Others
Madhvatantramukhamadenamuu
Front matter
No text on this page.
Mammaaya
RTER
manoraman:
मध्वतन्त्रमुखमर्दनम्
व्याख्यया सहितम
श्रीमदप्पयदीक्षितेन्द्रविरचितम् ।
म० म० पं० चिन्नस्वामिशास्त्रिकृतेन टिप्पणेन युतम् ।
derabad
२
सम्पादक:-
s
पं० रामनाथदीक्षितः
No text on this page.
॥ श्रीः॥
मध्वतन्त्रमुखमर्दनमा
श्रीमदप्पयदीक्षितेन्द्रविरचितम
तस्कृतया मध्वमतविध्वंसनाख्यया व्याख्यया सहितम्
काशीहिन्दृविश्वविद्यालयधर्मविज्ञानविद्यालयाध्य
महामहोपाध्याय-पण्डितसार्वभौम-मीमांसाकेसार
श्री पं० चिन्नस्वामिशास्त्रिमहोदयः
कृतेन सन्दर्भविवरणाख्येन टिप्पणेन योजितम्
mins
U
श्रीदीक्षितेन्द्रवंशसम्भूतेन साहित्यशिरोमणिना
काशिकराजकीयसंस्कृतविद्यालये 'साधुलाल'
अनुसन्धानविभागमधितिष्ठता
पं० श्रीरामनाथदीक्षितेन
यथामति संशोधितम्
काशी रामघट्टस्थ हितचिन्तकमुद्रणालये
मुद्रापितं सत् विजयताम्
१०४१ई०
Santa
प्रकाशक:
पं० रामनाथदीक्षितः
हनुमानघाट, बनारस।
५२८७१
मुद्रक
कृ०१० पावगी
हितचिन्तक प्रेस, गमघाट
बनारस।
No text on this page.
श्रीकाञ्चीकामकोटिपीठाधिपतयो
जगद्गुरवः
श्री १००८ मच्चन्द्रशेखरसरस्वतीमहास्वामिपादाः
॥ श्रीः ॥ श्रीमदाचार्यपादेभ्यो नमः । श्रीमदखिलभूमण्डलालङ्कारभूते त्रयस्त्रिंशत्कोटिदेवतासेविते श्री १००८ मच्छङ्करभगवत्पादपरमाधिष्टानभूते श्रीकालीदिव्यक्षेत्रे श्री- कामकोटिपीठे श्रीशारदामठमधितिष्ठतां तपोविद्याधर्म- मूर्तीनां अनवरताद्वैतानन्,करससमाप्लुतानां श्रीमद्भगवत्पादापरावताराणां श्रीमत्परमहंस- परिव्राजकाचार्यवर्याणां जगद्गुरूणां श्री १००८ मचन्द्रशेखरेन्द्रसरस्वती- संयमीन्द्रमहास्वामिपादानां तपसे विद्यायै धर्माय च भक्त्या समर्म्यते ।
No text on this page.
नमः शिवाभ्याम् ॥ नमः श्रीगुरुचरणारविन्दाभ्याम् ॥ सम्पादकीयम् अयमिदानीं मध्वतन्त्रमुखमर्द नाख्यो ग्रन्थस्सच्याख्यः इनाध्यमतया. देवाक्षरघु मुद्राप्य प्रकाशं प्राप्यते । यद्यप्ययं पञ्चाशद्वत्सरेभ्यः पूर्व दक्षिणदेशे ग्रन्था- क्षरर्मुद्रित आसीत् परमिदानी दुर्लभो जातः । क्वचित्परीक्षायां परीक्ष्यग्रन्थत्वेन निक्षिप्तः स्वालाभेनाऽध्येतॄन् केशयन्नासीत् । किंचैकदेशीयाक्षरैर्मुद्रितत्वात्सर्व- देशीयविपश्चित्सुलभश्च नाऽऽसीत् । तमिममुभयविध क्वेशं परिजिहीर्षमाणेन मया इदं देवनागराक्षरेषु पुनर्मुद्रणं समारब्धम् । ग्रन्थोऽयं अतिगभीरविचारचातुरीपरिपूर्ण: श्रीमदानन्दतीर्थावलम्बितद्वैतमतखण्डनरूपस्त हुन्थस्थप्रमाणाभासयुक्त्याभासादिसमु- द्वाटनरूपश्च । अस्य ग्रन्थस्य एतद्वयाख्यानस्य च प्रणेतारः सर्वेष्वपि तन्त्रेष्वागमेपु पुराणेषु चाऽकुण्ठप्रसरद्विस्मयनीयमतिवैभवाश्चतुरधिकशत ( १०४ ) ग्रन्थनिर्माणचणाः श्रीशिवावतारत्वेन लोके (१) शिवरहस्यादिपुराणेषु च जोधुष्यमाणाः अस्मद्वंशमूल- (१) शिवरहस्ये नवमांशे पोडशाच्या पार्वता प्रति शिववचनम्- शिवे मदंशसंभृतश्शङ्करश्शाङ्करोत्तमः । चतुभिरसह शिप्यैस्तु कलाबवतरिष्यति । दीक्षितोऽपि भवेत्कश्चिन्मदंशो भूसुरोऽम्बिके । भासुराचारनिरतरौवश्छन्दोगवंशजः ॥ (शेवः शिव भक्तः । न तु शैवमताबलम्बी। ) अध्ययदीक्षितेन्द्राणां भ्रातुपात्रः श्रीनीलकण्ठदीक्षितैः स्वकृत गङ्गावतरणग्रन्थ एवमुक्तम्- गझ्या यः पुरा स्नातो देवश्चन्द्रार्ध शेखरः । गाङ्गेयेन पुनस्सस्नो सोऽवतीर्य यदात्मना । तथा शिवलीलावे तैरेव- कालेन शम्भुः किल तावताऽपि कलाश्चतुष्पष्टिमिताः प्रणिन्ये । द्वासप्ततिं प्राप्य समाः प्रबन्धान्शतं व्यधादप्पयदीक्षितेन्द्रः ॥ एवं नीलकण्ठबिजये- श्रीकण्ठोऽवततार बस्य वपुषा कल्ल्यात्मनेवाऽच्युत- श्श्रीमानप्पयदीक्षितस्स जयति श्रीकण्ठविद्यागुरुः ।। तथा कुशकुमुदतीनाटके-" एप खलु द्वितीयशङ्कराबताराणां अपयदीक्षितानां नप्ता नलचरितनाटकप्रबन्धा" ।। इति ।। - पुरुषाः श्रीमन्तः अप्पयदीक्षितेन्द्रचरणाः । एते हि महाभागाः मद्रप्रान्त मद्रपु. रात्पश्चिमतः चत्वारिंशत्क्रोशपरिमितदेशवर्तिनि मरकतवल्लीदेवीसमेतश्रीमार्ग- सहायश्वराधिष्टिते श्रीविरिञ्चिपुराख्य दिव्यक्षेत्रे १५७७ तमे वैक्रमेऽन्दे ( १५२० ख्रिस्ताव्दे)श्रीरङ्गराजाध्वरीन्द्रमङ्गलाम्बिकयोर्जन्म लेभिरे । एतेषां पितृचरणाः श्रीरङ्गराजाध्वरीन्द्राः विरिञ्चिनगरादाग्नेयकोणे पञ्चदशक्रोशपरिमित देश स्थित "अयप्पलं" इति व्यवह्रियमाणे भूसुराग्रहारे न्यवात्सुः, यन्नाऽस्माकमद्याऽपि वासः। केचित्तु दीक्षितेन्द्राणां अडयप्पलग्राम एव जन्मति वदन्ति । परम्परागतो निर्णयोऽयमेव यत् ते विरिञ्चिनगर एव जन्माइलभन्त, ततः परं कियता कालेन च पितृभिस्सह अडयप्पल ग्राममवापुरिति । एते ह्यतिबाल्य एव वयलि कृतोपनयनाः अधरितधिषणधिषणामहिमानः स्वपितृचरणेभ्यस्सर्वतन्त्रस्वतन्त्रेभ्यः श्रीरङ्गराजा- ध्यरीन्द्रेश्य एव सर्वा अपि विद्या अधिजग्मुः। एतच्च तैरेव स्वकृतन्यायरक्षामणि- शिवार्कमणिदीपिकयोरभिहितम् । "यं ब्रह्म निश्चितधियः प्रवदन्ति साक्षात्तद्दर्शनादखिलदर्शनपारभाजम् । तं सर्ववेदसमशेषबुधाधिराज श्रीरङ्गराजमखिनं गुरुमानतोऽस्मि ॥ इति (न्याय. २. श्लो. ४) कुलञ्चास्माकं शिव भक्तिमत् अद्वैतमतावलम्बि च । अत एव कारणा- दिमेऽपि दीक्षितवर्यास्तथैवाऽऽसन्निति समुचितमेव । एतेषां पितृभिर्नामकरणकाल कृतं नाम विनायकसुब्रह्मण्य इति । बाल्ये स्नेहात् "अप्प, अप्पय, अप्पय्य" इति बन्धुभिराहूयन्ते स्म । तदेव च नाम लोके सुप्रसिद्धमभृत् । अतिबाल्य एव स्वपितृ चरणेभ्य एवाऽधिगतनिखिलविद्या इमे स्वोचितां कुलीनां काञ्चन कन्यामु ज्योतिष्टोमवाजपेयादीन्महाक्रतूनन्वतिष्ठन् । एतदीयं लोकविश्रुतं पाण्डित्यप्रकर्ष धर्मनिष्ठतां शिवे निरतिशयां भक्तिसंपत्तिं च श्रुत्वा तदानीं वेलरपुरे राज्यधुरं निर्वहन श्रीचिन्नबोम्माख्यः कश्चन सामन्तो नृपतिः एतान्दीक्षितवर्यान्स्वनिकटमानाय्य स्वसभायामेनान सभापण्डितत्वेन नियोजयामास । शिवभक्ताग्रसरस्स राजा एभिः कारयामास शिवार्कमणिदीपिका, शिवार्चनचन्द्रिका, प्रभृतीन्बहून्छेबमतग्रन्थान् । कारयामास चतेषां पाण्डित्यप्रकर्षसमुल्लासितान्तरङ्गस्सौवर्णाभिषेकम् । इदं चाइय- प्पलग्रामे श्रीकालकण्ठेश्वरमन्दिरे स्थापिते शिलाशासनेऽद्यापि दरीदृश्यते । एवं राजसभायामुषित्वा राज्ञा सबहुमानमाराधिताः लोके च शिवावतारत्वेन च संस्तुताः दीक्षितेन्द्राः चतुरधिकशत (१०४) प्रबन्धान्निर्माय आसेतुहिमाचलं तीर्थयात्रामहित्वाउन्ले चिदम्बरक्षेत्रं गत्वा तत्रस्थं भगवन्तं नटनायकमाराधयन्तः कानिचिदिनानि न्यवात्सुः । तत्रैव च भौतिकी तनुं संत्यज्य शिवेन सह सायुज्यमवापुः । निर्याणा- पूर्वकाले च श्लोकोऽयं पठितः--"चिदम्बरमिदं पुरं प्रथितमेव पुण्यस्थलं" इति । निर्याणसमये भगवतो नटनसभापतेः स्वरूपं ध्यायन्त एव श्लोकमिमं पठितु- . .
( ३ ) . मारब्धाः- "आभाति हाटकसभानटपादपद्मज्योतिर्मयो मनसि मे तरुणारुणोऽयम्" इत्यश्लोकपठनसमय एव तेषां ज्योतिभौतिकाच्छरीरान्निष्क्रम्य सर्वेषामेव पश्यतां पुरतो भगवति चिदम्बरनाथे विलिल्ये । एतेषां महानुभावानां चरितमिदं क्वचिद्ग्रन्थेषपलब्धं, क्वचिदस्मत्परंपरायां वृद्धेभ्यःश्रुतमुपजीव्यैव लिखितं मया । महानुभावान् श्रीदीक्षितेन्द्रानारभ्य (१)एकादशो- ऽहं तत्परम्परायाम् । दीक्षितेन्द्रात्तृतीयपरम्परायां कनकसभापतिदीक्षिता आसन् । तस्य द्वादश पुत्रा अभूवन् । तदीयसन्ततिजाः केचन काञ्चीमण्डलान्तर्गत एवाऽस्म- ग्रामे तत्परिसरवर्तिषु च केपुचिद्ग्रामेपु न्यवात्सुः, निवसन्ति चाऽद्यापि । इतरे चोलमण्डलं पाण्डयदेशं च गताः। तेषां सन्ततिस्तत्र प्रवृद्धा अद्यापि विराजते । दीक्षितेन्द्रकृता ग्रन्थाः (१) कुवलयानन्दः-अलङ्कारग्रन्थः । (२) चित्रमीमांसा अलङ्कारग्रन्थः । (३) वृत्तिवार्तिकं, शत्यादिस्वरूपवर्णनम् ( ४ ) यादवाभ्युदयच्या- ख्यानम् । (५) नामसङ्ग्रहमाला-अभिधानकोशरूपा । ( ६ ) नामसङ्ग्रहमाला. व्याख्या । (७) वरदराजस्तवः-विष्णुस्तुतिः । ( ८ ) वरदराजस्तविवरणम्-वरद- राजस्तवव्याख्यानम् । (९) कृष्णध्यानपद्धतिः-विष्णुस्तुतिः । (१०) दुर्गाचन्द्र- कलास्तुतिः । (११) दुर्गा चन्द्रकलास्तुतिविवरणम् । (१२) आदित्यस्तोत्रम् । (१३) तयाख्या । (१४ ) मयूखावलिः-शास्त्रदीपिकाव्याख्या । ( १५) न्यायमुक्ता- वलिः-मध्वमतानुसारिणी ब्रह्मसूत्रवृत्तिः । (१६) नयमयूखमलिका-रामानुजमतानु. सरिणी ब्रह्मसूत्रवृत्तिः । ( १७ ) नयमणिमाला-श्रीकण्ठमतानुसारिणी ब्रह्मसूत्रवृत्तिः । {१८) नयमञ्जरी-अद्वतमतानुसारिणीब्रह्मसूत्रवृत्तिः। (१९) सिद्धान्तलेशसङ्ग्रह:- अद्वैतान्तर्गतविविधसिद्धान्तवर्णनरूपः । ( २० ) न्यायरक्षामणिः ब्रह्मसूत्रप्रथमा- ध्यायव्याख्या । (२१) कल्पतरुपरिमल:-कल्पतरुव्याख्यारूपः । (२२) शिवार्कम- णिदीपिका-श्रीकण्ठभाप्यव्याख्यारूपा । ( २३ ) आनन्दलहरी-श्रीकण्ठमाध्यतात्पर्थ- प्रकाशनरूपा । (२४) चन्द्रिका-तद्वन्याख्या । (२५) अपीतकुचाम्बास्तवः-देवीस्तुतिः । (२६) स्नत्रयपरीक्षा-हरिहरशक्तीनां महिमानिरूपणपरा । (२७) तयाख्या । ७ १. अप्पयदीक्षितेन्द्राः २. नीलकण्ठदीक्षिताः ३. कनकसभापतिदीक्षिताः ४. कैलासदीक्षिताः ५. प्रभाकरदीक्षिताः ६. मार्गसहायदीक्षिताः कुट्टिदीक्षिताः ८. स्वयम्भूदीक्षिताः २. विनायकदीक्षिताः १०. नागेश्वरदीक्षिताः : ११. मार्गबन्धुदीक्षिताः ११. रामनाथदीक्षितः (विनायकदीक्षितः ) (२८) शिवाद्वैतनिर्णयः । (२९) पञ्चरत्नस्तुतिः । (३०) तद्वयाख्या। (३१) शिखरिणी- माला-शिवोत्कर्षप्रतिपादिका । (३२) शिवतत्वविवेकः-शिखरिणीमालाव्याख्या । (३३) ब्रह्मतकस्तबः-शिवपारम्यप्रतिपादकः । ( ३४ ) ब्रह्मतर्कस्तवविवरणम् । (३५) शिवकर्णामृतम् । (३६) शिवार्चनचन्द्रिका । (३७) बालचन्द्रिका । (३८) तयाख्या । (३९) चित्रपट:-मीमांसाधिकरणलोकसङ्ग्रहः । (४०) विधिरसायनम्-अपूर्वादिविधित्रयविचाररूपम् । (४१) बिधिरसायनसुखोपयोजिनी- विधिरसायनव्याख्या । (४२) उपक्रमपराक्रमः-उपक्रमप्राबल्यनिरूपणरूपः। (४३) नक्षत्रवादावली-व्याकरणविषया । (४४) पूर्वोत्तरमीमांसावादनक्षत्रमाला। (४५) रामानुजङ्गभङ्गः । (४६) मध्वतन्त्रमुखमर्दनम् । (४७) मध्वमतविध्वंसनम्- तयाख्या। (४८ ) अधिकरणपञ्चिका । ( ४९ ) वीरशैवम् । (५०) तप्तमुद्राविद्रा वणम् । (५१) गङ्गाधराष्टकम् । (५२) भस्मवादावली । (५३ ) पादुकासहत्र- व्याख्या । ( ५४ ) रामानुजतात्पर्यसङ्ग्रहः । (५५) तयाख्यानम् । (५६) भारत- तात्पर्यसङ्ग्रहः । (५७) तयाख्या। (५८) रामायणतात्पर्यसङ्ग्रहः । (५९) तद्वयाख्या (६०) शिवध्यानपद्धतिः । (६१) शब्दप्रकाशः-कोशरूपः । ( ६२ ) शिव. पूजाविधिः । ( ६३ ) हरिहरस्तुतिः । (६४) प्राकृतचन्द्रिका । (६५) निग्रहाष्टकम्- स्वशत्रुनिग्रहार्थ कृतम् । (६६) आत्मार्पणस्तुतिः । (६७) मानसोल्लासः। (६८) श्रीविद्यातत्वविवरणम् । (६९) मार्गबन्धुचम्पू:-स्वकुलदैवतस्तुतिरूपा । ( ७० ) मार्गबन्धुपञ्चरत्नम् । (७१ ) तान्त्रिकमीमांसा । (७२) अनुग्रहाष्टकम् । ( ७३ ) शिव- महिमालिकास्तुतिः । (७४) अधिकरणमाला । (७५) अधिकरणसारावलिः । (७६ ) अमरकोशव्याख्या । ( ७७ ) अरुणाचलेश्वरस्तुतिः। ( ७८ ) कृष्णध्यानपद्धति- व्याख्या । ( ७९ ) जयोल्लासनिधिः । ( ८० ) तत्वमुक्तावली । (८१) तिङन्तशेष- सङ्ग्रहः । (८२) धर्ममीमांसापरिभाषा । (८३) न्यायरत्नमाला । (८४) तयाख्या। (८५) पञ्चस्वरवृत्तिः । (८६) प्रबोधचन्द्रोदयटीका । (८७) मतसारार्थसङ्ग्रहः । (८८) मार्गसहायस्तोत्रम् । (८९) वसुमतीचित्रसेनविलासनाटकम् । (९०) विष्णुतत्वरहस्यम् । ( ९१ ) शान्तिस्तवः । (९२) शिवध्यानपद्धतिव्याख्यानम् । ( ९३ ) शिवपुराणतामसत्वखण्डनम् । (९४) शैवकल्पद्रुमः । (९५) सिद्धान्तरत्नाकरः । (९६) स्तोत्ररत्नाकरः । ( ९७ ) हंससन्देशटीका (९९) मार्गसहायलिङ्गस्तुतिः । ( ९९) लक्षणरत्नावलीच्याख्या। (१००) हरिवंशसारचरितव्याख्या। (२०१) दशकुमार- चरितसङ्ग्रहः । (१०२) भक्तिशतकम् । (१०३) न्यायमुत्तावलीव्याख्या । ( १०४ ) मणिमालिका। दीक्षितेन्द्राणां सत्यपि शिवभक्तत्वेऽद्वैतमतावलम्बित्वे च मतान्तरविद्वेषः देवतान्तरे न्यूनतादृष्टिर्वा न मनागप्यासीत् । किञ्जैषां विष्णौ निरतिशयभक्तिमन्त्रं - तृतीयश्लोकटिप्पण्या टिप्पणीकारैस्सप्रमाणं निरूपितम्, तदप्यवलोकनीयम् । परं तस्मिन्समये दक्षिणदेशे प्रसरमुपेयुषोः श्रीमद्रामानुजीयश्रीमदानन्दतीर्थीयमतयोः स्थिताः पण्डिताः अद्वैतमतं बहुधा बह्वदुषन् , शिवं च परमेशानं नितरां निकर्ष प्रापयन् । तदुभयमप्यसहमानः तत्समाधावयतने ईश्वरापराधं मन्वानैश्च दीक्षितेन्द्रः तत्पतिवचने यतितम् । तदुक्तं तैरेव- विष्णुर्वा शङ्करो वा श्रुतिशिखरगिरामस्तु तात्पर्यभूमि- स्मिाकं तत्र वादः प्रसरति किमपि स्पष्टमद्वैतभाजाम् । किन्त्वीशद्वेषगाडानलकलितहृदां दुर्मतीनां दुरुक्ती- भक्तुं यत्नो मयायं न हि भवति ततो विष्णुविद्वेषशङ्का ॥ तथा तत्कृते हरिहरशतके- वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककुद्मता वा । निद्रातु वा नृत्यतु वाऽधिरङ्गं भेदो न मे स्यात्परमस्य धान्नः ॥ इति । एवं एतद्ग्रन्थारम्भे- शिवं विष्णुं वा यद्यभिदधति शास्त्रस्य विषयं तदिष्टं ग्राह्यं नस्सगुणमपि तद्ब्रह्म भजताम् । विरोधो नातीव स्फुरति नहिनिन्दानविदा न सूत्राणामर्थान्तरमपि भवद्धार्यमुचितम् ॥ किचान ग्रन्थे प्रवृत्ति प्रति कारणं न क्वचित् द्वेषस्नेहो वा। परन्तु परग्रन्थे वैदिकमर्यादायास्सर्व शिष्टशास्त्रकारसम्मतायास्सर्वतस्समुल्लङ्घनमेव । उक्तं हि तैरेवात्र द्वितीयश्लोके- तथाऽप्यानन्दतीर्थीयं मतमग्राह्यमेव नः । यत्र वैदिकमर्यादा भूयस्याकुलतां गता ॥ इति । अत्र ग्रन्थकारैः “अथाऽतो ब्रह्मजिज्ञासे" त्यारभ्य “ईक्षते शब्द" इत्यन्तैः पञ्चभिस्सूत्रै प्रतिपादितां पञ्चाधिकरणीमवलम्ब्य तदुक्ताभिरेव युक्तिभिः अदृष्टाश्रुतपूर्व स्वमनोमानविलसच्छुतिस्मृतिपुराणवचोनिचयप्रापितविषयैरेव परस्परविरुद्वैः तदीय ग्रन्थदृषणं कृतम् । प्रसिद्धमीमांसकमर्यादाश्च भूयस्य आकुलीकृतारस्पष्टमुद्घाटिताः । एतत्पञ्चाधिकरणीदृषणव्याजेन प्रायस्सर्वमपि तदीयं ब्रह्मसूत्रोपनिषद्भाष्यानुव्याख्यान- तत्वप्रकाशादिकं ग्रन्थजातं सम्यगालोडितम् । यद्यपीतोऽप्यवशिष्टा विशेषतो विवेच- नीया विषया वर्तन्ते बहवस्तथापि दिङ्मात्रप्रदर्शनेनाऽप्यने विद्वांसो विवेचयिष्य- न्तीत्येतावतैव विरतं दीक्षितेन्द्रः । मन्ये विपश्चिन्मणयस्तन्मनोरथं पूरयन्ति पूरयिष्यन्ति चेति ।
( ६ ) एतद्रन्थमुद्रणे साहाय्यार्थ: सङ्ग्रहीतानि पञ्च हस्तलिखित पुस्तकानि । तत्र (१) महामहोपाध्यायानां पं० चिन्नस्वामिशास्त्रिमहोदयानां निकटस्थं 'क' संज्ञितम् । (२) मद्रपुर्यडयारपुस्तकालयस्थं 'ख' संज्ञितम् । ( ३.४) कास्थि सरस्वतीभवन- पुस्तकालयस्थम् । 'ग-ध' संज्ञितपुस्तकद्वयं । (५) श्रीकाशीहनुमट्टस्थभजनमटीयं 'ख' संज्ञितमपूर्णम् ॥ एतत्पुस्तकपञ्चकमवलम्य समारब्धसंशोधनकार्येण मया इतः पूर्वमपरिचिततचापारेण मन्ये संशोधनकाये ऽधिकतरमेव स्खालिल्यं कृतं भवे- दिति । तद्विद्वांसोऽनुग्रहकपरा गुण प्रवणकमनसः क्षम्यन्तु मामनुगृह्णन्त्विति च सविनयमभ्यर्थये तान् । प्रथमं एतत्कार्यकरणाय सदयं मामनुज्ञातवद्भयोऽस्मदध्यक्षमहोदयेभ्यः डा. श्रीमङ्गलदेवशास्त्रिमहोदयेभ्यः परश्शताः कृतज्ञाता आदिकरोमि । येऽत्र मय्यनुकम्पापरा स्वीयानि पुस्तकानि यावन्मुद्रणसमाप्ति मन्निकट एवाऽवास्थापयन्, तान् म. म. पं. अ. चिन्नस्वामिशास्त्रिमहोदयान्, काशिक- राजकीयसंस्कृतपुस्तकालयाध्यक्षान् डाक्टर श्रीमङ्गलदेवशास्त्रिमहोदयान्, तत्पुस्तकालयोपाध्यक्षान् पं. श्रीनारायणशास्त्रिखिस्तेमहोदयान् , अडया. रपुस्तकालायडैरक्टर्पदमधितिष्ठतः केप्टन् श्रीश्रीनिवासमूर्तिमहोदयान्, भजनमठाध्यक्ष श्रीकाशीनाथशास्त्रिमहोदयान्, ये चेतोऽतिरिक्तान् मध्व- भाष्यानुव्याख्यानतत्वप्रकाशकादिग्रन्थान् दत्वा मामन्त्रकम्पत तान् विश्वनाथ. पुस्तकालयाध्यक्षान् पं. श्रीकृष्णपन्तमहोदयांश्च सर्वथा विस्मर्तुमनीशानः तान्य- थावद्धन्यवादैः आपूरयामि कृतज्ञताप्रदर्शनपूर्वकम् ॥ अपरिचितपूर्वेऽस्मिन्संशोधनकायें तदा तदा समुचितं पन्थानमादिश्य मामनुः गृहीतवद्धयः काशीहिन्दविश्वविद्यालयमीमांलाप्रधानाध्यापकेभ्यः पं. श्रीपट्टाभि- रामशास्त्रमहोदयेभ्यः बहून्नमोवाकान् प्रशासे ॥ निर्दिष्टसमये मुद्रणकार्य समाप्य मदुत्साहमुत्तेजितवतां हितचिन्तकमुद्रणा- लयाध्यक्षाणां पं० श्री कृ० ब० पावगी महोदयानां कार्यभारं बहुधा प्रशंसन्नितोऽपि समुचितां समुन्नतिं श्रीकाशीपुराधीशाद्विश्वेश्वरादाशंसे । अनेन च मदीयेन व्यापारेण सन्तुष्टान्तरङ्गाः मत्कुलोत्तंसाः श्रीशिवावतारभूताः श्रीदोक्षितेन्द्रचरणा एतद्वन्थकर्तारः, येभ्यो मया वेदविद्याव्याकरणसाहित्यादिकं आबाल्यात् यथानियमम- धीतम्, ते मे भ्रातृचरणाः मार्गबन्धुदीक्षित पादाः, पैतृष्वसेयाः श्रीनटराज- शास्त्रिचरणाश्च गुरुवर्या मां सर्वथाऽनुगृह्णीयुरिति च विश्वसिमि ॥ इति १७ हनुमः वाराणसी। विदुषां वशंवदः भादपदकृष्णकादशी अ. मु. रामनाथदीक्षितः साहित्यशिरोमणिः । वै.सं. १९९८ शिवाभ्यां नमःtisti ।। श्रीः ॥ सर्वतन्त्रस्वतन्त्रचतुरधिकतग्रन्थनिर्मात- श्रीमदप्पयदीक्षितेन्द्रविरचितम् S. S. COM मध्वतन्त्रमुखमर्दनम्। तत्कृतया मध्वमतविध्वंसनाख्यया व्याख्यया सहितम् । उद्धाटय योगकलया हृदयाब्जकोशं धन्यश्चिरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयस्स मे दिशतु शाश्वतिक मुकुन्दः ॥ १॥ मध्वतन्त्रमुखमर्दनं मया यत्कृतं प्रकरणं मिताक्षरम् । पद्यरूपमनतिस्फुटाशयं तत्सुखावगतये विविच्यते ॥२॥ आनन्दतीर्थप्रवर्तितशारीरकशास्त्रप्राथमिकपञ्चाधिकरणप्रक्रियां प्रायस्तन्मतमर्या- दयैव दृषयितुं प्रकरणमारभमाणः प्रारीप्सितप्रकरणस्य(१) निर्विघ्नपरिसमाप्त्यादिप्रयो- जनायाऽऽदी विशिष्टेष्टदेवतानुसन्धानकीर्तनरूपं मङ्गलमाचरन्नेव प्रकरणारम्भ ताबदाक्षिपति- शिवं विष्णुं वा यद्यभिदधति शास्त्रस्य विषयं तदिष्टं ग्राह्यं नस्सगुणमपि तद्ब्रह्म भजताम् । विरोधो नातीव स्फुरति नहिनिन्दानयविदां न सूत्राणामर्थान्तरमपि भवद्धार्यमुचितम् ॥१॥ वस्तुतो निर्विशेषब्रह्मणि प्रतिष्ठितस्यापि शारीरकमीमांसाशास्त्रस्य केचन शिवं १ प्रकरणाविघ्नपरिसमाप्ति इति ख० पु. पाठः ।
२ , मध्वतन्त्रमुखमदनम् विष्णुं वा विषयं वदन्ति चेत्तदिष्टमेव; यतस्तच्छिवरूपं विष्णुरूपं वा सगुणं ब्रह्मो- पासीनानामस्माकमद्वैतवादिना उपास्य(१)स्वरूपगुणमहिमावधारणाय तत्प्रतिपादनप्रवृत्तं तदीयं शास्त्रस्य योजनं ग्राह्यम् । अपेक्षितं खल्वस्माकमपि निदिध्यासनोपयोगिचित्तव- शीकरणकैलासवैकुण्ठादिस्थानगतदिव्यभोगानुभवक्रममुक्तिरूप(२)फलापेक्षिणां तयोरुपा- सनम् । अथाऽपि स्यात्क्त्रचित्वचिद्विरुदत्वात्तदीयं योजनमग्राह्यमिति । (३)नैतावदेवो- पेक्षणीयताहेतुः, विरोधाभावात् । तथाहि-निर्गुणवाक्यानां सगुणे ब्रह्मणि सगुणान्तर- परवाक्यानां स्वस्वाभिमतसगुणब्रह्मणि योजनम्, ब्रह्मणस्सगुणत्वसप्रपञ्चत्वादिसाधनम्, स्वस्वाभिमतसगुणब्रह्मणस्सगुणान्तरादधिकत्वसाधनम् सगुणान्तरस्य परब्रह्मत्वाभाव- साधनम्, तत्र सर्वत्राऽपि युक्त्युपन्यसनम्, तद्विरोधियुक्तिनिरसनमित्यादिकं हि विरुद्धमेव भासते। तत्सर्व नहि निन्दा" न्यायेनाविरुद्धम् । न हि निन्दान्यायश्च "स्फारात्तत्त- पुराणागमे"ति श्लोकञ्याख्यानावसरे स्फुटीकरिष्यते। अपिचाऽस्मदीयपूर्वाचार्यग्रन्थेष्वपि महता यत्नेन परस्परपक्षप्रतिक्षेपपूर्वकमेकजीववदनेकजीववादादिव्यवस्थापनं दृश्यते । न च (४)तत्सर्वं तार्किकादिग्रन्थेषु परस्परपक्षप्रतिक्षेपादिवविरुद्रमेव । किन्त्व द्वितीय- ब्रह्मप्रतिपत्त्युपायेषु नानाविधेषु संभवत्सु विनेयबुद्धिप्रावण्यानुसारेणोपदिदिक्षितोपाय- विशेषाणां तत्तद्विनेयबुद्धिस्थिरीकरणार्थत्वात्सूक्ष्मारुन्धतीप्रतिपत्युपायतदुपदेश्यपुरुषचक्षु. विक्षेपाभिमुखतारकविषयनानाविधस्थूलारुन्धतीप्रदर्शकवाक्यवसिद्धशब्दप्रतिपत्त्युपाय - कृत्रिमशब्दगतविविधप्रकृतिप्रत्ययादित्रिमार्गप्रदर्शकानेकव्याकरणवच्चाऽविरुद्धम् । कि बहुना, श्रुतिष्वपि क्वचिदाकाशादिसृष्टिप्रतिपादनं, क्वचित्तेजःप्रभृतिसृष्टिप्रतिपादनमि- त्याद्यध्यारोपापवादाभ्यामद्वितीयब्रह्मप्रतिपत्त्युपायभेदत्वादविरुद्धम् । (५) कारणत्वेन चाकाशा"दित्यधिकरणे तथा निरूपितत्वात् । तथा शारीरकसूत्राणां तत्र तत्र सगुणे योजनान्तरमपि (६)तत्सगुणोपासना- भिमुखानां तत्र तत्र बुद्धिस्थिरीकरणार्थमित्यविरोधनये न काप्यनुपपत्तिः । यत्त्वमस्मदनभिमतोपासनाप्रकारकथनादि तावन्मात्रमनुपादेयमस्तु । न तावता सगुणपरत्वेन सूत्रयोजनानां सर्वथैवोपेक्षणीयता। अथोच्येत-निर्गुणपरस्सूत्रसन्दर्भः कथं सगुणपरोऽपि स्यादिति । स्यादेव, सूत्राणां विश्वतोमुखत्वादिति ब्रूमः । न ह्यस्मदीयैरपि निर्गुणपराणामेव सूत्राणां सगुणेऽपि सम्भवदपेक्षितं योजनान्तरं वायते। भाष्य एव (७)"शास्त्रयोनित्वादिति १ स्वरूपेति ख० पु० नास्ति। २ फलापेक्षाणां ख० पु. पाठः। ३ नैतदेवं ग० पु० । - ४ सर्वे ग० पु. । ५ वे. १. ४. १४.। ६ तत्तत् ग० पु०। ७ वे. सू., १. १. ३. । म.
MY व्याख्यया सहितम् । सूत्रस्य निर्गुणोपनिषदत्वव्यवस्थापनार्थत्वेन सगुणसार्वज्ञादिसमर्थनार्थत्वेन च योजित- स्वात् । कल्पतरौ (१)च "अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनादिति सूत्रस्याग्नि- होत्रादिकं (२) तस्मै तदधिगम उत्तरपूर्वाधयोरि" ति सूत्रे तदधिगमशब्देन प्रस्तुताय निर्विशेषब्रह्मापरोक्षज्ञानरूपाय कार्यायैव "विविदिषन्ति यज्ञेने" त्यादि श्रुतिदर्शनात् समस्तकर्मवृन्ददाहकत्वेन कर्मजातिविरोधिनोऽपि तस्य ज्ञानस्य नित्ययज्ञादिकर्मवि- शेषकार्यत्वं नायुक्तम्, समस्तवनदाहकस्याऽपि दावदहनस्य बनान्तर्गतवेवादिकार्य- त्वदर्शनादिति निर्गुणविषययोजनस्याऽग्निहोत्रादिकं सगुणब्रह्माधिगमस्य कार्यायैव; सगुणविदां केकयादीनां यज्ञाद्यनुष्ठानदर्शनात् निर्गुणविद्याफलस्येव सगुणविद्या- फलस्य कर्मकार्यत्वं नाऽयुक्तम् । सगुणविद्याफलस्य सातिशयत्वदर्शनादिति सगुण- विषययोजनस्य च दर्शितत्वात् । एवं च भगवतो नारायणस्य स्वरूपं तस्याऽचिन्त्या- द्भुतगुणमहिमविभूतिवैभवं तदुपासनादिप्रकारं तत्फलभोगक्रमं च श्रुतिस्मृतिन्यायै निरू- पयितुं प्रवृत्तमानन्दतीर्थीयं मतमपि कुतो न ग्राह्यम् ? येन तद्रूषणे प्रवृत्तिरित्याक्षेपा- भिप्रायः॥१॥ इममाक्षेपं समादधानः प्रयोजनप्रदर्शनपूर्वकं प्रकरणारम्भं प्रतिजानते - तथाऽप्यानन्दतीर्थीयं मतमग्राह्यमेव नः । यत्र वैदिकमर्यादा भूयस्याकुलतां गता ॥ २॥ अतः पञ्चाधिकरणी लक्ष्यीकृत्यैव तन्मते । दृष्यस्थलानि सर्वत्र सूच्यन्ते सुधियां मुदे ॥३॥ यद्यप्येवमुक्तया रीत्याऽन्यदीयानि सगुणयोजनान्युपादेयानि तथाप्यानन्दतीथीयं योजनमनुपादेयमेव । अन्यदीयेषु हि योजनेषु सगुणनिर्गुणभेदाभेदादिविषयतया कति- पयेष्वेव सूत्रेषु प्रकारभेदः । अन्येषु हि सूत्रेषु क्वचित्कचित्पूर्वसिद्धान्तरचनाभङ्गीभेदेऽपि फलतो न विवादः । आनन्दतीर्थीये तु योजने प्रायस्सर्वत्रैव प्रकारभेदः । (३)सोऽप्यन्येषा- मसम्प्रतिपन्नेषु स्वमात्रकल्पितेष्वर्थेषु । तत्र (४)चतुर, कमठ, माठर, कौंठरव्य, कौण्डिन्य, , १ वे. सू., ४. १. १६. । २ वे० सू० ४. १. १३. । ३ सोऽप्यन्ये- घामसंप्रतिपन्नः । तेषु इति मध्वमुखालङ्कारेऽनुदितः पाठः । ४ मध्वभाष्ये उदाहृतानां चतुरादिश्रुतीनां स्थलनिर्देशः क्रियते । तत्र यद्यपि श्रुतीनामासां तन्त्रादीनां च मश्वभाष्ये बहुधा बहुत्र विभिन्नवाक्योदाहरणार्थ नामानि गृहीतानि, तथापि स्थालीपुलाकन्यायेनैकैकस्याश्श्रुतेः पुराणादेश्च एकैकस्थल- प्रदर्शनमपि कार्य साधयेदिति तदेवाऽधः प्रदश्यते- मध्वतन्त्रमुखमदनम् - . माण्डव्य, मार्कण्डेय,मौद्गल्य, पौष्यायण, पौत्रायण, सौत्रायण, पाराशायण, माध्यन्दिनायन, कोषारव, काषायण, बृहदुद्दालकोद्दालकायन, कौशिक, सौपर्ण, शाण्डिल्य, वत्स, गौपवन, भालवेयाग्निवेश्य, चतुर्वेदसंहिता, चतुर्वेदशिखेन्द्रद्युम्न, परमश्रुत्यादिवचनानीति तदनु. सारिण्यध्यात्मनारायणाध्यात्मसंहिता, बृहत्संहिता, महासंहिता, नारायणतन्त्र, बृहत्तन्त्र, पुरुषोत्तमतन्त्र, मायावैभव, ब्रह्मतर्क, भविष्यत्पादिवचनानीति चाऽत्यन्ताप्रसिद्धा- नामव वचनाना साक्षितयापन्यासः, तदुपन्यासप्रसक्तस्वानाप्तत्वशङ्कापारहाराय हनुम द्भोमसेनक्रमेण वायोः स्वयं तृतीयावतार इत्युद्धोषः। तत्र च साक्षितया- अ. पा. सू. अ. पा. स. २.३.३१. १.१. १. . २. ४. १४. १.१.१५ " (१) चतुरश्रुतिः (२) कमठश्रुतिः (३) माठरश्रुतिः (४) कोण्ठरव्य (५) कौण्डिन्य (६) माण्डव्य (७) उद्दालक (८) मोद्गल्य (९) पौष्यायण (१०) पौत्रायण (११) पाराशर्यायण (१२) माध्यन्दिनायन (१३) कोषारव (१४) काषायण (१५) बृहच्छ्रुतिः (१६) कौशिक (१७) सोपण (१८) शाण्डिल्य ४.३.२२. १.१. १. ३. ३. ३४. (१९) वत्स ३. ३. ५२. (२०) गौपवन ३. ४. ४. (२१) भालवेय ३. १. १४. (२२) आग्निवेश्य (२३) सौत्रायण २. ४. १२. (२४) चतुर्वेदशिखा ४. ४. ६. (२५) इन्द्रद्युम्न (२६) परमतिः २. ३. २०. (२७) नारायणाध्यात्मम् २. ४. १८. (२८) अध्यात्मसंहिता २. ३. ४३. (२९) बृहत्संहिता ४. २. १३. (३०) महासंहिता ३. १, २६. (३१) नागयणतन्त्रम् २. ३. १८. (३२) बृहत्तन्त्र ४. २. ५. (३३) पुरुषोत्तमतन्त्रम् ३. ३. ४९. (३४) मायावैभवः ४. १. १३. (३५) ब्रह्मतर्कः ३. ३. २७. (३६) भविष्यत्पर्व आदिशब्दग्राह्याणि च १. १. १. (५) महोपनिषत् १. १. १. (६) नागयणसंहिता १. २. ३. (७) वायुप्रोक्तं १. १. ११. (८) समाख्या श्रुतिः २.१ १८. ३. ३.५४. ३.२.१३. २ (१) भागवततन्त्रम् (२) व्योमसंहिता (३) महाकौमः (४) वाराहसंहिता २.३. १३. २. १.३४. ३.३.२८. १.१. २.
व्याख्यया सहितम् । (१) प्रथमो हनुमानाम द्वितीयो भीमसेनकः । पूर्णप्रशस्तृतीयस्तु भगवत्कार्यसाधकः” ॥ इति स्मृतिवचनमस्तीति स्वयमेव तदुदाहरणम् । “(२)वडित्था तद्वपुषे धायि दर्श- तं"(३) इत्यादृग्वेदमन्त्रस्य स्वकल्पितवाव्ववतारवयपरतया प्रदर्शकमित्यादि प्रामाणिक- मर्यादालनं भूयसा दृश्यते । तथाऽपि "युक्तियुक्तं वचो ग्राह्यं न तु पूरुषगौरवमि"ति न्यायेन तन्मतं श्रद्दधीमहि यदि तत्रोपपन्नं किंचिदाकलयेम । न त्वेवम्, प्रायेण हि १ तस्माद्विष्णोहि महिमा भारतोक्तो यथार्थतः । तस्याङ्गं प्रथमं वायुः प्रादुर्भावलयान्वितः ॥ प्रथमो हनूमान्नाम द्वितीयो भीम एव च । पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ॥ त्रेतायेषु युगेष्वेव संभृतः केशवाज्ञया । इति तत्कृते भारततात्पर्यनिर्णयाख्ये तदीयाः श्लोकाः ॥ २ वळित्था तद्वपुषे धाथि दर्शतं देवस्य भर्गस्सहसो यतोऽजनि । यदीमुप- बरते साधने मतिः ऋतस्य धेना अनयन्त सस्स्रुतः ॥ (ऋ. सं., २. २. ८. १.) ३ ऋगियं एतदुपरितनं ऋग्द्वयं च वाय्वादीनां अवतारबोधकतयोपात्तं भारत- तात्पर्यनिर्णये। तस्य व्याख्यारूपं पद्यमपि तत्रैव तेन सन्दृब्धं ब्रह्मसूत्रभाष्यान्ते च। तद्यथा- - “यस्य लोण्युदितानि वेदवचने रूपाणि दिव्यान्यलं तद्वदर्शतमित्थमेव निहतं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्यो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि" । अस्यार्थो विवृतः तत्वप्रकाशिकायाम् । सोऽपि यथा-“यस्य वायोर्देवस्य बनित्थेत्यादिवेदवचने क्रीडादिगुणयुक्तानि त्रीणि रूपाण्यु- दितानि तस्य यत्तृतीयं रूपं तेनेदं भाष्यं हरिविषयतया कृतमित्यन्वयः। कीदृशं चास्य मूलरूपम् ? कानि चित्राणि ? कीदृशानीति । तत्राह-अलमिति । यदस्य वायोर्मूलरूपं बट् बलात्मकं दर्शनं ज्ञानरूपं भर्गो जगद्भरणगमनगुणं महन्महनीयं तदित्थंभूतमेव रूपत्रयावताराय भगवता निहितं प्रेरितमवतीर्ण च। तत्र प्रथमं हनुमदाख्यं वपुः रामस्य वांसि सीतां प्रति नीतवत् रामविषयवचांसि मूलरामायणरूपाणि शिष्येषु नीतवत् रामवचसि यो नयः न्यायः आज्ञारूपस्तद्युक्तं वा । द्वितीयं वपुर्भीमनामक कुरुपृतनाक्षयकर, तृतीयं वपुरानन्दरूपस्य हरेः प्रतिपादकशास्त्रनिमीठमध्वाभिधमिति । अतः परमाप्ततमप्रणीतत्वादिदं भाष्यं सकलसुजनैरादरेणाऽङ्गोकार्यमिति भावः ।
६ ३ मध्वतन्त्रमुखमदनम् .. तन्मते स्वमात्रहृदयारूढानि वचनान्येवोपजीव्यानि(१), न तु न्यायाः । ये तु न्यायाः प्रदर्शितास्तेऽप्यत्यन्तशिथिला एव क्वचित्वचिदाश्रिताः । पूर्वमीमांसामर्यादाप्यसा- मञ्जस्येनैव नीता । प्रायेणाऽसाधुभिरेव च शब्दैर्व्यवहारः । श्लोकरचनायां स्वन्वयासंभवो वृत्तान्यथाभावश्चाऽधिकः । सर्वमेतत्तदीयभाष्यानुव्याख्यानभारततात्पर्यसङ्ग्रहादिदर्शिनां स्पष्टमेव । अत्रापि तत्र तत्र तदीयवचनोदाहरणैः कियदपि स्पष्टीभविष्यति । तस्मादेवंभूतं मतमनुपादेयमेवेति(२) तन्मतसिद्धामीक्षत्यधिकरणान्तां पञ्चाधिकरणी दृष्यतया लक्ष्यीकृत्य तन्मते सर्वत्रापि दूषणीयप्रदेशास्तन्मतदूषणकौतुकिनां विदुषां मुदे सूच्यन्ते । तथा च यद्यपि मदुक्तानि दूषणानि सम्यञ्चि न भवेयुस्तथाऽप्यस्मिन् प्रकरणे सगृह्य प्रदर्शितांस्तन्मतदूष्यप्रदेशान् पश्यन्तो विपश्चितः सम्यग्दूषयिष्यन्तीति तदर्थ प्रकरणमिदमारभ्यत इत्यर्थः ॥ ३ ॥ १ उपजीवितानि इति मध्वमुखालङ्कारोद्धृतः पाठः । २ यत्तु मध्वमतविध्वंसनखण्डनार्थ प्रवृत्तैः श्रीमद्वनमालिमित्रैः स्वकीये मध्वमुखा- लङ्कारे एतत्सन्दर्भखण्डनावसरे "चूतस्य नापराधोऽस्ति स्रुष्ट्रो दूराद्यदुज्झति । सौभाग्यं नैव निम्बस्य यदादत्तेऽनुरागतः ॥ इदमेवोत्तरं तस्य मन्दबुद्धेस्सुरद्विषः । विष्णुद्वेषाद्- ब्रुवाणस्य ह्युत्तरं नास्ति चाऽपरम् ॥ (म० मुखालं ४.) इत्यादिना दीक्षितानां निन्दा कृता, सा तेषां यथावद्ग्रन्थदूषणेऽसामर्थ्य अविषयं वा प्रकटयति । न हि केवलं दीक्षितेन्द्राः विष्णावद्वेषिणः, परन्तु तत्र परमभक्ताः, विष्णोः परब्रह्मत्ववादिनश्च इत्यादिकं- "आपादमाचिकुरभारमशेषमङ्गमानन्दबृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु सन्ततमन्तरात्मन्नम्भोजलोचन तव श्रितहस्तिशैलम् ॥” ( वरदराजस्तवे १०६ तमः श्लोकः)। "आस्माकीना तु सैद्धान्तिकसरणिरियं यत्परब्रह्मकोटि: श्रीमान्नारायणस्सन्महित इति महाभारतादिप्रसिद्धेः।" (आनं. इलो. ३५)। वेदविभागार्थमेवावतीनुन सकलवेदतात्पर्याभिज्ञेन सर्वज्ञशिखामणिना भगवता वेदव्यासेन पुलस्त्यवरदानलब्धदेवतापारमार्थ्यवेदनेन श्रोपराशरेणाऽन्यैश्च महर्षिभिर्वेदो- पबृंहणार्थ प्रणीतेषु श्रीमहाभारतविष्णुपुराणादिषु निश्चितपरब्रह्मभावस्य सद्भिस्सर्वेरप्य- विभागेन परब्रह्मत्येव पूजितस्य श्रीनारायणस्य क्वचित्कोणे निविष्टमन्त्रार्थवादपुराण- वचनादिलेशमवलम्ब्य जीवभावं वक्तुं नास्मजिह्वा प्रवर्तते । तथा चेन्मूर्धा च शतधा भवति । वेदवैदिकदोहो देवताद्रोहश्च जायते । अतो नारायणः परब्रह्मकोटिरित्येवा- स्माकं सिद्धान्तः” । (आनन्दलहरी पृष्ठं ६४-६५ वाणीविलाससंस्करणम् ।) इत्यादिनि वरदराजस्तवानन्दलहर्यादिगतानि तदीयानि परदशतवचनानि पुनः पुनरनुसन्दधतः के वा न जानन्ति ।
व्याख्यया सहितम् । तत्र प्रथमाधिकरणपूर्वपक्षमनूद्य दूषयति- आत्मा ब्रह्मेत्यधीतश्श्रुतिशिखरगणैर्निविशेषश्च सर्वैः किं तत्र स्वप्रकाशे गुणलवरहिते वस्तु शास्त्रेण चिन्त्यम् । इत्याक्षेपो गुरूणां नतिततिविषये स्वप्रणम्यत्ववादः श्रुत्यन्तानां निरूप्यस्स यदि जडमते केन शास्त्रस्य न स्यात् ॥४॥ अत्रेदं परकीयमधिकरणम्---ब्रह्ममीमांसाशास्त्रमिदं नाऽऽरम्भणीयं निर्विषयत्वात् । न तावदस्य सविशेषं ब्रह्म विषयः, तत्र मानाभावात् । वेदान्तानां निर्विशेषजीवस्व- रूपमात्रपरत्वात् । न च जीव एव ब्रह्मेति स एव विषयः। तस्य स्वप्रकाशत्वेनाह- मिति सर्वानुभवसिद्धत्वात् । निर्विशेषे च तत्र निरूपणीयानां धर्माणामभावादिति पूर्वः पक्षः। सिद्धान्तस्तु भवेदेवं निर्विषयत्वं यदि विचार्यत्वाभिमतं ब्रह्म जीवरूपत्वेन संशयवि- पर्ययानास्पदं स्यात् । न त्वेवम्, तस्य "तद्विजिज्ञासस्व । तद्ब्रह्मेति" इति विचारविषये धर्मिणि श्रुतेन ब्रह्मशब्देनैव गुणपूर्तिवाचिनाऽल्पगुणाज्जीवनिकायाद्विलक्षणत्वसिद्धेः । तस्य गुणपूर्तिवाचिता च--"अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन्गुणा" इति श्रवणात स्वरूपतो गुणतश्चाऽपरिच्छिन्नत्वरूपविषयावयवत्वात्तदनुरोधाच्चेति तत्र निर्विशेष जीवरूपस्य ब्रह्मणश्श्रुत्यन्तनिरूप्यत्वमङ्गीकृत्य शास्त्रनिरूप्यत्वासंभव- पूर्वपक्षो गुरूणां प्रणतिपरंपराविषये महापुरुषे तच्छिष्याश्रितस्वप्रणामानहत्ववादमनु- करोति । प्रमाणशिखामणयो हि वेदा नितान्तमनधिगतमर्थमन्विच्छन्ति । पौरुषेयाणि तु शास्त्राण्युपायान्तरेणाऽवगन्तुं शक्येष्वर्थेषु श्रोटबुद्धिसौकर्यार्थ प्रवर्तमानानि स्वोक्तमप्यर्थ- मविस्मरणार्थमानेडयन्ति । न तथाऽनधिगतार्थव्यसनितामनुभवन्ति । ततश्च यदि वेदान्ता अपि स्वप्रकाशजीवस्वरूपमात्रे कर्वस्वभोक्तृत्वादिधर्मरहिततयाऽकर्मशेषताम- प्रतिपद्यमाने स्वातन्त्र्येण पर्यवस्यन्ति तदा शास्त्रस्य तत्र पर्यवसाने काऽनुपपत्तिः ? पूर्वपक्षिणाऽपि हि वेदान्तानां प्रामाण्यसंरक्षणाय स्वप्रकाशजीवस्वरूपमात्रपर- स्वेऽप्यनधिगतार्थत्वमुपपादनीयम् । ततश्च शास्त्रस्याऽपि तेन सविषयत्वोपपत्ति- रिति भावः ॥ ४ ॥ ननु पूर्वपक्षिणा वेदान्तानां प्रामाण्यं न संरक्षणीयम् । ते युपक्रमादिन्यायैः स्वप्र- काशजीवस्वरूपमात्रपरा एव । तस्य चाऽनधिगतत्वं कथमपि समर्थयितुं न शक्यते। तथा सति यदि तेषां प्रामाण्यं न स्यात् ; मा भूत् । न्यायलब्धेऽर्थे किं कुर्मः ? अत एव तदर्थमधिकृत्य शास्त्रमनारम्भणीयं सर्वथैव विषयालाभादिति पूर्वपक्षः क्रियते । काऽत्रा. नुपपत्तिरित्याशइक्याऽऽह- ..
