर्षा, प्राप्तदशमवर्षा च, गर्भतस्तु सैव प्राप्तैकादशवर्षा, व्यतीतदशमवर्षा चेति चतुर्विधापि जन्मतो नवमवर्षोत्वेिनैकैव तृतीयापि (३), इति जन्मत: सप्तमवर्षोर्ध्वानां दशमवर्षाभ्यन्तराणां गर्भतस्तु तासामेव प्राप्तैकादशवर्षाणां त्रिविधानामपि नववर्षात्वमविरुद्धम् (२), एवम्- गर्भत: प्राप्तदशमवर्षा, व्यतीतनवमवर्षा च जन्मतस्तु सैव प्राप्तनवमवर्षा, व्यतीताष्टमवर्षा चेति चतुर्विधापि जन्मतोऽष्टमवर्षोर्ध्वात्वेनैकैव प्रथमा (१), गर्भतो व्यतीतदशमवर्षा, प्राप्तैकादशवर्षा च, जन्मतस्तु सैव प्राप्तदशमवर्षा, व्यतीतनवमवर्षा चेति चतुर्विधा, तथा- जन्मत: प्राप्तदशमवर्षा, व्यतीतनवमवर्षा च गर्भतस्तु सैव प्राप्तकादशवर्षा, व्यतीतदशमवर्षा चेत्यपरा चतुर्विधा चेत्युभयतोऽष्टविधापि जन्मतो नवमवर्षोर्ध्वात्वेनैकैव द्वितीयापि (२), जन्मतो व्यतीतदशमवर्षा, प्राप्तैकादशवर्षा च गर्भतस्तु सैव प्राप्तद्वादशवर्षा, चतुर्विधाsपि जन्मतः (२५) व्यतीतैकादशवर्षा चेति चतुर्विधापि जन्मतोष्टमवर्षावा॑नामेकादशवर्षा- भ्यन्तराणां, गर्भतस्तु तासामेव प्राप्तद्वादशवर्षाणां त्रिविधानामपि दशवर्षात्वमविरुद्धम् । (३) इत्थं खलु जन्मत: षष्ठवर्षोर्ध्वानां नवमवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तद्वादशवर्षाणां त्रिविधानामपि स्त्रीणां जन्मत एव कन्यात्वे सुस्थितेऽ प्यन्तर्रजस्कत्वाभावेन गौराङ्गीतया गौरीत्यपरमन्वर्थन्नाम । तथा- जन्मत: सप्तमवर्षोर्ध्वानां दशमवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तैकादशवर्षाणां त्रिविधानामपि स्त्रीणां जन्मत' एव कन्यात्वे सुस्थितेऽ प्यन्तर्रजस्कतया रोहिताङ्गीत्वे रोहिणीत्यपरमन्वर्थमेव नाम । तथैव जन्मतोs ष्टमवर्षो नामेकादशवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तद्वादशवर्षाणां त्रिविधानामपि स्त्रीणां जन्मत एव कन्यात्वे सुस्थितेऽपि रजोदर्शनाभावेन विनोपस्थं स्त्रीत्वव्यञ्जकाssकारविशेषात्मकचिह्नानुत्पत्त्या च कन्येति एवानुवाद:, कुचोद्गमाभावेन नग्निकेति चापरमन्वर्थनामाsपीति । एवञ्च हि जन्मत: षष्ठवर्षो; एकादशवर्षाभ्यन्तरा गर्भतस्तु प्राप्तद्वादशवर्षा: क्रमेण गौरी, रोहिणी, नग्निकेति त्रिविधा न्वर्थनामान्तरयुक्ताः संकलिता नवविधा: स्त्रियः “कन्या” एव भवन्तीत्युक्तेनैव प्रकारेण जन्मतः षष्ठवर्षोर्वानामेकादशवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तद्वादशवर्षाणां नवविधानामपि स्त्रीणां एव कन्यात्वनग्निकात्वयोरवस्थितावपि प्रथमत्रिविधानां तासामन्तर्रजस्कताभावेन विशेषतो गौराङ्गीतया गौरीत्यन्वर्थनामान्तरेणापि व्यवहार: सुसङ्गच्छत एव । जन्मत: सप्तमवर्षोर्वानां नवमवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तदशमवर्षाणां द्वितीयत्रिविधानामपि स्त्रीणां जन्मत एव कन्यात्वनग्निकात्वयोरवस्थानेऽपि विशेषतो न्तर्रजस्कात्वेन रोहिताङ्गीतया रोहिणीत्यपरा न्वर्थनाम्नापि व्यवहार: सुसङ्गच्छत एव न्मतो ष्टमवर्षोझ्नामेकादशवर्षाभ्यन्तराणां गर्भतस्तु प्राप्तद्वादशवर्षाणां तृतीयत्रिविधानामपि स्त्रीणां विनोपस्थं स्त्रीत्वव्यञ्जकाssकारविशेषाऽनुत्पत्त्या कुचोद्गमाभावेन तावत्कालपर्यन्तं कन्यात्वनग्निकात्वे एवेत्यन्वर्थनामानुवादव्यवहारस्तावन्तमेव कालं कन्यात्वनग्निकात्वे तदूर्ध्वमपि, क्रमेण स्त्रीत्वव्यञ्जकाssकार-विशेषोत्पत्तिकुचोर्दोदरजोदर्शनानां प्राप्तकालत्वादित्येवमुभयविधनियमप्रदर्शनार्थ: । अत एव- गोत्रप्रवरनिर्णये- भिनवमाधवीये- जन्मत तथा । तथैव न (२६) वा अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षा भवेद् गौरी, अत ऊध्वं रजस्वला ॥ इति पाठान्तरवचनेऽप्यष्टवर्षा जन्मतो व्यतीताऽष्टमवर्षा, गर्भतस्तु प्राप्तद्वादशवर्षा च भवत्येव, तथा- दशवर्षा गर्भत: प्राप्तदशमवर्षा, जन्मतस्तु व्यतीताष्टमवर्षा च भवत्येवेत्यष्टवर्षायाः कन्यात्वं, दशवर्षाया गौरीत्वञ्च द्वयमप्यविरुद्धमेव । एवमेवैतादृशवचनेष्वन्यत्रापि व्यवस्थापनेन न काचिद- सङ्गतिरिति । अत एव च- अत ऊध्वं रजस्वला इति रजोदर्शनसंभवोs पि प्रदर्शित: । एतेन- सोमगन्धर्वाऽग्नीनां षड्वर्षपर्यन्तमुपभोगद्वारा स्वत्व- सद्भावात्तदूर्ध्वमर्थाद् द्विसप्ततितममासादूवं कन्यानां विवाहकालं वदन्ती किंवदन्ती परास्ता । अत एव- जन्मदिनत एवाऽऽरभ्य त्रिंशन्मासानुक्रमेण सार्धवर्षसप्तकं यावत्सोमगन्धर्वाs ग्नीनामुपभोगद्वारा स्वत्वसद्भावव्याख्यान- स्यापि पारस्कर-गृस्यसूत्रभाष्येषु स्पष्टोल्लेख: सुतरां सङ्गच्छते; नवतितमादेव मासादूर्ध्व तत्कालत्वात् । तथा चैवंस्थिते- "दशमे नग्निका स्याद्” इतिवचनम्, तथा "नग्निकां दशवर्षाम्" इति भविष्यपुराणवचनञ्चाsपि व्याख्याते भवत: । अत एव नग्नैव-नग्निका तत्त्वञ्च विनोपस्थं निर्वस्त्रयापि भाव्यत्वम्, स्तनोभेदाभावात् । "यावन्नोद्भिद्येते स्तनौ तावद्देया थर्तुमती भवति दाता प्रतिग्रहीता नरकमाप्नोति, पिता पितामहः प्रपितामहश्च विष्ठायां जायन्ते; तस्मान्नग्निका देया" । इति वालम्भटयां मिताक्षराव्याख्यायां पैठीनसिस्मरणात् । अत एव- कुचहीना तु नग्निकेति गृह्यसंग्रहवचनमपि सुसङ्गच्छते, अदितदुक्तं भवति यावत्कुचौ नोद्भिद्यते तावत्पूर्व विनोपस्थं निर्वस्त्रापि निस्त्रपैव भवतीति नग्नैव नग्निकेत्यन्वर्थन्नाम, कुचौद्भेदादूर्ध्वन्तु रजसोs पि दर्शनसंभवात् । अत एव- “यावन्नोद्भिद्यते स्तनौ तावद्देयाऽ थर्तुमती भवती"ति पूर्वोदाहृतपैठीनसिवचने स्तनोभेदरजोदर्शनयोः पौर्वापरी- भावोः प्यानन्तर्यबोधकेना" थ"शब्देन सूचितः । एतेनैतदपि नियमितुं शक्यम्- “स्तनयो: स्पष्टो दादुत्तरस्यैव रजोदर्शनकालत्वमिति रजोदर्शनकालस्यानियतत्वेऽपि स्तनयोः स्पष्टोद्भेदस्य तु कालबाहुल्या- त्तदीषदुभेदारम्भसमकालस्य लक्षणीयत्वेन तदुत्तरं रजोदर्शनं निश्चीयते” इति तावत्पूर्वमनूढाया: पुमसम्प्रयुक्ताया एवा नुद्वाहपुमसम्प्रयोगाsरजोदर्शन- समष्ट्या क्षतयोनित्वेन कन्यात्वम्- इति । यत्तु गोभिलगृह्यपरिशष्टे- नग्निकान्तु वदेत्कन्यां यावन्नर्तुमती भवेत् । ऋतुमती त्वनग्निका तां प्रयच्छेत्त्वनग्निकाम् ॥ इति- S तथा च (२७) ऋतुमत्या अनग्निकाया: प्रदानमिति विरुद्ध प्रतिपादितम्, तदपि-तदीयभाष्य एव संगमय्य व्याख्यातं, तद्यथा- "तां कन्यामनग्निकामृतुमतीमपि दद्यात् तुरप्यर्थों भिन्नक्रमेण योजनीय:, तदेवम्-अनग्निकामपि दद्यात्, नग्निका पुन: श्रेष्ठा न पुनरनग्निकाया विवाह एव भवतीत्यभिप्राय इतीति । ततश्चानग्निकाया: प्रदानप्रतिपादनं विरुद्धमपि गौणत्वेनाभ्यनुज्ञानं क्षत्रियादिपरकत्वेनोपरिष्टाद्वक्ष्यते। तथा चैवम्- प्राप्ते तु द्वादशे वर्षे रज: स्त्रीणां प्रवर्तते ॥ इत्यस्याऽ प्ययमर्थ:- गर्भत: प्राप्ते द्वादशे, जन्मतस्तु प्राप्त एकादशेऽ ज्जिन्मतो व्यतीतदशमवर्षादूर्ध्वमिति । एतेन- "दशवर्षा भवेत्कन्या अत ऊर्ध्व रजस्वला" इत्यपि वचनं व्याख्यातं भवति । तथा चैतावता- पूर्वत्र प्रदर्शितप्रस्तारक्रमेण जन्मतो व्यतीतदशमवर्षायाः प्राप्तैकादशवर्षाया अपि कन्यात्वप्रतिपादनं रजोदर्शनस्यानियतत्वेन तदभावपक्ष एवेति स्वीकर्तव्यं भवति । अत एव- शीतातिशयदेशीयानां, ग्रामीणानाञ्चातितन्वङ्गीनां प्रथमरजोदर्शन- स्योष्णातिशयदेशीयाभिर्नागरिकीभिश्चातिपरिपुष्टाङ्गीभिः समकालिकत्वासंभव- प्राकृतनियमदर्शनात्तथा- सर्वासामेव यथातथाविधानां स्त्रीणामत्रैव वर्षे मासे पक्षे दिने प्रथमरजोदर्शनं भवेदिति वक्तुमशक्यत्वाच्च दशमवर्षादूवं सर्वासां रजस्वलात्वं विरुद्धमाशङ्क्य तदेव ह्यभिप्रेत्योक्तम्- दशमे नग्निका वा स्याद् इत्यनन्तरम्- पारस्करगृह्यसूत्रगदाधरभाष्ये-संग्रहवाक्य- कारिकायाम्- द्वादशे वृषली स्मृता । अपरा वृषली जेया कुमारी या रजस्वला ॥ प्राप्ते तु द्वादशे वर्षे य: कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥ एतच्च प्रायिकं जेयं न रजोदर्शनं भवेत् । स्त्रीणां कासाञ्चिवर्षे स्मिन्नामाणि मनुनापि तत् ॥ उद्वहेत् स्त्रिंशदब्दस्तु कन्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षो ऽष्टंवर्षा वा धर्मे सीदति सत्वरः ॥ एकविंशतिवर्षों वा सप्तवर्षामवाप्नुयात् । वर्षरेकगुणां भार्यामुदहेत्रिगुणः स्वयम् । त्रिंशदब्दो दशाब्दाञ्च भायां विन्दति नग्निकाम् । (२८) तस्मादुराहयेत्कन्यां यावन्नर्तुमती भवेत् ॥ इतिवचनजातं सङ्गच्छते। तथा च- प्रथमरजोदर्शनस्या नियतकालत्वेनातितन्वङ्गीनां गर्भतो द्वादशे जन्मतस्त्वेकादशे प्राप्ते वर्षे रजसो बहिर्दर्शनाs सम्भवाद्- एतच्च प्रायिकं ज्ञेयं न रजोदर्शनं भवेत् । स्त्रीणां कासाञ्चिद्वर्षेस्मिन्नाभाणि मनुनापि तत् ॥ इत्युक्तमपि सुतरां संगच्छते । अत एवैतस्यैवोत्तरार्धे- अस्मिन् गर्भतो द्वादशे जन्मतस्त्वेकादशे प्राप्ते वर्षे मनुनापि तद्रजोदर्शनं कासाञ्चिदतितन्वङ्गीनां नाभाणि नाकथीत्यर्थ: स्पष्ट एव प्रतीयते । एवंहि कन्याया रजोदर्शनेन तत्पित्रादीनां दोषातिशयश्रवणादतिपरिपुष्टाङ्गीनां जन्मतो व्यतीतदशमवर्षादूर्ध्व प्रायेण रजसो बहिर्दर्शनसंभवादतितन्वङ्गीनान्तु तदसंभवेप्यन्तर्रजः संभाव्यैव- दशवर्षा भवेत्कन्या,अतऊध्वं रजस्वला इत्युक्तं सङ्गच्छत एव । तथा चैतावता रजसोन्त: संभवेन बहिरपि दर्शनसंभवात् सति तु तद्दर्शने कन्यात्वनाशेन पित्रादीनां स्वामित्वकिञ्चित्क्षते:- त्रिंशद्वर्षो वहेत्कन्यां हृयां द्वादशवार्षिकीम् । त्र्यष्टवर्षों S ष्टवर्षा वा धर्मे सीदति सत्त्वरः ॥ इति मनुवचने “द्वादशवार्षिकीम्" इत्युपादानाद्- दशवर्षा भवेत्कन्या, अत ऊवं रजस्वला इति दशमवर्षादूर्ध्व रजस्वलात्वप्रदर्शने पि द्वादशवर्षाया रजस्वलाया अप्युदाहो मध्यमपक्षीय इति वदन्तो मूर्खा एव; पित्रे दद्यान्न शुल्कन्तु कन्यामृतुमती हरन् । स हि स्वाम्यादतिक्राम्येदृतूनां प्रतिरोधनात् ॥९।९३॥ इति पूर्वोक्तमनुस्मरणविरोधात्, तथा- वर्षरेकगुणां भार्यामुदहेत्रिगुणः स्वयम् । त्रिंशदब्दो दशान्दाञ्च भायां विन्दति नग्निकाम् ॥ इति पूर्वोदाहृतवचनानुरोधबलेन “त्रिंशद्वर्ष" इति चाs नुसृत्यैव "द्वादशवार्षिकीम्" इत्यस्य "गर्भत: प्राप्ते द्वादशे वर्षे दीयते” इत्यर्थे "तत्र च दीयते कार्य भववत्" इतिसूत्रेण, यद्वा “गर्भतः प्राप्तं द्वादशं वर्ष प्रकृष्टं (२९) तस्य च - "तदस्य S प्राप्ते वा दीर्घमस्या" इत्यर्थे- “कालाद्" इत्यनुवृत्तिसहकृतेन प्रकृष्टे ठन् इतिसूत्रेण ठप्रत्ययविधानत एव व्युत्पादनीयत्वाऽ वश्यस्वीकर्तव्यतया पुनर्जन्मतस्तु प्राप्तैकादशवर्षामपि तत एव “व्यतीतदशमवर्षाम्” इत्येव- मर्थपर्यवसानाच्च, अन्यथा- "तत्र जात:", "तत्र भव:", "तदस्य ब्रह्मचर्यम्", परिमाणम्”, “तमधीष्टो भूतो “तमधीष्टो भूतो भृतो भावी" इत्येतैरपि सूत्रैस्तत्साधुत्वमात्रस्य तु सुतरां संसिद्धेः । तदेवम्- जन्मतो दशमवर्षादूवं रजोदर्शनसम्भवेन तदर्वागेवोद्वाहस्य कर्तव्यत्वप्रतीतिनिश्चयेऽ पि जन्मत: सार्धवर्षसप्तकं यावत्सोमादीना- मुपभोगद्वारा स्वत्वसद्भावेन “षडब्दमध्ये नोद्वाह्ये" तिनिषेधात्, काले दाता पिता वाच्यो वाच्यश्चानुपयन्पतिः । मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥९॥४॥ इति मनुवचनेना व्यतीते समये दातु: पित्रादेर्दोषप्रदर्शनाच्च- समय एव तत्कर्तव्यतया । अथाऽ पि पुन: स एव समयो यथावन्मीमांस्यते तत्र-तावज्जन्मत: सार्धवर्षसप्तकपर्यन्तसमयसमुदायं निषेधति- तदेव ज्योतिर्निबन्धवचनं- निर्णयसिन्धौ, पारस्करगृह्यसूत्रगदाधरभाष्ये च यथा- षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुक्ते ततस्तद्वद्गन्धर्वश्च तथानलः ॥ इति । एवम्- ऋग्वेदे, पारस्करगृह्यसूत्रे च- सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमो ऽ ददद् गन्धर्वाय गन्धर्वोs दददग्नये । रयिं पुत्राश्चादादग्निर्मह्यमयो इमाम् ॥ सा नः पूषा शिवतमायमैरय सा न ऊरुविंशती विहर। इति मन्त्रलिङ्गमपि । यत्तु- अत्र वर्षद्वयानुक्रमेण वर्षषट्कं यावत्सोमादीनामुपभोगद्वारा स्वत्वसद्भावबोधकं "षडब्दमध्ये नोद्वाह्ये"ति पूर्वोक्तज्योतिर्निबन्ध- वचनमनुपपन्नं, तदपीत्थं व्याख्येयम्- तद्यथा-“षडब्दमध्ये" इत्यस्य गर्भतो, जन्मतश्च व्यतीता:, प्राप्ताश्च “षट् च ते ब्दाश्चे”त्येवं व्युत्पत्त्योभयत्रैव वाचकत्वशक्तया गर्भत: प्राप्तषट्संख्यावाचिनो जन्मतस्तु व्यतीतचतु:संख्या- (३०) - तावत: वाचिनश्च षट्शब्दस्य “षट् च षट् चे” त्येकशेषतो वाचकत्वशक्तचैव पुनरष्टसंख्यावाचिनश्च तस्य पश्चाद् “अब्द" शब्देन सह कर्मधारयं कृत्वा तदनु- तेषां मध्यमिति षष्ठीसमासतो निष्पन्नस्य षष्ठीसमासतो निष्पन्नस्य “षडब्दमध्य"शब्दस्य सप्तम्येकवचनान्तत्वस्वीक्रियमाणतया तस्य च- "जन्मतो ष्टवर्षाभ्यन्तरे" इत्यर्थो लभ्यत एव । वर्षद्वयमित्यस्यापि जन्मतो गर्भतश्च प्राप्तौ, व्यतीतौ च "द्वौ-अवयवौ यस्य त” दित्येवंव्युत्पत्त्योभयत्रैव वाचकत्वशक्तया जन्मतो व्यतीतद्वित्वसंख्यावाचिनस्तत एव पुन: प्राप्तत्रित्वसंख्यावाचिनश्च "द्वि"शब्दात्तयप्प्रत्यये तस्य चा यजादेशे परिनिष्ठितस्य "द्वय"शब्दस्य- त्रितयार्थवाचकत्वमङ्गीकृत्य “वर्षाणां द्वय". मत्रितयमित्यर्थे क्रियमाणे "जन्मतस्त्रिवर्षाभ्यन्तरे" इत्यर्थो लभ्यत एव । तथा चैवंव्युत्पत्त्येदृशे प्रस्तारे स्वीक्रियमाणे सार्धवर्षसप्तकसमुदायात्मकसमयस्य जन्मतोS ष्ट- वर्षाs भ्यन्तरत्वं भवत्येव, तथैव तावतस्त्रिंशन्मासात्मकसार्धवर्षद्वयरूप- समयसमुदायस्यापि जन्मतस्त्रिवर्षाभ्यन्तरत्वं भवत्येव । तदेवम्, वर्षद्वयमित्यस्य "जन्मतस्त्रिवर्षाभ्यन्तरात्मकसार्धवर्षद्वयरूपकालपर्यन्त "मित्यर्थ कल्पयित्वा “षडब्दमध्ये” इत्यस्यापि- "जन्मत: सार्धवर्षसप्तकात्मकाष्टवर्षाभ्यन्तरे" इत्यर्थ स्वीकृत्य च तावतो ष्टवर्षाभ्यन्तरस्य सार्धवर्षसप्तकात्मकसमयसमुदायस्य सोमगन्धर्वाग्नीनामुपभोगद्वारा स्वत्वसत्ता धिकरणत्वेन दोषश्रवणात् कन्योद्वाहे निषेधः क्रियते- “षडब्दमध्ये नोद्वाह्ये"त्यादिना, तथा षडब्दमध्ये नोदास्येत्यस्य- षडब्दमध्ये जन्मतः सार्धवर्षसप्त- कात्मका ष्टवर्षमध्ये कन्या नोद्वाह्या, यतो "वर्षद्वयं जन्मत: सार्धवर्षद्वयात्मकत्रिवर्षाभ्यन्तरसमयपर्यन्तं सोमो भुङ्क्ते, ततस्तावन्तं समयं गन्धर्वो भुङ्क्ते, तथा-तेन प्रकारेणात्तिावन्तमेव समयमनलो भुङ्क्ते" इतिवाक्यार्थ: सम्पद्यते। तदेवम्- जन्मत आरभ्य त्रिंशन्मासात्मकसार्धवर्षद्वयरूपकालानुक्रमेण सार्धवर्षसप्तकं यावत्सोमादीनामुपभोगद्वारा स्वत्वसद्भावेन दोषश्रवणान्नि- षेधसिद्धिरिति न काचिदनुपपत्ति: । न चा: स्य वचनस्य यथाश्रुतेनैवाऽ र्थेन सर्वत्र निर्बाधं निर्वाहात् सोमादीनां त्रिंशन्मासा नुक्रमेण सार्धवर्षसप्तकं यावदुपभोगद्वारा स्वत्वसद्भावबोधकतादृशवचनान्तरस्य कुत्रा प्युल्लेखानु- पलम्भाच्च- एवंविधव्युत्पत्तिप्रस्तारात्मकक्लिष्टकल्पनया सर्वत्र दोषबाहुल्य- मात्र-मितिवाच्यम्, त्रिंशन्मासानुक्रमेण सार्धवर्षसप्तकं यावत्सोमादीना- मुपभोगद्वारा स्वत्वसद्भावबोधकस्पष्टोल्लेखकारिणा गदाधरेण पारस्कर- (३१) गृह्यसूत्रभाष्ये-“षडब्दमध्ये नोद्वाह्ये” ति ज्योतिर्निबन्धवचनस्योल्लेखनात् । यदि खलु गदाधर:- “षडब्दमध्ये" नोद्वाह्येतिवचनस्य यथाश्रुतसरलार्थ- स्वीकारमेवाड करिष्यत्तदा ह्येकत्रैव प्रसङ्गे सोमादीनां त्रिंशन्मासा- नुक्रमेणोपभोगद्वारा स्वत्वसद्भावं न प्रादर्शयिष्यत्-इति- अगत्यैव स्वीकृता तथाविधापि क्लिष्टकल्पना तीवोचिता सती न क्वापि किञ्चिद्दोषलेशकरीति सर्व समीचीनमेवेति । एवम्, द्वितीयचतुर्थषष्ठाऽष्टमदशमद्वादशचतुर्दशवर्षात्मकसमयसमुदायो युग्मरूपेणाऽपि निषिध्यते स्मृत्यन्तरवचनेन- निर्णयामृते- यथा- चतुर्भिः षड्भिरष्टाभिर्दशद्वादशभिस्तथा । वविवाहिता कन्या वैधव्यमुपगच्छति ॥ इति । पुनस्तथा तत्रैव गौतमेनापि निषिध्यते यथा- द्वादशे दशमे वा ब्दे चतुर्थे वा चतुर्दशे । षष्ठे ष्टमे द्वितीये वा कन्यकाश्चेत्प्रयच्छति ॥ करोति वैधव्यमपत्यशोकं दौर्भाग्यमात्यन्तिकमर्थनाशम् । युग्मे च वर्षे विहिते विवाहे न कन्यका वृद्धिमुपैति स्वापि ॥ मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे च मासत्रयमेव यावत् । विवाहशुद्धिः खलु कन्यकाया ज्योति: स्मृतीनामपि नो विरोध: ॥ अयुग्मे विधवा नारी युग्मे च विधवा भवेत् । तस्माद् गर्भान्विते युग्मे कन्यका सा पतिव्रता । इति । निर्णयसिन्धौ, पारस्करगृह्यसूत्रगदाधरभाष्ये च- राजमार्तण्डे पि- अयुग्मे दुर्भगा नारी युग्मे तु विधवा भवेत् । तस्माद् गर्भान्विते युग्मे विवाहे सा पतिव्रता ॥ मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे पि मासत्रयमेव यावत् । विवाहशु विं प्रवदन्ति सन्तो वात्स्यादयः स्त्रीजनिजन्ममासात् ॥ इति। अर्थादेतदुक्तं भवति द्वितीयचतुर्थषष्ठा ष्टमदशमद्वादशचतुर्दश- वर्षात्मकसमयसमुदायस्य युग्मत्वेन, तृतीयपञ्चमसप्तमनवमैकादशत्रयोदश- वर्षात्मकसमयसमुदायस्य त्वयुग्मत्वेन निषेधस्य पुनर्द्वितीयादियुग्मवर्षात्मक- समयसमुदायस्य मासत्रयपर्य्यन्तत्वेन, तृतीयाद्ययुग्मवर्षात्मकसमयसमुदायस्य तु मासत्रयोर्द्धत्वेन गर्भसहकृतयुग्मत्वेन प्रतिप्रसवः साकल्येन वा (३२) . मासत्र- पारस्कर- वक्तुमवश्यमशक्य: । जन्मतः सार्धवर्षसप्तकात्मकसमयसमुदायस्य सोमादीना- मुपभोगद्वारा स्वत्वसत्तारूपतो, जन्मत एकादशादिवर्षात्मकसमयसमुदायस्य तु युग्मस्याऽ युग्मस्य चाs पि रजोदर्शनसम्भवरूपतो निषेधात् । तदेवम्- जन्मतः सार्धवर्षसप्तकादूर्ध्वस्या ष्टमनवमदशमात्मकस्यैव सार्धवर्षद्वयरूपसमयसमुदायस्य मध्ये जन्मतो युग्मस्य यपर्यन्तत्वेनाs युग्मस्य तु मासत्रयोर्ध्वत्वेन गर्भसहकृतयुग्मत्वेन च प्रतिप्रसवस्तु निश्चयेन वक्तुं शक्यः । एतेन- सप्तसंवत्सरादूवं विवाह: सार्ववर्णिकः । कन्यायाः शस्यते राजन्नन्यथा धर्मगर्हितः ॥ इति निर्णयसिन्धौ, पारस्करगृह्यसूत्रगदाधरभाष्ये यमवचने- “सप्तसंवत्सरादूर्ध्वम्" इत्यस्य जन्मतो व्यतीतसप्तसम्वत्सरादूर्ध्वम् इत्यर्थस्वीकर्तव्यतया तस्य च पुनर्जन्मत: प्राप्ताS ष्टमवर्षत्वसत्त्वेन जन्मत: सार्धवर्षसप्तकोर्ध्वात्मकसमयसत्ता भवत्येवेति । यच्च- निर्णयसिन्धौ- पराशरमाधवीये, गृह्यसूत्रगदाधरभाष्ये च- जन्मतो गर्भाधानाद्वा पञ्चमान्दात्परं शुभम् । कुमारीवरणं दानं मेखलाबन्धनं तथा ॥ इति वचनमनुपपन्नम्। तदपि चेत्थं व्याख्येयम्- “जन्मतो गर्भाधानाद्वा व्यतीतात्पञ्चमाब्दात्परमज्जन्मतो गर्भतो वा प्राप्तात्षष्ठाब्दात्परं जन्मत: सप्तमे षष्ठे वेति यावत्" इत्येवं व्युत्पादनेन जन्मत: सप्तमवर्षायाः, षष्ठवर्षायाश्चापि चन्द्रलग्नबलादिना तिपरिपुष्टाङ्गया: कन्याया: सोमादीनामुपभोगद्वारा स्वत्वसत्तयैव सत्यपि गुणवद्वरलाभे तस्मै वैवाहिकविधिना सम्प्रदानावरोधने पि पुन: पित्रादीनां प्राणसंशयावस्थायां गुणवद्वरवरणवाग्दानयोस्त्वनवरोधात्तदभिप्रायेणैव व्यवस्था- पनयोपपत्तिसद्भाव: सम्भवति । अत एव- “कुमारीवरणं दानम्” इत्युक्तं तत्र सङ्गच्छते । अत एव च- राहुग्रस्ते तथा शुढे पितॄणां प्राणसंशये । अतिप्रौढा च या कन्या चन्द्रलग्नबलेन तु ॥ इति निर्णयसिन्धौ राजमार्तण्डवचने चकारादतिबाला प्राणसंशय इत्युक्तेरितिकमलाकरभट्टोक्तिरपि सङ्गच्छते- इति । ननु चैवमपि- तस्याः (३३) तया अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्हेत् । अनन्यपूर्विका कान्तामसपिण्डां यवीयसीम् ॥ इति याज्ञवल्क्यवचने- "यवीयसीम्” इत्यस्य- अतिशयेन युवतिरितिविग्रहे युवतिशब्दादतिशयरूपार्थे “ईयसुन्प्रत्ययान्तत्वेन व्युत्पादनीयतया “युवति" शब्दस्य च पुन:- बाला , स्यात् षोडशाब्दा तदुपरि तरुणी त्रिंशतिर्यावदूर्व प्रौढा स्यात्पञ्चपञ्चाशदवधि परतो वृद्धतामेति नारी। इति कोकशास्त्रे, तथा- "बालेति गीयते नारी यावर्षाणि षोडश । ततस्तु तरुणी लेया द्वाविंशद्वत्सरावधि ॥ इति भावप्रकाशे च वचनात्तदनुरोधेन षोडशवर्षोर्ध्वत्रिंश- द्वर्षपर्यन्तैतच्चतुर्दशवर्षात्मकावान्तरप्रत्येकसमयरूपवयोवाचित्वावश्यस्वीकर्तय- द्वाविंशतितमवर्षोर्ध्वत्रिंशद्वर्षपर्यन्तैतद्वर्षाष्टकात्मकावान्तरप्रत्येकसमय- रूपवयःस्थात्वरूपार्थस्वीकारावश्यकत्वेन याज्ञवल्क्यप्रतिपादित: प्रौढाविवाहो विसंवादीति चेद् ? अत्रोच्यते- यौवनस्याप्युपचयापचयधर्मलक्षणत्वेन पूर्ववयोरूपतया युवतिशब्दस्य पूर्ववयःस्थेत्यर्थस्वीकरणीयतयैव हीयसुन्प्रत्ययान्तस्य युवति- शब्दस्याः प्यत्यन्तपूर्ववय:स्थेत्यर्थस्वीकारावश्यकत्वात्, उपचयापचयधर्म- लक्षणस्य हि वयस: पूर्वोत्तररूपेण द्वित्वदर्शनात्, तथैव शतपथश्रुतेश्च । अत एव- “वयसि प्रथमे” इति पाणिनीयसूत्रमहाभाष्यविवरणे- उपचयापचयधर्मलक्षणरूपेण वयसो द्वित्वाश्रयणेन यौवनस्थपूर्ववयोरूपत्व- मभिप्रेत्य “वयस्यचरमे” इतिवार्तिकं प्रत्याख्यातं कैयटेन । यत्तु-वयस: कौमारयौवनस्थाविरेतित्रित्वमाश्रित्य “वयस्यचरमे” इतिवार्तिकं पुनस्तेनैवारब्धं, तदेकदेशीयम्; ये त्रीणि वयांसीच्छन्ति कौमारयौवनस्थाविराणि तन्मतेनेदं वक्तव्यं, वधूटचिरराटशब्दयोर्द्वितीयवयोवचनत्वादित्यर्वाचीनं मतान्तरं प्रदर्श्य यदा तु द्वे एव वयसी उपचयापचयलक्षणे इति दर्शनम्, तदैतन्न वक्तव्यं यौवनस्यापि प्रथमवयोरूपत्वादिति तुशब्देन तत्रारुचिमुद्भाव्य स्वाभिमतस्य प्राचीनपक्षस्य समर्थनात् ततश्चैवं पूर्वपक्षे व्युत्पादितस्य यवीयसीमित्यस्यात्यन्तपूर्ववयसमदत्यन्तन्यूनवयसमित्येवमर्थमभिप्रेतवता याज्ञवल्क्येन न कथंकथमपि प्रौढाविवाह: प्रतिपादित इत्याशङ्कितुमपि (३४) शक्यते । तदेवं- कन्योद्वाहे जन्मत: सार्धवर्षसप्तकादूर्ध्वस्य दशमवर्षपर्यन्तस्य सार्धवर्षद्वयात्मकस्यैव समयसमुदायस्य सोमादीनामुपभोगद्वारा स्वत्वसद्भावस्य रजोदर्शनस्य चोभयोरेवाऽ नधिकरणत्वेन परममुख्यत्वं भवति । ततश्चैवं स्थिते- युग्माऽ युग्मत्वजन्यनिषेधप्रतिप्रसवप्रकारश्चैष यथा- নন च तस्य तावत्सार्धवर्षद्वयात्मकसमयसमुदायमध्ये हि जन्मतः सार्धवर्षसप्तका- दूर्ध्वस्य मासषट्कस्य जन्मतोऽ ष्टमवर्षतया युग्मत्वेन मासत्रयपर्यन्तस्यैव प्रतिप्रसवसद्भावात्तस्य पुनर्मासत्रयोर्ध्वतया प्रतिप्रसवाभावेपि गर्भतस्तु नवमर्षतया युग्मत्वेन तस्य च मासत्रयोर्ध्वत्वसत्त्वेन पुन: प्रतिप्रसवः । एवं- तदूर्ध्वस्य मासत्रयस्याः पि जन्मतो नवमवर्षत्वेनाऽ युग्मतया तत्र च मासत्रयोर्ध्वस्यैव प्रतिप्रसवसद्भावेन तदर्वाचीनस्य तदभावे पि गर्भतस्तु दशमवर्षतया युग्मत्वेन तस्य च मासत्रयपर्यन्ततया गर्भतो युग्मतया च पुन: प्रतिप्रसवः। तथा- तदूर्ध्वस्य मासनवकस्यापि गर्भतो दशमवर्षत्वेन युग्मतया तस्य पुनर्मासत्रयपर्यन्तत्वाभावेन प्रतिप्रसवाभावे पि जन्मतस्तु नवमवर्षत्वेना- ऽयुग्मतया तु मासत्रयोर्ध्वत्वसद्भावद्वारा गर्भतो दशमवर्षत्वेन युग्मत्वसद्भावद्वारा च पुन: प्रतिप्रसवः । तथैव- तदूर्ध्वस्य मासत्रयस्यापि गर्भत एकादशवर्षत्वेनाऽ युग्मतया तस्य च मासत्रयोर्ध्वत्वाभावेन प्रतिप्रसवासम्भवेपि जन्मतस्तु दशमवर्षतया तस्य च पुनर्मासत्रयपर्यन्तत्वेनैव पुन: प्रतिप्रसवसम्भवः । तथैवं पुन:- तदूर्ध्वस्य मासनवकस्याः पि जन्मतो दशमवर्षत्वेन युग्मतया मासत्रयपर्यन्तत्वाभावेन प्रतिप्रसवाभावेऽपि गर्भतस्त्वेकादशवर्षत्वेना युग्मतया तस्य च पुनर्मासत्रयोर्ध्वतयैव पुन: प्रतिप्रसव इति । युक्तञ्चैतदेव; वैवाहिको विधि: स्त्रीणामौपनायनिकः परः । पतिसेवा गुरौ वासो गृहार्थो ग्निपरिक्रिया । ॥ २६७॥ इति मनुना कन्यानामुद्वाहस्य कुमारोपनयनस्थानीयत्वस्मरणात् । उपनयनसमयस्य ब्राह्मणकुमाराणां गर्भतो . जन्मतो वा ष्टमवर्षात्मकस्यैव; क्षत्रियकुमाराणान्तु गर्भत एकादशवर्षात्मकस्य जन्मतस्तु दशमवर्षात्मकस्यैव, वैश्यकुमाराणान्तु गर्भतो द्वादशवर्षात्मकस्य जन्मतस्त्वेकादश- वर्षात्मकस्यैव परममुख्यत्वं समाम्नायते, तस्य च तथा (३५) तथा च- न च च गर्भाष्टमे S ष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥१॥१४॥ इति याज्ञवल्क्यस्मरणात् । जन्मत:सार्धवर्षसप्तकादूर्ध्वस्य दशमवर्षपर्यन्तस्यैव समयसमुदायस्य त्रैवर्णिककन्योद्वाहे परममुख्यत्वं सिद्धम् । वैवर्णिककन्योद्वाहस्य त्रैवर्णिककुमारोपनयनस्थानीयत्वेन तदुपनयनस्य क्रमेण षोडशद्वाविंशचतुर्विंशपर्यन्तात्मकस्या पि गौणत्वाभ्यनुज्ञानात्तदु द्वाह समयस्यापि तावद्वर्ण पर्यन्ता त्म कस्य गौणत्वं स्वीकर्तव्यम् । एवञ्च- त्रिंशद्वर्षः षोडशाब्दां भार्या विन्देत नग्निकाम् । दशवर्षोष्टवां वा धर्मे सीदति सत्त्वरः ॥ इति निर्णयसिन्धौ भारतवचनम्, तथा- काममामरणात्तिष्ठेद् गृहे कन्यर्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥९।८९॥ त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती सती । ऊर्ध्वन्तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥९।९०॥ इत्येवमादीनि मन्वादिवचनान्यप्यनुगृहीतानि भवन्ति, तथैवम्- “त्रिंशद्वर्षों वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्” इति पूर्वोदाहृतमनुवचने- "द्वादशवार्षिकीम्" इत्यस्यापि- "तत्र जात:,” “तत्र भव: “तदस्य ब्रह्मचर्यम्,” तदस्य परिमाणम्,” “तमधीष्टो भूतो भृतो भावी” इत्यादिभिरपि सूत्रै: साधुत्वनिष्पादनस्य सुसङ्गतिश्च सुसङ्गतिश्च भवतीति वाच्यम्, त्रैवर्णिककुमारो- पनयनसमयस्य हि क्रमेण गर्भतो जन्मतो वाऽ ष्टमवर्षात्मकस्यैव, तथा गर्भत एकादशवर्षात्मकस्याः पि जन्मतस्तु दशमवर्षात्मकस्यैव, तथैव- गर्भतो द्वादशवर्षात्मकस्याः पि जन्मतस्तु एकादशवर्षात्मकस्यैव परममुख्यत्वेपि पुनर्नवमादिषोडशवर्षपर्यन्तात्मकसमयसमुदायस्य, तथा- गर्भत एकादशा- दिद्वाविंशवर्षपर्यन्तात्मकसमयसमुदायस्य, तथैव- गर्भतो द्वादशादिचतुर्विश- वर्षपर्यन्तात्मकसमयसमुदायस्य च त्वनन्यगतिकेनैव प्रतिबन्धेनाsवरोधे गौणत्वमभ्यनुज्ञातं श्रुतिस्मृत्यादौ नेच्छयाऽ पि । अत एव हि न तत्र तत्र गौणसमयेषूपनयने तेषां प्रत्यवायः, प्रायश्चित्तो वा कश्चिदापद्यते । अपितु- तावत्पर्य्यन्तमप्यकृतोपनयनानामेव तदूर्ध्व प्रत्यवायस्मरणेन तदपनुत्त्यर्थं व्रात्यस्तोमात्मकप्रायश्चित्तोपदेशात् । (३६) - - , जन्मत: तु सति तु यद्वा- त्रैवर्णिककन्योद्वाहे तु- सार्धवर्षसप्तकादूर्ध्वस्य दशमवर्षपर्यन्तस्यैव सार्धवर्षद्वयात्मकसमयसमुदायस्य परममुख्यत्वम्, नतदूर्ध्वस्या पि रजोदर्शनसंभवात् तदसम्भवनिश्चये तदभावपर्यन्तमपि रजोदर्शनस्याऽ नियतत्वात्पूर्वोक्तनिर्णयामृतोद्धृतगौतम- वचनानुरोधेन दशमवर्षोर्ध्वस्यापि गर्भत:प्राप्तषोडशवर्षपर्यन्तस्य जन्मतस्तु व्यतीतचतुर्दशवर्षपर्यन्तस्यैतावतो वर्षचतुष्टयात्मकस्यैव समयसमुदायस्य मध्ये युग्मस्य मासत्रयपर्यन्तत्वेना: युग्मस्य मासत्रयोर्ध्वत्वेन पुन: प्रतिप्रसवविधानात् त्रैवर्णिकीनामजातरजोदर्शनानां पुमसम्प्रयुक्तानामनूढानामुद्वाहे भवति गौणत्वम्, न च तदूर्ध्वस्याऽ पि, क्वापि तादृशवचनान्तराभावात्, प्रत्युत- रजोदर्शनसंभवेन सञ्जाते सति रजोदर्शने पूर्वत्र पूर्वोत्तरपक्षेषदाहृतैस्तैस्तैर्वचनैर्दोषातिशयज्ञापनेन प्रायश्चित्ताssधिक्यस्मरणाच्च । "त्रिंशद्वर्ष: षोडशाब्दाम्" इति निर्णयसिन्धौ- भारतवचनन्तु रजोदर्शनस्या नियतत्वेन तावत्पर्य्यन्तमप्यसञ्जातरजस्काया कारणान्तरादिकृतरजोवरोधायाः पूर्वोदाहृतनिर्णयामृतोद्धृतगौतमवचनाs नुरोधेन गर्भतः प्राप्तषोडशाब्दाया अपि जन्मतस्तु व्यतीतचतुर्दशाब्दाया एव ब्राह्मणकन्याया: कन्यात्वा प्रणाशाS भिप्रायव्यवस्थापनयैव संगमयितुं सुशक्यमेव; तत्समनन्तरं तत्रैव हि- “अतोऽ प्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् ।” इति वचनान्तरोपन्यासद्वारा तदेकवाक्यत्वप्रदर्शनात् । त्रिंशद्वर्षों वहेत्कन्यां हृयां द्वादशवार्षिकीम् मनुवचने पि-दादशवार्षिकीम् इत्यस्य तु- तत्र च दीयते कार्य भववत् इति, कालादित्यनुवृत्तिसहकृतेन प्रकृष्ट ठन् इति वा सूत्रेणैव साधुत्वस्वीकारेणोपपत्तिसद्भाव: पूर्व प्रदर्शित एव । काममामरणात्तिष्ठे- दित्यादिमन्वादिवचनानान्तु गुणहीनवरसम्प्रदानापेक्षया रजोदर्शनजन्यदोष- बोधकशास्त्रातिक्रमस्यैव श्रेयस्करत्वस्वीकारेण ‘गुणवद्वरा लाभपक्षव्यवस्थापन- यैवोपपत्तिसद्भाव: पूर्वत्रैव किञ्चिन्मात्रसूचितो. पि तद्ब्राह्मणसाधारणतया पुन: क्षत्रियादिमात्रासाधारण्येन- किमपीह प्रपञ्च्यते- यथा- क्षत्रियादिकन्यानां द्वाविंशचतुर्विशवर्षपर्यन्तमपि स्वयंवरविधान- पूर्वकोद्वाहविधानस्य वहुषु पुराणेतिहासादिषु तत्र तत्र स्पष्टोपलभ्यमानतया- दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणीम् । अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥ (३७) । इति जन्मत एव अत इत्यादि पूर्वोक्तवचनानामपि ब्राह्मणमात्रपरत्वव्यवस्थापनेनैवोपपत्ति- संभवाद्, राजकुमारीणां हि प्रभृति सुखसन्तोष- परम्परामनारतमनुभवन्तीनां नैकगुणगणगरीयसीनां सुकुमारीणां यदा तदा यत्र तत्र च स्वानुरूपवरदुर्लभप्रायतयैव तासां, तत्पित्रादीनामपि रजोदर्शनजन्य- दोषस्याप्यप्रवृत्त्या तद्बोधकशास्त्रातिक्रमस्यापि परमार्थतस्त्वसंभवाच्च । एव महाभारते वनपर्वणि २९३ तमे ध्याये २३ तमे श्लोके- यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् । अयाच्यमानाञ्च वरैर्नृपतिर्दुःखितो भवत् । इति । तथा श्रीमद्भागवते दशमस्कन्धे, उत्तरार्धे ५० तमे श्लोके- यौवनस्थामपि च तां शीलाचारसमन्विताम् । न. वबे पुरुषः कश्चिद् भयात् तस्य महात्मनः ॥ इति । तथा पुनर्वाल्मीकिरामायणे (२-११८-३४) अनसूयां प्रति सीतावाक्यम्- पतिसंयोगसुलभं वयो वेक्ष्य पिता मम चिन्तामभ्यगमद् दीनो वित्तनाशादिवाधनः । इति । अत एव ऋतुमत्या अनग्निकाया: प्रदानं गौणत्वेनाभ्यनुज्ञातं गोभिलगृह्यपरिशिष्टे- तद्यथा- नग्निकान्तु वदेत् कन्यां यावन्नर्तुमती भवेत् ऋतुमती त्वनग्निका तां प्रयच्छेत् त्वनग्निकाम् । इति । अत्र तुशब्दोप्यर्थो भिन्नक्रमेण योजनीय:, तदेवमनग्निकामपि दद्यादित्यादिपूर्वापरव्याख्या पूर्वत्रापि प्रदर्शितैव । दृश्यते हि- तत्र तत्र बहुषु पुराणेतिहासादिषु राजकुमारीणां बह्वीनां प्रौढानां स्वयंवरविधान- पूर्वकोद्वाहविधानं प्रत्यक्षमेव । रजोदर्शनमात्रेण कन्यात्वस्य किञ्चिन्मात्र- नाशेप्यनुद्वाहपुमसम्प्रयोगयोस्तु सत्तयैव तदवस्थित्या कन्याभिन्नात्वे - प्यकन्यात्वा भावेन कन्येव कन्येति सादृश्यलक्षणया पुन: कन्यात्वसद्भावाद् गान्धर्वोद्वाहो युक्त एव; रजोवतीनां गान्धर्वैकाधिकारस्मरणात्, क्षत्रियादीनां हि करिष्यमाणपुनवैवाहिकविधिसद्भावेऽपि तत्पूर्व गान्धर्वादिचतुर्विधोद्वाहस्मरणाच्च यथाS S हतुः- निर्णयसिन्धौ मनु:- तत्रैव पराशर-माधवीये- देवलरच- (३८) षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोड वरान् । विट्शूद्रयोस्तु तानेव विद्यादानराक्षसान् ॥ इति गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिभिर्वर्गः समर्थेना ग्निसाक्षिकः । ॥ इति च । अत एव- सत्यवतीकुन्त्योरप्युद्वाहात् पूर्व रजोदर्शनपुंसम्प्रयोगाभ्यां कन्यात्वस्य किञ्चिन्नाशेऽ प्यनुद्वाहमात्रस्यैकस्य सत्तयैव किञ्चिदवस्थित्या कन्याभिन्नात्वे प्यकन्यात्वा भावेन कन्यासादृश्यसद्भावात्- कन्यात्वेन- शन्तनु-पाण्डुभ्यां सह गान्धर्वोद्वाह उपपन्न इति सर्वमतीव शुभम् । हरि- ॐ तत्सत् । श्रीकृष्णार्पणमस्तु । इति श्रीपण्डितडिल्लीराजकृता कन्योद्वाहसमयमीमांसा समाप्ता । (३९) अथ विधवोद्वाहतिमिरालोकः SHAIN अथ विधवोद्वाहतिमिरालोकः अथ पूर्वार्द्धम् न्याय्यत्वं, अथेह खलु विधवानां विवाहस्या न्याय्यत्वमधर्म्यत्वञ्च सिद्धान्तितवतां सनातनैकधर्मावलम्बिप्राचीनाचार्यवंश्यसभ्यानां, धर्म्यत्वञ्च घटयितुकामानामर्वाचीनसामाजिकसभ्यानां न्यायतो धर्मतश्च बहुधा विप्रतिपत्तौ- पूर्वपक्षः किमत्र न्याय्यत्वं, धर्म्यत्वञ्चाहोश्विन्नेत्यमन्दसन्देहसन्दोहान्दोलने तावत्पूर्वपक्षिण: पुर:सृत्यैवमुद्घोषयन्ति- यद्- अपत्यार्थ रत्याद्यर्थञ्च स्त्रीपुंसयोरविनाभावाशेषानुभवादत एव शुक्रशोणितसम्पर्कसम्भवमपत्यम्प्रति शुक्रद्वारा पुंस इवास्थिस्नायुमज्जाना, शोणितद्वारा स्त्रिया अपि त्वङ्मांसरुधिराणां संसर्गावैषम्येण जनकता- वैषम्यात्स्वत्वप्रभुत्वयोरप्यनिर्विशेषेण तस्य दानविक्रयपरित्यागादावप्युभयो- रधिकारमुख्यत्वाद्, कथञ्चित्तदभावेs पुत्रत्वजन्यगत्य- भावादिदोषविशेषस्य च सत्ताधिकरणत्वेनोभयोरेव तत्परिहाराय दत्तकपरिग्रहा- द्यात्मकपुत्रान्तरकरणादावधिकाराविशेषात्, तथा धर्मविशेषान्तरानुष्ठानादौ च प्रायशो धिकारसाहित्याच्च स्त्रीपुंसयो: साम्यान, एवम् पुंसां सपरिग्रहाणामपि यदृच्छयैव परिग्रहान्तरेणा धिवेदनवत् स्त्रीणां सधवानामपि तथैव पुरुषान्तराश्रयणे, अथ स्त्रीणां मरण-प्रणाश-प्रमाद-पतन- संन्यासा- चिकित्स्यरोगग्रासा-5 कारणपरित्यागादिनानाकारणकलाप- समुच्चयव्यस्तवशादपरिग्रहाणां परिग्रहान्तरपरिणयवत्, पुंसामपि तथा कारणवशादपतिकानां चात एव विगतो, विप्रकृतो, विकृतो, विप्रकृष्टो, विनिर्गतो, विनियुक्तो, विशिष्टो, विभिन्नो वा धवो यासामित्येवं व्युत्पत्तिविशेषवशाद् 'विधवे' त्यपरा भिधानभाजामासामबलानां पुनर्विवाहे निराबाधस्य तुल्यन्याय्यत्वाद्, अत्रार्थे- दण्डापूपिकस्य कैमुतिकस्य च अथ च च- 5 (१) त यस्यापि सद्भावाच्च, एवम्- अपरञ्च- धर्मतो विचार्यमाणे पि- णामपत्योत्पादनरूपैकदृष्ट-प्रयोजनकत्वेन तदितराऽ दृष्टप्रयोजनादर्शनात्सति रणे तदर्थमपि च पुनर्विवाहस्यात्यावश्यकत्वाङ्गीकर्तव्यत्वात्तथैवमत्रार्थे वारान्तरोन्नयने चाs न्यत्र कुत्रापि निर्बाधाच्च, प्रत्युत परमतमवलम्ब्यैव यं, धर्मञ्च दूरत: परित्यज्यापि निषेधपक्षाशीकारे तु धनलिप्सादिनापि न्धवादिभिर्मृतानुगमनलभ्यत्वाद्युपदेशविशेषप्रदर्शितस्या दृष्टस्याननुभूतस्य स्वर्गादिरूपस्य सुखस्य लोभेन, वैधव्यधर्ममार्गावस्थानावस्थायान्तु ज्जनभोग्यभूतसांसारिकविषयात्मकप्रत्यक्षसुखस्याऽलभ्यतया व्यत्ययतः शरीरस विपनादिना, नानाभरणकञ्चुकप्रमुखपरिधानीयादिदूरतरपरिवर्जनादिना च प्यसंपादनीयतया, तथा- एकाहारचान्द्रायणमासोपवासादिस्थण्डिलशयनादि- नासुदुष्करकर्मकलापकरणादिना परिशोषणीयतयाsपि मृतप्रायं मन्यमानत्वेन एवोभयथापि तदनुगमनस्यैव प्राशस्त्यमभिपश्यन्तीनामासामबलानां वानां जीवन्तीनामगत्यैवाs ग्निप्रवेशेनाssत्महत्यादिदुर्दर्शदुःश्रवदुराचारा- णकर्मण: प्रायश: परिदृश्यमानत्वाद्, एवम्- तथा कर्तुमशक्नुवतीना- ष्टरजसां, तदितरासाञ्च बालविधवानां जन्मवैयापादने शनैःशनै- निहृदयभावेन भवितव्यत्वात्तदपि तस्य सुदुष्करत्वेन प्ररूढे सति यौवने भचारेण गर्भिणीनां लोकापवादादिभयाद् गर्भपातनादिना यथाकथञ्चि- हिंसनादिना भ्रूणहत्याबालहत्यादिनाना- चारावस्थानस्य प्रायशः स्पष्टप्रत्यक्षपरिदृश्यमानत्वाच्चैवमादिदुष्कर्मप्रवृत्ति- परस्योत्तरोत्तरवृद्धर्जायमानत्वेन लोके सर्वत्र सुतरामनर्थबाहुल्यापत्ते- नङ्गीकारे त्वतथाभाव्यत्वात्, प्रत्युत-सर्वत्र समुचिताचारस्य प्रवर्तिष्य- गत्वाच्च विधवानां विवाहस्य सर्वथैव न्याय्यत्वं, धर्म्यत्वञ्चसर्वैरजीकर्तव्यम् । किञ्च, आसीदेव हि पुराप्ययमाचार: प्रमीतपतिकात्वादिना विधवानां रन्तरपरिग्रहद्वारा पुत्रोत्पादनरूप: परेषां सनातनैकधर्मावलम्बिनाम्, अत एव । प्राचीनार्य्यवंश्यानां पूर्वपुरुषैस्तथोल्लिखितं तत्र तत्रोपलभ्यते, तावत्- इसहितायाम, सप्तमा अष्टके, दशममण्डले द्वितीयानुवाके षष्ठाध्याये, यसूक्ते, सप्तविंशकण्डिकायाम, यथा- उदीर्ष नाभिजीवलोकं गतासुमेतमुपशेष एहि । हस्तग्रामस्य विधीपोस्तबेदं पत्युर्जनित्वमभिसंबभूव ॥ इति । "नारि ? हे नरस्त्रि ?, उदीर्घ-उत्तिष्ठ, लोकम्-जगति, अभिजीव-प्राणं य, गतासुम्-मृतम्, एतम्-शवं चितास्थम्,उपशेष-किमनुशेषे?, एहि- तस्य चाडपत्यस्य वा - (२) आगच्छ, तव-भवत्याः, पत्यु:-मर्तुः, अभि-अनु, हस्तग्राभस्य- पाणिग्रहीतुः, दिधीषो:-देवरस्य, इदम्-एतद्, जनित्वम्- जन्म, संबभूथ- बभूव” इत्यर्थः । अत्र, अन्वारूढोत्थापनमन्त्रे- तव प्राथमिकपाणिग्रहीतरि पत्यौ परेते पि पुनः पाणिग्रहीता त्वत्पत्युरनुज एवास्मीति किमिति मृतमनुगच्छसीत्युत्थाय मां पतिं भजस्वेति वाक्यार्थनिष्कर्षेण, “हस्तग्राभस्ये" ति विशेषलिङ्गेन च पूर्वपतिमरणानन्तरमपि देवरकर्तृकपुन:पाणिग्रहणस्य स्पष्ट- मवबोधनाद्, अत एव- उदीवेत्येतन्मन्त्रवाक्यत: पूर्वत्र पठितेन इमा नारीरविधवाः इति मन्त्रवाक्येनापि स्त्रीणामवैधव्यप्रतिपादनाच्च विधवानां विवाहस्य सर्वथैवाS ङ्गीकर्तव्यत्वं भवति । एवम्, तत्रैव, अष्टमाष्टके, दशममण्डले, सप्तमानुवाके, तृतीयाध्याये, प्रथमसूक्ते, सप्तविंशाS ष्टाविंश- कण्डिकयोः, पारस्करगृह्यसूत्रे प्रथमकाण्डे- चतुर्थ्या कण्डिकायाम्, षोडशसूत्रे च- सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो S अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमो ऽ ददद्गन्धर्वाय गन्धर्वोs दददग्नये । रयिं च पुत्राश्चाs दादग्निर्मह्यमथो इमाम् ॥ इति । वैवाहिकमन्त्रे जन्मदिनप्रभृत्येव त्रिंशन्मासानुक्रमेण सार्धवर्षसप्तकं यावत्सोमगन्धर्ववन्हिभिरुपभुक्तत्वेनाs न्तिममानुषपतेस्तुरीयत्व- श्रुत्या, तथैवम्- दानचोदनश्रुतिस्मृतिप्रभृतिभ्य: स्त्रीणां दानपक्षे मानुषपते: पञ्चमत्वस्याप्यवश्यम्भाव्यतया चासां जातपूर्वव्यभिचाराणां । परपूर्वतायाः सुस्पष्टावगम्यत्वेन परेते पि पत्यौ तुरीये पुन: पञ्चमादौ तासां नियोगे निर्बाधादपि युक्तमेव विधवानां विवाहस्य न्याय्यत्वं, धर्म्यत्वञ्चेति सर्वथैवाS भ्युपेयमेतद्भवति । तथा तत्रैव पारस्करगृह्यसूत्रे प्रथमकाण्डे- पञ्चम्यां कण्डिकायाम्- एकादशसूत्रे- अशून्योपस्था जीवतामस्तु पौत्रमानन्द- मभिविबुध्यतामिय ॥ इति । अत्राप्येतद्वैवाहिकमन्त्रे- “अशून्योपस्था” इति, “जीवतामस्तु माता” इति, “पौत्रमानन्दमभिविबुध्यताम्" इति चैवंमन्त्रलिङ्गादजातपुत्रे परेते पत्यौ शून्योपस्थतया भाव्यत्वे जीवत्पुत्रमात्रभाव्यत्वेन पौत्रानन्दाभिविबोधकत्वाभाव्यत्वात्तदन्यथाs नुपपत्त्यैव विधवानां नियोगस्याड वश्यकर्तव्यत्वप्रतीत्या विधवानां विवाहस्या- भ्युपगन्तव्यत्वं भवति । (३) अत्र- माता स्वाहा अत्र- तथा तत्रैव षठ्यां कण्डिकायाम्, तृतीयसूत्रे, ऋक्संहितायाम्- अष्टमाष्टके-दशममण्डले सप्तमानुवाके तृतीयाध्याये प्रथमसूक्ते- सप्तविंशकण्डिकायाञ्च- गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथा सः । भगो अर्यमा सविता पुरन्धिर्मवन्त्वाऽ दुर्गार्हपत्याय देवाः । अत्रापि वैवाहिकमन्त्रे वाक्यार्थनिष्कर्षसमालोचनाद्वन्हिरूपभगादि- कर्तृकप्रदानतस्तैरुपभुक्तत्वरूपार्थिकार्थप्रतीत्या स्त्रीणां स्पष्टं बहुभर्तृकात्व- मायातीति तथाऽ वश्यंस्वीकरणीयतया विधवानां विवाहस्याऽङ्गीकर्तव्यत्वमेव । एममेव-तथा-अपरा श्रुति:- तस्मादेकस्य बढ्यो जाया भवन्ति नैकस्यै बहवः सहपतयः । इति । "सहे"ति पदेनैकस्या युगपदेव बहुपाणिग्रहीतृकत्व- निषेधज्ञापनद्वारा प्राथमिकस्य पाणिग्रहीतुः प्रणाशाद्युत्तरं पाणिग्रहीत्रन्तरा- श्रयणज्ञापनात्स्पष्टमासां बहुभर्तृकात्वमिति विधवानां विवाहस्य सर्वथैवाड भ्यु- पगन्तव्यत्वं भवति । एवमेव- धर्मशास्त्रेष्वपि तत्र तत्र तथा स्पष्टं लिखितमुपलभ्यते । तत्र-तावत्कलियुगीयधर्मनिरूपणप्रस्ताव पराशर:- नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति । नारदोऽ प्येवमेवाहान्यत्र । अत्र-नष्टादिपतिकानां नारीणां पुरुषान्तरेण सह पुनर्विवाहस्य पित्रादिकर्तृकत्वश्रौतसंबन्धयोर्बोधनात्सधवानामपि तथा प्राप्तौ विधवानान्तु कैमुतिकन्यायेनापि तत्कर्तव्यत्वप्रतीते:, अथ च- “मृते” इति विशेषलिङ्गाच्च- सर्वथैव भवतीति सर्वैरङ्गीकर्तव्यमेवैतद्भवति । तथा मनुरपि तावन्नवमाध्याये- देवरादा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया । प्रजेप्सिता S धिगन्तव्या सन्तानस्य परिक्षये ॥९।६०॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन ॥९।६१॥ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिवृतं नियोगार्थ पश्यन्तो धर्मतस्तयोः"।९।६२॥ इति । (४)
अत्र सन्तानपरिक्षयात्मकहेतुप्रदर्शना"त्प्रजेप्सिते" ति विशेषोपादानाच्च
सन्ततेरनुत्पत्तावुत्पन्नविनष्टौ चाs नीप्सायामपि सधवानामपि तत्कर्तव्यत्व-
प्रतीतिर्जायत इति-किं पुनर्विधवानान्तु; अत एवोदाहृतद्वितीयपद्यस्थ “विधवे" ति
पदमपत्योत्पादनयोग्यपत्यभावपरत्वेन व्याचख्यौ कुल्लुकभट्टोs पि । अत्रार्थे-
पुराणमपि प्रमाणम्- तद्यथा- तत्र-तावत्- श्रीमद्देवीभागवते- प्रथमस्कन्धे,
एकादशाध्याये-
इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा ।
दिनानि कतिचित् स्थित्वा स्वेच्छया चागमिष्यति ॥२१॥
त्वयैवोदाहृतं पूर्व धर्मशास्त्रमतं तथा ।
न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥२२॥
बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवा: ।
को विरोधोऽत्र देवेश कामयानां भजन् स्त्रियम् ॥५७॥
स्वकीयं बलिनां सर्व दुर्बलानां न किञ्चन ।
स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥५८॥
तारा मय्यनुरक्ता च यथा न तु तथा गुरौ ।
अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥५९॥
गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् ।
विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥६॥
तथा तत्रैव-द्वितीयस्कन्धे-षष्ठेश ध्याये-
मृगयारममाणस्तु वने पाण्डुर्महाबलः ।
जघान मृगबुद्ध्या तु रममाणं मुनिं वने ॥४०॥
शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च ।
स्त्रीसमं यदि कर्तासि तदा ते मरणं धुवम् ॥४१॥
इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः ।
त्यस्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥४२॥
कुन्ती माद्री च वे भार्ये जग्मतुः सह सगते ।
सेवनार्थ सतीधर्म संश्रिते मुनिसत्तमाः ॥४३॥
गगातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च । शृण्वानो धर्मशास्त्राणि चकार दुश्चरन्तपः ॥४४॥ कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अशृणोद्वचनं राजा सुदृष्टं मुनिभाषितम् ॥४५॥ अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप । । येन केनाप्युपायेन पुत्रस्य जननं चरेत् ॥४६॥ १अंशजः २पुत्रिकापुत्रः ३क्षेत्रजो ४गोलकस्तथा । ५कुण्डः ६सहोढः कानीनः ८ क्रीत: ९पौनर्भवस्तथा ॥४७॥ १०दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः ॥४८॥ इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् सुतमुत्पादयाssशु त्वं मुनिं गत्वा तपोन्वितम् ॥४९॥ ममाजया न दोषस्ते पुरा राजा महात्मना । . वशिष्ठाजनितः पुत्रः सौदासेनेति मे श्रुतम् ॥५०॥ तं कुन्ती वचनं प्राह मम मन्त्रोऽ स्ति कामदः । दत्तो दुर्वाससा पूर्व सिद्धिदः सर्वथा प्रभो ? ॥५१॥ निमन्त्रयेहं यं देवं मन्त्रेणानेन पार्थिव ? । आगच्छेत्सर्वथा सो वै मम पार्वे नियन्त्रितः ॥ ५२॥ भर्तुस्येिन सा तत्र स्मृत्वा धर्म सुरोत्तमम् । संगम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ॥ ५३॥ वायोवृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः ॥ ५४॥ माद्री प्राह पतिं पाण्डु पुत्रीं मे कुरुसत्तम ? । किं करोमि महाराज ? दु:खं नाशय मे प्रभो ? ॥५५॥ प्रार्थिता पतिना कुन्ती ददौ मन्वं दयान्विता । एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता ॥५६॥ स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ । नकुलं सहदेवं च सुषुवे वरवर्णिनी ॥५॥ . (६) एवन्ते पाण्डवाः पञ्च क्षेत्रोत्पन्ना: सुरात्मजाः । वर्षवर्षान्तरे जाता बने तस्मिन् द्विजोत्तमाः ॥८॥ एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने । आश्रमे चातिकामार्तो जग्राहाss गतवैशसः ॥५९॥ मामामामेति बहुधा निषिद्धोपि तया भृशम् । आलिलिङ्ग प्रियां दैवात्पपात धरणीतले ॥६॥ यथा वृक्षगता वल्ली छिन्ने पतति वै दुमे । तथा सा पतिता बाला कुर्वन्ती रोदनं बहु ॥६१॥ प्रत्यागता तदा कुन्ती रुदती बालकास्तथा । मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा ॥२॥ मृतः पाण्डुस्तदा सर्वे मुनयः शंसितव्रताः । सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन् ॥६३॥ चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू । कुन्त्यै धर्म पुरस्कृत्य सतीनां सत्यकामत: ॥६४॥ जपदानादिकं कृत्वा मुनयस्तत्रवासिनः । पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥६५॥ इति । एवञ्च- स्वभ्रातुः परेतस्य चित्राङ्गदस्य, विचित्रवीर्य्यस्य च भार्ययोरम्बिकाम्बालिकयोदेवरेण व्यासेनोत्पादितौ पाण्डुधृतराष्ट्री, जीवत एव पाण्डो: पत्न्यो: कुन्तीमाद्रपोर्धर्मवायुजिष्णुनासत्यैरुत्पादिता युधिष्ठिरभीमार्जुननकुलसहदेवा इति । एवमेव प्रमाणान्तराणि बहुशोऽन्यत्राप्युपलभ्यन्ते । अत एव उन्मत्तादे: पत्युर्दिषन्त्या: स्त्रियास्त्यागो दायापवर्तनञ्च निषिद्धौ मनुना- तत्रैव नवमाs ध्याये यथा- उन्मत्तं पतितं स्लीवमबीजं पापरोगिणम् । न त्यागोड स्ति द्विवन्त्याश्च न च दायापवर्तनम् । ९॥७९॥ इति । अत्र- "द्विषन्त्या" इति लिङ्गादुन्मत्तादेः पत्न्या जीवत्यपि पत्यौ तदनुज्ञया विनापि पुत्रार्थ पुरुषान्तराश्रयणात्मके द्वेषेपि न त्यागदायापवर्तने इति- अर्थात्- सधवानामपि तथा निराबाधं प्राप्तौ विधवानान्तु किमुतेति गम्यते । अत एव- योगीश्वरो याज्ञवल्क्यो प्याचाराध्याये- - (७) दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेदर आव्रजेत् ॥६५॥ इति । वाध्याये- अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥६॥ आगर्भसंभवाद् गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जात: क्षेत्रजो स्य सुतः स्मृतः ॥६९॥ इति । तथा व्यवहाराध्याये s पि पुन:स एव- अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिस्थी पिण्डदाता च धर्मतः ॥१२७॥ इति [ । अत्र-“दत्तामपी"त्यादिनार्धश्लोकेन गुणगणगरिष्ठवरान्तराssगमने च दोषसत्त्वे दत्ताया अपि हरणेनाs न्यस्मै प्रदानं पित्रादिभिः ति स्पष्टमभिधानात्सधवानामपि पित्रादिकर्तृकस्य श्रौतसंबन्धस्य स्य सिद्धौ किं पुनर्विधवानामिति ज्ञायते । “अपुत्रा” मित्यादिना च वे तदर्थ देवरादिष्वधिगन्तव्येति स्पष्टमभिधानादनुत्पन्नपुत्राया आश्च नियोगाऽ नुशासनात्सधवानामपि तथा सद्भावसम्भवेन प्राप्तौ न्त्वपुत्राणामर्थसिद्ध एव । “अपुत्रेणे”त्यादिनापि नियोगादुत्पन्न- । धनहारित्वपिण्डदातृत्वयोर्धय॑त्वाभिधानात्तस्य धर्म्यत्वे स्थिते विवाहस्य धर्म्यत्वं निश्चेतव्यं भवति । अत एव वशिष्ठोपि वहीनादिभ्यो दत्ताया अपि हरणमभ्यनुज्ञातवान्, यथा- कुलशीलविहीनस्य षण्डादिपतितस्य च । अपस्मारिविधर्मस्य रोगिणां वेषधारिणाम् ॥ दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च ॥ इति अत्र वशिष्ठाशयं प्रकाशितवान्नारदो यथा- अज्ञातदोषेणोढाया निर्दोषा नान्यमाश्रिता । बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयमाश्रयेत् ॥ इति । अत्र वशिष्ठनारदाभ्यां पूर्वमज्ञातदोषेण येन केनाऽप्यूढा समैथुना चेत्सा पित्रादिभिरन्यत्र नियोक्तव्या, निर्बन्धुश्चेत्स्वयमेव समाश्रयेदित्यर्थाभिधानात्सधवानामपि पुनर्विवाहोऽ भ्यनुज्ञात इति ( ८) विधवानामपुत्राणान्तु का कथा ! अत एव- अमुमर्थ सुस्पष्टं व्याजहार नारदो यथा- उद्वाहितापि सा कन्या न चेत्सम्प्राप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सा ॥ इति वशिष्ठोऽ प्यक्षतयोनीनां विधवानां पुनर्विवाहसंस्कारं प्रदर्शितवान् यथा- - पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनि: स्यात्पुन: संस्कारमर्हति ॥ इति । अत एव कात्यायनेन स्त्रीणामपत्योत्पादनैकदृष्टप्रयोजनार्थ सर्जनमुक्तम्- तद्यथा- अपत्यार्थ स्त्रियः सृष्टा: स्त्री क्षेत्रं बीजिनो नराः । क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥ इति । अत्र- अबीजी क्षेत्रं नाहतीत्यभिधानादपि षण्ढादिभ्यो दत्ताया अपि निवर्तनं ज्ञायते । एतदर्थमेव मैथुने दोषाभाव: प्रदर्शितो मनुना यथा- न मांसभक्षणे दोषो न मझे न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥इति । अत्र- मैथुने सामान्येन दोषाभावप्रदर्शनात्सधवानामपि पुरुषान्तरा- श्रयणे दोषाभावातिकपुनर्विधवानामपुत्राणां; तदर्थमेव स्त्रीणां सृष्टत्वात् । यत्तु- नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥ इति मानवीं स्मृतिमवलम्ब्य नियोगाभावपक्षप्राबल्यमङ्गीकुर्वन्ति भवन्तः, तन्न- सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमो S ददद् गन्धर्वाय गन्धर्वोs दददग्नये । रयिं च पुत्राश्चाs दादग्निमयमथो इमाम् ॥ इत्यादिषु, तथा- माता अशून्योपस्था जीवतामस्तु पौत्रमानन्दमभि- विबुध्यतामिय स्वाहा ॥ इत्यादिषु च पारस्करगृह्यसूत्रोक्त- वैवाहिकमन्त्रेषु तत्र तत्र तत्तल्लिङ्गात्तदन्यथानुपपत्त्याः पित्त्या च यथायथं (९) अत नियोगस्य स्पष्टं श्रुतत्वात् । अतश्च- मानव्या: स्मृतेरयमर्थो युक्ततर:- उद्वाहिकेषु मन्त्रेषु नियोगो न कीर्त्यते । अपितु कीर्त्यत एव, विवाहविधौ पुनर्विधवावेदनं नोक्तम् ? अपितूक्तमेव इति सर्वत्र काक्वा स्वरेण योजनीयमावश्यकम् । एव नियोगोत्पन्नस्यापि स्वक्षेत्रजत्वेनौरसवत् पुंनाम- निरयोत्तारकतयैव पुत्रत्वं, पैतृकरिक्थहारित्वं च क्षेत्रस्वामिन एव धर्म्यत्वेनाs भिहितमतीव युज्यते मनुना नवमाध्याये- यथा- हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मत: प्रसवश्च सः ॥ १४५॥ धनं यो विभृयाद् भातुर्मृतस्य स्त्रियमेव वा । सो पत्यं पातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्। ॥१४६॥ इति । अत एव- अत्रार्थे- तत्रैवाध्याये- तेनैवोक्तानि सङ्गच्छन्तेतराम्, यथा- यथा गोश्वोष्ट्रदासीषु महिष्यजाविकासु च नोत्पादक: प्रजाभागी तयैवान्यागनास्वपि ४८॥ ये क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं स्वचित् ॥४९॥ यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥५०॥ तथैवा क्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणामर्थ न बीजी लभते फलम् ॥५१॥ फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामों बीजाद्योनिगरीयसी ॥५२॥ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम् ॥५३॥ इति । इत्थं खल्वन्तर्दृष्टया समालोच्य सम्यग्गवेषणे क्रियमाणे च विचारे न्यान्यपि नानाश्रुतिस्मृतिप्रभृतिशास्त्राणि युक्त्यन्तराणि च यत्रतत्र बहुशः समुपलभ्यन्ते । तथा चैवं श्रुतिस्मृतिपुराणप्रभृतिनानाविधशास्त्राणां नैकविधयुक्तिविशेषाणाञ्च सद्भावमन्यथाकृत्वा कथङ्कारं निर्लज्जतया तथा साहसिक्यमवलम्ब्य मुधैव मुहुर्मुहुर्विप्रतिपद्यमाना विधवानां विवाहस्याऽन्याय्यत्वमधर्म्यत्वञ्च सिद्धान्तयन्ति भवन्तः - इति । इति पूर्वपक्षः। (१०) उत्तरयन्त अयोत्तरपक्षः तत्र ह्येवं विधवाविवाहस्य न्याय्यत्वं, धर्म्यत्वञ्च घटयितुकामानां, विधवाजनकुचमर्दनसमर्पितसर्वस्वानामर्वाचीनसामाजिकसभ्योन्मत्तदिग्गजानामन्त- काः, समस्तश्रुतिस्मृतिपुराणादिसकलशास्त्रानन्तयुक्तिविशेषपञ्चास्या, विधवा- विवाहस्य सर्वथैवा न्याय्यत्वमधर्म्यत्वञ्च सिद्धान्तितवन्त: सन्त: सनातनैक- धर्मावलम्बिनो, विधवाजनव्रतविधानदीक्षागुरवो, विधवाविवाहखण्डनगहनारण्येषु प्रविष्टा हृष्टस्वान्ता: स्वैरविहारिण: प्राचीनार्यवंश्यसभ्यकेशरिण: पुन: पुन- रुपयुपर्युत्प्लुत्योत्प्लुत्या तितर्जयन्तोऽ तीव गर्जन्त एवं प्रत्युद्घोषयन्ति- इह खल्वा-वर्ताः पराभिधे धर्मक्षेत्रे भारतभूमिमण्डले सकलेष्वपि वर्णाश्रमसम्बन्धिषु श्रौतस्मार्तधर्मेषु यथा स्वातन्त्र्येण पुरुषा यथायथमधिक्रियन्ते, तथा स्त्रियः । तेषाञ्च बहूनामपि धर्माणां "धर्मार्थकाममोक्ष" पदैर्व्यवह्रियमाणानां चतु:संख्यात्वेन चतुवर्ग इति समष्टिनाम विख्यातमेव । तस्य च प्रायेण पुरुषाणामेवाड नुष्ठीयमानत्वात् “पुरुषार्थ” इति चापरं व्यष्टिनामाऽ पि प्रसिद्धतरमेव । यतो- “धमार्थकाममोक्षा:” पुरुषार्थपदेनैवाः भिधीयन्ते, नतु “स्त्र्यर्थ" पदेनापि; तासां स्वातन्त्र्येणाS नुष्ठानेधिकाराभावात् । तत्त्वञ्च-"पुरुषाणामर्थः प्रयोजन” मिति व्युत्पत्त्या तत्रतत्र वर्णाश्रमसम्बन्धि- श्रौतस्मार्तकर्मकलापेषु पुरुषाणामेव प्रयोजकत्वेन पुरुषप्रवर्तकत्वम् । यथा खलु "जायमानो ह वै ब्राह्मणस्त्रिभिर्ऋणैर्ऋणवाञ्जायते, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः, स्वाध्यायेनर्षिभ्यः” इति हि श्रुतिर्ब्राह्मणानेव स्वातन्त्र्येण प्रवर्तयति, न ब्राह्मणीस्तासान्तु साध्वीनामेव केवला सहा धिकारश्रुतिर्विवाहादुत्तरत्रैव कुत्र कुत्रचित्पुरुषैरनुष्ठीयमानेषु गार्हस्थ्याश्रमसम्बन्धिष्वेव श्रौतस्मार्तादिधर्मविशेषेषु सति संभव एव स्वपुरुषसाहित्यमानं बोधयति, नतु तथा पुरुषवत्काचन श्रुति: स्वातन्त्र्येण प्रवर्तिका । तथा च मनु:- वैवाहिको विधि: स्त्रीणामौपनायनिकः परः । पतिसेवा गुरौ वासो गृहार्थोs ग्निपरिक्रिया ॥२॥६७॥ इति । अत एव वक्ष्यमाणमनुवचनमपि सुसङ्गतं भवति; तद्यथा- नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ इति । अत एव- अपत्यार्थ, रत्याद्यर्थञ्च स्त्रीपुंसयोरविनाभावाविशेषानुभवस्य शुक्रशोणितसम्पर्कसम्भवमपत्यम्प्रति शुक्रद्वारा पुंस इवा स्थिस्नायुमज्जानां, - - (११) शोणितद्वारा स्त्रिया अपि त्वङ्मांसरुधिराणां संसर्गावैषम्येण जनकता वैषम्यात् स्वत्वप्रभुत्वयोरप्यनिर्विशेषेण तस्य दानविक्रयपरित्यागादावप्युभयोरधिकारमुख्य- त्वस्य च कथञ्चित्तदभावेs पुत्रत्वजन्यगत्यभावादिदोषविशेषस्य च सत्ता- धिकरणत्वेनोभयोरेव तत्परिहाराय दत्तकपरिग्रहाद्यात्मकपुत्रान्तरकरणा- दावधिकाराऽ विशेषस्य, तथा धर्मविशेषानुष्ठानादौ च प्रायशो धिकार- साहित्याच्च स्त्रीपुंसयो: साम्ये हेतुत्वेs पि न तथा साम्यस्य सपरिग्रहाणां पुंसां यदृच्छयैव परिग्रहान्तरेणा धिवेदनवत् स्त्रीणां पुरुषान्तराश्रयणे हेतुत्वम्। अत एव मातापैतृकबीजगर्भसमुद्भवैनोनिबर्हिणां, गर्भाधान-पुंसवन- सीमन्तोन्नयन-जातकर्म-नामकर्म-निष्क्रमा-sन्नप्राशनान्तानां सप्तानां संस्कार- कर्मणां समन्त्रकाणामेवात्मनिष्ठानुद्भूतजात्यादिशक्तिविशेषाभिव्यञ्जकतया तद्विधेः समन्त्रकत्वं तद्वतामेव पुंसां कृते विहितं, नतु तदभाववतीनां स्त्रीणामपि, अपितु पुनस्तासां कर्तव्यानामपि तेषां निर्मन्त्रकत्वमेव । यथाssह याज्ञवल्क्य:- तूष्णीमेता: तूष्णीमेताः क्रिया: स्त्रीणां विवाहस्तु समन्त्रक: ॥१॥१३॥ इति । अथ च पुनस्तासां चूडोपनयनसंस्कारयोस्त्वविधानमेव, किन्तु- केवलमेकस्यैव विवाहस्य समन्त्रकत्वमिति दशानां कर्मणां पूर्वसप्तकस्यैव निर्मन्त्रकत्वेन मातापैतृकबीजगर्भसमुद्भवैनसां कात्स्येंना प्रणाशाद्, अथच- तासामात्मनिष्ठा नुद्भूतजात्यादिशक्तिविशेषासत्त्वाद् अत एव- तादृशयोरष्ट- मनवमयोस्त्वभावेनैव मातापैतृकबीजगर्भसमुद्भवैनोनिवर्हणद्वारात्मनिष्ठाs- नुद्भूतजात्यादिशक्तिविशेषा: भिव्यञ्जकसंस्कारविशेषानुत्पत्ते: केवलमेकस्यैव विवाहसंस्कारस्य समन्त्रकत्वेन यत्किञ्चिन्मात्रावस्थितात्म- निष्ठानुद्भुतशक्तिविशेषाभिव्यञ्जनात्, पुंसान्तु- तादृशात्मनिष्ठानुद्भूत- जात्यादिशक्तिविशेषस्य साकल्येनैव सत्त्वेन तदभिव्यञ्जकतादृशसंस्कारदशक- समन्त्रकत्वसद्भावाद्, अथ च विशेषत आत्मनिष्ठानुद्भूतजात्यादिशक्तिविशेषा- भिव्यञ्जकयोरष्टमनवमयोः समन्त्रकयो: साकल्यसद्भावाच्चाs s त्मनिष्ठा- नुद्भूतजात्यादिशक्तिविशेषाभिव्यञ्जकसंस्कारविशेषस्यापि साकल्येनैवोत्पत्त्या न कथं कथमपि स्त्रीपुंसयो: साम्यम् । अत एव त्रैवर्णिकानां जन्मना शूरत्वमर्थादकजातित्वं प्रतिपाद्य संस्कारेण पुनर्द्विजातित्वं प्रतिपादितम् । न च संस्कारो यसतोप्युत्पादकः, अपितु सत एवाड नुद्भूतस्याऽ भिव्यञकः, अन्यथा शूद्रस्यापि संस्कारेण द्विजातित्वमुत्पद्येत, नच तथोत्पद्यते- इति यथा खलु शूद्रे दशमस्य तस्य (१२) द्विजातित्वस्याऽसत एव संस्कारमात्रेण नाभिव्यक्ति:, तथा त्रैवर्णिकस्त्रीषु सवर्णास्वपि साकल्येनाऽसत एव द्विजातित्वस्य संस्कारमात्रेण नाs भिव्यक्ति:, तथा च सुश्रुतेs प्युक्तम्- अस्ति सतां भावानामभिव्यक्तिः इति, केवलात्सौक्ष्म्यान्नाभिव्यज्यन्ते इति च ततश्च स्त्रीमात्रे घुमात्रवत्कस्याऽप्यतिशयरूपस्याऽनिर्वचनीयात्मनिष्ठानुद्भूतजात्यादिशक्तिविशेषस्य साकल्यसत्ताया अभावेना सतो नभिव्यञ्जकतयैवं दशानां संस्काराणां मध्ये कर्तव्यभूतस्यापि पूर्वसप्तकस्य निर्मन्त्रकत्वम् । अत एव हि- अष्टमनवमयोस्तु पुनरकर्तव्यत्वमेव । किन्तु किन्तु त्रैवर्णिकानां पुंसामग्न्याधानाssदिगार्हस्थ्याधिकारार्थमेव सवर्णस्त्रीणामविनाभावसद्भावेन तदर्थ कर्तव्यभूतस्यैकस्यैव दशमस्य विवाहसंस्कारस्य समन्त्रकत्वेन यत्किञ्चिन्मात्रावस्थितस्याs s त्मनिष्ठा- नुद्भूतजात्यादिशक्तिविशेषस्याऽ भिव्यञ्जनादग्न्याधानादिगार्हस्थ्या धिकारकृत एव साहित्यसत्ताया आवश्यकत्वेन पुंसाधर्म्यम्, अन्यदा तु सति संभव एव तदावश्यकत्वादथ चा संभवे पुनस्तज्जीवनमात्रस्य साहित्यसत्तयाs- प्यग्निहोत्रादिगार्हस्थ्यप्रवर्तनाच्च न तत्साधर्म्यम् । अन्यथा रजस्वलायां पत्न्यामग्निहोत्रादिगार्हस्थ्यस्य परिलोप: प्रसज्येत । नच तथात्वेऽपि तस्य परिलोप: कथमपि युज्यते । अत एव- नहि तथा धर्म्यत्वेन क्वचित्कदाचिच्छुत: स्मृतो वा । अत एव- आश्रमसमुच्चयपक्षे वैवर्णिकानां पत्न्या सह यष्टव्यम् इति नियमसत्त्वे Sपि रजस्वलायां पुनस्तस्यां तदपरोधविधिबलात्तन्नरपेक्ष्येणा धिकार इव वानप्रस्थाश्रमजिगमिषायामपि पत्न्या: पुत्रनिक्षेपपक्षे तत्त्वसत्त्वेन तद्विरहिणस्तदपरोधविधिबलादेव तन्नैरपेक्ष्येण तत्रा धिकार: श्रुत्यैव विहितो यथा- मिताक्षरायाम्- “यस्य व्रत्ये s हनि पत्न्यनालम्भिका स्यात्तामपरुध्य यजेत" इति । एतदेवाऽ भिप्रेत्य खलु- याज्ञवल्क्यस्त्रैवर्णिकानां वानप्रस्थाश्रमे पत्न्या: साहित्यस्य पाक्षिकत्वं स्मरति स्म यथा- सुतविन्यस्तपत्नीकस्तया वाः नुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ इति । अथ चात्र- "ब्रह्मचारी" ति विशेषलिङ्गेन व्यवायपरित्यागप्रतिपादनात्पत्न्या: साहित्यपक्षे तत्संभावनासंभवसद्भावात्कथञ्चित्सति तु तस्मिन्ब्रह्मचर्य- विप्लवेन वानप्रस्थाश्रमकर्तव्यजितेन्द्रियत्वहानात्तदनुपादेयतया तत्साहित्यापेक्षया तद्विरहस्यैव श्रेयस्त्वं प्रतीयते । अत एव हि- (१३) च पत्न्या यत: निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । बह्मचार्येव भवति यत्रतत्राश्रमे वसन् ॥५०॥ इति मनुवचनव्याख्यानावसरे “यत्रतत्राश्रमे वसन्" इत्यनुवादमात्रम्, गृहस्थेतराश्रमत्रये जितेन्द्रियत्वविधानाद् रात्रिद्वयाऽ भ्यनुज्ञाः सम्भवाद् इति मेधातिथि: प्रोक्तवान् । युक्तञ्चैतदेव; · पञ्चाशद्वर्षतः पूर्व वानप्रस्थं जिगमिषोर्गृहस्थस्योत्पन्नविद्यमानपुत्रस्या S प्यनधिकारात् पञ्चाशद्वर्षत उत्तर- न्तूत्पन्नविद्यमानपुत्रस्योत्पन्नविनष्टपुत्रस्या नुत्पन्नपुत्रस्य यथातथावि- धस्याऽ प्यधिकारात्तत्र च पुनर्विशेषतो जितेन्द्रियत्वविधानबलाद्वानप्रस्थाश्रमे सहगमनपक्षे सत्यामपि पत्न्यां रजस्वलायां पुत्रार्थ पुनर्गमनस्या नावश्यकत्वाद् । अन्यथा तत्रैवाs S श्रमे तया सह गमनपक्षे निवृत्तरजस्काया अपि तस्याः सत्यां कामनायां तद्यथाकामित्वस्य पुंसो भाव्यताया नियमसत्त्वात् पुनस्तादृश्यां पुत्रार्थव्यतिरेकेणाऽ गमने पि प्रत्यवाय आपद्येत, जितेन्द्रियत्वविधायकशास्त्रञ्च विरुध्येत । एतेन- “यत्र तत्राssश्रमे वसन्" इति मनुवचनस्य कुल्लूकभट्टकृतप्रतिव्याख्यानमनुचिततरमेव । खल्वमुमेवाऽ थं मनसिकृत्वा गार्हस्थ्याद्वानप्रस्थाश्रम जिगमिषोर्विशेषं सस्मरतुः शङ्खलिखितौ-यथा- अपरा:- “पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विधाय दारैः संयोज्य गुणवति पुत्रे कुटुम्बमावेश्य कृतप्रस्थानलिङ्गो वृत्तिविशेषाननुक्रमेत्, क्रमशो यायावराणां वृत्तिमुपास्य वनमाश्रयेदुत्तरायणे पूर्वपक्षे” इति । तथा मिताक्षरायामपि- पुत्रानुत्पाद्य विधिवद्वृत्तिञ्चैषां प्रकल्पयेत् ॥ इति । अत एव हि पुत्राणामुत्पादन-संस्कार-वृत्तिविधान- दारसंयोजनादिकमसु स्वातन्त्र्येणाऽधिकारः पुंसामेव, नतु स्त्रीणामपीति समनन्तरपूर्वोक्तशङ्खलिखितवचनेन प्रतिपादित: । एतदेवाः भिप्रेत्य किल यमो प्यपरा स्मरति स्म यथा- उत्पाद्य धर्मतः पुत्रानिष्ट्वा यज्ञैश्च शक्तित: । दृष्ट्वा S पत्यस्य चापत्यं ब्राह्मणोरण्यमाश्रयेत् ॥ इति । अत्र हि ब्राह्मणग्रहणस्य त्रैवर्णिकोपलक्षणार्थत्वम्; ब्रह्मचा- नन्तरमपि त्रैवर्णिकानामविशेषेण वानप्रस्थाश्रमस्वीकारविधानात् । यथा मिताक्षरायां स्मृत्यन्तरवचनम् "अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमाविशेत्” ॥ इति । ततश्चैवं यमवचनेन त्रैवर्णिकानामेव (१४) पुत्रोत्पादनादिपूर्वकवानप्रस्थाश्रमाधिकारो नतु तत्स्त्रीणामपीति स्पष्टं प्रतीयते; यत: स्मरन्ति स्मृतिकारा:- तत्र तावदपरा दक्षः- भरण पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरक: पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥ इति । तथा- ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षन्तु सेवमानो व्रजत्यधः ॥३॥ अधीत्य विधिवद्वेदान् पुत्राँश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६॥३६॥ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥॥३७॥ इति मनुरपि । ततश्चैवमृणत्रयापाकरणनियम: पुंसामेव, नतु स्त्रीणामपीति च स्पष्टं प्रतीयते । अत एव हि- सप्त वित्तागमा धा दायो लाभः कयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ इत्यादिप्रतिपादितधनार्जननियमः, तथास्मृत्यन्तरप्रतिपादितविद्यार्जन- नियमश्चापि पुंसामेव, नतु स्त्रीणामपीति चाs वगम्यते । अत एव, आश्रमसमुच्चयपक्षे चतुर्थाश्रमे परिव्रज्यारूपे पत्नीपुत्रादीनां सर्वेषामेव परित्यागः प्रोक्तो बाष्कलेन मिताक्षरायां यथा- कुटुम्बं पुत्रदारांश्च वेदामानि च सर्वशः । केशान्यज्ञोपवीताश्च त्यक्त्वा गूढश्चरेन्मुनिः इति । एवम् , द्वितीयाश्रमात्तृतीयाश्रमे पत्न्या सह गतस्याः पि सप्ततिवर्षत ऊर्ध्वन्तु स्त्रीणाञ्चैके इति मिताक्षरायां बौधायनेन स्त्रीणामपि प्रव्रज्यारूपस्य चतुर्थाश्रमस्य पाक्षिकत्वस्मरणात् कथंकथञ्चित् पत्न्या च तत्स्वीकारपक्षे पि नहि तत्र चतुर्थाश्रमे पुनर्दम्पत्योः किमपि साहित्यमपेक्ष्यते, प्रत्युत राहित्यमेव; प्रव्रजितस्य प्रव्रजितान्तरेण पत्नीजनेनाS प्यसहा वस्थानोपदेशात्, यत: स्मरतिस्म याज्ञवल्क्य:- सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥५८॥ इति । अत्र ह्येकाराम इत्यस्य- प्रवजितस्य प्रजितान्तरेण पत्नीजनेनाप्यसहायत्वा- वस्थानार्थकत्वात् प्रवजितस्य प्रव्रजितयाः पि पत्न्या सहैकत्रा वस्थानं प्रतिषिद्धम् । तथा चैवं स्थितौ- (१५) ऋणत्रयापाकरणनियमपुर:सरप्रव्रज्यानियमप्रधानाधिकार: पुंवन्न स्त्रीणामपीति नहि धर्मार्थकाममोक्षाणां "स्त्यर्थत्व"मपितु-पुरुषार्थत्वमेवेति पूर्वतरमस्माभिः प्रतिपादितमेव । यत: खलु- स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ॥ इत्यादिना वैदिकमन्त्राउ नधिकारप्रदर्शनपुरःसरं स्त्रीणां शूद्रसाधर्म्य प्रतिपादितम् । ततश्चैवं शूद्रसाधर्म्यवतीनां स्त्रीणां वैदिकमन्त्रानधिकारा- त्तदेकसाध्येषु श्रौतस्मातकर्मकलापेष्वनधिकारोऽ प्युपपन्न एव । विवाहे वैदिकमन्त्रपाठस्या ग्निहोत्रादौ पतिसाधर्म्यस्य चाधिकारस्तु निषादस्थपतीष्टिन्यायेनैव समुपपद्यते । न चैतावतैव स्त्रीणां सर्वत्रैव वेदे धिकार: कल्पयितुं शक्यते, तथात्वे निषादानामपि तथा धिकारापत्ते:, न च स युक्तः, तस्मान्नैषो पि युक्तः । ननु चैवं स्त्रीणां शूद्रसाधयातिदेश: कथमुपपद्यते ? ततश्च तासां पुन: शूद्रसाधातिदेशमात्रेणैकजातित्वसाम्ये शूद्राणामनधिकार: स्त्रीणान्तु पुनरधिकार इति वैषम्यञ्चापि कथन्नामोपपद्येत ? तथा हि तत्र तावत् खलु शूद्राणां न केवलं वेदस्याध्ययने प्रतिषेधः, अपितु, तच्छवणे तदर्थज्ञाने तदर्थानुष्ठाने चापि । तथा चोत्तरमीमांसायां सूत्रयाञ्चकार भगवान् बादरायण:- प्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च (१/३/३८) इति । पुनस्तत्रैव शारीरकभाष्येऽपि, तथा श्रुति:- अथास्य वेदमु- पशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रपूरणम् इति; यवुह वा एतत् श्मशानं यच्छूद्रस्तस्माच्दसमीपे नाध्येतव्यम् इति; भवति चोच्चारणे जिस्वाच्छेदो धारणे शरीरभेदः इति च । अत एव पूर्वमीमांसायां शूद्राणामधिकारनिराकरणाधिकरणे भगवाजैमिनिरपि “अवैद्यत्वादभाव:- कर्मणि स्यात्” (६।११३७) "तथा चान्यार्थदर्शनम्” (६।१।३८) इति । स्त्रीणान्तु खलु तावत्तत्रैव पूर्वमीमांसायाम, अनधिकार-निराकरणाधिकरणन्यायोपस्थापकैः "जातिं तु बादरायणोऽ विशेषात् तस्मात् स्त्र्यपि प्रतीयेत जात्यर्थ- स्याविशिष्टत्वात्” (६।१।८),“फलोत्साहाविशेषात्" (६।११३) "अर्थेन समवेतत्वात्" (६।१।१४), "फलार्थित्वात्तु स्वामिसम्बन्धेनाभिसम्बन्धः” (६।१।२०) इत्येतै: सूत्रै: पुनर्भगवता जैमिनिना स्त्रीपुंसयोर्जात्यर्थस्याविशेष प्रतिपाद्य वैदिके कर्मणि पुंसामिवाधिकार: प्रदर्शित: एव खलु जातेरस्त्रीविषयादयोपधात् इति सूत्रभाष्ये जातिलक्षणकथनावसरे पठितस्य "अपत्यप्रत्ययान्तैः शाखाध्येतृवाची च जातिवाचकः" इत्यर्थकस्य “गोत्रं च अत (१६) - । तथा चरणैः सहः” इति जातिनिर्वचनतृतीयलक्षणात्मकवार्तिकस्य “कठी, बढची, अध्वर्युः” इत्युदाहरणानि स्त्रीणां वेदाध्यययनमन्तरेण नोपपन्नानि भवन्ति । तथा- इङश्च (३।३।२१), अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा हीष् इति सूत्रवार्तिकस्य उपेत्याधीयतेस्या: उपाध्यायी, उपाध्याया इत्येवं भाष्योदाहरणमपि स्त्रीणां वेदवेदाङ्गाध्ययनाध्यापने अन्तरेण नोपपन्नं भवति । एवम्, काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, काशकृत्स्नीमधीते काशकृत्स्ना ब्राह्मणी । अध्येत्र्यामभिधेयायामण ईकारेण भवितव्यम् इति, तथा "कथं हि स्त्री नाम सभायां साध्वी स्यात्" इति च तत्र तत्र महाभाष्योक्तिरपि स्त्रीणां वेदवेदाङ्गाध्ययनाध्यापने अन्तरेण नोपपन्ने भवत: चैतदन्यथानुपपत्त्यैव च स्त्रीणां वेदवेदाङ्गाध्ययनाध्यापनयोः पुंवदधिकार: कल्पनीयो भवत्येव । किञ्च, वैवाहिको विधिः स्त्रीणामौपनायनिक: पर: इत्युक्ते: स्त्रीणां विवाह उपनयनस्थानीयः, अतस्तद्दिन एव पतिरेव गुरु: स्त्रीणाम, पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया इति वचनाद्, अहतेन वसनेन पति: परिदध्याया अकृन्तन्नित्येतयर्चा, परिधत्स्व वाससेति च प्रावृतां यज्ञोपवीतिनीमभ्युदानयञ्जपेत् सोमोऽददद् गन्धर्वायेति गोभिलगृह्यसूत्रतो यज्ञोपवीतधारणं वशिष्ठस्मृतावेकविंशेऽध्याये तत्प्राय- श्चित्तार्थ स्त्रीणामपि गायत्रीजपहोमविधानस्यान्यथानुपपत्त्या अङ्गीकारस्य पत्यैव कर्तव्यत्वात्; पुराकल्पे तु नारीणां मौजीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्र्या- वचनं यमवचनेनापि णिजर्थभूतप्रयोजकत्वस्यास्मिन् कल्पे निषेधेऽपि धात्वर्थव्यापारा- श्रयत्वरूपप्रयोज्यत्वस्यानिषेधाच्च यथावकाशं साङ्गस्य स्वशाखीयवेदस्य पत्यैव अध्यापनीयत्वं स्पष्टमवगम्यते एवाग्निहोत्रादौ पत्न्यास्तत्तन्मन्त्रपाठ: संस्कृतोक्तिश्चैतद्वयमपि सिध्यति । अन्यथा याने कर्मणि नापभाषन्ते । इति महाभाष्योक्त्या यज्ञकर्मण्यपशब्दनिषेधेन संस्कृतेनैव यज्ञगतैर्वक्तव्यतया तत्तदुक्तेतिकर्तव्यताज्ञानस्य व्याकरणाध्ययन- मन्तराऽनुपपन्नत्वेन पत्यायुक्तसंस्कृतशब्दस्याबोधे सकलं कर्मैव भ्रष्टं भवेत् । तदेवम्, वेदवेदाङ्गाध्ययनाध्यापनयोः पुंवदधिकृतानां स्त्रीणां श्रवणमात्रेऽपि निषिद्धस्य शूद्रापरपर्यायस्यैकजाते: साधातिदेश: कथङ्कारं युक्त: कथञ्च वा पुनस्तासां शूद्रसाधर्म्यातिदेशमात्रेणैकजातित्वम् ? 7 गायत्र्या तथा ॥ इति पत्न्या अत कथञ्च वा नाम (१७) तथा च विवाहाग्निहोत्रादौ वैदिकमन्त्रपाठपतिसाधर्म्ययोरपि निषादस्थपतीष्टिन्यायेना- धिकारकल्पनया सर्वत्र वेदेऽनधिकार: कल्प्यते ? इति चेदत्रैवं प्रतिबूम:- स्त्रीणां खलु तावदस्मदुक्तरीत्यैव वास्तविकद्विजातित्वाभावेन प्रत्युतैकजाते: साधातिदेशादेकजातितुल्यतयैकजातित्वव्यहारेऽपि न शूद्रापर- पर्यायवास्तविकैकजातित्वम्, नापि पुनर्वास्तविकद्विजातित्वमपि, तासां हि द्विजात्येकजातिभिन्नत्वविशिष्टद्विजात्येकजातिगतयत्किञ्चिद्धर्मवत्त्वाभ्युपगन्तव्य- त्वात्, तद्भिन्नस्यैव तद्गतयत्किञ्चिद्धर्मवतस्तुल्यत्वप्रसिद्धः । स्त्रीशूद्रास्तु सधर्माणः इत्याद्युक्तेः शूद्रापरपर्यायैकजातिभिन्नत्वशिशिष्ट- तद्गतसकलवेदानधिकाररूपयत्किञ्चिद्धर्मवत्त्वात्, सहाधिकारश्रुत्या यजेषु मन्त्रवत्पत्नी इत्यादिस्मृत्याsत एव “पत्नी"शब्दस्य पत्युनों यजसंयोगे इति भगवता पाणिनिनापि स्वामिवचनत्वेन व्युत्पादिततया च द्विजातिभिन्नत्व- विशिष्टतद्गतवैवाहिकवैदिकमन्त्रपाठाग्निहोत्रादिसहाधिकाररूपयत्किञ्चिद्धर्मक्वा स्त्रीणां वास्तविकद्विजातित्वैकजातित्वोभयाभावेऽपि वैवाहिकवैदिक- मन्त्रपाठाग्निहोत्रादिसहाधिकारबलाद् द्विजातितुल्यत्वेन द्विजातित्वव्यवहारस्येव शूद्रापरपर्यायैकजाते: साधातिदेशेन सकलवेदानधिकारादेकजातितुल्य- त्वेनैकजातित्वव्यवहारस्यापि चोभयस्यैवापि तुल्यन्यायादुपपत्ति: सुसङ्गता भवत्येव । अत एव खलु “कठी, बढची, अध्वर्यु:”, “काशकृत्स्ना ब्राह्मणी," “उपेत्याधीयतेऽस्या उपाध्यायी उपाध्याया वा” इत्यादिपूर्वोक्तसूत्रवार्तिक- महाभाष्योदाहृतप्रयोगतत्तदुक्त्युपपत्तिरपि स्त्रीणां समनन्तरपर्वोक्तरीत्या शूद्रापरपर्यायैकजातिसाधर्येणैकजातितुल्यत्वव्यवहारेऽपि पुनर्वास्तविकैकमात्र- जातित्वाभावेन, तथा द्विजातिभिन्नत्वेऽपि प्रत्युत पुनर्द्विजातितुल्यत्वेन तु व्यवहर्तुमवश्यशक्यतयाऽथ चास्मदुक्तपूर्वरीत्या तासामनुद्भूताया अत एव सूक्ष्मरूपेणावस्थिताया आत्मनिष्ठानिर्वचनीययत्किञ्चिद्वितीयजात्यादिशक्ते: सत्ताया एवापि चावश्यं स्वीकर्तव्यत्वेन पूर्वोक्तगोभिलवशिष्ठयमस्मृत्यादिनाना- वचनबलादुपनीतानां पुराकल्पीयस्त्रीणां पुंवद् वेदवेदाङ्गाध्ययनाध्यापन- योस्तथाधिकार: कल्पयितुं शक्यते, न पुनरिदानीन्तनीनामपि । अत एव हि पूर्वोक्तयमवचने णिजर्थभूतप्रयोजकत्वस्य पुराकल्पीयनारीरूपप्रयोज्यत्ववि- षयकत्वेनैवोपपत्तौ पुनरिदानीन्तननारीणां धात्वर्थव्यापारश्रयत्वरूपप्रयोज्यत्व- स्यानिषेधकल्पनया स्वशाखीयसाङ्गवेदाध्ययनज्ञापनं नोचितम् । पूर्वोक्तगोभिल-गृह्य-वशिष्ठ-यम-स्मृतिवचन-जातेन हि पुराकल्पीय- साग्नित्रैवर्णिकपत्नीकर्मकस्यैवोपनयनपूर्वकस्वशाखीयसाङ्गवेदाध्यापनस्य बोधना- (१८) न्नतु तत्कर्तृकस्यापि तदध्यापनस्य । इदानीन्तनसाग्नित्रैवर्णिकपत्नीनान्तु तथोपनयनविध्यभावेऽपि पुन: “जातिं तु बादरायणोऽविशेषात् तस्मात् स्त्र्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्" इति भगवतो जैमिने: स्त्र्यनधिकार- निराकरणाधिकरणन्यायेन सहाधिकारे श्रुतिबलेन च तत्तद्यज्ञकर्मो- पयोगिमात्रवैदिकमन्त्राध्ययनतदर्थज्ञानयोस्तथा “याज्ञे कर्मणि पुनर्नापभाषन्ते" इति महाभाष्योक्तेर्व्याकरणाद्यङ्गाध्ययने चाधिकार: कल्पयितुं शक्यते। निरग्नि- त्रैवर्णिकपत्नीनां पुन: पुराकल्पीयानामिदानीन्तनीनाञ्चोभयविधानामपि वैवाहिकवैदिकमन्त्रपाठाधिकारस्तु निषादस्थपतीष्टिन्यायेनैवेत्येव हि स्त्रीणां सर्वत्र वेदेऽनधिकार: कल्प्यते नान्यथा स्त्रीशूद्रदिजबन्धूनां त्रयी श्रुतिगोचरा इति पूर्वतरोदाहृतस्मृतेर्जागरूकत्वेन तदेकवाक्यत्वकर्तव्यतया विधिमन्तरेण यदृच्छयैवाद्यत्वे पुनर्निरग्नित्रैवर्णिकब्रुवस्त्रीणां श्रवणेऽप्यनौचित्य- कल्पनावश्यकत्वादितीत्थं खलु स्त्रीणां शूद्रसाधर्म्यातिदेश: शूद्रवैषम्यञ्चोभयमपि समुपपद्यत एव, अन्यथा “जातिं तु बादरायणोविशेषात् तस्मात् स्त्र्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्" इत्येवमादिजैमिन्युक्तदिशा जात्यर्थस्याविशिष्टत्वेन त्रैवर्णिकस्त्रीणां प्रथमत एव गर्भाधानादिदशसंस्कारकर्मणां पुंवत् समन्त्रकत्वम्, "अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीत" इत्यादि- विधिबलादष्टमैकादशद्वादशादिषु वर्षेषु यथायथमविशेषतः पुंवदुपनयनपूर्वक- साङ्गवेदाध्यापनब्रह्मचर्यकेशान्तसमावर्तनादिकर्मजातञ्चैतत् सर्वमपि पुरा- कल्पेऽद्यत्वे चावश्यमङ्गीकर्तव्यमापतेत् । न चास्ति पुरापि पुन: पुराकल्पीयानामपि साग्नित्रैवर्णिकस्त्रीणां पुंवद् गर्भाधानादिसंस्कारकर्मणां विवाहवर्ज समन्त्रकत्वं कर्तव्यमितीदानीतनीनान्तु पुरनद्यत्वे किं वक्तव्यम् ? सति तु तथात्वे “तूष्णीमेताः क्रिया: स्त्रीणां विवाहस्तु समन्त्रक:' इत्येवमादियाज्ञवल्क्यादिस्मृतयस्तन्मूलभूता इतराः श्रुतयश्च सर्वा अपि विरुध्येरन् । तदित्थमस्मदुक्तं न किञ्चिद- वद्यमित्युचिततरमेव। अपिच, अत एव स्त्रीणां सुरापान- व्याधि- विसंवादात्मकधौ~- बन्ध्यात्वाऽर्थनाशित्वा-प्रियंवदात्व-स्त्रीप्रसूत्व-मृतप्रजात्वपुरुषद्वेषशीलादिदोषाणां व्यष्टिमात्रसत्त्वेऽपि तदीयतादृशदोषसद्भावस्य पुंसां पुरुषार्थ-चतुष्टयसिद्धेः प्रतिबन्धकतया तदीयानां पुंसां पुनस्तदधिवेदनोपदेशं स्मरतिस्म याज्ञवल्क्यो अथ यथा- सुरापी व्याधिता धूर्ता बन्ध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषदेषिणी तथा । ११७३॥ इति । (१९) । सत एवाऽपि तस्य तथा मनुरपि- मद्यपाs साधुवृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाधिवेत्तव्या हिंसार्थघ्नी च सर्वदा । ९८०॥ बन्ध्याष्टमेऽधिवेत्तव्या दशमे तु मृतप्रजा । एकादशे स्त्री जननी सबस्त्वप्रियवादिनी । ९।८१॥ या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः । सानुज्ञाप्याऽधिवेत्तव्या नाऽवमान्या च कर्हिचित् । ९।८२॥ इति । अत एव, अपरार्के- आपस्तम्ब: "धर्मप्रजासंपन्ने दारे नान्यान्कुर्वीतान्यतरापाये तु कुर्वीत, प्रागग्न्याधयादाधाने हि सती कर्मभिः संबध्यते" ॥ इति प्रोक्तवान् । तदेवम् स्त्रीणामात्मनिष्ठानिर्वचनीयानुद्भूतजात्यादिशक्तिविशेषस्य साकल्येनासत्तया एवानुद्भूतस्य तस्याभिव्यञ्जकानां समन्त्रकाणां गर्भाधानादिदशकर्मणां पूर्वसप्तकस्य निर्मन्त्रकतया विशेषतोऽष्टमनवम- योस्त्वनुत्पत्त्यैव च केवलदशमसंस्कारसमन्त्रकत्वमात्रेणाऽभिव्यञ्जितस्य सत यत्किञ्चिन्मात्रत्वेना नुद्भूतप्रायतया तदन्तर्गतस्य सतो प्यसत इवाः वभासमानस्य द्विजातित्वस्या पि साकल्येना- नुत्पत्ते: 'शूद्रवदेकस्या एव जातेरभिव्यक्ततयैकजातिमात्रत्वाद्, अथ च पुत्राणामुत्पादन -संस्कार- वृत्तिविधान-दारसंयोजनादिकर्मसु, विद्याधनार्जननियमविशेषेषु, पुनरेवमृणत्रयापाकरणनियमपुर:सरस्वी- करणीये तृतीये चाश्रमे नियमत: स्वातन्त्र्येणानधिकाराद्, अपि च तुरीयेऽप्याश्रमे स्वातन्त्र्येणा धिकारस्य चैच्छिकपाक्षिकत्वेन नियमावश्यकत्वाभावाद्, अथ चापि तत्र तस्य पतिसाहित्यानपेक्ष्यत्वेन प्रत्युत तद्राहित्यस्यैवा पेक्ष्यतया प्राधान्येनाः नधिकारात्, किञ्च केवले द्वितीयाश्रमे तदीयसुरापानादि- पूर्वोक्तनानादोषव्यष्टिमात्रसत्ताया अपि पुंसां पुरुषार्थचतुष्टयसिद्धेः प्रतिबन्धकत्वेन तदीयानां पुरुषाणां पुनस्तदधिवेदना धिकारवत्तदीय-पुरुषाणां , तत्त्वसाम्य- सत्त्वे पि पुनस्तासां पत्यन्तरपरिग्रहा धिकारा भावाच्चैवमादिनाना- कारणकलापवशात्पुंवत्सामर्थ्यसत्ताया अभावाच्चाः त एव किला बलानां तासां कथंकथमपि पुमधिकारसाकल्यसाधर्म्यसत्ताया अभावेनैवाः न्याय्यत्वाद्, अथ च- पुंसामपि विनैव कारणं यदृच्छयैवाः धिवेदने निषेधात्, एवं सति तु कारणे कथञ्चित्तथा- धिवेदने पि स्त्रीणां तत्सोढव्यत्बेन पुरुषान्तराश्रयणे विशेषतो निषेधस्मरणाच्च । तथा- - (२०) अथ अथापि च यद्यपि ब्रह्मचर्यादिचतुराश्रमेषु, प्रथमे, तृतीये, चतुर्थे चाश्रमे पत्यस्य प्रयोजनमेव न विद्यते, किन्तु द्वितीये गार्हस्थ्य एव तस्य प्रयोजनसद्भावात्, तत्राऊ पि विचित्रेस्मिन्दुःखमये संसारे स्वकृतप्राक्तनदुष्कर्म- वशतो नानोपायविशेषैरपि कथंकथमप्यजातपुत्रत्वेन, मृतपुत्रत्वेन वा दत्तकपरिग्रहात्मकपुत्रान्तरकरणे स्त्रीणां भत्रनुज्ञासापेक्षत्ववन्न पुन: पुंसामपि तथा स्त्र्यनुज्ञासापेक्षत्वम्; . स्वातन्त्र्येण तेषामधिकारसद्भावात्, स्त्रीणान्तु तथाऽधिकाराऽसद्भावाच्च । च- पुनस्तेनैव स्वकृतप्राक्तनकर्मवशेन दत्तकादिपुत्राणामपि परिग्रहाद्यसंभवेना प्यपुत्राणां येषां केषाञ्चिदेकमातापितृकभ्रातृपुत्रेणापि पुत्रित्वस्मरणात्तथा व्यवहारपरिदृश्यमानत्वाच्चैतादृक्स्थले त्वपत्यार्थ स्त्रीपुंसयो- रविनाभावाs विशेषाः नुभवा संभवात्कञ्चित्तस्याः- प्यभावे परमेश्वरा- राधनादिनैवापि पारत्रिकदुर्गतेरनुत्पत्तेश्च स्त्रीपुंसयोरविनाभावस्याऽ पि क्वचिद्दर्शनाद्- ना पत्यार्थ सर्वत्र स्त्रीपुंसयोरविनाभावाविशेषाऽनुभवस्य साम्ये हेतुत्वम् । एतेनैव- अपत्यं प्रति जनकता वैषम्यात्स्वत्वप्रभुत्वयोरप्यनिर्विशेषेण तस्य दानादावप्युभयोरधिकारमुख्यत्वस्य तदभावे पुत्रत्व-जन्यगत्यभावादिदोष- विशेषस्य, तत्परिहाराय दत्तकपरिग्रहादावधिकाराविशेषस्य च स्त्रीपुंसयो: साम्ये हेतुत्वेनोपन्यास: सुतरां निरस्त एव । किञ्च अनाश्रमी तिष्ठेत दिनमेकमपि द्विजः इतिमिताक्षरायां दक्षस्मृतिबोधितस्त्रैवर्णिकविषयको नामित्वदोषो पुंसामेव, नतु स्त्रीणामपि; पत्युः प्रयाणोत्तरमतत्सहानुगमनपक्षे विधवानामपि पुंसामिव मृतपत्नीकानामनाथमित्वसाम्यसत्तया तुल्यन्यायादनाश्रमित्वापनुत्त्यर्थ- मपि द्वितीयविवाह: स्वीकर्तव्यो भवेत् । उपरिष्टात्प्रदर्शयिष्यमाणवैधव्यधर्मपरिपालन- पूर्वकजीवनयापनबोधकनानाश्रुतिस्मृतिप्रभृतिवचनजातविरोधात् । अपिच- यथा खलु- त्रैवर्णिकविषये- "ब्रह्मचर्या परिसमाप्य गृही भवेद्, गृही भूत्वा वनी भवेद्, वनी भूत्वा प्रव्रजेद्, यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्, गृहाद्वा, वनाद्वा ।" इति मिताक्षरायामपरा च जावालश्रुतेः, तथा- मिताक्षरायाम् "अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमावसेद्” इतिस्मृत्यन्तरवचनात्, तथा पुनरेव- "यदहरेव विरजेत्तदहरेव प्रव्रजेद्" इतिश्रुते:, “ऋणत्रयमपाकृत्य निर्ममो निरहंकृति: । ब्राह्मण: क्षत्रियो वापि वैश्यो वा न Sपि चेष्टापत्तिः, मपरार्के- तथा- (२१) - पत्या प्रव्रजेद् गृहाद्” इत्यपरार्के स्मृत्यन्तरवचनाच्च ब्रह्मचर्यादिचतुराश्रम- समुच्चयविकल्पपक्षौ पुंसामेव साकल्येन नियमितौ, नतु स्त्रीणामपि । किन्तु केवलं तासां ब्रह्मवादिनीनामुपनयनाग्नीन्धनवेदाध्ययनस्वगृहभैक्ष्यचर्यारूप- नैष्ठिकब्रह्मचर्य्यात्मकमैकाश्रम्यमात्रम्, सद्योवधूनामपि पुनस्तासामुपनयन- पूर्वकविवाहरूपगार्हस्थ्यात्मकमैकाश्रम्यमात्रम्- इत्येवंरूपमपि पुराकल्प एव । कलौ तु . पुनः सर्वासामेव स्त्रीणां पृथगुपनयनवर्जितोपनयनस्थानीय- विवाहरूपमात्रगार्हस्थ्यात्मकमैकाश्रम्यम् । यदाह मनु:- “वैवाहिको विधि: स्त्रीणामौपनायनिकः परः । पतिसेवा गुरौ वासो गृहार्थोग्निपरिक्रिया ।२।६७॥ इति । तथा च पुराकल्पीयब्रह्मवादिनीतरासां सर्वासां स्त्रीणां विवाहात् पूर्व पुमसम्प्रयोगाद्यभक्ष्याभक्षणाद्यात्मकयत्किञ्चिद्ब्रह्मचर्यस्य नियमावश्यकत्वेपि न पुनः पुंवत् संस्कारपूर्वकस्य ब्रह्मचर्याश्रमस्य साकल्येन स्वीकार: क्वचित् केनचिद् विहितः एवञ्च वानप्रस्थाश्रमेपि स्त्रीणां स्वातन्त्र्येण न नियमतोधिकारः, अपितु पतिपरिचर्याभिलाषण सहानुगमनपक्षे तत्साहित्यमात्रम्, इत्यस्माभिः पूर्वत्र प्रतिपादितमेव । तथा सन्यासाश्रमेपि "स्त्रीणाञ्चैके” इति मिताक्षरायां बौधायनवचनात् पत्या सहानुगमनपक्षे सत्यामेव विरक्तौ वानप्रस्थादेव स्वातन्त्र्येणाधिकारस्यैच्छिकपाक्षिकत्वसद्भावेपि न पुनर्गार्हस्थ्यात्, पत्युर्वानप्रस्थाश्रमस्वीकारात्. पूर्वम् तत्परिचर्याद्यर्थ सहावस्थानविधिबलादेव, तदुत्तरमतत्सहानुगमनपक्षे तु सुतविन्यस्तपत्नीक: इत्यादिपुत्रपत्नीनिक्षेपविधिबलादेव च तदपरोधात् । न च पत्युः प्रयाणोत्तरं सत्याम् विरक्तौ विधवानामपि गार्हस्थ्यात् सन्यासेऽधिकारः, तदानीं खलु तादृश्या विरक्ताया अकातराया मृतस्य पत्युः सहानुगमनमात्रविधानाद्, अविरक्तायास्तु कातरायाः पुनर्वैधव्यधर्मपालनात्मकचित्तवृत्तिनिरोधद्वारा शनै: शनैर्वैराग्यसम्पादनेन निःश्रेयससाधनविधानाच्च । एतच्च सर्वमुपरिष्टाद् यथावत् प्रपञ्चयिष्यते । तदेवं खलु त्रैवर्णिकविषयेऽ नामित्वनिषेधो ब्रह्मचर्यादि- चतुराश्रमसमुच्चयविकल्पान्यतरस्वीकारश्च पुंसामेव न पुन: स्त्रीणामपीति न कथंकथमपि स्त्रीपुंसयोः साम्यम् । मन्तव्यं रत्यर्थमिति, रतिजन्यौपस्थसुखात्मककार्य- कारिणौषधविशेषादिप्रयोगादिनापि तत्सिद्धेः, अपि च- विधवानां तन्निषेधेनैव तत्त्वसत्त्वस्याप्यकिञ्चित्करत्वात्। अत एव पुंसां मरण-प्रणाश-प्रमाद-पतन-संन्यासा- चिकित्स्यरोगग्रासा-कारणपरित्यागादिनानाकारणकलापसमुच्चयव्यस्तवशाद- न च अथ च- (२२३ यत्रतत्र - पतिकानां "विधवे"त्यपराभिधानभाजामबलानां तथा कारणावशादपरिग्रहाणां पुंसामिव पुनर्विवाहे निराबाधस्य तुल्यन्याय्यत्वनिर्विषयत्वेन तत्रार्थे दण्डापूपिक- कैमुतिकन्याययोरप्यसद्धावाच्चैवमपरञ्च स्त्रीणामपत्योत्पादनात्मकैकदृष्ट- प्रयोजनकत्ववद् गार्हस्थ्यधर्माभिरक्षणात्मकदृष्टप्रयोजनान्तरकत्वस्यापि सत्तया, अथ च वस्तुतो ह्यदृष्टैकप्रयोजनकत्वस्योत्तरत्र प्रपञ्चयिष्यमाणतयाs पि सधवानां, विधवानाञ्च विवाहे तदभिरक्षणा सम्भवेन तदर्थमपि पुनर्विवाहनिषेधस्यात्यावश्यकत्वाङ्गीकर्तव्यत्वात्, तथैवम् अत्रार्थे विचारान्तरोन्नयने सर्वत्रव दोषबाहुल्यसद्भावाच्च- प्रत्युत परमतमवलम्ब्यैव न्याय, धर्मञ्च दूरत: परित्यज्या पि नियमपक्षस्वीकारे तु सर्वत्र सर्वदा विधवानां, सधवानाञ्च पुनर्विवाहस्य याथाकाम्यनियम्यतया पशुपक्षिवत्साङ्कर्य प्रसज्येत । सति तु तथा को वा कस्याः पतिः, का वा कस्य स्त्री, को वा कस्य पिता, को वा कस्य कश्चेत्यादिपितापुत्रभावदाम्पत्यप्रभृतिसंबन्धविशेषस्य नियमोपि न स्यात् । एवम्- चातुर्वर्ण्यव्यवस्थापि न भवेत् । को वा धर्मः, को वा धर्म इति तयोविवेक एवापि न भवेत् । तथा च श्रौतस्मातादिधर्माश्च विलुप्येरन् । श्रुतिस्मृतिप्रभृतिशास्त्राणि च विरुध्येरन् । किं बहुना, जगदेव विपरीतं भवेत्- इति सर्वदा सर्वत्रा नर्थाS S धिक्यमापतेद्- इति तत्र तत्रोपरिष्टात्सप्रमाणं प्रपञ्चयिष्यामः। तदेवम्- विधवानां विवाहस्य सर्वथैवान्याय्यत्वमधर्म्यत्वञ्च सर्वै- रेवाङ्गीकर्तव्यं भवत्येव । यत्तु- विधवाविवाहे साधकत्वेन समुदाहृतः- उदीर्घ नार्यभिजीवलोकम् इत्येष ऋग्वेदमन्त्र:, तस्याप्ययमर्थ:- स यथा- "नारि ?-मृतस्य पत्नि ?, जीवलोकम्- जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहमभिलक्ष्य, उदीर्ध्व-अस्मात्स्थानादुत्तिष्ठ, गतासुम्- अपक्रान्तप्राणमेतं शरीरावशेषेणा वस्थितं पतिम्, उपशेषे-तस्य समीपे स्वपिषि; तस्मात्त्वम्- एहि- आगच्छ, यस्मात्त्वम्-हस्तग्राभस्य-पाणिग्रहीतुः, दिधीषो:धारणपोषणकर्तुः- अथ च- गर्भस्य निधातु:, तव-अस्य पत्यु: संबन्धादागतम्- इदम्- जनित्वम्- जायात्वम्,अभिलक्ष्य, संबभूथ- संभूता सि, असुसरणनिश्चयमकार्षी- स्तस्मादागच्छ” ॥ इति । ऋक्संहिताया भाष्यकार: सायणाचार्योs प्येवमेव व्याचख्यौ । अत्र- "उदील" इति-आदादिकस्य 'ईर' गतावित्यस्य लोटि मध्यमपुरुषैकवचनम् । “जनित्वमभी” तिजने: “सर्वधातुभ्य इन्” इति कर्तरि- (२३) इन्प्रत्ययगर्भस्य भावार्थकत्वलन्तस्याऽ भिशब्दयोगे अभिप्रतिपर्यनुभ्यः इति कर्मप्रवचनीयत्वे द्वितीयान्तम् । तथाचैतत्प्रतीयते- मृतस्यानुजननसंभवा- त्पुनर्जातस्य चानुमरण-स्वाभाविकत्वाच्च मृतानुगमनं नातीवोचितम्; यत: स्मरन्ति- जातस्य हि धुवो मृत्युधुवं जन्म मृतस्य च ॥ इति । ततश्च-कस्याऽ नुजिगमिषा तव वर्तते ? पत्युस्तच्छरीरस्य वा ? तत्रापि- कतम: खलु ते पति: ? शरीरमेतत् ?, तदवच्छिन्नचैतन्यम् ? चैतन्य- मात्रं वा ? - यदि चैतन्यमानं ते पतिस्तर्हि- चैतन्यस्य नित्यत्वान्न तस्य कदाचन विनश्वरत्वम्, जनिमत्त्वञ्चेति न स ते पतिर्मृत:, तथा च- श्रुति:- न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ इति । एवञ्चैवंविधं विजानन्त्यपि पुन: कमनुगच्छसि ?, यदि शरीरावच्छिन्नं चैतन्यं ते पतिस्तीपि तयोविभागान्नैकतरो भवितुं पतिस्ते हति, उत-तद्विरहितमपि शरीरमेतत्ते पतिस्तद्देवं किमनुजिगमिषन्ती भवतीं विलोक्यापि न चेष्टते, यदि तु पत्युः सम्बन्धित्वेन शरीरस्याऽ नुजिगमिषा ते तर्हि ? तादृशाः संबन्धिनो न्ये पि पदार्थाः सन्त्येवेति किमिति तान्नानुगच्छसि ?, अतश्चैवम्- स्थूलशरीरवियुक्तस्यापि लिङ्गशरीरावच्छिन्नस्यात्मीयशुभाशुभकर्मवशादेव जीवभावमापन्नस्यास्य चैतन्य- स्य त्यजतो पि स्थूलशरीरं शरीरान्तरं प्रविष्टस्य पुनरनुजननसंभवाज्जीवतां पुत्रपौत्रादीनामभिरक्षणद्वारा, पातिव्रत्यादिधर्मपालनद्वारा च तदर्थं तद्धिताचरणाय चोत्तिष्ठाssगच्छ - इत्येवमेवार्थ इत्यादीति । किञ्च- दिधीषोः इति दुधान, धारणपोषणयोः इति धातो रूपम् । तस्य च धारकत्वं, पोषकत्वं, गर्भनिधायकत्वं चेति सामान्यो र्थः । एवम्- “हस्तग्राभस्य, इति “हस्ते"त्युपपदस्य “ग्रह" उपादाने" इत्यस्य धातोः कर्तरि कृत्प्रत्ययान्तस्य रूपम् । “हस्तग्राहकः"- इति सामान्योर्थः, ततश्चाs त्राः स्य पदद्वयस्य सामाना- धिरण्येना न्वये- पाणिग्रहीता एव गर्भनिधायकश्चेति,” “यो धारकः, पोषको, गर्भनिधायकश्च स एव पाणिग्रहीता" इति चैवं द्विधा र्थ: पर्यवस्यति । तत्र- यदि “य: पाणिग्रहीता स एव धारकः, पोषको, गर्भनिधायकश्चे" ति प्राथमिको र्थोऽ ङ्गीक्रियते ?, तस्य च स धारकः, पोषको, - (२४) तर्खेवं न युष्माकमभिप्रेतार्थसिद्धिः, प्रत्युत-अर्थान्तरदोषापातश्च; देवरादे: प्राथमिकपाणि-ग्रहीतृत्वाभावेन तत्पूर्व पत्युरेव तत्त्वसद्भावात्- तस्यैव धारकत्वपोषकत्वगर्भ-निधायकत्वनियमान्न पुनर्देवरादेस्तथात्वमिति विधवाया देवरादिषु नियोगं सिद्धान्तयद्भिर्भवद्भिः प्रदिर्शितप्रमाणात्परेते पि पत्यौ तस्या धारणपोषणगर्भनिधानादिना रक्षणे देवरादेरनधिकार:सिद्धः, किं पुनस्ततो नियोगकथा। यदि तु “यो धारकः, पोषको गर्भनिधायकश्च स एव पाणिग्रहीता" इति द्वैतीयिकोर्थोभ्युपगम्यते, तद्देवमपि देवरादेस्तथात्वाभावेन न पुन: पाणिग्रहणे धिकारः, प्रत्युत अत्रापि पक्षे पूर्ववदर्थान्तरदोषसंभवः; जन्मत: प्रभृति पित्रोर्गर्भनिधायकत्वेतरतत्त्वसत्वात् पितैव पुन: पाणिग्रहणेधिक्रियेत, किंवा- य: पालक: स एवाधिक्रियेत, न पुनर्देवरादिरिति कुतस्तत्र नियोगकथा । न चैतद्भवतामपि नियोगमनङ्गीकुर्वता सनातनैकधर्मावलम्बिना समान- मिति वाच्यम्, प्राथमिकार्थस्या ङ्गीकारे पाणिग्रहणात्पूर्व पित्रादेर्धारकत्व- पोषकत्वयोरधिकारसत्त्वे पि गर्भनिधाना नधिकारात्प्रत्युत- तदुत्तरं यावज्जीवं पाणिग्रहीतुरेव समस्तेऽपि तत्त्वेऽधिकारान्न्याय्यत्वाच्चाहत एव पाणिग्रहीतुरेव धारकत्वपोषकत्वगर्भनिधायकत्वादिना “पति:, भर्ता, धव:, प्रियः, स्वामी" इत्यादिनाम्ना व्यपदेशो, न देवरादेः, पित्रादेर्वा । यतो देवरादिस्तन्नाम्नैव व्यपदिश्यते, पित्रादिश्चापि तन्नाम्नैवेति तद्वैषम्याद् । अत एव सूत्रयाञ्चकार जैमिनिर्मुनि:- "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थवि- प्रकर्षात्" इति । अत्र हि भवतां मतेन लिङ्गप्रकरणाभ्यां नियोगकथापाते पि पुनरस्माकं समाख्यारूपप्रमाणस्य जागरूकत्वप्राबल्यान्न नियोग: सिद्धान्त्यते । वस्तुत: सनातनैकधर्मावलम्बिनामस्माकन्तु- लिङ्गात्तथापातेऽ पि देव- रादेर्दिधीषुत्वाभावस्य व्याख्यातपूर्वार्थेभ्य: सुस्पष्टत्वात् । नहि प्रकरणादपि तथापात:, पातिव्रत्यप्रकरण- पठितत्वात्तन्मन्त्रस्य । । समाख्यारूपस्य प्रमाणस्य तु प्रवृत्तिरेव; तदुद्देश्यता वच्छेदकत्वसत्त्वात् । अत एव-संहिताभाष्यकार:सायणा- चार्यों S पि षष्ठ्यन्तदिधीषुपदस्य षष्ठयन्तपतिपद एव समन्वयं प्रदर्शयन् "गर्भस्य निधातुः" इत्येवमेव व्याचख्यौ । अथ. षष्ठस्य (२५) किञ्च- पुन: कथञ्चिद् दिधीषुपदस्य देवरवाचकत्वे साहसिक्यमवलम्ब्यते, तोवमपि देवरस्यासत्त्वे कुत्रेयं नियुज्यते ? एवञ्च- दिधीषुपदस्य द्वितीयवरे लक्षणाS वश्यं कर्तव्या भवति भवद्भिरिति रूढ्या प्रयोजनेन वा क्रियते सेति केनापि स्पृष्टौ- किं प्रत्युच्यते ? रूढ्येति चेन्न; दिधीषुपदस्य द्वितीयवरे तथात्वाऽ दर्शनात् । अथ प्रयोजनेनेति चेत् ? किमत्र प्रयोजनमिति तदपि न; तदभावात् । किञ्चाsत्र पुन: कथञ्चिदपि तथा- साहसे देवरसत्त्वे दिधीषुपदस्य तत्रैव लक्षणा, तदभावेऽ न्यत्र कुत्रापि तत्पदस्य लक्षणेत्यवश्यमभ्युप- गन्तव्यत्वाल्लक्षणपरम्परा स्वीकर्तव्या भवेत्, देवरासत्त्वे ह्यन्यत्र कुत्र नियोग इति नियोगाधिकरणक्रमोsपि भवद्भिः प्रदर्शनीयो भवेत्, लक्षणापरम्परात्मक- दोषमदोषत्वेनाङ्गीकुर्वद्भिर्भवद्भिर्नियोगाधिकरणक्रमश्च न प्रदर्शयितुं शक्यते। एवञ्च- भवतां वैधव्यधर्मभङ्गकामुकानां यथारुचि कर्तव्यत्वे लोकानां भिन्नरुचित्वेन यत्रकुत्राS पि चाण्डालादौ च नियोग: कर्तव्य: स्यात् । अपिचापरम्- विधवानां नियोग: कतमार्थ: ? अवैधव्यार्थ: ?, रत्यर्थ: ?, सन्तानार्थो वा ? किमत्र बीजम् ? अवैधव्यार्थश्चेत्कालवशात्परेते भर्तरि वृद्धानामपि निवृत्तरजसां तदर्थ यत्रकुत्रा पि नियोग: स्वीकर्तव्यः, न चैष सुन्दरः, निष्फलत्वात् । अथ चेन्मन्यते. रत्यर्थ इति; सो पि न युज्यते;निवृत्तरजसामासामतदर्थमनस्कत्वप्रायोदर्शनात् । न चैवम्- अवैधव्यार्थो रत्यर्थो वा, न हि वृद्धविधवानां विवाह: संघटते लोके- इति नाद्यौ पक्षौ युक्तियुक्तौ । यदि तु- अन्तिम: सन्तानार्थपक्ष: स्वीक्रियते ?, सोs पि न रमणीयः, निवृत्तरजस्कासु बहुसन्तानास्वपि तदर्थत्वस्य प्रयोजनाS दर्शनेन तादृशीनां नियोगो न कर्तव्य: स्यात् । अथ चाड पि आत्मीयाभ्यान्तरिका भिप्राय प्रकटीकृत्य- अवैधव्यार्थो, रत्यर्थः, सन्तानार्थश्चेति पक्षत्रयार्थो बालानामेव विधवानां नियोग: स्वीक्रियते- इति प्रत्युच्यते चेत् ? एवमपि तर्हि तादृशीनां वैधव्यतदभावयो, रतिजाS S नन्दस्य, सन्तानस्य चाS नुभवविषयत्वाS भावान् न विचारसहः । अथ युवतीनामेव विधवानां तथाक्रियते चेत् ? तदपि न, बहुपुत्राणामपि तासां तथा कर्तव्यत्वेन सन्तानार्थत्वाभावात् । च रतिसन्तानोभयात्मकार्थे नियोगपक्षे नपुंसकप्रायाणाम- चिकित्स्यरोगग्रस्तानां यावज्जीवं कारागारबद्धानां, पतितानां, प्रव्रजिता- - - अथ (२६) अथ नाञ्चाs पुत्रपुरुषाणां पत्न्य: सधवा अपि यत्र स्वचन तदर्थ नियुज्येरन्, न चैतधुज्यते । एवञ्च कस्य हेतोर्नियोग: स्वीकर्तव्य इत्यत्र किं प्रतिवक्तव्यं भवद्भिरिति प्रतिवचनाभावान्मौनमास्थाय सनातनैकधर्मावलम्बिनां मतस्य श्रेयस्करत्वं, युक्तियुक्तत्वं, श्रेष्ठत्वञ्च निश्चेतव्यमेव । चात्र विषये हि- एवमप्यपरितोषपरम्परापर्योकुलितचेतस: स्वाभिप्रेतार्थसाधने प्रवृत्ता अपि स्वप्रदर्शितप्रमाणादेव निजाउ नभिप्रेतार्थ- सिद्धतया र्थान्तरदोषकलङ्किता: सन्तोऽ पि भवन्त: पुन: पृच्छ्यन्ते- कस्तावन्नियोगपदार्थ: ? कीदृशश्च ?, यदि- “नि' पूर्वकाद् युजिर् योगे इत्यस्माद्रौधादिकाद्धातोर्भावार्थकघन्प्रत्ययेन नियोजनम्, इतिव्युत्पत्त्या निष्पन्नो यौगिको “नियोग” शब्द: स्वीक्रियते ?, तर्हि- पूर्ववन्निवृत्तरजस्कादयो विधवा नपुंसकप्रायाद्यपुत्रपुरुषाणां पत्न्यश्च सधवा अपि सर्वा एव नियुज्येरन् । "अपुत्रविधवायुवतीनामेव सन्तानार्थे यत्र क्वचन नियोजनं नियोग:" इत्येवं पङ्कजादिपदवद्यौगिकरूढो ङ्गीक्रियते ? तदानीमपि- “यत्र क्वचने"त्युक्ते- "यंत्र क्वचने” ति-कुत्र ? सति संभवे-देवरे, तदभावे-सपिण्डे तस्याड प्यभावे- सगोत्रे, तस्याऽ प्यभावे-नियोगावसरविशेषे समीपे य: कोऽपि प्राप्यते तत्रैवेति वक्तव्यतया तदानीं खलु समीपे समीपे यं कमपि निरपेक्षित- जात्यादिकमाचाण्डालमवश्यनियोजनीयत्वेन सर्वत्रा पि प्रयोगार्हस्य “पाचक,- पाठका"दिपदस्येव "नियोग"पदस्यापि 'पङ्कज"पदस्य "कमलार्थमात्रवद्" "एकजात्यर्थमात्रे प्रयोगो न भवेद् इति- पङ्कजादि- पदवद् 'यौगिकरूढत्व"मङ्गीकर्तुं शक्यते-इति महत्यनवस्था गौरवञ्च महत्, अपि च उक्तयैव रीत्या चाण्डालादावपि नियोगे दोषाभाव: स्वीकर्तव्यो भवेद् भवताम्- " इति। अस्माकन्तु- सनातनैकधर्मावलम्बिनां “निपूर्वकाद्' “युज” समाधौ' इत्यस्मादेवादिकाद्धातोर्भावार्थक"घञ्"प्रत्ययेन “नितरामत्यन्तं योजनं समाधि- नियोगः” इत्येवंव्युत्पत्त्या निष्पन्नस्यैव यौगिकस्य "नियोग"शब्दस्य स्वीकर्तव्य- तया पुत्रवतीनां, तदभाववतीनाञ्च यादृशां तादृशामपि विधवानां सहाS गमन- पक्षे- नियोगद्वारा-अर्थात्- पुरुषान्तरसम्पर्कादिषु सांसारिकक्षणिकविषयेषु चित्तवृत्तीनामत्यन्तनिरोधद्वारा पातिव्रत्यपालनस्य मुक्तिसाधनत्वान्न कश्चिद्दोष:; अत एव पतञ्जलिर्भगवान् सूत्रयाञ्चकार-“योगश्चित्तवृत्तिनिरोध :” इति । एवैतदेवा भिप्रेत्य ऋक्संहिताया सायणाचार्यो : प्येवमुल्लिखितवान्- अत खलु भाष्यकार:- २७) " परत्र "देवरादिकः प्रेतपत्नीमुदीर्घनारीत्यनया भर्तृसकाशादुत्थापयेत्, सूत्रितञ्च- तामुत्थापयेद्देवर: पतिस्थानीयोs न्तेवासी जरद्दासो वोदीर्घ नार्यभिजीवलोकमिति" । इति । अत्र हि- सहान्वारूढोत्थापननियामकविधिशास्त्रे पठितस्य "देवर:" इत्यस्य सपिण्डसगोत्रयोरप्युपलक्षणत्वं स्वीकर्तव्यं भवति । एवं “पतिस्थानीय:" इत्यस्यापि मध्यमणिन्यायेन, देहलीदीपकन्यायेन, काकाक्षिगोलकन्यायेन वा पि "देवर: इत्यत्र- पूर्वत्र, तथा-“अन्तेवासी,' "जरद्दास: इत्यत्र चोभयत्रा पि विधेयविशेषणत्वेन समन्वयः कर्तव्यो भवति, प्रमीतपतिकाया अनाथाया जीवनसंरक्षणे देवरसपिण्डसगोत्रान्तेवासि-जरद्दासानामपि साहाय्य- प्रदाने धिकाराऽ विशेषेण बन्धुत्वसाम्यसत्त्वात्तदौचित्यसत्तयैव पतिस्थानीय- त्वस्य निराबाधात् । अन्यथा देवरस्यासत्त्वे प्रमीतपतिकाया: सपिण्डसगोत्रान्तेवासि- जरद्दासानां पतिस्थानीयत्वाभावेन जीवनसंरक्षणे प्यधिकारो न युज्येत । अथ च देवरादीनामभावे चितारूढपतिशरीरसकाशात् सहान्वारूढाया उत्थापनेS