मध्वतन्त्रमुखमर्दनम प्रामाण्यं सिद्धमेव ह्यकृतकवचसां त्वन्मते तर्कशास्त्रे शास्त्रस्याऽङ्गं यदस्य स्मरसि हरिकृतं ब्रह्मतर्काभिधानम् । तच्चेद्भव्येन नित्यस्फुरदगुणलवप्रत्यगात्मैदमर्थ्य तन्निर्वाहाय तेषां सगुणविषयता पूर्वपक्षेऽपि न स्यात् ॥ ५ ॥ इत्थं हि तव मतमस्ति-विष्णुना नारायणरूपेणाऽतिविस्तरेण कृतं पुनर्व्यासरूपेण तेन संक्षिप्तञ्च ब्रह्मतर्काभिधानं शास्त्रम् । तदेव चतुर्दशविद्यास्थानान्तर्गततर्कशास्त्रम् न तु गौतमादिप्रणीतम्। तच्चाऽस्य मीमांसाशास्त्रस्याऽङ्गम् । इदं हि सर्वेषां कर्म- ब्रह्मकाण्डरूपाणां वेदानां सकलगुणपरिपूर्णो भगवानेव मुख्यार्थ इति निर्णयाय प्रवृत्तम् । तत्वेन निर्णयाथीनां वेदानां तदर्थनिर्णायकाना प्रत्यक्षादीनामुपक्रमादीनां श्रुतिलिङ्गादीनां च स्वरूपप्रामाण्यतबलाबलनिर्णायकत्वेनैतदपेक्षितमिति । तदुक्तं अनुव्याख्याने- (१)प्रमाणन्यायमीमांसा क्रियते तकशास्त्रतः । मानन्यायैस्तु तत्सिद्धैः मीमांसामेयशोधनम् ।। ब्रह्मतर्कञ्च भगवान् स एव कृतवान् प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ।। उद्धृत्य पञ्च साहस्रं कृतवान् बादरायणः ॥ इति । एवं च यदि वेदान्तानामखण्डजीवस्वरूपपरत्वे मानान्तरसिद्धतत्स्वरूपानुवादमात्र• पर्यवसायित्वेन प्रामाण्यं न निर्वहेत्, तदा तन्निहिाय तेषामुपक्रमादिस्वारस्याव- गतमपि तद्विषयत्वं परित्यज्य मानान्तरानधिगतसगुणब्रह्मविषयतयैव पूर्वपक्षिणा- ऽप्यङ्गोकतव्या स्यात् । न हि सिद्धप्रामाण्यानां वेदवाक्यानामनधिगतार्थपर्य- बसान विरोधी क्वचिदपि वाक्यस्वारस्याऽनुरोधोऽस्ति । (२) त्रेधा तण्डुलान्विभनेत' १ १. १. १. सूत्रीयानुव्याख्यान एवेमानि पद्यानि। २ अभ्युदयेऽष्टिप्रकरणे श्रुतमिदं वाक्यम् “यस्य हविनिरप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेत् ये मध्यमास्स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दबंश्चरं येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय शते चरुम् (ते. स., २ का. ५ प्र. ४. अनु.) अमावास्यायां प्रातरारब्धव्ये दर्शयागे भ्रमाद्यदि पूर्वस्मिन्दिने प्रातरारभ्येत तदा चतुर्दशीसत्वाच्चन्द्रमा दृश्येत । तदा चाऽकाले कर्माऽऽरब्धं भवति । तत्र प्रायश्चित्तबिधानमिदम् । एवं चास्य वाक्यस्याऽयमर्थः यद्य- मावास्यायां प्रातदार्थहविनिर्वापणानन्तरं प्राच्यां दिशि चन्द्रमा दृश्येत तदा निरुतांस्त- ण्डुलान् मध्यमाणिष्ठस्थविष्ठात्मना त्रेधा विभजेत् । तत्र मध्यमैस्तण्डुलैः पुरोडाश ९ व्याख्यया सहितम् । (१) सृष्टीरुपदधाति"(२) "कपालेषु अपयति" इत्यादिषु तत्स्वारस्योपस्थितानप्यन्यतः निष्पाद्य दात्रेऽग्नये यागं कुर्यात् । स्थविष्ठांस्तण्डुलान् इन्द्रार्थ पूर्व निरुते दधनि अपयित्वा प्रदात्रे इन्द्राय यागं कुर्यात् । येऽणीयांसस्तण्डुलाः तान् पयसि श्रपयित्वा विष्णवे शिपिविष्टाय यागं कुर्यात् इति । अत्र 'ये मध्यमाः' येऽणिष्ठाः, 'ये स्थविष्ठा' इत्युपरितनवाक्यैरेव विभागस्य सिद्धत्वात् त्रेधा तण्डुलानित्यस्य विभागविधानार्थत्वे अनधिगतार्थता न सिध्यतीति कृत्वा तस्य पूर्वदेवतापनयनार्थत्वम् । अर्थात् पूर्व निर्वा. पणकाले याः तण्डुलादिभिहविर्भिः संबन्धितास्ता अपनीयन्ते तेभ्यस्तण्डुलादिभ्य इत्युक्त अभ्युदितेष्ट्यधिकरणे पूर्वमीमांसायां षष्ठाध्याये पञ्चमपादे ॥ १ 'सृष्टीरूपदधातीति चयनप्रकरणे श्रुतमिदं वाक्यम् । अत्र सृष्टिशब्दः तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (पा. सू., ४. ४. १२६ ) इति मूत्रेण सृष्टिशब्दान्मतुपि यत्प्रत्यये च कृते छान्दसत्वेन प्रत्ययलोपे च निष्पन्नः सृष्टिवाचकपदघटितमन्त्रोपधेयेष्टकावाची । "एकयाऽस्तुवत" इत्यनुवाके पठिताः "तिमृभिरस्तुवत, ब्रह्माऽमृज्यत" इत्यादयो मन्त्राः सूजिपदघटिताः । तान् मन्त्रानुच्चार्य या इष्टका उपधीयन्ते तास्सृष्टिशब्देनोच्यन्ते । अत्र मन्त्राणां प्रकरणप्राप्तत्वात न विधानम् । उपधानमपि "इष्टकाभिरग्नि चिनुत" इति चयनविधिनैवार्थात प्राप्तमिति तदपि न विधेयम् । अतः अर्थवादार्थमेवेदं वचनमिति राद्धान्तितम् ।। २ 'कपालेषु अपयती'त्यत्र न तावच्छृपणं विधीयते यदाग्नेयोष्टाकपाल इति पुरोडाशविशिष्टयागविधायकोत्पत्तिवाक्येनैव तस्य प्राप्तत्वात् । नापि कपालविधानम् । अष्टाकपाल इति पदेनैव अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थंकेन कपालानामपि प्राप्तत्वात् । तस्मात्पुरोडाशसंपादनाक्षिप्तद्रव्यनियमविधिपरत्वं व्रीहिशास्त्रस्य । तस्य च फलं यत्र अपर्ण नास्ति न तत्र व्रीहीणां प्रकृतित्वम् । यथा--चित्रेष्टितण्डुलादौ इति । उक्तञ्च दीक्षितेन्द्रः विधिरसायने-तस्मादन्यलभ्यश्रपणविधानेन प्रकृत्युपादानमा- क्षिप्याऽऽक्षिप्तोपादानापेक्षितप्रकृतिद्रव्यनियममात्रपरत्वं ब्रीहिशास्त्रास्याऽऽपाद्य तद्वारा चित्रेष्टिगततण्डुलद्रव्यकयागात्प्रकृत्युपादाने व्रीहिनियमच्यावर्तनार्थोऽयं विधिः । असति यस्मिन्विधी व्रीहिशास्त्रमेव जात्यवस्थाविशेषविशिष्टप्रकृतिद्रव्योपादानपर्यन्त- मिति तण्डुलयागादर्थलोपेन श्रपणनिवृत्तावपि ब्रीहिशास्त्रस्य श्रपणमुखप्रवृत्तिकत्वा- भावेन चोदकादङ्गान्तरैस्सह व्रीहिरूपप्रकृतिद्रव्योपादानमपि प्राप्नुयात् । सति त्वस्मिन् विधी विहितस्य श्रपणस्य प्रयोगमध्ये ऽनुष्ठेयतया तत्र तत्प्रकृत्युपादाने तत एवार्थ- तस्सिद्धेः व्रीहि शास्त्र प्रकृतिद्रव्ये जात्यवस्थाविशेषनियममात्रार्थ भवति-प्रयोगमध्ये श्रपणार्थे प्रकृतिद्रव्याण्युपाददीतेति यत्तबीहिजातीयानि सतुषावस्थानीति । तथा व वीहिशास्त्रस्य प्रकृत्युपादानप्राप्त्यर्थं श्रपणविध्यपेक्षित्वे सत्येवं व्यवस्था सिध्यति ।
१० मध्वतन्त्रमुखमर्दनम् " प्राप्तिमतोऽर्थान् परित्यज्य लक्षणया प्रत्यक्षविध्यन्तरद्वाग कल्पितविध्यन्तरद्वारा वाऽनधि- गत एवाऽर्थे पर्यवसानस्याऽङ्गीकृतत्वात् । विश्वजित्स्वर्गकामाधिकरणपूर्वपक्षयोरपि नाऽन- धिगतार्थत्वरूपप्रामाण्यत्यागः, किन्तु फलामावादनुष्ठानालाभमानाम् । उक्तं हि तन्त्र. रत्ने स्वर्गकामाधिकरणपूर्वपक्षे-नन्वेवमप्रमाणं स्यात् । न । गम्यमाने प्रवर्तनामात्रे प्रमाण मेव । न हि पुरुषप्रवृत्यधीनं वेदप्रामाण्यम् । यदि हि तथा स्यात्ततः प्रमाणभृत- वेदविहितस्यानुष्ठानं तदनुष्ठानाय च प्रामाण्यमितीतरेतराश्रयापात इति । तस्मात्त्वत्पूर्व- पक्षिणा वेदान्तानां ब्रह्मतसिद्धप्रामाण्याविघाताय निर्विशेषजीवविषयत्वेऽपि वाऽनधि. गतविषयत्वमद्वैतिवत्समर्थनीयम् । तद्विलक्षणसगुणब्रह्मविषयत्वं वाऽङ्गीकरणीयम इत्युभयथापिन निर्विषयत्वशङ्कावकाश इति भावः ॥ ५॥ परमते मतान्तरसिद्धोपक्रमादिन्यायजालमवलम्व्य पूर्वपक्षप्रवर्तनमपि न युक्त. मित्याऽऽह- साक्षी जीवस्सुखादीन्यनिशमनुभवन्सर्वमानाधिकस्ते तेषां तर्के त्वदिष्टो बलवदवलतासंविभागश्च सिद्धः। तस्याऽत्यन्तानुकूलं श्रवणमपि तव प्राविचारादपेक्ष्यं श्रुत्यन्तानां कुतस्स्यादगुणविषयतापूर्वपक्षस्य लाभः॥६॥ एवं हि तव मतम्-सुखादिकं साक्षिवेद्यम् । साक्षी च सर्वप्रमाणाधिकः नित्यत्वेना- प्रामाण्यहेतुदोषजन्यत्वाभावात् । साक्षिविषये सुखदुःर :खेच्छाद्वेषादो कदापि संशयविपर्यय- योरदर्शनात् । दूरसंजातजलादिज्ञानप्रामाण्यपरीक्षाधारायाः ततो जलावगाहनादिप्रयुक्त- सुखादिग्राहक साक्षिणमासाचैव विश्रान्तेश्च । अतः साक्ष्यनुभवविरुद्वेऽर्थे श्रुतिरपि न प्रमाणमिति । इदं च साक्षिणो बलवत्वं तव (१)मीमांसारूपे ब्रह्मतर्क एव सिद्धम् । अतोऽत्र साक्ष्यनुभवविरुद्रं वेदान्तानां सुखदुःखादिवन्धरहितनिर्विशेषजीवस्वरूप- मात्रपरत्वमपेक्ष्य पूर्वपक्षप्रवर्तनं न युज्यते । अपि च सर्वेषामपि प्रमाणानां त्वदिष्टबलाबलविभागस्तव ब्रह्मतर्क एव प्रसिद्धः । अतो वाक्यार्थनिर्णयप्रमाणभूतानामुपक्रमादीनामुपक्रमादुपसंहारो बलीयानि- त्यादिरूपस्त्वदिष्टो मानान्तरविलक्षणो बलाबलविभागोऽपि तत्रैव सिद्धः । वैकृते यत्र हविषि श्रपणमपेक्षितं तत्र तस्य प्रयोगमध्येऽनुष्टानं यत्र च तत्तत्र प्रकृत्युपादानम् । यत्र प्रकृत्यपादानं तत्र व्रीहिनियमः । एवं च सति तण्डुलयागादर्थ लोपेन श्रपणनिवृत्तौ तन्मूलकं ब्रोहिनियमपर्यन्तं निवर्तत एवं" ति। १ प्रमाणमीमांसेति ग० पु०।
? व्याख्यया सहितम् । ११. (१) उपक्रमादिलितानां बलीयो ह्युत्तरोत्तरम् । श्रुत्यादौ पूर्वपूर्वं च ब्रह्मत। विनिर्णयात् ॥ (२)इत्यनुव्याख्यानोक्तः। त्वदभिहितोपक्रमादिबलाबलानुसारी सर्ववेदान्ताना- मर्थश्च त्वन्मते विचारात् प्रागेव गुरुमुखादवगन्तव्यः । यावच्छक्ति सकलवेदाध्ययनपूर्वक प्रतिवाक्यम् 'अस्य वाक्यस्याऽयमर्थ' इति सर्वेषां वेदवाक्यानां गुरुमुखादर्थग्रहणं श्रव- णम् । तच्च यावदज्ञाननिवृत्त्येकस्मादेव गुगेर्वा, तत्तदुत्तमगुरुलाभे बहुभ्यो गुरुभ्यो(३) वा सम्यगावर्तनीयम् । एवं श्रवणावृत्तिलब्धस्य वाक्याथग्रहस्य स्थिरीकरणार्थ न्याय- विचारात्मकं युक्त्यनुसन्धानं मननम् । न तु तदेव श्रवणम् । ततश्च विचारशास्त्रं मननादिविधिमूलम्, न श्रवणविधिमूलम्, इति हि तव मर्यादा । तथा च निर्विशेष- निष्प्रपञ्चजीवाभेदादिपरवाक्यानामपि सगुणप्रपञ्चजीवभिन्नस्वाभिमतब्रह्मपरत्वमेव बोधयतां स्वाप्तानां गुरूणां सकाशादहुधाऽऽत्रर्तितश्रवणलब्धसकलवाक्यावधारणस्तदनु- गुणप्रमाणस्वरूपतद्वलावलव्यवस्थापकब्रह्मविचारशास्त्रेतिकर्तव्यतातर्काभ्यासेन लब्ध- श्रवणसंवादस्तदनन्तरं तदर्थमननात्मके विचारे प्रवर्तमानः शिष्यः प्रत्यक्षादेस्तक- शास्त्राभ्यासलब्धप्रमाणबलाबलस्याऽप्यनुगुणमनेकाप्तोपदिष्टं तं (४)तमर्थ परित्यज्य सर्वेषां वेदान्तवाक्यानां निर्विशेषजीव चिन्मात्रमेवाऽर्थ इति सर्वेविरुद्ध पर्थ कथमाशङ्केत ? तत्तदाशङ्काभावे च कथं पूर्वपक्षोदयः ? शिष्यस्य प्रागेव गतार्थेन प्रतिबद्भुमशक्य- तयोदतुं योग्या शकैव हि वादकथारूपे शास्त्रे पूर्वपक्षो नाम । अतोऽत्र शिष्यस्य प्रानिवृत्तेन श्रवणेनाऽङ्गविद्याभ्यासेन च प्रतिबदु शक्या शङ्का नोदेतुमहंतीति तव मते नैवं पूर्वपक्षावकाशोऽस्तीति भावः ॥ ६ ॥ १ उपक्रमस्य उपसंहारापेक्षया बलवत्वं पूर्वतन्त्रे तृतीयतृतीयप्रथमे सिद्धान्तितम् "वेदो वा प्रायदर्शनादि"त्यत्र । एवं "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थ विप्रकर्षादि"ति सूत्रे श्रुतिलिङ्गादीनां पूर्वपूर्वप्राबल्यं उत्तरोत्तरदौर्बल्यं व स्थापितं तृतीयत्तीय एव । न्यायोऽयं सर्वैरपि तन्त्रान्तरकारैरङ्गीक्रियत एव । भवन्मते तु तद्विरुद्धमेवोच्यत इति । २ अनु. २२१.१.९. ३ पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुयंदि । गृह्णीयादविचारेण विकल्पस्समयो. भवेत् इति ( मध्वभाष्य ३. ३. ४६ ) । अत्र तत्वप्रकाशिका--न पूर्वप्राप्त एव गुरुरिति नियमः । पश्चात्तनोऽपि स्वीकार्यो भवति । न च वैयर्यम् । गुरुपरि- प्रहस्य समग्रहानुग्रहार्थत्वात् । स च पूर्वतमेन समोऽधिको वा समग्रहानुग्रहं करोति चेत् स्वीकायों नाऽधम इति । ( तत्त्व. १७८. २. २.) ४ तत्परित्यज्य ग० पु०।
Hama मध्वतन्त्रमुखमदनम् एवं परमर्यादया पूर्वपक्षस्य निरवकाशत्वमुक्तम् । हेत्वन्तरणाऽपि तदाह- श्रुत्यन्तानामखण्डो विषय इति च ते केन बोद्धव्यमेतत् ? न्यायैस्तादर्थ्यमेषां घटयदिति दृढ़ः शास्त्रमेकं न चेत्स्यात् । तच्चेदङ्गीक्रियेत प्रतिहतविभिदप्रत्यगात्मैकनिष्ठं कस्याऽनारम्भसिध्यै प्रभवतु(१) भवतः पूर्वपक्षप्रयासः ॥७॥ सर्वेषां वेदान्तानां निर्विशेषजीवस्वरूपपरत्वं प्रबलन्यायैः प्रतिष्ठापयच्छास्वमि. ध्यते वा न वा?। न चेत् प्रत्यक्षादिविरुद्ध सविशेषत्वादिविषयानेकाबान्तवाक्य- कृतान्तःकलहधीप्रतिरुद्रं तेषां तत्परत्वं न सिध्येदिति तत्सिद्धिसापेक्षानारम्भपूर्वपक्षो. त्थापनं न स्यात् । इष्यते चेत् तदारम्भमपेक्ष्य विषयत्वाभावेन तदनारम्भस्समयंत इति व्याघातः स्यादित्यर्थः ॥ ७ ॥ नन्वेवं सति वाचस्पतिविवरणकाराभिमतयोरप्याद्याधिकरणपूर्वपक्षयो- व्याघातः स्यात् । चाचस्पतिमते हि प्रत्यगात्मन एव (२)ब्रह्मत्वात् तस्य चाऽह- मिति प्रकाशमानत्वाल्लोकसिद्धस्य तस्य विचारार्थे शास्त्रं नाऽऽरम्भणीयमिति पूर्वः पक्षः । विवरणकारमते तु प्रत्यग्ब्रह्मक्यस्य विषयत्वेनाऽभिमतत्वात् प्रत्यग्ब्रह्मणोश्च विरुद्धस्वभावयोरेक्यासिद्धेः तद्विचारार्थ शास्त्रं नाऽऽरम्भणीयमिति पूर्वः पक्षः । न च प्रत्यगात्मन एव ब्रह्मत्वं प्रत्यग्ब्रह्मणोरैक्यं च शास्त्रं विना सिध्यति, येन व्याघातो न स्यादित्याशङ्कयाऽऽह- सिद्धेऽसिद्धे च सिद्धान्त्यभिमतविषये दूषणं चेत्रियेत न्यायापेक्षा न तस्योन्मिपति निजमतप्रक्रियार्थानुवादे । सिद्धान्त्यस्वीकृतेऽर्थे यदि तु विषयतापादनं पूर्वपक्ष कर्तव्यं तर्युपायः कथमिव सुधिया तत्र नाऽपेक्षणीयः॥८॥ प्रत्यगात्मन एव ब्रह्मतया विषयत्वं प्रत्यग्ब्रह्मणोरक्यस्य विषयत्वं च सिद्धान्याभ- मतमेवाऽनूद्य तयोरैक्यस्य सिद्धत्वेनाऽन्यस्याऽसिद्धत्वेन विषयत्वासंभव इति तो पूर्वपक्षी १ प्रभवति ग० पु०। २ बृहत्वाद्ब्रह्मणत्वाचात्मैव ब्रह्मेति गीयते। स चायमाकीटपतङ्गेभ्यः आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदंकारास्पदेभ्यो देहेन्द्रियादिमनोबुद्धिविषयेभ्यो विबेकेन "अहं" इत्यसन्दिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदं न हि जातु कश्चिदत्र सन्दिग्धे अहं वा नाहं वेति । (भामती १. १. १. पृष्ठ ५ निर्णय सं० ।)
व्याख्यया सहितम् । १३ प्रवृत्तौ। तत्र कुतः प्रत्यगात्मैव ब्रह्मेति वा कुतः प्रत्यग्ब्रह्मणोरक्यमिति वा पूर्वपक्षिणं प्रति सिद्धान्तिनो हेत्वाकाङ्क्षा न संभवति, सिद्धान्त्यभिमतस्यैव तयो विषयत्वस्य पूर्वपक्षेऽनूदितत्वात् । ततस्तत्र विषयोपपादकशास्त्रारम्भमनपेक्ष्य तदनारम्भपूर्वपक्ष- प्रवृत्तेने व्याघातः। त्वन्मते तु निर्विशेषजीवचिन्मात्ररूपं ब्रह्मोत सिद्धान्त्यनभिमत एवाऽर्थे विषयत्वमापाद्य पूर्वपक्षप्रवृत्तिरिति तस्मिन्मते सिद्धान्तिनो हेत्वाकाक्षोदयेन तदुपपाद- कशास्त्रारम्भस्य त्वत्पूर्वपक्षिणाऽपेक्षणीयत्वात् व्याघातो भवत्येवेति (१)भावः ॥ ८ ॥ नतु सिद्धान्त्यनभिमतमर्थं पुरस्कृत्य शास्त्रानारम्भपूर्वपक्षे तदुपपादनाय शास्त्रारम्भो पेक्षित(२) एवेति व्याघातश्चेत् , पूर्वमीमांसाद्याधिकरणपूर्वपक्षेऽपि व्याघातस्स्यात् । स खल्वेवं प्रवृत्तः-अध्ययन विधिना (३)विश्वजिन्यायादध्ययनस्य स्वगीर्थतावबोध- केनाऽर्थज्ञानेतरफलार्थत्वं नोयमानानां वेदानां विषनिह रणादिमन्त्राणामिवाऽर्थविवक्षा- ग्राहकं प्रमाणं नास्तीति वेदवाक्यान्यापाततोऽपरिपूर्णानुपपन्नार्थानि (४ लक्षणानुष- नाध्याहारव्यवधारणकल्पनाधिकार्थकल्पनादिभिरवश्यमुपपादनीयानीत्यत्र नियामकाभावा- दनुपपत्तिशङ्काकलुषितवेदार्थविचागत्मकं शास्त्रं नाऽरम्भणीयमिति । तत्रापि स्वाध्याया- ध्ययनस्य स्वर्गार्थत्वं सिद्धान्त्यनभिमतमेव पूर्वपक्षिणोपपाद्यमिति तदुपपादकविश्वजि- न्यायादिप्रतिपादकशास्त्रारम्भापेक्षेत्याशयाऽऽह- एकं वाक्यं विचार्य यदि भवति नयो वाऽपि सर्वत्र तुल्यः तत्किंचिन्यायक्लप्त्याऽनभिमतरचना युज्यते पूर्वपक्षे । सर्वेषामेव नानाविधनयनिकरानेयतात्पर्यसीम्नां वेदान्तानां विमर्शाद्विषयविरचना त्वेकमीहेत शास्त्रम् ॥ ९॥ धर्मजिज्ञासासूत्रेऽध्ययनवाक्यमेकमेव विबार्यम् । तस्य सिद्धान्त्यभिमतदृष्टफल- रूपार्थज्ञानार्थत्वे वैयथ्यंग्रसङ्गात् सर्वापेक्षितस्वर्गार्थत्वं वाच्यमिति शक्यं पूर्वपक्ष एव १ इत्यर्थः ग० पु०॥ २ अपेक्षित इति ग० पु०। ३ यस्य कर्मणस्स्योत्पत्तिवाक्ये न फलश्रवणमस्ति वाक्यान्तरमपि फलबोधक किञ्चिन्नास्ति तस्य सत्यां फलाकाङ्क्षायां सर्वपुरुषाभिलस्तित्वेन स्वर्गस्यैव तत्फलत्वं कल्पनीयमिति यो न्यायः चतुर्थतृतीये निरूपितः स विश्वजिन्न्यायः । तत्र 'विश्वजिता यजेत' इति वाक्यमुदाहृत्य विचारितत्वाद्विश्वजिन्न्याय इति व्यवहारः। ४ यत्राऽर्थवादानां यथाश्रुतार्थपरत्वे प्रयोजनं न लभ्यते तत्र लक्षणादीनामी- न्तरनयनं क्रियते । उक्तं हि शाबरे-"अथाऽध्याहारेण वा विपरिणामेन वा व्यवहितक- ल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिदर्थः कल्पयिष्यत" इति शा. भा. पू. मो., १।२।१ सूत्र।
मध्वतन्त्रमुखमर्दनम् किञ्चिन्यायोपपादनमिति तदर्थ न शास्त्रारम्भापेक्षा । अध्ययनविधिद्वारा तदुपात्तानां सर्वेषामपि वेदवाक्यानां विचार्यत्वेऽपि तेषामविविक्षितार्थत्वे पूर्वपक्षिणोपपादनीये विष- निहरणादिमन्त्रवदन्यार्थनीयमानत्वमेक एव न्यायः । सोऽपि पूर्वपक्ष एव व्युत्पादयितुं शक्य इति तदर्थमपि न शास्त्रारम्भापेक्षा । न हि कियन्तमपि न्यायमप्रदश्य पूर्वपक्षः क्रियते। इह तु त्वन्मते नैकमेव वेदान्तवाक्यं विषयः । तस्यैकस्य केनचिन्न्यायेन पूर्वपक्ष एव व्युत्पादितेन निर्विशेषचिन्मानपरत्वव्यवस्थापनेन सिद्धान्त्यभिमते सगुणे ब्रह्मणि प्रमाणाभावात्तद्विचारार्थमपि शास्त्रं नारम्भणीयमिति वाच्यम्, त्वदभिमते च | न च वन्मते सर्वेषां वेदान्तानां निर्विशेषजीवचिन्मात्रपरत्वे सार्वत्रिक एको न्यायोऽस्ति । उपक्रमादीनां श्रुतिलिङ्गादीनां च परश्शतं बाध्यबाधकभावप्रकारशालिनां तत्र तत्र व्यवस्थितत्वात् । न च तेषां सर्वेषामेकस्मिन्नेवाऽत्र पूर्वपक्षे व्युत्पादनं यक्तम्। तथा सति सर्वस्याऽपि शास्त्रस्यैकाधिकरणकल्पनाप्रसङ्गात् । तस्मात्तावतां न्यायानां व्युत्पादकमेक शास्त्र- मिहाऽपेक्षितमित्यत्रैव व्याघातो न धर्ममीमांसानारम्भपूर्वपक्ष इति भावः ॥ ९ ॥ एतेन वाचस्पतिपूर्वपक्षे प्रत्यगात्मन इदानीमहमिति प्रकाशमान रूपमध्या- सपरिनिष्पन्नं तदिह न विचार्यम् । किन्तु संसारदशायामनाविर्भूतं निर्विशेषं तस्य तात्विकं रूपमस्ति श्रुतिप्रसिद्धम् तद्विचारार्थं शास्त्रारम्भ इति शङ्कावारणाय । विवरणकारपूर्वपक्षे प्रत्यग्ब्रह्मैक्यं नाऽसिद्धम् , तत्साधकश्रुतिसद्भावादिति शङ्कावारणाय च बहुना निर्विशेषवाक्यानामभेदवाक्यानां चाऽन्यपरत्वं वक्तव्यमिति तदुपपादकशास्त्रारम्भापेक्षया व्याघातस्स्यादित्यपि शङ्का निरस्ता । एकयैव प्रत्यक्षादि- विरोधयुक्त्या तेषामन्यपरत्वकल्पनात् ॥ ९ ॥ स्यादेतत्---अस्त्येव शारीरकशास्वादस्मादन्यत्सर्ववेदान्तानां निर्विशेषपरत्वव्युत्पादक शास्त्रम् । तदवलोकनेनैव पूर्वपक्षः स्यादित्याशयाऽऽह- तच्छास्त्रं चैदितोऽन्यत्कणचरमतवत्कल्प्यते पूर्वसिद्धं जीवं तस्य स्वसिद्धं विषयमुपयतो हन्त तस्यैव सोऽस्तु । तेनैकार्थ्य विरोधेऽप्यपहृतविषयं शङ्कयते चेदिहेदं जीवासंदिग्धतोक्तिः कथमिव घटनी पूर्वपक्षस्य तं स्यात् ॥१०॥ तस्य शास्त्रस्य स्वप्रकाशोऽपि जीवो विषयः स्वीक्रियते चंदस्यैव शास्त्रस्य स विषयोऽस्तु । किमप्रसिद्धशास्त्रान्तरकल्पनया ? तत्कल्पनया पूर्वपक्षसमर्थनेऽपि स्वप्रकाशस्य विषयत्वासंभवयुक्तिव्याहतत्वापरिहारात् । नन्वत्र स्वप्रकाशस्य विषयत्वा. संभवयुक्त्याऽनारभ्यमिति न पूर्वः पक्षः, किन्तु वेदान्तानां स्वप्रकाशचिन्मानपरत्व.
व्याख्यया सहितम् । १५ व्यवस्थापकं तावच्छास्त्रमस्तु । इदमपि तथाभूतमिति चेत्तेन गतार्थम् । सगुण ब्रह्म- परत्वव्यवस्थापकं चेतेन बाधितार्थमित्युभयथापि तदपहृतविषयत्वादनारभ्यमिदं शास्त्रमित्यतो न व्याघात इति चेत् ; एवं तर्हि जीवस्य स्वप्रकाशत्वेनाऽसंदिग्धत्वोक्तिः पूर्वपक्षेऽनुपयुक्ता तद्विरुद्धा च स्यात् । तदेव हि त्वया पूर्वपक्षसमर्थनार्थमुक्तम् । कश्च कणभुगादिशास्त्रेणाऽप्यपहृतविषयतयाऽनारम्भे शङ्कितुं शक्ये निर्विशेषशास्त्र एव तव पक्षपातः १ (१) समयपादे तत्सर्व निराकर्तव्यमिति चेत् इदमपि तथा । अनभिमतं शास्त्रान्तरमस्ति चेत्तत्रैव निगकर्तव्यं स्यात् । अनभिमततन्त्राणां सर्वेषामपि स्वातन्त्र्येण पृथक् पृथक् तत्रैव निराकरणात् । तस्मादनिराकरणादवसीयते—इदमेव तच्छावं नाऽन्यदिति ॥ १०॥ नन्वेतावताऽपि स्वप्रकाशस्य विषयत्वानुपपत्तिरसमाहित वेत्याशङ्का परस्याऽपि संमतेनाऽविद्यावरणेन जीवस्याऽनधिगतत्वमुपपादयन् परिहरति- का चात्रानुपपत्तिजीवस्य स्वप्रभस्य विषयत्वे । आविद्यकमावरणं जानीषे चानुमन्यसे च त्वम् ॥ ११ ॥ ननु भावरूपाज्ञानं नाऽनुभवामः । न चाऽनुमन्यामहे । न जानामीत्यनुभवस्य ज्ञानाभावविषयत्वसमर्थनादित्याशङ्कयाऽऽह- पुंस्त्वादिवत्विति नये पुरुषस्य हि त्व- मानन्दमावृतमभिन्नमुपेत्य नित्यम् । तत्वावबोधसमनन्तरमस्मदुक्तं मुक्तौ तदावरणभञ्जनमन्ववादीः ॥ १२ ॥ एवं हि तव मतम्-नित्यानन्दस्वरूप एव सन्मुक्तियोग्यो जीवः । न तु तस्य मुक्तावागन्तुकोऽस्त्यानन्दः । विकाररूपाणी धर्माणां मुक्तावभावात्। न च तदानीं पुरुषार्थरूपस्याऽऽनन्दस्य संसारदशायामपि सत्वे मुक्तिसंसारयोरविशेषप्रसङ्गः । तस्येदानी- मावृतत्वाभ्युपगमात् । न चाऽनादिभावरूपमज्ञानं तदावरक सिद्धान्ते नेष्यते सादिना तु कामकर्मादिना न निर्वाहः । सृष्टिप्रलययोस्तवृत्यभावेन मुक्ताविवाऽऽनन्दस्फूर्तिप्रसङ्गा- दिति वाच्यम् । सिद्धान्तेऽपि सत्यस्याऽनादेः जीवाश्रितस्य तं प्रति तदीयानन्दादिक ब्रह्मस्वरूपतद्गुणगणादिकं चाऽऽवृण्वतो मायाविद्याप्रकृत्यादिशब्दवाच्यद्रव्यरूपस्य ज्ञान- विरोधिनो भावरूपस्याऽज्ञानस्य "अनादिमायया सप्तो यदा जीवः प्रबुध्यते” “भूयश्चान्ते विश्वमायानिवृत्तिरि"त्यादिश्रुतिस्मृतिप्रतिपन्नस्येष्यमाणत्वात्तस्य च परमेश्वरापरोक्ष- शारीरकमीमांसाया द्वितीयाध्यायस्य द्वितीयपादः समयपादः ।
१६ मध्वतन्त्रमुखमदनम् ज्ञानेन निवृत्तौ प्राक् सत एवाऽऽनन्दस्य बाल्येऽपि सतः पुंस्त्वादेयौवन इव मुक्ता- वभिव्यक्तिः । सुषुप्त्यादौ तत्सत्वेऽपि कामकर्मादिवृत्यभावादीषदभिव्यक्तिः । तस्याऽऽनादित्वेन स्वोपादानगतोत्तगवस्थारूपनिवृत्यसंभवेऽपि प्रमाणसिद्धनिवर्तकोप- निपातबलात् रूपप्रध्वंसरूपा निवृत्तिः । तच्च प्रतिजीवं भिन्नमित्येकमुक्तौ न सर्व- मुक्तिरिति । सर्वोऽप्ययमर्थः (१) "पुंस्त्वादिवत्तस्य सतोऽभिव्यक्ति योगादि"त्यधिकरणे प्रतिपाद्यत्वेन (२)त्वदभिमतोऽस्मदीयभावरूपाज्ञानवृत्तानुवाद एव । तदनिर्वचनीयत्वादिक किञ्चित्परं नेष्यते । तथा च यस्त्रया संसारदशायां प्रकाशमानस्यैत्र जीवस्य स्वरूप- भूतानन्दस्तदानीमावृत इष्यते । स एव श्रुतीनां जीवस्वरूपत्वपक्षेऽनधिगतो विषय इति न तस्मिन्पक्षे विषयाभावासिद्धिरित्यर्थः ॥ १२॥ ननु मसिद्धान्ते जीवतदानन्दयोरभेदेऽपि गुणगुणिभावनिर्वाहकस्य भेदप्रतिनिधेः विशेषस्य सत्वात् (३)स्वप्रकाशजीवस्वरूपानावरणेऽप्यानन्दस्य युक्तमावरणम् । अखण्ड- जीवपक्षे जीवतदानन्दयोर्विशेषाभावादयुक्तम् । तदा हि प्रकाशमानस्यैवाऽऽनन्दस्या- ऽप्रकाशमानत्वं वाच्यम् । न च तद्युज्यते, विरोधादित्याशङ्कयाऽऽह- अभेदे दृढ़े तत्प्रकाशाप्रकाशावविद्याभिधब्रह्मशक्त्योपपन्नौ । विशेषोऽपिते जीवचैतन्यरूपं विरोढुं न शक्नोति तस्य प्रकाशम् १३ सत्यं निविशेषजीवपक्षे प्रकाशमानस्यैवाऽऽनन्दस्याऽप्रकाशमानत्वं वाच्यमिति । तत्त्वविद्याशक्तिमहिम्नोपपद्यते। सा ह्यघटितघटनापटीयसी ब्रह्मणः शक्तिः तस्यास्तादृशो महिमा नेष्यते चेत् सविशेषाभेदपक्षेऽप्ययं विरोधो दुष्परिहरः । न हि विशेषो- १वे. सू., २. ३.३१. २ अत्र मध्यभाष्यम्-यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते एवं सतामेवाऽऽनन्दादीनां व्यक्त्यपेक्षया तदुक्तिः। 'बलमानन्द ओजश्च सहो ज्ञानमना- कुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः' इति गापवनश्रुतिः इति । (पृ. ११९ पु. १ पं. ४ कुम्भ. सं.) अत्र तत्वप्रकाशिका-यथा पुरुषयोषिदादीनां अपत्योत्पत्तिशक्तिस्वरूप- त्वेऽपि कालतस्तदभिव्यक्तः "नायं पूर्व पुमान् , इदानीं तु पुमानि"त्यादि युज्यते । एवं जीवस्वरूपत्वेन मुक्तेः पूर्वमपि सतः ज्ञानानन्दादेः ईश्वरप्रसादेनाऽभिव्यक्तिनिमित्तेना- नन्दीभवतीत्यादिव्यपदशोपपत्तेः प्रागनभिव्यक्तत्वेनाऽनुभवाभावसम्भवात् तदभिव्य- त्यर्थ च मुमुक्षूणां प्रयत्नोपपत्तिरिति भावः । न चाऽवरणानुपपत्तिः । ज्ञानाभावातिरि- क्ततन्निमित्ताविद्याभ्युपगमात् । इति ( तत्व. प्र. पृ. १२० पु. १ पं. ७ कुंभ, सं.) ३ स्वप्रकाशस्य जीवस्य स्वरूपानावरणेऽपि ख. पु. पाठः ।
१७ .. व्याख्यया सहितम् । ऽस्तीत्येतावताऽऽनन्दप्रकाशस्याऽविद्यावरणेन किञ्चिदपनीयते । घटस्य कुड्याव- रणेन तत्सन्निकर्षप्रतिबन्धवत्' पटशौक्लयस्य (१)महारजतावरणेन तद्ज्ञानप्रति- बन्धवच्चानाऽऽनन्दस्य सन्निकृष्टत्वप्रतिबन्धस्य तत्प्रकाशोत्पत्तिप्रतिबन्धस्य च वक्तुमशक्यत्वात् । नित्यस्य जीवचैतन्यस्यैव तत्प्रकाशकतया तदुत्पत्तेः तत्कारणेन्द्रि- यसन्निकर्षस्य चाऽनपेक्षणात् । छत्रावावरणेनाऽऽलोकस्य विषयसंबन्धप्रतिबन्धवजीव- चैतन्यस्याऽऽनन्दसंबन्धप्रतिबन्धस्याऽपि वक्तुमशक्यत्वाच्च । तयोर्विषयविषयिभावसं- बन्ध( २ )स्याऽनागन्तुकस्वरूपाभिन्नधर्मत्वात् । न च मुक्तावानन्दप्रकाशो जीवभिन्नो जन्यज्ञानरूप एवाऽस्तु । जीवचैतन्यस्यैवाऽऽ. नन्देन विषयविषयिभावसंवन्धस्याऽनागन्तुकस्वरूपाभिन्नधर्मत्वात् । जीवचैतन्यस्यैव बाऽऽनन्देन विषयविषथिभावस्तदानीं जन्योऽस्त्विति वाच्यम् । मुक्तावन्तःकरणविलयेन तद्वत्तोनां जन्यज्ञानानां जीवे जन्यधर्माणाश्च त्वयाऽप्यनङ्गीकृतत्वात् । न चाऽऽनन्दजीव- चैतन्ययोर्विषयविषयिभावः सदा शक्त्यात्मना स्थितोऽपि मुक्तौ व्यक्त्यात्मतामापा- द्यत( ३ ) इति तदानीमेवाऽऽनन्दप्रकशो न प्रागिति वाच्यम् । व्यक्तरपि नि- त्यत्वानभ्युपगमे मुक्तौ जीवस्य सविकारत्वापत्तेः । नित्यानित्ययोश्शक्तिव्यक्त्योः भेदप्रसङ्गाच्चेति ॥ "न विशेषात्मता चेयमनित्या अक्तिरूपता। सैव यत्सविशेषा स्यात् विशेषोऽन्यो न चाऽप्ययम् ॥" इत्यनुव्याख्याने व्यक्ते श्शक्त्यभिन्नत्वेन नित्यत्वप्रतिषेधाच्च । इदानीमप्यान- न्दप्रकाशप्रयुक्तस्य स्वात्मनि परमप्रेम्णोऽनुभवाच्च । तस्मात्त्वन्मतमर्यादया लोकानुभवेन च जीवानन्दे प्रकाशमान एवाऽप्रकाशमानत्वं वक्तव्यम् । तच्चाऽविद्यामहिम्नवोपपाद- नीयम् । तथैवोपपादितञ्च न्यायसुधायाम् । अतः परमेश्वर एव सत्वादिगुणमप्य- विद्याविरोधित्वेनऽविद्यया स्वाधीनया प्रकृत्याख्ययाऽचिन्त्याद्भुतया स्वशक्त्या जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तमिति तत्र विशेषोऽकिश्चित्कर एवेति भावः ॥१३॥ मुख्यो भेदस्सन्नपि ब्रह्मदृष्टिं नेष्टे रोडुं तत्र को वा विशेषः । तदृष्टिस्ते नित्यसिद्धोहि जीवस्तस्मादन्यन्नाऽस्ति तद्गोचरत्वम्॥१४॥ जीवस्य ब्रह्मणस्सकाशान्मुख्यो भेदस्सन्नपि ब्रह्मदर्शनं यदा निरोढुं न शक्नोति तदा जीवस्य स्वानन्दाद्विशेषो भेदप्रतिनिधिस्तदर्शनं निरोधुं न शक्नोतीति किमु वक्तव्यमित्यर्थः । भेदोऽपि निरोधुं न शक्नोतीत्यत्र विशेषे दर्शित एव न्यायः । स १ महारजनाञ्जनेनेति पाठान्तरम् । २ भावस्य ग. पु. । ३ "आपद्यत" ग. पु. ३ १८ मध्वतन्त्रमुखमदनम् तु पूर्वश्लोके संक्षिप्त इह स्पष्टीकृतः । न चाऽव्यक्तस्वभावत्वाब्रह्मणस्तदप्रकाशोपपत्ति- रिति वाच्यम् । तथा सति ब्रह्मणः (१)प्रकाशप्रसक्तयभावेन जीवाश्रितमज्ञानं ब्रह्म तद्धर्मविषयमानन्दपारतन्त्र्यादिस्वधर्मविषयं चेति कल्पनावैयर्यप्रसङ्गात् । उपासना- नन्तरमप्यप्रकाशापातेन मोनशास्त्रावैर्यप्रसाच्च । न चाऽव्यक्तस्वभावमपि ब्रह्मोपासनया प्रसन्नं सत् स्वशक्त्यैवाऽपरोक्षीभवति । तच्चाऽपरोक्षज्ञानमन्तःकरणवृत्तिरूपमिति तेनैव मोक्षः। अतः स्वरूपचैतन्यस्य कदा. चिदपि ब्रह्म न विषयमिति वाच्यम् । त्वया "तदेतत्प्रेयः पुत्रात्प्रेयो वित्तादिति श्रुत्या ब्रह्म परमप्रेमास्पदतयोक्तमिति मुक्तौ स्वरूपानन्दानुभववत्तदनुभवस्याऽपि पुरुषार्थतयाऽङ्गीकृतत्वात् । मुक्तौ माहात्म्यग्रहणपूर्वकस्नेहरूपाया(२) भक्त रुपासनायाश्च त्वयाऽङ्गीकृतत्वाच्च । तस्मान्मुक्तौ स्वरूपचैतन्यातिरिक्तज्ञानाभावात् स्वरूपचैतन्यस्य च तदानीमागन्तुकविषयविषयिभावासंभवादनादिकालमारभ्यैव ब्रह्मणस्तद्गुणगणस्य च मुक्तियोग्यानां जीवाना( ३ ) स्वरूपचैतन्ये प्रकाशनं वक्तव्यमेव । तथाऽङ्गीकृतश्च त्वया (४) स्थानविशेषात् प्रकाशादिवदि" ( ५ )त्यधिकरणे । तत्र हि चतुर्मुखादि- जीवानन्दानां ब्रह्मानन्दप्रतिबिंबत्वे बिम्बावैचित्र्याद्वैचित्र्यानुपपत्तिमाशंक्य तत्तजीव- गतानादिभक्त्यादिगुणवैचित्र्यात्तदानन्दादिवैचित्र्यमुपपद्यत इत्युक्तम् । उदाहृतञ्च- (६) ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीनामनादितः। ब्रह्मादीनां सूपपन्ना ह्यानन्दादेविचित्रता ॥” इति । एवं ( ७) अनुबन्धादिभ्य" इत्यधिकरणान्तरोक्तं (८) तथाप्यनादिसंसिद्धभक्त्यादिगुणपूगतः। लभेद्गुरुप्रसादञ्च तस्मादेव च तद्भवेत् ॥ इति वचनमप्युदाहर्तव्यम् ॥ युक्तञ्चाऽतीतानागतपदार्थानां तत्तकालानामव्याकृता- काशस्य तदंशानां प्राच्यादीनां दिशां मनसः परमाणूनां तदवयवपरम्पराणां च साक्षिप्र- १. स्वप्रकाश ग. पु.। २. “स्नेहानुबन्धो यस्तस्मिन्बहुमानपुरस्सरः । भक्ति- रित्युच्यते सैव करणं परमेशितुः" इति भक्तेलक्षणमुक्तं मध्वभाष्ये ३. ३. ५४ । ३. जीवानामिति ग. पु. नास्ति । ४. वे. सू. ३. २. ३५. । ५. मध्यभाये यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिविम्बे विशेषः । एवमानन्दादेरपि । ब्रह्मा- दिगुणवैशेष्यादानन्दादिपरस्य च । प्रतिबिंबत्वमायाति मध्योच्चादिविशेषत इति वाराहे इति । १३३. २. पं. १०. कुंभ. सं. ६. श्लोकोऽयं मध्वभाष्ये ३. २, ३६ । ७, वे. सू. ३. ३. ५१. ८. व्र, म भा. १४०. १. पं.
व्याख्यया सहितम् । १९ त्यक्षविषयत्वमातिष्ठमानस्य तव ब्रह्मणोऽपि तद्विषयत्वम् । एवं ब्रह्मणः तद्रुणानाञ्च प्रका- शमानत्वेऽपि त्वयाऽस्य शास्त्रस्य निर्विषयत्वपरिहारायाऽप्रकाशमानत्वमप्यविद्यामहि(१) नोपपादनीयम् । उपपादितञ्च तथैव न्यायसुधायाम् । यद्यपि जीवचैतन्यं ब्रह्म स्वधर्मप्रकाशनात्मकम्, तथापि परमेश्वराचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशात् न तथा संसारे प्रकाशयतीति ॥ १४ ॥ एवं परमते सविशेषा(२)भिन्नस्य जीवानन्दस्येवाऽत्यन्तभिनस्य ब्रह्मण इव चाऽत्य- न्ताभिन्नस्याऽखण्डानन्दस्य प्रकाशमानस्याऽप्यप्रकाशमानत्वमविद्याशक्तिमहिम्रोपपन्नमि- त्युक्तमर्थं उपसंहरन्नेव तत्र युक्त्यन्तरं दर्शयति- इति तव सविशेषानन्दवब्रह्मवच्च स्फुरणयुतमखण्डानन्दमप्याद्रियन्ते । अनधिगतमविद्याशक्तिभूम्नैव धीराः स हि सकलमनूद्य प्रश्नतोऽपि प्रसिद्धः॥१५॥ खदुक्तोऽर्थः क इति न जानामि, दूरे जलमिव भासमानं किमिति न जानामि इति शब्दतः प्रत्यक्षतश्चाऽवगतमप्यर्थं साकल्येनाऽनू द्य तत्रौव प्रश्नो ज्ञानानुभवश्च दृश्यते । अतो बाह्यविषयेऽपि प्रकाशमानस्या प्रकाशमानत्वं प्रसिद्धमेव । न च त्वदुत्तोऽर्थ इत्यादी सामान्यतो ज्ञाते विशेषतः प्रश्नो ज्ञानानुभत्रश्चेति वाच्यम् । सामान्यस्य ज्ञातस्य प्रश्नविषयतायाः अज्ञानावच्छेदकतायाश्चाऽनुपपन्नत्वात् । अज्ञातस्य विशेषस्य प्रश्नविषयतयाऽज्ञानावच्छेदकतया चाऽनुवादायोगात् । न चाऽन्वयव्यतिरेकाभ्यां विशेषप्रश्ने सामान्यमेव तन्त्रम्; विशेषज्ञानानुभबे च सामान्यमेवाऽवच्छेदकमिति वाच्यम् । सामान्यविशेषभावस्य व्याप्यव्यापकभावातिरिक्तस्याऽभावेनाऽज्ञातधूमस्याऽपि ज्ञातवह्निकस्य धूमप्रश्नप्रसङ्गात् । धूमाज्ञानस्य वहिं न जानामीति वयवच्छेदेना- अनुभवप्रसङ्गाच । अनुमितिहेतुज्ञानविषयव्याप्तिप्रश्नादिस्थले विशिष्य वदभिमतसकल- विशेषणविशिष्टं व्याप्त्यादिकमवगच्छत एव प्रश्नार्थं तदप्रकाशस्य त्वयाऽपि वक्तव्य. त्वाच । अन्यथा प्रष्टुः तदवगमाभावे तस्य प्राक्तनवहयाद्यनुमानविलोपप्रसङ्गात् । तदवगमं विनाऽपि तदा तस्याऽनुमित्यङ्गीकारे तत्रैव व्यभिचारेण त्वदभिमतव्याप्ति- ज्ञानस्याऽनुमित्यकरणवप्रसङ्गात् ॥ न च दूरे जलज्ञानमनभ्यासदशादोषात् सन्दिग्धप्रामाण्यमिति तदा हितार्थसंदेहात् प्रश्नो ज्ञानानुभव (३)श्चेति वाच्यम् । अनभ्यासदशापन्नज्ञाने प्रकाशमानस्याऽपि जलस्या- १. महिम्नवो ग. पु. २. अभिन्नजीवानन्दस्येति ग० पु. ३. अनुभवइति ग० पु.
मध्वतन्त्रमुखमर्दनम् प्रकाशमानत्वानङ्गीकारे प्रामाण्यसंशयस्यैवाऽनवतारप्रसङ्गात् । प्रामाण्यशरीरनिविष्टस्य प्रामाण्यसंशयविषयज्ञानविषयीभूततद्वत्स्वभागातिरिक्तस्य पुरोवर्तिविशेषकत्वस्य जलव- प्रकारकत्वस्य च संशयविपर्ययानास्पदतया प्रामाण्यसंशयस्य तद्वत्वसंशयपर्यवसन्नत्वात् ॥ एवमस्मिन्ज्योतिर्मण्डले "कश्चन्द्र” इत्यादिः चक्षुषा चन्द्रमण्डलादिकं पश्यत एव प्रश्नोऽपि प्रकाशमानस्याऽप्रकाशमानत्वसाधक उदाहर्तव्यः । तत्प्रपञ्चस्त्वन्यत्र कृतोऽनुसन्धेयः। इदं त्वत्राऽवशिष्यते-परसिद्धान्ते सत्यमज्ञानमस्ति । पूर्वपक्षे तु कल्पितमेव तदभ्युपगम्यते । कल्पितञ्च न तदप्रकाशोपपादकमिति तदपवरके प्रविशता तदालोके कल्पितस्याऽपि तमसस्तदप्रकाशोपपादकत्वं दृष्टमित्यादि युक्तिभिरस्माभिस्सिद्धान्त- (१)लेशसङ्ग्रहादिषु दर्शिताभिर्निरस्तप्रायमिति नेह प्रपञ्च्यते ॥ १५ ॥ एवं निर्गुणस्याऽनधिगततया विचार्यत्वसंभवेऽपि तत्र विचिकित्सा चेत् सगुणब्रह्म विषयतयैव शास्त्रारम्भस्स्यात् । न च सर्ववेदान्तानामद्वैतिदर्शितन्यायैरखण्डै कपरत्वा- त्सगुणे ब्रह्मणि मानाभावः। अद्वैतिनां मतेऽध्यारोपापवादन्यायेनाऽद्वितीयब्रह्मप्रति- पादने महातात्पर्येण स्वरसतः प्रवृत्तानामपि वेदान्तानां मध्ये केषाञ्चिद्वाक्यानां सृष्टिवाक्यप्राप्तगुणसहितब्रह्मोपासनाविधिपरस्य ब्रह्मणस्तदुपासनाविषयगुणत्त्रप्रतिपाद- कत्वस्य चाऽङ्गीकृतत्वादित्यभिप्रेत्याऽऽह- यदि त्वेनं सत्यप्य गुणविषयं नाऽनुमनुषे तदा शास्त्रं कामं भवतु सगुणब्रह्मविषयम् । श्रुतीनां कासाञ्चित्तदपि कथयत्येक(२)विषयं महातात्पर्येण प्रगुणमगुणेऽपि स्थितिजुपाम् ॥ १६ ॥ इत्थं कृतं पूर्वपक्षदूषणमुपसंहरनेव तत्सिद्धान्तस्य दूषणं वक्तु तस्याऽप्यसारतां प्रतिजानीते- तस्मात्तुच्छं प्राचिपक्षे शास्त्रानारम्भवर्णनम् । तथैव तत्सिद्धान्तेऽपि तदारम्भसमर्थनम् ॥ १७ ॥ १. तथा जागरे घटादिप्रकाशनक्षम तत्रत्यपुरुषान्तरनिरीक्ष्यमाणालोकवत्य- पवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसिद्धसन्तमसोभिन्नार्थ क्रिया- कारित्वं दृष्टम् (सिद्धान्तलेशसङ्ग्रहः, ३६२. चौ० सं० )। २. एव० ग० पु.. .
me व्याख्यया सहितम् । २१ परेण स्वकीयाधिकरणपूर्वपक्षप्रदर्शनव्याजेनाऽद्वैतवाद एव शास्त्रानारम्भदूषणं दर्शि- तमिति तत्साधारण्याय पूर्वपक्षस्य प्राचिपक्षे इति निर्देशः ॥ १७ ॥ अथ परसिद्धान्तमनूद्य दूषयति- अद्वैते यद्यशेषश्रुतिशिखरगिरामैकमत्यं निरास्यं तासां ब्रह्मेति शब्दो गुणगरिमनिमित्तोऽपि नेष्टे गुणत्वात् । निर्दोषाशेपदीव्यद्गुणजुषि कलयन्सर्ववेदैकमत्यं तद्वद्वत्वादिवाचां त्वमपि खलु तथैवाऽन्यपर्यं ब्रवीषि ॥१८॥ सर्वेषां वेदान्तानां सजातीयविजातीयस्वगतभेदरहिते निर्विशेषजीवचैतन्यरूपे ब्रह्मणि तात्पर्यमाश्रित्य कृतस्य पूर्वपक्षस्य निरासाय सर्व वेदान्तप्रतिभटत्वेन विचारवि- धिवाक्यगतब्रह्मशद्रस्त्वया स्थापितः(१)। न चाऽयं गुणपूर्तिनिमित्तः सन्नपि सर्वा- नपि वेदान्तानुपक्रमादिदृढन्यायनिर्णीताद्वैततात्पर्यात्प्रच्यावयितुं शक्तः । प्रत्युत स्वयमेव तद्गुणभृतत्वात्तदनुगुणमेवाऽद्वैतवाद्यभिमतत्रिविधपरिच्छेदराहित्यरूपमर्थमालम्बते। दर्शि- तश्चाऽयं न्यायः त्वयाऽपि ( २)“न स्थानतोऽपी" त्यधिकरणे । तत्र (३)कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ। प्राज्ञः कारणबद्रस्तु द्वौ तु तुर्यन सिध्यतः ॥ इत्यादिश्रुतिवाक्याद्विश्वतैजसप्राज्ञादिरूपस्य भगवतोऽपि बद्रत्वादिदोषोऽस्ती- त्याशङ्कयोक्तमनुव्याख्याने- (४)“सर्वत्राऽशेषदोषोझपूर्णकल्याणचिद्गुणः । तद्विरुद्रन्तु यत्तत्र मानं नैव भवेत्क्वचित् । महातात्पर्यरोधेन कथं स्यान्मानमत्र त्वि"ति ॥ न्यायसुधायाञ्चोक्तम्-(५)सकलश्रुतीतिहासपुराणानां परमेश्वरस्याऽशेदोष- विधुरत्वे (६)समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्य तद्विरोधेन तद्वाक्यमत्र भगवतो दोषित्वादौ कथं मानं भवेत् ? । दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् । यथा-स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य "यद्यमुष्मि- ल्लोकेऽस्ति वा न वे"त्यादेस्तदवान्तवाक्यस्य । महावाक्यं हि प्रधानं अनन्यार्थत्वात् । अप्रधानं त्ववान्तरवाक्यं तदर्थप्रतिपत्तिहेतुत्वादिति । तस्मादिहाऽद्वैतवादिदर्शितोपक्रमा- १. कीर्तित इति ख. पु० । २.७० सू० ३. २. ११. । ३. ब्र. सू. १३१ पु. १. पं० ६ । ४. अनु २०२. १. पं० ८ (कुं० सं०) । ५. न्या. सु. ५०१-१-८ ६. दूरत्वेइति न्यायसुधापाठः ।
मध्वतन्त्रमुखमर्दनम् दिनयेभ्यः प्रबलतरैः न्यायैः सर्ववेदान्तानां सगुणे ब्रह्मणि महातात्पर्य प्रसाध्यते चेदेवं कृतपूर्वपक्षनिरासो लभ्यते । न तु ब्रह्मशब्दशक्तिप्रदर्शनमात्रेणेति भावः ॥१८॥ स्यादेतत् --जीवातिरिक्त ब्रह्मणि प्रमाणं नास्तीति प्रत्यवतिष्ठमानं पूर्वपक्षिणं प्रति तत्र प्रमाणतयोपन्यस्तं ब्रह्मपदं तस्याऽज्ञातस्य ज्ञापकं उत्पत्तिवाक्यस्थानीयमिति तत्यतिपादितं गुणपूर्णत्वमुत्पत्तिशिष्टम् । तेन जीवातिरिक्त ब्रह्मणि सिद्धे वेदान्तेषु सर्वैरपि ब्रह्मप्रकरणैस्तत्रैव वर्तितव्यमिति तत्प्रतिपादितानि निर्गुणत्वजीवाभिन्नत्वादो- न्युत्पन्नशिष्टानि । अत उत्पत्तिशिष्टप्रावल्यमर्यादया ब्रह्मपदस्य सर्ववेदान्तेभ्योऽपि प्राबल्यं स्यादित्याशङ्कवाऽऽह- नाऽऽशंक्योत्पत्तिशिष्टस्थितिरिह यत इत्यन्यसिद्धानुवादा- स्यक्तं चोत्पत्तिवाक्यावगतमपि पशोभूरि बाधाविष्ट्वम् । अस्ति श्रुत्यन्तरानुग्रह इति सुशकं तद्धविष्ट्वेऽपि वक्तुं रूपत्वादीव कुम्भे गुणिनि गुणगतं नाऽपि नाम्नो निमित्तम् ॥ १९ ॥ स्यादेतदेवं यदि ब्रह्मणो धर्मिणः तब्रह्मेत्यत्रत्यं ब्रह्मपदमज्ञात(१)ज्ञापकं स्यात् । न त्वेवम्, तस्य "यतो वा इमानी"ति यदुपबन्धवलेन जगत्करणतया सहाऽन्यतः प्राप्तस्य धर्मिणोऽनुवादकत्वावगमात् । ततश्च “सदेव (२)सौम्येदमग्र आसीत्" "( ३ ) आत्मा वा इदमेक एवाऽग्र आसीत्' इत्यादिकारणवाक्यमेव तत्प्रापक वक्तव्यम् । तत्र च सजातीयविजातीयस्वगतभेदनिषेधः स्वरसतः प्रतीयत इति स एवोत्पत्तिशिष्टो न तु गुणपूर्णत्वमिति विपरीतमेव बलाबलम् । अस्तु वा तदेव ब्रह्मपदमज्ञातधर्मिज्ञापकं तथाऽपि नाऽत्रोत्पत्तिशिष्टन्यायावतारः। उत्पत्तिशिष्टमपि हि न भूरि बाधाय प्रभवति । अत एव "(४)पशुमालभेत” इत्युत्पत्तिवाक्ये देवता सम्बन्धेनावगतं पशोहविष्ट्र “पशु विशास्ति हृदयस्याग्रेऽवद्यती"त्यादि हृदयादि. १. अज्ञातस्य ग० पु० । २. छा० उ०६. २. १ । ३. ऐ. उ० २. १.१. ४. अयं भावः- “यो दीक्षितो यदग्नीषोमीयं पशुमालभेत" इति पशुयाग- विधायकं वाक्यम् । तत्राऽग्नीषोमीयपदं "साऽस्य देवता" इत्यधिकारविहितदेवता- तद्धितान्तम् । तेन च देवताविशिष्टं द्रव्यमभिधीयते। तच्च द्रव्यं पशुपदसान्निध्यात् पशुरूपम् । एवं च साक्षात्पशोरेव देवतासंबन्धश्रवणात् “आग्नेयमटाकपालं (पुगेडाशं) निर्वपेत्” इत्यादी. पुरोडाशादेरेव हविष्वमिवेहाऽपि साक्षात्पशोरेव हविष्वमुचितम् । तथाऽपि विशसनहृदयाद्यवदानादेः विधानात् साक्षादेव हविष्ट्ये विशसनाद्यसंभवेन १ व्याख्यया सहितम् । हविष्ट्वगमकानेकवाक्यविरोधात् त्यक्तम् । इह (१)वहन्तोऽस्मिन्गुणा इति श्रुत्यन्तर- सहायकमप्यस्तीति चेत् , किं ततः ? पशोह विष्ट्वऽपि "जुटं (२)देवानामिदमस्तु हव्यं" इति (३)तदुपाकरणमन्त्रसहायकमस्ति । तथाऽपि बह्ववदानवाक्यविरोधात् तद्भविष्ट्वं त्यक्तं चेत्पूर्णगुणत्वमप्यनेकाद्वैतवाक्यविरोधात् किमिति न त्यक्तव्यम् । एतेन ब्रह्मपदस्य श्रुतिरूपतया निर्गुणत्वादिप्रतिपादकवाक्येभ्यः प्रावल्यमित्या- शङ्का (४)निरस्ता । प्रथमोपस्थितिप्रयुक्तबलाद्वहुत्वप्रयुक्तबलस्यैवाऽधिकत्वात् । (५)"विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वमिति" न्यायात् । अयुक्तं च गुणबृहत्वस्य (६)गुणिनि शब्दप्रवृत्तौ निमित्तत्वम् । अन्यथा रूपत्वगन्धत्वादीनि निमित्तीकृत्य कुम्भेऽपि रूपरसगन्धादिशब्दप्रवृत्तिप्रसङ्गात् । तस्मादद्वैतविषयमहावाक्या- र्थविरोधादद्वैतस्यैवोत्पत्तिशिष्टत्वेन तदवरोधाद्वहुवाक्यविरोधाद्गुणगतधर्मस्य गुणिनि शब्दप्रवृत्तिनिमित्तत्वायोगाच्च ब्रह्मशब्दो न गुणबृहत्वनिमित्तः, किन्तु परब्रह्मण्यद्वैत्य- भिमतत्रिविधपरिच्छेदराहित्यनिमित्त एव । "बृहन्तो ह्यस्मिन्गुणा" इति श्रुतिरस्ति चेत् सा व्यावहारिकगुणविशिष्ट सगुणब्रह्मणि कथंचित् स्तुतिपरतया नेतव्या । अद्वैतिभिः “(७)स्याच्चैकस्य ब्रह्मशब्दवत्" इति सूत्रे ब्रह्मशब्दस्य निर्गुण इव सगुणेऽपि वृत्तरङ्गीकृतत्वादिति भावः । (८)एतेन "(९)अथाऽतो ब्रह्मजिज्ञासे"ति सूत्रस्याऽऽदावस्त्योङ्कारो(१०) ब्रह्मवा- चकः सूत्रावयवः । स चाऽवतेर्धातोरुत्पन्न ओतत्ववाची सन्योग्यतया गुणौघतत्वपर इति तेनाऽपि ब्रह्मणो गुणपूर्तिसिद्धेस्तस्य जीवाद्वैलक्षण्यमित्यपि कल्पना गलहस्तिता ॥१९॥ एवं ब्रह्मशब्दस्य गुणपूर्तिवाचकत्वमेव नाऽस्तीति ब्रह्मणो जीवाभेदाविरोध उपपादितः । इदानीं तद्वाचकत्वमङ्गीकृत्याऽपि तदविरोधमुपपादयति--- बहुतरतद्विधियर्थ्यांपत्या तत्परित्यज्य हृदयादिद्वारैव पशोः हविष्ट्वं न तु साक्षादिति निर्णीतं पूर्वतन्त्रे दशमाध्याये। तदत्राऽभिसंहितम् । १. बृहन्तो ह्यस्मिन् इति ग० पु.। २. “इमं पशु पशुपते ते अद्य वनाभ्यग्नये सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम्" (तै. सं. ३. १. ४) इति समग्रो मन्त्रः। ३. उपाकरणं नाम पशोर्देवतायै निर्देशनम् । ४. निराकृतेति. ग० पु० । ५. जै. पू. मी. सू. १२. २. २२ । ६. गुणिशब्दप्रवृत्तिनिमित्तत्वम् । ग० पु० । ७. वे. सू. २. ३. ५ । ८. अनेन ग० पु० । ९. वे. सू. १. १. १ । १०. "सर्वत्राऽनुगतत्वेन पृथगों- क्रियतेऽखिलैः । ओतत्ववाची ह्योङ्कारः वक्त्यसौ तद्गुणौतताम् । ब्रह्मशब्दार्थो नारायणपदोदितः । इत्यनुव्याख्याने पृ० १६ १. २. ८ । .
२४ भूमाख्यस्त्वदभिमतो मध्वतन्त्रमुखमर्दनम् किं चैशो गुणगरिमा न जीववगें विरुद्ध एषः। यत्तस्मिन्नपि घटते सदा सतोऽस्य स्वानन्दप्रभृतिवदावृतेरभानम् ॥ २० ॥ ईश्वरस्य गुणबृहत्वं नाम त्वन्मते तद्गुणानामानन्दादीनां भृमा निरतिशयत्वरूपं उत्कर्ष इति "(१)भूम्नः (२)क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति" (३)ब्रह्मदृष्टि- रुत्कर्षादि"ति त्वदीयाधिकरणयोः(४) स्पष्टम् । जीवब्रह्माभेदसजीववर्गेऽपि स्यादिति तथैवाऽनुभवोऽपि भवेत्तथा च तस्याऽल्पगुणत्वेनाऽनुभवो न स्यादिति हि (५)तस्य विरुदत्वमुच्यते । नाऽयमस्ति विरोधः । जीवानां मुक्तिसमयभोग्यानन्दज्ञानवलायुत्क- र्षमङ्गीकृत्य त्वया तस्य संसारे किंचित्प्रकाशमानस्याऽपि सर्वात्मना प्रकाशे मुक्ति- संसारयोरविशेषः स्यादिति तत्परिहारार्थमविद्यावरणस्योपपादितत्वेन तत एव तस्मि- परमेश्वरगुणपूर्तिसत्वेऽपि तदननुभवस्याऽल्पगुणत्वानुभवस्य च समर्थितप्रायत्वात स्वकीयमुक्तिभोग्यानन्दाद्युत्कर्ष एव परमेश्वरे गुणभूमेति वक्तु शक्यत्वाच्च । अविद्या- .. १. वे. सू. ३. ३. ५९। २. अत्र मध्यभाष्यम्-सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत्सर्वत्र सह- भावात् । दीक्षाप्रायणीयोदयनीयसवनत्रयावभृयात्मकः ऋतु: "भूमैव देवः परमो युपास्यो नैवा भूमाफलमेषां विधत्ते । तस्माद्भुमा गुणतो वै विशिष्टो यथाक्रतुः कर्म- मध्ये विशिष्ट” इति गौपवनश्रुतिः । इति १४१. १. ८ अत्र तत्वप्रकाशिका-सर्वैरुपास्यो भृमगुणः सर्वगुणेषु तस्य ज्यायस्त्वात् । कस्मात् । यथा खलु दीक्षाप्रायणीयोदयनीयसबनत्रयावभृथात्मकस्यक्रतोः सर्वयागेष्त्र- नुवर्तन एव साफल्यात् । अन्यथा वैफल्यात् ज्यायस्त्वं । ततश्च सर्वैः कर्तव्यम् । तथा भूमत्वस्य सर्वत्राऽऽनन्दादिषु सहभावेन उपासन एवेष्टफलसिद्धेः इति । त. प्र. १८३. १. पं. ८. कु. सं. । ३. वे० सू० ४, १.५। ४. मध्वभाष्यम्- "ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् । ब्रह्मदृष्टया सदोपास्यो विष्णुस्सर्वैरपि ध्रुवम् । महत्ववाची शब्दोऽयं महत्वज्ञानमेव हि । सर्वतः प्रीतिजनकं अतस्तत्सर्वथा भवेत् । आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता । 'कार्येव सर्वथा विष्णोः ब्रह्मत्वं न परित्यजेत् । इति ब्रह्मत इति १४९. १. पं. २. कुं. सं. । ५. तस्येति ग० पु० नास्ति।
- व्याख्यया सहितम् । वरणनिवृत्तिरूपमुक्त्यनन्तरमपि हि केषाञ्चित्परमेश्वरापरोक्षज्ञानानन्तरसंतसत्कर्माननुष्टा- नविकर्मानुष्ठानदोषेण परमेश्वरेच्छावशात्स्वरूपानन्दस्य किञ्चिदनभिव्यक्तिमङ्गोकुरुषे । "(१)स्तुतयेऽनुमिति"ति त्वदीयाधिकरणे तथा निरूपितत्वात् (२) । परमेश्वरस्य चाऽऽनन्दादिभूम्नो निरतिशयस्वरूपस्याऽपि अतीतक्षणात्यवन्यूनाधिकभाववदसंख्यना. नाविशेषशालिनः कश्चिद्विशेष एव मुक्तान्प्रति यथाऽधिकारं भासते इति विशेषान्तराणां पुरुषभेदेनाऽभिव्यक्तिमङ्गोकुरुषे । (३)नानाशब्दानेदादि"ति त्यदीयाधिकरणे तथा (४)निरूपितत्वात् । पारमेश्वरस्याऽऽनन्दादिभूम्नो जीवेऽपि सत्वे तस्य संसारदशायां विद्यमानेनाऽविद्यावरणेनाऽप्रकाशे काऽनुपपत्तिरिति भावः ॥ २० ॥ एवं गुणपूर्णत्वस्य जीवेऽपि संभवेनाऽविरोध उपपादितः । इदानीं तस्य विरुद्र- स्वेऽपि न परमते जीवभेदकसाधकमित्याह- अपि च भगवानेकोऽनेकस्तनुस्तनुमानपि स्वयमवयवो नाऽस्त्यैश्वर्याद्विरोध इतीदृशम् । विपमगुणसाङ्कय वयं तवाऽभ्युपगच्छतः कमतरवद्भेदस्सिध्येविरुद्धगुणान्वयात् ॥ २१ ॥ इत्थं हि तव मतम्-ईश्वरस्स्वयमेकस्सन्नपि (५) आनन्दमयाधिकरणोदाहृतान- १.व. सू. ३. ४. १४ ॥ २. अत्र मध्वभाप्यम्-ब्रह्मत च-येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः । स्वेच्छानुवृत्यैव भवेत् ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम् । यस्य ज्ञानं तस्य मोक्षः इति नास्त्र विचारणा । तस्य शान्त्यादयोऽङ्गानि तस्मात्तेषामनुष्ठितिः। अवश्यकरणीया स्यादन्यथाऽत्पफलं भवेत् । इत्याग्नेये । ज्ञानान्मोक्षो भवत्येव सर्वकार्यकृतोऽपि तु । आनन्दो इसतेऽकायोच्छुभं कृत्वा तु वर्धत इति ब्रह्माण्डे इति ( १४४. २. १., १४५. १. ९.) ३. वे. सू. ३. ३.६०। ४. अत्र मध्वमाध्यम्-शब्दोऽनुमा तथैवाऽक्षः योग्यताभेदतस्सदा । ब्रह्मादीनामेकमर्थ बहुधा दर्शयन्ति हि । अतः पूर्णत्वमीशस्य नान वेषां प्रदृश्यते । अतः फलस्य नानात्वं नानैवोपासना यतः। इति ब्रह्मतकें । अतो भूमत्वमपि नानवो- पास्येति । १४१. १. पं. ११ । अत्र तत्वप्रकाशिका-भूमत्वमुपासने अधि. कारिणां नानाप्रकारेणैव प्रतीयते । शब्दादिभिः प्रमाणः तत्प्रतीतेरेष्टव्यत्वात् । शब्दा. दीनां च प्रमाणानां अधिकारिभेदेनाऽनेकधैकैकार्थप्रतीतिजनकत्वान्नानोपासनाच्च फल- तारतम्यमुपपद्यत इति भावः । ( त. प्र. १८३. २. पं. ४ ) । ५. वे. १. १.
. .. ६ मध्वतन्त्रमुखमर्दनम मयप्राणमयादिरूपेण, (१)गुहाधिकरणोदाहृतशुभकर्मफलभोक्तून्तरात्मरूपेण, (२)"न संख्योपसंग्रहादि"त्यधिकरणोदाहृतपञ्चपञ्चजनरूपेण, (३)"न स्थानतोऽपी" त्यधिकर- गोदाहृतविश्वतैजसप्राज्ञरूपेण चाऽनेकः । तथा शरीरी सन्नपि (४)"अरूपबदेव हि तत्प्रधानत्वादि"त्यधिकरणोक्तरीत्या परव्यूहावतारादिनानाशरीरिरूपः । एवमानन्द- मयोऽत्रयवी सन्नपि तदीयशिरःपक्षमध्यपुच्छावयवरूपः । सर्व चैतदचिन्त्याद्भुतशक्तः परमेश्वरस्यैश्वर्यवशान विरुध्यते । (५)अङ्गाङ्गित्वेन भगवान्क्रीडते परमेश्वरः । ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन्जनार्दनः ॥ अतक्र्ये हि कुतस्तस्त्वप्रमेये कुतः प्रमेति वृहत्संहितायाम् । इत्यादि वचनादिति । एवं सर्वत्र विरुद्धधर्मसाङ्कर्यमेव भगवदैश्वर्यातिशयप्रयुक्त- तया बहुमन्यमानस्य तव मते सकलगुणपरिपूर्णस्यैव ब्रह्मणोऽल्पजीवगुणभावोऽपि संभवतीति न ब्रह्मशब्देन जीववैलक्षण्यं सिध्यति । विरुद्धधर्मेण भेदसाधनं खलु विरुद्धधर्मसङ्करमन्यत्र परिहरतः शोभते । सर्वत्र विरुद्रधर्मसंकरमेव श्रेयांसमभि- मन्यमानस्य तव कथं तदुपपद्यतामिति भावः ॥ २१ ॥ नन्वीश्वरः स्वकीयाचिन्त्याद्भुतशक्तिमात्रेण स्वस्मिन्नेकत्वानेकत्वादिविरुद्रधर्म- समावेशं घटयतीति मया नेष्यते ; किन्तु भेदप्रतिनिधि विशेषमपेक्ष्य तं घटयतीति । न च जीवेश्वरयोर्मया विशेष इष्यते; येन भेदाभावेऽपि तत एव तस्य स्वविरुद्र- धर्मशालिजीवभावः स्यादित्याशङ्कयाऽऽह~ विशेष वैकुण्ठे यदि वदसि भेदप्रतिनिधि तदेकानेकत्वप्रभृतिगुणसंवासघटकम् । सजीवब्रह्मत्वव्यतिकरविरोधं च शमयेत् समं खल्वनाऽपि श्रुतिशिरसि भेदापवदनम् ।। २२ ॥ परमेश्वरे "नेह नानास्ति किं चने"त्यादि स्वगतभेदनिषेधश्रुतिबलादेव हि तस्मिन्ने कत्वादिविरुद्धधर्मसमावेशाय त्वं विशेषमङ्गीकृत्य स्वयमेकोऽपि परमेश्वरी विशेषबलादनेक इत्यादि कल्पयसि । जीवब्रह्मभेदनिषेधश्रुतिवलात्तयोः विरुद्धधर्मसमावेशाय भेदस्थाने विशेषमङ्गीकृत्य परमेश्वर एव विशेषवशाद्विविधजीव- भावेन संसरतीति किमिति त्वया न कल्पनीयम् ? न हीश्वरे स्वगतभेदनिषेधश्रुते- जीवेश्वरभेदनिषेधश्रुतेश्च कश्चिद्विशेषस्त्वयोपपादयितुं शक्यत इति भावः ॥ २२ ॥ १. वे. सू. १. २. ११ । २. वे. सू. १. ४. १२ । ३. वे. सु. ३. २. ११. अधि, ८ । ४. वे. सू. ३. २. १४ । ५. वे. सू. भा. ८८. २. ४.। तथा .
न व्याख्यया सहितम् । एवं ब्रह्मणः सविशेषगुणपूर्तिमत्वाङ्गीकारेऽपि तदीयशक्तिमहिम्ना विशेषबलेन च तस्यैवाऽल्पगुण जीवभावस्संभवतीत्युक्तम् । इदानीं सर्वविधविरुद्धधर्मसङ्घटने ब्रह्मणशक्तिरेव पर्याप्तति विशेषाङ्गीकारो व्यर्थ इत्याह- वक्तव्यं ते विरुद्धं घटयति भगवच्छक्तिरेवेत्यवश्यं नो चेत्कृत्स्नप्रसक्तिर्निरवयवरवक्षोभणं वा कथं स्यात् १ । एकोऽनेकस्थितश्चेत्यणुरखिलजगद्व्यापकश्चेति वा ते तत्र व्यर्थो विशेषः वचन तव तया सर्वनिर्वाहसिद्धेः ॥२३॥ पारमेश्वरी शक्तिरेव (१)विरुद्धधर्मसङ्घटनीत्यवश्यं त्वयैष्टव्यम् । अन्यथा जीवस्य स्वतन्त्रकरीत्वे कृत्स्नप्रसक्तिनिरवयवत्व शब्दकोपो वा स्यादिति त्वदुक्तदृषणम- दूषणं स्यात् । तथा हि- जीवस्य स्वतन्त्रकतत्वनिरासाथै "(२)इतरव्यपदेशाद्विताकरणादिदोषप्रसक्ति"- रित्यधिकरणम् । तत्र “(३)कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति गुणसूत्रं जीवस्य स्वतन्त्रकर्ट त्वनिरासे हेत्वन्तरपरमिति तब (४)मतम् । तत्र "न जीवात्कारणं पर"मिति श्रौतव्यपदेशाज्जीवः स्वतन्त्रकर्तेति पूर्वपक्षे स्वतन्त्रकर्तृत्वे तस्य हिताकरण- महितकरणञ्च न स्यात् । दृश्यते च तस्य हिताहिते विविंचतोऽपि तदुभयमास्तिक- कामुकादेरिति दूषणमुक्त्वा कृत्स्नप्रसक्तिसूत्रेण यदि जीवः स्वतन्त्रकर्ता स्यात् तदा तस्य सिद्धान्ते तत्स्वरूपातिरिक्तकार्यानुसारितारतम्यवत्कृतिरूपगुणानङ्गीकारात् स्वयमेव प्रवृत्तिशक्तिरूपस्य तस्य तृणादानादिष्वपि कृत्स्नशक्त्या प्रवृत्तिः प्रसज्येतेत्यनु- भवविरोधः । १. सर्वविरुद्ध इति ग० पु० । २. वे. सू. २. १. २२. अ. ७. । ३. वे. सू. २. १. २७. अ. २॥ ४. अत्र मध्वभाष्यम् । अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाऽङगुलि- मात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिस्स्यात् । न च तद्युज्यते । सामथ्र्यैकदेशदर्शनात् । न चैकदेशेन, निरवयवत्वात् । ( भा० १०८. २. पं०९) अत्र तत्वप्रकाशिका- न केवलं हिताक्रियादिदोषो जीवस्य स्वतः कले। किन्त्वयं वक्ष्यमाणश्च । तथाहि-कि जीवस्सर्वकार्येषु सर्वसामर्थ्येन प्रवर्तते ? अंशेन वा ? नाद्यः। एकेना. ऽङगुलिमात्रोण तृणादानादावपि पूर्णशक्त्या प्रवृत्तिप्रसक्तः । न च स्यादेवमिति वाच्यम् अनुभवविरोधात् । न द्वितीयः । अंशाभावात् । न चांऽशित्वमङ्गीकर्तुं शक्यम् । अथेति निरवयवत्वश्रुतिव्याकोपादिति । (त० प्र० ९०. १. पं०१)।
HORNO . .. मध्वतन्त्रमुखमर्दनम् न चैकदेशेन प्रवृत्तिः, तस्य निरंशत्वात् । अन्यथा निरवयवत्वशब्दव्याकोपः । न च "(१)व्यतिरेको गन्धबदि" (२)त्यधिकरणे जीवस्य सांशतया व्यवस्थापयिष्य- माणत्वादशाना बहुत्वेनाऽशविशेषैः कार्यानुसारिणा तारतम्येन तस्य कर्तुत्वोपपत्तिः । बहुत्वस्य भेदव्याप्तत्वेन भेदस्याऽपि प्रसक्त्या भिन्नांशराहित्यरूपनिरवयवत्वशब्द- ब्याकोपतादवस्थ्यात् । न च विशेषवलेन बहुत्वोपपत्तिः। भेदेनोपपादनीयस्यांऽशांशि- बहुत्वस्य चेतने विशेषेणोपपादने घटादावचेतनेऽपि तस्य तेनैवोपपादनप्रसङ्गादिति दूषणान्तरं प्रदर्थ, तस्मादचिन्त्यशक्तिः परमेश्वर एव परस्परं विरुद्धमप्यभेदं अंशांशि- स्वकृतं बहुत्वं च चेतनेषु विशेषेणैव निमित्तेन समावेश्याऽभेदेन निरवयवत्वशब्दकोपं बहुत्वेन कृत्स्नप्रसक्तिं च निराकृत्य कार्यानुरूपं जीवेन कारयतीत्यङ्गीकर्तव्यमिति तदुपसंहृतम् । अत्र परमेश्वरशक्तिमनपेक्ष्य विशेषेणैवाऽभेदबहुत्वयोः विरुद्धयोस्समावेशसमर्थन "कृत्नप्रसक्त्यादि" सूत्रोक्तं दूषणं न (३)लगेदिति स्फुटमेव । तदपेक्षायां तु सेव तव पर्याप्ता किमजागलस्तनायमान विशेषकल्पनया ? किमपि साधनान्तरमनपेक्ष्य सर्वमपि कर्तुमकर्तुमन्यथा कर्तुमपि शक्तः परमेश्वर इति हि तव मतम् । तस्य शक्तिः कथं भेदापेक्षं बहुत्वं अभेदेऽपि विशेषमपेक्ष्य संपादयति न तु तमनपेक्ष्येति नियन्तुं शक्यते ? यदि हि तस्य जगत्सष्टौ प्रकृत्यायपेक्षावदभेद १. वे. सू. २. ३. १७ अ. १३ । २. अत्र मध्वभाष्यम्-यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवा- दंशाः पृथग्गच्छन्ति । अत एक एव सन् गन्धवद्वयतिरिच्यते । अथैकी भवति । अथ बहीभवति । तं यथा यथेश्वरः कुरुते तथा तथा भवति "सोऽचिन्त्यः परमो गरीयान्" इति शाण्डिल्यश्रतिः । “अचिन्त्य एषः शक्त्यैव ह्ये कोऽवयव- वर्जितः । आत्मानं बहुधा कृत्वा कोडते परमेश्वरः" । इति पाझे। इति (म. भा० ११८. १. पं० ११)। अत्र तत्वप्रकाशिका-अस्त्येव जीवस्य बहुरूपत्वम् । अणुस्त्रेऽप्यंशव्यतिरेकेण बहुत्वोपपत्तेः । न चांऽशिनं विहायाऽन्यत्रां- ऽशस्य गमनमनुपपन्नम्, गन्धादौ दृष्टत्वात् । न च श्रुतिविरोधः । तस्याः स्वरूपैक्य- विषयत्वात् । न चाऽभिन्नांशशून्यत्वादनुपपत्तिः । योगसंपदा तदुपपत्तेः । न चेश्वरेण साम्यापातः, योगिनामपि बहुरूपत्वशक्तः योगागधितेश्वरप्रसादायत्तत्वात्। न चेश्वर- स्याऽप्येतदशक्यत्वम् । तस्याऽचिन्त्यशक्तिस्वात् । कुत एतत्सर्वमिति चेत् "अथेति श्रुतेरिति भावः इति । ( त० प्र० ११८. १. पं० ५)। ३. "लभ्येत" ग० पु०।
व्याख्यया सहितम् । २९ बहुत्वसमावेशसंपादने विशेषापेक्षा श्रुत्यादिप्रमाणसिद्धा स्यात् तदा स्वयमेव गन्तुं शक्तस्याऽपि दण्डावलंबनविशेषापेक्षाऽपि लीलामात्रेणेति तव कल्पना प्रसरेत् । न चैवम् ; विशेषस्य विरुद्धसमावेशकल्प्यत्वात्तस्य चाऽऽवश्यकपरमेश्वरशक्त्यैवो- पपन्नत्वात् ॥ अपि चैक एव विष्णुरनेकत्र सर्वेषां दक्षिणाक्षिस्थाने जाग्रदवस्थाप्रेरकेण सप्ताङ्गै. कोनविंशतिमुख इत्याधुक्तलक्षणेन विश्वाभिधानेन रूपेण प्रतिस्थानं समग्रेणैव स्थितः। यथा नानादेशस्थितानशेषपुरुषान् प्रति सतताभिमुखेन समग्रेण रूपेण तरणिस्तदूर्ध्व देशे स्थितः न तु वहुकुंभसंभृताम्भोवत्तत्तदक्षिस्थाने स्थितः स्वरूपतश्शरीरतो वा भिन्नः । नाऽपि बहुतृणाग्रप्रसारितपटवत्तत्तदधिकरणेष्वेकदेशेन स्थित इति त्वया (१) "न स्थानतोऽपि पटस्योभयलिङ्ग सर्वत्र ही" त्यधिकरणे (२) स्थापितम् । तथाऽणुरेव विष्णुरखिलजगद्व्यापकश्च सूक्ष्मतया दृश्यमान एव कृष्णस्य मुखे गर्भीकृतब्रह्माण्डत्वस्य यशोदया दृष्टस्यैकेन दाम्ना बन्धनादनुभवाच सूक्ष्म एव तदुदरे बहूनामपि दाम्नां बन्धुमपर्याप्तत्वस्य तदृष्टस्य महत्त्वलिङ्गस्य सत्यादिति च (३) अक्ष- रमंबरान्तरधृते" रित्यधिकरणे “अस्थूलमनवि"ति श्रुतिवाक्यमणुत्वस्थूलत्वपरं व्यव- स्थाप्य त्वया (४) निरूपितम् । (५) दहगधिकरणे च दहराकाशान्तस्थस्य परिच्छिन्नस्यैव ब्रह्मांशस्य "यावान्वा अयमाकाशस्तावानि"ति श्रुत्यर्थतया (६)बहिब्रह्मा- काशवद्व्याप्तत्वं त्वयाऽङ्गीकृतम् । तत्रैव परिच्छिन्नस्य व्याप्तत्वासंभवमाशङ्कयाऽन्यत्राप्येवम् "आत्माऽन्तहृदयेऽणी- यान् ब्री हेर्वा यवाद्वा श्यामाकाद्वा श्यामाकतण्डुलाढे"त्यणीयस्त्वेन श्रुतस्यैवाऽन्तहृदयस्थि- ४. १. वे. सू. ३, २. ११. । २. अत्र मध्वभाष्यम्-स्थानापेक्षया हि परमात्मनो न भिन्न रूपम् । सर्वेषु भूतेष्वेकमेव ब्रह्मेत्याचक्षत इति श्रुतिः । एकरूपः पगे विष्णुः सर्वत्राऽपि न संशयः । ऐश्वर्यादूपमेकञ्च सूर्यवहुधेयते इति मात्स्ये। प्रतिदृशमिव नकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह इति भागवते इति । (मा० १३१. १. पं० ३) ३. वे. सू. १. ३. १०. अधि० ३. । तत्वप्रकाशिका-हृत्पद्मगताकाशस्थमन्वेष्टव्यमिति सामान्येनोक्ते किं तदत्र विद्यत इति प्रश्ने यावान् बहिः परमात्मा आकाशात्यस्तिष्ठति तावान् हृदयपद्माकाशे विद्यते। न च ब्रह्मपुरपदप्रयोगादात्मा न विष्णुः ब्रह्मैव पूर्णत्वात् पुरमित्युपपत्तेः। न चाऽऽकाशपक्षेऽन्वयोऽस्ति । दहराकाशस्थमुपास्यमित्युक्ते किं तदत्र विद्यत इति प्रश्न यावान्वेत्यस्यान्वयादशनात् । न हि दहराकाशस्थो व्याप्ताकाशः अन्वेष्टव्यः इत्युपपद्यते । तदभावादयोगाच्चेति । त० प्र० ४९, १. पं० २.। ५. १.३.५। ६. ब्रह्मशवदिति पाठान्तरम् ।
मध्वतन्त्रमुखमदनम् तस्य ब्रह्मांशस्य "एष आत्मा अन्तर्हृदये ज्यायान्पृथिव्याः ज्यायानन्तरिक्षात् ज्यायान् दिवः ज्यायानेभ्यो लोकेभ्यः ।" इति सर्वतो ज्यायस्वश्रवणात् तद्वदिहाऽप्युपपद्यते इत्युपपादितम् । अत्र सर्वत्राऽपि केवलं परमेश्वरस्य शक्त्यैवैकत्वप्रत्येकपर्याप्तानेकवृत्तित्वयोः अणुत्वमहत्वयोश्च विरुद्रयोः समावेश उपपादनीयः । न विशेषस्योपयोगोऽस्ति । विशेषोऽहि तव भेदप्रतिनिधिरेकस्यैवाऽनेकत्वमापाद्य धर्माबसाइर्येण निवेशयेत् । न चाऽत्र द्विविधेऽपि विरुद्धधर्मसमावेशोदाहरणेऽनेकत्वापादनमस्ति । अत एवंतादृशो- दाहरणे त्वयाऽपि केवलं परमेश्वरशक्तिरेव नियामकत्वेनाऽऽश्रिता। उक्तञ्च "ऐश्वर्या- द्रुपमेकञ्च सूर्यवबहुधेयत" इत्यादि । एवञ्च सत्यन्यत्रापि विरुद्धधर्मसमावेशसंघटने विशेषो व्यर्थः । ईश्वरः स्वयमेकरसन्ननेकस्तनुमानवयवोऽवयवी चैत्यादेः सर्व- विवस्याऽपि विरुद्धधर्मसमावेशस्याऽवश्यवक्तव्यतया तदीयशक्त्यैव निर्वाहोपपत्ते- रिति भावः॥ २३ ॥ इतश्च परमेश्वरशक्त्यैव एकत्वानेकत्वादिविरुद्धधर्मसमावेश: संघटनीयो न विशेषेणेत्याह- किञ्चाऽयं भेदसाध्यं कमपि घटयितुं कल्प्यते न त्वयाऽर्थ किन्तु व्याहारमात्रं वचन कथमितः साविरुद्धार्थयोगः । सम्बन्धस्स्याद्गुणानां गुणिभिरितरथा गोचरस्तत्प्रतीते- न स्याद्भेदः पटादिष्वपि च घटयता सत्सु तन्तुष्वसत्वम्॥२४॥ अयं विशेषस्त्वया भेदसाध्यं कंचिदप्यर्थं घटयितुं न कल्प्यते । किन्तु यत्र भेदा- भावेऽपि भेदाधीनो व्यवहारो दृश्यते यथा-'लोके नीलं सुगन्धि महदुत्पलमि" त्यादौ, वेदे "सत्यं ज्ञानमनन्तं ब्रह्म" "आनन्दो ब्रह्मे" त्यादी च नीलगन्धादीनां ज्ञा- नानन्दादीनाञ्च धर्मिणः परस्परस्माच्च भेदाभावेऽपि अपयीयशब्दशक्तिस्त्यिादिस्तन्मा- त्रनिवाढतया (१) कल्प्यते। भेदाभावेऽपि भेदस्थाने स्वयमवभासमानस्सन्नपर्यायशब्द- प्रयोगादिकं निवर्तयतीति नैकत्वानेकत्वादिविरुद्वधर्मसमावेशरूपार्थनिर्वाहाय। यदि व्यव. हारस्येव भेदाधीनस्याऽर्थस्याऽपि निवाहकोऽयमझोक्रियेत तदा गुणगुणिनां घटस्य नीलवर्णः, ब्रह्मण आनन्द इत्यादि धर्मधर्मिभावव्यवहारमूलप्रतीतिगोचरस्सम्बन्धोऽपि तद्विरोधिनि सत्यप्यभेदे विशेषबलात्कल्प्येत । सत्सु तन्तुषु पटाद्यसत्वनिचाहाय भेदश्च न कल्प्येत । तन्तूनामवयवानां पटाद्यवयविनाञ्चाऽभेदऽपि विशेषवलादेव सत्यासत्व- विरुद्धधर्मसमावेशोपपत्तेः । न चोभयत्रापीष्टापत्तिः । - १. तन्मात्रनिर्वोढत्वेन० ग० पु० तन्मात्रं निर्वोटु त्वयेति ख. पु० ।
व्याख्यया सहितम् । LU (१)अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः अनन्यत्वान्नाऽनवस्था भेदो नाशे भवेत्तथा ॥ इत्यनुव्याख्यानविरोधात्। अत्र हि "तद्वन्तो हि विशेषतः" इत्यस्य व्याख्यान- समये (२)"भेदसम्बन्धकार्यकरो हि विशेष" इति न्यायसुधायां तदभिप्रायो वर्णितः। तेन यथा विशेषो भेदस्य प्रतिनिधिरिति शुक्ल: पट इत्यादिप्रतीतो भासमानो भेदा- धीनं सामानाधिकरण्यव्यवहारं निवर्तयति तथा संबन्धस्याऽपि प्रतिनिधिरिति स एव पटः शुक्लगुणवानित्यादिप्रतीतौ भासमानस्तद्वत्वव्यवहारमपि निवर्तयतीति गुणगुण्यादिषु संबन्धानङ्गीकारस्पष्टीकृतः । अत एव समवायनिराकरणस्थलेऽपि गुणगुण्यादीनां संवन्धो नास्तीति व्यवस्थापितम् । स्वाभिमतं संबन्धान्तरमस्तीति तु नोक्तम् । ब्रह्मतद्ध- मोणामभेदे धर्मधर्मिभावो(३) न युक्त इत्याशङ्कापरिहारार्थ (४)"उभयव्यपदेशात्त्वहि- कुण्डलवदि"ति त्वदीयाधिकरणे(५) च तदाशङ्कापरिहाराय सिद्धान्ते विशेष एव समर्थितः न तु तदधीनः कश्चन संबन्धः । नन्वाश्रयायिभाव एव धर्मधर्मिभावात्मा गुणगुण्यादीनां सम्बन्धः किमिति न स्यात् ? न च तस्याऽद्विष्ठत्वात् संबन्धत्वानुपपत्तिः । संयोगस्याऽपि मन्मते द्विष्ठवा- भावादिति चेत् न- वन्मते ययोरभेदस्तयोधर्मधर्मित्वव्यवहारे सत्यपि वस्तुत आश्रयाश्रयित्वानङ्गी- कारात् । अत (६)एवाऽयं पटः एतत्तन्तुसंबद्धः एतदाश्रितत्वादेतदाश्रिततणवदिति सगवायसाधकानुमाने तन्तुपटयोराश्रयायिभावासिझेरिति न्यायसुधायां(७) स्वरू- पासिद्विरुक्ता। एवं तावद्गुणगुण्यादीनां विशेषाधीनसंवन्धान्तरसिद्धिप्रसङ्गोऽनिष्ट इति स्थितम् । - १. अनुव्याख्या १८६. १. ७. २. न्या० सु०३६३.२, ७. ३. भेदः ग० पु० ४. वे. सू. ३. २. २८. अधि० १५. ५. तत्वप्रकाशिका-"यथा कुण्डलात्मकस्याप्यहे: विशेषादेव कुण्डलित्वं एवमानन्दाद्यात्मकस्यापि ब्रह्मणः विशेषादेवाऽऽनन्दित्वादिकं युज्यत" इति त० प्र० १५८. २. पं० १०॥ ६. अयं पटः एतत्तन्तुसंबद्धः एतदाश्रितत्वात् , एतदाश्रिततृणवदित्यप्यसत् । तन्तुपटयोराश्रयायिभावामिद्रेः । (तत्त्र० प्र० ३५८. १. ४.)। ७. विशेषेण विचारितोऽयं न्यायसुधायां “समवायाभ्युपगमाच्च साम्यादनवस्थितेः" इति ( वे० सू० २. २. ६.) सूत्र । ( न्या० सु० ३५४ पृष्ठे )।
.. ३२ मध्वतन्त्रमुखमदनम् तथा तन्तुपटादीनां भेदासिद्धिप्रसङ्गोऽप्यनिष्ट एव । 'भेदो नाशे भवत्तथ युदाहत- इलोकशेषे सत्सु तन्तुषु विनश्यतां पटादीनामभेदबद्भेदस्यापि अङ्गीकृतत्वात् । न्याय- सुधायां च तद्वयाख्यानानन्तरं “स्यादेतत् । यथा भेदसाधकानों व्यपदेशभेदादीनां विशेषाश्रयेणैवाऽन्यथासिद्धिरुताः तथा सत्यपि तस्मिन्नसत्वस्याऽपि विशेषेणैव निर्वाहः क्रियताम् । किं भेदाभ्युपगमेन ? मैवम्, विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाह- कत्वेनाऽसत्त्वं प्रत्यनिर्वाहकत्वात् । सकलभेदकार्यकारित्वे विशेपो भेद एव न तत्प्रति- निधिः स्यादि"ति शाङ्कापरिहागभ्यामुक्तार्थस्य स्थिरीकरणाच्च । तस्माद्विशेपस्याऽविरुद्धधर्म सङ्कटकताया अपि परमेश्वरशक्त्यायत्तत्वस्य विशेषाभावस्थलेऽपि परमेश्वरशक्त्यव विरुद्धधर्मसंघटनस्य च त्वयाऽङ्गीकृतत्वात् । वस्तुतो विशेषस्य भेदसंबन्धकार्यव्यवहार- मात्रनिर्वतकताया एव त्वयोक्तत्वाच्च भेदाभावस्थलेषु एकत्वानेकत्वादिपरमेश्वरशक्त थैव संपादनीयमिति व्यर्थः क्वाचित्कविशेषाङ्गीकारः । अपर्यायशब्दप्रयोगादपि परमेश्वर- शक्तिकृतानेकत्वेनैवोपपत्तेः। अतो जीवेश्वरयोनिर्विशेषाभेदेऽपि बह्वल्पगुणत्वरूप- विरुद्धधर्मसमावेशः संघटत इति न गुणपूर्णत्वेन जीवादीश्वरस्य भेदसिद्धि- रितिभावः ॥ २४ ॥ नन्वैश्वर्यवलादनन्यसाध्यं विरुद्वधर्मसङ्करं संपाद्य क्रीडन्नपि परमेश्वरो विविध. दुःखादिकलुषितं जीवभावं नाऽनुमन्यत इत्याशङ्कामुद्भाव्य परिहाति- ऐश्वर्याजीवभावं कथमिव स भजेद्दुःखभीत्यादिदृष्यं मैवं दुःखादयस्ते करणगुणतया न स्पृशन्त्येव जीवम् । स्वामित्वेन स्पृशन्तीत्यपि न तव मते तत्परस्यैव हीष्टं तस्मात्तस्याऽखिलान्तःकरणगणपतेर्जीवतैवाऽर्थनीया ॥२५॥ भवेदेवं यदि जीवभावस्त्वन्मते दुःखादिकलुषितस्स्यात् । न ल्वेवम् । न्चया दुःखादीनामन्तःकरणपरिणामत्वेनाऽङ्गीकृतत्वात् । ननु मन्मते अन्तःकरणपरिणामा एव दुःखभयादग्र इति सत्यम् । न तु ज्ञानेच्छा- कृतिवदन्तःकरणवृत्यात्मधर्मरूपेण तद्वैविध्यमस्ति । मुक्तियोग्यजीवपु मुक्तौ तदनुवृत्य- भावात् । तथाऽपि दुःखादिमत्वं नाम दुःखादिस्वामित्वं, न तु तदाश्रयत्वम् । "इच्छास्वामित्वमेवोक्तमिच्छावत्वं न चापरम्” इति सांख्याधिकरणाऽनु व्याख्यान(१) . १. अनु० व्या० १८३-१. ८. "किंचित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् । सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः" इन्युत्तरग्रन्थः । अत्र सुधा-क्षेत्रोपादानका- नामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रम् । तथैवेति । एतदुक्तं भवति-जीवेश्वरी द्वावपि शरीरमधितिष्ठतः । तत्रेश्वरोऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेन्छाप्रयत्नरूपा .4 व्याख्यया सहितम् । ३३ ऽन्तःकरणवृत्तिरूपे छायामुक्तस्य न्यायस्य दुःखादिष्वपि तुल्यत्वात्। स्वामी व तेषामन्तःकरणोपादानानामपि जीव एव ; क्षेत्रे फलितानां धान्यानामिव क्षेत्रपतिः। अत एव क्षेत्रपते रहं धान्यवा'नित्यनुभववजीवस्याऽहं दुःखी, बिभेमि, द्वेष्मीत्यनुभव इति चेत् । उच्यते-यदि जीवस्य हेयतया प्रसिद्धं दुःखादिमत्वन्नाम दुःखादिस्वामित्वं हन्त तर्हि तत्परमेश्वरस्यैव स्यान्न जीवस्य । परमेश्वर एव दुःखादिपरिणामिनोऽन्तः- करणस्य तदन्यस्य चेन्द्रियवर्गस्य स्वामी नाऽन्य इति हि त्वयेष्यते । लया (१)"ज्योतिराद्यधिष्ठानं तु तदाम्नानादि"त्यत्राऽधिकरणे "ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागि"त्यादिकाषायणश्रुतिवचनात् सर्वान्तर्यामित्वाञ्च परमेश्वर एव करणानां स्वामी। स तु स्वकीयः करणैरनादिकालमारभ्य दर्शनादिकार्याणि जीवैः कारयतीति जीवकरणत्वव्यवहारस्तथाभिमानश्च स्वामिनः कुठारैः तत्प्रेरितेषु भृत्येषु छिन्दत्सु तत्तभृत्यकुठारत्वव्यवहारदर्शनात्परकीयेऽपि बहु कालसंबन्धिनि तदी. यतोपचारदर्शनात्तथाऽभिमानदर्शनाचेति व्यवस्थापितत्वात् । (२) "स्वामिनः फल. श्रुतेरित्यात्रेय :' इत्यधिकरणे मनुष्यादीनां स्वस्वेन्द्रियजन्यज्ञानकर्मस्वामित्वमुररी. कृत्यैव सिद्धान्तप्रदर्शनाश्च । एवं हि त्वदीयं तदधिकरणम् "ब्रह्मविदाप्नोति परमि"त्यादिश्रुत्युक्त ज्ञानफलं ज्योतिष्टोमादिधर्मफलं चेन्द्रियप्रेरकाणां देवानामेव भवति ? उत कर्तभूतानां मनुष्या- दीनामपीति संशये-देवानामेवेति तावत्प्राप्तम् । भगवदुपासनापुण्यफलमिन्द्रियप्रेरक- देवतापदं प्राप्तानां तेषां भगवत्प्रसादलब्धतत्तदिन्द्रियजन्यज्ञानकर्मस्वामित्ववत्वालोके . .. वृत्तीः स्वेच्छाज्ञानप्रयत्नरुत्पाद्य बाह्यकरणानि चाऽधिष्ठाय घटायुत्पादयति । जीवस्तु तहत्तस्वाभ्योऽवतिष्ठते तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च । जीवस्याऽमुख्य- मेवेति च । (न्या. सु. ३२७. १. ९.) १. वे. सू. १. ४. १५. मध्वभाष्यम्- मध्वभाष्यम् । “यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवतैः करणैः प्रवर्तयति यः प्राणे तिष्ठनिति तदामन नात् । जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः।" "एष ह्यनेनाऽऽत्मना चक्षुषा दर्शयति श्रवणेन श्रावयति मनसा मनयति बुध्या बोधयति तस्मादेतावाहुस्मृतिरसतिरिति भालवेयश्रुतेः । करणैः कारणं ब्रह्म पुरुषापे- क्षयाऽखिलम् । श्रोत्रादिभिः कारयति करणानीत्यतो विदुः । न जीवापेक्षया मुख्य कारयेत्परमेश्वरः । केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चित इति वाराहे इति । ( म. भा. १२४. १. ८.) २. वे. सू. ३. ४. ४४. अ ७. म० भा० १४६-२-१०.
मध्वतन्त्रमुखमर्दनम् च स्वामिन एव फलदर्शनात्कर्तुरप्यस्वामिनः कर्म करादेः क्षेत्रादिफलादर्शनात् । “यदु किं चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति तेषां तत्तत्स्वामी हि फलमश्नुते । नाऽस्वामी कर्म कुर्वाण" इति माध्यन्दिनायनश्रुतेश्च । ततश्चैकैकेन्द्रियस्य बहवो देवा स्वामिन इति तेषां तत्तत्स्वातन्त्र्यविज्ञानादितारतम्यानुसारेण फलतारतम्यं भवति। लोकेऽपि हि यस्याऽधिक क्षेत्रस्वातन्त्र्यं यस्य चाऽऽवापादिकर्मणि ज्ञानप्रयत्नाधिक्यं तस्य तत्फलमधिकं दृश्यत इति प्राप्ते राधान्तः-अयजमानानामप्यविजां सत्रयागफल. मिवाऽस्वामिनामपि कर्तृणां कर्मज्ञानफलमुपपद्यते । ननु सोध्वस्वामिनामपि ऋत्विजामगृहीतदक्षिणत्वेन करीत्वात्भाव्यं फलेनेति चेत्तर्हि प्रजार्थमेव देवैः ज्ञानकर्मणोः क्रियमाणत्वात्तासामपि भाव्यं फलेन । ननु यदि ज्ञानादिकं प्रजार्थ देवैः सम्पाद्यते तर्हि कृत्स्नं फलं प्रजानामेव म्यान्न किञ्चिदेवानामिति चेत् , न; यथा राज्ञां प्रजार्थमेव क्रियमाणस्याऽपि पालनस्य फलं (१)प्रजापते राज्ञ एव मुख्यं, प्रजानां तु तत्सहकारिमात्रत्वादल्पम् । यथा गुरुणा शिष्यार्थमेव क्रियमाणस्याऽपि व्याख्यानस्य फलं गुरोरेव मुख्यं, शिष्याणा (२) चाऽल्प तथैव ज्ञानादिदानप्रवृत्तः देवैः प्रजार्थमेव क्रियमाणस्याऽपि ज्ञानादेः फलं देवानामेव मुख्यं, प्रजानामल्पमित्युचितत्वात् । अल्पफलस्वादेव प्रजानामफल वश्रुतिः । अल्पधने निर्धनत्वव्यवहारदर्शनादिति । अत्राऽधिकरणे(३) यद्यपि सप्तानविद्योपासनाप्रीतभगवद्दत्तमिन्द्रियतत्फलेष्व. वान्तरस्वामित्वमिन्द्रियप्रेरकाणां देवानामङ्गीकृतम्, तथाऽपि लोके तत्तदिन्द्रियतत्त- फलस्वामित्वेनाऽभिमतानां मनुष्यादीनां तत्र नाऽस्ति स्वामित्वमिति स्पष्टमेव व्यत्र- हृतम् । पूर्वपक्षे बहूनां देवानां स्वामित्वे तारतम्यानुसारेण फलतारतम्यमुक्त्वाऽपि कर्तुः फलप्रतिषेधात् । सिद्धान्ते पूर्वपक्ष्यभिमतं कर्तुस्सर्वथैवाऽस्वामित्वमङ्गीकृत्यैव राजगुरुस्वामिकपालनव्याख्यानास्वामिनामपि प्रजाशिष्याणामिव ज्ञानकर्मास्वामिनामपि मनुष्यादीनां किञ्चित्फलमिति तेषां फलोपपादनाच्च । . । १. प्रजावत इति पा० । २. स्वल्पं इति ग० पु० । ३. अनुव्याख्याने-"पुण्यमेवामुमाप्नोति न देवान्पापमाप्नुयात् । इत्यादिश्रुतयो मानं उक्तेऽर्थे युक्तयोऽपराः ।" २२३. २. १. । अत्र सुधा-"अनेन पुण्यमेवामुं गच्छति। न ह वै देवान्पापं गच्छति" इति श्रुतिमुपादत्ते । अमुं सप्तान विद्योपासनेन प्रेरकतया परपुरप्रवेशकृतं पुण्यमेवाप्नोति न पापम् । कुतः । देवो ह्यसौ जातः । न हि देवान्पापं प्राप्नोतीति भावः । न्या० सु० ६१०. १. ११.