न्तेवासिजरद्दासयोरप्यनधिकार आपद्येत । एवमुपरिष्टाद्यथा कथञ्चिद्दर्शयिष्यमाणे युगान्तरीयापद्धय॑त्वविषयके पुत्रोत्पादनरूपनियोगे सपिण्डसगोत्रयोरधिकारश्च नोपपद्येत । तदेवम्, नहि देवरसपिण्डसगोत्राणां प्रमीतपतिकाया जीवनसंरक्षणे पतिस्थानीयत्वमात्रेण सत्यामप्यापदि कलौ सविधिकनियोगधर्मबुद्ध्यापि पुत्रोत्पादनाद्यर्थ पुनः पाणिग्रहणेनोत्थापनम् । अन्यथा तत्त्वसत्तातुल्य- न्यायेनाS न्तेवासिजरद्दासयोरपि तथात्वमापद्येत । एतेन "प्रमीतपतिकायां देवरस्यैव पतिस्थानीयत्वेन कलावपि पुत्रोत्पादनाद्यधिकार:"- इतिपरेषां विधवाविवाहैकसत्याग्रहवतामत्याचार: स्वयं परास्तो भवति । ततश्चैतेनैतदुक्तं भवति प्रमीतपतिपतितशरीरस्य सहानुगमनविधि- नोत्तरतश्चितां सहान्वारूढाया अपि पुन: प्रोज्ज्वलज्ज्वलनज्वालापरितापभयत: कातरायास्तु जीवनसंरक्षणादिहिताचरणेन पतिस्थानीयतामापन्नैर्देवरादिजरद्दा- सपर्य्यन्तैरात्मीयैर्बन्धुभिर्वैधव्यद्वारा पि प्राणधारणमात्रैकलभ्यब्रह्मचर्यादि- कपातिव्रत्यपरिपालनस्य नि:श्रेयससाधनत्वं प्रदर्शयद्भिः सद्भिः सति संभवे संबोध्य जीवनसंरक्षणबुद्ध्यैव पाणिं गृहीत्वा चितारूढपति शरीर- सकाशाद्यथापूर्वमन्यतमेनोत्थापनं कर्तव्यं, नतु पतिस्थानीयत्वेन पुत्रोत्पादन- (२८) निजदक्षिणाङ्गभूतस्य कातराया प्रयातप्राणस्य हैं रूपनियोगबुद्ध्येति । तथा चैतावता- एवमवगम्यते- वैधव्यप्रपीडिताया अत एव पत्युः प्राणप्रमाणेन शरीरपातात्स्ववामशरीरा- वशेषेणा र्धशरीराया: स्वस्या अपि मृतप्रायत्वं मन्यमानाया अत एव च तमन्तरेण निजार्धशरीरस्याऽ वस्थानमात्रस्यारु प्यसंभवेन यथाकथञ्चिद- वस्थानसम्भवे पि जीवननिर्वाहस्य तु पुनरसंभवादेव ह्यगत्या खलु पुत्रपौत्रादिपरिजनानां परिपालनस्याऽ प्यनुपपत्तिमालोच्यैव यथाकथञ्चित्प्राण- धारणमप्यनिच्छन्त्या अत एव हि तत्सहानुगमनातिरिक्तं स्वश्व:श्रेयसविधान- मनभिपश्यन्त्या एतादृश्या: पतिविरहकातरायास्तत्सहा नुजिगमिषया तदुत्तरतश्चितौ सहान्वारोहणादकातराया अपि सहान्वारूढायास्तु प्रोज्ज्वलज्ज्वलनज्वालापरितापभयत: पुनः एव देवराद्यन्ते- वासिजरदासपर्य्यन्तानां जीवनसंरक्षणादिहिताचरणे पतिस्थानीयत्वप्रदर्शनद्वारा पत्युश्चितारूढशरीरसकाशात्तदन्यतमेन यथापूर्वमुत्थापन- नियामकविधिशास्त्रेण वैधव्यैकलभ्यसहानुगमनातिरिक्तब्रह्मचर्यादिपालनस्य निःश्रेयससाधनतया ततोऽ प्युपकृताया अत एव प्रमीतपतिवामाङ्गभूतनिज- दक्षिणाङ्गस्य चैतन्यावच्छेदकत्वसत्त्वेन चैतन्यावच्छेदकनिजवामाङ्गस्य तु स्वीया- S साधारण्यसत्त्वेनैव चोभयतो मिलित्वा सम्पूर्णश शरीराया मृतप्रायत्वासद्भावेन कथञ्चिदवस्थानसंभवात्तमन्तरेणा S पि पतिस्थानीयतापन्नदेवराद्यन्तेवाति- जरदासपर्य्यन्तबन्धुकर्तव्यसंरक्षणसाहाय्यविशेषात्मकस्वशरीरारम्भकादृष्टविशेष- वशत एव जीवननिर्वाहसद्भावेनाऽ त एव गत्यन्तरसत्तया पुत्रपौत्रादि- परिजनपरिपालनस्य यथाकथञ्चिदुपपत्तिं विचार्यैवाऽ पि यथाकथञ्चित्- प्राणधारणस्या S प्येष्टव्यत्वेनाप्यथ प्रत्युत प्रमीतस्य पत्युः पारत्रिकहिताचरणादितत्सहानुगमना तिरिक्तनिःश्रेयससाधनीभूतब्रह्मचर्यादिवै- धव्यधर्मपरिपालनात्मकस्वश्व:श्रेयसविधानस्यापि सुंतरां समीक्ष्यमाणताया: स्पष्टमेवावबोधनात्, तथा-प्रमीतचितारूढपतिशरीरसकाशादुत्थापननियामकविधिशास्त्रीयाङ्ग- भूतमन्त्रवाक्यार्थनिष्कर्षप्रामाण्यप्राबल्यपर्सालोचनया तन्मन्त्रवाक्यपूर्वापरीय- मन्त्रान्तरवाक्यार्थनिष्कर्षसमालोचनयाS पि च सत्यपि पतिविरहे तत: कातरयाप्यभाव्यतया त एव तत्सहानुजिगमिषाया अप्यसंभावनीयतया च तदुत्तरतश्चितौ सहान्वारोहणात्कातरयापि भाव्यतायाः प्रतीतेश्च तत्सहानुगमनापेक्षया तदीयपारत्रिकहिताचरणब्रह्मचर्यादिपातिव्रत्यनियम- (२९) च इति परिपालनात्मकस्यैव चित्तवृत्तिनिरोधाS परपर्यायस्य समाधिसमाख्यस्य नियोगस्य निःश्रेयससाधने सर्वथा गरीयस्त्वम्- इति सर्व निरवद्यम् । यदपि- "उदील" इत्येतन्मन्त्रवाक्यत: पूर्वत्र पठितस्य “इमा नारीरविधवा: मन्त्रस्यापि स्त्रीणामवैधव्यप्रतिपादकत्वमङ्गीकृत्य विधवाविवाहस्य सर्वथैवाङ्गीकर्तव्यत्वमुक्तम्; तदपि साहसिक्यमात्रम्; तत्र हि तावद्- नारीणामवैधव्यं कीदृशम् ?" अविगतधवात्वम् ?, आहोश्वि- दविप्रकृतधवात्वम् ? अथवा विकृतधवात्वम् ? किंवा विप्रकृष्टधवात्वम् ?, उताहो ?, अविभिन्नधवात्वम् ? किमुताऽ विनिर्गतधवात्वम् ?, किंवा- S विनियुक्तधवात्वम् ?, किमथवा विशिष्टधवात्वम् ?” अविगत-धवादीनां सर्वासामप्यवैधव्यसंभवात् । तत्र हि- अविशिष्टधवात्वञ्चेद् ? विशिष्टधवानां जीवत्स्वपि धवेषु वैधव्यं स्वीकर्तव्यं भवेद् । एवम्- “सप्तमपक्षे- विनियुक्तधवानाम्, षष्ठपक्षे च- विनिर्गतधवानाम्, पञ्चमपक्षेपि विभिन्नधवानाम्, चतुर्थपक्षे चापि विप्रकृष्टधवानाम्, तृतीयपक्षेपि च-विकृतधवानाम्, द्वितीयपक्षे चाs पि विप्रकृतधवानाम्” इत्येवं सर्वासामेव सधवानां जीवत्स्वपि धवेषु वैधव्यं स्वीकर्तव्यं भवेत् । तथा च- द्वितीयादिषु पक्षेषु विप्रकृतधवादीनामविप्रकृतधवादीनाञ्च जीवत्स्वपि धवेषु सर्वासां सधवानामपि विधवात्वम्, अथ च- तस्यैव पुनर्विवाहप्रयोजकत्वञ्चाङ्गीकर्तव्यं भवेदेव । किञ्च- अन्तिमपक्षे ह्यविशिष्टधवा नाम गुणलवहीनपतिका अविधवा नाम सधवाः, विशिष्टधवा नाम गुणगणगरिष्ठपतिका विधवा इत्येवमुभयत्रैव विरुद्धार्थकविपरीतव्यवहारोऽ पि स्वीकर्तव्यो भवेत् । यदि तु नाम प्रथम एव पक्ष: स्वीक्रियते ?, तद्यपि द्वितीयादिषु पक्षेष्वन्यतम : पक्ष: किं न स्वीक्रियते ?, का तत्र विनिगमना ? तदेवम्- तत्र किं प्रतिवक्तव्यं भवद्भिः पापापसदै: ? अथ प्रकरणाख्यतृतीयप्रमाणबलाद् द्वितीयादिपक्षवर्ज प्रथम एव पक्षो- S ङ्गीक्रियते ?, तर्हि किन्नश्छिन्नम्; उपायान्तररहितैरत एवास्मदीय- मताS भ्युपजिगमिषाशालिभिर्भवद्भिः पूर्व प्रायश्चित्तं कृत्वैवाS स्मदीयवर्गे प्रवेष्टव्यं भवति तथा चैवमत्रा थे-अस्माकं समाख्यारूपषष्ठप्रमाणस्यापि जागरूकतया - (३०) धवः न तथा मन्त्रस्थस्य " अत विगतो-विशेषेण लोकान्तरं यातो पतिर्यस्यास्तादृशी भवतीत्यर्थादमृतपतिकैवा विधवेत्येवमर्थस्य स्वीकर्तव्यत्वं भवत्येव । च प्रकरणाख्यतृतीयप्रमाणसाहाय्येन पातिव्रत्यप्रकरणस्थाद् "उदीर्घ" इत्येतन्मन्त्रवाक्यत: पूर्वत्र- पठितस्य “इमा नारीरविधवा:” इति "नारी"तिपदस्य द्वितीयान्तत्वश्रुत्या तत्साहचर्येण- “इमा; अविधवा:”, इति पदद्वयस्यापि द्वितीयान्तत्वस्य स्वीकर्तव्यत्वेप्युत्तरवाक्यानुरोधेन प्रथमान्तत्वं छान्दसं स्वीकर्तव्यं भवति । तथा च- इमा एता: पुर:स्थचितारूढमृतपतिकेतरा नारी र्योs विधवा अविगतपतिका अर्थाज्जीवद्भर्तृका इत्येवमर्थस्य स्वीकाराऽ त्यावश्यकत्वेन मृतपतिकाया अवैधव्यप्रतिपादकत्वं नैतस्याः श्रुतेः कथंकथमपि संघटते । अत एव हि "इमा नारीरविधवाः इत्येतन्मन्त्रवाक्यत उत्तरत्र उत्तरत्र पठिते "सुपत्नीराञ्जनेन सर्पिषा संविशन्तु” इत्येतन्मन्त्रवाक्ये पठितम्-"सुपत्नी:” इति प्रथमार्थे द्वितीयान्तं पदं सुसङ्गच्छते, तस्य च-“शोभनपतिका:" इत्यर्थः; भर्तुर्जीवनेनैव हि स्त्रीणां सुपत्नीत्वमर्थाच्छोभनपतिकात्वं नान्यथा । एव च- श्मशानात्प्रतिनिवृत्य सर्पिषा नेत्रयोरञ्जनपूर्वकं गृहप्रवेशविधि: सुतरां सङ्गच्छते । तथा चाs यं वाक्यार्थ:- "अविधवा जीवद्भर्तृका: सुपत्नी: शोभनपतिका इमा एता: पुर:स्थचितारूढमृतपतिकेतरा नारी र्य्य आञ्जनेना जनसाधनेन सर्पिषा घृतेनाः क्तनेत्रा: सत्य: संविशन्तु गृहान्प्रविशन्तु । तथा- अनश्रवो S श्रुवर्जिता अर्थादरुदत्यो नमीवा मानसिकदुःखात्मकरोगरहिता: सुरत्ना: शोभनधन- सहिता जनयोऽ पत्यजनन्यो भार्या अग्रे सर्वेषां प्रथमत एव योनि गृहमारोहन्त्वागच्छन्तु ।" इति । अस्याः यमाशय:- प्रेतं श्मशानं नीतवन्तो बान्धवा: प्रेतदाहादिकत्यं समाप्य स्त्रीबालपुर:सरं घृताञ्जनपूर्वकं गृहं प्रविशन्ति; तद्यथा गरुडपुराणे- जना: सर्वे समास्तस्य गृहमागत्य सर्वशः । द्वारस्य दक्षिणे भागे गोमयं गौरसर्षपान् ॥ निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि । भक्षयेन्निम्बपत्राणि घृतं प्राश्य गृहं व्रजेत् ॥ केचिद् दुग्धेन सिञ्चन्ति चितास्थानं खगेश्वर । अश्रुपातं न कुर्वीत दत्त्वा चाय जलाञ्जलिम् ॥ (औदैहिक-कर्मादि-संस्कारवर्णने) (३१) तदेव प्रार्थयते- वान्धवानामग्रणी: कश्चिद् मृत्युनामकं देवम्- एवम्- इति। एवं हि सत्येतस्य मन्त्रवाक्यस्य पूर्वापरवाक्यैरप्येकवाक्यत्वं संभवत्येव, प्रकरणाख्यतृतीयप्रमाणस्य प्रवृत्तिरपि समुपपन्ना भवत्येव । तथा चैतन्मन्त्रवाक्यद्वयपूर्वापरस्थमन्त्रवाक्यानि चेमानि-तानि- यथा- ऋक्संहितायाम्- सप्तमेऽष्टके षष्ठेऽध्याये- द्वितीये सूक्ते- षड्विंशसप्तविंशाऽष्टाविंशकण्डिकासु- परंमृत्योऽअनुपरेहि पन्यां यस्तेस्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते बवीमि मा न: प्रजां रीरिषो मोत वीरान् ॥ मृत्योः पदं योपयन्तो यदेतद्राधीय आयु:प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुदाः पूता भवत यजियासः ॥ इमे जीवा विमृतरावबन्नभूभद्रा देवहूतिर्नोऽअब । प्राञ्चोऽअगाम नृतये हसाय द्वाघीय आयु: प्रतरं दधानाः ॥ इमं जीवेभ्यः परिधि दधामि मैषां नुगादपरोऽअर्थमेतम् । शतं जीवन्तु शरद: पुरुचीरंतर्मुत्युं दधतां पर्वतेन । यथाहान्यनुपूर्व भवन्ति यथऋतव ऋतुभिर्यन्ति साधु । यथा न. पूर्वमपरो बहात्येषा धातराषि कल्पयैषाम् ॥ २६॥ आरोहतायुर्जरसं वृणानाअनुपूर्व यतमाना यतिष्ठ । इहत्वष्टा सुजनिमासजोषादीर्घमायुः करति जीवसे वः ॥ इमा नारीरविधवाः सुपत्नीराजनेन सर्पिषा संविशन्तु । अनश्रवोऽनमीवाः सुरत्नाssआरोहन्तु जनयो योनिमग्रे ॥ उदीर्घ नार्यभिजीवलोकं गतासुमेतमुपशेष एहि । हस्तग्राभस्य दिधीषोस्तवेदं पत्युर्जनित्वमभिसंबभूथ ॥ धनुर्हस्तादादधानो मृतस्यास्मे भत्राय वर्चसे बलाय । अत्रैव त्वमिह वयं सुवीरा विश्वाः स्पृधोऽअभिमातीर्जयेम ॥ उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णमदा युवतिर्दक्षिणावत एषा त्वा पातु नितेरुपस्थात् ॥२५॥ उच्छवंचस्व पृथिवि मानिबाधथा: सूपायनास्मै भवसूपवञ्चना। माता पुत्रं यथा सिचाम्येनं भूमऽऊणुहि ॥ उच्छवंचमाना पृथिवी सुतिष्ठतु सहसं मित उपहिश्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणा: सन्त्वत्र । उत्ते स्तम्नामि पृथवीं त्वत्परीमं लोमं निदधन्मोऽअहं रिपम् । (३२) न एतां स्थूणां पितरो धारयन्तु तेत्रा यम:सादना ते मिनोतु ॥ प्रतीचीने मा महनीष्वाः पर्णमिवादधुः । प्रतीची जगभावाचमश्वं रशनया यथा ॥ २८॥ इति एवम् यदपि- ऋक्संहितायाम् अष्टमाष्टके दशममण्डले, सप्तमानुवाके, तृतीयाध्याये, प्रथमसूक्ते सप्तविंशाS ष्टाविंशकण्डिकयोः, पारस्करगृह्यसूत्रे, प्रथमकाण्डे, चतुझं कण्डिकायाम् , षोडशसूत्रस्य च- विधवानां विवाहे साकधत्वेनोपन्यसनं कृतम्; तत्रैवम्प्रतिब्रूम:- तत्रहि तावत्- “सोमः प्रथमो विविदे" इत्यारभ्य-"मह्यमथो इमाम्" इत्यन्तं वाक्यं मन्त्रद्वयात्मकमात्रं क्वचिद्विनियुक्तम्, अपितु- स्वपूर्वापरस्थमन्त्रान्तरद्वयेन सहैव वधूवरयोः परस्परं कन्यादानकर्तुः समीपे समीक्षणक्रियाकारणे वरकर्तृकपाठे विनियुक्तं वक्ष्यमाणमन्त्रचतुष्टयात्मकं वाक्यमिदम्: तद्यथा- पारस्करगृह्यसूत्रे प्रथमकाण्डे, चतुझं कण्डिकायाम्, षोडशसूत्रे- अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमना:सुनर्चाः । बीरसूईवकामास्योना शन्नोभवद्विपदे शं चतुष्पदे ॥१॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽमग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥२॥ सोमोऽददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रश्चिादादग्निर्मह्यमयो इमाम् ॥३॥ सा नः पूषा शिवतमाय मैरयसानsऊरू ऊराती विहर । यस्यामुशन्त: प्रहराम शे यस्यामुकामा बहवो निविष्ट्यै ॥४॥ इति। तस्यैतस्य मन्त्रचतुष्टयात्मकवाक्यस्यापातत एवार्थविचारतः, तथा- “पूर्व स्त्रियः सुरैर्भुक्ता: सोमगन्धर्ववह्निभिः” इतिस्मृत्यन्तरतश्च जन्मदिनप्रभृत्येव सार्धवर्षसप्तकं सोमगन्धर्ववह्निभिरुपभुक्तत्वेना न्ति- ममानुषपतेस्तुरीयत्वप्रत्यक्षश्रुत्या, तथैवम्- स्त्रीणां दानपक्षे दानचोदनश्रुतिस्मृतिप्रभृतिभ्यो मानुषपते: पञ्चमत्वा वश्यं भाव्यतया चासां जातपूर्वव्यभिचाराणां परपूर्वतायाः सुष्पष्टा वगम्यत्वेन परेते पि पत्यौ तुरीये पुन: पञ्चमादौ तासां नियोगो यद्यपि निर्बाध एवाभासते; तथापि- परमार्थतस्तदीयनिष्कर्षार्थप-लोचने तु नियोगपक्षस्वीकारे मानुषपते: पञ्चमादेर्भाव्यत्वेन स्वपतेर्मन्त्रोक्ततुरीयत्वसंख्यानियमबाधाS S पात: प्रसज्येत, (३३) यावत्क्रमश:
"तुरीयस्ते मनुष्यजा: इत्यत्र-“तुरीय: इतिसंख्याविशेषबोधकपदनिवेशेन मनुष्यज: पतिस्तुरीय एव भवति, नतु पञ्चमोऽ पीत्येवं नियमबोधनात् । उपभोगप्रतीतिरप्यापातत एव नतु परमार्थतोपि; प्रथममन्त्रे- “विविदे” इत्यस्य "रक्षकत्वेन लब्धवान्” इति, द्वितीयमन्त्रे- “पति:” इत्यस्य "रक्षकः” इति, तथा- - "पूर्व स्त्रिय: सुरैर्भुक्ता: सोमगन्धर्ववह्निभिः इत्यत्राs पि पालनार्थकभुजधातोर्युत्पन्नस्य “भुक्ता" इत्यस्य "रक्षिता" इति चैवमप्यर्थसंभवात् । अत एव- चतुर्थमन्त्रार्थप्रयोजनं मानुष एव पत्यौ संघटते, नतु सोमगन्धर्वाग्निष्वपि । अर्थात्- सोमगन्धर्वाग्नयः पतयः सन्तोऽपि न मानुषपतिवदुपभोक्तार:, किन्तु केवलं रक्षका एव । मानुषपतिस्तूपभोक्ता पि नतु सोमादिवत्केवलरक्षक इति चतुर्थमन्त्रार्थलिङ्गादवगम्यते । तदेवम्- विधवानां विवाहस्य न्याय्यत्वं, धर्म्यत्वञ्चायुक्तमेवेति सर्वथैव नाS भ्युपेयमेतद्भवतीति । तथा- यच्च- तत्रैव पारस्करगृह्यसूत्रे प्रथमकाण्डे पञ्चम्यां कण्डिकायाम्, एकादशसूत्रे- अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा इत्यौद्वाहिकमन्त्रे "अशून्योपस्था", जीवतामस्तु पौत्रमानन्दमभिविबुध्यताम्" इत्येवं वाक्यं मन्त्रलिङ्गत्वेनोपन्यस्य नियोगस्या- sवश्यकर्तव्यत्वं प्रतीत्य विधवाविवाहस्याऽ वश्यमभ्युपगन्तव्यत्वमुक्तम्: तदप्यात्मीयं मूर्खत्वं प्रकटीकृतम्, तद्धि तावत्- "अशून्योपस्था" इत्यारभ्य- "इय? स्वाहा” इत्यन्तं वाक्यमर्ध- मन्त्रात्मकं, न सम्पूर्णम्; संपूर्णमन्त्रात्मकन्तु वाक्यमेतत्; "इमामग्निस्त्रायतां गार्हपत्य: प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा” इति । तदिदं मन्त्रवाक्यमौद्वाहिका ग्निदैवत्याज्यहोमे विनियुक्तम्, तस्य च निष्कर्षार्थपर्यालोचने प्यरिनं संबोध्य कुमार्या आशी:प्रार्थनापराS र्थत्वं निश्चेतुं शक्यम्, नतु नियोगपरार्थत्वमपि; प्रकरणविरोधात्, जीवत्पतिकानामजातपुत्राणां विनष्टपुत्राणाञ्च जीवत्पुत्रमात्रभाव्यतया, पुत्रजन्याsनन्दविशेषाऽनभिज्ञतया च तदुपपत्त्यै चापि सधवानामपि नियोगकर्तव्यत्वाS S पातात्, माता, तद्यथा- तथा- (३४) " जीवत्पुत्राणां पुत्रजन्यानन्दविशेषा भिज्ञानाञ्च विधवानां शून्यो- पस्थतयैवाS शून्योपस्थतार्थमपि नियोगकर्तव्यत्वप्रसङ्गाच्च तस्मान्नेदं मन्त्रवाक्यं विधवानियोगप्रत्यायकमिति नैव विधवानां विवाहस्य कथामात्रमपि चिन्तयितुं योग्यम्। तथा पुनर्यच्चापि तस्यैव षष्ठ्याः कण्डिकाया: तृतीयसूत्रस्य, ऋसंहिताया अष्टमाष्टकस्य, दशममण्डलस्य, सप्तमानुवाकस्य, तृतीया- ध्यायस्य, प्रथमसूक्तस्य सप्तविंशकण्डिकाया:- गृभ्णामिते सौभगत्वाय- हस्तम् इत्यादि मन्त्रवाक्यार्थनिष्कर्षार्थप-लोचनेन बह्निरूपभगादिकर्तृक- प्रदानतस्तैरुपभुक्तत्वरूपार्थिका र्थप्रतीत्या स्त्रीणां बहुभर्तृकात्वरूपस्पष्ट- प्रमाणतो विधवानां विवाहस्याऽ ङ्गीकर्तव्यत्वमुक्तम्, तदपि साहसमात्रम्; वल्यादिदेवानामनुपभुक्त्यैव केवलसंरक्षणरूपार्थस्य पूर्वमेव व्याख्यातत्वात्- इति नैव विधवानां विवाहस्या ङ्गीकर्तव्यत्वम् । यदपि पुन:- “तस्मादेकस्य बढ्यो जाया भवन्ति नैकस्यै बहवः सहपतयः" इति श्रुत्या 'सह' इतिपदेनैकस्या युगपदेव बहुपाणिग्रहीतृकत्वनिषेधज्ञापनद्वारा प्राथमिकस्य पाणिग्रहीतु: प्रणाशाद्युत्तरं पाणिग्रहीत्रन्तराश्रयणज्ञापनात्स्पष्टमासां बहुभर्तृकात्वमिति विधवानां विवाहस्य सर्वथैवाड भ्युपगन्तव्यत्वं भवतीत्युक्तम्, तदपि न प्रमाणसहम्; "नैकस्यै बहवः सहपतयः इति हि श्रुतिर्युगपदेव बहुपाणिग्रहीतृकत्वनिषेधज्ञापनद्वारा वाग्दानोत्तरं सप्तपदीत: पूर्वमेव नष्टादिपतिकानां नियोगबोधिका पि कलिनिषेधपरश्रुत्यादिभिर्बाध्यत एव । एतच्चाग्रे यथावसरं यथावत्प्रपञ्चयिष्यते । यदपि च पुन:- धर्मशास्त्रेष्वपि प्रथमम् - नष्टे मृते प्रवृजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति नारदपराशरयोः स्मृतिवचनं नष्टादिपतिकानां पुरुषान्तरेण सह पुनर्विवाहस्य पित्रादिकर्तृकत्वश्रौतसंबन्धयोपिकतामवष्टभ्य कैमुतिकन्यायेना- ऽपि विधवाविवाहसाधकतया प्रमाणीकृत्य समुपन्यस्तम्; तत्रैवं प्रत्याचक्ष्महे- किमेतद्वचनमपूर्वविधायकम् ? उत नियामकम् ?, आहोश्वित्परि- संख्यायकम् ? नाद्यम्, आपत्स्वनापत्सु च पत्यन्तरकरणस्य रागप्राप्तत्वात्, तथा च श्रीमद्भागवते- "लोके व्यवायाs मिषमद्यसेवा नित्यास्तु जन्तोर्नहि तत्र चोदना” इति । (३५) अत एव मनु:-न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥९॥१०॥ पानं दुर्जनसंसर्गः पत्या च विरहो टनम् । स्वप्नो s न्यगेहवासश्च नारीसन्दूषणानि षट् । ९॥१३॥ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जते ॥९॥१४॥ पोश्चल्याच्चलचित्ताच्च नै:स्नह्याच्च स्वभावत: रक्षिता यत्नतोड पीह भर्तृष्वेता विकुर्वते ॥९॥१५॥ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणम्प्रति ।९।१६॥ शय्या S शनमलसारं कामं क्रोधमनार्जवम् । द्रोहभावं कुचर्याञ्च स्त्रीभ्यो मनुरकल्पयत् ॥९॥१७ ॥ नास्ति स्त्रीणां किया मन्त्रैरितिधर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोs नृतमितिस्थितिः ।९।१८॥ इति ॥ तथा अन्यत्र च- सुवेषं पुरुषं दृष्ट्वा भातरं यदि वा सुतम् । योनिः क्लियति नारीणां सत्यं सत्यं वदाम्यहम् ॥ सुरूपं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् । क्लिद्यते यौवनं स्त्रीणामामपस्वमिवाम्भसम् ॥ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् । संश्लेषाद्रवते कुम्भस्तद्वत्स्त्री पुंसि भाषिता ॥ स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इति । अत एव स्त्रीणां तत्र तत्र स्वातन्त्र्याभाव: प्रतिपादित: सुसङ्गच्छते । तत्र तावन्मनु:- बालया वा युवत्या वा वृदया वापि योषिता । न स्वातन्त्र्येण कर्तव्यं किञ्चित्कार्य गृहेष्वपि ॥ ५॥१४॥ बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥५॥१४८॥ अस्वतन्त्राः स्त्रिय: कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्य: संस्थाप्या आत्मनो वशे ॥९॥२॥ (३६) न पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥९॥५॥ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भायाँ भर्तारो दुर्बला अपि ॥९॥६॥ स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च । स्वधर्मञ्च प्रयत्नेन जायां रक्षन्हि तिष्ठति ॥९॥७॥ अर्थस्य संग्रहे चैनां व्यये चापि नियोजयेत् । शौचे धर्मेश न्नपस्त्याञ्च पारिणाहस्य वेक्षणे ॥९॥११॥ अरक्षिता गृहे रुद्धा: पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ता: सुरक्षिताः । ॥९॥१२॥ इति । एवम् याज्ञवल्क्योऽपि- रक्षेत्कन्यां पिता विन्नां पतिः पुत्राश्च वार्धके । अभावे ज्ञातयस्तेषां न स्त्री स्वातन्त्र्यमर्हति ॥१॥८॥ इति । तथा मिताक्षरायां शङ्ख:- "नाS नुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया, त्वरितं प्रव्रजेन्न परपुरुषमभिभाषेता न्यत्र वणिक्प्रवजितवृद्धवैद्येभ्यो, न नाभिं दर्शयेदागुल्फाद्वास: परिदध्यान्न स्तनौ विवृतौ कुर्य्यान्न हसेदप्रावृता, भर्तारं तद्बन्धून्वा न द्विष्यान्न गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुंहककारिकादुःखशीलादिभि: सहैकत्र तिष्ठेत्संसर्गेण हि कुलस्त्रीणां चारित्रं दुष्यति ।" इति । तथा- अपरार्के व्यास:- द्वारोपवेशनं नित्यं गवाक्षा वेक्षणं तथा । असत्पलापो हास्यं च दूषणं कुलयोषिताम् ॥ इति । पुनस्तत्रैव स्मृत्यन्तरवचनम्- पक्षद्वयावसाने तु राजा भर्ता प्रभुःस्त्रियाः । स तस्या भरणं कुर्यान्निगृह्णीयात्पथश्च्युताम् ॥ इति । न च द्वितीयम्; पत्यन्तरा करणे प्रत्यवायाssपत्तेः, कृतेऽपि पत्यन्तरे व्यभिचारजन्यदोषबोधकतत्तच्छास्त्रविरोधाssपत्ते:, लोकनिन्दाssपत्ते:, राज- दण्डापत्तेश्च । यथाssह पराशर:- जारेण जनयेद्गर्भ मृते पत्यौ गते सती । तां त्यजेत परे राष्ट्रे पतितां पापकारिणीम् ॥ कामान्मोहाबदागच्छेत्त्यक्त्वा बन्धून्सुतास्तथा सा तु नष्टा परे लोके मानुषेषु विशेषतः ॥ इति । - अत एव मनुरपि- अपत्यलोभाबा तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति पतिलोकाच्च हीयते ॥१६१॥ नान्योत्पन्ना प्रजास्तीह न चाड प्यन्यपरिग्रहे । न द्वितीयश्च साध्वीनां स्वचिद्भर्तोपदिश्यते ॥५॥१६२॥ पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते । निन्दैव सा भवेल्लोके परपूर्वेति चोच्यते ॥५॥१६३॥ व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥५॥१६४। अत एव राजदण्डञ्च पुन: स्मरतिस्म मनुर्यथा- परदारा भिमर्शेषु प्रवृत्तान्नन्महीपतिः । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ।८॥३५२॥ तत्समुत्थो हि लोकस्य जायते वर्णसंकरः । येन मूलहरो धर्मः सर्वनाशाय कल्पते ।८।३५३॥ परस्य पल्ल्या पुरुषः संभाषां योजयत्रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ।।३५४॥ परस्वियं योभिभवेत्तीर्थेऽ रण्ये वनेsपि वा । नदीनां वापि संभेदे स संग्रहणमाप्नुयात् ।८३५६॥ उपचारः क्रिया केलि: स्पर्शी भूषणवाससाम् । सहखट्वासनं चैव सर्व संग्रहणं स्मृतम् ।।३५॥ स्त्रियं स्पृशेददेशे य:स्पृष्टो वा मर्षयेत्तया । परस्परस्या 5 नुमते सर्व संग्रहणं स्मृतम् ॥८॥३५८॥ अबाह्मण: संग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥८॥३५९॥ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिदो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥८॥३६१। भर्तारं लङ्घयेया तु स्त्री जातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ।८।३७१॥ पुमांसं दाहयेत्पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥८३७२॥ इति । तथा याज्ञवल्क्योपि- (३८) तथा नीवीस्तनप्रावरणसस्थिकेशा S वमर्शनम् । अदेशकालसंभाष सहकासनमेव च ॥२८४॥ पुमान्संग्रहणे ग्रायः केशाकेशि परस्त्रिया । सद्यो वा कामजैश्चिनैः प्रतिपत्तौ द्वयोस्तथा ॥२॥२८॥ स्त्रीनिषेधे शतं दद्याद्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥२८॥ स जातावुत्तमो दण्ड आनुलोम्ये वध:स्मृत: प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् । २२८६॥ इति । अत एव हि नापि तृतीयम्; दोषातिशयप्रदर्शकनानास्मृतिवचनविरोधात् । च विधिनियमपरिसंख्यानामेकतमस्यापि निर्विषयत्वादेतदप्रमाणमेव भवतां मते, तत्कथं विधवाविवाहसाधकत्वेन प्रमाणीक्रियते ? अस्माभिस्तु- वाग्दानोत्तरं सप्तपदीत: पूर्वमेव नष्टादिपतिकानां परिसंख्यातकरणांशकविहितेतिकर्तव्यतांशकनियोगधर्मेण पत्यन्तरकरणनियम- विषयत्वेन स्वीक्रियमाणमपि- दत्ताक्षताया: कन्याया: पुनर्दानं परस्य च देवरेण सुतोत्पत्तिर्दत्ता कन्या न दीयते, देवराच्च सुतोत्पत्तिम्, विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् इत्येवमादिनिषेधसहकृतकलिवादिवचननिचयबलाद् युगान्तरीयविषय- कत्वेन व्यवस्थाप्यते । अत एव तत्रत्ये- “क्लीवे च पतिते पतौ” इत्यत्र “पतौ” इति "पतिरिवाचरति" इत्येवंव्युत्पन्नस्याचारक्विवन्तप्रकृतिकसप्तम्यन्तैकवचनस्य पतिशब्दस्य रूपं प्रयुक्तम्, सप्तपदीक्रमणोत्तरमेव वरस्य पतित्वोत्पत्स्य- मानत्वात्, तथा च मदनरत्नप्रदीपे- आचारविवेकोद्योते- नोदकेन न वा वाचा कन्यायाः पतिरुच्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥ इति यमेनोक्तं सङ्गच्छते । एवं तत्रैव पुनर्मनुकात्यायनाभ्यामप्युक्तं यथा पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ इति । (३९) - एतेन- "देवरात् सपिण्डाद्वा” इत्यादिमनुवचनान्तराणि, तादृशानीतराणि च वचनानि सकलान्यपि युगान्तरीयविषयकत्वव्यवस्थित्या स्वयं व्याख्यातानि भवन्तीति न कश्चिद्दोषः । तदेतत्सर्वमुत्तरत्र यथावसरं यथावत् प्रपञ्चयिष्यते । यच्चाs पि पुन: श्रीमद्देवीभागवतपुराणवचनानि चात्रार्थे प्रामाण्ये- नोपन्यस्य धृतराष्ट्रपाण्डुपाण्डवानां नियोगोत्पादननिदर्शना विधवाविवाह- साधकत्वेन स्वीकृता; तत्राप्येवं प्रतिब्रूम:- पुरा किल प्रायेण यथापूर्व धर्मस्य वृद्धिर्वरीवर्तिस्म । लोकाश्च बहुशो निजवर्णाश्रमधर्माचरणचतुरा वरीवृतामासुः । तत्राs पि त्रैवर्णिका यथापूर्व तपस्विनो S त एव सद्य: शापानुग्रहसमर्था विद्यन्ते स्म । तदानीं खलु निजजन्मान्तरीयदुष्कृतवशतः शापवशतो वाS प्यजातपुत्रत्वेन मृतपुत्रत्वेन वाS प्यपुत्राणां येषां केषाञ्चिद्राज्ञां, तादृशानामन्येषां वापि केषाञ्चि- त्कथाs वशेषानन्तरमराजकस्याऽत एवाऽनर्थबाहुल्यभीतिपरिप्लुतस्यैतस्य जगत: संरक्षणाS सम्भवेन तत्कृते किल तेषां पुत्राऽ त्यावश्यकतया तद्व्यवस्थापकै: कारुणिकैरप्रत्यक्षधर्मसाक्षात्कारे देशकालविप्रकृष्टश्रुतिस्मृतिप्रत्यक्षदृष्टवद्भिर्य- दृच्छाचरणा प्रतिहत शक्तिशालिभिर्महर्षिभिरेकादशविधा: पुत्रा: परिकल्पिता:; यत: खलु स्मरतिस्म मनुर्यथा- क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीन् प्राहुः क्रियालोपान्मनीषिणः ॥ ९१८०॥ इति । ततश्च- "अराजके हि लोके स्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः” ॥७३॥ इति मनुवचनानुसारेण किलाS नर्थाधिक्यभयविद्रुतस्य राष्ट्रस्य संरक्षणकृते तदेकार्थसृष्टानां राज्ञामन्येषां येषां केषाञ्चित्तादृशानां स्वकर्मवशत: शापवशतो वाऽ पुत्रत्वे क्षेत्रजादिपुत्रपरिकल्पनद्वारा राष्ट्रस्य संरक्षणनिर्वाहो विहित इति सत्येवावश्यके नन्यगतिके तेषां क्षेत्रजादिपुत्र- परिकल्पनस्यातियुक्तत्वादनिन्द्यत्वाच्च राष्ट्रपरिरक्षणकृतेऽ पुत्रत्वजन्यगत्यभाव- परिहारकृते पुरातनस्य सविधिकस्य नियोगस्यापद्धयंत्वमनुस्मृत्य धृतराष्ट्रपाण्डुपाण्डवानां तथातथोत्पादनस्य यथाकथञ्चिदौचित्ये पि नाद्यत्वे पुनस्तथौचित्यलवमात्रमपि; तथा च- अपरा। बृहस्पतिवचनम्, अन्यत्र वा च (४०) - स्मृत्यन्तरवचनञ्चैतवयं शरणीकरणीयमवश्यं भवति; तद्यथा- अनेकधाः कृताः पुत्रा ऋषिभिर्ये पुरातनैः । न शक्यन्ते ऽधुना कर्तुं शक्तिहीनतया नरैः ॥ इति, कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा । नाचरेत्तानि कर्माणि श्रुत्वा चापि न कुत्सयेत् इति च । तथैव पुनरेवमत्रार्थे सकले पि किलाS परार्के व्यासवचनान्यपीमानि साहाय्य- कराणि भवन्ति; तानि यथा- धर्मशुद्धिमभीप्सद्भिर्न वेदादन्यदिष्यते । धर्मस्य कारणं शुद्ध मिश्रमन्यत्प्रकीर्तितम् ॥ अत: स परमो धर्मो यो वेदादधिगम्यते । अवर: स तु विज्ञेयो यः पुराणादिषु स्मृतः ॥ वेदार्थवित्तमैः कर्म यत्स्मृतं मुनिभिः पुरा । तद्यत्नेन समातिष्ठेत्तन्निषिद्धन्तु वर्जयेत् । ते हि वेदार्थतत्त्वज्ञा लोकानां हितकाम्यया । प्रदिष्टवन्तो यं धर्म तं धर्म न विचारयेत् ॥ वेदार्थो यः स्वयं ज्ञातस्तत्रा ज्ञानं भवेदपि । ऋषिभिनिश्चिते तस्मिन्का श स्यान्मनीषिणाम् । एतेभ्यो ऽपि यदन्यस्मात्किञ्चिदर्माभिधायकम् । तरतरतो विद्धि मोहस्तस्याश्रयो मत: ॥ इति । तदेत्सर्वमुपरिष्टाद्यथावसरं यथावत् प्रपञ्चयिष्यते । अत एव “ने" ति- निषेधसहकृतेन- दत्तौरसेतराणान्तु पुत्रत्वेन परिग्रहः ॥ इतिकलिवर्ण्यवचनेन कलौ क्षेत्रजादिपुत्रपरिग्रहप्रतिषेधो पि सुसङ्गच्छते । न च- अत्रार्थे- उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् । न त्यागो स्ति द्विषन्त्याश्च न च दायाs पवर्तनम् ९।७९॥ इति मनुवचनेनोन्मत्तादे: पत्युर्द्विषन्त्या: स्त्रियास्त्यागदायाs- पवर्तननिषेधाद्, अत्रैव "द्विषन्त्या: इति विशेषलिङ्गाच्चोन्मत्तादे: पत्न्या जीवत्यपि भर्तरि पुत्रार्थ पुमन्तरेण सह सम्प्रयोगगम्यमानत्वस्य साधकत्वम्; उन्मत्तादेः पत्युः परिचरणाद्यनाचरणरूपं द्वेषं कुर्वत्यास्तावतैवाS पराधेन त्यागदायहरणे न कर्तव्ये-इति तदर्थत्वात् । अन्यथा- एतद्वचनसमनन्तरपूर्वत्र- (४१) सा प्रमत्तादेः पत्रपरिचरणात्मकमतिक्रमं कुर्वत्या विभूषणपरिच्छदहरणपूर्वक मासत्रयं यावद् भोगतः परित्यागोपदेशस्ववचनं विरुध्येत; तद्यथा- अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥९॥७८॥ इति । यत्तु पुन:- अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया, इत्यादि पद्यद्वयात्मकं याज्ञवल्क्यवचनं स्वेष्टसाधकत्वाभिप्रायेण प्रमाणीकृत्य प्रदर्शितम्; तदपि वाग्दानोत्तरत्र सप्तपदीत: पूर्वत्रैव युगान्तरीयमात्रनष्टादिपतिका- पद्धय॑त्वविषयकत्वेनैव व्यवस्थापयितुं सुशकम्; नष्टे मृते प्रजिते इत्यादि- नारदपराशरवचनैकार्थत्वात्, यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ।९।६९। यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिताम् । मिथो भजेताssप्रसवात्सकृत्सकदृतावृतौ ।९॥७०। इति मनुना विशेषस्मरणाच्च । यच्च पुन:-अपुत्रेण परक्षेत्रे इत्यादिकं याज्ञवल्क्यवचनान्तरं तदभिप्रायेणैव प्रमाणीकृत्योल्लिखितं; तदपि पूर्वोदाहृततदीयवचनेनैव समानम्; फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामों बीजायोनिर्गरीयसी ॥९॥५२॥ क्रिया S भ्युपगमात्क्षेत्र बीजार्य यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥९॥५३॥ इति मनुवचनविशेषविषयत्वात् । अत एव- अद्भिर्वाचा च दत्तायां मियेतोवं वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ इत्यपरार्कस्मृतिचन्द्रिकायां वशिष्ठवचनं सुसंगच्छते । एतच्चा प्यग्रे यथावसरं सविस्तरं वक्ष्यते । यच्चापि पुन:- “दत्तामपि हरेत्पूर्वाच्छ्रेयाँश्चेद्वर आव्रजेद्” इति याज्ञवल्क्यस्यैव वचनान्तरमत्रार्थे प्रमाणीकृत्योपन्यस्तं तदपि साहसमात्रम्; युगान्तरेषु वाग्दानोत्तरं सप्तमपदात्पूर्व पूर्वस्य वरस्य क्लैव्यपातित्यादि- दोषनिश्चये प्राप्तस्योत्तरस्य तु प्राशस्त्यतरनिश्चये च सत्येव तद्विषयत्वात् । एतेनैव- - (४२) कुलशीलविहीनस्य इत्यादि वशिष्ठवचनमपि व्याख्यातम्: तदभिन्नविषकत्वात् । न च- उदाहिता Sपि सा कन्या इत्यादि नारदवचनं विधवाविवाहस्य साक्षात्साधकम्; "न" इति निषेधसहकृतेन दत्ता S क्षताया: कन्यायाः पुनर्दानं परस्य च। ऊढायाः पुनरुद्वाहम् इत्यादिकलिवर्व्यवचनसाहाय्येन युगान्तरीयमावनष्टादिपतिकाS S पद्धर्म्यत्वविषयकत्वव्यवस्थापनयैव तदुपपत्तेः । अत एव- सगोत्रासपिण्डाविवाहे भोगतस्तां परित्यज्य पालयेज्जननीमिव इत्येतत्स्मृत्यन्तरवचनं सङ्गच्छते । एतेन- अज्ञातदोषेणोढायाः इत्यादि नारदवचनम्, तथा- पाणिग्रहे मृता बाला इत्यादि वशिष्ठवचनञ्चैतद्वयमपि व्याख्यातं भवत्येव; पूर्वैकार्थत्वात् ।- तथा चैतावता- “सा चेदक्षतयोनि:स्याद्गतप्रत्यागतापि वा। पौनर्भवेन भ; सा पुन: संस्कारमर्हति" ॥९।१७६। इति मानववचनान्तरं, तथैतादृशं स्मृत्यन्तरीयवचनजातञ्चैतत्सर्वमपि व्याख्यातं भवत्येव; पूर्वेण समानविषयकत्वात् । यत्तु पुनः स्त्रीणां सर्जनस्यापत्योत्पादनैकदृष्टप्रयोजनकतया तदर्थावबोधकत्वेन अपत्यार्थ स्त्रियः सृष्टा इतिकात्यायनवचनं विधवाविवाहसाधकप्रामाण्येनोल्लिखितम्; तत्रापि पुनरेवं प्रत्याचक्ष्महे- स्त्रीणां खल्वापाततोऽ पत्योत्पादनैकदृष्टप्रयोजनकत्ववत् तदतिरिक्तस्य गार्हस्थ्यधर्माभिरक्षणात्मकस्य दृष्टप्रयोजनान्तरस्याs पिसत्तायाः प्रोक्तपूर्व- तरत्वेऽपि अथ चापि पुन: परमार्थतो विचारे तु सति संभवे दृष्टप्रयोजनस्य पुनरदृष्टप्रयोजनकल्पनाया अन्याय्यतया ग्निहोत्रादिगार्हस्थ्यनिर्वाहनिर्वर्तनार्थ- मवश्यकर्तव्योद्वाहायामदृष्टैकप्रयोजनिकायां धर्मपत्न्यामपि दृष्टप्रयोजन- स्वरूपस्याऽपत्योत्पादनस्य दृष्टैकप्रयोजनकरतिसुखादिनाविनाऽभावादविनाभावेनैव द्वयोरप्यपत्योत्पादनरतिसुखादिनोदृष्टप्रयोजनस्वरूपयो: प्रासङ्गिकसिद्धिसत्तयैव स्त्रीणां सर्जनस्याऽ पत्योत्पादनादिदृष्टैकप्रयोजनकत्वाभावेन पुनरदृष्टैकप्रयोजन- कत्वमेव । एतदेवा' भिप्रेत्य खलु स्पष्टं व्याहृतवान्मनु:- प्रजनाथ स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदित: ।।१।९६॥ इति । (४३) अनुशासन-पर्वणि ५ अत एव हि-“पत्यु! यज्ञसंयोगे” इति शब्दानुशासनस्मृतेराचार्येण भगवता महर्षिणा पाणिनिनाs पि 'पत्नी' शब्दस्य यज्ञसंयुक्तत्वरूपोऽ र्थो व्युत्पादित: । अत एव च- महाभारते, महर्षेरष्टावक्रस्योक्तिरूपेण सन्ततेर्धर्मरूपादृष्टैकप्रयोजनकत्वं प्रतिपादितम्; यथा-विषयेष्वनभिज्ञोहं धर्मार्थ किल.. सन्ततिः इति । अत एव हि स्त्रीपुंसयोरुद्वाहात्मकस्य सम्बन्धस्यादृष्टसन्धानरूप- सूक्ष्मशास्त्रैकगम्यत्वं प्रतिपाद्य केवलापत्योत्पादनरतिसुखादिदृष्टैकप्रयोजनस्य लौकिकत्वं प्रतिपादितम्; यथा- तत्रैव दानधर्मान्तर्गतविवाहधर्मे- भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोः स्वल्प एव तु । रति: साधारणो धर्मः । इति । अत एव खलु स्त्रीपुंसयोरुद्वाहात्मकस्य सम्बन्धस्य स्वत एव दृष्टैकप्रयोजनस्वरूपाणामपि साधारणधर्मपुत्ररतिसुखादीनां कामानामग्निहोत्रादिनाsन्त:करणशुद्धिद्वारा सायुज्यमुक्तिरूपैकाऽदृष्टप्रयोजना- र्थकत्वं मन्त्रलिङ्गेनैव प्रतिपादितम्; तद्यथा- अरसंहितायाम्, अष्टमाष्टके, दशममण्डले, सप्तमानुवाके, तृतीयाध्याये, प्रथमसूक्ते, अष्टाविंशकण्डिकायाम्- यस्या मु कामा बहवो निविष्टधै इति । चैतावता-एवमवगम्यते यद्यपि-स्त्रीपुंसयोरुद्वाहात्मकस्य सम्बन्धस्याऽ ग्निहोत्रादिनैयमिकपुत्रोत्पादनाद्युभयश्रौतस्मार्तधर्मरूपमदृष्टमेकम्, तदितरसाधारणगार्हस्थ्यपुत्रोत्पादनरतिसुखादिरूपं दृष्टञ्चाऽपरमिति प्रयोजन- द्वयस्यैव मुख्यत्वेन दृष्टप्रयोजनापेक्षया ह्यदृष्टप्रयोजनकल्पनायाश्चाs न्याय्यत्वेन दृष्टप्रयोजनस्यैव स्वीकार आपातत: प्रतिभासते; तथापि दृष्टप्रयोजनाददृष्टप्रयोजनस्य प्रासङ्गिकसिद्धेरसद्भावाद- पुनरदृष्टप्रयोजनात्तु दृष्टप्रयोजनस्य प्रासङ्गिकसिद्धेः सत्तयैव प्राधान्याददृष्टप्रयोजनमेव कल्पयितुं न्याय्यतरम् । अन्यथा- असवर्णायामयथाविधिसंगृहीतायां यस्यां कस्याञ्चिद्यथा- तथाविधायां दासीप्रभृतिकायामपि दृष्टप्रयोजनोपपत्तेरदृष्टैकप्रयोजनबोधकनाना- श्रुतिस्मृतिवचनजातं विरुध्येत; अदृष्टैकप्रयोजननिवारकतत्तद्वचनजातञ्च नोपपद्येत; यथाह याज्ञवल्क्यः- सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् ॥१॥८८॥ तथा- अपरार्के-बशिष्ठः- कृष्णवर्णा वै रामा रमणायैव न धर्माय ॥ इति । तथा - (४४) - सृष्टा: इति अत एव-धर्मप्रजासंपन्नायां सत्यां पत्ल्यां पत्न्यन्तरपरिग्रह प्रतिषिद्धवान् आपस्तम्ब: अपरार्के यथा “धर्मप्रजासंपन्ने दारे नान्यान्कुर्वीताS न्यतराS पाये तु कुर्वीत, प्रागग्न्याधेयादाधाने हि सती कर्मभिः सम्बध्यते” इति ॥ तदेवम्- अपत्यार्थ स्त्रियः पूर्वोदाहृतकात्यायनवचनन्तु- अबीजिने संप्रदानस्य केवलदृष्टार्थत्वसत्त्वेऽ प्य- दृष्टार्थत्वाऽ सम्भवेन बीजिने तु सम्प्रदानस्य पुनरपत्योत्पत्तिसंभवसत्त्वेन तद्द्वारैवाऽदृष्टोपकारकतया दृष्टादृष्टरूपोभयार्थकत्वसम्भवसद्भावाद् “अपत्या- र्थम्,” इत्यनेनाS दृष्टोपकारद्वारभूतस्याः पत्यरूपस्य दृष्टार्थस्या र्थवादमात्र- प्रदर्शनपरं, नतु केवलदृष्टार्थबोधनपरम्; यतस्तत्समनन्तरम्- स्त्री क्षेत्रं बीजिनो नरा: । क्षेत्र बीजवते देयं नाक बीजी क्षेत्रमर्हति । इति प्रपठितम् । ततश्च- स्त्रीणां सर्जनस्योद्वाहद्वारा प्रासङ्गिकानामपि दृष्टैकप्रयोजन- भूतानां साधारणरतिसुखपुत्रोत्पादनादिगार्हस्थ्यधर्मस्वरूपाणां कामानामग्नि- होत्रादिनान्त:करणशुद्धिद्वारा मुक्तिरूपादृष्टैकप्रयोजनार्थकतया तादृशदृष्टादृष्टो- भयप्रयोजनस्वरूपस्याऽ प्यपत्यस्य परम्परया मुक्तिरूपादृष्टैकप्रयोजनकत्व-. सत्ता भिप्रायेणैव तथोक्तम्, यत: “स्त्रियोs पत्यार्थ सृष्टा:, अतः एव स्त्री क्षेत्रम्, नरास्तु पुनर्बीजिन:, तस्मात् क्षेत्रं बीजवते देयम्, अबीजी तु पुन: क्षेत्रं नार्हति, इत्येष एव तदर्थसंबन्ध इति नैवाऽस्य कात्यायनवचनस्य विधवाविवाहसाधकप्रामाण्यम् । तथा चैतावतैव-बीजिन एव क्षेत्रात्वेनाS बीजिनस्तु तदनहतायाश्च षण्ढादिभ्यो अपि निवर्तनसाधनत्वस्य प्रमाणत्वेनोपन्यस्य विधवाविवाहस्य प्रामाण्यमभ्युपगतमपि युगान्तरेषु वाग्दानोत्तरं सप्तपदीत: पूर्व नष्टादिपतिकाविषयत्वेनैव सङ्गमयितुं शक्यमेव । यच्च पुन:- न मांसभक्षणे दोषो न मये न च मैथुने इति मानवं वचनमत्रैवार्थे साधकत्वेनोल्लिखितम्; तदपि निजमौर्यकृतमेव; तस्य हि मानववचनस्य यथाश्रुतसरलार्थस्वीकारे प्रथमतो भवदीयैव जननी पत्नी वा कथंकथञ्चिद्येन केनचिदुपपतिना सह सम्प्रयुक्ता यदि तदानीं किं कर्तव्यं भवद्भिरिति किमिति च प्रतिवक्तव्यं तत्रेति प्रतिवचनासम्भवान्मौनमास्थाय नानावद्यवादजनितप्रत्यवाययुतैर्भवद्भिः प्रथमत: प्रायश्चित्तं कृत्वैवाऽ स्मदीय: पक्ष: शरणीकर्तव्यो भवेदेव । अस्माभिस्तु- दत्ताया च (४५) नाबार्थे • अविहिताs प्रतिषिद्धमांसमद्यमैथुनानां सेवनजन्यदोषाभावप्रतिपादनपूर्वकं पुनस्त- न्निवृत्तिजन्यमहाफलप्रतिपादनपरकमेवैतद्वचनमित्येवं संगम्यते इति क्रिञ्चिदवद्यम्। यदपि च पुन: सोमः प्रथमो विविदे इत्यादेः, अशून्योपस्था जीवतामस्तु माता इत्यादेश्च पारस्करगृह्यसूत्रवचननिचयस्य प्रामाण्यमाश्रित्य- नोटाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधायुक्तं विधवावेदनं पुन: ॥९॥६५॥ इत्येतस्या मानव्या: स्मृते: काक्वा स्वरेण तादृशं विपरीतमर्थ स्वीकृत्य विधवाविवाहस्य साधकत्वं प्रदर्शितम्; तदपि नापाततोऽपि किञ्चिद्युक्तम्; तस्य हि पारस्करगृह्यसूत्रवचननिचयस्य व्याख्यातपूर्वार्थत्वेनैव प्रामाण्यमिति. तत्साहाय्येन कथङ्कारमेतस्या मानव्याः स्मृते: काक्वा स्वरेण तादृशो विपरीतोऽर्थः स्वीकर्तव्य: ?, अथ च वैवाहिकेषु मन्त्रेषु क्व नु नाम नियोग: कीर्तित: ?, तथा विवाहविधावपि क्व नु नाम विधवावेदनमुक्तम् ? अपितु न कुत्राऽपि, प्रत्युत वैवाहिकेषु मन्त्रेषु विवाहविधौ च सर्वत्रैव पातिव्रत्यमेव कीर्तितम्; तद्यथा- तत्र तावत् पारस्करगृह्यसूत्रे प्रथमकाण्डे चतुर्थ्यां कण्डिकायाम् द्वादशसूत्रे वरकर्तृकस्य वध्वा वासस: परिधापने मन्त्र:- अथैनां वास: परिधापयति, जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपा वा । जीव शरदः सुवर्चा रयिञ्च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वासः ॥ इति । अत्र वाक्यार्थे "सुवर्चा:' इत्यस्य “पातिव्रत्यतेजोयुक्ता" इत्यर्थस्य स्वीकृतत्वेन पातिव्रत्यस्यैव पालनं कीर्तितं, न नियोगस्येति । तथा तत्रैव त्रयोदशसूत्रे, वरकर्तृकस्य वध्वा उत्तरीयस्य परिधापने- मन्त्र:- अथोत्तरीयम, या अकृत्तन्नवयं या देवीस्तन्तूनभितो ततन्थ तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास: ॥ इति । अत्र वाक्यार्थे जरसे इत्यस्य दीर्घकालनिर्दुष्टजीवनाय. इत्यर्था- भ्युपगतत्वेन निर्दुष्टत्वस्य चानियोग एव संभाव्यत्वेनाS न्यथा तत्त्वाऽसंभाव्यतया पातिव्रत्याऽभिरक्षणमर्थादुक्तं भवतीति न नियोग: कीर्तित:- शतञ्च - अतन्वत इति। (४६) तथा - तत्रैव चतुर्दशसूत्रे कन्यापितृकर्तृकवधूवरसम्मुखीकरणे कन्यासम्मुखं वरकर्तृकपाठे मन्त्र:- अथैनौ समञ्जयति, समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संधाता समुदेष्ट्री दधातु नौ ॥ इति । अत्र वधूवरयोर्मनोवाक्संमेलनद्वारा मैत्रीकरणरूपार्थस्य सुस्पष्टतया तद्रूपार्थस्य नियोगाभाव एव संभवेनाs न्यथा तदभाव्यत्वेन पातिव्रत्य- पालनमन्यथाऽनुपपत्त्याऽभिहितं श्रूयते, नतु नियोग इति । तथा तत्रैव पञ्चदशसूत्रे कन्याग्रहणपूर्वकनिष्क्रमणे, वरकर्तृकपाठे मन्त्र:- पित्रा प्रत्तामादाय निष्कामति । यदैषि मनसा दूरं दिशोऽनु पवमानो वा। हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसौ ॥ इति । अत्र स त्वा मन्मनसां करोतु इत्यस्य स वायुस्त्वा भवतीम् मन्मनसां मदेकनिष्ठचित्तां करोतु इत्यर्थतया तस्य च नियोगाभावस्य संभवादर्थापत्त्या पातिव्रत्यस्यैव परिरक्षणमायाति, न तु नियोगकरणस्येति । तथा तत्रैव षष्ठयां कण्डिकायाम, द्वितीयतृतीयसूत्रयोः कुमारी- भ्रात्राद्यञ्जलिपतितकुमारीकर्तृकशमीपलाशमिश्रवपने वरकर्तृकवधूपाठने मन्त्रा:- ताजुहोति. स तेन तिष्ठती । अर्यमणं देवं कन्या अग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पते: स्वाहा । इयं नार्युपबूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा इमल्लाजानावपाम्यग्नौ समृद्धिकरणं तव मम तुभ्यं च संवननं तदग्निरनुमन्यता- मिय स्वाहा ॥२॥ इति । अथास्यैदक्षिणं हस्तं गृह्णाति, साङ्गुष्ठं गृभ्णामि ते सौभगत्वायहस्तं मया पत्या जरदष्टिर्यथा स: । भगोड अर्यमा सविता पुरन्धि-मह्यन्त्वाऽदुर्गार्हपत्याय देवाः ॥ अमोहमस्मि सा त्वसात्वमस्य मोहम् । सामाहमस्मि ऋक्त्वं धौरहं पृथिवी त्वं तावेहि विवहावहै सह रेतो दधावहै प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून्ते सन्तु जरदष्टयः संप्रियो रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतञ्जीवेम शरदः शतं शृणुयाम शरदः शतम् ॥३॥ इति च ॥ ह (४७) अत्र पूर्वत्र द्वितीयसूत्रमन्त्रेषु वाक्यार्थनिष्कर्षसमीक्षणे वरवध्वो- रवियोगाऽ न्योन्या नुरागप्रार्थनया पातिव्रत्यस्य स्पष्टं श्रुतत्वादेवात्परेते पि पत्यौ कथन्नाम विधवाया नियोगः, सति तु तस्मिन्परेतस्याउ नपत्यस्य पत्युः पारत्रिककृत्याय को नाम पुर: सरेत्, असति हि तस्मिन्सैव पुरःसरेति दैवाच्छरीरवियोगेपि यावज्जीवं पत्यर्थ हिताचरणेनावियुक्तेव कालं क्षपयन्ती पातिव्रत्यव्रतप्रभावतोन्ते पतिलोकं समधिगम्य सह पत्यैव चिरं रमेतेति न कदाचन वियोगोs न्योन्याननुरागो वेति प्रतीयते । एवमत्र तृतीयसूत्रमन्त्रेषु- वाक्यार्थनिष्कर्षसमालोचने भगोड अर्यमा सविता इत्यारभ्य- त्वा 's दुर्हिपत्याय देवा इत्यन्तमन्त्रवाक्यतो वह्निरूपभगादिभिरुपभुक्तत्वप्रतीते: स्त्रीणां बहुभर्तृकात्वमापातत एवायाति, तथापि तत्रैव वाक्यैकवाक्यतायाम्, तथा पूर्वत्र द्वितीयसूत्रस्थार्यमण- मित्याद्यकमन्त्रवाक्यार्थसंमेलने मनुष्यरूपवरलाभाय पूर्वमिष्टेभ्योऽ त एव प्रसन्नेभ्यो वह्निरूपभगादिभ्यो वरं प्रार्थितवतीनां स्त्रीणां तैरनुपभुक्ततया न पुनस्तासां बहुभर्तृकात्वमिति सुस्पष्टं गम्यमानत्वाद्, एवं तत्रैव वाक्यान्तरार्थविचारे वरवध्वोर्यावज्जीवं पारस्परिकानुरागसौमनस्यसन्तति- प्रभृतिप्राप्तिप्रार्थनायाः स्पष्टश्रुत्या नैते मन्त्रा विधवानियोगार्थे पर्यवस्यन्तीति वैवाहिकाखिलमन्त्रवाक्यार्थपूर्वापरविचारे पातिव्रत्यव्रतस्यैव पालनमर्थादुक्तं भवतीति न नियोगो धर्म्य इति । ... तथा तत्रैव प्रथमकाण्डे सप्तम्यां कण्डिकायाम्, तृतीयसूत्रे, वधूवरयोरग्निपरिक्रामणे वरकर्तृकपाठे मन्त्र:- अब परिकामतः, तुभ्यमगे पर्यबहन्सूर्या बहतु ना सह पुनः पतिभ्यो बायां दाग्ने प्रजया सह ॥ इति । अत्रापि-पूर्ववदापातत: स्त्रीणां बहुभर्तृकात्वप्रतीत्या विधवानियोगे निराबाध इति गम्यते, तथापि पूर्ववदेव वाक्यान्तरैकवाक्यतायां न कश्चित्तथा र्थो निश्चेतुं शक्यते- इतिनेतोपि विधवानियोगो धर्म्य इति पातिव्रत्यरक्षणमेव युक्ततरं निश्चिनुम - इति । तथा तत्रैव, अष्टम्यां कण्डिकायाम, अष्टमसूत्रे, वरकर्तृकवधू- हृदयालम्भने वरकर्तृकपाठे मन्त्र:- (४८) - - अथास्यै दक्षिणाएं समधिहृदयमालभते, मम वते ते हृदयं दधामि मम चित्तमनुचित्तं तेऽ अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्त मह्यम् ॥ इति । अत्रापि वाक्यार्थनिष्कर्षसमालोचने वरवध्वोविज्जीवं पारस्परिका- नुरागस्य, एवम्, कायवाङ्मनोभिरव्यभिचरितमनोवृत्तेः प्रार्थनया पातिव्रत्यमेव कीर्तितं, न नियोगोऽ भिहित इति कथन्नाम भवद्भिर्नियोगो भिधीयते- इति । ननु चैवमपि-ऋसंहिताष्टमाष्टकदशममण्डलसप्तमानुवाकतृतीया- ध्यायप्रथमसूत्रपठिते दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि ॥ इत्येतस्मिन् वाक्ये “पतिमेकादशं कृधि” इत्यस्य "एकादशमेका- दशसंख्यापूरकं, पतिं पाणिग्रहीतारम्, कृधि कुरु" इत्येवमर्थाङ्गीकर्तव्यतया- एकादशपतिकरणलिङ्गेनैव सधवानामपि पुनर्विवाहसिद्धौ विधवानान्तु का कथा ?, तथा च विवाहविधावपि पुनर्विवाहो विहित एवेति चेद् ? अत्रापि पुनरेवं. प्रतिवदामः- तद्यथा-तत्र तावद्- एतस्मिन्नेव वाक्ये दशा स्यां पुत्रानाधेहि इत्येतेन, तथा इमां त्वमिन्द मीढ्वः सुपुत्रां सुभगां कृणु इत्येतत्पूवार्धेन च सह “पतिमेकादशं कृधि" इत्येतस्य वाक्यैक-वास्यतावस्थायाम्- “हे इन्द्र ? त्वं मीदव: स्तुत: सन्, इमामेतां पुरतो विवाहमण्डपे वर्तमानां वधूं सुपुत्रां भविष्णुशोभनपुत्रां सुभगां सौभाग्यवतीं कृणु कुरु, “कति च पुत्रा:" इत्याकाङ्क्षायाम्- अस्यामेतस्यां वध्वां दश दशसंख्याकान्पुत्रानाधेहि निधेहि, पतिमत्रैव पुरतस्ते पाणिग्रहीतारमेकादशं पत्युरपि पोष्यतया पुत्राणां प्राधान्यात्तद्दशकोत्तरगणनापेक्षयैवैकादशसंख्यापूरकं कृधि कुरु" इत्येवं समष्टिवाक्यार्थस्वीकर्तव्यत्वेन यावत्स्त्रीणां पुनर्विवाहकथायाः स्वप्नेs पि चिन्तयितुमत्यन्तमनौचित्यात्। अत एव तत्समष्टिमन्त्रवाक्यत: पूर्वत्र पठितस्य अघोरचक्षुर- पतिध्येधिशिवा पराभ्यः सुमना: सुबर्चाः, वीरसूबकामास्यो ना शं नो भवतिपदेशं चतुष्पदे ॥ इति समष्टिमन्त्रवास्यस्य, तथैव तदुत्तरत्र पठितस्य- समाजी श्वशुरे भव समाजी बाबा भव । ननान्दरि समाग्री भव समानी अधिदेवपु ॥