व्याख्यया सहितम् । यद्यपि सत्रेषु यजमाना एवलिंज: “ये यजमानास्त ऋत्विज" इति तत्र यज- मानानां ऋत्विकार्ये विधानात् तथापि स्वमते ते यजमाना न भवन्ति इत्यभिमानेन. वा, तथैव मीमांसकमर्यादेत्यभिमानेन वा तथोक्तम् । दृश्यते हि त्वद्भाध्यानुव्याख्यान- तत्वप्रकाशिकान्यायसुधासु मीमांस कमर्यादोल्लङ्घनेन व्यवहारः, तन्मतमित्यन्यथानु- वादश्च । तथाहि-"(१) द्वादशाहवदुभयविधं बादरायण" इति सूत्रे (२) भाष्यम् "द्वादशाहः क्रत्वात्मकस्सत्रात्मकश्च भवति" इति । (३) "प्रदानवदेव तदुक्तमिति सूत्रे (४) श्रवणगुरुप्रदानयोः प्रधानेतिकर्तव्यतारूपयोः गुरुप्रदानं प्रबलमित्युपपाद- नार्थ तत्वप्रकाशिका न चेतिकर्तव्यतात्वेन दौर्बल्यम्, (५) यज्ञियहिंसायां इति- कर्तव्यताया एवं प्रावल्यदर्शनादिति । "भृम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्श- यतती"ति सूत्रे (६) भृमैव देवः परमो ह्युपास्यो नेवाऽभूमा फलमेषां विधत्ते। तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः” ॥ इति भाष्योदाहृतश्रुत्यभिप्रायकथनार्थे तत्वप्रकाशिका-यथा खलु दीक्षा- प्रायणीयोदयनीयसवनत्रयावभृथात्मकस्य अतोः सर्वयागेष्वनुवर्तनं एवं साकल्या- दन्यथा वैकल्याज्ज्यायस्त्वम् । ततश्च सर्वैः कर्तव्यत्वं तथा भूमवस्याऽपि सर्वत्राऽऽन- न्दादिषु सहभावेनोपासन एवेष्टसिन्द्रेरिति । जिज्ञासासूत्रे च प्रथममसंहिततयौंकारनिर्देशं सूत्रावयवभूतमङ्गीकृत्याऽसंहिता- प्रयोजनं उत्तरसूशेष्वनुगतिसूचनमिति व्युत्पादनाथ न्यायसुधा-सर्वाणि हि सूत्राणि प्रत्येकानेकवेदवाक्यविचारपरत्वादवान्तरब्रह्मविद्याः, सवन्त्यनोकृतं ब्रह्म परस्ताच्च विशीर्यत इति श्रीतार्थवादसामर्थ्यात् सर्वास्वपि ब्रह्मविद्यासु आयन्तयोरों- कारस्योहः कर्तव्य इति गम्यते । न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् । मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयवत्वप्रसङ्गादिति । .. १. वे० म ० ४. ४. १२. २. “यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति एवं भुक्तभोगो बाह्यशरीरकृतः चिन्मात्रकृतश्च भवतीति बादरायणो मन्यते ।" इति मध्वभाष्यम् । १६६. २. ५. । ३. बे० सू० ३. ३. ४४ । ४. “न च श्रवणादिमात्रेण ब्रह्मदृष्टिभवति । किन्तु सेतिकर्तव्यत्वेन । यथा गुरुदत्तं तथैव भवति ।' आचार्यवान्पुरुषो वेद इति ह्युक्तम् इति० म० भा० १३९.१.९.। ५. यागीयेति मुद्रिततत्वप्रकाशिकापाठः । ६. विवृतमिदं २० तमलोकटिप्पण्याम् ।
AAN मध्वतन्त्रमुखमर्दनम् आनन्दाधिकरणे च न्यायसुधा-ज्योतिषां स्तोमो हि ज्योतिष्टोम(१) इति । अत्र सर्वत्र प्रसिद्धमीमांसानुरोधी व्यवहारो न भवतीति तद्विदां सुविदितमेव । अहीन- सत्ररूपेण ह्युभयविधो न तु ऋतुसत्ररूपेण(२) । ऋतुत्वस्योभयसाधारणत्वात् । यज्ञियहिंसायां इतिकर्तव्यताप्राबल्यं दृष्टमित्यत्यन्तमेव निरालम्बनम् । दीक्षणीयादि- सकलाङ्गसहितः क्रतुः सर्वयागेष्वनुवर्तत इत्यपूर्वो व्यवहारः । दोक्षणीयादिज्योतिष्टो. मेति(३)कर्तव्यताकलाप एव हि तद्विकृतिभृतेषु विश्वजिदादिष्यतिदिश्यते न ज्योतिष्टोमक्रतुरपि । न वा सर्वयागेषु । न चेतिकर्तव्यताकलापः ऋतुर्गित व्यवह्रियते । न च ज्योतिष्टोमेतिकर्तव्यताकलापस्य तद्विकृतिध्वतिदेशेन किमपि ज्यावस्त्वं, ऐष्टिकादीतिकर्तव्यताकलापस्याऽपि तत्तद्विकृतिध्वतिदेशेन साम्यात् । न चाऽनतिदेश्यात् स्वप्रधानाज्ज्यायस्त्वं विवक्षितम्, विरोधात् । न ह्यमात्या- नपि सेवमानो भटवर्गस्तानसेवमानाद्राज्ञो भवति ज्यायान् । नापि अर्थलोपादिना:- नतिदेश्यादङ्गान्तरात् ज्यायस्त्वम् । दीक्षणीयादरपि धातव्याप्रत्याम्नानादिनाऽश्वमेधा- दिध्वनतिदेशात्(४)। १. किं च ज्योतिरादिसर्वशब्दवाच्यत्वं परमात्मनो योगने व वाच्यम् । न च योगोऽपि संभवति । ज्योतिषां स्तोम इत्यादिरूपा हि ज्योतिष्टोमादिशब्दव्युत्पत्तिः । कथमसो स्तोमानामन्यपरत्वानभ्युपगमे संभवेत् । इति (त०प्र०६९.२.१०)। २. “सत्रमहीनश्च द्वादशाहः तस्योभयथा प्रवृत्तिरककात् । (जै० सू० ८. २. २४) । "एवं द्वादशाहोऽहर्गणानां" इत्यापस्तम्बपरिभाषासूत्रो कपर्दिभाध्यम्--- "द्वादश अहानि यागाः यस्य सः द्वादशाहः। स उभयात्मकः अहोनात्मकः सत्रा- त्मकश्चेति ।" (आ० ५० सू० खं० ४. सू. ४)। एवं च क्रतुत्वं इष्टिपशुसोमात्मक- सर्वयागसाधारणम् । “दर्शपूर्णमासानां यज्ञक्रतोः" "पशुबन्धस्य यज्ञक्रतोः" इतीष्टि- पश्वादिष्वपि ऋतुशब्दप्रयोगात् । किन्तु सत्रत्वमहीनत्वमेव च विभाजको धर्मः। न तु क्रतुत्वं सत्रत्वमिति याज्ञिकमीमांसकादिमर्यादा सर्वशिष्टाहता च । ३. ज्योतिष्टोम इति सोमरसनिष्पाद्यस्य प्रधानयागस्यैव संज्ञा। तत्र दीक्ष- णीयाप्रायणीयातिथ्योपसदग्नीषोमीयसवनीयानुबन्ध्योदयनीयावभृथादयः अङ्गरूपा यागाः। तेषामेव च ज्योतिष्टोमविकृतिष्वतिदेशः । न च प्रधानस्य ज्योतिष्टोमस्येति । ४. अयं भावः-न ह्यतिदेशाभावमा प्रधानत्वप्रयोजकम् । विकृती प्रयो- जनाभावेनाऽनतिदिश्यमानानां अङ्गानां प्राधान्यप्रसङ्गात् । यथाहि “प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्कामः' इत्यत्र कृष्णलानां सुवर्णखण्डरूपत्वेन वैतुभ्यस्याऽसंपाद- व्याख्यया सहितम् । न चोङ्कारस्योत्तरसूत्रेष्वनुगतिरूहः(१)। देवस्य त्वेत्यादिमन्त्रेषु सूर्यादिशब्दोहे अग्न्यादिशब्दादेरिव कस्यचित्स्थानिनः शब्दस्याऽभावात् । न च ज्योतिषां स्तोमो ज्योतिष्टोम इति नामनिर्वचनम्। किं तर्हि "त्रिवृत्पञ्च- दशस्सप्तदश एकविश्श एतानि वाव तानि ज्योती वि य एतस्य स्तोमाः ” इति वाक्यशेषदर्शितज्योति मकाः स्तोमाः यस्येति तनिर्वचनं (२)मीमांसकाभिमतम् । न चैवमुदाहृतेषु अन्यथालिखितस्थलेषु क्रत्वादिशब्दानामहीनादिलक्षकत्वेन प्रसिद्धमीमांसानुसारित्वसमर्थनं युक्तम् । तच्छास्त्रानुरोधिनां क्वाचित्के खल्वन्यथाभावे प्रतीयमाने तथा समर्थनं क्रियते । इह तु त्वद्भाष्यटीकाकाराभ्यां यावन्मीमांसा- गन्धि लिखितं तत्सर्वमप्यन्यथाभूतमिति कथं तथा समर्थनं क्रियेत ? । एवं तावन्मीमांसकमर्यादोल्लङ्घनेन व्यवहार उदाहृतः । तन्मतमित्यन्यथा- उनुवादो यथा-- "(३)अङ्गीकृतत्वादपि तैः पदार्थानां (४)पृथक् पृथक् । क्रियापदेनाऽन्वयस्य वाक्यभेदो हि दूषणम् ॥” इति । सत्यज्ञानादिवाक्येषु ब्रह्मानुवादेन सत्यत्वाद्यनेकविधाने वाक्यभेदः स्यादिति शङ्का- नीयत्वाद्वितुषीभावसंपादकस्याऽवघातस्य नाऽतिदेशः, न तावता तस्य प्राधान्यम् । एवमश्वमेधे "वैधातत्रीया दीक्षणीया भवति" इति वाक्येन दीक्षणीयास्थाने वैधा- तवीया नाम काचिदिष्टिविहिता। सा च दीक्षणीयाप्रत्याम्नानादश्वमेधे दीक्षणीयातिदेशं निरुणद्धि। अतो नाऽश्वमेधे दीक्षणीयाया अतिदेशः। नैतावताऽश्वमेधापेक्षया दीक्षणीयायाः प्राधान्यमिति ॥ १. ऊहो नाम प्राकृते मन्त्रे विकृतावतिदेशेन प्राप्ते सति तस्य वैकृतदेवताप्रकाश- नार्थ प्राकृतदेवतापदं परित्यज्य वैकृतदेवताबोधकं पदं प्रक्षिप्यते । अतश्च प्राकृतदेवता- पदस्थाने वैकृतदेवतापदप्रक्षेपः जहः । यथा- "देवस्य वा सवितुः प्रसवेऽश्विनो- र्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि" इति प्रकृतौ अग्निपदघटितो हविनि- पिमन्त्रः। तस्य सौर्ययागे अतिदेशेन प्राप्तौ सत्यां तत्रत्यसूर्य देवताप्रकाशनार्थ प्राकृतमग्निपदं परित्यज्य सूर्यपदप्रक्षेपः क्रियते--सूर्याय जुष्टमिति । न चाऽनुवृत्तेरूहत्वं क्वचिदपि शास्त्रेषु सिद्धमिति भावः । २. एतच्च पूर्वमीमांसायां चतुर्थाध्यायचतुर्थपादान्तिमाधिकरणे स्थापितम् । ३. अनु० १६३.२.५। ४. पदानां त्विति मुद्रितानुव्याख्यानपाठः ।
" मध्वतन्त्रमुखमर्दनम् "(१)पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् । अवान्तरत्वाद्वाक्यानां वाक्य भेदो न दूषणम् ॥' इत्यभ्युपगमेन परिहत्य मीमांसकमतेऽपि इदं समानमित्यनेन श्लोकेनोच्यत इति (२)न्यायसुधायां व्याख्यातम्-तैर्मीमांसकैरपि "अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाती"त्यादावरुणादिपदानां क्रियापदेन पृथक्पृथगन्त्रयस्य स्वीकृतत्वात्तेषा- मपि हि वाक्यभेददूषणं प्रसज्येत । तत्रैतादेव वक्तव्यं महावाक्य एव दूषणं नाऽवान्तवाक्यभेद इति । तदस्माकमपि समानमि"ति। न प्रसिद्ध मीमांसकमते तत्राऽवान्तरवाक्यभेदोऽस्ति । क्रयभावनायाः विधेयत्वेन "(३)अप्राप्ते तु विधीयन्ते बह्वोऽप्येकयत्नतः” इत्युक्तरीत्याऽऽरुण्यादिविशिष्टक्रयभावनारूपक्रियै क्येन पदैक. वाक्यताया एव तैस्स्वीकृतत्वात् । एवमन्यत्राऽपि द्रष्टव्यम् । विस्तरभयादुपरम्यते । एवञ्च सर्विग्दृष्टान्तकरणात् कर्तृणामपि ज्ञानकर्मस्वामिस्त्रमनुमतमिति न भ्रमितव्यम् । स्यादेतत्-यदि जीवस्य दुःखादिस्वामित्वं न स्यात्तदा तस्य दुःखाद्याश्रयत्व- स्थाऽप्यभावादहं दुःखीत्यादिप्रत्ययानामध्यासात्मकत्वमङ्गीकर्तव्यं स्यात् । न चैतदङ्गी- कतु युक्तमू- "मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः । मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याऽग्रतो भवेत् ॥ मिथ्यायास्साधकत्वं च न सिद्धं प्रतिवादिनः ॥" इत्याद्यनुव्याख्याने बन्धमिथ्यात्वस्य प्रत्यक्षविरोधेन यदि श्रुतिवाक्या- बन्धस्य मिथ्यात्वं तदा तस्याऽपि वाक्यस्य तत एव मिथ्यात्वं भवेत् । वाक्यस्य सर्वमिथ्यात्वबोधकत्वात् । ततश्च तस्य मिथ्यात्वसाधकत्वं न स्यात् । मिथ्याभृतस्य साधकतायाः प्रतिवाद्यसम्मतत्वादिति युक्त्या च निराकृतत्वात् , अनुव्याख्यान एव सुखादिग्राहकस्य साक्षिणो निर्दोषत्वादिना याथार्थ्यनियमस्य प्रतिपादितत्वाच्च । अस्मिन्नपि प्रन्थे पूर्वपक्षनिराकरणोपयोगितया तस्याऽर्थस्य "साक्षी जीवे सुखादीन्य- १. अनुव्या० १६३. २. ४ । २. किं च परणाऽप्येतदङ्गीकृतमित्याह--अङ्गी- कृतत्वादिति । अरुणया एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणातीत्यादौ तैर्मीमांस- कैरपि पदानामरुणयेत्यादीनां क्रीणातीति क्रियापदेनकैकस्याऽन्वयोऽङ्गीकृतः। अनुवाद- विधानयोः युगपद्विरोधभयादरुणादीनां गवादिभिस्त्वाकाङ्क्षावशात्पार्णिकान्वयोऽभ्युप- गतः। ततश्च तेषामपि वाक्यभेदो दूषणं प्रसज्येत । तत्रैतावदेव वक्तव्यम्- महावाक्यभेद एव दोषो नावान्तरवाक्यभेद इति । तदस्माकमपि समानमिति ( न्यायसु० ७५. १. ९)। ३. तन्त्रवा० २. २. ३. ५० ४८५ ।
व्याख्यया सहितम् । - निशमनुभवन्सर्वमानाधिकस्त" इत्यनूदितत्वाच्च । तस्मादहं दुःखीत्याद्यनुभवनिर्वाहाय जीवस्य दुःखादिस्वामित्वमस्तीत्येव मन्मतम् । किन्तु तत्स्वामित्वमीश्वरदत्तमपकृष्ट- मित्येव विशेषः । अत एव सांख्याधिकरणानुव्याख्याने- (१)द्वैविध्येपि तु कामादेः कुतः स्वामित्वमात्मनः। साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ॥ इति कामादिस्वामित्वस्याऽप्रत्याख्येयत्वमुक्त्वा तदनन्तरश्लोके तस्याऽपकृष्टत्वम- प्युक्तम् । न्यायसुधायां चाऽत्यन्तावश्यवरहितगवादिस्वामित्वदृष्टान्तेन तस्याऽपकर्ष- स्समर्थित:(२)। तस्मादीश्वरस्यैव दुःखादिस्वामित्वं न जीवस्येत्युक्तमयुक्तमिति चेत्, उच्यते---स्वन्मतेऽपि दुःखित्वाद्यनुभवोऽध्यासरूप एव । उक्त यानन्दमया धिकरणे त्वद्भाष्ये- (३,प्रमादात्मकत्वाबन्धस्य विमुक्तत्वं च युज्यते । मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिरिति भागवत इति । तत्वप्रकाशिकायां च “विमुक्तश्च विमुच्यत" इति संसारिणोऽपि विमुक्तस्य- श्रवणात्तदन्यथाऽनुपपत्या तस्य परब्रह्मत्वसिद्धेः तद्विरोधो (४)भेदव्यपदेशस्येति शङ्का- निराकरणार्थत्वेनोदाहृतं भाष्यग्रन्थमवतार्य तस्याऽर्थो वर्णितः-जीवस्य परब्रह्मत्वा. भावेऽपि विमुक्तत्वोक्तियुज्यते बन्धस्याऽज्ञानमूलत्वेनाऽस्वाभाविकत्वादिति । यत्त्वनुव्याख्याने बन्धस्याऽध्यासात्मकत्व निरसनं तस्याऽभिप्रायस्तु तद्वया- ख्यानानन्तरन्यायसुधायां-अत्र तत्वविदो वदन्ति ---सर्वोऽपि हि बन्धो बुद्धोन्द्रियशरीरविषयतदर्मलक्षणोऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते । यथोक्तं भाष्यकृता-प्रमादात्मकत्वाबन्धस्येति । अतः किन्निबन्धनो बन्धमिथ्यात्व निरासनि- वन्ध इत्याशङ्का कृत्वा, सत्यम्। तथाप्यस्त्यत्र दर्शनभेद इति तत्परिहारमारभ्य बुद्धीन्द्रियशरीरविषयाः स्वरूपतस्सन्त एवेश्वरपरवशा अप्यविद्यादिवशादात्मीयतयाऽ. भ्यस्यन्ते । तांश्वाऽऽत्मनो विविक्तानपि विस्पष्टं तथाऽनुलयभमानस्तद्रीन् दुःखा- दीन् सत्यानेवाऽऽत्मत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एक प्रति. पाद्यत इत्यादिवाक्यैः स्वमतस्थितिप्रतिपादनेन मायावादिनस्तु दुःखादिकं स्वरू- १. अनु० १८३-१. ७. इच्छास्वामित्वमेवोक्तं इच्छावत्वं न चोऽपरम् । किंचि- तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् । इत्यनन्तरश्लोकः । २. न्यायसुवा-यथाऽत्यन्तमवशायामपि गवि किञ्चिदशत्वमात्रेण देवदत्तस्वामि- त्वं लोके दृष्टं तथैव (न्या० सु ० ३२७. १. ५)। ३. मध्यभाष्ये. ( ८९. १. ५.)। ४. भेदाभिधानस्येति 'मुद्रिततत्वप्रकाशिका पाठः' (त. प्र. २०-२ - १३) मध्वतन्त्रमुखमदनम् पेणाऽपि मिथ्येति मन्यन्ते । अतस्तनिराकरणनिबन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति सम्मुग्धे प्रस्तुते दुःखादेरिति निष्कृष्योक्तमित्यद्वैतिमते निराकार्याश. निष्कर्षेण च स्पष्टीकृतः। यत्तु साक्षिणो याथार्थ्यनियमान साक्षिरूपस्य दुःखिखाद्यनुभवस्याऽध्यासत्वं संभव- तीति, तदयुक्तम् । ईश्वरपरतन्त्रस्य जीवस्य स्वातन्त्र्यग्रहणे प्रमाणाप्रमाणज्ञानयोर- प्यप्रामाण्यप्रामाण्यग्रहे च तस्य याथार्थ्यपरित्यागात् । यदि तु मानसे दर्शने दोषाः स्युन वै साक्षिदर्शन इति यत्किञ्चिद्वयभिचारिस्याहर्शनं मानसं हि तदिति चाऽनुव्या. ख्यानदर्शनात्स्वातन्त्र्यादिग्रहणं मनोवृत्तिरूपं न तु साक्ष्यनुभवरूपमितीध्यते तदा दुःखित्वाद्यनुभवोऽपि त्वसिद्धान्तसिद्धाध्यासत्वनिर्वाहाय ।मनोवृत्तिरूप एव त्वयेष्टव्यः स्यात् । यदि वैवं सति दुःखित्वाद्यशोऽपि मनोवृत्तिविषयतयैव स्यात् दुःखित्वाद्यनुभवव्यतिरेकेण दुःखादिमात्रविषयानुभवाभावात् । ततश्च दुःखादेस्साक्षि- विषयत्वं स्वाभिमतं न सिध्येदित्यनुशयस्तदा दुःखित्वाद्यनुभवरूपसाक्षिण आत्मीय- खांशेऽध्यासरूपत्वमकामेनाऽपि त्वयेष्टव्यम् । त्वयाऽपि हि सर्वेषां साक्ष्यनुभवस्य याथार्थ्यनियमो नेष्यते, असुराणां साक्षिणो यथार्थत्वाभाबस्य मनुष्याणां साक्षिणो मिश्रत्वस्य चाऽङ्गीकृतत्वात् । तस्मात्वन्मते दुःखादीनामन्तःकरणपरिणामतया जीवस्य दुःखाद्याश्रयत्वाभावेन (१) "ज्योतिरायधिष्टानं तु तदामननात्" (२) स्वामिनः फल- श्रुतेरित्यात्रेय" इत्यधिकरणयोस्तस्येन्द्रियतत्फलस्वामित्वस्य प्रतिषिद्धतया दुःखादि- स्वामित्वाभावेन चाऽहं दुःखीत्यादिप्रत्ययानां कथंचिदपि याथार्थ्यासंभवात ल. द्भाष्यटीकयोबन्धस्याऽध्यासात्मकत्व प्रतिपादनात् स्वपरसिद्धान्त विशेषरहस्याविष्करणपर- न्यायसुधाग्रन्थे मम शरीरं, ममेन्द्रियाणि, मम मनः, अहं दुःखीत्यादिप्रत्ययानां शरीरेन्द्रियदुःखादिषु भासमाने आत्मीयत्वांश एवाऽऽरोपितविषयत्वं, न तु शरीगदि- स्वरूपेऽपीति स्वमतनिष्कर्षात् साक्षिणो याथार्थ्यनियमाभावाच्च त्वसिद्धान्ने नेपां सुनिश्चितेऽध्यासरूपत्वे यदन्यत्र प्रपञ्चमिथ्यात्वनिगकरणप्रस्तावे---. "सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् । साक्षिसिद्धस्य न काऽपि बाध्यत्वं तददोषतः ।।" इत्यादि साक्षिणो याथार्थ्यनियमकथनं, यच्च सांख्यमतदूषणप्रस्ताबे आत्मनः कामादिस्वामित्वकथनं न तत्र त्वयाऽभिनिवेष्टव्यम् ; किन्तु परमतदृषणलोभेन तदुग- प्रहकृतमौद्येन वा स्वसिद्धान्तविरुद्वभाषिणः स्वकीया इत्येव शोचनीयम्; यान नु- सत्याऽद्यतना अपि त्वदीयाः परमतसिद्धाविद्यादृषणादिप्रस्तावेष्वनादिभावस्य निवयं- - १. वे. सू. १. ४. १५. अधि. १० । २. वे. सू. ३. ४. ४४, अधि. ७ ।
व्याख्यया सहितम । खमयुक्तमित्यादि स्वसिद्धान्तविरुद्धमेव कल्पयन्ति । त्वन्मते ह्यनादिभावरूपैवाऽविद्या ज्ञाननिवर्त्या च । तस्माजीवे दुःखित्वादिप्रत्ययानां त्वन्मतेऽध्यासरूपत्वात् स्वस्वान्तः- करणगतदुःखादिस्वामित्वाध्यासमात्रजुष्टाजीवभावात् वास्तविकसकलजीवान्तःकरणगत- निखिलदुःखादिस्वामित्वानु भवनिरन्तराकुलितस्त्वन्मतसिद्धपरमेश्वरभाव एव पापी. यानिति कथं त्वदीयः परमेश्वरो जीवभावं नाऽर्थयेत् । अतो न तस्य जीवभावा- ननुमतिशङ्कावकाश इति भावः ॥ २५ ॥ स्यादेतत्--दुःखस्वामित्वादिरूपं दुःखित्वादिकं न हेयं, येन परमेश्वरस्याऽपि हेयसंबन्धः स्यात् , किन्तु दुःखित्वादिप्रयुक्त (१) जीवत्वम् । न च तत्परमेश्वरेऽस्ती- त्यादिशङ्कामुद्भाव्य परिहरति- दुःखित्वाद्येव हेयं न यदि कथय तत् किन्नु बन्धेषु हेयं नीचत्वं तत्प्रयुक्तं यदि तदिदमिति व्याकुरुष्व स्फुटोत्तया । यद्याक्रन्दादिदुःखाधुदितनयहतं नाऽपि सार्वत्रिकं त- द्यत्किचित्तस्य कार्य यदि तदिह जगद्व्याप्यते नेत्यसिद्धम् ॥२६॥ यदि "तत्राऽपि (२) तद्वयापारादविरोध" इति त्वदीयाधिकरणभाष्योदाहृतम्- (३) नरकेऽपि वसनीशो नाइसौ दुःखभुगुच्यते। नीचोचतादिदुःखादोंग इत्यभिधीयते ॥ नाऽमो नीचोच्चतां याति पश्यत्येव सदा (४) प्रभुः । इति वचनमवलम्ब्य दुःखादिप्रयुक्तं नीचत्वमेव दुःखादिभोक्तत्वम् । तदेव च हेयमित्युच्यते । तर्हि किं तन्नीचत्वं नामेति प्रश्ने विवरणीयं त्वया। दुःखादिहेतुकमा. कन्दादिमिति चेत् ; ताप दुःखादिषु दर्शितेनैव न्यायेन निरस्तम् । तदाप हि शरीरन्द्रियविकाररूपत्वादाश्रयायिभावेन जीवं न स्पृशति । स्वस्वामिभावेन तु परमेश्वरमेव स्पृशति । किञ्च न तत्सार्वत्रिकम् । लोके हि मानी धीरोदात्तस्तापसादिश्च महति दुःखेऽपि नाऽऽक्रन्दति, न रोदिति, न चाऽन्यं कमपि देहेन्द्रियविकारमापद्यते, न च तदपायार्थमितरप्रार्थनादेन्यमवलम्बते इति तस्य तदुःखं हेयं न स्यात् । कापा- लिकादिश्च भिक्षुकः स्वाङ्गच्छेद(५ कर्दमकण्टकतप्तवालुकाशयनादिभिर्महद्दुःख. मनुभवपि न तत्प्रयुक्त नैच्यमनुभवति, किन्तु याचनाप्रयुक्तमेवेति तस्याऽपि तद् दुखं हेयं न स्यात् । १. नीचत्वमिति ग० पु० । २. वे० सू०३. १. १७. अधि० १३ । ३. कारकेयं मध्व भाष्ये १२८ १.७ । ४. प्रभुत्वत इति भाष्यपाठः । कण्टककर्दमति घ. पु०। ६ मध्वतन्त्रमुखमदनम् अथोच्येत नाऽयमसार्वत्रिकदोषो लगति । यावत्किञ्चिद् दुःखादिकार्य तत्सब नैच्यमित्यङ्गीकागन्द्रीरादीनामपि दुःखानुभवादिप्रयुक्तविकारनिरोधप्रयत्नतदपनयनोपाय- चिन्तादि यत्किंचित्तत्कार्यमस्ति इति । नेतदपि युक्तम् ; परमेश्वरऽपि नानाविध- जगद्व्यापारस्य दुःखादिप्रयुक्ततया कल्पयितुं शक्यत्वेन नच्याभावासिद्रिप्रसङ्गात् । त्वयाऽप्यानन्दमयाधिकरणे "लोके चतुर्विधा पुंसां प्रवृत्तिः-सुखार्था, दुःखनिवृत्या, सुखोद्रेकप्रयुक्ता, दुःखोद्रेकप्रयुक्ता चेति । तत्र प्रवृत्तित्रयस्याऽपि परमेश्वरऽनुपपन्नत्वात सुखोद्रेकप्रयुक्त व लौकिकानां नृत्यादाविव तस्य जगत्स्ट्यादी प्रवृत्तिरि"ति निरूपितम् । तत्तदा शोभते यदि तस्य दुःखित्वं न स्यात् । तत्सत्वे तु केचन जगद्व्यापारा दुःखो- देकप्रयुक्ताः कुतो न स्युः । तथात्वे पुनरपि दुःखोद्रेकहेतुं जगद्व्यापार न कुर्यादिति चेत्, भ्रान्तोऽसि । न हि दुःखोद्रेकाद्रोदनादो प्रवृत्तिरभिसन्धिपूर्विका तनिवृत्यर्था, प्रत्युत शिरोऽक्षिरोगादिदुःखोद्रेका पुनरपि तदुद्रेके हेतव एवाऽऽक्रन्दशिरस्ताडना- श्रुविमोचनादिप्रवृत्तयो दृश्यन्ते । ईश्वरस्य दुःखित्वादः श्रुतिविरुदत्वात् तद्व्यापाराणां तत्प्रयुक्तता कल्पयितुं न शक्यत इति परिशेषसिद्धिरिति चेत्, सत्यं तस्य दुःखित्वादिकं श्रुतिविरुद्धमिति । तथाऽपि त्वन्मतपर्यालोचनया तस्य दुःखादिस्वामित्व- रूपं तदापतितमिति पूर्वोक्तं त्वमेव परिभावय । तथाऽपि तत्र दुःखित्वप्रयुक्त कार्य न भवतीति चेत्, न; तत्र सुखित्वप्रयुक्त कार्याभ्युपगमे तद्वदेव दुःखित्वसत्वे तत्प्रयुक्त कार्यस्याऽपि दुवीरत्वात् । यदि तु- "आहूतस्याऽभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽध्याकारविप्लवः ॥" इत्यादौ धीरोदात्तमहापुरुषगुणत्वेन प्रसिद्रामवहित्यां तत्राऽभ्युपैषि तदा सुखो- देकप्रयुक्तमपि कार्य तत्र न स्यादेव । न चेदितरदपि केन वार्यते। किञ्च दुःख कार्य- मात्रस्य हेयत्योक्तिरयुक्ता। दुःखकायस्याऽपि भगवद्भजनादेः पुरुषार्थताया दृष्टत्वात : "चतुर्विधा भजन्ते मा"मित्यादिशास्त्रसंमतत्वाच्च । तस्मात् दुःखकार्यमाक्रन्दादिकमेव (१) हेयतया वक्तव्यमिति तस्याऽसार्वत्रिकत्वदोषो युक्त एवेति भावः ॥ २६ ॥ एवं दुःखित्वस्य कार्यमेव हेयम्; न दुःखित्वमिति परोक्तमनुसृत्य दोष उक्तः । इदानी वस्तुतो दुःखित्वमेव हेयम् । न तत्कार्यमित्युपपादयति- एवं सुखित्वकृतमेव हि नर्तनादि ग्राह्यं फलं तव भवेन्न सुखित्वमेव । १. आनन्दादिकमात्रमेवेति० घ० पु० ।
व्याख्यया सहितम् । अस्त्वित्युशन्तमनुभूतिमपि क्षिपन्तं लोकाः पिशाच इति निश्चिनुयुभवन्तम् ॥ २७॥ दुःखकार्यमेव हेयं न दुःखमित्यङ्गीकार न्यायतौल्यात्सुखकार्यमेवोपादेयं न सुख- मित्यपि त्वयाऽङ्गीकर्तव्यं स्यात् । नन्वस्त्वेतत् । एवं सति परमेश्वरः शक्तिमत्वेऽपि दुःखित्वप्रयुक्तमेव कार्य निरुन्धे, हेयत्वात न तु सुखित्वप्रयुक्त मपि, पुरुषार्थत्वादित्युप- पादनं संभवति । “को ह्येवाऽन्यात् कः प्राण्यात्" । यदेष आकाश आनन्दो न स्यात्" "यदा व सुखं लभते अथ करोति नाऽसुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोती"ति श्रुत्योः प्राणयितत्वादिरूपः सर्वोऽपि परमेश्वरव्यापारः सुखोद्रेकप्रयुक्त इत्येतत्परतया मदीयग्रन्येषु व्याख्यानमपि सङ्गच्छत इति यद्याशंसेथाः तदा सकलानुभवमर्यादा- विरोधस्तावदनिवार्यः। सुखदुःखे हि निरुपाधीच्छाद्वेषविषयतया पुरुषार्थापुरुषार्थरूपे सकलानुभवसिद्धे न तत्कायें। एवमनुभवविरोधमप्यविगणय्य सुखदुःखकार्ययोरेव पुरुषार्थापुरुषार्थरूपत्वं अभ्युपगम्यते चेत्स्वाभ्युगमानुसारेण त्वदीयसुखादेः पुरुषार्थपर्यवसायितानिहाय सुखानुभवकालेषु सर्वेषु यत्किञ्चिन्नृत्यगीतादिकार्यमारभमाणेनैव त्वया स्थातव्यं स्यात् । तथा च लोकास्त्वां पिशाच इत्येव मन्येरन् । पिशाचजातिर्हि यत्किचि- सन्तोषलाभेऽपि विकटं नृत्यति गायति चेति प्रसिद्धिः । अतस्तान्त्रिकेण त्वया लोकशास्त्रमर्यादामनुसृत्य सुखदुःखयोरेव पुरुषार्थापुरुषार्थरूपत्वमङ्गीकरणीयमिति ईश्वरस्त्वन्मते नितान्तहेयसंवन्धाकुलितः । ततो वरमल्पदुःखाध्यासमात्रकलुषितो जीवभाव इति मत्वा पूर्णापूर्णगुणत्व विरोधं अचिन्त्यया निजशक्तया परिभूय जीव- भावमापद्यतेवति न पूर्णगुणत्ववाचिना ब्रह्मशब्देन जीवाद्भेदसिद्धिरिति भावः ॥२७॥ ननु ब्रह्मशब्देनैव ब्रह्मणो जीवाद्भेदं प्रसाध्य सिद्धान्त इह न क्रियते ; किन्तु निखिलकल्याणगुणाकरे जीववाद्भिन्ने विश्वातिशायिनि भगवति सर्वासां श्रुतीनामैक- कण्ठयं बलवद्भिः परस्परसंवादरूपसामरस्यशालिभिस्तात्पर्यलिङ्गैरवगमध्य तत्तत्तात्पर्य- लिङ्गप्रदर्शनन प्रसाध्य तासामद्वैतेऽत्यन्तवैरस्यं च तत्तन्न्यायैरुपपाद्य सिद्धान्तः क्रियते । ब्रह्मशब्दस्त्वभ्युच्चयमात्रम् । अतो न पूर्वोक्तदृषणानामवकाश इत्याशंक्याऽऽह- विष्णौ विश्वातिशायिन्यनवधिकगुणे जीववर्गाद्विभिन्ने सर्वश्रुत्यैकमत्यं समरसवलवल्लिङ्गसङ्गत्युपेयम् । अद्वैते च श्रुतीनामधिकविरसतामत्र संसाध्य कुर्या- स्मिद्वान्तं चेत्किमञ्चेत् फलमुपरि तयोः साधकस्ते नयौधः।।२८॥
मध्वतन्त्रमुखमर्दनम् स्वन्मते प्राधान्येन जीवब्रह्मभेदसाधनं "(१)पृथगुपदेशादि" त्यधिकरणे कृतम् । अप्राधान्येन तत्साधनं च किञ्चित्किञ्चिद्भेदवाक्यमवलम्ब्य तत्र तत्राऽस्ति । तथा च यद्यत्र सकलद्वैताद्वैतश्रुतिप्राबल्यदौर्बल्यचिन्तया सर्वप्रकारेणाऽपि तत्साधनमिहैव क्रियते तदा तदधिकरणमन्यत्र तत्र तत्र तत्साधनं च निष्फलं स्यात् । तस्मादस्मिन्नधिकरणे ब्रह्मशब्देनैव सिद्धान्त इति त्वयाऽङ्गीकरणीयम् । अत एवाऽऽनन्दमयाधिकरणे "(२)भेद- व्यपदेशाचे" ति सूत्रस्य पौनरुक्तयशङ्कानिवारणार्थम् (३) । (४) न जीवभेदसूत्राणां शंक्याऽत्र पुनरुक्तता। वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ॥ इत्यनुव्याख्यानश्लोक व्याचक्षाणेन (५) न्यायसुधाकृतोक्तम्-अत्र शास्त्रे तत्र तत्र प्रकरणे |क्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्तता शङ्कया। तथा हि-जिज्ञासा- वाक्येष्वभेदशंकायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम् । जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादिस्वयमूह्यम् । एवमेव 'भेदव्यपदेशा- चाऽन्य"इत्यादावपि पुनरुक्ततादोषः परिहरणीय इति । इयांस्तु विशेषः-अन्नमयादि- शब्दा विकारार्थमयट्प्रत्ययानुरोधाजीववाचिनः । तेषु ब्रह्मशब्दादिप्रयोगस्तु ब्रह्माभेदवि. वक्षयेति शङ्किते तत्प्रकरणगतेन “स यश्चाऽयं पुरुषे” इति भेदव्यपदेशेन प्रत्यवस्था- नमित्यादि मङ्गच्छते । इह तु जिज्ञासावाक्येष्विव जिज्ञास्यं ब्रह्म निर्विशेषजीवचैतन्य- रूपमिति शंकाहेतोः कस्य चिदभावात्सर्ववेदान्तानामप्यखण्डपरत्वेन सगुणे ब्रह्मणि मानं नाऽस्त्येवेति। ६) वदीयपूर्वपक्षदर्शनाच सर्व वेदान्तावलम्बने पूर्वपक्षे जिज्ञासावा- क्यगतेनैकेन ब्रह्मशब्देन प्रत्यवस्थानं न सङ्गच्छते ॥ २८ ॥ अपि चाऽग्रे निरूपणीयमपि न्यायजातं न जीवेश्वरयो दं व्यवस्थापयितुं भवतीत्याह- अग्रे वाच्योऽपि कस्ते कथय नय इह स्थापको भिन्नतायाः जीवेशित्रोर्गुणानां स खलु विषमता सा तु दत्तोत्तरैव । १. वे. सू. २, ३. २८. अत्र भाष्यम्-भिन्नो चिन्त्यः परमो जीवसङ्घा- त्पूर्णः परो जीवसङ्घो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तो ह्ययं च वन्धान्मोक्षं तत एवा- ऽभिवाञ्छेत् । इति सोपपत्तिककौशिकश्रुतेः भिन्न एव जीवः । इति ( म. भा. ११८. २. ४. । २. वे० स० १. ३. ५ । ३. निराकरणार्थमिति ख० पु० । ४. अनुव्या. १६९. १.११। ५. न्यायसु. १४०-१. ५. । ६. नास्तीति ग० पु. नास्तीत्येव घ० पु० ।
व्याख्यया साहतम् । निर्भेदत्वं तवेष्टं विषमगुणजुषां प्राक्क्रयार्थादिकाना- मन्यत्वस्योक्तिरन्योऽन्तर इति बहुशः संमता भेदहीने ॥२९॥ इत्यं हि त्वया तत्र तत्र न्याया निरूपिता:-प्रत्यक्षं तावज्जीवस्येश्वराञदे प्रमाणम् । यद्यप्यनवगतेश्वरस्य पुरुषस्य स्वात्मनि तभेदो न प्रत्यक्षः; तथापि शास्त्रावगत- सावत्यसर्वशक्तिकत्वादिमदीश्वर एव स्वात्मानं च तद्विरद्धाल्पज्ञत्वाल्पशक्तिकत्वादि- धर्मकं साक्षिणाऽनुभवतः स प्रत्यक्ष एव । यो हि यमर्थ मधिगम्य तद्विरुद्धधर्माण यमर्थ पश्यति स तस्मात्तस्य भेदं प्रत्यक्षयतीति सर्वानुभवसिद्धम् । तथा च शास्त्रीय- लक्षणज्ञान साचिव्येन रत्नतत्वसाक्षात्कार इव शास्त्रीयेश्वरज्ञानसाचिव्येन स्वात्मनि तद्भेदसाक्षात्कारो नाऽनुपपन्नः । एवं प्रत्यक्षागमावगतेन जोवेश्वरयोविरुद्धगुणवत्वेन दहनतुहिनवद्भेदोऽनुमातुं शक्यत इत्यनुमानमपि तद्भेदे प्रमाणम् । तथा- (१)भिन्नो चिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बद्धो मोक्षं तत एवाऽभिवाञ्छेत् (२) । इति पूर्णापूर्णादिविरुद्धधर्मवत्वोपपत्तिमुखप्रवृत्ता कौशिकश्रुतिरपि तत्र प्रमाणम् । न च श्रुतिर्व्यावहारिकभेदपरा । 'एतमन्नमयमात्मानमुपसंक्रम्य, 'निरञ्जनः परमं साम्यमुपैति' 'प्रज्ञानेत्रो लोक' इत्यादि श्रुतिषु मुक्तावपि प्राप्यप्राप्तत्व सादृश्यप्रतियोग्य- नुयोगित्वनेतृत्वनेतव्यत्वादिविरुद्धगुणवर्णनेन तद्भेदसिद्धेः । न चाऽभेदश्रुतिविरोधाटु- दाहृतश्रुतीनामन्यथा नयनं शक्यम् । सोपपत्तिककौशिकश्रुतिविरोधेनोपजीव्यविरोधेन व दुर्बलानामभेदश्रुतीनामेव गौणाभेदपरत्वौचित्यात् । तत्वमसीत्याद्यभेदश्रुत्या यदि जीवमनूध तस्येश्वरैक्यं बोध्यते तदाऽल्पज्ञत्वादिधार्मिकतया जीवग्राहकं साक्षिप्रत्यक्ष- मुपजीव्यम् । यदि यीश्वरमनूद्य तस्य जीवैक्यं बोध्यते तदा सर्वज्ञत्वादिधर्मकेश्वरग्राहक “यः सर्वज्ञ' इत्यादिशास्त्रमुपजीव्यमित्युभयथाऽपि विरुद्रगुणमुखेन भेदपर्यवसायिनोप- जीव्यप्रमाणेन विरोधस्याऽवश्यंभावादिति । तदेतत्सर्व भेदप्रमाणं विरुद्धगुणवत्वोप- जीवकमुपन्यस्तमिति विरुद्धगुणाक्रान्तिरेकैव तव भेदसाधको न्यायः पर्यवसितः । तत्र च प्रागेव दत्तमुत्तरम् ।जीवे सतामधिकानन्दादीनामावरणेनाऽल्पानन्दत्वाद्यनुभवस्य त्वयाऽङ्गोकृततया तन्न्यायेन ब्रह्मगुणानां निरतिशयसर्वज्ञत्वसर्वशक्तिकत्वादीनां जीव सतामेव संसारमुक्तिदशयोरावरणेनाऽल्पज्ञत्वाल्पशक्तिकत्वाद्यनुभवसंभावजीवे तत्सत्वान- भ्युपगमेऽपि ब्रह्मण्येवैश्वर्यवशादणुत्वमहत्वाद्यविरोधस्य च त्वयाऽङ्गीकृततया तन्न्याये- - १. श्रुतिरियं मध्वभाष्ये कौशिकश्रुतित्वेन प्रतिपादिता (म० भा० ११८. २.४.) २. गच्छेदिति म० भा० पाठः ।
४६ मध्वतन्त्रमुखमदनम नाऽधिकगुणस्यैव ब्रह्मणोऽल्पगुणजीवसंभवाच जीवब्रह्मणोः विरुन्द्रगुणवत्वमसिन्द्रमिति । एवञ्च रत्नशास्त्रालोकनप्रभवस्य लक्षणज्ञानस्य विचिद्रानलक्षणे तदन्यलक्षणत्व- विषयतया भ्रमत्वे तन्मूलस्य रत्नविशेषप्रत्यक्षस्येव जीवब्रह्मणोविरुद्ध गुणवत्वासिध्या तद्ज्ञानस्य भ्रमत्वे तन्मूलस्य भेदप्रत्यक्षस्य भ्रमत्वावश्यं भावान प्रत्यक्षं भेद प्रमाणम् । हेत्वसिध्यप्रयोजकत्वादि भिनाऽनुमानं प्रमाणम् । जीवेऽपूर्णत्वबद्रत्वयोसिध्या पूर्णापूर्ण- त्वयोर्बद्धत्वमुक्तत्वयोश्च विरोधासिध्या वा विरुद्धतदुभयवत्वोपपत्तिमुखेन भेदप्रतिपादन श्रुतेस्तात्पर्य कल्पयितुं न युक्तमिति श्रुतिरपि तत्र न प्रमाणम् । “भिन्नोऽचिन्त्यः" इति श्रुतिरस्तिचेत्तस्या अभेदप्रतिपादन एव तात्पर्य सुवचम् । परमो जीवमङ्घादिन्नो न चिन्त्यः किन्तु भिन्न एव चिन्त्य इति । पूर्णः पर इत्याद्यपि भेदचिन्तननिषेधापेक्षित- निषेध्यप्रसक्तिपरतया सुयोजम् । जीवब्रह्मणोहि प्रत्यक्षागमाभ्यां अपूर्णत्वपूर्णत्व बनि- त्यमुक्तले चाऽवगम्यते । ते च लोकतो विरुदत्वेन प्रतीयते । तन्मूलेन भेदभ्रमण भेदानुचिन्तनं प्रसक्तमिति । अपि च नैवाऽत्र विवदितव्यम् ---कथं विरुद्धगुणसमावेश भेदाभाव इति । बिरुद्र- गुणशालिनामध्यर्जुनाखण्डलादीनां त्वया भेदाभावस्येप्यमाणत्वात् । त्वया (1) "ह्येक आत्मनः शरीरे भावादि" त्यधिकरणेऽर्जुनादीनामन्योन्यानभिमतखा डबदा नतत्पशम- नादिकृतवतामाराधकाराध्यत्वादिविषमगुणशालिनामपि निर्भदत्वं व्यवस्थापितम् । आख- ण्डलादयोऽशिनः अर्जुनाद्याः तदंशाः । अंशाः पृथग्भृय संचार दशायामपि अंशिना सहाऽभिन्ना एव पुनरपि तेनैक्यं च प्रतिपद्यन्त इति तव मतम् । एतेन जीवब्रह्मणोर्मेदाभावे ब्रह्मभोगानां जीवेऽप्यनुसन्धान स्यादित्यपि निम्म्तम् । त्वन्मते भेदाभावेऽप्यर्जुनगतेन्द्रभोगाननुसन्धानवजीवगतब्रह्मभोगाननुसन्धानोपपत्तः । इन्द्रभोगादीनामर्जुनादिषु (२) यदननुसन्धानं तद्भेदाभावेऽपि भृम्याद्यपकृष्टदेशावस्था- नगर्भप्रवेशमानुषान्नोपभोगादिकं निमित्तीकृत्याऽचिन्त्याप्रतिहत ३)शक्ति केन परमेश्वरण क्रियत इति हि त्वयोक्तम् । एवं दहविशेषप्राप्त्यादिकं निमित्तीकृत्याऽचिन्त्यशक्तिकेन : वे सू. ३. ३. ५५. अत्र मध्वभाप्यम् । अंशांशिनोंरकत्वमेव शिकर्म- विनिर्मिते शरीर एवांशस्य भावात् । ज्ञानादिभेद विद्यमानेऽपि नांऽशांशिनो: पृथग्भाव एव । तदुपासनादिभोगादंशस्य । परमसंहितायां च-"अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा । पुनरैक्यं प्रपद्यन्ते नाऽत्र कार्या विचारणे"ति ( म. भा. १४१.१.१.) २. अत्र तत्वप्रकाशिका -"अशिगतस्य चाऽशेन सर्वस्या- ऽननुसन्धानमीश्वराचिन्त्यशक्त्यायत्तम् ।" इति । (त. प्र. १८२. १. ८.) ३. अप्रतिहतेनि गु० पु. नास्ति ।
व्याख्यया सहितम । . परमेश्वरेण जीवे पारमेश्वरस्य जीवान्तरगतस्य च भोगस्याऽननुसन्धान नियत इति किमिति त्वया वक्तुमशक्यम् ? । यत्तु परमेश्वरस्य जीवाभिन्नत्वे तस्यैश्वर्यमेव न भवत् । यो जीवाभिन्नो नाऽसाव- चिन्त्यशक्ति कतारूपेश्वर्यवान् , यथा देवदत्त इति व्याप्ते रिति; तत्तुच्छम् । यो जीवभिन्नो नाऽसावैश्वर्यवान् , यथा घटः इतिवदप्रयोजकत्वेन व्याप्त्यसिद्धेः । यच्चोक्तमभेदस्याऽननुसन्धानमा व्यापकं, न तु सर्वानुसन्धानम् । अर्जुनादीनामाखण्ड. लादिगताल्पविषयभोगाननुसन्धानेऽपि तद्तोपासनाफलानुसन्धानमस्त्येव । एवञ्च जीवब्रह्मणोजीवानां चाऽभेदे देवदत्तस्य ब्रह्मगत जीवान्तरगतयत्किञ्चिद्भोगानुसन्धान दुर्वारमिति । तदपि तुच्छम् । यदि ह्यभेद सत्याप्यननुसन्धाने एकस्मिन्नेवाऽननुसन्धान- मनुसन्धानं च विरुन्द्रं प्रसज्यतेत्यनुकूलतकमुपजीव्याऽननुसन्धानस्याऽभेदव्यापकत्वं गृह्यते तदा सर्वानुसन्धानमेव व्यापकम्, कस्यचिदप्यननुसन्धाने तद्विरोधसमाधानालाभात्। यदि त्वभेदेऽपि कस्यचिदननुसन्धानं संभवति तदीयाचिन्त्यशक्तिबलेनाऽनुसन्धानाननु- सन्धानविरोधविधूननादिति सर्वानुसन्धानस्य व्यापकत्वं नेष्यते तदाऽनुसन्धानमात्रनपि न व्यापकं तबलेनैव कचिन्न कस्याऽप्यनुसन्धानमित्यपि वक्तुं शक्यत्वात् । सहचार- दर्शनमात्रस्याऽप्रयोजकत्वादित्यास्तामेतत् । स्यादेतत्-मा भृद्विरुद्धगुणाक्रान्त्या भेदसिद्धिः । अन्यत्वव्यपदेशेन तु स्यात् । दृश्यते हि साक्षादेव जीवब्रह्मणोरन्यत्वव्यपदेशः “तयोरन्यः पिप्पलं स्वाद्वत्त्यन- इनन्नन्यो अभिचाकशीति "अन्यच्च परमो राजन् तथाऽन्यः पञ्चविंशकः" (१)"भेदव्यपदेशाच्चान्य" इत्यादिश्रुतिस्मृतिसूत्रेषु इति । नैतत्सारम् । वन्मते ब्रह्म- प्यन्यत्वव्यपदेशस्य भेदासाधकत्वात् । त्वयाऽन्नमयादीनां पञ्चानामपि ब्रह्मभाव- मभ्युपगच्छताऽन्नमया भन्नेष्वेव प्राणमयादिष्वन्योन्तर आत्मेति व्यपदेश इत्तीय- माणत्वात् । (२) अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । प्रोच्यते भगवान्विष्णुरेश्वर्यात्पुरुषोत्तमः ॥ इति वचनमुदाहृत्य त्वया तस्य निवहणाच्च । जीव ब्रह्मान्यत्ववचनस्याऽपि तन्न्यायेन भगवदेश्वयेवलादेव निबहणसंभवाच्चेति भावः ॥ २९ ॥ ननु च शब्दानां स्वार्थे वृत्तिरोत्सर्गकी । अन्यशब्दस्य च भिन्नत्वमेव मुख्योऽर्थः । तथाऽप्यानन्दवल्यामनमयादिपर्यायेषु पञ्चस्वपि "येऽन्नं ब्रह्मोपासते । ये प्राणं ब्रह्मोपासते । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने" ति । “विज्ञानं ब्रह्म चेद्वेद" १. वे. सू. १. १. २१ । २. कारिकेयं मध्वभाष्ये ( म० भा० ८९. २. ६.)।
मध्वतन्त्रमुखमनम -- (१)"अस्ति ब्रह्मेति चेद्वेदे" ति ब्रह्मशब्दाम्नानेन "एतमन्नमयमात्मानमुपसंक्राति" इत्यादि पर्यायेषु मुक्तप्राप्यत्वात्मशब्दयोः श्रवणेन चाऽन्नमयादीनां पञ्चानामपि ब्रह्मरूपावधारणात् (२) ब्रह्मण्येक मेवाऽद्वितीयमि" त्यादिश्रुतिभिरेकत्वावधारणात् प्राणमयादिपर्याग्रेषु "अन्योन्तर आत्मे" ति अन्यशब्दानां मुख्योऽर्थः परित्यज्यते । न च जोवब्रह्मणोरन्यत्वव्यपदेशे मुख्यार्थबाधकमस्ति। एवं विरुद्धगुणाक्रान्त्याऽपि भेदसिद्धिरौत्सर्गकी । अणुत्वमहत्वादीनामेकस्मिन्नेव ब्रह्मणि प्रमाणबलेनाऽवधृतत्वात्तत्र विरुद्धगुणवत्वमैश्व यैबलादिति समाधीयते । न चेह तथा बाधकमस्ति । तस्माज्जीवब्रह्मणोविरुद्धगुणवत्वेन साक्षादन्यत्वव्यपदेशेन च भेदसिद्रिस्यादेवेत्याशङ्कामपाकरोति - प्राबल्यं भवतोऽप्यभेदवचसा भेदश्रुतिभ्यो मतं नो चैदन्नमयादयो वद कथं भिन्ना भवेयुन ते । भेदे सत्यपि युज्यते भगवतश्शक्त्यैव निर्दोषता शक्तः किं न स एक एव बहुधा भिन्नो हरिः क्रीडितुम्॥३०॥ "एकमेवाऽद्वितीय" "नेह नानाऽस्ति किंचने" त्याद्यभेदश्रुतीनां भेदश्रुतिभ्यः प्राबल्यं तवाऽपि सम्मतमेव । अन्यथा "अन्योऽन्तर आत्मे"ति भेदश्रुत्यनुसारेणाऽनम- यादीनां भेदो दुर्वारः । न चाऽभेदश्रुतीनां ब्रह्मभेदश्रुतिभ्य एव प्राबल्यं न जीवब्रह्मभेद- श्रुतिभ्य इत्यत्र विशेषहेतुरस्ति । एकमेवाऽद्वितीयमित्यादिशब्दस्वारस्यस्याऽस्मदक्त- षड् विधतात्पर्यलिङ्गवत्वस्य लाघवस्य वा प्राबल्यहेतोरुभयत्राऽप्यविशेषात् । स्थादेतत्-नाऽभेदश्रुतिप्रावल्याब्रह्मभेदश्रुतीनां मुब्याथै परित्यजामः । किन्तु सकलवेदमहातात्पर्यविरोधात् । तथा हि-"सर्वेषामपि बेदान्तानां मोक्ष एवं प्रधानं प्रयोजनम् । “तेषां दुःखप्राणाय श्रुतिरषा प्रवर्तत" इति वचनात् । मोक्षस्य व तत्प्रयोजनस्वं न साक्षात् तत्साध्यतया । तस्याऽनेकश्रुतिस्मृतिपुराणभंगवत्प्रसा- देनैव साक्षात्साध्यत्वावधारणात् । किन्तु यदज्ञानेन मोक्षहेतुर्भगवत्प्रसादसंपद्यते तत्प्रतिपादनद्वारेति वाच्यम् । तत्प्रसादश्च तदीयनिर्दोषगुणोत्कर्षज्ञानाद्भवतीति लोकतो “योमामेवमि"त्यादि भगवद्वचनेवाऽधारितम् । अतः सर्वेषामपि वेदानां भगवतो निर्दोषाशेषगुणपूर्णत्व एव महातात्पर्यम् । तद्विरुध्यते ब्रह्म भेदश्रुतीनां स्वार्थपरत्वे भिन्नानां गुणतारतम्यानुग्राह्य नुग्राहकभावादिदर्शनेन ब्रह्मरूपेष्वपि तत्प्रसत्या निर्दोष- (३)गुणवत्वासिद्धेः । जीवब्रह्मभेदश्रुतीनां स्वार्थपरत्वे तु तन विरुध्यते । प्रत्युत तासा- १. इदं वाक्यं ग. पुस्तके नास्ति । २. ब्रह्मणश्चेति घ० पु० । ३, अशेषगुणवत्वसिद्धेः ग० पु० ।
व्याख्यया सहितम् । मतत्परत्व एव विरुध्यते, जीवब्रह्माभेदे जीवदोषेण ब्रह्मणोऽपि सदोषत्वापत्तेः। तस्माद्ब्रह्म- भेदश्रुतीनामेव स्वार्थपरित्यागो न जीवब्रह्मभेदश्रुतीनामिति विशेषो युक्त इति चेत्- मैवम् ; अन्नमयादीनां विश्वतेजसादीनां व ब्रह्मरूपाणां भेदश्रुत्यनुसारेण बिरुद्ध- गुणवत्वानुसारेण च भेदे सत्यपि भगवदैश्वर्यवलादेव निर्दोषाशेषगुणपूर्णतोपपत्तेः । न हि भगवानशेषमपि स्वेच्छया कर्तुमकर्तुमन्यथा कर्तुमपि शक्त इति वदतस्तव लीलया भिन्नो भवन्नप्यहं निर्दोषाशेषगुणपूर्णः स्यामिति स्वसङ्कल्पेन भेदमास्थाय क्रीडितुं न शक्त इति वक्तुं शक्यम् । न च वाच्यं तथा सङ्कल्पमेव भगवान्न करोतीति। भेदश्रुत्या विरुद्धधर्माकान्या चाऽन्नमयादीनां विश्वतेजसादोनाञ्च स्वतः प्राप्तस्य भेदस्याऽपवादकाभावेन तस्याऽवश्यमङ्गीकर्तव्यत्वेन तथा संकल्पं करोतीत्येव वक्त- व्यत्वात् । तस्माद्गत्यन्तराभावाद्भेदनिषेधश्रुतीनां प्रबलत्वेन भेदापवादकत्वमास्थायैव तथा सङ्कल्पं न करोतीति निर्वहणीयम् । प्राबल्यं च भवज्जीवब्रह्मभेदश्रुतिभ्योऽपि भवेत् । विशेषहेत्वभावात् । न च ब्रह्मनिषित्वश्रुत्यनुरोधविरोधौ विशेषहेतू । दुःखा- दिदोषाश्रयत्वं सदोषत्वं इत्यभ्युपगमे त्वन्मतेऽपि दुःखादीनामन्तःकरणधर्मत्वेन जीवस्याऽपि निर्दोषत्वात् । दुःखादिस्वामित्वं तदित्यभ्युपगमेऽपि त्वन्मते ब्रह्मण एव वा ब्रह्मणोऽपि वा दुःखादिस्वामित्वेन सदोषत्वानिवारणात् । दुःखादिमत्वाध्यासशालित्वं तदिति चेन्न । तस्याऽग्यशेषविशेषदर्शिनि ब्रह्मण्यसंभवाद्ब्रह्मणो विशेषदर्शनेनैव तदभिन्नस्थाऽपि विशेषदर्शनव स्वेऽपि ब्रह्मतर्माणां जीवं प्रति तदीयानन्दव- दावृतत्वस्य तवाऽपि संमतत्वेन ब्रह्मणो विशेषदर्शनस्य जीवं प्रत्यसत्कल्पत्वात् । ब्रह्म प्रति स्वाभिन्नजीवगतदुःखाद्यभ्यासस्याऽनावृतत्वेऽपि देवदत्तमुखाभिन्नप्रति- मुखगतश्यामत्ववक्रत्वादविशेषदर्शिनं देवदत्तं प्रतीव ब्रह्म प्रति हेयत्वाभावात् । भन्मते बिम्ब प्रतिबिम्बौ भिन्नी, प्रतिबिम्बगतवक्रत्वादयोऽपि सत्या इति चेन्न । येषां ताबभित्री ते च वक्रत्वादयोऽध्यस्ता इति मतं तेषामपि स्वप्रतिबिम्बगतवक्रत्वा- दिदर्शनेन विपादावभावात् , प्रत्युत- प्रतिविम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । पुमान् कोव्यथा ब्रह्म तथा जीवस्य विक्रियाः। इति कल्पतरूक्तरीत्या हर्षदर्शनात् । एतेन जीवगतासर्वज्ञत्वाल्पशक्तिकत्व- पारतन्त्र्यादिकं दोष इत्यधि निरस्तम् । जीवस्य ब्रह्माभेदसिद्धौ तस्य सर्वस्याऽप्यध्यस्त- खोपपत्तेः । तस्मान्न भेदश्रुत्यवलम्बनेन भेदकश्रुत्यवलम्बनेन वा जीवब्रह्मभेदसिद्धि- प्रत्याशा कर्तव्यति भावः ॥ ३० ॥ यदत्राऽधुनिकोक्तं कर्ममीमांसायां व्युत्पादितैः शब्दान्तरादिभेदप्रमाणे: जीवब्रह्मणो. भंदस्सिध्यति । अस्ति "त्वेष एव जीवं प्रबोधयति एतस्माजीव उत्तिष्ठती" ति विरु.
मध्वतन्त्रमुखमदनम् झार्थधातुनिष्पन्नाख्यातरूपं शब्दान्तरम्, "नित्यः परो नित्यो जीवः" इत्यप्रत्यभि- ज्ञायमानपुनश्श्रुतिरूपोऽभ्यासः, "द्वा सुपर्णे त्यादि संख्या, "अनश्ननित्यादिको" गुणः, “यतो वाचो निवर्तन्त" इति प्रकरणान्तरम्, जीवेशाबिति नामधेयभेद- श्वेति, तदिदं प्रत्यक्षादिषु भेदप्रमाणेषु पराहतेषु शब्दान्तराद्युपन्यसनं प्रतिग्रहलब्ध हस्ति- नमविक्रीय स्वगृहे स्थापयितुकामस्य मुग्धश्रोत्रियस्य हस्तिपकेन तद्बासे पृष्टे स्वगृहे सम्पादितान् सर्वान् दर्भमुष्टीन् क्रमेण तदने निहितवतः तेषु कबलमात्रस्याऽप्यपर्याप्तेषु क्षणेन निगीर्णेष्वन्ततः स्वकरस्थितदर्भपवित्रनिधानमनुकरोतीति सोपहासं दृषयति- शब्दान्तरादिकथनं त्विहभेदसिध्यै हासास्पदं सदसि दर्भपवित्ररीत्या । पूर्वत्र तन्त्र इव काल्पनिकेऽपि भेदे तेषां घटेत किमिहाऽपि न चारितार्थ्यम् ॥३१॥ कर्ममीमांसकैरिदं (१) शब्दान्तरादिकं मुख्यभेदे प्रमाणतया नोपन्यस्तम् । न हि तैः शब्दान्तरादिकं प्रदोपपाद्यमानः तदभावं प्रदोपपाद्यमानश्च कर्मभेदः शास्त्रभेदो वा अन्योन्याभावादिरूपो मुख्यभेदः । (२) सप्तदश प्राजापत्यान्पशूनालभत" इत्यत्र (३) “दधि मधु घृतमापो धानाः करम्भास्तण्डुलास्तत्संसृष्टं प्राजापत्यमि" त्यत्र “ऐन्द्रं दध्यमावास्यायां, ऐन्द्रं पयोऽमावास्यायामि" त्यत्र च (४) प्राजापत्य- पशूनां प्राजापत्यदध्यादीनां ऐन्द्रदधिपयसोश्च (५) प्रदानयोगपद्येन प्रजापत्याधुद्देशेन तत्तद्रव्यविषयसंकल्परूपाणां यागानामेकैकत्वेऽपि सप्तदश प्राजापत्ययागाः सप्त दध्यादियागाः द्वौ दधिपयोयागाविति भेदोपपादनात् । “सोमेन यजेते" त्यत्र , १. शब्दान्तराभ्याससंख्यासंज्ञागुणप्रकरणान्तररूपाणि कर्मभेदे षट् प्रमाणानि मीमांसकैः द्वितीयाध्याये निरूपितानि । अत्र द्वितीयाध्यायद्वितीयपाद प्रथमाधिकरणे शब्दान्तरं, द्वितीयाधिकरणेऽभ्यासः, सप्तमाधिकरणे संख्या, अष्टमे संज्ञा, नवमे गुणः, तृतीयपादीय कादशाधिकरणे प्रकरणान्तरं च निरूपितानि । तत्राऽपर्यायधातुभेदः शब्दान्तरम्, अनन्यपरविधिपुनःश्रवणमभ्यासः, पृथक्त्वनिवेशनी एकत्वाधिका संख्या, तादृशी च संज्ञा, पूर्व कर्मण्यसंभवन्निवेशो गुणः, अनुपादेयगुणविशिष्टानुपस्थितिः प्रकरणान्तरं च कर्मभेदकानि प्रमाणानि । २. एतच्च संख्याधिकरण उदाहतम् । ३. दधि मधु घृतं पयो धानाः उदक तण्डलास्तत्संसृष्टं प्राजापत्यं" इति करम्भपदरहितं, तत्स्थाने पयःपदविशिष्टं च मीमांसकग्रन्थेषूपलभ्यते । ४. प्रजापतिदेवताकाः पशुद्रव्यकाः सप्तदश यागाः कर्तव्या इति तदर्थः । ५. देवताया एकत्वेऽनेकेषामपि हविषां सकृदेव तद्देवतोद्देशेन त्याग:
व्याख्यया सहितम् । ५१ " . . इन्द्रवाय्वायुद्देशेन तत्तत्पात्रस्थितसोमरससंकल्परूपाणां त्यागानां (१) भिन्नत्वेऽपि अग्निहोत्रजुहुयादित्यत्राऽऽहवनीयादिषु हविःप्रक्षेपरूपाणां होमानां भिन्नत्वेऽपि भेद निरासात् । सप्तदश प्राजापत्यानिति वाक्यरूपस्य शास्त्रस्यैकत्वेऽपि भेदोपपादनात् । "व्रीहिभिर्यजेत" "त्रीहीनवहन्ति" इत्यादिवाक्यरूपाणां शास्त्राणां भिन्नत्वेऽपि भेद- निरासाच्च । यद्यपि कर्माऽपि गोत्यादिवदेकमेव नित्यमेकमने कानुगतं, न त्वाश्रयभेदेन भेदोऽस्ति । अयं चलत्ययमपि चलतीत्यादिप्रत्यभिज्ञया तदैक्यसिद्धेः । तद्भेदबुद्धेराश्र- यभेदादुपपत्तेः । सन्ततानुपलब्धेश्च शब्दवव्यञ्जकाभावेनोपपत्तेः । एवमन्यत्र कमैं- क्येऽपि यत्र शब्दान्तरादिद्वैतीयकप्रमाणमस्ति तत्र कर्मभेदोऽङ्गीक्रियते । अतश्शब्दा- न्तरादिप्रमाणषटकावधिः कर्मभेदः । ततः परन्तु तदभेद इति कौमारिलानां चि. पक्षे “सोमेन यजेत" "अग्निहोत्रं जुहुयादि"त्यत्र शब्दान्तराद्यभावान्न यागहोमभेदः । किन्त्वेकस्यैव यागस्य होमस्य च देवताभेदेनाऽधिकरणभेदन(२)वाऽभ्यासमात्रमिति मुख्यो भेद उपपादयितुं शक्यते तथाऽपि "सप्तदश प्राजापत्या" नित्यादिषु तस्मिन्नपि पक्षे मुख्यभेद उपपादयितुं न शक्यत एव । अत एवाऽस्वारस्यात्सर्वलोकसिद्धभेदप्रत्यक्षतोऽपि बलवती प्रत्यभिज्ञा शब्दा- न्तरादितः कथं बलवती न स्यादित्यस्वारस्याच सर्वत्र कमैक्यपक्षे शब्दान्तरादि. स्थलेऽप्यमुख्यभेद एव कौमारिलैराश्रितः । (३) “शब्दान्तरे कर्मभेदः" इत्यादिसूत्रस्वारस्यं स्वौच्या समर्थयितुं परं शब्दान्तरादिस्थले मुख्यः कर्मभेद इति कश्चित्पक्ष उपन्यस्तः । तस्मादनुष्ठानविशेषोपयोग्यपूर्वभेदाशुपाधिकः काल्प- " इति मीमांसकमर्यादा । १. अयं भावः- "सोमेन यजेते" त्यनेन सोमलता- द्रव्यको यागो विधीयते । तस्याः पुरोडाशादिवन्न साक्षाद्यागसाधनत्वम्, किन्तु "सोममभिषुणोति” “सोमं पावयति" "अण्व्या धारया गृह्णाति" इत्यादिविधिबलादभिषु- तस्य वस्त्रपरिपूतस्य पात्रविशेषेषु गृहीतस्य तत्वम् । तत्र ग्रहचमसादीनि बहूनि पात्राणि सन्ति । तेषु च इन्द्रवारवादिभ्यस्तत्तद्देवताभ्यः पृथक् पृथक् गृह्यते । ततश्च यथासमय तस्य तस्यै दवतायें तत्तत्पात्रस्थितो रसः पृथक् पृथक् प्रदीयते । एवं सवनत्रयेऽपि क्रियते । एवं च त्रिष्वपि सवनेषु तत्तद्देवतोद्देशेन क्रियमाणास्त्यागाः यद्यपि बहवस्तथाऽपि "सोमेन यजेते"ति विधिवाक्यगतेकवचनबलात्सर्वेऽपि त्यागाः मिलित्वा एक एव याग इत्यभ्युपगम्यते । एव"मग्निहोत्रं जुहोती" त्यत्राऽपि द्वे आहवनीये जुहोति" 'चतस्त्रो गार्हपत्ये' "चतखोऽन्वाहार्यपचने" "विराटसंपन्नमग्निहोत्रं जुहोति" इति वचनेन दश आहुतयो यद्यपि क्रियन्तेऽग्निहोत्रे तथाऽपि “अरिहोत्रं जुहोती" त्युत्पत्तिवाक्य. गतेकवचनबलेनैकमेवाऽग्निहोत्रम् । तस्यैकस्य च सायं प्रातरावृत्तिः इति । २. चेति. ग. पु.। ३. जै. स. २. २. १. अधि. १. ।
मध्वतन्त्रमुखमदनम् निको भेद इति शब्दान्तराधवसेय इत्येव सर्वेषामपि कर्ममीमांसकानां मतम् । उक्त हि तन्धरले–(१) "क्रियाणामाश्रितत्वाद्रव्यान्तर विभागस्यादि" त्यधिकरणे । अथाऽपि नाम सर्वत्रैलोक्यवर्तिन्येकव कर्मव्यक्तिरनुष्ठानमात्रन्तु भिद्यते यावदेकापूर्वानुबन्धनमेक्रेन शास्त्रेण विषयीकृतं तावदेकं कर्म, तदन्यत्तु भियत इति भेदाभेदव्यहारसिद्धिरिति । उक्तं च (२) वरदराजीये-शब्दान्तरा- धिकरणे-"भिन्नापूर्वानुबन्धप्रतिपादनयोग्यताज्ञानं यत्तदेव शास्त्रभेदज्ञानमित्युच्यत" इति । तत्रैव (३) संख्याधिकरणेऽप्युक्तम् --"न च सप्तदश प्राजापत्यानिति वाक्यस्यैकत्वान्न शास्त्रभेदः। न वाक्यभेदः शास्त्रभेद तन्त्रम् । निरपेक्षभिन्ना- लौकिकार्थत्वमेव तत् । तच्चेहाऽप्यस्तीति । एवं च यथा पूर्वतन्त्रे शब्दान्तराईवस्तुतो भेदरहितेऽपि काल्पनिकभेदविषयतयैव चारितार्थ्य, एवमिहाऽपि तस्य जीवब्रह्मणोस्तिविकभेदाभावेऽपि काल्पनिकभेदविषयतया चारितार्थ्यसंभवान्न तत् तयोर्मुख्यभेदासिद्धिरिति (४) भावः ॥ ३१ ॥ एवं पूर्वमीमांसकमर्यादया शब्दान्तरादीनां काल्पनिकभेदविषयतयाऽपि चारिताथ्य संभवत्वतीत्युक्तम् । परमर्यादया तु तैस्तथाभृतोऽपि भेदो न सिध्यतीत्याह । निमर्यादप्रवृत्ते तव तु हतमते सोऽपि भेदो न सिध्ये- द्यस्त्वं नानाधिकारश्रुतपरगुणसार्यमिच्छस्त्युपास्तौ । अंशानां खल्वभेदेऽप्यपि च भगवता सन्ति शब्दान्तराद्याः तत्स्यान्मत्स्यादिरीत्या सकलजनिमतां वासुदेवांशभावः ॥३२॥ (५)दहरविद्या, (६)शाण्डिल्यचिया, (७)वैश्वानरविद्या, (८)पोडशकलविद्यो- पकोशलविद्या(९) पर्यविद्येत्यादिसंज्ञाभेदेन प्रसिद्धाः परब्रह्मविद्या यथायथं शब्दान्तरादिभिः प्रमाणैः परस्परं भिन्नाः । भिन्नत्वादेव तत्तद्विद्याम्नाता उपास्यगुणा (१०)वाजपेयाश्वमेधादिकर्मणामङ्गकलापवद्यथाप्रकरणं व्यवस्थिता इति न तामु परस्प- . . १. जै. सू. ६.३.११. अधि. ११। २. प्रभाकरमतानुयायिनः भवनाथकृतस्थ नयविवेकाख्यग्रन्थस्य व्याख्या नयविवेकदीपिका वरदराजकृता । सात्र निर्दिश्यते । ३. पू. मी. २. २. अधि. ७.। ४. अर्थ इति ख. घ. पु.। ५. छान्दोग्ये अष्टमाध्याये प्रथमखण्डे निरूपिता। ६. छा. अ. ३ खं. १४ । ७. छा. अ. ५ खं. ११, निरूपिता। ८. छा. अ.६ खं. ७ निरूपिता । ९. छा. आ. खं. १० निरूपिता। १०. वाजपेयप्रकरणे पठितानामङ्गानां वाजपेयमात्राङ्गत्वम् । ने 'तेषा' मश्वमेधे उपसंहारः । एवमश्वमेधेऽपीति ।
. व्याख्यया सहितम् । गुणोपसंहारः । किन्त्वेकैकस्यां विद्यायां नानाशाखाम्नातगुणोपसंहारमात्रम् । सर्वासामपि तासामुपास्यगुणतारतम्येन उपासनाकालतारतम्येन सहकारियज्ञादि- कर्मतारतम्येन च फलभोगतारतम्यवती देवयानमार्गप्राप्या सगुणब्रह्मलोकावाप्तिरपर- मुक्तिरूपा फलमित्यस्माकं मतम् । त्वया त्वत्रैवमङ्गीकृतम्-“सर्वविद्याम्नातानां कर्मकाण्डगताग्नेयसौरादिसूक्तानातानां च सर्वेषां गुणानां उपासनायामुपसंहारः कार्यः इति न विद्याभेदेन गुणानां प्रतिप्रकरणं व्यवस्था, किन्तु मानुपाद्या हिरण्यगर्भान्ता मुक्त्यधिकारिणः फल तारतम्बेन मुक्तिभाज इत्यधिकारिभेदेनैव । तत्र हिरण्यगर्भः सर्वोत्कृष्टमुक्त्यहतया कर्मब्रह्मकाण्डाम्नाता- संकुचितसकलगुणोपसंहारयोग्यः। अन्ये तु स्वस्वभाविमुक्त्यनुसारिगुणोपसंहारयोग्याः । यद्यप्यस्मदादिभिर्मुक्त्यधिकारिभिरुपासनारम्भसमये स्वस्वभाविमुक्तिस्वरूपं प्रतिपुरुष- मनादियोग्यतानुसारेण व्यवस्थिततारतम्यम जानद्भिः स्वस्वोपासनायोग्या गुणा निश्चेतुं न शक्यन्ते । अयोग्यगुणोपसंहार प्रयत्नश्चाऽनर्थ फलः । “अचेतनासत्यायोग्यान्य- नुपास्यान्यफलत्वविपर्ययाभ्यामि"ति संकर्षणसूत्रात् । "अधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथंचिदधिके यत्ने दोषः कश्चित्समापतेत् ॥" इति वचनाच्च । तथाऽपि स्वस्वगुरोरन्यस्माद्वा कुतश्चित्सर्वज्ञात् भाविस्वमुक्ति फल. स्वरूपं ज्ञात्वा तदनुसारेण स्वस्त्रयोग्यगुणानपि तत एवाऽवगम्य तेषामुपसंहारः कार्यः । न च बह्वल्पगुणप्रतिपादकविद्याविशेषपरिग्रहेण मुक्त्यधिकारिणां फलोत्कीपकर्षनिवा- हात्प्रकरणाद्युल्लङ्घनेन गुगोपसंहारो न कार्य इति वाच्यम् । सकलगुणोपासनयोग्यस्य हिरण्यगर्भस्य सकलगुणपरिग्रहायाऽन्येषामपि स्वस्वमुक्त्यनुरूपगुणविशेषपरिग्रहाय च नानाप्रकरणत्रिप्रकीर्णगुणोपसंहारावश्यंभावात् । क्वचिदपि विद्यायां सर्वगुणाम्नानादर्शनात् तत्तन्मुक्त्यनुरूपगुणविशेषाम्नाननियमाभावाच्चेति । तदेतत्सर्व (१) उपसंहारोऽथी. भेदाद्विधिशेषवत्समाने च” (२) प्राप्तेश्च समञ्जसम्"(३) "इतरे त्वर्थसामान्यात्' (४)"पुरुषविद्यायामपि चेतरेषामनाम्नानादि"ति सूत्राणि लिखित्वा रचितेषु त्वदीया- धिकरणेघु स्पष्टम् । एवमङ्गीकृतवता वया शब्दान्तरादीनां भेदकत्वमेव त्यक्तं भवति । तेषां भेद- कत्वे तेरापाततो विद्याभेदस्याऽनिवार्यत्वाद्विद्याभेदे सति तत्तद्विद्याव्यवस्थितगुणोप- संहारायोगात् । न ह्येकाग्निमुपासीनस्याऽऽयुरादिकमपेक्षितमिति “आयुराशास्ते । सुप्र. १. वे. सू. ३. ३. ६. अधि. २. । ३. वे. मू. ३. ३. १४. अवि. ७. । २. वे. सू. ३. ३. १०. अधि. ३.। ४. वे. सू. ३.३.२५. अधि. १५ । .
मध्वतन्त्रमुखमदनम् जास्त्वमाशास्ते”. इत्यादिसूक्तवाकमन्त्रार्पितायुगदिफलकं दर्श पूर्णमासाङ्गप्रस्तरप्रहरणे पुरुषापेक्षामात्रेणोपासनादिकर्मसूपसंहार्य भवेत् ।(१) अपि च शब्दान्तरादयः कर्मणि भेदका भवन्तु मा वा भृवन् । ब्रह्ममि तु भेदक न भवन्त्येव । तथाहि-"एष ह्येव जीवं प्रबोधयति" "एतस्माजजीव उत्तिष्ठतो" ति विरुद्धार्थधातुनिष्पन्नमाख्यातरूपस्य शब्दान्तरस्य भेदकत्वम् । उद्बोधक वावच्छिन्न. स्योदोध्यत्वावच्छेदो विरुद्ध इत्यन्ततो विरोधमूलमेव वाच्यम् । न तु तद्युक्तम् । ब्रह्मणि त्वया विरुद्धधर्मसमावेशस्य बहुधाऽङ्गीकृतत्त्रात्। “नित्यः परो नित्यो जीव" इति नित्यत्वाभ्यासस्य परजीवयोरेक-वे परनित्यत्वश्रत्यैव जीवस्याऽपि नित्यत्व सिद्धेः तत्पुनःश्रुतिरनर्थिका स्यादिति पुनःश्रुन्यानर्थक्यं मूलं वाच्यम्। तदपि न युक्तम् । कार्यकारणाभेदवादिना शक्तिव्यक्तयभेदवादिना च त्वया नित्यत्वानित्यवादीनां साङ्कर्यस्याऽङ्गीकृततया तथैव परनित्यत्वेऽपि जीवानित्यत्वं स्यादिति शङ्कावारगेन तत्सार्थकत्वात् । संख्याया गुणस्य च भेदकत्वं "यस्मिन् पञ्च पञ्च जना "अणोरणी- यान् महतो महीयानि" त्यादौ स्वयेव प्रतिषिद्रम् । प्रकरणभेदो न भेदक इति स्पष्टमेव । भारतादिषु रामकृष्णादिचरितप्रतिपादकप्रकरणभेदेऽप्यभेदानपायात् । सृष्टिसंहारादिप्रतिपादकप्रकरणभेदेऽपि त्वया सृष्टिसंहागदिक्रियाणां अभेदस्याऽङ्गी- कृतत्वाच्च । एतेन जीवेशाविति नामधेयस्याऽपि भेदकत्वं प्रत्याख्यातम् । तस्मात्परस्परविरुद्र- धर्मादिमतामवतारादीनामिव जीवानामप्यभेदश्रुत्यनुसरणाय तदत्यन्ताभिन्नवासुदेवां- शत्वं त्वया निवारयितुं न शक्यत इति भावः ॥ ३२॥ नन्वस्त्वेवं जीवब्रह्म गोरभेदः, तथाऽपि निर्दोषाशेषगुणपूर्णस्य ब्रह्मणो जीवं प्रत्यभेदेऽप्यावृतत्वोपपादनाद्विचार्यत्वं संभवतीति मन्मते शास्त्रमारम्भणीयमिति परसिद्धान्तस्य न किञ्चिदूषणमिति मन्दाशङ्का निराकुर्वन् सिद्धान्तदृषण- मुपसंहरति- - १. अयं भावः-दर्शपूर्णमासप्रकरणे प्रस्तरप्रहरणाङ्गत्वेन 'इदं द्यावापृथिवी भद्रमभूदि" त्यादिना श्रुतो मन्त्रस्सूक्तवाकः । तन्मध्ये "अयं यजमान आयुराशास्ते । सुप्रजास्त्वमाशास्ते" इत्यादिना यजमानस्याऽऽयुरादीनां फलानामाशासनमुक्तम् । तञ्च दर्शपूर्णमासाङ्गत्वात्तद्विकृतिषु त्रेताग्निसाध्यास्वेवाऽतिदेशेन गन्तुं शक्नोति ; न तु गृह्योक्तकमस्वकाग्निसाध्येषु अपेक्षामात्रेण गन्तुं प्रभवन्ति । न ह्यपेक्षामात्रेणेतरकारणा- भावे उपसंहारो युज्यते इति । प्रस्तरो हविरासादनाधारभृतो दर्भमुष्टिविशेषः ।
S. V. V. S. REFER नामा व्याख्यया सहितम् । इत्थं जीवब्रह्मभेदे निरस्ते शास्त्रारम्भस्थापनार्थ त्वदिष्टे । जीवाभेदेऽप्यावृतत्वाद्विचार्य ब्रह्मत्यमद्रीतिरेवाऽऽश्रयस्तै ५॥ ३३॥ इति श्रीमदप्पयदीक्षितेन्द्र कृतिषु मध्वतन्त्रमुख प्रथमाधिकरणदृषणम्॥ न वयं सर्वथैव ब्रह्ममीमांसाशास्त्रारम्भमाक्षेप्तु प्रवृत्ताः । अस्माभिस्तदारम्भस्य स्थापनीयत्वात् । किन्तु जीवब्रह्मभेदमाश्रित्य ब्रह्मणो विषयत्वोपपादनेन तदारम्भमाक्षे. 'तुम् । तदाक्षेपश्च सुस्थिर एव । वद्रीत्यैव जीवब्रह्मभेदस्य निराकृतत्वात् । अतस्तं पक्षं विहाय जीवाभेदेऽप्यावृतत्वात् ब्रह्म विचार्यमिति पक्ष पाश्रीयते चेत्, साऽस्मद्री- तिरेख, न दूषणीया । न च सगुणस्यैव ब्रह्मणः परपक्षे जीवाभेदोपपादनाद्रीतिभेदोऽ. स्तीति शङ्कनीयम् । परमते गुणगुणिनोः भेदाभावाद्भेदप्रतिनिधेस्तदभिमतस्य विशेषस्य वाऽऽवश्यकब्रह्मशक्त्यैवोपपन्नतया निराकृतत्वात् । अस्मन्मतेऽप्यविद्याशक्तिवशाद्गुण- गुणिभावप्रतीतेरिष्यमाणत्वात् । यदाहुः (१)पद्मपादाचार्याः “आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः पृथक्त्वेऽपि चैतन्यापृथगिवाऽवभासन्ते इति । इयांस्तु विशेषः - जीवे प्रत्यक्षतोऽवभासन्ते; ब्रह्मणि तु "आनन्दं ब्रह्मणो विद्वानि" ति श्रुति- बलादवभासन्त" इति । तस्मात्सिदमेतज्जीवब्रह्मभेदावलम्बनेन शाखारम्भसमर्थनम- युक्तमिति ॥ २३॥ अप्पदीक्षितसुधीविनिर्मिते मध्वदर्शनमुखावमर्दने । आदिमाधिकरणस्य दूषणं भूषणं भवतु धोमताभिदम् ॥ इति श्रीमद्भारद्वाजकुल जलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- राजाध्वरीन्द्रसूनोः चतुरधिकशतप्रवन्धनिर्माणचणस्य श्रीमदप्पयदी- क्षितेन्द्रस्य कृतिषु मध्वतन्त्रमुखमर्दनव्याख्याने मध्वमत. विध्वंसने जिज्ञामाधिकरणदूषणाख्यं प्रथमं प्रकरणम् ॥ जन्मादिसूत्रे परकीयमिदमधिकरणम्-यदुक्तं “तद्विजिज्ञासस्व । तद्ब्रह्मेति" इति विचारविधिवाक्ये ब्रह्मपदेन जीवविलक्षणस्य ब्रह्मणो विचार्यस्य समर्पणात्सविषयमिदं शास्त्रमिति, तन्न घटते । तत्र ब्रह्मपदस्य जीवपरत्वात् । तथा हि-ब्रह्मशब्दस्ता. १. पंचपादिकायां चतुर्थपत्रीयचतुर्थ पंक्तौ ।
५६ मध्वतन्त्रमुखमदनम वज्जीवस्याऽपि वाचकः। 'बृह वृहि वृद्धा" विति धातोरिव वृहजातिजीवकमलासन- शब्दगशिध्विति धातोरपि मनिन्प्रत्यये सति ब्रह्मशब्दस्य निष्पत्तेः । तस्य च जीवनाच. कत्वं रूड्यैव जीवे गुणपूादियोगासंभवात् । परब्रह्मवाचकत्वं तु चोगेन । ततश्च रूढेोगतो बलवत्वादिह ब्रह्मशब्दस्य जीव परत्वमेव युक्तमिति पूर्वपक्षे गद्धान्तः--सत्यं रूढिवलीयसी । इह त्वस्या वाधकं जागर्ति “यतो वा इमानि भूतानि जायन्ते' इत्यादी श्रुतं ब्रह्मशब्दनिर्देश्यस्य जगजन्मादिकारणत्वं बोधयति । तद्धि विष्ण्वेकनिष्ठ तल्लक्षण- मिति श्रुतिस्मृतिपुराणादिभ्योऽवगतम् । अतस्तदनुसारेण योगतः परिपूर्णगुणविष्णुपर एवाऽयं ब्रह्मशब्द इति तत्र पूर्वपक्षोक्ता जीव रूढिरसिद्धा । शारीरबंहकत्वादिलिप्तयो- गेनैव तत्र वृत्युपपत्तेः धात्वन्तरस्य चाऽप्रामाणिकत्वादिति दूपणं स्पटमवति मत्वा सिद्धान्तं दूषयति- तद्ब्रह्मेत्यस्य रूढ्या तनुधरपरतामुज्झतोऽनृत्तययोगात् कि त्वन्नाद्येपु युक्ता भवति तब मते स्याद्यतो वेत्यनूक्तिः। ब्रह्मैक्यात्तेषु युक्ता यदि किमिति तदा जीववर्गे न युक्ता जीवा देऽप्यभिन्नानपि हि कथयसि ब्रह्मणा तद्गुणेद्धान्॥३४॥ यदि जगत्कतानुवादस्य जीवे पर्यवसानायोगाद्विचाविधिवाश्यगतस्य ब्रह्मशब्दस्य रूट्यर्थोऽपि जीवः परित्यज्यते तदा येप्चनप्राणमनोविज्ञानानन्दषु तस्य ब्रह्मशब्दस्य वृत्ति- स्तवाऽभिमता तेष्वपि वृत्तिः तस्य परियक्तव्या स्यात् । जगत्कारणत्वानुवादपर्यवमानासंभ- वस्य तेष्वपि तुल्यत्वात् । तथाहि-वरुणेन ब्रह्मविद्यार्थमुपसन्नं भृगु प्रति जगजन्मा- दिकारणं तद्ब्रह्म तद्विजिज्ञासस्वेत्युपदिष्टे सोऽपि तपसेवाऽन्नं जगत्कारणं ब्रह्मेत्यवगत्य पुनः पुनरुपसत्या क्रमेण प्राणं मनो विज्ञानमानन्दं तथाऽवगतवानिति भृगुवल्ल्या श्रूयते । तत्र "आनन्दो ब्रह्मेति व्यजानात् । आनन्दायेव खल्विमानि भृतानि जायन्ते " इत्याद्यानन्दवाक्यमेकमेव प्रथम सामान्यतो लक्षणामुग्वेनोपदिष्टम्य ब्रह्मणो निर्णयवाश्यमानन्द एव जगजन्मादिमूलकारणं ब्रह्म; अन्नादयस्तु चत्वारोऽपि कोशाः "अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्लिमानि भृतानि जायन्ने” इत्यादि स्थूलारुन्धतीन्यायेन प्रवृत्तानि इत्यस्माकं मतम् । तव तु अन्नादियाक्यानि पञ्चाऽपि तन्निर्णयवाक्यानि अन्नादिषु पञ्चवपि ब्रह्मशब्दस्य जगत्कारणत्वलक्षणयोजनस्य च दर्शनात् । पुनःपुनरुपसत्तिस्तु अन्नमयादिकोशान्तरंगतानां पञ्चानां ब्रह्मरूपाणां मध्ये पूर्वपूर्वरूपापरोक्षीकरणानन्तरमुत्तरोत्तररूपापरोक्षीकरणार्थतन्याऽनुज्ञाप्राप्तये प्रतिपर्याय "तद्विज्ञाय पुनरेव वरुणं पितरमुपससार” इति "तपसा ब्रह्म विजिज्ञासस्वति च अवणादिति मतम् । एवं च तव मते "एतन्नानावताराणां निधानं बीजमव्यय"मित्यादि ..
१ व्याख्यया सहितम् । पुराणप्रसिद्धेन मूलरूपेणैव ब्रह्मणश्चतुर्मुखादिसकलभूतजातजन्मादिक त्वम्, न तु प्रतिशरीरं तत्तकोशमात्राधिष्ठातृतयाऽभिव्यक्तैरन्नादिरूपैरिति तेष्वप्यनुवादाशुक्ति- स्तुल्यैव । यद्यपि तव मते सर्वाणि भगवद्रूपाणि सविशेषभिन्नानि तथाऽपि तत्तत्कृ- त्यानि व्यवस्थितान्येव । न हि रावणवधादिकं कंसशिशुपालवधादिकृष्णचरित्र- मध्ये वण्यते । स्थादेतत्-तात्विकाभेददृष्टया रूपान्तराविष्कृतोऽपि महिमा रूपान्तरे वर्णयितुं युक्तः। "अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तत" इत्यादिकृष्णवाक्यदर्शनात् । रावण- वधादेः कृष्णरूपाविष्कृतचरित्रमात्रसंग्रहप्रस्तावेष्ववर्णनेऽपि सर्वरूपाभिमानिपरब्रह्म- स्वरूपतया कृष्णवर्णनप्रस्तावेषु कृष्णेऽपि वर्णनदर्शनाच्च । अतोऽन्नादिरूपेषु मूलरूपाभे- ददृष्ट्या जगत्कर्तृत्वानुवादो युक्त इति चेत्, एवं तर्हि जीवेऽपि स युक्त एव । जीव- वर्गोऽपि ज्ञानानन्दादिब्रह्मगुणशालितया ब्रह्माभिन्न इति त्वयाऽङ्गीकृतत्वात् । 'तत्व- मसीति जीवे प्रकृतजगत्कर्टभावपरामर्शितत्पदोक्तब्रह्माभेदप्रतिपादनस्य ज्ञानानन्दादि- गुणैकरूप्यप्रयुक्ताभेदविषयतया "सर्वं खल्विदं ब्रह्मे"ति ब्रह्मणि सर्वप्रपञ्चाभेदप्रति- पादनस्य “सर्वभूतगुणैर्युक्त"मिति स्मृतेः पृथिव्यादिगताधारत्वादिगुणा ब्रह्मणि सन्तीति तत्तद्गुणैकरूप्यप्रयुक्तपृथिव्याद्यभेदविषयतया च त्वया (१) तद्गुणसारत्वात्तु तव्यपदेशः प्राज्ञवदिति सूत्र व्यवस्थापितत्वाच्चेति भावः ॥ ३४ ॥ एवं यतो वेत्यादिनाऽनुवाद्यस्य ब्रह्मणि सतः तदभेददृष्ट्या जीवे वर्णनं युक्त- मित्युक्तम् । इदानीं साक्षादपि जीव तदनुवाद्यत्वं सम्भवतीत्याह- यतो वेत्याधुक्तिः कथमिव च जीवे न घटते ? यतस्तद्ब्रह्मेति श्रुतिरपसरेढिविषयात् । जगत्स्रष्टुं सर्व प्रभवति खलु ध्यानविषयं समस्तोऽयं मानोरथिकमपि जीवस्तव मते ॥३॥ इत्थं हि तव मतम् - स्वप्नध्यानमनोराज्येष्वनुभूयमानास्सरित्समुद्रगिरिनगर- गजतुरगादयो न बहिस्सन्तः । नाऽपि भ्रान्तिविषयाः । किन्तु स्वप्नादिद्रष्टुपुरुषान्तः- करणगतानादिकालप्रवृत्ततत्तद्विषयानुभवजन्यवासनोपादानाः तदानीमेवाऽन्तरुत्पन्नाः तत्तद्धयानमनोरथविषयाः पुरुषप्रयत्ननिर्वत्याः, न तु स्वप्नविषया इति। तदुक्तं न्यायसुधायां (२) सन्ध्ये सृष्टिराह ही" त्यधिकरणे-यथा मनोरथे ध्याने च १. वे० सू० २. ३. २९. । २. वे० सू० ३. २. १. अधि. १ ।
५८ मध्वतन्त्रमुखमर्दनम् [द्वितीयाधिकरण- संस्कारयोनीनन् मनसाऽनुभवत्येवं स्वप्नेऽपीति किमनुपपन्नम् ? इयांस्तु विशेषः- मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः । स्वप्ने पुनरीश्वरेच्छाधीनैवेति । तथैव प्रथम- सूत्रेऽपि ध्यानं मानसक्रियेति शङ्कानिराकरणार्थमुक्तम् । यदि क्रियापरिस्पन्दः स तर्हि अतीन्द्रियाश्रितोऽतीन्द्रिय इत्यपरोक्षावभासविरोधः। रूपरहितत्वेन तदवभासविरोधश्च । यदि च मानसी सृष्टिरिति मतम्, अनुमतमेव तत्। श्रवणदर्शनादिजनितमानसवासना- मयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यङ्गीकारात्। अतीन्द्रियोपादानकस्याऽपि द्रव्यस्यैन्द्रियकत्वं त्र्यणुकादेरिवोपपद्यते। नीरूपाद्वायोः रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेवेति । एवं ध्यानमनोरथयोरसंभावितो विषयः कोऽपि नास्तीति तद्विषयसर्व स्रष्टरि जीवे साक्षादप्यनुवाद्यान्वयस्संभवतीति भावः ॥ ३५ ॥ ननु “यतो वा इमानी"ति निर्देशाद्वक्तश्रोतसाधारणस्थूलप्रपञ्चस्रष्टृत्वमनुवाद्यम् । तत्तु न जीवे सम्भवतीत्याशक्याऽऽह- स्थूलप्रपञ्चो यदि चाऽनुवाद्यस्सोऽप्यस्तु ते ध्यानमनोरथोत्थः । सन्त्येव तत्र ह्यतिदुर्घटानि सर्वापरोक्ष्यादिषु को विरोधः ? ॥३६॥ स्थूलप्रपञ्चस्रष्टुत्वमपि जीवस्य संभवति । तस्य चिरन्तनहिरण्यगर्भादिजीव- ध्यानमनोरथप्रभवत्वोपपत्तेः । न चेश्वरस्य स्रष्टुत्वश्रुतिविरोधः । तस्याऽपि प्रपञ्चान्तर- स्रष्टुत्वेन घटादिष्विव ध्यानजादिष्वपि स्रष्टुत्वेन च तदुपपत्तेः। न च वामना- मयत्वेन सर्वापरोक्ष्यसर्वार्थक्रियाकारित्वादिविरोधः । अतिसूक्ष्मवासनोपादानत्वेऽपि स्वप्नध्यानमनोरथविषयाणां भूगोलक्रमहार्णवादीनां अतिमहत्वं तेषां च स्वल्पशरीरान्तर- वस्थानं मूहूर्तमात्रावस्थितेषु स्वप्नध्यानमनोराज्येषु अनेकशतवर्षातिवाहनमि- त्वादेरतिदुर्घटस्य दर्शनेन तद्वदेव ध्यानमनोरथप्रभवे प्रपञ्चे सर्वापरोक्ष्यादरण्य- विरोधात् । वासिष्ठरामायणे भार्गवनन्दनमनोराज्यादिविषयप्रपञ्चेषु सर्वापरोक्ष्या. देवर्णितत्वेन मनोराज्यादिषु सृष्टिमङ्गीकुर्वतस्तव तदनुसरणौचित्याच्चेति भावः ॥३६॥ नन्विदं जीवेऽनुवाद्यसमर्थनप्रकारद्वयमप्ययुक्तम् । आये हि प्रकारे महावाक्यार्थी गौणः । द्वितीये त्वनुवाद्यपरावान्तरवाक्यार्थः। तथा हि-ब्रह्मपदस्य जीवपरत्वे परजीवयो- रभेदो महावाक्याथः । स च जगज्जन्मादिकारणत्वजीवत्यावच्छिन्नयोश्चेन्मुख्यो भवति। स च न संभवति । ताभ्यां रूपाभ्यां तयोर्भेदाङ्गीकारात् । यस्तु ज्ञानानन्दवत्वादिरूपेणा- ऽभेदः संभवतीत्युक्तः स तु गौणः शब्दानुपात्तधर्मावच्छिन्नत्वात् । अत एव प्रवल- श्रुतिभिः भेदसिद्धेः तत्वमसिवाक्यं गौणाभेदपरमित्येव (१)“तद्गुणसारत्वादि" सूत्रे १. वे० सू० २, ३, २९.