न इत्येतन्मन्त्रवाक्यस्य निष्कर्षार्थपालोचने हि कथंकथमपि पुनर्विवाहकथालवमपि स्फुरति, प्रत्युत- पातिव्रत्यकथामात्रमार्थिकं संस्फुरति । अत एव हि- ऋक्संहिताया अष्टमाष्टकदशममण्डलसप्तमानुवाकतृतीयाध्याये प्रथम-सूक्तपरिशिष्टे- अविधवा भव वर्षाणि शतं सागंतु सुव्रता । तेजस्वी च यशस्वी च धर्मपत्नी पतिव्रता ॥ जनयेद्वहुपुत्राणि मा च दु:खं लभेत्क्वचित् । भर्ता ते सोमपां नित्यं भवेदर्मपरायणः ॥ अष्टपुत्रा भव त्वं च सुभगा च पतिव्रता भर्तुश्चैव पितुर्मातुहृदयानन्दिनी सदा ॥ इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया । शङ्करस्य यथा गौरी तद्भर्तुरपि भर्तरि ॥ अत्रेर्यथा S नसूया स्यादशिष्ठस्याऽ प्यरुन्धती । कौशिकस्य यथा सती तथा त्वमपि भर्तरि ॥ धुवैधि पोष्यामपि मा त्वादाद् बृहस्पतिः । मया पत्या प्रजावती सजीव शरदः शतम् ॥ इत्येवं समाम्नातैः स्पष्टाथैरेतैर्मन्त्रवाक्यैः पतिव्रताग्रणीनामिन्द्राणी- श्रीगौर्यनसूयारुन्धतीसतीनां निदर्शनया वर्षशतकं यावदवैधव्यसौव्रत्यतेजस्वि- त्वयशस्वित्वपातिव्रत्यबहुपुत्रजनित्वदुःखालाभस्वभर्तृकर्तृकसोमपात्वधर्मपरायण- त्वाऽष्टपुत्रात्वसौभाग्यपातिव्रत्यभर्तृपितृभ्रातृहृदयानन्दित्वरूपाशीराशिवचनद्वारा द्विस्त्रि: पुन: पुनरुक्त्या पातिव्रत्याभिधानाद् यावत्स्त्रीणां पुनर्विवाहस्य सकृन्मानसिकचिन्ता स्वप्नजाताS पि प्राज्यप्रत्यवायकरी, स्वप्नजनकवासना- जनकत्वाच्चिन्ताया इत्येवमस्मदीयसिद्धान्तवचनमेव सर्वथैव श्रेयस्करतरम् । चैतावता नियोगोत्पन्नस्यापि स्वक्षेत्रजत्वेनैव पुत्रत्वं, पैतृकरिस्थहारित्वं च क्षेत्रस्वामिसम्बन्धिन एव धर्म्यत्वेना भिधानस्यातीव योग्यत्वमभिदधद्भिरत्रार्थे- हरेत्तत्र नियुक्तायां जात: पुत्रो ययौरस: इत्यादिपद्यद्वयात्मकम्, तथा- तथा . (५०) यथा गोश्वोष्ट्रदासीषु महिष्यजाविकासु च इत्यादि पद्यषट्कात्मकञ्च मानवं वचनजातं प्रमाणीकृत्य विधवाविवाहसाधकत्वेनोल्लिखितमपि युगान्तरेषु वाग्दानोत्तरत्र सप्तपदीत: पूर्वत्र, सप्तपदीत उत्तरत्रापि च नष्टादिपतिकासु सविधिकनियोगो- त्पन्नविषयत्वेन व्यवस्थापनयैव समुपपन्नतरं भवत्येव । एतेन, अम्बिका म्बालिकयोक्सात् तथा कुन्तीमायोर्धर्मवायु- शक्रदरेभ्यः समुत्पादितानां धृतराष्ट्रपाण्डुपाण्डवानां चित्राङ्गदविचित्रवीर्य- पाण्डुसंबन्धि साक्षात्क्षेत्रजपुत्रत्वस्याविरुद्धत्वमेवेति तेषां क्षेत्रस्वामिनां दायग्रहणं, पिण्डदानञ्चैतवयमपि समुपपन्नतरं भवत्येवेति प्रदर्शितम् । तदेवम्- पुनः संस्कारस्यापि नियोगपदार्थतया सप्तपदीतः पूर्वं परञ्च नष्टादिपतिकानां नियोगोपदेशकपूर्वोक्तनानास्मृतिवचसां युगान्तरीयाssपद्धर्म्यत्व- विषयकत्वव्यवस्थापनयैव समुपपत्तेर्न पुनर्विधवाविवाहसाधकत्वमित्यस्मदीय एव सिद्धान्तपक्षो विजयतेतराम्-इति सर्व शुभम् । इति पूर्वार्द्धम्। इति श्रीपण्डितडिल्लीराजशर्मकृते विधवोद्वाहतिमिरालोके पूर्वार्द्ध समाप्तम् । शुभम् । (५१) अथोत्तरार्द्धम् अथच ननु ? पूर्वोक्तनानास्मृतिवचांसि युगान्तरीयापद्धय॑त्वविषय- कत्वव्यवस्थापनयोपपादयतां भवतां कलिवर्त्यवचनबलात्कलौ परित्यक्तोऽपि युगान्तरेषु तु पुन:सत्तयैव सनातनधर्म एवायं विधवाविवाह इति चेद्, अत्रैवं प्रतिवदामः- यद्यपि नियोगयाथार्थ्य विजानतोऽपि तत्रत्यं परिसंख्येयत्वांशं, विधेयत्वांशञ्चातीत्य कामचारेण दुराचरतो वेनस्य राज्ञो राज्यप्रशासनसमयतो विधवानां यदृच्छया यत्रतत्र व्यभिचाररूपस्य निर्विधिकनियोगस्य पशुधर्म- वत्प्रचुरप्रचाराद् धर्मकालयो राजमूलकतया तदुत्तरमपि दृष्टलोभकस्मृत्य- धिकरणन्यायेन श्राद्धे मार्जारबन्धनवत्कैश्चिदेव भवादृशैविधवाजनकुचमर्दनसम- प्तिस्वान्तैः परिगृहीतस्यैतस्य विधवाविवाहस्य भवदितराणां सर्वेषामप्य- सनातनत्वमधर्म्यत्वञ्च वक्तुं सुशकमेव; अत एव धर्मकालयो राजमूलकत्वमुक्तं महाभारते शान्तिपर्वणि '६८-६९-७५'तमेष्वध्यायेषु, तद्यथा- राजमूलो महाप्राज्ञ ? धर्मो लोकस्य लक्ष्यते । प्रजा राजभयादेव न खादन्ति परस्परम् ॥ कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो माभूदाजा कालस्य कारणम् ॥ राजा हि पूजितो धर्मस्तत: सर्वत्र पूज्यते । यद्यदाचरते राजा तत्प्रजानां हि रोचते ॥ इति । तथा गीतायामप्युक्तम्- यबदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्पमाणं कुरुते लोकस्तदनुवर्तते ॥ इति । अत एव मनुना यथाविधिनियुक्तयोरप्यग्रजानुजयोः परस्परभार्यायां पुत्रार्थव्यतिरेकरूपायामनापदि गच्छतो: पातित्यमुक्त्वा सविधिकनियोग- प्रयोजनीभूतपुत्रोत्पत्तिनिर्वर्तनानन्तरं पारस्परिकगुरुवत्त्वस्नुषावत्त्ववृत्तिञ्चोपदिशता पुनस्तदतिक्रमेण. परस्परं कामचारेण वर्तमानयोः सान्योन्यभार्ययो: स्नुषागत्वगुरुतल्पगत्वरूपं महापातकमतिदिष्टम्; तद्यथा- ज्येष्ठो यवीयसो भायां यवीयान्वाS ग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ९।५८ (५२) विधवायां नियोगार्थे निवृत्ते तु यथाविधि । गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् । ॥९॥६२॥ नियुक्तौ यो विधिं हित्वा वर्तेयातां परस्परम् । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥९॥६३॥ इति । अत एव चाऽ नियुक्तानिर्विधिकनियुक्तासुतयोर्दायग्रहणमपि स्वेनैव निषिद्धं सुतरां सङ्गच्छते; तद्यथा- अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नाहतो भाग जारजातककामजौ ॥९।१४३॥ नियुक्तायामपि पुमान्नाया जातोऽविधानतः । नैवाह: पैतृकं रिस्थं पतितोत्पादितो हि सः ॥९।१४४॥ इति । तथापि पुराकल्पे किल कदाकदाचिदत्यावश्यके सत्येवेतिकर्तव्यतांशमात्रे -विधेयत्वेन दृष्टस्या त एव सविधिकं प्रवृत्तस्यैतस्य नियोगस्य पुराकल्पीयानामसनातनत्व- मधर्म्यत्वञ्च वक्तन्त्वशक्यम्, देवरादा सपिण्डादा स्त्रिया सम्यनियुक्तया । प्रजेक्षिता Sधिगन्तव्या सन्तानस्य परिक्षये ।९।५९॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन ॥९।६०॥ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिवृतं नियोगार्थ पश्यन्तो धर्मतस्तयोः ॥९॥६१॥ इत्येवंवचनैः सर्वथा सन्तानपरिक्षयात्मिकायामेव विपदि वर्तमानायां पुनस्तेनैव सविधिकनियोगोपदेशात् । अत एव सविधिकनियुक्तापुत्रस्य क्षेत्रस्वामिसम्बन्धिधनग्रहणमभिधायैका- दशविधपुत्रलक्षणप्रदर्शनप्रकरणे क्षेत्रजत्वं पुनर्मनुनैवोपदिष्टं सुसङ्गतं भवत्येव; तद्यथा- हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मत: प्रसवश्च सः ॥९।१४५॥ धनं यो विभृयाद्भातुर्मतस्य स्त्रियमेव वा । सोपत्यं पातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥९।१४६॥ यस्तल्पजः प्रमीतस्य स्लीवस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥९॥१६॥ इति ॥ तथा च मनुनैतावता वचनजातेन सविधिकविधवानियोगस्य सनातनत्वं, धर्म्यत्वञ्चोभयं स्पष्टं प्रतिपादितमेव; परन्तु तेनैव पुन:- (५३) - - एवापि नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥९॥६४॥ नोद्वाहिकेषु मन्त्रेषु नियोग: कीर्त्यते स्वचित् । न विवाहविधायुक्तं विधवावेदनं पुनः ॥९॥६॥ अयं द्विजैर्हि विद्भिःपशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो बेने राज्यं प्रशासति ॥९॥६६॥ स महीमखिला भुञ्जनाजर्षिप्रवरः पुरा । वर्णानां संकरं चके कामोपहतचेतनः ॥९।६७॥ ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यायं तं विगर्हन्ति साधवः ॥९॥६८॥ इत्यादिभिर्वचनैरधर्म्यत्वमर्वाचीनत्वञ्च प्रतिपाद्य प्रतिषिद्धत्वाद्- अत्रैव- मवगम्यते- यद्यप्ययं सविधिको नियोग: पुराकल्पे स्थित बहुविप्रतिपत्तिविषयतया न सर्वत्र सर्वदा सर्वे: स्वीकृत इति धर्योs प्यधर्म्यत्वेन मतोऽ प्यप्रत्यक्षश्रुतिस्मृतिसाक्षात्कर्तृभिरेवापद्धर्म्यत्वेन दृष्टो. वर्ततेस्म; तथापि सार्वभौमतामधिगतवन्तमत एव राजर्षिप्रवरं वेनं तेभ्यस्तेभ्यो विद्वद्वरद्विजेभ्यो नियोगरहस्यं यथावद्विजानन्तमपि मदनमथितमानसं सन्तं विधवा धर- चुम्बनसमर्पितस्वान्तसर्वस्वं प्रमीतपतिकानां सपुत्राणामनीप्सितसन्ततीनाम- प्यनापदि यदृच्छया यत्र क्वचन सर्वत्रा पि बलान्नियोजनं प्रशासतमेवारभ्य दृष्टलोभकस्मृत्यधिकरणन्यायेन श्राद्धे मार्जारबन्धनवत्प्रवृत्तस्यैतस्य निर्विधिक- विधवानियोगस्य धर्म्यत्वं मन्यमानासु प्रजासु सर्वत्रैव पशुधर्मवत्प्रचुरप्रचारादर्वाचीनस्याऽ पि सनातनवदधर्म्यस्यापि धर्म्यवदाभास- मानस्य . तेस्तैर्विद्वद्वरद्विजैर्मुहुर्मुहुर्निषिध्यमानस्यापि धर्मकालयो राजमूलत्वेन दुर्वृत्तवेनराजप्रशासनप्राबल्येनोत्तरोत्तरमधिकाधिकपरिवृद्धया लोके वर्णसंकराद्य- मर्थबाहुल्यं दृष्टवद्भिस्तैस्तैरेव कारुणिकैस्तादृशदुराचारपरायणमत एव राज्यानह तमुन्मथ्य किल - तत एव जनितपृथुभि:सद्भिस्तत एव खल्वेतस्य सविधिकस्यापि विधवानियोगस्य पशुधर्मवत्त्वं समीक्ष्य साकल्येनैव प्रतिषेधो व्यधायि किलेत्यत एव हि नाS यं धर्योs पि सविधिको नियोगो मनोरभिमत:; “धर्म हन्युः सनातनम्" इत्युक्तवता तेन स्त्रीणां यावज्जीव- यत्रतत्र यत: (५४) मेकपतित्वस्यैव सनातनधर्म्यत्वं प्रतिपाद्य- अयं द्विजैर्हि विद्वद्भिः इत्यादिना क्वाचित्कापद्धर्म्यत्वेन दृष्टोप्येष नियोगो न मया केषाञ्चिदपि प्रोक्तः, अपितु विद्वद्भिर्द्विजैरेव दुर्वृत्तं वेनराजं प्रोक्त:, स चायं तैः प्रोक्तोऽपि न सुष्टु जात:, यतो दुर्वृत्तवेनराजो विधवालिङ्गनकामुकः सन्वर्णसंकरं कृतवान्; तस्मादतः परं विधवानां सविधिमपि नियोगं करिष्यमाणं वेनराजस्य नियोगोपदेशका अपि साधवो विगर्हन्तीति तदनुपदेशकस्त्वहं किंवक्तव्य: इत्युक्तं भवत्येव । एतेन खल्वेतदेव प्रतीयते- वेनराजत: पूर्वतो युगान्तरमात्रे परमतमात्रसिद्धस्य नियोगस्यैतस्य सविधिकस्यैवाS S पद्धर्म्यत्वं मनोरप्यभिमतमिति; अत एव- उक्तो नियोगो मनुना निषिद्धः स्वयमेव तु । युगक्रमादशस्यो sकर्तुमन्यैर्विधानतः ॥ तपोजानसमायुक्ताः कृतत्रेतायुगे नराः । द्वापरे च, कलौ नृणां शक्तिहानिर्विनिर्मिता ॥ अनेकधाः कृताः पुत्रा ऋषिभिर्ये पुरातनैः । न शस्यन्ते धुना कर्तुं शक्तिहीनतया नरैः ॥ इत्यपरा बृहस्पतिवचनं सुसङ्गतम् । न च मनुनैव विहितप्रतिषिद्धत्वान्न युगान्तरीयत्वमपितु वैकल्पिकत्वं नियोगस्येति वाच्यम्; “आपद्धर्म्यत्वेन युगान्तरीयविषयकतया परमतेन प्रोक्तोऽपि दुर्वृत्तवेनराज- दुराचारवशतो निर्विधिकप्रवृत्त्यानर्थबाहुल्याद् मनुना पुन:स्वयमेव निषिद्ध:;यत:- कलौ नराणां शक्तिहीनतया पुन: पुनरेवमनर्थबाहुल्यमापद्येतेति- मनोरन्त:करणाभिप्रायाद्” इति तदर्थत्वात् । अत एव हि बौधायनोपि विधवानियोगस्य पुराकल्पीयत्वमभिधाय पुनः साम्प्रतं प्रतिषेधं स्मरतिस्म यथा- विधिर्यो निष्ठित: पूर्व क्रियते नहि साम्प्रतम् । पुराकल्पे स एतच्च विधवायां नियोजनम् ॥ इति । न च- “एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन इत्युक्तवता मनुना-“द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः' इति पुन: कथनादेकपुत्रोत्पादनंपर्य्यन्तस्य नियोगस्य स्वाभिमतत्वेन द्वितीयपुत्रोत्पादनपर्यन्तस्यैव नियोगस्य परमतत्वम्, अत एव पूर्वत्र- "न द्वितीयं कथञ्चन" इति, तदुत्तरत्र-"तद्विदः” “एके” इति च वाक्यपदानां स्वारस्यसङ्गतिरिति कथं नियोगस्य सर्वथा मनोरनभिमतत्वमिति (५५) वाच्यम्; - “सविधिकनियोगस्यापि युगान्तरेषु तादृशद्विविधात्मकं मतान्तरं विद्यतेस्म" इत्येवंमात्रतदभिप्रायात् । अत एव मनुना सविधिकस्य नियोगस्य युगान्तरीया S S पद्धर्म्यत्वं साक्षादृष्टवताs पि वेनराजदुश्चेष्टितवशेन निर्विधिकप्रवृत्त्या सविधिकस्याप्य- नर्थकरत्वानुस्मृतिमन्त:करणे निधाय परमतेन प्रदर्शितस्यापि पुनः स्वमतेन प्रतिषेधं कृतवता परमतप्रदर्शकनवमाध्यायस्थकतिपयवचनप्रकथनात्पूर्वतरमेव पञ्चमाS ध्याये ह्येवं प्रोक्तम्- अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति पतिलोकाच्च हीयते ॥५॥१६१॥ नान्योत्पन्ना प्रजात स्तीह न चाप्यन्यपरिग्रहे । न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते ॥५॥१६२ पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते ॥५॥१६३॥ व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्यताम् । शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यते ॥५॥१६४॥ इति । अत एव नवमाध्याये पि भ्रातृभ्रातृपत्न्योः परस्परं गुरुत्वं स्नुषात्वञ्च स्वमतेनाS तिदिश्य तयोः सप्तपदीत उत्तरं परमतेन सविधिकं नियोगं यथाकथंचिद् दर्शयित्वा पुन: स्वमतेन बीजप्रदर्शनपूर्वकं प्रतिषिध्य पुन: सप्तपदीत: पूर्व सविधिकं नियोगं युगान्तरीया S पद्धर्म्यत्वविषयकं प्रकथयाञ्चकार । अत एव पुनरपरार्के ब्रह्मपुराणवचनं कलौ स्त्रीणां पुनर्विवाहस्य, देवरादित: पुत्रोत्पादनस्य, स्वातन्त्र्यस्य च प्रतिषेधे कलौ नराणां पातकित्वरूपं बीजं प्रदर्शयति तद्यथा- स्त्रीणां पुनर्विवाहस्तु. देवरात्पुत्रसन्ततिः । स्वातन्त्र्यञ्च कलियुगे न कर्तव्यं कदाचन ॥ यत: पातकिनो लोके नरा: सन्ति कलौ युगे ॥ इति एवञ्चैतावता- सविधिकस्यैवैकस्याप्येतस्य नियोगस्य कदाचिद्युगान्तरेषु विधानं, कदाचित्तु कलियुगे प्रतिषेधनञ्चेत्युभयत्रापि तत्तद्राजप्रजाद्याचरण- सौष्टवदौष्टवादिपरिणामिनो त एवा नन्तक्रियाधिकरणात्मकस्य तारतम्यरूपं बीजं स्पष्टं प्रदर्शितं भवति, धर्मकालयो राजमूलत्वात्, अन्यथा- ... कालस्य (५६) अनादेरनन्तस्य च विभोरखण्डस्य स्वाश्रयसंयोगिसंयोगघटकस्य कालस्यैक्येन तथातारतम्याऽ सम्भवात् । अत एव सविधिकस्यैतस्य नियोगस्य युगान्तरेष्वेव कर्तव्यत्वेन कलौ तु पुनरकर्तव्यतया प्रतिपाद्ययुगान्तरीयविषयकत्वव्यवस्थापनमतीव युक्तं प्रतिभाति, एतेनैव हि- तानि तानि नानाश्रुतिस्मृतिवचनानि युगान्तरीयविषयकत्व- व्यवस्थापनयोपपादयतामस्माकं कलिवर्व्यवचनबलात्परित्यक्तस्याऽ पि युगान्त- रेषु तु पुरातनतया धर्म्यत्वेन परिगृहीतस्यैतस्य विधवानियोगस्य नैव सनातनत्वं, धर्म्यत्वञ्च; नहि पुरातनत्वमात्रेण धर्म्यत्वम्, न च धर्म्यत्वेनैवापि पुरातनत्वम्, नाs पि केवलं पुरातनत्व-धर्म्यत्वाभ्यामपि सनातनत्वं, कर्तव्यत्वञ्च, अन्यथा- पुराकल्पे तु नारीणां मौजीबन्धनमिष्यते । अध्यापनञ्च वेदानां सावित्रीवाचनं तथा ॥ इति निर्णयसिन्धौ यमस्मृतेः पुराकल्पीयनारीषु धर्म्यत्वेनोपदिष्टानां मौजीबन्धनवेदाध्यापनसावित्रीवाचनादिकर्मणां पुरातनत्वेन, धयंत्वेन च पुनरिदानीन्तनीष्वपि नारीषु सनातनत्वेन कर्तव्यत्वेन चोपदेष्टव्यत्वं भवेदेव; नहि चैतद्युज्यते, तथैतदपि नैव युज्यते । अत एव तत्रैव हारीत:- द्विविधा: स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं, वेदाध्ययनं, स्वगृहे भैक्ष्यचर्या, सद्योवधूनामुपनयनं कृत्वा विवाह: कार्यः ॥ इति अत्रार्थे- किल काचन पुरावृत्तनिदर्शनाs पि शरणीकरणीया दृश्यते- यथाहि- पुरा किल धर्माऽ धर्माभिज्ञो पि कश्चिदजीगत ऋषि: क्षुत्पीडित: सन्नधर्म्यमपि शुन:शेपनाम्न: स्वसुतस्य विक्रयं गोशतेन कृत्वा यज्ञयूपे बद्धं तमेव सुतं प्राणत्राणकृते पुनर्गोशतप्राप्त्या हन्तुं प्रवृत्तवान्, यत:स्मरतिस्म मनुर्यथा- अजीगतः सुतं हन्तुमुपासर्पद् बुभुक्षितः । न चा लिप्यत पापेन क्षुत्पतीकारमाचरन् ॥१०॥१०५॥ इति ॥ एवं धर्माधर्मपारङ्गतो पि महर्षिर्वामदेवो बुभुक्षार्दित: सन्प्राणत्राणार्थ शुनो मांसं जिघत्साञ्चकार; एतदपि मनुरेव स्मरतिस्म पुनर्यथा- श्वमांसमिच्छन्नातॊ ऽ तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थ वामदेवो न लिप्तवान् ०१०६॥ इति । एवं धर्माधर्ममर्माभिज्ञोपि महर्षिर्विश्वामित्रः क्षुत्पीडित: सँश्चण्डाल च - हस्तात्कुक्कुरमांसमाच्छिद्य भोक्तुमुद्युङ्क्तेस्म; एतदपि पुन: स एव स्मरतिस्म यथा- - - सुधार्तश्चात्तुमभ्यागाद्विश्वामित्र: श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः १०१०८॥ इति ॥ तथा किमिति ते देशकालविप्रकृष्टानामपि धर्माधर्माणां साक्षात्स्मारो द्रष्टारश्च न वर्तन्तेस्म ? किं कृतं तैः ?, किमयं तेषां धर्मो धर्मो वा ?,अधर्मश्चेत् कथंकारं तैर्न परित्यक्तः?, कथं वा पापैर्न लिप्तवन्तस्ते ?, धर्म एव वा चेत् कथन्नाम तादृशकर्मकरणपराणां जनान्तराणां पुन: प्रत्यवाय: ? किञ्च-पुरा किल भृगोः पुत्रः परशुराम: स्वपितुरादेशेन स्वस्यैव जनन्या: कण्ठं परशुना चिच्छेदेतीतिवृत्तं तत्रतत्र पुराणादौ प्रत्यक्षं श्रूयते । एवं शुक्राचार्य: समस्तश्रौतस्मार्तधर्माधर्मपारदृश्वा सन्नपि सुरापानं चर्करीतिस्मेति च पुरावृत्तं तत्रतत्र पुराणादौ स्पष्टं श्रूयते । एवम्, सौत्रामण्यां सुरापानं द्विजोत्तमानामपि श्रुत्यैव विहितम्, मधुपर्कादौ तु गोवधोs पि श्रुत्या स्मृत्या च विहित. एव । तथैवं पुन: सकलजगद्विधाता भगवान्विधाता निजामेव दुहितरं सरस्वती परिणीतवान्- इत्यपि पुरावृत्तं तत्रतत्र पुराणादौ श्रूयते किल । किमिति ? ते पुत्र्युद्वाहगोवधसुरापानमातृकण्ठच्छेदनपत्नीकण्ठच्छेदनादेशादय आचारा धा अधा वा ? अधा यदि ? किमिति तैस्तथाS S चरिता: ?, धा एव यदि ? तडपि- इदानीन्तनानाञ्जनानां तथा कुर्वतां करिष्यताञ्च किमर्थक: प्रायश्चित्तोपदेशः?, तथाच तैराचरिता इत्येवं युष्माभिरप्यनुष्ठीयन्ते ?; को वा धर्म: ?, को वा धर्म: ?, कथं विवेचनीय: ? इति धर्मस्य किल गति: सूक्ष्मा वरीवृत्यते- इति-नहि पुरातनत्वमात्रेण, धर्म्यत्वमात्रेण पूर्वैराचरितानामपि कर्मणां साकल्येन कर्तव्यत्वं भवति- इति- कृतानि यानि कर्माणि देवतैर्मुनिभिस्तथा । नाचरेत्तानि कर्माणि श्रुत्वा चापि न कुत्सयेत् ॥ इत्येतत्स्मृत्यन्तरवचनमवश्यं शरणीकर्तव्यं भवति । अत एव- तादृशानामाचाराणां याज्ञवल्क्यो । पि प्रतिषेधं स्मरतिस्म, यथा- अस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ॥ इति । नन्वेवमपि पूर्वोक्तनानाश्रुतिस्मृतिप्रभृतिवचनानां युगान्तरीयविषयकत्वेन व्यवस्थापनीयत्वे कलियुगस्थितिमतां धृतराष्ट्रपाण्डुपाण्डवानां नियोगो- त्पादनस्याS धर्म्यत्वम्- इति चेद् ? अत्रेत्थं पुन: प्रतिवदाम:- वा (५८) तथा तत्रहि तावद् नियोगस्य साकल्येन निषिद्धस्याऊ पि निर्विधिकविषयत्वेन व्यवस्थां विचार्येव सविधिकस्य तु पुनस्तस्याs S पढHत्वं प्रामाणिक- त्वेना नुस्मृत्य सर्वथा सन्तानपरिक्षयात्मिकायामेव विपदि वर्तमानायां श्वश्व सत्यवत्या विधिना नियुक्तयोरपुत्रयोः स्नुषयोरम्बिका म्बालिकयोयेष्ठदेवराद् व्यासाद्, एवम्- स्त्रीसङ्गमजन्यप्राणान्तात्मकशापयुतेन पत्यैव पाण्डुना पुत्रार्थ विधिना स्वयं नियुक्तयोरपुत्रयोरीप्सितसन्तानयोः कुन्तीमायोस्तु धर्मवायु- शक्रदोभ्य इत्येवं समुत्पादितानां धृतराष्ट्रपाण्डुपाण्डवानां कलियुगस्थिति- मतामपि द्वापरयुगप्रादुर्भूतत्वेन नैवाS धर्म्यत्वम् । च- नैव धृतराष्ट्रपाण्डुपाण्डवानां नियोगोत्पादननिदर्शना विधवाविवाहसाधिकेति नहि विधवाविवाहस्य सनातनैकधर्मावलम्बिनां धर्म्यत्वम् । एतच्च “देवराद्वा सपिण्डाद्वा" इत्यादिना बोधितस्य सविधिक- विधवानियोगस्य युगान्तरीयापद्धर्म्यत्वविषयकत्वव्यवस्थापनं सप्तपदीत उत्तरत्रैव नष्टादिपतिकाविषयम् । सप्तपदीत: पूर्वत्र तु नष्टादिपतिकानां सविधिक- नियोगस्याs s पद्धर्म्यत्वं यद्यपि मनोरप्यभिमतमेव, यस्या नियेत कन्याया वाचा सत्ये कृते पति: । तामनेन विधानेन निजो बिन्देत देवरः ॥९॥६॥ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिताम् । मियो भजेताप्रसवात्सकृत्सदतावृतौ । ॥९/७०॥ इति नियोगमभिदधता पि पुनस्तत्समनन्तरमेव- न दत्वा कस्यचित्कन्यां पुनर्दवाहिचक्षणः । दत्त्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषान्तम् ॥११॥ इति स्वेनैव पुनर्दाननिषेधात्, तथापि- पूर्वोक्तकलिवादिवचनान्तर- बलात् तदेकवाक्यताकर्तव्यत्वेन तस्यापि तदभिमततया युगान्तरीयविषयकतयैव व्यवस्थापनौचित्यात् । तदेवम्- “यथाविध्यधिगम्यैनाम्" इत्यादिमनुवचनोपदिष्टो वाग्दानोत्तरत्र सप्तपदीतः पूर्वत्र नष्टादिपतिकासु शुक्लवस्त्रत्वशुचिव्रतत्वादिनियमनियन्त्रितासु देवरादीनां घृताभ्यञ्जनादिनियमनियन्त्रितानां योग्यपुत्रोत्पादनपर्यन्तमात्र प्रत्युतु गुरुजनप्रवर्तनाबोधितस्य गमनस्य सकृन्मात्रकर्तव्यरूप एकः, सप्तपदीत उत्तरत्रा पि मृतेतरनष्टादिपतिकास्वपुत्रासु सधवास्वपि प्रमीतपतिकासु चेप्सितसन्ततिषु सर्वथा सन्तानपरिक्षयात्मिकायामेव विपदि (५९) वर्तमानायां देवरादीनामुक्तनियमनियन्त्रितानां पूर्ववद्विधिना गमनरूपोऽ परो द्वितीय:- इति द्विविधस्याप्येतस्य सविधिकस्य नियोगस्य पूर्वोक्तरीत्या युगान्तरीयविषयकाS S पद्धर्म्यत्वेनैव व्यवस्थापिततया नैवेदानीन्तनानां पुनर्विवाहस्य कथंकथमपि किञ्चिन्मात्रमपि योग्यत्वम् । तदेवम्, पुन: युगान्तरेषु रागत एव प्राप्तस्याऊ पि विधवानियोगस्य पुनर्विधायकानां वाग्दानोत्तरत्र सप्तपदीत: पूर्वत्र नष्टादिपतिकाविषयत्वेन व्यवस्थितानाम् नष्टे मते प्रबजिते इत्यादीनामन्येषाञ्चैतादृशां केषाञ्चिद्मन्वादिवचसां रागस्य स्वाधीनत्वेनाकरणपक्षे प्राप्ततया नियाम- कत्वम् नोदकेन न वा वाचा कन्यायाः पतिरुच्यते ॥ पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे ॥ इति यमवचनविशेषलिङ्गेन सप्तपदीत: पूर्वत्र · नष्टादिपति कानामपि पाणिग्रहणसंस्काराभावज्ञापनात् । न च नष्टे मृते प्रवृजिते इत्यादिवचनस्य सप्तपदीत उत्तरत्रा पि नष्टादिपतिकाविषयत्वेन व्यवस्थापनमुचितम्, तत्र-"पतौ' इत्यस्याचारक्विवन्त- प्रकृतिकसप्तम्यन्तत्वात्मकविशेषलिङ्गत्वेन “पतिसदृशे” इत्येवमर्थाऽ वबोधनाद् वाग्दानोत्तरत्र सप्तपदीत: पूर्वत्रैव नष्टादिपतिकाविषयत्वेन व्यवस्थापनौचित्यात् ॥ सप्तपदीत उत्तरत्र नष्टादिपतिकाविषयत्वेन व्यवस्थितानान्तु वचनान्तराणां तादृशीनामपुत्रिणीनां पतिप्रयाणोत्तरमनुगमबह्मचर्यान्यतरकरणाS शक्यपक्षे नियोगकरणिकायां भाव्यभूतपुत्रोत्पादनात्मिकायां भावनायां सन्तानपरिक्षया- त्मकविपद्विशिष्टप्रत्युतुसकृत्कालाधिरणकयोग्यपुत्रार्थकघृताभ्यञ्जनवाग्यमत्वादी- तिकर्तव्यताविशिष्टस्यैव देवरादिकर्तृकस्य भ्रात्रादिक्षेत्रगमनस्य नियोगपदार्थतया सन्तानपरिक्षये तदभावे चर्तावनृतौ च पुत्रार्थ रत्यर्थ च सकृदसकृच्चा पि देवरादिकर्तृकस्य तदतिरयत्किञ्चित्कर्तृकस्य च केवलगमनरूपकरणांशस्य लक्ष्ये तदितरत्र चोभयत्रैव रागत एव प्राप्तौ गमनेन पुत्रभावना चेत्सन्तान- परिक्षयात्मकविपद्विशिष्टप्रत्युतुसकृत्कालाधिकरणकदेवारादिकर्तृकेणैवेत्युभयत: परिसंख्यातस्याऽ पि पुनः कथमितीतिकर्तव्यताकाङ्क्षायाम्- घृताभ्यञ्जन- वाग्यमत्वादिनेत्थमितीतिकर्तव्यतायास्तु रागतोऽ प्राप्तेस्तदुपदेशकत्वेन प्राप्त- मंशमनूध घृताभ्यञ्जनवाग्यमत्वादिनेत्थमितीतिकर्तव्यताविधायकत्वम् । तथा च तद्विधानबलात्तद्विशिष्टस्यैव कर्तव्यतयैतस्य सप्तपदीत उत्तरत्र विहितस्य नियोगस्य करणांशमात्रे परिसंख्यासंस्पर्शसत्तया तत्रतत्रापत्स्यमानस्यानिष्टस्य (६०) न तु न अत पुनरितिकर्तव्यतांशमात्रे विधिसंस्पर्शसत्तया परिसंख्यातांशश्रुता निष्टबोधकतत्त- द्वचनान्तराणां बाध्यतयैव परिहारसंभवात् पुनरनुगमनब्रह्मचर्योपदेश- कतत्तद्वचनान्तरैर्वैकल्पिकत्वबोधनात् करणे करणे चोभयत्रा पि प्रत्यवायजनकत्वम्। सप्तपदीत: पूर्वत्र विहितस्य नियोगस्य शुक्लवस्त्रत्वशुचि- व्रतत्वविशिष्टपूर्वोक्तरूपार्थतया करणांशस्य रागत: प्राप्तिवदप्राप्तेरपि सद्भावादकरणपक्षे प्रत्यवायजनकत्वेना परिसंख्याततया करणांशस्य नियाम- कत्वम्, इतिकर्तव्यतांशस्य तु पुन: पूर्ववद्विधायकत्वमेवेति द्विविधो हि नियोगः । तस्य चैतादृशस्य वेनराजदुश्चरितवशत:, कलिवादिवचनबलतश्च युगान्तरीयाS S पद्धयंत्वविषयत्वेन व्यवस्थापकानां मन्वादिवचसां कथंकथमपि विधवाविवाहसाधकत्वम् । एव- कालधर्मयोः प्राशस्त्याप्राशस्त्यनिदानीभूततत्तद्राजगर्हित- चरितवशतो यथोत्तरं धर्मस्य हासात्तदनुष्ठानाधिकरणभूतानां कृतत्रेताद्वापर- कलीनां भेदेन तत्रतत्र कर्तव्यानां धर्माणां भेदोपि मनुनैव निर्दिष्टो यथा- अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे । अन्ये कलियुगे नृणां युगहासा नुरूपतः ॥१८५॥ इति । एतेन- मानवधर्माणां प्रायश: कृतयुगविषयत्वं व्यवस्थापपितुं शक्यम्, तथाहि- पराशर:- कृते तु मानवा धर्मास्त्रेतायां गौतमा:स्मृताः । द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृता: ॥२४॥ इति ॥ न च “नष्टे मृते प्रवजिते" , इत्यस्य पाराशर्यवचनत्वेन “कलौ पाराशरा: स्मृताः” इति च तेनैवोक्ते: कलियुगविषयकत्वभाव्यतया युगान्तरीय- विषयकत्वव्यवस्थापनमनुचितमिति वाच्यम्; कलियुगविषयकत्वेऽपि कलिवर्व्यवचनबलायुगान्तरीयविषयकत्वेन व्यवस्थापनीयानां पाराशरधर्माणां स्मृत्यन्तरीयधर्में: सत्येव विरोधे बलीयस्त्वं, नान्यथेति नियोगबोधकस्मृत्यन्तरीयवचनप्रतिपादितधर्मस्याउ नतिरिक्तत्वेना विरोधान्नैव प्राबल्यदौर्बल्यविप्रतिपत्तिः; प्रत्युत- उभयेषामपि तेषां वचसा नियोगबोधकतया सामान्यत्वेन दुर्बलानां कलिवर्ण्यवचनैर्विशेषत्वेन प्रबलैर्बाध: स्वीकर्तव्यो भवति, तथा च वाग्दानोत्तरं सप्तपदीत: पूर्वमुत्तरं च नष्टादिपतिकानां नियोगबोधकत्वेन व्यवस्थितानामुभयेषामपि तेषां वचसां वेनराजदुराचारवशत: कलिवर्त्यवचनबलतश्च युगान्तरीयविषयकत्वेनैव व्यवस्थापनमुचिततरम् । - सह (६१) तथा ततश्चैवम्, सप्तपदीत: पूर्व नियमाश्रितकराणांशस्यैकस्य, तदुत्तरन्तु- परिसंख्याश्रितकरणांशस्या परस्य चेत्युभयतोपि विहितेतिकर्तव्यताकस्य द्विविधस्या प्येतस्य नियोगस्य दुर्वृत्तवेनराजसमयत: पूर्ववैव तथा- S नन्यगतिकायामेव विपदि क्वाचित्कत्वेनाS त एव-अप्रत्यक्षश्रुतिस्मृति- साक्षात्कारवन्मात्रदृष्टतया पूर्वोदाहृतशुक्राचार्यपरशुरामवामदेवविश्वामित्रादीनां सुरापानमातृकण्ठच्छेदनकुक्कुरमांसजिघत्सोद्योगादिवत् कथंकथञ्चिदापद्धर्म्य- त्वेऽ पि वेनराजदुश्चरितवशतो निर्विधिकप्रवृत्ततयाs त एव निर्विधिकस्य तस्याऽ र्वाचीनतया च तस्य सविधिकस्यापि पुन: कलिवादिवचनबलत: सर्वथा निषिद्धस्य सतो युगान्तरीयविषयकत्वेनैव व्यवस्थापिततया युगान्तरीयाणामेवा S S पद्धर्म्यत्वेनाs त एव हि धृतराष्ट्रपाण्डुपाण्डवानाञ्च कलियुगस्थितिमतामपि युगान्तरीयत्वसत्तयैवाS S पद्धर्म्यत्वेऽ पि नेदानीन्त- नानामस्मदादीनां केषामपि सनातनैकधर्मावलम्बिनां सनातनत्वं, धर्म्यत्वञ्च एतेन “युगान्तरीयविषयकत्वेन व्यवस्थितस्यारु प्येतस्य विधवानियोगस्य सनातनैकधर्मावलम्बिनां भवतामपि पुरातनत्वेन सनातन- धर्म्यत्वम्” इति तत्रतत्र पूर्वपक्षिणामुक्तिबद्धार्गलपिहितकपाटद्वयमपि सार्गलभेदं समुद्घाटितमेव, युगभेदेन धर्मभेदाद, धर्मभेदेन धर्मिभेदात्, तथा च- युगान्तरीयसनातनैकधर्मावलम्बिनामन्यत्वम्, इदानीन्तनसनातैकधर्मावलम्बि- नाञ्चान्यत्वम् तदेवं नैव विधवाविवाहो धर्म्य इति न किञ्चिदवयम् । तथा चैवं स्थितौ “नियोग”. पदस्य हि- भाव्यभूतपुत्रोत्पादनात्मिकाया भावनाया: करणत्वार्थस्य सतोऽपि युगान्तरीयविषयकत्वेनैव व्यवस्थितत्वाद्- अद्यत्वे पुनर्भाव्यभूतपुत्रोत्पादनात्मिकायां सविधिकगमनरूपकरणिकायां भावनायां नितरामत्यन्तं योजनं समाधिर्नियोग . इत्येवं व्युत्पत्त्या निष्पन्नयौगिकत्वव्यवस्थापनेन चित्तवृत्तिनिरोधरूपाङ्गीकर्तव्यतया सप्तपदीत उत्तरत्र प्रमीतपतिकानामननुगमनपक्षे, तदितराणान्तु सर्वासां तथा सप्तपदीत: पूर्वत्र नष्टादिपतिकानामपि सर्वासामेवेत्युभयतोपि चित्तवृत्तिनिरोधद्वारा यावज्जीवं ब्रह्मचर्यादिपातिव्रत्यस्य पालनस्य मुक्तिसाधनत्वम् इत्यस्माभिरुक्तपूर्वमत्यन्तं श्रेयस्करमेवेति। अत एव- सप्तपदीत उत्तरत्र प्रमीतपतिकानामगर्भिणीबालापत्याना- मनुगमनमुपदिष्टं मुनिभिः, (६२) तद्यथा तत्र तावद् निर्णयसिन्धौ मनु:- "ब्रह्मचर्य चरेद्वापि प्रविशेद्वा हुताशनम्” इति । तथा- मिताक्षरायां विष्णु:- “भर्तरि प्रेते ब्रह्मचर्य तदन्वारोहणं वा” इति । तथा -तत्रैव शङ्खाशिरसौ- तिसः कोटपो ईकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं या नुगच्छति ॥ व्यालग्राही यथा सर्प बलादुदरते विलात् । तददुदत्य सा नारी सह तेनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाS प्सरोगणैः । क्रीडते पतिना साई यावदिन्द्राश्चतुर्दश ॥ इति । तथा- ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी समारोहेदुताशनम् । साS रुन्धतीसमाचारा स्वर्गलोके महीयते ॥ इति चाड नगमने फलं प्रदर्श्य- यावच्चाग्नौ मते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हि स्त्री शरीरात्कथञ्चन ॥ इति पुनरननुगमने निनिन्दतुः । अत एव तत्रैव व्यासोऽपि कपोतिका S ख्यानव्याजेनानुगमनेऽभ्युदयं प्रदर्शितवान् यथा- पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भर्तारं साS न्वपबत ॥ ततः स्वर्ग गतः पक्षी भार्यया सह संगतः । कर्मणा पूजितस्तत्र रेमे च सहभार्यया ॥ इति । पुनस्तत्रैव हारीतोपि- मातृकं पैतृकं चापि यत्र चैव प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं या नुगच्छति ॥ इति । तथा परार्के बृहस्पति:- आर्ति मुदिते हृष्टा प्रोषिते मलिना कशा । मृते नियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति । - पुनस्तत्रैव-अभिरा अपि- सद्वृत्तभावाश्रितभर्तृकाणां स्त्रीणां वियोगक्षतकातराणाम् । तासां प्रभावस्तमितेगते के नाग्निप्रवेशादपरोऽस्ति मार्गः ॥ इति। अत एव निर्णयसिन्धौ, ब्रह्मवैवर्ते- सहा नुगमनं शस्तं वैधव्यस्याऽथ पालनम् इत्युक्तम् । यत्तु- तत्रैव- कलौ नान्या गतिःस्त्रीणां सहानुगमनादृते इति; तद् ब्रह्मचर्या शक्यत्वपरम् । अत एव- अपरा। बृहस्पति:- शरीराध स्मृता जाया पुण्यापुण्यफले समा । अन्वारूढा च जीवन्ती साध्वी भर्तुर्हिताय सा ॥ इत्युक्तवान् । तथा च गर्भिणीबालापत्यानां, तदशक्तानाञ्च विषये तु तत्रतत्र ब्रह्मचर्य्यमेवोपदिष्टं मुनिभिर्यथा- तत्र तावत् तत्रैव, निर्णयसिन्धौ, काशीखण्डे- पत्यौ मृतेऽपि या योषिद् वैधव्यं पालयेत्क्वचित् । सा पुन: प्राप्य भर्तारं स्वर्गलोके समश्नुते ॥ अनुयाति न भर्तारं यदि दैवात्कथञ्चन । तत्रापि शीलं संरक्षेच्छीलभङ्गात्पतत्यधः ॥ तद्वैगुण्यादपि स्वर्गात्पतिः पतति नान्यथा । तस्याः पिता च माता च भातृवर्गस्तथैव च ॥ इति । अत एव- तादृशीनां नियमविशेषा अप्युपदिष्टाः पुन:- तत्रैव मदनरत्ने स्कान्दे यथा- विधावाकवरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात्कार्य विधवया सदा ॥ एकाहारः सदा कार्यों न द्वितीयः कथञ्चन ॥ मासोपवासं वा कुर्याच्चान्द्रायणमथापि वा । पर्यशायिनी नारी विधवा पातयेत्पतिम् । नैवा गोदर्तनं कार्य स्त्रिया विधवया स्वचित् ॥ गन्धद्रव्यस्य संभोगो नैव कार्यस्तया पुन: ॥ इति । तत्र पुनरपुत्राणां कश्चिद्विशेषोऽ पि तत्रैव यथा- तर्पणं प्रत्यहं कार्य भर्तुः कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् । इति । (६४) - तथा तादृशीनामपुत्राणां, सपुत्राणाञ्च सर्वासां पुनर्नियमान्तरविशेषा अपि तत्रैव यथा- नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि । कञ्चुकं न परीदध्यावासो न विकृतं चरेत् ॥ इति । पुनस्तत्रैव प्रचेता अपि- ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ इति । अत एव हि तादृशीनां पुनर्मनुनैव नियमविशेषा उपदिष्टा यथा- कामन्तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । नतु नामा पि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ ५॥१५॥ आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥५॥१५८॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम् ॥१५९॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्य्यव्रते स्थिता । स्वर्ग गच्छत्यपुत्राऽ पि यथा ते बह्मचारिणः ॥५॥१६०॥ पतिं या नाभिचरति मनोवाग्देहसंयुता । सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥५॥१६५॥ अनेन नारीवृत्तेन मनोवाग्देहसंयुता । इहाग्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥५॥१६६॥ इति ॥ तथा- सप्तपदीत: पूर्वत्र प्रमीतपतिकानामप्येवमेव नैष्ठिकब्रह्मचर्यम्। यद्यपि- तादृशीनां पारस्परिकदाम्पत्योत्पत्तिजनकतावच्छेदकावच्छिन्न- सप्तपद्यभावेन पतित्वाभाववतो वरस्य मरणेs पि विधवाभिन्नात्वम्, तथापि- सधवात्वजनकतावच्छेदकावच्छिन्नस्य पत्युरभावेनैव सधवाधर्माऽ नधिकारात् प्रत्युत- यथाकथञ्चिद्विधवासादृश्येन तु प्रायशस्तद्धर्हितया तादृशीनां मतानुग म न पा रत्रि ककृत्याद्यतिरिक्तनैष्ठिकब्रह्मचर्यादिसामान्यधर्मातिदेशोपदेशो युज्यते । अत एव- सप्तपदीत: पूर्व शुल्कदवरमरणे- कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्या: नुमन्यते ॥९।९७॥ इति मनुना शुल्कदभ्रातृसम्प्रदानकस्य दत्तशुल्ककन्याकर्मकस्य दानस्य - (६५) कन्यानुमतिसापेक्षत्वमुख्यत्वप्रदर्शनेन दत्तशुल्काया अपि कन्याया विवाहमात्रा- S ननुमतौ युगान्तरेष्वपि पुनर्विनैव वैवाहिकसंस्कारमपि नैष्ठिकब्रह्मचर्य- सूचनात्कलौ तु शुल्कग्रहणदत्तापुनर्दाननिषेधसद्भावेन विवाहानुमतिसद्भावेs पि नैष्ठिकब्रह्मचर्य्यमेव। अत एव हि- "कन्यायां दत्तशुल्कायाम्” इत्येतद्वचनं परमतेन युगान्तरेष्वेव कादाचित्कक्वाचित्कत्वेनोक्तवतापि तत्समनन्तरं पुन:- आददीत न शूद्रोऽ पि शुल्कं दुहितृविक्रयम् । शुल्कं गृह्णन् हि कुरुते छन्नं दुहितृविक्रयम् ॥९।९८॥ एतत्तु न परे चकुर्नाs परे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥९।९९॥ नाS नुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु । शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥९॥१०॥ इत्येतैर्वचनैः, तथा पूर्वत्रैव तृतीयाध्यायेपि- न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ॥ गृह्णश्छुल्कं हि लोभेन स्यान्नरो पत्यविक्रयी ॥५१॥ इत्यनेन वचनेन स्वमतेन युगान्तरेष्वपि शुल्कग्रहणं, दत्तापुनर्दानञ्चैतवयमपि प्रतिषिद्धवता मनुनैव कलौ सर्वथा साक्षात्प्रतिषिद्धमेवेति- नैष्ठिकब्रह्मचर्य्यमेवाs s र्थिकमवगम्यते। तथा सप्तपदीत: पूर्व मृतेतरनष्टादिपतिकानान्तु यथाकथञ्चित्सधवा- सादृश्येन सधवातया सधवाधर्मातिदेशोपदेशो यथायुज्यते तथोपरिष्टाद्यथावद्वक्ष्यते । नन्वेवमपि वाग्दानोत्तरं सप्तपदीत: पूर्व प्रमीतपतिकानां कलिवादि- वचननिचयबलाद् निषिद्धपुनर्दानविवाहानामत एव जीवनार्थमपि पतिकुला- श्रयणञ्चाS नाप्नुवतीनां, तथा. पुनर्भूतपूर्ववाग्दानाद्-निवृत्तस्वस्वपित्रादिनिष्ठ- पारस्परिकस्वत्वस्वामित्वानामत एव चोभयत्रापि ग्रासवासाच्छादनाS नुपलब्ध्यैव सहसा शरीरपातरूपाS नर्थाsपातसंभवेन जीवनासंभवात् कथं पुनस्तासां नैष्ठिकब्रह्मचर्योपदेश: संभवति ? प्रत्युत तासामपराधरहितानां वराकीणां पुनर्दानविवाहनिषेधककलिवर्ष्यादिवचनजातं, कन्यातत्पित्रादिनिष्ठपारस्परिक- स्वत्वस्वामित्वोभयनिवर्तकवाग्दानञ्चैतद्वयमपि विधायकतामापन्नम्- इति चेन्मैवंवोचत; वाग्दानस्य हि कन्यातत्पित्रादिनिष्ठ- पारस्परिकस्वत्वस्वामित्वोभयनिवर्तकत्वं पुनर्वरान्तरसम्प्रदानकविवाहमात्रे, नतु तु परम्परया प्राणान्तदण्ड- (६६) सप्तपद्या: अथ तज्जीवनसंरक्षणे पि; वाग्दानाद्विशेषत: कन्यात्वप्रणाशस्य चोभयोरपि तत्त्वसत्त्वेन पुनरत्र तु तयोरेकतरस्याप्यसत्त्वाद् अत एव पूर्ववैव समाम्नातम्- अद्भिर्वाचा च दत्तायां नियेतोवं वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ इत्यादि । च सत्यपि तस्मिन्कथञ्चित् सप्तपदीकन्यात्वप्रणाशवद्वाग्दानस्य पुनर्विवाह एव तत्त्वसत्त्व, नतु तद्भरणेऽ पि । एवं कलिवादिवचनजातमपि पुनर्दानविवाहमात्रस्यावरोधकं, न पुनस्तज्जीवनसंरक्षणस्यापि । यत: खलु पूर्वत्रैव तत्रतत्र-स्त्रीणां भरणं पतिपुत्रादितदीयबन्धुतो यथोत्तरं, तेषामभावे- पित्रादित:, तस्याः प्यभावे-ज्ञातित:, पक्षद्वयावसाने तु- राजतोऽपि चेति प्रतिपादितमेव । तदेवं कथङ्कारन्नामानाथानामपराधरहितानां तादृशीनां वराकीणां ग्रासवासाच्छादना नुपलब्धि: ? तथा चैतया विधया तासां जीवननिर्वाहसंभवेन नैष्ठिकब्रह्मचर्यो पदेशस्यौचित्यान्नहि वाग्दानस्य कलिवादिवचनजातस्य चारु नपराधदण्ड-विधायकताS S पन्नत्वमिति न क्वापि काचिदनुपपत्तिरिति । तदेतत्साधुसिद्धं तादृशीनां पित्रादिकुलजीवननिर्वाहपूर्वकनैष्ठिक- ब्रह्मचर्यमिति। एवं सप्तपदीत: पूर्व मृतेतरनष्टादिपतिकानामपि यावज्जीवं कर्तव्यभूतानां विशेषधर्माणामग्रत एव वक्ष्यमाणतया तदतिरिक्तजीवननिर्वाह- स्त्वेतयैव विधया कर्तव्यो भवति; पूर्वाविशेषात् । अवश्यकर्तव्यविशेषवशतो देशान्तरगमनादिना कञ्चित्कालं नष्टस्यापि, व्याध्यादिनोपसृष्टपूर्वस्यापि पश्चात्तन्मुक्तस्य वा वरस्य पुनरुपस्थिति- संभावनासंभवे तु तं प्रतीक्ष्यैव तेनैव विवाह: कलावपि भवत्येवेत्येतत्साधकवचनान्तराणि तु पुन:स्मृत्यन्तरतो 5 वगम्यन्त एवेति किं बहुना ? ततश्च पुन: प्रकृतमनुसराम: चैवं स्थितौ सप्तपदीत: परं क्लीवादिनिरंशकेतर- प्रमीतपतिकानामपुत्राणामपि साध्वीनामेव प्रमीतस्य पत्यु: समग्रधनसंबन्धं, पिण्डदानं चोक्तवतां वृद्धमन्वादीनां मिताक्षरादिषु वचनान्यपि सुसङ्गतानि भवन्ति; तानि च यथा- तत्र तावद् मिताक्षरायां वृद्धमनु:- अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥ - सह तस्या ? तथा (६७) - -- , इति । तथा तत्रैव कात्यायनश्च- पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी ॥ इति । तत्रैव पुनर्वृहस्पतिरपि- भर्तुर्धनहरी पत्नी तां बिना दुहिता स्मृता ॥ इति पुनस्तत्रैव विष्णुश्च- अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितगामि ॥ इति । पुनरपि तत्रैव कात्यायनो पि- अपुत्रस्यास्य कुलजा पत्नी दुहितरोपि वा। इति । तथा- याज्ञवल्क्योप्येवं स्मरतिस्म, यथा- पत्नीदुहितरश्चैव पितरौ मातरस्तथा ॥२।१३५।। इति । अत एव चा परार्के- व्यासो ऽपि- पूर्व मृता हरेदग्निमन्वारूढा हरेदघम् । भर्तुर्धनमभावे तु जीवन्ती सत्सु बन्धुषु ॥ इत्येवं व्याजहार । ततश्चैवं हि क्लीवादिनिरंशकपतिकानामपि विधवानां, सधवा- नाञ्चाs पुत्राणां, पुत्रीसहितानामपि साध्वीनामेव भरणमात्रम् । तदितरासान्तु व्यभिचारिणीनां, प्रतिकूलानाञ्चाs पि पुनर्निर्वासनमित्येवं द्वयमप्यनुशिष्टं सङ्गच्छते । यथाह याज्ञवल्क्य:- अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्था व्यभिचारिण्य:प्रतिकूलास्तथैव च ॥२॥१४२॥ इति ॥ अत एव खलु- सप्तपदीतः परं मृतेतरनष्टादिपतिकानां हि स्वसम्बन्धिनां पतीनां नाशप्रव्रजनक्लैव्यपातित्याद्यन्यतमसत्तायामपि जीवनस्य तु पुन: सत्तयैव सधवानाम्, तत्पूर्वन्तु- तादृशीनां पारस्परिकदाम्पत्योत्पत्तिजनकता- वच्छेदकावच्छिन्नाया: सप्तपद्या अनुत्पत्त्या संधवात्वेन वक्तुमशक्यत्वेऽ पि पुनर्वैधव्यजनकतावच्छेदकावच्छिन्नपतिमरणस्याऽ प्यभावेन वैधव्यधर्मातिदेशो- पदेशाS नौचित्यात्- प्रत्युत- यथाकथञ्चित्सधवासादृश्येन तु व्यवहर्तुमवश्य- शक्यतयैव सधवानामपि तासां पुन: पारस्परिकदाम्पत्योत्पत्तिजनकता- वच्छेदकावच्छिन्नाया: सप्तपद्या अनुत्पत्त्यैव कन्यातत्पित्रादिनिष्ठपारस्परिक- स्वत्वस्वामित्वोभयनिवर्तककन्यात्वप्रणाशजनकतावच्छेदकावच्छिन्नोद्वाहपुंसम्प्र- योगरजोदर्शनसमष्टिविशिष्टत्वा सत्त्वेन कन्यातत्पित्रादिनिष्ठपारस्परिकस्वत्व- (६८) - स्वामित्वोभया निवर्तककन्यात्वाप्रणाशजनकतावच्छेदकावच्छिन्ना नुद्वाहपुम- सम्प्रयोगारजोदर्शनसमष्टिव्यष्ट्यन्यतरसमष्टिमात्रविशिष्टत्वसत्त्वेन चोभ- यतोऽ पि तथा तदुत्तरन्तु पुनस्तादृशीनां पारस्परिकदाम्पत्योत्पत्तिजनकता- वच्छेदकावच्छिन्नाया:सप्तपद्या उत्पत्त्या कन्यातत्पित्रादिनिष्ठपारस्परिकस्वत्व- स्वामित्वोभयनिवर्तककन्यात्वप्रणाशजनकतावच्छेदकावच्छिन्नोद्वाहपुंसम्प्रयोगरजो- दर्शनसमष्टिविशिष्टत्वस्य, तथा कन्यातत्पित्रादिनिष्ठपारस्परिकस्वत्व- स्वामित्वोभया निवर्तककन्यात्वा प्रणाशजनकतावच्छेदकावच्छिन्नाऽ नुद्वाहपु- मसम्प्रयोगारजोदर्शनसमष्टिव्यष्टयन्यतरसमष्टिमात्रविशिष्टत्वस्य चासत्त्वेऽपि पुनस्तन्निष्ठतत्त्वोभयानिवर्तककन्यात्वाप्रणाशजनकतावच्छेकावच्छिन्नानुद्वाह- पुमसम्प्रयोगा-रजोदर्शनसमष्टिव्यष्ट्यन्यतरव्यष्टिमात्रविशिष्टत्वस्य त्वेकतरस्य सत्त्वेनैकत एव पुनस्तासामुभयविधानामपि कन्यातत्पित्रादिनिष्ठ- पारस्परिकस्वत्वस्वामित्वोभयसत्तयैव कन्यानिष्ठपित्रादिनिरूपितस्वत्वपित्रादिनिष्ठ- कन्यानिरूपितस्वामित्वोभयसत्तावद् वाङ्मात्रतोऽपि दानस्य कन्यातत्पित्रादि- निष्ठपारस्परिकस्वत्वस्वामित्वोभयनिवृत्तिपूर्वककन्यावरनिष्ठपारस्परिक- स्वत्वस्वामित्वोभयजनकतावच्छेदकावच्छिन्नत्वाऽर्थकत्वेन तस्य च पुनर्निष्पन्न- पूर्वत्वसत्तयैव तद्वोधकेन- न दत्त्वा कस्यचित्कन्यां पुनर्दबाद्विचक्षणः । दत्त्वा पुन: प्रयच्छन्हि प्राप्नोति पुरुषानृतम् ॥९७१॥ इति मनुवचनेनैव पुनर्दाननिषेधाद् मृतीतरनाशाद्यन्यतमेन सर्वथा सर्वात्मना पतिपरिचरणाद्याचरणालाभेऽपि प्रमीतपतिकाकर्तव्यभूताऽनुगमन- शिरोवपनादिवैधव्यपालनाsन्यतरकरणाऽनर्हत्वात्प्रत्युतं- उक्तरीत्या सधवात्वेन सधवात्वसंरक्षणशास्त्राऽविरुद्धतद्धितयथोचितपरिचरणादिकर्मणामवश्यकर्तव्यत्वेन तत्रतत्रत्यतत्तदुपदिष्टसधवाधर्मातिदेशोपदेशो युज्यते; तद्यथा तत्र तावन्मनु:- यस्मै ददात्पिता त्वेनां माता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥५॥१५१।। इति पत्युर्जीवत: शुश्रूषां, प्रमीतस्यापि पुनर्व्यभिचारादितोऽ लङ्घनञ्चोपदिशन्नेव तत्समनन्तरम्- मङ्गलार्थ स्वस्त्ययनं यज्ञश्चासां प्रजापतेः । प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥१५२॥ इति- प्रदानमात्रस्याऽपि कन्यावरनिष्ठपारस्परिकस्वत्वस्वामित्वोभय- जनकतावच्छेदकावच्छिन्नत्वं प्रतिपाद्य- (६९) विशील: कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥५॥१५॥ इति- “विशील:, कामवृत्तः, गुणैः परिवर्जित:" इत्येतैः पदैः संगृह्यमाणानां नष्टप्रव्रजितक्लीवपतितादीनामपि पतीनां निरन्तरपरिचरणा- नुशासनञ्च पुनरुपदिश्य- नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं ना प्युपोषणम् । पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥५॥१५४॥ इति स्वर्गस्य साधनभूतानपि यज्ञव्रतोपवासान्प्रतिषेधन् पुन: पतिशुश्रूषाया एव तत्साधनत्वं प्रदर्शितवान्; अत एव पूर्वत्र वचने “देववत्" इति पदस्य स्वारस्यसङ्गतिश्च । अत एव तेनैव- यस्मै दद्यात्पिता त्वेनाम् इत्येतत्पूर्वतरम्- पित्रा भ; सुतैर्वापि नेच्छेदिरहमात्मनः । एषां हि विरहेण स्त्री गर्ये कुर्यादुभे कुले ॥५॥१४९॥ इति भर्तृपितृसुतानां विरहेणा वस्थानस्य भर्तृपितृकुलद्वयनिन्दाजनकत्व- प्रदर्शनद्वारा तन्निषेधस्मरणं समुपपन्नम् । तथा याज्ञवल्क्यो ऽ पि- कीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥१४॥ पितृमातृसुतभातृश्वश्रूश्वशुरदेवरैः हीना न स्यादिना भर्ना गर्हणीयाs न्यथा भवेत् ॥१॥८६॥ पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् १८७॥ इति ॥ तथा- अन्यत्र च- हृष्टा हृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये सदा । एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ॥ इति, मूखं कुरूपं मलिनं दरिद्रं रुग्णं च पशुं स्वपतिं तु देवम् । समानयन्ती मनसा च वाचा कायेन शुश्रूषणतत्परा स्यात् ॥ इति च। एवम्- स्कन्दपुराणे तत्रतत्र काशीखण्डे- स्लीवं वा दुरवस्थं वा व्याधितं वृद्धमेव च । सुस्थितं दु:खितं वापि पतिमेकं न लङ्घयेत् ॥ इति, दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् । पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥ इति, (७०) सत्तया - अहं स्वर्ग नहीच्छेयं त्वय्यप्रीते महेश्वर ? यदि कार्यमकार्य वा यदि वा प्राणनाशनम् ॥ पति याद्दरिद्रो वा व्याधितो वा कथञ्चन । इति च । अत एव हि अपरा मनु:- दानात्प्रभृति या तु स्याद्यावदायुः पतिव्रता । सा भर्तृलोकमाप्नोति यथैवाऽ रुन्धती तथा ॥ इति च प्रोक्तवान् । तथा चैतेन खल्वेतदपि प्रतीयते- सप्तपदीतः पूर्वं कन्यावरयो: कन्यावरयोः पारस्परिकदाम्पत्योत्पत्तिजनकता- वच्छेदकावच्छिन्नायाः सप्तपद्या अनुत्पत्तेरनुत्पन्नपारस्परिकदाम्पत्ययोरपि तयोः पुनर्वाग्दानमात्रस्यापि पारस्परिकस्वत्वस्वामित्वोभयजनतावच्छेदकावच्छिन्नत्व- पारस्परिकदाम्पत्यसादृश्यसत्ताऽभिप्रायेण किञ्चिद्दाम्पत्योत्पत्ति- मङ्गीकृत्यैव- दानात्प्रभृति या तु स्याद्यावदायुः पतिव्रता ॥ इत्येवं वाक्यं प्रयुक्तवान्- मनुः; अन्यथा- सप्तमपदात्प्रभृति इत्याद्येव प्रायोक्ष्यद्- इति । अत एव तथा- अन्यत्रा पि- अन्धकं लुब्धकं वापि कुष्ठानं व्याधिपीडितम् । आपद्गतञ्च भर्तारं न त्यजेत्सा महासती ॥ इति । एवमेव पराशरश्च- दरिद्रं व्याधितं मूर्ख भर्तारं यावमन्यते । सा शूनी जायते मृत्वा शूकरी च पुन: पुन: इति । तथा- हरिवंशे पि- व्याधित: पतितो वापि दीनो वापि कथञ्चन । न त्यक्तव्यः स्त्रिया भर्ता धर्म एष सनातनः ॥ इति । अतश्चैवंविधास्तत्र सर्वत्र नैकश: समुपलभ्यमानाः सधवाधर्मास्तादृशीनामपि कर्तव्या भवन्ति । अत एव हि- सप्तपदीत: पूर्व परञ्च नष्टादिपतिकानां कन्यातत्पित्रादिनिष्ठस्वत्वस्वामित्वोभया निवर्तक- कन्यात्वाप्रणाशजनकतावच्छेदकावच्छिन्नाऽनुद्वाहपुमसम्प्रयोगारजोदर्शनसमष्टि व्यष्ट्यन्यतरव्यष्टिमात्रविशिष्टानामपि सर्वासामेतादृशीनां कन्यात्वस्य साकल्येना- प्रणाशाद्-अन्यत: क्षतयोनित्वेप्येकतस्त्वक्षतयोनित्वेनैव कन्याभिन्नात्वेऽ पि पुनरकन्यात्वाभावेन प्रत्युत यत्किञ्चित्कन्यात्वा वस्थितिद्वारा कन्यासादृश्य- सत्ताभिप्रायेणैव कन्यात्वं स्वीकृत्य युगान्तरीयाss पद्धर्म्यत्वविषयकत्व- व्यवस्थापितौ पुनर्विवाहात्मकसंस्कारनियोगौ समुपपद्यते एतत्तु पुनरक्षतयोनित्वक्षतयोनित्वकन्यात्वा कन्यात्वादिविषयविचारान्तरं मत्कृतायां कन्योदाहसमयमीमांसायां पूर्वोत्तरपक्षरूपेण सविस्तरं प्रपञ्चितम् । तत्र (७१) कन्यात्वस्य नन्वेवमपि सप्तपदीत: पूर्व परञ्च नष्टादिपतिकानां कन्यात्व- प्रणाशजनकतावच्छेकावच्छिन्नोद्वाहपुंसम्प्रयोगरजोदर्शनसमष्टिविशिष्टत्वासद्- भावेन क्षतयोनितया कन्याभिन्नात्वेऽपि कन्यात्वाप्रणाशजनकतावच्छेदका- वच्छिन्नाऽनुद्वाहपुमसम्प्रयोगाऽरजोदर्शनसमष्टिव्यष्ट्यन्यतरव्यष्टिमात्रविशिष्टत्व- सद्भावेनाक्षतयोनितया पुनरकन्याभिन्नत्वेन साकल्येन प्रणाशाभावात्किञ्चिन्मात्राऽवस्थित्या कन्यासादृश्यसत्ताऽभिप्रायेणैव कन्यात्व- माश्रित्य पुनर्विवाहात्मकसंस्कारोपदेशकानां, नियोगोपदेशकानाञ्च पूर्वोक्त- नानास्मृतिवचनानामुद्देश्यतावच्छेदकत्वस्य साकल्येन सत्तया युगान्तरीय- विषयकत्वव्यवस्थापनया समुपपत्तावपि धृतराष्ट्रपाण्डुपाण्डवानाञ्जननीषु त्वम्बिकाम्बालिका कुन्तीमाद्रीषु पुन: सप्तपदीत: परतरमेव यथायथं प्रमीतशप्तपतिकात्वेन कन्यात्वप्रणाशजनकतावच्छेदकावच्छिन्नोद्वाहपुंसम्प्रयोग- रजोदर्शनसमष्टिविशिष्टत्वसत्तया, कन्यात्वा प्रणाशजनकतावच्छेदकावच्छिन्ना- अनुद्वाहपुमसम्प्रयोगाऽरजोदर्शनसमष्टिव्यष्टिविशिष्टत्वासत्तया सर्वथा क्षतयोनित्वेन कन्यात्वस्य साकल्येन प्रणाशाद्- अकन्यातया युगान्तरीयास्वपि पुनस्तासु तदुद्देश्यतावच्छेदकत्वस्य साकल्येनाऽसत्त्वान्नियोगव्यभिचार इति चेन्न; कन्यात्वमाश्रित्यैव पुनर्विवाहसंस्कारोपदेशकानां, नियोगोपदेशकानाञ्च पूर्वोक्तानां नानास्मृतिवचनानां तत्रतत्रोद्देश्यतावच्छेदकत्वस्य साकल्येना सत्त्वेऽपि कन्यात्वमनाश्रित्यैवापि नियोगोपदेशकानां केषाञ्चित्पूर्वोक्तानामेव- देवरादा सपिण्डादा स्त्रिया सम्यनियुक्तया ॥ इत्यादिमन्वादिवचनानान्तु तत्र पुनरुद्देश्यतावच्छेदकत्वस्य साकल्येन सत्तया तद्व्यभिचारस्यैव व्यभिचारात् । तदेवम्, खलु पूर्वत्र तत्रतत्र पूर्वोत्तरपक्षप्रमाणरूपेण समुदाहृत- नानाश्रुतिस्मृतिपुराणादिवचननिचयप्राबल्यवशाद् धर्मतो, न्यायतो, तश्चापि सर्वथैवातिमात्र विरुद्धस्य विधवाविवाहस्य स्वप्नवचनश्रवण- चिन्तनमात्रस्या- पि पापातिशयकरतया सुतरामधर्म्यत्वम्, अन्याय्यत्वम्, अव्यवहर्तव्यत्वञ्च- इत्येतत्त्रितयसमष्टिवैशिष्ट्यं सिद्धम् । हरि:, ॐ तत्सत्, श्रीकृष्णार्पणमस्तु । इति श्रीपण्डितडिल्लीराजशर्मकृते विधबोदाहतिमिरालोके- उत्तरार्द्ध समाप्तम्, समाप्तश्चा यं विधबोताहतिमिरालोकः १९९५ वैक्रमाब्दीया 5 षाढशुक्लैकादश्यां समाप्तिमगमत्- 'शुभम् । व्यवहार- (७२)