दूषणम् ] व्याख्यया सहितम् । ५९ दर्शितम् । न चेह तथा गौणो वाक्यार्थः स्वीकार्यः। ब्रह्मपदमात्रस्य योगेन परब्रह्मपरत्वे मुख्यवाक्यार्थलाभात् । एवं जगत्कारणत्वमनुवाद्यपरोऽवान्तरवाक्यार्थः । तच्चाऽसंकुचितं वेदप्रसिद्धं च ग्राह्यं बलवत्संकोचाभावात् । वेदप्रसिद्धसत्वे तस्यैव वेदेनाऽनुवदितुं युक्त- त्वात् । न च जीवानां ध्यानमनोरथादिविषयस्रष्ट्रवमसंकुचितम् । जीवान्तरध्यानादिवि- षये जीवान्तरस्य स्रष्टवाभावात् । नाऽपि “तत्तेजोऽसृजत' इत्यादिवत् तद्वेद- प्रसिद्धम् । न च ब्रह्मपदमात्रस्य रूढित्यागेन मुख्यानुवाद्यग्रहणसंभवेन त्यागो युक्त इत्याशंक्याऽऽह- यद्येवं रोचयेथाः कथमपि न गतिं स्वेष्टिसंसिद्धिबुध्या लब्धं ते वृद्धिमृद्धां ध्रुवमभिलपतो मूलमेव प्रणश्येत् । अत्यन्ताभेद एवं परतनुधरयोरापतेत्तद्विरोधे राजन्योक्त्यादिरीत्याबत विपरिणमेदाध्यमत्राऽनुवाद्यम् ॥३७॥ जीवे कथंचिद्योजितमिदं प्रकारद्वयमपि ब्रह्मपदरूढित्यागेन स्वेष्टं लब्धव्यमिति लोभाद्यदि न रोचयेथास्तदा वृन्द्रिमृच्छतो मूलमपि नष्टमिति न्याय एवाऽऽपतेत् । उक्तप्रकारद्वयानङ्गीकारे हि अनुवादब्रह्मपदस्वारस्यविषययोः जीवपरयोः विरुद्धधर्म- वत्तया ताभ्यामुपस्थितयोरपि यतो वेत्यादिमहावाक्यप्रामाण्यादत्यन्ताभेदः प्राप्नोति । विरुद्धधर्मवत्वस्य तयोरभेदाविरोधितायाः प्रथमाधिकरणभङ्गे प्रपञ्चितत्वात् । अवि- रोधे च मुख्यार्थत्वायोगात् । यदि तु तस्य भेदविरोधित्वमेवेत्यभिमानस्तदाऽ- त्यन्तमेव तव मूलहानिः । तदा हि विधेयानुवाद्यरूपतया जीवब्रह्मसमर्पकस्य भागद्वयस्य महावाक्यार्थभूताभेदपरिपन्थिधर्मद्वयोपस्थापकतया विरोधे सत्यविरोधाय कस्यचिद्भागस्याऽर्थबोधे कर्तव्ये विधेयभागस्य तात्पर्यवत्तया प्रबलत्वात् । न विधौ परश्शब्दार्थ इत्यनुवादस्य मुख्यतासिद्धये विधावमुख्यार्थपरिग्रहस्य न्याय- विद्भिनिराकृतत्वाच्च । अनुवादभागस्यैवाऽर्थवाधः प्राप्नुवन्जीवगतध्यानादिविषय- स्रष्टतागोचरत्वलक्षणस्य सङ्कोचरूपबाधस्य त्वदसंमततया गत्यन्तराभावाद्ब्रह्मण्येवाऽ- नुवाद्ये जीवाभेदपरिपन्थिजगत्कारणत्वोपमर्दात्मा स बाधः प्राप्नोति । दृष्टं च पूर्वतन्त्रेऽपि अनुवाद्यगतधर्मस्य विधेयविरोधेनोपमर्दः । तत्र हि (१)"उक्थ्याग्निष्टो- मस्तुतशस्त्रं स्यात् सति हि संस्थान्यत्वम्" इत्यधिकरणे (२) "अप्यग्निष्टोमे राजन्यस्य १. जै. सू.अ. १० पा. ५ अधि. १२ सू. ४९ । २. अयमत्र विषयः-चतस्रस्सोमसंस्थाः अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । अग्निष्टोमसाम्ना यः क्रतुस्समाप्यते, अर्थाचस्मिन्क्रती अन्तिमं स्तोत्रं . १ मध्वतन्त्रमुखमर्दनम् [ द्वितीयाधिकरण- गृह्णीयात् अप्युक्थ्य" इति राजकर्टकयोरुक्थ्याग्निष्टोमयोविधीयमानः घोडशिग्रहः स्तुतशस्त्ररहितस्स्यात् । तद्वत्वे षोडशिसंस्थतयोक्थ्याग्निष्टोमसंस्थाभंगप्रसंगेनोक्थ्य- स्याऽग्निष्टोमस्य च सतः षोडशिग्रह विध्ययोगादिति पूर्वपक्षं कृत्वा सिद्धान्तितम्- स्तुतशस्त्रवत्वेन नितिषोडशिग्रहोऽत्र विधीयमानस्तथैव प्रानोति । न च संस्थाभङ्गो दोषः । पूर्वसंस्थोपमर्दैन संस्थान्तरविध्युपपत्तेः । (१)"उवथ्यसंस्थो हि यः प्राप्तस्तथाऽग्निष्टोमसंस्थकः । राजन्यस्य तथा नाऽसौ किन्तु पोडशिसंस्थकः ॥ इत्येव विधेः पर्यवसानादिति। एवं पोडशिग्रहविष्यर्थप्राप्तेनाऽपि स्तोत्रशस्त्रेण यदा तद्विरोधिनोरनुवाद्ययोक्थ्याग्निष्टोमसंस्थयोरुपमदः तदा किमु वक्तव्यं साक्षाद्वि- धीयमानेन जीवत्वेन तद्विरुद्धस्याऽनुवाबस्य जगत्कारणत्वस्योपमर्द इति । एवं पूर्वोक्त- प्रकारद्वयानङ्गीकारे जीवपरयोरत्यन्ताभेदप्रसक्त्या त्वदभिमतभेदहानाद्विरुधर्मवतो- रत्यन्तामेदो न संभवतीत्यनुशये ब्रह्मणो जगत्कारणत्वस्याऽपि हानात्वन्मतस्य मूल- हानिरेव स्यादिति भावः ॥ ३७ ॥ स्यादेतत्-विरुद्धधर्मवतोरत्यन्ताभेदो न संभवत्येव । तथाऽपि नोक याग्नि. अग्निष्टोमाख्यं न ततः परं स्तोत्रमस्ति सोऽग्निष्टोमसंस्थाकः क्रतुः अग्निष्टोम इत्युच्यते। अग्निष्टोमानन्तरं त्रीण्युक्थ्यस्तोत्राणि पठित्वा क्रतुस्समाप्यते स उक्थ्यः । उक्थ्यस्तोत्रानन्तरं यत्र षोडशाख्येन स्तोत्रेण समाप्तिः स षोडशिसंस्थाकः क्रतुष्षोडशी- त्युच्यते। तदनन्तरं यत्र रात्रिसंज्ञकानि त्रीणि स्तोत्राणि वर्धन्ते सोऽतिरात्रः । अग्निष्टोमक्रतावेवाऽग्निष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रमकृत्वा षोडशिस्तोत्रं क्रियते सोऽत्यग्निष्टोमो राजन्यकतकः । एवं च राजन्यकर्नुके तस्मिन्नग्निष्टोमे षोडशिग्रहो यदा गृह्यते तदा तदङ्गत्वेन स्तोत्रशस्त्रे अपि कर्तव्ये वा न वेति संशये स्तोत्रशस्त्रयोरपि करणे षोडशिसंस्थाकत्वापत्याऽग्निष्टोमसंस्थाकत्वं भज्येत । तदा तस्याऽग्निष्टोम- शब्देन श्रुतावनुवादो न घटेत । अतश्च स्तोत्रमकृत्वा केवलं षोडशिग्रहस्यैव ग्रहणम् । एवं 'अप्युक्थ्ये' इत्यत्राऽपि द्रष्टव्यमिति प्राप्ते-अग्निष्टोमोक्थ्यशब्दाभ्यां तत्तसंस्थाक- क्रतुमनूद्य तत्तत्स्तोत्रोपमर्देनैव षोडशिस्तोत्रं विधीयते । अतश्चाऽग्निष्टोमसंस्थाकः उक्थ्यसंस्थाकश्च यः ऋतुस्स राजन्यस्य न तत्संस्थाको भवितुमर्हति । किन्तु षोडशि- संस्थाक एव इति तद्वाक्यार्थः । अतस्स्तुतशस्खे अपि कर्तव्ये एवेति । एवं चाऽनु- वागताग्निष्टोमसंस्थायाः विधेयषोडशिसंस्थानुरोधेनोपमर्दः कृतः । एवं साक्षाद्विधीय- मानेन जीवत्वेन तद्विरुद्धस्य जगत्कारणत्वस्याऽनुवाद्यगतस्योपमर्दो भवितुमर्हति। इति । १. कारिकेयं तस्मिन्नेवाऽधिकरणे शास्त्रदीपिकायाम् । :
दूषणम् ] .. व्याख्यया सहितम् । प्टोमन्यायेन जगत्कारणत्वबाधप्रसक्तिः तन्न्यायवैषम्यात् । राजन्ये प्राप्तयोरुक्थ्या- ग्निसंस्थयोर्बाधेऽपि हि न तदनुबन्धिविधीनामत्यन्तबाधः; वर्णान्तरे चरितार्थत्वात् । ब्रह्मणि जगत्कारणत्वबाधे तु सृष्टिप्रलयादिवाक्यानामत्यन्तबाधस्स्यात् । विषयान्तरा- भावात् । तस्मा “दानर्थक्यप्रतिहतानां विपरीत बलाबलमि"ति न्यायाद्विधेयपरस्याऽपि ब्रह्मशब्दस्य रूदित्यागो लभ्यत इत्याशयवतीमाशङ्कामुद्भाव्य परिहरति-- उक्थ्याग्निष्टोमसंस्थापरिकरविधयो विप्रजाताविते सर्वे स्रष्टुत्ववादाः परपरिपठिताः सन्तु कस्मिन् कृतार्थाः । तत्रैवाऽरोपवाधद्वितयमनुभवं त्वद्वितीयत्वसिध्यै चित्याग्नावग्निहोत्रे विधय इव पयःशस्तये जतिलादेः॥३८॥ सृष्ट्यादिवाक्यानां विषयान्तराभावो न दोषः । ब्रह्मणोऽद्वितीयत्वसिध्यर्थं "अध्या- रोपापवादाभ्यां निष्प्रपञ्चं प्रसिध्यति" इत्युक्तरीत्या ब्रह्मणि कर्तव्यप्रपञ्चापवादापेक्षितेन तदारोपेण चारितार्थ्यात् । दृष्टं च पूर्वतन्त्रेऽपि प्रयोजनान्तरसिध्यर्थार्थवादापेक्षिता- रोपमात्रेण चारितार्थ्यमग्निचयनेऽग्निहोत्रे च जर्तिलयवाग्वादिविधिधु(१) । तद्वदिहा पि स्यादित्यर्थः ॥ ३८ ॥ स्यादेतत्--एकस्य ब्रह्मपदस्य रूढिपरिपालनाय यतो बेत्याद्यनुवादस्य तत्पु- रोवादानां सृष्ट्यादिवाक्यानाञ्चैबमुपमर्दकल्पनमयुक्तमित्याशङ्कयाऽऽह- तद्ब्रह्मेत्येक एवं प्रभवति निखिलस्रष्ट्रतावादबृन्दं विष्णोर्नानाश्रुतिस्थं विधिरपवदितुत्वन्मते पूर्वरीत्या । सर्वाद्वैतश्रुतिभ्यो यदि हि स बलवान्यौगिके ब्रह्मशब्दे सर्वद्वैतश्रुतिभ्यः कथमिव न भवेत्तत्र रूढिं प्रपन्ने ॥३६॥ १. अयंभावः-अग्निहोत्रप्रकरणे “जतिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा, न प्राम्यान्पशून्हिनस्ति, नाऽऽरण्यान् , अनाहुति, जतिलाश्च गवीधुकाइच पयसाऽग्निहोत्रञ्जुहोति" इति श्रुतम् । एवं चयनप्रकरणेऽपि श्रुतम् । तत्रोभयत्राऽपि जतिलानां गवीधुकानां च होमद्रव्यत्वेन विधिश्श्रुतः । स न तेषां होमीयद्रव्यत्व- बोधनार्थः । अग्रेअनाहुति' इति वाक्येन तेषां होमसाधनत्वनिषेधात् । किन्तु 'पयसाऽग्निहोत्रं जुहोती'त्यनेन होमसाधनत्वेन विहितस्य पयसः स्तुत्यर्थ पूर्ववाक्ये जर्तिलानां गवीधुकानां च होमसाधनत्वमारोप्य पुनर्निषिध्यते । तावतैवाऽर्थवादस्य चारितार्थ्यम् । एवमिहाऽपीति ।
- ६२ मध्वतन्त्रमुखमर्दनम् [द्वितीयाधिकरण- सत्यम् एकानुरोधेन बहूनामुपमदों न युक्त इति । स तु न्यायस्त्वया तद्ब्रह्मेत्यत्र ब्रह्मशब्दे त्यक्तः। त्वया हि पूर्वाधिकरणे ब्रह्मशब्दस्य जीवब्रह्मभेदसाधकल्वमङ्गी- कृत्य तेनैकेन पूर्वपराभिमतसकलाद्वैतश्रुतीनां बाधो वर्णितः। तद्रीत्यवान वक्तुं शक्यम् । तेनैव ब्रह्मशब्देन जीवे रूढिं न्यायतः प्राप्तेन जगत्कारणब्रह्माभेदबोधन- पर्यन्तेन सृष्टिवाक्यादिसर्वद्वैतश्रुतीनामुपमर्द इति । न ह्ययं ब्रह्मशब्दो यौगिकत्वे बलवान् , न तु रूढत्व इति वक्तुं युक्तमित्यर्थः ॥ ३९ ॥ एवं विरुद्धगुणवत्वं न भेदविरोधीति परोक्त्यनुसारेण तथा सत्यनुवाद्यगतविरुद्र - गुणवत्वस्यैवोपमर्दस्स्यात् । न तु विधेयस्याऽभेदस्येत्यापादितम् (१)। वस्तुतस्तु परमते जीवब्रह्मणोः विरुद्धधर्मवतोरण्यभेदबोधने लौकिकविरोधदृष्टिन परिपन्थिनी । तन्मते परमेश्वरस्याऽचिन्त्याद्भुतशक्तिमहिम्ना विरोधसमाधानादिति प्रथमाधिकरण. दुषणे प्रपञ्चितमेव । अधुना तमेवाऽर्थं युक्त्यन्तरेणाऽपि स्थापयति- किञ्च श्रुत्येकगम्ये व इव रसनं साधनं वाधकं वा कर्तुं शक्तं न मानान्तरमखिलजगत्कर्तरीति स्वरीतिः । (२) स्मृत्यारूढा कथं न व्यपगमयतिते लोकदृष्ट्या निरूढा- मेकत्वायोगशङ्कां परतनुधरयोः वल्गसि त्वं यथैव ॥४०॥ इति श्रीमदप्पयदीक्षितकृतिषु मध्वतन्त्रमुखमर्दने द्वितीयाधिकरणदृषणम् । श्रोत्रैकगम्ये शब्दे रसनस्येव वेदैकगम्ये ब्रह्मणि मानान्तरस्य साधकत्ववद्बाधक- त्वमपि नाऽस्तीति त्वन्मतमर्यादा । सा च(३) "श्रुतेस्तु शब्दमूलत्वादि"त्यधिकरणे त्वया दर्शिता । इत्थं किल तदधिकरणम्-ईश्वरो जगकर्ता चेत् क्षुद्रकायें घु कृत्स्नशक्त्या प्रवर्तते ? तदेकदेशेन वा ? नाऽऽद्यः । क्षुद्रकार्येष्वपि कृत्स्नशक्त्यप्रवृक्ती तस्य प्रेक्षावत्व हानिप्रसङ्गात् । न द्वितीयः; तस्य निरवयत्वात्। तस्माज्जीवस्य स्वतन्त्रकतत्वे यदुक्तं कृत्स्नप्रसक्त्यादिदूषणं तदीश्वरस्य स्वतन्त्रकर्तृत्वेऽपि तुल्यम् । न चेश्वरस्य निरवयवत्वेऽपि सांशतया बहुत्वशालित्यादकदेशेन कर्तृत्वोपपत्तिः । (४) व्यतिरेको गन्धादिवदि" त्यधिकरणे जीवानामपि सांशतायाः स्थापितत्वेन तौल्याजीवस्यांऽशांशिभावेन बहुत्वाङ्गीकारे बहुत्वस्य भेदव्याप्तत्वेन भेदस्याऽपि प्रसक्तया १. आपतितमिति ग. पु. । २. श्रुत्यरूढेति ख. पु. । ३. वे. सू. २. १.२८. । ४. वे. सू. २. ३. २७. उपपादितमिदं २३ श्लोकटिप्पण्याम् ।
दूषणम् व्याख्यया सहितम् । ३ पुनरपि स एव निरवयवत्वशब्दव्याकोप इति तदाक्षेपे ईश्वरेऽपि तथैवाऽक्षेपसंभवात् विशेष वशादीश्वरस्यांऽशांशिभावसंभवेन बहुत्वोपपादने जीवेऽपि तथैव तदुपपादनसंभवाच्च । भेदेनोपपादनीयस्यांऽशांशितया बहुत्वस्य चेतने विशेषेणोपपादने घटादावचेतनेऽपि तेनैवोपपादनप्रसङ्ग इति तदाक्षेपस्य परमेश्वरसाधारण्यादिति प्राप्ते राधान्त:-वैदैकगम्ये ब्रह्मणि यथाश्रुति यस्य कस्यचिदर्थस्याऽङ्गीकारे लौकिकाइशुष्कतर्का न प्रतिभटीभवितु- मीशते । न हि श्रोत्रैकगम्ये शब्दे वक्षुरादिकं साधकं बाधकं वा भवितुमर्हति । अत एव “योऽसौ विरुद्धोऽविरुद्धो मनुरमनुर्वागवागिन्द्रोऽनिन्द्रप्रवृत्तिरप्रवृत्तिरपरः परमात्मे" ति श्रुतिरेव लोकदृष्टया विरुद्धानामपि धर्माणां परमात्मन्यविरोधं बोधयति । तस्मान्मा- नान्तरगम्यस्य जीवस्य स्वतन्त्रकर्तृत्वाङ्गीकार एव कृत्स्नप्रसत्यादिलौकिकतर्काः प्रवर्तेरन् नेश्वरस्येति यथाश्रुतिनिरवयवोऽपि परमेश्वरः कार्यानुरूपमेकदेशेन जगन्निर्माणे प्रवर्तते । जीवेनाऽपि निरवयवेनैव कार्यानुरूपमेकदेशेन कृत्स्नशक्त्या वा कारयतीत्य- भ्युपगतौ न कश्चिद्दोष इति । एवमीश्वरस्य तर्कागोचरत्वेन तस्मिन्निरवयवत्वैकदेशकर्तत्वयोर्विरोधमपद्बुवानः कथं तस्य जीवाभेदे तकांगोचरत्वं विस्मरसि ? येन तत्र लौकिकविरोधमूलान् पुनः पुनश्शुष्कतर्कानेवोद्घाटयसि । न च नैते शुष्कतर्काः, किन्तु जीवब्रह्मभेदाभेदश्रुत्योर्विरोधे भेदश्रुतिप्राबल्योपपादकतथा वाक्यार्थनिर्णायकश्रुत्यनुग्राहकती एव । तेऽप्युपेक्षणीयाः । मीमांसावैयथ्यांपत्तेः। तत्रैव (१)"भुतेस्तु शब्दमूलत्वादि" ति मदीयाधिकरणे (२) यद्वाक्योक्तं न तद्युक्तिविरोढुं शक्नुयात्वचित् । विरोधे वाक्ययोः काऽपि किञ्चित्साहाय्यकारणम् ।। इति स्मृतिमुदाहृत्य वाक्यार्थनिर्णायकताणामुपादेयताप्रतिपादनाच्चेति वाच्यम् । तथा सति जोवब्रह्मभेदश्रुत्यनुग्राहकत्वेन त्वदभिमतानां विरुद्रधर्मवत्खमूलकतर्काणामप- वादकत्वेन तदभेदश्रुतिप्राबल्यापादका जीवे प्रत्यक्षसिद्धकर्मकरीत्वस्य ब्रह्मणि श्रुतिप्राप्त- सृष्टिपालनसंहारादिकतत्वस्य च प्रतिक्षेपकतया कर्तृत्वविशेषतदनुबन्धिगुणरूपान् जीवब्रह्मणोः सर्वानपि धर्मान् विचारासहान् मिथ्याभूतान्कुर्वन्तः कृत्स्नप्रसत्यादितर्का एव श्रुत्यनुग्राहका इत्युपादेयाः । विरु द्वधर्मवत्वमूलतर्कास्तु तदपोदिततया श्रुत्य- नुग्राहकाः शुष्कतको उपेक्षणीया इति वैपरीत्यस्यैवाऽऽपत्तेः । तस्माद्ब्रह्मणः तर्कमात्रा- गोचरत्वाङ्गीकारे शुष्कतर्कागोचरत्वाङ्गोकारे च विरुद्धगुणवत्वमूलतर्कागोचरत्वमवश्यं- । १. वे. सू. २. ३. २८.। २. कारिकेयं पुरुषोत्तमतन्त्रीयत्वेन मध्वभाष्ये उदाहृता॥
मध्वतन्त्रमुखमर्दनम् [तृतीयाधिकरण- भावि । ब्रह्मणस्तकागोचरत्वनिर्वाहाय त्वदुदाहृतश्रुतावपि हि इन्द्रोऽनिन्द्र इत्यपरः परमात्मेति च तस्याऽनीश्वरत्वावरत्वरूपविरुद्धधर्मवताऽपि जीवेनाऽभेदनिर्देशो दृश्यते। तेनाऽपि तस्य विरुन्द्रगुणवत्वमूलकजीवाभेदप्रतिक्षेपकतकांगोचरत्वं स्पष्टमेव । अतो न खानुपादाय पुनः पुनर्वल्गनं युक्तमिति भावः । तस्मात्पूर्वपक्षे त्वयाऽङ्गीकृता ब्रह्मपदस्य रूढिः कथमपि सिद्धान्ते त्याजयितुं न शक्यत इति जन्मादिसूत्रसिद्धान्तोऽपि तवाऽसमक्षस इति सिन्द्रम् ॥ ४० ॥ इत्यापदीक्षितकृती मध्वमतारम्भमदनग्रन्थे । द्वैतीयाङ्काधिकृते दूषणमस्तु त्रयीविदां प्रीत्यै ॥ इति श्रीमद्भारद्वाजकुल जलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि श्रीरङ्गराजावरीन्द्रसूनो: चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्प- यदीक्षितेन्द्रस्य कृतिषु मध्वतन्त्रमुखमर्दनव्याख्याने मध्वमत- विध्वंसने जन्मायधिकरणदूषणाख्यं द्वितीयं प्रकरणम् ॥ (१) "शास्त्रयोनित्वादि"ति, सूत्रे परस्येत्थमधिकरणम्-यदुक्तं जगजन्मादिकार- णत्वं विष्ण्वेकनिष्ठं तल्लक्षणमिति, तन्न युक्तम् । जगदनेककर्तृ कं, महाकार्यत्वात् । शिवो जगत्कारणम्, सर्वज्ञत्वात्। तत एव विरिञ्चोऽपि जगत्कारणम् । न च हेत्वसिद्धिः । शिवस्य सर्वज्ञनाम्ना विरिञ्चस्य "ज्ञानमप्रतिघं यस्ये"त्यादि स्मृत्या च तत्सिद्धेरित्याद्यनु- मानैरन्यत्राऽपि जगत्कारणत्वावधारणादिति चेत् ; जगत्कारणत्वस्य धर्मादिवच्छास्त्र- प्रमाणकत्वात् । शास्त्रस्य विष्ण्वेकनिष्ठ जगत्कारणत्वप्रतिपादकत्वादनुमानस्य संभवदु- पाधिप्रत्यनुमानादिदोषशङ्काकलङ्कितस्याऽदृष्टार्थे स्वतो निश्चायकत्वाभावादिति । तत्र परमते शास्त्रमर्यादयाऽपि जगतोऽनेककटेकत्वमापतति । तथा तत्तात्पर्यनिर्णायकोपपत्ति- पलिङ्गतयोदाहृतानुमानानामेव तदनुग्राहकत्वसंभवात् । अतस्तेषां दूषणमयुक्तमित्याह- कथं निरस्या कथय त्वयाऽनुमा प्रसाधयन्तीदमनेककर्तृकम् । तथैव तात्पर्यमपि श्रुतेहि सा नयेत्तदैकार्थ्यनयत्यजस्तव ॥ ४२ ॥ वन्मते हि एकस्य श्रुतिवाक्यस्यैक एवाऽर्थ इति नाऽस्ति नियमः । अतस्सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिवाक्यानामप्यनेकसृष्टिपरत्वं सम्भवति । ततश्च यदि जगतः सामान्यतोऽनेककर्तृ कत्वसाधका नुमानं विशिष्य ब्रह्मविष्णुशिवकर्तृकसाधकानुमा- नानि चेति तथा तात्पर्यनिणीयकान्युपपत्तिरूपतात्पर्यलिङ्गान्यवतरेयुः । तदा तत १. वे. सू. १. १. ३.।
दूषणम् ] व्याख्यया सहितम् । एवाऽऽपतत्सष्टिवाक्यानामनेक(१)कर्ट (२)परत्वं दुर्वारम् । एवं च जगत्कारणे वस्तुनि साक्षादनिर्णायकान्यप्यनुमानानि तात्पर्यलिङ्गतया "तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छे" त्यादिश्रुतिदर्शितानुमानवत्तनिर्णयोपयोगीनीति कथं त्वया निराकर्तुं शक्यन्त इत्यर्थः ॥ ४१ ॥ परमते श्रुतिवाक्यानां एकार्थत्वनियमाभावमेव तदङ्गीकृतानेकार्थश्रुत्युदाहरण- दर्शयति- कर्मब्रह्मोभयार्थ खलु सकलमपि व्याकरोः कर्मकाण्ड ब्रह्मस्वार्थोभयार्थानुपनिषदुदितानप्यतद्वाचिशब्दान् । अन्यांश्चोमादिवागाधुभयविधपरान्वाङ्मनःप्राणमुख्यान केन स्याद्वाक्यमर्थत्रयपरममितार्थ च वयादिसूक्तम् ॥४२॥ (३)"ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके" इत्यधिकरणे तावत्कृत्स्नः कर्म- काण्डस्त्वया कर्मब्रह्मोभयपरतया व्याख्यातः । उदाहृतं च तत्र तस्य ब्रह्मपरत्वं स्थालीपुलाकन्यायेन केषुचिद्वाक्येषु । तत्र वसन्तवाक्येषु यथा--(४)वसतीति वसः । पचाद्यच् । तनोतीति तिः। औणादिको डिप्रत्ययः। पूर्वपदस्य च नकारागमः । वसंश्चासौ तिश्चेति वसन्तिः । सर्वत्र व्याप्तो वर्तमानो जगत्का चेत्यर्थः। तत्र सम्बुद्धिर्वसन्ते । द्विरुक्तिरादरार्थी। जिर्जातम् । पूर्वबजने डिप्रत्ययः । ओतिरोतम् । अवतेः क्तिः । जातं जगत् ओतं प्रविष्टं यस्मिन्स ज्योतिः । षः प्राणः । चेष्टकत्वात्, "षकारः प्राण आत्मे"ति श्रुतिः । ज्योतिश्चाऽसौ षश्चेति ज्योतिषः। तस्य सम्बुद्धिज्यों तिषेति । आयजेतेत्यपि सम्बुद्धिः। आसमन्ताद्यजैर्यज्वभिः इत प्राप्त्यर्थः । यजेधार्थे कविधानमिति कप्रत्ययः । सम्प्रसारणाभावच्छान्दसः । "इन्द्र आगच्छे"त्यत्र इन्द्रेति आ इति गच्छेति संबोधनानि । गमेश्छदेश्च डप्रत्यये सति गं गतं छं छादनं यस्मा- दसौ गच्छः । निरवद्य इत्यर्थः । स्वाहाशब्दे स्वमात्मीयं यज्ञादिषु दत्तं हविरादि आहरति स्वीकुरुत इति स्वाहः । हो डप्रत्ययः । तदनन्तरं "अ" इति विष्णुनाम । तयोस्समासे सम्बुद्धिः । नमश्शब्दे नमतेरधिकरणार्थेऽसुन्प्रत्ययः । नमन्ति नियमेना- ऽस्मिन्वर्तन्ते कल्याणगुणा इत्यर्थ इति । एवं बहुषु स्थलेषूदाहृतानि, विस्तरभयान लिख्यन्ते । तथोपनिषत्स्वपि अब्रह्मवाचिशब्दा ब्रह्मस्वार्थोभयपरतया व्याख्याताः। तद्यथा "प्राणो वा आशाया भूयानि"ति प्रकरणे प्राणशब्दो भूमाधिकरणे ब्रह्मपरतया । १. अनेकककत्वमिति ग. पु.। २. परत्वमिति ग. पु. नास्ति। ३. वे. सू. १.४.१०.अ.२ । ४. इदं न्यायसुधायां १८१ पत्रे १ पुटे ८ भपति- मारभ्योच्यते ।
३ मध्वतन्त्रमुखमर्दनम् तृतीयाधिकरण- (१)व्यतीहाराधिकरणे मुख्यप्राणतया च भाष्ये व्याकृतः । उक्तार्थद्वयपरमिदं प्रकरणमिति च टीकायामुक्तम् । तथा 'इन्द्रियेभ्यः परा ह्यर्था" इत्यादीनां तदधीनत्व- न्यायेन ब्रह्मणि समन्वय उक्तः । इन्द्रियशब्दप्रवृत्तिनिमित्तस्येन्द्रवत्वस्य ब्रह्माधीनत्वादि- न्द्रियशब्दो ब्रह्मपरः। इन्द्रियगतपरत्वावधित्वस्य पञ्चभ्यर्थस्य ब्रह्माधीनस्वात् पञ्चम्यपि ब्रह्मपरेत्यादिप्रकारेणेन्द्रियदेवता तदुत्कर्षक्रमप्रतिपादकत्वं च तेषामङ्गीकृतम् । एव. मन्यान्यपि भूयास्युदाहरणानि । “वाङ्मनसि सम्पद्यते, मनः प्राणे, "प्राणस्तेजसि" इत्यादिवाक्ये बाानःप्राणशब्दनां उत्तरोत्तरस्मिल्लीयमानो मारुतो हिरण्यगर्भपर इति मृतावुत्तरस्मिल्लीयमानवागिन्द्रियादिपरा इति चाऽनेकार्थता (२) वाङम- नसि दर्शनादि"त्यधिकरणे दर्शिता । "केन स्यायेन स्यात्तेनेदृश एवे"ति वृहदारण्यक- वाक्यं ज्ञानिनो विहितनिषिद्धसाधारण्येन नियन्त्रणयथेष्टाचरणविधिपरमिति, विहित. मध्य एव केषाञ्चिदाचरणं केषाञ्चित्परित्याग इत्येतदनुज्ञापरमिति, सर्वमपि विहित- मेव कर्म विधियन्धं विना स्वेच्छया कार्यमित्येवं परमिति चाऽर्थत्रयशालि । अर्थ- त्रयस्य च हिरण्यगर्भतदितरदेवतामनुष्यविषयत्वेनाऽविरोध इति (३) स्तुतयेऽनु- मिति त्यधिकरणे निरूपितम् । ब्रह्मादिदेवताप्रतिपादकाः सूक्तमन्त्राः तत्तदुत्तमसकल- १. वे. सू. व्यतिहारो विशिंपंति हीतरवत् ३. ३.३८. अ. २२. उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेरिति बृहत्तन्त्रे इति भाष्येण प्राणशब्दस्य मुख्यप्राणत्वप्रतिपादनादिति (मध्वभा. १३८. २. ३ ) । २. वे. सू. ४. २. १. अधि. १. अत एव च शब्दात्सर्वाणि देवतानि यथा- नुकूलं विलीयन्ते । अग्नौ सर्वे देवा विलीयन्ते । अग्निरिन्द्रे, इन्द्र उमायां, उमा रुद्रे विलीयते । एवमन्यानि देवतानि यथानुकूलमिति गौपवनश्रुतिः। तथा मनः प्राण इत्युत्तराद्वचनान्मनोऽभिमानी रुद्रः प्राणे वायौ विलीयते । वायोर्वाव रुद्र उदेति वायौ विलीयते । तस्मादाहुर्वायुर्देवानां श्रेष्ठ इति च कौण्डिन्यश्रुतिः । ( म. भा. १५१. १. ३.)। ३. वे. सू. ३. ४. १४. अ. ४. "प्रातरुत्थाय सन्ध्यामुपासीत. वर्तयेदित्युक्ताचारपरामर्शन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिमन्यते” इति, अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरिति बादरायणो मन्यते । केन स्यात् येन स्यात्तेनेदृश एवेति साम्यश्रुतेः इति । केन स्यायेन स्यादिति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नाऽन्येषाम्, एवं स्वमता- नुसारिणी प्रवृत्तिानिनां विहिता । न तत्राऽधर्मशङ्का कार्या, नाऽन्येषामिति वा । स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता । इति मध्वभाष्ये (म. भा. १४३. २. ५-१४४. १. २.) "श्रुतियुक्तिबलादेव तारतम्यं विभाव्यते । मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते" इत्यनुव्याख्याने ( अनु. २१८. १. ७) च निरूपितमिति । .
दूषणम् ] व्याख्यया सहितम् । ६७ देवताविषयत्वेनाऽमितार्था इत्यङ्गावबद्धाधिकरणे(१) प्रतिपादितम् । एवमनेकार्थत्वेन सकलामपि श्रुतिमाकुलयतस्तव सृष्टिवाक्येष्वनेकस्रष्ट्रपरत्वं सम्भवतीत्यर्थः ॥ ४२ ॥ ननु-केषुचिद्वाक्येषु अनेकार्थत्वाङ्गीकारमात्रेण सृष्टिवाक्येष्वपि तदापादने मतान्तरेष्वपि तदापद्यते । श्लिष्टकवित्वेषु सूत्रनिबन्धेषु अनेकत्र विनियुक्तोषु मन्त्रेषु चाऽनेकार्थत्वस्य सर्वैरप्यङ्गीकृतत्वादित्यत आह- श्लेषप्राणे कवित्वे अमिततरतया श्लाघनीये च सूत्रे नानाकर्मोपयोगश्रुतिसमधिगतानेकवोध्ये च मन्त्रे । एकार्थत्वव्यवस्थाप्यजनमनुमतं सर्वमीमांसकाना- मन्यत्राऽपीच्छया तद्यदि तव भवति ब्रह्मवाक्येष्वपि स्यात् ॥४३॥ शब्दानां व्यवस्थितैकार्थपरत्वमौत्सर्गिक वक्त विवक्षया विनियोगेन वा चिवचि- तदपोद्यत इति सकलमीमांसकमर्यादा । (२)तामतिलङ्घय स्वकल्पितार्थनिर्वाहाय स्वेच्छयैव श्रुतिवाक्येष्वनेकार्थत्वं कल्पयतस्तदर्थ शब्दानां यावन्तोऽर्था योगरूक्ष्यादि- भिस्संभवन्ति तावदर्थपरत्वमौत्सर्गिकम् । पौरुषेयवाक्येषु तु वक्त विवक्षावशादे- कार्थनियतत्वमित्यभ्युपगच्छतस्तव वसन्तादिवाक्येष्विव सर्वेष्वपि ब्राह्मणवाक्येषु अन्यथापदविभागैर्योगरूच्यादिभिश्वाऽनेकार्थप्रतीतिः सम्भवत्येवेत्यनिवार्यमनेकस्रष्ट्रपरत्व- मित्यर्थः ॥ ४३॥ ननु “सदेव सौम्येदमग्र आसीत्" "ब्रह्म वा इदमन आसीत्" "आत्मा वा इदमेक एवाऽग्र आसीदि"त्यादिसृष्टिवाक्यगतानां सद्ब्रह्मादिपदानां "एको ह वै नारायण आसीदि" त्यादिविशेषवचनबलेन विष्ण्वेकनिष्ठत्वानाऽनेकस्रष्ट्रपरत्वं प्रसज्यत इत्याशङ्कां निराचष्टे- सृष्टयादिश्रवणैर्विशेषवचनान्नारायणकान्तिभिः स्पृश्या नेतरदेवता इति वचस्त्वैकार्थ्यवादोचितम् । तस्मात्तत्परता भवेत्तव परं नाऽन्यार्थधीवारणं स्रष्टृणां च विमुक्तवत्तव मते नाऽऽशयमीर्ष्यादिकम् ॥४४॥ इयं शङ्का श्रुतीनामैकार्थ्यवादिनश्शोभते । सृष्टिवाक्यानां विशेषवचनबलान्नारायण- परत्वावश्यंभावे (३)सत्यान्तराणामवकाशाभावेन निरासात् । तव तु श्रुतीनामनेका- १. वे. सू. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्. ३. ३. ५७. अधि. ३६. । २. अतिक्रम्येति ग. पु.। ३. "नारायणपरत्वमपि सम्भवतीत्यवश्यं भावे सत्यर्था- तराणामवकाशा" ग, पु.।
६८ मध्वतन्त्रमुखमर्दनम् [तृतीयाधिकरण- थपरत्वसम्भवं मन्वानस्य सृष्टिवाक्यानां नारायणपराणां सतामन्यपरत्वमपि सम्भवती. त्यबाधेन तेभ्यस्तद्धीरुदीयमाना वारयितुं न शक्या । नन्वन्यत्र श्रुतिवाक्यानामनेकार्थत्वसंभवेऽपि सृष्टिवाक्यानां नाऽनेकवष्ट्र परत्वं सम्भवति । स्रष्ट्रबाहुल्ये कदाचित्तेषां परस्परमीयादिना वैमत्येन प्रपञ्चमष्ट्यनिर्वृत्ति- प्रसङ्गादिति चेन्न । त्वन्मते मुक्तानामिव स्रष्ट्रणामपि निदोपतयेाद्यनुदयोपपत्तेः । इत्थं हि तव मतम्-सायुज्यमुक्तिभाजो हि देवाः स्वोत्तमदेवतानुप्रवेशक्रमण भगवदेहमनुप्रविश्य ग्रहावेशन्यायेन भगवद्देहेन्द्रियैः तद्भुक्तानब भोगान् कदाचिहिनि- गत्याऽऽत्मस्वरूपभिन्नैश्चिन्मावदेहेन्द्रियेस्स्वसङ्कल्पोपनतांश्च भोगान् भुजाना आनन्द- वल्युक्तक्रमेण स्वरूपानन्दे ज्ञानेश्वर्यभोगेघु चोत्तरोत्तरं ज्ञानगुणोत्कृष्टाः पूर्ववदव मुक्तावपि यथास्वं ब्रह्मेन्द्रवरुणचन्द्रसूर्यादितत्तदधिकारिदेवतापदं तदनुसारिणमुत्तमाधम- भावं पूज्यपूजकादिव्यवस्थां चाऽनुभवन्तो विहरन्ति । देवव्यतिरिक्तास्तु सालोक्यादि- मुक्तिभाजो यथाधिकारं भूरादिषु सप्तसु लोकेषु भगवलोकेषु स्थितानि भगवतस्स्थानानि प्राप्य स्वेच्छागृहीतबाह्यदेहै श्चिन्मात्रदेहैवी स्वसङ्कल्पोपनतान् भोगान् भुजानाः पूर्ववद्वर्णाश्रमादिभेदं तदनुसारिणीं पूज्यपूजकत्वादिव्यवस्थां ज्ञानानन्देश्वर्यभोगतार- तम्यञ्च प्राप्ता विहरन्ति । न चैवं मुक्तानां तारतम्यवत्वे तद्दर्शनकृतदुःखादि- भिर्मुक्तेरपुरुषार्थत्वप्रसङ्गः । निर्दोषाणां तेषां गुरुशिष्यवत्तदप्रसक्तोरिति । यदैवं स्वाधिकज्ञानानन्दभोगैश्वर्यवतः पश्यतां स्वयं तत्सेवकत्वादिना ततो निकर्ष- मनुभवतामपि दुःखेाद्यभावः तदा किमु वक्तव्यं नित्यनिर्धूतनिखिलदोषसकलकल्याण- गुणाकरपरब्रह्मरूपाणामवाप्तसकलकामानां स्वाधिकानन्दादिकं क्वचिदप्यपश्यतां कुतोऽपि निकर्षमननुभवतामीश्वराणां ईर्ष्यादिना वैमत्यं न भवतीति ? यदि त्वीयादीनामन्तः- करणधर्मत्वान्मुक्तानां अन्तःकरणाभावात्तदभावः समर्थ्यते तदेश्वराणामपि तथाभृतान्त:- करणवत्वमनङ्गीकृत्यैव तदभावस्समर्थ्यतामिति भावः ॥ ४४ ॥ ननु यदि सृष्टिवाक्यादिप्रतिपाद्यपरब्रह्मरूपा जगत्कारो बहवस्तदा तपां परास्य शक्तिर्विविधैव श्रूयत" इति श्रुतिबलात्प्रत्येकमचिन्त्यापरिमितशक्तिमत्वमङ्गीकरणीय- मित्यन्योन्यानपेक्षया निखिलजगत्स्रष्टुं शक्तानां तेषां संभूय स्रष्तृत्वकल्पनमयुक्तम् । लोके प्राकारगोपुरादिषु शिल्पिनां सम्भृयकारित्वस्य प्रत्येकशक्तिनिवन्धनत्वात् । अतस्मृष्टिवाक्यानां एकस्मिन्नेव स्रष्टरि पर्यवसानावश्यंभावे विशेषवचनबलानारायणे पर्यवसानं स्यादित्याशयाऽऽह- स्रष्टुं प्रत्येकमीशास्सकलमपि परब्रह्मभृतास्वयश्चेत् संभूयते सृजेयुः किमिति भजति ते नाऽत्र शङ्कावकाशम् ।
दूषणम् ] व्याख्यया सहितम् । ६९ स्रष्टुं शक्तो विनैव स्वयमुपकरणैरच्युतस्तद्वयपेक्षा सृष्टौ लीलाऽस्य दण्डग्रहणमिव गतौ जाचिकस्येव मन्तुः।।४५॥ इयमाशङ्का तव भवितुं नाऽहत्येव । त्वयेश्वरस्य जगत्सृष्टौ नियमेन प्रकृत्यादि. कमपेक्षमाणस्य तत्राऽपि प्रकृतिमुपादानत्वेनैव कालादिकं निमित्तत्वेनैवाऽपेक्ष्य प्रकृत्यैव महान्तं, महतैवाऽहङ्कारं इत्यादिक्रमनियमं चाऽपेक्ष्य सृजतः किनाम स्वातन्त्र्यम् । स्वातव्ये सति कदाचित्प्रकृत्यादिकमनपेक्ष्य निमित्तोपादान कार्यक्रमादिकं वाऽव्यक्तस्य सृष्टिप्रसङ्गादित्याशङ्कय साधनान्तरतद्वयवस्थाक्रमनियमापेक्षयाऽपि युक्तमेवाऽस्य स्वा- तन्त्र्यम् । तदपेक्षणस्य शक्त्यभावनिबन्धनत्वाभावात् । स्वयमेव गन्तुं शक्तस्याऽपि गमनसमये लीलया दण्डावष्टम्भवत् स्वेच्छामात्रनिबन्धनत्वादित्यारम्भणाधिकरणादिषु परिहृततया तन्न्यायेन प्रत्येकमखिल जगत्सृष्टिशक्ता अपि परमेश्वराः केवलं लीलया सम्भूय जगत्सृजन्तीति वक्तुं शक्यत्वादिति भावः ॥ ४५ ॥ ननु च "द्यावाभूमी जनयन् देव एक" इत्यादिकत्रैक्यश्रुतिविरुद्धं सृष्टिवाक्या- नामनेककर्तपरत्वमित्याशङ्कथाऽऽह- कत्रैकत्वं वदन्ती कलयतु भणितिर्वारणेनाऽर्थवत्ता- मेकैकस्यैव कर्तुबहुभवनमुखानीतभेदप्रसक्तेः । येन त्वं नेह नानाप्रभृतिमुपनिषद्धारती विप्रलब्धं निद्वैतब्रह्मचौर्यव्यसनमनुभवन्नीहसे साहसेन ॥४६॥ क.क्यश्रुतिः ब्रह्मविष्णुरुद्राणां मध्ये एकैकस्यैव कर्तुः "तदेक्षत बहु स्यां प्रजायेये" त्यादिषु श्रुतबेहुभवनमुखैः उपस्थापितायाः भेदप्रसक्तनिवारणेनाऽर्थवती स्यात् । एवमेव हि त्वया निष्प्रपञ्चब्रह्मापलापव्यसनिना "नेह नानाऽस्ति किञ्चन" "एकवाऽनु- द्रष्टव्यमि" त्यादिश्रुतीनां विष्णोरन्नमयादीनि रूपाणि शिरःपक्षपुच्छाद्यवयवाः ज्ञाना- नन्दादयो गुणाः सृष्टिसहरणादिक्रियाः सर्वगतत्वादयो भावरूपधर्माः अदृश्यत्वाद- यश्चाऽभावरूपधर्माः विष्णोत्सकाशात् परस्परस्माद्भिद्यन्ते इति शङ्कावारणेनाऽर्थवत्ता दर्शितेत्यर्थः ॥ ४६॥ प्रकारान्तरेणाऽपि कर्बक्यश्रुतिनिर्वाहस्सम्भवतीत्याह- यो यस्योपास्तियोगस्स्फुरति नियमतस्तस्य कर्ता स एवे- त्यर्थं तं वा तदैक्यश्रुतिरनुवदतु श्रोतृधीभेदभिन्ने । क्लप्तो यस्याऽल्पभूयोऽधिकगुणकपरोपास्तियोग्यत्वभाजा- मात्मेत्येवेत्युपासाविधिरवधृतिमानित्थमर्थान् ब्रुवाणः ॥४७॥ - . मध्वतन्त्रमुखमदनम् तृतीयाधिकरण- ईश्वराणां मध्ये यदुपासने यस्य पुरुषस्याऽनादियोग्यता स एव जगत्का, नाऽन्य इति तस्य स्फुरतीति तत्तदधिकारिबुद्धिविषयं तमेवाऽयं तस्य तस्याऽधिकारिणः श्रवणकर्तुर्बुद्धिभेदेन भिन्न भिन्नं क.क्यश्रुतिरनु वदति इत्येवं वा तन्निवाहोऽस्तु । न च श्रुतीनामनेकार्थत्वसंप्रतिपत्तावपि श्रोतभेदेन भिन्न भिन्नार्थबोधकत्वं न संप्रतिपन्नमिति वाच्यम् । "आत्मेत्येवोपासीते"ति विधी तव तत्संप्रतिपत्तेः । इत्थं हि तव मतम्-ब्रह्मोपासनायां ह्यधिकारिणस्ताब दुपास्यगुणभेदन विविधाः । सत्यज्ञानानन्दादिभिः अल्पैर्गुणैर्मत्याः । सम्भृतिाव्याप्त्यादिभिः सहितैः भृयोभिर्गुण. रिन्द्रादिदेवताः । अखिलगुणैश्चतुर्मुखादयश्च । देवेषु मत्येषु च स्वस्वविमुक्त्यापास- नीयगुणविशेषोपसंहारानुपसंहाराभ्यां गुणभ्यस्त्वाल्पत्वावान्तरभेदैस्त्वतिबहवोऽधिकारिणः सर्वान्प्रति तत्तयोग्यगुणविशिष्टब्रह्मोपासनाभेदानां विधायक"मात्मेत्येवोपासीते" ति वाक्यम् । तत्र देवेषु मत्येषु च यस्य यावद्गुणोपासने योग्यता तं प्रति ताबद्गणविशिष्टं ब्रह्म आत्मशब्दो विधत्ते । एवकारस्तदयोग्यगुणव्यवच्छेदकः चतुर्मुखादीन्प्रति सकल- गुणविशिष्टं ब्रह्माऽभिधत्ते । एवकारस्त दयोगव्यवच्छेदक इति । स्यादेतत्-युक्तमुपासनाविधिवाक्यस्य पुरुषभेदन विरुद्धानेकार्थप्रतिपादकत्वं, न तु वस्तुपरवाक्यस्योपासनावाक्यस्य तत्तत्पुरुषं प्रति तत्तद्योग्यगुणविशिष्टमेव ब्रह्मोपासनीयं नाऽयोग्यगुणविशिष्टमिति बोधकल्वे हि न प्रामाण्यं हीयते । हीयते तु "सदेव सोन्येद मि" ति वस्तुपरवाक्यस्य तत्तत्पुरुष प्रति शिव एव जगत्का नाऽन्य इत्यादिबोधकत्वे । पुरुषभेदेनाऽनुष्ठानवद्वस्तुस्वरूपस्य भेदासंभवादिति चेत् ; मैवम् । त्वया पुराणेषु रामकृष्णावताररूपाणां भेदश्रवणं लौकिकैान्त्या गृहीतस्य भेदस्याऽनुवा- दकमिति(१) “सर्वथाऽपि तु त एवोभयलिङ्गादि' त्यधिकरणे (२)ऽनुव्याख्यानन्या- (३)यसुधयोरुक्तत्वेन तथैव कर्मक्यश्रुतेरप्यनुवादकत्वोपपत्तेः। न च वाच्यमवतारेषु तत्कालवर्तिनां लौकिकानां केषाञ्चिद्भेददृष्टिस्सम्भवति । अन्येषां च बहुत्वादिलिङ्गका- नुमानाभासेनेति युक्तस्तस्याऽनुवादः। न तु जगत्क।क्यस्य । तस्य अति विना लोकतः प्रत्येतुमशक्यत्वादिति । त्वया पुरुषाणां योग्यतावन्माहात्म्यज्ञानपूर्वकस्नेहरूपा भक्तिरप्यनादिरिति (४)"स्थानविशेषात्प्रकाशादिवत् (५)अनुबन्धादिभ्यः" इत्यधि- १. वे. मृ.३. ४. ३४.। २. अनु. २१८, १.८. ।३. न्याय. ५.८४, २.८.। ४. वे. सृ. ३. २. ३५. अधि. १७ । अत्र मध्यभाष्यम्-यथाss. दित्यस्य दर्पणादिस्थानविशेषात् प्रतिविम्वे विशेषः एवमानन्दादरपि । ब्रह्मादिगुणवै- शेष्यादानन्दादिः परस्य च । प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः । इति वागहे इति पाद्मे । इति ( म. भा. १३३. २. १०)। ५. वे. सू. ३. ३.५१. अधि. ३१ । न केवलं श्रवणादिभिः गुरुप्रसादन च ब्रह्मदर्शनम्। किन्तु भत्तयादिभिश्च ।
दूषणम् ] व्याख्यया सहितम् । करणयोरुतत्वेन शिवादिभक्त्यन्तर्गतस्य शिव एव जगत्का नाऽन्य इत्यादिरूपेण तत्तन्माहात्म्यज्ञानस्याऽप्यनादित्वसम्भवात् । त्वया सर्वेषां मतानामनादित्वस्योक्ततया तत्तन्मताहितमाहात्म्यज्ञानपरम्परानादित्वसम्भवाच्चेति भावः ॥ ४७ ॥ परसम्प्रतिपन्नश्रुत्युदाहरणेनाऽपि क.क्यश्रुतेरसदर्थ बोधकत्वं संभवतीत्याह- पूर्णत्वं ते निमित्तं निरवधिगमनं भूमशब्दस्य वृत्तौ वैकुण्ठे तद्गुणानां तदपि किल ततः तारतम्येन वेद्यम् । इत्थं वस्तुस्वभावं क्वचिदपि गणयन्वोध्यधीवृत्तिभेदा- द्धदस्स्यादस्तिवादी यदि तव भवति व्यंसकः काऽचिन्ता ॥४८॥ “यो वै भूमा तत्सुखमि"ति श्रुतौ भूमशब्दस्तावत्तवाऽपि ब्रह्मपरः । तत्राऽयं तावत्त्वन्मते विशेषः-"बहोलापो भू च बहोः" (पा. सू. ६. ४. १५८.) इति भावे निष्पन्नोऽपि भूमशब्दो “यो वै भूमा तदमृतमि"त्यादिघु धर्मिण्येव प्रयो- गार्मिणि रूढः । तस्य च परब्रह्मणि धर्मिणि वैकुण्ठे प्रवृत्ती निमित्तमवधिविशेष- गणनानिरपेक्षपूर्णत्वं न त्वस्मादेवाऽयं पूर्ण इति प्रतियोगिविशेषापेक्षम् । प्रकरणोप- पदादिसङ्कोचकाभावात् । नामवागायुत्तरोत्तरोत्कृटनिरूपणे चरमकल्यापनत्वानाऽल्पे सुखमस्तीति निरुपपदेनाऽल्पपदेन सर्वस्याऽप्यल्पस्य प्रतियोगित्वेन निर्देशाच्च । तत्तु निरवधिकं पूर्णत्वं न धर्मिण एव परममहत्वरूपम् ; किन्तु तत्तद्गुणानामानन्दा- दीनां निरतिशयत्व रूपं “वाग्वाव नाम्नो भूयसी"त्यादौ वैपुल्यरहितेषु वाक्सङ्कल्प- ध्यानादिष्वपि तत्तत्प्रकरणे भूमशब्दसमानार्थकभूयश्शब्ददर्शनेनाऽत्रापि तदैकरूप्याय गुणतो वैपुल्यस्यैव तदर्थतौचित्यात् । तच्च पूर्णत्वं सर्वेषामधिकारिणां नेकप्रकारेण श्रवणमननध्यानसाक्षात्कारेषु प्रतीयते, किन्तु तद्योग्यतानुसारिणा तारतम्येन । न च पूर्णत्वे तारतम्यासम्भवः । आनन्त्य इव तदुपपत्तेः। अस्ति हि पूर्वोत्तरकल्पापेक्षयाः- तीतक्षणेषु सतोरानन्त्ययोस्तारतम्यमिति । तदेतत्सर्वं (१) "भृमा सम्प्रसादादध्यु- पदेशात् , (२)भूम्नः क्रतुवज्ज्यायस्त्वम् (३)ब्रह्मदृष्टिरुत्कर्षात् (४) नानाशब्दादि- भेदात्" इति त्वदीयाधिकरणेषु स्पष्टम् । तत्रेदमुच्यते- इयत्तापरिच्छेदराहित्यमात्ररूपं सम्भवति तारतम्यमानन्त्ये । न तु निरतिशयत्वसर्वोत्तमत्वसर्वोत्कृष्टत्वापरपर्यायतया सर्वलक्षणसम्पन्नस्सर्वज्ञो विष्णुतत्परः । यद्गुरुस्तुप्रसन्नस्सन्दद्यात्तनाऽन्यथा भवेत् ॥ (म. भा. १४०. १. ७. )। १. वे. सू. १. ३. ८. अधि. २ । २. वे. सू. ३. ३.५९. अधि. ३७ । ३. वे. सू. ४. १. अधि. ४ । सू. ३. ३.६. अधि. ३८।
मध्वतन्त्रमुखमर्दनम् तृतीयाधिकरण - तेष्वधिकरणेषु त्वयोद्घोषिते भूमशब्दब्रह्मशब्दयोः प्रवृत्तिनिमित्ततया त्वदभिमते ब्रह्मानन्दादीनां पूर्णत्वे निरतिशयत्वादिस्वरूपव्याघातात. । न हि ये तारतम्य- शालिनस्ते निरतिशयास्सर्वोत्तमा इति च युज्यते । तेषु यस्य यदपेक्षया निकर्षः तस्य तेन सातिशयत्वस्योत्तमत्वस्य चाऽवर्जनीयत्वात् । याच्येत-परमेश्वरस्याऽचिन्त्यशक्तिमहिम्ना तदानन्दादिविशेषाणां परस्परं ता- रतम्यवतामपि निरतिशयत्वादि सम्भवतीति । तदा परमेश्वराणामचिन्त्यशक्तिमहिम्ना परस्परं भिन्नानामप्येकत्वं सम्भवतीति किमिति वक्तुं न शक्यम् ? । तस्मात्परब्रह्मा- नन्दैकदेशान्सातिशयत्वेन भूम्न एव भमरूपतया तत्तदधिकारिणं प्रति भूमशब्दः प्रतिपादयतीति त्वया वक्तव्यम् । ननु सातिशयानामपि ब्रह्मानन्दैकदेशानां वागादीनां भूयस्त्वक्त् भूमरूपत्वमुप- पद्यत एव । भूमशब्दस्य तन्निरतिशयत्ववाचकतोक्तिस्त्वशेषविशेषसहितब्रह्मानन्ददर्शन- योग्याधिकारिविशेषमपेक्ष्येति कल्प्यत इति चेन्न । त्वन्मते तथाभूताधिकारिण एवा- ऽसिद्धेः। (१)हिरण्यगर्भपर्यन्तास्सर्वेऽप्यधिकारिणो मुत्तयनन्तरमपि ब्रह्मानन्दैकदेश- स्यैव द्रष्टारः । नित्यमुक्ता श्रीरपि तथैवेत्यभिमतमोक्षनिरूपणप्रस्तावेऽनुव्याख्यान- न्यायसुधयोरुक्तत्वात् । त्वदीयान्प्रति ब्रह्मानन्दैकदेशबोधकस्य भूमशब्दस्य तनिरतिशयत्वबोधकत्वाभावे त्वदीयग्रन्थेषु निरतिशयत्वापरपर्यायं भूमत्वमित्यादि- व्यवहारायोगाच्च । तस्माद्यस्याऽधिकारिणो याबद्दर्शने योग्यता तं प्रति तावन्तमेव सातिशयं ब्रह्मानन्दैकदेशं निरतिशयतया भूमशब्दः प्रतिपादयतीत्यकामेनाऽपि त्वया स्वीकरणीयम् । तथा च यदि क्वचिद्वेदस्तत्तद्वादिनः प्रति स्यादस्ति स्यान्नाऽस्ती. त्यादिविरुद्ध प्रकारान् वदन् क्षपणक इव वञ्चकस्स्यात् तदा तद्वदेव सृष्टिवाक्याना- मपि शैववैष्णवादीन्प्रति विरुद्धनानाप्रकारबोधकत्वं संभवतीति तत्र तव विशिष्य का विविकित्सेति भावः ॥ ४८ ॥ एवं नारायणस्यैव स्रष्टुत्वे विशेषवचनानि सन्ति नाऽन्येषमित्यङ्गीकृत्य तथाऽपि परमते विरोधाभावात् 'सदेवे' त्यादिवाक्यान्यनुमानातीततात्पर्याणि शिवविम्चियोरपि स्रष्टत्वपराणि स्युरित्यापादितम् । तदुपपादनार्थं च परमते सृष्टिवाक्यानामनेकस्रष्ट- परत्वे शब्दतोऽर्थतश्च विरोधाभाव उपपादितः। इदानीं शिवविरिञ्चयोरपि खहल्वे विशेषवचनानि सन्तीति सुतरां तानि तत्प्रतिपादकानि स्युरित्याह- १. उषा स्वाहा च पर्जन्यो मित्रोऽग्निवरुणो विधुः । प्रबहोऽनिरुद्ध इन्द्रोम रुद्रो वाणी च मारुतः । उत्तरोत्तरतस्त्वेते गुणैस्सर्वेश्च मुक्तिगाः । इत्यादिना-एतेभ्योऽ- भ्यधिका श्रीस्तु सदा मुक्ता विशेषतः। इत्यन्तेन प्रकरणेन अनुव्याख्याने निरूपितम- त्रास्त्रगन्तव्यम् ( अनु. २१३, १. १०)।
दूषणम् ] व्याख्यया सहितम् । किञ्च स्थाणुविरिश्चयोरपि जगत्कर्तृत्वमावेदय- बस्त्येव श्रुतिमस्तकेषु बहुधा वैशेषिको गीर्गणः । ऐकायं सहते स सृष्टिवचसां नैव त्वदीये मते तत्तन्नामपदप्रसिद्धयतिगतौ हेतुश्च नाऽस्त्येव ते ॥४९॥ इति श्रीमदप्पयदीक्षितेन्द्रकृतिषु मध्वतन्त्रमुखमर्दने तृतीयाधिकरणदूषणम् ॥ “यदा तमस्तन्न दिवा न रात्रिन सन्न चाऽसच्छिव एव केवल: तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ।।" "प्रजापतिवी इदमेक आसीत् । नाऽहरासीन्न रात्रिरासीत् । सोऽस्मिन्नन्धे तमसि प्रासर्पदि" त्यादीनि शिवविरिञ्चयोरपि जगन्मूलकत्वमावेदयन्ति विशेषवचनानि सन्त्येव । न च तेषु स्थितानि शिवप्रजापतिपदानि प्रसिद्धस्वस्वार्थादपनीय नारायण एव स्थापयितुं तत्तन्नामपदानां अन्यत्र योगसम्भवासम्भवादिविचारस्तव युज्यते । त्वन्मते मष्टिवाक्यानामनेकस्रष्ट्रपरत्वस्याऽविरुद्धतया प्रसिध्यतिकमायोगात् । विरुद्धे खलु तेषामनेकस्रष्टपरत्वे तत्तत्सृष्टिवाक्यस्थसृष्टिप्रतिपादकानां पदानामेकस्रष्टपरत्वा- वश्यंभावेन सावकाशनिरवकाशादिन्यायविचारः प्रवर्तनीयस्स्यात् । तस्मात् त्वन्मते मष्टिवाक्यानामनुमानविशेषवचनानुसारेणाऽनेकस्रष्टपरत्वं भवेदेवेति न पूर्वपक्षोपन्य- स्तानुमानदूषणं युक्तमिति भावः ॥ ४९ ॥ इत्यप्पदीक्षितकृतौ कृतिनां मतेऽस्मिन्नानन्दतीर्थकृतशास्त्रमुखावमर्दै । एतत्तृतीयमधिकृत्य नयं प्रवृत्तं दोषप्रदर्शनमुपस्करणीयमार्यैः ॥ .. इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- गजावरीन्द्रसूनोः चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्पयदीक्षिते- न्द्रस्य कृतिषु मध्वतन्त्रमुखमर्दनव्याख्याने मध्वमतविध्वंसने शास्त्रयोनित्वाधिकरणदूषणाख्यं तृतीयं प्रकरणम् ॥
७४ मध्वतन्त्रमुखमर्दनम् [चतुर्थाधिकरण- स्यादेतत्-यदुक्तं विशेषवचनानुसारेण शिवविरिञ्चयोरपि सृष्टिवाक्यानि पर्यवस्यन्तीति तन्न युक्तम् । समन्वयसूत्रेण तदाशङ्कानिराकरणात् । तत्र हि वेदेऽपि क्वचित्तचित्पशुपतिहिरण्यगर्भादीनां जगत्कर्तत्वं प्रतीयत इति पूर्वाधिकरणाक्षेपे सम्यग्विचारितादुपक्रमादितात्पर्यलिङ्गरूपादन्वयाद्विष्णुरेव जगत्कततया वेदप्रतिपाद्य इत्यतोऽन्यथाप्रतीतिरज्ञानमूलेति स्थापितमित्याशङ्कां निराचष्टे- रोद्धा नोपक्रमादिश्रुतिषु नयगणस्त्वन्मतेऽर्थान्तराणां रोद्धा चेत्कर्मकाण्डे कथमपि न भवेद्ब्रह्मनिष्ठा पदानाम् । किं चाऽत्रोपक्रमादावपि तव विसरेझ्मशब्दस्य रीति- यस्मात्सर्वस्तमेव श्रयति नयगणं स्वस्वसिद्धान्तसिद्ध्यै ॥५०॥ यद्यप्युपक्रमादयो विष्णो व्यवस्थितास्स्युस्तथाऽपि ते श्रुतीनां विष्णुपरत्वावगम- नमेव कुयुः न तु शिवविरिञ्चपरतानिवारणमपि । अनेकार्थसहिष्णोस्तव मते विरोधाभावेन शिवविरिञ्चपरत्वस्याऽपि संभवात् । न हि प्रबलं प्रबलमित्येव दुवैलस्य वाधकम् , अपि तु सति विरोधे। यदि तूपक्रमादयो विरोधाभावऽपि स्वानीततात्पर्या- दर्थादर्थान्तरं स्वभावादेव वारयेयुस्तदा त्वन्मते कर्मकाण्डस्थपदानां ब्रह्मपरता न स्यात् । अभ्युपगतं च त्वया "श्येनेनाऽभिन्चरन् यजेते" त्यादिवाक्येषु इयेनादिपदानां "यथा वै श्येनो निपत्याऽऽदत्ते एवमयं द्विषन्तं भ्रातव्यं निपत्याऽऽदत्त" इत्याधुपसंहार- प्राबल्यादिन्यायैः कर्मनामधेयत्वं प्रापितानामपि वसन्तादिवाक्येषु प्रदर्शितया रील्या ब्रह्म परत्वमपि। ननु श्रुतीनां शिवपरत्वे विरिञ्चपरत्वे च तदेकवाक्यतापनोपक्रमादीनां विष्णो व्यवस्थितानामन्वयो न स्यादिति चेत् ; मा मृत् । विष्णुपरत्व एव तेषामन्बयोऽस्तु । न हि त्वन्मते क्वचिदर्थं यावतामेकवाक्यता तावतामर्थान्तरेऽप्येकवाक्यतेति नियमोऽस्ति श्येनादिपदानां ब्रह्मपरत्वे प्रसिद्धश्येनसादृश्यप्रतिपादकवाक्यशेषान्वयाभावात् । न च वाक्यशेषस्याऽपि ब्रह्मपरत्वेन तदेकवाक्यता सम्भवतीति वाच्यम् । कर्मकाण्डस्थपदानां पदविधयैव ब्रह्मणि समन्वयो न वाक्यविधयेति त्वया (१)"वाक्यान्वय' सूत्र वर्णित्वात् । बसन्तादिवाक्यस्थपदानामपि तथैव तत्समन्वयस्य (२)प्रदर्शितत्वाच । नन्वेवं सति श्येनपदस्य गुणपरत्वमपि स्यात्, वाक्यशेषस्य कर्म नामत्व एवाऽन्वय इति वक्तुमशक्यत्वादिति चेत् तदपि दूषणं तव मतेऽस्माभिरापाद्य मेव । अम्माकं १. वे. सू. १. ४. २०. । २. ज्योतिरुपक्रमादित्यादिषु मूत्रध्वनुव्याख्यान- न्यायसुधयोः स्पष्टम् ।
दूषणम् ] व्याख्यया सहितम् । त्वनेकार्थवानगीकागदेव तन्न प्रसज्यते । अपि चोपक्रमादीनां विष्णो व्यवस्थितत्व- मप्यसिद्धम् । शैवादयोऽपि ह्युपक्रमादीनेवाऽवलम्ब्य श्रुतीनां शिवादिपरत्वं वर्णयन्ति । उपपादयन्ति चोपक्रमादीनां शिवादिविषयत्वं तद्गतपदशक्त्यादिप्रदर्शनेन । ननु शैवाहिशत्र एवोपक्रमादयो न विष्णो विरिन्चे वेति वर्णयन्ति । एवं वैष्णवा बैरिञ्चाश्च परपक्षप्रतिक्षेपेण वदन्ति । न चैतानि मतानि परस्परविरुद्धानि सर्वाण्यपि ग्राह्याणि । अतोऽत्र बलावलविचारावश्यम्भावादलवद्भिन्यायैरुपक्रमादीनां विष्णो व्यवस्थितत्वसिद्धिरिति चेत् ; मैवम् । यथा भूमशब्दस्तवाऽशेषविशेषसहितब्रह्मानन्द- वाचकोऽपि तत्तदधिकारिणं प्रति योग्यतानुसारेण किञ्चित्किञ्चिद्ब्रह्मानन्दाशमेव वोधयति तथैव सृष्टयादिश्रुतयस्तदुपक्रमादयश्चाऽनेककर्ट परा अपि तत्तद्योग्यतानुसारेण कै- कमेव कर्तारं बोधयन्ति। श्रुतिवाक्येभ्यस्तेषां कत्रन्तरवोधानुदयात्तु श्रुतिवाक्यानां कञन्तरपरत्वाभावाभिमान इत्युपपत्तेः। तस्मादुपक्रमादिवलान्न सृष्टिवाक्यानां विष्णो व्यवस्थितत्वसिद्धिरिति भावः ॥ ५० ॥ ननु तन्मतस्थानामभिमानमात्रं यथाकथंचिदुपपद्यतां नाम । शैववैष्णववैरिश्च- पुराणागमेषु शिवादीनां परस्परसृज्यत्वसंहार्यत्वाराधकत्वादिना भूयसी निकर्षोक्तिईश्य- माना सर्वेषां समानकक्षतया जगत्कटत्वेऽनुपपन्ना बलाबलविचारमन्तरेण न व्यवतिष्ठते । तद्विचारे वैष्णवपुराणागमानां बलवत्वात्तदनुसारेणोपक्रमादिसहितानां सृष्टिस्थित्यादीनां विष्णी व्यवस्थितत्वं सिध्येदित्याशङ्कयाऽऽह- स्फारातत्तत्पुराणागमवचनशतप्रापिता याऽन्यनिन्दा तत्तद्भत्त्यादिसिध्यै भुवनविरचने सा भवेद्वारमात्रम् । कर्मानुष्ठापनार्थं किमु निरतिशयां ब्रह्मसंस्थादिनिन्दा- मापस्तम्बादिवाक्ये नकलयसि ततः काऽस्य हानिस्तवेष्टा॥५१॥ इति श्रीमदप्पयदीक्षितकृतिषु मध्वतन्त्रमुखमर्दने चतुर्थं प्रकरणम् ।। परस्परनिन्दावचनानि "नहि निन्दा निन्धं निन्दितुं प्रवर्तते, अपि तु स्तुत्यं स्तोतु"मिति न्यायेनोदितानुदितहोमनिन्दादिषु (१)दृष्टेन तत्तद्देवताविषयनिश्चलभक्ति- सिद्धिप्रयोजने स्तुतिविरचने द्वारमात्रत्वेनोपपन्नानि । दृश्यते ह्यापस्तम्बसूत्रे (२) “अथाऽप्युदाहरन्ती" त्यारभ्य "तस्माच्छृतितः प्रत्यक्षबलत्वाच विशिष्टानाश्रमानेता- १, “यदुदिते जुहुयात् ।यथाऽतिथये प्रद्रुताय शून्यायाऽवसस्थायाऽन्वाहार्य हरन्ति तादृगेवतत्" इत्युदितहोमनिन्दा । "प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवाकीय॑मदिवाकीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम् ।। इत्यनुदितहोमनिन्दा। २. आप. ध. सू. प्र. २. खं. २३. सू. ८.।
७६ मध्वतन्त्रमुखमर्दनम् चतुर्थाधिकरण- नेके ब्रुवत" इत्यन्तेन गार्हस्थ्यस्य निकर्षमूर्ध्वरेतसामाश्रमाणामुत्कर्षञ्च केषाञ्चिन्म- तत्वेनोपन्यस्य "विद्यवृद्धानान्तु वेदाः प्रमाणमिति निष्ठा । तत्र यानि श्रूयन्ते बीहियवपश्वाज्यपयःकपालपत्नीसम्बद्धान्युच्चैनीचैः कार्यमिति तेंविरुद्धाचारोऽप्रमाणमिति मन्यन्ते” इति दर्शपूर्णमासादिकर्मानुष्ठानरहितोवरेतसामाचारो वेदविरुद्धत्वादनाचार एवेति सकलविद्यवृद्धसम्मतत्वेन स्वमतप्रदर्शनम् । तत्र कर्माण्यनुतिष्ठतामेव ब्रह्मलोका- वाप्तिराश्रमान्तरं प्रशंसतामपि महान् प्रत्यवाय इत्यत्र सम्मतिवचनोदाहरणञ्च । (१) अथाऽपिप्रजापतेर्वचनम् - त्रयीं विद्यां ब्रह्मचर्य प्रजाति श्रद्धां तपो बेदमनप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भृत्वा ध्वंसतेऽन्यत्प्रशंसन्' इति । तथा (२)महाभारतेऽपि शान्तिपर्वणि ज्ञातिवनिर्वेदात्सन्यासोयुक्त युधिष्ठिरं प्रति तद्भातृणां महर्षीणां भगवतः श्रीकृष्णस्य च वचनेषु भूयसी सन्यास- निन्दा दृश्यते । एवं सत्यपि सन्यासादेराश्रमान्तरस्य ततो न काचन हानिस्तत्राभि- मता, प्रत्युत सन्यासस्य गार्हस्थ्यादुत्कर्ष एव त्वया "कृत्स्नभावात्तु गृहिणोपसंहार" (३)इत्यधिकरणे समर्थितः, तत्र हि गृहस्थाश्रमः सन्यासादुःस्कृष्टः । १. अपि च प्रजापतेरपि वाक्यं अस्मिन्नर्थे भवति गाह्यस्थ्यमेव वरिष्ठमिति । त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्य अष्टाचत्वारिंशदादिकम् । प्रजाति प्रजोत्पादनम् । श्रद्धा आस्तिक्यम् । तपः उपवासादि । यज्ञमग्निहोत्रादिकं सोम- यागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानं । य एतानि कर्माणि कुर्वते तैरित्तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः । अन्यत्तु ऊर्ध्व रेतसामा- श्रमादिकं प्रशंसन् पुरुषः रजः पांसुर्भूत्वा ध्वंसते नश्यति । इत्युज्वला ( आ. ध. सू.प्र. २. खं. २४ सू. ७८.) २. शान्तिपर्वणि सप्तमाध्यायप्रभृत्युपरितनेष्वध्यायेषु प्रतिपादिता। ३. वे. मू. ३. ४. ४८. अधि ८. । अत्र मध्वभाष्यम्-“कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधत" इत्युक्त्वा "न च पुनरावर्तते न च पुनरावर्तत" इति गृहिणोप- संहारः क्रियते । तस्माद्गृहस्थस्यैवोत्तमत्वमिति वाच्यम् । यतः कृत्स्नगृहस्थान्दवान- पेक्ष्यैवोपसंहारः क्रियते गृहिणो देवाः कृत्स्ना ह्येते यतयः। अतः न एतेषां पुत्रा दायमुप- यन्ति । न चैते गृहाविस्जन्ति । अगगा अद्वेषा अलोमा सर्वभोगास्सर्वज्ञास्सर्वकार इति पौत्रायणश्रुतिः । न चाऽऽश्रमद्वयमेव मनुष्याणां “देवा एव ब्रह्मचारिणो देवा एव गृहस्थाः देवा एव वनस्थाः। अथ ह्येते मुनयः। एवं सर्ववर्णाः सर्वाश्रमाः। सर्व ह्येते कर्म कुर्वन्ति ।" इति कोण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनाऽन्येषामप्युपदेशादिति ( म. भा. १४७. १. ७)।
दूषणम् ] व्याख्यया सहितम् । छान्दोग्योपनिषदि “कुटुम्बे शुचौ देशे स्वाध्यायमधीयान" इति गृहस्था- श्रममुपक्रम्य “स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते । न च पुनरावर्तत इति तन्मोक्षमुक्त्वोपसंहारात् । उपसंहारत्वेन च तत्र तात्पर्यावगमादिति पूर्वपक्षं कृत्वा सन्न्यास एव गार्हस्थ्यादधिकः । तन्मोक्षस्य गृहस्थमोक्षादधिककालसाध्यत्वेन तदतिशायित्वात् । गृहिणोपसंहारस्तु देव विषयो न मानुषविषयः । “कृत्स्ना ह्येव गृहिणो देवाः, कृत्स्ना ह्येते यतयः” इति पौत्रायणश्रुतौ “देवा एव ब्रह्मचारिणो देवा गृहस्था देवा वनस्था यथा ह्येते मुनयः एवं सर्ववर्णाः सर्वाश्रमाः सर्वे ह्येते कर्म कुर्वन्ती"ति कौण्ठरव्यश्रुतौ च सर्ववर्णाश्रमाचारवत्तयोक्तानां देवानां गृहस्थानां सतामपि मनुष्यसन्यासिभ्योऽधिकत्वादिति सिद्धान्तितम् । न चाऽऽपस्तम्बादिवचनान्यपि मनुष्यसन्यासिभ्यो देवोत्कर्षविषयाणि भवन्विति वाच्यम् । तैर्विरुद्धाचारोऽप्रमाणमित्यापस्तम्वेन सन्यासादेरनाचारवस्यैवोक्तत्वात् । कर्मानुष्ठानपुत्रदारादिपोषणव्यग्राणां गृहस्थानाममृतत्वं न सम्भवतीति सन्यासाद्युत्कर्ष- वाद्युक्तगार्हस्थ्यनिकर्ष हेतूद्रारसमये (१)"अथाऽप्यस्य प्रजातिममृतमाम्नायाऽऽह- "प्रजामनुप्रजायसे तदुते मामृतमिति । अथाऽपि स एवाध्यं विरूढः । प्रत्यक्षेणोप- लभ्यते दृश्यते चाऽपि सारूप्यम् देहत्वमेवाऽन्य"दिति श्रुतियुक्तिभ्यां गृहस्थानां पुत्र- पौत्रादिरूपेणैवाऽमृतत्वव्यवस्थापनेन गार्हस्थ्योत्कर्षप्रतिपादनस्य मानुषगृहस्थविषयत्व- स्फुटीकरणाच्च । न हि त्वन्मते देवानां पुत्रपौत्रादिरूपेणाऽमृतत्वं सम्भावनीयम् । त्वया 'न देवपदवी प्राप्ता ब्रह्मदर्शनवर्जिता' इति सर्वेषां देवानां ब्रह्मसाक्षात्कारवत्वस्य स्वीकृतत्वेन तेषां मोक्षरूपामृतत्वस्यैव सम्भवात् । (२)महाभारतेऽपि- पन्थानं पावनं हित्वा जनक मौल्यमास्थितम् । तं ददर्श प्रिया भायी भैक्षवृत्तिमकिञ्चनम् ॥ इत्यादिवैदेहसन्यासनिन्दादिषु मनुष्यगार्हस्थ्यस्यैवोत्कर्षप्रतिपादनं स्पष्टमेव । - .. १. अथाऽप्यपि च । अस्य गृहस्थस्य प्रजाति प्रजासन्तानं अमृतं अमरणं बंदः आह - हे मयं मरणधर्मिन् प्रजां जायमानामनु त्वमेव प्रजारूपेण जायसे। तदेव ते मरणधर्मिणः अमृतं अमरणम् इति । न त्वं म्रियसे । यतस्त्वं प्रजारूपेण तिष्ठसि इति । उपपन्नं च तदित्याह-अपि च स एवाऽयं पृथग्विरूढः प्रत्यक्षेणो- पलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्यं द्वयोः। दहमात्रं तु भिन्नम् । देहत्वमिति स्वार्थिकः त्वः । इत्युज्वला ( आ. ध. सू. प्र. २. खं. २४. सृ. १. २.)। २. शान्तिपर्वणि नवमाध्याये स्थितोऽयं श्लोकः ।
- - मध्वतन्त्रमुखमर्दनम् [ चतुर्थाधिकरण- तस्मान्मनुष्यलोके कर्माग्यनुष्ठापयितुं कल्पसूत्रं कृतवताऽऽपस्तम्वन कर्मप्ररोचनार्थ सन्यासाद्याश्रमं अनाचारत्वेन( १)"बुद्धे क्षेमप्रापणं तच्छास्सैविप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेते"ति ज्ञानसाध्यामृतत्वफलं मिथ्यात्वेन च दृयित्वा गृहस्थानामेव स्वगोंऽमृतत्वं चेति वर्णितम् । महाभारते च- अथैककालिको वाऽहमकैकस्मिन्दिनक्षये । चरन् भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥ इत्युक्तवन्तं युधिष्ठिरं सन्यासोद्योगाग्निवर्तयितुकामस्तद्भात्रादिभिगार्हस्थ्य- प्ररोचनार्थे सन्यासं दूषयित्वा गार्हस्थ्यस्योत्कर्षो वर्णितः इत्येव गतिर्वक्तव्या । एवं पुराणागमेषु तत्तद्देवताराधनोपासनाद्यनुष्ठापनार्थं प्रवृत्तेषु तत्प्रगेचनार्थ देवान्तरनिकों वर्णित इति किन सङ्गच्छते ? । अङ्गीकृतञ्च त्वयाऽपि "द्वेषा- चैद्यादयो नृपाः" इत्यादी भगवतः कृपालुत्वातिशयतात्पर्येण द्वेषान्मुक्तिवर्णनं, न तु नरकसाधनेन भगवद्वेषेण मुक्तिरस्तीति वदता पुराणेष्वन्यार्थतात्पर्येणाऽसदर्थकथनम् । तत्र दृष्टान्तोऽप्यनुव्याख्याने दर्शितः- यथा क्रुद्धः पिता पुत्रं मरत्याक्षेपपूर्वकम् । प्रोक्तस्स्याद्यस्य कृत्यर्थं वदत्येवं पुराणगम् ॥ इति । एवमेव ब्रह्मादिषु परस्परनिकर्षवचनानामपि अन्यपरतोपपत्तेः न तत्र बला- बलविचारापेक्षेति भावः। पुराणानां बलाबलविचारऽपि परस्य न प्रत्याशति उपपादितमस्माभिः शिवतत्वविवेके । यत्तु शिवतत्वविवेके- १. आत्मनि वुद्धे अवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रापयति इत्यादि "तदिदं निराकरोति यानि यतेव कर्तव्यप्रतिपादनपराणि शास्त्राणि तैरव तद्विप्रतिषिद्धम् । तत्र मनुः--क्रुद्धन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत । सप्त- द्वारावकीर्णा च न वाचमनृतां वदेत् । न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नाऽनुशासनवादाभ्यां भिनां लिप्यंत कर्हि चित् । इति । अतो यति मेव प्रकृत्य यानि विहितानि कर्माणि तानि कतैव्यानि । यानि च निपिद्धानि तनि च वर्जनीयानि । बुद्धे क्षेमप्रापणमित्येतत्प्रत्यक्षविरुद्धमित्याह-आत्मबोधमात्रेण चेत्क्षेमं प्राप्यते तदिहैव शरीरे दुःखं नोपलभेत ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्त- मन्योऽपि क्षुधादुःखमेव तावत्क्षणमात्रमपि संमोड़ प्रभवति । इत्यन्तेनोज्वला ( आ. प. म. प्र. २. खं. २१ मृ. १४. १५. १६)।
दूषणम् ] व्याख्यया सहितम् । ७ ९ क्वचिद्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशंस्यते । नाऽनेन तेषामाधिक्यं न्यूनत्वं वा कथंचन ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । पुराणानि प्रणीतानि विद्वांस्तत्र न मुह्यति !! इत्यादिवचनान्युदाहृत्य पुराणेषु त्रयाणां परस्परोकोपकर्षवचनानि कल्पभेदेन व्यवस्थितानि प्रतीतार्थपराण्येवेत्युक्तम् । तद्वस्तुगतिमनुरुध्योक्तम् । इह तु परमते त्रयोऽप्यनादयो विश्वकतीरः स्युरित्यापादननिर्वाहाय पुराणेषु परस्परसृज्यत्वादि- वचनान्यप्यर्थवादास्स्युरित्यापादितमिति न विरोधः । एतेन श्रुतिध्वपि त्रयाणां परस्परनिकर्षवचनानि दत्तोत्तराणि । दृश्यन्ते हि श्रुतिप्वप्याश्रमान्तरनिन्दावचनानि- (१)किन्नु मलं किमजिनं किमु श्मश्रुणि कि तपः । पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः ॥ (२)नाऽपुत्रस्य लोकोऽस्ति तत्सर्वे पशवो विदुः । तस्मान्नु पुत्रो मातरं स्वसारं चाऽधिरोहति ॥ इत्यादीनि । एवमेव तान्यप्युपपद्यन्त इत्यलमतिविस्तरेण ॥५१॥ १. ऐतरेय ब्राह्मणे हरिश्चन्द्रोपाख्याने अपुत्रेण हरिश्चन्द्रेणैवाकेन पुत्रलाभेन किं प्राप्यत इति पृष्टस्य नारदस्य प्रतिवचनरूपासु दशस्वृक्षु चतुर्थीनवम्याविमें ऋचौ । अनयोरावगमाय तत्रस्थं सायणभाष्यं तथैवोद्भियते--अत्र मलाजिन- श्मश्रुतपश्शब्दैराश्रमन्चतुष्टयं विवक्षितम् । मलरूपाभ्यां शुक्लशोणिताभ्यां संयोगान्म- लशब्देन गार्हस्थ्य विवक्षितम् । कृष्णाजिनसंयोगादजिनशब्देन ब्रह्मचर्य, विवक्षितम् । क्षौरकर्मराहित्याच्छमश्रुशब्देन वानप्रस्थ्यं विवक्षितम् । इन्द्रियनियमसद्भावात्तपश्शब्देन पारिवाज्यं विवक्षितम् । मलं गार्हस्थ्यं किं नु किं नाम सुखं करिष्यति। न किंचि- दित्यर्थः । एवमुत्तरत्राऽपि योज्यम् । हे ब्रह्माणो विप्रा विप्रक्षत्रियाद्याः सर्वे यूयं सुखहेतुत्वात्पुत्रमिच्छध्वम् । स वै स एव पुत्रोऽवदावदो लोकः । वदितुमयोग्यानि निन्दावाक्यान्यवदास्तक्यिोंद्यते न कथ्यत इत्यवदावदः। एवं प्रपदेन तेन कथ्यत इति । अवदाक्दो दोषराहित्यानिन्दानह इत्यर्थः । तादृशो लोको भोगहेतुः पुत्रः। तस्मादाश्रमेभ्योऽग्याधिक्येन पुत्रेच्छा कर्तव्या । यद्यपि हरिश्चन्द्र एवाऽत्र प्रष्टा तथाऽपि तेन सह ऋषीणां बहूनां सभायामवस्थानाद्रमाण इति संबोधनम्-इति (ऐत. वा. आन, पृ.८३७ ।) २. लोको लोकजन्यं सुखमपुत्रस्य नास्ति । न हि पुत्रदर्शनेन यत्सुखं तदन्यदर्शनेन क्वचिदपि दृश्यत इति यदस्ति तत्सर्वे गोम- हिध्यादयो जानन्ति यस्मात्तस्मादेव कारणात्पशुजातो जातः पुत्रो वत्सः स्वकीयां मातरं भगिनीं वा पुत्रोत्पादनार्थमधिरोहति (ऐत. ब्रा. आन. पृ. ८३९)।
मध्वतन्त्रमुखमर्दनम् [ पञ्चमाधिकरण - इत्यप्पदीक्षितकृती मध्वशास्त्रमुखार्दने । दृष्ट्वा सन्तोऽनुगृह्णन्तु चतुर्थनयदृषणम् ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि- श्रीरङ्गराजाधरीन्द्रसूनोः चतुरधिकशतप्रवन्धनिर्माणचणस्य श्रीमदाप- यदीक्षितेन्द्रस्य कृतिषु मध्वतन्त्रमुखमर्दनव्याख्याने मध्वमत- विध्वंसने समन्वयाधिकरणदूषणाख्यं चतुर्थ प्रकरणम् ।। त्वयाऽतो एवमुपक्रमादिलिङ्गे: पुराणायुपबृंहणैश्च मुष्टयादिश्रुतीनां विष्णो व्यवस्थित्व- मिद्धिरिति दर्शितम् । इदानी परमतेऽपि विष्णुपरत्वमेव तासां कथञ्चिदपि न सिध्येदिति दर्शयितुमीक्षत्यधिकरणव्यवस्थापनीयत्वेन पगभिमतं ब्रह्मणो वाच्यत्वं दूषयति- न ध्येयं ब्रह्म 'नेदं यदिद' मिति गिरा ह्यम्युपेतं ध्येयार्थानां श्रुतीनां क्वचिदपि न च तद्वाच्यमित्यभ्युपेयम् । नो चैन्न ध्येयमेतत्कथमिव भवति स्यादवायैव शङ्का यद्वा चेति श्रुतिश्व क्षिपति तदसनायैव वाच्यत्वमस्य ॥ ५२ ॥ त्वया तावदत्यन्तमेवाऽव्यक्तं ब्रह्मेत्यभ्युपगम्य तस्य तदव्यक्तत्वमाक्षेपसमाधानाभ्यां स्थापितम् (१) तथान्यत्प्रतिषेधादि"त्यधिकरणे। तदित्थम् - यदुक्तं “तदव्यक्तमाह ही" (२)त्यधिकरणे नित्याव्यक्तं ब्रह्मेति तदयुक्तम् । उपासकानां हृदयेष्वाविभू यो- पासनाकाले तस्य स्फुरणात् । न हि परमात्मनोऽन्यदुपास्यम् । तदन्योपासनेन मुक्त्य- योगात् । न चोपासनाकाले तत्तद्धृदयस्थिततया प्रतीतस्य ब्रह्मत्वेन तत्तदुपासकबहुत्वेन तत्तद्वहुत्वापत्तिदेषिः । स्वरूपभेदाभावेऽपि ब्रह्मरूपाणां विशेषवलेन नानात्वोपपत्तेरिति पूर्वपक्षे राधान्तः-यदा जीवानन्दादेरन्यद्ब्रह्म तथोपासनाकाले प्रतीतादपि “यन्मनसा न मनुते येनाऽहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्रि नेदं यदिदमुपासते' इति श्रुती ब्रह्मण उपास्यत्वप्रतिषेधात् । जीवानन्दादिषु अल्पत्वस्येवोपासनाकाले प्रतीतेऽपि व्यक्तत्वादे दहेतोस्सत्वाच। तस्मादुपासकानां हृदयेषु ब्रह्मणः प्रतिबिम्बविशेष एवोपासनालम्बनम् । तदुपसानयैव च प्रतिमोपासनयेव तद्गतं ब्रह्म प्रसन्नं सदव्यक्त- मप्यचिन्त्यापरिमितस्वशक्तिबलादपरोक्षीभवतीति युक्तम् । १. वे. मू. ३. २. ३७ अधि. १८.। २. वे. सू. ३. १. २३. अधि. १५ ।
.. दूषणम् ] व्याख्यया सहितम् । तथैव ब्रह्मतर्कवचनम्- (१) पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते (२)त्वापरोक्ष्येण ज्ञानेनैव परं पदम् ॥ इति । तस्माद्युक्तमव्यनत्वं ब्रह्मण इति । एवमनुपास्यं ब्रह्मेत्यङ्गीकुर्वता त्वयोपासनाविधि- प्रकरणेपास्यसमर्पकाणां श्रुतिवचनानां तद्वाच्यं न भवतीत्यप्यङ्गीकरणीयम् । तद्वाच्य- त्वाङ्गीकारे कथं तदनुपास्यमिति शङ्काया अनिवार्यत्वात् । न हि सम्भवत्युपासनाविधि- पास्यसमर्पकैः पदैः ब्रह्मोपास्यतया विधीयते उपास्यं च न भवतीति । एतच्छानिरस- नायव हि “यन्मनसा न मनुत" इति मन्त्रसन्निधावाम्नायमानं-- "यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदसुपासत" इति मन्त्रान्तरं ब्रह्मणो वाच्यत्वं प्रतिक्षिपति । तेन हि सर्वबागविषयभूतं ब्रह्मो- पासनाविधिप्रकरणेषु 'सर्वं खल्विदं ब्रह्मे" त्यादिवाक्यश्रुतानां उपास्यसमर्पकाणां ब्रह्मादिपदानामप्यों न भवतीति प्रदर्शनेनैषा शङ्का निरस्ता भवतीति । तस्मादवाच्य- मिति त्वयाऽन्युपगन्तव्यम् । अनुपास्यं त्वदीयं ब्रह्म मष्ट्यादिवाक्यस्थब्रह्मात्मनारायणा- दिपदानामपि वाच्यं न भवेदिति न तस्य जगत्कटतादिसिद्धिरिति भावः ॥ ५२ ॥ नन्वेतावता ध्यानविधिवाक्येषु ध्येयसमर्पकाणां पदानां ब्रह्म प्रतिपाद्यं न भवती. त्यापतितम्, न तु सृष्टिवाक्येषु स्रष्टसमर्पकाणामपि तेषां तत्प्रतिपाद्यं न भवतीति । उपा- स्यसमर्पकपदाप्रतिपाद्यत्वमात्रेण तस्याऽनुपास्यत्व निर्वाहात् । तन्निर्वहणाय प्रवृत्तस्य "यद्वाचे" ति मन्त्रस्याऽपि तावन्मात्रविषयत्वोपपत्तेः । न च वाच्यमुपासनाविधिघूपा- स्यसमर्पकाणि यानि ब्रह्मनारायणादिपदानि तान्येव सृष्टिवाक्येषु स्रष्टसमर्पकाणि । अतस्तेषां ब्रह्म क्वचिद्वाच्यं न भवतीति निर्णयेऽन्यत्राऽपि तद्वाच्यं न स्यादिति । प्रसिध्य- नुसारेण विष्ण्वाख्यस्य ब्रह्मणस्तद्वाच्यत्वेऽपि उपासनाविधिषु तेषामनुपपत्या वाच्यार्थम- पहाय तत्प्रतिबिम्बलक्षकत्वोपपत्तेरित्याशङ्क्याऽऽह- ध्येयार्था एव वाच्यास्तव निगमगिरस्स्रष्टतादीन्वदन्त्य- स्त्वं हि ध्यानैकनिष्ठां गुणगणभणितिं ब्रह्मणो वक्ष्यशेषाम् । १ १. कारिके इमे मध्वभाष्यस्थे ( १३४. १. ४. म. भा.) २. अपरोक्षण इति ग. पु.।
मध्वतन्त्रमुखमर्दनम् [पञ्चमाधिकरण- तत्तासां ब्रह्मणस्स्यात्प्रतिफलनभिदा काऽपि वाच्या मते ते यद्वाचेत्येवमाद्यैः कतिपयवचनैर्ब्रह्म शुद्धं तु लक्ष्यम् ॥ ५३ ॥ इति श्रीमदप्पयदीक्षितेन्द्रकृतिषु मध्वतन्त्रमुखमर्दने पञ्चमाधिकरणदूषणम् ॥ त्वन्मते स्रष्ट्रत्यादिप्रतिपादकान्यप्युपास्यसमर्पकाण्येव वाक्यानि । त्वया सर्वत्राऽपि ब्रह्मगुणवर्णनं उपासनार्थमवे(१) त्याच्यानाय प्रयोजनान्तराभावादि"त्यधिकरणे व्यव- स्थापितत्वात् । तत्र हि सद्विद्याभृमविद्यादहरविद्यावैश्वानरविद्यादिषु सर्वासु विद्यासु ब्रह्मगुणवर्णनं सर्वविधोक्तगुणोपसंहारेणोपसना कर्तव्येत्यत्र प्रमाणम् । अन्यथा वैया- दित्युपसंहाराधिकरणोक्तमयुक्तम् । तासु ब्रह्मगुणवर्णनस्य तत्तद्गुणकश्रवणद्वारा जनलो- कादिफलविशेषार्थत्वोपपत्तेः। उपासनार्थश्चेत्सर्वगुणानामेकत्रैवोक्तिप्रसङ्गेन प्रकरणभेदा- योगादित्याक्षिप्य समाहितम्-सास्वपि ब्रह्मगुणवर्णनस्योपासनार्थतया निःश्रेयसरूप- महाफलप्रयोजनं चेत्सम्भवति जनलोकादिक्षुद्रफलप्रयोजन वायोगात्, (२) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्चैव सर्वशः । नाऽन्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥" इति ब्रह्मतन्त्रवचनात् । विप्रकीर्णान्ब्रह्मगुणान्यत्नेनोपसंहृल्योपासीनस्य तदनु- सारेण मुक्तावानन्दातिशयो भवेदिति तद्दौलभ्याय बहुषु प्रकरणेषु विप्रकीर्णतया गुणवर्णनोपपत्तेश्च सर्वमपि ब्रह्मगुणवर्णनमाध्यानार्थमेवेति सर्वविद्योक्तगुणोपसंहारः कर्तव्य इति (३)निरूपितम् । तस्मात् स्रष्टत्वादिप्रतिपादकानां श्रुतिपुराणेतिहासागमा- दीनां सर्वेषामप्युपास्यत्वेन त्वदभिमते ब्रह्मप्रतिविम्बविशेष एव पर्यवासानं स्यादिति तत्रैव वाक्यशेषादिभिः यूपाहबनीयादिन्यायेन प्राह्यव्युत्पत्तिकानां ब्रह्मनारायणादि- पदानां शक्तिस्स्यात् । अन्येषां वादिनां साक्षाद्ब्रह्मण्येव ब्रह्मनारायणादिपदानां शक्तिरि. त्यभ्युपगमस्य तदेव सृष्टिवाक्यादिप्रतिपाद्यमिति भ्रममूलत्वेन भ्रान्तित्वोपपत्तेः । न चैवं सति “तदेव ब्रह्म वं विद्धि" इत्यादिष्वपि ब्रह्मपदादीनां बिम्बभूत- .. १. वे. सू. ३. ३. १५. अ. ८॥ २. कारिकेयं मध्वमध्ये १३७.१.१०। ३. अत्र मध्वभाष्यम्-"आध्यानार्थ हि सर्वे गुणा उच्यन्ते । प्रयोजनान्तराभावात् । "ज्ञानार्थमथ ध्यानार्थ गुणानां समुदीरणा। ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः । नाऽन्यत्प्रयोजनं ज्ञानाध्यानाकर्मकृतेरपि । श्रवणाचाथ पाठाद्वा विद्यादिः किञ्चिदिष्यते” इति परमसंहितायाम् । इति ( म. भ. १३६. १. ६.)।
दूषणम् व्याख्यया सहितम् । ब्रह्मविषयत्वाभावापातः। प्रतिबिम्बवाचिनां तेषां लक्षणया तत्र ब्रह्मविषयत्वोपपत्तेः। न च तत्र वैपरीत्यं शङ्कनीयम् । विम्बविषयाणि ब्रह्मादिपदानि मुख्यानि । प्रति- बिम्बविषयाणि लक्षकाणीति प्रायस्सर्वेषां श्रुतिपुराणादीनामुपास्यस्रष्टत्वपालकत्व- संहतत्वान्तयामित्वशोर्योदायर्यादिगुणवर्णनपरतया प्रतिबिम्बविषयत्वावश्यंभावेन तेषां भूयसां लक्षकत्वकल्पनाया अयुक्तत्वात् । “यन्मनसा न मनुते” “यतो वाचो निवर्तन्ते" "एतस्मानीवधनात्परात्परं पुरिशयं पुरुषमीक्षत' इत्यादीनां त्वदभिमत- वीक्षणीयबिम्बभूतब्रह्मविषयाणां कतिपयवचनानामेव लक्षकत्वकल्पनस्योचितत्वात् । तस्मादित्थमत्र तव मतं पर्यवस्येत्--वाङ्मनसपथातीतं नित्याव्यक्तमुपासनानन्तरं मुच्यमानानां मुक्तानां च साक्षात्कारस्यैव विषयभूतं परं ब्रह्म “तदेव ब्रह्म त्वं विद्धि" इत्यादिभिश्च कश्चिदेव वचनैर्लक्षणया प्रतिपाद्यम् । तस्य ब्रह्मप्रतिबिम्बविशेषस्तु जीववदनादिः कर्तृत्वादिमानुपासकहृदयेधूपास्यरूपेणाऽभिव्यक्तिशाली सृष्टिश्रुत्यादिभि- स्तदनुसारिपुराणादिभिश्च शक्तया प्रतिपाद्यत इति । एवं च यद्यपि त्वदन्ये सगुणब्रह्मवादिनः स्वत्वाभिमतब्रह्मणि सृष्टिश्रुत्यादीना- मुपक्रमादिकं योजयेयुः, तथाऽपि त्वन्मते तासां स्वोपक्रमादीनां स्वोपबृंहणानां त्वदभिमतब्रह्मप्रतिबिम्बमेव वाच्यं वक्तव्यमासीदिति ब्रह्मणि तव तद्योजनमत्यन्त- निरालम्बनमेवेति भावः॥ ५३॥ मध्वशास्त्रमुखमर्दने मनागष्पदीक्षितकृताविदं बुधाः । पश्यत प्रणयवश्यचेतसः पञ्चमाधिकरणस्य दूषणम् ।। इति श्रीमद्भारद्वाजकुलजधलिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग- राजाबरीन्द्रसूनो: चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्पयदीक्षिते- न्द्रस्य कृतिषु मध्वतन्त्रमुखमदनव्याख्याने मध्वमतविध्वंसने ईक्षत्यधिकरणदूषणं नाम पञ्चमं प्रकरणम् ॥ m एवं परमतमयोदयैव तदीयपञ्चाधिकरणीदूषणं प्रतिज्ञातं निव्यूंढमित्युपसंहरन्नने- नैव दूषणेनाऽग्रिमाधिकरणानामपि दुष्टत्वान्न पृथग्दूषणमिह क्रियत इत्याशयेनाऽऽह- इत्थं त्वक्लृप्तयैव प्रतिहतिमयति न्यायमर्यादया ते शास्त्रस्याऽप्यन्तरङ्गे मुखनयनिकटे दूषणीयं किमग्रे ? । तेनैवाऽग्रे नया हि स्फुटमतिशिथिलास्ते यदि स्युस्समर्थाः त्वदृश्यैर्वेदवाक्यैर्जहिहि जड ! तदा न्यायचिन्तां दुरन्ताम् ॥५४॥ !
मध्वतन्त्रमुखमर्दनम् [ ग्रन्थशेष - त्वया हि पञ्चाधिकरण्यनन्तरस्य प्रथमाध्यायशेषस्य प्रवृत्तिरित्थमुपपादिता (१) तत्तु समन्वयादिति विष्णोश्शास्त्रगम्यत्वेनोपक्रमादितात्पर्य लिङ्गसमन्वयस्सिद्रवदु- पन्यस्तः । न तु तत्रोपक्रमादिविष्णावेव व्यवस्थित इति न्यायस्स्थापितम्। तद्यावत तत्त- द्वाक्यविशेषानुदाहृत्य पूर्वोत्तरपक्षप्रथनेन समन्वयो न प्रपञ्च्यते तावदयमनुपन्यस्तप्राय एव । अन्यथा शैवादयोऽपि समन्वयादित्येव सिद्धवद्धेतुमुपन्यस्य शिवादीनां शास्त्र- गम्यत्वं प्रसाधयेयुः। अतस्समन्वयविभागेन तत्प्रपञ्चनार्थमध्यायशेष आरभ्यत इति तत्रोपरितनेषु सर्वेष्वधिकरणेषु विष्णो समन्वयप्रपञ्चनरूपस्सिद्धान्तः सृष्टयादि- प्रतिपादकवाक्यरूपशास्त्रप्रतिपाद्यत्वं विष्णोर्न सम्भवतीति पञ्चमाधिकरणदूषणेन प्रस्तो नोन्मजनमहंतीति स्पष्टमेव । तत्तद्वाक्यानां तत्तदधिकरणपूर्वपक्षोपपादितंदवतान्तर- परत्वस्य निराकरणमप्यनुपपन्नम् । विष्णौ समन्वितानामपि तत्तद्वाक्यानां तृतीयचतुर्था- धिकरणदूषणोक्तरीत्या देवतान्तरपरत्वस्याऽपि सम्भवादित्यपि स्पष्टमेव । यद्यपि तत्तदधिकरणविषयवाक्येपक्रमोपसंहारादिगतानां विष्णुविषयभूति- लिङ्गानां निरवकाशत्वेन प्रावल्यं, देवतान्तरविषयश्रुतिलिङ्गानां विद्वद्र्ट्या महायोगेन प्रवृत्तिनिमित्ततादधीन्येन तत्तदन्तर्यामिगतत्वेन च विष्णौ सावकाशत्वेन दौर्बल्यं च तत्तदधिकरणेषु वयोपपादितम्, देवतान्तरविषयश्रुतीनां विद्वक्ष्यादिभिर्विष्णौ पर मुख्यतया प्राबल्यं प्रसिद्धार्थेष्वज्ञलक्ष्या केवलयोगेन प्रवृत्तिनिमित्ताश्रयत्वेन च मुख्य मात्रतया दौर्बल्यं वोपपादितम्, तथाऽपि न प्रबलं प्रवलमित्येव बाधकं दुवैलस्य । बलमात्रस्याऽनुजीवनप्रसङ्गात् । किन्तु सति विरोधे । न च त्वन्मते श्रुतिवाक्यानाम- नेकार्थत्वे विरोधोऽस्तीत्यसकृदावेदितं न प्रस्मतव्यम् । अपि च विद्वद्र्ध्यादयस्तव विष्णौ कुतो व्यस्थितास्सिद्धाः ? येन देवतान्तरविषय- श्रुतिलिङ्गानां विष्णौ सावकाशत्वेन प्रसिद्धेषु स्वस्वार्थेषु परममुख्यत्वाभावेन च दौत्यं भवेत् । विष्णुरेव जगत्कर्ट, परं ब्रह्मेति सावधारणनिश्चयाधीना हि तत्तद्वयवस्थितत्व- सिद्धिः । अन्यथा विरिञ्च एव विद्यादय इति वक्तारं को बारयेत् ? तथा हि-(२) "आनन्दमयोऽभ्यासादि त्यधिकरणे जगत्कवादिना प्रतिपादि- तोऽन्नमयादिर्विष्णुरेवेति साध्ये ब्रह्मशब्दाभ्यास हेतुकृत्य ब्रह्मशब्दस्य यद्यप्यन्यत्राऽपि रूढिरस्ति तथाऽपि तस्य विष्णौ "तदेव ब्रह्म परमं कवीनां' इति श्रुत्युपदर्शितविद्व- ढिः प्रबलेति सैव निर्णयहेतुरिति त्वयोक्तम् । तत्र तदेव ब्रह्मेति श्रुतिः विघ्ण्वकपरति १. वे. सू. १. १.४ । २. वे. सू. १.१.१२. अनुव्याख्या-"रूढिमित्येव साध्यं स्याद्रूढिहि द्विविधा मता। अविद्वद्विद्वदाख्यैव मुख्या हि विदुषां तु सा । विद्वद्र- का स्यात्सा योगादेव लभ्यते।” इति । ( अनु.१७०.१.६.)। बेदिकबहुलप्र- दूषणम् ] व्याख्यया सहितम् । कुतोऽवसेया ? "यमन्तस्समुद्रे कवयो वदन्तीति प्रसिद्भतल्लिङ्गादिति चेत् , न; "प्रजा- पतिश्चरति गर्ने अन्तः', हिरण्यगर्भ इत्यष्टावि' ति प्रजापतिहिरण्यगर्भश्रुतिभ्यां विरिञ्चैकपरा कुतो नाऽवसेया ? कुतश्च "हिरण्यगर्भ इत्यष्टावि' त्यनेन गृहीतात् “य ईशे अस्य द्विपदश्चतुष्पद” इति पशुपतित्वलिङ्गात् “पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमही" त्यायुपसंहाराच सा शिवैकपरा नाऽवसेया ? । तस्मादेतादृशविषय- वाक्येषु नानादेवत्यश्रुति लिङ्गानां बलाबलविवेचनेन व्यवस्थित कदेवतापरत्वमन्येयं- वस्थापनीयम् । त्वया तु सर्वश्रुतिलिङ्गानुग्रहलाभाय तावद्देवतापरत्वमेवोपगन्तव्यम् । श्रुत्यर्थानकान्त्यवादिनस्तव तत्तद्देवताविषयश्रुति लिङ्गानां मुख्यार्थमपि परिगृह्य सर्वविष- यत्वाङ्गीकारसम्भवे किञ्चिद्नुरोधेन कस्यचित्प्रसिद्धार्थपरित्यागायोगात् । ननु तथा सति तत्तद्विषयवाक्यगतब्रह्मशब्दानामप्यनेकार्थत्वस्य वक्तव्यतया "तदेव ब्रह्म परमं कवीनामि" त्यवधारणं न घटत इति चेत् , न; तस्य त्वन्मते भृमश- ब्दरीत्या पुरुषभेदेन व्यवस्थितार्थबोधकत्वसम्भवात् । ननु कथमिह प्रजापतिरपि ब्रह्मशब्दार्थस्स्यात् ? "ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः" इति ब्रह्मप्रजापत्योरानन्दोत्कर्षापकर्षश्रवणादिति चेत-न: "ब्रह्म- पुच्छं प्रतिष्ठे"ति ब्रह्मानन्दयोरवयवावयित्वश्रवणेऽपि आनन्दमयस्येव प्रजापतेरपि ब्रह्मत्वोपपत्तेः । त्वया ब्रह्मानन्द एव तारतम्यवदत्यन्तविशेषवत्वस्याऽङ्गीकृतत्वेन एक- स्मिन्नुत्कृयापकृष्टानन्दवत्वं न संभवतीति वक्तुमशक्यत्वाच्च । “अन्योऽन्तर आत्मा (१)प्राणमय इत्यादिसाक्षाद्भेदश्रवणमविगणय्याऽन्नमयादीनामभेदमङ्गीकुर्वतस्तव भेदकश्रवणस्याऽत्यन्तमविगणनीयत्वाच्च । एतेनाऽग्रिमाधिकरणविषयवाक्येष्वपि तत्तत्प्रतिपाद्यत्वेन पूर्वपक्ष्यभिमतदेवतातो भेदव्यपदेशेन भेदकन्यपदेशेन वा तस्य तस्य विषयवाक्यस्य तत्तद्देवतापरत्वनिराकरण- मपि (२)प्रत्याख्यातम् । वन्मतेऽनमयादिष्विव ब्रह्मानन्दमययोरिव च भेदाभेदकव्य- पदेशयोरुपपन्नतया तत्तद्देवताविषयप्रसिदश्रुतिलिङ्गादिस्वारस्यानुरोधेन तस्य तस्य विष- यवाक्यस्य पूर्वपक्ष्यभिमततत्तद्देवतापरत्वस्याऽप्यनिवार्यत्वात् । अन्यश्चाऽयमग्रिमाधिकरणानां विष्णावेव तत्तद्विषयवाक्यसमन्वय इत्यस्याऽर्थस्य व्यवस्थापकानां निराकरणसंक्षेप:--प्रायस्सर्वेष्वपि तेष्वधिकरणेषु साधारणेन ब्रह्म- लिङ्गादिना विष्णुपरत्वनिर्णयः पूर्वपश्यभिमतत्तद्देवताविषयश्रुतिलिङ्गानां प्रवृत्तिनिमित्त- योगानुमिता हि विद्वदूढिरित्युच्यते । सा च लौकिकमात्रप्रयोगानुगतायाः रूढेर्मुख्यैवेति स्फुटमेव । इति न्या. सु. १४५. २. १३ । १. आनन्दमयः इति ख. पु. । २. व्याख्यातमिति. घ. पु.।
- मध्वतन्त्रमुखमर्दनम् ग्रन्थशेष- तादधीन्यादिभिः सावकाशत्वेन निराकरणमिति । दृश्यते च यथा(१) "आकाशस्तल्लि- ङ्गादि"त्यधिकरणे "अस्य लोकस्य का गतिरित्याकाश इति होवाचे"त्यादिविषयवाक्यस्य "स एव परो वरीयानुद्रीथः स एषोऽनन्त' इत्यादिवास्यशेषश्रुतपरोवरीयस्वादिसाधार- णब्रह्मलिङ्गेन विष्णुपरत्वनिर्णयः। आकाशश्रुतेस्तत्प्रवृत्तिनिमित्ततादधीन्यादिना विष्णु- बाचक्रत्वसंभवेन सावकाशतया निराकरणम् । तथा(२) "ज्योतिश्चरणाभिधानादि” त्यधिकरणे (३)"वि मे का पतथतो विचक्षु वीदं ज्योतिर्हदय आहितं यत्" इति मन्त्रस्य करणादिविरुद्धचरणेन कर्णाद्यपरिच्छेद्यवै- भवत्वरूपेण साधारणेन ब्रह्मलिङ्गेन विष्णुपरत्वनिर्णयः । तत्तन्मन्त्रगतज्योतिःश्रुतेज्योतिः- प्रकरणसंपादकतत्पूर्वापरमन्त्रगताग्न्यादिश्रुतीनाञ्च पूर्ववद्विष्णौ सावकाशतया निरा- करणश्च । (४) "छन्दोऽभिधानादि” त्यधिकरणे 'गायत्री वा इद ५ सर्व भूतं” इत्यादि- विषयवाक्यगतस्य गायत्रीशब्दस्य गानबाणकर्तृत्वादिसाधारणब्रह्मलिङ्गादिभिविष्णुपर- त्वनिर्णयः । गायत्रीश्रुतेः पूर्ववद्विष्णौ सावकाशतया निराकरणञ्च । (५)"प्राणस्तथाऽनु- गमा” दित्यधिकरणे "ता वा एताइशीर्षन् श्रिताः चक्षुश्श्रोत्रं मनो वाक् प्राण" इत्यायैतरेयब्राह्मणे श्रुतस्य प्राणशब्दस्य (६)"तं देवाः प्राणयन्त । तं भृतिरिति दवा उपासांचक्रिर" इत्यादिवाक्यश्रुतदेवोपास्यत्वादिसाधारणब्रह्मलिङ्गेर्विष्णुपात्वनिर्णयः । तत्र यन्मुख्यप्राणलिङ्ग “अहिसन्त अहमुक्थ्यं अहमुक्थ्यमस्मीति प्राण उदकामदि" त्यादौ श्रुतमिन्द्रियैस्सह कलह उत्क्रमणं प्रवेश इत्यादिश्च । तत्र "त्वामेव विजानीयामि" ति पृथ्वन्तं विश्वामित्रं प्रति "प्राणो वाऽहमस्मि' इतीन्द्रियवचनं तत्सर्वमन्तर्यामिविषयतया सावकाशमिति निराकरणञ्च । एवं द्वितीयपादाद्यधिकरणेष्वपि तत्तद्विषयवाक्यानां साधारणब्रह्मलिङ्गादिभिः विष्णुपरत्वनिर्णयः । अन्यविषयश्रुतिलिङ्गानां सावकाशतया निराकरणमित्येतदेव प्रायिकम् । तत्र सर्वत्राऽपि साधारणब्रह्मश्रुतिलिङ्गानां विष्ण्वेकविषयत्वं अन्यविषयश्रुति- लिङ्गानां प्रवृत्तिनिमित्ततादधीन्यादिभिः विष्णावेव सावकाशत्वमित्येतदद्याऽप्यसिद्धम्, शिवादिविषयत्वमपि सम्भवतीति शङ्काग्रस्तत्वात् । तन्निराकरणार्थमेव त्वया प्रथमाध्या- १. वे. सू. १. १. २२. अधि. ८. म. भा. ८९. २. १० । २. वे. म. १. १. २४. अधि. १०. म. भा. ९०. १.८ । ३. विमेमनश्चरति दूर आधीः किंस्विक्ष्यामि किमु नू मनुष्ये" इति मन्त्रशेषः। ४. ५. ११. ६. ऋ. सं.। ४. वे. सृ. १. १. २५. अधि. ११.म.भा. ९०. १. ९.। ५. वे. सू. १. १. २८ अधि. १२. म. भा. ९०. २. १०। ६. "तं देवाः प्राणयन्त स प्रषोऽसुः स एषः प्राणः । प्राण ऋच इत्येव विद्या। तदयं प्राणोऽधितिष्ठति" इत्याद्यनुगमादत्राऽपि प्राणो विष्णुरेव । म. भा. ६०. २. ११।
दूषणम् ] . व्याख्यया सहितम् । यशेषस्याऽऽरब्धत्वात् । तथा चोपक्रान्तसाधनीयार्थविस्मरणेन सर्वत्र तस्यैव हेतूकरण- मत्यन्तमयुक्त मिति स्पष्टमेव । द्विध्वधिकरणेषु त्वया विष्णुसाधारणश्रुतिलिङ्गानि सन्तीति लिखित्वा तैर्निर्णयः कृतोऽपि दृश्यते । यथा (१) अन्तस्तन्द्रोपदेशादित्यधिकरणे "अन्तः प्रविष्टं कर्तार- मेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः। इन्द्र- स्याऽऽत्मानं शतधा चरन्तम्" इत्यादिमन्त्रगतस्याऽन्तःप्रविष्टशब्दस्य विष्णुपरत्वे(२) "अन्तस्समुद्र मनसा चरन्तम्"। (३)“यस्याऽण्डकोश शुष्ममाहुः प्राणमुल्वे” इति समुद्रशायित्वब्रह्माण्डवीर्यत्वरूपं विष्णुलिङ्गमस्तीति । यथा वा (४)"अत एव प्राण" इत्यधिकरणे "तद्वै त्वं प्राणो अभवः । महान्भोग: प्रजापतेः। भुजः करिष्यमाणः । यद्देवान्प्रागयो नवे"ति प्राणशब्दस्य विष्णुपरत्वे "श्रीश्च ते लक्ष्मीश्च पल्यावि"ति तत्पूर्वानुवाकश्रुतं लक्ष्मीपतित्वलिङ्गमस्तीति । यथा वा (५)"शब्दादेव प्रमित" इत्यधिकरणे- "अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य स एवाऽद्य स उ श्वः ॥" इति मन्त्रे श्रुतस्याऽङ्गुष्ठमात्रशब्दस्य विष्णुपरत्वे- "ऊवं प्राण उन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासत ॥" इति मन्त्रश्रुतवामनश्रुतिरस्तीति । अत्र समुद्रशायित्वादिविष्णुलिङ्गप्रतिद्वन्द्वि "अन्तश्चन्द्रमसि मनसा चरन्त' "अन्तरादित्ये मनसा चरन्त" इत्यष्टमूर्तेशिवस्याऽपि लिङ्गमस्तीति विष्णुपरत्वलिङ्गप्रतिपन्थिनी "प्रजापतिश्चरति गर्ने अन्तः" इति प्रजा- पतिश्रुतिरस्ति वामनश्रुतिप्रतिपक्षभृता ईशानश्रुतिरस्तीति कुत उदाहृतश्रुतिलिङ्गे- १. वे. सू. १. १. २० अधि.८ । २. "सुवर्ण धर्म परिवेदवेनम् । इन्द्रस्याऽऽ- त्मानं दशधा चरन्तम् । अन्तत्समुद्रे मनसा चरन्तं । ब्रह्मान्वविन्दद्दशहोतारमन्ये" ते. आ. प्र. ३. अनु. ११ दशकं १.। ३. यस्याण्डकोशं शुष्ममाहुः प्राणमुल्बम् । तेन कोप्तोऽमृतेनाऽहमस्मि । सुवर्ण कोश ५ रजसा परीवृतम् । देवानां वसधानी विराजम् । ( ते. आ. प्र. ३. अनु. ११. दशकं ४. ) अत्र सुधा-समुद्रान्तस्थितत्वब्रह्माण्ड. वीर्यत्वब्रह्मतपोलब्धत्वादिधर्मोपवेशात् । तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् । न चेन्द्रादिश्रुतिलिङ्गविरोधः । निरवकाशलिङ्गपदेन तद्वाधोपपत्तेः । न्या. सु. १४७. १.४. । ४. वे. सू. १. १. २३. अधि. ९. । ५. वे. सू. १. ३. २४. अधि. ७. अत्र मध्वभाष्यम्-वामनशब्दादेव विष्णुरिति प्रमितः। तच्च लिङ्गं विष्णुरेव । तस्यैव प्राणत्वोक्तेः-तद्वै त्वं प्राणो अभव इति। ( म. भा. ९९. २. ६. 1) १८ मध्वतन्त्रमुखमर्दनम् [अन्यशेष- विष्ण्वेकपरत्वनिर्णयः ? श्रुत्यर्थानेकान्त्यवादिनस्तव विष्णुपरत्वेन योजनायां शिवादिश्रु- तिलिङ्गानामन्यथा नयनवच्छिवादिपरत्वेन योजनायां विष्णु श्रुतिलिङ्गानामप्यन्य. थानयनसम्भवात् । न च कठवल्लीमन्त्रे ईशानशब्दो भृतभव्यस्येति पदसमभिव्याहाराद्भूतभव्यप्रति- योगिकेशितृत्वपरो न तु शिवे रूढिमानिति वाच्यम् । तथा सति वामनशब्दोऽपि प्राणापानमध्यस्थतोक्त्या पूर्वापरमन्त्रेषु बहुवाऽगुष्ठमात्रतोक्त्या च इस्वत्वपरो न तु विष्णौ रूढिमानिति त्वदभिमतश्रुतेरपि हानिप्रसङ्गात् । यथा वेशानशब्दः शिवे रूढि- मानेव, यथा च समुद्रशायित्वब्रह्माण्डवीयत्वलक्ष्मीपतित्वादिलिङ्गानि न भवन्ति तथा समर्थितं चाऽस्माभिः(१) शिवतत्वविवके। यत्तु त्वया चतुर्थपादे प्रवृत्तिनिमित्ततादधीन्यादिना सर्वशब्दानां विष्णौ परममुख्य- स्रोपपादनं तदेव शिवस्य प्रजापतेश्चाऽन्तयामित्वे तयोरेव सर्वशब्दानां पाममुख्य- त्वोपपादनमिति न तेन समन्वयस्य विष्णौ व्यवस्थितत्वसिद्धिः। परन्तु प्रवृत्तिनिमि- ततादधीन्यादिकथैवाऽवितथा । तथा हि-यस्य शब्दस्य प्रवृत्तिनिमित्तं यदाश्रितं तस्यैवाऽर्थस्य स शब्दो वाचक इति न नियम: । किन्तु यस्य शब्दस्य प्रवृत्तिनिमित्त तयाऽऽभितत्वेन यथेष्टविनियोक्तत्वरूपस्वातन्त्र्यविषयत्वेन वा यदधीनं तम्याऽर्थस्य रम शब्दो वाचक इति । अत एव भृत्यगतस्य जयस्य गजानाश्रितत्वेऽपि तदधीनत्वमा- त्रेण राजा जयीत्यपि प्रयोगः । ~ नचैवं सति रिपुगतदुःखबन्धमरणादोनां राजाधीनत्वमात्रेण राजा दुःखी बन्द्रो मृत इत्यादिप्रयोगप्रसङ्गः । तत्प्रयोगप्रयोजकसत्वेऽपि राज्ञोऽपि दुःखादियोग्यतया राज्ञि सदेव दुःखादिकमुच्यते इति वा राज्ञि तदानीं दुःखाद्यभावनिश्चयेऽपि तस्मिन्दुः- खादिकमसदेवाऽऽरोप्य राजविरुद्धेनोच्यत इति संशयापादकत्वेनाऽमङ्गलतया स्वस्था- दिशब्दवत्तदप्रयोगोपपत्तेः । यद्वा स्वातन्त्र्यमा शब्दप्रवृत्तौ न प्रयोजकं, किन्तु स्वगतत्वयोग्यत्वविशिष्टदोषत्वरहितं प्रति स्वातन्त्र्यम् । एवञ्च जयस्य राजगतत्व- योग्यत्वेऽपि दोषत्वराहित्यात्तं प्रति राज्ञस्स्वातन्त्र्ये दयादिशब्दप्रवृत्ती प्रयोजकम् । दुःखबन्धादीनां राजगतत्वयोग्यत्वाद्दोषत्वाच्च तानि प्रति तस्य स्वातन्त्र्यं दुःखिबन्धादि- शब्दप्रवृत्तौ न प्रयोजकम् । तेषां विष्णुगतत्वायोग्यत्वादोषत्वेऽपि तानि बिघण्यपेक्षया स्वाश्रयत्वयोग्यताविशिष्टदोषत्वरहितानि भवन्तीति तानि प्रति तस्य स्वातन्त्र्य दुःखिबन्धादिशब्दप्रवृत्तौ प्रयोजकमेव । आश्रयित्वमपि हि न तन्मात्रं प्रयोजक, धन- वोढरि भृत्ये धनाश्रयत्वेऽपि धनीत्यप्रयोगात् । , १. पूर्वभागे "अपास्य ब्रह्मादीनि”ति त्रयोदशश्लोके ।
दूषणम् ] व्याख्यया सहितम् । एवञ्च जीवा एव दुःखिन:' "कार्यकारणबन्द्रौ ता" वित्यादिश्रुतिमतदुःखिबन्द्रादि- शब्दा जीवगतदुःखबन्धादिस्वतन्त्रस्य विष्णोर्वाचकाः न तु लोके दुःखिबद्धादिशब्दाः रिपुगतदुःखबन्धादिस्वतन्त्रस्य राज्ञो वाचका इति व्यवस्था संघटत इति । इदं तावदयुक्तम्-विविधकृष्णप्रतिमानिर्माणचतुरे शिल्पिनि तत्तत्प्रतिमासु कृष्णादिशब्दप्रवृत्तिनिमित्तं कृष्णाद्याकारं प्रति स्वातन्त्र्ये सत्यपि तस्मिन्कृष्णादिशब्द- प्रयोगादर्शनात् । न च प्रतिमासु कृष्णादिशब्दाः कृष्णाद्याकारसादृश्येन गौणा एत्र, न तु वाचका इति न तासु कृष्णायाकारः कृष्णादिशब्दप्रवृत्तिनिमित्तमिति वाच्यम् । “इवे प्रतिकृतावि" त्यधिकारविहितस्य कन्प्रत्ययस्य "जीविकाथै चाऽपण्ये" इति लुपि सति कृष्णादिशब्दानां कृष्णादिसदृशाकारप्रतिमावाचकत्वात् । न च प्रवृत्तिनिमित्ताश्रयत्वे सत्यपि धनवोढरि भृत्ये धनीति प्रयोगादर्शनात् तदपि शब्दप्रयोगे प्रयोजकं न स्यात् । प्रवृत्तिनिमित्तस्वातन्त्र्यस्याऽपि शब्दप्रयोगप्रयोजकत्वा- भावे भृत्ये जयिनि राजनि जयशब्दप्रयोगश्च न स्यादिति वाच्यम् । यत स्तदस्याऽस्ती". त्यस्मिन्नर्थे विहिता मत्वर्थीयाः प्रत्ययाः स्वभावात्म्यश्चिप्रातिपदिकेभ्योऽस्यास्तीति षड्यर्थ एव भवन्ति, केभ्यश्चित्तस्मिन्नस्तीति सप्तम्यर्थ एव । षष्ठ्यर्था अपि एकशतं सम्बन्धास्सन्तीति तेभ्यस्तेभ्यः प्रातिपदिकेभ्यस्तत्सम्बन्धविशेष एव भवन्ति केभ्यश्चि. स्वष्ठ्यर्थे सप्तम्यर्थे च भवन्ति । इयं च व्यवस्था प्रयोगानुसारेण स्वयमेव लभ्यत इति लाघवार्थ "तदस्यास्त्यस्मिन्निति सामान्येन विधानम् । यथा-"पाय्यसानाय्य- निकाय्यधाय्या मानहवि निवाससामिधेनीषु" इत्यादि सूत्रेषु हविस्सामिधेनीविशेषादि- वाचकानामपि सानाट्यधाथ्यादिशब्दानां सामान्येन हविराद्यर्थेषु विधानम् । एवञ्च धनप्रातिपदिकान्मत्वर्थीयप्रत्ययाः षष्ठ्यर्थ एव । तत्रापि स्वस्वामिभाव एव भवन्तीति न धनबोढरि धनीति प्रत्ययप्रसङ्गः। जयप्रातिपदिकात्तु ते स्वस्वामिभावरूपे षष्ठ्यर्थे आश्रयरूपे सप्तम्यर्थं च भवन्तीति न राज्ञि भृत्ये च जयशब्दप्रयोगानुपपत्तिः । यद्वा भृत्यगतजयस्य न फलभाजि रायुपचारेण जयिशब्दप्रयोगोऽस्तु । अत एव माघकाव्ये (१)द्वितीयसमें दृश्यते- (२) विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवाऽऽमनि ॥ इति । तस्मात्सर्वेषामपि रूढानां यौगिकानां च शब्दानां प्रवृत्तिनिमित्ताश्रयत्वं तत्स्वात- त्र्यं चेत्युभयमपि वाचकताप्रयोजकमित्येतत्सकललौकिकपरीक्षकव्यवहारविरोधि तुच्छं वचः । न हि स्वस्थादिशब्दानामारोग्यादिमत्सु वाचकत्वे समाने सत्यपि स्वर्गस्थत्वाद्यर्था- - १. द्वितीयसमें इति ग. पु. नास्ति । २.माघे द्वितीयसमें ५९ तमश्लोकः ।
मध्वतन्त्रमुखमदनम् সহ- न्तरप्रयोजकत्वेनाऽमलत्वात् अप्रयोग इतिबद्रिपूणां मारके राज्ञि मृत्युशब्दस्य बाचके सत्यप्यमङ्गलवादेवाऽप्रयोग इति कश्चिदपि मन्यते । एवमादीनि प्रवृत्तिनि. मित्ततादधीन्यादिदूषणान्यस्माभिम्रन्थान्तरे वर्णयिष्यन्ते । परकल्पितमर्यादयैव परमत- दूषणार्थं प्रवृत्तेऽस्मिन्प्रकरणे न तानि संगृहीतानि । इत्थं पञ्चाधिकरणीदूषणार्थ प्रदर्शितयैव वन्मतमर्यादया समन्वयाध्यायगताधि- करणानां शैथिल्येन त्वदभिमतस्य विष्णौ व्यवस्थितस्य समन्वयस्याऽसिद्धो तस्मिन्स- म्भावितयुत्यादिविरोधनिराकरणानि द्वितीयाधिकरणान्यभित्तिचित्रायमाणान्यचिन्त्या- द्भुतमहिम्नि तर्कागोचरे परमेश्वरे युक्तिविरोधान्न परिपन्थीनीति वदतस्तत्र मते तान्य- काण्डताण्डवरूपाणि चेति तेषां तदुभयोपजीवनेन प्रवृत्तानां साधनफलाध्यायगताधि- करणानां शैथित्यं स्पष्टमेव । यदि त्वेतानि वच्छास्वगतान्यधिकरणानि त्वद्भाष्ये तत्तदधिकरणेषु स्वनिर्णीतार्थ संवादतयोदाहृतैः त्वदेकदृश्यैः कमठमाठरकोण्ठरव्यादिश्रुतिवाक्यैस्तदुपबृम्हणैश्च समर्थ- नीयानि तर्हि तवाऽलं न्यायचिन्तनया। वन्मतानुसारेणेव परस्परव्याहततया प्रत्य- धिकरणमनि-यूच्या च । नहि प्रत्यधिकरणं तव न्यायव्युत्पादनव्यसनिताऽस्ति “सम्भृत्तिाव्याप्त्यपि चाऽत” (१)इत्यधिकरणानां वचनमात्रावलम्बनानामपि त्वन्मते दर्शनात् । सम्भृत्यधिकरणे हि सर्वमुमुक्षूणामानन्दो ज्ञानं निर्दोषित्वरूपं सत्वं चेति यो गुणा नियमेनोपास्याः प्रधानफलसिद्धये प्रधानफलस्य मोक्षस्य निर्दोषज्ञाना- नन्दरूपतया "तं यथा यथोपासते" इति श्रुत्यनुसारेण फलानुसारिगुणोपसंहारावश्यंभावा- दि(२,"त्यानन्दादयः प्रधानस्ये"त्यधिकरणप्रतिपाद्यत्वेन तवाऽभिमतमर्थ त एव सर्व- मुमुक्षूपास्या इत्ययुक्तम् “रक्षा सद्यावापृथिवी बिभर्ति" "एष हि सर्वेषु लोकेषु भाति' इत श्रुतयोस्सम्भृतियुष्य त्योरपि सर्वमुमुक्षूपास्यत्वान्मोक्षे स्वाधमभरणस्य प्रकाश- व्याप्तेश्च सर्वापेक्षितत्वेन तयोरपि(३) तत्क्रतुन्यायविषयवादित्याक्षिप्य यद्यप्येवं तथाऽपि न ते सर्वोपास्ये। (४) देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत् ।। इति किञ्चिद्वनमेव विलिख्य सिद्धान्तितम् । एवमन्यान्यायधिकरणानि उदाह- १. वे. सू. ३. ३. २४. अधि. १४ । २. वे. सू. ३.३.१२. अधि. ५ । ३. वे. सू. ४. ३. १५ अधि. । ४. सम्भृतिाव्याप्ती अपि देवादोनामुपसंहृतव्ये । नाऽन्येषाम् । अत एव योग्यताविशेषात् । देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः । आनन्दाद्यास्तु सर्वेषां अन्यथाऽनर्थकृद्भवेदिति ब्रह्मत के । इति. म. भा. १३७. १. १. ।
दूषणम् व्याख्यया सहितम् । रणीयानि । तस्मादधूर्तकल्पितवचनै कावलम्बनं न्यायविधुरमिदं मध्वमतं सूक्ष्मदृशां न सूक्षणीयमिति भावः ॥ ५४ ॥ इत्यप्यदीक्षितेनेदं मध्योपक्रममक्रमम् । तद्रीत्यैव मतं ध्वस्तं संक्षेपेण समन्ततः ।। इत्थं कृतेन मध्वमतविध्वंसनेनाऽऽत्मन: पौरोभाग्यं परिहरन्नेव तत्र युक्तांशान् गृहीत्वा तेजोवब्रह्माभेदसिन्द्रि प्रकरणस्याऽस्य तत्वनिर्णयफलकत्वेन वादकथारूपत्व- संपादनी दर्शयति- तस्माद्यत्तेऽनुपास्यं विमलसुखतनुब्रह्मकूटस्थमिष्टं शास्त्रेऽप्यस्मिन्विचाय गमितमुपनिषलक्ष्यतां मुक्तभोग्यम् । मोऽसावानन्द एवेत्युचितमसुमतामावृतो यस्त्वयोक्त- स्तद्धदे नाऽस्ति मानं किमपि निगमतोलाघवेनैक्यसिद्धेः ॥५५॥ त्वया तावत्सरब्रह्मोपासनाविषयादन्यद्विशुद्धसुखरूपं परिणामादिविकाररहित मुक्तानां भोग्यतया निरतिशयपुरुषार्थरूपमिष्यते । तदेव चाऽस्मिन्शारीरकशास्त्रे बिचार्य त्वयोपेयते । तत्सर्वं युक्तमेव । तथाऽनुपास्यं ब्रह्मोपनिषदां वाच्यं न भवतीति तल्लष्यतां नीतमस्माभिः पञ्चमाधिकरणदूषणे । प्राणिनां च संसारदशायां अविद्यावृतो विशुद्ध आनन्दोऽस्तीति च त्वयोक्तम् । तदपि युक्तमेव । एवञ्च योऽसौ संसारदशा- यामावृतो जीवानामानन्दस्त्वयेष्यते तदेव विशुद्धसुखरूपं ब्रह्म । न ततोऽन्य. दित्यप्यङ्गीकर्तुमुचितम् । उपनिषत्सु जीवब्रह्माभेदोद्रोषणात्तत्रैव तर्काणामानुकू- ल्याच्च । तथा हि- ब्रह्मानन्दो देवदत्तजीवानन्दान्न भिद्यते, तं प्रत्यनादिभावावृतत्वात् तद्भोग्य- त्वाच्च, देवदत्तजीवानन्दवत् । घटादीनां देवदत्तं प्रति कुड्यादिभावावृतत्वेऽपि ज्ञान- प्रागभावरूपानाद्यभावावृतत्वेऽपि अनादिभावावृतत्वं नाऽस्तीति न तेषु व्यभिचारः । अनादिभावश्चाऽविद्यारूपः संसारदशायां जीवानन्दस्य ब्रह्मानन्दस्य च तं प्रत्यावार- कस्तवाऽपि सम्मतोऽस्तीति प्रथमाधिकरणदूषणे दर्शितत्वान्न पक्षे हेत्वसिद्धिः। न वा दृष्टान्ते साधनवैकल्यम् । जीवानन्दवद्ब्रह्मानन्दोऽपि मुक्ति दशायामभिव्यक्तो मुक्तानां भोग्य इति "तदेतच्छेयः पुत्रादि"ति श्रुति ब्रह्मविषयां वदतस्तवाऽपि सम्मत इति न द्वितीयहेतोरप्यसिद्धिः। अस्मन्मते यद्यपि संसारदशायामावृतो जीवानन्द एव ब्रह्मा- नन्दस्तथाऽपि तत्र सानिश्चयादृष्टान्तत्वमुचितम् । साध्यनिश्चययोदृष्टान्तत्वे तन्त्रम् न पक्षान्यत्वमपि ॥
९२ मध्वतन्त्रमुखमनम् [युक्तांश- यद्वा ब्रह्मजीवानन्दयोर्विवप्रतिबिम्बभावेन व्यावहारिकभेदसत्वात्पक्षदृष्टान्त- भावः । प्रतिबिम्बे च चैतन्यांश एवाऽनावृतः आनन्दांशस्त्वावृत इत्यभ्युपगमान साधनवैकल्यमपि। नन्वत्र साध्यं जीवानन्दाभेदरूपं जीवानन्दाद्भेदप्रतिषेधरूपं वा ? । नाऽऽद्यः, मया जीवब्रह्मानन्दयोरसाधारणरूपाभ्यां भेदस्येवाऽऽनन्दत्वादिसाधारणधर्मेणाऽभेदस्याऽपि स्वीकृतत्वेन सिद्धसाधनतापत्तेः। न द्वितीयः, त्वयाऽपि ब्रह्मजीवानन्दयोर्बिम्बप्रतिबिम्ब- योावहारिकभेदस्याऽङ्गीकृतत्वेन तत्प्रतिषेधे बाधापत्तेरिति चेत् . उच्यते-देवदत्त- जीवानन्दगतासाधारणधर्मावच्छिन्नप्रतियोगिताकस्तदभेदस्साध्य इति नाऽभेदसाध्यपक्ष सिद्धसाधनम् । नाऽपि भेदप्रतिषेधपक्षे वाधः । त्वया ब्रह्म जीवाद्भिद्यते सर्वज्ञत्वादित्य- नुमाने व्यावहारिकभेदेन सिद्धसाधनपरिहाराय(१) यद्विशेषणं निवेश्यते तद्विशिष्टभेद. प्रतिषेधस्याऽत्र साध्यत्वाङ्गीकारात् । त्वया हि तत्र धर्मिसमसत्ताकत्वं धर्मिज्ञानबाध्यत्वं वा विशेषणं निवेश्यते तद्विशिष्टप्रतिषेधोऽत्र साध्यत इति न किञ्चिदनुपपन्नम् ॥ एवमग्रिमानुमानेष्वपि अभेदशब्दार्थो वर्णनीयः । ब्रह्म जीवाभिन्नं निदुःखत्वे सति सुखवत्वात्, निर्विकारत्वे सति ज्ञानवत्वात्, जीववत् । मतद्वयेऽपि ब्रह्मणि जोवे च स्वरूपसुखस्य स्वरूपज्ञानस्य च धभिन्नत्वेऽपि विशेषवलादविद्यावशाद्वा धर्मत्वमप्यस्तीति न पक्षदृष्टान्तयोर्विशेष्यासिद्धिः । नाऽपि विशेषणासिद्धिः । मतद्वयेऽ- प्यन्तःकरणस्यैव दुःखादिसकलविकाराश्रयत्वात् । यद्यप्याध्यासिकदुःखादिविकाराश्रयत्वं जीवस्य प्रपञ्चाश्रयत्वं च तदुपादानस्य ब्रह्मणोऽस्ति तथाऽपि वस्तुतो निर्दुःखत्वं निर्विकारत्वं च विशेषणम् । तच्च धर्मिसमसत्ताकदुःखविकारशून्यत्वरूपं वैषयिकसुखा- श्रये वृत्तिज्ञानाश्रये चाऽन्तःकरणे व्यभिचारवारणाय रूपादिषु तद्वारणाय हेतुद्वयेऽपि विशेष्यभागः । ब्रह्म, देवदत्तजीवाभिन्नं, तत्कर्मफलभोऋभिन्नत्वात् , देवदत्तजीववत् । त्वया ब्रह्मणो जीवगतपुण्यफलभोक्तत्वस्य(२)गुहाधिकरणे व्यवस्थापितत्वेन त्वन्मते तस्य कर्मफलभोक्तृत्वेनाऽभिन्नत्वात्, अस्मन्मते तथाभृतेन जीवेन भिन्नत्वाच मतद्वयेऽपि हेतो ऽसिद्धिः। न चांऽस्मन्मते हेतोस्साध्यावैशिष्ट्यम् । साध्ये जीवस्य जीवत्वेन हेतो कर्मफल- भोक्तत्वेन निवेश इति विशेषणभेदेन तयोर्भेदात् । यद्यपि भोक्तृभिन्नत्वादित्येतावताऽपि न व्यभिचारस्तथाऽपि तत्कर्मफलभोक्तत्वं तदभेदमन्तरणाऽनुपपन्नमिति विपक्षवाधक- १. वारणायेति ग. पु.। २. वे. सू. १. २. ११. अधि. ११. आत्मान्त- रात्मेति हरिः एक एव द्विधा स्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मजम् । शुभं पिवत्यसौ नित्यं नाऽशुभं स हरिः पिबेत् । पूर्णानन्दमयस्याऽस्य चेष्टा न ज्ञायते कचित् । इति पाझे। इति. म. भा. ९२. २. ८. ।
९३ SAR ग्रहणम् ] व्याख्यया सहितम् । तर्कोत्थापकतया व्याप्तिग्रहानुकूलत्वान्न विशेषणवैययम् । हिरण्यगर्भादिजीवा ब्रह्माभिन्नाः तदीयदिव्यदेहेन्द्रियोक्त भिन्नत्वात् , ब्रह्मवत् । (१) ब्राह्मण जैमिनिरुपन्यासादिभ्य" इत्यधिकरणे त्वया- आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति । गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत् ॥ इत्यादिवचनं लिखित्वा सायुज्यमुक्तिंगता हिरण्यगभीदयो ब्रह्मणो देहं प्रविष्टा- स्तदेहेन्द्रिय रेव भुञ्जत इति व्यवस्थापितत्वान त्वन्मते हेत्वसिद्धिः । नाऽप्यस्मन्मते तद- सिद्धिः । अस्माभिरपि(२)पर्य विद्यादिप्रतिपादितया रीत्या ब्रह्मणो देहेन्द्रियाणां भोगस्य च स्वीकृतत्वेन तद्देहेन्द्रियैक्तिा ब्रह्मणा हिरण्यगर्भादीनामभिन्नत्वस्याऽङ्गीकृतत्वात पूर्ववद्विशेषणभेदेन हेतुसाध्ययोर्भेदः। जीवा ब्रह्माभिन्नाः, तदिन्द्रियैक्ति भिन्नत्वात् , आकाशादिप्रपञ्चस्रष्ट्रवात, ब्रह्मवत् । यद्यपि मुक्तहिरण्यगर्भादीनामिव सर्वेषां जीवानां ब्रह्मदेहगतेन्द्रियोक्तत्वं नाऽस्ति तथाप्यस्मदादिदेहगतान्यपीन्द्रियाणि ब्रह्मण एव करणानि । अस्मदादीनां तु स्वामिनः कुठारभृत्यानामिव ब्रह्मकरणैरेव व्यवहार इति स्वया (३) "ज्योतिराद्यधिष्ठान" इत्यधिकरणे व्यवस्थापितत्वात् त्वन्मते नाऽऽद्यहेतो. रसिद्धिः । नाऽपि द्वितीयहेतोः। ध्यानमनोराज्यविषयप्रपञ्चेषु जोवानां स्रष्टुत्वस्य त्वयाऽङ्गीकृतत्वात् । अहमेव जगत्स्रष्ट ब्रह्मेति जीवानां ध्यानादिसंभवाच्च । वासिष्ठ- रामायणे--ऐन्दवोपाख्याने- अन्तस्थेनैव मनसा चिन्तयामासुरादृताः। ब्रह्माऽहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः । लोकपालपुरैस्सार्धं भुवनानि चतुर्दश । निर्मितानि मयैतानि तेषामन्तरहं स्थितः ॥ इतीन्दुनामकब्राह्मणपुत्राणां तथा ध्यानप्रतिपादनाच्च । अस्मन्मते तु पूर्ववद्धे. तोरसिद्धिसाध्या शिष्ट्यनिरासः । १. सर्व देहपरित्यागेन मुक्तास्सन्त: ब्रह्मणैव देहेन भोगान्भुञ्जत इति जैमिनिर्म- न्यते । “स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं सर्वे अनुभवती"ति माध्यन्दिनायनश्रुतावुपन्यासात् । “आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति । गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिभवेत्" इति स्मृतेः । “गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् । इत्यादिपूर्वस्मरणान्मुक्त- स्यैतद्भविष्यतीति बृहत्तन्त्रोक्तयुक्तेश्च । ( म. भा. १५५. २. ७.) २. कौषीतकि- ब्राह्मणोपनिषदि प्रथमाध्याये तृतीयपंचममन्त्रयोक्ता । ३. वे. सू. २. ४. १५. प्रति- पादितमिदं २४ श्लोकटीकायाम् ।
मध्वतन्त्रमुखमदनम युक्ताश- .. न च ब्रह्मजीवयोर्गुणोत्कर्षांपकर्षसत्वाविरुद्धगुणाक्रान्त्या भेदश्शनीयः । ब्रह्म- गतगुणोत्कर्षस्य तदभिन्नजीवसाधारण्येऽपि जीव वदभिमतस्य ज्ञानबलानन्दोत्कर्ष- स्येव संसारदशायामावृतत्वेनाऽप्रकाशसंभवस्य त्वन्मते ब्रह्मणोऽचिन्याद्भुतशक्तिमहिम्ना तांगोचरत्वमहिम्ना व विरुद्धगुणाकान्तेस्तद्भेदासाधकत्वस्य व प्रथमद्वितीयाधि- करणदूषणावसरे प्रपञ्चितत्वात् । वस्तुतस्तु वदभिमते ब्रह्मणि जीव गुणविरुद्धत्वेनाऽऽशनीयः कोऽपि गुणः श्रुतिसिद्धो न लक्ष्यते । त्वया स्वस्मिञ्छारीरकशास्त्र विचारणीय विशुद्धं ब्रह्मोपास्य- प्रतिबिम्बरूपस्य बिम्बभृतं न तु स्वयमुपास्यमिति निरूपितम् । (1)“तथाऽन्यत्प्रति- धादि'त्यधिकरणे एवमङ्गोकुर्वतस्तव मते सृष्ट्यादिवाक्यमन्यच्च सकलं सगुणवाक्य- अस्यप्रतिबिम्बपरमेव न तु विशुद्धब्रह्मपरम् । विशुद्धं तु ब्रह्म “यतो वाचो निवर्तन्ते" हाऽनभ्युदितं" इत्यादिभिः कश्चिदेवाऽस्मदभिमनिर्गुणवाक्यलक्षणया प्रतिपाद्य- "यद्वाद मित्युपपादितमस्माभिः पञ्चमाधिकरणदृषणे । ततश्च कुतो विग ब्रह्मणि मभ्युपगन्त देविरुद्धगुणसिद्धिः ? येन तस्य जीवाद्भेददशइथेत । न च तथा सन्या- जगत्कर्तवाटि विस्रष्टत्वादित्यादिजीवब्रह्माभेदसाधकानुमानानां दृष्टान्ने माधनवैकल्यं काशादिप्रपन द्धा स्यादित्याशङ्कनीयम् । परमयांदया पगभ्युपगन्तव्याविरुद्धर्माप पक्षे हेलसि लिमनुसृत्य हेतृकरणसम्भवात् । त्वं हि उपासनार्थमेव सर्वासु श्रुतिः पराभ्युपगममा नातं विशुद्धं ब्रह्मोपास्यं च न भवतीति बदपि विशदस्य ब्रह्मणः जगत्वष्टवाद्याम् लभोक्तत्वं देहेन्द्रियादिमत्वं अस्मदादिकरणस्वामित्वमित्यादिकमुपासना- स्रष्ट्रत्वं कर्मफान तवाऽभिमतं गुणजातमङ्गीकरोपि । वदभ्युपगन्तव्यार्थाविरुद्धास्वनादि- श्रुत्याम्नात वाक्ष्यश्चत्वार एव हेतवः । त एव चाऽऽवृतो यस्त्वयोक्त इति मुक्तभोग्यमिति भावात्यमिति विमलतन्विति च विशेषणे लश्लोके सङ्ग्रहीताः । अथाऽपि स्यात्-जीवानां सुखादिव्यवस्थया भिन्नानां कथमेकेन ब्रह्मणा सममभेद- स्स्यादिति । इदमपि दत्तोत्तरम् । अर्जुनाखण्डलादीनां मुखादिवचित्र्य सन्याय त्वदीयाभेदाभ्युपगमप्रदर्शनेन त्वन्मते ब्रह्मशत्तयादिहिम्ना विरुद्रगुणवत्वस्य भेदसाधकत्वव्यवस्थापनेन च । एवं च- 'यथा ह्ययं ज्योतिरात्माविवस्वानपो भिन्ना बहुधेकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेवेमजोऽयमात्मा ।" इत्यादिश्रुतिभिर्जीवब्रह्मणो जीवानां चाऽभेदसिद्धिरप्रत्यूहैवेति न भेदशावकाशः । । १. वे. सू. ३.२. ३७. अधि. १८. पश्यन्ति परमं ब्रह्म चितं यनि- बिम्बितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् । नपासनं न भनि प्रतिमा- पासनं यथा । ( म. भा. १३४. १. ४.)
ग्रहणम] व्याख्यया सहितम् । न च भेदश्रुतिध्वपि सतीषु कुतोऽयमभेदश्रुतिपक्षपात इति शनीयम् । विरुद्धगुणवत्वादेरकिञ्चित्करत्वे स्थिते लाघवतर्केणाऽभेदश्रुतीनां प्राबल्यात् । न चैवमपि जीवाभिन्नमखण्डं त्वदभिमतं ब्रह्म श्रुतिभिर्न सिध्येत् । वाक्यानां पदार्थसंसर्गपरत्वस्य पदानां प्रवृत्तिनिमित्तसंसर्गपरस्य च व्युत्पत्तिसिदत्वेन जीवपरवाश्यानां ब्रह्मवाक्यानां च तत्तत्पदार्थसंसर्गपरतायास्तदन्तर्गतपदानां प्रवृत्तिनिमित्तसंसर्गत्वपरत्वस्य च वक्तव्यतया सखण्डविषयत्वावश्यंभावादिति वाच्यम्। त्वया जीवे ब्रह्मणि च निर्विकारे गुणक्रियादीनां (१)नित्यत्वेन धय॑भिन्नत्वेन समवायाश्रयाश्रयिभावादिसंसर्गरहितत्वेन चाऽभ्युपगततया त्वन्मतेऽपि श्रुतीनां तत्संसर्गविषयत्वप्रसक्त्यभावात् । न च तेषां संसर्गाभावेऽपि संसर्गव्यवहारनिवर्तकत्वेन मदभ्युपगतविशेष एव तत्र तत्र पदार्थविधया वाक्यार्थविधया वा भासमानस्सन्नखण्डत्वविरोधी स्यादिति वाच्यम् । विशेषस्याऽपि त्वया(२) धर्मभेदस्योक्तत्वात् तदहीकारस्य वैयथ्यस्य चाऽस्माभिः प्रथमाधिकरणभले व्यवस्थापितत्वात् । एतेन महावाक्यार्थोऽपि जीवब्रह्माभेदविषयत्वेन सखण्ड इति निरस्तम् । अभे- दस्याऽपि धर्मिभिन्नत्वस्याऽभावात् । धर्मिण एव संसर्गविधयाऽपि प्रतीतिश्चेत्तावता द्वैतापत्त्यभावेनाऽविरोधाच्च । तस्मात्त्वदीयतत्तदधिकरणमयादया पर्यालोचनयैवाऽशे- षोपनिषन्महातात्पर्यवेद्यं सच्चिदानन्दैकरसमद्वितीयं ब्रह्म सिध्यत्वया निवारयितं न शक्यत इति भावः ॥ ५५ ॥ एवं पञ्चाधिकरणीभङ्गाथै परकीयतत्तदधिकरणस्थितिपर्यालोचनया स्वाभिमताद्वितीयब्रह्मसिद्धिं चोरापहृतरलप्रत्याहरणसादृश्यप्रदर्शनेनोपसंहरति- मध्वादिभिर्मपितमत्र सदद्वितीयं प्रत्याहृतं तदिदमागममौलिरत्नम् । आच्छाद्य गृहितमसारतरैस्तदर्थंस्तत्तुल्लकाधिकरणस्थलमर्दनेन ॥५६॥ यथा खलु त्रासादिदोषरहिततया सदृशान्तररहितं सम्राजः किरीटरत्नमासवसे- विभिः किरातमुषित्वा क्षुद्रेषु स्वगृहेषु तृणदारुशलाका(३)दिभिरत्यन्तमसारैस्तदीयोप- करणैराच्छाद्य संगोपितं तदीयगृहभृम्याक्रमणेनाऽन्विष्य दृष्ट्वा(४) राजकीयैः प्रत्याहियते तथैवाऽद्वितीयं अतएव भयरहितं निगमशिरसामलङ्कारभूतं परं ब्रह्म मञ्चजयतीर्था- दिभिपित्वा युत्तयसहिष्णुभिः जीवब्रह्मणोः सविशेषाभिन्नगुणादिभिर्भेदकवदवभासमानैः स्वकल्पितार्थैराच्छाद्य गृहितं तदीयनियुक्तिकाधिकरणस्थितीनां मथनेन युक्तांशम- विष्याऽस्माभिः प्रत्याहृतमित्यर्थः ॥ ५६ ॥ : १. निमित्तत्वेन एव. पु.। २. वयेति. ग. पु. नास्ति. । ३. शकल. ग. पु. । ४. दृष्ट्वेति ग. पु. नास्ति ।
- मध्वतन्त्रमुखमर्दनम् । उप- इत्थं मध्वमतदर्शनदूषणस्य तन्मतमर्यादयैवाऽद्वैतसिद्धेश्च मार्गप्रदर्शनमात्रं कृतम् । तच सद्भिरादरणीयम्, आप्तोक्तिमूलत्वादित्याह- आद्रियध्वमिदमध्वदर्शनं व्यध्वगं त्यजत मध्वदर्शनम् । शाङ्करं भजत शाश्वतं मतं साधवस्स इह साक्ष्युमाधवः ॥५७।। इदं मधदर्शनममार्गप्रवृत्तं त्यक्तव्यम् । शाङ्करमतन्तु शाश्वतं सेवनीयमित्यत्र म एव गौरीपतिस्साक्षी, यस्स्वयमेव शङ्कराचार्यरूपेणाऽवतीयोऽद्वैतं व्यवस्थापितवानिति । "चतुर्भिस्सहितदिशध्यैश्शङ्करो ऽवतरिष्यति'' इत्याद्याप्तवचनेषु प्रसिद्ध इत्यर्थः ।।५।। एते श्लोकाः परविजयोन्मुखस्य परीक्षकस्य मुखबर्तितयोपकारकाः । पूर्वदेवविज- योयुक्तस्येव सुपर्वनायकस्य नासीरवर्तितया महत इत्यत आह- असुरान्विजिगीषोः स्वयमद्वै तब्रह्मदिव्यरत्नहरान् । विबुधेन्द्रस्य सखायः श्लोका मरुत इव सन्त्विमे मुख्याः ॥५८|| असुगः खलु(१) वैरोचिनीमुपनिषदमाश्रिता देहात्मवादिनः, प्रकृताः पंऽपि जीवस्यैव करचरणादिसकलकर्मज्ञानेन्द्रियसहितदेवरूपत्वं तेनैव देहेन स्वप्ने मुक्ती च व्यवहारानपि वदन्तो देहात्मवादिन इति साम्यादसुरशदेनाऽतिशयोन्या परे निर्दिष्टाः । मुख्याः मुखे वदने भवा: सेनामुखवर्तिनश्च ।। ५.८ ॥ , । १. छान्दोग्ये अटमाध्याये सप्तमखण्ड इन्द्रविरोचनाब्यायिका समाम्नाता । मात्राऽनुसन्धया । सा यथा-"इन्द्रो ह वै देवानां अभिप्रवबाज विगेचनो सुगणाम् । तो हाइसंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः । तो ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्य मूषतुः । तो ह प्रजापतिस्त्राच किमिच्छन्ताववास्तमिति । तो होचतुः य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्मत्यसङ्कल्पः मोऽन्वेष्टव्यत्म विजिज्ञानितव्यः स सर्वांश्च लोकानवाप्नोति सर्वांश्च कामान् यस्तमात्मान- मनुविद्य विजानाति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति । तो ह प्रजाप. तिरुवाच ।..... तो हाऽन्वोक्ष्य प्रजापतिरुवाच-अनुपलभ्यात्मानमननुविद्य बजतो यतर रातदुपनिषदो भविष्यन्ति ते पराभविष्यन्तीति । स शान्तहृदय एव विगेचनो सुरान्जगाम तेभ्यो हैतामुपनिषदं प्रोवाच । 'असुगणां ह्येषा उपनिषत् प्रेतस्य शरीरं भिक्षया बसनेनाऽलङ्कारेणेति संस्कुर्वन्ति एतेन ह्यमु लोकं जेष्यन्तो मन्यन्ते (छा. उ. ८. खं. ७. ८.) अयमत्र संग्रहः-इन्द्रः विरोचनोऽसुरश्च ब्रह्मविद्याध्ययनार्थ प्रजापतिसमीपं जग्मतुः। तत्र द्वात्रिंशतं वर्षाणि तं शुश्रूषन्ता- वास्ताम् । ततः प्रजापतिस्तावपृच्छत् किमर्थमागतो शुश्रूषणपगै चेति । तावात्मस्वरूपmea संहारः] व्याख्यया सहितम् अथ स्वनाम ग्रन्थनाम च कीर्तयन् प्रकरणसमाप्ति दर्शयति- विद्वद्गुरोचिंहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः । श्रीरङ्गराजमखिनश्श्रितचन्द्रमौलि- रप्पय्यदीक्षित इति प्रथितस्तनूजः ।। ५६ ।। सोऽयं मितपदमकरोन्महितार्थ मध्वशास्त्रमुखभङ्गम् । प्रीत्यै पुरामरातेः श्रीकामाक्षीसमेतस्य ॥ ६० ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि- श्रीरङ्गराजाध्वरीन्दसूनोः चतुरधिकशतप्रबन्धनिर्माणवणस्य श्री- मदप्पयदीक्षितेन्द्रस्य कृतिषु मध्वमतविध्वं. सनसहितो मध्वतन्त्रमुखमर्दनाख्यो ग्रन्थस्समाप्तः॥ जिज्ञासया भवन्निकटमागतो इत्यूचतुः । ततः प्रजापतिः सर्वगतं परमात्मानमक्षिगत- त्वेन ताभ्यामुपदिदेश । तौ तु तद्यथावद्ज्ञातुमसमर्थी नेत्रगतं छायारूपमेवाऽऽत्मत्वेन जगृहतुः । ततो जलपूर्णशरावमध्यगतं आभरणादिभिरलतमेवमेवोपदिदेश । तत्र विरोचनो यथाश्रुतमेव जलमध्यगतं शरीरप्रतिबिम्बमेव परमात्मस्वरूपं जानन् सन्तुष्ट- मनाः प्रतिनिवृत्तस्तथा देहमेवाऽऽत्मत्वेनाऽसुरेभ्य उपदिदेश। सैषा देहात्मज्ञानविद्या आसुरी उपनिषदिति कथ्यते ॥ इति ॥ इति पूर्वोत्तरमीमांसापारावारपारीणैः वैदिकसार्वभौमैः महामहोपाध्याय. पण्डितसार्वभौमादिविविधोपाधिविभूषितैः श्रीचिन्नस्वामि- शास्त्रिमहोदयः विरचितं सन्दर्भविवरणाख्यं टिप्पणं समाप्तम् ॥
मूलश्लोकसूची। अग्रे वाच्यः अतः पञ्चा- ३ अद्वैते यद्य- अपि च भगवा- अभेदे दृढे असुरान्वि- आत्मा ब्रह्म- आदियध्वं 11 पृष्ठम् ४४. ध्येयार्थी एवं न ध्येयं २१ नारायोत्प- २५ निर्मयांद- १६ पुंस्त्वादि- ९६ पूर्णत्वं ते प्रायल्य प्रामाण्यं १९ मध्वादिभिः ५५ मुख्यो भेदः ८३ यतो वत्या- १ यदि वेनं १३ यद्येवं गेच- यो यस्यो-- ३२ रोद्धा नोप- इति तव ९.. इत्थं जीव- इत्थं त्वत्- उक्याग्नि- एक वाक्यं एवं सुखित्व- ऐश्वर्यात कथं निरस्या कर्मब्रह्मो- ६९. 1 काचाऽत्रानु- किञ्च स्थाणु- किञ्च श्रुत्यैक- ञ्चिायं भेद- गुण- तच्छाखं चेत् तथाऽऽप्यानंद- १२ किन्चेशो ६५ विद्वद्गुरोः ६९ विशेष १५ विष्णो विश्वा- ७३ शब्दान्तरादि-- १२ शिवं विष्णु ३० श्रुत्यन्तानां २३ इलेषप्राणे १४ साक्षी जीवः सिद्धेऽसिद्धे ५६ मशादि- ६१ सोयं मित- २० स्थूलप्रप- ९१ स्फारात्तत्- ४१ । स्रष्टुं प्रत्ये- तद्बत तस्मात्तुच्छं तस्माद्यत्ते दुःखित्वाद्येव व्याख्यायामुद्धृताना कारिकाणां सूची। पृष्ठम् ४१ अङ्गादिवे अङ्गीकृत- अथैकका- अधिकारा- अनन्योऽप्य- अन्तस्थेन- अप्पदीक्षित- अस्मत्पक्ष आदत्तेहरि- आहूतस्य इत्यम्पदी- पृष्ठम् २६ द्वैविध्येऽपि १८ न जीवभेद- ७८ नरकेऽपि ५३. नविशेषा- पन्यानं १३ पश्यन्ति ५५ पृथगेव ३१ प्रतिबिंव- ९३ प्रथमो ८१ प्रमाण- ७३ प्रमादात्म- ब्रह्मतर्क- ९१ भिन्नोचिन्यः " ४५ उक्थ्यसं- ६० मध्वतन्त्र- १ उद्धाट्य- १ मध्वशाख- मिथ्यात्वं उपक्रमा- ऐश्वर्यात् कार्यकारण- क्वचिद्ब्रह्मा गुणास्सवें तत्तत्कल्पान्त-- १८ यथा कुन्द्रः यथाह्ययं ७९ यद्वाक्योक्त ८२ लोकपाल- ७९ : विजयस्त्वयि १८ सत्यत्वं ८१ सर्वत्राशेष ४० तथाप्यान-- तदुपासनं देवाडीनामु- व्याख्यागतानां श्रुत्यादिवाक्यानां सूची। पृष्ठम् अग्निहोत्रं तं. सं. १.५.५.. काठ. उ. ४.१२. अङ्गुष्ठमात्रः अणोरणीयान् काठ.उ.२.२०. मुण्ड. उ.३.१.१. . गो. का. १.१६. १३ अनइन् अनादिमायया अन्तरादित्ये अन्तः प्रविष्टं अन्तश्चन्द्रमसि अन्तस्समुद्रे अनं ब्रह्मेति अन्योऽन्तर आत्मा ते. प्रा. ३. ११.६. ते. आ. १. ११.३. तं. आ.३. ११.४. ते. आ. ३. ११. 1. : ते.उ. २. २ २. ८८ तं. सं.६.१. ११.६. अन्यग्निष्टोमे अरुणयक- अस्ति ब्रह्मेति ते. उ. २.६.१. अस्थूलमनणु . छा.उ.१.८.५.६. 5 अस्य लोकस्य अहं सर्वस्य गीता. १०.८. प्रात्मा वा ऐत. उ. १.१. " " श्रात्मान्त छा. उ. ३. १४.३. श्रात्मेत्येवो- बृह. उ. १.४. ७. आनन्दो तं. उ. ३.६.1.
व्याख्यास्थ श्रुत्यादिसूची। पृष्ठम् तं. उ. २. ९. १. . ते. ब्रा, ३.५.१०. काठ.उ.३.१०. आनन्दं ब्रह्मणो अानन्दाद्ध्येव आयुराशास्ते इन्द्रियेथ्यः ऊर्व प्राणं एकधैव एकमेवा- एकोहवं " बृ. उ. ४.४.२०. छा. उ.६.२.१. महाना. उ. १. ६७ एतमन्नमयं तं. उ.३. ९. ४५ " एतन्नाना- गीता. ९. १८. एतस्माजी- प्रश्न. उ. ५.५. एष आत्मा छा. उ.३.१४. ३. २९ ४. १५.४. १० एष हि ऐन्दं दधि तं.सं.२.५. ४. 1. एत, ब्रा. अ. ३३. खं. १.४. क.उ.८,१५.1. बृह. उ. किन्नु मलं कुटुम्बे शुची केन म्यायन को ह्येवान्यान गायत्री वा चतुर्विधाः . छा.उ.३.१२.१. ८३ गीता ७.१६. जुएं देवानां ते. गं, ३. १. ४. 1. छा.उ.६.२.३. तत्तेजोऽमजत तत्वमसि तंद प्रेयः तंदवबा परम वृह. 3. 1.४.८. महाना. उ.1.२. ८" मध्वतन्त्रमुखमदन पृष्ठम् छा.उ.६.२.३. . तदक्षत बहु स्या तद्विजिज्ञासस्व तद्विजिज्ञासस्व तद्विज्ञाय तद्वै त्वं प्राणः . . ५५ . . २. १ . तपसाब्रह्म . . 1. तयोरन्यः मुण्ड. उ.३.1.1. तेजसा सोम्य ते यशतं ८५ त्रिवृत्पञ्चदशः धा तण्डुलान् का.उ.६.८.४. ते. उ.२.८. ते.वा. १.५.11.२. तं. सं. ५. ३. ४. ७. श्वेता. उ.३.३. मुण्ड. उ. ३. 1.1. एत. वा.३३.२.१. द्यावाभूमी द्वा सुपी नापुत्रस्य निरञ्जनः परमं नेह नानास्ति मुण्ड. उ.३.१.३. वृह.उ.४. ४. १९. पगस्य शक्तिः इवता. उ.६.८. तं. सं.६.१. 11.६. पशुमाल भेत पुरुषस्य विद्म- महाना.उ.१.५. प्रजापतिश्वरति महाना.उ.१.३. प्रात्म.उ. १. प्रज्ञानेयो बडित्था " ऋ.सं.२.२.८. तं. उ. २... वन्यपुन्छ व्याख्यास्थ श्रुत्यादिसूची। १०३ पृष्ठम् बृह. उ. १.४.१० ६७ ब्रह्म वा इदं ब्रह्मविदामोति भृयश्चान्ते य ईशे यतो वा इमानि ते. उ. २. १. १. श्वेताश्व. उ. १. १०. ते.सं. ४.३.८.२. ते. उ.२.१. " यतो वाचो तं.उ. . C .. " " यदा तमस्तन्न श्वेता. उ. ३. १८. ७३ छा.उ. ७.२२.१. यदा व सुखं यंदेष आकाशः यद्यमुष्मिन् यद्वाचानभ्यु- ते.सं.६.१.१.१. केन.उ. १.५. " यन्मनसान केन, उ. १.५. " ते.अ. ३. ११.४. वृह. उ. ४.४, १७. ५४ यमन्तस्समुद्र यस्मिन्पंच यस्याऽण्डकोश यासर्वज्ञः ते. पा. ३. ११.४. मुण्ड, उ. १.१.९ यावावा a. उ.८.१.१. येऽन्नं ब्रह्मो- ते. उ. २. २. १. ते. उ. २.३.१. স সাত यो मामेव गीता. १५. १८ १८४ मध्वतन्त्रमुखमदन पृष्ठम् यो वै भूमा छा.उ. ७.२३.1.01. वाग्वावता- ७१ छा, उ. ७.२.१. वाङ्मनसि छा.उ.६.१.२. विज्ञानं ब्रह्म तै. उ. २. ५. १. ऋ.सं ४.५.११.१. ३ वि में की विविदिपन्ति श्येनेनाभिचान् श्रीश्च ते लक्ष्मीश्च स एको ब्रह्मणः स एव परो वरीयान् स खत्वेवं वर्तयन् वृह, उ. ४.४. पड वि. वा. तं. आ. ३.३.२ तै. उ. ३.१०.४. छा.उ. ८.१५.1 ते. उ. २. १. सत्यं ज्ञानं संदेव सौम्य छा.उ.६.२.१. " " " " तं. वा. १.३.४.३. सप्तदश प्राजा- स यश्चायं सर्व खल्विदं का.उ.३.१४.१. ८1 तं. सं. ५ ३. ४. ७. सर्वभूतगुणैः मुष्टीरुप- सोऽस्मिन्नन्धे सोमेन यजेत . म हिरण्यगर्भ- महाना.. १३